#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00035 Uniform title: mahārthamañjarī Main title: mahārthamañjarī with the parimala commentary Author : maheśvarānanda Editor : śāstrī gaṇapati Description: E-text is of mahārthamañjarī with the commentary parimala. Both by maheśvarānanda transkribed from Trivandrum Sanskrit Series No. 66. The photographic facsimile is from the Kashmir Series of Texts and Studies volume 11. Notes: This e-text was transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: 02/08/2006 Publisher : Trivandrum Sanskrit Series Publication year : 1919 Publication city : Trivandrum Publication country : India #################################################### महार्थमञ्जरी स्वोपज्ञपरिमलाख्यव्याख्योपेता महेश्वरानन्दप्रणीता नमो नालयते शुण्डां विषाणेन मृणालिने | प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने || १ || जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् | स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् || २ || कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात् | मौक्तिकमयं दधाना ताटङ्कं जयति गौरवी मूर्तिः || ३ || स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये | नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे || ४ || यस्मादनुत्तरमहाह्रदमज्जनं मे सौभाग्यशाम्भवसुखानुभवश्च यस्मात् | तत्स्वात्मचित्क्रमविमर्शमयं गुरूणा- मोवल्लियुग्ममुदितोदितवीर्यमीडे || ५ || नमो निखिलमालिन्यविलापनपटीयसे | महाप्रकाशपादाब्जपरागपरमाणवे || ६ || गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः | उन्मीलयामि परिमलमन्तर्ग्राह्यं महार्थमञ्जर्याम् || ७ || स्वक्रियाया अपि व्याख्यां स्वयमेव प्रयुञ्ज्महे | उपर्यप्यात्मसंरम्भसम्भोगाम्रेडनोत्सुकाः || ८ || यद्वा विनेयजनचित्तचमत्क्रियार्थ- मत्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम् | संक्षेपविस्तरविभागविविक्तशोभः पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः || ९ || अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व- क्रमसरणिरहस्योल्लाससर्वस्ववेदी | गुरुचरणसपर्याचातुरीचिद्घनोऽहं गहनमपि हृदन्तर्व्योम तद् व्याकरोमि || १० || इह महति रहस्योन्मीलने मङ्गलाय प्रभवति मम संविद्योगिनीनां प्रसादः | अपि तु कुलसपर्याबिम्बसंबन्ध्यवन्ध्याः सकृदपि मतिमन्तो नैनमुद्घाटयन्तु || ११ || स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी | गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता || १२ || वर्धतां देशिकः श्रीमान् संविन्मार्गश्च वर्धताम् | माहेश्वराश्च वर्धन्तां वर्धतां च महेश्वरः || १३ || अथ यदेतदात्मस्वरूपाविभिन्नपरमेश्वरपरामर्शोपायप्रति- पादनप्रवृत्तमभ्युपगमसिद्धान्तस्थित्या तात्पर्यतः प्रतिज्ञाद्यव(यव)पञ्चकात्मकं महार्थमञ्जर्याह्वयं महत् तन्त्रम्, अत्र सूत्रायमाणा गाथाः सप्ततिर्भवन्ति | तत्र चाद्यायां मङ्गलाचारपूर्वकमादिवाअक्योपक्षेपः | द्वितीयायां तन्त्रप्रतिपाद्यस्य वस्तुनो निर्देशः | ततस्तिसृषु स्वात्मतत्त्वे प्रमाणानुपयोगप्रपञ्चनम् | षष्ठ्यामधिकारिविभागव्यपोहः | सप्तम्यां विधिनिषेधनिष्टङ्कनम् | अष्टम्यां संसारस्वरूपनिरूपणम् | नवम्यां स्वात्मनः स्फुटस्याऽप्यस्फुटत्वौचित्यानुशासनम् | दशम्यां विम्रष्तृस्वरूपविमर्शस्य पुरुषार्थत्वावस्थापनम् | ततो द्वयोर्विमर्शस्वरूपविमर्शः | ततस्त्रयोदशसु षट्त्रिंशत्तत्त्वविवेकः | षड्विंश्यामुक्तार्थ प्रति परमार्थपर्यालोचनम् | सप्तविंशतितम्यां विश्वस्य प्रकाशविमर्शान्तर्भावोद्भावनम् | अष्टाविंश्यामेकत्रैव वस्तुनि शिवसक्तिविभागाध्यवसानम् | एकोनत्रिंश्यां परमेश्वरस्य विश्वशरीरतया शक्त्युत्कर्षोपपादनम् | त्रिंश्यां विश्ववैचित्र्यस्य स्वात्मन्यवैकल्येनावस्थानप्रदर्शनम् | एकत्रिंश्यां प्रमात्रादित्रिकस्याद्वैतपर्यवसायित्वोन्मीलनम् | ततो द्वयोः सत्यासत्यविभागव्युदासः | ततोऽपि द्वयोः परमेश्वरसपर्याया वैशिष्ट्यावभासनम् | ततश्च षट्सु पूज्यतया श्रीपञ्चार्थक्रमावमर्शः | ततश्च पञ्चसु सपर्यायाः स्वरूपनिष्कर्षः | ततोऽपि द्वयोर्देवतास्वभावनिर्णयः | एकोनपञ्चाश्यां मन्त्रतत्त्वोद्धारः | पञ्चाश्यां वाग्वृत्तिविचारः | एकपञ्चाश्यां मुद्रासतत्त्वोन्मुद्रणम् | द्विपञ्चाश्यां विमर्शशक्तेर्भोगापवर्गफलप्रदत्वोल्लिङ्गनम् | त्रिपञ्चाश्यां जीवन्मुक्त्युपपत्तिः | चतुष्पञ्चाश्यां क्षणभङ्गवादभङ्गः | पञ्चपञ्चाश्यां स्वात्मस्वरूपस्यानन्दस्पन्दतानुवर्णनम् | ततश्चतसृषु तत्त्वावबोधं प्रति स्फुट उपायोपदेशः | ततश्च षट्सु विमर्शानुप्रवेशिनां नैश्चिन्त्यनिश्चयः | षट्षष्टितम्यां स्वात्मविमर्शस्य सद्यः सिद्धिदत्वप्रत्यायनम् | सप्तषष्टितम्यां विमर्शलाभस्य गुरुकटाक्षाधीनत्वप्रख्यापनम् | अष्टषष्टितम्यामुक्तार्थस्य सर्वदर्शनसारत्वसाधनम् | एकोनसप्ततितम्यां तन्त्रविस्तरस्य संग्रहेणोपन्यासः | सप्ततितम्यां व्यासादियोगिनामप्यनुत्तरार्थैकशरणत्वप्रकाशनम् | अन्त्यायां तन्त्रकृतस्तन्त्रोपदेशहेतुप्रयोगः | इति तन्त्रार्थतत्त्वतात्पर्यार्थः | अथ ग्रन्थो व्याख्यायते | श्रीमदनुत्तराद्वैतसिद्धिहेतोर्द्वैत- प्रथासतत्त्वप्रत्यूहव्यपोहदक्षं देशिकेन्द्रभट्टारक- स्वातन्त्र्यमनुसंदधानस्तन्त्रकृत् तन्त्रोपन्यासं प्रत्युपोद्घातमुद्घाटयति - नत्वा नित्यशुद्धौ गुरोश्चरणौ महाप्रकाशस्य | ग्रथ्नाति महार्थमञ्जरीमिमां सुरभि महेश्वरानन्दः || १ || इह खलु सर्वस्यापि जनस्योपास्यतया काचिद् देवतास्त्येवेत्यत्राविप्रतिपत्तिः | केवलं तस्या नामरूपादिव्यपदेशमात्रे वैषम्यम् | सा च युक्तिपर्यालोचनायां स्वात्मसंवित्स्फुरत्तामात्रस्वरूपेति प्रकाश एव विश्वोपास्या देवतेत्यापतितम् | तस्य च महत्त्वम् - सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया चोक्ता हृदयं परमेष्ठिनः || इति श्रीप्रत्यभिज्ञानीत्या सर्वसङ्कोचोल्लङ्घितया स्फुरत्तैकस्वरूपत्वम् | स च गुरुः गृणाति प्रकाशयति विश्वव्यवहारमिति निरुक्त्या सर्वानुग्राहकः | तादृक्प्रकाशकव्यतिरेके विश्वस्यान्धबधिरतादिप्रायतापत्तेः | स च पर्यन्ततः परमशिवभट्टारकापरपर्यायः स्वात्मरूपो महान् प्रमाता | यदुक्तं श्रीशिवसूत्रेषु - गुरुरुपायः इति | तस्य चरणौ ज्ञानक्रियालक्षणं स्वातन्त्र्यं चर्यते गम्यते प्राप्यते बुध्यते भक्ष्यते चाभ्यां विश्वमिति हि चरणावित्युच्येते | यदुक्तं श्रीकुब्जिकामते - भोग्यभोक्तृषु भावेषु मिषत्स्वनिमिषत्सु च | देशकालदिगाख्येषु स्थूलसूक्ष्मपरेषु च || सत्तास्फुरणकव्याप्ता गतिभक्षणयोगतः | कर्मणा चरणाख्येयं न तु पादतया प्रिये ! || इति | तृतीयस्तु चरणः साक्षाद् गुरुः स्वलक्षण एवेति द्विवचनेन व्याख्या | यदुक्तं तत्रैव - सितो वामेऽरुणो दक्षे वराभयकरो गुरुः | प्रेताम्बुजगतोऽङ्कस्थरक्तशक्तिस्त्रिलोचनः || पञ्चमुण्डधरः स्रग्वी हृदि ध्येयः स्मिताननः | इति | अयमेव सकलनिष्कलात्मा सर्वविधूननावस्थायां निर्वाणरूपस्तुरीयः पादः इत्युपनिषत् | लौकिको व्यवहारस्तु सकलेन निष्कलेन च द्वाभ्यामेव चरणाभ्यामुपकल्प्यते | यदाहुः - शुक्लोऽङ्घ्रिः शुक्लमाविष्टो रक्तं रक्तोऽङ्घ्रिराश्रितः | पित्रोरङ्घ्रिद्वयेनेदममुना जायतेऽखिलम् || इति | तौ च नित्यशुद्धौ उन्मेषनिमेषविभागव्युदासेन पदार्थान्तरप्रतिबिम्बनक्षमौ | एतदेव हि परमेश्वरस्य तत् पारमैश्वर्यम्, यदन्तर्बहिश्च ज्ञानक्रियाप्रतिबिम्बनानुप्राणिताशेषविश्वविलासत्वम् | तच्च स्वातन्त्र्यस्पन्दस्फुरत्तोद्यमादिशब्दैरागमेषूद्घोष्यते | नित्यशुद्द्या च तयोर्वक्ष्यमाणविमर्शानुप्राणितत्वं प्रत्याययते | यदुक्तं श्रीप्रत्यभिज्ञायाम् - विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः || इति | तौ नत्वा उत्कर्षकक्ष्यारूढतया विमृश्य | वाङ्मनःकायानां तदेकविषयीकारलक्षणः प्रह्वीभावो हि नमनम् | महाप्रकाशत्वं च परमेश्वरस्य महानुत्कर्षः | तं प्रति तदुपासकस्य प्रह्वीभावश्चेति द्वितयमपि कण्ठेनोक्तम् | यजननमस्काराद्युपन्यासमात्रे तु एकतरस्याभिधेयत्वमन्यतरस्यार्थाक्षिप्तता चेति प्रतिपतॄन् प्रत्युभयप्रतिपत्तिसौकर्यं न सम्भवति | अयं च महान् मङ्गलाचारो यत् परमेश्वरोत्कर्षानुस्मरणम्, यस्य च तन्त्रारम्भं प्रत्यवश्यकर्तव्यत्वम् | यदुक्तं श्रीमत्स्तोत्रावल्याम् - सर्वाशङ्काशनिं सर्वालक्ष्मीकालानलं तथा | सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः || इति, व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरस्सराः | इति च | एतेन मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते | वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च इति महाभाष्यमर्यादया द्वित्रप्रदेशावच्छिन्नमङ्गलानामपि शास्त्राणामूरीकार्यत्वम् | किमुत प्रतिगाथानुभूयमानपरमेश्वरैश्वर्योत्सवतया धनसारशकलपरिमलवत् सर्वत्रैव मङ्गल्योल्लासमुदग्रमुन्मीलयतोऽस्य महातन्त्रस्येत्यासूत्र्यते | एतच्च व्याख्यातृश्रोतृशिक्षामात्रतात्पर्यात् तन्त्रोपोद्घाते साक्षादुपनिबद्धम्, अन्यथा परमेश्वरप्रणामस्य क्रियामात्रादपि प्रत्यूहव्यपोहसिद्धेः | उक्तरूपं च परमेश्वरैश्वर्योत्कर्षानुसन्धानमनुसन्धातुस्तादात्म्यमेवोप- स्थापयति | यथोक्तं श्रीशिवदृष्टौ - अस्मद्रूपसमाविष्टस्वात्मनात्मनिवारणे | शिवः करोतु निजया नमः शक्त्या ततात्मने || इति | अत एव हि नत्वेति परमेश्वरप्रणामक्रियोत्तरकालं महेश्वरानन्द इत्युक्तम् | महेश्वरानन्दो हि नाम श्रीमत्सदाशिवपर्यन्ताशेष- शुद्धाशुद्धाधिकारानुप्रविष्टप्रमातृपरम्पराप्रभावसर्व- स्वाभिभावी नित्यानवच्छिन्नप्रकाशानन्दपरमार्थस्वातन्त्र्य- लक्षणः परमशिवभट्टारक एव | तद्भावापन्नोऽयं तन्त्रकृदिति यावत् | तद्भावापत्तिश्च तस्य देशिककटाक्षपातशक्तिपात- सौभाग्यस्य समयानुप्रवेशमङ्गलमहाभिषेकसम्पत्संस्कारो- पारोहप्रक्षालितमलोपलेपत्वात्, औत्तराम्नायाद्यशेषशास्त्रार्था- वबोधशिक्षाशालित्वात्, स्वस्य च परमेश्वरैश्वर्योत्कर्षविमर्शानु- स्यूत्युपक्षीणान्तःकरणत्वाच्चेत्यवगन्तव्यम् | यदुक्तं श्रीनिशाटने - त्रिप्रत्ययमिदं ज्ञानम् इति | तच्चोक्तं श्रीकिरणायाम् - गुरुतः शास्त्रतः स्वतः इति | ततश्च योऽविपस्थो ज्ञाहेतुश्च, दानमात्मज्ञानम् इति श्रीशिवसूत्रस्थित्या स्वयमपरोक्षितात्मीयपारमैश्वर्योल्लासस्य परानुजिघृक्षावेशवैवश्येन तन्त्रकृतस्तन्त्रोन्मीलनं प्रत्यौचित्यमासुत्र्यते | अन्यथा बाह्यशास्त्रप्रणेतृवद् विप्रलम्भकतामात्रमेव पर्यवस्येत् | यदुक्तं श्रीहंसभेदे - सेव्यन्ते गुरवोऽनेके ज्ञानविज्ञानभासुराः | दुर्लभोऽयं गुरुर्देवि योऽहङ्कारक्षयङ्करः || तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् | येनाहङ्कारनिर्मुक्तः केवलो विदितः स्वयम् || इति | बाह्यशास्त्राणां तु - अन्यथा देवपाण्डित्यं शास्त्रपाण्डित्यमन्यथा | अन्यथा तत्पदं शान्तं लोकाः पश्यन्ति चान्यथा || इति स्थित्या साक्षात् स्वात्मपरामर्शोपायत्वं न सम्भवति | यथा श्रीतन्त्रालोके - येऽप्यसाक्षादुपायेन तद्रूपं प्रविविन्दते | नूनं ते सूर्यसंवित्त्यै खद्योतादीच्छवो जडाः || इति | यथा च श्रीकुलकमले - शाक्तेन तेजसा शून्यं ये मार्गं पर्युपासते | ते वह्निरहिते कुण्डे स्थाल्या होमं प्रकुर्वते || इति | तत्र च तारतम्यं किञ्चिदालोचनीयम् | यदुक्तम् - नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् | उत्तरोत्तरवैशिष्ट्यात् पूर्वपूर्वप्रबाधकम् || इति | स च महेश्वरानन्दो महार्थमञ्जरीं ग्रथ्नाति | विश्वतदुत्तरोभयस्पन्दतया पूर्णाहम्भावस्वभावस्यार्थस्य अर्थ्यते इति व्युत्पत्त्या सर्वप्रार्थ्यस्य वस्तुनः शिवशक्त्यादिभेदप्रथाप्ररोहेऽपि पारमार्थिकाद्वैतप्रथासतत्त्वां स्फुरत्तामुपदर्शयति | ग्रन्थसन्दर्भद्वारा लोकमनुभावयतीत्यर्थः | मञ्जर्यपि हि पृथक् पुष्पभेदप्रतिभासेऽप्येकाकाराऽनुभूयते | ग्रथनं च पुष्पादेरुपेयस्यानायासग्रहणोपायतया प्रसिद्धम् | सा च सुरभिः, सर्वाभिलषणीयप्रकाशरूपसौरभास्पदत्वात् | अनेन च विश्वस्य भोग्यतयाऽवस्थापनाद् वक्ष्यमाणस्य विमर्शोपायस्यौचित्यमुन्मील्यते | यतो निर्भयभोग्यमित्येतत्तन्त्रमाम्नायते | यदुक्तं श्रीसिद्धामते - अर्थषट्कं च दीक्षा च शिवशास्त्रमिति स्मृतम् | दीक्षाध्वा निर्भयो भोगशास्त्रे भैरवसंज्ञके || इति | इमामिति | प्राकट्योत्कर्षादनपह्नवनीयामतिसुलभास्वादामनुन्मीलितपूर्वा चेत्यर्थः | यदुक्तं श्रीप्रत्यभिज्ञायाम् - इति प्रकटितो मया सुघट एव मार्गो नवो महागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा || इति | अत्र च योऽयं महार्थमञ्जरीपर्यायो विश्ववैचित्र्यविलासः, स एव च वक्ष्यमाणस्य प्रत्यभिज्ञापरपर्यायस्य विमर्शस्योपायतया तन्त्रप्रतिपाद्योऽर्थः | यतः शब्दस्पर्शाद्यनुभवस्तदनुभवितृद्वारा महाप्रकाशपर्याये क्वचिन्महानुभवितरि पर्यवस्यति | तत्परिज्ञानं च प्रयोजनम् | तत्प्रयोजनं च विमर्शस्वरूपसिद्धिः | तस्या अपि प्रयोजनं भोगापवर्गलक्षणः स्वस्य माहेश्वर्योल्लासः | उपरि च प्रयोजनान्तरापेक्षा, तस्यैव प्राप्यतयाभिलष्यमाणत्वादनवस्थाप्रसङ्गाच्च | यच्छ्रुतिः - आत्मलाभान्न परं विद्यते इति | संबन्धश्च तन्त्रस्य प्रतिपाद्यस्य चाभिधानाभिधेयभावः | प्रतिपाद्यस्य चिद्विमर्शस्य चोपायोपेयभावः, तयोरन्योन्यं कार्यकारणभूतत्वात् | तन्त्रस्य प्रतिपत्तॄणां च सम्बन्धो गुरुपर्वक्रमात्मा व्यक्तमुपलभ्यते, नत्वा नित्यशुद्धौ गुरोश्चरणावित्युपक्रान्तत्वात्, देसि अकडक्खपादे इत्युपसंहारिष्यमाणत्वाच्च | तत्त्वदृष्ट्या तु स्वात्मरूप एव सर्वोऽयं सम्बन्धः | यथा श्रीस्वच्छन्दे - गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् || इति | यथा चोक्तमाचार्याभिनवगुप्तनाथपादैः - सदाभिनवगुप्तं यत् पुराणं च प्रसिद्धिमत् | हृदयं तत् परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् || इति | स्वयमवगतार्थतत्त्वस्य च तन्त्रकृतः कारुण्योत्कर्षप्रवृत्तेन सर्वजनसामरस्यलक्षणेन ताटस्थ्येन ग्रथ्नामीत्यविच्छिन्नाहम्भावस्वभावोत्तमपुरुषव्यपोहाद् ग्रथ्नातीति तन्त्रोपपादने संरम्भोद्भावने विनेयवर्गस्य तन्त्रप्रवृत्त्यौन्मुख्यं विधीयमानत्वेनार्थतः सिद्धम् | एतेन तन्त्रकृतः प्रसिद्धप्रभावस्य संभावनाप्रत्ययोत्पादनेन प्रतिपत्तृजनप्रवृत्त्यर्थ नामोपादानमित्यप्यासूत्र्यते | प्रतिपतॄणां चोक्तमर्थ प्रत्यधिकारितायां न कश्चिन्नियमः | यदुक्तं श्रीस्पन्दे - लब्ध्वाऽप्यलभ्यमेतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः | वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य || इति | किञ्च, नत्वा गुरोश्चरणावित्यनेन श्रीचरणविद्यासङ्केतोऽप्यत्र किञ्चिदुन्मुद्र्यते | सोऽपि पर्यालोच्यमानः - विद्येति मातृकापीठं तत् पार्थिवमुदाहृतम् | मण्डलं कुण्डलीपीठं तदाप्यं परिकीर्तितम् || मन्त्रसंज्ञं क्रियापीठं तैजसं तत् प्रकीर्तितम् | ज्ञानपीठं तु मुद्राख्यं तद् वायव्यं सुरेश्वरि || परेच्छामुखतो व्योम पीठत्वेनेह नादृतम् | तन्मूलस्योपचारस्य बाह्यस्याभावतः प्रिये || चेष्टात्मको भवेद् वायुस्ततः स्यान्नतिरध्वरे | दीपः स्यात् तैजसस्तोयं चरुरिष्टो रसात्मकः || पृथिव्या गन्धवत् पुष्पमुपचाराय पादयोः || इति श्रीचरणसूत्रनीत्या श्रीपञ्चवाहक्रममेवानुप्रवेक्ष्यति, सर्वेषामपि श्रीरसान्वयानामत्रैव तात्पर्यात् | तद्व्याख्यानवैदग्ध्यप्रकाशनं तु नात्यन्तमुपयुज्यते | नत्वेति च नतेः कण्ठोक्त्या मन्त्रमण्डलादेरपि वायुशक्तितत्त्वायाः स्वपरिस्पन्दनानुप्राणनाया मुद्रायास्तन्त्रान्तरारम्भरूपोद्योगानुगुण्यात् प्राधान्यं प्रत्याययत इत्यलमुपक्रम एव प्रसक्तानुप्रसक्तिकप्राचुर्येण | उपरि प्रपञ्चयिष्यमाणाशेषतन्त्रार्थसूक्ष्मशरीरप्रायेयं गाथा | अत एवातिप्रपञ्च्यमानेयमतिप्रसङ्गाय भविष्यतीति संक्षिप्यैव व्याख्याता | उक्तार्थप्रपञ्चोपपादनं च तत्र तत्राग्रत उद्भावयिष्यते || १ || अथ तन्त्रप्रतिपाद्यमर्थतत्त्वं तत्परिज्ञानस्य प्रयोजनतयाऽन्वेष्यतां चाभिदधानस्तन्त्रकृत् तत्रैवावृत्त्या तत्प्रयोजनमात्मविमर्शस्वरूपमप्युपेयतयोपपादयति - वर्धतां महाप्रकाशो विमर्शविच्छुरितनिश्छलोद्योतः | संज्ञाविशेषनिर्णयमात्रप्रवृत्तानि यत्र शास्त्राणि || २ || इति | अत्र योऽयं महाप्रकाशस्तत्तत्प्रमातृप्रकाशावेशाधीन- प्रकाशमानतास्वभावमात्रपारिशेष्यात् स्वरूपनिष्कर्षे क्रियमाणे - तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते | ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् || नहि ज्ञानादृते भावाः केनचिद् विषयीकृताः | ज्ञानं तदात्मतां यातमेतस्मादवसीयते || इति श्रीदेविकाक्रमस्थित्या प्रकाशैकस्वभावः षट्त्रिंशत्तत्त्वसंपिण्डनात्मा प्रत्येकतत्त्वपर्यालोचनेऽप्यनन्तप्रकारायमाणो विश्वविलासः, स वर्धताम् उपर्युपरि स्वस्फुरत्तामनुभवतु | अयमेव महानुपायो वक्ष्यमाणस्य विमर्शस्येति यावत् | ननु शून्यतामात्रस्वभावेन मिथ्यात्वमात्रानुप्राणितव्यवहारेण वा विश्ववैचित्र्येणोपायभूतेन परमार्थभूतस्वात्मरूपविमर्शलाभ इत्येतदनौचित्योत्कर्षकाष्ठाप्राप्तिरिति माध्यमिकानिर्वचनीयवादमर्यादामाशङ्क्याह - निश्छलोद्योत इति | स्फुटप्रकाशात्मनि प्रपञ्चोद्योते न कस्यचिद् मिथ्यात्वोपपादकादेश्छलस्यावकाश इत्यर्थः | अस्त्वेवम्, तथाप्यवघातस्वेदादिवदन्यथासिद्धसान्निध्येन लोकव्यवहारेण कथमात्मविमर्शोत्पत्तिरित्याशङ्क्याह - विमर्शविच्छुरितेति | न खलु स्वसत्तामात्रेण विश्वस्यात्मविमर्श प्रत्युपायत्वम्, अपि तु तथा तथा विमृश्यमानावस्थायामेव | तत्र च विश्वरूपस्येव तन्मिथ्यात्वादेस्तद्विपर्ययस्य च विम्रष्टव्यत्वोद्भावनाय निश्च्छलोद्योत इत्यस्य विमर्शविच्छुरितेत्यनेन सहैकपद्यम् | ननु यदि हि विश्वव्यवहारस्य किञ्चिन्नैयत्यं तदुपपद्येतापि नाम तस्योपायत्वम् | तच्च न सम्भवति | अद्यापि सिद्धान्तिभिर्द्रव्यगुणादयः षडिति, प्रमाणप्रमेयादयः षोडशेति, रूपवेदनादयः पञ्चेति च पृथक् पृथग् विकल्प्यमानत्वादित्याशङ्क्याह - संज्ञाविशेषेत्यादि | यत्र विश्वविलासात्मन्यर्थे काणादीयाक्षपादीयप्रभृतीनि शास्त्राणि तत्तत्परिभाषानुगुण्येन संज्ञालक्षणा ये व्यपदेशविशेषास्तन्मात्रोपक्षीणव्यापाराणि, न पुनः प्रत्यक्षादिप्रमाणोपगृह्यमाणपृथिव्यादिपदार्थपरम्परापरि- स्पन्दापलापप्रगल्भानीत्याद्यवाक्यार्थः | द्वितीये तु योऽयं महाप्रकाश उक्तलक्षणोऽनवच्छिन्नः प्रमाता, यद्विमर्शः पुरुषार्थतयाऽवस्थापयिष्यते, स वर्धताम् | मायीयमलोपलेपसंस्कारोच्छेदपर्यन्तमुल्लसतु | सा च वृद्धिर्न कैवल्येन | किं तर्हि ? एवमहमलौकिकः कश्चित् प्रमातेति प्रत्यभिज्ञानात्मा यो विमर्शः, तेन यद् विच्छुरणं विशेषतोऽन्यप्रकाशवैलक्षण्येन लौकिकसम्बन्धस्वभावातिक्रान्त्या तादात्म्यपर्यवसायितयोपश्लेषः, तद्वत्तया निश्छलो निर्गलितोपाधिकलङ्क उद्योतः स्फुरत्ता यस्य तादृशतया वर्धतामित्यर्थः | दर्पणादिप्रकाशानां हि प्रतिबिम्बादिप्रकाशनक्षमत्वेऽपि प्रमतृप्रकाशसापेक्षत्वादस्त्युपाधिमत्त्वम् | प्रमातृप्रकाशस्य त्वनन्यमुखप्रेक्षित्वमेवेत्यर्थः | एतदुत्तरत्रापि भविष्यति | ननु विम्रष्टव्यस्यात्मस्वरूपस्य व्यपदेशनैयत्याभावात् तद्विमर्शं प्रत्यसद्भावपर्यवसायी कश्चिद् हृदयङ्गमीभावः स्यादित्याशङ्क्याह - संज्ञाविशेषेत्यादि | यत्र परमप्रमातृविषये व्यवह्रियमाणानि सर्वाण्यपि शास्त्राणि शिवो विष्णुर्बुद्ध इत्यादिव्यपदेशमात्रव्यापृतानि, न पुनरर्थस्वभावात्यन्तभेदोपपादनप्रवीणानि भवन्ति | तथाहि - चार्वाकास्तावद् भूतान्येव चेतयन्त इति चैतन्यविशिष्टमेव शरीरमात्मानमाचक्षते | असदेवेदमग्र आसीत् इत्यभावब्रह्मवादिनः शून्यताभिमानिनो माध्यमिकाश्चानाख्याकक्ष्यायामिव स्वात्ममात्रस्फुरत्तालक्षणमात्मतत्त्वमाहुः | साङ्ख्यादयस्तु विज्ञानाकलप्रायतामस्याङ्गीकुर्वते | शब्दब्रह्मवादिनश्च पश्यन्तीपदाभिमानिनः श्रीमत्सदाशिवतत्त्वभूतमेनं मन्यन्ते | मीमांसका अपि सुखाद्युपरागयोग्यमात्मानं मन्वानाः संवित्स्वभावतामस्य नापह्नुवते | नैयायिकादयो ज्ञानादिगुणगणास्पदमेनमिच्छन्ति | सौगताः पुनर्ज्ञानलक्षणसन्तानरूपमेनं संगिरन्ते | एवमन्यत्राप्यूह्यमिति श्रौताश्रौतेषु सर्वेष्वपि सिद्धान्तेषु नात्यन्तमत्र विसंवादः | किन्तु स्पृष्टास्पृष्टिकयाऽवस्थानम्, तन्निबन्धनमात्रश्च वादिनामन्योन्यकलहकोलाहलक्लेशः | तदुक्तं मयैव श्रीपादुकोदये - अतो विश्वात्मको नाथः इत्यारभ्य लोकायतानां देहात्मा शून्यात्मा शून्यवादिनाम् | क्षणात्मा क्षणनिष्ठानां भिन्नात्मा भेददर्शिनाम् || मीमांसिनामपूर्वात्मा ब्रह्मात्मा ब्रह्मवादिनाम् | अद्वैतिनामभेदात्मा बहुना वा किमुच्यते || आक्रीडनं च बालानां स एव परमो गुरुः | स एव च महार्थात्मा महार्थिकमनीषिणाम् || इति | तथा च श्रीप्रत्यभिज्ञाहृदये - तद्भूमिकाः सर्वदर्शनस्थितयः इति | अत एव हि - स हि भैरवसिद्धन्तपूर्वपक्षोऽपि यन्मयः | इति पर्यन्तपञ्चाशिकायामुक्तम् | एवं च वस्तुवृत्त्या सिद्धान्तिभिः सर्वैरपि परमेश्वरस्य विश्वात्मकत्वस्वभावमैश्वर्यमेवोद्घोष्यते | यन्मयैवोक्तं श्रीसंविदुल्लासे - अन्योन्यमप्रतीकारा बाध्यबाधकभावतः | वदन्ति तव वैश्वात्म्यं वादिविप्रतिपत्तये || इति | एतदुक्तं भवति - बहुविधसिद्धान्तविकल्प्यमानान्योन्य- बाध्यबाधकभावेऽपि विश्वावभासे स्तम्भकुम्भादयो भावा आपामरपण्डितं प्रत्यक्षमेवानुभूयन्त इत्यत्र न काचिद् विप्रतिपत्तिः | अनुभूयमानत्वं च तेषामनुभवनक्रियाविष्टत्वम् | सा च क्रिया सामान्यानतिलङ्घिस्वभावतया पादपच्छेदादिरिव परश्वधादिना केनचित् करणविशेषेण विना न संगच्छत इत्येतत् तावदङ्गीकार्यम् | ततश्च ग्राह्यग्रहणवेलायां चक्षुराद्यवश्यम्भावः | तदुक्तं मयैव संविदुल्लासे - अविनाशिनि मङ्गलप्रदीपे मनसि प्रज्वलिते महाप्रकाशे | बहिरिन्द्रियगोलकैर्गवाक्षैरविशेषादवभास्यते त्रिलोकी || इति | चक्षुरादिचक्रं च बहिष्करणमात्रस्वस्पन्दास्पदत्वाद- विकलेन्द्रियस्यापि प्रमातुरौदासीन्याद्यवस्थास्वर्थावभासा- संभवाच्च किञ्चिदन्तःकरणमपेक्षत इत्येतदप्यवश्याभ्युपगन्तव्यम् | ततश्च मनोविमर्शस्यावर्जनीयत्वम् | तदुक्तमस्मद्गुरुभिर्मनोनुशासनस्तोत्रे - हंसाः पतन्ति गमने प्रविसार्य पक्षौ स्वौ सर्वदैव किल मानसराजहंसः | अत्यद्भुता तव गतिर्गगने परस्मिन् विक्षेपशून्यमयपक्षयुगं विहाय || इति | करणानां च कर्तृव्यतिरेके कार्यकारित्वानौचित्यात् स्वस्वभावावसादप्रसङ्गाच्च स्तम्भकुम्भादिपर्यालोचनक्रियायामन्तः कश्चित् कर्तृविशेषोऽप्यर्थत आक्षिप्यते | यदुक्तमस्मत्परमगुरुभिः श्रीसौभाग्यहृदयस्तोत्रे - नेत्रादिजालकोपान्ते हृत्पद्मासनलीलया | वारं वारं त्वया देवि ! रूपादि मधु सेव्यते || स च वेद्यविकल्पोपरक्तत्वाद् देशकालाद्यवच्छेदमनुभवति | तदवच्छेदोल्लङ्घिना च भाव्यमलौकिकेन केनचित् प्रमातृविशेषेण, अन्यथा विश्ववैचित्र्यस्यैव विपर्ययप्रसङ्गात् | विश्वव्यवहारो ह्यवच्चिन्नानवच्छिन्नप्रमातृद्वयाङ्गीकारादृते न संगच्छते | तत्राऽकल्पितः प्रमाता स्फुरत्तैकस्वभावतया वेद्यवर्गस्य प्रकाशैकार्णवीभावमुद्भावयति | कल्पितस्तु स्तम्भः कुम्भ इत्यादिभेदप्रथोपश्लेषणप्रागल्भ्यात् तत्तद्विकल्पविक्षोभस्वभावभावानां व्यवहारविभागमुद्भावयतीत्युभयावश्यम्भावौचित्यम् | एवं च ग्राह्यग्रहणवेलायामिन्द्रियादिप्रणाडिकया विश्वप्रतिष्ठाभूमिरकृत्रिमः प्रमाता कश्चिदन्तर्विम्रष्टव्य इति पारम्पर्यादापतितम् | यथोक्तमजडप्रमातृसिद्धौ - इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् || इति, प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः | इति च | यथा चोक्तमाचार्याभिनवगुप्तपादैः - स्फुटतरभासमाननीलसुखादिप्रमात्रन्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इहोपदिश्यते इति | एवमभिप्रयेणैव हि श्रीविज्ञानभैरवे - गीतादिविषयास्वादसमसौख्यैकतात्मनः | योगिनस्तन्मयत्वेन मनोरूढिस्तदात्मता || इत्याद्युपायतयोपपाद्यते | स्मार्तादयोऽप्यत्र नात्यन्तं विसंवदन्ते | यदाहुः - वीणावादनतत्त्वज्ञः स्वरशास्त्रविशारदः | तालज्ञश्चाप्रयासेन मोक्षमार्गं निगच्छति || इति | वर्धतामिति लोट्प्रत्यायुक्त्या ख्यातिमपुर्णां पूर्णख्यातिसमावेशदार्ढ्यतः क्षपय | सृजभुवनानि यथेच्छं स्थापय हर तिरय भासय च || इत्यादिवदुपायोपेयभावं द्योतयन्त्या परमेश्वरस्यात्यन्तदुर्घटघटनप्रागल्भ्यलक्षणं स्वातन्त्र्यमासूत्र्यते | यदनेन दर्शनान्तरप्रणेतृमनीषया संसारनिबन्धत्वेनोपकल्पितः शब्दस्पर्शादिविषयविक्षोभो जीवन्मुक्तिलक्षणाह्लादस्वभावं स्वात्मनो विमर्शं प्रत्युपायतयोपदिश्यते | तथा च तन्त्रान्ते वक्ष्यते - ओ संसारसुहेल्ली ओ सुलहं मोक्खमग्गसोहग्गम् | इति अस्य चोपायोपेयभावस्याव्यभिचारस्वभावसामरस्योद्- भावनाय यावद्गति यतितव्यमिति नीत्या वाक्यद्वयैक्यावभासात्मना तन्त्रापरपर्यायेण श्लेषेणोपन्यासः | एवमत्राभिधेयं प्रयोजनं तत्प्रयोजनं च वितत्योन्मीलितम् | पार्यन्तिकं तु प्रयोजनं हि अ अ ट्ठाणपरूढो इति प्रपञ्चयिष्यते | ननूक्तयुक्त्या विम्रष्टव्यः कश्चित् कर्तृविशेषः कुलालादिवद् न कुत्रचिदपरोक्षमुपलक्ष्यते, अनुमेयत्वादौ तु तत्र प्रमाणाधीना हि वस्तुस्थितिरिति स्थित्या तादृक् किञ्चित् प्रमाणं वक्तव्यम् | तदनुक्तौ च तस्यासत्कल्पत्वापत्तिरित्याशङ्क्याह - आत्मा खलु विश्वमूलं तत्र प्रमाणं न कोऽप्यर्थयते | कस्य वा भवति पिपासा गङ्गास्रोतसि निमग्नस्य || ३ || इहात्मैव हि प्रकाशस्वभावत्वाद् विश्वव्यवहारे निबन्धनम्, ममावभासते मयावलोक्यत इति प्रमातृप्रकाशोपश्लेषेणैव स्तम्भकुम्भादीनां प्रकाशमानत्वात् | तद्व्यतिरेके च तेषां स्तम्भ एव कुम्भः कुम्भ एव स्तम्भ इत्यनयोरन्योन्यं स्वलक्षणापहारोपक्रमे न कस्यचिदपि नियन्तृत्वमिति स्तम्भरूपेण स्तम्भः किं भवत्यस्तम्भो वेति सन्देहो वा तस्याप्यसम्भवो वेति सर्वथा तूष्णीम्भाव एव स्वभावः स्याद् भुवनव्यवहारस्य | यदि च स्तम्भादिरूपतयैव तेषां प्रकाशमानत्वं न पुनः प्रमातृप्रकाशानुग्रहात्मा कश्चिदतिशयः, तर्हि सर्वेषामपि तथा प्रकाशेरन्, न वा कस्यचिदपीति प्रमातॄणां व्यवहारोच्छेदप्रसङ्गः | किञ्च, स्तम्भकुम्भाद्यात्मनो विश्वस्य स्वात्मनैव प्रकाशमानताङ्गीकारे सर्वस्यापि प्रमातृवर्गस्य सार्वज्ञ्यमत्यन्ताज्ञत्वं वा प्रसज्येत, नियामकाभावात् | तस्मादात्मनो जगद्व्यवहारप्रयोजकत्वमनिच्छताऽप्यङ्गीकार्यम् | प्रयोज्यप्रयोजकभावश्च पर्यन्ततोऽनयोस्तादात्म्यमेव पर्यवसाययिष्यतीत्यात्मप्रकाशमयोऽयं विश्ववर्तिवेद्यवर्गोल्लास इत्यापतितम् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - प्रागिवार्थोऽप्रकाशः स्यात् प्रकाशात्मतया विना | न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता || इति | खलुरविप्रतिपत्तौ | एवं स्थिते तत्रैवात्मनीदमेतादृगिति वस्तुव्यवस्थापकत्वलक्षणं स्वाभासविशेषं प्रमाणं प्रति पण्डितस्य वा पामरस्य वा न कस्यचिदपेक्षोत्पद्यते, प्रमातृप्रकाशादव्यतिरेकात् | प्रत्युत तेनैव व्यवस्थाप्यमानत्वाच्च प्रमाणस्य | प्रमाणं हि नाम नवनवोदयः स्वाभासविशेषः | सोऽपि स्वाभासोऽभिनव इत्युक्तत्वात् | नवनवोदयत्वं च तस्य तत्तद्देशकालोपश्लेषावच्छिद्यमानान्योन्यविलक्षणप्रमेयद्वारो- पारूढः कश्चिद् विशेषः | न पुनः स्वाभाविको धर्म इत्यवधीरिताखिलविकल्पविक्षोभमक्षुभिताब्धिकल्पमेकस्वभाव- मात्मतत्त्वं प्रत्यस्य व्यापार एव नोपपद्यत इत्यर्थः | न कोऽप्यर्थयत इति | आत्मनि प्रमाणमिच्छन्नात्मा स्यान्न वा | यद्यनात्मा जडवर्गः, तत्प्रमाणापेक्षैव नोपपद्यते | आत्मैव चेत्, तर्हि स्वस्मिन् स्वयमेव प्रमाणमपेक्षत इत्यापतेत् | यदाहुः - अख्यातिर्यदि न ख्यातिः ख्यातिरेवावशिष्यते | ख्यातिश्चेत् ख्यातिरूपत्वात् ख्यातिरेवावशिष्यते || इति | प्रमातृतास्पदे तत्र प्रमाणं नोपयुज्यते | करणात् कर्तुराधिक्यमन्यैरभ्युपगम्यते || स्वतन्त्रः खलु कर्तेति शाब्दिकैरप्युदीर्यते | तच्च स्वातन्त्र्यमन्येभ्यः कारकेभ्यः प्रधान्ता || यत्प्रभावात् प्रमाणानां प्रमाणत्वव्यवस्थितिः | तत्रैव तदपेक्षेति न किं व्यर्थं वचो भवेत् || लौकिकानां प्रमाणानामनाश्वासाद्धि यौक्तिकैः | ईश्वरस्य प्रमाणत्वं प्रमातृत्वेऽप्युदाहृतम् || प्रमातरि प्रमाणं किमिति पृच्छन् प्रमातृताम् | विजहाति न वा नाद्यः प्रश्नस्यानुपपत्तितः || न द्वितीयश्च कल्पः स्यात् प्रमाणं किमु विस्फुरेत् | इति हि प्रश्नतात्पर्यं तत्रात्मन्यैक्यसम्मतौ || मयि त्वयीति भेदोऽयं न कदाचन युज्यते | नानात्मत्वे स्वविषयं प्रमाणं प्रति भावना || पृच्छ्यते प्रतिवादीति महन्मौर्ख्य प्रसज्यते | भ्रान्तिश्चेदात्मनि भ्रान्त्या बुद्धे रज्जुभुजङ्गवत् || वाच्यं प्रमाणमित्येतदुन्मत्तवचनायते | अथ नास्त्येव मे तत्र प्रतीतिरिति कथ्यते || तत्र प्रमाणं पृच्छ्येत कीदृग् वोत्तरमुच्यताम् | अगोचरः प्रमाणानामत आत्मा महेश्वरः || यदुक्तं श्रीप्रत्यभिज्ञायाम् - प्रमातरि पुराणे तु सर्वदाभातविग्रहे | किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि || इति | तथा चोपनिषत् - विज्ञातारमरे केन विजानीयात् इति | स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते | पादोद्देशे शिरो न स्यात् तथेयं वैन्दवी कला || इति | श्रीतन्त्रालोकेऽपि - प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || इति | उक्तमर्थं दृष्टान्तदृष्ट्या प्रतिपादयति - कस्य वेत्यादि | गाङ्गो हि प्रवाहः शैत्यप्रसादाद्यनेकगुणोत्कर्षादन्तर्बहिस्तापापहार- प्रवीणो भवति | तत्रैव सर्वाङ्गीणाप्लवपूर्वकमघमर्षणाद्यवस्थासु को नाम नरस्तृषितः स्यात् | न कश्चिदपि तथा स्यादिति यावत् | पिपासेत्यनेन गङ्गास्रोतोनिमग्नस्यापि यदि कस्यचित् सलिलपानेच्छा, कस्तत्र पातुं प्रत्यूह इति प्रत्याययता दार्ष्टान्तिकेऽपि स्थले विश्वव्यवहारनिबन्धनं परमेश्वरं प्रति प्रमाणजिज्ञासायां प्रत्यक्षादीनि सर्वाण्यपि प्रमाणानि सम्भवन्ति, न पुनरेषामत्र काचिदपेक्षेत्युद्भाव्यते | एतेन - तन्वादि बुद्धिमत्कर्तृ सन्निवेशविशेषवत् | घटवद् यदनेवं तन्नैवं खपरमाणुवत् || इत्यादिप्रमाणोपपादनोपक्षीणस्येश्वरसिद्ध्यादेः प्रबन्धस्य प्रवृत्तिवैफल्यशङ्काकलङ्कोऽप्युट्टङ्कित इत्यवगन्तव्यम् || ३ || ननु स्तम्भकुम्भादिवदात्मनः प्रकाशो न कदाचिदपि स्फुटतयोपलभ्यते | अस्फुटे चार्थे प्रमाणव्यापारेणैवावतरितव्यमित्याशङ्क्याह - यं जानन्ति जडा अपि जलहार्योऽपि यं विजानन्ति | यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः || ४ || यं वैश्वात्म्येन प्रसिद्धिमन्तं प्रकाशात्मनो वीरेश्वरा इवानुद्रिक्तप्रकाशा जडा आभीरादयोऽपि जानन्ति, यं च विमर्शमययो वीरेश्वर्य इव वैदग्ध्याभासशालिन्यो घटदासीप्रभृतयोऽप्यवबुध्यन्ते | सर्वेषामपि स्थूलोऽहं सम्पन्नोऽहमित्यादेः स्वात्मस्फुरणस्य स्फुटमेवोपलभ्यमानत्वात् | यच्छ्रुतिः - उतैनं गोपा अदृशन् अदृशन्नुदहार्यः इति | विमर्शप्राधान्याज्जलहारीज्ञानं प्रति वैशिष्ट्यमुक्तम् | ज्ञानशक्त्येव प्रमातॄणां क्रियाशक्त्याऽप्ययं क्रोडीक्रियत इत्याह - यस्यैव नमस्कार इति | जडजलहार्यादिर्हि सर्वोऽपि जीववर्गस्तत्तत्फलकाङ्क्षया तत्र तत्र नमस्कुर्वाणो लक्ष्यते | स सर्वोऽपि नमस्कारो यत्सम्बन्धेनैव भवति, यथा श्रुतिः - यस्मै नमस्तच्छिरः इति | सर्वस्यापि स्वात्मैव देवतेत्यग्रे भविष्यति | यतः - त्वमेवात्मेश ! सर्वस्य सर्वश्चात्मनि रागवान् | इति श्रीमत्स्तोत्रावल्यामुक्तम् | अथ च जडाः स्तम्भकुम्भादयो भावाः, जलहार्यः शब्दस्पर्शाद्यादानक्षमा इन्द्रियशक्तयः, तेऽपि यज्जानन्तीति परमेश्वरस्य प्राकट्योत्कर्ष उपपाद्यते | यतः स्तम्भकुम्भादयोऽपि तत्तत्प्रमातृविषयीकारद्वारा ज्ञानक्रियाश्रयतया निश्चीयन्ते | यदुक्तम् - द्रष्टैव हि ततो जगत् इति | कर्तैवेत्यस्याप्युपलक्षणमेतत् | यत् प्रयुक्तं शम्भ्वैक्यदीपिकायाम् - विश्वमिदं मन्मयम्, मत्कार्यत्वात् | यदित्थं तत् तथा | यथा शरीरम् | इदं च मम कार्यं तस्मान्मन्मयम् इति | तद्वच्चक्षुरादीन्द्रियाण्यपि प्रमातृपरिबर्हतयैव तथा तथा भवन्तीति | उक्तरूपश्च स परमेश्वरः कुलस्य देहाक्षभुवनादेर्विश्वविलासस्य तादात्म्यपर्य वसायितया स्मृत्यादिनिर्वाहको भवन् कस्य पदार्थस्य स्फुटो न भवति | कस्येति यदि कश्चिदुच्येत स एव स्वभावतो न स्यादित्यर्थः | अयं भावः - विषयेन्द्रियादेर्वेद्यविअचित्र्यस्य गोपालजलहार्यादेः प्रमातृवर्गस्य च - समलो विमलो वापि व्यवहारोऽनुभूयते | इति श्रीप्रत्यभिज्ञाप्रक्रियया ग्रामं गच्छति, सन्ध्यामुपास्ते इत्यादिलौकिकशास्त्रीयव्यवहारस्वभावं ज्ञानक्रियायुगलमेव साक्षात् पारम्पर्येण वाऽनुप्राणनमवलोक्यते | यथा श्रीप्रत्यभिज्ञायाम् - तथाहि जडभूतानां प्रतिष्ठा जीवदाश्रया | ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् || इति | ते च ज्ञानक्रिये ममेत्यहमिति वाऽहम्भावव्यतिरेके कुत्रापि नोपपद्येते इति सर्वाहम्भावस्वभावं परमेश्वरं प्रत्यस्फुटत्वशङ्काया न कश्चिदवकाश इति || ४ || एवं सामान्यतः प्रमाणानामनुपयोगमात्मन्युपपाद्य विशेषतोऽप्युपपादयन्नागमे कञ्चिदनुग्रहं दर्शयति - अवच्छिन्नं प्रत्यक्षमवच्छिन्नं तन्मुखं चानुमानम् | आगमदीपालोकस्तस्य प्रकाशयति किमपि माहात्म्यम् || ५ || ग्राह्यार्थसन्निकर्ष एव प्रत्यक्षस्य प्रामाण्यमित्यत्यन्तमेतत् सङ्कुचितम् | अनुमानं च व्याप्त्युपलम्भसापेक्षत्वाद् व्याप्त्युपलम्भस्य च प्रत्यक्षमूलत्वादवच्छिन्नमेव | अर्थापत्त्यादेरत्रान्तर्भावो वैशेषिकादिभिरभ्युपगतः | अनन्तर्भावे वा तस्य संकोचः कल्पकाद्युपलम्भविकल्पात् स्वयमुपकल्पनीयः | एवं चावच्छिन्नानां प्रमाणानामनवच्छिन्ने स्वात्मनि प्रवृत्तिरिति महतीमनौचित्यकक्ष्यामवतरतीति प्रागप्युक्तम् | आगमस्तु यद्याप्तमात्रवाक्यत्वात् प्रामाण्यमर्हति, तर्हि तस्याप्तिः कीदृगिति चिन्तायामन्यस्मादाप्तात्, तस्याप्यन्यस्मादिति मूलक्षयकारिण्यनवस्थेत्यप्रामाण्यमेव | माणिक्यादिपरीक्षावत् त्रिचतुरकक्ष्याविश्रान्तौ तु सैव सङ्कोचाय कल्पते | यदि पुनः आगमस्त्वनवच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थः इत्याचार्याभिनवगुप्तोक्तस्थित्या परप्रमातृविमर्शशक्तिमयतयायमङ्गीक्रियते, तदानीमसौ तस्य स्वात्मनः स्वभावभूते प्रकाशे प्रदीपोल्लेख इव तमःस्थगिते स्तम्भकुम्भादावभिव्यञ्जकतया कञ्चिच्चमत्कारमुपजनयति | तत्रापि यथा दीपालोकेन ध्वान्तगर्भवर्तिनां स्तम्भादीनामारोहपरिणाहादिस्वभाव उन्मील्यते, तद्वदस्यापि स्वात्मनो यन्माहात्म्यमनवच्छिन्नस्वभावत्वं स्वव्यतिरिक्ताशेषभुवनाक्षाद्यनुप्राणनक्षमत्वं विश्वतदुत्तिर्णत्वलक्षणस्वलक्षणद्वितयसामरस्यसम्पत्पात्रत्वम्, तत् किमप्यलौकिकं तत्त्वमागमेनोन्मुद्र्यते | यदुक्तमाचार्याभिनवगुप्तपादैः - यं प्राप्य सर्वागमसिन्धुसङ्घपूर्णत्वमभ्येति कृतार्थतां च | तं नौम्यहं शाम्भवतत्त्वचिन्तारत्नौघसारं परमागमाब्धिम् || इति | अथ यदि शाखाशिखायां शशाङ्कमण्डलमित्यादिवदुपचारादत्र प्रमाणव्यवहारकौतूहलम्, तदा स्वस्मिन्नात्मनि प्रत्यक्षं परत्रानुमानं सर्वत्रागम इत्यलं तन्त्रान्तरपान्थघण्टापथप्रस्थानेन || ५ || ननु प्रमाणपथातिवृत्तं चेदिदमात्मतत्त्वम्, तत् सर्वोऽपि जनस्तद्विमर्श प्रत्यधिकारी न कश्चिद् वा स्यादप्रमितत्वाविशेषादित्याशङ्क्य नात्र कश्चिदधिकारिविभागक्लेश इत्याह - येषां निरुपणीयो व्यतिरिक्तः कोऽप्यात्मनो भावः | आत्मविमुखानां तेषामधिकारिविभागविभ्रमो भवतु || ६ || इह येषां पुंसां स्वात्मरूपात् परमेश्वराद् व्यतिरिक्तो भवन् कश्चिज्ज्योतिष्टोमादिः पदार्थो निरूपणीयो विभावनीयो भवति, तेषामन्यपदार्थौन्मुख्याविनाभूतादात्मवैमुख्यादेव हेतोरयमत्राधिकारी न त्वयमिति यो विभ्रमो विशिष्टो भ्रमो विलासरूपत्वादप्रामाणिको व्यवहारो वा स भवतु | तत्सद्भावे वयं न प्रतिबन्धारः | अतिसर्गे लोट् | ततश्च तेषामुपालम्भनीयता च द्योत्यते | यदुक्तमाचार्याभिनवगुप्तपादैः - आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति | तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन् को भवानिति || कोऽपीति | अस्मन्मर्यादायां भावान्तरस्यात्मव्यतिरेक- स्फुरणमात्रे सत्यपि पर्यन्ततस्तन्मयताया एवावधारणादात्मनो व्यक्तिरिक्तः कोऽपि भाव इत्ययुक्तैव वाचोयुक्तिः | यदुक्तं संवित्प्रकाशे - यदिदं दृश्यते किञ्चिद् दर्शनात् तन्न भिद्यते | दर्शनं द्रष्टृतो नान्यद् द्रष्टैव हि ततो जगत् || इति | आगमेऽपि - यावन्न वेदका एते तावद्वेद्याः कथं प्रिये | इति | अथाप्युपरि कथ्यत इत्यर्थः | येषां पुनः स्वात्मन एव भावः स्वातन्त्र्यस्वभावः कश्चिदतिशयितो धर्मो विम्रष्टव्यतयाऽवतिष्ठते, तेषामात्मौन्मुख्यशालिनां न कदाचिदप्ययमधिकारिविभागव्याक्षेपः | एतदुक्तं भवति - ज्योतिष्टोमादयो हि विभावनीया अर्था विभावयितॄन् प्रमातॄन् प्रति पृथग्भावेन प्रसिद्धाः | अतस्तेषां स्वर्गकामत्वादिरधिकारिविभागः कश्चित् संगच्छेत | येषां पुनरात्मस्वरूपमेव निरूपणीयम्, तेषां नैरात्म्यशङ्कायामस्त्वनधिकारित्वम् | तदभावाच्च कथमधिकारितारतम्यमिति | एतेनेहामुत्रार्थभोगविरागाद्यपि नाधिकारिवैशिष्ट्यायेति व्याख्यातम्, यत इहामुत्रार्थभोगोद्रेक एव मोक्षः पुरुषार्थात्मनः स्वात्मविमर्शस्य प्रयोजनतया प्रतिपादयिष्यते | तर्हि मुमुक्षुत्वमस्त्वधिकार इति चेद् ? न, वस्तुस्थित्यां न बन्धोऽस्ति तदभावान्न मुक्तता | विकल्पघटितावेतावुभावपि न किञ्चन || इति न्यायाद् बन्ध एव नास्ति | कुतो मोक्षः, कुतस्तरां तदिच्छा | अस्तित्वे वा सैव क्रियाशक्तिपर्यन्तमुज्जृम्भत इति विमर्शस्य तदिच्छायाश्च पर्यन्ततो भेदाभावात् प्राप्य एवार्थोऽधिकार इत्युक्तं भवतीति || ६ || ननु प्रमाणाधिकारिविभागाद्यनुपयोगे विधिनिषेधयोरेव वैयर्थ्यं स्यात्, विपर्यये भाधाभावादित्याशङ्क्य तयोः स्वरूपमुन्मीलयति - यत्र रुचिस्तत्र विधिर्यत्रेयं नास्ति तत्र च निषेधः | इत्यस्माकं विवेको हृदयपरिस्पन्दमात्रशास्त्राणाम् || ७ || यदेतदस्तीति ज्ञानलक्षणो विधिर्नास्तीति ज्ञानस्वभावो निषेधश्च चोदनार्थः | तत्र सन्ध्योपास्त्यादौ विधिः, कलञ्जभक्षणादौ निषेधश्चेत्युच्यते | तत्रेदमालोचनीयम् - अनुष्ठातॄणां प्रवृत्तिनिवृत्तिप्रयोजनतया हि विधिनिषेधयोर्व्यापारः, अज्ञातज्ञापकत्वे सत्यप्रवृत्तप्रवर्तको विधिः इत्युक्तत्वात् | तत्र किं तज्ज्ञानमात्रेण ते प्रवर्तन्ते निवर्तन्ते च, उत स्वेच्छानुगुण्यात् | यदि ज्ञानमात्रेण, सन्ध्यानुपासकः कलञ्जभक्षको वा न कश्चिदालोक्येत | यदि तु स्वेच्छानुगुण्यात्, तदनुष्ठातॄणां रुचिमेव विधिनिषेधावनुवर्तेते इत्यर्थो भवति | ततश्च तेषां सन्ध्योपासनादावर्थे यत्र रुचिस्तत्र विधिः, यत्र वा कलञ्जभक्षणादौ न रुचिस्तत्र च निषेध इत्यनया भङ्ग्या सन्ध्योपासनादा - वेवारुचिश्चेत् तत्र च निषेधः, कलञ्जभक्षणादावेव चेद् रुचिस्तत्र च विधिरित्यर्थतत्त्वनिश्चयः स्यात् | इत्युक्तक्रमेणास्माकं पारमेश्वरविमर्शपर्यायपूर्णोऽहम्भावभूषितानां विवेको विधिनिषेधयोस्तात्पर्यतो निष्कर्षः | एतादृशे च तत्त्वनिश्चये तदेव नः शास्त्रम्, यत् सर्वसंवित्संघट्टनात्मना स्वहृदयस्य परितः पृथिव्यादितत्त्वपरम्पराक्रोडीकारप्रावीण्येन स्पन्दः परामर्शात्मा चमत्कारः | पारमेश्वरः परामर्श एव ह्यागम इति प्रागप्यवोचाम | तदनुष्ठातॄणामिच्छाशक्तिरेव प्रवृत्तिनिवृत्त्यौन्मुख्याद् विधिर्निषेध इति व्यपदेशभेदमनुभवतीति यावत् | यदुक्तं संवित्प्रकाशे - त्यागः शक्यक्रियो यस्य स हेय इति निश्चितः | त्यक्तुं न शक्यते यच्च तदुपादेयमित्यपि || इति | मया चोक्तं संविदुल्लासे - प्रामाणिकी विधिनिषेधकथा यदि स्यात् पर्यन्ततः परम एव शिवः प्रमाणम् | सर्वोत्तरः स खलु तत्र विधि निषिद्धे कर्तु क्षमेत विहिते च विभुर्निषेधम् || इति | एतेन श्रुतिस्मृत्यादेरप्यस्मत्तन्त्रस्य प्रामाण्योत्कर्षो व्याख्यातः | यथोक्तं श्रीभगवद्गीतासु - एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते इति | त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन इति च | यथा श्रीविज्ञानभैरवे - किञ्चिज्ज्ञैर्या स्मृताऽशुद्धिः सा शुद्धिः शम्भुदर्शने | न शुचिर्ह्यशुचिस्तस्मान्निर्विकल्पो भवेन्नरः || इति | यथा च श्रीकालिकामते - पतन्ति जन्तवो येन कर्मणा नरके ध्रुवम् | उत्पतन्ति च तेनैव त्रिकालज्ञा भवन्ति च || एतदाशयेनैव हि श्रीविज्ञानेन्दुकौमुद्याम् - मनो यत्रैव विश्रान्त्या पूर्णभावमुपाश्नुते | अतः परं हि किं नाम शुभक्षेत्रं भविष्यति || इति पुण्यक्षेत्रादिलक्षणमुन्मीलितम् | एतेन - अप्रबुद्धमतीनां हि एता बालबिभीषिकाः | मातृमोदकवत् सर्व प्रवृत्त्यर्थमुदाहृतम् || इति श्रीविज्ञानभैरवांशो व्याख्यातः || ७ || ननु विधिनिषेधादिना हि लोकयात्रा, तयोश्च स्वेच्छामात्रजीवितत्वे तस्या न किञ्चिद्रूपमित्युक्तं भवति | सैव च संसार इत्युच्यते | तदुल्लङ्घनं च पुरुषार्थः | तत्प्रयोजनतया प्रवृत्तं चैतत् तन्त्रं काकदन्तपरीक्षाप्रायमापद्येतेत्याशङ्क्याह - पर्यालोचनविमुखे वस्तुस्वभावस्यात्मनो हृदये | शङ्काविषवेगेनेव संसारभयेन मुह्यति लोकः || ८ || योऽयं लोको दृश्यवर्गवैलक्षण्याद् द्रष्टृत्वधर्मा तत एव परमेश्वरवदात्मनो विश्वशरीरत्वपञ्चकृत्यकारित्वाद्यैश्वर्य- योगेऽपि पशुत्वाभिमानी प्रमातृवर्गः, तस्यायं प्रायशः स्वभावो यद्युक्तितत्त्वान्वेषणे परमेश्वराभिन्नोऽपि स्वयं स्वेच्छामात्रत्वादहम्भाववदिदम्भावमप्यवगाहमानस्य स्वस्य यद्धृदयमिच्छाज्ञानक्रियात्मकशक्तित्रितयमे(लाप ?ल)नरूपमन्तस्तत्त्वम्, तत्परामर्शं प्रत्यौदासीन्यमवलम्बत इति | तच्च तस्य स्वचित्तस्वभावादापतितम् | चित्तं हि नाम चैतन्यपथावरोहाच्चेत्यसञ्चयान्तश्चर्याचातुर्योपात्तसङ्कोचा- चिच्छक्तिरित्यवधार्यते | चित्तमयत्वं चास्याऽवच्छिन्नस्य प्रमातुः तन्मयो मायाप्रमाता इति श्रीप्रत्यभिज्ञाहृदयमर्यादया संप्रतिपन्नम् | यतः श्रीशिवसूत्रेषु चैतन्यमात्मा इतिवत् चित्तमात्मा इत्यप्याणवदशौचित्येन पुनरुपदिष्टमिति स्वाभाविकमस्येदमौदासीन्यम् | अत एव चायं संसाराज्जननमरणा - दिरूपाल्लोकयात्राव्यवहाराद् बिभ्यद् द्वितीयाद् वै भयं भवति इत्युपनिषत्प्रक्रियया भेदप्रथोपारूढं चाकित्यमुद्वहन् मुह्यति | आत्मनः परमैश्वर्यावस्थास्मृतिप्रमोषादन्तः संक्लिश्यते | यथा सर्पदंशाभावेऽपि विषावेशशङ्काशाली स्वस्य मनसि सर्पभ्रमदायिनो रज्ज्वादेः पदार्थस्य वस्तुभूतस्वभावपर्यालोचनोपेक्षायां तात्त्विकसर्पदंशवन्मूर्च्छामरणादिकामन्तर्व्यथामुपगच्छति, तद्वदित्युपमया प्रतिपादितमर्थतत्त्वं हृदयङ्ग्मीक्रियते | उक्तरूपे चास्य मोहे स्वशक्तय एव प्रवर्तन्ते | ताश्च वाग्भूमौ परापश्यन्त्यादिमययो वाचि ब्राह्मीमाहेश्वर्यादयः | संवित्क्रमे स्वात्मस्फुरत्तासारा वामेश्वरीखेचर्याद्याः | प्राणपर्वणि च शरीरनिर्वहणोपक्षीणवृत्तयः प्राणापानप्रभृतयः | तासां ह्यहन्तेदन्ताद्वितयावगाहनसामर्थ्यादात्मस्वरूपोन्मीलनवत् तदाच्छादनेऽप्यौचित्यमस्ति | यद्यप्यस्य पश्वभिमतस्यात्मन इच्छादिशक्तित्रितयानुप्राणनत्वमपरिहार्यम्, तथापि या एताः पारमेश्वर्यामवस्थायामप्रतिहतस्वातन्त्र्यलक्षणेच्छा विश्वभेदप्रथानुरूपेण सार्वज्ञ्योपबृंहिता ज्ञानशक्तिः, तद्वत् सर्वकर्तृत्वात्मिका क्रियाशक्तिश्च, ता एव पशुदशायां कूर्माङ्गभङ्ग्या संकुचन्त्यः क्रमादपूर्णताख्यातिरूपमाणवम्, वेद्यभेदप्रथास्वरूपं मायीयम्, शुभाशुभानुष्ठानात्मकं कार्मणं च मलमुन्मीलयन्ति, ततश्चायं संसारीत्युच्यते | एनमेव हि व्यामोहं प्रत्यूहयितुं सदाचार्यचरणराजीवसपर्या कार्यतयोद्घोष्यते | यदा पुनः स एव लोकः स्वहृदयस्य वास्तवं स्वभावं पर्यालोचयितुमुन्मुखीभवति, तदा न कश्चित् संसारशब्दस्यार्थतयोपलभ्यते | स्वसंरम्भविजृम्भात्मकतयैवास्य विमृश्यमानत्वात् | यथोक्तमाचार्याभिनवगुप्तपादैः - स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः पराशक्तिश्चेयं करणसरणिप्रान्तमुदिता | तदाभोगैकात्मा स्फुरति च समस्तं जगदिदं न जाने कुत्रायं ध्वनिरनुपतेत् संसृतिरिति || इति | यथा चाद्वयोल्लासे - भ्रमः संसारो यत् कथमिव भवेन्मुक्तिरमुत- स्त्वितीयं या वाञ्छा बत जडधियां सा प्रसरति | त्वदन्यन्नास्तीति प्रभवदविकल्पाद्वयमतेः स्थिरीकारो मोक्षो द्वितयघटना संसृतिरतः || इति | यथा च संवित्प्रकाशे - तस्माद् विकल्पः संशुद्धाद् विज्ञानान्नातिरिच्यते | तेनैव निर्विकल्पोऽयं विकल्पः स्वात्मनि स्थितः || इति | सर्वो विकल्पः संसार इत्युक्तेरयमाशयः | तदसत्त्वं सृतेः सत्त्वं शुद्धायाः संविदः स्थितम् || इति च | अत्राप्युक्त एव दृष्टान्तः | यथा - रज्ज्वादितत्त्वावबोधे भुजङ्गादिभ्रान्त्यभावान्मूर्च्छाद्यननुभव इति | अयमर्थः - सर्वस्यापि जनस्य बाह्यव्यवहारव्यतिरेकेण स्वहृदयोन्मुखः कश्चिदहमित्युद्योगः परिस्फुरति | स च जानामीति संविद्विशेषवपुरेवोपपद्यत इति ज्ञानशक्तेरनपह्नवः | जानामीत्यत्र विमर्शाकारसंरम्भरूपा काचित् क्रियाप्यर्थाक्षिप्ता | एतद्द्वितयानुप्राणनावस्थायामिच्छाशक्तिव्यपदेश इत्यव्याकुलोऽयमिच्छाज्ञानक्रियासामरस्यात्मा स्वभावः, यो हृदयमिति व्यवह्रियते | तस्य च वस्तुनः पर्यालोचनायां वितर्क आत्मज्ञानम् इति श्रीशिवसूत्रस्थित्या स एवाहं परमशिवभट्टारकः शक्तित्रितयवत्त्वादिति विमर्शलक्षणा शक्तिराविर्भवति | यदुद्देशेन शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यते इति श्रीप्रत्यभिज्ञोक्तिः | यथोक्तमीश्वरसिद्धौ - स्वात्मैवायं स्फुरति सकलप्राणिनामीश्वरोऽन्तः कर्ता ज्ञातापि च यदि परं प्रत्यभिज्ञास्य साध्या | इति | यथ चोक्तं श्रीविज्ञानभैरवे - सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् || इति | श्रीशिवदृष्टौ च - अथ स्थिते सर्वदिक्के शिवतत्त्वेऽधुनोच्यते | तस्मिन् ज्ञातेऽथवाऽज्ञाते शिवत्वमनिवारितम् || बह्निर्ज्ञातोऽथवाऽज्ञातः प्रकाशं जनयेन्न किम् | अज्ञातं न सुवर्णं किं तदा किमुपलं भवेत् || इत्याक्षिप्य, सत्यमेव तथापीह सुवर्णं ज्ञातमात्रकम् | मूल्यादिनोपभोगाय दानार्थमुपयुज्यते || चिन्तामणिरविज्ञातो भवेच्चिन्तामणिः स्फुटम् | तथापि कार्यभोगार्थमज्ञातः केन धार्यते || इत्यादिनोपपादितम् | एतच्च पुरस्तादप्युद्घाटयिष्यते | एवं च स्वात्मनः परमेश्वरतया परामर्शात् परमेश्वरस्य च धर्मिग्राहकप्रमाणप्राबल्याद् विश्वशरीरतयाऽङ्गीकारात् संसारचाकित्यादेश्च स्वर्गनरकादिवैचित्र्यवद् विश्वान्तर्भावेनोपलभ्यमानत्वात् शरीरिणश्च शरीरं प्रत्यहम्भावभावनोत्कर्षादभेदानुभवैकभाजनत्वात् परमेश्वर! तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम् | न परं गतभीतस्त्वदङ्गसङ्गादुपजाताधिकसंमदोऽपि यावत् || इति श्रीमत्स्तोत्रावलिस्थित्या महेश्वराद्वैतसंविदाह्लादामृतमहाह्रदावगाहचमत्कारचर्बण चातुर्यमेव पर्यवस्यति | न पुनर्बन्धमोक्षादिविकल्पविक्षोभा तङ्ककलङ्कशङ्काप्यत्र संपद्यते | यच्छ्रुतिः - तरतिशोकमात्मवित् इति | यथा च श्रीमदनुभवस्तोत्रे - त्वं पृथग्विगतबाह्यसंभ्रमस्तिष्ठसीश्वर! यदात्मचित्यलम् | लूनमूलकलनैः कुतस्तदा गम्यतामतनुमायिता गुणैः || इति | एवं स्थितेऽपि - यथा नृपः सार्वभौमः प्रभावामोदबृंहितः | क्रीडन् करोति पादातधर्मास्तद्धर्मधर्मतः || तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा | इति श्रीशिवदृष्टिदृष्ट्या स्वात्मस्वातन्त्र्योल्लासात् स्वहृदयपरामर्श - शुन्यत्वं च केषाञ्चित् संभवति, येन संसारादिविभागव्यवहारः | यथा श्रुतिः - अदेवाद् देवः प्र च ता गुहा यन् इत्यादि | अत्र च श्रीचिद्गगनचन्द्रिका - हृद्गुहामभिलषन्नहन्तया दृक्क्रियावपुरदृक्क्रियात् पदात् | सन्तमेमि समभावदं शिवं सख्यहानिरमुना हि सूतये || इति | यथा च समाधिपञ्चदश्याम् - यदेतस्यापरिज्ञानं तत् स्वातन्त्र्योपकल्पितम् | स एव खलु संसारो जडानां यस्तु भीषणः || इति | श्रीसर्ववीरभट्टाअरकेऽपि - अज्ञानाच्छङ्कते लोकस्ततः सृष्टिश्च संहृतिः | मन्त्राः शिवात्मकाः सर्वे सर्वे वर्णाः शिवात्मकाः || इति | मोक्षोपाये च - स्वापरामर्शमात्रोऽयमपराधः कियानसौ | तावन्मात्रेण तज्जातं यद् वक्तुं नैव पार्यते || इति | उक्तरूपार्थपरिज्ञानमेव मोक्षः, तद्विपर्ययश्च बन्ध इत्यलमतिप्रपञ्चेन || ८ || नन्वात्मनो विमर्शमयः कश्चिद् विशेषः संसाराद्यशेषक्लेशोपशमनसामर्थ्यशालितयोन्मीलितः | स च तस्यास्फुटस्वभावस्य स्फुटीकारात्मेत्यवधार्यते | न च तत्रास्फुटत्वशङ्काऽप्यवतरितुमर्हति, अत्यन्तस्फुटतयोपपादितत्वात् | ततः प्रमाणप्रमेयव्यवहारविकल्पस्यानुपयोगोऽत्र वितत्य व्याख्यात इत्याशङ्क्याह - माणिक्यप्रवेक इव निचोलितो निजमयूखलेखया | प्रतिभाति लौकिकानामत्यन्तस्फुटोऽप्यस्फुट आत्मा || ९ || आत्मरूपो हि परमेश्वरः प्रकाशोत्कर्षवत्त्वादशेषभुवनव्यापनक्षमत्वाच्च विश्वविकल्पकल्पनामयीमर्चिःप्ररोहपरम्परामुपर्युपर्युन्मीलयन्, तत् सृष्ट्वा तदेवानुप्राविशत् इत्युपनिषत्प्रक्रियया तथैव निचोलितः कञ्चुकितप्रायो नित्यमास्ते | तत्र लौकिकानां प्रमेयतयालोक्यमाने विश्वस्मिन् व्यवहर्तॄणां प्रमातॄणाम् - अत्यन्तस्वच्छता सा यत् स्वाकृत्यनवभासनम् | इति श्रीतन्त्रालोकस्थित्या प्राकट्योद्रेककक्ष्यारूढतया विम्रष्टव्योऽप्यसौ मध्याह्नमार्ताण्डमण्डलन्यायेन तत्तद्रश्मिपरम्परास्फुरणप्राचुर्येण रश्मिमद्ग्रहणासामर्थ्यादप्राकट्यावस्थामधितिष्ठति | यथा त्रासादिराहित्यादत्यन्तश्लाघ्यो माणिक्योपलखण्डः स्फुरदुरुमरीचिमञ्जरीपिञ्जरितपर्यन्ततयैव माणिक्यमेतदुत्कृष्टमिति नाध्यवसितुं शक्यते, तद्वदात्मनोऽपि स्वशक्तिप्रसरतिरोहितत्वादेवास्फुटत्वशङ्का | एवमुभयस्वभावतायामेवास्य विश्वव्यवहारौचित्यम् | तदुक्तं मयैव संविदुल्लासे - अर्चिःप्ररोहे महतः प्रमातुर्नातिस्फुटत्वे च बहिः प्रथा मे | अपेक्षते प्रेक्षितुमात्मदर्शं सूर्योदयं तद्व्यवधिं च लोकः || इति | इयं च लौकिकानेव मातॄन् प्रत्युपपद्यते | तदुक्तं श्रीप्रत्यभिज्ञायाम् - किन्तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते | शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदिश्यते || (इति), तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा | लोकस्यैष तथानवेक्षितगुणः स्वात्मापि सन्नीश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता || इति च | अलौकिकानन्तर्मुखान् प्रति तु - न ध्यायतो न जपतः स्यादस्याऽविधिपूर्वकम् | एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् || इति श्रीमत्स्तोत्रावल्युक्तिरेव युक्तिपथमनुवर्तत इति || ९ || नन्वात्मनः स्फुटत्वमस्फुटत्वं चेत्यन्योन्यविरुद्धमेतद्धर्मद्वयं कथं नाम संगच्छत इत्याशङ्क्य तस्य तादृशं किञ्चित् स्वातन्त्र्यमस्ति, यद् विमर्श इत्याख्यायते, यद्वत्तया चास्य परामर्शः पुरुषार्थतया सर्वथा साध्य इत्युपपादयति - ऊर्ध्वो ज्वलति प्रकाशो लोकालोकस्य मङ्गलप्रदीपः | विमर्शदशामुखानीतदह्यमानमलालितैलविच्छर्दः || योऽयमहं जानामि मम स्फुरतीत्याद्यशेषव्यवहारानु- स्यूतः प्रकाशरूपोऽर्थः, स खलु लोक्यमानस्य भावराशेरलोक्यमानस्य खपुष्पाद्यविशेषमभावजातस्य च प्रदीपवत् प्रकाशकतयाऽनुभूयते | तथा लोको मुख्यया वृत्त्या प्रकाशस्वभावत्वात् प्रमाता, अलोकश्च तदधीनप्रकाशत्वात् प्रमेयम्, ग्राह्यग्रहकोभयकोट्युपश्लेषाल्लोकालोकः प्रमाणमिति प्रमात्रादित्रिकपरमार्थस्य विश्वस्य प्रकाशको भवति | तादृक्प्रकाशाभावे विश्वस्यान्धतमसत्वापत्तिरिति प्रागप्यवोचाम | अत एव ह्यसौ मङ्गलतयोपन्यस्तः | इदमेव हि तदतिमहन्मङ्गलम्, यत् स्तम्भकुम्भादीनामन्योन्यस्वभावापहारशङ्कां निस्स्वभावत्वसंभावनां च व्यपोह्य तेषां तथाभावेनावस्थापनम् | स च ऊर्ध्वः स्वयंप्रकाशतया प्रकाश्यवर्गोत्तिर्णो भवन् ज्वलति सर्वसंप्रतिपत्त्या परिस्फुरति | तस्य च विमर्शाख्योऽतिशयः कश्चित् स्वभावतया स्वीकर्तव्यः | अन्यथा दर्पणादिप्रकाशवदस्य जाड्यकक्ष्यानुप्रवेशप्रसङ्गात् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः इति | स च कार्यवर्गवैलक्षण्येन प्रकाशस्य कर्तृत्वाख्यो धर्म इत्यनन्तरमुपपादयिष्यते | अत्र खल्वतिविस्तीर्णे लोकयात्राविजृम्भिते | व्यवह्रियन्ते बहवो भावा भूभूधरादयः || व्यवहारविधिस्तेषामसंकीर्णश्च लक्ष्यते | तत्र किं तन्निमित्तं स्यादित्यालोचयतां सताम् || संवित्तिव्यतिरेकेण नैवान्यदुपलभ्यते | तस्या व्यपोहशङ्कायां भूः स्वात्मनि न भूर्भवेत् || नाप्यभूर्भूधरादस्याः पृथक्त्वं च कथं भवेत् | मिथो रूपापहारे च फूत्कर्तुं कस्य कौशलम् | एवं वेद्यस्य पृथ्व्यादेरसंकीर्णे प्रकाशने | सामान्यतो विशेषाच्च संविदेव प्रगल्भते || सापि वेद्यवदन्येन प्रकाश्या चेत् प्रवर्तते | प्रकाशस्तन्मयो न स्याज्जाड्ययोगाविशेषतः || संविदोऽन्यप्रकाश्यत्वे संवित्त्वं लुप्यते न वा | न चेद् व्यर्थं तदन्यत् स्याद् येन सेयं प्रकाश्यते || लुप्यते चेत् किमाकारा सा तेनास्तु प्रकाशिता | तस्यान्यस्य प्रकाशश्च कुत इत्यवलोकने || अन्यदन्यदिति व्यक्तमनवस्थितिरापतेत् | अतोऽस्याः स्वप्रकाशत्वं स्वभावादेव सिध्यति || प्रकाशश्चोक्तया भङ्ग्या स्वप्रकाशो भवन्नपि | भावमात्रस्वभात्वे न जाड्यं वेद्यवत् त्यजेत् || स्वप्रकाशोऽप्यसौ काञ्चित् कर्तृतामश्नुते न चेत् | अन्यथा त्वर्थवन्नास्य स्वभावः स्यात् प्रकाशनम् || ततश्च कर्तृता तस्य स्वात्मविश्रान्तिलक्षणा | अनिच्छतापि स्वीकार्या यामहन्तां विदुर्बुधाः || पार्यन्तिकी प्रतिष्ठाभूर्वेद्यवर्गस्य यो विभुः | तस्य स्वयंप्रतिष्ठत्वमहम्भावः प्रकीर्त्यते || विमर्शश्चायमेव स्यान्मुख्यमैश्वर्यमीशितुः | अतः स्वतन्त्रो भगवान् सर्वंसह इति स्थितम् || तस्य च विमर्शस्य या दशा स्फुरणावस्था, तस्या मुखेन औन्मुख्ययोगेन मलानामाणवकार्मणमायीयानामालिः पारम्पर्यात्मा सञ्चयः प्रकाशेन कर्तृभूतेन दह्यते, स्वात्मानुप्रवेसितया स्वीक्रियते | तत्र भिन्नवेद्यप्रथा माया | तदायत्तं मलं मायीयम् | कर्मणा पुण्यपापवासनात्मना सम्भूतं कार्मणम् | अणुर्नाम पूर्णाहम्भावपरामर्शशून्यत्वात् सङ्कुचितम्मन्यो जीवः | तद्भाव एवाणवम् | तच्चानात्मन्यात्मज्ञानमात्मन्यनात्म- ज्ञानं च | एतदाशयेनैव हि श्रीशिवसूत्रेष्वकारप्रश्लेषा- प्रश्लेषाभ्यां चैतन्यमात्माज्ञानं बन्ध इत्युक्तम् | यदुक्तं श्रीतन्त्रालोके - चैतन्यमात्मज्ञानं बन्ध इत्यत्र सूत्रयोः | संश्लेषेतरयोगाभ्यामयमर्थः प्रकाशितः || इति | परमेश्वरो हि ज्ञानक्रियारूपतया प्रकाशविमर्शस्स्वभावः | तस्य च ज्ञातृत्वे विम्रष्टृत्वे चैकतरस्मिन्नप्यपरामृश्यमाने मलमाणवं नामोत्पद्यत इति तात्पर्यार्थः | यथा श्रीप्रत्यभिज्ञायाम् - स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः || इति | सर्वोऽपि मलोल्लासः मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् | इति श्रीमालिनीविजयोत्तरस्थित्या स्वपरामर्शानान्मुख्यमात्रस्वभावः | स च - औष्ण्यं हुताश इव शीतलिमानमिन्दौ शययासु मार्दवमिवाश्मसु कर्कशत्वम् | बाह्येषु मोहमिव योगिषु च प्रबोधं स्वातन्त्र्यमस्ति हि नियन्त्र्ययितुं महन्मे || इति संविदुल्लासस्थित्या पारमेश्वरस्वातन्त्र्यमेवेति विवेकः | एतेन - एकोऽप्यनेकशक्तिर्दृक्क्रिययोश्छादको मलः पुंसाम् | तुषकम्बुकवद् ज्ञेयस्ताम्राश्रितकालिकावद् वा || इत्यादिना मलो नामात्मगतं किञ्चिद् द्रव्यमित्याचक्षाणाः प्रत्याख्याताः | तत्र चोक्तमलत्रयोपरक्ताः सकला मायातत्त्वान्तरालवर्तिनो देवादयश्च, आणवकार्मणमलद्वयानुबद्धाः प्रलयाकलाः | आणवे च तेषामात्मज्ञा - तृत्वविमर्शशून्यतानिबन्धनं मलमित्यनुसन्धेयम् | तेषु च केषुचिद् वेद्यभेदप्रथोपाधिको मायीयोऽपि मलः संभवति | अन्येषां त्वपवेद्यप्रथानुप्रविष्टानामसौ न विद्यत इति विशेषः | एकमला विज्ञानकलाः | तत्रापि तन्मलं स्वात्मनो विम्रष्टृत्वविमर्शशून्यत्वात् | विद्येश्वराणामपि मायीयमात्रानुबन्धादेकमलत्वमेव | मलक्षयोपलक्षिता मन्त्रादयः | तत्रापि तत्क्षयौन्मुख्यमात्रे मन्त्राः, तदुपक्रमे मन्त्रेश्वरा विद्येश्वराश्च, येषामीश्वरोऽभिमन्ता | क्षीयमाणमलत्वे मन्त्रमहेश्वराः, येषां च सदाशिवोऽधिष्ठाता | वासनामात्रोपरक्तमलतायामनाश्रितशिवतत्त्वम् | सर्वाकारानुत्पन्नमलोल्लासस्तु भगवान् परमशिवभट्टारक एवेति प्रमातृवैचित्र्यम् | आनीतेति | मलत्रयदाहस्य चायमुपायो यद्विमर्शमुखेनान्तःप्रापणम् | स्वात्मानुप्रविष्टानां च - यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत् | एवं चिता समालीढं चैत्यं चिन्मयतां व्रजेत् || इत्यादिनीत्या तद्वद्भावावश्यम्भावात् तेषां मलस्वभावत्वमेव विपर्यस्यतीति यावत् | यदुक्तं श्रीभगवद्गीतासु - ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन इति | यच्चोक्तं मयैव संविदुल्लासे - वेद्योपरागविभवेन विमोह्यमानं लोहान्तरव्यतिकरादिव व्यक्तकार्ष्ण्यम् | ज्वालावलीभिरभितप्य विमर्शवह्निः स्वच्छं हिरण्यमिव मे हृदयं विधत्ते || इति | मलशङ्कापरित्याग एव मलक्षयोपाय इति यावत् | तदुक्तं श्रीनिशाकुले - स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये | व्योम्नीव नीलं हि मलं मलशङ्कां ततस्त्यजेत् || इति | यथा किल चैत्रमैत्रादेर्जीवकदम्बकस्य स्तम्भकुम्भादेर्भावराशेश्च प्रकाशको गृहदेवताद्युपचारद्वारा मङ्गल्यः प्रदीपो वह्निविशेषत्वादग्नेरूर्ध्वज्वलनमिति न्यायादूर्ध्वो भवन् ज्वलति | यथा च तस्य वर्तिमुखेनानीय तैलप्रसरो दह्यत इति रूपकश्लेषौ | उपमाद्यलङ्कारेण वाक्यवैचित्र्यं तदर्थस्य हृदयङ्गमीकरणायेत्युक्तप्रायमेतत् || १० || अथ प्रक्रान्तं विमर्शस्वरूपमात्मनः स्वभावतया स्वयमेवोपपादयति - सन् हृदयप्रकाशो भवनस्य क्रियायां भवति कर्ता | सैव क्रिया विमर्शः स्वस्था क्षुभिता च विश्वविस्तारः || ११ || स्वहृदयस्य प्रकाशो हि सर्वस्यास्तीति वक्तव्यम्, असत्त्वे स्वव्याघातप्रसङ्गात् | यथोपनिषत् - असन्नेव स भवति असद् ब्रह्मेति वेद चेत् | अस्ति ब्रह्मेति चेद् वेद सन्तमेनं ततो विदुः || इति | तस्मात् स्वात्मरूपो हृदयप्रकाशः | सन्नित्यत्र संप्रतिपत्तिरेव | तत्र सन्नित्येतत् प्रकृतितः प्रत्ययतश्च पर्यालोचनीयम् | अस्तेर्धातोः शतरि खल्वेवमुत्पद्यते | तत्र चास्त्यंशस्यार्थो भावनाख्या क्रिया, प्रत्ययांशस्य तु कर्तेत्यङ्गीकार्यम् | ततश्च सन्नित्यस्य भवनलक्षणायाः क्रियायाः कर्तेत्यर्थो भवति | सैव भवनक्रिया कर्तृतामयी विमर्श इत्युच्यते | पुनः क्रियाशब्दोपन्यासेन भवनं सत्त्वम्, तच्च सामान्यरूपम् | ततो न तस्य क्रियात्वमिति वदन्तो निराक्रियन्ते | यतो भावः क्रियेति नीत्या धात्वर्थमात्रस्य क्रियात्वमभ्युपगन्तव्यमित्यावेद्यते | सा च क्रिया - अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् || तथाहि संविदेवेयमन्तर्बाह्योभयात्मना | स्वातन्त्र्याद् वर्तमानैव परामर्शस्वरूपिणी || इति श्रीस्पन्दतन्त्रालोकस्थित्या यदा स्वस्मिन् हृदयप्रकाशरूप एवात्मनि तिष्ठति, तदा विमर्शः शुद्धो विमर्श इत्येव व्यवह्रियते | यदा तु विकल्पोपश्लेषलक्षणं क्षोभमनुभवति, तदा विश्वविस्तारः प्रपञ्चस्फुरणवैचित्र्यात्मा विमर्श इति तत्राधिको विशेषणांशः कश्चिदुत्पद्यते | एवं च प्रकाशस्य विमर्शः स्वभाव इत्यङ्गीकार्यम् | एतद्व्यतिरेकश्च स्वभावभङ्गपर्यायत्वात् तस्याप्रकाशत्वमेव प्रयोजयति | ततश्चायं स्फटिकमुकुरादिवदल्पप्रकाशः स्तम्भकुम्भादिवदप्रकाशो वा स्यादित्युक्तं भवति | किञ्च, सन्नित्यत्र या सत्तोक्ता, सैव चित्त्वमुच्यते | सत्त्वचित्त्वयोश्च सामरस्यमानन्दः | यदुक्तं श्रीरसान्वये - या चित् सत्तैव सा प्रोक्ता सा सत्तैव चिदुच्यते | अत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दो विराजते || यत्रानन्दो भवेद् भावे तत्र चित्सत्तयोः स्थितिः | इति | आहत्य च सच्चिदानन्दस्वरूपः स्वहृदयात्मा परमेश्वर इत्यवगन्तव्यम् | यदाहुः - सच्चित्सुखमयः शम्भुस्त्रिरूपः सर्ववस्तुषु | इति | इत्थमन्तर्बहिर्भाववैचित्र्येऽपि प्रसर्पति | यौगपद्ममयीं स्वस्य विम्रष्टृत्वमयीं स्थितिम् || अनुशील्य जनः स्वच्छामैश्वरीं श्रियमश्नुते | एवमेतदुपेक्षायां पाशवेन विमुह्यति || यथा यथा विजृम्भेत स्वसंरम्भचमत्क्रिया | तथा तथा विकल्पानां विक्षोभः क्षयमश्नुते || कलयापि विमर्शस्य वीर्यवत्ता विपश्चितः | तन्व्यापि विषकाकिण्या दुर्लङ्घो हि भुजङ्गमः || इति || ११ || ननु विश्वव्यवहारो हि बहिर्ग्राह्यार्थतया वर्तमानः कथमात्मस्वभावो विमर्शः स्यादित्याशङ्क्याह - पृथ्वीपरमशिवयोः प्रत्याहारे प्रकाशपरमार्थे | योऽन्योन्यविशेषः स एव हृदयस्य विमर्शोन्मेषः || इह हि विश्वव्यवहारानुबन्धी सर्वोऽपि संबन्धः कार्यकारणमात्रपर्यवसायी | कारणं च पर्यन्ततः परमशिवात्मा कर्तेति स्वीकार्यम्, यतः संयोगसमवायौ तदनुबन्धिनोऽन्येऽपि सम्बन्धाः संयोजकाद्यवान्तरकर्तृसद्भावेऽपि पर्यन्ततः परमेश्वरेच्छानुविधायितया तस्यैव कर्तुः कार्यतयाऽनुभूयन्ते | अन्यथा द्वयोः पदार्थयोरन्योन्यप्राप्तिरूप एकः सम्बन्ध इत्युक्तौ कथमेकत्रोपक्षीणाशेषशरीरभारोऽयमन्यद्वस्तु स्प्रष्टुमपि प्रगल्भेत | अवैषम्येण च द्वयोर्वृत्तौ कथं सम्बन्ध एव द्विधाभावादसम्बन्धकल्पो न स्यात् | यत्र पुनः समवायादौ लौकिकस्य कर्तुरनुपलम्भः, तत्र परमेश्वर एव कर्तेत्यभ्युपेयम् | नित्योऽपि समवायः परमेश्वरकर्तृकतां नातिक्रामति | क्षणमात्रमगुणं तिष्ठतीति स्थित्या द्रव्याणां क्षणनिर्गुणत्वस्य तैरेवोक्तत्वात् तत्संयोजनवियोजनवैदग्ध्यं तस्यैवेति सिद्धम् | अपि च, अमी संयोगसमवायादयः स्वस्वोचितविषयव्यतिरेकेणान्यत्र न क्वचिदपि प्रवर्तन्त इत्यभ्युपेयम् | अन्यथाऽतिप्रसङ्गात् | तच्चौचित्यं किंवपुरिति पर्यालोचने द्रव्यगुणादिसंबन्धिस्वभावाद्यतिक्रान्त- मन्यदेव तत्त्वमित्यास्थेयम्, यदस्माभिः पारमेश्वरं स्वातन्त्र्यमित्याक्रन्द्येत इति सर्वस्यापि प्रपञ्चस्य तत्कार्यतायां न विप्रतिपत्तिः | सामान्यादीनां च लोकमर्यादया नित्यानामपि परमेश्वरापेक्षया कार्यत्वमेव, येनाकाशस्य नित्याभिमतस्यापि तस्माद् वा एतस्मादात्मन आकाशः संभूतः इति श्रुत्या कार्यत्वमासूत्र्यते | उपलक्षणं चैतत् | अतश्च विश्वलक्षणस्यास्य कार्यस्य परमेश्वरः कर्तेति भङ्ग्या कार्यकारणभावोऽयं कर्मकर्तृभावपरमार्थ इत्युक्तं भवति | कारणत्वं च पर्यालोच्यमानं जडस्य नोपपद्यते, मृद्दण्डचक्रादिसामग्रीसद्भावेऽपि कुलालाद्यौदासीन्ये कुम्भाद्यनुत्पत्तेः | बीजादङ्कुर उत्पद्यते इत्यादौ तु कर्तृविशेषानवलोकनेऽप्यङ्कुरस्य तावत् तादृक् सामर्थ्य न सम्भवति, तस्य तदा सत्त्वाभावात् | बीजस्य तत्सामर्थ्यमिति चेत् ? न | कथमङ्कुर उत्पद्यत इति सामर्थ्य वैयधिकरण्येन बीजस्येत्युच्यते | किञ्च, तद् बीजं सन्तं वा अङ्कुरमुत्पादयति, असन्तं वा ? सन्तं चेत्, कोऽयमत्रोत्पादनरूपोऽर्थः, प्रागेव तत्सत्त्वस्योक्तवात् | यद्यसन्तम्, कथं सत्त्वासत्त्वे तत्र न विरुध्येयाताम् | तदभ्युपगमे वा कथं नातिप्रसङ्गः | अतः कश्चिदजड एव कारणं कार्यवर्गस्य | तच्चाजाड्यमस्य कर्तृत्वमेव | यच्च क्वचित् कुलालादीनां कर्तृत्वम्, तत्रापि - तथा हि कुम्भकारोऽसावैश्वर्येव व्यवस्थया | तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् || इति श्रीप्रत्यभिज्ञाप्रक्रियया यत्स्वातन्त्र्यादमी मृदैव घटस्तन्तुभिरेव पट इति व्यवस्थामनुवर्तन्ते, न पुनर्व्यत्यासेन कर्तुं शक्नुवन्ति, तत्र स एव कर्तेति कुलालादीनां कुम्भाद्यपेक्षया किञ्चिदजाड्येऽपि परमेश्वरापेक्षया जाड्यमेवेति सुष्ठूक्तं कार्यकारणभाव एव सर्वे सम्बन्धाः, कारणं च कर्तैवेति | एवं च सति तत्र परमशिवादुपरि न कर्त्रन्तरस्फुरणम्, पृथिव्या उपरि न कार्यान्तरोत्पत्तिश्च | तयोर्यः प्रतिपदार्थमानुपूर्व्येण व्यवह्रियमाणो बुद्ध्याकृष्यमाणो मध्यवर्ती तत्त्वसंघातरूपोऽर्थः, तस्य प्रत्यक्षादिप्रमाणोपगृह्यमाणस्य पर्यन्ततः प्रकाश एवानुप्राणनतया स्वभाव इत्यन्वयव्यतिरेकाभ्यामवधार्यते, अन्यथा चक्षुरादिसामग्र्यामपि तेषामप्रकाशमानत्वापत्तेः | यदुक्तं नरेश्वरविवेके - न प्रथेताप्रथारूपं नाश्वेतं श्वेतते यथा इति | यथा च श्रीतन्त्रालोके - नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि च इति | ततश्चान्तःस्थः स्वात्मप्रकाश एव बहिः प्रकाश्यप्रपञ्चतया स्फुरतीत्येतत् तावदभ्युपगन्तव्यम् | ततश्च षट्त्रिंशतोऽपि तत्त्वानां प्रकाशस्वभावत्वाविशेषात् पृथिव्याप इत्यादिरन्योन्यविशेषतो व्यवहारो न संभवति | व्यवह्रियते च विशेषः प्रत्यक्षमेव लोकेन | अन्यथा जलस्थलविभागादेरर्थक्रियां प्रत्यनियमापत्तेः | स च विशेषः स्वहृदयगतया विमर्शसत्तयैवोत्पद्यते | उत्पत्तिश्च तादात्म्ये पर्यवस्यति | यद् यज्जातं तत् तदेव हीत्युक्तत्वात् | उन्मेषपदेनैतदाह - स्वात्मविमर्शद्रुमस्य पल्लवपुष्पादिप्रायमेतद् विश्ववैचित्र्यस्फुरणमिति | एतेन परापरप्रमात्रोः प्रकाशविमर्शानुप्राणनत्वं पर्यन्तत- स्तयोरैकात्म्यं च व्याख्यातम् | परमशिव इति | उक्तरूपं चास्य स्वातन्त्र्यं विश्वोत्तिर्णत्वमात्रे विश्राम्यति, न पुनर्विश्वमयविश्वोत्तिर्णत्वलक्षणे परमस्वातन्त्र्यसंपत्साम्राज्ये, तादृक्स्वभावस्य च प्रत्याहारानौचित्यात्, प्रत्युत तस्य प्रत्याहर्तृत्वमेव स्वभाव इति || १२ || अथैनं विमर्शमेव द्रढयितुं षट्त्रिंशत्तत्त्वानामन्योन्यतो विशेषं सृष्टिक्रमानुगुण्येनोपपादयन्नादौ शिवतत्त्वमालोचयति - तथा तथा दृश्यमानानां शक्तिसहस्राणामेकसंघट्टः | निजहृदयोद्यमरूपो भवति शिवो नाम परमस्वच्छन्दः || १३ || पृथिव्यादिः शक्तिपर्यन्तो योऽयं विश्वस्फुरणप्रकारः, यस्येच्छा ज्ञानं क्रियेति, ज्ञानं स्मृतिरपोहनमिति, सृष्टिः स्थितिः संहारोऽनाख्या भासेति, अन्यथा च तत्तत्स्रोतोन्तरेषु पूज्यमाना योगिन्यो योगिनश्चेति वेद्यविक्षोभोल्लासः, तन्मयीनां शक्तीनां तेन तेन प्रकारेण तत्र तत्रानुभूयमानानामेकैकव्यक्तिपर्या- लोचनेऽप्यानन्त्यम्, किमुत कार्त्स्न्यानुसन्धाने | तथा हि - इच्छा तावज्जिज्ञासाचिकीर्षादिभेदाद् बहुप्रकारा | ज्ञानं च स्मृत्यनुभवसंशयविपर्ययोत्प्रेक्षादिवैचित्र्यादनन्तप्रकारम् | क्रियापि गमनासनशयनभोजनभाषणादिभेदादनन्ता | तेषामपि प्रत्येकं भेदप्रभेदविकल्पविक्षोभ इत्यानन्त्योत्कर्षाशयेनोक्तम् - शक्तिसहस्राणामिति | तेषां च य एकः संघट्ट ऐक्यमनुभवन्नेव सृष्टिसंहाराद्यन्योन्यविरुद्धक्रियायौगपद्यभूमिर्भवति | यश्च उद्यमो भैरवः इति शिवसूत्रस्थित्या स्वहृदयोद्योगस्वभावतयाऽनुभूयते, यश्चोक्तप्रकारार्थद्वितयसामरस्यचमत्कारगोचरीभावयोगादन्य- तत्त्ववैलक्षण्येनात्यन्तोत्कृष्टमनन्यमुखप्रेक्षित्वलक्षणं स्वच्छन्दत्वं स्वातन्त्र्यमनुभवतीत्यवधार्यते | अन्यानि हि प्रकृतिपुरुषादीनि तत्त्वान्यधोऽधःपर्वप्रतियोगितया स्वातन्त्र्यमुत्तरोत्तरतत्त्वापेक्षया पारतन्त्र्यं व? प्रतिपद्यन्ते | परमस्वच्छन्द इति प्राग्वद् विश्वोत्तीर्ण एवोच्यते | अन्यस्तु विश्वोत्तीर्णविश्वमयः परमशिवभट्टारकः पश्चात् प्रकटयिष्यते | एवंविधः शिवो नाम भवति | अयं भावः - उन्मेषनिमेषात्मना तत्त्वान्तरदुर्लभेन स्वातन्त्र्येण चिदाह्लादलक्षणशक्तिद्वितयसामरस्यमात्रक्रोडी- कृतेच्छाज्ञानाद्युत्तरोत्तरशक्तिपरम्परापरिग्रहौन्मुख्यात् स्वशक्तिप्रचयो विश्वम् इति श्रिशिवसूत्रस्थित्या विश्वविक्षोभात्मकानन्तबाह्यशक्तिचक्रवैचित्र्यविजृम्भणाद्- भुतोद्भावनप्रगल्भस्वात्मचैतन्योद्यन्तृतापरिस्पन्दसारः प्रमातृविशेषः शिवभट्टारक इति | यदुक्तं श्रीशिवदृष्टौ - आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद् विभुः | अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः || इति | यथा श्रीविज्ञानेन्दुकौमुद्याम् - सर्वव्यापकताभूमिर्ज्ञत्वकर्तृत्वसम्मता | निजाभासचमत्कारमयी शिवदशा स्मृता || इति | भवतीति | सर्वमप्येतदुपपादितमैश्वर्यं स्वरूपसत्तायामेव पर्यवस्यति | सा च चित्त्वं न व्यभिचरतीति प्रागेवोक्तम् - या चित् सत्तैव सा प्रोक्ता सा सत्तैव चिदुच्यते | इत्युक्तत्वात् | या च सा स्फुरत्ता महासत्ता इति प्रत्यभिज्ञाप्यते, तस्याश्च नित्यप्रवर्तमानतया लट्प्रयोगः || १३ || अथ क्रमप्राप्तं शक्तितत्त्वं परामृशति - स एव विश्वमेषितुं ज्ञातुं कर्तु चोन्मुखो भवन् | शक्तिस्वभावः कथितो हृदयत्रिकोणमधुमांसलोल्लासः || १४ || स उक्तस्वभावः शिव एव शक्तिस्वभावः कथितः | तस्यैव किञ्चिदुच्छूनतावस्थायां शक्तिशब्दव्यपदेश इत्यर्थः | तस्य चायं स्वभावः - यत् स्वहृदयरूपेणेच्छाज्ञानक्रियात्मक- विश्वविकल्पपर्यायकोणत्रयसामरस्यलक्षणेन नित्यप्रवृत्तचर्वणोत्सवत्वादन्तर्मग्नसंविदानन्दस्पन्दसन्धुक्षण- क्षमेण मधुना मांसलमत्यन्तबृंहितं परिवाहक्रियार्हंमहातटाकाम्भःसम्हारकल्पं बहु स्यां प्रजायेय इत्याम्नायस्थित्या स्वयमेव स्वहृदयोद्यमवमनोप- क्रमात्मानमुल्लासमाह्लादातिशयमनुभवतीति | यदुक्तं श्रीमत्स्तोत्रावल्याम् - स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् | यत् स्वयं निजरसेन घूर्णसे तत् समुल्लसति भावमण्डलम् || इति | ततश्चायम् - गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् | आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते || इत्यादिश्रीशिवदृष्टिदृष्ट्या यदा स्वहृदयवर्तिनमुक्तरूपमर्थ- तत्त्वं बहिःकर्तुमुन्मुखो भवति, तदा शक्तिरिति व्यवह्रियते | औन्मुख्यं च तदिच्छया ज्ञानेन क्रियया च भवति | कथित इति आगमैर्बहुभिरेवंस्वभावत्वेनोद्घोषितः | यथा श्रीशिवदृष्टौ - इत्थं शिवो बोधमयः स एव परनिर्वृतिः | सैव चोन्मुखतां याति स्वेच्छाज्ञानक्रियात्मताम् || सैव शाक्तशरीरादिनारकान्तं हि भूतता | इत्यादि | यथा श्रीकुलमूलावतारे - अनादिनिधनाच्छान्ताच्छिवात् परमकारणात् | इच्छाशक्तिर्विनिष्क्रान्ता ततो ज्ञानं ततः क्रिया || इत्यारभ्य, तयोत्पन्नानि भूतानि भुवनानि चतुर्दश | वाङ्मयं चैव यत्किञ्चित् तत्सर्वं मातृकोद्भवम् || इत्यन्तम् | यथा च श्रीप्रत्यभिज्ञावृत्तौ - चिद्वपुषः स्वतन्त्रस्य विश्वात्मना स्थातुमिच्छैव जगत् प्रति कारणता कर्तृतारूपा इत्यादि | तथा श्रीतन्त्रालोके - अकुलस्यास्य देवस्य कुलप्रथनशालिनी | कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः || इति | यथा च श्रीमालिनीविजये - या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते || एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् | ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते || एवम्भूतमिदं वस्तु भवत्विति यदा पुनः | ज्ञात्वा तदैव तद् वस्तु कुर्वन्त्यत्र क्रियोच्यते || एवमेषा त्रिरूपापि पुनर्भेदैरनन्तताम् | अर्थोपाधिवशाद् याति चिन्तामणिरिवेश्वरी || इति | तथा च श्रीपरासुक्तेऽपि - कृत्येषु देवि! तव सृष्टिमुखेषु नित्यं स्वाभाविकेषु विसरत्सु यदुन्मुखत्वम् | इच्छेति तत् किल निरूपितमागमज्ञै- र्जानासि येन विदधासि च तं तमर्थम् || इति | पूजारहस्ये च - औन्मुख्यमिच्छा ज्ञानं च क्रियेत्येतच्चतुष्टयम् | स्पन्दनं देवदेवस्य बोधभैरवरूपिणः || औदासीन्यप्रहाणेन यदौन्मुख्यं महेशितुः | तदिदं स्याज्जगत् सर्वमित्यस्मिन् किन्नु युक्तिभिः || इति || १४ || अथ सदाशिवेश्वरौ पर्यालोचयति - ज्ञानं क्रियेति द्वयोरपि प्रथमोन्मेषे सदाशिवो देवः | द्वितीयाया उल्लेखे द्वितीयः स भवतीश्वरो नाम || १५ || ज्ञानं हि नामाहम्भावावभासनात्मा सर्वप्राणिनां स्वसंवेदनसिद्धः स्वभावः | क्रिया च करचरणाद्यनुबन्धिनी सर्वसाक्षात्कारयोग्या परिस्फुरति | तत्र जानामि करोमीत्यादिवज्जानासीत्यादावपि आदर्शावलोकनादिन्याया- दस्मच्छब्दार्थं एव युष्मदाद्यर्थतयाऽवभासते | तथा चैत्रोक्तावेव चैत्रः प्रणमतीत्यादिवदहम्भाव एव व्यवधानोपधानेन प्रथमपुरुषादितया प्रतीयत इत्यहन्तैव सर्वत्रात्मतत्त्वम् | यदुक्तम् - अस्तिशेषा क्रिया सर्वा कर्तृशेषं च कारकम् | एकशेषं च वचनं पुरुषश्चोत्तमावधिः || इति | अहन्तोल्लेखश्च ज्ञानशब्दार्थः | एवं करोषि करोतीत्यादावपि करोमीत्यस्यैव पारमार्थ्यात् क्रियापि ज्ञानवदहम्भावानुप्रविष्टेत्यवधार्यते | केवलमस्या इदम्भावप्राचुर्येणानुभूयमानतया भेदव्यवहारः | एवं च ज्ञानं क्रियेति यौ द्वौ भावौ, तयोर्मध्ये प्रथमस्य ज्ञानस्योद्रेके द्वितीयायाश्चार्थादस्फुटत्वरूपे न्यग्भावे सति सदाशिवाख्यं तत्त्वमित्याख्यायते, यदधिष्ठातृतया सदाशिव इत्येव नाम्ना कश्चिद् विष्णुरुद्रादिसाधारण्येनोपास्यते | स च देवो दृक्शक्तेरौल्बण्यात् क्रियायाश्चात्यन्तापकर्षाभावात् क्रीडाव्यवहाराद्यनेकार्थानुसन्धाने समर्थः | किञ्च, एतदुपक्रममेव तत्त्वस्वभावतया विश्वसिसृक्षालक्षणस्वात्मशक्त्यविभीन्नस्य परमेश्वरस्य द्योतनमित्यासूत्रयितुं देव इत्युक्तम् | यदुक्तमाचार्याभिनवगुप्तनाथपादैः - श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तकम् | यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् || इति | शिवशक्त्योस्तु तत्त्वव्यपदेशो नात्यन्तं मुख्यया वृत्त्या, किं तर्हि सदाशिवाद्युत्तरतत्त्वव्रातनिर्वाहकताकारविकल्पसंस्पर्शमात्रा- दौपचारिकः | उपचारेणाप्यनयोस्तत्त्वव्यपदेशसद्भावात् तत्त्वानां षट्त्रिंशत्त्वं प्रति न किञ्चिद्व्याहतत्वम् | या च तत्र द्वितीया क्रिया, तस्या उल्लेखे स्फुरणापरपर्याये प्राचुर्ये ज्ञानस्य चार्थतः स्तैमित्ये सति ईश्वरो नाम भवति | ईश्वराख्यं तत्त्वमित्याम्नायते | तदधिष्ठाता च कश्चिदीश्वर इत्येव प्रमाता | एतदुक्तं भवति - अहन्तेदन्तालक्षणयोर्ज्ञानक्रिययोराद्योद्रेकादनुन्मीलितचित्रन्यायेन व्यक्ताव्यक्तमयविश्वप्रमातृतास्वभावं सदाशिवाख्यं तत्त्वम्, एतद्विपर्यासेन क्रियाशक्त्यौज्ज्वल्ये व्यक्ताकारविश्वानुसन्धातृरूप- मीश्वरतत्त्वमिति | प्रथमोन्मेष इति | उन्मेषनिमेषौ नाम परमेश्वरस्य परमस्वातन्त्र्यलक्षणं स्पन्दतत्त्वम् | तत्र च यदाहन्तोन्मेषस्तदानीमिदन्ताया निमेषः, इदन्तोन्मेषे चाहन्ताया निमेष इत्यनेन ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः || इति श्रीप्रत्यभिज्ञानीत्या तत्तदागमान्तरप्रसिद्धमनयोर्नाम- धेयान्तरद्वितयमप्यासूत्र्यते | द्वितीय इत्यनेनेश्वरस्य सदाशिवतत्त्वाद् वैषम्येऽप्यव्यवधानं द्योतयता सर्वत्रापि तत्त्वव्राते तत्तद्वैलक्षण्यप्रबन्धोपन्यासेऽप्यहन्तानुस्यूतितार- तम्यक्रमोऽनुसन्धेय इत्युन्मील्यते | यदुक्तं श्रीप्रत्यभिज्ञायाम् - बहिर्भावपरत्वे तु परतः पारमेश्वरम् इति | अहन्तायाश्च शिवशक्तिद्वितयरूपत्वादत्रैव तदुद्भावनौचित्यम् | एतेन गाथायाः पूर्णोपादानं व्याख्यातम् || १५ || अथ शुद्धविद्यामुद्योतयति - ज्ञाता स आत्मा ज्ञेयस्वभावश्च लोकव्यवहारः | एकरसां संसृष्टि यत्र गतौ सा खलु निस्तुषा विद्या || १६ || ज्ञातृत्वधर्मापि विभिन्नाहम्भाव आत्मा परमेश्वरः, तस्यैव चिच्छक्तिक्रोडीकार्यात्मीयसद्भावो लोकव्यवहारः स्फुरस्तापरामर्शानुप्राणनस्य तस्य प्रपञ्चप्रसरस्य हानोपानादिभिरर्थक्रिया चेत्येतौ द्वावप्यन्योन्यं प्रतीतिसामरस्यलक्षणां संसृष्टि प्राप्ताविति योऽर्थः, सा निस्तुषा शुद्धा विद्या | सा च संसृष्टिरेकरसा | एकमभिन्नरूपमन्य- तत्त्वदुर्लभोक्तचमत्काराधारतया रस्यमानमधिकरणमस्या इति | ततश्च - सामानाधिकरण्यं च सद्विद्याहमिदंधियोः | इत्युक्तं भवति | यदुक्तमस्मद्गुरुभिः श्रीमातङ्गीस्तोत्रे - स्तनौ घनौ पूर्णसुधौ सुकान्ती तवेशि! नन्दामि परस्पराभौ | स्थितौ समानाधिकृतौ सुविद्ये ! समौ तवैवाहमिदम्प्रकाशौ || इति | माया प्रमातृवर्गे प्रमातारं प्रति अहमिति प्रमेयं प्रति त्विदमिति वैयधिकरण्यमनयोः संप्रतिपन्नम् | अत्र तु न तथेति सामानाधिकरण्यमेकरसशब्देनोच्यते | शुद्धिः पुनरस्या बहिष्ट्वेनावभासमानस्यापि वेद्यवर्गस्य यदहमित्येव प्रथनरूपं स्वाभाविकमौचित्योत्तरं च वपुः, तल्लौकिकैरिदमिति व्यवह्रियते | तद्व्युदासेन यथावस्त्ववभासनात्मकमुत्कृष्टत्वम् | यथा पर्यन्तपञ्चाशिकायाम् - शुद्धिर्बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् इति | श्रीतन्त्रालोके च - चिदात्मकेष्वप्येतेषु या बुद्धिर्व्यतिरेकिणी | सैवाशुद्धिः परा प्रोक्ता शुद्धिस्तद्धीविमर्दनम् || इति | अन्ये पुनः शुद्धिमित्थमस्या मन्यन्ते - यत् सदाशिवादिष्वहमिदमिति सामरस्यशालिनी संविदस्ति, तत्र सामानाधिकरण्यादैकरस्ययोगेऽपि मायीयस्येदन्तांशोल्लासस्यावर्जनीयत्वात् सदाशिवादीनां च मायावार्तानभिज्ञत्वात् सोऽयमिदन्तांशो मायीयतादोषव्युदासादहम्भावभागवदनया प्रतीयमानत्वेनावस्थाप्यते | तत्प्रतीतिव्यतिरेके तु तत्सामानाधिकरण्यमेव भज्येतेति | अयं भावः - भगवतः परमशिवभट्टारकस्य पशूनपि कांश्चित् प्रमातॄन् प्रति सदाशिवादिनिर्विशेषमनुजिघृक्षोत्कर्षादशुद्धविद्याकलङ्क- प्रक्षालनाविनाभूता स्वस्वभावप्रत्यभिज्ञापनात्मिका संवित्स्वातन्त्र्यशक्तिः शुद्धविद्या, यामवलम्ब्य विज्ञानकेवला रुद्रोऽग्निश्चेति प्रमातृवैचित्र्यमिति स इत्यनेनेदन्ताक्रान्तस्यार्थस्य कार्त्स्न्येन कोट्यन्तरत्वद्योतनार्थमहम्भावस्यावापोद्धार- बुद्ध्युपलब्धं कैवल्यमुन्मील्यते | सा खल्विति प्रसिद्ध्युत्कर्षोपपादनेनैतदुद्भाव्यते - यड्डाकिनीराकिन्यादयो धातुदेवताः, चर्याक्रियादयः पुरुषार्थोपायाः, शाम्भवशाक्तादयो दीक्षाविशेषाः, जाग्रत्स्वप्नावस्थाभेदाश्चास्या एव विभूतिपरिस्पन्दतया तथा तथा व्यवह्रियन्ते | यत्रेति विभक्तिप्रतिरूपको निपातः || १६ || अथ मायामुन्मीलयति - एकरसे स्वभावे उद्भावयन्ती विकल्पशिल्पानि | मायेति लोकपतेः परमस्वतन्त्रस्य मोहनी शक्तिः || १७ || परमेश्वरस्य ह्यसाधारणो भावो विश्वस्फुरत्तात्मक- महासत्तोल्लासरूपो युक्तिपर्यालोचनायामेकरसः स्वसंविदानन्दपरिस्पन्दसौन्दर्यमात्रसारतयास्ते, न पुनर्विकल्पशङ्कोल्लिङ्गनौचित्येन, भेदवादस्यापवदिष्यमाणत्वात् | एवं स्थितेऽपि तत्रैव चैत्रो मैत्रः स्तम्भः कुम्भ इत्यादयो ये विकल्पाः कटकमुकुटाद्याकल्पशिल्पवद् भेदावभासबाहुल्येऽपि चारुत्वचमत्कारकारितया हृदयङ्गमाः सन्तो वेद्यविलासास्तानुपर्युपर्युन्मीलयन्ति | तत एव मुक्तमपि बद्धबिभीषिकया बद्धमपि च मुक्त्यभिमानेन व्यत्यासयन्ती शक्तिर्मायेत्युच्यते | यतोऽयमीश्वरः परमस्वतन्त्रः | इयमेव हि तस्य स्वातन्त्र्योत्कर्षकाष्ठा, यत् स्वात्मावभासाद्वैतजीविते जगति भेदप्रभेदवैचित्र्योत्पादनप्रावीण्यम्, येनातिदुर्घटकारी परमेश्वर इत्याघोष्यते | अत एव चासौ लोकपतिः, देहाक्षभुवनादेः प्रपञ्चस्येश्वरः | मायाव्यतिरेके भेदप्रथापारमार्थ्यस्य प्रपञ्चस्याभावः | तदभावे च तत्प्रतियोगिकस्य परमेश्वरैश्वर्यस्यानुपपत्तिरिति न किञ्चिदप्युज्जृम्भेत | तदियं माया नाम तस्योत्कृष्टं स्वातन्त्र्यम् | यथोक्तमस्मद्गुरुभिः श्रीमनोनुशासनस्तोत्रे - स्वातन्त्र्यापरपर्यायमायाजाड्यविलापनात् | विलीय चिद्रसीभूतं विश्वानन्दमुपास्महे || इति | यथा च परमार्थसंग्रहे - परमं यत् स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् || इति | शचीमते च - स्वातन्त्र्यशक्तिर्मेऽसि त्वमतिदुर्घटकारिणी | मायेति कीर्त्यसे देवि! भर्तुर्मे वैश्वरूप्यदा || इति | श्रीमत्स्तोत्रावल्यामपि - न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र विनिर्मितम् | अथ च दुःखि च भेदि च सर्वथाऽप्यसमविस्मयधाम नमोऽस्तु ते || इति | श्रीतन्त्रालोकेऽपि - तस्य स्वतन्त्रभावोऽयं किं किं यत्र विचित्रयेत् इति | एनामेवावलम्ब्य प्रलयकेवला विष्णुः सूर्य इति प्रमातारः प्रथन्ते | यद्यपि - वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | इति श्रीत्रिंशिकाशास्त्रस्थित्या मायायाः कलाविद्याद्यन्तर्भावेनोन्मीलिनौचित्यम्, तथापि - कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् इत्युद्धृतस्य श्रीपराबीजप्रथमांशस्याभिव्यक्त्यर्थमेव पृथक्कृत्योच्यते | ननु कथं भेदवादापवादः, येन विश्वस्वभावस्यैकरस्यं स्यादिति चेत्, उच्यते | कोऽयं भेदो नाम | किमन्योन्याभावः, उत वैधर्म्यम्, आहोस्वित् स्वरूपमेव | नाद्यः, स खलु स्तम्भः कुम्भो न भवति कुम्भश्च न स्तम्भ इत्येतादृशेन वपुषा द्वयोरन्योन्यतारूपमुपाधिमपेक्ष्यैवोत्पद्यते | स च विचार्यमाणस्तयोरन्यत्वे वीप्स्यमान एवाविर्भवति | तच्चान्यत्वं पदार्थानां स्वभावो वा, भेदनिबन्धनः कश्चिदुपाधिर्वा | यद्याद्यः, तर्ह्येकत्वाक्रान्तानामपि भेदः प्रसज्येत | द्वितीयश्चेत्, तदन्यत्वं भेदे सत्येवोपपद्यते | भेदश्च नाद्यापि सिद्धस्वरूप इत्यात्माश्रयत्वमन्योन्याश्रयत्वं वा स्यात् | न द्वितीयः | वैधर्म्य नाम स्तम्भादीनां स्तम्भत्वकुम्भत्वादिरूपोऽर्थः | तत्र स्तम्भेष्वेव स्तम्भत्वं कुम्भत्वं च कुम्भेष्वेवेति यदि किञ्चिन्नैयत्यम्, तदुपपद्येत भेदः | नियामकं च न किञ्चिदालोक्यते | नन्वस्ति दारुमयत्वं पृथुबुध्नोदराकारत्वं च तद्व्यवस्थापकमिति चेत्, न | तदसाधारण्येनाप्रतीतेः | तादृशी च प्रतीतिः स्तम्भादीनां भेदे सत्येव सङ्गच्छेत | स च साध्यकोट्यारूढ इति पूर्ववदात्माश्रयत्वाद्यापातः | किञ्च, दारुमयत्वादीनामपि भेदस्तत्तद्वैधर्म्यात्मक इति परमाण्वन्तं पर्यालोचनायामामूलविपर्यासिन्यनवस्था स्यात् | नापि तृतीयः, स्वरूपं हि स्तम्भादेः स्वमनन्यस्वभावानुषक्तं रूपमिति वक्तव्यम्, अन्यथा भावानां स्वभावसाङ्कर्यप्रसङ्गात् | अन्यस्वभावानुपरागश्च स्तम्भादेः किन्निबन्धन इत्यन्वेषणे तत्रापि भेदसद्भावादित्येवोक्तिर्युक्तिमालम्बते | स चाद्यापि मनोरथायमानस्वभाव इति प्राचीन एव दोषानुषङ्गः | किञ्च, स्वरूपमेव भावानां भेदश्चेत्, इदं रजतमित्यादिभ्रान्त्युल्लेखो दत्ताञ्जलिः स्यात् | तत्र हि शुक्तिकायाः स्वरूपं व्यक्तमेवाध्यक्षीक्रियते, रजततयाऽध्यवसीयते च | अख्यातिवादपदवीप्रस्थानेऽपि भ्रान्त्यात्मिकायाः प्रतीतेरेवापलापो न पुनस्तदनुगुणस्य व्यवहारस्यापीत्यभ्युपगन्तव्यम् | अपि चायं भेदो भावेष्वेव भासमानस्तत्तद्भावेभ्यः स्वयं भिन्नो वा न वा ? न चेत्, अभेद एवेत्यापतति | भिन्नश्चेत्, सोऽपि भेदः कथमिति कथमिति निरूप्यमाण उपर्युपरि भेदपरम्परापरिग्रहप्राचुर्यादन- वस्थामेवोपस्थापयति | भेदश्चायं प्रकृत्या भिन्नस्य वा स्यात्, उताभिन्नस्यापि भावस्य | यदि भिन्नस्य, किमनेनागन्तुकेन भेदेन | कृतकारित्वं च महान् दोषः | अभिन्नस्य चेत्, व्यक्तं व्याघातः स्यात् | अन्यच्चेदमालोचनीयम् | स्तम्भात् कुम्भो भिन्न इत्यादिर्हि भेदव्यवहारः | तत्र भेदविषयनिर्देशार्थमनयोर्द्वयोरप्येक- हृदयक्रोडीकार्यतया भाव्यम् | तथाभावे च तयोः, इदमस्मादिह पृथगिति बहिरङ्गुल्यभिनयक्रियाकल्पः | अन्तर्गतस्वभावस्तात्त्विकमनयोरभेदमाचष्टे || इत्यादिस्थित्या वस्तुभेदस्वभावत्वादभेद एव प्रतितिष्ठति | प्रयोगश्चात्र - यत् प्रकाशते तदेकप्रकाशात्मकम्, प्रकाशमानत्वात् | अहम्प्रत्यवमर्शवदिति | अत्र चोपाधिविधूननाद्युपन्यासो ग्रन्थगौरवायेति वन्ध्योऽयं भेदवादास्वाददोहलप्रयासः | ननु स्तम्भः कुम्भ इत्यादिरन्योन्यमसङ्कीर्णो व्यवहारः कथमिति चेत्, भेदाभेदमर्यादयेति ब्रूमः | पारमेश्वरो हि प्रकाशः सर्वत्रापि प्रपञ्चे निर्विशेषमुन्मिषति, तस्यैव स्वातन्त्र्यात् | सागरतरङ्गभङ्ग्या स्तम्भः कुम्भ इत्यादिपृथग्व्यवहारोपपत्तिश्च | तर्ह्यशतोऽत्रापि भेदवाददूषणापत्तिरिति चेत्, न | शुद्धो हि भेदस्तादृशमपवादमनुभवति | अत्र त्वभेदोपश्लेषसौभाग्याल्लवणाकरावगाढसर्वलावण्यन्यायेन भेदोऽपि तद्वद् दूष्यतयैवावतिष्ठते | यदस्माभिर्विभागनिबन्धन एव भेदो विश्वस्याभ्युपागम्यते, न तु पृथक्त्वोपाधिकः, तयोर्द्वितीयेनैवाभेदस्य विरोधात् | ननु भेदानुषङ्गदौर्भाग्यादभेदस्यापि दूष्यत्वमिति विपर्ययः किं न स्यादिति चेत्, न | प्रकृतिर्हि विकृतिमनुगृह्णाति | तत्र चाभेदः प्रकृतिरन्यो विकृतिरित्यभ्युपगन्तव्यम् | यतो भिन्नानामपि पदार्थानां प्रातिस्विकेन रूपेणैक्यमपरिहार्यम् | तदेव चाभेद इति विश्वविलासस्यास्य वास्तवस्वभावोऽयमभेद एवेत्यत्र न काचिदनुपपत्तिः | यदत्रैव वस्तुनि एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन इत्यादयोऽनन्ता उपनिषद उन्मिषन्ति | ननु व्याहतोऽयमर्थो भेदश्चाभेदश्चेति चेत् ? हन्त प्रक्रान्तं प्रस्मृतमायुष्मता, एवमतिदुर्घटनकार्यघटनहेतोर्हि भगवतो माया नाम काचिदति महती शक्तिरस्तीत्यङ्गीक्रियते | एतेनाद्वैतमेव सर्वसारः सिद्धान्तः | तच्च पार्यन्तिकी प्रतिष्ठेति परावस्था | भेदाभेदस्तु व्यवहारसर्वस्वं निर्वहन् विश्वस्य विश्वोत्तिर्णस्य च सम्बन्धस्वभावो विजृम्भत इति परापरावस्था | भेदश्च विश्वोत्तिर्णपरमेश्वरप्रकाशपरामर्शप्रागल्भ्यपल्लवपरम्परा- प्रायता विश्ववैचित्र्यशिल्पकल्पनाचित्रमण्डपायमानविभ्रमः प्रसर्पतीत्यपरावस्था | यासु क्रमात् सुप्रबुद्धः प्रबुद्धोऽप्रबुद्ध इति योगितारतम्यम् | आसु च सर्वास्वपि पारमेश्वरप्रकाशानुस्यूतेर्न क्वचिदपि वैलक्षण्यमित्यतिविचक्षणैकशिक्षणीयोऽयमास्माकीनः पक्ष इति | तदुक्तं पर्यन्तपञ्चाशिकायाम् - अनन्तैतावदाकारस्वीकारेऽप्येकलक्षणाम् | तां स्वसंविदमाविश्य विकल्पान्न विकल्पयेत् || इति | एता एवोपासकजनापेक्षया तत्तद्देवतात्वेनाराध्यन्ते | यदुक्तं श्रीतन्त्रालोके - परा चन्द्रसमप्रख्या रक्ता देवी परापरा | अपरा सा परा काली भीषणा चण्डयोगिनी || इति | एवं मायास्वरूपपरामर्श एव जीवन्मुक्तिरित्युपनिषत् || १७ || अथ मायाविभूत्यात्मकं कलादिपञ्चकमर्थद्वारा परीक्षते- सर्वकरः सर्वज्ञः पूर्णो नित्योऽसंकुचंश्च | विपरीत इव महेशो याभिस्ता भवन्ति पञ्च शक्तयः || १८ || परमेश्वरो हि प्रकृत्या विश्वस्य कर्ता, ज्ञाता च, तत एव स्वातन्त्र्यात् पूर्णः स्वात्मतृप्तश्च, प्रार्थनीयाभावात् | स्वव्यतिरिक्तस्य स्वावच्छेदकस्य कस्यचिद् भावस्यासंभवान्नित्यः प्राक्प्रध्वंसाभावातिलङ्घी | तत एव संकोचलक्षणनियन्त्रणाशून्यश्च | तादृशोऽपि सन्नसौ याभिः शक्तिभिर्निबन्धनीभूताभिर्विपरीत इव किञ्चित्कर्तृत्वादिधर्मयुक्त इवावभासते ताः पञ्च शक्तयो भवन्ति | तदुक्तं श्रीक्रमोदये - रागो माया कलाऽविद्या नियतिः काल एव च | पञ्चवृत्त्याश्रयाः सर्वे पाशाश्चेति प्रकीर्तिताः || इति | ताश्च कला अविद्या रागः कालो नियतिरित्युच्यन्ते | कला तस्य किञ्चित्कर्तृत्वहेतुः | अविद्या किञ्चिज्ज्ञत्वकारणम् | रागो विषयेष्वभिषङ्गः | कालो भावानामवभासनानवभासनात्मा क्रमः | नियतिर्ममेदं न ममेदमित्यादिनियमहेतुः | एतत्पञ्चकं चागमेषु स्वरूपावरकत्वात् कञ्चुकमित्युच्यते | एतदभावे हि पुरुषः परमेश्वरवदतिप्रकटबोधशक्तिः, पाषाणवदत्यन्तनिमग्नैश्वर्यो वा भवेत् | तत्र च रागो मायाऽविद्या कला काल इति क्रमेण पुरुषस्योर्ध्वाधःपर्वानुप्रवेशपरिहारात् त्रिशङ्कुवन्मध्यस्था- नावस्थानं प्रति पृथिव्यप्तेजोवायवाकाशरूपतया तासामुपयोगः | एतेन धारणात्वमेतासां व्याख्यातम् | यथा श्रीत्र्ंशिकाशास्त्रे - वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् इति || १८ || अथ पुरुषस्वभावमुद्भावयति - य एष विश्वनाटकशैलूषः शुद्धसंविच्छम्भुः | वर्णकपरिग्रहमयी तस्य दशा कापि पुरुषो भवति || १९ || परमेश्वरो हि अहमेव सर्वमिति वैश्वात्म्यप्रथानुभूतिस्फार- चमत्कारोत्तरतया शुद्धां सङ्कोचकलङ्कशङ्काशून्यां संविदं स्वस्वातन्त्र्यस्वभावविद्यामयीमनुभवन्ननेनैव हेतुना नर्तक आत्मा इति श्रीशिवसूत्रस्थित्या विश्वनाटकस्य शैलूषो नट इति व्यपदिश्यते | यदुक्तं श्रीनैश्वासे - त्वमेकांशेनान्तरात्मा नर्तकः कोशरक्षिता इति | विश्वं च पृथिव्यादिशिवान्ततत्त्वसन्दोहात्मकम् - जननशैशवयौवनवार्द्धकव्ययमयैरखिलैरपि सन्धिभिः | अभिनयन्नपि पौरुषनाटकं परिणतौ स शिवोऽस्मि महानटः || इत्यादिनीत्या सृष्टिस्थित्याद्यवस्थापञ्चकाविनाभूतत्वादारम्भय- वाद्यवस्थापञ्चकलक्षणस्य नाटकस्यानुकरोति | तदुक्तं श्रीभट्टनारायणेन - निसृष्टानेकसद्बीजगर्भं त्रैलोक्यनाटकम् | प्रस्ताव्य हर ! संहर्तु त्वत्तः कोऽन्यः कविः क्षमः || इति | स च शम्भुः शृङ्गारकरुणादिरसास्वादस्थानीयं शब्दस्पर्शाद्यनुभवात्मकं शं सुखं प्रेक्षकाणामिन्द्रियाणां भवत्यस्मादिति कृत्वा | तस्य च विश्वनाट्याभिनयोन्मुखस्य भूमिकावलम्बनलक्षणेनार्थेन प्रकृता यावस्था सा पुरुषो भवति | पुरुष इति व्यपदेशौचित्यमनुभवति | यदुक्तं श्रीसारशास्त्रे - स्वयं बध्नाति देवेशः स्वयं चैव विमुह्यति | स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् || इति | यदवस्थानुगुण्यादुच्छ्वासनिश्वासादिप्रवर्तकः प्राणः, हानोपादानाद्युपयोगी व्यानः, शरीरादिपोषणः समानः, धात्वाद्युन्नयन उदानः, विण्मूत्रादिविसर्जनोऽपान इति तत्तदुद्यमप्रकाराः प्रख्यायन्ते | यद्यपि असौ शक्तिपाताद्यभावात् कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तदपरिज्ञानात् तु कुम्भकारतेत्यर्थः इति पदसङ्गतिप्रक्रियया स्वहृदयेन परमेश्वरीभाव- परामर्शशून्यो भवति, तथापि तत्त्वदृष्ट्या तस्य परमेश्वरत्वमाम्नायोद्घोषितमवर्जनीयम् | तथाहि परमेश्वरस्य ह्ययमेवासाधारणस्वभावो यत् सर्वदा सृष्ट्यादिपञ्चकृत्यकारित्वम् | तच्चोत्तरत्र व्यक्तमालोचयिष्यते | एतदनङ्गीकाराद्धि मायावेदान्तादिनिर्णीतस्यात्मनः स्वस्फुरणामोदमान्द्यलक्षणमसत्कल्पत्वमापतितम् | पुरुषश्चायं किन्तु दुर्घटकारित्वात् स्वाच्छन्द्यान्निर्मलादसौ | स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः || इति श्रीतन्त्रालोकस्थित्या मायापथावतीर्णोऽपि परमेश्वरवत् सर्वदा पञ्चापि कृत्यानि करोति | यतोऽस्य न कस्याञ्चिदप्यवस्थायां संवित्संस्कारवन्ध्यत्वम् | सुषुप्त्यादावप्यौत्तरकालिकप्र- बोधानुसन्धानबलादन्तर्मग्नं किञ्चिल्लोकयात्राव्यवहार- विजृम्भणं सूक्ष्ममुपलक्षणीयम् | केवलमवस्थान्तरेषु संविदस्तारतम्यमेव भेदः | तदुक्तं श्रीस्पन्दे - जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपलब्धृतः || इति | तदुत्तरत्र जो ई जा अ रसिविण अ इत्यत्र स्पष्टीकरिष्यते | ततश्च संवित्स्वातन्त्र्यसारस्यास्य स्तम्भाद्यवलोकनावस्थायां यदा स्तम्भावलोकनौन्मुख्यम्, तदा तस्य सृष्टिः | कुम्भादिवैलक्षण्येनावलोक्यमानतया सृष्टिरनेनैवेति कृत्वा तत्रैव यदा द्वित्रक्षणमात्रमवस्थास्नुता, तदा तस्य स्थितिः | पदार्थानां तत्तद्रूपतया धार्यमाणत्वस्य स्थितितयोक्तत्वात् | यदा कुम्भादिभावान्तरानुप्रवेशौन्मुख्यम्, तदा स्तम्भस्य संहारः कुम्भस्य सृष्टिश्च | यदा पुनः स्तम्भपरित्यागस्य कुम्भानुप्रवेशस्य च मध्यस्थावस्था, तदा तुरीयसत्ता | वेद्योपरागशून्यतया शुद्धसंविन्मयत्वात् | यदुक्तं मयैव श्रीकोमलवल्लीस्तवे - ज्ञातमेकमवमुच्य चेतसो भावमन्यमवगाढुमिच्छतः | अन्तरालभुवमम्ब! लम्बिनीमामनन्ति तव तत्त्वमद्वयम् || इति | उक्तसर्वक्रमानुस्यूता तदुल्लङ्घनक्षमा च स्वात्मगता संविच्छक्तिर्भासयति | यद्वा स्तम्भाद्यनुसन्धाने तं प्रति यदा स्तम्भत्वावधारणम्, तदा तस्य दारुमयत्वादिकं न्यग्भवति | दारुमयत्वाद्यवधारणे च स्तम्भत्वस्य न्यक्कार इति एकतरसृष्टिरन्यतरसंहारश्चेति व्यक्तमुपलक्ष्यते | स्तम्भत्वदारुमयत्वादिमेलकपरामर्शे तु स्थितिः, प्रतीतिद्वयस्यापि न्यग्भावाभावात् | स्तम्भत्वाद्यशेषविकल्पो- पशान्तौ अनाख्या | स्वात्मस्फुरत्तायाः परामर्शे भासेति सृष्ट्यादिप्रकारो द्रष्टव्यः | तत्रैव च यदा स्तम्भं नियतदेशकालाकारतयाऽवलोकयति, तदा तदाभासांशेनास्य स्रष्टृता | अनैतद्देशकालाद्याभासांशेन तस्य संहर्तृता | स्तम्भादिसामान्यांशेन तु स्थापकता | अविकल्पावलोकने तुरीयानुभवितृत्वम्, प्रकाशैक्येन प्रकाशने पुनरनुगृहीतृता चेति सिद्धमस्य स्वहृदयङ्गमीभावं विनापि यौगपद्येन सृष्ट्यादिपञ्चकृत्यकारित्वलक्षणमैश्वर्यम् | अत एव हि संकुचितस्वभावोऽप्यसौ तत्त्ववृत्त्या विकसितत्वात् पुरुष इति व्यपदिश्यते | यच्छ्रुतिः - तेनेदं पूर्ण पुरुषेण सर्वम् इति | श्रीचिद्गगनचन्द्रिकायां च - पूरणात् पुरुषतामुपेयुषि इति | कृत्यपञ्चके च परमेश्वरस्य सृष्टिस्थितिसंहारेषु त्रिषु न क्वचिदपि वैषम्यम् | उपरितनयोः पुनर्यदा व्यामोह्यमानपशुजनापेक्षया समयभ्रंशापादनादिरूपमेतच्चित्तस्य व्याकुलीकरणम्, यदा च कारुण्योत्कर्षादेतद्दोषव्युदासेनास्य भूयः स्वरूपलाभप्रदायित्वम्, तदा तिरोधानमनुग्रहश्चेति तत्कृत्यद्वयं व्यपदिश्यते | यदा पुनः, यथा च विस्तृते वस्त्रे युगपद् भाति चित्रता | तथैव योगिनां धर्मसामस्त्येनैव भाति भूः || इति श्रीतन्त्रालोकस्थित्या पशुप्रमात्राद्यवच्छेदव्यपोहेन विश्वमेव कार्यतयाऽनुसन्धीयते, तदानाख्या भासेति तत्कृत्यद्वयव्यपदेश इत्यलमवान्तरेण | नटं प्रति च भूमिकात्वेन यो रामादिराभासते, स तु सम्यङ्मिथ्यासंशयसादृश्यादिवैलक्षण्येन संविदन्तरविषयतया सामाजिकैरनुभूयते | तटस्थैस्तु श्रोत्रियादिभिर्नटतयैवेति | य एष इति पुराणागमादिप्रसिद्धस्य परमेश्वरस्य स्वात्मत्वेनात्यासत्त्या विम्रष्टव्यतां द्योतयन् तादृग्विमर्शोन्मेषे परमेश्वरसकाशात् पुरुषं प्रति प्रथमानोऽयं भेदो वाततूललौल्यलीलामनुभवतीत्युद्भावयति | दशा कापीत्यनेन परमेश्वरतापन्नस्यापि पुरुषस्य स्वपरामर्शशून्यतया वेद्यवर्गानुप्रवेशाभिमन्तृत्वेन महान् खल्वस्य मोहोत्कर्ष इति शोचनीयता द्योत्यते | यदुक्तं श्रीत्रिंशिकाशास्त्रे - पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात् कादिषु वर्गेषु मकारान्तेषु सुव्रते || इति | यथा च व्याख्यातमाचार्याभिनवगुप्तपादैः - पुरुषस्य हि संवेद्यरूपस्यैव परिमितस्य वेद्यराशौ गणनम् इति | तस्य च - सम्पन्नोऽस्मि कृशोऽस्मि स्निह्यत्तारोऽस्मि मोदमानोऽस्मि | प्राणिमि शून्योऽस्मीति हि षट्सु पदेष्वस्मिता दृष्टा || इति श्रीविरूपाक्षपञ्चाशिकाप्रक्रियया देहप्राणाद्युपश्लेषवशाद् बहुत्वमप्युपपद्यते | यत एतदालम्बनेन ब्रह्मा चन्द्रः सकल इति प्रमातृभेदः परिस्फुरति | एतेन तस्य स्वर्गनरकाद्युपभोगौचित्यं व्याख्यातम् | यथा श्रीशिवदृष्टौ - क्रीडया दुःखवेद्यानि कर्मकारीणि तत्फलैः | सम्पत्स्यमानानि तथा नरकार्णवगह्वरे || निवासीनि शरीराणि गृह्णाति परमेश्वरः | इति | स च कदाचित् स्वात्मस्फुरत्तामेव व्यामोहवशाच्छरीरेन्द्रियादि- स्वस्पन्दतयाऽभिमन्यते | न चासौ वास्तवी दृष्टिः | यदुक्तं श्रीस्वच्छन्दे - सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत नाम्बरे | देहप्राणस्थितोऽप्यात्मा तद्वल्लीयेत तत्पदे || इति | वास्तवी तु दृष्टिरेतस्फुरत्तापि परमेश्वर एव पर्यवस्यतीति | यदुक्तमजडप्रमातृसिद्धौ - यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते | जीवे, निरुद्धा तत्रापि परमात्मनि सा स्थिता || इति | किञ्च - परमेष्ठिनमारभ्य कीटपर्यन्तमुल्लसन् | बहुधोपाधिमास्थाय स एकः सन् प्रकाशते || शरीराणां प्रभेदेऽपि न शरीरी विभिद्यते | आदर्शानां प्रभेदेऽपि पश्यन्निव मुखं पुमान् || एकमेव यथा तैलं स्थूलेऽपि तिलसञ्चये | तथा विश्वविलासेऽस्मिन्नेको लोकोत्तरः प्रभुः || प्रतिरन्ध्रं गवाक्षाणामन्तरिक्षे व्यवस्थिते | यथा न वस्तुतो भेदस्तद्वदात्मनि दृश्यताम् || एकमेव हि सामान्यं सत्ता गोत्वादि कल्प्यते | तद्वदेकोऽयमात्मेति वदन् कस्मान्न मृष्यते || एकेनैवात्मना सिद्धे लोकयात्राऽनुवर्तने | नानात्वकल्पनं तत्र गौरवाय न किं भवेत् || किञ्च भेदस्य न क्वापि विषयोऽस्तीति दर्शितम् | अतोऽप्यद्वैतपक्षेऽस्मिन्नानात्वं कथमात्मनः || औपाधिकेऽपि तद्भेदे द्वासुपर्णादिवेदवाक् | सुखदुःखादिभेदानां व्यवस्थाप्युपपद्यते || ऐक्येनैव निमित्तेन तत्तद्व्यक्त्यानुवर्तनात् | तस्य व्यापकता सिद्धा याऽन्यैरप्युपपाद्यते || ततश्च गजकीटादेस्तत्तद्देहप्रमाणतः | आत्मावस्थानमित्येतत् त्यज्यतामर्हतां मतम् || यत्तु तैरुच्यते तस्मिन्नशेषव्यापके सति | शरीरेष्विव चैतन्यं शिलास्वपि भवेदिति || तत्रोत्तरं शिलादावप्यस्ति चैतन्यवासना | नौल्बण्यमस्याः प्राणादिसाहाययानुदयादिति || ये पुनरेनं शरीरादिमेवाहुः, ते पुनरत्यन्तमूर्खाः | तथाहि - स च देहमयो न स्याच्चैतन्यैकप्रसारभूः | नो चेच्छवशरीरेऽपि चेष्टा दृश्येत पूर्ववत् || स्तम्भः कुम्भः सरिद् ग्रावा मृगः पक्षी पुमानिति | तारतम्ये निमित्तं किं भूतचैतन्यवादिनाम् || एवं नेन्द्रियरूपोऽयं सुषुप्त्यादौ शरीरिणाम् | सत्येवेन्द्रियसंसर्गे चैतन्याऽनुपलम्भनात् || देहेन्द्रियादेरात्मत्वे कर्तृत्वं पर्यवस्यति | प्रपञ्चस्यैव कर्तृत्वं कार्यमन्यत् किमिष्यते || अंशतो यदि कर्तृत्वं कार्यत्वं चेति कथ्यते | कोंऽशः कस्यास्तु कर्तेति व्यवस्था केन कल्प्यते || उक्तरूपविपर्यासशङ्का वा केन वार्यते | अतोऽस्मन्निश्चितस्यैव तत्त्वस्यात्मत्वमिष्यताम् || अथ यः शून्यमाहैनं सोऽपि पर्यनुयुज्यते | विश्वान्तर्भावतः किं वा शून्योऽयं स्वयमेव वा || स्वतः शून्यत्वपक्षोऽस्य स्वशास्त्रेऽपि न लिख्यते | वेद्यवर्गस्य शून्यत्वे व्यवहारो विलुप्यते || सर्वं व्यवहरत्येव शून्यतां साधयन्नपि | विश्वं सत्यं वदत्यन्यः शून्यं वदति कश्चन || यानासनादिवेलायामुभयोः सदृशी स्थितिः | व्यवहारैकरूप्यं चेद् वाग्वैषम्येण किं फलम् || न च सर्वं जगच्छून्यमित्यर्थं साधयन् सुधीः | लभते वादिनं क्वापि स्वमात्मानं कथामपि || इत्यलमतिप्रपञ्चोपन्यासप्राचुर्येण | प्रकृतमेवानुधाव्यते | इत्थं च सर्वस्यापि प्रपञ्चवैचित्र्यस्य तस्माच्छब्दार्थचिन्तासु न साऽवस्था न या शिवः इति श्रीस्पन्दप्रक्रियया पारमेश्वरप्रकाशमयत्वाभ्युपगमे कुतोऽस्य पुरुषमेनं प्रति पक्षपातप्रतिक्षेप इति तात्पर्यार्थः | यदुक्तं नरेश्वरविवेके - सर्वे वैते प्रमातारः प्रकाशत्वाच्छिवात्मकाः | सर्वज्ञाः सर्वकर्तारः सर्वतश्चाविभेदिनः || इति | एतदर्थद्योतनाय हि पुरुषोऽपि पुरुष इत्युच्यते | यदनयोः पुरे वसतीति पुरुषः पुरमोषति दहतीति पुरुष इति स्वभावभेदः | बुद्धिप्राणशरीराख्ये यदेतस्मिन् पुरत्रये | अहङ्काराद् वसत्यात्मा तेनायं पुरुषः स्मृतः || एतत् पुरत्रयं दग्धं येन स त्रिपुरान्तकः | स एव पुरुषः प्रोक्तः स्मरारिरपि स स्मृतः || इति श्रीहंसभेदस्थित्या यद्यप्यौचित्येनोन्मील्यते, तथापि पर्यन्ततस्तात्त्विकार्थचिन्तायां तयोरुक्तरूपमैकान्त्यमेव | तादृगवच्छेदे च तस्य स्वस्वातन्त्र्यरूपस्य मलत्रयस्योपलालनं हेतुरिति | ननु भेदप्रथाप्रकर्षेऽपि यद्यनयोस्तादात्म्यं तन्निबन्धनः पतिवत् पशोरैश्वर्योच्छ्रायश्चोपपाद्यते, तर्हि तेनैव तादाम्येन पशुवत् पतिरपि मायाव्यामोहकदर्थनग्रथितहृदय- वृत्तिरस्त्विति चेत् ? नैवम्, ऐन्द्रजालिकदृष्टान्तस्यात्र प्राप्तावसरत्वात् | स खलु स्वयमखिलमपि लोकं व्यामोहयन् न केनचिद् व्यामोह्यते | एतदर्थमेव हि परमेश्वरं प्रति शैलूषव्यपदेश इति || १९ || अथ प्रकृति प्रकटयति - ज्ञानक्रियामायानां गुणानां सत्त्वरजस्तमस्स्वभावानाम् | अविभागावस्थायां तत्त्वं प्रकृतिरिति शाम्भवी शक्तिः || २० || ज्ञानं नाम प्रकाशः | क्रिया विमर्शः | माया तु अहमिदमिति इदमहमिति किञ्चिद्भेदप्रथाप्ररोहेऽपि सदाशिवेश्वरावस्थावदहन्तापर्यवसायिनी शक्तिः | तासां परमेश्वरशक्तिभूतानामपि व्यामोह्यमानपशुजनापेक्षया गुणत्वम् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या | मायातृतीये ते एव पशोः सत्त्वं रजस्तमः || इति | ताश्च पशौ सत्त्वं रजस्तम इति भवन्ति | याभि सुखदुःखमोहात्मकोऽयं लोकव्यवहारः | तन्मयीनां च तासां या विभागशून्या तुलाधारणवदत्यन्तावैषम्यशालिन्यवस्था, तस्यां पर्यालोच्यमानायां प्रकृतिरिति तत्त्वं भवति | यस्यां शुभाशुभस्वभावानेकसहस्रगुणदोषोन्मेष- भूमिकायां शून्यबुद्धिप्राणशरीरविषयावच्छिन्नाः पञ्चाहन्ता निवृत्तिप्रतिष्ठाविद्याशान्तिशान्त्यातीताः कलाश्च विपश्चिद्भिर्विभूतितया विकल्प्यन्ते | सा च शाम्भव्येव शक्तिरित्यनेन साङ्ख्यादिसिद्धान्तोऽपहास्यते | ते खलु - मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त | षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः || इत्यादिना पुरुषादुपरि न किञ्चित् तत्त्वान्तरम्, पुरुषश्चोदासीनः प्रकृतिश्च तदधीना, सा च नित्या, न विकृतिः, षोडकस्तु नित्यं विकारात्मक एवेत्याचक्षते | नैवमस्मत्समयः | यतः पुरुषादुपरि बहूनि तत्त्वानि परमशिवपर्यन्तम् | पुरुषश्च सर्वदा सर्वज्ञः सर्वकर्ता च स्वात्माख्यातिवशात् संकुचित इव भासते | प्रकृतिश्च न केवलं पुरुषेणैव प्रेर्यते | तस्य परमेश्वरस्वातन्त्र्यव्यतिरेके तादृक्प्रेरकत्वसामर्थ्याभावात् | यदुक्तं श्रीस्पन्दे - नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते | अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् || इति | सा च नित्यं विकृता कदाचित्त्वविकृता | षोडशकोऽपि कदाचिदविकृतः, कदाचिच्च विकृतोऽपीति | अथ ये तमुदासीनमाहुर्नित्योदितोद्यमम् | त एवं प्रतिवक्तव्याः सर्वदा चेदनुद्यमः || तेन मृत्पिण्डकल्पेन जगतः किं प्रयोजनम् | किमित्यङ्गीकृतिस्तस्य किंप्रमाणोऽपि वा भवेत् || यदुच्येत तदेवैतदौदासीन्यं चिदात्मनः | प्रवर्तयति विश्वस्मिन् प्रकृति विकृतिस्पृशम् || अन्यथा प्रकृतेः किञ्चिन्न प्रागल्भ्यं प्रवर्तते | तदर्थं स्वीकृतिस्तस्य विश्वातिक्रान्ततेजसः || तेनैव च प्रमाणेन तस्य सिद्धिर्भवेदिति | अत्रोच्यते यथा सा चेदस्यौदासीन्यकल्पना || अनुदासीन एवेति तात्पर्यं पर्यवस्यति | वैलक्ष्ण्यात् प्रकृत्यादेः सूक्ष्ममुद्यममास्थितः || इत्यसौ निष्क्रियो न स्याद् यतः सूक्ष्मापि सा क्रिया | स्थवीयसीः क्रियाः सूते प्रकृतौ विकृतिष्वपि || जडा अपि स्वभावेन देहाक्षभुवनादयः | यत्प्रभावात् प्रवर्तन्ते स कथं निष्क्रियो भवेत् || अत्र च मदीयमेव सूक्तं यथा - अश्वेषु गच्छत्सु रथः प्रयातीत्युदेतु वादो रथमध्यवर्ती | सुखं निषण्णो विषयान्तरं च प्राप्तः पुमान् किन्नु चकार शम्भो || इति | अत्रैतदवधार्यमन्तर्विद्भिः | यदुत - शिवारम्भः प्रकृत्यन्तस्तत्त्वौघः प्रत्यपादि यः | तत्र विश्वोत्तरस्यास्य शिवस्य परमेष्ठिनः || सर्वक्रिया च सार्वज्ञ्यं सर्वदोदयता तथा | सर्वव्यापकता पूर्तिः प्रथन्ते पञ्चशक्तयः || अथ शक्तौ तदिच्छायामुन्मना समनेत्यपि | व्यापिनी नादबिन्दू च रश्मयः पञ्च जाग्रति || अनुग्रहतिरोधानसंहृतिस्थितिसृष्टयः | जगत्कृत्यानि पञ्चापि शक्तितत्त्वभुवः प्रथाः || सदाशिवे पुनस्तत्त्वे ईशानस्तत्पुमानिति | अघोरो वामदेवश्च सद्योजातश्च शक्तयः || तदूर्ध्वमीश्वरे तत्त्वे रूपातीतोत्तरं महत् | रूपातीतं च रूपं च पदं पिण्ड इति क्रमः || तुर्यातीतं च तुर्यं च सुषुप्तिस्वप्नजागराः | अवस्थाः पञ्च शुद्धाया विद्यायाः शक्तिविभ्रमः || सैवेयं शाम्भवीं शक्तिमाणवीं शोधनीमपि | बोधनीमपि ता दिक्षा प्रसूते स्फूर्तिशालिनी || निरुपायप्रकाशाख्यो ज्ञानं योगः क्रियेत्यपि | चर्येति च तदुत्थैव पुमर्थोपायकल्पना || तत एव महाशक्तिर्हाकिनी नाम जायते | डाकिनी राकिनी तद्वल्लाकिनी काकिनीत्यपि || साकिनीति च देहेऽस्मिन् यद्वैचित्र्यं विजृम्भते | अथ मायेति यत् तत्त्वमुच्यते तस्य शक्तयः || कलाविद्ये रागकालौ नियतिस्तत्र पञ्चमी | प्राणोऽपानः समानः स्यादुदानो व्यान इत्यपि | शरीरयात्रोपक्षीणः पुरुषे शक्तिसंग्रहः | प्रकृतौ तु गुणाः सत्त्वं रजश्च तम इत्यपि || विकृत्यविकृती तद्वदुच्यन्ते पञ्च रोचिषः | अथैतयोः पुम्प्रकृत्योः स्फुरणक्रियया भवेत् || वक्ष्यमाणमशेषेण विश्ववैचित्र्यकल्पनम् | तत्प्रकारोऽपि विधिवद् वितत्य प्रतिपाद्यते || पुम्प्रकृत्योः समुद्योगाद् धातुरात्मेति जायते | त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लाह्वयैरयम् || वातपित्तकफाख्यैश्च स्वांशोद्योतैर्विजृम्भते | अनयोरेव संघट्टाद् यो मनो दीरहङ्क्रिया || इत्यन्तःकरणोल्लासस्त्रैविध्येनानुभूयते | तत्र बुद्ध्युद्यमाद् धर्मो ज्ञानं वैराग्यमित्यपि || ऐश्वर्यं वरदत्वं चेत्युन्मीलति विचित्रता | क्रमादेतद्विपर्यासो मनसः शिल्पमिष्यते || मदीयत्वामदीयत्वकार्पण्यमदमत्सराः | अहङ्कारस्फुरत्ताः स्युः संसारस्फूर्तिहेतवः || तद्वत् तयोर्विभूत्यैव गुणाः सत्त्वं रजस्तमः | इति त्रयः प्रतीयन्ते विकृताविकृतोदयाः || तत्र सत्त्वस्य सौन्दर्यं सौभाग्यं साधुशीलता | सौमुख्यमथ सौजन्यमिति स्फुरणविभ्रमः || वशीकरणमाकर्षः शान्तिः पोषणपालने | इति कर्माणि रजसो गुणस्याहुः परिग्रहम् || अथ विद्वेषणं यत् स्याद् यच्चोच्चाटनमुच्यते | स्तम्भनं मोहनं चेति मारणं चेति याः क्रियाः || तदेतदखिलं तस्य तमसः क्षोभविह्रमः | गुणैरेभिरुपस्कारमहङ्कारो यदाश्नुते || सात्त्विकत्वादिभेदेन तदा त्रैविध्यमृच्छति | तत्र शब्दस्पर्शरूपरसगन्धा इति क्रमात् || सात्त्विकः स्वेन रूपेण प्रथते भोग्यवस्तुषु | राजसस्तु विजृम्भेत वचनादानधावनैः || विसर्गानन्दनाभ्यां च पञ्चभिः स्वस्वभाववान् | तामसोऽपि खवायवग्निपाथोभूमिस्वलक्षणैः || भूतैर्वपुष्मान् प्रथते विश्वोपादानहेतुभिः | किञ्च त्रैविध्यवत्यस्मिन्नहङ्काराह्वये पदे || विभूतिविभ्रमोत्कर्षात् त्रिधा विततिरिष्यते | पुण्येच्छा तत्त्वजिज्ञासा लोकोत्तिर्णार्थगृध्नुता || वस्तुष्वध्यवसायः श्रीर्धीः संकल्पविकल्पिनी | शान्तिदान्त्यादिमित्रस्य सात्विकस्य विजृम्भितम् || श्रोत्रत्वगक्षिरसनाघ्राणेन्द्रियमयीं दशाम् | राजसस्याहुरैश्वर्यं हर्षभीत्यादिदायिनः || वाणी पाणिरथो पादः पायूपस्थमिति क्रमात् | मोहालस्यादिसुहृदस्तामसस्य परिच्छदः || अथ या महती सिद्धिः प्रसूता प्रस्तुतद्वयात् | तस्याः पञ्चविधा स्फूर्जा साधकेष्वनुभूयते || यथेप्सितशरीराप्तिः प्रवेशोऽन्यस्य वर्ष्मणि | दूराध्वयानायानं च दूरश्रवणदर्शनम् || अदृश्यकरणं चेति तत्प्रकारः प्रतीयताम् | पुण्यक्रियेति काप्यस्ति विश्वोत्पत्त्यै स्थितिस्तयोः || वीर्यं गाम्भीर्यमैश्वर्यं भोक्तृत्वं दातृतेत्यपि | तस्याः प्रथनवैचित्र्यं यल्लभ्यं भाग्यशालिभिः || इत्थं तत्रैव चिन्नाडी ज्ञानसूत्रमिति स्मृता | चित्रपद्मशिवाख्याश्च शक्त्यात्माभिहिते अपि || नाडीः पञ्च प्रपञ्चेऽस्मिन् प्रसुवाना प्रवर्तते | एवं हाटककालाग्नी कूटस्थः कूर्म इत्यपि || अनन्तः शक्त्युपश्लिष्टः कपिलर्षिरिति क्रमात् | तद्विजृम्भैव बोद्धव्या सप्तपातालधारिणी || उक्तैतदखिलाअभोगस्वभावत्वेऽप्यनाविलः | निस्तरङ्ग इवाम्भोधिर्वहन् गाम्भीर्यसम्पदम् || चिदानन्देषणाज्ञानक्रियापञ्चकशक्तिमान् | भैरवः परमो नाथस्तत्त्वान्ते कथयिष्यते || प्रपञ्चवैचित्र्यभुवं प्रपञ्चयन् प्ररूढपञ्चार्थरहश्चमत्क्रियाम् | प्रकाशयामास महेश्वरः स्वयं परं परामर्शमयीमहंस्फुराम् || अहङ्क्रिया नित्यमहङ्क्रियायां पराक्रमो यस्य प्राक्रमे च | स एव वीरो ननु तस्य शास्त्रं विमर्शशाणोल्लिखिता स्वशक्तिः || इत्यलमतिरहस्योन्मीलनसाहसोल्लासेन || २० || अथाहङ्कारबुद्धिमनसां तत्त्वमर्थद्वारोपदर्शयति - कल्लोलायमानानि सदा हृदयाम्बुनिधौ त्रीणि करणानि | आकर्षन्तीदन्तां तत्राहन्तां चात्रार्पयन्ति || २१ || व्याख्यातरूपं स्वहृदयं हि वैतत्यसर्वतत्त्वास्पदत्वादिना धर्मेण नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे इति स्थित्या समुद्रतयाऽध्यवसीयते | तत्र कालविशेषावच्छेदव्युदासेन महातरङ्गवदाचरन्ति त्रीणि करणानि प्रमातृरूपस्य कर्तुः साधकतमानीन्द्रियाणि विद्यन्ते | तानि च यथा इदन्तानुप्राणितां विषयवैचित्र्यसम्पदं तत्र हृदयान्तरादाकर्षन्ति, हठादनुप्रवेशयन्ति, तद्वदहन्तासारां स्वहृदयचिच्छक्तिमप्यत्र वेद्यभूमावर्पयन्ति, अनैसर्गिकत्वेऽपि नैसर्गिकतयाऽनुभावयन्ति | तानि चाहङ्कारो बुद्धिर्मन इति च व्यवह्रियन्ते तत्र ममेदं न ममेदमित्यभिमानसाधनमहङ्कारः, अध्यवसायनिमित्तं बुद्धिः, सङ्कल्पविकल्पहेतुर्मन इति प्रत्येकं लक्षणम् | अयमर्थः - अहङ्कारादीन्यात्मनोऽन्तःकरणानि न केवलं बहिरवलोकितान् विषयानन्तरनुभावयन्ति, किं तर्हि स्वसंक्रान्तया प्रमातृचिच्छक्त्या तं बहिर्वर्तिनमखिलमपि वेद्यवर्गं विषयीभावयोग्यतानुप्रवेशनार्थं प्रकाशमानस्वभावतापादनात्मकपावनीकरणयुक्त्या जिघत्सितौषधाद्यभिमन्त्रणन्यायेनानुगृह्णन्तीति कल्लोलायमानानीति | एतानि हि हृदयमहाम्बुराशौ महातरङ्गाः | ज्ञानकर्मेन्द्रियाणि तु तरङ्गानुतरङ्गन्यायमनुवर्तन्त इत्यर्थः | एषां च विभूतिपरिस्पन्दप्राचुर्यमनन्तरमेवात्यन्तं वितत्य व्याख्यातम् || २१ || अथ ज्ञानेन्द्रियाण्युन्मुद्रयति - हृदयस्थितस्य विभोर्विषयालोको विशृङ्खलो भवति | ज्ञानेन्द्रियदीपेषु निजनिजगोलाग्रनित्यलग्नेषु || २२ || विभोः परमस्वातन्त्र्यशालिनः स्वशक्त्यवच्छिन्नाशेष- देशकालस्वभावस्य महाप्रकाशस्य तदुचितं किञ्चित् सर्वोत्कृष्टं स्थानमस्ति, यद्धृदयं नाम | यदुक्तं श्रीप्रत्यभिज्ञायाम् - सैषा सारतया चोक्ता हृदयं परमेष्ठिनः इति | तत्रावस्थितस्य चास्य बाह्यानां शब्दस्पर्शादीनां विषयाणां य आलोकः आ सामन्ताल्लोकनं साकल्यतः स्वान्तश्चर्वणचातुर्यम्, स विशृङ्खलो भवति बहिर्भावस्वभावनियन्त्रणातिक्रान्तो भवति | अत्र चैतदेव निबन्धनं यद् ज्ञानप्रधानानामिन्द्रियाणां प्रकाशकत्वप्रकर्षेण प्रदीपप्रायाणां ये निजनिजास्तत्तदसाधारणा गोलाः श्रवणशष्कुल्यादयः, तदग्रेषु बहिर्विषयौन्मुख्यानुगुणेषु प्रदेशेषु सार्वकालिकं लग्नं स्फुरत्तयाऽवस्थानमिति | तानि च श्रोत्रं त्वक् चक्षुर्जिह्वा घ्राणमिति पञ्चधा भिद्यन्ते | शब्दस्पर्शरूपरसगन्धानां ग्राह्याणां क्रमेण ग्रहणोपकरणत्वमेषां लक्षणम् || २२ || अथ कर्मेन्द्रियाण्युन्मीलयति - भवन्ति करणानि पञ्च खलु कर्मप्रधानानि लोकनाथस्य | स्पन्दते स्वैरं यैर्जनो जडाद् विलक्षणो भवन् || २३ || लोकस्य जडाजडविभागेनावलोक्यमानस्य विश्वस्य यो नाथः सृष्ट्यादिनिर्वाहकतया स्वामी तस्य कर्मप्रधानानि ज्ञानेन्द्रियाणां क्रियास्पर्शेऽपि ज्ञानप्राचुर्यवद् ज्ञानानुषङ्गेऽपि क्रियाशक्त्युल्बणानि पञ्चेन्द्रियाणि भवन्ति | खलु प्रसिद्धौ यैर्निमित्तभूतैः, जनो जननमरणाद्युपद्रुतोऽपि जीववर्गः, जडात् स्तम्भकुम्भादेः परिच्छिन्नप्रकाशादर्थाद् व्यतिरेकमश्नुवानः, स्पन्दते ईषच्चलति, तत्तदिन्द्रियप्राप्यादर्थादुपरि न किञ्चिच्चलति | तावच्चलति | स्वैरमिति | स्वस्यात्मीयस्योपकरणस्य प्रेरणं यथा भवति तथेत्यर्थः | तादृक् स्वातन्त्र्यमेव चास्याऽपरिच्छिन्नप्रकाशत्वम् | तानि च वाक्पाणिपादपायूपस्था इति विभिद्यन्ते | तल्लक्षणं च क्रमाद् वचनादानविहरणविसर्गानन्दात्मकक्रियासाधनत्वम् | अत्रैवं विवेकः - अन्तःकरणवर्गेऽस्मिन्नहङ्कारोऽभिमानभूः | सहकारितया गृह्णन्नन्यद्धीमनसोर्द्वयम् || प्रवर्तयति कर्तॄणां बहिर्ज्ञानं क्रियामपि | क्रमादेतद्द्वयाक्रान्त्या ज्ञानकर्मेन्द्रियप्रथा || तत्र ज्ञानप्रधानं सच्चक्षुराद्युपपादितम् | कायप्रवृत्त्यभावेऽपि विषयग्रहणक्षमम् || कर्मोत्तरेषु तेष्वेव विशेषः परिकीर्त्यते | क्रिया हि हानमादानमिति द्वेधाऽनुभूयते || बाह्याभ्यन्तरभावेन द्वैविध्यं तद्द्वयोरपि | बाह्यतायां तयोः पायुर्हानप्राधान्यभाग् भवेत् || आदानप्रवणः पाणिः पादस्तदुभयक्रियः | अन्तर्यदेतदखिलं प्राणो वितनुते मरुत् || तद् वागिन्द्रियमाख्यातं शब्दसृष्टिविचक्षणम् | यदेतदुक्तविक्षोभशान्त्या विश्रान्तिरात्मनः || तदुपस्थ इति ज्ञेयमानन्दोतारमिन्द्रियम् | संभूयवृत्तावप्येषां प्राधान्यं क्वापि कस्यचित् || इति || २३ || अथ शब्दादिविषयपञ्चकं विविनक्ति - विश्वोद्यानविरूढानि गन्धप्रमुखानि सुगन्धीनि पुष्पाणि | पञ्चाप्याजिघ्रन् क्रीडति त्रैलोक्यधूर्त्तो देवः || २४ || त्रैलोक्ये मानमेयमातृरूपे विश्वस्मिन्नपि यो धूर्तो वैदग्ध्यावधीरितान्यव्यवहारकलापः, स द्योतनस्वभावत्वान्महान् प्रमाता भवन् विश्वलक्षणादुद्यानादुत्पन्नानि पृथिव्याद्यसाधारणगुणगणं गन्धमादीकृत्य प्रवृत्तानि सुगन्धीनि प्रकाशपरिमलपरिस्फुरणोल्बणानि पञ्चापि प्रसूनान्याजिघ्रन् ग्रहणं प्रति किञ्चित्कौटिल्यसद्भावेऽप्यार्जवेनानुसन्दधानः क्रीडति हर्षानुसारेण स्पन्दते | स्वस्वातन्त्र्यमुपदर्शयतीति यावत् | ते च विषयाः शब्दस्पर्शरूपरसगन्धा इति भवन्ति | एषां च क्रमादाकाशादिगुणत्वं श्रोत्रादिग्राह्यत्वं वा प्रातिस्विकं लक्षणमूह्यम् | गन्धप्रमुखानीति संहारक्रमेणोक्तिस्तन्मात्रासु गन्धस्य प्राधान्यं प्रकटयितुम् | यदुक्तमभियुक्तैः - इन्द्रियद्वारसंग्राह्यैर्गन्धाद्यैरात्मदेवताः | स्वभावेन समाराध्या ज्ञातुः सोऽयं महामखः || इति | गन्धोऽपि निरूप्यमाणः पृथिवी | पृथिव्या उपरि न किञ्चिद् भूतान्तरमित्यत्रोत्कर्ष इति रहस्यम् || २४ || अथ भूतपञ्चकमुद्भावयति - स्त्यानस्य क्रमवशादिक्षुरसस्येव शिवप्रकाशस्य | गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति || २५ || शिवात्मा खलु प्रकाशः शक्तिसदाशिवादिपरिपाट्यनुसारेण प्रस्तुतभूतपञ्चकपर्यन्तं स्त्यानीभवति | वेदितृस्वभावन्यग्भावाधीनवेद्यतोत्कर्षात्मकं काठिन्यमनुभवति | यदुक्तं श्रीशिवदृष्टौ - ...................... इत्यादिषत्त्रिंशत्तत्त्वरूपताम् | बिभ्रद् बिभर्ति रूपाणि तावतो व्यवहारतः || यावत् स्थूलं जडाभासं संहतं पार्थिवं घनम् | इति | तादृशस्य चास्य मधुरतां सर्वप्रमातृस्वात्मस्वभावताऽनु- भाव्यपरमशिवप्रकाशोल्लासात्मकमहाह्लादोपलक्षणं सामरस्यं पञ्चापि भूतान्याकाशप्रभूतानि न परित्यजन्ति, किन्तु स्वान्तरखिलं गर्भीकृत्य प्रवर्तन्ते | केवलं शिवात् स्वच्छस्वभावात् स्त्यानताधिक्यमेतेषां भेदः | यद्वदिक्षुरसस्य स्वपाकयुक्तिक्रमात् स्त्यानीभूतस्य माधुर्य गुडपिण्डैर्न परित्यज्यते | यथा च परमार्थसारे - रसफाणितशर्करिकागुडखण्डाद्या यथेक्षुरस एव | तद्वदवस्थाभेदाः सर्वे परमात्मनः शम्भोः || इति | यथा च लक्ष्मीतन्त्रे - संविदेव हि रूपं मे स्वच्छस्वच्छन्दनिर्भरा || सापीक्षुरसवद् योगात् स्त्यानतां प्रतिपद्यते | अतो निरूप्यमाणं तच्चैत्यं चित्त्वमुपैष्यति || इति | ततश्च पृथिव्यामनाश्रितशिवप्रभृतीनि पञ्चत्रिंशदपि तत्त्वानि कारणवासनानुवृत्तिद्वारा परिस्फुरन्तीत्यनया भङ्ग्या तत्र शिवतत्त्वे पृथिव्यादीनि सर्वाण्यपि सत्कार्यवादमर्यादयाऽवतिष्ठन्ते | एवं प्रकृतिपुरुषादिषु मध्यवर्तिष्वप्युक्तोभयप्रक्रियया सर्वाण्यप्युपरितनान्यधस्तनानि च तत्त्वानि संमिलन्तीति सर्व सर्वात्मकमित्यर्थनिष्कर्षः स्यात् | तदुक्तं श्रीतन्त्रालोके - एकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता इति | सर्वथा पारमेश्वरप्रकाशस्फुरत्तात्मकमेतदखिलमपि विश्ववैचित्र्यमित्युक्तं भवति | यदुक्तं श्रीशिवदृष्टौ - एवं सर्वपदार्थानां समैव शिवता स्थिता | परापरादिभेदोऽत्र श्रद्दधानैरुदाहृतः || इति | भूतानि चाकाशः, वायुः, तेजः, आपः, पृथिवीति प्रसिद्धानि | शब्दादिगुणत्वं च तल्लक्षणं स्पष्टम् | यद्वा अवकाशध्वनिकरत्वम्, चलनसंजीवनता, पाचकदाहकत्वम्, द्रावकप्लावकता, काठिन्यधारकत्वं च क्रमादमीषां लक्षणानि | अत्र च वर्णक्रमे पृथिव्यादिपुरुषान्तं स्पर्शाक्षराणि इति श्रीत्रिंशिकाशास्त्रप्रक्रियया प्रागेव प्रदर्शितम् | पञ्चकञ्चुक्यां त्वन्तस्थाः | तत्र नियतिः सर्वानुस्यूतेति न पृथग्गणनार्हा | कालस्य तु आकाशशक्तित्वाच्चिन्मयतैकोपपादनप्रवृत्ततया पुंसः - मायाप्रमातृतादानं प्रत्यौचित्यं न विद्यते इत्यन्तस्थाश्चतस्रः संजाताः | यथोक्तं तत्रैव - वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् इति | यथा च व्याख्यातमाचार्याभिनवगुप्तपादैः - आकाशशक्त्या तु नात्र मायाप्रमातृतादाने प्रयोजनमस्ति इति | शुद्धविद्यादिशिवान्तं पुनरूष्माणः | तत्र हकारः शक्तिः शिवश्चेत्यावृत्त्याऽवतिष्ठते, तस्यानुत्तरविसर्जनीयसामरस्यात्मकत्वात् | शिवशक्त्योस्त्यैकरूप्यमेव स्वभावः | भेदस्तु काल्पनिक इत्युपपादितत्वाच्च | यथोक्तम् - तदूर्ध्वं शादि विख्यातं पुरस्ताद् ब्रह्मपञ्चकम् इति | षट्त्रिंशत्यत्र तत्त्वेषु पृथ्व्यम्बुपवनादयः | ते ते पदार्थाः संयुक्त्या मिश्रिता बहुशाखया || स्तम्भकुम्भादिभावेन कुर्वन्त्यर्थक्रियां नृणाम् | तत्र कर्मेन्द्रियैरुक्तैर्बहिष्ठास्ते घटादयः || अर्प्यन्ते सन्निकर्षेण व्यवहर्तृजनं प्रति | सांविदैरिन्द्रियैस्त्वेते निरीक्ष्यन्ते तथा तथा || अन्तःकरणवर्गेण संकल्पितविकल्पिताः | निश्चिताभिमताश्चैते विद्यया च विवेचिताः || कलाकालादिभिर्भावैर्वेद्यत्वेनानुरञ्जिताः | विश्राम्यन्ति विमर्शाढ्ये स्वात्मरूपे प्रमातरि || स च प्रमाता देहेऽस्मिन् प्राणे धीशून्ययोरपि | बध्नाति यैरहम्भावं ते सद्विद्यादयः क्रमात् || एवं परामर्शमयीं प्रतिष्ठां लक्ष्माहुराप्ताः परमस्य शम्भोः | एतद्विपर्यासवशात् पशुः स्यात् प्रमाणमस्मिन् गुरुशासनं नः || २५ || उक्तरूपस्य तत्त्वप्रपञ्चस्य पिण्डीभूतमर्थतत्त्वमाह - सर्वस्य भुवनविभ्रमयन्त्रोल्लासस्य तन्तुवल्लिव | विमर्शसंरम्भमयी उज्जृम्भते शम्भोर्महाशक्तिः || २६ || योऽयं भुवनात्मनां तत्त्वात्मनां विभ्रमो विलासः प्रसरद्रूपता सैव दार्वादिसंघट्टनात्मनः प्रतिमापुत्रकादेर्यन्त्रस्योल्लासो वलनावर्तनादिर्विकारः, तस्य सर्वस्यापि तत्तदशेषसन्धिबन्धानुस्यूता सूत्रस्रगिव शम्भोः परमानन्दप्रकाशघनतया विश्वमयविश्वोत्तिर्णस्यानाश्रितादि- कालाग्निरुद्रान्तविश्ववैचित्र्यसंयोजनवियोजनवैदग्ध्यशालिनः परमशिवभट्टारकस्य शक्तिः स्वातन्त्र्यलक्षणा महती तत्त्वानामन्योन्यप्रयोज्यप्रयोजकभावे पर्यन्ततः सामान्यप्रयोजकत्वे च प्रगल्भा भवत्युज्जृम्भते पृथिव्यादि भाववर्गमिवानाश्रितशिवभट्टारकमपि क्रोडीकृत्याभिवर्धते तद्रूपतया परिस्फुरतीत्यर्थः | यथा च पर्यन्तपञ्चाशिकायाम् - चित्स्वाभाव्यादसौ देवः स्वात्मना विमृशन् प्रभुः | अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते || इति | सा च विमर्शसंरम्भमयी विमर्शाख्यो यः संरम्भः स्वान्तःस्फुरत्क्रियाशक्तिस्फाररूपः, तेन प्रकृतेत्यर्थः | सा चिदानन्देच्छाज्ञानक्रियारूपशक्तिपञ्चकसामरस्यस्व- भावेत्याख्यायते | ततश्च परमेश्वरपरामर्शप्रसरपरिपाटी- पाटवपरमार्थमेतदखिलं तत्त्वपरम्परापरिस्फुरण- प्राचुर्योज्ज्वलं विश्वविजृम्भावैचित्र्यमिति तात्पर्यार्थः | यथोक्तं श्रीप्रत्यभिज्ञाहृदये - चितिः स्वतन्त्राविश्वसिद्धिहेतुः इति | सोऽयं स्वात्मसात्कृताशेषषट्त्रिंशत्तत्त्वकलापो महान् परमशिवभट्टारकाह्वयः प्रमाता सप्तत्रिंशतया स्वीक्रियते | तस्य तादृग्रूपतापि पर्यन्ततो विकल्पकक्ष्यामनुप्रविशति | अविकल्पात्मना च भाव्यं विश्वोत्तरेणेत्यतोऽत्राप्यविकल्पवृत्तिरष्टात्रिंशः कश्चिदागमेष्वङ्गीक्रियते | यदुक्तं श्रीतन्त्रवटधानिकायाम् - षट्त्रिंशत्तत्त्वपर्यायस्तदभिन्नः परः शिवः | उपदेश्यतया सोऽपि स्यादवच्छेदभागतः || अष्टात्रिंशं परं धाम यत्रेदं विश्वकं स्फुरेत् | इति | किञ्च, शम्भुरत्रानुत्तरात्मा तस्य तादृशी शक्तिश्च तदविभिन्नस्वभावा स्वरसमुदायमयी विसर्गापरपर्यायेति वर्णक्रमानुगुण्येन व्याख्या | सा चानुत्तरानन्दे(च्छो?च्छेश)नोन्मेषोनताभिरिच्छाया ईशनस्य च क्रमादस्थैर्य- भेदाच्च चतुष्प्रकारैर्वेद्योल्लासैरिच्छोन्मेषयोरीशनोनत- योश्चानुत्तरानन्दाभ्यामुभाभ्यां सह सन्धानोपारूढौ द्वौ, पुनस्तत्संहितौ च द्वाविति चतुर्भिरुक्ताशेषवेद्यवर्गवासनात्मना बिन्दुना चोन्मिषन्ती तत्रैवानुत्तरतत्त्वान्तर्विश्राम्यति | तत्तश्चानुत्तरहकाराभ्यां तत्पर्यन्तपठितेन बिन्दुभट्टारकेण च सह प्रत्याहारक्रमात् सर्वसंवित्समावेशलक्षणः कश्चिदहमिति परामर्श उदेति | यः महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः इति, मातृकाचक्रसम्बोधः इति च श्रीशिवसूत्रेषूपदिश्यते | यथोक्तं श्रीकण्ठीयसंहितायाम् - आदिमान्तविहीनास्तु मन्त्राः स्युः शरदभ्रवत् | गुरोर्लक्षणमेतावदादिमान्तं निवेदयेत् || यथा चास्मद्गुरुभिः श्रीसंवित्स्तोत्रे - आदिमान्तिमगृहीतवर्णराश्यात्मिकाहमिति या स्वतः प्रथा | मन्त्रवीर्यमिति साधितागमैस्तन्मयो गुरुरसि त्वमम्बिके || इति | वीरसंबन्धी हि धर्मो वीर्यमित्युच्यते | तत्र वीरो नाम विविधमीरयति विश्ववैचित्र्यमिति भगवान् शब्दराशिभट्टारक उच्यते | तदुक्तं श्रीमच्चिद्गगनचन्द्रिकायाम् - ईरणेन विविधेन वीरतां योऽयमक्षरगणः प्रपद्यते इति | श्रीप्रभाकौले च - वामे वीराः समाख्याताः इति | एतच्च - सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि ! | इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा || इति श्रीत्रिंशिकाशास्त्र उन्मीलितम् || २६ || नन्वध्वानो हि षडिति आगमेषु प्रसिद्धाः | तत्र तत्त्वव्रातात्मा कश्चिदेवांशः | अन्यत्र तु कथमुक्तार्थोपपत्तिरित्याकाङ्क्षां क्षपयन् प्रकृतगाथायास्तात्पर्यार्थमाह - यदध्वनां च षट्कं तत्र प्रकाशार्थलक्षणमर्धम् | विमर्शशब्दस्वभावमर्धमिति शिवस्य यामलोल्लासः || २७ || अध्वानो हि षडित्यागमेषु प्रसिद्धम् | ते च वर्णाः, पदानि, मन्त्राः, कलाः, तत्त्वानि, भुवनानीत्याख्यायन्ते | तत्र वर्णाः पञ्चाशल्लोकप्रसिद्धाः | पदान्यानन्त्येऽपि व्योमव्याप्यादिमन्त्रमर्यादयैकाशीतिः | मन्त्राश्च तद्वदानन्त्येऽपि ब्रह्मपञ्चकमङ्गषट्कं चेति संकोचदृष्ट्या एकादश | कला निवृत्त्यादयः पञ्च | तत्वान्युक्तरूपाणि षट्त्रिंशत् | भुवनानि च कालाग्निरुद्रादीन्यनाश्रितान्तानीति चतुर्विंशत्यधिकं शतद्वयम् | एतदखिलमपि कलापञ्चकेन क्रोडीक्रियते | तथाहि - निवृत्तौ कलायां क्षकार एको वर्णः | अष्टाविंशतिः पदानि | हृदयसद्योजातौ मन्त्रौ | पृथिवी तत्त्वमेकम् | कालाग्निरुद्रादीनि भद्रकाल्यन्तान्यष्टोत्तरशतं भुवनानि | प्रतिष्ठायां हादयष्टान्ता वर्णास्त्रयोविंशतिः | एकविंशतिः पदानि | शिरोवामदेवौ मन्त्रौ | अप्तत्त्वादीनि प्रकृत्यन्तानि त्रयोविंशतिस्तत्त्वानि | अमरेशादीनि श्रीकण्ठान्तानि च षट्पञ्चाशद् भुवनानि | विद्यायां आदिघान्ताः सप्त वर्णाः | विंशतिः पदानि | शिखाघोरश्चेति मन्त्रद्वयम् | पुरुषप्रभृतीनि मायापर्यन्तानि सप्त तत्त्वानि | भीमादीन्यङ्गुष्ठमात्रान्तानि च सप्तविंशतिर्भुवनानि | शान्तौ तु गखकास्त्रयो वर्णाः | पदान्येकादश | कवचतत्पुरुषौ मन्त्रौ | शुद्धविद्येश्वरसदाशिवास्त्रीणि तत्त्वानि | वामादिसदाशिवान्तमष्टादश भुवनानि | शान्त्यतीतायां च वर्णाः षोडश स्वराः | पदमेकम् | (शिवः ?) ईशानो नेत्रमस्त्रमिति मन्त्रत्रयम् | शिवस्तत्त्वमेकं यः शक्तिस्वभव इत्याम्नायते | निवृत्त्यादीन्यनाश्रितान्तानि पञ्चदश भुवनानीति विवेकः | एतच्च सिद्धान्तादितन्त्रेष्वत्यन्तं वितत्योपपादितमिति संक्षेपेणोक्तम् | एव च सति यदेतदध्वनामुक्तरूपाणां षट्कम्, तत्र यदेकमर्धं भुवनतत्त्वकलास्वभावम् | अन्यत् तु मन्त्रपदवर्णात्मकम् | प्रत्येकं च स्थूलसूक्ष्मपरप्रक्रियया त्रैविध्यम् | तत्र प्रथममभिधेयभूतं द्वितीयमभिधानकारकमिति विभागः | तथा च सति वाच्यवर्गः सर्वोऽपि प्रकाशपरमार्थः, वाचकोल्लेखस्तु विमर्शवपुरिति शिवस्य प्रकाशविमर्शात्मनः परमेश्वरस्य यामल उभयविसर्गारणिस्वभाव उल्लासः | उन्मेषनिमेषशक्तिद्वितययौगपद्यानुभूतिचमत्कार इत्यर्थः | यथा पर्यन्तपञ्चाशिकायाम् - तत्र वाचकवाच्यात्मस्पन्दयोरेकशः प्रभोः | स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता || इति | यथा च श्रीविरूपाक्षपञ्चाशिकायाम् - यस्य विमर्शस्य कणः पदमन्त्रार्णात्मकस्त्रिधा शब्दः | पुरतत्वकलात्मार्थो धर्मिण इत्थं प्रकाशस्य || इति | श्रीचिद्गगनचन्द्रिकायां च - याऽहमित्युत्युदितवाक् पराभिधा यः प्रकाश उदितार्थविग्रहः | द्वौ मिथः समुदिताविहोन्मुखौ तौ षडध्वपितरौ श्रये शिवौ || इति | एवमाशयेनैव ह्यस्मत्परमगुरुभिः श्रीसौभाग्यहृदयस्तोत्रे - वर्णः कला पदं तत्त्वं मन्त्रो भुवनमेव च | इत्यध्वषट्कं देवेशि भाति त्वयि चिदात्मनि || एत्यध्वनामुद्देशस्तत्तद्यामलतयोन्मीलितः | एतेन वागर्थाविव संपृक्तौ इत्यादीनि महाकविवाक्यानि व्याख्यातानि | अतश्च शब्दार्थसामरस्यात्मनि साहित्येऽप्यस्मदाग्रहः पारमेश्वरोऽनुग्रह एव | यदनुप्राणनाः कुण्डलाभरणमुकुन्दकेलिपरिमल(गुहा?)कोमलवल्लीस्तवनख- प्रलापादयः प्रबन्धाः प्रख्यायन्ते | तयोर्विमर्शप्रकाशस्वभावतायाः - चितिः प्रत्यवमर्शात्मा परा वाक् स्वरसोदिता इति, आत्मार्थस्य प्रकाशता इति च प्रत्यभिज्ञापितत्वात् | एवं च प्राचीनगाथायां शम्भोः प्रकाशस्वरूपस्य शक्तिर्विमर्शमयीत्यपि व्याख्यातम् | स्वपरामर्शोपायभूतत्वाद् वर्णकलादीनामध्वशब्दव्यपदेशः | यथा श्रीस्वच्छन्दे - मुक्तानां शिवताव्यक्तिकारणं विश्वमेव हि | शिवताव्यक्तिमार्गत्वात् ते सर्वेऽपि कलादयः || अध्वशब्देन कथ्यन्ते ते सर्वे बन्धना अपि | इति | श्रीविज्ञानभैरवे च - भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः || इति || २७ || एवमुक्तनीत्या विश्ववैचित्र्यस्य सर्वस्यापि प्रकाशविमर्शद्वयान्तर्भावमुपपाद्य तयोरपि भेदः पर्यन्तत औपचारिक इत्याह - आलेख्यविशेष इव गजवृषभयोर्द्वयः प्रतिभासम् | एकस्मिन्नेवार्थे शिवशक्तिविभागकल्पनां कुर्मः || २८ || चित्रकृतो हि स्ववैदग्ध्यप्रकटनाय गजवृषभादीनां भिन्नस्वभावानामपि भावानामेकतरसन्निवेशयुक्त्यैकाव- भासोऽन्यतरसन्निवेशयुक्त्याऽन्यस्फुरणं च यथा भवति, तथा विलिखन्तीत्यविसंवादिनीयं मर्यादा | एवं स्थिते यथा गजवृषभोभयाकारसमर्पके चित्रविशेषे गजवृषभयोर्द्वयोरपि पर्यालोचकप्रमातृजनानुसन्धानधाराधिरोहवैशिष्ट्येन कुम्भमण्डलशुण्डाकुण्डलीभावादियोगात् ककुदकूटप्रोथपुटौद्वण्यादिक्रमाच्च प्रतिनियतोऽवभासः प्रकाशनं भवति | तद्वदेकस्मिन्नेवार्थे सर्वेषामध्वनां पर्यन्ततः प्राप्ये तत्वे शिवः शक्तिरिति प्रकाशो विमर्श इत्येवंविधो यो यो विभागो विचित्रस्वभावानतिक्रान्तोऽप्यतिक्रान्त इवाऽवभासमानोंऽशः, तस्य यत्कल्पनं स्वतस्तथासमर्थी- भवतस्तत्समर्थाचरणेनोन्मीलनम्, तत् कुर्मो जानीमो वदामोऽनुतिष्ठामश्च | यदाहुः - फलभेदारोपितभेदः पदार्थात्मा शक्तिः इति | अत्र च गजवृषभयोरिति द्वन्द्वे गजौ च वृषभौ चेतितरेतरयोगानुगुणो विग्रहः | भाष्यकृताप्येवमेव विगृहीतम् - धवौ च खदिरौ च इति | ततश्च गजशब्दो गजवृषभौ द्वावपि वक्ति | तथा वृषभपदमपि वृषभगजावुभावपीत्यापतितम् | तत् तु नान्येषां शोभते | पदार्थानां प्रतिनियतरूपपरित्यागे प्रत्यवायभीरुत्वात् | अस्माकं तु स्वतन्त्राद्वैतसंवित्समयसाम्राज्यशालिनाम् द्यट इति पृथिवीति द्रव्यमित्यङ्ग तद्वद् भवति ननु विकासो भाव इत्याविघातम् | यदि विलसति युक्तिस्तत्पुरस्थो घटोऽयं कथय न कथमेको विश्वमूर्तिर्विभाति || इति न्यायादेकस्यापि भावस्य स्वव्यतिरिक्ताशेषभावात्मकत्वम- भ्युपगतमित्यलमन्यजनदोषोद्भावनोपक्रमेण | एतेनाभिहितान्वयवादादन्विताभिधानवादस्यौचित्यमस्तीत्युक्तं भवति | तत्र हि स्तम्भं पश्येत्यादौ स्तम्भशब्दार्थान्वितैव दर्शनक्रिया क्रियापदेनाभिधीयते | एवं पश्यत्यर्थान्वितश्च स्तम्भः कर्मकारकेणेत्यनन्तरोपपादितार्थानुगुण्येनान्वय इत्युपपाअद्यत इति | एवं च प्राकरणिकयोरपि प्रकाशविमर्शयोः - स्वर्गो भूरिति सागरः सरिदिति स्वामिन् ! द्रुमो वीरुदि- त्यर्थः शब्द इति स्वरः श्रुतिरिति प्रत्यक् परागित्यपि | शुक्लं रक्तमिति प्रभा तम इति ज्ञानं क्रियेत्यादि ते युग्मं सर्वमयुग्मनेत्र ! विततिर्विद्याविमृष्ट्योर्द्वयोः || इत्यादिनीत्या यद्यपि सर्वप्रपञ्चस्फुरणपर्यवसानस्थलतया तत्तद्यामलोल्लासत्वेनोभयथा व्यवहारावश्यम्भावः, तथापि तत्र - न शिवेन विना शक्तिर्न शक्तिरहितः शिवः | इत्यादिनीत्या प्रकाशो न कदाचिद् विमर्शक्रियतां विमर्शोऽपि न प्रकाशकर्तृकतां व्यभिचरतीत्यनयोर्वास्तवं वपुरैक्यस्वभावसौभाग्यभव्यमिति तात्पर्यार्थः | यदुक्तं मयैव श्रीकोमलवल्लीस्तवे - त्वं यथा शिवमयी तथा शिव- स्त्वन्मयो हि शिवयोरभेदिनोः | तत्त्वमेकमबहिर्मुखास्पदं यत्र भिन्न इव विश्वविक्रिया || इति || २८ || ननु बहवो हि पुराणागमादिप्रसिद्धाः प्रमातारः, बहुतराश्च सम्प्रति प्रत्यक्षमवेक्ष्यमाणाः | तेषु न कस्यचिदप्येतादृशी शक्तिरस्ति, यादृक् परमेश्वराभिमते प्रख्याप्यत इत्याशङ्क्याह - तिलमात्रेऽपि शरीरे प्रेक्षध्वं कीटस्यैतावती शक्तिः | सा स्वच्छन्दश्रियो विश्वशरीरस्य कियती भवतु || २९ || परमेश्वरो हि विश्वशरीर इत्यागमेष्वाख्यायते | यदुक्तं श्रीशिवसूत्रेषु - दृश्यं शरीरम् इति | यथा च श्रीविरूपाक्षपञ्चाशिकायाम् - विमतिपदमङ्ग ! सर्वं मम चैतन्यात्मनः शरीरमिदम् | शून्यश्यपदान्नीलावधि दृश्त्वात् पिण्डवत् सिद्धम् || इति | तच्च तस्य स्वच्छन्दश्रीकत्वात् | स्वेनात्मीयेन छन्देनेच्छाशक्त्या श्रीर्यथाभिलषितमैश्वर्य यस्येति कृत्वा | विश्वशरीरतया च तस्य सर्वातिशायिनी सा काचिच्छक्तिरुपकल्प्यते | स्वशरीरानुगुणशक्तिकत्वं चान्यत्रापि दृष्टम् | यथा तिलप्रमाणशरीरो यूकादिः कीटविशेषस्तच्छरीरौचित्येन तदाधिक्येन वा शक्तिमत्तयोपलक्ष्यत इति | ग्रन्थयोजना तु - परमाणुद्व्यणुकादिसन्निवेशास्तावदासतां प्राणिविशेषाः, तेषामप्रत्यक्षत्वाद् दृष्टान्तस्याहृदयङ्गमीभाव- प्रसङ्गात् | यः पुनर्यूकादिः कीटस्तस्य शरीरं तावत् तिलसदृशसन्नीवेशनम् | तावत्यपि तस्य शक्तिः कियतीति प्रेक्षध्वम् | परिस्फुरणपरिभ्रमणादिभेदादनेकरूपा ह्यनुभूयते | लोट्प्रत्ययो बहुवचनं च तत्रार्थे प्रामाण्यं स्पष्टमुद्घाटयितुम् | (तस्मादिति ?) | एतद्दृष्टान्ताभ्युपगमे - त्वद्धाम्नि विश्ववन्द्येऽस्मिन् नियतिक्रीडने सति | तव नाथ ! कियान् भूयानानन्दरससंप्लवः || इति श्रीमत्स्तोत्रावलिस्थित्या तस्य सा शक्तिः कियती भवतु, एतावत्येतादृशी वेति कथं परिच्चेतुं पार्यत इति | इत्थं च विप्रतिपन्नजनापेक्षया भगवतो विश्वशरीरत्वमनुमानेन प्रसाध्य ततोऽयं तस्यैश्वर्योत्कर्ष उपपादितः | सम्प्रतिपत्तौ तु प्रत्युत तयैव शक्त्या तद्विश्वशरीरत्वम् | तदुक्तं श्रीशिवसूत्रेषु - शक्तिसन्धाने शरीरोत्पत्तिः इति, स्वशक्तिप्रचयो विश्वम् इति च | एवं चात्मनो विश्वशरीरता परामर्शशून्यतामात्र- निबन्धनं बहिर्विभूतिस्पन्दानुभूत्युत्सवस्तैमित्यम् | अन्यथा पिण्ड इवाण्डेऽपि सर्वत्र स्वस्य स्वातन्त्र्यशक्तिरपरोक्षमुपलक्ष्येत | यदुक्तं श्रीविरूपाक्षपञ्चाशिकायाम् - देहेऽस्मितया यद्वज्जडयोरास्फालनं मिथो बाह्वोः | इच्छामात्रेणेत्थं गिर्योरपि तद्वशाज्जगति || इति || २९ || ननु विश्वशरीरतया परमेश्वरस्य शक्त्युच्छ्रायोपकल्पनं चेत् क्रियते, तर्हि विश्वसंहारे तस्य शक्तिशून्यताप्रसङ्ग इत्याशङ्क्याह - विश्वोन्मेषदशायां देशिकनाथस्य यावान् प्रसरः | कललावस्थया स्थितोऽपि विश्वनिमेषेऽपि तावान् भवति || ३० || देशिकतया सर्वानुग्राहकतया नाथ्यमानस्य परमेश्वरस्य सा काचिदुन्मेषयौगपद्यलक्षणा शक्तिरस्ति | तत्र च स्वरूपोन्मेषे विश्वनिमेषः, विश्वोन्मेषे च स्वरूपनिमेष इति द्वितयमपि तुलाधृतवदुत्पद्यते | ततश्च विश्वात्मको विश्वोत्तिर्णश्च परमेश्वर इत्यवटाटङ्कसङ्केतौचित्यमुपपाद्यते | तयोश्च नित्यमन्योन्यसापेक्षत्वादेकतरव्युदासशङ्कायामन्यतर- भङ्गप्रसङ्ग इत्युभयोरपि समप्राधान्येन परिग्रहौचित्यम् | तदुक्तं मयैव श्रीपरास्तोत्रे - एके भूजलखानिलानलकलारब्धां बहिः प्रक्रिया- मुत्तिर्णात्विषमन्तरेव कतिचित् चित्काकणीमूचिरे | अन्ये केचन यामलामृतसरित्संभेदसंभोगिनो मातस्त्वामपृथक्प्ररोहमुभयोरौचित्यमाचक्षते || इति | तथा च सति विश्वस्योन्मेषलक्षणायामवस्थायामन्तश्चिच्छक्ति- निमेषापरपर्यायायां यावान् प्रसरः षडध्वोल्लासप्रथासतत्त्वो भवति, तथा विश्वस्य निमेषे स्वात्मान्तःक्रोडीकारैकपारिशेष्ये सत्यपि तावानुन्मेषदशासमस्वभावो भवति | न तर्हि विश्वनिमेष इति चेत् ? स्वैरं निमेष एव | अपि तु कललावस्थयाऽवस्थितिरिति ब्रूमः | यथा शिखण्ड्यण्डे सर्वशिखण्ड्यवयवानुप्रविष्टबर्हपरिबर्हादिवर्णरेखावैचित्र्य- शिल्पकल्पनाकौशलमखिलमप्यत्यन्तसूक्ष्मेक्षिकयाऽवधार्य- मस्तीत्यङ्गीक्रियते, एवमत्रापि | यदुक्तं श्रीत्रिंशिकाशास्त्रे - यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं जगदेतच्चराचरम् || इति | कललता नामावस्थायाः सर्वाकारमविभक्तं रूपम् | यदि च तद् विश्ववैचित्र्यं निमेषदशायां कललावस्थायामपि न स्यात्, तर्ह्युन्मेषदशैव न स्यात्, प्राक् सत एवोत्पत्त्यौचित्यात् | तथा हि विश्वोन्मेषावस्थायामात्मरूपस्य केवलं तिरोधानमात्रम्, न पुनरत्यन्तोपप्लवः | एवमन्यत्रापीति | एतदर्थपरामर्शपरिहाण्या पाशववेदान्तस्य पर्युदासः | तत्र ह्यद्वैतमाग्रहेणोपपाद्यमानमपि द्वैतकक्ष्यामेवाधिरोहति | यदत्र सत्यासत्यव्यवस्थया हेयोपादेयकल्पनायां तेनैवाकारेण द्वैतमर्यादापर्यवसायित्वमनिवार्यम् | तदुक्तं मयैव संविदुल्लासे - द्वैतादन्यदसत्यकल्पमपरैरद्वैतमाख्यायते तद् द्वैते बत पर्यवस्यति कृतं वाचाटदुर्विद्यया | एते ते वयमेवमभ्युदयिनोः कस्यापि कस्याश्चिद- प्यालस्योज्झितमैकरस्यमुभयोरद्वैतमाचक्ष्महे || इति | अद्वैतगर्वो महतः प्रमातुः को नाम मिथ्या भवति प्रपञ्चे | स्वयंवरे ते परिपन्थिवर्गे किं तज्जिगीषोरसहायशौर्यम् || इति च || ३० || ननून्मेष एव निमेषो निमेष एवोन्मेषो विश्वस्य विश्वोत्तिर्णस्य चेति महत्येषा व्याहतिरित्याशङ्क्याह - त्रिपुटीमयं खलु समस्तं तत्र च ज्ञेये ज्ञातरि च समम् | दृढग्रन्थिर्ज्ञानकला कलयति त्रैलोक्यमेकलम् || ३१ || विश्वव्यवहारे वादिनां सर्वोऽपि वचनपरम्पराप्रपञ्चो ज्ञाता ज्ञानं ज्ञेयमित्येवंरूपपुटत्रयसमाहारात्मन्यर्थतत्त्वे पर्यवस्यति | यद् गुरुमतानुसारिणः स्पष्टतोत्कर्षादन्योन्यनिर्विशेषं साकल्येन प्रत्यक्षतयाचक्षते | पुटत्वं चैषामशेषविश्वक्रोडीकारसामर्थ्यात् | तत्र च त्रिपुट्यामन्तरालवर्तिनी या ज्ञानकला चिच्छक्तिः, सा खलु - वेद्यमेतदखिलं स ईश्वरो वेदिता यदनयोः स्वलक्षणम् | त्वामृते सुमुखि ! वित्तिमन्तरा का नु तद् घटयितुं प्रगल्भते || इति श्रीकोमलवल्लीस्तवस्थित्या विषयतयावरोध्यं वेद्यवर्गं भोक्तृतया स्फुरन्तं वेदितारं च प्रति समं विशेषशङ्काशून्यं यथा भवति तथा दृढग्रन्थिः कोटिद्वयावगाहेन तादात्म्येनोपश्लेषाद् वज्रलेपवदप्रकम्प्यसम्बन्धा भवन्ती त्रैलोक्यमेकलमेकस्वभावं कलयति | स च स्वभावो वेद्यं वित्तिर्वेदितेति, स्थुलं सूक्ष्मं परमिति जाग्रत् स्वप्नः सुषुप्तमित्यादिना त्रैविध्येनाप्युपपद्यते | दृढग्रन्थिरित्युक्तत्वात् | सम्बन्धं प्रत्यदार्ढ्यशङ्कायां हि एकमन्यस्माद् भिद्येत | तच्च न संभवतीति | त्रैलोक्यपदेन - देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा- स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः | यत् किञ्चिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं तत् सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः || इति श्रीलघुभट्टारकस्थित्या त्रिवर्गभूतमखिलमपि क्रोडीक्रियते | एवञ्च वेदितैव वेद्यं वेद्यमेव वेदिता वित्तिरेव वेद्यमित्याद्यशेषस्वभावसामरस्याभ्युपगमस्य पर्यन्ततः सिद्धान्तरहस्यत्वादुन्मेष एव निमेष इत्यादिव्याहतिदोषोद्भावनमस्मत्सञ्चारसरणीसीमसु न क?ञ्चिदपि कण्टकाङ्कुरमुन्मीलयितुमुद्युङ्क्त इति | तदुक्तं श्रीस्पन्दसन्दोहे - एवमियमेकैवाविभागरूपा परामर्शभूमिरुन्मेषनिमेषमयी उन्मेषनिमेषशब्दाभ्यामभिधीयते इति | एतेन विमर्शः सर्वंसह इत्युक्तं भवति | यदुक्तं श्रीप्रत्यभिज्ञाविमर्शिन्याम् - विमर्शो हि सर्वंसह आत्मानमपि परीकरोति, परमप्यात्मीकरोति, द्वयमप्येकीकुरुते, उभयमपि न्यग्भावयति इति | श्रीपरामते च - परीकर्तुं निजं तत्त्वं स्वात्मीत्कर्तुं तथोभयम् | एकीकर्तुं न किं कर्तुं विमर्शो जगति क्षमः || इति || ३१ || ननु सर्वैकरसवादस्वीकारे कोऽयं सत्यासत्ययोर्भेद इत्याशङ्क्य न कश्चिदित्युदाहरणद्वारोपदर्शयति - कः सद्भावविशेषः कुसुमाद् भवति गगनकुसुमस्य | यत् स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् || ३२ || प्रसिद्धकुसुमाद् गगनकुसुमस्य सद्भावे को विशेषः | न कश्चिदिति वाक्योपसंहारः | यदिति हेतौ लोको हि विश्वव्यवहारस्वभावः | संविदेव भगवती विषयसत्त्वोपगमे शरणमिति गुरुमतमर्यादया स्फुरणं प्रकाशमानत्वमेवानुप्राणनतया जीवभूततया परिगृह्य वर्तत इत्यसकृदवोचाम | तच्च स्फुरणं विप्रतिपन्ने खपुष्पे सम्प्रतिपन्ने चम्पकादौ च सामान्यमपक्षपातेन प्रसरति | यदि च तस्य तत्र पक्षपातेन प्रवृत्तिः, तत् खपुष्पमित्यपि न स्फुरेत् | अत एवोक्तमाचार्याभिनवगुप्तपादैः सा स्फुरत्ता महासत्तेत्यत्र महासत्तेत्येतत्पदव्याख्यानावसरे - सा हि खपुष्पादिकमपि व्याप्नोति इति | यथा श्रीशिवदृष्टौ - शशशृङ्गादिकेनापि स्याद् विभक्त्या समन्वयः इति | पदसङ्गतौ च - तस्मात् तत्रापि विभक्तियोगेन कारकत्वे सति सत्तैव शिवताख्या इति | एतेन स्तम्भकुम्भादीनां भावानां प्रकाश एव सामान्यात्मानुप्राणनः प्रवर्तते, न पुनः सामान्यं नाम पदार्थान्तरमित्युक्तं भवति | तत्र च विकल्परूपा व्यक्तयः | अविकल्पात्मा महाप्रकाशः सामान्यम् | ततश्चानुवृत्तिप्रत्ययनिमित्तं सामान्यमित्याचक्षाणा वैशेषिकादयः प्रत्याख्याताः, प्रकाशस्याहेतुकत्वात् | प्रत्युत विश्वविलासं प्रत्यस्यैव हेतुत्वात् सर्वसामान्यमिति | एतादृशस्य सामान्यस्य हि समवायविशेषाद्यविशेषेण विश्वमेव विषयो न पुनर्द्रव्यादिरवच्छिन्नः पदार्थ इत्यर्थः | अथ च प्रष्टव्योऽयमन्यपुष्पात् खपुष्पस्य विशेषः | तुच्छत्वमिति चेत् | किं तत् तुच्छत्वं नाम | न तावच्छून्यत्वम् | गगनस्य पुष्पस्य च पृथक् पृथक् सद्भावात् | अनयोरन्योन्यं कार्यकारणभावसंबन्धा- भावात् तद्द्वारा विशिष्टस्याप्यसत्त्वमिति चेत् ? न | अन्योन्यत्वं नामानयोरेकैकपर्यालोचनायां न संभवति | संभवे चोक्तस्यैव दोषस्यानुषङ्गः | यदि च तन्मेलनांश इत्युच्यते, तर्ह्यसंबन्धादित्यस्य व्याघातः स्यात्, मेलनस्याभ्युपगतत्वात् | मेलकश्चासौ प्रतीतो वा स्यान्न वा? नान्त्यः, व्यवहारानुपपत्तेः | ततश्च प्रतीतिपक्ष एवावशिष्यते | सा च प्रतीतिरनयोर्मेलनमुपस्थापयन्ती तुच्छत्वमेव तत् तुच्छीकर्तुमुद्यच्छतीति चम्पकपाटलादिप्रसूनप्रक्रियया व्योमकुसुमस्यापि व्यवहारकक्ष्यावैषम्याभावाद् यदसत् तत्र प्रतिभाप्ररोहासंभवाद् मूकीभाव एव शरणं प्रतिवादिनो जनस्य | अत एव हि योगिनः केचिदाकाशादेरपि प्रसूनान्यानयन्तो दृश्यन्ते | न च तत्र स्वोपादानद्रव्योत्पन्नं तद् योगिभिरभिव्यज्यत इति वक्तुं शक्यम्, तस्य तादृक्सङ्कल्पव्यतिरेकेणोपादानान्तरशुन्यत्वात् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद् बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् || इति | सौजन्यतः कथायां तु संवित्स्वभावायत्तायां सत्तायां न कश्चित् पुष्पान्तरात् खपुष्पस्य भेदः | मायीयसत्तानुरोधे तु विधिनिषेधोभयव्यवहारौचित्यमन्यपुष्पाणाम् | अन्तरिक्षप्रसूनस्य तु निषेधविषयमात्राभिलापयोग्यत्वमित्यलमितरजनसुलभपद- कपल्लवावखण्डन(?)पाण्डित्यप्रदर्शनेन | ३२ || नन्वासतामेते विगीता व्योमकुसुमादयः, यत्र मूकीभावो दूषणं भूषणं वेति नात्यन्त निश्चितम् | यौ पुनर्भावाभावौ लोकव्यवहारसिद्धौ, तत्र कथमिदमभेदवादवैदग्ध्यमित्या- शङ्क्याह - माणिक्यमरतकयोरिव भावाभावयोर्भेदप्रतिभासम् | एकरसोऽन्योन्यं द्वयोरप्युन्मार्ष्टि स्फुरणसंभेदः || ३३ || विश्वव्यवहारोऽपि हि स्तम्भकुम्भादेर्भावस्य तदभावस्य च द्वयोरन्योयं प्रतियोग्यनुयोगिभावाघ्रातो भेदप्रतिभासः परस्परवैलक्षण्येनावधारणं तम्, तयोः स्फुरणसम्भेद एवोन्मार्ष्टि युक्त्या तिरस्करोति | प्रकाशमानता हि स्फुरणम् | सैव संभेदः सम्बन्धः | स चैकरसः पदार्थद्वयं प्रत्येकस्वभावः, तयोर्द्वयोरपि प्रकाशत इति प्रतीति प्रति वैषम्याभावात् | ततश्च चिदग्निसात्कृतयोरनयोः को नाम वैलक्षण्यावभास इत्यर्थः | यथा माणिक्यमरतकयोररुणश्यामलयोरन्योन्यविरुद्धयोरपि किञ्चित्सन्निकर्षेणावस्थापितयोः परस्परप्रभापटलकर्बुरीभावादेकरसो भवन् प्रकाशमानतासम्भेदो भेदप्रतिभासं प्रतिमार्ष्टि, उभयोरपि स्वस्वरूपपरित्यागपूर्वमेकरूपतानुप्रवेशात् | यतो माणिक्यमप्यरुणश्यामलं मरतकमपि श्यामलारुणमिति वैचित्र्यशालिनी प्रतीतिरत्रोत्पद्यते | दर्शनान्तरमर्यादयाऽप्यभावो नाम स्तम्भकुम्भादिकैवल्यशाली भूतलादिः कश्चिद् भावविशेष एवेत्यूरीकृतम् | यदुक्तम् - भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् इति | स्तम्भादेर्भावस्य च कुम्भाद्यन्योन्याभावद्वारावतीर्णम- भावत्वं चापरिहार्यमिति भावाभावयोर्युक्तिपर्यालोचनायाम्- ऐकरूप्यमेवेति || ३३ || ननु पौनःपुन्येन प्रसाधितमप्येतदर्थतत्त्वं तडिद्विलसितमेव केवलं परिस्फुरति | न पुनर्हृदयङ्गमो भवति | हृदयङ्गमीभावे च कश्चिदुपायो वक्तव्य इत्याकाङ्क्षां शिथिलयितुं पारमेश्वर्या सपर्यया भाव्यम्, सा च लोकतः पृथग्भूतेत्युद्भावयन्नादौ पीठं देवतां च पर्यालोचयति - अण्डमये निजपिण्डे पीठे स्फुरन्ति करणदेव्यः | प्रस्फुरति च परमशिवो ज्ञाननिधिस्तासां मध्ये || ३४ || स्वशरीरमयो हि पिण्डः पृथिव्यादिभूतपञ्चकारब्धत्वाद- शेषविश्ववैचित्र्यलक्षणमण्डमित्यध्यवसीयते | अण्डपिण्डयोरैकरूप्यमाम्नायेषु प्रसिद्धम् | यथा त्रिशिरोभैरवे - सर्वतत्वमयः कायस्तच्चेदानीं शृणु प्रिये | पृथिवी कठिनत्वेन द्रवत्वेऽम्भः प्रकीर्तितम् || इत्यादि | यथा च परमार्थसारसंग्रहे - षट्त्रिंशत्तत्त्वमृतं विचित्ररचनागवाक्षपरिपूर्णम् | निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् || इति | तत्र च पीठीभूते करणदेव्य इन्द्रियलक्षणाः शक्तयः स्फुरन्ति | आवाहनसन्निधापनतिरोधानादिव्यतिरेकेऽपि स्वयमेव स्फुटं प्रकाशन्ते | तासां मध्ये च परमशिवो महाप्रमातृस्वभावः प्रस्फुरति ताः शक्तीः प्रति स्वस्य शक्तिमत्ता यथा प्रकटीभवति तथा प्रकाशते | यतोऽयं ज्ञाननिधिः, तत्तदिन्द्रियशक्त्युदयोन्मीलितानां संविद्विकल्पानां समुद्र इव सरित्प्रवाहाणां पर्यन्ततः प्रतिष्ठाभूमिरित्याम्नायते | इन्द्रियशक्तीनां च तासां न कदाचिच्छब्दस्पर्शाद्यनुवेधं विनाऽवस्थानम् | शब्दस्पर्शादय एव च पञ्च महान्ति भूतानीति विश्वमययस्ता इत्युक्तं भवति | यदुक्तम् - शक्तिश्च शक्तिमांश्चेति पदार्थद्वयमुच्यते | शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांश्च महेश्वरः || इति | सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् | क्षिप्त्वा मध्ये हाटकस्तम्भभूतस्तिष्ठन् विश्वाकार एको विभाति || इति श्रीकक्ष्यास्तोत्रस्थित्या स्वात्मरूपः परमेश्वर एवान्तश्चक्रदेवता बाह्यान्तरभिन्नाः | करणशक्तयश्च तदावरणदेवतास्थानीयाः | तदर्चनं च स्वशरीरात्मनि महापीठ एवोपपद्यते | तत्र च यथा प्रतिमापुस्तकादयो भावाः स्वात्मभूतां मुख्यां देवतां प्रति प्रतिनिधिभावेनाध्यवसीयन्ते, तद्वत् स्वदेहस्यैव मुख्यतया पीठत्वम् | अनुकल्पोपकल्पतया तु स्थण्डिलमण्डलादीनामङ्गीकार इति तात्पर्यार्थः || ३४ || ननु सोऽयमलौकिकः परमेश्वरः कीदृश्या प्रक्रिययोपास्य इत्याकाङ्क्षायां सानुग्रहमाह - स तत्रार्चनीयो विमर्शपुष्पाधिवाससुरभिभिः | चित्तचषकार्पितैर्वेद्यसुधावीरपाणवस्तुभीः || ३५ || सः वेदागमादिप्रसिद्धस्वभावः परमेश्वरः, तत्र पिण्डात्मनि पीठे पूजनीयः | पूजायां च वेद्यमयी या सुधा सर्वेन्द्रियाह्लादकत्वादत्यन्तस्वीकार्या, सा स्वभावत एकापि सती भयशोकहर्षाद्यवस्थावैचित्र्यादम्लतिक्तमधुरादिप्रायानेकरस- विशेषोपश्लेषिणी वीरस्य परभैरवस्य वीरायाश्च स्वातन्त्र्यमययास्तत्प्रधानशक्तेः, वीराणां योनितत्सिद्धादिरूपाणां भैरवमिथुनानां च पीयते स्वात्मसात्क्रियत इति व्युत्पन्नानां श्रीमच्चतुस्स्रोतोगोप्यमानानां वस्तूनां विश्वविलासासवोपलक्षितानां द्रव्याणां प्रकृष्टतया पूजाङ्गत्वेनोपयुज्यते | ततश्च यानि तानि वेद्यामृतमयानि कुलद्रव्याणि तान्येव पूजासाधनानीत्यर्थः | तानि च स्वचित्तात्मनि चषके ग्रहणयुक्त्या कयाचिदर्पणीयानि | चित्तस्य चषकत्वं च तत्र तत्र बहुप्रवाहं प्रसर्पतां वेद्यवस्तूनां स्वात्मभैरवस्यैकयैव हेलया तद्ग्रहणसौकर्योपायत्वात् | विश्ववर्तिनो हि भावा बहिर्भिन्नप्रकारं स्फुरन्तस्तत्तदिन्द्रियपरिस्पन्दोपगृह्यमाण- स्वभावाः क्षणं चित्ते विश्रम्य पश्चात् तत्प्रणाडिकया भैरवात्मन्यनुप्रविशन्तीत्यतिसुभगेयं सरणिः | यदुक्तं श्रीमहानयप्रकाशे - भावा वृत्तिषु ताश्चित्ते चित्तं संविदि सा परे | व्योम्न्यस्तंगमितो यत्र क्रम उल्लङ्घनात्मकः || इति | अथ च तानि वस्तूनि परमेश्वरं प्रति स्वात्मतया यो विमर्शः प्रत्यभिज्ञानात्मा परामर्शः, स एव पुष्पम्, स्वभावपोषकत्वात् श्रीगुरुरूपत्वाच्च | तेन मन्त्रशक्त्यात्मना सुरभीकर्तव्यानि, अन्यथा पर्युषितादाविव तत्र शास्त्रार्थभङ्गप्रसङ्गात् | एतदुक्तं भवति - पूर्वं तावत् पीठतया देहमभ्यर्च्य तन्मध्ये हृदयव्योमरूपे स्वात्मरूपमहाप्रकाशलक्षणं परमेश्वरमनुसन्धाय, तमभितः प्रसरन्तीरिन्द्रियशक्तीश्च विचिन्त्य, तदनु सर्वान्तःकरणसमष्टिलक्षणे स्वचित्ते विश्ववेद्यविलासलक्षणमर्घ्यद्रव्यमापूर्य, तच्च पारमेश्वरपरामर्शमयया मन्त्रशक्त्या संस्कृत्य, तेनैव कुलामृतेन निजावरणदेवतापरिमण्डलितोऽयं परमेश्वरः पूजनीय इति | अयं च संकोचविकासयोगादेकारमारभ्याऽसङ्ख्यारपर्यन्त- मागमेष्वर्चनीयतया आम्नायते | यदुक्तं श्रीतन्त्रालोके - एकवीरो यामलोत्थस्त्रिशक्तिश्चतुरात्मकः | पञ्चमूर्तिः षडात्माऽयं सप्ताष्टकविभूषितः || नवात्मा दशदिक्शक्तिरेकादशनिजात्मकः | द्वादशारमहाचक्रनायको भैरवः स्थितः || एवं यावत् सहस्रारे निस्संख्यारेऽपि वा विभुः | विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते || इति | एतत्तात्पर्येणैव स्रोतश्चतुष्टयोपपादितानां पद्धतीनां प्रवृत्तिरित्येतावन्मात्रपर्यवसायि पूजारहस्यम् | बाह्यस्तु प्रसूनाक्षतासवधूपदीपघण्टादिस्वभावः प्रपञ्चोऽस्माभिः अधिकं नैव दुष्यति इति न्यायादाद्रियत इति | एतदुपर्यप्यालोचयिष्यते || ३५ || अथार्चनारहस्यस्योन्मीलितत्वात् क्रमेणार्च्यदेवताचक्ररहस्य- मप्युद्भावयितुमादावुद्देशमुपन्यस्यति - श्रीपीठपञ्चवाहनेत्रत्रयवृन्दचक्राणि स्मरत | स्मरत च गुरूणां पङ्क्ति पञ्च च शक्तीः सृष्टिप्रमुखाः || ३६ || श्रीपीठं पञ्चवाहो नेत्रत्रयं वृन्दचक्रमिति यानि चक्राणि तानि स्मरत परामृशत | यत्प्राधान्येनैषामावर्जनीयतया परामर्शः, तां श्रीगुरुनाथानां पङ्क्ति च स्मरत | गुरुमण्डलप्राधान्यद्योतनाय पुनरपि स्मरतेत्युक्तम् | सृष्टिप्रमुखाः पञ्च शक्तीश्च स्मरत, या सृष्टिः स्थितिः संहारोऽनाख्या भासेति भिद्यन्ते | श्रीपीठेति तस्य पूज्यतोत्कर्षेण महत्त्वं द्योत्यते | महत्त्वं च तदोड्याणादीनामवान्तरपीठत्वेऽपि सर्वप्रतिष्ठाभूमितया प्रधानपीठत्वात् | इयं चाल्पैरेवाक्षरिअर्मन्त्रबीजवदनेकार्थोपपादनसमर्था तत्तच्चक्रक्रमानुक्रमणिकारहस्योपदर्शनी वक्ष्यमाणसर्वदेवताविकल्पसंग्रहप्राधान्यादुद्देशलक्षणा गाथा | यथेयमकृत्रिमा महाम्नायोक्तिः - यत्पीठचक्रार्चितपञ्चवाहप्रकाशमानन्दखमूर्तिचक्रम् | अष्टाष्टचक्रं प्रविराजते तद् गुरुक्रमौघं सचतुष्टयार्थम् || इति || ३६ || अथ श्रीचक्रं क्रमेणोन्मुद्रयिष्यन्नादौ पिठनिकेतनादि नेत्रत्रितयान्तं विभागद्वारा पर्यालोचयति - पीठे कला नव पञ्चैव पञ्चवाहपदव्याम् | सप्तदश फालनेत्रे द्वादश षोडश चान्यनेत्रयोः || ३७ || पीठं हि नाम स्वशरीरभट्टारकात्मकमित्युक्तम्, तत्रैव परमेश्वरस्य पञ्चधा वहनात् | यदेतत्पर्यालोचनायामन्योन्या- नन्दसंघट्टनोन्मुखमातापितृस्वभावाभिन्नशक्तिशिवद्वितय- सामरस्योन्मिषत्स्त्रीपुंसवीर्यस्फुरत्तारब्धत्वनैयत्यादुपर्युद्- भविष्यदनेकदेवताचक्रोर्मिपरम्परास्फारौचित्यमत्रैवेत्यध्य- वसीयते | तदुक्तं श्रीमहानयप्रकाशे - शिवशक्त्युभयोन्मेषसामरस्योद्भवं महत् | वीर्यं तस्माद् देह एव महापीठः समुद्गतः || इति | एवं पीठपरामर्शस्य प्राधान्यं प्रतिपादयितुं ह्यादौ दूतीयजनमारम्भणीयतयोद्भाव्यते | यथा श्रीक्रमोदये - स्त्रियः सर्वेषु वर्णेषु योगिन्यः स्युर्न संशयः | देहवद् योनिशुद्धिस्तु आत्मवल्लिङ्गशोधनम् || योनौ नवाक्षरीं न्यस्य लिङ्गे सप्तदशाक्षरीम् | गुरुचक्रस्य पूजार्थं कुर्याद् योगिनिमेलनम् || नवाक्षर्या तु मन्त्रेण स्थापयेल्लिङ्गपीठवत् | शिवशक्त्यात्मभावेन पुरुषो मन्थकः स्मृतः || मन्थयेदात्मनः शक्ति मधुवच्छुल्कशोणितम् | इति | यथा चोपनिषदि - यथैवं विद्वान् मिथुनमुपैत्यग्निहोत्रमेव तस्य हुतं भवति इति | तत्र च कलाः शक्तयो नव | परमेश्वरस्य स्त्रीपुंसादिभेदव्युदासेन सर्वस्यापि शक्तिमयत्वात् कला इत्युक्तम् | ताश्च पर्यालोच्यमानाः प्रमात्रंशमयः कश्चिदाद्यः स्पन्दः | तदनु तस्यैवोपरिप्रसरणौन्मुख्यरूपा शक्तिः काचित् | अथ तस्य प्रमाणस्फुरणरूपः कश्चिदिन्द्रियमयः परिस्पन्दः | ततश्च वस्तुव्यवस्थापनात्मिका तत्स्फुरत्ता | पश्चात् प्रमेयोल्लासः | प्रमेय वर्गश्च सूक्ष्मेक्षिकया परीक्ष्यमाणो भूतपञ्चकान्तर्भावमेवानुभवति | भूतानि चात्र - आकाशः, पृथिवी, वायुः, तेजः, आप इति क्रमादुपास्यन्ते | तत्र च प्रारम्भ एव स्वात्मनश्चिद्रूपतापरामर्शः तदनु तस्य स्थैर्योत्पादनम् | तदुद्योगरूपस्पन्दानुवृत्तिः | ततस्तस्यैवोज्ज्वलीकरणम् | ततश्च स्वविश्रान्तिलक्षणमाप्यायितत्वं चेति क्रमविवक्षा | एवञ्च प्रमाता, प्रमाणम्, पञ्चविधं च प्रमेयं पीठनिकेतनमित्यर्थो भवति | अन्ये पुनरेतत्पीठश्मशानक्षेत्रेशमेलापयजनभेदात् पञ्चप्रकारतयोपासते | नवात्मकत्वेऽप्यस्य प्रमातृप्रमाणोपगृहीतव्योमादिपञ्चकस्वभावत्वात् पञ्चवाहचक्रतादात्म्यं न किञ्चिदप्यतिक्रम्यते | यद्वा प्रमाता कश्चित्, तच्छक्तिश्च प्रमारूपा, तदुपकरणं च प्रमाणम्, वस्तुव्यवस्थापनात्मिका च तद्विजृम्भा, तत्क्रोडीकार्यं पञ्चविधं प्रमेयजातं चेत्यनयापि भङ्ग्या पञ्चप्रकारतैव प्रत्याययते | एवञ्च - आकट्योराकन्धरमादोष्णोरा च नाभिसीमान्तम् | षट्कोणं यच्छरीरं संवित्पीठं त्रिकोणसाम्यं तत् || इति स्थित्या स्वशरीरस्यैव पीठतयोपासनं प्राक् कर्तव्यम् | तदनु वक्ष्यमाणानामुपचारः कर्तव्य इत्युक्तं भवति | अत्र च गणपतिवटुकादिदेवतानां नामोपादानं तेषां च तत्तदर्थानुगुण्येन निर्वचनं च क्रियमाणं ग्रन्थगौरवमत्यन्तरहस्योन्मीलनदोषमप्युन्मेषयिष्यतीति संक्षिप्तेनैव पथा प्रस्थीयते | यथा श्रीमहानयप्रकाशे - धामादित्रितयेनैव वक्त्रभङ्गभयान्मनाक् | प्रकाश्यते मया सम्यग् वाक्यैरविषमाशयैः || इति | यथा श्रिक्रमसद्भावेऽपि - गोपनीयानि नामानि चोरेभ्यो द्रविणं यथा | गोपनात् पालयन्त्येव मूर्तयस्तु महार्थतः || इति | विवेकिनां तु गण्यते संख्यायत इति गणः षडध्वा भोगरूपोल्लासः, तं पाति रक्षतीति गणपतिरित्यादिप्रक्रिययाऽत्यन्तसुखसाध्योऽयं निरुक्तिप्रकारः | यतस्त एवाहुः - अप्यक्षरवर्णसामान्यान्निर्ब्रूयाद्, न त्वेव न निर्ब्रूयात् इति | पञ्चैव पञ्चवाहपदव्यामिति | वाहाः परमेश्वरस्य स्फुरणधाराः | ताश्च पञ्च, अन्यूनानतिरेकितयोपलभ्यमानत्वात् | तन्मयी च या पदवी विश्वगमागमस्थानभूता प्रवृत्तिः | ताः पञ्चैव कला इत्यन्वयः | एवकारेण पञ्चवाहशब्दस्यान्वर्थतोच्यते | ते च वाहा व्योमवामेश्वरी, खेचरी, दिक्चरी गोचरी, भूचरीति च भवन्ति | अन्ये पुनरासां क्रमं गोदिग्भूरूपं भूदिग्गोरूपं चाचक्षते | तत्र तत्सम्प्रदायानुगुण्यात् तन्निरुक्तिरूह्या | अस्मत्क्रमस्तु निर्दिष्टक्रम एव | यथा श्रीक्रमसिद्धौ - व्योमवामेश्वरीसंज्ञा नादभूमिश्च खेचरी | आनन्ददिक्चरीसंज्ञा गोचरी मन्त्रभूमिका || मन्त्राणां द्रव्यरूपत्वादावलिर्भूचरी तथा | इति | मयाऽप्युक्तं श्रीकोमलवल्लीस्तवे - भूतले किमथ किं गवां कुले दिङ्मुखेषु किमथो किमम्बरे | किं ततोऽप्युपरि सर्वतश्च किं दृश्यसे तदपि किं न मृष्यसे || इति | तत्र व्योम्नामोमात्मकप्रणवरूपताविमर्शवैशिष्ट्यानुप्राणनानां वक्ष्यमाणसर्वपञ्चकात्मनां वामं वमनं प्रतीश्वरी सामर्थ्यशालिनीति व्योमवामेश्वरी | सा च परमेश्वरस्याविकल्पभूम्यनुप्रविष्टा चिच्छक्तिः | खे बोधरूपे प्रमातरि चरणात् खेचरी | दिक्ष्वन्तःकरणेषु चरतीति दिक्चरी | गोषु बहिरिन्द्रियेषु सञ्चरणाद् गोचरी | भुवि विषयभूमौ चरणाद् भूचरीति | पारमेश्वरी हि संवित्स्वातन्त्र्यस्य शक्तिः प्रकृत्या निर्विकल्पकपदाधिरूढापि क्वचित् परिमिते प्रमातरि स्फुरन्ती तदनु तदन्तःकरणानुप्रविष्टा पश्चात् तस्यैव बाह्येन्द्रियानुबन्धिनी च भूत्वा बहिर्वेद्यलक्षणं विषयोल्लासमखिलमुपयुङ्क्त इति सर्वपथीनोऽयं प्रकारः | एता एव चिदानन्देच्छाज्ञानक्रियाख्याः शक्तयः परा सूक्ष्मा पश्यन्ती मध्यमा वैखरीति वाग्रूपाश्चानुभूयन्ते | यतश्चिच्छक्तिस्तावत् परमेश्वरस्य चैतन्यलक्षणा सर्वनिर्वाहकत्वपर्यायपरमस्वातन्त्र्यमयी व्योमवामेश्वरी | आनन्दश्चावच्छिन्नप्रमातृस्वात्मविश्रान्तिस्वभावत्वात् खेचरी | इच्छा चाभ्युपगमरूपत्वादन्तःकरणप्रसाध्येति दिक्चरी | ज्ञानं च बहिर्मुखं चक्षुरादिभिर्बाह्येन्द्रियैरुद्दिप्यत इति गोचरी | क्रियापि पारमेश्वरीषु शक्तिष्वत्यन्तस्थौल्याद् बहिर्वेद्यवर्गवैचित्र्यस्य एवोपलभ्यत इति भूचरी | एवं परादिवाक्पञ्चकोऽपि | विमर्शो बिन्दुनादौ च स्फोटः शब्दश्च वाकक्रमः इति श्रीपादुकोदयप्रक्रियया तत्तदुदयानुगुण्यादुक्तशक्तिपञ्चकात्मकत्वं स्वयमूहनीयम् | अन्यच्च सृष्टिस्थितिप्रभृतिपञ्चकीभूतमखिलमत्रैवान्तर्भवति | एताश्च श्रीक्षेमरजादिभिः पुस्तकेषु लिखितपठिता इत्यस्माभिरपि नामोपादानपूर्वकं चाकित्येन व्याख्याता इति | अथैवं पञ्चधा वहतः परमेश्वरस्य प्रमातृप्रमाणप्रमेयतया त्रैविध्येनोपास्तिप्रकारं सूचयन् मूर्तिचक्रं तावदाह - सप्तदशफालनेत्र इति | फालो ललाटम् | तद्गते नेत्रे सप्तदश शक्तयः | तच्च मूर्तिचक्रमित्याम्नायते | मूर्छनान्मोहरूपात् समुच्छ्रयणरूपाद् वा मूर्तित्वम् | तच्चान्तर्बहिरहन्तेदन्ताद्वितयस्फुरणानुगुण्यात् तत्र यदाहन्तायाः समुच्छ्रायः, तदेदन्ताया न्यग्भावरूपो मोहो भवति | यदा पुनरिदन्तायाः समुच्छ्रायः, तदाऽहन्ताया उक्तरूपो मोह इति द्वयमप्येकार्थम् | एवञ्च प्रमातृवह्निरूपस्य परमप्रकाशरूपस्य परभैरवसंवित्पर्यन्तमुत्कर्षः पाषाणादिजडसंवित्पर्यन्तं न्यूनीभावश्चेति महती स्वातन्त्र्यशक्तिर्मूर्तिशब्देनोच्यते | तत्र च कलाः सप्तदशोच्यन्ते | अग्नेर्बाह्याभ्यन्तरविभागेन कलादशकं शिखासप्तकं चेत्याम्नायेषु प्रसिद्धम् | यथाहुः - धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्यवहे कलाः || हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा | बहुरूपाऽतिरक्ता च सप्त जिह्वा हविर्भुजः || इति | तत्संख्यया मूर्तिचक्रशक्तयस्तावत्य इति | ताश्च पर्यालोच्यमानाश्चैतन्यं प्राधान्यमभिमानः कर्तृत्वमध्यवसायो वचनमादानं गमनमुत्सर्जनमानन्दितृत्वं ज्ञानं सङ्कल्पनं श्रवणं स्पर्शनं दर्शनमास्वादनमाघ्राणनं चेति प्रमातृस्फुरणप्रकारा एव भवन्ति, येषामन्तःकरणबहिष्करणादीन्युपायतयाऽवतिष्ठन्ते | एताश्च मूर्तिशक्तयः संकुचितस्य प्रमातुस्तद्विषयास्वादनभेदोपश्लेषात् पशुत्वमुपजनयन्ति, असंकुचितस्यात्यन्तस्वातन्त्र्यशक्तिविजृम्भासंरम्भारम्भकतया प्रवर्तमानाः परमशिवीभावलक्षणं मङ्गल्यमुन्मीलयन्तीति | अथ च प्रकाशानन्दचक्रद्वितयमाह - द्वादश षोडश चान्यनेत्रयोरिति | अन्ययोर्दक्षिणवामरूपयोर्नेत्रयोर्यथासंख्यं द्वादश षोडश च शक्तय इत्यर्थः | तत्र दक्षिणं नेत्रं प्रकाशचक्रम् | प्रकाश्यतेऽनेन प्रमेयजातमिति व्युत्पत्त्या प्रकाशः प्रमाणमित्यर्थो भवति | तत्र च शक्तयो द्वादश | हंसमत्यादीनां गुरुतया प्रमातृरूपाणामपि महाप्रमात्रपेक्षया प्रमाणीभावयुक्त्या शक्तित्वमेव | ताश्च तत्त्वदृष्ट्या यथाक्रमं बुद्धिप्रधानानि वाक्पाणिपादपायूपस्थरूपाणि कर्मेन्द्रियाणि, मनःश्रेष्ठानि श्रोत्रत्वक्चक्षूरसनाघ्राणात्मकानि ज्ञानेन्द्रियाणि च भवन्ति | अहङ्कारस्य सर्वत्रानुस्यूतत्वान्न पृथग् गणनम् | एवञ्च प्रमाणरूपो भगवान् मार्ताण्डो द्वादशधा प्रकाशते इत्युपनिषत् | वामं च नेत्रमानन्दचक्रम् | आनन्दो नाम स्वात्मपरमेश्वरस्येदन्तया स्फुरत आ समन्तात् समृद्धिस्वभावः प्रमेयवर्गोल्लासः | स च सौम्योंऽशः | तत्र कलाः षोडश | वस्तुवृत्त्या तु ताः षोडशविकारस्वभावाः | विकारश्च मनः कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकमाकाशादिभूतपञ्चकं च | एतेषु शब्दस्पर्शादिः सर्वोऽपि वेद्यविलासोऽन्तर्भवति | शब्दादीनां स्थौल्यावस्थैव महाभूतानि | मनसा च बुद्ध्यहङ्कारद्वयक्रोडीकारः | यदाहुः पौराणिकाः - मन एव मनुष्याणां कारणं बन्धमोक्षयोः | बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं मनः || इति | एवमन्यदप्यूहनीयम् | एतानि च मूर्तिप्रकाशानन्दचक्राणि वामेश्वर्यादिशक्तिपञ्चकात्मकान्येव | तत्र प्रमातृवह्निरूपमूर्तिचक्रं सर्वोर्ध्ववर्तिनीं सर्वाविभागस्वभावत्वात् सर्वसाधारण्येन स्फूरन्तीं व्योमवामेश्वरीं प्राधान्यतो निमित्तीकृत्य खेचरीशक्त्या प्रवर्तते | खेचरी च प्रमातृस्फुरणतन्मयीति प्रागप्युक्तम् | प्रमाणार्करूपं तु प्रकाशचक्रं दिक्चरीगोचर्युभयमेलनारब्धम्, तयोर्द्वयोरप्यन्तर्बहिरिन्द्रियोल्लासरूपत्वात् | प्रमेयसोममयमानन्दचक्रं तु भूचर्यनुप्राणनमिति विवेकः | अनेनैव चक्रत्रयेण इच्छा ज्ञानं क्रियेति शक्तयः, ज्वलनस्तपनः शशीति बिन्दवः, भूर्भुवः सुवरिति व्याहृतयः, प्राणोऽपान उदान इति वायवः, पृथिव्यन्तरिक्षं स्वर्ग इति स्थानानि, सत्त्वं रजस्तम इति गुणाः, इडा पिङ्गला सुषुम्नेति नाड्यः, देवयानं पितृयानं महायानमिति यानानि, स्थूलं सूक्ष्मं परमित्यवस्थाः, कुलं कौलमकुलमिति विभागाः, मन्त्रो मुद्रा निरीहा इति रहस्यानीत्याद्यखिलमपि त्रित्वविशिष्टं क्रोडीक्रियते | यच्छ्रुतिः - तमेकनेमिं त्रिवृतं षोडशारम् इत्यादि || ३७ || एवं स्थूलं देहं पीठतयोपास्यमुपपाद्य सूक्ष्ममप्येवं विम्रष्टव्यमित्युन्मीलयितुं वृन्दचक्रं पर्यालोचयति - प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचक्रे | वृन्दानां चक्रं वृन्दचक्रम् | वृन्दश्च सन्दोहात्मा | तादृक्त्वं च तस्य स्वतः पुर्यष्टकमयतया ज्ञानसिद्धादिपञ्चकसमष्टिस्वभावत्वात् | तच्च प्रकटितपञ्चस्कन्धम् | ज्ञानसिद्धाः षोडश, मन्त्रसिद्धाश्चतुर्विंशतिः, मेलापसिद्धा द्वादश, शाक्तसिद्धा अष्टौ, शाम्भवसिद्धाश्चतस्र इति भङ्ग्या पञ्चवाहक्रमानुगुण्यादुद्भावितपञ्चप्रकारम् | आहत्य चतुष्षष्.टिर्बृन्दचक्रम् | तत्र श्रीकालसङ्कर्षण्यपरपर्याया रुद्ररौद्रेश्वरी पञ्चषष्टितमी सर्वानुवृत्तेति न पृथग् गण्यते | तच्च - धाममुद्रावर्णकलासंविद्भावस्वभावतः | पाताऽनिकेतदृष्ट्या च वृन्दचक्रं प्रकाशितम् || इति न्यायादष्टधा भवति | तत्र धामानि स्थानानि ज्ञानसिद्धादीनां क्रमात् कन्दनाभिहृत्कण्ठभ्रूमध्यरूपाणि | मुद्राः करङ्किण्यादयः | यदुक्तम् - करङ्किणी क्रोधनी च भैरवी लेलिहानिका | खेचरी चेति मुद्रायाः पञ्चात्मकतया स्थितिः || इति | तथा श्रीविज्ञानभट्टारके - करङ्किण्या क्रोधनया भैरव्या लेलिहानया | खेचर्या दृष्टिकाले च परा व्याप्तिः प्रकाशते || इति | मुद्राणां बन्धप्रकारश्च तत्रैवोपपादितः | यथा - मृद्वासने स्फिजैकेन हस्तपादं निराश्रयम् | विधाय तत्प्रसङ्गेन परा पूर्णा मतिर्भवेत् || उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ | कक्षव्योम्नि मनः कुर्वन् शममायाति चिल्लयात् || स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च | अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत् || मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम् | होच्चारं मनसा कुर्वन् ततः शान्ते प्रलीयते || आसने शयने स्थित्वा निराधारं विचिन्तयेत् | स्वं देहं मनसि क्षीणे क्षणात् क्षीणाशयो भवेत् || इति | तत्त्ववृत्त्या तु करङ्किणी नाम स्वदेहेन्द्रियाख्यभेदविगलनप्रगल्भा मुद्रा | यथा श्रीचिद्गगनचन्द्रिकायाम् - अन्तरम्ब ! बहिरप्यमी करा ये तवाक्षतनवोऽङ्क एष यः | विग्रहो द्वितयमप्यतः परं चिन्नभो नयसि नः करङ्किणी || इति | पृथिव्यादिप्रकृत्यन्तं तत्त्वसन्दोहमन्तःसंजिहीर्षालक्षणेन क्रोधेन स्वात्मरूपतां नयति क्रोधनी | यथा - यत् प्रकृत्यवधि तत्त्वमण्डलं क्ष्मामुखं परिमितग्रहास्पदम् | क्रोधनी त्वमसि संजिहीर्षया मन्त्रमूर्तिरिह तस्य जृम्भिका || इति | अन्तर्बहिर्भावयौगपद्येन पूर्णसंवित्स्वभावा भैरवी | यथा - ग्रन्थयो द्विषडुमे ! यया धृता सा निरावरणचिन्नभःपदा | स्पन्दमूर्तिभृतभेदडम्बरा भैरवी त्वमसि विश्वमेलिनी || इति | इयं च निमीलनोन्मीलनसमाधिद्वयसामरस्यौचित्यादस्माभिरत्यन्त- मुपलाल्यते | यदाहुः - अन्तर्लक्षो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः | इयं सा भैरवी मुद्रा सर्वतन्त्रेषु गोपिता || इति | यथा श्रीमहानयप्रकाशे - महामेलापधर्मिण्यः क्रौण्डल्युन्मेषविग्रहाः | निरावरणचिद्व्योमधामस्था भान्ति नित्यशः || आपूर्य स्वबलोद्रेकसमुत्थं भेदडम्बरम् | या स्थिता पूर्णविभवा निरावरणविग्रहा || भैरवी सैव विख्याता मुद्रा सदसदुज्झिता | निस्तरङ्गविकासात्मसामरस्यैकपालिनी || आसां मेलापसिद्धानां देवीनां मुद्रिता सदा | मु(द्रि?द्रे)णेयं द्विधा भासमुद्रेयं भैरवात्मिका || इति | यच्चोक्तमस्मद्गुरुभिर्मनोनुशासनस्तोत्रे - स्तब्धदृष्टि बहिरर्थसंश्रयं निर्विकल्पमपि यत् तवासनम् | मुक्तपञ्जरशुकानुकारि तद् भैरवं वपुरुदारमाहर || इति | मयाऽप्युक्तं श्रीपरास्तोत्रे - आनन्दोदयलक्ष्मणोरकलुषैरुत्पक्ष्मणोरूष्मलै - रक्ष्णोरुन्मिषितैः प्रताप्य पृथिवीमन्तःस्थलैकस्पृशः | पूर्णाहम्प्रथनोत्सवाय सुधियो यामूर्ध्वमध्यासते सा काचित् त्वमचिन्त्यसिद्धिरचला मुद्रा महत्युच्यसे || इति | पुर्यष्टकादिवासनासर्वस्वग्रासलालसा लेलिहाना | यथोक्तम् - अष्टपुर्युदितबीजवासनासंहृतिप्रवणरश्मिपु~जया | लीढमात्रमुखभेदया त्वया भूयते जननि ! लेलिहानया || इति | वाच्यवाचकाद्यशेषविकल्पविक्षोभविलापिनी सौषुम्नसरणिसीमोल्लङ्घिनी स्वात्मसंविदविभिन्नाकारा च खेचरी | यथा - त्वं पराप्रभृतिवैखरान्तिमोल्लेखविस्तरविलापनोन्मुखी | देव्यनावरणशम्भुसद्मगा खेचरी भवसि चिद्विकासिनी || बह्निसूर्यशशिधामघस्मरी कुण्डली तिडदिवोत्पतन्त्यसौ | शाम्भवं जननि ! बिन्दुमध्वना मध्यमेन च मतासि खेचरी || इति मुद्राविभागः | वर्णाः श्रीमच्छब्दराशिभैरवात्मानः | तत्र ज्ञानसिद्धाः षोडश स्वरमययः | मन्त्रसिद्धाः ककारादिमकारान्ता वर्णात्मकाः | मेलापकसिधाश्च षण्डस्वररूपाः | यकारादिहकारान्तस्वभावाः शाक्तसिद्धाः | अकारकलाकाराश्च शाम्भवसिद्धा इति | अकारकलाश्च बिन्द्वर्धचन्द्रनिरोधनादस्वभावाः | तत्र बिन्दुरशेषवाच्याविभिन्नप्रकाशात्मा चन्द्राकृतिरनुस्वारः | किञ्चिद्वाच्यप्राधान्यशान्तावर्धचन्द्रः, मण्डलस्वभावादत्यन्तकौटिल्यव्यपायात् | ततोऽपि वेद्यकौटिल्यव्यपगमादृजुरेखारूपा निरोधिका | यदनया परिमितयोगिनां नादानुप्रवेशः, तद्वदपरिमितयोगिनां भेददशावेशश्च निरुध्यते | नादश्च स्वपरामर्शपरमार्थ इत्यकारकलारहस्यम् | श्रीपञ्चपिण्डनाथस्था अकारादयश्च वर्णा ज्ञानसिद्धादीनां क्रमाद् भवन्ति | किञ्च, ज्ञानसिद्धादयः क्रमाद् अकारकलामययः | शाम्भव्यस्तु तत्समष्टिरूपाः | यदस्माभिरकारस्य पञ्चपिण्डस्य च द्वयोरैकात्म्यमेवाङ्गीक्रियते | यदुक्तं श्रीमहानयप्रकाशे - अवर्णपञ्चपिण्डार्णरूपयोरद्वयी गतिः | यतस्तस्मादुच्यतेऽलं देवीनां तद्गतं वपुः || इति | अनेन श्रीमहार्थत्रिकदर्शनयोरन्योन्यं नात्यन्तं भेदप्रथेति व्याख्यातम् | एवमोङ्कारेऽप्यनुसन्धेयम् | यदयमोड्याणपीठस्वभावो नादात्मा परमव्योमरूपः सृष्ट्यादिप्रथात्रयोपसंहारप्रगल्भो जाग्रदाद्यवस्थात्रयाधिष्ठातृभूतब्रह्मविष्णुरुद्रात्माकारो- कारमकारात्मा सर्वाविभागप्रथामयनादलक्षणार्ध- मात्रानुप्राणनः प्रतिपादिततद्वर्णचतुष्टयसामरस्योन्मीलितो महारावबीजपर्यायो भवति | तथा श्रीमहानयप्रकाशे - विसर्गस्थितिसंहारप्रथाग्रासैकतत्परः | निरुपाख्यमहादीप्तिसमुल्लसनतत्परः || योऽध्युष्टकलनोद्रेकस्वभावः प्रणवाभिधः | पीठाभिधं तमेवाहं नमाम्यागमसिद्धये || इति वर्णक्रमः | कला रौद्र्यादयः | तत्र रौद्री वामा अम्बिका ज्येष्ठेति क्रमाद् ज्ञानसिद्धादिबिरुपश्लिष्यन्ते | एतत्सामरस्यलक्षणाश्च शाम्भव्यः | यदुक्तं श्रीचिद्गगनचन्द्रिकायाम् - ज्ञानदीधितिषु रौद्र्युदेति ते मन्त्रदीधितिषु वामयोदितम् | योगदीधितिषु जृम्भतेऽम्बिका ज्येष्ठयेत्थमधिशक्तिदीधिति || देव्यभेदितकलाचतुष्टयी शम्भुदीधितिषु दीप्यते स्वरः | इति | अथ संवित्स्वभावः | तत्र ज्ञानं नाम सामान्यात्मिका प्राथमिकी प्रथा, यामालोचनेत्याचक्षते | मन्त्रः पदार्थोदयसंरम्भात्मा परामर्शः | स एव स्वात्मविश्रान्तो मेलापः | तादृग्रूपस्य च वासनाशान्तिरूपः शाक्तः | विलीनसर्ववासनोपलेपस्य चास्य स्वात्मसंविन्मात्रतापारिशेष्यं शाम्भव इति | अथ भावस्वभावः | पारमेश्वरो हि प्रकाशः प्रकृत्या प्रसन्नगम्भीरमनुत्तरङ्गमम्बुराशिमनुहरन्नविकल्पात्मैवान्तर- स्वातन्त्र्यमयीमानन्दशक्तिमनुभवति | तस्य च तादृक्स्वभावानुप्रविष्टाः शक्तयः शाम्भव्यः | स एव यदा किञ्चित् कल्लोलनक्रियौन्मुख्यमवलम्बते, तदा शाक्तोल्लासः | तस्यैव किञ्चित् कल्लोलीभावे मेलापपरिस्फुरणम् | उपर्युपर्युद्रिक्तकल्लोलकल्पनायां मन्त्रोन्मेषः | चन्द्रोदयादेरिव कुतश्चित् प्रवृद्धिहेतोर्वेलोल्लङ्घनादिरुत्कूलः क्षोभकोलाहलो ज्ञानसिद्धोदय इति | ततश्च ज्ञानसिद्धाः प्रमेयांशतया पर्यालोचनीयाः | मन्त्रसिद्धाः प्रमाणमयत्वेन | मेलापसिद्धाः प्रमात्रात्मकतया शाक्तसिद्धास्तदवच्छेदव्यपोहेन शुद्धप्रमातृतया | शाम्भवसिद्धाश्च पूर्णसंवित्स्वातन्त्र्यमयपरमशिवभट्टारक- स्वरूपतयेति | अथ शाम्भव्यादीनां वामेश्यादितादात्म्यद्योतकः शाम्भवसिद्धासु वामेश्याः पात इत्यादिक्रमेण पञ्चवाहवृन्दचक्रयोरैकात्म्यानुसन्धानं पात इति पातप्रकारः | एवं सृष्ट्यादिक्रमेऽपि पातोऽनुसन्धेयः | यथोक्तं श्रीक्रमसिद्धौ - संवित्क्रममिमं देव ! शृणु वक्ष्यामि सुन्दर | सृष्टिं स्थितिं च संहारानाख्याभासास्वरूपकम् || ज्ञानं मन्त्रं च मेलापं शाक्तं शाम्भवसंयुतम् | इति | यथा श्रीक्रमसद्भावे - ज्ञानं सृष्टिं विजानीयात् स्थितिर्मन्त्रः प्रकीर्तितः | संहारं तु महाकालमेलापं परमं विदुः || अनाख्यं शक्तिरूपं तु भासाख्यं शम्भुरूपकम् | पञ्चप्रकारमेतद्धि विज्ञेयं तत्त्वदर्शिभिः || इति | अनिकेतो नाम ज्ञानसिद्धादीनां भावक्रमप्रातिलोम्यात् तत्तत्प्रमेयत्वादिविकल्पविक्षोभव्युदासेन परमप्रतिष्ठाभूमिप्राप्तिपारिशेष्यपरामर्श इत्यष्टधा विभागः | तत्र ज्ञानसिद्धानां षोडशविकारप्रथामययः | मन्त्रसिद्धाश्चान्तर्बहिरिन्द्रियपरिस्पन्दवासनास्वभावाः | इन्द्रियाणि च सर्वानुस्यूतमहङ्कारमुपादाय द्वादशोपलभ्यन्ते | तेषां च कदाचिदात्मस्वरूपादवरुह्य विषयावगाहनवैचित्र्यादन्यदा विषयेभ्यः प्रत्यावृत्त्य स्वात्मविश्रान्तिमात्रव्यापृतत्वाच्च प्रकारद्वयोपपत्त्या द्वैविध्यमस्ति | तन्निबन्धनश्च तद्वासनारूपाणामासां चतुर्विंशतितत्त्वोल्लासः | मेलापकसिद्धास्तु प्रमातृपरमार्था इत्युक्तम् | तत्र प्रमातॄणामयं स्वभावो यज्ज्ञानसिद्धत्मकं प्रमेयजातं मन्त्रसिद्धात्मकप्रमाणद्वारा स्वात्मनि विश्रमयन्तीति | ततश्च प्रमाणभूतानामिन्द्रियाणामेव तत्र प्रवृत्त्यौल्बण्याद् द्वादशेन्द्रियमयं मेलापसिद्धाचक्रमित्यर्थो भवति | अथ शाक्तसिद्धाः | शक्तिश्च वासनामयी | सा च पुर्यष्टकविषयत्वादष्टधा भवति | पुर्यश्चाष्टौ बुद्धिरहङ्कारो मनः शब्दादिपञ्चकं चेति प्रसिद्धमिति तदनुप्राणनोऽयमेतच्चक्रविष्फारः | शाम्भव्यश्च नाम प्रलीनाशेषविश्ववासनस्य भगवतः शम्भुभट्टारकस्य तत्स्वरूपाविभिन्नाः शक्तयः | ताश्च तत्त्वदृष्टावम्बाज्येष्ठावामारौद्रीमयय इति | इत्येनां गुरुमुखसम्प्रदायलब्धां वाचालः शुक इव वृन्दचक्रचर्याम् | पञ्चार्थक्रमपदवीरहस्यसंवित्सर्वस्वव्यतिकरगर्भिणी- मवोचम् || इत्थं स्वदेहमेव पीठनिकेतनतया स्थूलं वृन्दचक्रात्मना सूक्ष्मं पञ्चवाहस्वभावतया परं च पीठतया पर्यालोच्य, तस्य च त्रैविध्यस्य परमार्थं प्रमातृप्रमाणप्रमेयलक्षणैर्मूर्ति- प्रकाशानन्दचक्रैः परामृश्य तदुपरि वरिवसनीयां श्रीगुरुनाथपरम्परां तद्व्यतिरेकद्वारा प्रकाशयति - न खलु मण्डले गुरूणां नियमो नियमातिलङ्घिनां युक्तः || अयमेव पीठस्य तत्प्रतिष्ठाप्याया देवतायाश्च भेदो यदन्योन्यमाधाराधेयभावेऽपि प्रथमस्य स्वतः स्फुरत्ताराहित्यमन्यस्याश्च स्वतः स्फुरत्स्वभावतया नित्यमौज्ज्वल्योत्कर्ष इति | तत्र पीठदेवतानां यः स्फुरत्तां प्रत्यौपाधिकत्वलक्षणो नियमः, स तु भगवतीं श्रीमङ्गलादेवीमारभ्य श्रीमहेश्वरानन्दपर्यन्तं पृथक् प्रथमानानां गुरुनाथानां मण्डलं पङ्क्तिस्तत्र न संभवति, यत एते प्रस्तुतं नियममतिलङ्घ्य वर्तन्ते | ततश्च पूर्णसंवित्स्वभावा श्रीगुरुपङ्क्तिरिति तात्पर्यार्थः | यत एते देशकालाद्यवच्छेदरूपं नियमतिलङ्घयन्ति, तत एषां बहुत्वम् | एतत् तत्त्ववृत्त्या न सङ्गच्छते, केवलं तत्तदुपाध्युपश्लेषवशादौपचारिकतयैवाङ्गीक्रियते | यथैकमेव वस्तु दर्पणसलिलतैलाद्याधारभेदात् तथा तथा प्रतिबिम्बति | बहुत्ववच्छरीराद्युपरागोऽपि न भेदप्रथामुपपादयति | यथोक्तं मयैव श्रीपादुकोदये - तत्र यत् पूज्यमस्माकं शक्तीनां मण्डलं महत् | स्वस्वभावात्मके शम्भौ तत् कृत्स्नं पर्यवस्यति || सोऽपि देवे गुरौ स्वात्मन्यैकात्म्यमुपगच्छति | स च स्वभावादेकः सन्ननेक इव भासते || आरभ्य मङ्गलादीप्तिशिवानन्दादिकं क्रमम् | अम्बानाथपदाध्यासात् पारम्पर्येण पूज्यते || शक्तिः शिवो देवपाणिर्दक्षिणामूर्तिरित्यपि | अन्यथा वा समाख्यातो लोके सोऽयमलौकिकः || तत्तत्कालानुगुण्येन देवस्तैस्तैर्बुभुत्सुभिः | तत्तत्पृथक्त्वमायाति कल्लोलैरवि भानुमान् || वैचित्र्यं च शरीरादेस्तस्यैवेच्छाविजृम्भितम् | तद्विकल्पेन नानात्वं ज्ञेयं तत्पादुकास्वपि || इति | अतश्च तत्त्ववृत्त्या स्वात्माविभिन्नानुत्तरस्वभावनादशक्त्यात्मा विमर्श एव श्रीगुरुनाथ इत्युक्तं भवति | यथा श्रीमहानयप्रकाशे - वस्तुतस्त्वस्वरोल्लासप्रथनोच्छूनतात्मकः | यो विभाति महानादस्तमजं देशिकं श्रये || इति | श्रीचिद्गगनचन्द्रिकायां च - अस्वरोल्लसनबीजमग्रिमोच्छूनतावपुरपाकृतक्रमः | नाद एष तव विश्वदेशिकः कोऽपि स स्मृतिविमर्श ईश्वरे || इति | तस्य च तादृक्स्वरूपपरिज्ञानोपायतया श्रीपादुकायाः परिग्राह्यत्वम्, शैवीमुखमिहोच्यते इत्युक्तत्वात् | सा च तादृश्येवाम्नायते | यथोपदिष्टमन्तर्विद्भिः - परापरात्मनः स्वात्मनः परानन्दमयी स्वव्यतिरेककबलनोद्युक्ता परा शक्तिः पादुकेति गीयते इति | तस्याश्च - वागुरामूलवलये सूत्राद्याः कवलीकृताः | तथा कुलार्णवज्ञानं पादुकायां प्रतिष्ठितम् || इति स्थित्या प्रतिपादितसर्वार्थक्रमगर्भत्वमवर्जनीयम् | यथा श्रीपूर्वे - क्रमसङ्कोचगुलिका तद्विकासैकमूलिका | तत्तत्स्वरूपा वीरादिवीरान्ता पातु पादुका || इति | एतच्च तत्प्रतिपादनमात्रोपक्षीणव्यापारे मदीये श्रीपादुकोदये तन्त्रे द्रष्टव्यम् || ३८ || अथैवमुपपादितस्य स्वात्मरूपपरमशिवभट्टारका- विभिन्नस्य श्रीदेशिकनाथस्य स्वातन्त्र्यसंविच्छक्तिविजृम्भण- स्वभावमसाधारणं कृत्यपञ्चकं प्रकटयितुं सर्वोत्तिर्णा भासां पृथग्वक्तव्यतयाऽवस्थाप्य प्रथमं सृष्ट्यादिचतुष्टयं स्पष्टयति - सृष्टौ दश कलाः स्थितौ द्वाविंशतिर्भवन्ति शक्तयः | एकादश संहारे त्रयोदश तास्तुरीयपर्वणि || ३९ || सृष्टिर्हि नामोद्योगावभासचर्वणात्मविलापननिस्तरङ्गत्व- लक्षणप्रथापञ्चकसमष्टिरित्याम्नायते | सर्वेषामस्मदादीनामपि प्रमातृणामेतत्प्रथापञ्चकाविनाभावः स्वयमूहनीयः | तथाहि - कुलालादयः स्वात्मसंविदैकात्म्यावस्थितं कुम्भादि भावं बहिः पृथक् कर्तुं प्रथममुद्युञ्जते | तमेव बहिर्दण्डचक्रचीवरादिना परिबर्हेणावभासयन्ति | अवभासितं तमापाकाधिरोपणपाकप्रतिष्ठापनादिना पौनःपुन्येन स्वात्मीयतयाऽनुभवन्ति | तदनु तदर्थक्रियामात्रतात्पर्यात् तत्रौदासीन्यमवलम्बन्ते | औदासीन्यमेव च तस्य विलापनम् | तदर्थक्रियास्मृतिप्रमोषे च तत्र निस्तरङ्गाः सम्पद्यन्ते | यतः कुम्भादिरेव तेषां कल्लोलतयोत्पद्यते | विल्लियते च परमेश्वरे | पुनरेतत् प्रथापञ्चकं स्वात्मपरामर्शपावनीभूतमित्येतावानेव भेद इति प्रागप्यवोचाम | तत्र च सृष्टौ कलाः प्रथमप्रवृत्त्यौन्मुख्य- शालिन्यः शक्तयो दश | ताश्च योनयस्तत्सिद्धाश्च | तेषां च तत्त्वदृष्टौ उद्योगादिकलापञ्चकात्मकत्वं तत्तत्कलावत्तया तथा तथा कर्तृस्वरूपत्वं च क्रमात् पर्यवस्यति | ताश्च क्रियाज्ञानेच्छोद्योगप्रतिभास्वभावसृष्टिस्थितिसंहारानाख्या- भासास्वरूपतया निष्कृष्यन्ते | ततश्च सृष्ट्यादिपञ्च- कृत्यान्तर्गतमखिलमपि वैचित्र्यमेकस्यां सृष्टावेव परिस्फुरतीत्युक्तं भवति | यथोक्तं श्रीक्रमसद्भावे - तया व्याप्तमिदं विश्वं त्रैलोक्यं सचराचरम् इति | एवमन्यत्रापि चक्रे तद्व्यतिरिक्तचक्रस्वभावानुप्रवेशस्या- वश्यम्भावित्वं केवलं प्रधानेन व्यपदेशा भवन्ति इति नीत्या | तत्तदुद्रिक्तांशोपसंग्रहात् सृष्ट्यादीनां पृथग् व्यवस्था | यथा श्रीक्रमसिद्धौ - दोहे व्याप्तं गवि क्षीरं स्तनाभ्यां प्रसृतं यथा | सर्वगा व्यापिनी सूक्ष्मा एकस्मिन् प्रसृता शिवा || इति | १३ अत एव श्रीमहानयप्रकाशे - येयं तस्य निरौपम्यशरीरा दिप्तयस्तु ताः | नियतग्रहसंस्थानं निधानाय समुत्थिताः || ता एव गदिताः पञ्च योनयः परधामगाः | नियतग्रहसंस्थानकल्पनापरिवर्जिताः || इत्यादौ नियतग्रहसंस्थानोद्युक्तत्वं तद्विवर्जितत्वं चोच्यते | श्रीक्रमसद्भावेऽपि - शृणु मे परमां कालीं विद्यां सृष्टिस्वभावगाम् | इत्यादि | एतदुपरिष्टादप्यासूत्रयिष्यते | इत्थमेकैककृत्यविषयेऽपि परमेश्वरस्य पञ्चकृत्यप्रवृत्त्यौन्मुख्यमस्तीत्युक्तं भवति | यथा श्रीमहानयप्रकाशे - इत्थमेकैव पञ्चात्मरूपेण स्फुरति स्वतः | स्वभावं प्रकटीकर्तुं या देवी तामहं श्रये || इति, आसां मध्यात् तु देवीनां यदैका स्फुरति स्वतः | सर्वास्तदैव सततं सामरस्येन भान्त्यलम् || इति च | श्रीचिद्गगनचन्द्रिकायां च - पञ्चसु स्फुरति देवि ! वृत्तिषु त्वन्मयीषु यदि काचन स्वतः | शश्वदाशु निखिलास्तदैव ताः सामरस्यमधिरुह्य भान्त्यमूः || इति | यथा च श्रीशिवदृष्टौ - यदेकतरनिर्माणे कार्यं जातु न जायते | तस्मात् सर्वपदार्थानां सामरस्यं व्यवस्थितम् || इति | अथ स्थितिक्रममाह - स्थितौ द्वाविंशतिर्भवन्ति शक्तय इति | स्थितिर्हि नाम सृष्टानां पदार्थानां यावत्संजिहीर्षोदयमवैयाकुल्येनावस्थानम् | यदुक्तम् - स्थितिर्नाम स्वरूपस्य तत्तद्रूपतया धृतिः इति | शक्तयश्च ताः शिरश्चक्रे युगनाथाश्चत्वारः, तद्देव्यश्चतस्र इत्यष्टौ | दयषट्कोणे साधिकारनिरधिकारविभागेन राजपुत्राणां द्विषट्कम्हृ | तन्मध्ये कुलेश्वरः कुलेश्वरीति द्वाविंशतिः | तत्र पीठान्योड्याणजालन्धरपूर्णगिरिकामरूपरूपाणि चत्वार्यधिष्ठाय युगानां कलिद्वापरत्रेताकृतात्मनां क्रमेण नाथभूता जाग्रत्स्वप्नसुषुप्तितुर्यावस्थाक्रान्तस्य विश्वस्य स्थापनार्थमकारोकारमकारनादात्मकप्रणवकलाचतुष्कमन्त्रोप- बृंहितैश्वर्याः, कर्ता ज्ञाता व्यवसिता चे(ति)ता चेति क्रमेण परमकर्तृस्फुरत्तानुप्राणनाश्चत्वारः कर्तृविशेषा युगनाथा इत्युच्यन्ते | तद्देव्यश्च - शृणोति शब्दमोलम्बे प्रेक्षते पुष्करद्वये | करालम्बेऽभिधत्ते च सह्ये जिघ्रति गन्धवत् || मातङ्गे तु महापीठे व्याप्नोत्यखिलमीश्वरो | इति नीत्या तत्तत्पीठावस्थाद्यैश्वर्यरूपाः क्रिया ज्ञप्तिर्व्यवसितिश्चिच्छक्तिश्चेति तत्त्ववृत्त्योपास्यन्ते | राजपुत्राश्च - जगतो रञ्जनाद् राजा साक्षाद् देवो महेश्वरः | तत्पुत्रा राजपुत्राः स्युः ......................................... || इति श्रीपादुकोदयस्थित्या तानि तानीन्द्रियाण्युच्यन्ते | यथा च श्रीचिद्गगनचन्द्रिकायाम् - राजनात् प्रकृतिरञ्जनाच्च मां राजसंज्ञमनुबोधकर्मणोः | षत् त्वया पृथगमी प्रवर्तकाः पुत्रभावमधिरोपिताः शिवे || इति | तत्र साधिकारत्वं कर्मप्राधान्यात्, कर्मण्यैश्वर्यमधिकारः इत्युक्तत्वात् | निरधिकारत्वं च तद्विपर्ययेण ज्ञानोद्रेकात् | अतश्च बुद्धिर्वागादीनि कर्मेन्द्रियाणि च साधिकाराः | मनःश्रोत्रप्रभृतीनि ज्ञानेन्द्रियाणि निरधिकारा राजपुत्राः | कुलेश्वरोऽहङ्कारः | तस्याभिमानशक्तिः कुलेश्वरीति तत्त्वार्थपर्यालोचनम् | अथ संहारप्रकारमाह - एकादश संहार इति | संहारो नाम बहिरुद्रान्तानां भावानां पारमेश्वरे प्रकाशे पुनःप्रसूत्यौचित्येन वटधानादिनीत्या वासनात्मतयाऽवस्थानम् | तत्र शक्तय एकादश | ताश्च सर्वान्तःकरणसमष्टिभूतमहङ्कारं बाह्येन्द्रियदशकं च भक्षयन्त्यः स्फुरन्तीत्येकादशाऽभूवन्निति तत्त्वनिश्चयः | तत्र तादृगहङ्कार एव प्रमाता, तद्व्यतिरेकेण परिमितस्य तस्यानुपलम्भात् | इन्द्रियाणि प्रमाणानि | तद्ग्राह्यं च प्रमेयमिति प्रमात्रादित्रिकमयं प्रमेयमन्तश्चर्वयन्त्यः कलाः संहर्त्र्य इत्युक्तं भवति | एतच्छक्त्युपश्लेषावच्छेदाच्च परमेश्वरस्यैकादशरुद्रत्वप्रसिद्धिः | अथाऽनाख्याक्रमं प्रख्यापयति - त्रयोदश तास्तुरीयपर्वणीति | तुर्यमनाख्याचक्रम् | तद्रूपे पर्वण्यवस्थाविशेषे | अनाख्यमित्याख्याशून्यत्वमुच्यते | आख्या च पश्यन्त्यादिस्थूलवाक्त्रितयस्वभावा | यथोक्तं श्रीचिद्गगनचन्द्रिकायाम् - नादबिन्दुलिपिविग्रहा गिरस्तिस्र ऊर्ध्वगविमर्शशीकराः | संहृतिस्थितिविसृष्टिधामसु व्यापृतास्त्वदध ईशवल्लभे || इति | तच्च तत्त्वदृष्ट्या संहृतानां प्रमात्रादीनां संहर्तृस्वभावसंविदग्निमात्रपारिशेष्यस्वरूपतया निश्चीयते | तच्च - उद्योगमयमालस्यं प्रकाशैकात्मकं तमः | अशून्यं शून्यकल्पं च तत्त्वं किमपि शाम्भवम् || इति संविदुल्लासन्यायादशून्यमपि शून्यमयी काचित् कक्ष्येवावभासते | अत एव हि तुरीयपर्वणीत्युक्तम् | यत एतत्प्रकाशेऽप्यविक्लबेन योगिना किमप्यन्तर्विम्रष्टव्यं यदलौकिकस्फुरत्तत्मकभासानुभवसौख्यसम्पद्विजृम्भात्मकतया पर्यवस्यति | यदुक्तं श्रीस्पन्दे - तदा तस्मिन् महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || इति | तत्र च यद्यपि मुख्यया वृत्त्या शक्तिकल्पनमेवमेतावत्तयेति वा नोपपद्यते, तथाप्युपचारादागमेषु तथाम्नायते | यदुक्तं स्तोत्रभट्टारके - अकथ्यं वा त्रयातीतमुपचारेण गीयते इति | तत्र च ताः शक्तयस्त्रयोदश | ता इति | या स्रष्ट्र्यः स्थापयित्र्यः सहंर्त्र्यश्च तास्तादात्विकावस्थायां संहर्तृमात्रपारिशेष्येऽप्युद्भविष्यद्वेद्यवैचित्र्यापेक्षया किञ्चिदन्तःकन्दवदवतिष्ठमाना द्वादशेन्द्रियतत्समष्ट्यात्मना त्रयोदश सम्भवन्ति | ताश्च इहैकैकत्र सृष्ट्यादौ चक्ररूपता विद्यते इति श्रीक्रम- केलिकॢप्त्या सृष्टिसृष्टिः, सृष्टिस्थितिः, सृष्टिसंहारः, सृष्टितुरीयम्; स्थितिसृष्टिः, स्थितिस्थितिः, स्थितिसंहारः, स्थितितुरीयम्; संहारसृष्टिः, संहारस्थितिः, संहारसंहारः, संहारतुरीयम्; इति द्वादशानामिन्द्रिय स्फुरत्तानाम् - अनाख्याभासयोरत्र नोपदिष्टः पृथङ्मनुः इति स्थित्या सर्वानुस्यूतया तुरीयसम्मिलितया भासाभट्टारिकया त्रयोदशीभूतानां परिस्पन्दतयाऽध्यवसीयन्ते | यथा श्रीमहानयप्रकाशे - आसां द्विषट्कदेवीनां वमनग्रासतत्पराम् | देवीं त्रयोदशीं वन्दे तादात्म्यप्रतिपत्तये || इति | एताश्च सृष्टिकाल्यादिव्यपदेशेन स्तोत्रभट्टारकावुद्घाट्यन्त इति त्रयोदशसंविधानोपनिषत् || ३९ || अथ सर्वोत्तिर्णां भासामुद्भासयति - भासायां न विकल्पः स्फुरति स्फुरदेकनिष्कलश्रियाम् | यदि प्रतिबिम्बगत्या स्फुरति परं षोडशाधिका देवी || ४० || भासा नाम सृष्ट्यादिकृत्याक्रान्तविश्ववैचित्र्यव्यवहार- गर्भिणी सर्वोत्तिर्णा सर्वानुग्राहिणी च पारमेश्वरी चिच्छक्तिः, या तदीयं स्वातन्त्र्यं स एवेत्यध्यवसीयते | यथोक्तं श्रीपादुकोदये - भासा च नाम प्रतिभा महती सर्वगर्भिणी | स्वस्वभावशिवैकात्मदेशिकात्मकचिन्मयी || यस्यां हि भित्तिभूतायां मातृमेयात्मकं जगत् | प्रतिबिम्बतया भाति नगरादिव दर्पणे || स्वातन्त्र्यरूपा सा काचिच्चिच्छक्तिः परमेष्ठिनः | तन्मयो भगवान् देवो गुरुर्गुरुमयी च सा || इति | सा च स्फुरदेकनिष्कलश्रीः स्फुरन्ती स्वान्यविभागशून्यमुल्लसन्ती एका भेदप्रथाऽतिक्रान्ता स्वात्मतादात्म्यशालिनी च भवन्ती निष्कला सृष्ट्यादिवद्विभागोद्देशादिविकल्पविक्षोभमसहमाना श्रीरुद्यदनुरूपैश्वर्यलक्षणा यस्यामिति कृत्वा | तस्यां विकल्प एवमियमित्यादिरूपा विरुद्धा कल्पना न प्रकाशते | यदि किमपि स्फुरति, तत् षोडशाधिकैव | सा च प्रतिबिम्बनीत्यैवेत्यक्षरार्थः | एतदुक्तं भवति - परमेश्वरस्य परमसंवित्स्वातन्त्र्यस्फारस्फुरत्ता- स्वरूपायामस्यां भासायां वैश्वात्म्यप्रथापारिशेष्यात् स्वतो न काचिद् विकल्पोदयशङ्का सम्भवति | अपि तु, स्वच्छतोत्कर्षशालितया प्रागुपन्यस्तानि सृष्ट्यादीन्येव चक्राण्यस्यां प्रतिबिम्बयुक्त्या परिस्फुरन्तीत्यनया भङ्ग्या तत्तच्छक्तीनां विकल्पेनोपासनमपि किञ्चित् संगच्छते | यदुक्तं श्रीक्रमकेलौ - अत एव ये निर्विमर्श तुर्यातीतमिच्छन्ति, ते निरुपदेशा एव इति | षोडशाधिकेति, सप्तदशी कला | तत्र षोडश शक्तयो विश्वप्रतिबिम्बस्वभावाः | अन्त्या तु - विश्ववैचित्र्यचित्रस्य समभित्तितलोपमा | इति श्रीप्रत्यभिज्ञाप्रक्रियया तत्समष्ट्यात्मकतया तदधिष्ठानभूतेति षोडशाधिकया विश्वं तदुत्तिर्णः परमेश्वरश्च द्वितयमपि संगृह्यते | प्रतिबिम्बप्रक्रिया च स्फटिकमुकुरादिव्यतिरेकादलौकिकी काचिदङ्गीकर्तव्या | यतः स्फटिकादेः प्रतिबिम्बनं प्रति बिम्बापेक्षावश्यम्भावः | अस्यास्तु समस्तस्यापि प्रपञ्चस्य प्रतिबिम्बनं प्रति भित्तिभूतत्वादेतद्विपर्ययः | इदं चोपर्यपि भविष्यति | एतच्चक्रानुप्रविष्टा चेयं षोडशाधिका, षोडशाविकारप्रतिबिम्बतत्समष्टिरूपत्वात् प्रथमं सप्तदशस्फुरणप्रकारा भवन्ती पश्चात् प्रकाशविमर्शद्वयभेदोपश्लेषवशाद् भैरवभैरवीविभागयुक्त्या चतुस्त्रिंशदंशतयाऽनुभूयते | सा च विकासयुक्त्या पञ्चाशद्वर्णात्मकविश्वप्रसरपरामर्शपरमार्थतया परिस्फुरन्ती संक्षेपमुद्रया पर्यालोच्यमाना, पीठनिकेतनं प्रति पञ्चधा वहतो गुरुभट्टारकाविभिन्नस्य परमेश्वरस्य यानि मूर्तिप्रकाशानन्दवृन्दचक्ररूपाणि सृष्ट्यादिपञ्चकात्मकानि च नव चक्राणि, तन्मयी श्रीनवाक्षरी सम्पद्यते | ततोऽपि संक्षेपे सर्वस्यापि प्रपञ्चस्य पञ्चवाहपारिशेष्यात् पञ्चपिण्डत्वेन, तस्य च वाग्भवे बीजे, तस्याप्यनुत्तरकलायाम्, अमुष्या अपि स्वात्मपरामर्शमात्रे पर्यवसानमिति | एषा च सिद्धान्तेषु तत्तदधिकाराधिरोहक्रमतारतम्यादन्यथाऽन्यथा व्यवह्रियते | यदाहुः - येन येन स्वरूपेण भाव्यते तस्य तन्मयी | माहेश्वराणां शक्तिः सा सांख्यानां प्रकृतिः परा || महाराज्ञी च सौराणां तारा सुगतवन्दिनाम् | लोकायतिकमुख्यानां तदात्वा सा प्रकीर्तिता || शान्ता पाशुपतादीनामर्हतां श्रीश्च तद्विदाम् | श्रद्धा हैरण्यगर्भाणां गायत्री वेदवादिनाम् || अज्ञानतिमिरान्धानां सर्वेषां मोहनी स्मृता | इति | इत्थमाशयेन लघुभट्टारकैरप्युक्तम् - लक्ष्मीं राजकुले जयां रणमुखे क्षेमङ्करीमध्वनि क्रव्यादद्विपसर्पभाजि शबरीं कान्तारदुर्गे गिरौ | भूतप्रेतपिशाचजम्भकभये स्मृत्वा महाभैरवीं व्यामोहे त्रिपुरां तरन्ति विपदं तरां च तोयप्लवे || इति | एवमम्बास्तवेऽपि - त्वं चन्द्रिका शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बलं त्वम् | त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निस्सारमेव निखिलं त्वदृते यदि स्यात् || इति | इत्थं मदीयश्रीपरास्तोत्रेऽपि - दातॄणां करपल्लवेषु करिणां गण्डेषु पृथ्वीरुहां पुष्पेषु स्तनमण्डलेषु सुदृशामंसेषु भूमीभुजाम् | कण्ठाग्रेषु च गायतां कवयतां जिह्वासु चेतस्विनां सङ्कल्पेषु च कल्पयन्ति कतिचिद्धन्यास्तवैवोद्यमम् || इति | आगमेऽपि - सैव काली महादेवी गीयते लोकवेदयोः | इतिहासेषु तन्त्रेषु सिद्धान्तेषु कुलेषु च || इति | तथा च श्रीभगवद्गीतासु - यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्ज्जितमेव वा | तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् || इति | एवम् - जन्मकाले भवेन्माता पूजाकाले च देवता | रतिकाले भवेद् दूती मृत्युकाले च कालिका || इत्याद्यूह्यम् | तत्रोद्दिष्टभङ्ग्या सृष्ट्यादिभासान्तं चक्रं श्रीदेवपाणिसम्प्रदायानुप्रविष्टैरस्माभिरनुसन्धीयते, न पुनरेतद्विपर्ययेण | यथा श्रीक्रमसद्भावे - तेषां मध्यात् क्रमेणैव आदौ पूज्यस्तु कः क्रमः | तन्मे कथय सुश्रोणि ! विस्तरेण यथाविधि || इति प्रश्नानन्तरम् - पुरा यत् कथितं देव ! पञ्चवाहमहाक्रमम् | तेषां तु क्रमराजानां सृष्टिरूपोऽग्रतः सदा || ततस्तु स्थितिसंहारमनाख्यं च ततः परम् | भासाख्यं च ततः पञ्चात् पूजयेदक्रमक्रमम् || इति | एतत्पञ्चकप्रणेतृत्वमेव परमेश्वरस्य तत्पारमैश्वर्यमित्यसकृदवोचाम | यन्नष्टार्थचतुष्कावभासनम्, लीनमेयत्रयवासनानुवृत्तित्वम्, मेयमानघस्मरवेत्तृत्वम्, सविकल्पकमेयविमर्शः निर्विकल्पकमेयावभास इति क्रमादागमेषु संक्षेपेणोपपाद्यते | अत्र च तत्तद्देवतामन्त्रोद्धारो मदीये महार्थोदये पर्यालोचनीयः || ४० || अथेत्थमुपदिष्टस्य सृष्ट्यादिपञ्चकस्य प्रत्येकं स्फुरणप्रकारे किञ्चिद् यौगपद्यं विम्रष्टव्यमित्याह - सृष्टेः पञ्चमकला भासेति जनो गणयति व्यवधानम् | सृष्टेर्मूलकन्दो भासा भासायाः पल्लवः सृष्टिः || ४१ || परमेश्वरो ह्यलातचक्रच्छायया सृष्ट्यादीनि पञ्चकृत्यान्यविच्छिन्नमुद्भावयन् स्रष्टृत्वस्थापयितृत्वाद्यशेषानुवृत्तमात्मनः कर्तृत्वोत्कर्षमनुभवन्नास्ते, येनायं विम्रष्टृत्वापरपर्यायेण जडब्रह्मवादिसिद्धान्तपङ्कपल्वलोत्तिर्णः कौलागममहामृतार्णवकर्णधारतयाऽवधार्यते | तथा च सति योऽयं जनो वस्तुतत्त्वपरिज्ञानाभावाज्जननमरणादिपीडितः प्रमातृलोकः, स सृष्टिमारभ्य भासापर्यन्तचक्रपञ्चकक्रम- गणनया सृष्टेः सकाशात् स्थित्यादिचक्रत्रितयान्तरिता पञ्चमी शक्तिर्भासेत्यनयोर्विच्छेदमवबुध्यते | तत्त्ववृत्त्या तु सृष्टेरधिष्ठानभूमिर्भासा | तस्याश्च प्रथमपरिस्पन्दस्वभावतया प्रसरद्रूपतया सृष्टिरिति विम्रष्टव्यम् | उपलक्षणं चैतत् | तेन स्थितेर्मूलकन्दः सृष्टिः, सृष्टेः पल्लवः स्थितिरित्यादिक्रमोऽपि स्वयमूहनीयः | अत्रायं भावः - सृष्ट्यादिषु चतुर्षु कृत्येषु सृष्टिसृष्टिः, सृष्टिस्थितिरित्यादिक्रमेण प्रत्येकं चातुर्विध्यम्, पर्यन्ततो भासापर्यवसायित्वं च | भासा च सरूपनिष्कर्षावलोकने संविदैक्यपरामर्शचमत्कारसारापि विश्वप्रतिबिम्बयुक्त्यनुप्रविष्टप्रपञ्चस्वभावानुकारितया पञ्चकस्वरूपैवेति | पञ्चापि कृत्यानि प्रत्येकं पञ्चकात्मकतां नातिक्रामन्ति | तेषु च पूर्वपूर्वपञ्चकस्य पञ्चमीं कलामवलम्ब्योत्तरोत्तरस्य पञ्चकस्य प्राथमिकी परिस्फुरति | एवमुत्तरोत्तरपञ्चकप्रथमस्फुरत्तानामधोधःपञ्चकपर्यन्त- शक्तिषु विश्रान्त्यनुभव इत्युत्पलदलदशशतविदलनलाघवोल्लासवत् क्रमसद्भावेऽप्यसंलक्ष्यक्रमा पारमेश्वरी पञ्चकृत्यचक्रनिर्व्यूढिरत्यन्तगाढाभ्यासैः प्रौढैः कैश्चिद् विम्रष्टव्यतयाऽवतिष्ठत इति | इत्थमेतत्क्रमपरामर्श एव स्वात्मविमर्शरूपो जीवन्मोक्षः | यत आज्ञाधरत्वादयो बाह्यविभूतिपरिस्पन्दाः स्वयमवर्जनीयतयोन्मिषन्ति | स च गुरुकटाक्षसम्पर्कादृते न सम्पद्यते | यथा श्रीक्रमसिद्धौ - क्रकारः क्रोधरूपस्तु मकारो मङ्गलो भवेत् | क्रोधे तु मङ्गलं कुर्यात् क्रमः कालक्रमो भवेत् || गुर्वायत्तं क्रमज्ञानमाज्ञासिद्धिकरं परम् | क्रमज्ञानान्महादेवि ! त्रैलोक्यं कबलीकृतम् || इति || ४१ || एवमियता प्रपञ्चेन पूज्यदेवताचक्रस्वरूपं परमार्थतः परामृश्येदानीमस्याः पूजायाः पूर्वप्रस्तुताया अपि निष्कृष्टं वपुरुपपादयितुमाह - निजबलनिभालनमेव वरिवस्या सा च दुर्लभा लोके | सुलभानि विश्वपतेरासवताम्बूलगन्धपुष्पाणि || ४२ || पूजा हि चारो रावश्चरुर्मुद्रेति चतुर्विधतयाम्नायते | यथा श्रीचिद्गगनचन्द्रिकायाम् - चाररावचरुभिर्विभेदितैर्मुद्रया च यदुपासनं तव | तद्वशेन भजते परम्परा तावकक्रमगता स्फुटीकृतम् || इति | तत्र चारः समयाचारः | रावो विमर्शः | चरुः प्रथमद्वितीयादिद्रव्यम् | मुद्रा स्वात्मनः परमेश्वरत्वोपपादनाय स्वशरीरं प्रति कल्प्यमानः करचरणादिसन्निवेशविशेषो वेषधारणविशेषश्च | महती तु मुद्रा पर्यन्ततो राव एवान्तर्भवति | तत्र चतुर्ष्वपि पूजाक्रमेषु प्राधान्येन राव एवोपयुज्यते | अन्येषां तु पर्यन्ततस्तत्प्रयोजकतया परिग्रहणम् | तस्मात् स्वस्वरूपपरामर्श एव परमा पूजा | अन्यत्तु गन्धपुष्पधूपदीपादि आडम्बरमात्रमिति तात्पर्यार्थः | अक्षरार्थस्तु - स्वहृदयस्फुरत्तारूपः परमेश्वर एव देवतेत्युक्तं वक्ष्यते च | तत्र यन्निजं स्वात्मतादात्म्यानुप्रविष्टं बलं विश्वविक्षोभसहिष्णुत्वलक्षणं विम्रष्टृत्वम्, तत्पर्यालोचनमेव वरिवस्या | तच्च बलमित्येव व्यपदिश्यते | यदुक्तं श्रीस्पन्दे - अपि त्वात्मबलं मन्त्राः इति, तदाक्रम्य बलं मन्त्राः इति च | श्रीप्रत्यभिज्ञाहृदये च - बललाभे विश्वमात्मसात्करोति इति | यथा च श्रुतिः - न वा ओजीयो रुद्र ! त्वदस्ति इति | सा च सपर्या लोके सामान्येन पूजकतयाऽवस्थिते प्रमातृवर्गे निरूप्यमाणे स्वात्मदेवतया तेन परमेश्वरेण दुष्प्रापा, लोकस्य तथा निभालकत्वाभावात् | कतिचन महायोगिन एव हि तथा पर्यालोचयितुं प्रगल्भन्त इत्येतादृश्यैवार्चनया भाव्यम् | अन्या पुनरासवाद्यर्पणरूपा - दीपार्पणं दवाग्नेः पर्जन्यस्य प्रपाजलोद्धारः | वात्यायाश्च पटाञ्चलवीजनमेतत् तवाद्य नैवेद्यम् || इत्यादिनीत्या तस्यात्यन्तसुलभतयाऽध्यवसीयते, यतोऽयं विश्वपतिर्विश्वस्य पूजाद्रव्याणां तदन्येषां च भावानां स्वात्मरूपतादात्म्योपपादकतयाऽधिष्ठाता भवति | तत् स्वत एवाशेषविश्वविलासव्यापकस्य भगवतः किमन्यकर्तृकासवताम्बुलाद्यर्पणडम्भविडम्बनेनेत्यर्थः | यदुक्तं श्रीविज्ञानभट्टारके - यैरेव पूज्यते द्रव्यैस्तर्प्यते वा परावरः | यश्चिअकः पूजकः सर्वः स एवैकः क्व पूजनम् || इति | यथा च श्रीप्रभाकौले - यावत् तत् परमं शान्तं न विजानन्ति सुन्दरि | तावत् पूजाजपध्यानहोमलिङ्गार्चनादिकम् || विदिते तु परे तत्त्वे सर्वाकारे निरामये | क्व पूजा क्व जपो होमः क्व च लिङ्गपरिग्रहः || इति | यदि पुनस्तान्येव द्रव्याणि तादृग्विमर्शशक्त्या पवित्रीक्रियन्ते, तत् स्वैरमासतां पूजोपकरणत्वेन | यदुक्तं श्रीभगवद्गीतासु - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः || इति | मयाप्युक्तं संविदुल्लासे - स्वविभवविमर्शसुरभीण्याददते देवताः प्रसूर्नानि? | ननु काननेषु सुलभं यदि तत् सामान्यसौरभात् तृप्तिः || इति | तादृग्विमर्शाभावे तु - मुहुः कराग्रेण निरुध्य नासां मुहुश्च पार्श्वस्थमवेक्षमाणाः | देवान् यजन्ते कतिचिद् वयं तु स्वानन्दमुद्रैकमहासपर्याः || इत्यादिनीत्या बाह्याडम्बरः केवलं विडम्बनामात्रफलकतया पर्यवस्यति | यदुक्तमर्चनात्रिंशिकायाम् - बालिकारचितवस्त्रपुत्रिकाक्रीडितेन सदृशं तदर्चनम् | यत्र शाम्यति मनो न निर्मलस्फीतचिज्जलधिमध्यमाश्रितम् || इति | यथा च श्रीपश्चिमे - पूजा होमः क्रमश्चर्या व्रतं शास्त्रनिषेवणम् | तपो ध्यानं जपः शौचं तत्त्वहीनस्य निष्फलम् || इति | यथा च श्रीगीतानिष्यन्दे - न पादपतनं भक्तिर्व्यापिनः परमात्मनः | भक्तिर्भावस्वभावानां तदेकीभवभावनम् || इति | यथा च श्रीमत्स्तोत्रावल्याम् - न योगो न तपो नार्चा क्रमः कोऽपि प्रणीयते | अमाये शिवमार्गेऽस्मिन् भक्तिरेका प्रशस्यते || इति | तथा च श्रीमहानयपद्धतौ - परमनिरावरणात्मनि रूपे यो दृढतरः परामर्शः | पूजनमेतदितीत्थं प्रभुणा निरणायि यद्यपि प्रकृतम् | इति | यथा च श्रीपादुकोदये - पूजा च स्वात्मभावेन देशिकेन्द्रविमर्शनम् इति | एतेन - पूजा विश्वस्य वेद्यस्य चिद्भूमिविश्रान्तिः इति श्रीमदृजुविमर्शिनीस्थित्या - पूजा नाम न पुष्पादैर्या मतिः क्रियते दृढा | निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्लयः || इत्यादिराम्नायोक्तिरपि व्याख्याता | यतः स्वात्मविलयो नाम स्वविश्रान्तिलक्षणे स्वपरामर्शे पर्यवस्यति | यदाहुः - यत्रेन्धनं द्वैतवनं मृत्युरेव महापशुः | अलौकिकेन यज्ञेन तेन नित्यं यजामहे || इति | एतदाशयेनैव हि - कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् | इत्यादिना स्वात्मदेवतातृप्तिः पूर्वमागमेष्वनुष्ठेयतयाऽऽख्यायते | यथा च श्रीपूर्वे - द्रवद्रव्यसमायोगाद् स्नपनं तस्य जायते | गन्धपुष्पादिगन्धस्य ग्रहणं यजनं स्मृतम् || षड्रसास्वादनं तस्य नैवेद्याय प्रजायते | यमेवोच्चारयेद् वर्ण स जपः परिकीर्तितः || इति | उक्तरूपा चेयं सपर्या धन्यजन्मनः कस्यचिदेव पुंषः प्रतीतिपथमवतरति | यदुक्तं श्रीतन्त्रालोके - एष यागविधिः कोऽपि कस्यापि हृदि वर्तते | यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः || इति | तत्रासवस्यान्तःकरणप्रसाधकत्वम् | ताम्बूलस्य शरीरं प्रति बाह्यान्तरोभयशोधकत्वम् | गन्धस्य चन्दनादेः प्राचुर्येण बहिरङ्गोपसंस्कारकत्वम् | पुष्पाणां च तत्रैव केशादिमात्राधिवासप्रयोजकतेति पूर्वपूर्वप्राधान्यात् क्रमविवक्षा | विश्वपतेरिति सम्बन्धमात्रे षष्ठी, न माषाणामश्नीयादितिवत् | तेन खल्योगेऽप्येवं प्रयोगो न दुष्यति | यदुक्तम् - इदं हि शास्त्रमाहात्म्यदर्शनालसचेतसाम् | अपभाषणवद् भाति न च सौभाग्यमुज्झति || इति || ४२ || एवं सपर्यास्वभावं सामान्यतः परामृश्य तद्विशेषानपि तथा योजयिष्यमाणः प्रथमं प्राणायामस्य पारमार्थ्यं प्रख्यापयति - विम्रष्टुं निजसत्त्वं विभवे कार्योन्मुखे स्तिमितेऽपि | बाह्यवृत्तान्तानां भङ्गः प्राणस्य संयमो ज्ञेयः || ४३ || पारमेश्वरोपास्त्युन्मुखानां हि प्रमातॄणामयं स्वभावो यत् स्वात्मस्फुरत्ताविष्फारोपरागमहिम्ना तत्तत्प्रसरणप्रकारवैचित्र्याक्रान्तं प्रपञ्चोच्छ्रायं प्रवर्तयन्तो बहिरन्तर्विभागशून्यामलौकिकीमात्मभूमिमारुह्य महाचिदाह्लादचर्वणचातुर्यमात्रसाराः स्वच्छन्दमासत इति | तत्र तैरुपास्त्युपक्रमे प्रकल्प्यमानः प्राणसंयमो नाम बुभुत्सुभिरित्थमवबोद्धव्यो यन्निजं सत्त्वम् उक्तरूपबलस्वभावः सद्भावः, तस्य विकल्पविक्षोभोपश्लिष्टतयैव सर्वदाऽनुभूयमानत्वादन्वयमात्रादेव तन्निबन्धनं किञ्चिदलौकिकमन्तस्तत्त्वमस्तीत्यध्यवसीयते, न पुनर्व्यतिरेकद्वारापि | व्यतिरेकश्च नात्यन्तं व्यपोहकल्पनयोपपद्यते | केवलं सङ्कोचमात्रादुपचर्यते | अतश्च - कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते | तस्मिन् लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते || न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् | तस्य लोपः कदाचित् स्यादन्यस्यानुपलम्भनात् || इति श्रीस्पन्दप्रक्रियया वेद्यावरोहौन्मुख्यशालिनि स्वसामर्थ्यरूपे विभवे कललावस्थयाऽवस्थानात्मकं स्तैमित्यमनुभवत्यपि विश्वोत्तीर्णस्य स्वात्मपरिस्पन्दमयो विमर्शः - विश्वस्यैव विलासं मे शरीरं चाश्नुते शिवः | शालामिव विशालां स्वामादर्शं च यथा द्विपः || इत्यादिनीत्या दर्पणमण्डलान्तःप्रविष्टगन्धगजेन्द्राद्यनुसन्धान- स्थानीयं पर्यालोचनम् | तदुपपादकतया बहिष्ठानां वेद्योल्लासस्वलक्षणानां वृत्तान्तानां भङ्गो भञ्जनं स्तम्भनं प्राणायाम इति | तत्तद्विकल्पविक्षोभव्यतिरेकेऽपि स्वात्मस्फुरत्तानुसन्धानोपायः प्राणायाम इति यावत् | यथा श्रीस्वच्छन्दे - अपसव्येन रेच्येत सव्येनैव तु पूरयेत् | नाडीनां शोधनं ह्येतन्मोक्षमार्गपथस्य तु || रेचनात् पूरणाद् रोधात् प्राणायामस्त्रिधा स्मृतः | सामान्याद् बहिरेते तु पुनश्चाभ्यन्तरे त्रयः || अभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु | निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः || इति | यथा - नाभ्यां हृदयसञ्चारान्मनश्चेन्द्रियगोचरात् | प्राणायामश्चतुर्थस्तु सुप्रशान्तपदे स्थितः || इति | प्राक् संवित् प्राणे परिणता इति स्थित्या सर्वस्यापि रेचनपूरकादिप्रपञ्चोपग्राह्यस्य वायुचक्रस्य प्राणमात्रानुप्राणनत्वात् प्राणस्येत्येकवचनोपन्यासः || ४३ || प्राणायामप्रसङ्गात् तदनन्तरोपकल्प्यमानानां शोषदाहाप्लावनानां तत्त्वमुत्तेजयति - शोषो मलस्य नाशो दाह एतस्य वासनोच्छेदः | आप्लावनं तनूनां ज्ञानसुधासेकनिर्मिता शुद्धिः || ४४ || अर्चकानां ह्यर्चनोपक्रम एव काचिदलौकिकता सम्पाद्या | सा च मलोपलेपप्रक्षयादौ पर्यवस्यति | तत्र तदीयानां शरीराणां शोषो नाम तदायत्तस्य मलस्य संसाराङ्कुरकारणभूतस्याज्ञानस्य कर्शनमेवाख्यायते | दाहश्च नाम तेषां प्रस्तुतस्यैव मलस्य या वासना संस्कारसारतयावस्थानम्, तद्व्युदासस्वभावो भवति | एवमाप्लावनमप्यज्ञानव्यपोहाविनाभावोद्भूतं स्वरूपलाभलक्षणाह्लाददायित्वादमृतायमानं यद् ज्ञानं स्वात्मावबोधस्तत्प्रसरधारावाहिकोपकल्पिता शुद्धिः पवित्रीकरणमिति | यदुक्तमस्मत्परमगुरुभिः श्रीक्रमवासनायाम् - संवित्सतत्त्वनैर्मल्यसिद्धये शोषणादिकम् | विकल्पसार्वभौमस्य शरीरस्याश्रयाम्यहम् || इति | अयं भावः - पूजकानां हि प्रथमं प्राणपरिस्पन्दतया प्राणीभूतवायुतत्त्वतादात्म्यानुसन्धानादुपरि करिष्यमाणयोर्दाहाप्लावनयोरुभयोरपि योग्यत्वमुत्पद्यते | अनन्तरं परमप्रमातृतापरामर्शद्वारा तेषामवच्छिन्नप्रमातृताविगल- नात्मनो दाहस्योपयोगः | यदुक्तं श्रीविज्ञानभट्टारके - कालाग्निना कालपदादुत्थितेन स्वकं पुरम् | प्लुष्टं विचिन्तयेदन्ते शान्ताभासः प्रजायते || इति | तदनु तमेव भावं द्रढयितुमलौकिकाहन्तानन्दचन्द्रिकामय- महाप्रमेयामृतप्रवाहाभिषेकानुभूतिराप्लावनलक्षणा सम्पद्यते | यथा चोक्तं तत्रैव - सर्व जगत् स्वदेहं वा स्वानन्दभरितं स्मरेत् | युगपत् स्वामृतेनैव परानन्दमयो भवेत् || इति | पर्यन्ततः प्रामाण्येन प्रकाशानन्दसामरस्यानुभवो भूतशुद्धिः इत्युपनिषत् | सा खल्वलौकिकी सृष्टिरित्युच्यते | यथोक्तं श्रीमत्स्तोत्रावल्याम् - अस्मिन्नेव जगत्यन्तर्भवद् भक्तिमतामपि | हर्षप्रकाशबहलमन्यदेव जगत् स्थितम् || इति | यथा च स्तोत्रभट्टारके - प्रकाशानन्दयोरन्तर्लोलीभूता परा स्थितिः इति | यच्चोक्तं मयैव श्रीकोमलवल्लीस्तवे - संप्लुता समरसं सुधाप्लवैर्वह्निवृष्टिरिव विश्वतोमुखी | चण्डि ! चेतसि विभासि कस्यचिच्चिन्मयी समयिनश्चमत्क्रिया || इति || ४४ || अथाङ्गन्यासार्ध्यशुद्धिपुष्पादिस्वभावमुपन्यस्यति - अविकल्पतया मर्शो विकल्पवर्गस्याङ्गसन्नाहः | अर्घ्यं वेद्यविलासः पुष्पाणि स्वभावपोषका भावाः || ४५ || अङ्गानां हि करचरणाद्यवयवात्मनां पृथक् पृथक् कार्यतयाऽवभासमानानामेकेन केनचिच्छरीरानुप्रविष्टेनात्मना कारणभूतेन सर्वविकल्पोत्त्रोटनयुक्त्या मर्शः परामर्शो भवन्नङ्गन्यास इत्युच्यते | तदेवमेतत् पर्यवस्यति यत् करचरणाद्युपलक्षितस्य विकल्पविक्षोभप्रपञ्चस्य पूर्णाहम्भावभावनास्वभावया कयाचिदविकल्पतया विमर्शनमिति | यदुक्तमस्मत्परमगुरुभिः श्रीक्रमवासनायाम् - कारणात्मपरामृष्टकार्यभूताङ्गुलिस्थितिम् | करोमि चिन्मयीं शुद्धिं करयोः परिशोधनीम् || सर्वज्ञत्वादिशक्तीनां सतीनामात्मनि प्रभौ | उन्मज्जनं भावयामि षडङ्गविधियोगतः || इति | तच्चाङ्गानां सन्नाह इत्युच्यते, येन भेदप्रथाअशस्त्रप्रहारः परिह्रियत इति | अथ स्वसिद्धान्तैकयोग्यामर्घ्यशुद्धिमाह - अर्घ्य वेद्यविलास इति | प्रागुपपादिता पूजा खल्वर्घ इत्युच्यते | तदर्हमलौकिकं किञ्चिद् द्रवद्रव्यमर्घ्यम् | यन्मुग्धानां प्रणयवचसि प्रौढिमानं विधत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं सन्धुनोति | यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्य- स्तन्माध्वीकं सपदि कुरुते यत्र भोगापवर्गौ || इति श्रीतन्त्रालोकस्थित्या बाह्याभ्यन्तरोभयभेदात् स्वहृदयदेवतातृप्त्येकप्रयोजनतया प्रतिष्ठाप्यते | तच्च तत्त्वदृष्ट्या वेद्यविलास इत्यवगन्तव्यम् | वेद्यस्य विश्वविकल्पप्रसरलक्षणस्य यो विलासः सङ्कोचावस्थायामपि तत्तत्स्वभावसर्वस्वानति- क्रान्तिरित्यौपचारिको व्यवहारः | अर्थतस्तु तादृग्विलासवद्वेद्यमेवार्घ्यद्रव्यमिति पर्यवस्यति | तस्य शब्दस्पर्शरूपरसगन्धलक्षणगुणपञ्चकाविनाभावात् पृथिव्यादिमहाभूतपञ्चकस्यैतद्गुणस्थूलावस्थानुप्रवेशमात्रा नुप्राणनत्वात् सर्वोऽपि विश्वविक्षोभस्तत्रैव परिस्फुरतीत्यापतितम् किञ्चैतत् स्वहृदयप्रतिष्ठास्पदत्वात् पृथिवी, तस्यैवान्तराप्याय- कत्वादापः, प्राचीनवासनापाशप्लोषप्रगल्भतया तेजः, स्वसंवित्तत्त्वपरिस्पन्दनप्रदायित्वेन वायुः, शुद्धचैतन्यमात्रपर्यवसायितया व्योमेति पृथिव्यादिभूतपञ्चकसमष्टिस्वभावतया विश्वविलास एवेत्यवधार्यते | तत्संस्कारस्तदुपयोगश्चानन्तरमासूत्रयिष्यते | एवं बाह्यद्रव्येषु स्वात्मतृप्त्यर्पणप्रवीणं द्रव्यविशेषं प्रतिपाद्य तदङ्गत्वेनाङ्गीकार्याणां पुष्पादीनां स्वरूपमाह - पुष्पाणि स्वभावपोषका भावा इति | स्वस्य यो भावः पूज्यदेवतास्वभावतया निरूपितश्चमत्कारः, तस्य तादृक्परामर्शप्रतिष्ठापनलक्षणपोषणप्रयोजनानि पुष्पाणि | स्वभावं पोषयन्तीति व्युत्पत्त्या पुष्पाणीति तात्पर्यार्थः | उपलक्षणं चैतत् | ततश्च पुष्पशब्देन स्वभावपोषकाणां बाह्याभ्यन्तराणां सर्वेषामपि द्रव्याणां स्वीकारः | यदुक्तं श्रीत्रिंशिकाशास्त्रविमर्शिन्यामाचार्याभिनवगुप्तपादैः - पुष्पैर्हृदयान्तःस्वरूपसमर्पणादेव हृदयस्य पोषकैर्बाह्याभ्यन्तरैः सर्वैर्द्रव्यैः इति | गन्धो हि गुणः सर्वप्रपञ्चस्फुरतात्मक इत्याख्यायते | यदुक्तं मयैव श्रीपादुकोदये - स्वस्वकार्येषु सर्वेषां कारणानामवस्थितिः | अजहद्रूपतायोगादविनाशेन वर्तते || हेतुहैतुकभावश्च शिवशक्त्यादिगोचरः | पारम्पर्यक्रमात् प्राप्तः सर्वो विश्राम्यति क्षितौ || अतो विश्वमयी पृथ्वी तस्या गन्धोऽपि तन्मयः | तद्ग्राहकं च करणं विश्वस्य ग्राहकं भवेत् || इति | तादृग्गन्धगुणानुप्राणनतया च पुष्पपदेन सर्वोपकरणस्वीकर इति सुष्ठूक्तम् | तथा श्रीत्रिंशिकाशास्त्रे - ततः सुगन्धिपुष्पैश्च यथाशक्ति समर्चयेत् || इति || ४५ || एवं लौकिकालौकिकसाधारण्येनोपात्तेषु द्रव्येषु द्वितीयपक्षपरिगृहीतं सर्वेन्द्रियपक्षपातविषयं द्रव्यविशेषं पृथक्कृत्य संस्कारोपयोगाभ्यां परीक्षितुमाह - पूर्णाहन्ताया मुखे विश्वविकल्पाङ्कुराणां विक्षेपम् | मन्त्रोल्लेखविशुद्धं पूर्ण कुलबिन्दुतर्पणं भणामः || ४६ || कुलं हि नाम वेद्यवर्गोल्लासस्वभावतया भगवानर्घ्यभट्टारक एवेत्याख्यायते | तत्र तदीया ये बिन्दवः क्रमात् क्रममंशांशितया परिस्फुरन्तः शक्तिपरिस्पन्दाः | तैः क्रियमाणं देवताप्रीणनमित्थं भणामः परामृशाम इति यावत् | बहुवचनमेवं विम्रष्टॄणामलौकिकाहङ्कारोत्कर्षप्रख्यापनाय | भणनप्रकारश्च - उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः | त्वं महापुरुषस्त्वेको निश्शेषपुरुषाश्रयः || इति श्रीमत्स्तोत्रावलीस्थित्या प्रमेयप्रपञ्चपदावच्छिन्नान् प्रमातॄनपि वेद्यवर्गान्तर्भावेनावस्थाप्य स्वयमशेषसङ्कोचोत्तिर्णमहमिति यत् तत्त्वम्, यच्च - अहं प्राणो मनश्चाहमहङ्कारोऽप्यहं मतः | अहं बुद्धिरहं शक्तिरहं स भगवान् शिवः || किं वा बहुप्रलापेन जगत्यस्मिंश्चराचरे | योऽर्थः प्रमाणोपारूढः सोऽहं सर्वात्मकः स्थितः || इति श्रीहंसभेदस्थित्या सर्वप्रपञ्चपरिस्फुरणाकारतया परामृश्यते, तस्य या चैतन्यमात्मा इति, उद्यमो भैरवः इति च श्रीशिवसूत्रस्थित्या तादृक्स्वरूपनिष्कर्षैकमात्रफलतया तत्प्रत्ययेन प्रतिपाद्यमाना महास्फुरत्ता, तस्याः स्वात्मदेवतापर्यायाया यन्मुखं प्राणाद्यवष्टम्भद्वारा संवित्प्रसरणोपक्रमस्थानं स्वं शरीरम्, तस्मिन्नधिकरणतया परामृश्यमाने न ह वा एवंविदि किञ्चनानन्नम् इत्युपनिषत्प्रक्रियया विश्ववर्तिनां सर्वेषामेव विकल्पानामङ्कुरतया कार्यवर्ग प्रति कारणभावेन सूक्ष्मतया समुन्मिषन्तो ये कलाविशेषाः, तेषाम् - चिन्मयस्वात्मपरमेश्वराराधनेन तदीयस्पन्दविलासात्मषट्त्रिंशत्तत्त्वमयं जगत् पोषयेदित्यर्थः इति श्रीशाम्भवदीपिकान्यायादन्तर्होमात्मा विक्षेपलक्षणोऽर्थ एवेति | अन्वयस्तु तादृक् - तर्पणमेतादृशं विक्षेपं भणाम इति भवति | तच्च तर्पणं मन्त्रोल्लेखविशुद्धम् | मन्त्रो हि वक्ष्यमाणस्वभावः कश्चित् परामर्शविशेषेः | तेन य उल्लेखः स्वात्मतादात्म्यानु- प्रवेशलक्षणमुज्ज्वलीकरणम्, तेन संवित्स्वातन्त्र्यसंस्कारात्मना विशुद्धं सर्वपूर्ववासनाव्युदासोपरूढालौकिकानुभावोत्- कर्षमिति यावत् | अत एव ह्येतत् पूर्णं पुण्यमित्युच्यते | सा हि पावनतायाः, परा कोटिः, यद्भेदकलङ्काशौचशालिभिः पशुभिः स्प्रष्टुमपि न पार्यते, प्रत्युत - अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते | इति नीत्या निन्द्यते च, यत्किलान्यदपवित्रमपि पवित्रयितुं प्रगल्भते, तस्य स्वतः पवित्रतायां कः सन्देहः | यथा श्रीत्रिंशिकाशास्त्रे - शिवासंख्याभिजप्तेन तोयेनाभ्युक्षयेत् ततः | पुष्पादिकं क्रमात् सर्वं लिङ्गं वा स्थण्डिलं च वा || इति | श्रीतन्त्रालोकेऽपि - अर्घ्यपात्राम्बुविप्रुड्भिः स्पृष्टं सर्व विशुध्यति | शिवार्ककरसंस्पर्शात् कान्या शुद्धिर्भविष्यति || इति | ततश्च - यद्यथोपनतमेव पूर्णतामादधाति हृदयङ्गमत्वतः | तत् तथैव परमेशपूजने योग्यमन्यदिह नास्ति लक्षणम् || इति श्रीज्ञानेन्दुकौमुदीन्यायादेतदेव पराहन्तायाः परमं प्रीणनं यदलिपिशिताङ्गनाद्यपयोगः, यश्च जीवन्मोक्ष इत्याम्नायत इति तात्पर्यार्थः | यदुक्तं श्रीमहानयप्रकाशे - प्रायो हि मैथुने मद्ये मांसे च परिदृश्यते | आसक्तिः सर्वजन्तूनां विशेषात् कस्यचित् क्वचित् || यदि तत् त्यागसंरम्भपूर्वं तेषां विधीयते | उपदेशो न स मनागपि चित्ते प्ररोहति || इत्यारभ्य - अनेनैवाशयेनात्र परब्रह्मोपलब्धये | ललनामद्यमांसानि पूजाग्र्याणि विशेषतः || इत्यन्तम् || ४६ || ननु प्रस्तुताया अपि सपर्यायाः स्वरूपं यथ निष्कृष्योक्तम्, एवं देवताया अपि वपुरुपपादनीयमित्याकाङ्क्षायां तत्स्वरूपमेवाभिव्यङ्क्तुमाह - यो यस्य भावयोगस्तस्य खलु स एव देवता भवति | तद्भावभाविता अभिलषितं तथा फलन्ति प्रतिमाः || ४७ || अर्चकानां हि प्रमातॄणामर्च्यभूता देवता नाम नान्या काचिदुपपद्यते | अपि तु तेषां मध्ये यस्य यस्य स्वहृदयस्फुरत्तालक्षणो भावः, तस्य तस्य स एव देवता भवितुमर्हति, न पुनर्मृदुपललोहपट्टकाष्ठादिप्रतिमादिस्वभावा | यतो जडाजडयोर्जडं स्तम्भकुम्भादि प्रत्यजडस्यैवात्मनो हानोपादानाद्यर्थक्रियाप्रयोजकत्वलक्षणं स्वातन्त्र्यमालोक्यते | ईप्सितप्रसाधकत्वमनीप्सितनिषेधकत्वं चेत्येतावान् ननु देवतानां स्वभावः | तच्च तासां यदि स्वतो न संभवति, तत् किन्निबन्धनमिदं प्रतिमानां देवताशब्दवाच्यत्वपट्टबन्धाभिषेकगर्वदौर्लालित्यम् | उक्तरूपं च तत् स्वातन्त्र्यं संवित् - स्वभावतां नातिक्रामति | तत्स्वभावता च - महताममरेश ! पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः इति श्रीमत्स्तोत्रावलीस्थित्या तेषां प्रमातॄणामेव संगच्छत इति श्रीस्वात्मप्रकाश एव देवतेत्यस्मन्निश्चय इत्यसकृदवोचाम | यदुक्तं श्रीज्ञानेन्दुकौमुद्याम् - स्वात्मानं हि विहाय चेतनममुं किं पूजयेयुर्जडम् इति | यच्चोक्तं नयसंगतौ - नास्ति नादात् परो मन्त्रो न देवः स्वात्मनः परः | नानुसन्धेः परा पूजा नहि तृप्तेः परं फलम् || इति | यथा च गीतानिःष्यन्दे - उज्झित्वात्मसमाधानं ये द्यायन्त्यन्यदेवताः | भिक्षन्ते भूरिवित्तास्ते भिक्षित्वापि बुभुक्षिताः || इति | अर्चकत्वरूपेणोपाधिना प्रमातॄणां पृथक् पृथग् भेदप्रथाभिमन्तृत्वाद् यो यस्येत्यादिना भावानां बाहुल्योपपादनद्वारा देवतात्वमुन्मीलितम् | यदाहुः - यद् यद् रूपं कामयते तत् तद् देवतारूपं भवति इति | अत एव हि - रूपं रूपं मघवान् बोभवीति इति बह्वृचा आचक्षते | मुख्यया तु वृत्त्या तत्तद्भावभेदस्य प्रकाशैकात्म्यपारिशेष्यात् सर्वस्यापि प्रपञ्चस्य एक एव हृदयस्फुरणस्वभावो देवतात्वेनाराध्यः | न पुनः प्रतिमापुस्तकादिर्जडः पदार्थ इति तात्पर्यार्थः | अनेन भावयोग इत्यत्र योगशब्दो व्याख्यातः | योगो हि तादृशी शक्तिः | यदुक्तं श्रीशचीमते - योगस्त्वमसि देवेशि ! योगी चाहं सनातनः | योगेनेदं त्वया विश्वमाविष्टं शम्भुना मया || इति | श्रीभगवद्गीतास्वपि - पश्य मे योगमैश्वरम् इति | तत् णमि ऊण इत्यादिवाक्योपक्रान्तो महाप्रकाश एव देवता, नान्यः कश्चित् | एतत्स्वातन्त्र्यसंरम्भाधीनस्वस्फुरणविजृम्भणो जडः प्रपञ्च इत्युक्तं भवति | तथा श्रीपूर्वे - सर्वमन्यत् परित्यज्य चित्तमत्र निवेशयेत् | मृद्धातुशैलरत्नादिभवं लिङ्गं न पूजयेत् || अर्चयेच्चिन्मयं लिङ्गं यत्र लीनं चराचरम् | इति | यथा च श्रीप्रभाकौले - पश्य मोहस्य माहात्म्यं स्वहृदिस्थेऽपि शङ्करे | लिङ्गस्थण्डिलवह्न्यप्सु वीक्षयन्ति यथा शिवम् || इति | अतश्च - स्त्रीपराङ्मुखमनाः किल क्रुधा पुष्पकेतुमदहन्महेश्वरः | त्वं तदापि ननु तस्य सैव धीः सत्यमम्ब! सुभगाऽभिधीयसे || इति श्रीकोमलवल्लीस्तवस्थित्या विश्वप्रकाशात् स्वहृदयप्रकाशस्यैवात्यन्तश्लाघ्यत्वात् स्वात्मरूपा सौभाग्यसंविन्मययेव देवतेत्यत्र न किञ्चिद् वैमत्यम् | यदुक्तम् - स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा इति | एतच्चास्मत्परमगुरुकर्तृके श्रीमदृजुविमर्शिन्यादौ विमर्शनीयम् | एवं च परामर्शप्ररूढौ सत्यां तस्य देवतात्वेनोपपादितस्य भावस्य यो भावः स्फुरत्तापरपर्याया सत्ता, तया भाविताः स्वहृदयप्राकट्यपर्यन्तं रूषिता याः प्रतिमाः स्कन्दगणपतिवटुकाद्याकारवन्तो मृदुपलादिसन्निवेशविशेषाः, तास्तेषामर्चकानां पुत्रवित्तप्रमुखं तं तमभिवाञ्छितमर्थ प्रसुवते | यथोक्तं श्रीपूर्वे - बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः | अतः प्रपूजयेदेतत् परमाद्वैतमाश्रितः || इति | तथा सिधान्तेऽपि - अन्तर्लिङ्गं दृढं बद्ध्वा बहिर्लिङ्गं ततोऽर्चयेत् इति | एतदभिप्रेत्य हि श्रीमत्स्तोत्रावल्याम् - अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः | नमो मह्यं शिवायेति पूजयन् स्यात् तृणान्यपि || इत्युक्तम् | तत्र च मुख्यायाः स्वहृदयदेवतायाः सकाशादासां प्रतिमानां न किञ्चिद्वैलक्षण्यम्, येन सिद्धरसविद्धधातुन्यायादत्र तद्भावापत्तिदार्ढ्य नोत्पद्यते | यथा च श्रीविरूपाक्षपञ्चाशिकायाम् - या देवता यमर्थं करोति तेनार्थिनो दृढं तस्याम् | विधृताहङ्कारस्य क्षणेन सोऽर्थः समायाति || इति | भावनायाश्च मुख्यवत् फलप्रदत्वमुक्तं श्रीचिद्गगनचन्द्रिकायाम् - कल्पनापि न मृषा फलं शिवे यत् स्थितं गरुडभावनादिजम् इति || ४७ || अथैवमुद्भावितस्य देवतावपुर्निष्कर्षस्य प्रतिपत्तृजनप्रतीतिसौकर्याय दृष्टान्तं कमप्युपदर्शयितुमाह - चित्रं न लिखति चित्रं चित्रकरः पश्यत लिखति तच्चित्रम् | तद् भणत कुत्र योग्या कर्तुं द्वयोरपि देवताबुद्धिः || ४८ || जडमजडं वा वस्तु देवतेति सन्दिहानो जन एवं प्रतिबोधयितव्यः, यदुत आलेख्यार्पितवपुषं पुरुषमहिलाप्रभृतिमचेतनं भावं प्रति तज्जातियस्यान्यस्य न कस्यचिदपि तादृग्विलेखनक्रियायां सामर्थ्यमालोक्यते | प्रत्युत तद्विजातीयस्य तच्छिल्पनिर्माणकौशलोत्कर्षशालिनश्चेतनस्यैव तत् संभवतीत्यविप्रतिपन्नेयं प्रक्रिया | उक्तमर्थ हृदयङ्गमीकर्तु पश्यतेत्युक्तम् | चेतनाचेतनयोः सामर्थ्यमसामर्श्र्य च स्पष्टतया प्रख्यापयितुं तद्वृत्तादिपरामर्शव्यतिरेकेण पुनः पुनश्चित्रशब्दप्रयोगः | तस्मादिति | यतोऽन्वयव्यतिरेकाभ्यां चेतनस्यैवोक्तक्रियाकर्तृत्वं न पुनस्तद्व्यतिरिक्तस्य कस्यचित्, ततो हेतोः | भणत परामृशत, तयोश्चित्रस्य चित्रकरस्य चोभयोर्मध्ये कतरस्मिन्नर्थे देवतेति प्रत्येतुमुचितमिति | शिशवोऽप्येनमंशमसंशयमवबुध्यन्ते यच्चित्रादेः कार्यप्रपञ्चाच्चित्रकृदादिषु कर्तृषु स्वतन्त्रः कर्ता इति नीत्या स्वातन्त्र्यलक्षणः कश्चिदुत्कर्षोऽस्तीति | अस्यार्थस्यात्यन्तस्पष्टतया निश्चितस्यापि पक्षस्य निष्कर्षेणानुपन्यासः | एतेन चेतनस्यैव मुख्यया वृत्त्या देवतात्वम्, चेत्यानां तु तदावेशास्पदतया तदुपचारेणेत्युक्तं भवति | अत एव तान्यन्या देवता इत्युच्यन्ते | यदुक्तं श्रीगीतासु - येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः | तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम् || इति | देवतात्वेन प्रसाध्यमानं परमेश्वरं प्रति विश्ववैचित्र्यस्य चित्रप्रायतया चित्रपदेनैवार्थोपपादनम् | तथोक्तं श्रीप्रत्यभिज्ञायाम् - विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे इति | यथा चोक्तं पदसंगतौ - चिदाकाशमये स्वाङ्गे विश्वालेख्यविधायिने | सर्वाद्भुतोद्भवभुवे नमो विषमचक्षुषे || इति | तथा चाभियुक्तोक्तिः - जगच्चित्रं समालिख्य स्वात्मतूलिकयात्मनि | स्वयमेव तदालोक्य प्रीणाति परमेश्वरः || इति | चित्रं न लिखति चित्रमित्याद्युक्तया भङ्ग्या प्रमेयपदव्यामिव चित्तमन्तःकरणं न लिखति, चित्रमुक्तरूपं चित्तमन्तःकरणान्तरं वेति प्रमाणपथाऽनुगुण्येनाप्यवगन्तव्यम् | अथ च चित् चेतनः | तस्य भावश्चित्त्वं चैतन्यम् | तच्चित्त्वं चित्रं प्रमेयरूपं चित्तम्, प्रमाणात्मकं चित्त्वं वा सजातीयं ज्ञप्तिस्वभावमर्थान्तरं न लिखति नोन्मीलयतीत्यादिप्रमारूपधर्मकक्ष्यानुकूलोऽर्थः | इत्थमर्थत्रयेऽप्यवेक्ष्यमाणे सर्वथा चेतनस्यैव श्लाघ्यत्वकाष्ठाप्राप्तिरित्याश्चर्यचमत्कारानुबूत्यर्थतयापि पार्यन्तिकश्चित्रशब्दोऽनुसन्धेयः, तदभिधेयस्य सर्वनाम्नैवोक्तत्वात् | लिखतिश्चोत्पादन इवोपसंहारेऽप्यस्ति, पार्थिवं लोहलेख्यमित्यादिवत् | तदनुगुणोऽप्यर्थस्त्रिविधमवतार्यः | त्रैविध्यं च तदालेख्यान्तःकरणसंवित्त्वपर्यायाणां चित्रचित्तचित्त्वानां तन्त्रेणोच्चारणादिति || ४८ || ननु यदि स्वात्मैव देवतेति निर्बन्धः, तत् किमस्य मन्त्रतन्त्रादिना प्रपञ्चेनोपक्रियते | स खलु स्वव्यतिरिक्तदेवताभिमुख्यप्रयोजनतया स्वीक्रियत इत्याशङ्क्य मन्त्रस्तावदुक्तरूपदेवतानुगुण्येनैव निर्णीयत इत्याह - मननमयी निजविभवे निजसङ्कोचे भये त्राणमयी | कवलितविश्वविकल्पा अनुभूतिः कापि मन्त्रशब्दार्थः || ४९ || मननत्राणधर्माणो मन्त्राः इति ह्याम्नायः | तत्र मन्त्रानुसन्धातुः स्वेच्छामात्रेणोपाधिना विभवः सङ्कोच इत्यवस्थाद्वयमस्ति | तयोर्विभवो नाम विश्वतदुत्तरोभयसामरस्ययुक्त्या पूर्णाहम्भावभावनात्मा विकासः, यत् पारमैश्वर्यमित्युच्यते | सङ्कोचश्च तद्विपर्ययादपूर्णत्वाभिमानः, यत् पाशवमित्याख्यायते | अत्र च पूर्वस्य स्वाभाविकत्वमुत्तरस्यारोपितता चेति विवेकः | एवं स्थिते तादृश्यात्मनो विकासे समुल्लसति तस्य यन्मननमुपर्युपरि तथा परामर्शानुस्यूतिस्वभावश्चमत्कारः, तत् प्रकृत्या | तद्वदुक्तरूपे स्वस्य सङ्कोचे प्रस्तुते ततो यत् त्राणम् - सङ्कोचो विचार्यमाणश्चिदैकात्म्येन प्रथमानत्वाच्चिन्मय एव | अन्यथा तु न किञ्चित् इति श्रीप्रत्यभिज्ञाहृदयमर्यादया तस्यापि सङ्कोचस्य वैश्वात्म्यप्रथानुप्रविष्टतानुसन्धानोत्पादनद्वारा स्वस्वभावभङ्गप्रसङ्गरूपचाकित्यव्यपोहलक्षणम्, तन्मयी च भवन्ती तेनैव हेतुद्वयेन वेद्यविक्षोभसर्वस्वग्रासविशृङ्खलोल्लासा याऽनुभूतिः स्वहृदयैकसंवेद्या विमर्शशक्तिः, सैव मन्त्र इत्यस्य शब्दस्याभिधेयतयाऽनुभूयत इति | यथा श्रीराजराजभट्टारके - वर्णात्मको न मन्त्रो दशभुजदेहो न पञ्चवदनोऽपि | सङ्कल्पपूर्वकोटौ नादोल्लासो भवेन्मन्त्रः || इति | यथा च श्रीविज्ञानभट्टारके - भूयो भूयः परे भावे भावना भाव्यते हि या | जपस्तोत्रं स्वयं नादो मन्त्रात्मा जप्य ईदृशः || इति | यथा च श्रीशिवसूत्रेषु - चित्तं मन्त्रः इति | श्रीस्तोत्रभट्टारकेऽपि - चिदग्निसंहारमरीचिमन्त्रः संविद्विकल्पान् ग्लपयन्नुदेति इति | श्रीक्रमकेलौ च - सेयमेवंविधा भगवती संविद्देव्येव मन्त्रः इति | भट्टश्रीभूतिराजेनाप्युक्तम् - सर्वक्रोडीकारेण स्थितत्वाद् देव्येव मन्त्रः इति | एवञ्च - पृथङ्मन्त्रः पृथङ्मन्त्री न सिध्यति कदाचन | ज्ञानमूलमिदं सर्वमन्यथा न प्रसिध्यति || इति नीत्या स्वात्मसंवित्स्वरूपस्यैव मन्त्रशब्दार्थत्वं मुख्यम् | अक्षरसन्निवेशेषु पुनरुपचारेणोच्यत इत्युक्तं भवति | यदाहुः - उच्चार्यमाणा ये मन्त्रा न मन्त्रांश्चापि तान् विदुः | मोहिता देवगन्धर्वा मिथ्याज्ञानेन गर्विताः || इति | यच्चोक्तं मयैव संविदुल्लासे - पुण्ड्रेक्षोरिव मन्त्रस्य माधुर्ये हृदयस्पृशि | ऋजीषमानने तिष्ठत्यक्षरोच्चारलक्षणम् || इति | एतदाशयेनैव हि - गुरुदेवतामनूनामैक्यं संभावयन् धिया शिष्यः इत्यभियुक्ता आचक्षते | एतेन जपो व्याख्यातः | जननपालनस्वभावतया हि जप इत्युच्यते | यदुक्तमस्मत्परमगुरुभिः - जनिपालनधर्मेण जपेनान्तर्मुखात्मना इति | तच्च स्वविभवमनने स्वसङ्कोचमात्रे च पर्यवस्यति | केवलमुपपादितमन्त्रस्वरूपपरामर्शो जप इत्युच्यते | मन्त्रस्य च वैश्वात्म्यानुभूतिरूपत्वात् सर्वोऽपि वाग्व्यवहारस्तत्परामर्शात्मतयैवोत्पद्यते | यदुक्तं श्रीभट्टनारायणेन - का च वाङ् नोच्यसे यया इति | अत एव श्रीशिवसूत्रेषु - कथा जपः इत्युक्तम् || ४९ || ननु मन्त्राणामेवमलौकिकानुभूत्यात्मकत्वप्रसाधने तत्सामान्यरूपस्य सर्वनिर्विवादं श्रोत्रेन्द्रियग्राह्यस्य शब्दराशेः कीदृशी रीतिरित्याशन्क्य वाक्तत्त्वस्यैव तत्त्वमुन्मुद्रयितुमाह - वैखरिका नाम क्रिया ज्ञानमयी भवति मध्यमा वाक् | इच्छा पुनः पश्यन्ती सूक्ष्मा सर्वासां समरसा वृत्तिः || ५० || वाक्तत्त्वं तावत् क्रमात् सूक्ष्मा पश्यन्ती मध्यमा वैखरीति चतुर्धा भिद्यते | यथोक्तं साम्बपञ्चाशति - या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टि वर्णानत्र प्रकटकरणैः प्राणसङ्गात् प्रसूते तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये || इति | तत्र वैखरीति प्रसिद्धा वाक् ताल्वादिकरणव्यापारोपारूढ- स्फुरणतया क्रियाशक्तिरित्यध्यवसीयते | मध्यमा च बुद्धिवृत्तिमात्रप्रवर्त्यमानत्वाद् ज्ञानशक्तिः | पश्यन्ती पुनरिच्छा, बहिः प्रसरणाभ्युपगमरूपत्वात् तस्याः, यतः परा वाक् पश्यन्तीति पश्यन्त्या व्युत्पत्तिः | सूक्ष्मा तु शिखण्ड्यण्डरसन्यायादुक्तवाक्त्रयशबलीभावस्वभावा प्रत्यग्द्रष्टुः परमेश्वरस्योद्योगलक्षणा वृत्तिरित्याख्यायते | परा वाक् पुनस्तस्यैव परमेश्वरस्य स्वरूपमनुप्रविशन्ती परिस्फुरति | यदुक्तमस्मत्परमगुरुभिः श्रीमदृजुविमर्शिन्याम् - मातृकां परवागात्माऽनाहतभट्टारकपरमशिवस्वरूपां षट्त्रिंशत्तत्त्वप्रसरणहेतुभूतां संविदमित्यर्थः इति | तस्य च वक्तीति कर्तृव्युत्पत्त्या वाक्त्वम्, न पुनरुच्यत इति कर्मानुगुण्यात् | यदुक्तमस्मत्परमगुरुभिः श्रीसंवित्स्तोत्रे - त्वामुपासितगुरूत्तमाः परां वाचमाहुरविभक्तविश्वकाम् | स्वप्रकाशनविमर्शनात्मिकां वक्ति वागिति निरुक्तिमास्थिताः || इति | तस्मादिच्छादिशक्तित्रितयविस्तारात्मा सर्वोऽपि वाग्विलास इत्युक्तं भवति | यथा योगिनीहृदये - इच्छाशक्तिस्तथा सेयं पश्यन्तीवपुषा स्थिता | ज्ञानशक्तिस्त्रिधा प्रोक्ता मध्यमा वागुदीरिता || क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा | इति | तथा च श्रीतन्त्रालोके - प्राक् पश्यन्त्यथ मध्याऽन्या वैखरी चेति ता इमाः | परापरा परा देवी चरमा त्वपरात्मिका || इच्छादिशक्तित्रितयमिदमेव निगद्यते | एतत्प्राणित एवायं व्यवहारः प्रतायते || इति | इच्छादिस्वभावैव च स्वात्मस्फुरत्ता | तन्मयी च काचिदनुभूतिर्मन्त्रशब्दार्थ इति सर्वं संगच्छते | इच्छा पुनः पश्यन्तीत्युद्देश्योपादेययोर्व्यत्यासेनार्थान्तरमपि द्योत्यते | न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | इति नीत्या सर्वोऽपि प्रमातृस्वभावः पर्यन्ततो वाङ्मयतां नोल्लङ्घयति | ततश्च प्रकाशरूपस्यात्मनो विमर्शशक्तिरेवानुप्राणनम् | सा च मन्त्रजपपूजाद्यनेक- शब्दव्यपदेश्या भवति | केवलं तत्तद्द्वारमात्रमेव भेद इति || ५० || अथ मन्त्रसाहचर्यान्मुद्राप्यलौकिकी काचिदनुसन्धेयेत्याह - आनन्दोल्लासश्रीः क्षुल्लकिताष्टमहासिद्धिसौभाग्या | दृश्यते यत्र दशायां सैव देवस्य सर्वमुद्राः || ५१ || यस्यामवस्थायां देवस्य क्रीडाविजिगीषाद्यनेकप्रकार- स्वातन्त्र्यसारत्वात् पूज्यपूजकत्वोभयस्वभावसामरस्यशालिनः परमेश्वरस्य स्वविश्रान्तिलक्षणमानन्दं प्रति य उल्लासः, तथा परामृश्यमानतया स्फुरत्ता, तस्याः श्रीः तद्वदुपर्युपर्यनुस्यूतिलक्षणा प्ररूढिर्दृश्यते निर्विवादमपरोक्षीक्रियते, सैव सर्वाः करङ्किण्यादयः संक्षोभिण्यादयोऽन्यथा वा प्रसिद्धस्तास्ता मुद्रा इत्यवगन्तव्यम् | तया चानन्दोल्लासश्रिया क्षुल्लकिताष्टमहासिद्धिसौभाग्यया भाव्यम् | लोके हि खड्गगोरोचनोद्दिष्टपातालप्रभृतयोऽपि विभूतिस्पन्दाः सिद्धय इत्युच्यन्ते | तदपेक्षया किञ्चित् सङ्कोचशून्यत्वादणिमादिशक्तीनां महासिद्धित्वम् | तासां चाष्टकत्वं तत्तत्साधकजनहृदयोल्लासरूपाणां चिदानन्देच्छाज्ञानक्रियानुभवस्मृत्यपोहनानां धर्माणां ब्राह्म्यादिमात्रष्टकाधिष्ठानद्वारा बहिर्विभूतिरूपत्वात् | यदुक्तमागमे - वर्गानुक्रमयोगेन यस्यां मात्रष्टकं स्थितम् | वन्दे तामष्टवर्गोत्थमहासिद्ध्यष्टकेश्वरीम् || इति | यद्यपि सर्वत्र सामरस्यादेतदष्टकानुप्रवेशः तथापि क्वचित् कस्यचिदौल्बण्यावश्यम्भावादष्टमहासिद्धय इति प्रसिद्धिः | तत्र स्वशरीरं प्रत्यणूकरणसामर्थ्यमणिमा | गगनादिव्यापकत्वकौशलं महिमा | समुद्रसलिलादावपि पद्भ्यां प्रयाणे तदस्पर्शो लघिमा | यथाभिलषितपदार्थलाभः प्राप्तिः | संकल्पमात्रात् सर्वत्राप्रतिहतगतित्वं प्राकाम्यम् | सार्वत्रिकं प्रभुत्वमीशितृत्वम् | इन्द्रियार्थोपभोगे स्वेच्छामात्राधीनहानोपादानत्वं वशित्वम् | स्वाभिलाषमात्रात् सद्यः स्वर्गनरकाद्यनुभूतिर्यत्र कामावसायित्वमिति विवेकः | तासां च साधकजनहृदयहारित्वोत्कर्षलक्षणं यत् सौभाग्यम्, तदुपादितयाऽऽनन्दसंपदा क्षुल्लकीक्रियते क्षुद्रीक्रियत इत्यक्षरार्थः | अयं भावः - करचरणाद्याकुञ्चनावकुञ्चनादि- सङ्कोचोल्लङ्घनेन निस्तरङ्गसमुद्रावस्थानस्थानीया तत एव स्वान्तर्विलीनफेनबुद्बुद बिन्द्वादिप्रायाऽशेषबाह्यानन्दपरिस्पन्दा स्वविश्रान्तिचमत्काराऽपरपर्यायपरामर्शक्रियारूपा काचिदलौकिकानुभूतिरानन्दसंपद् मुदं रातीति व्युत्पत्त्या करङ्किण्याद्यन्यमुद्राप्रपञ्चोदयविलयभूमिर्मुद्रात्वेनानु- सन्धेयेति | यथा श्रीपश्चिमे - सा सिद्धिः सर्वसिद्धीनां सिद्धित्वे परिकीर्तिता | ज्ञानं ह्यकलितं चैकं मुद्रा चैका ग्रहात्मिका || द्वावेतौ यस्य जायेते सोऽन्वयी सिद्धशासने | इति | आनन्दं प्रति परानन्दनिरानन्दमहानन्दानन्दविषयानन्दस्वभावाऽशेषानन्द सामरस्यमुन्मीलयितुमुल्लासः श्रीरिति चोभयोपन्यासः | यथोक्तं श्रीस्तोत्रभट्टारके - कौलार्णवानन्दमयोर्मिरूपाम् इति | यथा श्रीचिद्गगनचन्द्रिकायाम् - यत् परो निरुपसर्गतः परः स्यान्महानपि च केवलः शिवे | उत्तरश्च विषयात् स च त्वदानन्द उल्लससि तद्घनासि यत् || इति | तत्र च ताः सिद्धयो यदा प्रकाशरूपतया सर्वपदार्थान्तर्भावसामर्थ्यमणिमा, तथैव व्यापकत्वं महिमा, भेदरूपगौरवव्युदासो लघिमा, स्वात्म- विश्रान्तिलाभः प्राप्तिः, वेद्यविलासोपलालनं प्राकाम्यम्, अनवच्छिन्नैश्वर्यशालित्वमीशितृत्वम्, विम्रष्टृतया सर्वसहता वशित्वम्, पूर्णाहम्भावभावना यत्र कामावसायित्वमिति संविन्मयत्वौचित्येन परामृश्यते, तदानीमस्मदुक्तमुद्रापर्वानु- प्रवेश इति न किञ्चिदासां क्षुल्लकीकरणम्, प्रयोजनाभावात् | मन्त्रमुद्रादिवद् ध्यानहोमादयोऽन्येऽपि साधकव्यापाराः संविदद्वैतानुगुण्येन स्वयमूहनीयाः | यथा श्रीविज्ञानभैरवे - ध्यानं या निश्चला चिन्ता निराकारा निराश्रया | न तु ध्यानं शरीरादिमुखहस्तादिकल्पनम् || महाशून्यालये वह्नौ भूताक्षविषयादिकम् | हूयते मनसा सार्धं स होमश्चेतनास्रुचा || इति | कुलार्घ्यस्वीकरणं चान्तरहोमप्रायमेवेत्यवगन्तव्यम् | यदुक्तमस्मत्परमगुरुभिः श्रीसुभगोदये - पराहन्तामये संविदग्नौ संवेद्यतर्पणे | इदन्तालक्षणं हव्यं जुहुयादबहिर्मुखः || इति | यच्चोक्तं मयैव महार्थोदये - अथ हव्यमिदन्ताख्यं हावं हावं स्वचिन्मुखे | उल्लङ्घ्य मायामालिन्यं स्वैरमासीत मेरुवत् || इत्यलमतिरहस्योन्मीलनप्रपञ्चेन || ५१ || इत्थं महता प्रपञ्चेनोपपादितस्य विमर्शस्वरूपस्य प्रयोजनमुपपादयितुमाह - हृदयस्थानप्ररूढो विमर्शकल्पद्रुमो महाशाखः | पुष्प्यति भोगश्रिया फलति च निष्कलसुखोत्सवालोकम् || ५२ || हृदयं हि नाम विश्वप्रतिष्ठाभूमित्वादतिमहत् स्थानम् | यदुक्तमाचार्याभिनवगुप्तपादैः - हृदयं हि नाम प्रतिष्ठास्थानमुच्यते इति | यथा चोपनिषत् - हृदयं तद् विजानीयाद् विश्वस्यायतनं महत् इति | तत्र प्रकर्षेण रूढश्चर्व्यमाणतामापन्नस्तत एव हेतोर्भेदप्रथाद्यनन्तवैचित्र्ययोगी | प्रकर्षश्चास्य मध्ये प्रसव इत्युक्तनीत्युल्लङ्घनेन सकृद्विभातत्वरूपमौज्ज्वल्यम् | तथाभावे हि तादृग्विमर्शशालिनां स्वर्गाद्युपयोगयोगेऽपि - वासनामात्रलाभेऽपि योऽप्रमत्तो न जायते | तमनित्येषु भोगेषु योजयन्ति विनायकाः | तस्मान्न तेषु संसक्तिं कुर्वीतोत्तमवाञ्छया || इत्यादिबिभीषिकापर्युदासेन सर्वत्र नैश्चिन्त्यमुत्पद्यते | यतः प्रकृत्या चिदानन्दसामरस्यचमत्कारात्मकमात्मनश्चैतन्यम् | तदुछूनतायां क्रमादिच्छा ज्ञानं क्रियेति शक्तयः | क्रिया च - क्रियात्मको ह्ययं कालं क्रिया कारकमाश्रिता | षोढा च कारकग्रामः शक्त्यात्मनि हि तिष्ठति || इत्यादियुक्त्या करणाधिकरणादिकारकस्वभावा सती क्रमात् कार्यतया परिस्फुरति | यदुक्तं श्रीतन्त्रवटधानिकायाम् - क्रया स्वात्मपरिस्पन्दस्ततः प्राणोऽथ तत्कृतम् | कालवैचित्र्यमित्येतत् संवित्स्पन्दाधिकं नहि || इति | कार्यं च विधिनिषेधविषयतया बहुप्रकारं भवत् तत्तदवान्तरभेदभिन्नद्रव्यगुणाद्यनेकसहस्रविकल्पविक्षोभविचित्रा- शेषविश्वव्यवहारतया पर्यवस्यतीति विमर्शशक्तेरेवायमेतावान् विजृम्भणोल्लासः | तादृशश्च योऽयं बाह्याभ्यन्तरप्रतीतिपथसहस्रसर्वस्वनिर्वाहकतया तत्तदशेषाभिलषितप्रदानपाण्डित्यशाली कल्पशाखीत्यध्यवसीयमानो विमर्शो विम्रष्टृलक्षणस्वात्मपरामर्शात्मा चमत्कारः, स च स्वस्वरूपवेदिनां पुंसां भोगश्रिया पुष्प्यति पुष्पस्थानीयां भोगलक्ष्मीमुद्भावयति | भोगो ह्यभिमताङ्गनालिङ्गनादि- बहिर्विभूत्यनुभवः | तस्य चेयमेव श्रीर्यद्विधिनिषेधोल्लङ्घिना संविद- द्वैतास्वादसौभाग्येन ग्राह्यग्रहणकौतूहलोपलम्भज एव स्वात्मविजृम्भावबोधसाधनप्रगल्भ इत्यपवर्गसंपत्स्वभाव- त्वेनायमनुभूयते | किञ्च, स विमर्शाख्यः कल्पशाखी निष्कलङ्कमहन्तेदन्ताविभागविच्छेदावच्छेदलक्षणकलाकलङ्क- शून्यं यत् सुखं स्वविश्रान्तिस्वभावः स्वहृदयाह्लादः, स एवोत्सवः, शचीकुचतटे शक्रो नरके विलुठन् कृमिः | उभौ समसमाधानौ विचित्रो वासनाभ्रमः || इत्यादिन्यायाद् (यद्) अन्यदनुभवितृजनविशेषहृदयसङ्कल्पमात्रोप- कल्पितं सौख्यारोपणम्, तद्व्युदासेन बहुभिः श्रीशिवानन्दमहाप्रकाशमहेश्वरानन्दप्रभृतिभिर्योगीन्द्रैः संभूयसंवादेनोपभुज्यमानत्वात् तादृगुत्सवरूपमालोकं प्रत्यक्प्रकाशं च प्रसूते | अथ च निष्कलमित्यत्र कलाशब्दः कलयति पारिमित्येन बहिः परिच्छिनत्तिति व्युत्पत्त्या मायाशक्तिर्वा, किञ्चित्कर्तृत्वोपोद्बलनोपलक्षिता पञ्चकञ्चुकी वा, ब्राह्म्यादीनां वर्गाधिष्ठात्रीणां समष्टिर्वा, तदधिष्ठेया मातृका वा, स्वात्मापूर्णाख्यातिलक्षणः स्वस्य सङ्कोचो वेति बहुप्रकारं व्याख्येयः | एतदुक्तं भवति - विश्ववैचित्र्यविम्रष्टृत्वस्वभावः परमस्वातन्त्र्यशाली परमेश्वरोऽहमिति हृदयङ्गमीभावपर्यन्त- मनुशील्यमानः सर्वप्रपञ्चविकल्पपरिस्फुरणक्रोडीकार- विचक्षणश्चायं विमर्शः प्रतिपादितात्मरूपावबोधयोगिनां भोगमोक्षलक्षणं पुरुषार्थद्वितयमप्युपपादयति | तत्र च - तस्या भोक्त्र्याः स्वतन्त्राया भोग्यैकीकार एष यः | स एव भोगः सा मुक्तिः स एव परमं पदम् || इति श्रीप्रबोधपञ्चदशिकाप्रक्रियया भोगोऽपि मोक्षात्मा, मोक्षोऽपि भोगस्वभाव इत्यनयोरन्योन्यमेलकरूपा श्रीमदनुत्तरसंविदद्वैत- सिद्धन्तैकसाध्या जीवन्मुक्तिरस्य फलम् | यदुक्तं श्रीमतदेवे - यस्येच्छातः सतां देवि ! जीवन्मुक्तिः क्षणाद् भवेत् | तस्याहं वच्मि दिव्यौघं जीवन्मुक्तिप्रवृद्धये || इति | वृक्षोऽपि हि कुतश्चित् सुक्षेत्रादुत्पन्नो बहुशाखश्च प्रवर्धमानः पुष्पं फलं च प्रसूते | तत्रापि पुष्पे सत्कार्यवादभङ्ग्या फलसद्भावः फलेऽप्यज- हत्कारणरूपतया पुष्पानुषङ्ग इति पुष्पमपि फलं फलमपि पुष्पमित्येव विवेचकजनपर्यालोचनप्रकार इति | अस्य च द्रुमत्वमागमप्रसिद्ध्योक्तम् | यथा च श्रीमत्स्तोत्रावल्याम् - प्रार्थनाभूमिकातीतविचित्रफलदायकः | जयत्यपूर्ववृत्तान्तः शिवः सङ्कल्पपादपः || इति | उक्तरूपं चैवं? विमर्शमवधीरयन् बाह्याद्वैतसिद्धान्तः पाशवशास्त्रशययामधिशेते | तथाहि - अद्वैतवादनिर्वाहो वेदान्तेष्वपि विद्यते | तत्रात्मा कश्चिदुत्तिर्णः सच्चिदानन्दलक्षणः || एकः सत्यतया स्फूर्जन्निर्मलो निरहङ्क्रियः | अनादिनिधनः शान्तो विश्वोत्पत्तिविपत्तिभूः || संविन्मयस्वभावेन भावाभावदशोज्झितः | स्वयम्प्रकाशतां बिभ्रन्नित्यमुक्तो निरूपितः || समञ्जसमिदं सर्व किन्तु तस्यात्मनः प्रभोः | अविम्रष्टृत्वपर्यायमकर्तृत्वं न युज्यते || सा चास्य कर्तृताशक्तिः स्वभावानतिलङ्घिनी | जानातेश्च करोतेश्च साधारण्येन वर्तते || तत्क्रियापि भवेज्ज्ञानं ज्ञातुर्धर्मो यदुच्यते | एवं कर्तृस्वभावत्वात् तस्य ज्ञानमपि क्रिया || औन्मुख्यमनयोरिच्छा विश्वमेतद्विजृम्भितम् | तस्माद् विमर्शो देवस्य स्वभावोऽस्माभिरुच्यते || भवन्त्यस्यैव पर्यायाः शक्तिरैश्वर्यमुद्यमः | स्पन्दः स्वतन्त्रता स्फूर्तिरूर्मिरोजः कलेत्यपि || इत्यलं चर्वितचर्बणोपलालनचापलेन || ५२ || ननु जीवन्मुक्तिलक्षणं माहेश्वर्य खल्वस्य फलतया प्रत्यपादि | तच्च न संभवति, यतो देहावच्छेदव्यतिरिक्त एव काले पुंसामपवर्गोत्पत्तिरित्यन्येषामाग्रह इत्याशङ्क्याह - क्रमिको भवति न देवस्तस्य कथं कालकल्मषस्पर्शः | नित्यनिरावरणस्यापि को जीवतो मोक्षप्रत्यूहः || ५३ || देवो हि नाम देशकालादिविश्वविलासं प्रति स्वस्वभावसंविदर्पणोपकल्पनया द्योतनाद्यनेकार्थोपपादनवैशारद्याद् विश्वात्मकः परमेश्वर इत्यवधार्यते | अतश्चायं क्रमिको न भवति | पौर्वापर्यादिविकल्पकल्पनामयेन क्रमेण नाक्रम्यते | यतो वैश्वात्म्यैकविजृम्भासंरम्भोत्तरे भगवति - चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः | इति स्थित्या कस्य कस्मात् पृथक्त्वं तद्धेतुकः क्रमश्चेति युक्तिपर्यालोचनायां मूकीभाव एवोत्तरं प्रत्यर्थिनो जनस्य | तदेवम् - अक्रमता मे क्रमिकं ज्ञात्राद्यं सक्रमाक्रमा तु चितिः | इति श्रीविरूपाक्षपञ्चाशिकाप्रक्रियया क्रमवार्तानभिज्ञस्यास्य कालाख्येन कलङ्केन सम्पर्को न केनचिदपि प्रकारेण सम्भवति, कालस्य तत्त्ववृत्त्या क्रमतयैव पर्यवसानात् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - कालः सूर्यादिसञ्चारस्तत्तत्पुष्पादिजन्म वा | शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः || इति | कल्मषशब्देनैतदुन्मील्यते यत् कालोऽपि पारमेश्वरी काचिच्छक्तिरेव, ययासौ स्वयं न व्यवच्छिद्यते; प्रत्युत विश्वं व्यवच्छिनत्तित्येनं प्रति न कालस्य सङ्कोचकत्वलक्षणं कल्मषत्वम् | तं च कालं स्वात्मना क्रोडीकुर्वाणोऽयं नित्य इत्याम्नायते | एवमस्य देशावच्छेकत्वाद् व्यापकत्वमप्यूह्यम् | इत्थं स्वात्मनः सर्वावारकत्वयुक्त्या सर्वकालमन्याऽनावृतस्यापि प्राणशरीराद्युपश्लेषरूपं विशेषं दोषतयाऽवस्थाप्यु यो मोक्षस्य स्वपरामर्शाख्यचिदानन्दलाभरूपस्य प्रत्यूहः प्रतिकूलतर्करूपो विघ्नः कश्चिदसम्भावितस्वभावोऽन्यैरुद्भाव्यते, स कः ? न कश्चिदप्युपपद्येत, यदि युक्तितत्त्वमन्विष्येत | यदि तु जीवत्वं नामात्मनो विकल्पविशेषः, निर्विकल्पानुभूतिश्च मोक्षशब्दार्थ इतीत्यन्योन्याविरुद्धमेतद्द्वितयमित्युच्यते, तर्हि प्राणशरीरविश्लेषादप्येवमिति समः समाधिः | एतदुक्तं भवति - चिदानन्दलाभे देहादिषु वेद्यमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्तिः इति श्रीप्रत्यभिज्ञाहृदयमर्यादया भोगमोक्षसामरस्यसाक्षात्कारलक्षणो जीवन्मोक्षः सर्वो ममायं विभवः इति स्ववैश्वात्म्यानुसन्धानसन्धुक्षितैश्वर्याणां प्रमातॄणां स्वभाव एव, न त्वाहार्यः कश्चिदतिशयः | यदुक्तं मयैव संविदुल्लासे - विश्वं मूर्तिर्वैखरी नाममाला यस्यैश्वर्य देशकालातिलङ्घि | तद्भक्तानां स्वैरचारः सपर्या स्वेच्छा शास्त्रं स्वस्वभावश्च मोक्षः || इति | तत् किन्निबन्धनोऽयमेनं प्रति कालनियमनिर्बन्धाक्रोशक्लेशः | एतदेव ह्यस्य दर्शनान्तरेभ्यो वैशिष्ट्यं यद् भोगमोक्षद्वितयानुभूतिसामरस्यं नाम | यथा श्रीरत्नदेवे - भुक्तिर्वाप्यथ मुक्तिश्च नान्यत्रैकपदार्थतः | भुक्तिमुक्ती उभे देवि ! विशेषे परिकीर्तिते || इति | यथा च श्रीसिद्धामते - अध्वषट्कं च दीक्षा च शिवशास्त्रमिति स्मृतम् | दीक्षाध्वा निर्भयो भोगः शास्त्रे भैरवसंज्ञके || इति || ५३ || ननु जीवन्मुक्तिर्नामात्मनो जननमरणाद्यनुस्यूतस्य सर्वावस्थानिर्विशेषं स्वानन्दोत्सवानुभूतिः | सा च तस्य स्थैर्याभावपक्षे कथं सङ्गच्छेतेत्याशङ्क्य क्षणभङ्गमेव भङ्क्तुमाह - यत् किमपि येन केनापि रूपेण यत्र कुत्रापि किं नास्ति | तस्मादात्मा नित्यस्थिरः क्षणभङ्ग एवास्थिरो भवति || ५४ || इह खलु विश्वं प्रकाश्यं प्रकाशकश्चात्मेत्यभिहितेयं मर्यादा | तत्र प्रकाशोपश्लेषमहिम्नैवास्य प्रकाश्यत्वम् | स चोपश्लेषः - तेनानेकस्य रूपस्य श्लेष ऐकात्म्यमेव सः | इति सम्बन्धसिद्धिस्थित्या प्रकाश्यप्रकाशकयोरैकात्म्यपर्यन्त- मुज्जृम्भते | प्रकाशस्य चार्थधर्मत्वमात्राङ्गीकारे ग्राहकसव्यपेक्षं ग्राह्यग्रहणमित्येतद् व्याहन्येत | ततश्च सर्व सर्वस्य प्रकाशेत, न कस्यचिद्वेत्युत्सन्नः स्याद् विश्वव्यवहारः | अतोऽर्थः प्रकाशत इत्यस्य प्रकाशकतामसावनुभवतीत्यर्थो भवति | यदुक्तमजडप्रमातृसिद्धिविमर्शिन्याम् - इदं मम ज्ञानमिति नाञ्जसा ज्ञानप्रकाशः | अपि तु जानाम्यहमिति ज्ञानस्यास्मदर्थविश्रान्ततैव इति | तथात्वे चास्य प्रकाशान्तर्गतत्वमवश्यम्भावीति विश्वस्य तत्प्रकाशकस्यात्मनश्चैकात्म्यमवर्जनीयम् | एवमङ्गिकारे हि परमेश्वरस्यानन्यमुखप्रेक्षित्वलक्षणं स्वातन्त्र्यमौचित्यमनुभवति, अन्यथा सजातीयेश्वरान्तरानपेक्षत्वलक्षणमिति तत्र सङ्कोचकलङ्कस्पर्शः प्रसज्येत | तत्रैतत् प्रष्टव्यं यत् किमपि भावरूपमभावरूपं वा वस्तु यस्मिन् कस्मिंश्चिद् वर्तमाने भविष्यदादौ वा काले तथा पुरोवर्तिन्यनासन्ने वा देशे येन केनापि सभागात्मना सविभागस्वभावेन वा वपुषा विद्यते वा न वेति | नेति तावन्न शक्यते वक्तुम्, शून्यत्वप्रसङ्गात् | प्रपञ्चस्य शून्यत्वपक्षश्च पूर्वमेवाधिक्षिप्तः | तद् यत्किञ्चिद्वस्तु विद्यत एवेति वक्तव्यम् | तदा च तत्स्वभावतयाऽयमात्मा परिस्फुरतीति कथमस्थैर्यमस्योच्यते | अयं भावः - आत्मनो विश्वाकारत्वाङ्गीकारे विश्ववर्तिनां भावानां क्षणभङ्गाभ्युपगमेऽपि योऽयं क्षणभङ्गो नाम कश्चिदर्थः, तस्य तावदनपह्नव एवेति तावन्मात्रेणापि तन्मयस्यात्मनः स्थैर्यमव्याकुलम्, किमुत विश्वस्यैव स्थैर्ये समर्थ्यमान इति | किञ्च, अनुभवतद्विकल्पस्मरणलक्षणानेकसंविदनुसन्धानसाध्या हि लोकयात्रा | स्तम्भं पश्य कुम्भमानय इत्यादौ तत्तच्छब्दार्थसंकेतानुभूत्यनुस्मरणादेरवश्यम्भावात् | यदुक्तमपोहवादे - शब्दस्य व्यवहारार्थमर्थचिन्ताऽवतार्यते | तदर्थमेव संकेतस्तद्व्युत्पत्तिरपीष्यते || इति | संविदां च तासामन्योन्यानुसन्धानसामर्थ्य न सम्भवति, सर्वासां स्वयंप्रकाशत्वात् | तथाभावे चान्यपरामर्शानौचित्यात् | तदन्योन्यवार्तानभिज्ञानामासामनुसन्धानक्षमः कश्चित् स्थैर्यशाली विद्यत इत्यनिवार्येयं मर्यादा | नित्यश्चात्माऽवगन्तव्यः कालक्रमविलङ्घनात् | सर्वलोकप्रसिद्धेयं तत्र युक्तिरुदीर्यते || प्रसवानन्तरं बालो जनन्याः स्तनमापिबन् | स्तन्यादर्थक्रियां स्वस्य स्मरत्येवेति कल्प्यते || स्मृतिश्चानुभवायत्ता स च नात्रास्ति जन्मनि | अतः प्राचीनया भाव्यमनुभूत्या कयाचन || सामानाधिकरण्यं च तयोर्विद्वद्भिरिष्यते | अत आत्मा सदा स्थैर्यान्नित्योऽसाविति बुध्यताम् || तदुक्तं मयैव श्रीपरास्तोत्रे - मातुर्गर्भसमुद्गकादवतरन्नुर्वीमिमामर्भक- स्तत्पूर्व स्तनचूचुकप्रणयिना मुग्धेन वक्त्रेण ते | आचष्टे तदनश्वरं पदमहंकुर्वन् परे ! किं पुनः क्रीडाकञ्चुलिका कलेवरमयी कुत्रापि न त्यज्यते || इति | आत्मा नित्यः स्थिर इति तस्य सार्वकालिकस्थैर्योपन्यासेन स्तम्भादीनामपि यावत्प्रध्वंसं स्थैर्यमेवेत्यासूत्र्यते | तथाहि क्षणतो भङ्गे दृश्यमानस्य वस्तुनः | अत्रैवास्य क्षणे सत्त्वं नीलादेर्नोपरि क्षणे || इति गृह्णाति या संवित् तस्यास्तत्र क्षणद्वये | अवस्थानाभ्यनुज्ञायां क्षणभङ्गः प्रणश्यति || सापि संवित् क्षणाद् भग्नेत्युक्तौ तत्तत्पृथक् क्षणाः | परस्परानभिज्ञास्ता भिन्नकालतया धियः || जानीयुः कथमन्येषां क्षणमात्रव्यवस्थितिम् | लोकयात्राप्रवृत्तिर्वा न क्षीयेत कथं नृणाम् || सन्ततिस्तत्क्रियां कुर्यादिति तैर्यदुदीर्यते | असन्ततिवदेव स्याददृढा सन्ततिर्यदि || दार्ढ्ये तस्या जगत्स्थैर्यं पर्यायेणानुमन्यते | शिवदृष्टाविदं प्राह श्रीसोमानन्ददेशिकः || इतश्चास्ति जगत्यैक्यमित्यादौ ग्रन्थविस्तरे | अतश्चोक्तयुक्त्या क्षणभङ्ग एवास्थिरो निर्वोढुमशक्यः | तदस्थैर्ये विश्वस्य स्थैर्यमर्थतः सिद्धम् | एतेन परमेश्वरस्य ज्ञानस्मृत्यपोहनशक्तित्रितयवत्त्वेन विश्वव्यवहर्तृत्वं व्याख्यातम् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् इति | यच्चोक्तं श्रीभगवद्गीतासु - मत्तः स्मृतिर्ज्ञानमपोहनं च इति | तत्र च - स्वान्तः क्रोडीकृताशेषवेद्यवर्गो महेश्वरः | लोकयात्रामुपस्कर्तु तत्तद्वैचित्र्यशालिनीम् || नियतानेव निर्भिद्य कांश्चिदर्थान् निजेच्छया | उन्मज्जयति यत् स्वस्माद् दृक्शक्तिः सा निगद्यते || बहिरौन्मुख्ययोगेऽपि स्वात्मचिद्रूपमुज्ज्वलम् | स्वच्छायामजहत् स्वच्छां भवेज्ज्ञानं नवं नवम् || अस्मिन् नवनवोल्लासे विद्युत्प्राये स्फुरत्यपि | यथाभिलाषं लोकेन व्यवहर्तु न पार्यते || तत्संविदो बहिर्मुख्या यदन्तर्मुखतास्पदम् | चित्स्वरूपमवस्थासु कालभेदे महत्यपि || तस्य बाह्यपरामर्शप्रागल्भ्यं स्मृतिरुच्यते | अथापि तन्नवाभासं स्मृतं वा वस्तु वस्तुतः || विश्वमयया स्वचिच्छक्त्या तादात्म्यं न परित्यजेत् | अतो बोधः स्मृतिश्च दौ वर्यौ स्यातां महेशितुः || तद्वेद्यं वित्तितस्तस्या वित्तिर्वित्त्यन्तरादपि | वेद्यं च वेद्यादन्यस्माद् यथा विच्छेदमश्नुयात् || तथा भगवतः काचित् स्वातन्त्र्यश्रीरपोहनम् | इत्याख्याता स्फुटं ज्ञानस्मृत्यपोहनशक्तयः || तिसृभिः शक्तिभिराभिः शिवः कुविन्दो भवन् कुलालो वा | अनुभवति सुखं स्मरति च बहु च विकल्पयति विश्ववैचित्र्यम् || इति || ५४ || नन्वस्तु स्थर्यवत एवात्मनो जीवन्मुक्तिरूपः पुरुषार्थः | तस्य पुनरानन्दस्वभावत्वं विप्रतिपन्नम् | पाषाणप्रायताया मुक्त्यवस्थायां कैश्चिदङ्गीकृतत्वादित्याशङ्क्याह - नन्वात्मनः प्रियार्थं सर्वस्य प्रियत्वं भणति श्रुतिः | तस्मादानन्दस्वभाव आत्मा मुक्तोऽमुक्तो वा || ५५ || अस्ति खलु आत्मनस्तु कामाय सर्वं प्रियं भवति इति श्रुतिः, पारमेश्वरपरामर्शरूपतया प्रकृत्यैव प्रमाणभूतत्वात् आनन्दो ब्रह्मेति व्यजानात् इत्यादिवैलक्षण्येन युक्तिविशेषावबोधकत्वाच्च बाधविधुरमेवार्थमाचष्टे | यदुतात्मनः स्वस्य यत् प्रियमिच्छोल्लासरूपा प्रीतिस्तामेव प्रयोजनीकृत्य व्यवह्रियमाणमखिलमपत्यमित्रादिकं वस्तु प्रीणनतयाऽनुभूयत इति | नन्विति पराभ्युपगमोपपादनार्थः | तस्माद्धेतोः स्वहृदयस्फुरणलक्षणस्यात्मनः - पूर्णत्वादहमित्यन्तर्ज्ञानमानन्द उच्यते | इति स्थित्या पूर्णाहन्ताऽनुसन्धानात्मकस्वात्मविश्रान्तिसतत्त्वो य आनन्दः, स एवासाधारणं रूपम् | तादृक्स्वभावत्वे च तस्य मुक्तत्वममुक्तत्वमित्यवस्थाद्वयेऽपि न किञ्चित् तारतम्यम् | यदि च तस्यात्मनो नानन्दः स्यात् स्वभावः, तदपत्यकलत्रादयः शमदमादयो वा भावास्तस्य प्रीणना स्युः | नह्यपत्यादयः सहस्रमपि चैतन्यशून्यं किञ्चिदाक्रष्टुं प्रगल्भन्ते | चैतन्यस्य च स्वविश्रान्तत्वमेवानन्द इत्युक्तम् | यदा पुनरस्य स्वविश्रान्तिपरामर्श प्रत्यौदासीन्यम्, तदानीं दाहच्छेदादिदुःखानुभूतिव्यपदेशः | वास्तव्या तु दृष्ट्या तादृक्परामर्शशून्यत्वेऽपि न कदाचिदप्यस्य स्वविश्रान्त्यभाव इति सर्वदा सुखानुभूतिव्यतिरेकेण न किञ्चिद् दुःखमित्यालोक्यते नन्वानन्दात्मकत्वे कथं क्रोधादौ पुंसां शस्त्रप्रहारादिक्लेशानुभूत्यौन्मुख्यमिति चेत् ! न, क्षेत्रकलत्राद्यनुरागावेशवैवश्यादेवमुद्योग इति कश्चिदानन्दाध्यवसाय एव तेषामेतादृग्व्यवहारोपक्रमे निबन्धनमिति दुःखानामपि प्रहरणाद्यवस्थावत् सौख्यकक्ष्यानुप्रवेशात् सिद्धमस्यानन्दस्वभावत्वम् | यदुक्तं श्रीमत्स्तोत्रावल्याम् - दुःखान्यपि सुखायन्ते इति | इत्थं चात्मनः स्वस्य यः काम इच्छौत्सुक्याशास्पृहादिपर्यायो भावः स्वभावत्वेन वर्तते, तमेवोन्मीलयितुमपत्याङ्गनाप्रभृतिरखिलो वेद्यप्रपञ्चः प्रीणनो भवतीति श्रुत्यर्थो व्याख्यातः | तत्र तुरवधारणे | कामायेति तुमर्थाच्च भाववचनात् इति चतुर्थी | एवम् - आत्मार्थे पृथिवीं त्यजेत् इत्यादौ व्यतिरेकोऽप्यूह्यः | प्रियार्थमिति प्रीत्यर्थस्य प्रियशब्देनोपन्यासादात्मस्वभावभूतः प्रीतिरूप एव स्वकर्तृकरणादिवैचित्र्येण बहुप्रकारोऽनुभूयते, न पुनरेतद्व्यतिरिक्तः कश्चित् प्रीणनादिः पदार्थ इत्यासूत्र्यते - मुक्तोऽमुक्तो वेति | न खलु नैयायिकादिमर्यादया मुक्त्यवस्थायां पाषाणप्रायत्वादात्मनो निरानन्दत्वम्, यतो मुक्त्यभावेऽपि तस्यैवंस्वभावत्वमपरिहार्यं किमुत तदनुभव इति द्योतनार्थमेवमनादरेणोपन्यासः | किञ्च, स्वस्यानन्दस्वरूपत्वावश्यम्भावे बन्धमोक्षादिविकल्पविक्षोभोऽत्र न कश्चिदप्युपपद्यते, आनन्दस्य चित्त्वसत्त्वानुभूतिसामरस्यात्मकत्वात् | यदाहुः - यत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दो विराजते | यत्रानन्दो भवेद्भावे तत्र चित्सत्तयोः स्थितिः || इति | एनमेवानन्दमुन्मीलयितुमस्मदाम्नायेषु प्रथमद्वितीयादिद्रव्यस्वीकारनिर्बन्धो निबध्यत इत्युपनिषत् || ५५ || अथैवमुपपादितमात्मस्वरूपस्फुरत्तापरामर्शं प्रत्यतिस्पष्टानाणवादीनुपायानुपदेक्ष्यन् प्रथमं त्रीनप्येकयैव गाथयोद्घाटयति - यदि निजहृदयोल्लासं निर्णेतुं नित्यनिष्कलमिच्छा | मध्यतुटिस्त्रुटितव्याऽस्त्रं यतोः सोमसूर्ययोः || ५६ || निजं यत् साक्षात्कारोल्लेखयोग्यं हृदयं व्याख्यातस्वभावं तस्योल्लासश्चेत्यचेतयितृत्वादिवैचित्र्येण स्फुरणम्, स प्रकृत्या कालविभागव्युदासेन निष्कलो हेयोपादेयताद्यशेषविकल्पकल्पनाकलङ्कशून्यो भवति | तमेवंविधमत्यन्तस्पष्टतया प्रत्यक्षीकारचमत्काराकारनिश्चयास्पदं कर्तुं यदीच्छा युष्माकमुपसन्नानाम् श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः | इति श्रीभगवद्गीतास्थित्या काचिद् वाञ्छा विजृम्ब्भते चेत्, तर्ह्ययमत्रोपाय इति वक्ष्यमाणसर्वार्थसाधारणोऽयमन्वय- प्रकारः | तत्र यावेतौ सोमसूर्यौ वेद्यवर्गानुप्राणनत्वादकुल- मार्ताण्डाविभिन्नवेदितृस्वभावत्वाच्च सकारहकारात्मानौ वर्णविशेषौ, तयोरस्त्रं विसर्जनीयम्, आस्थां स्वहृदयसम्पुटीकारलक्षणमनुस्वारं च यतोरश्नुवानयोर्या मध्यस्था तुटिः विभज्यावस्थानक्षणलक्षणः कालखण्डः | स उत्त्रुटितव्यः | माणिक्यमालिन्यादिवदुद्धर्तव्यः | तदानीं हंस इति विमर्श उत्पद्येतेति यावत् | अयं भावः - यद्यपि मातृकापाठादौ हमिति स इति चान्यवर्णसाधारण्येनानयोर्ग्रहणमस्ति, तथापि तद् द्वयं स्वहृदयवर्त्यनुत्तराविनाभूतमहं स इति स्वात्मप्रत्यभिज्ञानोपायत्वेन हं स इति संश्लेषवशान्महामन्त्रात्मना विम्रष्टव्यमिति वैपरीत्येनोद्धारो मन्त्रस्य - बहिर्व्यवहरन् लोक्यान् स्थगयन्नूहगोचरान् | चरन् कपटमार्गेण वामं नयमिवोन्नयेत् || इति श्रीलघुबृंहणीमर्यादया गोपनीयताद्योतनार्थं सोऽहमिति मन्त्रान्तरप्रत्यायनार्थं च | अयं च मन्त्रात्मकवर्णविशेषपरामर्शरूपत्वादाणवः कश्चिदुपायः | यदुक्तं श्रीमालिनीविजये - उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः | यो भवेत् स समावेशः सम्यगाणव उच्यते || इति | एवमुच्चारादावप्यूह्यम् | तत्र प्राणव्यापाररूप उच्चारो यथा - कुम्भिता रेचिता वापि पूरिता वा यदा भवेत् | तदन्ते शान्तनामासौ शान्त्या शान्तः प्रकाशते || इति | कायसंस्थापनात्मकं करणं यथा - अम्ब ! केचिदमृताम्बुचिन्मयीलम्बिकाङ्कुरशिखावलम्बिनीम् | तालुमूलवलयीकृताग्रया जिह्वया कवलयन्ति ते कलाम् || इति | चित्तोल्लेखस्वभावं ध्यानं यथा - अनुकलममृतार्द्रादालवालान्तराला - ल्ललितमुदयमाना पल्लवापाटलश्रीः | अशिथिलमवलम्ब्य स्थाणुमुद्भासभाना फलति कमपि भावं कोमला कापि वल्ली || इति | मुलाधाराद्यनुसन्धानाकारं स्थानकल्पनं यथा - योनौ कनकपुञ्जाभं हृदि विद्युच्छटोज्ज्वलम् | आज्ञायां चन्द्रसङ्काशं महस्तव महेश्वरि ! || इति | एषु च किञ्चिदन्योन्यसाङ्कर्येऽपि तत्तत्प्राधान्यमालोचनीयमित्यलं प्रपञ्चेन | किञ्च, सोम एषणीयज्ञेयकार्यस्वभावः प्रमेयोल्लासः | सूर्य इच्छाज्ञानक्रियात्मकं प्रमाणस्फुरणम् | अनयोरर्थं स्वां स्वामर्थक्रियां यतोः प्राप्नुवतोः सतोरिति भावलक्षणे सप्तमी | तथा भवतोश्चानयोर्मम स्वात्मनः प्रमातृभूतस्य त्रुटिः सन्देहलक्षणो दोष उत्त्रुटितव्यः स्वात्मानं प्रत्युन्मिषन् संशयः संछेद्य इत्यर्थः | एतदुक्तं भवति - एषणीयताद्यनुप्राणन- स्थूलोऽयं प्रपञ्चोल्लास इच्छादिशक्तित्रयप्रवृत्तिं विना न क्वचिदपि सम्पद्यत इत्येषितृत्वादिरूपस्यात्मनः स्पष्टापरोक्षीकारविपर्ययात्मानं संशयशङ्कातङ्कं तिरस्करोति | तत उक्तरूपस्वहृदयपरामर्शलाभ इति | शाक्तश्चायमुपायः, उच्चारादिव्यतिरेकेण स्वसंविद्विकल्पमात्राकारत्वात् | यदुक्तं तत्रैव - उच्चाररहितं वस्तु चेतसैव विचिन्तयन् | यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते || इति | अथ च सोमोऽपानः, सूर्यः प्राण इति प्रसिद्धं तयोर्द्वादशान्ताद् हृदयान्तं हृदयाद् द्वादशान्तान्तं च | अस्तमिति भावे निष्ठा | असनं क्षेपलक्षणां स्फुरत्तां यतोः स्वत एव प्राप्नुवतोर्या मध्यस्था बाह्यान्तर्भावोपलक्ष्यमाणा तुटिः, तादृक् परामर्शक्रियात्मा चमत्कारलक्षणः स उत्त्रुटितव्यो हृदयङ्गमीभावपर्यन्तमात्मना निर्णेतव्य इति यावत् | अयमाशयः - अशेषशरीरसाधारण्येन नित्योदितस्वभावयोः स्वात्मपरिस्पन्द- परमार्थयोः प्राणापानयोर्युगपदुभयविसर्गारणिरूपता- परामर्शः स्वतः सिद्धोऽपि स्वहृदयाह्लादचमत्कारस्थैर्योत्- पादनार्थमात्मनाऽनुसन्धेयः, यस्याऽननुसन्धानेऽप्येवं- रूपताया न काचित् क्षतिरिति | अयं पुनरुपायः सर्वविकल्पविक्षोभ- व्युदासेन स्वस्वभावमात्रोपपादनप्रवृत्ततया शाम्भव इत्यवगन्तव्यः | यच्चोक्तम् - अकिञ्चिच्चिन्तकस्यैव गुरुणा प्रतिबोधितः | उत्पद्यते य आवेशः शाम्भवोऽसावुदाहृतः || इति | अथ पुनः - एवमेवं दुर्निशायां कृष्णपक्षागमे चिरम् | तैमिरं भावयेद् रूपं भैरवं रूपमेष्यति || इति श्रीविज्ञानभट्टारकन्यायादस्तमद्रिविशेषं विनाशं वा युगपदश्नुवानयोश्चन्द्रार्कयोर्मध्यवर्ती काललेशविशेषो बुद्ध्या निष्क्रष्टव्य इति तु व्याख्यानमत्यन्तस्पष्टमित्याग्रहेण नोन्मीलितम् | अत्र चास्त्रमास्थामर्थमस्तमिति मध्यं ममेति तुटिस्त्रुटिरिति च प्राकृतभाषाप्राबल्यात् तन्त्रेणोक्तम् | उक्तरूपस्य चास्योपायत्रयस्य सूक्ष्मेक्षिकया सङ्करः परस्परमपरिहार्यतया वर्तते | केवलं प्राधान्यमात्रेण पृथग्व्यपदेश इत्युपदेष्टुम् - संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः | इति नीत्या सर्वोपायानां फलं प्रति न किञ्चिद् वैषम्यमित्युपपादयितुं चैकहेलयोक्तिः | यद्युपश्लेषेणोक्तिस्तु विनेयजनावर्जनतात्पर्येण | तत्र च - अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते | भेदाभेदात्मकोपायं भेदोपायं तदाणवम् || प्राणादिभूमिकैराद्याः सिध्यन्त्युच्चारणादिभिः | विकल्पैर्मध्यमाः शुद्धैरन्याः प्रशमितैस्तु तैः || इति श्रीतन्त्रालोकोपायद्विशत्यादिनीत्या प्राणस्पन्दोच्चारणाद्य- शुद्धविकल्प आणवः | चित्तमात्रनिर्वर्त्यशुद्धविकल्पात्मा शाक्तः | विकल्पसर्वविलयस्वभावः शाम्भव इति त्रिविधेऽप्युपायतत्त्वे स्थूलसूक्ष्मादितारतम्ययोगेन शक्त्युल्लेखस्य सर्वत्राप्यनुस्यूतिः | शाक्ते तु तस्या औल्बण्यमात्रादुत्कर्ष इत्यनुसन्धेयम् | यदुक्तम् - सा शक्तिराणवैः शाक्तैः शाम्भवैश्च त्रिधोदितैः | उपायैः शिवमाभास्य स्वसृष्टैर्मोचयत्यमून् || इति || ५६ || एवं यौगपद्यादुपायत्रयं प्रतिपाद्य तदेव विनेयजन- हृदयाधिरोपणहेतोः पृथक् प्रपञ्चयिष्यन्नादावाणवमालोचयति - स्थूलतरेष्वपि प्रेक्षध्वं भूतेषु खस्य निष्कलावस्थाम् | षट्त्रिंशिकाऽतिलङ्घी कीदृशो भवतु सोमनाथः सः || ५७ || व्याख्यातवेषाणां तत्त्वानां मध्ये परमशिवभट्टारकः सर्वोपायप्रतिपाद्य इति परत्वेनावतिष्ठते | अन्येषु च शिवादीनि कानिचित् सूक्ष्माणि, प्रकृतिपुरुषप्रभृतीनि स्थूलानीति कल्पनायां पृथिव्यादीनां स्थूलतरत्वमपि प्रतिपन्नम् | यत्कार्यभूताः स्तम्भकुम्भादयः स्थूलतमा इति व्यपदिश्यन्ते | तेषु चातिस्थूलेष्वपि पृथिव्यादेः सकाशात् खस्याकाशस्य निष्कलां परि- च्छिन्नत्वलक्षणकलाविलासशून्यां स्वभावभूतामवस्था- मालोचयध्वम्, यया तस्य खेचर्याद्यधिकरणत्वप्रसिद्धिः | प्रेक्षध्वमिति विप्रतिपन्नाविप्रतिपन्नभेदवैधुर्येण सर्वेऽपि स्वपाण्डित्यानुकूलं परीक्षध्वमिति यावत् | इत्थमत्यन्तस्थूल- स्याप्यस्य निष्कलत्वेऽभ्युपगम्यमाने षट्त्रिंशदपि तत्त्वान्यतिक्रामन् परमेश्वरः कीदृशो भवतु निष्कलत्वोत्कर्षस्तस्य कीदृक् कियानिति चावधार्यताम्, यदि दण्डापूपन्यायो व्युत्पन्न इति | अयं चाणवेषु ध्यानरूप उपायः | ततश्च स्थूलस्थूलव्युदासेन सूक्ष्मसूक्ष्मप्रेक्षायामत्यन्तसूक्ष्मस्वात्मविमर्शामृतास्वाद- सिद्धिरिति शाक्तोऽप्यत्रासूच्यते | यच्चोक्तमुपायविंशत्याम् - स्थूलं स्थूलं परित्यज्य सूक्ष्मं सूक्ष्मं समाश्रयेत् | पश्चात् सूक्ष्ममपि त्यक्त्वा केवलं चिन्मयो भवेत् || इति | यच्चोक्तं श्रीविज्ञानभट्टारकेण - भुवनाध्वादिरूपेण चिन्तयेत् क्रमशोऽखिलम् | स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः || इति | उपलक्षणं चैतत् | तेन तत्र तत्र तत्त्वे निष्कलत्वालोचनायां सर्वाकारनिष्कलं पारमेश्वरं स्वरूपमसंशयमाविर्भवतीत्य- नुसन्धेयम् | यदुक्तं मयैव श्रीपरास्तोत्रे - पृथ्वी पूर्वमितो वनं तरुरतस्तत्रापि शाखा ततः पत्रं तत्र च पुष्पमत्र च फलं माधुर्यमस्मादिति | एकस्मादपि तारतम्यपदवीमुत्कर्षणीं पश्यतो विश्वस्मादपि कापि सिध्यति परे ! त्वामेव तां ब्रूमहे || इति | एवमभिप्रेत्य खल्वीश्वरसिद्धिविमर्शिन्यामुक्तम् - गृहपतिरिव कुटुम्बवर्गे, नरपतिरिव गृहपतिवर्गे, चक्रवर्तीव राजवर्गे, लोकपाल इव चक्रवर्तिवर्गे, ब्रह्मादिरिव लोकपालवर्गे, ब्रह्मादिवर्गेऽप्यधिष्ठाता इति | एवञ्च - सूक्ष्मस्यैव विकासः स्थौल्यं स्थूलस्य मुकुलनं सौक्ष्म्यम् | इति स्थित्या वेदितृस्वभावत्वेन सूक्ष्माभिमतस्य परमेश्वरस्य स्फुरणप्रकारोऽयं सर्वोऽपि स्थूलो वेद्योल्लासः | तस्य च सम्प्रतीकारयुक्त्या निष्कृष्टं वपुः स परमेश्वर इत्यनुसन्धानेन भाव्यमिति शाम्भवोऽप्युद्भाव्यते | यदुक्तं श्रीस्वच्छन्दे - तदेव भवति स्थूलं स्थूलोपाधिवशात् प्रिये | स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् || इति | आगमे च - जलं हिमं च यो वेद गुरुवक्त्रागमात् प्रिये | नास्त्येव तस्य कर्तव्यं तस्यापश्चिमजन्मनः || इति | एतेन - आत्मानमत एवायं ज्ञेयीकुर्यात् पृथक्स्थितिः | ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता || इत्यादि व्याख्यातम् | भवत्विति संप्रश्ने लोट् | प्रेक्षध्वमित्यतिसर्गादौ | सोमनाथ इति | उमा नामेच्छाशक्तिः इच्छाशक्तिरुपा कुमारी इत्युक्तत्वात् | तया सह वर्तते बहु स्यां प्रजायेय इत्याम्नायस्थित्या बहिः - प्रथनौचित्यमनुभवतीति सोमशब्देनास्य स्थौल्यम्, आनन्तर्यं यथेत्याहुस्तदस्यास्मादयं च न | इति श्रीपादुकोदयप्रक्रियया सर्वविकल्पोल्लङ्घनेन निष्कलत्वोत्कर्षकाष्ठाप्राप्तिरूपं सौक्ष्म्यं च तस्य नाथपदेनोपपाद्यते | संभूय च तस्य स्थूलसूक्ष्मतौचित्येन विश्वतदुत्तीर्णत्वोभयरूपसंपत्सौभाग्यभाजनत्वं प्रतायते | स इति स्थूलसूक्ष्मत्वाद्यन्योन्यविरुद्धसामरस्योन्मेषास्पदतया तत्तदौत्तराम्नायोद्घोषितत्वेन परामृश्यमान इति यावत् | एतच्चोपायत्रयं पूर्वत्र गाथायामभिधयैव व्यापारेणोपपादितम् | अत्र त्वभिधयाणवो व्यञ्जनात्मनान्यद् द्वितयमिति विशेषः व्यञ्जनं च नाम शब्दस्य कश्चिदभिधातात्पर्यलक्षणात्मक- प्रसिद्धप्रस्थानातिक्रान्तो व्यापारोऽस्ति | यद्वदात्मनः शयनासनभोजनादिव्यतिरिक्तः स्वातन्त्यनामा लोकोत्तरः कश्चित् स्वभावः | यदुक्तं तत्त्वालोककृता काव्यालोके - प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् | यत् तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु || इति | एतत्प्रसाधनविस्तरप्रयासस्त्वप्रस्तुत इत्यलम् || ५७ || अथ शाक्तमभिव्यनक्ति - ये कुलकुम्भसुधासवपानमहोत्सवसुखे प्रवर्तन्ते | ते खलु विकल्पाङ्कुरान् रसिका उपदंष्टुं प्रगल्भन्ते || ५८ || ये देशिककटाक्षपातपूतचेतसो महापुरुषाः कुलस्य षडध्वस्फारात्मनो वेद्योल्लासस्य यः कुम्भः स्वानन्दस्वभावतया कुम्भयत्यव्याकुलमवस्थापयतीति व्युत्पत्त्या प्रतिष्ठाहेतुराधारविशेषः, तत्रत्यो यो लौकिकालौकिकमाधुर्य- सामरस्यास्पदत्वादमृतशब्दवाच्य आसवो भैरवीयं द्रव्यम्, तस्य यत् पानमात्मैश्वर्यप्रधानतापरामर्शपूर्वको निर्विशङ्कस्वीकारः, स एव महान् मखरूपोऽधवरात्मा चोत्सवः स्वाह्लादसाक्षात्कारसम्पत्सौभाग्यम् तस्मिन् विषये प्रवर्तन्ते वेद्यवेदकभावादिविकल्पविगलनलक्षणप्रकर्षपूर्वकं व्याप्रियन्ते, खलुर्हेतौ, ते तत एव हेतोः पाशवशैवादिविचित्रकल्पनामयान् - अपीत्वाऽपि भवद्भक्तिसुधामनवलोक्य च | त्वामीश ! त्वत्समाचारमात्रात् सिध्यन्ति जन्तवः || इति श्रीमत्स्तोत्रावलीस्थित्या संस्कारशेषतामात्रानुप्राणनान् भेदप्रथाविलासान् उपदंष्टुमत्यन्तसामीप्यरूपस्वात्मतादात्म्या- पादनयुक्त्या पुनरुत्पत्तिशून्यतौचित्येन चर्वयितुं प्रगल्भन्ते प्रकृष्टं स्थैर्यमनुभवन्ति | यतोऽमी रसिकाः रसो वै सः इत्यादिश्रुत्युपपादितं रसं स्वकीयतयाऽनुभवन्ति | अयमेव हि मुख्यया वृत्त्या रस इत्युच्यते | यदुपचारेण माधुर्यप्रीतिशृङ्गारादयोऽप्येवं व्यपदिश्यन्ते | यत्तात्पर्येण च स वा एष पुरुषोऽन्नरसमयः इत्युपनिषदुन्मिषति | अन्यथा रसशब्दप्रयोगस्य नैरर्थक्यप्रसङ्गात् | सुधेत्यासव इति च शब्दद्वयोपादानेन पाशवं शैवमिति स्वभावभेदः, विधिनिषेध इति चोदनावैचित्र्यम्, लौकिकमलौकिकमिति व्यवहारतारतम्यम्, गोप्यमगोप्यमिति भावविभागः, श्रद्धा जुगुप्सेत्यवस्थाविवेकः, आमुष्मिकमैहिकमिति फलविशेषः, देवा असुरा इति देवताव्यवस्था चेति लोकयात्रानुबन्धी सर्वोऽपि विरोध एतदास्वादनधन्यानां न किञ्चिदपि शङ्कातङ्कमङ्कुरयितु- मलमित्युन्मील्यते | यतो ब्राह्मणचाण्डालादिव्यवस्थापरित्यागेन - घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी | कुलं जातिश्च शीलं चेत्यष्टौ पाशाः प्रकीर्तिताः || इति स्थित्या वर्णाश्रमादिनैयत्यादिना परिस्फुरन् सर्वोऽपि पाशप्ररोहः स्वहृदयसंवादसौन्दर्योत्तरं स्वत एवापहीयते | अत्र च ये सौत्रामण्यादिदृष्टान्तदृष्ट्या प्रामाण्यं प्रसाधयन्ति, नूनं ते हिंसावलोकितकेन विगलितमपि तज्जिह्मं ब्राह्मण्यमालोकयन्ति | अस्माकं पुनरुल्लङ्घिताशेषसंशयशैलशृङ्गाणाम् - धन्याः केचिद्धनमिव विभोरागमैर्गोप्यमानां व्याकुर्वाणां जगदपरथा वीरविक्रान्तिविद्याम् | माधुर्यस्य प्रथमपदवीं मङ्गलानां प्रतिष्ठां मान्त्रीं शक्तिं मनसि महती देवतेत्याद्रियन्ते || इति संविदुल्लासन्यायादेकशरणानां न कदाचिदत्राप्रामाण्य- शङ्का प्रामाण्यप्रसाधनापेक्षा वेत्यलमारुरुक्षुजनहृदय- परीक्षणव्याक्षेपेण | उक्तरूपमलौकिकमर्थमभिप्रेत्य हि शिवधर्मादिषु - आगमत्वेऽपि सामान्ये कः प्रद्वेषः शिवागमे | अनायासेन यत्रोक्ता मुक्तिरेकेन जन्मना || इत्याद्युपपाद्यते | प्रस्तावश्चायं अग्घं वेज्जविलासो, पुण्णाहन्ताण मुहे इत्यत्र विस्तीर्य पर्यालोचितः | अयं चोपायः स्वीक्रियमाणस्यास्य द्रव्यविशेषस्य विश्ववेद्यविलासात्मकतयाऽवस्थापितस्य शक्तयोऽस्य जगत् सर्वम् इति स्थित्या सर्वशक्तिसामरस्यरूपतया निर्णीतत्वाद् अन्यसमयाचारादनुत्तराचारं प्रति तदास्वादनस्य स्फुरत्तापरपर्यायशक्तिस्वभावतयाऽनुभूयमानत्वाच्च शाक्त इत्युक्तः | पर्यन्तदृष्ट्या पुनरुपपादितद्रव्यस्वीकारसाध्यस्याह्लादोत्कर्षानुभूतिचमत्कारस्य स्वस्वभावात्मकतयाऽनुभूयमानत्वाच्छाम्भव एवेत्यवगन्तव्यम् | यतोऽयं पामरप्रवृत्तिः प्रमाणम् इति राजभैरवसूत्रस्थित्या पुंसां स्वतःप्रवृत्तिविषयतयोपलभ्यते | यतश्च श्रीविज्ञानोद्योते - जग्धिपानरसोल्लासरसानन्दविजृम्भणात् | भावयेद् भरितावस्थां महानन्दमयो भवेत् || इत्यत्र श्रीविज्ञानभट्टारकांशे एषा शाम्भवी भूतिरिति श्रीमत्क्षेमराजेन व्याख्यातम् | उपलक्षणं चैतत् | तेन विषयपञ्चकास्वादसौख्ये सर्वत्राप्ययमेव न्यायः | यथा विषयपञ्चिकायाम् - मधुरसरसवीणावेणुगीतादिवाद्य- श्रवणजनितहर्षः शब्दमात्रैकशेषः | तदनु भवविरामप्रस्फुरद्बोधमूर्ति- र्भवविभवविमुक्तो मुक्तिमाप्नोति सम्यक् || इत्यादि | यथा च मदीये संविदुल्लासे - पुष्पोपहारघनचन्दनवंशताल- नृत्तप्रयोगमधुमुग्धवधूप्रधानाः | भावाः सहस्रमपि जाग्रतु तत्तदन्तः- प्रह्लादिनी विजयते परचित्कलैका || इति | तेषु च शाक्तशाम्भवत्वादिकं तत्तत्प्रकरणादिनाऽवगन्तव्यम् | यथा च श्रीविज्ञानोद्योते एकमेव प्रियजनोपभोगलक्षणमर्थमवलम्ब्य - शक्तिसङ्गमसंक्षुब्धशक्त्यावेशावसानिकम् | यत् सुखं ब्रह्मतत्त्वस्य तत् सुखं स्वाक्यमुच्यते || इत्यत्राणवत्वम्, लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात् स्मृतेः | शक्त्यभावेऽपि देवेशि ! भवेदानन्दसंप्लवः || इत्यत्र शाक्तत्वम् - आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् | आनन्दमुद्गतं ध्यात्वा तल्लक्ष्यस्तन्मयो भवेत् || इत्यत्र शाम्भवत्वं च पर्यालोचितमिति || ५८ || अथ शाम्भवमुपदिशति - हन्त मुखं प्रतिबिम्बतु प्रतिबिम्बयतु तथा तदपि दर्पणः | दर्पणः पुनर्यस्मिन् प्रतिबिम्बति सोऽपि ज्ञातव्यः || ५९ || लोके हि दर्पणादौ स्वच्छे वस्तुन्याभिमुख्येनोल्लसन्नाननादिः पदार्थः प्रतिफलनयुक्त्या परिस्फुरतीत्यतिप्रसिद्धोऽयमर्थः | तत्र दर्पणवदनादीनां वास्तवं वपुरत्रैवानन्तरमुपपादयिष्यते | स्थूलया तु दृष्ट्या मुखतयाऽभिमतो भावः प्रतिबिम्बनक्रियामनुभवति | आदर्शात्मकश्च तदाधारतया तत्प्रयोजको भवतीत्यस्तु नामैतत् | यः पुनरयमादर्शः स्वच्छतावशादाननादिप्रतिबिम्बस्थलतयाऽनुभूयते, स एव यस्मिन्नत्यन्तस्वच्छे स्वात्मनि तादृग्रूपतया प्रतिबिम्बति सोऽपि ज्ञातव्यः, यन्मयोऽयमशेषप्रतिबिम्बनप्रागल्भ्योन्मेषः | ज्ञातव्य इति ज्ञानार्हः शक्यज्ञानो वाऽवश्यं ज्ञेय इति वा प्रैषातिसर्गादिर्वा विनेयजनाभिमुखीकाराय बहुप्रकारः कृत्यप्रत्ययार्थोऽनुसन्धेयः | प्रतिबिम्बत्वित्यादौ कामचारकरणात्मन्यामन्त्रणे लोट् | हन्तेत्यनेन बिम्बप्रतिबिम्बस्वभावावबोधवन्ध्यानन्यसैद्धान्तिकान् प्रत्यनुकम्पा द्योत्यते | तेन च सर्वोऽयमादर्शाननाद्युपलक्षितः स्तम्भकुम्भादिर्वेद्यविस्तारो मालिन्यकक्ष्यानुप्रवेशितान्यपदार्थ- वैमल्ये स्वच्छत्वोत्कर्षशालिनि स्वस्वभावाविभिन्नपरमेश्वरात्मके महति मुकुरमण्डले तन्मयत्वपर्यायया प्रतिबिम्बनयुक्त्या परिस्फुरतीति तात्पर्यार्थः | उपलक्षणं चैतत् | तेन - शब्दो नभसि चानन्दस्पर्शधामनि सुन्दरः | स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः || परस्थः प्रतिबिम्बत्वात् स्वदेहोद्धूननाकरः | एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः || इति श्रीतन्त्रालोकस्थित्या वियति प्रतिश्रुत्कात्मा शब्दः, अङ्गनानुस्मृत्यादावाधारचक्रे प्रत्यासन्नकर्कशस्पर्शानु- सन्धानात् सौकुमार्यशालिनां शरीरेषु स्पर्शः, अन्यजनास्वाद्यमानतिन्तिण्याद्यनुसन्धानाद् दन्तोदके रसः, चन्दनादि धूपनावस्थायां घ्राणान्तराले गन्धः, स्मरणोत्प्रेक्षादा- वात्ममनस्यन्यजनानुभूयमानस्वभावो हर्षशोकाविर्भावश्चेति सार्वत्रिकमेतत् प्रतिबिम्बसम्पत्सौभाग्यम् | एवञ्च बाह्येषु दर्पणादिषु बिम्बसव्यपेक्षः प्रतिबिम्बोपलम्भः | स्वात्मरूपे पुनरेतद्वैपरीत्यम्, अशेषस्यापि विश्ववैचित्र्यस्य प्रतिबिम्बतयाऽनुभूयमानत्वात् | यथा श्रीतन्त्रालोके - प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते | तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् || इति | तथा च श्रीचिद्गगनचन्द्रिकायाम् - वह्निवारिमुकुरादिषु स्फुटं स्वच्छवस्तुषु कुमारि बिम्बता | मन्त्रिता सह परिच्छदेन यत् तेन बिम्बमनवेक्षितं तव || इति | अलौकिकी चेयं प्रतिबिम्बयुक्तिः शाम्भव एवोपाये पर्यवस्यति | यदाहुः- मत्त एवोदितमिदं मययेव प्रतिबिम्बितम् | मदबिन्नं जगच्चेति त्रिधोपापस्तु शाम्भवः || इति | यथा श्रीतन्त्रवटधानिकायाम् - यथादर्शे घटादीनां स्थितिर्मिश्रेतरात्मिका | मदात्मनि तथाऽमीषां भावानां चित्ररूपिणी || इति | एतदेव विश्वप्रतिबिम्बनक्षमत्वं परमेश्वरस्य तदतिशयितं स्वातन्त्र्यमुच्यते यदन्तर्विद्भिरालोचनीयम् | विश्वस्य च प्रकाशस्वरूपे परमेश्वरे परिस्फुरतः प्रतिबिम्बप्रक्रियामेनामन्तरेण नान्या रीतिरौचित्यमनुभवति | नन्वस्ति विवर्तः परिणामादिर्वेति चेत् ? न | विवर्तो नाम भ्रान्त्यपरपर्यायमन्यस्यान्यत्रारोपणात्मकं ज्ञानमुच्यते | तथा च विश्वमात्मन्यात्मा वा विश्वस्मिन्नारोप्यत इत्यङ्गीकार्यम् | तत्र प्रथमे पक्षे यथा सर्पे दृष्टं सर्पत्वं रज्ज्वामारोप्यते, एवमन्यत्र कुत्र दृष्टमिति कृत्वा विश्वमात्मन्यारोप्येत | किञ्च नायं सर्प इतिवन्नेदं विश्वमित्यौत्तरकालिको बाधोऽप्यत्र नानुभूयते | युक्त्या तत्र बाधः प्रसाधयिष्यत इति चेत् ? न | केयं युक्तिर्नाम ? तर्को वा प्रमाणं वा स्यात् | नाद्यः, तस्याहार्यमूलतया प्रमाणानुग्राहकत्वव्यतिरेकेण स्वातन्त्र्येणार्थप्रसाधकतयाऽन- भ्युपगतत्वात् | न द्वितीयः | प्रमाणं च किं प्रत्यक्षमुतागमः, आहोस्विदनुमानम् | न प्रथमः, प्रत्यक्षेण तद्बाधस्य न केनचिदुपलभ्यमानत्वात् | प्रत्युत विश्वव्यवहारस्यार्थक्रियादिना निर्बाधं प्रवर्त्यमानत्वाच्च | न द्वितीयः | आगमो हि एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन इत्यादि | तस्य चायमर्थः - ब्रह्मणस्तावदात्मस्वरूपपरमेश्वराविभिन्नस्य न केनचिदप्याकारेण भेदप्रथौचित्यमस्ति | इयत् तु चिन्त्यम् - तत्र परिस्फुरतः प्रपञ्चस्य स्थितिः कीदृशीति? अत्रैवमाचक्ष्महे - इह वाग्व्यवहारानुकूलं प्रस्तावादिदन्तयाऽध्यवसीयमाने ब्रह्मणि गगनपवनादिः सर्वोऽयं प्रपञ्चो नाना न भवति | भेदप्रथास्पदं न सम्पद्यते | किं तर्हि, उपपादितया तत्स्वातन्त्र्यमयया प्रतिबिम्बदृष्ट्या ब्रह्मस्वरूपमेवाविभिन्नमध्यक्ष्यत इति | अन्यथा नेह सत्यमस्ति किञ्चन इति श्रूयेत, शून्यवादो वा प्रसज्येत | नापि तृतीयः, उक्तेनैवागमेन विगीतं मिथ्या दृश्यत्वात् शुक्तिरजतवदित्यादेर्लिङ्गस्य कालातिक्रान्तत्वात् | एवमसिद्ध्याद्यप्यूह्यम् | ग्रन्थगौरवभयात् तु तन्न वितन्यते | अपि च, ब्रह्मण्ययं प्रपञ्चः केन प्रमात्राऽध्यारोप्यते | तेनैव ब्रह्मणेति चेत् तर्ह्यनधिष्ठानभ्रमत्वप्रसङ्गः, तस्यारोपकतया स्वीकृतत्वात् | अंशतोऽस्य तदुभयार्थनिर्वाहकत्वमिति चेत् ? न | तथापि तस्य भ्रान्तिमत्त्वप्रसङ्गात् | अस्तु तर्हि जीवात्मनोऽध्यारोपकत्वं ब्रह्मणश्चाधिष्ठानत्वमिति चेत् ? न | भेदवादस्यानभिमतत्वात्, अंशत आत्माश्रयत्वावश्यम्भावाच्च | ननु काल्पनिको भेदः स्वैरं स्वीक्रियत इति चेत् ? न | तस्यैव विवर्तशब्देनाभिधातुमुपक्रान्तत्वात् | किञ्च, कीदृशेन सादृश्येन ब्रह्मणि प्रपञ्च आरोप्यते | तदुपेक्षायां च कथं नातिप्रसङ्गः | ब्रह्मप्रपञ्चयोश्च सत्यासत्यादिविभागवशाद् वैसादृश्यमतिप्रसिद्धम् | विश्वस्मिन् ब्रह्मारोप्यत इति तु प(क्षः ? क्षोऽ)प्रसिद्धो मर्यादातिक्रान्तत्वाद् ब्रह्मणो मिथ्यात्वप्रसङ्गाच्चात्यन्ततुच्छतया निश्चेतव्यः | अतश्च वैचित्र्येणोक्तप्रकारप्रतिबिम्बनस्वभावेन वर्तनं विश्वस्य विवर्त इति व्याख्यायां न किञ्चिदनौचित्यम् | यथा श्रीक्रमकेलौ - तद्विवर्तः स्मृतो रश्मिपुञ्जश्चक्रेशिपूर्वकः (?) | इत्यत्र व्याख्यातम् - विवर्तो विचित्रेण रूपेण वर्तनं न त्वविद्यावशात्, अपि तु स्वातन्त्र्यतः इति | एतेन प्रसिद्धसत्त्वासत्त्वताटस्थ्यशालिन्या संवित्स्वातन्त्र्यमयया महासत्तया विश्वव्यवहारस्य निर्वचनीयत्वनैयत्यादेतद्विपर्ययात्मा तस्यानिर्वचनीयत्वपक्षोऽप्यपहस्तित एव स्यात् | एवं परिणामेऽपि वाच्यम् | परिणामो हि क्षीरादेः पूर्वाकारविनाशाद् दध्यादिरूपतत्सदृशाऽन्याकारपरिग्रहः | तत्रापि किं ब्रह्म विश्वतया परिणमति, उत विश्वं ब्रह्मतयेति प्रष्टव्यम् | नाद्यः, ब्रह्मणः स्वरूपनाशप्रसङ्गात् | न द्वितीयः, विश्वस्य सच्चिदानन्दादिस्वभावत्वापत्तेः | तदभ्युपगमे ब्रह्मणः सकाशाद् विश्वस्य सर्वाकारवैषम्यात्, परिणामवार्तानुपपत्तेश्च | एवं वृक्षत्वशिंशपात्वादिवल्लौकिकस्तादात्म्यपक्षोऽपि प्रतिक्षिप्तोऽवगन्तव्यः | नन्वेवं प्रतिबिम्बवादेऽपि मिथ्यात्वशङ्काया अपरिहार्यत्वम् | तत्र हि स्वच्छेन दर्पणादिद्रव्येण प्रतिहता लोचनमरीचयः परावृत्त्य स्वमात्मानं गृह्णन्तीति प्रसिद्ध्या दर्पणे पुरुष इति प्रतीतिर्भ्रान्तिरित्यवधार्यते | तद् दर्पणे पुरुषो नास्तीत्यौत्तरकालिको बाध एव प्रगल्भत इति चेत् ? न | पारमेश्वरी हि प्रतिबिम्बभङ्गि- रलौकिकत्वादनवद्यामेव कक्ष्यामधिरोहति | यदमुष्यामुपन्यस्तया नीत्या बिम्बव्यपेक्षा नोत्पद्यते | तत्संभवे हि बिम्बान्वयव्यतिरेकानुविधायिनी प्रतिबिम्बस्फुरत्तेति मिथ्यात्वशङ्काया अवकाशः स्यात् | किञ्च, लौकिके दर्पणादावपि न मिथ्यात्वानुकूलो बाधोऽस्ति किमुतालौकिक इति ब्रूमः | ननूक्तमेव दर्पणे पुरुषो नास्तीति बाधोऽनुभूयत इति चेत् ? न | दर्पणे यदि पुरुष आरोप्यते, तदा स तत्र नास्तीति बाधोऽपि स्यात् | नैवमनुभव(त?)ः | तत्र तच्छायामात्रस्यैवोपलम्भः, न तु तद्वतः पुंस इत्यनुभूयमानत्वात् अतश्च दर्पणे पुरुषोऽस्तीति युक्तिमतां प्रतीत्यभावादेतद्बाधोऽपि नास्तीत्यर्थनि(क? ष्क)र्षः स्यात् | न चार्थक्रियासद्भावेऽपि मिथ्यात्वस्यौचित्यम् | दृश्यते हि दर्पणाद्यवलोकिनां दन्तधावनादिरनेकोऽर्थक्रियाप्रकारः | शुक्तिकादीनां तु रजताद्यर्थक्रिया न क्वचिदपि सम्पद्यते | ननु प्रसिद्धसत्यमर्यादातिक्रान्तः खल्वयं प्रतिबिम्बप्रकार इति चेत् ? न, प्रसिद्धाप्रसिद्धमर्यादातिक्रान्तः खल्वित्यपि वक्तुं शक्यत्वात् | ननु तर्हि सत्यासत्यव्यतिरिक्ता तृतीया कोटिरित्यापततीति चेत् ? सत्यम् | तृतीया कोटिर्यदलौकिकमतिमहत् पारमेश्वरस्वातन्त्र्यमित्याक्रन्द्यते | यदानुगुण्येनोक्तं श्रीमत्स्तोत्रावल्याम् - सदसत्त्वेन भावानां युक्तानां द्वितयी स्थितिः | तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे || इति | ननु बिम्बव्यतिरिक्तः प्रतिबिम्बयोगो न क्वचिदप्युपलभ्यत इति चेत् ? - सत्यम् | किं क्रियताम् | अत एव ह्येतत् पारमेश्वरं स्वातन्त्र्यमित्यसकृदाचक्ष्महे | ननु बिम्बमेवैतदस्त्विति चेत् ? न | तल्लक्षणायोगात् | बिम्बं ह्यन्यसंमिश्रणशून्यम्, स्वतन्त्रमेव वस्त्वित्युपलभ्यमानत्वात् | यथा दर्पणानुपश्लिष्टं वदनादीति | यदुक्तं श्रीतन्त्रालोके - ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् | किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् || नैवं तल्लक्षणाभावाद् बिम्बं किल किमुच्यते | अन्यामिश्रं स्वतन्त्रं सद् भासमानं मुखं यथा || इति | नन्वेवं प्रतिबिम्बलक्षणस्याप्ययोग इति चेत् ? न | तस्यैवं लक्ष्यमाणत्वात् | यथोक्तं तत्रैव - अन्यव्यामिऽस्रणायोगात् तद्भेदाशक्यभासनम् | प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा || बोधमिश्रमिदं बोधाद् भेदे वा शक्यभासनम् | पुरतत्त्वादिबोधे किं प्रतिबिम्बं न भास्यते || इति | ननु सौगतसिद्धन्तसाधिताद् प्रतिबिम्बवादाद् युष्मदुपक्षिप्तस्य किं वैलक्षण्यमिति चेत् ? उच्यते - तेषां हि वित्तौ वेद्यमेव प्रतिबिम्बति, न पुनर्वित्तिर्वेद्ये | अस्माकं तु सौगतस्यापि संविदि संवेद्यं प्रतिबिम्बमर्पयति, न तु संवेद्ये संवित् इति श्रीप्रत्यभिज्ञाविवृति- विमर्शिनीस्थित्या वित्तौ वेद्यमिव वेद्ये च वित्तिः प्रतिबिम्बमुत्पादयति | यदेतदुभयमपि वेदितुः परमेश्वरस्य स्फुरणप्रकार इति स्वच्छत्वोत्कर्षं प्रति न किञ्चिद् वैषम्यमनुभवति | यद् वक्ष्यति - अवि आरोह अपासे इत्यादौ | ततश्च यदुभयत्र प्रतिबिम्बति (य? त)द्विश्ववैचित्र्यमित्याख्यायते | यदुक्तं मयैव संविदुल्लासे - आदर्शयोरिवान्योन्यं लम्भितप्रतिबिम्बयोः | शिवशक्त्योरनन्ताः स्युरन्तरन्तः प्रसक्तयः || इति | तत्रापि - बोध्यमिश्रमिदं बोध्याद् भेदे वा शक्यभासनम् | ज्ञानस्मृत्यादि बोध्ये किं प्रतिबिम्बं न भण्यते || इति समान, एव न्यायः | तत्र च वेत्तरि वित्त्यात्मनि वेद्यस्य प्रतिबिम्बनम्, वेद्यात्मनि तु वित्तेरिति | सर्वथा तस्यैवं स्वातन्त्र्यसंरम्भाधीनो विश्वविक्षोभः | एवं सांख्यादिप्रतिबिम्बवादवैलक्षण्यम- प्यूह्यमिति विवर्तादिव्यतिरेकेणास्मदुपक्षिप्तः प्रतिबिम्बपक्ष एव प्रौढिमाढौकते | यदाहुः - अतः प्रपञ्चस्य मृषात्ववादी कार्यत्ववादी प्रतिभेदवादी | असत्यवादी च परेश ! शम्भो ! तव स्थितिं नेषदपि स्पृशन्ति || इति | प्रतिबिम्बत्वित्यनेनैतदासूत्र्यते यद् दर्पण इव वदनादि किं स्वात्मनि विश्वं प्रतिफलतीति दृष्टान्तदृष्ट्या विप्रतिपन्नो जनः प्रतिसमाधीयत इति | स्थूलोपदेशावधीरणेन - स्वस्यैव स्फुरणं मुख्यं विश्वस्मिन्नधिरोप्यते | ननु नौकाधिरूढस्य चलतीवापगातटम् || इति स्थित्या स्वात्मनि निष्ठं विश्वप्रतिबिम्बनक्रियावैदग्ध्यं मुख्यं स्फटिकमुकुरादावल्पनैर्मल्येऽपि वस्तुनि सादृश्येनोपचर्यते | अन्यथा हंस(नि? ति हिम)कर इत्यादिसाधारणस्योपमानार्थस्य क्विप्रत्ययस्य वैयर्थ्यप्रसङ्ग इति | यद्यपि प्रतिबिम्बतीत्याद्यौपम्यव्यतिरेकेणाप्यभियुक्ताः प्रयुञ्जते, तथापि तत्सौशब्द्यनिष्कर्षावस्थायामुक्तार्थावश्यम्भावः | इति गुरुपदपरिचर्यातात्पर्यधनो महेश्वरानन्दः | प्रतिबिम्बवादसम्पत्सौभाग्यं स्वहृदयार्थमाचख्यौ || अथ च सर्वोऽयमुपायप्रपञ्चस्तत्तत्परामर्शकक्ष्याविशेषा- रुरुक्षुजनापेक्षया पर्यालोचितः | पार्यन्तिक्यां पुनरारूढजनाधिरूढायां स्वस्वभावैकपारिशेष्यलक्षणायामवस्थायामुपायत्वमेव पर्यवस्यति | तद्व्यतिरेके पुनरुपायस्फुरत्ताया एवासंभवात् | यदुक्तं श्रीतन्त्रालोके - यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन | स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक् कथम् || इति | श्रीतन्त्रवटधानिकायां च - उपायैर्न शिवो भाति भान्त्यमी तत्प्रसादतः | स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः || इति || ५९ || अथेत्थमुपदिष्टोपायप्रपञ्चप्रतिलब्धात्मस्वरूपपरामर्श- मांसलोल्लासानां योगिनामतिशयमाख्यास्यन्नादावेषामन्तर्- बहिःस्वभावदशविच्छेदव्युदासनिर्यन्त्रणं नैश्चिन्त्यं निश्चेतुमाह - अविकारोभयपार्श्वे चाषपिञ्जसदृक्षेऽर्थे | अन्तर्मुखो योगी बहिर्मुख इति कल्पना कुतः || ६० || अर्थ्यते सर्वैः प्राप्यत इत्यर्थः | स्वात्मरूपं किञ्चिदलौकिकं तत्त्वम् | तत् खलु मयूरपिच्छवैलक्षण्येन चाषबर्हवद् द्वयोरपि भागयोरेकरूपतया.आधार्यते | चाषमयूरपक्षप्रक्रिया तु लोकप्रसिद्धा | उक्तरूपस्य चार्थस्यैतदेव पार्श्वद्वयं यदहन्तेदन्तयोरौचित्यादन्तर्बहिर्भावेनास्य द्विधाऽवभासमानत्वम् | तद्व्यतिरिक्ता च नान्या देशस्फुरत्ताऽस्ति, पौरस्त्यपाश्चात्त्यरूपाया अप्यस्या एतदन्तर्भावेनोपलभ्यमानत्वात् | तयोश्च पार्श्वयोः स्थूलदृष्ट्यवष्टम्भोपकल्पितो यो विकारो वेद्यवेत्तृत्वादिव्यवस्थानिबन्धनो वैषम्यानुभवः, स वस्तुवृत्त्यालोचनायामनौचित्यसरणिमनुसरतीत्यविकारत्वम् | न खल्वहन्तेदन्तयोरुभयोरपि संवित्स्वातन्त्र्यपरिस्पन्दव्यतिरेकेणान्या काचिदनुप्राणनप्रक्रियास्ति, यदेवं विक्रिया संभाव्येत | अर्थ इत्यत्र कर्तरि ज्ञातरीत्यादिवत् सप्तमी सिद्धस्वभावतां द्योतयति | तदर्थमस्मिन्नर्थेऽवस्थिते - ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं संबन्धे सावधानता || इति श्रीविज्ञानभट्टारकस्थित्या वेद्यवेदितृसंबन्धपरामर्शस्वभावं योगमात्मानुप्राणनत्वेनाङ्गीकुर्वतस्तत एव परतत्त्वैक्यशालिनः प्रमातुः स्वात्मनिष्ठतारूपमन्तर्मुखत्वं वेद्यव्याक्षेपलक्षणा बहिःप्रवृत्तिश्चेति या कल्पना कृत्रिमा प्रक्रिया सा कुतो हेतोरस्तु, न कुतश्चिदपि संगच्छते | निमीलनोन्मीलनात्मनोः समाध्योरपि तादृक्कल्पनामात्रनिष्पन्नत्वावश्यम्भावादिति भावः | एतदुक्तं भवति - तत्तत्प्रौढपुरुषकल्पनैकनिर्व्यूढो योऽयं वेदिता वेद्यम्, शक्तिमान् शक्तिः, पतिः पाशः, भवन् भावः, दृग् दृश्यम्, पुरुषः प्रकृतिः, आत्मा शरीरम्, अन्तर्बहिः, प्रत्यक् पराक्, सत्यमसत्यमित्यादिविकल्पव्याकोपः, स सर्वोऽपि - शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् | तस्माच्छब्दार्थचिन्तासु साऽवस्था न या शिवः || वस्तुतः शिवमये हृदि स्फुटं सर्वतः शिवमयं विराजते | चलित्वा यास्यते कुत्र सर्व शिवमयं यतः || इत्याद्यनेकाम्नायमर्यादया पारमेश्वरप्रकाशपरमार्थमेतद्- अखिलमपि प्रपञ्चमालोचयतः साक्षात् परमेश्वरतापन्नस्य महापुरुषस्य स्वात्मस्वरूपव्यतिरेकेण किं प्रमाणं कः परिस्फुरत्विति | यदुक्तं श्रीमत्स्तोत्रावल्याम् - योऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवद्वपुः | स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् || इति | यच्चोक्तं श्रीप्रत्यभिज्ञायाम् - सर्वो ममायं विभव इत्येवमभिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || इति | यथा चोक्तमभियुक्तैः - अन्तर्निरञ्जनं ज्योतिर्बहिरष्टौ च मूर्तयः | परितः परितः शयया हंसाङ्गरुहतूलिका || इति || ६० || अथ देशाध्वनेव कालाध्वनाऽप्यस्य न कश्चित् सङ्कोचकलङ्कोपलेप इत्युन्मीलयितुमाह - योगी जागरस्वप्नसौषुप्ततुरीयपर्वपरिपाटिम् | चित्रामिव मणिमालां विमर्शसूत्रैकगुम्फितामुद्वहति || ६१ || यान्येतानि जागरप्रभृतीनि कालक्रमानुप्राणनानि पर्वाण्यवस्थाविशेषाः, तत्र लौकिक्या युक्त्या सर्वसाधारण्येनाथं विषयीकृत्य बाह्याभ्यन्तरोभयेन्द्रियजन्यं जागरः, अन्तःकरणमात्रहेतुरसाधारणार्थनिर्माणात्मा विकल्पः स्वप्नः, सर्वाकारेणार्थस्फुरणशून्यता सौषुप्तम् | यदुक्तं श्रीशिवसूत्रेषु - ज्ञानं जाग्रत्, स्वप्नो विकल्पः, अविवेको माया सौषुप्तम् इति | यच्चोक्तं श्रीप्रत्यभिज्ञायाम् - सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा | सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः || इति, मनोमात्रपथोऽप्यक्षविषयत्वेन विभ्रमात् | स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् || इति, तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् | इति च | योगिदृष्ट्या तु धारणाध्यानसमाधिरूपाण्येतानि | यानि चित्तस्य देशबन्धो धारणा, तत्तत्प्रत्ययप्रवाहो ध्यानम्, वेद्यवेदकभावादिविगलनं समाधिः इत्यागमेषु लक्ष्यन्ते | तुरीयं पुनः सर्वयोगिन्ययोगिन्यप्येकरूपतयाऽवतिष्ठते | केवलं तादृक्परामर्शक्षमत्वमेव योगिनो विशेषः | तुरीयं च नाम त्रिषु चतुर्थं तैलवदासेच्यम् इति श्रीशिवसूत्रस्थित्या जाग्रदाद्यवस्थात्रयानुवृत्ता महास्फुरत्ता | उपलक्षणं चैतत् | यत एकस्मिन् द्वितीयम्, द्वयोस्तृतीयम्, त्रिषु चतुर्थम्, चतुर्षु पञ्चममित्यस्यार्थस्यावश्यम्भावः | तत् पुनरौपदेशिकतया सूत्रे संगृह्योक्तम् | एषां च पर्वणां या परिपाटिरन्योन्यरूपत्वे व्यवस्थात्मकत्वादेकरूपता, तां व्याख्यातस्वभावो योगी मौक्तिकमाणिक्याद्यनेकरत्नशालिनीं हारयष्टिमिव विमर्शाख्येन सर्वानुप्रवेशप्रगल्भेनैकेन तन्तुना संकलितां कुर्वन्नुद्वहति लौकिकप्रस्थानोल्लङ्घिना केनचिदुत्कर्षेण प्रापयति तत्तत्स्वरूपतापरामर्शेन स्वात्मन्यवस्थापयति | तत्र च लौकिकानामपि साधारणमवस्थात्रयमतिक्रम्य परमप्रमातृरूपतुर्यातीतस्वभावतयाऽवधार्यमाणं तुर्यमेवात्र विमर्श इत्याख्यायते, येन स्रक्सूत्रन्यायादधस्तनमवस्थात्रयं क्रोडीक्रियते | तत्रापि जाग्रदादिसाहचर्याक्रान्तस्याङ्गस्य प्रमातृस्वरूपानु- प्रविष्टेनांशेनानुसन्धीयमानतया क्रोडीकार्यत्वं क्रोडीकरणत्वं चेत्युभयमपि सङ्गच्छते | तथाहि - जाग्रदादिषु चतसृष्ववस्थासु जाग्रज्जाग्रत्, जाग्रत्स्वप्नः, जाग्रत्सुषुप्तम्, जाग्रत्तुरीयमित्यादिना रूपेण परस्परानुवेधः प्रतीयते | तत्राबुद्धं बुद्धं प्रबुद्धं सुप्रबुद्धमिति जाग्रतश्चत्वारो भेदाः | गतागतं सुविक्षिप्तं संगतं सुसमाहितम् | इति स्वप्नस्य, उदितं विपुलं शान्तं सुप्रसन्नमिति सुषुप्तस्य | तुरीयस्य तु - नैतस्यामपारा तुर्यदशा संभाव्यते किल | इति श्रीतन्त्रालोकस्थित्या मनोन्मनमनन्तं सर्वतोभद्रमिति त्रयो भेदाः | तुर्यातीते च - तुर्यातीते भेद एकः सततोदितमित्ययम् | इति नीत्या नित्यविम्रष्टृताद्योतकसततोदितमित्येको भेद उपचर्यते | (एषा च? एतस्याः) स्फुटः स्फुटास्फुटोऽस्फुट इत्यवभासभेदात् सर्वत्रानुस्यूत्याऽवस्थानं च | क्रमाल्लक्षणान्याचक्षते | यदुक्तं श्रीतन्त्रालोके - यस्य यद् यत् स्फुटं रूपं तज्जाग्रदिति मन्यताम् | यदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृशः || अस्फुटं तु यदाभाति सुषुप्तं तत् पुरोऽपि यत् | त्रयस्यास्यानुसन्धिस्तु यद्वशादुपजायते || स्रक्सूत्रकल्पं तत् तूर्य सर्वभेदेषु गृह्यताम् || इति | तुर्यातीतं तु सर्वत्रैकरूप्यादव्याकुलं स्वात्मरूपपरमभैरवस्वभावमनुभूयते | यदुक्तं तत्रैव - यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् | तुर्यातीतं तु तत् प्राहुरित्थं सर्वत्र योजयेत् || इति | तेन सुष्ठूक्तं तूर्यस्योभयार्थप्रसाधनप्रागल्भ्यमस्तीति | अनेनैवाशयेनोपमानांशे चित्रामित्युक्तम् | ततश्च यथा माणिक्यमौक्तिकमहानीलमरकताद्यनेकमणिगुम्फिता हारयष्टिररुणधवलश्यामलादिवर्णवैचित्र्यव्यतिकरोत्तरतया क्वचित् कस्यचिदसाधारण्येऽपि व्यतिरिक्ताशेषवर्णसंसर्गाविनाभावमनु- भवन्त्यपरोक्षीक्रियते, एवं जागरादिपर्वपरम्परायामपि प्रतिपादितेन प्रकारेण परस्परानुवेधवैचित्र्यमनुसन्धीयत इत्यासूत्र्यते | एतदुक्तं भवति - चिच्छक्तिस्वरूपो महाप्रकाशनामा परमप्रमातृरूपो नित्योद्यन्तृतापरिस्पन्दसारो भगवांस्तुरीयातीत- भट्टारकः स्वानन्दात्मकप्रचयनामधेयावच्छिन्नप्रमातृता- रूपानौदासीन्यस्वभावेन तूरियेण करणभूतेन प्रमेयं प्रमाणं प्रमात्रौदासीन्यमिति, पिण्डं पदं रूपमिति, क्रिया ज्ञानमिच्छेत्याद्यशेषत्रिकानुप्राणनमेतज्जाग्रत्स्वप्नसुषुप्त- लक्षणमवस्थात्रयं प्रतिपादितालौकिकैश्वर्यपरामर्शलक्षणां योगशक्तिमाक्रम्य स्वस्वातन्त्र्यस्फुरत्तापरिस्पन्दमात्रपरमार्थ- मनुसन्धत्त इति | यदुक्तं श्रीशिवसूत्रेषु - त्रितयभोक्ता वीरेशः, त्रिपदाद्यनुप्राणनम् इति च | यच्चोक्तं श्रीस्पन्दे - जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपलब्धृतः || इति || ६१ || ननु व्यावर्णितमेतद्देशकालादिविकल्पवैधुर्योद्धुरं शुद्धसंवित्कलाकैवल्यस्वभावं योगिनः स्वाच्छन्द्यं स्वव्यतिरिक्ताशेषदेहप्राणादिविकल्पोपश्लेषवैमुख्यशालिन एवास्योपपद्यते | तच्च न संभवति, यस्य कस्यचिद्विकल्पोपश्लेषस्य नित्यमवर्जनीयत्वादित्याशङ्क्याह - उल्लोकानन्दसुधाशीधुरसोद्वेजितेन हृदयेन | अभिलषति लोकयात्रातिन्तिणिचर्वणरसान्तरं योगी || ६२ || योऽयमुल्लोकः स एको ब्रह्मण आनन्दः इत्युपनिषत्प्रक्रियया मनुष्यगन्धर्वाद्यवच्छिन्नप्रमातृहृदयानन्दातिशायी पूर्णाहम्भावभावनाचमत्कारसारः स्वान्तर्विश्रान्तिसम्पत्सौन्दर्यमात्रस्वपरिस्पन्दः कश्चिदाह्लादोत्- कर्षः, स खल्वमृतासवस्वभावरसद्वयव्यतिकरकल्पनीयार्थक्रिया- कारितया प्रकाशविमर्शस्वभावस्वरूपमाधुर्यातिशयानुभव- प्रावीण्याद् योगिनो हृदयमुद्वेजयति उत्कृष्यान्यत्र स्वप्रतियोगिनि पदार्थे प्रवर्तयति | तादृशा चायं हृदयेनोपकरणभूतेन लोकस्य देहाक्षभुवनादेर्या यात्रा प्रवाहनित्या प्रवृत्तिः, सा चिञ्चाफलास्वादवत् प्रागनुभूतमाधुर्योत्कर्षापेक्षया रसान्तरमम्लादिसादृश्यादन्यो रसः सम्पद्यते | यत्रोद्वेजितहृदयस्य योगिन इच्छाशक्तिरुज्जृम्भते | योगीच्छायाश्च फलप्राप्तिपर्यन्तत्वम- विप्रतिपन्नम् | यदुक्तं श्रीशिवसूत्रेषु - चित्तस्थितिवत् शरीरकरण- बाह्येषु इति | क्षीरशर्कराद्यत्यन्तमधुरोपयोगोद्वेजितचेतसां च पुंसां तिन्तिण्याद्यम्लपदार्थान्तराभिलाषो लोकप्रसिद्धः | अयं भावः - शरीरेन्द्रियादि वेद्यविक्षोभव्युदासेन स्वात्ममात्रसाक्षात्कारलक्षणं सौख्यमवलम्ब्योल्लासो बहिर्विषयबिभीषिकाविक्लवात्मनः परिमितस्य योगिनश्चाकित्यप्रकारः | अपरिमितस्य तु पूर्णाहन्तापरामर्शात्मकानवच्छिन्नानन्द- परिस्पन्दास्वादसंप्रीतात्मनः स्वात्मपक्षनिक्षिप्ताशेषबाह्य- प्रपञ्चत्वादिदन्तानुभूत्यवश्यम्भावः | ततश्च विकल्पसर्वस्व- विक्षोभानुभूतिवैचित्र्योत्तरमिदन्तापदावरोहणमप्यनवच्छिन्नाहम् भावभासुरे महति प्रमातृपर्वण्येव पर्यवस्यति | यदुक्तं श्रीक्रमसूत्रेषु - बाह्यादन्तः प्रवेशोऽभ्यन्तराद्वा बाह्यस्वरूपानुप्रवेशः इति | यथा च व्याख्यातं श्रीमत्क्षेमराजेन - तत्र च बाह्याद् गृह्यमाणाद् विषयग्रामादन्तः परस्यां चितिभूमौ ग्रसनक्रमेणैव प्रवेशः समावेशो भवति, अभ्यन्तराच्चितिशक्तिस्वरूपात् साक्षात्कृतात् समावेशसामर्थ्यादेव बाह्यस्वरूप इदन्तादिनिर्देश्ये | विषयग्रामे वमनयुक्त्या प्रवेशश्चिद्रसाश्यानतात्मा समावेशो जायते इति | यदभिप्रेत्य श्रीप्रत्यभिज्ञायामुक्तम् - विश्वरूपोऽहमिदमित्यखण्डानन्दबृंहितः इति | यच्चोक्तमस्मद्गुरुभिरानन्दताण्डवविलासस्तोत्रे - वयं त्विमां विश्वतयाऽवभानं बहिर्मुखस्यास्य तवोन्मुखस्य | स्वसंहितं विश्वविलापनोद्यत्स्वतन्त्रतानन्दमयीं नमामः || इति | इदमेव हि तद् योगिनो ज्ञानस्य शुद्धत्वम्, यदिदन्तोपश्लेषेऽप्यवैयाकुल्यम् | यदुक्तं श्रीचन्द्रज्ञाने - येन प्रबुद्धभावेन भुञ्जानो विषयान् स्वयम् | न याति पाशवं भावं ज्ञानचन्द्रः स कीर्तितः || इति | किञ्च, यद्यदुद्रिक्तमाधुर्योपयोगे तिन्तिण्याद्याकाङ्क्षा तदास्वादादेव प्रस्तुतोद्वेजनशान्त्या पुनरपि मधुरद्रव्यस्वीकार- सामर्थ्यम्, एवं पूर्णाहन्तानुसन्धानादिदन्तोपलम्भावश्यम्- भावः | इदन्तानुषङ्गे च तादृगहन्तानुप्रवेशस्यार्थतः सिद्धिरित्यात्मनश्चक्रकस्थित्या नित्योद्यन्तृत्वं प्रति न कश्चिद् भङ्गशङ्कावकाशः | यस्मादिदन्तानुपलब्धावहम्भावस्य राज्यभ्रष्टस्येव राज्ञः, तद्वदहमंशानुपरक्ताविदमंशस्य भागस्याराजकस्येव राज्यस्य न किञ्चिच्चमत्कारौचित्यम् | यदुक्तं शम्भ्वैक्यदीपिकायाम् - अन्तर्गता हि प्रकाशव्याप्तिरिदमिति विश्राम्यति बहिर्गता चाहमिति, एतद्द्वयं सर्वजनप्रसिद्धमनपह्नवनीयम् इति || ६२ || नन्विदन्ताया मायीयत्वावश्यम्भावादुद्भावितोऽयमहन्ते- दन्तयोरविशेषः कथं सङ्गच्छतामित्याशङ्क्याह - याभिर्गृह्णाति योगी करणप्रणालीभिर्विषयसौख्यानि | निजहृदयोद्वमनशीलाभिः स्फुरणमयं ताभिः करोति त्रैलोक्यम् || ६३ || प्रकृत्या परमप्रमातृपदाधिरूढोऽपि स्वेच्छामात्रेणोपाधिना परिमितप्रमातृभावमवतरन् अत एव प्रकाशानन्दसामरस्यामृतमहाह्रदायमानो योगी याभिरन्तर्बहिरिन्द्रियशक्तिलक्षणाभिः प्रवाहोपायप्रक्रियाभिः शब्दस्पर्शादिविषयवपूंषि सौख्यानि गृह्णाति आत्मसात्करोति, ताभिरेव पानीयपानोपक्रमप्रक्षरितवमथुशीकरस्तिम्यत्स्तम्बेरमहस्त- पुष्करन्यायाद् व्याख्यातरूपमात्महृदयमनवरतमुद्वमन्तीभिः प्रमातृप्रमाणप्रमेयपरमार्थमेतत् त्रैलोक्यं स्वहृदयलक्षणस्फुरत्तात्मकं विधत्ते | अयं भावः - योगी ह्यात्मनः परप्रमातृभावं परिमितप्रमातृतायामन्तः- करणेष्वेतानि बहिरिन्द्रियेषु तानि च चैत्यभूमाबुद्वमन्ननयैव नाड्या प्रमात्रादित्रिकमयमखिलमपि लोकवैचित्र्यं स्वात्मसंविदाश्यानतास्वभावमाधत्ते | यदुक्तं श्रीचिद्गगनचन्द्रिकायाम् - मातृमेयमितिसाधनात्मिका त्वत्कृतोन्मिषति या विकल्पधीः | त्वत्स्वरूपमकलङ्कितं तया कस्य देवि ! विदुषो न मुक्तता || इति | एवञ्च विश्वग्रसनयुक्त्या स्वाह्लादलाभानुभूतिमत्स्वसंविद्वमन- मुद्रया तस्य मायीयतादोषशङ्काप्यपमृज्यत इति तात्पर्यार्थः | ति उ डिम अं खु समत्थ इत्यादिकायां गाथायां प्रमात्रादि- त्रितयात्मनः प्रपञ्चस्य चिन्मयत्वमुन्मीलितम् | अत्र तु तस्य चिन्मयत्वादेव हेतोर्मायीयतारूपापवादपर्युदास इति विशेषः || ६३ || नन्विदं योगिनां नैश्चिन्त्यमाणवाद्युपायसव्यपेक्षतया विकल्पकक्ष्योल्लङ्घनक्षमत्वादनैश्चिन्त्यपक्षमनुप्रविशतीत्या- शङ्क्याह - यथा तव स्थितिस्तथास्स्व निश्चिन्त इति खलु प्रतिष्ठितोऽर्थः | तत्राप्यस्ति विवेक एवमुपदिशति तस्य कोऽन्यः || यद्यप्याणवाद्युपायानां भेदप्रथानुप्राणनतया विकल्पपर्वानुप्रवेशः, तथाप्याणवे विकल्पौल्बण्यम् | शाक्ते तस्य स्फुरत्तामात्रम् | शाम्भवे तु निर्विकल्पत्वमित्युत्तरोत्तर- पर्वानुशीलनादुक्तरूपमेषां नैश्चिन्त्यमव्याहतम् | यत् पुनः शाम्भवेऽप्युपायसामान्यानुप्रवेशात् सूक्ष्मेक्षिकया किञ्चिद्विकल्पशङ्काया अवर्जनीयत्वम्, तदपि निरुपायपर्वसन्निकर्षा- दत्यन्तशुद्धसंविन्मयं सत् पर्यन्ततो विकल्पवार्तानभिज्ञतायां पर्यवस्यति | तथाहि - यथा स्थितस्तथैवास्स्व मा गा बाह्यमथान्तरम् | केनचिच्चिद्विकासेन विकारनिकरान् जहि || इति स्थित्या तवोपदेशस्य येन प्रकारेण स्थितिर्वृत्तिर्भवति, तेनैव प्रकारेण विकल्पलक्षणां चिन्तामतिक्रामन्नास्स्व अव्याकुलं वर्तस्वेति योऽयमुपायभूमिलक्षणोऽर्थः स खल्वाणवादिक्रमोल्लङ्घनेन प्रतिष्ठितः शाम्भवतात्मना पार्यन्तिक इत्याख्यायते | तत्रापि कश्चिद् विवेकोऽस्ति | पर्यालोचनया कयाचिद् भाव्यम् | यदुत एवमित्युपपादितया भङ्ग्या योऽयमुपदेशो रहस्यार्थप्रख्यापनम्, स खल्वास्स्वेत्यादेर्विध्यर्थस्य स्वान्यविभागरूपभेदजीवितत्वात् किंकर्मकः किंकर्तृको वा स्यादित्युभयथापि भवितुं नार्हति, तं प्रति कर्मकर्तृभूतयोरुपदे:स्योपदेशकयोर्वस्तुवृत्त्या भेदाभावात् | नन्वेवमादि(कादि?)भेदभिन्नोऽनन्तप्रकारस्तत्तत्तन्त्रवर्ती कल्पनाप्रपञ्चः कथमिति चेत् ? उपचारादिति ब्रूमः | यद् व्याख्यातमाचार्याभिनवगुप्तपादैः श्रीत्रिंशिकाशास्त्रारम्भे - श्रीदेव्युवाचेत्यादौ स्वात्मदेवतैव प्रबुध्यमानावस्थाया- मात्मानं परामर्शेनानवरतं पृच्छति इत्यादि | यच्चोक्तं श्रीस्वच्छन्दे - गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | इत्यादि | ततश्च योगिनामेतदकुतोभयत्वं स्वभावभूतमिति तात्पर्यार्थः | सर्वाकारोल्लसत्पारमेश्वरप्रकाशपरामर्शैकात्म्य- पावने प्रपञ्चे स्वात्मानं प्रत्यवधानाऽनवधानादेर्विकल्प- कल्पनाप्रकारस्य पर्यन्ततो निष्प्रयोजनत्वात् | तदुक्तं श्रीतन्त्रालोके - त्यजावधानानि ननु क्व नाम धत्सेऽवधानं चिनुहि स्वयं तत् | पूर्णेऽवधानान्नहि नाम युक्तं नापुर्णमभ्येति च सत्यभावः || इति | किञ्च, एवमुपदिशति कस्य कोऽन्य इत्यनेन सर्वोऽयमुपदेश- प्रकारस्तत्त्वदृष्टावतात्त्विकीं भुवमवगाहत इत्यासूत्र्यते | यतः स्वात्मपरमेश्वरस्य पूर्णत्वोपपत्त्या प्रकारकल्पनानुपपत्तेर्यथा तथेत्यनयोर्वैयर्थ्यम् | बाह्याभ्यन्तरात्मनो विभागस्यानुपपत्त्या तन्निबन्धनस्य - चलित्वा यास्यते कुत्र सर्व शिवमयं यतः | इति नीत्या गमागमरूपस्यार्थस्यावास्तवत्वात् तत्प्रतियोगिनोः स्थानासनयोरौपचारिकत्वमविप्रतिपन्नम् | पुरुषश्चोत्तमावधि इति न्यायादहमर्थव्यतिरेकेण युष्मच्छब्दार्थस्यासत्कल्पत्वं चापरिहार्यम् | क्वचित् सतः क्वचिन्निषेधः इति स्थित्या चिन्ताया एवाभावात् तन्निषेधरूपनैश्चिन्त्यं च न प्रामाण्यमनुभवति | एवमास्स्वेत्यादेरप्रवृत्तप्रवर्तनात्मनो विधिरूपस्यार्थ- स्यात्रासङ्गतत्वमित्यादि स्वयमूह्यम् || ६४ || इत्थमत्याश्चर्यं नैश्चिन्त्यशालिनां योगिनां स्वभावमनुसन्दधानस्तन्त्रकृत् स्वात्मनोऽपि तेभ्यो वैलक्षण्याभावात् तत्तादृक्स्वभावतापरामर्शमांसल- माह्लादातिशयमनुभवन्नेतदावेशवैवश्योद्रिक्तस्वसंविदाटोप- गौरवोच्चलच्चित्तवृत्तिश्चमत्कारोत्तरमाह - अहो संसारसुखातिशयः अहो सुलभं मोक्षमार्गसौभाग्यम् | त्रुटितातङ्ककलङ्का अहो शिवयोगिनां यामली सिद्धिः || ६५ || आश्चर्य खल्वयं संसारलक्षणः सुखातिशयः, यो जननमरणादिरूपतया बाह्यजनं प्रति क्लेशात्मकः | तथा हेयतया निश्चीयमानोऽपि मोक्षप्रायतयाऽस्माभिरास्वाद्यते | यदुक्तं श्रीमत्स्तोत्रावल्याम् - दुःखान्यपि सुखायन्ते विषमप्यमृतायते | मोक्षायते च संसारो यत्र मार्गः स शाङ्करः || इति | आश्चर्य चेदं मोक्षलक्षणस्य सर्वजनमृग्यमाणस्य परमेश्वरानुग्रहैकलभ्यस्यार्थस्य सौभाग्यं हृदयहारित्वं प्रति सौलभ्यम् - अदृष्टमण्डलोऽप्येतत् तिलाद्याहुतिवर्जितम् | इति श्रीत्रिंशिकाशास्त्रादिन्यायादायासशून्यमनुभवनम्, यदलिपिशिताद्युपभोगादुत्पद्यते | तदुक्तं श्रीमहावनमुनिना - अलिपिशितपुरन्ध्रीभोगपर्याकुलोऽहं बहुविधकुलयोगारम्भसंभावितोऽहम् | पशुजनविमुखोऽहं भैरवीसंश्रितोऽहं गुरुचरणपरोऽहं भैरवोऽहं शिवोऽहम् || इति | इत्थमेकैकप्राधान्येऽप्यन्योन्यावियोगरूपमौचित्यमुपलाल्य तयोस्तुलाधारणवदत्य(न्त?न्ता)वैषम्यलक्षणमैकात्म्यं हेतुप्रयुक्त्योपबृंहयन्नाह - त्रुटितातङ्केत्यादि | शिवयोगिनो नाम - न ध्यायतो न जपतः स्याद् यस्याविधिपूर्वकम् | एवमेव शिवाभासस्तं नुमो भक्तिशालिनाम् || इति श्रीमत्स्तोत्रावलिस्थित्या प्राणधारणाद्युपरोधव्यतिरेकेण प्रकाशात्मना शिवेन सह भूम्ना प्रशंसया नित्ययोगेन च योगं विमर्शात्मानं संबन्धमश्नुवाना महात्मानः | तेषां या सिद्धिः स्वस्वभावचमत्काराकारा स्फुरत्ता, सा यामली न कदाचिद् वेद्यवेदकद्वितयसृष्टिस्वरूपामुभयस्वरूपतामतिक्रामति | यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ | ज्ञानक्रियात्मनोः शम्भुमरीच्योर्मेलनात्मकम् | इत्यनेकाम्नायप्रक्रियया सङ्कोचविकासरूपज्ञत्वकर्तृत्वा- परपर्यायप्रकाशविमर्शसामरस्यात्मकं यामलोल्लासस्वभाव- त्वमागमेष्वाम्नायते | तदुक्तमाचार्याभिनवगुप्तनाथपादैः - तत्र ज्ञाता नामोन्मेषनिमेषलक्षणेन सङ्कोचविकासात्मना ज्ञानक्रियालक्षणेन स्वभावेन स्वपरिस्पन्दनसार एव इति | अस्य च यामलस्यैका कोटिः परभैरवसंवित्स्वातन्त्र्यपर्यन्तम्, अन्या चात्यन्तजडघटादिप्रकाशपर्यन्तं परिस्फुरति, यत् स्वात्मपरमेश्वरस्योदयविश्रमणस्वभावम् | अ इति ब्रह्म तत्रागतमहम् इत्यैतरेयोपनिषत्प्रक्रियया नित्योदितोद्योगस्वभावं शिवशक्तिमेलापरूपं रुद्रयामलमित्याख्यायते | तदुक्तं श्रीत्रिंशिकाशास्त्रे - इत्येतद् रुद्रयामलम् इति | अत्र हेतुस्त्रुटिता- तङ्कलङ्कत्वम् | आतङ्को हि शङ्कानिबन्धनं चाकित्यम् | शङ्का च सन्देहविप्रतिपत्त्याद्यनुप्राणनतया सकृद्विभातस्वभाव- स्वात्मसंविदैकरस्यास्वादं प्रति प्रत्यूहतयाऽनुभूयते | तस्य चैतत् कलङ्कत्वं यत् स्वच्छेऽपि स्वात्मनि मालिन्यशङ्काऽनुप्रवेश्यते | तादृशश्चायमातङ्कस्त्रुट्यति | स्ववासनापर्यन्तं प्रणश्यति | तदा प्रतिपादितसिद्धिलाभ इति तात्पर्यार्थः | तदुक्तमाचार्याभि- नवगुप्तपादैः - न त्वत्र विद्याव्रतादि किञ्चित् सहकारिभावेनोपयोगि | केवलं परीक्षणशङ्कातङ्कत्वमत्रोपयोगि इति | ओ इत्याश्चर्यद्योतिकया देश्या - दर्शनान्तरकान्तारकण्टककद्रुमकोटरात् | किरातः कोऽपि कूटस्थो दत्ते मन्त्रामृतं मधु || इति संविदुल्लासस्थित्या व्रतोपवासाद्युपद्रवबहुलोपायप्रयोजकानन्त- शास्त्रान्तरसङ्कटेऽपि प्रपञ्चे श्रीमदनुत्तरक्रमप्रणयन- प्रवीणस्य परमेश्वरस्य परमकारुण्यमात्रोपपादितेयमास्माकीना यामली सिद्धिः, या श्रीकुलगह्वरादिषु - यत् तदक्षरमव्यक्तं प्रियाकण्ठेऽप्यवस्थितम् | ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् || तत्र चित्तं विधायैवं वशयेद् युगपज्जगत् | इत्यादिना भोगमोक्षसामरस्यात्मकतयोपपाद्यत इत्यासुत्र्यते | तदुक्तं श्रीतन्त्रालोके - अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितिर्जडः | घटकुम्भवदेकार्थाः शब्दाः इति || ६५ || नन्वस्मिन्नकुतोभयसंविदाह्लादोभयस्वभावास्वादवपुषि पुरुषार्थे तदुत्कर्षानुकूलया कालक्रमोपकल्पनीयया कयाचिदत्यन्ततीव्रयोपास्त्या भवितव्यम् | सा चास्मदादेः सद्यो न सम्पद्यत इति श्रूयमाणतामात्रसौभाग्यमेतदर्थोन्मीलनम्, न पुनः स्वहृदयानुभूतिपर्यवसायीत्याशङ्कां क्षपयितुमाह - क्षणमात्रस्पृष्टेनाप्यमृतस्वभावेनानेन भवेन | सर्वोत्तिर्णः सर्वः सर्वचिरं लभते सर्वसौभाग्यम् || ६६ || योऽयमन्वादिश्यमानो भावः स्वहृदयस्फुरत्तापरपर्याया महासत्ता स खलु - यस्मिन् काले तु गुरुणा निर्विकल्पं प्रभाषितम् | तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् || इति श्रीरत्नमालामर्यादया गुरुकटाक्षपातलक्षणात् काललेशविशेषात्मनः क्षणादेव सृष्टानुप्रविष्टो भवन्नप्यमृतस्वभावचिदाह्लादद्वितयसामरस्याकारसारस्वरूप- तया जीवन्मुक्त्यात्मा महोपभोगो भवति | अथवा अत एव हेतोरमृतस्वभावो नित्यास्वाद्यतानैयत्ययोगात् | अस्योच्चारे कृते इत्यारभ्य फलं यद् वा समीहितम् इत्यन्तं श्रीत्रिंशिकाशास्त्रस्थित्या मुहूर्तप्रहरवासरादिकालक्रमोत्कर्षकक्ष्यानुवृत्तेरुपर्युपरि- परामर्शानुस्यूतिदर्शितदार्ढ्ययोगश्च सम्पद्यत इत्यावृत्त्या योजना | तादृशा च भावेन हेतुभूतेन सर्वस्तिर्यक्त्वमनुष्यत्वजीवत्वा- मृतत्वजडत्वाजडत्वादितारतम्यशून्यः प्रमातृवर्गः सर्वस्मात् - समनान्तं पाशजालमुन्मन्यन्ते परः शिवः | इति स्थित्या विश्वविलासलक्षणाद् बन्धहेतोरुत्तिर्णः शुद्धचैतन्यस्वभावो भवन् सर्वचिरम् ब्रह्मायुषो दशगुणं विष्णोरायुः परं स्मृतम् | सहस्रगुणितं तस्माद् रुद्रस्यायुः परं किल || तस्माल्लक्षगुणं प्रोक्तमीश्वरस्यायुरुत्तमम् | तस्मात् सदाशिवस्यायुः प्रोक्तं कोटिगुणं बुधैः || समुद्रगुणितं तस्माच्छिवयोर्देहधारणम् | इति श्रीलघुबृंहणीमर्यादोपपादितब्रह्मविष्ण्वादिपुरुषायुष- प्रवृत्तिपरिपाटीरूपकालक्रमोत्खण्डनेन यावत्कालतत्त्वं सर्व पाषाणादिजडपदार्थस्वभावापत्तिपर्यन्तमिदन्तासाम्राज्यं परमशिवीभावरूपचैतन्योत्कर्षकाष्ठावधिकमहन्तासम्पत्- संभोगसर्वस्वं चेति संभूय विश्वतदुत्तिर्णत्वसामरस्यास्वाद- सामानाधिकरण्यरूपं सौभाग्यमन्तःकरणहरणप्रावीण्य- लक्षणं श्लाघ्यत्वातिशयं लभते स्वपरिस्पन्दात्मकतया प्राप्नोति | अयं भावः - श्रीमद्देशिकनाथकटाक्षपातसमसमयमेव पुंसां स्वहृदयसंवादसौन्दर्यशालिनो जीवन्मोक्षलक्षणस्य पुरुषार्थस्योपलम्भ इत्यत्र न काचिद् विप्रतिपत्तिः | यदुक्तं श्रीत्रिंशिकाशास्त्रे - सद्यः कौलिकसिद्धिदम्, सद्यो योगविमोक्षदम्, इति च | यथोक्तमाचार्याभिनवगुप्तपादैः - एतद् यो लभते स लाभकाल एव न पशुः इति | तादृशस्यैव च भावस्यान्तः परामर्शः क्रियासमभिहारे तत्तदणिमाद्यैश्वर्यस्वभावो बहिर्विभूतिपरिस्पन्दोऽनुभूयते | तदुक्तं तत्रैव - एतदभ्यस्यतः सिद्धिः सर्वज्ञत्वमवाप्यते इति | यद् व्याख्यातमभिनवगुप्तपादैः - अभ्यासेन विनापि जीवन्मुक्तता परा कौलिकी सिद्धिः इति | क्षणमात्रेति | क्षणिक एव हि परामर्शः - सकृज्ज्ञाते सुवर्णे मा भावनाकरणं व्रजेत् | इति श्रीशिवदृष्टिदृष्ट्या बहिष्ठेष्वपि पदार्थेष्वसंशयमर्थक्रिया- मर्थ प्रयोजयति | किमुत स्वस्वभावात्मनि परमेश्वराख्ये भाव इत्यर्थः | यदुक्तं तत्रैव - एकवारं प्रमाणेन शास्त्राद् वा गुरुवाक्यतः | ज्ञाते शिवत्वे तत्रस्थप्रतिपत्त्या दृढात्मना || करणेन नास्ति कृत्यं क्वापि भावनयापि वा || इति | अत्र पृथगनेकार्थशालिनां सर्वशब्दानामर्थप्रपञ्चप्रस्तावो विस्तारायेत्यलं ग्रन्थगौरवेण | यत् संभूय सर्वसाम्यस्वभावा महार्थसिधान्तोपनिषदुन्मील्यते | यदुक्तमागमे - समता सर्वभावानां वृत्तीनां चैव सर्वशः | समता सर्वदृष्टीनां द्रव्याणां चैव सर्वशः || भूमिकानां च सर्वासामोवल्लीनां च सर्वशः | समता सर्वदेवानां वर्णानां चैव सर्वशः || इति || ६६ || नन्वेवमनायाससाध्यमर्थ प्रति प्रमातॄणां सौलभ्याविशेषात् कथं मुक्तामुक्तव्यवस्थया द्वैविध्यव्यवहार इत्याशङ्क्याह - गूढाद् गुढतरो भवति स्फुटादपि स्फुटतर एषः | देशिककटाक्षपाते पक्षः प्रथमो न भवति धन्यानाम् || ६७ || एष प्राकरणिकतया परामृश्यमानोऽर्थो यः स्थूलसूक्ष्म- प्रकटाप्रकाशव्यक्ताव्यक्तक्षराक्षरेति विष्णुपुराणप्रक्रियया प्राकट्यमप्राकट्यं चेत्यात्मन्यवस्थाद्वयमुद्भावयति | तत्र च यदगूढं स्तम्भकुम्भादि व्यवहारं प्रति | गूढं वेदान्तादि- निर्णीतमर्थतत्त्वम् | ततोऽप्ययं गूढतरोऽत्यन्तगुह्यो भवति | यदुक्तं श्रीत्रिंशिकाशास्त्रे - एतद् गुह्यं महागुह्यं कथयस्व मम प्रभो इति | यश्चास्फुटमन्तरिक्षप्रसूनादिं प्रति स्फुटः स्तम्भकुम्भादिः प्रकाशमानः प्रमेयप्रपञ्चः, ततोऽपि स्फुटतरः प्रकृष्टप्राकट्यो भवति | तच्च सो कस्स फुटो न हो इ कुलणाहो इत्यत्र वितत्य व्याख्यातम् | एवमुभयस्वभावतायामस्य स्वातन्त्र्यव्यतिरेकेण नान्यः कश्चिदुपाधिरुपपद्यते | कथं तर्हि मुक्तामुक्तव्यवस्थेति चेत् ? विषयविभागादिति ब्रूमः | तथाहि - देशिकस्य कुलाचार्यस्य कटाक्षपाते शक्तिपाताविनाभूते संभवति धन्यानामपश्चिमजन्मनां केषाञ्चित् प्रमातॄणां प्रथमः पक्षः पूर्वार्धप्रस्तुतो गूढाद् गूढतर इत्येवंरूपः कल्पो न भवति, किं तर्हि, स्फुटात् स्फुटतर इत्येवमाकारः | दीयते शिवसद्भावः क्षप्यते पाशसंचयः | इति नीत्या दानक्षपणलक्षणदीक्षाविनाभूतो द्वितीय एव तेषां पक्षः सम्पद्यते | ततश्च देशिककटाक्षपातधन्यानां पुंसां परमशिवीभावलक्षणो मोक्षः, तदन्येषां पाशवावेशस्वभावो बन्ध इति व्यवस्थेति तात्पर्यार्थः | अत्र देशो देशना स्वात्मप्रत्यभिज्ञापनारूपरहस्यार्थोपदेशनात्मा स्वभावोऽस्यास्तीति व्युत्पत्त्या गुरुनाथशरीरानुप्रविष्टः परमेश्वर एव कारुण्यादवच्छिन्नप्रमातृरूपं शिष्यमुत्तारयतीत्युद्भाव्यते | यदुक्तमागमे - कुलाचार्यमधिष्ठाय देवो दीक्षयिता शिवः इति | यच्चोक्तं श्रीतन्त्रालोके - गुरुहृदयनिविष्टः शङ्करोऽनुग्रहीता इति | एतेन - दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये | गुर्वायत्ता तु सा दीक्षा बद्धबन्धनमोक्षणे || प्रतिभा स्वस्वभावस्तु केवलीभावसिद्धिदः | इति श्रीकिरणप्रक्रियया पुंसां स्वप्रतिभामात्रनिष्पद्यमान- मोक्षानुभावानामपि पर्यन्ततः किञ्चिद्देशिकनाथानुग्रहा- वश्यम्भाव एवेत्युक्तं भवति | येन परमेश्वरस्वातन्त्र्याधीन- विजृम्भिते विश्वस्मिन्नेतदाज्ञामन्तरेण तेषां तादृक् प्रतिभैव न संपद्यते | परमेश्वरानुप्रविष्टशरीरस्यैव च भगवतो देशिकनाथस्य दीक्षाद्यलौकिकक्रियोपक्षेपक्षमत्वमिति | तस्य च कटाक्षपाते सतीत्यनेन केवलं चाक्षुष्येव दीक्षाख्यायते | यावदाणवशाक्तशाम्भवाख्यप्रकारत्रयानुप्रविष्टास्तत्तद्देश- कालस्वभावानुगुण्याद्यन्यतमौचित्यशालिनः सर्वेऽपि तत्प्रकाराः परामृश्यन्ते | यतः कटाक्षो नाम गुरोरनुग्राह्यं प्रत्यनुवेशयितुमिष्टा स्वहृदयसंविन्मयी शाम्भव्याद्यशेषदीक्षानुस्यूता दृक्शक्तिरित्याख्यायते | यदाहुः - सा च सर्वाध्वसम्पूर्णमात्रसंविदभेदिना | गुरुणाऽनुग्रहधिया शिष्ये यदवलोकनम् || इति | तत्र गुरोर्मन्त्रोद्भावनद्वारा शिष्यस्य श्रवणमात्रप्राधान्येन स्वरूपसमावेशदायिनी दीक्षाणवी, कुण्डलिनीशक्त्युल्लेखनात्मिका मनोव्यापारानुसन्धेया शाक्ती, सर्वविकल्पवैमुख्येन स्वस्वरूपाविभिन्नशम्भुसमावेशस्वभावा शाम्भवीति विवेकः | एवं शक्तिपातस्य तीव्रतीव्रतरत्वादयोऽपि भेदाः स्वयमूहनीयाः | सर्वथा देशिकनाथचरणशुश्रूषामात्रानुप्राणनमेतत् कौलिकसिद्धान्तानुसन्धानमिति रहस्यम् | यदुक्तं मयैव श्रीपादुकोदये - गुरुमत्तैव नः शास्त्रे परमं फलमुच्यते इति | यच्चोक्तं श्रीमहाभारते - ऋतस्य दातारमनुत्तरस्य निधिं निधीनां चतुरन्वयानाम् | ये नाद्रियन्ते गुरुमर्चनीयं पापाल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् || इति || ६७ || ननु स्रोतांसि हि चत्वारि परमेश्वरप्रणीतान्यन्तर्विद्भिराद्रियन्ते | अत्र त्वनुत्तराम्नायानुशीलनं प्राचुर्यात् पुरुषार्थोपायतया प्रत्यपादि | तदत्राप्रयोजकत्वमन्यत्रानाश्वासशङ्का वा प्रसज्येत | येनोभयत्राप्यनौचित्यमित्याशङ्क्याह - आस्तामन्या विद्या चतुःस्रोतसामपि सागराणामिव | एनमेवामृतमयं मथ्नाति मन्थानभैरवो देवः || ६८ || परमेश्वरो हि सर्वानुग्राहकतया - पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् | यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् || इति श्रीतन्त्रालोकस्थित्या श्रुतिस्मृत्यादिषु बाह्यविद्यासु कौलिक्येवावगाह्येति, श्रीमत्स्रोतश्चतुष्टये चैनमेवार्थमुपसन्नं जनमनुभावयितुमुद्भावयतीत्यस्मन्निश्चयः | यदाशयेन - सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् इत्यागमेष्वाख्यायते | तत्र - न्यायागमादि मदुपेक्षितमप्यसारं स्वीकृत्य केचिदधिकं मदमुद्वहन्ति | निर्माल्यमुज्झितमपि प्रभुणा पृथिव्यां चेट्यो हि मूर्ध्नि विनिवेश्य परिभ्रमन्ति || इति नीत्या बाह्यत्वेनावभासमानत्वादन्यतयाभिमता सांख्ययोगादिस्वभावा विद्या तावदास्ताम्, अनुत्थानमेवास्या भवतु | विद्येति जातावेकवचनम् | अलमत्र श्रुतिस्मृत्यादीनां बाह्यविद्यानां महार्थोपायतया प्रत्यायनप्रागल्भ्येनेति यावत् | तच्च सण्णाविसेसणिण्ण अ (श्लो २) इत्यत्र विस्तीर्य पर्यालोचितम् | यानि पुनरलौकिकानि वैतत्यगाम्भीर्याक्षोभ्यत्वादिसाधर्म्येण समुद्रस्थानीयानि चत्वारि पूर्वदक्षिणादिक्रमेण परमेश्वरमुखचतुष्टयप्रणीतानि स्रोतांसि स्वच्छस्वादुशीतलाभ्यन्तराह्लादरसोत्तरतया स्वात्मसंवित्प्रवाहरूपा आज्ञाः, तेषां संबन्धिनमन्तस्तात्पर्यकक्ष्यारूढतया गूढस्वभावमेनमेवामृतमयं स्वसंविदात्मना केनचिदाह्लादेन प्रकृतमर्थातिशयं मन्थानभैरवात्मा देवो मथ्नाति | तत्तत्स्रोतःप्रतिपाद्यार्थान्तरानादरोत्तरं स्वात्मशक्त्या पृथक् पिण्डीकृत्योत्थापयति | एतदुक्तं भवति - बाह्यविद्यासु नृत्तगीतप्रभृतयोऽपि कलाः स्वस्फुरत्तानुसन्धानावस्थायां सहृदयहृदयसंविदैकाग्र्यलक्षणस्य चमत्कारोत्कर्षस्य प्रयोजकतया पर्यन्ततो महान्तमेवार्थमुन्मीलयन्ति, किमुत वेदशास्त्रेतिहासपुराणादयः | केवलं तेषां पारम्पर्यादुपायभूतत्वमेव भेद इत्यत्र वन्ध्यो वाकोवाक्योपन्यासप्रबन्धः | अलौकिके तु स्रोतश्चतुष्टये ज्ञानयोगक्रियाचर्याप्राधान्येन पृथक् पृथगुपपादितार्थान्तरप्रपञ्चेऽप्यन्ततो गत्वा प्राप्यभूमिकात्वेनायमेवार्थोऽवस्थाप्यते | यदुक्तमागमे - चतुराज्ञाकोशभूताम् इति | यच्च व्याख्यातमस्मत्परमगुरुभिः श्रीमदृजुविमर्शिन्याम् - चतुष्पीठाधिष्ठातृमहासंविदालम्बनेन प्रवृत्तचतुःस्रोतोरूपा महापदवी चतुराज्ञा, तस्याः कोशभूता महाधिष्ठात्री शेवधिस्ताम् इति | यच्चोक्तं श्रीक्रमकेलौ - वामदक्षिणतन्त्रादिष्वप्येतन्मयमेव सर्व निर्वहतीति मन्तव्यम् इति | एवञ्च सर्वदर्शन- सारत्वादमुष्य श्रीमहार्थक्रमस्य सर्वस्रोतोतिशायी कोऽपि श्लाघ्यत्वोत्कर्ष ध्वन्यते | यदुक्तं श्रीमहानयप्रकाशे - एवंविधं यदधिगन्तुमिहात्मतत्त्वं मिथ्याविकल्पविभवोद्दलनं च सम्यक् | युक्तिं महानयमयीं न विहाय शक्यं सर्वोत्तमोत्तमतमो हि ततो महार्थः || इति | अत एव ह्यन्यत्राशरणानामेतदेकशरणत्वमत्यन्तदुर्घटघटन- प्रागल्भ्योद्भटमुद्घाट्यते | यदाहुः - सर्वोपायपरिक्षीणास्ते महार्थार्थिनः किल इति | अस्ति नान्या गतिस्तेषां विकल्पग्राससाहसात् इति च | यश्चायमेवंविधार्थमथनप्रगल्भो भगवान्, अत एव सर्वपर्यन्तप्रतिष्ठास्थानरूपो यः कुलेश्वरः, स एव यतः स्वशक्तिं निर्मथ्य सृष्ट्यादिकारी, अत एवंविधं श्रीमन्थानं भैरवं नमामीति संबन्धः इति श्रीक्रमकेलिकॢप्त्या स्वेच्छामात्रविजृम्भित- विश्वक्षोभतयाऽनुभूयते | तस्य कौलिकेषु तन्त्रेषु भैरव इति प्रायो व्यपदेशो भवति | भीरवः संसारचकिताः प्राणिनः, तेषामयमभयप्रदायितया संबन्धीति वा, भीः संसाअरचाकित्यं तन्निबन्धनो रवः प्राणिनामाक्रन्दस्तस्य प्रवर्तक इति वा, प्रतिपादितचाकित्यनिवृत्तये मनसि परामृश्यतया वर्तत इति वा, भियं पशुसंबन्धिनीमुद्दिश्य रवणं यच्छ(ब्दं? ब्दनं) तत्स्वभावानां माहैश्वर्यादीनां वर्गाधिष्ठात्रीणां स्वामीति वा, लोकसंबन्धिनीं भियं रौति दातव्यतया परामृशतीति भीरुर्मृत्युकालादिरवच्छिन्नो भयङ्करवर्गस्तस्यापि भयङ्कर इति वा, भानि नक्षत्रोपलक्षितानि चन्द्रसूर्यादीनि ज्योतीषि तानीरयति प्रेरयतीति भेरः कालस्तं वाययन्ति शोषयन्तीति भेरवाः कालग्रासरसिका महायोगिनस्तेषामधिष्ठातेति वा, विश्वं प्रति भरणरमणवसनानां प्रयोजयितेति वा, भैरव इत्युच्यते | यदुक्तं श्रीक्षेमराजेन - भीरूणामभयप्रदो भवभयाक्रन्दस्य हेतुस्ततो हृद्धाम्नि प्रथितश्च भीरवरुचामीशोऽन्तकस्यान्तकः | भेरं वायति यः सुयोगिनिवहस्तस्य प्रभुर्भैरवो विश्वस्मिन् भरणादिकृद् विजयते विज्ञानरूपः शिवः || इति | स च देवः, दीव्यतेः क्रीडाविजिगीषाद्यनेकार्थाभिधानसामर्थ्यात् | तत्र हेयोपादेयतादिविकल्पवैमुख्येन स्वसंविदेकघनतयोच्चलनं क्रीडा | सर्वोत्कर्षेण वर्तितुमौन्मुख्यं विजिगीषा | निर्विकल्पेऽप्यात्मनि विकल्पप्रथापरामर्शो व्यवहारः | अवभास्याशेषप्रपञ्चाव- भासनाविनाभूता स्वयम्प्रकाशता द्युतिः | स्वरूपलाभमारभ्य सर्वाम्नायप्रवृत्तिपर्यवसानास्पदत्वं स्तुतिः | सृष्ट्यादिषु कृत्येष्विच्छाज्ञानक्रियात्मकशक्तित्रयाङ्गीकारो गतिरिति | तदुक्तं मयैव - नैश्चिन्त्योत्कटमुच्चलन्नभिलषन् सर्वोत्तरं वर्तितुं स्वस्मिन् भेदमभेदितेऽपि विमृशन् स्वात्माविशेषं स्फुरन् | अर्थानामुदयव्ययप्रकृतिभूरुच्छ्रायवानिच्छया देवो दृक्क्रिययोः प्रदीप्तमहिमा भावेषु वो दीव्यतु || ६८ || ननु कथमत्यन्तभिन्नमन्त्रतन्त्रपद्धतिपारम्पर्यादि- प्रकारस्याप्यस्य स्रोतश्चतुष्टयस्य फलोत्पत्तिं प्रत्येतदैक- रूप्यमित्याकाङ्क्षामधिक्षिपन् प्रक्रान्तस्य महातन्त्रस्य निष्कृष्टमर्थतत्त्वं संग्रहेणोद्घाटयितुमाह - हन्त रहस्यं भणामो मुढा ! मा भ्रमत गर्भगोलेषु | अत्यासन्नं हृदयं पर्यालोचयत तस्योद्योगम् || ६९ || हे मूढाः ! मायामोहमालिन्यकज्जलकलुषितात्मानः, तत एव शरीराद्यहन्तानुसन्धानवन्तः प्रमातारः ! वयमेते केचन देशिककटाक्षपातप्रत्यक्षितात्मैश्वर्योच्छ्रायाः परानुजिघृक्षावेशवैवश्याक्रान्तचित्तवृत्तयश्च सन्तः - तदेतत् परमं गृह्यं योगिनीनां मुखे स्थितम् | इति स्थित्या गोप्यमर्थतत्त्वं भणामो वैखरीवाक्पर्यन्तं परामृशामः | अन्याभिमुखीकारादुक्तरूपसंरम्भोपन्यासो हि तन्मनसि तादृक्परामर्शार्पणं विना न सङ्गच्छते | अन्यथा वैखर्या वैयर्थ्यप्रसङ्गादित्यामन्त्र्यमाणान् पुरुषविशेषानर्थतत्त्वं किञ्चित् परामर्शयाम इत्युक्तं भवति | तत्र भणितव्यमर्थमवस्थाप्य मध्ये तदपरिज्ञानोपाधिकमुप- द्रवाधिक्यं तत्परिज्ञानप्ररोचनातात्पर्येणोपपाद्यते - मा भ्रमत गर्भगोलेष्विति | किमिति जननीजठरगह्वरान्तर्वासक्लेशमनु- भवताऽनायासेन कस्मिंश्चित् तत्प्रतीकारोपाये विद्यमानेऽपीति यावत् | मा भ्रमतेति गर्भगह्वरभ्रमणनिषेधाभिधानेन वक्ष्यमाणस्यार्थस्य तत्प्रतिबन्धपाटवं प्रत्यव्यभिचारो व्यज्यते | गर्भवासो ह्युपद्रवानुभूतीनां परा भूमिः | भ्रमणेन च तस्य मातापितृसहस्राणि इति न्यायादनेककालानुवृत्तत्वमाक्षिप्यते | तच्च जननम् - जातस्य हि ध्रुवो मृत्युः इति भगवद्गीतानीत्या, विनाशाघ्रात उत्पादः इति श्रीमत्क्षेमराजोक्त्या च मरणानुभूत्यविनाभूतं तदुभयान्तर्भूतं चाखिलमपि दुःखानुभूतिबाहुल्यमिति जन्ममयया पीडया सर्वमपि संसारव्यसनमुपसंगृह्यते | यदाशयेनोक्तं श्रीलघुभट्टारके - ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः इति | अथ भणितव्यमेवार्थ भणितुमस्यात्यन्तसुलभत्वोपपादन- द्वारा पीठिकां बध्नाति - अत्यासन्नं हृदयमिति | यदिदं षडध्वोल्लाससमष्टिरूपस्य स्वशरीरस्यानुप्राणनतयाऽवतिष्ठ- मानमविकल्पावस्थायां तदुत्तिर्णोल्लेखं च सत्प्रकाशविमर्शद्वितयमेलापलक्षणमन्तस्तत्त्वं हृदयमित्युच्यते, तस्य पर्वताग्रनदीतीरादिवन्न कदाचिदनासत्तिशङ्का सम्भवति, स्वस्वरूपाविभिन्नत्वादेतदासत्तिं प्रत्यतिशयस्यानुभूयमानत्वात् | तादृशस्य चास्य च उद्योगो यतः कुतश्चिदप्याकारादौदासीन्या- पहस्तनस्वभावमुद्यन्तृत्वम्, तत् परित इच्छाज्ञानक्रियापरिस्पन्द- प्रवर्तिताशेषविश्वव्यवहारप्रथापरामर्शपूर्वकमालोचयत आत्मानुकूल्यादवलोकयध्वम् | यस्मिन्नेकत्रैव साध्ये चतुःस्रोतः- प्रवर्तिता मन्त्रतन्त्रादयः प्रभञ्जनाभिव्यञ्जन इव व्यजनवातायन- वस्त्राञ्चलभस्त्रिकाफूत्कारप्रभृतयो बहुप्रकारमुपाया उपपाद्यन्ते | येन च क्षणमात्रानुबद्धेनापि जननमरणाद्य- शेषोपद्रवव्युदासशाली जीवन्मोक्षलक्ष्मीमहोपभोगः संपद्यते | स चोद्योगः कदाचिदिन्द्रियपरिस्पन्दानुबन्धी क्रियाशक्तिस्फाररूपो रूपरसादिविषयग्रहणकौतुहलाद् बहिः प्रमेयशययामधिशयय व्याक्षेपविभ्रममनुभवति, कदाचिच्च ज्ञानशक्त्यवष्टब्धो विषयेभ्यः प्रत्यावृत्य स्वात्ममात्रविश्रान्तिस्वभावां प्रत्यगानन्दसम्पदमुपभुङ्क्ते | यदुभयं दण्डमुण्ड- क्रमात्मकतया शास्त्रेष्वनुशिष्यते | यदुक्तमागमे - मुण्डनं ज्ञानरूपेण दण्डनं च क्रियात्मना | मुण्डदण्डक्रमौ तेन मतौ ज्ञानक्रियात्मकौ || इति | स्तैमित्यादिरूपा व्यवस्था हृदयस्य कश्चिदुद्यमप्रकारविशेषः | यदुक्तं लक्ष्मीतन्त्रे - स्तिमितं यत् परं ब्रह्म तस्य स्तिमिततास्म्यहम् इति | तादृशस्य च हृदयस्योद्योगेनाक्रान्ते लोकव्यवहारे - तस्मात् तत्त्वमतत्त्वं वा न भानेन विना भवेत् | स्वसामराज्यवशाद् भानं तत् तत्त्वातत्त्वयोः समम् || यथा यथा प्रथा पुंसः शाम्भवी सा च नापरा | इत्यादिनीत्या ग्राह्यं विषयं प्रति निषिद्धत्वमनिषिद्धत्वं वेति तारतम्यचिन्ताया न कस्याश्चिदप्यवकाशः, यतो विधिनिषेधविषययोर्धमाधर्मयोरालोच्यमानयोः सामान्यविशेषभावादधिकारिविभागवैचित्र्यादन्योन्याविरुद्धानेक- शास्त्रमर्यादाभेदव्यवस्थापनानुप्राणनत्वाच्च न किञ्चिन्नैयत्यमालोक्यत इति सर्वश्राव्योऽर्थः | अषडक्षीणस्तु - धीकर्माक्षगतां देवीं निषिद्धैरेव तर्पयेत् | इति रहस्याम्नायन्यायादन्यशास्त्रविगर्हितानि महिलामद्यमांसादी- न्येव द्रव्याण्यस्मदुपास्यानां देवतानां सपर्यासु परिबर्हतयाऽभ्यर्हितानीति | यदुक्तं श्रीमहानयप्रकाशे - अन्यैरावारकत्वेन ये भावाः परिवर्जिताः | तैरेव ज्ञानिनामर्थं जाज्वलीति परा चितिः || इति | प्रपञ्चितप्रायं चैतत् प्रागेवेत्यलं रोमन्थानानुबन्धेन | भ्रमतेत्यादि लोट्प्रत्ययेन - तातेति किञ्चित् तनयेति किञ्चि- न्ममेति किञ्चिन्न ममेति किञ्चित् | तवेति किञ्चिन्न तवेति किञ्चिद् भौतं स्वयं बहुधा मालपेस्त्वम् || इति | इति श्रीमदालसोक्तियुक्त्या मायाव्यामूढचेतसं पशुजनं प्रति शोचनीयता द्योत्यते | हन्तेत्यनेन तु तन्त्रकृतस्तदपरिमृज्यमन्यं जनं प्रत्यमन्दः कारुण्योत्कर्ष इति || ६९ || अथास्मत्प्रसाधितमौत्तरमर्थतत्त्वमेवान्येषां व्यासादीनामपि महामुनीनामन्तरनुसन्धेया देवता, येन तत्प्रणीतेषु प्रबन्धेषु तात्पर्यपर्यालोचनायां महता कण्ठेनैतदेवार्थरहस्यमुद्घाट्यते | यथा भगवद्गीतासूपनिषत्स्वित्युच्चावचस्यास्य प्रपञ्चवैचित्र्यस्य श्रीमदनुत्तराम्नायसमुद्रशीकरोपस्नेह एवानुप्राणनतयाऽवतिष्ठत इत्यासूत्रयितुमाह - एनमेव महार्थ युद्धारम्भे पाण्डुपुत्रस्य | षोडशसहस्रशक्तिर्देव उपदिशति माधव इति शिवम् || ७० || योऽयं महाप्रबन्धेनोपक्रान्तः - भावार्थः सम्प्रदायार्थो निगर्भार्थश्च कौलिकः | तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च || इत्याम्नायस्थित्या तत्तदशेषार्थतत्त्ववैचित्र्यसमष्ट्यधिष्ठान- रूपतया महान् सर्वार्थभेदप्रभेदक्रोडीकारविचक्षणोऽर्थः प्राप्यं तत्त्वम्, यश्च - न सन्नासन्न सदसन्न च तन्नोभयात्मकम् | दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् || नैष ध्येयो ध्यात्रभावान्न ध्याता ध्यानवर्जनात् | न पूज्यः पूजकाभावात् पूजाभावान्न पूजकः || इति श्रीतन्त्रालोकस्थित्या विकल्पवार्तासार्थसर्वस्वोत्तीर्णस्वस्वातन्त्र्यैक- घनतोपबृंहितस्वभावोऽनुभूयते, तमेनमेव षोडशसहस्रशक्तिः षोडशाधिका(?) विलासलक्षणमकालकलितं श्रीकालसंकर्षणी- भावमनुभवन् अत एव देवः क्रीडाद्यनेकपरिस्पन्दप्रगल्भो माधवो महालक्ष्मीवल्लभो मधुकुलोत्तसश्च भगवाअन् युद्धारम्भे कौरवपाण्डवसेनासंघर्षोपक्रमावस्थायां पाण्डुपुत्रस्यार्जुनस्योपदिशति उपादिक्षदिति यावत् | प्राकृतभाषायां भूतवर्तमानादिलकारनैयत्याभावात् | यद्वा भगवता प्रतियुगमेवमस्य भारतादिव्यापारस्य प्रवर्त्यमानत्वात् प्रवाहनित्यतया वर्तमानत्वमिति लट्प्रयोगः | तत्र युद्धारम्भ इत्यनेन - तान् समीक्ष्य स कौरव्यः सर्वान् बन्धूनवस्थितान् | कृपया परयाविष्टो विषीदन्निदमब्रवीत् || इत्युपक्रम्य अहो बत महत् पापं कर्तु व्यवसिता वयम् | यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः || यदि मामप्रतीकारमशस्त्रं शत्रपाणयः | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || इत्यन्तमर्जुनस्य प्राचीनानेकवासनानुस्यूतात् पाशवावेशात् श्रौतस्मार्तादिबाह्याम्नायनिषिद्धं पितृपितामहादिस्वजनहनन- लक्षणं पातकं प्रति विचिकित्सा, तत्प्रवृत्तं च राज्यलाभाद्यशेष- सौख्यवैराग्यम्, तन्निबन्धनो वैक्लव्योदयश्च ध्वन्यते | माधव इत्यनेनार्जुनेन सहास्य किञ्चिद् यौनं सम्बन्धमुन्मी(लयित्वा ? ल्य) - कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ! || मा क्लैब्यं गच्छ कौन्तेय ! नैतत् त्वययुपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ! || इति तं प्रति भगवतो रहस्यार्थतत्त्वप्रत्यभिज्ञापनौन्मुख्यम् | अनन्तरमस्यैव - कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || इति कार्पण्यलक्षणानाथ्यप्रवृत्तात् शिष्यभावाद् देवस्य कारुण्याक्रान्तहृदयता, य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || इत्यादिना भीष्मद्रोणाद्यशेषशरीरान्तर्भूतस्यात्मनो नित्यत्वव्यापकत्वादियोगादन्यजनहन्यमानत्वाद्यसंभवोद्- भावनद्वारा लौकिकवत् किं बाह्यशास्त्रबिभीषकया कातर्यमनुभवसीति तस्योपर्यनुग्रहोद्रेकश्चोन्मुद्र्यते | षोडशसहस्रशक्तिरित्यनेन बहिष्षोडशस्त्रीसहस्रसम्भोगमिवान्तरपि षोडशाधिका(?) परामर्शप्राबल्योपारूढं तत्तदवान्तरशक्तिसहस्रसमावेशमावेदयता देवस्य- दर्शयामास पार्थाय परमं रूपमैश्वरम् | इति वैश्वरूप्यप्रदर्शनौचित्यम्, कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः | इत्यात्मनो माहात्म्यप्रख्यापनप्राचण्ड्यम्, नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते | इत्यर्जुनस्तुतिसहस्रसन्धुक्ष्यमाणतेजस्कत्वात् इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || इति भूयः पूर्वस्वभावप्रत्यानयनम्, अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि | इत्यात्मोक्तार्थाननुष्ठाने महाविपद्रूपप्रत्यवायोपपादनं चेत्यन्यदुष्कराण्याश्चर्याणि कर्माण्याख्यायन्ते | देव इत्येतत् क्रीडाद्यनेकार्थाभिधानमुखेन - रसोऽहमप्सु कौन्तेय ! प्रभाऽस्मि शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || इत्यादिना प्रपञ्चेन तस्य बहिर्विभूतिपरिस्पन्दाटोपम्, सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम् || इत्युत्तरस्फुरणप्रकारं चाह | माधवपाण्डुपुत्रशब्दाभ्यां भगवदर्जुनयोरुभयोर्बाह्यवासनावैलक्षण्याभावेऽपि - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || इत्याद्यस्य सार्वज्ञ्यादिशक्त्यौल्बण्यमन्यस्य तद्विपर्ययश्चेत्यनयोरनुग्राह्यानुग्राहकभावौचित्यमासूच्यते | उपदिशतीत्येतत् सर्वत्राष्टादशाध्यायानुस्यूतमङ्गाङ्गि- भावभङ्ग्या बाह्याभ्यन्तरोभयशास्त्रतत्त्वतात्पर्यास्पदं सांख्ययोगवेदान्तादिवैचित्र्यव्यतिरेकेऽपि - अपि चेत् सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः || इति, मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || इति च स्वात्मदेवतामात्रोपास्तिप्राधान्यमभिव्यनक्ति | महार्थमित्यनेन - यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज | अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य दर्मस्य त्रायते महतो भयात् || इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु || इति भगवतः फल्गुनप्रबोधनावस्थायां श्रीमदनुत्तरस्रोतः- प्रसाधितार्थ प्रख्यापनपाण्डित्यं प्रतायते | माधवः पाण्डुपुत्रायोपदिशतीति गुरुशिष्यभावोद्भावनेन - इमं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || एवं परम्पराप्राप्तमिमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परन्तप ! || स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || इति गुरुपर्वक्रमात्मनः सम्बन्धस्यावश्यानुसन्धेयता द्योत्यते | पाण्डुपुत्रस्येत्यर्जुनस्य कुलीनत्वाद्यविनाभूतं सौजन्यादिगुण- योगमुल्लिङ्गयता - इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति || इत्ययोग्यं शिष्यं प्रत्येतदर्थप्रकाशनस्याविहितत्वम्, योग्यं प्रति तु कल्प्यमानस्य पुरुषार्थपर्यवसायित्वं चोपपाद्यत इति | पाराशर्यो महायोगी धैर्यगाम्भीरसागरः | भारते भगवद्गीतामधिकृत्येदमब्रवीत् || यत् कुरुक्षेत्रमाक्रम्य धार्तराष्ट्रेषु धन्विषु | पाण्डवेषु च सज्जेषु संगृह्याक्षौहिणीं क्षणात् || पितॄन् पितामहान् भ्रातॄन् पुत्रान् पौत्रान् गुरूनपि | हन्तव्यानात्महस्तेन प्रेक्ष्य वैक्लव्यविह्वलम् || त्रस्यन्तं कर्मणः क्रूरादवधूताहवोद्यमम् | बीभत्समानं बीभत्सुं निस्पृहं राज्यसम्पदि || अनुसन्धाय भगवान् मुकुन्दो रुक्मिणीपतिः | कारुण्याक्रान्तहृदयः स्यन्दनस्थं तमभ्यधात् | हन्त किं तव संवृत्तमकाण्डे कश्मलोत्तरम् | वैक्लब्यं त्यज्यतामेतल्लोकद्वयविगर्हितम् || कः पिता तव को भ्राता को गुरुः के च बान्धवाः | त्वमेव तावत् को नाम कारुण्यं नाम किं तव || पात्रमेतस्य कश्च स्यात् केन को वाऽभिहन्यते | बह्व्यः सामान्यतो भाषाः कल्प्यन्ते लोकशास्त्रयोः || विशेषमपरिज्ञाय ताभ्यो मा भूद् बिभीषिका | इति लोकोत्तरामर्थमुद्रामुन्मुद्रयन् क्रमात् || प्रसङ्गानुप्रसङ्गेन विश्वविक्षोभकल्पनाम् | अकालकलितस्वच्छस्वच्छन्दानन्दचिन्मयीम् || निश्चिन्वन्निश्चलस्वात्मसंरम्भैकविजृम्भिताम् | उपर्युद्रिक्तकारुण्यो वीरेन्द्रः सव्यसाचिनि || कालग्रासैकरसिकां कालसङ्कर्ष्णीं कलाम् | अनुप्रविश्य योगेन खेचरीखचितौजसा || स्वबलाक्रमणाटोपव्याप्तकौलक्रमो भवन् | दत्त्वा लोकोत्तरां तस्मै दृष्टिमस्खलितार्चिषम् || प्रांशुः प्रदर्शयाञ्चक्रे वैश्वरूप्यमनुग्रहात् | बाहवो यत्र कोटीणां कोटयः स्फुरदङ्गदाः || सहस्राणां सहस्राणि मुर्ध्ना च मुकुटस्पृशाम् | यदन्तः सागराः सर्वे सर्वे च कुलपर्वताः || काननानि च सर्वाणि सर्वा सर्वंसहाऽप्यभूत् | भीष्मद्रोणकृपद्रौणिकर्णदुर्योधनादयः || शलभा इव यद्वक्त्रज्वालामालम्ब्य शेरते | तदालोक्य ससन्त्रासं साश्चर्य च धनञ्जयम् || अभ्रगम्भीरनिर्घोषो भगवानभ्यभाषत | पश्य विश्वं मया ग्रस्तमाकीटादापितामहम् || विलीयमानं जिह्वाग्रे ज्योतिर्ज्वालाकलापिनि | यत्र क्षणादखण्डानां ब्रह्माण्डानां परम्पराः || समुद्रबुद्बुदन्यायादुन्मिषन्ति त्रुटन्ति च | अत्र भीष्ममितो द्रोणमिह शल्यमितः कृपम् || पश्य भस्मीकृतान् बन्धून् मययक्षययमहार्चिषि | मज्ज्वालालीढसारं सच्चराचरमिदं जगत् || प्राचीनं वासनाशेषं दग्धं वस्त्रमिवाश्नुते | तदुतीष्ठ जहि स्वैरमात्तसारान् महीपतीन् || येन ते तीक्ष्णबाणस्य दोष्णोः शौर्य प्रथिष्यते | इति फल्गुनमाकर्षन्नात्मैश्वर्यविजृम्भया || क्रमादक्रमचिच्छक्तिस्वातन्त्र्यन्मीलनक्षमैः | अवधीरितवेदादिबाह्यविद्याविडम्बनैः || आचक्षाणैरवैषम्यं कर्माकर्मविकर्मणाम् | विकल्पकल्पनोल्लासग्रासतात्पर्ययोगिभिः || निषिद्धस्याप्यनुष्ठाने विहितस्याप्यतिक्रमे | प्रत्यवायं व्युदस्यद्भिः स्वच्छसत्संविदां नृणाम् || लौकिकेऽप्युपयुक्तानां धर्माणामनुमन्तृभिः | स्वसंविद्देवतामात्रसपर्यापारदृश्वभिः || चित्तस्यान्तर्निषिञ्चद्भिरद्वैतामृतचन्द्रिकाम् | उन्मूलयद्भिरामूलं मायामालिन्यवासनाम् || संच्छिद्य संशयातङ्कमर्पयद्भिरहंप्रथाम् | स्थापयद्भिरनाहार्य प्रातिभं स्थैर्यमाशये || चित्स्वभावतया स्थातुं स्मारयद्भिः स्वमुद्यमम् | प्रमाणैर्युक्तिभिस्तर्कैरनुवादैर्निदर्शनैः || आशङ्कोत्तरचर्चाभिरन्यैश्च गमकैः क्रमैः | प्रकाशयद्भिर्विश्वस्य प्रतिष्ठामौत्तरं क्रमम् || स्पष्टैरव्याकुलैर्वाक्यैरन्योन्यान्वयबन्धुरैः | बहुधा पुण्डरीकाक्षः पाण्डवं प्रत्यबोधयत् || सोऽपि तत्क्षणमारभ्य स्वविमर्शविचक्षणः | लक्ष्मीमनुभवन् साक्षाज्जीवन्मोक्षप्रथामयीम् || क्षपयित्वा विपक्षं तं चिच्छक्त्या तीव्रविक्रमः | अग्रजं च प्रतिष्ठाप्य स्वस्य राज्ये युधिष्ठिरम् || स्वसंरम्भानुगुण्येन स्वैरं व्यवहरन् बहिः | कालं महान्तं निश्चिन्तो विजहार विशृङ्खलः || एतद् वितत्य विख्यातैः क्रमकेलौ कुलागमे | नाथाभिनवगुप्तार्यैः पर्यालोचितमादरात् || एवं रामायणे काव्ये वाल्मीकीयेऽपि धीमता | प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् || इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः | इत्यादिस्वात्मविस्फूर्तिप्रधानं स्वयमुह्यताम् || इति | शिवमिति | यदिदं गाथासप्तत्यनुक्रान्तम् उपसर्गनिपाताद्यवान्तर- व्यापारोपस्कृताभिधाव्यञ्जनाद्यनेकशब्दशक्तिवैचित्र्यार्पितं संक्षेपविस्तरत्वान्यतरो- पपत्त्या यावदधिगताम्नायप्रपञ्चतात्पर्यार्थपिण्डीभावगर्भ- मत एव विश्ववृत्तान्तव्यतिकरक्रोडीकरकोविदमौत्तरमतिमहत् प्रमेयमिति शब्देनोद्भाव्यते | तदखिलमपि शिवं शिवपरामर्शोपायभूतत्वात् शिवस्वरूपादुत्पन्नत्वात् शिवस्वभावाविभिन्नत्वाच्च शिवमयमेव | अत्र च णमि ऊण णिच्चसुद्धे गुलुणो चलणे (श्लो० १) इत्यारभ्य देवो उवदिस ई माहवो त्ति सिवम् इत्युपसंहृते तन्त्रे नत्वा शिवमिति पदात्मकः कश्चित् प्रत्याहारो नवमित्यक्षराकारश्च परिस्फुरतीति सर्वथा विश्वव्यवहारवर्तिप्रमातृरूपमेतदधीनसंरम्भमन्यद् वा वस्तु कर्तृभूतं शिवमुपपादितस्वभावं स्वात्मदेवतात्मानं नत्वा प्रकर्षकाष्ठाप्राप्ततया परामृश्य नवं प्राचीनजाड्यवासना- पर्युदासादुन्मीलदमन्दसंवित्स्वस्पन्दसौन्दर्यसारं सदलौकिकस्वभावं सम्पद्यत इत्यर्थतत्त्वतात्पर्योपनिषदिति || ७० || एवमारब्धमखिलमपि तन्त्रमव्याकुलं परिसमाप्य तदवतरणक्रममासूत्रयमाणः सिद्धसङ्कल्पतालघूभूतभाव- वृत्तिस्तन्त्रकृत् तत्प्रयोजिकां स्वप्नसमयोपलब्धां सिद्धयोगिनीमनुस्मरन्नाह - इत्थं प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनीं जाग्रत्तत्क्षणनिर्विशेषस्वप्नावतीर्णां प्रतिज्ञोत्तराम् | लोकोल्लङ्घनयोग्यसिद्धिपदवीप्रस्थानबद्धोद्यमां कन्थाशूलकपालमात्रविभवां वन्दे तां योगिनीम् || ७१ || इत्थमुपपादितेन प्रकारेण यानि प्राकृतानि संस्कृतव्यतिरेकेण महाराष्ट्राद्यन्यभाषामयानि सूत्राणि सूचनप्रधानानि गाथात्मकानि वाक्यानि तेषां सप्ततिं प्रति य उल्लासः समुत्पत्तिः प्रसृतिश्च, तत्रैकां सन्धायिनीमनन्यसापेक्षतयोत्पादयित्रीं तां स्वपरामर्शचमत्कारसारैकगोचरीभूतां योगिनीम् अलौकिकैश्वर्यात्मकयोगशक्तिसंपन्नां परमेश्वरीं वन्दे स्तौमि अभिवादये च | सर्वथा तादात्म्येन तामनुप्रविशामीति यावत् | तदुक्तं श्रीक्रमकेलौ - वन्दनं हि तदनुप्रवेशः इति | तस्याश्च तादृक्तन्त्रप्रयोजकतया वन्दनीयताया हेतवस्तत्तद्विशेषणद्वारेण परामृश्यन्ते | तथाहि - जाग्रदित्यादि | जाग्रदात्मा यः क्षणोऽवस्थाविशेषः | जाग्रदिति कर्तृत्वोपचारेण जागरैवावस्थोच्यते | तया सह निर्विशेषो वैलक्षण्यशून्यो यः स्वप्नस्तत्रावतीर्णाम- शङ्कितमन्तर्यागमनुप्रविष्टाम् | स्वप्नो हि स्फुटास्फुटरूपः | जागरा हि स्फुटरूपा | तत्र स्वप्नस्यास्फुटत्वांशव्यतिरेकेण केवलं स्फुटतयोपलभ्यमानायामवस्थायाम् अपरोक्षितामिति यावत् | प्रतिज्ञोत्तरां पूजोपकरणदक्षिणाद्यधिक्षिप्य स्वहस्तोपकल्पिता मुद्रैव केवलमन्वर्थीक्रियतामिति येयेमागूः, तया महान्तमुत्कर्षमश्नुवानाम् | अथ च लोकस्य वेद्यवर्गलक्षणस्य यदुल्लङ्घनं वेदितृस्वभावमात्रपारिशेष्येणावस्थानम्, तत्र योग्याया औचित्यवत्याः कौलिकैश्वर्यानुभूतिरूपायाः सिद्धेर्या पदवी दुर्गमत्वदीर्घत्वादिपरिहाण्या सद्गुरूपदर्शिता शुद्धा लघ्वी च सरणिः, तत्रत्ये प्रस्थाने विश्वातिशायित्वस्वभावे बद्धोद्यमामुत्सङ्गितोद्योगशक्तिम् | विश्वोल्लङ्घनप्रगल्भामपि स्वाच्छन्द्यादिदन्ताभूमिमवरुह्य व्यवहरन्तीमित्यर्थ | किं च, कन्थाशूलकपालमित्येतन्मात्रैश्वर्याम् | अत्रैव विश्ववृत्तान्तस्यान्तर्भूतत्वादन्यस्यासत्कल्पत्वमनुपयुक्तत्वं चेति भावः | तत्र कन्था नाम भेदप्रभेदवैचित्र्यवत्तायामपि पर्यन्तत एकानुसन्धानसाध्यो विश्वव्यवहारः | शूलं पुनः - इत्थमिच्छाक्रियाज्ञानशक्तिशुलाम्बुजाश्रयः | इति न्यायादिच्छाज्ञानक्रियात्मकं शक्तित्रयम् | कपालं च शरीराहन्ताधिवासितात्मा परिमितः प्रमाता | यश्चित्तमयो मायाप्रमातेत्युच्यते | तादृशीमेनां श्रीकालसङ्कर्षणीरूपां योगिनीं वन्द इत्यक्षरार्थः | प्राकृतेति | संस्कृतं हि प्रकृतिरशेषस्य भाषान्तरस्य | तत्प्रकृतेः संस्कृतादुत्पन्नं प्राकृतमित्यनेनभाषान्तरात्मकविकृतिशिल्पवैदग्ध्यस्वीकारः, प्रकृतिसौष्ठवपरिचयापरि त्यागश्चेत्युभयथा चमत्कारौचित्यमासूच्यते | ननु न म्लेच्छितवै नापभाषितवै, न म्लेच्चितव्यं यज्ञादौ इति श्रुतिस्मृतिभ्यां संस्कृतव्यतिरिक्तभाषा प्रयोज्यतायां प्रतिषिध्यते, अपभ्रंशात्मकत्वात् तस्याः | संस्कृतव्यतिरेकेणान्या सर्वापि भाषाप्यपभ्रंशः - शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोच्यते | इत्युक्तत्वादिति चेत् ? न | स्वात्मपरमेश्वरपरामर्शमपहायान्यत्र चमसचषालादिपर्यालोचने भ्रश्यत्पङ्किलस्थलस्खलितकुसुम- किसलयादिस्थानीयः शब्दोऽपभ्रंशः | अन्यादृशस्तु यत्किञ्चिद्भाषोपरूषितोऽपि मन्त्राक्षरवदत्यन्तसौष्ठवास्पदम् | यत्प्रयोगात् एकः शब्दः सम्यग् ज्ञातः सुष्ठु प्रयुक्तः स्वर्गे लोके कामधुग् भवति इति श्रूत्युपपादितां स्वर्गगुडजिह्विकामुल्लङ्घ्य स्वपरामर्शाह्लादलक्षणो महोपयोग उपलभ्यत इत्यन्तर्विद्भिर्व्यवस्थाप्यमानत्वात् | स्वप्नसमयसाक्षात्कृताया योगिन्यास्तद्भाषैकपक्षपातित्वाच्च | किञ्च, अस्मदुपास्यविद्यानुसन्धाने प्रायः प्राकृतस्यैवौचित्यमुज्जृम्भते | यदुक्तमस्मत्परमगुरुभिः श्रीमदृजुविमर्शिन्याम् - इह हि विद्यायां त्रिष्वपि बीजेष्वन्तस्थातृतीयमस्ति, सम्प्रदायस्य काश्मीरोद्भूतत्वात्, प्राकृतभाषाविशेषत्वाच्च यथासम्प्रदायं व्यवहार इत्युपदेशः इति | सूत्रेति | सूचनमात्रमेव ह्यर्थरहस्यानां गाथास्वालोक्यते | येन परिमलाह्वयस्य व्याख्याग्रन्थस्यावश्यम्भावः | अन्यथा सन्तो हि अ अ प आ सो इत्यादौ सन्नित्यादेः प्रकृतिप्रत्ययोभयांशप्राबल्यानुसन्धानाद् विमर्शपर्यवसायिनी तात्पर्यकाष्ठा कथङ्कारमवधार्येत | प्राकृतसूत्रेति सूत्राणां वैशिष्ट्योपन्यासेन संस्कृतादपि तत्तदनेकार्थतत्त्वसूचनसामर्श्र्य- मेषामस्तीत्यासूत्र्यते | तथाहि - चित्तं ण लिह इ चित्तं इत्यत्र चित्रं चित्तमित्यालेख्यान्तःकरणचैतन्यरूपमर्थत्रयं चित्तशब्देनोच्यते | एवम् अत्थं एत्ताण सोमसुज्जाणं इत्यत्र अस्त्रमास्थामर्थमस्तमिति प्राग्व्याख्यानुगुण्याद् अत्थं इत्यनेनानेकार्थोऽभिधीयते | एवमन्यदप्यूह्यम् | पा अ डेत्यनेनानुरणनशक्त्या प्रकटशब्दपर्यायेण सूत्राणां सूचनप्राधान्येऽपि नात्यन्तमव्यक्तार्थतेत्यभिव्यज्यते | सप्ततीति | योगिन्यो हि सर्वमपि विषयमवगाह्य व्यवहरन्ति | तत् श्रीमत्सप्तकोटीश्वरीविद्यानुसन्धानवासनानुस्यूतेः - सप्तकोटिर्महामन्त्रा महाकालीमुखोद्गताः | इत्याम्नायन्यायादेकैककोटिक्रोडीकारसूचनार्थमेकैकदशक- स्वीकार इति तस्याः सिद्धयोगिन्याः सप्तसंख्यात्मकमुद्रानि- बन्धतात्पर्यात् सप्ततिसंख्यानिर्बन्ध इति तात्पर्यार्थः | किञ्च, श्रीमन्महार्थक्रमप्रपञ्चः सर्वोऽपि वृन्दचक्रे विश्राम्यति | तच्च चतुष्षटिशक्तिसमष्ट्यात्मकमिति व्याख्यातम् | तत्र - धाममुद्रावर्णकलासंविद्भावस्वभावतः | पातानिकेतदृष्ट्या च || इत्युपवर्णितया भङ्ग्या शाम्भवसिद्धादिषु व्योमेश्यादीनां पात इति पातक्रमेण व्योमेश्यादिपञ्चकस्वीकारस्यापरिहार्यत्वम् | तद्वत् सर्वानुस्यूतिसाम्राज्यशालिन्याः श्रीरुद्ररौद्रेश्वर्याः सर्वथाऽवश्यम्भाव इति सप्ततिः सम्पद्यत इत्यत्र न विप्रतिपत्तिः | समुल्लास इति | लासो हि सूत्राणां स्फुरत्ता | तत्रोल्लासः शब्दार्थयोरुत्पत्तिमाचष्टे | समुल्लासस्तु समन्तादुद्भूतात्मिकामनयोः प्रसरद्रूपताम् | सन्धायिनीमिति | सूत्राणामुत्पत्तिं प्रति तन्त्रकारचित्ते पुष्पादीनामिव वृन्तादौ सन्धानम्, प्रसृतिं प्रति तु शिलीमुखपुङ्खादीनामिव कार्मुकादाविति विशेषः | एकेति | एकैव शक्तिः साधकहृदयमाक्रम्य प्रकाशविमर्श- स्वभावा भवन्ती वाच्यवाचकात्मकशाखाद्वयप्रसरपरिपाटी- पल्लवितोल्लासां प्रपञ्चवैचित्र्यसंपदमुज्जृम्भयति | जाग्रदित्यादि | तादृश्यां ह्यवस्थायामेतादृश्याः परमेश्वर्याः साक्षात्कारौचित्यम् | यदुक्तं श्रीविज्ञानभैरवे - अनागतायां निद्रायां विनष्टे बाह्यगोचरे | यावस्था मनसा गम्या परा देवी प्रकाशते || इति | प्रतिज्ञोत्तरामिति | एतदेव हि तत्प्रतिज्ञाया दार्ढ्य यत् स्वविवक्षितस्य तन्त्रविशेषस्य स्वकारुण्यविषयभूतात् कुतश्चिदुद्भावनं तदुपरि तद्विवरणोद्घाटनं चेति | लोकोल्लङ्घनेत्यादि | तादृशी हि योगिनीनां स्थितिः साधकान् प्रत्यभिमतमुपस्थापयति | अन्यथा साक्षात्कारासंभवो वरप्रदानसामर्थ्याभावो वेत्येकतरकोटौ वैयाकुल्यं स्यात् | कन्थेत्यादि | स्वयमपरिमितप्रमातृभावावलम्बिनी योगिनी यावदिच्छाज्ञानादिशक्तित्रितयवत्तया विश्वविलासलक्षणं वेद्यवैचित्र्यं परिमितप्रमातृव्यवधानरूपादुपायबलादा- कृष्यान्तश्चर्वणीयतयाऽनुसन्धत्ते | एवमन्यानुजिघृक्षायामपि तेनैव शक्तित्रयेण तत एव परिमितप्रमातृव्यवधानादुपायात् तामेव विश्वविस्तारसंपदं तत्तदभिलाषानुगुण्यादुपसन्नानामुद्वमतीति व्याख्यातरूपाणां शूलकपालकन्थाशब्दानां तात्पर्यमत्र पर्यालोचनीयम् | एवंभूतां च तामात्मोपास्यदेवतास्वभावा- विभिन्नामुद्वेलकारुण्यकल्लोलकोलाहलाक्रान्तस्वान्ततया स्वस्वरूपसाक्षात्कारयितृत्वरूपालौकिकसिद्धिसम्पत्प्रदानप्रदर्शिता शेषनिष्कारणौदार्योत्कर्षा कुलाचार्यचरणपरिचर्याफलप्राप्ति- पर्यायभूतामार्या सिद्धयोगिनीं वन्दे | तादृशीनां हि स्वोपास्यदेवतैकरूपाणां वन्दनमखिलभुवनमङ्गल्य- तयाम्नायते | यदुक्तमस्मत्परमगुरुभिः श्रीत्रिपुरसुन्दरीमन्दिरे स्तोत्रे - लक्ष्मीमहोदयमहोत्सवपुण्यलग्नं वाणीविशेषपरिमेलनपूर्वपर्व | त्वद्वन्दनं त्रिपुरसुन्दरि ! विश्ववन्द्यं तद्वत् परं विजयते महानीयसारम् || इति || ७१ || आयातिरथ तन्त्रस्य कथ्यते कौलिकोदिता | यामाकर्ण्य पुमानत्र विमर्शौचित्यमश्नुते || पुरा कदाचिद् भगवान् भैरवो विश्वभावनः | संविदाकाशमास्थाय महान्तं मणिमण्डपम् || स्वचित्तचषकापूर्णमापिबन् विषयासवम् | स्वानन्दभोगलहरीं स्वसंवेद्यां परामृशन् || सदाशिवादिभिः शिष्यैः सेव्यमानो मदोज्झितैः | आसाञ्चक्रे चिरं कालं निर्विकल्पे निजे पदे || तत्र क्रियायां सुप्तायां विश्रान्तायां च संविदि | इच्छाशक्तिरभूदेका प्रबुद्धा परमेष्ठिनः || प्रशान्तबाह्यसंरम्भं चक्रमालक्ष्य सा तदा | तत्त्वमर्थस्य निश्चेतुं जग्राहान्तः कुतूहलम् || अथ पुष्पाञ्जलिं क्षिप्त्वा सौरभोद्भ्रान्तषट्पदम् | पाणिभ्यां पद्मताम्राभ्यां पस्पर्श पदयोः प्रभुम् || देवोऽपि किञ्चिदुन्मील्य चमत्कारोत्तरं ज्वलन् | कारुण्यवर्षिभिर्नेत्रैः प्रेयसीं तामुदैक्षत || प्रणिपत्य च सा भूयः कल्पिताञ्जलिकुड्मला | शुचिस्मिता स्मरारातिं बभाषे शशिभूषणम् || देव ! त्वद्वदनादेव गोपितान्यन्यदर्शने || प्राक्प्रत्यगुत्तरावाञ्चि स्रोतांसि श्रुतवत्यहम् || किन्तु प्रष्टव्यमेतन्मे कारुण्यं यदि ते हृदि | किं तत्त्वमत्र सर्वत्र यज्ज्ञानात् पूर्णता भवेत् || इति श्रुत्वा गिरं देव्याः श्रीमान् स्वच्छन्दभैरवः | मानयन् माननीयां तां पृष्टं सुमुखि ! सुष्ठ्विति || पवित्रं स्वहविश्शेषं ग्राहयित्वा स्मितोत्तरम् | अन्तर्लक्षे पदे तिष्ठन् बभाषे तत्त्वमौत्तरम् || यथा स्यात् स्वात्मनःस्फूर्तिर्यथा तस्य बहिः प्रथा | यथा च मोहः प्रभ्रश्येद् देशिकेन्द्रे प्रसीदति || प्रक्षालितमलश्चासौ विशुद्धिं स्वां परामृशन् | यथा च नित्यं भुञ्जीत जीवन्मुक्तिचमत्क्रियाम् || तथा तथा शिवस्तस्याश्चैतन्यमुपबृंहयन् | अर्थतत्त्वमुपादिक्षदौत्तराम्नायसंविदाम् || क्रमशः शृण्वती सा च रहस्यं तत्त्वनिश्चयम् | विमृशन्ती च विशदं स्वस्पन्दानन्दचिन्मयीम् || विश्वस्य स्वात्मानश्चैक्यं प्रत्यभिज्ञाय वास्तवम् | तेन भैरवनाथेन तादात्म्यामोदभागभूत् || अथ सा कालयोगेन शिवानन्दस्य धीमतः | शिष्यस्योपादिशद् देवी चिदद्वैतस्य निश्चयम् || क्रमेण तच्च नाथानां परिपाट्या भुवः स्थलम् | दिव्यसिद्धमनुष्यौघप्रविभागादवातरत् || अवतीर्णाऽप्यसौ विद्या महार्थक्रमगर्भिणी | योगिनां वदनेष्वेव तिष्ठत्यत्यन्तदुर्लभा || अथ कालक्रमवशाच्चोलदेशशिरोमणिः | महाप्रकाशो नामासीद् देशिको दृक्क्रियोत्तरः || तस्य शिष्योऽभवद् धीमान् गोरक्षो नाम वश्यवाक् | महेश्वरानन्द इति प्राप्तपूज्याह्वयोमहान् || अर्चयन् देवतां नित्यं जपन् ध्यायंश्च निश्चलम् | पर्यटंश्च दिशामन्तान् कालं कञ्चिदवाहयत् || अथैकदा निशीथिन्यामासीनो यागमण्डपे | तर्पयित्वा परां देवीं गन्धपुष्पाक्षतासवैः || आस्वाद्यानन्दपात्राणि त्रीणि तीव्राणि तन्मनाः | स्वसंरम्भपरामर्शभव्यामनुभवन् प्रथाम् || जागरास्वप्नयोर्मध्यमध्यास्य महतीं दशाम् | दूत्याः स्तनतटोत्सङ्गमपराङ्गेन पीडयन् || प्रदीपैः कुशलैरेव प्रदीप्तैरपरोक्षितः | आस्ते स्म विस्मयाक्रान्तः कह्लारोत्फुल्ललोचनः || अत्रान्तरे स्त्रियं काञ्चित् कन्थाशूलकपालिनीम् | स ददर्श किलोल्लोकां सिन्दूरालङ्कृतालिकाम् || आलोक्य च स तां सिद्धां कुर्वन्नासन्नमासनम् | उपाहरदुदारश्रीः पूजोपकरणं क्रमात् || दक्षिणां च यथाशक्ति दातुं दूतीं समादिशत् | क्रुद्धेव योगिनी सा च किमेभिरिति निःस्पृहा || महाराष्ट्रभुवं भाषां प्रयुञ्जाना स्मितोत्तरम् | सप्तसंख्योचितां मुद्रां बध्नती हस्तपल्लवे || अलमर्थैरियं कन्था वसोर्धारां हि वर्षति | प्रदीयतामियं मुद्रा फलं च प्रतिपाद्यताम् || इत्थमाभाषमाणैव सकपालेन पाणिना | स्पृशन्ती मस्तकं तस्य निश्शङ्कं सा तिरोदधे || अथ तन्महदाश्चर्यमश्नुवानो महामनाः | आरचययार्चनाशेषमशेषामनयन्निशाम् || प्रातर्गुरुकुलं गत्वा प्रणम्य चरणौ गुरोः | रात्रिवृत्तान्तमाचख्यौ प्राञ्जलिः प्रश्रितैः पदैः || देशिकेन्द्रोऽपि संचिन्त्य निश्चित्यार्थ च तत्क्षणम् | पुण्योत्सव इति प्रीतः शिष्यं श्रीमानभाषत || अलमर्थप्रपञ्चेन पिण्डितोऽर्थः प्रकाश्यते | अलमर्थैरिति प्राह यदियं सिद्धयोगिनी || यच्च सप्तोचितां संख्यां कुर्वाणा करकुड्मले | सफलीक्रियतामेषा भावज्ञेनेत्यभाषत | तदार्थी सृष्टिमुल्लङ्घ्य शाब्दीं सा काञ्चिदिच्छति | येन मन्त्रात्मकैः शब्दैः परमेश्वर्युपास्यते || सप्तकोटीश्वरी देवी तया नूनमुपास्यते | अन्यथा तादृशीमेव मुद्रां न प्रतिपादयेत् || तत् त्वयात्र विधातव्या स्फीतसारस्वतश्रिया | सूत्राणां सप्ततिस्तन्त्रे महार्थे मन्त्रगर्भिणी || सद्यस्त्वद्वदनात् तस्मात् पादुकोदयशोधितात् | पुरातनागमप्रख्यो ग्रन्थः प्रख्यायतां महान् || किञ्च भाषा तदीयैव माधुर्यामृतवर्षिणी | औचित्यं पोषयत्यत्र महामन्त्रानुसारिणी || इत्याज्ञां देशिकेन्द्रस्य दयालोर्मूर्ध्नि धरयन् | महार्थमञ्जरीं नाम संविद्दर्पणमण्डलम् || तन्त्रं दिनैः कतिपयैः प्रबबन्ध स्वतन्त्रधीः | कार्यारम्भो हि महतामविलम्बेन सिध्यति || तच्च तत्त्वविदं लोके वेदशास्त्रकलास्वपि | महार्थसिन्धुमन्थानं श्रावयामास देशिकम् || स्वयमेव च तां विद्यां स्वविमर्शकुतूहलात् | शिष्याणामपि निर्बन्धाद् व्याचचक्षे विचक्षणः || यथा हि पुष्पम~जर्या ग्राह्यः परिमलो भवेत् | तद्वदस्यामपि ग्राह्या व्याख्या परिमलाह्वया || अस्यामर्थस्थितिः सैव या सर्वत्र कुलागमे | किन्तु शब्दस्य शययाऽन्या नात्यन्तं सा विभिद्यते || शुद्धो जन्मस्वनेकेषु यः कश्चिज्जायते कृती | एनामुपदिशन्त्यस्मै योगिन्यो भाग्यशालिने || अनयैव शिवो विष्णुर्ब्रह्मान्येऽपि महौजसः | अन्तर्विमृष्टया शुद्धाः स्वाधिकारेषु जाग्रति || इमामेव विमृश्यान्तर्वामदेवशुकादयः | अध्यतिष्ठन् परां काष्ठां प्रतिष्ठां सर्वसम्पदाम् || इमामेव च संग्रामे बन्धुहत्यापराङ्मुखम् | मुकुन्दो बोधयामास स्यन्दनस्थं धनञ्जयम् || क्षणमालोचिताऽप्येषा जीवन्मुक्तिं प्रयच्छति | उपर्युपर्यनुस्यूतास्तत्तदैश्वर्यसम्पदः || न चैनामर्हति प्राप्तुं क्रूरः कौटिल्यवान् खलः | प्रमत्तो मत्सरी भीरुरामयावी मदोद्धतः || नास्तिकः स्वल्पधीर्दुःखी दर्शनान्तरतत्परः | गुरुभक्तिविनिर्मुक्तः कृतघ्नो दुर्मनाः शठः || अश्रद्धालुरहङ्कारी रागद्वेषोपरूषितः | चपलप्रकृतिः पापो निष्कृपः कृपणोऽलसः || प्राप्नुयाद् यदि मौर्ख्येण गुरोरेतादृशः पुमान् | उभौ तौ कुलयोगिन्यः शपन्ति क्षुभिताः क्रुधा || अकृत्वा कौलिकीं तृप्तिं विष्टरादुद्धरन्निमाम् | उद्घाटयन् पठन् शृण्वन् व्याचक्षाणश्च नेष्यते || अमन्त्रबिन्दुसंस्पर्शं कोशमस्याः परामृशन् | योगिनीनां प्रचण्दानामापानेष्वामिषायते || मूलसंवित्कलामात्रमधिगम्यार्चयन्निमाम् | अश्नुते सैद्धिमखिलामविनश्वरसम्पदम् || सिद्धान्तानां यथान्येषां सारं स्यादौत्तरः क्रमः | तथा तस्याप्यशेषस्य सारमेषाऽवधार्यताम् || बाह्यानामान्तराणां च मन्त्राणामुज्ज्वलार्चिषाम् | वीर्यमेषैव बोद्धव्या पराहन्तामयी कला || ज्ञातव्यानां परा काष्ठा कर्तव्यानां परा क्रिया | भाव्यानां च परा भूमिरियमीशेन कथ्यते || सहस्रशोऽपि सन्त्वाज्ञाः शिवभट्टारकप्रभोः | इयं तु तस्य चैतन्यसर्वस्वमिति निर्णयः || इयमेव शिवेनोक्ता श्रुतिस्मृत्यादिविस्तरे | अन्यथाकरणे हेतुर्व्याख्यातॄणां मतिभ्रमः || अन्यत्र पारम्पर्येण साक्षादत्रार्थनिश्चयः | इति वैषम्यमप्यूचे भगवानिन्दुशेखरः || आस्थाय धैर्यमवधूय विकल्पचिन्ता- मालूय संशयमुपास्य च देशिकेन्द्रम् | ग्राह्येयमौत्तरमहाक्रमतन्त्रगर्भा- दार्यैरुदन्वदुदरान्मणिमञ्जरीव || आदिवाक्यमुपक्षेपः प्रतिपाद्यस्य वस्तुनः | प्रयोजनादेः प्रथमं प्रमाणातिक्रमः प्रभोः || अधिकारिण्यनियमस्थितिर्विधिनिषेधयोः | परीक्षा संसृतेः स्वस्य स्फुटास्फुटतया प्रथा || स्वविमर्शस्य साध्यत्वं तत्स्वरूपविमर्शनम् | षट्त्रिंशत्तत्त्वनिर्णीतिस्तदुत्तिर्णा विचारणाः || अन्तर्भावः प्रपञ्चस्य स्वप्रकाशविमर्शयोः | शिवशक्त्योरभिन्नत्वं शक्त्युत्कर्षश्चिदात्मनः || संहृतावपि विश्वस्य स्वस्मिन्नव्याकुला स्थितिः | प्रमात्रादित्रयस्यैक्यं सदसद्भेदभञ्जनम् || उल्लोकता सपर्याया महार्थक्रमवासना | पूजास्वरूपनिष्कर्षो देवताया निरूपणम् || चिन्तनं मन्त्रतत्त्वस्य वाग्वृत्तिस्फुर्तिनिश्चयः | मुद्रारूपपरामर्शो विमर्शस्यात्मवर्तिनः || प्रागल्भ्यं भोगमोक्षश्रीसामरस्यफलार्पणे | जीवन्मुक्तेरुपन्यासः क्षणभङ्गतिरस्क्रिया || स्वस्यानन्दस्वभावत्वमाणवादित्रयं क्रमात् | विवेचनमुपायानां नैश्चिन्त्यं योगशालिनाम् || विमर्शस्याविलम्बत्वं फलस्य प्रतिपादने | गुरुकारुण्यनिघ्नत्वं स्वपरामर्शसम्पदः || सर्वदर्शनसारत्वमुपक्रान्तस्य वस्तुनः | उक्तसर्वार्थसंक्षेपो भारताद्यविरुद्धता || उपपत्तिप्रयोगश्च तन्त्रावतरणक्रमे | इति स्वस्पन्दसंसिद्ध्यै गृह्यतां तन्त्रसंग्रहः || इति गुरुमुखाम्नायन्यायान्महाक्रममञ्जरी- परिमलमिमं शिष्यप्रेम्णा बबन्ध महेश्वरः | कनकसदसो मध्ये नृत्यन्निव प्रभुरद्भुतं यदिह सुलभः साक्षात्कर्तुं विमर्शमयः शिवः || गाथानामनुभाषणं तदनु तच्छाया ततो व्याकृति- र्ग्रन्थार्थग्रथनक्रियासु गहनो हृद्यश्च कश्चित् क्रमः | संवादोक्तिसहस्रसङ्कलनया तत्त्वार्थचर्चोत्सवः सौभाग्यं च विमर्शसम्पद इति प्रस्थानमध्यक्ष्यताम् || चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो गुणैर्माधवो रेतोधाः स्फटिकावदातहृदयो नाथः प्रकशो महान् | स्रोतः स्वच्छमनुत्तरं परिणतं पाण्डित्यमास्थाधिका वश्या वागिति हन्त तन्त्रकृदसौ सर्वोत्तरो वर्तते || सत्संवित्समयमहाब्धिकल्पवृक्षानाचार्यानभिनवगुप्त- नाथपादान् | आमुलादमलमतीनुपघ्नयन्त्या वाग्वल्ल्याः प्रचुरफलो ननु प्ररोहः || साहित्याब्धौ कर्णधारोऽहमासं काव्यालोकं लोचनं चानुशील्य | तद्वत् स्वच्छं लब्धवानस्मि बोधं पान्थो भूत्वा प्रत्यभिज्ञापदव्याम् || यो मे वामचमत्क्रियोद्यममयः स्तब्धोऽपि सन्नश्नुते विश्वं व्याप्नुवतश्चिदद्वयमहश्चन्द्रोदयाद् विक्रियाम् | तस्याह्लादमहार्णवस्य न कथं वर्धेत कूलङ्कषो वाग्विक्षोभविजृम्भया बहुमुखं कल्लोलहल्लोहलः || कावेर्या इव माधुर्य कह्लारस्येव सौरभम् | नटेशस्येव तन्नृत्तमस्य ग्रन्थस्य गौरवम् || विश्वोत्पत्तिविपत्तिभूः स भगवानत्र प्रवक्ता शिव- स्तस्याहं प्रतिशब्दपर्वतगुहा यन्मे न गर्वग्रहः | तद्दोषोऽस्तु गुणोऽपि वा न खलु तत् स्वायत्तमित्थं स्थिते मात्सर्यं महतामुदेतु यदि वा वात्सल्यमुज्जृम्भताम् || अधिवासयतु सदा मुखमन्यकथालेपलब्धदौर्गन्ध्यम् | कर्पूरशकल इव मे शिव शिव इति शीतलः शब्दः || इति शिवम् || इति श्रीमहाप्रकाशशिष्यस्य गोरक्षापरपर्यायस्य श्रीमन्महेश्वरानन्दस्य कृतिर्महार्थमञ्जरीपरिमलः सम्पूर्णः || _______ कालचक्रघटीयन्त्रकल्पनामूलशिल्पिने | नमः स्वच्छन्दचिन्मात्रपरिबर्हाय शम्भवे || पादुकोदयमहार्थमञ्जरीकोमलास्तवपरास्तुतिक्रमैः | स्फारयन् भुवि माहार्थसंविदं देशिको विजयते महेश्वरः || जयत्यमूलम्लानमौत्तरं तत्त्वमद्वयम् | स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् || || शुभमस्तु || ########### END OF FILE #######