#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00205 Uniform title: mahāyāgakrama Author : bhaskararaya Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Release 0: February 13, 2010 Publisher : Asthana Vidwan K. P. Narayana Sastry Publication year : 1946 Publication city : Bangalore Publication country : India #################################################### श्री ललितामहात्रिपुरसुन्दरी महायागक्रमः श्रीः भावनोपनिषत् १. श्रीगुरुस्सर्वकारणभृता शक्तिः || २. तेन नवरन्ध्ररूपो देहः || अथ भावनोपनिषदा मुक्त्यै या भावनाः कथिताः | भास्कररायो रचयति तासामेवं प्रयोगविधिम् || मूलेन प्राणानायम्य ऋष्यादिन्यासत्रयं कृत्वा विवेकवृत्यवच्छिन्नचिच्छक्तिरूपसुषुम्नात्मने श्रीगुरवे नमः || इति ब्रह्मरन्ध्रं स्पृष्ट्वा दक्षश्रोत्ररूपपयस्विन्यात्मने प्रकाशानन्दनाहाय नमः वामश्रोत्ररूपशङ्खिन्यात्मने विमर्शानन्दनाथाय नमः जिह्वारूपसरस्वत्यात्मने अनन्तानन्दनाथाय नमः दक्षनेत्ररूपपूषात्मने श्रीज्ञानानन्दनाथाय नमः वामनेत्ररूपगान्धार्यात्मने श्रीसत्यानन्दनाथाय नमः ध्वजरूपकुह्वात्मने श्रीपूर्णानन्दनाथाय नमः दक्षनासारूपपिंगलात्मने स्वभावानन्दनाथाय नमः वामनासारूपेडात्मने प्रतिभानन्दनाथाय नमः पायुरूपालम्बुसात्मने सहजानन्दनाथाय नमः | इति तत्तत्स्थानामि संस्पृश्य प्. २) ३. नवचक्ररूपं श्रीचक्रम् || ४. वाराहीपितृरूपा कुरुकुल्लाबलिदेवतामाता || ५. पुरुषार्थास्सागराः || ६. देहो नवरत्नद्वीपः || ७. त्वगादिसप्तधातुरोमसंयुक्तः || ८. संकल्पाः कल्पतरवः तेजः कल्पकोद्यानम् || नवचक्रस्य श्री चक्रात्मने देहाय नमः | पितृरूपास्थ्याद्यवयवात्मने वाराह्यै नमः | मातृरूपमांसाद्यवयवात्मने बलिदेवतायै कुरुकुल्लायै नमः | इति त्रिर्व्यापकं कृत्वा देहपश्चाद्भागरूपधर्मात्मने इक्षुसागराय नमः देहदक्षिणभागरुपार्थात्मने सुरासागराय नमः देहप्राग्भागरूपकात्मने घृतसागराय नमः देहोदग्भागरूपमोक्षात्मने क्षीरसागराय नमः || देहात्मने नवरत्नद्वीपायनमः इति त्रिर्व्यापकं कृत्वा १. मांसात्मने पुष्परागरत्नद्वीपाय नमः २. रोमात्मने नीलरत्नद्वीपाय नमः ३. त्वगात्मने वैडूर्यरत्नद्वीपाय नमः ४. रुधिरात्मने विद्रुमरत्नद्वीपाय नमः ५. शुक्रात्मने मौक्तिकरत्नद्वीपाय नमः ६. मज्जात्मने मरकतरत्नद्विपाय नमः ७. अस्थ्यात्मने वज्ररत्नद्वीपाय नमः ८. मेद आत्मने गोमेदकरत्नद्वीपाय नमः ९. ओज आत्मने पद्मरागरत्नद्वीपाय नमः १. मांसाधिदेवतायै कालचक्रेश्वर्यै नमः २. रोमाधिदेवतायैरुद्रचक्रेश्वर्यै नमः ३. त्वगधिदेवतायै मातृचक्रेश्वर्यै नमः ४. रुधिराधिदेवतायैरत्नचक्रेश्वर्यै नमः प्. ३) ९. रसनया भाव्यमाना मधुराम्लतिक्तकटुकषाय लवणरसाः षडृतवः || १०. ज्ञानमर्घ्यं ज्ञेयं हविःज्ञाता होता ज्ञातृज्ञान ज्ञेयानामभेदभावनं श्रीचक्रपूजनम् || ५. शुक्राधिदेवतायै दशाचक्रेश्वर्यै नमः ६. मज्जाधिदेवतायैगुरुचक्रेश्वर्यैनमः ७. अस्थ्यधिदेवतायै तत्त्वचक्रेश्वर्यै नमः ८. मेदोधिदेवतायैग्रहचक्रेश्वर्यैनमः ९. ओजोधिदेवतायै मूर्तिचक्रेश्वर्यै नमः सङ्कल्पात्मभ्यः कव्पतरुभ्यो नमः || तेज आत्मने कल्पकोद्यानाय नमः || मधुररसात्मने वसन्तर्तवे नमः अम्लरसात्मने ग्रीष्मर्तवे नमः || तिक्तरसात्मने वर्षर्तवे नमः | कटुरसात्मने शरदृतवे नमः || कषायरसात्मने हेमन्तर्तवे नमः | लवणरसात्मने शिशिरर्तवे नमः || इन्द्रियात्मभ्योऽश्वेभ्यो नमः | इन्द्रियार्थात्मभ्यो गजेभ्यो नमः || करुणात्मिकायैतोयपरिखायै नमः | ओजःपुञ्जात्मने माणिक्यमण्टपाय नमः ज्ञानात्मने विशेषार्घ्याय नमः | ज्ञेयात्मने हविषे नमः || ज्ञात्रात्मने होत्रे नमः | चिदात्मने श्रीमहात्रिपुरसुन्दर्यै नमः || इति तत्तदनुसन्धानपूर्वकं मनसा नत्वा ज्ञातृज्ञानज्ञेयानां नामरूपविलापनानुसन्धानेन चिन्मात्ररूपताविभावनेन क्षणं विश्रम्य || पञ्चदश नित्या यजेत् | हृदिहस्तं निधाय | ---------------------------- १. त्रिपुरा २. त्रिपुरेशी ३. त्रिपुरसुन्दरी ४. त्रिपुरवासिनी ५. त्रिपुराश्रीः ६. त्रिपुरमालिनी ७. त्रिपुरासिद्धा ८. त्रिपुराम्बा ९. महात्रिपुरसुन्दरी इति मतान्तरे चक्रेश्वरीनवकमाम्नातम् || प्. ४) चत्वारिंशदधिकचतुर्दशशतश्वासात्मने प्रतिपत्तिथिरूपकामेश्वरीनित्यायै नमः || तदुत्तरचत्वारिंशदधिकचर्तुदशशतश्वासात्मने द्वितीयातिथिरूपभगमालिनीनित्यायै नमः || तदुत्तरचत्वारिंशधिक चतुर्दशशतश्वासात्मने तृतीयातिथिरूपनित्यक्लिन्नानित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने चतुर्थीतिथिरूपभेरुण्डानित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने पञ्चमीतिथिरूपवह्निवासिनीनित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने षष्ठीतिथिरूपमहावज्रेश्वरीनित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने सप्तमीतिथिरूप शिवदूतीनित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने अष्टमीतिथिरूप त्वरितानित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने नवमीतिथिरूप कुलसुन्दरीनित्यायै नमः || तदुत्तरचत्वारिंशधिकचतुर्दशशतश्वासात्मने दशमीतिथिरूप नित्यानित्यायै नमः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने एकादशीतिथिरूप नीलपताकानित्यायै नमः || प्. ५) ११. नियतिः शृङ्गारादयो रसा अणिमादिसिद्धयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमयाब्राह्म्याद्य ष्ट शक्तयः | १२. आधारनवकं मुद्राशक्तयः || तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने द्वादशीतिथिरूपविजयानित्यायै नमः तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने त्रयोदशीतिथिरूपसर्वमंगला नित्यायै नमः तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने चतुर्दशीतिथिरूप ज्वालामालिनी नित्यायै नमः तदुत्तरचत्वारिंशदधिकचतुर्दशशतश्वासात्मने पौर्णमासीतिथिरूपचित्रा नित्यायै नमः नित्यामन्त्रानपि तत्तदादौ केचित् पठन्ति इयं नित्याभावना सर्वान्त एव वा कार्या || चतुरश्राद्यरेखायै नम इति वक्ष्यमाणस्थानेषु व्यापकं न्यस्य || दक्षासंपृष्ठरूपशान्तरसात्मने अणिमासिध्यै नमः दक्षपाण्यंगुल्यग्ररूपाद्भुतरसात्मने लघिमासिध्यै नमः दक्षस्फिग्रूप करुणरसात्मने महिमासिध्यै नमः दक्षपादांगुल्यग्ररूप वीररसात्मने ईशित्वसिध्यै नमः वामपादांगुल्यग्ररूप हास्यरसात्मने वशित्वसिध्यै नमः वामस्फिग्रूपबीभत्सरसात्मने प्राकाम्य सिध्यै नमः वामपाण्यंगुल्यग्ररूप रौद्ररसात्मने भुक्तिसिध्यै नमः वामांसपृष्ठरूप भयानकरसात्मने इच्छासिध्यै नमः चूलीमूलरूप शृंगाररसात्मने प्राप्तिसिध्यै नमः चूलीपृष्ठरूप नियत्यात्मने सर्वकामसिध्यै नमः प्. ६) चतुरश्रमध्यरेखायै नम इति तदन्तर्व्यापकं न्यस्य पादांगुष्ठद्वयरूप कामात्मने ब्राह्म्यै नमः दक्षपार्श्वरूप क्रोधात्मने माहेश्वर्यै नमः मूर्धरूप लोभात्मने कौमार्यै नमः वामपार्श्वरूपमोहात्मने वैष्णव्यै नमः वामजानुरूपमदात्मने वाराह्यै नमः दक्षजानुरूपमात्सर्यात्मने इन्द्राण्यै नमः दक्षभिरंसरूपपुण्यात्मने चामुण्डायै नमः वामबहिरंसरूपपापात्मने महालक्ष्म्यै नमः चतुरश्रान्त्यरेखायै नम इति तदन्तर्व्यापकं न्यस्य पादांगुष्ठद्वयरूपाधस्सहस्रदलकमलात्मने सर्वसंक्षोभिणीमुद्रायै नमः दक्षपार्श्वरूपमूलाधारात्मने सर्वविद्राविणीमुद्र शक्त्यै नमः मूर्धरूपस्व धिष्ठानात्मने सर्वाकर्षिणी मुद्राशक्त्यै नमः वामपार्श्वरूपमणिपूरात्मने सर्ववशङ्करी मुद्राशक्त्यै नमः वामजानुरूपानाहतात्मने सर्वोन्मादिनी मुद्राशक्त्यै नमः दक्षजानुरूप विशुध्यात्मने सर्वमहाङ्कुशा मुद्राशक्तयै नमः दक्षोरुरूपेन्द्रयोन्यात्मने सर्वखेचरी मुद्राशक्त्यै नमः वामोरुरूपाज्ञात्मने सर्वबीज मुद्राशक्त्यै नमः द्वादशान्तरूपोर्ध्वसहस्त्रदलकमलात्मने सर्वयोनि मुद्रायै नमः पादांगुष्ठरूपाधारनवकात्मने सर्वत्रिखण्डा मुद्रायै नमः हृद्रूपत्रैलोक्यमोहनचक्रेश्वर्यै त्रिपुरायै नमः इति तत्तत्स्थानानि स्पृष्ट्वा एतास्सर्वास्स्वात्माभिन्नत्वेन विभाव्य आत्मनः अपरिच्छिन्नत्वं भावयेत् प्रकटयोगिनीरूपस्वात्मात्मने अणिमासिध्यै नमः || प्. ७) १३. पृथिव्यप्तेजोवाव्याकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राण- वाक्पादपाणिपायूपस्थानि मनोविकारः कामाकर्षिण्यादिषोडशशक्तयः || अपरिच्छिन्नस्वात्मात्मने सर्वसंक्षोभिणीमुद्रायै नमः इति प्रयोगपूर्वकं वा विभावयेत् || षोडशदलपद्माय नम इति तदन्तर्व्यापकं न्यस्य दक्षश्रोत्रपृष्ठ पृथिव्यात्मने कामाकर्षिणीनित्याकलायै नमः दक्षांसरूपाबात्मने बुध्याकर्षिणीनित्याकलायै नमः दक्षकूर्पररूपतेज आत्मने अहंकाराकर्षिणीनित्याकलायै नमः दक्षकरपृष्ठरूपवाथ्वात्मने शब्दाकर्षिणी नित्याकलायै नमः दक्षोरुरूपाकाशात्मने स्पर्शाकर्षिणी नित्याकलायै नमः दक्षजानुरूपश्रोत्रात्मने रूपाकर्षिणी नित्याकलायै नमः दक्षगुल्फरूपत्वगात्मने रसाकर्षिणी नित्याकलायै नमः दक्षपादतलरूपचक्षुरात्मने गन्धाकर्षिणी नित्याकलायै नमः वामपादतलरूपजिह्वात्मने चित्ताकर्षिणी नित्याकलायै नमः वामगुल्फरूपघ्राणात्मने धैर्याकर्षिणी नित्याकलायै नमः वामजानुरूपवागात्मने स्मृत्याकर्षिणी नित्याकलायै नमः वामोरुरूपपाण्यात्मने नामाकर्षिणी नित्याकलायै नमः वामकरपृष्ठरूपपादात्मने बीजाकर्षिणी नित्याकलायै नमः वामकूर्पररूपपायवात्मने आत्माकर्षिणी नित्याकलायै नमः वामांसरूपोपस्थात्मने अमृताकर्षिणी नित्याकलायै नमः वामश्रोत्रपृष्ठरूपविकृतमन आत्मने शरीराकर्षिणी नित्याकलायै नमः हृद्रूपसर्वाशापरिपूरकचक्रेश्वर्यैत्रिपुरश्वर्यै नमः || प्. ८) १४. वचनादानगमनविसर्गानन्दहानोपादानोपेक्षाख्य- बुद्ध्योऽनङ्गकुसुमाद्यष्टौ || १५. अलंबुसाकुहूर्विश्वोदरावारुणीहस्तिजिह्वायशोवतीपयस्विनी- गान्धारीपूषाशंखिनीसरस्वती-इडापिंगलासुसुम्नाचेति चतुर्दशनाड्यः सर्वसंक्षोभिण्यादि चतुर्दश शक्तयः || गुप्तयोगिनी रूपस्वात्मात्मने लघिमासिध्यै नमः || अपरिच्छन्नरूपस्वात्मात्मने सर्वविद्राविणी मुद्रायै नमः _______________ अष्टदलपद्माय नम इति तदन्तर्व्यापक न्यस्य दक्षशंखरूपवचनात्मने अनङ्गकुसुमायै नमः दक्षजत्रुरूपादानात्मने अनङ्गमेखलायै नमः दक्षोरुरूपगमनात्मने अनङ्गमदनायै नमः दक्षगुल्फरूपविसर्गात्मने अनङ्गमदनातुरायै नमः वामगुल्परूपानन्दात्मने अनङ्गरेखायै नमः | वामोरुरूपहानाख्यबुध्यात्मने अनङ्गवेगायै नमः | वमजत्रुरूपोपादानाख्यबुध्यात्मने अनङ्गाङ्कुशायै नमः | वामशखरूपोपेक्षाख्यबुध्यात्मने अनङ्गमालिन्यै नमः | हृदूपसर्वसंक्षोभणचक्रैश्वर्यै त्रिपुरसुन्दर्यै नमः | गुप्ततरयोगिनीरूपस्वात्मात्मने महिमासिध्यै नमः | अपरिच्छिन्नरूपस्वात्मात्मने सर्वाकर्षिणी मुद्रायै नमः | _________________ चतुर्दशारचक्राय नम इति तदन्तर्व्यापकं न्यस्य | ललाटमध्यभागरूपालंबुसात्मने सर्वसंक्षोभिणीशक्त्यै नमः | प्. ९) १६ . प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्त- धनञ्जयादशवायवस्सर्वासिद्धिप्रदादिबहिर्दशारदेवताः || ललाटदक्षभागरूपकुह्वत्मने सर्वविद्राविणो शक्त्यै नमः || दक्षगण्डरूपविश्वोदरात्मने सर्वाकर्षिणी शक्त्यै नमः || दक्षांसरूपवारुण्यात्मने सर्वाह्लादिनी शक्त्यै नमः || दक्षपार्श्वरूप हस्तिजिह्वात्मने सर्वसंमोहिनी शक्त्यै नमः || दक्षोरुरूपयशोवत्यात्मने सर्वस्तंभिनी शक्त्यै नमः || दक्षजंघारूपपयस्विन्यात्मने सर्वजृम्भिणीशक्त्यै नमः || वामजंघारूपगान्धार्यात्मने सर्ववशंकरी शक्त्यै नमः || वामोरुरूपपूषात्मने सर्वरञ्जिनी शक्त्यै नमः || वामपार्श्वरूपशंखिन्यात्मने सर्वोन्मादिनी शक्त्यै नमः || वामांसरूपसरस्वत्यात्मने सर्वार्थसाधिनी शक्त्यै नमः || वामगंडरूपेडात्मने सर्वसंपत्तिपूरणी शक्त्यै नमः || ललाटवामभागरूपपिंगलात्मने सर्वमन्त्रमयी शक्त्यै नमः || ललाटपृष्ठभागरूपसुषुम्नात्मने सर्वद्वन्द्वक्षयंकरी शक्त्यै नमः || हृद्रूपसर्वसौभाग्यदायकचक्रेश्वर्यै त्रिपुरवासिन्यै नमः || सम्प्रदाययोगिनीरूपस्वात्मात्मने ईशित्वसिध्यै नमः || अपरिच्छिन्नरूपस्वात्मात्मने सर्ववशंकरी मुद्रायै नमः || ________________ बहिर्दशारचक्राय नम इति व्यापकं न्यस्य | दक्षाक्षिरूपप्राणात्मने सर्वसिद्धिप्रदादेव्यै नमः || नासामूलरूपापानात्मने सर्वसम्पत्प्रदादेव्यै नमः || प्. १०) १७. एतद्वायुसंसर्गकोपाधिभेदन रेचकः पाचकश्शोषको दाहकः प्लावक इति प्राणमुख्यत्वेन पञ्चधा जठराग्निर्भवति १८. क्षारक उद्गारकः क्षोभको जृम्भको मोहकः इति नागप्राधान्येन पञ्चविधाः ते मनुष्याणां देहगाः भक्ष्यभोज्यचोष्यलेह्यपेयात्मकपञ्चविधमन्नं पाचयन्ति || १९. एता दशवह्निकलास्सर्वज्ञाद्या अन्तर्दशारगा देवताः वामनेत्ररूपव्यानात्मने सर्वप्रियङ्करीदेव्यै नमः || कुक्षीशकोणरूपोदानात्मने सर्वमङ्गलकारिणी देव्यै नमः || कुक्षिवायुकोणरूपसमानात्मने सर्वकामप्रदादेव्यै नमः || वामजानुरूपनागात्मने सर्वदुःखविमोचिनीदेव्यै नमः || गुदरूपकूर्मात्मने सर्वमृत्युप्रशमनी देव्यै नमः || दक्षजानुरूपकृककरात्मने सर्वविघ्नविनाशिनी देव्यै नमः || कुक्षिनि-ऋतिकोणरूपदेवदतात्मने सर्वांगसुन्दरी देव्यै नमः || कुक्षिवव्हिकोणरूपधनञ्जयात्मने सर्वसौभाग्यदायिनीदेव्यै नमः || हृद्रूपसर्वार्थसाधकचक्रेश्वर्यै त्रिपुराश्रियै नमः || कुलकौलयोगिनीरूपस्वात्मात्मने वशित्वसिध्यै नमः || अपरिच्छिन्नस्वात्मात्मने सर्वोन्मादिनीमुद्रायै नमः || ______________ अन्तर्दशारचक्राय नम इति तदन्तर्व्यापकं न्यस्य || दक्षनासारूपरेचकाग्न्यात्मने सर्वज्ञादेव्यै नमः || दक्षसृक्विरूपपाचकाग्न्यात्मने सर्वशक्तिदेव्यै नमः || प्. ११) २०. शीतोष्णसुखदुःखेच्छास्सत्वंरजस्तमोवशिन्यादि शक्तयोष्टौ || दक्षस्तनरूपशोपकाग्न्यात्मने सर्वैश्वर्यप्रदादेव्यै नमः || दक्षवृषणरूपदाहकाग्न्यात्मने सर्वज्ञानमयी देव्यै नमः || सीविनीरूपप्लावाकाग्न्यात्मने सर्वव्याधिविनाशिनी देव्यै नमः || वामवृषणरूपक्षारकाग्न्यात्मने सर्वाधारस्वरूपादेव्यैः नमः || वाअमस्तनरूपोद्गारकाग्न्यात्मने सर्वपापहरादेव्यै नमः || वामसृक्विरूपक्षोभकाग्न्यात्मने सर्वानन्दमयीदेव्यै नमः || वामनासारूपजृम्भकाग्न्यात्मने सर्वरक्षास्वरूपिणीदेव्यै नमः || नासाग्ररूपमोहकाग्न्यात्मने सर्वेप्सितफलप्रदादेव्यै नमः || हृद्रूपसर्वरक्षाकरचक्रेश्वर्यै त्रिपुरमालिन्यै नमः || निगर्भयोगिनीरूपस्वात्मात्मने प्राकाम्यसिध्यै नमः || अपरिच्छिन्नरूपस्वात्मात्मने सर्वमहाङ्कुशामुद्रायै नमः || ________________ अष्टकोणचक्राय नम इति तदन्तर्व्यापकं न्यस्य चिबुकदक्षभागरूपशीतात्मनेवशिनी वाग्देवतायै नमः || कण्ठदक्षभागरूपोष्णात्मने कामेश्वरीवाग्देवतायै नमः || हृदयदक्षभागरूपसुखात्मने मोदिनीवाग्देवतायै नमः || नाभिदक्षभागरूपदुःखात्मने विमलावाग्देवतायै नमः || नाभिवामभागरूपेच्छात्मने अरुणावाग्देवतायै नमः || हृदयवामभागरूपसत्वगुणात्मने जयिनीवाग्देवतायै नमः || कण्ठवामभागरूपरजोगुणात्मने सर्वेश्वरीवाग्देवतायै नमः || प्. १२) २१. शब्दादितन्मात्राः पञ्चपुष्पबाणाः || २२. मन इक्षुधनुः ३३. रागः पाशः २४. द्वेषोंकुशः २५. अव्यक्तमहदहङ्काराःकामेश्वरीवज्रेश्वरीभगमा- लिन्योन्तस्त्रिकोणगा देवताः | चिबुकवामभागरूपतमोगुणात्मने कौलिनीवाग्देवतायै नमः || हृद्रूपसर्वरोगहरचक्रेश्वर्यै त्रिपुरासिद्धायै नमः || रहस्ययोग्नीरूपस्वात्मात्मने भुक्तिसिध्यै नमः || अपरिच्छिन्नरूपस्वात्मात्मने सर्वखेचरीमुद्रायै नमः || __________ हृदयत्रिकोणाधोभागरूपपञ्चतन्मात्रात्मकेभ्यः सर्वजम्भनबाणेभ्यो नमः || तद्दक्षभागरूपमन आत्मकाभ्यां सर्वमोहनधनुर्भ्यां नमः || तदूर्ध्वभागरूपरागात्मकाभ्यां सर्ववशंकरपाशाभ्यां नमः || तद्वमभागरूपद्वेषात्मकाभ्यां सर्वस्तम्भकराङ्कुशाभ्यां नमः || ___________ त्रिकोणचक्राय नम इति व्यापकं न्यस्य हृदयत्रिकोणाग्रभागरूपमहत्तत्वात्मने कामेश्वर्यै देव्यै नमः || तद्दक्षकोणरूपाहंकारात्मने वज्रेर्श्यै देव्यै नमः || तद्वामकोणरूपाव्यक्तात्मने भगमालिनी देव्यै नमः || हृद्रूपसर्वसिद्धिप्रदचक्रेश्वर्यै त्रिपुरांबायै नमः || अतिरहस्ययोगिनीरूपस्वात्मात्मने इच्छासिद्ध्यै नमः || अपरिच्छिन्नरूपस्वात्मात्मने सर्वबीजमुद्रायै नमः || __________________ बिन्दुचक्राय नम इति व्यापकं न्यस्य प्. १३) २६. निरुपाधिकसंविदेव कामेश्वरः || २७. सदानन्दपूर्णः स्वात्मैव परदेवता ललिता || २८. लौहित्यमेतस्य सर्वस्य विमर्शः || २९. अनन्यचित्तत्वेन च सिद्धिः ३०. भावनायाः क्रियोपचारः || हृन्मध्यरूपनिरुपाधिकसंविन्मात्ररूपकामेश्वरां- कनिलयायै सच्चिदानन्दैकब्रह्मात्मिकायै परदेवतायै ललितायै महात्रिपुरसुन्दर्यै नमः || निरुपाधिकचैतन्यमेव सच्चिदानन्दात्मकमन्तःकरणप्रतिबिंबितंसत्तदहमेवे- त्यनुसन्धानं ललितायालौहित्यमिति विभाव्य || अभेदसंबन्धेन सत्वचित्वादि विशिष्टसंविदः केवलसंविदश्च तादात्म्यसम्बन्धरूपं कामेश्वरांकयन्त्रणंविशेषणं विभाव्य || उपाध्यभावरूपशुक्लत्वोपलक्षिता सतीशुद्धसंविदेव शुक्लचरणः || चित्वविशिष्टसंवित्प्राथमिकपराहन्तात्मकमृत्युरूपेण- रागेणोपलक्षितासतीरक्तचरणः || अहमाकारवृत्तिनिरूपिता विषयता चरणयोर्मिथो विशेष्यविशेषणभावरूपैव तदुभयसामरस्यमितिविभाव्य || हृद्रूपसर्वानन्दमयचक्रेश्वर्यै महात्रिपुरसुन्दर्यै नमः || परापररहस्ययोगिनीरूपस्वात्मात्मने प्राप्तिसिध्यै नमः || अपरिच्छिन्नरूपस्वात्मात्मने सर्वयोनिमुद्रायै नमः || इति तत्तत्स्थानस्पर्शपूर्वकं सम्यगनुसन्धायोपचारान्, समर्पयेत् || तद्यथा-एवमपरिच्छन्नतया भाविताया ललितायाःस्वेमहिम्न्येवप्रतिष्ठितिमासनमनुसन्धामि || प्. १४) त्रियदादिस्थूलप्रपञ्चरूपपादगतनामरूपात्मक-मलस्य सच्चिदानन्दकैरूपत्व भावनाजलेन क्षालनं पाद्यं भावयामि || सूक्ष्मप्रपञ्चरूपहस्तगतस्य तस्य क्षालनमर्घ्यंचिन्तयामि || भावनारूपाणामपामपि कबलीकाररूपमाचमनं भावयामि || सत्त्वचित्त्वानन्दत्वाद्यखिलावयवानच्छेदेन भावनाजलसम्पर्करूपंस्नानमनुचिन्तयामि || तेष्वेवायवेषु प्रसक्ताया भावनात्मकवृत्तिविशेष्यतायाः प्रोञ्छनं वृत्यविषयत्वभावनेन वस्त्रं कल्पयामि || निर्विषयत्वनिरञ्जनत्वाशोकत्वामृतत्वाद्यनेकधर्मरू- पाण्याभरणानि धर्म्यभेद भावनेन समर्पयामि || स्वशरीरघटकपार्थिवभागानां जडतापनयेन चिन्मात्रतावशेषरूपं गन्धं प्रयच्छामि || आकाशभागानां तथा भावनेन पुष्पाणि समर्पयामि || वायव्यभागानान्तथाभावया धूपयामि || तैजसभागानान्तथाकरणेनोद्दीपयामि || अमृतभागांस्तथा विभाव्य निवेदयामि || षोदशान्तेन्दुमण्डलस्य तथा भावनेन ताम्बूलकल्पमाचरामि || परापश्यन्त्यादिनिखिलशब्दानां नादद्वारा ब्रह्मण्युपसंहारचिन्तनेन स्तवीमि || विषयेषु धावमानानां चित्तवृत्तीनां विषयजडतानिरासेन ब्रह्मणि प्रविलापनेन प्रदक्षिणीकरोमि || तासां विषयेभ्यः परावर्तनेन ब्रह्मैकप्रवणतया प्रणमामि || इत्युपचर्य जुहुयात् || प्. १५ ३१. अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमित्यादि विकल्पानां आत्मनि विलापनं होमः || ३२. भावनाविषयाणमभेदभावनन्तर्पणम् || ३३. पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनम् || ३४. एवं मुहूर्तत्रितयं मुहूर्तद्वितयं मुहूर्तमात्रं वा भावनापरो जीवन्मुक्तो भवति स एव शिवयोगीति गद्यते || ३५. कादिमतेनान्तश्चक्रभावनाः प्रतिपादिताः || ३६. य एवं वेद सोथर्वशिरोधीते || इति भावनोपनिषत् विहिताविहितविषयावृत्तयः उत्पन्नाः अहंत्वं गुरुर्देवतेत्यादयः तास्सर्वाश्चक्रराजस्थानन्तशक्तिकदम्बरूपास्तत्तत्- सूक्ष्मरूपा ये ये संस्कारास्तत्सर्वं चिन्मात्रमेवेति विभावनया निर्व्युत्थानं स्वात्मनि जुहोमि || प्रकृतभावनासुयेगुरुचरणादिशक्तिकदम्बान्ताविषयास्तेसर्वे पिचिन्मात्र रूपानपरस्परंभिद्यन्ते इति भावनयातर्पयामि || तिथिचक्रमुक्तरूपंकालचक्रंदेशचक्रं च सर्वमस्तिभातिप्रियश्च नतु नामरूप वदतस्सर्वं ब्रह्मैवेति विभावयामि || अथवा पूर्वलिखितां नित्याभावनामिहैव श्वासप्रविलापनफलिकां कुर्यात् तेन मनः पवनामनामैक्यनिभालनेन त्रीन्मुहूर्तान् द्वावेकं वा मुहूर्तमविच्छिन्नं व्यापयेत् | तस्य देवतात्मैक्यसिद्धिः चिन्तितकार्याण्ययत्नेन सिध्यन्ति || प्. १६ ततोवतीर्य प्राणायामत्रयमृष्यादिन्यासत्रयञ्च कृत्वा गुरुं स्तुवीतेति सर्व शिवम् || अथर्वशिरसि प्रोक्तभावनानां सतां मुदे | इति भास्कररायेण प्रयोगविधिरीरितः || श्यामे संगीतमातः परशिवनिलये मुख्यसाचिव्यभारो द्वाहे दक्षे दयापूरितनिजहृदये मामकीं दैन्यवृत्तिम् | श्रीमत्सिंहासनेश्यां भववनपतितान्दावदग्धान्नमस्ते त्रातुं पीयुषवर्षैः कथय परिकरं बद्धवत्यां विविक्ते || यत्रास्ति भोगो न च तत्र मोक्षः यत्रास्ति मोक्षो न च तत्र भोगः | श्रीसुन्दरीसाधकपुंगवानां भोगश्च मोक्षश्च करस्थ एव || पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये | मातस्तवांघ्रियुगलं नाहं मुञ्चामि नैव मुञ्चामि || यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला | तयोः संस्मरणात्पुंसां सर्वतो जयमङ्गलम् || दुर्गे शिवेऽभये माये नारायणि सनातनि | जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले || इति श्री || श्रीतन्त्रराजे पञ्चत्रिंशपटले भावनोपनिषत्प्रतिपादित महायागक्रमस्योपब्रह्मणश्लोकाः अथ षोडशनित्यानां स्वात्मत्वे वासनां शृणु यया तन्मयतासिद्धिः प्रत्यक्षा भवति ध्रुवम् || १ || गुरुराद्या भवेच्छक्तिः सा विमर्शमयीमता नवत्वं तस्य, देहस्य, रन्ध्रत्वेनावभासते || २ || बलिदेव्यः, स्वमायाः स्युः पञ्चमी जनकात्मिका कुरुकुल्ला भवेन्माता पुरुषार्थास्तु सागराः || ३ || रत्नद्वीपो भवेद्देहो नवत्वं धातुरोमभिः संकल्पाः कल्पतरवः स्वाधारा ऋतवः स्मृताः || ४ || ग्रहर्क्षराशिचक्रेण कालात्मा पश्चिमामुखः तेन पूर्वाभिमुख्यं स्यादन्यत्ते कथितं पिथः || ५ || ज्ञाता स्वात्मा भवेत् ज्ञानमर्घ्यं ज्ञेयं बहिः स्थितम् श्रीचक्रपूजनं तेषामेकीकरणमीरितम् || ६ || श्रीचक्रे सिद्धयः प्रोक्ता रसा नियतिसंयुताः ऊर्मयः पुण्यपापे च ब्राह्म्याद्या मातरः स्मृताः || ७ || भूतेन्द्रियमनांस्येव क्रमान्नित्याकलाः पुनः कर्मेन्द्रियार्था दोषाश्च ज्ञेयाः स्युः शक्तयोष्ट वै || ८ || नाड्यश्चतुर्दश प्रोक्ताः क्षोभिण्याद्यास्तु शक्तयः वायवो दशसंप्रोक्ताः सर्वसिध्यादिशक्तयः || ९ || वह्नयोदशसंप्रोक्ताः सर्वज्ञाद्यास्तु शक्तयः शीतोष्णसुखदुःखेच्छा गुणाः प्रोक्ता क्रमेण वै || १० || वशिन्याद्याश्शक्तयः स्युः तन्मात्राः पुष्पसायकाः प्. १८) मनोभवेदिक्षुधनुः पाशोराग इतीरितः || ११ || द्वेषः स्यादङ्कुशः प्रोक्तः क्रमेण वरवर्णिनि अव्यक्ताहङ्कृतिमहदाकाराः प्रतिलोमतः || १२ || कामेश्वर्यादिदेव्यस्स्युः संवित्कामेश्वरः स्मृतः स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहा || १३ || लौहित्यं तद्विमर्शः स्यादुपास्तिरिति भावना सिद्धिस्त्वनन्यचित्तत्वं मुद्रा वैभवभावनम् || १४ || उपचाराश्चलत्वेपि तन्मयत्वाप्रमत्तता प्रयोगास्तु विकल्पानां हेतोः स्वात्मनि नाशनम् || १५ || यन्त्राणि मन्त्रास्सर्वत्र स्वात्मत्वे स्थैर्यसाधनं सन्ध्यासु भजनं देव्या आदिमध्यान्तमज्जनं || १६ || अन्यास्तु शक्तयश्चक्रगामिन्यो यास्समन्ततः तास्तु विश्वविकल्पानां हेतवस्समुदीरिताः || १७ || न्यासस्तु देवतात्वेन स्वात्मनो देहकल्पनम् जपस्तन्मयतारूपभावनं सम्यगीरितम् || १८ || होमो विश्वविकल्पानां स्वात्मन्यस्तमयो मतः तेषामन्योन्यसंभेदभावनं तर्पणं भवेत् || १९ || मोहाज्ञानादिदुःखानामात्मन्यस्तमयो दृढम् अभिषेकस्तु विद्यास्यादात्मा सर्वाश्रयो महान् || २० || उपाधीनान्तु राहित्यं उपदेश इतीरितः दक्षिणा भेदशून्यत्वं शुश्र्षा स्थैर्यमुच्यते || २१ || तिथिरूपेण कालस्य परिणामावलोकनम् नित्याः पञ्चदशैताः स्युरितिप्रोक्तास्तु वासनाः || इति श्रीः || श्रीललिताचतुष्षष्ट्युपचार संग्रहः ओं || हृन्मध्यनिलये देवि ललिते परदेवते | चतुष्षष्टयुपचारांस्ते भक्त्या मातस्समर्पये || १ || कामेशोत्संगनिलये पाद्यं गृह्णीष्व सादरम् | भूषणानि समुत्तार्य गन्धतैलं च तेऽर्पये || २ || स्नानशालां प्रविश्याथ तत्रत्य मणिपीठके | उपविश्य सुखेन त्वं देहोद्वर्तनमाचर || ३ || उष्णोदकेन ललिते स्नापयाम्यथ भक्तितः | अभिषिञ्चामि पश्चात्त्वां सौवर्णकलशोदकैः || ४ || धौतवस्त्रप्रोञ्छनं चारक्तक्षौमांबरं तथा | कुचोत्तरीयमरुणमर्पयामि महेश्वरि || ५ || ततः प्रविश्य चालेपमण्टपं परमेश्वरि | उपविश्य च सौवर्णपीठे गन्धान्विलेपय || ६ || कालागरुजधूपैश्च धूपये केशपाशकम् | अर्पयामि च मल्ल्यादि सर्वर्तुकुसुमस्रजः || ७ || भूषामण्टपमाविश्य स्थित्वा सौवर्णपीठके | माणिक्यमकुटं मूर्ध्नि दयया स्थापयांबिके || ८ || शरत्पार्वणचन्द्रस्य शकलं तत्र शोभताम् | सिन्दूरेण च सीमन्तमलङ्कुरु दयानिधे || ९ || प्.२) फाले च तिलकं न्यस्य नेत्रयोरञ्जनं शिवे | वालीयुगलमप्यम्ब भक्त्या ते विनिवेदये || १० || मणिकुण्डलमप्यम्ब नासाभरणमेव च | ताटङ्कयुगलं देवि यावकञ्चाधरेऽर्पये || ११ || आद्यभूषणसौवर्णचिन्ताकपदकानि च | महापदकमुक्तावल्येकबल्यादिभूषणम् || १२ || छन्नवीरं गृहाणाम्ब केयुरयुगलन्तथा | वलयावलिमंगुल्याभरणं ललिताम्बिके || १३ || ओड्याणमथकट्यान्ते कटिसूत्रं च सुन्दरि | सौभाग्याभरणं पादकटकं नूपुरद्वयम् || १४ || अर्पयामि जगन्मातः पादयोश्चांगुलीयकम् | पाशं वामोर्ध्वहस्ते ते दक्षहस्ते तथाङ्कुशम् || १५ || अन्यस्मिन्वामहस्ते च तथा पुण्ड्रेक्षुचापकम् | पुष्पबाणांश्च दक्षाधः पाणौ धारय सुन्दरि || १६ || अर्पयामि च माणिक्यपादुके पादयोश्शिवे | आरोहावृतिदेवीभिश्चक्रं परशिवे मुदा || १७ || समानवेषभूषाभिस्साकं त्रिपुरसुन्दरि | तत्र कामेशवामाङ्कपर्यङ्कोपनिवेशिनीम् || १८ || अमृतासवपानेन मुदितां त्वां सदा भजे | शुद्धेन गांगतोयेन पुनराचमनं कुरु || १९ || कर्पूरवीटिकामास्ये ततोंब विनिवेशय | आनन्दोल्लासहासेन विलसन्मुखपङ्कजाम् || २० || प्.३) भक्तिमत्कल्पलतिकां कृतीस्यां त्वां स्मरन् कदा | मङ्गलारार्तिकं छत्रं चामरं दर्पणन्तथा || २१ || तालवृन्तं गन्धपुष्पधूपदीपांश्च तेऽर्पये || श्रीकामेश्वरितप्तहाटककृतैः स्थालीसहस्त्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदैर्युतम् | दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रार्पितं माषापूपकपूरिकादिसहितं नैवेद्यमर्म्बापये || २२ || साग्रविंशतिपद्योक्तचतुष्षट्युपचारतः | हृन्मध्यनिलया माता ललिता परितुष्यतु || २३ || श्रीमुखाख्यस्य वर्षस्य तुलायां शुक्लपक्षके | चतुर्थ्यामपराह्ने च ललितार्पितमानसः || २४ || साग्रविंशतिपद्यैस्तु चतुष्षष्टयुपचारकान् | समग्रहीत् पराभ्बायाः प्रीत्यै नारायणो मुदा || २५ || नारायणः श्रीपुरुषोत्तमात्मजोऽलिखन्महीशूरपुरेवसन्कृती | देवीसपर्यामखिलाभिलाषदां कामेशवामाङ्कगता प्रसीदतु || २६ || आतत्सदिति श्रीः || इति देवी चनुष्षष्ट्युपचारसंग्रहः सम्पूर्णः || अथ त्रिपुरोपनिषदः शान्तिमन्त्र पाठः (भाष्यसमेतः) ओं वाङ्मे मनसि प्रतिष्ठिता-मनो मे वाचि प्रतिष्ठितम् || तत्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मे वाक् सर्वदा मनसि प्रतिष्ठिता मनो विवक्षितशब्दजातप्रतिपादिकेति यावत् || मनश्च मदीयं वाचि प्रतिष्ठितं-आत्मविद्याप्रतिपादकमेव शब्दजातं मनसा विवक्ष्यते | अन्योन्यानुगृहीते हि वाङ्मनसे विद्यार्थग्रन्थं साकल्येनावधारयितुं शक्नुतः | मनसस्सावधानत्वाभावे यत्किंचिदसंगतं ब्रूयात्-तथा वाचः पाटवाभावे विवक्षितं न यथावदुच्चार्यते-अतस्तयोः परस्परानुकूल्यप्रार्थना क्रियते इति भावः || आविरावीर्म एधि || आविश्शब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते || हे परमात्मन् मे आविरेधि अविद्यावरणापनयेन मे प्रकटीभवेत्यर्थः || वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीः || हे वाङ्मनसे तत्वविद्याप्रतिपादकवेदग्रन्थस्य-मे-मदर्थ आणि-आनयन समर्थे भवतमित्यर्थः | हे श्रोत्रेन्द्रिय मदर्थं त्वया श्रुत ग्रन्थजातं मा प्रहासी मा विस्मरेत्यर्थः || प्. ५) अनेनाधीतेनाहोरात्रान् सन्दधामि ऋतं वदिष्यामि | सत्यं वदिष्यामि || अनेनाधीतेनोपनिषद्ग्रन्थेन विस्मरणरहितेनाहोरात्रान् संयोजयामि | अहनि रात्रौ चालस्यं परित्यज्य निरन्तरं पठामीत्यर्थः || पठिते च ग्रन्थे ऋतं-परमार्थभूतं वस्तु वदिष्यामि- विपरीतार्थवदनं कदाचिदपि माभूदित्यर्थः || ऋतं-मानसं-सत्यं-वाचिकं-मनसा वस्तुतत्वं विचार्य वाचा वदिष्यामीत्यर्थः | तन्मामवतु तद्वक्तारमवतु अवतुमामवतुवक्तारमवतुवक्तारं ओं शान्तिश्शान्तिश्शान्तिः || तद्ब्रह्मतत्वं मां शिष्यं सम्यग्बोधेन पालयतु- आचार्यञ्च बोधकत्वसामर्थ्य-प्रदानेन पालयतु || पुनरप्यवतुमामिति फलप्रार्थना-अविद्यानिवृत्तिविषयिणी क्रियते-आचार्यस्यतु तादृशशिष्यलाभेन विद्यासम्प्रदायाविच्छेदलाभ फलम् || अनेन मन्त्रपाठेन पूर्वं विद्याप्रतिबन्धकविघ्नाः परिह्रियन्ते विद्योत्पत्तेरूर्ध्वन्तु असम्भावनाविपरीतभावनोत्पादकविघ्नाः || अभ्यासोऽध्यायसमाप्त्यवद्योतकः || इति शान्तिमन्त्रार्थः || श्रीः || प्. ६) श्रीत्रिपुरोपनिषत् (भाष्यसहिता) सहस्रदलपद्मे स्वे नाथांघ्र्यब्जद्वये सति | कमले कम्लोत्पत्तिर्नदृष्टेत्युक्तयः कथम् || श्रीसांख्यायनकल्पसूत्रविधिभिःकर्माणि ये कुर्वते- येषां शाकल एव मन्त्रनिचयः कौषीतकं ब्राह्मणम् | तैरारण्यकमध्यमन्त्रविततिर्या पठ्यते बह्वचैः ऋग्भिष्षोडशभिर्महोपनिषदं व्याचक्ष्महे तां वयम् || इह खलु त्रैवर्णिकैरध्येतव्यो वेदः पूर्वोत्तरकाण्डभेदेन द्विविधः || स उभयविधोपि साक्षात्परम्परया वा क्रियाविशेषविधानाय प्रवृत्तः || क्रियाश्च काश्चित्सदेवताकाः काश्चिन्निर्देवताकाः-अग्निहोत्र स्नानादयो यथा रामकृष्णोपास्ति योषिदग्न्युपास्त्यादयश्च || अधिकारिणस्तु देहातिरिक्त आत्मापरलोकयातायातक्षमोस्तीति विश्वासशीला एवामुष्मिकफलक्रियासु यथाधिक्रियन्ते तथा तेष्वपि देवतानामास्मदादिभिरदृश्यमानाप्यभिमतफलदान- क्षमा काचिदस्तीति विश्वासशीला एव रामकृष्णाद्युपास्तावधिक्रियन्ते || ईदृश जनाभिप्रायेणैव देवतानां विग्रहादिपञ्चकं समर्थितं बादरायणादिभिः || येषान्तु देवतासद्भावे जन्मान्तरकर्मवशादनाश्वासः आस्तिकता च ते पूर्वकाण्डोक्तकर्मस्वेवाधिकारिणः न देवतोपासनायां-तादृशजनाभिप्रायेणैव देवतानां विग्रहादिपञ्चकनिरासेन कर्मप्राधान्यवादस्समर्थितो जैमिन्यादिभिः | अत-एव तादृश कर्मठानामेव कर्मपरिपाकवशात्कतिपयानां शिवशक्तिपूजायां प्रवृतौ सत्यां मीमांसकमतपरित्यागप्रयुक्तोपहासो वृत्तौ वर्णितो मृगेन्द्रसंहितायां || ये तु देवतोपासकास्तैरपि विग्रहादि पञ्चकापह्नवाभिप्रायरहस्यं जानानैरपि कर्मप्राधान्यवादो न निरसनीयः | तथात्वे तादृशकर्मठानां चित्तपरिपाकविशेषमन्तरेण समर्थ्यमानार्थे विश्वासानुदयात् निरसनयुक्तिभिस्तदवलम्बितार्थे सन्देहोदये तेषामुभयभ्रष्टतापत्तेः | अत एव तेषां संरक्षणार्थमेवोपासकैरपि तानि कर्माणि तद्वदेव सविश्वासमिव कार्याण्येव || एतदभिप्रायेणैव लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि || इत्यादि विधयः || न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनां इत्यादि निषेधाश्च || उत्तरभूमिकाधिरूढैरपि पूर्वभूमिकायास्समर्थेन स्वभूमिकाया अप्रकाशनञ्चावश्यं कार्यमिति तु पिण्डितोर्थः || तेनैतौ विधिनिषेधौ निस्त्रैगुण्ये पथि विचरतां जीवन्मुक्तानामप्यावश्यकाविति सिध्यति || येषान्तु बहुजन्मसु पूर्वकोण्डोक्तकर्मानुष्ठानवशाच्चित्तपरिपाकविशेषो दृढो दृश्यते तादृशान्प्रति तु सम्यक् परीक्ष्य स्वभूमिका शनैश्शनैः प्रकाशनीयैव || अन्यथा सम्प्रदायविच्छेदापत्तेः | त्रिपुरसुन्दर्युपास्तिपर्यन्ता ये भूमिकाभेदास्ते तु सविस्तारं वामकेश्वरतन्त्रव्याख्याने सेतुबन्धाख्याने अस्माभिः प्रदर्शिताः || उपासनाशास्त्रे तु देवताप्राधान्यमेव न कर्मणः प्राधान्यम् || क्रियाप्राधान्याभावादेव देवतारूपसिद्धवस्तुबोधका वेदान्ता इति वाचो युक्तिः | देवतायाश्च त्रिणि रूपाणि स्थूलं सूक्ष्मं परञ्चौति-तत्राद्यं तत्तध्यानश्लोकोक्तं-द्वितीयं तत्तन्मूलमन्त्रात्मकं तृतीयन्तु वासनात्मकम् || देवतारूपत्रैविध्यादेव तदुपास्तिरपि त्रिविधा | बहिर्याग जपान्तर्यागभेदात् || तदिदं सपरिकरमृग्वेदपुरुषो महोपनिषद्रूपेणोपदिशति तिस्रः पुरः इत्यादिना इत्युपनिषदित्यन्तेन || अस्या उपनिषदः परदेवतास्तु तौ विनियोगः तृतीयदशमर्चमन्त्रलिंगात् || प्. ८) तिस्रः पुरस्त्रिपथा विश्वचर्षणी यत्राकथा अक्षरा सन्निविष्टा || अधिष्ठायैनामजरापुराणी महत्तरा महिमा देवतानाम् || तत्रप्रधानदेवतां निर्देष्दुं? प्रथमामृचमाह तिस्रः पुर-इत्यादि || तत्र मुक्तिस्तावत्पञ्चविधा-सालोक्यमेकं सामीप्यसारूप्यसायुज्यत्रितयं कैवल्यञ्चेति तास्वाद्यान्त्यौ प्रत्येकं द्वौ मार्गौ-मध्यमत्रयमेकोमार्गः | तथा च तैत्तिरीया आमनन्ती-य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यंस्सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्राह्मणो महिमानमाप्नोति तस्माद्ब्राह्मणो महिमानम् || इतिः अयं भावः | ऊर्ध्वरेतसां स्वाश्रमोक्तकर्मानुष्ठानवतां चन्द्रलोकप्राप्तिस्सालोक्यरूपा प्रतीकोपासनया स्वस्वामिभावेनोपासनया अहं ग्रहोपासनया च सामीप्यादि त्रितयरूपा आदित्यलोकप्राप्तिः || निर्गुणोपास्तिरूपब्रह्मज्ञानवतान्तु कैवल्यरूपब्रह्मपदप्राप्तिरिति || एतन्मार्गत्रितयमेव स्पष्टमुपबृंहितं विष्णुपुराणे तृतीयांशे || उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणं-पितृयाणस्सवै पन्था वैश्वानरपथाद्बहिरित्यादिना विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदं इत्यन्तेन मार्गत्रैविध्यादेव गन्तव्याः पुर्योपि तिस्रः ईदृशपुरत्रयप्रापकत्वात् तद्रूपत्वाद्वापरदेवता त्रिपुरेत्युच्यते || आत्मबुध्या प्रतीकेन मातृबुध्याप्यहन्धिया कर्मणापि भजन्मर्त्यः कैवल्यं पदमश्नुते || इति शक्तिरहस्यवचनेन पञ्चविधात्मभजनेनापि त्रैपुरप्राप्तेरुक्तत्वात् || तस्मात् सैव तिस्रः पुरः त्रिपुरा | त्रयः पन्थानो यस्यास्सा त्रिपथा | तत्पुरुषानं णीकारादेव पथस्संख्याव्ययादेरिति नपुंसकत्वं न | चर्षणीशब्दो वैदिक निघण्टुरीस्या प्रजावाचकः | विश्वास्समस्ताश्चर्षणयो यस्यां सा विश्वचर्षणीदेव्येवसमस्तप्राण्युत्पादिकेति यावत् || विश्वदृष्टिर्वा इदमत्र बोध्यं || तदैक्षत बहुस्यां प्रजायेयेति श्रुतिसिद्धं यद्ब्रह्मणः प्राथमिकमीक्षणं तदेव सर्वजनकं तदेवेच्छारूपं, कृतिरूपञ्च || सोकामयत तपोकुरुत इति श्रुत्यन्तरात् | स्वाभाविकी ज्ञानबलक्रिया चेति श्रुत्यापि एकैव ब्रह्माभिन्ना प्राथमिकी वृत्तिः ज्ञानेच्छाकृतिरूपेति प्रतिपाद्यते || सा वृत्तिरेवेच्छाज्ञानक्रियासमष्टिरूपत्वात् शान्तेत्युच्यते || पश्यन्ती मध्यमावैखरीत्रयसमष्टिसूक्ष्मरूपत्वात्परेत्युच्यते | वामाज्येष्ठारौद्रीसमष्टिरूपत्वादम्बिकेत्युच्यते || सा शान्तात्मिका देवतैव श्रीचक्रस्थं बिन्दुचक्रं || तदुक्तं नित्याहृदये परंब्रह्म प्रक्रम्य || प्रसृतं विश्वलहरीस्थानं मातॄत्रयात्मकं | बैन्दवं चक्रमित्यादि || तदेव च तिस्रः पुरः त्रिपथा विश्वचर्षणी इति विशेषणत्रयनिर्दिष्टं || विशेषणेषु बहुवचनैकवचनाभ्यां विशेष्यस्य त्रित्रिरूपत्वमेकात्मकत्वञ्च सूचितं || तादृशमीक्षणावच्छिन्नं ब्रह्म प्रक्रभ्य कालिकापुराणेप्युक्तं || त्रिकोणमण्डलञ्चास्या भूपुरं च त्रिरेखकं | मन्त्रोपि त्र्यक्षरः प्रोक्तः तथा रूपत्रयं पुनः | त्रिविधा कुण्डली शक्तिः त्रिदेवानां च सृष्टये सर्वत्रयं त्रयं यस्मात्तस्मात्तु त्रिपुरा मता | इत्यादि || प्.१०) अर्थसृष्टिजनकत्वेन तां निर्दिश्य शब्दसृष्टिजनकत्वेनापि तां निर्दिशति यत्रेति | यत्र यस्यां शान्ताम्बिकादिरूपायां त्रिपुरायां अकथाः अकाराद्याः ककाराद्याः थकाराद्याः षोडशषोडश अक्षरा संनिविष्टा-अक्षराणि सन्निविष्टानि वटबीजे वृक्षवत् सम्यक् नितरां च वर्तन्ते | हकारो हि विमर्शस्वरूप एवेति न व्यष्टिवेषेण पृथक् गृह्यते हकारार्णः कलारूपो विमर्शाख्यः प्रकीर्तितः | इति वचनात् | लकारस्तु लकारान्नभिद्यते || क्षकारस्तु कषसंसर्गरूप एव न स्वतन्त्रः | तस्मादष्टाचत्वारिंशन्मातृकाः || एता एव मातृकाः | तथा च सूतसंहितायां एकधा च द्विधा चैव तथा षोडशधा स्थिता | द्वात्रिंशद्भेदसंभिन्ना या तां वन्दे परां कलां || इति || द्विधा स्वरव्यञ्जनभेदेन स्वरः षोडशरूपः | व्यञ्जनं द्वात्रिंशद्भेदमित्यर्थः || अक्षरादिपदद्वये जसोडादेशश्छान्दसः || एवं पूर्वार्धेन बिन्दुचक्रस्वरूपमुपदिश्य तदधिष्ठात्रीं उपास्यां परदेवतामाहाधिष्ठायेति || एनां साम्प्रतमुपदिष्टां बिन्दुरूपां त्रिपुरामधिष्ठाय काचित् अस्ति देवता || अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोप्यस्ति इति कात्यायनवचनादस्तेरध्याहारः || उत्तरमन्त्रस्थक्रियया वाल्यपोन्वयः || सा देवता अजरा मरणरहिता जॄवयोहानावित्यत्र वयोहानिपदेन वयस्यो नाशस्यैव कथनात् || पुराणी-अनादिः | जन्मरहिता देवतानां ब्रह्मविष्णुशिवादीनामतिप्रसिद्धानां मध्ये महत्तरा सर्वोत्कृष्टा | तासां देवतानां यो महिमा तद्रूपा च | देवतान्तराणां माहात्म्यस्याप्येषैव निदानं एतदुप्नासनयैव तेषां महिमलाभ इति भावः || त्रिपुरोपनिषदि तदनुयायिपुराणतन्त्रादिषु च शिवविष्ण्वाद्युपासितानां विद्यानां बहुशः प्रदर्शनात् शंभुः पूजयते देवीं मन्त्रशक्तिमयीं शुभां || इत्यादिना निखिलदेवपूजनीयप्रतिमाभेदानां पद्मपुराणे विस्तरेण कथनाच्च | तथा च न भिक्षुको भिक्षुकान्तरं याचितुमर्हति | सत्यन्यस्मिन्नभिक्षुके इति न्यायेन देवतान्तरोपास्यपेक्षया परदेवतोपास्तिरेव ज्यायसी इति तु ध्वन्योर्थः || तदिदमस्माभिरुक्तं परशिवस्तवे || त्वद्दत्तैश्वर्यभाजः परशिवकथंकारमन्यान् सुरेन्द्रान् याचेदेहीति शक्रद्रुहिणहरिमुखान् भिक्षुकान् भिक्षुकोऽहं | अज्ञोपि द्वादशाहक्रतुविकृतिशतस्यांगभूतोपि चोक्थ्यो ज्योतिष्टोमोक्थ्यधर्मानभिलषति न तु द्वादशाहोक्थ्यधर्मान् इति || अजेरत्यादिभिब्रह्यलिंगैर्बिन्दुचक्राधिष्ठात्रीदेवता परंब्रह्मैव इत्युक्तं भवति | देवतापदस्य विशेष्यत्वाभिप्रायेण स्त्रीत्वं अजरादिपदानां अत-एव श्रुत्यन्तरे क्लीबनिर्देशः || तथा च स्पष्टमेवाथर्वणा आमनन्ति | अष्टाचक्रानवद्वारा देवानां पूरयोध्या तस्यां हिरण्मयः कोशः स्वर्गो लोको ज्योतिषावृतः तस्मिन् हिरण्मये कोशे त्र्यस्रे त्रिप्रतिष्ठितं तस्मिन् यद्यक्षमात्मन्वत् तद्वै ब्रह्मविदोविदुः || भूपुरादित्रिकोणान्तचक्राष्टकोपरि यः कोशो गर्भीकृतरूपत्रयोबिन्दुरिति यावत् || तस्मिन् यक्षं महद्भूतमस्ति | बहिःपूजाऽयोग्यत्वाद्यक्षपदेन निर्देशः | तत् स्वात्मनि ब्रह्मविद एव विदुः | नान्ये इत्यर्थः इति सेतुबन्धे विस्तरः || प्. १२) एवं बिन्दुचक्रमुक्त्वा त्रिकोणवसुकोणवक्रद्वयसमष्टिरूपं नवयोन्यात्मकं चक्रमुपदेष्टुं द्वितीयामृचमाह || नवयोनीरिति (२) नवयोनीर्नवचक्राणि दधिरे नवैवयोगा नवयोगिनीश्च || नवानां चक्रे अधिनाथास्योना नवमुद्रानवभद्रा महीनां || तिस्रः पुरो नवयोनीर्दधिरे एकमपि बिन्दुचक्रं त्र्यात्मकत्वात् प्रत्येकं रूपत्रयं दध्रे इति दीधीङ् दीप्तिदेवनयोरिति च्छान्दसधातोरिदं रूपं | दीपनं च प्रकाशनं (मेव) फलत उत्पादनमेवेह विवक्षितोर्थः || शान्तात्वावच्छेदेनेच्छाशक्तिः क्रियाशक्तिः ज्ञानशक्तिः चेति तिस्रो देवता उदपादयत् अम्बिकात्वावच्छेदेन ब्रह्मविष्णुरुद्रान् स्त्रीरूपान् वामाज्येष्ठारौद्रीशक्तिनामकानजनयत् | परात्वावच्छेदेन पश्यन्तीमध्यमावैखरीति वाग्देवता अजीजनत् इत्यर्थः | सा परदेवतैवैनां त्रिपुरामधिष्ठाय नवयोनीश्चक्रे इति वान्वयः | एता नवदेवता एव नवयोनिचक्रात्मना परिणता इति तु वासनाध्वनिः || किञ्च त्रैलोक्यमोहनादीनि नवचक्राणि जातजनिष्यमाणानि संस्कारात्मना नवयोनिष्वेव सन्ति | तदेतदाह नवचक्राणि कर्तॄणि नवयोनीर्दपिरे इति शक्तित्रिकोणद्वयेन वह्नित्रिकोणेनैकेन च नवयोनिचक्रनिष्पत्तिः | प्रतित्रिकोणं तिस्रो रेखा इति नवानां रेखाणां योगा अपिकोणरूपा नवैव || तेन नवयोगिनीर्दधिरे | नवचक्राणामिह सत्वादेव तत्रत्य प्रकटादियोगिनीनवकमपि कोणात्मनेहैव तिष्ठतीति भावः || देशकालानवच्छिन्नं तदूर्ध्वं परमं महः | इत्यादि व्यवहारात् देशाद्यवच्छिन्नो बिन्दुचक्रादिप्रपञ्चो ब्रह्मणोऽधोधस्तिष्ठतीति लभ्यते | एतन्मूलक एव श्रीचक्रस्य मेरुप्रस्तारोपि | तेनैकस्मिंश्चक्रे भूपुरादिबिन्द्वन्ता उपर्युपरि नवभूमिकाः तासामधिपतयोपि त्रिपुरा चक्रेश्वर्यादिनामानो न वैव | ता अपि नवयोनिष्वेव सूक्ष्मरूपेण तिष्ठन्तीत्याह-चक्रे नवानां महीनामधिनाथा अपि कर्त्र्यो नवयोनीर्दधिरे इति || स्योना इति चक्रेश्वरीविशेषणं | सुखहेतुभूता इत्यर्थः | नवमुद्राः संक्षोभिण्यादि योन्यन्ता अपि इहैव स्थिताः | नवभद्रास्तु तन्त्रे विवृताः धर्माधर्मौ तथात्मानो मातृमेये तथा प्रभा | इति | पुण्यं पापं-आत्मा अन्तरात्मा परमात्मा ज्ञानात्मा प्रमाता प्रमेयं प्रमेति नवकं तदर्थः आत्मचतुष्टयस्वरूपविवरणमात्मोपनिषदि द्रष्टव्यं || चक्रं नवात्मकमिदं नवधा भिन्नमन्त्रकं | इत्युपबृंहणदर्शनात् | भद्रापदेन मन्त्रा वा ग्राह्याः || ते च नव चक्रेश्वरीमन्त्रा इति केचित् | सान्निध्यान्मुद्रामन्त्रा एवेति तु युक्तं | बिन्दुत्रिकोणवसुकोणात्मकचक्रत्रयरूपे संहारचक्र एव सर्वं श्रीचक्रं सूक्ष्मरूपेण तिष्ठतीति तु पिण्डितोर्थः | आपत्कालिकसंक्षिप्तपूजाप्रकारेषु वसुकोणादिबिन्द्वन्तभातृपूजाविधिर्यस्तन्त्रेषूपलभ्यते | तत्रेयमेव श्रुतिर्मूलं || अत्रसर्वत्रोपब्रह्मणानि तन्त्रपुराणवचनानि तु विस्तरभयान्नलिख्यन्ते || अथ दशारद्वयमन्वश्ररूपं स्थितिचक्रमुपदेष्टुं तृतीयामृचमाह (३) एका सा आसित् प्रथमासा नवासीत् आसोनविंशत् आसोनत्रिंशत् | चत्वारिंशदथतिस्रस्समिधा उशतीरिव मातरोमाविशन्तु || एकासासौदिति आभ्यो नवयोनिभ्यस्सूक्ष्म भूतानि पञ्च, स्थूल भूतानि पञ्चेति भूतदशकमभूत् | तेभ्यः स्थूलसूक्ष्मभेदेन शब्दादितन्गा?त्रदशकमभूत् तेभ्यश्च कर्मेन्द्रियाणि पञ्च, ज्ञानेन्द्रियाणि पञ्च, अन्तःकरणानि चत्वारि, इति चतुर्दशकमजायत || एतास्सर्वा अपि देवताः स्त्रीरूपत्वात् योनिरूपा एव | तदिदं सर्वे भूततन्मात्रदशकं प्रकाशालम्बेनत्वतः | द्विदशारस्फुरद्रूपं इत्यादिना तन्त्रे विवृतं | सैव प्रक्रिया पूर्वानुवादपूर्वकमिहोपदिश्यते | या प्रथमा सर्वजगत्कारणभूता सा एकैव पूर्वमासीत् बिन्दुचक्ररूपा | अथ नवासीत् नवयोन्यात्मना | अथोनविंशत् एकोनविंशातिस्वरूपा आस | नवयोनयोऽन्तर्दशारयोनयश्चेति | विंशदित्यादि छान्दसं | अथोनत्रिंशदास बहिर्दशारयोनीनां मेलनेन | अथ चत्वारिंशत्तिस्रश्च पूर्वासु च चतुर्दशमेलनेन त्रिचत्वारिंशद्योनिस्वरूपैकैव देवी जातेत्यर्थः | बिन्दुचक्रस्यान्तराकारत्वेन एकासासीदित्यस्य योन्याकृतीनां मध्ये अपरिगणनम् | समिधा समिद्धा देदीप्यमाना एतामातरोमाविशन्तु मां प्रविशन्तु | मच्छरीरस्यापि श्रीचक्ररूपत्वादिति स्तोत्रकृतः प्रार्थनम् || उशतीरिव-कामयमाना इव-वस्तुतो निष्कामत्वात् धेनवोपि वत्ससामीप्यमिच्छन्त्यः वनात् द्रुतं यच्चागोष्ठं प्रविशन्ति तथा एताः प्रविशन्त्वित्यर्थः इयमेव श्रुतिः चक्रन्यासविधीनां तन्त्रस्थानां मूलं | एतासामेव देवतानां स्वशरीरे न्यस्तव्यत्वात् | योगिन्यो यास्तु तास्सर्वा गेहं कुर्वन्तु मे वपुः इति शक्तिन्यासमन्त्रलिंगसंवादात्तस्यापि मूलं || अथ सृष्टिचक्रे अवशिष्टे वृत्तत्रयविशिष्ट पद्मद्वयमुपदेष्टुं चतुर्थी मृचमाह ऊर्ध्वज्वलदिति प्.१५) ४) ऊर्ध्वज्वलज्ज्वलनज्योतिरग्रेतमो नैतिरश्चीनमजरंतद्रजो भूत् | आनन्दनं मोदनं ज्योतिरिन्दोः एता-उवै मण्डलामण्डयन्ति || चतुर्दशारमधोधोहिपद्मे अष्टदलषोडशदलात्मके वर्तेते || तथोर्ध्वे कर्णिकावृत्तेबाह्यवृत्तमेकमेव | त्रीणि वृत्तानीति कतिपयसिद्धान्तः || अत एव ज्येष्ठारूपं चतुष्कोणं वामारूपं भ्रमित्रयं || इत्यत्र भ्रमित्रयपदस्य वृत्तत्रयान्तरालद्वयवर्तिपद्मद्वयलक्षकत्वेन प्राचामाचार्याणां व्याख्या युज्यते || वृत्तत्रितयसंयुतं सरोरुहद्वयं शाक्तैरग्निषोमात्मकं प्रिये | इति वचनेप्येषैव व्याख्या || तानि च वृत्तानि अग्निसोमसूर्यगुणत्रयरूपाणि इति प्रकृतायामृचिवर्णनेनैव तदन्तरालपद्मद्वयं वर्णितं वेदितव्यं || अक्षरार्थस्तु अग्रे स्थितिचक्रोत्तरचक्रेषु | प्रथमं तमो वै निश्चिततमोगुणात्मकं ज्वलननामकं ज्योतिर्मण्डलमभूत् | ऊर्ध्वज्वलदितिविशेषणेनाग्निज्वालारूपदृढीकारः || ऊर्ध्वभागे कज्जलदर्शनेन तमोरूपत्वदृढीकारश्च अत एव तेजोमयस्य तमस्त्वोक्तावसांगत्यशंकापरिहारायैव वै इत्यव्ययं | ततः परं तिरश्चीनं तिर्यक् प्रसारिज्योतिर्मण्डलं रक्तत्वाद्रजोगुणमभूत् | तच्च सूर्यरूपं अग्निसूर्ययोरूर्ध्वतिर्यक्प्रसृतेः प्रत्यक्षत्वात् | यदाहुरभियुक्ताः | गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः || इति अजरमिति विशेषणमग्नितो वैलक्षण्यदृढीकाराय | ततो मोदनं वैषयिकसुखोत्पादकं | इन्दोः ज्योतिर्मण्डलमभूत् | आनन्दपदेन सत्त्वगुणात्मकतोक्ता | सत्वाधिवयस्यैव ब्रह्मानन्दाभिव्यञ्जकत्वात् | उ. वै. इति कोमलामन्त्रणे | वै एवकरार्थे वा | एवं त्रीणिमण्डलानि वृत्तानि | एता मातॄः मण्डयन्ति शोभावतीः कुर्वत | वृत्तत्रयान्तरालवर्तिकमलयुगलविशिष्टं श्रीचक्रं कार्यक्षमं न केवलं मन्वश्रान्तमित्यर्थः | मन्वश्रादिबिन्द्वन्तपूजाया आपत्कालिकत्वादिति भाव || नवमं भूगृहात्मकं चक्रमुपदेष्टुं पञ्चमीमृचमाह तिस्रश्चरेखा इति || (५) तिस्रश्च रेखास्सदनाअनि भूमेः त्रिविष्टपास्त्रिगुणास्त्रिप्रकाशाः || एतत्पुरं पूरकं पूरकाणामत्र प्रथेते मदनो मदन्या || तन्त्रान्तरेषु कर्णिकावृत्तद्वयातिरिक्तानि पद्मद्वयाद्बहिः त्रीणि वृत्तानि विहितानि दृश्यन्ते | तत्पक्षे तिस्रश्च रेखा इत्येतावन्मात्रं वृत्तरेखात्रयपरं नेयं | न चैवं सति कर्णिकाद्वस्यैवावशेषेण मण्डलत्रयकथनासंगतिरिति वाच्यं | तन्त्रराजे मन्वश्राद्बहिर्मर्यादावृत्तस्याष्टदलवृत्तातिरिक्तस्य कथनेनास्याः श्रुतेस्तन्मूलत्वस्योपपत्तेः || भूमेस्सदनानि रेखास्तिस्र इति सामानाधिकरण्यं अक्लिष्टोऽर्थः || ता एव त्रिविष्टपा भुवनत्रयरूपाः | देवतावासभूमित्वात् स्वर्गरूपा वा | त्रिगुणाः गुणत्रयरूपाः, त्रिप्रकाशाः सूर्यचन्द्राग्निरूपवृत्तत्रयप्रकाशरूपाः || श्रीचक्रवर्णनमुपसंहरति एतदिति | सार्धचतुष्टयेन वर्णितं पुरं श्रीपुरमिव सपरिवारपरदेवतावासस्थानं चक्रं | पूरकाणां भक्तमनोरथपरिपूरकाणां शिवविष्ण्वादीनामपि पूरकं | मनोरथपरिपूरकं अत्र श्रीचक्रे मदनः शिवकामेश्वरः, मदन्या शिवकामसुन्दरी च प्रथेते स्वमयूखात्मकाणिमादिनानारूपविस्तारेण विलसत इत्यर्थः || मदनी आ इति छेदो वा पुंयोगलक्षणो डीष् || आप्रथेते इत्यन्वयः | छन्दसि परेपि, व्यवहिताश्च, इत्यभ्यनुज्ञानात् || क्षेत्रेषु विविधेषु नामभेदेन यानि देवीरूपाणि पुराणेषु तन्त्रेषु चोपलभ्यन्ते तानि सर्वाणि अस्या एवेत्युपदेष्टुं षष्ठीमृचमाह || (६) मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी शुद्धिमत्ता | लज्जामतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती || मदन्तिकेति | पद्मपुराणे देवीतीर्थपरिगणनावसरे कतिपयानि रूपाण्युक्तानि प्रयागे ललितादेवीत्यादि | लंकायां मंगला नाम त्रिकूटे भद्रसुन्दरी | करवीरेमहालक्ष्मीरुमादेवी विनायके || देवदारुवने पुष्टिर्मेधाकाश्मीरमण्डले | तुष्टिर्वत्सेश्वरे तथा इत्यादीनि अन्यान्यपि रूपाणि तत्र तत्रान्वेष्याणि || मदन्तिकेत्यादि चतुर्दशकं, वाराणस्यां विशालाक्षीस्यादौनामुपलक्षणं | यदेव किंचिद्देवीरूपं तेन लालप्यमानापि सैवेत्यर्थः || लालपन्तिपदं लालप्यमानापरं || प्रातिपदिकादुच्चरन्ती विभक्तिः प्रातिपदिकार्थे विशेषक इत्याहेति शाबरभाष्ये प्रयोगदर्शनात् | अथवा पञ्चदशाक्षराणां पञ्चदशेमादेवताः || शुद्धिमत्तेत्यत्र सिद्धिमित्याथर्वणपाठः || एवं वर्णिताया देवताया उपास्तिं विधातुं सप्तमीमृचमाह इमा विज्ञायेत्यादि || (७) इमां विज्ञाय सुधया मदन्ति परिस्रुता तर्पयन्तः स्वपीठम् | नाकस्य पृष्ठे महतो वसन्ति परं धाम त्रैपुरं चाविशन्ति || इमां पूर्वोक्तां परदेवतां विज्ञाय, विविविशेषपूर्वकं ज्ञात्वा गुरूपसदनदीक्षादिपूर्वकमुपास्तिं गृहीत्वा-स्वीकृत्य, स्वपीठं-स्वशरीराभीनं श्रीचक्रं, तत्र देवतां सावरणां सुधया परिस्रुता-पीयूषीकृतेन द्रव्येण, तर्पयन्तः-तर्षणाद्युपचारैः पूजयन्तो, ये मदन्ति- विषयभानप्रमोषपूर्वक स्वात्मैकविषयकनिर्विकल्पकवृत्तिभाजो भवन्ति | ते महतो नाकस्य पृष्ठे वसन्ति, त्रैपुरं परं धाम आविशान्ति चेत्यर्थः | अमृतीकरणं संस्कारान्तराणामुपलक्षणं तदभिमानिदेवतायास्सुधादेवीति संविच्च संस्कारमन्त्रवर्णादवगम्यते मन्त्रसंस्कारसंशुद्धं देवतामृतमुच्यते || इति रुद्रयामल च महानाकपृष्ठवासः त्रिविधपुरुषार्थफलोपलक्षकः | त्रिपुरायाः परं धाम तु मुक्तोपसृप्यं स्वरूपं, तेन मोक्ष उच्यते, सर्वान्कामान्मोक्षं चाप्नुवन्तीति भावः || एवं सर्वगताशक्तिस्सा ब्रह्मेति विविच्यते | सगुणा निर्गुणा चेति द्विविधोक्ता मनीषिभिः | सगुणारागिभिस्सेव्या निर्गुणा तु विरागिभिः || धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला | ददाति वाञ्छितानर्थानर्चिता विधिपूर्वकं || प्.१९) इति देवी भागवतेपि स्मरणात् | श्रीविद्यादीक्षितो द्रव्यवता स्वपीठार्चनेन निर्विकल्पकवृत्तिद्वारा सर्वान्कामान्भावयेदिति भावनाविशिष्टभावनान्तरविधिः पर्यवस्यति || सर्वथा मतिमान् दीक्षेत इत्यादि कल्पसूत्रादिगतविशेषणविधीनामियमेव श्रूतिर्मूलं | विज्ञाय तर्पयन्त इत्यधिकारिविशेषण त्वेन श्रुतमपि तर्पं फलभावनाकरणत्वेन संबध्यते हिरण्यदा अमृतत्वं भजन्ते इतिवदप्राप्तार्थकत्वाद्विधिशक्तिप्रतिबन्धाभावाच्च मन्त्रत्वेपि न विधित्वव्याघातः | वसन्ताय कपिञ्जलानालभेत्-प्रणीयादीन्नाथमाना यतव्यान् | आस्यजानन्तो नामचिद्विक्तन इत्यादि मन्त्राणामपि बहुशो विधित्वस्वीकारात्, वस्तुतो मदन्तीत्यस्य यदाग्नेयवाक्य इव लेट्त्वकल्यनया भावार्थाधिकरणन्यायेन चिद्देव्यभिन्नस्वात्ममात्रविषयकवृत्तिविशेषवाचकम- दधात्वर्थस्यैव करणत्वं || अन्तर्यागपदवाच्यतापि तस्यैव, यजतेः वृत्तिविशेषवाचकत्वात् परिस्रुतेति तु मत्वर्थलक्षणया धात्वर्थेनान्वेति भावनान्वितयोरुभयोररुणैकहायनीन्यायेन वा पार्ष्ठिकान्व्यः | प्रतिष्ठन्तीत्यस्येव नाकस्य पृष्ठ इत्यादेर्भाव्यसमर्पकत्वं, च कारेण फलसमुच्चयकथनात्, पूत एव तेजस्व्यन्नाद इन्द्रियावी पशुमान्भवति इत्यत्रेव संवलिताधिकारत्वं, अनेकेषां पुरुषार्थानां व्यासज्यवृत्तिफलत्वं इति यावत् || न पुनस्सर्वेभ्यः कामेभ्य इत्यत्रेव प्रत्येकपर्याप्तं तर्पणन्तु फलवदफलन्यायेनागं | इमां विज्ञायेति तु विद्वत्ताधिकारितावच्छेदको धर्मः | अत-एव कुलदीक्षाविहीनानां नाधिकारो द्विजन्मनां इति समयाचारस्मृतिरुपपद्यते || इह तर्पयन्त इति बहिर्यागविधौ प्.२०) वक्ष्यमाणे निवेदयन् स्वात्मीकृत्येति विधौ च शतृ ल्यप् प्रत्ययाभ्यां देवतानिवेदनस्वात्मीकरणयोस्समानकालिकत्वकथनात् दिव्यपानविधावेव श्रुतिस्वारस्यं, न वीरपानविधौ, तेन पानन्तु त्रिविधं प्रोक्तं दिव्यवीर पशुक्रमैः | दिव्यं देव्यग्रतः पानं वीरमुद्वासने कृतम् || इति स्मृतेर्मूलश्रूत्यन्तरमन्वेष्यं | पुरुषार्थनिषेधास्तु रागप्राप्तैकविषयकत्वात् क्रत्वर्थंत्वेन विहितेषु न प्रवर्तन्त एव || येन केनाप्युपायेन शिवे चित्तं निवेशयेत् | तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् || इत्यादिपौराणवचसां ईदृशाशय एव स्वारस्यात् स्पष्टानां तत्र वचसांक्रत्वर्थतया सर्ववर्णोद्देशेन विधायकानां बहुलमुपलंभात्, तेषाञ्चेदृशानेकप्रत्यक्षश्रुतिमूलकत्वेन बलाबलचिन्तानवकाशादिति दिक् || एवं पररूपोपास्तिं विधाय सूक्ष्मरूपोपास्तिविधित्सया अष्टमीमृचमाह | (८) कामो योनिः कमलावज्रपाणिर्गुहाहसामातरिश्वाभ्रमिन्द्रः | पुनर्गुहासकलामायया च पुरूच्येषां विश्वमाताऽदिविद्या || कामोयोनिरिति || इह पञ्चदशाक्षरो मन्त्र उद्ध्रियते स च स्त्रीदेवत्यत्वाच्चिद्रुपत्वाच्च विद्यापदेनोच्यते || तादृश्यपि वेदमाता गायत्री कण्ठरवेण पठ्यते | अस्य तु प्रत्यक्षरं तद्वाचकपदमन्तेरण कतिपयानां निर्देशादतिरहस्यत्वं मन्त्रस्य, तद्द्वारा तदधिकारिककर्मणां च तथात्वं ध्वनितं || किं बहुना गायत्र्यप्यादिविद्योद्धारिकैवेति त्रिपुरातापिन्था स्पष्टं प्रदर्श्यते, भागवतप्रथमश्लोकोपि एवमेवोपबृंहयति सर्वचैतन्यरूपान्तामद्यांविद्यां च धीमहि, बुद्धिं यानः प्रचोदयात् इति || अतिरहस्यत्वादेवनाथचरणैकावगमनीयोयं मन्त्रः | मातरिश्वाकामश्चचतुर्मुखवाचकमक्षरं, कमलायोनीचतुर्थैकादशस्वरौ, इन्द्रवज्रपाणी तृतीयमन्तस्थाक्षरं, गुहामाये भुवनेश्वरीबीजं, अभ्रं तस्या एवाद्यमक्षरं हकारः, शेषपञ्चकं स्वरूपं, एषा आदिविद्या पुरूची पुरातनी, विश्वमाता जगज्जनयित्री विद्याक्षरैर्जगदुत्पत्तेर्योगिनीहृदये सम्प्रदायार्थप्रकरणे सविस्तरं वर्णनात्, मन्त्रार्थस्तु दत्तात्रेयागस्यादिभिर्बहुभिस्तन्त्रभेदेन बहुधोक्तः | स चास्माभिर्वरिवस्यारहस्ये यथामति संगृह्य दर्शित इति तत- एवावगन्तव्यम् || कामराजोपासितां विद्यामुपदिश्य लोपामुद्रोपासिता विद्यामुपदेष्टुं नवमीमृचमाह षष्ठसप्तममिति || (९) षठं सप्तममथवह्निसारथिमस्यामूलत्रिकमादेशय-न्तः | कथ्यं कविं कल्पकं काममीशं तुष्टुवांसोऽमृतत्वं भजन्ते || अस्या एव विद्याया मूलत्रिकं प्राथमिकमक्षरत्रयमुन्मूल्येति शेषः तत्स्थानेपि षष्ठादिवर्णत्रयमेव निवेशयन्तो जापकाविद्याद्वयान्यतरेण ईशं शुद्धसत्त्वोपाधिकं परशिवं, तुष्टुवांसः स्तुवन्तः, जपन्तः अमृतत्वं भजन्ते विद्याजपेन मोक्षं भावयेदित्यर्थः ईशं विशिनष्टिकामं, सो कामयत्र बहुस्यां प्रजायेयेति श्रुतिप्रतिपाद्यात्वेनेक्षत्यधिकरेणे निर्णीतं, कल्पकं जगत्कल्पनाधिष्ठानं जन्माद्यधिकरणोक्तं कविं वेदप्रणेतारं कथ्यं, वेदवेद्यं शास्त्रयोनित्वाधिकरणे वर्णकद्वयेनोक्तं, परं ब्रह्मैवेति तु विशेषणसमर्पितोर्थः | अजरापुराणीत्यादिभिर्ब्रह्मलिंगैः इह पुंलिंगैः वक्ष्यमाणकामकलाध्यानगतस्त्रीलिंगैश्च परदेवतायास्त्रिविधं ध्यानं विहितं भवति, तथाचोपबृंहितं कुलार्णवे पुंरूपं वा स्मरेद्देवीं स्त्रीरूपं वा विचिन्तयेत् | अथवा निष्कलं ध्यायेत्सच्चिदानन्दलक्षणं इति || यद्यपि परोपास्तौ निष्कलं, जपे पुंरूपं, बहिर्यागे स्त्रीरूपं, ध्येयमिति व्यवस्थापि सुवचा, तथापि स्त्रीपुंसयोः समप्राधान्यस्य वक्ष्यमाणत्वात् सम्प्रदायाच्चैछिक एव विकल्पः || मनुचन्द्राद्युपासिताविद्यानां अन्यासामपि त्रिपुरातापिन्यामुद्धारदर्शनेपि प्रकृते द्वयोरेवोद्धारः तास्वेनयोराधिक्यध्वननार्थः | अत एव ज्ञानार्णवे द्वादशविधविद्या उद्धुत्य | विद्याद्वयमिदं भद्रे देवानामपि दुर्लभम् || इत्यादिनोपबृंहितं || अनयोरपि मध्येकादिविद्याया एव प्.२३) प्रथममुद्धारादाधिक्यध्वनिः अत-एव श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथापरा | इति ब्रह्माण्डोपबृंहणं, वस्तुतस्सर्वासां विद्यानामभेदात् तारतम्योक्तिः प्रशंसामात्रमिति समर्थितं सेतुबन्धग्रन्थे अस्माभिः || अत-एव श्रीमदाचार्यभगवत्पादैः वैपरीत्येनानयोरुद्धारः प्रदर्शितः सौन्दर्यलहर्यां | तत्रापि प्रकृतश्रुत्यानुगुण्याय शिवशक्तिकामपदानां अन्यथा व्याख्यानं कतिपयानां क्लिष्टत्वान्निरर्थकत्वाच्च नादर्त्तव्यं || अत्रान्तर्यागस्यैव प्रकरीणत्वेन तदीयद्रव्यानुवादेन गुणान्तरसमुच्चयस्य द्वादश्यामृचिविधास्यमानत्वेन प्रकरणानुवृत्तेर्वक्तव्यतया तन्मध्यपतितस्य जपस्य प्रकरण्यन्तर्यागांगत्वात् अमृतत्वं भजन्ते इति अपापश्लोकश्रवणवत् अर्थवादः || मन्त्रेपि विधित्वस्येवार्थवादत्वस्यापि स्वीकारे बाधकाभावात् | तिस्रः पुर इत्यादेस्तु अन्तर्यागविधिशेषत्वेपि नार्थवादत्वं || विधिशेषत्वस्यार्थवादत्वव्याप्यत्वे मानाभावात् अर्थवादत्वेपि वा भूतार्थवादत्वेन स्वार्थे प्रामाण्याच्च, न च द्वादश्यामृचि स्थूलोपास्तिर्भिन्नैव बहिर्यागरूपा विधीयत इति वाच्यं तथापि पञ्चदश्यामृचि मदधात्वर्थविवरणेनोपसंहारदर्शनात् प्रकरणानुवृत्तेर्दुर्वारत्वात् || वस्तुत उपास्तित्रयस्य समप्राधान्यमेव, || विधित्रयेपि फलश्रवणेनान्यतमस्य प्रकरणित्वकल्पने विनिगमनाविरहात् || आग्नेयादिषट्कस्येव मिलितानामेव च फलजनकत्वं, अन्तर्यागबहिर्यागौ गृहस्थस्सर्वदाऽचरेत् | चक्रराजार्चनं देव्या जपो नाम्नाञ्च कीर्तनं || प्.२४) भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः || इत्यादि वचनात् || अधिकारिविशेषेण केवलान्तर्यागजपयोः फलजनकत्वं तु वचनात् | असोमयाजिनोग्नीषोमीयपुरोडाशसाहित्याभावेपि फलसिद्धिवदित्यादिकं न्यायविद्भिरूह्यम् || इति नवमी ऋक् | अथस्थूलोपास्तिविधित्सयामूलदेवताया अन्तस्सगुणत्वेन चिन्तितायाः बहिश्चक्रे स्थापनाय स्थूलरूपविशेषं निर्देष्टुं दशमीमृचमाह || (१०) त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाऽस्वरमध्यं तदीले || बृहत्तिथीर्दशपञ्चादिनित्या सा षोडशीपुरमध्यं बिभर्ति || त्रिविष्टपमिति || रेखापदोत्तरं षोडशस्य विसर्गस्वरस्य प्रश्लेषः | नवरेखासु-नवयोनिघटिकासु, अः इति स्वरस्थानीयो मध्यो यस्य तत्, यद्वा नवसंख्यारेखा यस्य तत् नवरेखं संहारचक्रं तस्य अस्स्वरोप लक्षितं स्थानं मध्यं यस्यतत्, अः इत्याकार एव स्वरो यस्मिंस्तत् अः रवरमिति वा विग्रहः तादृशं त्रिमुखं-त्रिकोणं, मध्यत्रिकोणमितियावत् तत् विश्वमातु-स्त्रिपुरसुन्दर्या स्त्रिविष्टपं-निवासस्थानं, पूजास्थान मितियावत् || स्वर्गस्य देवतावासभूतत्वेन तद्वाचकपदेनात्र स्थाननिर्देशः || तदीले-इति स्तोतुर्वाक्यं द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते सडकारो लकारः | इति प्रातिशाख्यविधितो डकारस्य लकारः संजातः | इयमेवोपनिषदाथर्वणैरपि पठ्यते | तत्पक्षे न दुस्स्पृष्टादेशः इति व्यवस्था | अस्स्वरस्यमध्यमत्वोक्त्यैव इतरेषां पञ्चदशस्वराणां रेखात्रये बिन्दुसमितः समस्याश्रुतत्वादिति न्यायेन पञ्च पञ्चधा विभज्यावस्थानं ध्वनितं || तत्त्रिकोणं बृहत्, विभावितं सत् दशपञ्चतिथीः दशपञ्चतिथिदेवताः नित्याः कामेश्वर्यादिचित्रान्ताः बिभर्ति-दक्षिणोर्ध्वोत्तररेखासु स्वस्वस्थाने पञ्चपञ्चनित्याः पूजनीयाः इति भावः | तदुपबृंहितं ज्ञानार्णवे, विभाव्य च महात्र्यस्रमग्रदक्षोत्तरक्रमात् | रेखासु व्लिखेत्पश्चात् पञ्च पञ्चक्रमेणह || अकाराद्यानुकारान्तान् दक्षिणायां विचिन्तयेत् | ततश्च पूर्वरेखायां दीर्घकर्णादिपञ्चकं || विलिख्योत्तररेखायां शक्त्यादिविलिखेत्ततः | अनुस्वारान्तमध्ये च विसर्गे षोडशीं यजेत् || इति || चन्द्रस्य कलावृद्धिक्षयशालिन्यः पञ्चदश ता एव हि तिथयः दर्शाद्याः पूर्णिमान्ताश्च कलाः पञ्चदशैवतु || इत्यादिना तन्त्रे निर्दिष्टाः | दर्शादृष्टादर्शता इत्यादिना तैत्तिरीयै राम्नाताश्च | एतासां कारणभूता वृद्धिक्षयशून्या सादाख्या षोडशी कला || सा च पञ्चदशानां नित्यानां कारणत्वादादिनित्येत्युच्यते | सा पूर्वं वर्णिता त्रिपुरसुन्दरी आदिनित्यास्वरूपासती पुरस्य श्रीचक्रस्य मध्यं, विसर्गस्वरस्थानं बिभर्ति-अध्यास्ते | प्रकाशविमर्शरूपाकारहकारव्यञ्जकत्वात् वौडशस्वरस्य तदात्मकताया युक्तत्वादिति द्रष्टव्यं || प्रसंगात्काम्यं कामकलाध्यानं बहिर्यागाश्रितमुपदेष्टुं एकादशी मृचमाह || प्.२६) (११) द्वामण्डला द्वास्तना बिम्बमेक्रं मुखं चाधरत्रीणि गुहासदनानि || कामीं कलां काम्यरूपां विदित्वा नरो जायते कामरूपश्च काम्यः || द्वामण्डलेति | द्वौ मण्डलौ द्वौस्तनौ | एकं बिंबं, मुखं | त्रीणि सदनानिभूगृहाणि | गुहा-हकारार्धरूपा | यद्यपि बिंबोऽस्त्रीमण्डलं त्रिष्विति कोशेन बिंबपदस्यापि मण्डलवाचकत्वेन चतुर्थ्यामृचि वर्णितानां त्रयाणां मण्डलानामेवैष विभागः | तत्रापि वह्निसूर्यमण्डलावेव स्तनौ बिंबपदस्वारस्यात्, पाठक्रमात् तदधस्तनमेव भूपुरं हकारार्धं इति स्पष्टं प्रतीयते | सन्तिव्यक्तं तान्यपि कामकलारूपाणि बहुविधानि तन्त्रेषु तत्र तत्र निर्दिष्टानि | तथापि भगवत्पादैः, मुखं बिन्दुं कृत्वा कुचयुगमधस्तम्यतदधो | हरार्धं ध्यायेत् इत्युपबृंहणात् || अर्थक्रमेण पाठक्रमबाधात् बिम्बपदं बिन्दुपरं सत् बिन्द्वादिमन्वश्रान्तचक्रगणपरं || मण्डलत्रयरुपन्तु चक्रं शक्त्यनलात्मकं || इति सुन्दरीश्लोके मण्डलपदस्य दशारादिचक्रपरत्वेनापि व्याख्यानदर्शनात्, बिन्द्वादिमण्डलानां षण्णां एकावयवित्वेन विभावनाय एकमिति पदं || द्वामण्डलेत्यष्टदलषोडशदलचक्रद्वयपरं, इति योज्यं | इदमवयवत्रयकथनं सर्वावयवोपलक्षणं | वस्तुतश्शरीरेपि त्रय एवावयवाः शीर्षादिघण्टिकान्तः, कण्ठादिस्तनान्तः, हृदयादि सीविन्यन्तश्च, केशपाणिपादन्तु तत्तछाखा इति | एवं सर्वचक्रात्मना परिणतां, कामीं, कामेश्वरात्मकमन्मथसम्बन्धिनीं कलां, चित्कलां | काम्यरूपां-कमनीयस्वरूपां, विदित्वाध्यात्वा चिकित्वेति शाखान्तरपाठः | नरः उपासकः, कामरूपोमन्मथ- सुन्दरः सद्यः सकलवनिताक्षोभकरो जायते || अत्यल्पमिदमुच्यत इत्याह काम्य इति अविशेषेण श्रवणात् त्रिभुवनान्तर्वर्तिसकलजनैरभिलषणीय स्वरूपश्च भवति | तदुक्तं भगवत्पादैः- ध्यायेद्योहरमहिषिते मन्मथकलां || ससद्यस्संक्षोभनयतिवनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रविन्दुस्तनयुगां || इति || कामरूपत्वकाम्यत्वकामः कामकलां ध्यायेदिति गुणफलसंबन्धविधिः | अत्र फलार्थतया विधेयस्य ध्यानस्य स्वतः क्रियारूपस्याश्रयान्तरानपेक्षतया श्येनक्रत्वादेस्सौमिकांगसंवलितत्वस्येव बहिर्यागांगसंवलितत्वस्याप्यभावेन बहिर्यागाद्बहिरप्यनुष्ठानात् फलमिति तु भगवत्पादाशयः | बिन्दुं संकल्प्य वक्त्रन्तु तदधस्थं कुचद्वयं || तदधस्सपरार्धन्तु चिन्तयेत्तदधोमुखं || इति नित्याषोडशिकार्णवे || क्रतुप्रकरणस्थविधिनास्य ध्यानस्य क्रत्वर्थत्वमपि स्मर्यत इति चेत् किन्तावता अन्नाद्यकामनाफलकावेष्टेरिव फलार्थिनो बहिः प्रयोगस्याप्यक्षतत्वात्, अत एव भगवत्स्मरणमुपक्रम्योक्तं शाण्डिल्यभक्तिसूत्रे | बहिरन्तरस्थमुभयमवेष्टिसववदिति || बहिर्यागद्रव्याणि बहिर्यागद्रव्यप्रतिपत्तिञ्च विधातुं द्वादशीमृचमाह || प्.२८) (१२) परिस्रुतं झषमाद्यं पलं च भक्तानि योनिः सुपरिष्कृतानि || निवेदयन् देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेति || परिस्रुतमिति || झषोमत्स्यः | पलं मांसं, तस्य झषत्याद्यं परिस्रुतम्, प्रथमस्योत्तरं द्वितीयमित्यर्थः | तेनझषस्तृतीयः भक्तानि, वटकचणकादि मुद्गाद्यात्मकानि नानाविधान्यन्नानि || चतुर्थं योनिपदं कुण्डगोलोद्भवोपलक्षणं तत्पञ्चमं | योनीरिति बहुवचनन्तु ब्राह्मणक्षत्रियादि कतिपयजातिभेदाभिप्रायं || तदुपबृंहणं कलाष्टकादिपदेन तन्त्रेषु द्रष्टव्यं | चकारः पञ्चानां समुच्चयपरः | पलस्य झषोत्तरं पठितस्यापि झषात्पूर्वं आद्यपदेन निवेशात् मकाराणां क्रमो विवक्षितो ध्वन्यते | तेन मुख्यालाभे प्रतिनिधिभिरर्चनस्य न्यायेन मपञ्चकालाभेपि नित्यक्रमप्रत्यवमृष्टिः इति || कल्पसूत्रेण च सिद्धत्वेपि पूर्वपूर्वालाभेसति नोत्तरोत्तरस्य मुख्यस्य लाभेपि ग्रहणमिति द्योतितं || प्रथममात्रालाभेपि चतुर्थस्य नैवेद्यार्थमावश्यकत्वात् तावन्मात्रग्रहणं सम्प्रदायलभ्यं || आज्यमिति शाखान्तरीयपाठे घृतमेवार्थः | तत्र पक्वमित्यर्थेन तत् काकाक्षिगोलकन्यायेनोभयोर्विशेषणं | अजसम्बन्धीति व्याख्या तु न युक्ता तन्त्रे विकारार्थकस्य दर्शनात् सूत्रोकातानां पञ्चत्वादीनां परिसंख्यापत्तेश्च परदेवतातर्पणमात्रपर्याप्तमात्रस्य लाभेपि न प्रतिनिधिनायागः || बहिर्यागे स्वात्मीकारस्य प्रतिपत्तित्वेन तल्लोपेपि बाधकाभावादित्यादिकन्तु षाष्ठन्यायसिद्धमूहनीयं || सुपरिष्कृतानि दृष्टादृष्टसंस्कारैस्संस्कृतानि ते च पाकादिरूपालौकिकाः शापमोचनादिरूपा वैदिकाश्च बहवस्तन्त्रेषु प्रसिद्धाः || बह्वल्पं वा स्वगृहयोक्तरिति न्यायेन कल्पसूत्रोक्तमात्रा वा, महत्यै देवतायै महादेव्यै निवेदयन्, यजन् सुकृतीबहिर्यागकर्ता, तानि स्वात्मीकृत्य स्वयमपि भक्षयित्वा, सिद्धिं, यागफलं, एति प्राप्नोति, परस्परसमुच्चितप्रथमादिमपञ्चकवता यागेन महादेवीदेवताकेनेष्टसिद्धिं भावयेदिति विधिपर्यवासानादिप्रकारोन्तर्यागविधिवदेव द्रष्टव्यः | देवतायास्सगुणध्यानं क्रत्वंगमुपदेष्टुं त्रयोशीं ऋचगाह || (१३) सृण्येवसितयाविश्वचर्षणिः पाशेन प्रतिबध्नात्यभीकान् || इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या || सृण्येवसितयेति | इत्थंभूतलक्षणे तृतीया | सितया श्वेतया रजतमयया सशयोरभेदान्निशितया तीक्ष्णधारया वा | सृण्या अङ्कुशेन, इवोपलक्षिता विश्वजन्या, विश्वं जन्यं यस्यास्सा विश्वजगज्जननी अरुणा, लौहित्यवती आदिशक्तिर्महात्रिपुरसुन्दरी विश्वचर्षणिः प्राणिमात्रस्य शुभाशुभकर्मद्रष्ट्रीसती, अभीकान् कामुकान्, तृष्णया, लौल्येनेह मार्गे प्रवर्तमानान्भ्रष्टान् पाशेन प्रतिबध्नाति पाशेन तान्बध्वा धनुषा पञ्चभिरिषुभिः बाणैर्विध्यति च अधःपातयतीति यावत् तृष्णाहीनान्वैधधिया प्रवर्तमानान् ऊर्ध्वं नयतीति तु विधिसिद्धमेवेति पुनर्नोक्तं, तदुक्तं || प्.३०) विधिबुध्यैव सेवेत तृष्णया चेत्सपातकी | यैरेव पतनं द्रव्यैर्मुक्तिस्तैरेव चोदिता | अभीकस्यानभीकस्येत्येवमेते व्यवस्थिताः || इत्यादि | सृण्येवेति द्विविधा सृणिर्भवति भर्ता च हन्ताचेति तु यास्कः इव शब्दस्सर्वत्रान्वितस्सन् सगुणरूपस्य भक्तानुग्रहार्थं कल्पितत्वेन निर्गुणरूपस्यैव पारमार्थिकत्वं व्यजयति || सगुणस्य कल्पितत्वादेव स्त्रीपुंसयोस्समप्राधान्यमुपदेष्टुं चतुर्दशीमृचमाह भगश्शक्तिरिति || (१४) भगश्शक्तिर्भगवान्काम ईश उभादाताराविहसौ भगानां || समप्रधानौसमसत्वौ सभोतयोस्समशक्तिरजरा विश्वयोनिः || भगोविमर्शपर्यायः, ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा || इत्यादि स्मृतिभिः ईश्वरत्वशरीरघटको यावान्धर्मराशिः स सर्वोपि भगपदेनेह निर्दिष्टः | तादृशो धर्मसमूह एव शक्तिरित्युच्यते || उपास्यत्वेन वर्णितायाः स्त्रीरूपाया देवताया इदं स्वरूपं || तदुक्तं, नागानन्दसूत्रे, प्रकाशात्मनो ब्रह्मणः स्वभावात्मकविमर्शं प्रकम्य, एष एव विमर्शश्चितिश्चैतन्यमात्मा स्वरसोदिता परावाक् स्वातन्त्र्यपरमात्मौन्मुख्यमैश्वर्यं सतत्वं सत्ता स्फुरत्ता सारो मातृका मालिनी हृदयमूर्मिः स्वसवित्स्पन्दः || इत्यादिशद्बैरागमैरुद्घुष्यते इति || एतेषां धर्मविशेषाणां विवरणं तद्भाष्य एव द्रष्टव्यं || भगवान् तादृशधर्मसमूहविशिष्ट एव | काम ईशः कामेश्वरः इदमेवोपास्यदेवतायाः पुमात्मकं रूपं | इहोपासनाया सौभगानां धर्मार्थकामरुपाणां विविधफलानां दातारौ उभावपि एकस्या एव देवताया द्वेधापि सगुणध्याने त्रिवर्गसिद्धिरित्यर्थः || समप्रधानौसमसत्त्वौ सत्त्वशद्बो गुणपरः तेन परस्परगुणगुणिभावापन्नावित्यर्थः | कामेश्वर्यः कामेश्वराङ्कनिलयत्वेन ध्याने शिव आधारत्वाद्रुणः शक्तिः प्रधानं, शिवस्यार्धाम्बिकासमायुक्तत्वेन ध्याने करशीर्षाद्यवयवविशेषरूपत्वात् शक्तिर्गुणः, शिव एव प्रधानमितिभावः | एवमभिमतफलदानसामथ्यस्यान्योन्यगुणप्रधान- भावस्य च साम्येपि जगत्कर्तृत्वांशः शक्तिनिष्ठ एव, तेन स्त्रीरूपध्यानेनैव शीघ्रं फलसिद्धिरिति ध्वनयन्नाह समोतयोरिति सम्यक्परस्पराभेदेन ओतयोर्मिलितयोरर्धनारीश्वररूपयोश्शिवशक्त्योर्मध्ये समशक्तिः सर्वशक्तिः निखिलधर्मसमूहात्मिका देव्येव विश्वयोनिर्जगक्तर्त्री | तथा च शक्तिसूत्रं चितिःस्वतन्त्राविश्वसिद्धिहेतुरिति समशब्दः उरुष्याणो अघा यतः समस्मात् इत्यादौ प्रसिद्धः सर्वपर्यायः | अजरेति विश्वयोनित्वांशे विशेषणं जगत्कर्तृत्वं प्रत्यक्षादिप्रमाणसिद्धत्वेन शङ्काकलङ्कराहित्यादृतमित्यर्थः | तदुक्तं भागवते शक्तिः करोति ब्रह्माण्डं सावै पालयतेखिलं | इच्छया संहरत्येषा जगदेतच्चराचरं | प्.३२) न विष्णुर्नहरो नेन्द्रो न ब्रह्मा न च पावकः | नार्को न वरुणश्शक्ताः स्वे स्वे कार्ये कथञ्चन || तया युक्ता हि कुर्वन्ति स्वानि कार्याणि ते सुराः | कारणं सैव कर्येषु प्रत्यक्षेणावगम्यते || इति || अन्यत्रापि शिवोपि शवतां याति कुण्डलिन्या विवर्जितः | शक्तिहीनोपि यः कश्चिदसमर्थः स्मृतो बुधैः || इत्यादि विशेषस्सेतुबन्धे द्रष्टव्यः | तेन शिवस्य विद्यमानमपि फलदातृत्वादिकं शक्त्यधीनत्वाद्द्विलम्बितं | शक्तेस्तु निरपेक्षत्वादविलंबितं इति शीघ्रसिद्धिकामैः स्त्रीरूपैव देवता ध्यातुं युक्तेति भावः | एव सगुणध्यानमुक्त्वा निर्गुणध्याने वक्तव्यांशाभावात्तज्जन्यफलं तज्जननप्रणालिकाञ्चोपदेष्टुं पञ्चदशीमृचमाह परिस्रुतेति || (१५) परिस्रुताहविषापावितेनप्रसंकोचेगलितेवै-मनस्तः || सर्वः सर्वस्य जगतो विधाता भर्ता हर्ता विश्वरूपत्वमेति || कर्ममार्गज्ञानमार्गभक्तिमार्गेषु तत्तच्छास्त्रप्रवर्तकैः प्रणाडिका नानाविधाः परस्परविलक्षणा उक्ताः | तास्सर्वा अपि दुस्साधाश्चिरकालफलप्रदा इति तु तत्तच्छास्त्रविदां स्पष्टमेव || अत्र तु द्रव्यस्वीकारैरावर्त्यमानैरुल्लासपरम्परैव प्रणाडिका | तत्र प्रौढोल्लासपर्यन्तं समयाचारिकृता धर्माः, तदन्तोल्लासे याथाकाम्यं, चरमोल्लासे ब्रह्मस्वरूपतेति || तथा च कल्पसूत्रम्, आरम्भतरुणयौवन प्रौढतदन्तोन्मनाऽनवस्थोल्लासेषु प्रौढान्तं समयाचारः ततः परं यथाकामीति | उल्लाससप्तक लक्षणानि कुलार्णवादिषु द्रष्टव्यानि | यद्यपि प्रतिदिनं सुषुप्तिदशायां ब्रह्मस्वरूपतावाप्तिर्जायत एव | तदानीं मनसो विलीनत्वात् तथाप्यविद्यापरिणामविशेषरूपया निद्रया संवलितत्वान्नसा पुरुषार्थः | निद्राराहित्येन तादृशी दशा तु पुरुषार्थ एव | यां ज्ञानभूमिकासु सप्तमीं मन्यन्ते ज्ञानिनः | याञ्च निर्विकल्पकसमाधित्वेन व्यवहरन्तोनुभवन्ति योगिनः सैवोन्मनोत्तरानवस्थोलासेपि योगिभिरनु भूयते, तदुक्तं, आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं | तस्याभिव्यञ्जकं द्रव्यं योगिभिस्तेन पीयते || इति || कल्पसूत्रे तु तस्याभिव्यंजकाः पञ्चमकारा इत्युक्तम् || परन्तु तदेव द्रव्यमयज्ञांगञ्चेदपवित्रं पीतं तदा पुरुषार्थनिषेधप्रवृत्या पापेन प्रतिबद्धं न तां दशामुत्पादयितुं क्षमं, मन्त्रैः पावितं हवीरूपमेव तु समाधिदशामुत्पादयति | तदुक्तं समयाचारस्मृतौ | असंस्कृतं पशोः पानं कलहोद्वेगपापकृत् | मन्त्रपूजाविहीनं यत्पशुपानं तदेव हि || पशुपानविधौ पीत्वा वीरोपि नरकं व्रजेत् | संस्कृतं बोधजनकं प्रायश्चित्तं च शुद्धिकृत् || मन्त्राणां स्फुरणन्तेन महापातकनाशनम् | आयुः श्रीः कान्तिसौभाग्यं ज्ञानं संस्कृतपानतः || अष्टैश्वर्यं खेचरत्वं पतनं विधिवर्जितं | प्.३४) सौत्रामण्यां कुलाचारे मदिरां ब्राह्मणः पिबेत् | अन्यत्र ब्राह्मणः पीत्वा प्रायश्चित्तं समाचरेत् || इत्यादि | परन्तु वरं प्राणाः प्रगच्छन्तु ब्राह्मणो नार्पयेत्सुरां | ब्राह्मणो मदिरां पीत्वा ब्राह्मण्यादेव हीयते || इत्यादि शक्तिसंगमतन्त्रराजादिवचनैर्निषिद्धत्वात् | इह धर्मपाशनिरसनोपायस्सम्प्रदायादेवावसेयः || व्यवस्थाप्रकाराश्च कौलोपनिषद्भाष्ये अस्माभिः प्रदर्शिताः | ततश्च तदधिकारिणां तादृशैरुल्लासैरन्तःकरणावच्छिन्नस्य जीवात्मनोऽन्तःकरणोपाधिकृतसंकोचापनये सति ब्रह्मभावे किमवशिष्यते | न च द्रव्योल्लासस्यागमापायित्वेन न तावतैव कृतार्थतेति वाच्यं | अस्य पर्यनुयोगस्य समाधावपि तुल्यत्वात् | अथ तत्र पवननियमनादिभिरुपायैः पुनः पुनस्समाधिप्रवेशनेन चिराभ्यासपाटवेन कतिपयदिवसोत्तरं विनापि पवननिरोधं सार्वकालिकस्समाधिरुत्पद्यते | समुद्रे नौकामारुहय गच्छतां तत्कल्लोलैस्सुचिरमान्दोलितवतां नौकावरोहणेप्यान्दोलनानुवृत्तिदर्शनात् इति चेत्तुल्यं प्रकृतेपि || संस्कृतद्रव्यपानजन्योन्मन्यावस्थाभ्यासपाटवेन विनापि द्रव्यं कतिपयदिवसैस्तादृशदशाया अकृत्रिमायास्सिद्धेः | अक्षरार्थस्तु पावितेन, मन्त्रसंस्कारसंस्कृतेन हविषा-देवीपूजाशेषभूतेन, परिस्रुता-पीयमानेन, मनस्तः-अन्तःकरणाज्जाते संकोचे- अत्मनः परिच्छेदे, प्रगलिते-निर्व्युत्थानं विलीने सति, उन्मन्युल्लासोत्तरानवस्थायामिति यावत् || वै निश्चयेन सर्वः सर्वात्मको भवति | तेन स्वामैकविषयकनिर्विकल्पकवृत्तिजनको मद एवान्तर्यागविधायकवाक्ये धात्वर्थ इत्युपसंहृतं भवति | अनेनैवाशयेन तन्त्रे मत्तस्य बहुविधता प्रतिपाद्यते || प्.३५) रमन्ते कामुका मत्ताः मत्ताः कुप्यन्ति कोपिनः | गायन्ति गायका मत्ताः मत्ता ध्यायन्ति योगिनः || इति || तेन योगविशेषोप्येतत्सहायत्वेनाक्षिप्तः || सर्वात्मकत्वमेव विवृणोति सर्वस्य जगतो विधाता ब्रह्मा | भर्ताविष्णुः हर्तारुद्रश्च स एव किं बहुना दासदाशकितवादिप्राणिमात्ररूपस्स एव भवति इत्याह विश्वरूपत्वमेति इति || शरीरपातस्तु प्रारब्धवशाद्यदाकदापि यत्र क्वापि भवतु न तावतास्य कोपि विशेषः || कृतकृत्यत्वादिति भावः | उक्तं च कल्पसूत्रे इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरं सजीवन्मुक्त इति || इत्थं त्रैपुरसिद्धान्तं कथितमुपसंहरन्नेतदध्ययनादपि फलमस्तीत्युपदेष्टुं षोडशीं यजुरन्तामृचमाह इयं महोपनिषदिति || (१६) इयं महोपनिषत् त्रिपुराया यामक्षरं परमेगीर्भिरीट्टे | एषर्ग्यजुः परमेतच्च सामेवाऽयमथर्वेयमन्या च विद्योम् || इत्युपनिषत् || उपबृंहितञ्चैतत् कल्पसूत्रकृता भगवता श्रीपरशुरामेण य इमां दशमखण्डीं महोपनिषदं महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवतीति हि श्रूयते इत्युपनिषत् इति शिवमिति | प्.३६) एतेनास्यां महोपनिषदि ये अकथिता अपेक्षिता अर्थाः ते कल्पसूत्राद्ग्राह्याः | कल्पसूत्राधिकरणे शाखाभेदेन विप्रकीर्णानामगानामुपसंहारसमर्थान्प्रत्येव प्रयोगशास्त्रस्य प्रामाण्यसमर्थनादिति सिध्यति || अक्षरार्थस्तु इयं त्रिपुराया महोपनिषत् रहस्यप्रतिपादकवाक्यसन्दर्भरूपा पठनीयेति शेषः | तत्र हेतूनाह यामित्यादिना परममक्षरं ब्रह्म कर्तृ यामिमां उपनिषदं गीर्भिः स्तुतिवाग्भिः र्-इट्टे स्तौति र्- इडस्तुतावित्यस्य रूपं | परमे इति सोश्शे आदेशः | यां ब्रह्मेति पदयोर्व्यत्यासेन प्रथमाद्वितीयान्ततास्वीकारेणोपनिषत्कर्तृकब्रह्म- कर्मकस्तु-तिर्वा | परमेश्वरेणापि स्तुतत्वात् तत्स्तावकत्वाच्चेत्यर्थः || हृल्लेखाक्षरं यां त्रिपुरां स्तौतीति वा | परं, ए, इति छेदः एकाररूपमक्षरमिति वा | यदेकादशमाधारं बीजं कोणत्रयोद्भवं | ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते || इति वचनात् | एकारेपि, अ, ई, इति छेदो वा | अकासे वै सर्वा वाक् यदीं शृणोत्यलकं शृणोतीति श्रुतेः | चरम ओंकारो वा अक्षरे विशेष्यत्वेनान्वेति || सः गीर्भिः अकारोकारमकारैः परमोऽखण्डोपि यां स्तौतीत्यर्थः || समस्तं व्यस्तं वा शरणदगृणात्योमिति पदं || इति शिवरहस्ये स्मरणात् | स्वाध्यायोध्येतव्य इति विधिविहितविविधाध्ययनान्यपि एतदध्ययनेनैव सिध्यन्तीत्याह एषेति | ऋगादिशब्दाः वेदपराः नत्वेकैकमन्त्रपराः | अथर्वादिप्रायपाठात् | एषा एतत् अयं इति शब्दा ऋग्यजुषाथर्वणां विशेष्यत्वाभिप्रायेण || साम्नोध्वनिरूपत्वेनानक्षरत्वात् प्.३७) इवेति पदेनाक्षरेषु तत्तुल्यफलकत्वद्योतनं || अष्टादशविद्यासु चतुर्णांमुपादानात् अन्यपदेनोपवेदाद्याश्चतुर्दश गृह्यन्ते || सर्वस्वरूपेयमुपनिषदित्यर्थः | प्रणवस्वरूपाप्येषैवेत्याह ओमिति || ओमाडोश्चेति पररूपं तेन यतिभिरप्यध्येतव्येति भावः || इत्यमुपनिषदेतादृशीत्येवं यो ह्येतस्या महिमानं वेद तस्य महिमानं साक्षात् श्रुतिरपि वक्तुमसमर्था तस्य ब्रह्मैकरूपत्वात् तत्रवाचामप्रवृत्तेरित्याशयेन श्रुत्या मौनमास्थितं इत्युपनिषदिति || इतोऽधिकस्य रहस्यस्य वक्तव्यांशस्याभावादिति भावः || इति श्रीः || इति भास्कररायेणाग्निचिता त्रिपुरामहोपनिषदोऽर्थाः | प्रकटयितुमयोग्या अपि विदुषां तोषाय कतिपये कथिताः || इति श्रीमद्भास्कररायमहाशयरचितं त्रिपुरोपनिषद् भाष्यं सम्पूर्णम् || वाङ्मे मनसीति शान्तिः || श्री ललितामहात्रिपुरसुन्दर्युपनिषत् || (बह्वृचवेदीया) देवीह्येकाग्र आसित् | सैव जगदण्डमसृजत् | कामकलेति विज्ञायते | शृङ्गारकलेति विज्ञायते | तस्या एव ब्रह्माजीजनत् | विष्णुरजीजनत् | रुद्रोजीजनत् | सर्वे मरुद्गणा अजीजनन् | गन्धर्वाप्सरसः किन्नरावादित्रवादिनस्समन्तादजीजनन् | भोग्यमजीजनत् | सर्वमजीजनत् | सर्वं शाक्तमजीजनत् | अण्डजं स्वेदजमुद्भिज्जं जरायुजं यत्किञ्चैतत्प्राणिस्थावरजङ्गमं मनुष्यमजीजनत् | सैषा पराशक्तिः | सैषा शांभवी विद्या | कादि विद्येति वा हादि विद्येति वा सादि विद्येति वा रहस्यं | ओं ओं वाचि प्रतिष्ठा सैव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्तरसङ्गात् महात्रिपुरसुन्दरी वै प्रत्यक्चितिः | सैवात्मा ततोऽन्यदसत्यमनात्मा अत एषा ब्रह्मसंवित्तिर्भावा भावकला विनिर्मुक्ता चिदाद्या अद्वितीय ब्रह्मसंवित्तिः सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति | यदस्ति सन्मात्रं यद्विभाति चिन्मात्रं यत्प्रियमानन्दं तदेतत्सर्वाकारा महात्रिपुरसुन्दरी | त्वञ्चाहञ्च सर्वं विश्वं सर्वदेवता इतरत्सर्वं महात्रिपुरसुन्दरी | सत्यमेकं ललिताख्यं वस्तु | तदद्वितीयमखण्डार्थं परंब्रह्म | प्.४०) पञ्चरूपपरित्यागादस्वरूपप्रहाणतः | अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महदिति || प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते | तत्त्वमसीत्येव संभाष्यते | अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा योहमस्मीति वा सोहमस्मीति वां योऽसौ सोहमस्मीति वा या भाष्यते सैषा षोडशी श्रीविद्या पञ्चदशाक्षरी महात्रिपुरसुन्दरी बालाम्बिकेति वा बगलेति वा मातङ्गीति स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहीति तिरस्करिणीति राजमातंगीति वा शुकश्यामलेति वा लघुश्यामलेति वा अश्वारूढेति वा प्रत्यंगिरा धूमावती (पा. गायत्री) सावित्री सरस्वती ब्रह्मनन्दकलेति || ऋचो अक्षरे परमे व्योमन् | यस्मिन्देवा अधिविश्वे निषेदुः | यस्तन्नवेदकिमृचा करिष्यति | य इत्तद्विदुस्त इमे समासते | इत्युपनिषत् | वाङ्मे मनसीति शान्तिः || || इति बह्वृचवेदीया ललितामहात्रिपुरसुन्दर्युपनिषत्समाप्ता || प्.४१) अथर्वपाठकास्तेऽपि प्रयान्ति परमां गतिम् || इति नागर खण्डे || देव्यथर्वशीर्षोपनिषत् || ओं भद्रंकर्णेभिरिति शान्तिः || ओं सर्वे वै देवा देवीमुपतस्तुः | कासि त्वं महादेवि | साब्रवीदहं ब्रह्मस्वरूपिणी | मत्तः प्रकृतिपुरुषात्मकं जगत् शून्यञ्चाशून्यं च अहमानन्दानानन्दाः | विज्ञानाविज्ञाने अहं | ब्रह्माब्रह्माणी वेदितव्ये | इत्याहाथर्वणीश्रुतिः | अहं पञ्चभूतान्यपञ्चभूतानि | अहमखिलं जगत् | वेदोहमवेदोहं विद्याहमविद्याहं | अजाहमनजाहं | अधश्चोर्ध्वं च तिर्यक्चाहं | अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः | अहं मित्रावरुणावुभा बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ | अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहं | विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि || अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते | अहं राष्ट्रीसंगमनीवसूनामहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तस्समुद्रे || य एवं वेद स देवीपदमाप्नोति | ते देवा अब्रुवन् | नमो देव्यै महादेव्यै शिवायै सततं नमः | नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां | तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां | दुर्गां देवीं शरणमहं प्रपेद्ये सुतरां नाशयते तमः | देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति | सानोमन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुनै तु | कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरं सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवां | महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि | तन्नो देवी प्रचोदयात् | अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव | तां देवा अन्वजायन्त भद्रा अमृतबन्धवः | कामो योनिः कमला वज्रपाणिर्गुहाहसामातरिश्वाभ्रमिन्द्रः | पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाताऽदिविद्यों | एषात्मशक्तिरेषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा एषा श्रीमहाविद्या य एवं वेद सशोकं तरति | नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः | सैषाष्टौ वसवः सैषेकादशरुद्राः | सैषा द्वादशादित्याः | सैषा विश्वेदेवास्सोमपा असोमपाश्च || सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षास्सिद्धाः | सैषा सत्त्वरजस्तमांसि सैषा प्रजापतीन्द्रमनवः | सैषा ग्रहनक्षत्रज्योतींषिकलाकाष्ठादिकालरूपिणी तामहं प्रणौमि नित्यं | तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीं | अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवां | वियदीकारसंयुक्तं वीतिहोत्रसमन्वितं | अर्धेन्दुलसितं देव्याबीजं सर्वार्थसाधकं | एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः | ध्यायन्ति परमानन्दमया ज्ञानांबुराशयः | वाङ्माया ब्रह्मभूस्तस्मात्षष्ठंवक्त्रसमन्वितं | सूर्योवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः || नारायणेन संयुक्तो वायुश्चाधरसंयुतः | विच्चेनवार्णकोणुस्स्यान्महदानन्ददायकः | हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभां | पाशांकुशधरां सौयां वरदाभयहस्तकां | त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे || नमामि त्वामहं देवीं महाभयविनाशिनीं || महादुर्गप्रशमिनीं महाकारुण्यरूपिणीं | यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया | यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता | यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या | यस्या जननं लोपलभ्यते तस्मादुच्यतेऽजा | एकैव सर्वत्र वर्तते तस्मादुच्यत एका | एकैव विश्वरूपिणी तस्मादुच्यते नैका | अत एवोच्यतेऽज्ञेयानन्तालक्ष्याऽजैका नैकेति || मन्त्राणां मातृकादेवी शब्दानां ज्ञानरूपिणी | ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी | यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता | दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते | प्रपद्ये शरणं देवीं दुदुर्गे दुरितं हर | तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीं | नमामि भवभीतोऽहं संसारार्णवतारिणीं || इदमथर्वशीर्षं योऽधीते सपञ्चाथर्वशीर्षजपफलमवाप्नोति | इदमथर्वशिऋस मज्ञात्वा योर्चां स्थापयति शतलक्षं प्रजप्त्वापि सोऽर्चा सिद्धिन्न विन्दति || शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः | दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते | महादुर्गाणि तरति महादेव्याः प्रसादतः | सायमधीयानो दिवसकृतं पापं नाशयति | प्रातरधीयानो रात्रिकृतं पापं नाशयति | सायंप्रातःप्रयुञ्चानोऽपापो भवति निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति | नूतनप्रतिमायां जप्त्वा देवतासान्नीध्यं भवति | प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति | भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति य एवं वेदेत्युपनिषत् || ओं भद्रकर्णेभिरिति शान्तिः || ओं तत्सत् || इति देव्यथर्वशीर्षोपनिषत् समाप्ता || श्री कौलोपनिषत् भाष्यञ्च ओं शन्नः कौलिकः शन्नो वारुणी शन्नश्शुद्धिः शन्नोग्निश्शन्नस्सर्वं समभवत् || श्रीगुरुचरणाब्जकिरणविसरणनिर्द्धूतहृद्गतावरण. ह् | भास्कररायः कौलोपनिषदमाथर्वणिं विकासयति || वक्ष्ममाणातिरहस्यार्थोपदेशे अवश्यभाविविघ्ननिरासाय देवताः प्रार्थयते शन्नः कौलिक इत्यादिना || कुलमार्गप्रवर्तकः कौलिकः परशिवः शं- विघ्ननिराकरणपूर्वकं स्वात्मानन्दप्रापकः, नः- अस्माकं, समभवत्-भूयात्, वारुणी-प्रथमाभिमानिनी महती देवता च, शन्नो-भूयात् || शुद्धि द्वितीयाभिमानिनी देवतापि शन्नो-भूयात् अग्निस्तेजः किंबहुना सर्वमपि सुखकरं भवतु || नमो ब्रह्मणे नमः पृथिव्यै नमोद्भ्यो नमोग्नये नमो वायवे नमो गुरुभ्यः त्वमेव प्रत्यक्षं सैवासि त्वामेव प्रत्यक्षं तां वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु मां अवतु वक्तारं ओं शान्तिश्शान्तिश्शान्तिः || परब्रह्मणे पृथिव्यादिचतुष्टयदेवताभ्यः परमशिवादिस्वगुरुपर्यन्तेभ्यश्च नमः || भूतचतुष्टयमाकाशश्याप्युपलक्षणं | प्रत्यक्षं अहं प्रत्ययव्याजेन सर्वैरनुभूयमानं ब्रह्म सैव त्वमेवासि | त्रिपुरसुन्दरीरूपकौलोपनिषदति अत एव हे कौलोपनिषत् त्वामेव तदभिन्नामहं वदिष्यामि | ऋतशब्दो ब्रह्मपरः | सत्यशब्दोपि तथैव | आदरेवीप्सा स्पष्टमन्यत् | शान्तिश्शान्तिश्शान्तिरिति विघ्नशान्ति प्रार्थनेयम् || अथातोधर्मजिञासा | ज्ञानं बुद्धिश्च ज्ञानं मोक्षैककारणम् मोक्षस्सर्वात्मतासिद्धिः | पञ्च विषयाः प्रपञ्चः | तेषां ज्ञानिस्वरूपाः | योगो मोक्षः || अथ ब्रह्मजिज्ञासानन्तरं धर्मिज्ञानस्य जातत्वात् धर्मस्य विमर्शशक्तेः ज्ञानाय विचारः कर्तव्य (इत्यर्थः) || ज्ञानं बुद्धिश्च, ब्रह्मापरोक्षानुभवो ज्ञानं | तज्जनकन्तु शाब्दं, परोक्षज्ञानं बुद्धिः | यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते || इत्यादौ द्वैविध्यव्यवहारदर्शनात् तदुभयमपि धर्मस्वरूपमेवेत्यर्थः || चकारादनुक्तानां चैतन्यादिधर्माणां नागानन्दादिभिर्गणितानां परिग्रहः || ज्ञानं मोक्षैककारणं स्पष्टोर्थः || मोक्षस्सर्वात्मतासिद्धिः | सर्वस्य स्वात्माभेदस्सर्वात्मता तस्यास्सिद्धिस्तद्विषयसविलासाज्ञाननिवृत्तिः | तेन देवीभागवते कथितार्धश्लोकभागवतस्य सर्वं खल्विदमेवाहं नान्यदस्ति सनातनं इत्यस्य समानार्थकज्ञानं मोक्षजनकं इति ध्वनितं | तादृशज्ञानजन्यमखण्डं वृत्त्यन्तरं वा- पञ्चविषयाः प्रपञ्च इति सर्वपदं विवृणोति | शब्दादिविषयपञ्चकं प्रपञ्चपदेनोच्यते || तेषां भूतसूक्ष्मत्वेन स्थूलभूतानां तदभेदात् षट्त्रिंशत्तत्त्वानामपि तत्रान्तर्भावात् सर्वत्र पञ्चभूतानि षष्ठं किंचिन्नविद्यते || इति वासिष्टात् || तेषां ज्ञानस्वरूपा इति जडजातं निर्दिश्य चेतनंजातं निर्दिशति | ज्ञश्चासावनश्चज्ञानं विषयान् जानाति प्राणिति चेत्यर्थः || तादृशस्वरूपा जीवा इति यावत् || योगो मोक्ष इति योगोवृत्तिनिरोधः मोक्षोपि || अधर्मकारणाज्ञानमेव ज्ञानं || धर्मरहितत्वादधर्मः परंब्रह्म तस्य यत् कारणाज्ञानं तद्विषयकमूलाज्ञानमेव ज्ञानं एवकारोभिन्नक्रमः विषया जीवा योगो मुक्तिरविद्येत्येतत्सर्वं ज्ञानमेव शक्तेर्भीन्नं नास्त्येवेत्यर्थः | भेदस्य मिथ्यात्वादिति भावः | प्रपञ्च ईश्वरः भेदव्याप्यस्य नियम्यनियन्तृभावस्यापि व्यापकविरुद्धोपलब्ध्यामिथ्षात्वात् प्रपञ्च एवेश्वरः || अनित्यं नित्यं अनित्यत्वेन भासमानं घटादिकमपि नित्यशक्तिरूपमेव | अज्ञानं ज्ञानं अवस्थारूपमज्ञानमपि ज्ञानरूपमेव शक्तिरेवेत्यर्थः || अधर्म एव धर्मः || शक्तिरूपो धर्मोपि न पदार्थान्तरं किन्तु धर्माधारधर्मिरूप ब्रह्मैव | एष मोक्षः || एष एव पन्था मोक्षस्य नान्यः || पञ्चबन्धा ज्ञानस्वरूपाः || अनात्मनि आत्मबुद्धिः आत्मानि अनात्मताबुधिः इत्यादि ज्ञानान्येव बन्धरूपणि | ज्ञानं बन्धः इति शिवसूत्रात् | जीवानां परस्परं भेदः ईश्वरात् भेदः चैतन्यात् भेदः इति ज्ञानत्रयेण सह पञ्च || पिण्डाज्जननं || ईदृशबन्धसद्भावादेव पिण्डाण्डसम्बन्धरूपं जननं भवति || तत्रैव मोक्षः || परन्तु कौलज्ञानमहिम्ना मोक्षोपि तत्रैव पिण्डाण्ड एव भवति न पुनश्शताधिकनाड्युत्क्रमणं देवयानगतिः ब्रह्मणा सह मुक्तिरित्येवं रूपो विलम्बः || तस्य तावदेव चिरं, न तस्य प्राणा उत्क्रामन्ति इत्यादि श्रुत्यन्तरादिति || एतत् ज्ञानम् || प्रथमं शास्त्रसिद्धान्तमुक्त्वा ज्ञाननिष्कर्षमाह एतत् वक्ष्यमाणं ज्ञानसर्वस्त्रं || सर्वेन्द्रियाणां नयनं प्रधानं || ब्रह्मप्रतिनयेत् || षड्भिरपीन्द्गियैर्जन्येषु प्रत्यात्मकज्ञानेषु अहमिदं जानामित्यादिप्रकारकेषु अहन्तया भासमानं ब्रह्मैव प्रधानं | तमेव भान्तमनुभाति सर्वमिति श्रुत्या तदितरस्य सर्वस्याप्यनुभासमानतोक्तेः || ईद्दशविवेचनं सर्ववृत्तिषु यथास्यात्तथा यतेत || एकेन्द्रियजन्यमपि ज्ञानं विवेचनमन्त्रेण प्रधानं नयेत् || ग्राह्यग्राहकसंवित्तिसामन्ये सर्वदेहिनां | विशेषोयं तु सम्बन्धसामान्ये सावधानता || इति वचनात् अविवेचनाभाव एव ज्ञानसर्वस्वमित्यर्थः || धर्मविरुद्धाः कार्याः || इतः प्रभृति उपासककर्तव्यप्रकारननुशास्ति | तादृशविवेचकज्ञानाधारैकरसिकानां चित्तस्थैर्याद्यर्थं कर्मकालेपि संविदादिसेवनं धर्मशास्त्रविरुद्धं कर्तुं युक्तं || धर्मविहितानकार्याः || धर्मशास्त्रविहिता अपि ज्योतिष्टोमादयः तादृशधाराविरोधसम्भावनायां प्रतिकर्तुं युक्ताः || करणाकरणयोरभ्यनुज्ञानमिदं नत्वात्यन्तिकविधिनिषेधरूपं || गौतमेनापि चत्वारिंशत्संस्कारान् बहिरङ्गानष्टावन्तरंगांश्चोक्त्वा आन्तरशुद्ध्युत्तरं बहिरङ्गानामनावश्यकतोक्ता || मनुनापि सर्वान् धर्मान् विस्तरेणोक्त्वा शास्त्रान्ते ब्रह्माभ्यासं विधाय तत्पराणां स्वपूर्वोक्तधर्मानादर उक्तः || तदृश स्मृतेरियमेव श्रुतिर्मूलम् || सर्वं शाम्बवीरूपम् || विहिताचरण इव निषिद्धाचरणेपि त्रिपुरसुन्दर्या भावनस्याविशेषात् || तत्भावनवैषम्यवता भ्रष्टानामेव विधिनिषेधकृतौ बन्धः इति भावः || अत एव भगवद्वाक्यम् || मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेद्यदि | तत्कर्म ते प्रकुर्वन्ति त्रिंशत्कोट्यो महर्षयः || इति || आम्नाया न विद्यन्ते || ज्ञातत्वात् तं प्रति वेदा अपि न प्रवर्तन्ते || अत-एवोक्तं भगवत्पादैरध्यासभाष्ये अविद्यावद्विषयाणि शास्त्राणीति || उक्तयोरभ्यनुज्ञयोर्हेत्वर्थवादरूपे सूत्रे || गुरुरेकः | एकस्य यथोक्तलक्षणलक्षितस्य गुरोपास्त्या अयमर्थो लभ्यते | गुरुबाहुल्येनोपदेशवैषम्ये संशयावश्यम्भावात् | अत-एव परशुरामकल्पसूत्रे एकगुरूपास्तिरसंशयः || लब्धा कुलगुरुं सम्यक् न गुर्वन्तरमाश्रयेत् || इति || कुलार्णवोक्तनिषेधस्येयं श्रुतिर्मूलम् || लब्ध्वेत्युक्त्यैव कौलिके गुरवोनन्ता इति शक्तिरहस्यवचनं तादृशगुरोरलाभाभिप्रायम् || सर्वैक्यताबुद्धिमन्ते || ऐक्यमिति स्वार्थे ष्यञ् || एवं रीत्या वर्तमानः साधकोप्यन्तकालेप्यद्वैतबुद्धिमेव लभते || आमन्त्रसिद्धेः || अधिकारोयं | इत आरभ्य मन्त्रसिद्धिपूर्वकाले ये नियमा अनुष्ठे यास्तेधर्माः कथ्यन्ते इत्यर्थः || तेन वक्ष्यमाणेष्वेकस्याप्यनादरे सिद्धिहानिरेवेति भावः || मदादिस्त्याज्यः || मोदकद्रव्यसेवनजन्यो विकारविशेषो मदः || विकारान्तसण्यादिपदग्राह्याणि अरिषड्वर्गश्च सन्त्याज्य एव || मन्त्रसिध्युत्तरन्तु स्वत एव कामक्रोधादयो न प्रसरन्ति | विकार विशेषास्तु पूर्वमेवाभ्यनुज्ञाताः || तथा च यावन्न चलते दृष्टिः आगलान्तं पिबेत् द्रव्यं || इति वचनयोर्मन्त्रसाधकसिद्धमन्त्रपरत्वेन व्यवस्थासिद्धेरविरोधः || प्राकट्यं न कुर्यात् || स्वकीयमन्त्रदीक्षोपास्तिरहिताधर्मान्तरेष्वत्यन्ता- दरशीलाः स्वीयमन्त्रोपासकाभासाश्च सर्वेपि बहिर्मुखाः तैर्यथा अयमेतदुपासक इति न ज्ञायेत तथोपास्तिं गोपयेत् || इदञ्च दीक्षान्तरेष्वपि तुल्यं || नैनमदीक्षिताव्रतयन्तं पश्यन्ति | इत्यादि तत्तत्प्रकरणगतवचनात् || यद्यप्यस्यादीक्षाया वेदेष्वारण्यककाण्डे विहितत्वादेव रहस्यतासिद्धा क्रत्वंगप्रवर्ग्यादिवत् | तथापि पुनः कण्ठरवेण तद्विधानं रहस्यान्तरेभ्यो वैलक्षण्यार्थं || धर्मान्तरेषु रहस्यभङ्गे क्रतुवैगुण्यमात्रमिहतु तथात्वे नरक एवेति || तथाच भगवान्परशुरामः प्राकट्यान्निरयः || इति न कुर्यात्पशुसम्भाषणं || बहिर्मुखास्सर्वेपि पशवः विद्याहीनत्वात् एतदुषास्तेवेवविद्यात्वात् न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते || इत्यादि वचनात् || तैस्सह सम्यक् स्वहृदयज्ञापनपर्यन्तं भाषणं न कार्यं | तेनापातभाषणस्य न निषेधः || अन्यायो न्यायः || यदि कश्चिद्वावद्कः पूर्वोत्तरमीमांसान्यायैः कौलिकाचारं दूषयेत् तथापि न मनागपि कोपः कार्यः इत्याशयेनाह अन्याय इति अल्पार्थो नञ् अल्पबलो न्यायः पूर्वपक्षन्याय इति यावत् || सोपि न्याय एव || न हि पूर्वपक्षोपि न्यायोपन्यासमन्तरेण प्रवर्तते अतस्तादृशन्यायसिद्धोपि न्यायय एवायं पन्थाः | न चैवं सति सिधान्तन्यायेनापवादात्कथमाश्वासः सिद्धान्तानामृषिभेदेन बहुविधत्वेन तदभिमानिभिस्तथा तथोपपादनस्य परस्परविरुद्धस्य पूर्वोत्तरतन्त्रस्थ देवताधिकरणादिषु बहुशो दर्शनात् || वादिनो दौर्बल्यं न न्यायस्येति भावः || तर्काप्रतिष्ठानादिति भगवान् व्यासः || अचिन्त्याः खलु ये भावा न तां स्तर्केण योजयोदिति च || ईदृशन्यायानां चित्तसमाधानैकफलकानां सम्प्रदायाविरोधेनैवोपन्यासस्योचितत्वात् || यथा श्रुतिस्मृतिसम्प्रदायानामुत्तरोत्तरस्य दुर्बलत्वेपि प्रकृततन्त्रे वैपरीत्यमूह्यम् || न चायं सुतरामन्यायः धर्मशास्त्रविद्भिरपि उत्तरोत्तरेण पूर्वपूर्वसंकोचस्य बहुशः स्वीकारात् || न गणयेत्कमपि || ब्रह्माणमपि स्वसिद्धान्तविरोधवादिनं न गणयेत् | अतीव दृढं विश्वसेदित्यर्थः | अत एव विश्वासभूयिष्ठं प्रामाण्यमिति कल्पः || आत्मरहस्यं न वदेत् || प्राकट्यापत्तेर्मित्रायापि नैव वदेदित्यर्थः || शिष्याय वदेत् || अत एव कर्णात्कर्णोपदेशेन सम्प्राप्तमवनीतलं | इति स्मृतिः | ईदृसम्प्रदायैकज्ञेयत्वेनैवेदृशार्थविषये श्रुतिस्मृत्यपेक्षया सदाचारस्यैव बलवन्त्वं || व्याकरणापेक्षया सत्प्रयोगरूपाचारस्येवेत्यादिकमूह्यं || अन्तःशाक्तः बहिश्शैवः लोके वष्णवः || अप्राकट्येपि कर्तव्यतामेव विवृणोति शक्तेरुपास्तिरन्तः करणैकवेद्या कार्या || कुचन्दनेन शाक्तानां भ्रूमध्ये बिन्दुरिष्यते || इति चिह्नानि विदितान्यपि विभूतिधारणादिशैवचिह्नैराच्छादितानि एव कार्याणि || शिवस्यापि शक्त्यभेदात् || मामेव पौरुषं रूपं गोपिकानयनामृतं इत्यादि वचनैर्विष्णुस्वरूपस्य परशिवावरोधत्रिपुरसुन्दरीप्रकटरूपान्तरात्मकतया सभासु विष्णुनामाम्रेडनादिना विष्णूपास्तिमेव प्रकटयेत् इति सूत्रत्रयार्थः || अत एव व्ष्णुशिवशक्तीनामुत्तरोत्तरफलाधिक्यं उत्तरोत्तररहस्याभिप्रायेणोक्तं रहस्यनामसाहस्रे || अयमेवाचारः || सन्त्यन्येपि कौलिकानामाचारास्तन्त्रेषु विहिताः तेषां सर्वेषा मध्ये प्राकट्याभावरूपाचारः एवातीवमुख्य इत्यर्थः | आत्मज्ञानान्मोक्षः कर्मवदतीवाचार-एवासक्तस्सनात्मानुसन्धाने न प्रमाद्येत अपितूभयमपि सम्यगनुतिष्टेदिति द्योतनायेह पुनः स्मारणम् || लोकान्ननिन्द्यात् प्रवाहेणानादिरूषाणि नानाविधानि दर्शनानि सर्वाण्येव तत्तदधिकारिभेदेन प्रमाणान्येव तानि सर्वथा न निन्देत् | तन्निन्दनेन तदधिकारिणां संशयोत्पत्त्या स्वावलम्बितदर्शनेप्यविश्वासः कौलिकेप्यनधिकारादुभयभ्रष्टतापत्त्याच्छिन्नाभ्रवन्ना शापत्तेः तेनोपासकस्य निन्दनीयत्वापत्तेर्वैगुण्यं | अत एव न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनं || इति भगवान् कृष्णः | सर्वदर्शनानिन्दनमिति भागर्वरामश्च | इत्यध्यात्मं || सर्वदर्शनानिन्दनं क्वोपयुज्यते इत्याशङ्कायामाह परेषां छिन्नाभ्रवन्नाशापेक्षया स्वस्य सर्वात्मभावे न्यूनतापत्तेरयमाचारोप्यात्मज्ञा न एवोपकुरुत इत्यर्थः || व्रतं न चरेत् || पुरुषार्थरूपाणि व्रतानि नाचरेत् तैः प्राप्यस्यार्थस्येतोप्यधिकस्याभावात् || यानि वर्णाश्रमधर्मरूपाणि पुरुषार्थसाधकत्वेन प्राप्तानि | प्राप्तानां नित्यनैमित्तिकानामङ्गत्वेन प्राप्तानि दर्शपूर्णमासाद्यंगभूतानि क्रत्वर्थव्रतानि तानि तु कार्याण्येव || नित्यनैमित्तिकानां त्यागाविधानात् न तिष्ठेन्नियमेन || तस्यैवेदं विवरणं | नियमनस्य निर्बन्धरूपत्वेनात्मानुसन्धानविरोधित्वात् || प्. ५५) नियमान्न मोक्षः || आत्मानुसन्धानाभावादेव मोक्षे विलम्बितत्वापत्तेरित्यर्थः || कौलप्रतिष्ठां न कुर्यात् || यदि कश्चिन्न्यायोपन्यासनिपुणः कौलं सन्न्यायैरेवस्थापयितुं क्षमेत् | सोपि नेमं मार्गं प्रतिष्ठापयेत् अप्राकट्यभंगापत्तेः अत एवैतच्छास्त्रविषये ग्रन्थकारस्यापि कौलप्रतिष्ठारूपत्वेन तत्रापि निषेधप्रवृत्त्या साम्प्रदायिकानां कतिपयांशानां अप्रकटनाय गुरुमुखादेव ज्ञेयमिति तत्र तत्र लेखः संगच्छते || सर्वसमो भवेत् || एतच्छास्त्रेष्वेवाचारान्निष्कृष्य विधत्ते प्राणिमात्रे स्थावरमात्रे वा समो भवेत् || अनन्यभावेन वर्तेत अत एव भागवते खं वायुमग्निं सलिलं महीञ्चेत्यादि समुक्तो भवति स एव सद्यो मुच्यते तादृशपुरुषधौरेयात् ईषन्नयूनास्तु शनैश्शनिर्मुच्यन्त एवेति भावः || पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः | आज्ञासिद्धिर्भवेत्तस्य इत्याज्ञा पारमेश्वरी || अथानुसन्धानपूर्वकमेतानि सूत्राणि यः पठति स एव देशिकः तस्यैवाज्ञासिद्धिः अप्रतिहताज्ञता शिवभाव इति यावत् | एवं परमेश्वर स्याज्ञा अतोऽनाश्वासो न कार्य इति भावः || यश्चाचारविहीनोपि योवा पूजां न कुर्वत् | यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने || यः पूर्वोक्ताचारान्नानुतिष्ठति संशयापन्नमनास्तु तदुक्तविधां सपर्यां न करोति वचनव्यत्ययश्छान्दसः || अयं पन्थास्सर्वोत्तम इति न मन्यते | एतादृशोप्युपासकाभासः उक्तफलालाभेपि स्वर्गमात्रं लभत एव | किमु यथावत्तदुपासकस्य यथोक्तफलप्राप्तिरिति भावः || इति कौलमार्गपारावारपारीण श्रीमद्भास्कररायविरचितं कौलोपनिषद्भाष्यं संपूर्णम् || इति || श्रीरस्तु || ########### END OF FILE #######