#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00036 Uniform title: makuṭāgama Main title: makuṭāgama chapters 1 - 11 Editor : swaminattha gurukkal c. Editor : Dyczkowski Mark S. G. Description: This e-text was transcribed from the text originally published in grantha script by C. Swaminattha Gurukkal and provisionally corrected by Mark S.G. Dyczkowski. The photographic facsimile is from the Devakottai Series. Notes: Transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski with additional corrections by Dr. Dyczkowski. Revision 0: 29/01/2007 Publisher : swaminattha gurukkal c. Publication year : 1947 Publication city : Delhi Publication country : India #################################################### ओं श्रीशिवाभ्यां नमः || || श्रीमकुटागमः || तन्त्रावतारपटलः || श्रीमन्महेन्द्रे जगतां नयनानन्दकारके | बिल्ववृक्षशमीवृक्ष वटचम्पकपिप्पलैः || १-१ || प्लक्षपुन्नागसहितैश्चन्दनैः परिवारिते | महासदसि सौवर्णे सर्ववर्णपरिष्कृते || १-२ || सिम्हासने महारत्नमण्डिते मङ्गलालये | आसीनं परमेशानमवाङ्मानसगोचरम् || १-३ || अनादिमलनिर्मुक्तं जगद्देवं दयानिधिम् | सर्वविद्या विधातारं वामे गौरिसमायुतम् || १-४ || ब्रह्मनारायणार्केन्द्रमुनिगन्धर्व सेवितम् | संस्तूयमानन्दैर्वाद्यैस्तोत्रमङ्गलवाचकैः || १-५ || चन्द्रार्यशेखरं शान्तं प्रसन्नं परमेश्वरम् | महेश्वरः प्रसन्नात्मा शिवज्ञानजिघृक्षया || १-६ || प्रणम्य सादरं भक्त्या प्राह लोकहितं वचः | महेश्वर उवाच देवदेव जगन्नाथ भक्तानामार्तिनाशन || १-७ || प्. २) सृष्टिरक्षण सम्हारतिरोधानुग्रहोद्यत | शिवागमार्णवान्तस्थ ज्ञानरत्न प्रकाशक || १-८ || पशूनां पाशविश्लेषविशारदकृपानिधे | शक्त्या च परया युक्त परसंवित् स्वरूपया || १-९ || सर्वज्ञ सर्वकृच्चम्भो सर्वात्मन् सर्वतोमुख | साधकानां हितं पुण्यं योगिनां मोक्षसाधनम् || १-१० || शिवज्ञानं परं शुद्धं वदमे परमेश्वर | एवं पृष्टो महेशेन भगवान् परमेश्वरः || १-११ || सर्वलोकहिते क्षिण्या प्राहगम्भीरया गिरा | श्रीपरमेश्वर उवाच वक्ष्ये सङ्क्षेपमार्गेण यथा प्रश्नं तवेप्सितम् || १-१२ || महेश्वर महाभाग समाहितमनाश्शृणु | शिवज्ञानं परङ्गुह्यं भोगमोक्षप्रदायकम् || १-१३ || सर्वपापहरं पुण्यं सर्वतन्त्रार्थ बोधकम्(बोथकम्) | युक्तं शतसहस्रेण ग्रंथं(ग्रंधं) सर्वर्थसाधकम्(-साथकम्) || १-१४ || ऊर्ध्वशैव महातन्त्रं मकुटाख्यं महेश्वर | तत् तु सङ्क्षेपतस्तुभ्यमधुनासं प्रवक्ष्यते || १-१५ || अथ शैवं नवविधं(-थं) सङ्क्षेपेण क्रमाच्छृणु | ऊर्ध्वशैवन्तु प्रथममादिशैवं द्वितीयकम् || १-१६ || महाशैवं तृतीयन्तु अनुशैवञ्चतुर्धकम् | अवान्तरं पञ्चमञ्च मीश्रशैवञ्च षष्ठकम् || १-१७ || सप्तमं भेदशैवं स्यादष्टमङ्गुणशैवकम् | आज्ञा शैवं तु नवमं शैवभेदक्रमं शृणु || १-१८ || प्. ३) शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् | तेषु श्रेष्ठतमं शैवमूर्द्ध्व स्रोतसमुद्भवम् || १-१९ || ततस्तु द्विविधं शैवं सौम्यं रौद्रमिति स्मृतम् | सौम्यञ्च द्विविधं प्रोक्तं दक्षिणञ्चैवमिशृतम् || १-२० || आचारोवेदविहितो दक्षिणाचार उच्यते | विपरीतन्तु वामं स्यात् तयोर्मिशृं तु सङ्गमम् || १-२१ || वेदसारमिदं तन्त्रं तस्माद् वैदिक आचरेत् | वेदान्तार्यमिदं ज्ञानं सिद्धान्तं परमं शुभम् || १-२२ || ऊर्ध्व स्रोद्भवं श्रेष्ठमष्टाविम्शति तन्त्रकम् | वेदसारार्थदं ज्ञेयमन्वदन्यार्थ साधकम्(साथकम्) || १-२३ || तन्त्रादौ तन्त्र सद्भावो मूलभेदोपभेदयुक् | नामभिः कामिकाद्यैस्तु वक्ष्येतां क्रमशश्शृणु || १-२४ || तनोति विपुलानर्थां तत्व मन्त्र समाश्रितान् | त्राणञ्च कुरुने पुम्सान्तेन तन्त्रमिति स्मृतम् || १-२५ || कामिकं योगजं चित्यङ्कारणन्त्वजितं तथा | दिप्तं सूक्ष्मं सहस्रञ्चाम्शुमानसुप्रभेदकम्(-पृभेदकम्) || २६ || विजयञ्चैव निश्वासं स्वायम्भुवमथाऽनलम् | वीरञ्च रौरवञ्चैव मकुटं विमलं तथा(-तडा) || १-२७ || चन्द्रज्ञानञ्च बिम्बञ्च प्रोद्गीतं ललितं तथा | सिद्धं सन्तान संज्ञञ्च शर्वोक्तं पारमेश्वरम् || १-२८ || किरणं वातुलञ्चैवाऽप्यष्टा विंशति सङ्ख्यकाः | एतेषां पूर्वदशकं शिवभेदं प्रकीर्तितम् || १-२९ || तथाऽपराष्टदशकं रुद्रभेदं तु नामतः | शिवरुद्रात्मकं तन्त्रमष्टाविम्शति संख्यकम् || १-३० || प्. ४) यद्यप्येको भवेद्वक्ता श्रोत्रभेदस्त्वनेकथा | अथ सिद्धान्त तन्त्राणां श्रोतारस्तु विशेषतः || १-३१ || प्रणवाद्याः प्रकीर्त्यन्ते शृणष्वेतं महेश्वर | श्रोतारः शिवभेदानां पारम्पर्याक्त्रयस्त्रयः || १-३२ || द्वौ द्वौ तु रुद्रभेदानां प्रोक्ताः षष्टिषडुक्तर | प्रणवात् त्रिकलस्त्र्यक्षः सुधाख्योभस्मकोविभुः || १-३३ || सुदीप्ता गोपतिः पश्चादम्बिका चैव कारणः | शर्वरुद्रः व्रजेशश्च सुभ्रुश्च सुशिवोच्युतः || १-३४ || ईशः त्रिमूर्तिनामा च हुताशः सूक्ष्मसंज्ञकः | ततो वै श्रवणश्चैव प्रभंजनाभिधानकः || १-३५ || कालोभीमश्च धर्मश्च ततोग्रश्चांबुसंज्ञकः | रविर्विघ्नेश्वरश्चैव दशे शश्शशिनामकः || १-३६ || त्रिंशत्संख्याः क्रमात् प्रोक्ताः शिवभेदाधि देवताः | रुद्रश्च परमेशश्च दशार्णो गिरिजातनः || १-३७ || निधनः पद्मसम्भूनः व्योमनामाग्नि संज्ञकः | तेजः प्रजापतिश्चैव ब्रह्मा च नन्दिकेश्वरः || १-३८ || शिवश्चैव महादेवः सर्वात्मा वीरभद्रकः | अनन्तो बृहस्पतिश्चैव प्रशान्तश्च दधीचकः || १-३९ || शूली च कवचः पश्चादालयो रुद्रभैरवः | बिन्दुश्चण्डेश्वरश्चैव शिव निष्ठोम्बवायसः || १-४० || सोमदेवो नृसिह्मश्च श्रीदेवी चोशना तथा | देव पिता च संवर्तः सिवो महाकालस्तथा || १-४१ || प्. ५) एने वै तत्व सङ्ख्या च रुद्रभेदाधिदेवताः | मूलतन्त्रोपभेदाश्च वक्ष्यते नामभिः क्रमात् || १-४२ || त्रिभेदं कामिकं प्रोक्तं पञ्चभेदञ्च योगजम् | षट्भेदं चिन्त्य तन्त्रञ्च सप्तभेदन्तु कारणम् || १-४३ || अजिताख्यञ्चतुर्भेद दीप्तञ्च नवभेदकम् | सूक्ष्ममेकविधं प्रोक्तं दशभेदं सहस्रकम् (सक्षस्रकम्) || १-४४ || अम्शुमां सूर्यभेदं स्यात् सुप्रभेदमभेदकम् | अष्टभेदन्तु विजयं निश्वासञ्चाष्ट भेदकम् || १-४५ || स्वायम्भुवं द्विभेदं स्याद् आग्नेयं तद् विभेदकम् | चीरतन्त्रं विशेषेण भेदाश्चैव त्रयोदश || १-४६ || षट्भेदं रौरवं प्रोक्तं मकुटन्तु द्विभेदकम् | विमलन्तु कलाभेदं चन्दज्ञानञ्चतुर्दश || १-४७ || तिथिभेदं(तिधि-) बिंबतन्त्रं प्रोद्गीतं षोडश स्मृतम् | ललितं गुणभेदं स्यात् सिद्धञ्च युगभेदकम् || १-४८ || सन्तानं सप्तभेदं स्याच्छर्वोक्तं पञ्चधा भवेत् | पारमेशं सप्तभेदं किरणन्नवभेदकम् || १-४९ || वातुलं रविभेदं स्याद् वाक्ष्यते च पृथक् पृथक् | नारसिंहञ्च वक्त्रारम्भैरवोक्तरमेव च || १-५० || कामिकस्य त्रयोभेदास्तारं वीणाशिखोत्तरम् | आत्मयोगं सुतारञ्च सन्नतिर्योगजस्य तु || १-५१ || सुचिन्त्यं सुभगं वामं अमृतं पापनाशनम् | परोत्भवं च चिन्त्यस्य भेदाष्षट्च प्रकीर्तिताः || १-५२ || महेन्द्रं कारणन्दौर्गं पावनं भीमसंहिता | विद्वेषं मारण चैव सप्तभेदं तु कारणे || १-५३ || प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता | अजितस्य चतुर्भेदं पश्चान्नवमसंख्यकम् || १-५४ || प्. ६) अमेयमब्दमाच्छाद्यमसंख्यममितोजसम् | आनन्दं माधवोद्भूतमद्भुतञ्चाक्षयं तथा || १-५५ || सूक्ष्म तन्त्रे च सूक्ष्माख्यमेकमेव प्रकीर्तितम् | अतीतं मङ्गलं शुद्धमप्रमेयञ्च जातिभाक् || १-५६ || प्रबुद्धं विबुधं हस्तमलङ्कारं सुबोधकम् | एते सहस्र तन्त्रस्य दशभेदा उदाहृताः || १-५७ || काश्यपं वासवञ्चेन्द्रं वासिष्ठङ्गौतमं तथा | भूत तन्त्रं प्रकारणं विद्या पुराणमेव च || १-५८ || ईशानोत्तरसंज्ञञ्च नीललोहितमेव च | आत्मा लङ्कारकं ब्राह्मं द्वादशांशुमतोभिदाः || १-५९ || सुप्रभेदमभेदं स्याद् भवङ्कौबेरमुत्भवम् | महाघोरमघोरञ्च विमलं मृत्युनाशनम् || १-६० || विजयस्याष्ट भेदाः स्युर्विजयाख्यस्य कीर्तितम् | निश्वासं मन्त्रनिश्वासं निश्वासोत्तरसंज्ञकम् || १-६१ || निश्वास गुह्यं निश्वासघोरस्यां निश्वास कारिका | निश्वास नयनञ्चैवस्यां निश्वासमुखोदयम् || १-६२ || निश्वासस्याष्ट भेदञ्च महातन्त्रस्य कीर्तितम् | प्राजापत्यञ्च पद्मञ्च द्वयं स्वायंभुवस्य तु || १-६३ || अनलस्य द्वयं प्रोक्तमाग्नेयं व्योम तन्तृतम् | प्रस्तरं पुल्लममलं प्रबोधकममोहकम् || १-६४ || मोहसमयञ्च शकटं शाकटाथिकभद्रके | विलेघनञ्च वीरञ्च हलञ्च बोधबोधकम् || १-६५ || भेदास्तयोदश प्रोक्ताः वीरतन्त्रे महेश्वर | कालदाहं कलातीतं रौरवं रौरवोत्तरम् || १-६६ || महाकालमतञ्चैन्द्रं रौरवस्यापिषट्भिदाः | द्वे भेदे मकुटे प्रोक्तं मकुटं मकुटोत्तरम् || १-६७ || प्. ७) वृषभं वृषा पिङ्गाख्यमाक्रान्तं वृषभोक्तरम् | सुदन्तमितिभूतञ्च रौद्रभद्रविधन्था च || १-६८ || अनन्तमट्टाहासाख्यमर्चितं धारणन्तथा | भेदं विमल तन्त्रस्य षोडशेवं प्रकीर्तितम् || १-६९ || एक पादपुराणञ्च स्थाण्वाख्यं नन्दिकेश्वरम् | स्थिराख्यं शाङ्करं प्रोक्तं श्रीमुखं शिवभद्रकम् || १-७० || कल्पभेदमतिव्याप्तं महावारुणमेव च | देव्यामतञ्च वायव्यं शिवशासन संज्ञकम् || १-७१ || शिवशेखरमित्युक्तं चन्द्रज्ञाने चतुर्दश | चतुर्वक्त्रमयोगञ्च संस्तोभं प्रतिबिंबकम् || १-७२ || अर्थालङ्कारमैशानन्तौटिकन्तुटिनीरकम् | कुट्टिमाख्यं तुलायोगं तुलाप्रत्ययं एव च || १-७३ || महाविद्या महासौर नै-ऋतं पट्टशेखरम् | मुखबिंबस्य तन्त्रस्य भेदाः पञ्चदशोदिताः || १-७४ || वाराहं पाशबन्धञ्च पिङ्गलामतमेव च | धनुर्धरन्दण्वधरं शिवज्ञानं तथाङ्कुशम् || १-७५ || विज्ञानमायुर्वेदञ्च श्रीकालज्ञानसंज्ञकम् | धनुर्वेदन्तु कवचं सर्पदंष्ट विभेदनम् || १-७६ || भरतं गीतमातोद्यं प्रोंद्गीते षोडशसृताः | ललितस्य त्रयोभेदाः ललितं ललितोत्तरम् || १-७७ || कौमारञ्च ततः शालाभेदं सारोक्तराह्वयम् | औशनोत्तरसंज्ञञ्च शशिमण्डलमेव च || १-७८ || सिद्धतन्त्रस्य चत्वारो भेदास्तु परिकीर्तिताः | लिङ्गाथ्यक्षं सुराथ्यक्षं शंकरञ्चामरेश्वरम् || १-७९ || असंघ्यमनिलं द्वंद्वं सन्ताने सप्तभेदकम् | शिवयर्मोत्तरं दिव्य प्रोक्तमीशानमेव च || १-८० || वायुप्रोक्तं कुबेराख्यं शर्वोक्तपञ्चधास्त्रताः | प्. ८) हंसं पद्मञ्च मातङ्ग सामान्यं यक्षिणी मतम् || १-८१ || पुष्करं सुप्रयोगञ्च सप्तधा पारमेश्वरे | गारुडं नै-ऋतं रूक्षं नीलंबुद्धञ्च भानुकम् || १-८२ || प्रबुद्धं धेनुकंकालं किरणे नवकीर्तिताः | वातुलोत्तर संज्ञञ्च वातुलञ्च प्ररोहितम् || १-८३ || कालज्ञानञ्च शर्वं च नित्यं धर्मात्मकं तथा | विश्वं श्रेष्ठञ्च शुद्धञ्च विश्वात्मकं महाननम् || १-८४ || वातुलाख्ये मसातन्त्रे भेदा द्वादश कीर्तिताः | उपभेदाः क्रमात् प्रोक्तं सप्तोत्तरशतद्वयम् || १-८५ || कामिकाद्य जितान्तास्तु सद्यो जातमुखोद्भवाः | दीप्ताद्याः सुप्रभेदान्ताः वामदेवमुखोद्भवाः || १-८६ || विजयाद्यास्तु वीरान्ताः संहिताऽघोरवक्त्रुजाः | रेवरवान्मुख सिम्बान्ताः पुरुषानन संभवाः || १-८७ || ईशान वक्त्रसंज्ञाताः प्रोद्गीताद्यष्ट संहिताः | ग्रन्धसंख्यां प्रवक्ष्यामि क्रमाच्छुणु महेश्वर || १-८८ || परार्थं कामिकं प्रोक्तं योगजं लक्षमुच्यते | चिन्त्यन्तु शतसाहस्रं कारणं कोटिसम्मितम् || १-८९ || अजितं प्रयुतं प्रोक्तन्नियुतं दीप्तमुच्यते | सूक्ष्मञ्च पद्मसंख्याकं सहस्रं शंखसंघ्यकम् || १-९० || अशुमान् पञ्चलक्षन्तु सुप्रभेदं त्रिकोटिकम् | विजयञ्च त्रिकोटिस्यात् कोटिर्निश्वासमुच्यते || १-९१ || स्वायंभुवं त्रिकोटिश्चाप्यनलन्त्वयु तत्रयम् | वीरञ्च नीयुतं प्रोक्तं रौरवञ्चार्बुदाष्टकम् || १-९२ || मकुटं शतसाहस्रं विमलञ्च त्रिलक्षकम् | चन्द्रज्ञानं त्रिकोटिः स्यान् मुखबिंबं सहस्रकम् || १-९३ || प्रोद्गीतन्तु त्रिलक्षणं स्याल्ललिताष्ट सहस्रकम् | प्. ९) सार्धकोटिस्तु सिद्धञ्च सन्तानं षट्सहस्रकम् || १-९४ || शर्वोक्तन्तु त्रिलक्षं स्यात् पारमेशं त्रिलक्षकम् | किरणं पञ्चकोटिः स्याच्छत साहस्रवातुलम् || १-९५ || तन्त्रमूर्तिञ्च संक्षेपात् प्रवक्ष्यामि महेश्वर | कामिकं पादयुग्मं स्याद् योगजङ्गुल्पयोर्युगम् || १-९६ || चिन्त्यं पादाङ्गुलिः प्रोक्तं जंघायुग्मन्तु कारणम् | अजितं जानुदेशं स्याद् दीप्तमूरु प्रदेशकम् || १-९७ || सुक्ष्मन्तु गुह्यदेशं स्यात् सहस्रन्तु कटीतटम् | अंशुमान् पृष्ठभागं(प्रष्ठ-) स्यान् नाभिः स्यात् सुप्रभेदकम् || १-९८ || विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् | स्वायंभुवं स्तन द्वंद्वमनलन्नेत्रमुच्यते || १-९९ || वीरञ्च कर्णदेशन्तु रौरवं श्रवणद्वयम् | मकुटं मकुटं तन्त्रमङ्ग प्रत्यङ्गमेव च || १-१०० || बाहू तु विमलं प्रोक्तञ्चन्द्रज्ञानमुरस्थलम् | मुखबिंबन्तु वदनं जिह्वा प्रोद्गीतमुच्यते || १-१०१ || कपोलौ ललितं प्रोक्तं सिद्धञ्चैव लला.टकम् | सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् || १-१०२ || पारमेशञ्च हारन्तु किरणं रत्नभूषणम् | कालोत्तरं तथा नाड्यो वायुर्द्वाविंशतिर्भवेत् || १-१०३ || वातुलं वसनं प्रोक्तं शिवधर्मनुलेपनम् | बिंबं पुष्पञ्चमाल्यञ्च सिद्धान्तञ्च निवेदनम् || १-१०४ || तन्त्रात्मकेन कायेन देवं दक्षिणतोमुखम् | आनन्द रूपममलं नृत्यन्तं निष्कलं शिवम् || १-१०५ || ध्यायेत् सिद्ध्यै गुरुर्नित्यं सन्ध्या काले विशेषतः | प्. १०) एवं सित्वान्त तन्त्राणामवतार उदाहृतः || १-१०६ || अन्येषां प्रोच्यते नात्र ग्रन्धविस्तारशंकया | कर्षणादि (कर्क्षणादि) प्रतिष्ठान्तं मूलेनैव समाचरेत् || १-१०७ || कृतञ्चेदुपभेदेन कर्ताभर्ता विनश्यति | केवलं यजनं प्रोक्तमुपभेदैर्विशेषतः || १-१०८ || प्रतिष्ठाद्यास्तु मूलैश्च षट्षष्ट्या कथितैः पुनः | आरब्धं येन तन्त्रेण कर्षणाद्यर्चनान्तकम् || १-१०९ || तेन सर्वं प्रकर्तव्यं न कुर्याद् अन्यतन्त्रतः | अनुक्तमन्यतन्त्रेभ्यः संग्राह्य देशिको चरेत् || १-११० || शिवसिद्धान्त तन्त्रेण प्रारब्धं कर्षणादिकम् | न कुर्याद् अन्यतन्त्रेण कुर्याच्चेत् तन्त्र संकरम् || १-१११ || तन्त्र संकर दोषेण राजराष्ट्रं विनश्यति | शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च || १-११२ || अन्येषां स्वस्वतन्त्रेषु विद्यते त्वथिकारिता || ११३अ || इति मकुट तन्त्रे त्रिसहस्रसंहितायां क्रियापादे तन्त्रावतारोनामप्रथमः पटलः || १ || || शिवार्चनाविधिपटलः || शिवपूजा प्रशस्तिः || वक्ष्ये नित्यार्चनं पुण्यं सर्वशिद्धिकरं शुभम् | महापातक दोषघ्नं सर्वैश्वर्य प्रदायकम् || २-१ || आत्मार्थपूजा आत्मार्थञ्च परार्थञ्च पूजा द्विविधमुच्यते | गुरुदेहे शुभे लिङ्गे स्थण्डिले च निजात्मनि || २-२ || क्षणिके मण्डले ते येऽप्यात्मार्थयजनं स्मृतम् | परार्थपूजा निर्मितं विधिना पूर्वं सुरैर्वामुनिभिर्नरैः || २-३ || स्वयमुद्गूत लिङ्गञ्च प्रतिमा चेश्वरात्मिका | परार्धे समाख्याताः सर्वेषामात्मनः फलम् || २-४ || (शिव द्विजस्य चातुर्वर्ण्य गुरुत्वम् * * * * |) चातुवर्ण्यस्य दीक्षायां विशेषात् ब्राह्वणो गुरुः || २-५ || (आत्मार्थ परार्ध पूजायिकारिणः * * * * |) विप्रक्षत्रियवीट्शुद्राः दीक्षिताश्च प्रवेशकाः || २-६ || आत्मार्थ यजनं कुर्युर्न कुर्युस्ते परार्थकम् (परार्धकम्) | ऊर्ध्वशैवैस्तु कर्तव्यमात्माथर्धिञ्च परार्धिकम् || २-७ || ऊर्ध्वशैव इति प्रोक्तः सशिवब्राह्मणो गुरुः | निर्वाणदीक्षितानाञ्चाऽप्यात्मार्थञ्च परार्थकम् || २-८ || शैवागमेषु परमं यस्माच्चैवाऽभिषेनम् | मकुटन्तु परन्नाम परताण्डव कीर्तनम् || २-९ || नाममन्त्राथिकं तन्त्र नादातीतात्मकंशुभम् | प्. १२) अन्यजातेस्तु दीक्षायामाभिचाराय कल्पते || २-१० || शौचविधिः || प्रातः काले शिवं ध्यात्वा सर्वकर्म शिवाय च | ग्रामस्ये शानदिक्भागे मलादीनि विसर्जयेत् || २-११ || गोस्थानाद् देवताऽवासाद् वल्मीकाच्च जलाशयात् | ब्राह्मणानाङ्गवां नॄणां स्त्रीणाञ्चाऽन्यत्र सन्निथे || २-१२ || शिरसि वेष्टनं कृत्वा मौनीचोत्तरतोमुखः | दत्थिणं हस्तमावृत्य प्रविशेत् सलिलाशयम् || २-१३ || नद्यान्तटाके कूपे वा शौचं कुर्याद् यथाविधि(-विथि) | मनशुद्धि क्रमं शौचं पादप्रक्षालनं क्रमात् || २-१४ || दन्तधावनम् || प्लाक्षोदुंबर निंबाद्यैः कुर्याद् वै दन्तधावनम् | अस्त्रमन्त्रेण नासास्यदन्त शुद्धिं समाचरेत् || २-१५ || त्रयाक्षरं सक्रज्जप्त्वा जिह्वाशुद्धिमनन्तरम् | मलस्नानम् | मलस्नानं पुराकृत्वा मन्त्रस्नानविधिं(-विथिं) शृणु || २-१६ || स्नानानि पञ्चप्रोक्तानि दीक्षितानां विशुद्धये | वारुणन्तैजसन्दिव्यं वायव्यं रजसां गवाम् || २-१७ || वारुणं वारिणा स्नानमाग्नेयं भस्मना भवेत् | वृष्ट्या साऽतपया दिव्यं वायव्यं रजसा गवाम् || २-१८ || मन्त्रैर्मानसमित्युक्तं एवं स्नानानि पञ्चधा(-था) | नद्यां वाऽपि तटाकायां कूपे वा तीर्धराशिषु || २-१९ || तोयं शुद्धमशुद्धं वा शिवालय समीपगम् | शिवगङ्गेति विख्याता शिवपाद प्रसेचनात् || २-२० || तेषामेक तमञ्गत्वा स्नानं कुर्याद् विशेषतः | प्. १३) कुर्याद् धस्त प्रमाणेन मण्डलञ्च तु रश्रकम् || २-२१ || अस्त्रेण हुंफडन्तेन मृदं गृह्णीत साधकः | सद्येन स्थापयेत् तत्र वाममन्त्रेण शोधयेत् || २-२२ || अघोरेण मृदं स्पृष्ट्वा त्रिधाकार्यानरेण तु | ईशानेन तु मन्त्रेण चेकेकमभिमन्त्रयेत् || २-२३ || षडङ्गं ब्रह्म जप्त्वा तु पूर्वादिषु विनिक्षिपेत् | अस्त्रजप्तं मृदोभागं दशदिक्षु विनिक्षिपेत् || २-२४ || सद्य जप्तं मृदोभागं तीर्थमथ्ये विनिक्षिपेत् | हुंफट्कारेण मन्त्रेण मूलनैव सुयोजयेत् || २-२५ || षोडशाक्षर कन्न्यस्त्वा स्वनामाद्येन लेखयेत् | अस्त्रं जप्त्वा तु बद्ध्नीयां मुद्रां संसारतारकाम् || २-२६ || जले सूक्ष्माश्चये दोषास्तेषामुच्चाटनं भवेत् | शिरोवक्त्रञ्च हृदयङ्गुह्यं पादौ च दक्षिणे || २-२७ || पूर्ववत् स्थाप्य मृत्पिण्डं सर्वाङ्गञ्च विलेपयेत् | उत्तरे स्थाप्य मृत्पिण्डं तीर्थमध्ये (-मथ्ये) विनिक्षिपेत् || २-२८ || पञ्चतीर्थानि | अङ्गुष्ठमूले ब्राह्मं स्यादङ्गुलीनान्तु मध्यमे | आग्नेयं पैत्रकं पश्चात् तर्जन्युष्ठमध्यतः || २-२९ || अङ्गुलीनान्तु मूलेषु देवतीर्थमुदाहृतम् | अङ्गुल्यग्रे तीर्थमार्षं पञ्चदेवांस्तु तर्पयेत् || २-३० || प्राशनं ब्रह्मतीर्थेन प्रोक्षणं वह्नितीर्थतः | स्पर्शनं पितृतीर्थेन देव तीर्थेन मार्जनम् || २-३१ || गृहणन्त्वार्षतीर्थेन विदध्यात् पञ्चधा पुनः | विधिस्नानम्(विथि-) | प्. १४) राजोपचारसहितं सुगन्धामलकादिभिः || २-३२ || हरिद्रा कुंकुमाद्यैश्च कुर्याद् अङ्गानुलेपनम् | (जलावगाहान्ते तु दिव्य स्त्री * परिसेवितम् || २-३४ ||) शिवमन्त्रेण शतधा जप्तेन ब्रह्मभिस्तथा | अङ्गैर्व्योम व्यापिना च त्र्यंबकाख्यादि मन्त्रतः || २-३५ || उदुत्यं चितृं देवानां मन्त्रेण च शिवेक्षणः | अभिषेकं शनैर्मूर्ध्नि विदध्याद् वक्त्रमुद्रया || २-३६ || शुद्धाचमनम् || प्राणयामन्ततः कृत्वा मन्त्रैराचमनं कुरु | दक्षपादं स्थले कृत्वा वामपादं जलेऽपि च || २-३७ || हस्तं संकुचितं कृत्वा पवित्रेण विभूषितम् | माषमत्र प्रमाणेन जलानां प्राशनं भवेत् || २-३८ || एवं त्रिवारं पीत्वाऽस्यमङ्गुष्ठेन द्विधा स्पृशेत् | मुखं हस्तेन संस्पृश्य पादावभ्युक्षयेत् ततः || २-३९ || अङ्गुष्ठामनामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः | अङ्गुष्ठ तर्जन्य ग्राह्यां संस्पृशेन्नासापुटद्वयम् || २-४० || पश्चात् कनिष्ठाङ्गुष्ठाभ्यां संस्पृशेन्नेत्रयोर्द्वयम् | अङ्गुष्ठमध्यमाग्राह्यां(-मथ्य-) बाह्वोर्युग्मं पुनः स्पृशेत् || २-४१ || स्पृशेत् पर्वाङ्गुलीभिश्च नाभिञ्च हृदयं शिरः | एवं कृक्त्वा तु मन्त्रज्ञो प्रत्यङ्गमुपसंस्पृशेत् || २-४२ || मन्त्राचमनं || ॠग्यजुः साम मन्त्रैश्च पिबेद् वारित्रयं पुनः | प्. १५) अथर्वणेऽति हासेन वक्त्रसंस्पर्शनं द्विधा || २-४४ || अभ्युक्षयेच्चिरः पादा वृषिषंघस्य कृप्तये | मूर्धानञ्चक्षुषी श्रोत्रे सर्वदेवेन्द्र कृप्तये || २-४५ || बाहुनाभिञ्च हृदयमिन्द्र विष्ण्वग्नि कृप्तये | पुनराचमनञ्चैव तन्मन्त्रैरेवमाचरेत् || २-४७ || विशेषाचमनम् || सद्यस्तत् पुरुषा घोरमन्त्रैः पीत्वा क्रमात् त्रिधा | संस्पृशेद् धृदये नैव सर्वाण्यङ्गानि देशिकः || २-४८ || विशेर्षाचमनं प्रोक्तं सायं मध्याह्नमुच्यते | * * * * शिवागमाङ्गक श्रीशिवद् ध्यानम् || २-४९ || कामिकं पादयुग्मं स्याद् योगजङ्गुल्पमेव हि | चिन्त्यं पादाङ्गुलिः प्रोक्तं जंघायुग्मन्तु कारणम् || २-५० || अजितं जानुदेशं स्यात् दीप्तमुरुप्रदेशकम् | सूक्ष्मन्तु गुह्यदेशं स्यात् (फ्यात्) सहस्रन्तु कटीतटम् || २-५१ || अंशुमान् पृष्ठदेशन्तु नाभिः स्यात् सुप्रभेदकम् | विजयं कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् || २-५२ || स्वायंभुवं स्तन द्वंद्वमनलं नेत्रमुच्यते | वीरञ्च कण्ठ देशन्तु रौरवं श्रवणद्वयम् || २-५३ || मकुटं मकुटं तत्रमङ्ग प्रत्यङ्गमेव च | भाहू तु विमलं प्रोक्तं चन्द्रज्ञानञ्च नासिका || २-५४ || बिंबाख्यं वदनं प्रोक्तं जिह्वा प्रोद्गीतमेव च | कपोलौ ललितं प्रोक्तं ललाटं सिद्धमेव च || २-५५ || सन्तानं कुण्डलं विद्याच्छर्वोक्तमुपवीतकम् | पारमेश्वर हारञ्च किरणं रत्नकुण्डलम् || २-५६ || प्. १६) कालोत्तरं तथा नाथ्यो वायु द्वाविंशके तु ना | वातुलं वसनं प्रोक्तं शिवधर्मन्तु लेपनम् || २-५७ || गन्धं पुष्पञ्च माल्यञ्च सिद्धान्तञ्च निवेदनम् | तन्त्रात्मकशरीरेण ध्यात्वा दक्षिणतोमुखम् || २-५८ || आनन्दरूपममलं नृत्यन्तं निष्कलं शिवम् | इत्येवं पूर्ववद् ध्यात्वा नटेशं चित्ररूपकम् || २-५९ || शिवमन्त्राभिषेकन्तु पादमुद्रात्वनन्तरम् | * * * * वैदिकसन्ध्यावन्दनम् || २-६० || आचामं विधिवत्(विथिवत्) कृत्वा नाममन्त्रं समुच्चरेत् | पुरुषाणाञ्च सावित्रीमष्टोत्तरशतं जपेत् || २-६१ || सौरञ्च सूर्यहृदयमुपस्थानमथाचरेत् | पञ्चब्रह्म षडङ्गैश्च व्योमव्यापिं त्र्ययंबकम् || २-६२ || उदुत्यं चित्रं देवानां हंसशुचिषदं जपेत् | सन्ध्याञ्चैव तु सावित्रीं गायत्रीं सर्वदेवताम् || २-६३ || ससंप्रदान नत्यन्ताः प्रोक्ताः काम स्वकरिषीः | साष्टाङ्गं प्रणमेद्गूमौनमोनम इति ब्रुवन् || २-६४ || पञ्चप्रदक्षिणं कुर्या तथाऽचम्य विधानतः | देवा नृषीन् पितृंश्चैव वामा घोराजशंबरैः || २-६५ || देवतीर्थेन देवानामृषीणा मृषितीर्थतः | पितृणां पितृतीर्थेन विदथ्यात् तर्पणं क्रमात् || २-६६ || * * * * * * * * वेदभाग पारायणम् | आचम्यविधिवत्(-विथिवत्) स्थित्वा || २-६७ || * * * * * * जातवेदं त्र्ययंबकम् | श्रीरुद्रं पुरुष सूक्तञ्च पञ्चब्रह्मषढङ्गकम् || २-६८ || उत्तराभिमुखो मौनी जपित्वा तु सकृत् घकृत् | प्. १७) तीर्थसङ्गृहणं कुर्यादस्त्र पंजरमध्यगः || २-६९ || पवित्रधारणम् | पवित्रपाणिर्मौनी तु सर्वकर्म समाचरेत् | दर्भद्वयेन वा दर्भैस्त्रिभिर्वा पञ्चभिस्तु वा || २-७० || अथवा सप्तभिः कुर्यात् पवित्रं मङ्गलं शुभम् | अग्रं वै चतुरङ्गुल्यं ग्रन्थिश्चन्द्राङ्गुलिः(ग्रन्धि-) स्मृता || २-७१ || द्व्यङ्गुलं रज्जुवलयमनामिकायां नियोजयेत् | ग्रन्थिर्ब्रह्माथिदैवत्योरज्जुर्विष्ण्वथि(गृन्धिर्-) दैवतः || २-७२ || अग्रं रुद्राथिदैवत्यं पवित्रस्याथि देवताः | पूजधामप्रवेशनं || कुशं पुष्पञ्च संग्राह्य प्रविशेद्यागमन्दिरम् || २-७३ || प्रक्षाल्य पादा वाचम्य भस्म स्नानमथाचरेत् | भस्म स्नानम् || भस्म स्नानं प्रवक्ष्यामि सर्वदुःख निवारणम् || २-७४ || गोमातरः स्थिताः भूमौ स्नानार्थञ्च शिवस्य तु | सर्वदेवात्मकं शुद्धं पवित्रं पापनाशनम् || २-७५ || दक्तञ्चैव हुतं भुक्तङ्गोषु सर्वञ्चराचरम् | अथ गोषु विशेषासु तदुत्पत्तिविधिं शृणु || २-७६ || गोसावित्रीं सकृज्जप्त्वा गन्धं पुष्पञ्च धूपकम् | दीपं सवत्सगोः पादे प्राणम्य प्रतिपादयेत् || २-७७ || गोरोचना कृतं लेपं क्षीरान्नञ्च निवेदयेत् | तांबूलं दापयित्वा तु गोसावित्रीं शतं जपेत् || २-७८ || तीक्ष्णश्रङ्गाय विद्महे वेदपादायधीमहि || २-तन्नो प्. १८) गावः प्रचोदयात् || गां सतीमित्थ माराध्य गृह्णीयादोमयन्ततः || २-७९ || कराभ्यां पद्मपत्रस्थं बिल्वपत्रञ्च धारयेत् | गृहीत्वा सद्यमन्त्रेण भूमावपतितङ्गुरुः || २-८० || पिण्डी कुर्याच्च वामेन घोरमन्त्रेण शोधयेत् | दग्ध्वा पुरुषमन्त्रेण ईशानेन परिगृहेत् || २-८१ || केतकी मल्लिकां नागं चंपकं पाटलन्तथा | पद्मं पलाशन्तुलसीमपामार्गं कुशाग्रकम् || २-८२ || जातिञ्च तत्र निक्षिप्य सद्भाण्डेषु परिग्रहेत् | विशुत्थं भस्म सङ्गृह्णीयाद् अग्निहोत्रसमुद्भवम् || २-८३ || तत् भस्मपरिगृह्णीत शिवमन्त्रमनुस्मरन् | निबद्ध ब्रह्ममुद्राभ्यां कराभ्यां भस्मधारयेत् || २-८४ || दक्षजानुनि संस्थाप्य शिवमन्त्रशतं जपेत् | ईशमन्त्रेणमूर्धानं वक्त्रं तत् पुरुषेण तु || २-८५ || हृदयं घोरमन्त्रेण गुह्यं वै वामन्त्रतः | सर्वाङ्गं सद्य मन्त्रेण गुरुरुद्धूलयेत् क्रमात् || २-८६ || जलस्नानं परं श्रेष्ठं मन्त्रैरेभिस्तु वर्तितम् | वस्त्रधारणम् || पूर्ववासः परित्यज्य शुद्धं वस्त्रं परिगृहेत् || २-८७ || पाणीपादौ च संशोध्य कुर्यादाचमनं बुधः | प्. १९) त्रिपुंट्रधारणम् || संधारयेत् त्रिपुंट्रञ्च शुद्धये सर्वकर्मणाम् || २-८८ || सर्वतिर्थेषु यत् स्नानं सर्वयज्ञेषु यत्फलम् | तत् फलं कोटिगुणितं भस्मोद्धूलं त्रिपुंट्रकम् || २-८९ || त्रिपुंट्रं बिन्दुदीपञ्च त्रिशूलञ्चार्द्ध चंद्रकम् | सर्वाङ्गोद्धूलनञ्चैव कथ्यते शिवलांछनम् || २-९० || देहेऽपिलांछनं कुर्यात् भस्मभिर्मिश्रचन्दनैः | दीक्षितानां द्विजातीनां त्रिपुंट्रन्तु षडङ्गुलम् || २-९१ || अदीक्षितानां वर्ण्यानां लक्षञ्चं वक्ष्यते शृणु | ब्राह्माणानां षडङ्गुल्यं नृपाणाञ्चतुरङ्गुलम् || २-९२ || वैश्यानाद्व्यङ्गुलं प्रोक्तं शूद्राणामेकमङ्गुलम् | अन्येषामपिसर्वेषां त्रिपुंट्रंशूद्रवद्भवेत् || २-९३ || नृपाणामीश्वराणाञ्च भस्ममिश्रित चन्दनम् | त्रिपुंट्रं विधिवत् कुर्यात् स्थानमानं क्रमाच्छृणु || २-९४ || ललाटे बाहुयुग्मे च हृदये च त्रिपुंट्रकम् | चतुरङ्गुलमन्येषु स्थानेष्वेकाङ्गुलं भवेत् || २-९५ || सन्धार्यं करयुग्मेन विशुद्धं भस्म देशिकैः | तर्जनी मध्यमानामै स्त्रिपुंट्रस्य प्रकल्पनम् || २-९६ || ब्रह्माविष्णुश्चरुश्च त्रिपुंड्रस्याधि (-ट्रस्याथि) दैवताः | मस्तके च ललाटे च ग्रीवायां (-पायां) कर्णयोऽस्तु वा || २-९७ || उरस्थले च बाह्वोश्च नाभौ पृष्ठे तथैव च | प्. २०) ऊर्वोश्चेव तु जान्वोश्च पादयोश्च क्रमान्न्यसेत् || २-९८ || ब्रह्मरंध्रे स्वयं ब्रह्मा सुब्रह्मण्यो ललाटके | कर्णे विनायको देवो नेत्रयोस्सोमसूर्यके? || २-९९ || बाह्वो रुद्रश्च विष्णुश्च हृदये च तथेऽश्वरः | नाभौ च दुर्गादेवी स्यात् पृष्ठे च पितरस्तथा || २-१०० || ऊरुद्वये च नागाश्च नागकन्यास्तथैव च | ऋषयश्चैव पत्न्यश्च जानुयुग्मे तथा पुनः || २-१०१ || पादयोरर्णवास्सप्त सर्वतीर्थानि च स्थिताः | स्थानानि च त्रिपुंट्रस्य देवाश्च परिकीर्तिताः || २-१०२ || षोडशाक्षरमन्त्रन्तु तत् तत् स्थानेषु विन्यसेत् | भस्मस्नान विधिः प्रोक्तो योगिसाधनानि || २-१०३ || * * * * * * योगिनां साधनं शृणु | आसनं प्रथमं प्रोक्तं द्वितीयञ्चाक्षमालिका || २-१०४ || त्रितीयं वेणुदंडञ्च चतुर्थं योगपट्टिका | कमंडलुः पञ्चमं स्यात् षष्ठं स्यादुत्तरीयकम् || २-१०५ || उष्णीषं सप्तमं प्रोक्तमुपवीतं तथाऽष्टकम् | पवित्रं नवमञ्चैव दशमं भस्मकीर्तितम् || २-१०६ || एकादशन्तु कौपीनं द्वादशन्दन्तकाष्ठकम् | त्रयोदशं मृत् ग्रहणं लक्षणं वक्ष्यते पृथक् || २-१०७ || आसनं कूर्मवत् कृत्वा लोभैर्वा दारुणाऽथवा | खादिरञ्चन्दनञ्चैव चंपकं बिल्वमेव च || २-१०८ || वृक्षाश्च आगमे प्रोक्तस्ते चत्वारस्तथा मताः | द्वितालन्तस्य विस्तारं समुत्सें षडङ्गुलम् || २-१०९ || प्. २१) पादाश्च द्व्यङ्गुगलोत्सेधार्दण्डञ्च चतुरङ्गुलम् | दर्पणोदर संकाशं पृष्ठभाग समाः पदाः || २-११० || इत्थं कुर्मासनं प्रोक्तं योगिनां पूर्वसाधनम् | जपमालांत्पुरोमालां शिरोमालां तथा पुनः || २-१११ || बाहुमालां हस्तमालां कण्ठमालाञ्च क्रमाच्छृणु | पञ्चविंशति रुद्राक्षैर्मुमुक्षूणां जपे स्मृतम् || २-११२ || षड्विंशतिः शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् | सप्तविंशतिभिर्भुक्तिः पुष्ट्यर्थमष्टविंशतिः || २-११३ || त्रिंशज्जयार्धिनां पञ्चदशकञ्चाभिचारके | इत्थं वै जपमाला स्यादन्यानां लक्षणं शृणु || २-११४ || कण्ठमारभ्य नाभ्यन्तं कण्ठमालाग्रकं भवेत् | शिरोमाला तु तन्नाहा बाहुमाला च तत्समा || २-११५ || हस्तमाला तु तन्नाहा कर्णमाला च तत्समा | दर्शनं पापनाशञ्च स्पर्शनं सर्वसिद्धिदम् || २-११६ || प्रागुक्तधारणात् पुण्यं रुद्राक्षधारणात् सदा | शुचिर्वाऽप्यशुचिर्वापि रुद्राक्षं धारयेत्सदा || २-११७ || स्वाऽपि कण्ठे तु रुद्राक्षधारणान्म्रियते यदि | सरुद्र पदमाप्नोति किम्पुनर्मानुषादयः || २-११८ || तस्मात् सर्व प्रयत्नेन रुद्राक्षं धारयेत्सदा | धाराणात् स्वर्गमाप्नोति पुनर्जन्म न विद्यते || २-११९ || धारयन्म्रियते यस्तु सयातिपरमाङ्गतिम् | रुद्राक्षाणामथोत्पत्तिरूपे शृणु महेश्वर || २-१२० || दिव्यवर्ष सहस्रन्तु चक्षुरुल्मीतं मया | मुञ्चन्ति मम नेत्राणि बिन्दवः पतितो भुवि || २-१२१ || प्. २२) बिन्दवो गुरुवृक्षाश्च फलं रुत्राक्षमुच्यते | एक वक्त्रं शिवस्साक्षादनन्तं धारणाद्फलम् || २-१२२ || धारयन्म्रियते यस्तु सयाति परमं पदम् | द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रन्नादमुच्यते || २-१२३ || चतुर्वक्त्रन्तु बिन्दुः स्यात्पञ्चवक्त्रं सदा शिवः | षड्वक्त्रमीश्वरः प्रोक्तो रुद्रः सप्तमुखः स्मृतः || २-१२४ || विष्णुश्चैवाऽष्टवक्त्रस्तु नववक्त्रश्चतुर्मुखः | नववक्त्रे कवक्त्रान्तं छलं शतगुणोत्तरम् || २-१२५ || हस्तकण्ठ शिखाकर्ण यज्ञसूत्रेषु सर्वदा | सर्वपाप प्रशान्त्यर्थं भस्मना सह धारयेत् || २-१२६ || राजवार्ता वणिग्वार्ता लोकवार्ता विशेषतः | रुद्राक्ष चालना देव मन्त्रवत् फलदा भवेत् || २-१२७ || रुद्राक्षाणां सहस्रैश्च कल्पितां शिवरूपिणीम् | यारयन्तः सदामालां सयाति परमाङ्गतिम् || २-१२८ || तस्मात् सर्वप्रयत्नेन रुद्राक्षैस्तु सदाजपेत् | वेणुदंड मृजुस्निग्धं व्रणकोटरवर्जितम् || २-१२९ || विप्राणां मस्तकोत्सेधं नृपाणां वक्षसः समम् | वैश्यानां बाहुमात्रं स्याच्छूद्राणां नाभिमात्रकम् || २-१३० || दंडमेवं विधं प्रोक्तं योगपट्टमिदं शृणु | व्याघ्राजिनमयं श्रेष्ठं मध्यं कृष्णाजिनात्मकम् || २-१३१ || अथवा तन्तुभिः कार्या त्रिविधा योगपट्टिका | विस्तारं त्र्यङ्गुलं तस्य मानं स्यादुपवीतकम् || २-१३२ || योगपट्टविधिः प्रोक्ता कमण्डलुविधिं शृणु | कमंडलु लक्षणम् || प्. २३) आढका पूरितं श्रेष्ठं मध्यं त्रिप्रस्थपूरितम् || २-१३४ || द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः | सौवर्णं राजतन्तामृमथवा मृण्मयन्तु वा || २-१३५ || यथोक्तं शिल्पशास्त्रेषु तथा कार्या कमंडलुः | * * * * * * * उक्तरीयोष्णीष लक्षणम् || २-१३६ || उत्तरीयन्तधोष्णीषं शुद्ध वस्त्रेण कारयेत् | यज्ञोपवीतं हेमं स्यादथवा तान्तवं सितम् || २-१३७ || उपवीतञ्चोत्तरीयं हृन्मन्त्रणैव धारयेत् | पवित्रं पूर्वमेवोक्तं अर्चनाङ्गविधिः || २-१३८ || अर्चनाङ्गविधिं शृणु | आसनं प्रसवञ्चार्घ्यङ्गन्धं पुष्पञ्च धूपकम् | दीपञ्चैव निवेद्यञ्च चाष्टाङ्गं संप्रकीर्तितम् || २-१३९ || अष्टाङ्ग सहितन्नित्यं पूजयेत् दक्षिणेश्वरम् | अर्चनान्ते तु पूजाया यथोक्तं हविरन्तिकम् || २-१४० || शान्तन्तञ्चैव बल्यन्तं पूजात्रिविधमुच्यते | पाद्यद्रव्याणि || उशीरञ्चन्दनञ्चैव दूर्वा सिद्धार्थमेव च || २-१४१ || चतुर्भिरङ्गैः संयुक्तं पाद्यमेव मुदाहृतम् | आचमनद्रव्याणि || चन्दनाऽगरुकर्पूरं मुरं जातीफलं तथा || २-१४२ || तक्कोलञ्चैव कुष्ठञ्च चन्दनञ्चैव पाटली | प्. २४) इत्थन्नवाङ्गसहितं प्रोक्तमाचमनीयकम् || २-१४३ || अर्घ्यद्रव्याणि कुशाग्रं क्षीरमापश्चयवं सिद्धार्धकन्तथा (सित्थार्ध-) | बिल्वपत्रन्तिलं ब्रीहिस्तुलसीश्चैव तंडुलम् || २-१४४ || अर्घ्यन्दशाङ्गमित्युक्तं गन्धद्रव्याणि | * * * * * * * * गन्धद्रव्यविधिं शृणु || २-१४५ || अगरुञ्चन्दनञ्चैव कुंकुमं कोष्ठमेव च | तदर्धं पादमात्रं वा कर्पूरेण समन्वितम् || २-१४६ || गन्धद्रव्यमिति प्रोक्तं पुष्पलक्षणम् | * * * * * * * * पुष्पाणां लक्षणं शृणु || २-१४७ || धवलाऽरुणकृष्णा निसात्विकादिगुणत्रयम् | सात्विकं श्वेतपुष्पन्तु रक्तपुष्पन्तु राजसम् || २-१४८ || तामसं कृष्णपुष्पन्तु पीतपुष्पन्तु शोभनम् | विशेषाद् राजसं पुष्प सपत्राणाञ्च धारयेत् || २-१४९ || कालयोग्य पुष्पाणि || नन्द्यावर्तञ्च पुन्नागं श्वेतार्कमुदये ददेत् | करवीरञ्च पद्मञ्च धुर्तूरं बृहती तथा || २-१५० || द्रोणपुष्पञ्च मध्याह्ने विशेषेण निवेदयेत् | सायाह्ने चंपकं मल्लीं धुर्तूरञ्च नियोजयेत् || २-१५१ || जातीकोकनदं नियोज्यावर्द्धरात्रके | सङ्गृहेत् सर्वपुष्पाणि वर्ज्यपुष्पाणि || २-१५२ || * * * * * * * * कुमुदानि विवर्जयेत् | अतिपक्वमपक्वञ्च मुकुलं कुत्सितं तथा || २-१५३ || केशकीलोपविद्धानि लूतसूत्राऽवृतानि च | स्वयं पतित पुष्पाणि पर्यूक्षितानि वर्जयेत् || २-१५४ || प्. २५) विशेषपुष्पम् || पुष्पजातिषु सर्वेषु गिरिपुष्पं विशिष्यते | पत्रजातिषु सर्वेषु विल्वपत्रं विशिष्यते || २-१५५ || (अनिर्माल्य पत्रपुष्पाणि) तुलसी बिल्वपत्रञ्च पलाशञ्च सुवर्णकम् | प्रक्षाल्य परमेशानमर्चयेच्च पुनः पुनः || २-१५६ || (पत्राणि) तुलसी कृष्णतुलसी सहदेवी च माथवी | कपामार्गं शमीचैव दलिका चाऽमलाकरी || २-१५७ || लक्ष्मी दूर्वाजटी चैव विशेषाद्धस्तिलक्षणी | एवं पत्राणि मुख्यानिकीर्तितानि विशेषतः || २-१५८ || सर्वपत्रेषु संग्राह्यं बिल्वञ्च तुलसी द्वयम् | पत्रं ब्रह्म प्रियं प्रोक्तं बिल्वं विष्णु प्रियन्तथा || २-१५९ || फलं रुद्र प्रियं प्रोक्तं सर्वं हिंसाविवर्जयेत् | सङ्गृहेच्छिवपूजार्थं पत्रं पुष्पं फलादिकम् || २-१६० || औषधीनां न हिंसा स्यातभवेन्न तु हिंसकः | इत्थं पुष्पविधिः प्रोक्तो (धूपद्रव्याणि) || २-१६१ || धूपद्रव्यविधिं शृणु || अगरुङ्गुग्गुलुञ्चैव निर्यासञ्चन्दनं गुलम् | मधुबिल्वफलञ्चैव गोष्ठञ्चोशीर गोघृतम् || २-१६२ || धूपद्रव्य विधिः प्रोक्ता (दीपविधिः) दीपस्यविधिरुच्यते | सुवासवर्तिका युक्तङ्गोघृतं तैलमेव च || २-१६३ || प्. २६) चतुस्त्रिद्व्यङ्गुलायामादीपज्वाला विशिष्यते | दीपप्रियो हि भगवान् दक्षिणामूर्तिनायकः || २-१६४ || पञ्चशुद्धिन्ततो वक्ष्ये शृणुष्वेवं महेश्वर | पञ्चशुद्धयः || पृथमात्वात्मशुद्धिस्तु द्वितीयं स्थानशोधनम् || २-१६५ || त्रितीया द्रव्यशुद्धिः स्याच्चतुर्थं (-र्धं) लिङ्गशोधनम् | पञ्चमा मन्त्रशुद्धिः स्याद्वक्ष्यते च पृथक् पृथक् || २-१६६ || उत्तराभिमुखो मौनीबद्धयोगासनः स्थिरः | दशदिक्बन्धनं कृत्वा शस्त्रमन्त्रं समुच्चरन् || २-१६७ || प्राणायामत्रयं कृत्वा प्रत्येकन्दशमात्रतः | प्राणयामविधिः || प्राणायामक्रमं वक्ष्ये शृणुष्वेवं महेश्वर || २-१६८ || रेचकं पूरक~चैव कुंभकञ्च त्रिधामतम् | रेचकं ब्रह्मदैवत्यं पूरकं विष्णु दैवतम् || २-१६९ || चंद्रार्कचरितं यस्य मृतकसूतकाश्रितम् | इडा चंद्रकला ज्ञेया पिङ्गला भास्करांशका || २-१७० || द्वयोश्च पूरणं वायोर्नासिका मंडलद्वयम् | रेचकं सूचकोपेतं पूरकं मृतकाश्रितम् || २-१७१ || सूतक प्रेतकं श्रुत्वा पूजा होमन्न कारयेत् | निष्घलन्न तु सान्निध्यं यथोक्तविधिनाऽधुना || २-१७२ || तस्मात् सर्वप्रत्नेन कुरु चंद्रार्क नाशनम् | चंद्रार्कनाशनं वक्ष्ये शृणुष्वेवं महेश्वर || २-१७३ || चंद्रार्कनाशनकालम् || प्. २७) कुंभक व्यापिनिरतं मौन कर्मनिरन्तरम् | दृढचित्तं सदाध्यानन् तस्य चंद्रार्कनाशनम् || २-१७४ || मृतकं सूतकं हित्वा यावन्निर्णयमुच्यते | चंद्रार्कनाशनं यावत् तावत् संपूजयेच्छिवम् || २-१७५ || आवाहनासनं तस्य मात्राद्वादशकं भवेत् | पाद्यन्तु पञ्चमातृं स्यादाचामन्तु त्रिमात्रकम् || २-१७६ || एकमात्रं भवेदर्घ्यं षण्मात्रं गन्धदापनम् | पुष्पं द्वादशमात्रं स्याद् धूपं पञ्चदशक्षणम् || २-१७७ || दीपदानन्तु षण्मात्रं हविःषोडशमात्रकम् | विदद्ध्याद्दशकार्याणि चंद्रसूर्य प्रणाशने || २-१७८ || स्नानं वस्त्रञ्चोपवीत त्रयन्दद्याद्यथा विधि | मात्रा द्वादशकोपेतं होमकर्मप्रकीर्तितम् || २-१७९ || मात्राभिरष्टाधिक्येन शतेन सहितोजपः | अर्चनाङ्गविधिः प्रोक्क्ता (अर्चनाविधि) अर्चनालक्षणं शृणु || २-१८० || आयुष्यधनधान्यादि रिपुनाशकरं शुभम् | देवप्रीति करन् तेन सर्वसाधनमुच्यते || २-१८१ || शुचिर्व्याप्यशुचिर्वापि स्वस्थो वा दुस्थितोऽपिवा | पूजयेत् सर्वकालेषु दिने रात्रौ न सा क्रिया || २-१८२ || चंद्रार्कनाशनं कृत्वा सर्वकालेषु पूजयेत् | चंद्रार्कनाशना देव पूजासिद्धिर्महेश्वर || २-१८३ || गुरुदेवन् नमस्कृत्य बध्नीयात्पादमुद्रिकाम् | जान्वादि नाभिपर्यन्तं पृथिवी स्थानमुच्यते || २-१८४ || प्. २८) अम्भस्थानन्तु नाभ्यन्तं वह्निस्थानङ्गलान्तकम् | वायुस्थानं ललाटान्तं तदूर्ध्व द्वादशाङ्गुलम् || २-१८५ || आकाशस्थानमित्युक्तमूर्वादि स्थानपञ्चकम् | स्थानं पञ्चविधं प्रोक्तं मडलानि क्रमाच्छुणु || २-१८६ || चतुरश्रञ्च चंद्रार्धन् त्रिकोणञ्च षडश्रकम् | वर्तुलञ्च पृथिव्यादिभूतानां मंडलं क्रमात् || २-१८७ || पीतं श्वेतन्तथा रक्तं धूम्रं कृष्णं यथा क्रमम् | बीजानि च यथा न्यायं लवरय हकारकाः || २-१८८ || शिखाग्रे द्वादशाङ्गुल्ये शुद्धस्फटिकसन्निभे | शिवज्ञानं नटेशाख्ये शिववस्तु स्वरूपिणि || २-१८९ || शिवतत्वे महासूक्ष्मे योजयित्वा दहेत्तनुम् | जान्वोस्तु प्रथमग्रन्धिर्द्वितीयो नाभिसंस्थितः || २-१९० || तृतीयस्तु गलग्रन्धिश्चतुर्थस्तु लर्लाके | पञ्चमस्तु शिरोग्रन्धिरस्त्रमन्त्रेण छेदनम् || २-१९१ || खबीजं प्रथमं स्मृत्वा चाग्निबीजेन योजयेत् | वायुबीजमनुस्मृत्य पञ्च ग्रंधीनि छेदयेत् || २-१९२ || हुंफडिति च मन्त्रेण वेष्टयेत् ग्रन्धिपञ्चकम् | देहं वै शुषकाष्ठञ्च ध्यात्वा चाऽग्नेय बीजकम् || २-१९३ || अग्निबीजमनुस्मृत्य ज्वालामालाभिरावृतम् | भस्मराशिमिवध्यात्वा ध्ययेन्मूर्तीं महेश्वरीम् || २-१९४ || चंद्रमंडलसंकाशं श्वेतपद्मोपरिस्थितम् | भस्मकूटाकृतिन् ध्यात्वा पादमुद्रां प्रकल्पयेत् || २-१९५ || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पृथिव्यादिनी भूतानि ब्रह्ममध्ये यथा स्मरेत् || २-१९६ || मृणालतन्तुवत्तन्वी मध्ये तु ब्रह्मनाडिका | शिव तत्वा दधस्स्थाने ध्यात्वा व्योम्नोऽथ मंडलम् || २-१९७ || प्. २९) चंद्रबीजमनुस्मृत्य सुधयाप्लावयेत् ततः | क्षीरवत्व मृताकारं पादाङ्गुल्यग्र पूर्णकम् || २-१९८ || ओंकारबीजमकलं योगाभ्यासादथोमुखम् | तेनाऽप्लाविनमात्मानमिति पूर्णं विचिन्तयेत् || २-१९९ || सम्यज्जानमयं देहं सर्वभूतालयं शुभम् | आत्मानमानयेत् पूर्वं पश्चाद् देहं विचिन्तयेत् || २-२०० || आचार्यमूर्ति ग्रहणं साधकानां भवेत् ततः | तद्भावं भावयित्वा तु ज्ञानमुद्रां प्रकल्पयेत् || २-२०१ || आधाराऽधेय योर्वर्णं शृणुष्वेवं महेश्वर | त्र्यश्रन्तदूर्ध्वे षट्कोणन् तदूध्वेवर्तुलत्रयम् || २-२०२ || परन्त्रिकोणमूर्ध्वे च प्रोक्तमाधार लक्षणम् | चतुर्वर्णन्तु पूर्वं स्यात् तत् परन्तु षडक्षरम् || २-२०३ || अक्षरं सर्ववर्णाख्यमाम्नायार्थमयं शुभम् | मृणालतन्तुवद् रूपं वृत्तं ज्योतिस्वरूपकम् || २-२०४ || परवास्तुषडाधारमाधारमधितिष्ठतम् | मृणाल तन्तुवद् रूपं वृत्त ज्योतिस्वरूपकम् || २-२०५ || अकारादिक्षकारान्तमादीरूपं सुनिश्चितम् | अंसानामात्म मध्यस्थमविकार स्वरूपकम् || २-२०६ || आद्यन्त शून्यममलं नागाभरणभूषितम् | अनादि सिद्धमाधारं वर्तुलं बीजरूपकम् || २-२०७ || वरिष्ठां द्यादीबीजन्तु सद्यान्तञ्चतुरक्षरम् | त्रिकोणे त्वक्षरन्यस्त्वा मध्ये सद्यादिवर्णकम् || २-२०८ || प्. ३०) बन्धयेत् पूर्वबीजेन न्यसेद् उक्तविधानतः | षट्कोणाद्यादिकं न्यस्त्वा षडक्षरं क्रमान्न्यसेत् || २-२०९ || डंभाद्यादिषु यत् बीजं फणाद्यन्तद् दशाक्षरम् | वृत्त मण्डलमेवञ्च वृत्तञ्चैव क्रमान्न्यसेत् || २-२१० || एकादशाक्षरन्न्यस्त्वा वृत्तमध्ये तु तेजसम् | वृत्तमध्ये विशेषन्तु मनोवाक्का?य बीजकम् || २-२११ || अकाराक्षरमारभ्य प्रान्ते त्वाकारमालिखेत् | वृत्ते वृत्तं क्रमान्न्यस्य षोडशाक्षरमेव च || २-२१२ || हकारादीनि बीजानि क्षकारान्तानि देशिकः | त्रिकोणे त्र्यक्षरन्न्यस्त्वादूर्ध्वाश्रादि क्रमान्न्यसेत् || २-२१३ || इत्थमक्षर रूपणे ध्यात्वा दक्षिणतोमुखम् | तदन्ते पादमुद्राञ्च ज्ञानमुद्राञ्च कल्पयेत् || २-२१४ || ध्यायेद् देवन्तु मनसा कारपूजाविधिं शृणु | करन्यासं पुरा कृत्वा सर्वकर्माणि कारयेत् || २-२१५ || ब्रह्ममुद्रां पुराकृत्वा वह्निबीजेन शोधयेत् | तले पृष्ठे च करयोरस्त्र मन्त्रेण शोधयेत् || २-२१६ || अङ्गुष्ठादि कनिष्ठान्तमीशानादीन् क्रमान्न्यसेत् | कनिष्ठादि प्रधानान्तं षडङ्गानि क्रमान्न्यसेत् || २-२१७ || कराभ्यां मन्त्रमुद्राञ्च महानादन्तु बन्धयेत् | सद्यान्तकं कनिष्ठादि संहार न्यासमुच्यते || २-२१८ || अङ्गुष्ठादि कनिष्ठान्तं षडङ्गन्यासमुच्यते | ब्रह्मचारि गृहस्थानां सृष्टिन्यासमुदाहृतम् || २-२१९ || प्. ३१) वानप्रस्थ यतीनाञ्च संहार न्यासमुच्यते | मध्यादि तर्जन्यन्तं शिवाङ्गानि क्रमान्न्यसेत् || २-२२० || पानप्रस्थमिदन्न्यस्त्वा संहार न्यासमुच्यते | मध्यादितर्जन्यन्तन्तु शिवाङ्गानि क्रमान्न्यसेत् || २-२२१ || पानप्रस्थमिदन् न्यस्त्वा पूर्वोक्त विधिना ततम् | अष्टविद्येश्वरान् पश्चादङ्गुष्ठादि क्रमान्न्यसेत् || २-२२२ || प्रासादं विन्यसेत् पश्चात् करशाखासु पर्वसु | मूलप्रक्रतिकन् न्यस्त्वा यथा पूर्वन् न्यसेत् ततः || २-२२३ || चन्दनाऽलेपनं कृत्वा गन्धपुष्पैरलंकृतम् | शिवमन्त्रं स कृज्जप्त्वा बध्नीयाद्ब्रह्ममुद्रिकाम् || २-२२४ || संस्पृशेन् मन्त्रहस्ताभ्यां सर्वाङ्गं मस्तकादिकम् | मूलबीजमनुस्मृत्य लिखित्वा वर्णमाकृतिम् || २-२२५ || वर्णमन्त्रं कलामन्त्रं पिंडमन्त्रञ्च विन्यसेत् | वर्णमन्त्र विशेषन्तु शृणुष्वेवं महेश्वर || २-२२६ || वर्णमन्त्र || शकाराद्यादि सान्तञ्च पृथ्व्यन्तं सान्तमादितः | चवर्गादि तृतीयादि वपूर्वान्तं समुच्चरन् || २-२२७ || षोडशान्तादि चंद्रान्तं सर्गादि प्रथमान्तकम् | हान्तं लान्तं सकारान्तं क्रमादेव समुच्चरेत् || २-२२८ || ब्रह्मबीज विसर्गान्ता पञ्चम ब्रह्मबीजकम् | बीन्दुनादसमायुक्तं वर्णमन्त्रमिदं शुभम् || २-२२९ || प्. ३२) इत्थं वै वर्णमन्त्रन्तु वर्णन्यासं क्रमाच्छृणु | अकारं मूर्ध्नि विन्यस्याऽकारन्तु ललाटके || २-२३० || इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके | उकारं दक्षनासायामूकारं वामके पुटे || २-२३१ || ऋकारं दक्षिणे कर्णे ॠकारं वामकर्णके | ऌकारं दक्षिणे गंडे ॡकारं वामगंडके || २-२३२ || एकारमोष्ठके न्यस्य ऐकारमधरे न्यसेत् | ओकारमूर्ध्वदन्ते च औकारं दशनेत्वधः || २-२३३ || अंकारं तालुमूले च अःकारन्तालुमस्तके | कवर्गं दक्षिणे हस्ते च वर्गं वामहस्तके || २-२३४ || टवर्गं दक्षिणे पादे तवर्गं वामपादके | पछौ च दक्षिणे पार्श्वे बभौ वामपाश्वके || २-२३५ || मकारं नाभिदेशे तु यकारन्त्वचि विन्यसेत् | रेफं रक्त प्रदेशे तु लकारं मांसदेशके || २-२३६ || वकारं मेदसो देशे शकारं स्नायु देशके | मज्जादेशे षकारन्तु सवारं शुक्लदेशके || २-२३७ || हकारं प्राणमित्युक्तं भ्रूमध्ये च प्रविन्यसेत् | लकारं मेढ्रदेशे च क्षकारं प्रषणे न्यसेन् || २-२३८ || कलान्यास || अथ शास्त्र क्रमादुक्त कलान्यासविधिं शृणु | द्वादशं बीजमुच्चार्य मूलमन्त्रं समुच्चरेत् || २-२३९ || कलामन्त्राः क्रमेणैव पञ्चब्रह्ममनुस्मरन् | पञ्चब्रह्माकृतयः || पञ्चब्रह्माकृतिं वक्ष्ये शृणुष्वेवं महेश्वरम् || २-२४० || प्. ३३) शुद्धस्फटिकसंकाशञ्चतुर्वक्त्रञ्चतुर्भुजम् | हारकेयूर कटक कुण्डला भरणोज्वलम् || २-२४१ || गोमेदक कीरीटञ्च श्वेतज्ञोपवीतकम् | खेटटंक समायुक्त वरदाभय पाणिकम् || २-२४२ || भास्वर प्रभबालेन्दुं सद्योजात स्वरूपकम् | वामदेवोद्भवं रक्तञ्चतुवक्त्रञ्चतुर्भुजम् || २-२४३ || मंजीरकं कणोद्भासि कटिसूत्रोदरन्तथा | प्रवालमकुटञ्चैव हेमयज्ञोपवीतकम् || २-२४४ || वरदाभय संयुक्तं पाशटंककरद्वयम् | त्रिनेत्रं त्रिविलासञ्च कर्णकुंडलमंडितम् || २-२४५ || एतद् वै वामदेवस्य मन्त्रमूर्ति स्वरूपकम् | अघोरं दक्षिणं भीमं भिन्नांजन समप्रभम् || २-२४६ || अष्टबाहुं त्रिनेत्रञ्च चतुर्वक्त्रं जटाधरम् | रक्तांबर धरञ्चैव रक्तवस्त्रोत्तरीयकम् || २-२४७ || रक्तचन्दनलिप्ताङ्गं रक्तमालाविभूषितम् (-क्षितम्) | शूलं वेताल खट्गञ्च चक्रं दक्षकरैर्धरम् || २-२४८ || नागं खेटञ्च घंटाञ्च विस्मयं वामपाणिभिः | नीलाङ्गुलीयकञ्चैव नागयज्ञोपवीतकम् || २-२४९ || एवं त्वघोरमन्त्रस्य मन्त्रमूर्ति स्वरूपकम् | पुरुषं कुकुमाकाशञ्चतुर्वक्त्रञ्चतुर्भुजम् || २-२५० || सव्ये वामे दधत्टंकं कमलंडमरुङ्गदाम् | त्रिनेत्रं सौम्यवक्त्रन्तु किंचित् प्रहसिताननम् || २-२५१ || होमाङ्गुलीयकञ्चैव हेमवस्तोत्तरीयकम् | मुक्ता फलकिरीटञ्च माणिक्कादङ्गुलीयकम् || २-२५२ || २- प्. ३४) एतत् पुरुषमन्त्रस्य मन्त्रमूर्ति स्वरूपकम् | दशबाहु त्रिनेत्रञ्च पञ्चवक्त्रं जटाधरम् || २-२५३ || वज्रं शूलं दंडखट्गमभयं दक्षिणैर्दधत् | पाशांकुशञ्च डमरुकं दधानं वामपाणिभिः || २-२५४ || माणिक्कमकुटञ्चैव माणिक्काङ्गुलि भूषणम् | सौम्यं स्फटिकवर्णाभमीशानमूर्ति रूपकम् || २-२५५ || अघोरमूर्ति रौद्रन्तु शेषाः सौम्या उदाहृता | तत् ब्रह्मरूप सौम्यं तत् परमं सृष्टिकारणम् || २-२५६ || वामन्तु वैष्णवं श्रेष्ठं स्थिति कारणमेव च | अघोरं रुद्ररूपं तु प्रोक्तं संहारकारणम् || २-२५७ || ईश्वराङ्गं तु पुरुषमैर्श्व्यस्य प्रदायकम् | सदा शिवं तथेशानं महामोक्षप्रदायकम् || २-२५८ || इत्थं ब्रह्माधिदैवत्यं कलान्यासविधिं शृणु | कलावेदमयाश्रेष्ठाः कलामन्त्रञ्च तान्त्रिकम् || २-२५९ || कलाभिस्तु कलाशक्तिं न्यसेद् दक्षिणमीश्वरम् | कलाब्रह्म वदाकाराः कन्याकारास्तु शक्तयः || २-२६० || सृणिपाशवराभीति विभूषित करांबुजाः | सर्वाभरण संपूर्णार्मकुटैरुपशोभिताः || २-२६१ || ईशानस्य कलाः पञ्चपुरुषस्य चतुष्कला | अघोरस्य कलाश्छाष्टौ वामदेवं त्रयोदश || २-२६२ || अष्टौ सद्यकलाश्चैव चाष्टस्त्रिंशत्कलास्त्विमाः | कलाभिस्तु कलाशक्ति न्यासं वक्ष्ये क्रमाच्छृणु || २-२६३ || शशिनीचाङ्गदाचैव तथेष्टा च मरीचिका | ज्वालिनीतिकलाः पञ्चक्रमादेताः प्रविन्यसेत् || २-२६४ || प्. ३५) पूर्वन्तु दक्षिणं पश्चादुत्तरं पश्चिमन्तथा | ऊर्ध्वन्तु मूर्धात्वीशान स्थान पञ्च सुविन्यसेत् || २-२६५ || शान्ति विद्या प्रतिष्ठा च निवृत्तिश्च चतुष्कलाः | एताः पुरुष शक्तीस्तु चतुर्वक्त्रेषु विन्यसेत् || २-२६६ || पूर्वञ्च दक्षिणञ्चैव सौम्यञ्चैव तु पश्चिमम् | तमा मोहाक्षयानिष्ठा मृत्युर्मायाऽभयोजान् || २-२६७ || एताः कलास्त्वघोरस्य हृदयादिषु विन्यसेत् | हृदये चैव कण्ठे च स्कन्धयोश्च तथैव च || २-२६८ || उदरे चैव नाभौ च पश्चात् भागे तथैव च | उरसीत्यष्टसु स्थाने वक्ष्यते च यथा क्रमम् || २-२६९ || रजारक्षारतिश्चैव पालीकामा च सम्यगा? | कार्याबुद्धि क्रियाधात्री भ्रामिणी च तथा पुनः || २-२७० || मोहिनी चाभया वाम त्रयोदशकलास्त्विमाः | मेढ्रे गुदे च ऊर्वोश्च जान्वोश्चैव तु जंघयोः || २-२७१ || पश्चाज्जघनयोः कट्याम्पार्श्वे योश्च क्रमान्न्यसेत् | सिद्धि ऋद्धिर्द्युतिश्चैव लक्ष्मीमेधा तथैव च || २-२७२ || कान्तिःस्वधा स्थितिस्ताश्च सद्योजात कलास्त्विमा | पादयोः करयोश्चैव स्तनयोः कक्षयोर्न्यसेत् || २-२७३ || ध्यात्वा शिवमयं रूपष्ट त्रिंशतलात्मकम् | तदन्ते पिण्डमन्त्राणि (पिंढ-) तत् तत् स्थानेषु विन्यसेत् || २-२७४ || ईशानं मूर्ध्नि विन्यस्य मुखे तत् पुरुषन्न्यसेत् | अघोरं हृदयेर्न्यस्य गुह्ये वामं प्रविन्यसेत् || २-२७५ || अजातं पादयोर्न्यस्य पुनाङ्गानि विन्यसेत् | हृदयं हृदिविन्यस्य शीरश्शिरसि विन्यसेत् || २-२७६ || प्. ३६) शिखायान्तु शिखां न्यस्य कवचं स्तनयोर्न्यसेत् | नेत्रेषु नेत्रमस्त्रेण दशदिक्बन्धनं स्मृतम् || २-२७७ || पञ्चब्रह्म षडङ्गानां क्रमात् बीजाक्षरं शृणु | आकाश बीजवर्गे तु षडक्षर विवर्जिते || २-२७८ || अजातं प्रथमं प्रोक्तं त्रितीयं वाममुच्यते | अघोरं पञ्चमं प्रोक्तं तरमेकादशं भवेत् || २-२७९ || त्रयोदशार्णमीशानं ब्रह्मबीजमुदाहृतम् | द्वितीयं हृदयं प्रोक्तञ्चतुर्थं वदनं भवेत् || २-२८० || षष्टाक्षरं शिखामन्त्रं द्वादशं कवचं मनुः | नेत्रञ्च दशमं प्रोक्तमस्त्रं षोडशकं तथा || २-२८१ || नमः स्वाहा वषडौषट् हुंफट्कारसमन्वितम् | इदमप्यङ्ग रक्षार्थं विन्यसेत् तु षडङ्गकम् || २-२८२ || षडङ्गदेवता वर्णं शृणुष्वेवं महेश्वर | श्वेतं वीतञ्च रक्तञ्च कृष्णं विद्युच्च कुंकुमम् || २-२८३ || चतुर्बाहुं त्रिनेत्रञ्च वराभय समायुतम् | कपाल शूलवरदं परशुं पाणिभिर्धृतम् || २-२८४ || अस्त्रं नेत्रञ्च रौद्रन्तु शेषाः सौम्या इति स्मृताः | गन्धं पुष्पञ्च धूपञ्च वर्णमन्त्रेण दापयेत् || २-२८५ || स्वरूपं पूजयेद्ध्यात्वा ज्ञानमुद्रन्त्वनन्तरे | पिण्डमन्त्रं जपेत् पश्चात् बीजानां कारणं शृणु || २-२८६ || वीरं बीजान्तमन्तस्थ नादं षोडशमात्रकम् | सर्वमन्त्रात्मकं मन्त्रं पिण्डमन्त्रमिदं शुभम् || २-२८७ || प्. ३७) सकृज्जप्त्वा शिवं ध्यात्वा बध्नीयात् ज्ञानमुद्रिकाम् | लिङ्गभेदानि || लिङ्गभेदक्रमं वक्ष्ये विशेषात् तु यथा क्रमम् || २-२८८ || लिङ्गं द्वयमिति प्रोक्तञ्चलञ्चैवाऽचलं तथा | चललिङ्गे सदा वासं पूजयेत् परमेश्वरम् || २-२८९ || अचलल्लिङ्गे देवन्तु मन्त्र संस्कार पूर्वकम् | मन्त्र संस्कार हीने तु लिङ्गमाकृतिमात्रकम् || २-२९० || चललिङ्गविशेषन्तु गुरुर्देवो महेश्वर | स्थावरं जङ्गमञ्चैव लिङ्गं द्विविधमुच्यते || २-२९१ || जङ्गमस्यावमानेन स्थावरे निष्फलं भवेत् | चललिङ्गं द्वयं प्रोक्तं ज्येष्ठश्चाचार्य एव च || २-२९२ || ज्येष्ठाचार्य द्वयौ देवौ सृष्टिस्थित्यन्त हेतुकौ | एतेषां जङ्गमोत् कृष्टं स्वामिनां तु महेश्वर || २-२९३ || तस्मात् सर्व प्रयत्नेन स्वामिरूपं सदार्चयेत् | कर्मस्य चोभयार्थी च सादाख्यन्तत्वमर्चयेत् || २-२९४ || सतुवस्तु स्वरूपन्तु परं सादाख्य तत्परम् | सर्वदेवा कृतिं शुद्धं सदाशिवं महेश्वर || २-२९५ || पूर्वाकृतिं परित्यज्य सादाख्या कृतिरेव च | सादाख्ये च तदुर्ध्वे च विन्यसेन्नृक्तरूपकम् || २-२९६ || नृक्तरूपं सदाध्यात्वा दक्षिणालयमादिकम् | ज्योतिरूपं नटन्नित्यं सृष्टिस्थित्यन्त कारणम् || २-२९७ || नव तत् व्यमयं स्थानं सर्वसंपत्करं परम् | चतुर्बाहुं सदा नृक्तं नादान्ताक्तस्य कारणम् || २-२९८ || प्. ३८) शुभं परमनिर्वाणं सर्वदेव सदाशिवम् | सादाख्यस्य च रूपन्तु ध्यात्वा मध्ये नटेश्वरम् || २-२९९ || हृत्पद्ममध्ये संस्थाप्य नादतन्त्रं कलामयम् | एकवक्त्रञ्चतुर्बाहु द्विपादं वृत्तमध्यकम् || २-३०० || अङ्गुष्ठामात्रमचलं शुद्ध तत्वं नवात्मकम् | वर्णमन्त्रं समुच्चार्य सादाख्या कृति चिन्तनम् || २-३०१ || आत्मानन्तु सकारस्थ मन्तरात्मा तु बिन्दुकम् | परमात्मा खबीजस्थो नादः षोडशमात्रकः || २-३०२ || सर्वं हृदयमन्त्रेण पूजयित्वा यथाक्रमम् | अष्टत्रिंशत् कलान्यासमष्ट त्रिंशात्म मन्त्रकम् || २-३०३ || अष्टत्रिंशत्परन्नृक्त न्यासकाल क्रमं शृणु | देहशुद्धिकरन्यासमन्तर्यागात्म मन्त्रकम् || २-३०४ || योगञ्च नृक्तमन्त्रञ्च पूर्वस्थाने क्रमान्न्यसेत् | आत्मशुद्धि क्रमं प्रोक्तं स्थानशुद्धिः || २-३०५ || स्थाशुद्धि क्रमं शृणु हस्तमात्रं खनेद्भुमिं तन्मृद्भिः पूरयेत् क्रमात् | सम्यक् परीक्ष्य बहुधा लोष्ठास्ध्यादीनि वर्जयेत् || २-३०६ || समंभूमितलं कृत्वा प्रोक्षयेत् पञ्चगव्यतः | वितानद्ध्वजसंयुक्तं कदलीकृमुकान्वितम् || २-३०७ || दर्भमाला समायुक्तं मुक्तादामविभूषितम् | पुष्पमाला समाकीर्णं प्रोक्षयेत् कुशवारिणा || २-३०८ || स्थानशुद्धिक्रमं प्रोक्तं द्रव्यशुद्धिक्रमं शृणु | स्नानपात्रमथाचामपात्रमर्घस्य पात्रकम् || २-३०९ || प्. ३९) सामान्यार्घ्यस्य पात्रञ्च जलभांडञ्च शोधयेत् | हृन्मन्त्रेण निरीक्ष्याथ कवचेनावकुण्ठयेत् || २-३१० || सर्वपात्रमथाप्लुत्य वारिणा च प्रपूरयेत् | आनीयजलपूरित्वा कुरुमुद्राञ्च सौरभीम् || २-३११ || उच्चार्य हृदयं मन्त्रं गन्धपुष्पं प्रदापयेत् | बद्ध्वा तु सौरभीमुद्रां मूलबीजं न्यसेत् क्रमात् || २-३१२ || ततश्चोपरिसंशोद्ध्य न्यसेत् प्रासादमन्त्रकम् | घण्टाया धूपदीपौ च दद्यादीशान मन्त्रतः || २-३१३ || सर्वद्रव्याणि संप्रोक्ष्य कुशेनैव शिवांसा | प्रोक्षयेत् स्थलपार्श्वं वै स्थापयेद् धूपभाजनम् || २-३१४ || धूपपात्रस्य पूर्वेऽपि प्रजापति वनस्पतिः | पात्राणां पश्चिमेभागे खंटास्थानं प्रकीर्तितम् || २-३१५ || घंटानामधि देवास्तु वसुस्सोमोयमस्तथा | द्रव्यशुद्धिस्समाख्याता भूमिदेव्यर्चनां शृणु || २-३१६ || पूजयेत् गन्धपुष्पाद्यैः स्वनाम्नाभूमि देवताम् | पूर्वाशाभिमुखीं शुद्धां पद्मासन समास्थिताम् || २-३१७ || त्रीणिपाद्यादि पात्राणि क्षालयेदस्त्रमन्त्रतः | शुद्धोदकेन संपूर्य सौरन्यासं समाचरेत् || २-३१८ || वह्निबीजं विसर्गान्तमस्त्राय फटिति ब्रुवन् | स्थले पीठे च संशोद्ध्य करयोर्दक्षवामयोः || २-३१९ || मूलमन्त्रं षडङ्गञ्च क्रमाद्वक्ष्ये महेश्वर | प्रणवं वायुसंयुक्तं लकारन्तकमक्षरम् || २-३२० || सद्बिन्दुमूलदीर्घञ्च पुनस्तच्छिरसायुतम् | व्योमपूर्व विसर्गान्तं सूर्यमन्त्रं नमोन्तकम् || २-३२१ || प्. ४०) सान्तबिन्दु समायुक्तं हृदयं हृदये न्यसेत् | अर्कायशिरसे न्यस्य भूर्भुवस्वः शिखान्न्यसेत् || २-३२२ || ह्रूंकारं कवचन्न्यस्त्वा त्रिवेदी नेत्रमन्त्रकम् | अग्निबीजं विसर्गान्त सौरास्त्रेण समन्वितम् || २-३२३ || कान्तबिन्दु समायुक्तमर्चयेच्छिवमव्ययम् | अबिन्दुमेकमुच्चार्य खषोल्कं सूर्यान्तमुच्चरन् || २-३२४ || मन्त्रेणानेन गन्धञ्च पुष्पञ्चैव प्रदापयेत् | दशाक्षरेण धूपान्तमर्चयेद्रक्तचन्दनैः || २-३२५ || अर्यमाणं प्रतिष्ठाप्य सौरद्ध्यान क्रमं शृणु | एकवक्त्रं द्विबाहुञ्च द्विनेत्रं ध्रतपंकजं || २-३२६ || तेजो मंडल संस्थाप्य रक्तवास समुज्वलम् | सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् || २-३२७ || रक्तवर्णं महात्मानं ममरूपं महेश्वर | चतुर्वक्त्रमष्टबाहुं ध्यायेद्दिवसनायकम् || २-३२८ || त्रिनेत्रञ्च चतुबाहुन्तमोघ्नञ्च दिवाकरम् | सप्ताश्वरथमारूढं प्रभाकरं विभाकरम् || २-३२९ || उषावरण संयुक्तं प्रभासंघ समन्वितम् | मेधाप्रज्ञा समायुक्तं सोमादि गृहसंयुतम् || २-३३० || सोमाङ्गारबुधाश्चैव जीवशुक्रशश्चैराः | राहुः केतुः क्रमादेते गृहामृत्यु विनाशनाः || २-३३१ || गोक्षीरवर्णः सोमः स्यादङ्गारो रक्तवर्णकः | स्यामवर्णो बुधः प्रोक्तो नीलवर्णो बृहस्पतिः || २-३३२ || शुक्रः कुन्देन्दुवर्णस्तु कृष्णवर्णः शनैश्शरः | कालमेघनिभोराहुः केतुर्धूम्राभ उच्यते || २-३३३ || प्. ४१) पद्मासनस्थिताः सर्वे सर्वलक्षण संयुताः | सर्वाभरण संपूर्णा द्विभुजाः परिकीर्तिताः || २-३३४ || सोममुत्तरदिक्भागे पूर्वस्यान्दिशिभार्गवः | अङ्गारकं याम्यभागे पश्चिमे तु बृहस्पतिः || २-३३५ || शनैश्चरस्तथे शान्यामाग्नेययां राहुमेव च | केतुञ्च नै-ऋते भागे विन्यसेत् बुधमानिले || २-३३६ || पुरस्ताद्रथमश्वञ्च अरुणं पुरतो न्यसेत् | प्रभामुषाञ्च सन्ध्याञ्च प्रज्ञाञ्चैव तु विन्यसेत् || २-३३७ || रवेश्च सूर्य चंडेशमैशान्यां दिशिपूजयेत् | अथाष्टौ लोकपालांश्च तत् तत् स्थानेषु पूजयेत् || २-३३८ || गन्धपुष्पादिकं सर्वं स्वनाम्ना प्रतिपादयेत् | षडङ्गन्यासमर्भ्यर्च्य अर्घ्यञ्चैव प्रदापयेत् || २-३३९ || सूर्यार्चनविधिः प्रोक्ता प्रकारलक्षणं शृणु | पञ्चप्रकारनामानि शृउणुष्वेवं महेश्वर || २-३४० || अन्तर्मंडलमाद्यं स्यादन्तर्हारं द्वितीयकम् | मध्यहारं त्रितीयञ्च मर्यादञ्च चतुर्थकम् || २-३४१ || महामर्यादकञ्चैव पञ्चमं तत् प्रकीर्तितम् | एतेषामथमानञ्च प्राकाराणां शृणु क्रमात् || २-३४२ || अन्तर्मंडल मानंस्यदर्धदंडप्रमाणतः | अन्तर्हारन्त्वे कदंडं मध्यहारं द्विदंडकम् || २-३४३ || चतुर्दण्डञ्च मर्यादं सप्तदंडञ्च (-दंढञ्च) पञ्चमम् | कूपस्थान द्वितीये स्यात् प्राकारे स्याद् दिशीशितुः || २-३४४ || प्. ४२) अन्तरे चेंद्रानलयोर्धन स्थानं प्रकीर्तितम् | आग्नेय यमयोर्मध्ये वस्त्रशाला समीरिता || २-३४५ || वायोश्च सोमयोर्मध्ये शयनस्थानमुच्यते | महामर्यादके शान्यां महामंटपमुच्यते || २-३४६ || यजमानेच्छया क्वापिदेशे मंटप कल्पनम् | प्राकारलक्षणं प्रोक्तं द्वारपूजा || २-३४७ || * * * * * * * * द्वारपूजाविधिं शृणु | अथ संपूजयेच्छङ्खनिधिमध्य स्थितं शिवम् || २-३४८ || वसानं दक्षिणे पार्श्वे कुन्देन्दुसदृशं भवम् | पश्चात् पद्मनिधिं मध्यस्थिरमुत्तरपार्श्वगम् || २-३४९ || द्वारोर्द्ध्वे देशविघ्नेशान् पूजयेत् सर्वसिद्धिदान् | विघ्नेश्वरञ्च वीरञ्च शूरञ्चैव कपर्दिनम् || २-३५० || कंबुग्रीवञ्च वरदं हस्तिवक्त्रमनन्तरम् | क्षिप्र प्रसादनामानमविघ्नकविनायकौ || २-३५१ || वर्णञ्च दशविघ्नानां वक्ष्यते च पृथक् पृथक् | श्वेतं कृष्णं तथा रक्तं प्रवालन्नीलमेव च || २-३५२ || धूम्रवर्णं बालसूर्यं मौक्तिकं पुष्परागकम् | दक्षिणस्य कवाटस्य ब्रह्मा तत्राधि देवता || २-३५३ || उत्तरस्य कवाटस्य विष्णुस्स्यादधि देवता | मध्यस्थ फलकायास्तु रुद्रस्स्यादधि देवता || २-३५४ || कवाटयोः पदद्वंद्वं कूर्मदैवत्यमुच्यते | कवाटबन्धने देवौ शिवज्योत्स्ना च देवता || २-३५५ || कवाटोत्पाटने देवौ मूर्तिकेतन देवता | पटिकानाञ्च सर्वासां सुब्रह्मण्यो महेश्वर || २-३५६ || प्. ४३) फलकानाञ्च देवानां वायुस्तत्राधिदेवता | अस्त्रमन्त्रेण संपूज्य सुक्षीरं बन्धयेत् ततः || २-३५७ || कवाटवलयौ प्रोक्तौ सूर्यचंद्राधिदेवतौ | कवाटदंड मध्यस्थारष्ट पर्वत देवताः || २-३५८ || कवाटभूषणानां तु अष्टनागाः प्रकीर्तिताः | कवाटविधि (-विथि) देवांश्च पूजयेत् स्वस्वनामभिः || २-३५९ || वलयौ सूर्य सोमेशौ नेत्रमन्त्रं समुच्चरन् | गन्धं पुष्पञ्च धूपञ्च दीपञ्च हविषाददेत् || २-३६० || कवाटे दक्षिणे पश्चाद् वामहस्तं प्रवेशयेत् | वायुमन्त्रेण तन्त्राणाञ्चञ्चलं कारयेत् बुधः || २-३६१ || सर्वद्वारकवाटस्थ देवानित्थं प्रपूजयेत् | दक्षिणद्वार देवाश्च गन्धर्वायक्षराक्षसाः || २-३६२ || पश्चिमद्वार देवानां देवा देवर्षयस्तथा | उत्तरद्वार देवाश्च वषडोंकारव्याहृतिः || २-३६३ || चतुर्थप्रकृतिद्वारे अग्रे शर्वायते नमः | पार्श्वे तु दक्षिणे देवं वीरभद्रं प्रपूजयेत् || २-३६४ || उत्तरे चैव पार्श्वे तु शिवज्योति विनायकौ | दक्षिणद्वार देवाश्च मरुतोदैत्य दानवाः || २-३६५ || पश्चिमद्वार देवानां सुयशा देवविदुमाः | उत्तरद्वार देवानामद्भुता नल रुद्रकाः || २-३६६ || द्वितीय प्राकृतद्वारे चाग्रेसुन्दर देवताः | दक्षिणे पार्श्वदेवानां नीललोहित देवताः || २-३६७ || उत्तरे पार्श्व देवानां कालभैरव देवताः | दक्षिणद्वार देवानां शिवानन्दामृताय च || २-३६८ || प्. ४४) पश्चिमद्वार देवानां साक्षी सत्यप्रियाय च | उत्तरद्वार देवानां शान्ता देवगणा पुरा || २-३६९ || प्रथमं प्रकृतिद्वारं द्वारार्चनविधि | द्वारार्चनविधिं शृणु | सरस्वतीं तु द्वारोर्ध्वे तदग्रे वृषभं तथा || २-३७० || तदग्रे दशविघ्नेशां त्रिशूलञ्च प्रपूजयेत् | नन्दीशं दक्षिणपार्श्वे महाकालञ्च वामके || २-३७१ || मध्ये दन्तेश्वरायेतित्थः कमलवासिनीम् | दक्षिणद्वार देवानां दंडिमुण्डी च शोभने || २-३७२ || पश्चिमद्वारदेवानामनन्तः पशुपतिर्भवेत् | उत्तरद्वार देवानां भुकुटीजय भैरवाः || २-३७३ || श्रीदेवीमूर्ध्वभागे च भूमिदेवीं यजेदधः | ज्ञानशक्तिं क्रियाशक्तिङ्गर्भद्वारे प्रपूजयेत् || २-३७४ || एवं द्वारार्चनं कृत्वा (+ मण्डलपूजा) पश्चान्मंडलमर्चयेत् | वास्तोष्पतीति मन्त्रेण चेशान्यां वास्तुदेवताम् || २-३७५ || संपूज्य गन्धपुष्पाद्यैर्महाघंटां प्रताडयेत् | मणीनां वसवो देवस् सूर्यस्सोमाग्निदेवताः || २-३७६ || विदध्याद् अर्चनाकाले घंटानां तु महाध्वनिम् | तेन शब्देन महताराक्षसानां विनाशनम् || २-३७७ || लिङ्गं सप्तविधं ज्ञेयं स्थावरं शास्त्रचोदितम् | दैविकञ्चार्षकञ्चैव गाणवं मानुषं तथा || २-३७८ || एतेषां दैविकानां तु लिङ्गानां लक्षणं शृणु | दीर्घाकारं भवेल्लिङ्गं निम्नोन्नतसमाकुलम् || २-३७९ || प्. ४५) रेखाकोटरसंयुक्तं मुखेधारायवोन्नतम् | पर्वताग्रा कृतिं रंध्रबह्वग्रशिखयायुतम् || २-३८० || करयोःसंपुटाकार ब्रह्मसूत्रविवर्जितम् | इत्येतैर्लक्षणैर्युक्तं दैविकल्लिङ्गमुच्यते || २-३८१ || मूलस्थूलं भवेल्लिङ्गमग्रस्थूलं तथैव च | मध्यस्थूलं तु लिङ्गानां नालिकेरफलाकृति || २-३८२ || कदलीचलसंकाशं बिल्ववृक्षफलाकृति | लिङ्गमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् || २-३८३ || कूश्मांडफलसंकाशं मातुलुङ्गफलाकृति | उर्वारुकफलाकारं कपित्थफलसन्निभम् || २-३८४ || तथा तालफलाकारङ्गाणवं लिङ्गमुच्यते | द्वारं वा गर्भमानं वा हस्तमानमथापिवा || २-३८५ || शिवशास्त्रोक्तमानं वा छत्राकार शिरोदयम् | एकवर्णं शुभं स्निग्धं ब्रह्मसूत्रसमन्वितम् || २-३८६ || इत्येतैर्लक्षणैर्युक्तं मानुषल्लिङ्गमुच्यते | प्रथमं वर्द्धमानं तु त्रैराशिकं द्वितीयकम् || २-३८७ || शिवाधिक्यं तृतीयं तु लक्षणं वक्ष्यतेऽधुना | वर्द्धमानं स्थितं लिङ्गमासीनं तु शिवाधिकम् || २-३८८ || त्रैराशिकञ्च यानं स्याच्छयनं समखंडकम् | शयनं स्थिता सनासीन * * * * * क्रमात् || २-३८९ || चतुर्विंशांशकं लिङ्गंब्रह्माभागं तु सप्तकम् | अष्टांशं विष्णुभागञ्चरुद्रभागन्नवांशकम् || २-३९० || वर्द्धमानमिदं प्रोक्तं शृणुष्वासीनलक्षणम् | त्रयोविंशतिभागे तु ब्रह्मभागन्तु सप्तकम् || २-३९१ || प्. ४६) अष्टाशं विष्णुभागं तु रुद्रभागं तथाष्टमम् | सप्तविंशतिभागन्तु ब्रह्मभागन्नवांशकम् || २-३९२ || विष्णुभागं द्वादशांशं पूजाभागं षडंशकम् | शयनं लिङ्गमित्याहुर्नामान्येषां ततः शृणु || २-३९३ || षण्णवतिलिङ्गानि || समखंडमास्थापन संस्थापनाय योगिगणवत्फणोत्कट | विकट विनिश्वासमग्नञ्चक्रं भास्वरञ्च स्थूलसुमध्यमस्थूलम् || २-३९४ || मूखनिष्कलं सकलनिष्कलार्धदविकटमाकुट स्निग्धं प्रकीर्णञ्चण्डविक्रान्त | सुभद्रलिङ्गञ्च परशिवं क्षीर विपुलशाश्वत पावनं निम्नोन्नतञ्चैव || २-३९५ || सर्गभेषजं व्याख्यात वीरञ्च सुभद्रलिङ्गं विकृतसित्ञ्च शूलबन्धनं स्तंभञ्च आसी सुसूर्युञ्च आमलीकृत्ञ्च अशेकरञ्च विविध वै कान्त कुशेकरं प्रभुप्रतिलाभ तप्तञ्च यवे सुमध्यमं पिपीलिकामधमपञ्चपञ्चपार्श्वाग्र मूलाग्र सुमध्यमाग्रमूर्ध्वाग्र लिङ्ग | चतुरश्रलिङ्गं आयताग्रमायतवृत्तलिङ्गमरविन्दञ्चैवपञ्चकुष्टं मन्दञ्च कैटञ्च स रं सुभ्रुलिङ्गविला बितं सुवर्णलिङ्गम् || २-ताम्राभवर्णञ्च महेशलिङ्गं शिवाय चंद्राय चरायशा श्वतं | षढ्यार सप्तनवधार षोडशसुधार सुभ्रुशिव रञ्च लिङ्गम् || २-माणिक्कवर्णञ्च शिलाशिखाग्रं सहस्रधारा च शताष्ट धारा | अश्वत्थमाषञ्च यवञ्च स्फाटिकमेतानि वैषण्व वतिञ्च लिङ्गम् || प्. ४७) ब्रह्मांशञ्चैव विष्ण्वं शंरुद्रांशञ्च महेश्वरम् | सदाशिवांशकञ्चैव लिङ्गं पञ्चांशमुच्यते || २-३९६ || ब्रह्मांशञ्चतुश्रञ्च वस्वश्रं वैष्णवं मतम् | रुद्रभागन्तु सुत्राथः सूत्रान्तन्तु महेश्वरम् || २-३९७ || सादाख्यांशन्तदूर्ध्वे तु पञ्चधांशाः प्रकीर्तिताः | पूजांशं षोडशाम्शन्तु तदग्रे चतुरश्रकम् || २-३९८ || मुकुलाकारमेकांशमथ सूत्रं नवांशकम् | द्विसूत्रपरिलंबन्तु तद्वयोर्द्व्यंशमुच्यते || २-३९९ || ब्रह्मसूत्रक्रमं प्रोक्तं धारालिङ्गविधिं शृणु | पञ्चधारा सप्तधारानवद्वादशधारकम् || २-४०० || धाराषोडश विंशत्तु चतुर्विंशाष्टविंशतिः | अष्टाश्रादूर्ध्वपर्यन्त्ं यवांशं वा यवोन्नतं || २-४०१ || पूजाभागं त्रिधा कृत्वा चोर्ध्वभागे मुखं भवेत् | लिङ्गाग्रलक्षणं वक्ष्ये विशेषात् तु महेश्वर || २-४०२ || उद्धृतस्य स्वयंभ्वोश्च देवाद्यैः स्थापितस्य च | शास्त्रोक्त लक्षणन्नास्ति न प्रतिष्ठानकस्यचित् || २-४०३ || बालस्थानं न कर्तव्यं जीर्णदोषं न चैव हि | तस्मात् सर्वप्रयत्नेन सन्धिं सन्धिं समर्चयेत् || २-४०४ || उत्भूतलक्षणम् वक्ष्ये शृणुष्वेवं महेश्वर | फत्राकारं ब्राह्मणानां कुक्कुटांडन्नृपस्य तु || २-४०५ || वैश्यानां बुद्बुदाकारं शूद्रेखंडेन्दु सन्निभम् | इत्येतैर्लक्षणैर्युक्तल्लिङ्गं मानुषमुच्यते || २-४०६ || प्. ४८) स्वयंभुलिङ्गमित्युक्तं बाणलिङ्गं महेश्वर | पर्वताग्रं मदाकारं वल्मिकाग्रवदुन्नतम् || २-४०७ || बहुधाग्रञ्च संप्रोक्तमिममुत्भूतलक्षणम् | प्रोक्षणं पुनराह्वानं पुरश्चरणमेव च || २-४०८ || स्थापिते मानुषे लिङ्गे सर्वकर्माणि कारयेत् | यल्लिङ्गमर्चयित्वा तु तल्लिङ्गं हृदयेन तु || २-४०९ || पूजापर्युक्षितन्तत्र गन्धाद्यैरर्चयेत् क्रमात् | कनिष्ठानामिकाभ्यान्तु पुष्पं संग्राह्य देशिकः || २-४१० || पूर्वसन्ध्यर्चितं पुष्पं विसृजेदीशमन्त्रतः | अङ्गुष्ठं तर्जनीभ्यान्तु पीठपार्श्वे विसर्जयेत् || २-४११ || तत् पुष्पन्दापयेत् पश्चात् सहसालिङ्गमुर्धनि | लिङ्गमुर्धनिपुष्पेण शून्ये नश्यति साधकः || २-४१२ || लिङ्गं प्रक्षाल्य शस्त्रेण पीठं पाशुपताश्त्रतः | निर्माल्य शेषं तत् सर्वञ्चंडेशायप्रदापयेत् || २-४१३ || लिङ्गपीठस्थलञ्चैव शोधयित्वा हृदांभसा | गन्धपुष्पादिनाभ्यर्च्य लिङ्गं सद्भावकं स्मरन् || २-४१४ || लिङ्गस्य मूर्धदेशे तु स्पृशेदीशान मन्त्रतः | लिङ्गस्य मुखदेशञ्च पुरुषेण च संस्पृशेत् || २-४१५ || लिङ्ग पृष्ठदेशे तु वामदेवेन संस्पृशेत् | पीठान्तं प्रार्श्वयोः पादौ बाहुभ्यां सद्यमन्त्रतः || २-४१६ || महापट्याद्युपानान्तं देवस्याङ्गानि पूजयेत् देवस्याङ्गानिभवनं वक्ष्येतल्लक्षणं शृणु || २-४१७ || प्रासादं सदनं सद्मग्रहन्धामनिकेतनम् | प्. ४९) विमानं भवनं हर्म्यं वासोमनिरमालयम् || २-४१८ || निलयञ्चेतिविख्यातन्तस्य पर्यायवाचकम् | विमानलक्षणम् || विमान लक्षणं वक्ष्ये शृणुष्वेवं महेश्वर || २-४१९ || अथिष्ठानन्तु प्रथममुपानञ्च द्वितीयकम् | त्रितीयं जगती कचैव पद्मञ्चैव चतुर्थकम् || २-४२० || कुमुदं पञ्चमञ्चैव तथा षष्ठन्तु पट्टिका | भक्तिश्च सप्तमं प्रोक्तं स्तंभमष्टममेव च || २-४२१ || नवमं पालिका चैव दशमं कंपमेव च | एकादशं कपोतञ्च द्वादशं भूतमालिका || २-४२२ || त्रयोदशन्तु कण्ठञ्च नासिका तु चतुर्दश | पञ्चदशन्तु शिखरं स्तूप्यग्रं षोडशं भवेत् || २-४२३ || षोडशांशस्य शक्तीनान्नामानि च शृणु क्रमात् | आधारशक्तिः प्रथमा द्वितीर्यात्वादिशक्तिका || २-४२४ || तृतीया च क्रियाशक्ति ज्योतिशक्तिश्चतुर्थका | गणशक्तिः पञ्चमी तु षष्ठी च स्थानशक्तिका || २-४२५ || सप्तमी रौद्रशक्तिः स्यादष्टमी भोगशक्तिका | नवमी नन्तशक्तिस्तु दशमी च मनोन्मनी || २-४२६ || एकादशी महाशक्तिर्द्वादशी कालशक्तिका | त्रयोदशी ज्ञानशक्तिश्चतुर्दशी च शांभवी || २-४२७ || पञ्चदशी तु कल्याणी स्तूप्यग्रे तु महेश्वरि | अधिष्ठानादि स्तूप्यन्तं शक्तिरेताः क्रमान्न्यसेत् || २-४२८ || इत्थं शक्त्या कृतेर्धाम्नो लक्षणं वक्ष्यते शृणु | संचिता संचितञ्चैव उपसंचितमुच्यते || २-४२९ || संचितं प्रस्तरैयुक्तं स्थलहीनमसंचितम् | अङ्गोपाङ्गसमायुक्तमुपसंचितमुच्यते || २-४३० || प्. ५०) विमानलिङ्गशक्तीनान्नामानि च शृणु क्रमात् | नलिकाख्य विमान्यस्य समखंडन्तु लिङ्गकम् || २-४३१ || क्षान्तिशक्तिश्च प्रलिकमास्थापनं जयात्मिका | स्वस्तिकं स्थापितल्लिङ्गं प्रजाशक्तिश्चतुर्मुखम् || २-४३२ || प्रतिष्ठालिङ्गवाराही सर्वतोभद्रकं शुभम् | योनिलिङ्गं क्रियाशक्ति हस्तिपृष्ठङ्गणाभिमम् || २-४३३ || सूत्रशक्ति समुज्वाल्यं वणोत्त?टसु लिङ्गकम् | फलिनी शक्ति रित्युक्तं श्रीफन्दनं विक्रङ्गलम् || २-४३४ || गुणशक्ति वृत्तफद्रं फललिङ्गमनीयकम् | श्रीकान्त स्थापितं लिङ्गं पार्वती शक्ति संयुतम् || २-४३५ || श्रीप्रतिष्ठाख्य सदनं मूलस्थूलन्तु लिङ्गकम् | आत्मशक्तिश्चक्षीञ्च (आन्म-) मध्यस्थूलन्तु लिङ्गकम् || २-४३६ || मन्त्रशक्ति शिरच्छेदमखनिषललिङ्गकम् | रक्षाकाङ्गो पुरञ्च लिङ्गं सकलनामकम् || २-४३७ || अङ्गदाशक्तिरित्युक्तं सर्वदन्निषलार्त्थकम् | तरुणाशक्तिरित्युक्त विष्णुछन्दञ्च हर्म्यकम् || २-४३८ || क्रियाशक्तिश्च सौभद्रं टंकं लिङ्गं स्वधामयी | कैलासविकटं लिङ्गं पार्वतीशक्तिसंयुतम् || २-४३९ || चंद्रं मकुटलिङ्गञ्च शशिशक्ति समायुतम् | शुद्रछन्दञ्चसदनं स्थूललिङ्गञ्च भैरवी || २-४४० || प्रलंबितं प्रकीर्णञ्च आधारं मेरुछन्दकम् | चंडलिङ्गं विराट्शक्ति श्रीकण्टं कान्तलिङ्गकम् || २-४४१ || नादशक्तिश कुंभञ्च भद्रलिङ्गं रजायनी | जयाङ्गं पालिङ्गञ्च क्रीडाशक्ति समन्वितम् || २-४४२ || प्. ५१) विमानं शिवलिङ्गस्य क्षमाशक्त्यमलाकृतिः | कोमलं लिङ्गमित्याहुरादिशक्ति समन्वितम् || २-४४३ || हंसफन्दन्तु निलयं वीरं विपुललिङ्गकम् | पद्मांकसदनञ्चैव स्थिरलिङ्गं मनोन्मनी || २-४४४ || पद्मपत्रविमानस्य पावनं लिङ्गमुच्यते | ऋग्विशीर्यन्तु सदनं निम्नोन्नतसुलिङ्गकम् || २-४४५ || रुद्रशक्तिश्च सदनं कुक्कुटं सारलिङ्गकम् | परशक्त्यग्निकान्तञ्च विख्यातं लिङ्गपालिनी || २-४४६ || रुद्रकान्तन्तु सदनं विकृतं लिङ्गमुच्यते | योगभद्रविमानस्य भद्रलिङ्गं च कान्तिकम् || २-४४७ || भोगछन्दस्य सदनं विकृतं लिङ्गमुच्यते | विन्ध्य चक्र विमानन्तु शृङ्गलिङ्गं सुभैरवम् || २-४४८ || मेरुकूटविमानस्य बन्धलिङ्गङ्गशक्तिकम् | श्रीमहेंद्रन्तु सदनं स्तंभलिङ्गन्तु दक्षिणं || २-४४९ || कल्याणशक्तिरित्युक्तं बुद्बुदं राशिलिङ्गकम् | कामाधि शक्तिरित्युक्तं मंडलम्मार्यलिङ्गकम् || २-४५० || चिन्त्यशक्तिस्तु सादाख्यं मंडल लिक्तलिङ्गकम् | पैशाच शक्तिरित्युक्तमयञ्चालोकरं शुभम् || २-४५१ || पालिनी शक्तिरित्युक्तं मङ्गलाभिधलिङ्गकम् | विष्णुशक्तिस्तु सदनं नीलपर्वतकान्तिकम् || २-४५२ || ज्योतिशक्तिश्च निषदं कुलब्रह्मसुलिङ्गकम् | श्रेष्ठशक्तिसुसूत्कारं प्रभुलिङ्गं प्रतिष्ठितम् || २-४५३ || विजयं प्रतिलिङ्गञ्च विद्याशक्तिसमन्वितम् | प्. ५२) ललितं कान्ततप्तञ्चद्ध्वनिशक्तिसमन्वितम् || २-४५४ || अद्वयन्धर्ममध्यस्थल्लिङ्गन्ताडवशक्तिकम् | श्रीविलासाक्य सदनं पिपीलिकसुलिङ्गकम् || २-४५५ || अति प्रतिष्ठ शक्तिश्च सोमच्छन्दन्तु हर्म्यकम् | पल्लवाख्य सुलिङ्गस्य वासं विशालभद्रकम् || २-४५६ || नागञ्चदन्तपार्श्वस्थदितिक्रयसुवृत्तकम् | मूलाग्रलिङ्गं शान्तिस्स्यादींद्रमध्यममाश्रकम् || २-४५७ || सन्नधि शक्ति श्रीवर्तमूर्ध्वाङ्गं सृतिशक्तिकम् | पद्मगृहन्तु सदनं चतुरश्रं सुलिङ्गकम् || २-४५८ || विद्रुमाशक्तिसंयुक्तं प्रोक्ष्यदायंश्रलिङ्गकम् | दराशक्तिः क्रियावर्तधात्रलिङ्गं प्रतितथा || २-४५९ || तन्निकामन्तु हृल्लिङ्गं महाशक्तिलयाङ्गकम् | विलंबितसुलिङ्गस्य वासवीशालभद्रकम् || २-४६० || वैणवस्येति लिङ्गस्य कामांशंभद्रलिङ्गकम् | सुवर्णलिङ्गमित्याहुः कृष्णाशक्ति समन्वितम् || २-४६१ || गाणवं शाल सदनं ताम्रवर्णाभलिङ्गकम् | कामशक्तकण्ठस्य महेशलिङ्गरौद्रकम् || २-४६२ || भद्रलिङ्गविमानस्य शिवलिङ्गन्तु कथ्यते | रुद्रशक्तीतिशालायां चंद्रलिङ्गाङ्गशक्तिकम् || २-४६३ || पद्मावसान सदनं चरलिङ्गादिशक्तिकम् | धैर्यशाश्वतलिङ्गस्य भूतशक्तिञ्च विष्णुकम् || २-४६४ || फट्कारलिङ्गकालीक विक्रमालयगोपुरम् | सप्तधारासुलिङ्गस्य रविशक्तिस्तु सर्वकम् || २-४६५ || नवधारासुलिङ्गस्यदधानं ललितालयम् | प्. ५३) षोडशधारालिङ्गस्य (षोढ-) लक्ष्मीं रन्ताम्रहर्म्यकम् || २-४६६ || सहस्रशुभ्रलिङ्गस्य कामशक्तिविशालकम् | शिखराग्रसुलिङ्गस्य सिद्धीना वाथ शक्रकम् || २-४६७ || माणिक्कलिङ्गमित्याहुर्क्षान्ति हाराजवह्निकम् | कृष्णाशक्तीति सदनञ्चंद्रमालीकरं शुभम् || २-४६८ || शैललिङ्गस्यद्युतिन नदीशालाग्रगोपुरम् | शिखाग्रलिङ्गाज्वाली तु पृथिव्यादिनकार्मुकम् || २-४६९ || सञ्चस्रधारालिङ्गस्य वाक्शक्तिर्विजयालयम् | शताष्टधारालिङ्गस्य निवृत्तिः सर्वदालयम् || २-४७० || अद्ध्यर्धलिङ्गनिष्ठाधि दङ्गकालयमाषकम् | मोहशक्तिनि सौन्दर्यमालयं लवलिङ्गकम् || २-४७१ || धृतिशक्तिस्तु सदनं छायास्फटिकलिङ्गकम् | क्षेत्रशक्ती तु सदनन्नागरं लिङ्गमासनम् || २-४७२ || नागशक्ती तु सदनं द्राविडं वर्द्धमानकम् | क्षान्तिशक्ती तु सदनं वेसरं शयनं स्मृतम् || २-४७३ || सदनं लिङ्गशक्तीनां जीवप्राणव्यवस्थितम् | स्वरूपं जीवशर्मा च मध्य नृत्तस्वरूपकम् || २-४७४ || तस्मात् सप्तात्म मध्यस्थ ज्योतिरूपन्नटङ्गुरुम् | गुणागुण स्वरूपस्थं कृत्स्नन्दक्षमिवेश्वरम् || २-४७५ || शंखकाल झल्लर्यैर्घंटाघोषैः समंपुरैः | महानादनटैः पूज्यन्दक्षिणशमनुस्मरन् || २-४७६ || सदनल्लिङ्गमध्यस्थमर्चयेत् तु नटेश्वरम् | तस्मात् सर्वप्रयत्नेन ध्यात्वा अस्य तु मध्यमम् || २-४७७ || प्. ५४) लिङ्गमन्त्रं समुच्चार्य तन्मन्त्रोद्धारणं शृणु | तृतीयस्य चतुर्थस्य बीन्दुनादसमन्वितम् || २-४७८ || लिङ्गमन्त्रमिदं प्रोक्तं शक्तीनां स्थानकं शृणु | आधाराख्यमधिष्ठानमादिशक्ति स्वरूपकम् || २-४७९ || जगतीभूतशक्तिस्तु कुमुदं गुणशक्तिकम् | पट्टिकापालिनी शक्तिः कण्ठं कल्याणशक्तिकम् || २-४८० || अथः पट्टी तु कामेशी महापट्टीमनोन्मनी | ऊर्ध्वपट्टी महाशक्तिरथिष्ठानन्दशात्मिका || २-४८१ || स्तंभन्तु नादशक्तिश्च पद्मंभैरवशक्तिका | वल्लीमूलाङ्गशक्तिस्तु पद्मंवासवशक्तिका || २-४८२ || कर्णिकामालिनीशक्ति वसिन्यः शोषणीयका | अङ्गं कुमारशक्तिस्तु पालिकापरशक्तिका || २-४८३ || वीरकांडं विराट्शक्तिः पोतिकाग्रांनीयका | स्तंभन्तु दशशक्तिः स्याद् उत्तरं रुद्रशक्तिका || २-४८४ || वाजनं वामिनीशक्तिः रक्तमाल्याङ्गशक्तिकम् | कपोतं वै द्विशक्तिस्तु अंबुकामाधिनीयकम् || २-४८५ || प्रतिमुखं रुद्रशक्तिर्वाजनं राजशक्तिकम् | सप्तमं कपोतवर्गञ्च वेदिका वीरशक्तिकम् || २-४८६ || ज्योतिशक्तिश्च कण्ठं स्याद् उच्छ्रयं रुद्रशक्तिकम् | उपकल्याणशक्तिश्च दृतमालाभिसिन्द्वकम् || २-४८७ || शिखरं श्रेष्ठशक्तिश्च स्थूप्यमाज्ञानियामकम् | कर्णन्तु कालशक्तिश्च महानासीजयात्मिका || २-४८८ || महानासितदुत्सेधं शिखरन्नवशक्तिकम् | प्. ५५) तस्यमध्ये तु स्थूप्याधः पद्मं पार्वतिशक्तिकम् || २-४८९ || कण्ठञ्च करुणाशक्तिः कुंभं क्षीरामनीयकम् | ऊर्ध्वकुंभं शिखाशक्तिः श्रीवत्संद्ध्वनिशक्तिकम् || २-४९० || कंबुकानादशक्तिश्च मलकं मन्त्रशक्तिकम् | मुकुलं कुवलयावासीचाग्रन्ताण्डवशक्तिकम् || २-४९१ || इत्थं शक्त्यात्मकंधाम प्रोक्तं सकलरूपकम् | सकलन्निष्कलं लिङ्गं ज्योतिरूपन्तु निष्कलम् || २-४९२ || ज्योतिः प्रभासुमध्यस्थन्नटन्दक्षिणमद्भुतम् | निर्गूणन्निर्मलन्नित्यं मध्यमं परमंपदम् || २-४९३ || पराशक्तिपरन्नृत्तं वैदिकन्दक्षिणेश्वरम् | कूटस्थं वरदन्नित्यं हेतुदृष्टान्तवर्जितम् || २-४९४ || प्रसाद दक्षिणे शानं पवित्रं प्रभुमादीकम् | मध्यस्थं मूलरूपस्थं व्योमस्थं व्योमकं ध्वनिम् || २-४९५ || सदानन्दमयं सांबंसाक्षिं सादाशिवङ्गुरुम् | संकल्पातितकं सर्वं सभावासं सदोदयम् || २-४९६ || समं समरसीभावं विश्वतोमुखमूर्ध्वकम् | दक्षिणेशं महागुह्यं सदातांडवमद्भुतम् || २-४९७ || तस्य देवगृहं शान्तिनामवक्ष्ये महेश्वर | नागरं द्राविडञ्चैव वेसरञ्च त्रिधाभवेत् || २-४९८ || स्तूप्यन्तञ्चतुरश्रं यत्तन्नागरन्तु दाहृतम् | कण्ठपृभृतिवस्वश्रं प्रासादं द्राविडं भवेत् || २-४९९ || कण्ठात् प्रभृतिवृत्तं यद् वेसरन्तत् प्रशस्यते | त्रिवर्गषण्णवतीनां नामवक्ष्ये महेश्वर || २-५०० || नलिकं प्रलिकञ्चैव स्वस्तिकञ्च चतुर्मुखम् | प्. ५६) सर्वतोभद्रकञ्चैव हस्तिपृष्ठं समुज्वलम् || २-५०१ || २- श्रीचन्दवृत्तभद्रञ्च श्रीकान्तं श्रीप्रतिष्ठितम् | श्रीभद्रञ्च शिरच्छन्दं गोपुरं सर्वदाकृतिम् || २-५०२ || विष्णुच्छन्दञ्च सौभद्रं कैलासञ्चंद्रमेवच | आर्द्रछन्दञ्चललितमित्येते देविकामता || २-५०३ || सुमेरुछन्दकञ्चैव श्रीकूटं कुंभमेव च | जयाङ्गं विमलाङ्गञ्च विमलाकृतिमेव च || २-५०४ || हंसच्छन्दं वृषच्छन्दं गरुडच्छन्दमेव च | पद्मांकं पद्मभद्रञ्च शययाकुक्कुटकान्तकम् || २-५०५ || रुद्रकान्तं योगभद्रं होमच्छन्दं सुदर्शनम् | स्कन्दकान्तं विष्णुचक्रं मेरुकूटं महेंद्रकम् || २-५०६ || बुद्बुदञ्चैव श्रीमंडं सौमुघ्यं जयमङ्गलम् | नीलपर्वतकञ्चैव निषधं सिन्धुकन्तथा || २-५०७ || विजयं ललितं कान्तं मन्दरं श्रीविलासकम् | जातीतराणि देवानां द्वात्रिंशत् भवनादिकम् || २-५०८ || सोमछन्दन्नागछन्दं काम्यावर्तमिदं शुभम् | श्रीवर्तकं पद्मगृहं प्रक्ष्यागृहमुखन्तथा || २-५०९ || कृत वर्तनं वृत्त गृहं विदुरं हानपात्मनाम् | अत्यन्तमींद्रकामादं द्वादशेते द्विजन्मनाम् || २-५१० || तन्त्रिताङ्गं विजयाङ्गं विशालपत्रकं परम् | गाणपं शालवंकर्णं भद्रकर्णन्तु शालकम् || २-५११ || पद्मावसानं धैर्यन्तु धिष्ण्यं विद्रुमगोपुरम् | सर्वं ललितभृत्यञ्च कान्तञ्चैव विशालकम् || २-५१२ || पलाशपत्र महाराजछत्रमालिकरं शुभम् | नन्दी विशालकञ्चैव पृथ्विवीजयमेव च || २-५१३ || सर्वाङ्गसुन्दरं छायागृहञ्च रतिवर्द्धनम् | प्. ५७) इत्थं जातिविमानानान्नवतिः स्यात् षडुक्तरम् || २-५१४ || प्रथमेष्टकादिस्तूप्यन्तं शक्तिरूपं महेश्वर | तस्माच्छक्तिमयं रूपं ममरूपं परं शुभम् || २-५१५ || बिन्दुरूपं महागुह्यं सर्वपीठाकृतिङ्गुरुम् | वृत्तं सर्वात्मभूतस्थं वेदरूपं सुमंडलम् || २-५१६ || पीठाकृतिं परं भूतं जगत् सृष्टि स्वरूपकम् | कुलालचक्रं यत् तस्मात् तस्मात् तस्मात् सृष्टिस्वरूपकम् || २-५१७ || जगत्सृष्ट्यात्मकं वृत्तं सूर्यमंडलरूपकम् | आकाशधा त्रियद्रूपपीठं सर्वत्रवासिनम् || २-५१८ || तस्मात् सर्वं महापीठन्दक्षिणद्वारमध्यमम् | आधारं सर्वदेवानां पद्मं कर्णिकयान्वितम् || २-५१९ || पादप्रतिष्ठितं शुद्धज्ञानमुद्रास्वरूपकम् | ममरूपं सदाध्यात्वा ममसर्वात्ममध्यगम् || २-५२० || ममरूपाकृतिं सर्वं मध्यस्थबिन्दुरूपकम् | ममवासं परं श्रेष्ठन्दक्षिणद्वारमालयम् || २-५२१ || दक्षिणद्वारमाश्रित्य षडाधार स्वरूपकम् | सर्वदेवालयस्थानि सृष्टिरूपं सुमध्यमम् || २-५२२ || पीठाकारस्य मध्यस्थनादं तांडवरूपिणम् | हृदयग्राममध्यस्थनादरूपं सुशोभनम् || २-५२३ || वेदतांडवनादायबिन्दुरूपं सुमंडलम् | सभावासं सदाज्योतिः सदानृत्तं परङ्गुरुम् || २-५२४ || नृत्ताकृतिं स्वनैर्वेद्यं पञ्चाधार स्वरूपकम् | विमानोत् सृष्टकं शुद्धं दक्षिणद्वारमालयम् || २-५२५ || सुमन्त्रकं सुमध्यस्थं पूजयेत् परमेश्वरम् | प्. ५८) लिङ्गन्नादमयं प्रोक्तं पीठं बिन्दु स्वरूपकम् || २-५२६ || लिङ्गाभावे तथा पीठे तन्मूर्तिन्तासुचिन्तयेत् | लिङ्गसुद्धिक्रमं प्रोक्तं मन्त्रशुद्धिन्ततः शृणु || २-५२७ || मन्त्राः सर्वे तु ग्रीवाद्या नमस्कारान्तिमाः स्मृताः | क्रियकाले प्रयोक्तव्यास्तेषां शुद्धिं समाचरेत् || २-५२८ || प्रोक्षण प्रणवन्तु * * * * * समाख्यया | अखिलं प्रणवं मन्त्रमादिनामसुनिश्चितम् || २-५२९ || सत्यं सत्यं ममध्यानं प्रणवन्तु सदाजपेत् | सर्वञ्च मम रूपं स्यादोंकारं शुद्धमव्ययम् || २-५३० || अकारञ्च उकारञ्चमकारं बिन्दुनादके (-नदके) | योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् || २-५३१ || अकारोहृदयस्थः स्युन्मकारः कण्ठसंज्ञितः | मकारस्तालुमध्यस्थो बिन्दुर्भूमध्यनिष्ठितः || २-५३२ || नादोललाटकश्चैव योगपञ्चाक्षरं परम् | अकारः स्व्यु?क्त्रस्स्यादुकारो वामवक्त्रकम् || २-५३३ || मकारोघोरवक्त्रं स्यात् बिन्दुस्तत् पुरुषाननम् | नादस्त्वीशानवक्त्रं स्यान्नादातीतोनटेश्वरः || २-५३४ || सूक्ष्मपञ्चाक्षरं प्रोक्तं स्थूलपञ्चाक्षरं शृणु | नकारं सद्यवक्त्रन्तु मकारं घोरवक्त्रकम् || २-५३५ || ईशवक्त्रं शिकारन्तु वकारं वामवक्त्रकम् | यकारं पौरुषंवक्त्रं श्रीमत्पञ्चाक्षरं भवेत् || २-५३६ || सकारोवामदेवस्तु त्रितत्वात्मा व्यवस्थितः | प्. ५९) आकाशबीजार्गे तु मन्त्रं स्याद्वादशाक्षरम् || २-५३७ || हृस्वं ब्रह्मषडङ्गन्तु दीर्घन्नेत्रं सबिन्दुकम् | सर्वं बिद्वन्तमस्त्रन्तु विसर्गान्तं सबिन्दुकम् || २-५३८ || षष्ठन्त्रयोदशान्तञ्च पञ्चमं योजयेच्छुभम् | आदिलोपैर्मध्य लोपैरन्त्य लोपैश्च संयुतम् || २-५३९ || विभक्ति स्वर वर्णनां मन्त्रमेतत् प्रकीर्तितम् | हकारः शिवरूपन्तु सकारः शक्तिरूपकम् || २-५४० || हकारंबिन्दुनादाख्यं सकारं वर्गसंयुतम् | शिवं हंसप्रदानञ्च योजयेच्छिवमन्त्रकम् || २-५४१ || नादश्चतुर्दशमञ्चेव प्रलयाग्निसमायुतम् | षोडशाक्षर वर्णे तु बिन्दुनादसमन्वितम् || २-५४२ || अंबामन्त्रमिदं प्रोक्तन्नवाक्षरविधिं शृणु | सान्तहान्त समायुक्तं खत्रतीयाक्षरन्ततः || २-५४३ || षष्ठस्य पञ्चार्णञ्च यान्तान्तं वारुणानलौ | मान्तं षष्ठ स्वरोपेतं बिन्दुनादसमन्वितम् || २-५४४ || नवाक्षरविधिः प्रोक्तमष्टाक्षरविधिं (-विथिं) शृणु | अष्टमस्य चतुर्थार्णन् तत् पूर्वाक्षरमेव च || २-५४५ || नागं कूटाक्षरं कान्तं षष्ठवर्गस्य पञ्चमम् | षट्चतुर्दशसंयुक्तमष्टाक्षरमिदं शुभम् || २-५४६ || ततः शारभंन्त्रञ्च रौद्रंशृणुमहेश्वर | पञ्चमं पञ्चमन्नादं सप्तवर्गत्रितीयकम् || २-५४७ || षट्चतुर्दशत्रयोदशभूतं मध्यन्तद्वर्गषष्ठकम् | कूटदीर्घञ्च सप्तादिकूटदीर्घं वषडन्तकम् || २-५४८ || पूर्वोक्तं पूजनं कृत्वा आज्यं हुत्वा सहस्रकम् | प्. ६०) द्वादशाक्षरमन्त्रन्तु त्वयुतं होममाचरेत् || २-५४९ || ऐंद्रे तु पौष्टिकं कुर्याद् विद्वेषणमथाऽनले | आकर्क्षणं याम्यभागे नै-ऋत्यां मोहनन्तथा || २-५५० || वारुण्यां शान्तिकर्माणि चोच्चाटनमथानिले | सौम्ये वश्यं प्रयोक्तव्यमीशाने मारणन्तथा || २-५५१ || वसन्तं विद्धिपूर्वाह्नं ग्रीष्मं मध्यन्दिनन्तथा | प्रावृट्कालं पराह्नञ्च सायं शिशिरमेव च || २-५५२ || मध्यरात्रं शरत्कालं हेमन्तं स्यात् प्रभातकम् | आकर्षणं वसन्ते तु ग्रीष्मे विद्वेषणं कुरु || २-५५३ || प्रावृष्युच्चाटनं कर्मशिशिरे मारणन्तथा | शान्तिकन्तु शरत्काले हेमन्ते पौष्टिकन्तथा || २-५५४ || धर्मक्रमफलं प्राप्यपरनृत्तं विचिन्तयेत् | दक्षिणालयकेशान्ये होमकर्मसमाचरेत् || २-५५५ || चतुर्दिक्षु चतुर्वेचेदैः स्तोत्रमङ्गलवाचकैः | षण्मासमर्धमासं वा नित्यं हुत्वाऽयुतार्धकम् || २-५५६ || त्रयक्षर सकृज्जप्त्वा नाममन्त्रक्रमंशृणु | नादं नाद्यन्नादाद्यं षष्ठवर्गस्य पञ्चमम् || २-५५७ || एकादशस्वरोपेतञ्चतुर्थस्याद्यमक्षरम् | अष्टमस्यादि बीजन्तु मूलदीर्घसमन्वितम् || २-५५८ || सप्तमस्यादिबीजञ्च प्रणवादिनमोन्तकम् | नाममन्त्रमिदङ्गुह्यं परं ज्योतिव्यवस्थितम् || २-५५९ || अतिगुह्यऽमदेयञ्च मन्त्रादीनीशनामतत् | प्. ६१) ऊर्ध्वशैवात्मकं मन्त्रं मद्भक्तानां प्रदेयकम् || २-५६० || नाममन्त्रक्रमं प्रोक्तं वीरमन्त्रविधिं शृणु | द्वितीयस्य त्रितीयन्तु बिन्दुनादसमन्वितम् || २-५६१ || वीरमन्त्रमिदं प्रोक्तं रक्षामन्त्रक्रमं शृणु | पञ्चमस्यादिमं बीजं षष्ठं पञ्चमबीजकम् || २-५६२ || अष्टमस्य तृतीयञ्च चतुर्थं सप्तमस्य च | मद्वितीयार्णसंयुक्तं सप्तमस्यादिबीजकम् || २-५६३ || रक्षामन्त्रक्रमं प्रोक्तं ब्रह्ममन्त्रक्रमं शृणु | षष्ठवर्गत्रितीयन्तु प्रलयाग्निसमन्वितम् || २-५६४ || बिन्दुनादसमायुक्तं विष्णुमन्त्रविधिं शृणु | वाक्भवं विष्णुबीजन्तु बिन्दुरेखाविभूषितम् || २-५६५ || प्रणवादिनमोन्तञ्च चतुर्थ्यन्तं प्रयोजयेत् | विष्णुमन्त्रक्रमं प्रोक्तं धनमन्त्रमिदं शृणु || २-५६६ || पञ्चमस्य चतुर्थान्तं बिन्दुनादसमन्वितम् | धनमन्त्रमिदं प्रोक्तं लक्ष्मीमन्त्रक्रमं शृणु || २-५६७ || अष्टमस्यादिबीजन्तु प्रलयाग्निसमन्वितम् | चतुर्थ स्वरसंयुक्तं बिन्दुनादसमन्वितम् || २-५६८ || लक्ष्मीमन्त्रमिदं प्रोक्तं स्कन्दमन्त्रक्रमं शृणु | यवर्गसप्तमं बीजं पञ्चमस्वरसंयुतम् || २-५६९ || सप्तमस्य त्रितीयन्तु बिन्दुनादसमन्वितम् | सर्वं शिवमयं मन्त्रं स्वनामादिनमोन्तकम् || २-५७० || मन्त्रशुद्धिक्रमं प्रोक्तं शृणुष्वासनलक्षणम् | प्. ६२) खबीजस्यादिमं मन्त्रं मूलकाशक्तिसृष्टिकम् || २-५७१ || तस्य देवोद्भवं सर्वमथलच्छासुशक्तिकम् | आधारशक्तिकन्नामस्थानन्धर्मादिरुद्भवम् || २-५७२ || ध्यानपूजानिमित्तार्थमासनस्यादिकं शृणु | लोकाद्ध्यायश्च या देवी मुक्तादामसुमूलवत् || २-५७३ || चतुर्भुजामष्टबाहुं तप्तकाञ्चन सप्रभाम् | द्वादशाक्षीञ्चतुर्नासां मूर्ध्निबद्धशिरेरुहाम् || २-५७४ || पद्मासनस्थितां शक्तिं पाशांकुशवराभयम् | वज्रंटंकन्तोमरञ्च ज्ञानमुद्राञ्च बिभ्रतीम् || २-५७५ || सर्वाभरणसंयुक्तां सर्वलोकेकसंश्रयाम् | भावयेद् देशिकोधीमान् शक्तिमाधाररूपिणीम् || २-५७६ || शक्तिबीजञ्चांकुरञ्च नालधर्मादिगर्भितम् | शक्तिं कुंकुमवर्णञ्च बीजंविद्रुमसन्निभम् || २-५७७ || अंकुरं रजताभञ्च नालं वैडूर्यसन्निभम् | धर्मादिचरणैर्यूक्तमधर्माथोव्यवस्थितम् || २-५७८ || आधारशक्तिहस्तस्थं सपञ्चासनगर्भितम् | अनन्ताखमासनं पूर्वं सिंहासनमतःपरम् || २-५७९ || योगासनन्त्रितीयन्तु पद्मासन मतः परम् | पञ्चमं विमलं प्रोक्तं कल्पयेत् तूपरिक्रमात् || २-५८० || अनन्ताख्यासनं वृत्तमुपार्यर्यु परिसंस्थितम् | अष्टनागसमायुक्तमनन्तासनमुच्यते || २-५८१ || अनन्ताख्यानं प्रोक्तं सिंहासनक्रमं शृणु | प्. ६३) धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् || २-५८२ || धर्मं भूतस्वरूपञ्च ज्ञानं वै गजरूपकम् | वैराग्यं सिह्मरूपं स्यादैश्वर्यञ्चाश्वरूपकम् || २-५८३ || कोटिभिः कोटिभिसिह्मेः प्रत्येकं परिवारितम् | राजावर्त स्वरूपेण सर्वेषां सिंहमेव च || २-५८४ || अव्यक्तोनियतिः कालो कला चैव चतुदष्टयम् | चतुर्भागे तु फलके महादिक्षु क्रमान्न्यसेत् || २-५८५ || केशवो मध्यपादं स्यादित्थं सिंहासनं भवेत् | सिंहासनक्रमं प्रोक्तं योगसनविधिं शृणु || २-५८६ || शुद्धं कूर्मवदाकारमग्निवर्णन्तदासनम् | प्रणवं पूर्वतोन्यस्यऽकारञ्चानले तथा || २-५८७ || आकारः याम्यभागे तु लकारन्नै-ऋते तथा | ईकारं पश्चिमेभागे उकारं वायुदेशके || २-५८८ || ऊकारं सौम्यदिक्भागे ऋकारमीशदेशके | ॠकारं मध्यभागे च न्यसेद्योगासनं भवेत् || २-५८९ || इत्थं योगासनं प्रोक्तं पद्मासनविधिं शृणु | वामाज्येष्ठा च रौद्री च कालीविकारणी तथा || २-५९० || बलविकरणी चैव बलप्रमथीनित्यपि | सर्वभूतदमनी च मनोन्मन्यष्टशक्तयः || २-५९१ || विन्यसेत् केसराग्रेषु कर्णिकायां यथाक्रमम् | इत्थं पद्मासनं प्रोक्तं शृणुष्व विमलासनम् || २-५९२ || प्. ६४) गणांबिकामुत्तरे तु महादेवीञ्च पूर्वके | तन्नोभौरी तु याम्ये तु वारुणे तु प्रचोदयात् || २-५९३ || एताभिश्शक्तिभिः क्रान्तं कल्पयेद् विमलासनम् | अग्निमध्ये रविस्थानं रविमध्ये तु चंद्रमाः || २-५९४ || तमोमध्ये रजोन्यस्य तन्मध्ये सत्वमेव च | आत्मानमन्तरात्मानं परमात्मानमेव च || २-५९५ || आत्मतत्वत्रयं प्रोक्तमुपर्यु परिविन्यसेत् | आत्मतत्व क्रमं प्रोक्तं विद्या तत्व क्रमं शृणु || २-५९६ || ब्रह्मविद्यां शिवविद्यां गुरुविद्यान्न्यसेत् क्रमात् | ब्रह्म तत्वमथोन्यस्य विद्या तत्वन्तदूद्ध्वितः || २-५९७ || तत्परं रुद्रतत्वञ्च तत ऊर्ध्वं महेश्वरम् | सादाख्य तत्वन्तन्मूर्ध्नि बिन्दु तत्वन्ततः परम् || २-५९८ || तदूर्ध्वे नादतत्त्वञ्च शक्तितत्वन्ततः परम् | तत् परं शिवतत्वञ्च पूजयेत् ज्ञानमूर्तिकम् || २-५९९ || तन्मध्ये नेत्रवासञ्च तन्मध्ये कुसुमासनम् | तदाधिकां शक्यमखिलमासनं स्फटिकप्रभम् || २-६०० || वृत्तं सदाशिवं रूपं व्योमरूपं परात्परम् | बिन्दुमन्त्र स्वरूपेण शिवसृष्टिक्रमं शृणु || २-६०१ || बिन्दुमध्यगतो नादोनादमध्यगतोद्ध्वनिः | ध्वनिमध्यगतश्चात्मा शन्त्यतीतं परन्तथा || २-६०२ || शिवं परात्परं ब्रह्ममप्रमेयमनिन्दितम् | अनौपम्यञ्च सूक्ष्मञ्च नित्यं सर्वगतं प्रभुम् || २-६०३ || शुद्धत्वाच्छिवमित्युक्तं परादूर्द्ध्वं परात्परम् | प्. ६५) ब्रह्मत्वात् ब्रह्मणत्वाच्च ब्रह्ममित्यभिधीयते || २-६०४ || प्रमाणव्यतिरिक्तत्वाद प्रमेयन्नटेश्वरम् | मलत्वान्निन्दितं ज्ञेयममलत्वादनिन्दितम् || २-६०५ || अनौपम्य मसादृश्यन्दक्षिणामुखमाश्रितम् | व्योमातीतं परं सूक्ष्मन्नित्यं कारणशून्यतः || २-६०६ || व्यापित्वात् सर्वगं प्रोक्तं स्वामित्वात् प्रभुरुच्यते | सृष्ट्यर्त्थं लोकरक्षार्थं लोकस्योत्पत्तिकारणम् || २-६०७ || साधकानां हितार्थाय संग्रहेत् स्वेच्छयातनुम् | पालनार्थं सभावासन्दक्षिणेश्वरमद्भुतम् || २-६०८ || सदानृत्तं महाज्योतिस्तंभालंभनमीश्वरम् | आनन्दरूपमध्यस्थं शिवं परमकारणम् || २-६०९ || तत स्तच्चत्रिधा प्रोक्तं निष्कलञ्च तथा पुनः | सकलन्निष्कलञ्चैव सकलञ्च यथा क्रमम् || २-६१० || निष्कलञ्च चतुर्भेदं सकलञ्च तथा भवेत् | सकलन्निष्कलन्त्वेकन्नवधा कीर्तितं क्रमात् || २-६११ || शिव तत्व सहस्रांशाच्छान्तिर्नामसमुद्भवा | शान्तिश्शान्तिकरं प्राहुस्तस्य पर्यायवाचकाः || २-६१२ || तस्माच्चैव सहस्रांशाच्छक्तिर्नामसमुद्भवा | शक्तेश्चैव तु विद्या च पर्यायात् तदुदाहृता || २-६१३ || तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः | नादस्तस्य प्रतिष्ठा च पर्याय इति कीर्तितः || २-६१४ || तस्माच्चैव सहस्रांशात् बिन्दुतत्व समुद्भवः (समुत्भवः) | बिन्दुश्चैव निवृत्तिश्च पर्यायात् तस्य वाचकः || २-६१५ || परं भावं समालंब्य सदा ताडवीरगणैः? | प्. ६६) अव्यक्तादि स्वरूपाणि तथातन्निष्क्रियास्तथा || २-६१६ || चतुर्थानिष्कलं ह्येवं शिवतत्वं समुच्यते | ध्यानपूजानिरूपस्थं निष्कलन्तु महेश्वर || २-६१७ || इत्येवं निष्कलं प्रोक्तं परं भावमितिस्मृतम् | तस्माद् दशैकभागेन सादाख्यस्य समुद्भवः || २-६१८ || लीङ्गपीठप्रकारेण सादाख्यन्तत्वलक्षणम् | लिङ्गशिवः समुद्भूतो नादात्मा च सदाशिवः || २-६१९ || पीठे शक्तिः समुद्भूतानाम्ना चैव मनोन्मनी | लिङ्गे च पीठिकायाञ्च शिवः शक्तीसमुद्भवौ || २-६२० || लिङ्गन्तु पुस्त्वमेवं स्यात् पीठं स्त्रीतत्वमेव च | निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशाम्भवौ || २-६२१ || निष्कला तु कला हीना सकला तु कलान्विता | यतीनां मन्त्रिणाञ्चैव ज्ञानिनाञ्चैव योगिनाम् || २-६२२ || ध्यानपूजानिमित्तार्थं स्मृतं सकलनिष्कलम् | लिङ्गपीठप्रकारेण देवेशं पूजयेत् सदा || २-६२३ || वर्णाद्ध्वा च पदाद्ध्वा च तत्वाध्वाभुवनाद्ध्वकः | मन्त्राद्ध्वा च कलाद्ध्वा च सादाख्यस्य स्वरूपकम् || २-६२४ || अद्ध्वस्थान क्रमं वक्ष्ये विशेषात्तु महेश्वर | वर्णाध्वा तु त्वगाधारः पदाद्ध्वा च शिरस्तथा || २-६२५ || तत्वाद्ध्वा हृदयञ्चैव भुवनाद्ध्वा तु रोमकम् | मन्त्राध्वारुधिराधारः शुक्लमज्जास्थि रूपकम् || २-६२६ || कलाद्ध्वा चैव सर्वाङ्गमित्थं सादाख्यरूपकम् | प्. ६७) अष्टत्रिंशत् कलायुक्तं सकलञ्चेति विद्यते || २-६२७ || अथेशानादिसद्यान्तं कल्पयेत् तु सदाशिवम् | ईशानेन तु मन्त्रेण पञ्चमूर्ध्नः प्रकल्पयेत् || २-६२८ || पुरुषेण तु चत्वारि वक्त्राणिपरिकल्पयेत् | अघोरेण तु मन्त्रेण हृदाद्यष्टौ प्रकल्पयेत् || २-६२९ || वामदेवेन मन्त्रेण गुह्यादीनि त्रयोदश | सद्योजातेन मन्त्रेण पादाद्यष्टौ प्रकल्पयेत् || २-६३० || अष्टौ त्रयोदशाष्टौ च चत्वारश्चैव पञ्च च | अजात वामघोराख्य पुरुषेशकलाः स्मृताः || २-६३१ || एवन्तु सकलं प्रोक्तन्निष्कलन्तांडवं शुभम् | कारपादोदरादीनां कल्पनं सकलं विदुः || २-६३२ || सादाख्यं सर्वदेवेशं प्रत्यक्षं सर्वतोमुखं | सहस्रदलपद्मस्थ कर्णिकामध्यवासिनम् || २-६३३ || युवानं पञ्चमूर्धानन्दशबाहुञ्चतुर्मुखम् | द्वादशाक्षञ्चतुर्नासं चतुर्गलसमन्वितम् || २-६३४ || द्विपादं स्फटिकाकारं श्वेतयज्ञोपवीतकम् | सूर्यकोटि प्रतीकाशं ज्ञानचन्द्रकलाधरम् || २-६३५ || अभयं शूलपरशुवज्रं खट्गञ्च दक्षिणे | खेटकां अंशुपाशञ्च (कुशपाशञ्च) दंडं वरदमन्यतः || २-६३६ || बिभ्रच्चन्द्रांशुशिशिरं सौम्यं शुक्लांबरान्वितम् | सोष्णीषं सोत्तरीयञ्च सर्वाभरणभूषितम् || २-६३७ || सर्वावयवसंयुक्तं सर्वगन्धानुलेपनम् | सर्वभूतान्तरात्मानं सदा तद्वस्तुचिन्तितम् || २-६३८ || पञ्चभूताधिदैवत्यं पञ्चब्रह्म स्वरूपकम् | प्. ६८) पञ्चाक्षराभिधं शंभुं पार्वतीवल्लभं परम् || २-६३९ || इत्येतैर्लक्षणैर्युक्तं सादाख्यस्य स्वरूपकम् | तस्यैव वामपार्श्वे तु चादिशक्तिर्मनोन्मनी || २-६४० || वह्नेरुष्णत्व वच्छक्तिरविनाभाविनी विभोः | शक्तिहीनः शिवोनास्ति शिवहीना न शक्तिका || २-६४१ || तस्माच्छिवमयन्देवं जगदेतच्चराचरम् | एकवक्त्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् || २-६४२ || नितंब तटविस्टीर्णां मध्ये सूक्ष्मांस्तनोन्नताम् | वामादिशक्तिकोपेतामाख्यया तु मनोन्मनीम् || २-६४३ || ब्रह्माण्यङ्गानि विद्याश्च विद्येशाश्च गणेशकाः | लोकपालास्तथास्त्राश्च क्रमशस्तत् समुद्भवाः || २-६४४ || तत् तद् गणावृताः सर्वे तत् तच्छिन्न समायुताः | सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः || २-६४५ || इत्थं सादाशिवं रूपं लिङ्गपीठसमन्वितम् | तत् सादाख्य प्रभावस्तु वर्णि तुन्नैवशक्यते || २-६४६ || सकलन्निष्कलं प्रोक्तं सकलञ्च ततः शृणु | मूर्तयस्त्वी श्वराद्याश्च सकला इति कीर्तिताः || २-६४७ || यद्वत् सदाशिवः प्रोक्तस्तद्वदीश्वर उच्यते | ब्रह्माद्यावरणञ्चैव पूर्ववत् परिकल्पयेत् || २-६४८ || विद्या तत्व स्थितं संभुं सर्वलक्षण संयुतम् | लिङ्गन्तु गोलकं विद्यात् सकलन्तु महेश्वर || २-६४९ || लिङ्गपूजावसाने तु पूजयेद् ईश्वरं क्रमात् | प्. ६९) ईश्वरस्य सहस्रांशाद्रुद्रस्योद्भवमुच्यते || २-६५० || चतुर्भुज स्त्रिनेत्रस्तु चन्दार्धकृतशेखरः | विद्युत् प्रभान्वितोदेवः परश्वथमृगायुधः || २-६५१ || सर्वावयव संपूर्णः सर्वाभरणभूषितः | उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता || २-६५२ || ईश्वरस्य तु कोट्यंशाद्विष्णु तत्व समुद्भवः | श्यामवर्णः सुरत्तक्षकाश्शंख चक्रधरोहरिः || २-६५३ || कृतांजलिपुटश्चैव पीठपादे प्रकल्पयेत् | विष्णोस्तस्य तु कोट्यं शाद्ब्रह्मणस्तु समुद्भवः || २-६५४ || चतुर्भुजश्चतुवक्त्रो जटामकुटधारकः | कमंड्वल्वक्षमाला सृक्पीतवर्णः सुलोचनः || २-६५५ || सावित्री भारती पार्श्वे सृष्टिमूर्तिरिति स्मृतः | रुद्रः संहारमूर्तिः स्याद् विष्णुश्च स्थितिमूर्तिकः || २-६५६ || सृष्टिमूर्तिश्च विख्यातो ब्रह्मा च त्रिविधोमतः | मूर्तित्रयन्तु संप्रोक्तं ब्रह्माण्डे संव्यवस्थितम् || २-६५७ || निष्कलन्तु लयस्थान मकारं सकलनिष्कलम् | भोगस्थानन्तु सकलं लयभोगाथिकारवान् || २-६५८ || परन्निष्कलमित्युक्तन्दक्षिणेश्वर मद्भुतम् | सकलन्निष्कलञ्चैव त्वपरं परिपठ्यते || २-६५९ || परन्नृत्तं सदाथ्या तुंयः समर्थः सपाशहा | तिसृस्तु देवताः पश्चात् त्रयस्त्रिंशत्समुद्भवाः || २-६६० || रुद्रेकादशकं पूर्वं द्वादशादित्य संयुतम् | प्. ७०) वसवोऽष्टौऽश्विनौ द्वौ तु त्रयस्त्रिंशच्च देवताः || २-६६१ || सहस्रत्रिंशत् कोट्यश्च देवास्तत्र त्रिमूर्तिषु | शरीरं भूतसारेण देवानान्तु सृजन्ति वै || २-६६२ || ऐश्वर्यमलसंबन्धाद्धृत् प्रबोधन्तु नाशयेत् | सर्वकारण देवेन ध्यात्वा तांडवमीश्वरम् || २-६६३ || आवाहयेत् ततो देवं पुष्पहस्तः पुखसानः | मूलं स्मृत्वा वरं ध्यात्वा सर्वव्यापि सदाशिवम् || २-६६४ || सदाशिवं परं ध्यात्वाऽवाहयेत् सद्यमन्त्रतः | स्थापनं वाममन्त्रेणावघोरेण निरोधनं || २-६६५ || नरेण सन्निधानं स्याद् ईशानेन तु पूजनम् | यया कुंडगतश्चाग्निर्वायुना परिदीप्यते || २-६६६ || तथैव नाममन्त्रेण जायते भगवान् शिवः | आवाहिन्याख्ययावाह्य स्थापिन्या स्थाप्य मुद्रया || २-६६७ || पञ्चमुखीं धेनुमुद्रां शक्तिमुद्रां ततः परम् | निष्ठुरां लिङ्गमुद्राञ्च पद्मनेत्रास्त्रमुद्रिकाः || २-६६८ || पञ्चब्रह्मषडङ्गैश्च पूर्ववन् न्यासमेव च | गन्धपुष्पञ्च धूपञ्च दीपञ्चैव निवेदयेत् || २-६६९ || लिङ्गरूपविशेषन्तु शृणुष्वेवं महेश्वर | लिङ्गमूलन्तु चरणौ लिङ्गाग्रं मुखमुच्यते || २-६७० || सूत्रपार्श्वौ चतुर्बाहू सूत्रान्तं पृष्ठमुच्यते | ईश्वराद् दक्षिणां शेतु ब्रह्मा सृष्ट्यर्थमुद्भवः || २-६७१ || प्. ७१) ईश्वराद् वामभागे तु विष्णुश्च स्थितिकारणः | नासाद् वायुः समुत्पन्न श्रोत्रयोस्तु दिशोदश || २-६७२ || करपद्म समुत्भूतः गणेश इति कीर्तितः | हृदयात् षण्मुखो जातो भास्करोनाभिसंभवः || २-६७३ || इन्द्रस्तु पृष्ठसंभूतो वह्निर्नेत्रसमुद्भवः | वामनेत्रात् समुद्भूतो देवः सोम इति स्मृतः || २-६७४ || स्तनयोर्यक्षदेवास्तु रुद्रोदक्षिणलोचने | हस्ताग्रादायुधोत् पत्तिः सन्ध्याश्चैव नखोद्भवाः || २-६७५ || ऊर्वोस्तु पन्नगाजाताः ऋषयोजानुसंभवाः | पादयोः सर्वदेवाश्च शिवज्ञानसमुद्भवः || २-६७६ || संहारकाले यत्सर्वं लिङ्गन्तांडवमादिमम् | लिङ्गमूर्ति स्वरूपस्य मध्ये सादाख्यमर्चयेत् || २-६७७ || महासदाशिवद्द्यानक्रमं वक्ष्ये महेश्वर | पञ्चास्यं पञ्चमूर्धानं प्रतिवक्त्रं त्रिलोचनम् || २-६७८ || प्रसन्नं षोडशभुजमेकदेहञ्चतुर्गलम् | दशश्रोत्रं द्विपादञ्च किंचित् प्रहसिताननम् || २-६७९ || त्रिशूलं शरवज्रञ्च खट्गञ्चैव परश्वथम् | चक्रञ्च ज्ञानमूद्राञ्च सव्यभागेऽभयं क्रमात् || २-६८० || घंटान्नागञ्च पाशञ्च धनुरंकुशखेटकम् | पादं विस्मयञ्चैव बिभ्राणं वामपाणिभिः || २-६८१ || आदिशक्तिसमोपेतं कृष्णनागोपवीतिनम् | सद्यवामादि मन्त्रेण दद्याद् वक्त्रेषु मूर्धसु || २-६८२ || सद्यमन्त्रं समुच्चार्य दद्यात् पाद्यन्तु पादयोः | वक्त्रेषु वक्त्रमन्त्रेण दद्यादाचमनीयकम् || २-६८३ || प्. ७२) ईशानेन तु मन्त्रेण दद्यादर्स्यञ्च मूर्धसु | मुखेषु गन्धं वामेन पुष्पमीशेन मूर्धसु || २-६८४ || धूपं सद्येनमन्त्रेण दीपं घोराणुना ततः | नैवेद्यं वक्त्रमन्त्रेण क्रमात् दद्यान्महेश्वर || २-६८५ || एलाकर्पऊरसुमन चन्दनैर्मिश्रितं पयः | पञ्चब्रह्मषडङ्गैश्च कल्पयेद् धेनुमुद्रया || २-६८६ || मूलप्रकृतिबीजन्तु वर्णमन्त्रं समुच्चरन् | वारुणं बीजमूच्चार्य जलभांडे तु पूरयेत् || २-६८७ || मन्त्रैरीशादिभिः पश्चादभिषेकं शनैः शनैः | चतुर्दिक्षु चतुष्कोणेष्वा चामार्घ्यं प्रदापयेत् || २-६८८ || गोमूत्रङ्गोमयं क्षीरन्दधिसर्पिकुशोदकम् | गोमयद् विगुणं मूत्रं सर्पिदद्याच्चतुर्गुणम् || २-६८९ || दधिपञ्चगुणं प्रोक्तं क्षीरमष्टगुणं भवेत् | गोमूत्रं ब्रह्मदैवत्यङ्गोमयं विष्णुदैवतम् || २-६९० || क्षीरन्तु रुद्रदैवत्यं महेशन्दधिरुच्यते | सर्पिः सादाख्य दैवत्यं गन्धपुष्पादिभिर्यजेत् || २-६९१ || पञ्चसारे तु नैवेद्यं दर्शयेत् ज्ञानमुद्रिकाम् | देवस्यत्वाग्निमिले च आवोराजा त्र्यंबकम् || २-६९२ || पञ्चगव्यक्रमं प्रोक्तं फलोदकविधिं शृणु | बिल्वञ्चकदली चैव नारङ्गद्वयमेव च || २-६९३ || आम्रकेली फलञ्चैव तिन्त्रिणी च फलोदकम् | नाममन्त्रं समुच्चार्य गन्धपुष्पादिभिर्यजेत् || २-६९४ || फलोदकविधिः (-विथिः) प्रोक्तं बीजोदकविधिं शृणु | यवनीवारमुद्गञ्च व्रीहिसिद्धार्त्थ तंडुलम् || २-६९५ || प्. ७३) सौगन्धिकं हेमशाली बीजोदकमिदं शुभम् | अभ्यर्च्य गन्धपुष्पाद्यैर्मूलबीजं समुच्चरन् || २-६९६ || बीजोदकविधिः प्रोक्तं रत्नोदकविधिं शृणु | माणिक्कञ्चैव गोमेदं पुष्यरागञ्च गारुडम् || २-६९७ || प्रवालं स्फटिकन्नीलं मुक्तारत्नोदकं शुभम् | गन्धैः पुष्पैश्च धूपाद्यैर्वर्णमन्त्रेण पूजयेत् || २-६९८ || इत्थं रत्नोदकं प्रोक्तं गन्धोदकविधिं शृणु | चन्दनञ्चैव कुष्ठञ्च तक्कोलञ्चैव कुंकुमम् || २-६९९ || कच्चोलं पिच्छिलाचैव कस्तूरी चागरुस्तथा | उशीरञ्चलवङ्गञ्च तथा चंपक कुट्मलम् || २-७०० || गन्धादिकन्तु नैवेद्यन्नाममन्त्रेण दापयेत् | इत्थं गन्धोदकं प्रोक्तं पुष्पोदकविधिं शृणु || २-७०१ || चंपकप्रसवञ्चैव मल्लिका चैव पाटली | केतकी गिरिपुष्पञ्च पुन्नागं कुन्दमेव च || २-७०२ || नन्द्यावर्तं श्रियावर्तं मन्दारं करवीरकम् | जातीनीलोत्पलञ्चैव ह्रीबेरादि विमिश्रितम्(ः) || २-७०३ || गन्धं पुष्पञ्च धूपञ्च शिवमन्त्रेण दापयेत् | इत्थं पुष्पोदकं प्रोक्तमन्नपूजाविधिं शृणु || २-७०४ || तथान्नैरभिषेकन्तु आयुरारोग्य वर्धनम् | अन्नं प्राणात्मकं श्रेष्ठं सर्वजन्तु प्रतिष्ठितम् || २-७०५ || तस्मादन्नाभिषेकन्तु ममप्रीतिकरं शुभम् | अन्नरूपं विशेषेणममरूपं द्विधास्मृतम् || २-७०६ || अन्नपूजाविधिः श्रेष्ठं न भूतो न भविष्यति | तस्मात् सर्वप्रयत्नेन अन्नेनेवाभिषेचयेत् || २-७०७ || प्. ७४) अन्नलिङ्गाकृतिन्दत्वा गन्धंपुष्पञ्च धूपकम् | दीपञ्च पायसान्नञ्च दद्यात् तांबूलमेव च || २-७०८ || अन्नपूजाविधिर्नित्यं शुभं सर्वार्थसाधकम् | अपमृत्युजयं पूतं राजराष्ट्र विवृद्धिदम् || २-७०९ || अन्नपूजा महावश्यन्दक्षिणाराधनोत्तमम् | सर्वशान्तिकरं शुद्धं जयमन्नार्चनं कुरु || २-७१० || अंबात्मबीजं परमं तस्मादन्नमुदाहृतम् | अन्नपूजान्तु यः कुर्यात् सयाति परमाङ्गतिम् || २-७११ || तस्मात् सर्व प्रयत्नेन अन्नेनैव प्रपूजयेत् | अन्नप्रक्षालनं कृत्वामूलबीजन्न्यसेत् क्रमात् || २-७१२ || गन्धं पुष्पञ्च धूपञ्चदीपञ्चैव प्रदापयेत् | अन्नपूजाविधिः प्रोक्तं जलार्चनविधिं शृणु || २-७१३ || पूर्ववत् संस्कृतन्तोयं हेमपात्रे प्रपूरितम् | अथवाराजते वापि ताम्रे वा यज्ञवृक्षके || २-७१४ || तज्जलस्य च मध्ये तु स्थापयेद् दक्षिणेश्वरम् | दूर्वातिलाक्षतं पुष्पन्दापयेद् दक्षिणेश्वरम् || २-७१५ || गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् | जलार्चनं जपाद्गुह्यं स्थितिकारं सुशोभनम् || २-७१६ || सर्वसिद्धिकरं शुद्धं सर्वरोगविनाशनम् | अभिषेक कालजप्यानिमन्त्राणि * * * * || २-७१७ || त्रयंबकमुमारुद्रमापो हिष्ठेति शञ्चमे | ईलेशतञ्च कद्रुद्रन्नमस्ते सदसस्पतिम् || २-७१८ || जातवेदसमीशानं हंस आत्वालषेऽपि च | प्. ७५) अघोरं तत् पुरुषं वामं सद्योजातादिकन्ततः || २-७१९ || सहस्र शीर्षान्नपते पूषेमाचाग्निमीलकम् | ये देवाग्ने ममाग्ने च गौरिन्देवाहवेपि च || २-७२० || त्वमग्ने आवोराजानमृतन् तत् सवितुस्तथा | ओमित्ये तत् ब्रह्मसामविश्वेत्ता प्रणवादिकम् || २-७२१ || प्रयुक्तमभिषेकाय मन्त्राः षट्त्रिंशतः क्रमात् | पृथक् पृथक् सकृज्जप्त्वा चाभिषेकं शनैः शनैः || २-७२२ || जलार्चनविधिः प्रोक्तं पात्रलक्षणमुच्यते | सौवर्णं राजतं वापि तथा ताम्रसमुद्भवम् || २-७२३ || शंखं वा शुक्तिकां वापिगवां श्रङ्गमथापि वा | अथवामृण्मयं वापि स्नानपात्रं प्रशस्यते || २-७२४ || उत्तमन्द्रोणसंपूर्णं मध्यमं शिवपूरितम् | पञ्चब्रह्मभिरालभ्य बद्ध्नीयाद्धेनु मुद्रिकाम् || २-७२५ || समुच्चरन्नाममन्त्रमभिषिञ्चेच्छनैः शनैः | अन्नलिङ्गाकृतिं पूज्यतस्याग्रे दक्षिणेश्वरम् || २-७२६ || ध्यात्वा समुच्चरन्नामगन्धं पुष्पञ्च दापयेत् | धूपदीपान्त नैवेद्यन्दद्यान्नामसमुच्चरन् || २-७२७ || अन्नपूर्णेति मन्त्रेण सर्वत्रापि समुच्चरेत् | आढकापूर्णमधं सर्वमेवाढकं भवेत् || २-७२८ || शंखशुक्तिकश्रङ्गाणि स्वप्रमाणेन पूरयेत् | सूत्रेण वेष्टयेत् सर्वद्गवाक्षसदृशान्तरम् || २-७२९ || स्थण्डिलं विधिवत् कृत्वा शाल्यक्षततिलैरपि | प्. ७६) आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् || २-७३० || शाल्यर्धन्तंडुलं ग्राह्यन्तदर्धञ्च तिलन्तथा | सकूर्चान्वस्त्र संयुक्तान् सरत्नान् स्थण्डिलोषितान् || २-७३१ || अलंकृतान्विशेषेण कलशान् पूजयेत् गुरुः | कलशस्यमुखेरुद्रो मध्ये माधव देवतम् || २-७३२ || प्राजापत्यन्तु पृष्ठं स्यात् कलशस्याधि देवताः | गन्धपुष्पञ्च धूपञ्च हृदयेन प्रदापयेत् || २-७३३ || महादर्पण मध्ये वा लिङ्गाग्रे वा नटेश्वरम् | अरूपमपिरूपस्थन्दक्षिणद्वारमीश्वरम् || २-७३४ || दर्पणे वा सुलिङ्गे वा अभिषिञ्चेत् सुलेपयेत् | पूजास्थानद्वयं गुह्यन्दक्षिणालयमद्भुतम् || २-७३५ || अभिषेक क्रमं वक्ष्ये विशेषेण महेश्वर | नाममन्त्रं समुच्चार्य त्रयाक्षरमनुं स्मरन् || २-७३६ || गोश्रङ्गाग्र प्रमाणेन स्रोवितेत कराग्रतः | शुद्धतोयेन संस्नाप्य हरिद्रालेपनन्तथा || २-७३७ || सुगन्धामलकञ्चैव धूपञ्चैव प्रदापयेत् | गन्धोदकैस्ततः शुद्धैरभिषेकं शनैः शनैः || २-७३८ || नाममन्त्रं सकृज्जप्त्वा दद्यात् पुष्पञ्चमूर्धनि | पाद्यमाचमनञ्चार्घ्यन्तत्काले तु प्रदापयेत् || २-७३९ || शुद्धवस्त्रं फमादायवस्त्रमुद्रान्तु कल्पयेत् | लिङ्गं पीठं स्थलञ्चैव वसनन्तत् प्रवेशयेत् || २-७४० || प्रवेशवस्त्रमादाय चंडेशाय प्रदापकयत् | प्. ७७) वास्तोष्पतेतिमन्त्रेण वास्तुनाथं समर्चयेत् || २-७४१ || एतान्विन्द्रस्तु वामे तु आपोहिष्ठेति प्रोक्षणम् | सूक्ष्म वस्त्रन्तु संग्राह्य बद्ध्नीयाद्धृदयाणुना || २-७४२ || आवेष्ट्य लिङ्गं वस्त्रेण चतुर्भागेकभागतः | ईशानादि च सद्यान्तं त्रिपुंट्रं विन्यसेत् क्रमात् || २-७४३ || मनोन्मन्याश्च पीठान्तमङ्गादीनां त्रिपुंट्रकम् | चन्दनं कुंकुमञ्चैव कर्पूरञ्चैवमीश्रकम् || २-७४४ || पुष्पमाल्योपवीतञ्च ईशमन्त्रेण दापयेत् | शिवमन्त्रशतं जप्त्वातद्गन्धञ्च प्रपूजयेत् || २-७४५ || हारके धूरकटकान्हृन्मन्त्रेण प्रदापयेत् | अङ्गुलीयञ्चमकुटं मूलमन्त्रेण दापयेत् || २-७४६ || जटाग्रे शुद्धगङ्गापः स्वनामाद्येन पूजयेत् | अस्त्रमन्त्रंशतं जप्त्वा खण्टां कवचमन्त्रतः || २-७४७ || धूपन्ताण्डव देवस्य पञ्चवक्त्रेषु दापयेत् | धूपदीपं प्रदातव्यं घण्टारवस समन्वितम् || २-७४८ || आचमनं पुनर्दद्याच्छिवमन्त्रं सकृज्जपन् | तत्काले ताडयेत् घण्टां पटन्तत्राऽपनीय च || २-७४९ || देवतार्चनकाले तु प्रछन्न पटमुत्तमम् | कालाग्निं जाठराग्निन्तु शिवाग्निञ्च प्रपूजयेत् || २-७५० || शिवस्य दर्शने तत्र त्रिपाद्युपरिकल्पयेत् | सौवर्णे राजते ताम्रे पात्रेकाम्स्येऽथवा पुनः || २-७५१ || शालिविष्टमयं श्रेष्ठमथवा गोमयेन वा | प्. ७८) कृत्वा नवपदैर्युक्तं पद्मकर्णिकयान्वितम् || २-७५२ || प्रोक्षयेद्धृदये नैव अस्तशस्त्रमथोफलम् | भारद्वयन्ततः कोष्ठङ्गोमुष्टि द्वयपिष्टकैः || २-७५३ || शुद्धकार्पासजैस्तूलैर्वर्तियुक्तैस्तु पञ्चभिः | कर्णिकायाञ्चतुर्दिक्षु कपिलाघृतसेचितैः || २-७५४ || सद्यादीशान पर्यन्तमन्त्रैर्ज्वलन संयुतम् | वर्णमन्त्रं समुच्चार्य देशिकेन सुधीमता || २-७५५ || सुरभिमुद्रां प्रबद्ध्वा तु दीपमुद्रान्त्वनन्तरम् | कराभ्यान्दिव्यपात्रन्तु धारयेच्च समन्त्रकम् || २-७५६ || त्रिभिरावर्तनं कृत्वा लिङ्गमूर्ध्नि विशेषतः | अर्घ्येण प्रोक्षणं कृत्वा भस्म चैव परिग्रहेत् || २-७५७ || शिवमन्त्रं सकृज्जप्त्वा मूलमन्त्रन्न्यसेत् क्रमात् | तदन्ते दर्पणन्दद्याच्छक्तिमन्त्रं समुच्चरन् || २-७५८ || अघोरं मन्त्रमुच्चार्यव्यजनन्तु प्रदापयेत् | ततश्छत्रञ्चामरञ्च हृदयेन प्रदापयेत् || २-७५९ || वायुमन्त्रं जपित्वा तु पादुके चैव दापयेत् | पुष्पांजलिन्ददेत् पश्चान्नमस्काराख्यमुद्रया || २-७६० || आलिङ्गनन्ततः कृत्वा ज्ञानमुद्रां प्रदापयेत् | ज्वालापात्राणि शिरसा हस्ताभ्याञ्च निवेदयेत् || २-७६१ || उत्तमा रुद्रगणिका ब्रह्मचारी च धारयेत् | हेमकुंभ स्थितजले दीपं पूर्वे तु निक्षिपेत् || २-७६२ || सर्ववाद्य समायुक्तं बलिपीठे प्रदापयेत् | पुष्पांजलिन्ततः कृत्वा जपलक्षणमुच्यते || २-७६३ || जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् | प्. ७९) मानसञ्चैव कण्ठोष्ठमुपांशु व्यक्तमेव च || २-७६४ || व्यक्ताद्दशगुणं पांशु तस्मात्कण्ठोष्ठकं शतम् | सहस्रं मानसन्तस्मादङ्गुल्या तु जपं शृणु || २-७६५ || अङ्गुल्या जपसंख्या तु तुल्याचेकफलन्तथा | अग्निकोष्टगुणं (अग्गि-) प्रोक्तमायुतं पुत्रदीपकम् || २-७६६ || शतसंख्या कुशग्रन्धिः प्रवालैस्तु सहस्रकम् | स्फटिकन्दशसाहस्रं रुद्राक्षैस्तु न विद्यते || २-७६७ || अङ्गुष्ठेन तु मोक्षार्थन्तर्जन्या चाभिचारकम् | मध्यमान न काम्ये च शान्तिं कुर्यादनामिकाम् || २-७६८ || कविष्ठाकर्षणञ्चैव तत्तद्देव क्रमं शृणु | अङ्गुष्ठं ब्रह्मदैवत्यन्तर्जनीरुद्रदैवतम् || २-७६९ || मध्यमाङ्गुलिदाशार्हो नामिकाधर्मदैवतम् | कनिष्ठासूर्यदैवत्यं जपदेशफलं शृणु || २-७७० || ग्रहे चेकफलं कुर्याद्गोष्ठे चैव सहस्रकम् | द्विसहस्रन्नदीतीरे पर्वते त्वयुतं मतम् || २-७७१ || समुद्रे दशसासस्रन्देवालयमसंख्यकम् | देवालये विशेषात्तु दक्षिणद्वारमालयम् || २-७७२ || तत्तद्देशेस्मरन्नृत्तं सर्वसिद्धिकरं शुभम् | सहस्रं वा तदर्धं वा शतं मज्जपतोनरः || २-७७३ || नित्यमेवं समायोगात् सर्वपापविनाशनम् | सयातिजपमात्रेण शिवलोकमथाक्षयम् || २-७७४ || नैवेद्यलक्षणञ्चैव शृणुष्व च महेश्वर | श्वेतशाली महाशाली रक्तशाली यवाथवा || २-७७५ || कृष्णशालि च नीवारं वेणुं मुद्गमथाऽपि वा | प्. ८०) नैवेद्य द्रव्यमुख्याः स्युस्तण्डुलार्थं प्रगृह्यताम् || २-७७६ || चातुर्वर्ण्योद्भवस्तीभिः संक्षुद्य च पुनः पुनः | रविरश्मिनि सन्तप्त्वात्थक्षिप्यो मूखले तथा || २-७७७ || प्राङ्मुखोऽदद्मुखोवाऽथ प्रहृत्य मुसलेन तु | त्रियष्टाग्रक चैव कणकंबु च वर्जयेत् || २-७७८ || नवधामार्गमुद्दिश्य नैवेद्यन्तत्र कल्पयेत् | प्रातः साये तथाभ्यर्च्य मध्याह्ने च निवेदयेत् || २-७७९ || प्रस्थद्वयञ्च तत्काले पाचयित्वा निवेदयेत् | एकदीपं द्विकाले च रात्रौ दीपद्वयं भवेत् || २-७८० || प्रातः काले च मध्याह्ने द्विप्रस्थन्तंडुलं हवि | सायाह्ने च समभ्यर्च्य दीपञ्च द्विगुणन्ददेत् || २-७८१ || प्रस्थद्वयं द्विकालेषु प्रत्येकञ्च निवेदयेत् | दीपञ्चैव चतुः प्रोक्ताः साये तु द्विगुणन्ददेत् || २-७८२ || मध्यमस्याधमे प्रोक्तं मध्याह्ने चाढकन्ददेत् | प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् || २-७८३ || मध्यत्रये तु मतिमान्वाद्यध्वनि समायुतम् | त्रिकालं बलिलिङ्गेन बलिदानन्नयेद् बुधः || २-७८४ || मध्यमान्मध्यमं विद्यात् त्रिकालेष्वाढकं हविः | अर्धरात्रौ तु या पूजा सार्धयाममिहोच्यते || २-७८५ || त्रिकालं बलिसंयुक्तं पुष्पान्नाक्षकं क्रमात् | वाद्यध्वनी समायुक्तं नृत्तगेय समन्वितम् || २-७८६ || मध्याह्ने नित्यहोमं स्याद्धूपदीपसमन्वितम् | मध्यमादुत्तमं वक्ष्ये त्रिकालञ्चाढकत्रयम् || २-७८७ || त्रिकालञ्च निवेद्यञ्च पञ्चाशद्दीपसंयुतम् | द्विकालं वाद्यसंयुक्तं विंशतिर्गणिकायुतम् || २-७८८ || प्. ८१) उत्तमादधमन्तत्र त्रिकालं द्रोणमाहरेत् | द्रोणार्धमर्धयामे तु दीपाण्यष्टोत्तरं शतम् || २-७८९ || त्रिकालमन्नलिङ्गं स्यात् त्रिकालं होमसंयुतम् | सर्ववाद्य समायुक्तं नृत्तगेयसमन्वितम् || २-७९० || अष्टोत्तर सहस्रं वा शतं वारुद्रकन्यकाः | रूपयौवनसंपन्नाः सर्वाभरणभूषिताः || २-७९१ || मध्यमान्मध्यमन्तत्र त्रिकाले तु चतुर्हविः | पायसादीन् पाचयित्वा द्रोण तंदुलसंयुतम् || २-७९२ || द्रोणेन शुद्धमन्नञ्च पाचयित्वा पृथक् पृथक् | द्रोणं स्यादर्द्धयामेपि दीपानि च शतद्वयम् || २-७९३ || त्रिकाले बलिहोमञ्च शीतारिधूपमादिशेत् | सर्ववाद्य समायुक्तं सर्वमङ्गलवाचकम् || २-७९४ || गणिकाष्टशतोपेतं स्तोत्रद्ध्वनि समाकुलम् | कालं वा द्वितयं प्रोक्तं नृत्तं कुर्याद्विसंधिषु || २-७९५ || उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते | पायसान्नं पाचयित्वा षड्द्रोणैश्वैव तंडुलैः || २-७९६ || तदर्धमर्धरात्रौ तु दीपाः पञ्चशतं शुभम् | भारद्वयं त्रिकालेषु शुद्धान्नञ्चैव तंडुलम् || २-७९७ || त्रिकालं बलिहोमं स्यात् सर्ववाद्य समन्वितम् | द्विशतषोडशैर्युक्तं नृत्तं कुर्याद् विशेषतः || २-७९८ || एवं नवविधं प्रोक्तं पायसादीन्यनुक्रमात् | निवेदन विधानम् | पायसं कृसरद्भौल्यं शुद्धान्नञ्च चतुष्टयम् || २-७९९ || प्. ८२) तंडुलद्विगुणं क्षीरं कदलीफल संयुतम् | मुद्भभिन्नञ्चतुर्धांशं यथा शक्ति गुलान्वितम् || २-८०० || पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु | तंडुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् || २-८०१ || तच्चतुर्थांशमाज्यन्तु पाचयित्वा यथाविधि | कृसारान्नमिदं प्रोक्तं गुलान्नञ्च ततः शृणु || २-८०२ || अर्धभारङ्गुलं कृत्वा भारार्धं वाथ तंडुलम् | गुलार्थं भिन्नममुद्गञ्च क्षीरं प्रस्थं विनिक्षिपेत् || २-८०३ || घृतं द्रोणार्धमर्धं वा शृणु पाचनलक्षणम् | विधिस्नानं पुराकृत्वा ब्रह्मचर्यवृतात्मकः || २-८०४ || शुक्लयज्ञोपवीतश्च शुक्लवस्त्रधरः शुचिः | पादप्रक्षालनं कृत्वा अचम्य विधिपूर्वकम् || २-८०५ || पूर्वोक्तविधिना कुर्यात् त्रिपुंट्रलांछनं शुभम् | पवित्रपाणिर्मौनी तु शिवमन्त्रं सदाजपन् || २-८०६ || प्रक्षालनन्ततः कृत्वा जलैः षट्भिस्तु तंडुलान् | बीजमुख्येन मन्त्रेण शोधयित्वा विचक्षणः || २-८०७ || पूरयेद्वारिभिः शुद्धैस्तंडुलार्थाथिकैस्तथा | शिखयाज्वालयेदग्निमस्त्रेणेतान्प्रदापयेत् || २-८०९ || पुरुषेण तु मन्त्रेण मौली चैव तु पश्चिमे | निरीक्ष्यनेत्र मन्त्रेण पक्वञ्चैव चरुन्नतः || २-८१० || घृतेन प्लावयेत् पश्चाद्वाममन्त्रमनुस्मरन् | तत्पुरुषेण मन्त्रेण सुपक्वन्तु परीक्षयेत् || २-८११ || प्. ८३) सुभाण्डपण्डि पार्श्वञ्च अघोरेणैव शोधयेत् | एकाङ्गुलं त्रिपुंट्रञ्च पात्राणां भस्मनान्यसेत् || २-८१२ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्च वप्रपूजयेत् | पात्राणि च तथा सर्वाणीत्थञ्चै प्रपूजयेत् || २-८१३ || हुंकारेणैव तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् | मण्टपे पश्चिमेभागे न्यसेन्मन्त्री यथा क्रमम् || २-८१४ || हविश्चैवोपदंशेन अन्यैश्चैव च कारयेत् | निवेदनपात्राणि सौवर्णं राजतन्ताम्रमथवा कदलीदलम् || २-८१५ || आहरेच्छुद्धकांस्ये वा पात्रे पालाशकेऽपि वा | स्थलिकां वापि पात्रं वा त्रिपादिमध्यमे स्थितम् || २-८१६ || षडुत्सेधं महाभद्रं शुद्धकार्पासछादितम् | सौवर्णं पात्रमादाय सर्वलक्षणसंयुतम् || २-८१७ || तमाज्ये नाभिघार्यादौ पाकमन्नेन पूरयेत् | हविष्याद्यं समुद्गञ्चनैवेद्यं स्याच्छिवस्य तु || २-८१८ || पूर्णचन्द्रनिभाकारं मुद्गभिन्नङ्गुलान्वितम् | फलैः सर्वोपदंश्चै गव्येनाज्येन संयुतम् || २-८१९ || निरीक्षणादिकं कृत्वा हृदयेनावकुण्ठ्य च | बध्नियात् सुरभीमुद्रां हृदयाणुं समुच्चरन् || २-८२० || शिवमन्त्रं सकृज्जप्त्वा ह्रन्मन्त्रेण निवेदयेत् | चतुर्भागेकभागेन परिवार बलिर्भवेत् || २-८२१ || प्. ८४) चतुर्भागेकभागेन होमं कुर्याद्विचक्षणः | चतुर्भागेक भागेन पात्रशेषमिहोच्यते || २-८२२ || अर्द्धन्निवेदयेच्छक्त्यै पात्रशेषं तदर्धकम् | पुनराचमनन्दत्वा सुगन्ध सलिलेन च || २-८२३ || तांबूलन्दापयेत् पश्चात् सर्वालंकारसंयुतम् | फलेभ्यस्त्रिगुणं पत्रन्दापयेत्तैल संयुतम् || २-८२४ || फलोपहारं पुष्पैश्च हृदयेन प्रदापयेत् | सर्वद्रव्यविशेषन्तु दद्याच्चण्डेश्वराय च || २-८२५ || निर्माल्य विनियोगक्रमः सदाशिवस्य निर्माल्यन्नभोज्यं सर्वजन्तुभिः | पशुभिश्च गजैर्भोज्यं प्रक्षिपेत् सलिलेषु वा || २-८२६ || सकलानान्निवेद्यन्तु परिचाराः परिग्रहेत् | यथा स्वस्य गुरोच्छिष्टं भोज्यन्तत् पुत्रशिष्ययोः || २-८२७ || सर्वेषाञ्च गुरोस्त्वेव मन्नाद्यञ्च निवेदनम् | तदन्नमन्यजातिस्तु संग्रहेद्यदिदोषकृत् || २-८२८ || नैवेद्य लक्षणं प्रोक्तं शृणुष्वा वरणान्यथा | गर्भविद्या गणेशाश्च लोकेशास्त्राणि पञ्चकम् || २-८२९ || पद्ममूले प्रतिष्ठाप्य गर्भावरणमर्चयेत् | पद्मार्धे चैव विद्येशान् गणेशांश्च तदर्धतः || २-८३० || पद्माग्रे लोकपालास्तु पद्माथोऽस्त्राणि पूजयेत् | पूर्ववक्त्रन्तु पुरुषं कुंकुमारुणविग्रहम् || २-८३१ || अर्चयेद् दक्षिणेऽघोरं भिन्नांजन समप्रभम् | सद्योजातं पश्चिमे च गोक्षीर सदृशप्रभम् || २-८३२ || उत्तरे वामदेवन्तु जपाकुसुमसन्निभम् | प्. ८५) ब्रह्मदेवाश्च सर्वे तु त्रिनेत्राश्चतुर्भुजाः || २-८३३ || शूलटंकवराभीति मनोहरकरांबुजाः | हृदयं शुक्लवर्णन्तु पूजयेदीशदिग्गतम् || २-८३४ || रक्तवर्णं शिरः पश्चादाग्नेययान्दिशिपूजयेत् | पीतवर्णां शिखाञ्चैव नै-ऋत्यान्दिशिपूजयेत् || २-८३५ || कवचं बालसूर्याभं वायुस्थाने तु पूजयेत् | नेत्रमीशान कोणे तु चास्त्रन्दक्षिणतोत्तरे || २-८३६ || सर्वेषडङ्गदेवाश्च त्रिनेत्राश्च चतुर्भुजाः | विभ्राणाः शूलमभयं कपालं वरमेव च || २-८३७ || रौद्रमस्त्रञ्च नेत्रञ्च शेषाः सौम्या इति स्मृताः | कंबीगणांबिका चैव गङ्गागौरीह्युमास्तथा || २-८३८ || वामीनीलीच चक्रीतं शंखीखट्गीत्वसी तथा | एताश्वैवदशप्रोक्तः गर्भवरणशक्तयः || २-८३९ || विद्येशाऽवरणे चैव देवशक्तिः क्रमाच्छृणु | अनन्तादिशिखड्यन्तं प्राग्दलादिक्रमान्न्यसेत् || २-८४० || अनन्तः सूक्ष्मसंज्ञ शिवोत्तमेक नेत्रकौ | एक रूद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः || २-८४१ || अष्टौ विद्येश्वराश्चेते त्रिनेत्राश्च चतुर्भुजाः | टंकन्त्रिशूलमभयं वहन्तो वरमेव च || २-८४२ || रक्तं श्वेतन्तथा नीलं पीतं कृष्णञ्च कुंकुमम् | करुणञ्चांजनप्रख्यं क्रमाद्विद्येश वर्णकम् || २-८४३ || भूतिर्मेधा तथा कान्तिः प्रभा तुष्टिस्तथैव च | श्रुतिर्मेधा पराचाष्टौ विद्येशानान्तु शक्तयः || २-८४४ || विद्येशावरणं प्रोक्तं गणेशावरणं शृणु | प्. ८६) उत्तरे तु यजेद्गौरीं वृषभं पूर्वतो यजेत् (यभेत्) || २-८४५ || याम्ये गणेशं संपूज्य नन्दीशं वारुणे यजेत् | महाकालञ्च नै-ऋत्यां हृंगीशं वायुगोचरे || २-८४६ || ऐशान्यान्दिशि चण्डेशमाग्नेययां षण्मुखं यजेत् | द्विनेत्राद्विभुजाः श्यामाः गौरीकरधृतोत्पला || २-८४७ || वृषभ श्वेतवर्णस्तु तीक्ष्णशृङ्गो (-श्रङ्गो) महाबलः | गजाननस्त्रिनेत्रश्च कुंकुमाभश्चतुर्भुजः || २-८४८ || पाशन्दन्तन्दधत्सव्ये वामेत्वं कुशलड्डुकम् | चतुर्भुजस्त्रिनेत्रश्च जपाकुसुम सन्निभः || २-८४९ || सर्वद्वारादि देवानां श्रीनन्दी देवनायकः | कृतांजलिपुटः श्रीमान्वज्र तोमरधारकः || २-८५० || चतुर्भुजस्त्रिनेत्रञ्च कालमेघ समप्रभः | खट्गं सवज्रमभयं वहन्तं वरमेव च || २-८५१ || द्विभुजञ्च द्विनेत्रञ्च ध्वजाभय समन्वितम् | धूम्रवर्णन्तु भृंगी शंध्यायेद् दुस्वप्ननाशनम् || २-८५२ || चतुर्भुजस्त्रिणेत्रस्तु चण्डोशश्चण्डनायकः | नीलवर्णोऽभयवरो बिभ्रच्छूल परश्वधम् || २-८५३ || रक्तवर्णो महासेनः षण्मुखः शिखिवाहनः | नेत्र द्वादशकोपेतो बिभ्रद्वादशबाहुभिः || २-८५४ || शूलं वज्रमसिंबाणमभयं परशांपुनः | घण्टाञ्चशिखिनं खेटं वरन्नागन्तथाऽंकुशम् || २-८५५ || देवसेनापतिं पूज्य गुलान्नञ्च निवेदयेत् | भद्रा च देवयानी च कान्तिः काली च मन्त्रिणी || २-८५६ || मालिनी च विरूपी च मन्दीचण्डाष्ट शक्तयः | प्. ८७) गणेशावरणं प्रोक्तं लोकेशावरणं शृणु || २-८५७ || इन्द्रं वज्रायुधं पूर्वेवह्नौ वह्निञ्च शक्तिकम् | यमन्दण्डधरं (-थरं) याम्येन्नि-ऋतिं खट्गहस्तकम् || २-८५८ || वरुणं पश्चिमेभागे पाशहस्तं जलाधिपम् (-थिपम्) | वायुमंकुशहस्तञ्च वायव्यान्दिशि पूजयेत् || २-८५९ || सोञ्चसौम्यदेशे तु गदाहस्तं प्रपूजयेत् | ईशानमीशदिक्भागे शूलहस्त प्रपूजयेत् || २-८६० || श्वेतं रक्तञ्च कृष्णञ्च निलंपीतञ्च धूम्रकम् | पीतवर्णञ्च धवलं लोकेशानां क्रमात् प्रभाः || २-८६१ || गजोऽजमहिषसिंह्मो मकरश्च मृगाश्वकौ | वृषभञ्च क्रमादष्टौ वाहनानि च दिक्भृताम् || २-८६२ || शची स्वाहा च सुदेवी च विलोभिन्याख्यया तथा | कालकण्ठी च नीली च जितकारिस्तु देविका || २-८६३ || शक्तयोष्टौ क्रमादेता लोकेशानां प्रकीर्तिताः | लोकेशावरणं प्रोक्तं सौरावरणमुच्यते || २-८६४ || सूर्यदेवो महाशास्त्रा ब्रह्माविघ्नेश्वरस्तथा | सरस्वती च ज्येष्ठा च विष्णुश्च क्षेत्रपालकः || २-८६५ || रक्तं प्रवालवर्णन्तु हेमवर्णातिरक्तकम् | स्फटिकं धूम्रवर्णन्तु श्यामं कृष्णप्रभाः क्रमात् || २-८६६ || उषा च प्रत्युषा चैव सिंहिकी तु सरस्वती | सावित्री चैव कल्याणी ज्ञानी चानन्ददायिनी || २-८६७ || प्रगुणी तु शीलाभूमी देवी चैव सुपालिनी | सौरमावरणं प्रोक्तं अथास्त्रावरणं शृणु || २-८६८ || वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशन्तथांकुशम् | प्. ८८) गदात्रिशूलं चक्रञ्च पद्मञ्चैवशायुधम् || २-८६९ || शक्तिर्गदा च स्त्रीरूपा पाशं पद्मन्नपुंसकम् | शेषाश्च पुरुषकारा श्चेकवक्त्रा द्विबाहुकाः || २-८७० || पीतं विद्युज्जपामूर्तिर्विद्रुमंकाञ्चन प्रभम् | पद्मरागं प्रवालञ्च कृष्णं श्वेतञ्च रक्तकम् || २-८७१ || कालिनी च विरूपी च वारुणी विमुखी तथा | नीलिनी सम्मुखी चैव मर्दिनी भृङ्गमालिनी || २-८७२ || एताः शक्तिरायुधानां स्वनामाद्येन पूजयेत् | अस्त्रावरणमित्युक्तन्दलाधस्तात् प्रपूजयेत् || २-८७३ || गणलोकेश योर्मध्ये सप्तमातृश्च पूजयेत् | ब्राह्मीऽऽवरीमाहे चैव कौमारी वैष्णवी तथा || २-८७४ || वाराही चैव माहेन्द्री चामुण्डाः सप्तमातरः | वीरभद्रञ्च विघ्नेशं पूर्वस्यान्दशि पूजयेत् || २-८७५ || यक्षेश्वरञ्च विधिवत् सौम्यायान्दिशिपूजयेत् | सर्वभूतपिशाचेभ्यो बलिपीठे बलिंक्षिपेत् || २-८७६ || बाह्यद्वारस्य बाह्ये तु बलिपीठं प्रतिष्ठितम् | अन्यदेशे प्रतिष्ठाप्य राजराष्ट्रं विनश्यति || २-८७७ || बलिपीठक्रमं वक्ष्ये विशेषात् तु महेश्वर | अन्तर्मण्डल दण्डान्ते भद्रपीठं प्रतिष्ठितम् || २-८७८ || अन्तर्हरासुमध्ये तु वाहनं पीठमुच्यते | अन्ते तु मध्यहारायाः पुष्पपीठं प्रकल्पयेत् || २-८७९ || मर्यदादि प्रतिष्ठायाङ्गणपीठं प्रतिष्ठितम् | प्. ८९) महामर्यादबाह्ये तु बलिपीठं प्रकल्पयेत् || २-८८० || गन्धपुष्पोदकैर्युक्तं धूपदीपसमन्वितम् | वृषाययक्षेशानाय महाकालगणाय च || २-८८१ || महापीठार्चनं कृत्वा सर्वदेवगणान्वितम् | देवाश्च पितरश्चैव ऋषयो दैत्यदानवाः || २-८८२ || यक्षाश्च राक्षसाश्चैव नागाभूतविशाचकाः | किन्नराप्सरसश्चैव मरुतोमात्रकास्तथा || २-८८३ || अनावृष्टि गणाश्चैव रोहिणी गण एव च | कुमारकूश्माण्ड गणाश्चाष्टादशगणास्तथा || २-८८४ || देवदानव गन्धर्वाः पीठमध्ये प्रजापतिः | सर्वभूत पिशाचेभ्यः पीठबाह्ये तु पूजयेत् || २-८८५ || वृषभं पूर्वदिक्भागे दक्षिणेशन्तु दक्षिणे | पश्चिमे तु महाकालं देवानां गणमुत्तरे || २-८८६ || गन्धाद्यैरर्चयित्वा तु बलिं सर्वत्र दापयेत् | मध्य याम्योत्तरे देशे कर्णिकायां बलित्रयम् || २-८८७ || प्रजापतेस्तु देवानामृषीणाञ्च यथाक्रमम् | नागादीशानपर्यन्तं पित्रादीनां प्रदापयेत् || २-८८८ || मार्जनप्रोक्षणं कृत्वा पुनरभ्यर्चनं शुभम् | गन्धं पुष्पञ्च धूपञ्च प्रोक्षणञ्च पृथक् पृथक् || २-८८९ || मुष्टिमात्रन्तदर्धं वा बलिं सर्वत्र दापयेत् | स्वनामाद्येन मन्त्रेण गन्धं पुष्पञ्च दापयेत् || २-८९० || बलिपीठविधिः प्रोक्तं अग्निकार्यविधिं शृणु | अग्निकार्यविधिं वक्ष्ये सर्वसिद्धि फलप्रदम् || २-८९१ || कुण्डे वा स्थण्डिले वापि होमकर्मविधीयते | प्. ९०) तिस्रोरेखाः पूर्वमुखाः ब्रह्मविष्णुहराधिपाः || २-८९२ || पूर्ववत् स्थण्डिलं कृत्वा शिवाग्निजननं कुरु | सूर्यकान्तोद्भवं श्रेष्ठं मरणेर्मध्यमं भवेत् || २-८९३ || वैदिकाग्नेर्विशेषेण जातवेदसमानयेत् | सौवर्णे राजते ताम्रे सप्तात्रे मृण्मयेऽथवा || २-८९४ || तमग्निन्तत्र निक्षिप्य शिवतन्त्रं (शिवन्त्रं) समुच्चरन् | शोधयेदस्त्रमन्त्रेण कवचेनाऽवकुण्ठयेत् || २-८९५ || बीजमुख्येन मन्त्रेण भावयेदमृतीकृतम् | कुण्डे वा स्थण्डिले वापि सपुष्पं विष्टरन्न्यसेत् || २-८९६ || पद्ममष्टदलोपेतं लिखित्वा कर्णिकान्वितम् | तस्य मध्ये समावाह्य वागीशीं यागकारिणीम् || २-८९७ || मातरं सर्वभूतानामृतुस्नातान्तु भावयेत् | पश्चान्महेश्वरन्देवन्त्रिनेत्रञ्च चतुर्भुजम् || २-८९८ || सर्वलक्षण संयुक्तं सर्वमङ्गलशोभितम् | संसृष्टं सहवागीशीदेव्यास्तत्रापि भावयेत् || २-८९९ || तत्कुण्डन्त्रिःपरिभ्राम्य हृन्मन्त्रं सकृदुच्चरन् | अग्निन्त्वभिमुखं योनौ देवस्यत्वा समुच्चरन् || २-९०० || प्रक्षेपयेत् तु हृन्मन्त्रमुच्चार्येकत्र संग्रहेत् | पश्चात् सप्ताहुतीः कुर्याद्धृन्मन्त्रं सम्यगुच्चरन् || २-९०१ || गर्भाधानविधौ कुर्यात्पुरुषाहुति सप्तकम् | पुंसवने तु शिरसा सप्तधा होममाचरेत् || २-९०२ || जातकर्मणि वामेन कुर्यादाहुति सप्तकम् | प्. ९१) नामकर्मविधाने च हृदा सप्ताहुतीर्हुनेत् || २-९०३ || शिरसा जुहुयादेव मन्नप्रशानकर्मणि | चौलकर्म वृतविधौ हृन्मन्त्रेण तु सप्तधा || २-९०४ || शिरोमन्त्रशतं हुत्वा समावर्तनमाचरेत् | विवाहाय च हृन्मन्त्रं सप्तधा होमयेद्गुरुः || २-९०५ || धूपदीप प्रदानं तु हृन्मत्रेण पृथक् पृथक् | एवं क्रमात् तु होमेन शिवाग्नेर्जातकं शुभम् || २-९०६ || सृक्सृवौ वामहस्तस्थौ कुशैर्दक्षकरस्थितैः | अग्रैरग्रन्तु संस्पृश्य मध्यैर्मध्यन्तु संस्पृशेत् || २-९०७ || मूलैर्मूलं स्पृशेदेवं भवेत् सृक्सृव शोधनम् | आज्यस्थालीञ्चरुस्थालीं प्रणीता पात्रमेव च || २-९०८ || क्षालयेच्छुद्धतोयेन शस्त्रमन्त्रं समुच्चरन् | प्रणीतां पूरयेत् तोयैस्तत्र कूर्चं विनिक्षिपेत् || २-९०९ || तज्जलैः प्रोक्षयेत् सर्वं होमद्रव्य समुच्चयम् | आज्येन पात्रमाज्यस्य पूरयित्वा सकूर्चकम् || २-९१० || त्रिधाप्रदक्षिणं वह्नेः परिभ्राम्य तथा पुनः | पश्चिमे चोत्तरे चैव चाऽज्यस्थापनमाचरेत् || २-९११ || परिषेचनञ्च हृदय सद्यमन्त्रेण तर्पणम् | निरीक्षणञ्च नेत्रेण परिधिस्थापनं कुरु || २-९१२ || पूर्वाग्रमुत्तराग्रञ्च परिधिस्थापनं शुभम् | इद्रादीशान पर्यन्तान् परिधिस्थान् प्रपूजयेत् || २-९१३ || ध्यानं शिवाग्निरूपस्य शृणुष्वेवं महेश्वर | प्. ९२) एकरूपं द्विवक्त्रञ्च चतुश्रङ्गं द्विनासिकम् || २-९१४ || त्रिमेखलं द्विपादञ्च त्रिनेत्रञ्च त्रिकोणकम् | सोपवीतं जटामौलिं सप्तजिह्वाभिरावृतम् || २-९१५ || हिरण्या कनकारक्ता कृष्णाख्या सुप्रभाह्वया | अतिरक्ता बहुरूपा च जिह्वाः सप्तप्रकीर्तिताः || २-९१६ || हिरण्यावारुणे भागे कनकामध्यमे स्थिता | रक्ता तथोत्तरे भागे कृष्णा याम्यदिशि स्थिता || २-९१७ || सुप्रभा पूर्वदिक्भागे वह्निस्थानेऽतिरक्तका | ऐशान्ये बहुरूपा च जिह्वा स्थानं प्रकीर्तितम् || २-९१८ || ध्यायेदेवं शिवाग्निन्तु सर्वशान्तिकरं शुभम् | अग्निदेवस्य मध्ये तु सादाख्यं सुप्रतिष्ठितम् || २-९१९ || सादाख्यस्य तदूर्ध्वे तु दक्षिणामुखमर्चयेत् | पाद्यमाचनञ्चार्घ्यं गन्धं पुष्पञ्च धूपकम् || २-९२० || दीपञ्चैवेद्य तांबूलन्दापयेत् तु नटेश्वरे | समिथो हृदये नैव अघोरेण चरुं हुनेत् || २-९२१ || घृतं पुरुषमन्त्रेण लाजंघोरास्त्रमन्त्रतः | वाममन्त्रेण सक्तुञ्च क्षीरं वै सद्यमन्त्रतः || २-९२२ || यवान् हृदयमन्त्रेण सिद्धार्त्थं सद्यमन्त्रतः | तिलमीशान मन्त्रेणमुद्गं माषं हृदा तथा || २-९२३ || द्रव्यान्तेष्वेकहोमन्तु कुर्यात् त्र्यंबकमुच्चरन् | जप्त्वाशतं वर्णमन्त्र मोदनेन तु होमयेत् || २-९२४ || अपमृत्युजयन्नित्यमाज्याहुति सहस्रकम् | पञ्चावरण देवानामेकं होमं पृथक् पृथक् || २-९२५ || स्वनाम्नेकाहुतिं हुत्वा घंटाधूपाद्यलंकृतम् | प्. ९३) तांबूलन्दापयेत् पश्चात् गन्धं पुष्पं प्रदापयेत् || २-९२६ || त्र्यक्षरञ्च सकृज्जप्त्वा तिष्ठन्मध्ये तु होमयेत् | अग्नेरालिङ्गनन्नित्यं विदद्ध्याच्छिवरूपिणः || २-९२७ || बद्ध्नियात् ज्ञानमुद्राञ्च तद्भस्म तु परिग्रहेत् | ललाटे बाहुहृदये ष्वेकाङ्गुलन्त्रिपुंट्रकम् || २-९२८ || शेषेषु द्वादशाङ्गेषु तदर्धार्धप्रमाणकम् | मूलत्रिकोणमध्ये तु स्थापयेदग्निदैवतम् || २-९२९ || हृन्मन्त्रैः स्थापयेदग्निं ज्वालामालाभिरावृतम् | कोटिसूर्यप्रतीकाशं ध्यायेन्नादात्मकन्नटम् || २-९३० || ध्यात्वा ज्योतिस्वरूपस्थं शिवमन्त्रं सकृज्जपेत् | अग्निकार्यक्रमं प्रोक्तन्नित्योत्सवविधिं शृणु || २-९३१ || अर्चनान्ते त्रिकालेषु नित्योत्सवमथाऽचरेत् | सर्वसिद्धिकरं शुद्धं सर्वपापविशोधनम् || २-९३२ || सर्वमङ्गल माङ्गल्यं सर्वशत्रुविनाशनम् | यक्षराक्षस पैशा च भूतानागास्तथैव च || २-९३३ || श्रुत्वा तु तद्बलेः शब्दङ्गच्छन्ति च न संशयः | दक्षिणे मंटपाद्भागे चतुरश्रन्तु मंडलम् || २-९३४ || सर्वलक्षण संयुक्तं सर्वमङ्गल शोभितम् | सौवर्णं राजतन्ताम्रं कांश्यं वा पात्रमुच्यते || २-९३५ || एकहस्तं द्विहस्तं वा पात्रविस्तारमुच्यते | तत्राष्टदल पद्मञ्चकारयेद्व्यङ्गुलोन्नतम् || २-९३६ || त्रिभागं कर्णिका तत्र तदुत्सेधाङ्गुलद्वयम् | प्. ९४) एवं कृत्वा विशेषेण तत्पात्रं मंडले न्यसेत् || २-९३७ || अन्नलिङ्गन्तु मध्याह्नेत्वधमाऽधममाचरेत् | पुष्पलिङ्गन्तु पूर्वाह्ने सायाह्ने तंडुलात्मकम् || २-९३८ || उत्तमं मध्यमं पश्चादधमञ्च त्रिधा भवेत् | उत्तमं त्वाढकं प्रोक्तं मध्यमं तु तदर्धकम् || २-९३९ || अथमं पञ्चपादं स्यात् तंडुलं पाचयेच्छुभम् | नाऽपक्वन्नातिपक्वञ्च नात्युष्णन्नातिशीतलम् || २-९४० || सर्पिर्दधिपयोभिश्चाऽप्यन्नलिङ्गं प्रकल्पयेत् | उत्सेधं द्वादशङ्गुल्यं मूलन्त द्विगुणं भवेत् || २-९४१ || ऊर्ध्वन्तु द्व्यङ्गुलं प्रोक्तं द्व्यङ्गुलन्नाहमुच्यते | मध्यमं द्वादशङ्गुल्यमूर्ध्वञ्च त्र्यङ्गुलं भवेत् || २-९४२ || अथमं द्व्यङ्गुलं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् | संपूज्य विद्यावरणन्देवध्यानक्रमं शृणु || २-९४३ || रौद्रं त्र्यक्षञ्चतुर्बाहुशिखाकोटिसमुज्वलम्? | अक्षसूत्रं त्रिशूलञ्च बिभ्राणमभयं वरम् || २-९४४ || ध्यात्वा पाशुपतन्देवं बलिलिङ्गे प्रपूजयेत् | पद्ममुद्रान्नमस्कारं शान्तमुद्रां प्रकल्पयेत् || २-९४५ || तल्लिङ्गे प्रतिमां ध्यात्वा गन्धपुष्पादिभिर्यजेत् | दशायुधानि परितः कल्पयेत् कल्पवित्तमः || २-९४६ || पद्मपीठन्तु यद्धार्य पादुकां धारयेच्छिखाम् | त्रिशूलं पूर्वतोगच्छेच्छिवदंडं त्वनन्तरे || २-९४७ || रक्तोष्णीषोत्तरीयश्च रक्तमाला विभूषितः | पवित्रपाणिर्मौनी तु हस्तमात्रेण दंडधृक् || २-९४८ || शिरसाधारयेल्लिङ्गं प्रतिमादिनिषेवितम् | प्. ९५) पूर्वाह्ने ब्रह्मणः प्रीतिर्मध्याह्ने तु शिवप्रियः || २-९४९ || विष्णुप्रीतिस्तु सायाह्ने तद्ध्यानञ्च क्रमात् शृणु | पूर्वोक्तं ब्रह्मवर्णन्तु रुद्रवर्णञ्च कथ्यते || २-९५० || शुक्लोष्णीषोत्तरीयश्च शुक्लमालाविभूषितः | मध्याह्ने धारयेल्लिङ्गं ममप्रतिकरं शुभम् || २-९५१ || पीतोष्णी षोत्तरीयश्च पीतमालाविभूषितः | सायाह्ने धारयेल्लिङ्गं विष्णुप्रीतिकरं शुभम् || २-९५२ || दक्षिणाभिमुखं शिष्यं प्रोक्षयेद्धृदयेन तु | तन्मूर्ध्नि देवं संस्थाप्य गन्धपुष्पादिभिर्यजेत् || २-९५३ || शिबिकायाङ्गजे वापि रथेवाऽरूढयन्त्रके | अथवा पादगमनं प्रदक्षिणन्तु कारयेत् || २-९५४ || पटहैर्मद्दलैश्चैव झल्लरी जयघंटकैः | काहलैस्ताल जंघैश्च वीणावेणुरवैस्तथा || २-९५५ || पींछचामरसंयुक्तं छतृद्ध्वज समायुतम् | धूपदीपसमायुक्तं वितानोपरिशोभितम् || २-९५६ || गणिकानृत्त संयुक्तन्दिव्य गेयसमन्वितम् | स्तोतृद्ध्वनि समायुक्तङ्गेयमङ्गल वाचकम् || २-९५७ || वेदद्ध्वनि समायुक्तन्दिव्यनृत्तसमन्वितम् | त्रिधा प्रदक्षिणं कृत्वा प्रासादन्तु महेश्वर || २-९५८ || आद्यप्रदक्षिणं कृत्वा भृंगिणी ताल संयुतम् | गोपुरेवाद्य निश्शब्दं शंखद्ध्वनि समायुतम् || २-९५९ || तालगेय समायुक्तं वेदद्ध्वनि निषेवितम् | प्रदक्षिण द्वितीयन्तु नृत्तवाद्य समन्वितम् || २-९६० || समस्तं भृंगीणीतालं कर्तृवाद्यन्तु डक्करी | वकुलं कुंचितां घ्रिन्तु कूटकं विषमन्तथा || २-९६१ || बाह्यपीठ क्रमावृत्य प्रसादन्त्रिः प्रदक्षिणम् | प्. ९६) बलिताल * * * * * * * * * तालकम् || २-९६२ || नवतालन्नागताल कोटिकांस्यं करिष्य च | इन्द्रादीशानपर्यन्नं बलिदानं यथाक्रमम् || २-९६३ || प्रातः काले तु गान्धारं मद्द्याह्ने तक्करागकम् | कौशिकञ्च ततः कुर्यात् सायाह्ने चेन्दलन्तथा || २-९६४ || पञ्चमञ्चार्धरात्रौ तु गानकालं महेश्वर | इत्येतैः कल्पिताश्चैव प्रासादन्त्रिःप्रदक्षिणम् || २-९६५ || पादप्रक्षालनं कृत्वा पादुकार्चनमारभेत् | पादुकार्चना | हृदयम्मन्त्रमुच्चार्य गन्धपुष्पादिभिर्यजेत् || २-९६६ || पाद्यमाच मतञ्चार्घ्यं धूपदीपञ्च दापयेत् | प्रतिमां प्रतिलिङ्गन्तु पूजयेत् पुर्ववत् क्रमात् || २-९६७ || पूर्ववच्छस्त्र मन्त्रेण पूर्वस्थाने तु विन्यसेत् | बलिलिङ्गं समभ्यर्च्य बाह्यपीठे तु विन्यसेत् || २-९६८ || देवदेवं पूजयित्वा नमस्कुर्याच्चमुद्रया | * * * * * * * * प्रदक्षिण नमस्कारम् || २-९६९ || सव्याऽपसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् | प्रदक्षिणन्दुःखहरं सोमसूत्रन्नलंघयेत् || २-९७० || तीर्थञ्च (तीर्धञ्च) दानं पुण्यञ्च तपोयज्ञेन्तथैव च | प्रदक्षिण समन्नास्ति प्रत्यक्षफलसिद्धिदम् || २-९७१ || द्विर्भेलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर | मौनवृताचरैर्नान्य चिन्तकैश्शिवचिन्तकैः || २-९७२ || चायातस्तत् प्रकर्तव्यं विमाने तु प्रदक्षिणम् | प्. ९७) बलिकाले विशेषन्तु आचार्यं शिष्यसेवितम् || २-९७३ || नदोषमन्य कालेषु छायासूत्रन्नलंघयेत् | गोब्राह्मण नृपछायां ज्येष्ठच्छायान्नलंघयेत् || २-९७४ || शिवं प्रदक्षिणं शंभोर्जगद्रक्षार्थ कारणम् | विमानदण्डविस्तारं सोमसूत्रन्नलंघयेत् || २-९७५ || आयुर्बलन्तथा रोग्यमपमृत्युजयं भवेत् | संपन्नश्चै हिकैर्भोगैरुद्रलोकं सगच्छति || २-९७६ || प्रदक्षिणे विमानानान्दक्षिणं श्रेष्ठमुच्यते | तस्मात् सर्वप्रयत्नेन त्रिधाकुर्यात् प्रदक्षिणम् || २-९७७ || ज्ञानार्थञ्च जयार्थञ्च वश्यार्थञ्च धनार्थकम् | पावनं रोगशान्त्यर्थं रक्षार्थं योजनार्थकम् || २-९७८ || अणिमा महिमार्थञ्च प्रदक्षिणमिहोच्यते | तस्मात् प्रदक्षिणं कुर्याद्दक्षिणद्वारमालयम् || २-९७९ || दक्षिणद्वारदेवन्तु नटेश्वर मनुस्मरेत् | प्रणमेद्दण्डवद्भूमा वष्टाङ्गं सन्निवेशयेत् || २-९८० || शिरोहस्तौ च कर्णौ च चिबुकंबाहुयुग्मकम् | अष्टाङ्गञ्च नमस्कारं पञ्चाङ्गञ्च ततः शृणु || २-९८१ || शिरोहस्तौ द्विबाहू च कृत्वा जानौ च संस्थिते | इदं पञ्चाङ्गमेवन्तु नमस्कारं द्विधा स्मृतम् || २-९८२ || तदन्ते तांडवं कुर्यान्ममप्रीतिकरं शुभम् | तत् काले गानमुच्चार्यं स्तोत्रं वेदं जयन्तथा || २-९८३ || लिङ्गमालिङ्गनं कुर्यात् ज्ञानमुद्रामनन्तरम् | अथोपहार पुष्पाणि दापयेद्दक्षिणेश्वरे || २-९८४ || चलुकोदकम् || चुलुकस्योदकं शुद्धं चुलुकोदकमिष्यते | प्. ९८) आदायजलमर्घ्यस्य संपूर्णन्दक्षपाणिना || २-९८५ || चुलुकोदमिदं श्रेष्ठमात्मानं पादमूलतः | निवेदयेत् तु तत् सर्वं मम चित्तेन वै बुधः || २-९८६ || पुस्तकाराधनं कुर्यादागमद्ध्यान पूर्वकम् | उद्वासनविधि || उद्वासनविधिं वक्ष्ये शृणुष्वेवं महेश्वर || २-९८७ || पुष्पं कराभ्यां सङ्ग्राह्य मन्त्रमीशानमुच्चरन् | मूर्ध्निमध्ये तु संस्थाप्य विमुखं शिवरूपिणम् || २-९८८ || शक्तिमन्त्रं समुच्चार्य हृन्मध्ये स्थापयेत् ततः | सर्वदेवावृतं पूर्वन्देवं चैव विचिन्तयेत् || २-९८९ || ध्यात्वा हृत्पद्म मध्ये तु बिन्दुनाद स्वरूपकम् | शुभनृत्तं सदाध्यात्वा दक्षिणामुखमव्ययम् || २-९९० || पाद्यमाचमनञ्चार्घ्यङ्गन्धं पुष्पञ्च दापयेत् | वर्णमन्त्रं समुच्चार्य त्रयाक्षरमनुं स्मरन् || २-९९१ || घंटानाद स्वरूपन्तु ध्यायेन्नृत्तं सदोदितम् | पादमुद्रा प्रकर्तव्यामुखे हृदयगुह्ययोः || २-९९२ || क्षेत्रपालार्चनं वक्ष्ये शृणुष्वेवं महेश्वर | अर्द्धरात्रौ विशेषेण क्षेत्रपालार्चनं शुभम् || २-९९३ || अकारस्यान्तमध्यस्थं कूटबीजं सुपालनम् | बीजनाद समायुक्तमन्तस्थं स्थिति पालनम् || २-९९४ || एकाक्षरं परं रौद्रं पालकं शत्रुनाशनम् | क्षेत्रराजं क्षयहरं मृत्युप्रशमनं शुभम् || २-९९५ || प्. ९९) पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्च धूपकम् | दीपन्निवेदयेत् सर्वं कूटबीजं समुच्चरन् || २-९९६ || श्वानमारूढमेवञ्च स्वनामाद्येन पूजयेत् | ध्यानञ्च क्षेत्रपालस्य वक्ष्ये शृणु महेश्वर || २-९९७ || ऊर्द्ध्वकेशन्त्रिनेत्रञ्च सर्पकुण्डलशोभितम् | दंष्ट्राकाराल वदनं भिन्नांजन समप्रभम् || २-९९८ || दधानन्दक्षपाणिभ्यां शूलंडमरुकन्तथा | कपालं वामहस्ताभ्यां दंडञ्च क्रूरविग्रहम् || २-९९९ || भीमवेषधरन्नग्नन्नागयज्ञापवीतिनम् | अष्टभाहुञ्चतुर्बाहुं द्विभाहुं प्रोक्तमुत्तमम् || २-१००० || इत्थं वै क्षेत्रदेवन्तु ध्यात्वा मृत्युविनाशनम् | आवाहयेत् ततो देवमूर्ध्वे सिंहासनस्य तु || २-१००१ || स्नाने पद्मासनं कृत्वा वस्त्रैर्गन्धैः सुपुष्पकैः | धूपदीपैः सदाऽभ्यर्च्य योगासनं प्रकल्पयेत् || २-१००२ || निवेदयेच्च काले तु अनन्तासन संस्थिते | नृत्तं कृत्वा विशेषेण देवे सिंहासन स्थिते || २-१००३ || पद्मासनन्तु सर्वेषां सकलानां यथा क्रमम् | शिवार्चनसमं पुण्यन् न भूतो न भविष्यति || २-१००४ || इति मकुटे त्रिसहस्रसंहितायां क्रियापादे अर्चनाविधिर्द्वितीयः पटलः || २ || मकुटे दीक्षाविधि पटलः | दीक्षाफलनिरूपणम् अथ दीक्षाविधिं वक्ष्ये सर्वसिद्धिफलप्रदम् | अपमृत्युप्रशमनं आयुरारोग्यवर्द्धनम् || ३-१ || दीक्षापदार्द्धं दीयते यच्छिवत्वं हि क्षीयते पापपंजरम् | दानक्षपणयोगेन दीक्षा चेत्यभिधीयते || ३-२ || दीक्षास्थानं महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये | गङ्गातीरे सरित्तीरे समुद्रे चाश्रमेऽपि च || ३-३ || पुष्पोद्यानेऽथवा शुद्धे जल्पेश्वरसमीपगे | पर्वताग्रे वने गोष्ठे श्रीपुरे क्षीरवृक्षके || ३-४ || ब्रह्मकुण्डे कदंबे च गुरोस्सद्मनि शोभने | देवालये विशेषेण दक्षिणद्वारवेश्मनि || ३-५ || कुन्दवृक्षस्य मूले च दीक्षास्थानं प्रकल्पयेत् | दीक्षास्थानक्रमं प्रोक्तं दीक्षाकालविधिं शृणु || ३-६ || उत्तरायणकाले च शुक्लपक्षे शुभे दिने | अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः || ३-७ || सर्वमासेषु कर्तव्यमाचार्येच्छायुते दिने | सुमुहुर्ते सुलग्ने च दीक्षा कर्म समाचरेत् || ३-८ || परीक्ष्यवत्सरं पूर्वं शिष्यानान्तु गुणाऽगुणान् | गुणयुक्तांस्तु सङ्ग्राह्य गुणहीनान्विवर्जयेत् || ३-९ || प्. १०१) शिष्यानुग्रहणे पूर्वन्दन्तकाष्ठं प्रदापयेत् | पूर्ववद्विधि संयुक्तं स्नानं कृत्वा विचक्षणः || ३-१० || सर्वदेवात्मकं शुद्धं मण्टपं सार्वकामिकम् | पूर्ववद् भूमिसंशुद्धिं कृत्वा मण्टपमण्डनम् || ३-११ || वर्णगन्धरसां चैव चातुवर्ण्य क्रमाच्छृणु | श्वेतवर्णं ब्राह्मणानाम्रक्तवर्णन्तु भूभृताम् || ३-१२ || पीतवर्णन्तु वैश्यानां शुद्राणां कृष्णवर्णकम् | आज्यगन्धन्तु विप्राणां नृपाणाम्रक्तगन्धकम् || ३-१३ || वैश्यानां पद्मगन्धञ्च शूद्राणां क्षारगन्धकम् | मधुरश्च कषायश्च तिक्तश्च कटुकः क्रमात् || ३-१४ || द्विजादिशूद्रपर्यन्तं यागभूमिरसा इमे | वर्णगन्धरसैरेवं संयुक्तं यागभूतलम् || ३-१५ || चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् | वितानध्वजसंयुक्तन्दर्भमालाविभूषितम् || ३-१६ || ध्वजमाला समायुक्तं पुष्पमाला परिष्कृतम् | क्रमुकैः कदलीभिश्च मुक्तादामभिरावृतम् || ३-१७ || पालिकाभिरनेकाभिर्दशदिक्षु परिष्कृतम् | सुधया भस्मना वापि कृतरेखा त्रयावृतम् || ३-१८ || पुष्पोपहार सहितैर्लाजदूर्वाक्षतैर्युतम् | सम्मितञ्च सुसूत्रञ्च कृत्वा शंकुञ्च सर्वतः || ३-१९ || प्. १०२) शंकवः खादिराः पश्चादपामार्गाश्च चंपकाः | उत्सेधं द्वादशाङ्गुल्यन्तदर्धनाह संयुतम् || ३-२० || मण्डलत्रिगुणयामं द्वात्रिंशत्सूत्रसंयुतम् | मण्डलपरिकल्पनम् || पूर्वाग्राण्युत्तराग्रणि सूत्राण्यास्फालयेत् क्रमात् || ३-२१ || नै-ऋत्यादीशपर्यन्तमाग्नेयाद्वायुकोणगम् | सूत्रं प्रसार्य कृत्वा तु वर्तुलं मण्डले शुभे || ३-२२ || सितेन रजसा चैवाऽष्टपत्रं लिखेत्पुनः | कर्णिकां पीतवर्णेन केसरञ्चाऽरुणेन च || ३-२३ || तन्मूलमगृंशुक्लेन दलानि श्वेतवर्णतः | हस्त पद्मं प्रमाणन्तु कर्णिका चतुरङ्गुला || ३-२४ || पद्ममानं लिखेद्वारं विधिना विस्तरन्तथा | प्रतिद्वारेण रेखाः स्युः पद्मबाह्ये त्रयंभवेत् || ३-२५|| पद्मबाह्यत्रयं मानं पद्मार्द्धार्द्धन्तु मानकम् | पद्मान्ते प्रतिधारे तु मध्ये वर्णक्रमम् शृणु || ३-२६ || पुरस्ताद्रक्तवर्णन्तु कृष्ण वर्णन्तु दक्षिणे | पश्चिमे श्वेतवर्णं स्यादुत्तरेकाञ्चनप्रभम् || ३-२७ || आग्नेययामग्निवर्णञ्च नीलवर्णञ्च नै-ऋते | वायव्यां धूम्रवर्णं स्यादेशान्यां श्वेतवर्णकम् || ३-२८ || नववृक्षं नववर्णं पद्मबाह्ये तु लेखयेत् | चतुर्द्वारादिवर्णन्तु क्रमाद्वक्ष्ये महेश्व्र || ३-२९ || रक्तेन रजसाऽलेख्य द्वाराणि पीतवर्णकैः | हरितेन तु बाह्य न त्रिवर्णञ्च क्रमान्न्यसेत् || ३-३० || प्. १०३) शोभामप्युपशोभांश्च श्वतवर्णेन लेखयेत् | शालिगोधूमपिष्टैश्च मुक्ताचूर्णैः सुमिश्रितम् || ३-३१ || पद्मरागस्य पूर्णञ्च मध्ये नीलञ्च वर्णकम् | आग्नेययां पीतचूर्णैश्च नीलचूर्णं यमे तथा || ३-३२ || नै-ऋत्याञ्चैव गोमेदचूर्णं कृत्वा विशेषतः | मुक्ताचूर्णं पश्चिमे च वैडूर्य चूर्णमानिले || ३-३३ || सौम्ये प्रवालवर्णं स्यादैशेमाणिक्कचूर्णकम् | धातूंश्च पुष्पयोनिञ्च ब्रह्मपुष्पन्तथोत्पलैः || ३-३४ || धुर्तूरैर्ब्रहती पुष्पैर्नन्द्यावर्तस्य पत्रकैः | हरिद्रा शालिवर्णञ्च मध्यादीशान्त वर्णकैः || ३-३५ || एतद्वर्णैश्च बाह्ये तु नववृक्षान्विलेखयेत् | कल्पं बिल्वं शमीञ्चैव वटवृक्षञ्च चंपकम् || ३-३६ || अश्वत्थं प्लक्षपुन्नागञ्चन्दनन्नव विन्यसेत् | षोडशञ्चैव द्वात्रिंशच्चतुः षष्ट्युत्तरं शतम् || ३-३७ || एतद्दल क्रमान्न्यस्त्वा महामण्डलमेव च | सहस्रं वा शताष्टौ वा षोडश द्वादशाष्ट वा || ३-३८ || इत्थन्दलान् क्रमान्न्यस्त्वा शिवमण्डलमुच्यते | पञ्चविंशद् द्वात्रिंशत्सहस्रं वा शताष्टकम् || ३-३९ || इत्थन्दल क्रमन्न्यस्त्वा ज्ञानमंडलमुच्यते | प्. १०४) मंडल त्रितयं प्रोक्तं ततो हस्तविधिं शृणु || ३-४० || रेण्वष्टौ कथितं केशंकेशाष्टौ लीक्षकन्तथा | यूकाष्टकं यवाष्टौ च अङ्गुल्यष्टौ तु तालकम् || ३-४१ || तालद्वयन्तु हस्तं स्यान्मानं वक्ष्ये महेश्वर | एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा || ३-४२ || पञ्चाष्टदशहस्तं वा तथा षोडशहस्तकम् | हस्तानां विंशतिञ्चैव पञ्चविंशति हस्तकम् || ३-४३ || द्वात्रिंशद्धस्तमेवं स्यादत ऊर्ध्वन्नकारयेत् | मण्डलन्तु कृतं पूज्यतस्य मध्ये शिवार्चनम् || ३-४४ || सर्वदेवात्ममध्यस्थन्दक्षिणामुखमव्ययम् | गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् || ३-४५ || त्र्यंबकम्मन्त्र मुच्चार्य ध्यात्वा मध्ये नटेश्वरम् | अपूपञ्चफलं क्षीरमस्त्रमन्त्रेण दापयेत् || ३-४६ || तंडुलैराढके नैव चरुकं पूर्वत्पचेत् | निवेदयेच्चरुं सम्यत्तदर्धन्तु निवेदयेत् || ३-४७ || परिचारे तदर्धन्तु तदर्धं शिष्यके ददेत् | दन्तैरस्पृस्य विधिवद् पञ्च ब्रह्ममनुस्मरन् || ३-४८ || आचामं विधिवत् कृत्वा वीरेशद्ध्यानमुच्चरन् | तदन्ते मन्त्रमुच्चार्य शिष्यकर्णे तु दक्षिणे || ३-४९ || तन्म* ?ञ्चशतं शप्त्वा बध्नीयात् कौतुकं पुनः | विश्वेत्तानेति मन्त्रेण बध्नियाद् दक्षिणे करे || ३-५० || स्तीणामपिशूद्राणाममन्त्रं वामहस्तके | बृहत्सामेति मन्त्रेण भस्म चैव प्रदापयेत् || ३-५१ || भस्मशयया समारूढं शिवदक्षिण पार्श्वके | प्. १०५) नमश्शंभो त्रिनेत्राय पिङ्गलाय महात्मने || ३-५२ || वामाय विश्वरूपाय स्वप्नाथिपतयेनः | इमम्मन्त्रं शतं जप्त्वा वसेद्रात्रौ शिवाग्रतः || ३-५३ || तत्काले गुरुरूपन्तु ध्यात्वा दक्षिणनायकम् | प्रशमार्थन्तु विघ्नानां कलशान् पञ्चकल्पयेत् || ३-५४ || ससूत्रञ्च सवस्त्रञ्च सरत्नं पूर्ववत्कृतम् | प्रासाद मध्यकलशे चेशानेनाभि मन्त्रयेत् || ३-५५ || पुरुषाघोर वामाजान् पूर्ववच्चक्रमान्न्यसेत् | गन्धाद्यैरर्चयित्वा तु न्यस्त्वा ब्रह्मस्वरूपकम् || ३-५६ || हृदयं मन्त्रमुच्चार्य नैवेद्यादि च दापयेत् | इत्थं संकल्प्य विधिवत् (विथिवत्) प्रभाते स्नानमाचरेत् || ३-५७ || शुभं वाप्यशुभं वापि द्रष्टं स्वप्नन्निवेदयेत् | शुभेषु संग्रहेच्चैव चा शुभे होममाचरेत् || ३-५८ || प्रक्षाल्य पादौ हस्तौ च समाचम्य विधानतः | दुकुलपट्ट वस्त्रेण चित्रपट्टेन वाससा || ३-५९ || अथवा नववस्त्रेण कार्पास विहितेन वा | नेत्रमन्त्रेण दशधा जपन्शिष्यस्य लोचने || ३-६१ || उत्तराभिमुखो भूत्वा बध्नीयात्सुसमाहितः | पुरुषम्मन्त्रमुच्चार्य पुष्पञ्चैव परिग्रहेत् || ३-६२ || ईशानेन तु मन्त्रेण पुष्पांजलिमुपाहरेत् | प्रदक्षिण त्रयं कृत्वा वाममन्त्रेण दापयेत् || ३-६३ || यस्मिन् वक्त्रे (चक्त्रे) पतेत् पुष्पन्नामाद्यन्तु तदात्मकम् | प्. १०६) नामगोत्रञ्च शूत्रञ्च गोचरं रत्नवृक्षकम् || ३-६४ || शैवन्तत्वञ्च कालञ्च मूर्तिञ्चैव क्रमाच्छृणु | ईशान वक्त्रविद्येशाऽवघोर ब्रह्मशक्तिकम् || ३-६५ || रुद्रं वाम महंकारन्नवधा नामकथ्यते | ब्राह्मणानां शिवान्तञ्च शूद्राणाञ्च गणान्तकम् || ३-६६ || वैश्यादिरनुलोमस्य शक्त्यन्तन्नाम भाषयेत् | कौशिकः काश्य पश्चैव भारद्वाजोथ जैमिनिः || ३-६७ || अगस्त्यः गौतमो वसिष्ठः पराशरश्च रोमशः | शिवसूत्रन्नादसूत्रं शक्तिब्रह्मसुसूत्रकम् || ३-६८ || सोमसूत्रम्महासूत्रन्नवसूत्राण्य मूनि वै | शिवःशिखानन्द ज्योत्स्ना सावित्री या तु सद्गुणा || ३-६९ || व्योमव्यापकशैवाश्च गोचरा नवधा स्मृताः | कल्पबिल्वशमी चैव वटवृक्षञ्च चंपकम् || ३-७० || अश्वत्थ प्लक्षपुन्नागाश्चन्दनन्नव पादपाः | माणिक्कम्मौक्तिकञ्चैव पुष्परागञ्च नीलकम् || ३-७१ || वैडूर्यञ्चैव गोमेदङ्गारुडञ्च प्रवालकम् | ऊर्ध्वशैवन्तु प्रथममादिशैवं द्वितीयकम् || ३-७२ || अनादिशैवन्त्रितीयमनुशैवञ्चतुर्थकम् | अवान्तरं पञ्चमञ्चमिश्रशैवन्तु षष्ठकम् || ३-७३ || सप्तमं भेदशैवं स्यादष्टमङ्गुणशैवकम् | आज्ञाशैवन्तु नवमं शैवानि नवधा क्रमात् || ३-७४ || शिवतत्वं वह्नितत्वं शक्तिज्ञानमयन्ततः | प्. १०७) निर्गुणं भेदतत्वञ्च आत्मविद्या शिवात्मकम् || ३-७५ || प्रोक्तानि नवतत्वानि कालानि च नवशृणु | विधाता सृष्टिकाले तु स्थितिकाले तु केशवः || ३-७६ || संहारकाले रुद्रस्तु भोगकाले महेश्वरः | योगकाले तु सादाख्यो ज्ञानकाले तु बिन्दुकः || ३-७७ || ध्वनिकाले तु नादात्माचाज्ञाकाले तु शक्तयः | शिवकाले विशेषन्तु चेशानोपि ततः क्रमात् || ३-७८ || शिवमूर्तिः शक्तिमूर्तिर्नादात्मा बिन्दुमूर्तिकः | सदाशिव महेशानरुद्रकेशव वेधसाम् || ३-७९ || मूर्तयो नवधा प्रोक्ताश्शक्तिरूपन्ततः शृणु | आदिशक्तिः क्रियाशक्ति ज्ञानशक्तिर्गणात्मिका || ३-८० || ज्ञानशक्तिर्जयाशक्तिर्योगानन्दाख्यशक्तिका | भेदाधारात्मशक्तिश्च शक्तयो नवधास्मृताः || ३-८१ || नाम्नां भेदानि संप्रोक्ता द्वारवर्ण क्रमं शृणु | द्वारन्तु दक्षिणं श्रेष्ठञ्चातुर्वर्ण्यमनुक्रमात् || ३-८२ || पूर्वद्वारं प्रशस्तन्तु ब्राह्मणानां महेश्वर | क्षात्रन्तु दक्षिणद्वारं वैश्यानामुत्तरं शुभम् || ३-८३ || शूद्राणां पश्चिमद्वारं विशेषन्तु महेश्वर | सर्वेषां मपिवर्णानान्दक्षिणद्वारमुत्तमम् || ३-८४ || पञ्चब्रह्म षडङ्गैश्च पूर्ववन्न्यासमाचरेत् | पञ्चकोश स्थितन्तत् तु संहारं हृदयेन तु || ३-८५ || मूलमन्त्रं सकृज्जप्त्वा (सक्रज्जप्त्वा) शिष्यमूर्ध्नि निरीक्षयेत् | निरीक्ष्यचैव तत् स्थाने शिवहस्तं प्रदापयेत् || ३-८६ || संश्राव्य समयान् सम्यग् देवदेवस्य चाग्रतः | प्. १०८) शिवशास्त्रमनिन्द्यन्तु शिवपादसुनिश्चितम् || ३-८७ || आचार्य ज्येष्ठलिङ्गानां छायामपिनलंघयेत् | अदीक्षिता च या नारी तत् सङ्गं परिवर्जयेत् || ३-८८ || निर्माल्यन्तु नभुंजीत भस्मयुक्तान्न निन्दयेत् | शिष्यं सबांधवञ्चैव सपत्निकञ्च दीक्षयेत् || ३-८९ || एवं संश्राव्य समयान्पश्चाद्धोमं समाचरेत् | पिधाय सर्वद्वाराणि निरुद्ध्येन्द्रियमेव च || ३-९० || शब्दसंरोधन स्थानं कर्मेन्द्रियमिति स्मृतम् | अनलेन तु बीजेन चक्षुरिन्द्रियरोधनं || ३-९१ || नीरसेन्द्रिय कर्णन्तु चक्षुर्घ्राणे सुजिह्वके | त्वगिन्द्रियञ्च पायू च वागिन्द्रिय निरोधनम् || ३-९२ || समयेन्द्रियमानेनाऽहंकारोऽनलेन्द्रियम् | नवद्वारं शब्दबीजमनलं स्पर्शबीजकम् || ३-९३ || पञ्चबीजकरन्न्यस्त्वा पूर्वेन्द्रियन्न्यसेत् क्रमात् | सत्वं रजस्तमश्चैव स्वनामाद्येन पाठयेत् || ३-९४ || एवन् निरुद्ध्य विधिवत्कर्षयेच्छिवशक्तिभिः | यावदासीत्पशुपतिस्तावत् सर्वन्निरोधयेत् || ३-९५ || सुधया प्लावितन्त्र त्रवारुणेन शिवेन च | सर्वदेवमयन्देहं सर्वज्ञान समुच्चयम् || ३-९६ || सूर्यमंडल संकाशं मध्ये बीजं प्रतिष्ठितम् | आत्मतत्वांकुरञ्चैव विद्या तत्वं सुनादकम् || ३-९७ || शिवतत्वमिति प्रख्यं मन्त्रराजानमव्ययम् | प्. १०९) ओमिति प्रणवं शुद्धं योगपद्ममधोमुखम् || ३-९८ || पूर्वमेवं सुकुंभित्वा पश्चाच्छिष्ये नियोजयेत् | हृत्पुंडरीक मध्यस्थङ्गुणत्रय समन्वितम् || ३-९९ || इंद्रनील मणिप्रख्यं पञ्चविंशाख्यरूपकम् | हंसमन्त्रं स्वरूपस्थ मानन्दममृतात्मकम् || ३-१०० || ऊर्द्ध्वशैव मिदम्मन्त्रं बीजमन्त्रङ्गुरुं शुभम् | परवस्तु स्वरूपञ्च परमानन्दरूपिणम् || ३-१०१ || परतत्वप्रकाशार्थं पार्वतीवल्लभं शिवम् | अक्षराद्यादिमूर्धास्याद् पुद्गलस्य प्रतिष्ठितम् || ३-१०१ || दक्षिणामुखमाश्रित्य ज्ञानमुद्रा स्वरूपिणम् | सदाशिवं शिवात्मानं षडध्वात्मा सुलक्षितम् || ३-१०२ || पुनरुत्थाप्य विधिवदध्वषट्कन्तु विन्यसेत् | मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाद्ध्वकः || ३-१०३ || वर्णाध्वा च कलाध्वा च पूर्व तत्वेषु योजयेत् | पृथिव्यापस्तथा तेजोवायुराकाश एव च || ३-१०४ || कालानलाग्नितं वायु पञ्चतत्वं व्यवस्थितम् | पार्थिवन्तु निवृत्या च ब्रह्मणा चैव कथ्यते || ३-१०५ || आपः प्रतिष्ठया विद्याद्यावद् विष्णु स्वरूपतः | तेजो विद्या च तेजो वै यावद्रुद्र स्वरूपकम् || ३-१०६ || अघोरमन्त्रं विद्यायां शान्तौ पुरुषमन्त्रकम् | वायुशान्त्यादि रूपन्तु महेशात्मा व्यवस्थितः || ३-१०७ || शान्त्यतीतं खकारात्मा सादाख्य तत्वमव्ययम् | प्. ११०) जान्वधस्तान्निवृत्तिः स्यात् प्रतिष्ठानाभ्यथः स्थिता || ३-१०८ || विद्या स्थानन्तु कण्ठान्तं मुखान्तं शान्तिगोचरम् | रंध्रान्तं शान्त्यतीता तु परापरशिवात्मकम् || ३-१०९ || निवृत्तौ सद्यमन्त्रं स्यात् प्रतिष्ठायान्तु वामकम् | अघोरमन्त्रं विद्यायां शान्तौ पुरुषमन्त्रकम् || ३-११० || ईशानमन्त्रोऽतीतायान्तन्मन्त्रैर्जुहुयात् ततः | प्रत्येकन्तु शतं हुत्वा ददर्धं वा तदर्धकम् || ३-१११ || पञ्चविंशच्छतं हुत्वा पञ्चहोमं प्रशस्यते | आचार्यस्य शतं हुत्वा एते होमं विशेषतः || ३-११२ || अन्ये बन्धविनाशाय हृदयेनशतं हुनेत् | अष्टत्रिंशत्कला मन्त्रं अष्टत्रिंशत्तु होमयेत् || ३-११३ || वर्णमन्त्रं समुच्चार्य चेकहोमं प्रशस्यते | शिष्याकृतिन्त्रिधा ध्यात्वा शिष्यदेहञ्च बन्धयेत् || ३-११४ || आकर्षयेत् तु तत्सर्वं पाशबन्धविनाशनम् | अघोरमन्त्रमुच्चार्याऽघोरास्त्रेण होमयेत् || ३-११५ || चिन्नं भिन्नञ्च तन्नूनं पाशबन्धनमुच्यते | शिष्यदेहन्तु सङ्ग्राह्य मन्त्रहस्तं प्रदापयेत् || ३-११६ || प्रदापयेत् तु तत्काले शिवमन्त्रमनुस्मरन् | मन्त्रदेहमनुस्मृत्य देहमूर्ध्नि विशेषतः || ३-११७ || विद्येश्वराणां प्रत्येकमाहुत्यष्टकमिष्यते | गणेश्वराणान्तद्देहं योजयेच्छिष्यदेहके || ३-११८ || सर्वेषाल्लोकपालानां मन्त्राणाञ्चैव होमयेत् | एवं मन्त्राद्ध्व अन्यस्य तत्वाद्ध्वन्यासमुच्यते || ३-११९ || पृथिव्यापस्तथा तेजो वायुराकाश एव च | प्. १११) शब्दं स्पर्शञ्च रूपञ्च रसङ्गन्धञ्च पञ्चकम् || ३-१२० || वाक्च पाणी च पादौ च पायूपस्थञ्च पञ्चकम् | श्रोत्रञ्च त्वक्च चक्षुश्च जिह्वाघ्राणञ्च पञ्चकम् || ३-१२१ || मनोबुद्धिरहंकारः प्रकृतिः पुरुषस्तथा | रागो नियति विद्ये तु कलाकालश्च मोहिनी || ३-१२२ || शुद्धविद्या शुद्धकला तथा पश्चात् सदाशिवः | शक्तिश्च शिवतत्वञ्च शुद्धमाया स्वरूपकम् || ३-१२३ || एवन् तत्वानिष्ट्त्रिंशत् स्वस्वस्थाने नियोजयेत् | विन्यसेद्भुवनाद्ध्वानं कालाग्न्यादि शिवान्तकम् || ३-१२४ || कालाग्निरुद्रं प्रथमं पादाङ्गुष्ठे नियोजयेत् | अन्धकारञ्च प्रथमं जंघस्यार्थे नियोजयेत् || ३-१२५ || अष्टाविंशति कोटिस्तु नरकाश्चाऽतिदारुणाः | राजानो नरकाणान्तु द्वात्रिंशत्परिकीर्तिताः || ३-१२६ || रौरवं कुंभिपाकञ्च महाघोरञ्च रौरवम् | कूटञ्च बलिपूजा च महापूतिश्चदारुणम् || ३-१२७ || जन्तुपूतञ्च तप्तञ्चऽसितालवनन्तथा | क्षरका क्षुरिकाधारा धनुर्धाराशरस्तथा || ३-१२८ || स्वानसूकर व्याघ्रञ्च सिंहञ्चैव गजेन्द्रकः | महा वै तरणी चैव चासिभङ्गस्तथैव || ३-१२९ || क्रकामश्चैव कामश्च ककुदश्चैव गर्दभः | कायका कीर्णवज्रा च सर्वपांशुश्च लोहकः || ३-१३० || नीलयन्ता च यन्ता च चक्र यन्ता शुभीरुका | प्. ११२) अर्द्धजंघोर्ध्व जंघा च जानुकन्नामकाः क्रमात् || ३-१३१ || तलञ्च वितलञ्चैव नितलं सुतलन्तथा | रसातलं महातलन्तलातलञ्च सपकम् || ३-१३२ || ऊरुमध्ये न्यसेत् पश्चात् क्रमात् पाताल सप्तकम् | भूलोकञ्च भुवर्लोकं सुवर्लोकं महस्तथा || ३-१३३ || जनोलोकन् तपोलोकं सत्यलोकं यथाक्रमम् | इत्थं वै सप्तलोकांश्च मेढ्रोर्ध्वे परिकल्पयेत् || ३-१३४ || ऐन्द्रं ब्राह्मञ्च भुवनं वैष्णवं रौद्रमेव च | मेढ्रोर्ध्वे च गलाधस्तात् क्रमेणैव च विन्यसेत् || ३-१३५ || गोलोकं शिवलोकञ्च गलादूर्ध्वं प्रकल्पयेत् | अकारादि क्षकारान्तन् तत् तत् स्वानेषु विन्यसेत् || ३-१३५ || मूलप्रकृति बीजन्तु मुखमध्ये प्रविन्यसेत् | महामायाशक्तिबीजं शिवमन्त्रञ्च विन्यसेत् || ३-१३७ || नासाग्रे हृदये गुह्ये देहमध्ये तु विन्यसेत् | इत्थं वर्णाद्ध्वकन्न्यस्य कलाद्ध्वानन्ततो न्यसेत् || ३-१३८ || निवृत्तिं हृत्प्रदेशे तु प्रतिष्ठां कण्ठगोचरे | विद्यां तालु निशान्तिञ्च मुखेऽतीताञ्च मूर्धनि || ३-१३९ || इत्थन्न्यस्य कलाद्ध्वानं शिवतत्वन् ततः परम् | इत्थं कृत्वा स आचार्यो विपचानपि दीक्षयेत् || ३-१४० || रसवित्थं यथा ताम्रन्नभूयस्ता मृतां व्रजेत् | आज्ञा सिद्धस्तथा ह्येष न संसारमनुस्मरेत् || ३-१४१ || एवं सम्यक्ततः कृत्वा दीक्षयाऽनादि वर्जिताः | प्. ११३) हूते नैव विमुच्यन्ते साधकाजन्मबन्धनात् || ३-१४२ || हृदयेन समिद्धोममघोरेण चरुन्ततः | पुरुषेण घृतं पश्चादघोरास्त्रेण लाजकम् || ३-१४३ || हृदयेन गुलं पश्चात्फलानि शिवमन्त्रतः | सक्तुं वै वाममन्त्रेण क्षीरं सद्येन मन्त्रतः || ३-१४४ || तथा हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः | तिलमीशान मन्त्रेण मुद्गंमाषं हृदा ततः || ३-१४५ || द्रव्याभावे तु सर्वेषामाज्य होमं प्रशस्यते | आज्यहोमेन सर्वेषां द्रव्याणां फलमश्नुते || ३-१४६ || होमान्तेक्वभिषेकन्तु वक्ष्यते च शृणु क्रमात् | सहस्रकलशैर्वापि तदर्धकलशैरपि || ३-१४७ || शताष्टकलशैर्वापि सर्वद्रव्यसमन्वितैः | दरिद्राणां यथा लाभं कलशैरभिषेचयेत् || ३-१४८ || पञविंशतितः कृत्वा अथवा नवपञ्च वा | द्वौकुंभावेकमथवा गुरुहस्तमथापि वा || ३-१४९ || पूर्ववत् स्थाप्यकलशं शिवं पूर्ववदर्चयेत् | पद्मन्दक्षिणतोन्यस्य वसुपत्रं सकर्णिकम् || ३-१५० || तत्पद्ममध्ये शिष्यन्तु स्थापयेदुत्तराननम् | पुण्याहं वाचयित्वा तु ब्राह्मणैर्वेपारगैः || ३-१५१ || ऋग्वेदं पूर्वदिक्भागे यजुर्वेदं तु दक्षिणे | पश्चिमे सामवेदं तु चतुर्थं वेदमुत्तरे || ३-१५२ || विन्यस्य घोषयेत् पश्चाच्छंखकाहल निस्वनैः | तथा वाद्य निनादैश्च जयमङ्गल वाचकैः || ३-१५३ || वीणावेणुरवैश्चैव नृत्तगान समन्वितैः | प्. ११४) विशेषात् ब्राह्मणानान्तु स्वोत्रमङ्गल वाचकैः || ३-१५४ || शैवैः पाशुपतैश्चैव महावृतधरैरपि | बौद्धैरार्हतकैश्चैव सर्व पाषण्डिनाङ्गणैः || ३-१५५ || वसनोदनदण्डाद्यैर्भोजनैश्च यथोचितैः | सेवितं पद्मपीठस्थं स्नातं शिष्यं दृढवृतम् || ३-१५६ || अभ्यर्च्य पूर्ववत् कृत्वा न्यासं तस्य यथा क्रमम् | अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीप समन्वितैः || ३-१५७ || निष्कलश्च यथा चार्यस्सकलश्च तथा भवेत् | अभिषेकं ततः कुर्यादाचार्यो देशिकोत्तमः || ३-१५८ || आचामं विधिवत् कृत्वा गन्धपुष्पैरलं कृतम् | पूर्ववासः परित्यज्य दुकूलादि विभूषितम् || ३-१५९ || हारकेयूरकटक कुण्डलाभरणोज्वलम् | हेमयज्ञोपवीतेन नवरत्नां गुलीयकम् || ३-१६० || चन्दनालिप्तसर्वाङ्गं पुष्पमालाद्यलंकृतम् | श्वेतयज्ञोपवीतञ्च सोष्णीषं सोत्तरीयकम् || ३-१६१ || सपवित्रकराभ्यान्तु धारयेत् तोयपूष्पकम् | शरीरमर्थं प्राणञ्च सद्गुरुभ्यो निवेदयेत् || ३-१६२ || प्रणम्य दण्डवद्भूमौ शिरसा भक्तिसंयुतम् | अनुग्रह्य ततश्शिष्यमारोग्य परिपालनात् || ३-१६३ || शंघकाहल संयुक्तं पुष्पवृष्टि समन्वितम् | पादं प्रदापयेन् मूर्ध्नि तस्य पाशविभेदकम् || ३-१६४ || पश्चात् प्रासादमुच्चार्य वरदन्दक्षिणात्मकम् | प्. ११५) आदायशिष्य हस्तञ्च पादमुद्रां प्रकल्पयेत् || ३-१६५ || शिष्यस्य दक्षिणे कर्णे शिवमन्त्रं समुच्चरेत् | सोपि तन्मन्त्रमुच्चार्य तिष्ठन् शिष्यः कृतांजलिः || ३-१६६ || पूजा तन्त्रमिदं ज्ञानं प्रासादं परमे पदे | यदवाप्य नरास्सर्वे दुख्खभेदमिदं कथम् || ३-१६७ || कर्मात्मकञ्च शैवञ्च ममवृत्तं कथं प्रभो | ईश्वरः | साधु साधु हिमच्छिष्य तत्सर्वं वक्ष्यते शृणु || ३-१६८ || आचार्य ज्येष्ठलिङ्गानां छायामपिनलंघयेत् | अदीक्षिता च या नारी तत्सङ्गं परिवर्जयेत् || ३-१६९ || अदीक्षिता कृतिं स्पृष्वा शिवमन्त्रमनुस्मरेत् | अदीक्षितान्नं योभुङ्गे चंडालश्च न संशयः || ३-१७० || ममरूपं सदा ध्यात्वा शिवमन्त्रमनुस्मरेत् | उपवीतञ्चोत्तरीयञ्च स्त्रीशूद्राणां विवर्जयेत् || ३-१७१ || शिवार्चनन्तथा कर्मशिवद्ध्यानञ्च कारयेत् | निर्वाणदीक्षिताये तु सर्ववर्णेषु कारयेत् || ३-१७२ || त्रैवर्णिका विशेषेण सर्वकालञ्च धारयेत् | प्रणवादि च स्वाहान्तं विप्रमात्रं प्रकीर्तितम् || ३-१७३ || नमस्कारादि स्वाहान्तं क्षत्रियाणाञ्च कीर्तितम् | नमस्कारात्मसंयुक्तं मन्त्रं वैश्यं प्रकीर्तितम् || ३-१७४ || नमोवषट्च शूद्रस्य प्रणवादि विसर्जयेत् | निर्वाणदीक्षितोयस्तु प्रणवेन तु योजयेत् || ३-१७५ || न जाति वर्णभेदानि निर्वाणं परमं पदम् | प्. ११६) सर्वजातिषु दीक्षायां विशेषाद् ब्राह्मणो गुरुः || ३-१७६ || निर्वाणदीक्षां वक्ष्येहं तवस्नेहाः शृणु क्रमात् | एक कुंभं प्रतिष्ठाप्य पूर्ववत्परिशोभितम् || ३-१७७ || अष्टदलं च पद्माख्यन्न्यस्त्वा मध्ये विनिक्षिपेत् | हेमपद्माकृतिन्न्यस्त्वा सकूर्चञ्च सवस्त्रकम् || ३-१७८ || अंकुरार्पण पूर्वन्तु सर्वलक्षणसंयुतम् | तत् तुंभे चासनन्न्यस्त्वा शिवमावाह्य पूजयेत् || ३-१७९ || गन्धैः पुष्पैश्च धूपैश्च पूर्ववत् पूजयेत् क्रमात् | मूलप्रकृतिबीजं तत् कुंभमध्ये तु विन्यसेत् || ३-१८० || अथवा नदितीरेवा कराभ्यामभिषेचयेत् | अक्षरस्तोद्गतं दृष्ट्वा दौ च प्रतिष्ठितम् || ३-१८१ || प्रदक्षिणमुपाश्रित्य सासनञ्चैव पूजयेत् | प्रथमं योगभावन्तु द्वितीयं ज्ञानमुद्रिका || ३-१८२ || त्रितीयं द्रंहणं कृत्वा चतुर्थं वरदाभयम् | पञ्चमं पञ्चवक्त्रं स्याद् ध्यात्वामध्ये तु चिन्तयेत् || ३-१८३ || दक्षिणामुखमाश्रित्य सन्मार्गञ्चैव कथ्यते | त्वम्मान् दक्षिणे वक्ष्ये विशेषन्तु महेश्वर || ३-१८४ || पुत्रवत् स्वीकृतं पूर्वं वदन्ति शिवसंयुतम् | अथवा हारिद्रजलं पीत्वा च पुत्रसंभवम् || ३-१८५ || दासमार्गं विशेषेण मम रूपन्तु तत्समम् | ममरूपं सदा ध्यात्वा तत् कृतम्मम कर्मकम् || ३-१८६ || सन्मार्गं सहमार्गं च पुत्रमार्गञ्च साधकम् | दासमार्गसमं मार्गन् न भूतो न भविष्यति || ३-१८७ || तस्माद्वेदाश्च सन्मार्गन्निर्वाणं परमं पदम् | प्. ११७) आचार्यस्यासनं कृत्वा आचार्यात्मानमानयेत् || ३-१८८ || तस्मादाचार्य रूपन्तु महादेवात्मरूपकम् | गुरुर्देवो महादेवो गुरुर्देवस्सदाशिवः || ३-१८९ || तस्माद् देवमिदङ्गुह्यं ध्याययेत् परमाङ्गतिम् | एकाक्षर प्रदातारं गुरोरन्यन्नमानयेत् || ३-१९० || श्वानयोनिशतं प्राप्य चंडालेष्वपि जायते | चर?लिङ्ग स्वरूपञ्च ज्येष्ठाचार्य स्वरूपकम् || ३-१९१ || आचार्यलिङ्गमूर्तिञ्च गुरुरात्म प्रपूजयेत् | नयनदीक्षा विधिं वक्ष्ये शृणुष्वेवं महेश्वर || ३-१९२ || केचिद्यदि च नित्यान्तन्नऋत्तान्त * * * * * * | केचिद् वै वर्गभानन्तु मम दृष्टिनिपातकम् || ३-१९३ || नयनदीक्षा तु संप्रोक्तं स्पर्शदीक्षान्ततः शृणु | मम स्नेहसुसं स्पृष्टमनाश्च परिचारयेत् || ३-१९४ || सकालमृतरूपञ्च शिवलोकमवाप्नुयात् | तस्मात् सर्वप्रयत्नेन दीक्षयेद्बुद्धिमान्नरः || ३-१९५ || स्पर्शदीक्षाविधिः प्रोक्तं वाचिकञ्च ततः शृणु | मम मन्त्रं समुच्चार्य दक्षिण श्रोत्रकन् तथा || ३-१९६ || यस्याक्षर स्वरूपन्तु दीक्षाध्यान क्रमं शृणु | दीक्षावाचमिदं प्रोक्तं मानसीञ्च ततः शृणु || ३-१९७ || अग्निकार्यादि सर्वञ्च मनसा कल्पयेच्छुभम् | प्. ११८) मानसी च तथा प्रोक्ता शास्त्रदीक्षाविधिं शृणु || ३-१९८ || मम दत्तमिदं सर्वं कामम्ममावनं विधिम् | एक ध्यानस्य मात्रेण शिवलोकं सगच्छति || ३-१९९ || दीक्षामार्ग क्रमं प्रोक्तमुत्सवं वक्ष्यते शृणु || इति मकुटे त्रिसहस्रसंहितायां क्रियापादे दीक्षाविधि पटलोनामत्रितीयः || ३ || अथ शिवोत्सवविधि पटलः अंकुरार्पणकालः | शिवोत्सवस्य पूर्वे तु चांकुरार्पणमुत्तमम् | बन्धने शोभने कार्ये युद्धारंभे पवित्रके || ४-१ || दीक्षायां स्थापने चैव स्नपने प्रोक्षणे तथा | कर्षणे प्रतिमाशुद्धौ शिलासंग्रहणेऽपि च || ४-२ || नव भोजन कल्याणे कृत्तिका दीपरोहणे | अभिषेक दिनात्पूर्वे नवमे सप्तमे तथा || ४-३ || पञ्चमे त्रिदिने चैव तद्दिने चाऽंकुरार्पणम् | पालिकालक्षणम् || पालिका घटिका चैव शरावञ्च त्रिधा भवेत् || ४-४ || सुवर्णं रजतं वापि ताम्रं वा मृण्मयन्तु वा | पालिकाष्टदशाङ्गुल्यमुच्चं मात्राङ्गुलेन तु || ४-५ || पालिका द्विमुखाश्शस्ताष्षोडशाङ्गुलमुच्यते | तदर्धं पादविस्तारं तत् षड्भागेक मोष्ठकम् || ४-६ || पालिकोच्चं त्रिधा कृत्वा पदन्दंडम्मुखं क्रमात् | विस्तारस्य त्रिभागेकं वर्तितं बिलमुच्यतो || ४-७ || एवं पादक्रमं प्रोक्तं शेषन्दंडमिहोच्यते | विस्तारस्य त्रिभागेक दंडविस्तारमुच्यते || ४-८ || पालिकालक्षणं प्रोक्तं शृणुष्वेवम्महेश्वर | घटिकालक्षणम् || घटिकाघटविस्तारम्मन्वङ्गुल सुविस्तरम् || ४-९ || तदर्धं पादविस्तारम्पालिकोक्त प्रकारतः | पञ्चवक्त्र समायुक्तं घटिकां कारयेत् ततः || ४-१० || सूत्रके प्. १२०) शरावलक्षणम् || शरावमुखविस्तारं रव्यङ्गुलमुदाहृतम् | पादविस्तारमर्धन्तु उत्सेधं बिलसंयुतम् || ४-११ || पालिकोक्त प्रकारेण कारयेत् तु महेश्वर | भिन्नञ्च सुषिरं कालं भेदंकोणञ्च मेलकम् || ४-१२ || अपूर्णं खंडरीञ्चैव वर्जयेत् साधकोत्तमः | शूलीमुकुन्दधाता च पालि आद्यधिदेवताः || ४-१३ || इत्येवं पालिका ग्राह्य दशदिक्स्थाप्यमेव च | प्रासादपूर्वेचाशान्ये दक्षिणे चोत्तरे तथा || ४-१४ || अंकुरस्थापनक्रमं गोमयोऽलेपिते शुद्धे मण्टपे वसुसूत्रके | मध्ये व्योमपदं ग्राह्य लोपयेदभितोष्टकम् || ४-१५ || त्रीणिचाभ्यन्तरे त्यक्त्वा चतुर्दिक्षु क्रमात् बुधः | पालिका द्वेन्यसेत् पूर्वं द्वाराणां पार्श्वयोर्द्वयोः || ४-१६ || विन्यसेत् घटिका द्वेतु कोणेषु च पदद्वयोः | शेषेषु वै शरापालीः स्थापयेद् धृदयेन तु || ४-१७ || कुशाग्रैश्चैव दर्भैश्च निच्छिद्रं सुषिरं कुरु | स्थण्डिलं कारयेद् धीमानष्टद्रोणैश्चालिभिः || ४-१८ || तस्य मध्ये लिखेत् पद्मं साष्टपत्रं सकर्णिकम् | स्थापयेत् कर्णिकामध्ये चंद्रकुंभमलंकृतम् || ४-१९ || पूजाक्रमम् | ससूत्रञ्च सवस्त्रं सरत्नं पूर्ववत् कृतम् | पूजयित्वा यथान्यायं ध्यानमार्गेण पूजयेत् || ४-२० || कृत्तिकां रोहिणीं पूज्यकुंभस्य पार्श्वयोर्द्वयोः | पायसान्नन्ददेत् पञ्चात्तांबूलञ्च निवेदयेत् || ४-२१ || प्. १२१) वालुकैर्गोमयैर्मृद्भिः पालिकादिन् प्रपूरयेत् | ततो नैवेद्य तांबूलं दापयेत् तु विशेषतः || ४-२२ || पयसा पूर्यतद्बीजं हेमपात्रे सुसंचितम् | तिलसर्षपमुद्गञ्च माषशिंबन्तु बृम्हिणम् || ४-२३ || कुलुत्थं सप्तबीजानां सप्तधान्याधिदेवताः | आचार्यो वापयेद्बीजान् प्राङ्मुखोऽदङ्मुखोऽपि वा || ४-२४ || सोमकुंभस्थिताद्भिश्च पालिकादिनि सेचयेत् | आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः || ४-२५ || उत्सवविथिविध्यमुत्तमादिकम् || उत्सवं त्रिविधं प्रोक्तन्नवाहं सप्तपञ्चकम् | उत्तमं तु नवाहं स्यात् सप्ताहं मध्यमन्तथा || ४-२६ || पञ्चाहमथमं ज्ञेयमुत्सवं त्रिविधं स्मृतम् | त्रयाहञ्चैव मेकाहमाचार्यस्येच्छयादिशेत् || ४-२७ || प्रातःकाले चा वभृतं सायंकाले च साधयेत् | उत्सवारंभ पूर्वे तु कुण्डलक्षणमुच्यते || ४-२८ || हस्तमात्रं खनेत् तत्र मेखलाभिस्समायुतम् | कुण्डानां यादृशं रूपन्तादृशी मेखला भवेत् || ४-२९ || मेखलाभिरलं कृत्य चेक मेखलयाऽन्वितम् | उत्सेधन्तु नवाङ्गुल्यं विस्तारस्य प्रमाणतः || ४-३० || चतुरङ्गुलमूर्ध्वे तु चेकमेखलयान्वितम् | त्रिमेखलाङ्गुलं वक्ष्ये विशेषेण महेश्वर || ४-३१ || चतुरङ्गुलमूर्ध्वे तु त्र्यङ्गुलं मध्यमं भवेत् (भभेत्) | अपरा च द्वयाङ्गुल्यं विस्तारोत्सेधमेव च || ४-३२ || अश्वत्थ पत्रवद्योनिं मेखलोपरिविन्यसेत् | एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् || ४-३३ || प्. १२२) सप्ताङ्गुलन्तद् दीर्घं स्याद्दिनानि च तत शृणु | कृत्तिकाद्यादिमासेषु कार्तिके कृत्तिकान्तकम् || ४-३४ || मार्गमासे तु चार्द्रान्तं पुष्यमासे तु पुष्यकम् | माघमासे मघान्तञ्च फाल्गुने चोत्तरान्तकम् || ४-३५ || चैत्रे चित्रान्तमेवञ्च वैशाखे तु विशाखकम् | ज्येष्ठमासे तु मूलान्त मुत्सवान्तदिनं शुभम् || ४-३६ || आषाढे चोत्तराषाढे श्रावणे श्रवणान्तकम् | पूर्वभाद्र महामासे पूर्वभाद्रान्तमुच्यते || ४-३७ || आश्वयुज्यान्तथाश्विन्यां चोत्सवान्तदिनं शुभम् || सर्वमासेषु कर्तव्य मार्द्रान्तमस्याच्छिवोत्सवम् || ४-३८ || यजमान दिनेचैव राजजन्मदिने तथा | दिनानां लक्षणं प्रोक्तं दण्डनाहयोग्यवृक्षाणि || ४-३९ || * * * * * * * * न्दण्डस्य लक्षणं शृणु || उत्तमं मध्यमञ्चैवाऽधमञ्च त्रिधा भवेत् || ४-४० || प्रासादान्त समन्दण्डं प्रासाद शिरसान्तकम् | सभानाञ्च समन्दण्डन्त्रिविधञ्चोत्तमं क्रमम् || ४-४१ || उक्षस्थलान्तं कट्यन्तङ्गोपुरान्तन्तथैव च | मध्यमन्तु त्रिभेदञ्च अथमञ्च क्रमाच्छृणु || ४-४२ || कण्ठनाभिसु मध्यं वा भूतमालान्तकन्तथा | पञ्चहस्त विमानेन समदण्डं ततः शृणु || ४-४३ || त्रिहस्तेन विमानेन द्विगुणन्दंडमुच्यते | चतुर्हस्तं द्विहस्तार्थं दंडार्थञ्चैव योजयेत् || ४-४४ || पञ्चहस्तं तदूर्ध्वे तु मध्यमादि च दंडकम् | प्. १२३) निर्व्रणञ्च ऋजुञ्चैव क्रिमिकोटरवर्जितम् || ४-४५ || चन्दनञ्चैव दारुञ्च बिल्वञ्चंपकमेव च | क्रमुकं वेणुकञ्चैव पनसंकुलवृक्षकम् || ४-४६ || कुन्दपुन्नाग खदिरमर्जुनं केतकन्तथा | षड्विंशाऽऽगुलनाहञ्च उत्तमन्तु वीधीयते || ४-४७ || चतुर्विंशाङ्गुलन्नाहं मध्यमन्तु विधीयते | द्वादशाङ्गुल नाहञ्चाऽथमं तत्र कारयेत् || ४-४८ || चतुर्विंशाङ्गुलन्नाहमग्रमेतत् प्रकीर्तितम् | दशाङ्गुलन्तु मूलं स्यादष्टादशाङ्गुलान्तकम् || ४-४९ || उत्तमं मध्यमञ्चैवात्वथमन्नाहमुच्यते | अथमाङ्गुलेन कर्तव्यं मानाङ्गुलेन कारयेत् || ४-५० || उत्तमं हस्तमात्रं तु फलकापञ्चसंयुतम् | सप्तविंशाङ्गुलायाममुत्तमन्तु विधीयते || ४-५१ || अष्टादशाङ्गुलायामन्दशाङ्गुल सुविस्मृतम् | मध्यमन्तु विधिं कृत्वा अथमन्तु प्रकल्पयेत् || ४-५२ || हस्तमात्र प्रमाणेन विस्तारञ्चतुरङ्गुलम् | दंडायामन्ततः कृत्वा त्रिभागं पन्नभागिकम् || ४-५२ || सप्तभागन्ततः कृत्वा चाष्टभागन्तु कल्पयेत् | आवाहनाधिवासेन चोत्तमन्नवहस्तकम् || ४-५३ || मध्यमं सप्तहस्तञ्च ह्यधमं पञ्चहस्तकम् | इत्येवं विधिवत् कृत्वा पट्टायास्त्रितयन्तथा || ४-५४ || ध्वजपटलक्षणम् || पञ्चतालोक्तमार्गेण मध्यमञ्च चतुर्थकम् | अथमञ्च त्रितालञ्च कदलीदल संयुतम् || ४-५५ || त्रिकोणमायतं कृत्वा पुच्छद्वय समन्वितम् | प्. १२४) पिधायमध्यमाग्रञ्च पुच्छविस्तार संयुतम् || ४-५६ || पुच्छञ्च विस्तारार्थं वा द्विपुच्छं वा त्रिपुच्छकम् | इत्येतल्लक्षणैर्युक्तं ध्वजरूपं प्रकीर्तितम् || ४-५७ || * * * * * * * ध्वजारोहण पूर्वविधिः | वृषभस्योत्तरे पार्श्वे गोमयो लेपिते शुभे || ४-५८ || अष्टद्रोणैश्च शालीनां पटस्य स्थण्डिलन्तथा | पद्मासनस्थं वृषभं सर्वाभरणभूषितम् || ४-५९ || श्वेतं वृषभरूपं तु श्रङ्गेरक्ते प्रकीर्तिते | खुरास्सर्वे तथैवोद्यत् बालादित्य निभप्रभाः || ४-६० || आसीनं वा स्थितं वापि शुभमालेखयेद् वृषम् | अष्टानां लोकपालानां वाहनान् स्वस्वदिक्षु च || ४-६१ || नवध्वज समायुक्तमैंद्रे कूटगजाकृतिम् | कजञ्चैवाग्निदेशे तु महिषं याम्य देशके || ४-६२ || सिंहन्नै-ऋतदेशे तु मकरं वारुणे तथा | मृगं वायव्य देशे तु सौम्ये चाश्वं प्रकीर्तितम् || ४-६३ || ऐशान्यां वृषभञ्चैव तत् तद् दक्षिण पार्श्वके | लिखित्वा वाहनं तत्र स्वनाम्ना प्रतिपूजयेत् || ४-६४ || विशेषात् पञ्चगव्येन मूलदेवार्चनं शुभम् | विशेषात् पूजयेद् देवन् दक्षिणेश्वरमद्भुतम् || ४-६५ || यथा विभव विस्तारमर्चयेद् देशिकोत्तमः | अष्टद्रोणमयं शालीस्थण्डिलञ्चतुरश्रकम् || ४-६६ || द्विहस्तस्य विस्तारं शालिभिश्चतुरङ्गुलम् | अष्टपत्रं समालिख्य श्वेततंडुलरेखया || ४-६७ || आढकेन तिलैः पश्चाच्चतुष्कोणादि लेखयेत् | प्. १२५) कूर्चासनं प्रतिष्ठाप्य स्थण्डिले चाऽर्चयेच्छुभम् || ४-६८ || कूर्चोपरिन्यसेत् कुंभं स्वर्णं राजतताम्रकम् | अथवा मृण्मयं वापि सुदृढं शुभविग्रहम् || ४-६९ || सौवर्णेनाऽथरौप्येण कार्पाससहितेन वा | सूत्रेणाऽवेष्ट्य विधिवन्मंडलोपरिविन्यसेत् || ४-७० || गन्धोदकेन संपूर्णं पञ्चरत्नसमन्वितम् | माणिक्कम्मौक्तिकञ्चैव वैडूर्यन्नील विद्रुमे || ४-७१ || एतानि पञ्चरत्नानि वृषकुंभे विनिक्षिपेत् | शिवमन्त्रं घटे न्यस्य वर्णमन्त्रमनुस्मरन् || ४-७२ || कूर्चन्तु निक्षिपेत् तत्र आम्रपल्लव (आंम्र-) शोभिते | आसने कुसुमन् दद्याच्चक्रवत्परिशोभिते || ४-७३ || वस्त्रेण वेष्टयित्वा तु गन्धं पुष्पञ्च दापयेत् | घटे वृषभमभ्यर्च्य मूलमन्त्रेण मन्त्रवित् || ४-७४ || ध्वजन्दक्षिणतोन्यस्य ध्वजयष्टिन्तथोत्तरे (-धोत्तरे) | अष्टदिङ्लोकपालानां पूर्वोक्तन्तु प्रदापयेत् || ४-७५ || शनैः प्रदक्षिणं कृत्वा पालयन्तु समाश्रयेत् | पूर्वोक्तमंटपे स्थाप्य गन्धपुष्पैः प्रपूजयेत् || ४-७६ || ध्वजस्थानक्रमं वक्ष्ये शृणुष्वेवं महेश्वर | द्वारस्य बलिपीठस्य मध्ये स्थानं ध्वजस्य तु || ४-७७ || द्विहस्तं वा त्रिहस्तं वा हस्तमात्रमथापि वा | तत्र मूर्तिन्तु दंडेन स्थापयेत् तत्र दंडकम् || ४-७८ || स्निग्धन्तु वेदिकां कुर्यात् त्रिहस्तं वेदिका स्मृतम् | तदुत् सेधन्त्रितालं स्यात् मेखलोपरिविन्यसेत् || ४-७९ || उपर्युपरि संकल्प्य तालमानन्तु हीनकम् | प्. १२६) उत्सेधस्य तु विस्तारन्तदर्धं वा विशेषतः || ४-८० || सर्वास्तु मेखलाः प्रोक्ताश्चतुरश्रास्समन्ततः | इत्थं सुलक्षणं कुर्यादुत्तमोत्तम वेदिकाम् || ४-८१ || तदूर्ध्वे पद्मसंयुक्तन्ताल मात्र समुच्छ्रयम् | वृत्तं वा चतुरश्रं वा पद्माकारं प्रकल्पयेत् || ४-८२ || गोमयालेपितं शुद्धं पिष्टचूर्ण विभूषितम् | भस्मरेखा त्रयोपेतं श्वेतपुष्पैरलं कृतम् || ४-८३ || पुण्याहं वाचयेत् तत्र ब्राह्मणान् घोषयेत् ततः | ध्वजयष्ट्यग्र संयुक्तं घण्टामालाविभूषितम् || ४-८४ || अष्टदिग्लोकपालानामष्ट पुष्पं प्रदापयेत् | दशाक्षरेण मन्त्रेण रज्जुबन्धं क्रमेण तु || ४-८५ || पञ्चक्षरं समुच्चार्य ध्वजस्थापन कर्मणि | स्वनामाद्यादि भीजेन पूजयेत् तत्र वाहनम् || ४-८६ || वृक्षकुंभं समुद्धृत्य पश्चाद्दक्षेश्वराणुना | आलयन्तु तथा ग्रामन्नगरं पत्तनन्तथा || ४-८७ || अथवाराजधानीञ्च शनैः कार्यात् प्रदक्षिणम् | ध्वजस्थानं समाश्रित्य यष्टिस्थापन संयुतम् || ४-८८ || पाशन्तु बन्धयेत् तस्मिन्नों कारेणैव मन्त्रतः | प्रासादाभिमुखं कुर्यात् ध्वजानान्तु निबन्धनम् || ४-८९ || ध्वजानान् तत्र पूर्वे तु कथितं सुन्दरन्तथा | सर्वलक्षण संयुक्तस्सर्वाभरणभूषितः || ४-९० || श्वेतांबर समायुक्तः श्वेत चन्दन लेपितः | शुक्लाऽभरण मालाभिश्शुक्लयज्ञोपवीतकः || ४-९१ || नववस्त्र शिरोबन्धः कटिसूत्र समन्वितः | प्रोक्षयित्वास्त्र मन्त्रेण पूजयित्वा यथा क्रमम् || ४-९२ || प्. १२७) समुद्गभिन्नङ्गौलान्नं क्षीरान्नञ्च निवेदयेत् | तदन्नं जयपुत्रार्थं भोगार्थञ्च महेश्वर || ४-९३ || ध्वजमूले तथा मध्ये वृषकुंभन्तु विन्यसेत् | वस्त्रेण वेष्टयेत् दंडन्दर्भैस्साग्रैश्च सुन्दरैः || ४-९४ || गन्धपुष्पादिभिः पूज्य धूपदीपादि दापयेत् | त्रिसन्धिंपूजयेत् पश्चात् तीर्थान्तं पायसं ददेत् || ४-९५ || ध्वजानां देवता वक्ष्ये भृंगीशो नन्दिकेश्वरः | महाकालस्तु चंडेशो वेदिकादिक्षु पूजयेत् || ४-९६ || दंडस्तु शर्व दैवत्यं यष्टिर्देवी सरस्वती | फलकं पञ्चदैवत्यं सुषिरं पार्वतीमयम् || ४-९७ || रज्जुस्तु तक्षकाधीशो पादंमारुत दैवतम् | वृषभस्त्वीशदैवत्यो शूलं ज्योत्स्नाथिदैवतम् || ४-९८ || परशुश्शिव दैवत्यो दीपञ्च शिवदेवतम् | चामरे चंद्रसूर्ये च घंटा वृषभदेवता || ४-९९ || भृंगीशप्रभृतीन् सर्वान् पूजयेत् स्वस्वनामतः | दिक्ष्वष्टासु च संस्थाप्य ध्वजान् संपूजयेत् सुधीः || ४-१०० || ध्वजारोहण काले तु पूजयेद्दक्षिणेश्वरम् | अर्चयेत्सर्वदेवांश्च गन्धपुष्पादिभिः क्रमात् || ४-१०१ || सायंकाले शुभे लग्ने भेरीताडनमारभेत् | मंटपस्याग्रतः कुर्यान् मंडलञ्चतुरश्रकम् || ४-१०२ || स्थण्डिलं पूर्ववत् कृत्वा चाष्टद्रोणैश्च शालिभिः | दलेष्वष्टसु संयोज्य नवशक्तिर्यथा क्रमम् || ४-१०३ || पाद्यमाचमनञ्चार्घ्यं स्वस्वनाम्ना समर्चयेत् | मूलमन्त्रं समुच्चार्य प्रणवेन च संयुतम् || ४-१०४ || ततः स्थण्डिलमध्ये तु भेरीं विन्यस पूजयेत् | प्. १२८) भेरिका स्कन्ददैवत्यं स्पर्शनं वायुदैवतम् || ४-१०५ || शब्दस्तु पार्वतीयुक्तं तत्र शंभुश्चदैवतः | चर्मसूत्रं वासुकीशोवलये चंद्रभास्करौ || ४-१०६ || मातरस्सप्तकीलास्तु प्रहरं श्कन्ददैवतम् | अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणः || ४-१०७ || नन्दिमत्रं समुच्चार्य भेरिकान्ताडयद्गुरुः | तत्पुरुषेण मन्त्रेण वाद्यके नैव ताडयेत् || ४-१०८ || शिवतालं जातितालं कटतालं वितालकम् | शंखकाहल संयुक्तं गीतवाद्य नटान्वितम् || ४-१०९ || ग्रामसीम्नि बलिञ्चैव ब्रह्मादीशानमेव च | कीलं हरिद्रचूर्णञ्च लाजं सक्तुदधिप्लुतम् || ४-११० || एतैर्द्रव्यैर्बलिं कुर्याद्देवानां स्वस्वनामतः | शनैः प्रदक्षिणं कृत्वा पश्चादालयमाश्रयेत् || ४-१११ || आवाहनादितीर्थान्तं त्रिसंधिन्तत्र पूजयेत् | सर्वाभरण संयुक्तं पूजयेत् ध्वजदेवतम् || ४-११२ || उत्सवन्तीर्थमुद्दिश्य वङ्गप्रत्यङ्गसाङ्गकम् | सप्ताङ्गञ्च चतुस्साङ्गं सप्तप्रत्यङ्गकीर्तिता || ४-११३ || ध्वजदंडादिकं वृक्षं बलिसर्वं प्रतिष्ठितम् | ध्वजदण्डस्थापनञ्चोत्सवाङ्गं प्रकीर्तितम् || ४-११४ || यन्त्र डोलारथञ्चैव यन्त्ररङ्गान्तथैव च | यन्त्रदेवालयञ्चेव यन्त्रमंटपिकान् तथा || ४-११५ || यन्त्र वृक्षान्यत्र नटान्न्यन्त्रगोपुरकाणि च | अश्वयन्त्रं सिंहयन्त्रं गजयन्त्रन् तथैव च || ४-११६ || वृषयन्त्रं भूतयन्त्रं देवयन्त्रन् तथैव | प्. १२९) नाना पिंछविचित्रञ्च नानाव्यजनमेव च || ४-११७ || छत्राणि नानारूपाणि चामराणि च कारयेत् | देवालयमलङ्कुर्यादुपरिष्टा दधस्तथा || ४-११८ || यागशालापूजा || आलयस्ये शदिक्भागे प्रपाङ्कृत्वाऽतिसुन्दरम् | वितानमुक्तादामाद्यैर्यथा शोभं विभूषयेत् || ४-११९ || यागशालान्ततः कुर्यादैशान्ये पावकेऽथवा | मंटपङ्कारयेत् तत्र षोडश स्तंभ संधुतम् || ४-१२० || दशहस्तन्नवहस्तं सप्तहस्तमथापि वा | चतुर्द्वारसमायुक्तञ्चतुस्तोरण भूषितम् || ४-१२१ || दर्भमाला समायुक्तं वितानद्ध्वजशोभितम् | नवभागेक भागेन मध्ये वेदीं प्रकल्पयेत् || ४-१२२ || हस्तमात्रोच्छ्रितां सौम्यान्दर्पणोदरसन्निभाम् | वेदिमध्ये ततः कुर्यात् स्थण्डिलं शुलिभिश्शुभैः || ४-१२३ || षट्भिर्द्रोणैः पञ्चभिर्वा चतुर्द्रोणैर्यथा विधि | पुण्याहं वाचयित्वाथ ब्राह्मणैरपि घोषयेत् || ४-१२४ || उत्सवस्या दिरात्रौ तु दक्षिणे शमथार्चयेत् | महाहविर्निवेद्यञ्च विदद्ध्यात् प्रतिमार्चनम् || ४-१२५ || विदद्ध्यादुत्सवारंभे पूर्ववच्चाङ्कुरार्पणम् | वेदिमध्ये प्रतिष्ठाप्य पञ्चरत्न समन्वितम् || ४-१२६ || कुंभं लक्षणसंयुक्तं सकूर्चं वस्त्रवेष्टितम् | चन्दनोदक संयुक्तन्तन्मध्ये पद्मसंस्थितम् || ४-१२७ || चतुर्भुजन्त्रिनेत्रञ्च शूलपाणिं जटाधरम् | प्. १३०) अर्द्धचंद्रधरन्देवन्नागाभरण भूषितम् || ४-१२८ || हेमयज्ञापवीतञ्च नवरत्नाङ्गुलीयकम् | उत्सवेदीक्षितं शंभुन्देवं यागेश्वरं यजेत् || ४-१२९ || वर्द्धनीङ्कूर्चसंयुक्तां वामपार्श्वे प्रतिष्ठिताम् | चतुर्भुजान्त्रिनेत्राञ्च सर्वाभरणभूषिताम् || ४-१३० || अभयं ज्ञानमुद्राञ्च दधानं पद्ममङ्कुशम् | परितोऽष्टौ न्यसेत् तत्र विद्येश्वर समन्वितम् || ४-१३१ || पाद्यमाचमनञ्चार्घ्यं रत्नोदक मतः परम् | पुष्पोदञ्च तिलोदञ्च यवोदङ्गन्धवारि च || ४-१३२ || इंद्रादीशान पर्यन्तङ्कुंभानष्टौ प्रविन्यसेत् | सर्वलक्षण संयुक्तन्तेष्विंद्राद्याः प्रपूजयेत् || ४-१३३ || लोहेन दारुणा वापि दशायुधानि कल्पयेत् | सर्वाणि देवता रूपाण्यस्त्रोपेत शिरांसि च || ४-१३४ || अर्चयेत्तानि सर्वाणि कलशानां बहिः क्रमात् | पूर्वादिदिक्षु वज्रादीन्यायुधानि प्रदक्षिणम् || ४-१३५ || उत्तरे चक्र देवन्तु दक्षिणे पद्मदेवताम् | अष्टमङ्गलरूपाणि वेदिबाह्ये तु पूजयेत् || ४-१३६ || त्रिशूलं वायुदिक्भागे त्रिसंधिं पूजयेच्छुभम् | अग्निकार्यम् || शिवाग्निं जनयेत् पूर्वं पूर्ववत्पूजयेच्छुभम् || ४-१३७ || त्र्यक्षञ्चतुर्भुजन्देवञ्चन्द्रार्द्धकृत शेखरम् | यज्ञमूर्तिं हुताहव्यं सप्तजिह्वासु होमयेत् || ४-१३८ || हृन्मन्त्रेण समित्संघं घृतं पुरुषमन्त्रतः | अघोरेण चरुंल्लाजा न घोरात्रेण होमयेत् || ४-१३९ || सक्तु वामेन मन्त्रेण क्षीरं वै सद्यमन्त्रतः | प्. १३१) यवान् हृदय मन्त्रेण सिद्धार्थं सद्यमन्त्रतः || ४-१४० || शिवगायत्रिमन्त्रेण गुलं हुत्वा महेश्वर | तिलमीशान मन्त्रेण माषमुद्बणमन्त्रतः || ४-१४१ || द्रव्यान्ते व्याहृतिं हुत्वा रुद्राणान्नाम वक्ष्यते | धूमयानञ्च भूतञ्च वसुधा तरुणः कला || ४-१४२ || रक्षोनेत्रमविच्छेद सारञ्चैव तथादिकम् | ज्ञानपुष्पादि गीत्यादि शर्वरुद्राश्चतुर्दश || ४-१४३ || प्रत्येकमष्टधाऽते च द्वादशोत्तरकं शतम् | चतुर्दशाष्टरुद्रांश्च स्वनामाद्येन होमयेत् || ४-१४४ || रुद्रान्ते व्याहृतिं हुत्वा वर्णमन्त्रं समुच्चरन् | सर्वद्रव्याणिमिश्राणि चाग्निकार्योक्तमाचरेत् || ४-१४५ || सायं प्रातर्बलिन्दद्याद् धोमान्ते च महेश्वर | त्रिनेत्रञ्चतुर्भुजं शान्तं रक्तवर्णं स्मिताननम् || ४-१४६ || करोटिंबकपुष्पञ्च धुर्तूरञ्चार्कपुष्पकम् | बालचंद्र कलायुक्त सुविकीर्णजटाधरम् || ४-१४७ || सर्पक्रीडा समायुक्तमपस्कारोपरि स्थितम् | दक्षिणं कुंचितं पादं वामपादन्तथोद्धृतम् || ४-१४८ || सव्येतु पूर्वमभयमन्यं डमरुकं परम् | वामे तु पूर्व डोलान्तमपरञ्चाग्नि पात्रकम् || ४-१४९ || वामकर्णे तु पत्रञ्च दक्षिणेन कृकुण्डलम् | अभये फणिसंयुक्तं वामांसेऽभय पाणिनम् || ४-१५० || एवन्नटेश रूपञ्च ध्यात्वा मन्त्रेण पूजयेत् | एकाहस्य तु शैवस्य शुद्धमन्नन्ततः परम् || ४-१५१ || शुद्धान्नन्दधि सम्मिश्रं लड्डुका पूपसंयुतम् | फलञ्च गुलसम्मिश्रं गणानान्तुष्टिदं स्मृतम् || ४-१५२ || फलञ्च रजनीचूर्णं हरिद्रान्नं ससक्तुकम् | दधिमिश्रं सपुष्पाढ्यं भूतसं प्रीतिकारकम् || ४-१५३ || प्. १३२) बिल्वपत्रकुशाग्रैश्च शाल्यन्नेन विमिश्रितम् | कदलीफलसंयुक्तमृषीणां प्रीतिकारणम् || ४-१५४ || इंद्रवल्लीहरिद्रान्नं प्रियङ्गु घृतसंयुतम् | चतुर्थेऽहनि दातव्यं शक्रस्य बलिरूच्यते || ४-१५५ || पद्मपुष्पञ्च रजनीलाजयुक्तन्तु पायसम् | पञ्चमेऽहनिदातव्यं ब्रह्मप्रीतिकरं शुभम् || ४-१५६ || शुद्धादनं घृतोपेतं ब्रहती फलसंयुतम् | षष्ठेऽहनि प्रदातव्यं वैष्णवं बलिरुच्यते || ४-१५७ || साज्यन्तु कृसरान्नं वै नालिकेरफलैर्युतम् | नालिकेरजलैर्युक्तं रुद्रप्रीतिकरं शुभम् || ४-१५८ || क्षीरान्नन्दधिसंयुक्तं कदलीफलसंयुतम् | अष्टमेऽहनि दातव्यं शिवप्रीतिकरं शुभम् || ४-१५९ || पायसापूपसंयुक्तमाज्येन च परिप्लुतम् | नवमेऽहनि दातव्यं सादाख्यप्रीतिदं शुभम् || ४-१६० || गुलान्नं पायसान्नञ्च शुद्धान्नं घृतमिश्रितम् | दशमेऽहनि दातव्यमीशप्रीतिकरं शुभम् || ४-१६१ || शुद्धान्नङ्गुल सम्मिश्रं क्षीरेणैव तु पूरितम् | एकादशमेऽह्निदातव्यं गौरी प्रीतिकरं शुभम् || ४-१६२ || शाल्यन्नन्दधिसंयुक्तङ्गुल खण्डसमन्वितम् | द्वादशेऽहनि दातव्यं शिवप्रीतिकरं शुभम् || ४-१६३ || अथवा गुलदध्याज्यसम्मिश्रं शुद्धमोदनम् | सर्वेषामेव देवानां महाप्रीतिकरं शुभम् || ४-१६४ || पूजयित्वा विशेषेण तत्तन्मन्त्रेण दापयेत् | द्रोणं वापि तदर्धं वा तदर्धं वा तदर्धकम् || ४-१६५ || प्. १३३) कुक्कुटांड प्रमाणेन बलिन्दद्यात् पृथक् पृथक् | अलंकुर्याद्विशेषेण ग्रामन्नगरमेव वा || ४-१६६ || विथ्यलंकारम् || वीधीञ्चोद्धृत शष्पादीन्निम्नोन्नत विवर्जिताम् | कृतसम्मार्जनां शुद्धां सेवितां जलबिन्दुभिः || ४-१६७ || वर्णमन्त्रं समुच्चार्य प्रोक्षयेच्छुद्धवारिभिः | पताकाभिरनेका भिस्तथाऽकाशद्ध्वजैरपि || ४-१६८ || क्रमुकैः कदलीभिश्च प्रदीपैः पालिकागणैः | पूर्णकुंभैरनेकैश्च चितृवस्त्रादि भूषितैः || ४-१६९ || वस्त्रैस्सुगन्धमालाभिर्ग्रहान् सर्वान्विभूषयेत् | ततोंकुरार्पणं कुर्यादुत्सवार्थं यथा पुरा || ४-१७० || ताल काहल झल्लाद्यैर्दीपधूप समाकुलैः | ध्वजपिंछ समायुक्तेः स्त्रोत्रमङ्गल वाचकैः || ४-१७१ || स्वर्णरङ्गस्य मध्ये तु त्रिशूलं लिङ्गमेव च | दशायुधानि परितस्स्थापयेत् काञ्चनालये || ४-१७२ || यन्त्राभावे तथा सर्वे वृजेयुश्च धरातले | सर्वालंकार संयुक्तस्सोष्णीषस्सोत्तरीयकः || ४-१७३ || आचार्यश्शिष्य संयुक्तो ब्राह्मणैः परिवारितः | ब्रह्मादीशानपर्यन्तं बलिन्दद्या (द्यथाक्रमं) पृथक् पृथक् || ४-१७४ || शूलस्याग्रं कलारूपन्तन्मूलं रुद्ररूपकम् | सकलनिष्कलञ्चैव न्यासमाराधनं क्रमात् || ४-१७५ || बलिद्रव्यैश्च सहितं वज्रादिपद्मकान्तकम् | गन्धपुष्पैरथाभ्यर्च्य रुद्ररूपन्तु धारयेत् || ४-१७६ || प्. १३४) मस्तकाद्रढमध्ये तु स्थाप्य पुष्पोपशोभितम् | वृजेयुरुत्सव स्याग्रे नानालंकार संयुतम् || ४-१७७ || नानाप्रहरणो पेतास्सद्भक्ताश्चग्रतोऽगमन् | तदन्ते गजमारूढास्तदन्ते वाजिवाहनाः || ४-१७८ || यन्त्रारूढास्तदन्तेनुदिव्यस्त्री परिसेविताः | अश्वयन्त्रास्तदन्ते तु तदन्ते गजयन्त्रकाः || ४-१७९ || यन्त्र देवलयान् मध्ये नृत्तगेय समन्विताः | सुखासनस्तु प्रथमः द्वितीयो वृषवाहनः || ४-१८० || त्रितीयस्त्रिपुरघ्नश्च चतुर्थश्चंद्रशेखरः | पञ्चमस्त्वर्द्धनारीशो षष्ठो हरिहरस्तथा || ४-१८१ || सप्तमो भैक्षमूर्तिस्स्यादष्टमः कालनाशनः | नवमः कामदहनोऽपरः कल्याणसुन्दरः || ४-१८२ || एकादशस्तु लिङ्गस्थो द्वादशस्तु सदाशिवः | त्रयोदशस्तु नृत्तेशो सर्वालंकार संयुतः || ४-१८३ || रङ्गेवा शिबिकायां वा रङ्गेवा द्विरदेऽपिवा | तदग्रे स्यात् पाशुपताः तदग्रे तु महावृताः || ४-१८४ || महाशैवास्तदग्रे तु तदग्रे ब्राह्मणाः क्रमात् | तदग्रे भैरवास्सर्वे तदग्रे सिद्धसेवकाः || ४-१८५ || तदग्रे गायकास्सर्वे तदग्रे नर्तकाः स्त्रियः | ईश्वरश्शक्ति सहितस्तदन्ते च शनैर्व्रजेत् || ४-१८६ || योषिद्गणैः परिवृतो सर्वालंकार संयुतैः | नानापिंछद्ध्वजैश्चत्रैर्नानाचामर संयुतैः || ४-१८७ || नानाभूत समायुक्तैर्नानाकाहल धारकैः | त्रिशूलदीपिकाभिश्च यन्त्र दीपैर्विशेषतः || ४-१८८ || प्. १३५) हस्तदीपैर्यष्टिदीपैस्सर्वत्र परिशोभितैः | सर्वतः पृष्ठतो गच्छेच्चंडनाथो विभूषितः || ४-१८९ || तदन्ते घोषयेत् तत्र सर्ववाद्य समायुतः | पटहैर्मद्दलैस्तालैर्भेरीदुन्दुभि झल्लकैः || ४-१९० || पणवैर्झल्लरैश्चैव घोषयेत् तु विशेषतः | तदन्ते वैश्य शूद्राश्च गच्छेयुर्जय संयुताः || ४-१९१ || सर्ववर्णास्तदन्ते तु तदन्ते गजरूपकाः | वृद्धा बाला युवानश्च क्लीबा भोगभुजस्ततः || ४-१९२ || तदन्ते भक्तदासास्तु वृजेयु क्रमशश्शनैः | यो देवमनुगच्छन्ति तद्गतेनाऽन्तरात्मना || ४-१९३ || पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलन्नरः | सर्वपापैः प्रमुच्याथ शैवं पदमवाप्नुयात् || ४-१९४ || एवं प्रदक्षिणं कुर्याद् ग्रामं वा नगरन्तु वा | इंद्रादीशानपर्यन्त पीठं कल्प्य विशेषतः || ४-१९५ || धान्यशाला सरस्वत्याः क्षेत्रपालबलिं क्षिपेत् | मंटपे तु प्रजापत्यङ्गोपुरे नन्दिदैवतम् || ४-१९६ || प्राकारे वासुकिश्चैव वक्ष्यतेऽग्रादिदैवता | राजद्वारे च श्रीदेवी सभा स्थाने नटेश्वरी || ४-१९७ || आदित्यस्य महेंद्रस्य एते पूर्वाधि दैवताः | उद्याने तु मसादेवी गोष्ठे चैव तु गोमुखी || ४-१९८ || दुर्गास्थाने विशेषन्तु (अनाद्यस्काण्यदेचता) | रुद्ररूपां शिवस्थाने विष्णुस्थाने तु वैष्णवी || ४-१९९ || ब्रह्मस्थाने च वाग्दवीगुरुस्थाने मनोन्मनी | ललाटे चंद्रदेवस्तु कूपेचैव शिवस्तथा || ४-२०० || वल्मीके नागराजश्च पर्वते परमेश्वरी | यन्त्रस्थाने तु गन्धर्वान्नदीनां करुणालया || ४- २०१ || प्. १३६) गजस्थाने तु विघ्नेशोत्वश्वस्थाने तु चाश्विनी | गोस्थाने पार्वती चैव श्मशाने तु पिशाचिका || ४-२०२ || इत्येतेषान्तु देवानां स्वस्वनाम्ना ददेद् बलिम् | * * * * * * * * सक्तुलाजतिलैरपि || ४-२०३ || सर्वेषां द्रव्यसहितं स्वनाम्ना विनिवेदयेत् | आम्रञ्च नालिकेरञ्च कदलीफलमेव च || ४-२०४ || लाजापूपङ्गुलान्नञ्च तांबूलञ्च प्रदापयेत् | दारिद्र्यदुख्खशमनं सर्वकाम समृद्धिदम् || ४-२०५ || बलिमात्र प्रदानेन शिवलोके महीयते | शनैर्देवालयं गत्वा बलिपीठे बलिं क्षिपेत् || ४-२०६ || पादप्रक्षालनं कृत्वा प्रविशेदालयं प्रति | मंटपे तु स्थिते देवे सर्वदेव गणैस्सह || ४-२०७ || मृदङ्गादिमहाशब्दाः पूर्वस्यान्दिशि संस्थिताः | नर्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितः || ४-२०८ || गायको वंशकश्चैव चोत्तरे च व्यवस्थितः | आचार्यः पूर्वदिक्भागे नृपश्चैव तु पश्चिमे || ४-२०९ || पार्श्वयोरुभयोश्चैव देवस्य गणिकास्स्थिताः | देवस्याग्रे विचशषेण नृत्तगेयं सतालकम् || ४-२१० || नीराजनं प्रकुर्वीत दिव्यस्त्रीभिश्च यारयेत् | भस्मपुष्पञ्च दीपञ्चाऽच्युतत्छत्र चामरौ || ४-२११ || दर्पणं हेमकुंभञ्च त्रिपाद्युपरिविन्यसेत् | पाद्यमाचमनञ्चार्घ्यं दद्यात् पुष्पन्तु मूर्धनि || ४-२१२ || अक्षतान् शिरसि न्यस्त्वा गन्धन्दद्याद्विशेषतः | आचामन्तु पुरादत्वा धूपदीपं प्रदापयेत् || ४-२१३ || दद्यात् प्रदीपवेष्टञ्च मस्तकोर्ध्वे प्रदक्षिणम् | तदन्ते दापयेत् भस्मदर्पणन्दर्शये ततः (त्तः) || ४-२१४ || प्. १३७) तदन्ते व्यजनन्दद्यात् तदन्ते च्छत्र चामरे | गणिकाभिर्धारयित्वा प्रदीपान्वाद्य संयुतम् || ४-२१५ || पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिःक्षिपेत् | क्रियां सर्वासु चैवन्तु एवमेवन्दिने दिने || ४-२१६ || अवभृतस्य पूर्वे तु मृगयात्रां समाचरेत् | युद्धारंभ प्रभावेण ग्रामङ्कुर्यात् प्रदक्षिणम् || ४-२१७ || बध्नीयात् कौतुकं धीमान्तस्यां रात्रौ विशेषतः | सौवर्णं राजतन्तामृमथ कार्पास तन्तुकम् || ४-२१८ || हृदयम्मन्त्रमुच्चार्य पुण्याहन्तत्र वाचयेत् | उत्सवस्यादिरात्रौ तु सर्वेषाङ्कौतुकन् ददेत् || ४-२१९ || उत्सवस्यादिरात्रौ तु पूजयेत् परमेश्वरम् | पञ्चवर्णहविः पश्चात् पञ्चवक्त्रेषु दापयेत् || ४-२२० || पूर्वे तु पायसान्नञ्च दक्षिणे तु घृतोदनम् | पश्चिमे तु गुलान्नञ्च हरिद्रान्नन्तथोत्तरे || ४-२२१ || शुद्धान्नमुर्ध्ववक्त्रे च नैवेद्यम्पञ्चवर्णकम् | त्रिसंध्यमर्चनङ्कुर्यात् परिवारसमन्वितम् || ४-२२२ || प्रतिमाङ्गोलकाञ्चैव त्रिशूलं यागदेवताम् | त्रिसंध्यमर्चयेद्धीमान्द्राजराष्ट्र समृद्धिदम् || ४-२२३ || पूजाहोमन्तदन्ते च बलिञ्चैव प्रदक्षिणम् | पूर्णोत्सव विधिं वक्ष्ये शृणुष्वेवम्महेश्वर || ४-२२४ || प्रासाद पश्चिमे भागे शालिभिश्चतुरश्रकम् | स्थण्डिलङ्कारयेत् तत्र पद्ममष्टदलान्वितम् || ४-२२५ || प्. १३८) लूखलम्मुसलञ्चैव क्षालयेदस्त्रं ततः | स्थण्डिलस्य तु मध्ये तु लूखलं प्रणवासने || ४-२२६ || विन्यस्य वस्त्रेणावेष्ट्य गन्धपुष्पादिनाऽर्चयेत् | अङ्कुरैश्शोभितङ्कुर्यादर्चयित्वा यथाक्रमम् || ४-२२७ || हरिद्रोशीरकुष्ठञ्च कर्पूरञ्च सपिंछलम् | लूखलस्य च मध्ये तु सर्वन्निक्षिप्य पूर्णितम् || ४-२२८ || सद्यमन्त्रं समुच्चार्यपूजयेच्च महेश्वरम् | आचार्यः प्रथमङ्कुर्याच्चूर्ण कर्म ततो नृपः || ४-२२९ || तदन्ते ब्राह्मणाश्शिष्टास्तदन्ते भक्तिमज्जनाः | रुद्रदास्यश्च गणिकाः नववस्त्राद्यलङ्कृताः || ४-२३० || अङ्कुरैश्शोभितङ्कृत्वा चार्चयित्वा यथाक्रमम् | सनृत्तगेय वाद्यञ्च चूर्णकर्ममुहुर्मुहुः || ४-२३१ || लिङ्गदर्पण शुलेषु प्रतिमा परिवारके | तैलेन लेपनङ्कृत्वा दक्षिणेश्वरमर्चयेत् || ४-२३२ || आचार्यो नृपतेश्चूर्णम्भक्तानाञ्च प्रदापयेत् | ततस्तु सर्वजातिभ्यश्चूर्णन्तैलेन दापयेत् || ४-२३३ || शंखकाहल नादैश्च भेर्यादिद्ध्वनि संयुतैः | ब्राह्मणान् घोषयित्वा च स्वस्तिमङ्गल वाचकैः || ४-२३४ || ग्रामं वा नगरं वापिशीघ्रङ्गत्वा प्रदक्षिणम् | सिंधुन्नदीन्तटाकं वा पश्चाच्छूलं प्रवेशयेत् || ४-२३५ || स्थण्डिलन्तत्र संकल्प्य वसुपत्रांबुजान्वितम् | त्रिशूलन्तत्र संस्थाप्य तदग्रे कलशान्न्यसेत् || ४-२३६ || शूलादुत्तरतस्स्थाप्य यागदेवं महेश्वर | गन्धपुष्पादिभिः पूज्यतांबूलन्तु निवेदयेत् || ४-२३७ || प्. १३९) प्रतिमाभिमुखं कुर्यात् स्थण्डिलं वालुकामयम् | नवपात्राणि संस्थाप्य सुदृढानि शुभानि च || ४-२३८ || स्थण्डिलस्योत्तरे देशे पात्राणां शुद्धिदं पुनः | पुण्याहं वाचयेत् तत्र ब्राह्मणैः प्रोक्षयेत् ततः ||| २३९ || वज्रम्मरकतञ्चैव पद्मरागञ्च नीलकम् | मौक्तिकञ्चैव तन्मध्ये पञ्चरत्नानि विन्यसेत् || ४-२४० || पाद्यन्तु पूर्वदिक्भागे दक्षेत्वा चमनीयकम् | अर्घ्यन्तु पश्चिमे पश्चादुत्तरेणाऽक्षतन्न्यसेत् || ४-२४१ || आग्नेययान्तीर्थपात्रन्तु नै-ऋत्याङ्गन्धतोयकम् | वायव्यां लेपनद्रव्यमैशान्यं पुष्पवारि च || ४-२४२ || गङ्गाञ्च यमुनाञ्चैव नर्मदाञ्च सरस्वतीम् | सिन्धुङ्गोदावरीञ्चैव कावेरीन्तीर्थसप्तकम् || ४-२४३ || बिन्दुमध्यात् समाकृष्य स्थापयेद् गन्धवारिषु | अनन्तादि शिखण्ड्यन्तान् कलशेष्वर्चयेत् क्रमात् || ४-२४४ || कूर्चन्तु निक्षिपेत्नत्र अङ्गप्रत्यङ्गमेव च | समावेष्ट्य च वस्त्रेण तुलसीन्तत्र निक्षिपेत् || ४-२४५ || गन्धपुष्पादिभिर्धूपैरर्चयित्वा यथा क्रमम् | स्नपनान्तैः प्रकुर्वित पाद्यं सद्येन दापयेत् || ४-२४६ || आचामं पुरुषेणैव चार्घ्यमीशानमन्त्रतः | ब्रह्मभिः पञ्चभिः पश्चात् पञ्चगव्यं प्रदापयेत् || ४-२४७ || घृतमीक्षे घृतस्नानं दधिक्राविण्णोदथिस्तथा | क्षीरमाप्यायमन्त्रेण मधु वा ता मधूनि च || ४-२४८ || इत्थं तत्र तदीमध्ये प्रतिमा स्नानमाचरेत् | शूलस्नानन्ततः कुर्यात् (र्कर्यात्) कौतुकन्तीर्थकद्वयम् || ४-२४९ || महातीर्थं महावश्यं पालनं शत्रुनाशनम् | सर्वरोगहरं पूतं श्रीकरं सर्वसिद्धिदम् || ४-२५० || प्. १४०) देवालयं समागत्य पुण्याहन्तत्र कारयेत् | लिङ्गञ्च प्रतिमां शूलं सकलाराधनं क्रमात् || ४-२५१ || पूर्वं विद्याङ्गसंयुक्तं पुष्पयागन्नवाहके | मौनयागन्ततः कुर्याद्देवयागमनन्तरम् || ४-२५२ || मृगयागन्ततः कुर्याद्गन्धयागमनन्तरम् | पूर्वोक्तयागमेवन्तु चरेत्सर्वफलं भवेत् || ४-२५३ || चण्डेश्वरस्य यागञ्च यथोक्तं कारयेच्छुभम् | यागशुलास्थितान् कुंभान् मूललिङ्गेऽभिषेचयेत् || ४-२५४ || चण्डप्रचण्डविक्रान्त चाण्डेशानस्तु देवताः | सर्वशत्रु हरं शुद्धं पूजयेच्चण्डदेवताम् || ४-२५५ || ध्वजावसानं कृत्वा तु ध्वजस्थानन्तु वर्जयेत् | ब्रह्मादीशान पर्यन्तं बलिदानञ्च कारयेत् || ४-२५६ || पीठोद्वासनकं कुर्यादस्त्र मन्त्रेण शक्तिकम् | बलिपीठे तु विन्यस्य पूजयेत्तु विशेषतः || ४-२५७ || पाद प्रक्षालनं कृत्वा पश्चादाचार्यमर्चयेत् | हारकेयूरमकुट हेमयज्ञोपवीतकैः || ४-२५८ || गन्धैः पुष्पैश्च धूपाद्यैर्यजमानोऽर्चयेद्गुरुम् | आचार्यस्योत्सवान्ते च कुर्यद् भक्तोत्सवं शुभम् || ४-२५९ || भक्तानां प्रतिमानाञ्च बाध्नीयात् कौतुकं क्रमात् | पूर्ववन्नृत्तगानाद्यैरलं कारैस्समावृतम् || ४-२६० || अग्रतः पृष्ठतश्चैव वेदद्ध्वनि समायुतम् | ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयन्ततः || ४-२६१ || पश्चाद्भागे स्थितां देव गृहे भक्ताननुक्रमात् | वस्त्राभरणमालाद्यैरर्चयेत् पूर्ववद्गुरुम् || ४-२६२ || प्. १४१) प्रदक्षिणत्रयं कृत्वा संधिदेवान्विसर्जयेत् | एवं परमया भक्त्यायः प्रकुर्याच्छिवोत्सवम् || ४-२६३ || कुलेकविंशसंयुक्तश्शिवलोके समोदते | तस्मात् सर्वप्रयत्नेन शिवस्येवं महोत्सवम् || ४-२६४ || राजराष्ट्राभिवृध्यार्थं कारयेद् विधिपूर्वकम् | शिवोत्सवविधिः प्रोक्तः प्रायश्चित्तविधिं शृणु || ४-२६५ || इति मकुटतन्त्रे त्रिसहस्रसंहितायां क्रियापादे शिवोत्सवविधि पटलश्चतुर्थः || ४ || अथ प्रायश्चित्तविधि पटलः प्रायोविनाश इत्युक्तश्चित्तं संधानमुच्यते | विनाशस्य तु संधानं प्रायश्चित्तमितिस्मृतम् || ५-१ || कर्षणाद्यर्चनान्तन्तु प्रायश्चित्तं वदाम्यहम् | पूजाकालपरिभृंशेतत् संध्याद्विगुणा भवेत् || ५-२ || एक संध्यर्चनाहीने हृन्मत्रेण शताहुतिः | निवेद्यं पायसान्नन्तु पुनः कुर्याच्छिवार्चनम् || ५-३ || एका हेत्वर्चनाहीने स्नपनन्नवकुंभकैः | द्व्यहे त्र्यहेऽर्चनाहीने पञ्चविंशति कुंभकैः || ५-४ || निवेद्यञ्च गुलान्नं तु पूर्ववत् पूजयेच्छुभम् | विशेषादर्चनं कृत्वा शिवमन्त्रशताहुतिः || ५-५ || चतुर्थाहे पञ्चमाहे पूजाहानि समन्विते | पञ्चाशदेकहिनाख्य कलश स्नपनं क्रमात् || ५-६ || प्. १४२) षट्दिनादि दशाहान्तं कृत्वेकाशीति कुंभकम् | एकादशादि पक्षान्तं पूजाहीनन्तु संभवेत् || ५-७ || कृत्वा तत्र शिवाग्निन्नु स्नपनञ्च शताष्टकैः | पूर्ववत्पूजनं कृत्वा नैवेद्यं द्विगुणं भवेत् || ५-८ || शिखामन्त्रशतं हुत्वा पायसान्नन्निवेदयेत् | पूजाहानौ तु मासान्तं कलाशानां शतत्रयम् || ५-९ || हृन्मन्त्रेण शतं हुत्वा क्षीरान्नञ्च निवेदयेत् | द्विमासमर्चनाहीने सहस्र कलशैः क्रमात् || ५-१० || षण्मासमर्चनाहीने तत्र संप्रोक्षणञ्चरेत् | बलिहानौ तु संध्यायामन्यत्र द्विगुणञ्चरेत् || ५-११ || द्विसन्धौ बलिहानौ तु द्विगुणञ्चान्य संधिके | त्रिसंधि बलिहानौ तु तत्र स्नपनमाचरेत् || ५-१२ || द्व्यहादारभ्यमासान्त बलिविच्छेदनं यदि | शिवाग्निं पूर्ववत् कृत्वा स्नपनञ्च शताष्टकैः || ५-१३ || मासोर्द्ध्वबलिहानौ तु शिवाग्निं पूजयेत् क्रमात् | सहस्राज्याहुतिं हुत्वा शिवमन्त्रेण देशिकः || ५-१४ || अष्टोत्तरशतैश्चैव कलशैस्स्नपनञ्चरेत् | भारद्वयन्तु नैवेद्य मेकाहोत्सवमाचरेत् || ५-१५ || स्त्रीशूद्र स्पर्शने चैव चण्डाल स्पर्शनेपि वा | स्नपनं पञ्चविंशद्भिश्शिवमन्त्रशतं हुनेत् || ५-१६ || पुण्याहं वाचयेत् तत्र भक्त्या चैव प्रपूजयेत् | बलिभ्रमणकाले च प्रतिमालिङ्गमेव च || ५-१७ || स्फुटितञ्चलितं भिन्नम्भग्नं च्छिन्नं भवेद्यदि | तत्रैव कल्पयेद्धोममथवाऽलयमध्यमे || ५-१८ || पूर्ववद्बलिलिङ्गन्तु कृत्वा तत्र प्रदक्षिणम् | अथवा पूर्ववत् कृत्वा शिवमन्त्रशतं हुनेत् || ५-१९ || प्. १४३) अष्टोत्तरशतं पश्चान्मूलमन्त्रं जपेद्गुरुः | अगम्यगमनं कृत्वा शिवमन्त्रशतं हुनेत् || ५-२० || पुण्याहं वाचयेत् तत्र मूलेनैव शतं हुनेत् | अष्टोत्तरशतं पश्चान्मूलमन्त्रं जपेद्गुरुः || ५-२१ || तत्काले (तत्ताले) दीपहीने तु हित्वा बलिन्ततः कुरु | पुनर्दीपं समादाय कृत्वा शेषप्रदक्षिणम् || ५-२२ || नैवेद्य च विहीने तु द्विगुणञ्च * * * *| * * * * * * * * * * * * * हीनके || ५-२३ || नित्याग्नि कार्यहीने तु हृन्मन्त्रेण शताहुतिः | उत्सवस्य विशेषेण प्रायश्चित्तविधिं शृणु || ५-२४ || उत्सवप्रायश्चित्तविधिः प्रागेवनिश्चित द्रव्यं यत्काले तु विहीनके | ततस्तत् त्रिगुणीकृत्य शिवायविनिवेदयेत् || ५-२५ || अदृष्टन्तथार्द्धोष्टा नखरोमादि दर्शने | तद्राष्ट्रे दृषणोत्पत्तिस्तद्द्रव्यन्तु व्यपोह्य च || ५-२६ || पञ्चगव्येन संप्रोक्ष्य पञ्चब्रह्ममनुस्मरन् | शान्तिहोमन्ततः कृत्वा जपेत्पाशुपतादिकम् || ५-२७ || व्यति क्रमेण मन्त्राणान्तत्सर्वस्य प्रभावतः | तत्तन्मन्त्रमनुस्मृत्य हुत्वा जप्त्वा शतं शतम् || ५-२८ || नैवेद्य स्थापने काले लघनेपि नरैस्तथा | दुर्भिक्षं जायते भूमौ शेषन्निर्माल्यमुच्यते || ५-२९ || तद्द्रव्यं वर्जयित्वा तु पश्चात् पक्वन्निवेदयेत् | लिङ्गप्रतिमयोमूर्ध्नि * * * * * संभवेत् || ५-३० || मायते तु * * * * * * * * * * * * | प्. १४४) तत्तदर्चा क्रमेणैव पुष्पं शिरसि वर्जयेत् || ५-३१ || स्नपनाङ्गविहीने तु महामारी प्रवर्तते | अस्त्रेणैव शतं जप्त्वा पश्चात् पूतञ्च सङ्ग्रहेत् || ५-३२ || स्थापितैः कलशैर्भिन्ने स्फुटिते पतिते तथा | नवमन्यं परिग्राह्य स्थापयेत् पूरयेत् सुधीः || ५-३३ || उत्सवप्रायश्चित्तविधि उत्सवस्य विशेषेण प्रायश्चित्तविधिं शृणु | वृषयाग विहीने तु ध्वजारोहण हीनके || ५-३४ || ध्वजयष्टि विहीने च दण्डवेदि विहीनके | ध्वजघंटाविहीने तु परितोङ्गविहीनके || ५-३५ || दर्भमाला विहीने तु * * * * * * * * | * * * * * * * * * * * * * विहीनके || ५-३६ || अंकुरार्पण हीने चास्त्रयागविहीनके | मन्त्रहीने क्रियाहीने दर्भापरिधि हीनके || ५-३७ || कलशस्थापने हीने कुंभहीने च निर्जले | रत्नहेम विहीने तु कूर्चसूत्र विहीनके || ५-३८ || विष्टरपरिधिहीने वस्त्रहीने तथैव च | नैवेद्यादि * * * * * * * * * * * * * || ५-३९ || * * * * * * * * * तत्काले कलहेपि वा | पूर्वपर्युषित द्रव्यैस्संकरे लिङ्गबिंबयोः || ५-४० || प्रतिमा यानकाले च पतिने चाङ्गहीनके | उत्सवे चैव तद्ग्रामे मृते च वास्तुमध्यमे || ५-४१ || परिवेषे रजन्याञ्चामग्निदग्धे भयंकरे | प्. १४५) रक्षासूत्रविहीने च * * * * * * * * * || ५-४२ || * * * * * * * * * * * हे कृते यदि | मन्त्राणां संकरे चैव हीनेत्वचार्य दक्षिणा || ५-४३ || एवमादि समुत्पन्ने ग्रामादिनान्तु दोषकृत् | वृषयागविहीने तु गावोनश्यत्य? संशयः || ५-४४ || वृषभस्नपनं कृत्वा गन्धपुष्पेन योजयेत् | निवेदयेत् तु मुद्गान्नं * * * * * * * * || ५-४५ || * * * * * * * * * राजादुर्जयमाप्नुयात् | शान्तिहोमन् ततः कृत्वा विधिना रोपयेत् ततः || ५-४६ || ध्वजवेदि विहीने तु मन्त्रिणान्तु भयंकरम् | शान्तिहोमन्ततः कृत्वा पुनस्संधानमाचरेत् || ५-४७ || रज्जुहीने ध्वजेच्छिन्नेनष्टे च पतिनोतऽथवा | ध्वजयष्टिविहीने च * * * * * * * * || ५-४८ || * * * * * * * च्चैव पुण्याहन्तत्र वाचयेत् | शान्ति होमन्ततः कृत्वा भक्ताञ्चैव प्रपूजयेत् || ५-४९ || घंटाहीने तु पतिते बालानाञ्च क्षयं भवेत् | पुण्याहं वाचयेत् तत्र मूलन्त्रशतं जपेत् || ५-५० || घंटामस्त्रेण संप्रोक्ष्य पुनसन्धानमाचरेत् | भेरी ताडनहीने च परचक्राद्भयं भवेत् || ५-५१ || स्नपनं कारयेच्छंभोर्भेरीमपि च ताडयेत् | घोषकाले च पटहेछिन्ने वा पतितेऽपिवा || ५-५२ || चर्मणो भेदने चैव सस्यनाशं विनिर्दिशेत् | वर्णमन्त्रमनुस्मृत्य हुत्वा तच्चरतं जपेत् || ५-५३ || पश्चादन्यं परिग्राह्य विधिना ताडयेच्छुभम् | प्. १४६) यागशाला विहीने तु कुंडवेदि विहीनके || ५-५४ || एतैर्विलक्षणैर्युक्तन् तद्ग्रामस्य क्षयं भवेत् | प्रमाणहीनं यः कुर्यान् तत् प्रामाण्य प्रवेशके || ५-५५ || शान्तिहोमन्ततः कृत्वा तत् तत् कर्म समाचरेत् | वेद्यां स्थण्डिलहीने तु सस्यनाशं न संशयः || ५-५६ || पञ्चगव्येन संशोद्ध्य मूलमन्त्रशतं भवेत् | विधिना स्थण्डिलं कृत्वा तत्रैव स्थापयेत् क्रमात् || ५-५७ || मध्ये तु यागशालायास्स्थापयेन्नघटान्यदि | परचक्राद्भयं राज्ये राजादुर्जयमाप्नुयात् || ५-५८ || पूर्वा?द्यागशालायां यथाविधि घटान्तरैः | तद्दिनन्तु समारभ्य पुनरुत्सवमाचरेत् || ५-५९ || प्रमादादग्निदग्धे च पूर्ववत् कल्पयेत् क्रमात् | पुण्याहं वचयित्वा च हृन्मन्त्रञ्च शतं जपेत् || ५-६० || सृक्सृवस्य विहीने तु जनानां ज्वरमारणम् | प्रवर्तते महाव्याधिनिर्तन्तद्ग्रामनिवासिनाम् || ५-६१ || त्रयंबकेन मन्त्रेण शतमष्टोत्तरं हुनेत् | दर्भमाला विहीने चाऽनावृष्टिं प्रवर्तते || ५-६२ || मूलमन्त्रशतं जप्त्वा दर्भमालाञ्च योजयेत् | होमद्रव्य विहीने चात्वना वृष्टिर्न संशयः (संबयः) || ५-६३ || अस्त्रेणैव शतं हुत्वा महाव्याहृतिमेव च | तत्रैव होमये द्विद्वान् पूर्वोत्तविधिना सह || ५-६४ || आयुधानां विहीने च तस्करेभ्यो भयं भवेत् | त्र्यक्षरेण तु मन्त्रेण होमयेच्छतसंख्यया || ५-६५ || कृत्वा सलक्षणञ्चैव प्रोक्षयेत् तु शिवांभसा | प्. १४७) अष्टमङ्गलहीने तु जनानाञ्चैव नाशनम् || ५-६६ || ईशनादि क्रमेणैव स्थापयेत् तानि पूर्ववत् | अंकुरार्पण हीने च पालिकाभिर्विवर्जिते || ५-६७ || महाव्याधि समुद्भूत्या सस्यानाशन्न संशयः | सहस्रं मूलमन्त्रेण हुत्वा भक्तांस्तु पूजयेत् || ५-६८ || ततोङ्कुरार्पणं कुर्यात्पालिकासु सा लक्षणम् | अस्त्रयागविहीने च सूत्र वे?ष्टन वर्जिते || ५-६९ || पिधानकूर्चहीने च वस्त्रहीने तथैव च | नैवेद्यादि विहीने च दुर्भक्षं जयते धृवम् || ५-७० || मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् | यागाधिवासनन् तत्र कुर्यात् पूर्वोक्तमार्गतः || ५-७१ || कुंभस्थापन हीने च दार्भिक्ष जायते धृवम् | मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् || ५-७२ || रत्नहेम विहीने च सूत्रवेष्टन वर्जिते | पिधान कूर्चहीने च वस्त्रहीने तथैव च || ५-७३ || नैवेद्यादि विहीने च दुर्भिक्षं जायते धृवम् | मूर्तिहोमन्ततः कृत्वा मूलमन्त्रशतं हुनेत् || ५-७४ || यागे प्रदीपहीने च प्रमादे च विशेषतः | सस्यानान्नाशनञ्चैव उन्मादो जायते धृवम् || ५-७५ || घोरमन्त्रं शतं जप्त्वादीपमारोपयेत् पुनः | दुर्भिक्षं जायते कुण्डे वह्निविछेदनेऽपि च || ५-७६ || उद्वास्य भस्मान्यङ्गारानग्निमाधाय पूर्ववत् | समिद्भिश्चरुलाजाभ्यां जुहुयान्मूलमन्त्रतः || ५-७७ || प्रत्येकञ्च शतं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् | प्. १४८) प्रणीता चलिते हीने ज्वरव्याधिस्तु जायते || ५-७८ || जुहुयादस्त्रमन्त्रेण शतं वाथ तदर्थकम् | मन्त्रहीने क्रियाहीने मनोन्मादस्तु जायते || ५-७९ || मूलमन्त्रशतं हुत्वा पुनस्सन्धानमाचरेत् | उक्तद्रव्यैश्च मन्त्रैश्च विधिना होमाचरेत् || ५-८० || दर्भापरिधिहीने च जायते दुख्खसंभवः | ईशमन्त्रशतं हुत्वा पुनस्संधानमाचरेत् || ५-८१ || बलिद्रव्यविहीने च पतिते च विशेषतः | सस्यानाञ्च गताञ्चैव प्रणाशं जायते धृवम् || ५-८२ || तद्द्रव्यं वर्जयित्वा च नवद्रव्यं परिगृहेत् | बलिलिङ्गविहीने च विभिन्ने पतितेऽपि च || ५-८३ || भग्ने चैव तदा कर्तुर्विनाशो भवति धृवम् | विधाय शान्ति होमन्तु मूलेनैव शतं हुनेत् || ५-८४ || विधाय बलिलिङ्गन्तु बलिं पश्चात् समाचरेत् | शूलास्त्रे पतिते चैव छिन्ने नष्टे तथैव च || ५-८५ || तद्ग्रामस्य च राष्ट्रस्य शत्रुभिः पीडनं भवेत् | कृत्वाऽभिषेकं पतिते शान्तिहोमन्तु कारयेत् || ५-८६ || अस्त्रमन्त्रेण जुहुयाज्जपेत्तु शिवमन्त्रकम् | शेषस्थान बलिन्दत्वा प्रविशेद्यागमंटपम् || ५-८७ || शूलस्य दंडे विच्छिन्ने क्षिपेत् तु सलिलाकरे | अन्य दंडं परिग्राह्य यागशेषं समापयेत् || ५-८८ || शूलास्त्रन्तु पुनर्ग्राह्य स्थापयेद् विधिपूर्वकम् | इतराङ्गविभेदे च पुनस्सन्धानमाचरेत् || ५-८९ || जलाधिवासनञ्चैव प्रतिष्ठाकाल भेदनम् | प्. १४९) आयुधानां विभेदे च प्रणाशे पतनेऽपि च || ५-९० || प्रवर्तते महामारी गवान्नाशन्न संशयः | उद्बुध्येन तु मन्त्रेण जपन्नष्टशतं हुनेत् || ५-९१ || नष्टं भिन्नञ्च कर्तव्यन्तत पूर्वं लक्षणान्वितम् | बलिपात्रविहीने च धनधान्यं विनश्यति || ५-९२ || घोरमन्त्रशतं हुत्वा नवपात्रं परिगृहेत् | बलि तालविहीने च सर्वथाप्य (सर्वधाप्य) प्रियं भवेत् || ५-९३ || मूर्तिमन्त्रञ्च मूलञ्च होमयेत् तु शतं शतम् | बलिदीप विहीने तु लक्षीनाशोभवे धृवम् || ५-९४ || पञ्चब्रह्मषडङ्गानि प्रत्येकन्तु शतं शतम् | द्विगुणन् दीपमारोप्य बलिशेषं समाचरेत् || ५-९५ || कालाऽतिक्रमणे प्राप्ते बलिदाने च यानके | तद्ग्रामस्य क्षयं प्रोक्तं वर्णमन्त्रशतं जपेत् || ५-९६ || पुण्याहं वाचयित्वा च बलिदानञ्च पूर्ववत् | उत्सवे यानहीने च राजामरणमाप्नुयात् || ५-९७ || वर्णमन्त्रं शतं कृत्वा कौतुक स्थापनं शुभम् | पुनः प्रक्रमणे नैव कुर्याद्ग्राम प्रदक्षिणम् || ५-९८ || तत्काले कलहो यत्र तस्करैश्च भयं यदि | मूलबीजं शतं हुत्वा प्रविशेदालयं परम् || ५-९९ || पूजापर्युक्षित द्रव्यैस्संकरे लिङ्गबिंबयोः | परचक्राद्भयञ्चैव राज्ञोव्याधिः प्रवर्तते || ५-१०० || आघोरास्त्रशतं हुत्वा स्नपनं पञ्चविंशतिः | पुण्याहं वाचयित्वा तु जपेत् पाशुपतं शुभम् || ५-१०१ || प्रतिमायान काले च पतिते चाङ्गहीनके | वास्तु राजाधि देवानान्नाशनं संभवेत् क्षणात् || ५-१०२ || स्नपनन्तत्र कुर्वीत पुण्याहं वाचयेत् ततः | प्. १५०) शान्तिहोमं ततः कृत्वा पुनर्यानं समाचरेत् || ५-१०३ || शिरोबाहू च पादौ च चिन्नानि यदितन्त्यजेत् | नखानामङ्गुलीनाञ्च भूषणानि च भेदिते || ५-१०४ || पद्मबन्ध विभेदे च जटाभङ्गे महेश्वर | पुनस्संधानकं कृत्वा तत्र संप्रोक्षणं कुरु || ५-१०५ || दीक्षान्तरैस्तथा शूद्रैर्गुरु वाक्यादि लंघने | तद् ग्रामवासिनाञ्चैव स्थानभृंशन्न संशयः || ५-१०६ || पञ्चगव्येन संप्रोक्ष्य पुण्याहं वाचयेत् ततः | (शान्ति होमं ततः कृत्वा) स्नपनं कारयेद् बिंबे शिवमन्त्रशतं हुनेत् || ५-१०७ || उत्सवस्यान्तरे ग्रामेमृतोमर्त्यो भवेद्यदि | राष्ट्रस्य दूषणोत् पत्तिश्शीघ्रं सन्त्यज्य तच्छवम् || ५-१०८ || वर्णमन्त्रन् तथाऽस्त्रञ्च होमयेत् तु शतं शतम् | परिवेष क्रमे हीने लोकस्याज्ञानमादिशेत् || ५-१०९ || शिवमन्त्रशतं हुत्वा व्योमव्यापिशतं जपेत् | नीराजन विहीने तु पावकेन भयं भवेत् || ५-११० || मूलप्रकृति बीजन्तु शतं जप्त्वा विशेषतः | निराजनन्ततः कुर्यात् पूर्वोक्त विधिनाबुधः || ५-१११ || प्रासादे वह्निदग्धे च क्षुद्भयं ग्रामवासिनाम् | सद्यमन्त्रशतं हुत्वा बिंलन्तं स्नापयेच्छुभम् || ५-११२ || युद्धारं भविहीने तु सस्यनाशो न संशयः | ऊर्द्ध्ववक्त्रशतं हुत्वा युद्धारंभं समाचरेत् || ५-११३ || शक्षासूत्रविहीने च सर्वस्त्रीणां विनाशनम् | मूलप्रकृति बीजेन शतमष्टोत्तरं हुनेत् || ५-११४ || चूर्णोत्सव विहीने तु देवताः कोपमाप्नुयुः | प्. १५१) मूलमन्त्रं शतं जप्त्वा कुर्याच्चूर्णोत्सवन् ततः || ५-११५ || स्नपनं कारयेत् पश्चात् प्रकुर्यादभिषेचनम् | ध्वजावरोहणे हीने तन्महापातकोपमम् || ५-११६ || प्रणवन्तु शतं जप्त्वा पश्चात् तमवरोहयेत् | शुद्धस्नान विहीने तु अनावृष्टिर्न संशयः || ५-११७ || दिनाधिक्ये महद्दुख्खं कर्ताभर्ता विनश्यति | पुरुषन्तु शतं जप्त्वा स्नपनन्तत्र कारयेत् || ५-११८ || वर्णमन्त्रशतं हुत्वा स्नपनं कारयेत् ततः | अपरे दिवसे चैव पूर्ववत् तीर्थमाचरेत् || ५-१२० || न्यूनञ्चैव तथा राष्ट्र ग्रामाणान्नाशनं भवेत् | दिशाहोमन्ततः कृत्वा शान्तिहोमं समाचरेत् || ५-१२१ || पूर्वोक्त * * * * * * * * * * * * * | बन्ध्युद्वासनहीने तु त्वप्रीतास्सर्वदेवताः || ५-१२२ || मूलमन्त्रशतं हुत्वा पश्चादुद्वासनञ्चरेत् | चंडयाग विहीने च परचक्राद् भयं भवेत् || ५-१२३ || स्नपनं कारयेच्छंभोश्चंडयागं समाचरेत् | तन्त्र सांकर्यदोषेणमारी व्याधिस्तु जायते || ५-१२४ || समिद्द * * * * * * * * * * * * * | वर्णमन्त्रं शतं हुत्वा तत् संख्या जपमाचरेत् || ५-१२५ || सर्वशान्ति करञ्चैव दक्षिणेश्वरमर्चयेत् | अतत्वे प्रतिपत्तिस्तु प्रायश्चित्तविधिं शृणु || ५-१२६ || स्वजात्यदीक्षितं स्पृष्ट्वा भस्मस्नानं समाचरेत् | अवान्तरेषु जातिषु स्पर्शने स्नान अद्वयम् || ५-१२७ || चण्डाल स * * * * * * * * * * * * | * * * * जने काले शेषमन्नन्त्यजेद् बुधः || ५-१२८ || स्नानद्वयन्तथा प्रोक्तं मूलमन्त्रशतं जपेत् | प्. १५२) दुर्गन्धं वायुनागच्छेन्नासाग्रेऽपि विवर्तयेत् || ५-१२९ || गोमयन्तु तथा स्पृष्ट्वा शीघ्रं पञ्चाक्षरं जपेत् | स्वजात्यदीक्षीतान्नञ्च भुक्त्वा कामेन वै बुधः || ५-१३० || व्योमव्यापिं जपे * * * * * * * * जपेत् | नृपान्न भोजने विद्वान्सिवमन्त्रशतं जपेत् || ५-१३१ || भुक्त्वा वैश्यान्नवेन्तु सहस्रञ्च जपेत् क्रमात् | भुक्त्वा कामात् तु शूद्रान्नङ्क्रच्छ्रञ्चान्द्रयणञ्चरेत् || ५-१३२ || मासन्निरन्तरं भुङ्ते ततश्शूद्रोऽपजायते | शूद्रेणैव तु संयुक्तो नित्यं शुद्रवदाचरेत् || ५-१३३ || शूद्रस्त्रीसङ्गमे जाते त्वघोरास्त्रशतं हुनेत् | रजस्वलाङ्गना स्पर्शे स्नात्वा हुत्वा शतं जपेत् || ५-१३४ || वर्णमन्त्रंशतं जप्त्वा पूजयेद् दक्षिणेश्वरम् | अदीपभोजने काले शिवमन्त्रशतं जपेत् || ५-१३५ || भुक्त्वा तु दर्शने काले शक्त्या हृन्मन्त्रमुच्चरेत् | संस्मृत्वा देवदेवेशं भसस्नाना द्विशुद्ध्यति || ५-१३६ || लशुतं मत्स्य?मांसञ्च चान्योच्छिष्टं विवर्जयेत् | प्रमादाद्भक्षयित्वा तु वर्णमन्त्रशतं जपेत् || ५-१३७ || जेष्ठाचर्यस्य योछिष्ट भोजनं सर्वसिद्धिदम् | प्रत्यक्ष लवणं मध्ये जलपाने वशन्तके || ५-१३८ || जपित्वा हृदयं मन्त्रं सर्वदोषं विनश्यति | उच्छब्दं भोजने त्यक्त्वा हृन्मन्त्रञ्च समुच्चरन् || ५-१३९ || अदीक्षितानां भक्तिञ्च श्रुत्वा हृन्मन्त्रमुच्चरेत् | पातकप्रायश्शित्तविधिः पातकादि महापाप प्रायश्शित्तविधिं शृणु || ५-१४० || ब्रह्महत्तिस्सुरापानं सुवर्णस्तेयमेव च | प्. १५३) लंघनं गुरुवाक्यस्य गोवधं पञ्चपातकम् || ५-१४१ || तदाचार्य गृहेशुद्धे ध्यात्वा दक्षिणमीश्वरम् | चरुभुङ्मासमर्धं वा मौनव्रतथाचरेत् || ५-१४२ || परमेश जलं पीत्वा त्रिसन्धिं स्नानमाचरेत् | वर्णमन्त्रशतं जप्त्वा सर्वस्वन्दानमाचरेत् || ५-१४३ || त्र्यक्षरञ्च जपेन्नित्यं कण्ठमात्रोदके स्थितः | त्रिरात्रं वासयेद् ध्यात्वा गुरुदेवं समर्चयेत् || ५-१४४ || नाममन्त्रं सदा जप्त्वा भावयेत् ज्ञानमुद्रिकाम् | मुच्यते सर्वपापेभ्यो दक्षिणामुखमाप्नुयात् || ५-१४५ || आशेवचविधिः सूतक प्रेतकासौचं क्रमाद्वक्ष्ये महेश्वर | विप्र शुद्धिर्दशा हेन द्वादशेन तु क्षत्रियः || ५-१४६ || वैश्यस्य पक्षत शुद्धिश्शूद्रश्शुद्ध्यति मासतः | सत्यज्जानी स्वधमस्थो जयेदज्ञानिनन्नरः || ५-१४७ || शुद्ध्यते तद्क्षणात् ज्ञानी अज्ञानी चोदितेऽहनि | ऊर्द्ध्वतन्त्रे तु संस्कारस्सूतक प्रेतकं न हि || ५-१४८ || तस्मात् सर्व प्रयत्नेन ऊर्ध्वशैवे तु दीक्षयेत् | दीक्षितानां नु?पाणाञ्च सूतक प्रेतकन्न हि || ५-१४९ || सर्वदोषापनोदायमुच्यते ज्ञानमूद्रिका | ध्यात्वा जप्त्वा च पूज्या च नाममन्त्रं सदाजपेत् || ५-१५० || नाममन्त्रं सदा जप्त्वा सर्वदोषंस्तु नाशयेत् | जीर्णादिशाखि विधिः लिङ्गे दोषादिकं वक्ष्ये प्रायश्चित्तविधि क्रमात् || ५-१५१ || लिङ्गन्तु स्फुटितं भिन्न छिन्नं भग्नन्तथैव च | प्. १५४) दग्धं जीर्णं परित्यज्य स्थापयेत्तु नवीकृतम् || ५-१५१ || सर्वदोष प्रशान्त्यर्धन्नामन्त्रशतं जपेत् | स्नपनन्तत्र कुर्वीते यथा विभव विस्तरम् || ५-१५२ || चलितं पतितं वापि नदीस्रोतो विभेदितम् | गजेन्द्रोत्पाटितं? वापि चोरैरुन्मत्तंकेरपि || ५-१५३ || तल्लिङ्गन्तत्र संस्थाप्य पूर्ववत् पुजयेच्छुभम् | सहस्र कलशैस्स्नाप्य संप्रोक्षणमधाऽचरेत् || ५-१५४ || घिन्नं भिन्नन्नदीस्रोतैश्चतुर्दंडानुयोजयेत् | मूललिङ्गमदृश्यञ्च नवलिङ्गन्तु पूर्ववत् || ५-१५५ || तद्देशे स्थापयेच्छीघ्र सर्वसंपत्करं शुभम् | हृन्मन्त्रेणशतं जप्त्वा पञ्चगव्येन प्रोक्षयेत् || ५-१५६ || परिवार विनाशे तु पादयन्नध पूर्ववत् | शिवमन्त्रशतं हुत्वा पयसान्नं निवेशयेत् || ५-१५७ || पूर्वमेव कृतं लिङ्गन्तस्य प्रकारलिङ्गकम् | अलिङ्गमिति विज्ञेयं रांज्ञादुर्जयवर्द्धनम् || ५-१५८ || खडन्तु डमिति प्रोक्तं तवो?त्पाटन दोषकम् | महामर्यादपार्श्वे तु स्थापयेत् पूर्ववत् कृतम् || ५-१५९ || वर्णमन्त्रंशतं हुत्वा शिवमन्त्रं शतं जपेत् | अदेशस्थापिते लिङ्गेराजादुर्जयमाप्नयान् || ५-१६० || तस्मात्सर्व (तस्मातर्व) प्रयत्नेन पार्श्वस्थं लिङ्गपूर्वकम् | प्राकारे चैव मध्यस्थं लिङ्गं शत्रुप्रतिष्ठितम् || ५-१६१ || राजराष्ट्र हुरन्दुख्खं राक्षसानान्तु वर्धनम् | तत्पार्श्वे तु स्थितं लिङ्गं पूर्वोक्तन्तु महेश्वर || ५-१६२ || दुस्थितं? सुस्थितं वापि शिवलिङ्गन्नचालयेत् | प्. १५५) मूललिङ्गस्ययवा?क्यमचलनं भवेत् || ५-१६३ || अन्यलिङ्गस्य चलनं राजराष्ट्राभ वृद्धिदम् | तत्काले स्थापयेल्लिङ्गं पूर्वोक्तन्तु महेश्वर || ५-१६४ || अद्भुतशान्तिः अथाऽद्भुतानां शान्तिन्तु वक्ष्ये दोष निवृत्तये | लिङ्गे विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च || ५-१६५ || स्नपनं पञ्चविंशत्या पश्चिम होममाचरेत् | अपामार्गसमिद्भि?श्च वर्णन्त्रशतं हुनेत् || ५-१६६ || उत्सवञ्च त्र्यहं कुर्याद्वर्णदोषो विनश्यति | प्रतिमारोदने चैव तत्पूर्वे होममाचरेत् || ५-१६७ || समिद्भिरौदं बरीभिर्जुहुयात् त्रिसहस्रकम् | पञ्चमेन च मन्त्रेण एका होत्सवमारैत् || ५-१६८ || सहस्र कलशस्नानं प्रकुर्याद्विगुणं हवि | प्रासादे पतिते भिन्ने चैत्यवृक्षे फलैर्युते || ५-१६९ || दीपमाला तु विवशेदुर्गन्धादि प्रवेशके | एवमादि समुत्पन्ने राजराष्ट्रभयं भवेत् || ५-१७० || तद्देषशमनार्थाय चेशान्यां होममाचरेत् | अश्वत्थस्य वमिद्भिश्च वर्णमन्त्रं शतं हुनेत् || ५-१७१ || उत्सवं त्रहं कुर्याद्भक्तानाञ्चैव पूजनम् | भूमिकम्पे दिशान्दा?हे प्रतिभासरदर्शने || ५-१७२ || द्विनक्षत्रे समुत्पन्ने रात्रा विन्द्रशरासने | पुच्छमत्स्य समायोगे जनानान्नाशनं भवेत् || ५-१७३ || तद्दोषशमनार्थय चाग्नेययां मण्टपे कृते | प्. १५६) त्र्यम्बकेन मन्त्रेण त्वयुतं होममाचरेत् || ५-१७४ || होमद्रव्यन्तु पूर्वोक्तं समिधः प्लक्षसंभवाः | आनुपूर्वकृमाच्छान्तिङ्कुर्याद्दोषनिवृत्तये || ५-१७५ || प्रासाद मण्टपाद्येषु वल्मीके यत्रमृश्यते | रक्तकन्या समुत्पन्ने प्रासादे मधुसंश्रिते || ५-१७६ || प्रविष्टे पुंश्छली पुत्गौ प्रासादाभ्यन्तरे तथा | तत्प्रदेशं बहिर्नीत्वा पूरयेच्छुद्धवालुकैः || ५-१७७ || पञ्चग?व्येन संप्रोक्ष्य शान्ति होमन्तु कारयेत् | देवस्याग्रते ऐशान्यां मण्टपङ्कल्पयेच्छुभम् || ५-१७८ || तत्रापामार्गसमिधस्सहस्रं प्रतिवासरम् | सप्ताहं वा त्रयाहं वा त्रिसन्धिं होममाचरेत् || ५-१७९ || नमो नमो यदस्येति सक्षिणामन्त्रमुच्चरन् | सर्वदोष प्रशमनं शिवमन्त्रशतं हुनेत् || ५-१८० || हविर्द्विगुणका पूपैः पूजयेद् दक्षिणेश्वरम् | घृत्क्षीराभिषेकञ्च यथा शक्ति विशेषतः || ५-१८१ || शीतकुंभञ्च विधिना शिरसोर्द्ध्वे विनिक्षिपेत् | पञ्चगव्याभिषेकञ्च कुर्यात्पूर्वोक्त वर्त्मना || ५-१८२ || ईशमन्त्रशतं हुत्वा मूलमत्रं शतं जपेत् | दर्पणञ्चलितं वापि जीर्णं वा पतितन्तु वा || ५-१८३ || भिन्नं वा दीप्तिरून्यं वा जले भूमाविनिक्षिपेत् | स्थापयेद् वर्णमन्त्रेण गृहीत्वा दर्पणन्नवम् || ५-१८४ || पूर्ववत् पूजयेच्छम्भुं राजराष्ट्राभि वृर्द्धय | पूर्वादिषु चतुर्दिक्षु चतुर्वेदैर्निषेवितम् || ५-१८५ || यथा विभव विस्तारं स्नपनम्परिकल्पयेत् | प्. १५७) पञ्चगव्येन सिद्धेन तथा पञ्चामृतेन च || ५-१८६ || सलिलैर्नारिकलानां पनसादिफलैरपि | हरिद्रामलकाद्यैश्च शुद्धान्नैश्चाभिषेचयेत् || ५-१८७ || संशोद्ध्य भस्मना पश्चच्छुद्धोदैर्दक्षिणेश्वरम् | प्रभूतहविषन्नित्यन्तदन्ते द्विगुणं स्मृतम् || ५-१८८ || एवं शान्तिकरं प्रोक्तं सर्वारिष्टविनाशनम् | यत्र शान्तिः कृता तत्र धनधान्यं विवर्द्धते || ५-१८९ || आयुरारोग्य सौभग्यं जयं संपत्प्रवर्द्धते | राजराष्ट्राभिवृद्ध्यर्त्थं प्रायश्चित्तं मयोदितम् || ५-१९० || प्रायश्चित्तमिति प्रोक्तं फलपाकविधिं शृणु || इति मकुट तन्त्रे क्रियापादे प्रायश्चित्तविधिर्नाम पञ्चमः पटलः || ५ || फलपाकविधिपटलः दूरतश्शिखरन्दृष्ट्वा नमस्कुर्या तु योनरः | विमुक्तस्सर्व पावेभ्यो रुद्रलोके महीयते || ६-१ || दूराङ्वशमविक्लान्तोयः कुर्यात् तु प्रदक्षिणम् | तत् क्लेशञ्च कृतार्थाय सयातिपरमाङ्गतिम् || ६-२ || यथा देव नमस्कारन्तथा(नमसारन्तथा) देवेशु पूज्यवान् | उत्सवे बलिकाले च यस्तुकुर्यात् प्रदक्षिणम् || ६-३ || प्. १५८) पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः | स्थलपुष्पं जलपुष्पं पुष्पयाने समोदते || ६-४ || आरामन्देव देवस्य योनरः कुरुते यदि | स एव धनवाच्छ्रीमानिहामुत्र च पूज्यते || ६-५ || अयुतं योगवां दद्याच्छ्रोति या या हिताग्नये | मम पादजले स्नात्वा तत्फलं समाप्नुयात् || ६-६ || यः कोपि पञ्चगव्येन कुशवारियुतेन च | स्नापयेद् देवदेवेशं कोटियज्ञफलं लभेत् || ६-७ || त्रिरात्रङ्गुरुदेशे तु योसै?द्भक्ति संयुतः | नानाभागे समोपेतश्शिवलोके महीयते || ६-८ || धूपघण्टान्तु योदद्याद् ख्यातिर्भूमौ प्रवर्तते | योदद्यात् तु विशेषेण वस्त्रण्याभरणानि च || ६-९ || नानावसन संयुक्तो नानाभरण भूषितः | इहलोके पूज्यमानस्सशैवं पदमाप्नुयात् || ६-१० || योदद्यात् ज्येष्ठ गुरवे भूमिङ्गोकर्णमात्रतः | ग्रामानामधीपस्सोपि पृथिव्यामेक राट्भवेत् || ६-११ || आचार्यस्य हृहेदीपं सकृताले तु यो ददेत् | इहलोके ज्ञानपूर्णस्सुरूप्यञ्च संच्छति || ६-१२ || आरंभं शिवमुद्दिश्य यस्य भूमौ प्रवर्तते | सर्वदान ततो यज्ञफलं प्राप्नोत्य संशयः || ६-१३ || प्. १६०) लोहेष्टक शिलाद्यैस्तु प्रासादङ्कारयेत् तु यः | सकाञ्चन विमानस्थश्शिवलोके महीयते || ६-१४ || संसिद्धो गुरुदेशे तु विधिना विधिमार्गतः | शिवलोकमवाप्नोति पूज्यमानस्सदासुरै || ६-१५ || देवालय समीपे तु वसनारूप्यमाप्नुयात् | शिवलोकन्तथो गत्वा सामिप्यं पदमाप्नुयात् || ६-१६ || आगमोक्तन्तु संपूज्य देवेशं दक्षिणेश्वरम् | रूपयौवन संपन्नस्सर्वभोग समन्वितः || ६-१७ || भुक्त्वा शिवपूरे भोगान्पृथिव्यामेकराट्भवेत् | माषापा?त्रन्तु ये दद्यात् स्वर्णं रजतमेव वा || ६-१८ || त्रिसप्तकालमुद्धृत्य शिवलोके महीयते | शुश्रषोगुरुभक्तानामाचार्य पुरवासिनम् || ६-१९ || भक्त्वा तु विपुलान्भोगान्सर्वकाम समन्वितान् | पुण्यक्षया * * * * पृथिव्यामेकराट्भवेत् || ६-२० || प्रतिमायां हेम दत्वादाक्षिणं पदाप्नुयात् | यतो वा चेति मन्त्रेण जप्त्वा स्मृत्वा सदाशिवम् || ६-२१ || गत्वा शिव पुरो?भागां शिवलोके महीयते | मौलिका मण्टपं शालाङ्दृत्वा भोगालयन्तथा || ६-२२ || बहुपुत्र समाकीर्णो भोगन्भाङ्तो स्वस्वा?मितान् | आसनानि सद्भावं ज्ञात्वा दक्षिणमीश्वरम् || ६-२३ || पूजयेत् सर्वसिद्ध्यर्थं मम लोके सदा वसेत् | यस्तु प्राणपरित्यागङ्कुर्याच्छिवनिमित्तकम् || ६-२४ || सालोकञ्चैव सामीप्यं सारूप्यञ्चैव सिद्ध्यति | दक्षिणाराधनङ्कृत्वं सयाति परमाङ्गतम् || ६-२५ || प्. १६०) तस्मात् सर्व प्रयत्नेन शिवमाराधयेत् सदा | फलपाकविधिः प्रोक्तो कृत्तिकादीपकं शृणु || ६-२६ || इति मकुट तन्त्रे क्रियापादे फलपाक विधिर्नाम षष्ठः पटलः || ६ || अथ मकुटे कृत्तिकादीपविधि पटलः || कार्तिके कृत्तिकामासे दीपारोहणमाचरेत् | त्वमध्यस्थं सदालोके तदा दीपं सुमध्यमम् || ७-१ || तस्मात् सर्वस्य मध्यस्थं दीपं ध्यात्वा महेश्वरम् | देवालय मलङ्कृत्य तोरणैस्सहचार्चयेत् || ७-२ || कृत्वाङ्कुरार्पणं पुर्वं पूजयेद् दक्षिणेश्वरम् | अग्ने तत् त्रिषुमन्त्रेण होमयेच्छूलतोरणम् || ७-३ || स्नपनङ्कारयेत् तत्र यजमनेच्छयान्वितम् | प्रासाद दक्षिणे पार्श्वे दीपदण्डन्तु पूर्ववत् || ७-४ || खादिरञ्चम्पकञ्चैव तालिकेरमथापि वा | तालम्बिल्वञ्च वेणुञ्च यज्ञवृषभवन्तु वा || ७-५ || प्रासादस्य सान्दण्डमर्चं वा पादमेव च | तदूर्ध्वे विन्यसेत् पात्रं द्वात्रिंशत्पृस्थपूरितम् || ७-६ || तदर्धं वा तदर्धं वा घृतं वा तैलमेव वा | कार्पासबीजसंयुक्तन्नव वासश्च निक्षिपेत् || ७-७ || प्रासाद बाह्ये सर्वत्र दीपमाला परिष्कृतम् | प्रासादस्योर्द्ध्वदेशे तु मण्टपे गोपुरेऽथवा || ७-८ || प्. १६१) प्राकारेषु च सर्वेषु दीपं सर्वत्रयोजयेत् | वर्णमन्त्रं समुच्चार्यदीपदण्डेऽधिरोपयेत् || ७-९ || सर्वमारोपयेद्दीपं दीपयेत् तु समन्ततः | ग्रामं वा नगरं वापि आलयं वा प्रदक्षिणम् || ७-१० || दीपेन भूषयेत् सर्वं भक्तियोगाऽनुरूपतः | ईदृग्गुणविशेषेण ग्रामङ्कुर्यात् प्रदक्षिणम् || ७-११ || आलयं प्रविशेत् पश्चात् सर्वालङ्कारसंयुतम् | प्रभूतञ्च हविर्दद्यादपूपञ्च प्रदापयेत् || ७-१२ || फलोपहार पूष्पैश्च (कदलीफल संयुतम् | सहकारफलैर्युक्त)म्भक्तांश्चैव प्रपूजयेत् || ७-१३ || रात्रौ पूजां प्रकूर्वीत बलिन्तत्रैव निक्षिपेत् | रात्रौ प्रतिसरंबध्वा भक्तानाञ्च प्रपूजयेत् || ७-१४ || प्रभाते पूजयेद्विद्वान्देवं दक्षिणमव्ययम् | महादर्पण मध्यस्थमर्चं यत्पूर्ववच्छुभम् || ७-१५ || त्र्यंबकं महारुद्रं वर्णमन्त्रं समुच्चरन् | त्र्यक्षरं सकृज्जप्त्वा नृत्तगेयैस्सुपूजयेत् || ७-१६ || ब्रह्मादीशान पर्यन्तं ग्रामस्थाने बलिं क्षिपेत् | हृदयेन तु मन्त्रेण चूर्णकर्म समाचरेत् || ७-१७ || नद्यां वापि तटाके वा समुद्रे वा विशेषतः | नवोदकेन तन्मध्ये त्रिशूल स्नानमाचरेत् || ७-१८ || तदालयं पुनर्गत्वा पश्चात् स्नपनमाचरेत् | तस्य पार्श्वे स्थितं देवङ्गेय नृत्तादि संयुतम् || ७-१९ || प्. १६२) लाजचूर्ण समायुक्तङ्गुलसार विमिश्रितम् | कदलीफलसंयुक्तं सहकारफलान्वितम् || ७-२० || मातुलुङ्गफलैर्युक्तन्नालिकेर फलान्वितम् | भक्त्या निवेदयेत् सर्वं वर्णमन्त्रं समुच्चरन् || ७-२१ || प्रभूतञ्च हविर्दत्वा प्रतिमादींश्च पूजयेत् | भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् || ७-२२ || एवं समासतः प्रोक्तं स्नपनञ्च ततश्शृणु || इति मकुटतन्त्रे क्रियापादे कृत्तिकादीपविधिर्नाम सप्तमः पटलः || ७ || अथ मकुटे स्नपनविधि पटलः || अष्टम्याञ्च नवम्याञ्च चतुर्दश्याञ्च पर्वणोः | संक्रान्तौ विषुवे चैव ग्रहणे चायन द्वये || ८-१ || दीक्षादिके प्रतिष्ठान्ते प्रोक्षणे चोत्सवे तथा | यागान्ते च सुनक्षत्रे मङ्गले मन्त्रसाधने || ८-२ || राजाभिषेक काले च राजजन्मदिनत्रये | अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके || ८-३ || भूमिकंपे महारोगे शत्रुभिः पीडनेऽपि च | आर्द्रायां सौरवारे च राज्ञा पुत्रदिनेषु च || ८-४ || राजपत्नी त्रिजन्मर्क्षे राज्ञां मरणकालके | एवमादिषु कालेषु स्नपनं कारयेच्छुभम् || ८-५ || प्. १६३) पञ्चकन्नवकञ्चैव पञ्चविंशतिकं तथा | अथमत्रितयं प्रोक्तं मध्यमत्रितयं शृणु || ८-६ || पूर्वमेकोन पञ्चशदेकाशीतिः ततः परम् | अष्टोत्तरशतं पश्चान्मध्यमत्रयमुच्यते || ८-७ || द्विशतं षोडशोपेतं ततः पञ्चशतं तथा | सहस्रमष्ट संयुक्तमुत्तम त्रितयं भवेत् || ८-८ || देवस्याग्रे तु सर्वाणि स्थण्डिले स्थापयेत् क्रमात् | मध्यमेकपदं कृत्वा पद्माकारं सकर्णिकम् || ८-९ || चतुस्सूत्रेण मार्गेण कर्षयेन्नवकं तथा | षट्सूत्रञ्च लिखित्वा तु प्राद्मुखोऽदङ्मुखं क्रमात् || ८-१० || पञ्चविंशत्पदं कृत्वा स्थापयेदथमत्रिकम् | विस्तारं तालमात्रं स्यात् सूत्रद्वादश कल्पितम् || ८-११ || * * * *न्तमारभ्य चाष्टौ द्वाराणि कल्पयेत् | मध्यमं पञ्चविंशत् तु द्विपदमावृतन्न्यसेत् || ८-१२ || पीठके नाथवा पञ्चपदा संगृह्य यत्ततः | इदमेकोन पञ्चाशदेकाशीति पदं शृणु || ८-१३ || पदमेकं समावृत्य चेकाशीति पदं क्रमात् | प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च || ८-१४ || पूर्ववत् स्थापयेद् वारं तथा गोमयवारिणा | मध्यमे पञ्चविंशत् तु दिशिद्वादशकं तथा || ८-१५ || कोणे नवपदं कृत्वा शिवाथिक्यं शताष्टकम् | दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् || ८-१६ || प्. १६४) मध्यमे व्यूहमध्ये तु नवपदं पद्ममालिखेत् | एवं कुर्याद् विधानज्ञो षोडश द्विशतं भवेत् || ८-१७ || स्नपन स्थापनं प्रोक्तं तेषां द्रव्यं ततश्शृणु | वज्रं मरकतञ्चैव वैडूर्यञ्च प्रवालकम् || ८-१८ || मौक्तिकं पञ्चरत्नन्तु एवं कुंभे तु विन्यसेत् | रत्नानामप्य लाभे तु वज्रं विद्रुममेव च || ८-१९ || रत्नालाभे तथा हेमं वर्द्धन्यां हेममेव च | पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं ततश्शृणु || ८-२० || पूर्वोक्त पञ्चगव्यन्तु पाद्यार्घ्यं पूर्ववत् क्रमात् | क्षीरं दधिघृतञ्चैव स्थापयेत् स्थापकोत्तमः || ८-२१ || मधुचेक्षुरसञ्चैव पनसामृफलं तथा | कदलीनालिकेरञ्च सर्षपञ्च तिलन्तथा || ८-२२ || बिल्वञ्च मातुलुङ्गञ्च नारङ्गद्वयमेव च | यवनी वारलाजानिलाजचूर्णञ्च भस्म च || ८-२३ || चन्दनं लघुकोष्ठञ्च कच्चोलं पुष्पपत्रकम् | कर्पूरं हरिबेरञ्च दान्तमौंजीमुरन्त्रणम् || ८-२४ || शमीदूर्वा च श्वेतार्कं बिल्वमर्जुन चंपकम् | शंखपुष्पमपामार्गं विष्णुक्रान्ती च धुर्क्तुरम् || ८-२५ || नन्द्यावर्तं श्वेतपद्मं पुन्नागं जातिपाटलि | सहदेवी शतपत्री लक्ष्मी स्थलारविन्दकम् || ८-२६ || धातकी तुलसी चैव करवीरञ्चमल्लिका | कृष्णवल्ली शतावेरी गोक्षूरा च कृतांजली || ८-२७ || महाद्रोणञ्च द्रोणञ्च महाभद्री चनेमधु | धात्री हरीतकी चैव रुद्रपर्णीन्द्रवल्लिका || ८-२८ || प्. १६५) व्याघ्रनखी च मंजीष्टी सकलं वा?र्द्रकाष्ठकम् | नवनीतं द्राविडञ्चैव तक्कोलञ्च सुपिप्पली || ८-२९ || अतिबला बलाचैव सहाप्रियङ्गुलोद्ध्रकम् | नागकेसर जंबुकं कपित्था श्वत्थ गुग्गुलुम् || ८-३० || एलञ्च जीरकञ्चैव कृष्णजीरकमेव च | सतैलं कुंकुमञ्चैवाऽगरुञ्चैव रोचनम् || ८-३१ || श्रीवेष्टकङ्गंधरसं पिप्पली हस्तिपिप्पली | अगरुन्तरञ्चैव मनश्शिलारक्तचन्दनम् || ८-३२ || लंवङ्गं रजनी चूर्णं काषायम्मार्जनान्तकम् | उदुंबरञ्च प्लक्षञ्च वटजंबु कषायकम् || ८-३३ || तिलदूर्वावपामार्गं मार्जन द्रव्यमेव च | एतच्चतुर्विधं द्रव्यं स्नानमेतत् प्रकीर्तितम् || ८-३४ || फलचूर्णोषधीत्यादि स्नान द्रव्यन्तु मार्जनम् | रसचूर्णं तथा चान्यतोय चूर्णन्तु कारयेत् || ८-३५ || रत्नादिपञ्चगव्यान्तं पञ्चानां कलशे स्थितम् | आज्यान्त नवकं पश्चात् पञ्चविंशद्गुलान्तकम् || ८-३६ || चन्दनादि तृणान्तञ्च द्वेद्वे कलशके न्यसेत् | इदमेकोन पञ्चाशदेकाशीतिस्तथा भवेत् || ८-३७ || एतानि रुद्रपर्ण्यन्तं मार्जनान्तं शताष्टकम् | मध्यमे तु शिव व्यूहेऽधर्मादीनि महादिशि || ८-३८ || धर्मादीनि च कोणे स्यात् स्थापयेत् तु महेश्वर | गन्धपुष्पाभिः पूज्यदर्भैश्चैव परिस्तरेत् || ८-३९ || मध्यमे शिवकुंभन्तु शिवमन्त्रेण संयुतम् | गन्धपुष्पादिभिः पूज्यं वर्णमन्त्रं समुच्चरन् || ८-४० || प्. १६६) द्वात्रिंशत्प्रस्थ संयुक्तमथवा षोडशं तु वा | शिवकुंभमति प्रोक्तं तदर्धं वर्द्धनी भवेत् || ८-४१ || पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् | शिवकुंभादुत्तरे च वर्द्धनीं विन्यसेत् क्रमात् || ८-४२ || कूर्चवस्त्रसमायुक्तं वर्द्धनीं हेमसंयुताम् | प्रशान्तमुद्रया स्थाप्य ज्ञानमुद्रां प्रबन्धयेत् || ८-४३ || गन्धपुष्पादिनाऽभ्यर्च्य वर्णमन्त्रं समुच्चरन् | पाद्यादिषु प्रतिष्ठाप्य चाष्टविद्येश्वरान्तकम् || ८-४४ || आज्यादिमार्जनान्तस्य तथा रुद्रांस्तु पूजयेत् | एकैकमर्चयेत् सर्वमेकैकं वस्त्रवेष्टितम् || ८-४५ || स्वनामादीन्समुच्चार्य गन्धपुष्पादिभिर्यजेत् | षोडश द्विशतं स्थाप्य पूर्वत्पूजयेत् क्रमात् || ८-४६ || उक्तानि सर्वद्रव्याणि स्थापनं पूर्ववत् कृतम् | तत् संख्या तदुप स्नानं सप्ततीर्थमिति स्मृतम् || ८-४७ || अथमाथममारभ्य चोत्तमादथमत्रिकम् | उक्तद्रव्यसमोपेतमुत्तमञ्च सहैव तु || ८-४८ || षोडश द्विशतोपेतमुत्तमे मध्यमं शृणु | उत्तमे मध्यमञ्चैव उत्तमोत्तममेव च || ८-४९ || स्थापनेषु तथा द्रव्येष्वयं भेदो महेश्वर | षट्सूत्रन्दक्षिणे कृत्वा प्राङ्मुखं षट्क्रमात् भवेत् || ८-५० || पञ्चतालप्रमाणेन पदविस्तार विस्मृतम् | अन्तः पद्मं समावृत्य पदान्यष्टौ तु संग्रहेत् || ८-५१ || चतस्रो वीधयः प्रोक्ताश्चतुर्द्वारञ्चतुष्पदम् | द्वादशानि पदं कृत्वा चैकैकं पञ्चविंशतिः || ८-५२ || मध्ये नवपदं कृत्वा स्थापयेत् पूर्ववत् क्रमात् | पञ्चपङ्तिक्रमं वक्ष्ये पञ्चावरणकेषु च || ८-५३ || प्. १६७) प्रथमे चैव बीजानि लोहानि च द्वितीयके | त्रितीये चैव रत्नानिधातूनि चतुरीयके || ८-५४ || पञ्चमे पञ्चगव्यानि शताष्टकमिदं शुभम् | यवनीवारमुद्गञ्च तिलसर्षपमेव च || ८-५५ || श्वेतशाली महाशाली रक्तशाली तथैव च | सुगन्धिहेमशाली च दशबीजमिति स्मृतम् || ८-५६ || द्वात्रिंशत्कलशेष्वेवं प्रथमावरणे न्यसेत् | यावत् संख्या भवेत् तानि उपस्नानं समाचरेत् || ८-५७ || चत्वारिंशच्च चत्वारिकलशानि प्रपूजयेत् | आपः प्रदापयेच्चैव मूलमन्त्रमनुस्मरन् || ८-५८ || प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु | चामीकरं तथा हेमं शातकुंभमतः परम् || ८-५९ || जांबुनदञ्च तप्तञ्च जातितप्तादिमिश्रितम् | षड्विंशत्काल शेषूक्ता उदकेनैव विन्यसेत् || ८-६० || तावत्संख्या भवेत्तानि कलशेष्वन्तरोद?कम् | पञ्चाशत्कलशे * * तेषञ्चैवोत्तरे द्वयोः || ८-६१ || द्वितीयावरणे ध्यात्वा वर्णमन्त्रेण देशिकः | द्वितीया वरणं प्रोक्तन्त्रितीयावरणं शृणु || ८-६२ || पूर्वोक्त नवरत्नन्तु त्रिंशत्कलशकेषु च | यावत् संख्या च रत्नानि कलशेष्वन्तरोदकम् || ८-६३ || कलशानि भवेत् षष्टिञ्चार्चयेद् ब्रह्मन्त्रकैः | त्रितीयावरणं प्रोक्तं चतुर्थावरणं शृणु || ८-६४ || हरिताल * * मंजनञ्च मनश्शिला * * | सौराष्ट्रं सिक्तवञ्चैव गैरिकञ्च तथैव च || ८-६५ || प्. १६८) चतुस्त्रिंशत्कलशेषु स्प्तधात्वं बुनसह | यावत् संख्या भवेत्ताअनि कलशेष्वन्तरोदकम् || ८-६६ || अष्टोत्तरं तथा षष्टिकलशानि प्रपूजयेत् | प्रत्येकमर्चयेत्तानि प्रणवादिनमोन्तकम् || ८-६७ || पञ्चगव्यं कुशाग्रञ्च पञ्चावरणकं शृणु | पूर्वोक्तपञ्चगव्यन्तु कुशांभः पदपञ्चकम् || ८-६८ || पञ्चगव्यादिभिर्युक्तञ्चाष्ट त्रिंशद्भवेदिह | विन्यसेत् पंचगव्यानां ब्रह्माङ्गं च तलैः क्रमात् || ८-६९ || यावत् समोभवेत्तानि प्रत्येकं चान्तरोदकम् | द्रव्येषु स्थापितं योज्यशतरुद्रान्विशेषतः || ८-७० || कलशान्पूजयेत् सर्वान् हृन्मन्त्रेण तु देशिकः | त्रिशतं साष्टकं प्रोक्तमुत्तमोत्तममुच्यते || ८-७१ || प्रावग्रं द्वादशं सूत्रमुदक्सूत्रन्तथैव च | एकविंशच्छतं कृत्वा पदन्तत्र महेश्वर || ८-७२ || पदसूत्रसमायुक्तं सूत्रस्थं प्रत्यकं त्यजेत् | षट्त्रिंशत्सूत्रसमायुक्तं सूत्रान्समावृतां न्यसेत् || ८-७३ || चतुर्द्वारं न्यसेद्धीमाञ्चत्वारिंशपद स्थितम् | मध्ये शिवपदं ग्राह्य नवपदन्तत्र कारयेत् || ८-७४ || एकैकपदमध्ये तु पंचविंशतिसंख्यया | कलशानि तथोक्तानि सहस्राणि दशावृतौ || ८-७५ || शिवाथिकं चाष्टसाहस्रं क्रमाद्वक्ष्ये महेश्वर || प्रथमे चैव बीजानि लोहानि च द्वितीयके || ८-७६ || त्रितीये चैव रत्नानि चतुर्धे धातव क्रमात् | पंचमे पंचगव्यानि षष्ठे चैव फलोदकम् || ८-७७ || प्. १६९) गन्धाद्योषधयस्सर्वे सप्तमे च प्रकीर्तिताः | मृदं भश्चाष्टमे चैव काषायां भस्ततः परम् || ८-७८ || दशमे चैव पुष्पांभश्चेकैकन्तु शृणु क्रमात् | रत्नानि पञ्चगव्यान्तं पूर्ववत् स्थापयेच्छुभम् || ८-७९ || पञ्चावरणमेवोक्त्रं षष्ठमावरणं शृणु | कदलीबिल्व पूतञ्च मातुलुङ्गञ्च दाडिमम् || ८-८० || नालिकेरञ्च नारङ्गं तथा पनसमेव च | फलोदकानि चेतानि तच्चाष्टावभिधीयते || ८-८१ || प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् | कलशानि तथा चैव चतुर्विंशच्चतोरणम् || ८-८२ || प्रत्येकमर्चयेत् तानि पवमानेति मन्त्रतः | गन्धाद्योषधिभिश्चैव सप्तावरणकं शृणु || ८-८३ || उशीरं चन्दनञ्चैव कर्पूरं जातिरेव च | शतपत्रन्तु श्रीदेवी विष्णुक्रान्तिः शतावरी || ८-८४ || गन्धाद्योषध यश्चाष्टौ चाष्टोत्तरशतानि च | तावत् संख्या तु विज्ञेयाश्चोपस्नानं विशेषतः || ८-८५ || द्वात्रिंशत् कलशं प्रोक्तं शतमेकं समाचरेत् | ओषधीनां लतानाञ्च वृक्षाणाञ्च फलानि च || ८-८६ || उक्तानाञ्चैव सर्वेषां मूलञ्चापि प्रगृह्यताम् | सप्तमावरणं प्रोक्तमष्टमावरणं शृणु || ८-८७ || दर्भमूले पर्वताग्रे सूकरस्य तु कर्षणे | वल्मीके वृषश्रङ्गाग्रे नद्यां पर्वतमस्तके || ८-८८ || समुद्रे च विशेषेण सङ्गृह्य च मृदष्टकम् | प्रत्येकं कलशेष्वेव सप्तत्रिपरिसंख्यया || ८-८९ || प्. १७०) ददकेन समापूर्य कुंभं बहूं रोदकम् | चत्वारिंशत् समायुक्त शतमेकं प्रकीर्तितम् || ८-९० || अर्चयेत् पञ्चमन्त्रेण नवमावरणं शृणु | चूतं वटञ्च पनसं न्यग्रोधो दुंबरे तथा || ८-९१ || अश्वत्थं चित्रकञ्चैव पनसं मथुकन्तथा | नवचूर्णञ्चैव वृक्षं विन्यसेद् वारिणा सह || ८-९२ || प्रत्येकं पूरयित्वा च सप्ततिं चतुरुक्तरम् | यावत् संख्या भवेत् तानि कलशेष्वन्तरोदकम् || ८-९३ || चत्वारिंशद्भवेच्चाष्टौ पदमेकं समावृतम् | अर्चयेत् पूर्ववत् तानि गन्धपुष्पादिभिः क्रमात् || ८-९४ || दशमावरणे पश्चात् पुष्पाणि क्रमशः शृणु | अर्कं पद्मञ्च बिल्वञ्च नद्यावर्तञ्च पाटली || ८-९५ || करवीरञ्चंपकञ्च नीलोत्पलमथाष्टकम् | इत्यष्टोत्तर सप्तत्यां कलशेषु यथाक्रमम् || ८-९६ || अष्टपुष्पाणि निक्षीप्य पूरयेच्छुद्धवारिभिः | तावत् संख्या भवेत् तानि गन्धपुष्पादिभि क्रमात् || ८-९७ || प्रत्येकं कलशानर्वान्वेष्टयेच्छुद्धवाससा | द्रव्येषु शतरुद्राश्च जलेतीर्थानि कल्पयेत् || ८-९८ || संस्थापयेन्नवविधं नेत्रमुद्रां प्रदर्शयेत् | मूर्ध्नोन्ते च नमस्कारं नमोन्तं बीजमध्यमम् || ८-९९ || नवधा स्नपने नैवमभिषेकं समाचरेत् | पूर्वोक्ते दक्षिणे पश्चाल्लिङ्गे वा वाहनादिके || ८-१०० || कुंभस्थं दक्षिणेशानं स्थापयेत् तु त्रिपादिके | कुंभमुद्वास्य शिरसा स्कन्धे वा धारयेत् पुनः || ८-१०१ || प्. १७१) ततो गत्वा गर्भगृहमुत्तराभिमुखः स्थितः | स्नापयेद् देव देवेशं मूलमन्त्रेण मन्त्रवित् || ८-१०२ || गणांबिकेति मन्त्रेण वर्द्धनीं पिण्डिकोपरि | तत् तत् स्थाने प्रतिष्ठाप्य पूर्ववच्च यथाक्रमम् || ८-१०३ || स्नान द्रव्यैर्यथा न्यायमुपस्नानन्तथैव च | स्थाप्य मन्त्रेण संस्नाप्य देवं दक्षिणमव्ययम् || ८-१०४ || कलशं वामहस्तेन धृत्वा दक्षिणपाणिना | गोश्रङ्गाग्र प्रमाणेन वारिधारां निपातयेत् || ८-१०५ || कलशैर भिषेकन्तु पृथक् पुष्पं प्रदापयेत् | स्नपनानाञ्च सर्वेषा मन्त्रे हारिद्रचूर्णकम् || ८-१०६ || पूर्ववत् सूजयेद् देवं शुद्धतोयाभिषेचनम् | कलशस्थापितां देवाः स्वस्वस्थानेषु पूजयेत् || ८-१०७ || बीजानामप्यलाभे तु यवनीवारसंग्रहम् | उक्तलोहानामभावे तप्तकाञ्चन कैर्युनम् || ८-१०८ || रत्नानामप्यलाभे तु मौक्तिकं ग्राह्यमेव च | धातूनामप्यलाभे तु हरितालं विशेषतः || ८-१०९ || तृणानामप्यलाभे तु दर्भमूलं परिग्रहेत् | वृक्षाणामप्यलाभे तु अश्वत्थचर्म संग्रहेत् || ८-११० || पुष्पाणामप्यलाभे तु गिरिपुष्पन्तु संग्रहेत् | एवं यः कुरुते मर्त्यो देवस्य स्नपनं महत् || ८-१११ || शिववत्*?डते नित्यं शिवलोके महीयते | स्नपनं नवधा प्रोक्तं प्रतिष्ठालक्षणं शृणु || ८-११२ || इति मकुटतन्त्रे क्रियापादे स्नपनविधिर्नाम अष्टमः पटलः || ८ || अथ मकुटे गर्भप्रतिष्ठाविधि पटलः || नवतालं तथा यामं सप्तताल समाश्रयम् | पञ्चतालं तथायामं त्रितालं वा महेश्वर || ९-१ || नवतालं ब्राह्मणानां सप्ततालं नृपात्मनाम् | वैश्यानां पञ्चतालञ्च त्रितालं शूद्रमेव च || ९-२ || लिङ्गं वा प्रतिमां वापि भित्तिचित्त्रमथापि वा | आयु श्रीपूष्टिवर्द्धिन्यो प्रतिमास्तु शिलामयाः || ९-३ || लोहजात् सर्वकामार्थाश्चेष्टकात् तेजसंभवेत् | सर्वदेव प्रतिष्ठां तु क्रमाद् वक्ष्ये महेश्वर || ९-४ || अङ्कुरार्पण पूर्वोक्तं मण्टपं पूर्ववत् कृतम् | चतुस्तोरण संयुक्तं तन्मूले कलशां न्यसेत् || ९-५ || पूर्वे तु तोरणे स्थाप्य रत्नत्रयं प्रपूजयेत् | राजतं याम्यदिक्संस्थं पश्चिमे मौक्तिकं तथा || ९-६ || प्रवालमुत्तरे स्थाप्य तोरणेषु प्रपूजयेत् | पूरुषादि च सद्यान्तं अर्चयेत् तु विशेषतः || ९-७ || पूर्वमेव तु यत् कुण्डं तस्य मध्ये तु यच्छिवम् | अर्चनं पूर्ववत् कृत्वा पूर्वोक्ते नैव होमयेत् || ९-८ || प्. १७३) सर्वद्रव्याणि होतव्यं प्रत्येवञ्च हृदाशतम् | पूर्णहुतिं तदन्ते तु यदस्येति च मन्त्रतः || ९-९ || नवाग्निषु तथा सम्यक् समिद्भिर्होममाचरेत् | पलाशञ्चशमीञ्चैव प्लक्षोदुंबरमेव च || ९-१० || अश्वत्थञ्च कपामार्गं बिल्वमर्कञ्च कुन्दकम् | इन्द्रादिशानपर्यन्तं नत्तद्देशे तु होमयेत् || ९-११ || होमान्ते पूजयेत् सम्यगाचार्यन्तु यथागुरुम् | प्रभाते स्थापनं कुर्यात् स्नानं कृत्वा तु देशिकः || ९-१२ || महाजालस्य मध्ये तु प्रतिष्ठामूर्तिमर्चयेत् | जलाधिवासकाले तु वर्णमन्त्रं समुच्चरेत् || ९-१३ || आचार्यं ब्राह्मकाले तु पूजयित्वा विशेषतः | पुण्याहं स्वस्तिवाक्यञ्च सर्वमङ्गलवाचकम् || ९-१४ || वीणा वेणु मृदङ्गैश्च शंखकाहल वाद्यकेः | गन्धं धूपविधिश्चैव मयूरच्छत्रचामरैः || ९-१५ || सुमुहूर्तेसु नक्षत्रे आचार्येच्छाऽथकालके | वर्णमन्त्रं संच्चार्य ध्यात्वा दक्षिणमव्ययम् || ९-१६ || प्रभाते स्थापनं कुर्यादवतीर्य शनैः शनैः | तदन्ते स्नपनं कृत्वा तत् तद् देवां समर्चयेत् || ९-१७ || शयनञ्चासनं यानं त्रिविधं कारयेत् पुनः | अर्चयेत् सर्वदेवांस्तु तत् काले ज्ञानमुद्रया || ९-१८ || तत् तद् देवा कृतिध्यानं तत् तन्मन्त्रं समुच्चरन् | मन्त्रन्यासं ततः कृत्वा पूर्ववत् पूजयेच्छुभम् || ९-१९ || प्रासादस्यार्द्ध भागन्तु सप्तधा परिकल्पयेत् | मध्यमं ब्रह्मभागन्तु दैविकन्तु द्वितीयकम् || ९-२० || प्. १७४) तदन्ते मानुषं ज्ञेयं पैशाचं महिमाश्रितम् | तत्र मध्ये स्थितं सद्भिः पादशैलं न्यसेत् ततः || ९-२१ || रत्न न्यास क्रमेणैव स्थापयेन्नवकोष्ठके | प्रथमे नवबीजञ्च नवरत्नं द्वितीयके || ९-२२ || धातु संघं त्रितीये च लोहानि च चतुर्थके | सर्वद्रव्व्याणि संशोद्ध्य ब्रह्मस्थाने निधापयेत् || ९-२३ || संग्राह्य बीजं पूर्वोक्तं सर्वदेवस्य मध्यमे | अंजनं माक्षिकञ्चैव आतपञ्चमनश्शिला || ९-२४ || हरितालञ्च लिङ्गञ्च श्यामङ्गैरिक सर्जकम् | ब्रह्मादीशान पर्यन्तं न्यसेत् सम्यग् द्यथाविधि || ९-२५ || सौवर्णं राजतं ताम्र मायसं तृपुसीसकम् | काम्स्यञ्च पित्तलञ्चैवाऽष्टलोहां न्यसेत् क्रमात् || ९-२६ || बीजानामप्यलाभे तु व्रीहिस्तत्र प्रशस्यते | धातूनामप्य लाभे तु हरितालं प्रशस्यते || ९-२७ || लोहानामप्य लाभे तु स्वर्णं तत्र प्रशस्यते | तत् तद् देवसुमन्त्रेण स्थापयेन्नवकोष्ठके || ९-२८ || गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव प्रदापयेत् | पूण्याहं वाचयेत् तत्र प्रोक्षयेच्चैव मन्त्रकैः || ९-२९ || वज्र चक्रञ्च पूर्वे स्यादूर्ध्वचकं तु दक्षिणे | पश्चिमे कालचक्रञ्च उत्तरेमुक्ति चक्रकम् || ९-३० || आग्नेययां विद्रुमाख्यं तु नै-ऋत्यां भूतचक्रकम् | वायव्यान्नील चक्रं स्यादैशान्यां शूलचक्रकम् || ९-३१ || पृथक् पृथग् यजेद्देवञ्चक्रावरणमर्चयेत् | आकृतिः सकलायां तु सा शक्तिरिति तन्मता || ९-३२ || प्. १७५) तदाकार स्थितं यत् तु निष्कलं सकलात्मकम् | निष्कलं सकलं सर्वं मिश्रमेवं प्रकीर्तितम् || ९-३३ || प्रतिष्ठापित देवानां तत् तद् देवी प्रतिष्ठिता | प्रतिष्ठा लक्षणं प्रोक्तं पवित्रारोहणं शृणु || ९-३४ || इति मकुटे तन्त्रे क्रियापादे गर्भप्रतिष्ठाविधिर्नाम नवमः पटलः || ९ || अथ मकुटे पवित्रारोपणविधि पटलः || पूर्वपूजा सृद्ध्यर्धं * * * पूरर्णार्थर्कणाम् | सर्वकर्मसुहिनेषु पूर्णार्धं कारयेद् बुधः || १०-१ || प्रभाते देवमावाह्य सर्वसंपतराय च | शिवपूर्णन्ततः कुर्यात् पवित्रारोहण क्रियाम् || १०-२ || आषाढे शुक्लपक्षे तु श्रावणे वा विशेषतः | नभस्ये चाश्वयुद्मासि कृष्णपक्षेऽथवा पुनः || १०-३ || द्वितीयादिश्चतुर्ध्यादिस्तधा षष्ट्यादि वा पुनः | द्वितीयादि चतुर्ध्यन्तं षष्ट्यादिर्वा विशेषतः || १०-४ || अष्टम्यादि दश्यम्यन्तं द्वादश्यन्तमतः परम् | चतुर्दशम्यन्तकं कुर्यात् पवित्रारोहण क्रियाम् || १०-५ || सप्ताहञ्चैव पञ्चाहं त्यहं वापिप्रकारयेत् | सप्तम्याञ्च त्रयोदश्यां रेवत्यां कार्तिकाह्वये || १०-६ || मृगशीर्षे च रोहिण्यां कारयेच्च पवित्रकम् | प्. १७६) शुद्धतोयेन पूतेन पूरयेन्नवकं घटम् || १०-७ || द्वादश प्रस्थ संपूर्णं तदर्धं पादमेव वा | सूत्रैः संवेष्ट्य सुद्धेन वाससा परिवेष्टयेत् || १०-८ || पञ्चरत्नानि निक्षिप्य रत्नाभावे हिरण्यकम् | सूत्रं प्रागेव सङ्ग्राह्यं निर्मितं द्विजकन्यया || १०-९ || अथवा निर्मितं नान्यैः क्षालयेद् भस्मावरिणा | त्रिसूत्रं कारयेत् पूर्वं तदपि त्रिगुणी कृतम् || १०-१० || एवं तु नवसूत्रेण पवित्रं कारयेच्छुभम् | वामादिशक्तयस्तत्र नवसूत्राथि देवताः || १०-११ || लिङ्गोत्सेध समायामं प्रासादस्य पवित्रकम् | हस्तमात्र समायामं पवित्रमिह शोभनम् || १०-१२ || सूत्रैर्विवर्द्धयेद् विद्वां नवधा तु पवित्रकम् | अथमत्रयमित्युक्तं नव षोडश विंशतिः || १०-१३ || पञ्चविंशद् द्वात्रिंशत् षट्त्रिंशं मध्यमत्रयम् | पञ्चाशत् सप्ततिश्चैव नवतिश्चोत्तमत्रयम् || १०-१४ || एतेष्वेवकं पवित्रन्ते संग्रहेत् तु महेश्वर | युवासु वासमन्त्रेण कारयेत् तत् पवित्रकम् || १०-१५ || तेषां मध्ये दशग्रन्धिर्दशानामथि देवताः | (तत् पवित्र विशुद्ध्यर्थं) नवसप्ताष्टपूर्वोक्तैर्ग्रन्धिं कुर्याद् विचक्षणः || १०-१६ || लोकपालाश्च ग्रंथी नामथि देवताः | तत् पवित्र विशुद्ध्यर्धं तद्रात्रावथि वासयेत् || १०-१७ || शालि तंडुल पुष्पाद्यैः स्थण्डिलञ्चतुरश्रकम् | संस्तीर्योपरि वस्त्रेण गन्धपुष्पादिभिः सह || १०-१८ || तस्योपरि चदर्भाणि संस्थाप्य शिवमन्त्रतः | वस्त्रोणाच्छाद्य शिरसा धूपयेद् धृदयेन तु || १०-१९ || प्. १७७) पवित्रं स्थापयेन्मध्ये सर्वगन्धानुलेपितम् | भस्मचन्दन मृच्चूर्णान्वारुण्यां दिशिविन्यसेत् || १०-२० || उदकञ्चोत्तरे भागे दन्तकाष्ठादिकं तथा | एतानि गन्धपुष्पाद्यैरर्चयेद् धृदयेन तु || १०-२१ || उत्तराच्छादनं कृत्वा दर्भैरुपरिदेशिकः | अङ्कुरार्पण पूर्वन्तु कर्तव्यमधिवासनम् || १०-२२ || स्नपनन्तु यथा शक्तिशिवाग्नौ तु विशेषतः | विशेषपूजनं कृत्वा नमस्कृत्वा शिवाग्रतः || १०-२३ || धूपदिपादिकं कृत्वा पायसान्नं निवेदयेत् | तत्र संपूज्य देवेशं ध्यात्वा तण्डव देवताम् || १०-२४ || गन्धैराच्छाद्य विधिवत् पुष्पैराच्छाद्य यत्नतः | दर्भैराच्छाद्य देवांश्च शूत्रैरावेष्ट्य बुद्धिमान् || १०-२५ || धूपदीपसमायुक्तं पूजयेद् वर्णमन्त्रतः | मयाकृतानि दानानि धर्माणि च व्रतानि च || १०-२६ || मन्त्राश्चैव क्रियास्तत्र बुद्ध्यादिकरणानि च | अनया पूजया सर्वाः संपूर्णाः सन्तु मे प्रभो || १०-२७ || देवायतं नमस्कृत्वा भक्तिप्रणयपूर्वकम् | मृद्भस्म दन्तकाष्ठादि त्रिचतुः सूत्रमाहरेत् || १०-२८ || मृदंपूर्वोक्त देशेषु संग्रहेत् तु महेश्वर | संग्रहेत् पूर्ववद् भस्म पालाशं दन्तकाष्ठकम् || १०-२९ || अथवा यज्ञवृक्षोत्थन्नवसप्त च संख्यया | कनिष्ठाङ्गुल नाहं तु द्वादशाङ्गुल दैर्घ्यकम् || १०-३० || हुत्वान्तेग्निं समारोप्य पवित्रं लिङ्गमन्त्रतः | प्. १७८) प्रभूतञ्चैव नैवेद्यं पञ्चवर्णैर्विशेषतः || १०-३१ || शिवग्नौ वर्णमन्त्रेण हुत्वान्तेऽग्निं समर्चयेत् | द्रव्याणि हृदये नैव होतव्यं व्याहृतीस्ततः || १०-३२ || होतव्यन्तु हृदाशक्तिर्ज्योतिः शक्तिगुणातिका | ज्ञानशक्तिर्जयाशक्तिर्योगानन्दाख्य शक्तिका || १०-३३ || भेदाधारात्म * * * * नवधास्मृताः | नामादिभेदाः संप्रोक्ताः द्वाराणाञ्च क्रमाच्छृणु || १०-३४ || सर्वेषां दक्षिणं प्रोक्तं श्रेष्ठवर्णमनुक्रमात् | पूर्वद्वारं प्रशस्तं च ब्राह्मणानां महेश्वर || १०-३५ || क्षात्रं तु दक्षिणद्वारं वैश्यानामुत्तरं तथा | शूद्रणां पश्चिमद्वारं विशेषं तु महेश्वर || १०-३६ || सर्वेषामपि वर्णनां दक्षिणद्वारमुत्तमम् | पञ्चब्रह्म षडङ्गैश्च पूर्ववन्न्य समाचरेत् || १०-३७ || नृत्तगेय समायुक्त रात्रौ निद्रां विवर्जयेत् | प्रभाते विधिवत् स्नात्वा सकलीकृत विग्रहः || १०-३८ || पर्यूक्षितानि पुष्पाणि पवित्राणि विसर्जयेत् | पूजनं पूर्ववत् कृत्वा देवेशं पिण्डिकान्वितम् || १०-३९ || त्रियंबकेन मन्त्रेण हुत्वान्तेऽग्निं समर्चयेत् | वह्नौ पवित्रमारोप्य परिषेकमथाचरेत् || १०-४० || सर्वावरण देवानां पवित्रं हृदयेन तु | अन्येषाञ्चैव देवानां दापयेच्च पवित्रकम् || १०-४१ || तर्त्रभ्यो देशिकेभ्यश्च तद्भक्तेभ्यश्च देशिकः | प्. १७९) शिष्येभ्यः परिचारेभ्यः दापयेत् तत् पवित्रकम् || १०-४१ || गन्धाद्यैश्चैव संपूज्य धूपदीपैर्विशेषत | प्रभूतञ्च हविर्दत्वा पायसान्नं प्रदापयेत् || १०-४२ || होमान्ते चैव कर्तव्यमाद्यन्तं मुनिभोजनम् | यथार्हं सर्वदानानि जनानां कारयेत् ततः || १०-४३ || वस्त्रैराभरणाद्यैश्चाऽचार्यं पूजयेत् ततः | ऊर्ध्वशैवादि शैवानामितरेषाञ्च भक्तितः || १०-४४ || विशेषाद्योगिनां दानं कुर्यात् तत्र स्वशक्तितः | संग्राह्य स्नपनं पश्चाद् देव देवस्य चाग्रतः || १०-४५ || एतानि वृतदानानि संपूर्णानि भवन्तु मे | एवं विज्ञाप्य देवाय समाप्य नियमं ततः || १०-४६ || पाशजलानि संछिद्यमोक्षं मेदा तु मर्हथ | इति विज्ञाप्य देवाय प्रणमेद् दण्डवत् क्षितौ || १०-४७ || नियमवृतस्य प्रान्ते तदासूत्राऽवरोहणम् | अवरोप्य पवित्राणि पुष्पाणि च विसर्जयेत् || १०-४८ || पूर्ववत् पूजनं कृत्वा प्रभूत हविषं ददेत् | दक्षिणामुखमासाद्य पूजयेत् तु नटेश्वरम् || १०-४९ || भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् | यागोपयुक्त द्रव्याणि संग्रहेद् गुरुदेवतः || १०-५० || वर्णमन्त्रेण जुहुयादाज्याहुति सहस्रकम् | यदस्येति च मन्त्रेण कुर्यादेकाहुतिं शुभम् || १०-५१ || अग्नेरालिङ्गनं कृत्वा नृत्तरूपं विचिन्तयेत् | पवित्रारोपणं प्रोक्तं योगध्यानक्रमं शृणु || १०-५२ || इति मकुटतन्त्रे क्रियापादे पवित्रारोपणविधिर्नाम दशमः पटलः || १० || अथ मकुटे योगध्यानविधिपटलः || यमनियमासनञ्च प्राणायामन्ततः परम् | प्रत्याहारञ्च ध्यानञ्च धारणाथ समाधिकम् (-थिकम्) || ११-१ || प्रथमं तु यमं प्रोक्तं द्वितीयं नियमं तथा | त्रितीयमासनं प्रोक्तं प्राणायामं ततः परम् || ११-२ || प्रत्याहारं पञ्चमञ्चद्ध्यानं वै षष्ठमुच्यते | सप्तमं धारणा प्रोक्तं समाधिश्चाष्टमं स्मृतम् || ११-३ || अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिगृहे || ११-४ || यमन्तु पञ्चधा प्रोक्तं नियमञ्च तत शृणु | शौचं सन्तोषकं तत्र (त्रत्र) तपस्वाध्यायमेव च || ११-५ || ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् | गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्द्ध चन्द्रकम् || ११-६ || वीरं योगासनं प्रोक्तं षड्विधञ्चासनं क्रमात् | प्राणायामञ्च पूर्वोक्तं प्रत्याहार क्रमं शृणु || ११-७ || इन्द्रियार्थेषु यत् कर्म प्रतिस्थानं व्यवस्थितम् | यावत् तावत् स्थिरीभूतं प्रत्याहारस्स उच्यते || ११-८ || आधारेषु च संकल्प्यं यथा ध्यान स्वरूपकम् | ध्यानमेवं विजातीयाद् धारणाञ्च ततः शृणु || ११-९ || आधारन्धारणं प्रोक्तमाधेयस्तु समाधिकम् | धारणा द्विविधा प्रोक्ता ध्यानस्यैव क्रमं शृणु || ११-१० || प्. १८१) आधाराधे संकल्पं धारं ध्यान स्वरूपकम् | ऊर्ध्वाधमधमं शून्यमधः शून्यं निरामयम् || ११-११ || सर्वशून्यं निराकारं समाधिश्चित्तकारणम् | योगाधार क्रमं वक्ष्ये विशेषेण महेश्वर || ११-१२ || नाभेस्तु चतुरङ्गुल्यमथस्तादग्निमण्डलम् | कदंब पुष्पवद् वर्णं चाष्ट पत्रं त्रिकोणकम् || ११-१३ || मूलधारमिदं प्रोक्तं द्वितीयं नाभिमूलकम् | भुजङ्गवलयाकारमष्टवर्तुलमेव च || ११-१४ || कुण्डल्याख्या महानाडी भानुमण्डलमुच्यते | हृदये कण्ठमूले वा तालुमूले ललाटके || ११-१५ || मूर्धस्थानेषु संकल्प्य ध्यायेत् पद्मानि पूर्ववत् | हृत्पद्मलक्षणं वक्ष्ये विशेषेण महेश्वर || ११-१६ || नाभौ तन्नालमेवं चाप्यूर्ध्व नालमथोमुखम् | कदलीपूष्पवत् पत्रमष्टपत्रं सकर्णिकम् || ११-१७ || आधार लक्षणं प्रोक्तमाधेयञ्च ततः शृणु | आधेयं यत्प्रयुक्तञ्च समाधीत्येव मन्त्रितः || ११-१८ || इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः | सुषुम्ना मध्यगा तत्र तन्मध्ये सुक्षिरं तथा || ११-१९ || जीवः प्राणसमायुक्तः तन्मध्येषु च सञ्चरेत् | ससञ्चरति तत्काले ह्याधारेषु व्यवस्थितः || ११-२० || संयुक्तं योगमाख्यातं संयोगञ्च समाश्रयेत् | मूलाधारेऽग्नि संयुक्तं संयुक्तो योगमभ्यसेत् || ११-२१ || योगाभ्यासेन तद्योगी चाग्निलोकमवाप्नुयात् | तदूर्ध्वे भास्करं ध्यात्वा रविलोकमवाप्नुयात् || ११-२२ || प्. १८२) चन्द्रं ध्यात्वा तदूर्ध्वे तु चन्द्रलोकमवाप्नुयात् | सदा नृत्तन्तु हृदये शिवलोके महीयते || ११-२३ || नादं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितः | तालुमूले स्मरेन् रुद्रं (न्रुद्रं) रुद्रमूले परेच्छया || ११-२४ || पादादिमूर्धपर्यन्तं व्यापकत्वेन तेजसा | भ्रुवोर्मध्ये परावारमीश्वरन्तं विचिन्तयेत् || ११-२५ || शिरोपरि भवेन्नृत्तं ध्यात्वा मध्ये महेश्वर | हृत्पद्ममध्यमे ध्यात्वा बिन्दुनादमनुस्मरन् || ११-२६ || चतुरङ्गुलमात्रेण दीपाकारन्तु चिन्तयेत् | शिरोपरि भवेन्नृत्तं ध्यात्वा मध्ये महेश्वर || ११-२७ || अणिमा महिमा चैव गरिमा लघिमा तथा | प्राप्तिः प्राकाम्यमीशित्वं वशित्वञ्चाष्ट सिद्धयः || ११-२८ || * * * * त्यजेत् स्थूलं अणुमात्रं शरीरतः | अणिमानं लभेद् यस्मादणिमेत्यभिधीयते || ११-२९ || सहस्रे वा तथा गत्वा मूलवर्णप्रभेदकम् | स्वच्छायां लभते यस्मात् तस्मात् तत्र प्रवेशयेत् || ११-३० || मानं मनोजवं कृत्वा पूज्यते स्थानवासिभिः | सम्यक् प्रपूजितो यस्मात् तस्मात् तमभिभावयेत् || ११-३१ || सर्वद्रव्यमनुप्राप्य प्राप्तिरेषा प्रकीर्तिता | प्राकाम्येषु शरीरेषु प्राणानां तु प्रवेशनात् || ११-३२ || सूर्यादि भवन प्राप्तिस्तदीशित्वमुदाहृतम् | यद् वशित्वं तु तत्रैव तद्वशिवं विधीयते || ११-३३ || शिवसायुज्य सामर्ध्यात् तच्छिवत्वमिति स्मृतम् | अणिमाद्यष्ट सिद्धीश्च लभेद् योगी विशेषतः || ११-३४ || प्. १८३) सालोक्यादिचतुष्कञ्च क्रमाद् वक्ष्ये महेश्वर | * * * * * * * * ध्यातालोकं तु संप्राप्तम् || ११-३५ || सालोकेन च संप्राप्तिः सालोक्यं तु विधीयते | तद् देवस्य समीपस्थं सामीप्यमिति चोदितम् || ११-३६ || तत् तद्रूपस्य संप्राप्तिः सारूप्यमिति विश्रुतम् | ज्ञानात् सायुज्यमेवोक्तं तोयेतोयं यथा तथा || ११-३७ || एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः | तस्माद् योगं समादाय सर्वदुख्खबहिष्कृतम् || ११-३८ || योगाद् ध्यानं सदा कृत्वा ज्ञानात् तन्मयतां व्रजेत् | ज्ञानात् स्वरूपं परमं हंसमन्त्रं समुच्चरन् || ११-३९ || प्राणिनां देहमध्ये तु स्थितोहंसः सदाशिवः | हंस एव परं नृत्तं हंस एव तु शक्तिकम् || ११-४० || हंस एव परं वाक्यं हंस एव तु वैदिकम् | हंस एव परोरुद्रो हंस एव परात् परम् || ११-४१ || सर्वदेवस्य मध्यस्थो हंस एव महेश्वर | कूटस्थो हंस एव स्यान्नात्रकेति व्यवस्थिता || ११-४२ || पृथिव्यादि शिवान्तन्तु अकाराद्याश्चवर्णकाः | मात्रकारहितामन्त्रार्दृश्यन्तेन तु कुत्रचित् || ११-४३ || हंसो ज्यातिरनौपद्यं मध्ये देहं व्यवस्थितम् | दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् || ११-४४ || सदा समाधीं कुर्वित हंसमन्त्रमनुस्मरन् | निर्मलं स्फटिकाकारं दिव्यरूपमनौपमम् || ११-४५ || मथ्यदेशे परं हंसं ज्ञानमुद्रा स्वरूपकम् || इति मकुटे तन्त्रे योगपादेधोग लक्षणविधिर्नाम एकादशः पटलः || ११ || अथ मकुटे आचार्यलक्षणविधिपटलः आचार्यलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर | ऊर्ध्वशैवकुले जातः समर्धः सगुरुः स्मृतः || १२-१ || शिवशास्त्रार्थ तत्वज्ञो ज्ञानशास्त्र विशारदः | सर्वावयव संपूर्णः सर्वलक्षणलक्षितः || १२-२ || शिखीवा मुण्डितो वाऽपिजटिलोवा विशेषतः | गृहस्थो ब्रह्मचारी वा भौतिकब्रह्मचारिणः || १२-३ || क्रियादि ज्ञानपर्यन्तमेक तन्त्ररतः शुचिः | क्रिया वां निपूणः सत्य सर्वादाय समन्वितः || १२-४ || आचार्यो यो महाशास्त्रे निपुणोऽत्र न संशयः | तदणु प्रायतत्वज्ञमाचार्यं परिकल्पयेत् || १२-५ || अशास्त्रानङ्गहीनांश्च अयोग्यान् प्रच्युतानपि | नास्तिकानन्त स्वारङ्गविशाक्षान् ज्ञानहीनकान् || १२-६ || विषमान्नृण कर्माणो बालांश्च परदारगान् | सन्न्यासिनस्तथा तद्वच्चित्तां श्चान्नवृते स्थितान् || १२-७ || परापवादशीलांश्च निर्दयांश्चाति तर्ककान् | अतिदीर्घानति हृस्वांश्चाति स्थूलान् कृशां तथा || १२-८ || विकटदन्तान् कुनखान्विकटपादांश्च चापलान् | विशिष्ट * * * * * * * जरठान् म * * || १२-९ || बलहीनात्मकां दुष्टान्वैदिकाचार हीनकान् | अत्याचारान्नङ्ग हीनां वर्जनीयास्तु ते सदा || १२-१० || अतिमोहन कुर्वन्ति सन्त्यज्य तु कदाचन | आचार्य लक्षणं प्रोक्तमूर्ध्वचक्र विधिं शृणु || १२-११ || इति मकुटे क्रियापादे आचार्यलक्षणविधिर्नाम द्वादशः पटलः || १२ || ########### END OF FILE #######