#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00525 Uniform title: makuṭottararahasya Main title: mantrayogoddhāra Secondary title: chapter 3 of makuṭottararahasya Manuscript : IFP transcript T00164 Description: A description of how to draw a yantra called śrīsabhā and the placement of the deities around the central couple, that is, the dancing śiva as Cidambara and his consort. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 12,2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. २) || मकुटोत्तररहस्यम् || हरिः ओम् || श्रीपार्वत्युवाच- चिदम्बर महानन्द नट नृत्त प्रदर्शकम् | रहस्याणां (नां) रहस्यं हि यन्त्रं पञ्चाक्षरस्य तु || १ || आवयोश्चक्र संयोगं पृथक्त्वं च मम प्रभो | नित्यं हि लोक रक्षार्थं यन्त्रं रक्षाकरं मम || २ || यन्न कस्य चिदाख्यातं तत्पदं ब्रूहि तत्वतः | ईश्वर उवाच- श्रीसभाख्यं महायन्त्रं मम रूपप्रदर्शकम् || ३ || रहस्यानां रहस्यं तु चक्रं देवि त्वदात्मकम् | अहं पञ्चाक्षरं साक्षात् त्वं तु पञ्चदशाक्षरी || ४ || अहं नवाक्षरं साक्षात् त्वञ्च देवी नवात्मिका | आवयोश्चक्रसमेलं विष्ण्वादीनाम गोचरम् || ५ || तव स्नेहात् प्रवक्ष्यामि चक्रं प्रस्तारलक्षणम् | मानञ्च चक्रयोगञ्च पृथक्त्वं च विशेषतः || ६ || मन्त्रयोगं महागौरी सावधानमनाः शृणु | स्थानं चिदम्बरं प्राप्य प्रासादं मन्त्र विहम् || ७ || ठे Yअन्त्र इस् द्रwन् अन्द् wओर्शिप्पेद् इन् चिदम्बरम् (वेर्से ७), wहिछ् इस् थुस् प्रोबब्ल्य wहेरे इत् wअस् रेदच्तेद्. प्रविश्योदङ्मुखो भूत्वा गुरुं ध्यात्वा समाहितः | ध्यायं चिदम्बरप्रसन्नात्म दर्पणे प्रतिबिम्बवत् || ८ || प्. ३) ध्यायन् ध्यायेत् तथा गौरीं निर्मलेचित्त दर्पणे | गन्धादिभिरलं कृत्य स्वदेहं मन्त्र विग्रहम् || ९ || चित्ते चिदम्बरं शुद्धं निर्मले तत्र विग्रहम् | आनन्दममलं नित्यं नृत्यन्तं मां महेश्वरी || १० || वामभागे स्वतन्त्रस्थां चिद्रूपां सर्वसाक्षिणीम् | त्वां देवि मनसाभ्यर्च्य सोडशै रूप चारकैः || ११ || चित्तभित्तौ यथा देवी प्रासादोत्तरपार्श्वतः | मायात्मिक महाभक्ति प्रासादा वृत्तिके प्रिये || १२ || नित्यं हि लोकरक्षार्थं सकलीकृतविग्रहम् | महाहृदयमध्यस्थां नृत्तमूर्तिं परां शिवाम् || १३ || [तावकं मामकं देवि यामले च स्वतन्त्रके || १३ ||] दृष्ट्वा सम्यग् गुरो दृष्ट्वा प्रस्थारं मन्त्रविग्रहम् | * लिखेत् चक्रे च विधिवदावयोश्च वपुः प्रिये || षण्णवत्यङ्गुला यामा विस्तारं चापि तत्समम् | ब्रह्मसूत्रञ्च वृत्तञ्च कृत्वा पूर्वं प्रसन्नधीः || चत्वारीशांशकं कृत्वा सष्ट तन्मध्यमं प्रिये || १६ || वेदात् मूर्ति देवी च दिधिश्चाहु गुण तव | स्वन्तन्त्रमाद्यमपरं यामलं तु शिवात्मकम् || १७ || स्वतन्त्रं द्विविधं प्रोक्तं द्विसप्रत्यंगुलात्मकम् | देवी मालं कर्णिका स्वा दशधासंविभज्यताम् || १८ || देवी स्तुतो मे गंगा वल्लीस्तुतेति यथा क्रमम् | पातयन्नव सूत्राणि नवानां पार्श्वयोः मृजेत् || १९ || आद्यन्ते च तदन्तस्थे तदन्तस्थेन मध्यमे | मध्यमं च तथातोयं गुणभागं यथा मृजेत् || २० || चतुर्थे नवमी चैव पञ्चमी च तृतीयगा | द्वितीया नवमी स्पृष्ट्वा || षष्ठी द्वितीयगा चास्याद् अष्टमी प्रथमा गत || २१ || सप्तमि वृत्त शेशस्वाच्छक्तयः पञ्चमीरिता | प्रथमा सप्तमस्पृष्ट्वा चतुर्था चष्टमांगता || २२ || द्वितीया नवमी स्पृष्ट्वा तृतीयावृत्तगस्तथा | इत्येवं कर्म सूत्राणी योजयेत् सूत्रपार्श्वयोः || २३ || एवं चरो वह्निं मध्यमालोच्य विन्यसेत् | वृत्तं स्पृष्ट्वा षडश्रन्तु तदस्पृष्ट्वाष्टकं प्रिये || २४ || मध्यत्रियश्रंमध्ये तु तिर्यक् कर्णगतानि च | (द्यन्ते च तद?) सूत्राणि पातयेद्देवि षोडशाश्रं यथा क्रमम् || २५ || चतुर्दशारकं चैव दशारद्वयमेव च | अष्टाश्रञ्च त्रियश्रञ्च सिद्धित्वे च न संशयः || २६ || एवन्तु तव चक्रस्य रचनां परमेश्वरी | विरच्य तव चक्रन्तु मम चक्रं ततो परि || २७ || षण्णवत्यंगुलायामं विस्तारं चापि तत्समम् | चतुरश्रसमंकृत्वा द्वात्रिंशतिरीशकम् || २८ || विभज्य पादयोदौ चतुर्थांशके समे | प्. ४) सूत्राणि परितः प्राज्ञः तदन्तश्चतुरश्रकम् || २८ || अष्टादशांशकं कृत्वा तन्मध्ये विभजेत् प्रिये | कलांशमूर्ध्वता कृत्वा तिर्यक् सप्तदशांशकम् || २९ || सूत्राद्दक्षिणमारभ्य नवमं मध्यमं भवेत् | सूत्रात् पश्चिमारभ्य नवमं मध्यमं भवेत् || ३० || विभागे नैव सूत्राणि ताडयेदमुनैव तु | मध्यतो दिक्पदे षट्के सार्धे तन्मण्डलं भ्रमेत् || ३१ || तद्बाह्येक पदे सार्धे भ्रामयेन्मण्डलं प्रिये | तद्बहिस्त्रिचतुः पञ्च चाङ्गुलैर्मण्डलद्वयम् || ३२ || अन्तर्मण्डलकाले तु पादार्धेनैव मण्डलम् | मण्डलत्रय मध्ये तु मण्डलन्तु परिभ्रमेत् || ३३ || मण्डलत्रय मध्यस्थ शाखाश्च परिमार्जयेत् | नवखण्डा यथा भूमिर्न च खण्डात्मकं तथा || ३४ || महावीथ्यां मध्यखण्डं मही हृदय पङ्कजम् | कोणस्थ चतुरश्राणि व्यूहार्थं परिकल्पयेत् || ३५ || विभज्य पञ्चघातानि चतुस्सूत्राणि मध्यतः | तिर्यक् पञ्च सदा उचन्त्वग्न्यादीशान्तकेषु च || तेषु कोष्ठेषु विलिखेत् अग्न्या दीशान्तकेषु च || व्यूहेषु पञ्च पञ्चार्णानुपदेश विधानतः | शिकारञ्च नकारञ्च यन्मया परिकीर्तितम् || ३७ || यम वारि नकारञ्च पाशि प्रणवमेव हि | तस्य मध्ये नकारञ्च यकारञ्च मकारकम् || प्. ५) न च पञ्चात्मवा लिख्य शिकारं तु ततो न्यसेत् | म वाशिनेय इत्याहु राग्नेयं पञ्च पञ्चकम् || ३९ || अथ वक्ष्ये विशेषेण विधिना नैर्-ऋतं दलम् | यञ्चमञ्च शिवानञ्च न च वामशिकं तथा || ४० || शिवाय नम इत्याहुर्मशिनोश्च य वौ तथा || वकारञ्च नकारञ्च मशिवन्तेष्वनु क्रमात् || ४१ || नैर्-ऋतं दलमित्येवं श्रीगुरुस्संप्रदायतः | अथवक्ष्ये च वायव्यां मनुग्रहमिदं गुरोः || ४२ || मवाय न शिकारन्तु यनवाशि म एव च | नम शिवाय पश्चात्तु वकार शिमयं न च || ४३ || शिकारञ्च यकारञ्च नवमास्तेष्वनुक्रमात् | अवग्रहमिदं प्रोक्तं वायव्यां पञ्चपञ्चकं || ४४ || शिकारञ्च नकारञ्च मयवा परिपूरितम् | नम शिवाय पश्चात्तु मकारञ्च यकारकम् || ४५ || मध्ये प्रणवमालिख्य तन्मध्ये नं लिखेत् सुधीः | वाशिद्वौ च पत्यो न्यस्य वाकारं मशियन्न च || ४६ || शिवाय नम इत्यन्तं ईशानं पञ्चपञ्चकम् | ताडयेदुप सूत्राणि तिर्यगूर्ध्वञ्च मध्यतः || ४७ || दक्ष भूत पदे पादे षष्ठे चैवर्द्धपादके | (ऊर्ध्व सूत्राणि चैतानि) सप्तमस्य त्रिभागे तु नवमे दशमर्द्धके || ४८ || प्. ६) ऊर्ध्व सूत्राणि चैतानि पश्चादारभ्य विन्यसेत् | पञ्चमस्य चतुर्थांशे सप्तमे चाष्टमर्द्धके || ४९ || अष्टांशे चार्द्धके चैव दशमस्य पदे पुनः | त्रिभागैक पदस्यैव चतुर्दश पदस्य च || ५० || एवं दक्षिणतस्तिर्यक् सूत्राणि क्रमशोलिखेत् | दक्षभूत चतुर्थांशे चोत्थितार्घ्यग्रक स्थितः || ५१ || डोलाङ्गुष्ठाग्रकञ्चैव कूर्पटावधिरेव च | मणिबन्धाभ्यन्तरं चैव पाणे डमरुकस्य हि || ५२ || षष्ठेर्द्ध पादसूत्रे तु उद्धृतां व्योस्तु गुल्फकम् | मणिबन्धं लम्बपाणे प्रती चैव वरानने || ५३ || उद्धृताङ्घ्रिक जान्वोस्तु निप्रं सप्त पदादिके | अभयस्य करस्यैव मणिबन्ध तलावधि || ५४ || सप्तमस्य त्रिपादस्यास्स्थित जानोस्तु निष्टतकम् | स्थिताङ्गुलाग्रकं वामेऽभयाङ्गुष्ठावधि प्रिये || ५५ || गुल्फ हिक्का प्रभामध्यं नवमारब्ध सूत्रके | नवमस्वर्त्थके सूत्रे स्थित पार्ष्ण्यावधि स्थितम् || ५६ || डोला कक्षावधिर्वामे नेत्रे बाह्यावसानकम् | दशमारब्ध सूत्रे तु तद्धस्तस्तल मद्ध्यमम् || ५७ || कुञ्चिताङ्गुलकोर्ध्वन्तत् पार्ष्णिभ्यामन्तरं पुनः | अष्टमस्यार्ध भागे तु स्फिक् पिण्डावपुर्यथा || ५७ || दशमार्द्धक सूत्रे तु द्विवाकूर्परयोस्थितम् || कुञ्चिताम्म्रक जान्वर्द्धं नाभिञ्चैव वरानने | (एवं सूत्रोद्भवं कृत्वा विशेषान्तञ्च शास्त्रतः || ५७ ||) द्वादश्य त्रिभागे तु हिक्का च मणिबन्धकौ | त्रयोदशार्ध सूत्रे तु चक्षुषोर्मध्यमं प्रिये || ६० || चतुर्दशत्रिभागे तूष्णीशावधिरूर्द्ध्वतः | एवं सूत्रोद्भवं कृत्वा विशेषान्तं च सूत्रतः || ६१ || अन्तर्मण्डल मूतु वह्निरश्मिप्रभा प्रिये | त्रिसप्तकृत्वो देवेशि रश्मयश्व प्रदर्शयेत् || १ || वर्णान् वा पुष्पिकां वापि सवर्णापुष्पिकाऽथवा || २ || प्रादक्षिण्य क्रमेणैव विलिखेद्बाह्यमण्डले | एतच्चक्रं महागौरि ममरूप प्रदर्शकम् || ३ || एवं संयोज्यमच्चक्रं महीहृदय मध्यतः | शिल्पिना शास्त्रमार्गेण कार्यं प्र अंगपूरणम् || ४ || मामकं यामलं प्रोक्तं स्वतन्त्रातावकं प्रिये | सर्वदेवात्मकं पद्मं प्रभावलयम्मूलिगम् || ५ || कन्दनालमयं चैव केसरं कर्णिकां क्रमात् | सर्वादि पञ्चकोपेतं मन्त्र श्रुति समन्वितम् || ६ || विलिख्य कार्णिकाभासं पद्ममष्टदलं प्रिये | एतत् पद्मं महादेवि मन्त्राब्जपरिकल्पितम् || ७ || प्रणवं कर्णिका मध्ये न्यसेन्मायाक्षरं बहिः | द्वाविंशतिश्च रेखाः च मध्ये प्रणव वामयोः || ८ || प्. ८) तेषु कोष्ठेषु विलिखेदेकमेकं प्रदक्षिणम् | षडक्षरं तु विन्यस्य प्रासन्तु षडक्षरम् || ८ || वाशिनमय वाशिश्च नमयञ्च सतारकम् | नम शिवाय इत्येवं प्रणवान्तां पुनः प्रिये || ७० || पूर्व प्रणव मध्ये तु शिकारममायाया व्रतम् | परिपञ्चाक्षरं न्यस्य मध्ये प्रणवमालयोः || ७१ || एवं विन्यस्य मन्त्राब्ज मब्जस्योपरि न्यसेत् | पदत्रयेऽपि मायार्णं मायारूप तप स्मृतिः | २ || सत्यं हि लोक लक्षार्थं तन्मयाधिष्ठितं प्रिये | तत्तत्स्थाने यथायोगमुल्लिखेन्मन्त्र विग्रहम् || मूर्द्धादि पाद पर्यन्तमङ्ग प्रत्यङ्गकेऽपि च | अकारादि क्षकारान्तं प्रणवादि नमोन्तकम् || ४ || संयोज्य विन्यसेद्देवीमाम्रकान्तां महामनुम् | विन्यसेद्गुप्तमन्त्रस्य प्राणमन्त्रं नवाक्षरम् || ५ || पञ्चार्णानुक्तमार्गेण तत्तत्स्थाने प्रविन्यसेत् | अंगुष्ठे तु यकारः स्यात् वाकारं तर्जनी न्यसेत् || ६ || शिकारं मध्यमाङ्गुल्यां मकारं स्यादनामिके | कनिष्ठे तु न रौतं स्यात् सृष्टिमार्गेण चेश्वरी || ७ || अंगुष्ठादि कनिष्ठान्तं पञ्चार्णं पादपाणिषु | गुल्फपाण्योश्च जंघे च जान्वोरू गुह्य देशके || ८ || षडक्षराणि विन्यस्या दधाने कटिपृष्ठके | कुक्षौ नाभौ यथा योगं समं यं प्रणवं प्रिये || नाभौ शिवौ तु विन्यसेत् स्तनौ उरसि पाणिषु | बाहू कूर्परदेशे तु मणिबन्धे महेश्वरि || ८० || न य मा तु शिवौ देवी विन्यसेत् सूक्ष्म पञ्चकम् | मकारं च यकारञ्च शिकारं सूक्ष्मपञ्चकम् || १ || नवौ तु विन्यसेद्देवी दक्षिणाग्रकराग्रके | डमरुं वलयश्चैव तन्तु यत्तु कटिक्रमात् || २ || भान्तमाद्यं वपूर्वञ्च शिवायेति यथा क्रमम् | नयो नमवोयेति वामे चोर्द्ध्वे कराग्रके || ३ || जालाके खे युतं वह्निं मम ज्योतिप्रकाशकम् | कण्ठे कर्णास्थि गास्ये तु नासाग्रे च यथा क्रमम् || ४ || नम शिवाय नेत्रेषु श्रोमो मूर्ध्नि यथा क्रमम् | आद्यं शिवं भ्रुवोर्मध्ये मध्ये हंस सुदीप्तकम् || ५ || अं प्रत्यंगके * * न्तं न्यसेद्बिन्दु युतं प्रिये | द्वादशार्णं जटाजूटे गंगा माया वामके || ६ || धूर्धूरं बिल्व पञ्च लंकृत्यक्षर द्वयं न्यसेत् | जान्तं नृत्यञ्च संयुक्तं चन्द्रखण्डं च दक्षिणे || ७ || शक्ति त्रयमपस्मारं स्थित सन्ध पद त्रये | शिरो ललाटे भ्रूमध्ये गण्डोष्ठ गल दृक्सु च || ८ || गुप्तमन्त्रं न्यसेद्देवि नाभ्या घाटोरुपत्सु च | पार्श्वयोर्हृदये कण्ठे जठरे पदयोर्हनौ || प्. १०) मुखे भ्रुवोर्ललाटे च प्राणवर्णं न्यसेत् प्रिये | अनुलोम विलोमेन हंसं हृदय पार्श्वके || ९० || आधारे हृदये लिंगे जठरे पाद मूलयोः | न्यसेन्नवात्मकं देवि कर्णे वक्षसि बैन्दवे || १ || येषु स्थानेषु विन्यस्य ममांगेऽपि नमात्मकाम् | मालाश्च विन्यसेद्देवी कर्णे साक्षान्महामनुम् || २ || एवं विन्यस्य मन्त्राणां व्योमव्यापि पदे क्रमात् | प्रादक्षिण्य क्रमेणैव प्रभामूले तु विन्यसेत् || ३ || लिखेद्द्वादश विद्याश्च ममरूप प्रदर्शकाः | विन्यसेद्देवि मूले तु शिवायेति प्रदक्षिणम् || ४ || त्रिसप्त कृत्वो विधिषु पञ्चकेषु परेषु च | दक्षिणां विथिमारभ्य प्रादक्षिण्य क्रमाल्लिखेत् || ५ || हरि हरेत्यभिमुखं ततो वारुण पञ्चकम् | ह्रीं श्रीं ऐं हं सश्चेत्युत्तरेषु पदेषु च || ६ || लवरयह इत्येवं पूर्वकेषु पदेषु च | नम शिवाय मन्त्रेण लवरय हा क्षरम् लिखेत् || ६ || जीवाक्षरेण संयुक्तं चतुर्दिक्षु प्रपूरयेत् | [अ इ उ ए ओ इति जीवाक्षरम्] श्रीं ह्रीं ऐं क्लीं हं सश्चेति लिखेत् क्रमात् || ८ || एवं विन्यस्य मन्त्राणां ममाङ्गेऽपि मदात्मके | चक्रे च मार्जयेद्देवी ममाङ्गस्य बहिः स्थिताः || ९ || प्. ११) रेखाश्च मार्जयेच्छक्ति चक्रदेवी तदात्मकम् | वामभागे स्वतन्त्रस्यां नृत्तालोकनलीलया || १०० || शिवकामां परां देवी शिवकामस्य सुन्दरीम् | अथवा यामले वामे प्रभावलय मध्यगाम् || १०१ || त्वाञ्च माञ्च यथा तत्वं ज्ञात्वा गुरुमुखात् प्रिये | आलयोश्चक्र संमेलं मन्त्रयोगञ्च तत्वतः || १०२ || आगमोक्तेन मार्गेण येर्चयन्तीहमानवाः | तेषां हि भक्ति मा नित्यं मुक्तिदा दर्शन प्रिये || १०३ || जानामि तव रूपञ्च जानासि मम रूपकम् | मन्त्रार्णवा महादेवि मन्त्रक्षीरार्णवोद्धृतम् || १०४ || चिदम्बर नटश्चेति मन्त्रराजं सदा जपेत् | इदं रहस्यं पापघ्नं भुक्तिदं मुक्तिदं प्रिये || १०५ || तस्मात् सर्वं परित्याज्य मन्त्रराजं सदा जपेत् | गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् || १०६ || पुत्राय पुत्र तुल्याय धार्मिकाय दृढाय च | दक्षिणाय विशुद्धाय दातव्यं हि सदात्मने || चिदम्बर रहस्यार्थं अविज्ञाय सुदेशिकाः | कृतेत्वनर्थ धा(दा) देवी कुशलेन विपश्चिता || तस्मात्सर्वप्रयत्नेन ज्ञातव्यं देशिकोत्तमैः || || इति श्रीमकुटोत्तररहस्ये मन्त्रयोगोद्धारे तृतीय स्पन्दः || ########### END OF FILE #######