#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E0009 Uniform title: matatrayaikyaprakāśikā Author : aiyyaṇācārya Manuscript : IFP transcript T0582 Description: IFP transcript 582 copied from a ms (tr 275, 38-a-21) belonging to adyar library, madras The Revelation of the Oneness of the Three Views by aiyyaṇācārya. This treatise proposes that the three Views i.e. śaiva vaiṣṇava and the Non-dualist Vedānta of the upaniṣads essentially teach the same non-dual reality. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### श्रीः || मतत्रयैक्यप्रकाशिका || || ऐययणाचार्यविरचिता || || अविघ्नमस्तु || जानकीवल्लभं वन्दे वल्लवीजनवल्लभम् | शुद्धबुद्धिप्रदातारं श्रुतिस्तोम प्रविस्तृतिम् || अज्ञानतिमिरादित्यं दैत्यवक्षोविदारिणम् | नमामि वेङ्कटाधीशं निखिलाभीष्टदायिनम् || सज्जलज्जलजबन्धुं सुखतीर्थमुनिं नमामि हरिबन्धुम् | दुर्मतशिक्षणदीक्षं भक्तकटाक्षं जयार्य गुरुवर्यति | येन कृतः कृतिसारो येनैव कृतं तदुक्त युक्ति वैपुल्यम् | विद्वत्कुमुदविधुं तं व्यासमुनीन्द्रं नमामि विजयीन्द्रम् | दशमति मतजलधीन्दुं प्रणमाम्यनिशञ्च राघवेन्द्र गुरुम् | प्रतिमावाहित हरिसद्रूपमभीष्टप्रदञ्च रामार्यम् | रामपादाब्जमधुपं राघवेन्द्र कृपालयम् | वसुधेन्द्रमहं सेवे सदा विद्या गुरुं मम | ज्ञानवैराग्य भक्त्यादि कल्याण गुणशालिनः | लक्ष्मीनारायण गुरूनग्रजार्यां नमाम्यहम् | श्रीरामाचार्यतनय गोपालाचार्य नन्दनः | ऐणाख्यस्तनोम्येनां त्रिमतैक्य प्रकाशिकाम् | श्रीमन्महानन्दतीर्थ जयार्यव्यास देशिकैः | संक्षिप्य तत्र तत्रोक्तं लिंगं संगृह्य कथ्यते | श्रीरामानुजशंकरार्यमतयोर्मुख्य प्रमेयन्तु यत्तत्सम्यक् सुखतीर्थदेशिकमणेस्सिद्धान्तसाराभिधम् | प्. २) || मतत्रयैक्यप्रकाशिका || यच्चान्यं तदकिञ्चिदित्यनुमतन्यायैरलं साध्यं - तधीराणां त्रिमत्रैक्यदीपन कृतौ मोदाय वादाय च | विमत्सरा न्यायविदो मतसारार्थवेदिनः | सूरयो मम कृतिं दृष्ट्वा दयां कुर्वन्तु मययलम् || ननु त्रिमतैक्यप्रकाशिकां करोमीति प्रतिज्ञानुपपत्तिः व्याहतत्वात् एकत्वातिरिक्त संख्यायाः स्वसामानाधिकरणस्वाश्रयप्रतियोगिकभेदाक्षेपकत्वस्य पृथक् सन्निवेशित्वात् संख्यया कर्मभेदस्स्यादिति संख्याधिकरणन्याय सिद्धत्वात् तिस्र आहुतीर्जुहोति सप्तदशप्राजापत्यान् पशूनालभत इत्यादौ आख्यातपदस्य संख्यावाचकपदसामानाधिकरण्यात् सप्तदशसंख्याकं द्रव्यदेवता संबन्धभेदाच्च तावत्संख्याकभिन्नभिन्न यागा विधीयन्ते इति द्वितीये नर्हीतत्वात् प्रकृते मतानां तत्वसंख्यायास्स्वाश्रय भेदाक्षेपकत्वानियमे एकस्य बहुधोल्लेखोप्यसौ विषयभेदतः | गुरुर्वचस्यर्जुनोयं कीर्तिर्भीष्मश्शरासने | बहुभिर्बहुधोल्लेखोप्यसौ विषय भेदतः | स्त्रीभिः कामोर्थिभिस्स्वद्रुः कालश्शत्रुभिरैक्षिसः | इत्युल्लेखालंकारे व्यभिचारात् | जीवब्रह्मणोरैक्यं विशिष्टयोरद्वैतमित्यादौ व्यभिचाराच्च | द्वैकयोर्द्विवचनैकवचने इति द्विवचनस्य द्वित्वसंख्यावाचकत्वात् प्. ३) गुहां प्रविष्टो वात्मानौ हि तद्दर्शनात् | न संख्योप संगृह्यादापि नानाभावादतिरेकाच्च | ऋतं पिबन्तौ सुकृतस्य लोके यस्मिन् पञ्च पञ्चजना प्रकाशश्च प्रतिष्ठितः | आत्मान्तरात्मेति हरिरेक एव द्विधा स्थित इत्यादौ स्वमतेन व्यभिचाराच | अत्र यद्यपि त्रयाणां मतानां भिन्नभिन्न प्रमेयवत्वस्य सर्वसंप्रतिपन्नत्वेन मतैक्यस्य प्रमेयैक्य निबन्धनत्वेन तदैक्य प्रकाशो सम्भावितः तथाहि- एको नारायणो देवः स्वतन्त्रः पूर्ण सद्गुणः | अनिर्दोषो विभुर्जीवः जगतां कारणं स्वतः || अतो जीवजडादिभ्यो भेदो भगवतस्सदा | स्वीय धर्मादिभिन्नश्च मोक्षं याति सुनिश्चितः एकः समाभ्यधिकरहितः नारायणपदं व्याचष्टे | देवः स्वतन्त्रः पूर्ण सद्गुण इति | यद्यपि देव पूर्णसद्गुणपदे एव टीका रीत्या नारायणपदसमानार्थत्वात् व्याख्याने भवतः | तथापि तद्रीत्यैव नारामुक्ताः नारालक्ष्मीः | नारं निर्दोष वेदोत्पन्न ज्ञानं एतदाश्रयत्वम् | नास्वतन्त्रस्य संभवतीति अर्थलब्धं स्वातन्त्र्यं स्वतन्त्रपदेन व्याख्यातमित्यदोषः | स्वरूपप्रमृति प्रवृत्तिलक्षण सन्तोत्रैविध्ये परानपेक्ष इत्यर्थः | प्रत्येकं पूर्णाः निर्दोषाः ज्ञानादयो गुणा यस्येति विग्रहः एतेन अनेक प्रवृत्तिनिमित्त प्. ४) गुणलाभात् भगवतः सकल वैदिकपद वाच्यत्वं लभ्यते | अर्थलब्धमपि निर्दोषत्वं भगवतो लक्षणान्तरं पृथक्त्वमित्यदोषः | स्वत इत्यनेनोपादानमित्थं भूतप्रकृति कालाद्यधीनकर्तृत्वं निवारयति स्वतस्वेच्छामवेक्ष्येत्यनेन च कर्तृत्वमेवेति सूचयति | जगतामित्यनन्तरं यथायोग्यमिति शेषः | अत इति | सर्वस्य कार्यत्वादेवेत्यर्थः | सदेत्यनेन भेदः पारमार्थिक इति सूचितम् | स्वीयेति धर्मशब्दो गुणपरः | आदिशब्दः क्रियावयवावतानादिपरः तैरत्यन्तो भिन्न इत्यर्थः | तु शब्दो विशेषार्थः | स च सविशेषाभिन्नत्वरूपः सुनिश्चित इति श्रवणमनननिदिध्यासनापरोक्ष ज्ञानैस्सम्यग्विषयीकृतः प्रसन्नश्च भगवान् अधिकारिभ्यो यथा योग्यं मुक्तिं ददातीति | एतेन एकपदोक्तं सर्वोत्तमत्वं विवृतं भवति | तद्यद स्वतन्त्रं हि पारमार्थिकसत्यं तदबाध्यज्ञानगोचरं प्राक् प्रध्वंस सदात्वेन त्रिवृतोभावधिघृते भगवतः अन्यत्सर्वं सत्ता त्रैविध्ये परापेक्षं भगवतो ब्रह्मादीनान्तु अबध्यज्ञानविषयत्वात् पारमार्थिकसत्यत्वेति शेषः हि शब्देन अत्र प्रमाण प्रसिद्धिं द्योतयति | प्राक्प्रध्वंस सदात्वोपलक्षितो भावस्त्रिविध इत्यर्थः | चेतना चेतनत्वेन भावोपि द्विविधो मतः | मुक्ति योग्यतमो योग्यो नित्यसंसारिभेदतः | प्. ५) चेतनोपि त्रिधा ज्ञेयस्ते च भिन्नाः परस्परम् | सदा तरतमत्वं तु प्राप्तालिंगशरीरिणः | ज्ञानादिसाधनं प्राप्य स्वरूपानन्दतां ययुः | अत्र मुक्तियोग्यत्वं नम मुक्त्यन्ताभावानधिकरणत्वमेव विवक्षितम् | तेन रमाया अपि मुक्तियोग्यचेतने प्रवेश इति नानुपपत्तिः | सदेत्यनेन संसारे मुक्तौ च तारतम्यमिति सूचितम् | तु शब्दात् महालक्ष्मीव्यतिरिक्तानां सर्वेषां लिंग शरीरमिति विशेषस्सूचितो भवति | ज्ञानशब्देन मुख्यवृत्या श्रवणमनननिदिध्यासना परोक्षज्ञान भक्तयो गृह्यन्ते | लक्षणया प्रसादश्च आदिशब्देन अज्ञानमिथ्याज्ञानमिश्राज्ञानानि गृह्यन्ते | पूर्वोक्तमनतिक्रम्येत्यर्थः | नित्यं नित्यानित्यमिति ह्यनित्यं त्रिविधं मतम् | अचेतनं श्रुतिर्नित्या नित्यानित्यं त्रिधा मतम् | पुराणाव्यक्तकालाख्यमनित्यं द्विविधं मतम् | असंसृष्टञ्च संसृष्टमसंसृष्टं नभानभम् | बुद्धिर्मनः खानिदश मात्राभूतानि पञ्च च | संसृष्टमण्डं तद्गञ्च समस्तं संप्रकीर्तितम् | गुणत्रया जातिपूर्वा धर्मास्सर्वेपि वस्तुनः | रूपमेव द्विविधं तच्च यावद्वस्तु च खण्डितम् | खण्डितं रूपमेवात्राविकारोपि विकारिणः | कार्यकारणयोश्चैव तथैव गुणतद्वतोः | प्. ६) क्रिया क्रियावतोस्तद्वत्तथा जातिविशेषयोः | विशिष्टश्शुद्धयोश्चैव तथैवांशांशिनोरपि | इति नित्यं नित्यानित्यं अनित्यमिति अचेतनं त्रिविधं मतमित्यन्वयः | हि शब्देनात्रप्रमाणत्वसिद्धिं द्योतयति अत्र श्रुतिशब्देन पञ्चाशद्वर्णाः अव्याकृताकाशश्च ग्राह्याः | एते कूटस्थनित्याः पुराणान्यर्थतोनित्यानि वर्णपदवाक्यक्रमैरनित्यानि अव्यक्ततत्वं कारणरूपेण नित्यं महदादि कार्यरूपेणानित्यम् | कालः अखण्डरूपेण नित्यः | क्षणलवादिरूपेण अनित्यः | अनित्यमिति | असंसृष्टं संसृष्टञ्चेति अनित्यं द्विविधमित्यन्वयः | ब्रह्मादिजीवजातोनुपयोगित्वोपयोगित्वाभ्यां असंसृष्टत्व संसृष्टत्वे ज्ञातव्ये गुणेति | गुणक्रियादयो धर्माः द्विविधाः | यावद्द्रव्यभाविनः अयावद्द्रव्यभाविनश्चेति | तत्राद्या धर्मीत्यन्ताभिन्नाः अत्यन्तो भिन्ना भिन्नाः | उपादानोपादेययोः भेदा भेद एव | विशिष्टमपि यावद्वस्तुभाव्य यावद्वस्तु भाविभेदेन द्विविधम् | सत् क्वचिदत्यतो भिन्नं क्वचिद्भिन्ना भिन्नं चेतनांशांशिनोरत्यन्तो भेदः अचेतनांशांशिनोर्भेदाभेद इति ज्ञातव्यम् | इत्येवं श्रीमदानन्दतीर्थार्यमतसंग्रहः ऐयणाख्येन कथितोह्यनुगृह्णन्तु पण्डिताः | सजातीय विजातीय स्वगतान्यत्ववर्जितम् | प्. ७) समस्तोपाधिशून्यञ्च ज्ञानानन्दसदात्मकम् | उदासीनं निर्विशेषं चैतन्यैकरसात्मकम् | ब्रह्मैव परमं तत्वं ज्ञेयं श्रुत्यादिमानतः | अत्र एकमेवाद्वितीयमिति श्रुतिगतैकावधारणा द्वितीयपदानां स्वगतसजातीय विजातीय भेदवर्जितं ब्रह्मेत्यर्थः | पूर्वार्धेनाभिहितो भवति | केवलो निर्गुणश्चेत्यादिनासमस्तोपाधिशून्यत्वं सत्यं ज्ञानमनन्तं विज्ञानमानन्दं ब्रह्मेत्यादिना ज्ञानानन्दाद्यात्मकत्वम् | उदासीनवदासीनमसक्तं तेषु कर्मसु | ब्रह्मविदाप्नोतिपरम् एवं गजेन्द्रमुपवर्णितनिर्विशेषम् | रसो वै सः | रसं ह्येवायं लब्ध्वानन्दी भवति | इत्यादिना उदासीनत्वनिर्विशेषत्वैकरसत्वादीनि प्रमितानीति ज्ञातव्यम् | ब्रह्मैवेत्यनेन दिव्यो देव एको नारायणः | एको ह वै नारायण आसीत् | तदादिमध्यान्तविहीनमेकम् | विभुं चिदानन्दमरूपमद्भुतम् | उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | इत्यादिभिः | शिवनारायणपदापरपर्यायवाच्यस्य ब्रह्मण एकस्यैव परतत्वरूपत्वं ज्ञापितं भवति | तदावरणमज्ञानं भावरूपं गुणात्मकम् | समष्टिव्यष्टिभेदेन तमस्तद्विविधं मतम् | समष्टिरूपमज्ञानं मानैर्मायेति गीयते | उत्कृष्टोपाधिरूपं तत् शुद्धसत्वप्रधानकम् | तदुपाधिकचैतन्यं सर्वज्ञं सर्वकारणम् | सर्वेश्वरं सर्वगुणमन्तर्यामिणमीश्वरम् | प्. ८) सगुणं ब्रह्मजनंति वेदशास्त्रविशारदाः | तस्येश्वरत्वं कर्तृत्वं सर्वज्ञत्वादिकं तथा | मायिकत्वाञ्च मिथ्येति ज्ञेयं वेदान्तदर्शिभिः | अनृते नहि प्रत्यूढाः अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः | इत्यादि श्रुतिस्मृतयः | अज्ञानस्य ब्रह्मावारकत्वे प्रमाणम् | आश्रयत्व विषयित्वभागिनि निर्विशेषत्वतिरेव केवला | पूर्वसिद्धतमसोहि पश्चिमो नाश्रयो भवति नापि गोचरः || इति विवरणवाक्यमपि तत्रैव ज्ञापकम् | गुणात्मकमिति त्रिगुणात्मकमित्यर्थः | तत्र अजामेकां लोहितशुक्लकृष्णां देवात्मशक्तिं स्वगुणैर्निगूढा दैवीह्येषा गुणमयी मम माया दुरत्यया | इत्यादि श्रुतिस्मृतयः प्रमाणम् | तम इति अज्ञानमित्यर्थः | मानैरिति | इन्द्रो मायाभिः इत्यादिभिरित्यर्थः | उत्कृष्टोपाधित्वे हेतुः | शुद्धसत्वप्रधानकमिति तदेव विवृणोति तदुपाधिक चैतन्यमित्यादिना | अशुद्धसत्वमुख्यं तत् व्यष्टिरूपं तमस्तु तत् | तदुपाधिकञ्चैतन्यं जीवो नाम प्रकीर्त्यते | कल्प ज्ञत्वानीश्वरत्व भोक्तृत्वादिगुणैर्युतः | प्. ९) अन्तः करणचैतन्यं जीवः इत्यपि केचन | अशुद्धसत्वमुख्यमिति | मलिनसत्वप्रधानकमित्यर्थः | अन्यत्सुगमम् | ब्रह्मण्यधिष्ठिताजायाः परिणामविशेषवत् | ब्रह्मचैतन्य संबद्ध सञ्जातज्योतिराश्रयम् | नित्यापरोक्ष विज्ञान क्रियाशक्तिद्वयाश्रयम् | कर्तृत्व भोक्तृत्वपूर्वधर्माणामयनं सदा | अन्तःकरणमेतद्धि ज्ञेयं तच्छास्त्रवेदिभिः | कर्तृत्व भोक्तृत्व सुखदःखाद्यास्तद्गुणास्सदा | जपाकुसुमलौहित्यं भासते स्फटिके यथा | तथैव सन्निधानाच्च भासन्ते जीवनामके | अविद्यायाः परिणामविशेषे ब्रह्माधिष्ठितत्वं हेतुः | ब्रह्मचैतन्येति ब्रह्मचैतन्यसंबद्धो नाम चैतन्योपरक्तत्वं अत एव च नित्यापरोक्षं विज्ञानेतिविज्ञानशक्तिमाश्रित्य अहं कर्ता भोक्ता गच्छामीत्यादि व्यवहारभाग्भवतीति भावः | जीवनामक इति | जीवपदवाच्ये अविद्यावच्छिन्ने अन्तःकरणावच्छिन्ने वा चैतन्य इत्यर्थः | च शब्दः एवार्थः | अन्तःकरणसन्निधानादेव कर्तृत्वादिधर्माः जीवे भासन्ते | न तद्वतास्तात्विका इत्यर्थः | अविद्याहंकारयोश्च दृष्टाध्यासस्य सर्वदा | साक्षीनाम प्रत्यगात्मा विज्ञेयस्सूरिभिस्तथा | साक्षित्वमपि मिथ्येति ज्ञातव्यं शुक्तिरूप्यवत् | प्. १०) अविद्याहंकारयोः सर्वदाध्यासस्य द्रष्टा प्रत्यगात्मा साक्षी विज्ञेय इत्यर्थः | शुक्तिरूप्यवदिति | यथा शुक्त्याद्यारोपित रूप्याद्यध्यासो ज्ञानार्थरूपो मिथ्या तथा ब्रह्मण्यारोपिता विद्याहंकाराद्यध्यासोपि ज्ञानार्थरूपो मिथ्येति भावः | एवं स्थिते तु सिद्धान्ते विशेषः कश्चिदुच्यते | अविद्योपाधिकं ब्रह्म सर्वगं जीवनामकम् | तदज्ञानाहृतं केचित्तदनाहृतमूचिरे | वृत्तिसाहाययसहितं चैतन्यं जीवनामकम् | मतद्वये कथञ्चित्तद्विषये ज्ञापकं सदा | अन्तःकरण चैतन्यं जीवाख्यमिति यन्मतम् | तत्रार्थज्ञापकं ब्रह्म चैतन्यं सर्वगं तु तत् | हृत्ताकथञ्चित्सहितं ज्ञेयं सम्यग्विचारतः | वृत्तिस्वरूपं विज्ञेयं तदीय कृतिरीरितः | एवं विलासो विद्याया महान् ज्ञेयो विशारदैः | इतोप्यन्यो विशेषोस्ति ह्यविद्यायाश्च तं स्रुवे | शक्तिद्वयं च विक्षेपावरणाख्यं क्रियान्तरम् | मृखरज्वादि दृष्टान्तैर्ज्ञेयं शक्तिद्वयं ततः | अविद्या प्रतिबिम्बितं सर्वगतं अविद्यानावृतं ब्रह्मचैतन्यं जीवपदवाच्यं तादृशं ब्रह्मचैतन्यम् | अविद्यावृतं जीवपदवाच्यमिति मतद्वयम् | प्रथमपक्षे अनावृतम् | सर्वगतमपि जीवचैतन्यं असंगत्वेन स्वतो विषयाप्रकाशकमपि विषयाकारवृत्युपराग द्वारा प्. ११) तत्तद्विषयोपरागेण विषयप्रकाशकमिति युक्तम् | यथा वा गोत्वादिकं सर्वगतमपि सास्नादिमद्वत्यैवोपरज्यते प्रदीपप्रभावि आकारगन्धरसादि प्रदेशव्यापिन्यपि तानप्रकाशयित्वारूपि संसर्गितया तदेव प्रकाशयति | अग्निरपि | केवलः अदाहकोपि अयः पिण्डादिसमारूढो दाहको भवति | तथा कैवलचैतन्या प्रकाश्यस्यापि घटादेः वृत्युपारुद्घचैतन्यप्रकाशत्वं युक्तम् | द्वितीय पक्षेपि सर्वगतं अविद्यावृतं जीवचैतन्यं तत्तद्विषयाकारवृत्या तत्तद्विषयाविच्छिन्न ब्रह्मचैतन्यावरणाभिभवे स्वत एव विषय प्रकाशकं वृत्तिसाहाययसहितं कथञ्चिदित्यस्य इदमेव तत्पर्यं ज्ञापकं प्रकाशकमित्यर्थः | सदेत्यस्य सम्यग्विचारतो ज्ञेयमिति वक्ष्यमाणेनान्वयः | इत्थमेवेति शेषः | अन्तःकरणावच्छिन्नं ब्रह्मचैतन्यं जीव इति पक्षे विषयप्रकाशकं सर्वगतं ब्रह्मचैतन्यमेव जीवचैतन्यस्य तत्तज्जीवावच्छेदकान्तः करणीयतत्तद्विषयाकारवृत्या तत्तद्विषयावच्छिन्न ब्रह्मचैतन्यभेदाभिव्यक्तौ तत्तद्विषयप्रकाशः विषयानुभवस्य जीववाचित्वञ्च युक्तं वृत्या कथञ्चित्सहितमिति एतदपि व्याख्यातं भवति | वृत्तिस्वरूपमिति यथा तटाकोदकं छिद्रान्निर्गर्त्य कुल्यावर्त्मना केदारान्प्रविश्य तद्वदेव चतुष्कोणत्वाघाकारं भवति | तथा विषयेन्द्रिय संप्रयोगादिके सति सावयवं तैजसमन्तः करणं चक्षुरादिद्वारेण बहिर्निर्गत्यचक्षुर्वत् प्. १२) शीघ्रं दीर्घप्रभाकारेण परिणत्यविषयं ख्याप्य तदाकारं भवति | सेयं वृत्तिरिति विवरणादिग्रन्थतः वृत्तिस्वरूपं ज्ञेयमित्यर्थः | इतोपीति हि शब्दो हेत्वर्थः | अतस्तं ब्रुव इत्यन्वयः | अन्तरशब्दो विशेषवचनः | मेघरज्वादि दृष्टान्तैरितिततस्तस्य इत्यर्थः | यथा - अल्पोपि मेघः अनेकयोजनमायतं आदित्यमण्डलमवलोकयितृनयनपिधायकतया छादयति | तथा ज्ञानं परिच्छिन्नमपि स्वीयया शक्त्या परिच्छिन्न ब्रह्मचैतन्यमवलोकयितृ बुद्धिपिधायकतयाच्छादयति इयमावरणे शक्तिः | एवं यथा - रज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या सर्पादिकमुद्भावयति | तथाज्ञानमपि स्वीयया शक्त्या स्वावृतात्मनि आकाशादिप्रपञ्चमुद्भावयति | इयं विक्षेपशक्तिं तस्याः अविद्यायाः एतादृशं शक्तिद्वयं ज्ञेयमित्यर्थः | एतच्छक्तिद्वयोपेतमज्ञानं वर्णितञ्च यत् | तदुपाधिक चैतन्यं निमित्तं स्वप्रधानतः | उपादानञ्च भवति स्वोपाधेस्तु प्रधानतः | अनन्यत्वनयादूर्ण नाभिदृष्टान्ततस्तथा | यथोर्णनाभिः चेतनः स्वप्रधानतया निमित्तं स्वशरीरप्रधानतया उपादानञ्च तथा पूर्वोक्त मायाशब्दिताज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधानतया उपादानञ्च प्. १३) तदन्यत्वमारम्भण शब्दादिभ्यः | इत्यधिकरणे तथैव वर्णितत्वात् | एतदेव हि चैतन्यं अविविक्तञ्च यच्च तत् | वाच्यं वेदान्तगपदैर्ज्ञेयं श्रुत्यादिमानतः | विविक्तं शुद्धचैतन्यं तुरीयं लक्ष्यमेव हि | अविविक्तं अविद्याकार्य सर्वज्ञत्वादि विशिष्टमित्यर्थः | विविक्तमित्यस्य व्याख्यानं शुद्धचैतन्यमिति अत एव प्रवृत्तिनिमित्तगुणशून्यत्वान्नवाच्यं किन्तु लक्ष्यमेवेत्यर्थः | तुरीयमित्यनेन शिवमद्वैतं द्वैतं शिवं मन्यन्ते | इति श्रुतिप्रसिद्धिं सूचयति हि शब्देन यतो वाच इत्यादि श्रुतिप्रसिद्धिं द्योतयति | एतत्साक्षात्कारेण एव शब्दो मोक्षांगमीयते | श्रुत्यादिभिर्जायमानः शेषी भूता श्रुतिर्मता | मतियाने शेषभूते श्रवणस्य प्रधानतः | मोक्षस्त्वविद्या नाशस्स्यात् ब्रह्मात्मैक्यमतिस्तथा | सर्ववेदान्ततात्पर्य अखण्डे ब्रह्मणीति च | इतोप्यन्यत्प्रमेयञ्च ज्ञेयमस्त महत्तरम् | संक्षेपत्वात्कृते छास्यादस्माकमविरोधतः | इत्येवं शङ्कराचार्यमतसारार्थसंग्रहः | ऐयणार्येण कथितोह्यनुगृण्हन्तु सूरयः | वेदान्तविज्ञान सुनिश्चितार्थाः इत्यादिप्रमाणात् शब्दजन्यनिर्विशेष ब्रह्मापरोक्षज्ञानं मोक्षसाधनमित्यर्थः | श्रुत्यादिभिरितिश्रवणादिभिरित्यर्थः तत्रापि श्रवणमङ्गी शब्दप्रमाणत्वेन प्. १४) प्रधानत्वात् प्रमेयावगतिं प्रत्यव्यवधानाच्च | मनननिदिध्यासने तु तदंगे इत्यर्थः | मोक्षस्विति ऐक्यमतिः ऐक्यानुभव इति च ज्ञेयमित्यन्वयः अविरोधत इति अस्मत्सिद्धान्तप्रमेयस्यापाततोप्यवरोधादित्यर्थः | प्रमाया विषयो यस्तत्प्रमेयं द्विविधं मतः | द्रव्याद्द्रव्यप्रभेदेन द्रव्यञ्च द्विविधं मतम् | जडाजडप्रभेदेन जडञ्च द्विविधं मतम् | कालप्रकृति भेदेन ह्यजडं द्विविधं मतम् | प्रत्यक्परा प्रभेदेन प्रत्यक्च द्विविध स्मृतः | जीवेश्वरप्रभेदेन पराक्च द्विविधो मतः | धर्मज्ञानं नित्यभूतिरित्येवं विभजन्ति ते | कालादि नित्यभूत्यन्तं द्रव्यं षड्विधमीरितम् | एतेषां लक्षणं ज्ञेयं विभागश्च तदुत्थितः | प्रमेयमित्यनन्तरं तदित्यनुवर्तते | हि शब्देन अस्य प्रमाणप्रसिद्धिं द्योतयति | धर्मज्ञानं धर्मभूतज्ञानमित्यर्थः | कालः प्रकृतिः | जीवं ईश्वरो धर्मभूतज्ञानं नित्यविभूतिरिति द्रव्यं षड्विधमित्यर्थः | क्षणलवमुहूर्ताहोरात्राद्यवस्थायुक्तः कालः | सत्वादिगुणोपेता प्रकृतिः | सा च महदहंकारैकांदशेन्द्रियपञ्चतन्मात्र पञ्चमहाभूताद्यवस्थायोगितया प्रकृतित्वावस्था योगितया चतुर्विंशतिथा अवस्था च आगन्तुको धर्मविशेषः | अणुत्वे सति ज्ञातृत्वं जीवत्वं जीवान्यचेतनत्वमीश्वरत्वं ज्ञातृज्ञेयावभासो धर्मभूतज्ञानं त्रिगुणद्रव्यभिन्ना सत्वगुणोपेता प्. १५) नित्यविभूतिरिति - तच्चोक्तम् - द्रव्याद्रव्यप्रभेदात्मकमुभयविधम् | तद्विदस्तबमाहुः | द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ | अन्यत्प्रत्यक्पराक् प्रथममुभयधा तत्र जीवेश भेदान्नित्या भूतिर्मतिश्चेत्यपरमिति जडामामां केचिदाहुः | तत्र द्रव्यं दशावत्प्रकृतिरिति गुणैस्सत्वपूर्वैरुपेता कालोब्दाद्याकृतिस्स्यादणुरवगतिमान्जीव ईशोन्य आत्मा | संप्रोक्तानित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातृज्ञेयावभासो मतिरिति कथितं संग्रहाद्द्रव्य लक्ष्येति || अथा द्रव्यं स्वरूपञ्च वक्ष्ये तच्छास्त्र मार्गतः | संयोगशून्यमद्रव्यमनुपादानमीरितम् | सत्वं रजस्तमश्शब्दः स्पर्शरूपे रसस्तथा | गन्धस्संयोगशक्तीश्च ह्यद्रव्यं दशधा स्मृतम् | यान्यावस्था कारणस्यात्तद्युक्तं कार्यमीरितम् | कार्यद्रव्यं कारणाच्च भिन्नं नास्तीति निर्णयः | तदनन्यत्व नयतस्तथैव च समर्थनात् | संयोगशून्यत्वमनुपादानत्वं वा द्रव्यत्वं तैरीरितमित्यर्थः | हि शब्देन प्रमाणप्रसिद्धिं द्योतयति | अन्यावस्था | अवस्थान्तरं तद्युक्तं तद्विशिष्टमित्यर्थः | च शब्दं एवार्थः | नास्तीत्यनन्तरं सम्बध्यते | अनन्यत्वाधिकरणं श्रीभाष्ये व्यक्तम् | विवरिष्यते चोत्तरत्र | ब्रह्मैव तदुपादानं कर्तृचेति प्रकीर्तितम् | प्. १६) चिदचित्सूक्ष्मभूतं यत् यत्स्थूलं चिदचित्तथा | तद्युक्त ब्रह्मणोरैक्याद्विशिष्टाद्वैतमुच्यते | भेदो जीवब्रह्मणोश्चात्यन्तं ज्ञेयो हि सर्वदा | अभेद श्रुतयो ज्ञेयाः देह देहि निबन्धनाः | मुक्तास्तु परमं प्राप्ता ब्रह्मसाम्यं श्रुतेस्तथा | तदुपादानं तस्य पूर्वोक्त प्रपञ्चस्य उपादानमित्यर्थः | प्रकीर्तितमिति वेदविद्भिरिति शेषः यतो वेत्यादि श्रुतिप्रसिद्धिं द्योतयितुमुपसर्गः | एवकारेण एतादृशमुपादानत्वमन्यस्य निवारयति | अत्र चिच्छब्देन जीवजातं अचिच्छब्देन जडादिकम् | स्वतोणुरूपस्य जीवस्य सूक्ष्मत्वं नाम धर्मभूतज्ञानस्य संकोचः जडस्य सूक्ष्मत्वञ्च कारणावस्थापन्नत्वं चितस्तौल्यं नाम धर्मभूतज्ञानस्य विकासः | अचितस्तौल्यञ्च कार्यावस्थापन्नत्वं ब्रह्मणस्तयुक्तत्वञ्च तद्विशिष्टत्वं तथा च तयोरैक्यात् विशिष्टाद्वैतमुच्यत इत्यर्थः | जीवब्रह्मणोरत्यन्तं भेद इत्यनेन भेदाभेदमतं निवारयति सर्वदेत्यनेन मुक्तावपि भेद इति हि शब्देन तत्र प्रमाणप्रसिद्धिं द्योतयति | देह देहीति भावप्रधानः शरीरशरीरिभाव निबन्धना इअत्यर्थः | श्रुतेः निरञ्जनः परमं साम्यमुपैतीति श्रुतेरित्यर्थः | मुक्ताः ब्रह्मणः परमं साम्यं प्राप्ता इयन्वयः | तु शब्दो विशेषार्थः | अत्र च शब्दादिः प्रमेयान्तरसमुच्चयार्थः | प्. १७) मुक्तेस्तु साधनं ब्रह्मज्ञानं तद्विविधं मतम् | भक्ति प्रपत्तिरूपन्तु ज्ञेयं तल्लक्षणं तथा | ब्रह्मानन्दावाप्तिरूपो मोक्ष इत्येव गीयते | इतोन्यदपि विज्ञेयं प्रमेयं बहुविद्यते | न लिख्यते संग्रहत्वात् मदीयायाः कृतेरिति | श्रीमद्रामानुजाचार्य सिद्धान्तरससंग्रहः | ऐयणाचार्येणरचितस्तेन तुष्यन्तु सूरयः || वेदान्तानामापातप्रतीतार्थे तात्पर्याभावसमर्थनम् | भक्तीति भक्तिरूपं प्रपत्तिरूपमित्यर्थः | भक्तिर्नामतैत्रधारावदविच्छिन्न दर्शन समानाकारा निरतिशय प्रीतिरूपा आप्रयाणमनुवर्तमाना स्मृति सन्ततिः | प्रतिपत्तिस्तु ईश्वरं प्रति त्वमेवोपापो भवेति प्रार्थनारूपो ज्ञानविशेषः | सा तु सकृदनुष्ठितैव मोक्षसाधनम् | न चैवं प्रपत्या प्रारब्धस्य विनाशेन सद्यो मोक्ष प्रसङ्ग इति वाच्यम् | अनभ्युपगत प्रारब्धस्य विनाशेप्यभ्युपगतप्रारब्धस्य प्रपत्यविनाश्यस्य सत्वेन तदभावोपपत्तेः | एवकारो रूप इत्यत्र संबध्यते | ब्रह्मानन्दावाप्तिरूपेण जीवस्य मोक्ष इत्यर्थः गीयते तच्छास्त्र इति शेषः | इति शब्दस्समाप्त्यर्थः | एवं त्रयाणां मतानां भिन्नभिन्न प्रमेयत्वमेवेत्यैक्य प्रकाशो न युक्त इति तथापि तत्तत्समयिभिः उदाहृतप्रमेये नित्यनिर्दोषतया सकलशिष्टैरभ्युपगतं प्रमाण भावा वेदा एव प्रमाणत्वेन प्. १८) शरणीकरणीयाः | तेषां नापातप्रतीतार्थे प्रामाण्यं तथात्वे चित्राद्याकाशाद्यधिकरण विरोध प्रसङ्गात् तथाहि यस्मिन् गुणोपदेश प्रधानतोभिसंबद्ध इत्यत्र द्वितीये चिन्तितम् ज्योतिष्टोमे स्तोत्रप्रकरणे श्रूयते | पञ्चदशान्याज्यानीति तत्र किम् संख्यायुक्तं घृतं स्तोत्राङ्गतया विधीयते | किं वा आज्यशब्देन स्तोत्रमुद्दिश्य संख्यामात्रं विधीयत इति संशये रूढिप्राबल्यादाज्यशब्दस्य घृतपरत्वात् तदुभयविधाने वाक्यभेद प्रसङ्गात् आज्यस्य संसर्गद्रव्यतया संख्यायास्स्वतो भावेपि पात्रद्वारा पञ्चदशत्वसंख्या विशिष्टघृतस्यवान्तरप्रकरणेन स्तोत्रांगतया विधिरिति पूर्वपक्षे पञ्चदशानाज्यानीत्यत्र समासाभावात् विशिष्टप्रतिपत्ति नियमाभावेन सर्वेषां परस्पर सम्बन्धं विनैव विध्यन्वयस्यापेक्षितत्वात् साक्षादसंबद्धार्थ विधाने वाक्यभेद प्रसङ्गात् आज्यैस्तुवत इत्युत्पत्तिवाक्ये श्रुतस्याज्यपदस्य तृतीयान्तस्य भावनायां करणीभूत स्तोत्र सामानाधिकरण्याच्च यथा जीमीयुस्तदाज्यानामाज्यत्वं इत्यन्वयाख्यानरूपार्थवादाच्चापत्तिवाक्ये श्रुतस्याज्यशब्दस्य स्तुतिनामधेयत्वेनाज्य शब्देन स्तोत्रमनूद्य संख्यामात्रं विधीयत इति सिद्धान्तितम् | तथा उत्तरतन्त्रे प्रथमाध्याये आकाशस्तल्लिङ्गादित्यत्र चिन्तितं छान्दोग्ये श्रूयते अस्य लोकस्य का गतिरित्याकाश इति हो वाचेति | तत्राकाशपदं प्. १९) भूताकाशपरं वा परमात्मपरं वेति विशये रूढि प्राबल्यात् गगनपरमिति पूर्वपक्षे परोवर्यत्वोद्गीयत्वानन्तत्वादिलिङ्गैः आकाशो विष्णुरिति सिद्धान्तितम् | तत्रोभयत्रप्रतीतार्थ प्रामाण्यानङ्गीकारात् एवं अभिधामणिमविन्ददित्यादेरपि प्रतीतार्थपरत्वानङ्गीकाराच्च किन्तु कश्छन्दसां योगमावेद धीरः इतिहासपुराणाभ्यां समुपसृंहयेत् | बिभेत्यल्पश्रुताद्वेदो मामयं प्रतिरिष्यतिं | इत्यादि श्रुतिस्मृतिभिः वेदार्थस्यातिगहनत्वोक्तेः अत एवोक्तं शाबरभाष्ये शास्त्रं हि शब्द विज्ञानादसन्निकृष्टे विज्ञानमिति | अनेन प्रत्यक्षाद्युपयोगन्तु व मात्रादितः पुरः | शास्त्रार्थज्ञानवेलायां मत्वा तल्लक्षणं कृतम् | इति वार्तिककारोक्तसंगत्या वाचोपदेशं शस्त्रमेवेत्युदाहृतमिति वार्तिकोक्तरीत्या चोदनाशब्दितं शास्त्रं लक्षितम् | अत्र शब्दार्थः शब्दौ विशिष्ट शब्दार्थपरौ एवञ्च विधायकशब्दार्थविज्ञानादसन्निकृष्टे विधेये विज्ञानं भवति | अत्रासन्निकृष्टशब्दो वार्तिक कृता व्याख्यातः | असन्निकृष्ट वाचा च द्वयमत्र जिहासितम् | ताद्रूप्येण परिच्छेदः तद्विपर्ययतोपि चेति | प्रमितः अर्थः विपरीततया अप्रमितश्चार्थः सन्निकृष्ट इत्यभिधीयते | तद्भिन्ने शब्दः प्रमाणमित्यर्थः तथा च तथात्वे चोदनाधिकरणीय भाष्यवार्तिकविरोधोदुर्वारः अत एव - प्. २०) विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः | बाधा बाधौ विवेक्तव्यौ न तु सामान्य दर्शनात् | अन्यथेवैकदशेन शास्त्रस्यार्थः प्रतीयते | अन्यश्च परिपूर्णेन समस्तांगोपसंहृतौ | विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः | तत्र दृष्टानुसारेण तेषामर्थोन्ववेक्ष्यते | उपक्रमोपसंहारावभ्यासो पूर्वताफलम् | अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये || श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा | पूर्वं पूर्वं बलीयस्स्यात् एवमागम निर्णयः | इत्यादि बहुप्रमाणवचनैः शास्त्रस्य व्यवस्थित विषये सम्यङ्मीमांसिते तात्पर्य विषय एव प्रामाण्यमित्यभिहितत्वाच्च | तस्मात्प्रकृते मतत्रयेपि तात्पर्यमेकत्रैव प्रकाश्यते | क्रमेण वेदवाक्यानामुक्तार्थेषु विचारतः | आदौ नारायणैकत्वं वेदशास्त्रानुकूलतः | मतान्तराविरुद्धञ्च न्यायैस्सम्यत्प्रकाश्यते | एको नारायणो देव इत्युक्त नारायणस्यैवैकपदोक्त सर्वोत्तमत्वं वेदवाक्यान्तरानुकूल्येन स्मृति पुराणादि शास्त्रान्तरानु कूल्येन च शाखान्तरादि पूर्वोत्तरमीमांसा न्यायैश्चाद्वैत रामानुजमताविरुद्धमिति सम्यक् प्रकाश्यते इत्यन्वयः || प्. २१) ननु रामानुजमते विष्णोस्सर्वोत्तमत्वस्याविरोधेपि अद्वैतमतैकदेशिभिः शिवस्यैव सर्वोत्तमत्वं तदुपपादकजगज्जन्मादिकारणत्वञ्च स्वीक्रियते तथाहि सदेव सौम्येदमग्र आसीत् | आत्मां वा इदमेक एवाग्र आसीत् | देवा वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति | सोऽब्रवीत् | अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चन मत्तो व्यतिरिक्तं इति नसन्नचा सच्छिव वै केवलः एको हि रुद्रो न द्वितीयाय तस्ये विश्वाधिको रुद्रो महर्षिः इत्यात्मकारणवाक्यानां छागपशुन्यायेन सच्छब्दस्य बृहदबृहत्वाधारण्येन प्रयुज्यमानस्य ब्रह्मशब्दाभिते विशेषब्रह्मशब्दस्य चेतना चेतन साधारण्येन प्रयुज्यमान स्यात् शब्दाभिते विशेषे आत्मशब्दस्यापि जीवपरमात्मसाधारण्येन प्रयुज्यमानस्य रुद्रशिवादि शब्दाभिहिते विशेषे पर्यवसानमेव स्वीक्रियते | छागपशुन्यायश्चाधिकारिलक्षणे अष्टमे पादेछागो वा मन्त्रवर्णादित्यधिकरणे दर्शितः ज्योतिष्टोमे श्रूयते यदग्नीषोमीयं पशुमालभत इति तत्र किं कश्चन पशुरालब्धव्यः किं वा छाग इति संशये विधौ विशेषा श्रवणात् छागस्य वपायामेदस इति मन्त्रवर्णे छागरूप विशेष श्रवणोपि तस्य प्रधानविधि विरोध परिजिहीर्षया पाक्षिकानुवादक प्. २२) कल्पनात् यः कश्चन पशुरालब्धव्य इति प्राप्ते विध्यवगतपशुत्व सामान्यस्य प्रतिव्यक्तिपरिसमाप्त्या छागेप्यविकलत्वेन प्रधानविधि विरोधाभावात् प्रकरणपाठेन च नित्यवदाम्ना तस्य पाक्षिकानुवादत्व कल्पनायोगाच्च | मन्त्रवर्णप्राप्त छाग एव पशुरालब्धव्यः इति सिद्धान्तितम् | अत्र यद्यपि एको ह वै नारायण आसीन्न ब्रह्मा न च शङ्करः वासु देवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः नारायणाद्ब्रह्माजायते नारायणाद्रुद्रो जायते इत्यादि श्रुतिभिः छागपशुन्यायेनैव नारायणरूपविशेषस्यैव सर्गाद्यसमये ब्रह्मरुद्रादिनिषेधपूर्वकं सत्वप्रतिपादनात् ब्रह्मरुद्रजनकत्वाभिधानाच्च कारणवाक्यस्य शिवादि शब्दानां तत्परत्वमन्तरा न निवर्हतीति सकलवाक्य तात्पर्यं तत्रैव युक्तमित्यवसीयते तथापि जन्यजन्यरुद्रापेक्षयातिरिक्तस्य ब्रह्मविष्णुरुद्रादि जनकस्य कारणरुद्रस्य श्रुतिस्मृत्यादि प्रतिपाद्यत्वेन तस्यैव सर्वोत्तमत्वादौ श्रुत्यादीनां तात्पर्यमिति युक्तम् | तथाहि उत्तरतापनीये - सप्तात्मानं चतुरात्मानं अकारं ब्रह्माणं नाभौ सप्तात्मानं चतुरात्मानं उकारं विष्णुं हृदये सप्तात्मानं चतुरात्मानं मकारं रुद्रं भ्रू मध्ये सप्तात्मानं चतुरात्मानं चतुस्सप्तात्मानं चतुरात्मानं प्. २३) ओङ्कारं सर्वेश्वरं द्वादशान्त इत्यादि नानाभि हृदय भ्रूमध्येषु अकारादिमात्रात्रय वाच्यानां ब्रह्मविष्णुरुद्राणामुपासनाविधानानन्तरं प्रणववाच्य द्वादशान्तोपास्यं सर्वैश्वर्य शालितेभ्यः परं तुरीयं तत्वं प्रतीयते | तथा अथर्वशिखायां प्रथमारक्तपीतामहद्ब्रह्मदैवत्या द्वितीया विद्युमती कृष्णा विष्णु दैवत्या | तृतीया शुभाशुभशुक्ला रुद्र दैवत्या | यावसाने अस्य चतुर्थ्यर्ध मात्रा सर्व वर्णापुरुष दैवत्या इति मात्रात्रयवाच्यम् | ब्रह्मविष्णुरुद्रातिरिक्तं पुरुषाख्यमर्धमात्रा वाच्यं तुरीयं तत्वं प्रतीयते एवं ब्रह्मसिन्दूपनिषदि अत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोग्नयः | तिस्रो मात्रार्धमात्रा च त्रक्षरस्यां शिरस्य तु | ऋग्वेदो गार्हपत्यञ्च पृथिवी ब्रह्मदेवता | अकारस्य शरीरन्तु व्याख्यातं ब्रह्मवादिभिः | यजुर्वेदोन्तरिक्षञ्च दक्षिणाग्निस्तथैव च | विष्णुश्च भगवान् देव उकारः परिकीर्तितः | सामवेदः स्तथाद्यौश्चाहवनीयस्तथैव च | ईश्वरः परमो देवो मकारः परिकीर्तितः | अर्धमात्रा तथा ज्ञेया प्रणवोपरि संस्थिता | पद्मसूत्रनिभासूक्ष्मा शिखादित्य समप्रभा | वरदा सर्वभूतानां सर्वं व्याख्येव तिष्ठति | इत्यादिनाकारादिमात्रात्रयवाच्येभ्यो ब्रह्मविष्णुरुद्रेभ्यो प्. २४) अर्धमात्रावाच्यं चतुर्थं तत्वान्तरं प्रतीयते | तथा मैत्रायणीयोपनिषदि | अथ योह खलु वास्य राजसोंशः सो सौ ब्रह्मचारिणो योयं ब्रह्मा अथ योह खलुयस्य सात्विकोंशः सोसौ ब्रह्मचारिणो योयं विष्णुः अथ योह खलु वास्य तामसोंशः सोसौ ब्रह्मचारिणो योयं रुद्र इत्यादिना ब्रह्मविष्णुरुद्राणामंशत्वमुक्त्वा अस्येति षष्ठ्यन्तेन तदंशीभूतं तुरीयं तत्वान्तरं प्रदर्शितम् | तथा च ब्रह्मविष्णु रुद्रातिरिक्तं तुरीयं वस्तु शिवरूपमेवेति पर्यवस्यति यद्यपि उत्तरतापनीये ओंकारवाच्यं द्वादशान्तोपास्यं अथर्वशिखायां अर्धमात्रावाच्यं पुरुषदैवत्यं ब्रह्मबिन्दूपनिषदि अर्धमात्रावाच्यं सर्वभूतवरप्रदम् | मैत्रायणीयोपनिषदि षष्ठ्यन्तवाच्यं मूर्तित्रयांशीभूतञ्चेति तुरीयं तत्वान्तरमेव सिध्यति न तु शिवरूपमेवेति तत् ज्ञापकं श्रुतिलिङ्गाद्यभावात् तथापि ओंकारवाच्यस्य मूर्तित्रयांशीभूतस्य शिवरूपत्वमेव वक्तव्यम् | विष्ण्वाधिक्यलिङ्गाच्च | न चासिद्धो हेतुः ओंकार वाच्यत्वादिना विष्ण्वाधिक्यसाधन सौलभ्यात् न चा प्रयोजको हेतुः तुरीयस्य ओंकार वाच्यत्वं मूर्तित्रयांशीत्वञ्च न स्यादिति विपक्षे बाधक तर्कात् ओंकारस्य मात्रात्रयाधिक्यस्यांशिनों अंशाधिक्यस्य च प्रमाणसिद्धत्वाच्च | तथा च तुरीयस्य विष्ण्वाधिक्ये सर्वोत्तम सकल जगज्जन्मादिकारत्वे च सिद्धे (सकल प्. २५) जगज्जगज्जन्मादिकारणत्वे च सिद्धे सकलकारण वाक्यानां तुरीय शिवस्यैव सर्वोत्तमत्वे सकलजगज्जन्मादिकारणत्वे च तात्पर्यमिति पर्यवस्यति किञ्च कैवल्योपनिषदि | हृत्पुण्डरीकं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् | अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तंममृतं मृतं ब्रह्मयोनिम् | तदादिमध्यान्तविहीनमेकं विभुञ्चिदानतं मरूपमद्भुतम् || उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् | ध्यात्वा मुनि भूतयोनिं समस्तसाक्षिं तमसः परस्तात् | सब्रह्मासशिवस्सेन्द्रस्सोक्षरः परमस्वराट् | इत्यनेक श्रुतिलिंगादिभिः ब्रह्मविष्णुरुद्रादिविभूतिमान् तुरीयश्शिव एव प्रतिपाद्यते | तथा अथर्वशिरो वाक्ये यो वै रुद्रस्सभगवान् यश्च ब्रह्मा तस्मै वो नमो नमः | यो वै रुद्रस्सभगवान् यश्च विष्णुः तस्मै वै नमो नमः | इति ब्रह्मविष्णु रुद्रादिविभूतिमान् रुद्रशब्दितः परमशिव एव तुरीयोभिधीयते | तथा अथर्वशिखायाम् | ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते | सर्वाणि चेन्द्रियाणि ह भूतैर्न कारणन्तु ध्येयः | सर्वैश्वर्य संपन्नः सर्वेश्वरश्शंभुराकाशमध्यगः | शिव एको ध्येयः शिवङ्करः | सर्वमन्यत्परित्यज्येत्यत्र ब्रह्मविष्णुरुद्रादीनां कार्यकोटिनिवेशमुक्त्वा कारणत्वेन शम्भुशिवाद्यसाधारणनामभिः ईशानस्यैव तुर्यस्य प्. २६) ध्येयत्वमुच्यते | तथा उत्तरतापनीये तमु वा एतं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानुसंदध्यात् | स्थूलत्वात्स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वाच्चैत्यादानन्दभोगाच्च | सोयमात्मा चतुष्याज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग एकोनविंशति मुखस्सूक्ष्मभुक्चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः | स्वप्नस्थानस्सूक्ष्मप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखस्सूक्ष्मभुक्चतुरात्मा तैजसो हिरण्यगर्भो द्वितीयः पादः | यत्र सुप्तो न कञ्चनं कामं कामयते न कञ्चन स्वप्नं पश्यति | तत्सुषुप्तौ सुषुप्तिस्थान एकीभूतः प्रज्ञा घन एवानन्दमयोह्यानन्दभुक्चेतोमुखश्चतुरात्मा प्राज्ञं ईश्वरस्तृतीयः पादः | अथायमादेशो न स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्य##- शान्तमद्वैतं चतुर्थं मन्यन्ते | स आत्मा स विज्ञेय इति विश्ववैश्वानरशब्दितविष्णुहिरण्यगर्भादिभ्योन्यश्शिव एव तुरीय इति निश्चीयते | तथा तैत्तरीय वाक्ये एवम् - अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु | त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं विष्णुस्त्वं ब्रह्मात्वं प्रजापतिः | इति ब्रह्मविष्णुरुद्रादि विभूतिमान् त्वं पदवाच्यः तुरीयश्शिव एवाभिधीयते | प्. २७) यद्यप्यत्र त्वमित्येव श्रूयते न शिव इति तथापि ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् | ऊर्ध्वरेतं विरूपाक्षं इत्युपक्रमे ईशानस्सर्वविद्यानामित्युपसंहारे च श्रुतिलिङ्गादिभिः त्वं पदार्थस्य मूर्तित्रयादिविभूतिमतः परश्शिवत्वमेवेति निश्चीयते | तथा एतदुपब्रह्मणरूपे कूर्मपुराणे ब्रह्मविष्णुरुद्रान् प्रस्तुत्योक्तम् | तेभ्यः परतरो देवः त्रिमूर्तिः परमा तनुः | महेश्वरी त्रिनयनां शान्तिदा सदेति उत्तरभागेत्युक्तम् | सर्वासामेव शक्तीनां ब्रह्मविष्णुशिवात्मिकाः | प्रधानास्संस्मृत्या वाः शक्तयः परमात्मनः | त्रिभ्यः परस्ताद्भगवान् परमात्मा सनातनः | गीयते सर्व शक्त्यात्मा शूलपाणिर्महेश्वरः | एनमेके वदन्त्यग्निं नारायणमथापरे | इन्द्रमेके परे प्राणान् ब्रह्माणमपरे जगुः | ब्रह्मविष्ण्वग्निवरुणास्सर्वे देवास्तधर्षयः | एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः | इति | तथा शिवपुराणे - सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहतः | संहारस्य तथा रुद्रः तयोर्नित्यं नियामकः | तस्मात्त्रयस्ते कथ्यन्ते जगतः कारणं त्रयम् | कारणत्रय हेतुश्च शिवः परमकारणमिति | तथा स्कान्दे - ब्रह्माविष्णुश्च रुद्रश्च परतत्वविभूतयः | प्. २८) येषां त्रयाणामाधिक्यं सर्वकारणमीश्वरः || इति तथा पराशरपुराणे ##- साक्षात्परतरस्यैव वस्तनस्सर्व साक्षिणः | अस्तिमूर्तः परा शुद्धा स्वतन्त्रापापनाशिनी | तस्या साधारणी मूर्तिस्साम्बा चन्द्रार्धशेखरा | इत्यारभ्य - ब्रह्मविष्णुमहेशानस्ता ध्यायन्ति निरन्तरम् | इत्यन्तेन तुरीयस्य परशिवत्वमुक्तम् | तथा महाभारते तिसॄणां मूर्तीनां परशिवविग्रहे जननमुक्तम् स एष भगवानीशस्सर्वतत्वादिख्ययः | सर्वतत्वविधानज्ञः प्रधानपुरुषेश्वरः | सोऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् | वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः | युगान्ते चैव सम्प्राप्ते रुद्रं प्रभुमथासृजत् | इति तुरीयस्य शिवत्वं प्रतिपादितम् | अत एवोक्तं अप्पयय दीक्षितैरपि - एवं मया वपुर्ब्रह्म तुरीयं विश्वकारणम् | उमासहायो भगवानिन्दुमौलिरिति स्थितम् | इति किञ्च हरिवंशे कैलास यात्रायाम् - नामानि तव गोविन्द यानि लोके महान्ति च | तान्येव मम नामानि नात्र कार्यविचारणा | इति विष्णुं प्रति शिववचनेन शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः | संसारवैद्यस्सर्वज्ञः शिवस्याघविनाशनम् || प्. २९) एतन्नामाष्टकं पुण्यं इत्यादित्य वचनेन च शिवस्य विष्ण्वादि सकलनामवाच्यत्वावेदनेन कारणवाक्यस्थनारायणवासुदेवादिपदानामपि तुरीय शिवपरत्वेन तस्यैव सर्वोत्तमत्वे सकलजगत्कारणत्वे च सकलश्रुति तात्पर्य सम्भवात् | तस्मान्नारायणस्य सर्वोत्तमत्वे सकलजगत्कारणत्वे च तात्पर्यमद्वैतमतैकदेशविरुद्धमिति तदैक्य प्रकाशोऽसम्भावित इति चेत् अत्रोच्यते - सर्वशाखादिनयतः एकं सर्वोत्तमं भवेत् | तदेव नारायणाख्यमिति वेदान्तनिर्णयः | तुरीयं शिवरूपं तत्तत्वं नारायणाभिधम् | श्रुत्यादिभिः प्रमाणैश्च न्यायैस्सम्यक् प्रसाध्यते | सर्वशाखाप्रत्ययनाय सर्ववेदान्तप्रत्ययनाय गतिसामान्यन्यायैरित्यर्थः | सर्वोत्तममित्यनन्तरं सर्ववेदतात्पर्यविषयीभूतमिति शेषः पूर्वोक्तं तुरीयं शिवरूपं यत्परं तत्वं तन्नारायणात्मकमेवेति श्रुतिलिंगादिप्रमाणैरुपक्रमादिभिः न्यायान्तरैश्च सम्यक्प्रसाध्यत इत्यर्थ इति तथाहि सदेव सौम्येदमग्र आसीत् आत्मा वा इदमेक एवाग्र आसीत् इत्यादि सामान्यसद्ब्रह्मादिशब्दसमभिव्याहृतानां एको ह वै नारायण आसीत् हिरण्यगर्भस्समवर्तताग्रे देवाहवै स्वर्गं लोकमणयन् | ते देवा रुद्रमपृच्छन् | को भवानीति सोब्रवीत् अहमेकः प्रथममासं इत्याद्यनन्यसाधारण चेतन प्. ३०) चेतनविशेषवाचिनारायणहिरण्यगर्भरुद्रादिपदसमभिव्याहृतानां तदपेक्षितार्थसंपर्कतया तदेकवाक्यतापन्नानाञ्च सर्वेषामाम्नायभागानां सर्वशाखाप्रत्ययन्यायेन सर्ववेदान्तप्रत्ययन्यायेन गतिसामान्यन्यायेन च एकविषयत्वमविप्रतिपन्नं तच्चोदाहृत तत्तद्वाक्यपठितसद्ब्रह्मादिसामान्यपदानां नारायण हिरण्यगर्भरुद्रादिविशेषपदानाञ्च मुख्यैकतात्पर्यमन्तरा न निर्वहतीति सर्वशब्दशक्ति तात्पर्यविषयीभूतः कश्चिदेक एवार्थोऽतीति चाङ्गीकर्तव्यम् | अन्यथा उदाहृतकारणवाक्यानां स्वस्ववाक्यपठितसद्ब्रह्मात्मनारायणादि तत्तत्पदवाच्यस्वतन्त्रानेककारणपरत्वाप्त्या नारायणादिस्वतन्त्रानेकस्यैव जगत्कारणत्वापत्या च सकलश्रुत्यैकविषयत्वभंगप्रसङ्गात् जन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्तं इति श्रुतिसूत्रव्यवस्थापितस्य ब्रह्मलक्षणस्यात्यवस्थापत्तेश्च एकमेवाद्वितीयमित्यादि जगत्कारण वस्त्वेकत्व प्रतिपादक श्रुतिविरोध प्रसङ्गाच्च तस्मात्तुरीय शिवात्मकं नारायणाख्यमेकमेव परं तत्वं सर्ववेदान्त तात्पर्यविषयी भूतमिति प्रसाध्यते सर्वशाखाप्रत्ययन्यायश्च पूर्वतन्त्रे नामरूप धर्मविशेष पुनरुक्तिनिन्दाशक्तिसमाप्तिवचनाप्रायश्चित्तान्यर्थ दर्शनात् | शाखान्तरे कर्मभेदस्स्यादिति द्वितीयान्तोधिकरणे दर्शितः | तत्र काठककापालिककाण्वमाध्यन्दिन तैत्तरीयादिनानाशाखाम्नाताग्निहोत्रादिकं प्. ३१) कर्म किं प्रतिशाखं भिद्यते किं वा सर्वासु शाखास्वेकमेवेति संशये काठकमग्निहोत्रं कापालिक मग्निमग्निहोत्रमित्यादिनामभेदात् क्वचिच्छाखायां ऐन्द्राग्नमेकादशंकपालं निर्वपेत् क्वचिच्च ऐन्द्राग्नं द्वादशकपालं इति रूपभेदात् अश्वमेध वाक्यन्यधीय अन्यैरश्वधासोदीयते नान्यैरित्यश्वघासदान तद्दानरूप धर्मभेदात् एकस्यां शाखायां आम्नातस्य कर्मणः अन्यत्रात्याम्नानेन विशेष पुनश्श्रवणलक्षणाभ्यासात् उदितानुदितरूपनिन्दाश्रवणात् सर्वशाखोक्ताङ्गोप संहारस्याशक्यत्वातेके अन्यत्र चयनसमाप्तिं अन्ये अन्यत्रेति समाप्ति वचन भेदात् उदितानुदितहोमयोः पृथक्प्रायश्चित्तविधानात् उपहव्यो निरुक्तोग्निष्टोमः यज्ञो रथन्तरं साम इत्येकस्यां शाखायां उपहव्यो यज्ञो बृहत्सामेत्यपरस्यां श्रुतमिति रथन्तर बृहत्सामरूपान्यार्थवचनात् शाखान्तररूप प्रकरणान्तराच्च प्रतिशाखं कर्म भिद्यते अन्यथा कर्मभेदक प्रमाणविरोध प्रसङ्गादिति पूर्वपक्षे प्राप्ते पूर्वोक्त पुनरुक्त्यादिहेतुभिः कर्मणो विधानमात्रस्यावगमेपि तद्भेदस्याप्यसिद्धत्वात् एकस्यां शाखायां विहितस्य शाखान्तरे पुरुषान्तरं प्रतिविधानमित्युपपन्नत्वेन अन्यथानुपपत्य भावेन प्रकृते तेषां कर्मभेदंकत्वाभावात् एकस्यामेव शाखायां एकस्यैव प्. ३२) अग्निहोत्रादि कर्मणः पुरुषान्तरं प्रतिपुनर्विधानमर्थवदितिवत् अत्रापि नानाशाखाम्नातमग्निहोत्रादिकं कर्म एकमेव पुरुषान्तरं प्रति पुनर्विहितमिति न कर्मभेदः किं त्वेकमेवेति सिद्धान्तितम् सर्ववेदान्तप्रत्ययन्यायश्च उत्तरतन्त्रे सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् इति तृतीयस्य तृतीयाद्यनये एवमुपवर्णितः | सर्वसच्छास्त्रश्रवणादिकं किमकर्तव्यं उत्तकर्तव्यमिति संशये सर्वशाखोक्तप्रकारेण ब्रह्मणो ज्ञेयत्वे मानाभावात् एकस्यां शाखायां सत्यं ज्ञानमनन्तं ब्रह्मेति प्रतिशाखमर्थभेद श्रवणेन तस्य तस्यार्थस्य तत्तच्छाखाध्येतृभिरेव तत्तच्छाखोक्तरीत्या ज्ञेयत्वावगमात् | न तदर्थं सर्वसच्छास्त्रश्रवणादिकमनुष्ठातव्यमिति पूर्वपक्षे प्राप्तेप्रतिशाखमर्थभेदोपवर्णनस्य एक शाखागतार्थभेदोक्तवत् प्रसङ्गभेदानुवादादि रूपतयासावकाशत्वेनार्थभेदकत्वाभावात् | वेदैश्च सर्वैः परमोहि देवो जिज्ञास्यो सौनाल्पवेदैः प्रसिध्येत् तस्मादेनं सर्ववेदानधीत्य विचार्य च ज्ञातुमिच्छेन्मुमुक्षुः | इति श्रुत्या सर्पान् वेदान् सेतिहासान् सपुराणान् स युक्तिकान् स पञ्चरात्रान् विज्ञाय विष्णुर्ज्ञेयो न चान्यथा इति स्मृत्या च सर्ववेदोक्तरीत्या प्. ३३) एकस्यैव ब्रह्मणो ज्ञेयत्वावगमाच्च तदर्थं सर्वसच्छास्त्र श्रवणादिकमनुष्ठातव्यमिति सिद्धान्तितम् | अत एव गतिसामान्यन्यायेपि प्रथमाध्यायस्य प्रथमपादे ईक्षत्यधिकरणे गतिसामान्यादिति गुणसूत्रे दर्शितः मुख्यतः सर्वशास्त्रतात्पर्यविषयत्वम् | ब्रह्मणो युक्तं न वेति संशये यतो वाचो निवर्तन्ते अशब्दमस्पर्शमित्यादिश्रुतिभिः ब्रह्मणो वाच्यत्वावगमात् प्रसिद्धशाखास्विनि ब्रह्मण एव प्रतिपाद्यत्वे मानाभावात् | इदानीमनधीयमाना सुशाखासु अन्योपि कारणत्वेन प्रतिपाद्यस्स्यादिति न तदर्थं सर्वशास्त्रयोनित्वं ब्रह्मणो युक्तमिति पूर्वपक्षे प्राप्ते परात्परं पुरिशधं पुरुषमीक्षते आत्मन्येवात्मानं पश्येत् इत्यादि श्रुतिभि ब्रह्मणः ईक्षणीयत्वावगमात् ईक्षणस्य च वेदाह्येवैनं वेदयन्ति औपनिषदः पुरुषः इत्यादिनाशब्दैक समधिगम्यत्वेनावगते ब्रह्मणि प्रत्यक्षानुमानाभ्यां योगात् अवाच्ये वृत्यन्तरायोगे न तस्य वाच्यत्वमन्तरानुपपत्तेः अवाच्यत्वबोधक श्रुतीनामप्रसिद्धेरवाच्यं तदित्यादि श्रुतिभिः साकल्येन वचनागोचरपरतया सावकाशत्वात् सर्वे वेदायुक्तयस्सप्रमाणाः ब्राह्मं ज्ञानं परमं त्वेकमेव प्रकाशयन्ते न विरोधः | कुतश्चित् वेदेषु सर्वेषु तथेतिहासः इति सर्वे वेदा यत्पदमामनन्ति नामानि सर्वाणि यमाविशन्ति प्. ३४) सर्वे वेदास्सर्वे घोषाः | एक एव व्याहृतिः तस्माच्छतचिनस्तस्माच्छतर्चिन इत्याचक्षते एतमेव सन्तं वेदैश्च सर्वैरहमेव वेद्यः कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् वेदे रामायणे चैव पुराणे भारते तथा | आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते | वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः | तावन्ति हरिनामानि नात्रकार्या विचारणा | इत्यादि श्रुतिस्मृतिभिः परं मुख्य वृत्या श्रीनारायणाख्यस्य एकस्य परब्रह्मण एव सर्ववेदवेद्यत्वावेदनेन मुख्यतश्शास्त्रयोनित्वं ब्रह्मणो युक्तमेवेति सिद्धान्तितम् | तथा च उदाहृताधिकरणन्यायैः सकलश्रुत्यैकविषयत्वस्य सर्ववैदिकशब्दशक्तितात्पर्यविषयी भूतार्थैकत्वस्य च सिद्धौ छागपशुन्यायेनैव तुरीय शिवाभिन्न नारायणाख्यपरतत्वरूप विशेषस्यैव सर्वोत्तमत्वे सकलजगज्जन्मादिकारणत्वे च सकलवेदानां तात्पर्यमिति युक्तम् | नन्वेताप्रशिथिलमूलं तुरीय शिवनारायणयोरभेदे प्रमाणाभावात् | तत्र प्रमाणं प्रत्यक्षं वा अनुमानं वा आगमो वा | नाद्यः तत्रापि ब्रह्मादिप्रत्यक्षं वा अस्मदादिप्रत्यक्षं वा | नाद्यः | ब्रह्मादिप्रत्यक्षस्य शिवनारायणयोर्विरुद्ध धर्माधिकरणयोरिमौ भिन्नाविति भेदविषयकत्वात्नान्त्यः प्. ३५) अस्मदादिप्रत्यक्षस्य तत्स्वरूपमात्राविषयकस्य तद्भेद विषयकत्वायोगात् | न द्वितीयः तयोरभेद साधकलिंगाभावात् किञ्च शब्दान्तरादिन्यायेन शिवनारायणयोर्भेदस्यैवावगमात् | तथाहि द्वितीये द्वितीयपादे शब्दान्तराधिकरणे यजति ददाति जुहोतीत्यत्र यागदानहोमरूप धात्वर्थ भेदादाख्यातपदान्यपि मिथश्शब्दान्तरं भवतीति बहु धात्वर्थानुक्ता एकाभावेनेति पूर्वपक्षं प्रापयय प्रतिधातु प्रत्ययभेदात् तत्तद्धात्वर्थ विशिष्टान्यान्यैव भावना विधीयत इति सिद्धान्तितम् एवं तत्रैव गुणाधिकरणे चातुर्मास्ये वैश्वदेवाख्ये प्रथमे पर्वणि तप्ते पयसि तथ्या नयति सा वैश्वदेव्यामिक्षा | वाजिभ्यो वाजिनमित्यत्र द्रव्य देवता संबन्धानुमिते आमिक्षा यागे आमिक्षा द्रव्यभाजो विश्वेदेवान्वाजमामिक्षा रूपमन्नमेषामस्तीति व्युत्पत्या वाजिभ्य इति चतुर्थ्यन्त पदेनानूद्यतेतेभ्य एव वाजनरूप गुणो विधीयते | न कर्मान्तरमिति पूर्वपक्षे व्युत्पत्तिशिष्टगुणावरुद्धेवैश्वदेव यागे उत्पन्ने शिष्टवाजनगुणस्य निवेशासम्भवात् अत एव च वाजशब्दस्य देवतान्तरपरत्वाच्च केवलदेवता भेदात् कर्मान्तरमिति सिद्धान्तितम् | अत एव च तत्रैव प्रकरणान्तराधिकरणे चिन्तितम् कुण्डपायिनामयने प्. ३६) श्रूयते उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोतीति तत्राग्निहोत्रशब्देन नित्याग्निहोत्रस्य उपस्थानात् तत्रैव मासरूपो गुणो विधीयते | न कर्मान्तरमिति पूर्वपक्षं प्रापयय उपसद्भिश्चरित्वेत्युक्तोपसद्यागस्य नित्याग्नि होत्रे अभावेन अग्निहोत्रं जुहोतीति यत् | तदुपसद्भिश्चरित्वा द्वयोरपि पिधाने वाक्यभेदप्रसंगात् अन्यदेशकालनिमित्तात्मरूप गुणस्य पूर्वकर्मानुपस्थापकत्वेन च प्रकरणातोद्गुणद्वय विशिष्टं अग्निहोत्र नामकं कर्मान्तरं विधीयत इति सिद्धान्तितम् | एवञ्च तन्न्यायेन नारायण वासुदेव रामकृष्णनृसिंहादिनाम्नां शिवशम्भुरुद्रमहेश्वरादिनाम्नाञ्च भिन्नभिन्नत्वात् श्रीलक्ष्मीपतित्वशंखचक्रादि धारित्व उद्यदादित्यनिभत्व क्षीरसमुद्रस्थत्वादिगुणानां उमासहायत्वत्रिलोचनत्व नीलकण्ठत्व शूलपाणित्वकैलासवासित्वादिगुणानाञ्चात्यन्तभेदात् शिवनारायणयोरत्यन्तभिन्नभिन्नशाखाप्रतिपाद्यत्वेन प्रकरणान्तराच्च तयोर्भेद एव युक्तः अत एव न तृतीयः ततः शाखान्तराख्यागमानां शब्दान्तगुण प्रकरणादियुक्ततया तयोर्भेदसाधन सौलभ्यात् तयोरभेदस्यैवाभावात् तन्मतैक्य प्रकाशः अत्यन्तानुपपन्न इति चदत्र ब्रूमः | ब्रह्मादि प्रत्यक्षस्य तावत् नारायणातिरिक्ततुरीयशिवासत्वरूपैकत्वविषयकत्वेन प्. ३७) प्रामाण्यसम्भवात् | महतां प्रत्यक्षस्य एकमेवाद्वितीयमित्यादि श्रुतिविरुद्धसर्वोत्तमवस्तुद्वयविषयकत्वायोगात् इमौ भिन्नाविति प्रत्यक्षस्य विष्णोः कार्यरुद्रनिरूपितभेदविषयकत्वेपि तुरीयं शिवनिरूपितभेदविषयकत्वाभावात् शिवनारायणयोरैक्येन तद्धर्माणामेकत्रावस्थितत्वेन सहानवस्थारूपविरोधाभावाच्च | किञ्च अनुमानमपि तत्र मानं तथाहि नारायणस्तुरीयशिवाभिन्नः ओंकारवाच्यत्वार्थमात्रा वाच्यत्वतुरीयत्व ब्रह्मविष्णुरुद्रादिजनकत्व ब्रह्मादिविभूत्यं शित्वभगवत्पदवाच्यत्व एकत्वादिरूप तदसाधारण धर्मवत्वात् यो यदसाधारण धर्मवान् सतदभिन्नः यथा रामकृष्णादि इन्द्रार्जुनादिश्चेत्यादिप्रयोगसंभवात् | न च हेतुरसिद्ध इति वाच्यम् | ये वै रामचन्द्रस्सभगवान् यश्चोंकारः तस्मै ते नमो नमः यो वै श्रीरामचन्द्रस्सभगवान् यश्चतुर्थोर्थमात्रा भूर्भुवस्वरिति यो वै श्रीरामचन्द्रस्सभगवान् यश्च ब्रह्माविष्णुरीश्वरः तस्मै ते नमो नमः | इति रामोपनिषदि यो वै श्रीं नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः यो वै श्री नृसिंहो देवो भगवान् यश्च विष्णुः तस्मै वै नमो नमः यो वै नृसिंहो देवो भगवान् यश्च महेश्वरस्तस्मै वै नमो नमः | इति नृसिंहपूर्वतापनीये | नारसिंहनवानुभा मन्त्रराजेन तुरीयं विद्यात् | एष ह्यात्मानं प्रकाशयति | इत्युत्तरतापनीये एको ह वै नारायण प्. ३८) आसीन्न ब्रह्मा न च शङ्करः | नाग्निष्टोमौ नेऽमेद्यावापृथिव्यौ इत्यादि महोपनिषदि | अथ पुरुषोऽह वै नारायणोऽकामायत प्रजास्सृजेयेति नारायणाद्ब्रह्मा जायते | नारायणाद्रुद्रो जायते | इति | अथे रुद्रो नारायणः | ब्रह्मा च नारायणः | शिवश्च नारायणः - इति च | अथ नित्यो निष्कलंको निरञ्जनो निर्विकल्पो निराख्यातश्शुद्धो देव एकोनारायणः - न द्वितीयोस्ति कश्चित् य एवं वेद स विष्णुरेव भवति इति च स ब्रह्मासशिवस्सेन्द्ररसोक्षरः परमस्स्वराट् इति नारायणोपनिषदिनैवेह किञ्चनाग्र आसीत् अमूलमनाधारा इमाः प्रजाः प्रजायन्ते दिव्यो देव एक नारायणः इति सुबालोपनिषदि पुनरुक्तवक्ष्यमाण श्रुतिस्मृत्यादिभिः पूर्वोक्तासाधारण धर्माणां नारायणवृत्तित्वावसायेन हेतोस्स्वरूपा सिध्यभावात् नारायणावतारयोनृसिंहरामचन्द्रयोरेकारवाच्यत्वार्थमात्रावाच्यत्व ब्रह्मादिविभूत्यंशित्व भगवत्पदवाच्यत्वादिनामभिर्हिते तदभिन्नांशभूतस्य नारायणस्य एषां धर्माणां कैमुतिकन्यायसिद्धत्वात् महोपनिषदादिषु श्रीनारायण एव साक्षात्तेषां धर्माणामाम्नानाच्च न चात्र तुरीय शिवनारायणयोर्विष्णुजनकत्व तदभावाभ्यां भेद इति वाच्यम् | मायायां जज्ञिरे पश्चाद्ब्रह्मविष्णु महेश्वराः | प्. ८९) श्रीर्भूर्दुर्गा इति त्रीणि रमा रूपाणि चाभवन् | तत श्रीविष्णुसंयोगात् परार्धान्ते हिरण्मयम् | सलिलेण्ड देवि यत्रेदं सर्वमाहितम् | इति मायायां वासुदेवात् विरचित इति वराहपुराणादि वचनान्तरैः विष्ण्वाख्य भगवदवतारस्याभिव्यक्तिरूपजनवस्यापि संभवात् सर्वत्र विष्णोरभिव्यक्तिरूपा मुख्यजननस्यैव प्रमितत्वात् अत्र मुख्य जननोपेत ब्रह्मरुद्रादि सहपाठाभावे बाधकाभावाच्च ब्रह्माविष्णुरुद्रेन्द्रोस्ते संप्रसूयते इत्यादि विष्णोश्छत्रिन्यायेन जननशब्दप्रयोगोपपत्तेश्च रामनृसिंहतापनीययोस्तस्य स्पष्टं त्रिमूर्ति विभूत्यंशित्वाभिधानाच्च अपि च ब्रह्मरुद्रादिजनकत्वस्यैव तुरीयत्वेन उदाहृत श्रुतिवाक्येषु द्वयोरपि ब्रह्मादिजनकत्वावेदनेन उभयोर्भेदे सर्वेश्वरवस्तुद्वयविरोधेन रामनृसिंहादिवत् तुरीयशिवस्यापि नारायणावताररूपस्य नारायणाभेदस्यैव युक्तत्वात् तस्मादनुमानं नारायणस्य तुरीय शिवाभेदप्रमाणं यच्चोक्तं शब्दान्तरादिभिर्भेद इति तन्न शब्दान्तरादि वैषम्यस्यैव सूचकत्वात् तथाहि शब्दान्तराधिकरणे प्रतिधातुप्रत्ययभेदात् तत्तद्धात्वर्थावरुद्धायां भावनायां धात्वन्तरार्थेन तेनावच्छेदायोगात् भावनाया अपि भेदः तद्भेदाच्च यागदानहोमानां भेदो व्यवस्थापितः - अत्र धातुपदाद्यभावेन तन्न्यायवैषम्यात् | किञ्चयागदानहोमानां भिन्नभिन्नासाधारणांग कलापादिविशिष्टत्वेन तेषां भेदेपि प्रकृते उभयवृत्तिनो प्. ४०) असाधारण धर्मसमुदायस्यैकत्वेन उभयोर्भेदायोगादित्युक्तत्वाच्च | अपि च शाखान्तराधिकरणन्यायेन नामरूपधर्मभेदात् कर्म भेदाभावस्याभिहितत्वेनात्रापि शिवनारायणयोर्नामादिभेदेपि वस्तुभेदाभावस्यैव युक्तत्वेन तन्न्याय वैषम्यस्यैवातिस्फुटत्वाच्चगुणद्वयस्य उभयोरैक्येन निवेशसंभवात् अत्र अभेदे उक्तवक्ष्यमाणप्रमाणानां विद्यमामत्वेन शब्दान्तान्तरादिन्यायस्य बाधकाभावविषयत्वसम्भवात् एतेन गुणाधिकरणप्रकरणान्तराधिकरण न्यायवैषम्यमप्युपपादितं भवति तत्र आगमोप्यभेदे प्रमाणं तुरीयशिवनारायणयोरभेदस्य उदाहृत श्रौतान्यथानुपपत्तिलभ्यस्यापि श्रौतत्वसम्भवात् यजेत स्वर्गकाम इत्यत्र यागस्वर्गयोः कार्यकारणभावान्यथानुपपत्तिलभ्यस्याप्यपूर्वस्य श्रौतत्वांगीकारात् | किञ्च मैत्रेयोपनिषदि तस्य प्रोक्ता अग्र्यास्तनवः ब्रह्मारुद्रो विष्णुरिति तत्परेणेरितं विषमत्वं प्रयातीति परशब्दार्थं कञ्चित्प्रस्तुत्य तदग्र्यतनुत्वमुत्तरत्रवर्णयित्वा स एवैकस्त्रिधाभूतः | इति | ततोप्युत्तरत्र वाक्ये सावधारणं तेषां परशब्दार्थभूत तुरीयवस्त्वभिन्नत्वं वर्ण्यते | अत्र तुरीयस्य उक्तप्रमाणानुसारेण विष्ण्वभेदो मुख्यः ब्रह्मरुद्राभेदस्तु गौण इत्येव वक्तव्यम् | अभेद मात्राभावे वचनस्याप्रामाण्यापत्तेः किञ्च अत एव श्रीरामोपनिषदि स्फुटम्- प्. ४१) यो वै श्रीरामचन्द्रस्स भगवान् यश्च महेश्वरस्तस्मै ते नमो नमः | यो वै श्रीरामचन्द्रस्सभगवान् यश्च महादेवो भूर्भुवस्तस्मै ते नमो नमः | यो वै श्रीरामचन्द्रस्सभगवान् ओं नमो भगवते वासुदेवाय यो महाविष्णुर्भूर्भुवः | तस्मै ते नमो नमः | यो वै श्रीरामचन्द्रस्सभगवान् यस्सच्चिदानन्दैकरसात्मकः भूर्भुवस्तस्मै ते नमो नमः इत्यादिना महेश्वरमहादेव शब्दवाच्यस्य नारायणावतारभूततुरीय शिवस्य मूलरूपनारायण विष्ण्वाद्यभेद श्रवणाच्च अत एव एतदुपबृंहणरूपपुराणेषु तुरीयस्य नारायणत्वमेवावेद्यते तथाहि सत्वं रजस्तम इति प्रकृतेर्गुणास्तैः युक्तः परः पुरुष एक इहास्य धत्ते स्थित्यादये हरि विरिञ्चि हरेति संज्ञाः श्रेयांसि तत्र खलु सप्ततनूर्नृणां स्युः इति भागवतवचने | तथा - सृष्टि स्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् | ससंज्ञा याति भगवानेक एव जनार्दनः | इति विष्णुपुराणवचने एवमत्र तपश्चर्यां प्रस्तुत्य - शरणं तं प्रपद्येयं ययेव जगदीश्वरः | प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् | इति तस्य फलाभिसन्धिमुक्त्वा अथ वरप्रदानाय ब्रह्मविष्णुरुद्राणां तत्र सन्निधाने सति स्तुतिप्रणामाद्युपचारानन्तरं तान् प्रत्यत्रेः प्रश्ने - एको भयेह भगवान् विविध प्रधानः चित्ते कृतः प्रजननाय कथं नु यूयम् | प्. ४२) अत्रागतास्तनुभृतां मनसो विदूराः ब्रूतप्रसीदतमहानिह विस्मयो मे || इति यथा कृतस्ते संकल्पः भाव्यं तेनैव नान्यथा | ससंकल्पस्य ते ब्रह्मन् यद्वै ध्यायसि ते वयम् | इति तेषां प्रतिवचनोपन्यासपूर्वकं श्रीमद्भागवतवचने तथैव - ब्रह्मादक्षादयः कालस्तथैवाखिलजन्तवः | विभूतयो हरेरेता जगतस्सृष्टिहेतवः | विष्णुर्मन्वादयः कालः तथैवाखिलजन्तवः | स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः | रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः | चतुर्धा प्रलयायैते जनार्दनविभूतयः || इति विष्णुपुराण वचने | वन्दे बृन्दावनासीनमिन्दिरानन्दमन्दिरम् | उपेन्द्रं सान्द्रकारुण्यं परानन्दप्रभुं परम् | ब्रह्मविष्णुमहेशाख्या यस्यांशा लोकपालकाः | तमादिदेवं चिद्रूपं विशुद्धं परमं भजे || इति बृहन्नारदीयवचने - विष्णोरन्यन्तु पश्यन्ति यो मां ब्रह्माणमेव च | कुतर्कमतयो मूढाः पच्यन्ते नरकेष्वथ || इति ये च मूढा दुरात्मानो भिन्नं पश्यन्ति मां हरेः | ब्रह्माणं वा समं तेषां ब्रूणहत्या समं त्वघम् || इति च | तथा भवानहञ्चैव विश्वात्मन्येकमेव हि | प्. ४३) कारणं जगतोप्यस्य भेदेनाहं व्यवस्थितौ | त्वया यदभवद्दत्तं तद्दत्तमखिलं मया | मत्तोह्यभिन्नमात्मानं द्रष्टुमर्हसिशंकर || अविद्या मोहितात्मानः पुरुषा भिन्नदर्शनः | इत्यादिपुराणान्तरवचनेषु पूर्वोदाहृतरामतापनीय नृसिंहतापनीय महोपनिषन्नारायणोपनिषत्सुबालोपनिषदादिवचनेषु सवेष्वपि तुरीयस्य वस्तुनः नारायणात्मकत्वमेवावसीयते - तस्मात्पौरुषेयापौरुषेयागमेषु शिवनारायणयोस्तुरीयत्वपरत्वरूपत्वाभिधाने द्वयोरभेदमेव ज्ञापयन्तीति न काप्यनुपपत्तिः | अत्रोदाहृत भागवतवाक्ये विष्णोरन्यन्तु पश्यन्ति इत्यादिवचनेषु सर्वत्राभेदवचनं कार्यरुद्रब्रह्मान्तर्यामि तुरीयशिवाभेदपरमिति न काप्यनुपपत्तिः उक्तवक्ष्यमाणप्रमाणैः तुरीयशिवस्य नारायणाभेदस्याविप्रतिपन्नत्वात् नारायणावताररूप तुरीयशिवस्यापि उभयान्तर्यामित्वेविवादाभावात् भाष्योदाहृतवचनैस्सर्वावतारस्य भगवतः कदाचिच्छिवावतारत्वे विवादाभावात् मध्वविजयादौ अनन्तैश्वररामेश्वर लिंगादीनां नारायणरूपत्वाभिधानाच्च | विपरिष्यते चैतदुत्तरत्रकिञ्च पूर्वोत्तरतन्त्रयोश्श्रुतिलिंगादि प्रमाणन्यायैरपि नारायणस्य तुरीय शिवाभिन्नत्व समर्थन सम्भवात् तथाहि कैवल्योपनिषदि - प्. ४४) सब्रह्मसशिवस्सेन्द्रः परमस्वराडित्यनन्तरं स एव विष्णुस्सप्राणः स कालोग्निस्स चन्द्रमाः | इत्यत्र स एव विष्णुरिति | सावधारणसामानाधिकरण्य श्रुत्या विष्णुपदार्थस्य तुरीयशिवाभेदो निर्णीयते न चायमभेदो ब्रह्मरुद्रादिष्विवामुख्य इति वाच्यम् | सर्वत्र मूर्तित्रय प्रतिपादकवाक्ये ब्रह्मादिसाम्येन पठितस्य विष्णोरमृतस्थानादन्यत्र सावधारणसामानाधिकरण्य श्रुतेस्तयोर्मुख्याभेदतात्पर्यकत्वावश्यं भावात् अन्यथा अन्ययोगव्यवच्छेदार्थकावधारणानुपपत्तेः अत एव पूर्वतन्त्रे शेषलक्षणे पञ्चमे पादे ऐन्द्रवायव्ये च वचनात् प्रतिकर्म भक्षस्स्यादित्यधिकरणे ज्योतिष्टोमो ऐन्द्रवायवं गृण्हातीत्यादिना विहितानामैन्द्र वायव्यादीनां शेष्यस्य प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्तीति विहितप्रतिपत्तिरूपे भक्षणे किमैन्द्र वायवस्य द्विवारं भक्षः उत असकृदिति संशये संस्कार्यस्य सोमरसस्यैकत्वेन भक्षणलक्षण संस्कारोपि सकृदेवं कार्य इति पूर्वपक्षे द्विरैन्द्रवायवस्य भक्ष इति द्विर्ह्येतस्य वषट्करोतीति द्वित्वसंख्यश्रुत्या ऐन्द्रवायभक्षणं द्विवारमनुष्ठातव्यमिति सिद्धान्तितम् || तत्रैव शेषलक्षणे षष्ठे पादे एकर्चस्थानयज्ञेस्युस्स्वाध्यायवदित्यधिकरणे ज्योतिष्टोमे रथन्तरादीनि प्. ४५) स्तोत्रीयाणि सामानि किं ऋतुकाले एकस्या मृचि गातव्यानि किं वा तृच इति संशये स्वाध्यायकाले एकस्यामृचि गीतत्वेन तद्वतृतुकालेपि एकस्यामृचि गातव्यानीति प्राप्ते एकं साम मृचें क्रीयते स्तोत्रीयमिति तृचश्श्रुत्या यज्ञकाले तानि तृचे गातव्यानि इति व्यवस्थापितम् | तत्र यथा श्रुत्या भक्षणस्य द्वित्व संख्याश्रयाभिन्नत्वं गानाश्रयीभूत ऋचां त्रित्वसंख्याश्रयाभिन्नत्वं निर्णीयते | एवमुत्तरत्रापि ज्ञातव्यम् | अत एव ज्योतिष्टोमेन स्वर्गकामे यजेतेत्यत्र समानपदश्रुत्या प्रत्ययोपात्तां भावनां प्रति प्रकृत्युक्तस्य यागस्य करणतया शेषत्वं निर्णीतं स्वर्णकामाधिकरणे अत एवोत्तरतन्त्रे प्रथमस्य तृतीयपादे द्युभ्वाद्यधिकरणे यस्मिन् द्यौः पृथिवी चान्तरिक्षं ओतं मनस्सह प्राणैश्च सर्वैः तमेवैकं जानथात्मानं इत्यत्र विष्ण्वैकान्तात्मपदश्रुत्या जीवादेः द्युभ्वाद्याश्रयत्वं निवार्य विष्णुरेव द्युभ्वाद्याश्रय इति व्यवस्थापितं अपि च तत्रैव कैवल्योपनिषदि सब्रह्मा सशिवस्सेन्द्र इत्यादौ ब्रह्मशिवयोर्मध्ये विष्णोरनुक्तत्वलिंगेन तच्छब्दार्थस्य नारायणाभिन्नत्वनिर्णयसम्भवात् | नारायणोपनिषदि सब्रह्मा स शिव इत्यत्र विष्णोरनुक्तिलिंग तच्छब्दार्थस्य नारायणात्मकत्व निर्णायकत्व दर्शनात् | अत एव प्. ४६) प्रथमे तदर्थशास्त्रादित्यधिकरणे बर्हिर्देवसदनं दामीत्यादि मन्त्रणं बर्हिर्लवन प्रकाशनशक्तिरूपेण लिंगेन बर्हिर्लवनशेषत्वं निर्णीतं अत एव चोत्तरतन्त्रे प्रथमे आकाशस्तल्लिंगादित्यत्र सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यत्र वरोवरीयस्त्वोद्गीथत्वानन्तत्वादिलिंगैराकाशो विष्णुरेवेति सिद्धान्तितम् | किञ्च श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः | मन्वन्तर सहस्रैस्तु जपहोमार्चनादिभिः | ततः प्रसन्नो भगवान् श्रीरामः प्राहशंकरः | वृणीष्व यदभीष्टं ते दास्यामि परमेश्वरेति | अथ सत्यानन्दात्मानं ईश्वरः प्रपच्छमणिकर्ण्यां ममक्षेत्रे गंगायां सुतटे पुनः | म्रियन्ते ये प्रभो देहि मुक्तिं नातो वरान्तरम् || इत्यथ - सहोवाच श्रीरामचन्द्रः क्षेत्रप्रभावादेवेश यत्र कुत्रापि वा मृताः | कृमि कीटादयोप्याशु मुक्तास्सन्तु न चान्यथा | आर्यमूर्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये | अहं सन्निहितस्तत्र पाषाणप्रतिमादिषु | क्षेत्रेस्मिन् योर्चयेद्भक्त्या मन्त्रेणानेन मां शिवम् | ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः | त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् | जीवन्तो मन्त्र सिद्धास्युर्मुक्तानां प्राप्नुवन्ति ते | प्. ४७) मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् | उपदेक्ष्यति मन्मन्त्रं स मुक्तो भविता शिवेति || ग्रामारण्य पशुघ्नत्वं सञ्चितं दुरितञ्च यत् | निश्शेषं नाशयत्येव रामात्माद्व्यक्षरो मनुः | मनो वाक्कायचरितं सञ्चितं दुरितञ्च यत् | मद्यपानेन यत्पापं तदप्याशुविनाशयेत् | इति च | कार्यशिवोपास्यत्वलिंगेन तन्नाम्ना ब्रह्महत्यादिसकलपापनिवर्तकत्वलिंगेन च रामचन्द्रात्मकनारायणस्य तुरीयत्वे सिद्धे कैवल्योपनिषदादि समाख्यया तस्य तुरीय शिवाभेद निर्णयख्यात किञ्च स एव विष्णुस्सप्राणः इति पदसमभिव्याहाररूपवाक्य प्रमाणात् तच्छब्दार्थ विष्णु शब्दार्थयोः उद्देश्य विधेयभावावगमेन उभयोरभेदनिर्णयावश्यंभावात् अत एव नवमे अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावस्स्यादित्यधिकरणे अग्नये जुष्टं निर्ववामि इत्युत्तरभागस्य लिंगान्निर्वापे विनियोगे स्थिते देवस्यत्वेत्यादि तथाविधलिंगरहितपूर्वभागमतस्यापि समभिव्याहृतत्वादेव तदेकवाक्यतया कथञ्चिन्निर्वापप्ररोचनार्थतया तत्रैव विनियोग इति सिद्धान्तितम् | अत एव च स्वर्गकामाधिकरणे यजेत स्वर्गकाम इत्यत्र यागस्वर्गयोश्शेषशेषित्वबोधक तृतीयाद्वितीययोरभावेपि समभिव्याहाररूपवाक्यप्रमाणादेव यागस्य स्वर्गशेषत्वं प्. ४८) व्युत्पादितं अत एव चोत्तरतन्त्रे प्रथमे ईक्षत्यधिकरणे हेयत्वावचनाच्चेति सूत्रे तमेवैकं जानथात्मानमित्यत्र समभिव्याहाररूप प्रमाणादहेयत्वरूपलिंगोपस्थापनद्वारा आत्मपदार्थस्य जीवत्वं निवार्य विष्णुत्वं निर्णीतम् | अत एव तृतीये चतुर्थे पादे असंयुक्तं प्रकरणादित्यधिकरणे महाप्रकरणेन प्रयाणादीनां दर्शपौर्णमासशेषत्वं व्यवस्थापितम् | तत्रैव प्रथमपादे कर्तृगुणे तु कर्मासमवायादित्यधिकरणे अभिक्रामन् जुहोतीत्यत्र अवान्तरप्रकरणेनाभिक्रमणादीनां प्रयाजादिशेषत्वं निर्णीतम् | अत एव चोत्तरतन्त्रे द्युभ्वद्यधिकरणे प्रकरणादिति गुणसूत्रे द्वे विद्ये वेदितव्ये इति निर्बाधोपक्रमणस्य परब्रह्मप्रकरणत्वेन तस्माद्यथा पश्यत्यन्यमीशमिति ईशशब्दार्थस्य परब्रह्मत्वं व्यवस्थापितम् | अपि च कैवल्योपनिषदि उपक्रमे परात्परं पुरुषमुपैति विद्वान् इत्यत्र पुरुषान्नपरं किञ्चित् सा काष्ठा सा पराणतिः सहस्रशीर्षा पुरुषः इति विष्णुपर कठवल्ली पुरुषसूक्तोक्तपुरुषपदश्रवणेन उपसंहारे च तेभ्यो विलक्षणस्साक्षी चिन्मात्रोहं सदाशिव इति सदाशिव शब्दस्य नारायणोपनिषद्गतस्य शाश्वतं शिवमच्युतं इति ईशशाश्वतशिवशब्दस्य च पर्यायत्वेन उपक्रमोपसंहारयोर्विष्णुपरत्वे मध्ये विद्यमानस्य प्. ४९) सर्वस्यापि सन्दंशिन्यायेन विष्णुपरत्वेन स्थानप्रमाणादपि तुरीयशिवस्य नारायणात्मकत्वनिर्णयावश्यं भावात् अत एव तृतीये क्रमश्च देशसामान्यादित्यधिकरणे आग्नेयाग्नीषोमीयानुमन्त्रणमन्त्रयोः अग्नेरहं देव यज्ययान्रादो भूयासम् अग्नीषोमयोरहं देव यज्यया वृत्रहा भूयासम् | इत्यनयोर्मध्ये पठितस्य दब्धिरस्य दब्धो भूयासमिति मन्त्रस्य पाठसादेश्यलक्षणस्थान प्रमाणादाग्नेयाग्नीषोमीययागयोर्मध्ये अनुष्ठेयोपांशुयागशेषत्वं व्यवस्थापितम् | अत एव तत्रैव षष्ठे पादे तुल्यस्सर्वेषां पशुरित्यधिकरणे ज्योतिष्टोमे पशुधर्माणां अनुष्ठानसादेश्यलक्षणस्थानप्रमाणा अग्नीषोमीय पशुशेषत्वं व्यवस्थापितम् | अपि च कैवल्योपनिषदि सब्रह्मासशिवस्सेन्द्रस्सोक्षरः परमस्स्वराट् इत्यत्र तच्छब्दार्थस्य तुरीयशिवस्य नारायणोपनिषद्गतस्य स ब्रह्मा सशिव इत्यादि स्वराडित्यन्तस्य तत्समान पदार्थत्वेन समाख्या प्रमाणाच्च नारायणात्मकत्व निर्णयध्रौव्यात् | अत एव चमसेषु समाख्यानादित्यधिकरणे होतृचमस इत्यादिसमाख्या प्रमाणात् होत्रादेश्चमसभक्षण शेषत्वं सिद्धान्तितम् | अत एव च उत्तरतन्त्रे वैश्वनराधिकरणे शब्दादिभ्योन्तः प्रतिष्ठानानेनति चेन्न | तथा दृष्ट्युपदेशादसंभवात् | पुरुषविषयत्वमपि चैनमधीयत इति गुणसूत्रे पुरुष प्. ५०) सूक्तोक्तस्य शीर्ष्णोद्यौस्समवर्तत | चक्षोस्सूर्यो अजायत | प्राणाद्वायुरजायत | पद्भ्यांभूमिरित्यादिना द्युभ्वादिजनक शीर्षादिमतो विष्णुत्वस्य निश्चितत्वेन तत्समाख्यया छान्दोग्य श्रुतिप्रतिपादकस्य मूर्धैव सूतेजाः चक्षुर्विश्वरूपः | प्राणः पृथग्वर्त पृथिव्येवपादावित्यादिना द्युभ्वादिजनकवैश्वानरस्य विष्णुत्व निर्णय इति व्यवस्थापितं किञ्च | यो वै रुद्रस्सभगवान् यश्च ब्रह्मा तस्मै वै नमो नमः | इत्यथर्वशिरो वाक्ये समानाधिकरण्य श्रुत्या कारण वाक्यगततुरीय शिवब्रह्मोद्देशेन भगवत्पदार्थभूतनारायणाभेदस्यैव विधेयत्वेन एतद्वाक्यस्य शैववैष्णवकारण वाक्ययोर्विरोधपरिहार तात्पर्यकत्वस्यैव युक्तत्वात् रुद्रपदभगवत्परयोरभ्यस्यमानत्वेनाभ्यासस्य उभयोरभेदे तात्पर्यलिंगत्वाच्च अन्यथा प्रकारान्तरेण वाक्यार्थवर्णनानुपपत्तेः एवमुत्तरतापनीय वाक्ये तं वा एतं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानु सन्दध्यात् | इत्यादिशिवमद्वैतं चतुर्थं मन्यन्ते | स आत्मा स विज्ञेय इत्यन्तेन तच्छब्देन तुरीय शिवमनूद्यात्मशब्देन नारायणाभेदो विधीयते | आत्मभगवदादिशब्दानां नारायणैकान्तत्वस्य रामोपनिषदि विश्वादिमूर्तित्रयमभिधाय नान्तः प्रज्ञं न बहिः प्रज्ञमित्यादिना शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः एतत्परं ब्रह्मरामचन्द्रः प्. ५१) सच्चिदानन्दात्मक इत्यन्तेन नारायणावतारभूतरामचन्द्रस्य तुरीयत्वपरब्रह्मत्वाभिधानेन उभयोरेकार्थत्ववर्णनस्यैव युक्तत्वात् एवम् - अन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु | त्वं ब्रह्मा त्वं प्रजापतिः त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं रुद्र इति तैत्तरीय वाक्येपि त्वं पदार्थस्य तुरीयस्य नारायणस्य त्रिमूर्त्यभेदो विधीयते अत्र सर्वत्र विष्ण्वभेदो मुख्यः | तस्य भगवदवतारत्वात् इतराभेदस्तु छत्रिन्यायेन मुख्यः | ऋतं सत्यं परं ब्रह्मपुरुषं कृष्णपिंगलम् | ऊर्ध्वरेतं विरूपाक्षं शंकरो नीललोहितः | इत्युपक्रमे नीललोहित शंकरः कार्यरुद्रः ऋतादिपदचतुष्टयोक्त नारायणं कृष्णपिंगलादि पदत्रयोक्ततुरीयं शिवं सन्तं ध्यायीतेत्यर्थवर्णनेन कोपि दोषः | न च कैवल्योपनिषदि | उत्तरत्र - स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् | इत्यादिवत् स एव विष्णुरिति सावधारणसामानाधिकरण्य श्रुतिर्भेदेप्युपपद्यत इति वाच्यम् | तत्र तुरीयस्य वस्तुनः प्रपञ्चस्य भेदग्राहकप्रत्यक्षमिव विरुद्ध धर्माधिकरणत्वरूपमनुमानमिव अन्यदेव तद्विदितादधो अविदितादधीति भेदप्रापक श्रुतिवाक्यमिव च | विश्वमेवेदं पुरुषः | तद्विश्वमुपजीवतीति विश्वपुरुषयोरभेदः उपजीव्योपजीवकभावनिबन्धनो गौण इत्यार्थिक प्. ५२) भेदप्रतिपादक वाक्यमिवात्राभेदे बाधकलेशाभावात् | नन्वेतदयुक्तम् | ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते अण्डं हिरण्मयं रुद्रस्य वीयात्प्रथमं संबभूव | तत्र ब्रह्मा विष्णुर्जातो जातवेदाः वैष्णवं वामनमालभेत | स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयति य एतां महोपनिषदं वेद | सकृतपुरश्चरणो महाविष्णुर्भवतीति - शरीरं वासुदेवस्य रामस्य च महात्मनः | संस्कारं लम्बयामास वृष्णीनाञ्च प्रधानतः | इत्यादि श्रुति स्मृतिभिः | विष्ण्वाख्य नारायणस्य जन्मत्व श्रवणात् कथं प्रशिथिलमूलोयं युक्तिविलास इति चेन्न | अस्य भवतामेवास्मदुक्त युक्तिजातविस्मरणमूलत्वात् | तथाहि भवतां तुरीयशिवत्वेनाभिमतस्य वस्तुनः नारायणाभेदे उक्तन्यायेन बहुप्रमाणप्रमिते विष्णोर्जननस्य छत्रिन्यायेनामुख्यतयैव नेयत्वादिति प्रागेवासकृदावेदित्वात् | नारायणात् ब्रह्मा जायते | नारायणाद्रुद्रो जायते इति नारायणोपनिषत्समाख्यया अथर्वशिखायामपि ब्रह्मविष्णुरुद्रादिजनकस्य तुरीयस्य नारायणात्मकत्वावश्यं भावात् | नारायणोपनिषदि विष्णुजनकत्वानुक्तिलिम्.गेन नारायणशब्दस्य नारायणभिन्नशिवादिपरत्वानुपपत्तेः | सोभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः | प्. ५३) अप एव ससर्जादौ वामु वीर्यमपासृजत् | तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् | तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपिता महः | आपो नारा इति प्रोक्ताः आपो वै नर सूनवः | अयनं तस्य ताः पूर्वं तेन नारायण स्मृतः | इति उपबृंहणानुसारेण अण्डं हिरण्मयमित्यत्रापि रुद्रशब्दस्य तुरीयाख्यनारायणपरत्वस्यैव युक्तत्वात् | य उ चैनमेवं वेद | इत्यादेरिव | विष्णुरेव भूत्वेत्यादेरपि अर्थवादत्वेन फलसमर्पकत्वाभावात् | विष्णुत्वप्राप्तेः क्रतुशतसाध्येन्द्रत्वापेक्षया आधिक्येन तस्य वामन पश्वालंभनमात्रसाध्यत्वासंभवेन तस्यार्थवादत्वस्यैव युक्तत्वाच्च किञ्च अजायमानो बहुधा विजायते | एष सर्वभूतान्तरात्मा | अपहतपात्मा | दिव्यो देव एको नारायणः इत्यादि श्रुत्या | अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् | प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || नमां कर्माणि लिम्पन्ति न मे कर्म फले स्पृहा | इच्छागृहीताभिमतोरु देहः इति भगवद्गीतादिवचनेन | तपसाराधितो देवोह्यब्रवीद्भक्तवत्सलः | लोकानां सं प्रियार्थन्तु शापं तं ग्राह्यमुक्तवान् | इति लैंगे भृंगु प्रति हरेर्वचनेन | तत्रैव - पुनस्सर्वात्मको विष्णुर्जननं स्वच्छयैव तत् | प्. ५४) द्विजे शापच्छलेनैवमवतीर्णो हि लीलया | इति वचनेन - देव तिर्यङ्मनुष्येषु शरीरग्रहणात्मिका | लीलेयं सर्वभूतेषु तव चेष्टोपलक्षणात् | नाकारणात्कारणाद्वा कारणं कारणानि च | शरीरग्रहणं तस्य धर्मत्राणाय केवलम् | कृतकृत्योह्यहं ब्रह्मन् भक्तानां हितकाम्यया | भजामि विविधं जन्म स्वेच्छयैवात्मलीलया | इति वचनान्तरेण - समस्तशक्तिरूपाणि तत्करोति जनेश्वर | देव तिर्यङ्मनुष्याख्या चेष्टावन्ती स्वलीलया | जगतावुपकाराय न सा कर्म निमित्तजा | इति विष्णुपुराणवचनेन - इच्छयापि हि देवत्वं मनुष्यत्वमपीच्छया | सूकरत्वञ्च मत्स्यत्वं नरसिंहत्वमेव च | इति पुराणान्तरवचनेन - तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शंखगदाद्मुदायुधम् | श्रीवत्सवक्षं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोद सौभगम् || महहि वैडूर्य किरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् | प्. ५५) उद्दाम काञ्च्यंगद कंकणादिभिः विरोचमानं वसुदेव ऐक्षत || श्रीवत्सवक्ष संभ्राजत्कौस्तुभामुक्तकन्धरः | पृथुदीर्घं चतुर्बाहुं वसुदेवो ह्ययं पुमान् || लक्षणैर्नारद प्रोक्तैर्नान्यो भवितुमर्हति | एतस्मिन्नेव काले तु क्षीरोदे सागरोत्तमे || निवासे देवदेवस्य शङ्खचक्रगदाभृतः | उपासीनो महाबाहुः श्रीमान् वैरोचनो बलिः || जहार देवदेवस्य किरीटं रत्नचित्रितम् | तमन्वथावत्वेरितं वैनतेयो विहङ्गराट् || कृत्वा युद्धं महाघोरं जित्वा दानवपुङ्गवम् || गृहीत्वा रत्ननिचयं किरीतं भास्करोपमम् | आगच्छन् ददृशे तत्र देवकीनन्दनं हरिम् || तस्य मूर्ध्निनिधायाशु किरीटं दिव्यभूषणम् | प्रणम्य पादयोर्मूर्ध्ना स्तोतुसमुपचक्रमे || एकदार्भकमादाय स्वांकमारोप्य भामिनी | प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुतम् || पीतप्रायस्य जननी सुतस्य रुचिरं स्मितम् | मुखं लालयती राजन् जृंभतो ददृशे इदम् | खं रोदसी ज्योतिरनीकमास्ये सूर्येन्दुवन्हीश्वसनाम्बुधींश्च | द्वीपान्नगान् स दुहितुर्वनानि भूतानि यानि स्थिरजङ्गमानि || इति | प्. ५६) रूपं यत्तत्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारम् | सत्तामात्रं निर्विशेषं निरीहं सत्वं साक्षाद्विष्णुरध्यात्म दीपः || विदितोसि भवान् साक्षात् पुरुषः प्रकृतेः परः | केवलानुभवानन्द स्वरूपस्सर्वसिद्धि दृक् || इत्यादि भागवतवचनेन | न तस्य प्राकृता मूर्तिर्मांसमेदोस्थि संभवा | न योगित्वादीश्वरत्वात्सत्यरूपोच्युतो विभुः || सद्देहस्सुखगन्धश्च ज्ञानभाक्सपराक्रमः | ज्ञानाज्ञानस्सुखदुःखः स विष्णुः परमोच्युतः || इति वराह वचनेन | देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः | परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम् || इति ब्रह्मकैवर्तादिवचनजातेन विष्णोर्जननस्य स्वेच्छामात्रजननत्व कर्मानधीनत्व साधुहितैकप्रयोजनत्वलीलारूपत्वादीनामवताराणामपि समस्तकल्याणगुण पूर्णत्वमूलरूपाभेदा प्राकृतविग्रहत्व निर्विकारत्व उत्पत्तिविनाशत्वादीनाञ्च प्रतिपादनात् उक्तजननमरणादिप्रतिपादकवाक्यानां असुरजनमोहनाय तथा प्रदर्शनमात्र परत्वस्यैव युक्तत्वात् अन्यथा बहुप्रमाणविरोधापत्तेः तस्मात्सकलशैववैष्णव वाक्यानामेषैव दिगविरोधनेनेत्यपीति संक्षेपः | प्. ५७) यच्चोक्तम् नामानि तव गोविन्देति शिवो महेश्वरश्चैव इत्यादि हरिवंशादित्यपुराणादिवचनैर्विष्ण्वादिसकलानामवाच्यत्वं रुद्रस्यैवेति तस्यैव सर्वोत्कर्षो न नारायणस्येति | तदपि दत्तोत्तरम् | तथाहि - रुद्रशब्दार्थः कार्यरुद्रो वा कारणरुद्रो वा नाद्यः | तस्य विष्ण्वादिसकलनामवाच्यत्वासम्भवात् प्रत्युततान्येव मम नामानीत्यत्र अग्निमानेव धूमवानित्यादिवत् | एवकारेण भगवन्नाम्नां व्यापकत्वमेव प्रतीयते | तेन विष्णुनामसु अनन्तानन्देषु विष्णुना कतिपय नामानि शिवाय दत्तानीत्युक्तं भवति | नान्त्यः | नारायणावतारस्य तदत्यन्ताभिन्नस्य कारणवाक्य प्रतिपाद्यकारणशिवस्य सकलनामवाच्यत्वस्य सर्वाविरोधित्वात् | ननु शिवस्य नारायणावतारत्वे प्रमाणाभावेनापसिद्धान्ताच्च साहसमात्रमेतदिति चेन्न शिवस्य नारायणावतारत्वे निरवकाशकारणवाक्यद्वयविरोधपरिहारान्यथानुपपत्तेरेव प्रमाणत्वात् | किञ्च - नारायणात् ब्रह्मा जायते | नारायणात् रुद्रो जायते | अथ पुनरेव नारायणः सोन्यं कामं मनसा ध्यायीतेति | तस्य ध्यानान्तस्थस्य | ललाटात् त्र्यक्षश्शूलपाणिः पुरुषो जायतेति नारायणोपनिषद्वाक्येन | प्. ५८) विष्णोरन्यन्तु पश्यन्ति ये मां ब्राह्मणमेव च | कुतर्कमतयो मूढाः पच्यन्ते नरकेष्वथ | इत्याद्युदाहृताभेद बोधक वचनजातेन च तुरीयशिवस्य नारायणांवतारत्व निर्णयसंभवात् | न च ब्रह्मणोप्यभेदश्श्रूयत इति तस्यापि तदवतारत्वम् | स्यादिति वाच्यम् | तयोर्भेदस्यैव बहुप्रमाणसिद्धत्वेन तस्य तदभेदस्य छत्रिन्यायेनैव नेयत्वात् | क्वाप्यभेदाभावे छत्रिन्यायस्यानवकाशात् नारायणोपनिषदि नारायणाद्रुद्रोजायत इति कार्यरुद्रस्याभिहितत्वेन पुनः त्र्यक्षः शूलपाणिः पुरुषो जायत इत्यत्र शूलपाणिपुरुषशब्दयोर्नारायणावतारतुरीय शिवपरत्वावश्यं भावात् | किञ्च वैश्वानराधिकरणे शब्दादिभ्योन्तः प्रतिष्ठानां नेति चेन्न तथा दृष्टयुवदेशादसंभवात् पुरुषमपि चैनमधीयत इति गुणसूत्रभाष्ये अथ हैममात्मानमणोरणीयांसं परतः परं विश्वं हरिमुपासीतेति सर्वनामे सर्व कर्म सर्वलिङ्गः सर्वगुणः सर्वकामः सर्वधर्मः सर्वरूप इति एतमेवात्मानं विश्वं हरिं अनादरमुपास्ते | तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु वेदेषु कामचारो भवतीति तत्तन्नामलिंगादिना तस्यैव दृष्ट्युपदेशात् महोपनिषदित्यादि भाष्योक्त श्रुतौ सर्वरूप इति वचनेन नारायणस्य सर्वावतारत्व प्रतिपादनेन शिवस्यापि नारायणावतारत्वस्य प्. ५९) प्रमितत्वेनापसिद्धान्ताभावात् सर्वरूपशब्दस्य सर्वाभेदार्थकत्वानुपपत्तेः सर्वावतारपरत्वस्यैव वक्तव्यत्वात् | सर्वनामादिपदसमभिव्याहृतसर्वरूपस्य सर्वावतारपरत्वावश्यं भावाच्च | सर्वावतारस्य नारायणस्य कदाचिद्युगे शिवावतारत्वे बाधका भावात् अनन्तेश्वररामेश्वर लिंगादीनां श्रीमन्नारायणाधिष्ठातृत्वस्यास्माभिरङ्गीकाराच्च | गोलकद्वितयं विष्णोस्तृतीयं वा प्रकीर्तितम् इति तन्त्रसारवचनेन भगवतो लिंगाधिष्ठान्न तस्य तेजोमय लिंगरूपत्वस्यैव वक्तव्यत्वात् | ब्रह्मणि ब्रह्मरूपो सौ शिवरूपी शिवे स्थितः | इति भाष्योक्त स्मृतेश्च | तीर्थप्रबन्धे वरदराजयतिकृत रामनाथ स्तुतौ - कालद्विषं कामितदानदक्षं श्रीमज्जटाजूडविभासिताङ्गम् | रामेश्वरं रामकृत प्रतिष्ठं रामागृहीतार्थ तनुं नतोस्मि || तथा ##- कल्पान्ते सुरभूसुरासुरहरं सोमं हरं कंहरं पृथ्व्यां पातककोटिपाटनपटुः रामः किलाराधितुः | तथा - भेजे लिंगं शिलां हरिं इत्यादिभिः भगवतो रामाराध्यस्य शिवस्य स्वाभिन्न नारायणावतारत्वस्यैव वक्तव्यत्वात् | अन्यथा महानुभावकृतस्य परमनिर्णायकग्रजस्य मिथ्याज्ञानजनकत्वापत्तेः | प्. ६०) भागवतरामायणादौ भगवतो रामकृष्णादेः यत्तत्परं ज्योतिरनन्यमद्वयं इत्यादिना स्वरूपोपासनाया एवाभिहितत्वाच्च | मध्वविजयेपि भेजे भुजङ्गशयनं द्विषडब्दकालं तथा नारायणं कुलपतिं शरणं व्रजेम तथा विष्णवे श्रीरामनाथाय नमश्चकारस इत्यादिना अनन्तेश्वररामेश्वरलिंगयोः नारायणाधिष्ठानत्वाभिधानेन तयोः नारायणावतार शिवाधिष्ठानत्वमेव वक्तुमुचितम् | तस्मादेतानि श्रुतिस्मृति वचनयक्तिजातानि तुरीयशिवरूपं वस्तु नारायणात्मकं नातोतिरिक्तमिति संगमयन्तीति सर्वमनवद्यम् | तथा चायं निष्कर्षः | जन्मादि सूत्रोक्तं मायाशबलितं ईश्वराख्यं ब्रह्मैकमेव कदाचिद्युगे नारायणरूपं सत् ब्रह्मविष्णु रुद्रादीन् सृष्ट्वा सकलजगत्कारणं भवति | कदाचिद्युगे तदेव ब्रह्मशिवरूपं धृत्वा ब्रह्मादीन् सृष्ट्वा सकलजगत्कारणं भवति | नारायणोसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात् | नारायणमहाज्ञेयं इत्यादि वाक्यानि नारायणस्यैव मोक्षार्थमुपासनापराणि | कारणं तद्ध्येयः सर्वैश्वर्य सम्पन्नः सर्वेश्वरश्शम्भुराकाशमध्यगः उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्त साक्षिं तमसः परस्तात् | इत्यादि वाक्यानि शिवस्यैव मोक्षार्थमुपासनापराणि तुरीयाश्रमस्थैः प्रायेण नारायणस्यैव उपास्यत्वं प्. ६१) अत एव शांकरभाष्ये परामर्शं जैमिनिरचोदनाच्चापदं ददति हि इत्यधिकरणे तुरीयाश्रिमिणामेव सगुण ब्रह्मज्ञानद्वारा निविशेष ब्रह्मा परोक्षज्ञानमिति निर्णीतम् | विष्णुसहस्रनामभाष्यस्यैवादावादरेण कृतत्वाच्च विष्णोर्ब्रह्मादि साम्येन जननवाक्यानि रामकृष्णाद्यवतारवत् विष्णोश्शुद्धसत्वप्रधानकमायोपहितत्वेन ब्रह्मादिसाम्यायोगेन छत्रिन्यायेनामुख्यतयैव नेयानि | विष्णुशिवयोः परस्परनिन्दा वाक्यानि नहि निन्दा न्यायेन नेयानि - हिरण्यगर्भस्समवर्तताग्रे अग्निरग्रे प्रथमो देवतानां राजानौ वा एतौ देवतानां इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादि कारणवाक्यानि एतदुभयान्यतरपरतयैव नेयानि | एतदुभयोरेव कारणत्वे साधकबाहुल्यसद्भावात् तस्मात्तुरीयशिवनारायणात्मकं ब्रह्मैकमेवेति शंकराचार्यसिद्धान्ते सरणिः - रामानुजाचार्यमते तु तयोरभेदो द्वेधा निरूपणीयः | तत्र तत्वमसीत्यत्र तत्वं पदार्थयोः जीवब्रह्मणोविशिष्टाद्वैतवत् तुरीयशिव नारायणयोः विशिष्टाद्वैतरूपाभेद एव स्वीकर्तव्यः | न च तत्वमसीत्यादि वाक्यवत् अत्रोभयोरभेदवाक्यं न दृश्यत इति वाच्यम् | नारायणात् ब्रह्माजायते | नारायणाद्रुद्रोजायते इत्यादिवाक्यप्रतिपाद्यं सूक्ष्मचिदचिद्विशिष्टं नारायणाख्यं जगत्कारणं कारणन्तु प्. ६२) ध्येय इत्यत्र कारणपदेनानूद्य सर्वैश्वर्य सम्पन्नः सर्वेश्वरश्शम्भुराकाशमध्यम इत्यनेन शिवशरीरक ब्रह्माभेद विधान संभवात् | कैवल्योपनिषद्यपि हृत्पुण्डरीकमित्यादि चिदानन्दमरूपमद्भुतमित्यन्तेन नारायणाख्य परतत्वमनूद्य उमासहायमित्यादिना शिवशरीरकं तं ध्यात्वा भगवन्तं गच्छतीत्यर्थपरत्वेन विरोधाभावात् | एवं शिवोपासना वाक्यानि सर्वाण्यपि विशिष्टाद्वैत परतया नेयानि शिव एव केवल इति | शिवस्य कारणत्वप्रतिपादकवाक्यानि एको ह वै नारायण आसीदित्यादि निरवकाशकारणवाक्याविरोधाय शिवशरीरकनारायणस्य कारणत्वपरतयैव नेयानि विशिष्टाद्वैतोपासनायाः | परमपुमर्थसाधनत्वेनास्यार्थस्यैव युक्तत्वाच्च | यद्वा नारायणाख्यं परतत्वं तुरीयशिवाभिन्नमिति तस्य कारणवाक्यगत शिवादिपदवाच्यं तुरीयं नारायणात्मकमेव नातो रिक्तमित्यर्थ एव स्वीकर्तव्यः | एको ह वै नारायण आसीन्न ब्रह्मा न च शंकरः | इति निरवकाश प्रधान वाक्याविरोधाय हन्तैतमेव पुरुषं सर्वाणि नामान्यभिसंविशन्तीत्यादिवचनजातेन तुरीयवस्त्वात्मकनारायणस्यैव कारणवाक्यगत शिवादिसकलनामवाच्यत्वावश्यं भावात् शिवनारायणयोरैक्यवचनमुपपन्नम् तस्मादेकमेव नारायणरूपं तुरीयं परं तत्वमिति प्. ६३) श्रीभाष्यकृतां पन्थाः | अस्मच्छ्रीमदाचार्य सिद्धान्ते तु इत्थमभेदोनिरूपणीयः तथाहि सोमेन यजेतेत्यादिवाक्यविहितसोमयागादौ ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादि वाक्यैः फलसंबन्धादिविधानमिव अत्रापि एको ह वै नारायण आसीन्न ब्रह्मा न च शंकरः इत्यादि वाक्यविहित ब्रह्मरुद्रादि द्वितीयवस्तुशून्यत्व सर्गाद्यसमयवृत्तित्वादिविशिष्टं नारायणात्मकमेव ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयते | कारणं तु ध्येयः | सर्वैश्वर्य संपन्नः सर्वेश्वरश्शम्भुराकाशमध्यगः शिव एको ध्येयश्शिवंकरः | सर्वमन्यत्परित्यज्य इत्याद्यथर्वशिखा वाक्ये कारणन्तु ध्येय इत्यत्र | एकेन कारणपदेनानूद्य सर्वैश्वर्य संपन्नत्वात् सर्वेश्वरत्वेन शिवं करत्वाच्छिवत्वेन शम्भुशब्दितकारण वाक्यगतनारायणावतारतुरीयशिवाभिन्नत्वेनाकाशमध्यगतत्वेन ध्यानं फलाय विधीयते | न तुरीय शिवः सर्वेश्वरशब्दशिवशब्दयोस्तत्ररूढत्वेन प्रवृत्तिनिमित्तद्वयकथनानुपपत्तेः | नारायणात् ब्रह्माजायते | नारायणाद्रुद्रो जायते | इति नारायणोपनिषत्समाख्याया कारणपदोक्तब्रह्मरुद्रादिकारणस्य नारायणत्वावश्यं भावात् | एवं हृत्पुण्डरीकमित्यादि तमसः परस्तादित्यन्तेन कैवल्योपनिषद्वाक्ये हृत्पुण्डरीकमित्यादि चिदानन्दमरूपमद्भुतं प्. ६४) इत्यन्तेन तुरीयं जगत्कारणं नारायणमनूद्य उमासहायमित्यादि तमसः परस्तदित्यन्तेन कारणवाक्यगत भगवदवताररूप तुरीय शिवोपासनाफलाय विधीयते | अत एव भाष्योदाहृत श्रुतौ भगवतस्सर्वावतारत्वादिकं प्रतिपादितां तथा यो वै रुद्रस्स भगवान् यश्च ब्रह्मा इत्यथर्व शिरो वाक्ये कारणवाक्यगतरुद्रादिपदार्थोद्देशेन भगवच्छब्दित नारायणाभेदो विधीयते | इत्थं हि तत्र वचन व्यक्तिः यो वै रुद्रः नारायणावतारभूतस्तुरीय शिवं यश्च ब्रह्मा चतुर्मुखः स भगवान्नारायण इति एवमुत्तरत्रापि ज्ञातव्यम् | अन्यथा वाक्यार्थस्य सामंजस्यप्रसंगात् | एवमुत्तरतापनीय वाक्येपि शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः | इत्यत्र चतुर्थ शिवोद्देशेनात्मशब्दितनारायणत्वं मोक्षार्थं विज्ञेयत्वं विधीयते | एव मितराणि शिवोत्कर्षपराणि सर्वाणि वाक्यानि एतदविरोधाय नारायणस्यफलाय शिवत्वेन उपासना पराणि नेयानिउपासनापदरहितानां वाक्यानां उपासनापदमध्याहृत्यांश्रुतफलानां च ऐहिकामुष्मिकफलं कल्पनीयम् | भगवतश्शिवत्वेन उपासनायाः सर्वेषु लोकेषु कामचारो भवतीत्यादिना महाफलस्याभिहितत्वात् ऐहिकामुष्मिकभोगेच्छावतां राजसजनानामुपासनार्थं भगवतो नारायणस्य शिवत्वेन लीलाविग्रह स्वीकारसंभवात् प्. ६५) तुरीय शिवपराण्यपि सर्वाणि वाक्यानि उपासनापराण्येव श्रूयन्ते तस्मात् तुरीयशिवात्मकं नारायणाख्यमेव परं तत्वमिति अथवा उपासनापदरहितानां शैववाक्यानां नामानि सर्वाणि यमाविशन्ति इत्यादि श्रुत्या नारायण परत्वात् शिवोपासना वाक्यानां उदाहृत श्रुत्या नारायणस्य शिवान्तर्यामिणः शिवधर्मत्वेनोपासनापरत्वाच्च सर्वाण्यपि शैव वाक्यानि नारायणपराण्येव - ब्रह्मणि ब्रह्मरूपोसौ शिवरूपी शिवे स्थितः | इति वचनप्रामाण्यात् | येप्यन्य देवता भक्ताः यजन्ते श्रद्ध्यान्विताः | तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् | अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते | इति गीतावचनप्रामाण्यात् | अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः | इति मार्कण्डेयपुराणे मार्कण्डेयं प्रति शिववचनंस्वारस्याच्च - यद्वा रे मत्तमातङ्गाः वायुवेगास्तुरंगमाः | पूर्णेन्दुवदना नारी शिवपूजाविधेः फलम् | इति स्कान्दे सनत्कुमारसंहितायां फलविशेषनिर्देशाच्च | लोके ऐहिकभोगेच्छावतां राजसतामसजनानां प्राचुर्यात्तदर्थं बहुस्थलेषु श्रुतिस्मृत्यादिषु शिवोपासना प्. ६६) तत्पूजादीनामेव श्रवणे बाधकाभावात् | श्येनेनाभिचरन् यजेत इत्यादिवत् श्रुतिस्मृतिवाक्यानां स्वरूपस्थितिमात्रकथनपरत्वात् हिरण्यगर्भस्समवर्तताग्रे अग्निरग्नेप्रथमो देवतानां इमानि भूतान्याकाशादेव समुत्पद्यन्ते इत्यादि तत्तदसाधारणपदघटितकारणवाक्यानां विष्णुपरत्ववत् शैववाक्यानामपि नारायणपरत्वस्यैव युक्तत्वादिति नन्वेवमेव शैववाक्यानामविरोधसंभवे शिवस्य विष्ण्वतारत्वेनाविरोधे को विशेष हेतुरिति चेन्न | शिवोत्कर्षपराणां शिवासाधारण श्रुतिलिंगादि युक्तानां वाक्यानां प्राचुर्यात् शिवनारायणपदानां तत्तद्वयक्तिमात्रपरत्वाभावे शैव वैष्णव कथा प्रवृत्यनुपपत्तेश्च | शिवस्य विष्ण्वतारत्वेनाविरोधे उदाहृतसाधकप्रमाणात् बाधकाभावाच्च शैववाक्यानां विष्णुपरत्वनयनसौलभ्याच्च तस्मात् शिवस्य नारायणावतारपक्षमंगीकृत्य सकलजीवादिभिन्न तुरीय शिवनारायणयोरैक्यमिति पक्षद्वयेपि नारायणाख्यमेकमेव परं तत्वमिति श्रीमदानन्दतीर्थचरणावलम्बिनां सरणिः | एवं मतत्रयं प्रायेण न विरुद्धमिति त्रिमतैक्यप्रकाशो युक्त इति || इति श्रीपरमहंसपरिव्राजकाचार्यसर्वतन्त्रस्वतन्त्र श्रीमद्वसुधेन्द्रतीर्थ श्रीमच्छरणकरुणालयेन श्रीमन्महानन्दतीर्थभगवत्पादाचार्य सिद्धान्तानितरसाधारणप्रवचनादि पटुतर श्रीवाणातुरै रामाचार्यतनयगोपालाचार्यसूनुना ऐयणाख्येन विरचितायां त्रिमतैक्यप्रकाशिकायां प्रथम परिच्छेदः || समाप्तः || प्. ६७) || मतत्रयैक्यप्रकाशिकायां द्वितीय परिच्छेदः || नन्वेतदयुक्तं यतो द्वैतिनो वदन्ति | श्रुतिस्मृतिसिद्धं सजातीय विजातीय स्वगत भेदवर्जितं ब्रह्मेति | तथाहि - जीवानुवादेन ब्रह्माभेदविधायके तत्वमसीत्यादिवाक्ये त्वं पदेन चेतनत्वेन सजातीयं जीवजातं तत्रापि जहदजहल्लक्षणया विशिष्टाकारं परित्यज्य चैतन्यमात्रमनूद्य तत्पदेन तयैव लक्षणया विशिष्टाकार परित्यागेनोपस्थितं चैतन्यमात्ररूपत्वं विधीयते | जीव चैतन्यस्य ब्रह्मचैतन्यरूपत्वविधाने पदयोस्सामानाधिकरण्याभेद एव पर्यवस्यति | एवं ब्रह्मानुवादेन जीवाभेदविधिस्थले | क्षेत्रज्ञं चापि मां विद्धि इत्यादौ भागत्यागलक्षणयैवैक्यं नेयमिति | अथ कथं जीवभिन्नं नारायणाख्यं ब्रह्म परं तत्वमित्येतत् द्वैतिमताविरुद्धमिति चेदत्र ब्रूमः | जीवब्रह्माद्वैतवाक्यम्मुख्याभेदगोचरम् | तदेव मुख्यतो भेदं श्रौतयुक्त्यावगाहते | नदीघोषादि वाक्यानां अविरुद्धार्थता यथा | जीवब्रह्मैक्य वाक्यस्य तथा नेयाविरुद्धता | यत्तत्वमसीत्यादिवाक्यं लक्षित चैतन्याभेद विषयं तदेव वाक्यं वाच्यार्थयोर्जीव ब्रह्मणोर्वक्ष्यमाणयुक्त्याभेदं विषयीकरोति | यथा गङ्गायां घोष इत्यादि वाक्यं वाच्यलक्ष्यार्थभेदेनाविरुद्धं तथैवाद्वैतवाक्यमविरुद्धमित्यर्थ इति इदमुक्तं भवति | चेतनत्वेन प्. ६८) सजातीयजीवप्रतियोगिक भेदनिषेधरूपाभेदो मुख्यः अभेदस्यामुख्यत्वं कथमिति चेत् शक्यतावच्छेदकानवच्छिन्न प्रतियोगिकत्वादिति ब्रूमः | ब्रह्माभेदप्रतियोगिनो जीवादिपदलक्ष्य शुद्धचैतन्यस्याविद्यावच्छिन्नचेतनत्वादिरूपजीवादिपदशक्यतावच्छेदक नवच्छिन्नत्वात् | तत्र तत्वमसीत्यादौ तत्पदशक्यतावच्छेदकं सार्वज्ञादिविशिष्टचेतनत्वं त्वं पदशक्यतावच्छेकञ्च अभिमुख चेतनत्वं अभिमुखत्वञ्च प्रकृतशाब्दबोधान्वयप्रकारकवक्तृभिन्नविशेष्यकवक्तृ इच्छाविषयवाकज्ञानवत्वं तथा च तत्वमसीति प्रयोगे श्रोतुः अहं ब्रह्मास्मीति शाब्दबोध एव जायत इति वक्तव्यम् | एवञ्च त्वं पदशक्यतावच्छेदकानवच्छिन्ने त्वंपदलक्ष्यशुद्धचैतन्यतत्पदशक्यतावच्छेदकानवच्छिन्नेन तत्पदलक्ष्यशुद्धचैतन्येन भेदनिषेधरूपमैक्यं बोध्यते | एकत्वसंख्याया निर्धर्मिके ब्रह्मण्ययोगात् क्षेत्रज्ञं चापि मां विद्धीत्यादौ अस्मत्पदलक्षित शुद्ध चैतन्ये क्षेत्रज्ञपदलक्षितशुद्धचैतन्य प्रतियोगिक भेदनिषेधात्मकाभेद एव बोध्यते - तथा च जीवब्रह्मादि पदलक्ष्ये शुद्धब्रह्माणि ब्रह्मजीवादि पदलक्ष्य परब्रह्माभेद प्रतिपादनपरे अद्वैतवाक्ये जीवब्रह्म पदमुख्यार्थयोर्जीवब्रह्मणोर्भेद एव दृढीकृतो भवति गंगापदलक्षस्य गंगारूपतीरस्य घोषाधारत्वेपि गंगापदवाच्यपूरस्य घोषानाधारत्वे विरोधाभावात् | तथा चायं प्रयोगः जीवः ब्रह्मभिन्नो भवतु | प्. ६९) मर्हति | जीवपदलक्ष्यस्य ब्रह्माभिन्नत्वात् यत्पदलक्ष्यं यदभिन्नं तत्पदवाच्यं तद्भिन्नमिति नियमात् | यथा - सिंहो देवदत्त इत्यादौ देवदत्तादेरमुख्यार्थ सिंहादि सदृशाभेद इति | न च हेतोः पक्षधर्मत्वाभाव इति | वाच्यम् | ऊर्ध्वदेशो सृष्टिमानथो देशे नदी पूरादित्यादौ व्याप्तौ सत्यां हेतुसाध्ययोर्व्यधिकरणत्वस्यादोषत्वादिति सुधायामुक्तत्वात् - अथवा - ब्रह्मवाचकातिरिक्त पदवाच्यत्वं हेतुः - तथात्वे हेतोः पक्षधर्मता लाभः | व्याप्तिश्च सुग्रहा | यत् यद्वाचकातिरिक्तपदवाच्यं तत् तत्पदवाच्याद्भिन्नमिति एवं ब्रह्मजीवाद्भिन्नं भवितुमर्हति जीवपदलक्ष्याभिन्नत्वात् यद्यत्पदलक्ष्याभिन्नं तत्तत्पदवाच्याद्भिन्नमिति व्याप्तेः यथा - भाट्टाभिमते सोमेन यजेत नीलोघट इत्यादौ तत्र यागघटयोः सोमनीलपदलक्ष्याभिन्नयोस्सोमनील पदवाच्याभ्यां भेददर्शनात् | तथा च गंगायां घोष इत्यत्र गंगापदलक्ष्यवाच्ययोर्घोषाधारत्वतत्तदभावयोरविरोधवत् | सोमादिपदवाच्यानां तत्पदलक्ष्याणाञ्च सोम यागादिभिः भेदाभेदयोरविरोधवच्च | तत्वमतीत्यद्यद्वैत वाक्यानामपि त्वमादिपदवाच्यस्य जीवस्य तदादि पदवाच्येन ब्रह्मणाभेदः त्वमादिपदलक्ष्यस्य शुद्ध चैतन्यस्य तदादिपदलक्ष्येण शुद्धचैतन्येन अभेद इति भेदाभेदयोर्मुख्यामुख्ययोरविरोधस्य सर्वसमतत्वादिति | न च भवन्मते | त्वं पदस्य जीववाचकस्य तदन्तर्यामि प्. ७०) ब्रह्मचैतन्ये कथञ्चिल्लक्षणायामपि तत्पदस्य सार्वज्ञादि गुणविशिष्टवाचकस्य कथं शुद्धचैतन्य लक्षकत्वं तस्यैव शुद्धरूपत्वात् | येनोभयोराविरोध इति वाच्यम् | भगवतस्तद्धर्माणां अभेदवादिनामस्माकं शुद्धस्यैव ब्रह्मणः विशेष बलात् विशिष्टव्यवहारविषयतानुसन्धानदशायां तत्पदवाच्यत्वस्याभेदमात्रानुसन्धानेन केवलशुद्धतानुसन्धानदशायां तत्पदलक्ष्यत्वस्य मुख्यस्य गौणस्य वा संभवेन उभयोरविरोधात् | अत एवोक्तं गौडब्रह्मानन्दीये जडत्वभंगोद्धारे सत्यादि शब्दानामनवच्छिन्न चैतन्ये शक्तिरेव | लाक्षणिकत्वव्यवहारस्तु शक्यतावच्छेदका नवच्छिन्न बोधजनकत्व सामान्यात् गौण इति | ननु लक्षणागौण्यो अमुख्यत्वेपि विदितव्यम् इति वाच्यम् | तथात्वे तार्तीयाद्यधिकरणविरोधप्रसंगात् | तत्र तृतीये पादे अनुप्रसर्पिषु सामान्यादित्यत्र विचिन्तितं राजसूये दशपेयाख्य सोमयागविकारे श्रूयते | एकैकं चमसं दशदशानु प्रसर्पेयुः शतं ब्राह्मणास्सोमं भक्षयन्तीति तत्र ज्योतिष्टोमाद्दशचमसानां प्राप्तौ राज्ञोपि राजन्य चमसभक्षण प्राप्तौ च किं राजन्य चमसं राजन्यादश भक्षयेयुः उत तमपि ब्राह्मणा एव भक्षयेयुरिति संशये दशदशेति वाक्ये अनुप्रसर्पेयुरिति विधि प्रवणेन प्रतिचमसं दशसंख्या विधानात् तद्वाक्य विहित दशत्वसंख्ययातिदेशिक प्राप्तैकत्व संख्याया एव प्. ७१) समाजजातित्वेन निवृत्तेः न राजन्यत्वजातिनिवृत्तिः | ब्राह्मणशब्दस्य ब्राह्मणाब्राह्मण समुदाये छत्रिन्यायेन लक्षणया राजन्यपरताप्यविरुद्धेति दशराजन्यानामेव राजन्यचमसभक्षणमिति पूर्वपक्षं प्रापयय शतं ब्राह्मणास्सोमं भक्षयन्तीत्यत्र मुख्य श्रुत्यर्थ संभवे जघन्यलक्षणायाः अन्याययत्वात् | प्रकृतितः प्राप्तेषु दशचमसेषु अनुसर्पतां पुंसां दशशेति वीप्सयोः प्रतिचमसं दशसंख्याविधानात् अर्थतः प्राप्तांशतसंख्यामनूद्य संख्येयानां सर्वेषां लटो लेड्विकल्पनेन ये शतं पुरुषा भक्षयेयुः ते ब्रह्मणा इति ब्राह्मण्य विधानार्थत्वेन शतचमसभक्षणमपि ब्राह्मणानामेवेति सिद्धान्तितम् | अत एव चाभ्यासस्सामिधेनीनां - धर्म्यास्थानजस्स्यादिति नवमाध्याय प्राथमिकाधिकरणे चिन्तितं दर्शपूर्णमासयोश्श्रूयते त्रिः प्रथमामन्वाह त्रिरुक्तमात्ताः प्ञ्चदशसंपद्यन्ते इत्यत्र त्रिरभ्यासस्य किं ऋग्धर्मत्वं किं वा प्रथमस्थान धर्मत्वमिति संशये प्रथमा शब्दस्य स्त्री लिंगनिर्देशात् लक्षणया ऋक्परत्वं स्वीकृत्य तद्धर्मत्वं त्रिरभ्यासस्येति प्रकृतौ प्रथमायाः प्रवो वा जीयायाः क्वचित्तद्विकारेष्वभावात् न तत्र त्रिरभ्यासस्योह इति पूर्वपक्षं प्रापयय प्रथमा शब्दस्य मुख्य वृत्या प्राथम्यपरत्वे सम्भवति | ऋचि जघन्य लक्षणापत्तेरन्याययत्वात् गुणवचनानाञ्च शब्दानामाश्रयतो लिंगवचनानि भवन्तीति प्. ७२) स्त्रीलिंगनिर्देशस्य नित्यानुवादत्वेन प्रथमस्थान धर्मत्वं त्रिरभ्यासस्येति विकृतिषु प्राथम्य विशिष्टे ऋगन्तरे त्रिरभ्यासस्योभे इति सिद्धान्तितम् | तत्रैव - पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् इत्यधिकरणे गौण्या मुख्यत्वं वर्णितं द्वादशाहे श्रूयते - पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते न बर्हिरनुप्रहरति असुस्थितो हि तर्हि यज्ञ इति सर्वेषामन्हां पत्नीसंयाजान्तत्वं उत उत्तमवर्जमिति संशये अविशेषेण विधानात् सर्वेषामप्यन्हां पत्नीसंयाजान्तत्वमेव न बर्हिरनुप्रहरणमित्यसंस्थावचनस्य यज्ञस्य चिरकालीन परत्वमिति द्वादशाहविकारेषु द्विरात्रादिषु चोदकादेव पत्नी संयाजान्तता प्राप्तेः | नोह इति पूर्वपक्षे द्वादशयागानां सहकर्तव्यत्वेन पूर्व पूर्वाण्यहानि पत्नी संयाजान्तान्येव कृत्वा पूर्व पूर्वस्मिन्नहश्शेषे उत्तरमारब्धव्यमित्यभि हिते अपेक्षितविधिलाभात् सर्वे यागास्सहकृता भवन्ति असंस्था वचनस्य मुख्यत्वाय उत्तमवर्जं पत्नी संयाजान्तान्यहानि कृत्वा अन्ते अहनि द्वितीये तृतीये वा प्राकृतं बर्हिरनुप्रकरणादिकं सर्वमाहितव्यमिति सिद्धान्तितम् - तस्माद्वाच्यार्थलक्ष्यार्थयोर्मुख्या मुख्यत्वेन तादृशयोर्भेदाभेदयोरावयोरविरोध इत्यंगीकार्यम् | अवश्यञ्चैवं विज्ञेयं अन्यथा सदेव सौम्येदमग्र आसीत् प्. ७३) सर्वं खल्विदं ब्रह्म इत्यादि वाक्यमपि ब्रह्मणो जगद्द्वैत परं स्यात् तत्रापि सामानाधिकरण्यात् तत्वमसीत्यादिवत् सर्वादिपदानां लक्षणयाधिष्ठान ब्रह्मचैतन्य परत्वेन लक्षितस्य ब्रह्मणः सब्रह्मादिपदार्थाभेदस्य सुवचत्वात् - न च तत्वमसीत्यादौ अभेदे सामानाधिकरण्यं सर्वं खल्विदं ब्रह्मेत्यादौ बाधायां सन्धानाधि करण्यमिति वैषम्यमिति वाच्यम् | न्याय साम्येपि वैषम्ये बीजाभावात् | किञ्च बाधायामिति अधिकरण सप्तमी वा विषयसप्तमी वा सति सप्तमी वा नाद्यः सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मातिरिक्तमिदं सर्वं नास्तीति ज्ञानं बाधः | भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्ति रूपस्य सामानाधिकरण्यस्य शब्दधर्मस्य ज्ञाने अभावात् | न द्वितीयः | वृत्तिरूपस्य सामानाधिकरण्यस्य पदार्थविषयकत्वेन प्रपञ्चमिथ्यात्वविषयकत्वाभावात् | न च बाध्यत इति कर्मव्युत्पत्या बाधशब्दस्य मिथ्या रूपविशिष्टविषयपरत्वेन इदं रजतमित्यादिवत् तद्विषयकं सामानाधिकरण्यमुपपद्यत इति वाच्यम् | तत्रापि तत्वमसीत्यादिवत् सर्वादिपदानामपि लक्षणया अधिष्ठान चैतन्य परत्वेनाभेदे सामानाधिकरण्यसंभवेन सर्वाद्वैतवाक्यानामेकार्थत्वसंभवेन वैरूप्यकल्पना योगात् अन्यथा चेतनाचेतन प्. ७४) मात्रवाचकस्य सर्वादिपदस्य एकदेशलक्षणया अभेदे बाधायाञ्च सामानाधिकरण्यमिति वैरूप्यं स्यात् | किञ्च - तत्वमसीत्यादि वाक्यमपि त्वं पदस्य मिथ्याभूतविशिष्टार्थबोधकत्वेन बाधायामेव समानाधिकरणमिति सर्वत्रा वैरूप्यस्यैव युक्तत्वात् | अविद्या विशिष्टस्य जीवस्य ब्रह्मण्यध्यस्तत्वात् शुक्तिरजतादि दृष्टान्तस्य सर्वत्रापि संमतत्वात् | दृष्टान्तेपि रजतपदस्याधिष्ठाने शुक्तौ लक्षणयाभेदसंभवात् | तथा च कर्मव्युत्पत्या विषय सप्तमी पक्षे नास्माकं हानिः तत्वमसीत्यादौ सर्वत्रापि सादृश्यरूपगणाभेदस्य अस्माभिरंगीकारात् | न तृतीयः शब्दनिष्ठस्य सामानाधिकरण्यस्य सर्वदा विद्यमानस्य ज्ञानार्थरूपवाधानन्तरभवित्वाभावात् | एवञ्च तत्वमसीत्यादि वाक्येषु अद्वैत मते द्वयोः पदयोर्लक्षणया शुद्धचैतन्याभेदबोधकत्वम् - रामानुजमते तु त्वं पद बोध्यजीवाख्य शरीरविशिष्टस्य ब्रह्मणः तत्पदबोध्यसूक्ष्म चिदचिद्विशिष्टब्रह्मणाभेद इति विशिष्टाद्वैत बोधकत्वम् | अस्मन्मते तु त्वं पदबोध्यस्य जीवान्तर्यामिणः तत्पदबोध्य परब्रह्मणा भेद इति परब्रह्माद्वैत बोधकत्वमिति प्रायेण त्रयाणां मतानां न विरोध इति | सर्वं खल्विदं ब्रह्म - सदेव सौम्येदमग्र आसीत् | इत्यादौ प्रथमपक्षे सर्वेदं पदलक्षितशुद्धब्रह्मणः ब्रह्मादि पदलक्षित परब्रह्मणा भेदबोधकत्वं सर्वपदार्थ प्. ७५) मिथ्यात्वबोधकत्वं द्वितीयपक्षे विशिष्टाद्वैतबोधकत्वं सर्वादिपदलक्षिततद्गतस्वातन्त्र्यमिथ्यात्वबोधकत्वं अस्मन्मते तु अन्तर्यामिणो ब्रह्माभेदबोधकत्वं जीवगतस्वातन्त्र्यमिथ्यात्व बोधकत्वं इत्येवं त्रयाणामविरोध इति | ननु केवललक्षणा गौणीभ्यां शुद्धचैतन्या भेदे विरोधाभावेपि जहदजहल्लक्षणया शुद्धचैतन्यैक्ये मतान्तरविरोधेऽस्त्येव | तस्याः उभाभ्यामनंगीकारादिति चेन्न जहदजहल्लक्षणायाः जहल्लक्षणानतिरिक्तत्वेन विरोधाभावात् तथाहि सर्वज्ञत्वादि विशिष्टं ब्रह्म अल्पज्ञत्वादि विशिष्टो जीवश्च विशेष्यमात्रात् चैतन्याद्भिन्नमभिन्नं वा नाद्यः विशेष्यमात्रबोधस्य जहल्लक्षणामात्रसाध्यत्वात् ब्रह्मातिरिक्तस्य विशिष्टस्यैकत्वेन तत्र भागत्यागरूप जहदजहल्लक्षणानुपपत्तेः | किञ्च ##- लक्षणा साध्यत्ववत् | वेदे शक्पतावच्छेदकानवच्छिन्नबोधस्यापि जहल्लक्षणामात्रसाध्यत्वे बाधकाभावात् | अपि च शक्पार्थान्यबोधस्य शक्त्यन्यवृत्तिलभ्यत्वेन तद्बोधस्य जहदजहल्लक्षणाभ्यामेव संभवात् नान्त्यः | विशेष्यस्य शुद्ध ब्रह्मणः तत्वं पदवाच्याभ्यां विशिष्ट जीवेश्चराभ्यां अभेदे तत्र विशेषाभावेन तत्वं पदयोः विशेष्य शुद्धचैतन्ययोरेव वाच्यत्वेन तपोरभेदे प्. ७६) विरोधाभावेन जहदजहल्लक्षणानुसरण वैकल्यप्रसङ्गात् | किञ्च विशेष्यस्य पारमार्थिक सत्यत्वेन विशिष्टजीवेशयोरविद्या मायोपाधिकयोर्मिथ्यात्वेनाभेदासंभवात् | किञ्च विशिष्ट शुद्धयोरभेदे बहुन्यायविरोधप्रसंगात् | तथाहि चतुर्थे तृतीयपादे तत्र सर्वे विशेषादित्यधिकरणे चिन्तितम् | सर्वेभ्यो दर्शपूर्णमासौ सर्वेभ्यो ज्योतिष्टोमे इति श्रूयते | तत्र किमेकस्मिन् प्रयोगे सर्वेकामा भवत्युत | प्रयोग भेदेनेति संशये यादृक्कर्म एकं निमित्तं तदेव कर्मान्तरं प्रति निमित्तमिति निमित्तसामान्यात् | सकृत्प्रयोगादेव सर्वकामावाप्तिरिति पूर्वपक्षे कामानां रागप्राप्तत्वेन कर्मोद्देशेन कामविधानासंभवेन कामोद्देशेनैव कर्मणो विधातव्यत्वेन प्रतिप्रधानं गुणावृत्तिरिति न्यायेन प्रतिफलं प्रयोग भेदेन कर्मणामावृत्तिः तत्र कामानां सर्वेभ्य इति एकपदोद्दिश्यमानतया साहित्यरूपविशिष्टप्रतीतावपि तस्योद्देश्यगतत्वेन बृहैकत्ववन्नविवक्षितेति प्रयोगभेदेनैव सर्वकामावाप्तिरिति सिद्धान्तितम् | तत्र साहित्यरूपविशिष्टस्य एकदेशरूप विशेष्यमात्र स्वरूपत्वे सकृत्प्रयोगादेव सर्वकामावाप्त्या तदधिकरणोच्छेदापत्तेः | अत एव दशमे प्रथमे पादे प्रधानाच्चान्ये संयुक्तास्सर्वारंभानिवर्ते तानंगत्वात् इत्यधिकरणे चिन्तितम् | राजसूये अनुमत्यादिन्यैष्टिक कर्माणि पशुसोमदर्वी होमादीनि अन्यान्यपि कर्माणि श्रूयन्ते | अनुमत्यै प्. ७७) पुरोडाशमष्टाकपालं निर्वपति - आदित्यामल्हां गर्भिणीमालभेत इत्यादिषु तानि सर्वाण्यपि एकफलसाधनत्वेन श्रुतानि राजसूयेन स्वाराज्यकामो यजेतेति तत्र दर्शपूर्णमासविकृतिषु अनुमत्यादिषु आरंभणीयेष्टिः कर्तव्या नवेति संशये पूर्वत्र सांगप्रधानविषयेणैवारंभेणांगानामनुष्ठानसिध्या पृथगारंभा संभवेन दर्शपूर्णमास विकृतिभूत सोमयागांगभूतदीक्षणीयेष्टौ आलंभलक्षणद्वारलोपेनारंभणीयेष्टेर्लोपेपि अत्र राजसूये अनुमित्यादीनां प्रधानत्वेन पृथगारंभसंभवेनालुप्तद्वारत्वादारंभणीयेष्टिः कर्तव्येति | पूर्वपक्षं प्रापयय प्रकृतौ इष्टिमात्रारंभस्यैव द्वारत्वावगमात् | अत्र तु राजसूये इष्टिपशुसोमदर्वीहोमादि समुदायरूपे एक एव व्यासक्तारंभो न पृथक् पृथगारंभ इति प्रकृतौ कॢप्तस्य केवलेष्टि विषयकस्यारम्भस्य द्वारभूतस्य भावादनुमत्यादावारंभणीयेष्टेः लोप इति सिद्धान्तितम् | तथा च - समुदायरूपविशिष्टस्य एकदेशरूपविशेष्यमात्र स्वरूपत्वे अत्रापि समुदायरूप राजसूयस्यानुमत्याद्यभिन्नत्वेनारम्भरूपद्वाररूपाभावात् आरम्भणीयेष्टिः कर्तव्या स्यादिति तदधिकरणोच्छेदापत्तिः | अत एव च तृतीये ऐन्द्राग्ने तु लिंगभावात्स्यादित्यधिकरणे तथैव चिन्तितम् | ज्योतिष्टोमे ऐन्द्राग्नं गृह्णामीति ऐन्द्राग्नस्सोमोस्ति तस्य शेषे भक्षणीये किं समन्त्रकं प्. ७८) भक्षणं उत अमन्त्रकमिति संशये इन्द्राग्निभ्यां पीतस्सोमः इन्द्रेणापि पीतं इति इन्द्र प्रकाशन सामर्थ्यरूपलिंगेन इन्द्रपीतस्येति मन्त्रस्य ऐन्द्राग्न शेष भक्षणेपि विनियोगसंभवात् समन्त्रकमैन्द्राग्नशेषभक्षणमिति पूर्वपक्षं प्रापयय नवमोक्तदेवताधिकरणन्यायेन शरीरस्य पानायोगात् पीतपदेन दानलक्षणायां इन्द्राय दत्तस्य सोमस्येत्यर्थस्स्यात् | न चात्र यजमानः इन्द्रमुद्दिश्यदत्तवान् | तथा च दानस्य मिश्रविषयत्वेन मन्त्रस्यैकदेशविषयत्वेन उभयप्रकाशने सामर्थ्याभावात् अमन्त्रकमैन्द्राग्नशेषभक्षणमिति सिद्धान्तितम् | अत्रापि एकदेशापेक्षया समुदायस्य अतिरिक्तत्वाभिधानात् अत एव च तृतीये सप्तमपादे त्रैवानुवचनं मैत्रावरुणस्योपदेशात् इत्यधिकरणे चिन्तितम् | अग्नीषोमीय पशौ श्रूयते | मैत्रावरुणः प्रेष्यति चान्वाह चेति | होता पक्षदग्निं समिन्धेत्यनुवचनरूपस्य मन्त्रस्यान्ते होतर्यजेति प्रैषश्रवणात् त्रैषयुक्तानुवचनमस्ति तथा केवलं प्रैषवचनमप्यस्ति अग्नये समिन्धमानायानुब्रूहित्यादि तथा केवलानुवचनमप्यस्ति प्रवोवाजाद्भिद्यवा इत्यादिकं तत्र किं केवलप्रेषवाक्ये केवले अनुवचने च सर्वत्र मैत्रावरुणः कर्तेति मैत्रावरुणवाक्यार्थः किं वा प्रैषयुक्तानुवचन एवेति प्. ७९) सन्देहे प्रेष्यति चानुवाहेति च शब्दाभ्यां प्रैषानुवचनयोस्सहित प्रैषानुवचनयोश्च सर्वत्रैव मैत्रावरुणस्य कर्तृत्वमिति मैत्रावरुणवाक्यस्यार्थ इति पूर्वपक्षे प्रत्येकमुद्देश्यत्वे प्रत्युद्देश्यं वाक्यसमाप्तेः वाक्यभेदापातेन प्रैषान्तानुवचनरूप एक एव पदार्थ उद्देश्य इति प्रैषयुक्तानुवचन एव मैत्रावरुणस्य कर्तृत्वमिति मैत्रावरुण वाक्यस्यार्थ इति सिद्धान्तः तथा च प्रैषयुक्तानुवचनस्य एकदेशस्वरूपत्वे प्रैषानुवचनोभयस्वरूपत्वापत्या वाक्यभेदापातेन तदधिकरणोच्छेदापत्तिः | एवं बहुन्यायाविरोधाय समुदाय रूपविशिष्टं विशेष्यमात्रादतिरिक्तमेवेति वक्तव्यम् | तस्मात् जहदजहल्लक्षणा शब्दो जहल्लक्षणायामेव गौण इति वाच्यम् | लक्ष्यार्थयोः भेदाभेदांगीकारे न कापि विरोधशंकेति न च सोयं देवदत्त इत्यादौ जहदजहल्लक्षणा प्रसिद्धीति वाच्यम् | सोयं देवदत्त इत्यादौ जहदजहल्लक्षणेति व्यवहारस्यापातरमणीयत्वात् | तथाहि अयं घट इतिवत् सोयं देवदत्त इति ज्ञानाकारो वा शब्द व्यवहारो वा नाद्यः | इन्द्रियजन्यज्ञाने लक्षणासंभवात् | न च इन्द्रियाणां वर्तमानदेशकालसंबन्धिवस्तुविषयक ज्ञानजनकत्वस्वाभाव्यात् कथमतीतदेशकालादि संबन्धिता विषयकत्वमिति वाच्यम् | चक्षुरादि वात्येन्द्रियाणामेव पूर्वानुभवजनितसंस्कारसहकृतानां प्. ८०) सोयमित्यतीतवर्तमान विशिष्ट वस्तुविषयक प्रत्यभिज्ञारूपमनो वृत्तिज्ञान विशेषजनकत्वे बाधकाभावात् | ननु भवन्मते अतीतकालादिविशिष्टस्य वर्तमान कालादिविशिष्टस्य च वस्तुनः विशेष्यमात्रोपादानकस्य भेदात् कथमभेदविषयिणी प्रत्यभिज्ञा प्रमाणमिति चेन्न आगन्तुकविशिष्ट विशेष्ययोर्भेदाभेदांगीकारेण विशेषैक्यविषये प्रामाण्योपपत्तेः | न च सोयमिति विशिष्टवस्तुद्वय विषयकस्य ज्ञानस्य कथं विशेष्यमात्र विषयकत्वमिति वाच्यम् | विशिष्टविशेष्ययोर्भेदेन एकमेव ज्ञानं विशिष्टं विशेष्यञ्च विषयीक्रियत इति वक्तुं शक्यत्वात् | यद्वा पूर्वोत्तरवस्तुनोः भेदाभेदोंगीक्रियते | तथा च स एवायमित्यादि प्रत्यभिज्ञायाभ्रमत्वेपि सोयमित्यादि प्रत्यभिज्ञानस्य प्रमात्वमुपपद्यते पूर्वोत्तरकाल भाविनोरभेदस्य प्रत्यभिज्ञा विषयस्य सत्वात् कालादिद्वयसंबन्ध विषयकत्वेपि सावधारणप्रत्यभिज्ञायामवधारणस्य कालादि संबन्धरूप विशेषणादयोंगव्यवच्छेदकत्वेपि धर्म्यभेद व्यवच्छेदकत्वाभावेन तस्या अपि प्रमाण्योपपत्तेः यः तदा तद्देश तत्कालविशिष्टं स एवेदानीं एतद्देशे तत्काल विशिष्ट इति विषयीकरणात् उक्तञ्च सुधायां समयपादे परमाणुपुंजवादनिराकरणावसरे उच्यते | यदा तु पूर्वोत्तरकालभाविनोरभेदः प्. ८१) प्रत्यभिज्ञाविषयोंगी क्रियते | तदा सावधारणस्य प्रत्यभिज्ञानस्य श्रमत्वेपि तदिदमिति तु न भ्रमः - तेनैव यदा तु कालादिद्वयसंबन्धो विषयः तदा सावधारणमपि न भ्रम इति नान्त्यः | विकल्पासहत्वात् तथाहि - किमयमनुवादरूपो वा अपूर्वार्थबोधको वा नाद्यः तस्य विष्प्रयोजनत्वेनाप्रमाणत्वात् शाब्दबोधाजनकवाक्यस्य वृत्यनपेक्षत्वाच्च अन्यथा ज्ञानोत्तरकालीनस्य अयं घट इत्यनुवादक वाक्यस्यापि अतीत देशकाल विशिष्टे लक्षणाया शाब्दबोधापत्तेः नान्त्यः सोयं देवदत्त इत्थस्य ज्ञानाकारानुवादरूपत्वेनापूर्वार्थबोधकत्वासम्भवात् | सोयमित्यस्य प्रत्यक्षदृष्टार्थत्वेन तत्र शब्दस्य प्रामाण्यासंभवात् अत एव शास्त्रं हि शब्दविज्ञानात् असन्निकृष्टेर्थे विज्ञानमिति शाबरभाष्ये सन्निकृष्टार्थे शब्दस्य प्रामाण्या भावादित्युक्तत्वात् तद्वार्तिके च तथैव व्याख्यातत्वात् | तस्मात्सोयं देवदत्त इति प्रत्यभिज्ञाकार प्रदर्शन वाक्यस्यानुवादरूपस्य शाब्दबोधाजनकत्वेन तदर्थं तृतीयलक्षणानवकाश इति | अथ च तस्याः वृत्यन्तरत्वेपि विशिष्टस्यातिरिक्तत्वेन नास्माभिरुक्तन्यायस्य विरोध इति प्. ८२) ननु तथापि तत्वं पदयोः शक्त्याविशिष्टार्थ बोधकयोर्विशेष्यमात्रेपि शक्तिरेव यथा वा दण्ड्यादिपदानां देवदत्तमात्रे द्रव्यादिपदानां घटादौ च शक्तिः | तत्वमसीत्यादौ लाक्षणिकल्प व्यवहरस्तु शक्यतावच्छेदका प्रकारकबोधजनकत्व सामान्याद्गौण इति नवीन वेदान्तिनां मतम् | तथा च ब्रह्मपदलक्ष्याभिन्नत्वादिति हेतोरसिद्धिरिति चेन्न शक्त्यातदुभयबोधस्य दुर्निरूपत्वात् तथाहि विशिष्टविऽसेष्ययोर्बोधे विशिष्टवाचकपदस्य उभयत्र शक्तौ च सैन्धवादिपदवत् तस्यापि नानार्थत्व प्रसंगात् | न चेष्टापत्तिः शक्तिग्रहकव्याकरणाद्यभावात् | दण्ड्यादिपदानां पुरुषमात्रप्रयोगाभावेन शक्त्ययोगाच्च एवं सामान्यविशेषयोर्भेदपक्षे द्रव्यादिपदानां घटादौ शक्त्यभावो द्रष्टव्यः | किञ्च दण्ड्यादिपदैश्शक्त्या पुरुषमात्रबोध इति कोर्थः दण्ड्यादि प्रकारकपुरुषादि विशेष्यकबोधो वा पुरुषत्वादि प्रकारकपुरुषादि विशेष्यकबोधो वा | नाद्यः तस्य विशिष्टबोधरूपत्वात् पुरुषत्वोल्लेखिबोधस्यैव पुरुषबोधरूपत्वात् पुरुषपदप्रयोगे दण्ड्यादिपदैः शक्त्या तादृशबोधासंभवात् | नान्त्यः तस्य शक्यतावच्छेदकान्यप्रकारकबोधरूपत्वेन लक्षणासाध्यत्वात् | एवं द्रव्यादिपदैर्जायमानः शक्त्या घटादिबोधः किं द्रव्यत्वादि प्रकारक घटादिविशेष्यको वा | घटत्वादिप्रकारक घटादि प्. ८३) विशेष्यको वा | नाद्यः तस्य द्रव्यबोधकत्वेन घटबोधकत्वाभावात् घटत्वादिप्रकारकबोधस्यैव घटादिबोधरूपत्वात् घटत्वोल्लेखा भावेन तज्ज्ञानस्य घटज्ञानत्वायोगात् | नान्त्यः तस्य लक्षणासाध्यत्वादित्युक्तत्वात् | न च घटत्वमपि द्रव्यपदशक्यतावच्छेदकं द्रव्यघटशब्दयोः पर्यायत्वप्रसंगात् | न च दण्डीपुरुषः घटो द्रव्यमित्यादौ विशिष्टविशेष्य पदयोस्सामान्यविऽसेष्यपदयोश्च सामानाधिकरण्यं अभेदान्वयबोधश्च कथमिति वाच्यम् | तत्रापि अन्यतरपद लक्षणयैवा भेदान्वयसामानाधिकरण्ययोस्संभवात् भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नर्थे प्रवृत्तिरित्यत्र प्रवृत्तिशब्दस्य एकस्य पदस्य एकस्मिन्नर्थे शक्तिः पदान्तरस्य तत्र लक्षणेत्यर्थस्यावश्यकत्वात् | अन्यथा द्वयोः पदयोः एकस्मिन् शक्तौ दण्ड्यादिपदानां केवलपुरुषादौ शक्तिप्रसंगात् | न चेष्टापत्तिः शक्तिग्राहकप्रमाणाभावात् द्रव्यघटादिपदानां पर्यायत्वप्रसङ्गाच्च घटत्व कलशत्वोरिव दण्डित्व पुरुषत्वादीनामपि अभेदापत्तेरिति | किञ्च तत्वं पदयोर्विशिष्टे विशेष्येपि शक्तौ तत्वं पदवाच्ययोः विशिष्टयोरभेदे बाधकाभावेन चैतन्यमात्रे शक्तिकल्पनमनुपपन्नं स्यात् | तस्माद्विशिष्टविशेष्ययोश्च भेदमंगीकृत्य विशिष्टवाचकस्य विशेष लक्षणयैवाभेदान्वयोदुर्वारः | अत एव तृतीये प्. ८४) पञ्चमे पादे नैमित्तिकं तत्प्रकृतौ तद्विकारसंयोग विशेषादित्यधिकरणे चिन्तितम् | दर्शपूर्णमासप्रकरणे श्रूयते सप्तदशवैश्यस्येति | तत्र नैमित्तिकं विधीयमानं साप्तदश्यं किं प्रकृतौ दर्शपूर्णमासयोरंगत्वेन पाञ्चदश्यविकल्पेन निविशति | उत पाञ्चदश्यबाधकत्वेनैव निविशतीति संशये द्वयोरपि प्रकरणाधिगतत्वा विशेषात् विकल्प इति पूर्वपक्षे पञ्चदशसामिधेनीरनुब्रूयादिति वाक्यविहितस्य पाञ्चदश्यस्य प्रकरणात् सामिधेनी द्वारा दर्शपूर्णमासांगत्वेनावगतस्य नित्यस्य विप्रराजन्यकर्तृक प्रयोगेपि सावकाशत्वात् नैमित्तिकस्य साप्तदश्यस्य वैश्वकर्तृकप्रयोग एव प्राप्तस्य निरवकाशत्वेन तत्र प्राप्तस्य नित्यसाधकत्वेनैव निवेश इति सिद्धान्तः | तत्र नित्यस्य पाञ्चदश्यस्य सावकाशत्वं नाम लक्षणया अर्थान्तरपरत्वं तत्र प्रकरणात् दर्शपूर्णमासप्रयोगे पञ्चदशसामिधेनीरनुब्रूयादिति वाक्यं कल्पनीयम् | तद्वाक्येन मुख्यतः सर्वाधिकारिकप्रयोगांगत्वेनावगतस्य नित्यस्य पाञ्चदश्यस्य नैमित्तिकसाप्तदश्यविरोधे विप्रराजन्यकर्तृकप्रयोगत्वप्रकारक विशेषबोधस्य लक्षणासाध्यत्वात् | अत एव च आदेशसंबद्धमुपांशुत्वं स्यात् | तस्य च तत्राभावादिति नावमिकाधिकरणे तथैव वर्णितम् | ज्योतिष्टोमे श्रूयते | यत्किञ्चित्प्राचीनमग्नीषोमीया तेनोपांशु प्रचरन्तीति तत्र उपांशुत्वस्य प्राग्भागवृत्तिपदार्थ प्. ८५) मात्रधर्मत्वे व्यवस्थापिते तत्र प्राचीनमतसमभिव्याहृतेन यत्किञ्चिदित्यनेक व्यक्तिवाचिना पदेन सर्वेषां पदार्थानां दीक्षणीयादीनां तत्तत्प्रातिम्बिकरूपेणोपस्थापयितुं शक्यत्वेन तेषामत्युपांशुत्वे प्राप्ते यावत्या वाचाकामयीततावत्या दीक्षणीयायानुब्रूयादिति धर्मान्तरविधीनां निरवकाशत्वात् सावकाशं यत्किञ्चिदित्येतत् दीक्षणीया व्यतिरिक्तपरमिति स्थिते यत्किञ्चिदित्यस्य प्राग्भागवृत्ति पदार्थसामान्यत्वरूपशक्यतावच्छेदकावच्छिन्नात् पदार्थसामान्यात् प्राग्भागवृत्तिपदार्थसामान्यत्वरूपशक्यतावच्छेदकावच्छिन्नात् पदार्थसामान्यात् प्राग्भागवृत्तिदीक्षणीयव्यतिरिक्त पदार्थत्वरूपलक्ष्यतावच्छेकावच्छिन्नार्थान्तरपरत्वं सावकाशत्वमिति व्यवस्थापितम् | तथा चोक्तस्थले अन्यतरपदलक्षणयैवाभेदान्वयबोधोदुर्वारः | यद्वा विशिष्टं द्विविधम् | यावद्वस्तु भावि अयावद्वस्तु भावि चेति | तत्राद्यं विशेष्यादत्यन्ताभिन्नं अन्त्यं भिन्नाभिन्नं तत्राद्ये समानाधिकरणयोः पदयोरुभय पदशक्त्या वा अन्यतरपदलक्षणया वा अभेदान्वयबोधोपपत्तिः तत्र अपर्यायत्वादिकं सर्वं भेदकार्यं विशेषबलादुपपद्यन्ते | विशेष निरूपणं तूत्तरत्र वक्ष्यामः | द्वितीये तु भेदाभेदाभ्यामेव तत्कार्योपपत्तिरिति न काप्यनुपपत्तिः | इदमपि युवाभ्यामंगीकार्यमित्युत्तरत्र निरुप इष्यत इति | तस्मान्मतद्वयेपि विशिष्टवाचकपदस्य प्. ८६) लक्षणया विशेष्यबोधजनकत्वात् लक्ष्यार्थाभेदे मुख्यार्थभेदनियमस्य न क्वापि व्यभिचार इति अत एव एत्सर्वमभिप्रेत्य गुहाधिकरणे जीवब्रह्मणोर्भेद एव मुख्यार्थ इति सिद्धान्तितम् | शारीरकभाष्ये तथाहि - ऋतं पिबन्ताविति कठवल्ली वाक्यमुदाहृत्य ऋतशब्दवाच्यकर्मफलं पिबन्तौ द्वौ किं बुद्धिजीवौ जीवेश्वरौ वेति संशये बुद्धिजीवयोः परिच्छिन्नत्वेन हृदयगुहाप्रवेश सम्भवात् | जडाजडत्वेन छायातपवद्वैलक्षण्योपपत्तेस्तौ बुद्धिजीवाविति प्राप्तेपिबन्ताविति द्विवचनेन द्वयोश्चेतनत्वस्यावच्छेदकत्वेन पिबन्तौ जीवेश्वरावित्येव वक्तव्यम् | सर्वगतस्यापीश्वरस्य उपाध्याहृदयाख्याल्पदेशे अवस्थान संभवात् चेतनत्वेपि द्वयोस्सोपाधिकत्वनिरुपाधिकत्वाभ्यां वैलक्षण्योपपत्तेः पिबन्तौ द्वौ जीवेश्वराविति सिद्धान्तितम् | तथा च जीवेश्वरौ द्वौ पिबन्तावित्युक्ते जीवेश्वरौ द्वौ भिन्नावित्युक्तप्रायत्वात् द्विवचनस्य द्वित्वसंख्या वाचकत्वेन तस्याश्च भेदा विना भूतत्वात् जीवब्रह्मणोर्भेद एव मुख्य इति भाष्यकृदाशयः अत एव इयदामननादिति तृतीयाध्याय तृतीयपादीयाधिकरणे - ऋतं पिबन्तौ द्वासुपर्णाविति कठवल्याथर्वणमन्त्रयोर्विद्याभेदो वा विद्यैक्यं वेति संशये ऋतं पिबन्तावित्यस्मिन् प्. ८७) मन्त्रैर्द्विवचनेन द्वयोर्भोक्तृत्वं द्वासुपर्णाविति मन्त्रे तु तयोरन्यः पिप्पलं स्वाद्वत्तीति एकस्यैव कर्मफलभोक्तृत्वं अनश्नन्नन्य इति इतरस्या भोक्तृत्वं प्रतीयते ततो वेद्यस्वरूपभेदात् विद्या भेद इति प्राप्ते प्राथमिकद्वितीयपादीयतृतीयाधिकरणे पिबन्ताविति शब्दस्य द्विवचनान्तस्य जीवेशपरत्वे व्यवस्थापिते जीवस्य कर्मफल भोक्तृत्वेपि ईश्वरस्य कर्मफल भोगासंभवात् कथं द्वयोः कर्मफलभोक्तृत्वमित्याशंक्य जीवस्य मुख्यभोक्तृत्वं अभोक्तुरीश्वरस्य छत्रिन्यायेन भोक्तृत्व शब्दव्यपदेश इति वस्तुतो भोक्तृभोक्तारावर्थ इति द्वासुपर्णेति वाक्यस्यापि तावेवार्थ इति वेद्यभेदाभावाद्द्वित्वसंख्यायाश्चोभयत्र प्रत्यभिज्ञानाच्च उभे एवा विद्येति सिद्धान्तितम् | जीवेश्वरौ मुख्यतो भोक्तृभोक्तारावित्यनेन विरुद्धधर्माधिकरणत्वं स्वाभाविकमिति भेदो मुख्यः | स्वाभाविक इति प्राप्तं द्वासुपर्णेति वाक्यं भेदपरमित्येतत् वादिप्रतिवादि सिद्धम् | ऋतं पिबन्तावित्यस्याविद्यायाः द्वासुपर्णेतिविद्याभेद प्रतिपादनेन उभयोस्स्वाभाविकजीवब्रह्मभेदपरत्वमधिकरणद्वयमिति भाष्यकृदाशयात् अन्यथा द्वासुपर्णेति वाक्यस्य भेदपरत्वाभावे अद्वैतवाक्येन भेदनिषेधाय द्वासुपर्णेत्यादिवाक्यं प्. ८८) भेदानुवादकमिति सिद्धान्तो भज्येत | तस्माद्भेदाभेदवाक्यं मुख्यामुख्यार्थविवक्षया जीवब्रह्मणोर्भेदाभेद परमिति शरीरक भाष्यकृतामप्यभिप्राय इत्यवश्यं अंगीकरणीयम् | तद्भाष्ये भेदाभेदयोस्संकलययव्यवहारात् मीमांसायाश्च भेदस्य विचारितार्थबोध जनकत्वेन भेदवाक्यानां व्यावहारिकभेदपरत्वासम्भवात् | तस्मादेतन्मतत्रयसम्मतमिति सकलवेदान्तानां सजातीय विजातीय जीवजडाभ्यां मुख्यतः अत्यन्तभिन्ने श्रीमन्नारायण एव तात्पर्यमिति सिद्धम् | इति सजातीय भेदनिषेधैक्य प्रकाशः नन्वेतदयुक्तम् | नेह नानास्ति किञ्चन स्वर्वं खल्विदं ब्रह्म वासुदेवस्सर्वंमिति स महात्मा सुदुर्लभः इत्यादि श्रुतिस्मृतिभिः श्रीमन्नारायणाख्य परब्रह्मणः विजातीय वियदादि भेदशून्यवेदनात् तत्र भेदनिषेधो हि द्विविधो भवति | अभेदरूपः अविद्यमानप्रति योग्यधिकरणरूपश्चेति | तत्राद्यः तत्वमसीत्यादौ जीवब्रह्माभेदः | द्वितीयस्तु प्रपञ्चब्रह्मविषयः | तत्र प्रपञ्चस्य मिथ्यात्वेनाविद्यमानत्वात् तत्प्रतियोगिकभेदस्यापि मिथ्यात्वेन मुख्याभेदासंभवात् | तथा च प्रपञ्चस्य ब्रह्मनिष्ठसत्तातिरिक्तशून्यत्वमेव विजातीय भेदवर्जितं ब्रह्मेत्यस्यार्थः | यथा च - इदं रजतमित्यत्र शुक्तिनिष्ठ इदन्ता रजते प्रतीयते | न ततोतिरिक्ता इदन्ता रजतेस्ति तथा च प्. ८९) अध्यस्तस्य देशकालसंबंधित्वरूपाधिष्ठान सत्तातिरिक्तसत्ताशून्यत्वमेवाधिष्ठानशुक्तिकायाध्यस्तरजतभेदनिषेध इत्यस्य तात्पर्यम् | अत एव सघट इत्यादौ अधिष्ठान ब्रह्मसत्तैव घटे प्रतीयत इति सुवचम् | सर्वं खल्विदं ब्रह्म वासुदेवस्सर्वमित्यादौ बाधायामेव सामानाधिकरण्यं जगन्मित्थ्यात्वावेदिका | एकमेवाद्वितीयमित्याद्याश्रुतयः विजातीयभेदवर्जितं ब्रह्मेत्येतत्पराश्च सन्ति अतः कथं जडब्रह्मे ब्रह्मणिसकलवेदतात्पर्यमिति | अत्रोच्यते - सभृत्याभृत्य वाक्यानि निस्वाल्पस्ववचांस्यपि | गौणमुख्यार्थभेदेन प्रयान्ति ह्यविरुद्धताम् || तथैव सत्यमिथ्यात्व वाक्यानि निखिलान्यपि | अविरुद्धानि नेयानि बहुमानाविरोधतः | यथाह - कार्यकारिभृत्यवति पुरुषे भृत्यकार्याभावसामान्यादभृत्यशब्दो गौणः | यथा वा अल्पस्वे निस्वशब्दो गौणः | प्रधानपुरुषान्तरशून्ये ग्रामे अयमेक एव पुरुष इति व्यवहारोऽमुख्यः | तथैव - विश्वं सत्यं मघवानाधिपोरीदापश्चन प्रमिनन्ति प्रतं वाम् | प्रधानस्य महतो महानि सत्यासत्यस्य करणानिवोचम् | यच्चिकेत सत्यमित्थं नमेहं वपुस्स्वार्हमुतजेतो तदाता | यथा तत्यतोर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्यःसत्या प्. ९०) विष्णो गुण्यास्सर्वे सत्याजीवेशयोर्भिंदा | न सत्यो मिथो जीवभेदः सत्यञ्जगदीदृशम् | असत्यस्स्वगतो भेदो विष्णोर्नान्यदसत्यकम् | जगत्प्रवाहस्सत्योयं पञ्चभेदसमन्वितः | इत्यादिवाक्यानि | एकमेवाऽद्वितीयं नेहनानास्ति किञ्चन यत्र त्वस्य सर्वमात्मैवाऽभूत् | केन किं पश्यतीत्यादि विजातीयभेदनिषेध प्रतिपादनपरादि वाक्यानि च मुख्यामुख्यार्थभेदेनाविरुद्धानि नेयानि | को हि मीमांसको ब्रूयात् विरोधे शास्त्रयोर्मिंथः | एकं प्रमाणरत्वप्रमाणं भवेदिति | अभियुक्तवचनात् वक्ष्यमाणमानाविरोधाच्चेत्यर्थः | तथा च विद्यमानत्वरूप जगत्सत्यत्वप्रतिपादक वाक्यानि मुख्यार्थानि निषेधप्रतियोगित्वरूपमिथ्यात्वापरपर्यायाविद्यमानत्वरूपमिथ्यात्वा##- ननु जगत्सत्यत्वपरवाक्यानाममुख्यार्थत्वं मिथ्यात्वपरवाक्यानां मुख्यार्थत्वमिति विपरीतं किं न स्यादिति चेन्न | वक्ष्यमाणप्रमाणाविरोधाऽन्यथानुपपत्तेरेव तत्र प्रमाणत्वात् तथाहि - एकमेवेत्याद्यद्वैतवाक्यप्रतिपाद्यं प्रपञ्चस्य निषेध निषेध प्रतियोगित्वरूपमविद्यमानत्वं असत्वं वा प्. ९१) प्रतिभासिकत्वं वा व्यावहारिकत्वं वा नाद्यः अपसिद्धान्तात् | अत एव न द्वितीयः | व्यावहारिकस्य विद्यमानत्वात् अत एव अयं घट इत्यादि व्यवहारस्संभवति | नहि देशकाल सम्बन्धित्वातिरिक्ताविद्यमानतानामास्ति नहि इदं शशविषाणमिति प्रतीतिरस्ति | एवञ्च ब्रह्मणि अविद्यमाना सत्प्रतियोगिक भेदाभावेऽपि विद्यमानव्यावहारिक प्रतियोगिकभेदेन किञ्चिद्बाधकम् | न च व्यावहारिकस्यापि मिथ्यात्वादविद्यमानत्वमिति वाच्यम् | व्यावहारिकस्य अयं घट इत्यादि प्रत्यक्षेण विश्वं सत्यमित्यादि श्रुत्या च विद्यमानत्वावेदनेन ब्रह्मणि तत्प्रतियोगिकभेदे बाधकाभावात् | औपचारिकमिथ्यात्वस्य मुख्य सत्यत्वाविरोधित्वात् विद्यमानत्वस्यैव सत्यत्वशब्दार्थत्वात् | अत एव नासत्पुरुषमाश्रयेदित्यादौ असाधुषु असच्छब्द प्रयोगः | सद्भावे साधु भावे च सदित्येतत्प्रयुज्यते | अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत् || असदित्युच्यते पार्थ न च तत्प्रेत्यनो इहेति || गीतोक्तेश्च - सच्छब्दस्साधुवाचक इति विष्णुपुराणोक्तेश्च किञ्च जगदः अस्वातन्त्र्यादसत्वव्यपदेशः सत्वं स्वातन्त्र्यमुद्दिष्टं तच्च कृष्णेन चापरे | प्. ९२) अस्वातन्त्र्योक्तदन्येषामसत्वं सिद्धि भारत | इति भारतोक्तेः | किञ्च प्रपञ्चस्य परिणामित्वात् विनाशित्वाच्च अवस्तुत्वा परमार्थकत्वव्यपदेशः - यत्तु कालान्तरेणापि नान्यं संज्ञामुपैति वै | परिणामाद्यसम्भूतं तद्वस्तु नृपतच्च किम् || अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते | इति विष्णुपुराणोक्तेः | क्वचिद्वृथात्वात् मिथ्यात्वव्यपदेशः | मिथ्यैष व्यवसाय इत्यादौ दर्शनात् | क्वचित्सदोषत्वाद्वा मिथ्याशब्दव्यपदेशः मिथ्योपपदात् क्रिञो अभ्यास इति सूत्रवृत्तौ पदं मिथ्या कारयतीति उदाहृत्य स्वराजदुष्टमसकृदुच्चारयति इत्युक्तत्वात् | न्यासे पदमंजर्यां एतेन मिथ्याशब्दस्यार्थमाचष्टे इत्युक्तत्वात् क्वचिद्विकारित्वादतात्विकत्वव्यपदेशः | तद्वेदेवस्थितं यत्तु तात्विकं तत्प्रचक्षते | इति कौर्मोक्तेः क्वचिज्जीवसम्बन्धित्वेनाविद्यमानखादविद्यमानत्वव्यपदेशः | अविद्यमानं जीवस्य प्रतिभाति तदेव यत् | इति स्कान्दपुराणवचनात् | अनित्यत्वविकारित्वादेवक्वचित् स्वप्नादिसाम्योक्तिः अनित्यत्वविकारित्वपरातन्त्र्यादिरूपतः | स्वप्नादि साम्यजगतो न तु बोध निवर्त्यत || इति पुराणान्तरवचनात् | प्. ९३) मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् | इति श्रुतेः | त्रिगुणा प्रकृतिर्माया तज्जत्वाद्विश्वमीदृशम् | अनाद्यनन्तकालेषु मायेत्याहुर्विपश्चितः | इति स्मृतेश्च | प्राकृतत्वात्क्वचिन्मायामयोक्तिर्युक्ता अत एव तत्सिद्धिर्जातिसारूप्य प्रशंसाभूमलिंगसमवायागुणाश्रयाः | इति तत्सिद्धिपेटिकायां यजमानः प्रस्तर इत्यत्र यजमानपदस्य प्रस्तरनामधेयत्वं वा प्रस्तरकार्ये श्रुति धारणादौ यजमानरूपगुणविधिर्वेति पूर्वपक्षं प्रापयय गोमहिषपदयोरिवात्यन्तभिन्नार्थत्वेन नामत्वायोगात् प्रहरणस्यापि प्रस्तरकार्यत्वेन यजमानस्याप्यग्नौ प्रहरणे कर्मशेषलोपप्रसंगाच्च | नामधेयत्वगुणविधिपक्षयोरयोगात् | यज्ञसाधनत्वरूप यजमानगुणयोगेन गौण्या वृत्या विधेयः प्रस्तरः यजमानपदेन स्तूयत इत्यर्थवादत्वमिति सिद्धान्तितम् | अत एव जातिसारूप्यादित्यधिकरणद्वये अग्निर्वै ब्राह्मणः आदित्यो यूप इत्यादौ अग्न्यादित्यशब्दयोः नामधेयत्वगुणविधित्वे इति पूर्वपक्षं प्रापयय अग्निनिष्ठब्रह्ममुखजातित्वगुणयोगेनाग्निशब्देनादित्य निष्ठतेजस्त्वित्वगुणयोगेनादित्य शब्देन च गौण्या वृत्या ब्राह्मणो घृताक्तो यूपश्चस्तूयत इत्यर्थवादत्वमिति सिद्धान्तितम् | अत एव च प्रशंसेत्यधिकरणे अपशवो वा अन्ये गो अश्वेभ्यः इत्यत्र गवाश्वोन्यपदोपात्तानामजादीनामपशव इति पदेन प्. ९४) पशुकार्य निषेधरूपगुणो विधीयत इति पूर्वपक्षं प्रापयय अपशुशब्दस्य पशुकार्यनिषेधविधित्वे अजादिपशुविधि वैयर्थ्य प्रसंगात् गवाश्वस्तावकत्वेनार्थवादत्वमिति सिद्धान्तितम् | तथा च उदाहृताधिकरणन्यायैः परत्र परशब्द प्रयोगस्यामुख्यत्वेन प्रपञ्चसत्यत्वस्यौपचारिकत्वेन प्रपञ्चसत्यत्वौपचारिकत्वे प्रपञ्चसत्यत्वं देशकाल सबन्धित्वरूपमनौपचारिकं मुख्यमेवेति स्फुटीकृतम् | अत एव च औपचारिकाविद्यमानत्वप्रपञ्चप्रतियोगिक भेदनिषेधस्यानौपचारिकविद्यमानत्वप्रपञ्चप्रतियोगिकभेदाविना भूतत्वात् ब्रह्मणिविजातीय प्रपञ्चभेदो मुख्य एवेति नानुपपत्तिः | नन्विदमयुक्तम् | एकमेवाद्वितीयं नेहनानास्ति किञ्चन यत्रत्वस्य सर्वमात्मैवाभूत् न तु तद्द्वितीयमस्ति वाचारम्भणं विकारो नामधेयं इदं सर्वं यदयमात्मा यस्मात्परं नापरमस्ति किञ्चित् | प्रपञ्चो यदि विद्येत निवर्तते न संशयः | सत्यं ज्ञानमनन्तं ब्रह्म | इन्द्रो मायाभिः ततोन्यदार्तम् | इत्यादि श्रुतिप्रपन्नं मिथ्यात्वरूपमविद्यमानत्वं अनौपचारिकं मुख्यमेव | तथाहि - ब्रह्म द्वितीयवस्तु शून्यं ब्रह्मणि किञ्च नानास्ति यत्र यस्मामवस्थायां मोक्षे सर्वमात्मैवाभूत् तद्ब्रह्म द्वितीयत्वेन मास्ति विकारात्मकः प्रपञ्चः | प्. ९५) वागालम्बनमात्रं अर्थस्तु नास्त्येव यदिदं सर्वं तत् अयमात्मेति ब्रह्मातिरिक्तासत्वं ब्रह्मणः अन्यत्परापरं वस्तु नास्त्येवेति द्वैतप्रपञ्चस्य मायामयत्वं अनन्तशब्देन ब्रह्मणः वस्तुतः अपरिच्छिन्नत्वरूपत्वोक्त्या प्रपञ्चमिथ्यात्वं जगतः मायामयत्वोक्तिः इत्येवं शक्तिविधया ब्रह्मातिरिक्तस्याविद्यमानत्वरूपमिथ्यात्वस्यैव प्रतीयमानत्वात् तस्य बहुश्रुति प्रतिपन्नत्वेनानौपचारिकत्वेन मुख्यत्वावश्यं भावादिति चेन्न | उदाहृत श्रुतिषु मिथ्या विद्यमानपदाद्यभावेन मुख्यमिथ्यात्वायोगेन नासत्पुरुषमाश्रयेदित्यादिवत् औपचारिकं ध्यात्वा विद्यमानत्वपरत्वस्यैव वक्तव्यत्वात् | किञ्च विश्वं सत्यं यच्चिकेत सत्यमितिवत् सन् घटः अयं घटः इह पक्षी नेह पक्षीत्यादि प्रमाणैर्ब्रह्मातिरिक्तसर्वपदार्थानां देशकालसम्बन्धित्वरूपसत्यत्वस्यैव पदार्थविधया साक्षादेव विषयतया प्रतीयमानत्वेन तद्विरुद्धाविद्यमानत्वरूपमिथ्यात्वस्यामुख्यत्वस्यैव वक्तव्यत्वात् | अपि च यस्मिन् द्यौः पृथिवीचान्तरिक्षम् ओतं मनस्सह प्राणैश्च सर्वैरित्येवं ब्रह्मणिप्रपञ्च सत्यप्रतिपादकवाक्यानां विशेष विषयत्वेन निरवकाशत्वेन चामुख्य मिथ्यात्वपरत्वस्यैव युक्तत्वात् | प्. ९६) न च श्रुतिप्राप्तं ब्रह्मणि प्रपञ्चसत्वं तत्र श्रुत्यैव निषिध्यत इति मिथ्यात्वं मुख्यमेवेति वाच्यम् | नेह नानास्ति किञ्चनेत्यादिवाक्येन ब्रह्मणिस्त्वेव महिम्नि प्रतिष्ठित इति वाक्यप्राप्त ब्रह्मसत्वस्यापि निषेधापत्तेः | असद्वा इदमग्र आसीत् | असदेवेदमग्र आसीत् | इत्यादि वाक्येन सदेव सौम्येनेदमग्र आसीत् | इत्यादि वाक्यप्राप्त ब्रह्मसत्वस्य | न हिंस्यात्सर्वाभूतानि इत्यादि वाक्येन | अग्नीषोमीयं पशुमालभेत इत्यादि वाक्यप्राप्ताग्नीषोमीयादि पशुहिंसायाश्च निषेधापत्तेश्च तत्र तयोर्मुख्यमुख्यत्वसावकाशत्वनिरवकाशत्वादिवत् प्रपञ्चेपि तयोर्मुख्यामुख्यत्वेनैवा विरोधस्य वाच्यत्वात् | न च जगत्सत्यत्व श्रुतिः प्रत्यक्षप्राप्तसत्वानुवादिनी दुर्बला सती अमुख्यार्थामानांतराप्राप्तजगन्मिथ्यात्वश्रुतिः प्रबला मुख्यार्थे वैपरीत्यमेव युक्तमिति वाच्यम् | अद्वैति मते सन् घट इत्यत्र सदर्थस्य व्यावृत्तब्रह्मत्वेन घटादिसत्वस्याप्राप्तेः यच्चिकित सत्यमित् याथा तथ्यतो अर्थान्व्यदधाच्छाश्वतीभ्यस्समाभ्यः इति वाक्यद्वये ईश्वरस्य मानान्तराप्राप्त सत्यजगत्स्रष्टृत्वस्यैव विधेयत्वात् | पृथिवी | इतरभिन्नेत्यत्र प्रत्यक्षसिद्धघटपदाद्येकदेशे इतरभेदसिद्धावपि प्. ९७) पृथिवीत्वोपहिते तदसिद्धिवत् प्रत्यक्षेण घटपटाद्येकदेशे सत्वसिद्धावपि विश्वत्वोपहिते तदसिध्या वाक्यस्याननुवादकत्वसंभवाच्च - अपि च | वाजपेयान्तर्गत दशपेयाख्यसोमयागमधिकृत्य श्रुतस्य एकैकं चमसं दशधानु प्रसर्पेयुः शतं ब्राह्मणास्सोमं भक्षयन्ति इति वाक्यस्येव द्वादशाहिक वृष्ट्यषडहविकारेगवामैनिक वृष्ट्यषडहे यथा प्रकृति क्रमेण रथन्तर बृहद्वैरूप वैराजशाधररैवताख्यानां षण्णां पृष्टस्तोत्रसाधनत्वेन विहितानां साम्नां षट्सु अहस्सुप्राप्तौ सर्वत्रापि बृहद्रथन्तर सामविधायकस्य पृष्ट्यष्षडहो बृहद्रथन्तरसामा कार्य इति वाक्यस्येव प्राजापत्यं चरुं निर्वपेत् शतकृष्णलमायुष्काम इत्यत्र श्रुतस्य सर्वं ब्रह्मणे परिहरतीति वाक्यस्येव च विश्वं सत्यमित्यादि वाक्यस्याप्यननुवादकत्वसम्भवात् तत्र ब्रह्मणानामेवार्त्विंजस्य शास्त्रान्त्याधिकरणा न्यायसिद्धतया ब्राह्मणचमसेषु प्रत्येकं दशब्राह्मणानां प्राप्तत्वेपि राजन्य चमसरूपोद्देश्यान्तरे अप्राप्तिवत् आद्ययोरन्होः वृहद्रथन्तरसोमकत्वस्य चोदगतः प्राप्तत्वेपि तृतीयाद्यहोरुपैक देशान्तरे पथमं रथान्तरं अनन्तरं बृहदित्येवं रूपेणाप्राप्तिवत् ब्रह्मभागांशे प्राप्तार्थकत्वेपि इतरभागांशे ब्रह्मसम्बन्धाप्राप्तिवत् विश्वं सत्यमित्यत्रापि प्. ९८) विश्वसत्यत्वस्य प्रत्यक्ष विषय घटपटाद्यंशे प्राप्तत्वेपि अतीन्द्रियातीतानागताद्येक देशान्तरे प्रत्यक्षाप्राप्तार्थकत्वासंभवात् | अपि च | अश्वमेधे प्रकृतितः प्राप्तं षड्विंशतिरस्यवंक्रिय इति वचनमपोद्य चतुस्त्रिंशद्वाजिनो देवबन्धोर्वं कुरश्वस्य स्वयितिस्समेतीति प्रत्यक्ष पठित वैशेषिकवचनप्राप्तौ पुनः चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव सूयादिति प्रतिप्रसवार्थं प्राकृता द्विवचनस्य प्राप्तिवत् अत्रापि सन् घट् इति प्रत्यक्ष प्राप्त जगत्सत्यत्वस्य एकमेवाद्वितीयमित्यादि श्रुत्या अपोदितस्य पुनः प्रतिप्रसवार्थं विश्वं सत्यमित्यादिवचनस्य जगन्मिथ्यात्वनिषेधार्थं सार्थक्यसंभवात् | अत एव नव मे तुरीयपादे अश्वस्य चतुस्त्रिंशत्तु वचनाद्वैशेषिकमित्यधिकरणे चिन्तितम् | अश्वमेधे अश्वस्तूश्वरोगो मृग इति प्राजापत्या इति तत्राश्वस्य चतुस्त्रिंशद्वाजिनो देवबन्धोर्वं क्रिरश्वस्य स्वयितिस्समेतीति चतुस्त्रिंशद्वक्रियः पठ्यन्ते | तत्रैवेदं वचनमामनन्ति न चतुस्त्रिंशदिति ब्रूयात् षड्विंशतिरित्येव ब्रूयादिति तत्र किं निषिद्धोपि वैशेषिकमन्त्रः पक्षतः प्राप्नोति उत प्राकृतस्यैव नियतप्राप्तिरिति संशये पाठप्राप्तस्य वैशेषिक वचनस्य प्रत्यक्षवचनेन बाधितत्वात् प्राकृतमध्यगुवचन प्. ९९) मेवेरापदवन्नियमेन पठितव्यमिति प्राप्ते इरापदस्य प्रत्यक्षवचनेन गिरापदस्थाने विहितत्वेन तस्य गिरापदबाधेन नियतप्राप्तौ गिरापदनिषेधस्यार्थतः प्राप्तिसम्भवेपि प्रकृते षड्विंशतिरित्येव ब्रूयात् | इत्यस्य एवकारोपहतशक्तिकस्य प्राकृतवचनविधायकत्वा भावेन वैशेषिक वचन निषेधस्यार्थतोऽप्राप्त्या न चतुस्त्रिंशदिति वचनेनैव तस्य विधेयत्वे निषेधस्य प्राप्तिपूर्वकत्वेन प्राप्तेश्च शास्त्रमन्तरेणासम्भवात् | वैशेषिकवचन प्रापकं चतुस्त्रिंशदिति ब्रूयादिति वाक्यं कल्पनीयमिति विधिनिषेधशास्त्रयोरुभयोः प्रामाणिकत्वाविशेषात् | विकल्प इति सिद्धान्त इति | प्रकृतेपि जगत्सत्यत्वमिथ्यात्ववचनयोरुभयोरपिप्रमाणत्वाविशेषात् विकल्पेन मुख्यत एव जगत्सत्यत्वमिथ्यात्वपरत्वे च वस्तुनो वैरूप्यापत्या नासत्पुरुषमाश्रयेदित्यादि वचनैर्मुख्यामुख्या जगत्सत्यत्वमिथ्यात्वपरत्वमेव युक्तम् | अत एव त्रिकालसर्वदेशीयनिषेधा प्रतियोगिता | सत्तोच्यते यस्तुतुच्चेत्तं प्रतिप्रतियोगिनि | स्वकाले ह्यस्ति तां गृह्णन् साक्षात्कारस्त्रिकालकम् | प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् | इति न्यायावृतोक्तेः तस्माद्देशकालासंबन्धित्वाविद्यमानत्वार्थ प्. १००) क्रियाशून्यत्वादिरूपमुख्यमिथ्यात्वायोगात् | वेदप्रामाण्यवादिभिः वेदान्तशिखामणिभिः सर्वसमयिभिरपि पूर्वोक्ताविद्यमान प्रायत्वादिरूपामुख्यमिथ्यात्वमेवांगी कार्यं इत्येवं क्रियाणां मतानामविरोधसंभवात् सर्ववेदान्तानां मुख्यतो जीवजडादिभिन्ने स्वगतभेदशून्ये श्रीनारायणे महातात्पर्यमिति सिद्धम् | इति विजातीय निषेधैक्यप्रकाशः || नन्विदमयुक्तम् | ज्ञानानन्दादिगुणानां ब्रह्माभेदेनाविरोधेपि सत्यकामत्व सत्यसंकल्पत्व सर्वज्ञत्व सर्वेश्वरत्व सर्वशक्तिक्रियादीनां मिथ्यात्वेन ब्रह्मभेदांगीकारादिति चेत् अत्रोच्यते - ज्ञानादीनां यथा भेदस्तथैवाभेद इष्यते | सत्यकामत्वधर्माणामत एवाविरुद्धता || यथा - ज्ञानानन्दादीनां - सत्यं ज्ञानमनन्दं ब्रह्मेति सामानाधिकरण्य श्रुतिः | तथैव सत्यकामस्सत्यसंकल्पः | यस्सर्वज्ञस्सर्ववित् इति सामानाधिकरण्य श्रवणेन कामसंकल्पादीनामभेदोंगीकार्यः | अत एवात्रावयोरविरोध इत्यर्थः | सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्म सत्यकामस्सत्यसंकल्पः यस्सर्वज्ञस्सर्ववित् इत्यादौ सामानाधिकरण्य श्रवणेन चित्राज्याधिकरण न्यायेन सामान्याधिकरणश्रुत्या ज्ञानानन्दकाम प्. १०१) संकल्पादीनां ब्रह्माभेदान्वयोपपत्तिः तदधिकरणं प्रमाणलक्षणे इत्थमुपपादितम् | तथाहि चित्रया यजेत पशुकामः पञ्चदशान्याज्यानीत्यत्र चित्राशब्दः किं गुणविधिः कर्मनामधेयमिति विशये रुढ्या चित्राशब्दस्य चित्रत्वस्त्रीत्व विशिष्टवस्तु वाच्यत्वात् प्रकृतौ चित्रत्वस्त्रीत्व रूप गुणो विधीयते | तद्विशिष्टगुणो वा विधीयत इति प्राप्ते गुणद्वयविधाने वाक्यभेदापत्तेः | विशिष्टविधौ गौरवात् दधिमधुघृतमापोधानास्तण्डुलास्तैस्संसृष्टं प्राजापत्यमित्युत्पत्ति वाक्यगत नानाद्रव्यसंबन्धेन सामानाधिकरण्यात् चित्राशब्दार्थस्य यागाभेदार्थस्समर्थितः | एवं पञ्चदशान्याजानीत्यत्रापि पञ्चदश शब्दार्थस्य सामानाधिकरण्यात् | आज्यशब्दार्थस्तोत्राभेदस्समर्थित इति न च परास्य शक्तिर्विविधैव श्रूयते | इति शक्त्यादि धर्माणां भेदश्श्रूयत इति वाच्यम् | तस्यामुख्यत्वांगीकारात् कामादीनां सत्यत्व श्रवणेना भेदे साधकाभावात् | न च विषय मिथ्यात्वात् तदुपहितं कामादिकं मिथ्याभूतमिति वाच्यम् | ज्ञानेपि साम्यात् अनादि भूते ब्रह्मणि वृत्तिज्ञानाभावात् विषयस्य तटस्थतया व्यावर्तकत्वेपि रूपान्तर्भावाभावात् विषयापेक्षि न ज्ञानं विषयैश्च विशेषितम् | प्. १०२) इत्यनुव्याख्यानोक्तेः विषयदादि मिथ्यात्वस्यामुख्यात्वाभिधानेन पारमार्थिक सत्यत्वाविरोधित्वच्च | न च ब्रह्मणः सखण्डत्वाखण्डत्वाभ्यां आवयोर्भेद इति वाच्यम् | सविशेषत्व निर्विशेषत्वाभ्यामेव सखण्डत्वाखण्डत्वोपपत्तेः | न च ताभ्यामेव भेद इति वाच्यम् | अभिन्नानन्तविशेषवत्वभिन्नानन्तविशेषशून्यत्वाभ्यामेव सविशेषत्व निर्विशेषत्वोपपत्तेः | न च अपर्यायात्यन्तपदानां तत्तत्प्रवृत्ति निमित्तगुणलाभाय ब्रह्मणिपरममुख्यवृत्तिरंगीक्रियते | मया तु तेषां निर्गुणे ब्रह्मणि लक्षणांगीक्रियत इति वाच्यम् | किमेतावता ब्रह्मणि स्वगतभेद निषेधे आवयोर्विरोधाभावात् न ह्यभिन्न प्रवृत्तिनिमित्तस्थले शब्दानां वाचकत्वमेव नास्तीति नियमः | तथात्वे प्रमेयाभिधेयादि शब्दानां प्रमेयत्वाभिधेयत्वस्वरूपत्वाद्यभिन्न धर्मपुरस्कारेणैव प्रमेयादि पदार्थ वाचकत्वं न स्यात् | तत्र तथात्वे सत्यज्ञानादिपदानामपि अभिन्नधर्मपुरस्कारेणैव ब्रह्मवाचकत्वे को दोषः ब्रह्मणि सत्यादि पदलक्ष्यत्वस्य मुख्यत्वे गङ्गापदलक्ष्यस्य तीरस्यागङ्गात्ववत् सत्यादिपदलक्ष्यस्य ब्रह्मणोप्यसत्यत्वादि प्रसङ्गेन ब्रह्मणः सत्यादिपद अमुख्य लक्ष्यस्यैव वक्तव्यत्वात् सत्यज्ञानादिपद प्. १०३) लक्ष्यं ब्रह्म | सत्यज्ञानादिस्वरूपमित्यस्य व्याहतत्वाच्च किञ्च लक्ष्यपदेनापि ब्रह्मणो लक्ष्यत्वे तस्य सुतरां लक्ष्यत्वाभावप्रसंगात् | किञ्च पदानां मुख्यलाक्षणिकत्वेनवस्थापत्तेः | निर्विशेषपदलक्ष्यं न निर्विशेषमिति ब्रह्मणस्सविशेषापत्तेश्च सर्वपदानां ब्रह्मणि लक्षणयापुनरुक्त्यापत्तेश्च न च अनृतादि व्यावृत्तिबोधाय पदान्तरं सार्थकमिति वाच्यम् | निष्प्रकारक चैतन्यमात्रबोधे तस्यानुपयुक्तत्वात् | न च व्यावृत्ति बोधस्य स्वरूपबोधे द्वारत्वात्सार्थक्यमिति वाच्यम् | द्वारत्वेपि एकपदेनैव एकव्यावृत्तिबोधद्वारा स्वरूपबोधोपपत्तौ पादान्तरवैययर्थ्यानिस्तारात् | न हि निर्विशेषस्वरूपमात्रबोधे अनेकव्यावृत्तिबोधैः प्रयोजनमस्ति | किञ्च अनृतादि व्यावृत्तीनां ब्रह्मस्वरूपबोधे द्वारत्वमेव दुर्निवारम् | तथाहि किं व्यावृत्तीनां ब्रह्मलक्षणत्वेन द्वारत्वं सन्निकर्षादिवत् अवान्तरव्यापारत्वेन वा | नाद्यः तासां ब्रह्मलक्षणत्वानुपपत्तेः | किं व्यावृत्तिरूपं लक्षणं स्वरूपमतिरिक्तं वा नाद्यः स्वरूपस्याखण्डचैतन्यरूपस्य स्वरूपभूता साधारणधर्मशून्यस्य व्यावृत्तिरूपस्य स्वरूपलक्षणत्वानुपपत्तेः | न च निषेधरूपाधर्माः चैतन्याभिन्नांगीक्रियंत इति वाच्यम् | तथैव भावरूपधर्माणां न्यायसाम्येन चैतन्यभेदसंभवात् | नान्त्यः स्वरूपातिरिक्ता साधारण धर्मरूप प्. १०४) सत्यत्वादि लक्षणज्ञानेनैव ब्रह्मस्वरूपो बोधोपपत्तौ व्यावृत्तिरूपलक्षणबोधस्य ब्रह्मबोधजनकत्वकल्पनाया वक्त्रगतित्वात् न द्वितीयः | असत्यादि व्यावृत्तिबोधस्य तज्जन्यत्वे सति तज्जन्यजनकत्वाभावेनावान्तरव्यापारत्वानुपपत्तेः | न च व्यावृत्तिबोधस्य वेदजन्यत्वे सति वेदजन्यब्रह्मबोधजनकत्वं युक्तमिति वाच्यम् | व्यावृत्तिबोधस्य तथात्वे सत्यादिपदजन्यत्वानुपपत्तेः | तेषां व्यावृत्तौ शक्तिर्वा लक्षणा वा | नाद्यः तद्ग्राहकप्रमाणाभावात् | नान्त्यः | शक्यसंबन्धाभावेन लक्षणानुपपत्तेः | शक्यभूतसत्यत्वादिविशिष्टेनासत्यत्वादेस्संबन्धाभावेन तद्व्यावृत्यादावपि सुतरां संबन्धाभावात् | क्वप्यदृष्टपरं परासंबन्धकल्पनायाः अन्याययत्वात् | सत्यादिपदानां लक्षितव्यावृत्तिबोधेनैव स्वरूपबोधोपपत्तौ स्वरूपोपि लक्षणानुपपत्तेश्च सत्यादिपदानां लक्षणया स्वरूपमात्र बोधे च व्यावृत्तिबोधरूपद्वारस्यानपेक्षितत्वाच्च | नहि पदात्पदार्थभूते किञ्चिद्वारमपेक्षितम् | नवा शाब्दबोधे पदार्थस्मृतेरिव व्यावृत्तिबोधस्यासत्यत्वेन सत्यादिपदलक्ष्यं असत्यव्यावृत्तमित्यस्य सकलतान्त्रिकन्यायविरुद्धत्वाच्च | तस्मात्सत्यज्ञानादिपदलक्ष्यत्वासत्यव्यावृत्योरन्यतरस्यौपचारिकत्वे असत्यव्यावृत्तेरौपचारिकत्वे ब्रह्मणः असत्यत्वापत्या सत्यादि प्. १०५) पदलक्ष्यत्वस्यैवामुख्यत्वं सर्वैरपि वैदिकशिखामणिभिरं कार्यम् | अत एव | यतो वाचो निवर्तन्ते अशब्दमस्पर्शमित्यादि श्रुति वेद्यमवाच्यत्वादिकं अद्भुतत्वादनिर्वाच्यमित्यादिवचन बलेन गौणमेव नेयम् | अत एव च सत्यादिपदानां स्वरूपमात्रवाचकत्वेन ब्रह्मणः ज्ञानान्दात्मकत्वेन स्वगतभेदवर्जितं ब्रह्मेत्येतत् मतत्रयाविरुद्धमिति रामानुजमते गुणक्रियावयवावताराणामभेदः तन्मतैक्यप्रकाशे सम्यक्प्रकाश्यत इति सर्वमनवद्यं इति स्वगतभेदनिषेधैक्यप्रकाशः एतेन परास्य शक्तिर्विविधैव श्रूयते | स्वाभाविकीज्ञानबलक्रियाश्च आनन्दरूपममृतं यद्वा भाति | सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि श्रुतिसिद्धस्वाभाविकज्ञानानन्दादिगुणात्मकस्य ब्रह्मणो अनौपाधिकत्वं कर्मानुसारेण फलदातुरीश्वरस्य उदासीनत्वम् | नेह नानास्ति किञ्चन इत्यनेन भिन्नानन्दादि गुणशून्यत्वेन निर्विशेषत्वम् | रसो वै स इत्यनेन चैतन्यैकरसत्वं इत्येतत्सर्वं मतत्रयाविरुद्धमित्येतत्प्रकाशितं भवति | इति ब्रह्मणोनौपाधिकत्वादैक्यप्रसङ्गः | नन्वेवमपि गुणत्रयात्मकं भावरूपाज्ञानं ब्रह्मावरणं तच्च द्विविधं समष्टिव्यष्टिभेदेन समष्टिरूपाज्ञानाख्यमायाविशिष्टं ब्रह्मेश्वरः | स च जगत्कारणत्वादि प्. १०६) पूर्वोक्तगुणविशिष्टः तस्य सर्वज्ञत्वादिकं सर्वं मिथ्या व्यष्टिरूपाज्ञानविशिष्टं ब्रह्मजीवः | अल्पज्ञत्वानीश्वरत्व भोक्तृत्वादिगुणकः अन्तः करणावच्छिन्नं ब्रह्मजीव इति वेति मतद्वयमित्यादि | तदुपाधिक चैतन्यं निमित्तं स्वप्रधानतः | इत्यन्तमभिहित प्रमेयम् | भवन्मतविरुद्धमेव | तस्य पूर्ववत् कथमप्यविरोधस्य कर्तुमशक्यत्वात् | तथा च तदंशे मतविरोधो दुष्परिहर इति चेन्न | तत्र प्रधानाप्रधानप्रमेयेषु केषाञ्चिदमुख्यत्वेनाविरोभिधानसंभवात् | तथाहि मन्मते तावत् अजाप्रकृत्यव्यक्तादिपदवाच्यं प्रधानमेव माया विद्या ज्ञानादि शब्दैश्श्रुति स्मृत्यावुपचर्यते | सत्वं रजस्तम इति गुनाः प्रकृतिसंभवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् | यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् | प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् | इति भागवतवचनेन - राशीभूतस्य तमसः सकाशाद्विनता सुत | राशीभूतं रजो ज्ञेयं द्विगुणं ननु नान्यथा | राशीभूतस्य रजसः सकाशाद्विनता सुत | राशीभूतं तथा सत्वं द्विगुणं समुदाहृतम् | मूलप्रकृतिजाह्येते न मूला प्रकृतिर्मता | इति गरुडपुराणवचनेन प्रकृत्यादिशब्दितस्य प्. १०७) प्रधानस्याविद्यमानत्वस्यैव वक्तव्यत्वात् अविद्यानाः ध्वंसप्रतियोगिकत्वेन नित्यत्वायोगाच्च | मायान्तु प्रकृतिं विद्यामिति मायाशब्दार्थोद्देशेन प्रकृतित्वपिधानाच्च तस्याविद्यत्वविषयकज्ञान निवृत्तेरेव प्रयोजनत्वात् जडप्रकृतौ आवरकत्व सामान्या ज्ञानशब्दस्य गौणत्वाच्च ब्रह्मावरकत्वमपि ब्रह्मजज्ञान प्रतिबन्धकत्वेन युक्तं अत एव अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते | स्वगुणाच्छादिकात्वेका परमाच्छादिका परा | स्वगुणाच्छादिकां हित्वा परमाच्छादिका पराम् | व्याघट्य मोक्षपदवीं ददाति पुरुषोत्तमः | इति भागवत तात्पर्यवचने प्रकृतेरावरकत्व प्रतिपादनाच्च | तस्या लिंगशरीरात्मकत्वेनापि आवरकत्वं सुवचम् | तस्मात्प्रधानमेवाज्ञानादि पदेन श्रुतिस्मृत्यादौ पूर्वोक्तनिमित्तैरुपचर्यते जीवावरणभूतं तदाश्रितं भावरूपाज्ञानमप्यस्माभिरंगीक्रियते - अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः | इति गितोक्तेः तद्वचनस्य भावरूपाज्ञानावृतं जीवरूपज्ञानमित्यर्थपरत्वात् अविद्यापटलविहितनयनैरन्यैरिति तत्वप्रकाशिकायां पुंगतमेवेति तमः इति तत्वो द्योते च स्वरूपमनसः | अज्ञानाश्रयत्वाव्रीयमाणत्वोक्तेः तदेवाज्ञानं जीवस्य प्. १०८) संसारापादकं अनाद्यविद्याकाम कर्मादिनिमित्तोयं बन्धः प्रमादात्मकत्वात् बन्धस्य विमुक्तत्वञ्च युज्यते - तन्वास्वस्वामि संबन्धः प्रपञ्चोस्य शरीरिणः | तन्वादिकस्तथाप्येषह्यभिमानात्प्रदृश्यते | इति श्रीमद्भाष्यादुक्तेश्च | न च अविद्याकार्यत्वात् संसाराख्यबन्धस्य मिथ्यात्वप्रसङ्ग इति वाच्यम् | अविद्योपादानत्वस्य मिथ्यात्वेपि तन्निमित्तकस्य मिथ्यात्वा भावात् अत एवाविद्याकामकर्मादिनिमित्तोयं बन्ध इति कामकर्मादिसाम्येन अविद्याया नित्तत्वोक्तिः | अविद्यायाबन्धनिमित्तत्वं कथमिति चेन्न | मिथ्या ज्ञानोत्पादन द्वारा बन्धनिमित्तत्वांगीकारात् तथाहि अनाद्यविद्या तावत् जीवस्य बन्ध निवर्तकं तत्वज्ञानं भूयः प्रतिबन्ध्यमिथ्याज्ञानमुत्पादयति | तच्च कामादिषड्वर्गान् जनयन्ति | ते च प्रवृत्ति कर्माणि जनयन्ति | कर्माणि च जीवस्य स्वयोग्य शरीरं प्रापयन्ति तथा च बद्धस्य प्रवाहतः अनादित्वं सत्यत्वञ्च युक्तम् | एवं भ्रमतो जीवस्य स्वयोग्यवशात् बन्धनिवर्तकसाधनावसरप्राप्तौ सद्गुरुलाभे तैरुपदिष्ट सत्कर्मानुष्ठानद्वारा श्रवणादिकं संपाद्य अज्ञानसंशयविपर्ययान्निरस्य ब्रह्मदर्शनं संप्राप्य कामादिसर्वानिष्ट निवृत्तिद्वारा स्वानन्दानुभवरूपमोक्षो भवतीति | प्. १०९) एवं प्रमादात्मकत्वादित्यत्रापि प्रवृत्तिनिमित्तकत्वादित्यर्थः | ब्राह्मणोस्यमुखमासीदित्यादौ निमित्तनैमित्तिकयोरभेदोपचार दर्शनात् | एवमेव वेदान्त तात्पर्यं जानन्तः ज्ञानज्ञेयात्मकस्य प्रपञ्चस्याविद्यानिमित्तत्वमंगीकृत्य बद्धस्यौपचारिकमिथ्यात्वमङ्गीकृत्य बद्धसत्यत्वमङ्गी कुर्वन्तो वेदप्रामाण्यवादिनो भवेयुः | अन्यथा बद्धस्य मुख्यमिथ्यात्वे वेदाप्रामाण्यप्रसङ्गात् | अप्रामाण्यमात्रस्य विषयमिथ्यात्मातिरिक्त प्रयोजकस्य दुर्लभत्वात् तस्मात् वेदप्रामाण्यपादिभिस्सर्वैरपि बद्धस्य मुख्यसत्यत्वमेवांगीकार्यम् | यत्तु जीवस्य शरीरेन्द्रिया विषयादि जातस्य अस्वीयस्य स्वीयत्वभ्रमः अविद्योपादानकः स्वस्वामि संबंद्धात्मकः प्रपञ्चः स च मिथ्याभूत इत्यस्मन्मतम् | तत्ववादिनो वदन्तीत्यादि सुधायां माण्डूकभाष्ये च तथैवाभिहितत्वात् तस्मादद्वैति रामानुजीयैरपि प्रपञ्चमिथ्यात्व श्रूतीनामेतत्परत्वेन काप्यनुपपत्तिः | यच्च तमश्शब्दितमज्ञानं समष्टिव्यष्टिभेदेन द्विविधमित्यादि त्वन्मतविरुद्धमिति तन्न | तमश्शब्दित प्रधानस्यैव समष्टिव्यष्टिभेदेन द्विविधत्वात् | तत्र सत्वप्रधानकमहत्तत्वोपाधिकचैतन्यं चतुर्मुखाख्यमेव सृष्टिकर्तृत्वात् प्. ११०) तदुपयुक्तसार्वज्ञादिगुणविशिष्टं तूच्यते | तस्य चतुर्मुखाख्यस्य तुरीयभगवद्विभूत्यंशित्वेन तन्निष्ठ सर्वेश्वरत्वादि सर्वधर्मा उपचर्यन्ते | निरुपचरितानिरवधिकाश्च ते सर्वे चतुर्मुखे मिथ्याभूताः | अशुद्धसत्वमुख्यव्यष्टिरूपाज्ञानोपाधिक चैतन्यमित्यनेन प्रचुरतमोगुण रजोगुणा प्रचुरसत्वगुण प्रधानशरीरकमेव जीवचैतन्यमुच्यते | जीवशरीरस्य पाञ्चभूतिकस्य तादृशत्वात् | मुख्याविद्योपधिक चैतन्यस्य जीवत्वे मिथ्यात्वप्रसंगात् | तथा च जीवस्य सत्यत्वं तदीयाल्पज्ञत्वानीश्वरत्वादि धर्मप्रतिपादक वेदवाक्यानां प्रामाण्यमुपपद्यते | जीवोपि स्वरूपान्तःकरण बाह्यान्तः करणभ्यामेव ज्ञानेच्छाप्रयत्नकर्तृत्वभोक्तृत्वसुखदुःखाद्याश्रयो भवति | न तु तद्गता जीवे भासन्ते | तथात्वे ज्ञानादि साधनानां भ्रान्तित्वप्रसंगेन पारमार्थिकमोक्षाभाव प्रसंगात् | तत्वज्ञानस्यैव मोक्षसाधनत्वात् अत एवान्तः करणोपाधिकं चैतन्यं जीवे पत्यौपचारिकं | न तु मुख्यम् | सत्यस्यापि अन्तःकरणस्याजाशब्दितजडप्रकृतिविशेषोपादानकस्य ब्रह्माश्रितजीवसंबन्धात् ज्योतिरादि सर्वमहिमोपेतत्वं युक्तम् | एतदन्यत्सर्वं मुख्यं नेयं अविद्याहङ्कारयोश्चेत्यादि ज्ञातव्यम् | शुक्तिरूप्यवदित्यभिहिते अविद्याहंकारयोरध्यासो मुख्यः | साक्षिमिथ्यात्वमप्यमुख्यं अन्तःकरणोपादानकसुखदुःखेच्छाज्ञानस्वरूपज्ञानसुखा व्याकृताकाशदेश प्. १११) कालादिविषयकं स्वरूपज्ञानमेव साक्षीत्युच्यते | इदञ्च प्रायो न विरुद्धम् | एवं स्थिते च सिद्धान्त इत्यादि ज्ञेयं शक्तिद्वयं ततः | इत्यन्तं यथा योगं यथाशक्ति निरूप्यते | सर्वगतस्याविद्यानावृतस्य ब्रह्मचैतन्यस्याविद्या प्रतिबिम्बितत्वं मुख्यममुख्यं वा | नाद्यः | असिद्धः तथाहि प्रतिबिम्बितत्वं नाम प्रतिफलितत्वं प्रतिफलनञ्च | स्वच्छद्रव्योपादाने बिम्बसन्निधानादि निमित्ते सति भवति | तथा च बिम्बसन्निधानादिनिमित्तकस्वच्छद्रव्योपादानकबिम्बसदृशवस्तुत्वं प्रतिबिम्बत्वम् | नहि एतादृशं प्रतिबिम्बत्वं अविद्योपाधिक चैतन्ये | मुख्यम् | अविद्यायाः प्रकाशविरोधितमोवदस्वच्छद्रव्यत्वेन ज्ञानविरोधित्वेन तत्र चैतन्यप्रतिफलनासंभवात् अन्यथा रविप्रकाशस्यापि तद्विरोधिनि तमसि प्रतिफलनापत्तेः | न चाविद्यापदेनामुख्यवृत्या जडप्रकृतिर्गृह्यत इति वाच्यम् | तस्यामप्यवस्थायां ब्रह्मचैतन्य प्रतिफलनायोगात् | नह्यस्वच्छे प्रधाने व्याप्तं प्रमारूपं ब्रह्मचैतन्यं प्रतिफलतीति युक्तं न चाविद्यापदेन प्रकृत्युपादानमन्तःकरणं अन्तर्यामिभगवद्रूपसन्निधानात् तेजो भागाधिक्याच्च प्रकाशात्मकं स्वच्छद्रव्यं लक्षणया गृह्यते | तत्र बिम्बाख्यमन्तर्यामिरूपं प्रतिफलति तदेव जीवनामकमिति वाच्यम् | अस्माभिरपि प्. ११२) जीवस्यान्तःकरण प्रतिबिम्बित चैतन्यरूपत्वांगीकारात् सर्वकालेपि स्वरूपान्तःकरणे प्रतिफलितस्यैवं जीवत्वात् जीवब्रह्मणोः बिम्बप्रतिबिम्बभावः तयोर्भेदश्च नित्य एवोपपद्यते | प्रतिबिम्बस्य जीवस्य बिम्बसादृश्यं चेतनत्वादिनेव प्रतिबिम्बत्वादेव न यावत्सादृश्यं स्वरूपान्तः करणस्य नित्यत्वाद्बिम्बभूतेश्वरस्यापि नित्यत्वात् | अत एव बिम्बसन्निधानस्याप्यनाशाच्च जीवस्याप्यनाशो युज्यते | न चानित्यबाह्योपाधौ प्रतिफलितत्वात् जीवस्यपि नाशप्रसंग इति वाच्यम् | स्वरूपान्तः करणरूपोपाधावेव जीवस्य प्रतिफलनांगीकारात् - न च बाह्यान्तःकरणस्य उपाधित्वव्यवहारोऽनुपपन्न इति वाच्यम् | चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः | इति मूलवचनेन संसारदशायां स्वरूपान्तःकरणसंवलित बाह्यान्तः करणस्यैव प्रमिति प्रवृत्यादिसकलकार्यकरत्वेनामुख्यतया उपाधित्व व्यवहारोपपत्तेः जपाकुसुमादिवत् सुखदुःखेच्छाद्वेषादि सकलधर्मासंभवत्वेन वा तस्य मुख्योपाधित्वोपपत्तेः तस्माज्जीवस्याविद्या प्रतिबिम्बितत्वं मुख्यमनुपपन्नमिति स्वरूपान्तः करणरूपोपाधिप्रतिफलितं जीव इति अविद्या प्रतिबिम्बितत्वं अमुख्यमेवाङ्गीकार्यं | अत एव न द्वितीयः | इष्टापत्तेरभिहितत्वात् यच्चोक्तं प्. ११३) अविद्या प्रतिबिम्बितं सर्वगतं ब्रह्म चैतन्यं जीव इति मतमित्यादि तत्रापि सर्वगतब्रह्मचैतन्यसदृशं अविद्याप्रतिबिम्बितं अविद्या पदोपलक्षितान्तः करणोपाधिकं चैतन्यं जीव इति सुवचम् | तदविद्यावृतम् | भावरूपाज्ञानावृतं पुङ्गतमेव हि तमः | अविद्यापटलपिहित नयनैरिति मूलटीकाग्रन्थोक्तेः अन्यत्सर्वं मुख्यतया नेयम् | यच्चोक्तं प्रथमपक्षे अनावृतं सर्वगतमपि जीवचैतन्यमसङ्गत्वेन स्वतो विषयाप्रकाशकमपि विषयाकारवृत्युपकारद्वारा तत्तद्विषयोपरागेण तत्तद्विषयप्रकाशकमितीति | तत्सत्यम् | जीवब्रह्मणेरभेदस्यामुख्यत्वाभिधानेन भेदमुख्यत्वमङ्गीकृत्यनावृतसर्वगतब्रह्मसदृशब्रह्मप्रतिबिम्बब् हूत-जीवचैतन्यं स्वतः अणुरूपं परमसूक्ष्मं चिदानन्दाद्यात्मकं बाह्यविषयाप्रकाशकमपि अन्तःकरणवृत्तिसंवलनलक्षणोपरागद्वारा चक्षुरादीन्द्रियद्वारा बहिरागत्यघटादि विषयसंबन्धेन विषयप्रकाशकं न च बाह्यान्तः करणमेव | स्वरूपान्तःकरणसंवलितं नत्वन्तः करणपरिणीतावृत्तिः चैतन्यसंवलितेति वाच्यम् | जडान्तः करणस्य स्वरूपान्तः करणसंवलनमात्रस्याकार्यकरत्वेन तस्य तत्कार्यवृत्तिद्वारेणैव बाह्यविषयप्रकाशकत्वस्य वक्तव्यत्वात् | न च चैतन्यस्य बहिरागमनानुपपत्तेरिति वाच्यम् | चैतन्याभिन्नप्रकाशस्य देहव्याप्तिवत् तस्यान्तःकरणवृत्ति सद्वारदेशमात्रव्याप्तौ बाधकाभावात् | न च तथात्वे परोक्षापरोक्षज्ञानयोर्विशेषाभाव इति वाच्यम् | प्. ११४) वृत्तिगतप्रकाशस्य शक्तिव्यक्तिरूप विशेषेणैव ज्ञानस्य परोक्षत्वा परोक्षत्वोपपत्तेः - परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा इत्यनुभाष्योक्तेः - स्नेहावस्था इमास्सर्वाः जीवः पश्यति सर्वदेत्युक्तेः | तेन चिन्मनो मिश्रबाह्यमनसेत्यर्थः | वृत्तेर्विषयाकारत्वमित्यन्तो मुख्यमिति न्यायामृते तत्वोद्योगे च सम्यगुपपादितम् | एवमन्तः करणावच्छिन्न चैतन्यं जीव इति द्वितीयमतेपि स्वरूपान्तः करणसंवलितबाह्यान्तः करणवृत्तिज्ञानस्यैव विषयप्रकाशकत्वोपपत्या चैतन्यस्य विषयप्रकाशकतायाः अत्यन्तामुख्यतयैव नेयत्वात् | एवं जीवब्रह्माभेदं प्रपञ्चसत्यत्वञ्चाङ्गीकुर्वद्भिरपि अज्ञानमावरणविक्षेपशक्तिमदित्येतदप्यन्तामुख्य तयैव नेयं तस्मादान्तरालिक प्रक्रिया सर्वाप्यमुख्येति नास्माकमत्यन्तविरोधिनीति संक्षेपः | इत्यान्तरालिकावान्तर प्रक्रियैक्यप्रकाशः || नन्वेवमपि पूर्वोक्तप्रमेयजातस्य यथाकथञ्चिदविरोधेपि ब्रह्मणः अभिन्ननिमित्तोपादानत्वमस्मदङ्गीकृतं भवन्मतविरुद्धं तथाहि मायोपाधिकं ब्रह्मजन्मादिसूत्रप्रतिपाद्यं जगत्कारणं तच्च स्वप्रधानतया निमित्तं सोपाधि प्रधानतयोपादानञ्चेति कारणद्वयमपि यथोर्णनाभिश्चेतनः स्वकार्यतन्तुं प्रति स्वप्रधानतयानिमित्तं स्वशरीरप्रधानतयोपादानञ्च तद्वदिति चेत् प्. ११५) अत्रोच्यते - विकारवत्कारणञ्च निर्विकारतया च तत् | मुख्या मुख्यार्थभेदेन गीयते श्रुतिमस्तकैः | ब्रह्मैकमेवेत्युदिते मनसारात्थदर्शिभिः | मतत्रयाविरोधेन कार्या काचिद्विचारणा | एकमेव ब्रह्मोपादानकारणं निर्विकारतया कुलालवत् | कर्ता च चशब्दौ परस्परसमुच्चये | ब्रह्मोपादानमित्येतदमुख्यार्थं ब्रह्मोपादानमित्यस्य ब्रह्मसंबन्धिन्या मायायाः जडप्रकृतेर्वा विकारवत्वरूपोपादानत्वस्वीकारात् | गङ्गायां घोष इत्यत्र सम्बन्धतीरे घोष इतिवत् अमुख्यत्वात् | अत्राप्युपाध्युपहितभावस्य नियम्यनियामकभावस्य च शरीरशरीरिभावस्य च सम्बन्धस्य त्रयाणामपि सत्वात् स्वोपादानगो चापरोक्षज्ञान चिकीर्षाकृतिमत्वेन निर्विकरत्वेन च ब्रह्मणः कर्तृत्वमित्येतन्मुख्यार्थः इति वेदान्तैः प्रतिपाद्यत इत्यर्थः | मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् | इत्यादि नामाया पदं प्रकृति वाचकमिति जानद्भिर्मतसारार्थदर्शिभिर्निर्मत्सरैः मतत्रयाविरोधे कापि विचारणा न कार्येत्यर्थ इति | अथ मतम् रज्वा सूत्रद्वयवत् मायाविशिष्टं ब्रह्मजगदुपादानं माया ब्रह्मणि उपादाने इत्यर्थः | निर्विकारश्रुतिस्तु केवलब्रह्म परेति वा माया शक्तिमत् प्. ११६) ब्रह्मजगदुपादानं मायोपरागात् ब्रह्मविकारी निर्विकार श्रुतिस्तु तदनुपरक्ताभि प्रायेति वा जगदुपादानमायाश्रयतया ब्रह्मजगदुपादानकारणं तन्तु द्वारा पटस्येव मायाद्वारा ब्रह्मजगदुपादानं श्रुतिस्तु अद्वारकविकारनिषेधपरेति वा असत्यरूपान्तः करणपपत्तिर्विवर्तः सत्यरूपान्तरापत्ति परिणामः रूपान्तरापत्तिमात्रमुपादानं तच्च ब्रह्मणो विवर्तत्वेनाप्युपपन्ना निर्विकारश्रुतिस्तु तात्विकविकाराभावाभिप्रायः न शुक्तिपरत्वादज्ञानपरिणामित्वादुभयोपादानकशुक्तिरूप्यमिव ब्रह्मविवर्तत्वादज्ञान परिणामित्वादुभयोपादानमिति वा रूपान्तरापत्तिप्रतीतिविषयत्वं वा रूपान्तराभेदधीविषयत्वं वा कार्याभेदधीविषयत्वं वा उपादानत्वमिति अस्माभिः स्वीकृतम् | तच्च भवन्मतविरुद्धं एवं कर्तृत्वमपि ब्रह्मणश्शुक्त्यादिवत् अधिष्ठानमात्रत्वं पारिभाषिकं वा भ्रान्तवदध्यासदृष्टत्वं वा मायाविवद्वयामोहकत्वं वा कुलालादिवत् उपादानगोचर प्रयत्नादिमत्वं वा इत्येवं पक्षचतुष्टयमपित्वन्मतविरुद्धम् | तस्माद्ब्रह्मणः उपादानत्वं कर्तृत्वञ्च प्रमितं मुख्यमेवेति चेत् अत्र ब्रूमः उक्तमतेषु सर्वेषु ब्रह्मणः उपादानत्वं मुख्यं सर्वसम्प्रतिपन्न कर्तृत्वमेव मुख्यं तथाहि मायाविशिष्टं ब्रह्म जगदुपादानमिति प्रथमपक्षे माया प्. ११७) प्रकृतिरर्थः | मायान्तु प्रकृतिं विद्यादिति श्रुतेरित्युक्तत्वात् घटादिकार्ये कुलालादीनां मृत्पिण्डादिसाधनत्वोपेतत्वमिव ब्रह्मणोपि महदादिकार्ये उपादानभूत प्रकृत्यादि साधनोपेतत्वमेव तद्विशिष्टत्वं उपादानत्वं मुख्यं मृत्पिण्डादिवत् प्रकृत्यादिमात्र निष्ठं श्रुतिस्मृतिमूलो विशिष्टं ब्रह्मोपादानमिति प्रयोगछत्रिन्यायेनामुख्यो नेतव्यः निर्विकारश्रुत्यविरोधोपि सुलभः - द्वितीयमतेपि मायाशक्तिशब्देन मायाख्यशक्तिरित्यर्थोक्तौ पूर्वमता वैषम्यं माया या शक्तिरित्यर्थोक्तौ च शक्तिमतोरभेदात् पूर्वमतावैषम्यमेव तृतीयमतेपि माया शब्दितं प्रधानमेव ब्रह्मणः तदाश्रयत्वञ्च तदन्तर्यामित्वेन तच्छरीरकत्वेन तत्सत्ता प्रवृत्यादिमत्वेन तन्नियामकत्वमेव विवक्षितम् | तन्तु द्वारेत्यादि दृष्टान्तः सत्वाश्रयत्वमात्रे | तथाचेदमपि पूर्वमतान्तर्भूतं मतत्रयाविरुद्धं च तुरीयमतेपि ब्रह्मणस्सर्वथा उपादानत्वमेवानुपपन्नम् | विजातीयनिषेधैक्य प्रकाशोक्तरीत्या ब्रह्मणः असत्यरूपान्तरापत्तिरूपविवर्तोपादानत्वानुपपत्तेः | ब्रह्मणो निर्विकारत्वेन सत्यरूपान्तरापत्तिरूपपरिणमस्य प्रकृतिगतत्वेन ब्रह्मगतत्वायोगात् | यच्चोक्तं शुक्तिरूप्यं शुक्तिविवर्तत्वात् अज्ञानपरिणामित्वात् प्. ११८) उभयोपादानकमिति | यथेति तन्न शुक्तेरूप्योपादानत्वायोगात् तथाहि न तावदारोपाधिष्ठानत्वं पारिभाषिकमुपादानत्वं अधिष्ठाने उपादानशब्दस्य क्वाप्यप्रयोगात् यथा कथञ्चित् अमुख्यप्रयोगे प्रयोजनाभावात् तथात्वेप्यस्मन्मताविरोधात् | मापि शुक्त्यविच्छिन्न चैतन्यावरकाज्ञानोपादानकत्वात् शुक्त्युपादानकत्वव्यपदेशो गौण इति चेत् तदपि न रूपस्य शुक्यविच्छिन्न चैतन्यावरकाज्ञानोपादानकत्वायोगात् | तथाहि - शुक्तिकायामज्ञानोपादानकरजतोत्पत्तिः कि मनुभवबलादङ्गीक्रियते अन्यथानुपपत्या वा | नाद्यः घट उत्पन्नः पट उत्पन्नः इत्याद्यनुभववत् शुक्तिरजतमुत्पन्नं इत्यनुभवा भावात् न द्वितीयः | रजताद्युत्पत्युपपादकं प्रतीतिरन्यद्वा | नाद्यः अतीतानागतादि विषयकप्रतीतेस्तत्पदार्थोत्पत्यनुपपादकत्वेन रजतादिप्रतीतेरपि तदुत्पत्यनुपपादकत्वात् | न चापरोक्षतया प्रतीतिः घटादीनामिव उत्पत्युपपादकेति वाच्यम् | भूतले घटो नास्तीति प्रतियोगिविशिष्टा भाव प्रत्यक्षदर्शनेनापरोक्षप्रतीतेरपि विषयोत्पत्युपपादकत्वायोगात् | न च तदानीं पुरोदेशस्थतया अपरोक्ष प्रतीति विषयत्वं विषयोत्पत्युपपादकमिति वाच्यम् - प्. ११९) सूर्यादीनामुदयादिकाले उत्पत्तिं विनापि पुरोदेशस्थतया अपरोक्षविषयत्वदर्शनेन तस्यापि तदुत्पत्यनुपपादकत्वात् | नान्त्यः | तस्यानुपलंभात् | किञ्च शुक्त्यधिष्ठाने शुक्त्यवच्छिन्नचैतन्यावरकत्वज्ञानोपादानकं रजतमुत्पन्नमित्यस्यानुपपन्नत्वात् | किं तादृशाज्ञानोपादानकं उत्पन्नं रजतंयावच्छक्तिकालीनं प्रतीतिमात्रकालीनं वा नाद्यः शुक्तिरजतस्य प्रातिभासिकत्वाभावप्रसङ्गात् | प्रतीतिमात्रशरीरत्वस्यैव प्रतिभासिकत्वात् | अपि च शुक्त्यवच्छिन्न चैतन्यावरकाज्ञानोपादानकविषयपरंपराप्रसङ्गात् | नान्त्यः प्रागेव यावत्सामग्रिसमवाधाने प्रतीतिकाल एवोत्पत्तौ कारणाभावात् तस्मादनुभवानुसारेण सर्वैरपि समयिभिः अत्यन्तासदेव रजतं दोषवशादाहितशक्तिसहितेन शुक्तिसन्निकृष्टेनैवेन्द्रियेणापरोक्षतया प्रतीयत इत्यंगीकार्यमिति तुरीयमतेपि ब्रह्मोपादानत्वम्मुख्यमेव यच्चोक्तं रूपान्तराभेदधीविषयत्वं उपादानत्वमिति मतद्वयमिति तत्रापि रूपान्तराभेद प्रकारकप्रमा विषयत्वं कार्याभेदप्रकारकप्रमाविषयत्वं परिणामोपादानत्वं पूर्वोक्ताभेदप्रकारकभ्रमविषयत्वं विवर्तोपादानत्वं तदपि सत्यमेव | सजातीय विजातीय भेदनिषेधैक्य प्. १२०) प्रकाशोक्तरीत्या ब्रह्मणो रूपान्ताराभेदा भावेन तद्विषयकप्रमा भावेन तद्विषयत्वरूपमुख्योपादानत्वासंभवात् श्रुति तात्पर्यापरिज्ञान लब्धरूपान्तराभेदविषयक भ्रमसंभवेपि तद्विषयत्वरूपा मुख्योपादानत्वस्य सर्वैरप्यंगीकारात् एवमेव कार्याभेदधीविषयत्वमपि उपपादनीयं तस्माद्ब्रह्मणि मुख्यमुपादानत्वमनुपपन्नमिति अमुख्योपादानत्वमनुपादानत्वे पर्यवस्यतीति न किञ्चिदनुपपन्नम् | उपादानत्वे प्रमाणानि रामानुजमतैक्यप्रकाशे उपपादयिष्यन्ते यच्चोक्तं ब्रह्मणः कर्तृत्वं भवन्मतविरुद्धमिति तन्न | अधिष्ठाने शुक्त्यादौ कर्तृशब्दव्यवहाराभावात् सर्वज्ञस्येश्वरस्य सर्वविषयकयथार्थज्ञानवत्वेन भ्रान्तत्वायोगात् बहुमानविरोधाच्च | पक्षद्वयमनुपपन्नम् | व्यामोहकत्वमपि - एवमोहं सृजाम्याशु यो जननान्मोहयिष्यति | विमोहितोय जन ईशमायया त्वदीयया त्वां न भजत्यनर्थ दृक् | इत्यादि वचनैः अधिकारिभेदेन न विरुद्धम् | परन्तु मायाविनि गजादिदर्शकत्व व्यवहारेपि कर्तृत्व व्यवहाराभावात् तादृशं कर्तृत्वं मुख्यमेव कुलालादिवत् सोपादानगोचरापरोक्ष ज्ञानचिकीर्षा कृतिमत्वरूपं कर्तृत्वमिति तुरीयमतं सर्वैरङ्गीकृतमेवेति न किञ्चिदनुपपन्नम् | तदनन्यत्वाधिकरणमपि प्. १२१) स्वतन्त्रकारणान्यत्वं तेनेह्यत्र निषिध्य इति अनुव्याख्यानुसुधायां एतदविरुद्धतया व्याख्यातं द्रष्टव्यम् | तस्मांच्चेतनाचेतन विलक्षणं सत्याशेष जगज्जन्मादि निमित्तकारणं सकलवैदिकपदवाच्यं नारायणाख्यं ब्रह्मैकमेवेति सिद्धम् | इति ब्रह्मणः अभिन्ननिमित्तोपादानतैक्यप्रकाशः | नन्विदमयुक्तम् | द्विरूपं हि ब्रह्मावगम्यन्ते वेदान्तवाक्येषु स्थूलमण्वित्यादिना निर्गुणं सत्यकामस्सत्यसङ्कल्प इत्यादिना सगुणं ब्रह्म न स्थानतोपि परस्योभयलिंगं सर्वत्रहीत्यधिकरणे तथैव निर्णीतत्वात् | तथा च सगुणं ब्रह्मवेदान्तगतसत्यज्ञानादिसकलपदवाच्यं प्रवृत्तिनिमित्तगुणसद्भावात् निर्गुणं ब्रह्मसत्यज्ञानादिसकलवैदिकपदलक्ष्यं यतो वाचो निवर्तन्ते अशब्दमस्पर्शमरूपमव्ययं अवचनेनैव प्रोवाचेत्यादि श्रुतेः | सगुणं ब्रह्मैव मायामयसर्वज्ञत्वादि सकलगुणशून्यं निर्गुणं ब्रह्मैव विविक्तमिति व्यवह्रियते | एवमत्र महति मतभेदे कथं नारायणाख्यं परं ब्रह्म सकलपदवाच्यमिति चेत् अत्रोच्यते तत्र तावत् परब्रह्मणो द्विरूपत्वं मुख्यं न युक्तं एकमेवाद्वितीयमित्यादि श्रुति विरोधात् | न च रूपद्वयमत्येकमेवेति वाच्यम् | द्विरूपत्वकल्पनायां प्. १२२) प्रयोजनाभावात् न च निर्गुणस्य जगत्कारणत्वानुपपत्तेः तदर्थं मायोपाधिकं सार्वज्ञादिगुणविशिष्टं ईश्वराख्यं ब्रह्म अङ्गीक्रियत इति वाच्यम् | सदेव सौम्येदमग्र आसीत् एकमेवाद्वितीयं तदैक्षत | नामरूपे व्याकरोत् इत्यादिना निर्गुणस्य एकस्यैव ब्रह्मणो जगत्कारणत्वश्रवणात् | न च एकमेव ब्रह्मप्रलये अनभिव्यक्तजगत्सृष्ट्यादि व्यापारं निद्रा मुद्राविलसितं असदेवेदमग्र आसीत् इत्यादि श्रुतिवेद्यम् | शून्यनिर्गुणादि पदवाच्यं पुनस्सृष्टौ तदेवाभिव्यक्त जगत्सृष्ट्यादिव्यापारं सिसृक्षादिना क्षोभित प्रकृत्याख्यमायाद्युपादानादि सामग्रीसहितं ब्रह्मैव सगुणमिति व्यवह्रियते | अप्राकृतगुणत्व प्राकृतगुणशून्यत्वाभ्यां वा सगुणत्व निर्गुणत्वोक्तिर्युज्यत इति वाच्यम् | एकस्यैव ब्रह्मणः कालभेदेन विवक्षाभेदेन वा सगुणत्वनिर्गुणत्वोक्त्युपपत्तावपि मुख्यरूपद्वयासंभवादित्युक्तत्वात् | रामकृष्णाद्यवताराणां सर्वेषामपि वैवक्षिक सगुणनिर्गुणत्वोपपत्तौ मूलरूपाभेदे च सर्वाविवादात् | न स्थानतोपीत्यधिकरणे तथैव निर्णीतत्वात् | नन्वेवं सति एकरूपस्यैव ब्रह्मणः वाच्यत्वं लक्ष्यत्वं विरुद्धमिति चेन्न | तत्रापि एकं मुख्यं इत्यंगीकारे बाधकाभावात् | न च लक्ष्यत्वमेव प्. १२३) यतो वाच इत्यादि श्रुतिभिः मुख्यमिति वाच्यम् | विकल्पा सहत्वात्तथाहि पदार्थस्य मुख्यत्वं शक्तपदबोध्यत्वं वा लक्षकपद बोध्यत्वं वा नाद्यः असंभवात् | लक्ष्यादि पदस्य ब्रह्मणि शक्तेरभावात् न च लक्ष्यते ज्ञायत इति कर्मव्यत्पत्या ज्ञेयत्व रूपप्रवृत्तिनिमित्तेन लक्ष्यपदयोगार्थत्वं ब्रह्मणो युक्तमिति वाच्यम् | लक्षकपदबोधत्वस्यैव प्रवृत्तिनिमित्तत्वेन लक्ष्यपदवाच्यत्वानंगीकारात् करणव्युत्पत्या वाऽपि ज्ञानकरणस्यैव योगार्थत्वात् | नापि लक्ष्यपदस्य ब्रह्मणि रूढिरपि सम्भवति प्रयोग सामान्यस्यैवाभावात् | नहि श्रुत्यादिषु ब्रह्मणि लक्ष्यपदप्रयोगो दृष्टचरः | प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते इत्युक्तेः न च यतो वाचो निवर्तन्त इत्यादि श्रौतप्रयोग एव रूढिज्ञापक इति वाच्यम् | तत्रापि लक्ष्यपद श्रवणात् न च वाचः वाचकपदानि ब्रह्मणो निवर्तन्ते ज्ञापयितुं न समर्था भवन्तीति प्राप्त्या श्रौतान्यथानुपपत्तिकल्पितं लक्ष्यमिति पदं श्रौतमिति युक्तम् | अन्यथा यागस्वर्णयोस्साध्यसाधन भावान्यथानुपपत्या कल्पितस्यापूर्वस्यावैदिकत्वापत्या धर्माधर्मयोर्वेदैक समधिगम्यत्वमिति सिद्धान्तोच्छेदापत्तेः | एवं विशिष्टविध्यन्यथानुपपत्तिकल्पित प्. १२४) विशेषणविधिविधेयानां सोमादीनां लिंगादिकल्पित श्रुतिविनियोज्यानां मन्त्राणां प्रत्यक्षविध्यविधेयत्वेन वैदिकविनियोगविधिविधेयत्वानापत्तेश्चेति वाच्यम् | लक्षकपदान्येव ब्रह्मबोधकानीत्येतत्कल्पकाभावात् | न च यतो वाचो निवर्तन्ते | परात्परं पुरिशयं पुरुषमीक्षते इति वाचकपदा बोध्यत्वे सति ज्ञेयत्वान्यथानुपपत्तिरेव तत्कल्पकेति वाच्यम् | अत्र वाचकपदश्रवणेन पुनः कल्पकाभाव ध्रौव्यात् | गीर्वाणी सरस्वतीति वाक्छब्दस्य वचनसामान्यपरत्वात् शब्दसामान्यपरत्वात् शब्दसामान्य बोध्यत्वे सति ज्ञेयत्वान्यथानुपपत्तिकल्पितं साकल्येना ज्ञेयत्वमेव भवति | न तु लक्षकपद बोध्यत्वं रात्रिभोजनस्य पीनत्वोपपादकत्ववत् लक्षकपदबोध्यत्वस्य शब्दसामान्याबोध्यत्वोपपादकत्वाभावात् प्रत्युत तदभावस्यैव तदुपपादकत्वेन लक्षकपदाबोध्यत्वमपि अनुपपत्ति कल्पितं भवति इति वाच्यम् | तस्मात् श्रौतं शब्दसामान्याबोध्यत्वे सति ज्ञेयत्वं साकल्येन ज्ञेयत्वे सति यथायोग्य ज्ञेयत्वस्यैव कल्पकं भवतीति न सर्वथा लक्ष्यकं पदबोध्यत्वसिद्धिः | आशुतरविनाशिनो यागस्य कालान्तरभावि प्. १२५) श्रुतमनुपपन्नं धर्माधर्माख्यं अपूर्वं श्रौतमेव भवतीति युक्तम् | सोमेन यजेतेत्यादौ विशिष्ट विध्यनुपपत्ति सिद्धविशेषण विधिविधेयानां सोमादीनां वैदिकत्वं लिंगादिकल्पित श्रुतिविनियोज्यानां मन्त्राणां कल्पित विनियोगश्रुतिविधिविधेयत्वेन वैदिकत्वं युक्तम् | तत्र सोमादीनां मन्त्राणाञ्च वैदिकत्वस्य विशिष्टविधि विनियोग विध्युपपादकत्वस्य च प्रमितत्वेन तन्न्याय वैषम्यात् तस्माल्लक्ष्यपदस्य ब्रह्मणि शक्तिग्राहकप्रमाणाभावेन शक्तिरिति न तस्य लक्ष्यत्वं मुख्यमिति युक्तम् | किन्तु अद्भुतत्वादवाच्यं तत् अतर्क्या ज्ञेयमेव च | आवाच्यमिति लोकोपि वक्त्याश्चर्यतमं भुवि | इत्यादिना अद्भुतत्वादि गुणयोगेनावाच्यत्वस्य ब्रह्मणि गौणत्ववत् अवाच्यत्वगुणयोगात् लक्ष्यत्वमपि गौणमेव च युक्तम् | अत एव च न द्वितीयः | लक्ष्यपदस्य ब्र्हमलक्षकत्वे तद्बोध्यस्य लक्ष्यत्वस्यामुख्यत्वस्य प्रागुदाहृत न्यायसिद्धत्वात् प्रसर्पिषु सामान्यादित्यधिकरणेषु लाक्षणिकार्थामुख्यत्वस्य निर्णीतत्वात् अधिकं स्वगतनिषेधैक्य प्रकाशे न्यायामृतादौ च द्रष्टव्यमिति संक्षेपः | तस्मादेकं भवेद्ब्रह्म सगुणं निर्गुणं श्रुतेः | प्. १२६) मुख्यामुख्यत्वबोधेनेत्येवं वेदान्तनिर्णये | त्रिविधानां मतानान्तु विरोधो नहि विद्यते | इति सर्वपदलक्ष्यतैक्यप्रकाशः | नन्वेवमपि अस्माभिर्निष्प्रकारक ब्रह्मज्ञानस्य मोक्षसाधनत्वाभ्युपगमेन पुनर्विरोधस्तदवस्थं एव | तमेवं विदित्वादिति मृत्युमेति | ब्रह्मविदाप्नोति परम् | तरति शोकमातवित् एकथैवानुद्रष्टव्यम् | प्रपञ्चोपशमं शिवम् | शान्तमद्वैतं चतुर्थं मन्यन्ते | स आत्मा स विज्ञेयः | इत्यादि श्रुतिभिः निष्प्रकारकज्ञानस्यैव मोक्षांगत्व श्रवणादिति चेन्न | यतः आपाततो विरोधेपि ह्यन्ततो न विरोधिता | स प्रकारकमेवाङ्गं ज्ञानं मोक्षस्य साध्यते | स प्रकारकता ज्ञाने निष्प्रकारकता तथा | मुख्या मुख्येति गदिते विरोधश्शाम्यते सुखम् श्रुति तात्पर्यापरिज्ञानतो विरोध प्रतीतावपि श्रुत्यर्थो मीमांसिते सति विरोधो नास्ति | तदेवोपपादयति सप्रकारकमिति | सप्रकारकब्रह्मा परोक्षज्ञानमेव मोक्षसाधनमिति प्रसाध्यते | ज्ञाने सप्रकारकत्वं मुख्यं निष्प्रकारकत्वममुख्यमित्यभिहिते अनायासेन विरोधशान्तेरित्यर्थ इति | ननु उदाहृत श्रुतिसिद्धं निष्प्रकारकत्वं कथं मुख्यं तस्यैव मुख्यार्थत्वावगमात् तथाहि प्रथमवाक्ये तमेव प्. १२७) संविदित्वातिमृत्युमेति इत्यत्र तच्छब्दवाच्यं ब्रह्मस्वरूपं विदित्वा मृत्युमत्येतीत्युक्ते स्वरूपमात्रविषयकज्ञानमेव मोक्षांगमिति प्रतीयते | उपनीती अधीयीतेत्यादिवत् न च तमेवं शब्दाभ्यां पूर्वप्रकृतसहस्रशीर्षत्वादि धर्मविशिष्टपरामर्शात् न निर्विकल्पकज्ञानसिद्धिरिति वाच्यम् | तद्धर्मस्योपलक्षणत्वेन स्वरूपबोधोपायत्वात् स्वरूपस्यैव पूर्णानन्दतया परमपुरुषार्थत्वेन द्रष्टुमर्हत्वात् अन्यथा एकथैवानुद्रष्टव्य इति श्रुति विरोधात् एकथा एकविष्यताकं यथा भवतीत्यर्थः न च थालीप्रत्ययस्य प्रकारवाचित्वात् एकप्रकारकत्वं तदर्थं इति न निर्विकल्पकतात्पर्यसिद्धिरिति वाच्यम् | भवदभिमत ब्रह्मणि शक्तिजन्यशाब्दबोधे नानाप्रकारकत्वावश्यं भावेन एकप्रकारकत्वस्य दुरुपपादत्वात् | मम तु लाक्षणिकनिर्विकल्पकबोधे एकविषयताया निरपवादत्वात् | तरति शोकमात्मवित् इत्यादि सर्ववाक्येषु ब्रह्मस्वरूपज्ञानं मोक्षांगमित्यवगम्यते स्वरूपमात्रज्ञानत्वञ्च स्वरूपातिरिक्त धर्माद्यविषयकत्वे सति स्वरूपैकविषयकत्वं तादृशञ्च ज्ञानं निष्प्रकारकमेव सप्रकारकञ्च धर्मादिविशिष्टज्ञानमेव भासमान वैशिष्ट्य प्रतियोगित्वमेव हि प्रकारत्वं तस्मान्मोक्ष साधनीभूत ब्रह्मज्ञानस्य श्रौतं निष्प्रकारकत्वमेव मुख्यमिति चेन्न | शाब्दज्ञाने निष्प्रकारकत्वस्य सर्वानुभवविरुद्धत्वात् तथाहि प्. १२८) तथाहि प्रमाणजन्यज्ञानमात्रं सविकल्पकमिति सर्वेषामविप्रतिपन्नं तार्किकैरेव निर्विकल्पक प्रत्यक्षमङ्गी क्रियते | न च यद्यपि पदात् पदार्थतावच्छेदक प्रकारकबोधं शक्त्या जायते | लक्षणया च लक्ष्यतावच्छेदक प्रकारकबोधः न सर्वथा पदान्निष्प्रकारकस्वरूपमात्रबोधोनुभवसिद्धः | तथापि लौकिकशब्दज्ञानस्य सविकल्पकत्वानुभवेपि मोक्षांगभूत ब्रह्मजज्ञानस्य न सविकल्पकत्वमनुभूयते | प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते तदेतद्वयम् | अभयं वै ब्रह्म भवति | य एवं वेद मृत्योस्समृत्युमामोति य इह नानेव पश्यति एथैवानुद्रष्टव्यम् | इत्यादि श्रुतिविरोधात् प्रपञ्चोपशमाद्वैतपदाभ्यां निष्प्रकारकत्वमेव ज्ञायते | प्रपञ्चोपशम पदेन प्रपञ्च नाशस्याद्वैतपदेन द्वैतशून्यत्वस्य च प्र्तीतेः प्रकाशस्यापि प्रपञ्चद्वैत शब्दार्थत्वात् य इह नानेव पश्यतीत्यत्रापि विशिष्टज्ञाने अनर्थप्राप्त्युक्तेः | एकथैवानुद्रष्टव्य इत्यत्र च स्वरूप चैतन्यरूपैकमात्रविषयकत्वस्य च विहितत्वाच्च | एतदविरोधेन मोक्षसाधनब्रह्मज्ञानपरश्रूतीनां निष्प्रकारकज्ञान परत्वावश्यं भावात् | किञ्च अर्थवादानां वायुर्वै क्षेपिष्ठा देवतेत्यादीनां लक्षणया प्राशस्त्य बोधकत्वं वदद्भिर्भाष्यैरपि लक्षणया जायमानस्य प्राशस्त्यबोधस्य निर्विकल्पकत्वस्यैवांगीकृतत्वात् प्. १२९) बलवदनिष्टाननुबन्धित्वादि रूपप्राशस्त्यस्यैव लक्ष्यत्वेन तन्मात्र विषयक निष्प्रकारकज्ञानस्यैव जायमानत्वेन प्राशस्त्यादि प्रकारकबोधानङ्गीकारात् एवञ्च बहुप्रमाणबलात् वैदिकब्रह्मज्ञानस्य निर्विकल्पकत्वमेवांगीकार्यमिति वाच्यम् | विजातीय भेदनिषेधैक्य प्रकाशोक्तरीत्या प्रपञ्चमिथ्यात्वस्यामुख्यत्वे प्रपञ्च सत्यत्वस्यैव मुख्यत्वे साधिते प्रपञ्चोपशमशब्दस्य प्रपञ्चसंहारकारणार्थकत्वात् तच्च | उत्पत्यादि कारणस्याप्युपलक्षकं अन्यथा अद्वैतमित्यनेन पुनरुक्त्यापत्तेः | तथा च जगदुत्पत्यादि कारणत्वेन स्वगतभेदशून्यत्वेना ज्ञानमेवाभिहितं भवति तदेतदद्वयमित्यस्याप्ययमेवार्थः य इह नानेव पश्यतीत्यस्यापि इह ब्रह्मणि गुणक्रियावयवावताराणां भेदज्ञानस्यानर्थजनकत्वार्थकत्वात् एकथैवानुद्रष्टव्यमित्यत्रापि दर्शनोद्देशेन प्रकृति प्रत्यथार्थभूत एकप्रकारकत्वाख्य गुणो विधीयते | न च ब्रह्मज्ञानस्यानेकप्रकारकत्वमुक्तमिति वाच्यम् | मूलरूपे अवतारादिषु अन्तर्यामि रूपेषु च ज्ञानेन एकप्रकारकत्वस्यैव विधेयत्वात् | एतेषु सर्वेषु भगवद्रूपेषु एकत्वाख्य प्रकारकत्वं वा दर्शने विधेयं स्वगत प्. १३०) भेदज्ञानस्यानर्थकरत्वोक्तेः - ब्रह्मविदाप्नोति परं तरति शोकमात्मवित् इत्यादीनां एतदविरोधेन विशिष्टज्ञानस्यैव मोक्षजनकत्वपरत्वावश्यं भावात् | यच्चोक्तं लक्षणयार्थवादज्ञानजन्य प्राशस्त्यज्ञानं निष्प्रकारकमिति तन्न | तत्रापि प्राशस्त्यबोधस्य सविकल्पकत्वांगीकारात् | तथाहि वायुर्वैक्षेपिष्ठेत्यादीनां पदार्थवाक्यार्थरूप मुख्यार्थविशिष्टप्राशस्त्यलक्षकत्वेन तादृशप्राशस्त्यज्ञानस्य सविकल्पकत्वायोगात् अन्यथा प्रतितिष्ठन्तीह व एते गता रात्रिरूपयन्तीत्यर्थवादस्य प्रतिष्ठारूपफलपरत्वं न स्यात् अत एव चतुर्थे तृतीय पादे क्रतोः फलार्थवादमङ्गवत् कार्ष्णजनित्यधिकरणे चिन्तितम् | सत्रकाण्डे रात्रिसत्राख्यं सत्रं प्रकृत्य श्रूयते | प्रतितिष्ठन्तीह वा एते य एता रात्रिरुपयन्ति इत्यत्र स्वर्गार्थं रात्रि सत्रमिति पूर्वपक्षं प्रापयय ये प्रतितिष्ठास्सन्ति त एता रात्रीरुपेयुः | इति विपरिणामेनार्थवादिकप्रतिष्ठारूपफलार्थं रात्रिसत्राख्यं कर्मेति सिद्धान्तितम् | अत एव च प्रथमे चतुर्थपादे तद्व्यपदेशञ्चेत्यधिकरणे श्येनेनाभिचरन् यजेत इत्यत्र श्येन पदेन श्येनाख्यगुणविधिरिति पूर्वपक्षं प्रापयय कर्मणः यथा वै श्येनो निपत्य आदत्ते प्. १३१) एवमयं द्विषन्तं भ्रातृव्यं निपत्य आदत्ते इत्यर्थवादगतश्येन पदार्थपक्षिसादृश्याभिधानेन श्येनाख्यगुणविधित्वानुपपत्तेः | विधिवाक्यगत श्येनपदं कर्मनामधेयमिति सिद्धान्तितम् | अत एव च प्रथमे संदिग्धेवाक्यशेषादित्यधिकरणे अत्ता शर्करा उपदधाति इत्यत्र अत्ताशब्दाक्षिप्तं अञ्जनसाधनं द्रव्यं तैलघृतजलादिरूपं द्रवद्रव्यसामान्यमिति पूर्वपक्षं प्रापययते | जो वै घृतमिति वाक्यशेषरूपार्थवादिक घृतपद श्रवणेनाञ्जनसाधनं द्रव्यं घृतरूपमेवेति सिद्धान्तितम् | अत एव च वेदोपक्रमाधिकरणे अग्ने ऋग्वेदो वायोर्यजुर्वेदो आदित्यात्सामवेद इत्युपक्रमार्थवादगत ऋग्वेदादिपदानां मुख्य स्वार्थपरत्वनिर्णयेन उच्चैर्-ऋचा क्रियते उपांशुयजुषा उच्चैस्सामेनति उपसंहारस्थविधिवाक्यगत ऋगादिपदानां तदविरोधाय ऋग्वेदादिपरत्वमेवेति निर्णीतम् | उदाहृताधिकरणेषु अर्थवादानां शक्त्या स्वार्थपरत्वपूर्वकं लक्षणया तद्विशिष्टप्राशस्त्य परत्वं व्यवस्थापितम् | गङ्गायां घोष इत्यादौ गङ्गा विशिष्टस्य तीरस्य लक्ष्यवत् अत्रापि मुख्यार्थविशिष्टप्राशस्त्यस्यैव लक्ष्यत्वावश्यं भावात् | अत एव च तत् ज्ञानस्यापि सप्रकारकत्वमेव युक्तम् | न चावयोर्मते ब्रह्मणि भिन्नधर्मानंगीकारेण प्. १३२) निष्प्रकारकब्रह्मज्ञानमेव मोक्षसाधनम् | परन्तु मन्मते ज्ञानानन्दैकरसस्वरूपमात्रविषयकत्वेन | भवन्मते भिन्नधर्माप्रकारकत्वेन सर्वथा निष्प्रकारकत्वमेव मुख्यमिति वाच्यम् | प्रकारमात्रविषयकत्वस्यैव सप्रकारकत्वपदमुख्यार्थकत्वात् भिन्नधर्मप्रकारकत्वस्यैव सप्रकारकत्वे प्रमेयाभिधेयादि पदार्थज्ञानस्य जात्यादि पदार्थज्ञानस्यापि सविकल्पकत्वानापत्तेः | तत्रापि प्रमेयत्वाभिधेयत्वजातित्वपदार्थत्वादि धर्माणां प्रकारभूतानामभिन्नत्वात् | न च ते धर्माः धर्मिभिन्ना इति वाच्यम् | तेषा जातित्वासंभवेन उपादिधर्माणां धर्म्याभिन्नत्वस्य सर्वसम्मतत्वात् | न च तेषां भासमान वैशिष्ट्य प्रतियोगित्वा संभवेन प्रकारत्वमनुपपन्नम् | वैशिष्टस्य भेदघटितत्वदिति वाच्यम् | प्रमेयो घट इत्यादिज्ञानानां विशिष्टज्ञानत्वस्य सर्वैरनुभूयमानत्वात् प्रक्रियायाः प्रतीत्यनुसारित्वात् | न च भेदाभावे वैशिष्ट्यप्रतीतिरपि कथमुपपद्यत इति वाच्यम् | वैशिष्ट्यस्य प्रतीति कृतत्वेन वस्तुकृतत्वाभावात् | अन्यथा इदं रजतमित्यादौ रजतत्वप्रकारक शुक्तिविशेषयकप्रतीत्यभाव प्रसङ्गात् भेदप्रतिनिधिविशेष बलाद्वा अभिन्न धर्मस्थले विशिष्टप्रतीतौ बाधकाभावात् | विशेष सद्भावे साधकानि सर्वाण्यपि रामानुजमतैक्य प्. १३३) प्रकाशे सम्यङ्निरूपयिष्यन्त इति संक्षेपः | तस्माल्लोके प्रमेयादिपदैश्शक्त्याभिन्न धर्मप्रकारकज्ञानस्य सप्रकारकत्वदर्शनेन वेदे सत्यज्ञानादि वाक्येपि सत्यज्ञानत्वाद्यभिन्न धर्मप्रकारकब्रह्म विशेष्यकज्ञानस्यैव सर्वथाङ्गी कार्यत्वेन निष्प्रकारकत्वं तु भिन्नधर्माप्रकारकत्वरूपं मुख्यमेवेति सप्रकारकमानसापरोक्षज्ञानमेव मोक्षसाधनमिति सिद्धम् | इति निष्प्रकारकज्ञानैक्य प्रकाशः || नन्विदमयुक्तम् - यतो भवद्भिः मानसापरोक्षज्ञानं मोक्षसाधनमिति स्वीक्रियते अस्माभिस्तु शाब्दापरोक्षज्ञानमिति | तथाहि वेदान्त विज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयश्शुद्धसत्वाः | ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे | नेन्द्रियाणि नानुमानम् | वेदाह्येवैनं वेदयन्ति औपनिषदः पुरुषः | न च केवलतर्केण नाक्षयेन न केनचित् | केवलागमविज्ञेयो भक्तैरेव न चान्यथा || इत्यादि श्रुतिस्मृति वचनैः ब्रह्मापरोक्षज्ञानस्य शब्दकरणकत्वमावेद्यते | यतयः तुरीयाश्रमिणः | सर्वकर्मपरित्यागलक्षणसन्यासाख्योपायात् | अत एव शुद्धान्तः करणाः | अत एव वेदान्त विज्ञान सुनिश्चितार्थाः | वेदान्तजन्यं यद्विज्ञानं ब्रह्मापरोक्षज्ञानं तेन दृढीकृतः परतत्वलक्षणः | अर्थो प्. १३४) यैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः इति ब्रह्म दर्शनस्य वेदान्तकरणकत्वं प्रतीयते | द्वितीयवाक्ये इन्द्रियाणां भगवद्वेदनकरणतां निषिध्य वेदानामेवतत्करणत्वं प्रतीयते | अत एव तेषां प्रवृत्तिनिमित्तमपि तदेवेति प्रतिपादितम् | तृतीयवाक्ये उपनिषत्करणकापरोक्षज्ञानविषयत्वं ब्रह्माण्डपुराणवचने आगमैककरणकापरोक्षज्ञानविषयत्वञ्च प्रतीयते | प्रत्युत यन्मनसा (न) मनुते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इति ब्रह्मज्ञानस्य मनः करणकत्वं निषिध्यते | तस्मात् श्रुतिस्मृति प्रतिपाद्यमपरोक्षज्ञानस्य शाब्दत्वमेवेति तन्मतैक्यं दुरुपपादमेवेति चेत् अत्रोच्यते - ब्रह्मापरोक्षज्ञानस्य शाब्दत्वं न तु मुख्यतः | मानसत्वं भवेन्मुख्यमिति निर्णीयते मया || ब्रह्मापरोक्षज्ञानस्य मनः करणकत्वमेव मुख्यं साक्षात्तज्जनकत्वे प्रमाणसद्भावात् शाब्दत्वं न तु मुख्यं साक्षात्तज्जनकत्वे प्रमाणा भावात् उदाहृत श्रुतीनां ब्रह्मदर्शनप्रयोजकपरत्वेन साक्षात्करण परत्वाभावात् | तथा च आवयोर्न विरोध इति शेष इत्यर्थः इति तथाहि यद्यपि वेदान्त विज्ञान सुनिश्चितार्थाः इत्यादिना ब्रह्मदर्शनस्य साक्षाच्छब्दकरणकत्वे बहूनि वचनानि उपन्यस्तानि प्. १३५) प्रत्युत यन्मनसा न मनुते नेन्द्रियाणि नानुमानमित्यादिना मन आदीन्द्रियजन्य ज्ञानाविषयत्वमेव प्रतीयते | तथापि ब्रह्मदर्शनं मनः करणकमित्येव युक्तं तथाहि- मनसैवानु द्रष्टव्यं शुद्धेन मनसा सदा | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || इत्यादि श्रुतिस्मृतिभिर्ब्रह्मापरोक्षज्ञानस्य मानसत्वावेदनात् | प्रथमवाक्ये दर्शनोद्देशेन करणत्वेन मनो विधीयते | दध्ना जुहोतीत्यादिवत् | तत्र एव कारेण इतरेषां करणत्वं निषिध्यते मनो विशिष्ट दर्शनं वा विधीयते | सोमेन यजेतेत्यादिवत् द्वितीयवाक्ये करणभूतमनोनुवादेन शुद्धत्वरूपगुणो विधीयते | शुद्धत्वञ्च श्रवणमनननिदिध्यासनाद्युपोद्बलितत्वं शुद्धत्वविशिष्ट मन एव वा करणत्वेन विधीयते | यत्र चैवेति | गीतावाक्ये यस्मिन्नेव समाधि योगे सति आत्मना मनसा आत्मानं भगवन्तं आत्मनि देहे पश्यन् तुष्यतीत्यनेन चित्तैकाग्र्यरूपनिदिध्यासन लक्षणावान्तरव्यापारसहितस्य मन एवापरोक्षज्ञानज्ञानकरणकत्वमवगम्यते | श्रवणं मननञ्चैव ध्यानं भक्तिस्तथैव च | साधनं ज्ञानसंपच्चाप्रधानं नान्यदिष्यते || इत्यत्रावान्तर व्यापार प्राधान्यविवक्षया ध्यानस्य ज्ञानसाधनत्वं प्रतिपाद्यते | सुधायामपि चित्तैकाग्र्य रूपनिदि ध्यासनस्यैवापरोक्षज्ञानसाधनत्वादित्युक्तम् | प्. १३६) उदाहृतश्रुत्यादौ धर्मिप्राधान्यविवक्षया मनस एव ज्ञानकरनत्वमुक्तमित्यदोषः किञ्च - श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञान विपर्ययौ | संशयञ्च पराणाद्य लभते ब्रह्मदर्शिनम् | इति स्मृतावपि अभिषुत्वाहवनीये हुत्वा प्रत्यञ्चः परत्य सदसि सोमं भक्षयन्तीति त्वा प्रत्ययश्रुत्या होमाभिषवसमानकर्तृकभक्षविधानात् होमाभिषवयोर्भक्षणकारणत्ववत् त्वा श्रुत्या निदिध्यासनस्यैव ब्रह्मदर्शनसाधनत्वं युक्तम् | न च तथाश्रवणादेरपि ज्ञान साधनत्वं स्यादिति वाच्यम् || तस्य ध्यानांगत्वेन परम्परया साधनत्वोपपत्तेः | न च पूर्वोक्त श्रुत्यादि विरोधः तेषामस्मदुक्तमनः करणकत्वाविरोधित्वात् | तथाहि वेदान्तविज्ञान सुनिश्चितार्था इत्यस्यायमर्थः यतयः प्रयत्नशीलाः सन्यासयोगात् फलाभिसन्धित्यागपूर्वकं भगवदर्पणबुध्याकर्मानुष्ठानरूपकर्मयोगात् अत एव शुद्धसत्वाः निर्मलान्तः करणाः अत एव वेदान्तविज्ञानसुनिश्चितार्थाः वेदान्तेन जन्यं यद्विज्ञानं श्रवणमनन निदिध्यासनरूपं परोक्षज्ञानं वेदान्तविज्ञानेन चित्तैकाग्र्यरूप निदिध्यासनेन सुष्ठुनिश्चितः अपरोक्षीकृतः अर्थः परब्रह्मलक्षणः यैस्ते वेदान्तविज्ञानसुनिश्चितार्था इति | तथा चापरोक्ष ज्ञानस्य ध्यानकरणकत्वं प्रतीयते | न च मनसः करणत्वाभाव इति वाच्यम् | धर्मप्राधान्य विवक्षया प्. १३७) मनसः करणत्वे बाधकाभावात् विज्ञानशब्दस्य आहृत्या विशिष्टतया ज्ञायते | अनेनेति करणव्युत्पत्या मनः परत्वमत्यंगीकृत्य श्रवणाद्युपोद्बलितमनः करणकापरोक्षज्ञानस्यैव प्राप्तेः नेन्द्रियाणि नानुमानमित्यत्र निषेधस्य इन्द्रिय सामान्यविषयकत्वेन वेदाह्येवैनमित्यवधारणस्य श्रवणादिपरोक्षज्ञानविषयत्वेन परं परया परोक्षज्ञान विषयत्वेन वा ब्रह्माण्डपुराणवचनस्यापि साक्षात्परं परया परोक्षा परोक्षज्ञानविषयत्वेन वा सावकाशन्वोपपत्तेः | यन्मनसा न मनुत इति वाक्यस्यापि वेदान्तजन्य श्रवणमनन निदिध्यासनाद्यनुबोद्बलित मनः परत्वोपपत्तेः | अन्यथा - यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निस्पृहस्सर्वकामेभ्यो स योगीत्युच्यते तदा || यथा दीपो निवतस्थो नेंगते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगमात्मनः || यत्रोपरमते चित्तं निरुद्धं योगसेवया | इत्यादि गीतावचनमयुक्तं स्यात् - तत्र यदा विनियतं विशेषेण विषयेभ्यः प्रत्याहृतं चित्तं मनः आत्मन्येवावतिष्ठते भगवति चित्तैकाग्रता भवति | तदायुक्तः समाधियोग संपूर्तिमानित्युच्यते | आत्मनो योगं भगवद्विषयसमाधिं कुर्वतो योगिनः यतचित्तस्य प्रत्याहृतमनस्कस्येत्यादिना चित्तैकाग्रता लक्षणध्यानरूपावान्तरव्यापारसहितस्य मनस एवापरोक्ष प्. १३८) ज्ञानकरणत्वप्रतीतेः | इन्द्रियजन्यज्ञानस्य लिंगशब्दजन्यज्ञानयोश्चापरोक्षत्वपरोक्षत्वनियमाच्च | तस्माद्ब्रह्मापरोक्षज्ञाने मानसत्वं मुख्यं शाब्दत्वममुख्यमिति सिद्धम् | एतेन द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रवणस्य दर्शनसन्निधानात् दर्शनांगत्वं प्रमाणस्य प्रमेयावगतिं प्रत्यव्यवधानाच्च | मनन निदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्यन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्यते इति फलोपकार्यंगे इति विवरणोक्तरीत्या अनुमितौ लिंगज्ञानवत् शाब्दज्ञान तात्पर्यविशिष्टशब्दज्ञानं करणम् | तथा च तात्पर्यज्ञानरूपश्रवणस्य विशेषण ज्ञानत्वेन करणत्वमिति विद्यासागरोक्तरीत्या च करणभूतशब्दगतातिशय हेतुत्वात् श्रवणस्य करणत्वेनांगित्वं मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशय हेतुत्वाच्छ्रवणेपि लोपकार्यं गतेति चित्सुखोक्तरीत्या च करणीभूतशब्दधर्म शक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनांगित्वमिति तत्पशुर्युक्तरीत्यापि श्रवणमङ्गी मनन निदिध्यासने तु तदङ्गे इति भवन्मते तु निदिध्यासनमेवांगी | श्रवणमनने तदंगे इति आवयोर्विरोधः स्फुट इति निरस्तम् | श्रवणाङ्गित्वस्यामुख्यत्वेन विरोधाभावात् | वेदे न धर्मे प्रमीयमाने मीमांसायाः इति कर्तव्यत्वमिव ब्रह्मणि प्रमीयमाने वेदाख्य करणं प्रति प्. १३९) श्रवणरूपविचारस्यापि इति कर्तव्यतामात्रत्वेन अङ्गित्वाभावात् | यच्चोक्तं तत्पर्यज्ञानरूप श्रवणमङ्गीति तन्न | आकांक्षादि युक्त शब्दज्ञानस्यैव करणत्वसम्भवे विवरणे तात्पर्यभ्रमरूप प्रतिबद्धनिरासोपक्षीणतया उक्तस्य तात्पर्यज्ञानरूप श्रवणस्यापि करणकोटित्वेन करणत्वे मननादेरपि तथात्वापत्तेः | तयोरपि इति कर्तव्यतात्वा विशेषात् किञ्च | इदं पदं वाक्यं वा एतदर्थ तात्पर्यकमिति तात्पर्यरूप विशेषेण ज्ञाने तात्पर्यविशिष्ट शब्दज्ञानं तत् ज्ञाने शब्दस्य तात्पर्यविषयी भूतार्थज्ञानमित्यन्योन्याश्रयादिति विवरणोक्तरीत्या तात्पर्यज्ञानरूप श्रवणस्य ब्रह्मदर्शन साधनत्वानुपपत्तेः - न च अकरणमपि तात्पर्यज्ञानरूपं श्रवणं यागस्य अवघातादिकं इत्व शब्दस्य सन्निपत्योपकारकं सत् करणकोटि निविष्टमिति वाच्यम् | अवघातादीनां करणभूतयागीय द्रव्यशेषत्ववत् श्रवणस्य शब्दसम्बन्धि द्रव्यशेषत्वा भावेन सन्निपत्योपकारकत्वायोगेन करणकोटि निवेशासम्भवात् किञ्च | सन्निपत्योपकारकावघातादीनां फलोपकाराख्यारादुपकारकप्रयाजादीन् प्रति शेषित्वा भावात् सन्निपत्योपकारकस्य श्रवणस्यापि फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषित्वानुपपत्तेः | यदपि चोक्तं करणभूतशब्दगतातिशय हेतुत्वात् प्. १४०) श्रवणस्य करणत्वेनाङ्गित्वमिति तदपि न शब्देन शाब्दबोधे जनयितव्ये शब्दसहकारिभूतचित्तगतातिशय हेतुत्वात् मनननिदिध्यासनयोः श्रवणाङ्गत्वे सोमयागे सहकारिभूतदीक्षणीयाङ्गत्वेन तद्गतातिशयहेतुप्रयाज प्रोक्षणादेः सोमयागे सन्निपत्याङ्गत्वेन साक्षात्तद्गतातिशय हेत्वभिषवग्रहणादिकं प्रत्यङ्गत्व प्रसङ्गात् - न च तयोश्श्रवणं प्रति गौणाङ्गत्वं विद्यत इति वाच्यम् | तस्यानङ्गत्वे पर्यवसानेनास्मदिष्टसिद्धेः उक्तञ्च न्यायामृते - गौणाङ्गत्वं त्वनङ्गत्वे पर्यवस्यतीति तस्मात्साक्षाच्छब्दरूपकरणगतातिशयहेतु श्रवणं प्रति शब्दसहकारिचित्तगतातिशय हेतुमनन निदिध्यासनयोर्नांगत्वं युक्तं यच्चोक्तम् करणीभूतशब्दधर्मशक्ति तात्पर्यविषयत्वाच्छ्रवणस्य करणान्तर्भावेनाङ्गित्वमिति तन्न | साक्षात्सोमया(गा)जाख्यकरणान्तर्भूताभिषवग्रहणादिकं प्रति दीक्षणीयांगभूत प्रयाजप्रोक्षणादेरंगत्व प्रसङ्गादित्युक्तत्वात् | किञ्च शब्देनापरोक्षज्ञाने उत्पद्यमाने मनन निदिध्यासनश्रवणादीनां त्रयाणां शब्दं प्रति फलोपकार्यङ्गत्वेन परस्परमङ्गाङ्गिभावायोगात् अन्यथा यो वृष्टिकामो यो अन्नाद्यकामो यस्स्वर्गकामः स सौभरेण स्तुवीत हिषीति वृष्टिकामाय निधनं कुर्यात् | ऊर्गित्यंनाद्यकामाय प्. १४१) इति स्वर्गकामायेति श्रुतानां वृष्ट्यादि फलाय सौभरेति कर्तव्यता भूतानां निधनगतहिषादीनां पस्परमंगांगि भाव प्रसंगात् करणापूर्वोत्पत्तौ च यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ च तदर्थः प्रयाजादिः शेषस्स्यात् - किञ्च - व्रीहीन्वहन्तीत्यादौ व्रीह्यादीनां शेषित्वबोधिकद्वितीया श्रुतिरिव श्रवणस्य शेषित्वबोधक द्वितीयाश्रुतेरभावात् पशुना यजेतेत्यादौ शेषत्वबोधिकतृतीया श्रुतिरिव मनननिदिध्यासनयोः शेषत्वबोधिक तृतीया श्रुतेर्वा भावाच्च अर्थसामर्थ्यरूपलिंगस्य निदिध्यासनस्यैवाङ्गित्वे प्रमाणत्वात् चित्तस्य भगवत्येकाग्रतारूपनिदिध्यासनस्याचिरादेवा परोक्षज्ञानजनन समर्थत्वात् - उक्तञ्चानुव्याख्याने - अपरोक्ष दृशश्चैव श्रवणान्मननादनु | सम्यङ्निश्चित तत्वस्य निदिध्यासया भवेत् | इति | उक्तञ्च सुधायाम् - निदिध्यासनं ब्रह्मदर्शनसाधनम् तत्सिद्धये श्रवणमनने अपि कर्तव्ये इति - ततस्तुतं पश्यन्त निष्कलं ध्यायमान इति वाक्यस्य पदसमभिव्याहाररूपस्य निदिध्यासनस्यैव दर्शनांगत्वे प्रामाण्यम् | श्रवणादिकं तदङ्गमिति निश्चीयते | न च तथा श्रवणस्य दर्शनांगत्वे वाक्यमस्ति अत एव च निदिध्यासनस्यैव दर्शनरूप फलसंबन्धात् प्रकरणमपि ध्यानस्य दर्शनाङ्गत्वे ध्यानार्थत्वेन प्. १४२) श्रवणमननयोस्सन्निपत्योपकारकत्वे च प्रमाणम् | श्रवणमननयोः विप्रकृष्ट फलोपकारकत्वकल्पनापेक्षया सन्निकृष्टनिदिध्यासनस्वरूपोपकारकत्वस्यैव युक्तत्वात् | अत एव च नवमे द्वितीये पादे स्रुवेण पार्वणौ जुहोतीत्यत्र श्रुतयोः पार्वणहोमयोर्विकृतिष्वति देशोस्ति नवेति संशये पर्वशब्दस्य कालवचित्वेन तयोः कर्मणोः कालदेवताकत्वात् कालस्य चासंस्कार्यत्वेन सन्निपत्योपकारकत्वायोगेनारादुपकारकत्वयोस्तयोः पार्वकालिकायां विकृतावतिदेश इति प्राप्ते पर्व शब्दस्य भावव्युत्पत्या कर्मवचनत्वेन आग्नेयादिकर्मसमुदाय दैवतयोर्होमयोस्सन्निकृष्टदेवता संस्कारार्थत्वेन सन्निपत्योपकारकत्वात् समुदाय देवता शून्ये समुदायविकारे सौर्यादौ तयोर्नोह इति सिद्धान्तितम् | न च द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रवणस्य दर्शनाव्यवहितपाठसादेश्य रूपस्थानप्रमाणात् दर्शनाङ्गत्वमिति वाच्यम् - तस्य लिङ्गादिभ्यो दुर्बलत्वात् | किञ्च अग्निहोत्रं जुहोतु यवागूं पचतीति पञ्चमोक्त न्यायेन पाठक्रमादर्थक्रमस्यैव बलवत्वात् यवागूपाकस्याग्निहोत्र होमार्थत्वेनाग्निहोत्र होमस्य यवागूपाकानन्तर्यवत् ध्यनस्यैव दर्शनार्थत्वेन प्. १४३) श्रवणमननयोस्तु ध्यानार्थत्वेन च दर्शनस्य ध्यानानन्तर्य ध्यानस्य तु श्रवणमननानन्तर्यमिति ध्यानस्य दर्शनाङ्गत्वस्यैव सुवचत्वात् | अनुष्ठानसादेश्यरूपस्थानप्रमाणस्य ध्यानस्यैव दर्शनाङ्गत्वे जागरूकत्वाच्च | अत एव तृतीया ध्याये षष्ठे पादे तुल्यस्सर्वेषां पशुरित्यधिकरणे अनुष्ठान सादेशाख्य स्थानप्रमाणात् ज्योतिष्टोमे पशुधर्माणां अग्नीषोमीय पशुशेषत्वं निर्णीतम् | किञ्च भवन्मते - वेदान्तवाक्यज्ञान भावनाजापरोक्षधीः | मूलप्रमाण दार्घ्येन? प्रमाण्यं प्रतिपद्यते || इति सूरेश्वरवार्तिकाचार्यैरपरोक्षज्ञानस्य भावनाख्यध्यानजन्यत्वस्यैवोक्तत्वात् | न च निदिध्यासनस्य प्रमाकरणत्वमसिद्धमिति वाच्यम् - श्रवणस्यापि तदसिद्धेः | किञ्च निदिध्यासनानन्तरभाविस्मृतस्य शब्दस्यैवापरोक्षज्ञानकरणत्वेन किञ्चिद्बोधकं उक्तञ्च न्यायामृते निदिध्यासनानन्तरं पुनरनुस्मृतश्शब्द एव करणं निदिध्यासनन्तु तत्सहकारि श्रवणादि तु निदिध्यासनमित्ति संभवाच्चेति अथवा - पूर्वोक्तरीत्या धर्मप्राधान्यविवक्षया चित्तैकाग्र्यरूपनिदिध्यासनमेवापरोक्षज्ञानसाधनं धर्मिप्राधान्यविवक्षया श्रवणाद्यंगकनिदिध्यासन सहकृतं मनन एवापरोक्षज्ञान साधनं इति प्. १४४) मतद्वयमत्युपपद्यते | तथा च दीक्षणीयांगभूते प्रयाजप्रोक्षणादेः दीक्षणीया द्वारासाङ्गो सोमयागांगत्वेन परम्परयाभिषवग्रहणादिकं प्रति गौणाङ्गत्ववत् अज्ञाननिवर्तक श्रवणस्यापि ध्यानांगस्य परंपराया दर्शनांगत्व व्यवहारस्यापि गौणत्वेनास्माकं विरोध इति न किञ्चिदनुपपन्नमिति इति श्रवणस्य दर्शनांगतैक्यप्रकाशः नन्वेमपि अस्मन्मते मोक्षस्त्वविद्या निवृत्तिः | तस्याभिध्यानाद्योजनात्तत्वभावात् भूयश्चान्ते विश्वमाया निवृत्तिः विभेदजनके ज्ञाने नाशमात्यन्तिकं गते | आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति || यावन्मोक्षन्तु भेदस्स्यादित्यादि श्रुति स्मृति प्रामाण्यस्वारस्यात् तत्र श्रुतेरयमर्थः भूयश्च भूयो भूयः तस्य प्रकृतदेवस्याभिध्यानात् | तद्विषयकनिदिध्यासनात् योजनात् तद्रूपोपायात् तत्वा भावात् तत्वाविर्भावात् निदिध्यासनजन्यब्रह्मसाक्षात्कारादिति यावत् विश्वमाया निवृत्तिः विश्वोपादानकत्वेन विश्वात्मकमायाशब्दवाच्यमूलज्ञाननिवृत्तिरिति यद्वा अभिध्यानं निदिध्यासनं योजनं श्रवणमनने तत्वभावः ब्रह्मसाक्षात्कारः | तस्मात् विश्वमाया निवृत्तिः सर्वावयवोपेतमूलाज्ञाननिवृत्तिरिति न चाज्ञानस्य निशंशत्वादवयवाभाव इति वाच्यम् - वियदाद्यनेककार्यानुसेधेनानेकावयवत्वस्य वक्तव्यत्वात् प्. १४५) विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् | अजामेकां लोहितशुक्लकृष्णां भूमिरापोनिलं वायुः खंमनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्नो प्रकृतिरष्टधा || इत्यादि श्रुतिस्मृतिभिरविद्यायास्सांशत्व प्रतिपादनाच्चेति अथवा तस्य देवस्याभिध्यानं सङ्कल्पः तद्रूपाद्योजनात् उपायात् निष्पन्नतत्वाभावात् ब्रह्मसाक्षात्काराद्विच्वमायानिवृत्तिरिति विभेदजनके अज्ञाने भेदप्रपञ्चोपादाने आत्यन्तिकं स्वकार्येण सह ब्रह्मसाक्षात्कारान्नाशङ्कते | अनुयोगितासंबन्धेन नाशं प्राप्ते सति जीवब्रह्मणोर्मिथ्याभूतं भेदं कः करिष्यति | भेदप्रपञ्चोपादानाज्ञाननाशादिति भावः | न कोपि यावन्मोक्षं भेद इत्यनेन भेदप्रपञ्चोपादानभूताविद्या संसारः तन्निवृत्तिर्मोक्ष इति अविद्यास्तमयो मोक्षः सा संसार उदाहृत | इत्युक्तेः | इति निर्विशेष ब्रह्मात्मैक्यानुभवोपि मोक्षः | ब्रह्मीभाव पदस्यापि अयमेवार्थः | तत्र ब्रह्मवेदब्रह्मैव भवति | तमेवं विद्वानवृत इह भवति | योन्तस्सुखोन्तरारामस्तथान्त ज्योतिरेव यः | स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोधिगच्छति || ब्रह्मभूयाय कल्पते इत्यादि श्रुतिस्मृतीनां प्रमाणत्वात् | भवन्मते तु मोक्षो जीवस्य लिङ्गशरीरारष्यबन्ध निवृत्तिः | भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम् || इत्युक्तेः | स्वरूपानन्दाविर्भावोपि मोक्षः | परं ज्योतिरूपसंपद्य स्वेनरूपेणाभिनिष्पद्यते रस ह्येवायं लब्ध्वाऽनन्दी प्. १४६) भवति इत्यादि श्रुतिस्मृतिप्रामाण्यात् | तथा चावयोर्मोक्षविरोधो दुष्परिहर इति तदैक्यप्रकाशोऽनुपपन्न इति चेत् अत्रोच्यते - द्वयोर्मोक्षस्वरूपेपि न विरोधो भविष्यति | तावलीनं मुक्तिवचो ह्यमुख्यमिति साध्यते || हि शब्दो हेत्वर्थः | भवदीया विद्यानिवृत्ति ब्रह्मीभाव वचनानाम्मुख्यत्वसाधनेन मोक्षस्वरूपविषयेपि आवयोर्विरोधो न भविष्यतीत्यर्थ इति | तथाहि - भवदभिमतः अविद्यानिवृत्तिरूपमोक्षो न तावन्मुख्यः | अविद्यापदस्यावरकत्वसामान्यात् गौण्या वृत्या प्रकृति परत्वात् मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् इति श्रुत्या मायाशब्दस्यापि प्रकृतिपरत्वविधानाच्च | विश्वमायानिवृत्तिरिति श्रुतिस्थमाया शब्दस्य प्रवृतिपरत्वौचित्वात् | जीवावरकलिंगदेहस्यापि प्रकृत्यात्मकषोडशकलात्मकत्वेन तन्निवृत्तिरूपमोक्षस्य विश्वमायानिवृत्तिपदार्थत्वसम्भवात् | मोक्षस्य दलद्वयात्मकत्वेन लिङ्गशरीररूपानिष्टनिवृत्तेरपि मोक्षत्वाङ्गीकाराच्च | भवन्मतेपि एतादृशस्य मोक्षस्यैवा विद्या निवृत्तिपदगौणार्थत्वेन तस्य ज्ञानादि साध्यत्ववचनानां मुख्यार्थत्वप्रामाण्ययोरुपपत्तेः | विजातीय निषेधैक्यप्रकाशोक्तरीत्या प्रपञ्चमिथ्यात्वस्यामुख्यत्वेन मुख्या विद्यानिवृत्तेर्मोक्षत्वायोगाच्च | किञ्च महामायेत्यविद्येति नियतिर्मोहिनीति च | प्. १४७) प्रकृतिर्वासनेत्येव तवेच्छानन्तकल्पते || इति मायाशब्दस्य भगवदिच्छावाचित्वात् | न च भगवदिच्छायामविश्वात्मकत्वाभावेन विश्वमायेत्यनुपपत्तिरिति वाच्यम् | विश्वबन्धिके मायेत्यर्थे बाधका भावात् | अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् | ईश्वरेच्छा प्राथमिकी तां विना नहि कश्चनेति || प्रमाणेन ईश्वरेच्छायाः जीवस्य संसाराख्यबन्धजनकत्व प्रतिपादनात् | न च तस्याः नित्यत्वात् निवृत्यभाव इति वाच्यम् | ईश्वरेच्छायाः बन्धकत्वशक्तेः व्यक्तभावस्यैव निवृत्तिपदगौणार्थत्वात् | किञ्च प्रकृत्युद्देशेन मायाशब्दवाच्यत्व विधायकप्रमाणवत् अज्ञानोद्देशेन मायाशब्दवाच्यत्वविधायक प्रमाणाभावात् - विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् | इत्यत्र अज्ञाशब्दस्य जानातीत्यज्ञः ज्ञा न भवतीत्यज्ञा इत्यज्ञा शब्दस्य जडप्रकृतिपरत्वोपपत्तेः अजामेकां लोहितशुक्लकृष्णां इत्यत्राजाशब्दस्यापि गुणत्रयात्मक प्रकृतिपरत्वात् | भूमिरापोनलो वायुः इत्यत्रापि स्फुटं प्रकृतिपद श्रवणाच्चदेवात्मशक्तिं स्वगुणैर्निगूढां पञ्चाशद्भेदां पञ्चपर्वामधीमः | क्षरं प्रधानं यमातमस्तन्नदिवा न रात्रिः | इत्यादिषु सर्वत्रसत्यजगदुपादानभूत जडप्रकृतेरेव प्रतिपाद्यत्वे वेदप्रामाण्यलाभेन महातात्पर्यलाभाच्च भवदङ्गीकृताज्ञानपरत्वे च तदुपादानकस्य जगतो मिथ्यात्वेन वेदप्रामाण्यायोगेन प्. १४८) महातात्पर्यविरोधाच्च | उपपादयिष्यते चैतदुत्तरत्र | एतेन - विभेदजनके ज्ञाने नाशमात्यन्तिकं गते | इति वाक्यमपि भेदविरोधिविभेदो अभेद इति यावत् | लक्षणया विभेदपदस्य तदज्ञानं गृह्यते | तथा च भेदे जनके अज्ञानाख्य दोषे आत्यन्तिकं नाशं गते सति जीवब्रह्मणोर्मिथ्याभेदं मुख्यमभेदं कः करिष्यति | यावन्मोक्षन्तु भेदस्स्यात् | भेदज्ञानं स्यात् | तत्वज्ञानविरोधिभूताभेदज्ञानं स्यादिति यावत् | मोक्षानन्तरं ज्ञानमिथ्याज्ञानादि सकलदोषाभावादिति भावः | इति व्याख्यातं भवति | तस्माद्वेदप्रामाण्यवादिभिः भवद्भिरपि जडप्रकृतेरेवाविद्यापदगणार्थत्वमङ्गीत्य तदात्मकलिंगदेहिनिवृत्तेरेव गौण्या वृत्या अविद्या निवृत्तिरूपमोक्षत्वमङ्गीकार्यमिति | अविद्या निवृत्तिरूपमोक्षेपि न कोप्यावयोर्विरोध इति | यच्चोक्तं निर्विशेष ब्रह्मात्मैक्यानुभवोमोक्षः | ब्रह्मीभावपदस्याप्ययमेवार्थः | तत्रैव ब्रह्मवेद ब्रह्मैव भवतीत्यादिश्रुतीनां प्रमाणत्वादिति | तदपि न ब्रह्मात्मैक्यापरपर्यायब्रह्मी भावपदस्याप्यमुख्यार्थत्वांगीकारात् तथाहि | ब्रह्मविदाप्नोति परं सोश्नुते सर्वान् कामान् सह | ब्रह्मणा विपश्चिता | रसह्येवायं लब्ध्वनन्दी भवति एतमानन्दमयमात्मानमुपसंक्रम्य | इमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् | सूर्यद्वारेण ते विरजाः प्रयान्ति | प्. १४९) यत्रामृतस्सपुरुषो व्ययात्मा | परात्परं पुरुषमुपैति दिव्यम् | न पश्यो मृत्युं पश्यति | नो रोगं नो दुःखताम् | सर्वं पश्यः पश्यति | सर्वमाप्नोति स एकधा भवति | त्रिधा भवति | पञ्चधा भवति | परं ज्योतिरूपसंपद्यस्वेनरूपेणाभिनिष्पद्यते | स तत्र पर्येति | जक्षन् क्रीडन् रममाणस्त्रीभिर्वायानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा अश्व इव रोमाणि विधूय पापं चन्द्र इव राहो मुखात्प्रमुच्य | धृत्वा शरीरमकृतं कृतात्मा | ब्रह्मलोकमभिसम्भवामि | इत्यादि श्रुतिभिः यमाहुस्सर्वलोकानां प्रकृतेः प्रकृतिं ध्रुवम् | अनादि निधनं देवं प्रभुं नारायणं परम् || ब्रह्मणस्सदनात्तस्मात्परं स्थानं प्रकाशते | देवा अपि न पश्यन्ति दिव्यं तेजो मयं शिवम् || अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः | स्वयैव प्रभया राजन् दुष्प्रेक्षं देव दानवैः || यतयस्तत्र गच्छन्ति देवं नारायणं हरिम् | परेण तमसा युक्ता भाविताः कर्मभिश्शुभैः || योगसिद्धा महात्मानस्तमो मोहविवर्जिताः | तत्र गत्वा पुनर्नेनं लोकमायान्ति भारत | स्थानमेतन्महाराजन् ध्रुवमक्षयमव्ययम् | ईश्वरस्य सदस्येतत् प्राणमात्रं युधिष्ठिर | इति महाभारते अरण्यपर्वीयाक्षिषेण वचनेन - ब्रह्मणा सह वे सर्वे संप्राप्ते प्रतिसञ्चरे | प्. १५०) परस्यान्ते कृतात्मानः प्रविशन्ति परपदमिति | प्राप्य तत्परमं स्थानं मोदन्ते क्षरमव्ययम् || इति || आत्मेत्येव परं देवमुपास्य हरिमव्ययम् | केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन || अत्रैव च स्थितिस्तेषामन्तरिक्षे च केचन | केचित्स्वर्गे महर्लोके जने तपसि चापरे || केचित्सत्ये महाज्ञानाः गच्छन्ति क्षीरसागरम् | तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः || सालोक्यञ्च समीपत्वं सारूप्यं योग एव च | इमामारभ्य सर्वत्र यावत्सा क्षीरसागरे || पुरुषोनन्तशयनः श्रीमान् नारायणाभिधः | मुक्ताः प्राप्यं परं विष्णुं तद्भोगान् लेशतः क्वचित् | बहिष्ठान् भुञ्जते भोगान् आनन्दादीन् कथञ्चन || इत्यादि स्मृतिभिः | सम्पद्याविर्भावस्वेन शब्दात् - इत्यादि सूत्रैश्च भूयोनुग्रह न्यायेन ब्रह्मी भावपदस्य ब्रह्मप्राप्ति ब्रह्मसादृश्य रूपामुख्यार्थस्यैव वक्तव्यत्वात् | ब्रह्मात्मैक्यस्यामुख्यत्वमिति सजातीयभेदनिषेधैक्यप्रकाशे सम्यङ्निर्णीतत्वाच्च | ब्रह्मवेद ब्रह्मभवतीत्यादेः ब्रमीभावरूपमुक्ति प्रतिपादकवाक्यस्याल्पत्वात् न च ब्रह्मप्राप्तिरूपा वा ब्रह्मलोकादिप्राप्तिरूपा वा मुक्तिरवान्तरा | अनित्या सगुणोपासनादिसाध्येति वाच्यम् | निर्गुणातिरिक्तसगुण ब्रह्मणोभावादिति स्वगतनिषेधैक्य प्रकाशे सम्यगुपपादितत्वात् | ब्रह्मप्राप्त्यादिरूपमुक्तेः | प्. १५१) ब्रह्मविदाप्नोति परं तरति शोकमात्मवित् | इत्यादि श्रुत्या ब्रह्मापरोक्षज्ञान साध्यत्वावेदनेन परमुक्तित्वस्यैव युक्तत्वात् | ब्रह्मविदाप्नोति परमिति महावाक्याविरोधेनैव इतरवाक्यानां नेयत्वाच्च | एतदुपब्रह्मणाख्येति हासे - तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत | स्थानमेतन्महाराजध्रुवमक्षयमव्ययम् || इति ब्रह्मलोकप्राप्तिरूपमुक्तेरपुनरावृत्तित्वनित्यत्वप्रतिपादनेनावान्तरत्वा अनित्यत्वयोरुपपत्तेः | सूर्यद्वारेण ते विरजाः प्रयान्तीत्यत्र अर्चिरादिमार्गेण गमनस्य ज्ञानसाध्यत्वात् | द्वावेव मार्गौ प्रतितावर्चिरादिर्विपश्चिताम् | धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् || इति स्मृतेः | उत्क्रान्तस्तु शरीरात्स्वात् गच्छत्यर्चिषमेव तु | ततो हि वायुः पुत्रञ्च यो सौ नाम्नातिवाहिकः || ततो हः पूर्वपक्षञ्चाप्युदक्संवत्सरं तथा | तटितं वरुणञ्चैव प्रजापं सूर्यमेव च || सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा | ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम् || इति स्मृतेश्च | सूर्यद्वारेण गमनस्य ब्रह्मापरोक्षज्ञानसाध्यत्वेन तद्वारेण ब्रह्मप्राप्तिरूपमुक्तेरपि परममुक्तित्वावसायात् | किञ्च उदाहृत श्रुतिस्मृतिषु श्रुतिलिंगादिभिः | प्. १५२) परब्रह्मण एव प्राप्यत्व प्रतिपादनात् | ब्रह्मलोकमयि सम्भवामीत्यत्रापि ब्रह्मलोकस्याकृतत्व विऽसेषणात् तस्य परब्रह्मलोकत्वस्यैव युक्तत्वात् यो देवानां प्रथमं प्रत्यबुध्यतं स एव तदभवत् | ब्रह्मवेद ब्रह्मैव भवति | ब्रह्मभूतोधिगच्छति इत्यादि श्रुतिस्मृतीनां भूयोनुग्रहन्यायेन विष्णुरेव भूत्वा इमान् लोकानभिजयति | इत्यादाविव मुक्तानां ब्रह्मसादृश्य ब्रह्मप्राप्तिपरत्वस्यैव युक्तत्वाच्च | ब्रह्मविदाप्नोति परम् | निरञ्जनः परमं साम्यमुपैति सारूप्यं योग एव च | इत्यादि श्रुति स्मृतिभिः | ब्रह्मप्राप्तिसारूप्ययोस्फुटमावेदनाच्च | प्राप्तिसादृश्यवचनानां निरवकाशानां मुख्यवृत्या ब्रह्मीभावपरत्वानुपपत्तेश्च | सर्वं समाप्नोषि ततोसि सर्वः | इति स्मृतिरिव | प्राप्तिवाक्यस्याभेदपरतया व्याख्याने स्मृत्या भावाच्च | भूयोनुग्रहन्यायश्च प्रसङ्गलक्षणे द्वितीयपादे विप्रतिषिद्ध धर्माणां भूयसां स्यात्सधर्मत्वमित्यधिकरणे चिन्तितम् | अस्ति पञ्चदशरात्रः क्रतु विशेषः | तत्र अग्निष्टुन्नामके प्रथमे अहनि एकाहाग्निष्टुद्धर्माः नामधेये नैव प्राप्यन्त इति तेनैव तत्र सुब्रह्मण्याग्नेयीप्राप्ता ततोज्योतिर्गौराहुरतीत्यत्र गास्सन्ति | तत्रापि ज्योतिरादि नामधेयैरेकाहानां ज्योतिरादीनां धर्मप्राप्तिरिति नामधेयेनैव तेष्वपि ऐन्द्रिय सुब्रह्मण्याप्राप्तिः | तत्र उपसत्कालं प्. १५३) तन्त्रभूतायां सुब्रह्मण्यायां किमनियमः | किं वा आग्नेयी अथवा ऐन्द्रीति संशये नियामकाभावादनियमे प्राप्ते मुख्यत्वादाग्नेयी ग्राह्येति च | प्राप्ते भूयसां साधर्म्याय ऐन्द्री ग्राह्येति सिद्धान्तितम् | एवं भाष्यकारीयं मतं वर्तिककारस्तु नत्विह सुब्रह्मण्योदाहरणं युक्तम् | यत्रह्यन्यार्थेनान्यस्योपकारसिद्धिः | तत्र हि प्रसङ्गः | देवतास्मरण रूपसंस्कारार्थोहि सुब्रह्मण्यानिगदः | न चाग्नेयी या इन्द्रस्संस्कृतो भवति | न वैन्द्राग्निः तस्मादुभयसंस्कारार्थं उभयमपि भेदेनाहूतव्ये इति दूषयित्वा आज्यभागमन्त्रा उदाहृत्य चिन्तयेत् | काम्यास्विष्टिषु श्रूयते | अग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत् | इन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं दधिमधुघृतमापोधानास्तण्डुलाः तत्संसृष्टं प्राजापत्यमिति आग्नेयमेकं ऐन्द्रमेकं प्राजापत्यानि पञ्चेति सप्तहवींषि तत्राग्नेयपुरोडाश प्राजापत्यधानानां आग्नेय विकारत्वात् आग्नेयस्य च दर्शर्शपूर्णमासे च सत्वात् | अन्यतरधर्मप्राप्ताविविरोधेपि ऐन्द्रपुरोडाश प्राजापत्य दध्नोश्च क्रमात् ऐन्द्राग्नसान्नायय विकारत्वेन तयोश्च दर्शमात्रवृत्तित्वेन तद्धर्मापेक्षा मधूदकघृतानां उपांशुयाजविकारत्वेन उपांशुयाजस्य पूर्णमासमात्रवृत्तित्वेनात्रापि पूर्णमासधर्मापेक्षा | तदेतेषु सप्तसु येगेषु सह प्रक्रान्तेषु पौर्णमासी विकाराणां त्रयाणां प्. १५४) वार्तघ्ना वाज्यभागमन्त्रौ प्राप्तौ दर्शविकारयोस्तु द्वयोरैन्द्रपुरोडाश प्राजापत्यदध्नोः वृधन्वन्तो वाज्यभागमन्त्रौ प्राप्तौ तदिह किममावास्यामन्त्राभ्यामाज्यभागौ कर्तव्यौ | किं वा पौर्णमासिकमन्त्राभ्यामिति संशये | पूर्ववदनियमे प्राप्ते ऐन्द्रपुरोडाश दध्नोः मुख्यत्वाद्दर्शमन्त्राभ्यामाज्यभागौ कर्तव्याविति प्राप्ते भूयसां मधूदकधृतानां साधर्म्याय पौर्णमासिकमन्त्राभ्यामाज्य भागौ कर्तव्याविति सिद्धान्तितम् | एवञ्च भाष्यवार्तिककारीयोदाहरण द्वयोपि भूयोनुग्रहन्यायेन ब्रह्मप्राप्ति ब्रह्मलोकप्राप्तिरूप मुक्तिपराणां वचनानां बहुत्वात्तदविरोधेन ब्रह्मीभावपदस्यापि ब्रह्मप्राप्त्यर्थकत्वमेवामुख्यवृत्या वक्तव्यम् | किञ्चाभूततद्भावे संपद्यत कर्तरिच्छिरितिच्छिप्रत्यय विधानसामर्थ्येन पूर्वमभूतस्यैव तद्भावस्य वक्तव्यत्वेन संसारदशायां जीवब्रह्मणोरैक्यात् अभूततद्भावाभावेन छिप्रत्ययानुपपत्या ब्रह्मीभावपदस्य ब्रह्मप्राप्तिरूपामुख्यार्थस्यैव वक्तव्यत्वात् | सायं गोष्ठे गाव एकी भवन्तीत्यादिवत् परेऽव्यये सर्वे एकीभवन्तीत्यादिवचनानामपि लक्षणाया स्थानैक्य परत्वं वा लक्षितलक्षणयामत्यैक्यपरत्वं वा वक्तव्यमिति सर्वथा मुख्यब्रह्मीभावस्य मुक्तित्वानुपपत्तेः | ननु यत्रत्वस्य सर्वमात्मैवाभूत् केन किं प्. १५५) पश्येदिति श्रुतिर्मुक्तौ जीवस्य ब्रह्मीभावं स्फुटमवगमयतीति चेन्न | तत्रापि यदा अस्य ज्ञानिनः सर्वं करणादिकमात्मैवाभूत् स्वाभिन्नमभूत् तदा केन साधनेन किं ज्ञेयं पश्येत् | केनापि साधनेन किमपि विषयजातं न पश्येत् | अतो न मुक्तस्य सर्वाभेद इति अनिष्टप्रसञ्जनमुखेन मुक्तिकाले जीवस्य ब्रह्माभेद निषेध एव तात्पर्यम् | अन्यथा यच्छब्दस्यास्येत्यस्य सर्वमित्यस्य किमुशब्दस्य च वैययर्थ्यापत्तेः | तस्मात् ब्रह्मीभावपदस्यामुख्या वृत्या ब्रह्मपाप्त्यादिरूपास्मदभिमतमुक्तिपरत्वमेव वक्तव्यमिति नावयोर्मुक्तौ विरोध इति सर्वं समीचीनम् | एतेन सर्ववेदान्तानां अखण्डे ब्रह्मणि तत्मर्यमितिमन्मतम् | त्वन्मतन्तु अनन्तगुणविशिष्ट ब्रह्मणीति विरोधात् कथमैक्यमिति निरस्तम् | स्वगतभेदनिषेधैक्यप्रकाशोक्तरीत्या ब्रह्मगुणादीनां ब्रह्माभिन्नत्वेन भिन्नधर्माणां ब्रह्मण्यभावेन च ब्रह्मस्वरूपस्या | खण्डत्वे च आवयोरविरोधस्य प्राक् बहुश उपपादितत्वात् | इतोन्यदपि प्रमेयजातं मुख्यामुख्यतया यथा योग्यं स्वमताविरुद्धमुन्नेयमिति | तस्मात्तुरीय शिवादि शब्दार्थाभिन्ने सर्वोत्तमे सत्ताशेष जगज्जन्मादीनिमित्तकारणे सकलजीवजडादिभिन्ने स्वगतभेदशून्ये ज्ञानावाद्यनन्तगुणविशिष्टे एकरूपे परममुख्यवृत्या अपर्यायानन्तवैदिकपदवाच्ये श्रवणमननजन्य प्. १५६) निदिध्यासन सहकृतमनः करणकसत्प्रकारकापरोक्षज्ञानविषये लिंगदेहादिबन्धनिवृत्तिद्वारा सालोक्यादिचतुर्विधमुक्तिप्रदे श्रीनारायणाख्ये परे ब्रह्मणि सकलवेदवेदान्तेतिहासपुराणादिसदागमानां महातात्पर्यमिति सर्वमतिमङ्गलमिति सिद्धम् || इति श्रीपरमहंसपरिव्राजकाचार्यवर्य सर्वतन्त्रस्वतन्त्र श्रीमद्वसुधेन्द्रतीर्थ श्रीमच्चरणकरुनालयशिष्येण श्रीमन्महानन्दतीर्थभगवत्पादाचार्यसिद्धान्तो निवरसाधारण प्रवचनादि चणवागुतुरैरामाचार्यतनय गोपालाचार्य कृपालयसुनुना ऐययणाख्येन विरचितायां श्रीमतत्रयैक्यप्रकाशिकायां अद्वैतमतप्रकाशो नाम द्वितीयः परिच्छेदस्समाप्तः || || श्रीरस्तु || नन्वेवमपि अद्वैतमतस्योक्तरीत्या यथा कथञ्चिस्वमतैक्योपपादनेपि रामानुजमतस्य संग्रहेणोक्तस्य स्वमतैक्योपपादनं दुर्घटमिति चेन्न | तत्रापि यतः - मुख्यामुख्यत्वरूपेण द्वयोरैक्यं निरूप्यते | मानन्यायैस्वप्रमेयं मुख्यमित्येव साध्यते || तत्र प्रमायायाः विषय इत्यादि विभागेनात्यन्तनामयोर्विरोधः | तथाहि द्रव्यं षड्विधम् कालः प्रकृतिः | जीवः ईश्वरः धर्मभूतज्ञानं नित्यविभूतिरिति | तत्र कालः प्. १५७) अखण्डः क्षणलवमुहूर्ताहोरात्राद्यवस्थायुक्तः कालः | अवस्था च आगन्तुको धर्मविशेषः | क्षणलवादिकालो अतिरिक्त इति तैरङ्गीकृतं तत्र तावत् क्षणलवाद्यवच्छिन्न प्रवाहरूपे काले अखन्डकालशब्दः अमुख्य इत्येव वक्तव्यम् | अखण्डकालस्य क्षणलवाद्यतिरिक्तत्वे प्रमाणाभावात् | तत्र न तावत्प्रत्यक्षं प्रमाणम् | उद्भूतरूपादि शून्यत्वेन तस्य चाक्षुषादि प्रत्यक्षा विषयत्वात् | अर्व घट इत्यादि प्रत्यक्षस्यापि क्षणलवादिकाल विषयत्वाच्च | नाप्यनुमानं तत् ज्ञापकलिंगा भावात् | नापि - कालस्वभावो नियतिः | नदीव प्रभा वा काचित् अक्षययं यत्स्पन्दते यथा | तान्नद्योभिसमायन्ति ऊरुस्सन्निवर्तते | प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत् | इति भागवतवचनेन | राशीभूतस्य तमसस्सकाशद्विनता सुत | राशीभूतं रजो ज्ञेयं द्विगुणं ननु नान्यथा || राशीभूतस्य रजसस्सकाशाद्विनता सुत | राशीभूतं तथा सत्वं द्विगुणं समुदाहृतम् || मूलप्रकृतिजाह्येते न मूलं प्रकृतिर्मता | यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते || इति गरुडपुराणवचनेन | सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | निबन्ध्नन्ति महाबाहो देहे देहिनमव्ययम् || इति गीतावचनेन च मूलभूतसत्वरजस्तमो गुणानां प्. १५८) प्रकृत्यात्मकत्वावगमेन तदुपेतत्वायोगात् लोहितशुक्लकृष्णामजामिति सामानाधिकरण्यात् रजस्सत्वतमोगुणानां प्रकृत्यात्मकत्वावगमाच्च | न च नीलोघट इत्यादाविव लक्षणया भेदान्वय इति वाच्यम् | सत्वरजस्तमसां गुणत्वाभावस्य वक्ष्यमाणत्वात् | अत एव एतदुप ब्रंह्मणरूपभागवतवचनं यत्तत्रिगुणमित्यादिकं प्रधानस्य त्रिगुणात्मकत्वपरं श्रूयते | अन्यथा मुख्य प्रयोगानुपपत्तेः | गरुडपुराणवचने मूलपदस्वारस्यात् प्रकृत्यात्मकं मूलभूतं गुणत्रयमित्येव प्रतीयते | तज्जन्यं गुणत्रयमिति स्फुटमवसीयते | प्रकृतिरूपाणामिति बहुवचनम् प्रकृतेरेकत्वेपि प्रकृत्यात्मकं गुणत्रयविषयमिति ज्ञायते | तथा चोदाहृत श्रुतिस्मृतिमुख्यार्थत्वाय प्रकृतेस्सत्वरजस्तमो गुणोपेतत्वव्यवहारस्यामुख्यत्वं विशेषबलात् निर्वाहो वा वक्तव्य इति नात्रावयोर्विरोध इति | न च मूलप्रकृतिजन्यराशीभूतगुणत्रयोपेतत्वं प्रकृतेर्मुख्यमिति वाच्यम् | राशीभूतगुणत्रयस्य मूलप्रकृतिजन्यत्वेन तद्युक्तत्वायोगात् | अन्यथा महदहङ्कारादि कार्ययुक्तत्वमपि मुख्यं स्यात् | न च कार्यं कारणे वर्तत इति कार्योपेतत्वं कारणे मुख्यमिति वाच्यम् | कार्यकारणयोरभेदवादिनां भवतां विशेषमन्तरा तादृशव्यवहारानुपपत्तेः | न च प्रकृतिजन्यं राशीभूतं गुणत्रयमेव नास्तीति वाच्यम् | प्. १५९) मूलप्रकृतिजा ह्येते न मूला प्रकृतिर्मता | सत्वं रजस्तम इति गुणाः प्रकृति संभवाः || इति राशीभूतरजस्तमसां मूलप्रकृतिजन्यत्वावगमात् | किञ्च भवन्मते प्रकृतिः प्रकृतित्वावस्थायोगितया महदहंकाराद्यवस्था योगितया च चतुर्विंशति संयुक्तम् | महदहङ्कारादीनां प्रकृत्युपादानतया प्रकृतिकार्यत्वेन कार्यद्रव्यस्य कारणाभिन्नत्वोपगमेन च कारणद्रव्यस्या प्रकृतेरेकत्वेन चतुर्विंशति धात्वानुपपत्तेः | न च कार्यकारणयोरेकत्वेपि प्रकृतित्वमहदहंकाराद्यवस्था रूपागन्तुक धर्माणां भिन्नभिन्नत्वेन तद्भेदप्रयुक्तविशिष्टभेदाच्चतुर्विंशतिविधत्वमुपपन्नमिति वाच्यम् | विशिष्टस्य विशेष्यात् भेदे अवसिद्धान्तात् विशिष्टाद्वैतरूप परमप्रमेयानुपपत्तेः | सूक्ष्मत्वस्थूलत्वरूपविशेषण भेदप्रयुक्ततद्विशिष्टचिदचिद्रूपविशेषणभेदप्रयुक्तस्य##- विशेष्याभेदाङ्गीकारे च प्रकृतित्वमहदहंकाराद्यनेक विशेषण विशिष्टस्य सर्वस्यापि विशेष्यभूत प्रकृत्यात्मकत्वेन तस्याश्चैकत्वेन चतुर्विंशतिविधत्वानुपपत्तिरित्युभयतः पाशारज्जुः - तस्मात्प्रमितचतुर्विंशतिविधत्वं निर्वाहायाभेदे भेदकार्यकारिविशेषे वा भेदाभेदो वांगीकार्य इति गत्यन्तराभावात् अस्मन्मतैक्यमेवाङ्गीकार्यमिति सिद्धम् || इति स्वरूपैक्य प्रकाशः || अणुत्वे सति ज्ञातृत्वं जीवत्वं जीवान्यचेतनत्वमीश्वरत्वम् | प्. १६०) इति द्रव्यद्वयेनावयोरत्यन्तं भेदः | ईषद्विशेषस्तु उत्तरत्र परिहरिष्यते | नन्वेवमपि ज्ञातृज्ञेयावभासरूपं नित्यं धर्मभूतज्ञानं द्रव्यान्तरमस्माभिरंगीक्रियते | भवद्भिस्तु तन्नाङ्गीकृतमिति विरोध इति चेन्न | यतः - ज्ञाननिष्ठञ्च धर्मत्वं नित्यत्वं न तु मुख्यतः | मानाभावात्तत्पृथक्त्वे तत्स्वरूपस्य साध्यते || ज्ञाननिष्ठं धर्मभूतत्वं नित्यत्वं च द्वयमपि एकत्रमुख्यं न भवति | तु शब्दो विशेषार्थः | धर्मभूतत्वं वृत्तिज्ञाने | नित्यत्वं स्वरूपज्ञाने | मुख्यमिति विशेषात् ज्ञातव्यः | तस्य धर्मभूतज्ञानस्य ताभ्यां स्वरूपज्ञानवृत्तिज्ञानाभ्यां पृथक्त्वे प्रमाणाभावात् | तत्पूर्वोक्तं द्वयं स्वरूपस्येत्यनन्तरं वृत्तिज्ञानस्येति शेषः | तथा च धर्मभूतत्वं वृत्तिज्ञानस्य नित्यत्वञ्च स्वरूपज्ञानस्य साध्यते | यतो तो न विरोध इत्यर्थः | तथाहि भवदंगीकृतं धर्मभूतज्ञानं नित्यमनित्यं वा | न तावदन्त्यः | अपसिद्धान्तात् आद्येपि तद्धर्मभूतजीवेश्वराभ्यां भिन्नमभिन्नं वा नाद्यः तादृशज्ञाने प्रमाणाभावात् | प्रत्युतघटज्ञानमुत्पन्नम् | घटज्ञानं नष्टं इत्याद्यनुभवेन धर्मभूतज्ञानानित्यत्वावेदनाच्च | न च | न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते | अविनाशित्वात् | तथा हेयगुणध्वंसादवबोधादयो गुणाः | प्. १६१) प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते | उत्पत्ति विनाशानुभवौ धर्मभूतज्ञानानिष्ठावस्थामादायोपपद्यत इति वाच्यम् | द्रष्टुरीश्वरस्य दृष्टेस्साक्षात्कारस्य विपरिलोपो बाधो नास्ति अविनाशित्वान्नित्यत्वादिति | श्रुतेरीश्वरस्याबाधितत्वपरत्वात् | अन्यथा विपरिलोपशब्दस्य नाशार्थत्वे हेतुसाध्ययोरविशेषप्रसंगात् | तथा हेयगुणध्वंसादित्यादिवचनमपि जीवस्वरूपभूतज्ञानानन्दादिगुणानामभिव्यक्त्यनादिनित्यत्वप्रतिपादन##- षष्ठीस्वारस्यात् ते गुणा भिन्ना धर्मभूता इति वाच्यम् | अभेदेपि घटस्य स्वरूपं राहोश्शिरः घटस्य धर्माप्रमेयत्वादय इति वत् षष्ठीप्रयोगोपपत्तेः | प्रकृत्यादीनां महदहंकाराद्यवस्थावत् धर्मभूतज्ञानस्या वस्थाभावेनोत्पत्तिविनाशानुभवयोस्तद्विषयकत्वानुपपत्तेः | किञ्च स्वरूपवृत्तिज्ञानाभ्यामेव सर्वविषयकप्रकाशसम्भवे एतदतिरिक्त धर्मभूतज्ञानस्य व्यर्थत्वात् | न च मोक्षे जीवस्य ज्ञातृत्वान्यथानुपपत्या नित्यं धर्मभूतज्ञानमंगीकार्यमिति वाच्यम् | सुप्ताविव मुक्तावपि स्वप्रकारस्वरूपज्ञानेनैव ज्ञातृत्वोपपत्तेः | भवन्मते सुप्तौ धर्मभूतज्ञानस्य निर्विषयत्वास्वप्रकाशत्वोपगमाच्च | न च स्वरूपज्ञानस्य स्वमातृविषयकत्वात् अन्याविषयत्वाच्च | मुक्तस्य सार्वज्ञ सिध्यर्थं सर्वविषयं नित्यं प्. १६२) धर्मभूतज्ञानं स्वीकार्यमिति वाच्यम् | स्वरूपज्ञानस्यैव स्वविषयत्ववत् अन्यसर्वविषयत्वे बाधका भावेन सार्वज्ञोपपत्तेः | अन्यथा धर्मभूतज्ञानस्यापि स्वविषयत्वेनान्याविषयत्व प्रसंगात् | अन्यप्रकाशकत्वेनैव तत्सिद्धौ स्वरूपज्ञानस्यापि तथात्वप्रसङ्गात् | तस्मात्संसारदशायां वृत्तिज्ञानं मुक्तौ स्वरूपज्ञानमिति ज्ञानद्वयेनैव सर्वप्रकाशोपपत्तौ भवतापि धर्मभूतज्ञानं नाङ्गीकार्यम् | नन्विदमयुक्तम् | वृत्तिज्ञानस्यैवानुपपत्तेः | तथाहि वृत्तिज्ञानं किमात्मोपादानकं मन उपादानकं वा शरीरोपादानकं वा | नाद्यः | अपसिद्धान्तात् | न द्वितीयः | ज्ञानस्यापि जडत्व प्रसंगात् | आत्मधर्मत्वा भावप्रसंगाच्च | नान्त्यः | बाह्यमतप्रवेशापत्तेरिति चेदुच्यते | मन एव वृत्तिज्ञानाद्युपादानम् - न च जडत्वापत्तिः | वायवादेरग्यनुत्पादनत्ववत् जडमन उपादानकस्यापि वृत्तिज्ञानस्याजडत्वोपपत्तेः | ऊर्णनाभिचेतनोपादानकस्यापि तन्तोर्जडत्वदर्शनेन उपादानोपादेययोर्विलक्षण स्वभावत्वेपि बाधकाभावाच्च | वस्तुतस्तु वृत्तिज्ञानं जडमेव | न चार्थप्रकाशकत्वानुपपत्तिः | जडभूताया अपि दीपादि प्रभायाः घटाद्यर्थप्रकाशकत्ववत् जडात्मिकाया अपि वृत्तेस्स्वयोग्यविषयप्रकाशकत्वे बाधकाभावात् | किञ्च जडस्यापि दण्डादेश्चेतन धर्मत्ववत् जडानामपि ज्ञानादीनां चेतनधर्मत्वे बाधका भावात् | अपि च कामस्संकल्पो प्. १६३) विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्ह्रीर्भीर्ध्रीरित्येतत्सर्वं मन एवेति श्रुतौ कामादि बुध्यन्तानां मन उपादानकत्वस्यैव प्रमितत्वात् | मृद्घट इत्यादिवत् सामानाधिकरण्यस्य उपादानोपादेयभावनिमित्तत्वावश्यं भावाच्च | किञ्च - महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः || इच्छाद्वेषस्सुखं दुःखं संघातश्चेतना धृतिः | एतत् क्षेत्रं समासेन सविकारमुदाहृतम् || इति गीतायां महाभूतादि विषयान्तं क्षेत्रशब्दितमभिधाया उपलक्षितज्ञानादि धृत्यन्तं क्षेत्रविकारशब्दितमभिहितम् | तत्र ज्ञानेच्छा सुखदुःखादीनां क्षेत्रशब्दित एकपदोक्त मनो विकारत्वस्यैव वक्तव्यत्वात् | प्रकारान्तरायोग्यात् न च इच्छाद्वेषौ सुखदुःखमित्यादिना ज्ञानव्यतिरिक्तेच्छादीनामेव क्षेत्रविकारत्वं ज्ञानं तु न कस्यापि विकारः | तस्यानादि नित्यत्वात् | अतो नास्य तद्विकारेषु गणनं युक्तमिति वाच्यम् | जानाति इच्छति प्रयतते | इति ज्ञानेच्छाकृतीनां समानविषयकत्वेन नियतपूर्वभावपश्चाद्भावोपेतत्वेन च समानोपादानत्वस्यैव युक्तत्वेन तत्र लक्षितज्ञानादि धृत्यन्तानां मनस एवोपादानत्वावश्यं भावात् | न च इच्छादीनां धर्मभूतज्ञानस्यावस्था विशेषत्वात्तदुपादानकत्वं अत्र बुद्धिपदेन क्षेत्रशब्दितं धर्मभूतज्ञानमेव गृह्यते | प्. १६४) अव्यक्तत्वसहपाठादव्यक्त तत्ववत् नित्यत्वमपि युक्तमिति वाच्यम् | कामस्संकल्प इति श्रुतौ कामादीनां मन उपादानकत्वावेदनेन तदविरोधाय इच्छादीनां क्षेत्रशब्दितैक पदोक्त मनोविकारत्वस्यैव वक्तव्यत्वात् | मन एवेत्यवधारणेन इतरोपादानत्व निषेधाच्च प्राणानामनो मनसश्च विज्ञानमिति श्रुतौ | वृत्तिरूपज्ञानस्य मनो जन्यत्वावेदनाच्च | परादव्यक्तमुत्पन्नमव्यक्तात्तु महांस्तथा | विज्ञानतत्वं महतः समुत्पन्नं चतुर्मुख | विज्ञानतत्वात्तु मनो मनस्तत्वाच्च खादिकम् || इति स्कान्दपुराण वचनेनापि विज्ञानतत्वस्य महत्तत्वजन्यावेदनाच्च | तथा च एतत्समाख्यया गीतायां बुद्धिशब्दस्य महत्तत्वजन्य बुद्धितत्वपरत्वमेवा जहल्लक्षणया वृत्तिरूपज्ञानेच्छादीनामेकपदोक्त मनोजन्यत्वमेव वक्तव्यमिति न सर्वथा भवदंगीकृतनित्यधर्मभूतज्ञानस्यावकाशः | किञ्च स्वापदशायामपि धर्मभूतज्ञानस्य सत्वेन तस्यैवात्मनि विषयकत्व संभवे तत्र स्वरूपज्ञानस्यैवस्वप्रकाशस्यात्मादिविषयकत्व कल्पनानुपपत्तेः | अपि च किमिदं ज्ञानस्य धर्मभूतत्वं विशेषणत्वं वा आधेयत्वं वा | नाद्यः | मपि ज्ञानमित्यत्र विशेषणत्वायोगात् | किञ्च विशेषणत्वादिकं स्वरूपमतिरिक्तं वा | नाद्यः | ज्ञानं विशेषणमिति सहप्रयोगानुपपत्तेः | निष्प्रतियोगिकस्य ज्ञानस्य सप्रतियोगिक विशेषणत्वाद्ययोगाच्च | नान्त्यः प्. १६५) घटज्ञानवानहमित्यादिज्ञाने आत्मा विशेष्यः | ज्ञानं विशेष्यमिति अतिरिक्तविशेषणत्वादिभानानुपपत्तेः आत्मनिष्ठविशेष्यतानिरूपितज्ञाननिष्ठविशेषणतावगाहनसमर्थस्य ज्ञानान्तरस्य भवन्मते अभावेन स्वप्रकाशधर्मिभूतज्ञानधर्मभूतज्ञानाभ्यामेवात्मस्वरूपस्य तन्निष्ठ विशेष्यत्वस्य धर्मभूतज्ञानस्य तन्निष्ठ विशेषणत्वस्य च ज्ञायमानत्वे अतिरिक्त विशेष्यत्वादि ज्ञानवत् | अतिरिक्त धर्मभूतज्ञानस्यापि स्वप्रकाशात्मज्ञानेनैव भानसंभवे तस्यापि स्वप्रकाशत्वकल्पनायोगात् | नान्त्यः | जीवस्यापि भवदाधेयत्वेन ज्ञानस्यापि ज्ञानत्वाद्याधारत्वेन ज्ञानस्याधेयत्वनियमायोगेन धर्मभूतत्वा योगात् | किञ्च सुखदुःखादिषु धर्मभूतेषु सत्सु ज्ञानस्यैव नियमेन धर्मभूतत्व पृथक्द्रव्यत्वकथने कारणाभावात् | न च सुखादीनां धर्मभूतज्ञानस्यैवावास्था विशेष इति वाच्यम् | सुखदुःखादीनां ज्ञानविकारत्वे प्रमाणाभावादित्युक्तत्वात् कामस्संकल्प इति श्रुतौ महाभूतान्यहंकार इति स्मृतौ च कामादीनां सावधारणं मनो विकारत्वस्यैवोक्तत्वाच्च | कामादीनां ज्ञानसाम्येन परिगणनायोगाच्च | तस्मादात्मस्वरूपज्ञानमनो वृत्तिज्ञानाभ्यामन्यज्ञानस्यैवाभावेन संकलयय व्यवहृते तस्मिन्नेव ज्ञानद्वये स्वरूपज्ञाननिष्ठं नित्यत्वं वृत्तिज्ञानाख्य धर्म भूतज्ञाने छत्रिन्यायेनामुख्यं वृत्तिज्ञाननिष्ठं धर्मभूतत्वं प्. १६६) धर्मिभूतस्वरूपज्ञाने तन्न्यायेनैवामुख्यमिति भवद्भिरंगीकार्यम् | अस्माभिस्तु वृत्तिज्ञाने धर्मभूतत्वं मुख्यम् | स्वरूपज्ञाने नित्यत्वं मुख्यमिति वदद्भिः भवदंगीकृतामुख्यद्वयनत्यंगीकृतमेवेति नावयोर्विरोधगन्धोपीति सिद्धम् || इति धर्मभूतज्ञानैक्य प्रकाशः || नन्वेवमपि त्रिगुणद्रव्यभिन्नं केवलसत्वगुणोपेतं नित्यविभूत्यात्मकं द्रव्यान्तरमस्मन्मतैकसिद्धम् | तत्रावयोरैक्यानुपपत्तिरिति चेन्न | यतः - गुणत्रयेषु यत्सत्वं केवलं समुदीरितम् | तदेव नित्यभूत्याख्यमिति मानैः प्रसाध्यते || तथाहि नित्य विभूति द्रव्यं प्रकृतिजन्यकेवलसत्वात्मकं वा | तदतिरिक्तं वा | नाद्यः इष्टापत्तेः | नान्त्यः | शुद्धसत्वातिरिक्त नित्यविभूतिद्रव्यसद्भावे मानाभावात् | न च भगवतो मुक्तानाञ्च भोगार्थं दिव्यमंगलविग्रह विषयजातयोरावश्यकत्वात् | तदर्थं तदुपादानमजडं नित्यविभूतिद्रव्यमंगीकार्यमिति वाच्यम् | भगवतो मुक्तानाञ्च भोगार्थं दिव्यमंगलचिदानन्दात्मकशुद्धसत्वात्मक विग्रहस्वीकारोपपत्तेः | चेतनभिन्नस्य वस्तुनो जडत्वनियमेन तस्य जडत्वे मानाभावाच्च नहि प्रसिद्धप्रयोजकेन प्रमितं प्रयोज्यमपहाया प्रमितं प्रयुज्यते | अन्यथा स्वर्गकामो यजेतेत्यादिना प्रमितं स्वर्गादिकं स्वकार्यभूतयागादिकं न प्रयोजयेत् | किन्तु प्रामाणिकदेवता प्रसादापूर्वादिकमेव प्रयोजयेदिति प्. १६७) तन्न्यायविरोधापत्तेः | अत एव ज्योतिष्टोमे एकहायन्या सोमं क्रीणानीति सोमक्रयं प्रकृत्य श्रुतेषट्पदान्यनुनिक्रामति सप्तमं पदमध्वर्युरंजलिना गृह्णाति | यर्हि हविर्धाने प्राचीं प्रवर्तयेयुः तर्हितेनाक्षमुपांजादित्यत्र | किं एकहायनी नयनं सप्तमपदसाध्या क्षाभ्यंजनक्रयोभयार्थं सदुभाभ्यां प्रयुज्यते | उतक्रयमार्थं सत्क्रियेणैव प्रयुज्यते | इति संशये अक्षाभ्यंजनस्य क्रयास्य द्वयोरपि एकहायनीनयनसाध्यत्वात् सन्निधानात् क्रयस्येव पदकर्मणः अक्षाभ्यंजनस्याविशेष इति एकहायनी नयनमुभयार्थं सदुभाभ्यां प्रयुज्यत इति पूर्वपक्षं प्रापयय एकहायन्याक्रीणातीति श्रुत्या गोक्रियार्थत्वावगमे तत्संस्काररूपनयनस्यापि तदर्थत्वे सिद्धे क्रियाख्य परार्थैकहायनीनयनोपजीवकं पदकर्माक्षाभ्यंजनमपहाय प्रमितिक्रिययैव एकहायनी नयनप्रयोजक इति सिद्धान्तितम् | चतुर्थे प्रथमे पादे पदकर्म प्रयोजकं नयनस्य पदार्थत्वादित्यधि करणे अत एव च तत्रैव एकदेशद्रव्यञ्चोत्पत्तौ विद्यमानसंयोगादित्यधिकरणे दर्शपूर्णमासयोश्शेषास्स्विष्टकृते समवद्यतीति श्रुतस्य स्विष्टकृद्यागस्य उत्तरार्धपुराडाशोभयप्रयोजकत्वं वा आग्नेयादि प्रयुक्तपुरोडाशोपजीवित्वं वेति संशये उत्तरार्धस्य प्रकृताग्नेयपुरोडाश संबन्धायोगेन प्रकृतपुरोडाशस्य देवतान्तरार्थं कल्पितस्य देवतान्तरोद्देशेन त्यागे शिष्टाचारविरोधापातेन उभयोः परस्परान्वयायोगेन स्विष्टकृद्यागः अपूर्वपुरोडाशस्य प्. १६८) उत्तरार्धस्य च प्रयोजक इति पूर्वपक्षं प्रापयय उत्तरशब्दस्यार्थशब्दस्य च सर्वनामत्वेन भागवाचित्वेन प्रकृत किञ्चिद्भागिसापेक्षत्वात् | भागिनः प्रकृतपुरोडाशस्याग्न्यादिदेवतार्थत्वेन प्रमितत्वात् तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तत इति नापूर्वाप्रमितपुरोडाशोत्तरार्धप्रयोजक इति सिद्धान्तितम् | तथा च वक्ष्यमाणप्रमाणप्रमित दिव्यमंगलचिदानन्दात्मकशुद्धसत्वात्मकविग्रहादीनामेव भगवतो मुक्तानाञ्च भोगार्थत्वमुपपद्यत इति नानुपपत्तिः | न च भगवतश्चिदानन्दात्मकविग्रहे तदात्मकविषय भोगे शुद्धसत्वात्मकविषयभोगे च प्रमाणाभाव इति वाच्यम् | अजायमानो बहुधा विजायते | आनन्दरूपममृतं यद्विभाति | नित्यो नित्यानां चेतनश्चेतनानां इत्यादि श्रुतीनाम् | देहोयं मे सदानन्दो नायं प्रकृतिनिर्मितः | परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम् || इति ब्रह्मकैवर्तवचनस्य - परिपूर्णानि रूपाणि सामान्यखिलरूपतः | तथाप्यपेक्ष्यमन्दानां दृष्टिं त्वां ऋषयोपि हि || पारापरं वदन्त्येनं ह्यभक्तानां विमोहनम् | इति गरुडपुराणवचनस्य | रामकृष्णादिरूपाणि परिपूर्णानि सर्वदा | न चाणुमात्रं भिन्नानि तथाप्यन्यान्विमोहसि || इत्यादि नारदीयवचनस्य | श्रोत्रं चक्षुस्पर्शनञ्च रसनं घ्राणमेव च | प्. १६९) अधिष्ठायमनश्चायं विषयानुपसेवते || आत्मान्तरात्मेति हरिरेक एव द्विधास्थितः | निविष्टो हृदये नित्यं रसं पिबति कर्मजम् || शुभं पिबत्यसौ नित्यं नाशुभं सहरिः पिबेत् | पूर्णानन्दमयस्यास्य चेष्टा न ज्ञायते क्वचित् | इत्यादि प्रमाणवचनस्य | उपासीनो महाबाहुः श्रीमान्वैरोचनो बलिः | जहार देवदेवस्य किरीटं रत्नचित्रितम् | इति भागवतवचनस्य | जीवेपि सर्वं वा एतदचित्परित्यज्य चिन्मात्र एवावतिष्ठते | तामेतां मुक्तिरित्याचक्षते | स वा एतस्मात् मर्त्या द्विमुक्तश्चिन्मात्री भवति | अथ तेनैव रूपेणापि पश्यति अभिशृणोति अभिमनुते | अभिजानाति तामेतां मुक्तिरित्याचक्षते | परं ज्योतिरूपसंपद्य स्वेनरूपेणाभि निष्पद्यते | सतत्र पर्येति | जक्षन् क्रीडन् रममाणस्त्रिभिर्वा यानैर्वा ज्ञातिभिर्वाज्ञातिभिर्वेत्यादि श्रुतीनाम् | मर्त्य देहं परित्यज्य चितिमात्रात्मदेहिनः | चितिमात्रेन्द्रियाश्चैव प्रविष्टा विष्णुमव्ययम् || तदङ्गानुगृहीतैश्च स्वाङ्गैरेव प्रवर्तनम् | कुर्वन्ति भुञ्जते भोगान् तदन्तर्बहिरेव वा | यथेष्टं परिवर्तन्ते तस्यैवानुग्रहेरिताः || स्वप्नस्थानां यथा भोगो विनादेहेन युज्यते | प्. १७०) एवं मुक्तावपि भवेत् विना देहेन भोजनम् | स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् || स्वीकृत्य जागरितवत् भुक्त्वा त्यागः कदाचन | इति ब्रह्मकैवर्तपुराणवचनानाम् | चितिमात्रेण तदात्मकत्वादित्यादिसूत्राणां केवलं तत्र सत्वं स्यादित्यादि मुक्तैकभोग्यशुद्धसत्वप्रतिपादकवचनानां प्रमाणत्वात् | अजायमान इत्यत्र ज्ञानानन्दात्मकस्वरूपेण विकाररूपजननाभावस्य - प्रत्यक्षत्वं हरेर्जन्म न विकारः कथञ्चनेति | भक्तजन प्रत्यक्षविषयता लक्षणाभिव्यक्तैकरूपजननस्यानन्दरूपमित्यत्र रूपपदस्वारस्येनानन्दात्मकविग्रहस्य नित्योनित्यानामित्यत्र नित्यानां नित्यत्वप्रतिपादनेन भगवतो नित्यज्ञानानन्दात्मकदेहवत्वस्य - शुद्धस्फटिकसंकाशं देहोयं मे सदानन्द इति वचन द्वये हरेर्ज्ञानानन्दात्मकदेहवत्वस्य परिपूर्णानि रूपाणि रामकृष्णादिरूपाणीति वचनद्वये रूपपदस्य ज्ञानानन्दात्मकदेह विशिष्टावतारपरत्व एव सर्वावताराणां परिपूर्णत्वं साम्यमत्यन्ताभेदश्चोपपद्यत इति - तदात्मकविग्रहत्वस्य श्रोत्रं चक्षुस्पर्शनञ्च आत्मान्तरात्मेति हरिरिति वचनद्वये | जीवेन्द्रियैः जीवभोग्य विषयगतशुद्धसत्वात्मकजीवेन्द्रियस्थ भगवत्कर्तृकविषयभोगस्यजीवहृद्गतस्य भगवतो जीवभोग्यकर्मजन्यरसगतशुद्धसत्वात्मकरसभोगस्य शुभं पिबत्यसौ नित्यमित्यत्र शुभपद प्. १७१) स्वारस्येन शुद्धसत्वात्मकशुभभोगस्य उपासीनो महाबाहुरित्यत्र देवदेवस्य किरीटमित्यनेन शुद्धसत्वात्मककिरीटस्य जीवेपि सर्वं वा एतदचित्परित्यज्येति श्रुतिवचने जीवस्य स्पष्टं चिदानन्दात्मकदेहस्य परञ्ज्योतिरित्यत्र स्वरूपेणाभिनिष्पद्यत इति स्वरूपभूतचिदात्मकविग्रहस्य मर्त्यदेहं परित्यज्य चितिमात्रेण तदात्मकत्वादिति स्मृतिसूत्रयो स्फुटमेव तस्य चिदात्मकदेहस्य केवलं तत्र सत्वं स्यादित्यत्र सृष्टावनुपयुक्तकेवलसत्वस्य सार्धक्याय तन्मय वस्तुनो मुक्तैकदेह भोग्यत्वस्य च वक्तव्यत्वात् | किञ्च देशमात्रस्य मूलप्रकृति व्याप्तत्वेन तमसः परस्तादित्यस्य ब्रह्मणः प्रकृत्यवश्यत्वप्रतिपादनपरत्वे न भवदङ्गीकृतनित्यविभूति द्रव्यपरत्वायोगात् | तस्मात्प्रकृतिकार्यं शुद्धसत्वमेव बहुकालस्थितत्वसाम्यात् गौण्या नित्यविभूति द्रव्यमिति व्यवह्रियत इति नात्राप्यावयोर्वैरूप्यमिति सिद्धम् || || इति नित्यविभूतिद्रव्यैक्यप्रकाशः || नन्वेवमपि दशविधानां द्रव्यानां मध्ये सत्वादि त्रयाणां प्रकृत्यात्मकत्वेन द्रव्यत्वं शब्दादिशक्त्यन्तानां सप्तानां द्रव्यस्वरूपत्वमिति भवत्सिद्धान्तादत्रावयोरैक्यानुपपत्तिरिति चेन्न - यतस्सत्वादिरूपाणामद्रव्यत्वममुख्यतः | तेषां द्रव्यस्वरूपत्वादिति मुख्यं प्रसाध्यते || तथाहि सत्वं खल्वीरितं विषमत्वं प्रयाति प्. १७२) रजः खल्वीरितं विषमत्वं प्रयाति | तमः खल्वीरितं विषमत्वं प्रयाति श्रुतौ सृष्ट्यर्थं प्रकृतिवदीश्वरप्रेर्यत्वावस्थान्तरयोगित्वयोः प्रतिपादनेन तदन्यथानुपपत्या च संयोगित्व साध्या द्रव्यत्वमेव मुख्यमिति वाच्यम् | किञ्च यद्रजो मूलरजसि मूले तमसि यद्रजः | तमश्च मूले तमसि महत्तत्वं तदात्मकम् इति || राशीभूतस्य तमसः सकाशाद्विनता सुत | राशीभूतं रजो ज्ञेयं द्विगुणं न तु नान्यथा || इति वचनद्वयेन | तमोरजस्सत्वगुणानां उपादानत्वराशीभूतत्व द्विगुणोत्तरत्वानाममूर्तस्य गुणत्यायोगेन उत्तरत्र परिच्छिन्नत्वोक्त्या च तेषां द्रव्यत्वस्यावर्जनीयत्वात् | अपि च सत्वरजस्तमसां आश्रयद्रव्याभावेन गुणत्वानुपपत्तेः | आश्रयभूतं द्रव्यं प्रकृतिर्वा अन्यद्वा | नाद्यः एकस्या एव प्रकृतेर्विरुद्धानेकगुणाश्रयत्वे वस्तुनो द्वैरूप्यप्रसङ्गात् | सत्वं रजस्तम इति गुणाः प्रकृति सम्भवाः | इति सत्वादिगुणानां प्रकृतिजन्यत्वप्रतिपादनेनातः पूर्वं प्रकृतेर्निर्गुणत्वप्रसङ्गाच्च | नान्त्यः तस्य दुर्निरूपत्वात् | न च तेषां द्रव्यत्वे श्रुतिस्मृतिषु गुणत्वव्यवहारानुपपत्तिरिति वाच्यम् | अजामेकां लोहितशुक्लकृष्णां इति श्रुतौ अजाशब्दस्य लोहितादिपदसामानाधिकरण्यादभेदान्वये सिद्धे अखण्डैकरूपायां प्रकृतौ विरुद्धा शुक्लादिगुणत्रयायोगेन पाशाधिकरण न्यायेन प्रकृत्यवयवानां सत्वरजस्तमसां शुक्लादिवर्णत्रयोपेतत्वेन तद्विवक्षया तेषामपि लक्षणया प्. १७३) नीलोघट इत्यादिव्यवहारोपपत्तेः | यत्तत्त्रिगुणमव्यक्तमिति सामान्यगुणपदस्य शुक्लादिगुणविशिष्टसत्वादिपरत्वस्यैव युक्तत्वात् | सत्वं रजस्तम इति गुणाः प्रकृति संभवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् | इत्यत्रापि तेषां लिंगशरीरादिरूपेण जीवबन्धकत्वोक्त्या गुणशब्दस्य गुणविशिष्ट द्रव्यपरत्वावश्यं भावाच्च | पूर्वतन्त्रे द्रव्यदेवतादीनामप्राधान्येन गुणत्वव्यवहारवत् | मूलप्रकृतिजन्यसत्वरजस्तमसामप्रधानत्वेन गुणत्वव्यवहारे गुणत्रयात्मकमूलप्रकृतेरपि गुणत्वव्यवहारे बाधकाभावाच्च | अपि च अजामेकामिति श्रुतौ लोहितादिशब्दानामाकृत्यधिकरणन्यायेन गुणमात्रपरत्वे सिद्धेपि अरुणाधिकरण न्यायेन सृष्ट्यादि द्वारा करणत्वस्यापि संभवात् | अत एव तन्न्यायोपि शेषलक्षणे प्रथमपादे अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमस्स्यादित्यत्र चिन्तितः ज्योतिष्टोमे अरुणया पिङ्गाक्षैकहायन्या क्रीणातीत्यत्रारूणगुणस्य प्रकरणात् क्रत्वंगत्वं स्वीकृत्य प्राकरणिकसर्वद्रव्येषु निवेशः | उत क्रीणात्यंगत्वमंगीकृत्य एकहायन्यामेव निवेश इति संशये अरुणयेति पदं वाक्यात्पृथक्कृत्य तृतीयाकरण द्रव्याण्यनूद्य प्रातिपदिकार्थोरुणिमातत्परिच्छेदकत्वेन विधीयत इति प्राकरणिक सर्वद्रव्येषु निविशत इति पूर्वपक्षे तृतीया श्रुत्या क्रयं प्रत्यवगतकरण भावस्यारुण्यगुणस्यामूर्तत्वेन सत्वात् प्. १७४) क्रयसाधनत्वायोगेपि तदीयैकहायनी द्रव्यपरिच्छेदमुखेन क्रयसाधनत्वसंभवेन | रुणगुणपरिच्छिन्नेन द्रव्येण क्रयं कुर्यादित्येवं श्रुत्यैव गुणस्य क्रयैकवाक्यत्वमिति | तदीयैकहायनी द्रव्य एव निवेश इति सिद्धान्त इति | तथा च तन्न्यायेन लोहितादिशब्दानां गुणमात्रपरत्वेपि अजाशब्दार्थावयवभूतानां सत्वरजस्तमसां द्रव्यत्वेपि तद्द्वारा तेषां सृष्ट्यादि कार्यकरत्वोपपत्तिः | किञ्च - गण्यन्ते जना एभिरिति व्युत्पत्या जनानां सत्वरजस्तमोभिः उत्तममध्यमाधमत्वेन गण्यमानत्वात् तेन गुणशब्दप्रयोगोपपत्तेः | अतो भवन्मतेपि सत्वरजस्तमसां गुणत्वममुख्यमेवेति द्रव्यत्वमेव मुख्यमिति युक्तमिति नावयोरत्रापि विरोध इति सत्वरजस्तमसां अद्रव्यतैक्यप्रकाशः || यच्चोक्तम् - शब्दादिशक्त्यन्तानामद्रव्यत्वमिति तत्रापि तेषां द्रव्यत्वमेव मुख्यमिति वदामः | तथाहि शब्दादयो गुणाः स्वाश्रयद्रव्य प्रतियोगिकान्योन्याभावानधिकरणं स्वाश्रयद्रव्यात्मकत्वात् | प्रमेयत्वादिवत् | न चासिद्धो हेतुः | तस्य प्रत्यक्षादि प्रमाणप्रमितत्वात् शुक्लः पटः | मधुरो गुडः | सुरभि पुष्पम् | शीतं जलम् | वह्निरुष्णः | एको घटः | घटपटौ संयुक्तौ | भेरी शब्दायते | अयं शक्तः इत्यादि प्रत्यक्षप्रतीतिः | न तावत् घटपटादिवदत्यन्ते भिन्नगुणगुण्यादिविषया घटपटौ भिन्नावितिवत् रूपघटौ भिन्नाविति प्रतीत्यभावात् | न च गुणगुण्यादीनां प्. १७५) भेदेप्याश्रयाश्रयिभावात् | घटपटादि प्रतीतिर्वैलक्षण्यमिति वाच्यम् | कुण्मपदादि प्रतीतोपि वैलक्ष्यण्यानुभावात् | न च गुणगुण्यादीनां अपृथक्सिद्धत्वात् तत्प्रतीतेः कुण्सपदरादि प्रतीति वैलक्षण्यमिति वाच्यम् | विकल्पासहत्वात्तथाहि गुणादीनामपृथक्सिद्धत्वं यावदाश्रय कालीनत्वं वा अयावदाश्रितकालीनत्वं वा नाद्यः घटश्यामरूपादीनां यावदाश्रयकालीनत्वाभावेनापृथक् सिद्धत्वाभाव प्रसङ्गात् | न च श्यामरूपमेव रक्तरूपात्मना परिणतमिति वाच्यम् | गुणस्य गुणोपादानत्वानंगीकारात् श्यामरूप नाशेन द्रव्योपादानकरक्तरूपोत्पत्तेरेवांगी कार्यत्वात् | शब्दसंयोगादि गुणानामयावद्रव्यभावित्वे विवादाभावाच्च | नान्त्यः बदरादीनामपि गुणादिसाम्यप्रसङ्गेन तत्प्रतीति वैलक्षण्याभाव प्रसंगात् | किञ्च यावदाश्रय भाविनां केषाञ्चिद्गन्धादिगुणानामपृथक्सिद्धत्वाभावात् - न च केषाञ्चिद्गुणानां यावदाश्रयभावित्वं केषांचिदयावदाश्रयभावित्वमिति द्वैविध्यमंगीक्रियते | उभयोरपि स्वसत्ताकालीनमपृथक्सिद्धत्वमिति वाच्यम् | एवं सति गत्यन्तराभावेनास्मन्मतैक्यस्यैवादरणीयत्वात् अस्माभिरपि गुणादयो धर्माः द्विविधाः | यावद्द्रव्यभाविनः अयावद्द्रव्यभाविनश्चेति | तत्र यावद्द्रव्यभाविनो भिन्नाः | अयावद्द्रव्यभाविनो भिन्ना भिन्नाः तथैवानुव्याख्यानसुधादावुक्तेरिति स्वीकृतत्वात् - प्. १७६) न च गुणक्रियादिधर्माणां यावद्द्रव्यभावित्वायावद्द्रव्यभावित्वयोरङ्गीकारेपि तेषां धर्मैक्यानंगीकारात् कथं मतैक्यमिति वाच्यम् | उभयोरप्यपृथक्सिद्धत्वादेव धर्मैक्यसिद्धेः अपृथक्सिद्धत्वं नाम | पृथक्सिद्धत्वाभावः | पृथक्त्वञ्च भेदः | पृथक्त्वान्यत्व भेदास्तु पर्यायेणैव लौकिकैः | व्यवह्रियन्त इति भाष्योक्तेः | तथा च भिन्नत्वेन सिद्धं प्रमितं पृथक्सिद्धं तं न भवतीत्यपृथक्सिद्धम् | तस्य भावः | अपृथक्सिद्धत्वं अभिन्नेत्वैव प्रमितत्वमित्युक्तं भवति | तथा चायं प्रयोगः | गुणादयो धर्माः धर्मिभिन्ना भवन्ति | धर्म्यभिन्नत्वेन प्रमितविषयत्वात् | यत्तु यदभिन्नत्वेन प्रमितिविषयीभूतं तत्तदभिन्नं यथा घटस्वरूपं घटाभिन्नं यथा वा प्रमेयत्वाभिधेयत्वपदार्थजातित्वादिकं न चासिद्धो हेतुः | भवदभ्युपगता पृथक्सिद्धत्व व्यवहारान्यथानुपपत्या धर्म्यभिन्नत्वेन प्रमिति विषयत्व हेतुसिद्धेः | तात्विकव्यवहारस्य व्यवहर्तव्य प्रमासाध्यत्वावश्यं भावात् | एवञ्च शुक्लो घट इत्यादि प्रत्यक्ष प्रतीतिः न गुणगुण्यादिमात्र विषया कुण्डबदरादि प्रतीतो वैलक्षण्यानु भवात् | न च तत्र निमित्तान्तरमस्ति | अनुपलम्भात् | अत्यन्तभिन्नवस्त्वन्तर प्रतीतो व्यावर्ते यमभेदविषयेति वक्तव्यम् | अतो गुणादि धर्माणां धर्म्यभेदे प्रत्यक्षप्रतीतिरेव प्रमाणमित्युक्तं भवति | न च इन्द्रियजन्यज्ञाने अर्थ सन्निकर्षस्य व्यापारत्वात् गुणगुण्याद्यभेदेन्द्रिय सन्निकर्षाभावेन प्. १७७) कथं प्रत्यक्षमभेदविषय इति वाच्यम् | घटस्य स्वरूपाभेदस्याप्यप्रत्यक्षत्वप्रसंगात् | तदभेदे सन्निकर्षे गुणगुण्यादभेदेपि सन्निकर्षे बाधकाभावात् - न च गुणादीनां गुण्यभ्दे स्वाश्रयत्वमसिद्धम् | आश्रयाश्रयिभावस्य भेदव्याप्तत्वात् | तथा च स्वरूपासिद्धो हेतुरिति वाच्यम् | गुणादीनां गुण्याद्यभेदे प्रत्यक्षादिप्रमाण प्रमितेराश्रयाश्रयिभावव्यवहारस्य प्रयोजकान्तरकल्पत्वेन स्वरूपसिध्याभावात् | किञ्च गुणादीनां द्रव्याभेदे प्रत्यक्ष सिद्धे भेदकार्याणि दृश्यन्ते शुक्लः पटः चलति पटः | इत्यादि सामानाधिकरण्य व्यवहारः तस्य भेदकार्यत्वात् न हि घटः कलश इति व्यवहारोक्तेः | एवं पटशौक्ल्य बुद्धेः अन्यूनानतिरिक्त विषयत्वाभावः | तच्छब्दयोरपर्यायत्वं जलाहरणाद्यर्थक्रियाभावः | घटमानयेत्युक्ते यत्किञ्चिच्छुक्लमानयनं शुक्लमानयेत्युक्ते नियमेन घटस्यानयनम् | अघटः पट इति वत् अशुक्लः पटः इत्यनयोर्विरोधाभावः | अन्धस्यापि घटोयमितिवत् शुक्लोयमिति प्रतीतिभावः | महांजनसम्पर्केण शुक्लत्ववत्पटस्याव्याहृतत्वाभाव इत्यादि प्रत्यक्षप्रतीतौ शुक्लपट तदभेदेभ्यो अतिरिक्तो भेदकार्यकरः कश्चिदतिशयो विषयतया भासत इति भवद्भिरप्यंगीकार्यम् | स चातिशयो अभिन्नेष्वर्थविशेष करत्वात् विशेष इति च प्रत्यक्ष प्रतीतिः अभेदे भेदे भेदकार्य प्रतीत्यन्यथानुपपत्तिश्च विशेषे प्रमाणमित्यक्तं भवति | प्. १७८) भेदहीनेप्यनुपचरित भेदव्यवहारनिमित्तं विशेष इति विशेषस्य लक्षणमुक्तम् | विशेषस्यैव तादृशं लक्षणं धर्मिग्राहकमानसिद्धम् | उक्तस्थले सर्वत्र भेदाभेदांगीकारेणाप्यनुपपत्तिशमनात् किं विशेषेणेति चेन्न | अप्रमितनिमित्तान्तर कल्पनेन प्रमितस्य निमित्तत्व त्यागायोगात् | अपि च परस्परविरुद्धयोर्भेदाभेदयोरेकस्मिन् अवस्थानघटनाय भेदकार्यकारिणो विशेषस्यांगीकार्यत्वात् | न चैकत्र भेदाभेदयोः प्रमितत्वात् कथं विरोधः येन विशेषांगीकारः विरोधाविरोधयोः दर्शनप्रमाणकत्वात् | विरोधो ह्यविरोधश्च यतो दर्शनमानकौ | इत्यनुभाष्योक्तेरिति वाच्यम् | सर्वत्र सहानवस्थानतया द्रष्टयोः भेदाभेदयोरेकत्रदर्शने किं निमित्तमिति प्रश्ने गुणगुण्यादिरूपवस्तुस्वभावभूतविशेषाख्यातिशय रूपनिमित्तस्यैवाश्रयणीयत्वात् | किञ्च भेदाभेदयोरपि धर्मिणात्यतो भिन्नयोर्भेदकार्य व्यवहारार्थं विशेषस्यावर्जनीयत्वात् | तत्रापि भेदाभेदांगीकारे अनवस्थापत्तेः | न च भेदाभेदयोस्स्वनिर्वाहकशक्तिमत्वान्नानवस्थेति वाच्यम् | अभिन्ने भेदकार्यकरत्वाख्यास्मदभ्युपगतविशेषस्यैव भेदाभेदयोस्स्वनिर्वाहकशक्तिरूपत्वेनास्मन्मतानुसरणस्यैव प्राप्तत्वात् | किञ्च वस्तुना तयोर्भेदे वस्तुनि भेदाभेदाविति व्यवहारोनुपपन्नः | वस्तुना तयोस्संबन्धाभावात् अत्यन्ताभेदवस्तुनि प्. १७९) भेदाभेदाविति आधाराधेयभावो द्विवचनञ्चानुपपन्नं स्यात् | वस्तु तन्मात्रत्वात् अतः निर्वाहार्थं विशेषस्यैवा श्रयणीयत्वात् | अन्यथापि सर्ववस्तुषु विद्यमानो विशेषः वस्त्वभिन्नैवाभिन्नो वा आद्येपि एको वा अनेको वा | नाद्यः सर्ववस्तूनामैक्यापत्तेः | यद्यद्भिन्नाभिन्नं तत्तदभिन्नमिति न्यायात् | नान्त्यः तत्रापि एकैकस्मिन्वस्तुनि एकैको विशेष इति वा एकैकस्मिन् वस्तुनि अनेको विशेष इति वा | नाद्यः पटो महान् शुक्लश्चलतीत्यादि विचित्रानेकव्यवहारानुत्पत्तिप्रसंगात् | अविचित्रस्वभावादेकस्मात् विचित्रानेक कार्योत्पत्तौ तस्याकस्मिकत्वप्रसंगेन विशेषांगीकार वैययर्थ्य प्रसंगात् नान्त्यः | एकैकस्मिन्द्रव्ये प्रत्येकं भेदकार्य व्यवहारसमानसंख्याकानेक विशेषांगीकारे भेदव्याप्तानेकत्वावच्छिन्न विशेषाणां परस्परभेद प्राप्त्या भिन्नानेक विशेषाभिन्नैकवस्तुनोपि भेदप्रसङ्गात् | नान्त्यः भवन्मते विशेष्यस्य वस्तुना भेदाभावात् | द्रव्यमेव ततोनन्त विशेषात्मतया सदा | नानाव्यवहृतेर्हेतुरित्यनुव्याख्यानोक्तेः | तस्माद्विशेषांगीकारेपि अनुपपत्ति परंपरा दुर्वारेति चेन्न | अनेक विशेषाणां एकवस्त्वभिन्नत्वेन तेषां परस्परमभेदेपि परस्परविशेषाख्यातिशयवत्वेनैवानेकत्वादि भेदकार्यव्यवहारोपपत्तेः | न च गुणगुण्यादि भेदकार्यव्यवहारार्थं अंगीकृतेषु विशेषेषु भेदकार्यव्यवहारार्थं कश्चिदतिशयाख्योन्यो विशेषांगीकार्यः | तत्रापि विशेषान्तरमिति अनवस्थेति वाच्यम् | प्. १८०) तेषामेव विशेषाणां विशेषान्तरमन्तरास्वगत भेदकार्यकरत्वेन स्वनिर्वाहकत्वांगीकारात् एतत्सर्वं विशेषस्य धर्मिग्राहकमानसिद्धमिति प्रागेवोक्तम् || ननु भगवदितरत्र गुणगुण्याद्य भेदविशेषयोः | प्रत्यक्षान्यथानुपपत्तिप्रमाणकत्वेपि भगवति गुणाद्यभेदे अस्मदादीनान्तु श्रौतान्यथानुपपत्तेरेव प्रमाणत्वात् ब्रह्मादीनान्तु तेषां प्रत्यक्षस्य प्रमाणत्वात् | श्रौतान्यथानुपपत्तिः कथमिति चेत् इत्थम् | सत्यं ज्ञानमनन्तं ब्रह्म | विज्ञानमानन्दं ब्रह्म आनन्दो ब्रह्मेति व्यजानात् | इत्येवं गुणगुणिपदानां सामानाधिकरण्यं श्रूयते | सामानाधिकरण्यञ्च भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्तिः | नीलो घटः | दण्डी पुरुषः | इत्यादौ तथा दर्शनात् | न च ब्रह्मज्ञानपयोः प्रवृत्तिनिमित्त भेदाभावात् कथं सामानाधिकरण्यमिति वाच्यम् | प्रवृत्तिनिमित्तगतभेदवत् तद्गतविशेषस्यापि प्रकृते सामानाधिकरण्यप्रयोजकत्वोपपत्तेः | एवं ब्रह्मतद्गुणानां श्रौतसामानाधिकरण्य प्रतीत्या अभेदसिद्धौ आनन्दं ब्रह्मणो विद्वान् इत्यादि श्रुतौ संबन्धव्यवहारस्य लोके भेदाविनाभूतत्वेन भेदप्रसक्तौ उक्तवक्ष्यमाणप्रमाणानुसारेण भगवति तद्गुणानां भेदायोगात् श्रौतसंबन्ध प्रतीत्यन्यथानुपपत्या विशेषस्यैवांगीकार्यत्वात् | अपरोक्षीकृत ब्रह्मणां ब्रह्मादीनां परम्परारूपाप्तवाक्यस्यापि तत्र प्रमाणत्वासंभवाच्च | गुणक्रियादयो विष्णोस्स्वरूपं नान्यदिष्यते | अतो मिथो विभेदो न तेषां कश्चित्कदाचन || प्. १८१) स्वरूपेपि विशेषोक्ति स्वरूपत्ववदेव तु | भेदाभावेपि तेनैव व्यवहारश्च वर्तते | इति परोपनिषदि अभिन्नत्वमभेदश्च यथा भेदविवर्जितः | व्यवहारं पृथक्कस्मादेवं सर्वं गुणा हरेः | अभेदाभिन्नयोर्भेदा यदि वा भेदभिन्नयोः | अनवस्थितिरेव स्यादविशेषणतामतिः | मूलसंबन्धमज्ञात्वा तस्मादेकमन्तथा || व्यवहार्य विशेषेण दुस्तर्कबलतो हरेः | विशेषोपि स्वरूपं स्वस्वनिर्वाहकतास्य च || इति ब्रह्मतर्के | एकमेवाद्वितीयम् | नेहनानास्ति किञ्चन | मृत्योस्समृत्युमाप्नोति | य इह नानेव पश्यति | यथोदकं वृष्टं पर्वतेषु विधावति | एवं धर्मान्पृथक् पश्यन् तानेवानुविधावति | इत्यादि श्रुतेश्च | देशस्सर्वत्र पुरुषः स्वतन्त्रः कालनित्यतः | इत्यादिषु स्वसंबन्धो यथैवंगुणरूपिणः | गुणत्वं गुणभोक्तृत्वं स्याद्विष्णोस्तच्च सस्वयम् | इति ब्रह्मतर्के | तस्मात् शब्दादिशक्त्यन्तानां सप्तानां यावद्द्रव्यभाविनां द्रव्येणात्यन्ताभेदः अयावद्द्रव्यभाविनां भेदाभेद इति प्रामाणिकी व्यवस्था भवद्भिरप्यंगीकार्या | अत एवोक्तं तत्वविवेके - गुणक्रिया जातिपूर्वा धर्मास्सर्वेपि वस्तुनः | रूपमेवं विधं तच्च यावद्वस्तु च खण्डितम् || प्. १८२) खण्डिते भेद ऐक्यञ्च यावद्वस्तुनि भेदवत् | खण्डितं रूपमेवात्र विकारोपि विकारिणः || कार्यकारणयोश्चैव तथैव गुणतद्वतोः | क्रिया क्रियावतोस्वद्वत्तथा जातिविशेषयोः || विशिष्टे शुद्धयोश्चैव तथैवांशांशिनोरपि | इति | तथा च गुणगुणिनोरभेदो मुख्यः | तत्र भेदकार्यकरो विशेषाख्यो मुख्य भेदोपि क्वचिद्भेदाभेदोपीति तत्रापि नावयोर्विरोध इति सर्वमनवद्यम् | || इति सप्तविधानां शब्दानामद्रव्याणामैक्यप्रकाशः || नन्वेवमपि - नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् | इति भवद्भाष्ये कार्यकारणयोर्भेदाभेदः प्रतिपादितः | अस्माभिस्तु कार्यकारणयोरत्यन्ता भेदः अतस्तत्र कथमैक्यमिति चेन्न | विकारिणो विकारेण भेदाभेदस्तु मुख्यतः | तयोरभेदो मुख्यश्चेत्यविरोधस्फुटो भवत् || उपादानोपादेययोर्भेदाभेदः भेदसहितः अभेदः मुख्यः | अस्मदंगीकृत इति शेषः | तु शब्दो विशेषार्थः | स चैकस्मिन्नेव काले न तु कालभेदेन विनष्टे भेदचिन्तानवकाशादिति | तयोर्द्वयोः भवदंगीकृतो भेदो मुख्यः इति साधन इति शेषः | इत्येवं द्वयोर्मतयोरविरोधः ऐक्यं स्फुटम् | भवेदित्यर्थः | इदमुक्तं भवति तन्तुपटादिरूपोपादानोपादेययोर्भेदाभेदस्य प्रमितत्वान्मुख्यत्वं प्. १८३) शुद्धाभेदस्य प्रमाणविरुद्धत्वादप्रमाणिकत्वाच्चामुख्यत्वं भेदाभेदे अत्यन्ताभेदशब्दस्यौपचारिकत्वसम्भवात् | एवञ्चावयोर्मतयोरीषदपि न विरोधगन्ध इति | नन्विदमयुक्तम् | अस्यास्मत्प्रमेयविस्मरणमूलत्वात्तथाहि कारणस्यैवावस्थान्तरयोगित्वं कार्यत्वं नतु कार्यद्रव्यं कारणाद्भिन्नं अवस्था चागन्तुको धर्मविशेषः यान्यावस्था कारणस्येत्युक्तत्वात् व्यवहारभेदस्य सर्वस्यापि धर्मभेदप्रयुक्तत्वात्कार्यकारणयोरभेद एव मुख्यः किञ्चानयोर्भेदाभेदे प्रमाणाभावात् | द्वयोरेकत्र विरुद्धत्वाच्चानवस्थादि दोषप्रसक्तेश्चेति चेन्न | उक्तप्रमेयस्यापाततो विरोधेपि अन्ततो विरोधाभावात् | तथाहि अवस्था शब्दार्थो आगन्तुको धर्मः | किमसाधारणः उत साधारणः | नाद्यः | मृत्पिण्डत्वकं सुग्रीवादिमत्वादिरूपधर्माणां कारणत्वकार्यत्वाभिमतमात्रवृत्तितत्तदसाधारणधर्मत्वेन तदवच्छिन्नानां मृत्पिण्डघटादीनां भेदावश्यं भावात् | नान्त्यः तेषां साधारणत्वाभावात् येन मृत्वादिवत् उभयत्राप्यनुस्यूतत्वेन उभयोरभेदस्सिध्येत् | अन्यथा भेदकार्यकारिणो विशेषस्याप्यभावेन कार्यं कारणमित्यादि भेदव्यवहारो न स्यात् | न च कार्यकारणयोर्भेदे घटपटौ भिन्नाविति प्रतीतिवत् तयोरपि तथाभेद प्रतीत्यापत्तिरिति वाच्यम् | भेदाभेदांगीकारेण पक्षद्वयोक्ति दोषा भावात् | प्रत्यक्षेण स्थूलं नीलं एकं घटं साक्षात्कारो इति प्रतीत्या कार्यस्य प्. १८४) कारणाद्भेदसिद्धिः | न चेयं प्रतीतिः | उपादानभूतसूक्ष्मविषयेति वाच्यम् | अनुद्भूतरूपाणामनेकेषामतीन्द्रियाणां भूतसूक्ष्माणां एतादृशप्रतीतिविषयत्वासंभवात् | नापि प्रकृतिविषयः तस्यापि निरूपत्वादतीन्द्रियाच्च | इति | कपालादीनां स्थूलत्वात् रूपवत्वात् योग्यत्वाच्च तेषामेव घटोपादानत्वात् न साक्षात्कारानुपपत्तिरिति वाच्यम् | कपालादीनामपि कार्यतया मूलकारणप्रकृतिरूपत्वाभ्युपगमेन उक्तदोषानिस्तारात् परिणामवादे कपालादीनां घटाद्युपादानत्वायोगाच्च एकत्वप्रतीतियोगाच्च | न च सूक्ष्माणामेव हिमादीनां संघातत्वावस्थायां ऐन्द्रियत्वं दृश्यत इति वाच्यम् | तत्र पूर्वोक्ताधिकरणन्यायेन संघातस्य द्रव्यान्तरत्वस्यैव वक्तव्यत्वात् | अन्यथा तत्राप्युक्तदोषप्रसंजनात् | किञ्च विपदनिलतेजोबन्नादि भूतसूक्ष्मेषु घटशरावादि भौतिकेषु च परस्परसंयोगादीनां छेदभेदादीनाञ्च तेषां नीरूप निरंशैकप्रकृति स्वरूपत्वे तदयोगेन द्रव्यान्तरत्वस्यैव युक्तत्वात् | एकस्या एव प्रकृतेः प्रकृतित्वावस्थायां नीरूपत्वादिकं तेजो बन्वादि भूतभौतिकाद्यवस्थायां रूपादिकमित्यंगीकारे जीवब्रह्मणोरपि विरुद्धधर्माधिकरणत्वेन भेदसाधनाभावप्रसङ्गात् | तत्रापि एकस्यैव ब्रह्मणः ब्रह्मत्वावस्थायां सर्वज्ञत्वादिकं जीवत्वावस्थायां अल्पज्ञत्वादिकमपि वक्तुं शक्यत्वात् | किञ्च प्. १८५) तमः प्रकाशाद्यात्मकं विरुद्धधर्माधिकरणम् | सर्वं जगदेकमेव स्यात् | जगतस्सर्वस्यापि एकप्रकृत्यात्मकत्वात् | यद्येनाभिन्नेनाभिन्नं तत्तदभिन्नमिति न्यायात् भवन्मते | मन्मते स्वरूपभूतज्ञानानन्दादिवत् | अपि च उपादानस्य उपादेयाभेदे सर्वस्यापि प्रपञ्चस्य ब्रह्मात्मकत्व प्रसंगः | तस्य सर्वस्यापि ब्रह्मोपादानकत्वात् | अद्वैतिनस्तु जीवब्रह्माभेदवादिनः | यूयन्तु जडाजडात्मकसकलजगदभेदवादिन इति श्रीमन्तो महान्तः || न च जडोपादानं प्रधानमेव | जगदभिन्नम् | चेतनोपादानं ब्रह्म तु नोपादेय जगदभिन्नमिति वाच्यम् | उपादेये जगदभेदाभावे अनुपादानता स्यात् | न चेष्टापत्तिः | तदन्यत्वाधिकरणविरोधापत्तेः | न च कार्यस्य कारणाद्भेदे उपादानगतगुरुत्वरूपरसाद्यतिरेकेण उपादेयगतगुरुत्वादिकं स्यात् | मृदेव घटः तानवितानात्मकाः | तन्तव एव घट इति सामानाधिकरण्य प्रतीतिश्च न स्यात् | किञ्च भूतले घट इति प्रतीति निर्वाहार्थं कपालाद्येकैकावयवसंयुक्त एव भूतले घटादेरपि अवस्थातो वक्तव्यतायां कठिनद्रव्याणां समानदेशताभ्युपगमविरोधेन कपालघटयोः समानदेशता न स्यात् | गवाश्वयोरिव भेदबुद्धिप्रसंगाच्चेति वाच्यम् | तन्तवः पट इत्यपर्यायशब्दभेदैः एकत्व द्वित्वादि संख्याभेदैः कारणभेदैश्च शब्दान्तराद्यधिकरणभेदैश्च प्. १८६) तत्तदर्थ क्रियाभेदैः चतुरश्रत्वाद्याकारभेदैः पूर्वोत्तरकाल भेदैः कारणभेदैश्च शब्दान्तराधिकरणन्यायैः उपादानोपादेययोर्भेदसिद्धौ पुनस्सामानाधिकरण्याद्यभेदज्ञापक प्रमाणैश्चाभेदसिद्धौ भेदाभेदस्यैवांगीकार्यत्वात् शब्दान्तरादिन्यायास्तु द्वितीये द्वितीयपादे एवमुपवर्णिताः | शब्दान्तराधिकरणे सोमेन यजेत हिरण्यपात्रे याय ददाति | दाक्षिणानि जुहोति इत्यादौ अनेकधात्वर्थविशिष्टैकाभावना विधीयत इति पूर्वपक्षे एकधात्वर्थावरुद्धायां भावनायां धात्वन्तरार्थेनावच्छेदायोगात् | भिन्न भिन्नभिन्नधात्वर्थविशिष्टा भिन्ना भिन्ना भावना विधीयत इति सिद्धान्तितम् | एवं संख्याधिकरणेपि तिस्र आहुतीर्जुहोति इत्यादौ आख्यातपदस्य तिस्र इति संख्यावाचकपदसामानाधिकरण्यात् तावत्संख्याकाः भिन्नभिन्ना यागाः विधीयन्त इति सिद्धान्तितम् | अत एव गुणाधिकरणे चातुर्मास्ये वैश्वदेवाख्ये प्रथमे पर्वणि तप्ते पयसि तद्ध्यान इति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमित्यत्र उत्पत्तिशिष्टगुणावरुद्धे वैश्वदेव यागे उत्पन्नशिष्टवाजिनगुणस्य निवेशासम्भवात् | वाजिदेवताकवाजिनद्रव्यकं यागान्तरं विधीयत इति सिद्धान्तितम् | एवं दीक्षणीयायाः अश्वारंभणीयायाश्च ज्योतिष्टोम दर्शपूर्णमास यागयोः पूर्वकालीनत्वादंगत्वेन च कारणत्वाच्च | तयोः पश्चात्कालीनत्वात् | कारणान्तरसाध्यत्वाच्च | प्. १८७) भेद इति निर्णीतम् || ननु भेदाभेदयोः कार्यकारणादि सम्बन्धिनोरेकत्र विरोधात् | कथं अवस्थानमुपपद्यते | तथाहि भावाभावयोर्विरोधाभावे क्वचिद्देश भेदोहि कारणम् | यथा मधुरायां सुघ्ने च देवदत्तभावाभावयोर्विरोधाभावः | क्वचित्काल भेदः मधुरायामेव देवदत्तभावाभावयोरविरोधः क्वचित्प्रतियोगिभेदः | तत एव गोघट प्रतियोगिकयोर्णवयगतसादृश्यविसादृश्ययोरविरोधः - प्रकृते च कार्यकारणयोर्यावद्द्रव्यभाविनोश्चान्ययोः कालदेश प्रतियोगिभावभेदा भावात् विरोधो दुष्परिहर इति चेन्न | भेदस्येव भेद प्रतिनिधेः भेदकार्यकारणोर्विशेषस्यापि विरोधिश्यामकत्वस्यावश्यमंगीकार्यत्वात् एकस्मिन्नेवकाले एकस्मिन्नेव कार्यकारणादि रूपप्रतियोगिनोरेकत्वेपि तद्गतविशेषबलादेव एकदेशकालप्रति योगिकभेदाभेदयोर्विरोधाभावस्य सर्वानुभव सिद्धत्वात् | न चैवं सति एकस्मिन्नेव भूतलविशेषे घटादि सद्भावाभावयोरविरोधस्स्यादिति विरोधमात्रोच्छेद प्रसंग इति वाच्यम् | दत्तोत्तरत्वात् कार्यकारणादिस्थले एकत्र एकदैव एकप्रतियोगिकयोर्भेदाभेदयोरविरोधस्य प्रमितत्वादेव तत्र विशेषस्य तन्निर्वाहकत्वांगीकारात् उदाहृतघटादिभावयोर्विरोधस्यैव प्रमितत्वेन तत्र विशेषस्य तन्निर्वाहकत्वायोगेन विरोधमात्रोच्छेदासम्भवात् लोके परस्पर परिहारेणैव सत्वदर्शनं तयोर्विरोधे क्वचिच्च प्. १८८) सहदर्शनं तयोरविरोधप्रमाणम् | तथा च कार्यकारणादिस्थले भेदाभेदयोस्सहैव दृष्टत्वेन तत्र सहानवस्थानलक्षणविरोधाभावात् | सहैव दृष्टं वस्तु द्वयं सहानवस्थानलक्षणविरोधास्पदमित्यस्य व्याहतत्वात् | विरोधाविरोधयोः दर्शनैकप्रमाणकत्वात् अणुत्वमंगत्वयोर्विरोधतया प्रमितयोरपि भगवति अणोरणीयान्महतो महीयान् इति श्रुत्या विरोधस्य स्वीकृतत्वात् | तथा चायं प्रयोगः एकदेशकाल प्रतियोगिकौ भेदाभेदौ न विरुद्धौ | तथा प्रमितत्वे सति विशेषवत्वात् व्यतिरेकेण घटतदभाववदिति | न च हेतुरसिद्धिरिति वाच्यम् आतानवितानात्मकाः तन्तव एव पट इत्यादिप्रमायाः संबन्धबुद्धितो विलक्षणत्वेनानुव्यवसायविषयत्वात् कार्यकारणयोरभेदविषयकत्वं कारणे सत्यपि कार्यस्यासत्वादित्यादिहेतुजन्यानुमितिरूपप्रमायाः तयोर्भेदविषयकत्वमिति एकदेशकालप्रतियोगिक भेदाभेदयोः प्रमितत्वसिद्धेः | विशेषस्यापि प्रत्यक्षार्थापत्ति सिद्धत्वादित्युक्तत्वात् | नचेदं प्रतीतिद्वयं बाध्यबाधक भावापन्नमिति वाच्यम् | अन्यतरस्याभावप्रसङ्गात् | तस्मादुभयविषयकप्रतीत्यनुवृत्या भेदाभेदसिद्धिः | अत एव पूर्वतन्त्रे षष्ठाध्याये तृतीयपादे क्रियाणामाश्रितत्वा द्रव्यान्तरे विभागस्स्यादित्यधिकरणे चिन्तितम् | दर्शपूर्णमासादिषु श्रितव्रीह्याद्यलाभे नीवारादि द्रव्यान्तरमुपादीयमानं तेषां कर्मान्तरत्वमापादयति | उत नेति संशये द्रव्यदेवतयोर्यागस्स्वरूपत्वात् | प्. १८९) द्रव्यभेदे तदात्मकस्य कर्मणो भेदावश्यंभावात् द्रव्यान्तरं तेषां कर्मान्तरत्वमेवापादयतीति प्राप्ते कर्मणो द्रव्यात्मकत्वेपि तयोरत्यन्ताभेदस्य बाधितत्वेन द्रव्याश्रितस्य कर्मण ईषद्भेदस्यापि सत्वेन तयोर्भेदाभेदांगीकारात् | तथा चैत्रमैत्रादिव्यक्ति भेदेपि ब्रह्मणत्वादिजातिः अनुगतप्रत्ययबलादेकैव स्वीक्रियते तथा द्रव्यभेदेपि अनुगतप्रत्ययबलाक्रियैक्यमेवांगीकार्यमिति सिद्धान्तितम् | न चावस्था विशेषावच्छिन्नयोरुपादानोपादेयपदवाच्ययोर्भेदे एकस्यैव संकुचितहस्तपादस्य प्रसारित हस्तपादस्य देवदत्तस्य भेदप्रसंग इति वाच्यम् | परिणामभेदे द्रव्यभेदावश्यं भावेन देवदत्तस्यैकस्य विशेष्यस्यैव पूर्वं संकुचितहस्तपादरूप विशेषणसंबन्धात् विशिष्टात्मना परिणामः पुनः तस्यैव प्रसारित हस्तपादविशेषेणान्तरसंबन्धात् विशिष्टान्तरात्मना परिणाम इति तत्रापि द्रव्यभेदस्यैवेष्टत्वात् | अन्यथा देहादिव्यतिरिक्तात्मासिद्धिप्रसङ्गात् | विशेष्यस्यात्मन एव देहादिविशिष्टरूपत्वात् | न च प्रत्यभिज्ञा विरोधः | तस्याः जात्यैकपरत्वात् | न चैवं प्रतिक्षणं क्षणादिविशेषणविशिष्ट द्रव्यान्तरोत्पत्तौ पदार्थानां क्षणिकत्वप्रसङ्ग इति वाच्यम् | स्वोत्पत्तिक्षणवृत्तिध्वंसप्रतियोगित्वलक्षणक्षणिकत्वस्य पराभिप्रेतत्वेन शब्दबुद्धिकर्मवृत्ति तृतीयक्षणवृत्तिध्वंस प्रतियोगित्वलक्षणक्षणिकत्वाभ्युपगमे प्. १९०) विरोधाभावात् भेदाभेदे अभेदमादाय स्थायित्वाभ्युपगमे विरोधाभावाच्च | नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् | इत्यनु व्याख्यानोक्तेः एतेनावयविनो असत्वात् कारकव्यापारो निर्विषयस्स्यादिति परास्तम् | भेदाभेदपक्षे कारकस्यापारस्याविद्यमानविषयत्वाभावात् | प्रत्युत भवन्मते कार्यस्य कारणमात्रस्वरूपत्वेन सिद्धत्वात् कारकव्यापारो व्यर्थ एव स्यात् न च अवस्था विषयतया सार्थक्यमिति वाच्यम् | तस्याः अविद्यमानत्वेन कारकव्यापारविषयत्वासंभवात् अन्यविषयव्यापारेणान्यनिष्पत्तावतिप्रसंगापत्तेश्च | किञ्च कार्यशब्दवाच्यत्वं कारणस्य मृत्पिण्डादेर्वा अवस्थारूप धर्मविशेषस्य वा | नाद्यः कारणे मृत्पिण्डतन्त्वादौ घटपटादिशब्दप्रयोगाभावात् | क्वचित्कारणे कार्यशब्दप्रयोगदर्शनेपि तस्य लाक्षणिकत्वेनाप्युपपत्तेः | न द्वितीयः भवन्मते अवस्थारूप धर्मस्य धर्मिभिन्नत्वेन कार्यस्य कारणाभेदवादानुपपत्तेः | तस्य कारणाभेदे कारणस्याप्यागन्तुक धर्मात्मकत्वेनागन्तुकत्वप्रसंगात् | नान्त्यः विशिष्टं विशेषेण विशेष्यतत्संबन्धस्वरूपमतिरिक्तं वा नाद्यः | तत्रापि प्रत्येकं तृतीयस्वरूपं वामिक्ष तृतीयस्वरूपं वा | नाद्यः पूर्वोक्त दोषतादवस्थ्यात् नान्त्यः मिलितस्यैव विशिष्टशब्दार्थत्वेन तस्यापि पुनर्विकल्पग्रस्तत्वात् नान्त्यः | कारणाभिन्नं कार्यमिति व्यवहारस्य औपचारिकत्व प्रसंगात् कार्यशब्दवाक्यस्य विशिष्टस्य प्. १९१) विशेष्य भूतकारणभेदांगीकारात् न ह्यभिन्ने माणवके अग्निर्माणवक इति व्यवहारो अमुख्य इति शक्यते वक्तुम् | न च त्वन्मते अभेदस्याप्यंगीकारात् कथमभेदस्यौपचारिकत्वमिति वाच्यम् || मन्मते अत्यन्ताभेदव्यवहारस्यौपचारिकत्वे तात्पर्यात् | न च मयापि कार्यकारणयोर्गत्यन्तराभावात् भेदाभेद एव मुख्यः | अभेदस्तु छत्रिन्यायेनामुख्य इति न विरोध इति वाच्यम् | प्रागेव तदाशयोद्घाटने प्रयासाभावात् | अनन्यत्वाधिकरणमपि चन्द्रिकायामेतदविरुद्धतया व्याख्यातमित्यलं विस्तरेण | तस्मात्कार्यकारणयोर्भेदाभेद इत्येतदावयोरविप्रतिपन्नमिति सिद्धम् | इति कार्यकारणयोर्भेदाभेदैक्यप्रकाशः || नन्वेवमपि ब्रह्मा भिन्ननिमित्तोपादनमिति मन्मतम् | केवलं कर्तृति भवन्मतमिति विरोध इति चेदुच्यते - ब्रह्मोपादानता मुख्या कर्तृत्वं मुख्यमीरितम् | इत्यावयोरैक्यमेव प्रकटीकर्तुमीमहे || विकारवत्कारणत्वमुपादानत्वं निर्विकारे ब्रह्मणि न तन्मुख्यम् | सर्वज्ञस्य सोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्वरूपं कर्तृत्वमेव मुख्यम् | मानाविरोधित्वान्मानावेद्यत्वाच्च | अमुख्योपादानता श्रुतावीरितेत्यन्वयः | इति शब्दो हेत्वर्थः | एव कारस्य इति शब्दार्थत्वे अन्वयः | मुख्यामुख्यत्वहेतोरेवावयो रुपादानत्वविषये अविरोध इति लक्षणैक्यं | प्रकटीकतुमीमह इत्यर्थः | अयं भावः | जगदुपादान प्रधानमेव मुख्यम् | तस्यैव प्. १९२) साक्षात् विकारवत्कारणत्वात् | न च ब्रह्म तस्य निर्विकारत्वेन साक्षाद्विकाराभावात् | न च विकाराश्रय प्रधानवत्वेन परम्परया विकारवत्वं संभवतीति वाच्यम् | साक्षाद्विकाराश्रये प्रधाने उपादानशब्दस्य मुख्यत्वेन परम्परया तदाश्रये तस्य मुख्यत्वायोगादिति | ननु ब्रह्मणो जगदुपादानत्वं मुख्यमेव श्रौतप्रयोगात् | तथाहि - यतो वा इमानि भूतानि जायन्ते | आत्मन आकाशस्सम्भूतः | आनन्दाध्येवखल्विमानि भूतानि जायन्ते | तथाक्षरात्संभवतीह विश्वम् | एतस्माज्जयते प्राणः | तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते | नारायणादेव समुत्पद्यन्ते | इत्यादि श्रुतिषु पञ्चमी श्रवणात् | तस्याश्च जनिकर्तुः प्रकृतिरिति सूत्रेणोपादाने विहितत्वात् | यद्भूत योनिं परिपश्यन्ति धीराः | कर्तारमीशं पुरुषं ब्रह्मयोनिम् | इति ब्रह्मणि उपादानवाचकयोनिशब्दप्रयोगाच्चेति चेन्न | अन्नात्प्राणा भवन्ति | भूतानां प्राणात्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिरिति श्रुतौ | पुत्रात् प्रमोदो जायते | इति लोके चानुपादानेपि पञ्चमीप्रयोगदर्शनेन तस्याः मुख्योपादानत्वसाधकत्वायोगात् ब्रह्मोद्देशेन उपादानत्वविध्यभावे ब्रह्मणस्साक्षाद्विकाराभावे च पञ्चमी श्रुत्यादिज्ञापकानामनुपादानतयैव नेयत्वाच्च | जनिकर्तुः प्रकृतिरिति सूत्रस्यापि जनिकर्तुः या प्रकृतिः उपादानसंसृष्टा अपाये अवधिभूतं द्रव्यं तत्कारकनपादानसंज्ञं भवतीति सुधोक्तरीत्या अर्थवर्णने प्. १९३) बाधकाभावाच्च | तस्य धीराः परिजानन्ति योनिम् | पिता पुत्रेण पितृमान् | योनि यूनं मम योनिर्महद्ब्रह्म | शस्त्र योनित्वात् | इत्यादि श्रुतिस्मृतिसूत्रेषु सर्वस्य कलहस्य स्त्रीयोनिरिति लौकिक प्रयोगे च योनि शब्दस्य ब्रह्मोपादानत्वसाधकत्वायोगाच्च | ननु तथापि सदेव सौम्येदमग्र आसीत् | आत्मा वा इदमेक एवाग्र आसीत् | बहुस्यां प्रजायेयेति | सच्च त्यच्चा भवत् | येना श्रुतं श्रुतं भवति | यथा सौम्ये केन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् | वाचारंभणं विकारो नामधेयं वृत्तिकेत्येव सत्यम् | इत्यादि सामानाधिकरण्य बहुभवनैक विज्ञान सर्वविज्ञानमृत्पिण्डादि दृष्टान्ताभिधानान्यथानुपपत्या ब्रह्मोपादानत्वं मुख्यमेवेति चेन्न | उदाहृतयुक्तीनामन्यथासिद्धत्वात् | तथाहि सामानाधिकरण्यश्रुतिस्तावत् त्वन्मते स्थूलोहं तत्वमसीत्यादिवत् शरीर शरीरिभाव निबन्धनत्वेन मन्मते अमुख्याभेदविषयत्वेन इदमग्रे | इत्येकं पदम् | अत्याग्र इत्यर्थपरत्वेन इदमिति विभक्ति प्रतिरूपकमव्यक्तं अस्येत्यर्थंपरत्वे उपपत्या तस्या अमुख्योपादानत्वसाधनत्वायोगात् | बहुस्यामिति बहुभावसङ्कल्पस्यापि एकस्सन् बहुधा विचार इति श्रुतिबलेन सृज्यमानतत्तत्पदार्थनियामकानेकरूप शेषविशेषाभिव्यक्ति विषयत्वोपपत्तेः | न च नियामकरूप बहुत्वं संकल्प्य तेजः प्रभृतिसर्जनं विरुद्धमिति वाच्यम् | गुरुस्यामिति सङ्कल्प्य शिष्यसंपादनवदविरुद्धत्वोपपत्तेः | प्. १९४) एकविज्ञानेन सर्वविज्ञानान्यथानुपपत्तेरपि प्रधानज्ञानेनाप्रधानं ज्ञातफलं भवतीत्यर्थपरत्वेन वा ब्रह्मज्ञानस्य सर्वविषयकज्ञानहेतुत्वप्रतिपादनपरत्वेन वा उपपत्तेः | धूमादिज्ञानेन वह्न्यादिज्ञानेपि धूमाग्न्योरुपादानोपादेयत्वाभावात् | ब्रह्मजगतोरपि तदभावोपपत्तेः | एवं मृत्पिण्डलोहमणिकार्ष्ण्याय सदृष्टान्तत्रयस्यापि कारणत्वप्राधान्यसादृश्य विवक्षयैवोपपत्या उपादानोपादेयविवक्षया दृष्टान्तत्रयस्याप्रवर्तकत्वात् | अन्यथा मृत्पिण्डादिवत् साक्षाद्विकाराश्रयतया ब्रह्मोपादानं स्यात् | न चेष्टापत्तिः | ब्रह्मणस्सद्वारकस्यैवोपादानत्वेनापसिद्धान्तात् | एकपिण्डमणिशब्दानां वैयर्थ्य प्रसंगाच्च | तस्मान्न सामान्याधिकरण्यादिभिः ब्रह्मोपादानत्वं मुख्यम् | न च ब्रह्मणः निर्विकारत्वोपादानत्वयोः प्रमितत्वेन स्वरूपतो निर्विकारत्वेपि चिदचिद्रूपशरीरद्वारा विकाराश्रयत्वेन उपादानत्वमपि मुख्यमिति वाच्यम् | सकलतान्त्रिकैरपि साक्षाद्विकाराश्रयस्यैव मुख्यत्वांगीकारात् | अपि च न जीवानामपि परम्परया शरीरेन्द्रियादि विकाराश्रयत्वेनोपादानं स्यात् अपि च देशकालयोरपि सर्वविकाराश्रयत्वेन सर्वोपादानत्वं स्यात् | भूतलादेरपि मृत्पिण्डादिविकाराश्रयत्वेनघटाद्युपादानत्वप्रसंगाच्च सर्वाधारताप्रयोजक संबन्धातिरिक्तं संबन्धेन विकाराश्रयत्वविवक्षायां ब्रह्मणोपि जगदाधारता प्रयोजकसंबन्धेनैव सर्वविकाराश्रयत्वेनानुपादानत्वं स्यात् प्. १९५) प्रकृत्याद्याश्रयविकारद्वारेणैव ब्रह्मणोपि विकारत्वे ब्रह्मोपादेयं सर्वं ब्रह्मात्मकं सर्वात्मकञ्च स्यात् | भवन्मते उपादानोपादेययोरभेदात् | किञ्च अन्तर्यामि ब्राह्मणे यः पृथिव्यां तिष्ठन्नित्यादिना पृथिव्यादि स्थितत्वमभिधाय | यस्य पृथिवी शरीरन् | यस्यापश्शरीरम् | यस्य वेदाश्शरीरम् | यस्यात्मा शरीरम् | यस्याव्यक्तं शरीरम् | इत्यादि श्रुतिभिः सरित्समुद्राश्च हरेश्शरीरम् | जगत्सर्वं शरीरं ते इत्यादि स्मृतिभिः विष्णोस्सर्वं शरीरत्वं प्रतिपादितम् | भगवतश्शरीरत्वं नाम नियामकत्वम् | प्रकृत्यादि जगतश्शरीरत्वञ्च नियाम्यत्वं न तु करचरणाद्यवयवोपेतमुख्यशरीरत्वं भगवतस्सर्वपदार्थनियमनमपि स्वस्वव्यापारस्वरूप सिध्यर्थञ्चावश्यकमेव | अन्यथा भगवतश्शरीरनिषेधक श्रुतीनां प्राकृतशरीरविषयत्वाभाव प्रसंगात् | अपि च जीवाव्यक्तकालादीनां ब्रह्मशब्दार्थभूतज्ञानानन्दाद्वितीयकूटस्थात्मक ब्रह्मरूपत्वं स्यात् | ब्रह्मणो भगवच्छरीरस्य मुख्यत्वे शरीर विशिष्टस्यैव ब्रह्मत्वेन जीवाव्यक्तकालादीनां ब्रह्मशब्दार्थान्तर्भावेन च ब्रह्मणोपि जीवादि जगदात्मकत्वं स्यात् | संज्ञाधिकरणन्यायेन शब्दभेदस्यार्थभेदज्ञापकत्वात् | पूर्वतन्त्रे तदधिकरणमित्थमुपवर्णितम् | भेदलक्षणे द्वितीयपादे संज्ञाचोत्पत्तिसंयोगादित्यत्र ज्योतिष्टोमे श्रूयते | अथैषज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेति | तत्र किं प्रकृतं ज्योतिष्टोमं प्. १९६) ज्योतिरादिशब्दैरनूद्य तत्रैव सहस्रदक्षिणाख्यो गुणो विधीयते | उत एवं नामकान्येव दक्षिणकान्यपूर्व कर्माणि विधीयन्त इति संक्षेप एष इत्येतच्छब्देन प्रकृतं ज्योतिष्टोमं ज्योतिरादिशब्दैरनूद्य तस्मिन् सहस्रदक्षिणाख्यो गुणो विधीयते | अन्यथा प्रकृतहाना प्रकृतकल्पना दोषापातादिति पूर्वपक्षे प्रकृतज्योतिष्टोमस्याथपदेन विच्छेदात् | प्रकृते कर्मणि गुणविधिपरत्वे एतेनेत्यादि वाक्येनैव पूर्तौ अथैष इत्यादेर्वैययापत्तेश्च संज्ञाभेदेन प्रतीतार्थस्य बाधकं विना त्यागायोगात् एतच्छब्दस्य वक्ष्यमाणोपि प्रयोगसंभवाच्च | एवं नामकानि कर्मान्तराणि विधीयन्त इति सिद्धान्त इति | न द्वितीयः ब्रह्मशब्दार्थस्य सततैकता न स्वरूपस्य विकारमात्रशून्यत्वेन ब्रह्मोपादानतावादस्यौपचारिकत्व पारिभाषिकत्वप्रसङ्गात् | तस्यानुपादानत्व एव पर्यवसानेन अस्मदविरोधित्वादास्तां विस्तरः | किञ्च ब्रह्मजगदुपादानं न भवति जगत्कर्तृत्वात् यः यत्कर्ता स न तदुपादानं यथा कुलालादिरिति व्याप्तेस्सर्वसम्मतत्वात् नहि सर्वस्य कर्ता इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टि विनिर्गता इति केवलकर्तृत्वप्रतिपादकप्रमाणसद्भावेन उपादानत्वप्रतिपादक प्रमाणसद्भावेन उपादानत्व प्रतिपादक निरवकाशप्रमाणाभावेन च प्रयोजकत्वासंभवात् | उदाहृत प्रमाणानां यथासंभवं सावकाशस्याभिहितत्वात् न च पूर्वाचार्योपदेश परम्परागत ब्रह्मोपादानत्ववादः त्यक्तुमयोग्य प्. १९७) अमुख्य एव स्वीक्रियत इति वाच्यम् | अमुख्योपादानत्वस्यानुपादानत्वेन अस्मदविरोधित्वादित्यसत्कृदावेदित्वात् इत्यलं प्रपञ्चेन | तस्माद्ब्रह्मोपादानत्वममुख्यं अस्मन्मताविरोधीति सिद्धम् | || इति ब्रह्मोपानतैक्यप्रकाशः || ननु तथापि विशिष्टाद्वैतमिति प्रमेयमस्माभिरङ्गीक्रियते तथाहि सदेवसौम्येदमग्र आसीत् | आत्मा वा इदमेक एवाग्र आसीत् तत्वमसि अहं ब्रह्मास्मीत्यादि सामानाधिकरण्यवचनानि श्रूयन्ते | तत्र इदं सदात्मादिशब्दार्थयोर्जगद्ब्रह्मणोरभेदायोगात् | अन्यत्र पदलक्षणया भेदप्रतिपादने वेदस्यामुख्यार्थत्वप्रसंगेन मुख्यार्थतालाभायौचित्यात् विशिष्टार्थपरतया वाक्यानि नीयन्ते | तत्र तच्छब्देन सूक्ष्मचिदचिद्विशिष्टं ब्रह्मोच्यते | इदं शब्देन स्थूलचिदचिद्विशिष्टं ब्रह्मोच्यते | एवमिदमात्मादिशब्दयोरपि चिदचिच्छब्देन जीवजडे गृह्येते जीवस्य सूक्ष्मत्वं स्वरूपतोणुत्वेन धर्मभूतज्ञानस्य प्रलये संकोचाद्वा जडस्य सूक्ष्मत्वं कारणावस्थापन्नत्वम् | एवञ्च प्रलयकालवृत्तीनि जीवजडे सूक्ष्मचिदचिच्छब्दार्थौ | एवं जीवस्य स्थूलत्वं धर्मभूतज्ञानस्य विकासः जडस्य स्थूलत्वञ्च कार्यावस्थापन्नत्वं तथा च सृष्टिकालवर्तीनि जीवजडे स्थूलचिदचिच्छब्दार्थौ | एतदुभयविशिष्टत्वञ्चोभय शरीरकत्वमेव | यस्यात्मा शरीरं जगत्सर्वं शरीरन्ते सरित्समुद्राश्च हरेश्शरीरं प्. १९८) यत्किञ्चभूतं प्रणमेतदन्यमित्यादि श्रुतिस्मृतिसिद्धत्वात् जीवजडात्मकस्य जगतः भगवच्छरीरत्वञ्च भगवन्नियाम्यत्वमेव | न तु करचरणाद्यवयवोपेत मुख्यशरीरत्वं तस्याप्राकृतत्वात् | भगवतस्तच्छरीरत्वञ्च तन्नियामकत्वमेव | शरीरवाचकपदं शरीरिपर्यवसायीति च | एवञ्च सूक्ष्मचिदचिद्विशिष्टस्य स्थूलचिदचिद्विशिष्टस्य ब्रह्मणः एकत्वाद्विशिष्टाद्वैत परं वाक्यमित्युच्यते | एवं तत्वमसीत्यादि वाक्यमपि व्याख्येयम् | तत्र तत्पदेन सूक्ष्मचिदचिद्विशिष्टं ब्रह्मोच्यते | त्वं पदेन स्थूलचिदचिद्विशिष्टं ब्रह्मोच्यते | अत्र स्थूलचिदचिच्छब्देन त्वं पदार्थभूतशरीरविशिष्ट जीवचैतन्यमुच्यते | साक्षात्परम्परया वा शरीरजीव चैतन्ययोर्द्वयोरपि नियामकत्वात् ब्रह्मणः त्वं पदेन तद्विशिष्टं ब्रह्मोच्यते | द्वयोः पदार्थयोरभेदात् विशिष्टाद्वैतमुच्यते एवं भेदवाक्यानां जीवब्रह्मभेदपरत्वं अभेदवाक्यानां विशिष्टाभेदपरत्वमिति न काप्यनुपपत्तिरिति | भवन्मते तु उक्तरीत्या अन्यतरपदलक्षणया वा विभक्तिलक्षणया वा उदाहृतं सर्वं वाक्यं भेदपरमेव | न तु विशिष्टाभेदपरमिति | एवं द्वयोर्मतयोर्विरोधात् कथमैक्यमिति चेत् अत्र ब्रूमः | विशिष्टाद्वैत परता वाक्यानां न तु मुख्यतः | विशिष्टैक्यममुख्यन्तु नास्माकं प्रतिरुध्यते | प्. १९९) इत्येवं युक्तिभिः सम्यङ्न्यायैश्च परस्सम्मतैः | श्रुत्यादिभिः प्रमाणैश्च निर्णयोयं प्रसाध्यते | अनुमानपूर्वमीमांसा न्याय श्रुतिस्मृत्यादिप्रमाणैश्च सदेवसौम्येत्यादि वाक्यानां विशिष्टाद्वैतप्रतिपादकत्वं लक्षणादिवृत्या | न तु शक्त्येर्थः | अमुख्य विशिष्टाद्वैतं उभयान्तर्यामि विशेष्यभूत चैतन्यैक्ये पर्यवस्यतीति सर्वान्तर्यामि भेदवादिनामस्माकं न विरोधीत्येवं निर्णयस्सम्यक्बोधो यथा स्यात्तथा साध्यत इत्यर्थः | तथाहि सूक्ष्मचिदचिद्विशिष्टं स्थूलचिदचिद्विशिष्टं अभिन्नमिति कोर्थः | विशेष्यद्वयमभिन्नमिति वा विशेषणद्वयमभिन्नमिति वा विशिष्टद्वयमभिन्नमिति वा नाद्यः शुद्धाद्वैते विशिष्टाद्वैतव्यवहारस्य लाक्षणिकत्वेनास्मदिष्टसिद्धेः स्वायत्ते शब्दप्रयोगे अमुख्य व्यवहारे कारणाभावाच्च | न द्वितीयः | स्थूलसूक्ष्मा चितोः कार्यकारणयोर्भेदाभेदस्यैव पूर्वं साधितत्वेन केवलाभेदलाक्षणिकत्वेनेष्टापत्तेः | स्थूलसूक्ष्मचितोरपि स्थूलशरीरविशिष्टतद्रहितविशेष्यभूत चैतन्यमात्रयोरपि उपादानोपादेय वापन्नयोर्भेदाभेदस्यैव संप्रतिपन्नत्वेन विशेषणभूतयोस्तयोरभेदस्यौपचारिकत्वावश्यं भावात् | नापि तृतीयः | तत्रापि विशिष्टं विशेषणविशेष्य तस्संबन्धेभ्यो भिन्नमभिन्नं भिन्नाभिन्नं वा नाद्यः | तत्रापि नित्यमनित्यं वा | नाद्यः | नित्ययोर्भिन्नयोरभेदानुपपत्तेः | अन्यथा जीवब्रह्मणोरप्यभेद प्रसङ्गात् | प्. २००) किञ्च विशिष्टद्वयस्य विशेष्याद्ब्रह्मचैतन्याद्भिन्नस्य स्वतन्त्र चेतनत्वे ब्रह्मत्रैविध्यापत्तेः | अस्वतन्त्र चेतनत्वे च पूर्वोक्तदोषानिस्तारात् तत् ज्ञानस्यापुरुषार्थत्वापत्तेश्च अपसिद्धान्ताच्च किञ्च सृष्टिप्रलये सूक्ष्मचिदचिद्विशिष्ट स्थूलचिदचिद्विशिष्टयोरभावेन नित्यत्वानुपपत्तेश्च | नान्त्यः | तस्यानित्यत्वेन जगत्कारणत्वानुपपत्तेः | न च विशेष्यमेव ब्रह्मजगत्कारणमिति वाच्यम् | भवन्मते सूक्ष्मचिदचिच्छरीरकस्यैव ब्रह्मणः जगत्कारणत्वेनापसिद्धान्तात् | शरीरादिशून्यस्य विशेष्यस्य ब्रह्मणो ज्ञानाद्यनुपपत्या कर्तृत्वानुपपत्तेश्च | न च तस्य दिव्यमंगलविग्रहोपेतत्वाज्ञानादिकमुपपन्नमिति वाच्यम् | तस्य स्वतो विकाराभावेन सूक्ष्मचिदचिदात्मक जगच्छरीरविशिष्टस्यैव ब्रह्मणः अभिन्न निमित्तोपादानत्वाङ्गीकारात् | किञ्च घटपटौ भिन्नावित्यादिवत् विशिष्टस्यापि विशेष्यादिभ्यो भेदग्राहकप्रमाणाभावात् | प्रत्युत विशिष्टं विशेष्यात्मकमिति प्रत्यक्षादि प्रमाणं गृह्णाति | किञ्च उपादेयं उपादानातिरिक्तं नास्तीति वदता विशिष्टस्यानित्यस्य विशेष्योपादानकस्य तदभेदस्यैव वक्तव्यत्वात् | तस्मान्नविशिष्टं विशेषादिभ्योभिन्नमिति | नाप्यभिन्नमिति द्वितीयः | केवलाभेदग्राहक प्रमाणाभावात् केवलपुरुषो दण्डविशिष्टपुरुषो न भवतीति प्रत्यक्षादि प्रतीतेस्सर्वानुभव सिद्धत्वात् | प्. २०१) अन्यथा दण्डिनमानयेत्युक्ते केवलपुरुषानयनं शुद्धपुरुषमानयेत्युक्ते दण्डयानयनञ्च स्यात् | द्वयोर्निर्विशेषणभेदे विशिष्टविशेष्यपदयोः पर्यायत्वञ्च स्यात् | अपि च स्थूलसूक्ष्मयोश्चिदचिद्रूपविशेषणयोरप्यभेदप्रसंगात् | सूक्ष्मचिदचिद्रूपविशेषणाभिन्नब्रह्माभिन्नत्वास्थूलचिदचिद्रूप##- ब्रह्मस्वरूप ज्ञानाभिन्न ब्रह्माभिन्नानन्दस्य ज्ञानाभेद इति भवन्मते मन्मते अद्वैतमते च | किञ्च विशिष्टं किं मिलितत्रयस्वरूपं उतैकैकस्वरूपं नाद्यः | तस्य विशिष्टातिरिक्तत्वेन तत्पक्षोक्तदोषापातात् | न च विशेष्यमेव ब्रह्मविशेषण संबन्धात् विशिष्टात्मना परिणमत इति वाच्यम् | ब्रह्मणस्साक्षादेव विकारप्रसंगात् न च विशेष्यस्वरूपमेव विशिष्टं विशेषणसंबन्धादभिव्यज्यत इति वाच्यम् | विशेषण संबन्धस्यानित्यत्वे तस्य जन्यत्व एव पर्यवसानात् | नित्यत्वे तु विशिष्टस्य सर्वदातत्वेन व्यंग्यत्वानुपपत्तेः | किञ्च प्रलये स्थूलचिदचित्सबन्धस्य सृष्टौ सूक्ष्मचिदचित्संबन्धस्य वा भावेन नित्यत्वानुपपत्तेः | न च प्रलये विद्यमानं सूक्ष्मचिदचिद्रूपं जगदेव सृष्टौ स्थूलचिदचिद्रूपं भवति | विशेषणयोरभेदाद्विशिष्टाभेदो नानुपपन्न इति वाच्यम् | विशेषणविशेष्ययोस्सूक्ष्मत्वस्थूलत्वयोरत्यन्तविरुद्धत्वेन भेदायोगात् तदभेदप्रयुक्त तद्विशिष्ट चिदचिद्रूपविशेषणयोरपि प्. २०२) भेदात्तद्भेदप्रयुक्त तद्विशिष्ट भेदपरिहारात् | सूक्ष्मत्वस्थूलत्वरूपविशेषणविशेष्ययोर्भेदानंगीकारे अणुत्वमहत्वसर्वज्ञत्वाल्पज्ञत्वस्वातन्त्र्यपारतन्त्र्यादि धर्माणां भेदाभावेन जीवेश्वरादि भेदसाधनाभावप्रसङ्गात् | विरुद्धधर्मयोर्भेदाभावे तदधिकरणयोस्तदभेदसिध्यधीनभेदयोरपि भेदाभावस्य कैमुतिकन्यायसिद्धत्वात् | एवं सर्वपदार्थानामप्यभेदप्रसङ्गात् | सृष्टिप्रलययोरविशेषप्रसङ्गाच्च | उपादानोपादेययोरत्यन्ताभेदस्य प्रागेव निरस्तत्वाच्च | तस्मद्विशिष्टं विशेष्यादिभ्यो अभिन्नमिति द्वितीयपक्षोनुपपन्नः | नापि भिन्नाभिन्नमिति तृतीयः | अपसिद्धान्तात्पक्षद्वयोक्त दोषतादवस्थ्याच्च | ननु तथापि | विशिष्टं द्विविधम् | नित्यमनित्यञ्चेति | यत्र विशेषणतस्संबन्धौ नित्यौ तत्र विशिष्टंनित्यमेव विशेष्याभिन्नमपि यथा ईश्वरस्सर्वज्ञ इत्यादौ तत्र सर्वज्ञत्वारूपविशेषणस्य तत्संबन्धस्य च नित्यत्वेन तद्विशिष्टमपि नित्यमेव विशेष्यभूत ब्रह्माभिन्नञ्च एवं सूक्ष्मचिदचिद्विशिष्टं इत्यत्रापि तत्र चिच्छब्दितजीवरूप विशेषणस्य नित्यत्वादन्तर्यामिणो ब्रह्मणोपि विशेष्यस्य नित्यत्वात्तयोर्नियाम्यनियामकभावरूपसंबन्धस्यापि नित्यत्वात् | तद्विशिष्टं विशेष्य ब्रह्मणात्यन्ताभिन्नमेव अचिच्छब्दित जडरूपविशेषणेषु यन्नित्यं प्रकृत्यादिकं तत्रापि प्. २०३) प्रकृत्यादिरूपविशेषणस्य तदन्तर्यामिणो भगवतो विशेष्यस्य नियाम्यनियामकभावरूपतस्संबन्धस्य च नित्यत्वात्तद्विशिष्टमपि नित्यम् | विशेष्यस्य ब्रह्माभिन्नमपि तत्र यदनित्यं प्राकृतं पृथिव्यादिकं तत्र पृथिव्यादिरूपविशेषण तत्संबन्धयोरनित्यत्वेपि विशेष्यस्य ब्रह्मणो नित्यत्वात् | तत्स्वरूपमेव विशिष्टमनित्यपृथिव्यादिरूपविशेषणसंबन्धादभिव्यज्यत इत्यङ्गीकार्यम् | अन्यथा विशेष्यस्य ब्रह्मणः पृथिव्यादिरूपागन्तुकविशेषणसंबन्धाद्विशिष्टात्मना परिणाम प्रसङ्गेन ब्रह्मणोनिर्विकारत्वहानिप्रसङ्गात् | प्रकृत्यादि कार्यजातं सर्वमपि परम्परया सोपादानप्रकृत्याद्यभिन्नमिति नित्यमेवेत्यभिहिते अनित्यश्रुतीनां सर्वत्रौपचारिकत्वप्रसङ्गात् | अवस्थाविशेषरूप धर्मपरा अनित्य श्रुत्यादय इत्यभिहिते च धर्माणामप्यवयवसंयोगविशेषरूपाणां सोपानद्रव्याभिन्नत्वेन तेषामपि नित्यत्वेन अनित्यत्व श्रुतीनामौचारिकत्वस्य दुर्वारत्वात् धर्माणामेव संयोगादिरूपाणां कार्याणां सोपादानद्रव्याद्भेदः | पृथिव्यादिरूपकार्याणां सोपादानप्रकृत्याद्यभेद इति अर्धजातीयाद्यापत्तेरिति भवदुक्तमर्यादयैव विशिष्टाद्वैतं वदामः | यद्वा पृथिव्यादिकार्यशब्देन लक्षणया सोपादान प्रकृत्यादिग्रहणेन काप्यनुपपत्तिः | सृष्टिप्रलयवृत्तिनोश्चितोर्भेदव्यवहारार्थं अस्माकीनं प्. २०४) पारिभाषिकं स्थूलत्वसूक्ष्मत्वरूपविशेषणद्वमंगीकृतम् | न तु श्रौतं विशिष्टाद्वैतमस्ति एतदभिप्रायेण सदेव सौम्येदमग्र आसीदिति वाक्यं विशिष्टाद्वैतपरमित्यस्माकीनौपचारिकप्रक्रिया | एवं तत्वमसीत्यत्रापि तत्पदेन पूर्वप्रकृतजगन्नियामकत्वादिगुणविशिष्टं ब्रह्मोच्यते | त्वं पदेन जीवान्तर्यामिरूपं ब्रह्मोच्यते अन्तर्यामिणमीशेशमपेक्ष्याहंत्वमित्यपि | इति स्मृतेः | जीवान्तर्यामित्वेन जीवनियामकत्वमेव जीवविशिष्टत्वं तदपि विशिष्टं विशेष्यब्रह्मस्वरूपमेव | एतदभिप्रायेण तत्वमसीति वाक्यं विशिष्टाद्वैतपरमित्यस्माकीनो व्यवहारः | यत्र तु विशेषणतत्संबन्धावनित्यौ तत्र विशेष्यमेव विशेषणसंबन्धात् विशिष्टात्मना परिणमत इति तत्र विशिष्टमनित्यं विशेष्याद्भिन्नाभिन्नञ्च | अत्यन्ताभेदे प्रागपि विशिष्टप्रतीत्यापत्या भेदोत्यङ्गी क्रियते | यथा दण्डीत्यादौ दण्डादिविशेषणसंबन्धाद्विशेष्यभूतं देवदत्तस्वरूपमेव विशिष्टात्मना परिणमत इति तदनित्यमेव | विशेष्याद्भिन्नाभिन्नञ्च तस्मादेवं विशिष्टाद्वैतेन केषामपि विरोधगन्ध इति चेन्न | एत्सर्व प्रमेयस्यास्मन्मतप्रमेयत्वेन प्रागूहितस्येदानीमाविष्कारेणोक्तत्वेनास्मन्मतैक्ये विवादाभावात् | ब्रह्मणश्चिदचिदन्तर्यामित्वस्य सृष्टिप्रलयवृत्तिनोश्चिदचितोः पारिभाषिकापरपर्यायमुख्यस्थूलत्व सूक्ष्मत्वयोः सृष्टिप्रलयवृत्तिभगवत्स्वरूपाभेदस्य प्. २०५) तत्पदवाच्यमूलरूपस्य त्वं पदवाच्यतदन्तर्यामि रूपा भेदस्य च सर्वस्याप्यस्माभिरंगीकारात् | एतत्सर्वसम्मतं उक्तचिदचिदन्तर्यामि रूपाभेदादिरूपं प्रमेयं सर्वशास्त्रसम्मतं भवद्भिरपि लाक्षणिकपदेन व्यवह्रियत इति विशिष्टाद्वैतपदममुख्यमेव | तत्र न तावत् सदेव सौम्येत्यत्र सत्पदशक्यतावच्छेदकं सूक्ष्मचिदचिद्विशिष्टत्वं सूक्ष्मचिदचिद्विशिष्टे ब्रह्मणि सत्पदस्य प्रयोगप्राचुर्याभावेन शक्यसंभवेन तद्विशिष्टत्वस्य शक्यतावच्छेदकत्वायोगात् || ओं तत्सदिति निर्देशा ब्रह्मणस्त्रिविधस्मृतः | सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते || सत्वं साधुस्वरूपं स्यादित्यादि प्रमाणानुसारेण सच्छब्दस्य ब्रह्मणि प्रयोगदर्शनेन तस्य ब्रह्मशब्दपर्यायत्वेन ब्रह्मत्वस्यैव सत्पदशक्यतावच्छेदकत्वात् | न च ब्रह्मत्वादिकमेव सत्पदशक्यतावच्छेदकं सूक्ष्मचिदचिद्विशिष्टत्वं वाक्यार्थान्यथानुपपत्तिलक्षणस्यापि स्थूलचिदचिद्विशिष्टे ब्रह्मणिशक्यभावेन तत्प्रकारकबोधस्यापि लक्षणसाध्यत्वेनामुख्यमेव | एवं तत्वमसीत्यादावपि प्रलयकालीन सृष्टिकालीनजीवब्रह्मविशिष्टत्वयोः तत्वंपदशक्यतावच्छेदकत्वाभावेन तद्विशिष्टबोधस्यापि लाक्षणिकत्वेनामुख्यत्वमेव | तस्मात्सृष्टिप्रलयवृत्ति चिदचिदन्तर्यामिरूपाभेदात्मकमस्मदङ्गीकृतमेव प्रमेयं भवद्भिरमुख्यवृत्या विशिष्टाद्वैतमिति मङ्गलम् || || इति विशिष्टाद्वैत तत्वप्रकाशः || प्. २०६) अथ जीवब्रह्मणोरत्यन्तं भेद इत्यत्र न कोप्यावयोर्विरोध इति न तद्विचार्यमिति अभेदश्रुतयो ज्ञेयादेहदेहिनिबन्धनाः | इत्येतदैक्यमपि विशिष्टाद्वैतैक्यप्रकाशेन प्रकाशितं भवति || ननु तथापि निरञ्जनः परमं साम्यमुपैतीति भगवतामुक्ताना परस्परं मुक्तानाञ्च साम्यं वयं ब्रूमः | भवन्तस्तु वक्ष्यमाणप्रमाणैः तारतम्यमेव वदन्ति अतो मुक्तौ तारतम्यतदभावाभ्यामावयोरैक्यानुपपत्तेरिति चेदत्रोच्यते | साम्यश्रुतिरमुख्यार्था मुक्तानां ब्रह्मणस्तथा | तारतम्यवचोमुख्यमिति निर्णीयते मया || परस्परं मुक्तानां तथा ब्रह्मणो मुक्तानाञ्च साम्यश्रुतिरमुख्यसाम्यपरा | ते ये शतं मानुषा आनन्दा इत्यादितारतम्य श्रुतिस्मृत्यादयः मुख्यतारतम्यपरा | इत्येवं मया निर्णयः क्रियत इत्यर्थ भगवतामुक्तानाञ्च परस्परं मुक्तानाञ्च साम्यं मुख्यममुख्यं वा | नाद्यः भवन्मते जीवब्रह्मणेस्तावत् विभुत्वाणुत्वशेषित्वशेषत्व श्रीपतित्व श्रीवत्सत्वजगत्कारणत्व तदभावाः स्वातन्त्र्यपारतन्त्र्यादिभिरसाम्याङ्गीकारेण साम्यश्रुतेर्मुख्यत्वासम्भवात् | ज्ञाज्ञावीशनीशौ ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते | तद्यत्स्वभावः कैवल्यं सभवान् केवलो हरे | प्. २०७) जगद्व्यापारवर्जमित्यादि श्रुतिस्मृति सूत्रैरसाम्योक्तेश्च | किञ्च जीवज्ञानानन्दादिकं ईश्वरज्ञानानन्दादेर्निकृष्टं जीवज्ञानानन्दादित्वात् संसारी जीवज्ञानानन्दादिवत् | ईश्वरानन्दो जीवानन्दादुत्कृष्टः | तदवश्यतन्नियामकानन्दत्वात् यदेवं तदेवम् | यथा सेव्यानन्दात्सेवकानन्द इत्याद्यनुमानविरोधात् | किञ्च मुक्तजीवानां सर्वेषां परब्रह्मसाम्ये सत्यं ज्ञानमनन्तं ब्रह्म | यतो वाचो निवर्तन्ते | अशब्दमस्पर्शमरूपमव्ययम् | सत्यकामस्सत्यसङ्कल्पः इत्यादिश्रुतिप्राप्तब्रह्मा साधारणधर्मवत्वेन तेषामपि परब्रह्मत्वापत्या जगत्कारणत्वापत्तेः | न चेष्टापत्तिः | अनेकेश्वरत्वापत्या एकमेवाद्वितीयमित्यादि श्रुतिविरोधापत्तेः | न च तेषां जगत्सृष्ट्यादाविच्छैव नास्तीति वाच्यम् | जगत्सृष्ट्याद्युपयुक्तज्ञानेच्छाकृतिशक्त्यादीनां सत्वे तदभावस्या युक्तत्वात् | विष्णुमाहात्म्यलेशस्य विभक्तस्य च कोटिधा | पुनश्चानन्दधातस्य पुनश्चापिह्यनन्तया | नैकांशसममाहात्म्या श्रीशेषब्रह्मशङ्कराः | इति नारदीयपुराणवचनैः ब्रह्मादिसर्वजीवानां भगवत्साम्य निषेधाच्च | जीवत्स्वरूपभूततारतम्यस्य मुक्तौ नाशे मानाभावाच्च | निरतिशय भगवत्सेवादिसाहस्त्रेरपि भगवता स्वमुख्यसाम्यप्रदानस्य श्रुतिस्मृतिलोकन्यायविरुद्धत्वाच्च | राजादौ निरतिशय सेवादि सान्निध्य प्. २०८) भृत्यादौ स्वस्वामिपरमसाम्यापेक्षायाः क्वाप्यदर्शनाच्च | तथा च मुक्तानां ब्रह्मसाम्यं नैमित्तिकम् | तत् प्रकृतौ तद्विकारसंयोगविशेषादिति तृतीयपञ्चमपदीयाधिकरणन्यायेनामुख्यमेवाङ्गीकार्यम् | तदधिकरणमित्थमुपवर्णितम् | दर्शपूर्णमासप्रकरणे श्रूयते | सप्तदशवैश्यस्येति तत्र नैमित्तिकं विधीयमानं साप्तदश्यं किं प्रकरणाधीत पाञ्चदश्याबाधेन विकल्पेन निविशति उतपाञ्चदश्यबाधकत्वेनैव निवेश इति संशये सप्तदश्यपाञ्चदश्ययोः द्वयोरपि प्रकरणाधीतत्वेन परस्परबाधायोगाद्विकल्प इति पूर्वपक्षं प्रापयय प्रकरणात्सामिधेनी द्वारा दर्शपूर्णमासाङ्गत्वेनावगतस्य पाञ्चदश्यस्य सर्वाधिकारि प्रयोगसाधारण्येन श्रुतस्य वैश्वकर्तृकप्रयोगेपि सामान्यरूपेण प्राप्तस्य विप्रराजन्यकर्तृकप्रयोग एव सावकाशत्वेनामुख्यात् नैमित्तिकस्य साप्तदश्यस्य तु वैश्यकर्तृकप्रयोग एव प्राप्तस्य विशेषस्य विषयत्वेन निरवकाशत्वेन च प्रबलत्वात् प्राप्तनित्याबाधने विधानायोगात् | तद्वाधकत्वेनैव निमित्तिकस्यैव विधिरिति सिद्धान्तितम् | तत्र प्रकरणकल्पितदर्शपूर्णमासप्रयोगे पञ्चदशसामिधेनीरनुब्रूयादिति वाक्ये नित्यस्य पाञ्चदश्यस्य सर्वाधिकारिप्रयोगमात्राङ्गत्वप्रापके नैमित्तिक साप्तदश्य विरोधे विप्रराजन्यमात्रकर्तृकप्रयोगविशेषाङ्गत्वकल्पनवत् परमं साम्यमुपैतीति श्रुतिप्राप्तस्य प्. २०९) मुक्तानां भगवत्साम्यस्यापि भगवन्मात्रनिष्ठतया श्रुतिप्राप्तविभुत्वशेषित्व श्रीवत्सवजगत्कारणत्वाद्यनेकासाधारणधर्मातिरिक्त कतिपयधर्मविषय एवामुख्य साम्यस्य वक्तव्यत्वात् | दर्शपूर्णमासप्रयोगत्वरूपशक्यतावच्छेदकान्ययिप्रराजन्यकर्तृक##- तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूपसादृश्ये मुख्यस्यात्र भगवन्मात्रनिष्ठविभुत्वाद्यनन्तधर्मातिरिक्तदुःखाभाव परानन्दत्वादि कतिपय धर्मवत्वरूपशक्यतावच्छेदकान्यप्रकारकबोधजनकत्वेन लाक्षणिकत्वेनामुख्यत्वस्यैव वक्तव्यत्वात् अत एवोक्तं न्यायामृते परमसाम्य श्रुतिस्तु दुःखाभाव सत्यकामत्वादिना सरस्सागरयोरिवस्वयोग्यानन्दपूर्त्या च कतिपय धर्मसाम्य परा | लिंगभेदः परानन्दो दुःखाभावस्समानतेति स्मृतेरिति भोगमात्रसाम्यलिंगाच्चेति सूत्रस्य भवन्मते भोगमात्रे मुक्तस्य ब्रह्मलिंगानां साम्यात् जगद्व्यापार वर्जमिति मात्रशब्दस्यावधारणार्थत्वस्य व्याख्यातत्वाच्च न च परमशब्दवैययर्थ्यं संसारदशायां जीवस्यानन्दादिवत्वेन ब्रह्मसाम्यसत्वेन मुक्तौ अभिव्यक्तानन्दादिमत्वेन ततोप्यधिकसाम्यप्रतिपादनार्थं परमशब्दसार्थक्योपपत्तेः अत एवोक्त मनुव्याख्याने जीवस्य तादृशत्वञ्च चित्रमात्रं न चापरमिति किञ्चित्सुखादिसादृश्यमपि शेनासुरानृत प्. २१०) इति च यद्वा | परममिति द्वितीया तृतीयार्थे षट्सुद्वितीयेत्यनुशासनात् लक्षणया वा परमेण भगवतेत्यर्थे बाधकाभावात् अन्यथा भगवद्वाचक तृतीयान्तपदाध्याहारापत्तेः | एतेन- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः | सर्गेपि नोपजायन्ते प्रलयेन व्यथन्ति च || इति वचनानि व्याख्यातानि भवन्ति तस्मान्मुक्तानां भगवत्साम्यं मुख्यमनुपपन्नमस्मदंगीकृतममुख्यमेवाङ्गीकार्यमिति द्वितीय पक्ष एवाश्रयणीयः | अमुख्य साम्यस्य मुख्य तारतम्यव्याप्तत्वाद्भवद्भिरपि मन्यन्तराभावान्मुख्यं तारतम्यमेव प्रकाशितमिति एवमुक्तानां परस्परं साम्यमप्यमुख्यमेव | भवन्मते गरुडानन्तविष्वक्सेनादीनां इतरमुक्तजीवेभ्य उत्कृष्टत्वांगीकारात् किञ्च सैषानन्दस्य मीमांसा भवति ते ये शतं मानुषा आनन्दाः | स एको मनुष्य गन्धर्वाणामानन्दः श्रोत्रियस्य चा कामहतस्य | इत्यादि तैत्तरीय श्रुत्या अथ ते ये शतमाजानजानां देवानामनन्दाः स एकः कर्मदेवानां देवानामानन्दः | यश्च श्रोत्रियो व्रजिनो कामहत इति वाजसनेयकश्रुत्या आक्षवन्तः कर्णवन्तस्सखायो मनोजवेष्वसमा बभूवुः | इत्यादि श्रुत्या तमेव यूयं भजतात्मवृत्तिभिः मनो वचः कामगुणैः स्वकर्मभिः | अमायिनः कामदुगंघ्रि पङ्कजं यथाधिकारावसितार्थसिद्धये | प्. २११) नृपाद्याश्शतधृत्यन्ताः मुक्तिगा उत्तरोत्तरम् | सर्वैर्गुणैश्शतगुणा मोदन्त इति हि श्रुतिः | इत्यादि स्मृतिभिः | वृद्धिह्रासभाक्समन्तर्भावादुभयसामंजस्यादेवं इत्यादिसूत्रैः अस्मदादिमुक्तभोगज्ञानादिकं मुक्तचतुर्मुखादिभोगज्ञानादितो निकृष्टं अस्मदादिभोगज्ञानादित्वात् संसार्यस्मदादिभोगज्ञानादिवत् मुक्तजीवस्वरूपानन्दः परतः ज्ञानानन्दत्वसाक्षाद्व्याप्यधर्मेण स्वसजातीयानन्दप्रतियोगिकतारतम्यवान् जीवानन्दत्वात् | तदीयवैषयीकानन्दवत् प्रकृतिवद्धनिवृत्तिः स्वसजातीयबन्धनिवृत्याश्रय प्रतियोगिकतारतम्यवन्निष्ठाबन्धनिवृत्तित्वात् निगलबन्धनिवृत्तिवत् इत्याद्यनुमानैः मुक्तजीवानां तारतम्ये सिद्धे साम्यश्रुतेर्गौणसाम्यपरत्वस्यैव युक्तत्वात् | न च साम्यश्रुत्यादीनां मुक्तविषयत्वमिति वाच्यम् | संसारिणि श्रोत्रियत्वाकामहतत्वा वृजिनत्वादीनामयोगात् प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाप्राप्तमोक्षिणः | त एव चाप्तकामत्वात्तथाकामहतामताः | इति भारत वचनेन सोश्नुते सर्वान्कामान्सह | ब्रह्मणा विपश्चिता | कामस्य यत्राप्तकामास्तत्र माममृतं कृधि | इत्यादि श्रुतिभिः | स हि मुक्तो कामहत इति ब्रह्माण्डपुराणवचनेन च श्रोत्रियत्वाकामहतत्वयोर्मुक्तानामेव मुख्यत्वात् | आनन्दवल्ल्याम् श्रोत्रियस्यचाकामहतस्येति प्. २१२) मुक्तमनुष्याणां मनुष्यगन्धर्वानन्दापेक्षया शतोनानन्दत्वोक्तेश्च अकामहत श्रोत्रियो मुक्त इति भवद्भिरप्यङ्गीकाराच्च | अकामहतत्वं न त्वकामत्वम् | तथात्वे हतशब्द वैययर्थ्यापत्तेः किन्तु कामकृतोपद्रवशून्यत्वं कामितार्थप्राप्तौ युज्यते | नान्यथा सा च सत्यकामानां मुक्तानामेव संभवति | अव्रजिनत्वमप्यपापत्वमदुःखत्वं अत एवोक्तमनुव्याख्याने - अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् | अप्रियं वृजिनं दुःखमकंतोद इतीर्यते | तत्कारणत्वात्पापं वा व्रजिनं नामकथ्यते | इत्युक्तस्स्वयमीशेन नामार्थश्शब्दनिर्णये || इति तस्यापि अपरोक्षज्ञानिनामपि प्रारब्धपापसद्भावेन मुक्तानामेव मुख्यत्वात् | श्रोत्रियस्येत्यत्र यश्च श्रोत्रिय इत्यत्र च एकवचनं समुच्चयार्थक च शब्दश्चायुक्तस्स्यात् एकविषयत्वे वसिष्ठो ब्रंहिष्ठोऽरुद्धतीपतिश्चेति प्रयोगाभावात् | अप्रकृतान्यसंसारीपरत्वे चतुर्मुखाद्यानन्दस्यान्यस्मिन् संसारिण्यसंभवात् | तस्मात्पूर्ववाक्येनामुक्तानां तारतम्यमुक्त्वा श्रोत्रियस्येत्यादिना | तेषामेव मुक्तानां तारतम्यमुच्यते इत्यंगीकार्यम् | उक्तञ्चानुव्याख्याने - स एक इति संसारगतमुक्त्वा सुखं पुनः | प्. २१३) श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् | संसारगाच्च संसारगतमुक्त्वा शताधिकम् | मुक्तान्मुक्तस्य युक्तं स्यात् श्रुत्युक्तिमभिवीक्षत इति सालोक्यमथसामीप्यं सारूप्यं योग एव चेति - चतुर्विधमुक्तीनां तारतम्योक्तेः | किञ्च भक्ति प्रपत्तिरूप ब्रह्मज्ञानं मोक्षसाधनमिति भवन्मतेपि ब्रह्मादि मनुष्योक्तमान्तानां संसारिण्यां तारतम्ये बह्वल्पाल्पतरश्रवणादि साध्यस्य ब्रह्मज्ञानस्य बह्वल्पाल्पतराल्पतम ब्रह्मगुणविषयकत्वरूपतारतम्योपेतत्वेन साधनतारतम्यस्य साध्यतारतम्याविना भूतत्वेन साध्यभूतायां मुक्तौ तारतम्यावश्यं भावात् - साधनस्योत्तमत्वेन साध्यञ्चोत्तममाप्नुयात् | ब्रह्मादयः क्रमेणैव यथानन्दश्रुतौ श्रुताः || इति ब्राह्मवचनेन - ज्ञानान्मोक्षो भवत्येव सर्वकार्यकृतोपि तु | आनन्दो ह्रासते कार्याच्छुभं कृत्वा तु वर्धते | इति ब्रह्माण्डवचनेन - सर्वदुःखनिवृत्तिस्तु ज्ञानिनो निश्चयो हि ? उपासना कर्मभिश्च भक्त्या चानन्दचित्रतेति | स्मृत्यन्तरेण च | अधिकञ्च तवज्ञानमधिका च गतिस्तव | इति मोक्ष धर्मादिवचैः साधनतारतम्यस्य साध्यतारतम्य प्रयोज्यत्वोक्तेश्च | उक्तञ्चानुव्याख्यानोक्तस्मृतौ | प्. २१४) युक्तञ्च साधनाधिक्यात्साध्याधिक्यं सुरादिषु | नाधिक्यं यदि साध्ये स्यात्प्रयत्नस्साधने कुतः | दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे | त्यक्त्वा सुखानि सर्वाणि क्लिष्टेन लवणांभसा | शक्रेण वर्षकोटीश्च धूमः पीतोधिदुःखतः | वर्षायुतञ्च सूर्येण तपोर्वाक्च्छिरसा कृतम् | सुदुःखेन सुखं त्यक्त्वा धर्मेणाकाशशायिना | पिता मरीचयो वर्षसहस्रमति सादरम् | अति कृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोपि हि | इत्येतदखिलं मोक्षे विशेषाभावतः कथितमिति | किञ्च भवन्मते विकल्पो विशिष्टफलत्वादिति सूत्रे विकल्पेन मोक्षसाधनत्वेनोक्तानां दहराक्षरादिविद्यानां अधिकाल्पगुणविषयकत्वेन तारतम्यांगीकारात् अपि च प्रत्येकं मोक्ष हेत्वोः निरन्तरचिन्ता सन्यासरूपयोर्भक्तिप्रपत्योस्स्वरूपतः कर्मापेक्षानपेक्षाभ्यामावृत्यनावृत्याभ्यां च तारतम्यांगीकारात् | उक्तञ्च भट्टवार्तिके - वियद्भागस्थान साम्यादविशेषेण चोदित इति अत्राविशेषेण स्वर्गसाधनत्वे श्रुतानां ज्योतिष्टोमाग्नि होत्रादीनां बह्वल्पप्राससाध्यत्वेन तारतम्यात् तत्साध्यस्वर्गफलेपि तारतम्यमुक्तम् ##- न च मुक्तौ तारतम्ये द्वेषेर्ष्यादिप्रसंगात् | तत्कृतदुःखादि प्रसङ्गाच्च मुक्तत्वहानिरिति वाच्यम् | प्. २१५) ब्रह्मापरोक्षज्ञानादनावकामादि सर्वदोषाणां नष्टत्वेन मुक्तावपि तत्कृतद्वेषेर्ष्यादीनां सुतरामभावोपपत्तेः | उक्तञ्चानुव्याख्याने - निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः | स्यादापरोक्ष्यं हि हरेः द्वेषेर्ष्यादिस्ततः कुतः || भवेयुर्यदिचेर्ष्यायास्समेष्वपि कुतो न ते | तप्यमानासमान् दृष्ट्वा द्वेषेर्ष्यादि युता अपि | दृश्यन्तो बहवो लोके दोषा एवात्रकारणम् | यदि निर्दोषता तत्र किमाधिक्येन दूष्यते | इति अत एव न द्वितीयः | इष्टापत्तेरभिहितत्वात् | तस्मान्मुक्तानां परस्परसाम्यस्यापि दुःखाभावस्स्वयोग्य पूर्णानन्दलिंगभेदादि कतिपयधर्म विषय एव वक्तव्यत्वेन तद्गत भूयो धर्मवत्वरूपमुख्यसाम्यायोगेनामुख्यसाम्यस्य मुख्यतारतम्याविरुद्धत्वेनास्मन्मतैक्ये विवादाभावादिति सर्वमनवद्यम् | इति मुक्तौ तारतम्यैक्यप्रकाशः || नन्वेवमपि प्रपत्तिभक्त्याख्यं परस्परनिरपेक्षं ब्रह्मज्ञानं मोक्षसाधनं ब्रूमः | तत्रापि प्रपत्याख्यं ब्रह्मज्ञानं कर्मानपेक्षं सकृदेवानुष्ठितं मोक्षसाधनमिति च मुमुक्षुर्वै शरणमहं प्रपद्ये | ब्रह्मणेत्वामहं सरवमित्यात्मानं युंजीत | वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयश्शुद्धसत्वाः | ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इत्यादि श्रुतिवचनानि - सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | प्. २१६) अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः | सकृदेव प्रपन्नाय तवास्मीति च याचते | अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम | तावदार्तिस्तथा वाञ्च्छा तावन्मोहस्तथा सुखम् | यावन्न याति शरणं त्वामशेषाघनाशनम् | आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् | रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा | आत्मनिक्षेपकार्पण्ये षड्विधा शरणा गतिः | अनया प्रपत्या मामाकिञ्चन्यैकपूर्वकम् | मां माधव इति ज्ञात्वा मां गच्छेच्छरणं नरः | एवं मां शरणं गच्छन् कृतकृत्यो भविष्यति | इत्यादिगीतारामायणविष्णुपुराण पञ्चरात्रवचनादीनि प्रमाणानि | इत्थं संघटितः पदैस्त्रिभिरसा वेकद्विपञ्चाक्षरै रर्थैस्तत्वहित प्रयोजनमयैरध्यात्मसारैस्त्रिभिः | इति नमसः प्रपत्तिरूपेष्टसाधनत्वप्रापके अस्मत्पूर्वाचार्योदाहृतश्लोके उदाहृतप्रमाणवचनेषु च प्रपत्तेस्साक्षान्मोक्षहेतुत्वमावेद्यते | भवन्तस्तु ब्रह्मापरोक्षज्ञानं मोक्षसाधनं प्रपत्यादीनि तु तदंगानीति वदन्ति | तथा चात्रावयोर्विरोधः कथमैक्यमिति चेदत्रोच्यते कर्मादिवत्प्रपत्याख्यं साधनं न तु मुख्यतः | ज्ञानद्वारा साधनञ्चेत्यविरोधोत्र साध्यते | कर्मादीनां परम्परया चित्तशुद्धिद्वारा ज्ञानद्वारा प्. २१७) मोक्षसाधनत्ववत् प्रपत्याख्यं साधनमपि विज्ञान भक्त्यादिद्वारा परम्परयैव मोक्षसाधनं न तु मुख्यतस्साक्षात् इति शब्दो हेतौ | च शब्दस्समुच्चये प्रपत्तिवाचकं तदितिशेषः | ततः तत्प्रपत्याख्यं ज्ञानद्वारा मोक्षसाधनं अतोत्र प्रपत्तिविऽसेषयेपि आवयोरविरोध इति साध्यत इत्यर्थः | तथाहि प्रपत्तिरूपं ज्ञानं किं साक्षान्मोक्षसाधनं भवदभिप्रेतम् | भक्त्या विकल्पेन वा भक्त्यङ्गत्वेन कर्मादिवत् परम्परया वा नाद्यः | तस्यास्साक्षान्मोक्षसाधकप्रापकप्रमाणाभावात् | न च मुमुक्षुर्वै शरणमहं प्रपद्ये इत्यादिवचनजातं प्रमाणमिति वाच्यम् | तत्र तावत् मुमुक्षुर्वै शरणमहं प्रपद्ये इत्यस्य अपामसोमममृता अभूम | कर्मणैव हि संसिद्धिमास्थिता जनकादयः | मुमुक्षुर्निवर्तककर्माचरतीत्यादिवत् प्रपत्तेरपि परंपरया मोक्षसाधनत्वपरत्वोपपत्तेः | किञ्च ब्रह्मविदाप्नोति परम् | तरति शोकमात्मवित् | तमेवं विद्वानमृत इह भवति | दृष्टैव तं मुच्यते नापरेण इत्यादौ श्रूयमाणस्य ब्रह्मज्ञानस्य भवद्भिर्भक्तिरूपज्ञानपरत्वांगीकारे बाधका भावात् | अन्यथा ब्रह्मविदाप्नोतीत्यादवपि भक्तिवत्प्रपत्तिवच्च ब्रह्मापरोक्षज्ञानमपि तृतीयस्साक्षान्मोक्षसाधनं स्यात् | न च प्रपद्य इत्यस्य ज्ञानविशेषवाचकत्वेन प्रपत्तिरूपोपायान्तरफलत्वं ब्रह्मविदाप्नोतीत्यादेः प्. २१८) ज्ञानसामान्य वाचित्वेन भक्त्याख्यविशेषपरत्वमेव युक्तमिति वाच्यम् | मत्वा धीरो न शोचति | दृष्ट्वैवतं मुच्यतेनापरेण इत्यादौ मत्वेत्यादीनां मननदर्शनादिरूपज्ञानविशेषवाचकानां भक्तौ पर्यवसानवत् | प्रपद्य इत्यस्यापि भक्तौ पर्यवसाने बाधकाभावात् अन्यथा भक्तिवत्प्रपत्तिवत् मननं दर्शनञ्च साक्षान्मोक्षसाधनं स्यात् | किञ्च भवन्मते कर्मयोगज्ञानयोगयोरिव प्रपत्तेरपि भक्त्यंगत्वोपपत्तेः | अंगेत्यंगि फलानुवादे बाधकाभावात् तस्मान्मुमुक्षुर्वै शरणमहंप्रपद्ये इति श्रुतिर्न प्रपत्तेस्साक्षान्मोक्षसाधनत्व परा नापि ब्रह्मणे त्वामहं सखमित्यात्मानं युंजीतेति श्रुतिः तस्या अपि सत्यतपोदमशमदानधर्म प्रजननाग्नि होत्रादीनां भक्त्यङ्गपूतानां पूर्वप्रकृतत्वेन ओमित्येतेनाक्षरेण परं पुरुषमभिधधीतेत्यादि श्रुत्यन्तरानुसारेण पूर्वप्रकृतकर्माङ्गीभूतमनो योगरूपध्यानाख्य भक्तिविधि परत्वेन कर्मानपेक्षप्रतिपत्तिपरत्वासम्भवात् | ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वान् इति पूर्वाक्ये भक्तिरूपज्ञानत्वस्योक्तत्वेपि फलसाधनत्वेनोक्तस्य तत्त्यैवात्र समन्त्रकं विधानमित्यंगीकारे बाधकाभावात् | किञ्च एवं युञ्जन् सदात्मानं योगी विगतकल्मषः | सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते | प्. २१९) इति गीतायां युञ्जन्नित्यस्यात्मानं ध्यायन्नितियुञ्जन्नेवं सदात्मानं योगी नियतमानसः | शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति | इत्यत्रापि ##- कुर्वन्निति वा योगिनो यतचित्तस्य युञ्जतो योगमात्मना इत्यत्रात्मनो भगवतः योगं समाधियोगं युञ्जतः कुर्वतः इत्याद्यर्थ इवात्मानं युंजीतेत्यत्रापि भगवन्तं ध्यायीतेत्यादि ध्यानविधिपरत्वसम्भवे आत्मसमर्पणरूपप्रपत्तिपरत्वा संभवात् धनुगृहीत्वोपनिषदं महास्त्रं शरं ह्युपाता निशितं सन्दधीत | आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि | प्रणवो धनुश्शरोह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते | अप्रमत्तेन वेद्धव्यं इत्यादि श्रुतिष्विव युंजीतेत्यत्रापि ध्यानविधिपरत्वस्यैव युक्तत्वाच्च न ब्रह्मणेत्वामहं सखमित्यात्मानं युञ्जीत ओमित्यात्मानं युञ्जीत इत्यादि श्रुतिवाक्यमपि न साक्षान्मोक्षसाधनप्रपत्तिविधायकं नापि वेदान्तविज्ञानसुनिश्चितार्था इति श्रुतिरपि प्रपत्तिपरा ज्ञेयस्सनित्यसन्यासी यो न द्वेष्टिं न कांक्षति | काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः | अनाश्रितः कर्मफलं काम्यं कर्म करोति यः | ससन्यासी च योगी च न निरग्निर्न चाक्रियः | इत्यादि गीतावचनेषु सन्यासशब्दस्य प्. २२०) फलकामनादित्यागेन ईश्वरार्पण बुध्यावर्णाश्रमविहितकर्मानुष्ठानरूपकर्मयोगांशद्वये यः कामादिवर्जनरूपोंशः तत्परत्वस्यैवाभिहितत्वेन तदुपबृंहणानुरोधेनात्रापि श्रुतौ सन्यासशब्दस्य तत्परत्वे संभवति प्रपत्ति परत्वायोगात् | किञ्च सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्मन्नचिरेणाधिगच्छति | इति गीता समाख्यया श्रुतिस्यसन्यासयोगशब्दस्य कर्मयोगपरत्वावश्यं भावात् | अन्यथा योगशब्दवैयर्थ्यापत्तेः | स हि लोके मुनिर्ब्रह्म यः कामक्रोधवर्जितः | इति सन्यासशब्दस्य श्रुतिस्यमुनिशब्दसमानार्थत्वोक्तेः | तथा च सन्यासयोगशब्दस्य फलकामनादित्यागपूर्वकं ईश्वरार्पणबुध्या विहितकर्मानुष्ठानरूपकर्मयोगपरत्वमेव न सर्वथा प्रपत्तिपरत्वम् | न च कर्मयोगस्य साक्षान्मोक्षसाधनत्वा भावेन सन्यासयोगास्सर्वे परिमुच्यन्तीति मुक्ति हेतुत्व कथनमनुपपन्नमिति वाच्यम् | प्रपत्तेरपि साक्षान्मोक्षहेतुत्व प्रापकप्रमाणाभावेन दोषसाम्यात् - सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्मन्नचिरेणादि गच्छति | इत्यत्र कर्मयोगस्य परम्परया मोक्षसाधनत्ववत् प्रकृते प्. २२१) तस्य तथैव मोक्षांगत्वोपपत्तेः | अथवा सन्यासयोगात् कर्मयोगात् शुद्धसत्वाः शुद्धान्तः करणा भवन्ति | तस्माद्यतयः श्रवणादौ प्रयत्नशीला भवन्ति ततश्च वेदान्तजन्यं यद्विज्ञानं श्रवणमनननिदिध्यासनरूपं तेन सुष्ठुनिश्चितः अपरोक्षीकृतः अपरब्रह्मलक्षणो अर्थो यैस्ते | वेदान्तविज्ञानसुनिश्चितार्था भवन्ति तस्मात्परिमुच्यन्तीति अपरोक्षज्ञानस्यैव साक्षान्मोक्षहेतुत्वोपपत्तेः | अग्निहोत्रं जुहोति | यवागूं पचति | इत्यादाविव श्रौतक्रमादार्तक्रमस्यैव बलवत्वस्य पञ्चमाधिकरणन्यायसिद्धत्वात् द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति दर्शनोद्देशेन श्रवणादिविधायकश्रुत्यन्तर समाख्यानाच्च | अस्मदुक्तार्थस्यैव युक्तत्वाच्च सन्यासशब्दस्य तुरीयाश्रमपरत्वे तस्य तानि वा एतान्पपराणि तयापुंसि न्यास एवात्यरेचयदिति तदहरेव प्रव्रजेत् | यदहरेव विरजेत् | इति श्रुतौ | सन्यासस्तु तुरीयो यो निष्क्रियाख्यस्सधर्मकः | न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते | तद्भक्तोपि हि यद्गच्छेत्तस्य हस्तो न धार्मिकः | मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते | यथाधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत् | इति नारदीयपुराणे | सन्यासे तु तुरीये वै प्रीतिर्मम महीयसी | येषामत्राधिकारो न तेषां कर्मेति निश्चयः | प्. २२२) इति ब्राह्मपुराणे भगवद्भक्ति विरक्त्यधिकारत्वसर्वसाधनोत्तमत्व भगवत्परमप्रीतिविषयत्वप्रतिपादनेन सर्वथा तस्य प्रपत्तिपरत्वानुपपत्तेः | सर्वधर्मानिति गीतावचनस्यापि अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामीति पापनिवृत्तेः | सकृदेव प्रपन्नायेति रामायणवचनस्य अभयं सर्वभूतेभ्यो ददामीति अभयप्रदानस्य तावदार्तिरिति विष्णुपुराणवचनस्यापि श्रमक्लेशादिनिवृत्तेः आनुकूल्यस्य संकल्पः | इति पाञ्चरात्रवचनस्यापि उदाहृतश्रुतिस्मृति समाख्यया प्रपत्तेः परम्परयैव मोक्षहेतुत्वोपपत्तेः | इत्थं संघटित इत्येतदपि उदाहृतप्रमाणानुसारेण पारम्पर्यविषयं व्याख्येयम् | तस्मादुदाहृतस्मृतिवचनानां भक्त्यंगप्रपत्तिपरत्वमेव वक्तव्यं अत एव रामानुजाचार्यैः सर्वधर्मान्परित्यज्येत्यादि श्लोकावतारिकायां स्वतन्त्रप्रपत्तिपरतया व्याख्यानस्यास्वारस्यमभिधायायं श्लोकः अङ्गप्रपत्तिपरतया व्याख्यात | इत्थं हि भाष्यवचनम् | अथवा सर्वपापविनिर्मुक्तात्यर्थ भगवत्प्रियपुरुषनिवृत्यत्वात् भक्तियोगस्य तदारम्भ विरोधिपापानामानन्त्यात् तत्प्रायश्चित्तैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया मनोभक्तियोगानर्हतामालोच्य शोचतः अर्जुनस्य शोकमपनुदन् श्रीभगवानुवा च सर्वधर्मान्परित्यज्येत्यादीति तत्र प्रपत्तेर्भक्त्यंगत्वमेवोक्तम् | तथा - देवी ह्येषा गुणमयी मम माया दुरत्यया | प्. २२३) मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते | इति श्लोकव्याख्यानावसरे मां सर्वलोकशरण्यं शरणं प्रपद्यंते | ते एतां गुणमयीं मायां तरन्ति | मायानुत्सृज्य मामेवोपास्त इति प्रपत्तेर्भक्त्यंगत्वमेवोक्तं तथा किमिति भगवदुपासना वादीनां प्रपत्तिं सर्वे न कुर्वत इत्यत्राह - न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृतज्ञानाः इति श्लोकावतारिकायां अपि प्रपत्तेर्भक्त्यंगत्वमेवोक्तं न च प्रपत्तिः स्त्रीशूद्रादीनां साक्षान्मोक्षसाधनं त्रैवर्णिकानां भक्तिद्वारा मोक्षसाधनमिति वैषम्ये प्रमाणाभावात् | रक्षतीत्येव विश्वासः तदीपहमिति स्मृतिः | शरणागतिरेषा स्यात् तयामुक्तिर्नचान्यथा | इति स्मृतौ शरणागतिरूपायाः प्रपत्तेः - मपि ज्ञानभक्त्यादिद्वारैव मोक्षसाधनत्वस्यास्माभिरभिहितत्वेनास्मन्मतैक्यविवादाभावाच्च | तस्मान्न प्रपत्तेस्साक्षान्मोक्षसाधनत्वमिति प्रथमपुरुषो युक्तः | ज्ञानवत् भक्तिवत्प्रपत्तेरपि साक्षान्मोक्षसाधनत्वे प्रमाणाभावस्य परम्परया मोक्षसाधनत्वे प्रमाणस्योक्तत्वेन ताभ्यां विकल्पनानुपपत्तेः | किञ्च कर्माङ्गिकायाः यवज्जीवमनुष्ठेया या भक्तेः ज्ञानस्य च कर्मानपेक्षायाः सकृदेवानुष्ठोयायाः प्रपत्तेर्विकल्पा योगात् गुरुलघुनोर्विकल्पस्य काप्यदर्शनात् | अन्यथा प्. २२४) लघूपायभूतायां प्रपत्तावेव सर्वेषां प्रवृत्युपपत्तौ गुरूपायभूतायां भक्तौ कस्यापि प्रवृत्यनुपपत्तेः | अग्निहोत्र ज्योतिष्टोमदर्शपूर्णमासादीनां फलेषु तारतम्यसत्वेन तत्तत्फलोद्देशेन तत्तत्कर्मसु प्रवृत्तिसंभवेन तद्वैषम्याच्च | न च शक्ताशक्तविषयको न भक्ति प्रपत्योः व्यवस्थितविकल्पः | तच्चोक्तम् - भक्त्यादौ शक्त्यभावः प्रमिति रहितता शास्त्रतः पर्युदासः कालक्षेपाक्षमत्वं त्विति नियति वशादापतद्भिश्चतुर्भिः | एकद्वित्र्यादियोगव्यतिभिदरनिजाधिक्रियास्संश्रूयन्ते सन्तश्श्रीशं स्वतन्त्रप्रपदनविधिना मुक्तये निर्विशंकाः | इति अस्यार्थः | भक्तौ शक्तिः ज्ञानं शास्त्रकालक्षेपाक्षमत्वं चेति चतुर्णां मिलितानामधिकारकोटिनिवेशः | प्रपत्तौ तु चतुर्णामभावोधिकारः | स च एकैकनिवृत्या चतुर्धाद्विकद्विकनिवृत्या षोढा | त्रिकत्रिकनिवृत्या चतुर्धा कृत्स्ननिवृत्या चैकथेति पञ्चविधाः | शक्त्यादिमेलननिषेधस्य सर्वत्राविशिष्टत्वात् तथा च एकैकसद्भावे द्विकद्विकसद्भावे त्रिकत्रिकसद्भावे चतुर्णामपि सद्भावे प्रपत्तावधिकारो भवति | भक्तिरूप दुष्करोपायान्तरानधिकारिणो मुमुक्षोः प्रपत्तिरूपसुकरोपाधे अधिकारस्संभवति | न च प्रपत्तिप्रतिपादकानि वाक्यानि तत्पराणीति वाच्यम् | पूर्वोदाहृतप्रमाण वचनानुरोधेन प्रपत्तेर्भक्यंगत्वमेव | न तु स्वतन्त्रसाधनत्वमित्यसकृदावेदितत्वात् | भक्त्यादौ शक्त्यभाव इत्यादि प्. २२५) व्यवस्थायाः स्वसमयमात्रसिद्धायाः यथा कथञ्चित् तदविरोधेनैव नेयत्वात् | तस्मात्प्रपत्तेस्साक्षान्मोक्षसाधनत्वमिति द्वितीयपक्षोनुपपन्नः | अत एव न तृतीयः अपरोक्षज्ञानाङ्गत्वेन कर्मादिवत्परम्परया मोक्ष त्वस्यास्माभिरप्यंगीकृतत्वात् भवद्भिरपि उक्तरीत्या पक्षान्तरानुपपत्तेः भक्तिद्वारेणैव प्रपत्तेर्मोक्षहेतुत्वस्य वक्तव्यत्वात् तस्मात्प्रपत्तेर्मोक्षसाधनत्वेप्यावयोरैक्येन काप्यनुपपत्तिः | .. ( मातृकायामत्र ग्रन्थपातः ) विशेन्नारायणं देवं दर्शनाच्चेत्यादि श्रुतिस्मृतिसूत्रसमाख्याभिः | ब्रह्मविदाप्नोति परम् क्षणमोक्षाख्य फलपदसमभिव्याहारात् ज्ञानार्थकविदादिधातूनां अपरोक्षज्ञानार्थत्वस्यैव युक्तत्वाच्च | * * * * तरनिषेध पूर्वकं साक्षान्मोक्षसाधनत्वप्रापकनिरवकाश प्रमाणाभावेन ज्ञानवाचकपदानां ध्यानाख्यभक्तिपरत्वेन द्रष्टव्यज्ञातव्यो मन्तव्यो निदिध्यासितव्य इत्यत्र ब्रह्मदर्शनोद्देशेन श्रवणमनननिदिध्यासनानामंगत्वेन विधीयमानत्वात् पश्यते निष्कलं ध्यायमान इति वाक्येन सामर्थ्यरूपलिंगेन निदिध्यासनस्य फलसंबन्धात् प्रकरणेन च निदिध्यासनस्यांगित्वस्य श्रवणमननयोस्तदंगत्वस्य च सिद्धेः | द्रष्टव्य श्रोतव्य इति श्रवणस्य दर्शनसन्निधानेऽपि तस्य लिंगादितो दुर्बलत्वात् | प्. २२६) नन्विदमयुक्तं स्वाध्यायोध्येतव्य इत्यध्ययनविधि वाक्यार्थस्यार्थज्ञानोद्देशेनाध्ययनं भावयेदित्यस्य सिद्धौ तदर्थनिर्णयार्थं पुरुषः स्वयमेव तत्वदर्शन आचार्या न्याययुक्तवाक्यार्थग्रहणरूपे श्रवणे प्रवर्तत इति श्रोतव्य इत्यनुवादः आगमाचार्योपदिष्टार्थस्य स्वात्मन्येव युक्तमिति हेतुतः प्रतिष्ठापनरूपस्य मननस्य श्रवण प्रतिष्ठापनार्थत्वेन प्राप्तत्वात् मन्तव्य इति चानुवादः | अविच्छिन्न स्मृतिसन्तानरूपनिदिध्यासनकर्तव्यतायाः अन्यतः अप्राप्तेः निदिध्यासित इत्येव तु विधिः | द्रष्टव्य इत्यनेन निदिध्यासनस्य विशिदतरावभासत्वरूपदर्शनसमानाकारता विधीयत इति उक्तमनुपपन्नमिति चेत् उच्यते | भवन्मतेपि सहकार्यन्तर्विधिरिति सूत्रे तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्येत्यादिवाक्ये औपदेशिकार्थाधिगमस्य पुनः पुनः ब्रह्मसंशीलनस्य च विधेरंगीकृतत्वेन श्रवणमननपदवाच्ययोस्तयोरेवश्रोतव्यमन्तव्यपदाभ्यां विधाने बाधकाभावात् | किञ्च कृतश्रवणमननपुरुषं प्रति भगवतः अत्यन्तानुकूलत्वादनुकूलविषयचिन्तने रागत एव प्रवृत्तेः निदिध्यासितव्य इत्यस्यापि विधित्वानुपपत्तेः | तत्र रागप्राप्तचिन्तने अविच्छिन्नत्वादिगुणविधाने अत्रापि गुरुमुखपूर्वकत्वादिगुणविधाने साधकाभावात् | निदिध्यासनस्य विशदतरावभासत्वं किमधिकविशेष विषयत्वम् | नाद्यः स्मृतेः स्वजनकानुभवादधिक प्. २२७) विषयकत्वायोगात् | किञ्च स्मृतिजनकोनुभवः परोक्षो वा परोक्षा वा | नाद्यः परोक्षानुभवजन्यध्यानरूपस्मृतेः परोक्षानुभवविषययावद्विषयकत्वे सति तदधिकविषयकत्वस्य विशद त्व स्मृतेः पूर्वानुभवजन्यत्वनियमभंगेन तदंशे स्मृतित्वानुपपत्तेः | तदन्यतधिकविषयकपूर्वानुभवाभावात् | नान्त्यः अनुभवस्यानंगीकारात् अन्यथा द्रष्टव्य इत्यादि श्रुतीनां मुख्यार्थत्वप्रसंगात् | अत एव नान्त्यः | ब्रह्मविषयकसाक्षात्कार ध्यानस्य स्मृतित्वानुपपत्तेः किञ्च परोक्ष ज्ञानात्मकस्मृतिरूपध्यानस्य स्वतो विशदतरत्वाभावेन तस्य विशदतरत्वरूप अन्यथा रासभशूद्रादीनां अशुक्लब्राह्मणत्वादिविधानं स्यात् | तस्मादविच्छिन्नस्मृतिसन्तानरूपा भक्तिः न साक्षान्मोक्षसाधनम् | न रूपाया भक्तेरेव माहात्म्यज्ञानपूर्वस्तु सुदृढस्सतोदिकः | स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्न भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचिदित्यादि स्मृतौ | साधनेभ्योधिकाभक्तिर्नैवास्यास्तादृशं क्वचित् | इत्युपासनापादीयानुव्याख्यानोदाहृतवचने अतो विज्ञानभक्तिभ्यां पुरुषार्थपरो भवेत् | भक्त्या ज्ञानं ततो भक्तिः ततो दृष्टिस्ततोपि सः || ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी | भक्त्या प्रसन्नो भगवान् दद्यात् ज्ञानमनाकुलम् || तथैव दर्शनं यातः प्रदद्यान्मुक्तिरेतया | प्. २२८) नाहं वेदैर्न तपसा न दानेन न चेज्यया || शक्य एवं विधो द्रष्टृं दृष्टवानसि मां यथा | भक्त्यात्वनन्यया शक्य अहमेवं विधोर्जुन || ज्ञातुः द्रष्टुञ्च तत्वेन प्रवेष्टुं च परन्तप | इति ज्ञानपादीयानुव्याख्यानोदाहृतवचने चात्यर्थप्रसादद्वारा साक्षान्मोक्षसाधनत्वावेदनात् | तथा अस्माभिरपि अनुभवरूपाया भक्तेः भगवत्प्रसादद्वारामुक्तिसाधनत्वमंगीक्रियते | पूर्वोक्ता भक्तिश्च परमभक्तिसाधनज्ञानसाधनं परम्परया साधनत्वाभिप्रायेण मोक्षफलकत्वव्यपदेशस्संभवति | इतरनिषेधपूर्वकं साक्षान्मोक्षसाधनत्व प्रतिपादकवाक्यं परमभक्तिविषयं तथा च न कोपि विरोध इति वाच्यम् अस्यैवास्माकमभिमतत्वेनास्मदिष्टासिद्धेः | न च भवन्मते तमेवं विद्वान् दृष्ट्वैतं मुच्यते नापरेण इत्याद्युदाहृतवचनजातैः ब्रह्मापरोक्षज्ञानमेव साक्षान्मोक्षसाधनमावेद्यते | तत्कथं भक्तेस्साक्षान्मोक्षसाधनत्वमुपपद्यत इति वाच्यम् | अधिकारिनिष्ठसाधनेषु परमभक्तेरेव साक्षान्मोक्षसाधनत्वांगीकारात् बिंबापरोक्षज्ञानस्य परमभक्तिकारणत्वात् परमभक्तेश्च परमानुग्रहशब्दितपरमप्रसादकारणत्वात् अवान्तरव्यापारप्राधान्य विवक्षया प्रसादस्य साक्षान्मोक्षसाधनत्वव्यपदेशस्संभवति | उक्तञ्च सुधायाम् | मोदकेश्वर प्रसादश्च तद्भक्तैकसाध्यः | भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्यै न केनचित् | प्. २२९) इति वचनात् | परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयानेकवस्तुभ्योनेक गुणाधिकोन्तरायसहस्रेणाप्यप्रतिबद्धः निरन्तरप्रेमप्रवाहः न चासु तत्साक्षात्कारमन्त्रेणोपपद्यते साक्षात्कारश्च भगवदनुग्रहसाध्यः | न चाव्यक्तस्वाभावो भगवान् साधनसहस्रेणापि शक्यस्साक्षात्कर्तुं विना तदनुग्रहादिति सुधोक्तेः | दर्शनसाधनञ्चानुप निदिध्यासन साध्यः | निदिध्यासनञ्च मननसाध्यं मननं श्रवणसाध्यम् | कर्मादिकं श्रवणादिसाधनमिति पद्धतिः तथा चास्यां पद्धतौ अनु साक्षान्मोक्षसाधनत्वेन काप्यनुपपत्तिः | ननु तर्हि तमेवं विद्वान् दृष्ट्वैवतं मुच्यते नापरेण ज्ञानं लब्ध्वा परां शान्तिं ज्ञानजात्तत्प्रसादादेवमुच्यते | यतो नारायणप्रसादमृतेन मोक्षः न च ज्ञानं विनात्यर्थप्रसादः इत्यादि श्रुति परिहरः तत्र ब्रह्मापरोक्षज्ञानस्यैव प्रसादद्वारा मोक्षहेतुत्वावेदनात् तत्कथं भक्तेः प्रसादद्वारा द्वयेपि श्रुतिस्मृत्यादिविरोधपरिहारसौलभ्यात् | तथाहि तत्र तावद्भक्तिरेव प्रसादद्वारामोक्षसाधनं भक्तेः ज्ञानबलादेवन च ज्ञानस्य तत्साधनत्ववचनविरोधः | तत्र ज्ञानपदस्य भक्तिलक्षकत्वात् उक्तञ्च सुधायाम् * * * * * ज्ञानमितीर्यते | इत्यनुभाष्यव्याख्यानावसरे ज्ञानपादे ज्ञानपञ्चावबोधमात्रस्य प्रतिपादकमिति प्रतीति अस्मिन् शास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते प्. २३०) तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते | लक्ष्यते कुतः संबन्ध माहात्म्यज्ञानस्नेह समुदायोहि भक्तिरित्युक्तं ततो ज्ञानं भक्तेर्भागः एकदेशः तथा च एकदेशैक देशित्व लक्षणं भवतीति यद्वा ज्ञानस्य स्नेहसाहित्य लक्षणो धर्मो भक्तिरित्युच्यते | उक्तञ्च ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते इत्यनुभाष्य सुधायां प्रकारान्तरमाह ज्ञानस्यैवेति यद्यदाज्ञानस्यैव विशेषः स्नेह साहित्यलक्षणा धर्मो भवति तदा स पिण्डो भक्तिरित्यभिधीयते एतदुक्तं भवति | ज्ञानं स्नेहश्च भक्तेरंशौ तत्र एकेनांशेनांशान्तरस्योपलक्षणं तथा चाहाजहल्लक्षणया भक्तिरेव सिध्यतीति | तस्मात् ज्ञानपदलक्ष्या भक्तिपदवाच्या भक्तिरेवाधिकारिनिष्ठसाधनेषु साक्षान्मोक्षसाधनं न च श्रुतिस्था परोक्षज्ञानपदस्य परमभक्ति * * * * विज्ञानभक्तिभ्यां पुरुषार्थपरो भवेत् | भक्त्या ज्ञानं ततो भक्तिः ततो दृष्टिस्ततश्च सा | ततो मुक्तिस्ततो भक्तिः सैव स्या * * * प्रसादश्च तद्भक्त्यैकसाध्यः | न चासौ तत्साक्षात्कारमन्त्रेणोपपद्यत इत्यादिभाष्यटीकावचनविरोध * * * * प्रसादद्वारा साक्षान्मोक्षसाधनत्वा वेदनादिति वाच्यम् | उदाहृत भाष्यादिवचनेपि ज्ञानपदस्य समीकर्तुं शक्यत्वात् | तत्र तावद्विज्ञान भक्तिभ्यामित्यत्र विज्ञानशब्दस्यानेक कल्याणगुणविशिष्टस्वयोग्य भगवद्रूपाय * * * * स्यानिरन्तरनिरतिशयप्रेमप्रवाहरूप एकेदेशमात्रार्थत्वात् प्. २३१) तथा चानेकमाहात्म्य विशिष्टभगवदपरोक्ष * * * * वाहाभ्यां प्रसादद्वारामुक्तिरित्युक्ते पूर्वोक्तभक्तिरेव साक्षान्मोक्ष साधनमित्युक्तं भवति | ततो दृष्टिस्ततश्च कल्याणगुणविशिष्टस्वयोग्य भगवद्रूपापरोक्षज्ञानमुच्यते | सप्तम्यर्थे तसिः | च शब्द एवार्थः ततश्च दृष्टौ सत्यामेव * * * * * सम्भवति एकसत्वेपि द्वयं नास्तीति न्यायेन न केवलं प्रेममात्रात् भक्तिरूपपद्यत इति उभयसमुदायरूपभक्तिरेव मोक्ष * * * * * * ज्ञानमस्तीति सिध्यति | न चासौ तत्साक्षात्कारमन्तरेणोत्पद्यत इति सुधावाक्यमपि असौ ज्ञानस्नेह समाहाररूपा भक्तिः | सा * * * * प्रेमप्रवाहमात्रेण नोत्पद्यते | उभयसमुदायस्य ज्ञानप्रेमोभियोपादानकत्वेन प्रेममात्रोपादानकत्वाभावादित्य * * * * * अनन्तोनवद्यकल्याणगुणत्वज्ञानपूर्वक इति वाक्यं गुणविशिष्टत्वज्ञानपूर्वक इत्यर्थकमिति दिक् तस्मान्महा माहात्म्य विशिष्टा स्वा * * * * दाजनकमस्तीति संप्रदायविदः | यद्वा तमेवं विद्वान् दृष्ट्वैव तं मुच्यते नापरेण इत्यादि श्रुतिस्मृतिसूत्रभाष्यटीकादिवचनानां तत्तदधिकरियोग्यतानुसारेण स्वयोग्यानेकानवद्यकल्याणगुणविशिष्टब्रह्मापरोक्षज्ञानस्यैव परमभक्तिपरमानुग्रहद्वारा मोक्षसाधनतापरत्वं एवञ्चास्मिन् पक्षे दृष्ट्वैव तं मुच्यते नापरेण द्रष्टव्य इत्यादिपूर्वोक्त श्रुतिस्मृतिसूत्रभाष्यटीकावचनानां मुख्यार्थता लाभोत्यनुगृहीतो भवति | न च प्. २३२) भक्तैरेव बहुप्रमाणैरितरनिषेधपूर्वकं मुक्त्यव्यवहितसाधनत्वमुक्तं पुनस्साक्षात्कारस्यापि इतरनिषेधपूर्वकं मुक्तिसाधनत्वे विरोध इति वाच्यम् | अत्र निषेधवाक्यस्य परमभक्ति परमानुग्रहातिरिक्तसाधनान्तरनिषेध परत्वोपपत्तेः | यद्वा यथा भक्तैस्साधनत्वे प्रसादस्य व्यापारत्वं तथा साक्षात्कारस्य साधनत्वे भक्तैरवान्तरव्यापारत्वम् | इतरनिषेधवाक्यस्यावान्तरव्यापाररूपभक्तिव्यतिरिक्तसाधनान्तरनिषेध##- तुष्टिमभ्येति इत्यादौ व्यापारप्राधान्यविवक्षया भक्तेः प्रसादजनकत्वमुच्यते | इत्यादौ करणप्राधान्यविवक्षया साक्षात्कारस्यैव प्रसादजनकत्वमुच्यत इति न कोपि विरोधः | यथा वा अदुष्टमिन्द्रियमित्यादौ करणप्राधान्यविवक्षया इन्द्रियस्य प्रमाणत्वव्यवहारः | निर्दोषार्थेन्द्रिय सन्निकर्षप्रत्यक्षमित्यादौ अवान्तरव्यापारप्राधान्यविवक्षया सन्निकर्ष * * * * व्यवहारः सन्निकर्षस्येव तज्जन्यत्वे सति तज्जन्यजनकत्वरूपस्यापारत्वस्यसाक्षात्कारस्य करणत्वपक्षे भक्तेर्व्यापारत्वं भक्तेः * * * * पदस्य व्यापारत्वं संभवतीति नानुपपत्तिः अस्मिन् पक्षे अपरोक्षज्ञानानन्तरमेव ज्ञानस्नेहात्मक भक्तिरूपवस्त्वन्तरमुपपद्यत इत्यंगीकार्यम् | पर * * * * मसुन्दरवस्तुदर्शनानन्तरमेव तन्निष्ठकल्याणक्रिया वैचित्र्यदर्शनपूर्वकप्रेमवैचित्र्यातिशयो जायते | तथा अनन्तकल्याण प्. २३३) योग्यभगवद्रूपविशेषे मनसा द्रष्टे सति परमसुन्दरतत्तन्माहात्म्यातिशयज्ञानसहितप्रेमप्रवाहातिशयो जायते | अस्मिन्पक्षे कल्याणविशिष्टज्ञानपूर्वक इति सुधावाक्यस्य गुणत्वविशिष्टगुणाख्य माहात्म्य ज्ञानपूर्वक इत्येवार्थः | न चैवम् | ज्ञानस्य भक्तिभागत्वादित्यनुव्याख्यानसुधायां अस्मिन् शास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानमिति पदेन भक्तिरीर्यते | लक्ष्यते इत्यादिना मोक्षसाधनीभूतब्रह्मविषयकापरोक्षज्ञानस्य भक्त्यनतिरिक्तत्वाभिधानेन तद्विरोधादिति वाच्यम् | प्रथमपक्षे ज्ञानपदस्य कल्याणगुणरूपमाहात्म्यातिशयमात्रविषयकज्ञानार्थत्वेन तस्य भक्त्यन्तर्भावेपि द्वितीयपक्षे ज्ञानपदस्य स्वयोग्यकल्याणविशिष्ट ब्रह्मापरोक्षज्ञानार्थकत्वेन तस्य भक्त्यनन्तर्भावेन भक्तिकारणत्वे विरोधाभावात् | अत एव भक्त्या प्रसन्नतो देवान् मुक्तिरित्येव तद्गुणान् इत्यनुभाष्यसुधायां भक्तिश्च गुणज्ञानमेवेत्यादिना गुणाख्यमाहात्म्यज्ञानमात्रस्यैव भक्तिशब्दार्थत्वमुक्तम् | अत एव क्वचिच्छास्त्रे गुणादिमाहात्म्यज्ञानं मोक्षसाधनत्वमावेद्यते | उक्त भाष्यानुभाष्य सुधादिवाक्यमुभयपरमिति न किञ्चिदनुपपन्नम् | स्यादेतदेव | यदि ब्रह्मापरोक्षज्ञानं सिध्येत् न चैवं तत्रैव प्रमाणाभावात् | तथाहि ब्रह्मसाक्षात्कारः | किमु प्. २३४) वेदान्तजन्यः | चक्षुरादिबाह्येन्द्रियजन्यो वा | मनो जन्यो वा | लिंगजन्यो वा | ध्यानजन्यो वा | नाद्यः शाब्दापरोक्षानंगीकारात् | न द्वितीयः न चक्षुषा गृह्यते नापि वाचा इत्यादि श्रुति विरोधात् | न च निषेधस्य योगप्रणिधानाच्च सहकृत चक्षुरादिविषयत्वमिति वाच्यम् | बाह्येन्द्रियोपरमेपि योगस्थस्य ब्रह्मसाक्षात्कारदर्शनेन निषेधस्य योगप्रणिधानाद्यसहकृतचक्षुरादिविषयत्वायोगात् | न तृतीयः | मनसो बहिरस्वातन्त्र्यात् प्रमाणान्तरसहकारित्वेन स्वतः प्रामाण्याभावाच्च धर्मादीनां मानससाक्षात्कारविषयत्वापत्यातीन्द्रियत्वानुपपत्तेश्च | न चतुर्थः | नेन्द्रियाणि नानुमानमिति श्रुतिविरोधात् नान्त्यः ध्यानेन साक्षात्कारायोगात् अन्यथा धर्मध्यानेनापि तत्साक्षात्कारप्रसंगात् तस्माद्भक्तिसाक्षात्कारयोरस्मद्भवदंगीकृतयोरैक्यमनुपपन्नमिति चेत् अत्रोच्यते | भवन्मते योगजन्यसाक्षात्कारांगीकारेणास्माकमपि ध्यानयोगजन्य साक्षात्कारांगीकारे बाधकाभावात् | अत एव वेदान्ताचार्यैः सर्वार्थसिद्धावर्ति अस्मदादिप्रत्यक्षं द्विविधम् | इन्द्रियप्रत्यक्षं योगिप्रत्यक्षञ्चेति | तत्र योगिप्रत्यक्षं प्रकृष्टाप्रकृष्टविशेषजम् | तद्युक्तावस्थायां बाह्येन्द्रियजन्यमपि तच्च बुभुत्सादिप्रतिनियतविषयं आगमैकसिद्धञ्च | भावनाबलजमात्रं जगत्कर्तरिप्रत्यक्षं प्रतिक्षिप्तमिति | शास्त्रयोनित्वाधिकरणे मत्तस्स्मृतिर्ज्ञानमपोहनञ्च | प्. २३५) इत्यादौ भाष्ये | ज्ञानमिंद्रियलिंगांगं अयोगजो वस्तुनिश्चय इति भाष्यकारैः योगप्रत्यक्षस्य कण्ठोक्तेः | शतदूषण्यामपि शाब्दप्रत्यक्षभङ्गे | यत्तु भाष्ये दर्शन समानाकारत्वमुच्यते | तन्मोक्षसाधनीभूतध्रुवानुस्मृतेरेव न पुनः धर्मवीर्यफलीभूतयोगिप्रत्यक्षं निषिध्यते | तत्सर्वं धर्मवीर्येण यथा वत्सं प्रपश्यसीत्यादौ श्रुतत्वादिति अत एवोक्तं सुधायाम् | चित्तैकाग्र्यरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वाङ्गीकारादिति | दृश्यते त्वग्रिया बुध्या मनसैवानुद्रष्टव्यं ज्ञात्वा तमेवं मनसा हृदा च शुद्धेन मनसा तदा | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति | इत्यादि श्रुतिस्मृतीनां चित्रैकाग्र्यरूपध्यानयोगोपोद्बलित मनस एवापरोक्षज्ञानसाधनत्व प्रतिपादकत्वेनावयोरविरोधे बाधकाभावात् | क्वचिदवान्तरव्यापारप्राधान्यविवक्षया क्वचिद्धर्मिप्राधान्यविवक्षया मनोध्यानयोगयोः करत्वव्यपदेशाच्च तस्मात् योगधर्मसहकृतमनः करणकब्रह्मसाक्षसाक्षात्कारस्यानुभवरूपस्य उक्तरीत्या भवद्भिरप्यंगीकृतत्वात् तस्य भक्तिरूपत्वस्यास्माभिरुक्तत्वात् | तस्य साक्षान्मोक्षहेतुत्वे विवादाभावात् न काप्यत्रानुपपत्तिरिति सर्वमनवद्यम् || || इति भक्तिप्रपत्यैक्यप्रकाशः || ननु तथापि ब्रह्मानन्दावाप्तिरेव मोक्षः | भवन्मते तु स्वनन्दानुभवो मुक्तिः | तथा च उभयोर्विरोधात् प्. २३६) कथमैक्यमिति चेदत्रब्रूमः | ब्रह्मानन्दस्यानुभूतिश्रुतयो न तु मुख्यतः | मुक्तिर्जीवस्यानुभवो मुख्येति साध्यते | ब्रह्मानन्दानुभूतिरित्यस्यावृत्तिः मुक्तिरित्यस्यानुकर्षः | इत्यर्थेन प्रवर्तन्त इति शेषः | तथा च रस ह्येवायं लब्ध्वानन्दीभवति इत्यादि श्रुतयः | मुख्य वृत्याब्रह्मस्वरूपानन्दानुभवो जीवस्य मुक्तिरित्यर्थेन प्रवर्तन्ते | किन्तु जीवस्वरूपानन्दानुभवो जीवस्य मुक्तिर्मुख्येत्यर्थे प्रवर्तन्त इति मया साध्यत इत्यर्थः | तथाहि किमिदं ब्रह्मानन्दत्वं ब्रह्मभोग्यानन्दत्वं वा ब्रह्मस्वामिकानन्दत्वं वा आद्येपि ब्रह्मभोग्यानन्दो ब्रह्माभिन्नो वा ब्रह्मभिन्नो वा नाद्यः | भवन्मते ब्रह्मणः स्वरूपानन्दभोक्तृत्वानङ्गीकारात् भोक्तृभोग्यभावस्य भेदव्याप्तत्वात् | विशेषांगीकारेण तत्संभवेस्मदैक्य सिद्धेः कथञ्चिद्ब्रह्मणस्तद्भोगेपि तस्य जीवभोग्यत्वानुपपत्तेः अन्यथा मुक्तजीवानां ब्रह्माभेद प्रसङ्गात् | इन्द्रार्जुनसौन्दर्यादीनां परस्परसुखानुसन्धानादेव चेतनैक्यांगीकारात् - चेतनैक्येन सन्धानं प्रमाणं नैवचापरम् | इत्युक्तेः | किञ्च ज्ञानानन्दैकरसस्वभावे ब्रह्मणि आनन्दमात्रं पृथक्कृत्य जीवेनानुभवे ब्रह्मस्वरूपस्य सावयवत्वप्रसंगात् | न च ज्ञानानन्दैकरसस्वभावं ब्रह्मैव जीवेनानुभूयते | तादृशब्रह्मानुभव एव ब्रह्मानन्दानुभवः | स एव प्. २३७) जीवस्य मोक्ष इति वाच्यम् | ब्रह्मविषयकपरोक्षापरोक्षानुभवरूपज्ञानस्यैव मोक्षत्वेन संसारदशायामपि जीवस्य मोक्षापत्तेः | न च संसारदशायां जीवस्यापरोक्षानुभवो नास्तीति वाच्यम् | मुक्तिदशायां परोक्षानुभवाभावात् ब्रह्मापरोक्षानुभवस्यैव मोक्षत्वे ब्रह्मानन्दानुभवो मुक्तिरिति वचो न मुख्यं स्यात् | किञ्च दृष्ट्वैव तं मुच्यते नापरेण इत्यादि श्रुत्या संसारदशायामपि ब्रह्मसाक्षात्कारसत्वादित्युक्तत्वात् - नैव तत्प्राप्नुवन्त्येते ब्रह्मेशानदायस्सुराः | यत्ते पदं हि कैवल्यं इति नारदीयपुराणे ब्रह्मस्वरूपभोगनिषेधाच्च | ब्रह्मस्वरूपमेवावाङ्मनोगोचरं देशकालाद्यपरिच्छिन्नत्वादि महिमोपेतं अल्पशक्तिना सर्वज्ञेनाणुना जीवेनानुभूयते | स एव मोक्ष इति वदन्तः श्रीमन्नारायणस्य परमपारम्यवादिनो भवन्तो महान्तः तस्मात् ब्रह्मस्वरूपानन्दानुभवोमुक्तिरित्येतन्नमुख्यम् | नापि ब्रह्मभोग्य ब्रह्मभिन्नानन्दानुभवो मुक्तिरिति द्वितीयः | विकल्पासहत्वात्तथाहि | स किं ब्रह्मैकधर्मः उतान्यधर्मोपि नाद्यः | ब्रह्मैक भूतधर्मानन्दस्य ब्रह्मैकभोग्यस्य जीवभोग्यत्वे पूर्वोक्ताभेददोषतादवस्न्यात् | यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् | इत्यादि श्रुत्यावाङ्मनो गोचरधर्मभूतानन्दभोक्तृत्वस्यैव प्. २३८) ब्रह्मासाधारणलक्षणत्वात् | संसारदशायां स्वाभाविकभेदमुक्तावनुसन्धानकृतौपाधिकाभेदायोगात् | संसारेपि जीवब्रह्मणोस्स्वाभाविकाभेद इत्यद्वैतमतप्रवेशापत्तेः | यथोदकं दुर्गवृष्टं पर्वतेषु विधावति | एवं धमान्पृथक्पश्यन् तानेवानुविधावति | इत्यादि श्रुत्या ब्रह्मधर्माणां ब्रह्मणा भेदाभावादित्युक्तत्वात् | न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् | ऋते वैष्णवमानन्दं वाङ्मनो गोचरं महत् | इत्यादिपुराणान्तरे | भगवदानन्दभिन्नानन्दानुभवस्यैव मोक्षत्वोक्तेश्च किञ्च विज्ञानमानन्दं ब्रह्म आनन्दो ब्रह्मेति व्यजानात् | सत्यं ज्ञानमनन्तं ब्रह्म | आनन्दरूपममृतं यद्विभाति | सद्देहसुखगन्धश्च ज्ञानभास्सत्पराक्रमः | ज्ञानज्ञानस्सुखस्सुखः स विष्णुः परमोक्षरः || इत्यादि श्रुतिषु आनन्दस्य ब्रह्मस्वरूपमात्रत्वावेदनात् | आनन्दं ब्रह्मण इत्यादि श्रुतीनाम् | राहोश्शिरः | घटस्य स्वरूपमिति वत् विशेषलाभादुपपत्तेरुक्तत्वात् | अन्यथा असदेवेदमग्र आसीत् | सदेव सौम्येदमग्र आसीत् | अशब्दमस्पर्शमरूपमव्ययम् | औपनिषदः पुरुषः इत्यादि श्रुतिभ्यां मुख्यार्थत्वाय सदसद्रूपं शब्दमात्रागम्यं शब्दैकसमधिगम्यं चेत् ब्रह्मद्वयमंगी कार्यं स्यात् | तस्माद्धर्मकल्पनान्तोय * * * * नाय इति न्यायेन विशेषरूपधर्मकल्पनयैव सर्वानन्दश्रुतीनामेक विषयत्वोपपत्तौ ब्रह्मभिन्नानन्दकल्पनं प्. २३९) मुख्यमिति सविस्तरमेतत् धर्मभूतज्ञानैक्यप्रकाशे गुणगुणिभेदैक्य प्रकाशे चोपपादितम् | इत्यास्तां विस्तरः | अत एव नान्त्यः | अन्य धर्मभूतस्य ब्रह्मानन्दस्य जीवभोग्यत्वे जीवब्रह्मणोरभेदापत्तिदोषापरिहारात् आनन्दस्य तत्तन्मात्र भोग्यत्वातिरिक्ततत्तद्धर्मत्वस्य निरूपयितुमशक्यत्वेन उभयधर्मत्वानुपपत्तेः | तस्मात् न ब्रह्मानन्दानुभवो मुक्तिः | किन्तु जीवस्य स्वीयानन्दानुभव एव मुक्तिः | परन्तु यथा दर्पणे प्रतिबिंबितं मुखं देवदत्तमुखप्रतिबिम्बं तत्सदृशत्वात् देवदत्तमुखमित्युपचर्यते तथा जीवस्य ब्रह्मप्रतिबिंबत्वेन जीवानन्दस्यापि ब्रह्मानन्दप्रतिबिंबत्वात् तत्सादृश्येन ब्रह्मानन्द इत्युपचर्यते | तथा च ब्रह्मस्वरूपानन्दानुभवो वा धर्मभूतानन्दानुभवो वा जीवस्य मुक्तिरित्येतन्न मुख्यम् | यत्तु केनचिदभिहितं वस्तुतः | सदीर्घविजयीन्द्रपराजयेरामानुजमतास्मन्मतज्ञानीति मानिना दोषोऽसाधारणः | माध्वे मते संप्रति कथ्यते | यस्य ज्ञानेन विदुषां तन्मतं हेयतामियात् | इत्यादिना यत्तु भाष्ये आभास एव च | यवदात्मभवित्वाच्च मदोषस्तद्दर्शनात् | अद्रष्टा नियमात् | अत एव चोपमासूर्यकादिवत् | इत्यादिसूत्रं जीवब्रह्मणोर्बिम्बप्रतिबिंबभावपरतया योजितम् | भाष्यानुभाष्यतत्वप्रकाशिकान्यायसुधाश्रुतिस्मृतिवचनोदाहरण पूर्वकं तथैव व्याख्यातं तदयुक्तम् | जीवः सोपाधिक प्. २४०) प्रतिबिम्बो वा | निरुपाधिक प्रतिबिम्बो वा | नाद्यः आभास एव चेति सूत्रे - सोपाधिरनुपाधिश्च प्रतिबिम्बोधेर्यते | जीव ईशस्यानुपाधिरिन्द्रयापो यथा रवेः | इति पैंगस्य निरुपाधि प्रतिबिंबत्वावेदनात् किञ्च अदृष्टानियमादित्यधिकरणे प्रतिबिंबत्वाभावश्रुतिः निरुपाधिकप्रतिबिम्बविषयेति तत्वप्रकाशिका * * * * प्रसंगात् अत एव चोपमासूर्यकादिवदित्यधिकरणे भिन्नत्वतदधीनत्वतत्सादृश्यैरेव सूर्यकाद्युपमानोपद्यधीनत्वादिनेति त्वद्भाष्य * * * * न द्वितीयः | ज्ञात एवेत्यधिकरणे युक्तेश्चेति त्वत्कल्पितसूत्रे नित्यस्यापि जीवस्य उपाध्यपेक्षया उत्पत्तिर्युज्यते उत्पद्यन्ते * * * * स्य परमात्मनः | उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयते | इति व्योमसंहितायामिति त्वद्भाष्यविरोध प्रसंगात् अनादरेपि जीवस्य * * * * देरुत्पत्तेः | न च उत्पत्तिरित्युपचारमात्रं स्यादिति वाच्यम् | पराधीन विशेषलाभस्य उत्पत्तेरत्र विवक्षितत्वादिति अत्रत्य तत्वप्रकाशिका | प्रसंगात् | किञ्च यावदात्मभावित्वाच्च न दोषस्तद्दर्शनादित्यधिकरणे तत्वप्रकाशिकायाम् | उत्पत्तिमतश्चानित्यत्वं नियतमेव | घटादौ दृष्टत्वात् | न चम * * * * त्पत्तिरुपाधेरेवोक्ता | न तु जीवस्य अतः कथं तस्यानित्यत्वमिति उपाधेरुत्पत्तिमत्वे प्रतिबिंबस्योत्पत्तिमत्वनियमात् | नहि दृष्टमुपाधे * * * * प्. २४१) त्व प्रतिबिंबस्यानादित्वं अतोस्त्येव जीवस्य विनाशश्चेति पूर्वपक्षोपपादनविरोधप्रसंगात् | जीवस्य निरुपाधिक * * * * बिम्बत्वे एवं पूर्वपक्षोपपादनासंभवात् | एवं नित्य एव जीवः | प्रतिबिंबस्य बिंबोपाधितत्सन्निधानांशं विना नाशानुपपत्तेः | * * * * मात्मनो अनाद्यनन्तत्वात् उपाधेश्च यावदात्मभावित्वात् सर्वगतबिंबोपाधिसन्निधेश्च नित्यत्वात् अतो जीवस्यानाद्यनन्तत्वात् नानदिकर्म * * * * पत्या प्रामाण्यं श्रुतेर्भवति | न चानित्यत्व श्रुतिविरोधः तस्योपाधिविषयत्वात् | न च उपाधेरनित्यत्वे पुनर्जीवस्यापि अनित्यत्वापत्तिरिति वाच्यम् | * * * * नोपाधि न जीवः | प्रतिबिम्बितः तस्योत्पत्तिविनाशौ ब्रूमः | किन्तु धात्वादिपदोपहितबाह्योधेरेव कुत एतदखिलमिति चेत् नित्यः | स्मृति वचनद्वये न च उक्तञ्चैतदन्यत्र | जीवोपाधिद्विधाप्रोक्तः स्वरूपं बाह्य एव च | बाह्योपाधिर्लयं याति मुक्तावन्यस्य * * * सर्वोपाधिविनाशे तु प्रतिबिंबः कथं भवेत् | कथञ्चात्मविनाशाय प्रयत्नस्सेत्स्यति क्वचित् | इति तथा - उपायैश्चैव नित्यत्वा * * * * स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् | इति तदीयसिद्धान्तोपपादनासंभवाच्च | न्यायसुधायामपि प्. २४२) एतदधिकरणपूर्व * * * * पपादनविरोधोपि द्रष्टव्यः | तथा च त्वन्मते जीवस्य सोपाधिप्रतिबिंबत्वनिरुपाधिप्रतिबिंबत्वयो व्याघातग्रस्ततया विप्र * * * * जसमिति न्यायेन जीवप्रतिबिम्बत्ववाद एव न संगच्छते | इति | रामानुजीयमखिलं मतमापातसंगतम् | तवैव बुद्धिका * * * * महे तथाहि यदुक्तं जीवः सोपाधिप्रतिबिम्बो वा निरुपाधिप्रतिबिंबो वा | नाद्य इत्यादि तन्न तत्र तावत् सोपाधिप्रतिबिंब * * * तिब्रूमः | न च वाच्यम् | जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः | इति श्रुतिविरोधः | प्रतिबिंबत्वाभाव श्रुतिः | निरुपाधिप्रतिबिंबविषयेतित * * * * भिन्नत्व तदधीनत्व तत्सादृश्यैरेव सूर्यकाद्युपमानोपाद्यधीनत्वादिनेति भाष्यविरोधश्चेति अस्यास्मत्सिद्धान्तरहस्यापरिज्ञानमूल * * * * त्वात्तथाहि जीवोपाधिर्द्विविधः | स्वरूपान्तः करणं बाह्यञ्चेति | तत्राद्यो जीवस्वरूपप्रतिभासहेतुरान्तरः उक्तञ्च गीताभाष्ये - चिद्रूप्या गतो जीवः केशवप्रतिबिम्बकः | इति उक्तञ्च भक्तिपदे अत एव चोपमा सूर्यकादिवदित्यधिकरण सुधायाम् | * * * * आभ्यन्तरो बाह्यश्च तत्र भावप्रतिभासहेतुराभ्यन्तरः स्वभाव विपरीतावभासहेतुरन्तः करणादिर्बाह्य | तदायत्त * * * * नस्तीत्यभिप्रेत्य इदमादितम् | उक्तञ्च भाष्ये - जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्यमेव च | प्. २४३) इत्यादि | उक्तञ्च प्रथमस्कन्धतात्पर्ये उपाधे * * * * जीवो विनश्यति | स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनमिति | उपाधितन्मात्रत्वं जीवस्येति | एवञ्च स्वरूपान्तःकरणरूपोपाधि * * * * बिंब भावमापद्यते | ननु दर्पणादिवदेकदेशेन प्रतिफलनाधिकरणतयोपाधिः एकस्यैव जीवस्यान्तःकरण * * * * त्वञ्च प्रयोज्यप्रयोजकभाव लक्षणविशेषबलादुपपद्यते | तथा च स्वरूपान्तः करणं जीवस्य प्रतिफलनाधिकरणरूपोपाधि * * * * तिमध्योच्चादि विभेदतः | इति भाष्यव्याख्यावसरे तत्वप्रकाशिकायां प्रतिफलितो भवतीत्यर्थ इति | तत्वप्रदीपिकायामपि प्रतिबिंब प्रतिबिंबकरत्वमायातीत्यर्थ इत्युक्तम् | एवं स्वरूपान्तः करणरूपोपाधिस्थितिः | एतदभिप्रायेणैव जीव ईशस्यानुपाधिरिति वचन मु * * * दि चापस्य उपहितातिरेकेण उपाधिर्नास्ति | किन्तु यावदुपाधिरपि प्रतिबिंबीभवतीत्यनुपाधिप्रतिबिंबिता एवं स्वरूपान्तः करणमपि * * * * प्रतिबिंबभावमापाद्यते | न तु दर्पणादिवदेकदेशेनेति भिन्नोपाध्युपहित प्रतिबिंबत्वाभावपरं निरुपाधिप्रतिबिंबत्व * * * वाक्यमपि तत्परमेव | नोपाद्यधीनत्वादिनेति भाष्यमपि तत्परमेव | तस्माज्जीवस्य सोपाधिप्रतिबिंबत्वेन किञ्चिद्दूषणम् | न द्वितीयः | ज्ञात एवेत्यधिकरणे युक्तेश्चेति गुणसूत्रभाष्ये उपाध्यपेक्षया तेषामुत्पत्तिरपि गीयत इति वचनम् | * * * * तदुपाधेरुत्पत्तेरित्यादि तत्वप्रकाशिकावचनञ्च प्. २४४) विरुद्धं स्यादित्यादि तत्र जीवोपाधेरुत्पत्तिविनाशवत्वेन जीवभिन्नत्वात्तत्र प्र * * * * भिन्नोपाध्यनत्वांगीकारादिति तदयुक्तम् | अस्यापि भाष्यटीका तात्पर्यपरिज्ञानमूलत्वात् तथाहि ज्ञोत एवेत्यधिकरणे उपाधिपदस्य जीवस्य प्रतिबिंबता प्रयोजकोपाधिपरत्वाभावात् | किन्तु उत्पत्तिव्यवहारप्रयोजकीभूतोत्पत्तिमद्देहपर * * * * अत एव जीवस्यापि अनादिनित्यत्वे प्राप्ते जीवोत्यत एव भगवत एवोत्पद्यते | ते वा एते चिदात्मानो विनष्टाः परं ज्योतिर्निविशन्ति | नोत्पद्यन्ते न विशन्ति कदाचनेति काषाण श्रुतेः जीवस्याव्युत्पत्तिर्युक्त्या अनादि नित्यस्य कथमुत्पत्तिरिति शंकायां युक्तेश्चेति सूत्रे शरीररूपोपाध्यपेक्षया उत्पत्तिर्युज्यते | उत्पद्यन्ते चिदात्मानो नित्यानित्या परात्मनः | उपाध्यपेक्षया तेषां इति व्योमसंहिता वाक्येन उत्पत्तिमद्देहसंबन्धात् जीवस्योत्पत्तिरपि संभवतीति सिद्धान्तितत्वेन तत्रोपाधिशब्देन प्रयोजकीभूतदेहरूपोपाधेरेव विवक्षितत्वात् | अत एव - पुमांसो देहसंबन्धात्सृष्टिमन्त इतीरिताः | इत्यनुव्याख्याने तत्र प्रतिफलनाधिकरणरूपोपाधेरप्रकृतत्वात् अग्नेर्धूमसंबन्धे आर्द्रेन्धनसंयोगोपाधिः | श्यामत्वे शाकपाकजत्वमुपाधिरित्युपाधिकरणत्वाभावात् | न च जीवस्यानादित्वमेव मुख्यं उत्पत्तिरुपचारमात्रं स्यादिति प्. २४५) वाच्यम् | सर्वत्र पराधीन विशेषावाप्तेरेव * * * * अङ्गीकारात् प्रकृत्यधिकरणे * * * * पराधीन विशेषाप्तिरनिवृत्यान्यथा भवः | इत्यनुव्याख्यान सुधयोः तथैवोपपादितत्वात् तस्माज्जीवरूपोपाधौ प्रतिफलितत्वात् सोपाधिप्रतिबिम्बत्वं युक्तम् | स्वभिन्नोपाधौ दर्पणादाविव प्रतिफलितत्वाभावात् निरुपाधिप्रतिबिम्बत्वमभ्यु * * * * देन प्रमाणद्वयान्यथानुपपत्यैवं कल्पनीयत्वात् यच्चोक्तम् यावदात्मभावित्वादित्यधिकरणपूर्वपक्षसिद्धान्तोपपादनविरोध इति तन्न | * * * त्येन तद्विरोधस्याकिञ्चित्करत्वात् | निर्जीवस्वरूपस्यैव प्रतिबिम्बोपाधित्वाभिधाने बिम्बस्य सर्वगतस्यपा * * * * त्यनाद्यनन्तत्वात् नानादिकर्मसंबन्धानुपपत्याश्रुत्यप्रामाण्यमिति सिद्धान्तोपपादनविरोधस्याप्यभावात् | ननु तर्हि जीवोपाधिर्द्विविधा * * * * बाह्यमेव चेत्यादिना भिन्नोपाधेरपि जीवप्रतिफलनाधिकरणस्योक्तत्वात्कथं भिन्नोपाद्यधीनत्वाभिप्रायेण निरुपाधि * * * पपद्यत इत्युक्तमिति वाच्यम् | तादृशबाह्यान्तः करणरूपोपाधेः धर्मिप्रतिफलनत्वाधिकरणत्वाभावेनोक्तदोषा भावात् न त्वद्व्यवहारयोरनुपपत्तिरिति वाच्यम् | बाह्यान्तः करणस्य दर्पणादिवत् प्रतिफलनाधिकरणतयोपाधित्वाभावेपि जीव * * * * संज्ञकत्वेनोपाधित्वतद्व्यवहारयोरुपपत्तेः बाह्यान्तः करणपादानकसुखदुःखादीनां सोपादाननिष्ठानां प्. २४६) जीवस्यानुभव सिद्धत्वात् तादृशसुखदुःखादिभानस्यौपाधिकत्वाघातग्रस्तत्वात्तन्मतयुक्तमित्येतत् | स्वज्ञानविजृंभितप्रकरितमिति * * * * व्यवहारो न मुख्य इति तादृशानन्दानुभव रूपमोक्षोपि न मुख्य इति सर्वमति * * * * ब्रह्मस्वामिकस्यास्माकमिष्टत्वेनास्मदैक्ये विवादाभावात् | अत एव संपद्याव स्वरूपानन्दानुभवस्य नित्यसिद्धत्वे न अपुमर्थत्वमिति वाच्यम् | स्वरूपेण नित्यत्वे * * तद्दोषसाम्यात् बन्धनिवृत्तिविशिष्टस्वरूपसुखानुभवस्य ज्ञानभक्त्यादि साधनसाध्य ब्रह्मानन्दानुभवस्याप्यमुख्यवृत्या जीवानन्दानुभवत्वेन स्वरूपसुखानुभव * * * * अस्मन्मतैक्येन कोपि दोष इति | * * * * सर्वमति मङ्गलमिति सिद्धम् | श्रीमदानन्दतीर्थाद्याः प्रीयन्तां गुरवश्चमे | इति श्रीमत्परमहंसपरिव्राजकाचार्य सर्वतन्त्रस्वतन्त्र श्रीमद्वसुधेन्द्रतीर्थ श्रीमच्चरणकरुणालयेन श्रीमन्महानन्दतीर्थ भगवत्पादाचार्यसिद्धानितरसाधारण प्रवचनादिपटुतर श्रीवाणातुरैरामाचार्यतनय गोपालाचार्यसुनुना ऐयणाख्येन विरचितायां त्रिमतैक्यप्रकाशिकायां रामानुजमतैक्यप्रकाशोनाम तृतीयः परिच्छेदः || || श्रीकृष्णार्पणमस्तु || || समाप्तश्चापं ग्रन्थः || श्रीरस्तु ########### END OF FILE #######