#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00304 Uniform title: mohacūḍottara Main title: mohacūḍottara Manuscript : NGMCP 5-1977 Reel A 182/2 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision date: February 11, 2014 Internet publisher : Muktabodha Indological Research InstituteInternet Publisher Muktabodha Indological Research Institute Publication year : 2014 Publication city : Publication country : United States #################################################### प्. १अ) ओं नमः शिवाय || स्कन्दं ब्रह्मविदं शान्तं सर्वज्ञपदसंस्थितम् | प्रणिपत्य हरिः प्राह जानुभ्यामवनौ स्थितः || शक्र उवाच || त्वत्प्रसादात् परिज्ञातम् मोहचूडं मया प्रभो | तत्रासूचि त्वया लिङ्गं प्रासादाश्च समासतः || समासेन यतः प्रोक्तन्तस्मान्नैवावधारितम् | मोहचूरोत्तरं शास्त्रन्तदर्थं वक्तुमर्हसि || इति तस्य गिरं श्रुत्वा जगाद हिमजासुतः | लिङ्गादिकं प्रवक्ष्यामि शृणु तस्माच्छतक्रतो || देवासुरनरा यक्षा मुनयो वीतमत्सराः | लिङ्गाराधनतः सिद्धागता मुक्तिञ्च साश्वतीम् || भुक्तिमुक्तिपरिप्राप्तिकारणं वचनन्ततः | श्रुत्वां तद्विविजिज्ञासुः साधको वक्तुमुद्यतः || किं स्वरूपं भवेल्लिङ्गं विधिभेदाश्च लिङ्गकाः | आचार्यवनयागञ्च दारुपाषाणलक्षणं || लिङ्गलक्षणमप्यन्तं प्रतिमालक्षणन्तथा | पिण्डिकालक्षणं ब्रूहि धरित्रीलक्षणं प्रभो || परिग्रहो यथा तस्या वास्तुलक्षणपूजने | शिलान्यासं पीठबन्धं प्रासादानाञ्च लक्षणम् || मण्डपानपि मे ब्रूहि स्नान द्रव्यं समासतः | वेदीप्रमाणमुन्मानं कुण्डलक्षण संयुतम् || एतत् सर्वं समाचक्ष्व प्रसादादम्विकात्मज | यन्न पृष्टम् मया नाथ बुद्धिहीनान्तरात्मना || तत्सर्वं मम गाङ्गेय प्रसादाद् वक्तुमर्हसि | श्रीस्कन्द उवाच || अक्ष्ममृल्लोहमुद्दारुरत्नद्रव्यादि सम्भवम् | विधिना हृत्प्रतिष्ठं स्याल्लिङ्गं भुक्तिविमुक्तिदम् || तत् सिद्ध्यर्थं व्रजेद् विद्वान् देशिकः शिल्पिभिः सह | प्. १ब्) भूधरं विपिनञ्चैव पुण्यक्षेत्रमथापि वा || चीर्णविद्याव्रतो मन्त्री ज्ञानवान् सुसमाहितः | भस्मनिष्ठो यतिः ख्यातस्तद् विना भौतिको वरः || सुतिथौ वारनक्षत्रेसु लग्ने करणान्विते | अस्त्रं संस्मृत्य मेधावी वनयात्रां समारभेत् || शिलां शुभां समासाद्य तस्याः सौम्ये यजेच्छिवम् | हुताशनं ततो विद्वान् हरेद् भूतबलिं बहिः || असिना प्रोक्ष्य पाषाणं वर्मणा वेष्ठ्य पूजयेत् | तेनैव प्रोक्षयेत् तत्र शिल्पिनं सुकुलोद्भवम् || सहायानपि संप्रोक्ष्य कुठारं टङ्कमुद्गरान् | पूजयेदस्त्र राजेन स्वपेन्मेध्यासनस्ततः || भुक्तिमुक्तिप्रसिद्ध्यर्थं पूर्व व * सिरा गुरुः | ध्यात्वा महेश्वरं देवं स्वप्नमन्त्रञ्जपन् बुधः || स्वप्नमन्त्रं प्रवक्ष्यामि साम्प्रतन्ते शचीपते | वाग्विशुद्धं महावीजं नेत्रमण्डलभेदितम् || सीतयं भेदयेत् पश्चा * * * * पुरन्दर | छेदनेनाहतं कुर्याद् भूतवीजं सुरेश्वर || ब्रह्मपूर्वाहतं वीजन्निश्चलन्तदनन्तरम् | वृकोदरयुतं भद्रं वीजं ताराधिपन्ततः || शुद्धं पयोधरं पश्चाज्ज्योस्नान्तसृष्टियोजितम् | अभिन्नं भीषणं साधो यकारञ्छेदनीहतम् || स्वाहान्तः प्रणवादिश्च प्रोक्तः स्वप्नाधिपो मनुः | सुस्वप्नं कथयेदिष्टे दुःस्वप्नेः शान्तिमाचरेत् || प्रातः संपूज्य देवेशं शिलामाकोटयेत् त्रिधाः | रुद्राशाद् ब्रह्मणो वापि भोगमोक्षाभिकांक्षया || शिलां रथे समारोप्य सिद्धयात्रामुपक्रमेत् | प्. २अ) अनेनैव विधानेन गृह्णीयात् तत् संभवम् || अधुना कारयेल्लिङ्गं व्यक्ताव्यक्तोभयात्मकम् | ज्येष्ठादि क्रमभेदेन कर्तुर्वित्तानुसारतः || निस्कलं सकलञ्चैव तृतीयं सकलाकलम् | लिङ्गव्यूहं समाख्यातञ्चित्तव्यूहात् पुरन्दर || उच्छृसन्तं परन्तत्वन्न च केनापि खण्डितम् | तल्लिङ्गं सकलं प्रोक्तं नादरूपं हृदं व्रजे || चैतन्यं चित्तया युक्तं चित्तेनैव सहैकतः | बोधरूपं यदा याति तदा लिङ्गं परापरम् || बोधरूपं यदा शान्ते निस्तरङ्गे विलीयते | तदा लिङ्गं परं प्रोक्तं मोक्षदन्तदुदाहृतम् || एतदाभ्यन्तरं लिङ्गं वाह्यमन्यत् प्रचक्षते | व्यक्तिस्थान तया भाक्ते तच्छन्दः संप्रवर्तते || शिलामृद्दारुलोहोत्थं तुष्ठिग्रहरसानलैः | ज्येष्ठज्येष्ठं करैर्लिङ्गं चतुर्द्रव्यविभेदतः || तत् तृतीयांश सन्त्यागान् मध्यमस्योत्तमं भवेत् | कन्यसाग्र्यं दलादस्य त्रिधा लिङ्गमुदाहृतम् || भिद्यन्ते स्वस्वरामांसैर्नवलिङ्गं यथा भवेत् | ज्येष्ठादिकन्यसान्तानि लिङ्गानि कथितानि ते || नागभक्ते च लिङ्गार्द्धे रसवाणकृतैर्भवेत् | आ * * * ? सुर ज्येष्ठविष्कम्भः सर्वतः समे || सन्त्रिभागैर्भवेद् दक्षैर्ब्रह्मांशश्चतुरस्रकः | तत् कर्णार्द्धे तरस्यागान्मङ्गलास्त्रं शतक्रतो || मुनित्रयेण मध्यं स्यान्ध्रासस्तु करसंख्यया | षोडशास्त्रमथैवं स्यात् समं पश्चात् प्रवर्त्तयेत् || लिङ्गमुक्तं शिरस्तस्य वक्षे सामान्यतो हरे | पुण्डरीकं विशालञ्च श्रीवत्सं शत्रुमर्दकम् || प्. २ब्) त्रपुषं कुक्कुयण्डञ्च खण्डचन्द्रं शचीपते | इति सप्तशिरः प्रोक्तं वर्तनामधुना शृणु || अर्चाष्टांशे युगैर्भक्ते पुण्डरीकं तनुक्षयात् | कर्णक्षयाद् विशालञ्च श्रीवत्सङ्गुणसंक्षयात् || कोणक्षयाद् विजानीयाच्चतुर्थं शत्रुमर्दकं | रसभक्ते क्षपादांशसांतनान् त्रपुषाकृति || श्रुत्यंशस्य परित्यागात् कुक्कुटाण्डम् भवेच्छिरः | गुणभक्तेंशसन्त्यागाद् वालेन्दुः स्यात् परिस्फुटम् || व्यक्ताव्यक्तन्तथा कुर्यादेकत्रिश्चतुरास्यकम् | शक्तिभक्ते च रुद्राङ्गे वह्निभागादधः शिरः || ललाटन्नासिका वक्त्रं चिवुकादि पुरन्दर | कल्पनीयं हरे सम्यक् लिङ्गविष्कम्भवाह्यतः || लिङ्गदैर्घ्यविकारांशं लिङ्गविस्तरवाह्यतः | चतुरास्ये चतुर्दिक्षु निर्गमाय प्रदापयेत् || भागान् प्रकल्प्य कुर्वीत रूपकं व्यक्तलिङ्गवत् | उपरिभागञ्च लिङ्गाभं मूलविष्कंभविस्तृतम् || भागाभ्यां मुकुटं कुर्याज्जटाबन्धान्वितं शुभम् | गुणास्य कारयेद् विद्वान् भवांशे रसभाजिते || भागखण्डभुजस्कन्धौ ऋत्वङ्गुलविनिःसृतौ | ग्रीवास्याद् रामभागो ना * *? मात् तदूर्ध्वतः || पादात् पादात् प्रकर्तव्यं मुकुटं पूर्वलक्षणम् | लिङ्गदैर्घ्यार्द्धमुत्यंशे लिङ्गव्यासवहिष्कृतेः || कर्णनासाकपोलाघं तत्र सर्वम् प्रकल्पयेत् | अथैकवक्त्रैके लिङ्गे भवांशे तु भवाजिते || अधोभागं द्विधा कुर्यात् पुनरर्द्धमधः स्थितम् | प्. ३अ) स्कन्धौ ग्रीवां च भागाभ्यां मध्ये सार्द्ध पुनर्युगैः || भागैकैकेन वक्त्रादि मस्तकान्तं विवर्तयेत् | तदूर्ध्वे तु गुणैर्भक्ते द्वाभ्यां मौलिं प्रकल्पयेत् || भागेनैव तु लिङ्गाभं वक्त्रनिर्गतिरुच्यते | लिङ्गदैर्घ्यार्कभागेन निर्गमः शुभकारकः || व्यक्ताव्यक्तं समुद्दिष्टमुभयार्थप्रसाधकम् | गङ्गादिसरितो याता पुरा पक्षेन्न समुद्भवा || तया तु घटयेल्लिङ्गं यथा वक्ष्यामि लक्षणम् | मृत्स्नां * * * * कृत्वा त्रिफलाचूर्णसंयुताम् || कुनदीतालसिन्दूररसगन्धकयोजिताम् | सुवर्णगैरिकयुतां किञ्चिद् गुग्गुलुमिश्रिताम् || मर्दयेत् सुपरिश्राव्यपदेनानुविचक्षणः | शणमाषातसीविल्वसौराष्ट्रीरसमिश्रिताम् || कषायोदकसंक्लिन्नां सप्तरात्रमथोषिताम् | सुगन्धि गन्धमिश्रेण तथा सर्जरसेन च || मर्दयेत् सर्वतो येन स कषायेन यत्नतः | ततो लिङ्गं प्रकुर्वीत यथोक्तलक्षणं शुभम् || पक्वापक्वं सुराध्यक्ष यथा मनसि वाञ्छितम् | मरकतं पद्मरागं च वज्रवैदूर्यमौक्तिकम् || चन्द्रप्रियं पुष्परागं महानीलादिटिट्टिभम् | भिन्नाभिन्न गुणास्त्वेषां स्फाटिकं सर्वकामदम् || सरित्सलिलसंकाशं स्वच्छं स्निग्धं प्रभान्वितम् | तुषारकणिकाहीनं सर्वदोषविवर्जितम् || स्फाटिकं लिङ्गमासाद्य केन सिद्धाः शतक्रतो | वाणे लौहे स्वयं व्यक्ते दैवे च ऋषिकल्पिते || प्. ३ब्) असुरैः स्थापिते लिङ्गे लक्षणं न पुरोदितम् | मानोन्मानयुतं लिङ्गं मण्डलादिविदूषितम् || प्रतिकूलं विजानीयात् सर्वेषामपि प्राणिनाम् | शिलायास्थे दान यत्नात् तक्षणे घर्षणे पि च || निष्पन्नावपि ज्ञातव्यं गर्भमण्डलकादिकम् | माञ्जिष्ठे कपिले रक्ते सालूराखुकृकालकाः || कृष्णासिगुडकर्णेषु सर्प आपस्तथोपलः | कपोतभस्मचित्रेषु गोधिकासिकतालिनः || पीतभृङ्गाभके गोधाविषञ्चैव विनिर्दिशेत् | नीले च मण्डले श्यामे गोनासे मानुषन्तथा || चाषाभ पक्षिणं विधाच्छ्याम चाषनृपक्षिणम् | द्विके द्विके द्विरूपञ्च यद्रूपन्तत् तदादिशेत् || वाह्यतो लक्षणाभावे लेपं युञ्जित भ्रान्तितः | सौराष्ट्री वालकास्वघ्न ऋद्धिवृद्धी द्विजन्तथा || आरनालेन पिष्ट्वैनमुपलं लेपयेन्निशि | आर्द्रता सिमिकाक्लेदो वाष्पोत्थानमनुक्रमात् || द्विजं महीतं तथा मीनं कृष्णं ज्ञात्वानु तान् त्यजेत् | अतो दोषविनिर्मुक्ते पृष्टेशाणादिभिर्वुधाः || धौतदेहे ततो लिङ्गे चिह्नं लक्षं शुभाशुभम् | हयेभवृष शंखाब्जस्वस्तिकच्छत्रभूधरैः || मृगारिध्वजभृङ्गारमुद्गरा * शाचामरैः | कूर्मोर्मीमत्सश्रीवत्सचक्रनेत्रपवित्रकैः || सिद्धिमेभिर्विजानीयान्निर्वाणन्तदनन्तरम् | व्याघ्रमार्जारभल्लूककबन्धकाककङ्ककैः || संदंसर्पासगृध्रोष्ट्र उलूकवकपेचकैः | एभिः सर्वैर्युतं लिङ्गं वर्णैश्चाग्नेयमारुतैः || प्. ४अ) यजमानप्रजाराज्ञां दुःखमृत्युप्रदं भवेत् | अव्यक्तमुखलिङ्गानि समासात् कथितानि ते || साम्प्रतं कथ्यते व्यक्तन्निःसन्दिग्धं शचीपते | इति मोहचूरोत्तरे अव्यक्तमुखलिङ्गप्रख्याने प्रथमः पटलः || प्रतिमालक्षणं वक्षे माने द्वारकरात्मके | तिर्यग्भक्तगुणैर्द्वारे द्वाभ्यामर्चोत्तमोत्तमम् || पीठं भागेन कर्तव्यं मध्योत्कृष्टन्निगद्यते | नन्दवद् भाजिते दैर्घ्ये त्यक्ता भागं पुनस्त्रिधा || भागाभ्यां प्रतिमा कार्या भागं पीठाय कल्पयेत् | सिद्धिभक्ते पुनर्द्वारि तनुभागं परित्यजेत् || विभज्य गुणवच्छेषं द्वाभ्यां जीवप्रकल्पना | अंशैकेन भवेत् पीठं प्रत्येकाद् वा द्वयन्द्वयम् || ज्येष्ठादिभेदतः शक्रद्वार्मानात् प्रतिमानव | करमेकं सभारभ्य यावत् स्यादङ्कगोचरम् || लिङ्गवन्मानमेतासां संख्या तद्वत् पुरन्दर | आयामार्द्धरसैर्भक्ते षष्ठांशस्य नवांशके || अङ्गुलं स्वकमुद्दिष्टन्तेनाङ्गोपाङ्गवर्तना | नव तालाः सुरा ज्ञेया ब्रह्मविष्णुमहेश्वराः || तालैकादशभिः कार्या भूतवेतालराक्षसाः | किङ्कराः सप्ततालाश्च पञ्च तालाश्च वामनाः || पङ्गुकुब्जौ च भूतांशैः कुष्माण्डा युगतालिकः | रुचितं रूपकायामं विभज्य नवभागिकम् || रूपकं वर्तयेत् तत्र यस्य देवस्य यद् भवेत् | विकाराङ्गुलमुत्सेधो मुकुटे पाकशासन || आस्यं तालसमं प्रोक्तं ग्रीवा वेदाङ्गुला ततः | ग्रीवाधस्ताद् विजानीयाद् हृदयं नाभिमण्डलम् || प्. ४ब्) जठरं तालतालेन ज्येष्ठायाः कारणं विना | दैर्घ्यात् कामकला १३ ऊरूजानू पालीकृताङ्गुले || जङ्घे रुद्रकले कार्ये गुल्फे वेदाङ्गुले ततः | मङ्गलदिगङ्गुलाज्ञेया प्रतिमा तु पराहरः || ऊर्द्ध्वमानं समाख्यातं तिर्यङ्मानादिकं शृणु | भाग त्रयञ्च वदने वक्त्रञ्चिवुक संयुतम् || नासा वंश ललाटं * * * * स्यात्स ताङ्गुलम् | सिद्ध्यङ्गुलं ललाटञ्च तिर्यक् स्यात् पाकशासन || ललाटाधोङ्गुला शक्ते सुभुवौ सार्द्धलोचने | मूलेद्वियवविस्तीर्णे पादहीने ततः क्रमात् || प्रान्तेयवार्द्ध विस्तारे वक्त्रे वै कार्मुका कृती | मात्रा श्यामे शुभे कार्ये लोचने त्र्यंशतारके || मीनोदरनिभे तारे भूतांशे ज्योतिषी शुभे | अङ्गुले पृथुनी मध्ये शेषं ज्ञात्वा प्रयोजयेत् || यथा हिमवतं रूपन्तथा दृष्टिन्नियोजयेत् | अग्रे समुच्छ्रिता नासा अङ्गुल्याभ्यां शचीपते || पार्श्वे यवाधिकासाधो मूले तारक विच्युते | निष्पावदलवद् वाह्ये पुटौ तारकविस्तृतौ || द्व्यर्द्धयवदलौ कार्यौ नासा रन्ध्रे चतुर्यवे | अपाङ्गे द्विकले ख्याते श्रुती वक्त्र समासके || यवाधिकेर्द्ध विस्तीर्णे वर्तीयुग्म यवे मते | शष्कुल्यौद्वियवे कार्ये ककुनी तु चतुर्यवे || खल पत्रं कलामान मायामर्द्धि न विस्तृतम् | तुदूकावङ्गुलं दीर्घौ पार्श्वौ भूषानुरोधतः || कर्णान्तरं समुद्दिष्टङ्ग्रहगोलकमानकम् | ललाटान्तात्तुदुयावत्तद्विन्द्यात् पङ्क्ति गोलकम् || प्. ५अ) दलं सार्द्धयवं कर्णे त्रिनाला वेष्टितं शिरः | हनू दशाङ्गुलौ कर्णात् सन्धानं गोलकन्तयोः || मुखन्तु द्विदलं दैर्घ्याद्विस्तृतं सार्द्धमङ्गुलम् | अविस्तृतं समुद्दिष्टं विस्तृतन्त्वन लाङ्गुलम् || कलार्द्धमधरे मा * * * * * परं विदुः | तस्याधोङ्गुल वद्गर्तागोजीतत्रार्द्धमङ्गुलम् || ऊर्द्ध्वगोजीतुना साधो द्वियवादलविस्तृतः | सृक्किणौ दृष्टि सूत्रेण कविरौ पुटसूत्रगौ || मध्यवक्त्रो * * साधू चिवुकाश्चैव सूत्रगाः | ग्रीवावस्वङ्गुला कार्या वेष्टनेनार्क गोलिका || स्कन्धौ त्रिगोलकौ कार्यौ विकाराङ्गुल वेष्टनौ | वाहू भूया वद * * वुप वाहू पुरन्दर || वसु रूपाङ्गुलायामौ ग्रन्थिं विन्द्यात् कलार्द्धतः | तद्वत्कर प्रवाहोश्च दैर्घ्यान्युन्यङ्गुलन्तलम् || तिर्यक्काणाङ्गुलं मध्यत् तद्वत् सूना यवं विना | तर्जन्यनामिकेताभ्यां कलार्द्धो नाच कन्यसा || दैर्घ्य तस्तत् समाङ्गुष्ठो देसिन्यास्त्र्यङ्गुलो ह्यधः | मूले वह्नि कलो ज्ञेयः सस्यन्द्रेण परिच्युतः || वाहन्ते च तथा शक्र किन्तु राम यवोसितः | अक्षाङ्गुलादि कोणान्तो विष्कम्भस्त्रिगुणा वृतिः || मांसलौचकरौ श्रेष्ठा वङ्गुल्येद्वर्तुलाहरे | सार नेत्र सरैर्हीनं मध्या या गोलकं यवैः || दैर्घ्यं स्वपर्वणो न्यासां पङ्क्ति मांस परिच्युते | चतुर्थांशं विना कन्या प्रान्ते यर्वार्द्ध जानखाः || मूले च त्र्यङ्गुलो मध्या मध्ये चैव यवोह्रिताः | गुण यवोह्रितः प्रान्ते स्वायामादन्यतः पुनः || कन्दे ग्रन्थौ तथा मध्ये रसभूतकृताङ्गुलः | प्. ५ब्) पर्वणः सयवाङ्गुष्ठे च्युतश्च्युततराग्रतः || कण्ठकूप स * * * * * ? कौरस गोलकौ | अन्तरञ्च तदेव स्यात् तयोः पक्षौ षडङ्गुलौ || मण्डलं द्वियवं प्रोक्तं मध्यस्थं यवमानकम् | व्यासश्चैव समस्तस्य विपर्यय यविर्भवेत् || * * ? कौ तु समुद्दिष्टौ नाभिमानमथोच्यते | नाभिः स्याद् दक्षिणावर्ता गंभीरा तु चतुर्यवैः || विस्तृतैकाङ्गुले नैव वेष्टनन्त्रिगुणं हरे | अधुनासंप्रवक्ष्यामि नाभि देशादि विस्तरम् || विस्तृतिन्नाभि देशे तु कुर्याद्वृत्यङ्गुलैर्बुधः | दुःखा२१ङ्गुलैस्ततो धस्तात् कटिदेशे जिनाङ्गुलैः || मेहनं द्विकलञ्चाधो वृषणौ नेत्रमानकौ | विष्कंभः कलया मूले स त्र्यंशा विकलापुरः || वेष्टनन्त्रिगुणं सर्वं हस्तपादादिकं विना | षण्मात्रविस्तृता ब्रूहू ज्ञात्वा हासन्ततोन्ततः || त्रिकला जानुकन्देस्याज्जंघाकन्दे तथैव च | तद्रन्थौ गोलकाधिक्य मत्स्या पादाङ्गुलेन तु || त्रिगुणा प्रावृतिः ख्याता पूर्ववतशतक्रतो | पादौ मन्त्रङ्गुलौ कार्यौ पार्ष्णीं कृत्यङ्गुलौ ततः || पादो नस्त्र्यङ्गुलोङ्गुष्टो वहीना प्रदेशिनी | पादपादविहीनाः स्युरङ्गुल्योन्यां शतक्रतो || कन्दे भूताङ्गुलो नाभो मध्ये तु विकलाच्युतः | सार्द्धविपर्ययाङ्गुष्ठे च्युतश्च्युततरः क्रमात् || रामाङ्गुलस्तु देशिन्याः कण्ठाभ्यासे करा * * | * वा व्यस्त ग्रतोऽन्यासो माय ८ भोग परिच्युतम् || मूल निम्नं न स्वङ्कुर्यात् किञ्चिदग्रे समुन्नतम् | पुन्नारी लक्षणं प्रोक्तं लेसान्नमुचि सूदन || प्. ६अ) अधुनासंप्रवक्ष्यामि यथामानं भवेस्त्रियः | नार्यष्ट तालिका तन्वी नेत्र श्रोणीस्तनाधिका || भ्रुवौ यवाधिका नासा यवहीना समुच्छ्रयात् | दस्राङ्गुल * * * र्घ्यतच्च्युतं विस्तरेण तु || तेन हीनौ सुभावङ्गौ स्यातां नभ्रौ मनो रमौ | ग्रीवामष्ट यवैर्हीनां तिर्यक्कृत्वौर्द्धतो न्यसेत् || एवमक्षाङ्गुलैर्दैर्घ्य विस्तृता करणाङ्गुलैः | द्वन्द्व गोलकमादाय प्रवाहुभ्यां शतक्रतो || ऊरू जानुक पिण्डीषु दद्यादर्द्धार्द्धमङ्गुलम् | उच्चैस्त्वे पादयोर्दद्यात् पादौ समतलौ पुनः || चतुरङ्गुलमादाय वाह्वायामाद्विवर्द्धितौ | पीनौ वृत्तौ स्फिचौ कार्या वङ्गुली मानमुच्यते || नागांशं स्वस्वमादाय विस्तारेणोर्द्धतो न्यसेत् | * * कूर्मोन्नतञ्चैव भगं कुर्यात् स लक्षणम् || तन्मध्यतस्त्वधो भागे रन्ध्रं स्यात् कुञ्जरोष्ठवत् | प्रतिमै तन्मानतः कार्या करण स्थानकान्विता || * * * * प्रदाधन्यास्यादतोन्यान शोभना | हीनाधिकं भवेल्लक्ष्य यत्र यद्युक्तमाचरेत् || युक्तादवाप्यते यस्मात् पारलौहिकिकं फलम् | सम्पत् करीदारुमयी मृण्मयी सुखदा सदा || पुष्टिप्रदा हेममयी धन्यारत्नमयी मता | वर्ण क्रमाच्छुभाशैली क्षेम्यातां भ्रमयी तथा || जयदाराजती साधोरैतीरतिकरी नृणाम् | सौभाग्यान्नाद्य पशुदा कांस्यपित्तलसंभवा || वलदासी स जातास्यान्न कार्या लोह संभवा | क्षुद्भयं दीर्घजठरा धनहानिः कृशोदरी || रोगङ्करोति हीनाङ्गी दिर्घाङ्गी च नृपाद्भयम् | प्. ६ब्) भर्तारं दक्षिणनता हन्ति वामनतास्त्रियम् || करोति स क्षता मृत्युं स गर्भा रुग्भयं नृप | ऊर्ध्व दृष्टिस्तथा व्याधिर्मधो दृष्टिर्जनक्षयम् || निम्नोन्नतोष्ठी कलहं मुखरोगं महामुखी | नेत्रहीना तु वैकल्यमवक्त्रावक्त्रशोणितम् || वधिरत्वमकर्णा तु हीनाङ्गा च यशः क्षयम् | हीनास्या शिल्पिनं हन्ति रौद्राङ्गी स्वामिनन्तथा || हीन पादकरा नित्यं वालानाञ्च विनाशनी | हीनजंघा च जापाघ्नी जानु हीनारि वर्द्धनी || सत्रासाक्षि भयङ्कुर्यात् स रेखा सर्पसंभवम् | कटिहीना पशुं हन्ति नृपं हन्ति महाभुजा || स विन्दुका सदोन्मादं कुरुते नात्र संशयः | पुरुहूत समाख्याता दोषास्त्वेते समासतः || मूर्तिभेद मतो वक्षे यानास्त्रादि विभेदतः | स देशानः सरोजस्थो दिग्वाहु स्थिति लोचनः || पञ्चवक्त्रो हिमाभश्च हारकुण्डलमण्डितः | खट्वाङ्गमुत्पलन्नागमभयं वीजपूरकम् || आयुधंगम हस्तस्य दक्षिणेत् वधुना शृणु | वरदं शक्तिशूलञ्च सूत्रं डमरूकन्तथा || स देशानः समाख्यातो ह्यर्द्ध नारीश्वरं शृणु | अर्द्धनारीश्वरः कार्यो ह्यर्द्धार्द्ध कृति लक्षितः || अर्द्धमिन्दु जटाभारमर्द्धसतिलकालकम् | कुण्डलं दक्षिणे कर्णे वामेस्या वालि कादिकम् || ग्रीवाव्यालार्द्ध हाराङ्गीस्तनमेकञ्च वामतः | कपालन्दक्षिणे हस्ते वामे चैवोत्पलन्न्यसेत् || अर्द्धनारीश्वरः ख्यात उमेशः कथ्यते धुना | उमेशावुपविष्ठाङ्गौ पुंस्त्री रूपौ शतक्ततो || प्. ७अ) सोरगेन्द्र जटाभार धरस्त्र्यक्षो हरः परम् | ग्रीवा साभररगा कार्या करार्गै कुण्डल मण्डितौ || द्विभुजः सोपवीताङ्ग अर्द्धवीरासन स्थितः | वामोरुसंस्थिता गौरीमुखालोक न तत्परा || वाम वाहूप गूढाङ्गी ललाटतिलकोज्वला | कर्तव्यः केश विन्यासः सुबन्धः कुसुमाविलः || कर्णौ साभरणौ कार्यौ पादौ नूपुर मण्डितौ | दर्शयेद् दक्षिणन्देव्या देव स्कन्धे भुजं हरे || वामे च दर्पणन्दद्यात् कट्यां सूत्रं समेखलम् | देवहस्तं पुनर्दक्षन्देवी चिवुके निवेशयेत् || सुनासिका सुवदनासु नेत्रीसु पयोधरा | सुवाहु लतिका भद्रा केयूर कटकाङ्किता || उमेश्वर समाख्यातो हर नारायणं शृणु | हरनारायणं रूपञ्जटा केशार्द्ध मस्तकम् || ललाटे चार्द्ध नयनं मुद्रा कुण्डल मण्डितम् | चतुर्भुजः समाख्यातो हरनारायणस्तव || कपालखड्गखट्वाङ्ग चक्रं स्याद्वामदक्षयोः | वृषं तार्क्ष्यो तथा भव्या श्रीर्दक्षिणोत्तरस्थिता || हरनारायणः ख्यातो नृत्येशं कथ्यते धुना | नृत्य रुद्रं प्रकुर्वीत चन्द्रार्द्ध कृत मस्तकम् || वैशाख स्थानकन्धरन्नाग यज्ञोपवीतिनम् | सौम्याननं जटाजूट धारिणं व्याल मेखलम् || पीनवक्षोरुजघनं सर्वलक्षणसंयुतम् | द्विपि चर्मधरं साधो वृषारूढं स्मिताननम् || सुभव्यं षोडश भुजं कुर्याद् वा द्विभुजं शुभम् | वेणूवीणा मृदङ्गादि वाद्यसंघोपशोभितम् || वामं प्रसारित भुजं द्वितीयमभयप्रदम् | प्. ७ब्) अक्षसूत्रेषु दण्डासि शूलशक्ति वरङ्करैः || कपालपाशखट्वाङ्ग खेटचर्माङ्कुशान्वितम् | एकञ्चापधरं तद्वत्सुसारितमथोत्तरम् || भव्या ब्रह्माहरिस्कन्दो नन्दी कालादयश्चये | वीक्ष्यमाणाः शिवं नृत्यं भृङ्गी कार्योग्रतः स्थितः || मालाखड्गभृतो ये तु सिद्धा यक्षादयस्तथा | बाह्यस्थाच्च प्रकर्तव्या नृत्येशः कथितस्तव || त्रिधा विष्णुं प्रवक्ष्यामि वासुदेवं द्विवाहुकं | प्रोच्यते लक्षणन्तस्य समासे नैव सुव्रत || सुनाससु कपोलञ्च स रत्न मुकुटोज्वलम् | ललाट तिलकोपेतं श्यामं पीताम्बरं हरे || गदा खड्गाम्वुजं दक्षे स्यात् तुर्यः शान्तिदः करः | शङ्ख चक्र धनुः खेट वामे चाष्ट भुजे हरौ || शङ्ख चक्रं प्रदातव्यं वामहस्ते चतुर्भुजे | दक्षिणे तु करे पद्मं गदा त्रैलोक्य तर्जनी || द्विभुजे शङ्ख भृद्वामे दक्षिणः शान्तिदः करः | विष्णुरेय समाख्यातो ब्रह्माणमधुना शृणु || पितामहश्चतुर्वक्त्रो लम्बकूर्चश्चतुर्भुजः | आपिङ्गल जटाबन्ध हंसस्थो पंकजासनः || दक्षिणे च भुजे तस्य दण्डः स्यादक्षसूत्रकम् | कमण्डलुं करे वामे वर्हिराज्यादिकन्तथा || सावित्री दक्षिणे कार्या वामे चैव सरस्वती | इति ब्रह्मासमाख्यातः कथ्यते ते दिवाकरः || एकचक्रो रतः सप्ततुरगोरुण सारथिः | तत्रस्थो भास्करो देवो मणि कुण्डलमण्डितः || त्रपूषाङ्घ्रि सुरक्ताङ्गः सर्वाङ्ग कवचा वृतः | सुकेशो वा किरीटी वा त्रिनेत्रो वा द्विनेत्रकः || स पत्र नालपद्मौ च कराभ्यां स्कन्धयोर्वहन् | प्. ८अ) पार्श्वे प्रतीहार युतः स्त्रीभिरग्ने विभूषितः || साक्षसूत्रं सितं सोमं सुरूपं स कमण्डलुम् | रक्ताक्षं रक्तवर्णञ्च कुजं शक्त्यक्षमालिनम् || बुधञ्चापधरं पीतं रूपाढ्यं शान्त लोचनम् | वृद्धाकारङ्गुरुङ्गौरं साक्षसूत्र कमण्डलुम् || दक्षैकाक्षं सितं शुक्रं कुण्डिका जपमालिनम् | भानुपुत्रमधो दृष्टिं वक्र पादं सुभीषणम् || क्रूरं महाभुजञ्चैव खिङ्खिरी जपमालिनम् | राहुं व्यात्ताननं घोरं कृष्णमर्द्धाङ्ग भूषणम् || अर्द्धचन्द्रधरं साधो कथितं राहुरूपकम् | त्रिभोग भूषितं धूम्रन्नर नागार्द्ध रूपिणम् || खड्गखेटधरं केतुं कुर्याद्वाथ कृताञ्जलिम् | हेरम्वो वामनाकारो हस्ति वक्त्रत्वदन्तभृत् || महोदरो महाकायः सालङ्कारश्चतुर्भुजः | सर्पयज्ञोपवीती च त्र्यक्षः खण्डेन्दु शेखरः || पुरन्दराङ्गुल विस्तारं दैर्घ्याद्भूयाङ्गुलं भवेत् | तस्यास्यं वसुविस्तीर्णङ्ग्रिवा स्यात्त्र्यङ्गुलोच्छ्रया || रसरामाङ्गुलं शुण्डं मूलन्तस्यदिगङ्गुलम् | अन्ते कृताङ्गुलं यावन्मध्ये सूत्रानुया ततः || स रन्ध्राद्व्यङ्गुला नाभिर्व्यासान्मासाङ्गुलौ ततः | आदौ समुन्नतौ वान्ते कुंभो निविडमस्तकः || नन्दनन्दाङ्गुलौ कुंभौ तन्मध्ये सूत्रमानतः | दन्तकोशो भवेत् तस्य घ्राणं सार्द्धाङ्गुलंविलम् || कर्णौ दृगन्त विस्तीर्णौ वाहुल्ये नाङ्गुलौ मतौ | सर्वावयवसम्पूर्ण सर्वशोभासमन्वितः || गणाधिपः समाख्यातः शरजन्मानिगद्यते | रसवक्त्रः शिशुर्वेशः स्यात् केशवा १२ क्षस्तथा भुजः || प्. ८ब्) शक्तिघण्टा पताकाब्ज पाश कुक्कुटदण्डकान् | वराभयं धनुर्वाणं परशुं तत्करे न्यसेत् || चतुर्भुजं द्विवाहुम्वा कारयेच्छिखिवाहनम् | त्र्यक्षो जटान्वितो नन्दी श्रुति वाहुर्युवा स्मृतः || शूलसूत्रधरः कार्यो वराभयसमन्वितः | मुण्डमाली विशालाक्ष्यः श्रुति वाहुर्महोदरः || त्रिनेत्रः पीतकृष्णाङ्गो वक्रश्मश्रुशिरोरुहः | मुण्डखड्गौ न्यसेद् दक्षे वामे खेट त्रिशूलकम् || महाकालः समाख्यातः शृण्वपर्णां पुरन्दर | कन्यारूपात्व पर्णा च भूता तप परिग्रहा || चतुर्वाहुस्तपोनिष्ठा ध्यायमाना महेश्वरम् | दण्डङ्कुण्डी न्यसेद् वामे दक्षे सूत्र वरन्तथा || तपो गौरी समाख्याता वच्मि दुर्गान्त वा धुना | कुर्याद् दुर्गां प्रसन्नास्यां दिग्भुजां सारलोचनाम् || सुकेश पाश विन्यासां पीनोन्नतपयोधराम् | सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् || स नूपुर पदाक्रान्त तलस्थ महिषासुराम् | तच्छीर्षच्चेदनोत्पन्नां स खड्गनर भेदिनीम् || शूलच्छेदोच्छलद्रक्त धारोक्षित धरातलाम् | त्रिशूलमाशुगं खड्गं शक्तिञ्चक्रं शतक्रतो || टङ्कपाशाङ्कुशं खेटमानतज्यन्धनुस्तथा | सव्यासव्ये करे देव्या न्यसेद् एतत् सदा युधम् || इति दुर्गा सहस्राक्ष कथ्यते ते सरस्वती | शुभपद्म स्थिता शुभ्रा शुभ्रभूषणभूषिता || सुप्रस्ताक्ष करमास्ता वीणाभृत्स्यात् सरस्वती | अन्ये ये वहवो भेदा मूर्तीनान्तु शतक्रतो || सम्यक्ता न योजयेज्ज्ञात्वा स्थानमानादि भेदतः | प्. ९अ) समासेन समुद्दिष्टं प्रतिमा लक्षणं मया || पुनः संक्षेपतो वक्ष्ये पिण्डिकायाश्च वर्तनाम् | इति मोहचूरोत्तरे व्यक्तलिङ्ग प्रख्याने द्वितीयः पटलः || ययाव्या मोहितं सर्वं जगत्स्थावरजङ्गमन् | शक्तिक्रिया ह्वयाशक्र पिण्डिका सैव कीर्तिता || ज्ञात्वा तस्मात् परं पीठं देहस्थं सुसमाहितः | अपरं वर्तये सश्चान्नाममानादि भेदतः || विधिना स्थापितं लिङ्गं पिण्डिका रहितं यदा | तदा पूजान्न गृह्णाति सान्निध्यन्नैव गच्छति || तस्मात् पीठं प्रकर्तव्यं यत्नमास्थाय सुव्रत | येन सर्वफलावाप्तिर्जायते साधकस्य तु || स्थूलतां पिण्डिकायाश्च त्यागमष्टाम्र कस्य तु | आत्मभूतागवेशञ्च ज्ञात्वा पीठं प्रकल्पयेत् || व्यक्ताव्यक्ते च सुव्यक्ते अव्यक्ते पांकशासन | यथा तेषां भवेत् पीठं तथा ते कथ्यते धुना || लिङ्गदैर्घ्येण विस्तीर्णं हरिभागान्त मुच्छ्रितम् | अव्यक्ते मुखलिङ्गे च पीठमानमुदाहृतम् || स्वायामेन भवेत् पीठन्तदर्द्धाद्विस्मृतं मतम् | उच्छ्रितिः पूर्वमाख्याता सुव्यक्ते पीठ कल्पना || पीठ व्यास चतुर्थांश प्रणालं वाह्यनिर्गतम् | मूले तन्मान विस्तीर्णं कुर्यादग्रे तदर्द्धतः || विस्तरस्य त्रिभागेन तोय मार्ग प्रकल्पयेत् | कुशस्वभ्रान्विता कार्या पिण्डिका लक्षणान्विता || पिण्डिकापार्द्ध वाहुल्यं कुशदैर्घ्यं पुरन्दर | कुश वाहुल्यरूपेण पीठे स्वभ्रं प्रकल्पयेत् || मोहचूरोत्तरे शास्त्रे पिण्डिका वसुसंख्यया | तासान्नामानि कथ्यन्ते सांप्रतन्ते शचीपते || प्. ९ब्) प्रथमा कमला तत्र द्वितीया च पयोधरा | तृतीया च भवेद् वापी चतुर्थी वज्रसंज्ञिता || चन्द्राख्या पञ्चमीख्याता षष्ठी चैवामृता भवेत् | सम्वर्ता सप्तमी शक्र नन्दिकाख्या तु चाष्टमी || लिङ्गदैर्घ्यस्य सूर्यांशं मेखलार्थं प्रकल्पयेत् | लिङ्गाश्रयश्च सूर्यांशं शेषं पश्चाद् विवर्तयेत् || भूतेन्दु भाजिते क्षेत्रे पादपद्मन्तथाम्वुजम् | कर्णिका कण्ठदेशञ्च वर्तयेत् सुसमाहितः || रूपवेदकरे चन्द्रे राम भागैर्यथा क्रमम् | चन्द्रद्वन्द्वाब्दैर्जलजे तुल्ये पूर्वा परे हिते || जया सिद्धा सुरा दैत्या मुनयो वीतमत्सराः | एषां पद्मेति विख्याता महासिद्धि निधानभूः || भूपांशे * य कोणाग्नि क्ष्माग्नि भागैर्यथा क्रमम् | योजगत्कुम्भवेद्यः स्यात् कण्ठो रूपांशवेशतः || श्रुति पट्टीपयोधात्र्या वाप्याश्चैव पुरन्दर | पुरन्दर * * दासा वापी ज्ञेया तदा यता || भानुभक्ते च पीठार्द्धे क्ष्माग्नि द्विक्षान्ति युग्मकैः | पादोर्जगती घटो वेदी ग्रीवास्यादेकवेशतः || एकेनोत्तर वेदी च भागाभ्यां पट्टिके नृप | वज्रामेवं विजानीयात् पुत्रराज्य प्रदायिनी || नागांशभाजितोत्सेधे रूपमात्राब्द नेत्रकैः | अङ्घ्रिजङ्घा तथा धारः कण्ठश्चैवोर्द्ध पट्टिके || शान्तिपुष्टि प्रदाधन्या सर्वसिद्धि प्रदायिनी | एषा चन्द्रकला साम्रिश्च्युतापश्चामृता मता || षड्भागभाजिते क्षेत्रे जङ्घा कुम्भोर्द्ध पट्टिका | कण्ठोपकण्ठ पट्टः स्यात् संवर्ता पिण्डिका हरे || अष्टां १६ शभाजितोच्छ्राये यक्षौ तुरग भाजितौ | प्. १०अ) पादमारभ्यग्रीवान्तमेकैकं ह्रासयेत् पदम् || ग्रीवा द्वाभ्यान्तथा जङ्घा प्रवेशो मुनि संख्यया | निर्गमो ऋतुभागेन यथा पीठानुमानतः || सर्वसिद्धिप्रदा भद्रा सर्वेषां सर्वदाहिता | नन्दावर्ताङ्किता भद्रा नन्दावर्तेति विश्रुता || इति पिण्डीसमाख्याता वक्ष्ये ब्रह्मशिलान्तव | ब्रह्मभागसमाभद्रा कार्या ब्रह्मशिला शुभा || दिगङ्गुलैर्यथा व्यासादधिका ज्येष्ठज्येष्ठके | एकैकाङ्गुलमन्येषां ह्रासयेत् क्रमतो हरे || तन्मानामेखला कार्या खातं मेखल या समम् | गंभीरन्तत्समुद्दिष्टं व्यासं वच्मि तवाधुना || ब्रह्मव्यासेन विस्तीर्णमधिकं षड्यवं वहिः | यवार्द्धार्द्धन्तु चान्येषां ह्रासयेत् क्रमतः पुनः || अधिकं विस्तरेणैव कन्यसेद्वियवं भवेत् | सूत्रेण संमितं कृत्वा वर्तयेत् सुतलं समम् || खात मध्ये तु पत्नेन रत्नाधाराणि चोत्किरेत् | दिग्विदिक्षु ततो मध्ये वृत्तवत् परिकल्पयेत् || यथा ब्रह्मशिला कार्या ब्रह्मभागाधिका हरे | तथा कूर्म शिलाङ्कुर्यात् किन्तु ब्रह्मशिलाधिकाम् || इति ब्रह्मशिला चैव प्रणालमधुनोच्यते | स प्रणालं भवेत् पीठं लौहं शैलञ्च रत्नजम् || पार्थिवं दारुजं प्रोक्तं प्रणाल रहितं हितम् | रुद्रभागसमायामः प्रान्ते तदर्द्धविस्तरः || कण्ठादूर्द्ध सदाश्रेष्ठः स्वत्रिभागाम्बुनिर्गमः | कण्ठोर्द्ध कर्म सम्पन्नः प्रणालं सुखदो यतः || ततो न्यूनाधिकः पुंसां दुःखदः स्याच्छत क्रतो | श्रुत्यसाष्टाम्रकं पीठे ब्रह्माच्युत विभागतः || प्. १०ब्) लिङ्गस्थौल्य प्रमाणेन रन्ध्रं स्यात् कशिलाखवत् | वस्वसञ्चोत्तमे लिङ्गे दृश्यं भूत यवं भवेत् || यवार्द्धार्द्धन्तु चान्येषां ह्रासयेत् क्रमतस्ततः | समासेन समुद्दिष्टं पीठं ब्रह्मशिलादिकम् || सुरधामानि कथ्यन्ते भूपरीक्षादि पूर्वकम् | इति मोहचूरोत्तरे पीठ ब्रह्मशिलादि प्रख्याने तृतीयः पटलः || अतः परं प्रवक्ष्यामि भूमेश्चैव परिग्रहम् | शल्योद्धारादिकं सर्वं वलिकर्म गृहादिकम् || सरः सुनलिनीच्छन्नं निरस्तरविरश्मिषु | हंसकाक्षिक कल्हार वीथी विमलवीचिषु || हंसकारण्ड वा क्रौञ्च चक्र वा कविराजिषु | पर्यन्त पूरितच्छाया विश्रान्त जलवीचिषु || पुण्यक्षेत्रादि शैलेषु निर्हरोपान्त (?) भूमिषु | नदीतीरे तडागे वा वापी पुष्करिणी तटे || चत्वरे दीर्घिकाद्यासु शृङ्गाटे च चतुष्पथे | रमन्ते देवता नित्यं वनेषू पवनेषु च || ग्रामखेटपुरादौ तु स्वामित्वं यत्र विद्यते | आदौ परीक्ष्य भूभागं वर्णिनां शुभमिच्छताम् || सिताविप्रे नृपे रक्ता पीता वैश्यो सितेतरा | दीपखात जले नादौ वर्णानां लक्षयेच्छुभम् || पूर्वप्लवा नृपस्योक्ता वैश्ये स्याद् दक्षिणप्लवा | उदक् प्लवाद्विजातीनां शूद्राणां पश्चिम प्लवा || पूर्वोत्तरे शतो निम्ना सर्वसाधारणा मही | उप्तवीजा तु सञ्जाता तृतीये ह्युत्तमा मही || पञ्चमे मध्यमा प्रोक्ता सप्तमे वाधमास्मृता | याम्ये न गोधनं चाप्ये सौम्ये सस्यं हरेर्जलम् || प्. ११अ) नाति मृद्दीन कठिना सुखस्पर्शा समाघना | स्निग्धा गुर्वी दृका शुद्धा सुगन्धा दोषवर्जिता || स्वांदूदकान स्फुटिता सुरूपाति मनोहरा | स गर्भा सोषराछिद्रा स सत्वा च स शोणिता || पूति गन्धादिभिर्दुष्टा ज्ञात्वा सम्यक् त्यजेन् महीम् | एवं परीक्ष्य भूभागङ्गा ह्योदोषविवर्जितः || सद्वारतिथिलग्नेन्दु युतेह्नि जपमङ्गलैः | एवं परिग्रहेच्छक्र शिवकुम्भ भ्रमेण तु || सुमांसुतक्षितां कृत्वा सीमाशुद्धि पुरःसराम् | ततः प्रसारयेत् सूत्रमाचार्यः शिल्पिभिर्वृतः || उदीचीं ध्रुववेधेन प्राचीम्वा ध्रुवतारया | पुष्पपौष्णमघावेधादथ संक्वादि साधनैः || एवं पूर्वा परं ज्ञात्वा मध्यें कं पार्श्वयोर्वियत् | मतिमान् तुल्य सूत्रेण यथा स्याद् दक्षिणोत्तरम् || ततोप्यर्द्धं समादाय विदिक्कोणेषु लाञ्छयेत् | चतुरस्रन्ततः कृत्वा नवधा विभजेत् पुनः || वायव्या नलरक्षेश गतो वंशौ शचीपते | रज्वष्टकन्तु कर्तव्यं षट्पदन्त्रिपदं हरे || ततः स्रग्वलि धूपाद्यैः पूजयेद् वास्तु गान्सुरान् | तन्मध्ये पूजयेत् पृथ्वीं धारिकां शक्ति रूपिणीम् || वास्तुं संपूजयेत् पश्चाद् ब्रह्माणञ्च शचीपते | रन्ध्राधिपं विजानीयान् मरीच्याघारसाधिपाः || द्विपदा आपवत् साद्या ज्ञेयाश्चाष्टौ सुराधिप | द्वात्रिंशद् देवता बाह्ये हराद्याः पदिका स्थिताः || ब्रह्मादिदितिपर्यन्ताश्चत्वारिंशच्च पञ्च च | वास्त्वङ्गे देवतानाञ्च संख्या ह्येषा पुरन्दर || वहिरीशादि च रकाद्याः स्कन्दायाः पूर्वतः स्थिताः | इत्यष्टौ देवता वाह्ये एवं वास्तु नरः स्थितः || प्. ११ब्) रन्द्राद्या लोकपाः पूज्या ये चान्ये तत् समाश्रिता | भूत वर्गाश्च ये तत्र स्रग्धूपवलिभिर्वरैः || सर्व मर्ममयो वास्तुस्तस्यात् पीडान्न कारयेत् | चालयित्वा यवं वार्द्धं किञ्चित् पूर्वोत्तरन्नयेत् || वस्तौ प्रचालिते शक्रमर्मौघश्चलितो भवेत् | एवं यत् क्रियते धामसुराणां वास्तु पूर्वकम् || तदिष्ट सिद्धये ज्ञेयमन्यथा तु विपर्ययः | शाकुनोक्त्या जनोक्त्या वा प्राणीनां सूत्र लंघने || कण्डूप नादि विज्ञानैर्ज्ञात्वा शल्यं समुद्धरेत् | कैवल्य ज्ञान सम्पन्नो ज्योतिः शास्त्र विधानवित् || अध्यात्म ज्ञान कुशलः शल्योद्धारे लभेद् यशः | जलान्तं कर्करान्तं वा खनेद्वारोपरोधतः || करापूरैस्तु पाषाणैर्मृत्तिकाष्टाङ्गुलान्तरैः | तावदा पूरयेत् खातं यावत् पादोनमागतम् || भूतलं सुसमङ्कृत्वा सूत्रयित्वा यथा पुरा | शिलान्यासं प्रकुर्वीत तासां संक्षेप लक्षणम् || चतुरस्रा हस्तमात्राः पञ्चवस्वऽऽगुलोच्छ्रिताः | पङ्कजांकाघटाः पञ्चरत्न मध्यादि पूरिताः || पञ्चगव्य कषायादि धौताः सुद्धाः सुवेष्टिताः | नन्दा भद्रा जया रिक्ता पूर्णाख्याभिः सुपूजिताः || धरादि तत्व विन्यस्ता बुद्ध्यन्त पदगर्भिताः | तत्रात्म तत्वं मात्रान्तं विद्या तत्वं मनोत्तरम् || गर्वबुद्धी तृतीये तु ततस्तत्वाधिपाभ्यसेत् | स लोकपे शिवे यष्टे दूताग्नौ संविभाजिते || तर्पितेषु च मन्त्रेषु समस्ता ध्वनि शोधिते | न्यस्ते तत्र शिलाव्राते कुंभन्यास पुरःसरे || प्. १२अ) पद्मं वाथ महापद्मं शङ्खं मरकतन्तथा | समुद्रं पञ्चमन्तेषु नाममन्त्रैर्विशोधनम् || पूजयित्वा पुरा वास्तुं मध्ये शक्तिं निवेशयेत् | तस्योपरि समुद्राख्यं पूर्णान्तस्योर्द्धतो न्यसेत् || वह्न्यादौ विन्यसेच्छक्तिं पद्मादीनान्निवेशनम् | स्थापितव्याः सुनन्दाद्याभित्तिगर्भे सुनिश्चिताः || उच्छ्रेयेणोत्तमं पीठं प्रासादार्द्धेन कीर्तितम् | मध्यमं पादहीनन्तु उत्तमार्द्धेन कन्यसम् || एवमाचिनुयात्पीठं सुलेपसन्धिवर्जितम् | गर्भभित्यादि विन्यासं तदूर्ध्वन्तु शचीपते || कोणहस्तं समारभ्य कोणवृद्ध्या पुरन्दर | ऋतुरामान्तपर्यन्ताः प्रासादाग्रहसंख्यया || खरूपाद्भुत वृद्ध्या वा खभूतान्तान दैव तु | नागभक्ते युगैः पीठं गर्भः कार्यो दिवाकरैः || भित्तयो वसुवेदैश्च जंघाभित्ति समोच्छ्रिता | शिखरन्द्विगुणङ्कार्यं शुकाघ्राशिखरार्द्धगा || पृथुत्वं गर्भवत् कार्यं तृतीयांशेन निर्गमम् | पीठं वा लिङ्गमानेन पीठार्द्धेन परिभ्रमः || पीठवच्च स्मृतं द्वारं द्विधोच्चं भित्तयोपराः | शुकाघ्रा पूर्ववज्ज्ञेया जंघा शिखरं शतक्रतो || चतुरस्रे चतुर्भक्ते वेदगर्भार्द्ध पीठके | लिङ्गं पीठसमं द्वारं भित्तयश्च तथा विधाः || गर्भवन्नासिका तत्र पीठकोणान्तरोङ्गता | समण्डपे सरांशेन वेदगर्भार्द्ध निर्गता || रन्ध्रभक्ते पदं पीठं गर्भोभित्यन्तरं पुनः | पदिका च वहिर्भित्तिः शुकाघ्रे च पदोद्गते || प्. १२ब्) हेमादि रत्नलिङ्गानामुक्तो पङ्गुप्तिहेतुतः | आसादि वाणवृद्धेषु हस्तराशौ द्विधा कृते || लिङ्गवत् पीठमर्द्धेन सैकेनावरणत्रयम् | द्व्यधिकेन वहिर्भित्तिः शुकाघ्रादि पुरोदितम् || वेदयुग्मादितः कृत्वा कोणहस्तविवृद्धितः | रसरामान्त पर्यन्तः प्रासादानामनुक्रमात् || लिङ्गदैर्घ्य समंपीठं तत्रिभागा वृति त्रयम् | वहिर्भित्तिश्च पीठार्द्धङ्करराशौ कराहते || धामतुल्यन्तु रन्ध्रान्तं भित्यन्तङ्गर्भमानकम् | ब्रह्मसूत्र शुकाघ्राद्वाधामकोणाच्च सूत्रयेत् || द्वादशैते स्रान्धाराणान्तुर्यास्ताः स्युः पुरन्दर | प्रासाद शतसंस्थाना भुक्तये मुक्तये हिताः || इति संक्षेप संसिद्धं लक्षणं सर्वधामसु | विशेष व्यक्तयेशक्र पृथग् भूतन्निगद्यते || षोडशार्काष्टमं भागं वहिः कृत्वा पुरन्दर | ज्येष्ठादीनाङ्क्रमेणैव मेर्वादौ रूपसिद्धये || मेरूस्तत्पूर्वविष्कम्भो हिमयुग्भद्रको गजः | विमानो हरिहंसौ च श्रीवत्सोथ खगाधिपः || वडमीतुर्य वस्वस्त्रो विकारास्त्रो गृहाधिपः | वृत्तश्चेन्द्र कलासंख्या स्वाधाराश्च पुरन्द्र || भद्रस्तु पञ्चधा ज्ञेयो ज्ञेयो वृत्तश्चतुर्विधः | श्रीवत्सोपि तथा ज्ञेयस्त्रिविधो मन्दिराधिपः || विभज्य लक्षणं स्पष्टं मेर्वादौते निगद्यते | सूर्येन्दु भाजिते क्षेत्रे तिर्यग् वेद विभाजिते || चतुष्कोणे रसन् त्यक्ता तत् पिण्डी स्याद् विपर्यये | संवेश निर्गमं शक्र शेषं ज्ञात्वा विवर्तयेत् || प्. १३अ) तुष्टिं वाणानलैर्वेशश्चण्डीवारगुणैर्गतिः | चतुर्थे यत्र भङ्गाघं कुर्यान्मध्य रथोङ्गतिम् || सूर्यदिग्रसभागैस्तु शेषमेवं विवर्तयेत् | चतुर्द्वारश्चतुर्घ्राणशृङ्गषोडशनासिकः || वालवेदानलद्विद्विभूमिकाघाट पञ्चकः | कामार्केशदिगष्ठाधि यूति शृङ्गं ततोष्टकम् || वेदिकोर्द्धे सहैकेन सपादन्तु शतं भवेत् | वेदी नितम्बयोर्मध्यं खाकाश द्वय भाजितम् || तत्राद्या भूमिका कार्या विंशद्भागैस्तदर्द्धतः | भागैक ह्रासतो न्यासामुच्छ्रयः क्रमशो हरे || भूषणैर्भूषिता कार्याः षोडशैव तु भूमयः | शुकाघ्रार्द्धं चतुर्दिक्षु सुरूपा स्युर्मृगारयः || वेदिकोपरि कर्णेषु वेदीव्यास त्रिभागतः | मृगारयो विधातव्याः केशरालङ्कृता हरे || दंष्ट्रा विकटघोरास्या मस्तकन्यस्त पुच्छकाः | सर्वावयवसंपूर्णाः सर्वशोभासमन्विताः || वेदिकोर्द्धं चतुर्दिक्षु चत्वारो नररूपिणः | दिक्पालैरप्सरोगात् विद्यातद्ग्रहकिन्नरैः || मातृभिर्गणविद्येशैर्भूषयेन्नवभूमयः | गर्भोष्मणा मञ्जरीणां प्रायः पातभयं भवेत् || द्वे द्वे रन्ध्रे ततः कुर्याद् भूमौ भूमौ जलान्तरे | सुरूपः कथितो मेरूर्मन्दरं शृणु साम्प्रतम् || वेदवसुभाजिते क्षेत्रे तिर्यग् ब्रह्माननैः कृतैः | कर्णं गत्यानलत्यागात् कोण पिण्डीगुणांशकैः || संवेशानैर्गमौ कार्यौ ऋतु कोण करैर्हरे | प्. १३ब्) मध्योङ्गमः प्रकर्तव्यो भूभुपवन विभाकरैः || अनेन विधिना सर्व वर्तनं सर्ववाहुषु | भुवश्चतुर्दशैवात्र युक्ताः कोणेष्वया श्रयैः || चतुरा घाटकैः सोपि भूतवेदाग्नि लोचनैः | वेदी नितम्बयोर्मध्यमेकषष्ट्युत्तरं शतम् || प्रथमाष्टा दशैर्भूमि रत्नास्त्वेकैक मर्दनात् | द्वाराण्यस्यापि चत्वारि चतस्रः शुकनासिकाः || प्रथमायां त्रयोविंशदेवविंश द्वितीयके | ऊनविंशत्तृर्तीये तु चतुर्थे दशसप्त च || एकं प्राधानिकं शृङ्गं शुकाघ्रासु च षोडश | मन्दिरं वर्तयेदेवं सप्तानवति शृङ्गकम् || पूर्वोक्त भूषणैर्युक्तः सुरूपोयं सुराधिप | षट्त्रिंश भजिते क्षेत्रे तिर्यग् वेद विभाजिते || मध्यदेशे भवेदस्य भागैरष्टभिरुद्गतिः | आदौ तिर्यक्त्रयं मध्यादेकं चान्तस्त्रयन्तथा || लुप्त्वा विनिर्गतिर्वेदैर्यावत्कोणमवाप्नुयात् | ब्रह्मास्यैस्तु ततः कोणः कैलासमिति वर्तयेत् || चतुर्द्वारञ्चतुर्नासं चतुर्मण्डप शोभितम् | वेदीनितंवयोर्मध्ये ऋतु द्वन्द्वेन्दु भाजिते || भूपांशैः प्रथमा भूमिः शेषास्त्वेकैक विच्युते | चतुरा घाटकःपि चतुस्त्रिभृद्विभूमयः || वस्विन्दुः प्रथमा घाटे द्वितीये चैव षोडश | चतुर्दश तृतीये तु चतुर्थे द्वादशैव तु || शुकनासासु शृङ्गाणि षोडशैकन्तु मौलिकम् | प्रासादोयं प्रियः शंभोः सप्तसप्तति शृङ्गकः || चतुरस्री कृते क्षेत्रे वसु लोचन भाजिते | कर्णगत्यागुणत्यागात् कोणपिण्डी गुणांशकैः || नेत्रांशे न रथो ज्ञेयो गुणांशैरपरस्ततः | प्. १४अ) दर्शनांशरथः शक्र स्यादेवं शेष वाहुषु || भद्र एष सम्प्रख्यातः कर्तुरिष्ठ विभूतिदः | शिखराकुलः स एवोक्तः सर्वः सर्वार्थसिद्धिदः || क्षुद्रभद्रस्वरैर्भक्ते पार्श्वयोर्लोचनच्युतेः | त्रिमध्यो नलः युक्तस्तु हितोयं नलिनस्तदा | श्रीवत्स शिखरोवायं नन्दनः कर्तृभूतिकृत् | युगास्ते भूतभागेन कर्णाद्धे भ्रमवर्तनात् || वृत्तो नतपृष्टोग्रे द्व्यस्रस्तुंगाप्रकोगजः | वेदास्ते रूप युग्मांशेरधो मध्ये विपर्यये || वेशश्चतुभिरशेनस्तंभो युग्मैस्तु कोणगः | एवमन्यं च चत्वार आघाटा एक माननम् || वेदरामद्विरूपैस्तु आघाटाश्चतुरो मताः | शुकाघ्रैकेन्दुशालायां नाद्येशस्य विवेशनम् || भूताह्न भाजिते शिखरे प्रथमाभूः पुरन्दरैः | ऊर्ध्वमेकैकसंह्रासाद् भवन्ति दशभूमयः || त्रिभान्या सप्तदशतः पञ्चशच्छिखरान्वितः | विमानोयं विमानीभिर्युक्तो वै मानवर्द्धनः || चतुरस्री कृते क्षेत्रे पदन्दत्वा तु पृष्ठतः | वृत्तवद् भ्रामयेद् अग्रे द्वि कोणो वृत्तगर्भकः || ततो जंघा प्रदेशे स्यान् निर्गतः किञ्चिद् ऊर्ध्वतः | केशरालङ्कृतः सिंहो मुनिमूर्द्धादि भूमिकः || प्रियो भवेन् नृसिंहस्य सिंहाकारोग्र नासिकः | इभकुंभ कर्णयोर्मध्ये प्रसक्त हरिभूषणः || वेदास्ते तुर्यधा भक्ते पार्श्वयोर्जगती युते | गर्भाश्चैव चतुर्भागैस्त्रयो वृत्तस्तु मध्यगः || स्याच्छुकाघ्रायुतो हंसो विमानस्यैव जंघया | प्. १४ब्) भद्रस्यैव नितम्वोस्य श्रीवत्स स्यैव मञ्जरी || हंसशोभित शृङ्गाग्रो हंसः केशव भूमिकः | हितश्चतुल्य धर्माभ्यां सङ्गतं पार्श्वयोर्द्वयोः || ब्रह्माब्ज पीठगो मध्ये हरीशौ वाम दक्षिणे | अथ मध्ये हरः कार्यस्तदा दक्षे पितामहः || विपद्रूपांसिते द्वाभ्यां कोणो मध्यरथस्त्रिभिः | सार्द्धतोय रथः शक्र खुराद्यैर्भूषणैर्युतः || शृङ्गाण्यस्य तु चत्वारि भुवः पञ्चरथास्तथाः | विभूतये सतां ख्यातः श्रीवत्सो वर्द्धमानकः || चतुरस्रे सूर्य संछिन्ने त्रिभिः स्यान् मध्यगो रथः | भागार्द्धे नान्तरन्त्यक्त्वा द्वाभ्यामुपरथं विदुः || तदर्द्ध निर्गतो द्वाभ्यां कोणः सम्पूर्णशालके | क्षरकुंभादि संयुक्तमप्सरोगणशोभितम् || जंघा मध्ये तु वलयाख्या पट्टिकाभिः सुभूषिता | अन्धारिका द्वयो पेता लंघोर्द्धं स्याद्वरण्डिका || पट्टिकाभिर्वसन्तैस्तु कण्ठेहारावली युताम् | भूषणैश्चन्द्रशालाघैः शृङ्गैरेष सुभूषितः || येन सिद्धासुराशक्र यत्र सिद्धः स्वयं शशी | लाभभागात्सिते क्षेत्रे खण्डशालेप्ययं विधिः || सार्द्धे नोपरथः शक्र विपक्षे यो विनाशकः | भुक्तये मुक्तये शस्तः श्रीवत्सोयन्तृतीयकः || विकारभीजिते क्षेत्रे चतुर्भिर्मध्यगो रथः | सार्द्धे भागान्तरन्त्यक्ता तथोपरय स्थितिः || भागार्द्ध निर्गतिस्तस्य त्रिभिः कोणं पुरन्दर | शालवद्भूषणैर्युक्तो विशेषाल्लोक नायकैः || रूद्रैः क्रीडा विनोदाघैर्गणैर्यक्षैः सुरैस्तथा | प्. १५अ) दिव्य भूत्यै हितः कर्तुः श्रीवत्सो नन्दिवर्द्धनः || तुर्यभागी कृते क्षेत्रे कोऽतुल्याश्चतुर्दिशम् | धामविस्तर पादेन निष्कासाः सर्व एव ते || षडस्रो मध्यगर्भोस्य स्तंभादि रचना वहिः | स सर्प कटिकण्ठोस्य स कुटादश भूमयः || विष्णुर्मध्ये शिवो दक्षे वामतस्तु पितामहः | पुच्छे लक्ष्मीः प्रतिष्ठाप्या गरुडोयं हरि प्रियः || पेष्टकस्तुङ्ग नासश्च पक्षाग्रस्था हि सूदनः | नागांश षोडश त्यागान् माससं वर्द्धिता पतिः || युगदानात्पुरः सिद्धः शुकाघ्रो वडभी हरे | व्यक्तलिङ्गे स्वयं योज्यश्चण्डिकादौ विशेषतः || विस्ताराद् द्विगुणोत् सेधः फांसादि कृत संवृतिः | पार्श्वे सिंहद्वयोपेतो मध्ये कलश युतो वरः || वेदास्रः स तथैवोक्तः सुरादि भूषणान्वितः | शिखायाः संवृत्तिः पट्टैर्निर्विकारः शिवः प्रियः || चतुरस्री कृते क्षेत्रे कर्णार्द्धाष्टांश विच्युते | तत्प्रमाणे च वेदास्रे दिक्षु कर्णमिति क्षिपेत् || पातितेषु च सूत्रेषु दिक्ष्वष्टास्रोष्टभूतिदः | मध्यभागे करं कृत्वा अस्टभ्यां मध्यतो ह्वयेत् || तन्मानं वाह्यतः कृत्वा द्विगुणाद्व्यप्तृलंघनात् | सोपि भूति प्रदो ज्ञेयो भूषणाद्यः पुरन्दर || चतुरस्रश्चतुर्भद्रः सान्धारश्च त्रिभूमिकः | दारूजो गृहराजोयं गृहाकारः प्रशस्यते || गृहराजसमः किन्तु विना भद्रैः पुनः पुनः | पट्टशालान्वितोप्यर्द्ध गृहराजः प्रकीर्तितः || एकभूमिर्द्विभूमिर्वा पट्टशाला विवर्जितः | सर्वदेवालयं शक्र मार्तण्डस्य विशेषतः || कर्णार्द्धाष्टांशसन्त्यागात् परिभ्रमणवर्तितः | प्. १५ब्) वृत्तः कुंभः सुभूषाढ्यः ख्यातः कुंभः सुराधिप || अग्रे शुकाघुपा युक्तो वृषोन्ते चतुरस्रकः | स एव वाह्यतो वृत्तः पट्टकैः सुविभूषितः || ग्वावृक्षो वृत्त एवस्यान्न भवेद् भवं विनावृषः | एतद् देवालयं प्रोक्तं मुख्यतस्ते सुराधिप || अन्योन्य मिश्र भेदैस्तु फलं मिश्रन्तु यज्वनाम् | मेर्वादि लघुसंस्थानाः प्रसादाच्छन्दनामकाः || चतुर्हस्तादधः शक्र प्रासादाश्चाति क्षुद्रका | नवधा भाजितं कृत्वा पीठं भाग समं भवेत् || द्विभागं गर्भविस्तारं भित्तयश्च पुरन्दर | चतुर्हस्तादिवस्वन्ता भूतभागविभाजिताः || पीठं भागसमङ्गर्भन्तथा भित्तिः शचीपते | उच्छ्रितिर्भित्ति हीनानां स जंघा द्विगुणा मता || वर्तनां शिखराणाञ्च कथयामि तवाधुना | जंघोर्द्ध द्विगुणोच्छाये पृथुत्वे दशधा कृते || उच्छ्रयस्य चतुर्थांशे चतुर्द्धा भाजिते सति | इन्दु कण्ठोपमैः सारः पदे कुंभ समुन्नतिः || षड्भिर्वेदी त्रिभिः कण्ठः शेषैः शिखरसंवृतिः | तिर्यगूर्द्धञ्च भूतांशैस्त्याज्य भागे कृते सति || भागभागानुपातेन बहुत्वे च तथा भवेत् | तिर्यक् चतुर्गुणं सूत्रं कृत्वा वा वर्तयेद्धरे || सान्धारिकाश्रयाणान्तु मेर्वादीनां यथाक्रमम् | अन्धारिका विहीनानां मण्डपान्वितलक्षणम् || धामगर्भञ्च तत्कर्णभुकनासा गर्भ कर्णतः | सूत्रङ्गृहीत्वाऽब्ज योनिः शुकाघ्रा धामकोणतः || प्रासादस्यार्द्ध विस्तारस्तदग्रे मण्डपः शुभः | शिखरन्त्रिगुणं येषां पादोनं सार्द्धं दृग्गुणम् || स पादं द्विगुणं वाथ जंघा तेषां त्रिभागिका | प्. १६अ) तदूर्ध्वं तुर्यधा भाज्य शमांशं तुरगांसितम् || त्रिभिर्वेदी तदूर्ध्वन्तु कण्ठो द्वाभ्यां शिरोंशतः | पादो न वृत्तवत् कुंभः शेषं पूर्ववदा चरेत् || कण्ठादूर्ध्वं चतुर्दिक्षु ध्वजाधाराणि कारयेत् | चतुर्णामेव दण्डानां स्थितिः स्याद् वेदिकोपरिः || सर्वेषां मण्डपानान्तु नासिकान्त शिखोच्छ्रितिः | फांसैः संवरणङ्कार्यमन्तः क्रोडे करोटकैः || षड्भिः स्तंभैः स रूचकाद्यैः कुंभाद्यैस्तुर्यधासनैः | चतुर्भिर्नन्दिकाद्यैश्च शिरोभिस्ते विराजिताः || स्तंभसंख्या समायुक्ताः पृथुक्त्यंज्ञां भजन्तिते | चतुःषष्टिसमारभ्य स्तंभ द्वितयवर्जिताः || श्रीवत्सादि स सूत्रान्ताः सप्तविंशति मण्डपाः | इदानीं द्वार निर्देशः समासात्ते निगद्यते || विकारांश्मं विना तुल्यं वस्वं शोधिक विस्तरम् | द्विगुणञ्च समुच्छेधं ज्येष्ठादौ लिङ्गमानतः || कर्णसूत्रे रसैर्भक्ते चतुभिर्वासमुच्छ्रितिः | क्षुद्रधाम्ना मयं न्यायो द्रष्टव्यः पाकशासन || खवेदैकं समारभ्य खमुन्यन्त मनु क्रमात् | वियदिन्दूच्युते द्वारं भूत षट्कैर्ग्रहान्तिकम् || अङ्गुलैर्व्यक्त लिङ्गानां तदर्द्धं विस्तरेण तु | तत्पादेन स्मृते शाखे तयोः स्थौल्यन्तदर्द्धताः || द्विपादन्देहलिश्चार्द्धादुन्नता वसु हानितः | ऊर्ध्वस्थाश्च सुरां ध्यक्ष सुविभक्ताः सुसंचिताः || प्रतिशाखास्त्रिभागेन न्यूना कार्याः परस्परम् | शशिरामशरैरश्चैर्नागान्ताः स्युर्यथा क्रमम् || प्. १६ब्) तुर्यांशेन प्रतीहारौ नन्दी कालश्च शाखयोः | सरिद्वयं भार वाहौ मालाविधौ च किन्नरौ || गौर्गिरि हस्ति युग्मश्च ततश्च शेष वासुकी | शाखाधिक्येप्ययं न्यासो न्यूने नागादिभिश्च्युतिः || इतोन्यत् यत्र वल्यादि यथा शोभं विभूषयेत् | गणं लक्ष्मी यक्ष कन्या विष्ण्वीशौ ग्रहगायकाः || नृत्येशो मातरश्चैव क्रमादूर्ध्वं व्यवस्थिताः | द्वाराग्रे अर्द्धचन्द्रञ्च शंखयुग्मादि भूषितम् || प्रासादाय युतङ्कार्यन्न न्यूनन्नाधिकं हितम् | यजमानानु कूले तु देशिकः सु समाहितः || तोषितो यजमानेन द्वारारोपण मारभेत् | द्वाराङ्गानि कषायादि शुद्धान्याच्छाद्य वाससा || न्यस्ता तु धारिकां शक्तिं शाक्तां मूर्तिन्ततः पुनः | त्रितत्वन्देवता युक्तं शिवं साङ्गञ्च विन्यसेत् || अग्नौ सन्तर्प्य संशोध्य प्रोक्ष्यसंस्पृश्य रोधयेत् | सुसङ्गोध्ये प्रतीहाराञ्छिवाज्ञा पदवोधितान् || द्वार प्रमाणकं वास्तुं पूजयित्वा प्रतर्पयेत् | यन्मुकन्तु भवेद्द्वारं तर्पयेत् तद् दिशापतिम् || रत्नन्यासं ततः शक्तिं ज्ञात्वा लग्नन्निवेशयेत् | पुरामध्यं सुविज्ञाय किञ्चिदुत्तरतो यथा || कृत्वा च मन्त्रविन्यासमछिद्रमव धारयेत् | द्वारवत्तोरणानाञ्च प्रतिष्ठा स्यात् पुरन्दर || वित्तशाठ्यादसौ कर्ता स्थापकादींश्च तर्पयेत् | प्रासादं घटयेच्छक्र यावद्वेद्यन्तमागतम् || शुकनासा समाप्तौ तु वेद्यधो भूमिकान्तरे | कृत्वो वरकन्तत्र सुगुप्तञ्च सुशोभनम् || प्. १७अ) रूक्मरौप्यार्कजं वापि रत्नादि पञ्चकान्वितम् | पारदं विन्यसेत् तत्र गन्धस्रग्वस्त्रभूषितम् || प्रकृति रूपं घटं ध्यात्वा मध्ये पद्मं विचिन्तयेत् | दर्पणादौ कृत स्नानं प्रोक्षयेत् स पिधानकम् || न्यस्त्वा तु धारिकां शक्तिं षडुच्छञ्चासनन्ततः | शक्ति मूर्ति समायुक्तन्तत्र कुम्भन्निवेशयेत् || तन्मध्ये विन्यसेद् भूय ऐश्वरीं शक्ति मध्ययाम् | चैतन्यन्तु समाहूय विन्यसेत् समरसेन तु || शक्ति संपुट मध्यस्थं हंसं विन्दु स्वरूपिणम् | दीप्यमानं स्वतेजोभिः सन्धार्याणुचिदंशकात् || स्थिरधीः समरसो भूत्वा शिवाज्ञा पद बोधितम् | स्वसंवित्या समादाय पूरकेण न्यसेद् घटे || तत्कर्मानु ग्रहात्मत्वमधिकारमलान्वितम् | पुरुषार्थ परिज्ञानमुपादे यक्षमं पदम् || शिवेनाधिष्ठितं कृत्वा सर्वविघ्न भयङ्करम् | त्रितत्वं देवता युक्तन्न्यस्त्वा शोध्य निरूध्य च || प्रासादस्थिति पर्यन्तं कर्तुः कर्मानुपूरकम् | ज्वलन्वै दृश्यते विघ्नैः प्रासादश्चाति दुःसह || ततो भूत वलिं दत्वा तृप्ता भवथ सर्वदा | वाचयित्वा मतन्तैस्तु तृप्तास्ते सर्वदा वयम् || एवं कृते स राष्ट्रस्य राज्ञः कर्तुः समीहितम् | फलमुत्पद्यते शीघ्रमारम्भः श्रेयसे सदा || विधाय वेदिका बन्धं कण्ठसारादिकञ्च यत् | मेर्वादि च्छन्दकाः प्रोक्ताः सुविभक्ताः पृथक् पृथक् || खुरकुंभादि विन्यासं तेषु लेशान्निगद्यते | प्. १७ब्) उच्छ्रयन्नवधा भाज्यं भागे कुंभादि कल्पना || जंघभागद्वये नोक्तावरंडाद्यन्तदूर्ध्वतः | सार्द्धलिङ्गञ्च निर्वृत्तन्ततोर्ध्व शिखरं यथा || रथानुरथ कोणादि खुरकुंभादि भूषितम् | प्रासादे कारयेद् एतान् प्रधानाङ्गमपीडयन् || पीडिते तु प्रधानाङ्गे महान्दोषः प्रजायते | राज्ञः कर्तुः प्रजानान्तु दुःखं प्राणान्तिकं भवेत् || रचना क्षेत्राद्वहिस्तस्याद् पादायं विचक्षणः | हस्तसंख्याङ्गुलं शक्र न न्यूनन्नाधिकं क्वचित् || न्यूनाधिकेपि दोषः स्याद् इत्याह भगवाञ्छिवः | रूपरामैर्भजेदाघमूर्ध्वं तिर्यग्रसैर्भवेत् || भागवेशात्सरैः पादो वेदैः कुंभस्तथा नलैः | वेशाद् भागोच्छ्रितः कार्यो वसन्तः सोर्द्ध पट्टिकः || वलयाख्या युतः कलशस्तदूर्द्ध्वे वसुनोङ्गतः | प्रवेशवद् विनिष्क्रान्तो वृत्ताकारोनुया ततः | कुंभ कलश योर्मध्ये छेदो भाग विपर्ययैः | तदूर्ध्वे तु वसन्ताख्यो यथापूर्वमुदाहृतः || ऊर्ध्वङ्कण्ठिक या युक्तो वसन्तो निर्गमात् पुनः | तदूर्ध्वे वेदभागैस्तु पट्टिका चतुरस्रिका || कलश पट्टिकयोच्छेदो वेद तुल्यो यथा भवेत् | भागैक वेशतोच्छ्रायो वसन्तस्त्रिप्रवेशतः || ऊर्ध्वपट्टिक या युक्तः पट्टिकोर्द्ध्वन्तु कण्ठिका | भाग न्यूनाधिकोर्द्धन्तु वसन्तः स्याद् यथा पुरा || वेद भागैस्तथा पट्टिस्तस्योर्द्धमाय संवृतिः | जंघा मध्ये तु निष्कासं तुल्या यद्द्विगुणोन्नत || प्. १८अ) दशधा भाजितञ्चोर्द्धं तिर्यक् पञ्च विभाजितम् | भागभाग प्रवेशेन निर्गमान्मेखला त्रयम् || चतुर्भिः पट्टिका मध्ये तदूर्ध्वं मेखला त्रयम् | वलयाख्याथ मध्ये तु तदूर्ध्वं स्यादधो यथा || जंघोर्द्धमाय निष्काशं दत्वा कार्यं वरण्डकम् | विकार भाजितोच्छ्रायं तिर्यग् वेदविभाजितम् || भागैक वेशतः कार्य पट्टिका द्वितयन्ततः | पट्टिकैका युतं वाथ वसन्तन्तत्र कारयेत् || त्रिभिस्तु कुंभकोच्छ्रायं प्रविष्टन्तद् द्वयेन तु | वसन्तैक युतश्चोर्द्ध्वे वेदैः कण्ठसमुद्गमः || पट्टिका द्वितयं भागं निर्गमात् कुंभकं पुनः | त्रिभिः वा समुच्छ्रितङ्कृत्वा शेषशोभा यथा भवेत् || कण्ठे तु कलशाकारो वसन्तः स्यादधोर्ध्वयो | पट्टिका भूषितौतौ तु शेषं स्याच्छिखरानुगम् || चन्द्रमालादिभिः कूटैर्भूषणैस्तु विभूषयेत् | एवन्तु छन्दकाः सर्वे भूषणैः सुविभूषिता || कन्दवेध्या विरोधेन शान्तिः श्रेयस्करा नृणाम् | वसु वेदांसिते धाम्नि सारीसारक भूषणम् || सिद्ध्यै मुक्त्यै समस्तास्तु मध्यं लक्षानुरोधतः | अधस्तात् पट्टिके वृत्ते सारोर्ध्वं वृत्त पट्टिका || तस्योर्ध्वं कुर्परी कार्यास्तदूर्ध्वं कलशं विदुः | त्रिशूलन्तु तदूर्ध्वं स्यात् तयोर्लक्षणमुच्यते || षड्भानु भाजिते क्षेत्रे कलशं वर्तयेद्धरे | लिङ्गायाम समायामे तदर्द्धेन तु विस्तरे || अङ्गहीनांशतोच्छ्रे धारसांशैस्तु प्रविस्तृता | पादपट्टी समुद्दिष्टा भागे नोल्लास निर्मितिः || उच्छ्रयो विस्तरस्तस्य वेदभागेन सुव्रत | प्. १८ब्) तत्पट्टीपाद भागोच्चा यथा शोभा प्रविस्तृता || कुंभिका तस्य रामांशैर्भागार्द्धेन समुच्छ्रिता | कूर्परं वाम दक्षञ्च सार्द्धवह्यं शतोच्छ्रितम् || सूत्र भ्रमेण कर्तव्यन्ततः स्कन्धं विवर्तनम् | कूर्परान्त द्विभागान्ते सव्यस्कन्धो भ्रमाद् भवेत् || अपसव्यो भ्रमेणैव द्विभागान्ते शतक्रतो | उन्नता विस्तृता ग्रीवासारकर्णांशिका ततः || ब्रह्माननैः कपोलः स्यादर्द्धभागसमुच्छ्रितः | अर्द्धे नैव समुल्लासः पद्मं नेत्रांशकोच्छ्रितम् || अन्धालैर्भूषयेत् कुंभं गुणभागावलंवितैः | अशोक पल्लवैश्चित्रैर्यद्वा चूत समुद्भवैः || कुंभास्यं शोभयेदेतैर्यथा शोभा वलंविभिः | लक्षानुरोधतः कार्यं रूपं न्यूनाधिकं हरे || कलश लक्षणं ख्यातं त्रिशूलं वच्मि साम्प्रतम् | द्वन्द्वानलाङ्गुलं ज्येष्ठे वेद युग्मैस्तु मध्यमे || रस चन्द्रैः कनिष्ठेः स्यात् त्रिशूलं सुरसत्तम | स तारगोलकत्यागादधोदः स्याद् द्वयन्द्वयम् || कोणास्रे तुष्टि तुष्ट्यंशे मध्यशूलं ग्रहांशकैः | यक्षांश विस्तृतिर्मध्ये तीक्ष्णाग्र मनुपाततः || मूले भागप्रविस्तीर्णं यद्वा शोभानुरूपतः | मात्रांश विस्तृतन्दीर्घं रसांशैः सूत्रभ्रमणात् || मध्ये हस्तं व्यवस्थाप्य वृत्ताकारं सुशोभनम् | वहिर्मध्ये करन्धृत्वा मध्ये सप्तांशसंस्थितम् || भ्रामयेद् दक्ष हस्तेन पार्श्वयोः शूलसिद्धये | अधो रेखा द्वयं कार्यमर्द्धचन्द्रो पुमं हरे || सार्द्धपक्षांश सूत्रेण विस्तृतिर्भागसंमिता | शृङ्गयोर्वाह्य रेखिन्यौ वाह्यवृत्तेन विन्यसेत् || प्. १९अ) म्ध्यस्थे चैव रेखे द्वे मध्य वृत्तेन योजयेत् | अधोभाग द्वयं किञ्चिद् विभागान्तरसंस्थितम् || अर्द्धचन्द्रविधानेन भ्रामयेत् स्याद् यथा गतिः | गण्डिका भूषितं मूले कुशन्तुर्यास्रकन्त्वधः || शेषरेखा विनाशेन त्रिशूलं परिकीर्तितम् | पार्श्वयोर्द्धामसूत्रेण विन्यसेत् कलशोपरि || अग्रे पृष्ठे च यत् सूत्रं मध्यशूलेन सङ्गतम् | जगती वन्धकं वक्षे दिक्षु देवालयैः सह || प्रासादार्द्धेन सा कार्या पादोना वाथ तत्समा | मण्डपाग्रे च तत् तुल्या चतुरस्रा सुशोभना || प्रासादार्द्धेन तद्वाह्ये दिक्ष्वष्टौ देवता लये | तदर्द्धं वाह्यतस्त्यक्ता भित्तिर्वन्धन्तु कारयेत् || प्रासादभित्तिवत्कार्यञ्जगत्या भित्ति वन्धनं | प्रासाद समसंस्थानाखुरादि भूषणान्विता || ऊर्द्ध्वं वरण्डिका युक्ता यथा वा तुष्टि मा वहेत् | अजं नन्दीं महाकालं प्राचि वा वज्रपाणिनम् || अर्द्धनारीश्वरं सूर्यमाग्नेययां वा हुताशनम् | मातृचक्रङ्गणेशम्वा कृतान्तन्दक्षिणे स्थितम् || अश्विनौ स्नायु (भृङ्गी)सन्नद्धं निर्-ऋत्यन्नैर्-ऋते न्यसेत् | मृत्युघ्नं योगिनं देवं वारुणे वरुणन्न्यसेत् || षण्मुखं विश्वकर्माणं वायव्यामेणगं न्यसेत् | कुबेरं लोकपैर्युक्तं सौम्ये देवीमुमां न्यसेत् || चक्रिणं चण्डनामानमीशानं वा स्वगोचरे | प्रासादाभिमुखाः सर्वे मध्यसूत्र विवर्जिताः || मठश्चान्तक दिग्भागे लिङ्गिनां स्थितये हितः | प्. १९ब्) यतस्ते दक्षिणासायां वसेयुः शिवभाविताः || प्रासादविस्तरं सूत्रन्तन्मानञ्जगती वहिः | प्राकारङ्कारयेत् त्यक्ता ततश्चाश्रमिणाङ्गृहम् || मठाग्रे तत्समन्त्यक्ता सिंहोयं दक्षिणे स्थितम् | वृषोय पश्चिमे ज्ञेयं ध्वजेयं पूर्वतः स्थितम् || विपुलं वा प्रकर्तव्यं कर्तुरिच्छावसेन तु | चतुरस्रे शरैर्भक्ते मध्यन्त्यक्ता विलोपयेत् || गृहाणां स्वेच्छया न्यासः सौम्ये स्याद् वशनिर्गमः | एकभौमं द्विभौमं वा त्रिभौमं वा यथासुखम् || दीर्घशाला वृतं वाह्ये प्राचियागालयान्वितम् | पाकादि गृह विन्यासं यथायोगं निवेशयेत् || पूर्वोक्तमन्तरञ्चार्द्धन्तस्याप्यर्द्धं यथायथम् | मठिकैका त्रयङ्कार्यं पट्टशाला चतुष्किका || भूमयः पूर्वमुद्दिष्ठा वित्ताभावे कुटी मता | समसूत्रं सु संस्थानं वास्तु पूजापुरःसरम् || लिङ्गिनाञ्च गृहङ्कार्यम्महापुण्य जिगीषया | एतदेव महापुण्यङ्कथयामि तवाखिलम् || संस्थाप्य स्थावरं लिङ्गम्प्रासादे यद् भवेत् फलम् | तत्फलं लभते विद्वान् मठे संस्थाप्य जङ्गमम् || पुरादौ नूतनारम्भे उच्छन्नेवा पुरातने | आदौ संपूजयेद् वास्तुं खवियदिन्दु भाजिते || चरक्याद्याः शरावस्थाः स्कन्दाद्या वेदसङ्गताः | दितीशावन्तरिक्षार्चि एण पितृरूजानिलः || पदार्द्धार्द्ध भुजः शेषाः पदावस्थाः पुरन्दर | तद्वदा पादपस्त्वष्टौ मरीचाद्या रसाधिपाः || प्. २०अ) स्वयम्भूर्वेदसंस्थस्तु पूजा होमादि पूर्ववत् | आदिलिङ्गैर्गुणाञ्ज्ञात्वा भ्रुवो यत्र गुणोत्कटम् || स्थानं भूभृन्निवासाय त्रिविधन्तद्भुत्यपेक्षया | वियद्रसग्रहैरेकं वियन्नागयमेन्दुभिः || खवियद्रसरूपैस्तु तृतीयं क्षेत्र लक्षणम् | चतुरस्रं स्मृतं क्षेत्रं राज्ञामायतनस्य तु || दुर्गादौ सन्निवेशे तु पादभागाय तं स्मृतम् | कन्यसं मध्यमञ्ज्येष्ठन्नृपा वासं विभूतितः || साधयित्वा पुरा तत्र सूत्रन्तारादि साधनैः | दिग्विदिक्षु समङ्कृत्वा ज्ञात्वा वै मन्दिरापतिम् || प्रासादवद् यजेद् वास्तुं शिलान्यासन्तु कारयेत् | पीठोच्छ्रितिं त्रिधा ज्ञात्वा ज्येष्ठमध्य कनीयसीम् || ब्रह्मस्थाने गृहङ्कुर्यान्नागदिक्करमानकम् | भूतयुग्मैस्ततो वाह्ये प्राकारं परिकल्पयेत् || दिशाभिश्चान्तरन्त्यक्ता खवियत्तनुब्बिर्गृहम् | दक्षिणे यमरान्नस्तनेदनागैर्जलेशगम् || उत्तरं रस गोत्रैस्तु पाद संवर्द्धितानि तु | पृथक् प्राकार गुप्तानि शेषाण्यर्द्धार्द्धतो भजेत् || ध्वजं धूमं तथा सिंहं श्वावृषोखर कुञ्जरौ | ध्वांक्षञ्चैव यथा न्यायं पूर्वादावायसंस्थितिः || पूर्ववदन्तरन्त्यक्ता वेदास्रं कारयेद् वहिः | मूल गृहस्य पादेन नवधा भाजयेत् पुनः || ईशादौ कथ्यते न्यासः संक्षिप्तन्ते प्ररन्दर | शान्ति चिह्नालयन्धर्मस्त्वकान्धान वस्त्रकम् || प्. २०ब्) युग्मे पाकञ्च पात्राणां भोजनार्थोपयोगिनाम् | वितथे मन्त्रिणां स्थान मन्त्र मार्गोपदेशिनाम् || शस्त्रमन्तः पुरङ्गात् कस्तूरी सौच वेश्म च | तां मूलं सङ्ग्रहः स्त्रीणां पाचकान्स्त्री नियामकान् || भोज्यं सेनापतिर्मन्त्री वैद्य गन्धोपजीविनाम् | मणिपुष्पादि संस्थानं मुख्ये दूत गृहन्ततः || राजहस्त्यादि संस्थानं क्षीरार्थं काष्ठिकङ्गृहम् | उत्सार कालयं चान्ते इत्येवं भूभुजाङ्गृहम् || महाराजाधिराजस्य ज्ञेयमेतच्छचीपते | विहाय वाह्यगे हानि स्थितिर्मध्य यथा ग्रहैः || सामान्यस्य नृपस्यैवं कन्यसस्य विपर्ययैः | न्यूनं वाप्यधिकङ्कार्यं ज्ञात्वा भूति वलावलम् || हस्त्यश्वादि कृते शेषं सुभृत्यानां यथा सुखम् | प्राकारं कारयेद् वाह्ये शिखाहालादि भूषितम् || प्रतोली तुर्य संयुक्तं वेदाम्राद्यैः सुमण्डपैः | अष्ठहस्तोच्छ्रितं कार्यम् पृथुत्वं सुदृढं यथा || वहिर्वहिस्थितानान्तु मध्यस्थानां रुचिर्यथा | याक्षं जलाधिपंशाक्रं त्रिद्वारं वाहयेत् सदा || दक्षद्वारं सदापिहितं सङ्ग्रामेण विना हरे | वहिः खाति कपायुक्तन्तद्वहिः शस्त्रिभिर्भटैः || सप्तप्राकार युक्तं वा महाराजाधि मन्दिरम् | द्वारे द्वारे नियोक्तव्याः काष्ठिकाः शस्किणो भटाः || दृढं परीक्षितं द्वारं वाह्यतो विशतः क्रमात् | अन्तर्वासो न कस्यास्ति यावन्ना वेदयेन्नृपः || प्. २१अ) राज्ञत्व विदितास्तत्र न विशन्ति कदाचन | एवं नित्यनुरक्तस्य कल्याणं नृपतेः सदा || द्वारे द्वारे चतुर्दिक्षु हट्टः कार्यः सुशोभनः | पूर्व हट्टस्य मध्ये तु आयतः सौम्ययाम्ययोः || नगरी निष्काश पर्यन्तं हट्टमार्गः सुशोभनः | एवं दक्षे तथा वरुणे सौम्ये मार्ग चतुष्टयम् || उदक् पूर्वादि विप्रादी न्यथा स्थानं निवेशयेत् | खरासमादितः कृत्वा कोणकोणकरच्युतम् || अष्टादशावसानञ्च दैर्घ्याद् गृह चतुष्टयम् | चतुर्णामपि वर्णानां ज्ञात्वा हानिं प्रकल्पयेत् | पूर्वामुखञ्जपं शक्रं पूषा * *? र्व दक्षिणम् | सुग्रीवं पुष्पदन्तञ्च प्रचेतः पश्चिमामुखम् || मुख्यं सोमञ्च भल्लाटं द्वारदैर्घ्येण कारयेत् | तद्वाह्ये रक्षसार्थन्तु भृत्यवर्गान्निवेशयेत् || प्रजापालः स्मृतो राजा तस्मान्न्याययन्तु रक्षणम् | वर्णानामनुपूर्वेण धर्मं देशापयेन्नृपः || श्रुति स्मृति पुराणानि आगमा धर्म देशकाः | एतैर्यो वर्तते राजा स राज्यं भुञ्जते चिरम् || पुराणं वाध्यते वेदै रागमैश्च तदुक्तयः | सामान्यञ्च विशेषञ्च शैवं वैशेषिकं व च || वाध्यवाधक भावेन नोविकल्पं विचक्षणैः | यद्यथावस्थितं वस्तु सर्वज्ञस्तत्तदा व्रदेत् || आगमानां वहुत्वे तु यत्र वाक्य द्वयं भवेत् | किं प्रमाणन्तदा ग्राह्यं प्रमाणं शाङ्करं वचः || ग्रन्थाद् ग्रन्थान्तरं टीका सापेक्ष निरपेक्षयोः | प्. २१ब्) समाधनन्तपोः कार्यमर्थापत्यादि साधनैः || एवं ज्ञात्वा सुराध्यक्ष निर्वृति परमाम्वुज | एवं धर्मान्विते राज्ञि स्वराष्ट्रे सर्वदा शिवम् || नृपालयाद्वहिर्दिक्षुर्हट्टानां पार्श्वयोर्द्वयोः | पृथक्लीमा परिचितात् प्रसादात् कारयेन् नृपः || देवताधिष्ठिते स्थाने धर्मवृद्धिर्नृपे यतः | सन्मुखा विमुखाः कार्याः कर्तुरिच्छावसेन तु || विशेषविमुखानान्तु रूपकसन्मुखं रथे | तद्रूपं भूषणोपेतं तद्वेषायुधधारिणम् || वरदाभयपाणिञ्च न्यसेदेवं समाहितः | तुल्यमेवं द्वयोर्दृष्टं रूपकं सन्मुखं यतः || एवं कृते महाशान्तिर्नृपेराष्ट्रे तु सर्वदा | तैरेवान्तरितोश्चान्ये प्रसादात् तद्वहिः स्थिताः || सन्मुखा विमुखाः कार्याः कर्तुरिच्छा वसेन तु | सस्तैरन्तरितास्ते तु नते दोषावहाहरे || देवता रूपकैर्युक्ता गुणोत्कर्षं वहन्तिते | तेभ्यो येन्ये वहिर्भूतास्तत्राप्येवं व्यवस्थितिः || नगराद्वहिश्चतुर्दिक्षु लक्ष्मी यक्षाधिपौ न्यसेत् | विभूतिञ्चिन्त्यमानौ तु नृपस्य तन्निवासिनाम् || नगराभिमुखौ कार्यौ वरदा भयपाणिनौ | नियमस्तत्कृते दृष्टो न सर्वत्र पुरन्दर || पूर्वादौ सर्वतो दिक्षुस्वस्थाने ये सुरालयाः | सन्मुखा विमुखाः कार्याः कर्तुरिच्छावसेन तु || पूर्ववल्लक्षणैर्युक्ताः शान्ति श्रेयस्करा नृणाम् | प्. २२अ) एवं देवालयैर्युक्ते यत्फलन्तन्निगद्यते || धर्म वृद्धिर्भवेन्नित्यं कल्याणं सर्वप्राणिषु | राज च वर्तते नित्यं सामात्योवलवाहनैः || नोपसर्गभयन्तस्य प्रातिराज्यो न दुर्गतिः | धर्मवृद्धिर्भवेत् कर्तुः पुत्रपौत्रान्वयैः सह || एवं सर्वत्र विज्ञेयं पुरादौ देवता लयात् | अस्मादि कल्पितानान्तु लिङ्गानां नृस्वरूपिणाम् || मानुषैः स्थापितानान्तु नान्येषां पाकशासन | नायं विधिः स्वयं वयक्ते न वाणे सुरनायक || सन्मुखौ विमुखौ कार्यौ सर्वानुग्रहको यतः | स्वोच्छवाणे सदा देवः सन्निधः स्वेच्छया शिवः || प्राणिनामनुकम्पार्थन्न तयोर्नियमः क्वचित् | प्रासादे द्वार विन्यासे पीठे चैव तु मण्डपे || जगती पाद विन्यासे प्रतिष्ठासु न विद्यते | महद्भिः स्थापितानान्तु लिङ्गानां घटितात्मनाम् || विधिः पूर्वोदितस्तत्र प्रासादादौ न कुत्रचित् | भूपरीक्षां समारभ्य प्रासादान्तम्पृथक्पृथक् || निःसन्दिग्धं सु संवेद्यं स्फुटार्थं यत् क्रमागतम् | कथितन्ते सुराध्यक्ष लिङ्गादौ स्थापनं शृणु || इति मोहचूरोत्तरे प्रासादप्रख्याने चतुर्थः पटलः || स्कन्द उवाच || कर्तुश्चैवानुकूलेन नक्षत्रादौ शुभे दिने | प्रतिष्ठा शुक्लपक्षे तु श्रेष्ठा चोदग्गते रवौ || ब्राह्म्यं शैवं जलाध्यक्षमाप्यं विश्वाधि दैवतम् | प्. २२ब्) नागं सौरं हरिं मित्रं सोमं शक्रं सदागतिम् || त्वष्टाधि दैवतं पौष्णं वसवञ्च शुभानि तु | प्रतिष्ठा सर्वदेवानामेतैः कार्या शतक्रतो || गुरुः शुक्रो बुधश्चन्द्रो ग्रहाः सौम्याः प्रकीर्तिताः | द्रव्यमायुः प्रजापुष्टिं वाञ्छा प्राप्ति करास्त्विमे || न न्यूनानाधिका कन्या जलाधारं शिवोद्वहम् | कोणलग्नं सदाश्रेष्ठं प्रतिष्ठायां शिवागमे || छागं युग्मङ्कुलीरञ्च हरिं कीटन्तथैव च | ऋतु रूपानलागैश्च स्वरूपैः शोभनः शशी || मैत्रं परममैत्रञ्च संपत्क्षेमञ्च शाश्वतम् | ववञ्च वालवञ्चैव लौलवन्तै तिलन्तथा || ताराकरणं शुभं शक्र सर्वदेव निवेशने | युग्माभूतारसानागा दिशा रुद्रा दिवाकराः || कामापूर्णा सुराध्यक्ष तिथयस्तु सुसम्मताः | भौममन्दौ त्रिषष्ठस्थौ चन्द्रादित्यौ तथा पुनः || दशमौ तु मुनिश्चन्द्रौ द्विसप्ताहूः शरैर्गुरुः | युग्मतुर्य रसाष्टैस्तु दशस्थः शोभनो बुधः || रससप्त दशार्कस्थ शुक्रस्त्याज्यः प्रयत्नतः | उत्पातञ्चैव काणञ्च मृत्युयोगं विवर्जयेत् || क्षेत्र ऋक्षे ग्रहाः सर्वे यमघण्टेति निश्चिताः | यस्मात् ते सर्वकार्यघ्ना प्रतिष्ठायां न योजयेत् || क्षीणचन्द्रस्तथादित्य कुजार्किस्तैर्युतो बुधः | प्. २३अ) पापाः पापांशया यस्मात् सर्वकार्ये विवर्जयेत् || रजनीं प्राप्य सर्वेषां प्रभावो न यथा दिवा | आनन्दामृत सिद्धैस्तु योगैर्नैमित्तिकैः शुभाः || प्रशस्ता सर्वकार्यंषु प्रतिष्ठायां विशेषतः | माघ फाल्गुन वैशाखे आषाढे वा शुभे दिने || केन्द्रस्थे च गुरौ शुक्रे न लग्ने दोषदा ग्रहाः | नष्ट चन्द्रे तथा शुक्रे गुरावस्तवनङ्गते || प्रतिष्ठादौ शुभारंभं दूरयात्रां न कारयेत् | सौभाग्यः शोभना युष्मान् सिद्धः साद्ध्यः शिवः शुभः || वृद्धिः प्रीतिर्धृतिः सिद्धिर्ध्रुवः शुक्लश्च शोभनाः | यजमानस्यानुकूलेन प्रासादाग्रे तु कारयेत् || उत्तमं वेद युग्मैस्तु वस्वेकेन तु मध्यमम् | युग्मेन्दु कन्यसन्धाम ज्ञात्वान्यत्र प्रयोजयेत् || चतुरस्रं समङ्कृत्वा वास्तु मिष्ट्वा यथा पुरा | खात्वाशल्योद्धृतिं कृत्वा पूरयित्वा दृढं यथा || त्रिभाग वेदिका युक्तं कोणस्तंभ विराजितम् | वाह्येप्येव विधं स्तंभैर्यज्ञ वृक्ष समुद्भवैः || दशाष्ट षट्करोच्छेधैर्ज्येष्ठादीनां क्रमेण तु | प्रदेशो वा यदा नास्ति अधो वा सुदृढं यथा || यत्रा भावस्तु वृक्षाणान्तत्र यद्रुचितङ्कुरु | उच्चा सूर्याङ्गुला वेदी ततोर्द्धाङ्गुल विच्युतिः || ज्येष्ठज्येष्ठ्यासुरश्रेष्ठ ज्ञात्वान्यत्र प्रयोजयेत् | विन्दु वेदाङ्गुलं कुण्डं दृक्त्यागात् तु यथाक्रमम् || ज्येष्ठादिकन्यसान्तान्तां वेदी पादाद्वहिः कृतम् | वेद युग्मासितङ्कृत्वा अङ्गुलं भागसंमितम् || २३ब्) तावद् भिरङ्गुलैर्हस्तं कुण्डानां परिकल्पयेत् | हस्तमात्रं खनेत् तिर्यग् ऊर्ध्वं मेखलया सह || वहिः खाताङ्गुलं कण्ठः सर्वकुण्डेष्वयं विधिः | मेखला त्रितयं कार्यं कोणरामयमाङ्गुलैः || दैर्घ्यात् सूर्याङ्गुलानाभिस्त्र्यंशो ना विस्तरेण तु | एकाङ्गुलोच्छ्रिता सा तु प्रतिष्ठाभ्यन्तरे तथा || कुंभ द्वय समायुक्ता अश्वत्थदलवद्यथा | अङुष्ठ मेखला युक्ता मध्ये त्वाज्य धृतिर्यथा || दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे | दिक्षु वेदास्र वृत्तानि पञ्चमन्त्वीशगोचरे || तस्य नाभिर्जले दक्षे यदिष्टन्तत्करिष्यति | कुण्डानि पञ्च एकं वा कर्तव्यं पूर्वतः स्थितम् || चतुर्मुखः प्रकर्तव्यः स्नानाख्यस्तस्य चोत्तरे | ईशे प्राच्यथवा कार्यो वेदिकाद्वितयान्वितः || न्यग्रोधोदुम्वरोश्वत्थ प्लक्षास्तोरण मूर्तयः | सूर्याङ्गुलाधिकैर्नागैरष्टभिर्मुनिभिः करैः || सप्तहस्तादधो यत्तु हस्तहस्त परिच्युतेः | तोरणद्वितयं ख्यातन्तदूर्ध्वं तोरण द्वयम् || अन्तरालं त्रिधाभाज्य एकत्वेन नवैव तु | सर्वेषान्तोरणानान्तु पञ्चमांशं प्रवेशयेत् || विस्तरेणोच्छ्रयन्तुल्यं वाहुल्येन षडङ्गुलम् | पञ्चहस्तादितः कृत्वा वर्द्धयेदङ्गुलाङ्गुलम् || उच्छ्रयं पञ्चधाभाज्य शूलं पक्षांश निर्गतिः | शाखयोरङ्गुलैश्चूला वसुभिश्चाङ्गुलन्ततः || पूर्ववृक्षोद्भवास्तंभा याज्ञिका वा अभावतः | प्. २४अ) द्विगुणं ब्रह्मणो भागात् क्षीरवृक्षसमुद्भवम् || पद्माङ्कञ्चतुश्चरणं रसैकाङ्गुलमुच्छ्रितम् | उपस्करकुटीकार्या वारुण्यां मण्डयार्द्धक || स्रुक् स्रुवौ लक्षणो पेतौ यज्ञवृक्षसमुद्भवौ | उदुम्वरपलाशाम्ररुद्राश्वत्थमधूकतः || रसरामाङ्गुला कार्या दोर्दण्डे नाथ वा समा | अष्टाङ्गुला स्मृता वेदी कण्ठोङ्गुष्ठः फलं स्वरैः || उत्तमामध्यमा कन्या एकैकाङ्गुल हानितः | मध्ये वृत्तन्तु संभ्राम्य त्यक्तैकं पट्टिकाङ्गुलम् || तत्समञ्चाध वाहुल्यं समस्तञ्चतुरङ्गुलम् | पार्श्वयोरङ्गुलं स्थाप्य कुंभाकारमधो यथा || अग्रे त्रिभाग विस्तारमाज्यरन्ध्र कनिष्ठया | गण्डिकाद्व्यङ्गुला दीर्घादण्डादेकाङ्गुलाधिका || षडङ्गुल परीणाहं शेषं दण्डस्य दीर्घता | वृत्तवत्कलशोपेता तदङ्गोहास्तिकः स्रुवः || पृष्ठे कुंभ द्वयोपेतः पङ्के गोपदवद्यथा | द्व्यङ्गुलं पुस्करन्तस्य दण्डमेकाङ्गुलं विदुः || गण्डिकाद्वियवा तस्य दण्डाग्रे कलशोद्गतिः | वाहुमात्रांकुशैः स्निग्धैः खरामदलवर्तिताः || विष्टरास्तु प्रकर्तव्या मूलाग्रे दर्भग्रन्थयः | तत्समा यज्ञ वृक्षोत्था परिधयः सुलक्षणाः || प्राक्षेद मात्राः समिधः स्फुटिता दोषवर्जिताः | अर्कोद्भवापलाशोत्था खदिराङ्गापामार्गजा || अश्वत्थो दुम्वरोद्भूताः शमीदूर्वा समुद्भवाः | कुशोत्था ग्रहशान्त्यर्थन्तदभावात्तिलैर्यवैः || प्. २४ब्) इन्धनानि चतुष्कानि प्रशस्तान्यग्नि कर्मणि | सौवर्णं राजतन्ताम्रं कुक्षिमत्कम्वुकन्धरम् || तद्वच्चकर्करी ज्ञेया सुरूपा चारूदर्शना | अभावान्मृद्भवं सर्वं कृष्णावर्तादि वर्जितम् || कलशागड्डुकाप्येवं कुंभाश्चैवोपयोगिनः | लोहिताः ससरावाश्च दीपवृक्षादि मल्लिकाः || नैवेद्यरन्धनार्थन्तु नानापाक समुच्चयम् | अखिलं यागसंभारं यागभूमौ समाहरेत् || पञ्चहस्ता ध्वजां कार्या वैपुल्येन द्विहस्तिकाः | सप्तहस्ता पताकास्तु विंशत्यङ्गुल विस्तृताः || पञ्चहस्ता ध्वजानान्तु पञ्चमांश प्रवेशिताः | दशहस्ता पताकानां दण्डाः पञ्चांश वेशिताः || सिन्दूरा कर्वुरा धूम्रा धूसरा मेघसन्निभाः | हरिता पाण्डुवर्णा च शुभ्राः पूर्वादितः क्रमात् || एवं वर्णाध्वजाः कार्याः पताकापाकशासन | मध्ये श्वेताथ वा पीता दर्पणाद्युपशोभिता || मण्डपान्तं वितानं स्यादथ वा वेदिकोपरि | वस्त्रैरुल्लोचयेत् स्तंभान्तथा तोरण मूर्तयः || शान्तः शिशिर पर्यन्य विशोकाप्यायका मृतान् | धनश्री शौच स्तम्भाधो द्वौ द्वौ रत्न युतौ न्यसेत् || चूतपल्लवशोभाढ्यान्प्रत्येकं कण्ठ वाससान् | कदली स्तंभ विन्यासैः स्रग्दाम चूत पल्लवैः || शोभयित्वा वहिः पश्चात्ततश्चाभ्यन्तरं विशेत् | वेदिकोपरि चैशान्यां सर्वधान्यासने स्थितम् || प्. २५अ) वस्त्रयुग्मावृतं कण्ठे चूतपल्लवशोभितम् | स रत्नं शिव कुम्भञ्च भूषयन्तं मखालयम् || कर्करी तत्सखी वामे भूषितानाल पश्चिमा | धर्माद्याः कोणसंस्थास्तु रत्नवस्त्रविभूषिताः || इन्द्रादि कलशोप्येवं तथा शान्ति घटानपि | एवं निद्रा घटो दृष्टो ब्रह्मलक्ष्मी हरेर्घटाः || स्रग्वस्त्रवेष्टितं कुण्डं स्रुक्स्रुवौ तत्समीपगौ | उपस्कर कुटी मध्ये स्थापयेद् यज्ञसाधनम् || ताम्रमयी चरुस्थाली स पिधाना स चट्टुका | लोहयन्त्रिकया युक्ता चरुस्थालं तथाविधम् || स नालन्ताम्रपात्रञ्च घण्टाधूपक उच्छ्रकम् | खभूतपलसंख्यन्तु तस्यार्द्धः स्यात् ततोर्द्ध्वतः || ज्येष्ठादि कन्यसान्तानान्त्रिधा स्यादर्घपात्रकम् | हेमद्रव्यादि निर्वृत्तम् भवादनुरूपतः || यन्त्रिका च तथा ज्ञेया प्रति कुण्डेर्घ पात्रकम् | तथा तिलाज्य पात्राणि गन्धाख्यं स्यात् तथाविधम् || पञ्चगव्यस्य पात्राणि पञ्चैव परिकल्पयेत् | तथाभ्यङ्गस्य पात्रञ्च लक्षणार्थं मधूद्वहम् || रामयुग्मैकमासैस्तु शलाका ज्येष्ठतः क्रमात् | तूलिका द्वितयं कार्यं सोपधानं पटावृतम् || शययार्थं स्मृतः पट्टः पट्टाश्चैवोपवेशने | गृहार्थन्तु चरूस्थाली पूर्वलक्षणलक्षिता || प्. २५ब्) घटीताम्री तथा पात्रं भोजनार्थं प्रकल्पयेत् | मार्जनीकण्डनीपेषी गृहोपस्कररणानि च || करण्डाड उल्लिका व्यजनं कण्डालाद्यन्तथैव च | अपर्युषित पुष्पाणि बिल्वपत्रादि पत्रिकाम् || धूपार्थं गुग्गुलं साज्यं चन्दनं भोज्य सन्ततिः | होमार्थन्तिलयवौसर्पिर्यथा योगं समाहरेत् || द्रव्याणामप्य लाभे तु यथा लाभमुपाहरेत् | लिङ्गादि शोधनार्थन्तु स्नानद्रव्यं निगद्यते || गङ्गातीरमृदो ग्राह्याः कुलाद्रौ तीर्थसङ्गता | पद्मखण्डे च वल्मीकेन दीनां सङ्गमेपि च || उद्धृता दन्तिनान्दन्तैर्वृषैः सानन्ददर्पितैः | न्यग्रोधोदुम्वरोश्वत्थ जम्वाम्र त्वक् सुशोभना || मुरामांसीवचा कुष्टं शैलजं रजनीयकम् | सटीचम्पकमुस्तञ्च सर्वौषधिगणः स्मृतः || उशीरञ्चन्दनं लोध्रं तगरं फलिनी जला | लक्षणागिरिकर्णी च क्षीरिणी वृहति शिखा || ब्रह्मदण्डी नागकर्णी सहदेवा पुनर्नवा | कुमारी द्रोणपुष्पी च शंखिनी खरमञ्जरी || शिवाग्नौ संस्कृतं भस्म वस्त्रेणान्तरितंसितम् | गोमूत्रङ्गोमयं क्षीरन्दधिशर्पिः पृथक् पृथक् || पञ्चामृतन्तथा भूतं फलानि विविधानि च | रत्नादि पञ्चकञ्चैव सुसंपूर्णं पृथक् पृथक् || हैमङ्कूर्मन्तथा पद्मम्पारदंत्वोमतन्दुलाः | इत्येवमादि संभारङ्कुम्भाद्यंयन्न चोदितम् || सर्वं सुसम्भृतं कृत्वा ज्ञापयेद् देशिकोत्तमः | प्. २६अ) वृणुयाद् देशिकं पूर्वं वस्त्रहेमादि भूषणैः || तथानुमूर्तिपान्सर्वानस्तु जापि समन्वितान् | ऋत्विजान्वेदनिष्ठांश्च बोधयित्वा च शिल्पिनः || श्रद्धाविष्टः शुचिः कर्ता नत्वा विज्ञापयेदिदम् | त्वत् प्रसादाच्च हे नाथ लिङ्गसंस्थापनं मम || हुङ्कारोमीत्यनुज्ञाय नित्यनिर्वर्तितो गुरुः | आवश्यकन्ततः शौचमिन्द्रियाणाञ्च शोधनम् || मलस्नानं विधिस्नानं स सन्ध्यम्भस्मगुण्ठनम् | यतिनो गृहिणः पूर्वसन्ध्यादौ समता द्वयोः || सन्ध्याया लक्षणं शक्र प्रसङ्गेन निगद्यते | आद्या शक्तिः पुरानित्या यासा कारणधर्मिणी || सा सन्ध्या परमार्थेन बोधेनाव गतात्मनः | ध्याननिष्ठा प्रतिष्ठानां पुंसां लक्षानुरोधतः || मृणालसूत्रसङ्काशा पश्चात् स्थूलतराऽभवत् | पूर्वकालादि भेदेन भिन्नवर्णाः पृथक् पृथक् || रक्ताशुक्ला तथा श्यामा चतुर्थी रूपविच्युता | श्यामवर्णाथ वा सन्ध्या पश्चिमासुरसत्तम || लक्षमात्रधराः सर्वालक्षणैस्ता विवर्जिताः | सत्वं रजस्तमश्चैव त्रयाणान्तु गुणत्रयम् || निर्गुणा च निराकारा त्वन्तिमा परमार्थतः | हृदये च तथा विन्दौ ब्रह्मरन्ध्रे निरास्पदे || चतसृणां समुद्दिष्टन्ध्यानस्थानं शतक्रतो | ज्ञानिनाङ्कथितङ्किञ्चिद् योगिनां कथ्यते हरे || अन्ते सूर्यस्य चन्द्रस्य द्वे सन्ध्ये प्राणयोगिनाम् | प्. २६ब्) परयोगेन कथितात्वन्यथा मम शूलिना || शुद्ध बोध पदावस्था आत्मनो या शचीपते | सन्ध्यान्तामपरां विद्धि शून्यरूपां परां पुनः || यथाकाल क्रमेणैव सन्ध्यां ध्यात्वा स्वभावतः | मन्त्रैः शिवात्मकैः पश्चात् कुर्यात् तीर्थं सुभावितः || मार्जनं संहिता मन्त्रैः कृत्वा दक्षकरे स्थितम् | बोधरूपन्तु तत्तोयमिडाया कर्षयेत् ततः || कुंभकस्थस्तदातिष्टेद् यावन्नोद्गच्छते रविः | पिङ्गयारविवाहिण्या कारयेदघमर्षणम् || शिवमन्त्रं मृणन्मन्त्रि स्वाहान्तमुदकाञ्जलिम् | दत्वा शिवाय गायत्रीञ्जपेत् पश्चात् सुभावितः || जप्त्वा निवेद्य देवाय तर्पणङ्कारयेत् ततः | मन्त्रा देवाश्च ऋषये मनुष्याः कुणपास्तथा || पितरो मातरश्चैव मन्त्रैर्वै जाति योजितैः | एतान् सन्तर्प्य मेधावी मेधावी आचमेत् पाकशासन || आदित्यं पूजयित्वा तु पश्चाद् गच्छेन् मखालयम् | अभ्यर्च्य तोरणा नादौ द्वाराध्यक्षान् यथाक्रमम् || आरोग्यं शान्ति भूतिञ्च वलं सौम्यादितः क्रमात् | धनश्री शौच शान्तादि युग्मयुग्मन्निवेशयेत् || देवीश्चैव तु चण्डीशं नन्दिनं कालमेव च | भृङ्गीशञ्च गणाध्यक्षं दुर्मुखं स्कन्दमेव च || प्. २७अ) गन्धैः पुष्पैश्च संपूज्य शिवाज्ञां संविधाय च | यज्ञस्य रक्षकत्वेन स्थातव्यमां हितादरैः || वज्रादीनि पताकासु कुमुदाद्यं ध्वजेषु च | स्फुरतो विन्यसेद् विद्वान् सर्वविघ्न भयङ्करान् || पिधाय सर्वद्वाराणि पश्चाद् द्वारेणसंविशेत् | द्वारदेशे ततः स्थित्वा स्मरन्नस्त्रं सुभास्वरम् || विलोक्ययाग संभारं भूमौ पादाहतिं त्रिधा | विद्युत्पुञ्जनिभं पुष्पन्तन्मध्ये हेतिनाक्षिपेत् || तत् तेजः पूरितन्धाम निरस्ता विघ्नसंहतिः | दुःसहं परमं ह्येतदहो विस्मयमा गताः || तर्जयत् संविशेन्मध्यं गणान्वै विघ्नरूपिणः | हेतिना विन्यसेत् पुष्पञ्ज्वलन्तन्द्वाररक्षकम् || प्रदक्षिण क्रमेणैवमुप विशेद्वेदिकोपरि | दक्ष हस्तन्ततो वा मन्तयोः पृष्ठञ्च हेतिना || संशोध्य विन्यसेच्छक्तिम्सुधारूपं शिवेन तु | मूर्तिं शिवन्तदङ्गानि कनिष्ठाद्या सुयोजयेत् || परमी कृतिन्तयोः कृत्वा धर्मगुप्तिन्ततः पुनः | शोधयेद् भूतसङ्घातन्धारणाभिश्च पञ्चभिः || उद्यानैः पञ्चभिः पूर्वन्ततोन्यत्रैक विच्युतिः | शून्यं शून्ये तु विन्यस्य न किञ्चिदपि चिन्तयेत् || अमृतञ्चिन्तयेत् पश्चाल्लब्ध्वानन्दगुणोदयः | ततश्च शाक्तां मूर्ति शक्तां वीक्षं स्वके न्यसेत् || वक्त्रे वक्त्रं हृदिघोरं गुह्यं वाममधस्त्वजम् | प्. २७ब्) ततः शिवं षडङ्गञ्च यथा स्थानन्निवेशयेत् || परत्वञ्च महामुद्रां पादादारभ्य विन्यसेत् | एवं कृत्वा पुराशक्र अन्तर्यागमथारभेत् || तडित्पुञ्जनिभन्ध्यात्वा ज्वलद् द्वीपशिखा कृतिम् | तुषारदानरूपं वा शुद्ध स्फटिक रूपि वा || एषामेकतमन्ध्यत्वा यस्मिंल्लक्ष्ये व्रजेन्मनः | पुष्पभावः क्षमाचार्घं दीपममलात्मकं विदुः | अध्यवसायात्मिका बुद्धिः पुंसिलक्षस्य वेदने | एवं विलेपनं शक्र येनाणुः स्यादलेपकः || अग्निः प्राणामतः पात्रं गर्वो धूपशिखा कुलः | भावितस्तत्वाभावेन यदा लक्षं व्रजेत् पुमान् || स्वसम्वित्तौ शिवत्वेन तदा गवीयते किल | धूप एष समाख्यातो नैवेद्यं विषयाः स्मृताः || आसनं प्रकृतिर्ज्ञेया पूजकः पुरुषः स्मृतः | नाद समना समायोगात् स्वभावं व्रजते यदा || तदा जपः समुद्दिष्टो येनाणुः स्याच्छिवः स्वयम् | नाभावेवन्तु सम्पूज्य प्राणाग्नौ तेज सान्निधौ || परमामृतरूपेण विषयाञ्जुहुयात् समाहितः | होम एष समाख्यातो हुत्वा केवलतां व्रजेत् || निस्तरङ्गे परे तत्त्वे व्यापके भाववर्जिते | तल्लयत्वङ्गत आत्मा ध्यानमेतत् प्रकीर्तितम् || प्राकारश्चैव दिग्बन्धस्तर्जनं खातिका तथा | शक्तिजालञ्च विज्ञेयं पञ्चमन्तत्सुदुःसहम् || अस्त्राभि मन्त्रितां करकीं तेजो रूपां सुदुःसहाम् | प्. २८अ) तदम्वु प्रोक्षितं सर्वं द्रव्यजातमदोषकृत् || प्रक्ष्याल्य चार्घपात्रन्तु पूरयेद्ध्यानमाश्रितः | न्यस्त्वा शक्तिं शिवं साङ्गं परत्वं मुद्रया कृतम् || विशोद्ध्य द्रव्यसंभारमात्मपूजां प्रकल्पयेत् | सव्यहस्ते शिवञ्चेष्ट्वा तत्त्वन्यासपुरःसरम् || तेजोरूपं न्यसेद्ध्यात्वा समस्ते निष्कलं शिवम् | लिङ्गादि वेशने पत्युः सामर्थ्यं मद्वशं यतः || भावयित्वा धिया सर्वं यज्ञारंभं समारभेत् | ऋतुरामदलनिर्वृत्तं ज्ञानासिन्ताल सम्मितम् || सप्ताभि मन्त्रितं कृत्वा वाम कक्षे निवेशितम् | पञ्चगव्यन्ततः कुर्याद् विकरादभि मन्त्र्य च || इष्ट्वा वास्तुं विकीर्याथ नानाशस्त्र स्वरूपिणः | लाजा चन्दन सिद्धार्थ भस्म पुष्प कुशाक्षतान् || सुगन्धैर्गन्धपुष्पाद्यैः पूजयेत् कलशंवरम् | सासनेन सदेहेन शिवेन समधिष्ठितम् || एवमस्त्रालुकं चेष्ट्वा लोकपान्पूजयेत् क्रमात् | शिवयागः समारब्धस्त्वद्भक्तानां शिवाज्ञया || रक्षणीयोन्तरायेभ्यो लोकपाः सुसमाहितैः | इत्याज्ञां श्रावयेत् कुंभान् भ्रामयेदग्रतोस्त्रकम् || प्रदक्षिण क्रमेणाथ स्थापयेत् कलशालुके | दत्वा स्थिरासनं पूर्वं विन्यसेत् कलशालुके || दत्वा स्थिरासनं पूर्वं विन्यसेत् तदनन्तरम् | धारिकादि क्रमेणैव यावत् स्याद् विमलासनम् || प्राप्तिं व्यप्तिञ्च सामर्थ्यं मन्त्राणां परिणति क्रमम् | प्. २८ब्) यत् स्वरूपञ्च विन्यासं येन तत्कार्यसाधनम् || एवं ज्ञात्वा पृथक् सर्वन्ततो मन्त्रन्नियोजयेत् | आसनङ्कारणान्तन्तु मूर्तिः शक्ति स्वरूपिणी || शोध्याध्यानन्न्यसेत् पश्चात् सृष्टिमार्ग क्रमेण तु | इच्छाशक्ति मयीं मूर्तिं कल्पयेच्छां भवस्य तु || आवाहयेत् ततो देवं सूर्याग्नि चन्द्रयोगतः | सन्निधानन्निरोधञ्च कृत्वा वेदावगुण्ठनम् || अमृतीकरणं योज्यमर्चान्तार्घञ्च चन्दनम् | स्नानं प्रकल्प्य * * * संपूज्य धूपयेत् ततः || अङ्गान्याहूय संस्कृत्य पूजयित्वा विधानतः | धूपदीपादिनैवेद्यमुपचारान्निवेदयेत् || तोयं पवित्र दानञ्च परमीकरणन्ततः | यथोक्तन्तु जपङ्कृत्वा वर्द्धन्यामखिलन्त्विदम् || प्रणिपत्य पुनश्चेष्टा ततो विज्ञापयेदिदम् | त्वन्मुखोक्त विधानेन रक्षितोयं मयामख || इदानीमन्तरायेभ्यः संकानो त्वत् प्रसादतः | तस्मात् प्रबोधनि स्त्रिं शंगृहाणाज्ञां प्रदेहि मे || लिङ्गादि साधनं देव शोध्य बोध्यत्वमागतम् | ममाज्ञया कुरुष्वेवं लिङ्गादौ शोध्यसन्निधिः || उक्तं शिवेन संभाव्य ततः कुण्डान्तिकं व्रजेत् | निरीक्ष्य प्रोक्ष्य संभाव्य अभ्युक्ष्य च यथाक्रमम् || खात्वाविकीर्य तत्पूर्य समीकृत्याभिषेचयेत् | निरूढ्य मार्जनं कृत्वा लेपनं कुण्ड कल्पना || परिधानं त्रिसूत्रेण रेखा तुर्यश्चतुष्पथम् | प्. २९अ) सर्व मन्त्रेणवस्वेक संस्कारं कुण्डकर्मणि || वर्मणा त्वक्षपाटन्तु विस्तरं चत्वरे हृदा | वागीशौ पूजयेत् तत्र वृषस्यन्तौ सुयौवनौ || ताम्रे नालयुते वह्निं वीक्षणाद्यैर्विशोधयेत् | भागं पलाशिनां त्यक्ता तदैकत्वं यथा त्रिधा || तद्वीजं विन्यसेत् तत्र षडङ्गे नाभि मन्त्रयेत् | गृहीत्वा भ्रामयित्वा तु ईश वीज स्वरूपिणम् || गर्भनाड्यां क्षिपेच्छक्तेर्दत्वा तोयन्तयोस्ततः | गर्भाधानमजे नैव पुंस्त्वेवामं नियोजयेत् || सीमन्ते बहुरूपन्तु वक्त्रम्वै जातकर्मणि | अर्घोदकेन संप्रोक्ष्य सदिध्याः पञ्चहोमयेत् || पूर्वादौ विष्टरन्यासं ब्रह्मादींल्लोकपान्यजेत् | स्रुक्स्रुवौ वीक्ष्य संप्रोक्ष्य शक्तिं शंभुञ्च विन्यसेत् || शुद्धाज्येन मुखाघारं सन्धानमेकतान्ततः | नाम्नी त्वीशञ्च सन्धाय पितरा विष्ट्वा विसर्जयेत् || विभज्य पञ्चधा पश्चाद् यथा कुण्डे नियोजयेत् | धूपाद्यर्थं पृथक् त्यक्ता वह्निं संपूज्य तर्पयेत् || तद्धृदयाम्बुजे पश्चाल्लब्ध्वानुज्ञो यजेच्छिवम् | समूर्तिञ्चासनन्न्यस्त्वा शोध्या ध्यानञ्च विन्यसेत् || शिवं साङ्गं ततः त्वेष्ट्वा नाडी सन्धान पूर्वकम् | मन्त्रसन्तर्पणं कृत्वा पूर्णां दत्वा निवेद्य च || देशकाल निमित्ताक्ष्यै दुर्निमित्त प्रशान्तये | शतंशतन्तु होतव्यं पूर्णाच्छिन्नं शत क्रतो || प्. २९ब्) अधिवास लग्नयोर्मध्यं ज्ञात्वा कृत्यं समारभेत् | अत्यारंभमनारंभं तथारंभं न कारयेत् || वक्त्रं वर्मयुतं प्राचि दक्षे घोरं शिखायुतम् | सद्यो हृदा युतं पश्चात् सौम्ये वामं शिरो युतम् || शिवं सर्वैस्तु सामान्यं सन्धानं मन्त्र तर्पणम् | मूर्तिपानामिदङ्कर्म सर्वकृद्देशिकोत्तमः || दत्वा पूर्णाहुतिं पश्चाच्छिवं विज्ञाप्य देशिकः | निरस्य विघ्नसंघातं गत्वा लिङ्गान्तिकन्ततः || भद्रपीठे तु संस्थाप्य कृत्वा चिह्नं सुचिह्नितम् | मृद्भिर्गोमय गोमूत्रैः स्नापयेदस्त्र वारिणा || वस्त्रयुग्मा वृतं कृत्वा स्वस्ति वाच्य प्रचालयेत् | ततः स यजमानस्तु श्रद्धा विष्टः समाहितः || अग्रतः पृष्ठतो गच्छन्मुच्यते सर्वपातकैः | प्रदक्षिण क्रमेणैव पुरप्रासाद मण्डपे || जप शब्दैः समानीय वेशयेत् स्नान मण्डपम् | निरीक्ष्य प्रोक्ष्य सन्ताड्य कुशैरुल्लिख्य मण्डपम् || अक्षतै स्वस्तिकं वेद्यां भद्रपीठं न्यसेत् ततः | प्रणवे नासनन्दत्वा ततो लिङ्गन्निवेशयेत् || निरीक्ष्य प्रोक्ष्य सन्ताड्य शोध्य मृद्गोमयादिभिः | द्वितीय वेदिकायान्तु आसनन्तूलिकोपरि || तस्योपरि न्यसेल्लिङ्गं सघृतं पायसं पुनः | शिरोदेशे व्यवस्थाप्य ततो लक्षणामालिखेत् || लक्षणेन विनिर्मुक्तं यतो लिङ्गमलक्षणम् | देशदेशाधिपानान्तु सर्वदास्याद्भयङ्करम् || प्. ३०अ) तस्मात् प्रयत्नमास्थाय कुर्याल्लिङ्गं स लक्षणम् | येन सर्वफलावाप्तिर्जायते साधकस्य तु || नोर्द्धं भाग द्वयात् कार्यं लक्षणं भूतिमिच्छताम् | ऋत्वेकभाजितायामे रूपे रामतनूच्युते || लक्षरेखाङ्गुला ज्येष्ठे तारैकांशच्युतेन्यतः | भागद्वयादधः पक्ष रेखास्याद्वसुभाजिते || भ्रमाद्भागद्वयोर्द्धन्तु पृष्ठतः सङ्गमं तयोः | ऊर्ध्वन्तु कुण्डलाकारं द्वेष्ठष्ठे ग्रन्थ्यधः स्थिते || यथा लिङ्गशिरः प्रोक्तन्तथा लक्ष शिरोहितम् | सर्वसिद्धिप्रदं धन्यं सर्वविघ्नभयङ्करम् || सर्वसाधारणं शक्रलक्षणं शुभलक्षणम् | अनुच्छ्रितेन हस्तेन गुरुर्हेमशलाकया || आलिखेल्लक्षणं विद्वाञ्छिल्पीशस्त्रेण चोत्किरेत् | जपन्मृत्युजितं मन्त्रं पूरयेन्मधुसर्पिषा || रोचनां दधिदूर्वाञ्च दत्वा कृत्वा वधारणम् | आरोप्य भद्रपीठे तु शोध्य मृद्गोमयादिभिः || अस्त्रतोयेन संस्नाप्य मन्त्रन्यासन्तु कारयेत् | इष्ट्वासाध्याणुना सिद्ध्यैर्मन्त्रैर्वा ब्रह्मवाचकैः || संशोध्य द्रव्य संघातं स्नानमन्त्रैः पुरोदितैः | मृद्भिर्गोमय गोमूत्रैर्भस्मना सलिलान्तरैः || पञ्चगव्य कषायैश्च ततः पञ्चामृतेन तु | हेमसस्यफलैः स्नानं रत्नौ षध्यन्ततः पुनः || सर्वौषधि युतञ्चान्ते सर्वमङ्गलसाधनम् | क्षाराद्यैरष्टभिः स्नाप्यमार्जयेन्मृदुवाससा || प्. ३०ब्) विलिप्य चन्दनाद्यैस्तु वर्म जप्ते तु वा ससी | परिधाप्य ततो विद्वान् भूषयेत् कुसुमादिभिः || देशिकं दक्षयित्वा तु तोषयित्वा च शिल्पिनम् | सुयन्त्रितन्ततो लिङ्गं रथे कृत्वा सुभावितः || जपशब्दादि निर्घोषैर्वेदध्वनि विमिश्रितैः | जपन्पाशुपतं मन्त्रं देशिकः सुसमाहितः || रथयात्रान्ततः कृत्वा आनयेन्मण्डपाग्रतः | भद्रपीठन्तु संस्थाप्य तत्र लिङ्गन्निवेशयेत् || स्थिरो भवभवेत्युक्ता स्वपञ्चाभ्यन्तरं विशेत् | वीक्षणादिभिः संशोध्य कुशैरुल्लिख्य वेदिकाम् || अक्षतैः स्वस्तिकं कृत्वा तत्र पट्टं स तूलिकम् | सोपधान पटच्छन्नं न्यस्त्वानन्तासनं न्यसेत् || अर्घ्यं दत्वा तु देवस्य मण्डपं संप्रवेशयेत् | विन्यस्य तूलिकोर्द्धन्तु न्यसेन् मन्त्रान्यथा क्रमम् || पिण्डिकायास्त्विदं कर्म मन्त्रैः शाक्तैस्तु तद्भवेत् | लक्षणन्तु भगाकारं स्नानाघं लिङ्ग च यथा || एवं ब्रह्मशिलायान्तु कूर्माख्याया मयं विधिः | आनीय मण्डपान्तस्तु यथा स्थानन्निवेशयेत् || पाददेशे गुरुः स्थिता मूर्त्यादि न्यासमारभेत् | ज्ञात्वा सम्यक्परं भावमपरं लक्षणान्वितम् || योजानाति परं भावं तस्य लक्षं चतुर्विधम् | चतुर्गोचरसंस्थानं यत्स्वरूपं क्रियाक्रमम् || स एवाराधकस्तस्य स्थापकस्तु न चापरः | शिवाच्छैवं शिखं शक्तेर्विन्दोर्ज्योतिरधस्ततः || प्. ३१अ) नादात्सावित्र संज्ञञ्च एभ्यः शास्त्र समुच्चयम् | स्वभावावस्थितं शैवं शिखं संवित्तिलक्षणम् || प्रकाशस्थं स्मृतञ्ज्योतिः स्पष्टविज्ञान लक्षणम् | सावित्रन्नादसंस्थानं ध्वनिः संवित्तिलक्षणम् || शिखाकुलास्थितिः साकेकुशे सावित्रि संज्ञकात् | चतुर्णां संस्थितिः क्रौञ्चे चतुर्वर्ण व्यवस्थया || शिवाख्याच्छाल्मली द्वीपे पुस्करे ज्योति संज्ञकान् | प्रजानुग्रह हेत्वर्थमेवं कुल चतुष्टयम् || दीक्षाद्यवस्थितौ शक्र सप्तद्वीपे त्वियं स्थितिः | लक्षलक्षणयोर्भेद विज्ञानन्तुर्यगोचरे || सम्यज्ज्ञात्वा त्रिधावस्थं ततो यजनमारभेत् | आधारं लक्षणं विद्धि आधेयं लक्षरूपिणम् || लक्षणं वेदना रहितं द्विविधं लक्षं स वेदनम् | समनञ्चोन्मनं विद्धि चतुर्लक्षेष्वियं स्थितिः || स्वरूपं यस्य यो वेत्ति तल्लयं याति स ध्रुवम् | चतुर्णामपि सामान्यं स देशे यजनं विदुः || लक्षं सदा शिवाकारं लिङ्गमूर्तौ नियोजयेत् | क्रमो यमादि सर्गस्य ज्ञात्वान्यत्र प्रयोजयेत् || इच्छाशक्तिमयीं मूर्ति कल्पयेत् कारणस्य तु | कलान्यासं पुरा कृत्वा तत्व न्यासं सदैवतम् || तत्वानां पञ्चकं तद्वत्त्रितत्वं साधि दैवतम् | मूर्ति वक्त्राणि विन्यस्य अङ्गभङ्गा न्यसेत् पुनः || आवाहयेत् ततो देवं शिवं परम कारणम् | प्. ३१ब्) अङ्गन्यासं यथा स्थानं कृत्वा देवं न्यसेत् पुनः || उपचारन्ततः कृत्वा भूषयेद् भूषणैस्ततः | सुगन्धैः कुसुमैरिष्ट्वा स घृतङ्गुग्गुलन्दहेत् || लेह्य चोष्यादि भक्ष्याणि नैवेद्यानि निवेदयेत् | भुक्तान्प्रतिसरान्दत्वा प्रतिभाग प्रदर्शकान् || मुद्रां वध्वा नमस्कृत्य वस्त्रेणाच्छादयेत् ततः | छत्राद्युपस्करं सर्वन्तस्मिन् काले निवेदयेत् || निद्रा कलशं शिरो देशे शिवे नैव निवेशयेत् | अभ्यङ्गं पाददेशे तु ततः शोधनमारभेत् || पिण्डिकानि कटङ्गत्वा शक्तिमन्त्रन्निवेशयेत् | शिवविद्यात्मतत्वन्तु इच्छा ज्ञानक्रियान्वितम् || शक्ति भावं परङ्कृत्वा नैवेद्यानि निवेदयेत् | एवम्ब्रह्मशिलायान्तु कूर्माख्यायां मयं विधिः || आधाराधेय भावेन तयोर्भेदम्पृथक् पृथक् | शिवं सम्पूज्य विज्ञाप्य तत्वशुद्धिं सभारभेत् || भूतानां वलिदानार्थमादिशेद् देशिकोत्तमम् | तत्त्वोपस्थापनङ्कृत्वा यायात् कुण्डान्तिकङ्गुरुः || इष्ट्वा शिवं विशेषेण प्रतिष्ठा होममाचरेत् | शतं सहस्रमर्द्धम्वा हुत्वा मूर्तिधरैः सह || दत्वा पूर्णाहुतिं पश्चाल्लिङ्गं शान्ति घटाम्भसा | सम्प्रोक्ष्य संस्पृशेद्धर्भैर्होम संख्यं जपेदणुम् || तत्व सन्धिन्ततः कृत्वा तत्वोपस्थापनम् भवेत् | तथा होमस्तथा स्पर्शः पुनर्होमस्तथा जपः || एवन्त्रिष्वपि संपाद्य विधिं भागेष्वनु क्रमात् | प्. ३२अ) शिवाद्यवनिपर्यन्तमध्वानं सन्धयेत् ततः || व्यापकन्तन्मयन्ध्यात्वा होमयेन्मूर्तिपैः सह | पूर्णाहुतिन्ततो दत्वा शिवाय विनिवेदयेत् || एवं पीठ संशुद्धिमुमामन्त्रेण कारयेत् | ब्रह्मकूर्मशिलायान्तु ततश्छिद्रन्निरस्य च || शान्ति होमन्ततो हुत्वा घृतेन मधुना सह | प्रायश्चित्ते समुत्पन्ने प्रत्येकं रूपिणा शतम् || हुत्वा पूर्णवच्छिन्नं शिवाय विनिवेदयेत् | शिवं सम्पूज्य विज्ञाप्य निच्छिद्रमव धारयेत् || प्रासादन्तुरुतोगच्छेज्जपन्नस्त्रं समूर्तिपः | महास्रतेज सा दग्धं सर्वविघ्नसमुच्चयम् || प्रासादं प्रोक्षयेद्ध्यात्वा शस्त्ररूपेण वारिणा | ब्रह्मस्थाने तथाश्वभ्रं कूर्म ब्रह्मशिलोच्छ्रयम् || प्रवेशं ब्रह्मभागस्य ज्ञात्वाश्वभ्रं प्रकल्पयेत् | वस्वंशं पादभागञ्च त्रिभागं वा द्वयन्तथा || अर्द्धं समस्तकं वापि ब्रह्मभागम्प्रवेशयेत् | पृथक् फल विभेदेन ज्ञात्वा श्वभ्रं प्रकल्पयेत् || इष्ट्वा वास्तु गतान् देवान् पूर्ववत् पदयोगतः | मध्यं सुचिह्नितं कृत्वा न्यसेत् कूर्मशिलान्ततः || तस्योपरि न्यसेत् कूर्म्मं हैमं द्वारस्य सन्मुखम् | ऋतुमात्रेन्दु संभक्ते द्वारव्यासे शतक्रतो || मध्यादेकं वहिस्त्यक्ता तेन मध्यं विवर्जयेत् | पूर्वोत्तरेण तन्मध्ये शिलामध्यं निवेशयेत् || प्. ३२ब्) मध्यं सुनिश्चितङ्कृत्वा शक्तिमन्त्रं स्मरेद् गुरुः | कशिलान् निवेशयेन् मध्ये धारिकाशक्ति रूपिणीम् || आद्याशक्तिस्त्वमीशस्य सर्वदा धाररूपिणी | तदाज्ञया त्वया तस्मात् स्थातव्यमिह सर्वदा || परावस्थान्ततः कृत्वा रत्नादि न्यासमाचरेत् | वज्रं सूर्योपलं नीलमतिनीलञ्च मौक्तिकम् || पद्मरागञ्च वैदूर्यं शक्तिं प्राकाशिकां स्मरेत् | रुक्मार्क लोहवङ्गञ्च चन्द्रारं कांक्षपन्नगम् || मध्ये समस्तकान्येव शक्तिं शारीरिकां स्मरेत् | हरितालं शिलांतोरीं हरि सूताग्नि गैरिकाम् || वलिंवसा गगनं चैव स्मृति शक्त्यात्मकां न्यसेत् | चन्दनन्तच्च रक्ताह्वमगुरुञ्चाञ्जन मूलकम् || उशीरञ्चक्रिणीं देवीं लक्ष्यशक्तिमनुस्मरन् | गोधूमयव स तिलान्मुद्गवीवारश्यामकान् || सर्षपान्याज्ञिकान्धान्यान् तृप्तिशक्तिं स्मरन्न्यसेत् | एतैः सर्वैः समायुक्तं मध्ये पद्मन्निवेशयेत् || गुग्गुलं पायसं वाथ रन्ध्राणां लेपने हितम् | एतेषामप्य लाभे तु यथा स्थानन्निवेशयेत् || वज्रन्तालं सुवर्णञ्च सहदेवां यवैः सह | अभावात् पद्मरागन्तु काञ्चनं वाथपारदम् || रन्ध्रं सुलेपितङ्कृत्वा सम्यग्ब्रह्मशिलातलम् | शिवा सनन्न्यसेत् तत्र श्वभ्रे ब्रह्मशिलात्मके || प्राप्ति व्याप्ती च सामर्थ्यं सर्वं ज्ञात्वा पृथक् पृथक् | कन्दान्तं पार्थिवन्तत्वन्नालं मायान्त गोचरम् || प्. ३३अ) तदूर्ध्वञ्च रणाच्छदने पद्ममीशावधिष्ठितम् | अतोर्ध्वङ्कर्णिकाज्ञेया वामाद्यैः शक्तिभिर्वृता || शक्तिं शिवा सनन्ध्यात्वा सूर्यकोटि समप्रभम् | प्रीणयन्तञ्जगत्सर्वं व्यापयन्तं शिवासनम् || गन्धधूपादिभिः पूज्य दत्वा कुण्डान्तिकं व्रजेत् | शिवं सम्पूज्य विज्ञाप्य मन्त्रान्सन्तर्प्य देशिकः || सन्धानं पूर्णया सहितङ्कृत्वा विज्ञापयेच्छिवम् | लब्ध्वानुज्ञस्ततो गच्छेत् प्रासादं मन्त्र विग्रहः || दक्षिणस्यां दिशि स्थित्वा न्यसेन् मन्त्रान् यथाक्रमम् | सर्वशक्ति मयन्ध्यात्वा आसनन्त्वा सनाधिपम् || निरोध्य पूजयित्वा च शनैः पूजां समुद्धरेत् | शोधयित्वा तु तच्छूभ्रं चन्दनादि विलेपितम् || रक्षितन्तत्पटच्छन्नङ्कृत्वा यागालयं व्रजेत् | शिवं संपूज्य विज्ञाप्य मूर्तिपैः शिल्पिभिः सह || पूर्वसङ्केतितैर्धीरैः सहायैर्वलवत्तरैः | शुभे लग्ने हृदोत्थाप्य लिङ्गमर्घ्यं प्रचालयेत् || तदग्रतो गुरुर्यायाद्ध्याना विष्टः शिवं स्मरन् | स्वदिक्स्थामूर्तिपाः सर्वे स्वमन्त्राहित चेतसा || कर्ता च स्वजनैः सार्द्धञ्छुद्धाविष्टः स्पृशञ्छिवम् | वेदगीत स्वरैर्दिव्यैर्माङ्गल्यैश्च महोत्सवैः || क्षिपन्रत्नादिकङ्कर्ता प्रासाद द्वारमानयेत् | द्वारदेशे तु विश्राम्य किञ्चिद् द्वारस्य सन्मुखम् || विनाद्वारेण देवेशं तन्मार्गेण प्रवेशयेत् | प्. ३३ब्) द्वारार्द्धेन शिखाशून्ये शिखे शान्ति पुरः स्मरन् || प्रविष्टभद्र * * * * * * * * * * * ? | * * * * * * * * * * * * * * * * ? || * * * ? त्वा तु देवस्य प्रोक्ष्य ब्रह्मशिलातलम् | तदूर्ध्वं यन्त्रितन्धार्यं सुलग्नं यावदा गतम् || चिह्नमध्यं सुविज्ञाय लिङ्ग मध्यं सुनिश्चितम् | शक्तिशक्तिमतोर्ध्यात्वा अभेदं धर्मधर्मिणोः || स्वभावस्थं स्मरन्मन्त्रन्त्यक्तैश्वर्यलय स्थितम् | सृष्ट्या सदेश संस्थानं सम्यग् लिङ्गन्निवेशयेत् || रुक्मरौप्यर्किनागादिकं विभिः सुदृढं यथा | मन्त्रन्यासन्ततः कृत्वा शिवमावाहयेत् सुधीः || कृत्वा चाङ्गादि विन्यासं पूजयेच्छिवमादरात् | मन्त्रन्यासे कृते शक्र शिलामध्यान्न चालयेत् || प्रमादाच्चालिते देवे राष्ट्रभङ्गः प्रजायते | ततः सञ्चिनुयात्पीठञ्छिला श्वभ्रसमं यथा || वालुकापुरितं लिप्तन्तस्यार्द्धे पिण्डिकान्न्यसेत् | दिक् चिह्नैश्चिह्नितङ्कृत्वा देवीमुद्वोधयेत् क्रियाम् || आनीयपूर्ववत् सर्वं मन्त्रं शक्त्यन्तिकं स्मरन् | सुलग्ने लम्वनैः प्रगुणां सृष्टिमार्गेण विन्यसेत् || शक्तिमूर्तेर्महेशस्य पृथक् शक्ति समर्पणम् | साम्प्रतन्तु तयोर्योगस्तत्त्वमानन्द लक्षणम् || दिक्चिह्नैः संस्थिताङ्कृत्वा सन्धिलेपं समाचरेत् | शङ्खचूर्णं मलं लौहं तथा सर्वरसं पयः || प्. ३४अ) पपित्वा लेपयेत् तेन मन्त्रन्यासं यथा पुरा | मुष्टिं वद्ध्वा ततो विद्वाञ्छिवशक्ति स्वरूपिणीम् || पिण्डिकायां न्यसेल्लिङ्गमङ्गुष्ठेन स्पृशेत् ततः | उमामहेशमन्त्राभ्यां सन्धानं मुक्तिकाङ्क्षिणाम् || शिवोमामन्त्रयोगेन सन्धानं भूतिमिच्छिताम् | शान्तिकुंभांभ सा स्नाप्य तथा पञ्चामृतैरपि || विलिप्य कुङ्कुमाद्यैस्तु मन्त्रन्यासन्तु कारयेत् | आसनस्थान्यथा स्थानं मूर्त्यादींल्लिङ्गविग्रहे || प्रत्येकं विन्यसेन् मन्त्री ध्यानयुक्तसमाहितः | लिङ्गे निवेशयेद् वोधं क्रियाह्वां पीठरूपिणीम् || परत्वन्तु तयोर्ध्यात्वा भिन्नाभिन्न स्वरूपयोः | व्यक्ति रूपन्तयोर्ध्यात्वा स्नानं विविधमाचरेत् || विलिप्य पूर्ववत् ताभ्यां कृत्वा पूजां पृथक् पृथक् | जपङ्कृत्वा तयोर्दत्वा प्रणिपत्य क्षमापयेत् || न्यूनातिरिक्तशान्त्यर्थं रूपिणा होममाचरेत् | विज्ञापयेत् ततो देवं लोकानुग्रह हेतुतः || सूर्याचन्द्रमसौ यावत् स्थिति लोके प्रवर्तते | तावत्तात्कालं महादेव लिङ्गेस्मिन् वरदो भव || लब्ध्वानुज्ञां विभोर्लिङ्गे ध्यायन्तीशन्निरोधयेत् | निरोध्यैवं नमस्कृत्वा पुनर्विज्ञापयेदिदम् || ज्ञानतो ज्ञानतो वापि यच्चोक्तन्न कृतं मया | तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादान्महेश्वर || यजमानस्य यन्नाम योजयेद् ईश्वरेण तु | प्. ३४ब्) ततः स यजमानस्तु पूजयेद् देशिकोत्तमम् || वित्तशाठ्यादसौ कर्ता ग्रामाद्यं सन्निवेदयेत् | मूर्तिपेभ्योस्त्र जापिभ्यो विप्रेभ्यो गणकाय च || सूत्रधाराय शिल्पेभ्यो दक्षिणा स्यात् स संभ्रमा | महोत्सवं महानन्दङ्कुर्याद् दिनचतुष्टयम् || प्रायश्चित्तं द्वितीयेह्नि शान्तिश्चैव तृतीयके | देशिकाद्याश्चतुर्थेह्नि कुर्युश्चातुर्थिकाह्निकम् || सुस्थाल्यान्तु विशुद्धायां ब्रह्माङ्गैः साधयेच्चरुम् | संपाताभिहुतङ्कृत्वा प्रतिकुण्डं यथाक्रमम् || अग्रन्निवेद्य देवाय तर्पयेच्चरुणा शिवम् | स्थिराद्या हुतयः सप्त प्रदद्याद्वन संख्यया || पूर्णान्दत्वा शिवं ज्ञाप्य कृत्वा शान्तिं प्रवाचनम् | लोकपाल वलिं दत्वा क्षेत्ररक्षां प्रवाचयेत् || अन्येषामपि देवानाञ्चतुर्थेह्नि चतुर्थिका | ततः संपूजयेद् देवं स्नानादि विधि विस्तरैः || विहायलिङ्गविन्यासं न्यस्ताणुं संविसर्जयेत् | शक्तिभावो विसर्गः स्याद् व्यक्तिरावाहनं हरे || शिवकुंभविधानेन कृत्वा कुभ द्वयं गुरुः | एकेन स्नापयेद् देवं पूजयित्वा यथा पुरा || कर्तारमपरेणैव ततः कुर्यात् फलार्पणम् | ततस्तु स्थापको दृष्ठो यजमानेन पूजितः || प्रतिष्ठायाः फलं कर्त्तुर्यथा दद्यात् तदुच्यते | मूलमन्त्रं समुच्चार्य यावच्छक्त्यन्त गोचरम् || प्. ३५अ) कारणत्यागयोगेन लब्ध्वानन्दस्तु देशिकः | तेजो रूपनिधिं ध्यात्वा पुण्यराशिं स्वरेकरे || विद्यातत्त्व प्रचारेण करे कर्तुः समर्पयेत् | तत्फलं भुक्तिमुक्त्याख्यं लिङ्गाराधन तस्त्रिधा || लिङ्गे संस्थापिते मोक्षो भूतयश्च निरन्तराः | ततो विज्ञाप्य देवेशं यजेच्चण्डेश्वरं गुरुः || चण्डमन्त्रैः समावाह्य ताराद्यैः फट्कृतान्तकैः | स्नानं पूजा जपो होमो नैवेद्यादि यथा पुरा || कृष्णवर्णञ्चतुर्वक्त्रं त्र्यक्षं चण्डा हि भूषणम् | शूलटङ्ककरं भीमं कमण्डल्वक्षमालिनम् || एतद् रूपं सदाध्यातुः सर्वविघ्नविनाशनम् | आधारशक्ति कमले मूर्तिवक्त्राङ्गसंयुतम् || स्वस्थाने प्राणमार्गेण कृत्वात्मस्थं निवेशयेत् | ब्रूयादेनं शिवं द्रव्यं रक्षंस्तिष्ठञ्छिवान्तिके || सम्पूज्यगन्धपुष्पाद्यैर्लिङ्गस्थन्तन्निरुध्य च | पृथक् पीठञ्चलं लिङ्गं पूर्ववत्सन्निवेशयेत् || किन्तु रत्नादि विन्यासं पीठगर्भे स शक्तिकम् | एकपीठन्त्वभेदेन रत्नाद्यं चेतसा न्यसेत् || पूर्ववच्च स्मृतङ्कर्म किन्तु चण्डेश्वरं विना | वाणक्षेत्रोद्भवं वाणं सर्वप्रासादपीठगम् || पीठस्य संस्कृतन्तत्र स्वयं व्यक्तेप्ययं विधिः | स मन्त्रं स्थापयेद्रौहं सर्वप्रासादपीठगम् || वाणवच्च विधिः ख्यात ऋषिर्देवादि कल्पिते | प्. ३५ब्) प्रतिष्ठा व्यक्तलिङ्गानां क्रियाशक्ति पुरःसरा || रत्नाढ्यं पिण्डिका गर्ते विधिश्चण्डेश्वरं विना | सर्वेषामेव देवानां स्नानाद्यं पूर्ववद्यथा || स्वमन्त्रैः स्थापनं कार्यं ज्ञात्वा व्याप्तिं पृथक् पृथक् | दर्पणे विहितं स्नानं लेयचित्रागमेषु च || प्रतिष्ठा पूर्ववत् कार्या पीठाद्यं शक्तिकल्पितम् | पूजा तेषामधः कार्या धूपमात्रन्न दुष्यति || प्रतिष्ठा चूलकादीनां पूर्वोक्त लिङ्गवद्यथा | न तत्र लक्षणोद्धारञ्चतुर्थी चण्डकल्पना || प्रवेशो ब्रह्मणोर्द्धेन शक्तिरत्नादि पूर्वकम् | मूर्तिवक्त्राङ्ग विन्यासः सदेशाकार रूपधृक् || कुम्भे प्येवं त्रिशूले तु त्रिशक्तिं व्यापिनं शिवम् | निष्पन्नं शिखरं दृष्ट्वा ध्वजशून्यन्न धारयेत् || ध्वजशून्यन्तु प्रासादं समाश्रित्य विनायकाः | जनयन्ति भयं घोरं तस्मात् कार्यो महाध्वजः || प्रासाद दैर्घ्यदीर्घस्तु द्विहस्तो विस्तरेण तु | जघान्तो वाथ कर्तव्यो यथा लाभमथापि वा || अथवा प्रदक्षिणी कृत्य यथा लिङ्गन्तु वेष्ठ्यते | शिखरत्र्यंशतो ज्येष्ठे मध्यमे पादवर्जिते || कन्यसे चोत्तमोर्द्धेन समग्रन्थिस्तु वैणवः | मुक्तये विषमः शस्तो दृढः सद्दारूजोथवा || समाहृत्य द्वयं कार्यं स्नानाद्यञ्च यथा पुरा | मूर्त्यादि तत्व विन्यासस्तथा किन्त्वस्त्र सन्निधिः || प्. ३६अ) पूजा होम जपस्पर्शन्तथा कार्यं मखाधिप | प्रासादो वाह्यलिङ्गन्तु जगती पिण्डिकाहरे || तत्प्रतिष्ठा प्रकर्तव्या यथा पूर्वमुदाहृता | दण्डाधारे न्यसेच्छक्ति रत्नाद्यं पञ्चकन्तथा || ध्वज युक्तन्न्यसेद् दण्डमस्त्रालङ्कृतविग्रहम् | सूर्यकोटिसहस्राभं ज्वलन्तमति भीषणम् || सुरासुर प्रदुष्टानां दुःप्रेक्ष्यं दर्पनाशकम् | महापातकिनो ये तु तेपि दृष्ट्वा ध्वजोच्छ्रयम् || तत्क्षणादेव निष्पायाः किन्नकर्तुः कुलद्वयम् | लिङ्गादि परमाणूनां संख्यायावच्छिवालये || तावत् कल्प सहस्राणि वसेत् कर्ता च तत्पुरे | ध्वजोच्छ्रये कृते शक्र भवेत् कोटिगुणं फलम् || मन्दिरेपि प्रकर्तव्यं प्रतिष्ठाद्यं ध्वजोच्छ्रयम् | अनुषङ्गात् प्रवक्ष्यामि मन्दिरेपि ध्वजोच्छ्रयम् || ज्ञात्वा मन्दिरमादौ तु दण्डमानञ्च कारयेत् | एकभौमं द्विभौमम्वा त्रिभौमं मन्दिरं हरे || कन्यसं मध्यमं ज्येष्ठं तेषां दण्डमिति शृणु | गायत्री तुष्टि भुवनैः करैर्दण्डन्तु कारयेत् || अन्यथा वा प्रकर्तव्या गृहदण्डमिति शुभा | वेश्म व्यास त्रिभागस्थन्तत्पादोनं द्वितीयकम् || तृतीयमर्द्धभागेन दण्डमानमुदाहृतम् | ध्वजान्वितं समादाय प्रोक्ष्यास्त्रेण पटावृतम् || शिवतत्व विभागेन त्रितत्वन्तत्व या न्यसेत् | अस्त्रं न्यस्त्वा ततो विद्धान्सन्निदेहो ममाचरेत् || प्. ३६ब्) मन्दिरे च यथा न्यासस्तं वक्ष्येहं शतक्रतो | मन्दिरे विन्यसेत् तत्त्वं शक्तिं विन्यस्य धारिकाम् || आत्मतत्वमधोभागे ब्रह्माण्डो वधि विन्यसेत् | विधातत्त्वन्न्यसेन्मध्ये बुद्धितत्व पदानुगम् || ऊर्ध्वं वै शिवतत्त्वं स्याच्छुद्ध विद्यावसानिकम् | कारण त्रितयं न्यस्त्वा शिवं साङ्गञ्च विन्यसेत् || तत्त्वोपस्थापनं शुद्धिः प्रोक्षण स्पर्शनं जपः | सान्निध्यं रोधनं पूजा सन्धानं प्रतितत्त्वतः || एवं सर्वत्र विधिवद्विधानं पूर्णतां व्रजेत् | शुभलग्नं समासाद्य विन्यसेद् ध्वजमादरात् || मन्दिरं स्नपयेत् पश्चात् फलाद्यैः शुभवस्तुभिः | काष्ठिका तृणनिर्वृत्ते गृहे न्यासस्तु कथ्यते || कंवीषु पृथिवीतत्त्वं तृणेष्वाप्यं नियोजयेत् | तेज सम्बन्धतोद्देशे दण्डकेषु च वायवम् || स्थूणासु व्योमतत्त्वन्तु शिवं साङ्गञ्च विन्यसेत् | जीर्णेपि संस्कृते पुण्यं कर्तुः स्यान्मौलिकं यतः || ततो जीर्णं समुद्धृत्य गुणवद् विन्यसेत् सुधीः | महाभयकरन्नित्यमत्यन्तं क्रूररूपधृक् || दोषं करोति वहुधा राष्ट्रे राजनि सर्वदा | दुष्टलिङ्गे स्थिते राष्ट्रे प्रजामारीनिरन्तरम् || राजा च दुःखशोकार्तः क्षीयते वलवाहनैः | आत्मशून्यं यथा देहं संप्रविश्येहराक्षसाः || भयमुत्पादयन्त्याशु दुस्तरं मरणान्तिकम् | तथैव देवताः शून्यं दृष्ट्वालिङ्गं गुणोज्झितम् || प्. ३७अ) यजताञ्च समाश्रित्य जनयन्ति महद्भयम् | हीनञ्जीर्णङ्कृशं दग्धं स्थूलं मानाधिकं हरे || लक्ष्मशून्यञ्च गर्भाढ्यं संपुटं स्फुटितन्तथा | भग्नञ्च स क्षतञ्चैव तथा वज्रहतं पुनः || एवमादीनि चान्यानि लिङ्गानि परिवर्जयेत् | जीर्णाद्यैः प्रोचितैरेतैस्त्याज्यार्चा पिण्डिकादिकम् || चलितञ्चालितं लिङ्गं पतितं पातितं हरे | मध्यस्थं विषमं निम्नं दिङ्मूढमति चोच्छ्रितम् || स्थापनीयानि तत्रैव यद्येतान्ये व्रणानि च | परित्यक्त शिलायोगं निर्व्रणञ्चललक्षणम् || संसक्तामुद्धरेद्वेवीं तत्रैव स्थापनाय च | जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् || तस्मात् तदुद्धरेल्लिङ्गं शास्त्रविद्विधि पूर्वकम् | विधिं विनोद्धृतं लिङ्गमशास्त्रज्ञैस्तु देशिकैः || राष्ट्रं राष्ट्राधि पञ्चैव द्रुतमुच्छादयेद्धरे | उद्धृतं विधिना लिङ्गं देशिकैः समयच्युतैः || तेन दोष विपाकेन गजवाजिक्षयो भवेत् | दक्षे मण्डपस्त्वीशे वा आप्यद्वारैक तोरणः || अत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् | मन्त्र सन्तर्पणं कृत्वा दीपनादि यथा पुरा || शिवं तु लिङ्गिनो भोज्या विष्ण्वादौ द्विजसत्तमाः | भूतादिभ्यो वलिं दत्वा शिवमध्येष्य शान्तिकम् || क्षीराज्य मधुदूर्वाभिः समिद्भिर्वा विधाय च | प्. ३७ब्) गत्वा लिङ्गान्तिकं मन्त्री तदा स्नाप्य प्रपूजयेत् || ओं व्यापकेश्वरा येति नमोन्तो मूलवाचकः | ओं व्यापक हृदयाय नाभ्यन्तं हृदयं स्मृतम् || एवं शिरो ज्वालिनी वर्मनेत्रास्त्राणि क्रमेण तु | एभिस्तारासने लिङ्गं स्थण्डिलन्तु प्रपूजयेत् || ततस्तत्राश्रितं सत्त्वं श्रावयेदस्त्र मुच्चरेत् | सत्वः कोपी हयः कश्चिल्लिङ्गमाश्रित्य तिष्ठति || लिङ्गन्त्यक्ता स यत्रेष्टं तत्र या तु शिवाज्ञया | एवमुक्ता महास्त्रेण दत्वा चार्घ्यं विसर्जयेत् || ततः पाशुपतास्त्रेण प्रतिभागे स्वशक्तितः | हुत्वाहरे ततोभ्युक्ष्य शान्ति कुम्भस्य वारिणा || ततो दर्भेण संस्पृश्य जप्त्वास्त्रं होमसंख्यया | अर्घंपराङ्मुखं दत्वा विसृजेत् तत्त्व तत्त्वपान् || दृक् क्रिये पीठमन्त्राश्च भागत्रयमनूनपि | शिवं साङ्गं त्रिखण्डाध्व पतीनथ समायुतान् || चण्डनाथं खनित्रेण हैमेनास्त्राणुनाखनेत् | वद्ध्वाकाञ्चन पाशेन वालरज्वा च यत्नतः || स्कन्ध स्थितया वृषयोर्लिङ्ग पीठ शिलामपि | द्वयमेकं समस्तं वा यत्नादेषां समुद्धरेत् || शिवमंत्रं गृणंल्लोकैः प्रक्षिपेत् तज्जले गुरुः | भूयः पुष्ट्यर्थकं हुत्वा दिक्पतीनां प्रतर्पणे || प्रासाद वास्तु शुद्ध्यर्थं होतव्यञ्च शतं शतम् | महापाशुपतं शक्र प्रासादरक्ष्णे न्यसेत् || यावन्नैवा परं लिङ्गं स्थापयेद् विधिना पुनः | पूर्वमानान्वितं लिङ्गन्तद्रूपं संस्कृतन्तथा || प्. ३८अ) स्वस्थाने सन्निवेश्यापि विधिना पूजयेत् ततः | असुरैर्मुनिभिर्देवैस्तत्त्वविद्भिः प्रतिष्ठितम् || भग्नम्वाप्यथ जीर्णम्वा विधिनापि न चालयेत् | विधिमेतम् प्रकुर्वीत जीर्णधाम समुद्धृतौ || निस्त्रिंशे विन्यसेन् मन्त्रान् दर्पणे वा सुनिर्मले | अपरन्त्वारभेत् पश्चात् पूर्वरूपं यथा भवेत् || समाप्ते मन्त्रसंयोगः प्रतिष्ठा पूर्ववत् स्मृता | वाह्यं चैवेष्टकं कार्यमैष्टकत्वौ पलं हरे || हीनधामोत्तमैर्द्रव्यैः कुर्याद्वातन्मयं शुभम् | यो यथा संस्थितो वास्तुर्दीर्घो वा समविस्तरः || तस्मिंस्तु कल्पयेद् भित्तिं हानिर्वृद्धिं विवर्जयेत् | हानौ सत्यां भवेन्मृत्युर्वृद्धौ द्रव्य क्षयो भवेत् || तस्मात् सर्वप्रयत्नेन हानिं वृद्धिं न कारयेत् | दक्षिणां वस्त्र हेमाद्यैर्दत्वा सन्तोष यद्गुरुम् || क्षमस्त्वेति वदेद्वाक्यं शिवं सोपि वदेत् ततः | इति क्रिया समोपेतं लिङ्गमन्त्रि स साधकः || लभतेभि मतां सिद्धिं मोक्षं मोक्षपरायणः | पत्रपत्रे यथातोयं वातोद्धृतं सुचञ्चलम् || तद्वत्सु चञ्चलं शक्र प्राणिनां हतजीवितम् | अस्थिरं यौवनं शक्र द्रव्यमस्थिरमेव च || अस्थिरं पुत्रपौत्राघं रम्भासारसमोपमम् | तस्मात् पुत्रकलत्राणि सुदृन्मित्रधनानि च || विहाय मोहजालानि कुर्याल्लिङ्ग परिग्रहम् | कालिञ्जरे महीन्द्रे वा सह्ये वाम लयेपि वा || प्. ३८ब्) गङ्गा तटे समुद्रे वा श्रीशैले सरितां तटे | पत्र पुष्प फलोपेते मृत्कुशोपचिते शुभे || माहेश्वर जनाक्रान्ते सर्वदोष विवर्जिते | सुतिथौ च सुनक्षत्रे सुयोगे करणान्विते || सम्पूज्य देवदेवेशं कुर्याल्लिङ्ग परिग्रहम् | स्थापितं ऋषिभिः पूर्वं सर्वलक्षणसंयुतम् || आश्रये सिद्धिदं लिङ्गं स्वयम्वा परिकल्पितम् | कीलितं वर्जयेद्विद्वान् स्कन्द विष्ण्विन्द्र मातृभिः || उपर्यु परिलिङ्गञ्च वर्जयेत् साधकः सदा | पूर्वास्यं पश्चिमास्यन्तु श्रेष्ठं लिङ्ग द्वयं हरे || याम्यं कौवेर चक्रन्तु न सिद्धा विष्यते बुधैः | परिगृह्येक्षितं लिङ्गं यथाशास्त्रं शतक्रतो || पूजयेत् सततं मन्त्री ज्ञात्वा देहमशाश्वतम् | पूजाहोम परो नित्यं ध्वजध्यान परायणः || सर्व कार्येषु कुशलः साधकः स्याज्जितेन्द्रियः | क्षेत्रान्ते रक्षणं पूजा वलिं दानञ्च कारयेत् || रक्षा गृहेपि कर्तव्या यथा क्षेत्रे पुरन्दर | पर्वकालेषु सर्वेषु निमित्तेष्वखिलेषु च || पूजां विशेषतः कुर्याज्जपाद्यं द्विगुणञ्चरेत् | शिवपूजापवित्रञ्च कर्तव्यं सर्वदा हरे || पवित्रेण विना पूजा तामसी परिकीर्तिता | राजसी च भवेदिन्द्र परमीकरणाद्विना || तस्मात् पूजा पवित्रञ्च परमीकरणन्तथा | कर्तव्यं सततं सद्भिः संसार भयभीरूभिः || पत्रिकाभिः प्रसूनैर्वा कुशैर्वा परिकल्पयेत् | पवित्रं प्रत्यहंशभोर्महापुण्यजिगीषया || प्. ३९अ) इति नित्यक्रियाख्याता शृणु नैमित्तिकी पुनः | आषाढस्यसिताविश्वा श्रावणस्य सितासिता || सप्तम्योथ त्रयोदश्यस्तत्र गन्ध पवित्रकम् | त्रयोदश्यां प्रकर्तव्यं पवित्रं गन्धसंज्ञितम् || पवित्रमथ भूतायामाषाढं नियमः स्मृतः | दीक्षादि स्थापनञ्चैव पवित्रादि शतक्रतो || अधिमासेन कुर्वीत यदीच्छेच्छुभमात्मनः | दर्शद्वयं भवेद् यत्र रविसंक्रान्ति वर्जितम् || अधिमासः स विज्ञेयो विष्णुः स्वपितिकर्कटे | तुल्यमासेधि मासे वा कर्तव्यन्तु पवित्रकम् || सुप्ते चैव हृषीइकेशे दोषभागं यथा भवेत्? | कन्यया कर्तितं सूत्रं कर्तितन्त्वात्मनापि वा || ग्रन्थिकेश विनिर्मुक्तं सर्वदोष विवर्जितम् | कृत्वा नवगुणं शक्र क्षालयेद् विधिना ततः || कुर्यात् तत्कन्दुकाकारमन्तः सूत्रं प्रयत्नतः | अङ्गविन्द्विन्दुमारभ्य यावन्नागयमावधि || ज्येष्ठादि कन्य स प्रान्तेन वलिङ्गे मया तव | दशह्रासान्मयाख्याता सूत्रसंख्या पुरन्दर || घटितानां विधिः ख्यातो नान्येषान्तु कदाचन | स्थण्डिले चल लिङ्गे च वाणलिङ्गे स्वयम्भुवि || रौहादौ नियमो नास्ति यथा पूर्वमुदाहृतः | अष्टोत्तरशतादूर्द्धन्न कर्तव्यं कदाचन || सर्वेषां नियमः शक्र इत्याज्ञा पारमेश्वरी | अष्टोत्तर शतैः कुर्यात् स्थण्डिलादौ पवित्रकम् || तस्यार्द्धेन तदर्द्धेन यथा लाभेन वा हरे | दर्भमुञ्जादिभिश्चैव सूत्रा भावात् पवित्रकम् || प्. ३९ब्) कर्तव्यं स्वेश्वरैर्लोकैः प्रायश्चित्तमतोन्यथा | कर्तव्यं वलयाकारं पवित्रत्रितयं हरे || समान्तराः प्रकर्तव्याः प्रत्येकं समग्रन्थयः | पिण्डिकास्पृक्प्रकर्तव्यं गङ्गाख्यन्तदुदाहृतम् || तत्रापि कथ्यते संख्या ग्रन्थीनान्ते निराकुलम् | विन्दुवाणं समारभ्य यावत् स्यान्नाग चन्द्रकम् || युगह्रासान् समाख्याता ग्रन्थयः सुरसत्तम | ज्येष्ठादि कन्यसे प्रान्ते पवित्रे सार्वदैविके || ग्रन्थिसंख्यासमुद्दिष्टा क्रमात् तेषु निराकुला | सार्वदैविक संयुक्तन्त्रयं शम्भोः पवित्रकम् || आदित्यानलचण्डानां सम्पत्तौ स्याच्चतुष्टयम् | एकैकं द्वारपालानामेकञ्चिअवात्म मूर्तये || वाह्यान्तर्वलि देवानामेकैकं परिकल्पयेत् | एकैकं लोकपालानामेकं पीठे निवेशयेत् || वद्ध्वा सर्वपवित्राणि रञ्जयेत् तदनन्तरम् | ग्रन्थिस्थाने ततः शक्र पवित्रं मण्डयेत् सुधीः || कुङ्कुमेनेन्दु युक्तेन चन्दनेनारुणेन च | मण्डयेद् गोमृदासूत्रं रजन्यां शिलयाथवा || धातुना मण्डयेद् वाथ सर्वा भावात् सुराधिप | पार्थिवं दारुवञ्चैव पात्रव्रातञ्च वंशजम् || विहायस्रुक्स्रुवौ शक्र त्यजेत् सर्वं पुरातनम् | सर्वोत् पादित संभारः कृतस्नान विधिक्रियः || सन्ध्यां नैमित्तिकीं स्मृत्वा कुर्यात् कर्म तदुच्यते | यागधामादिकं सर्वं कुम्भान्तं यद्व्यवस्थितम् || प्. ४०अ) त्रिवृत्सूत्रेण तत्सर्वं वेष्टयेत् कवचाणुना | सूर्यं संपूज्य विज्ञाप्य द्वारपालान्यजेत् ततः || कृत्वा परिग्रहं भूमेः पूर्ववत् पूजयेच्छिवम् | अग्निं सञ्जनयेत् कुण्डे कुण्डसंस्कारपूर्वकम् || आवाहयेत् ततो देवं पूजयेत् तर्पयेत् ततः | पूर्णां दत्वा क्रियाच्छिद्रन्निरस्य तदनन्तरम् || ऐन्द्रान्तु विन्यसेत् काष्ठं सुशुद्धं भस्मदक्षिणे | मृत्तिकां विन्यसेच्छक्र पात्रस्थामाप्य गोचरे || सजलाञ्च न्यसेद्धात्रीं कौवेर्या सुरनायक | वर्मणा शिखया चैव हृदा च शिरसा हरे || गङ्गोदकन्न्यसेदैशे मूलमन्त्रमनुस्मरन् | मन्त्रैरेतैर्नमोन्तैश्च ढौकयेच्छिव सन्निधौ || पुष्पैरञ्जलिमापूर्य प्रत्येकं क्षीरमुद्रया | स्वाहा युतेन मूलेन सुतृप्तिम्भावयेच्छिवे || पुटं निवेद्य पूतात्मा कुर्यात् सूत्रस्य संस्थितिः | ताम्रपात्रादि संस्थानि निकटीकृत्यकुण्डतः || तत्त्व दृष्ट्या समालोक्य प्रोक्ष्ययेच्छिव वारिणा | मन्त्रितः संहिता मन्त्रैश्छन्नं पात्रान्तरेण तु || संपाताभिहुतं कुर्याच्छिवं वर्षात्मकं स्मरन् | घृतपूर्णं श्रुवं कृत्वा स्वेत्यग्नौ भागमाक्षिपेत् || हेतिं युञ्ज्यात् पवित्रेषु संपातः कथितो हरे | मूलेन हृदये नैव शिरसा शिखया तथा || कवचेनास्त्र मन्त्रेण एकैकामाहुतिं क्षिपेत् | प्. ४०ब्) एवं संशोध्य दातव्यं पवित्रं गन्धसंज्ञकम् || सर्वौषधि समालब्धं मानोन्मान विवर्जितम् | सामान्यं सर्वदेवानामेकग्रन्थि शतक्रतो || आदित्य द्वारपालादीन्ततो गणपतिं गुरुम् | अर्चयित्वा पवित्रेण शिवमामन्त्रयेत् सुधीः || गन्ध पवित्रमादाय पुष्पगन्धोपशोभितम् | आमन्त्रितोसि देवेश सर्वच्छिद्रमच्छिद्रताम् || त्वत्प्रसादात् समभ्ये तु पठित्वा मन्त्रमुच्चरन् | ब्रह्मादि कारणत्यागाल्लयान्तं सुसमाहितः || समारोप्य ववित्रन्तु पतिपत्यक्षमापयेत् | वह्नावपि समारोप्य पवित्रं संपुटेत् ततः || अस्त्रं वर्महृदं पात्रे न्यस्त्वा दत्वा पवित्रकम् | मन्त्रयेत् संहितामन्त्रैर्हृदं वर्मास्त्रकं पुनः || न्यस्त्वा संवेष्ट्यसूत्रेण हृदाभ्यर्च्य समर्पयेत् | क्रिया समर्पणं कृत्वा क्षपेद्रात्रिं शिवाग्रतः || जपध्यान परो भूत्वा स्तुतिगीतपरोपि वा | प्रातःकाले समुत्पन्ने कृत्वा चावश्यकादिकम् || स्नात्वा सन्ध्यामुपास्यैव पवित्रमाहरेद् विभोः | ततो विसर्जयेद् देवमष्टपुष्पा पुरार्चितम् || अथाह्निक द्वयं कृत्वा कुर्यान्नैमित्तिकं हरे | सूर्यादीनां ततो दत्वा मन्त्रैः स्वैः स्वैर्यथोदितैः || आत्मानम्पूजयेच्छक्र पवित्रेण गणं गुरुम् | विशेषस्नपनोपेतं विस्तरं पूजयेच्छिवम् || विशेषा तर्पयेद्वह्निं दत्वा पूर्णाहुतिन्ततः | गन्धपुष्पसमोपेतं दूर्वाक्षतसमन्वितम् || प्. ४१अ) पवित्रमादाय देवं ततो विज्ञापयेदिदम् | सर्वदेह स्थितो देवः सर्वज्ञः सर्वगो विभुः || हीनाधिकं विभो कर्म त्वया दृष्टम्मया कृतम् | तदनेन पवित्रेण संपूर्णन् त्वत् प्रसादतः || एवं विज्ञाप्य देवेशं पवित्रमधिरोपयेत् | पवित्रारोपणे शक्र प्रयोगमधुना शृणु || शिवमन्त्रं समुच्चार्यमायान्तत् सुसमाहितः | आत्मतत्त्वाधिपाय शिवाय तदधिरोपयेत् || भूयो मन्त्रं समुच्चार्य स देशान्तं शतक्रतो | विद्यातत्वाधिपाय शिवाय तदधि रोपयेत् || पुनर्मन्त्रं समुच्चार्य शक्त्यन्तं पाकशासन | शिवतत्वाधिपाय शिवाय तदधि रोपयेत् || पश्चान्मन्त्रं समुच्चार्य लयान्तं सुप्रसन्नधीः | सर्वतत्त्वाधिपाय शिवाय तदधि रोपयेत् || आरोपयेत् पवित्राणि जाति युक्तानि सर्वदा | अधुना जातिं प्रवक्ष्यामि पवित्रारोपणायते || प्राणान्तामृत संविष्टमालिखेद् वीजमादरात् | ब्रह्मवर्गद्वितीयेन मूर्द्ध्निभिन्नं यथा भवेत् || अंवरं योजयेत् पश्चाद् द्वितीय स्वरभेदितम् | जातिरेखा समाख्याता पवित्रारोपणायते || इत्यारोप्य पवित्राणि अर्घपञ्चसुभूर्द्धसु | योजयेत् सर्वदा विद्वान् सर्वकामार्थ सिद्धये || स्थिरबुद्धिं प्रकुर्वीत परमीकरणन्ततः | पश्चात् कुर्याज्जपं विद्वान् यथा पूर्वमुदाहृतम् || प्. ४१ब्) जपं कृत्वा महावाहो संपुटी कृत्यपूर्ववत् | निवेदयेत् प्रयोगेण यथा वक्ष्यामि लक्षणम् || आत्मतत्त्वमधः कृत्वा शिवतत्त्वञ्च कारयेत् | विद्यातत्त्व प्रभावेण यदा निष्कल गोचरम् || शिवाय च पदञ्चान्यत् स्वाहान्तं समुदीरयेत् | जपं निवेदये देवं सर्वकर्मकरं वरम् || आत्मतत्त्वं विजानीयात् पूरकं सुरनायक | कुम्भकं शिवतत्त्वञ्च विद्याख्यं रेचकं हरे || वह्नावपि समारोप्य पवित्रं पूर्ववद् यथा | वलिना स पवित्रेण रुद्रादीन् पूजयेत् ततः || स्तुत्वा प्रणम्य नियमं प्रतिज्ञां श्रावयेत् ततः | चतुर्मासं द्विमासम्वा मासैकं पक्षमेव वा || दशाहं सप्तरात्रम्वा पञ्चाहम्वा दिन त्रयम् | दिनद्वयमथैकम्वा प्रतिज्ञां कारयेत् सुधीः || वित्तशाठ्यं विना विद्वान् गुरुं सम्पूजयेदथ | भोजयेल्लिङ्गिनः पश्चाद् दद्याद् वस्त्रं सदक्षिणम् || दीनानाथादिकान् सर्वान् तद् दिने भोजयेद्धरे | रात्रौ महोत्सवः कार्यः शिवाग्रे गीतनर्तनैः || प्रभाते तु समुत्पन्ने पवित्रं पूर्ववद्धरे | अवतार्य धारयेद् यत्नात् ततो देवं विसर्जयेत् || नित्यकर्मोत्तरं शक्र चण्डनाथं प्रपूजयेत् | पूर्ववन् मन्त्रविन्यासं गन्धधूपस्रगादिभिः || समारोप्य पवित्रन्तु तन्मन्त्रेणैव देशिकः | शिवस्य पुष्पधूपादि निर्माल्यं स पवित्रकम् || प्. ४२अ) अर्पयेच्चण्डनाथस्य क्षमस्वेति वदेत् ततः | प्रत्यहम्पूजयेद्यस्तु न स पापैः प्रलिप्यते || हीनम्वाप्यधिकम्वापि यन्मया मोहतः कृतम् | सर्वन्तदस्तु सम्पूर्णं चण्डनाथतवाज्ञया || निर्माल्यमपनीयाथ भूमिं संशोध्य यत्नतः | नद्यां नद ह्रदादौ च निर्माल्यं प्रक्षिपेत् ततः || नदी सरः समुद्रेषु अन्धकूपनदी ह्रदे | पञ्चस्थाने ष्वदुष्टं स्यात् सर्वत्रान्यत्र दुष्यति || न गन्तव्यं सहस्राक्ष पवित्रे त्वविसर्जिते | विसर्जिते तु गन्तव्यं स्वेच्छम्वै यत्र रोचयेत् || प्रायश्चित्तम्प्रवक्ष्यामि साम्प्रतन्तु शचीपते | दोषव्यपोहनार्थाय धर्मस्य स्थितये पुनः || मोहादज्ञानतो वापि अप्रसुप्ते जनार्दने | पवित्रं कारयेद् यस्तु स पापी पापमोहितः || पञ्चदिनमनाहारो जप्त्वा पञ्चायुतं हरे | शुद्धिमेवं समभ्येति नान्यथा तु कदाचन || भाद्रादूर्द्धं न कुर्वीत सिद्धान्ते दोषभाग् भवेत् | लक्षद्वयमघोरेण जप्त्वा चैव विशुद्ध्यति || दैवादज्ञानतो वापि नाषाढादि त्रये कृतम् | तत्राप्येवं विनिर्देश्यं प्रायश्चित्तं पुरन्दर || सुशास्त्रे वर्तनन्नित्यं समयाचार पालनम् | सुपरीक्ष्य प्रकर्तव्यं निषिद्धाचार वर्जनम् || यथाश्रुतं यथा दृष्टन्निवद्धं गुरुभिर्यथा | स्वसिद्धान्ता विरोधेन तद्विलंघ्य विलङ्घनम् || सकृत्सन्ध्या विलोपे तु अजातस्य शतन्जपेत् | त्रिकाललोपात्त्रिगुणं सोपवासं स कामतः || प्. ४२ब्) एककालार्चने लुप्ते सहस्रं दक्षिणञ्जपेत् | एककालं द्विकालम्वा त्रिकालं सार्द्धरात्रिकम् || उपवास समोपेतं कर्मलोपे कृते सति | देवार्थे चैव गुर्वर्थे काललोपेन दोषभाक् || शास्त्रनिन्दा गुरोर्निन्दा लिङ्गादीनां यत्र वर्तते | तस्मात् स्थानाद् व्रजेद् दूरं सद्योजातं शतञ्जपेत् || महापातकसंयुक्ता ये चान्ये पापकर्मिणः | पतिताश्चाभि शप्ताश्च ते तु वर्ज्याः प्रयत्नतः || अज्ञानात् सङ्गतिं कृत्वा दक्षिणस्या युतञ्जपेत् | न लङ्घयेद् गुरोश्छायां न शिवस्य न लिङ्गिनाम् || त्रिशतं रूपिणा जप्त्वा गोकन्या स द्विजे शतम् | सहस्राल्लुठिते लिङ्गे वर्तिते द्विगुणाच्छुचिः || अयुतं त्रिचतुर्लुठिते च्युते श्वभ्रे दशायुतान् | गड्डूकाद्यभिघाते च द्व्ययुताल्लद्यूतद्दलात् || स्तुत्यादौ श्लेष्म संस्पर्शे दक्षिणस्या युत त्रयात् | इष्टलिङ्गे हृतेनष्टे वह्निलीढे प्रमादतः || जप्त्वा लक्षमघोरेण तद्रूपस्थापनाच्छुचिः | साधारे पतिते लिङ्गे ताले ताले युतञ्जपेत् || निराधारे तु द्विगुणं कल्प्यं न्यूनाधिकन्ततः | अक्षसूत्रापराधे तु उक्तपादञ्चरेद् बुधः || अविसर्जित पात्रे तु भङ्गे वाथ विवर्तिते | शतद्वयात् सहस्रान्ते तदर्द्धात् क्रमतः शुचिः || द्विगुणं स्थण्डिले प्राहुः प्रायश्चित्तम्मखाधिप | निर्वाणे स शिवे वह्नौ त्रिरात्र समुपोषितः || प्. ४३अ) अयुतं रूपिणां जप्त्वा शुद्धिमिच्छन्त्य संशयः | रक्षितेपि हि निर्वाणे अहोरात्रमुपोषितः || सहस्रं वहुरूपेण जप्त्वा शुद्ध्यति साधकः | पूर्वाह्णं चैव मध्याह्नं समाप्य स्थितये तनौ || चरेन्माधुकरीं भिक्षां भुक्ति मुक्ति समीहकः | भिक्षां याचयित्वा तु किञ्चित् स्थित्वान्यतो व्रजेत् || अनिवर्तितं भ्रमेद् भिक्षां ज्ञात्वा वृत्तञ्च वर्णिनाम् | स्थितिं बुद्धाश्रमङ्गच्छेच्छुचि स्थाने निधाय च || मृद्भिः संशोध्य चरणौ करौ क्षाल्या चमेत्ततः | भस्मस्नानन्ततः कृत्वा मन्त्रकायोद्य कृत् स्मरन् || अस्त्रं दीप्तोक्तया प्लाव्य प्रोक्ष्यतां त्रिर्विभज्य च | शिवाय गुरुवे दत्वा भुञ्जीत विधिपूर्वकम् || आचान्तः पूर्ववत् स्नातः स्मृत्वानत्वा शिवं गुरूम् | अयाचितैः स्थितिं कुर्यात् स्वधनैर्वा क्रमागतैः || स्वजाति दीक्षितैः स्पृष्टः स्नात्वा चम्य शतञ्जपेत् | तस्मिन् न दीक्षिते स्पृष्टे स्नात्वा चम्य शतद्वयम् || समीप दीक्षिते स्पृष्टे स्नात्वा चम्य शतद्वयम् | तस्मिन् न दीक्षिते स्पृष्टे सोप वासो जपो मतः || एवं बुद्ध्वा प्रकर्तव्यमितरैः पादवर्जितम् | पुरुषाघोर वामाजा जातीशा ब्राह्मणादितः || त्रिरात्रमन्त्यज स्पर्शादं घोरस्या युताच्छुचिः | स कृच्छ्रं त्र्ययुतं शक्रचण्डाल स्पर्शने दिशेत् || ज्ञात्वा न्यत्र प्रकर्तव्यं प्रायश्चित्तं सुराधिप | अन्नाघ्रं मदिरा स्पृष्टं यदि भुङ्क्तेत्व कामतः || विण्मूत्र रेतसा दुष्टं लीढं वा काककुक्कुरैः | प्. ४३ब्) कपि ग्राह शिवादक्षैर्विड्वराहैश्च दूषितम् || शूद्रादुच्छिष्टसंपृक्तं पृष्टं वा त्वन्त जातिभिः | कृत्वा स्नानन्निराहारः पञ्चगव्यं समाचरेत् || प्रतिसन्ध्यं सहस्रन्तु जपेदघोरं समाहितः | त्रिदिनन्नक्तभोजी स्यात् त्रिःस्नायी ध्यान तत्परः || देवमिष्ट्वा चतुर्थेह्नि सहस्रं होमयेत् ततः | उपवासस्तथा नक्तं पञ्चगव्यं विशुद्धये || क्षत्रिये ध्यान निष्ठे तु शुद्धिमेवं विनिर्दिशेत् | त्रिकालात् प्लवनं वैश्य सकृच्छूद्रे विनिर्दिशेत् || अकामाद् द्विगुणं कामात् सर्वेषां परिकीर्तितम् | गृञ्जनालावुलशुनं पलाण्डुकवकानि च || अमेद्ध्योद्भवमांसं भुक्ता स्यान् निरसनस्त्र्यहम् | मत्स्यकण्टक साम्वूक नखञ्चैव कपर्दिका || पीत्वा नवोदकं मन्त्री पञ्चगव्योप वासकम् | कृमिकीटाभिसंपृक्तं भुक्ता कान्तेन शुद्ध्यति || मक्षिका कीटकेशैस्तु दुष्टं त्यक्ताल्प मोदनम् | भस्म संस्पृश्य संप्रोक्ष्य शेषं भोज्यन्न दुष्यति || पीतशेषन्तु यत्तोयं प्रमादाद्यदि तत् पिवेत् | उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति || पिवन्तोयं पतत्पन्ने तदन्नं योन्ति मोहितः | सहस्रं रूपिणी जप्त्वा पञ्चगव्येन शुद्ध्यति || भुञ्जानस्य गुदस्रावे उच्छिष्टस्येन्द्रिय शुर्ते | आदौ शौचन्ततः स्नानमाचान्तः पुनराचमेत् || सहस्रं रूपिणा जप्त्वा सोप वासो विशुद्ध्यति | प्. ४४अ) अनाचान्तः पिवेत् तोयं भक्षयेद् वाथ मूत्रयेत् || अजप्त्वाघोरं विनाहारः पञ्चगव्येन शुद्ध्यति | अधोच्छिष्टो यदा मन्त्री विष्टामद्यादि नाहतः || स्नात्वो पोष्य जपेद् घोरं पञ्चगव्येन शुद्ध्यति | विना यज्ञोपवीतेन पिवति भुङ्क्ते यदा नरः || पञ्चगव्य निराहारो जप्त्वा घोरं विशुद्ध्यति | उच्छिष्टस्तु यदा स्पृष्ट उच्छिष्टैर्वेणुकादिभिः || स्नानं शौच निराहारः पञ्चगव्य जपाच्छुचिः | घोषार्करुक्मरौप्याणां वङ्गसीसकयोरपि || भस्माम्लवारिणा शुद्धिर्निर्लयं स्याद् यदा हरे | शङ्खशाम्वूक शुक्तीनां तेजसवच्छुद्धिरिष्यते || क्वथितं शुद्ध्यते क्षीरं दधि शुद्धिर्निगद्यते | दधिपात्रान्तरे धृत्वा वीक्षयेत् तदनन्तरम् || अन्नादि लेपनिर्मुक्तं प्रोक्षणाच्छुद्ध्यते दधि | सुतप्तस्य श्रुतस्याथ शुद्धिराज्यस्य कीर्तिता || एवम्मधुगुडादीनाम् प्रोक्षणादग्नि योगतः | स तृणा चैव स क्षोदा सोच्छिष्टा तु स लेपिका || सतृणा प्रोक्षणाच्छुद्धा सक्षोदामार्जनाधिका | सोच्छिष्टा गोमयोद्वृष्टा पूर्वसंस्कार शोधिता || स लेपान्तक्षितां कृत्वा घृष्ट्वा गोमय वारिणा | मार्जयेत् प्रोक्षयेत् पश्चाद् भूमि शुद्धिरुदाहृता || अन्यच्छुद्ध्यन्तरं वक्ष्ये समासात् पाकशासन | सुस्नातश्च समाचन्तः शुद्धवासाः शुचिः पुमान् || प्. ४४ब्) पितृदेवोपयुक्तानाम् प्रत्यहं शौचमिष्यते | त्यागे परिधान वस्त्राणां प्रावरणस्य मलागमे || रजक क्षालितं वस्त्रं पुनर्द्धौतं विशुद्ध्यति | वर्मणां रज्जु वस्त्राणां शुद्धिः स्यात् क्षार वारिणा || कौशेयाविकयोरुषैः क्षौमाणां गौरसर्षपैः | श्रीफलैरंशु पट्टानां कुतपानामरिष्टकैः || तृणकाष्ठादिकं सर्वं प्रोक्षणाच्छुद्धिमेति हि | शुद्धानां संहतानान्तु प्रोक्षणाच्छुद्धिरिष्यते || संहतानां वहूनान्तु यद्यल्लेपेन दूषितम् | तत्तत्त्यक्ता तृणादीनां शोधयेत् स्याद् यथा शुचिः || कारूहस्ताकरं द्रव्यं शुद्धं पुण्यं प्रसारितम् | फलानां क्षालनाच्छुद्धिर्विनादोषं पुरन्दर || दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः | वैश्यः पञ्चदशाहेन शुद्धिः शूद्रस्य मासिका || अनुष्ठान विहीनानां याति मात्रात् पुरन्दर | वेदवेदाङ्ग सम्पन्नस्त्वाहिताग्निस्तु स द्विजः || शुद्ध्यते तत्क्षणात् स्नानाज्ज्ञात्वान्यत्र प्रकल्पयेत् | अमद्यपाः कुलीनाश्च नित्यं धर्मपरायणाः || शूद्राः शुद्ध्यन्ति पक्षेण नात्र कार्या विचारणा | उद्वाहिताश्च तस्रो वै ब्राह्मणेन यदास्त्रियः || सूतकन्तु क्रमात् तासां दशषट् द्व्येक वासरम् | शवेन शुद्ध्यते वृद्धिर्न वृद्ध्या शुद्ध्यते शवः || सर्वेषां वृद्धि वद्धानौ प्रवेश्यां नास्ति सूतकम् | नृपाणां कारुकाणाञ्च दासीनाञ्च सूतकम् || प्. ४५अ) मृतके तु पृथक् पाकं कुर्याद् योगं नतैः सह | त्यक्तुं न चेदसौ याति तदा शुद्धिर्भवे त्र्यहात् || संसनात् पूर्ण गर्भस्य स्नाना देव विशुद्ध्यति | जीवन्यातो यदि श्रेयान् मृतो वा जायते यदि || शावाशौचं न कर्तव्यं सूतीशौचं समारभेत् | आनामकरणात् सद्य एकाहो दन्त जन्मनः || चूडायास्त्रिदिनम्प्रोक्तं तत्राग्न्यधिकमव्रतात् | अतोर्द्ध्वं पूर्वच्छुद्धिः सर्ववर्णेष्वियं स्थितिः || अहस्त्वदन्त कन्याया दन्ताया द्विदिनम् भवेत् | खभ्रादिषु च विज्ञेयं मातुलान् पाञ्च मातुले || देशान्तरे पृथक् पिण्डे स्नानं स्यात् तद्गुरुम्विना | पशुत्वं संस्कृतं येषां सम्यग् निर्वाण दीक्षया || तस्य सम्पर्क शून्यस्य न स्यातां मृतसूतके | अतश्च परतो देवः सम्पूज्यः सूतके सति || परान्नभोजना नित्यं परान्नद्रविण क्रियः | गृहस्थः सर्वकर्माणि नित्यादन्यानि वर्जयेत् || द्रव्यैः सङ्कल्पितैः पूर्वं सूतकान् मृतकादपि | धर्मार्थ दीक्षितैः पूजा कार्या चोत्पादितैस्तथा || पृथक्पाकं विनापुंभिर्लोकदीक्षानुसारिभिः | अन्तर्यागः प्रकर्तव्यो जपः स्नानादिकाः क्रियाः || प्रायश्चित्तं समादेश्यमन्यथा निश्चिता स्थितिम् | एवं हि वर्त्तमानस्य त्रिधा सिद्धिर्न दूरतः || प्. ४५ब्) दुःस्वप्न दर्शने स्नानं रेतोत्सर्गे शतक्रतो | अघोराष्ट शतञ्जाप्यन्तथा संभाष्य चाधमम् || अद्भिः संशुद्ध्यते गात्रं सलेपन्तन्मृदाम्बुभिः | देवचण्डगुरोर्द्रव्यं भक्षितं यद्य कामतः || लक्षपादन्तदादेयाद् द्विगुणन्नैष्ठिके मतम् | अथाक्रम्य तु निर्माल्यञ्जपेत् पञ्चशतानि तु || त्रिगुणङ्कामतो ज्ञेयं पञ्चगव्यसमन्वितम् | यन्निर्माल्ये न संस्पृष्टन्तदाहारोपजीविना || अष्टांशोनन्तु निर्माल्यं दानलङ्घन भक्षणात् | लङ्घयेद् यस्तु निर्माल्यं दद्याद ज्ञानतोपि वा || गुणायुतञ्जपेद् घोरं तथा पोष्य विशुद्ध्यति | निर्माल्य स्पर्शने त्याज्यं पुण्यद्रव्यन्तथौषधम् || स विकारं पयस्तोयन्तथेक्षु हिङ्गुजीरकम् | सैन्धवाद्यं स कर्पूरं कटुकाद्यं स तण्डुलम् || घृष्टं स चन्दनं भस्म वेणुमृण्मय दारवम् | सर्वं त्याज्य समुद्दिष्टं धान्याद्यं प्रोक्षितं शुचि || एवमन्यत्र वोद्धव्यं ज्ञात्वा द्रव्य वलावलम् | शोधयेत् सर्वदा धीमान शुद्धे वन्धनं ध्रुवम् || हुतं यस्यापवर्गेच्छा स शुद्धौ कृत निश्चयः | शुद्धि निष्ठ प्रतिष्ठस्य सिद्धिमुक्ती न दूरतः || अशीतिर्यस्य वर्षाणि वालो वाप्यू न षोडशः | प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो व्याध्यादि पीडिताः || प्. ४६) तत्रापि च परिक्लेशं ज्ञात्वार्द्धार्द्धम् प्रकल्पयेत् | सुदुष्करं स्वयङ्कर्तुमक्षमाद् द्विगुणोन्यतः || दशोर्द्धं त्रिशतं यावज्जपात् स्नानेन शुद्ध्यति | स नक्तम्पञ्चमं यावत् सोपवासन्तदूर्द्ध्वतः || तत्त्रिधायुत सञ्जापे तद्वृद्ध्याद्विगुणन्ततः | तदर्द्धेन तु संयोगी तस्याप्यर्द्धन्तु शङ्करे || देशं कालं वयः शक्तिञ्जाति भक्तिङ्क्रियाक्रमम् | सुविचार्य प्रदातव्यं नोपवासोरुगन्विते || शिवार्पितैक चित्तानां सुवृत्तानाम् पुरन्दर | प्रायश्चित्तं समाख्यातं नोकुवृत्ति स्थितात्मनाम् || सप्तकोटि प्रविस्तीर्णान् मोहचूरान्मया तव | व्याख्यातं सारमादाय लक्षग्रन्थेन सुव्रत || पुनः पृष्टः समासेन त्वयाहं सुरनायक | तदाख्यातन्तदर्द्धेन मोहचूरम्मयाहरे || सिद्धिसारसहस्रैस्तु युग्मचन्द्रैस्तदन्ततः | योगज्ञानादि संयुक्तं व्याख्यातं शास्त्रमुत्तमम् || सुसंक्षेपं सुगम्भीरम् प्रतिष्ठा तन्त्रमुत्तमम् | चतुर्गोचर सम्बद्धं भूयः ख्यातन्तदन्तरम् || न देयं दुष्टसत्वानां निन्दातर्कानु वर्तिनाम् | गुरुदेव द्विषां शक्र देशिकादि द्विषान्तथा || एते चान्ये च ये केचिद् दुष्टसत्वाः पुरन्दर | तेषां शास्त्रं सदारक्ष्यम् प्रायश्चित्तमतो न्यथा || प्. ४७) गुरुदेवाग्नि भक्ताय श्रद्दधानाय सुव्रत | तस्मै देयमिदं शास्त्रमित्याह भगवाञ्छिवः || इत्याग्ने ये महातन्त्रे प्रतिष्ठा तन्त्रं मोहचूडोत्तरम् | सम्पूर्णम् || शुभम् || शिवम्भूयात् || सम्वत् ६०६ फाल्गुनवदि १० भौमे श्रीमद्भोगलेसरमठावस्थित पण्डिताचार्यभट्टारक श्रीसर्वगणेन पुस्तकं लिखितमिति पुष्पिकान्तलेखयुतस्य प्राचीनदेवाक्षरलिपिमयस्य प्राचीनताडपत्र पुस्तकस्याधारेण १९८२ वैक्रमवर्षे ज्येष्ठमासे श्रीमहाराजाधिराज त्रिभुवनवीरविक्रमशाह देवविजयराज्ये प्रधान सचिव श्री ३ महाराजचन्द्रसंशेरजङ्गराणा प्रतिपालिते नेपालदेशे काष्ठमण्डपराजधान्यां श्रीमद्राजगुरुमान्यवर हेमराज विद्वद्वरैर्गणेशदत्तशर्म द्वारा लिखितमिदं पुस्तकम् || अस्याधार भूतस्य ताडपत्र पुस्तकस्य प्राचीनतया तत्प्रतिलिपी कृतस्य पुस्तकान्तरस्यापि त्रिशताब्दपूर्वप्राचीनता दर्शनेन तदुल्लिखित ८०६ सम्वत्सरो नेपालसम्वत्सराद्भिन्नो वैक्रमादिः संभाव्यते || ########### END OF FILE #######