#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00315 Uniform title: mokṣasopāna Main title: mokṣasopāna with commentary tīkā Author : kāṇḍadvayātītayogī Manuscript : NGMCP manuscript No. 1-1397 Reel No. A-179/8 Description: Description by Mark S.G. Dyczkowski: Nothing is known about the author of the Mokṣasopāna or the author of the Tīkā . According to the catalogus catalogorum he was called Kāṇḍadvayātītayogī. The goddess Kubjikā is mentioned a dozen times and a number of verses in the root text can be traced to Kubjikā Tantras. It deals with the stages of Yoga and inner worship in a manner typical of the Kubjikā Tantras. Notes: Revision 0: Nov. 15, 2014 Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः शिवशक्तये || व्योमातीतं परं शान्तं शिवेन शक्ति शाम्भवं | भावाभावविनिर्मुक्तं शिवशक्तिं नमाम्यहं || ओं नमोऽस्तु ते महामाय || इति सूत्रार्थं वक्तव्यं || ओंकारस्य प्रथमाह || अकार ऊकार मकार ध्वनि भेदेन || ओंकारोच्यते || अकारो ब्रह्मा ऊकारो विष्णु मकारो महेश्वरः || तस्मादोंकारमुच्यते || त्रिभुवनव्यापकत्वेन भूर्भुवस्वचिति सत्वे रजस्तमादीनां देवदानव मानवेति लोकाव्यक्तं || अकारश्च उकारश्च मकारश्चा अकार मकाराः || मकारो बिन्दुरेव च || अकारोकारयोगेन | कारन्ते भन्यते || मकारं बिन्दुयोगेन शिवबीज महोच्यते || तस्मादोंकारपौर्वेशं | प्. १अ) मन्त्रपुरः प्रकीर्तीते || अन्याह || अर्द्धचन्द्रं निरोधी च नादो नादान्तमेव च | शक्तिश्च व्यापिनी चैव समना उन्मनास्तथा || समनान्तं पाशजालं च उन्मनान्तं परे शिवं | तेन विश्वप्रकास्यन्ते परमात्पत्तिरेव च || अर्द्धचन्द्रेति || अमृतबिन्दु शिवस्वरूपेन विश्वजीवनाकारत्वेनार्द्धचन्द्रं || तस्मात् षोडशकलांकैव निष्यतास्मिन् || कथं षोडश कला | प्रतिपदादि पौर्णमास्यन्तं | बीजमहाऽग्निरापश्च वायुः पृथ्वीविनाशकं | शक्तिकारो जीव चैव पतन्गो परमत्माकः || गिरीनन्दो दिशः पंच शुर्द्धकः सर्वव्यापकाः | तेनार्द्धचन्द्रमित्युक्तं शिवोर्द्धषु व्यवस्थितं || निरोधाह || १ब्) निगतरोधी यत्र निरोधी || आकाशभूतव्यापकत्वं | निरोधी बन्धः || जाग्रतः स्वप्नसुषुप्तेति || नादाह || नादोध्वनिर्विशेषः || अव्यक्ताव्यक्तश्चेति | अव्यक्तं शिवं व्यक्तः शक्तिः || देवादीनां वाणी स्वरूपं नादं || नादो व्यापकः पातालादि शिवान्तो विश्वरूपं || त्रिरात्मको नादः | शुर्द्धसालंगसंकीर्णः | शुर्द्धसंचरे || सालगकः शक्तिः || द्वयोस्समरसी भावः संकीर्णोच्यते || शुर्द्धः पंचः नादाः || यथादीपकाशुर्द्धनादं स्याद्वैरावः ल्योहिताडिकः || गान्धारो पंचमंत्राहुः शुर्द्धनादो विधीयते || एता परासालंगाः || शुद्धसारंगमिलितो सकीर्णा तस्मात् नादोच्यते || षट्विधानादेन तत्व स्वरूपामत्याहुः || २अ) यथा || दीपकादि तथा रागः सर्वरागे प्रदोदिते | तस्माद्वीपकनामानि माधवः परिगीयते || नादान्ताहं || नादान्तो मन्त्र विशेष गायत्र्याद्या मन्त्रलयान्तपर्यन्तः || नादान्ते सर्व मन्त्रस्य कार्य त्वात् || नमः स्वधा स्वाहा वषट् वौषट् फट् ठेत्यादयो नादान्तेषु कार्य कारणीयमिति || शक्त्येति || इच्छा क्रिया ज्ञानाधारादयो व्यापकत्वात् || इति शक्तिः || शकृत्वेति शक्तिः || तथाचोत्तरे || ज्योतिर्मयी जयकरी जगदाता शक्ती कुम्भादि योगयुगवर्तजनान्त चोधी | जन्मादि दुःखभवसागर तारणेशी वामेशी वामकुलमार्गकरा जयन्ती || तथा हि || चन्द्रकलानन्तु षडध्व मध्ये || तत्र स्थिता निर्मल नित्यरूपी निरंशः शक्त्यशः शिवांगवत्ती श्रीदर्शनार्था प्रणमामि नित्यं | षट्चक्रे सम्वरान्गे वरगुण धवले ज्योतिरूपे निरंशे | सर्वज्ञ ज्ञानपद्मे वरदभयहरे चिर्तबोधेदु मध्ये | तस्मिन्नेवस्थितेशी परम परमशिवा निर्मलानन्तशक्ती वन्दनां सिद्धिनाथी परमसुखकरी निर्जिता शेषशक्तीं || एवा शक्तिः || व्यापिनीमिति || व्यापिनीम्मध्यरापि शिवान्ते व्यापिनीं || शिवान्तेशी शिवाख्या || सर्वात्मा सर्वगप्रभुः | विश्वकर्ता च हर्ता च शिवान्ते परिवर्तिनीं | सा व्यापिनीं | समनेति || समना शिवशक्तिः समरसी भावं || ३अ) मनेशब्धि(?) विधः प्रोक्तं शुद्धश्चाशुद्धमेव च | अशुर्द्धः कामव्यापारः शुद्धः कामविवर्जिता || सासना उन्मनाह || भावाभावविनिर्मुक्ता उन्मना स्थुलशूक्ष्मव्यापकत्वेन सहजा नन्दः उन्मना || बोधानन्दममयो भाव मनस्तामसी शक्तिकालविनिर्मुक्ता सोन्मना उच्यते कुलं || सा उन्मना समनान्तेति | समनसा अन्तो यत्र समनान्तेः || शिवदृष्टः स्वाधिकार सुरोपमः || व्योमव्यापपरोभूतः समनान्तोच्यते ऋषिः | ससमनान्तः || पाशजालेति पाशस्य जालोपाशजालः || पाशो द्विधा पापपुण्यैति पाशो पुण्यैजाला पाप पाशजाल शिवया च पार्श्वे वर्तते भूतजन्तवः | ३ब्) दृष्ट्वादृष्ट न लभ्यते | पाशजालमथोच्यते || स पाशजालः || उन्मनान्तेति || उन्मनान्यंतः | उन्मनान्तः | आनन्द परमानन्दः सहजानन्दमेव च | तुर्यकतुर्ययातीत उन्मन्यन्तमथा व्रवीत् || सोन्मन्यन्तः || परेति || परस्वरूपं || क्षित्यादि तत्वरूपो भवति परमतः शुद्ध ज्ञानात् प्रदिष्टं संसारस्यान्तकाले परमरपदं पाशयुक्तं पशुं च शुद्धं शुद्धात्म भावं अकुलकुलगतं ब्रह्मदेवादि लीनं नाथो वामेश्वरेशो जयति परमुदं नित्यरूपो निरंशः || स परस्वरूपं || शिव इति || शान्तो नित्यं निरंशो ज्योति सर्वयुतादि युक्तं || निष्कलो विश्वव्याप्या च पर शिव उच्यते || तथा चोत्तरे || ४अ) पौर्णेशो यस्य चितः || शिरसि विनि भवेन् नाथ शिर्षा शिखा च सिद्धशो यस्य वत्मानयन शशिकरौ अस्त्र श्रीभैरवाद्या || सोऽयं श्रीकुक्षिवासो परमपरमशिवानाथ वर्गेन मन्त्रा ओंकारे एष रूपाः हसखपहपरा नित्यदर्शो जयन्ति || शिवे स्वरूपेन विसर्गान्त त्वात् रेफशक्तिरुच्यते || तस्माच्छ्रीमता पराशक्ति शिवौ द्वौ व्यापकाः || तथा चोत्तर शंकेतके | शक्तिमुद्ध्निविवर्तन्तेति || तस्माच्छिवः | शब्देन पराशक्ति प्रधानमिति नमोऽस्तुते || नमोऽस्तुते || नमस्कारं करोमि || कस्यै महामायै || इति || चतुरक्षरपूर्वकं चन्द्रविधिमिति || ४ब्) महामाया चतुरक्षरेण जगती व्याप्ती || शूक्ष्मभावेन वायुरूपेन व्यवस्थिता | सोऽपि न दृष्टि गोचरे अद्वयभावेन गोप्यस्था नाभ्यंतरे व्यवस्थितमिति | स्थूलभावेन चतुरक्षरं || यरलव इच्छा ज्ञान क्रिया व्यापिनी शक्तिः || पृथ्वी आपतेजवायुः मिलित्याकाशं || गन्धः स्पर्शः रूपः शब्दः || विजयति काल विद्या माया वाक् पादपाणि वायुपस्थ || नादबिन्दु शिवः शक्तिः | ऋग्ययुः साम अथर्वः || सद्य वामाऽघोरे तत्युषः || ब्रह्मा विष्णुः रुद्रः सदाशिवः || सित रक्त पीत कृष्णः || ब्रह्म क्षत्रि वैश्य शूद्रः || पूर्व दक्षिण पश्चिम उत्तरः || ५अ) कृत त्रेताद्वापर कलिशान्तिक पौष्टिक वश्य अभिचारः || रेचक पूरक कुम्भक शाम्यः हृत्कण्ठ नाभि उपस्थः || भूर्भुवः स्वः स्वाहा पौर्णे निशा कुजा काली || महामाया || आस्नाये चतुराह || माहामाया चतुराक्षरेण सापूर्णे शानन्दा वरदामकाराः || माहारारूपानिशि दक्षिणेशी || माकार वर्गेः || सुकृते कमार्गं || या सौम्यदिग्देवरमोक्षहाता || पुनरपि द्विविधः || माहा च मास्मा च माहामाया || शिवः शक्तिः || संहारसृष्टि सूर्यश्चन्द्ररग्नि वायुः शुक्लः कृष्णः || ५ब्) शुक्लरक्त || रात्रि दिनः || अधः || ऊर्द्धः हंसः ऊर्द्धश्वासः || नमः || उन्मनः मेरुः मन्दरः आलिः कालिः मांसः रक्तः आकाशः पृथ्वीः लिंगः वैदिका भैरवः पीठिः ब्रह्मरन्ध्रः उपस्थाः भूत || भविष्यः || क्रूरः सौम्यः वामः | दक्षिणः || गंगा यमुना उत्तरायणः || दक्षिणायणः प्रकृतिः || पुरुष || बौध्यराहः प्रज्ञा | उपायः सौम्यताः अरुणा | आदि अन्तः एतत् स महामाया देव्याः अती च सा माहामाया || अतीव मायोपमा संसारसत्वस्यं कथं || आदौ तावद् वीजानि भवन्ति || शून्यता ज्ञानगर्भा निर्बीजे शिवः ६अ) शक्तिः समरसी भावेन बीजानि जायन्ते || बीजः षष्टविधिः || तस्मान् मातृपक्ष पितृपक्षं च षष्टविधः || दृश्यन्ते यथा || अस्थि असृक् शुक्रः पितृपक्षः || मांशः || शोनितः चर्ममातृपक्षः | ध्वलोतो || मातृपक्षः पितृपक्षः तयोः समरसेन बीजपिण्डं भविष्यति || दशमासं च संयोगेन वद्धयति || तृतीयमासे घनेना भवति | चतुर्मासेनान्कुरो भवति || पंचमासेनास्थि चम्माश प्रत्यन्गो मुखनासिका जायन्ते || षष्टमासेन चेतनावन्तो भवति || ततः पद्वा सप्तति सहस्र नाडी सुतो भवति || एते नाड्यां प्रधान त्रिनाडी भवति | तथा || ६ब्) इडा पिंगला सुषुम्ना || इडावहति वामे पिंगला वहति दक्षिणे सुषुम्ना वहति मध्ये || रक्त मूत्र शुक्र || रक्तेन स्त्री शुक्रेन पुरुषः || तयोः समरसेण क्लीवः || तस्मात् नाडी ज्ञात्वा स्त्रीपुरुषयोः || यत् स्वच्छया जायते || एतयोः || त्रयो नाडी समरस भावेन एकनाडी भूत्वा ब्रह्मरन्ध्रे निपाता सा माहामाया देव्याः || ब्रह्मरन्ध्रे प्रसार्याणेक पृथक् पृथक् शिरः क्रोडे करतले ग्रीवे पार्श्वे हृदय नाभौ उरु जानु पादतले पुनरपि नाभौ सर्वसं श्रीलिनो भवति || पश्चात् स्वासरूपेण हंसः || चारेण ऊर्द्ध्वगामि भवति || ७अ) त्रिनाडी रूपेण अधोचारं भवति || वामे स्त्रीनाडी रजवहा || दक्षिणे सून्यनाडी सूवव्रहामध्ये || खगमुखे पुरुषनाडी शुक्रे वहा स्त्रीपुरुष समरसे नास्थि भवति | तदनन्तरे चेतना भवति || पश्चात् सर्वजाति स्मरत्वं भवति || परे जाता भवति || योनि यन्त्रं पीडा वेदना भवति पश्चात् स्मृति भ्रंसो भवति || पश्चाद् वालावस्था भवति || कुमारावस्था भवति || यौवनावस्था भवति || तस्मात् महामाया || तदनन्तरे मरणावस्था || निर्वाणमार्ग द्वय विधः || द्वयविधञ्च कथञ्चेति || पुनजन्मा न पुनर्जन्मान्विविधः || सद्गुरु पादप्रसादेन जानन्ति || द्वादशान्त षोडशान्त भेदेन || ७ब्) द्वादशान्ते चन्द्रः || षोदशान्ते सूर्यः || द्वादश चन्द्रान्ताह वरणावन्गुष्टौ विन्द्वन्तं पत्रयोगवित् || चन्द्रयोगमिति || क्रूर च कोरेक स्मृतः || इति द्वादशान्तं || पुन षोडदशान्ताह || विन्दोरुद्वन्तथाशीर्षं ब्रह्मविष्णुशिवोपरि चतुरन्गुली तदूर्द्ध्व शक्तिकोष्टप्रकीर्तिता || चतुरंगुल्य भ्यन्तरे वह्निमण्डल मनु प्रविशति || पुनर्जन्मा भवति || सूर्यमण्डलनुप्रविशति न पुनर्जन्मा भवति || षोडशान्ते त्रिकोण कृते वामकोणे चन्द्रः || दक्षकोणे वह्निः || मध्ये कोणे सूर्यः || शंखिनी द्वारभेदेन त्रयमण्डल समरसेन लीयते || तेन पुनर्जन्मा इष्ट गति प्राप्यते || सा एव महामाया || वेदव्याकरणादि ८अ) अनेक शास्त्रच्छन्द शतपथ निरुक्त ज्योतिषशिख्य कल्पसूत्रः पंचरात्रस्वैव चाहन्ते शीक्षः पातञ्जल मीमांसकः षट् दर्शन ब्राह्मण चार्वाकशेववैष्णव क्षपनकः वौद्ध एते षट् दर्शनाः || षण्णवति पाषण्डो अष्टादश महाव्रताः || शुद्धः शालन्गः संकीर्णः | चतुर्विधचाद्य || घनसुखिर ततः आनर्द्धः || चतुर्विधा वक्तव्यं | वैनादिकं तन्तु आनद्धं मुरजादिकं घनं कांस्य नालादिकं सुखिलं वंशादिकं || तन्तु नृत्यं नवविधं || आनद्धं मरुजादिकं घनं कांस्य तालादिकं सुखिलं तं सादिकं || नृत्यं नवविधं शृन्गारं हास्यकरुणं रौद्रं वीरं भयानकं ८ब्) वीभत्सं अद्भुतं शान्तं || अनेक ग्रन्थादि एवं व्यवस्थिताः || षोडशस्वराः || त्रय त्रिंशद्व्यंजनानि || एते उनपंचशादक्षरा व्याप्ता सा महामाया || पंचाशदक्षरः क्षकारान्तं पंचाशदराः पौर्णः || महामाया प्रणम्य वंकषसंयोगेक्ष || अयि तु विसर्ग हेत्वा भावादिति सा महामाया || प्रधान स्वरूपाः || यतः || उत्पर्तिः स्थितिः प्रलयः | जगतां सर्व चतुर्विधा भूतग्रामाः || जरायुजाः || स्वेदजा || अण्डजाः || एते यन्तवः सर्वत्रैलोक्यश्चतुर्दश भुवनः व्यापका सा महामाया || चतुर्दशभुवनः || भूल्लोकः भुवं लोकः महल्लोकः | जमल्लोकः तपल्लोकः || स्वल्लोक सत्यलोकः || ९अ) सुतलः | नितलः || उतलः || तलातल || रसातलः पातलः || एते चतुर्दश भुवन व्याप्ता महामाया सा नमोस्तुते नमस्करं दशकरशाखा मौलिकृतमेव नितलेलीनकृते नमस्कारंः || शूक्ष्मदेहपरापरे || शूक्ष्मनिरञ्जनस्य दृष्ट्य गोचरः || परापरे मन उन्म द्वयोः || समरसी भूतं स्वयं परये नाशायती सा परापरं परस्वयाः || तथा || अमावास्या | या सिंहोदशेवाश्वरं परमुखा नाना ननातिर्य कापाणौ वार्तिकपाल पौर्ण त्रिशूला मन्येन शस्त्राधृता | युग्वेदाशनिरिन्द्र ब्रह्महरिभिः || रुद्रः सदेशो हकारः ९ब्) कालान्तो हि शिवासना जयति सा काली लयान्ता शुद्धा शूक्ष्मशूक्ष्मेति उच्यते शरीरे कथं || रंजिता विविधभावेन शास्त्रं शास्त्रं ह्यनेकधा || नादबिन्दु हकारैश्च शिखाचान्येन रंजिता || रेचके पूरके केचित् || कुम्भके केचिद्रञ्जिता दशाक्षररता || केचिद् व्यायन्ति तं हं सं शून्यध्यायन्ति || केचित् || पराक्रान्त रता केचित् प्रासाद केचित् द्रञ्जिता | वामेश्च दक्षिणे केचिद् विषुके केचिद् रञ्जिता || पंचविशरता केचिद् वालाग्रे केचिद् रञ्जिता | च्छाया पुरुषे ये केचिद् घोषणे रञ्जिता || कण्ठ नादरता केचित् निःशब्दे केचिद् रञ्जिता || ऊद्धमार्गरता केचित् तालुकण्ठे || १०अ) न रंजिता || धर्माधर्मरता केचित् निःश्वासोश्वाशनराधमः || हृत्पद्मेषु रता केचिन्नाभि पद्मेररञ्जिता || व्याकरणं छन्दगनिते || नानाशास्त्रेण रञ्जिता निरुक्ते कल्पसूत्रे च षड्दर्शनमेव च दधी चिवाल्मिके चैव भेदवादञ्च संग्रहे || वेदव्याकरणञ्चैव छन्दः शतपथे तथा | निरुक्ते ज्योतिषे चैव कल्पसूत्रं तथैव च || पंचरात्रं तथा चान्ये वौद्धाराहन्तके तथा | अन्ये शांख्यश्च योगश्च गारुडे केचिद् रञ्जिता || तगीतार्थमन्त्र वादे च अन्ये ग्रन्थावतारणे | अन्ये चैव तु संज्ञायां अक्षरं रूप मन्त्रिणः || अन्ये च ग्रन्थ सञ्चिन्त अक्षरं रूपमन्त्रिणः | एतस्थुलो महामाया ये मुदा चित्तरञ्जिताः || १०ब्) न तस्य मोक्षमाप्नोति शक्ति भेदविनानराः | एते स्थुलो महामाया ये मुदा चित्तरञ्जिता || न तस्य मोक्षमाप्नोति शक्ति भेद विनानराः | तस्माच्छक्तिः प्रयत्नेन सा मार्गा सर्वदाभ्यसेत् || आकाशस्थापयथा पक्तिः समुक्तो कोन वध्यते | यासास्तुलुद्धकै वद्ध्वा पतितन्तु क्षिती तले || एवं हि वध्यते ह्यात्मा माया जालेन मोहिता | मायाजाल महापाशः परिवार शिवस्य च || इत्थं स्थिते जगति किं कलया युतैर्वा सर्वान् मता मतिमतां कुशलं विध्येया || विद्या कला च सकला सहसंकलर्प्यः स्वी स्वी करोति पुरुषः परिलीयते च भृंगी स प्रथमं दत्वा लकुलं रेफरासनं | भेदं षट् स्वर चन्द्रे खं देह वीज महोच्यते || ११अ) एकाकिणिविशुद्धात्मा नादाख्ये विन्दुमालिनी || इति || नादाक्षे नादसंस्थाने त्रिस्थाने कण्ठकुपे हृदि नाभौ | ऋगादि क्रमं || मूच्छनारेक विशति || एतान सप्तक्रमं तेनामूर्च्छणा त्रिस्थानं नाभि हृदय कण्ठेति || सं ऋगक्रमं त्रिस्थाननादं || बिन्दुमालिनी द्वादशान्त पदं चन्द्रसूर्याग्निभिः || तेनानुसरनीति बिन्दुमालिनी || अमृतधारा इत्युच्यते || एककिनी शक्तिर्येन पुरुषेण शक्तिर्विद्धं ज्ञायते || पञ्चेन्द्रिय निगहशक्तिर्यस्यास्तीति तस्य शक्तिबीजं भवति || एकाकिनी चायं पित्तितं || विशुद्धं यस्य जायते || तेन पुरुषेण शक्तिभेदं जानातीति यस्य पुरुषस्य स्थिरमनो भवतीति | ११ब्) तस्य बिन्दुमालि प्राप्तिः || योगरूपे युक्तः || योगीसस्य वह्नानि | अल्पमूत्र पूरषि मने सोच्य मलोलुप्तं || एष प्रथम चिह्नः || तथा चोत्तरे || एकशक्ति नगाख्यं स्याद् बिन्दु रूपात्मना शुद्धा || नादसर्वात्मना चैव मालिनी विश्वव्यापिनी || इति || अदेहान्ते समुत्पन्ने || अदेहं देहं रहितः || देहस्य अन्ते अदेहं चास्ति || देह अन्ते ऐंकाराकृति त्रिकोणपीठ अदेहं पद्माकृति षट्कोणं चतुष्कोणं सागरं नदीतीरं देवीकोटं त्रिकोणाभ्यन्तरे पद्मे अस्ति सा अदेहा || विज्ञाना || तथा पूर्व अदेह सर्पगो व्याप्ती शिवस्याद्व व्यवस्थिता || नोत्पत्ति च नाशं चाकाशे चव्यवस्थितेति || १२अ) अचले विश्वधारिणी | चलं न भवतीति अचलः | मणि मन्त्रे ओषधादि चलेन एते विधानेन अचलस्यल पुरुषस्य देहस्थितिर्भवतीति | शरीरनाशकाले वा द्विज्ञानं नाशं न भवतीति || विश्वधारिणी || वहुरूपधारिता तेन विधारिणी || कथं क्षिति जल पवन हुताशन सोमसूर्याकाशः || तस्या रूपः || ब्राह्मणाद्या योगिणी तस्याः || रूपत्रयस्त्रिंशति कोटि देवास्तस्या मूर्तिः || ओंकारः | नमस्कारः | स्वाहाकारः || स्वधाकारः वौषट्कारः | वषट्कारः | हूंकारः | ऐंकारः || एते जाति मन्त्र तस्यैव उत्पत्तिः || असितान्गादि भैरवस्तस्यां मूर्तिः || तस्याः स्थानेन उत्पत्तिर्भवति || कायवान्मनबुद्धिः || रागद्वेषक्रोधलोभमोहः पैशून्यल्लक्ष्यते जातः || १२ब्) तस्माद् विश्वधारिणीम् इति || तथा दक्षिणे || अचलासर्वज्ञा || नारूपा सर्वदेहान्त स्थिता | न सौम्यसून्यरूपा हि विश्वधारिणी नित्यता || महाकुण्डलनी नित्य || कुण्डलाकार नाभिमध्ये व्यवस्थिता सा | नागेन्द्र कुटिलांकारा गजेन्द्राकार लीलया | नाभि मध्येय कुण्डल्या ऊर्द्धगो अधगस्तथा | ऊर्द्ध गता ब्रह्मरन्ध्रे चन्द्रसूर्यमध्ये व्याप्तिः || अध गताशक्ति स्थाने प्राप्तिः || ऊरु द्वौ | अन्तरे नाडि मध्ये || तथा चोत्तरे || या भेद्यः पञ्च ग्रन्थस्याच्छिवोर्द्ध लीयते यया | महाशब्दमितिः क्षान्तं धार्यतां द्रवनत्रयः || वालां सासमल्ककुलो क्लीवं चर्चि विवर्जयेत् | सखम्विभेदितं तत्र क्रुर खण्डेन्दु मण्डितं | महाकुण्डलनी मन्त्रधारिता तनुरुर्त्तमा || १३अ) हंसमध्ये व्यवस्थिता || ऊर्द्धगामीहंसरूपेण व्यवस्थिता | श्वासगतिहं स चारः || एकार्थः ऊर्द्धश्वासः || अधः श्वासः || द्विविधः || ऊर्द्धं श्वासोहंकारः || अधः श्वासः || सः ताराः | तेन हंसोच्यते || अधोगामी शुक्ररूपेण जनाभोगं करोति || ऊर्द्धगामी मध्यतामीधे व्यवस्थिता | कुण्डलनीति उच्यते || हंसः सृष्टिसंहारः || शिवः शक्तिः द्वयरूपेणा द्वयाकारः || सा हंसमध्ये व्यवस्थिता || तथा त्रिपूरार्णवे || अधश्वासस्तथोच्छाश्च मध्यगो मध्यमा भवेत् | शिवः शक्तिः स्वरूपाः सा सृष्टिसंहार कारकाः इति || सोमसूर्याग्नि मध्यस्थे व्योमव्यापी परापरे || १३ब्) सोमसूर्याग्नि तत्मव्यवस्थिता || इडापिंगलासुषुम्ना च सोमसूर्याग्निभिः आपस्थाने अग्निः अग्निस्थान मध्य वायुः एत मध्यगता सोमसूर्याग्नि मध्य गता || व्योमव्यापी परपिरेति || ऊर्द्ध्वगामीश्वासः || ब्रह्मरन्ध्रे द्वादशान्तः षोडश्वान्त स्थाने स्थितश्चन्द्रमा सूर्याग्निः समरसी भूते लीयते व्योमव्यापी || परापरे ऊद्धाचारे च तन्मध्ये चारे शून्ये लीनोन्मना रूपेन व्यवस्थिता सा परापर शूक्ष्मरूपेण मध्यगाः अ अधःश्वासेन कारित प्रभु शुद्धशान्तसिर्वाद्विस्वरामग्नौ भानुसुसंयुतं नभससिमन्त्रे ख चन्द्राग्नि भानु | ज्ञास्वातं तनु मध्यगेर्हृदि परे नाभौ प्रध्यानं त्रिधा मूर्तै १४अ) वचनज्ञायतमिति | मन्त्रां नित्याह्नि संध्यायतां || तथा चोत्तर || नाभाशान्त पराशक्ति नामावास्या पर शिवः द्वयोर्मन्त्र परो मान्ये भुक्ति मुक्ति वर प्रदा || ओंकारविग्रहावस्थे || ओंकारस्त्रिदेवता | ओ ब्रह्मा नादो विष्णुः बिन्दुर्महेश्वरः शिवश्च || उकारः शक्तिः अकारः शिवस्त्रयो तपि समरसी भूतेन | ओंकारः सा माहामाया || ओंकार विग्रहः कुटिलाका | ऊर्द्धचारः | अधचारः | तथा च भैरव तन्त्रे || ओंकार परमो मन्त्रंः शिवबीज मथोच्यते | ओंकारं विश्वभूतञ्च व्यापका प्रभु सर्वगाः || हकारार्द्धार्द्ध धरिणी || हकारः || अर्द्धधारिणी || तिहकारार्द्धः || बिन्दुभूतं हकार्द्धः | १४ब्) अर्द्ध चन्द्रयोन्याकारमिति उच्यते || हकारार्द्ध ठकारार्द्ध पदं || निरक्षर पदमिति उच्यते || कथं निरक्षर पदं वाक्पथातीत्य गोचर | चक्षुरग्रेन पश्यन्ति मोहिता नैव बुद्ध्यति निर्विकल्पं विकल्पं णान्ति | निर्मलं मालिनेति च | चिन्तन्ति च न चिनन्ति पूजयन्ति न पश्यन्ति | आत्मस्थं येन पश्यति भ्रमितं निश्चलमपि || ध्यायमानो न पश्यन्ति बुद्ध्यमानो न बुध्येति | अनुमानो उप्रमानञ्च अप्रमेये मनोपमः || अस्थानं स्थालकल्पन्ति सुशुर्द्ध सोधयेन्ति च | अक्रिया क्रिया कुर्वन्ति अद्वैतं द्वैतयन्ति च || अचारंचार कुर्वन्ति अभावं भावयन्ति च | अगमागम कल्पन्ति अमनागन वर्जितं || १५अ) अभेदं भेदकल्पन्ति अग्र पाश्वे विवर्जितं | सर्वगा एकध्याये च अग्रस्थं दूरे तं विशेत् || विकाररूपसाध्यन्ति निर्विकारं परापरं | शब्दाशब्दञ्च साध्यन्ति शद्दाशद्वं विवर्जितं || कथ्यमानो न बुधान्ति यत् पक्षञ्च न दृश्यते | पठन्तेनोपरस्यन्ति मूकान्धवधिरा यथा || पत्यक्षञ्च न कल्पन्ति शृण्वमानो न बुध्यति | अहो मोहन मुञ्चन्ति सुधाशात्रेण बन्धने || कोपकार क्रिमिर्यद्वद्वन्धण न मोक्षणः | पिता हितेन जानन्ति उन्मर्तमिव चेष्टिता || स्वयं पतनमिच्छन्ति पतंग इव पावकं | कुतो मोक्ष भवेत् तेषां विषया शक्त चेतसां || लुद्धकं च रसा तत्र अन्तकारेन बुध्यति | १५ब्) परे द्रव्यापिका किञ्चित् हीयमानों मतिर्यथा || मृत्युकाले विषादोस्ति अन्तकाले विषोपमं | यथातीते सुहृदे च हरणीतंज्ञता मनो || हतो वेदनमोपन्नस्तथा विषयमागता | वंद्यमानः सुहृद्या च सेव्यमान सुखावहा || किञ्चित् स्वादोपलुद्वार्ता मिच्छन्ति करणी यथा | गर्वितः स्वात्म गर्वीतः स्वविकल्पाथ हेतुना || शब्दशास्त्रेण किं कार्यं वृहस्पति सगर्वगः | शब्दशास्त्र क्षयं यान्ति निरक्षर सदाभ्यसेत् || अवर्णेन सदाचारं शब्दलक्षविवर्जितं | अवर्ण सर्वगस्थानं गुणातीतमगोचरं || अकथ्यं भावनिर्मुक्तं प्रयोगेण तु दुर्लभं | दूरस्था ज्ञान लोकस्य देहमध्ये व्यवस्थिता || धर्माधर्मविनिर्मुक्तं सुखसंघसनातनं | १६अ) देवसुरमनुख्यानां देहभ्यन्तर संस्थिता | दुर्विज्ञेयन्तु तत् तेषां भेदाद्या स्वल्प बुद्धिना || किं करोति च शास्त्रेषु प्रत्यक्षं जंगपालका | निर्मिता देवमानुष्यं मुनिभिर्यक्षराक्षसैः || तेपि सर्वपसुम्मुक्ता ब्रह्माद्याः शास्त्रचिन्तकाः | तेन कारणमाकोता सर्वदा अक्षवाक्यता || तेन कारणेन अक्षर पदं ध्यात्वा | लक्ष्मीकण्ठ महासेन शिखीसंसिहिमासनं || द्वादशेन च संभिन्नं क्रुरं खण्डेन्दु संजुसंयुतं | चित्तधारणी बीजं || तथा चोत्तरे || ब्रह्मादिक्षरे यान्ति अनक्षर परः शिवं | मुक्तिवासः परो देवो महामाया महेश्वरी || इति || वालाग्र शतधाशूक्ष्मे अनन्त्रे चाक्षये व्यये | १६ब्) वालः केशः वालाग्र शतधामपिः || अनन्तः प्रमाणं नास्ति अप्रमेयं || शूक्ष्मं न दृष्ट शतधा वालाग्रवत || अनन्ते चाक्षयेऽव्यये || सतः सहस्रः || जातामृत्येऽपि क्षयं नास्ति || तथा चोर्त्तरे || सर्वज्ञमादि गुणचक्रः कुलविवर्ता ध्यानेन लक्ष परमात्म गुणेन योगी || वामकुलाकुलगता पर शून्य भाव भासां नमामि सुखदावरश्रेयदातां || हकारार्द्ध कलाधारे || १७अ) पद्म किंजल्पमाश्रिते || किंजल्क आधारं पद्माकारं गुह्यपद्मगोप्य स्थाने व्यवस्थिता त्रयः पद्म शक्तिमाश्रिता | त्रिकोणः पद्मः || उत्पत्ति || नाश स्थानं || स परो भृगुरेफेन कुटं विधू नभस्तथा | चतुर्द्दशस्वरं भित्वा आभृता बीज वाच्यते || तनुरक्षा वीजका ज्ञान || तथा निशायां दक्षिणे || पद्माश्रिता महादेव्या स्थितिरुत्पर्ति संहरा || वाममार्गे व्यवस्था || सा महामाया मनोरमा || इति || सकलाढ्य महामाये वरदे लोकपूजिने | लोकपूजयतीति लोकपूजिता || महामाया देव्याविना | लोकाः || उत्पत्ति स्थिति प्रलयो नास्थि || तेन कालणेन लोक पूजिता || इति सा || १७ब्) सकलाख्य कला सहितेति इत्यर्थः कला अष्टत्रिंशति कला || माहामाये मया अतीव मायोपमा सर्वयन्त्र शास्त्रे जाते तत स्थाने सा माहामाया || वरदे लोकस्य इष्ट फलदा | तथा च पूर्वकलरूपा महामाया वरदा स्वाभय प्रदा || शक्ति स्वरूपता सर्वजयन्ति परमा परेति || स्त्री मुद्रा न करध्वजस्य जननी सर्वार्ति शान्ति प्रदा || ये मूढा अवधारन्ति कुधियो म्लेच्छा फला काक्षिणस्ते तेनापि निहत्य निर्द्वय दयानग्नी कृता मुण्डिता केचित् पञ्चशिखी कृता जटिलिनः कापालिकाश्चापरे || एकैक नाडी मध्यस्थे मर्ममेकैक भेदिनी | एकैक नाडी सुषुम्ना भस्मभेदेन द्वा सप्तति सहस्रनाडी दृश्यते || *##? सुषुम्ना रूपेण देह वहति || मर्म अष्टत्रिंशति | तस्य भेदायुः || मर्म भेदेन न मरणं नास्ति यत्कालमायुतो भवतिः || तस्मात् मर्ममेकैक भेदिनी स्वरूपया || तथा दक्षिणे || नाड्या यौर्णशुभाकारो देवका योगज्ञानदा || शक्तिरूपा भ्रमान्ते तामेकानेक स्वरूपेकेति || अष्टत्रिंशत्कले देवि भेदिनी ब्रह्मरन्धके | अष्टत्रिंशत् कलास्वरूपामिश || नादि पञ्चवक्त्रे व्यापका देव्या सा महामाया स्वामोह || यथा अष्टत्रिंशत् कला || श्वशिनीमन्गदारिष्टा मरीचि ज्वालिनी तथा | प्रवित्तिश्च प्रतिष्टेति वेद्यावेदाश्च विस्तराः || १८अ) तमा मोहाक्षयो निद्रा व्याधिमृत्युक्षुधास्तृषा | रजोरक्तारति पाल्या कामसंयमनी क्रिया || वृद्धिकार्या च रात्री च भ्रमनी भ्रामनी ज्वरा | सिद्धि ऋद्धि द्युतिल्लक्ष्मी मेधाः कास्थि प्रजा स्वधा || अष्टत्रिंशत् कलारेते भेदिनी सर्वजन्तुषु | तथाश्वशिनीश्वासः || अन्गदाः शरीरः || इष्टा चित्तविकारः || मरीचि राश्मै || ज्वलिनी शिखा ज्योतिः || निवृत्तिः || निविकारः || प्रतिष्टेति || प्रतिस्था प्रसिद्धिः विद्या अनेका आगम || वेदान्यन्गानि चत्वारि मीमास न्याय विसुरो | पुराणं धर्म शास्त्रं च विद्या चैव चतुर्दशः || क्रिया स्वर्गं च मोक्षञ्च सिद्धि ऋद्धिश्च ज्ञानभाक् | आगमा परमुच्यते || १९अ) लक्षं शब्दास्य शास्त्रस्य चतुल्लक्षं तु ज्योतिषाः विद्या एते || शान्ति प्रशमनं || स्तमः || कालपुरुषः || मोहः पञ्चेन्द्रिये || क्षयो नाशः || निद्रा || अशुभः || व्याधिः || रोगः || मृत्युः || मरण || क्षुधा || वुभुक्ता || प्रसिद्धः || स्तृषा || पिपाशा || रज || पुष्प मासिका || रक्ष || प्रसिद्धः || रति || मैथुनं || पाल्या || पोषकः || कामा || कार्यविशेषा || स्त्री च | भिगमश्च || संजमनी || क्षमा || क्रिया || कर्तव्यः || वृद्धः | वद्धन || कार्याकारकः विशेषः || रात्री स्थिर निसा भ्रमनी अटनः | भ्रमनी मोहनी उत्सक || ज्वरा ईर्ष्या || सिद्धिः अनिमाद्या क्षुद्रः ऋद्धि || वलं || द्युतिः || प्रसिद्धः || तेजः || लक्ष्मीः || प्रसिद्धः || मेधा बुद्धिः || १९ब्) कान्तिः || तेजः || प्रजाः || उत्पर्ति || स्वधाः संहारः || एते अष्टत्रिंशत् कलाः || एतेन कला भेदेन भेदनी ब्रह्मरन्ध्रगे || एतेन कला भेदेन संहरेत् || कथं भेदे व्ररन्ध्रात् | ब्रह्मद्वारेण | चन्द्रसूर्याग्निः समरस्य मृतकुण्डलिनी प्रसार्यते नामृतेन सर्वान्ग प्लावयेत् || तेन कारणेन भेदिनी ब्रह्मरन्ध्र उच्यते || पुनरपि अष्टत्रिंशत् कलाह || दशाग्ने कला | सूर्य कलाद्वादश || चन्द्र कला षोडश || पुनरग्नेः कला विशेषोणाह || प्राणः || अपानः || व्यानः || उदानः || समानः || नागः || कुर्मः || कृकरः || देवहत्तः || धनंजयः || शरीरस्था || नोच्यते || हृदि प्राणः || गुडे || अपानः || २०अ) समानो || नाभिमण्डले || उदानः || कण्ठदेशे तु || व्यान || सर्वशरीरिणां || पुनरपि || नागस्तु हृदये ज्ञेया कूर्मश्चोन्मीलनी स्थिता || कृकरश्चक्षुषी चैव देवदत्तै विजृम्भने || धनञ्जय वायुनां मृतोपि न मुञ्चति || ब्रह्मरन्ध्रे नेत्र द्वयः कर्णद्वयः नासिका वक्तः कण्ठः हृदयः नाभिः | वस्थिः गुदः || एते सूर्यकला || रोमत्वक् मांस असृक् मज्जा वसा स्नायुः || अस्थि शुक्रः मन बुद्धिः रागः द्वेषः मोहः क्रोद्धः सोकः एते चन्द्र कला षोडश || एते कला व्याप्त शरीराः || तेन कारणेन अष्टत्रिंशकला देवी भेदिनी ब्रह्मरन्ध्रके || ब्रह्मरन्ध्र हृदय विधिः || सृष्टिसंहारसंहारश्च || २०ब्) तस्य ब्रह्मरन्ध्रस्य भेदेन अजरामरत्वं मोक्षं भवति || तेन कारणेन ब्रहमरंध्राभ्यांसकर्तव्यं || योन्याभ्यन्तरे कोणमध्ये अग्नि ज्वलति || विधूमशिखा || तत्मध्ये जीवपिण्डं वायुः संजरति || तेन कारणेन || उष्णवायुर्वहति || तदा मरणकाले || अग्निनाशो भवति तेन वायोः शितलो भवति | तेन कारणेनाग्नि क्षयं जातं || वृद्धिः कर्तव्यं || योगाभ्यासेन कर्मयो नवा || अल्पाहारं कुर्यात् || अग्नि क्षयेन वातरोगं || अग्निवृद्धिना पित्त रोगं || उर्द्धब्रह्मरध्रोपरिचन्द्रसूर्याग्निभिः समरशी कृत्वा तेनाभ्यच्छिन्नं प्लावयेत् || अग्निमध्ये जीवपिण्डेश्च || चन्द्रसूर्याग्नि समरसी कर्तुं कथं ज्ञायते || २१अ) वहवः शास्त्रश्रूता वलोकितेन || त्रिभिः समयेन गुरुपारंपर्यविशुधेन || कायवान्मनः || संयमेन प्राप्यते || न शास्त्रे मन्त्र विद्यायाः || कलाकल विवर्जितः || गुरुपादप्रसादेन कर्ण नैव तु साषितः | अग्नेश्च लीयेत भानुद्भामुश्च लीयते शशी || एतत् समरसे नैव व्योमरूपं व्यवस्थिता | तत्मध्ये नासृतादिव्यमत्युच्छिन्न तु प्लावयेत् || तेन तेन प्रयोगेन भेदिनी ब्रह्मरन्ध्रके || इति || लाकुलं शिखिदीर्घामिवह्नेर्भानुर्विभेविता | चन्द्ररानलघोसी च खण्डेन्दु विन्दु तत्कला || अष्टत्रिंशत्कला बीज संरक्षण तन्त्रः || तथा चोर्त्तर || यथा देवा तथा देवी मर्चने भूत शोधने | व्यापि शक्तिमित्युक्ता च शुखिरान्ते प्रचिन्तयेत् || २१ब्) भेदिनी ब्रह्मन्ध्रेति || विद्युल्लता निभा देवी भुजन्ग कुटिला कृतिः | विद्युल्लाता आकाश निभा रस्मि तेज इति || प्रतीमाकारो नास्थि अनाकारं रूपवर्जितं | अकथ्यें अभावं वाक्म्य गोचरं || तस्याकारोग्रस्था गम सहस्रेण न लभ्यते || सद्गुरूपदेशेन ज्ञायते || तेन कारणेन विद्युल्लता चोच्यते || विद्युत्निभा विद्युद्वर्णः || अज्ञातवर्णः || न श्वेतः || न रक्तः न पीतः न कृष्णः न हरितः न हरितः न पद्म वर्णः न च वै चित्रः || तच्च विद्युल्ल वर्णः || विद्युद्वर्ण लभ्यते || भुजन्ग कुटिला कृतिः || भुजन्गः | सर्पाः कुटिला कृतिः | चक्र गतिः || भुजवत् || २२अ) कुटिलाकृतिः या देव्याः || कुटिल कुण्डलनी || अमृतकुण्डलणी इत्यर्थः || सप्तनागेन्द्र कुटिला कृतिः कुटिलामपि सुरेखा | ब्रह्मरन्ध्रेन व्यवस्थिता || हृदयं मध्ये कुण्डलनी || नादशक्तिः स लीयते स्थावरजन्गम त्रैलोक्यश्चतुर्दश भुवनः || स चराचर देह मध्ये व्यवस्थिताः || सा महामाया देवी भुजन्ग कुटिला कृतिः || शिवशक्ति समरसीभूतं यस्य देव्याः सा महामाया || भिन्ना भिन्नेन सर्वनास्ति अद्वय स्वरूपा || कन्तु ज्ञाय सा महा मोक्षगम्या || तथा भासायां | विद्युद्वर्चञ्च रूपा निभा भाविलाकुला || भुजन्गकुतिलाकारा रत्नमाला कराजया | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || २२ब्) एते पंच महाप्रेताः || मौलिसंस्पृष्ट महामाया चरणौ सेव्यः || एते पंच महाप्रेता पादमूले व्यवस्थिता | तस्य पञ्च देवस्य व्यवस्था देव्याश्च रणयो मूले महाप्रेतानि नित्य सेविता इत्यर्थः स पंचदेवता || पक्तोकाय | वान्मनः बुद्धिः | अहंकारंः || पृथ्वीः आपतेजः || वायुः काशः || गन्धः || रसः || स्पर्शः || शब्दः || नियतिः || कालः || रागः || विद्याः || मायाः || वाकः || पाणिः || पादः || पायुः || पस्थाः || नन्दाः || भद्रा जया रिक्तं पूर्णा || वाला कुमारी युवती | स्थविरा | अनन्द || करी | उदितः | भ्रमितः | सध्या अस्तः || एतेन सहितं उपेतं देव्याः पादमूले | अंघ्रिन्कय विशेषेण पादमूले शरीरान्तयो द्वारं || २३अ) ततो विशेषाश्च उपेता वायु विशेषाः || प्राणोपान सामानश्च उदानोव्यानमेव च | नागकुर्मश्च कृकरो देवदत्तो धनजयः || एते वा व्यवस्था चोच्यते || पादमूलं नासिका मूलं || एते वायुना उपेतं || दक्षिण वामे योर्नासिकायां वा वस्थिता सा महामाया परा || अधः ऊर्द्धः || तिर्यक् मध्येः || व्यवस्थिता | प्राणवायुर्वहति || अष्टदशविकाला चत्वारि प्राणः पृथ्वी स्थाने आदित्योष्ठदयं || माहेन्द्र योगं सिंह संक्रान्ति द्वादशान्गुलि वाक्यं वहति || अपाणवायुर्वहति पंच सप्ततिर्विकला त्रयः प्राणः आपस्थानः शनिश्चरोदयं || शोभन योगं || कन्य संक्रान्तिं चतुलंगुल वाक्यवति || २३ब्) समानवायुर्वहति सप्तत्रिशब्दिकला त्रयः प्राणस्तेज स्थान कुजो वयः || मृत्युयोगं || विच्छसंक्रान्ति अष्टान्गुलि वाक्यं वहति उदान वायुर्वहति || अष्टादशविकला चन्द्रप्रावायुवस्थाने || राज्योदये || उत्पात योगः || धनुसंक्रान्ति || अष्टादशान्गुलि वाक्यं वहति || मध्ये व्यानवायुर्वहति || एकाश्वासं आकाशस्थाने कल्पयोगः || तुलासंक्रान्ति एते दक्षिननासाम्पुटे दक्षिणायनं अधभागे || कर्कटः तत्परे वामपुटे प्राप्यते || अधस्था श्रेष्टि || पृथ्वि स्थाने नागवायुर्वहति || अष्टादशविकला चत्वारि प्राणः || २४अ) बुद्धोदयं सिद्धियोगं || कुम्भसंक्रान्तिः || द्वादशान्गुलि वाक्यं वहति || कूर्मवायुर्वहति || पंचसप्तति विकला आपस्थानञ्चन्द्रोदयं अमृतयोगं || मीनसंक्रान्तिः || चतुलंगुलि वायु वहति || कृकवायु वहति || सप्तत्रिंशति कला चत्वारि प्राणः || तेज स्थाने शुक्रोदय शिवयोगं || वृषसंक्रान्तिः || अष्टान्गुलि वाक्यं वहति || देवदत्त वायुर्वहति || अष्टादश विकला चत्वारि प्राणं || वायु स्थानं || गण्डयोगं || मिथुनसंक्रान्तिः || गुरोदयं || अष्टान्गुलि वाक्यं वहति || मध्ये धनंजयं वायुर्वहति || एकप्राणं || आकाश स्थानं शूलयोगं || २४ब्) मेषशंक्रान्तिः || केतोदय | एते वामपुटं || उत्तरायनं | ऊर्द्धमकरं || ऊर्द्धगामीणीदे संहारं || एते त्रयश्च उपेतं श्वासचारंः || माहेन्द्रवायुर्वहति || पंचकला त्रिप्राण माहेन्द्रयोगं || सिंहसंक्रान्तिः || शिवदयंः || अष्टान्गुलि वाक्यंवति || अग्निर्वायुहति || सप्तविकला || द्विप्राणं || आग्नेवः || मानपूजा तु माहेन्द्री आग्नेय प्राणशंशयः | वायव्य भयरोगं तु सर्वसिद्धिस्तु वारुणे || रेचकः पूरकश्चैव कुम्भकश्चैव वायुसः | वायुक्रमविजानीयात् योगसंसिद्धिकालकः || तत्र पुनरपि श्वासविधमाह || वामो वा दक्षिणे वा एकचार वहेति तदा मृत्युमागता भगति || २५अ) पंचदिवस एकचारवति || यदा दशदिनं वहति || वर्ष द्वय जीवति || यदि पक्षमेकं वहति || वर्षकमुपजीवति || यदा विंशति दिवसंवहति || तदा मास त्रयं जीवहति || षट्त्रिंशति योगत्र्यंगुलि वाक्य अग्निसंक्रान्ति || अग्न्ये दयं वायव्यं वहति | पंचविकला पंचप्राण || वायुव्यसंक्रान्ति || पंचान्गुलि वाक्ये || वारणवायुर्वहति || षष्टको विकला || षट्प्राणः कल्याणयोगशिवसंक्षोयमध्ये समरसी त्रय षष्टांगुलि षोडशसंक्रान्त्योदयं || स दिन संभहति || ऋतुमेकं स जीवति || सप्तविंशति दिनं वहति मासमेकं स जीवति || अष्टाविंशति दिनं वहति मासमेकं स जीवति || अष्टाविंशति दिनं वहति पक्तुमेकं स जीवति || २५ब्) एकोनविंशति दिनं वहति दशवाशवासरो जीवति | मासमेको वहति पञ्चवासरो स जीवति || एकत्रिंशति दिवसो वहति दिवत्रयं जीवति || द्वात्रिंश दिवसो वहति द्विवसद्वयं जीवति यदा त्रय त्रिंशति दिवसं वहति एक दिवसो दिवजीवति || अहोरात्रेणश्वास सहस्रशतं | एषश्वास चासः || श्रीकण्ठक्रूरञ्च विधु प्रयुक्तं कुर्म डिण्डिक्रोध सलाकुलेषु | अनन्तवक्त्रं परदितेवं पञ्चैवमन्त्रपरमेश्वरोक्तं || अलोमविलोमकाले पठेत् || यदा मरणकाले कर्णमे भेसेत् || समदोद्ये एकान्ते जितेन्द्रियन्तस्य श्वासं ग्रंहोगम्यं || सामान्य जनेन श्वासचारं ज्ञायते || एतेन २६अ) आहारं नियमं कृत्वा ध्यानादि कर्मणां कर्मयो न सामान्यने ज्ञातं || एते पञ्च महाप्रेता पादमूले व्यवस्थिता || इति || तथा कुलाकुलार्णवे || ब्रह्मादि कारणो देवा देव्याघ्रिं युगमगः | प्रेतरूपेण सर्वषां स्थितः कालस्वरूपताः || त्रैलोक्ये जननी देवी नमस्ते शक्ति रूपिणी | त्रैलोक्य जननी यस्य स्थाने त्रैलोक्य जगदुत्पत्तिर्भवति | तेन कारुणे त्रैलोक्य जननी | जननी मातास्वरूपा | त्रैलोक्य व्यवस्थिता जगन्तु स्थव च जन्गमाः || माता सा महामाया जननी | जननी जन्मभूमिर्या नित्या त्रैलोक्य साधनं || सर्वार्थ साधनं | सार्थ साममोक्तस्य स्थानं || तेन प्रकारेण जननी | दक्षिणकोणे स्वर्गः || २६ब्) वामकोणे मर्त्यः || अधो कोणे पातालः || तेन त्रैलोक्या जननी || देवीति | देवे शक्तिर्देवी || तथा च कुलाकुर्णवे कालज्ञान पद्मागन्कारे द्वात्रिशदक्षर मूलविस्तारे || या देव्याषू दलप्रतिश्चतुरगामूलाग्र त्रिर्यक् द्विधा केशर्यो परिकर्णिषु परतः || पञ्चैव पञ्चोपमः || पद्माख्ये वहि गह्वर प्रकतया कूर्मादि शैवान्तगा | नित्यानन्दमयाममाघ फलदा वालैकमध्यापरा || नमस्कारं पादौ शिसासंघृष्ट तेन नमः || इति || जननी जन्मकारिणी | महामाया वालमध्ये ज्येष्ठ उलिढि त्रित्रय स्वरूपा नमस्कार ब्रह्मणो वामगण्डस्थलेन उत्पर्त्तिः || ओंकारदक्षिणे गण्डस्थलेन जातं | कायन्मन एकी भूत्वा नमस्कारः || २७अ) एवं नमस्कार गौरवार्थः || शक्तिरूपिणी शक्तिरूपीस्तीकारः शिवः समरसी रूपेणं व्यवस्थिता || सा शक्तिरूपिणी | त्रयः शक्तिभेदाः || अधः | मध्येः || ऊद्धति || संपुटं प्रणवा पञ्च नवरूपा कुजामता | द्वात्रिंशदक्षरी मन्त्रस्त्रैलोक्या जननी श्रुता || मन्त्राणां परमामन्त्रा सर्वकामफल प्रदा | तथा चोत्तरे || शक्त्याधारे मिदसर्वं जगत्स्थावरजन्गमं | शक्तिने सृष्टि रक्षन्ति प्रलये मोक्षदा शिवेति || इडापिन्गलमध्यस्थ मृणालतन्तु रूपिणी | मृणालतन्तु पद्मसूत्रतद्वत् शुक्ष्म तन्तु स्वरूपा सा महामाया || उक्तञ्च कुलाकुलार्णवे || नवमृदु ततमृणाली तन्तु संतान शूक्ष्माक्रमकृतगति लीलालद्वन्द २७ब्) षट्चक्रभेदा अकुलकुलकुलान्तर्व्यापिनी सैवशक्तिर्जगति जय सुतेजां रूपिणी श्रीकुजेशी || एषा मृणालतन्तु रूपाशीति || इडापिन्गलमध्यस्थ सुषुम्ना त्रिनाडी इति उच्यते || इडापिंगलासुषुम्ना || ब्रह्माविष्णुमहेश्वराः || पातालः मर्त्यः स्वर्गः | चन्द्रसूर्याग्निः | क्षितिजलपवनः | रक्तश्वेतष्णः | सत्वरजतमः | आत्मतत्व विद्यातत्व शिव तत्व | सृष्टिः स्थितिः प्रलयः गायत्री सावित्री सरस्वती | ऋगयजुः सामः | भविष्यः | वर्तमानः | हृत् | कण्ठः तालः | अः | उः | मः | भूर्भुवः स्वः | मेरुः | मन्दरः | कैलासः | गंगायमुना सागरः | धर्मः | कामः | मोक्षः | इति त्रिनाडी विशेषः || इडापिन्गला | २८अ) ब्रह्माविष्णुः | तत्मध्ये स्यणाल तन्तु चेत् || समवरस रूपेण वहति चन्द्र सूर्याग्निर्भदितधारा इति || तथा निशायां || इडापिंगलमध्ये स्थातन्तु रूपमृणालता | सा देवी जगदानन्दा योगयुक्तः प्रदर्शिताः सामृणालतन्तु रूपिणी || बिन्दु मध्ये गता देवी कुटिले चोर्द्ध चन्द्रिके | बिन्दुराकाशः | तन्मध्येनागता कुटिला | कुटिलाकालगता पतिता | अर्द्धचन्द्र ठकाराद्धा हृतिनाभि वर्द्धस्थाने चन्द्रार्द्धा कृतिं नाभिरधस्थाने योन्याभ्यन्तरे पद्मे तत्स्थाने अर्द्धचन्द्रः | योनि सा अर्द्धचन्द्रं त्रिकोणाकारः | बिन्दु आकाशलिन्गपि धीयते | तस्मद्विन्दु रूपः शिवः | अर्द्धचन्द्रः | नादस्य रूपी शक्तिः शिवः शक्तिः | २८ब्) अर्द्धयभूतं सा कुटिलः | जीवपिण्डं | सासुर्द्धचन्द्रः | पूर्वपराक्षरं दत्वा भृगीसे मतुराशनं | खण्डेन्दु क्षयं संयुक्तं बिन्दुबीजप्रकाशयत् || तथा च त्रिपुरार्णवे || बिन्दुमध्ये गता शक्तिः कुटिलार्द्ध चन्द्रामृतं | जीवभूतो जगत्प्राये || नमस्ते लिन्गशक्तयेति | तुषारकनिकाभासे द्वादशान्ता वलम्बिनी अनसरिता इति || तुषारकनिका तुषाकनिका हिमकनिका विशेषः | कनिका बिन्दुः | हिमबिन्दु इत्यर्थः | तुषारकनि इव प्रभा सा प्रभा द्वादशान्तेन अनुसरन्तीति अवलम्बिता सा माहामाया परमेश्वरेण तु तोषुयति || तथा चोत्तरे || द्वादशान्ते स्थिता देव्या लम्बिता कालरुद्रगा | सा देवी जगदानन्दा तुषा भाजयति सदा इति || २९अ) उमाकुर्द्ध गता गौरि द्वादसात्यि वर्चसे | द्वादशादिवत् प्रभा सा द्वाददित्य वर्चसे || उमाशीरीर तन्मध्ये गतः उन्मन मध्ये गता इति || साहेती महामाया | अचिंत्यो अद्वया | अवाव्यागोचरा | उन्माक्कूर्द्धगतागौरीति || उश्च मा च उमा हि निश्चये | तथा च दर्शन विलीनोत्तरे | अर्द्ध गतेति | यस्याः पादारविन्द त्रिभुवन फरणे काले रुद्राग्नि मूर्द्धि || यामश्चापि द्वितयति भुवने गुरुभिः सिद्ध ब्रह्माण्डखण्डे | खट्वान्गं वामवाहोर्दधति करवरे कर्तिका मन्त्र पात्रं || शुभ्रामामुक्तहारा नमति दिवि भवा विश्वधात्री नमामि || इति || द्वादशादित्य वर्चसेति | द्वादशकला सूर्यस्तस्यैय वर्चसे नम इति || २९ब्) परमेश्वरेण कला || अ आ इ ई उ ऊ ए ऐ ओ औ अं अः | इति स्वरूपा सा नमोस्तुते || तथा चोत्तरे भाष्टके | त्रिभिः त्रैलोक्येति | तितयोऽपि त्रिपुरा स्वरूपा | ब्रह्मादि भैरवभावगर्भा | नाना नना नमेति भीषणरुस्तै हि भासां नमामि सुखदां वरश्रेये दातेति || शून्ये शून्यातरावस्थे हंसाख्ये प्राणधारिणी || प्राणवायुः | हंसाख्यणधारिणी निहंसः श्वासः || हं ऊर्द्धश्वासः || सः अधः श्वासः हंसः रूपेण जगतां प्राणधारयति | स्थूल शूक्ष्मतरावस्थे | स्थूलोपि वहुशा वहुशास्त्रः | शूक्ष्मः अदृश्यः | ज्ञानगम्यश्च | तयोर्मध्ये व्यवस्थिता मनोपम्यास्म नमादायस्य यमे च स्वलीयते | ३०अ) यादृक् ज्ञानञ्च सम्पन्न न प्रकास सहा भवेत् | योरप्युन् प्लवे नित्यं मनमात्रा वलम्बिं || निरक्षराद्यनन्ते च अक्षरान्तं तथेव च | शिवशक्तिहंसविधा || इन्दुचित्सनकालं च मृत्यु प्रवंचनं तथा | कृतामुलोमविलोमेन आरन्त वच मध्यगे || एवज्ञात्वा पर्यमरणान्ते कथनं || जितोमनौ विषयानाञ्च जितो भवति सर्वदा | अजिते सति पुनर्नित्यं जायते विषयैरपि || तस्मात्मनः पयत्नेन निश्चलं कुसाधकः | सिद्ध्यन्ति सिद्धयोऽनेकाः कृतं मनसि निश्चलं || तपः स्वाध्याय दानानि तीर्थयज्ञ समाश्रिता | योगेनात्म प्रबोधस्य कलां नार्हन्ति षोडशीं || नान्ति योगपरो किञ्चित् संसारव्याधि भैषजं | एवं ज्ञात्वा तथा योगा भ्यासञ्च क्रिय सदा इति || ३०ब्) तथा पूर्व || शून्ये शून्यतरा देवी हंसवन्गमते हृदि | प्राणधारीश्वरी नित्या विश्वात्मा जननी जयेति || लम्बाख्ये परमा देवी दक्षिणोत्तरगामिनी | दक्षिणोर्त्तरडा पिन्गला | शिवशक्तिः | न च दक्षिणं | न चोत्तरं | तन्मध्ये प्रवाहिणी | लम्बाख्ये द्वादशान्ते व्यवस्थिता सा परमा देवी महामाया | लंब एव अख्ये यस्या त्रैलोक्या व्यवस्थे तत्क्षणाद् दृश्यन्ते सालम्बाख्या | अपि तु ज्ञानचक्षुश्चिंर्त्यः | परमा देवीति | तथा चोत्तरे || सर्वज्ञाशुसंयुक्ता भावाभावविवर्जिता | लयान्नासुखदा नित्या शिवमूर्द्ध्नि स्थिता शिवा इति || परमा दक्षिणोत्तर गामिनीति | लाकुले द्विस्वरं भेद्य मार्गमासनमालभेत् | ३१अ) भूगोचन्दार्द्दशा भेदा खण्डेन्दु नभसंयुतं | विस्मृतो मन्त्रमेतेषां मृत्युकाल प्रदर्शकं || दक्षिणोर्त्तर वीजोयं तस्माजप्यं सदाभ्यसेत् | तथा निशोत्तरे || निशान्ते दर्शनार्थेशी चन्द्रसूर्यावताचरा | दद्याद् रूपा जगत् प्राणा सृष्टिसंहाररक्षका || नासाग्रे तु समुत्तीर्णे मध्ये सूत्र प्रवाहिणी | नासाग्रे समुत्तीर्णे अभ्युच्छिन्नं | गंगायमुरयोर्मध्ये सूत्रवत्समूत्तीर्णं च हति वहति वहति | कपाल संपुटे संगमसं प्रयोगः | तत्र स्थानेन पुण्यंहति || सुषुम्ना मध्ये सरस्वती सानाडी क्रमात् मन्तोर्चारण प्रयोः || सा महामाया || तथा च भैरव तन्त्रे | मानसे न तया तथा सिर्द्धि भाषितं ३१ब्) विघ्निनाशनी उवा सामोक्षदाश्चैव मन्त्रमुर्च्चारण क्रमात् || इति || मध्ये नाडी सूत्रपवाहिनीति || हृल्लेखे परमानन्दे तालु मूर्द्ध्नि व्यवस्थता || तालु मूर्द्ध्नि शंखिनी द्वारनासिका मूलचतुरान्गुलाभ्यन्तरा | साणंखिना द्वारः | हृदये बीज स्थाने वहति || परमानन्दः परमानन्दा स्वरूपा या महामाया | तथा चोत्तरदर्शन लीन || भावाभाव विवर्जित | कुलगता सौम्यस्वरूपा सूधाज्ञानाज्ञान पदा सुरेन्द्र नमिता पद्मा कराकलिका | वह्निर्भेदकराकुमारकुलका कालेश्वरो बोधकासा नन्दा परमा परापर गताशक्तिर्जर्येत्युर्तमा इति || नादकण्ठिकसंघृष्टे गुणाष्टक विभूषिते | ३२अ) गुणाष्टक वाह्य विषये अनिमादि अष्टगुणं पुनरपि गुणाष्टकमाह | शब्दस्पर्शरसरूपगन्ध सत्वरजतमति || अष्टगुणा || एते अष्टगुणविकारं नास्ति पुरुष गुणाष्टक समन्विते | एतेन गुण हृदये व्यवस्थिता | नादगण्ठिक संघृष्ट | संघृष्ट व्यवस्थितेति | ब्रह्मरन्ध्रेण कपालसंपुटो कपालसंपुटेन शंखिनी द्वारे | शंखिनी द्वारेण कण्ठेन हृदय हृदयेन प्रवास्थानं | एवं विधौ समुर्द्धति || सनादगण्ठिकसंघृष्टेति || षड स्थान भेद्वेन नादनिर्गता | अधोर्द्धगा | शिखीश प्रथमे धृत्य वामसी ऊर्द्धकारयेत् | धनञ्जयरन्ध्र भेद्यं सूर्येण स्वर मण्डितं || बिन्दुचन्द्रयुन दृष्टमादकण्ठिकविजका || प्राणाक्षा || ३२ब्) तथा च त्रिपुरार्णवे || नाह स्थानाद्विनिर्गत्य मन्त्राद्यास्वरवाचकां | षट्प्रकारमहामन्त्रं वदते स्थान निश्चये || सा महामाया || इति परमेश्वरेण स्तुत्यारंभः || स्थूलशूक्ष्मत्वसंक्रुर्द्ध धर्माधर्मपुटद्वये | भावभावविनिर्मुक्तं स्थूलशूक्ष्म स उच्यते || परमात्मा स्वरूपा सा स्थावर जन्गमे भवा | त्वं संक्रुर्द्धरहित इत्यर्थः || धर्माधर्मः पापपुण्यः || सुखदुःखः || संयोग पुटः || तथा निशायां || स्थूलशूक्ष्म मतिक्रान्तं क्षुभितभाववर्जितं | पापपुण्यव्यवस्था सा महामाया विभाविता || कार्यंकारण कर्तृत्ये त्रिशून्ये नादविग्रहे | नादविग्रहा मृतकुण्डली तत्वौ प्रत्ययः नीति || त्रिशून्य समरसभावं || ३३अ) चन्द्रसूर्याग्निभिः शून्यं मरसं तत् स्थानादविग्रहः | समग्रहः || विसमग्रहः || कार्यकरणकर्तृत्वात्कार्यश्च कारणश्च कार्यकारणो कार्यकर भावा कर्तापस्य असौ कार्यकारणकर्तृत्व | तस्मिन् कार्य कारण कर्तृत्वे || असत्यरूपेणववर्तते | कारण हेतुः | घटमध्ये यथा दीप साहेन च न दृश्यते | तथकामगतं ज्ञानं सापीति दृष्ट्यगोचरं विषयेन्द्रिय पटला देह मध्येन दृश्यते || गुरोपदेशशद्यैन पटलानि विमोचय | तस्मा दृश्यते सर्वत्रैलोक्य हृदये स्थितं || कार्यकारणसंबन्धात् ज्ञानभावेन दृश्यत इति || भृगाभित्रपरेफवासन कृत दीघस्वरं त्रिविधां बिन्दुशेखरभूषितं परमता मन्त्रण मृत्युजितं | ३३ब्) कार्यकारणमेवबीज सुखद्राकालेन संबुध्यते षण्मासेन हि मृत्युजात जगतां जप्तं प्रधृष्टं शिवं | तथाकामाक्षे || अशून्यति नवाशून्यं सर्वत्र व्यापको हृदि | शून्यमेव सखाकुर्यात् परमायाविनिसृता || परापरपरेशुद्धे चैतन्येशाश्वते ध्रूवे | परापरः | वामदक्षिण || पापपुण्यः || एतैवहितं | परेऽपरमशुद्ध चैतन्यं चेतना सहितं | शाश्वतं | नित्य सेवितं | अविनाशं | ध्रुवं निश्चयं | अचलं | अदृश्यं | अमृतत्वादलभन्ति | तेनामृतेनाभ्यासेन सर्वजगतां जीवन्ति | जरामदणव्याधिर्नाशयमि | तेन चैतन्ये शाश्वते इत्युच्यते || तथा च पूर्वै | परापर परे व्याप्ता जगदानन्दकारिणीं | ३४अ) चैतन्याश्चाविनाशी च ध्रुवे देवी नमोऽस्तुते इति || एवं परीदयस्तया महामाया || सर्ववर्णधरी देवी गुह्यतत्व व्यवस्थिता | सर्ववर्णधयी?त्रयत्रिंशति वर्णः | श्वेतादि वर्णः | चतुर्थाति वर्णः | एते तत् सर्वव्यापि व्योमाकारे वायुरूपं | समानवायोः | अपावायु मध्ये व्यवस्थिता | तुषारकनिका इवा | एतेन जातः | तेन सर्ववर्णधरी देवी इत्युच्यते || गुह्यस्थागुह्यस्थाने गुह्य स्वरूपा व्यवस्थिता | जगतः | तारिणी सा महामाया | तथा वैनायक तन्त्रे || अकारादि हकारान्ते | मन्त्रमूत्था व्यवस्थिता | पृथिव्यादि इस्वान्त त्वे गुह्य तत्व प्रकास्यतां || ३४ब्) तथा च कुलकुलार्णवे || गुह्यतत्व गोपनीया सा कुजा देवी नवाभिधा | मानवा वान्मक | जगत्व्याप्ताते गुह्य व्यवस्थिता सा महामाहा || जगत्रधारिणी देवी संवृर्त्या पथवर्तिणी | जगतां धारणी जगद्धारणी | जगतस्त्रिलोकः | मानुषादीनां || अनेकदुःखसंसारबन्धनं पाणयतामिति जगतधारणी देवी || संवृर्तिरुत्पत्तिः | तस्य मार्गः सवृत्या पथवद्दर्शी | उत्पत्ति काले चन्दमण्डल विचिंत्य निस्यर्तिकाले सूर्यमण्डं भाव्य | तेन कारेण न संवृर्ति पथवर्तनीत्युच्यते || तथा च वैनाशिको प्रलयोत्पर्ति रक्षा च अधगा कुलपालिनी | निस्पत्ति स युगान्तादाव्यापिनी | सुखदायदा || ३५अ) अशरीरे महामाये संसारार्णवतारिणी | अर्णवसमुद्रः || संसारैव समुद्रः | तस्य पारगतामितान्तं | स्याद् देव्याः प्रसादेत | कथं देव्याः अशरीरे | शरीरे वर्जिता | सा महामायेति || श्रीकण्ठ बिन्दुसंभूतं क्रोधीशश्वपिनाकिनं | युगेश्वेरेण श्लौखं च शरीरा बीजमुच्यते || परत्रतानणी || तथा चोत्तरदर्शलीते || चित्ते स्थितां परमज्योति नयीं निरंशां देवारिनाशनकरीं जननी स्वरूपां सृष्टि स्थिति प्रलय कालणनित्या नन्ताया शक्ति मूर्तिः करुणामयतां नमस्ते इति || जया च विजया चैव जयन्ती चापराजिता | जया चित्तः || विजया वायुः | जयन्त | कायः | तन्मध्ये व्यवस्थिता सा अपराजिता | ब्) अपजिता इन्द्रियं निर्जयन्तीति अपराजिता | तथा च पूर्व || अजिता जननी भूता अपरा सिद्धिदा विभा | जयन्ती करुणा चेता महामाया मनोन्मनी || तुम्बुरी बीजमध्यस्थे नमस्ते पापमोचनी | तुम्बुरी आकाशः | तस्य मध्ये स्थिता | आकाश मध्ये स्थिता सा तुम्बुरी बीजः || मन्त्र स्वरूपाकः स्वरूपा || संवृत्तश्च महाकालोपिनाकी खड्गी ब्रह्मगा | वालीसाघीशशी बिन्दु तुम्बुरी तदसंहरी || तथा चोत्तरे || वर्गान्ते मलरेफा च यश्चतुर्थश्च संयुतं | इन्दु बिन्दु समायुक्तं तुम्बुरी शक्ति बीजया इति || बन्धमोक्षकरी देवी षोडशान्ते व्यवस्थिता | बन्धः संसारबन्धः | ३६अ) तेन मोक्षकरी अपि च | पापपुण्य | पापनरकगतिः | पुण्यः स्वर्ग गतिः द्वयोर्विच्छेदकरणं ज्ञानदा सा महामाया | षोडशान्ते व्यवस्थिता | चिन्तायासी सारबन्धन मोक्षम्भवति | षोडशान्त स्थितो व्योमव्यापी सूर्यमण्डलमनुविशति तस्य संसारबन्धं मोक्षं | तथा च दक्षिणे || पाशबन्धकृदेवी मोक्षदा सर्व सत्यकोडशान्त स्थिता देवी निशानाथी नमोऽस्तुते इति || भ्रमनी शक्ति शूलेन महाव्युह समन्विते || व्युहः समूहः समस्त देवता पीठोपपीठव्यवस्थिता सा || भ्रामनी भ्रमनी वलम्बतिती भ्रामनी | अस्ति इत्यर्थः | कथं महाव्यूहः क्षेत्रपालः | भैरवक्षत्रवृत्ती | योगिनी | ३६ब्) कुलवृक्षः | अनेक देवता सहितः | योगिन्या अभ्यन्तरे व्यस्थिता | त्रिकोणाकारः || त्रयमध्ये कोणे बीजपिण्ड महामाया देवी || मरस्थाने भवेत् पिण्डं पिण्डस्थाने भवेत् मनः | ज्ञानस्थाने मनः पिण्डं पिण्डज्ञानानस्तथा || न पिण्डराहितं ज्ञानं न ज्ञानं पिण्डं वर्जितं | उभयोर्भिन्नता नास्ति समरसर्त्वव्यवस्थिता || वाह्यकोणे क्रमणव्यवस्थ्तिआ || अवृहा सादिना व्यवस्थिता || प्रियागे तु दुम्बर वृक्षः | हंसगह्वरः श्रीवत्सा कृतिः | वायुः | वैगा ध्वजा युध ब्राह्मी | च्छपा *? ः | अग्निमुखः || रिसितासनः | कामरूः | कराली | पूर्वकोणे व्यवस्थिता || वाराणस्यांता वृक्षः | वृषगह्वरः | पुण्डरीका कृतिः | ऊर्द्ध्वकेशी | गदायुधा || ३७अ) माहेश्वरी || कुण्डी कुर्णः || केशीनगरः | उल्कामुखी | वडवा वलिनी लोहजंघः | शाकरी | ऊर्द्धकेश || एते आग्ने कोणे व्यवस्थिता || कारागिरिः | अशोकवृक्षः | मयूर गह्यरः | ध्वजा कृतिः | महानली | दण्डधारी | कोमारी | आम्राति केश्वरः | पूतना | हतापुनर्महाकोधः | पीनाक्षी | महाजंघः | अग्निकः | एते दक्षिण कोणे व्यवस्थिता || कडववृक्षः || गरुडगह्यरः | कलशाकृतिः | सौम्यमुखी | वज्रधारी | वैष्णवी | परेश्वतीरः | प्रन्नाक्षी | वीरेजा | त्रिजटा | अम्बिका | अनलेति | एते नै-ऋत्यकोणे व्यवस्थिता | जयन्ती | निम्बवृक्षः | महिषगह्वरः | चाम्बराकृतिः | ज्वालामुखी | खड्गधारी | वाराही | मायापुरी | ३७ब्) कम्पिनी | भीमनादः | एलापुरिः | खराननः | शंखकर्णः | महाप्रेतः | एते पश्चिम कोणे समाश्रिता | चरित्राः | करञ्ज वृक्षः | गजगह्वरः | मत्स्य युगला कृतिः | कृष्णदण्डा | शक्तिधरी | इन्द्राणी | राजगृहः | चिपिटनासासी | एरुण्डा महाकर्णी घण्टारवः | अतिमुखी | महातुण्डा | एते वायुव्यकोणे संस्थि | ऊर्जयनी | अर्श्वत्थ वृक्षः | प्रेत गह्वरः | छात्राकृतिः | माहामाया | पाशधारी | चामुण्डा | क्षिचरलोहतात्र | कास्मीरः | महामेघः | लाकर्णः | नाडीजंघः | कैलायः | एते जत्तरकोणे समाश्रिता | कोटिवर्षः | वटवृक्षः | सिंहगह्वरः | शंखा कृतिः | हेतुकः | त्रिशूलधारी | चाण्डा पृष्टापुरः | विद्युत्मुखी | पनेश्वर | पुण्यवर्द्धनः कुम्भाक्षः | ३८अ) कर्णयोटी | एते ईशानकोणे व्यवस्थिता | श्रीकण्ठदीपादिरनेक दृष्टमापस्वयं मन्त्रसु योजितेन | व्युहं महामन्त्रकृतं विधिज्ञमहेवशान्तिं परमा जयन्ति || एतेन सर्वान् गुह्यतत्वे व्यवस्थिता | एतेन कारणेन महाव्युह समन्विता || तथाचोत्तरे || इन्द्राद्यामीशकोणान्ते महामया | समाश्रिता | गुह्यतत्व व्यवस्था सा महाव्युहेश्वरी जयति || भ्रमनी भ्रामनी गौरी मायायन्त्र प्रवाहिनी | मायायन्त्र योनि यन्त्रः | इति || षोडशार महाचक्रे भ्रमिता भ्रामिता चालयतीत्यर्थः || गौरी महापातेन चालिता संसार चक्रेः | उत्पर्तिः संहारकारका | निर्बीजः | बीजस्था भवति || जातो भवति | ३८ब्) वालो भवति || कुमारो भवति || पुनः परवायु भवति || स्थविरो भवति | वलीपलितो भवति | वृर्द्धा भवति | जरो पीडात्मृत्युर्भवति | एते विधानेन संसार चक्रः | भ्रामिता | तथा महानिशायां | भ्रमनीशक्तिरूपेण संसारचक्रकारिता | मायायन्त्र प्रवाही सा योनि मुद्रा नमोस्तुते || इति || चित्ता तत्मात्र धारिण्यां स्मृति संर्वर्द्धरी शुभे || स्मृति सम्बर्द्धरी स्मृति बुर्द्धिः | मनस्थाने व्यवस्थिता | चित्त तन्नात्र धारिणी | चिर्त्तेन तत् आकारधारयतीति चित्त तन्मात्रधारिणी | तस्य वाह्य करूपाकारं नासांतिते न कारणेन चित्त तन्मात्रधारिणी || तथा पूर्वे || योगिना ज्ञान भावन मूर्ति देव्या विधार्यते || ३९अ) अगिवृक्षोतिराकारं मूर्तिमन्या महेरीति || स्वच्छन्द भैरवी देवी क्रोध उन्मत्त भैरवी || स्वच्छन्द भैरवी अघोश्वर || एकवक्त्रं षोडशभुजा सा देवी त्वया पाप्ता | स्वस्वर्गः तस्य छन्दः | अनेन स्वच्छन्दः स्वच्छन्दः | भैरवी भमती सा दयारूपा रमता वशवोपरि | वदता ज्ञान भावे ऐ ईकारेति मोक्षदा | क्रोधो उन्मत्त भैरवः || एते प्रमुख अष्टासीति भैरव तत्व व्याप्ता || सा महामाया || तथा तथा दक्षिणस्तनिशायां || भैरवो भैरवी चैव व्याप्ता स्वच्छन्दमुत्पन्नौ | उन्मत्तः परमानन्दौ | शिवः शक्तिर भिन्नेति || पञ्चाशद्वार्णरूपस्थे त्वया रुद्र प्रकीर्तिता || पञ्चाणद्वर्णरूपरूद्रः || ३९ब्) स्वरषोडशः || वर्ण चतुत्रिंशत | स्वरः | शिवः | षोडशकलाचन्द्र त्रिंशवर्णशक्तिस्तत्व भावने | एतेन पञ्चाशद्वर्णमन्त्रस्वरूपाः || अपि च | पञ्चाशद्भैरवव्याप्तं || रुद्रभैरवं क्षेत्रपालमेकार्थः | तत् कुलाकुलार्णव भक्ति प्रकासिके | अनिलनलपृथिव्यानीलमाकाशरूपाः शरणजगदिदन्तविश्वमूर्तिर्विधाता | भव देहनाविश्वाली सिद्धिदा मोक्षवति जयति करुणभावाश्रीकुजाशक्तिरेका || इति || पञ्चाशद्वर्ण स्वरूपा सा महामाया रुद्रेण वलि कीर्तिता || अमृताख्ये रुरुश्चण्डे नमः कापालिनी शिवे || कापालिनी शिवः प्रलयकाले शिवकपालीनी रूपी भवति | शिवशक्ति सनीलनं कापाली | कः शिवः पालशक्तिः | ४०अ) कः शिवः पालकायं | कायं पालयताती | कपालिनीः || अमृताख्ये उमामहेश्वरः | तयोरूपा | रुरुः असुरः | तस्य रिपुश्चण्डः | रुरुश्चण्डः || रक्तगौचर्चिका इति त्वया देव्याव्याप्ता इत्यर्थः || चतुराननपराद्यां शाशने चन्द्रविम्बं | अमृतबीजमहामन्ततालमध्येपध्यापयेत् | तथाचोत्तरे || प्रलये कालिकारूपा ब्रह्माद्या देवसंभवाः | चण्डकापालिनी देवी जयति सृष्टिरक्तकेति || रुरुंकणी महामाये नमस्ते ज्ञान भैरवी | रुरुंकुणी इन्द्रियं नाशं यतीति रुरुकुणी || येन इन्द्रियं नाशयति | सा महामाया नमेस्ते || ज्ञानरूपा सर्वजन्तवः | शाक्तिकलाराजसव्यापारेण विस्तारिता | ४०ब्) शात्युकेन देवं | राजसामानुषं | तामसं तिर्यक् ज्ञानः | भैरवी पूर्वतवत् ः | तथा च पूर्व || जात इन्द्रियं संभूतं मृते त्यक्त कले चलं | महामायानुभावेन संसारपविवर्तनं || दंष्ट्रोत्कटे विद्युर्जिह्वे तारकाक्षि भयानने | इति परमेश्वरेण स्तोत्रं सबोधनं हे द्रंष्टोत्कटे | अतिनुतेजा चन्द्रत्प्रभा सा द्रंष्ट्रा | विद्युर्जिह्वा तडिदंशी जिह्वा | तारकाऽक्षि | तारकानक्षत्रः || अस्य दीप्तिवत् | नेत्रा यस्याः सा तारकाक्षि भयानने || भयः संसार भयाननेः मख इति || तथा वैनायके || द्रंष्ट्रा चन्द्रप्रदे भावे च विद्युर्जिह्वे भयानने | नमामि तारिणी रूपे संसारभयनासिनीति || ४१अ) नमामि देवदेवेशि अघोरेघोररूपिणी | नमामि नमस्कारः | देवदेवेशि | देवस्त्रय त्रिंशति कोटि देवः | नस्य देवः | त्रिदेवः | त्रिदेवस्य प्रभुः | महेश्वरः | महेश्वरस्य नाथ इत्यर्थः | सा देवी देवदेवेशी | कस्मिन्रूपे | अघोरेघोररूपिणी | अघोरः सौम्यरूपः | घोरः रौद्ररूपः | अघोरशक्तिर्जगत्सृष्टिः कारयति | घोरः | शिवः | जगत्संहारकारयति | घोरसंसारसागरस्ते नाशयति | अघोररूपिणी | तथा त्रिपुरार्णवे || शिवस्य मूर्द्ध्निवर्तशी नमामि भुनेश्वरी | सौम्यमरारूपा चरूदे नित्यरूपिणीति || ज्वालामुखी वेगवती उमादेवी नमोऽस्तुते | ज्वालामुखी अग्निमुखः | ४१ब्) वेगवती वायुमुखः | अग्निर्वायुरित्यर्थः || तावद्वय भावेन || उमा देवी सर्वव्यापी नमोस्तुते || ऋषी शतद्रत्तशिखा तथैव तथैव पूर्वेषु चरासनेव || स्वरं परंगेन विभेद दुःखं ज्वालामुखादीनि त्रिवीजरक्षा || तथा भैरतन्ते || ज्वालामुखं तथा वायोर्मुखमेकत्व व्यापका | उमा स्वरूता देवी महामाया नमोऽस्तुते || योगेशी च श्रिया देवी गौरी लक्ष्मी सरस्वती | योगेशी चतुषष्ठी योगिनी योगे तस्याः प्रधाना महामाया || श्रिया देवी लक्ष्मी सरस्वती त्रिसन्ध्या देवीति श्रिया देवी गायत्री || चतुर्भुजाः कमण्डरुः | अक्षसूत्रः पद्माभयाः || हंसवाहना | रक्तवर्णा | षोडशवर्षकन्या स्वरूपा | मुक्तकेशी | ४२अ) प्रत्युषसत्ययायां चिन्तयन्ति || लक्ष्मी सावित्री च चतुर्भुजाः || शंखचक्रगदामणिधरा | गरुडासना | कृष्णवर्णा तरुणी | वयस्य | मधाह्ने चिन्तरन्ती || सरस्वती | प्रसिद्धा | चतुर्भुजा | कमण्डलुः | अक्षसूत्रः | पुस्तकाभयः | हंसवाहना कमलासना || पीतवर्णी | स्थविरा | अपराह्ने चिन्तिता || अर्द्धरात्रेणोर्द्ध कृष्णा | तदधः | ऊरूशुक्ला | तदधध पादौ पीता | त्रयानना | तथैव वर्णा | सिंहवाहना | षट्भुजा | अक्षचक्र खड्गशूला भयवरदा | सर्वाभरणभूषणा पूण्डरीक चर्मं प्रणिधाना अर्द्धरात्रे विचिन्तयेत् || तथा च नेत्रे || संध्याव्यावर्तमूर्तिं शशधरविमलां वर्णरूपात्वमेका संसारे पाशबन्धत्वमसि च भवतीच्छेदयन्तीह जाड्यं | ४२ब्) चक्रे चक्रेशनाथं परमसुखककरीं योग्रिनांध्यायमानां तासां लक्ष्मी सुधान्गां सुरवरनमितां लिन्गपौर्वा नमामीति || गायत्री चैव सावित्री भृगोनन्त सरस्वती | माया चन्द्र निभं चैव सन्धावैयः प्रचिन्तये || एषकालसमाधेषु मृत्यु चञ्चनमुत्तमं || अलोमविलोम || हंसवागीश्वरी देवी गोमुखी शक्तिमालिनी | हंसवागीश्वरी स्वरी सरस्वतीहंस वाहनसरस्वती | गोमुखी परमेश्वरी कुब्जिका || नवप्रकाराः || बाल १ मध्य २ ज्येष्ठा ३ ः || एकैकस्यात्त्रि तथा भेदा श्री कुब्जिका महामया || मालिनी मलनाशयतीति | मलनाशनी | किं सो मलः | अनल आनव मायजः | कर्मजाः | मायया जातं मायज | ४३अ) पुनरपि | मोहमलः | राग द्वेष क्रोध लोभः गन्ध रस स्पर्श रूप शब्दाः | एते दशमलाः येन पुरुषेण राशयतीति मालिनी || तथान्य प्रकारेण मालिनी निर्मलमभिच्छिन्नधारा द्वादशान्तेन निपतति || साधारामालिनी | पुनरपि || यदा त्रैलोक्य संहारे अन्धकारो भवन्ति च || तदा त्रैलोक्ये पूरिता तेजमालिता भाति सा मालिनी || तदा विभ्रमात श्री तत्महाभैरेण दृष्ट्वा प्रभामालिनी स्वरूपा कुजा स्तुति कृत वानिति || सा मालिनी | एते नं च देव्या महामाया व्याप्ता || महांक्षर तथा याना अनुस्वरविभेदितं | स्वरविलोमं कृत्वा || हंसवागीश्वरी जया || एष प्रत्युषका संध्यायां जल्पेत् मृत्युजितं सुधी || ४३ब्) तथा चोत्तरे || शक्तिरूप हि मालिन्यै महामाया च कालिका | नित्यामलविहीना सा मोक्षदा परमापदेति || क्रोष्टान्गी सुभगा देवी दुर्गे कात्यायनी तथा | क्रोष्टान्गी त्रिकोण पुरः | देव्याव्याप्ताष्टमुच्यते || सुभगा सोभरा || शूक्ष्मरूपा दुर्गा कात्यायणी भवती रूपा विशेषा ते स्थिताः | तेन सामासपुष्पैका सा देवी कात्यायणी || तथा पूर्वं || कामाक्षा वरदा देवी त्रिकोणपुरमास्रिता | सुरुपा सा जगत्तारा कात्यायणि नमोस्तुते || नित्यं क्लिन्द समाख्याता रक्त चैकाक्षरा परा | नित्यं क्लिन्दमित्यस्थितेति सामाख्याता | रक्त चैकाक्षर रक्तद्वयोक्षर शिवशक्ति पुष्पफलं || रेफरक्तः || ४४अ) मांसपुष्पः | क्षकारः शुक्रः समसेन व्रीजसा | एकाक्षरा परा | पुनररिकोष्टान्गी त्रिकोणपुरे व्यवस्थिता | सा पीठपौर्वा विनाशी सा पन्नगा क्षोहिं रक्तका | एकाक्षरा कुठारेषा परामद्धेन्दु बिन्दुका | एकाक्षरा अकारेण सर्वव्यापी पञ्चाशेति | तथा रमते || नित्याकिन्दजगन्माता रक्तवर्णा मनोरमा | एकाक्षरा महामाया भुक्तिमुक्ति प्रदा कुजेति || ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव माहेन्द्री चामुण्डात्वं भयानना || एते योगेश्वरी स्थिता || योगेशी त्वं हि देवेशि कुराष्टक समन्विते || योगेशी त्वं हि || एते अष्ट योगिनी त्वया व्याप्ता महामाया | ४४ब्) इतिष्टक समन्विता || कुलाष्टकः || वटुकाष्टकाद्या | कः | कटुकः | क्षत्रपालः | गणभैरवः | भूतः श्मशाने सस्थितेशः क्षेत्रेशरिति || एकैक योगिन्या वटुकाद्यष्ट समान्विता युता इति || ऐन्द्री चैव तु आग्नेया याम्या नै-ऋत्य वारुणी | वायव्या चैव कौवेरी ईशान्य समुद्रा हृता || आग्नेयां याम्या | नै-ऋत्य | वारुण | वायुव्या | कौवेरी | ईशान्या | क्रमेण दिशि व्यवस्थिता | असान्तञ्च पुरो मन्त्रं ध्यायन्नित्यं सुमन्त्रिणा | शरीरे क्रमसंयुक्तं मृत्यु चञ्चनमाप्नुयात् || प्रियागे वरुणा कोला अट्टहासा जयन्तिका | चरित्रिकां वराचैव देवी कोटन्तु चाष्टधा || ४५अ) एते अष्टस्थान शरीरे व्यवस्थिता || बीजमध्ये प्रियागः || वरुणाग्नि मध्योम्नायौ कोलागिरी | रधिरे अट्टहासः | मांसे जयन्तिका | चर्मे वरित्रा | रोमकुपे | एकाम्बरा || देवी कोटः सर्वान्गसन्धिः | गोप्यस्थाने ब्रह्माणी | हृदये माहेश्वरी | वक्त्र कोमारी | कर्णे वैष्णवी कण्ठे वाराही | इन्द्राणी मुखसन्धिः | नासिका मूले चण्डी | द्वादशान्ते चामुण्डा | तथायमहानिशायां | बीजादि गुह्यस्थानादि ब्रह्माद्या स्थानमाश्रिता | ध्यायमानेति शारीरे योगसिद्धि नवायुयात् || तदनन्तरे दूत्यष्टकमुच्यते || तथा काली उमादूती देवदूती नमोऽस्तुते | भद्रकाली महादेवी चर्ममुण्डा भयावहे || महोच्छुक्ष्मे महाशान्ते नमस्ते शक्ति रूपिणि | ४५ब्) एतेशक्ति रूपेण व्यवस्थिता शरीरे | शिरसि काली | मूर्द्ध्नि उमा देवी | वामहस्ते देवदूती | दक्षिण हस्ते भद्रकाली | हृदय महादेवी गुदमध्ये चण्डमुण्डा | वामपादे | महोच्छूक्ष्मा | दक्षिणपाद महाशान्ता || एकच्छरीर स्थाने योगिनी चक्रश्च क्षत्रश्च दूती च स्वशरीरे भावयेत् || एवं क्रमशरीरे च ध्यातं मृत्यु प्रवञ्चनं | तथा दशकाल्यां || शरीरे दूतीका चक्रं योगिनी क्षत्रमेव च | शरीरस्था विजानीयान् निश्चितं मुक्तिमाप्नुयात् || इति || भूर्भुवः स्वरिति महाव्या हृति || मन्त्राग्नि होमे || भूर्नागलोकः | भुवो मर्त्यलोकः | स्वर्गलोकः | एतेनाहुति दानेन स्वरान्ते कारयेदूर्द्धं | ४६अ) न स्वाकारे वहाकारे वर्जयेद्धाकामक्षिणः | तेन महाव्याहृति मुच्यते || भूर्वामकोणो भुदोदक्षिणकाणे | स्वः | मध्ये कोणे | स्वाहान्ते सर्वव्यापी च दयार्थे कुरुष्व मे | कुरुकाल्यादय || समरसता चैव त्रैलोक्यं समरसं कुरु || चन्द्रमण्डलमर्त्यलोकः | सूर्यमण्डलं स्वर्गलोकः || अग्निमण्डलः पाताललोकः | त्रयमण्डल लोकत्रयं भिन्न न कर्तव्यं | वर्गा स तु भेदितं परमहारेफेण द्विधापीथि वृद्धिहोत्र दिवाकरेण विभूतं खण्डः शशिबिन्दुना || मन्त्रोऽयं भुवनत्रये परिगतं सर्वार्थसिद्धि प्रदं ध्यातं कालत्रये वरात्रि दिवसं मृत्युप्रध्वस्तं स्फुटं || भिन्नभावेन मोक्षं नास्ति समरस | अभिन्न भावेन | अद्धय अनक्षर चारेण सोपि सिद्धिभाक् || ४६ब्) द्वन्द्वहीन मनाभ्यासं निर्गुणं गुणवेदकं | ब्रह्मपदमिदं प्रोक्तं स्वतन्त्र पदमव्ययं || निराभासं निरानन्दं निराकरं निराकुलं | रूपातिततितमिहं सर्वं नाभावो न च वेदकः || पक्षापक्ष पक्षीणे स्वपक्षः पक्ष वर्जित | जन्मबन्धविनाशाय हन्तिपक्ष त्रयोहते || त्रिश्रोणी रहिते मर्गे निःशब्दाः शब्द वर्जितः | एकाकारे तु संप्राप्ते नानन्दो न च भावना || त्रिण्येकञ्चैव त्रीण्येकं ज्ञानवर्जितं | पाशच्छेदकरं प्रोक्तमव्ययं हंसवर्जितं || एत्रसंव्यवहारेण सर्वसून्यं तु भावयेत् | मन्त्र | त्रीणि रजाद्वित्रि कालत्रीण्यञ्च बोधितः नित्यमहर्निशबोध्यं भुर्भुवः स्वविचिन्तयेत् || शरीरे वाह्य ज्ञाने च होममति हुनेषु च | ४७अ) तथा चोत्तरे || गायत्र्यादि चतुःसन्ध्यां ध्यायमानो मनीषिणः | सर्वपापविनिर्मुक्तं मुक्तिभागी नरो भवेत् || ज्ञानार्थिनो महामाये एतदिच्छामिदेदितुं | ज्ञानार्थी पुरुषेण महामाया वेदितुं ज्ञातुं ज्ञानेन संसारार्णवमुक्तत्वं मोक्षं भवति संसारकल्पना द्वयविधिः समुद्रम्वा वृक्षम्वा || दुःखसुखजलोज्ञया जलजातेन्द्रियं तथा | इहजन्म इहतीरं परजन्म परात्परं || गुरुवक्तञ्च नामेन पारंतीरमवाप्नुयात् | अक्तबीजप्रभवं बुद्धिमूलसमन्वितं || अहंकार महाशाखाः पञ्चमूलं च पल्लवं | विषयेन्द्रिय पत्राग्रं मनःपुष्पसमन्वितं || साववल्कल संयुक्तं सुखदुःखफलद्वयं | ४७ब्) ज्ञानसूत्रसमारुह्य भक्षं मोक्षमभीप्सितं || तेपि परमपदं || तस्माज्ञान सदा सम्यक् अभ्यासेन्द्रियतेन्द्रियः | इन्द्रिय परमाभ्यास सम्यक् ज्ञानप्रकासिनं || यश्चेदं पठ्यते स्त्रोतं त्रिसन्ध्या चैव मानवाः | यश्चेदं || यस्त्वदं इदं महामायान्त्रोत्रं येन पठ्यते त्रिसन्ध्यासमये || पाप्नोति चिन्तितान् कामान् स्त्रीणां भवति वर्णभं | यार्विन्तितं कार्य ते पाप्नोति चिन्तितान् कामान् || इच्छा सिद्धि इति || स्त्रीणां भवति वल्लभः | युवती जनानावल्लभो भवति | येन पुरुषेण महामाया पठ्यते | तेनुपुमामृते इष्टलोकं पाप्ति || जीवन्तऽति सुखी भगवति | येन पुरुषेण चतुम्नायो जानन्ति || ४८अ) चतुर्देवताः | तथा अमावास्यां | ऐकान्येकभवं त्रिमूर्तिरखिंलापौर्णेश्वरी वासवे भूतेशी गगनोषमाभगवति निस्यश्वरी दक्षिणे | ज्ञानागम्य कुजेश्वरी हि कुलगां वारुण्यदिग्गायकां श्रीवामां प्रणमामि विश्वजननीं दर्शेश्वरीं कालिकां | लाकुल्येन्दु सुविन्दुवेद स्वरभिर्नागाक्तरूढाविधेर्मध्ये नामविभेदिता भृगुशिवारूढो विधे चान्तगा | सूर्याय स्वरभेहहतेन्दु नभसे | मन्तेषये मायया नित्याधेय नमामि दुःख देहनीं संसारभीतच्छिदां | चतुर्वर्गपदामन्त्रा चतुराक्षरसंज्ञका | गदितं भैरवो मन्त्रं महामाया नमोऽस्तु ते || इति मोक्षसोपानटीका समाप्ता || ########### END OF FILE #######