#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00627 Uniform title: mudrāprakāśa Manuscript : manuscript 1406k Dharmartha Trust at Raghunath Temple, Jammu, JandK Description: Title page: n0 1406k title mudrāprakāśaḥ extent 39 patra Subject tantram Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Link to original manuscript on archive.org https://archive.org/download/MudraPrakash58661406KaAlmira26Shlf3DevanagariTantra/Mudra%20Prakash%20_5866_1406_Ka_Almira_26_Shlf_3_Devanagari%20-%20Tantra.pdf Revision 0: June 16, 2023 Revision 1: Nov. 29, 2023 diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### न्० १४०६क तित्ले मुद्राप्रकाशः एxतेन्त् ३९ पत्र सुब्जेच्त् तन्त्र पृ० १अ) ओंश्रीगणेशायनमः द्रुहिणहरिहयाद्यैर्देववृंदैर्नमस्यंदद दभिमतमर्थंभक्तिभाजांजनानांपरिहृतसकलार्थैर्योगिभिर्ध्या यमानंहरचरणसरोजंक्षेमकामाभजध्वं १ नत्वागुरुपदंरामकि शोरेणेष्टसिद्धिदं साधकानांमुदेमुद्राप्रकाशोयंविरच्यते २ दे वानांमुदंहर्षंरातिददातीतिमुद्रा तथाचमंत्रदर्पणे रचनांस म्यग्ज्ञात्वापूजायांदर्शयेन्मुद्रां तदियंमुद्राकथितादेवेभ्योयन्मु दंराति मुदंरातीतिमुद्रास्यादित्यन्यत्र कुलार्णवे मुदंकुर्वंति पृ० १ब) देवानांमनांसिद्रावयंतिच तस्मात्मुद्राइतिप्रोक्तादर्शितव्याः कुलेश्वरि दर्शितव्याइतिदर्शयितव्याइत्यर्थः पूजाकालितिशे षः णेर्लोपश्छांदसः गौतमीयेदशमाध्याये मोदनात्सर्वदेवा नांद्रावणात्पापसंततेः मुद्रास्ताःकथिताःसद्भिर्देवसान्निध्य दायिकाः यामले मोदनात्सर्वदेवानांद्रावणात्पापसंततेः तस्मान्मुद्रेयमाख्यातासर्वकामार्थसाधिनी मंत्रदर्पणे नादी क्षितस्तुरचयेत्क्षुभ्यंतिहिदेवतायस्मात् मुद्राभवंतिविफलाः पृ० २अ) सोपिचरोगीदरिद्रःस्यात् अंकुशाख्याभवेन्मुद्रातीर्थावाहनक र्मणि उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे तीर्थान्यावाहयेन्मं त्रीमुद्रयांकुशरूपया अंकुशाख्यादक्षमुष्टेरंकुशीकृततर्जनी ज्ञानार्णवेपिचतुर्थपटले मुष्टिंबद्ध्वादक्षकरेतर्जन्यंकुशरूपि णी अंकुशाख्याचमुद्रावैत्रैलोक्याकर्षिणीभवेत् रक्षणेकुंतमु द्रोक्तातस्यालक्षणमुच्यते तंत्रसारे मुष्ट्योरूर्द्धीकृतांगुष्टौतर्ज न्यग्रेतुविन्यसेत् सर्वरक्षाकरीह्येषाकुंतमुद्राप्रकीर्तिता इति पृ० २ब) कुंभमुद्राभिषेकेस्यात्तस्यालक्षणमुच्यते मंत्रदर्पणे वामांगु ष्टेदक्षांगुष्टंक्षिप्त्वाद्वाभ्यांहस्ताभ्यांचेत् मध्याकाशांमुष्टिंकुर्या त्कुंभाख्येयंमुद्रांप्रोक्ता मध्याकाशांमध्यशून्यांतत्रैवस्नानप्रक रणे दक्षांगुष्टंवाममुष्टौतदन्यामुष्टिपार्श्वगाः कुर्यात्तामंतराका शांकुंभमुद्राभिषेचने तदन्यांगुष्टभिन्नादक्षांगुल्यःमुष्टिपा र्श्वगाः वाममुष्टिपार्श्वगाः तांवाममुष्टिंअंतराकाशांमध्यशून्यां गौतमीयेसप्तमाध्याये वामहस्तकृतांमुष्टिंदक्षहस्तेनवेष्ट पृ० ३अ) येत् कलशाख्याभवेन्मुद्रासर्वपापहराशुभा तत्रांतरे दक्षां गुष्टंपरांगुष्टेक्षिप्त्वाहस्तद्वयेनच सावकाशांमुष्टिमेकांकुर्या त्साकुंभमुद्रिका परांगुष्टेवामांगुष्टे सावकाशांमध्यशून्यांकथि तातत्त्वसंज्ञातुमुद्राबहुषुकर्मसु सातुअंगुष्टानामिकामेलन रूपा तथाचज्ञानार्णवेत्रयोदशपटले अंगुष्टानामिकाभ्यांतु तत्त्वमुद्रेयमीरिता इति कालकर्णीप्रयोक्तव्याविघ्नप्रशमकर्म णि उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे कृत्वोन्नतेतथोर्द्ध्वेमुष्ट्योः पृ० ३ब) संलग्नयोयुगयोः तेत्वभिवक्त्रेकुर्याद्विघ्नघ्नीकालकर्णिका मुद्रा तथातंत्रसारेपि० अंगुष्टावुन्नतौकृत्वामुष्ट्योःसंलग्न योर्द्वयोः तावेवाभिमुखौकुर्यात्मुद्रेषाकालकर्णिका मुद्रा तुवासुदेवाख्याध्यानेतल्लक्षणंतथा मंत्रदर्पणे अंजल्पंज लिमुद्रास्याद्वासुदेवाह्वयाचसांजलीतिविभक्तिलोपश्छां दसः अथमातृकान्यासमुद्राः|| मंत्रदर्पणे मध्यानामेस्मृ तेभालेवृद्धानामेचचक्षुषोः शीर्षोष्टकरपत्संधिपार्श्वेषु पृ० ४अ) मध्यमामता वृद्धाश्रवणयोरक्तासकनिष्टान्वितानसोः गं डास्येमध्यमास्तिस्रोऽनामिकादंतजिह्वयोः पृष्टेतिस्रःक निष्टाद्याःनाभौवृद्धान्वितास्तथा जठरेकथिताःसर्वास्तल मुक्तंहृदादिषु कथितामातृकामुद्रायाभिर्न्यासःफलप्रदः तंत्रांतरे ललाटेऽनामिकामध्येविन्यसेन्मुखवृत्तये तर्ज नीमध्यमानामावृद्धानाभौचनेत्रयोः अंगुष्टंकर्णयोर्न्यस्य कनिष्टांगुष्टकौनसोः मध्यास्तिस्रोगंडयोश्चमध्यमांचोष्ट पृ० ४ब) योर्न्यसेत् अनामांदंतयोर्न्यस्यमध्यमांचोत्तमांगके मुखेनामां मध्यमांचहस्तपादेचपार्श्वयोः कनिष्टानामिकामध्यास्तास्तुपृ ष्टेचविन्यसेत् ताःसांगुष्टानाभिदेशेसर्वाःकुक्षौचविन्यसेत् हृदयेचतलंसर्वमंसयोश्चककुत्स्थले हृत्पूर्वहस्तपत्कुक्षि मुखेषुतलमेवच एताश्चमातृकामुद्राःक्रमेणपरिकीर्तिताः अज्ञात्वाविन्यसेद्यस्तुन्यासःस्यात्तस्यनिष्फलः मुखेनामांमध्य मामित्यत्रमुखपदं जिह्वापरमितिपूर्वेणाविरोधः अतेवव्यो पृ० ५अ) मेन्द्धौरसनार्णकर्णिकमित्यादौरसनापदेनविस र्गोगृह्यते इतिकिंत्विदमत्रावधेयं पार्श्वयोरित्यस्य कनिष्टाऽनामिकामध्याइत्यनेनैवसंबंधोनतुमध्यमा मित्यनेनतास्तुपृष्टेचविन्यसेदित्यत्रताइत्यस्यवैयर्यया पत्तेः एवंचशीर्षोष्टकरपत्संधिपार्श्वेषुमध्यमामतेति मंत्रदर्पणकारेणयदुक्तंतच्चिंत्यं अंगुल्यग्राणामनुक्त त्वाच्च मंत्रदर्पणकारोक्तंचिंत्यमितिशेषः अथांगन्यास पृ० ५ब) मुद्राः मंत्रदर्पणे हृन्नेत्रंत्रिभिराख्यातंद्वाभ्यामस्त्रशिरो मतं अंगुष्टेनशिखाज्ञेयादिग्भिःकवचमीरितं दिग्भिर्द शभिः तंत्रातरे हृदयेमध्यमानामातर्जनीभिर्न्यसेद्वुधः मध्यमातर्जनीभ्यांचशिरसिन्यासमाचरेत् अंगुष्टेनशिखा यांचदशभिःकवचेन्यसेत् नेत्रेषुतिसृभिश्चस्यादस्त्रमू र्ध्वोर्ध्वगंदिशः मध्यमातर्जनीभ्यांस्यादंगमुद्राःस्मृताइमाः यामले हृदयंमध्यमानामातर्जनीभिःस्मृतंशिरः पृ० ६अ) मध्यमातर्जनीभ्यांस्यादंगुष्टेनशिखास्मृता दशभिःक वचंप्रोक्तंतिसृभिर्नेत्रमीरितं प्रोक्तांगुलिभ्यामस्त्रंस्या दंगकॢप्तिरियंमता तिसृभिस्तर्जनीमध्यमानामाभिः तर्जनीमध्यमानामाः प्रोक्तानेत्रत्रयेक्रमात् यदिनेत्र द्वयंप्रोक्तंतत्रतर्जनीमध्यमे इतिभट्टधृतवचनादिति तंत्रसारकारः प्रोक्तांगुलिभ्यांमध्यमातर्जनीभ्यां अस्त्र मुद्रायांविशेषोयथा मंत्रदर्पणं दक्षस्यतर्जनीमध्ये पृ० ६ब) सव्येकरतलेक्षिपेत् अभिघातेनशब्दःस्यादस्त्रमुद्रास मीरितेति वैष्णवेतु विशेषोयथा मंत्रदर्पणे हृदिशी र्षेनिरंगुष्टाश्चतस्रोदशवर्मणि सरलांगुष्टमुष्टिस्तुशि खायांस्यादधोमुखी ऊर्ध्वीभूतभुजद्वंद्वमुष्ट्यंगुष्टप्रदेशि नी संभवध्वनिरस्त्रंस्याद्विष्णोर्मुद्राचनेत्रयोः दक्षस्यतर्ज नीमध्येनरसिंहेतरस्यतु तथातंत्रसारे अनंगुष्टाऋजवो हस्तशाखाभवेन्मुद्राहृदयेशीर्षकेच अधोंगुष्टाख पृ० ७अ) लुमुष्टिःशिखायांकरद्वंद्वांगुलयोवर्मणिस्युः नारा चमुष्ट्युद्धृतवाहुयुग्मकांगुष्टतर्जन्युदितोध्वनिस्तु वि श्वग्विशक्ताकथितास्त्रमुद्रायत्राक्षिणीतर्जनिमध्यमे च यत्राक्षिणीत्यनंतरंतत्रेत्यध्याहार्यं तथाचायमर्थः यत्राक्षिणीनेत्रद्वयंतत्रनेत्रन्यासेतर्जनीमध्यमेवेदि तव्ये यत्रेतिनरसिंहेतरविष्णुमंत्रेइत्यर्थः नरसिंहस्य तुत्रिनेत्रत्वात्तन्नेत्रन्यासेतर्जन्यांगुलित्रयरूपापूर्वो पृ० ७ब) क्तैवमुद्राबोध्या अन्येतुसकलान्यासाःकर्तव्यास्तत्त्व मुद्रया तथाचगौतमीयेतृतीयाध्याये मनसैवन्यसे न्न्यासान्पुष्पेणैवयथामुने अंगुष्टानामिकाभ्यांवान्य थाविफलंभवेत् इति सौभाग्यदंडिनींमुद्रांरिपुजिह्वाग्र हांतथा श्रीविद्याविषयन्यासकालेसंदर्शयेत्सुधीः तथा चज्ञानार्णवेद्वादशपटले अथवक्षेमहेशानिश्रीविद्या न्यासमुत्तमं संपूर्णांचिंतयेद्विद्यांब्रह्मरंध्रेरुणप्रभां स्र पृ० ८अ) वत्सुधांषोडशार्णांमहासौभाग्यदांस्मरेत् वामांसदेशे सौभाग्यदंडिनीं न्यासयेत्ततः रिपुजिह्वाग्रहांमुद्रांपा दमूलेप्रविन्यसेत् इत्युक्त्वान्यासजालमुक्तं एतयोर्लक्षणं उक्तं यथा मंत्रदर्पणे वामकरेणतुमुष्टींबध्वासरलांतुत र्जनींकृत्वा संभ्रामयेच्चवामकर्णेन्यासेसौभाग्यदंडिनी मुद्रा अंगुष्टांतर्मुष्ट्यात्रैलोक्यंसन्निरुध्यैव वामांघ्रितले न्यस्यासारियुजिह्वाग्रहामुद्रा २ ज्ञानार्णवेपिद्वादशप पृ० ८ब) टले वामहस्तेनमुष्टिंतुबध्वाकर्णप्रदेशके तर्जनींसरलां कृत्वाभ्रामयेन्मनुवित्तमः सौभाग्यदंडिनीमुद्रान्यासकाले तुसूचिता १ अंतरांगुष्टमुष्ट्यातुनिरुध्यजगतीमिमां रिपुजि ह्वाग्रहामुद्रान्यासकालेतुसूचिता २ तंत्रांतरे रिपुजिह्वाग्र हांमुद्रांवामपादतलेन्यसेत् इत्युत्तरार्द्धं मुद्राद्वयमिदंदक्षि णहस्तेनापिभवतीतिमतं तथाचतंत्रांतरे अंगुष्टांतर्दक्ष मुष्टिर्वैरिजिह्वाग्रहाभता सरलातर्जनीसैवमुद्रासौभा पृ० ९अ) ग्यदंडिनी १ अंगुष्टगर्भितांमुष्टिंबद्धादक्षिणपाणिना रि पुजिह्वाग्रहामुद्रावामपादतलेन्यसेदिति अत्रैतामिति कर्मपदमध्याहार्ययं एतानिवचनानिश्रीविद्यान्यासप्रक रणेमंत्रदर्पणकारधृतानि १० कूर्ममुद्रासमाख्यातादेवता ध्यानकर्मणि उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे वामे पैत्रेतीर्थेतस्यांगुष्टेचतर्जन्यां दक्षस्याधोवदनमध्यानामे प्रदेशिनींस्वल्पां वामस्यान्यास्तिस्रोदक्षस्योर्ध्वाननाःपृष्टे पृ० ९ब) उन्नतदक्षांगुष्टंकच्छपपृष्टप्रभंदक्षं पाणिंकृत्वाध्यायेत्क च्छपमुद्रासमाख्याता वामकरस्यतर्जन्यंगुष्टमध्येदक्षिण करस्याधोमुखेमध्यमानामिकेयोजयेत् पुनस्तस्यवाम स्यांगुष्टेदक्षस्यमध्येप्रदेशिनींतर्जनींपुनर्वामस्यतर्जन्यां दक्षस्यस्वल्पांकनिष्टां अन्यावशिष्टास्तिस्रोमध्यमाना माकनिष्टाऊर्ध्वाग्रदक्षस्यपृष्टेयोजयेत् पुनरुक्तंतंदक्षि णांगुष्टंकृत्वा दक्षपाणितलंकूर्मपृष्टवत्कुर्यादित्यर्थः पृ० १०अ) अन्यत्रापि० वामहस्तस्यतर्जन्यांदक्षिणस्यकनिष्टिकां तथादक्षिणतर्जन्यांवामांगुष्टंनियोजयेत् उन्नतंदक्षिणां गुष्टंवामस्यमध्यमादिकाः अंगुलीर्योजयेत्पृष्टेदक्षिण स्यकरस्य वामस्यपितृतीर्थेनमध्यमानामिकेतथा अधोमुखेचतेकुर्याद्दक्षिणस्यकरस्यच कूर्मपृष्टसमं कुर्याद्दक्षपाणिंचसर्वतः कूर्ममुद्रेयमाख्यातादेवता ध्यानकर्मणि पृष्टेक्रोडेइतितंत्रसारकारः १६ त्रिखं पृ० १०ब) डात्रिपुराध्यानेतस्यालक्षणमुच्यते मंत्रदर्पणे पुटितौ चकरौकुर्याद्वद्धामध्याकनिष्टिकाः सरलाःबद्धेचतर्जनी भ्यांपरिवर्त्यानामिकेत्रिखंडेयम् वामकेश्वरतंत्रेच परिव र्त्यकरौस्पृष्टावंगुष्टौकारयेत्समौ अनामांतर्गतेकृत्वातर्ज न्यौकुटिलाकृती कनिष्टिकेनियुंजीतनिजस्थानेमहेश्व रि त्रिखंडेयंसमाख्यातात्रिपुराध्यानकर्मणि ज्ञानार्णवे पिद्वादशपटले पाणिद्वयंमहेशानिपरिवर्तनयोगतः पृ० ११अ) योजयित्वातर्जनीभ्यामनामेधारयेत्प्रिये मध्यमेयो जयेन्मध्येकनिष्टेतदधस्तथा अंगुष्टावपिसंयोज्य त्रिधायुग्माक्रमेणतु त्रिखंडानाममुद्रेयंरिपुसंक्षो भकारिणीति १२ शिखयागालिनींमुद्रामऽर्धस्यो परिचालयेत् उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे पृष्टेपृष्टंदत्त्वांबध्वांगुष्टौकनिष्टाभ्यां कुर्यादपराःस रलामुद्रेयंगालिनीकथिता अन्यत्रापि कनिष्टांगुष्ट पृ० ११ब) कौसक्तौकरयोरितरेतरं तर्जनीमध्यमानामाःसंहता भुग्नवर्जिता मुद्रेषागालिनीप्रोक्ताशंखतोयविशोधने गौतमीयेनवमाध्याये दशकृत्वोजपेन्मूलंगालिनीं शिखयान्यसेत् करौप्रसार्यचान्योन्यंसंपुटक्रमयोगतः प्रयोज्यदक्षिणांगुष्टंतथावामकनिष्टया वामांगुष्टंद क्षिणयामुद्रेयंगालिनीमता अर्घ्यस्यफलदाप्रोक्ताशं खस्योपरिचालिता शिखयावषट्कारेणदक्षिणयाद पृ० १२अ) क्षिणकनिष्टया १३ मत्स्याख्यामुद्रयात्वर्घ्यपात्रमा च्छादयेत्सुधीः उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे दक्षिणकरस्यपृष्टेवामकरतलमथविन्यस्य सम्यक् चलितांगुष्टौकुर्यात्मत्स्यस्वरूपिणींमुद्रां अन्यत्रापि दक्षपाणिपृष्टदेशेवामपाणितलंन्यसेत् अंगुष्टौचा लयेत्सम्यक्मुद्रेयंमत्स्यरूपिणी १४ मुद्रातुदेवता ह्वानेनवप्रोक्तामनीषिभिः आवाहनीस्थापनीचतृ पृ० १२ब) तीयासन्निधापनी तुर्यासन्निरोधनीस्यात्सन्मुखीक रणीपरा सकलीकरणीषष्टीसप्तमीत्ववगुंठनी यामृ तीकरणीप्रोक्ताधेनुमुद्रातुसाष्टमी परमीकरणीमुद्रा नवमीपरिकीर्तिता क्रमेणलक्षणान्यासांप्रोक्तानिमंत्र दर्पणे उत्तानांजलिमूर्द्ध्वंनीत्वाथद्वावधःकुर्यात् आवा हनीयमुदितात्वधोमुखीस्थापनीचसैवस्यात् द्वावि तिद्वौवारावित्यर्थः २ आश्लिष्टमुष्टियुग्मस्योर्द्धांगुष्टैव पृ० १३अ) सन्निधानेस्यात् अंगुष्टगर्भिणीयंविख्यातासन्निरोधे हि ४ द्वावुत्तारौमुष्टीकृतावियंसंमुखीकरणे ५ देवष डंगन्यासः सकलीकरणमिहसंप्रोक्तं ६ वामकरवि रचिताचेत्सरलाधोवदनतर्जनीमुष्टिः स्यादवगुंठनमु द्रासत्यभितोभ्रामिताकवचात् भ्रामितेतिवामावर्त क्रमेण कवचादितिकवचमुच्चार्येत्यर्थः कवचंहुमि ति मुद्रेयंकरद्वयेनापिभवतीत्यग्रेगौतमीयवचनेज्ञा पृ० १३ब) नार्णवीयवचनेचस्फुटीभविष्यति ७ मिलितामि थोभिवदनाऽनामास्वल्पाप्रदेशिनीमध्या गोमुद्रेयं कथितावरुणेनतयामृतीकुर्यात् वरुणेनवरुणबी जेनवंइत्यनेन ८ ग्रथितांगुष्टौचमिथःप्रसारिताःस्युः परांगुल्यः परमीकुर्यादनयाकथिताकविभिर्महामु द्रा ९ गौतमीये दशमाध्याये० ऊर्द्ध्वांजलिमधःकुर्या दियमावहनीभवेत् १ सेयंतुविपरीतास्यान्मुद्रास्थाप पृ० १४अ) नकर्मणि विपरीतेत्यधोमुखीत्यर्थः २ बाह्यांगुष्टद्वये मुष्टीमुद्रास्यात्सन्निधापनी ३ अंगुष्टगर्भिणीसैवमुद्रा स्यात्सन्निरोधनी ४ उत्तानमुष्टियुगलासन्मुखीकरणी मता ५ अन्योन्यंतर्जनीयुग्मभ्रमणादवगुंठनी ६ अ न्योन्यमिति अन्योन्याभिमुखगमनपूर्वकमित्यर्थः तथाचदक्षिणतर्जन्यादक्षिणावर्तेन वामतर्जन्यावा मावर्तेनभ्रमणादवगुंठनीमुद्राभवतीतिफलितार्थः पृ० १४ब) तत्रैव अंगुलीःसहिताःकृत्वाकरयोर्वामदक्षयोः दक्षा नामासमायुक्तावामहस्तकनिष्टिका वामानामासमायु क्तादक्षपाणिकनिष्टिका दक्षस्यमध्यमाक्रांतावामहस्तस्य तर्जनी वाममध्यमयाक्रांतादक्षहस्तस्यतर्जनी संयुक्तौका रयेद्विद्वानंगुष्टावुभयोरपि धेनुमुद्रानिगदितागोपितासा धकोत्तमैः ७ ज्ञानार्णवेचतुर्थपटले० आवाहन्यादिमुद्रा स्तुकथयामितवानघे ऊर्द्ध्वांजलिमधःकुर्यादियमावाह पृ० १५अ) नीभवेत् अत्रांजलिपदमनामामूलपर्वणोरंगुष्टाग्नद्व यसंयोगयुक्तांजलिपरं तंत्रसारधृतवक्ष्यमाणतंत्रांतरव चनैकवाक्यत्वात् एवंपूर्वोक्तवचनयोरपिबोध्यं इयंतु विपरीतास्यात्तदावैस्थापनीभवेत् मिलितमुष्टियुगलं सन्निधायनरूपिणी ३ अंतरांगुष्टमुष्टिभ्यांसन्निरोधन रूपिणी अत्रांतरांगुष्टेत्युपादानाद्वचनांतरैकवाक्यत्वाच्च पूर्वमुद्रायांमुष्टियुगलस्यवाह्यांगुष्टत्वमवगम्यतित्य पृ० १५ब) वधेय ४ एतस्याएवमुद्रायास्तर्जन्यौसरलेयदा अवगुंठ नमुद्रेयंसर्वकार्यानुसाधनी तर्जन्यौसरलेइतिकृत्वाऽभि तोभ्राम्यतेइतिशेषोवचनांतरैकवाक्याचात् ५ अंगमंत्रा न्न्यसेद्देविदेव्यंगेसाधकोत्तमः सकलीकरणंनाममुद्रेयं व्याप्तिरूपिणी देव्यंगेइतिअत्रदेवीपदमुपलक्षणं ६ क रावेकत्रसंयोज्यारात्रिकविधौप्रिये परमीकरणंनामं मुद्रेयंतुततःपरं आरात्रिकमिवेतित्रिकोणवदित्यर्थः आ पृ० १६अ) रात्रिकविधावितिपाठेतुत्रिकोणाकारावित्यर्थः ७ प रिवृत्त्यकरौपश्चात्तर्जनीमध्यमेयुते कनिष्टानामिकांगु ष्टंपरस्परयुतंकुरु धेनुमुद्रेयमाख्यातामृतीकरणंभ वेत् ८ तंत्रसारे० हस्ताभ्यामंजलिंबध्वानामिकामूलप र्वणोः अंगुष्टौनिक्षिपेत्सेयंमुद्रात्वावाहनीस्मृता १ अधोमुखीत्वियंचेत्स्यात्स्थापनीमुद्रिकास्मृता २ उ च्छ्रितांगुष्टमुष्ट्योस्तुसंयोगात्सन्निधापनी ३ अंतःप्रवे पृ० १६ब) शितांगुष्टासैवसंरोधनीमता ४ उत्तानमुष्टियुगलासन्मु खीकरणेस्मृता ५ देवतानांषडंगानांन्यासःस्यात्सक लीकृतिः ६ सव्यहस्तकृतामुष्टीदीर्घाधोमुखतर्जनी अ वगुंठनमुद्रेयमभितोभ्रामितामता ७ अन्योन्याभिमुखा श्लिष्टाकनिष्टानामिकापुनः तथैवतर्जनीमध्याधेनुमु द्राप्रकीर्तिता अमृतीकरणंकुर्यात्तयासाधकसत्तमः ८ अ न्योन्यग्रथितांगुष्टौप्रसारितपरांगुलीः महामुद्रेयमुदिता पृ० १७अ) परमीकरणेबुधैः ९ प्रयोजयेदिमामुद्रादेवताह्वानक र्मणि २३ लेलिहानाममुद्रातुजीवन्यासेप्रकीर्तिताः उच्यतेलक्षणंतस्यायदुक्तंमंत्रदर्पणे स्युरधोवक्त्राःसु समामध्यानामाप्रदेशिन्यः स्वल्पांसरलांकुर्यात्क्षिप्त्वा वृद्धामनामायां जीवन्यासेविहितासंप्रोक्तालेलिहामु द्रा स्वल्पांकनिष्टां तंत्रसारे तर्जनीमध्यमानामाःस माःकुर्यादधोमुखाः अनामायांक्षिपेद्वृद्धामृज्ज्वीकृत्वा पृ० १७ब) कनिष्टिकां लेलिहानाममुद्रेयंजीवन्यासेप्रकीर्तिता २४ अथगंधादिमुद्राः तंत्रसारे तंत्रांतरे० मध्यमानामिकांगु ष्टैरंगुल्यग्रेणपार्वति दद्याच्चविमलंगंधंमूलमंत्रेणसाध कः १ अंगुष्टतर्जनीभ्यांचपुष्पंचक्रेनिवेदयेत् २ यथागंधंत थादेविधूपंदद्याद्विचक्षणैः मध्यमानामिकाभ्यांतुमध्यप र्वणिदेशिकः अंगुष्टाग्रेणदेवेशिधृत्वाधूपंनिवेदयेत् उत्तो लनंनिधाकृत्वागायत्र्यामूलयोगतः ३ तत्वाशुमुद्रयादे पृ० १८अ) विनैवेद्यंविनिवेदयेत् ४ मूलेनाचमनंदद्यात्तांबूलंत त्त्वमुद्रया ५ पुष्पदानमुद्राज्ञानार्णवेपित्रयोदशपटले पुष्पंसमर्पयेद्देविमुद्रयाज्ञानसंज्ञया अंगुष्टतर्जनीयो गात्ज्ञानमुद्राप्रकीर्तिता २९ प्राणादिमुद्रानैवेद्यंदत्त्वा संदर्शयेत्सुधीः तासांस्वरूपंयथा कनिष्टानामिकेअं गुष्टेनस्पृशेदितिप्राणमुद्रा १ अनामामध्यमेअंगुष्टेन स्पृशेदित्यऽपानमुद्रा २ मध्यमातध्यमातर्जन्यावंगु पृ० १८ब) ष्टेनस्पृशेदितिव्यानमुद्रा ३ तर्जनीमध्यमानामांगु ष्टेनस्पृशेदित्युदानमुद्रा ४ तर्जन्याद्यंगुलिचतुष्टयमंगु ष्टेस्पृशेदितिसमानमुद्रा ५ तथाचमंत्रदर्पणेकालीपू जाप्रकरणे अंगुष्टेनकनिष्टादिपूर्वपूर्ववियोगतः अ नुलोमेनयुगशोविलोमात्त्रिचतुःस्पृशेत् बालाविला सतंत्रेपि कनिष्टानामिकेऽनामामध्येमध्यांसतर्जनीं तर्जन्यादित्रयंतुर्यमंगुष्टेनस्पृशेत्क्रमात् प्राणापानव्या पृ० १९अ) नोदानसमानास्तेद्विठांतिमाः ताराद्याःप्राणादिमंत्रा मुद्राःपूर्वतःप्रिये ओंप्राणाथस्वाहेत्यादयःप्राणादिमं त्राःकनिष्टानामिकेइत्यादिनाक्रमादित्यंतेनोक्ताःप्राणा दिमुद्राइत्यर्थः पूर्ववदेवप्राणमुद्रा १ अथवा मध्यमा तर्जन्यावंगुष्टेनस्पृशेदित्यपानमुद्रा २ अनामामध्यमे अंगुष्टेनस्पृशेदितिव्यानमुद्रा ३ उदानमुद्रासमानमुद्रा पिचपूर्ववत् ४ तथाचमंत्रचिंतामणौ कनिष्टानामि पृ० १९ब) केमध्यातर्जन्यौवृद्धयास्पृशेत् अनामामध्यमेतिस्र स्तर्जन्याद्याश्चतसृकाः इतिप्राणादिमुद्रावास्वतंत्रातं त्रसंमताः तर्जन्याद्याइतिकाकाक्षिन्यायेनोभयत्रसंब ध्यतेचतसृकाइति ऋकारयुक्तपूर्वस्यापिक्वचिद्गुरुत्वा न्नात्रछंदोभंगः यथा कस्त्वंखर्वद्विजोहंकुतिहनृपते र्दक्षिणार्थीमखेस्मिन्स्वर्णंगांचगृहाणत्रिपदपरिमि तांभूमिमभ्यर्थयामि तुभ्यंदत्तेतियावद्वदतिबलिरसौ पृ० २०अ) तावदेवत्रिपादैस्त्रैलोक्याक्रांतमूर्तिःप्रहसितवदनो वामनःपातुयुष्मान् क्रमदीपिकायांच स्पृशेत्कनि ष्टोपकनिष्टिकेद्वेस्वांगुष्टमूर्द्ध्वाप्रथमेहमुद्रा १ तथाप रातर्जनिमध्यमेस्यात् २ अनामिकामध्यमिकेचम ध्या ३ अनामिकातर्जनिमध्यमाःस्या ४ त्तद्वच्चतुर्थी सकनिष्टिकाऽस्ताःस्यात्पंचमीतद्वदितिप्रदिष्टाः ५ प्राणादिमुद्रानिजमंत्रयुक्ताः प्राणापानव्यानोदान पृ० २०ब) समानाःक्रमाच्चतुर्थ्यायुक्ताः ताराधाराःबध्वाचेद्वाः कृष्णाध्वनस्तेमनवः ताराधाराःप्रणवाद्याःकृष्णाध्वनो ऽग्नेर्वध्वास्वाहयाइद्धाःशोभिता अंतेदितिशेषः तथाच ओंप्राणायस्वाहा इत्यादयःपंचप्राणादिमंत्रास्नानुच्चरन् क्रमेणप्राणादिमुद्रादर्शयेदितियामलेग्रासमुद्राप्युक्ता अंगुल्यःकुटिलीभूताविरलाग्नाःपरस्परं ग्रासमुद्रास माख्यातासव्यपाणौनियोजिता प्राणोऽपानस्तृतीय पृ० २१अ) स्तुव्यानश्चोदानयेवच समानःपंचमेज्ञेयःप्राणाः पंचसमीरणाः अंगुष्टेनसमायुक्ताकनिष्टानामि कातथा प्राणमुद्रासमाख्याताप्राणाहवनकर्मणि १ तर्जनीमध्यमांगुष्टैस्त्रिभिरेकीकृतंयदि स्यादऽपा नहुतौमुद्रा २ तथानामिकमध्यमा अंगुष्टेनसमायु क्तानियुक्ताव्यानहोमके ३ निष्कनिष्टेनयामुद्रासोदा नहवनेस्मृता ४ सर्वाभिःसंस्मृतामुद्रासमानाहुति पृ० २१ब) कर्मणि ५ एतानिवचनानिचतुर्दशोल्लासेशाक्तानंद तरंगिणिकारधृतानि रामकिशोररचितेग्रंथेमुद्राप्र काशाख्ये इतिसाधारणमुद्रानिर्णयादिपरिच्छेदः १ शिवविष्णुदिनेशानांगणेशांविकयोरपि कथ्यंतेमुद्रि कास्तत्रदशमुद्राःशिवस्यतु लिंगयोनिंत्रिशूलाख्यामा लेष्टाभीमृगाह्वया खड्गंगाख्याकपालाख्या तथाडम रुनामिका अथैतासांलक्षणानिनिगद्यंतेक्रमेणहि | पृ० २२अ) मंत्रदर्पणे उच्छ्रितदक्षांगुष्टंवामांगुष्टेनबंधयेद्वी मान् वामांगुलीश्चपश्चाद्दक्षाभिर्बंधयेद्भवेल्लिंग १ दक्षाभिरंगुलीभिःलिंगमितिलिंगमुद्रेत्यर्थः सन्मु खौतुकरौकृत्वामध्यमापृष्टसंस्थिते वक्राभ्यांतर्ज नीभ्यांतुनिबध्नीयादनामिके कनिष्टेद्विनियुंजीत मध्यमाक्रोडदेशके कनिष्टेयोरग्नसंस्थावंगुष्टौयो निरीरिता २ तिस्रःप्रसारयेच्चेदंगुष्टेनचकनिष्टिकां पृ० २२ब) बध्वा एषात्रिशूलमुद्रादक्षिणहस्तस्थिताकथिता ३ तर्जन्यंगुष्टाग्रेग्रथितेकृत्वाप्रसारयेदपराः तिस्रोंगुली श्चमिलिताःकविभिःकथिताक्षमालेयं ४ कुरुवरदाभ यमुद्रेवरदाभयवत्करौकृत्वा सरलाःसकलांगुल्यौंगु ष्टंनिक्षिप्यतर्जनीमूले ६ मध्यनामाशिरसिवृद्धाशिर वरंनियुंजीत एषामृगमुद्रास्यादवशिष्टेसमुच्छ्रितेकु र्यात् ७ दक्षिणपंचांगुलयोमिलितार्द्धसमुन्नताःकार्याः पृ० २३अ) खट्वांगाख्यामुद्राप्रियकृत्प्रोक्ताशिवस्यापि ८ पात्र मिववामहस्तंकृत्वांगेवामकेन्यस्य कुर्यादुच्छ्रितवच्चे त्कपालमुद्राभवेदेषा ९ दक्षिणमुष्टिंशिथिलांकृत्वा किंचित्समुच्छ्रितां संचालयेच्चकर्णेप्रभवतिखलुडम रुमुद्रेयं १० तंत्रसारे उच्छितंदक्षिणांगुष्टंवामांगुष्टेनबं धयेत् वामांगुलीर्दक्षिणाभिरंगुलीभिश्चबंधयेत् लिं गमुद्रेयमाख्याताशिवसान्निध्यकारिणी १ मिथःक पृ० २३ब) निष्टिकेबध्वातर्जनीभ्यामनामिके अनामिकोर्ध्वसंश्लि ष्टदीर्घमध्यमयोरधः अंगुष्टाग्रद्वयंन्यस्येद्योनिमुद्रेयमी रिता २ अंगुष्टेनकनिष्टांतुबध्वाश्लिष्टांगुलित्रयं प्रसारये त्त्रिशूलाख्यामुद्रैषापरिकीर्तिता ३ अंगुष्टतर्जन्यग्रेतुग्रंथि यित्वांगुलित्रयं प्रसारयेदक्षमालांमुद्रेयंपरिकीर्तिता ४ अधःस्थितोदक्षहस्तःप्रसृतोवरमुद्रिका ५ ऊर्द्धोकृत्वावा महस्तःप्रसृतोभयमुद्रिका ६ प्रसृतोनिकुब्जःपाणिर्नि पृ० २४अ) कुब्जःप्रसृतित्यमरः मिलितानामिकांगुष्टंमध्यमाग्रे नियोजयेत् श्लिष्टांगुल्युच्छ्रितेकुर्यान्मृगमुद्रेयमीरि ता श्लिष्टांगुल्युच्छ्रितेइतिनात्रप्रकृतिछांदसत्वात् ७ पंचांगुल्योदक्षिणास्तुमिलिताह्यर्द्धमुन्नताः खट्वांगमु द्राविख्यातादेवस्यातिप्रियामता देवस्यशिवस्य ८ पात्र वद्वामहस्तंतुकृत्वांगेवामकेतथा निधायोच्छ्रितवत्कु र्यान्मुद्राकापालिकीमता ९ मुष्टिंचशिथिलांबध्वाई पृ० २४ब) षदुच्छ्रितमध्यमां दक्षिणांतूर्ध्वमुत्तम्यकर्णदेशेप्रचाल येत् एषामुद्राडमरुकासर्वविघ्नविनाशिनी १० एतानिव चनानितंत्रसारकारधृतानिध्यानात्पूर्वमिमांमुद्राःपूजां तेवाप्रदर्शयेत् बोद्धव्यमेवमन्यासुदेवतास्वपिसाधकैः तथाचमंत्रदर्पणे मुद्राःसंदर्श्यदिग्बंधंकृत्वाध्यायेज्जग त्प्रभुं इति तंत्रसारकारेणापिसामान्यपूजापद्धतौन्यास जालमुक्त्वा ततस्तत्तत्कल्पोक्तमुद्राःप्रदर्श्य ध्यानंकृत्वा पृ० २५अ) मानसैःसंपूज्य शंखस्थापनंकुर्यादित्युक्तं सनत्कुमार तंत्रेपि० पीठस्यार्चनमंगदेवयजनंप्राणप्रतिष्टांतता ह्वानंनिजमुद्रिकाविरचनंध्यानंप्रभोःपूजनमिति पंचा यतनदीक्षाप्रकरणे तंत्रसारकारधृतमेतत् ज्ञानार्णवे पिद्वादशपटले न्यासजालमुक्त्वाप्राणानायम्य विधि वन्मुद्रासन्नद्धविग्रहित्यभिधाय क्षोभनद्रावणाकर्ष वश्योन्मादमहाकुशाः खेचरीबीजयोन्याख्यानवमुद्रा पृ० २५ब) स्त्वनुक्रमात् इत्युपक्रम्यतत्तन्मुद्राउक्त्वा एवंविन्यस्यदेहः सन्मुद्रासन्नद्धविग्रहः अंतर्यागविधिंकुर्यात्तेनसाक्षात्स्व यंविभुरित्यभिधायद्वादशपटलंसमाप्य त्रयोदशपटले ध्यानमुक्त्वाऽतर्यागविधिरुक्तः पूजांतेमुद्राप्रदर्शनापि तत्रैवोक्ता तथाच सर्वोपचारैराराध्यमुद्रासंदर्शयेत्क्रमा त् इति गौतमीयेदशमाध्यायेपूजांते नवीननीरदस्या मंनीलेंदीवरलोचनं वल्लवीनंदनंवंदेकृष्णंगोपालरूपि पृ० २६अ) णमित्यादिस्तुतिमुक्त्वा ततोमुद्राःप्रदर्श्याथअग्निसंस्का रमाचरेदित्युक्तं एकत्रनिर्णीतःशास्त्रार्थितिन्यायेनव्य वस्थायाः साधारणतबोध्येति द्विजातिनारामकिशोर नाम्नामुद्राप्रकाशेरचितेद्वितीये अयंपरिच्छेदुमेश मुद्राविनिर्णयोनामगतःसमाप्तिं २ संसारसिंधुंतरि तुंसुखेनसंचिंत्यमानंसततंयतींद्रैः सुरावलीवंद्यप दारविंदंसदामुकुंदंसुजनाभजध्वं एकोनविंशतिर्मुद्रा पृ० २६ब) विष्णुरुक्तामनीषिभिः शंखचक्रगदापद्मवेणुश्रीवत्स कौस्तुभावनमालातथाज्ञानमुद्राबिल्वाहुयातथा ग रुडाख्यापरामुद्राविष्णोःसंतोषवर्द्धिनी नारसिंहीचवा राहीहयग्रीवीधनुस्तथा बाणमुद्राचपरशुर्जगन्मोहि निकापरा काममुद्रेत्यमूषांतुकथ्यंतेलक्षणानिहि मं त्रदर्पणे शंखरथ्यंगगदाद्याविष्णोरेकोनविंशतिर्मुद्राः वामांगुष्टंधृत्वादक्षिणमुष्ट्याप्रसारयेद्धृद्धां कृत्वोभांतमु पृ० २७अ) ष्टिंवामांगुल्यःप्रसारिताःश्लिष्टः दक्षांगुष्टःस्पृष्टाःकार्ययाः स्याच्छंखमुद्रैषा १ चेदंगुष्टकनिष्टेलग्नेभुग्नेप्रसारितेकु र्यात् संमुखहस्तौकृत्वास्यादेषाचक्रमुद्रेषा २ हस्तौमि थोभिवदनौकुर्याग्रथितांगुलीर्भूयः गदितैवगदामुद्रा संलग्नेसुप्रसारितेमध्ये ३ एषातुपद्ममुद्राहस्तौचेत्सं मुखौकृत्वा तलसंमिलितांगुष्टावंगुल्यःसन्नतोन्नताः कार्याः ४ ओष्टेलग्नोंगुष्टोवामस्यकनिष्टिकातस्य दक्षां पृ० २७ब) गुष्टपृष्टेतस्यचसरलाकनिष्टिकाकार्या शिष्टास्तिस्रो मतिमान्किंचित्संकोच्यचालवेद्वेणुः दक्षांगुष्टपृष्ट ऋइतिचाकारयुक्तः पूर्वस्यापिक्वचिद्गुरुत्वान्नात्रछंदोभं गः शिष्टास्तर्जनीमध्यमानामाः वेणुरितिवेणुमुद्रेत्य र्थः पृष्टेपृष्टंदत्वाप्राक्तर्जन्यौकनिष्टयाबध्वा मध्याना मेचमिथोप्यंगुष्टेनतुनिबध्नीयात् विप्रविरचनमस्यागु रुनाज्ञेयंश्रीवत्समुद्रायाः ६ दक्षिणकनिष्टिकांचेदना पृ० २८अ) मिकापृष्टसंलग्नांवामस्यकनिष्टिकयाबध्वाऽनामां चतर्जन्या दक्षस्यांगुष्टाघ्नौमध्यांगुष्टौपरासरलाः कौ स्तुभमुद्राकथिताशिखरविलग्नाश्चतस्रोपि वामस्ये तित्रिश्रंन्वितंदक्षस्येतिद्वयोरितिबोध्यं ७ कंठादिक पादांतंतर्जन्यंगुष्टयोगेन वनमालामुद्रास्यात्करयोः स्रग्वच्चसंस्पर्शात् ८ तर्जन्यंगुष्टाग्रेमिलितेहृदयेन्यसे द्विधिना वामेजानुनिवामंहस्तंज्ञानाभिधामुद्रा ९ पृ० २८ब) वामांगुष्टोर्द्ध्वाग्रं दक्षांगुष्टेनसंगृह्य शिष्टाभिस्तुतदग्रंता अपिवामांगुलीभिश्च बध्वागाढंस्मारस्मृत्वासंस्थापये द्धृदये वैष्णवनिर्मलवुद्धेगोप्येयंविल्वमुद्रास्यात् स्मारं कामबीजं १० हस्तौविमुखौकृत्वा तर्जन्यौद्वेकनिष्टिकेग्र थिते अंगुष्टौचश्लिष्टौमध्यमानामेतथापक्षौ द्वौचालये च्चविधिनागारुडमुद्रावुधैरुक्ता ११ जान्वंतरालहस्तौभू संलग्नौविधायमुहुः कंपितास्यंविवृतंचिवुकोष्टौच पृ० २९अ) समावृतौकुर्यात् संलेलिहानकश्चिज्जिह्वांमुद्रानृसिं हाख्या अंगुष्टाभ्यामथवाकनिष्टिकेद्वेसमाक्रम्य कर योस्त्वधोमुखीभिःसर्वाभिर्नरहरेर्मुद्रा १२ देवस्योपरिवा मंकृत्वोतानंत्वधःकरंनमयेत् वाराहीयंमुद्रातांतस्मैदर्श येन्मंत्री ऊर्द्ध्वाधोमुखहस्तौदक्षिणवामौक्रमेणैव अंगुल्य ग्रंयुक्तंवाराहीवास्मृतामुद्रा १३ वामेहस्ततलेतादक्षां गुल्यस्त्वधोमुखारोप्याः तुरगग्रीवातासामुन्नम्याधो पृ० २९ब) विकुंचयेन्मध्या १४ अंगुष्टेनतुबध्वावामानामाकनि ष्टिकेयोज्ये मध्यातर्जन्यग्रेवामस्कंधेप्रदर्शयेच्चापं योज्ये इति मध्यमातर्जन्यग्रयोर्विशेषणं चापमितिधनुर्मुद्रेत्य र्थः १५ मुष्टिंबध्वादक्षहस्तेनवृद्धांमध्यातर्जन्यंतरालेनि योज्य दीर्घांकृत्वाकृष्यकर्णंस्पृशेत्स्याच्छक्तेर्विष्णोश्चा पिवाणाख्यमुद्रा शरमुद्रावाप्रोक्तादक्षिणमुष्टेस्तुतर्ज नीसरला १६ करयोस्तलेतलंचेतिर्यक्संयोज्यचांगुलीः पृ० ३०अ) प्रसृताः कुर्याच्चसंहतास्ताःसंप्रोक्तापरशुमुद्रेयं १७ ऊर्ध्वागुष्टद्वितयंमुष्टिद्वितयमितिमोहनीजगतां १८ कृत्वापुटितौहस्तौप्रसृतांगुलिकौचतर्जन्यौ मध्यापृष्टें ऽगुष्टौमध्याक्रोडेस्थितौकामः कामितिकाममुद्रेत्यर्थः १९ तंत्रांतरे० वामांगुष्टंतुसंगृह्यदक्षिणेनतुमुष्टिना कृत्वोतानंततोमुष्टिमंगुष्टंतुप्रसारयेत् वामांगुल्यस्त थाश्लिष्टाःसंयुक्तासुप्रसारिताः दक्षिणांगुष्टसंस्पृष्टा पृ० ३०ब) णांगुष्टमूलके अंगुष्टमध्यमेवामेसंयोज्यसरलाःपराः चतस्रोप्यग्नसंलग्नामुद्राकौस्तुभसंज्ञिका ७ स्पृशेत्कं ठादिपादांतंतर्जन्यांगुष्टयातथा करद्वयेनमालावन्मु द्रेयंवनमालिका तर्जन्यंगुष्टकौसक्तावग्रतोविन्यसेद्धृदि वामांहस्तंबुजंवामजानुमूर्द्धनिविन्यसेत् ज्ञानमुद्राभ वेदेवारामचंद्रस्यप्रेयसी ९ अंगुष्टंवाममुद्दंडितमितरक रांगुष्टकेनापिबध्वातस्याग्रंपीडयित्वां गुलिभिरपिचता पृ० ३२अ) वामहस्तांगुलीभिः बद्ध्वांगाढंहृदिस्थापयतुविमलधी र्व्याहरन्मारबीजंबिल्वाख्यामुद्रिकैषास्फुटमिहगदितागो पनीयाविधिज्ञैः १० इतरकरांगुष्टकेनदक्षिणहस्तांगुष्टे नतस्यदक्षिणहस्तांगुष्टस्य अंगुलीभिर्दक्षिणहस्तांगु लिभिः तादक्षिणहस्तागुलीःमारबीजंकामबीजंहस्तौ विमुखौकृत्वाग्रथयित्वाकनिष्टिके मिथस्तर्जनिकेश्लिष्टे श्लिष्टावंगुष्टकौतथा मध्यमानामिकेतुद्वौपक्षाविववि पृ० ३२ब) चालयेत् एषागरुडमुद्रास्याद्विष्णोःसंतोषवर्द्धिनी ११ जानुमध्येकरौकृत्वाचिबुकोष्टौसमावृतौ हस्तौतुभूमिसं लग्नौकंपमानःपुनःपुनः मुखंनिवृत्तकंकुर्याल्लेलिहानं चजिह्विकां नारसिंहीभवेदेषामुद्रातत्प्रतिवर्द्धिनी १२ प्रका रांतरं अंगुष्टाभ्यांतुकरयोस्तथाक्रम्यकनिष्टिके अधोमुखी भिःसर्वाभिर्मुद्रेयंनृहरेर्मता १३ देवोपरिकरंवामंकृत्वोत्तान मधःसुधीः नमयेदितिसंप्रोक्तामुद्रावाराहसंज्ञिका प्रका पृ० ३३अ) रांतरं दक्षहस्तंचोर्द्ध्वसुखंवामहस्तमधोमुखं अंगुल्यग्रं तुसंयुक्तंमुदावाराहसंज्ञिका १४ वामहस्ततलेदक्षांगु लीस्तास्त्वधोमुखीः संरोप्यमध्यमांतासान्नम्याधोविकुंच येत् हयग्रीवप्रियाचैषातन्मूर्तेरनुकारिणी १५ वामस्यम ध्यमाग्रंतुतर्जन्यग्रेणयोजयेत् अनामिकांकनिष्टांचतस्यां गुष्टेनपीडयेत् दर्शयेद्वामकेस्कंधेधनुर्मुद्रेयमीरिता १५ द क्षमुष्टेस्तुतर्जन्यादीर्घयाबाणमुद्रिका १६ यद्वा ज्ञानार्ण पृ० ३३अ) वे यथाहस्तगतंचापंतथाहस्तंकुरुप्रिये चापमुद्रेय माख्यातावामहस्तेव्यवस्थिता यथाहस्तगताबाणास्त थाहस्तंकुरुप्रिये बाणमुद्रेयमाख्यातारिपुवर्गनिकृंत नी १६ तलेतलंतुकरयोस्तिर्यक्संयोज्यचांगुलीः संह ताःप्रसृताःकुर्यान्मुद्रापरशुसंज्ञिका १७ उच्छ्रितांगुष्ट मुष्टीद्वेमुद्रात्रैलोक्यमोहिनी १८ हस्तौतुसंपुटौकृत्वाप्र सृतांगुलिकौतथा तर्जन्यौमध्यमापृष्टेअंगुष्टौमध्यमा पृ० ३४अ) श्रितौ काममुद्रियमुदितासर्वदेवप्रियंकरी १९ एता निवचनानितंत्रसारकारधृतानि श्रीगोपालार्चने वेणुर्नृहरेर्नारसिंहिका वाराहस्यचपूजायांवाराहाख्यां प्रयोजयेत् हयग्रीवार्चनेमुद्रांहायग्रीवींप्रदर्शयेत् रा मार्चनेधनुर्वाणमुद्रेपरशुसंज्ञिका जगन्मोहनसंज्ञा चपरशुरामस्यपूजने द्विजातिनारामकिशोरनाम्ना मुद्राप्रकाशेरचितेप्रयत्नात् अयंपरिच्छेदुपेंद्रमुद्रा पृ० ३४ब) विनिर्णयोनामगतस्तृतीयः ३ धीराभजतदिनेशं करुणासिंधुंत्रिलोकीशं भजनाद्यस्याघौघनश्यंत्युद यातमांसीव सूर्यस्यैकैवपद्मातल्लक्षणंतुकीर्तितं इति सूर्यस्यसंतोनमत्तगणेशंगीर्वाणाः यंनमंतिशक्राद्याः विघ्नाविलयंयस्यस्मरणेनापिव्रजंत्याशु सप्तमुद्राग णेशस्यदंतपाशांकुशाह्वयाः विघ्नपरशुसंज्ञेचतथाल डुकसंज्ञिका बीजपुराह्वयाचासामुच्यंतेलक्षणानिच पृ० ३५अ) मंत्रदर्पणे दक्षोत्तानामुष्टिःप्रोर्ध्वाग्रांमध्यमासर ला कार्यागणेशमुद्धारदमुदेयंसमाख्याता १ मु ष्टिद्वितयंकृत्वासंयोज्यचवामतर्जन्या दक्षिणतर्ज निकांचेदंगुष्टाग्रेतदग्रयोःपाशः चेद्यदिअंगुष्टाग्र द्वयंतर्जन्यग्रयोःक्षिपेत्पाशः पाशमुद्रेत्यर्थः २ कृ त्वासरलांमध्यांमध्येपर्वणितुतर्जनीयोज्या आकुं चयेच्चकिंचित्स्यादंकुशमुद्रिकारम्या ३ रदमुद्राधो पृ० ३५ब) वक्त्रांविघ्नाख्यासैवसंप्रोक्ता ४ परशुमुद्राकथिता लड्डुकदाडिममुद्रेतादृशहस्तंप्रकुर्वीत तंत्रसारे उत्ता नोर्द्ध्वमुखीमध्यासरलाबद्धमुष्टिका दंतमुद्रासमाख्या तासर्वांगमविशारदैः १ वाममुष्टेस्तुतर्जन्यांदक्षमुष्टे स्तुतर्जनीं संयोज्यांगुष्टकाग्राभ्यांतर्जन्यग्रेस्वकेक्षिपेत् एषापाशाह्वयामुद्राविद्वद्भिःपरिकीर्तिता २ ऋज्वींच मध्यमांकृत्वातर्जनीम्मध्यपर्वणी संयोज्याकुंचये पृ० ३६अ) त्किंचिन्मुद्रैषांकुशसंज्ञिका तर्जनीमध्यमानामा कनिष्टांगुष्टमुष्टिका अधोमुखीदीर्घरूपामध्यमा विघ्नमुद्रिका ४ परशुमुद्रानिगदिताप्रसिद्धालड्डु मुद्रिका बीजपूराह्वयामुद्राप्रसिद्धत्वादुपेक्षिता द्विजातिनारामकिशोरनाम्नामुद्राप्रकाशेरचिते प्रयत्नात् अयंपरिच्छेदिभास्यमुद्राविनिर्णयो नामगतश्चतुर्थः ४ वांछतिसुरगणपूज्यपदा पृ० ३६ब) याःकरुणालोकंगिरिवरजायाः रामकिशोरोभी तोदीनश्चरणेपतितोभजनविहीनः पाशांकुशवरा भीतिखड्गचर्मधनुःशराः मौशलीचतथादौर्गीमहा योनिरिमाःप्रिया शक्तेर्मुद्राथैतासामुच्यंतेलक्ष णानिच पाशांकुशवराभीतिधनुर्बाणाःसमीरिताः खड्गमुद्रालक्षणं मंत्रदर्पणे बध्वास्वल्पानामेदक्षां गुष्टेनयदिकुर्यात्स्यादसिमुद्रासरलेसंस्पृष्टेतर्ज पृ० ३७अ) नीमध्ये तंत्रांतरेपि कनिष्टानामिकेबध्यांगुष्टेनै वदक्षतः शेषांगुलीतुप्रसृतेसंपृष्टेखड्गमुद्रिका अथचर्ममुद्रालक्षणं मंत्रदर्पणे वामंहस्तंतद्वत्ति र्यक्कृत्वाप्रसायेत्पश्चात् आकुंचितांगुलिंचेत्कु र्यादितिचर्ममुद्रास्यात् तंत्रांतरेपि वामंहस्तंतथाति र्यक्कृत्वाचैवप्रसार्यच आकुंचितांगुलिंकुर्याच्चर्म मुद्रेयमीरिता मुशलमुद्रादुर्गामुद्रयाश्चलक्षणं पृ० ३७ब) यथामंत्रदर्पणे उपर्यधोदक्षिणवाममुष्टीकुर्यात्त दास्यान्मुशलाख्यमुद्रा शिरःस्थिताचेदियमेवदौ र्गीदुर्गाप्रियाविघ्नविनाशिकाद्या आद्यामुशलमुद्रा तंत्रसारे मुष्टिंकृत्वातुहस्ताभ्यांवामस्योपरिदक्षिणं कुर्यात्मुशलमुद्रेयंसर्वविघ्नविनाशिनी मुष्टिंकृत्वा कराभ्यांचवामस्योपरिदक्षिणं कृत्वाशिरसिसंयोज्य दौर्गीमुद्रेयमीरिता अथमहायोनिमुद्रालक्षणं मं पृ० ३८अ) त्रदर्पणे कृत्वाहस्तौसंमुखौतर्जनीभ्यांबध्वानामेमध्यमा पृष्टसंस्थे दीर्घेमध्येक्रोडसंस्थेकनिष्टेयोनिःप्रोक्तांगुष्ट कौचेत्तदग्रे दीर्घेमध्यमेकनिष्टेचक्रोडसंस्थेमध्यमाक्रो डसंस्थे तदग्रेकनिष्टयोरग्रद्वये मूलेंगुष्टौचतयोर्भवति हियोनिर्महायोनिः तस्यावक्रेमध्येसांगुष्टेभूतिनीसास्या त् तयोःकनिष्टयोःतदायोनिरेवमहायोनिःस्यात् तस्या योन्यावक्रेकुटुले सांगुष्टेअंगुष्टयुक्ते तंत्रसारे तर्जन्यना पृ० ३८ब) मिकमध्याकनिष्टाःक्रमयोगतः करयोर्योजयित्वाचक निष्टामूलदेशतः अंगुष्टाग्रेतुनिक्षिप्यमहायोनिःप्रकी र्तिताः करयोर्मिथस्तर्जनीभ्यामनामिकेयोज्ये मध्ययाम ध्यायोज्यामध्यम्याक्रोडसंस्थयोस्तादृशकनिष्टयोर्मूयद्यं गुष्टाग्रद्वयंनिक्षिप्यते तदामहायोनिर्भवतीत्यर्थः प्रका रांतरं मंत्रदर्पणे कृत्वाकरौचपुटितौस्वांगुष्टाग्रंकनीय सीमूले योनयपरयोनिःस्यान्मुद्राकालीप्रियंकरीख्या पृ० ३९अ) ख्याता तंत्रांतरेपि करौचसंपुटौकृत्वाकनिष्टामूलदे शतः अंगुष्टाग्रंयोजयित्वापरयोनिरितीरिता काली प्रियामुंडमुद्रातस्यालक्षणमुच्यते मंत्रदर्पणे मुष्टिंतु वामपाणेःकुर्यादभ्यंतरांगुष्टं दक्षस्यमध्यमाग्रंसंलं ब्धतयातर्जन्यां अंगुष्टाग्रंयोज्यं दक्षिणपाणिंचयोज येन्मुष्टौदर्शयदक्षिणभागेमस्तकमुद्रास्मृताकाल्याः तंत्रसारे अंतरांगुष्टमुष्टिंतुकृत्वावामकरस्यच मध्य ########### END OF FILE #######