#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00424 Uniform title: mukuṭāgama Secondary title: makuṭāgama Manuscript : IFP?EFEO paper transcript T00274 Description: Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### मकुटागमः तन्त्रावतार पटलः ६४८-६५८ स्नानाद्याचमनविधि पटलः ६५९-६६७ अर्चनाविधि पटलः ६६८-७४६ दीक्षाविधिः ७४७-७६५ उत्सवविधिः ७६६-७९० प्रायश्चित्तविधिः ७९१-८०७ फलपाकाविधिः ८०८-८१० कृत्तिकादीपविधिः ८११-८१२ स्नपनविधिः ८१३-८२२ प्रतिमालक्षणम् ८२२-८२५ पवित्रारोहणविधिः ८२६-८२९ प्राणायामविधिः ८३०-८३३ अचार्यलक्षणविधिः ८३४ प्रायश्चित्तविधिः ८३५-८३९ कानिकार्चनविधिः ८४०-८४८ भैरवपूजाविधिः ८४९-८५१ अन्त्येष्टिविधिः ८५२-८५६ ऊर्ध्वचक्रविधिः ८५७-८६६ अम्बाचक्रविधिः ८६७-८६९ प्द्f ४, प्. ६४८) मकुटागमः तन्त्रावतारपटलः || श्रीमन्महेन्द्रेजगतां नयनानन्दकानके | कल्पवृक्षशमीवृक्षेवटचंपकपिप्पलैः || १ || प्लक्षपुन्नागसहितैः चन्दनैः परिवासिते | महासदसिसौवर्णे सर्ववर्णपरिष्कृते || २ || सिंहासनं महारण्ये मण्डितैर्मङ्गलाश्रये | आसीनं परमेशानं अवाङ्मनसगोचरम् || ३ || अनादिमलनिर्मुक्तं देवदेवं महानिधिम् | सर्वविद्याविधातारं वामे गौरिसमायुतम् || ४ || ब्रह्मानारायणार्केन्दु मुनिगन्धर्वसेवितम् | सस्तूयमानं देवाद्यैः स्तोत्रमङ्गलवाचकैः || ५ || चन्द्रार्धशेखरेशानं प्रसन्नं परमेश्वरम् | महेश्वर प्रसन्नात्मा शिवज्ञानं जिघृल्लया || ६ || प्रणम्यसादरं भक्त्या प्राक्लोकहितं वचः | महेश्वर उवाच - देवदेव जगन्नाथ भक्तानामार्लिनाशनः || ७ || सृष्टिरक्षणसंहारविधानानुग्रहेश्वर | शैवान्तमार्णवान्तज्ञ ज्ञानरक्तप्रदर्शकः || ८ || अशूनां पाशविश्लेषविशारद कृपानन | भक्त्या च परयायुक्तपरसंवित्स्वरूपया || ९ || सर्वज्ञ सर्वकृत् शंभो सर्वात्मन् सर्वतोमुख | साधकानं हितं पुण्यं योगिनां मोक्षसाधनम् || १० || शिवज्ञानं परं शुद्धं वद मे परमेश्वर | एवं पृष्ठोमहेशेन भगवान् परमेश्वरः || ११ || प्द्f ५, प्. ६४९) सर्वलोकहितैषिण्यां प्राह गंभीरयागिरा | परमेश्वरः - वक्ष्ये संक्षेपमार्गेण यथाप्रश्नं तथेप्सितम् || १२ || महेश्वर महाभाग समाहितमनाः शृणु | शिवज्ञानं परं गुह्यं भोगमोक्षप्रदं शुभम् || १३ || सर्वपापहरं पुण्यं तन्त्रसादार्थबोधकम् | युक्तं शतसहस्रेण ग्रन्थे सर्वार्थसाधकम् || १४ || ऊर्ध्वशैवं महातन्त्रं मकुटाख्यं महेऽऽव्सर | तत् तु संक्षेपतस्तुभ्यं अधुना संप्रवक्ष्यते || १५ || अथ शैवं नवविधं संक्षेपेण क्रमाच्छृणु | ऊर्ध्वशैवं तु प्रथमं आदिशैवं द्वितीयकम् || १६ || अनादिशैवं तृतीयं अनुशैवं चतुर्थकम् | अवान्तरं पञ्चमं च मिश्रं चैव तु षष्ठकम् || १७ || सप्तमं भेदशैवं स्यात् अष्टमं गुणशैवकम् | आज्ञाशैवं तु नवमं शैवभेदक्रमं शृणु || १८ || शैवं पाशुपतं सोमं लाकुलं च चतुर्विधम् | तेषु श्रेष्ठतमं शैव मूर्ध्वस्रोतस्समुद्भवम् || १९ || ततस्तु द्विविधं शैवं सौम्यं रौद्रसिनिस्मृतम् | सौम्यं च द्विविधं प्रोक्तं दक्षिणं चैव मिश्रकम् || २० || आचारो वेदविदितो दक्षिणाचार उच्यते | विपरीतं तु वामं स्यात् द्वयोर्मिश्रं तु सङ्गमम् || २१ || वेदसारमिदं तन्त्रं तस्मात् वैदिकमाचरेत् | वेदान्तार्थमयं ज्ञानं सिद्धान्तं परमं शुभम् || २२ || प्द्f ६, प्. ६५०) ऊर्ध्वस्रोतोद्भवं श्रेष्ठं अष्टाविंशतितन्त्रकम् | वेदसारार्थदं ज्ञेयं अन्यत्वन्यार्थसाधनम् || २३ || तन्त्रादौ तन्त्रसद्भावो मूलभेदोपभेदयुक् | नामभिः कामिकादिस्तु वक्ष्यते क्रमशः शृणु || २४ || तनोति विपुलानर्थान् तत्वमन्त्रसमाश्रितान् | त्राणं च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् || २५ || कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा | दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सु प्रभेदकम् || २६ || विजयं चैव निश्वासं स्वायंभुवमयानलम् | वीरं च रौरवं चैव मकुटं विमलं तथा || २७ || चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा | सिद्धं सन्तानसंज्ञं च शर्वोक्तं पारमेश्वरम् || २८ || किरणं वातुलं चैव त्वष्टाविंशति संहिताः | एतेषु पूर्वदशकं शिवभेदं प्रकीर्तितम् || २९ || तथा पराष्टादशकं रुद्रभेदन्तु नामतः | शिवरुद्रात्मकं तन्त्रं अष्टाविंशतिसंख्यकम् || ३० || यद्यप्येकोद्भवो वक्ता श्रोतृभेदादनेकधा | अथ सिद्धान्ततन्त्राणां श्रोतारं तु विशेषतः || ३१ || प्रणवाद्या प्रकीर्त्यन्ते शृणुष्वेवं महेश्वर | श्रोतारश्शिवभेदानां पारंपर्यास्त्रयस्त्रयः || ३२ || द्वौ द्वौ तु रुद्रभेदानां प्रोक्ताःष्षष्टिषडुत्तराः | प्रणवस्त्रिकलास्त्र्यक्षः सुधाख्यो भस्मको विभुः || ३३ || प्द्f ७, प्. ६५१) सुदीप्तो गोपतिः पश्चात् अंबिका चैव कारणः | शर्वरुद्रः प्रजेशश्च सुभुः शिवशिवोऽच्युतः || ३४ || ईशस्त्रिमूर्तिनामा च हुताचं सूक्ष्मसंज्ञकः | ततो वै श्रवणश्चैव प्रभं च ज्ञाभिधायकः || ३५ || कालोभीमश्च धर्मश्च ततोग्रश्चाम्बुसंज्ञकः | रविर्विघ्नेश्वश्चैव दधीशः शिवनामकः || ३६ || त्रिंशत्संख्याक्रमाप्रोक्ताः शिवभेदाधिदेवताः | अनादिः परमेशश्च दशार्णो गिरिजा ततः || ३७ || निधनः पद्मसंभूतो व्योमनामाग्निसंज्ञकः | तेजः प्रजापतिश्चैव प्रमेणश्चेन नघ्नकः || ३८ || शिवश्चैव महादेवः सर्वात्मा वीरभद्रकः | अनन्तो बृहस्पतिश्चैव प्रशान्तश्चदधीचकः || ३९ || शूली च कवचः पश्चात् आलयो रुद्रभैरवः | बिन्दुः चण्डेश्वरश्चैव शिवनिष्ठो सवोप्लवः || ४० || सोमदेवो नृसिंहश्च श्रीदेवीचोशनस्तथा | देवपीता च संवर्त्नः शिवो महाकालस्तथा || ४१ || राते वै तत्वसंख्या च रुद्रभेदाधिदेवता | मूलतन्त्रोपभेदाश्च वक्ष्यते नामभिः क्रमात् || ४२ || त्रिभेदं कामिकं प्रोक्तं पञ्चभेदं च योगजम् | षड्भेदं चिन्त्य तन्त्रं च सप्तभेदं तु कारणम् || ४३ || अजिताख्यं चतुर्भेदं दीप्तं नवभेदकम् | सूक्ष्ममेकविधं प्रोक्तं दशभेदं सहस्रकम् || ४४ || प्द्f ८, प्. ६५२) अंशुमान् सूर्यभेदं स्यात् सुप्रभेदंत्वभेदकम् | अष्टभेदं तु विजयं निश्वासं चाष्टभेदकम् || ४५ || स्वायंभुवं द्विभेदं स्यात् आग्नेयं तु द्विभेदकम् | वीरतन्त्रं विशेषेण भेदाश्चैव त्रयोदश || ४६ || षड्भेदं रौरवं प्रोक्तं मकुटं तु द्विभेदकम् | विमलं तु कलाभेदं चन्द्रज्ञाने चतुर्दश || ४७ || तिथिभेदं बिम्बतन्त्रं प्रोद्गीते षोडश स्मृताः | ललितं गुणभेदं स्यात् सिद्धं च युगभेदकम् || ४८ || सन्ताने सप्तभेदं स्यात् शर्वोक्तं पञ्चधा भवेत् | परमेशं सप्तभेदं किरणं नवभेदकम् || ४९ || वातुलं रविभेदं स्यात् वक्ष्यते तु पृथक् पृथक् | नारसिंहं च वक्तारं भैरवोत्तरमेव च || ५० || कामिकस्य त्रयोभेदाः सारं वीणाशिखोत्तरम् | आत्मयोगं सृतारं च दितिं योगन्तु पञ्चमम् || ५१ || सुचिन्त्यं सुभगं वामं अमृतं पापनाशनम् | परोद्भवयय चिन्त्यस्य भेदाषट्कीर्तिताः क्रमात् || ५२ || महेन्द्रं कारणं योगं पावनं हिमसंहितम् | विद्वेषं मारणं चैव सप्तभेदास्तु कारणे || ५३ || प्रभूतं च स्वरोद्भूतं पार्वतीपतिसंहिता | अजितस्य चतुर्भेदाः पश्चादब्जमसंख्यकम् || ५४ || क्षायमानं चमश्चेद्याममेतिमतितौजसम् | अद्भुतं माधवोद्भूतं दीप्त तन्त्रेण विस्मृताः || ५५ || प्द्f ९, प्. ६५३) सूक्ष्म तन्त्रेषु सूक्ष्माख्यं राकमेव प्रकीर्तितम् | अतीतं मङ्गलं शुद्धं अप्रमेयन्तु जातिभाक् || ५६ || प्रबुद्धं विबुधं हस्तमलंकार सुबोधकम् | राते सहस्र तन्त्रस्य दशभेदा उदाहृताः || ५७ || काश्यपं वासवं चैन्द्रं वासिष्ठं गौतमं तथा | भूततन्त्रं प्रकरणं विद्यापुराणमेव च || ५८ || ईशानोत्तर संज्ञश्च नीललोहितमेव च | आत्मालंकारकं ब्रह्म दशांशुमतो हितः || ५९ || सुप्रभेदस्त्वभेदं स्यात् भव कौबेरमुद्भवम् | महाघोरमघोरं च विमलं मृत्युनाशनम् || ६० || इजयं चाष्टभेदाः स्युः विजयाख्यस्य कीर्तिता | निश्वासं मन्त्रनिश्वासं निश्वासोत्तरसंज्ञिकाः || ६१ || निश्वास योनिरश्वायो घोटनिश्वासकारिका | निश्वासनयनं चैव स्यान्निश्वासमुखोदयम् || ६२ || निश्वासस्याष्ट भेदाश्च महातन्त्रस्य कीर्तिताः | प्राजापत्यं च पद्मं च द्वयं स्वायंभुवे स्मृतम् || ६३ || आग्नेयस्य द्विधा प्रोक्तं आग्नेयं व्योम तन्त्रकम् | बोधं प्रबोधं शकटं बोधकं प्रस्तरं हलम् || ६४ || भद्रं विलेखनं वीरं मोहनं शाकटायिकम् | तथैव फुल्लनयनं मोहसंभवमेव च || ६५ || भेदाः त्रयोदश प्रोक्ता वीरतन्त्रे महेश्वर | कालदाहं कलातीतं रौरवं रौरवोत्तरम् || ६६ || प्द्f १०, प्. ६५४) महाकालमतं चान्द्रं रौरवस्यापिषड्भिदा | द्वौ भेदौ मकुटे प्रोक्तौ माकुटं माकुटोत्तरम् || ६७ || वृषभं वृषपिङ्गाख्यं मात्रान्तं वृषभोत्तरम् | सुदन्तमतिभूतं च रौद्रं भद्रवितं तथा || ६८ || आरेवनं सुभद्राख्यं अतिक्रान्तमलङ्कृतम् | अनन्तमट्टहासाख्यं अच्चितं मारणं तथा || ६९ || भेदा विमलतन्त्रस्य षोडशैवं प्रकीर्तिताः | राकपादपुराणं च स्थाण्वाख्यं नन्दिकेश्वरम् || ७० || स्थिराख्यं शङ्करप्रोक्तं श्रीमुखं शिवभद्रकम् | कल्पभेदमितिव्याप्तं महावारुणमेव च || ७१ || देव्यामतं च वायव्यं शिवशासनसंज्ञकम् | शिवशेखरमित्युक्तं चन्द्रज्ञानेचतुर्दश || ७२ || चतुर्वक्त्रमियोगं च संस्तोभं प्रतिबिंबकम् | अर्थालङ्कारमैशानं तौटिकन्तु निटीरकम् || ७३ || कुट्टिमाख्यं तुलायोगं तुलाप्रत्ययमेव च | महाविद्यामहासौरं नैऋतं पट्टशेखरम् || ७४ || मुखबिम्बस्य तन्त्रस्य भेदाः पञ्चदशोदिताः | वराहं पाशबन्धं च पिङ्गलामनमेव च || ७५ || धनुर्धरं दण्डधरं शिवज्ञानं तथाङ्कुशम् | विज्ञानमायुर्वेदं च श्रीकालज्ञानसंज्ञकम् || ७६ || धनुर्वेदं च कवचं सर्वदंष्ट्रविभेदकम् | भरतं गीतवातोद्यं प्रोद्गीते षोडशस्मृताः || ७७ || प्द्f ११, प्. ६५५) ललितस्य त्रयो भेदाः ललितं ललितोत्तरम् | कौमारं ततः शालभेदं सारोत्तराह्वयम् || ७८ || औशानोत्तरसंज्ञं च शशिमण्डलमेव च | सिद्धतन्त्रस्य चत्वारो भेदास्तु परिकीर्तिताः || ७९ || लिङ्गाध्यक्षं सुराध्यक्षं शङ्करं चामरेश्वरम् | असङ्ख्यमनिलद्वन्द्वं सन्ताने सप्तभेदकः || ८० || शिवधर्मोत्तरं दिव्यं प्रोक्तमीशानमेव च | वायुप्रोक्तं कुबेराख्यं शर्वोक्ते पञ्चधा स्मृताः || ८१ || हंसं पद्मं च मातङ्गं सामान्यं यक्षिणी तथा | पुष्करं सुप्रयोगं च सप्तधा परमेश्वरे || ८२ || गारुढं नैऋतं रौक्षं मान्यं बुद्धं च भानुकम् | प्रबुद्धं हेनुकं कालं किरणे नवकीर्तिताः || ८३ || वातुलोत्तरसंज्ञं च वातुलं च प्ररोहितम् | सर्वं च कालज्ञानं च नित्यं सर्वार्थकं तथा || ८४ || श्रेष्ठं महाननं शुद्धं विश्वं विश्वात्मकं तथा | वातुलाख्ये महातन्त्रे भेदाः द्वादशकीर्तिताः || ८५ || उपभेदात् क्रमात् प्रोक्तः सप्तोत्तर शतद्वयम् | कामिकाद्यजितान्तास्तु सद्योजात मुखोद्भवाः || ८६ || दीप्ताद्यास्सुप्रभेदान्ता वामदेव मुखोद्भवाः | विजयाद्यास्तु वीरान्ताः संहिता घोरवक्त्रजाः || ८७ || रौरवान्मुखबिम्बान्ताः पूरुषानन संभवाः | ईशानवक्त्रसंजाताः प्रोद्गीताद्याष्टसंहिताः || ८८ || प्द्f १२, प्. ६५६) ग्रन्थसंख्यां प्रवक्ष्यामि क्रमाच्छृणु महेश्वर | परार्धं कामिकं प्रोक्तं योगजं लक्षमुच्यते || ८९ || चिन्त्यं तु शतसाहस्रं कारणं कोटिसंमितम् | अजितं त्वयुतं प्रोक्तं नियुतं दीप्तमुच्यते || ९० || सूक्ष्मं च पद्मसंख्यातं सहस्रं शङ्खसंमितम् | अंशुमान् पञ्चलक्षं तु सुप्रभेदं त्रिकोटिकम् || ९१ || विजयञ्च त्रिकोटि स्यात् कोटिनिश्वासमुच्यते | स्वायम्भुवं त्रिकोट्यर्धं अनलंत्वयुतत्रयम् || ९२ || वीरं च नियुतं प्रोक्तं रौरवं चार्बुदाष्टकम् | मकुटं शतसाहस्रं विमलं च त्रिलक्षकम् || ९३ || चन्द्रज्ञानं त्रिको स्यात् मुखबिम्बं सहस्रकम् | प्रोद्गीतं त्रिलक्षं स्यात् ललितं चाष्टसहस्रकम् || ९४ || सार्धकोस्तु सिद्धं च सन्तानं षट्सहस्रकम् | शर्वोद्गीतं द्विलक्षं स्यात् पारमेश द्विलक्षकम् || ९५ || किरणं पञ्चकोटि स्यात् शतसस्रन्तु वातुलम् | तन्त्रमूर्तिञ्च संक्षेपात् प्रवक्ष्यामि महेश्वर || ९६ || कामिकं पादयुग्मं स्यात् योगजं गुल्फमेव च | चिन्त्यं पादाङ्गुलं प्रोक्तं जंघा युग्मं तु कारणम् || ९७ || अजितं जानुदेशं स्यात् दीप्तमूलप्रदेशकम् | सूक्ष्मं च गुह्यबीजं स्यात् सहस्रं तु कटीतलम् || ९८ || अंशुकान् पृष्ठभागं स्यात् नाभि स्यात् सुप्रभेदकम् | विजयं कुक्षदेशं स्यात् निश्वासं हृदयं भवेत् || ९९ || प्द्f १३, प्. ६५७) स्वायम्भुवं स्तनद्वन्द्वं अनलन्नेत्र मुच्यते | वीरं च कर्णदेशं तु रौरवं श्रवणद्वयम् || १०० || मकुटे मकुटं तन्त्रं अङ्गप्रत्यङ्गमेव च | बह्न तु विमलं प्रोक्तं चन्द्रज्ञान मुटस्थलम् || १०१ || मुखबिम्बं तु वदनं जिह्वाप्रोद्गीत मुच्यते | कपोलं ललितं प्रोक्तं सिद्धं चैव ललाटकम् || १०२ || सन्तानं कुण्डलं विद्यात् शर्वोक्तमुपवीतकम् | पारमेशं च हारस्तु किरणं रत्नभूषणम् || १०३ || कालोत्तरं तथा नाभ्यो वायुर्द्वाविंशतिर्भवेत् | वातुलं वसनं प्रोक्तं शिव धर्मोनुलेपनम् || १०४ || बिम्ब पुष्पं च माल्यं च सिद्धान्तं च निवेदितम् | तन्त्रात्मकेन कायेन देवं दक्षिणतोमुखम् || १०५ || आनन्दरूपममलं नृत्यन्तं निष्कलं शिवम् | ध्यायेत् सिध्यै गुरुर्नित्यं सन्ध्याकाले विशेषतः || १०६ || रावं सिद्धान्त तन्त्राणां अवतारमदाहृतः | अन्येषां प्रोच्यते नात्र ग्रन्थविस्तारशंकया || १०७ || कर्षणादि प्रतिष्ठान्तं मूले नैव समाचरेत् | कृतं चेदुपभेदेन कर्ता भर्ता विनश्यति || १०८ || केवलं यजनं प्रोक्तं उपभेदैर्विशेषतः | प्रतिष्ठाद्यैस्तु मूलैश्च षट्षष्ठकथितैर्वनम् || १०९ || आरब्धं येन तन्त्रेण कर्षणाद्यर्चनान्तकम् | तेन सर्वं प्रकर्तव्यं न कुर्यादन्यतन्त्रतः || ११० || प्द्f १४, प्. ६५८) अनुक्तं अन्यत्रन्त्रेण सङ्ग्राह्यं देशिको भवेत् | शिवसिद्धान्त तन्त्रेण प्रारब्धं कर्षणादिकम् || १११ || न कुर्यादन्यशास्त्रेण कुयाच्चेत् तन्त्रसङ्करः | तन्त्र सङ्करदोषेण राजराष्टं च नश्यति || ११२ || शैवः सर्वाधिकारि स्यात् स्वकीये च परत्र च | अन्येषां स्वस्वतन्त्रेण विद्या तत्वेधिकारिता || ११३ || इति मकुटतन्त्रे तन्त्रावतारः प्रथमः पटलः || प्द्f १५, प्. ६५९) स्नानाद्याचमनविधिः || शिवार्चनाविधिश्च वक्ष्ये शिवार्चनं पुण्यं सर्वसिद्धिकरं शुभम् | महापादकदोषघ्नं सर्वैश्वर्यप्रदायकम् || १ || आत्मार्थं च परार्थं च पूजा द्विविधमुच्यते | गुरुदेहे शुभेलिङ्गे स्थण्डिले च निजात्मनि || २ || क्षणिके मण्डले तोये चात्मार्थं यजनं स्मृतम् | निर्मितं विधिना लिङ्गं सुरैर्वा मुनिभिर्वरैः || ३ || स्वयमुद्भूतलिङ्गं च प्रतिमाचेश्वरात्मिका | परार्थे तु समाख्याताः सर्वेषामात्मनां फलम् || ४ || चातुर्वर्ण्यस्य दीक्षायां विशेषाद्ब्राह्मणो गुरुः | विप्र क्षत्रिय विट्च्छूद्रा दीक्षिताश्च प्रवेशकाः || ५ || आत्मार्थ यजनं कुर्यात् न कुर्यास्ते परार्थकम् | ऊर्ध्वशैवेन कर्तव्यं आत्मार्थं च परार्थकम् || ६ || ऊर्ध्वशैव इति प्रोक्ताः स शैवो ब्राह्मणो गुरुः | निर्वाणदीक्षितानां तु आत्मार्थं च परार्थकम् || ७ || शैवागमेषु परमं यस्माच्चैवाभिषेचनम् | मकुटं तु परं नाम परताण्डवकीर्तनम् || ८ || नाम मन्त्राधिकं तत्र नादातीतात्मकं शुभम् | अन्त्यजातेसु दीक्षायां अभिचाराय कल्पते || ९ || प्रातःकाले शिवं ध्यात्वा सर्वकर्म शिवाय च | ग्रामस्यैशान्यदिग्भागे मलादीनि विसर्जयेत् || १० || गोस्थानाद्देवता वासाद्वल्मीकाच्च जलाशयात् | ब्राह्मणानां गवां नॄणां स्त्रीणां चान्यत्र सन्निधेः || ११ || प्द्f १६, प्. ६६०) शिरसो वेष्टनं कृत्वा मौनीचोत्तरतोमुखः | रावं मल विसर्गे तु शेफो हस्तं प्रवेशयेत् || १२ || दक्षिणं हस्तमाद्धृत्य प्रविशेत् सलिलाशयम् | नद्यां तटाके कूपे वा शौचं कृत्वा यथाविधि || १३ || प्लक्षोदुम्बरनिंबाद्यैः कुर्याद्वैदन्तधावनम् | अस्त्रमन्त्रेण नासास्य दन्तशुद्धिं समाचरेत् || १४ || त्रियट्टारं सकृज्जप्त्वा जिह्वाशुद्धिमनन्तरम् | मलस्नानं पुरा कृत्वा मन्त्रस्नानविधिं शृणु || १५ || स्नानानि पञ्चप्रोक्तानि दीक्षितानां विशुद्धये | वारुणं तैजसं दिव्यं वायव्यं मानसं तथा || १६ || वारुणं वारिणां स्नानं आग्नेयं भस्मनाभवेत् | वृष्ट्या सादप्या दिन्यां वायव्यं रजसां गवाम् || १७ || मन्त्रैर्मानसमित्युक्तं रावं स्नानानि पञ्चधा | नद्यां वापि तटाकां वा कूपे वा तीर्थवारि च || १८ || तोयं शुद्धमशुद्धं वा शिवालयसमीपगम् | शिवलिङ्गेति ते विद्याच्छिवपादप्रसेचनात् || १९ || तेषामेकतमं नत्वा स्नानं कुर्याद्विशेषतः | कुर्याद्धस्तप्रमाणेन मण्डलं चतुरश्रकम् || २० || अस्त्रेण हुंफडन्तेन मृदं गृह्णीत साधकः | सद्येन स्थापयेत् तत्र वाममन्त्रेण शोधयेत् || २१ || अघोरेण मृदं स्पृष्ट्वा त्रिधा कुर्यान्नरेण तु | पूर्वेण दक्षिणेनैवा तथा वै चोत्तरेण तु || २२ || प्द्f १७, प्. ६६१) ईशानेन तु मन्त्रेण राकैकमभिमन्त्रयेत् | षडङ्गं ब्रह्म जप्त्वा तु पूर्वादिभ्यो न्यसेत् क्रमात् || २३ || अस्त्रजप्तं मृदोभागं दंशदिक्षु विनिक्षिपेत् | सद्योजात मृदाभोगं स्तीर्थमध्ये विनिक्षिपेत् || २४ || हुंफट्कारेण मन्त्रेण मूलमन्त्रेण योजयेत् | षोडशाक्षरकं न्यस्त्वा स्वनामाद्येन लेखयेत् || २५ || अस्त्रं जप्त्वा तु बध्नीयात् मुद्रां संसारतारकाम् | जले सूक्ष्माश्च ये दोषाः तेषामुच्चाटनं भवेत् || २६ || शिरोवक्त्रं च हृदयं गुह्यं पादौ च दक्षिणे | पूर्ववत् स्थाप्यमृत्पिण्डं सर्वाङ्गञ्च विलेपयेत् || २७ || उत्तरे स्थाप्यमृत्पिण्डं तीर्थमध्ये विनिक्षिपेत् | ब्रह्माग्निं पितृदेवर्षितीर्थानि क्रमशः शृणु || २८ || अङ्गुष्ठमूले बाह्यं स्यात् अङ्गुलीनान्तु मध्यमे | आग्नेयं पैतृकं पश्चात् तर्जन्यङ्गुष्ठ मध्यतः || २९ || अङ्गुलीनान्तु मूलेषु देवतीर्थमुदाहृतम् | अङ्गुल्यग्रे तीर्थमार्षं पञ्चदेवांस्तु विन्यसेत् || ३० || प्राशनं ब्रह्मतीर्थेन प्रोक्षणं वह्नितीर्थतः | स्पर्शनं पितृतीर्थेन दैवतीर्थेन मार्जनम् || ३१ || ग्रहणं त्वार्षतीर्थेन विदध्यात् पञ्चधाबुधः | राजोपचारसहितं सुगन्धामलकादिभिः || ३२ || हरिद्राकुङ्कुमाद्यैश्च कुर्याद्दर्भानुलेपनम् | जलावगहनान्ते तु दिव्यस्त्रीपरिसेवितम् || ३३ || प्द्f १८, प्. ६६२) शिवमन्त्रेणशतधा जप्तेन ब्रह्मभिस्तथा | अङ्गैर्व्योमव्यापिना च त्यम्बकाख्यादिमन्त्रतः || ३४ || उदुत्यं चित्रं देवानां मन्त्रेण च शिवक्षणः | अभिषेकं शनैर्मूर्ध्नि विदध्याद्वक्त्रमुद्रया || ३५ || प्राणायामं सकृत्कुर्यात् मन्त्रैराचमनं शृणु | दक्षपादस्थले कृत्वा वामपादं जलेपि च || ३६ || हस्तं संकुचितं कृत्वा पवित्रे च विभूषितम् | माषमात्र प्रमाणेन जलानां प्राशनं भवेत् || ३७ || रावं त्रिवारं पीत्वास्यं अङ्गुष्ठेन द्विधा स्पृशेत् | मुख हस्तेन संस्पृश्य पादावभ्युक्षयेत् पुनः || ३८ || अङ्गुष्ठानामिकाभ्यां तु चक्षुषीसंस्पृशेत् बुधः | अङ्गुष्ठ तर्जन्यग्राह्या स्पर्शेन्नासापुटद्वयम् || ३९ || पश्चात्कनिष्ठोङ्गुष्ठाभ्यां संस्पृशेशोत्रयोर्द्वयम् | अङ्गुष्ठमध्यमाग्राभ्यां बाह्योयुग्मं पुनस्पृशेत् || ४० || स्पृशेत् सर्वाऽऽगुलीभिस्तु नाभिश्च हृदयं शिरः | एवं कृत्वा तु मन्त्रज्ञ प्रत्यङ्गमुपसंस्पृशेत् || ४१ || ऋग्यजुस्साममन्त्रैस्तु पिबेद्वारत्रयं पुनः | अथर्वेणेतिहासेन वक्त्रसंस्पर्शनं द्विधा || ४२ || अभ्युक्षयेच्छिरः पादावृषिसत्रस्यतृप्तये | मूर्धानं चाक्षुषी श्रोत्रे सर्वादित्येन्द्र तृप्तये || ४३ || बाहूनाभिं च हृदयं इन्द्रविष्ण्वग्नि तृप्तये | पुनराचमनं चापि तन्मन्त्रैरेवमाचरेत् || ४४ || प्. ६६३) Pअगे ंइस्सिन्ग् प्द्f १९, प्. ६६४) आनन्दरूपममलं नृत्यन्तं निष्कलेशिवम् | शिवमन्त्राभिषेकं तु पादमुद्रात्वनन्तरम् || ५६ || आचामं विधिवत् कृत्वा नाममन्त्रं समुच्चरेत् | पुरुषाणां च सावित्री मृष्टोत्तरशतं जपेत् || ५७ || सौरं च सूर्यहृदयं उपस्थानमथाचरेत् | पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि त्रियंबकम् || ५८ || उदुत्यं चित्रं देवानां हंसच्छुचिषमिदं जपेत् | सन्ध्यां चैवा तु सावित्रीं गायत्रीं सर्वदेवताम् || ५ || ससंप्रदाननत्यन्ताः प्रोक्ताकामस्वकारिणीम् | साष्टाङ्गं प्रणमेद्भूमौ नमोनम इति ब्रुवन् || ६० || पञ्चप्रदक्षिणं कुर्यात् अथाचम्यविधानतः | देवानृषीन्पितॄंश्चैव वामघोराजशम्बरैः || ६१ || देवतीर्थेन देवानां ऋषीणां ऋषितीर्थतः | पितॄणामपितीर्थेन विदध्यात् तर्पणं क्रमात् || ६२ || आचम्य विधिवत् स्थित्वा जातवेदं त्र्यम्बकम् | श्रीरुद्रं पुरुषसूक्तं च पञ्चब्रह्म षडङ्गकम् || ६३ || उत्तराभिमुखो मौनि जपित्वा तु सकृत् सकृत् | तीर्थं संहरणं कुर्यात् अस्त्रपञ्जरमध्यगम् || ६४ || पवित्रपाणीमौनी तु सर्वकर्म समाचरेत् | दर्भद्वयेन वा दर्भैस्त्रिभिर्वा पञ्चभिस्तु वा || ६५ || अथवा सप्तभिः कुर्यात् पवित्रं मङ्गलं शुभम् | अग्रं वै चतुरङ्गुल्यं ग्रन्धिश्चन्द्राङ्गुलिस्मृतः || ६६ || प्द्f २०, प्. ६६५) द्व्यङ्गुलं रज्जुवलयं अनलायान्नियोजयेत् | ग्रन्थिब्रह्माधिदैवत्यो रज्जुर्विष्ण्वधिदैवतः || ६७ || अग्ररुद्राधिदैवत्यो रज्जुर्विष्ण्वधिदैवतः | अग्रं रुद्राधिदैवत्यं पवित्रस्याधिदेवताः || ६८ || कुशं पुष्पं च सङ्ग्राह्य प्रविशेद्यागमन्दिरम् | प्रक्षाल्यपादावाचम्य भस्मस्नानमथाचरेत् || ६९ || भस्मस्नानं प्रवक्ष्यामि सर्वदुःखनिवारणम् | अपमृत्युप्रशमनं शिवमारोग्यवर्धनम् || ७० || गोमातरस्थिताभूमौ स्नानार्थं च शिवाय च | सर्वदेवात्मकौ शुद्धं पवित्रं पापनाशनम् || ७१ || दत्तं चैव हुतं भुक्तं गोषु सर्वं चराचरम् | यथा गोषु विशेषेण तदुत्पत्तिविधिं शृणु || ७२ || गोसावित्रीं सकृज्जप्त्वा गन्धं पुष्पं च धूपकम् | दीपं च सद्गोपादेषु प्रणम्य प्रतिपादयेत् || ७३ || गोरोचना कृतालेपं क्षीरान्नं च प्रदापयेत् | ताम्बूलं दापयित्वा तु गोसावित्रीं शतं जपेत् || ७४ || तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि | * * * * * * * * (?) तन्नोगावः प्रचोदयात् || ७५ || गां सतीमित्थमाराध्य गृह्णीयाद्गोमयं ततः | कराभ्यां पद्मपत्रं च बिल्वपत्रं च धारयेत् || ७६ || गृहीत्वा सद्यमन्त्रेण भूमावपतितं गुरुः | पिण्डी कुर्याच्च वामेन घोरमन्त्रेण शोषयेत् || ७७ || प्द्f २१, प्. ६६६) दग्ध्वा पुरुषमन्त्रेण ईशानेन परिग्रहेत् | केतकीमल्लिकानां च चंपकं पाटलं तथा || ७८ || पद्मं पलाशं तुलसीं अपामार्गं कुशाग्रकम् | जातिञ्च तत्र निक्षिप्य सद्भाण्डेषु परिग्रहेत् || ७९ || शुद्धो वा भस्मगृह्णीयात् अग्निहोत्र समुद्भवम् | तद्भस्मं परिगृह्णीत शिवमन्त्रमनुस्मरन् || ८० || निबद्ध ब्रह्ममुद्राभ्यां कराभ्यां भस्मधारयेत् | दक्षजानुनि संस्थाप्य शिवमन्त्रं शतं जपेत् || ८१ || ईशमन्त्रेण मूर्धानं वक्त्रं तु पूरुषेण च | हृदयं घोरमन्त्रेण गुह्यं वै वाममन्त्रतः || ८२ || सर्वाङ्गं सद्यमन्त्रेण गुरुरुद्धूलयेत् क्रमात् | जलस्नानं परं श्रेष्ठं मन्त्रैरेतैस्तु वलितम् || ८३ || पूर्ववास परित्यज्य शुद्धं वस्त्रं परिग्रहेत् | पाणिपादौ च संशोध्य कुर्यादाचमनं पुनः || ८४ || संधारयेत् त्रिपुण्ड्रं च शुद्धयेत् सर्वकर्मणाम् | देहेवलांछनं कुर्यात् भस्मभिर्मिश्रचन्दनैः || ८५ || दीक्षितानां द्विजानीनां त्रिपुण्ड्रं तु षडङ्गुलम् | अदीक्षितं त्रिपुण्ड्रस्य लक्षणं वक्ष्यते शृणु || ८६ || ब्राह्मणानां षडङ्गुल्यं नृपाणां चतुरङ्गुलम् | वैश्यानां द्व्यङ्गुलं प्रोक्तं शूद्राणामेकमङ्गुलम् || ८७ || अन्येषामपि सर्वेषां त्रिपुण्ड्रं शूद्रवद्भवेत् | नृपाणामीश्वराणां च भस्ममिश्रितचन्दनम् || ८८ || प्द्f २२, प्. ६६७) त्रिपुण्ड्रं विधिवत् कुर्यात् स्थानमानं क्रमाच्छृणु | ललाटे बाहुयुग्मे च हृदये च त्रिपुण्ड्रकम् || ८९ || चतुरङ्गुलमन्येषु स्थानेष्वेकाङ्गुलं भवेत् | संधार्य करयुग्मे च विशुद्धं भस्मदेशिकः || ९० || तर्जनी मध्यमानामात्रिपुण्ड्रस्य प्रकल्पयेत् | ब्रह्माविष्णुश्चरुद्रश्च त्रिपुण्ड्रस्याधिदेवताः || ९१ || मस्तके च ललाटे च ग्रीवायां कर्णयोस्तथा | उरस्थले च बाहौ तु नाभौ पृष्ठे तथैव च || ९२ || ऊर्वोश्च जानुनोश्चैव पादयोश्च क्रमान्यसेत् | ब्रह्मरन्ध्रे स्वयं ब्रह्मा सुब्रह्मण्यो ललाटके || ९३ || कर्णे विनाशको देवो नेत्रयोस्सूर्यसोमकौ | बाह्वोरिन्द्रश्च विष्णुश्च हृदये च तथेश्वरः || ९४ || नाभौ च दुर्गादेवी स्यात् पृष्ठे च पितरस्तथा | ऊरुद्वये तु नाभैश्च नागकन्यास्तथैव च || ९५ || ऋषयश्चर्षिपत्न्यश्च जानुयुग्मे तथा पुनः | पादयोरर्णवास्सप्त सर्वतीर्थानि च स्थिताः || ९६ || स्थानानि च त्रिपुण्ड्रस्य देवाश्च परिकीर्तिताः | षोडशाक्षर मन्त्रन्तु तत्तत्स्थानेषु विन्यसेत् || ९७ || भस्मस्नानविधि प्रोक्तो योगिनां साधनं शृणु | आसनं संप्रवक्ष्यामि द्वितीयं चाक्षमालिका || ९८ || प्द्f २३, प्. ६६८) तृतीयं वेणुदण्डं च चतुर्थं योगपट्टिका | कमण्डलुः पञ्चमं स्यात् षष्ठं स्यादुत्तरीयकम् || ९९ || उष्णीषं सप्तमं प्रोक्तं उपवीतं तथाष्टकम् | पवित्रं नवमं चैव दशमं भस्मकीर्तितम् || १०० || एकादशं तु कौपीनं द्वादशं दन्तकाष्ठकम् | त्रयोदशं मृद्ग्रहणं वक्ष्यते तु पृथक् पृथक् || १०१ || आसनं कूर्मवत् कुर्यात् लोहैर्वा दारुणाऽथवा | खादिरं चम्पकं चैव चन्दनं विल्वमेव च || १०२ || वृक्षाश्च आगमे प्रोक्तादिसतत्वा न विधौमताः | द्वितालस्तस्य विस्तारं समुत्सेधः षडङ्गुलम् || १०३ || पादाश्च द्व्यङ्गुलोत्सेधा दण्डश्च चतुरङ्गुलम् | दर्पणोदरसङ्काशं पृष्ठभाग समाः पदाः || १०४ || इत्थं कूर्मासनं प्रोक्तं योगिनां पूर्वसाधनम् | जपमालाभुरोमालां शिरोमालां तथा पुनः || १०५ || बाहुमालां हस्तमालां कण्ठमालां क्रमाच्छृणु | पञ्चविंशति रुद्राक्षैः मुमुक्षूणां जपस्मृतः || १०६ || षड्विंशति शिवार्थं च ज्ञानार्थं शत्रुनाशनम् | सप्तविंशति भुक्त्यर्थं पुष्ट्यर्थमष्टाविंशतिः || १०७ || त्रिंशत् जापार्थिनां पञ्चदशकं चाबिचारकम् | इत्थं तु जपमालास्या दन्यानां लक्षणं शृणु || १०८ || कण्ठामारभ्य नाभ्यन्तं उरोमाल्यस्य लक्षणम् | शिरोमाला तु तन्नाभा बाहुमाला च तत्समा || १०९ || प्द्f २४, प्. ६६९) हस्तमाला हस्तमाना कण्ठमाला च तत्समा | दर्शनं पापशमनं स्पर्शनं सर्वसिद्धिदम् || ११० || प्रागुक्त धारणान् पुण्यं रुद्राक्षान् धारयेत् सदा | शुचिर्वाप्य शुचिर्वापि रुद्राक्षं धारयेत् सदा || १११ || श्वापि कण्ठेन रुद्राक्षं कण्ठद्धारयते यदि | स रुद्रपदमाप्नोति किं पुनुर्मानुषादयः || ११२ || तस्मात् सर्वप्रयत्नेन रुद्राक्षं धारयेत् सदा | धारणात् स्वर्गमाप्नोति पुनर्जन्म न विद्यते || ११३ || रुद्राक्षाणां अथोत्पत्तिः रूपं शृणु महेश्वर | दिव्यवर्ष सहस्रं तु चक्षुरुन्मीलितं मया || ११४ || एकवक्त्रं शिवं साक्षात् अनन्तं धारणात् फलम् | धारयं म्रियते यस्तु स याति परमांगतिम् || ११५ || द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते | चतुर्वक्त्रं तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवः || ११६ || षड्वक्त्रं ईश्वरं प्रोक्तो रुद्रस्सप्तमुख स्मृतः | विष्णुश्चैवाष्टवक्त्रं तु नववक्त्रं चतुर्मुखः || ११७ || नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् | हस्तकण्ठ शिखाकर्ण यज्ञसूत्रेषु सर्वदा || ११८ || सर्वपापप्रशान्त्यर्थं भस्मनासहधारयेत् | राजावार्ता वणिग्वार्ता लोकवार्ता विशेषतः || ११९ || रुद्राक्ष चलनादेव मन्त्रवत् फलदा भवेत् | रुद्राक्षाणां सहस्रेण कल्पितां शिवरूपिणाम् || १२० || प्द्f २६, प्. ६७०) धारयन्त्यस्सदां मालां सयाति परमां गतिम् | तस्मात् सर्वप्रयत्नेन रुद्राक्षैस्तु सदा जपेत् || १२१ || वेणुदण्डं ऋजुस्निग्धं व्रणकोटरवर्जितम् | विप्राणां मस्तकोत्सेधं नृपाणां वक्षसस्समम् || १२२ || वैश्यानां बाहुमात्रं स्यात् शूद्राणां नाभिमात्रकम् | दण्डमेव विधिं प्रोक्तं योगपट्टमिदं शृणु || १२३ || व्याघ्राजिनमयं श्रेष्ठं मध्यं कृष्णाजिनात्मकम् | विस्तारं त्र्यङ्गुलस्तस्यमानं स्यादुपवीतवत् || १२४ || योगपट्टविधिः प्रोक्तः कमण्डलुविधिं शृणु | आढका पूरितं श्रेष्ठं मध्यं त्रिप्रस्थपूरितम् || १२५ || द्विप्रस्थं पूर्णमधमं मानमेवं कमण्डलोः | सौवर्णं राजतं ताम्रं अथवा मृण्मयं तु वा || १२६ || यथोक्तं शिल्पशास्त्रेषु तथा कुर्यात् कमण्डलुः | उत्तरीयं तथोष्णीषं शुद्धवस्त्रेण कारयेत् || १२७ || यज्ञोपवीतं हैमं स्यात् अथवा तान्तवं सितम् | उपवीतं चोत्तरीयं हृन्मन्त्रेणैव धारयेत् || १२८ || पवित्रं पूर्वमेवोक्तं अर्चनाङ्ग शृणु | आसनं वसनं चार्घ्य गन्धं पुष्पं च धूपकम् || १२९ || दीपञ्चैव निवेद्यं च अष्टाङ्गं संप्रकीर्तितम् | अष्टाङ्गसहितं नित्यं पूजयेद्दक्षिणेश्वरम् || १३० || अर्चनान्ते तु पूजायां यथोक्तं हविरन्तिकम् | शाल्यन्तं चैव वल्यन्तं पूजा त्रिविधमुच्यते || १३१ || प्द्f २७, प्. ६७१) उशीरं चन्दनं चैव दूर्वासिद्धार्थमेव च | चतुर्भिरङ्गैस्सिध्यर्थं पाद्यमेवमुदाहृतम् || १३२ || चन्दनागरुकर्पूरमुतं जातिफलं तथा | तक्कोलं चैव कुण्डं च चन्दनं चैव पाटलम् || १३३ || इत्थं नवाङ्गसहितं प्रोक्तमाचमनीयकम् | कुशाग्रं जीरमापश्च यवं सिद्धार्थमेव च || १३४ || बिल्वपत्रं तिलं व्रीहिस्तुलसी चैव तण्डुलम् | अर्घ्यं दशांशमित्युक्तं गन्धद्रव्यविधिं शृणु || १३५ || अगरुं चन्दनं चैव कुङ्कुमं कुष्ठमेव च | तदर्धं पादमात्रं वा कर्पूरेण समन्वितम् || १३६ || गन्धद्रव्यमिति प्रोक्तं पुष्पानां लक्षणं शृणु | धवलारुण कृष्णानि सात्विकादि गुणत्रये || १३७ || पीतवर्णानि पुष्पाणि नीलोत्पलमुखानि च | तानि सर्वाणि कथ्यन्ते तामसानि महेश्वर || १३८ || सात्विकं श्वेतपुष्पं तु रक्तपुष्पं च राजसम् | तामसं कृष्णपुष्पं तु पीतपुष्पं तु शोभनम् || १३९ || विशेषाद्राजसं पुष्पं स पत्राणां च धारयेत् | नन्द्यावर्तं च पुन्नागंश्वेतार्कमुदये ददेत् || १४० || करवीरं च पद्मं च धुर्धूरं बृहती तथा | द्रोणपुष्पं तु मध्याह्ने विशेषेण निवेदयेत् || १४१ || सायाह्ने चम्पकं मल्लीधुर्धूरं च नियोजयेत् | जातीकेन कदं बाह्यो नियोज्यावर्धरात्रके || १४२ || प्द्f २८, प्. ६७२) सङ्गृहेत् सर्वपुष्पाणि कुमुदानि विवर्जयेत् | अपक्व मतिपक्वं च मुकुलीकुत्सितं तथा || १४३ || केश कीटोपविद्धानि धूतसूत्रावृतानि च | स्वयंपतित पुष्पाणि पर्युषितानि वर्जयेत् || १४४ || यत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते | पुष्पजातिषु सर्वेषु गिरिपुष्पं विशेषतः || १४५ || तुलसी बिल्वपत्रं च पलाशं च सुवर्णकम् | प्रक्षाल्य परमेशानं अर्चयेच्च पुनः पुनः || १४६ || तुलसी कृष्णतुलसी सहदेवी च मायुली | अपामार्गश्शमी चैव दलताचामलीकरी || १४७ || लक्ष्मीदूर्वाजतीं चैव विशेषात् हस्तिलक्षणी | एवं पत्राणि मुख्यानि कीर्तितानि विशेषतः || १४८ || सर्वपत्रेषु सङ्ग्राह्यं बिल्वं च तुलसीद्वयम् | पत्रं ब्रह्मप्रियं प्रोक्तं पुष्पं विष्णुप्रियं तथा || १४९ || फलं रुद्रप्रियं प्रोक्तं सर्वहिंसा विवर्जयेत् | सङ्गृहेत् शिवपूजार्थं पत्रपुष्पफलादिकम् || १५० || ओषधीनां न हिंसा द्यात् न भवेत् स तु हिंसकः | इत्थं पुष्पविधि प्रोक्तो दीपस्यविधिरुच्यते || १५१ || सुवास वर्तिकायुक्तं गोघृतं तैलमेव च | चतुस्त्रिद्व्यङ्गुलायामं दीपज्वालाविशिष्यते || १५२ || दीपोपयोगि भगवान् दक्षिणामूर्तिनायकः | **(?) च कृत्यं तु तद्वक्ष्ये शृणुष्वेकं महेश्वर || १५३ || प्द्f २९, प्. ६७३) प्रथमं चात्मसंशुद्धि द्वितीयं स्थानशेधनम् | तृतीयं द्रव्यशुद्धिःस्यात् चतुर्थं लिङ्गशोधनम् || १५४ || पञ्चमं मन्त्रशुद्धिं च वक्ष्यते तु पृथक् पृथक् | उत्तराभिमुखो मौनी बद्धयोगासनस्थिरः || १५५ || दशदिग्बन्धनं कृत्वा शस्त्रमन्त्रं समुच्चरन् | प्राणायामत्रयं कुर्यात् प्रत्येकं दशमात्रिकम् || १५६ || प्राणायामक्रमं वक्ष्ये शृणुष्वेवं महेश्वर | रेचकं पूरकं चैव कुम्भकं च त्रिधा मतम् || १५७ || रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् | चन्द्रार्कचरितं यस्य मृतकं सूतकाश्रितम् || १५८ || इडा चन्द्रकला ज्ञेया पिङ्गला भास्करांशकम् | द्वये ***(?) ये द्वायुं नासिका मण्डलद्वयम् || १५९ || रेचकं सूतकोपेतं पूरकं मृतकाश्रितम् | सूतकं प्रेतकं श्रुत्वा पूजाहोमं न कारयेत् || १६० || निष्फलं न तु सान्निध्यं यथोक्तविधिनाधुना | तस्मात् सर्वप्रयत्नेन कुरु चन्द्रार्कनाशनम् || १६१ || चन्द्रार्कनाशनं वक्ष्ये शृणुष्वेवं महेश्वर | ऊर्ध्ववक्त्रं तु जिह्वाग्रं सुषुंनाद्वारबन्धनम् || १६२ || साधकस्य तु तद्दृष्टिमात्मानं हस्तकामिकम् | कुम्भकं प्राणनिरतं मौनकर्मनिरन्तरम् || १६३ || दृढचित्तं सदाध्यानं तस्यचन्द्रार्कनाशनम् | मृतकं सूतकं त्यक्त्वा यावन्निर्णयमुच्यते || १६४ || प्द्f ३०, प्. ६७४) चन्द्रार्कनाशनं यावत् तावत् संपूजयेत् शिवम् | आवाहनासनन्तस्य मात्राद्वादशकं भवेत् || १६५ || पाद्यं तु पञ्चमात्रं स्यात् आचमनं त्रिमात्रकम् | एकमात्रं भवेदर्घ्यं षण्मात्रं गन्धदापनम् || १६६ || पुष्पं द्वादशमात्रं तु धूपं पञ्चदशक्षणम् | दीपदानं तु षण्मात्रं बलिष्षोडशमात्रिकः || १६७ || विदध्याद्दशकर्माणि चन्द्रसूर्यप्रणाशने | स्नानं वस्त्रं चोपवीतं त्रयं दद्याद्यथाविधि || १६८ || मात्रा द्वादशकोपेतं होमकर्म प्रकीर्तितम् | मात्राभिरष्टाधिक्येन शतेन सहतो जपः || १६९ || आयुष्यं धनधान्यादि रिपुनाशकरं शुभम् | देवप्रीतिकरं तेन सर्वं साधनमुच्यते || १७० || शुचिर्वाप्यशुचिर्वापि स्वस्थो वा दुस्थितोऽपि वा | पूजयेत् सर्वकालेषु दिने रात्रौ न सा क्रिया || १७१ || चन्द्रार्कनाशनं कृत्वा सर्वकालेषु पूजयेत् | चन्द्रार्कनाशनादेव पूजासिद्धं महेश्वर || १७२ || गुरुर्देवौ नमस्कृत्य बध्नीयात् पादमुद्रिकाम् | जान्वादि पादपर्यन्तं पृथिवीस्थानमुच्यते || १७३ || स्थानं पञ्चविधं प्रोक्तं मण्डलानि क्रमाच्छृणु | चतुरश्रं च चन्द्रार्धं त्रिकोणं च षडश्रकम् || १७४ || वर्तुलं च पृथिव्यादि भूतानां मण्डलं क्रमात् | पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं यथा क्रमात् || १७५ || प्द्f ३१, प्. ६७५) बीजानि च यथान्यायं लवरयहकारकम् | शिखाग्रे द्वादशाङ्गुल्ये शुद्धश्पटिकसन्निभे || १७६ || शिवज्ञाने जटेशाख्ये शिववस्तुस्वरूपिणी | शिवतत्वे महासूक्ष्मे योजयित्वादहेत्तनुम् || १७७ || जान्वोस्तु प्रथमग्रन्थिं द्वितीयोनाभिसंस्थितः | तृतीयस्तु गुलग्रन्थिः चतुर्थस्तु ललटके || १७८ || पञ्चमस्तु शिरोग्रन्थिः अस्त्रमन्त्रेण भेदनम् | देहं वै शुष्ककाष्ठं च ध्यात्वा चाग्नेयबीजकम् || १७९ || अग्निबीजमनुस्मृत्य ज्वालामालाभिरावृतम् | भस्मराशिमिव ध्यात्वा ध्यायेन्मूर्तिं महेश्वरीम् || १८० || चन्द्रमण्डलसङ्काशं श्वेतपद्मोपरिस्थितम् | भस्मकूटाकृतिं ध्यात्वा पादमुद्रां प्रकल्पयेत् || १८१ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पृथिव्यादीनि भेदानि ब्रह्ममध्ये यथा स्मरेत् || १८२ || मृणालतन्तुवत्तन्वीं मध्ये तु ब्रह्मनाशिका | शिवतत्वानि यत्स्थाने ध्यात्वा सोमस्य मण्डलम् || १८३ || चन्द्रबीजमनुस्मृत्य सुधयाप्लावयेत् ततः | क्षीरवत्वमृताकारं पादाङ्गुल्यग्रपूर्णकम् || १८४ || ओङ्कारबीजंकलं योगाभ्यासादथोमुखम् | तेनाप्लावितमात्मानं अतिपुण्यं विचिन्तयेत् || १८५ || सम्यज्ञानमयं देहं सर्वभूतालयं शुभम् | आत्मानं आनयेत्पूवं पश्चाद्देहं विचिन्तयेत् || १८६ || प्द्f ३२, प्. ६७६) आचार्यमूर्तिग्रहणं साधकानां भवेत् ततः | तद्भावं भावयित्वा तु ज्ञानमुद्रां प्रकल्पयेत् || १८७ || आधाराधेययोर्वार्णं शृणुष्वेव महेश्वर | त्र्यश्रं तदूर्ध्व षट्कोणं तदूर्ध्वे वर्तुलत्रयम् || १८८ || परित्रिकोण मूर्ध्वे च प्रोक्तमाधारलक्षणम् | चतुर्वर्णं तु पूर्वं स्यात् तत्परं तु षडक्षरम् || १८९ || दशाक्षरं परं प्रोक्तं तत्परं द्वादशाक्षरम् | तदूर्ध्वं षोडशार्णं तु तत्परं त्वक्षरत्रयम् || १९० || अक्षरं सर्ववर्णाख्यं आम्नायार्थमयं शुभम् | मृणालतन्तु सदृशं जगद्रक्षादिकारणम् || १९१ || परवस्तु षडाधारं आधारमधिनिष्ठितम् | मृणालतन्तुवद्रूपं वृत्तं ज्योतिस्वरूपकम् || १९२ || अकारादि क्षकारान्तं आदिरूपं सुनिश्चितम् | अम्बानामात्ममध्यस्थं अविकारस्वरूपकम् || १९३ || आद्यन्तशून्यममलं नागाभरणभूषितम् | अनादि सिद्धमाधारं वर्तुलं बीजरूपकम् || १९४ || वकारादि सकारान्तं सद्यान्तं चतुरक्षरम् | त्रिकोणे त्र्यक्षरं न्यस्त्वा मध्ये सकारवर्णकम् || १९५ || गन्धयेत् पूर्वबीजेन न्यसेदुक्तविधानतः | षट्कोणेलदिन्यस्त्वा षडक्षरं च क्रमान्यसेत् || १९६ || सम्भाद्यादिषु यद्बीजं फणाद्यान्तं दशाक्षरम् | वृत्तमण्डलमेवं च पुनर्वृत्तं क्रमान्यसेत् || १९७ || प्द्f ३३, प्. ६७७) वृत्तमध्यादिबीजेन चक्रबीजेन संयुतम् | एकादशाक्षरं न्यस्त्वा वृत्तमध्ये तु तेजसम् || १९८ || वृत्तमध्ये विशेषं तु मनोवाक्कायबीजकम् | आकाराक्षरमारभ्य प्रान्ते त्वत्कारमालिखेत् || १९९ || वृत्तेवृत्तं क्रमान्यस्य षोडशाक्षरमेव च | हकारादीनिबीजानि क्षकारान्तानि देशिकः || २०० || त्रिकोणे त्र्यक्षरं पश्चात् ऊर्ध्वश्रादि क्रमान्यसेत् | इत्थमक्षररूपेण ध्यात्वा दक्षिणतोमुखम् || २०१ || तदन्ते पादमुद्राञ्च ज्ञानमुद्राञ्च कल्पयेत् | ध्यायेद्देवं तु मनसा करपूजाविधिं शृणु || २०२ || करन्यासं पुरा कृत्वा सर्वकर्माणि कारयेत् | ब्रह्ममुद्रां पुरा कृत्वा वह्निबीजेन शोधयेत् || २०३ || तले पृष्ठे च करयोः अस्त्रमन्त्रेण शोधयेत् | अङ्गुष्ठादि कनिष्ठान्तं ईशानादीन्क्रमान्यसेत् || २०४ || कनिष्ठादि प्रधानान्तं षडङ्गानि क्रमान्यसेत् | कराभ्यां मन्त्रमुद्रां च महानादं तु बन्धयेत् || २०५ || सद्यादिकं कनिष्ठादि संहारन्यास उच्यते | अङ्गुष्ठादि कनिष्ठान्तं षडङ्गन्यास उच्यते || २०६ || ब्रह्मचारी गृहस्थानां सृष्टिन्यास उदाहृतः | वानप्रस्थ यतीनां च संहारन्यास उच्यते || २०७ || मध्यादि तर्जन्यान्तं तु शिवाङ्गानि क्रमान्यसेत् | न्यसोचं वानप्रस्थस्य पूर्वोक्तविधिना ततः || २०८ || प्द्f ३४, प्. ६७८) अष्टविद्येश्वरान्पश्चात् अङ्गुष्ठादि क्रमान्यसेत् | अकारादि क्षकारान्तं अङ्गुष्ठादि क्रमान्यसेत् || २०९ || प्रासादं विन्यसेत् पश्चात् करशाखासु पर्वसु | मूलप्रकृतिकान्न्यस्त्वा यथापूर्वन्यसेत् ततः || २१० || चन्दनालेपनं कृत्वा गन्धपुष्पैरलङ्कृतम् | शिवमन्त्रं सकृज्जप्त्वा वध्नीयाद्ब्रह्ममुद्रिकाम् || २११ || संस्पृशेन्मन्त्र हस्ताभ्यां सर्वाङ्गं मस्तकादिकम् | मूलबीजमनुस्मृत्य लिखित्वा वर्णमाकृतम् || २१२ || वर्णमन्त्रं कलामन्त्रं पिण्डमन्त्रं च विन्यसेत् | वर्णमन्त्रं विशेषं तु शृणुष्वेवं महेश्वर || २१३ || शकाराद्यादि सान्तं पृथ्व्यन्तं बान्तमादितः | चवर्गान्तं तृतीयादि वपूर्वान्तं समुच्चरन् || २१४ || षोडशान्तादि चन्द्रान्तं वर्गादि प्रथमादिकम् | हान्तं कान्तं सकारान्तं क्रमादेव समुच्चरेत् || २१५ || ब्रह्मबीजा विसर्गान्ताः पञ्चम ब्रह्मबीजकम् | बिन्दुनाद समायुक्तं वर्णमन्त्रमिदं शुभम् || २१६ || इत्थं वै वर्णमन्त्रं तु वर्णन्यासक्रमं शृणु | अकारं मूर्ध्नि विन्यस्ये आकारं तु ललाटके || २१७ || ईकारं दक्षिणेनेत्रे ईकारं वामलोचने | उकारं दक्षनासायां ऊकारं वामके पुटे || २१८ || ऋकारं दक्षिणे कर्णे ऋकारं वामकर्णके | ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके || २१९ || प्द्f ३५, प्. ६७९) एकारं उत्तरोष्ठे स्यात् ऐकारमधरे तथा | ओङ्कार मूर्ध्वदन्ते तु औकारं दशनेष्वधः || २२० || अंकारं तालुमध्ये तु अःकारं तालुमस्तके | कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके || २२१ || टवर्गं दक्षिणे पादे तवर्गं वामपादके | षष्ठौ च दक्षिणे पार्श्वे बभौ वै वामपार्श्वके || २२२ || मकारं नाभिदेशे तु यकारं त्वचि विन्यसेत् | रेफं रक्तप्रदेशे तु लकारं मांसदेशके || २२३ || वकारं मेदसे देशे शकारं स्नायुदेशके | मज्जादेशे क्षकारं तु सकारं शुक्लदेशके || २२४ || हकारं प्राणमित्युक्तं भ्रूमध्येषु च विन्यसेत् | ककारं मेढ्रदेशे तु क्षकारं वृषणे न्यसेत् || २२५ || अथ शास्त्रक्रमाद्युक्तं कलान्यासक्रमं शृणु | द्वादशं बीजमुच्चार्य मूलमन्त्रं समुच्चरेत् || २२६ || कलामन्त्राः क्रमेणैव पञ्चब्रह्ममनुस्मरन् | पञ्चब्रह्माकृतिं वक्ष्ये शृणुष्वेवं महेश्वर || २२७ || शुद्धस्फटिकसङ्काशं चतुर्वक्त्रं चतुर्भुजम् | हारके पूरकटकं कुण्डलाभरणोज्वलम् || २२८ || गोमेतककिरीटं च श्वेतयज्ञोपवीतकम् | खेटटंक समायुक्तं वरदाभयपाणिकम् || २२९ || भास्वरप्रभवालेन्दु सद्योजातस्वरूपकम् | वामदेवोद्भवं रक्तं चतुर्वक्त्रं चतुर्भुजम् || २३० || प्द्f ३६, प्. ६८०) मज्जीरकङ्कणोद्भासि कटिसूत्रोदरं तथा | प्रवालमकुटं चैव हेमयज्ञोपवीतकम् || २३१ || वराभय समायुक्तं पाशाङ्गुश कराम्बुजम् | त्रिणेत्रं त्रिविलासं च कर्णकुण्डलमण्डितम् || २३२ || एतद्वै वामदेवस्य मन्त्रमूर्ति स्वरूपकम् | अघोरं दंष्ट्रिणां भीमं भिन्नाञ्जन समप्रभम् || २३३ || अष्टबाहुं त्रिणेत्रं च चतुर्वक्त्रं जटाधरम् | रक्ताम्बरधरं चैव रक्तवस्त्रोत्तरीयकम् || २३४ || रक्तचन्दनलिप्ताङ्गं रक्तमालाविभूषितम् | शूलवेताल खड्गांश्च चक्रं दक्षधरोदधत् || २३५ || नागं खेटं च घण्टा च विस्मयं वामपाणिभिः | नीलाङ्गुलीयकं चैव नागयज्ञोपवीतकम् || २३६ || एवं चाघोरमन्त्रयय मन्त्रमूर्तिस्वरूपकम् | पूरुषं कुङ्कुमाकारं चतुर्वक्त्रं चतुर्भुजम् || २३७ || सव्ये वामे दधट्टङ्कं शूलं डमरुकं गदाम् | त्रिकोणं सौम्यवक्त्रं तु किञ्चित्प्रहसिताननम् || २३८ || हेमाङ्गुलीयकं चैव हेमवस्त्रोत्तरीयकम् | मुक्ताफलकिरीटं च माणिक्कादङ्गुलीयकम् || २३९ || एतत्पूरुषमन्त्रस्य मन्त्रमूर्तिस्वरूपकम् | दशबाहुं त्रिणेत्रं च पञ्चवक्त्रं जटाधरम् || २४० || वज्रशूला दण्डखड्गावभयं दक्षिणेदधत् | पाशाङ्कुशं डमरुकं दधानं वामपाणिभिः || २४१ || प्द्f ३७, प्. ६८१) माणिक्कं मकुटं चैव माणिक्काङ्गुलिभूषणम् | सौम्यं स्फटिकवर्णाभं ईशमूर्तिस्वरूपकम् || २४२ || अघोरमूर्ति रौद्रं तु शेषास्सौम्या उदाहृताः | तं ब्रह्मरूपसौम्यं तत् परमं सृष्टिकारणम् || २४३ || ईश्वराङ्गं तु पुरुषं ऐश्वरस्य प्रदायिकम् | वामं तु वैष्णवं श्रेष्ठं स्थितिकारणमेव च || २४४ || अघोरं रुद्ररूपं तु प्रोक्तं संहारकारणम् | सदाशिवं तथैशानं महामोक्षप्रदायकम् || २४५ || इत्थं ब्रह्माधिदैवत्यं कलान्यासविधिं शृणु | कला देवमया श्रेष्ठाः कलामन्त्रश्च तान्त्रिकम् || २४६ || कलाभिस्तु कलाशक्ति न्यसेद्दक्षिणमिश्रितम् | कलाब्रह्मवदाकारा कन्याकारास्तु शक्तयः || २४७ || सृणि पाशवराभीति विभूषित कराम्बुजाः | सर्वाभरण संपूर्णा मकुटैरुपशोभिता || २४८ || ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः | अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश || २४९ || अजातेष्ठ कलाश्चैव अष्टत्रिंशत्कलामताः | कलाभिस्तु कलाशक्ति न्यासं वक्ष्ये क्रमाच्छृणु || २५० || शशिनी त्वङ्गदा चैव तथेष्टा च मरीचिका | ज्वालिनीति कलाः पञ्चक्रमादेताः प्रविन्यसेत् || २५१ || पूर्वं तु दक्षिणं पश्चात् उत्तरं पश्चिमं तथा | ऊर्ध्वं च मूर्ध्वसीशानं स्थानं पञ्चसु विन्यसेत् || २५२ || प्द्f ३८, प्. ६८२) शान्ति विद्या प्रतिष्ठा च प्रधानस्य चतुष्कलाः | एताः पूरुषशक्तिश्च चतुर्वक्त्रेषु विन्यसेत् || २५३ || पूर्वं च दक्षिणं चैव सौम्यं चैव तु पश्चिमम् | दितिर्घटा क्षयानिष्ठा कर्मायादि ज्वरातथा || २५४ || एताः कलास्त्वघोरस्य हृदयादिषु विन्यसेत् | हृदये चैव कण्ठे च स्कन्धयुग्मे तथैव च || २५५ || उदरे चैव नाभौ च पश्चाद्भागे तथैव च | उरसीत्यष्टभिस्थानैर्वक्ष्यते च यथाक्रमम् || २५६ || रजारक्षा रतीश्चैव पालिकामा च संयमा | कार्या वृद्धिः क्रियाधात्री भ्रामणी च तथा पुनः || २५७ || मोहिनी च भया वामे त्रयोदश कला इमाः | मेढ्रे गुदे च ऊर्वोश्च जानुनोश्चैव जङ्घयोः || २५८ || पश्चाज्जघनयोः कट्यां पार्श्वयोश्च क्रमान्यसेत् | सिद्धि ऋद्धिद्वितिश्चैव लक्ष्मीमेधा तथैव च || २५९ || कान्ति स्वधा धृतिश्चाभा सद्योजात कला इमाः | पादयोः करयोश्चैव हस्तयोः कक्षयो न्यसेत् || २६० || ध्यात्वा शिवमयं रूपं अष्टत्रिंशत् कलात्मकम् | तदन्ते पिण्डमन्त्राणि तत्तत्स्थानेषु विन्यसेत् || २६१ || ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषं न्यसेत् | अघोरं हृदयेन्यस्य गुह्ये वामं प्रकल्पयेत् || २६२ || अजातं पादयोन्यस्य पुनरङ्गानि विन्यसेत् | हृदयं हृदयेन्यस्य शिखाश्शिरसि विन्यसेत् || २६३ || प्द्f ३९, प्. ६८३) शिवायान्तु शिखां न्यस्य कवचं स्तनयोर्न्यसेत् | नेत्रेषु नेत्रमन्त्रेण दशदिग्बन्धनं स्मृतम् || २६४ || पञ्चब्रह्म षडङ्गानां क्रमाद्बीजाक्षरं न्यसेत् | आकाश बीजवर्गे तु षडाक्षर विवर्जिते || २६५ || अजातं प्रथमं प्रोक्तं तृतीयं वाममुच्यते | अघोरं पञ्चमं प्रोक्तं नरमेकादशं भवेत् || २६६ || त्रयोदशार्णमीशानं ब्रह्मबीजमुदाहृतम् | द्वितीयं हृदयं प्रोक्तं चतुर्थं तु शिरो भवेत् || २६७ || षष्ठाक्षरं शिखामन्त्रं द्वादशं कवचं विदुः | नेत्रं पञ्चदशं प्रोक्तं अस्त्रं षोडशकं तथा || २६८ || नमः स्वाहा वषट् वौषट् हुंफट् कारसमन्वितम् | इदमप्यङ्गरक्षार्थं विन्यसे**(?)षंगकम् || २६९ || षडङ्गदेवता वर्णं शृणुष्वेवं महेश्वर | श्वेतपीतं च रक्तं च कृष्णं विद्युत् च कुङ्कुमम् || २७० || चतुर्बाहुं त्रिणेत्रं च वराभ्य समायुतम् | कपालं शूलवरदं परशुं पाणिभिर्घृतम् || २७१ || अस्त्रं नेत्रं च रौद्रं तु शेषास्सौम्या इति स्मृताः | गन्धं पुष्पं च धूपं च वर्णमन्त्रेण दापयेत् || २७२ || स्वरूपं पूजयेद्ध्यात्वा ज्ञानमुद्रात्वनन्तरे | पिण्डमन्त्रं जपेत् पश्चात् बीजानां कारणं शृणु || २७३ || वीरबीजान्त अन्तस्था नादं षोडशमात्रकम् | सर्वमन्त्रात्मकं मन्त्रं पिण्डमन्त्रमिदं शुभम् || २७४ || प्द्f ४०, प्. ६८४) सकृज्जप्त्वा शिवं ध्यात्वा बध्नीयाज्ज्ञानमुद्रिकाम् | लिङ्गभेदक्रमं वक्ष्ये विशेषं तु यथाक्रमम् || २७५ || लिङ्गद्वयमिति प्रोक्तं चल**(?)लमेव च | चललिङ्गे सदावासं पूजयेत् परमेश्वरम् || २७६ || अचलं लिङ्गदेवं तु मन्त्रसंस्कारपूर्वकम् | मन्त्रसंस्कारहीने तु लिङ्गमाकृति मात्रकम् || २७७ || चरलिङ्गं विशेषं तु गुरुदेवो महेश्वरः | तस्मात् सर्वप्रयत्नेन स्वामिरूपं सदार्चयेत् || २७८ || कर्मस्य चोभयार्थी च सादाख्यं तत्वभावयेत् | सत्यवस्तु स्वरूपं तु परं सादाख्य तत् **(?) || २७९ || सर्वदेवाकृतिं शुद्धं सदाशिवं महेश्वर | पूर्वाकृतिं परित्यज्य सादाख्याकृतिरेव च || २८० || सादाख्यस्य तदूर्ध्वे तु विन्यसेन्नृत्तरूपकम् | नृत्तरूपं सदा ध्यात्वा दक्षिणालयमादिकः || २८१ || ज्योतिरूपं नटन्नित्यं सृष्टिस्थित्यन्तकारणम् | नवतत्वमयं स्थानं सर्वसंपत्करं परम् || २८२ || चतुर्बाहुं सदानृलं नादान्नान्त सकारणम् | शुभं परमनिर्वाणं सर्वदेह सदाशिवम् || २८३ || तस्य सादाख्यस्वरूपं तु ध्यात्वा मध्ये नटेश्वरम् | हृत्पद्ममध्ये संस्थाप्य नादतन्त्रं कलामयम् || २८४ || एकवक्त्रं चतुर्बाहुं द्विपादं वृत्तमध्यमम् | आसीनं वा सुनृत्तं वा ध्यायेन्नित्यं महेश्वर || २८५ || प्द्f ४१, प्. ६८५) पञ्चवक्त्रं दशभुजं द्विपादं वृत्तमध्यमम् | अङ्गुष्ठमात्रमचलं शुद्धतत्वं नवात्मकम् || २८६ || * * * * * * * * (?) सादाख्याकृतिं चिन्तयेत् | आत्मानं तु सकारस्यं अन्तरात्मा तु बिन्दुकः || २८७ || परमात्मा खबीजस्थो नादष्षोडश तन्त्रिकः | सर्वं हृदयमन्त्रेण पूजयित्वा यथाक्रमम् || २८८ || अष्टत्रिंशत्कलान्यासं अष्टत्रिंशात्मकंमतम् | अष्टत्रिंशत्परं नृत्तं न्यासकालक्रमं शृणु || २८९ || सर्वं हृदयमन्त्रेण पू* * * * *(?)क्रमम् | अष्टत्रिं* * * * * * (?)ष्टत्रिंशात्ममन्त्रकम् || २९० || अष्टत्रिंशत्परं नृत्तन्यासकालक्रमं शृणु | देहशुद्धिं कलान्यासं अष्टत्रिंशात्ममन्त्रकम् || २९१ || योगञ्च नृत्तमन्त्रञ्च पूर्वस्थाने क्रमान्यसेत् | आत्मशुद्धिक्रमं प्रोक्तं स्थानशुद्धिक्रमं शृणु || २९२ || हस्तमात्रं खनेद्भूमिं तन्मृद्भिः पूरयेत् क्रमात् | ****(?)क्ष्य बहुधा लोष्टास्थ्यादीनि वर्जयेत् || २९३ || समं भूमितलं कृत्वा प्रोक्षयेत् पञ्चगव्यतः | वितान ध्वजसंयुक्तं कदलीक्रमुकान्वितम् || २९४ || दर्भमाला समायुक्तं मुक्तादामविभूषितम् | पुष्पमाला समाकीर्णं दीपमाला परिष्कृतम् || २९५ || पालिकाभिरनेकाभिः दशदिक्षुनिषेवितम् | प्. ६८६) पगे मिस्सिन्ग् प्द्f ४२, प्. ६८७) शुद्धोदकेन संपूर्य सौरन्यासं समाचरेत् || ३०७ || वह्निबीजं विसर्गान्तं अस्त्राय फडिति ब्रुवन् | स्थले पृष्ठे च संशोध्य करयोर्दक्षवामयोः || ३०८ || मूलमन्त्रं षडङ्गं च क्रमाद्वक्ष्ये महेश्वर | प्रणवं वह्नि संयुक्तं *(?) कारान्तान्तमक्षरम् || ३०९ || स बिन्दुं मूलदीर्घं च पुनस्तच्छिरसायुतम् | व्योमपूर्वं विसर्गान्तं सूर्यमन्त्रं नमोन्तकम् || ३१० || सान्तं बिन्दु समायुक्तं हृदयं हृदयेन्यसेत् | अर्काय शिरसे न्यस्य भूर्भुवस्व शिखान्यसेत् || ३११ || भुविकारं कवचं न्यस्त्वा त्रिवेदिनेति मन्त्रतः | अग्निबीजं विसर्गान्तं सौरास्त्रं दिक् च संयुतम् || ३१२ || कान्तं बिन्दु समायुक्तं अर्चयेत् शिवमव्ययम् | अबिन्दुमेकमुच्चार्य पोल्कसूर्यान्तमुच्चरन् || ३१३ || मन्त्रेणानेन गन्धं च पुष्पं चैव प्रदापयेत् | कुशाक्षतेनयूपान्तं अर्चयेद्रक्तचन्दनम् || ३१४ || अर्घ्यमेकं प्रतिष्ठाप्य सौरध्यानक्रमं शृणु | एकवक्त्रं द्विबाहुं च द्विनेत्रं घृतपङ्कजम् || ३१५ || तेजोमण्डलमध्यस्थं रक्तवास समुज्वलम् | सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् || ३१६ || रक्तवर्णं महात्मानं मम रूपं महेश्वर | चतुर्वक्त्रमष्टबाहुं ध्यायेद्दिवसनायकम् || ३१७ || त्रिणेत्रं च चतुर्बाहुं अकृतघ्ननिवारकम् | सप्ताश्वरथमारूढं प्रभाकरविभाकरम् || ३१८ || प्द्f ४३, प्. ६८८) उषा वरुणसंयुक्तं प्रभासन्ध्यासमन्वितम् | मेधा प्रज्ञा समायुक्तं सोमादिग्रहसंयुतम् || ३१९ || सोमाङ्गारबुधाश्चैव जीवशुक्रशनैश्चराः | राहुः केतुं क्रमादेते ग्रहा मृत्युविनाशनाः || ३२० || गोक्षीरवर्णं सोमस्यादङ्गारो रक्तवर्णकम् | श्यामवर्णो बुधप्रोक्तो नीलवर्णोबृहस्पतिः || ३२१ || शुक्रः कुन्देन्दु वर्णस्तु कृऽणवर्णश्शनैश्चरः | काकमेघनिभोराहुः केतु धूम्राभ उच्यते || ३२२ || पद्मासनस्थितास्सर्वे सर्वलक्षणसंयुताः | सर्वाभरणसंपूर्णा द्विभुजाश्च प्रकीर्तिताः || ३२३ || सोममुत्तरदिग्भागे पूर्वास्यां दिशिभार्गवः | अङ्कारकं याम्यभागे पश्चिमे तु बृहस्पतिम् || ३२४ || शनैश्चरं तथैशान्यां आग्नेयां राहुमेव च | केतुं च नैऋते भागे विन्यसेद्बुधमानिले || ३२५ || पुरस्ताद्रथमश्वांश्च त्वरुणं पुरतोन्यसेत् | प्रभामुषां च सन्ध्यां च प्रज्ञां चैव तु विन्यसेत् || ३२६ || रोधश्च सूर्यचण्डेशं ऐशान्यां दिशि पूजयेत् | अथाष्ठौ लोकपालांश्च तत्तत्स्थानेषु पूजयेत् || ३२७ || गन्धपुष्पादिकं सर्वं स्वनाम्ना प्रतिपादयेत् | षडङ्गन्यासमंभस्य अर्घ्यं चैव प्रदापयेत् || ३२८ || सूर्यार्चनविधि प्रोक्तः शृणु प्राकारलक्षणम् | पञ्चप्राकारनामानि शृणुष्वेवं महेश्वर || ३२९ || प्द्f ४४, प्. ६८९) अन्तर्मण्डलमाद्यं स्यात् अन्तर्हाराद्वितीयकम् | मध्यहारं तृतीयं स्यात् मध्यादि च चतुर्थकम् || ३३० || महामर्यादिकं चैव पञ्चमं परिकीर्तितम् | एतेषामायमानं च प्राकाराणां शृणु क्रमात् || ३३१ || अन्तर्मणुलमानं स्यात् अर्धदण्डप्रमाणतः | अन्तर्हारकमेकं तु मध्यहारं द्विदण्डिका || ३३२ || चतुर्दण्डश्च मध्यादि सप्तदण्डश्च पंचमम् | कूपस्थानं तृतीयस्य प्राकारस्यदिकीशितुः || ३३३ || अन्तरेणेन्द्रमग्निं च धनस्थानं प्रकीर्तितम् | आग्नेय याम्ययोर्मध्ये वस्त्रशालासमीरिता || ३३४ || वायव्य सौम्ययोर्मध्ये शयनस्थानमुच्यते | महामर्यादिकैशान्यं महामण्टपमुच्यते || ३३५ || यजमानेच्छया देशे क्वापि मण्टप कल्पना | प्राकारमण्टपं प्रोक्तं द्वारपूजाविधिं शृणु || ३३६ || अथ संपूजयेच्छंखं निशिमध्यस्थितं जयम् | सोपानं दक्षिणे पार्श्वे कुन्देन्दु च समप्रभम् || ३३७ || पश्चात् पद्मनिधिर्मध्ये स्थिरमुत्तरपार्श्वगम् | कम्बुग्रीवं वरप्रदं हस्तिवक्त्रमनन्तरम् || ३३८ || क्षिप्रप्रासादनामानं विघ्नकर्तृविनायकौ | वर्णश्च दशविघ्नानां वक्ष्यते तु पृथक् पृथक् || ३३९ || श्वेतं रक्तं तथा कृष्णं प्रवालं नीलमेव च | धूम्रं स्वर्णं बालसूर्यं मौक्तिकं पुष्परागकम् || ३४० || प्द्f ४५, प्. ६९०) दक्षिणे तु कपाटस्य ब्रह्मा तत्राधिदेवता | उत्तरे च कपाटस्य देवता विष्णुरुच्यते || ३४१ || मध्यस्था फलकायातु रुद्रस्तत्राधिदेवताः | दक्षिणे तु कपाटस्य शिखा भृङ्गीश देवता || ३४२ || कपाटोद्घाटने देवौ ध्वनिकेतन देवता | पट्टिकानां च सर्वासां सुब्रह्मण्यो महेश्वरः || ३४३ || फलकानां च देवानां वायुस्तत्राधिदेवता | अस्त्रमन्त्रेण संप्रोक्ष्य सुषिरं बन्धयेत् ततः || ३४४ || वलयौ सूर्यसोमेशौ नेत्रमन्त्रं समुच्चरन् | गन्धं पुष्पं च धूपं च दीपं च हविराददेत् || ३४५ || कपाट वलयौ प्रोक्तौ सूर्यचन्द्राधिदैवतौ | कपाटं दण्डमध्यस्थौ अष्टपर्वतदेवताः || ३४६ || कपाटभूषणानान्तु अष्टनागाः प्रकीर्तिताः | कपाटवासि देवांश्च पूजयेत् स्वस्वनामभिः || ३४७ || कपाटे दक्षिणे पार्श्वे वामहस्तं प्रवेशयेत् | वायुमन्त्रेण यन्त्राणां चलनं कारयेत् ततः || ३४८ || सर्वर्द्वार कपाटानां देवानित्थं प्रपूजयेत् | दक्षिणे द्वारदेवानां गन्धर्वायक्षराक्षसाः || ३४९ || पश्चिमद्वारदेवानां देवदेवस्त्रियस्तथा | उत्तरद्वारदेवानां षट्कारोंकारव्याहृतिः || ३५० || चतुर्थप्राकृतिद्वारे त्वग्रेशवायते नमः | पार्श्वे तु दक्षिणे देवो शिवज्योतिषनामकः || ३५१ || प्द्f ४६, प्. ६९१) उत्तरेद्वारपार्श्वे तु देवस्तु विजयाह्वयः | दक्षिणद्वारदेवानां ज्ञानद्रुतगुणाय च || ३५२ || पश्चिमद्वारदेवानां भूतरुद्राम्बिकाय च | उत्तरद्वारदेवानां अभयाय गुणाय च || ३५३ || तृतीय प्राकृतिद्वारे अग्रे कल्याणदेवता | पार्श्वे तु दक्षिणे देवीं वीरभद्रं प्रपूजयेत् || ३५४ || उत्तरे चैव पार्श्वे तु शिवज्योतिषिनामकम् | दक्षिणद्वारदेवानां मारुतोदैत्यदानवाः || ३५५ || पश्चिमद्वारदेवानां सुयशादेवविक्रमाः | उत्तरद्वारदेवानां मद्भूतानलरुद्रकाः || ३५६ || द्वितीयप्राकृतिद्वारे अग्रे सुन्दरदेवता | दक्षिणे पार्श्वदेवानां नीललोहितदेवता || ३५७ || उत्तरे पार्श्वदेवानां कालभैरवदेवताः | दक्षिणेद्वारदेवानां शिवानन्दावृताय च || ३५८ || पश्चिमेद्वारदेवानां साक्षिसत्यप्रियाय च | उत्तरद्वारदेवानां ईशानां देवतापुराः || ३५९ || प्रथमं प्राकृतिद्वारदेवार्चनविधिं शृणु | सरस्वती तु द्वाराग्रे तदग्रे च वृषस्तथा || ३६० || तदग्रे दशविघ्नेशान् त्रिशूलं च प्रपूजयेत् | नन्दीशं दक्षिणे पार्श्वे महाकालं च वामके || ३६१ || मध्ये दन्तेश्वरायेति अथः कमलवासिनीम् | दक्षिणद्वारदेवानां दण्डिमुण्डी तु शोभने || ३६२ || प्द्f ४७, प्. ६९२) पश्चिमद्वारदेवानां अन्तं पशुपतिर्भवेत् | उत्तरद्वारदेवानां भ्रुकुटी विजयभैरवाः || ३६३ || श्रीदेवी मूर्ध्वभागे तु भूमिदेवीं यजेदथः | ज्ञानशक्ति क्रियाशक्तिं गर्भद्वारे प्रपूजयेत् || ३६४ || एवं द्वारार्चनं कृत्वा पश्चान्मण्टपमर्चयेत् | वास्तोष्पतीति मन्त्रेण त्वैशान्यां वास्तु देवताम् || ३६५ || सुपूज्यगन्धपुष्पाद्यैः महाघण्टां प्रताडयेत् | मणीनां वसवोदेवा सूचयेत् सोमदेवताः || ३६६ || विदध्यादर्चनां काले घण्टानां तु महाध्वनिम् | तेन शब्देन महता राक्षसानां विनाशनम् || ३६७ || लिङ्गं चतुर्विधं ज्ञेयं स्थावरं शास्त्रचोदितम् | दैविकं चार्षकं चैव गाणवं मानुषं तथा || ३६८ || एतेषु देविकानान्तु लिङ्गानां लक्षणं शृणु | दीर्घाकारं भवेल्लिङ्गं निम्नोन्नत समुद्भवम् || ३६९ || रेखादोटरसंयुक्तं मुखैधारा *(?)वोन्नतम् | पर्वताग्राकृतिं रन्ध्रं बह्वग्रं शिखयायुतम् || ३७० || कराभ्यां संपुटाकारं ब्रह्मसूत्र विवर्जितम् | इत्येतैर्ल्लक्षणैर्युक्तं देविकं लिङ्गमुच्यते || ३७१ || मूलस्थूलं भवेल्लिङ्गं अग्रस्थूलं तथैव च | मध्यस्थूलं च लिङ्गानां नालिकेरफलाकृतिः || ३७२ || कदलीफलसङ्काशं बिल्ववृक्षफलाकृतिः | विकटद्विनिसोय अङ्गं च कुंभास्थं च **(?) || ३७३ || प्. ६९३) पगे मिस्सिन्ग् प्द्f ४८, प्. ६९४) स्थूलं च सुमध्यमस्थूलम् || मुखनिष्कलं सकलं निष्कलार्थं विकटमाकुटं च स्निग्धम् | प्रकीर्णं चण्डविक्रान्तं सुभद्रलिङ्गं च परशिवाय || कोमकं वीरविपुलशाश्वतद्रोणभद्र चसुरेश च पावनम् | निम्नोन्नतं चैव निस्सर्गभेषजं व्याख्यातवीरंश्च सुभद्रलिङ्गम् || ३८५ || विकृतसितं च शूलबन्धनं स्तम्भं च आशी सु सूर्यवं च | अमलीकृतं अशेकरं च विविलवैक्रान्तकुशेकरं प्रभुः || ३८६ || प्रतिलाभतप्तं च यवेसु मध्यमं पिपीलिका मध्यमं पञ्च पञ्च | पार्श्वग्र मूलाग्र सुमध्यमाग्र मूर्ध्वाग्रलिङ्गं चतुरश्रलिङ्गम् || ३८७ || अवादताग्रमायतवृत्तलिङ्गं अरविन्दमयं चैव शिवपञ्चकुष्ठम् | मन्दं च कैडंचकरं सुभ्रुल्लविलंवितं सुवर्णसुवर्णलिङ्गम् || ३८८ || प्द्f ५०, प्. ६९७) लिङ्गपीठं स्थलं चैव शोधयेत् तु हृदांभसा || ४०९ || गन्धपुष्पादिनाभ्यर्च्य लिङ्गं सर्वाङ्गमुच्चरन् | लिङ्गस्य मूर्ध्ना देशन्तु स्पृशेदीशानमन्त्रतः || ४१० || लिङ्गस्य मुखदेशं तु तत्पुरुषेण च संस्पृशेत् | लिङ्गस्य पार्श्वौ बाहुभ्यां अघोरेणानुसंस्पृशेत् || ४११ || लिङ्गस्य पृष्ठदेशे तु वामदेवेन संस्पृशेत् | पीठान्तं संस्पृशेत् पादौ बाहुभ्यां सद्यमन्त्रतः || ४१२ || महापट्टिकादुपानान्तं देव्यङ्गानि प्रपूजयेत् | देव्यं स्वङ्गानि भवनं वक्ष्ये तल्लिङ्गमुच्यते || ४१३ || प्रासादं सदनं सद्म गृहंधामनिकेतनम् | विमानं सदनं हर्म्यं वासो मन्दिरमालयम् || ४१४ || निलयश्चेति विख्याताः तस्याः पर्यायवाचकाः | विमानलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर || ४१५ || अधिष्ठानं तु प्रथमं उपानं तु द्वितीयकम् | तृतीयं जगती चैव पद्मं चैव चतुर्थकम् || ४१६ || कुमुदं पञ्चमं चैव तथा षष्ठं तु पट्टिका | भिन्नश्च सप्तमं प्रोक्तं स्तम्भमष्टममेव च || ४१७ || नवमं पालिका चैव दशमं कम्पमेव च | एकादशं कपोतं च द्वादशं भूतमालिका || ४१८ || त्रयोदशं तु कण्ठश्च नासिका तु चतुर्दशम् | पञ्चदशं तु शिखरं स्थूप्यग्रं षोडशं भवेत् || ४१९ || षोडशांशश्च शक्तीनां नामानि च शृणु क्रमात् | आधारशक्ति प्रथमाद्वितीयात्वातु शक्तिका || ४२० || प्द्f ४९, प्. ४९८) तृतीया च क्रियाशक्तिः ज्योतिश्चक्रश्चतुर्थिका | गुणशक्तिः पञ्चमी तु षष्ठी च स्थानशक्तिका || ४२१ || त्रयोदशी ज्ञानशक्तिः चतुर्दश्यर्भवीयकाः | पञ्चदशी तु कल्याणी स्थूप्यग्रे तु महेश्वरी || ४२२ || अधिष्ठानादि स्थूप्यन्तं शक्तिरेताः क्रमान्यसेत् | इत्थं शक्त्या कृतेर्धाम्नो लक्षणं वक्ष्यते शृणु || ४२३ || सञ्चितं चासंचितं च उपसञ्चितमुच्यते | सञ्चितं प्रस्तरैर्युक्तं स्थलहीनमसञ्चितम् || ४२४ || अङ्गोपाङ्ग समायुक्तं उपसञ्चितमुच्यते | विमानं लिङ्गशक्तीनां नामानि च शृणु क्रमात् || ४२५ || नालिकाख्यं विमानं स्यात् समखण्डन्तु लिङ्गकम् | क्षान्ति शक्तिश्च प्रलीकमास्थापन जयात्मिका || ४२६ || स्वस्तितं स्थापितं लिङ्गं प्रजाशक्तिऽऽचतुर्मुखम् | प्रतिष्ठालिङ्गं वाराही सर्वतोभद्रकं शुभम् || ४२७ || योनिलिङ्गं क्रियाशक्ति हस्तपृष्ठं गणाधिपम् | धूम्रशक्तिस्समुज्वल्यं फणोद्घटसुलिङ्गकम् || ४२८ || फलिनीशक्तिरित्युक्तं श्रीच्छन्दं विंशदंगुरुम् | गुणशक्तिवृत्तभद्रं फललिङ्गं अनीयकम् || ४२९ || श्रीकान्तं स्थापितं लिङ्गं भ्रामणी शक्तिसंयुतम् | श्रीप्रतिष्ठाख्यसदनं मूलस्थूलं तु लिङ्गकम् || ४३० || आत्मशक्तिश्च क्षीरं मध्यस्थूलं तु लिङ्गकम् | मन्त्रशक्ति शिरच्छेद मुखनिष्कललिङ्गकम् || ४३१ || प्द्f ५१, प्. ६९९) रक्षारङ्गोपुटं चैव लिङ्गं सकलनामकः | अङ्गदाशक्तिरित्युक्तं सर्वदं निष्कनार्थकम् || ४३२ || रक्षारं गोपुरं चैव लिङ्गं सकलनामकम् | अङ्गारशक्तिरित्युक्तं सर्वदन्निष्कलार्थकम् || करणाशक्तिरित्युक्तं विष्णुच्छदन हर्म्यकम् | क्रियाशक्तिश्चयौ भद्रा टंकं लिंकं स्वधामयी || ४३३ || कैलास विकटं लिङ्गं पार्वतीशक्ति संयुतम् | चन्द्रं मकुटलिङ्गं च शक्तिशक्ति समायुतम् || ४३४ || रुद्रच्छन्दन्तु सदनंस्थकलिङ्गं च भैरवी | वृकितं प्रकीर्णलिङ्गं च त्वयारामेरछन्दकम् || ४३५ || चण्डिलिङ्गं विटां छक्तिं श्रीकूटं कान्तलिङ्गकम् | नादशक्तिश्च कुम्भं च भद्रलिङ्गरजायिनी || ४३६ || जयाङ्ग परलिङ्गं च क्रीडाशक्ति समन्वितम् | विमानं शिवलिङ्गस्य क्षमाशक्त्यमलकृति || ४३७ || कोमलं लिङ्गमित्याहुरादिशक्ति समायुतम् | हंसच्छन्दं तु निलयं वीरं विपुललिङ्गकम् || ४३८ || मोहशक्ति वृषच्छन्दं शालिङ्ग भ्रमणीयकम् | गरकश्चन्दनिलयं क्रोणभद्रहसीयकम् || ४३९ || पद्माङ्गसदनं चैव स्थिरलिङ्गं मनोन्मनी | पद्मभद्रविमानस्य पावनं लिङ्गमुच्यते || ४४० || ऋद्विशययन्तु सवनं निम्नोन्नत सुलिङ्गकम् | रुद्रशक्तिश्च सदनं कुक्कुटं मारलिङ्गकम् || ४४१ || प्द्f ५२, प्. ७००) परशक्तिं निकान्तं च विख्यातं लिङ्गपालिनी | रुद्रकान्तं तु सदनं रविलिङ्गन्तु ग्रामणी || ४४२ || योगभद्र विमानस्य भद्रलिङ्गं सकान्तिकम् | भोगच्छन्दस्य सदनं चक्रलिङ्गस्य शोषणी || ४४३ || विन्ध्यचक्रं विमानं तु शृङ्गलिङ्ग सुभैरवम् | मेरुकूटविमानस्य बन्धलिङ्गांग शक्तिकम् || ४४४ || श्रीमहेन्द्रन्तु सदनं स्तंभलिङ्गं तु दक्षिणम् | कल्याणशक्तिरित्युक्तं बुद्बुदं राशिलिङ्गकम् || ४४५ || कामाधिशक्तिरित्युक्तं श्रीमण्डलमार्थलिङ्गकम् | चिन्त्येशक्तिस्तु सौम्याख्यं मण्डलं लिक्तलिङ्गकम् || ४४६ || पैशाच शक्तिरित्युक्तं जयं चालोकटं शुभम् | पालिनीशक्तिरित्युक्तं मङ्गलाभियलिङ्गकम् || ४४७ || विष्णुशक्तिस्तु सदनं नीलपर्वतकान्तिकम् | ज्योतिशक्तिमिनिलितमतुशेधुसुलिङ्गकम् || ४४८ || श्रेष्ठशक्तिसिसूकारं प्रभुलिङ्गं प्रतिष्ठतम् | विजयं प्रतिलिङ्गं च विद्याशक्ति समायुतम् || ४४९ || ललितं कान्ततप्तश्च ध्वनिशक्तिसमन्वितम् | अद्वयं यममध्यस्थं लिङ्गं ताण्डवशक्तिकम् || ४५० || श्रीविलासाख्यसदनं पिपीलिकसुलिङ्गकम् | अतिप्रतिष्ठशक्तिश्च सोमच्छन्दं तु हर्म्यकम् || ४५१ || पल्लवेति सुलिङ्गस्यमयं शक्तिसमायुतम् | नागं च दन्तपार्श्वस्थदिति कुर्यासु वृत्तकम् || ४५२ || प्द्f ५३, प्. ७०१) मूलाग्रलिङ्गशान्तिस्यादिन्द्रमध्यममाश्रकम् | सन्नधीशक्तिश्रीवत्सर्तमूर्ध्वाङ्गस्तृतिशक्तिकम् || ४५३ || पद्मग्रहं तु सदनं चतुरश्रं सुलिङ्गकम् | विद्रुमाशक्तिरित्युक्तं प्रोक्ष्यदायाश्रलिङ्गकम् || ४५४ || दशशक्तिः क्रियावर्तयातालिङ्गं प्रतीतथा | तन्निकामन्तु हृल्लिङ्गं महाशक्तिर्ज्जयांगकम् || ४५५ || विलम्बित सुलिङ्गयय वासं विशालभद्रकम् | वैणवंसेति लिङ्गस्य कामारं भद्रलिङ्गकम् || ४५६ || सुवर्णलिङ्गमित्याहुः तृष्णाशक्ति समायुतम् | गाणवाशालसदनं ताम्राभं वर्णलिङ्गकम् || ४५७ || कामशक्तीति कण्ठस्य महेशं लिङ्गरौद्रकम् | भद्रलिङ्गविमास्त्री शिवलिङ्गन्तु कार्यकम् || ४५८ || रुद्रशक्तीतिशालायां चन्द्रलिङ्गाङ्गशक्तिकम् | पद्मावसानसदनं चरलिङ्गादिशक्तिकम् || ४५९ || धैर्यशाश्वतलिङ्गस्य भूतशक्तिश्च विष्णुकम् | षट्कारं लिङ्गकाली तु विद्रुमालयगोपुरः || ४६० || सप्तधारासु लिङ्गस्य रविशक्तिस्तु सर्वकम् | नवंधारा सुलिङ्गस्यदाधारी ललितालयम् || ४६१ || षोडशाधारलिङ्गस्य लक्ष्मीन्द्रंत्रन्नहर्म्यकम् | सहस्र शुभ्रलिङ्गस्य कामशक्तिर्विशालकम् || ४६२ || शिखराग्र सुलिङ्गस्य सिद्धीनुप्लायशत्रकम् | माणिक्यलिङ्गमित्याहुक्षान्तीहाराजवह्निकम् || ४६३ || प्द्f ५४, प्. ७०२) कृष्णाशक्तीति सदनं चन्द्रमालीकरं शुभम् | शैललिङ्गस्य द्वितिनं द्विशाशालाग्रगोपुरम् || ४६४ || शिखाग्र लिङ्गज्वालीतु पृथिव्यादनकाममुम् | सहस्रधारालिङ्गस्य वाक्शक्तिर्विजयालयम् || ४६५ || शताष्ठधारालिङ्गस्य निवृत्तिं सर्वदालयम् | अन्यर्थं सर्वनिष्ठाथीदंगजालयमाषकम् || ४६६ || मोहशक्तिनिसौन्दर्यमालयं यवलिङ्गकम् | धृतिशक्तिसदच्छाया **(?) स्फटिकलिङ्गकम् || ४६७ || क्षेत्रशक्तीति सदनं नागरं लिङ्गमानसम् | नागशक्तीति सदनं द्राविडं वर्धमानकम् || ४६८ || क्षान्ति शक्तीति सदनं वेसरं शयनं धृतिः | सदनं लिङ्गशक्तीनां जीवप्राणव्यवस्थितम् || ४६९ || स्वरूपं जीवशरणं मध्यनृत्तस्वरूपकम् | तस्मात् सर्वात्ममध्यस्थं ज्योतिरूपं नटं गुरुम् || ४७० || गुणागुण स्वरूपस्य कृत्स्नं दक्षिणमीश्वरम् | शङ्खकाहलवल्लर्यैः घण्टाघोषैः सुनूपुरः || ४७१ || महानाद नरैः पूज्य दक्षिणेश मनुस्मरन् | सदनं लिङ्गमध्यस्थं अर्चयेत्तु नटेश्वरम् || ४७२ || तस्मात् सर्वप्रयत्नेन संध्यात्वा अस्य मध्यमम् | लिङ्गमन्त्रं समुच्चार्य तन्मन्त्रोद्धारणं शृणु || ४७३ || प्द्f ५५, प्. ७०३) तृतीयस्य चतुर्थं तु बिन्दुनाद समन्वितम् | लिङ्गमन्त्रमिति प्रोक्तं शक्तीनां स्थानमुच्यते || ४७४ || आराधाराख्यात्वधिष्ठानमादिशक्तिरूपादिनम् | जगतीभूतशक्तिस्तु कुमुदं गुणशक्तिकम् || ४७५ || पट्टिकापालिनी शक्तिः कण्ठं कल्याणशक्तिकम् | अधःपट्टी तु कामाधी महापट्टीमनोन्मनी || ४७६ || ऊर्ध्वपट्टी महाशक्तिरधिष्ठानं दशात्मकम् | स्तम्भं तु नादशक्तिश्च पद्मं भैरवशक्तिकम् || ४७७ || उन्मीमूलाङ्गशक्तिस्तु पद्मावासवशक्तिकम् | कर्णिकामयिनी शक्तिः वबिण्यो उशोषणीयकम् || ४७८ || कण्ठं तु कालशक्तिश्च महानासी जयात्मिका | महानासी तदुत्सेधं शिखरं नवशक्तिकम् || ४७९ || तस्य मध्ये तु स्थूप्याधः पद्मं पार्वति शक्तिकम् | कर्णं च करुणाशक्तिः कुम्भाक्षीरामनीयकम् || ४८० || ऊर्ध्वं कुम्भं शिखाशक्तिः श्रीवत्सध्वनिशक्तिकम् | कम्बुकानादशक्तिश्च मलकं मन्त्रशक्तिकम् || ४८१ || मुकुलं कुवलयासी तु अग्रताणुवशक्तिकम् | इत्थं शक्त्यात्मकं धाम प्रोक्तं सकलरूपकम् || ४८२ || सकलं निष्कलं लिङ्गं ज्योतिरूपं तु निष्कलम् | ज्योतिप्रभासु मध्यस्थं नटं दक्षिणमद्भुतम् || ४८३ || निर्गुणं निर्मलं नित्यं मध्यमं परमं पदम् | पराशक्तिपरं नृत्तं वैदिकं दक्षिणेश्वरम् || ४८४ || प्द्f ५६, प्. ७०४) कूठस्थं वरदं सत्यं हेतुदृष्टान्तवर्जितम् | प्रासादं दक्षिणेशानं पवित्रं प्रभुमादिकम् || ४८५ || मध्यस्थं मूलरूपस्थं व्योमकं व्योमकध्वनिम् | सदानन्दमयं साम्बं साक्षिसादाशिवं गुरुम् || ४८६ || सङ्कल्पातीतकं सर्वं सभावासं सदोदयम् | समं समरसीभावं विश्वतोमुखमूर्ध्वकम् || ४८७ || दक्षिणेशं महागुह्यं सदाताण्डवमद्भुतम् | कण्ठात् प्रभृतिवस्वश्रं प्रासादं द्राविकं भवेत् || ४८८ || कण्ठात् प्रभृति वृत्तं यत् वेसरं तत्प्रशस्यते | त्रिवर्गष्षण्णवतीनानां नामवक्ष्ये महेश्वर || ४८९ || नलिकं प्रलिकं चैव स्वस्तिकं च चतुर्मुखम् | सर्वतो भद्रं चैव हस्ति पृष्ठं समुज्वलम् || ४९० || श्रीच्छन्दं वृत्तभद्रं च श्रीकान्तं श्रीप्रतिष्ठितम् | श्रीभद्रं च शिरच्छन्दं गोपुरं सर्वदा कृतिः || ४९१ || विष्णुच्छन्दं च सौभद्रं कैलासं चन्द्रमेव च | रुद्रच्छन्दं च ललितं इत्येते दैविकामताः || ४९२ || सुमेरुच्छन्दकं चैव श्रीकूटं कुम्भमेव च | जयाङ्गं विमलाङ्गं च विमलाकृतिमेव च || ४९३ || हंसच्छन्दंच्छन्दं गरुडच्छन्दमेव च | पद्माङ्गं पद्मभद्रं च शर्यं कुक्कुटकान्तकम् || ४९४ || रुद्रकान्तं योगभद्रं भोटिच्छन्दं सुदर्शनम् | स्कन्दकान्दं विन्ध्यचक्रं मेरुकूटं महेन्द्रकम् || ४९५ || प्. ७०५) पगे मिस्सिन्ग् प्द्f ५७, प्. ७०६) जगद्रष्टात्मकं वृत्तं सूर्यमण्डलरूपकम् | आकाशधात्रि यद्रूपं पीठं सम्यत्र वासिनम् || ५०७ || तस्मात् सर्वं महापीठं दक्षिणद्वारमध्यमम् | आधारं सर्वदेवानां पद्मकण्ठकयान्वितम् || ५०८ || पादप्रतिष्ठितं शुद्धं ज्ञानमुद्रास्वरूपकम् | ममरूपं सदा ध्यात्वा ममसर्वात्ममध्यमम् || ५०९ || ममरूपाकृतिं सर्वं मध्यस्थं बिन्दुरूपकम् | मम वा *(?) परं श्रेष्ठं दक्षिनद्वारमालयम् || ५१० || दक्षिणद्वारमाश्रित्य सदातारस्वरूपकम् | सर्वदेवालयस्थानि सृष्टिरूपं सुमध्यमम् || ५११ || पीठाकारस्य मध्यस्थं नादं ताण्डरूपिणम् | हृदग्रामं च मध्यस्थं नादरूपं सुशोभनम् || ५१२ || वेदताण्डवनादाय बिन्दुरूपं सुमण्डलम् | सभावासं सदाज्योतिः सदानृत्तं परं गुरुम् || ५१३ || वित्ताकृतं सुनैवेद्यं पञ्चधारस्वरूपकम् | विमानोत्कृष्टकं शुद्धं दक्षिणद्वारमालयम् || ५१४ || सुमन्त्रकं सुमन्त्रस्थं पूजयेत् परमेश्वरम् | लिङ्गं नादमयं प्रोक्तं पीठं बिन्दुस्वरूपकम् || ५१५ || लिङ्गाभावे तथापीठे तन्मूर्तिं तासु चिन्तयेत् | लिङ्गशुद्धि क्रमं प्रोक्तं मन्त्रशुद्धिक्रमं शृणु || ५१६ || मन्त्राः सर्वे भ्रुवाद्यास्तु नमस्कारादिमा स्मृताः | क्रियाकाले प्रयोक्तव्या स्तेषां शुद्धि समाचरेत् || ५१७ || प्द्f ५८, प्. ७०७) प्रकर्षणं चैव प्रणवं तु **(?) समाख्यया | अखिलं प्रणवं मन्त्रमादिनाम सुनिश्चतम् || ५१८ || सत्यं सत्यं ममध्यानं प्रणवं तु सदा जपेत् | सवं च ममरूपं स्यात् ओङ्कारं शुद्धमव्ययम् || ५१९ || अकारं च उकारं च मकारो बिन्दुनादकौ | योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् || ५२० || अकारो हृदयस्थ स्यात् उकारः कण्ठ संज्ञितः | मकारस्तालुमध्यस्थो बिन्दु भ्रूमध्य निष्ठितः || ५२१ || नादो ललाटकश्चैव योगपञ्चाक्षरं परम् | अकारस्सद्यवक्त्रं स्यात् उकारो वामवक्त्रकम् || ५२२ || मकारघोरवक्त्रं स्यात् बिन्दुस्तत्पुरुषाननम् | नादस्त्वीशानवक्त्रं स्यात् नदातीतं नटेश्वरम् || ५२३ || सूक्ष्म पञ्चाक्षरं प्रोक्तं स्थूलपञ्चाक्षरं शृणु | नकारस्सद्यवक्त्रं तु मकारो घोरवक्त्रकम् || ५२४ || ईशवक्त्रं शिकारस्तु वकारो वामवक्त्रकम् | यकारः पौरुषं वक्त्रं श्रीमत्पञ्चाक्षरो भवेत् || ५२५ || सकारो वामदेवस्तु त्रितत्वात्म व्यवस्थितः | आकाश बीजवर्गे तु मन्त्रं स्याद्वादशाक्षरम् || ५२६ || ह्रस्वं ब्रह्मषडङ्गं तु दीर्घनेत्रं सबिन्दुकम् | सर्वं विद्वन्तमस्त्रं तु विसर्गान्तमबिन्दुकम् || ५२७ || षष्ठं त्रयोदशाहं च पञ्चमे योजयेत् शुभम् | आदिलोपै नत्यलोपैर्मध्यलोपैश्च संयुतम् || ५२८ || प्द्f ५९, प्. ७०८) विभक्तिः स्वरवर्णानां मन्त्रमेतत्प्रकीर्तितम् | हकारश्शिवरूपं तु सकारश्शक्तिरूपकम् || ५२९ || हकारं बिन्दुनादास्यं सकारं सर्गसंयुतम् | शिवं स संप्रदानं च योजयेच्छिवं मन्त्रकम् || ५३० || नादश्चतुर्दशं चैव प्राकयाग्नि समायुतम् | षोडशाक्षरवर्णे तु बिन्दुनादसमन्वितम् || ५३१ || अम्बामन्त्रमिदं प्रोक्तं नवाक्षरविधिं शृणु | सान्तं हान्तं च संयुक्तं खतृतीयाक्षरं ततः || ५३२ || षष्ठस्य पञ्चमार्णं च यान्तान्तं वारुणानलौ | मान्तं षष्ठस्वरोपेतं बिन्दुनादसमन्वितम् || ५३३ || नवाक्षरमिदं प्रोक्तं अष्ठाक्षरविधिं शृणु | अष्टमस्य चतुर्थार्णं तत्पूर्वाक्षरमेव च || ५३४ || नागं कूटाक्षरं कान्तं षष्ठवर्गस्य पञ्चमम् | षट्चतुर्दशसंयुक्तं अष्टाक्षरमिदं शुभम् || ५३५ || ततः शारभमन्त्रं च रौद्रं शृणु महेश्वर | पञ्चमं पञ्चमं नादं सप्तवर्गद्वितीयकम् || ५३६ || षट्चतुर्दशस्य त्रयोदशं भूतं मध्यं तद्वर्ग षष्ठकम् | कूटदीर्घं च सप्तादि कूटदीर्घं वषडन्तकम् || ५३७ || पूर्वोक्तः पूजयेत् कृत्वा आज्यं हुत्वा सहस्रकम् | द्वादशाक्ष * * * * *(?) युतं होममाचरेत् || ५३८ || ऐन्द्रे तु पौष्टिकं कुर्यात् विद्वेषणमथानले | आकर्षणं याम्यभागे नैऋत्यां मोहनं तथा || ५३९ || प्द्f ६०, प्. ७०९) वारुण्यां शान्तिकर्माणि उच्चाटनमथाऽनिले | सौम्ये वश्यं प्रयोक्तव्यं ईशाने मारणं तथा || ५४० || वसन्तं विद्धिपूर्वाह्ने ग्रीष्मं मध्यन्दिनं तथा | प्रावृट्कालमपराह्नं सन्ध्या शिशिरमेव च || ५४१ || मध्यरात्रं शरत्कालं हेमन्तं स्यात् प्रभातकम् | आकर्षणं वसन्ते तु ग्रीष्मे विद्वेषणं कुरु || ५४२ || प्रावृदुच्चाटनं कर्म शिशिरोमारणं तथा | शान्तिकं तु शरत्काले हेमन्ते पौष्टिकं तथा || ५४३ || धर्मक्रमं फलं प्राप्य परनृत्तं विचिन्तयेत् | दक्षिणालयदैशान्ये होमकर्म समाचरेत् || ५४४ || चतुर्दिक्षु चतुर्वेदैस्तोत्रमङ्गलवाचकैः | षण्मास मध्यमासं वा नित्यं हुत्वा हुतार्थकम् || ५४५ || त्रियक्षरं सकृज्जप्त्वा नाममन्त्रक्रमं शृणु | नादं सनादं नादाद्यं षष्ठवर्गस्य पञ्चमम् || ५४६ || एकादश स्वरोपेतं चतुर्थस्याद्यमक्षरम् | अष्टमस्यादि बीजन्तु मूलदीर्घ समन्वितम् || ५४७ || सप्तमस्यादि बीजं च प्रणवादि नमोन्तकम् | नाममन्त्रमिदं गुह्यं परं ज्योतिर्व्यवस्थितम् || ५४८ || अतिगुऽयं अदेयं च मन्त्रातीतेशनाम तत् | ऊर्ध्व शैवात्मकं मन्त्रं मद्भक्तानां प्रदेयकम् || ५४९ || नाममन्त्रक्रमं प्रोक्तं वीरतन्त्रविधिं शृणु | द्वितीयस्य तृतीयं तु बिन्दुनादसमन्वितम् || ५५० || प्द्f ६१, प्. ७१०) वीरतन्त्रमिदं प्रोक्तं रक्षामन्त्रक्रमं शृणु | पञ्चमस्वान्तिमं बीजं षष्ठपञ्चमबीजकम् || ५५१ || अष्ठमस्य तृतीयं च चतुर्थं सप्तमस्य च | मद्वितीयार्ण संयुक्तं सप्तमस्यादि बीजकम् || ५५२ || रक्षामन्त्रक्रमं प्रोक्तं ब्रह्ममन्त्रक्रमं शृणु | षष्ठवर्गतृतीयं तु प्रलयाग्नि समन्वितम् || ५५३ || बिन्दुनाद समायुक्तं विष्णुमन्त्रविधिं शृणु | वाग्भवं विष्णुबीजं तु बिन्दुशेखरभूषितम् || ५५४ || प्रणवादि नमोन्तं तु चतुर्थ्यन्तं प्रयोजयेत् | विष्णुमन्त्रमिदं प्रोक्तं धनमन्त्रक्रमं शृणु || ५५५ || पञ्चमस्य चतुर्थं तु बिन्दनादसमन्वितम् | धनमन्त्रमिदं लक्ष्मी लक्ष्मीमन्त्रक्रमं शृणु || ५५६ || अष्टमस्यादिबीजन्तु प्रलयाग्नि समन्वितम् | चतुर्थस्वरसंयुक्तं बिन्दुनादसमन्वितम् || ५५७ || लक्ष्मीमन्त्रमिदं प्रोक्तं स्कन्दमन्त्रक्रमं शृणु | यवर्ग सप्तमंबीजं पञ्चमस्वरसंयुतम् || ५५८ || सप्तमस्य द्वितीयं तु बिन्दुनादसमन्वितम् | सर्वं शिवमयं मन्त्रं स्वनामादि नमोन्तकम् || ५५९ || मन्त्रशुद्धिक्रमं प्रोक्तं शृणुष्वासनलक्षणम् | खबीजस्यादिपं मन्त्रं मूलकाराणि सृष्टिकम् || ५६० || तस्य देवोद्भवं सर्वमथ इच्चासु शक्तिकम् | आधान शक्तिमनास्थानमज्न्यं धर्मादिरुद्भवम् || ५६१ || प्द्f ६२, प्. ७११) ध्यानपूजानिमित्तार्थं आसनस्यादिकं शृणु | लोकाध्यायं च यो देवी मुक्तादामयय मूलवत् || ५६२ || चतुर्मुखाष्टबाहु तप्तकाञ्चन सप्रभम् | द्वादशाक्षरं च कृन्नासा मूर्ध्वबन्धशिरोरुहाम् || ५६३ || पद्मासनस्थितां शक्तिं पाशाङ्कुशवराभयाम् | वज्रटङ्कं तोमरं च ज्ञानमुद्रां च विभ्रतीम् || ५६४ || सर्वाभरण संयुक्तां सर्वलोकैकसंश्रयाम् | भावयेद्देशिकोधीमान् शक्तिमाधाररूपिणीम् || ५६५ || शक्तिबीजं चाङ्कुरं च नालं धर्मादि गर्हितम् | शक्तिं कुङ्कुम वर्णां च बीजं विद्रुम सन्निभम् || ५६६ || अङ्कुरं रजताभं च नालं वैदूर्य सन्निभम् | धर्मादि चरणैर्युक्तं अधश्चोर्ध्वं च संस्थितम् || ५६७ || आधारशक्ति हस्तस्थं समपञ्चासनगरितम् | अनन्ताख्यासनं पूर्वं सिंहासनमतः परम् || ५६८ || योगासनं तृतीयं तु पद्मासनमतः परम् | पञ्चमं विमलं प्रोक्तं कल्पयेदुपरिक्रमात् || ५६९ || अनन्ताख्यासनं वृत्तं उपर्युपरिसंस्थितम् | अष्टनागसमायुक्तं अनन्तासनमुच्यते || ५७० || अनन्ताख्यासनं प्रोक्तं शृणु सिंहासनक्रमम् | धर्मज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् || ५७१ || धर्मं भूतस्वरूपं च ज्ञानं वै गजरूपकम् | वैराग्यं सिंहरूपं स्यात् ऐश्वर्यं चाश्वरूपकम् || ५७२ || प्द्f ६३, प्. ७१२) कोटिभिः कोटिभिः सिंहैः प्रत्येकं परिवारितम् | राजावर्तस्वरूपेण सर्वेषां सिंहमेव च || ५७३ || अव्यक्तो नियतिः कालः कला*(?)ति चतुष्टयम् | चतुर्भागे तु फलके महादिक्षु क्रमान्न्यसेत् || ५७४ || केशवो मध्यपादस्यादित्थं सिंहासनं शुभम् | सिंहासनक्रमं प्रोक्तं योगासनविधिं शृणु || ५७५ || शुद्धं कूर्मवदाकौरं अग्निवर्णं तदासनम् | प्रणवं पूर्वतोन्यस्येदकारं चानले तथा || ५७६ || आकारं याम्यभागे तु इकारं नैऋते तथा | ईकारं पश्चिमेभागे उकारं वायुदेशके || ५७७ || ऊकारं सोमदिग्भागे ऋलारं त्वीशदेशके | ऋकारं मध्यभागे च न्यसेद्योगासनं भवेत् || ५७८ || इत्थं योगासनं प्रोक्तं पद्मासनविधिं शृणु | वामा ज्येष्ठा च रौद्री च कालीकलविकरणी || ५७९ || बलविकरणी चैव बलप्रमथनीत्यपि | सर्वभूतदमनी नवमी च मनोन्मनी || ५८० || विन्यसेत् केसराग्रेषु कर्णिकायां यथाक्रमम् | इत्थं पद्मासनं प्रोक्तं शृणुष्व विमलासनम् || ५८१ || गणाम्बिकामुत्तरे तु महादेवीं च पूर्वतः | तन्नो गौरी तु याम्ये च वारुणे च प्रचोदयात् || ५८२ || एताभिः शक्तिभिः क्रान्तं कल्पयेद्विमलासनम् | अग्निमध्ये रविस्थानं रविमध्ये तु चन्द्रमाः || ५८३ || प्द्f ६४, प्. ७१३) तमो मध्ये रजोन्यस्य तन्मध्ये सत्वमेव च | आत्मानं अन्तरात्मानं परमात्मानमेव च || ५८४ || आत्मतत्वत्रयं प्रोक्तं विद्यातत्वक्रमं शृणु | ब्रह्मविद्यां शिवं विद्यां गुरुविद्यां क्रमान्न्यसेत् || ५८५ || ब्रह्मतत्वमयोन्यस्य विष्णुतत्वं तदूर्ध्वतः | तत्परं रुद्रतत्वं च तत ऊर्ध्वं महेश्वर || ५८६ || सादाख्यतत्वं तन्मूर्ध्नि बिन्दुतत्वं ततः परम् | तदूर्ध्वे नादतत्वं च शक्तितत्वमतःपरम् || ५८७ || तत्परं शिवतत्वं च पूजयेज्ज्ञानमुक्तिकम् | तन्मध्ये नेत्रवासं च तन्मध्ये कुसुमासनम् || ५८८ || तदाधिकांशत्यविमलमासनं स्फटिकप्रभम् | वृत्तं सदाशिवं रूपं व्योमरूपं परात्परम् || ५८९ || बिन्दुमात्र स्वरूपेण शिवसृष्टिक्रमं शृणु | बिन्दुमध्यगतो नादो नादमध्यगतो ध्वनिः || ५९० || ध्वनिमध्यगतश्चात्मानन्त्यतीतं परात्परम् | शिवं परापरं ब्रह्ममप्रमेयमनिन्दितम् || ५९१ || अनौपम्यं च सूक्ष्मं च नित्यं सर्वगतं प्रभुम् | शुद्धत्वात् शिवमित्युक्तं परादूर्ध्वं परात्परम् || ५९२ || ब्रह्मत्वात् ब्रह्मणत्वाच्च ब्रह्ममित्यभिधीयते | प्रमाणव्यतिरिक्तत्वात् अप्रमेयं नटेश्वरम् || ५९३ || मलत्वान्निन्दितं ज्ञेयं मलत्वादतिनिन्दितम् | अनौपम्यं असादृश्यं दक्षिणामुखमाश्रितम् || ५९४ || प्द्f ६५ , प्. ७१४) व्योमातीतात्परं सूक्ष्मं नित्यं कारणशून्यतः | व्यापित्वात् सर्वगतं प्रोक्तं स्वामित्वात् प्रभुरुच्यते || ५९५ || सृष्ट्यन्तं लोकरक्षार्थं लोकस्योत्पत्तिकारणम् | साधकानां हितार्थं च सग्रहेत् स्वेच्चयातनुम् || ५९६ || पालनार्थं सभावासं दक्षिणेश्वरमद्भुतम् | सदावृत्तं महाज्योतिरम्बयाल्लभमीश्वरम् || ५९७ || आनन्दरूपमध्यस्थं शिवं परमकारणम् | ततस्तच्चत्रिधाप्रोक्तं निष्कलन्तु तथा पुनः || ५९८ || सकलं निष्कलं चैव सकलं च यथाक्रमम् | निष्कलं तु चतुर्भेदं सकलं च यथाक्रमम् || ५९९ || सकलं निष्कलं त्वैकं नवधाकीर्तिताः क्रमात् | शिवतत्वात् सहस्रांशात् शान्तिनाम समुद्भवा || ६०० || शक्तिः शक्तिकरं प्राहुः तस्य पर्याय वाचकाः | तस्मात् चैवं सहस्रांशात् शक्तिनाम समुद्भवा || ६०१ || शक्तिश्चैव तु विद्याय पर्यायात्तदुदाहृताः | तस्माच्चैव सहस्रांशात् नादमूर्ति समुद्भवः || ६०२ || नादस्तस्य प्रतिष्ठा च पर्याय इति कीर्तितः | तस्मात् चैव सहस्रांशात् बिन्दुतत्व समुद्भवः || ६०३ || बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकाः | परं भावं समालम्ब्य सदा ताण्डव सद्गुणैः || ६०४ || अव्यक्तानि स्वरूपाणि तल्लक्षान्निष्क्रियास्तथा | चतुर्थं निष्कलं ह्येवं शिवतत्व समुच्यते || ६०५ || प्द्f ६६, प्. ७१५) ध्यानपूजा निरूपस्थं निष्कलन्तु महेश्वर | इत्येवं निष्कलं प्रोक्तं परंभावमिति स्मृतम् || ६०६ || तस्मादंशैकभागेन सादाख्यस्य समुद्भवः | लिङ्गं वीरं प्रकारेण सादाख्यं तत्वलक्षणम् || ६०७ || लिङ्गे शिवसमुद्भूतो नादात्मा च सदाशिवः | पीठे शक्तिस्समुद्भूता नाम्ना चैव मनोन्मनी || ६०८ || लिङ्गे च पीठिकायां च शिवशक्ति समुद्भवौ | लिङ्गं तु पुंस्त्वमेवं स्यात् पीठं स्त्रीतत्वमेव च || ६०९ || निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशाम्भवौ | निष्कला तु कलाहीना सकला तु कलान्विता || ६१० || यतीनाम मन्त्रिणां चैव ज्ञानिनां चैव योगिनाम् | ध्यानपूजानिमित्तार्थं स्मृतं सकलनिष्कलम् || ६११ || लिङ्गपीठं प्रकारेणा देवेशं पूजयेत् सदा | वर्णाध्वा च पदाध्वा च तत्वाध्वा भुवनाध्वकः || ६१२ || मन्त्राध्वा च कलाध्वा च सादाख्यस्य स्वरूपकम् | अध्वस्थानक्रमं वक्ष्ये विशेषं तु महेश्वर || ६१३ || वर्णाध्वा तु तत्वगाथाः पदार्ध्वोक्तं शिरस्तथा | तत्वाध्वा हृदयं चैव भुवनाध्वा तु रोमकम् || ६१४ || मन्त्राध्वा रुधिराधार शुक्लमज्जास्थिरूपकम् | कलाध्वा चैव सर्वाङ्गं इत्थं सादाख्यरूपकम् || ६१५ || अष्टत्रिंशत् कलायुक्तं सकलं चैव विद्यते | अथेशानादि सद्यान्तं कल्पयेत्तु सदाशिवम् || ६१६ || प्द्f ६७, प्. ७१६) ईशानेन तु मन्त्रेण पञ्चमूर्ध्नः प्रकल्पयेत् | पुरुषेण तु चत्वारि वक्त्राणि परिकल्पयेत् || ६१७ || अघोरेण तु मन्त्रेण हृदयानि प्रकल्पयेत् | वामदेवेन मन्त्रेण गुह्याद्यङ्गानि कल्पयेत् || ६१८ || सद्योजातादि मन्त्रेण पादाद्यङ्गानि कल्पयेत् | अष्टत्रयोदशाष्टौ च चत्वारश्चैव पञ्च च || ६१९ || अजात वामघोराख्य पूरुषेश कलास्मृताः | एवं तु सकलं प्रोक्तं निष्कलं ताण्डवं शुभम् || ६२० || करपादोदरादीनां कल्पनात् सकलं विदुः | सादाक्यं सर्वदेवेशं प्रत्यक्षं सर्वतोमुखम् || ६२१ || सहस्रदलपद्मस्थं कर्णिकामध्यवासिनम् | युवानं पञ्चमूर्धानं दशबाहुं चतुर्मुखम् || ६२२ || द्वादशाक्षं चतुर्बाउं चतुर्गकसमायुतम् | द्विपादं स्फटिकाकारं श्वेतयज्ञोपवीतिकम् || ६२३ || सूर्यकोटिप्रतीकाशम् ज्ञानचन्द्रकलान्वितम् | अभयं शूलपरशुं वज्रं खड्गं च दक्षिणे || ६२४ || खेटकाङ्गुश पाशांश्च दण्डं वरदमन्यतः | बिभ्रच्चन्द्रांशु शिशिरं सौम्यं शुक्लाम्वरान्वितम् || ६२५ || सोष्णीषं सोत्तरीयं च सर्वाभरणभूषितम् | सर्वावयवसंयुक्तं सर्वगन्धानुलेपनम् || ६२६ || सर्वभूतान्तरात्मानं सदाद्वस्तु विचिन्तितम् | पञ्चभूताधिदैवत्यं पञ्चब्रह्मस्वरूपकम् || ६२७ || प्द्f ६८, प्. ७१७) पञ्चाक्षरादिभिर्द्देशं पार्वती वल्लभं परम् | इत्येतैर्लक्षणैर्युक्तं सादाख्यं तु स्वरूपकम् || ६२८ || तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी | वह्निरुष्णत्ववच्छक्तिरपिनाहाविनीविभोः || ६२९ || शक्तिहीनः शिवोनास्ति शिवहीना * * * * (?) | * * (?) न शक्तिकोपेतात्वाख्यया तु मनोन्मनी || ६३० || ब्रह्माण्डाङ्गानि विद्याश्च विद्येशाना गणेशकाः | लोकपालास्सशस्त्राश्च क्रमशस्तस्समुद्भवाः || ६३१ || तत्तद्गुणावृतास्सर्वे तत्तच्चिह्न समायुताः | सर्वावयव संपूर्णास्त्वनन्तादित्य स प्रभा || ६३२ || इत्थं सदाशिवं रूपं लिङ्गपीठ समन्वितम् | तत्सादाख्य प्रभावस्तु वर्णितं नैव शक्यते || ६३३ || सकलं निष्कलं प्रोक्तं सकलं च ततः शृणु | मूर्तयस्त्वीश्वराद्याश्च सकलं इति कीर्तिताः || ६३४ || यद्यत् सदाशिव प्रोक्तः स्तद्वदीश्वर उच्यते | ब्रह्माद्यावरणं चैव पूर्ववत् परिकल्पयेत् || ६३५ || काष्ठलोह शिला मुक्तिः प्रतिमास्तु प्रकल्पयेत् | विद्यातत्व स्थितं शंभुं सर्वलक्षण संयुतम् || ६३६ || लिङ्गस्तु गोलकं विद्यात् सकलं तु महेश्वर | लिङ्गपूजावसाने तु पूजयेदीश्वरं क्रमात् || ६३७ || ईश्वरस्य सहस्रांशात् रुद्रस्योद्भव उच्यते | चतुर्भुज त्रिणेत्रस्तु चन्द्रार्धकृतशेखरः || ६३८ || प्द्f ६९, प्. ७१८) विद्युत्प्रभासितो देवाः परश्वथमृगायुधाः | सर्वावयवसंपूर्णाः सर्वाभरणभूषिताः || ६३९ || उमादेन्युत्तरे पार्श्वे सर्वलक्षण संयुताः | ईश्वरस्य तु कोट्यंशात् ब्रह्मतत्व समुद्भवः || ६४० || चतुर्भुजश्चतुर्वक्त्रे जटामकुटधारकः | कमण्डल्वक्षमालासृक् पीतवर्ण सुलोचनः || ६४१ || सावित्री भारती पार्श्व सृष्टिमूर्तिरिति स्मृताः | रुद्रः संहारमूर्तीनां विष्णुश्च स्थितिमूर्तिकः || ६४२ || सृष्टिमूर्तिश्च विख्यातो ब्रह्मा च त्रिविधामताः | मूर्तित्रयस्तु संप्रोक्तं ब्रह्माण्डे संव्यवस्थितम् || ६४३ || निष्कलं तु लयस्थानं अकारं सकलनिष्कलम् | भोगस्थानं तु सकलं लयाधिकारभोगवान् || ६४४ || परनिष्कलमित्युक्तं दक्षिणेश्वरमद्भुतम् | सकलं निष्कलं चैव त्वपरं परिपठ्यते || ६४५ || परनृत्तं सदाभ्यातुं यस्समर्थस्सपाशहा | तिसृस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः || ६४६ || रुद्रैकादशकं पूर्वं द्वादशादित्यसंयुतम् | वसवोष्टाश्विनौ द्वौ तु त्रयस्त्रिंशच्चदेवताः || ६४७ || सहस्र त्रिंशत्कोटी च दैवस्तत्र त्रिमूर्तिषु | शरीरं भूतसारेण देवानां तु सृजन्ति वै || ६४८ || ऐश्वर्यं मलसम्बन्धात् हृत्प्रबोधं तु नाश्येत् | सर्वकारण देवेश ध्यात्वा ताण्डवमीश्वरम् || ६४९ || प्द्f ७०, प्. ७१९) आवाहयेत् ततो देवं पुष्पहस्तं सुखासनम् | मूलं स्मृत्वा परं ध्यात्वा सर्वव्यापि सदाशिवः || ६५० || सदाशिव परं ध्यात्वा वाहयेत् सद्यमन्त्रतः | स्थापनं वाममन्त्रेण त्वघोरेण निरोधयेत् || ६५१ || नरेण सन्निधानं स्यादीशानेन तु पूजनम् | यथा कुण्डगतश्चाग्निर्वायुना परिदीप्यते || ६५२ || तथैव नाममन्त्रेण जायते भगवान् शिवः | आवाह्यानाख्ययावाह्यस्थापिन्या स्थाप्यमुद्रया || ६५३ || पञ्चमुखीं धेनुमुद्रां शक्तिमुद्रां ततः परम् | निष्ठुना लिङ्गमाद्रां च पद्मनेत्रास्त्रमुद्रिका || ६५४ || पंचब्रह्म षडङ्गैश्च पूर्ववन्यासमेव च | गन्धं पुष्पं च धूपं च दीपं चैव प्रदापयेत् || ६५५ || लिङ्गद्वारं विशेषं तु शृणुष्वेवं महेश्वर | लिङ्गमूलं तु चरणौ लिङ्गाग्रं मुखमुच्यते || ६५६ || सूत्रपार्श्वौ चतुर्बाहु सूत्रान्तं पृष्ठमुच्यते | ईश्वराद्दक्षिणांशे तु ब्रह्मा सृष्ठ्यर्थमुद्यतः || ६५७ || ईश्वराद्वाभागे तु विष्णुश्च स्थितिकारणम् | नासायां वायुरुत्पन्न श्रोत्रयोस्तु दिशोदश || ६५८ || करपद्मसमुद्भूतो गणेश इति कीर्तितः | हृदयेषां मुखो जातो भास्करो नाभिसंभवः || ६५९ || इन्द्रस्तु पृष्ठ संभूतो वह्निनेत्रसमुद्भवः | वामनेत्रसुद्भूतो देवस्सोम इति स्मृतः || ६६० || प्द्f ७१, प्. ७२०) स्तनयोर्यक्षदेवास्तु रुद्रा दक्षिणलोचने | हस्ताग्रादायुधोद्भूति रत्याश्चैव नखोद्भवाः || ६६१ || ऊर्षोस्तु जाता ऋषयो जानुसम्भवाः | पादयोस्सर्वदेवानां शिवज्ञानस्य चोद्भवः || ६६२ || संहारकाले यत्सर्वं लिङ्गं ताण्डवमादिमम् | लिङ्गमूर्ति स्वरूपस्य मध्ये सादाख्यमर्चयेत् || ६६३ || महासदाशिवं ध्यान क्रमं वक्ष्ये महेश्वर | पञ्चास्य पञ्चमूर्धानं प्रतिवक्त्रं त्रिलोचनम् || ६६४ || प्रसन्नं षोडशभुजं त्वैकदेहं चतुर्गुलम् | अष्टश्रोत्र द्विपादं च किञ्चित् प्रहसिताननम् || ६६५ || त्रिशूलं र*(?) वज्रं च खड्गं चैव परश्वथम् | चक्रं च ज्ञानमुद्रां च सव्यभागे भयं क्रमात् || ६६६ || चण्टानागं च पाशं च धनुरङ्कुश खेटकौ | वरदं विस्मयं चैव विभ्राणं वामपाणिभिः || ६६७ || आदिशक्ति समोपेतं कृष्णनागोपवीतकम् | सद्यवामादि मन्त्रेण स्थापयेत् पूर्ववत् शुभम् || ६६८ || सद्यमन्त्रं समुच्चार्य दद्यात् पाद्यं तु पादयोः | वक्त्रेषु वक्त्रमन्त्रेण दद्यादाचमनीयकम् || ६६९ || ईशानेन तु मन्त्रेण दद्यादर्घ्यं च मूर्धसु | मुखेषु गन्धं वामेन पुष्पमीशेन मूर्धसु || ६७० || धूपं सद्येन मन्त्रेण दीपं घोराणु नादतः | नैवेद्यं वक्त्रमन्त्रेण क्रमाद्दद्यान्महेश्वर || ६७० || प्द्f ७२, प्. ७२१) एला कर्पूर सुमनश्चन्दनैर्मिश्रितं पयः | पञ्चब्रह्म षडङ्गैश्च कल्पयेद्धेनुमुद्रय || ६७२ || मूलप्रकृति बीजन्तु वर्णमन्त्रं समुच्चरन् | वारुणं बीजमुच्चार्य जलभाण्डे तु पूजयेत् || ६७३ || मन्त्रैरीशादिभिः पश्चात् अभिषेकं शनैश्शनैः | चतुर्दिक्षु चतुष्कोणेष्वाचमार्घ्यं प्रदापयेत् || ६७४ || गोमूत्रं ब्रह्मदैवत्यं गोमयं विष्णुदैवतम् | क्षीरं तु रुद्रदैवत्यं महेशों दधि चोच्यते || ६७५ || सर्पिस्सादाख्य दैवत्यं गन्धपुष्पादि पादयेत् | पञ्चसारे तु नैवेद्यं दर्शयेद्ज्ञानमुद्रिकाम् || ६७६ || सदसस्यति शञ्चेले आवोराजा त्रियम्बकम् | पञ्चगव्यं क्रमं प्रोक्तं फलोदक विधिं शृणु || ६७७ || बिल्वश्च कदलीं चैव नारङ्गद्वयमेव च | आम्र केलीफलं फलं चैव तिन्त्रिणीवफलोदकम् || ६७८ || नाममन्त्रं समुच्चार्य गन्धपुष्पादिभिर्यजेत् | फलोदक विधिं प्रोक्तो बीजोदकविधिं शृणु || ६७९ || यवनीवारमुद्गं च व्रीहि सिद्धार्थकङ्गुलम् | सौगन्धिकं हेमशाली बीजोदकमिदं शुभम् || ६८० || अभ्यर्च्य गन्धपुष्पाद्यैर्मूलबीजं समुच्चरन् | बीजोदकविधि प्रोक्तं रत्नोदकविधिं शृणु || ६८१ || माणिक्यं चैव गोमेदं पुष्परागं च गारुडम् | प्रवालं स्फटिकं नीलं मुक्ता रत्नोदकं शुभम् || ६८२ || प्द्f ७३, प्. ७२२) गन्धैः पुष्पैश्च धूपाद्यैर्वर्णमन्त्रेण पूजयेत् | इत्थं रत्नोदकं प्रोक्तं गन्धोदकविधिं शृणु || ६८३ || चन्दनं चैव कुष्ठं च तक्कोलं चैव कुङ्कुमम् | कर्पूरं पिछिला चैव कस्तूरी चागरुस्तथा || ६८४ || उशीरं च लवङ्गं च तथा चंपक कुड्मलम् | गन्धादिकं तु नैवेद्यं नाममन्त्रेण दापयेत् || ६८५ || इत्थं गन्धोदकं प्रोक्तं पुष्पोदकविधिं शृणु | चंपक प्रसवं चैव मल्लिका चैव पाटली || ६८६ || केतकी गिरिपुष्पं च पुन्नागं कुन्दमेव च | नन्द्यावर्तं श्रियावर्तं मन्दारं करवीरकम् || ६८७ || जातीनीलोत्पलं पद्मं हिरिबेर्यादिमिश्रितम् | गन्धं पुष्पं च धूपं च शिवमन्त्रेण दापयेत् || ६८८ || इत्थं पुष्पोदकं प्रोक्तं अन्नपूजाविधिं शृणु | अथान्नैरभिषेकं तु आयुरारोग्यवर्धनम् || ६८९ || अन्नं प्राणात्मकं श्रेष्ठं सर्वजन्तु प्रतिष्ठितम् | तस्मादन्नाभिषेकं तु ममप्रीतिकरं शुभम् || ६९० || अन्नरूपं विशेषं तु ममरूपं द्विधा स्मृतम् | अन्नपूजाविधिं श्रेष्ठं नभूतन्न भविष्यति || ६९१ || तस्मात् सर्वप्रयत्नेन त्वन्नेनैवाभिषेचयेत् | अन्नलिङ्गाकृतिं दत्वा गन्धपुष्पं च धूपकम् || ६९२ || दीपं च पायसान्नं च दद्यात् ताम्रबूलमेव च | अन्नपूजाविधिं नित्यं शुभग्त्सर्वर्थकारणम् || ६९३ || प्द्f ७४, प्. ७२३) अपमृत्युजयःप्रीतो राजराष्ट्राभिवृद्धिदम् | अन्नपुष्पं महावाश्यं दक्षिणाराधनोत्तमम् || ६९४ || सर्वशान्तिकरं शुद्धं जयमन्नार्चनं गुरुः | अम्बात्मबीज परमं तस्मादन्नमुदाहृतम् || ६९५ || अन्नपूजान्तु यः कुर्यात् सयाति परमांगतिम् | तस्मात् सर्वप्रयत्नेन अन्ने नैव प्रपूजयेत् || ६९६ || अन्नं प्रक्षालनं कृत्वा मूलबीजं न्यसेत् क्रमात् | गन्धं पुष्पं च धूपं च दीपं चैव प्रदापयेत् || ६९७ || पञ्चब्रह्मभिरालभ्य बन्धीयान्धेनुमुद्रिकाम् | समुच्चरन्नाममन्त्रमभिषिञ्चेच्छनैःशनैः || ६९८ || अन्नलिङ्गाकृति पूज्य तस्याग्रे दक्षिणेश्वरम् | ध्यात्वा समुच्चरन्नाम गन्धपुष्पं च दापयेत् || ६९९ || धूपदीपान्त नैवेद्यं दद्यान्नाम समुच्चरन् | पूषेति मन्त्रौ द्वौ सर्वं सर्वत्रापि समुच्चरेत् || ७०० || अन्नपूजाविधि प्रोक्तो जलार्चनविधिं शृणु | पूर्ववत् संस्कृतं तोयं हेमपात्रे प्रपूरितम् || ७०१ || अथवा राजते वापि ताम्रे वा यज्ञ वृक्षजे | तज्जलस्य तु मध्यस्थं स्थापयेद् दक्षिणेश्वरम् || ७०२ || दूर्वातिलक्षतं पुष्पं जापयित्वा महेश्वर | गन्धं पुष्पं च धूपं च दीपं चैव प्रदापयेत् || ७०३ || जलार्चनं महागुह्यं स्थितिकारं सुशोभनम् | सर्वसिद्धिकरं शुद्धं सर्वरोग विनाशनम् || ७०४ || प्द्f ७५, प्. ७२४) त्रियम्बकमिमारुद्रमापोहिष्ठेतिशंचमे | ईलेशन्नश्च कद्रुद्रन्नमस्ते सदसस्यतिः || ७०५ || जातवेदस ईशानो हंस आतेवषेपि च | अघोर तत्पूरुषो वाम सद्यस्वादिष्टया ततः || ७०६ || सहस्रशीर्षा अन्नपते पूषेमा अग्निमीलके | येदेवान्न आमानो गौरीं देवाह वैपि च || ७०७ || त्वमग्न आवोराजानं मृतन्तत्सवितुस्तथा | ओमित्येतद्बृहत्सामं बिबेताप्रणवादिकम् || ७०८ || प्रयुक्तमभिषेकाय मन्त्रान् षट्त्रिंशतः क्रमात् | पृथक् पृथक् सकृज्जप्त्वाभिषिञ्चेच्छनैश्शनैः || ७०९ || जलार्चनविधिः प्रोक्तं पात्रलक्षणमुच्यते | सौवर्णं राजतं वापि तथा ताम्र समुद्भवम् || ७१० || शङ्खं वा शुक्तिकं वापि गवाशृङ्गमथापि वा | अथवा मृण्मयं वापि स्नानपात्रं प्रशस्यते || ७११ || उक्तमन्त्रेण संपूर्णं मध्यमं शिवपूरितम् | आढकापूर्णमधमं सर्वमेवाढकं भवेत् || ७१२ || शङ्खशुक्तिकशृङ्गाणि स्वप्रमाणेन पूरयेत् | सूत्रेण वेष्टयेत् सर्वं गवाक्ष सदृशान्तरः || ७१३ || स्थण्डिलं विधिवत् कृत्वा शाल्यक्षततिलैरपि | आढकं तदर्धं वा कलशानां पृथक् पृथक् || ७१४ || शाल्यर्ध तण्डुलं ग्राह्यं तदर्धं च तिलं तथा | सकूर्चान्वस्त्रसंयुक्तान् सरत्नान् स्थण्डिले स्थितान् || ७१५ || प्द्f ७६, प्. ७२५) अलङ्कृतान्विशेषेण कलशान्पूजयेद्गुरुः | कलशस्य मुखे रौद्रं मध्ये माधवदैवतम् || ७१६ || प्राजापत्यं तु पृष्ठं स्यात् कलशस्याधिदेवताः | गन्धं पुष्पं च धूपं च हृदयेन प्रदापयेत् || ७१७ || महादर्पं च मद्ये वा लिङ्गाग्रे वा नटेश्वरम् | अरूपमपि रूपस्थं दक्षिणद्वारमीश्वरम् || ७१८ || दर्पणे वा सुलिङ्गेवा अभिषिञ्चेत् सुलेपनम् | पूजास्थान द्वयंगुह्यं दक्षिणालयमद्भुतम् || ७१९ || अभिषेकक्रमं वक्ष्ये विशेषं तु महेश्वर | नाममन्त्रं समुच्चार्य त्रियक्षरमनुस्मरन् || ७२० || गोशृङ्गाग्र प्रमाणेन स्रापितेन कराग्रतः | शुद्धतोयेन संपूज्य **(?) द्रालेपनं तथा || ७२१ || सुगन्धामलं चैव धूपं चैव प्रदापयेत् | गन्धोदकैस्ततश्शुद्धैरभिषिञ्चेच्छनैश्शनैः || ७२२ || नाममन्त्रं सकृज्जप्त्वा दद्यात्पुष्पं च मूर्धनी | पाद्यमाचमनं चार्घ्यं तत्काले तु प्रदापयेत् || ७२३ || शुद्धवस्त्रं समादायत्वस्त्रमुद्रां तु कल्पयेत् | लिङ्गपीठं स्थलं चैव वसनं तत्प्रवेशयेत् || ७२४ || प्रवेशमस्त्रमादाय चण्डेशाय प्रदापयेत् | वास्तोष्पतीति मन्त्रेण वास्तुनाथं समर्चयेत् || ७२५ || एतोन्विन्द्रस्तु वामेति आपोहिष्ठेति प्रोक्षणम् | सूक्ष्मवस्त्रं तु सङ्ग्राह्य बन्धीयाद्धृतयाणुना || ७२६ || प्द्f ७७, प्. ७२६) आवेष्ट्य लिङ्गं वस्त्रेण चतुर्भागैकभागतः | ईशानादि च सद्यान्तं त्रिपुण्ड्रं विन्यसेत् क्रमात् || ७२७ || मनोन्मन्याश्च पीठान्तं अङ्गादीनां त्रिपुण्ड्रकम् | तदन्ते दर्पणं दद्यात् शक्तिमन्त्रं समुच्चरन् || ७२८ || अघोरं मन्त्रमुच्चार्य यजनं तु प्रदापयेत् | ततश्छत्रं चामरं च हृदयेन प्रदापयेत् || ७२९ || वायुमन्त्रं जपित्वा तु पादुकौ च प्रदापयेत् | पुष्पाञ्जलिं ददेत् पश्चात् नमस्काराख्यमुद्रया || ७३० || आलिङ्गनं ततः कृत्वा ज्ञानमुद्रां प्रदापयेत् | ज्वालापात्राणि शिरसा हस्ताभ्यां च निवेदयेत् || ७३१ || उत्तमा रुद्रगणिका ब्रह्मचारी च धारयेत् | हेमकुम्भस्थितजले दीपं पूर्वे तु निक्षिपेत् || ७३२ || सर्ववाद्य समायुक्तं बलिपीठे प्रदपयेत् | पुष्पाञ्जलिं ततः कृत्वा जपलक्षणमुच्यते || ७३३ || जपं च द्विविधं प्रोक्तं सर्वेषां जपकांक्षिणाम् | मानसं चैव कण्ठोष्ठ्मुपांशुं व्यक्तमेव च || ७३४ || नवधामार्गमुद्दिश्य नैवेद्यं तत्र कल्पयेत् | प्रातरुसाग्ये तथाभ्यर्च्य मध्याह्ने च निवेदयेत् || ७३५ || प्रस्थद्वयं तु तत्काले पाचयित्वा निवेदयेत् | एकदीपं द्विकाले च रात्रौ दीपद्वयं भवेत् || ७३६ || प्रातःकाले च मध्याह्ने द्विप्रस्थं तण्डुलं हविः | सायेचास्यांतमभ्यर्च्य दीपं च द्विगुणं भवेत् || ७३७ || प्द्f ७८, प्. ७२७) प्रस्थद्वयं द्विकालेषु प्रत्येकं च निवेदयेत् | दीपं चैव चतुःप्रोक्तास्साये तु द्विगुणं भवेत् || ७३८ || मध्यमस्याधमे प्रोक्तं मध्याह्नेत्वाढकं हविः | प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् || ७३९ || मध्यत्रये तु मतिमान् वाद्यध्वनिसमायुतम् | त्रिकालं बलिलिङ्गेन बलिदानं नयेद्बुधाः || ७४० || मध्यमामध्यमं विद्यात् त्रिकालेष्वादकं हविः | अर्धयामे तदर्धं च चतुर्विंशतिदीपकम् || ७४१ || अर्धरात्रे तु या पूजा सार्धयाममिहोच्यते | त्रिकाले वलिसंयुक्तं पुष्पान्नाक्षत वै क्रमात् || ७४२ || वाद्यध्वनि समायुक्तं नृत्तगेय समन्वितम् | मध्याह्ने नित्यहोमस्याद्धूपदीप समन्वितम् || ७४३ || मध्यमादुत्तमं वक्ष्ये त्रिकालञ्चाढकद्वयम् | त्रिकालञ्च निवेद्यं च पञ्चांशं दीपसंयुतम् || ७४४ || द्विकालं वाद्यसंयुक्तं विंशतिर्गणिकायुतम् | उत्तमादधमं तत्र त्रिकालन्द्रोणमाहरेत् || ७४५ || द्रोणार्ध ***(?) यामे दीपं चाष्टोत्तरंशतम् | त्रिकालमन्नलिङ्गं स्यात् त्रिकालं होमसंयुतम् || ७४६ || सर्ववाद्य समायुक्तं नृत्तगेयासमन्वितम् | अष्टोत्तरसहस्रं वा शतं वा रुद्रकन्यकाः || ७४७ || रूपयौवनसंपन्नाः सर्वाभरणभूषिताः | मध्यमा मध्यमं तत्र त्रिकाले तु चतुर्हविः || ७४८ || प्द्f ७९, प्. ७२८) पायसादीन् पचित्वा तु द्रोणतण्डुलसंयुतम् | द्रोणेन शुद्धमन्नं च पचित्वा तु पृथक् पृथक् || ७४९ || द्रोणं सद्यार्धयामेपि दीपाश्चैव शतद्वयम् | त्रिकाले बलिहोमं स्यात् शीतारी धूपमादिशेत् || ७५० || सर्ववाद्य समायुक्तं सर्वमङ्गलवाचकम् | गणिकाष्ट शतोपेतं स्तोत्र ध्वनिसमाकुलम् || ७५१ || कालं वा द्वितयं प्रोक्तं नृत्तं कुर्यात्रिसन्धिषु | उत्तमोत्तममुद्दिश्य हविष्यं क्रममुच्यते || ७५२ || पायसान्नं पचित्वा तु षड्द्रोणं नैव तण्डुलैः | तदर्धमर्धरात्रं तु दीपाः पञ्चशतं शुभम् || ७५३ || द्वारद्वयत्रिकालेषु शुद्धान्नं चैव तण्डुलम् | त्रिकालं बलिहोमं स्यात् सर्ववाद्य समन्वितम् || ७५४ || द्विशतं षोडशैर्युक्तं नृत्तं कुर्याद्विशेषतः | एवं नवविधं प्रोक्तं पायसादि शृणु क्रमात् || ७५५ || पायसं कृसरं गोल्यं शुद्धान्नं तु चतुष्टयम् | तण्डुलाद्विगुणं क्षीरं कदलीफलसंयुतम् || ७५६ || मुद्गद्विन्नं चतुर्थांशं यथाशक्ति गुलान्वितम् | पायसान्नमिदं प्रोक्तं कृसरान्नं ततः शृणु || ७५७ || तण्डुलस्य चतुर्थांशं प्रक्षिप्य तिलचूर्णकम् | तच्चतुर्थांशमाज्यं तु पाचयित्वा यथाविधि || ७५८ || कृसरान्नमिदं प्रोक्तं गुलान्नं च ततः शृणु | अर्धभारं गुलं कृत्वा भारार्धं वाथ तण्डुलम् || ७५९ || प्द्f ८०, प्. ७२९) गुलार्धमुद्गभिन्नं च क्षीरं प्रस्थं तु निक्षिपेत् | घृतद्रोणार्धमर्धं वा शृणु पाचकलक्षणम् || ७६० || विधिस्नानं पुरा कृत्वा ब्रह्मचर्य व्रतात्मकाः | श्वेतयज्ञोपवीतश्च शुक्लवस्त्रधरश्शुभः || ७६१ || पादप्रक्षालनं कृत्वा जलैष्वड्भिस्तु तण्डुलैः | बीजमुख्येन मन्त्रेण शोधयित्वा विचक्ष्णः || ७६२ || पूरयेद्वारिभिश्शुद्धैः तण्डुलार्धाधिकै पुनः | शिखया ज्वालयेदग्निं अस्त्रेणैतान् प्रतापयेत् || ७६३ || पूरुषेण तु मन्त्रेण मौली चैव तु पश्चिमे | निरीक्ष्यनेत्रमन्त्रेण पक्वं चैव चरुं ततः || ७६४ || घृतेन पूजयेत् पश्चात् वाममन्त्रमनुस्मरन् | तत्पूरुषेण मन्त्रेण सुपक्वं तु परीक्षयेत् || ७६५ || सुभाण्डभित्तिवातं च अघोरेणैव शोधयेत् | एकाङ्गुलं त्रिपुण्ड्रं च पात्राणां भस्मना न्यसेत् || ७६६ || गन्धैः पुष्पैश्च धूपैश्च दीपैश्चैव प्रपूजयेत् | पात्राणि च तथा सर्वमिन्धं चैव सुपूजयेत् || ७६७ || हुंकारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् | मण्टपे पश्चिमे भागे न्यसेन्मन्त्री यथाक्रमम् || ७६८ || आभिश्चैवापदंशेन अन्यैश्चैवादि कारयेत् | सौवर्णं राजतं ताम्रं अथवा कदलीदलम् || ७६९ || आहरेच्छुद्धिकांस्यं वा पात्रं पालाशमेव वा | स्थूली पादत्रयं कृत्वा त्रिपादी मध्यमस्थितम् || ७७० || प्द्f ८१, प्. ७३०) षडोत्सेधं महाभद्रं शुद्धकार्पासपूरितम् | सौवर्णं पात्रमादाय सर्वलक्षणसंयुतम् || ७७१ || तमाज्येनाभिघार्यादौ पात्रमन्नेन पूरयेत् | हविषाद्रिं समुद्गं च नैवेद्यं स्यात् शिवस्य तु || ७७२ || पूर्णचन्द्रनिभाकारं मुद्गभिन्नं गुलान्वितम् | फलैस्सर्वोपदंशैश्च गव्येनाज्येन संयुतम् || ७७३ || निरीक्षणादिकं कुर्यात् हृदयेनावकुण्ठनम् | बध्नीयात् सौरभीं मुद्रां हृदयार्णं समुच्चरन् || ७७४ || शिवमन्त्रं सकृज्जप्त्वा हृन्मन्त्रेण निवेदयेत् | चतुर्भागैकभागेन परिवार बलिर्भवेत् || ७७५ || चतुर्भागैकभागेन होमं कुर्याद्विचक्षणः | चतुर्भागैकभागेन पात्रशेषमिहोच्यते || ७७६ || अर्धं निवेदयेत् शक्त्यै पात्रशेषं तदर्धकम् | पुनराचमनं दत्वा सुगन्धेन जलेन च || ७७७ || ताम्बूलं दापयेत् पश्चात् सर्वालङ्कार्संयुतम् | फलेभ्य स्त्रिगुणं पत्रं दापयेत् तैलसंयुतम् || ७७८ || फलोपहार पुष्पैश्च हृदयेन प्रदापयेत् | सर्वद्रव्यविशेषं तु दद्यात् चण्डेश्वराय च || ७७९ || सदाशिवस्य निर्माल्यं नभोज्यं सर्वजन्तुभिः | पशुभिश्च गजैर्भोज्यं प्रक्षिपेत् सलिलेषु वा || ७८० || सकलानां निवेद्यं तु परिचारः परिग्रहेत् | यथा स्वस्य गुरोच्छिष्टं भोज्यं तत् पुत्रशिष्ययोः || ७८१ || प्द्f ८२, प्. ७३२) वामीनीलिनीचक्री शङ्खी खड्गीत्वसी तथा | एते एकादशाः प्रोक्ताः गर्भावरण शक्तयः || ७९३ || विद्येशावरणे देवाः शक्तिश्चैव क्रमाच्छृणु | अनन्तादि शिखण्ड्यन्तं प्राग्दलादि क्रमान्न्यसेत् || ७९४ || अनन्तसूक्ष्मसंज्ञश्च शिवोक्तमेकनेत्रकौ | एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः || ७९५ || अष्टविद्येश्वराह्येते त्रिणेत्राश्च चतुर्भुजाः | टङ्कत्रिशूलमभयं वहन्तोवरमेव च || ७९६ || रक्तं श्वेतं तथानीलं पीतं कृष्णं च कुङ्कुमम् | अरुणं चाञ्जन प्रख्यं क्रमाद्विद्येश वर्णकम् || ७९७ || भूश्रीर्मेधा तथा कान्तिः प्रभा तुष्टिस्तथैव च | श्रुतिर्मेधा तथोष्टौ च विद्येशानां तु शक्तयः || ७९८ || विद्येशावरणं प्रोक्तं गणेशावरणं शृणु | उत्तरे तु यजेद्गौरीं वृषभं पूर्वतो यजेत् || ७९९ || याम्ये गणेशं संपूज्य नन्दीशं वारुणे यजेत् | महाकालं तु नैऋत्यां भृङ्गीशं वायुगोचरे || ८०० || ऐशान्यां दिशि चण्डेशमाग्नेययां षण्मुखं यजेत् | द्विनेत्रा द्विभुजा श्यामा गौरीकरधृतोत्पला || ८०१ || वृषभेश्वरवर्णस्तु तीक्ष्णशृङ्गोमहाबलः | गजानन त्रिणेत्रस्तु कुङ्कुमाभश्चतुर्भुजः || ८०२ || पाशदन्तदधत् ****(?) त्वं कुशलड्डुकौ | चतुर्भुज त्रिणेत्रस्तु जपाकुसुमसन्निभः || ८०३ || प्द्f ८३, प्. ७३३) सर्वद्वाराधिदेवानां श्रीनन्दीदेवनायकः | कृताञ्जलिपुटश्रीमान्वज्रचारे च धारकम् || ८०४ || चतुर्भुज त्रिणेत्रस्तु कालमेधसमप्रभम् | खड्गं सवज्रमभयं वहंतोमरमेव च || ८०५ || द्विभुजं च द्विनेत्रं च ध्वजाभयसमन्वितम् | धूम्रवर्णं तु भृङ्गी **(?) येद्दुस्स्वप्ननाशनम् || ८०६ || चतुर्भुजस्त्रिणेत्रस्तु चण्डेशऽऽष्चण्डनायकः | नीलवर्णो भयवरो विभ्रच्छूलं परश्वथम् || ८०७ || रक्तवर्णो महासेनष्षण्मुश्शिखिवाहनः | नेत्रद्वादशकोपेतो विभ्रद्वादशबाहुभिः || ८०८ || शूलं वज्रमसिं बाणं अभयं परशुं पुरा | घण्टां च शिखिनं खेटं घण्टं नागं तथाङ्कुशम् || ८०९ || देवसेनापतिं पूज्य गुलान्नं तु निवेदयेत् | भद्रा च वेदधाना च कुन्तिकापी च मन्तिका || ८१० || मालिनी च विरूपी च मन्दी चण्डाष्टशक्तयः | गणेशावरणं प्रोक्तं लोकेऽऽषावरणं शृणु || ८११ || इन्द्रं वज्रायुधं पूर्वे वह्नौ वह्निं सशक्तिकम् | यमं दण्डधरं याम्ये खड्गं निऋतिं संयजेत् || ८१२ || वरुणं पश्चिमेभागे पाशहस्तं जलाधिपम् | वायुमंशलहस्तं च वायव्यान्दिशि पूजयेत् || ८१३ || सोमं च सौम्यदेशे न गदाहस्तं प्रपूजयेत् | ईशानमीशदिग्भागे शूलहस्तं प्रपूजयेत् || ८१४ || प्द्f ८४, प्. ७३४) श्यामं रक्तं च कृष्णं च नीलं पीतं च धूम्रकम् | श्वेतवर्णं च धूम्रं च लोकेशानां क्रमात् प्रभाः || ८१५ || गजोजामहिषस्सिंहो मकरश्च मृगाश्वकौ | वृषभश्च क्रमादष्टौ वाहनानि च दिग्भृताम् || ८१६ || शची स्वाहा स देवी च विलोभित्यात्वया तथा | कालकण्ठी च नीली च जितकानिस्तु देविका || ८१७ || शक्तयोष्ठौ क्रमादेता लोकेशानां प्रकीर्तिताः | लोकेशावरणं प्रोक्तं सौरावरणमुच्यते || ८१८ || सूर्यदेवो महाशास्ता ब्रह्मविघ्नेश्वरस्तथा | सरस्वती च ज्येष्ठा च विष्णुश्च क्षेत्रपालकः || ८१९ || रक्तं प्रवालवर्णं तु हेमवर्णातिरिक्तकम् | स्फटिकं धूम्रवर्णं तु श्यामं कृष्णप्रभाः क्रमात् || ८२० || उषा च प्रत्युषा चैव सिंहिकी तु सरस्वती | सावित्री चैव कल्याणी ज्ञानी चानाददायिनी || ८२१ || पुंश्री तु श्रियाभ्रमि देवी चैव सुपालिनी | सौरमावरणं प्रोक्तं मयास्त्रावरणं शृणु || ८२२ || वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् | गदात्रिशूलंचक्रं च पद्मं चैवद दशायुधम् || ८२३ || शक्तिर्गदा च स्त्रीरूपा पाशं पद्मं नपुंसकम् | शेषाश्च पुरुषाकारा एकवक्त्रद्विबाहुकाः || ८२४ || पीतं विद्युज्जहामूर्तिविद्रुमाकाञ्चनप्रभम् | पद्मरागं प्रवालं च कृष्णं श्वेतं च रक्तकम् || ८२५ || प्द्f ८५, प्. ७३५) कालिनी च विरूपी च वारुणी विमुखी तथा | नीलिनी सुमुखी चैव मर्द्दनी भृङ्गमालिनी || ८२६ || एवा शक्तिरायुधानां स्वनामाद्येन पूजयेत् | अस्त्रावरणमित्युक्तं दलाधस्तात् प्रपूजयेत् || ८२७ || गणलोकेशयोर्मध्ये सप्तमातृश्च पूजयेत् | ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा || ८२८ || वाराही चैव माहेन्द्री चामुण्डी सप्तमातराः | वीरभद्रं च विघ्नेशं पूर्वस्यां दिशि पूजयेत् || ८२९ || यक्षेश्वरं च विधिवत् सौम्यायां दिशि पूजयेत् | सर्वभूतपिशाचेभ्यो बलिपीठे बलिं क्षिपेत् || ८३० || बाह्याचारस्य बाह्ये तु बलिपीठं प्रतिष्ठतम् | अन्तर्हारासु मध्ये तु वाहनं पीठमुच्यते || ८३१ || अन्ते तु मध्यहारायाः पुष्पपीठं प्रकल्पयेत् | मध्यादिषु प्रतिष्ठेसु गणपीठं प्रकल्पयेत् || ८३२ || महामर्यादि बाह्ये तु बलिपीठं प्रतिष्ठितम् | गन्धपुष्पोदनैर्युक्तं धूपदीपसमन्वितम् || ८३३ || वृषाय यक्षेशानाय महाकाल गणाय च | महापीठेर्चनं कृत्वा सर्वदेवगणान्वितम् || ८३४ || देवाश्च ऋषयश्चैव पितरो दैत्यदानवाः | यक्षाश्च राषसाश्चैव नागभूताः पिशाचकाः || ८३५ || किन्नराप्सरसाश्चैव मरुता मातृकास्तथा | अनावष्टिर्गणाश्चैव रोहिणी गणराव च || ८३६ || प्द्f ८६, प्. ७३६) कुमार कूश्माण्डगणा अष्टादशगणास्तथा | देवदानवगन्धर्व पीठमध्ये प्रजापतिः || ८३७ || सर्वभूतपिशाचेभ्यः पीठबाह्ये तु पूजयेत् | वृषं तु पूर्वदिग्भागे दक्षिणेशं तु दक्षिणे || ८३८ || पश्चिमे तु महाकालं देवानां गणमुत्तरे | गजाद्यैरर्चयित्वा तु बलिं सर्वत्र दापयेत् || ८३९ || मध्ययाम्योत्तरे देशे कर्णिकायां बलित्रयम् | प्रजापतेस्तु देवानां ऋषीणां च यथाक्रमम् || ८४० || नागादीशानपर्यन्तं पित्रादीनां प्रदापयेत् | मार्जनं प्रोक्षणं कृत्वा पुनरभ्यर्चनं शुभम् || ८४१ || गन्धं पुष्पं च धूपं च प्रोक्षणं च पृथक् पृथक् | मुष्टिमात्रं तदर्धं वा बलिं सर्वत्र दापयेत् || ८४२ || स्वनामाद्येन मन्त्रेण गन्धं पुष्पं च दापयेत् | अग्निकार्यविधिं वक्ष्ये सर्वसिद्धिफलप्रदम् || ८४३ || कुण्डेवा स्थण्डिले वापि होमकर्म विधीयते | तिस्रोरेता पूर्वमुख्यो ब्रह्मविष्णुहराधिपाः || ८४४ || पूर्ववत् स्थण्डिलं कृत्वा शिवाग्नि जननं शृणु | सूर्यकान्तोद्भवं श्रेष्ठं अरण्युद्भवमेव च || ८४५ || वैदिकाग्नेर्विशेषेण जातवेदसमानयेत् | सौवर्णे राजने ताम्रे सत्पात्रे मृण्मयेथवा || ८४६ || तमग्निं तत्र निक्षिप्य शिवमन्त्रं समुच्चरन् | शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयोत् || ८४७ || प्द्f ८७, प्. ७३७) बीजमुख्येन मन्त्रेण भावयेदमृतीकृतम् | कुण्डेवा स्थण्डिलेवापि सपुष्पं विष्टरं न्यसेत् || ८४८ || पद्ममष्टदकोपेतं लिखित्वा कर्णिकान्वितम् | तस्य मध्ये समावाह्य वागीशीयागकारिणीम् || ८४९ || मातां सर्वत्र भूतानां ऋतुस्नातां तु भावयेत् | पश्चान्महेश्वरं देवं त्रिणेत्रं च चतुर्भुजम् || ८०० || सर्वलक्षण संयुक्तं सर्वमङ्गलशोभितम् | संहृष्टं सहवागीशीं देव्या तत्रापि भावयेत् || ८५१ || तत्कुण्डं त्रिःपरिस्तीर्य हृन्मन्त्रं सकृदुच्चरेत् | अग्निस्थाभिमुखं योनौ देवास्सद्यास्समुच्चरन् || ८५२ || प्रक्षेपयेत्तु हृन्मन्त्रं उच्चार्यैकत्र सङ्गृहेत् | पश्चात् सप्ताहुतिं कुर्यात् हृन्मन्त्रं सम्यगुच्चरन् || ८५३ || गर्भाधानविधौ कुर्यात् पुरुषाहुति सप्तकम् | पुंसवने तु शिरसा सप्तधा होममाचरेत् || ८५४ || जातकर्माणि वामेन कुर्यादाहुति सप्तकम् | नामकर्मविधाने च हृदा सप्ताहुतिर्यजेत् || ८५५ || शिरसा जुहुयादेवं अन्नप्राशनकर्मणि | चौलकर्मव्रतविधौ हृन्मन्त्रेण च सप्तधा || ८५६ || शिरोमन्त्रं शतं हुत्वा समावर्तनमाचरेत् | विवाहाय च हृन्मन्त्रं सप्तधा होमयेद्गुरुः || ८५७ || धूपदीपप्रदानं तु हृन्मन्त्रेण पृथक् पृथक् | एवं क्रमात्तु होमेन शिवाग्नेर्जातकं शुभम् || ८५८ || प्द्f ८८, प्. ७३८) स्रुक्स्रुवौ वामहस्तस्थौ कुशैर्दक्षकरस्थितैः | अग्रमग्रेण संस्पृश्य मध्यं मध्येन संस्पृशेत् || ८५९ || मूलैर्मूलैस्पृशेदेवं भवेत् स्रुक्स्रुवशोधनम् | अज्यस्थालीं चरुस्थालीं प्रणीतापात्रमेव च || ८६० || क्षालयेच्छुद्धतोयेन शस्त्रमन्त्रं समुच्चरन् | प्रणीतां पूरयेत्तोयैः तत्र कूर्चं च निक्षिपेत् || ८६१ || तज्जलैः प्रोक्षयेत् सर्वं होमद्रव्यसमुच्चयम् | आज्येन पात्रमाज्यस पूरयित्वा सकूर्चकम् || ८६२ || त्रिधा प्रदक्षिणं वह्नेः परिभ्राम्य तथा पुनः | पश्चिमे उत्तरे चैव आज्यस्थापनमाचरेत् || ८६३ || परिषेचनन्तु हृदयास्सद्यमन्त्रेणतर्पणम् | निरीक्षणं च नेत्रेण परिधि स्थापनं कुरु || ८६४ || पूर्वाग्रमुत्तराग्रं च परिधिस्थापनं शुभम् | इन्द्रादीशानपर्यन्तान् परिधिस्थान् प्रपूजयेत् || ८६५ || ध्यानं शिवाग्नि रूपस्य शृणुष्वेवं महेश्वर | एकरूपं द्विवक्त्रं च चतुशृङ्गं द्विनासिकम् || ८६६ || त्रिमेखलं त्रिपादं च त्रिणेत्रं च त्रिकोणकम् | सोपवीतं जटमौलिं सप्तजिह्वाभिरावृतम् || ८६७ || हिरण्या कनका रक्ता कृष्णाख्या सुप्रभाह्वया | अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः || ८६८ || हिरण्या वारुणे भागे मध्ये तु कनकाह्वया | रक्ता तथोत्तरे भागे कृष्णायाम्यदिशिस्थिता || ८६९ || प्द्f ८९, प्. ७३९) सुप्रभा पूर्वदिग्भागे वह्निस्थानेतिरिक्तिका | ऐशान्ये बहुरूपा च जिह्वास्थानं प्रकीर्तितम् || ८७० || ध्यायेद्देवं शिवाग्निं तु सर्वं शान्तिकरं शुभम् | अग्निदेवस्य मध्ये तु सादाख्यं सुप्रतिष्ठितम् || ८७१ || सादाख्यस्य तदूर्ध्वे तु दक्षिणामुखमर्चयेत् | पाद्यमाचमनं चार्घ्यं गन्धपुष्पं च धूपकम् || ८७२ || दीपं नैवेद्य ताम्बूलं दापयेत्तु नटेश्वरम् | समिधा हृदये नैव अघोरेण चरुं हुनेत् || ८७३ || घृतं पुरुषमन्त्रेण लाजंघोरास्त्रमन्त्रतः | वाममन्त्रेण सक्तुं च क्षीरं **(?)द्यमन्त्रतः || ८७४ || * * * * * * * * * * * * * * * * (?) | तिलमीशानमन्त्रेण मुद्गं माषं हृदं तथा || ८७५ || द्रव्यान्तेष्वेक होमं तु कुर्यात्त्र्यम्बकमुच्चरन् | जप्त्वं शतं वर्णमन्त्रं ओदनेन तु होमयेत् || ८७६ || अपमृत्यु जयं नित्यं अज्याहुति सहस्रकम् | पञ्चावर्ण देवानां एकहोमं पृथक् पृथक् || ८७७ || स्वनाम्नैकाहुतिर्हुत्वा घण्टाधूपाद्यलङ्कृतम् | ताम्बूलं दापयेत् पश्चात् गन्धं पुष्पं प्रदापयेत् || ८७८ || त्र्यक्षरं तु सकृज्जप्त्वा तिष्ठ मध्ये च होमयेत् | अग्नेरालिङ्गनं नित्यं विदध्याच्छिवरूपिणम् || ८७९ || बध्नीयाज्ज्ञानमुद्रां च तद्भस्म तु परिग्रहेत् | ललाटे बाहुहृदये वेकाङ्गुलं त्रिपुण्ड्रकम् || ८८० || प्द्f ९०, प्. ७४०) शेषेषु द्वादशाङ्गेषु तदर्धार्ध प्रमाणकम् | मूलं त्रिकोण मध्ये तु स्थापयेदग्निदेवताम् || ८८१ || हृन्मन्त्रै स्थापयेदग्निं ज्वालामालाभिरावृतम् | कोटिसूर्यप्रतीकाशं ध्यायेन्नादात्मकं नटम् || ८८२ || ध्यात्वा ज्योतिस्वरूपस्थं शिवमन्त्रं सकृज्जपेत् | अग्निकार्यक्रमम् प्रोक्तं नित्योत्सवविधिं शृणु || ८८३ || अर्चनान्ते त्रिकालेषु नित्योत्सवमथाचरेत् | सर्वसिद्धिकरं शुद्धं सर्वपापविशोधनम् || ८८४ || सर्वमङ्गलमाङ्गल्यं सर्वशत्रुविनाशनम् | यक्षराक्षसपैशाचभूतानागास्तथैव च || ८८५ || श्रुत्वा तु तद्बलैश्शब्दं गच्छन्तु न तु बाह्यतः | दक्षिणे मण्टपाद्भागे चतुरश्रं तु मण्डलम् || ८८६ || सर्वलक्षणसंयुक्तं सर्वमङ्गलशोभितम् | सौवर्णं राजतं ताम्रं कांस्यं वा पात्रमुच्यते || ८८७ || एकहस्तं द्विहस्तं वा पात्रविस्तारमुच्यते | तत्राष्टदलपद्मं च कारयेद्व्यङ्गुलोन्नतम् || ८८८ || त्रिभागं कर्णिकं तत्र तदुत्सेधाङ्गुलिद्वयम् | एवं कृत्वा विशेषेण पात्रं तु मण्डलं न्यसेत् || ८८९ || अन्नलिङ्गन्तु मध्याह्ने त्वधमाधममाचरेत् | पुष्पलिङ्गं तु पूर्वाह्ने सायाह्नेः तण्डुलात्मकम् || ८९० || उत्तमं मध्यमं पश्चात् अधमं च त्रिधा भवेत् | उत्तमं चाढकं प्रोक्तं मध्यमं तु तदर्धकम् || ८९१ || प्द्f ९१, प्. ७४१) अधमं पञ्चपादं स्यात् तण्डुलं पालयेच्छुभम् | नापक्वं नातिपक्वं च नात्युष्णं नातिशीतलम् || ८९२ || सर्पिर्दधिफलैर्युक्तं अन्नलिङ्गं प्रकल्पयेत् | उत्सेधं द्वादशाङ्गुल्यं मूलं तद्विगुणं भवेत् || ८९३ || ऊर्ध्वण् तु द्व्यङ्गुलं प्रोक्तं द्व्यङ्गुलं नाहमुच्यते | मध्यमं द्वादशाङ्गुल्यं ऊर्ध्वं तु त्र्यङ्गुलं भवेत् || ८९४ || अधमं द्व्यङ्गुलं प्रोक्तं ऊर्ध्वमेकाङ्गुलं भवेत् | संपूज्य विद्यावरणं देवध्यानक्रमं शृणु || ८९५ || रौद्रं त्र्यक्षं चतुर्बाहुं शिखाकोटि समुज्वलम् | अक्षसूत्रं त्रिशूलं च बिभ्राणामभयं वरम् || ८९६ || ध्यात्वा पशुपतिं देवं बलिलिङ्गे प्रपूजयेत् | पद्ममुद्रां नमस्कारं शान्तिमुद्रां प्रकल्पयेत् || ८९७ || तल्लिङ्गं प्रतिमां ध्यात्वा गन्धपुष्पादिभिर्यजेत् | दशायुधानि परितः कल्पयेत् कल्पवित्तमः || ८९८ || पद्मपीठं तु यद्धार्य पादुकां धारयेच्छिखा | त्रिशूलं पूर्वतो गच्छेत् शिवदण्डात्वनन्तरे || ८९९ || रक्तोष्णी ***(?) यं च रक्तमाला विभूषितम् | पवित्रपाणि मौनी तु हस्तमात्रेण दण्डधृक् || ९०० || शिरसा धारयेल्लिङ्गं प्रतिमादि निषेवितम् | पूर्वाह्ने ब्रह्मप्रीतिं च मध्याह्ने तु शिवप्रियः || ९०१ || विष्णुप्रीतिस्तु सायाह्ने तध्यानं च क्रमाच्छृणु | पूर्वोक्तं ब्रह्मवर्णम् तु रुद्रवर्णं तु कथ्यते || ९०२ || प्द्f ९२, प्. ७४२) शुक्लोष्णीषोत्तरीयं च * * * * (?) विभूषितः | मध्याह्ने धारयेल्लिङ्गं मम प्रीतिकरं शुभम् || ९०३ || पीतोष्णीषोत्तरीयं च पीतमाल्या विभूषितः | सायाह्ने धारयेल्लिङ्गं विष्णुप्रीतिकरं शुभम् || ९०४ || दक्षिणाभिमुखं शिष्यं प्रोक्षयेद्धृतयेन तु | तन्मूर्ध्निं देयं संस्थाप्य गन्धपुष्पादिभिर्यजेत् || ९०५ || शिबिकायां गजेवापि रथेवारूढयन्त्रके | अथवा पादगमनं प्रदक्षिणं तु कारयेत् || ९०६ || पटहैर्मर्दलैश्चैव झल्लकैर्जपघण्टकैः | काहलैस्तालजंघैश्च वीणावेणुरवैस्तथा || ९०७ || पिञ्छचामरसंयुक्तं चित्रध्वज समायुतम् | गणिकानृत्त संयुक्तं दिव्यगेय समन्वितम् || ९०८ || स्तोत्रध्वनि समायुक्तं जयमङ्गलवाचकम् | वेदध्वनिसमायुक्तं दिव्यनृत्तसमन्वितम् || ९०९ || त्रिधा प्रदक्षिणं कुर्यात् प्रा**(?)न्तु महेश्वर | आद्यं प्रदक्षिणं कुर्यात् भृङ्ग तालसमन्वितम् || ९१० || गोपुरेवाद्यनिश्शब्दं शङ्खध्वनिसमायुतम् | तालद्वयसमायुक्तं वेदध्वनिनिषेवितम् || ९११ || प्रदक्षिणे द्वितीये तु नृत्तवाद्य समन्वितम् | समस्तं भृङ्गिणी तालं कर्तृवाद्यं तु टङ्करी || ९१२ || पुगुलं कुञ्चितान्तं च त्वटमं विषमं तथा | बाह्यपीठे क्रमावृत्य प्रासादं त्रिःप्रदक्षिणम् || ९१३ || प्द्f ९३, प् ७४३) बलितालद्धाकर्णन्तु भिन्नाभिन्दिञ्च तालकम् | नवताकं नागतालं कोटिकांसं करिष्य च || ९१४ || इन्द्रादीशानपर्यन्तं बलितालान्यथाक्रमम् | इत्येते कल्पिताश्चैव प्रासादं त्रिःप्रदक्षिणम् || ९१५ || **(?)प्रक्षालनं कृत्वा पादुकार्चनमारभेत् | हृदयं मन्त्रमुच्चार्य गन्धपुष्पादिनार्चयेत् || ९१६ || पाद्यमाचनं चार्घ्यं धूपदीपं च दापयेत् | प्रतिमं प्रतिलिङ्गन्तु पूजयेत् पूर्ववच्छुभम् || ९१७ || पूर्ववत् शस्त्रमन्त्रेण पूर्वस्थाने तु विन्यसेत् | पूजयेद्देवदेवेशं नमस्कुर्याच्चमुद्रया || ९१८ || सव्यापसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् | प्रदक्षिणं दुःखहरं सोमसूत्रं न लङ्घयेत् || ९१९ || तीर्थं च दानं पुण्यं च तपोयज्ञास्तथैव च | प्रदक्षिणसमं नास्ति प्रत्यक्षफलसिद्धिदम् || ९२० || प्रदक्षिणं च द्विविधं शान्तिकं पौष्टिकं शुभम् | द्विभेदलक्षणं वक्ष्ये शृणुष्वेवं महेश्वर || ९२१ || मौनव्रताचरैर्नीन्य चिन्तनैः शिवचिन्तकैः | छायाधस्तात् प्रकर्तव्यं विमाने तु प्रदक्षिणम् || ९२२ || बलिकाले विशेषं तु आचार्यं शिष्यसेवितुम् | न दोषमन्यकालेषु छायासूत्रं न लङ्घयेत् || ९२३ || गो ब्राह्मण नृपच्छायां ज्येष्ठच्छायां न लङ्घयेत् | शिवं प्रदक्षिणं शंभोः जगद्रक्षार्थकारणम् || ९२४ || प्द्f ९४, प्. ७४४) विमान दण्डविस्तारं सोमसूत्रं न लङ्घयेत् | आयुर्बलं तथारोग्यं अपमृत्यु जयो भवेत् || ९२५ || संपन्नं चैहिकैर्भोगैः रुद्रलोकं सगच्छति | प्रदक्षिणे विमानानां दक्षिणं श्रेष्ठमुच्यते || ९२६ || तस्मात् सर्वप्रयत्नेन त्रिधा कुर्यात् प्रदक्षिणम् | ज्ञानार्थं च जयार्थं च वश्यार्थं च धनार्थकम् || ९२७ || पावनं रोगशान्त्यर्थं रक्षार्थं भोजनार्थकम् | अणिमा गुणिमार्थं च प्रदक्षिणमिहोच्यते || ९२८ || तस्मात् प्रदक्षिणं कुर्यात् दक्षिणद्वारमालयम् | दक्षिणे द्वारदेवं तु नटेश्वर मनुस्मरेत् || ९२९ || प्रणम्य दण्डवद्भूमौ व्रष्टाङ्गं सन्निवेशयेत् | शिरोहस्तौ च कर्णौ च चिबुकं बाहुयुग्मकम् || ९३० || अष्टाङ्गं च नमस्कारं पञ्चाङ्गं च ततः शृणु | शिरो हस्तौ द्विबाहू च कृत्वा जानु च संस्थितौ || ९३१ || इदं पञ्चाङ्गमेकं तु नमस्कारद्वयं स्मृतम् | तदन्ते ताण्डवं कृत्वा ममप्रीतिकरं शुभम् || ९३२ || तत्काले गानमुच्चार्य स्तोत्रं वेदं जयं तथा | लिङ्गमालिङ्गनं कुर्यात् ज्ञानमुद्रामनन्तरम् || ९३३ || अथोपहार पुष्पाणि दापयेद्दक्षिणेश्वरे | बलिलिङ्गं ततोभ्यर्च्य बाह्यपीठे तु निक्षिपेत् || ९३४ || प्रातःकाले तु गान्धारं मध्याह्ने तर्करागि च | कौशिकं च ततः कृत्वा सायाह्ने चेन्दुलं शुभम् || ९३५ || प्द्f ९५, प्. ७४७) || दीक्षाविधिः || अथ दीक्षाविधिं वक्ष्ये सर्वसिद्धिफलप्रदम् | अपमृत्यु प्रशमनम् आयुरारोग्यवर्धनम् || १ || दीयते यच्छिवत्वं हि क्षीयते पापपञ्जरम् | दानक्षपणयोगेन दीक्षाचेत्यभिधीयते || २ || महेन्द्रे मलये विन्ध्ये परिपात्रे हिमालये | गङ्गातीरे सरित्पुण्ये समुद्रे चाश्रमेपि च || ३ || पुष्पोद्यानेथवा शुद्धे जप्येश्वर समीपके | पर्वताग्रे वने गोष्ठे श्रीपुरेक्षीरवृक्षके || ४ || ब्रह्मकुण्ण्दे कदम्बे च गुरोः सद्मनिशोभने | देवालये विशेषेण दक्षिणद्वारवेश्मनि || ५ || कुन्दवृक्षस्य मूले च दीक्षास्थानं प्रकल्पयेत् | दीक्षास्थान क्रमं प्रोक्तं दीक्षाकालविधिं शृणु || ६ || उत्तरायणकाले तु शुक्लपक्षे शुभेदिने | अयने विषुवे चैव ग्रह्णे सोमसूर्ययोः || ७ || सर्वमासेषु कर्तव्यं आचार्येच्छायुते दिने | सुमुहूर्ते सुलग्ने च दीक्षाकर्म समाचरेत् || ८ || परीक्ष्यवत्सरं पूर्वं शिष्याणान्तु गुणान् | गुणयुक्तांस्तु सङ्ग्राह्य गुणहीनान्विवर्जयेत् || ९ || शिष्यानुग्रहणे पूर्वं दन्तकाष्ठं प्रदापयेत् | पूर्ववद्विधिसंयुक्तं स्नानं कृत्वा विचक्षणः || १० || सर्वदेवात्मकं शुद्धं मण्टपं सर्वकामिकम् | पूर्ववद्भूमि संशुद्धिं कृत्वा मण्डपमण्डनम् || ११ || प्द्f ९६, प्. ७४८) वर्णं गन्धं रसं चैव चातुर्वर्णक्रमाच्छृणु | श्वेतवर्णं ब्राह्मणानां रक्तवर्णं तु भूभृताः || १२ || पीतवर्णं तु वैश्यानां शूद्राणां कृष्णवर्णकम् | आज्यगन्धं तु विप्राणां नृपाणां रक्तगन्धकम् || १३ || वैश्यानां पद्मगन्धं च शूद्राणां क्षारगन्धकम् | मधुरं च कषायं च तिक्तं च कटुकं क्रमात् || १४ || ब्राह्मणात् शूद्रपर्यन्तं यागभूमिरसा इमे | वर्णगन्धरसैरेवं संयुक्तं यागभूतलम् || १५ || चतुर्द्वार समायुक्तं चतुस्तोरणभूषितम् | वितानध्वजसंयुक्तं दर्भमाला विभूषितम् || १६ || ध्वजमाला समायुक्तं पुष्पमाला परिष्कृतम् | क्रमुकैः कदलीभिश्च मुक्तादामाभिरावृतम् || १७ || पालिकाभिरनेकाभिर्दिशि दिक्षु परिष्कृतम् | सुधया भस्मनावापि कृतमेखात्रयावृतम् || १८ || पुष्पोपहारसहितैः लाजदूर्वाक्षतैः शुभम् | सुमितं च सुसूत्रं च कृत्वा शङ्कुं च सर्वतः || १९ || शंखवः खादिराः पश्चात् अपामार्गं च चंपकम् | उत्सेधा द्वादशाङ्गुल्यास्तदर्धं नाहसंयुताः || २० || मण्डलं त्रिगुणायां द्वात्रिंशत्सूत्रसंयुतम् | पूर्वाग्राह्युत्तराग्राणि सूत्राण्यास्फालयेत् क्रमात् || २१ || नैऋतादीशपर्यन्ता माग्नेयाद्वायुकोणकम् | सूत्रं प्रसार्य कृत्वा तु वर्तले मण्डले शुभे || २२ || प्द्f ९७, प्. ७४९) वितेन रजसा चैव अष्टपत्रं लिखेत् पुनः | कर्णिकां पीतवर्णेन केसरं चरुणेन च || २३ || तन्मूलमग्रं शुक्लेन दलानिश्वेतवर्णितः | पद्महस्तप्रमाणं तु कर्णिका चतुरङ्गुलम् || २४ || पद्ममानं विपेद्वारं विधिना विस्तरं तथा | प्रतिद्वारेण रेखासु पद्मबाह्ये त्रयं भवेत् || २५ || पद्मबाह्यत्रयं मानं पद्मार्धार्धं तु मानकम् | पद्मान्ते प्रतिवारे तु मध्ये वर्णक्रमं शृणु || २६ || पुरस्ताद्रक्तवर्णं तु कृष्णवर्णं तु दक्षिणे | पश्चिमेश्वेतवर्णं स्यात् उत्तरे काञ्चनप्रभम् || २७ || आग्नेययामग्निवर्णं च नीलवर्णं च नैऋते | वायव्यां धूम्रवर्णं स्यात् ऐशान्यां श्वेतवर्णकम् || २८ || नववृक्षं नवद्वर्णं पद्मबाह्ये तु लेखयेत् | चतुर्द्वारादिवर्णं तु क्रमाद्वक्ष्ये महेश्वर || २९ || रत्नेन रजसा लेख्यद्वारादिपदवर्णकम् | हरितेन तु बाह्येन त्रिवर्णं च क्रमान्यसेत् || ३० || शोभामभ्युपशोभां च श्वेतवर्णेन लेखयेत् | शालिगोधूमपिष्टैश्च मुक्ताचूर्णसुमिश्रितम् || ३१ || पद्मरागस्य चूर्णं च मध्ये नीलं च वर्णकम् | आग्नेये पीतचूर्णैश्च नीलचूर्णयमेतथा || ३२ || नैऋत्यां चैव गोमेदचूर्णं कृत्वा विशेषतः | मुक्ताचूर्णं पश्चिमे च वैदूर्यं चूर्णमानिले || ३३ || प्द्f ९८, प्. ७५०) सौम्ये प्रवालवर्णं स्यात् ऐशे माणिक्यचूर्णकम् | धातुश्च पुष्पयोनिश्च ब्रह्मपुष्पं च उत्पलैः || ३४ || धुर्धूरैर्बृहतीपुष्पैर्नन्द्यावर्तस्यपत्रकैः | हरिद्राशालिवर्णं च मध्यादीशानवर्णकैः || ३५ || एतद्वर्णैश्च बाह्ये तु नववृक्षान्विलेखयेत् | कल्पं बिल्वं शमीं चैव वटवृक्षं च चंपकम् || ३६ || अश्वत्थ प्लक्ष पुन्नागं चन्दनं नवविन्यसेत् | षोडशं चैव द्वात्रिंशत् चतुष्षष्ट्युत्तरंशतम् || ३७ || एतद्दल क्रमाद्याश्च महामण्डलमेव च | सहस्रं वा तदर्धं वा षोडश द्वादशाष्टवा || ३८ || इत्थं दलक्रमान्न्यस्त्वा शिवमण्डलमुच्यते | पञ्चविंशति द्वात्रिंशत् सहस्रं वा शताष्टकम् || ३९ || इत्थं दलक्रमन्न्यस्त्वा ज्ञानमण्डलमुच्यते | मण्डलं त्रिविधं प्रोक्तं ततो हस्तविधिं शृणु || ४० || रेण्वष्टकं तथाष्टं च केशाख्यालिख्य अष्टकः | यूकाष्टकयवाष्टं च अङ्गुल्यष्ट द्वितालकम् || ४१ || तालद्वयं तु हस्तं स्यात् मानं वक्ष्ये महेश्वर | एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा || ४२ || पंचाष्ट दशहस्तं वा तथा षोडशहस्तकम् | हस्तानां विंशतिं चैव पञ्चविंशति हस्तकम् || ४३ || द्वात्रिंशत् हस्तमेवं स्यात् तत ऊर्ध्वं न कारयेत् | मण्डलं तु कृतं पूज्य तस्य मध्ये शिवार्चनम् || ४४ || प्द्f ९९, प्. ७५१) सर्वदेवात्ममध्यस्थं दक्षिणामुखमव्ययम् | गन्धं पुष्पं च दीपं च धूपं चैव प्रदापयेत् || ४५ || त्रियम्बकं मन्त्रमुच्चार्य ध्यात्वा मध्ये नटेश्वरम् | अपूपं तु फलं क्षीरं अस्त्रमन्त्रेण दापयेत् || ४६ || तण्डुलैराडकेनैव चरुकं पूर्ववत् पचेत् | निवेदयेत् चरुं सम्यक् तदर्धन्तु निवेदयेत् || ४७ || परिचारे तदर्धं तु तदर्धं शिष्यदापयेत् | दन्तैरस्पृश्य विधिवत् पञ्चब्रह्म मनुस्मरन् || ४८ || आचामं विधिवत् कृत्वा वीरेशं ध्यानमुच्चरन् | तदन्ते मन्त्रमुच्चार्य शिष्यकर्णे तु दक्षिणे || ४९ || तन्मन्त्रं च शतं जप्त्वा पुण्याहं तत्र वाचयेत् | त्रियम्बकं शतं जप्त्वा बध्नीयात् कौतुकं पुरः || ५० || विश्वेक्तातेति मन्त्रेण बध्नीयाद्दक्षिणकरे | स्त्रीणामपि च शूद्राणां अमन्त्रं वामहस्तके || ५१ || बृहत्सामेति मन्त्रेण भस्मं चैव प्रदापयेत् | भस्मशयया समारूढं शिवदक्षिणपार्श्वके || ५२ || ओं नमश्शंभो त्रिणेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधिपतये नमः || ५३ | इमं मन्त्रं शतं जप्त्वा वसेद्रात्रौ शिवाग्रतः | तत्काले गुरुरूपं तु ध्यात्वा दक्षिणनायकम् || ५४ || प्रशमार्थं तु विघ्नानां कलशान्पञ्चकल्पयेत् | ससूत्रं च सवस्त्रं च सरत्नं पूर्ववत् कृतम् || ५५ || प्द्f १००, प्. ७५२) प्रासादं मध्य कृतो ईशानेनाभिमन्त्रयेत् | पुरुषादि च वामान्त पूर्वाद्युत्तरतो न्यसेत् || ५६ || गन्धाद्यैरर्चयित्वा तु ध्यात्वा ब्रह्मस्वरूपकम् | हृदयं मन्त्रमुच्चार्य नैवेद्यादिं च दापयेत् || ५७ || इत्थं सङ्कल्प्य विधिवत् प्रभाते स्नानमाचरेत् | शुभं वाप्यशुभं वापि दुष्टस्वप्ननिवेदयेत् || ५८ || शुभेषु सङ्गृहं चैव अशुभे होममाचरेत् | प्रक्षाल्य पादौ हस्तौ च समाचम्य विधानतः || ५९ || दुकूलपट्टवस्त्रेण चित्रपट्टेन वाससा | अथवा नववस्त्रेण कार्पासविहितेन वा || ६० || नेत्रमन्त्रेण दशधा जपन् शिष्यस्य लोचने | उत्तराभिमुखो **(?) बध्नीयात्तु समाहितः || ६१ || पूरुषं मन्त्रमुच्चार्य पुष्पं चैव परिग्रहेत् | ईशानेन तु मन्त्रेण पुष्पाञ्जलिमुपाहरेत् || ६२ || प्रदक्षिणत्रयं कृत्वा वाममन्त्रेण दापयेत् | यस्मिन्वस्त्रे पतेत्पुष्पं नामात्मं तु तदात्मकम् || ६३ || नामगोत्रं च सूत्रं च गोचरं रत्नवृक्षकम् | शैवतत्वं च कालं च मूर्ती शक्तिक्रमाच्छृणु || ६४ || ईशानं वक्त्रद्येवघोर ब्रह्मस्य सद्यकम् | रुद्रं वाममहंकारो नवधानाम कथ्यते || ६५ || ब्राह्मणानां शिवान्तं च रुद्राणां च गणान्तकम् | सद्यादिरनुलोमस्य ऽऽषक्त्यन्तं नाम भाषयेत् || ६६ || प्द्f १०१, प्. ७५३) कौशिकः काश्यपश्चैव भारद्वाजोथजैमिनि | अगस्त्यगौतमो वसिष्ठाः पराशरश्चैवरोमशः || ६७ || शिवसूत्रं नदसूत्रं शक्तिं च ब्रह्मसूत्रकम् | बिन्दुसूत्रं विष्णुसूत्रं पश्चाद्वायव्यसूत्रकम् || ६८ || सोमसूत्रं महासूत्रं नवसूत्राण्यमुनि वै | शिवः शिखानन्दज्योत्स्ना सावित्रिसद्गुणः || ६९ || व्योमं च व्यापकश्चैषो गोचरा नवधाः स्मृताः | कल्पो बिल्व शमी चैव वटवृक्षश्च चम्पकम् || ७० || अश्वत्थ प्लक्षपुन्नागाश्चन्दनो नवपादपाः | माणिक्यं मौक्तिकं चैव पुष्परागं च नीलकम् || ७१ || वैडूर्यं चैव गोमेदं गारुडं प्रवालकम् | स्फाटिकं चैव रत्नानि नवधा कीर्तितानि च || ७२ || ऊर्ध्वं शैवं तु प्रथमं आदि शैवं द्वितीयकम् | अनादि शैवं तृतीयं अनुशैवं चतुर्थकम् || ७३ || अवान्तरं पञ्चमं च मिश्रशैवं तु षष्ठकम् | सप्तमं भेदशैवं स्यात् अष्टमं गुणशैवकम् || ७४ || आज्ञाशैवं तु नवमं शैवानि नवधा क्रमात् | शिवतत्वं वह्नितत्वं शक्तिज्ञानमयं ततः || ७५ || निर्गुणाभेद तत्वं च आत्मविद्याशिवात्मकम् | प्रोक्तानि नवतत्वानि कालन्नव शृणु क्रमात् || ७६ || विधात सृष्टिकाले तु स्थितिकाले तु केशवः | संहारकाले रुद्रस्तु भोगकाले महेश्वरः || ७७ || प्द्f १०२, प्. ७५४) योगकाले तु सादाख्यो ज्ञानकाले तु बिन्दुकः | ध्वनिकाले तु नादात्मा आज्ञाकालेस्तु शक्तयः || ७८ || शिवकाले विशेषं तु ईशानोन्नं ततः क्रमात् | शिवमूश्शक्तिमूर्तिं नादात्मा बिन्दुमूर्तिकः || ७९ || सदाशिव महेशान रुद्रकेशववेधसाम् | मर्तयो नवधा प्रोक्ताः शक्तीरपि ततः शृणु || ८० || आदिशक्तिः क्रियाशक्तिः ज्योतिश्शक्तिर्गुणात्मिका | ज्ञानशक्तिर्जयाशक्ति योगानन्दाख्यशक्तिकाः || ८१ || भेदाधारात्मशक्ती च शक्तयो नवधा स्मृताः | नामादि भेदास्संप्रोक्ताद्वारवर्णक्रमं शृणु || ८२ || द्वारं तु दक्षिणं श्रेष्ठं चातुर्वर्ण्यमनुक्रमात् | पूर्वद्वारं प्रशस्तं तु ब्राह्मणानां महेश्वर || ८३ || क्षात्रं तु दक्षिणद्वारं वैश्यानामुत्तरं शुभम् | शूद्राणां पश्चिमद्वारं विशेषं तु महेश्वर || ८४ || सर्वेषामपि वर्णानां दक्षिणद्वारमुत्तमम् | पञ्चब्रह्मषडङ्गैश्च पूर्ववन्न्यासमाचरेत् || ८५ || पञ्चकेशस्थितं तं तु संहारं हृदयेन तु | मूलमन्त्रं सकृज्जप्त्वा शिष्यमूर्ध्नि निरीक्षयेत् || ८६ || निरीक्ष्यं च द्वैतस्थाने शिवहस्तं प्रदापयेत् | संश्राव्य समयं सम्यक् देवदेवस्य चाग्रतः || ८७ || सर्वशास्त्रमनिन्द्यं तु शिवपादसुन्निस्सदा | आचार्य ज्येष्ठलिङ्गानां छायामपि न लङ्घयेत् || ८८ || प्द्f १०३, प्. ७५५) अदीक्षिता च या नारी तत्सङ्ग परिवर्जयेत् | निर्माल्यं तु न भुञ्जीत भस्मयुक्तान्न निन्दयेत् || ८९ || शिष्यं सबान्धवं चैव सपत्नीकं च दीक्षयेत् | एवं सङ्ग्राह्य समयान् पश्चाद्धोम समाचरेत् || ९० || पीठाय सर्वद्वाराणि निरुद्धेन्द्रिय एव च | शब्दसंरोधन स्थानं कर्णेन्द्रियमिति स्मृतम् || ९१ || अनलेन तु बीजेन चक्षरिन्द्रिय रोधनम् | नीर***(?) कर्णं तु चक्षु प्राणे सुजिह्वके || ९२ || त्वगिन्द्रियं च पादं च वागिन्द्रिय निरोधनम् | समयेन्द्रियमानेन अहंकारेनलेन्द्रियम् || ९३ || नवद्वारं शब्दबीजं अनलं शब्दबीजकम् | पञ्चबीजकरं न्यस्त्वा पूर्वेन्द्रिय न्यसेत् क्रमात् || ९४ || सत्वं रजस्तमश्चैव स्वनामाद्येन घट्टयेत् | एवं निरुध्य विधिवत् कर्षयेच्छिवशक्तिभिः || ९५ || यदा सीत्पशुपतिः तावत् तावत् सर्वं निरोधयेत् | सुधया प्लावयेत् तत्र वारुण्येन शिवेन च || ९६ || सर्वदेवमयं देहं सर्वज्ञान समुच्चयम् | सूर्यमण्डलसङ्काशं मध्यबीजं प्रतिष्ठितम् || ९७ || आत्मतत्वं कुरुं चैव विद्यातत्वं सुनादकम् | शिवतत्वमितिप्रख्यं मन्त्रराजानमव्ययम् || ९८ || ओमिति प्रणवं शुद्धं योगपद्ममधोमुखम् | पूर्वमेवं सकुम्भित्वात् पश्चाच्छिष्ये नियोजयेत् || ९९ || प्द्f १०४, प्. ७५६) हृत्पुण्डरीक मध्यस्थं गुणत्रय समन्वितम् | इन्द्रनीलमणिप्रख्यं पञ्चविंशात्मरूपकम् || १०० || हंसमन्त्रमरूपस्थं शिवं सर्वे प्रतिष्ठितम् | आद्यन्त शून्यमध्यस्थं आनन्दममृतात्मकम् || १०१ || ऊर्ध्व शैवमिदं मन्त्रं बीजं गुरुशुभं परम् | परवस्तु स्वरूपं च परमानन्दरूपिणम् || १०२ || परतत्व प्रकाशार्थं पार्वतीवल्लभं शिवम् | अष्टमाद्या ममध्वं स्यात् मुद्गस्य प्रतिष्ठितम् || १०३ || दक्षिणामुखमाश्रित्य ज्ञानमुद्रा स्वरूपिणम् | सदाशिव शिवात्मानम् षडध्वात्मा सुलक्षितम् || १०४ || पुनरुत्थाप्य विधिवत् अध्वषट्कं तु विन्यसेत् | मन्त्राध्वा च पदाध्वा च तत्वाध्वा भुवनाध्वकम् || १०५ || वर्णाध्वा च कलाध्वा च पूर्वतत्वं सुयोजयेत् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || १०६ || कालानलाग्नि तद्वायु पञ्चतत्वा व्यवस्थितम् | पार्थिवं तु निवृत्तावै ब्राह्मणाञ्चैव कथ्यते || १०७ || आपः प्रतिष्ठायां विद्याद्या विष्णुस्वरूपकम् | तेजो विद्या च तेजो वै यावद्रुद्रस्वरूपकम् || १०८ || वायुशान्त्यादि रूपन्तु महेशात्म व्यवस्थितां | शान्त्यातीतं खकारात्मा सादाख्यं तत्वमव्ययम् || १०९ || जान्वधस्तान्निवृत्ति स्यात् प्रतिष्ठानाभ्य संस्थिता | विद्यास्थानं तु कर्णान्तं मुखान्तं शान्तिगोचरम् || ११० || प्द्f १०५, प्. ७५७) रन्ध्रान्तं शान्त्यतीतं तु पराप्र शिवान्तकम् | निवृत्तौ सद्यमन्त्रं स्यात् प्रतिष्ठायां तु वामकम् || १११ || अघोरमन्त्रे विद्याया शान्तौ पुरुषमन्त्रकम् | ईशानमन्त्रोतीतायां तन्मन्त्रैर्जुहुयात् ततः || ११२ || प्रत्येकं तु शतं हुत्वा तदर्धं वा तदर्धकम् | पञ्चत्रिंशच्छतं हुत्वा पञ्चहोममं प्रशस्यते || ११३ || आचार्यं तु शतं हुत्वा एते होमं विशेषतः | अन्ये वन्धविनाशाय हृदयेन शतं हुनेत् || ११४ || अष्टत्रिंशत्कलामन्त्रं अष्टत्रिंशस्तु होमयेत् | वर्णमन्त्रं समुच्चार्य एकहोमं प्रशस्यते || ११५ || शिष्याकृतिं त्रिधा ध्यात्वा शिष्यदेहं च बन्धयेत् | आकर्षयेत्तु तत्सर्वं पाशबन्धविनाशनम् || ११६ || अघोरमन्त्रमुच्चार्य अघोरास्त्रं च होमयेत् | छिन्नं भिन्नं च तन्यूनां पाशबन्धनमुच्यते || ११७ || शिष्यदेहं तु सङ्ग्राह्य मन्त्रहस्तं प्रदापयेत् | प्रदापयेत्तु यत्काले शिवमन्त्रमनुस्मरन् || ११८ || मन्त्रदेहमनुस्मृत्य देहमूर्ध्नि विशेषतः | विद्येश्वराणां प्रत्येकं आहुत्यष्टकमिष्यते || ११९ || गणेश्वरान्ततो देव योजयेच्छिष्य देहके | लोकपालं च सर्वेषां मन्त्राणां चैव होमयेत् || १२० || एवं पदाध्वकं न्यस्य तत्वाध्वन्यास उच्यते | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || १२१ || प्द्f १०६, प्. ७५८) शब्दं स्पर्शं च रूपं च रसोगन्धं च पञ्चकम् | वाक्पाणि च पादौ च पायूपस्थौ च पञ्चकम् || १२२ || श्रोत्रं च त्वक् च चक्षुश्च घ्राणं चैव तु पञ्चकम् | मनोबुद्धिरहंकारः प्रकृतिः पुरुषस्तथा || १२३ || रागो नियति विद्ये च कला कालश्चमोहिनी | शुद्धविद्या शुद्धकला तथा पश्चात् सदाशिवः || १२४ || शक्तिश्च शिवतत्वं च शुद्धमायास्वरूपकम् | एवं तत्वानि षट्त्रिंशत् स्वस्वस्थाने नियोजयेत् || १२५ || विन्यसेद्भुवनाध्वानः कालाग्न्यादि शिवान्तकम् | कालाग्नि रुद्रं प्रथमं पादाङ्गुष्ठे नियोजयेत् || १२६ || अन्धकारं च प्रथमं जङ्घस्यार्धे नियोजयेत् | अष्टाविंशति कोट्यं तु नरकादितिदारुणः || १२७ || राजानो नरकाणां तु द्वात्रिंशत्परिकीर्तिताः | रौरवं कुभिघोरं च महाघोरं च रौरवम् || १२८ || कूटं च बलिपूजां च महापूतिश्च दारुणः | कन्तुपूतश्च तप्तश्च अस्थितालवशं तथा || १२९ || क्षुरिका क्षुरिधारा च धनुर्धारा शरस्तथा | श्वानसूकरव्याघ्रं च सिंह चैव गजेन्द्रकाः || १३० || महावैधारिणी चैव अस्त्रिभङ्गस्तथैव च | कृकमश्चञ्च कामाश्च कुक्कुटश्चैव गर्दभः || १३१ || कर्णिकाकीर्णवज्रं च सर्वपांसुश्च लोहका | नीलयन्त्रा च यन्त्राश्च चक्रयन्त्राः सुभीरुकाः || १३२ || प्द्f १०७, प्. ७५९) अर्धजङ्घोर्ध्व जङ्घश्च जानुश्च नरकाः क्रमात् | तलं च वितलं चैव तलं वसुतलं तथा || १३३ || रसातलं तलमहातलं तथा पुनः | ऊरुमध्ये न्यसेत् पश्चात् क्रमात् पातालसप्तकम् || १३४ || भूलोकश्च भुवर्लोकं स्ववर्लोकश्चमेव च | जनलोकं तपोलोकं सत्यलोकं यथाक्रमम् || १३५ || इत्थं वै सप्तलोकाश्च मेढ्रोर्ध्वे परिकल्पयेत् | ऐन्द्रं ब्राह्मं च भुवनं वैष्णवं रौद्रमेव च || १३६ || मेढ्रं मूर्ध्वगलाधस्तात् क्रमेणैव च विन्यसेत् | भूलोकं शिवलोकं च गलादूर्ध्वं प्रकल्पयेत् || १३७ || अकारादि क्षकारान्तं पूजां स्थानेषु विन्यसेत् | मूलप्रकृति बीजं तु मुखं मध्ये प्रविन्यसेत् || १३८ || महामाया शक्तिबीजे शिवमन्त्रं च विन्यसेत् | नासाग्रे हृदये गुह्ये देहमध्ये तु विन्यसेत् || १३९ || इत्थं वर्णाध्वकं न्यस्य कलाध्वानस्ततो न्यसेत् | निवृत्ति हृत्प्रदेशे च प्रतिष्ठा कर्णगोचरे || १४० || विद्यां तालुनि शान्तिं च मुखे तीतां च विन्यसेत् | इत्थं कला च ध्वानं शिवतत्वं ततः परम् || १४१ || इत्थं कला स आचार्यः यत्पापानपि दीक्षयेत् | रसबन्धं तथा ताम्रं न भूयस्ता भृतां व्रजेत् || १४२ || आज्ञा सिद्धास्तथाह्येष न संसारमनुस्मरेत् | एवं सम्यक् ततः कृत्वा दीक्षा नानादिवर्जिता || १४३ || प्द्f १०८, प्. ७६०) हुते नैवेद्य मुच्यन्ते साधका जन्मबन्धनात् | हृदयेन चरुत्सङ्घं अघोरेण चरुं ततः || १४४ || पुरुषेण घृतं पश्चात् अघोरास्त्रेण लाजकम् | हृदयेन गुलं पश्चात् फलं च शिवमन्त्रतः || १४५ || सक्तुं वै वाममन्त्रेण क्षीरं सद्याख्य मन्त्रतः | यवा हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः || १४६ || तिलमीशानमन्त्रेण मुद्गं माषं हृदा हुनेत् | द्रव्याभाषे तु सर्वेषां आज्यहोमः प्रशस्यते || १४७ || आज्यहोमेन सर्वेषां द्रव्याणां फलमाप्नुयात् | होमान्तेरभिषेकं च वक्ष्यते तु शृणु क्रमात् || १४८ || सहस्र कलशैर्वापि तदर्धकलशैरपि | शताष्ट कल्शैर्वापि सर्वद्रव्य समन्वितैः || १४९ || दरिद्राणां यथा लाभं कलशैरभिषेचयेत् | पञ्चविंशतितः कृत्वा अथवा नवपञ्चवा || १५० || द्वौ कुम्भैकमथवा गुरुहस्तमथापि वा | पूर्ववत् स्थाप्य कलशं शिवं पूर्ववदाचरेत् || १५१ || पद्मं दक्षिणतोन्यस्य वसुपत्र सकर्णिकाम् | तत्पद्ममध्ये शिष्यं तु स्थापयेदुत्तराननम् || १५२ || पुण्याहं वाचयित्वा तु ब्राह्मणैर्वेदपारगैः | ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे || १५३ || पश्चिमे सामवेदं तु चतुर्थं वेदमुत्तरे | विन्यसेद्घोषयेत् पश्चात् शङ्खकाहकनिस्वनैः || १५४ || प्द्f १०९, प्. ७६१) तथा वाद्यनिनादैश्च जयमङ्गलवाचकैः | वीणावेणुरवैश्चैव नृत्तगान समन्वितैः || १५५ || विशेषाद्ब्राह्मणानां तु स्तोत्रमङ्गलवाचकैः | शैवैः पाशुपतैश्चैव महाव्रततरैरपि || १५६ || बौद्धैरार्हतैश्चैव सर्वपाषण्डिनांगणैः | वसनासनदण्डाद्यै भोजने **(?)तोषितैः || १५७ || सेवितं पद्मपीठस्य स्नानं शिष्य दृढव्रतः | अभ्यर्च्य पूर्ववत् कृत्वा न्यासं तस्य यथाक्रमम् || १५८ || अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीप समन्वितैः | निष्कलन्तु यथाचार्यस्सकलं च तथा भवेत् || १५९ || अभिषेकं ततः कुर्यात् आचार्यो देशिकोत्तमः | आचामं विधिवत् कृत्वा गन्धपुष्पैरलङ्कृतम् || १६० || पूर्ववासः परित्यज्य दुकूलादिभिभूषितः | हारकेयूरकटककुण्डलाभरणोज्वलम् || १६१ || हेम यज्ञोपवीतं च नवरत्नाङ्गुलीयकम् | चन्दनालिप्तसर्वाङ्गं पुष्पमालाद्यलङ्कृतम् || १६२ || श्वेतयज्ञोपवीतं च सोष्णीषं चोत्तरीयकम् | सपवित्र कराभ्यां तु धारयेत्तोय पुष्पकम् || १६३ || शरीरमर्थं प्राण प्राणश्च सद्गुरुभ्यो निवेदयेत् | प्रणम्य दण्डवद्भूमौ शिरसा भक्तिसंयुतम् || १६४ || अनुगृह्य ततः शिष्य **(?)त्य परभावनात् | शङ्खकाहल संयुक्तं पुष्पवृष्टि समन्वितम् || १६५ || प्द्f ११०, प्. ७६२) पादप्रतापयेन्मूर्ध्नि तस्य पाऽऽषविभेदनम् | पश्चात् प्रासादमुच्चार्यवरदं दक्षिणात्मकम् || १६६ || आदाय शिवहस्तं च पादमुद्रां प्रकल्पयेत् | शिष्यस्य दक्षिणे कर्णे शिवमन्त्रं समुच्चरेत् || १६७ || सोपि मन्त्रं समुच्चार्य तिष्ठन् शिष्य कृताञ्जलिः | पूजापादमिदं ज्ञानं प्रज्ञापादं पदं वदे || १६८ || यदवाप्ये नरास्सर्वे दुःखभेदमिदं कथम् | कर्मात्मकं च शैवं च ममा प्राक्षि कथं प्रभो || १६९ || ईश्वर उवाच - साधु साधु हि मच्छिष्य तत्सर्वं वक्ष्यते शृणु | आचार्य ज्येष्ठलिङ्गानां छायामपि न लङ्घयेत् || १७० || अदीक्षिता च या नारी तत्सङ्गं परिवर्जयेत् | अदीक्षिताकृतिं स्पृष्ट्वा शिवमन्त्र मनुस्मरेत् || १७१ || अदीक्षितान्नं यो भुंक्ते चण्डालान्नं न संशयः | मम रूपं सदा ध्यात्वा शिवमन्त्रं सदा जपेत् || १७२ || उपवीतं चोत्तरीयं स्त्रीशूद्राणां विवर्जयेत् | शिवार्चनं तथा धर्मं जपं ध्यानं च कारयेत् || १७३ || निर्वाण दीक्षिताये तु सर्ववर्णेषु धारयेत् | त्रैवर्णिको विशेषेण सर्वकालं तु धारयेत् || १७४ || प्रणवादीनि स्वाहान्तं विप्रमन्त्रं प्रकीर्तितम् | नमस्कारादि स्वाहान्तं क्षत्रियं मन्त्रमुच्यते || १७५ || नमस्कारात्म संयुक्तं मन्त्रवैश्यं प्रकीर्तितम् | नमो वषट् शूद्रास्य प्रणवादि विवर्जयेत् || १७६ || प्द्f १११, प्. ७६३) निर्वाणदीक्षिते ये तु प्रणवेन तु योजयेत् | न जातिभेद वर्णाश्च न्निर्वाणं परमं पदम् || १७७ || सर्वजातिषु दीक्षायां विशेषद्ब्राह्मणो गुरो | निर्वाणदीक्षा वक्ष्ये तव स्नेहाच्छृणु क्रमात् || १७८ || एककुम्भ प्रतिष्ठाप्य पूर्ववत् परिशोभितम् | अष्टादलं पद्माख्यस्त्वा मध्ये कुंभं प्रतिष्ठयेत् || १७९ || हेमपद्मो कृतान्यस्य सकूर्च्चं तु सवस्त्रकम् | अङ्कुरार्पण पूर्वे तु सर्वलक्षण संयुतम् || १८० || तत्कुम्भे चासनं न्यस्त्वा शिवमावाह्य पूजयेत् | गन्धैः पुष्पैश्च धूपैश्च पूर्ववत् पूजयेत् क्रमात् || १८१ || मूलप्रकृतिबीजं तु तत्कुम्भे मध्यमे न्यसेत् | अथ वारादि तीरे वा कराभ्यामभिषेचयेत् || १८२ || अक्षरस्तोद्गत दृष्ट्वा छन्दौ चात्मा प्रतिष्ठितम् | दक्षिणामुखमाश्रित्य सासनं चैव पूजयेत् || १८३ || अधमं योगभावं तु द्वितीयं ज्ञानमुद्रिकम् | तृतीयं दृंहणं कृत्वा चतुर्थं तु वदाभयम् || १८४ || पञ्चमं पञ्चवक्त्रं स्यात् ध्यात्वा मध्ये सुचिन्तयेत् | दक्षिणं मुखमाश्रित्य सन्मार्गं चैकथ्यते || १८५ || त्वमभां दक्षिणं वक्ष्ये विशेषं तु महेश्वर | पुत्रवत् स्वीकृतं पूर्वं तदन्ते शिवसंयुतम् || १८६ || अथवा हरिद्रजलं पीत्वा च पुत्रसंभवम् | दासमार्गं विशेषं तु मम रूपं तु तत्समम् || १८७ || प्द्f ११२, प्. ७६४) मम रूपं सदा ध्यात्वा तत्कृतं मम कर्मकम् | सन्मार्गं सखमार्गं च पुत्रमार्गं च साधकम् || ८८ || दासमार्गसमं मार्गं न भूतो न भविष्यति | तस्माद्वेदासमार्गं तु निर्वाणं परमं पदम् || १८९ || आचार्यस्यार्चनं कृत्वा आचार्यमात्ममानयेत् | तस्मादाचार्य रूपं तु महं देवात्मरूपकम् || १९० || गुरुर्देवो महादेवो गुरुदेवस्सदा शिवम् | तस्माद्देवमिदं गुह्यं ध्याययेत् परमां गतिम् || १९१ || एकाक्षरप्रदातारं गुरोरन्यन्नमानयेत् | श्वानयोनिशतं प्राप्य चण्डालेष्वपि जायते || १९२ || चरलिङ्ग द्वयं चैव ज्येष्ठाऽऽचार्य स्वरूपकम् | आचारं लिङ्गमूर्तिं च गुरुरात्म प्रपूजयेत् || १९३ || नयन दीक्षाविधिं वक्ष्ये शृणुष्वेव महेश्वर | केचिद्यदि च नित्यान्त नृत्ता केचित्तु यन्ति च || १९४ || केचिद्वै वर्गभानं तु मम दृष्टिनिपातनम् | नयन दीक्षां तु संप्रोक्तं स्पर्शदीक्षां ततः शृणु || १९५ || मम देहौ तु संस्पृ*(?) तरेव परिद्वारयेत् | तत्काले मृतरूपं तु शिवलोकं स गच्छति || १९६ || तस्मात् सर्वप्रयत्नेन दीक्षयेत् परमांगतिम् | स्पर्शदीक्षाविधिं प्रोक्तं वाचकं च ततः शृणु || १९७ || मम यन्त्रं समुच्चार्य दक्षिणश्रोत्रकं तथा | यस्याक्षरस्वरूपं तु दीक्षा ध्यानक्रमं क्रमात् || १९८ || प्द्f ११३, प्. ७६५) दीक्षावाचमिदं प्रोक्तं मानुषी च ततः शृणु | अग्निकार्येति सर्वं च मनसा कल्पयेच्छुभम् || १९९ || मानसं च तथा प्रोक्तं शास्त्रदीक्षाविधिं शृणु | मम दत्तमिदं सर्वं कामं मम वनं विधिः || २०० || एकाध्यानसमात्रेण शिवलोकं सगच्छति | दीक्षामार्गक्रमं प्रोक्तं उत्सवं वक्ष्यते शृणु || २०१ || इति मकुटतन्त्रेदीक्षाविधिपटलः || प्द्f ११४, प्. ७६६) || उत्सवविधिपटलः || शिवोत्सवादि पूर्वे तु चाङ्कुरार्पणमुत्तमम् | दीक्षिते स्थापने चैव स्नपने प्रोक्षणे तथा || १ || बन्धने शोभने कार्ये युद्धारं मे पवित्रके | कर्षणे प्रतिमाकारे शिलासङ्ग्रहणे तथा || २ || नवभोजन कल्याणे कृत्तिकादीपरोहणे | अभिषेकदिनात्पूर्वे नवमे सप्तमेऽथवा || ३ || पञ्चमे त्रिदिने चैव तद्दिने चाङ्कुरार्पणम् | पालिका घटिका चैव शरावं च त्रिधा भवेत् || ४ || सुवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा | पालिकाष्टदशांगुल्यमुच्चमात्राङ्गुलेन तु || ५ || पालिका च मुखविस्तारं षोडशाङ्गुलमुच्यते | तदर्धं पादविस्तारं तत् षड्भागैकमोष्टकम् || ६ || पालिकोच्चं त्रिधा कृत्वा पदं दण्डं मुखं क्रमात् | विस्तारस्य त्रिभागैकं वर्त्तितं बिलमुच्यते || ७ || एवं पादक्रमं प्रोक्तं शेषं दण्डमिहोच्यते | विस्तार स त्रिभागैकं दण्डविस्तारमुच्यते || ८ || पालिका लक्षणं प्रोक्तं शृणुष्वेव महेश्वर | घटिका घटविस्तार मन्वङ्ग्ल सुविस्तरम् || ९ || तदर्धं पादविस्तारं पालिकोक्त प्रकारतः | पञ्चवक्त्र समायुक्तं घटिकां कारयेत् ततः || १० || शरावमुखविस्तारं रव्यङ्गुल मुदाहृतम् | पादविस्तारमर्धं तु उत्सेधं बिलसंयुतम् || ११ || प्द्f ११५, प्. ७६७) पालिकोक्त प्रकारेण कारयेत् तु महेश्वर | भिन्नं च सुषिरं कालं भेदकोणं च नीलकम् || १२ || अपूर्णं ईश्वरीं चैव वर्जयेत् साधकोत्तमः | शूली मुकुन्दधाराश्च पालिकाऽऽष्चाधिदेवताः || १३ || इत्येवं पालिकां ग्राह्य दशदिक् स्थाप्यमेव च | प्रासाद पूर्वे ऐशान्ये दक्षिणे उत्तरे तथा || १४ || गोमया लेपिते शुद्धे मण्टपं वसुसूत्रकम् | मध्ये व्योमपदं ग्राह्य लेपयेदभिनेष्टकृत् || १५ || त्रीणि चाभ्यन्तरे त्यक्त्वा चतुर्दिक्षु क्रमाच्छृणु | स्थण्डिलं कारयेद्धीमान् अष्टद्रोणैस्तुशालिभिः || १६ || तस्य मध्ये लिखेत् पद्मं साष्टपत्रं सकर्णिकम् | स्थापयेत् कर्णिकामध्ये चन्द्रकुम्भमलङ्कृतम् || १७ || स सूत्रं च स वस्त्रं च सरत्नं पूर्ववत्कृतम् | पूजयित्वा यथान्यायं ध्यानमार्गेण पूजयेत् || १८ || कृत्तिकारोहणं पूज्य कुम्भस्य पार्श्वयोर्द्वयोः | पायसान्नं ददेत् पश्चात् ताम्बूलं च निवेदयेत् || १९ || पालिकाद्वौ न्यसेत्पूर्वं द्वाराणां पार्श्वयोर्द्वयोः | विन्यसेद्गुटिका द्वौ तु कोणेषु च पदद्वयोः || २० || शेषेषु वै शरावाणि स्थापयेत् हृदयेन तु | कुशाग्रेश्चैव दर्भैश्च निच्छिद्रं सुषिरं कुरु || २१ || बालुकैर्गोमयैर्मृद्भिः पालिकादीन्प्रपूरयेत् | ततो मेन्यस्तु ताम्बूलं दापयेत् तु विशेषतः || २२ || प्द्f ११६, प्. ७६८) पयसा मूलसंबीजं हेमपात्रे सु पूरयेत् | तिलसर्षपमुद्गं च माषं शिम्बं तु बृंहिणा || २३ || कुलस्थं सप्तबीजानां सप्तधान्यधि दैवताम् | आचार्यो वापयेद्बीजान् प्राङ्मुखोदङ्मुखोपि वा || २४ || सोमस्थान स्थिताश्चैव पालिकादीनि सेचयेत् | आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः || २५ || उत्सवं त्रिविधं प्रोक्तं नवाहं सप्तपञ्चकम् | उत्तमं तु नवांभस्यात् सप्तमं मध्यमेव च || २६ || पञ्चाहमधमं ज्ञेयं उत्सवं त्रिविधं स्मृतम् | त्रियहं चैवमेकाहं आचार्यो स्वेच्छयादिने || २७ || प्रातःकाले चावमृतं साङ्काले च साधयेत् | उत्सवारम्भ पूर्वे तु कुण्डलक्षण मुच्यते || २८ || हस्तमात्रं खनेत् तत्र मेखलोपि समायुतम् | होमकुण्डदृशं रूपं तादृशं मेखलान्वितम् || २९ || मेखलापि रलङ्कृत्य एकमेखलयान्वितम् | उत्सेधं तु नवाङ्गुल्यं विस्तारस्य प्रमाणतः || ३० || चतुरङ्गुल मूर्ध्वे तु एकमेखलयायुतम् | त्रिमेखलाङ्गुलं वक्ष्ये विशेषेण महेश्वर || ३१ || चतुरङ्गुअमूर्ध्वे तु अङ्गुलं मध्यमं भवेत् | अपराच्छैवद्व्यङ्गुल्यं विस्तारोत्सेधमेव च || ३२ || अश्वत्थ पत्रवद्योनि मेखलोपरिविन्यसेत् | एकाङ्गुलं तदुत्सेधं विस्तारं चतुरङ्गुलम् || ३३ || प्द्f ११७, प्. ७६९) सप्ताङ्गुलं तदूर्ध्वे तु दिनानि च ततः शृणु | कृत्तिकाद्यादि मासे तु कृत्तिके कृत्तिकान्तकम् || ३४ || मार्गमासे तु चन्द्रान्तं पुष्पमे तु पुष्पकम् | माघमासे तु माघान्तं फाल्गुने चोत्तरान्तकम् || ३५ || चैत्रे चित्रान्तमेवं स्यात् विशाखे तु विशाखरम् | ज्येष्ठमासे तु मूलान्तं उत्सवान्ते दिने शुभे || ३६ || आषाढे चोत्तराषाढे श्रावणे श्रावणान्तके | पूर्वभाद्रे महामासे स पुष्यभाद्रान्तमुच्यते || ३७ || अश्वयुज्ये तथाश्विन्ये चोत्सवान्त दिनं शुभम् | सर्वमासेषु कर्तव्यं आद्राभं स्यात् शिवोत्सवम् || ३८ || यजमानदिने चैव राजजन्मदिने तथा | दिनानां लक्षणं प्रोक्तं चण्डस्य लक्षणं शृणु || ३९ || उत्तमं मध्यमं चैव अधमं च त्रिधा भवेत् | प्रासादान्त समं दण्डं प्रासाद शिरसान्तकम् || ४० || सभानास समं दण्डं त्रिविधं चोत्तमं क्रमम् | उक्षस्थलान्तं कूटान्तं गोपुरान्तं तथैव च || ४१ || मध्यमं तु त्रिभेदं च अधमं च क्रमाच्छृणु | कर्णनाभिसु मध्ये वा भूतमालामथापि वा || ४२ || पञ्चहस्त विमानेन समदण्डं ततः कुरु | त्रिहस्तेन विमानेन द्विगुणं दण्डमुच्यते || ४३ || चतुर्हस्त द्विहस्तार्धं दण्डार्धं चैव योजयेत् | पञ्चहस्तं तदूर्ध्वे तु मध्यमादि च दण्डकम् || ४४ || प्द्f ११८, प्. ७७०) निर्वाणं च ऋजुं चैव कृमिकोटरवर्जितम् | चन्दनं चैव दारुं च बिल्वं चम्पकमेव च || ४५ || क्रमुकं वेणुकं चैव पनसंयुल वृक्षकम् | कुन्दपुन्नागखदिरं अर्जुनं केतकी तथा || ४६ || षड्विंशाङ्गुलनाहं च उत्तमन्तु विधीयते | चतुर्विंशाङ्गुलं नाहं मध्यमं तु विधीयते || ४७ || द्वादशाङ्गुलनाहं च त्वयसा तत्र कारयेत् | चतुर्विंशाङ्गुलं नाहं अग्रमेतत्प्रकीर्तितम् || ४८ || दशाङ्गुलं तु अष्टादशाङ्गुलान्तकम् | उत्तमं मध्यमं चैव त्वधमं नाहमुच्यते || ४९ || अधमाङ्गुलेन कर्तव्यं मानाङ्गुलेन कारयेत् | उत्तमं हस्तमात्रं तु फलकापञ्चसंयुतम् || ५० || स विंशाङ्गुलयाममुत्तमं च विधीयते | अष्टादशाङ्गुलायामं दशाङ्गुल सुविस्तृतम् || ५१ || मध्यमं तु विधिः कृत्वा त्वधमं तु प्रकल्पयेत् | हस्तमात्र प्रमाणेन विस्तारं चतुरङ्गुलम् || ५२ || दण्डायामं ततः कृत्वा त्रिभागं पञ्चभागिकम् | सप्तभागं ततः कृत्वा * * * * * (?) कल्पयेत् || ५३ || आवाहनाधिवासेन उत्तमं नवहस्तकम् | मध्यमं अप्तहस्तं च त्वधं षडहस्तकम् || ५४ || इत्येवं विधिवत् कृत्वा पट्टाया**(?) यन्तथा | पञ्चतालोत्तम * * * * * * * * * * (?) || ५५ || प्द्f ११९, प्. ७७१) **(?)मञ्च त्रितालं च कदलीदल संयुतम् | त्रिकोणमायतं कृत्वा पुच्छद्वयसम**(?) || ५६ || * * * * * * * * * * * * (?)र संयुतम् | पुच्छं च विस्तारार्धं वा द्विपुच्छं वा त्रिपुच्छकम् || ५७ || इत्येतैर्लक्षणैर्युक्तं ध्वजरूपं प्रकीर्तितम् | वृषभस्योत्तरे भागे गोमयालेपिते शुभे || ५८ || अष्टद्रोणमयंशालि पादानां स्थण्डिलं तथा | तस्योपरि पदन्यस्य विलिखेद्वृषभादिकम् || ५९ || परशुं चैव खड्वाङ्गं पाशं शूलं तथैव च | छत्रं दीपद्वयं चैव पार्श्वयोश्चामरे तथा || ६० || पद्मासनस्थं वृषभं सर्वाभरणभूषितम् | श्वेतं वृषभरूपं तु शृङ्गे रक्ते प्रकीर्तितम् || ६१ || खुरस्सर्वे तथैवोद्यत् बालादित्यनिभाःप्रभाः | असितं वासितं वापि शुभमालेखयेद्वृषम् || ६२ || अष्टानां लोकपालानां वाहनास्वस्वदिक्षु च | नवध्वजसमायुक्तं ऐन्द्रकूटगजाकृतिः || ६३ || अजं चैवाग्नि देशेषु महिषं याम्यदेशके | सिंहं नैऋतदेशे तु मकरं वारुणे तथा || ६४ || मृगं वायव्यदेशे तु सोम्ये चाश्वं प्रकीर्तितम् | ऐशान्यां वृषभं चैव मेतद्दक्षिणपार्श्वके || ६५ || लिखित्वा पूर्ववत् कृत्वा स्नानमाप्रतिपूजयेत् | विशेषात् पञ्चगव्येन मूलदेवार्चनं शुभम् || ६६ || प्द्f १२०, प्. ७७२) विशेषादर्चयेद्देवं दक्षिणेश्वरमद्भुतम् | यथाविभवविस्तारं अर्चयेद्देशिकोत्तमः || ६७ || अष्टद्रोणमयंशाली स्थण्डिलं चतुरश्रकम् | द्विहस्तस्य तु विस्तारं शालिभिश्चतुरङ्गुलम् || ६८ || अष्टपत्रं समालिख्य श्वेततण्डुलरेखया | अदकेन तिलैः पश्चात् चतुष्कोणादि लेखयेत् || ६९ || कूर्चासनं प्रतिष्ठाप्य स्थण्डिलं चार्चयेच्छुभम् | कूर्चोपरिन्यसेत् कुम्भं वर्णं राजत ताम्रकम् || ७० || अथवा ताम्रजं वापि सुदृढं शुभविग्रहम् | सौवर्णेनाथ रौप्येण कार्पास विहितेन वा || ७१ || सूत्रेणावेष्ट्य विधिवत् स्थण्डिलो परिविन्यसेत् | गन्धोदकेन संपूर्णं पञ्चरत्नसमन्वितम् || ७२ || माणिक्यं मौक्तिकं चैव वैदूर्यं नीलविद्रुमे | एतानि पञ्चरत्नानि वृषकुम्भे विनिक्षिपेत् || ७३ || मूलप्रकृतिबीजेन ईशमन्त्रं विनिक्षिपेत् | वस्त्रेण वेष्टयित्वा च गन्धं पुष्पं प्रदापयेत् || ७४ || घटे वृषभमभ्यर्च्य मूलमन्त्रेण मन्त्रवित् | ध्वजं दक्षिणतोन्यस्य ध्वजयष्टि तथोत्तरम् || ७५ || अष्टदिक् लोकपालानां पूर्वोक्तं तु प्रदापयेत् | शनैः प्रदक्षिणं कृत्वा आलयं तु समाश्रयेत् || ७६ || पूर्ववन्मण्टपे स्थाप्य गन्धपुष्पं प्रदापयेत् | ध्वजस्थानक्रमं वक्ष्ये शृणुष्वेवं महेश्वर || ७७ || प्द्f १२१, प्. ७७३) द्वारस्य बलिपीठस्य मध्ये स्थानं द्वजस्य तु | द्विहस्तं वा त्रिहस्तं वा हस्तमानमथापि वा || ७८ || कर्षयेदस्त्रमन्त्रेण स्थापयेत् कुम्भमेव वा | तत्र मूर्तिं तु दण्डेन स्थापयेत् तत्र दण्डकम् || ७९ || स्निग्धं तु वेदिकां कुर्यात् त्रिहस्तं वेदिकस्मृतम् | तदुत्सेधं त्रितालस्यां मेखलोपरिविन्यसेत् || ८० || उपर्युपरि सङ्कल्प्य तालमानं तु हीनकम् | उत्सेधस्य तु विस्तारं तदर्धं वा विशेषतः || ८१ || सर्वास्तु मेखला प्रोक्ता चतुरश्रास्समन्ततः | इत्थं विलक्षणं कुर्यात् उत्तमोत्तम वेदिकाम् || ८२ || तदूर्ध्वे पत्रसंयुक्तं तालमात्र समुच्छ्रयम् | वृत्तं वा चतुरश्रं वा पद्माकारं प्रकल्पयेत् || ८३ || गोमयालेपितं शुद्धं पिष्टचूर्ण विभूषितम् | भस्मरेखा त्रयोपेतं श्वेतपुष्पैरलङ्कृतम् || ८४ || पुण्याहं वाचयेत् तत्र ब्राह्मणान्धोषयेत् ततः | ध्वज अष्टचाग्रं संयुक्तं घण्टामालाविभूषितम् || ८५ || अष्टदिक् लोकपालानां अष्टपुष्पं प्रदापयेत् | दशाक्षरेण मन्त्रेण रज्जुबन्धं क्रमेण तु || ८६ || पञ्चाक्षरं समुच्चार्य ध्वजस्थापनकर्मणि | स्वरमाद्यादिबीजेन पूजयेत् तत्र वाहनम् || ८७ || वृषकुम्भं समुद्धृत्य पश्चाद्दक्षेश्वराणुना | आलयन्तु तथा ग्रामं नगरं पत्तनं च वै || ८८ || प्द्f १२२, प्. ७७४) अथवा राजधानीं च शनैः कुर्यात् प्रदक्षिणम् | ध्वजस्थानं समाश्रित्य यष्टस्थापनसंयुतम् || ८९ || पाशं तु बन्धयेत् स्निग्धं ओङ्कारेणैव मन्त्रतः | प्रासादाभिमुखं कुर्यात् ध्वजानां तु निबन्धनम् || ९० || ध्वजानां तत्र पूर्वे तु कथितं सुन्दरं तथा | सर्वलक्षण संयुक्तं सर्वाभरणभूषितम् || ९१ || श्वेताम्बर समायुक्तं श्वेतचन्दनलेपितम् | शुक्लमाला गुणोपेते शुक्लयज्ञोपवीतलम् || ९२ || नववस्त्र शिरोबन्धं कटिसूत्रसमन्वितम् | प्रोक्षयेदस्त्रमन्त्रेण पूजयित्वा यथाक्रमम् || ९३ || समुद्गभिन्नं गौलान्नं क्षीरान्नं च निवेदयेत् | तदन्नं जपपुत्रार्थं भोगर्थं च महेश्वर || ९४ || ध्वजमूले तथाराध्य वृषकुम्भं तु विन्यसेत् | वस्त्रेण वेष्टयेद्दण्डं दर्मैस्साग्रैश्च सुन्दरैः || ९५ || गन्धपुष्पादिनाभ्यर्च्य धूपदीपादि दापयेत् | त्रिसन्ध्यां पूजयेत् पश्चात् पायसं ददेत् || ९६ || ध्वजानां देवतां वक्ष्ये भृङ्गीशोनन्दिकेश्वरः | महाकालं तु चण्डेशो वेदिकादिषु पूजयेत् || ९७ || दण्डस्तु शैवदैवत्यो यष्टिर्देवी सरस्वती | फालका पञ्चदैवत्यं सुषिरं पार्वतीमयम् || ९८ || रज्जुश्च तक्षकाधीशो पादोमारुतदैवतम् | वृषभस्त्वीश दैवत्यं शूलो ज्योत्स्नाधि दैवतम् || ९९ || प्द्f १२३, प्. ७७५) परशुश्चण्डदैवत्यो दीपौ च शिवदैवतौ | चामरे चन्द्रसूर्येशे घण्टावृषभदैवता || १०० || भृङ्गीश प्रभृतीं देवान् पूजयेत् स्वस्वनामभिः | दिक्ष्वष्टासु च संस्थाप्य ध्वनान् संपूजयेत् सुधीः || १०१ || ध्वजारोहणकाले तु पूजयेद्दक्षिणेश्वरम् | अर्चयेत् सर्वदेवांश्च गन्धपुष्पादिभिः क्रमात् || १०२ || सायंकाले शुभे लग्ने भेरीताडनमारभेत् | मण्डपस्याग्रतः कुर्यात् मण्डलं चतुरश्रकम् || १०३ || स्थण्डिलं पूर्ववत् कुर्यात् तत्राष्टद्रोणशालिभिः | दलैष्वष्टस्य संपूज्य नवशक्तिं यथाक्रमम् || १०४ || पाद्यमाचमनं चार्घ्यं स्वस्वनाम्ना समर्च्चयेत् | मूलमन्त्रं समुच्चार्य प्रणवेन च संयुतम् || १०५ || तत स्थण्डिल मध्ये तु भेरीं विन्यस्य पूजयेत् | भेरिका स्कन्ददैवत्या स्पर्शनी वायुदेवता || १०६ || शब्दस्तु पार्वतीयुक्त तद्रव्यश्शंभु दैवतम् | चर्मसूत्रं वासुकीशं वलयौ चन्द्रभास्करौ || १०७ || मातरस्सप्त कीलास्तु प्रहारस्कन्ददैवतः | अर्चयित्वा सुगन्धाद्यैः हृदयेन विचक्षणः || १०८ || नन्दिमन्त्रं समुच्चार्य ताडयेद्भेरिकां गुरुः | तत्पूरुषेति मन्त्रेण वाद्यकानां तु ताडयेत् || १०९ || शिवतालं धात्रितालं मुरारीतालसंयुतम् | वृषतालं शूलतालं कटतालं वितालकम् || ११० || प्द्f १२४, प्. ७७६) शङ्खकाहलसंयुक्तैः गीतवाद्यनटान्वितैः | ग्रामसीम्नि बलं चैव ब्रह्मादीशानमेव च || १११ || तिलं हरिद्राचूर्णं च राजासक्तुदधिप्लुतम् | एतैद्रव्यैर्बलिं कुर्यात् देवानां च स्वनामतः || ११२ || शनैः प्रदक्षिणं कृत्वा पश्चादालयमाश्रयेत् | आवाहनादि तीर्थान्तं त्रिसन्ध्यां तत्र पूजयेत् || ११३ || सर्वाभरणसंयुक्तं पूजयेद्ध्वजदैवतम् | उत्सवतीर्थमुद्दिश्याप्यङ्गं प्रत्यङ्गसान्तकम् || ११४ || सप्ताङ्गं च चतुस्साङ्गं सप्तप्रत्यङ्गकीर्तिता | ध्वजदण्डादिकं वृक्षं बलिं सर्वप्रतिष्ठितम् || ११५ || रक्षादण्डन्तु स्नपनं उत्सवाङ्गं प्रकीर्तितम् | यत्र डोकारथां चैव यन्त्रं रङ्गास्तथैव च || ११६ || यंत्रं देवालयाश्चैव यन्त्रमण्टपिकास्तथा | यन्त्रवृक्षा यन्त्रनटा यन्त्रगोप्तुरकाणि च || ११७ || अश्वचन्द्रास्सिंह यन्त्रो गजयन्त्रास्तथैव च | वृषयन्त्रा भूतयन्त्रा देवयन्त्रास्तथैव च || ११८ || नानापिञ्छा विचित्राश्च नानाव्यञ्जनमेव च | छत्राणि नानारूपाणि चामराणि च कारयेत् || ११९ || देवालयमलकुर्यात् उपरिष्टादधस्तथा | आलयस्यैश दिग्भागे प्रपां कृत्वाति सुन्दराम् || १२० || विदानमुक्तदामाद्यैः यथाशोभविभूषयेत् | यागशालां ततः कुर्यात् ऐशान्ये पावकेऽथवा || १२१ || प्द्f १२५, प्. ७७७) मण्टपं कारयेत् तत्र षोडशस्तम्भसंयुतम् | दशहस्तं नवहस्तं सप्तहस्तमथापि वा || १२२ || चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् | दर्भमाला समायुक्तं वितान ध्वजशोभितम् || १२३ || नवभागैकभागेन मध्ये वेदिं प्रकल्पयेत् | हस्तमात्रोच्छ्रितं सौम्यं दर्पणोदरसन्निभम् || १२४ || वेदिमध्ये ततः कुर्यात् स्थण्डिलंशालिभिः शुभैः | षड्भिद्रोणैः पञ्चभिर्वा चतुद्रोणैर्यथाविधि || १२५ || पुण्याहं वाचयित्वा तु ब्राह्मणानपि घोषयेत् | उत्सवस्याति रात्रे तु दक्षिणेशं महार्चनम् || १२६ || महाहविर्निवेद्यं च विदध्यात् प्रतिमार्चनम् | विदध्यादुत्सवारंभे पूर्ववच्चाङ्कुरार्पणम् || १२७ || वेदिमध्ये प्रतिष्ठाप्य पञ्चरत्नसमन्वितम् | कुम्भलक्षण संयुक्तं सकूर्चं वस्त्रवेष्टितम् || १२८ || चन्दनोदकसंयुक्तं तन्मध्ये पद्मसंस्थितम् | चतुर्भुजं त्रिणेत्रं च शूलपाणिं जटाधरम् || १२९ || अर्धचन्द्रधरं देवं नागाभरणभूषितम् | हेमयज्ञोपवीतं च नवरत्नाङ्गुलीयकम् || १३० || उत्सवे दीक्षितं शंभुं देवं यागेश्वरं यजेत् | वर्धनीं कूर्चं संयुक्तां वामपार्श्वे प्रतिष्ठितम् || १३१ || चतुर्भुजां त्रिणेत्रां च सर्वाभरणभूषिताम् | अभयं ज्ञानमुद्रां च दधानं पद्ममङ्कुशम् || १३२ || प्द्f १२६, प्. ७७८) परितोष्टौ न्यसेत् तत्र विद्येश्वर समायुतम् | पाद्यमाचमनं चार्घ्यं रत्नोदकमतः परम् || १३३ || पुष्पोदकं तिलोदं च यवोदं गन्धवारि च | इन्द्रादीशानपर्यन्तं कुम्भानष्टौ च विन्यसेत् || १३४ || सर्वलक्षणं संयुक्तं स्तेष्विन्द्राद्याश्च पूजयेत् | लोहेन दारुणावापि दशायुधानि कल्पयेत् || १३५ || सर्वाणि देवतारूपाण्यस्त्रोपेतशिरांसि च | अर्चयेत्तानि सर्वाणि कलशानां बहिः क्रमात् || १३६ || पूर्वादि दिक्षु वज्राद्यान्यायुधानि प्रदक्षिणम् | उत्तरे चक्रदेवं तु दक्षिणे पद्मदैवतम् || १३७ || अष्टमङ्गलरूपाणि वेदिबाह्ये तु पूजयेत् | त्रिशूलं वायुदिग्भागे त्रिसन्ध्यां पूजयेच्छुभम् || १३८ || शिवाग्नि जनयेत् पूर्वे पूर्ववत् पूजयेच्छुभम् | त्रियक्षं चतुर्भुजं देवं चन्द्रार्धकृतशेखरम् || १३९ || यज्ञमूर्तिं हुताहव्यं सप्तजिह्वासु होमयेत् | हृन्मन्त्रेण समित्सङ्घं घृतं पूरुषमन्त्रतः || १४० || अघोरेण चरुं लाजान् अघोरास्त्रेण होमयेत् | सक्तुं वामेन मन्त्रेण क्षीरं वै सद्यमन्त्रतः || १४१ || यवान् हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः | शिवगायत्रिमन्त्रेण गुलं हुत्वा महेश्वर || १४२ || तिलमीशानमन्त्रेण माषमुद्बणमन्त्रतः | द्रव्यान्ते व्याहृतिं जुहुयाद्रुद्राणां नामयक्ष्यते || १४३ || प्द्f १२७, प्. ७७९) चतुर्दश्याष्टरुद्राणां नामान्येवं क्रमाच्छृणु | धूमयानं च भूतं च वसुधा च तरुः कलाः || १४४ || रक्षोनेत्रमविच्छेदसामं नैव तथादिनम् | ज्ञानपुष्पादि गीत्यादि सप्तरुद्राश्चतुर्दश || १४५ || प्रत्येकमष्टधान्ते च द्वादशोत्तरकशतम् | धूमावरणम् || धूमरुद्र भूतनीलरुद्रपाशरुद्रनाशरुद्राजस्थिररुद्रयानावरणम् || यानरुद्र घोररुद्र वीररुद्र सोमरुद्र वासरुद्र केशरुद्र श्रीरुद्र महारुद्र वररुद्र | भूतावरणम् || भूतरुद्र वासरुद्र वायुरुद्र स्पर्शरुद्र त्वक्ररुद्र ईशरुद्र नागरुद्र गलरुद्राग्नि रुद्र वस्वधावरणम् || वसुधारुद्र श्रीरुद्र चक्षुरुद्रात्मरुद्र रसरुद्रजिह्वारुद्र शब्दरुद्र अति अतिष्ठ रुद्रतरुणावरणम् तरुणरुद्र शिखारुद्र ज्योत्स्नारुद्र खररुद्र सत्यरुद्र मनोरुद्र शुभरुद्र अण्डरुद्र कालावरणम् || कालरुद्र महारुद्र शिवं त्रिदिनमुत्सवकं शुभम् || १४६ || प्द्f १२८, प्. ७८०) एकाहं शैवमेवोक्तं कारयेद्भक्तिमान्नरः | शुद्धान्नं दधिमिश्रं लड्डुकापूपसंयुतम् || १४७ || फलं च गुलसंमिश्रं गणानां तुष्टिदं शुभम् | फलं च रजनीचूर्णं हरिद्रान्नं स सक्तुकम् || १४८ || दधिमिश्रं स पुष्पादयं भूतसंप्रीतिकारकम् | बिल्वपत्र कुशाग्रैश्च शाल्यन्नं सहमिश्रितम् || १४९ || कदलीफलसंयुक्तं मृगीणां बलिरुच्यते | इन्द्रवल्ली हरिद्राश्च प्रियङ्गुघृतसंयुतम् || १५० || चतुर्थेऽहनि दातव्यं शक्रस्य बलिरुच्यते | पद्मपुष्पं च रजनी लाजयुक्तं च पायसम् || १५१ || पंचमेऽहनि दातव्यं ब्रह्मप्रीतिकरं शुभम् | गुलोदनं घृतोपेतं बृहतीफलसंयुतम् || १५२ || षष्ठमेऽहनि दातव्यं वैष्णवं बलिरुच्यते | साज्यं तु कृसरान्नं वै नालिकेरफलैर्युतम् || १५३ || नालिकेरफलैर्युक्तं रुद्रप्रीतिकरं शुभम् | क्षीरान्नं दधिसंयुक्तं कदलीफलसंयुतम् || १५४ || अष्टमेऽहनि दातव्यं ईशप्रीतिकरं शुभम् | पंचान्नापूपसंयुक्तं अज्येनपरिपूरितम् || १५५ || नवमेऽहनि दातव्यं सादाख्यं प्रीतिदं शुभम् | गुलान्नं पायसान्नं च शुद्धान्नं घृतपूरितम् || १५६ || दशमेऽहनि दातव्यं बिन्दुप्रीतिकरं शुभम् | शुद्धान्नं गुलसंमिश्रं क्षीरेणैव तु पूरितम् || १५७ || प्द्f १२९, प्. ७८१) एकादशेऽह्नि दातव्यं गौरीप्रीतिकरं शुभम् | द्वादशेऽहनि दातव्यं शिवप्रीतिकरं शुभम् || १५८ || अथवा गुलदध्वाज्यं संमिश्रं शुद्धमोदनम् | सर्वेषामेव देवानां महाप्रीतिकरं शुभम् || १५९ || पूजयित्वा विशेषेण तत्तन्मन्त्रेण दापयेत् | द्रोणं वापि तदर्धं वा तदर्धं वा तदर्धकम् || १६० || कुक्कुटाण्ड प्रमाणेन बलिं दद्यात् पृथक् पृथक् | अलङ्कुर्याद्विशेषेण ग्रामं नगरमेव च || १६१ || वीथी रुद्घृतशष्यादि निम्नोन्नत विवर्जिताः | कृत संमार्जनाः शुद्धाः सेविताजलबिन्दुभिः || १६२ || वर्णमन्त्रं समुच्चार्य प्रोक्षयेच्छुद्धवारिभिः | पताकाभिरनेकाभि तथाकाशध्वजैरपि || १६३ || क्रमुकैः कदलीभिश्च प्रदीप्तैः पालिकागणैः | पूर्णकुम्भैरनेकैश्च चित्रवस्त्रादिभूषितैः || १६४ || वस्त्रैः सुगन्धमाल्यैश्च गृहान्सर्वान्विभूषयेत् | ततोऽङ्कुरार्पणं कुर्यात् उत्सवार्थं यथा पुरा || १६५ || तालकाहलझल्लर्यैः धूपदीपसमाकुलैः | ध्वपिञ्छ समायुक्तैः स्तोत्रमङ्गकवाचकैः || १६६ || स्वर्णरङ्गस्य मध्ये तु त्रिशूलं लिङ्गमेव च | ***(?)धानि परितः स्थापयेत् काञ्चनालयम् || १६७ || यन्त्रभावे तथास्सर्वे व्रजेयुश्शिरसातले | सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः || १६८ || प्द्f १३०, प्. ७८२) आचार्यः शिष्यसंयुक्ते ब्राह्मणैः परिवारितः | ब्रह्मादीशानपर्यन्तं बलिं दद्याद्विशेषतः || १६९ || शूलस्याग्रं कलारूपं तन्मूलं रुद्ररूपकम् | सकलं निष्कलं चैव न्यासमाराधनं क्रमात् || १७० || बलिद्रव्यं च सहितं वज्राद्याः पद्मकान्तकम् | गन्धपुष्पैरथाह्यर्च्य रुद्ररूपं तु धारयेत् || १७१ || *(?)स्तका दृढमध्ये तु स्थाप्य पुष्पोपशोभितम् | व्रजेदुत्सवमन्ते तु सर्वालङ्कारसंयुतम् || १७२ || नानाप्रहरणोपेताः सत्****(?) तागमन् | तदन्ते गजमारूढाः तदन्ते वाजिवाहना || १७३ || यन्त्ररूढास्तदन्ते तु दिव्यस्त्रीपरिसेविताः | अश्वयन्त्राः तदन्ते तु तदन्ते गजयन्त्रिताः || १७४ || तदन्ते मण्टपायन्त्रं तदन्ते उक्षयन्त्रकाः | यन्त्रदेवालया मध्ये नृत्तगेयसमन्विताः || १७५ || सुखासनस्तु प्रथमा द्वितीयो वृषवाहनः | तृतीयस्त्रिपुरघ्नं तु चतुर्थश्चन्द्रशेखरः || १७६ || पञ्चमं चार्धनारीशः षष्ठो हरिहरर्धतः | सप्तमोभैक्षमूर्ति स्यात् अष्टमः कालनाशनः || १७७ || नवमः कालदहनः परः कल्याण सुन्दरः | एकादशस्तु लिङ्गस्थः द्वादशस्तु सदाशिवः || १७८ || त्रयोदशस्तु नृत्तेशः सर्वालङ्कारसंयुतः | राङ्गे वा शिबिकायां वा रथेवा द्विरदेऽथवा || १७९ || प्द्f १३१, प्. ७८३) तदन्ते पाशुपतास्तु तदन्ते त महाव्रताः | महाशैवास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् || १८० || तदन्ते ब्राह्मणाः सर्वे तदन्ते सिद्धसेवकाः | तदन्ते गायकाः सर्वे तदन्ते नृत्तकाः स्त्रियः || १८१ || ईश्वराः शक्तिसहितः तदन्ते तु शतैर्व्रजेत् | योषिद्गणैश्चपरितः सर्वालङ्कारसंयुतैः || १८२ || नानापुष्पैर्ध्वजैश्छत्रैः नानाचामरसंयुतैः | नानाभूत समायुक्तैः नानाकाहलधारकैः || १८३ || त्रिवली दीपिकाभिश्च यन्त्रदीपैर्विशेषतः | हस्तदीपैर्यष्टिदीपैः सर्वत्रपरिशोभितैः || १८४ || सर्वतः पृष्ठतो गच्छेत् चण्डनायकदेवता | तदन्ते घोषयेत्तत्र सर्ववाद्य समायुतम् || १८५ || पटहैर्मर्दलैस्तालैः भेरिदुन्दुभिझल्लकैः | पणवैः झल्लरैश्चैव वीणाकिन्नरवेणुभिः || १८६ || अग्रतः पृष्ठतःश्चैव घोषयेत्तु विशेषतः | तदन्ते वैश्य शूद्राश्च गच्छेयुर्जपसंयुताः || १८७ || सर्वेवर्णास्तदन्ते तु तदन्ते गजरूपकाः | वृद्धाबालायुवानश्च क्लीवाभोगभुजस्ततः || १८८ || तदन्ते भक्तदासास्तु व्रजेयुः क्रमशः शनैः | ये देवमनुगच्छन्ति तद्गतेनान्तरात्मना || १८९ || पदे पदेश्वमेधस्य प्राप्नुवन्ति फलं नराः | सर्वपापैः प्रमुच्यन्ते शैवं पदमवाप्नुयुः || १९० || प्द्f १३२, प्. ७८४) एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा | इन्द्रादीशानपर्यन्तं पीठं कल्प्यविशेषतः || १९१ || धान्यशाले सरस्वत्यां क्षेत्रपाल बलिं ददेत् | मण्टपे तु प्रजापत्यं गोपुरे नन्दिदेवता || १९२ || प्राकारे वासुकीं चैव वक्ष्यतेन्द्रादि देवताः | राजद्वारे च श्रीदेवी सभास्थाने नटेश्वरी || १९३ || आदित्यस्य महेन्द्रस्य एते पूर्वाधिदेवताः | उद्याने तु महादेवी गोष्ठे चैव तु गोमुखी || १९४ || दुर्गास्थाने विशेषं तु अनाद्यस्त्वण्डदेवता | रुद्ररूपा शिवस्थाने विष्णुस्थाने तु वैष्णवी || १९५ || ब्रह्मस्थाने च वाग्देवी गुरुस्थाने मनोन्मनी | तटाके चन्द्रदेवास्तु कूपे चैव शिवस्तथा || १९६ || वल्मीके नागराजश्च पर्वतो परमेश्वरी | चित्रस्थाने तु गन्धर्वान् नदीनां करुणालयी || १९७ || गजस्थाने तु विघ्नेशोत्वश्वस्थाने तु चाश्विनी | गोस्थाने पार्वतीं चैव श्मशाने तु पिशाचिका || १९८ || इत्येतेषां तु देवानां स्वनाम्ना दापयेत् बलिम् | मुत पुष्पोदनौ पुष्पं सक्तु लाजतिलैरपि || १९९ || सर्वेषां सहितद्रव्यं स्वनाम्ना विनिवेदयेत् | आम्रः केलीफलं चैव कदलीफलमेव च || २०० || लाजापूप गुलान्नं च ताम्बूलं च प्रदापयेत् | दारिद्र्य दुःखशमनं सर्वकामसमृद्धिदम् || २०१ || प्द्f १३३, प्. ७८५) बलिमात्रप्रदानेन शिवलोके महीपते | शनैर्देवालयं गत्वा बलिपीठे बलिं क्षिपेत् || २०२ || पादप्रक्षालनं कृत्वा प्रविशेदालयं प्रति | मण्टपे तु स्थितो देवा सर्वदेवगणैस्सह || २०३ || मृदङ्गादि महाशब्दाः पूर्वस्यांदिशि संस्थिताः | नर्त्तको मर्दकश्चैव दक्षिणे तु व्यवस्थिताः || २०४ || गायको वंशकश्चैव उत्तरे तु व्यवस्थिताः | आचार्यं पूर्वदिग्भागे नृपश्चैव तु पश्चिमे || २०५ || पार्श्वयोरुभयोश्चैव देवस्यगणिकास्थिता | देवस्याग्रे विशेषेण नृत्तगेयं स तालकम् || २०६ || नीराजनं प्रकुर्वीत दिव्यस्त्रीणां तु धारयेत् | भस्मं पुष्पं च दीपं च त्वद्भुतच्छत्रचामरैः || २०७ || दर्पणं हेमकुम्भं च त्रिपाद्युपरिविन्यसेत् | पाद्यमाचमनं चार्घ्यं दद्यात् पुष्पं च मूर्ध्नि च || २०८ || अक्षतं शिरसिन्यस्य गन्धं दद्याद्विशेषतः | आचामन्तु ततो दद्यात् धूपदीपं प्रदापयेत् || २०९ || दद्यात् प्रदीपं वेष्यं च मस्तकोर्ध्व प्रदक्षिणम् | तदन्ते दापयेद्भस्मं दर्पणं दर्शयेत् ततः || २१० || गणिकाभिर्धारयित्वा प्रदीपान्वाद्यसंयुतम् | पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिक्षिपेत् || २११ || उत्सवस्यादि रात्रादौ सर्वेषां कौतुकं न्यसेत् | उत्सवस्यादि रात्रौ तु पूजयेत् परमेश्वरम् || २१२ || प्द्f १३४, प्. ७८६) पञ्चवर्ण हविः पश्चात् पञ्चवक्त्रेषु दापयेत् | पूर्वे तु पायसं दद्यात् दक्षिणे तु घृतोदनम् || २१३ || पश्चिमे च गुलान्नं च हरिद्रान्नं तथोत्तरे | शुद्धान्न मूर्ध्ववक्त्रे तु नैवेद्यं पञ्चवर्णकम् || २१४ || त्रिसन्ध्यामर्चनं कुर्यात् परिवार समन्वितम् | प्रतिमां गोलकं चैव त्रिशूलं यागदैवतम् || २१५ || त्रिसन्ध्यामर्चयेद्धीमान् राजाराष्ट्राभिवृद्धये | पूजा होमं तदन्ते तु बलिं चैव प्रदक्षिणम् || २१६ || पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् | दीपं चैव निवेद्यं च त्रिसन्ध्यां विनिवेदयेत् || २१७ || क्रियां सर्वासु चेवं तु एवमेव दिने दिने | अवमृतस्य पूर्वे तु मृगयात्रा समाचरेत् || २१८ || युद्धारंभ प्रभावेन ग्रामं कुर्यात् प्रदक्षिणम् | बध्नीयात् कौतुकं सीमान्तस्यां रात्रौ विशेषतः || २१९ || सौवर्णं राजतं सूत्रं अथकार्पासजं तु वा | हृदयं मन्त्रमुच्चार्य पुण्याहं तत्र वाचयेत् || २२० || चूर्णोत्सवक्रमं वक्ष्ये शृणुष्वेवं महेश्वर | प्रासाद पश्चिमेभागे शालिभिश्चतुरश्रकम् || २२१ || स्थण्डिलं कारयेत् तत्र तन्मध्येष्टदलान्वितम् | लूखलं मुसलं चैव क्षालयेदस्त्रमन्त्रतः || २२२ || स्थण्डिलस्य तु मध्ये तु लूखलं प्रणवासने | विन्यस्य वस्त्रेण वेष्ट्य गन्धपुष्पादिनार्चयेत् || २२३ || प्द्f १३५, प्. ७८७) अङ्कुरैः शोभितं कुर्यात् अर्चयित्वा यथाक्रमम् | हरिद्रोशीर कुष्ठाश्च कर्पूरं च सपिंछलम् || २२४ || उलूखलस्य मध्ये तु सर्वं निक्षिप्य चूर्णितम् | सद्यमन्त्रं समुच्चार्य पूजयेत् तु महेश्वरम् || २२५ || आचार्यः प्रथमं कुर्यात् चूर्णकर्मा ततो नृपः | तदन्ते ब्राह्मणाश्शिष्टाः तदन्ते भक्तिमज्जनाः || २२६ || रुद्राद्यस्यास्तु गणिका नववस्त्राद्यलङ्कृताः | अङ्कुरैश्शोभितं कुर्यात् गन्धपुष्पसमन्वितम् || २२७ || नृत्तगेयं च वाद्यं च चूर्णकर्म मुहुर्मुहुः | लिङ्गं दर्पणशूलेषु प्रतिमा परिवारके || २२८ || तैलेन लेपनं कृत्वा दक्षिणेश्वरमर्चयेत् | आचार्यो नृपतेश्चूर्णं भक्तानां च प्रदापयेत् || २२९ || ततस्तु सर्वजातिभ्य चूर्णं तैलेन दापयेत् | शङ्खकाहलनाश्चैव भेर्यादि ध्वनिसंयुतैः || २३० || ब्राह्मणान्घोषयित्वा तु स्वस्तिमङ्गलवाचकैः | स्थण्डिलं तत्र सङ्कल्प्य वसुपत्राम्बुजान्वितम् || २३१ || त्रिशूलं तत्र संस्थाप्य तदग्रे कलशान्यसेत् | शूलादुत्तरत स्थाप्य यागदेवं महेश्वरम् || २३२ || गन्धपुष्पादिनाभ्यर्च्य ताम्बूलं तु निवेदयेत् | प्रतिमाभिमुखं कुर्यात् स्थण्डिलं वालुकामयम् || २३३ || नवपात्राणि संस्थाप्य सुदृढानि सुखानि च | स्थण्डिलस्योत्तरे देशे पात्राणां शुद्धिदं पुनः || २३४ || प्द्f १३६, प्. ७८८) पुण्याहं वाचयित्वा तु ब्राह्मणान्प्रोक्षयेत् ततः | वज्रं मरकतं चैव पद्मरागं च नीलकम् || २३५ || मौक्तिकं चैव तन्मध्ये पञ्चरत्नानि विन्यसेत् | पाद्यं तु पूर्वदिग्भागे दक्षेत्वाचमनीयकम् || २३६ || अर्घ्यं तु पश्चिमे पश्चादुत्तरेणाच्युत न्यसेत् | आग्नेययान्तीर्थपात्रं तु नैऋत्यां गन्धतोयकम् || २३७ || वायव्यां लेपनद्रव्यं ऐशान्यां पुष्पवानि च | गङ्गां च यमुनां चैव नर्मदा च सरस्वती || २३८ || सिन्धुर्गोदावरीं चैव कावेरीतीर्थसप्तकम् | बिन्दुमध्यात् समाकृत्य स्थापयेद्गन्धवारिषु || २३९ || अन्तादिशिखण्ड्यन्तान् कलशेष्वर्चयेत् क्रमात् | कूर्चन्तु निक्षिपेत् तत्र अङ्गप्रत्यङ्गमेव च || २४० || समावेष्य च वस्त्रेण तुलसीं तत्र निक्षिपेत् | गन्धपुष्पादिभिर्धूपैः अर्चयित्वा यथाक्रमम् || २४१ || स्नपनान्ते प्रकुर्वीत पाद्यं सद्येन दापयेत् | आचामं पुरुषेणैव अर्घ्यमीशानमन्त्रतः || २४२ || ब्रह्मभिः पञ्चभिः पश्चात् पञ्चगव्यं प्रदापयेत् | घृतभिक्षु घृतस्नानं दधिक्राविण्णो दधिस्तथा || २४३ || क्षीरं पयस्वमन्त्रेण मधुवाता मधूनि च | इत्थं तत्र नदीमध्ये प्रतिमास्नानमाचरेत् || २४४ || शूलस्नानं ततः कुर्यात् कौतुकं तीर्थकद्वयम् | महातीर्थं महावश्यं पालनं शत्रुनाशनम् || २४५ || प्द्f १३७, प्. ७८८) ऋएपेअत् पगे प्. ७८९) पगे मिस्सिन्ग् प्द्f १३८, प्. ७९०) ग्राम प्रदक्षिणं कृत्वा प्रविशेदालयं ततः | पश्चाद्भागे स्थिता देवगृहे वित्ताननु क्रमात् || २५७ || वस्त्राभरण पुष्पाद्यैः अर्चयेत् पूर्ववद्गुरुः | प्रदक्षिणं ततः कृत्वा शुद्धदेवान् समर्चयेत् || २५८ || एवं परमया भक्त्या यः कुर्याच्छिवोत्सवम् | कुलैकविंशसंयुक्त शिवलोके समोदते || २५९ || तस्मात् सर्वप्रयत्नेन शिवस्यैवं महोत्सवम् | राजराष्ट्राभिवृद्ध्यर्थं कारयेद्विधिपूर्वकम् || २६० || शिवोत्सवविधिप्रोक्तं प्रायश्चित्तविधिं शृणु || इति मकुटतन्त्रे त्रिसहस्रिकायां संहितायां क्रियापादे शिवोत्सवविधिपटलः || प्द्f १३९, प्. ७९१) प्रायश्चित्तविधिः प्रायोविनाश इत्युक्तं चित्तं सन्धानमुच्यते | विनाशस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् || १ || कर्षणाद्यर्चनान्तं च प्रायश्चित्तं वदाम्यहम् | पूजाकाल परिभ्रंशे तत्सन्ध्या द्विगुणा भवेत् || २ || एकसन्ध्यार्चनाहीने ब्रह्ममन्त्र शताहुतिः | निवेद्य पायसान्नं तु पुनः कुर्याच्छिवार्चनम् || ३ || एकाहेत्वर्चनाहीने स्नपनं नवकुम्भम् | द्व्यहेत्र्यहेर्चनाहीने पञ्चविंशति कुम्भकम् || ४ || निवेद्य च गुलान्नं तु पूर्ववत् पूजयेच्छुभम् | विशेषादर्चनं कुर्यात् शिवमन्त्र शताहुतिम् || ५ || चतुर्थाहेतु पञ्चाहे पूजाहानि समन्विते | पञ्चाशत् सङ्ख्यया चैव कलशस्नपनं क्रमात् || ६ || षड्दिनादि दशाहान्तं कृत्वैकाशीति कुम्भकम् | एकादशादि पञ्चान्तं पूजाहानिस्तु संभवेत् || ७ || कृत्वा तत्र शिवाग्निं तु स्नपनं च शताष्टकैः | पूर्ववत् पूजनं कुर्यात् नैवेद्यं द्विगुणं भवेत् || ८ || षड्दिनादि दशाहान्तं कृत्वैकाशीति कुम्भकम् | एकादशादि पञ्चान्तं पूजाहानिस्तु संभवेत् || ७ || कृत्वा तत्र शिवाग्निं तु स्नपनं च शताष्टकैः | पूर्ववत् पूजनं कुर्यात् नैवेद्यं द्विगुणं भवेत् || ८ || शिखामन्त्रं शतं हुत्वा पायसान्नं निवेदयेत् | पूजाहानौ तु मासान्तं कलशानां शतत्रयम् || ९ || हृन्मन्त्रं च शतं हुत्वा * * * * * * * * (?) | * * * * * * * * * * (?) संप्रोक्षणं चरेत् || १० || बलिहानौ तु संध्याया मन्यत्र द्विगुणं चरेत् | द्विसन्ध्यं बलिहानौ तु द्विगुणं चान्यसन्धिके || ११ || प्द्f १४०, प्. ७९२) त्रिसन्ध्यं बलिहानौ तु तत्र स्नपनमाचरेत् | द्वहादारभ्यमासान्तं बलिविच्छदनं यदि || १२ || शिवाग्निं पूर्ववत् कृत्वा स्नपनं तु शताष्टकम् | सहस्राज्याहुतिं हुत्वा शिवमन्त्रेण देशिकः || १३ || अष्टोत्तरशतेनैव कलशैस्नपनं चरेत् | भारद्वयं तु नैवेद्यं एकाहोत्सवमाचरेत् || १४ | स्त्रीशूद्रस्पर्शने चैव चण्डालस्पर्शनेऽपिवा | स्नपनं पञ्चविंशात्तु शिवमन्त्रं शतं हु*(?) || १५ || * * * * * * * * * * * * * * (?) जयेत् | बलिभ्रमणकाले तु प्रतिमालिङ्गमेव वा || १६ || स्फुटितं चलितं भिन्नं नाशं छिन्नं भवेद्यदि | तत्रैव कल्पयेद्धोमं अथवालयमध्यमे || १७ || पूर्ववद्बलि लिङ्गं तु कृत्वा तत्र प्रदक्षिणम् | अथवा पूर्ववत् कृत्वा शिवमन्त्रं शतं हुनेत् || १८ || अष्टोत्तरशतं पश्चात् * * * * * * * * (?) | * * * * * * * * * * * (?)न्त्रं शतं हुनेत् || १९ || पुण्याहं वाचयेत् तत्र मूलेनैव शतं हुनेत् | अष्टोत्तरशतं पश्चात् मूलमन्त्रं जपेद्गुरुः || २० || तत्काले दीपहीने तु स्थित्वा बलिं ततः कुरु | पुनर्दीपं समादाय कृत्वा शेषप्रदक्षिणम् || २१ || नैवेद्यं च विहीने तु द्विगुणं च * * * * (?) | * * * * * * * * * * * * * (?) हीन तु || २२ || प्द्f १४१, प्. ७९३) नित्याग्नि कार्यहीने तु हृन्मन्त्रेण शताहुतिम् | उत्सवे तु विशेषेण प्रायश्चित्तविधिं शृणु || २३ || वृषयाग विहीने च ध्वजारोहणहीनकम् | ध्वजयष्टि विहीने तु दण्डवेदिविहीनके || २४ || ध्वजघण्टाविहीने तु पतितेङ्गविहीनके | दर्भमालाविहीने तु * * * * * * * * || २५ || * * * * * * * * * * * (?) धविहीनके | अङ्कुरार्पणहीने तु अस्त्रयागविहीनके || २६ || मन्त्रहीने क्रियाहीने दर्भापरिधिहीनके | कलशस्थापनेहीने कुम्भहीने च निर्जले || २७ || रत्नहेम विहीने तु कूर्चसूत्रविहीनके | विष्टरं परिधिहीने तु वस्त्रहीने तथैव च || २८ || नैवेद्यादि * * * * * * * * * * * * (?) | * * * * * * * (?) तु तत्काले कलहेपि च || २९ || पूजापर्युषितद्रव्यैः सङ्करे लिङ्गबिम्बयोः | प्रतिमं यात्रकाले तु पतितेयाङ्गहीनके || ३० || उत्सवे चैव तद्गामे मृते चैव तु मन्यके | परिवेष रजनी मग्निदग्धौ भयङ्करौ || ३१ || रक्षासूत्रविहीने * * * * * * * * * (?) | * * * * * * * * * * * (?) गे कृतेमसि || ३२ || मन्त्राणां संकरं चैव हीनावाचार्य दक्षिणा | एवमादि समुत्पन्ने ग्रामादीनान्तु दोषकृत् || ३३ || प्द्f १४२, प्. ७९४) वृषयाग विहीने तु गावोनश्यन्नशंयः | वृषभस्नपनं कृत्वा गन्धपुष्पेन योजयेत् || ३४ || निवेदयेत् तु मुद्गा * * * * * * * * * (?) | * * * * * * * (?) तु राजा दुर्जयमाप्नुयात् || ३५ || शान्तिहोमं ततः कृत्वा विधिनारोपयेद्बुधः | ध्वजवेदिविहीने तु मन्त्रीणां तु भयङ्करम् || ३६ || शान्तिहोमं ततः कृत्वा पुनःसन्धानमाचरेत् | रज्जुहीने ध्वजच्छिन्ने नष्टे च पतितेऽथवा || ३७ || ध्वजयष्टि * * * * * * * * * * * * (?) | * * * * * * (?) च्चैव पुण्याहं तत्र वाचरेत् || ३८ || शान्तिहोमं ततः कृत्वा भक्तानां चैव पूजयेत् | घण्टाहीने तु पतिते बालानां तु क्षयं भवेत् || ३९ || पुण्याहं वाचयित्वा तु मूलमन्त्रं शतं जपेत् | घण्टामस्त्रेण संप्रोक्ष्य पुनस्सन्धा* * * * (?) || ४० || * * * * * * * * * * * * (?) भयं भवेत् | स्नपनं कारयेच्छंभो भेरीमपि च ताडयेत् || ४१ || सोषकाले तु पटहोच्छिन्ने च पतितेपि च | चर्मणो भेदने चैव सस्यनाशं विनिर्दिशेत् || ४२ || वर्णमन्त्रमनुस्मृत्य हुत्वा तच्चशतं जपेत् | पश्चादन्यं परिग्राह्य विधिना ताडये * *(?) || ४३ || * * * * * * * * * * * * * * (?)र्जिते | एतैचालक्षणैर्युक्तं तद्ग्रामस्य क्षयं भवेत् || ४४ || प्द्f १४३, प्. ७९५) प्रमाणहीनं यः कुर्यात् प्रमाणस्य प्रवेशयेत् | शान्तिहोमं ततः कृत्वा तत्तत्कर्म समाचरेत् || ४५ || वेद्यास्थण्डिलहीने तु सस्यनाशं न संशयः | पञ्चगव्येन संशोध्य मूलमन्त्रं शतं ज*(?) || ४६ || * * * * * * * * * * * * (?) पयेत् क्रमात् | मध्ये तु यागशालायां स्थापितान घटायदि || ४७ || परचक्राद्भयं राज्ये राजादुर्जयमाप्नुयात् | पूर्ववद्यागशालायां यथाविधि घटान्तरैः || ४८ || तद्दिनन्तु समारभ्य पुनरुत्सवमाचरेत् | प्रमादादग्निदग्धे च पूर्ववत् कल्पयेत् क्रमात् || ४९ || पु * * * * * * * * * * * * * * * (?) | सृक्सृवस्य विहीने तु जनं च ज्वरमारितम् || ५० || प्रवर्तते महाव्याधिं नित्यं ग्रामनिवासिनाम् | त्रियम्बकेन मन्त्रेण शतमष्टोत्तरं हुनेत् || ५१ || दर्भमालाविहीने च त्वनावृष्टि प्रवर्त्तके | मूलमन्त्रं शतं जप्त्वा दर्भमालां च योजयेत् || ५२ || होमद्रव्यविहीने च त्वनावृष्टि * * * * (?) | * * * * * * * * * * (?) व्याहृतिमेव च || ५३ || तद्रव्यहोमयेद्धीमान् पूर्वोक्तविधिनासह | आयुधानां विनाशे तु तस्करेण भयङ्करम् || ५४ || त्र्यक्षरेण मन्त्रेण होमयेच्छत सङ्ख्यया | कृत्वा सलक्षणेनैव प्रोक्षयेत्तु शिवांभसा || ५५ || प्द्f १४४, प्. ७९६) अष्टमङ्गलहीने तु जनानां चैव नाशनम् | ईश * * * * * * * * * * * * * * (?) || ५६ || अङ्कुरार्पणहीने तु पालिकादिविवर्जिते | महाव्याधिसमुत्पन्नः सस्यनाशो न संशयः || ५७ || सहस्र मूलमन्त्रे तु हुत्वा भक्तांस्तु पूजयेत् | ततोङ्कुरार्पणं कुर्यात् पालिकादि सलक्षणम् || ५८ || अस्त्रयागविहीने च महामारी प्रवर्तते | मूर्तिहोमं ततः * * * * * * * * * * (?) || ५९ || * * * (?) वासनं तत्र कुर्यात् पूर्वोक्तमार्गतः | कुम्भस्थापनहीने च दुर्भिक्षं जायते ध्रुवम् || ६० || मूर्तिहोमं ततः कृत्वा मूलमन्त्रं शतं हुनेत् | यागप्रदीपहीने च प्रमादे च विशेषतः || ६१ || सस्यानां नाशनं चैव उन्मादो जायते ध्रुवम् | घोरमन्त्रं शतं हुत्वा * * * * * * * * (?) || ६२ || * * * * * * * * (?) दीपमारोपयेत् ततः | दुर्भिक्षं जायते कुण्डे वह्निविच्छेदनेपि च || ६३ || अद्वास्य भस्मान्यङ्गारमग्निमाधाय पूर्ववत् | समिधं चरुलाजेन जुहुयान्मूलमन्त्रतः || ६४ || प्रत्येकं च शतं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् | यागप्रदीपहीने च प्रमादे च विशेषतः || ६५ || सस्यानां नाशनं चैव उन्मादो जायते ध्रुवम् | घोरमन्त्रं शतं हुत्वा दीपमारोपयेत् ततः || ६६ || प्द्f १४५, प्. ७९८) शूलास्त्रन्तु पुनः कृत्वा स्थापयेद्विधिपूर्वकम् | इतराङ्गविभेदे च पुनः सन्धानमाचरेत् || ७८ || जलाधिवासनं चैव प्रतिष्ठाकालभेदनम् | आयुधानां प्रणाशे तु विभेदे पतनेऽपि च || ७९ || प्रव * * * * * * * * * * * * * * (?) | * * * (?)पेण मन्त्रेण जपमष्ट शतं हुनेत् || ८० || नष्टेभिन्ने च कर्तव्यं तत्पूर्वं लक्षणान्वितम् | बलिपात्रे विहीने च धनधान्यं विनश्यति || ८१ || घोरमन्त्रं शतं हुत्वा नवं पात्रं परिग्रहेत् | बलिताल विहीने च सर्वधाविप्रियं भवेत् || ८२ || मूर्तिमन्त्रं च मूलं च * * * * * * * * (?) | * * * * * * * * (?) लक्ष्मीनाशो भवेध्रुवम् || ८३ || पञ्चब्रह्म षडङ्गानि प्रत्येकं तु शतं जपेत् | द्विगुणं दीपमारोप्य बलिशेषं समाचरेत् || ८४ || कालाति क्रमणे प्राप्ते बलिदाने च यानके | तद्ग्रामस्यक्षयं प्रोक्तो वर्णमन्त्रं शतं हुनेत् || ८५ || * * * * * * * * * * * * * * (?)र्ववत् | उत्सवे यानहीने च राजामरणमाप्नुयात् || ८६ || वर्णमन्त्रं शतं हुत्वा कौतुकं स्नापनं शुभम् | पुनः प्रक्रमणे नैव कुर्याद्ग्राम प्रदक्षिणम् || ८७ || तत्काले कलहो यत्र तस्करैश्च भयं यदि | मूलबीजं शतं हुत्वा * * * * * * * * (?) || ८८ || प्द्f १४६, प्. ७९९) * * * * * * * * (?) प्रविशेदालयं प्रति | पूजापर्युषितद्रव्यैः सङ्करैर्ल्लिङ्गमर्चयेत् || ८९ || परचक्राद्भयं चैव राज्ञां व्याधि प्रवर्तते | अघोरास्त्रं शतं हुत्वा स्नापनं पञ्चविंशतिः || ९० || पुण्याहं वाचयित्वा तु जपेत् पा * * * * * (?) | * * * * * * * * * * * * (?) गहीनके || ९१ || वास्तु राजाधिदेवानां नाशनं संभवेत्क्षणात् | स्नपनं तत्र कुवीत पुण्याहं वाचयेत् ततः || ९२ || शान्तिहोमं ततः कृत्वा पुनःसन्धानमाचरेत् | शिरोबाहु च पादौ च भिन्नानियतितं त्यजेत् || ९३ || नखानामङ्गुलीनां च भूषणां च निभेदिने | * * * * (?)नकं कृत्वा तत्र संप्रोक्षणं कुरु || ९४ || दीक्षान्तरे तथाशूद्रे गुरुवाक्यस्यलङ्घने | तद्ग्रामवासिनां चैव स्थानभ्रंशं न संशयः || ९५ || पंचगव्येन संप्रोक्ष्य पुण्याहं वाचयेत् ततः | स्नपनं कारयेद्बिम्बं शिवमन्त्रं शतं हुनेत् || ९६ || उत्सव * * * * * * * * * * * * * (?) | * * * (?)दूषणोत्पत्तिः शीघ्रं संत्यज्यतच्छ्रयम् || ९७ || वर्णमन्त्रं तथास्त्रं च होमयेत् तु शतं शतम् | परिवेष तु तत्काले लोकस्यैशानमादिशेत् || ९८ || शिवमन्त्रं शतं हुत्वा व्योमव्यापि शतं जपेत् | नीराजनविहीने तु पावकेन भयं भवेत् || ९९ || प्द्f १४७, प्. ८००) मूलप्रकृतिबीजं तु शत ****** (?) | * * * * * * * * * (?) र्वाक्त विधिनाबुधः || १०० || प्रासादे वह्निदग्धे च क्षुद्भयं ग्रामवासिनाम् | यद्यमन्त्रं शतं हुत्वा बीजं तु स्नापयेच्छभम् || १०१ || युद्धारम्भविहीने च सस्यनाशो न संशयः | ऊर्ध्वचक्रं शतं हुत्वा युद्धारंभं समाचरेत् || १०२ || रक्षासूत्रविहीने च सर्वस्त्रीणां विनाशनम् | मू * * * * * * * * * * * * * * * (?) || १०३ || * * * * * (?)न्त्रं शतं कुर्यात् चूर्णोत्सवं ततः | स्नपनं कारयेत् पश्चात् प्रकुर्यादभिषेचनम् || १०४ || ध्वजावरोहहीने तु तन्महापाकोपनम् | प्रणवं तु शतं हुत्वा पश्चादारोहयेध्वजम् || १०५ || शुद्धस्नानविहीनस्यात् अनावृष्टिर्नसंशयः | पुरुषं तु शतं * * * * * * * * * * (?) || १०६ || * * * * * * * * * (?)खं कर्ता च नश्यति | वर्णमन्त्रं शतं हुत्वा स्नपनं कारयेत् ततः || १०७ || अपरे दिवसे चैव पूर्वतीर्थं समाचरेत् | न्यूनं चैव तथा राष्ट्रे ग्रामयोर्नाशनं भवेत् || १०८ || दिशाहोमं ततः कृत्वा शान्तिहोमं तु कारयेत् | पूर्वोक्तं * * * * * * * * * * * * * (?) || १०९ || **(?)द्वासनहीने च त्वप्रीतास्सन्धिदेवताः | मूलमन्त्रार्च्चितं हुत्वा पश्चादुद्वासनं स्मरेत् || ११० || प्द्f १४८, प्. ८०१) चण्डयागविहीने च परचक्रद्भयं भवेत् | स्नपनं कारयेच्छंभोश्चण्डयागं समाचरेत् || १११ || तन्त्रासाङ्कर्यदोषेण मारिव्याधिस्तु जायते | समिद * * * * * * * * * * * * * (?) || ११२ || *(?)र्ण मन्त्रार्च्चितं हुत्वा तत्सङ्ख्या जपमाचरेत् | सर्वशान्तिकरं चैव दक्षिणेश्वरमर्चयेत् || ११३ || अतत्वे प्रतिपत्तिस्तु प्रायश्चित्तविधिं शृणु | स्वजात्यदीक्षितं स्पृष्ट्वा भस्मस्नानं समाचरेत् || ११४ || अवान्तरेषु जातीषु स्पर्शयेत् स्नानकं द्वयम् | चण्डा * * * * * * * * * * * * * * (?) || ११५ || * * * * (?) जने काले शेषमन्नं त्यजेद्बुधाः | स्नानद्वयं तथा प्रोक्तं मूलमन्त्रं शतं जपेत् || ११६ || दुर्गन्धं वायुना गच्छेत् नासाग्रेऽपि विवर्तयेत् | गोमयं तु तथा स्पृष्ट्वा शीघ्रपञ्चाक्षरं जपेत् || ११७ || स्वजात्य दीक्षितानं च कृत्वा कामेन वै बुधः | व्योमन्यापि * * * * * * * * * (?) || ११८ || नृपान्नं भोजयेद्विद्वान् शिवमन्त्रं शतं जपेत् | भुक्त्वा वैश्यान्नमेवं तु सहस्रं तु जपेत् क्रमात् || ११९ || भुक्त्वा तु कामाच्छूद्रान्नं कृच्छ्रं चान्द्रायणं चरेत् | मासन्निरन्तरे भुङ्क्ते तच्छूद्रे उपजायते || १२० || शूद्रेणैव तु संयुक्ते नित्यं शूद्रवदाचरेत् | शूद्रस्त्रीसंग * * * * * * (?)न्त्रं शतं हुनेत् || १२१ || प्द्f १४९, प्. ८०२) रजस्व लाङ्गना स्पर्शेत् हुत्वा स्नात्वा शतं जपेत् | वर्णमन्त्रं शतं जप्त्वा पूजयेद्दक्षिणेश्वरम् | १२२ || अदीपभोजने काले शिवमन्त्रं शतं जपेत् | भुक्त्वा तु दर्शनेकाले शक्त्या हृन्मन्त्रमुच्चरन् || १२३ || संस्मरेद्देवदेवेशं भस्मस्नानाद्विशुध्यक्ष्यति | लशुनं मत्स्यमांसं च चान्योच्छिष्टं तु वर्जयेत् || १२४ || प्रमादाद्भक्षयित्वा तु वर्णमन्त्रं शतं जपेत् | ज्येष्ठाचार्यस्य चोच्छिष्टं भोजयेत् सर्वसिद्धिदम् || १२५ || प्रत्यक्षलवणं मध्ये जलवाने वशन्तके | जपित्वा हृदयं मन्त्रं सर्वदोषं विनश्यति || १२६ || पुच्छब्दं भोजयेत्यक्त्वा हृन्मन्त्रं च समुच्चरन् | अदीक्षिता च भक्तिं च श्रुत्वा हृन्मन्त्रमुच्चरन् || १२७ || अपातकादि महापाप प्रायश्चित्तविधिं शृणु | ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च || १२८ || लङ्घनं गुरुवाक्यस्य गोवधं पंचपातकम् | तदाचार्य गृहेदेशे ध्यात्वा दक्षिणमीश्वरम् || १२९ || चारुभुङ्मासमर्धं वा मौनव्रतमथाचरेत् | परमेशजलं पीत्वा त्रिसन्ध्यां स्नानमाचरेत् || १३० || वर्णमन्त्रं शतं जप्त्वा सर्वस्वं दानमाचरेत् | त्रियक्षरं जपेन्नित्यं कण्ठमात्रोदकेस्थितः || १३१ || त्रिवारं वासये ध्यात्वा गुरुदेवं समर्चयेत् | नाममन्त्रं सदा जप्त्वा भाषयेब्ज्ञानमुद्रिकाम् || १३२ || प्द्f १५०, प्. ८०३) मुच्यते सर्वपापेभ्यो दक्षिणापदमाप्नुयात् | सूतक प्रेतकाशौच क्रमाद्वक्ष्ये महेश्वर || १३३ || विप्र शुद्धिर्दशाहस्य द्वादशस्य नृपस्य तु | वैश्यस्य पक्षतः शुद्धिः शूद्रश्शुद्धिस्तुमासकम् || १३४ || सम्यज्ञानि स्वधर्मस्थः त्यजेदशानिनां तमः | शुध्यते तत्क्षणाज्ज्ञानी अज्ञानी शोकहादिने || १३५ || ऊर्ध्वतन्त्रेषु संस्कारसूतकं प्रेतकं नहि | तस्मात् सर्वप्रयत्नेन ऊर्ध्व शैवे तु दीक्षयेत् || १३६ || दीक्षितानां नृपाणां च सूतकं प्रेतकं न हि | सर्वदोषा च कृत्या च मुच्यते ज्ञानमुद्रिकाम् || १३७ || ध्यात्वा जप्त्वा तु पूजा च नाममन्त्रं सदा जपेत् | नाममन्त्रं सदा जप्त्वा सर्वदोषांस्तु नाशयेत् || १३८ || लिङ्गे दोषादिजं वक्ष्ये प्रायश्चित्तं क्रमाच्छृणु | लिङ्गं तु स्फुटिते छिन्ने भग्नं भिन्ने तथैव च || १३९ || दण्डं च पतितं वाऽपि नदी स्रोतो विभेदितः | गजेनोत्थापितं वाऽपि चोरैरुन्मत्तकैरपि || १४० || तल्लिङ्गं तत्र संस्थाप्य पूर्ववत् पूजयेच्छुभम् | सहस्रकलशं स्थाप्य संप्रोक्षण मथाचरेत् || १४१ || गर्भच्छिन्नं नदीस्रोतश्चतुर्दण्डानु योजयेत् | मूललिङ्गमदृश्यं च नवलिङ्गं तु पूजयेत् || १४२ || तद्देशे स्थापयेच्छीघ्रं सर्व्संपत्करं शुभम् | हृन्मन्त्रेण शतं जप्त्वा पंचगव्येन प्रोक्षणम् || १४३ || प्द्f १५१, प्. ८०४) परिवारविनाशे तु पालयंत च पूर्ववत् | प्रमादाच्चलिते लिङ्गे स्थापयेत् पूर्ववच्छुभम् || १४४ || शिवमन्त्रं शतं जप्त्वा पायसान्नं निवेदयेत् | पूर्वमेव कृतं लिङ्गं तस्यप्राकारलिङ्गकम् || १४५ || अलिङ्गमति विज्ञेयं राजादुर्जयवर्धनम् | खण्डस्तुण्डमिति प्रोक्तं न चोत्पाटन दोषकम् || १४६ || महामर्यादि पार्श्वे तु स्थापयेत् पूर्ववत्कृतः | वर्णमन्त्रं शतं हुत्वा शिखमन्त्रं शतं जपेत् || १४७ || अदेशे स्थापिते लिङ्गे राजादुर्जयमाप्नुयात् | तस्मात् सर्वप्रयत्नेन न पार्श्वस्थं लिङ्गपूर्वकम् || १४८ || प्राकारे चैव मध्यस्थं लिङ्गं शत्रुप्रतिष्ठितम् | राजराष्ट्रभयं दुःखं राजानं तु वर्धनम् || १४९ || तत्पार्श्वै तु स्थितं लिङ्गं यजमानेच्छयान्वितः | दुस्थितं सुस्थितं वाऽपि शिवलिङ्गं न चालयेत् || १५० || मूललिङ्गस्य यद्वाक्यं अन्यस्य चानं भवेत् | अन्यलिङ्गस्य चलनं राजराष्ट्राभिवृद्धिदम् || १५१ || तत्काले स्थापयेल्लिङ्गं पूर्वोक्तं तु महेश्वर | भक्तानां परिवाराणां वस्त्रादीनि प्रदापयेत् || १५२ || अथाद्भुताख्यां शान्तिं तु वक्ष्ये दोषनिवृत्तये | लिङ्गे विवर्णं संप्राप्ते प्रतिमारोदनेऽपि वा || १५३ || स्नपनं पञ्चविंशं तु पश्चिमे होममाचरेत् | अपामार्ग समिद्भिश्च वर्णमन्त्रं शतं जपेत् || १५४ || प्द्f १५२, प्. ८०५) उत्सवं च त्र्यहं कुर्यात् वर्णदोषं विनश्यति | प्रतिमारोदने चैव तत्पूर्वे होममाचरेत् || १५५ || समिद्भिरौदुम्बरीभिश्च जुहुयात् त्रिसहस्रकम् | शंचमे इति मन्त्रेण एकाहोत्सवमाचरेत् || १५६ || सहस्रकलशं स्नानं प्रकुर्याद्विगुणं हविः | प्रासादे पतिते भिन्ने चैत्य वृक्षफलीकृते || १५७ || दीपमाला तु विवशो मृगं धाम्नि प्रवेशने | एवमादौ समुत्पन्ने राजा राष्ट्रभयं भवेत् || १५८ || तद्दोष शमनार्थं च ऐशान्ये होममाचरेत् | अश्वत्थ समिधा चैव वर्णमन्त्रं शतं हुनेत् || १५९ || उत्सवं त्र्यहं कुर्यात् भक्तानां चैव पूजनम् | भूमिकम्पे दिशां दाहे प्रतिभास्करदर्शने || १६० || दिवानक्षत्रमुत्पन्ने रात्राविन्द्रशरासने | पुश्चमत्स्यसमायोगे जनानां नाशनं भवेत् || १६१ || तद्दोष शमनार्थाय आग्नेययां मण्टपे कृते | गुरुस्त्र्यम्बकमन्त्रेण अयुतं होममाचरेत् || १६२ || होमद्रव्यं तु पूर्वोक्तं समिधाप्लक्षसंभवाः | मासपूर्णं क्रमाच्छान्ति कुर्याद्दोष निवृत्तये || १६३ || प्रासुमण्टपाद्येषु वल्मीकं दृश्यते यदि | रत्नकान्यायमुत्पन्ने प्रासादे मधुसंश्रिते || १६४ || पविष्टे पिङ्गली पुत्कौ प्रासादाभ्यन्तरे तथा | तत्प्रदेशाद्बहिर्नीत्वा पूरयेच्छुद्धपांसुभिः || १६५ || प्द्f १५३, प्. ८०६) पंचगव्येन संप्रोक्ष्य शान्तिहोमं तु कारयेत् | देवस्याग्रत ऐशान्ये मण्टपं कल्पयेच्छुभम् || १६६ || तत्रायामार्ग समिधा सहस्रं प्रतिवासरः | सप्ताहं वा त्र्याहं वा त्रिसन्ध्यं होममाचरेत् || १६७ || नमो नमो यदस्येति दक्षिणामन्त्रमुच्चरन् | सर्वदोषप्रशमनं शिवमन्त्रं शतं हुनेत् || १६८ || हविभिर्द्विगुणं कृत्वा पूजयेद्दक्षिणेश्वरम् | शीतकुम्भं च विधिना शिरसोर्ध्वनि दापयेत् || १६९ || घृतक्षीराभिषेकं च यथाशक्तिर्विशेषतः | पञ्चगव्याभिषेकं च कुर्यात् पूर्वोक्तवर्त्मना || १७० || ईशमन्त्रं शतं जप्त्वा मूलमन्त्रं शतं जपेत् | दर्पणं चलितं वापि जीर्णं वा पतितं तु वा || १७१ || भग्नं वा दीप्तिशून्यं वा जले भूमौ विनिक्षिपेत् | स्थापयेद्वर्णमन्त्रेण गृहीत्वा दर्पणं नवम् || १७२ || पूर्ववत् पूजयेच्छंभुं राजराष्ट्राभिवृद्धये | पूर्वादिक्षु चतुर्दिक्षु चतुर्वेदैर्निषेवितः || १७३ || यथाविभवविस्तारं स्नपनं परिकल्पयेत् | पञ्चगव्येन सिद्धेन तथा पञ्चामृतेन च || १७४ || सलिलैर्नालिकेराणां पनसादि फलैरपि | हरिद्रामलकाद्यैश्च शुद्धान्नं चाभिषेचयेत् || १७५ || संशोध्य भस्मना पश्चात् शुचौदेर्दक्षिणेश्वरम् | प्रभूत हविषं दत्वा तदन्ते द्विगुणं स्मृतम् || १७६ || प्द्f १५४, प्. ८०७) एवं शान्तिकरं प्रोक्तं सर्वारिष्ट विनाशनम् | यत्र शान्तिकृता तत्र धनधान्यं च वर्धते || १७७ || आयुरारोग्य सौभाग्यं जयं संपत्प्रवृद्धये | राजराष्ट्राभिवृध्यर्थं प्रायश्चित्तं मयोदितम् || १७८ || प्रायश्चित्तमितिप्रोक्तं फलयागविधिं शृणु | इति प्रायश्चित्तपटलः || प्द्f १५५, प्. ८०८) रुद्रं च सदृशं दृष्ट्वा नमस्कारेण योऽर्चयेत् | समुक्तः सर्वपापेभ्यः शिवलोके महीयते || १ || दूराद्ध्वश्रमविक्रान्तं प्रदक्षिणं शिवालयम् | तत् क्लेशं तु कृतार्थाय सयाति परमां गतिम् || २ || यथादेवं नमस्कारं तथा लोकेषु पूज्यवान् | उत्सवे बलिकाले तु यः कुर्यात् तु प्रदक्षिणम् || ३ || पदे पदेश्वमेधस्य फलप्राप्तिर्नसंशयः | स्थलेपुष्पं जलेपुष्पं पुष्पपाद्यस्यमोदते || ४ || आरामं देवमुद्दिश्य यो नरः कर्तुमिच्छति | स एव धनवान् श्रीमान् इहलोके सुपूजितः || ५ || अयुतं योगवान् दंद्यात् श्रोत्रियायाहिताग्नये | मम पादजले स्नात्वा तत्फलं समवाप्नुयात् || ६ || कपिला पञ्चगव्येन कुशवारियुतेन च | स्नापयेद्देवदेवेशं गवां कोटिफलं भवेत् || ७ || त्रिरात्रं गुरुदेशे तु वसेत् तद्देव सन्निधौ | नानाभोग समोपेता शिवलोके महीयते || ८ || धूपघण्टां तु योदद्यात् ख्याति भूमौ प्रवर्तते | वस्त्रमाभरणादीनि यो दद्यात् तु विशेषतः || ९ || नानावस्त्राणि संयुक्तो नानात्वाभरणानि च | पूज्यवानिहलोकेषु शैवं पदमवाप्नुयात् || १० || भूमिं गोकर्णमात्रेण यो दद्यात् ज्येष्ठ दैवतम् | ग्रामाणामन्तपः सोपि वृद्धिव्यामेकराड्भवेत् || ११ || प्द्f १५६, प्. ८०९) आचार्यस्य गृहेदीमे सकृत्काले तु यो ददेत् | इहलोके दीपवद्दिव्यः सारूप्यं च स गच्छति || १२ || अस्यारंभं शिवोद्दिश्ययोजितार्च्चनमस्तथा | सर्वदानं तपो यज्ञफलं प्राप्नोत्यसंशयः || १३ || इष्टकाभिश्च लोहैश्च प्रासादं कारयेत् ततः | काञ्चनेन विमानेन शिवलोके महीयते || १४ |\/ संसिद्धे गुरुदेशे तु विधिनो विधिमार्गतः | शिवलोकमवाप्नोति पूज्यमानस्सदासुरैः || १५ || देवालय समीपस्थं शिवसारूप्यमाप्नुयात् | शिवलोकं ततो विद्यात् सामीप्यं पदमाप्नुयात् || १६ || आगमोक्तं तु संपूज्य देवेशं दक्षिणेश्वरम् | रूपयौवनसंपन्नस्सर्वभोगसमन्वितः || १७ || भुक्त्वा शिवपुरे भोगान् पृथिव्यामेकराड्भवेत् | माषमात्रं तु यो दद्यात् स्वर्णं रजतमेव वा || १८ || त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते | शुश्रूष गुरुभक्तां च आचार्यं परवासिनम् || १९ || भुक्त्वा तु विपुलान् भोगान् सर्वकाम समन्विताः | पुण्यक्षयादिहागत्य पृथिव्यामेकराड्भवेत् || २० || प्रतिमेकनकं दद्यात् दक्षिणं पदमाप्नुयात् | यतो वाचि न मन्त्रेण जप्त्वा स्मृत्वा सदाशिवम् || २१ || भुक्त्वा शिवपुरे भोगान् पृथिव्या भागमेकराट् | मालिका मण्डपां शालां कृत्वा गोस्थानमालयम् || २२ || प्द्f १५७, प्. ८१०) बहुपुत्र समाकीर्णो भोगान्भुक्ते स्वकामितान् | आसनासनिसद्भावं ध्यात्वा दक्षिणमीश्वरम् || २३ || पूजयेत् सर्वसिध्यर्थं ममलोके सदा वसेत् | यस्तु प्राणपरित्यागं कुर्याच्छिव निमित्तकम् || २४ || सालोक्यं चैव सामीप्यं सारूप्यं चैव सिध्यति | दक्षिणे च परे पार्श्वे शिवक्षेत्र समीपके || २५ || तत्रैव म्रियते मर्त्यः शिवलोके स गच्छति | दक्षिणाराधनं कृत्वा सयाति परमां गतिम् || २६ || तस्मात् सर्वप्रयत्नेन शिवमाराधयेत् सदा | फलपाकविधिः प्रोक्तं कृत्तिकादीपकं शृणु || २७ || इति मकुटाख्ये महातन्त्रे फलपाकविधिपटलः || प्. ८११) पगे मिस्सिन्ग् प्द्f १५८, प्. ८१२) आलयं प्रविशेत् पश्चात् सर्वालङ्कारसंयुतम् | प्रभूत हविषं दद्यात् अपूपं च प्रदापयेत् || १२ || फलोपहार पुष्पैश्च भक्तानां च प्रपूजयेत् | रात्रौ होमं प्रकुर्वीत बलिं तत्रैव निक्षिपेत् || १३ || रात्रौ प्रतिसरं बध्वा भक्तानां चैव पूजयेत् | प्रभाते पूजयेद्विद्वान् देवं दक्षिणमव्ययम् || १४ || महादर्पणमध्यस्थं अर्चयेत् पूर्ववच्छुभम् | त्रियक्षरं सकृज्जप्त्वा नृत्तगेयान् सुपूजयेत् || १५ || ब्रह्माद्यैशानपर्यन्तं ग्रामस्थाने बलिं क्षिपेत् | हृदयेन तु मन्त्रेण चूर्णकर्मसमाचरेत् || १६ || नद्यां वापि तटाके वा समुद्रेत्वा विशेषतः | तस्य पार्श्वस्थितं देवं गेयनृत्तादि संयुतम् || १७ || लाजचूर्ण समायुक्तं गुलैः शाक फलैर्युतम् | मातुलङ्ग फलैर्युक्तं भक्त्यादि विनिवेदयेत् || १८ || सर्ववर्णं समुच्चार्य लाजचूर्णं विसर्जयेत् | नवोदकेन तन्मध्ये त्रिशूलं स्नानमाचरेत् || १९ || तदासनं पुनर्गत्वा पश्चात् स्नपनमाचरेत् | प्रभूतं च हविर्द्दद्यात् प्रतिमादीन् प्रपूजयेत् || २० || भक्तानां परिचाराणां वस्त्रादीनि प्रदापयेत् | एवं समासतः प्रोक्ता स्नपनं च ततः शृणु || २१ || पटलस्य अन्त्यभागो न विद्यते प्द्f १५९, प्. ८१३) || स्नपनविधिः || अष्टम्यां पञ्चदश्यां तु चतुर्दश्यां तु पर्वसु | सङ्क्रान्तौ विषुवे चैव ग्रहणे चायने तथा || १ || दीक्षादिके प्रतिष्ठान्ते प्रोक्षणे चोत्सवे तथा | यागान्ते च सुनक्षत्रे मङ्गलेमन्त्रसाधके || २ || राजाभिषेककाले तु राजजन्मदिनत्रये | अतिवृष्ट्यात्वनावृष्ट्या दुर्भिक्षे दुर्निमित्तके || ३ || भूमिकम्पे महारोगे शत्रुभिः पीडितेपि वा | आद्रे सौरदिने काले राजपुत्र विशेषतः || ४ || राजपत्या स्त्रिजन्मर्क्षे राजामरणकालके | एवमादिषु कालेषु स्नपनं कारयेच्छुभम् || ५ || पञ्चमं नवमं चैव पञ्चविंशतिरेव वा | अथ त्रयविधिप्रोक्तं मध्यम त्रयविधिं शृणु || ६ || पञ्चाशत्यूनमेकं तु मध्यमत्रयमुच्यते | षोडशं विंशकं चैव त्रिंशदष्टा सहस्रकम् || ७ || उत्तमत्रयविख्यातं सर्वेषां स्थाप्य पूर्वकम् | मध्यमेकपदं कृत्वा पद्माकारं सुकर्णिकम् || ८ || चतुस्सूत्रेण मार्गेण कर्षयेत् तु फलप्रदम् | षट्सूत्रं च लिखित्वा तु प्राङ्मुखोदङ्मुखं क्रमात् || ९ || पञ्चविंशत्पदं कृत्वा स्थापयेदथ मन्त्रकम् | विस्तारं तालमात्रं स्यात् सूत्रं द्वादश कल्पितम् || १० || उदक्सूत्रं तदारभ्य अष्टद्वाराणि पूजयेत् | मध्यमं पञ्चविंशन्तु द्विपादं मात्पृतन्यसेत् || ११ || प्द्f १६०, प्. ८१४) पीठकेनथवा पञ्चपादात् सङ्गृह्य यत्नतः | इदमेकं तु पञ्चांशमेकाशीतिपदं शृणु || १२ || पदमेकं समावृत्यै एकाशीति पदं भवेत् | प्रागग्रं षोडशं सूत्रं उदगग्रं तथैव च || १३ || पूर्ववत् स्थापयेद्द्वारं ततो गोमयवारिणा | मध्यमे पञ्चविंशं तु दशद्वादशकेपि वा || १४ || कोणे नवपदं कृत्वा शिवालिख्यं शिवाष्टकम् | दिशश्च विदिशश्चैव पञ्चविंशत्पदं क्रमात् || १५ || मध्यमे व्यूहमध्ये तु नवपदं पद्ममालिखेत् | एवं कुर्याद्विधानज्ञ ष्डश द्विशतं भवेत् || १६ || सप्तधा स्थापकं प्रोक्तं तेषां दिव्यं ततः शृणु | पूर्वोक्तं पंचगव्यं तु पादार्घ्यं पूर्ववत् क्रमात् || १७ || क्षीरं दधि घृतं चैव फलं चात्र फलं तथा | कदली नालिकेरं च सर्षपं च तिलं तथा || १८ || बिल्वं च मारुतं चैव नारङ्गद्वयमेव च | यवनीवार लाजा च लाजचूर्णं तु भस्मकम् || १९ || चन्दनं लवगोष्ठं च कच्चोलं पत्रपुष्पकम् | कर्पूरं हिरिवेरी च दान्तं मंची मुरनृणाम् || २० || शमीदुर्वाचश्वेतार्कं बिल्वपत्रं च चम्पकम् | शङ्खपुष्पं मपामार्गं विष्णुक्रान्तिं च धुर्तुकम् || २१ || नन्द्यावर्तं श्वेतपद्मं पुन्नागं स्नानपाटली | सहदेवी शतापत्री लक्ष्मीस्थावरबिन्दुकम् || २२ || प्द्f १६१, प्. ८१५) धातकी तुलसी चैव करवीरं च मल्लिका | व्याघ्रनखी च मांजिष्टि सरलं भद्रकाष्ठकम् || २३ || नवनीतं द्राविलं, चैव तक्कोलं च सुपिप्पला | अम्बिका च बला चैव संहिप्रियं वा घृतम् || २४ || नागकेसरि संपूकं कपित्थं चैव गुग्गुलम् | एलावाजिनकं चैव कृष्णजीरकमेव च || २५ || स तिलं कुङ्कुमं चैव अङ्गं कृष्णं च रोचना | श्रीवेष्टिकं गन्धरसं पिप्पली हस्तिपिप्पली || २६ || अगरुं चागरुं चैव मनोशिला रक्तचन्दनम् | लवङ्गं रजनीचूर्णं क्षामार्जानन्तुनान्तकम् || २७ || फलचूर्णौषधात्यादीन् स्नानद्रव्यं तु मार्जनम् | रसपूर्णं तथा चान्यं तोये पूर्वं तु कारयेत् || २८ || नक्तादि पञ्चगव्यान्तं पञ्चानां कलशैस्थितम् | पूज्यान्तं नवकलशं पञ्चविंशद्गुणान्तकम् || २९ || चन्दनादि तृणानां च द्वे द्वे कलशं न्यसेत् | द्वात्रिंशत्प्रस्थसंयुक्तं नवं वा षोडशं तु वा || ३० || शिवकुम्भमिति प्रोक्तं तस्योर्ध्वे वर्धनीं भवेत् | पञ्चरत्नसमायुक्तं सकूर्चं स्वस्तिवेष्टितम् || ३१ || शिवकुम्भाद्युत्तरे पार्श्वे वर्धनीं विन्यसेत् क्रमात् | कूर्चयन्त्र समायुक्तं वर्धनीं हेमसंयुतम् || ३२ || शान्तमुद्रा च संस्थाप्य ज्ञानमुद्रां च योजयेत् | गन्धपुष्पादिनाराध्य वर्णमन्त्रं समुच्चरन् || ३३ || प्द्f १६२, प्. ८१६) पाद्यादीनि प्रतिष्ठाप्य अष्टविद्येश्वरान्तकम् | मध्यादि मार्जनान्तस्य योग्यतन्त्रे तु पूजयेत् || ३४ || एकैकमर्चयेत् सर्वं एकैकं वस्त्रवेष्टितम् | स्वनामादीन् समुच्चार्य गन्धपुष्पादिनार्चयेत् || ३५ || षोडशद्विशतं स्थाप्य पूर्ववत् स्थापयेत् क्रमात् | पूर्वोक्तानि च द्रव्याणि स्थापनं पूर्ववत् कृतम् || ३६ || तत्सङ्ख्येवोपस्थानं **(?)प्ततीर्थमिति स्मृतम् | अयमं राध्यवक्तं मानि समन्त्रकम् || ३७ || उक्तव्यं च सहैवोक्तं उक्तदैव सहैव तु | षोडश द्विशतं प्रोक्तं उत्तमं मध्यमं शृणु || ३८ || उत्तमं मध्यमं चैव उत्तमोत्तममेव च | स्थापयन्नी च द्रव्याणि किञ्चिद्भेदं महेश्वर || ३९ || षट्सूत्रं दक्षिणे भूत्वा प्राङ्मुखं च क्रमं भवेत् | पञ्चताल प्रमाणेन पादविस्तार विस्मृतम् || ४० || ततः पदं समाहृत्य पादमष्टौ च संहरेत् | चत्वारी विधयः प्रोक्तो चत्वारीश्च चतुष्पदा || ४१ || दशानि दशपदं कृत्वा एकैकं पंचविंति | मध्ये नवपदं कृत्वा स्थपयेत् पूर्ववत् क्रमात् || ४२ || पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चचापरेषु च | प्रथमे चैव तु बीजानि लोहाद्यैव द्वितीयकम् || ४३ || तृतीयं चैव रत्नानि धातुश्चैव चतुर्थके | पञ्चगव्यानि त्रिंशदष्टशतंशुभम् || ४४ || प्द्f १६३, प्. ८१७) यवनीवारमुद्गं च तिलसर्षपमेव च | श्वेतशाली महाशाली रक्तशाली तथैव च || ४५ || सौगन्धी हेमशाली च दशबीजमिदं शुभम् | द्वात्रिंशत्कलशैः कुर्यात् प्रथमावरणे न्यसेत् || ४६ || यावत् सङ्ख्या भवेत्तानि उपस्थानं समाचरेत् | चत्वारिंशच्च चत्वारि कलशादीन् प्रपूजयेत् || ४७ || आपः प्रदापयेश्चैव मूलमन्त्रमनुस्मरन् | प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु || ४८ || श्यामीकरं तथा होमं स्वर्णकुम्भं ततः परम् | जाम्बूनदं च सप्तं च जाति तप्ता च मिश्रितम् || ४९ || षण्मूर्तिमुदकेनैव विन्यसेत् * * * * * (?) | धापत्सङ्ख्या भवेत्तानि कलशेष्वन्तरोदकम् || ५० || पञ्चाशत् कलशान्याहुः तेषां वैचोत्तरद्वयोः | द्वितीयावरणं ध्यात्वा वर्णमन्त्रेणदेशिकः || ५१ || द्वितीयावरणं प्रोक्तं तृतीयावरणं शुभम् | पूर्वोक्त नवरत्नं तु त्रिंशत्कलशमेव च || ५२ || यावत्सङ्ख्या च रत्नानि कलशेष्वन्तरोदकम् | कलशानि भवेत् षष्ठीवार्चयेद्ब्रह्मतन्त्रकान् || ५३ || तृतीयावरणं प्रोक्तं चतुर्थावरणं शृणु | हरितालं तथामार्जमञ्जनं च मनश्शिला || ५४ || सौराष्ट्रं सिक्तवं चैव गौरीकं तु तथैव च | चतुस्त्रिंशत् कलशैस्तु सप्तधात्वं पुनासहः || ५५ || प्द्f १६४, प्. ८१८) यावत्सङ्ख्या भवेत्तानि कलशेत् पञ्चरोमकः | अष्टोत्तरं तथा षष्ठी कलशानि प्रपूजयेत् || ५६ || प्रत्येकमर्चयेत्तानि प्रणवादि नमोन्तकम् | पञ्चगव्यं कुशाग्रं च पञ्चावरणक्रमं शृणु || ५७ || पूर्वोक्तं पञ्चगव्यं तु कुशाम्भः पदपञ्चकम् | पञ्चगव्यादिभिर्युक्तं चाष्टत्रिंशद्भवेदिह || ५८ || विन्यसेत् पञ्चगव्यानां ब्रह्माङ्गं च तलैः क्रमात् | यावत्सङ्ख्या भवेत्तानि प्रत्येकन्नोत्तरोदकम् || ५९ || द्रव्येषु स्थापितं योग्यं शान्तमुद्रां विशेषतः | हृन्मन्त्रान् कलशान् सर्वान् पूजयेत्तु विशेषतः || ६० || त्रिंशदाख्यमिदं प्रोक्तं उत्तमोत्तमिदं शृणु | प्रागग्रं दशसूत्रं स्यात् उदगग्रं तथैव च || ६१ || एवं विंशतिकं कृत्वा पादं तत्र महेश्वर | षट्त्रिंशत् सूत्रसंयुक्तं सूत्रास्समावृतं न्यसेत् || ६२ || चतुर्द्वारं न्यसेद्धीमान् चत्वारिसंपदंसितम् | मध्ये शिवपदं ग्राह्य नवं तत्रैव चारयेत् || ६३ || एकैकं पादमध्ये तु पञ्चविंशति सङ्ख्यया | कलशानि तथोक्तानि सहस्राणि दशांशते || ६४ || शिवाधिकं चाष्टसहस्रं क्रमाद्वक्ष्ये महेश्वर | प्रथमे चैव बीजानि लोहिन्यैव द्वितीयकम् || ६५ || तृतीयं चैव रत्नानि निधानं च चतुर्थके | पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदके || ६६ || प्द्f १६५, प्. ८१९) गन्धाद्यैद्यौषधं सर्वे सप्तमे च तथा भवेत् | मृदाम्भश्चाष्टमेवैच अक्षताम्भस्ततःपरम् || ६७ || दशमे चैव पुष्पाम्भः एकैकं तु शृणु क्रमात् | रत्नादि पञ्चगव्यान्तं पूर्ववत् स्थापयेच्छुभम् || ६८ || पञ्चावरणक्रमं प्रोक्तं अष्टावरणक्रमं शृणु | कदलीबिल्वचूतं च मातुलङ्गं च डाडिमम् || ६९ || नालिकेरं च नारंगा गामरं पनसं तथा | रालोदकानि एतानि भिनचेष्टाभिधीयते || ७० || प्रत्येकं विन्यसेत्तानि कलशेषु करोदकम् | कलशानि तथा दीपं चतुर्विंशाच्चतोरणम् || ७१ || प्रत्येकमर्चयेत्तानि पवमाने त्रिमन्त्रतः | गन्धाद्यौषधयश्चैव सप्तावरणकं शुभम् || ७२ || उशीरं चन्दनं चैव कर्पूरं जातिरेव वा | सदाभद्रं च श्रीदेवी विष्णुक्रान्त शतारिकम् || ७३ || गन्धाद्यैद्यौषधान्यष्टौ चाष्टोत्तरशतानि च | तावत् सङ्ख्यासु विज्ञेया उपस्थानं विशेषतः || ७४ || द्वात्रिंशत् कलशं प्रोक्तं शतमेकं समाचरेत् | ओषधीनां लतायां च वृक्षाणां च फलानि च || ७५ || उक्तं चैव तु सर्वेषां मूलं वापि प्रगृह्यताम् | सप्तमावरणं प्रोक्तं अष्टमावरणं शृणु || ७६ || दर्भमूलेन दन्ताग्रे सूकरस्य तु दक्षिणे | वल्मीके वृषशृङ्गाग्रे नद्यां वापि व्रजेन च || ७७ || प्द्f १६६, प्. ८२०) समुद्रं चैव मेधावी मुद्रं वाह्यविचक्षणः | प्रत्येकं कलशेष्वेव आसप्तत्रिपरिसङ्ख्यया || ७८ || उदकेन समापूर्य तत्सङ्ख्या चान्तरोदकम् | चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् || ७९ || अर्चयेत् पंचमन्त्रेण नवमावरणं शृणु | चूतो वटं च पनसं न्यग्रोधोदुम्बरस्तथा || ८० || अश्वत्थं चित्रकं चैव पलाशो मधुकं तथा | अष्टवृक्षस्य चूर्णं तु विन्यसेद्वारिणा सह || ८१ || प्रत्येकं पूरयित्वा तु सप्तत्रिश्चतुरश्रमम् | यावत्सङ्ख्या भवेत्तानि स्नानं वै चोत्तमोदकम् || ८२ || चत्वारिंशं भवेच्चाष्टौ पदमेकं समासतः | अर्चयेत् पूर्वरत्नानि गन्धपुष्पादिभिः क्रमात् || ८३ || दशमे चैव पूर्वाणि पुष्पोदकविधिं शृणु | अर्कपङ्कजबिल्वं च नन्द्यावर्तं च पाटली || ८४ || करवीतं चम्पकं चैव नीलोत्पलं तथाष्टकम् | कलशेषु विनिक्षिप्य अष्टोत्तरं सप्ततः || ८५ || पुष्पाणि कलशेष्वेव निक्षिप्यांभः प्रपूजयेत् | यावत् सङ्ख्या भवेत्तानि उपस्थानं समाचरेत् || ८६ || एवं दशविधास्थाप्य गन्धपुष्पादिनार्चयेत् | एकैकं कलशान् सर्वान् नववस्त्रेण वेष्टयेत् || ८७ || द्रव्येषु शतरुद्राश्च जलेतीर्थानि कल्पयेत् | नवविधं संस्थापयेत् तत्र मुद्रां प्रकल्पयेत् || ८८ || प्द्f १६७, प्. ८२१) आद्यन्ते च नमस्कारं मनोन्मनि जपमध्यमम् | एवं नवविधं ज्ञानं अभिषेकं समाचरेत् || ८९ || आपोक्तं दर्पणं चैव लिङ्गेचावाहनादिकम् | कुम्भस्थे दक्षिणेशानं स्थापयेत् तु त्रिधा भवेत् || ९० || कुम्भमुद्वास्य शिरसा स्कन्धे नैव तु धारयेत् | पुनस्ततोहिं गर्भाग्रे उत्तराभिमुखस्थितः || ९१ || स्नापयेद्देवदेवेशं मूलमन्त्रेण मन्त्रितम् | गणाम्बिकायेति मन्त्रेण वर्धनीं पीठकेन्यसेत् || ९२ || तत्तत्स्थाने प्रतिष्ठाप्य पूर्ववच्च यथाक्रमम् | स्वाप्यद्रव्यैर्यथान्यायमुपस्थानं तथैव च || ९३ || स्थाप्यमन्त्रेण संस्थाप्य देवं दक्षिणमव्ययम् | कलशं वामहस्तेन द्रव्यं तु दक्षिणे करे || ९४ || गोशृङ्गाग्र प्रमाणेन वारिधारां निधापयेत् | कलशादभिषेकं च पृथक् पुष्पं प्रदापयेत् || ९५ || स्नानमानं तु सर्वेषां अन्ते हारीद्र चूर्णकम् | पूर्ववच्चार्चयेद्देवं शुद्धतोयाभिषेचनम् || ९६ || कलशैस्नापयेद्देवान् स्वस्वस्थानेषु विन्यसेत् | बीजानां लभ्यलाभे तु यवनीवारसङ्ग्रहम् || ९७ || उक्तलोभा नभावे तु तप्तकाञ्चनकैर्युतम् | रत्नानामप्यलाभे तु मौक्तिकं ग्राह्यमेव च || ९८ || यातिनामप्यलाभे तु हरितालं विशेषतः | त्रिणानामप्य लाभे तु दर्भमूलं परिग्रहेत् || ९९ || प्द्f १६८, प्. ८२२) वृक्षाणामप्यलाभे तु अश्वत्थं चर्मसङ्ग्रहेत् | पुष्पाणामप्यलाभे तु गिरिपुष्पं तु सङ्ग्रहेत् || १०० || एवं यः कुरुते देवं भक्तियुक्तस्सदेवहि | स ऽऽषिवक्रमते नित्यं शिवलोके महीयते || १०१ || नवधा स्नपनं प्रोक्तं प्रतिष्ठा लक्षणं शृणु | इति मकुटाख्ये महातन्त्रेस्नपनविधिपटलः || प्द्f १६८, प्. ८२२) || प्रतिमालक्षणम् || नवतालं तथायामं सप्ततालं समाश्रयः | पञ्चतालं तथा यामं त्रितालं वा महेश्वर || १ || नवतालं तु ब्रह्मण्यं सप्ततालं नृपस्तथा | वैश्यस्तु पञ्चतालं स्यात् त्रितालं शूद्रमेव च || २ || लिङ्गं वा प्रतिमानां वा भित्ति चित्रमथापि वा | शिलाया प्रतिमां कृत्वा चायुश्री पुष्टिवर्धनम् || ३ || लोहजा सर्वकामार्थं इष्टकास्तेज संभवेत् | सर्वदेव प्रतिष्ठा तु क्रमाद्वक्ष्ये महेश्वर || ४ || अङ्कुरार्पण पूर्वोक्तं मण्टपं पूर्ववत् कृतम् | चतुस्तोरण संयुक्तं तन्मूलकलशं न्यसेत् || ५ || पूर्वं तु तोरणे स्थाप्य रत्नत्रय सुपूजिते | राजतं दिशि संस्थाप्य पश्चिमे मौक्तिकं तथा || ६ || प्रवालमुत्तरे स्थाप्य तोरणेषु प्रपूजयेत् | पुरुषाद्येव वामान्त मर्चयेत् तु विशेषतः || ७ || प्द्f १६९, प्. ८२३) पूर्वमेव तु यत्कुण्डं तस्य मध्ये तु यच्छिवम् | अर्चनात् पूर्ववत् कृत्वा पूर्वोक्तेन तु होमयेत् || ८ || सर्वद्रव्याणि होतव्यं प्रत्येकं हृदयेन तु | पूर्णाहुतिं तदन्ते तु यदस्यैव सु मन्त्रकम् || ९ || नवदग्नि विदासम्यक् संपूर्णं होममाचरेत् | पलाशं च शमी चैव प्लक्षोदुम्बरमेव च || १० || अश्वत्थं चैवापामार्गं बिल्वमर्कं च कुन्दकम् | इन्द्रादि मध्यपर्यन्तं नृत्तदेवेशमर्चयेत् || ११ || होमान्ते पूजयेत् सम्यक् आचार्यस्य यथा गुरुम् | प्रभाते स्नपनं कुर्यात् स्नानं कुर्यात् तु देशिकः || १२ || महाजालस्य मध्ये तु प्रतिष्ठामूर्तिमर्चयेत् | जलाधिवासकाले तु वर्णमन्त्रं समुच्चरन् || १३ || आचार्यो ब्रह्मकाले तु पूजयेत् तु विशेषतः | पुण्याहं स्वस्ति वाक्यं च सर्वमङ्गलवाचकम् || १४ || वीणावेणु मृदङ्गैश्च शङ्खकाहलवाद्यकैः | गन्धधूपविधिश्चैव मयूरं छत्रचामरम् || १५ || सुमूहूर्ते सुनक्षत्रे आचार्येच्छायकालके | वर्णमन्त्रं समुच्चार्य ध्यात्वा दक्षिणमव्ययम् || १६ || प्रभाते स्नपनं कुर्यात् नवांशं च शनैः शनैः | तदन्ते स्थापनं कुर्यात् तद्देवान् सम्यगर्चयेत् || १७ || शयनं चासनं यानं त्रिविधं कारयेत् पुनः | तत्काले ज्ञानमुद्रेण सर्वदेवं समर्चयेत् || १८ || प्द्f १७०, प्. ८२४) तत्तदेवाकृतिं ध्यानं तत्तन्मन्त्रं समुच्चरेत् | मन्त्रन्यासं ततः कुर्यात् पूर्ववत् पूजयेच्छिवम् || १९ || प्रासादाप्यर्धभागे तु सप्तधा परिकल्पयेत् | मध्यमं ब्रह्मभागे तु दैविकं तु द्वितीयकम् || २० || तदन्ते मानुषं ज्ञेयं पैशाच महिमाश्रितम् | तत्र मध्ये स्थितं सद्भिः पादशैला न्यसेत् ततः || २१ || रत्नन्यास क्रमेणैव स्थापयेन्नवकोष्ठकम् | नवबीजन्तु प्रथमं नवरत्नं द्वितीयकम् || २२ || धातु धान्यं तृतीयं तु लोहमेव चतुर्थकम् | सर्वद्रव्याणि संशोध्य ब्रह्मस्थाने निधापयेत् || २३ || पूर्वोक्तबीजान् सङ्ग्राह्य सर्वदेवान् सुमध्यमे | पूर्वोक्त नवरत्नं तु मध्यस्थाने निधापयेत् || २४ || अञ्जनं चैव माक्षिप्यत्यात पञ्चमनोशिला | हरितालं च लिङ्गं च श्यामं गैरिकवासरम् || २५ || ब्रह्माद्यैशानपर्यन्तं न्यसेत् सम्यग्यथाविधि | सौवर्णं राजतं ताम्रं आयसं त्रिपुसीसकम् || २६ || कांस्यं तु पित्तलापिष्टं लोहानां मध्यमे न्यसेत् | बीजानां अप्यलाभे तु व्रीहिं तत्र प्रशस्यते || २७ || ताम्रमालभ्यलाभे तु हरितालं प्रशस्यते | लोहानामप्यलाभे तु स्वर्णं तत्र प्रशस्यते || २८ || तत्तदेवान् सुमन्त्रेण स्थापयेन्नवकोष्ठकम् | गन्धं पुष्पं च धूपं च दीपं चैव प्रदापयेत् || २९ || प्द्f १७१, प्. ८२५) पुण्याहं तत्र कुवीत प्रोक्षयेत् तत्र मन्त्रकैः | वज्रं चक्रं च पूर्वैश्च ऊर्ध्ववक्त्रं च दक्षिणे || ३० || पश्चिमे कालचक्रं तु उत्तरे चक्रमूर्तिकम् | आग्नेययां वह्निचक्रं च वायव्यां विद्युचक्रकम् || ३१ || ऐशान्यां शूलचक्रं तु नैऋत्यां हुतचक्रकम् | देवान् पृथक् पृथक् चक्रावरणमाचरेत् || ३२ || सकलं चितले ध्यातुः शशक्तीति सर्वदः | निष्कलं सकलं चैव समुद्रमेवं प्रकीर्तितम् || ३३ || प्रतिष्ठा कालदेवानां तत्तद्देव्य प्रतिष्ठयेत् | प्रतिष्ठालक्षणं प्रोक्तं पवित्रारोहणं शृणु || ३४ || इति मकुटाख्ये महातन्त्रे प्रतिष्ठाविधिपटलः || प्द्f १७२, प्. ८२६) || पवित्रारोहणम् || सर्वपूजा समृध्यर्थं पूर्णार्थं चैवमेव च | सर्वकर्मेषु हीनेषु पूर्णार्थं कारयेद्बुधः || १ || वने देवान् समावाह्य सर्वस.पत्कराय च | शिवपूजां ततः कुर्यात् पवित्रारोपणक्रियाम् || २ || आषाढे शुक्लपक्षे तु श्रावणे वा विशेषतः | प्रोष्ठमासेश्वयग्मासे कार्तिक्यामथवा पुनः || ३ || द्वितीयादि चतुर्थान्तं षष्ठादिर्वा विशेषतः | अष्टम्यां वा प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् || ४ || अष्टम्यादि दशम्यान्तं द्वादश्यान्तमतः परम् | चतुर्दश्यान्तकं कुर्यात् पवित्रारोहणक्रियाम् || ५ || सप्ततोयेन पूतेन पूरयेन्नवकं घटम् | द्वात्रिंशत् सर्वपूर्णां तु तदर्धार्धं तु मेव वा || ६ || सूत्रैस्संवेष्टयित्वा तु वस्त्रेणावेष्टयेत् ततः | पञ्चरत्नानि निक्षिप्य रत्नाभावे हिरण्मयम् || ७ || सूत्रं प्रागेव सङ्ग्राह्य निर्मितं द्विजकंपो *(?) | अथवा शोध्यतोयेन भस्मेन क्षालयेत् ततः || ८ || त्रिसूत्रं ग्राहयेत् पूर्वं देवं च द्विगुणं भवेत् | नवसङ्ख्या तु यत्सूत्रं पवित्रं कारयेच्छुभम् || ९ || वामी च शक्तयस्तत्र नवसूत्राधिदेवता | पिङ्गोशोध्यस्य आयामं प्रासादे तत्पवित्रकम् || १० || हस्तमात्र समायामं पवित्रमिहशोभनम् | सूत्रैर्विवर्धयेद्विद्वान् नवधातुपवित्रकम् || ११ || प्द्f १७३, प्. ८२७) नवषोडशविंशश्च अधमत्रयमेव च | पञ्चविंशत् द्वात्रिंशत् * * * * * * * * * (?) || १२ || * * * * * (?)तिश्चैव नवतिश्चोत्तमत्रयम् | एतेशक्त्यं तथा कुर्यात् पवित्रं तन्महेश्वरः || १३ || वा दिसा वा दिलद्वादिषाकादीलादिषोडश | इति मन्त्रेण गायेन कारयेत् तु पवित्रकम् || १४ || तेषां तं मध्यमं ग्रन्थी बद्धसूत्रेणते शिवम् | नवसप्ताष्ट पूर्वोक्तं ग्रन्थिं कुर्याद्विचक्षणः || १५ || इन्द्रादि लोकपालाश्च गन्थीनामधिदेवताः | तत्पवित्रं तु शुध्यर्थं तन्मात्रौ चापि वासयेत् || १६ || शालि तण्डुल पुष्पद्यैः स्थण्डिलं चतुरश्रकम् | संस्त्रयो परिवस्त्रेण गन्धपुष्पादिभिस्सह || १७ || वस्त्रोपरिपवित्राणि संस्थाप्य शिवमन्त्रकम् | वस्त्रमाच्छाद्यशिरसा धूपयेद्धृतयेन तु || १८ || पवित्रं स्थापयेन्मध्ये सर्वगन्धानु लेपयेत् | भस्मचन्दनमृच्चूर्णं पश्चिमे तु दिशिन्यसेत् || १९ || उदकं चोत्तरे स्थाप्य दन्तकाष्ठादि पूर्वके | एतानि गन्धपुष्पाद्यैरर्चयेद्धृतयेन तु || २० || उत्तराच्छादनं कृत्वा दर्भैरुपरिदेशिकः | तत्र संपूज्य देवेशं ध्यात्वा ताण्डव दैवतम् || २१ || गन्धैरच्छाद्य विधिवत् पुष्पैराच्छाद्य यत्नतः | दर्भैराच्छाद्य देवाश्च सूत्रैर्वावेष्ट्य बुद्धिमान् || २२ || प्द्f १७४, प्. ८२८) शिवमाराधयेन्द्रादौ पवित्रं पण्डितान्वितम् | धूपदीपैस्समायुक्तं पूजयेद्वर्णमन्त्रकान् || २३ || मुक्त्वान्तेऽग्निं समारोप्य पवित्रं लिङ्गमन्त्रतः | प्रभूतं चैव नैवेद्यं पञ्चवर्णैर्विशेषतः || २४ || शिवाग्नौ वर्णमन्त्रेण शतं हुत्वा विचक्षणः | द्रव्यस्तु हृदये नैव होतव्यं व्याहृतं ततः || २५ || नृत्तगेय समायुक्तं रात्रौ निद्रा विवर्जयेत् | प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः || २६ || पर्यूषितानि पुष्पाणि * * * * * (?) मार्जयेत् | पूजनं पूर्ववत् कृत्वा देवेशं *(?)ण्डितान्वितम् || २७ || त्रियम्बकादिमन्त्रेण हुत्वान्तेग्निं समर्चयेत् | पवित्रं वह्निमारोप्य परिषेचनमथाचरेत् || २८ || सर्वाभरणं देवानां पवित्रं हृदयेन तु | अन्येषां चैव लिङ्गानां दापयेत् तु पवित्रकम् || २९ || * * * (?) देशिकेप्येवं पद्भ्यां प्रक्षालनं भवेत् | पवित्रं दापयेत् सश्चात् पूजयेत् तु विशेषतः || ३० || शिष्टानां परिचाराणां दत्वा चैव पवित्रकम् | गन्धाद्यैस्तु संपूज्य धूपदीपैर्विशेषतः || ३१ || प्रभुत हविषं पञ्चवाद्यादीनि च दापयेत् | होमान्ते चैव कर्तव्यं आद्यन्त मम *(?) जनम् || ३२ || जनानां सर्वदा सन्तु * * * * * * (?) विधिम् | वस्त्रैराभरणाद्यैश्च आचार्यं संप्रपूजयेत् || ३३ || प्. ८२९) पगे मिस्सिन्ग् प्द्f १७५, प्. ८३०) || प्राणायामविधिः || यमनीमासनं चैव प्राणायाममतः परम् | प्रत्याहारं च ध्यानं च धारणान समाधिकम् || १ || अष्टाङ्गमिति विज्ञेयं योगीनां योगसाधनम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहम् || २ || यमं च पञ्चधा प्रोक्तं नियमं च ततः शृणु | शौचं सन्तोषकं तत्र तपस्वाध्यायमेव च || ३ || ईश्वर प्रणिधानं च नियमं पञ्चधा स्मृतम् | गोमुखं स्वस्तिकं चैव पद्मं चैवार्ध चन्द्रकम् || ४ || वीरं योगासनं प्रोक्तं षड्विधं चासनक्रमम् | प्राणायामं च पूर्वोक्तं प्रत्याहारक्रमं शृणु || ५ || इन्द्रियार्थेषु यत्कर्मं प्रतिस्थानं व्यवस्थितम् | यावत् तावत् स्वरीभूतं प्रत्याहारस्स उच्यते || ६ || आधारधारणात् प्रोक्तो आधेयंस्तु समाधिकम् | धारणाद्विविधं प्रोक्तो ध्यानमेव क्रमं शृणु || ७ || आधाराधेय सङ्कल्पंधाराध्यानस्वरूपकम् | ऊर्ध्वाधमधमं शून्यं मध्यशून्यं निरामयम् || ८ || सर्वशून्यं निराकारं समाधिश्चित्तकारणम् | योगासनक्रमं वक्ष्ये विशेषेण महेश्वर || ९ || नाभेस्तु चतुरङ्गुल्यमधस्तादग्निमण्डलम् | कदम्बपुष्पवद्वर्णं चाष्टपत्रं त्रिकोणकम् || १० || मूलाधारमिदं प्रोक्तं द्वितीयं नाभिमूलकम् | भुजङ्गवलयाकारं अष्टवर्तुलमेव च || ११ || प्द्f १७६, प्. ८३१) कुण्डलाख्या महानाडी भानुमण्डलमुच्यते | ना भेरूर्ध्वं तु यत्पद्मं चन्द्रमण्डलमुच्यते || १२ || हृदयं कण्ठमूलं तु तालुमूले ललाटके | मूर्ध्वस्थाने तु संस्थाप्य ध्यायेत् पद्मानि पुष्पवत् || १३ || हृत्पद्मलक्षणं वक्ष्ये विशेषं तु महेश्वर | नाभौ तदूर्ध्वमेवं स्यात् दुमूलं यो मुखम् || १४ || कदम्बपुष्पवत्पद्मं अष्टपत्रं सकर्णिकम् | आधारलक्षणं प्रोक्तं आधेयं च ततः शृणु || १५ || आधेयं यत्प्रसंयुक्तं अधेयी लक्षणं शृणु | इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वके || १६ || सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा | जीवप्राण समायुक्तं तेषु मध्ये तु सञ्चरेत् || १७ || सञ्चरन्ति हि तत्काले आधारेषु च संस्थिते | संयुक्तं योगमाख्यातं संयोगं च समाश्रयेत् || १८ || मूलाधारेऽग्नि संयुक्तं संयुक्तं योगमभ्यसेत् | योगाभ्यास *(?) तद्योगं अग्निलोकमवाप्नुयात् || १९ || हृत्पद्ममध्यमे ध्यात्वा बिन्दुनाद मनुस्मरन् | चतुरङ्गुलमात्रेण दीपाकारं तु चिन्तयेत् || २० || शिरस्योपरि स्मरेन्नित्यं ध्यात्वा मध्ये महेश्वरम् | अणिमा लघिमा चैव महिमा प्राप्तिरेव च || २१ || प्राकारं च त * * * * * * * * * * * (?) | * * * * * * (?) स्थूलरणुमात्र शरीरतः || २२ || प्द्f १७७, प्. ८३२) अणुमात्रं लभेद्यस्मात् अणिमेत्यभिधीयते | सहस्रैव तथा गत्वा मूलवर्ण प्रभेदकम् || २३ || स्वच्छाया लभते स्मार्त समाल्लम्बु समाश्रिता | भूमौ मनोजनं कृत्वा पूज्यतेस्था सहामिभिः || २४ || सर्वत्र पूज्यते यस्मात् सकाम * * * * * (?) | * * * * * * * * * * * * * (?) दाहृता || २५ || प्राकाम्यं च शरीरेषु प्राकाम्यं च विशेषतः | सूर्यादिपवनं प्राप्तं तत्र तत्वमुदाहृतम् || २६ || यद्वच्छिवेन तत्रैव शिवतत्वं विधीयते | शिवसायुज्य सामर्थ्यात् शिवतत्वमिति स्मृतम् || २७ || अणिमादिरष्टसिद्धिर्लभेद्योगी विशेषतः | सालोकादि चतुर्थं च क्रमाद्वक्ष्ये महेश्वर || २८ || सालोकेन च संप्राप्तं सालोक्यं तु विधीयते | तद्देवस्य समीपस्थं सामीप्यमिति चोदितम् || २९ || तत्तद्रूपन्तु लब्धातु सारूप्यमिति विश्रुतम् | ज्ञानात् सायुज्यमेवं तु तोयेतोयं यथा तथा || ३ || एते गुणाप्रवर्तन्ते योगाभ्यासकृतश्रमैः | * * * * * (?)मादाय सर्वदुःखबहिष्कृतः || ३१ || योगाज्ज्ञानं सदास्मृत्य ज्ञानात् सन्मयमादिशेत् | ज्ञानस्वरूपभेदं च हंसमन्त्र समुच्चरन् || ३२ || प्राणिनां मध्यदेहे तु स्थितो हंसः सदाशिवः | हंस एवं पुरानृत्तं हंस एवं तु शक्तिकम् || ३३ || प्द्f १७८, प्. ८३३) हंस एवं परीवाक्यं हंस एवं तु वैदिकम् | हंस एवं परंमुद्रां हंस एवं परात्परम् || ३४ || सर्वदेवस्य मध्यस्थं हंसा इति महेश्वर | पृथिव्यादि शिवान्तं च अकारादिश्चवर्णकान् || ३५ || ग्रढान्तं हंस एवं तु मात्रकैति व्यवस्थितम् | पृथिव्यादि शिवान्तं च अकारादिश्च वर्णकान् || ३६ || मात्रागर्भं ततो मन्त्र नभ्रदृश्यं तदृश्यवत् | हंस मध्येति नौपम्ये मध्यदेह व्यवस्थितः || ३७ || दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् | सदासमाधि कुर्वीत हंसमन्त्र मनुस्मरन् || ३८ || निर्मल स्फटिकाकारं दिव्यरूपं मनोपमम् | मध्यदेहे परं हंसं ज्ञानमुद्रास्वरूपकम् || ३९ || इति मकुटाख्ये महातन्त्रे प्राणायामविधिपटलः || प्द्f १७९, प्. ८३४) || आचार्यलक्षणविधिपटलः || आचार्यलक्षणं वक्ष्ये शृणुष्वेव महेश्वर | ऊर्ध्व शैव कुलेजातो न च गो गुरु संस्थितः || १ || शिवशास्त्रार्थ तत्वज्ञः शिवज्ञान विशारदः | सर्वावयवसंपूर्णः सर्वलक्षण संयुतः || २ || शिखि वा मुण्डकेशीवाश्मश्रुरोमादिवर्जितः | गृहस्थश्चोत्तमो विद्यात् भौतिकं ब्रह्मचारिणः || ३ || क्रियादि ज्ञानपर्यन्तं एकतन्त्ररधश्शुचिः | क्रियायानि पुरा कृत्वा सर्वदाय समन्विताः || ४ || आचार्यो महाशास्त्रानि निपुणोऽत्र न संशयः | तदभिप्राय तत्वज्ञः आचार्यं च प्रकल्पयेत् || ५ || अशास्त्राणां अयोगीनां अङ्गहीनां च प्रच्युताम् | नास्तिको मन्दस्वारङ्गविशाक्षज्ञानहीनकाः || ६ || विषमातुरकर्माणो बालाश्च परदारणः | सन्यासिनस्तथा तच्चित्ताश्चान्न व्रतेस्थितान् || ७ || परापवादापश्शीला निन्दकाश्चाति तर्ककाः | अतिदीर्घा अतिह्रस्वा अतिस्थूला कृशास्तथा || ८ || विकटदन्तश्चात्रनखा विकटपादश्चचापलः | विशिष्टा बहुभूयात् कर्णिलेहात्रव्येकच्य कुकजरडा || ९ || बलहीनात्मका दृष्टा वैदिकाचारदुष्टका | अत्याचारा अङ्गहीना वर्जनीयस्तुते सदा || १० || अतिमोहेन कुर्वन् तीर्थान्निध्यं च कदाचन | आचार्यलक्षणं प्रोक्तं ऊर्ध्वचक्रं ततः शृणु || ११ || इति मकुटतन्त्रे आचार्यलक्षणविधिपटलः || प्द्f १८०, प्. ८३५) द्विगुणं रोपयेदन्ये पञ्चाहे शान्तिहोमकम् | दशाहे स्नपनं कुर्यात् मूलमन्त्रं शतं जपेत् || १ || मूर्तिहोमं ततः कृत्वा मध्यमासविहीनके | मासैक स्नपनं कुर्यात् मूर्तिहोमं तु कारयेत् || २ || मासादर्धे दिशाहोमं कारयेत्तु विचक्षणः | निवेद्यादि विहीनेषु क्षुब्दाधाजायते नृणाम् || ३ || सन्ध्यैकेतद्विहीने तु बन्धेशनशतं जपेत् | द्विगुणां दापयेदन्ये देवयत्त्रेतिमन्त्रतः || ४ || सन्धि द्वयविहीने च शिवेनाष्टोत्तरं शतम् | हुत्वा जप्त्वा क्रमेणैव स्नपनं कारयेत् ततः || ५ || पञ्चाहे स्नपनं शान्तिहोमं विशेषतः | दशाग्रेह विहीने तु स्नपनं मूर्तिहोमकम् || ६ || अर्धमासविहीने तु स्नपनं कारयेत् ततः | शान्तिहोमं तु विधिना प्रभूत हविषं कुरु || ७ || एकमासे दिशाहोमं स्नपनं तत्र कारयेत् | मासादूर्ध्व विहीने तु संप्रोक्षणमथाचरेत् || ८ || प्रागेवा *(?)श्चितं द्रव्यं यत्काले तु विहीनकम् | ततस्त त्रिगुणीकृत्य शिवाय विनिवेदयेत् || ९ || अदृष्टन्त तथाऽर्घोष्ठान्नस्वरोमादि दृश्यते | तराष्टं च दूषणोत्पत्ति तदुव्यन्तुव्ययोह्य च || १० || पञ्चगव्येन संस्थाप्य पञ्चब्रह्ममनुस्मरन् | शान्तिहोमं ततः कुर्यात् पूर्ववत् पाचयेच्छुभम् || ११ || प्द्f १८१, प्. ८३६) पूजयेत् तु विशेषेण हृदयेन निवेदयेत् | सन्धाति क्रमणे प्राप्ते शत्रुभिर्भयमादिशेत् || १२ || शान्तिहोमं ततः कृत्वा जपेत्पाशुपदादिकम् | व्यतिक्रमेण मन्त्राणां तत्सर्व*(?) प्रभावयेत् || १३ || त**(?)न्त्र मनुस्मृत्य हुत्वा जप्त्वा शतं शतम् | नैवेद्य स्थापने काले लङ्घनेपि नरैस्तथा || १४ || दुर्भिक्षं जायते भूमौ शेषं निर्मलमुच्यते | तद्रव्यं वर्जयित्वा तु पश्चात् पक्वं निवेदयेत् || १५ || लिङ्गप्रतिमयोर्मूर्ति पृष*(?)ते तु संभवेत् | जायाज**(?)न प्रो******(?)तं जपेत् || १६ || तत्तद*(?)र्क मन्त्रेण पुष्पं शिरसि वर्जयेत् | स्नपनाङ्गविहीने च महामारी प्रवर्तते || १७ || अस्त्रेणैव शतं जप्त्वा प्रतनिसग्रहत् | स्थापितैः कलशैर्भिन्नैः स्फुटिते पतिते तथा || १८ || नवपरिग्राह्य स्थापयेत् पूर्ववत् सुधीः | * * * * * * * * (?) सुप्रसन्नेन रत्नका || १९ || दुकूल वसनादेवी करण्डमकुटोज्वला | वरदाभयसंयुक्ता पाशाङ्गुश धरान्विता || २० || द्विभुजा वा द्विनेत्रा व प्रलम्बित करान्विता | पद्महस्तादि शान्ता च देवी च कनकप्रभा || २१ || शुक्रोफलकरा धारा शूलपाशकराऽपि वा | ***(?)ञ्चापि वा शङ्खं चक्र ह*(?)तु षड्भुजा || २२ || प्द्f १८२, प्. ८३७) दंष्ट्रा करालवदना पञ्चास्या दशदोर्युता | तेजोर्चास्त्र समायुक्ता देवालिङ्गन तत्परा || २३ || देवोत्र संस्थिता वाऽपि स्नानकासन संयुता | प्रलम्बा ल*(?)पा*(?)बालम्बिता परिवादका || २४ || दे**(?)वनुसविता वा ***(?) प्रकल्पिता | श्यामाश्वेनाथवक्ता च साधके च न पातत || २५ || रक्तवस्त्रधरं देवं भिन्नांजनसमन्ततः | अष्टबाहु समायुक्तं ऊर्ध्वकेशं स्वदंष्ट्रकम् || २६ || स्वष्टदष्टा धरोष्टं च दीप्ताऽग्नि समलोचनम् | किङ्किणी मालयेवेष्टा पादनूपुर संयुतम् || २७ || स* *(?)प* *(?)द्वायु * * * * * * * * (?) | * * * (?) ज्ञोपवीतं च रक्तपुष्पोपशोभितम् || २८ || मेखलोदरबद्धं च कण्ठे शिरसि बन्धनम् | कर्णयोरुभयोश्चैव हस्तयोरुभयोरपि || २९ || वामपादौ च पार्श्वौ च नागभूपाश्चतुर्दश | लूतवृश्चिकसंयुक्तं कर्णमाला विभूषितम् || ३० || पङ्काजन मध्य**(?) त्रिणेत्रं रुद्ररूपिणम् | शूलं च वेतालं खड्गं चैव तु दक्षिणे || ३१ || डमरुकं दक्षिणे हस्ते वामे वै शूलमध्यकम् | घण्टा खेटकपाशं च पादनूपुरसंस्थितम् || ३२ || सर्वशत्रु क्षयकरं सर्वोग्रहयरूपिणम् | एवं रूपधरं देवं अघोरास्त्राधि दैवतम् || ३३ || प्द्f १८३, प्. ८३८) सर्वलक्षण संयुक्तं सर्वाभरणभूषितम् | चतुर्भुजं त्रिणेत्रं च जटामकुटमण्डितम् || ३४ || स्थितमुद्वायतं चैव चन्द्रार्धकृतशेखरम् | व्याघ्रचर्माम्बरं चैव कृष्णा परशुधारिणम् || ३५ || पादागमभयं चैव सर्वाभरणभूषितम् | भस्मव्यापाण्डुरङ्गः शशिधरमकुटोज्ञानमुद्राक्षमालाहव्यावृस्तैर्विरात्म कमलधो योगपट्टाभिरामः | व्याख्यापीठे निषण्णां मुनिभिरपि परिस्सेवितं सुप्रसन्नं ध्यातः कृत्तिवासास्सततमवतुवोदक्षिणामूर्तिरीशः || ३६ || कृतयुगेश्वेतवर्णं च त्रेतायां रक्तमेव च | द्वापरे पीतवर्णं च श्यामवर्णं कलौ युगे || ३७ || पौष्टिकं सितवर्णं च सुरक्तं चाभिवृद्धिषु | पीताभं श्रीकरं प्रोक्तं श्यामाभं सर्वसिद्धिदम् || ३८ || स्त्री नपुंसककारादि तीक्ष्णदंष्ट्रोत्कटानना | पादादिनाभिपर्यन्तं नपुंसकमिति स्मृतम् || ३९ || नाभ्यादि कण्ठपर्यन्तं स्त्रीरूपन्तु प्रवक्ष्यते | कर्णादुष्णीषपर्यन्तं पुल्लिङ्गं तु प्रकीर्तितम् || ४० || नपुंसकं तु ब्रह्मांशं विष्ण्वंशं स्त्रीतिरुच्यते | पुमान् रुद्रांशरूपं स्यात् एवं सङ्कल्पये त्रिधा || ४१ || स्थानमुद्गं गतं श्रेष्ठं श्वेतपद्मोपरिस्थितम् | चतुर्भुजं त्रिणेत्रं च शङ्खचक्रपदान्वितम् || ४२ || प्द्f १८४, प्. ८३९) श्वेताभं रक्तवर्णं च रक्तोष्ठं च सहेहनम् | एतद्रूपं स्मरेन्नित्यं सिद्धि मुक्तिप्रदं भवेत् || ४३ || पञ्चमुखतुल्यं शशिवक्त्रगुणनेत्रं अष्टपदे वेतददरं पिङ्गल स्यात् | पन्नयुत वक्षहरिताङ्गुलि रतोर्ध्वं टङ्कमपि दक्षिणमृगं दहनवामे || ४४ || दुष्टारक नखाभासं बालरूपं द्विनेत्रकम् | मूर्ध्नित्वलकबृन्दं च द्विभुजं शान्तलोचनम् || ४५ || कपालं वामहस्ते तु इक्षुदण्डं च दक्षिणे | पादनूपुरसंयुक्तं छन्नवीरं च भूषितम् || ४६ || एवं ध्यात्वार्चयेद्देवं सदा मृत्युंजयो भवेत् | प्द्f १८५, प्. ८४०) || कालिकार्चनविधिः || कालिकायर्चनं चैव वक्ष्येहं सुखसाधनम् | शैविकं शान्तिकं प्रोक्तं अर्चनं द्विविधं तथा || १ || शैविकं सप्तमात्रारः शान्तिकं कालिकार्चनम् | प्राकारं चैव प्रासादं प्रासादाश्रेष्ठपार्श्वयोः || २ || गर्भगेहे विशेषेण पञ्चावरणमुच्यते | आलयस्योत्तरे द्वारे दक्षिणे पश्चिमे तथा || ३ || शुद्धशैवस्तु संपूज्य शिवालयसमीपके | बहिर्ग्रामस्य कर्तव्यं स्थापनं तु प्रकल्पयेत् || ४ || स्प्रष्टिकार कृतद्देशं पूर्वानुष्ठानमाचरेत् | पूर्वाधासनवाक्यं च दाक्षिण्यं पुत्रवर्धनम् || ५ || पश्चिमे इष्टकाम्य स्यात् उत्तरे शत्रुनाशनम् | सर्वशान्तिकरं पुण्यं सर्वपाप विनाशनम् || ६ || आलयस्य च रक्षाणां अमलं शुद्धशैवकम् | ग्रामशान्तिं विशेषेण सर्वभीति विनाशनम् || ७ || चोरस्य कलहस्यैव राष्ट्रदुर्भिक्षनाशनम् | विप्राणां नृपविट्च्छूद्रमायुः श्रीपुष्टिवर्धनम् || ८ || ज्वररोग प्र**(?) सप्तमा **(?) प्रपूजनम् | ब्रह्माणीचेश्वरी चैव कौमारी विष्णुशक्तिका || ९ || वाराहिनी च इन्द्राणी चामुण्डी सप्तमातरः | वीरभद्रं तथापूर्वे विघ्नेशं चैव पश्चिमे || १० || ब्रह्माणी पीतवर्णा स्यात् हंसवाहनकं तथा | चतुर्भुजां चतुर्वर्णां प्रतिवक्त्रं त्रिलोचनाम् || ११ || प्द्f १८६, प्. ८४१) वरदाऽभयमेवोक्तं अक्षमालावकुण्ठिका | जटामकुटसंयुक्तां सर्वाभरणभूषिताम् || १२ || ब्रह्माणी लक्षणं प्रोक्तं ईश्वरी लक्षणं शृणु | शुक्लवर्णं तथोक्तं स्यात् चतुर्भुजं त्रिणेत्रकम् || १३ || एकवक्त्रं तथा चैव जटामकुट***(?) | *(?)वराभयमेवोक्तं हारिणी टङ्कधारिणम् || १४ || वृषवाहनकं कृत्वा रत्नाभरणभूषितम् | * * * * (?) समोपेतां सिंहवाहन्मेव च || १५ || हलम् तु मुसलं चैव अभयं वरदान्विता | वाराहीलक्षणं प्रोक्तं इन्द्राणीलक्षणं शृणु || १६ || द्विनेत्रां चतुर्भुजां चैव अभ* * * * * (?) | * * * * * * * * * * * * * * * * (?) || १७ || सस्त्नमकुटोपेतां वाहनं गजमेव च | इन्द्राणी रूपमाख्यातं चामुण्डालक्षणं शृणु || १८ || चतुर्भुजां त्रिणेत्रां च कालमेघस्य वर्णकम् | दंष्ट्रा करालवदनां व्याघ्रचर्माम्बरैर्युतम् || १९ || टंकं त्रिशूलहस्ता च कपालहस्तमृगान्वि | * * * * * * * * * * * * * * * * (?) || २० || शिरोमाला समायुक्तां प्रेतवाहनमेव च | सप्तानां चैव * * * (?) स्तनोन्नत सुयौवनाम् || २१ || चामुण्ड्याकृतिराख्याता वीरभद्रं तथा शृणु | चतुर्भुजं त्रिणेत्रं च शिखाकोटि समुज्वलाम् || २२ || रक्तवर्ण समायुक्तं वीणाहस्त समन्वितम् | दिव्यवस्त्र समा* * * * * * * * * * (?) || २३ || प्द्f १८७, प्. ८४२) * * * * * * * * * * * * * * (?) वच | मातॄणां सव्य पार्श्वे तु वीरभद्रं प्रपूजयेत् || २४ || वीरभद्रं तथा पूज्य पश्चिमे गणपतिं तथा | त्रिणेत्रं चतुर्भुजं चैव महाक्रोधं तथैव च || २५ || पीतवर्णांशु कालेवमाला भ* * * * * (?) | **(?)नं देवदेवं च ध्यायेद्देवं च नान्यधी || २६ || हरिद्रागणरूपं तु ध्यात्वा सम्यक् प्रपूजयेत् | विशेषात् सप्तमातॄणां द्विविधं चैव पूजनम् || २७ || अथवान्य प्रकारेण विशेषे * * * * * (?) | *(?) अम्बिका तथा चैव मात्रकासंत एव च || २८ || सप्तमात्र द्विपार्श्वे तु वीरभद्रो विनायकम् | दक्षिणे वीरभद्रं च विघ्नेशं वामपार्श्वके || २९ || सर्वे चतुर्भुजण्म् कृत्वा अथवा द्विभुजं तु वा | सर्वेष * * * * * * * * * * * * * (?) || ३० || * * * * * * * * * * * * * (?) लान्वितम् | चामुण्डी तथा कृष्णं उग्ररूपसमन्वितम् || ३१ || शङ्खघोष महा चैव शङ्खमुद्रां तु धारयेत् | सर्वे तु ऊर्ध्वहस्तं स्यात् वमहस्तं तथोत्तरे || ३२ || ऊर्ध्वहस्तस्य वर्गन्तु ऊरुहस्तेक * * * (?) | * * * * (?) शिरोमालस्य * * * * * * * (?) || ३३ || * * * * * (?) सर्वेषां नन्द्यानां उत्तरानन् | दक्षिणे नागमेवोक्तं सर्ववक्त्रेषु भावयेत् || ३४ || प्द्f १८८, प्. ८४३) पीतं शुक्लं तथानीलं रक्तं श्यामं तथैव च | मेघवर्णं तथा कृष्णं मातृणां वर्णमेव च || ३५ || पूर्वस्याभिमुखं कृत्वा ***(?) दक्षिणे यजेत् | शा * * * * * * * * * * * * * * * (?) || ३६ || * * * * * * * * * * * (?) ज समन्वितम् | द्विहस्तमूर्ध्वहस्तं च अपरं चोरुहस्तकम् || ३७ || अथवाभयं वरदं मृगटङ्कस्य धारयेत् | जटामकुट संयुक्तं सर्वाभरणभूषितम् || ३८ || एवं ध्यानं समादाय दक्षिणेन तु समर्चयेत् | गणेशं स्फटिकवर्णं च चतुर्भुज समन्वितम् || ३९ || * * * * * * * * * * * * * (?) धारयेत् | वामे ऊरुतलं हस्ते केतकी पुष्प धारयेत् || ४० || वीरासनं तथा कृत्वा वामपार्वे तु चार्चयेत् | इष्टिकं वामरोलं * * * * * * * * * (?) || ४१ || अथ क्रमेण संयुक्तं शास्त्रदृष्टेन कर्मणा | गन्धपुष्पादिभिश्चैव स्वना * * * * * * (?) || ४२ || * * * * * * * * (?) पूजयेत् पञ्चगव्यकम् | मातॄणां पूजनं प्रोक्तं सर्वशान्तिकरं शुभम् || ४३ || पञ्चपातकनाशं तु पञ्चामृतैश्च पूजयेत् | स्नाप्यगन्धाम्बुना चैव सर्वगन्धैः सुपूजयेत् || ४४ || क्षीरं फलगुलं चैव मिश्रयेद्भूत * * * (?) | * * * * * * * (?) रं द्वादशाक्षं तथैव च || ४५ || प्द्f १८९, प्. ८४४) अभयं खड्गकं चैव शूलं चैव तु चक्रकम् | दक्षिणे तत्कृतं प्रोक्तं कर्मणा वायुनिर्भवेत् || ४६ || घृतडाडिम खेटं च तालं पाशं च वेत्रकम् | वरं शक्तिं च दण्डं च मयूरप्रष्ठ सु * * (?) || ४७ || पीतं शक्तिं च घण्टाभयमथकमलं कुक्कुटं प्रासदण्डं | विभ्राणां वामभागे वरमभयधनुर्बाण टङ्कांश्च हस्तैः || ४८ || षड्वक्त्रं द्वादशाक्षं शखणभवं पाणिभिर्वा चतुर्भिः | वक्त्रैक्ये शक्त्यभीम्यां भजतवरयु * * * (?) || ४८ || रक्तपानं तथा प्रोक्तं शान्तिकं पूजयेच्छृणु | चामुण्डाकृतरूपायलक्षणं वक्ष्यतेऽधुना || ४९ || ग्रहग्रहपिण्डा च * * * * * * * * * (?) | सर्वशत्रुक्षयकरं सर्वक्लेऽऽष विनाशनम् || ५० || कौटस्तम्भकरं * * * * * * * * * * (?) | * * * * * * * * * * * * * * * (?) रः || ५१ || अपमृत्युहरं चैव आयुरारोग्यवर्धनम् | धनदान्य समृद्धि स्यात् पुत्रश्रीकीर्तिव्र्धनम् || ५२ || पाद्यमाचमनं चार्घ्यं युक्तं च व्यञ्च साधयेत् | गन्धपुष्पं च माल्या च धूपं च मुखशोभनम् || ५३ || ताम्बूलं * * * * * * * * * * * * * (?) | * * * * * * * * (?) गन्धपुष्पं च धूपयेत् || ५४ || स्थण्डिले मण्डले पीठे पटे वा हृदयेऽपि वा | परशासनं पद्मं षोडशैव दलन्तथा || ५५ || प्द्f १९०, प्. ८४५) तन्मध्ये चाष्टपद्मायां वृत्तं चैव दलाय च | षट्कोणं चैव तन्मध्ये प्रस्तामण्डलक **(?) || ५६ || ***** (?) मायुक्तं भद्रकालीं न नन्दिका | कालीभेदीस्वरूपं तु षड्भुजं च विशेषतः || ५७ || काली चतुर्भुजं कृत्वा कराली द्विभुजन्तु वा | चामुण्डा सर्वरूपाय उग्ररूपं तु धारयेत् || ५८ || चामुण्डी कालिभद्री च कालि चैव ****(?) | श्यामवर्णं च सार्धेन्दु मकुटोज्वलम् || ५९ || नूपुरं छन्नवीरं च रोममाला विभूषितम् | भुजाष्टक समायुक्तं पीनस्तनमनाय च || ६० || पादद्वयं तु विस्तीर्णां दंष्ट्राकरालवक्त्रकाम् | शूलं डमरुकं खड्गं चापं चैव तु धारयेत् || ६१ || * * * * * * (?) ख्यातं काली भद्रीं च वक्ष्यते | कालमेघस्य वर्णं तु षड्भुजं चैव कथ्यते || ६२ || शूलं डमरुकं खड्गं बाणं वामस्य पार्श्वयोः | महाकाली समाख्यातं काली भद्रीं च वक्ष्यते || ६३ || कालमेघस्यवर्णं तु षड्भु * * * * * * (?) | कालीभद्री समाख्यातं काली चैवायुनाय च || ६४ || काली चतुर्भुजं चैव नीलवर्णं प्रशस्यते | शूलं डमरुकं सव्ये कपालं पाशटङ्करे || ६५ || काली चैव समाख्यातं कालिन्दी च ततः शृणु | दु * * * (?) कर्णिकाभासां भीम * * * * * (?) || ६६ || प्द्f १९१, प्. ८४६) द्विभुजं चैव कपालं शूल धारयेत् * * * (?) | कालरात्रि स्वरूपायां श्मशानं देवमर्चयेत् || ६७ || पादादिमध्यपर्यन्तं ब्रह्माणं तस्य पूजयेत् | मध्यादि गलपर्यन्तं विष्णुनान्तं सुपूजयेत् || ६८ || गलादि मस्तकपर्यन्तं * * * * * * * (?) | शक्तिरुत्पत्यशैवार्थं शक्त्यैरुत्पद्यते शिवः || ६९ || शक्तिश्शिव कुले जातः शिवशक्तिस्समूर्तिते | ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः || ७० || पञ्चमूर्ति स्वरूपायां चामुण्डाकृतिरुच्यते | इच्छाशक्तिः क्रिया * * * * * * * * * * (?) || ७१ || * * * * * * * * * * * * * * (?) भवेत् | ब्राह्मी मूर्ध्नि तु विन्यस्य ललाटे तु महेश्वरीम् || ७२ || गौरी च कर्णकेन्यस्य बाहुद्वये तु वैष्णवीम् | वाराही हृदये चैव इन्द्राणी लिङ्गमूलके || ७३ || पादद्व्ये च चामुण्डीं सर्वाङ्गं लक्ष्मिमि विन्यसेत् | * * * * * * * * (?) पूजां पूर्ववदाचरेत् || ७४ || प्द्f १९२, प्. ८४७) ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी देव्याग्रादिष्ट कोणषट् || ७५ || सर्वादीनां तु संपूज्य चामुण्डीमयमे यजेत् | जम्भीतिस्तम्भिनी चैव शा* * * * * * * (?) || ७६ || * * * * * (?)शक्तीनामष्टपत्रं दलाग्रकम् | तद्बहिष्षोडशांशैव पत्रं षोडशाक्षरम् || ७७ || ग्रे*(?)मलीमली चैव कालदूतिकरांगि च | पाशा च मासि संयुक्तं विपुशाच्छेदिकं तथा || ७८ || कोटि राक्षि विशालाक्षि प्रष्ट* * * * * * (?) | *(?)भोद्भवन्तु संयुक्तं उद्भवं चैव कारयेत् || ७९ || सुमुखी विमुखे चैव षोडशे दलसंयजेत् | विजायीचाविजायी च विजयीत्येव जृम्भिणी || ८० || अरजी च पराजी च नदीभद्रवसुस्तथा | देव्याग्रादिषु संपूज्य * * * * * * * * (?) || ८१ || द्यमनाच मनुं चार्घ्यं गन्धपुष्पं च धूपकम् | मधुमांसफलानां तु नैवेद्यं चैव पूजयेत् || ८२ || प्द्f १९३, प्. ८४८) दर्पणं मुखवासं च चित्रचामरकं तथा | गीतवाद्यं च नृत्तं च सर्वोपचार पूजयेत् || ८३ || श्वेतं कुङ्कुमवर्णाभं द्विभुज * * * * * (?) | * * * * * * * * (?) द्वारारे बलिपीठके || ८४ || आकाशमातरीं चैव भूतमातमातरमेव च | देवमातरकं चैव पैशाचमातरस्तथा || ८५ || अनुक्तमातरं चैव बलिपीठे बलिन्ददेत् | अज कुक्कुटमहिषां च अश्वगजमानुषा च मु *(?) || ८६ || * * * * * * * * * * * (?) रोग्यवर्धनम् | प्रेतवाहनकं चैव उपास्यार्चनकं तथ *(?) || ८७ || वेतालध्वजसंयुक्ता स्वभूतं च पिशाचयेत् | सर्वेषां सेवितं चैव चामुण्डान्यं समर्चयेत् || ८८ || सर्ववश्यकरं पुण्यं सर्व * * * * * * (?) | * * * * * * * * * (?) शक्त्यादि पूजाविधिपटलः || प्द्f १९४, प्. ८४९) अघोरवक्त्रामूर्ध्वे च पीतवक्त्र चतुष्टयम् | कोलद्वीपाभगकूडं महिषाडपकामतः || १ || प्रतिवक्त्रान्ति ***(?)मर्धचन्द्राङ्गमालिनीम् | उद्वीक्षणां रक्तदं ********* (?) || २ || ************* (?) वा शिवाम् | सहस्रदर्पाभरणां रक्तपुष्पानुलेपनाम् || ३ || अतिरक्तां केशत्रां जिह्वामा***(?) कासनाम् | ज्वलत् संहारकालाग्निमूर्ति भैरवरूपिणीम् || ४ || सिंहताक्षाभि महिषाशालादि ***** (?) | ** (?) स्यात् खेटकटकं कुशोपाश कपालकम् || ५ || गानारा परशु नयनस्तां वामहयेवराः | सदामेनरैर्वामेरुद्वतैः करपङ्कजैः || ६ || ऊर्ध्वन्नग्नभिन्न *****(?) न्दधधि क्रमात् | संहारचक्रस्थाम्याजाधातु प्र***** (?) || ७ || *** (?)क कोटि कोटि भैरवी भैरवादृतैः | सदावस्वासव्यापूर्णं कपालधरपाणिभिः || ८ || पञ्चवक्त्रै प्रतिमुखं त्र्यक्षं दंष्ट्ट समन्वितम् | रसासृक्रमणादास्तिजन्यप्राणरतोन्विषाम् || ९ || दशायुधैरावरणै द******* (?) | आपदुद्धारणी भक्तान् कालरुद्रादि भैरवीम् || १० || नन्दरुद्राक्षरीं रुद्रां नेत्रदशाक्षरीम् | सद्भुक्तस्य सदाशीघ्रं सर्वकाम फलप्रदम् || ११ || प्द्f १९५, प्. ८५०) द्वेषणानां शिरोमज्जनिकृत्व च ****(?) | एकद्वष्ट सहस्रान्तं वर्ण****** (?) || १२ || **** (?) पादसन्ध्यान् वदन्ती मनुजं भजे | लेपन्त विरजं स्त्वं जगच्चोगद्रोनुखिलेदन्नरा | सर्परू*(?)पुमनुभ्रसर्पप्रोत जपोपवीत मुक्ता || १३ || कग्रै कगैरंभायस्वय स्वाहान्यकालरुद्राग्निभै भैर्वमहाज्वरसर्वसंहार भैः | प्रचण्डभैरवि आनन्दचण्डभैरवोग्र चण्डभैरव क्रूरचण्डभैरव सर्ववाहनस्य स्वाहा || सर्वायुधेभ स्वाहा | देविपुत्र कोटि कोटि वटुक ********** (?) | लिगुष्णीगुष्णी स्वाहा | चण्डिकान्नमः कसुपिशाचे सर्वप्रियाय सर्वजनमोहाय ज्वलज्वल प्रज्वलप्रज्वल सज्जनस्य हृदयाय मम वशं कुरु कुरु स्वाहा | ईषै ईरक्षे ओं नमो भवतीं वार्तालीं रुद्राग्निं भैरवीं सर्वसंहाररूपरीं भृत्यं सर्वशत्रु क्षयकरीं रंभ्रों सभूतपिशाचिनीरिन्द्रो ज्वालामालिनीं रंधं ईं ठ ठ रं ठ ठ धु ******** (?) ********* (?) मन्त्रां जरन् | स्योमात्रं रंत्रों रं हौं रं त्रों रं हौरवमंन्त्रौरं कौं गन्धरं आं त्वषिरं आरूषिरं प्द्f १९६, प्. ८५१) विद्वेषि रं क्षौं ग्रों क्लीं भ्ररं क्षौं रं हृहैं सर्वदुष्टानां सर्पश्च **(?)त् चित्त च क्षुमु ***************** (?) कुरुकुरु षं टल्यं रं सप्तां ई ठं रं व ठ क्षं रं हौं रिन्नो रं क्षो रं क्षौ रं स्रोरं स्वाहा रस्त्रें रं रिं रं श्रों नमः | अष्टत्रिंशत्कलान्यासं वक्तृमूर्ध्निनिपञ्चसु | पञ्चवक्त्र हृदये कर्णे स यो नाभि कुक्षौ ***(?) धेस्थि चौकटि तटे पार्ऽऽष्वद्वयो हस्तौ नाडिकलकबाहुकौशि कलान्वष्टत्रिंशकाः || इति मकुटाख्ये महातन्त्रे भैरवपूजाविधिपटलः || प्द्f १९७, प्. ८५२) प्राक्सूत्रं वेदसूत्रं स्यात् उदक्सूत्रं तथैव च | ***(?) शिवगोष्ठं च प्राचीकोष्ठं सदाशिवम् || १ || दक्षिणेपि सगोष्ठं च उत्तरे पुरुषकोष्ठकम् | पश्चिमेकालकोष्ठं च कोष्ठपूजां समाचरेत् || २ || सुप्रतिष्ठं सुशान्तं तेजोमृत पात्रकम् | रत्नेन पात्रमि * * * * * * * * * * (?) || ३ || प्रस्थपादघृतं प्रोक्तं प्रस्थार्धं दधिरुच्यते | त्रिपादं क्षीरमित्युक्तं चतुष्पन्दञ्चगोमयम् || ४ || षट्पादं चैव गोमूत्रं पञ्चगव्यायमं स्मृतम् | क्षीरकुम्ंभं च मध्ये तु दधिपूर्वे तु विन्यसेत् || ५ || दक्षिणेघृतविन्यासं गोमूत्र * * * * * (?) | * * * * * * * * * * * * * (?) संयुतम् || ६ || नैऋत्यामलकं स्थाप्य वायव्यां रजनी तथा | प्रस्थं प्रस्थद्वयं चैव कुडुबं कुडुबद्वयम् || ७ || अथवा कुडुबार्धं वा स्वर्णपात्रैर्विशेषतः | मधुम्ध्येति संस्थाप्य क्षीरमाग्नेय विन्यसेत् || ८ || नैऋते दधिविन्यस्य वा * * * * * * * (?) | * * * * * * * * * * * * * * * (?) यत् || ९ || मधुना ब्रह्मदैवत्यं श्रीदेवीत्विक्षुसारकम् | क्षीरं तु स्कन्द दैवत्यं दधिं गणपतिं तथा || १० || घृतमन्त्रस्य दैवत्यं अधिदेवं प्रकीर्तितम् | स्थण्डिलं कारयेच्छालिं प्रत्येकं प्रस्थमाचरेत् || ११ || प्द्f १९७, प्. ८५३) तदर्धै स्थण्डिलै * * * * * * * * * * (?) | || ***(?)मृतविधिपटलः || प्द्f १९८, प्. ८५३) || अन्त्येष्टिविधिः || एकमासे द्विपक्षे तु रात्रावधिकं परम् | तद्रात्रौ तु शिवं पूज्यं तत्फलं मग्नि मे निशि || १ || द्विपक्षेमेवमेवस्यात् पूर्वरात्रौ शिवं यजेत् | प्रमादादत्वपक्षे तु राजराष्ट्रं विनश्यति || २ || गुरुसा * * * * * * * * * * * * * (?) | * * * * * * * * (?) सकला शुद्धिवर्जिता || ३ || कृते याज्ञीय वृक्षेण तदवस्त्रादि वेष्टयेत् | याने भेर्यादिनिर्घोषै समारोप्य शवं यजेत् || ४ || दीक्षितौ स्तुल्यजातीयैः अपसव्योपवीतकैः | जपग्निश्चास्त्रमन्त्रैर्वा बहि * * * * * * (?) || ५ || * * * * * * * * * * * * * * (?) न्तिके | कुर्यादेककरं कुण्डं चतुरश्रवमेखलम् || ६ || षडङ्गुलोच्चतं वायौ तम्मूला स्थण्डिलादिशी | आग्नेययां कुण्डितं कुर्यात् चिताखातं च दुष्करम् || ७ || हस्तं द्वितीयविस्तीर्णं अष्टाङ्गुलभीरकम् | कुर्यादि तृतीया * * * * * * * * * * (?) || ८ || ***** (?) तोयाम्ये उपविश्योत्तरानर | अजातादि क्रमेणैव विदध्यात् सकलीकृतम् || ९ || प्द्f १९९, प्. ८५४) कृतान्त्रर्यजनो त्राणां या कुरुक्ष्वा प्रदक्षिणम् | अस्त्रवर्धनकां कृत्वा सिचेंदुर्व्यं तदंभसा || १० || सद्यादिभिर्विशेषार्घ्यं शिवहस्ता * * * * (?) | * * * * * * * * * * * * (?) हरेत् || ११ || षड्भिस्सूत्रैश्चितं वास्तु पञ्चविंशति कोष्ठकम् | कृत्वाधि व्याधिरूपेण रजसाचनबिभ्रतीम् || १२ || शिवं व्योम्ना तथैशान्याचादीन् दिक्षु कोष्ठके | बलिं दत्वास्त्र वर्धन्यां पाशुपतं यजेत् || १३ || दशदिक्षु विलोमे * * * * * * * * * (?) | * * * * * * * * (?) दियुक्तेन्वस्यदिनं वि || १४ || ऐश्वर्यादि क्रमेणैव मनोन्मन्यादिना तथा | शिवमावाह्य सद्याद्यैः सकलीकृत्य पूजयेत् || १५ || अथोग्र नरा जप्त्वा नग्न्यादिक्षु प्रदक्षिणम् | शुक्लकाष्ठान्न तु क्रूरे रक्तवस्त्रेण वेष्टयेत् || १६ || याज्ञि * * * * * * * * * * * * * * (?) | *(?)ष्पदर्भैस्तिलोपेता वस्त्रमाजेन पूजयेत् || १७ || मृद्गोमयांबुयेतन्नं उद्धूल्यपि*(?)विष्टरेत् | धृत्वा कौपीन वस्त्रादि दत्वा कृत्वादि संस्कृते || १८ || धरानाशोगते तस्मिन् आदिवाहीति संश्रिता | महाजालप्रयोगेण जीवं हृदयं वं**(?) || १९ || देहं ततोन्यस्या शक्त्यादितादिकालिका | पूर्वोक्तेषु शवं स्वाहादि पूर्ववत् || २० || प्द्f २००, प्. ८५५) **** (?) न्निधानाय मूलेन जुहुयाच्छतम् | नासिसन्ध्याय दीक्षोर्ध्वा चाव्यो वैकल्यशुद्धये || २१ || निवृत्यादि कलायोगं वह्निमध्ये निवेशनम् | * * * * * * * * * * * * * * * (?) नम् || २२ || आसनं जन्मयोज्यत्वं भोगं च लयमेव च | निष्कृती पाशविश्लेषं चैव दाहौ यथाविदि || २३ || प्रायश्चित्तं ततोत्क्षेपं कर्मास्यान्यानिधानि च | देशकालादि संपक्तौ दीक्षावत् सर्वमाचरेत् || २४ || उपस्थाप्य कला यद्वा * * * * * * * * (?) | * * * * * * (?) हुत्वा कृत्वा दुष्कृत शुद्धयेत् || २५ || पूर्णां दत्वा च मूलेन शिवं विज्ञापयेदिदम् | आदिश्यवापि शुद्धोऽयं उत्क्रामाच्छिवतां व्रजेत् || २६ || वहोरात्मनमादाय योजयेत् परमे पदे | नासि सन्धानपर्यन्तं कृत्वा समधिनस्त *(?) || २७ || * * * * * * * * * * * * * * * (?) जेत् | स्थण्डिलादि लयेरीशं विसृज्यारोप्यसञ्चतौ || २८ || देहेत् स दिग्धनैच्छन्न कुण्डमध्यजनाग्निना | जमितेनौ शिरोदेशे पूर्णां सौम्या न योजयेत् || २९ || त्वमग्ने दक्षिणं कालं काले पपादितान् | ग्रहा * * * * * * * * * * * * * * (?) || ३० || पूर्णां दत्वा नले क्षिप्त्वा स्रुक्स्रुवौ या वधोमुखौ | वामासेस्थालिमादायधारं ब्रह्मे विमोचयेत् || ३१ || प्द्f २०१, प्. ८५६) अप्रदक्षिणमाभृत्य स्वस्थाने कालदीक्षयेत् | पश्चिमाशोधगत्वास्तायाद्व****(?)द्वितम् || ३२ || सकायमस्व * * * * * * * * * * * (?) | * * * * * * * * * (?) कोणेषु कोणेषुकम् || ३३ || मध्ये नैमत वह्निवायु शिवके भूतप्रभालङ्कृत दिक्षु स्तत्पति वर्णभादधिपा पूज्या तथा बाधते | बीजं च ताशयो स्थान दोषाणामपनुत्तये || ३४ || आहुती च त्रयं दिव्यं रुद्रां * * * * * * (?) | **(?)त्वं चात्र शास्त्रेषु वागीशी गर्भयोग्यता || ३५ || || अन्त्येष्टिविधिपटलः || प्द्f २०२, प्. ८५७) रुद्राक्षं उपवीतं च उष्णीषं चोत्तरीयकम् | भस्मं चैवादि शैवानां पञ्चमुद्रा प्रकीर्तिता || १ || ऊर्ध्व चक्रं महारौद्रं शूलचक्रे तु संस्थितम् | ***** (?) वृध्यर्थं रहस्यं मम चात्मकम् || २ || मम विद्यात्मकं गुह्यं नयनं नटनकारणम् | त्र्यक्षरात्मातीतं च त्रिमूर्त्यादिलयात्मकम् || ३ || स च देवस्य बीजेषु वज्रिणच्छक्रमाच्छृणु | चतुष्षष्ठादि बीजेषु षट्त्रिंशत् सस्यबीजकम् || ४ || उक्तबीजोद्भवं पूर्वं * * * * * * * * (?) | * * * * * * * * * * * * * * (?) पिवा || ५ || सहस्रं वा तदर्धं वा शङ्खं वा गुह्यतीश्रिवा | इत्थं पद्मदलं न्यस्त्वा तन्मध्ये मण्डल *(?)यम् || ६ || त्रिकोणमध्ये तु बाह्ये तु षट्कोणं मण्डलत्रयम् | मण्डलत्रय वाह्ये तु त्रिकोणमेकमण्डलम् || ७ || तस्य मण्डल बाह्ये तु पञ्चत्रिंशत् सहस्रकम् | *(?)र्वषामूर्वजालञ्च न्यसेन्नव सुवक्त्रकम् || ८ || ज्वालादिगन्थिकोणेषु बीजां च प्रणवं न्यसेत् | ज्वालामालैकमूलं तु तृतीयन्त्रेण लेखयेत् || ९ || औकार मूर्तिरन्यस्त्वा अङ्कारं दक्षिणे न्यसेत् | अःकारं पूर्वदिन्यस्त्वा * * * * * * * * (?) || १० || * * * * * * * * * * * * * (?) दिन्यसेत् | इकारं मध्यमे न्यस्त्वा ईकारं चोत्तरे न्यसेत् || ११ || प्द्f २०३, प्. ८५८) उकारं मध्येमे न्यस्त्वा ऊकारं चैव दिङ्न्यसेत् | ऋकारं पूर्वदिन्यस्त्वा ऋकारं चाग्नि विन्यसेत् || १२ || ऌकारं मध्यमे न्यस्त्वा ॡकारं दक्षिणे न्यसेत् | अकारे ***(?)न्ते तु त्रिषु त्रिषु च लेखयेत् || १३ || ककारं पश्चिमे न्यस्त्वा खकारं वायुदिङ्न्यसेत् | गकारं मध्यमे न्यस्त्वा घकारं चोत्तरे न्यसेत् || १४ || ङकारं मध्यमे न्यस्त्वा चकारं चैव दिङ्न्यसेत् | छकारं पूर्वदिङ्न्यस्त्वा * * * * * * * * (?) || १५ || * * * * * * * * * * (?) रं दक्षिणे न्यसेत् | टकारं मध्यमे न्यस्त्वा ठकारं नैऋतं न्यसेत् || १६ || वृत्तं बाह्यत्रयं प्रोक्तं वृत्तमध्येक्रमं शृणु | डकारं पश्चिमे न्यस्त्वा ढकारं वायु दिङ्न्यसेत् || १७ || णकारं पश्चिमे न्यस्त्वा तकारं चोत्त*** (?) | * * * * * * * * * * * * * * * (?) सेत् || १८ || थकारं पश्चिमे न्यस्त्वा नकारं दक्षिणे न्यसेत् | पकारं दक्षिणे न्यस्त्वा फकारं शक्ति विन्यसेत् || १९ || षट्कोणस्य तु किणादि लकारं पश्चिमे न्यसेत् | हकारं पश्चिमे न्यस्त्वा मकारं मध्यमे न्यसेत् || २० || **(?)न्त्रिकोणमध्ये तु चकारं मध्यमे न्यसेत् | त्रिकोणे मध्यशूले तु न्यवीके हरमाजयम् || २१ || स शूलावरणमाग्नेयं पञ्चत्रिंशत्कलार्णवम् | सर्वबाह्येन वरद न्यसेच्छूल सुबीजकम् || २२ || प्द्f २०४, प्. ८५९) ऐशान्या मन्तराद्यादि स्व****** (?) | जयार्थं दक्षिणामुखं बन्धनार्थं चोत्तरामुखम् || २३ || वश्यार्थं पश्चिमं चैव सृष्टिकर्ता सुपूर्वकम् | ब्राह्मं पूर्वमुखं शुद्धं क्षत्रियं दक्षिणामुखम् || २४ || वैश्यं चैवोत्तरमुखं शूद्रं पश्चिमदर्शनम् | अन्यजातिं च कोणेषु न्यसे * * * * * * (?) || २५ || तत्तदासनरूपं च स्थानं वक्ष्ये महेश्वर | क्षीरकुम्भं तु पैशाचं नारसिंहं तु पद्मकम् || २६ || चतुर्भुजं त्रिणेत्रं च चन्द्रार्धकृतशेखरम् | व्याघ्रचर्माम्बरधरं कराभ्यां शूलधारिणम् || २७ || अ**(?)वह***(?)दक्षिणेऽभयहस्तकम् | मौक्तिकाभरण * * * * * * * * * * (?) || २८ || *************** (?) सेत् | ऊर्ध्वकेशं त्रिणेत्रं च दंष्ट्रा स्वष्टा धरोष्टकम् || २९ || चतुर्बाहुं शूलहस्तं कपालवरदाभयम् | नागयज्ञोपवीतं च नागाभरणभूषितम् || ३० || रक्तवस्त्रधरं भीमं जनानांन्त समप्रभम् | एतद्वै वीरभद्रन्तु तच्चक्रे पश्चिमे न्यसेत् || ३१ || व्याल * * * * * * * * * * * * * * (?) | * * * * * * * * * (?) णेत्रं काञ्चनप्रभम् || ३२ || चतुर्हस्तं चतुष्पादं पक्षे तीक्ष्णकराग्रकम् | एतद्वै शरभं देवं तच्चक्रे दक्षिणे न्यसेत् || ३३ || प्द्f २०५, प्. ८६०) अष्टबाहुं त्रिणेत्रं च ऊर्ध्वकेशं स्वदंष्ट्रकम् | वष्टदष्टाधरं रौद्रं सर्पकुण्डलशोभितम् || ३४ || रक्तवस्त्रधरं भीमं अंजनप्रभ*** (?) | * * * * * * * * * * (?) विस्त्रयवामके || ३५ || एद्यन्ते घोरदैवन्तु तच्चक्रे उत्तरे न्यसेत् | बाहून् कृत्वाञ्जलिपुटं तच्चक्रे नैऋत न्यसेत् || ३६ || वायुस्थाने सरस्वती च श्रीदेवीं च विन्यसेत् | नस्य प्रभास भा****(?) देवाकृतिं शृणु || ३७ || चतुर्भुजं कृष्णवर्णं च चतुर्वक्त्रं *** (?) | **(?) परापरं गुह्यं नवतत्वादिकारणम् || ३८ || चक्रशूलमयं दण्डं कराभ्यांद्ध्यधारिणम् | वामहस्ततलं चैव अभयं दक्षिणे करे || ३९ || द्वादशाक्षं महारौद्रं स्वष्टादष्टाधरोष्टकम् | तीक्ष्णं नागोपवीतं च कण्ठमालैरलङ्कृतम् || ४० || शिरोमाला समा* * * * * * * * * * (?) | * * * * * * * * * * * * * * (?) पिणम् || ४१ || शरच्चन्द्रार्धनागं च ऊर्ध्वकेशं हिमालुकम् | ऊर्ध्वशैवं शुभकरं ऊर्ध्वचन्द्राय दैवतम् || ४२ || सर्वाभरण संयुक्तं रक्तपुष्पेरहंकृतम् | बद्धं देवं सुचक्रे च ध्यात्वा मृत्युविनाशनम् || ४३ || राजराष्ट्राभि सौवर्णे चक्रम***** (?) | नित्यार्चनक्रमं चातु शृणुष्वेवं महेश्वर || ४४ || प्द्f २०६, प्. ८६१) शैलोभीनदिरूपं तु भित्तिचित्रमथापि वा | पटे वा दारुके वाऽपि पूजयेच्चक्रदैवतम् || ४५ || ऋतं सत्येति मन्त्रेण हुत्वा पुष्पार्घ्यमेव च | वर्णमन्त्रं समुच्चार्य हृदयं मन्त्रमुच्चरन् || ४६ || * * * * * * * * (?) शिवमन्त्रमनुस्मरन् | अङ्गन्यास करन्यासं पूर्ववत् कारयेच्छुभम् || ४७ || नमो हिरण्यमन्त्रं च पवमानं समुच्चरन् | सहस्रशीर्षमन्त्रं च श्रीरुद्रं शिवमन्त्रकम् || ४८ || पूर्वोक्त शिवकुम्भं तु स्नापयेत् दक्षिणामुखम् | त्रियक्षरं सकृज्ज * * * * * * * * * (?) || ४९ || * * * * * * * * * * * (?) मध्यमे न्यसेत् | श्रीकुम्भे तु शिवं पूज्यदेवं दक्षिणमव्ययम् || ५० || गन्धपुष्पं च धूपं च वर्णमन्त्रेण दापयेत् | पायसान्नं ददेत् पश्चात् ताम्बूलं च प्रदापयेत् || ५१ || तत्कुंभे ****(?)द्धं राज्ञामूर्धेन प्रोक्षयेत् | राजापत्या गज * * * * * * * * * * (?) || ५२ || प्द्f २०७, प्. ८६२) क्षयेत् तु जलेन तु * * * * * * * * * (?) | स्वयेना रक्षकरं परसेना विनाशनम् || ५३ || पीत्वा तु तज्जलं सद्य सर्वरोग विनश्यति | दीर्घायुजबलं धैर्यं सदाविजयवर्धनम् || ५४ || मृत्युनाशं महावश्यं अर्धरात्रौ प्रपूजयेत् | सर्वरोग मनुप्राप्त त * * * * * * * (?) || ५५ || * * * * * * * * * (?) द्धान्नं मध्यमे दिने | गुलान्नं सायङ्काले तु पायसं चार्धरात्रिके || ५६ || प्रातःकाले तु समिधा अन्नेन चरु होमयेत् | द्विजाना मस्तमे होमे अज्येनैवार्धरात्रके || ५७ || पृथक् पृथक् सकृज्जप्त्वा वर्णमन्त्र मनुस्मर | *** (?) न्नंगुलं क्षीरं समिधा बिल्वमेव च || ५८ || पृथक् पृथक् शतं हुत्वा महाप्रकीकरं जपेत् | गुग्गुलुं घृत संयुक्तं धूपं दत्वा महेश्वर || ५९ || मुद्गान्नं पायसान्नं च गुलान्नं च निवेदयेत् | ताम्बूलं दापयित्वा तु अ * * * * * * * (?) || ६० || प्द्f २०८, प्. ८६३) * * * * * * * * * * * * * * * (?) काम् | द्विमासे समासें वा मौनकर्मव्रतं चरेत् || ६१ || शिवमन्त्रं सदा जप्त्वा महाप्रीतिकरं हुनेत् | सर्वदुःखप्रशमनं अर्चयेच्च क्रमेवयम् || ६२ || कृष्णवर्णं सदा यद्वा पूजयेद्दक्षिणेश्वरम् | अधारकृतिवत्कुण्डं अष्टत्रिंशद्दलान्वितम् || ६३ || ऐन्द्रे * * * * * * * * * * * * * * (?) | * * * * * * * (?) र्यात् नैऋत्यां मोहनं स्मृतम् || ६४ || वारुण्यां शान्ति कर्माणि वायव्योच्चाटनं कुरु | सौम्यं वश्य प्रयोक्तव्यं ईशानेमरणं तथा || ६५ || वसन्ते मूर्ध्नि पूर्वाहे ग्रीष्मे विद्वेषणं कुरु | प्रावृक्षोच्चाटनं कर्म शशिरोकारणं तथा || ६६ || शर * * * * * * * * * * * * * * (?) | * * * * * * * * (?) मनृतं सुविचिन्तयेत् || ६७ || दक्षिणाग्ने तु ऐशान्ये होमकर्म समाचरेत् | चतुर्दिक्षु चतुर्वेदैस्स्तोत्रमङ्गलवाचकैः || ६८ || प्द्f २०९, प्. ८६४) षण्मासे वर्धमासे वा नित्यं हुत्वा यथार्थकम् | मण्डले वा जलेवापि भावयेच्चक्र* * * (?) || ६९ || द्ध्यानं त्रधाणवत् सर्वं फलं लस्व महेश्वर | वर्णमन्त्रात्मिकं चक्रं महामृत्युञ्जयं कुरु || ७० || दैवरूपं महाचक्रं घोरवर्णं शतं शतम् | सहस्रशीर्षमन्त्रेण शतं सामेन पूजयेत् || ७१ || त्रियंबके * * * * * * * * * * * * (?) | * * * * * * * * * * * * * * (?) पयेत् || ७२ || वर्णमन्त्रेण नैवेद्यं शारदं चात्रचामरः | सहस्रशीर्षमन्त्रेण अञ्जनं दर्पणं ददेत् || ७३ || एत्वानि काले तु गूढप्रासादमुच्चरन् | वर्णमन्त्रं सदा जप्त्वा दक्षिणेश्वरमर्चयेत् || ७४ || सप्ताह त्रियहं वा * * * * * * * * * (?) | * * * * * * * * * * * * (?) मुरेन्यसेत् || ७५ || सर्वमासेषु सङ्कल्प्य यजमानेच्च मासके | समुद्रतीरे आरण्ये प्रह्यते सप्ततीर्थके || ७६ || प्द्f २१०, प्. ८६५) दक्षिणेशपुरत्रंदे श्रीशैले श्रीपुरे गृहे | श्मशाने मन्त्रदेशे तु नदीमध्ये शिवालये || ७७ || पुष्पोद्याने * * * * * * * * * * * * (?) | * * * * * * * (?) रराजस्थानेस्मदालयेत् || ७८ || राजपौरोहितस्थाने सौरदेवालयेपि वा | यजमानेच्छयादेशे मण्टपं पूर्ववद्गृहम् || ७९ || नवभागैकभागे तु मध्ये कुम्भं प्रकल्पयेत् | कुण्डस्योत्तरदेशे तु स्थापयेच्चक्र दै* * (?) || ८० || ***(?) कोणकुण्डे च चतुर्थं घोरमाचरेत् | दक्षिणाराधनं नित्यासाधकानां तु पूर्ववत् || ८१ || ऋग्वेदं पूर्वदिग्योज्य यजुर्वेदं तु दक्षिणे | पश्चिमे सामवेदं तु अथर्वञ्चोत्तमेखले || ८२ || पूजयेद्गन्धपुष्पाद्यै * * * * * * * * (?) | * * * * * * * * (?) वर्णमन्त्रमनुस्मरन् || ८३ || शैवं पाशुपतं चैव महाव्रतधरा अपि | बौद्धा आर्हताश्चैव सर्वं पापासिनामपि || ८४ || प्द्f २११, प्. ८६६) दीनान्ध कृपणानां तु दिनान्ध कृपणानां तु अन्येन परिदोषयेत् | शिवमन्त्रं समुच्चार्य शिवतत्वे सुचिन्तयेत् || ८५ || यदस्येति सुमन्त्राश्च * * * * * * * * (?) | * * * * * * * * * * * * * (?) पूर्वकम् || ८६ || वर्णमन्त्रात्मकं चक्रं महामृत्युंजयं गुरुम् | सर्वशुद्धिकरं शुद्धिं सर्वपाप विनाशनम् || ८७ || सर्वरोग प्रशमनं श्रीकरं शत्रुनाशनम् | सहस्रनिष्कनिधिं चैव दद्यात् साधकमेवता || ८८ || भक्तानां परिचाराणां वस्त्रादीनि प्रदाप **(?) | इति मकुटाख्ये महातन्त्रे ऊर्ध्वचक्रविधिपटलः || प्द्f २१२, प्. ८६७) || अम्बाचक्रविधिः || अथातः संप्रवक्ष्यामि अम्बाचक्रं महेश्वर | मृतसञ्जीविनी गुह्यं सर्ववश्यात्मकं शुभम् || १ || नटेश्वर मनुस्मृत्य पूर्वोक्तं वर्णलेखयेत् | चन्द्रबीजं तु प्रथमं तन्मध्ये चान्ति बीजकम् || २ || बिन्दुनाद स * * * * * * * * * * * (?) | * * * * * * * * * * * * (?) स्करादिषु || ३ || तस्य बाह्ये महावृत्तं बाह्ये आकाशगुह्यकम् | पार्श्वे बिन्दु समायुक्तं य वर्गात् सप्तबीजकम् || ४ || न्यसेन्मूलात्मनीबीजं पञ्चविंशदलान्वितम् | तस्य बाह्ये महापद्मं वर्णमन्त्रं न्यसेत् क्रमात् || ५ || वर्णमन्त्रस्य बाह्ये तु त्रयमन्त्रन्नव **(?) | * * * * * * (?) हेतु अष्टपञ्चाक्षरं न्यसेत् || ६ || सप्तसप्तपदैकन्तु न्यसेत् प्रासाद मन्त्रकम् | चतुष्षष्ठि कलाचैव त्रिंशतं होममन्त्रकम् || ७ || चतुश्शतमिदं हुत्वा एकान्ये सोममन्त्रकम् | अष्टत्रिंशात्मकं मन्त्रं तद्दलेषु क्रमान्यसेत् || ८ || प्द्f २१३, प्. ८६८) एक सप्ततिभिर्वा * * * * * * * * * (?) | *(?)तानि गुणिकानील द्विगुणानि गुणानि चेत् || ९ || द्विसप्तत्याधिका न्यस्ता द्विंशत्य द्विशतानपि | एतत् द्विगुणितं पीत्वा जपेत् पञ्चशताधिकम् || १० || चतुष्टयं सहस्राणां चत्वारिंशच्चतुश्शिवाम् | तपस्वीठं बीजं **(?) योग्यं विध**** (?) || ११ || ***(?) क्षर बाह्ये कन्यसेन्मूलात्मवृत्तकम् | आदिदं मूलबीजेन न शक्तिं तु सुपूजयेत् || १२ || अम्बाचक्रक्रमं प्रोक्तं देवीध्यानक्रमं शृणु | चतुर्बाहुं त्रिणेत्रं च नागयज्ञोपवीतिनम् || १३ || तनुरेक द्विपादं च ताम्रा भु* * * * * (?) | * * * * * (?)णं सौम्यं चन्द्रार्धकृतशेखरम् || १४ || श्वेतपद्मासनां देवीं ध्यात्वा बीजमनुस्मरन् | नटेश्वर मनुस्मृत्य ऐन्द्रस्थाने प्रपूजयेत् || १५ || गन्धादि फलताम्बूलं मन्त्रं च क्रममाद्यजेत् | शिवमन्त्रं शतं जप्त्वा आज्यं हुत्वा सहस्रकम् || १६ || प्द्f २१४, प्. ८६९) अश्वत्थं च पलाश * * * * * * * * * (?) | * * * * * * * * * * * * (?) शमीतथा || १७ || लवणं कुमुदं चैव क्षीरसर्पि धिंगुलं | ओदनं च अपामार्गं च क्षीरं च घृतं तथा || १८ || पृथक् पृथक् शतं जप्त्वा राजराष्ट्राभिवृद्धिदम् | शिवमन्त्रमनुस्मृत्य मूलमन्त्रं शतं जपेत् || १९ || गौर्यास्मिन् कनक सभोजातवेदं समुच्चरन् | * * * * * * (?) पूज्य जयं स्त्रीत्वा महेश्वरीम् || २० || वेदसारमिदं तन्त्रं अर्क्कं देवतात्मकम् | अष्टत्रिंशत्कलान्यासं षट्त्रिंशात्ममन्त्रकम् || २१ || अष्टत्रिंशत्परं नित्यं न्यासस्थानं तु पूर्वकम् | य इदं पठते नित्यं शृणुयाद्व समाहितः || २२ || कुलैकविंशमुद्धृत्य * * * * * * * * (?) | * * * * * * * * * * * (?) वा न दापयेत् || २३ || यं इदं पुस्तकं पुण्यं यो निरीक्ष्य समाहितः | अम्बाचक्रक्रमं प्रोक्तं दक्षिणाराधनं शृणु || २४ || इति मकुटाख्ये महातन्त्रे अम्बाचक्रविधिपटलः || प्द्f २१५, प्. ८७०) सु संवेद्यं अवेद्यन्तं वेद्यावेद्यमहं गुरु | नृत्तं पर * * * * * * * * * * * * (?) || १ || * * * * * * * * * * (?) मानन्दरात्मकम् | शिवानन्दसुखानन्दात्मनाय च * * * * (?) || २ || सत्यानन्द गुणानन्द नादानन्दात्मनाय च | अचिन्त्यानन्दा क्षरानन्दा नित्यानन्दात्मनाय च || ३ || नृत्तानन्द सदानन्द विद्यानन्दात्मनाय च | मृतानन्दाऽमृतानन्द स्वस्यानन्दा तु नाय च || ४ || ज्ञेया * * * * * * * * * * * * * * (?) | स्वयंप्रकाश मध्यस्थं परनृत्त मनुस्मरन् || ५ || अष्टत्रिंशत्परानन्द आत्ममन्त्रान्नमोन्तकम् | पृथक् पृथक् सकृज्जप्त्वा पूजयेद्दक्षिणेश्वरम् || ६ || आत्मबोधाकृतिं वक्ष्ये रहस्यं तु महेश्वर | शिवरूपं प्रभुं नित्यं आनन्द* * * * * (?) || ७ || * * * * * * * * * * * * * * (?) परम् | नाथं दक्षिणमीशानं निर्विकल्पं निरामयम् || ८ || प्द्f २१६, प्. ८७१) ज्योतिरूपं परं कृत्स्नं स्वात्मबोधेयवस्थितम् | निष्कलं शिवभावं तु निष्कलं साम्बभावकम् || ९ || सकलं निष्कलं सोहं व्योमाष्टाभास्वरूपकम् | तस्मा * * * * * * * * * * * * * * (?) || १० || * * * * * * * * (?) शिवमाराधयेत् सदा | प्रथमं योगभावं तु द्वितीयं ज्ञानमुद्रिका || ११ || तृतीयमालिङ्गनं कृत्वा चतुर्थं चरदाऽभयम् | पञ्चमं पञ्चवक्त्रं तु ध्यात्वा सादाख्यरूपकम् || १२ || षष्ठं वीरासनं कृत्वा सप्तमं लोकमुद्रिका | अष्टमं * * * * * * * * * * * * * (?) || १३ || ********* (?) त्वा मध्ये तु भावयेत् | दक्षिणामुखमाश्रित्य सदानृत्तं सुचिन्तयेत् || १४ || गन्धानि तु सुनैवेद्यं दिशं सर्वं समुच्चरन् | सभास्थाने सदा ध्यात्वा अम्बा चैन्द्रे तु पूजयेत् || १५ || सभा मध्ये परं नृत्तं शिवमन्त्रेण भावयेत् | * * * * * (?) भक्तानां सुपुत्राणां तु सङ्ग्रहेत् || १६ || प्द्f २१७, प्. ८७२) अन्यजातिषु सङ्ग्राह्यात् सादाख्यं पदमाप्नुयात् | तस्मात् देवगुरोच्छिष्टं भोज्यं तत्पुत्र शिष्ययोः || १७ || स्वयमेव गुणोत्पन्नां गुणात् स्वसं समुद्भवम् | समस्तगुण संप्राप्तिं कृत्वा कामक्षयं **(?) || १८ || **(?) ते परमस्थानं जरामरणवर्जितम् | आशेणमनकां वा वाचिकां वापिना द्वयम् || १९ || केशादिवर्जितं चोत्तमात् ज्ञात्रसमुद्भवाः | सूक्ष्मं सर्वगन्ध ज्ञानमखण्डित मनोदयम् || २० || गच्छतस्ति **(?) वापि स्वप्नतो जाग्रतोपि वा | यतोदयं * * * * * * * * * * * * (?) || २१ || * * * * * * * * * * * (?) त्रष्टनापि वा | * * * * * * * * * * (?) रूपं च कल्पनात् || २२ || रूप *** (?) प तथा * * * * * * * * (?) | * * * * * * * * * * (?) रं दक्षिणेश्वरम् || २३ || दक्षिणाराधनं श्रुत्वा स याति परमां गतिम् | तस्मात् सर्वप्रयत्नेन शिवमाराधयेत् सदा || २४ || प्द्f २१८, प्. ८७३) शिवाराधन दीक्षा च मुत्सवं प्रायश्चित्तकम् | अतोक्तं फलभागं च दीप्त*(?)न्तु स्नपनं त*(?) || २५ || * * * * * * (?) र्द्ध्वजक्रमं वाचं तथैव च | आत्माराधनमीशस्य दक्षिणाराधनं शृणु || २६ || वेदसारमिदं तन्त्रं तस्माद्वैदिकमाचरेत् | शैवधारमिदं तन्त्रं मधमे दैवमिश्रितम् || २७ || अष्टत्रिंशत्परानन्दामृतमध्ये सुनृत्तकम् | यथा चिदम्बरं नित्यं शृणु याद्वा * * * * (?) || २८ || * * * * * * * * * * * (?) पदमाप्नुयात् || २८ || इति मकुटसंहितायां सारसङ्ग्रहे त्रिसहस्रस्समाप्तः || || हरिः ओं || || शिवकामसुन्दरीसमेत चित्सभेश्वराय नमः || देवी सहायम् || शुभमस्तु || ########### END OF FILE #######