#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00526 Uniform title: nādānusandhāna Manuscript : NGMCP 5-2714 Reel No. A62/11 Description: A tract on the yoga of the unstruck sound. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 12, 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### १अ) श्रीविघ्नराजाय नम | शिव उवाच | अतः परं प्रवक्ष्यामि प्रत्ययं चामृतोपमम् | दशधानाहतं नादं सद्यः प्रत्ययकारकम् ||१|| चिणीति प्रथमं शब्दं चिंचिणीति द्वितीयकम् | चिरिशब्दं तृतीयं स्याच्छंखशब्दश्चतुर्थकः ||२|| पंचमं तंत्रनिर्घोषं षष्ठं च रणवन्तथा | सप्तमं कांस्यतालं च मेघशब्दं तथाष्टमम् ||३|| नवमं वारिनिर्घोषं दशमो दुन्दुभि ध्वनिः | नवशब्दान् परित्यज्य दशमो मोक्षदायकः ||४|| आहतेन विना नादः करोति दशधा रवम् | नादाहतशब्दोष्टो यं कर्णरंध्रे विनिर्गतः ||५|| ज्ञात्वादौ तु स गर्भकं गुरुमुखात् तस्याच्च निर्गर्तकं वै तस्मात् परतो निरञ्जन पदं तस्याच्च विद्बोधकम् | विद्बोधात् परमं स्वरूपममलं पश्येत् सदा नन्दिनं सिद्धिः पंचविधः प्रकारतनुत्तिः संक्रीडते लीलया ||६|| यो जानाति स गर्भकं चिणिरवात् तासां तथार्चित्तणे मेदिन्यां चतुरस्रके प्रथमतस्तत्वे शुभे पीतके | शीताद्यैर्न हि पीड्यतेर्न च जलैः सन्तापपीडादिभिः | कामस्थान भवंति रोगनिचया कायोद्यमेजाग्रति ||७|| खण्डेन्दुः कृतमण्डले चिरिरवे शंखस्य नादे तथा तस्मिन् दृष्टनिगर्भके त्रिनिपुणधीतत्वे स्थितो वारुणे ||८|| तेजस्तत्ववरे त्रिकोण सदनेत? आरवे वैणवे पश्येद् वातनिरंजनं स्थिरमतिर्मायोपमे शांभवे | रक्ते शोभनमण्डले निशि दिवाभ्यासोन्मुखः पश्यति | मायारूपधरास्त्रिलोकवशकृदेवांगनामानयेत् ||९|| १ब्) तत्वे वायुसमुद्भवे सति रवे कांस्येथ मेघस्वने षट्कोणे सति मण्डले शुभमतिः पश्येच्च विद्बोधकम् | कुर्यारवस्थितसंस्थितो गुणगणैः संपूज्यते कामिकैः रूपे स्वप्नभवे करोति खगतिं कालत्रयज्ञो भवेत् ||१०|| वृत्तेर्निमलके सुनिर्मलगुणे स्वतत्त्वसंभूतके जांनेवारिरवेधदुन्दुभिरवे दृष्टे स्वरूपे मले तुर्मानाय पदे लयं प्रकुरुते तत्वे यमे सर्वकृत् सर्वज्ञः स्वतु जायते जनयति प्रितिं परां न्योगवित् ||११|| नित्यं पंचदशांगुलैः क्षपकरोण्येतानि तानि तत्वानि च तत्वानां विलयं क्रमेण कुरुते संधिं गते चेतसि | तदेहे प्रभुपादपद्म युगलं संधीद्यसस्तथा प्राणाजीवसमन्विताः || कुलगताः | शक्त्यासमं क्रीडते ||१२|| पृथ्वी पञ्चभिरंगुलैः क्षयकरी ह्यापश्चतुर्भिस्तथा | तेजस्त्र्यंगुलकेनाशोषणकरं व्योमपदं प्राणिनां || तत्वानां विलयं करोति च पुनर्द्वाभ्यां ततोनाहतश्चैकेनांगुल केशश्च शोषणकरं व्योमपदं प्राणिनां ||१३|| यो भ्यासं विदधाति शाम्भवपदे जानाति तत्वानि सस्तत्वानां विलयात्मने प्रविलयं त्यंभावे विधीये पुनः | श्रीशक्त्या सदृशः क्षणात् समरसो नित्यात्मनो जायते सत्वेवं भवतीश्वरत्वमखिलं पुंसः प्रसादाङ्गुरोः ||१४|| आदौ स्याज्जनवत्सलश्चिणिरवाभ्यासाद् द्वितीये पुनर्व्याधीनां विलयो भवेत् सुखयुतोरावे तृतीये पुनः दूरा च श्रवणं चतुर्थकरवे नादे तथा पञ्चमे वाचाकामिकसिद्धिसंयुत सुधीः | षष्ठो स्वरे त्यक्तभूः ||१५|| २अ) दूरे स्यादवलोकनं सुकृतिनो भ्यासाद्रवे सप्तमे संजातेष्टमके स्वने कुलिश वत्सं जायते योगवित् | देहस्य स्फुरणं भवेच्च नवमे स्वेच्छावरो दुन्दुभौ संभूते दशमे स्वने समरसः श्रीशक्ति सर्वेशयोः ||१६|| धन्यः कोपि नरः प्रविश्य निपुनो * *? लोकप्रसिद्धे ध्वनौभित्या द्वारमहो महासमरसः स्थित्वावनिःशंकितः | कालं वंचयते ह्यनेन विधिना हेलाप्रयोगेण सत्यत्का चन्द्रपथं तथा रविपथं क्रीडेत् सदा नन्दितः ||१७|| चीणीति प्रथमे रवे त्वचि गते श्रीमत्प्रभुश्चिचिणौ रवे रक्तमुपागते चिरिरवे रंमांसे भोग गच्छति | मेदे शंखमहारवे च वसति स्वास्थितस्य आरवे मज्जायां प्रविशेदलोपि च महाशंखस्य रावे प्रभौ ||१८|| कांस्ये ताल भवेरवे विभुरयं शुक्रे विनष्टस्तदा मेघानां स्वनिते तदा प्रविशति प्राणेषु तूर्णं च स | जीवे वारि रवेण संक्रमयति त्यक्त स्वने दुन्दुभौ संजाते सति चोभयोः समरसः स्याच्छक्ति सर्वेशयोः ||१९|| इत्यनायाहतनादः | कैलासशिखरासीनं देवदेवं जगद्गुरुं | पृच्छतिस्म शिवादेवी ब्रह्मज्ञानं महेश्वरम् || शिव उवाच || काष्टमध्ये यथावह्नि पुष्पे गन्धो रसे घृतम् | देहमध्ये तथा देव पुण्यपापविवर्जितः ||२|| महेशः खेचरिमुद्राः मनोदंडः स्मृतः प्रिये | शालिग्रामस्तु सहजः पंचेन्द्रिय समर्चितः ||३|| प्रकृतिश्चन्दनन्देवि ब्रह्मचर्यं परं व्रतम् | २ब्) ब्रह्मज्ञानं पुनर्ध्यानं परब्रह्म नमोस्तु ते ||४|| इडा भवति गंगा च पिङ्गला यमुनानदी | विज्ञेयातद्द्वयोर्मध्ये सुषुम्ना च सरस्वती ||५|| त्रिवेणी संगमो मस्त्र? तीर्थरामः स उच्यते |? तत्र स्नानं प्रकुर्वाणः सर्वपापैः प्रमुच्यते ||६|| देव्युवाच || कीदृशी खेचरी मुद्रा कीदृशी शांकरि पुनः | विद्याध्यात्म्य विनिःयत्नाद् द्वयं ब्रूहि भवेश्वर ||७|| मनस्थिरं यस्य विनावलञ्चनं वायुः स्थिरो यस्य विना नोरोधनं | दृष्टिस्थिरा यस्य विनावलोकनं सैवेह मुद्रा विचला तु खेचरी ||८|| वालस्य भावो मृतकस्य चेष्टा स्वप्नेन हीनात्र यथात्र निद्रा | पंथापथा व्योमगतो द्विजानां विद्या तथाशांकरिका प्रधाना ||९|| देव्युवाच || मृत्युंजय जगन्नाथ ब्रूहि मे परमेश्वर | दर्शनानि कथं देव वदन्तीथ पृथक् पृथक् ||१०|| शिव उवाच || त्रिनाडी च भवेद् भेदो वेदाभ्यासरतः सदा | शैवा न बिन्दुर्वर्द्धजयं मन्त्रान् घोरतरांश्चते ||११|| सांख्यां प्रकृति वादज्ञाः बौद्धाः शून्य प्रचादिनः | जैनाजीवादि सत्तत्व भाषिनो?र्हनु पाश्रिता ||१२|| नास्तिका नास्ति किंचिद् वै जल्यंति विषयाश्रिताः | निःसुखासक्त चित्तास्ते निपतंति भवौ दधौ ||१३|| एवं ब्रान्ति यथाः सर्व शास्त्रमोहित बुद्धयः | तस्मात् सर्वप्रयत्नेन शास्त्रभ्रान्तिं त्यजेद्बुधः ||१४|| एतेभ्योपि सुगुप्तं ते ब्रह्मज्ञानं वदाम्यहम् | ३अ) येन ज्ञान प्रभावेन मोक्षसौख्यं भवद्भुतम् ||१५|| उमा पृच्छ महादेव पिण्डब्रह्मांदुलक्षणं | पंचतत्वाहत्यकादेव गुणाः के पंचविंशतिः ||१६|| शिव उवाच || अस्थिमांसं नखाश्चैव त्वचालोम च पंचमम् | भुवः पञ्चगुणा ह्येते ब्रह्मज्ञान प्रभाषिताम् ||१७|| सुक्रशोणितमज्जाश्च मूत्रं ज्ञात्वा? च पञ्चमी | अपांपञ्च गुणां ह्येते ब्रह्मज्ञानं प्रभाषिताः ||१८|| निद्रा तृषा क्षुधा कान्तिरालस्यं पञ्चमन्तथा | एते तेजो भवाः पंच ब्रह्मज्ञानेन भाषिताः ||१६|| कामं क्रोधो महालोभो महपैशून्यमेव च | नभः पञ्चगुणं देवि ब्रह्मज्ञानेन भाषितम् ||२०|| आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः | रवे हृत्पद्यते तोयन्तोयादुत्पत्ते मही ||२१|| पंचतत्वैर्भवेत्सृष्टिस्तत्वे तत्वं विलीयते | पंचतत्वी परं तत्वं नमस्तस्मै चिदात्मने ||२२|| पृथिव्यापस्तथा तेजो वायुराकाशसंज्ञकं | सूर्याचन्द्रमसावात्माधार्यते जगदष्टिभिः ||२३|| स्पर्शनं रसनं घ्राणं चक्षुश्रोत्रेंद्रियात्मिका | पंचतत्वीमतातस्यांमनभदर्द्धगं प्रिये ||२४|| ब्रह्माण्डे लक्षणं यादृक् पिण्डे चैवेन तादृशं | तदाकारा विनश्यन्ति निराकारस्तु ईश्वरः ||२५|| शुक्रशोणित मांसास्थि त्वचोलोम च नाडिकाः | मेदोरजस्तथामज्जा धातुर्दशविधः स्मृतः ||२६|| ३ब्) सशरीरी भवेदात्मा चान्तरात्मा मनः स्मृतं | परमात्मा भवेदन्ये मनस्ततत्र विलीयते ||२७|| रक्ताधातुर्भवेन्मातुः शुक्रधातुः पितास्तथा | शून्यध्यान प्रवाहेन गर्भपिण्डोभिजायते ||२८|| असन्तुंभ्यद्यते पिण्डो विद्यमान क्व नश्यति | गर्भध्यानं न जानाति तेनासौ प्रविनश्यति ||२९|| यथा स्वप्नं विना निद्रा यथा चिन्तां विनामतः | तादृशोयं जगत्स्रष्टा गर्भध्यानं तदुच्यते ||३०|| मनोवशीकृतं येन जितोमेनेन्द्रियो परः | जितं जगत्त्रयन्तेन स देवांसुरपन्नगं ||३१|| अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः | मनः मनषो जायते वाणी वाणी मनसी लीयते ||३२|| तालु मूलं स्थितःश्चन्द्रो नाभि मूले दिवाकरः | सूर्यांगे वसते वायुश्चन्द्रांगे तु सदामनः ||३३|| चित्ताग्रे वर्तते वातो नभोग्रे जीव आस्थिताः | एतत्सर्वं महागोप्यं लभ्यते गुरुवाक्यतः ||३४|| शक्तिर्वशति पाताले ब्रह्माण्डे तु सदाशिवः | कालस्तदनं ज्ञेयो जराकालात् प्रजायते ||३५|| शिव * *? सदा यस्य देहे समतया स्थितै | मृत्युर्नोत्पद्यते तस्य देहस्थानी स सिध्यति ||३६|| चले चित्ते भवेच्छक्ति स्थिर चित्ते भवेच्छिवः | तच्छुये? निश्चले जाते कार्ये योगी स सिध्यति ||३७|| इच्छाशक्ति या तथा ज्ञानं शक्ति त्रयमितीर्यते | ज्ञानश्क्तिर्यदा भूता तदा चित्तं विलीयते ||३८|| ऊर्ध्वशक्तिर्भवेन्भक्ति ह्यधः शक्तिर्भवेद्भवः | आसावदन्तिते निरञ्जनाः ||३९|| आधारं गुह्यचक्रस्थं स्वाधिस्थानं च लिंगकं | मणिपूरं तु नाभिस्थं हृदये स्यादनाहतम् ||४०|| ४अ) विशुद्धं कंठदेशस्थमाज्ञाचक्रं भुवोनन्तरम् | चक्रभेदा मयाख्याताश्चक्रातीतं प्रियंस्पर ||४१|| ब्रह्माण्डानि कंठेरूर्ध्वंमधः पातालसप्तकम् | ऊर्ध्वमूलमधः शाखं वृक्षाकारमिदं वपुः ||४२|| हृदिप्राणाभिधोवायुरपानो गुदसंस्थितः | समोंत्ये? नाभिमध्यस्थ उदानः कंठमाश्रितः ||४३|| व्यानः सर्वगतो देहे वर्तते मृगलोचने | पञ्चते प्रकृति प्रायाः प्राणाद्या देहवर्तिनः ||४४|| नागो गृह्नाति पंचैतान् कूर्मः संमीलनः स्वयं | क्षुर्त? करोति कृकरो देव दत्तो वि *? भते ||४५|| ब्रूते धनंजयः शब्दं क्षणमात्रं न विश्रमेत् | वध्नात्येतां यो वातान् स योगी योगीनांवरः ||४६|| नवद्वाराणि प्रत्यक्षाण्य मूनिदशमंत्यतः | मनोद्वारमिदं गोप्यं लभ्यते गुरु सेवया ||४७|| शक्तिकुण्डलिनी भूता ता इमा दशनाडिकाः | इडाञ्च पिङ्गला तासु सुषुम्ना चोर्द्धगाः स्मृताः ||४८|| गान्धारी हस्तिजिह्वा स्यात् पूर्वाधो गमना अपू | अलंबुषा जयाख्ये द्वे दक्षिणांगे समाधिते ||४९|| कुहूश्च शंखिनी नाड्यौ वामाङ्गे द्वे व्यवस्थिते | एता सां दशनाडीनां स्वरूपं गदितं मया ||५०|| द्वासप्तति सहस्राणि नाडिकामेकविस्तरा | एताजानानि यः कश्चित् स योगी कथ्यते बुधैः ||५१|| सत्वभावे स्थितो ब्रह्मा रजोभावे जनार्दनः | ४ब्) तमोभावे भवेद्रुद्र एवं त्रिषु गुणास्त्रयः ||५२|| दयाभावे स्थितो ब्रह्मा भोगभावे स्थितो हरिः | क्रोधभावे स्थितो रुद्रो भावा एते त्रयात्रिषु ||५३|| बिन्दुरूपे भवेद् ब्रह्मा वायुरूपे भवेद्धरिः | मनो रूपे भवेद्रुद्रस्त्रिषु रूपत्रयं ह्यदः ||५४|| जन्ममृत्युजरास्तावद्यदि त्रिगुणतात्मनि | स्वप्नेपि स्पृते नैव ताभिस्त्रिगुणतोकितः ||५५|| श्रीदेव्युवाच || कामाताकः पिताजन्तोर्भ्राताकश्च स्वसावका | कः सुतोगेहिनीकावा ब्रूहि मे परमेश्वर ||५६|| शिव उवाच || दया माता पिता ज्ञानं सत्कृत्यानिच बांधवाः | स्वसाक्षांति सुतः सत्यं गेहिनीहशुभा गतिः ||५७|| यादृग्यतांगिनिश्चितंमादृकांख्य खगश्चरेत् | पादगर्भकभावस्याद्ब्रह्मज्ञानं तदुच्यते ||५८|| क्षणमर्द्धक्षणार्द्धवा समाधिं योधि गच्छति | आजन्म जनितं पापं तत्क्षणादेव नश्यति ||५९|| एषा सा खेचरी मुद्रा सैषा विद्यापि शाङ्करी | महामुद्रा च सैवा त्रयच्चिंता सहितं मनः ||६०|| अन्याहारां महायासः प्रजल्पो व्यसना ग्रहः | दानत्वं जनता संगस्ताज्याः ब्द? योगिना अमी ||६१|| जीवोयं यदि जागर्ति तावन्मृत्यु भयंकुतः | यदि मुद्रान्वितो नित्यं जीवो निद्रा सदास्यते ||६२|| यावद्वायु स्थिरो देहे तावत् मृत्यु भयंकुतः | यावन्मुद्रासनावद्धस्तावद्वायु क्व गच्छति ||६३|| आलस्यं महती निद्रा मतश्च कपि चञ्चलम् | त्रिभिरतै भवेन्मृत्युः सिध्युच्छेदे त्रयो मताः ||६४|| ५) यावद्विंदु स्थिरो देहे तावन्मृत्यु भयं कुतः | यावन्मुद्रासनावद्धस्तावद्बिंदु क्व गच्छति ||६५|| पदे शून्ये निरालंबे चित्तं चरति यस्य वै | स एव ब्रह्मचारी स्यात् स तु नारी न वर्जितः ||६६|| अप्राप्य राज्यं न धनं न विद्यां कान्तां न कान्तां सुहृदो नरुध्यान्? | वांच्छामि किं त्वेकमगण्यलाभं नित्यं समीहे परमात्म तत्वं ||६७|| इति श्रीयोगशास्त्रे श्रीपार्वतीश्वरसंवादे नादानुसंधानं संपूर्णम् || ########### END OF FILE #######