#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00111 Uniform title: nādabindūpaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: nādabindu upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### नादबिन्दूपनिषत् वाङ्मे मनसि- इति शान्तिः वैराजप्रणवस्वरूपम् अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः | मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् || १ || पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते | धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः || २ || भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि | सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् || ३ || जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः | भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः || ४ || विवरणम् वैराजात्मोपासनया संजातज्ञानवह्निना | दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे || इह खलु ऋग्वेदप्रविभक्तेयं नादबिन्दूपनिषत् विराट्प्रणवप्रकटनपूर्वकं तद्गतसविशेषब्रह्मविदां स्वात्तज्ञानानुरोधेन सविशेषब्रह्माप्तिमभिधाय निर्विशेषब्रह्मयाथात्म्यप्रकटनपूर्वकं प्. २१५) तज्ज्ञानान्नादोपायसाधनसंपन्नानां कर्मत्रयभङ्गप्रभा[भ]वविकलेबरकैवल्यं प्रकटयन्ती विजृम्भते स्वयमवान्तररूपेण | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | ऋतिस्तु- अकार इत्यादिना | अन्तर्विराट्प्रणवावेकीकृत्य द्वादशमात्रात्मको महावैराजप्रणव उच्यते | तद्भावापत्तये महाविराजः सुपर्णतयोक्तिः | सुपर्णभावमापन्नमहाविराजः स्थूलप्रपञ्चाभिधायकोऽयमकारो दक्षिणः पक्षः | तस्योत्तरपक्षस्तु सूक्ष्मप्रपञ्चाभिधायक उकारः स्मृतः | तस्य पुच्छं बीजप्रपञ्चाभिधायकं मकारमिति ब्रह्मविद आहुः | अर्धमात्रा तु तन्मस्तकभावं गतेत्यामनन्ति || १ || तस्य पादादिकं सत्त्वादिगुणा भवन्ति | तस्य विशिष्टावयवसंपन्नं शरीरं तु वाराहोपनिषदुक्तषण्णवतितत्त्वजातमुच्यते | अस्य दक्षिणोत्तरचक्षुषी धर्माधर्मौ भवतः | दक्षिणश्चक्षुरिति लिङ्गव्यत्ययः || २ || तस्य पादजानुकटिनाभिहृदयकण्ठभ्रूमध्येषु भूरादिसप्तलोकाः प्रतिष्ठिता इत्यर्थः | पादयोरिति दप्तमीद्विवचनम् || ३-४ || वैराजविद्याफलम् सहस्रार्णमती वात्र मन्त्र एष प्रदर्शितः | एवमेतां समारूढो संहयोगविचक्षणः || ५ || न भिद्यते कर्मचारैः पापकोटिशतैरपि | एवंविशेषणविशिष्टो वैराजप्रणव उक्त इत्याह- सहस्रेति | सहस्रार्णमि[र्णमती]ति लिङ्गव्यत्ययः | प्रणवाद्य[द्या]वयवाकारस्य सहस्रावयवत्वं श्रूयते, अकारः सहस्रावयवान्वितः इति | अत्र अस्मिन् महावेराजप्रणवात्मनि सहस्रार्णाख्यावयवविशिष्टाकारान्वितोऽयमेष ओंकारो मन्त्रः अभिधानतया स्थित इति श्रुतिभिः प्रदर्शित इत्यर्थः | वाशब्दः अवधारणे | इत्थं वक्ष्यमाणद्वादशमात्रात्मकप्रणवार्थमहाविराडस्मि इत्यनुसंधानं हंसयोगः, तद्वतः पापाद्यभेदतामाह- एवमिति | स्वतत्त्वज्ञानेन स्वातिरिक्तकलनां हन्तीति प्. २१६) हंसः | स एवास्मीत्यनुसंधानं हंसयोगः | तद्विचक्षणः तदभिज्ञो योगी || ५ || एवमुक्तलक्षणां महावैराजविद्यां समारूढो यदा तदनुसंधानपरो भवति तदा स्वकृतकर्मचारैः कर्मप्रभवैः पापकोटिशतैरपि न कदापि भिद्यते- इति वक्ष्यमाणविद्याफलं दर्शयति || प्रणवस्य प्रधानमात्राचतुष्टयस्वरूपम् आग्नेयी प्रथमा मात्रा वायव्येषा तथा परा || ६ || भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा | परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः || ७ || कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः | एष ओंकार आख्यातो धारणाभिर्निबोधत || ८ || प्रधानमात्राचतुष्टयस्वरूपमाह- आग्नेयीति | अग्निः वैश्वानरः तत्संबन्धिनी आग्नेयी वैराज्यकाराभिधाना प्रथमा मात्रा भवति | तथा वायुशब्देन सूत्रात्मोच्यते, वायुर्वै गौतम तत्सूत्रम् इति श्रुतेः | तत्संबन्धिनी वायवी एषा परा उकाररूपिणी द्वितीया मात्रा भवति || ६ || भानुमण्डलवत् सम्यक् काशत इति बीजात्मा भानुमण्डलसंकाशः तदभिधानमकारात्मिका भानुमण्डलसंकाशा परा तृतीयमात्रा भवेत् | या च पुनः मात्रात्रयापेक्षया अर्धमात्रा परमा सर्वोत्कृष्टा भवति बुधाः तामेतां स्वविकल्पितभेदजातं स्वेन रूपेण वारयति व्याप्नोतीति वरुणः तुर्यः तद्रूपिणीं वारुणीं चतुर्थमात्रात्मिकां विदुः || ७ || यत्र प्रणवे भूतादिकालत्रयेऽपि इमाः मात्राः प्रतिष्ठिताः एषः ओंकारः एवं श्रुतिभिराख्यातो भवति | हे स्वाज्ञलोकाः यूयं वक्ष्यमाणघटिकापञ्चककालात्मकघोषिण्यादिमात्रा धारणाभिः निबोधत जानथेत्यर्थः (?) || ८ || प्. २१७) प्रणवस्य व्यष्टिसमष्ट्यात्मकद्वादशमात्राभेदविवरणम् घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथा परा | पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी || ९ || पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते | सप्तमी वैष्णवी नाम अष्टमी शांकरीति च || १० || नवमी महती नाम धृतिस्तु दशमी मता | एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा || ११ || व्यष्टिसमष्ट्यात्मकद्वादशमात्राभेदं विवृणोति- घोषिणीति || ९ || अन्तःप्रणवमात्रा अकाराद्याः पञ्चब्रह्मवाचका ज्ञेयाः || १० || समष्ट्यकाराद्या[अ]ण्डविराडादिवाचका भवन्ति || ११ || उपासकानां तत्तन्मात्राकालोत्क्रमणफलम् प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते | भरते वर्षराजासौ सार्वभौमः प्रजायते || १२ || द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् | विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका || १३ || पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते | उषितः सह देवत्वं सोमलोके महीयते || १४ || षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् | अष्टभ्यां व्रजते रुद्रं पशूनां च पतिं तथा || १५ || प्. २१८) नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् | एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् || १६ || षष्टिघटिकास्वेवं द्वादशमात्रादृष्टिं कृत्वा उपासनां कुर्वतः तत्तन्मात्राकालोत्क्रमणफलमाह- प्रथमायामिति | चतुर्मुखदैवत्यघोषिण्याख्याकाराभिधानोदयादिपञ्चघटिका- कालपरिमितायां प्रथमायां तु मात्रायां यद्येवमुपासकः प्राणैः वियुज्यते सोऽसौ योगी भरते वर्षे राजा सार्वभौमः सन् प्रजायते || १२ || तथा च द्वितीयायाम् | सप्तम्यर्थे चतुर्थिकेति | प्रथमपर्यायवदेकादशपर्यायोऽप्यूह्यः || १३-१६ || निर्विशेषब्रह्मस्वरूपं, तज्ज्ञानफल च ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् | सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः || १७ || अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् | अनूपमं शिवं शान्तं योगयुक्तः सदा विशेत् || १८ || तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत् कुले चिरम् | संस्थितो योगचारेण सर्वसङ्गविवर्जितः || १९ || ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः | तेनैव ब्रह्मभावेन परमानन्दमश्नुते || २० || सविशेषब्रह्मविदामेवं फलतारतम्यमुक्त्वा निर्विशेषब्रह्मस्वरूपं तज्ज्ञानफलं चाह- तत इति | ततः- अकारो दक्षिणः पक्षः इत्यारभ्य महावैराजाभिधानं सविशेषं ब्रह्म तदुपासकानां तत्फलं चाभिहितं, ततः परतरं महावैराजगतहेयांशापह्नवसिद्धम् प्. २१९) अत एव शुद्धम्, स्वाज्ञदृष्ट्या व्याप्यमलाशिवप्रसक्तौ व्यापकं निर्मलं शिवम्, यतः सूर्यादिज्योतिषामुदयो भवति तदेतत् ब्रह्म सदोदितम् || १७ || करणग्रामतद्धेतुत्रिगुणप्रसक्तौ अतीन्द्रियं गुणातीतं निर्गुणम्, यदा स्वातिरिक्तकलनोज्जीवकमनो लीनं भवेत्तदा तदनूपमं निरूपमम्, चिन्मात्रत्वात् शिवम्, शान्तस्वातिरिक्तं यत् ब्रह्म अवशिष्यते सदा तन्निर्विकल्पकयोगयुक्तो विशेत् || १८ || यद्योगयुक्तो जन्तुः तन्मयो भूत्वा स्वकारणभूते कुले स्वाविद्याद्वयत्कार्ये शनैः शनैः मुञ्चेत् अथ यच्चिरं चिन्मात्रं भवेत् | कोऽयं एवमधिकारीत्याह- संस्थित इति | योगचारेण योगाभ्यासेन सम्यक् स्थितः | अन्तर्बाह्यकलनासङ्गिनो योगाभ्यासेच्छा कुत इत्यत आह- सर्वसङ्गविवर्जितः इति || १९ || अतो योगी विमलान्तरो भूत्वा विलीनस्वबन्धनहेतुस्वातिरिक्तपाशः सन् विदेहकैवल्यकमलया प्रभवतीति प्रभुः परमानन्दं यः स्वेन अनुष्ठितः तेनैव ब्रह्मभावेन सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति ज्ञानयोगेन अश्नुते, कृतकृत्यो भवतीत्यर्थः || २० || ज्ञानिनः प्रारब्धकर्मभावाभावविचारः आत्मानं सततं ज्ञात्वा कालं नय महामते | प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि || २१ || उत्पन्ने चात्मविज्ञाने प्रारब्धं नैव मुञ्चति | तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते || २२ || देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः | कर्म जन्मान्तरीयं यत् प्रारब्धमिति कीर्तितम् || २३ || यत्तु जन्मान्तराभावात् पुंसो नैवास्ति कर्हिचित् | स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः || २४ || प्. २२०) अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः | उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति || २५ || अज्ञानं चेति वेदान्तैस्तस्मिन् नष्टे क्व विश्वता | यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् || २६ || तद्वत् सत्यमविज्ञाय जगत् पश्यति मूढधीः | रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति || २७ || अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते | देहस्यापि प्रपञ्चत्वात् प्रारब्धावस्थितिः कुतः || २८ || अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते | ततः कालवशादेव प्रारब्धे तु क्षयं गते || २९ || ब्रह्मप्रणवसंधाननादो ज्योतिर्मयः शिवः | स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव || ३० || कंचनापक्वज्ञानिनमुद्दिश्येदमाह- आत्मानमिति | सततं श्रुत्याचार्यप्रसादलब्धश्रवणादिसाधनेन स्वात्मानं ब्रह्मेति ज्ञात्वा हे महामते आयुः- शेषकालं नय इच्छानिच्छापरेच्छाप्रभवसुखदुःखतन्मिश्रप्रारब्धमखिलं भुञ्जन् नोद्वेगं संतापं कर्तुमर्हसि || २१ || तव एवमुत्पन्ने चात्मविज्ञाने नैव प्रारब्धं त्वां मुञ्चति | यदि ते ब्रह्ममात्रतत्त्वज्ञानं जायते तदा न हि ते प्रारब्धं कर्म अस्तीत्याह- तत्त्वज्ञानेति || २२ || प्रारब्धसंभवे हेतुमाचष्टे- देहादीनामिति | यत् जन्मान्तरीयं कर्म सुखादिभोगप्रदं प्रारब्धं तत्तु प्रबोधात् स्वप्नवत् तत्त्वज्ञानेन नश्यत्येव | तत्र हेतुः- वस्तुतो देहादीनामसत्त्वात् || २३ || एवं देहादीनामसत्त्वे पुंसो जन्मान्तराभावात् यत् प्रारब्धमिति मन्यसे तत्तु प्. २२१) कर्हिचिदपि नैवास्तीति निश्चिन्वित्यर्थः | प्रारब्धायत्तदेहस्यासत्त्वं स्फुटयति सदृष्टान्तं- स्वप्नेति || २४-२५ || स्वाज्ञानम् अध्यासहेतुः | तस्मिन् वेदान्तैः तत्प्रभवज्ञानविज्ञानसम्यग्ज्ञानैः अभावपदं गते क्व तत्कार्यविश्वता सेद्धुं पारयति, देहादेः विश्वान्तःपतित्वात् | न कदापि प्रारब्धादिकर्मत्रयं विद्यत इत्यर्थः | शिष्टं स्पष्टम् || २६- २८ || तथा चेत् कथं प्रारब्धकल्पनेत्यत आह- अज्ञानेति | स्वज्ञानेन स्वाज्ञानतत्कार्ये नष्टे कथं ते देहो विद्यत इति स्वाज्ञानानुरोधमाक्षिपन्ति, तद्वाग्बन्धनायेयं प्रारब्धकल्पनेत्यर्थः | ततः किमित्यत आह- तत इति | ततः सम्यग्ज्ञानादूर्ध्वं कालवशात् ईश्वरप्रसादादेव प्रारब्धकर्मोपलक्षितस्वातिरिक्तास्तित्वभ्रमे क्षयम् अपह्नवं गते सति || २९ || अथ पुरा ब्रह्मप्रणवानुसंधानप्रभवप्रबोधः पुनः स्वातिरिक्तास्तित्वभ्रमं न ददाति, ज्योतिर्मयः शिवो नादः तुर्यतुर्यो भूत्वा मेघापाये अंशुमानिव स्वयम् आविर्भवेत् आत्मा स्वमात्रमवशिष्यत इत्यर्थः || ३० || तुरीयतुरीयाधिगमोपायभूतं नादानुसंधानम् सिद्धासनस्थितो योगी मुद्रां संधाय वैष्णवीम् | शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा || ३१ || अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् | पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् || ३२ || श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् | वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः || ३३ || आदौ जलधिजीमूतभेरीनिर्झरसंभवः | मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा || ३४ || प्. २२२) अन्ते तु किङ्किणीवंशवीणाभ्रमरनिस्वनः | इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः || ३५ || महति श्रूयमाणे तु महाभेर्यादिकध्वनौ | तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् || ३६ || घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने | रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् || ३७ || यत्र कुत्रापि वा नादे लगति प्रथमं मनः | तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते || ३८ || विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः | एकीभूयाथ सहसा चिदाकाशे विलीयते || ३९ || उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी | उन्मनीकारकं सद्यो नादमेवावधारयेत् || ४० || सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः | नादमेवानुसंदध्यान्नादे चित्तं विलीयते || ४१ || ब्रह्मप्रणवार्थतुर्यतुर्याधिगमोपायतया नादानुसंधानप्रकारमाह- सिद्धासनेति || गुदं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् | ऋजुकायत्रिबन्धाभ्यां सिद्धासनमिदं भवेत् || इति योगशास्त्रप्रसिद्धसिद्धासने स्थितो योगी, प्. २२३) अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता | एषा सा वैष्णवी मुद्रा सर्वतन्त्रेषु गोपिता || इति श्रुतिसिद्धवैष्णवीं मुद्रामनुसंधाय स्वान्तरनाहतगतं नादं दक्षिणकर्णे सदा शृणुयात् || ३१ || एवं नादश्रवणतः किं स्यादित्यत आह- अभ्यस्यमान इति | एवमभ्यस्तो नादः स्वावारकबाह्यशब्दादिकमावृत्य पक्षमात्रेण स्वविपक्षभूतस्वातिरिक्तास्तित्वं निर्मूल्य नादसाधनो योगी तुर्यतुर्यपदं स्वमात्रमिति ब्रजेत् || ३२ || नादेयत्तां तदभ्यासानुभवं च प्रकटयति- श्रूयत इति || ३३ || कथम् ? आदौ || ३४- ३५ || तत् किं ग्राह्यमित्यत आह- महतीति || ३६ || यथाकथंचित् नादात् न चालयेदित्याह- घनमिति || ३७ || जलध्यादिभ्रमरनिस्वनान्तनादेषु यत्र कुत्र वा मनः स्थिरीभवेत् तेन नादेन साकं चिदाकाशे विलीयत इत्याह- यत्रेति || ३८-३९ || तदितरकार्येषु उदासीनः || ४० || यतो नादाभ्यासः क्षिप्रफलदः अत एव सर्वचिन्ताम् || ४१ || नादस्य मनोनियमनसामर्थ्यम् मकरन्दं पिबन् भृङ्गो गन्धान् नापेक्षते यथा | नादासक्तं सदा चित्तं विषयं न हि काङ्क्षते || ४२ || बद्धः सुनादगन्धेन सद्यःसंत्यक्तचापलम् | नादग्रहणतश्चित्तमन्तरङ्गभुजगमम् || ४३ || विस्मृत्य विश्वमेकाग्रं कुत्रचित् हि धावति | मनोन्मत्तगजेन्द्रस्य विषयोद्यानचारिणः || ४४ || प्. २२४) नियामनसमर्थोऽयं निनादो निशिताङ्कुशः | नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते || ४५ || अन्तरङ्गतरङ्गस्य रोधे वेलायतेऽपि च | नादासक्तं चित्तं सदतिरिक्तविषयं न काङ्क्षतीति सदृष्टान्तमाह- मकरन्दमिति || ४२ || नादपाशनिरुच्छ्वासबद्धं चित्तम् अचलं सत् स्वबाह्याभ्यन्तरं विस्मृत्य स्तब्धीभवतीत्याह- बद्ध इति || ४३ || स्वान्तर्बाह्यं विस्मृत्य स्वस्मिन्नेव स्थिरं सत् न कुत्रचित् परिधावतीत्यर्थः | नादाङ्कुशो मनोगजनियमनदक्ष इत्याह- मन इति || ४४ || नादोऽन्तरङ्गविहङ्गमतरङ्गरोधनजालवेलेन दक्ष इत्याह- नाद इति || ४५ || उपेयनादस्वरूपम् ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः || ४६ || मनस्तत्र लयं याति तद्विष्णोः परमं पदम् | तावदाकाशसंकल्पो यावच्छन्दः प्रवर्तते || ४७ || निःशब्दं तत् परं ब्रह्म परमात्मा समीर्यते | नादो यावन्मनस्तावन्नादान्ते तु मनोन्मनी || ४८ || सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् | सदा नादानुसंधानात् संक्षीणा वासना भवेत् || ४९ || निरञ्जने विलीयेते मनोवायू न संशयः | नादकोटिसहस्राणि बिन्दुकोटिशतानि च || ५० || सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके | प्. २२५) उपायनादस्वरूपमुक्त्वा फलात्मकोपेयनादस्वरूपं तज्ज्ञानफलं च प्रकटयति- ब्रह्मेति | अकारस्थूलांशादिप्रविभक्त- जाग्रज्जाग्रदाद्यविकल्पानुज्ञैकरसान्तकलनोपबृंहणात् ब्रह्म यस्मिन् षोडशमात्रात्मकप्रणवे विराजते स ब्रह्मप्रणवः तत्सलग्नः तदभिन्नः स चासौ स्वज्ञानां पराग्भावं न ददातीति नदः स एव नादः प्रत्यगात्मा स्वयंप्रकाशकतया ज्योतिर्मयात्मको भवति || ४६ || यन्मनः पराक्प्रत्यग्विभागहेतुः तत्र प्रत्यगभिन्नपरब्रह्मणि लयं याति, मनौपलक्षितस्वाविद्यापदाधिकरणं यत् तस्य विष्णोः तद्विष्णोः व्याप्यसापेक्षव्यापनशीलस्य व्याप्यसापेक्षव्यापकताभावे यद्व्याप्यव्यापककलनाविरलमवशिष्यते, तदेव परमं निष्प्रतियोगिकनिर्विशेषं तन्मात्रतया पद्यत् इति पदं विकलेबरकैवल्यमित्यर्थः | किं सदा ब्रह्मप्रणवानुसंधानं कर्तव्यमित्यवधिमाह- तावदिति | यावद्बाह्यान्तःशब्दकामादिप्रतीति तावदाकाशसंकल्पः स्वातिरिक्तशब्दादिप्रपञ्चोऽस्ति नास्तीति विभ्रमसंकल्पविरलो भवेत् || ४७ || ततोऽयं निःशब्दतया विभाति परमात्मेति सम्यगीयते | नादानुसंधानावधिं तत्फलं चाह- नाद इति || ४८-४९ || ब्रह्मप्रणवनादस्य सर्वापवादाधिकरणतामाह- नादेति नादस्य सर्वसाक्षिणोऽधिगमे यान्युपायतया कोटिसहस्राणि साधनानि सन्ति यानि बिन्दोः ईश्वरस्य अधिगमे सालोक्यादितत्पदाप्तिसाधनानि कोटिशतानि सन्ति तानि सर्वाणि || ५० || चशब्दात् ये ये स्वाज्ञविकल्पिताः विकाराः सन्ति ते सर्वे तत्र ब्रह्मप्रणवनादके प्रत्यगभिन्ने ब्रह्मणि लयं यान्ति | ततः प्रत्यगभिन्नं ब्रह्म स्वाधिष्ठेयाभावात् निरधिष्ठानं सत् स्वमात्रमवशिष्यत इति भावः || नादारूढयोगिनां विदेहमुक्तिलाभः सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः || ५१ || मृतवत्तिष्ठते यागा स मुक्तो नात्र संशयः | शङ्खदुन्दुभिनादं च न शृणोति कदाचन || ५२ || काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् | न जानाति स शीतोष्णं न दुःखं न सुखं तथा || ५३ || प्. २२६) न मानं नावमानं च संत्यक्त्वा तु समाधिना | अवस्थात्रयमन्वेति न चित्तं योगिनः सदा || ५४ || जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् || ५५ || दृष्टिः स्थिरा यस्य विना सदृश्यं वायुः स्थिरो यस्य विना प्रयत्नम् | चित्तं स्थिरं यस्य विनावलम्बं स ब्रह्मतारान्तरनादरूपः || ५६ || इत्युपनिषत् || एवं ब्रह्मप्रणवनादारूढयोगिनां स्थितिं तत्कृत्यकृत्यतां विशदीकरोति- सर्वेति || ५१-५२ || ब्रह्ममात्रभावमापन्नो योगी ब्रह्मातिरिक्तकलनां न जानाति ब्रह्मातिरिक्तयोः निष्प्रतियोगिकभावाभावरूपत्वात् इत्यर्थः || ५३-५५ || तस्य ब्रह्मप्रणवनादरूपतां दर्शयन् उपसंहरति- दृष्टिरिति | यस्य दृष्टिवायुचित्तानि दृश्यप्रयत्नावलम्बकलनां विना स्थिरीभूत्वा ब्रह्मप्रणवपर्यवसन्ना भवन्ति सोऽयं विद्वान् ब्रह्मतारान्तरतुर्यतुर्याभिधाननादरूपतया अवशिष्यते, विदेहमुक्तो भवतीत्यर्थः || ५६ || इत्युपनिषच्छब्दौ नादबिन्दूपनिषत्समाप्त्यर्थौ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं नादबिन्दोः स्फुटं लघु | नादबिन्दुविवरणं पञ्चाशदधिकं शतम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे अष्टत्रिंशत्संख्यापूरकं नादबिन्दूपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######