#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00266 Uniform title: niruttaravāda Manuscript : BHU C4247 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमो माया द्विकङ्कालकालग्रासकुलान्त कृत् | व्योमातीत निराभास स्पन्दनानन्दवर्जित || १ || प्. ९३ब्) आलम्ब सर्वमालम्ब निरालम्बनिराकृते | गुणागुणपरिश्रान्त निष्क्रान्तः शक्तिसागरः || || निष्कम्पो निष्कलश्शुद्धो निरानन्दः स भैरवः | शून्यं शून्यं तथा शून्यं शून्याशून्यान्तरालिनम् || ३ || अशून्यं सर्वभावेषु प्रलयोत्पत्तिकारणम् | तद्ग्राह्यभावनातीत इन्द्रियातीत वर्जितम् || ४ || व्योमव्याप्तित्वनन्तात्म निषेधः सर्वभावतः | जाग्रत्स्वप्नविनिर्मुक्ता सौषुप्तान्तरचारिणी || ५ || तुर्यातीता पराकाष्ठा सा काष्ठा या पराशिवा | सर्वत्रावस्थितं देवं मात्रातीतं सुनिर्मलम् || ६ || भावाभावविनिर्मुक्तं निर्मुक्तं शङ्कयाहतम् | प्रमाणप्रत्यंयातीतं गमागमविवर्जितम् || ७ || प्. ९४अ) प्रभुं सर्वस्य देवेश निश्शेषं वद मे प्रभो || ८ || संशयो मे महानस्ति मायध्वपरिवर्तितः | अनेकभेदगूढार्थं श्रुतं यच्चेन्द्रजालकम् || ९ || सिद्धान्तं तत्र वै शेषं ज्ञानभेदं कुलागमम् | मन्त्रार्थगहनं चैव तत्त्वार्थगहनं तथा || १० || शब्दार्थं नैव जानामि पदवाक्यप्रमाणतः | भ्रान्तबुधिरहं देव भ्रामिता बहुदासनैः || ११ || केनोपायेन देवेश ज्ञातव्यं वस्तुरूपता | येन तज्ज्ञायते सत्यं दम्भमायाविवर्जितम् || १२ || नन्दिस्कन्दगणेशाद्यैर्दृङ्गिनायोगिनी कुलैः | मुनिभिर्ब्रह्मविष्णीशेरिन्द्रसूर्यगणैस्तथा || १३ || कथितं परमं स्थानं यत् स्थानं विदितं न तु | प्. ९४ब्) ततोधिकं यदस्तीति वदमसुरनायक || १४ || नित्यभक्ता त्वहंदेव कर्मणा मनसा गिरा | प्रसादं कुरुसङ्क्षेपाद् येनोपायेन मुच्यते || १५ || आयासरहितं ज्ञानं प्राणायामविवर्जितम् | धारणाध्याननिर्मुक्तं योगतर्कादिदाहितम् || १६ || व्रतयज्ञक्रियाहीनं निष्क्रियं तीर्थवर्जितम् | प्रसन्नात्मा जगन्नाथ वदेतद्भक्तवत्सल || १७ || शृणुष्वेकाग्रभावेन यद्वस्तु परमं पदम् | नैव तत् कथितं भद्रे गुरोः शुक्रस्य वान्यपि || १८ || गणेशस्य क्रमानस्य भुङ्गिनन्दस्तथैव हि | गोपितं सर्वशास्त्राणां पाशाणस्थो यदा शिखी || १९ || प्. ९५अ) लीनोनान्तरितोप्येव दृश्यते युगलाहते | तद्वच्छिव मनामेयं दृश्यते न च दृश्यते || २० || यथा सलिलमध्ये तु अनलो विशते बलात् | स्थालिकान्तरयोगेन ह्यन्तर्लीनः प्रपद्यते || २१ || तद्वच्छिवं सर्वगतं व्योमाभासं यथा स्थितम् | तिले तैलं द्रुमे च्छाया सौषुप्ते कुलमध्यगम् || २२ || वंशेलीहालफलकं शिखा वास्ये शिखेर्यथा | विचित्रपक्षपक्षाढ्यं वाष्पान्ते नैव दृश्यते || २३ || विमले वारिमध्ये तु सैन्धवं यत्र संस्थितम् | न तस्य रूपं दृश्येत आस्वादपरिवर्जितम् || २४ || न्यग्रोधबीजं न्यग्रोधे शूल्वं चान्तरकाञ्चने | षड्रसंभूमिभागे तु आकाशे वार्णसाधनम् || २५ || प्. ९५ब्) तद्वत्समरसीभावं शिवं शान्तं जगत्पतिम् || २६ || अत्यद्भुतं महादेव अज्ञानं दुस्सहं महत् | केनोपायेन सोगम्यः सर्वोपाधिविवर्जितः || २७ || ग्रहणं तस्य नास्तीति स्फुटं मेव दहे प्रभो | येन ज्ञातेन वै तृप्तिर्जायते त्रिपुरान्तक || २८ || तूष्णीं भावं परित्यज्य ब्रुहिवाक्यं महोदयम् || इति श्रीपरमरहस्ये निरुत्तरवादे भैरवश्रोतोविनिर्गत त * दे * नि * ये प्रथमोद्देशः || || श्री * * र उ * च || कथयामि यथा तथ्यं कपटज्ञानवर्जितम् | भ्रमभ्रान्तिं परित्यज्य ग्राहयेत् परमं पदम् || १ || प्. ९६अ) ध्यानान्तः करणैर्मुक्तं स्नानं पञ्चादिकेष्वपि | चिन्तया रहितं चित्तं निश्चित्तं परमं पदम् || २ || कुम्भपूरकरेश्याद्यैः प्रशान्तपवनैः सह | दशवायु स वृन्दानि दशसाहस्रकानि च || ३ || प्रत्येकं तु सहस्रात्मा प्राणाद्यास्तु धनञ्जयः | दशसाहस्रनाड्योघे संस्थितः कुलमध्यगः || ४ || वायुवृन्दं परित्यज्य तत्ववृन्दं तथैव च | मन्त्रजालं महादुर्गं क्रियाजालं परित्यज || ५ || शास्त्रजालमनेकार्थं त्यजसर्वं पलालवत् | षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् || ६ || लक्षस्थानं परित्यज्य घण्टिकाग्रं तथैव च | द्वासप्तति सहस्राणि नाडिवृन्दं परित्यजेत् || ७ || वस्तिपीडी न किं कार्यं मेढ्रानन्देन किं फलम् | प्. ९६ब्) गृह्यानन्दोद्भवे चक्रे क्लिन्ना संपीडनेन तु || ८ || न तत्र फलसिद्धानां केवलं बन्धनात्मकम् | योगिनी मेलकानन्दात्तदा तेषां प्रकाशितम् || ९ || निस्तरङ्ग मदोन्मत्त मदिरा लिंचिचात्मकात् | तत्रकाले मयाप्रोक्तमानन्दं जघनेस्थितम् || १० || तदा नन्दं जरात्यस्मिन् दृष्ट्यर्थं कथितं मया | तत्राधिकं तु परतो यत्र सृष्टिर्न जायते || ११ || शक्त्यानन्दं न चा नन्दं शिवानन्दं न चैव हि | आनन्दोज्झितमानन्दं सुषुप्त इव संस्थितम् || १२ || अतीन्द्रियं न च ग्राह्यं व्योमव्यापी सदाशिवम् | बुद्धीन्द्रियविनिर्मुक्तं कालाकालविवर्जितम् || १३ || न मनो न च वै बुद्धिरहङ्कारश्च विद्यते | प्. ९७अ) न प्रमाणं प्रमेयश्च न गुणो दोष एव च || १४ || न सत्त्वं न रजो वापि न तमो भूमिरेव च | न वर्णं वर्णजातीनां न गेयं वेदनादिनाम् || १५ || न तर्कं नाडिसञ्चारं क्रियाधर्मविवर्जितम् | न सोमं सूर्यमित्याहुर्हुताशनमपि प्रिये || १६ || न वेगपवने शान्तैर्न भूमिर्नान्तरिक्षगम् | न यक्षो न च नागेन्द्रं धर्माधर्मविवर्जितम् || १७ || न कुब्जं का च कुण्डं च न हीनमुत्तमं स्थितम् | न बीजं वनवृक्षं वा औषधं न च विद्यते || १८ || रसं रसायनं वापि न दीर्घं ह्रस्वमेव च | गमागमैर्न लिप्येत अब्युच्छिन्नप्रवाहनम् || १९ || शून्यं शून्यं तथा शून्यमानन्द पद वर्जितम् | स्त्रीसुखानन्दनिर्मुक्तं विषयानन्ददूषकम् || २० || प्. ९७ब्) निर्भरानन्दगहनं विमलानन्दचेतसः | व्योमानन्दरसोन्मत्तं बोधानन्दपरिप्लुतम् || २१ || निरानन्द पदं शान्तं निर्वाणं विषयान्तकम् | व्योमस्थं व्योमरूपस्थं व्योमात्माव्योमसम्भवम् || २२ || पञ्चव्योमात्मकं देवमनादिं प्रभुमव्ययम् | तस्य सृष्टिः स्थिता चान्ते यो जानाति स तत्ववित् || २३ || मध्यावसान जातिं च तस्य ह्येकत्र लक्षयेत् | क्रियाज्ञानं तथेच्छा च अब्युच्छिन्नं प्रवर्तते || २४ || तस्मात् सर्वप्रयत्नेन मृतसंज्ञां परित्यजेत् | तत एवागतं पिण्डं तत्रैव च स गच्छति || २५ || शून्यालयाच्छक्ति विलादुत्पन्नमखिलं जगत् | प्. ९८अ) लीयते तत्र वै स्थाने पुनस्तत्र समागमम् || २६ || समागमैर्न लिप्येत अब्युच्छिन्नप्रवाहकम् | आदौ तु ह्यखिलं सर्वं पश्चात् सृष्टिः प्रवर्तते || २७ || पुनस्तत्रैव लीयन्ते मध्यमा सा कुतो धृतिः | शिवात्प्रसूयते पिण्डं शिवे पिण्डं पुनर्व्रजेत् || २८ || शक्तिक्षोभाद्भवेत्पिण्डमक्षोभाच्छून्यरूपिणम् | यो सा वतींन्द्रियग्राह्यः सर्वव्यापी परापरः || २९ || तस्माच्छक्तिर्विनिष्क्रान्ता मातृकाचक्रबोधिनी | शिवशक्ति परित्यागान्न पिण्डं पिण्डबन्धनम् || ३० || सर्वं प्रलीयते शून्ये जगत्स्थावरजङ्गमम् | यदा लीयन्ति सर्वेत्र तदा लिङ्गमुदाहृतम् || ३१ || मनो लिङ्गं चिदाशक्तिः स्पन्दनं कन्दमूलजम् | प्. ९८ब्) यदा ह्येकत्र त्रितयं नित्यतो यो पि भावयेत् || ३२ || स मुक्तः सर्वबन्धेभ्यो शचनं? निर्मलं यथा | न च लिप्यति पापेन कर्मणा मनसागिरां || ३३ || शिवं सर्वगतं ध्यात्वा कोन मुच्येत बन्धनात् | सर्वं शिवात्मकं विश्वं या क्रिया सा शिवात्मिका || ३४ || यो विकल्पः स घोरास्त्रं या शुद्धिः सा परास्मृता | अशुद्धा नित्यमुच्छुष्मा सङ्कीर्णो यः स भैरवः || ३५ || यो मद्यः स च मार्ताण्डो या सुरासा उमा स्मृता | ब्रह्माद्याः शिवपर्यन्तं पञ्चद्रव्याः प्रकीर्तिताः || ३६ || अशुद्धोमिति नास्तिहं पञ्चभूतैरधिष्ठिताः | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्शिव एव च || ३७ || प्. ९९अ) नासा चक्षुस्तथा श्रोत्र मास्यं मेढ्रं तु पञ्चमम् | एते मला ह्यधोभागे ऊर्ध्वं नित्यं प्रदीपकः || ३८ || पश्यते जिग्रते नित्यं श्रूयते रमते स्पृशेत् | पञ्चैते देवता मूले कुललिङ्गे प्रतिष्ठिताः || ३९ || मांसं रक्तं तथास्थीनिस्नायुमज्जा तथामलम् | शुक्रं श्लेष्मं शिरोलोमा ये चान्ये चाङ्ग सन्ततौ || ४० || द्विजादि म्लेच्छपर्यन्तं गोश्वापशुषुसंख्यया | तत्रस्थं परमं साक्षात् तृणकाष्ठे विशेषतः || ४१ || वायूनां च तथा नाम दशानां परिसङ्ख्यया | सूर्यानन्दं रसानन्दं समानन्दमुदानतः || ४२ || व्यानानन्दं जनानन्दं कूर्मानन्दं कृकोदरम् | अहङ्कारोथ नवमं दशमं तु धनञ्जयम् || ४३ || प्. ९९ब्) प्राणोपानेश्वरीशक्तिरपाने गुदरोधिनी | सर्वतो देवतामार्गे ब्रह्माद्यष्टौ प्रकीर्तिताः || ४४ || अकलर्कमलश्चण्डः पुण्ड्रवातपनान्विताः | पवनो यामदैवत्यः शङ्करश्चाष्टमः स्मृतः || ४५ || समाने समना नाम अपाने उन्मनी स्थिता | व्याने तु च?क्रकी देवी नागे तु भुजगी परा || ४६ || कूर्मे सङ्कोचिताशक्तिः कृकरे कर्मवाहिनी | देवदत्ते अहङ्कारी नित्यरूपा धनञ्जये || ४७ || दशशक्ति स्थिता नित्या वायुमध्ये खमाश्रिताः | नाभि चक्रे स्थिताश्चान्याः कोट्यो द्वासप्ततिः क्रमात् || ४८ || मध्ये तु भैरवः साक्षाद्व्योमाभासो जगत्गुरुः | निरामयः परं शून्यो नाभिमध्ये विराजते || ४९ || प्. १००अ) गुदपद्मं सदाभुक्त्या कालरुद्रः प्रतिष्ठितः | रक्षमानस्तकं पिण्डं विनोदार्थे विजृम्भते || ५० || सर्वनाडि मयंदेवं रोमावलि वलीकृतम् | सहस्रलक्षं कोट्याभमिच्छाशक्ति प्रदीपकम् || ५१ || अदृश्यं भुवनाधारं पिण्डं पिण्डे व्यवस्थितम् | अनेक विश्वरूपेण एको * * *? रञ्जनः || ५२ || न चात्र तपसा लभ्यो न दानैः * * * * *? | गुरुवक्त्रप्रयोगेन लभ्यते सर्वतोदितम् || ५३ || अन्यथा शास्त्रकोटीनां भ्राम्यते न च लभ्यते | सोपदेशं परं शान्तं सम्प्रदायं सुनिर्मलम् || ५४ || मुखागमेन युक्तात्मा शुद्धाभावान्वितेन च | लभते निर्मलं भावं मदशाठ्यं विवर्जितम् || ५५ || प्. १००ब्) यदि तुष्टो भवेच्छम्भुर्यदि जन्म न विद्यते | तदा प्राप्य गुरुस्थानाद्वक्त्रावक्त्रेन वेदयेत् || ५६ || प्रत्यक्षं दर्शयेद्देवं यस्य विश्वं हृदि स्थितम् | भावपूर्वप्रयोगेन धर्माधर्मक्षयेण तु || ५७ || विकल्प ध्वंसने देवि * * * स्थापयेत् गुरुः | सर्वावस्थं शिवं ज्ञात्वा कोन मुच्येत बन्धनात्? || ५८ || प्रसन्नात्मा यदित्वं मे माखिद्यः प?रनायक | निरुपाधि विहीनात्मा? क्रियाकारणवर्जितम् || ५९ || उपायं? केन मात्रेण ग्राहयेत्कुलभैरवः | अन्तर्देह गतं चित्तं चञ्चलं चपलं तथा || ६० || भवेन्निश्चलता येन उपदेशं * *? हमे | प्. १०१अ) येन विज्ञातमात्रेण भवते च्छिन्नसंशयः || ६१ || न बद्धो न च वा मुक्तो नैव बद्धो विमोचयेत् | यदि बन्धात्मकं विश्वं तदा मोक्षं प्रपद्यते || ६२ || निर्मुक्तः सर्वबन्धेभ्यः स्वतन्त्रः परमेश्वरः | बद्धोसौ स्वविकल्पेन न च बन्धं शिवस्य हि || ६३ || शिवं शक्तिस्तथा चात्मा एकीभावेन सुन्दरि | बन्धं चैव न तस्यास्ति विभुत्वात् सर्वतः शिवः || ६४ || बन्धं मोक्षं मया चोक्तं त्रितत्व पद भेदकम् | सत्याकारं च देवेशि न बद्धो न च मुच्यते || ६५ || शास्त्रे शास्त्रे मया चोक्तं गोपितं परमार्थतः | विभीषिका महारौद्रा नरकादि भयावहा || ६६ || सृष्टिसंरक्षणार्थाय कथिता तव सुन्दरि | प्. १०१ब्) पूर्वैव कथितं सर्वं सर्वं सर्वगतं शिवम् || ६७ || तावच्छङ्का भवेद्देवि यावत् तत्त्वं न विन्दते | विदितेस्मिन् परे तत्वे विचरेत् पवनो यथा || ६८ || बन्धं नामेति या संज्ञामासंज्ञा वस्तु निष्फला | सर्वं शिवमयं भद्रे पौनः पुण्येन कीर्तितम् || ६९ || या दृशेच्छा अनिच्छा या शुद्धाशुद्ध पदद्वयम् | सदाशिव मयेच्छा च न क्रिया परतः शिवः || ७० || शिवं क्रिया क्रिया भेदमेकत्वे च सदा नघे | येन येन हि मार्गेण या दृशे तादृशेन वा || ७१ || तेन ते नैवमार्गेण नास्ति बन्धं शिवात्मकम् | इति श्रीपरमरहस्ये निरुत्तरवादे शब्दं? वश्रोतसि द्वितीयोद्देशः || प्. १०२) श्रीदेव्युवाच सत्यं वद महादेव दुःखान्त परमेश्वर | येन विज्ञातमात्रेण न भूयः परिवर्तनम् || १ || शृणु देवि परंगुह्यं यत्सुरैरपि दुर्लभम् | तदहं संप्रवक्ष्यामि शृणुष्वेक मनाः प्रिये || २ || बहुमाष? प्रयोगेण शास्त्रं शास्त्रेण दूषितम् | बहुवादरताचार परस्परविरोधतः || ३ || बहुशास्त्रोपदेशं च क्रीडार्थं निर्मितं मया | यदा त्वेकाकिनं देवि नरमामि कुलान्तिके || ४ || तदा विविधशास्त्राणि निर्मितानि यागत्रये | एकाकी परमो देवः शक्त्या सह तु क्रीडति || ५ || प्. १०२ब्) यो सौ कामेश्वरो देव उत्पत्ति लयकारकम् | तेन रूपं स्वयं दृष्टमरूपं दर्शयेत् तथा || ६ || मन्त्रचक्रं योगि चक्रं कोटि कोटि परिवृतम् | एको देवो न चान्योस्ति किं वा द्वन्द्वेन कारणम् || ७ || शास्त्रभेदं किमर्थं वै किं वा द्वैत विधिक्रमम् | अद्वैतं कथितं सर्वं द्वैतं नास्ति महाप्रभो || ८ || श्रीभैरव उवाच कथिना द्वैतताचारे ह्यद्यैतमुपलभ्यते | यथा तिलाङ्कुरे बीजमूर्ध्वं दृश्यन्ति तांस्तिलान् || ९ || महीक्षिप्तविभागेन अष्टधा दृश्यते प्रिये | मूलं दण्डं तथा शाखां पत्रं पुष्पं तथैव च | फलं बीजं तथा स्नेहं पश्यन्ति तिलसंमतम् || ११ || प्. १०३अ) सर्वं प्रलीयते बीजे बीजं दे?हानुवर्तिनम् | एवं पुर्यष्टके देवि शिवं माया विनंविभुम् || १२ || निश्शेषमखिलं देवि व्याप्तिरेषा शिवेच्छया | शिवं सर्वगतं ध्यात्वा इच्छावेच्छान्तरालिनम् || १३ || इति श्रीपरमरहस्ये निरुत्तरवादे भैरवस्रोतसि प * श * तृतीयोद्देशः || || पशुपानं न चैवास्ति प्रोक्षणं समयं तथा | आचारेण तु किं कार्यं के पाशाः कः पशुः स्मृतः || १ || श्रीभैरव उवाच यावदज्ञानभेदोस्ति भवपाशास्तदुत्थिताः | ज्ञात्वा ज्ञेयं गुरुस्थानात् साकृन्निर्छन्ति लक्षणम् || २ || प्. १०३ब्) तत्रैव काले युक्तात्मा पाशमुक्तो यथा खगः | प्रलीयति तदाभ्यासात् स्नेहवर्ति क्षयान्तरे || ३ || सुतप्तायासभाण्डेषु क्षिपेज्जलकणान्वहून् | पतिताः प्रलयं यान्ति तद्वछून्ये चिदात्मकम् || ४ || यथाधमोज्ज्वलं लोह विस्फुलिङ्गान्वितं महत् | धामनिर्यासकाले तु क्रमाच्छीतलतां व्रजेत् || ५ || यद्वन्निरामये स्थाने यत्ररूपं न विद्यते | शान्तेन्ध न शिखां यद्वत् प्रदीप्तस्तत्र लीयते || ६ || भस्मकीटात्प्रमुच्येत पावको नैव दृश्यते | सौषुम्णे इन्द्रियाअर्थेषु नोपलब्धिः प्रदृश्यते || ७ || तद्वच्छिवं समारम्भे न किञ्चिदुपलभ्यते | प्. १०४अ) वृद्धकाले तु बालत्वं पिण्डस्थोस्य न दृश्यते || ८ || विलीनवृत्ति निष्क्रान्ते निरुपाधि वशानुशः | सर्वं व्योमार्णवे लीनं न किञ्चिदपि चिन्तयेत् || ९ || न किञ्चिच्चिन्तनात् सो हि न मुह्यति न नश्यति | व्योमाकारं सदाभावे तद्भावभावनाशनम् || १० || अहङ्कारवशात्क्षीणे निरभ्रोगगनो यथा | मुक्तश्चरति युक्तात्मा मारुतो गगने यथा || ११ || न तस्य लोपा विद्यन्ते क्षीणचित्तान्वितस्य च | क *? मल कवन्मुक्तिः प्रत्यक्षमुपलभ्यते || १२ || मुक्तिर्मुक्तिः पुनर्मुक्तिर्न मुक्ति पिण्डपातनम् | ऊर्ध्वोत्क्रान्तिं परित्यज्य अधः संपीडनं तथा || १३ || चक्रभेदमनर्थं वै उद्घातं मारुतैस्सह | प्. १०४ब्) क्लिश्यन्ति तेन तत्वज्ञः केवलं काये शासनम् | अक्लेशभावे विज्ञानं नित्यं सर्वगतं शिवम् || १५ || श्रीदेव्युवाच भ्रामिता गहने देव भ्रान्ति निर्नाशनं वद | व्योमाभासं त्वया चोक्तं स्थानोद्देशेन किं च वा || १६ || पिण्डस्थ पदरूपेण रूपातीतं न किं प्रभो | एतन्मे संशयं घोरमघोरवचनं वद || १७ || श्रीभैरव उवाच महाग्रन्थि युतं स्थानं महामाया विमोहितम् | काण्डिलीकुलभोक्तृत्वं कर्मस्थाना वली स्थितम् || १८ || आनन्दमात्रमात्मानं यावश्चेच्छा कुलोद्भवेत् | मुच्यमानं तु तं स्थानं न युक्तिरिति निश्चयम् || १९ || पद * *? र्यये क्षेपि? अष्टभेदान्तरालिनम् | प्. १०५अ) मर्त्या?नन्दमयं तच्च इच्छाशक्तिरधिष्ठितम् || २० || इच्छाशक्तिः शिवेलीना पदं तस्मात् परित्यजेत् | रूपस्थमीश्वरं तत्वंमवलम्बं शिवं प्रिये || २१ || अरूपं सर्वतः क्षीणं गमागमविवर्जितम् | निर्भ्रान्तं सर्वनिर्मुक्तमगोचर पदे स्थितम् || २२ || चतुर्धा कथितं मार्गं यावत् पिण्डस्य लक्षणम् | नष्टे दग्धात्मके देहे कस्य पिण्डं पदं क्रमम् || २३ || यावत् पिण्डान्तरे देही तावद् विज्ञान लक्षणम् | प्रलीने शून्यमार्गेण कुतो दानं कुतः क्रिया || २४ || तावत् ते चतुरो वर्णा यावत् तत्वं न विन्दति | विदितेस्मिन् परे तत्वे सर्वे?वजीद्विर्गा?तयः || २५ || प्. १०५ब्) स्मृतिरूपा भवेच्छक्तिर्मन ईश्वर भैरवम् | क्रोधं कालाग्नि रुद्रं वै मोहं माया तथा प्रिये || २६ || वृत्याचित्य मया ऊर्मी संभोगं रुद्रक्रीडनम् | दुःखः संसारभधन्दान्मरणं? भैरवालये || २७ || षान्तं? शीहा? तथा नन्द मैथुनं पिण्डसारथिः | अटनं तु रथं दिव्यं निष्ठान्त कालभैरवम् || २८ || यत्किञ्चित् कर्मसङ्घातं तत्सर्वं शिव चोदितम् | अदृष्टविग्रहाशक्तिरव्युच्छिन्न प्रवाहिनी? || २९ || उभयोः क्रीडनार्थाय संस्थितिर्भुवन त्रये | *? र्मेच्छा च शिवेच्छा च क्रियेच्छा त्रितयः उमे || ३० || पञ्चे?च्छा भूतरतिनी भूतपञ्चकमालिका | उस्विता? पञ्च?रन्गैश्च? नानारूपं विपद्यते || ३१ || प्. १०६अ) नानात्वं भेदमुत्पन्नं भेदामन्त्रान्यनेकशः | मन्त्रा हि देवतानाम कोटी कोटिरसङ्ख्यया || ३२ || पञ्चभूतात्मकं विश्वं पुनः पञ्चसुलीयते | पञ्चैते भक्षयेन्नित्यं न पञ्चरहितं क्वचित् || ३३ || पञ्चरङ्गेन रचितं विचित्रभवसागरम् | एकत्रपा?दतं सर्वं स्त्रीपुमांस्तियग्योनयः || ३४ || औषधं विविधं ऋक्षपर्वताश्च वनस्पतीः | ह्रदतीर्थ नदी नद्य उद्यानं तृणगोचरम् || ३५ || सदृशं नैव दृश्येत पञ्चभूता क्रिया सदा | वक्त्रे वक्त्रेन सा दृश्यं पितुः पुत्रस्य भामिनि || ३६ || माता च दुहिता चैव भ्रातरोप्येक योनिजाः | वृक्षं वक्षेन सादृश्यं तोयं तोये तथैव च || ३७ || प्. १०६ब्) गिरिकूटे गिरेः कूटमेकरूपं न दृश्यते | नदी नद्यानमादृश्यं पुष्पे पुष्पं तथाविदुः || ३८ || एवं पञ्चविधं मूले शिवशक्तिरधिष्ठितम् | रमते जृम्भते देवो मोदते वदते क्रियाम् || ३९ || क्वचिद्दास्य मयं पिण्डं क्वचिन्निर्धन * *? तम् | क्वचिद्व्याधि मयं रुद्रे क्वचिद्दिर्घा * * * *?म् || ४० || क्वचिद्दुश्शीलतां याति सुशीलत्वं? क्वचि * *? म् | क्वचिद्विद्याधरो रूपी क्वचिन्मूर्ख विरूपिणम्? || ४१ || क्वचित् सर्पः क्वचित् कीटः क्वचित् पक्षी च वानर | ना?चिद्रविशशीतेजः क्वचिन्मरणजीवितः || ४२ || एवं बहुविधं चित्त्रं विचित्रं भूतपञ्जरम् | प्. १०७अ) पञ्चभूतविभागेन अविभागेन चेतसा || ४३ || येन ज्ञातं *? यो * *? ह्यन्यथा पशुबन्धनः | शुद्धाशुद्धं न व * * * * * * * *? स्थितः || ४४ || एकतः सर्वभावानामेकतः परमार्थतः | एकतो ब्रह्मपदवी एको *?व उमापतिः || ४५ || * * * * *? संस्थायी नश्यति न च नश्यति | ब्रह्मसर्वमयभद्रे ज्ञातव्यं निश्चयात्मकम् || ४६ || ज्ञेयं ज्ञाते भवेन्मुक्तिरन्यथा भवबन्धनम् | न यज्ञदानदातृत्वैर्न तीर्थगमनेन च || ४७ || न च वै भृगुपातेन न च वह्नि जलान्तरे | न च कृच्छ्राति कृच्छ्रेण न च चान्द्रायणेन वा || ४८ || प्. १०७ब्) निराहारेण मुक्तिः स्यान्नमुक्तिः पिण्डपातने | निशा?या * *? चित्तं निरुद्वेगं सदाकुरु || ४९ || अष्टतीतमयं पि * * * * *? समन्वितम् | सन्घे? हतपपीठाद्यैरष्ट? * * *? भितं कुलम् || ५० || नागाष्टकग्रहै युक्तं दिगष्टकविरूपितम् | वाम?दक्षिणमध्यस्थं कुलकौलान्तरालिनम् || ५१ || त्रि त्रिंशत्कोटि देवाढ्य * * *?च्छिवली कृतम् | सर्वं देहान्न *? लीनं यधोक्तं पूर्वचोदितम् || ५२ || स्वलिङ्गं पूजयेन्नित्यमविकारेण योगवित् | यं यं भोगावृतं चित्तं तं तं मनसि दापयेत् || ५३ || तस्य तस्य च भावेन शान्तं शान्त मनुस्मरेत् | तस्य तस्य न चोत्पत्ति खरूपी सर्वतो मुखः || ५४ || प्. १०८अ) स शिवः केशवत्दैव? स ब्रह्मा सूर्य एव च | हृताशनो यमः सो हि दर्शनादघनाशनः || ५५ || स्पर्शनान्मुच्यते तस्य यत्र ब्रह्मविदः स्मृताः | स?देहः शुद्धि मायाति किं? पुनर्निकटान्वितम् || ५६ || आलापाङ्गात्रसंस्पर्शान्मोचयेत् पावकौघहा | * * *? तिष्ठते तस्य मेलकं *?शि *? र्वृते || ५७ || इति श्री र * स्ये * दे * *? सि प स र्ण चतुर्थ उद्देशः || ४ || श्रीदेव्युवाच निश्चितं सर्वतो देव महाभवविनाशनम् | सा * *? हृदि मे ग्राह्यं ह्यग्राह्यं पशु भारतः? || १ || ज्ञातव्यं परम *? वं शून्यान्यं शून्यसंभवम् | प्. १०८ब्) कस्येच्छा त्रिविधे काले दृश्यते च ह्यनेकधा || २ || शिवात्मकमिदं सर्वं शिवो देवो न दान्यथा | तस्य भेदं कथं देव दृश्यते भुवन त्रयं || ३ || नानात्वं गहनं नाथ मन्त्रतन्त्रार्थ चोदनात् | नग्रहं निग्रहं क्रू?रं भक्तिर्वा शाठ्यमेव वा || ४ || मृतेति संज्ञा क?स्यैवं को वा निर्जीवतां गतः | मृत्युसंहारकस्यैवं कोवामृत्युस्त्वयाधिकः || ५ || केनासौ प्रेरयेन्नाथ कस्यार्थे मरणं ध्रुवम् | नित्योदितस्य देवस्य कस्य बुद्धि?क्षयो भवेत् || ६ || एकीभावात्म भावस्य विरुद्धा वहु *? वना | श्रीभैरव उवाच परे शून्ये तमो घोरं तस्यगच्छन्ति ये मृताः | स देवतास्तथा तीर्था गुह्यायतनसंस्थिताः || ८ || प्. १०९अ) पर्वताश्च नदी नद्यो मही?सप्ताब्धि मेखला | सागरा?विविधा भूता ये चान्ये क्रिमिसम्भवाः || ९ || नागा ग्रहा *? हा दक्षाः खेचरा भूचरास्तथा | पीठोपपीठ सन्दोह निर्झरानिर्जरास्तथा || १० || ग्रन्थी ग्रन्थिसहस्राणि मज्जामेधासृजःपलम् | मृतदेहस्य पिण्डस्य न किञ्चिदुपलभ्यते || ११ || सुखं दुःखं न चैवास्ति आनन्दं नैव भावनम् | जिज्ञासारहितं स्थानं यत्र देवो निराकृतिः || १२ || न कालकलना हेतुर्निस्सङ्गसङ्गवर्जितम् | निरालम्बं न चोत्साहं शून्यभूतं शिवात्मकम् || १३ || संज्ञानाशेन निर्जीवं सा सज्ञा व्योमरूपिणी | क्षुब्धाशून्यालयासंज्ञा तस्मात् पिण्डं प्रपद्यते || १४ || प्. १०९ब्) पिण्डज्ज्ञानोपलब्धिं च बोधिमात्रेण संविशेत् | अक्षुब्धरूपनित्यस्था व्योमाभासा कुलान्तवित् || १५ || अकुलस्य स सर्वत्र दृश्यते न च दृश्यते | निर्भ्रान्तं येन वा ज्ञातं तेन ज्ञातं तु भैरवम् || १६ || यथा धूमावलिप्रान्तं क्षीणं दृश्येन्नभोन्तरे | निरा?कृति विलीनासा तद्वद्देही नभो पमः || १७ || संपूर्णतो यं मृत्विण्डमेवात्रैव तु मर्दि?तम् | शनैः शनैस्त तस्यैव परिशेषः प्रवर्तते || १८ || न? जलं भाव्यते? किञ्चित् तद् वद् देही कुलान्तरे | चिदर्थवि?भवं सर्वं ज्ञानमज्ञानगोचरम् || १९ || निरालम्बपदे शून्ये सर्वारम्भविवर्जिते | स्वस्थिरे परमे धाम्नि शिवशक्ति लयान्तरे || २० || प्. ११०अ) निर्नामविषयातीते जन्ममृत्यु विवर्जिते | तत्र याति इदं विश्वं यत्किञ्चित् पाञ्चभौतिकम् || २१ || निष्प्रपञ्चः ले?पाढ्यं स्थिरं चैव मलं ध्रुवम् | एकदा बहुरूपेण भैरवाष्टाष्ट चाष्टकम् || २२ || खेचरी भूचरी चैव गोचरी शाकिनी तथा | किङ्करागणगन्धर्वा ऋषयोप्सरसस्तथा || २३ || औषधास्तु धातुण्डाश्च पञ्चलोहाश्च सम्भवाः | किन्नरा भूपिशाचाश्च क्रिमिकीटसरीसृपाः || २४ || पञ्चभूता महाभूतास्तत्वाः षट्त्रिंशसंख्यया | तथा चाष्टोत्तर शतं त?त्व तत्त्वान्तरालिनम् || २५ || मूलं धातुस्तथा बीजं शून्यं चैवाप्यशून्यतः | एवं संसारविभवं सत्कृतं ह्युमयामह || २६ || विचरामि न एकाकी कदाचिच्छून्यरूपता | प्. ११०ब्) सर्वं सर्वमयं चाहं तत्र मध्ये त्वयामह || २७ || कदाचिदीदृशं? विश्वं दृश्यते परमात्मनि | सर्वं स?मरसघोरं शक्तिसङ्गमसागरम् || २८ || त्वदीयक्षोभमात्रेण चोर्थितं विश्वगोलकम् | यदा पलीयते द्वाभ्यां विश्वं न सह भामिनि || २९ || यदा शून्यं निरालम्भं न किञ्चिदपि चिन्तयेत् | न किञ्चिच्चिन्तनाद्देवि न नश्यति न मुह्यति || ३० || तत्र स्थाने न चानन्दे न शक्तिः शिवमेव च | नोपलब्धिर्न चैवास्ति ना भाव न? विकल्पना || ३१ || केवलं शून्यता नादं द्वितीयो नास्ति निश्चयः || ३२ || प्. १११अ) एतद्रहस्यं कथितं देव दानवगोपितम् | शुक्रस्य नोदितं पूर्वमसुरार्थं न बोधके || ३३ || कस्य दीक्षा भवेद्देव कस्य वा शोधयेत् कुलम् | सर्वत्र संस्थितोहीशः कश्शोध्यः कश्च सिद्ध्यति || ३४ || पाशबन्धं न चैवास्ति समयाचारलक्षणम् | गुरुशिष्य क्रमेणाथ किं कार्यं किं प्रयोजनम् || ३५ || भ्रान्तिमुत्पाद्यते देव भ्रामितांहं तु शङ्कर || ३६ || विकल्पक्षीणचित्तस्य किं दीक्षा कस्य कारणम् | स विकल्पस्य जन्तोश्च जत्रस्य समलस्य च || ३७ || रजरङ्गादि का दीक्षा तस्य भावनिशेशकम् | प्. १११ब्) भावमेता दृशं कृत्वा या दृशं कथितं तव || ३८ || ध्यानं पूजादिकं जप्यं होमान्तं न्यासमेव च | आह्वानकारणं स्थानमारुरुक्षुषु दर्शयेत् || ३९ || दर्शनाद्भवते मोक्षः सर्वगो हि निरामयः | ध्यान पूजादिकं तच्च सर्वं सङ्कल्पसंभवम् || ४० || सङ्कल्प रहिता दीक्षा सा दीक्षादीक्षिता भवेत् | भावाभावविनिर्मुक्तं मुक्ताचारेणसञ्चरेत् || ४१ || युक्तिगूढं परं चान्यं जनाक्लिष्यन्ति चान्यथा | अन्यथा शास्त्र पाण्डित्यं वेदगर्वेषु गर्विताः || ४२ || अन्यथा निस्तरङ्गात्मा लोकाः क्लिष्यन्ति चान्यथा | प्. ११२अ) अन्यथा ह्योपदेशं तु भ्रान्ति युक्तास्तथान्यथा || ४३ || अन्यथा भावनादार्ढ्यं कृत्वादार्ढ्यं तु चान्यथा | अन्यथा परमाशक्तिर्लोकाः क्लिश्यन्ति चान्यथा || ४४ || वाग्वितण्डं च संस्कारं त्यजेच्छब्दार्थसीमसम् | न तर्कं त्राणमित्याहुस्त्राणार्थं परमं शिवम् || ४५ || अद्वैतं चरतेर्नित्यं द्वैतलिङ्गमचेतनम् | धातु दारुमयं लिङ्गं पाषाणोर्थं तु हेमजम् || ४६ || न चैव मृण्मयं देवि मणिजं स्फटिकादिजम् | न चात्र कुरुते त्राणं चैतन्यस्य अचेतनम् || ४७ || सर्वथा भावयेल्लिङ्गं यस्य लीनं चराचरम् | प्. ११२ब्) अद्वैतभावं देवेशि त्राणार्थं सर्वतो भवेत् || ४८ || जन्मजन्मान्तराभ्यासाद्विज्ञानं लभते स्फुटम् | विनाविज्ञानसौन्दर्यात् गुरुणाज्ञापितो यदा || ४९ || तदासौ लभते मोक्षमन्यथा भ्रमणाद्भयम् | अद्वैतं साधयेन्नित्यं सर्वावस्थं शिवात्मकम् || ५० || अद्वैतं परमं धर्ममद्वैतं परमं पदम् | अद्वैतं सुथिरं मोक्षमद्वैतं भोगलक्षणम् || ५१ || अद्वैतं सोपदेशं तु अद्वैतं कुलजाकुलम् | द्वैताद्वैतविधिर्नास्ति प्रविशेच्छाम्भवे पदे || ५२ || समं सर्वगतं शून्यं भाव्यते वस्तु साधनम् | यद्यपि स्यान् महाद्वैतं द्वैतं वन्दे कुलारणी || ५३ || प्. ११३अ) गुरुमग्निं तथा मन्त्रं विभागपरिकल्पना | एषां मध्ये न चाद्वैतमेतच्छास्त्रस्य निर्णयम् || ५४ || यस्मान्नामानि संलक्ष्य उपदेशानि यानि च | नामपर्यङ्कभेदेन एकत्वं चैवमेकधा || ५५ || भ्रमन्ति पशवः सर्वे ये चान्ये गुरुतल्पगाः | भ्रमन्ति ज्ञानसन्दिग्धा अज्ञानपदमोहिताः || ५६ || न ज्ञास्यन्ति परं स्थानं येन मुक्ति प्रबन्धनम् | केचिद्वदन्ति हंसोसौ केचित् प्रणवप्राणिनम् || ५७ || केचिद्बिन्दुं तथा नादं केचिच्छक्ति परामृतम् | केचिच्छक्तिपरानन्दं परं भावं भजन्तिते || ५८ || प्. ११३ब्) पञ्चशून्यात्मकं केचित् केचिच्छब्दलयादिकम् | केचिच्छैवं तथा दैवं केचिज्ज्योतिस्तु गोलकम् || ५९ || षडूर्मि रहितं केचित् घण्टिकाग्रं तथा परे | केचित् मातृकलाबिन्दु अस्पर्शोनादतस्तथा || ६० || केचिदिन्द्रिय हीनं तु केचित् सर्वेन्द्रियैः सह | केचिद्वदन्ति चात्मानं परमात्मनि संस्थितम् || ६१ || प्रकृतिः पुरुषं केचित् केचित् षड्विधमेव च | केचित् प्राणं तथा बुद्धिः केचिद्धैरण्यमेव च || ६२ || केचिज्ज्वलनसङ्कासं केचिच्चादित्यसन्निभम् | ऊर्णातन्तु निभं केचित् केचित् खद्योतमेव च || ६३ || प्. ११४अ) केचित् तत् प्रतिभं चैव केचित् स्फटिकनिर्मलं | केचिद्बालाग्रभागं तु केचिद्ध्र?मावली प्रभम् || ६४ || केचिच्छायामयं रूपं केचित् सूर्यनिराकुलम् | निरालम्ब स्थितं केचित् केचिद्यज्ञफलान्वितम् || ६५ || निस्तरङ्गं तथा केचित् केचिदाभोगलक्षणम् | स्त्रीसुखान्तान्तिकं केचित् केचिन्निष्ठान्तगोचरम् || ६६ || भ्रमं मायायिनं केचित् केचित् सर्वत्रवर्जितम् | लक्षणालक्षणं केचित् केचिदिच्छामनामयम् || ६७ || ऊष्णीभावं तथा केचित् केचिदानन्दमुत्गलम् | इन्द्रियार्थसुखं केचित् केचिच्चक्रान्तरालिनम् || ६८ || द्वादशान्तपरं केचित् केचित्खेचक्रभूषितम् | अनाहतमयं केचित् केचित् घोषान्तिके पदम् || ६९ || एकात्मानन्दिनं केचित् केचिन्नैरात्म्यवादिनम् | ईश्वराद्यं तथा केचित् केचिन्नेश्वरवादिनः || ७० || संपूर्णं परमं केचित् केचिन्मन्त्राक्षरं परम् | पञ्चाशार्ण? मयं केचित् केचित्काशा?नलान्तकम् || ७१ || हेलादोला मयं केचित् केचिन्निर्भ्रान्ति लक्षणम् | सौषुप्तरूपिणं केचित् केचित् तुर्यावलम्बनम् || ७२ || सगुणं निर्गुणं केचित् केचित् पवनसन्निभम् | सनत्का?नन्दता केचित् केचिच्चैव मनामयम् || ७३ || प्. ११५अ) नित्यानन्दं तथा केचित् केचित् स्वातन्त्र्यरूपिणम् | केचित् प्रभावनिर्मुक्तं तत्त्वं तत्त्वेषुसंस्थितम् || ७४ || केचिन्नारायणो विष्णुरजं केचिद्वदन्ति च | केचिद्वै वासुदेवस्य ज्योतिरूपं सनातनम् || ७५ || केचिद् बुद्धं तथा ज्ञेयं केचिद् विज्ञानमेव च | केचिछून्यं तथा भूत्वा केचिन्निर्वाणमेव च || ७६ || धर्मधातुस्तथा केचित् त्रिकालपरिवर्तनम् | नित्यानन्दं तथा केचित् केचिच्चैवमनाहतम् || ७७ || कल्पना रहितं केचित् केचिद्भावनियामिनम् | केचित् प्रणवमित्युक्तं केचित् प्रत्यक्षसंस्थितम् || ७८ || प्. ११५ब्) केचिदस्तीति नास्तीति केचिच्चोभयवर्जितम् | ईदृशं चेदृशं केचित् केचिदानन्दतः स्थिताः || ७९ || केचिद् विभुस्तथा साक्षी केचित् क्षेत्रज्ञमेव च | अतीतव्योमकं केचित् केचिच्छुद्धविवेकजम् || ८० || तद्धर्मधर्मिणी शक्तिः केचिदिच्छन्ति वादिनम् | केचित् *? कुण्डलिनी शक्तिर्जन्मस्थानावलम्बिनी || ८१ || शक्तिर्वीर्य बलोत्साहं कैश्चिद्भाषितमापरः | जन्मस्थान गता शक्तिस्तालुरन्ध्रविसर्पिणी || ८२ || मातृ तत्त्वं तथा केचित् सर्वदेवोपचर्यते | चन्द्रार्कवह्निमध्यस्थं केचिद्भावित चेतसः || ८३ || प्. ११६अ) केचिच्चित्तं तथा चेताः केचित् कर्ताविधीयते | एवमादीनि चान्यानि कोटि भेदेनसंस्थिताः || ८४ || गणितुं नैव शक्येत बहुकोटि शतैरपि || ८५ || केन मार्गेण तत् ग्राह्यं सोपदेशं मुनिर्मलम् | विश्रामलक्षणं ब्रूहि सङ्ख्याभेदं त्यजेन्हर || ८६ || ग्रहो नास्ति न चोत्सर्गं चित्तं यत्र न विद्यते | आनन्दपदसंप्राप्तौ निरानन्दपरिप्लुते || ८७ || निरानन्दपदे प्राप्ते *? माधिर्जन्महारिणी | न तस्य नामगोत्रं च न जातिर्जन्म एव च || ८८ || न कालो भवते चात्र विचार्यं नैव दृश्यते | या दृशं भवते वस्तु तादृशेन भवेत् सह || ८९ || प्. ११६ब्) दृङ्मनोरुचिसङ्कल्पयुगभावोज्झितान्तरः | लभते परमानन्द पूर्णाध्वान्तकराननाम् || ९० || तत्र तुल्यं नास्ति यस्मात् तस्माद् वक्तुं न शक्यते | स्वशास्त्रपालनार्थाय ज्ञानिनां प्रवदन्ति च || ९१ || सन्देहगहनं तथ्यं पशूनां मोक्षणे क्षमः | लब्धज्ञानेन तज्ज्ञेयं यो विन्दति स पण्डितः || ९२ || तस्य बुद्धिर्महाप्राप्तिरन्यववेन्तराटकाः || इति श्रीपरमरहस्ये * * * *? दे * र * स्रो * वि * र्ग * उ * दे * नि * यो * ञ्च * || समाप्तं मिदं निरु *? रवदमिति शुभम् || || ########### END OF FILE #######