#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00267 Uniform title: nirvāṇayogottara Manuscript : BHU C4246 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### वायुना चलते तोयं क्षोभयन्तं पुनः पुनः | निश्चलत्वं न चास्तीति तथा चित्तेति दुर्लभम् || १ || ओं भगवन्देवदेवेश लोकनाथजगत्पते | सङ्क्षेपात् कारणं ब्रूहि यत्र चित्ते सुनिश्चलम् || २ || साधु साधु महाप्राज्ञ दृष्टं ते बुद्धि कौशलम् | कथयामि न सन्देहः पुत्र स्नेहाद्विशेषतः || ३ || प्. ८६अ) त्रिविधं कारणं प्रोक्तं स्थूलं सूक्ष्मं परं च यत् | स्थूलेन रञ्जिता देवा महामाया वशी कृताः || ४ || कारणं तु प्रवक्ष्यामि शृणुष्वेक मनागुह | तालुमध्ये तु करणं निश्श्वासोच्छ्वासवर्जितम् || ५ || नाभिहृद्धाममध्यस्थं कन्दगो वन्दनं मनाक् | तालुसंज्ञा भवेत् तस्य यतो वा चाप्रवर्तिनम् || ६ || तत्र स्थाने कृता बुद्धिश्चित्रं तत्र सुनिश्चलम् | निश्चलं तु यदा चित्तं तदा दृष्टिः प्रवर्तते || ७ || सा च दृष्टिः पराज्ञेया त्रैलोक्यं पश्यते क्षणात् | अगम्यं गम्यते चैव अलक्ष्यं लक्ष्यते तदा || ८ || अनादनादमध्यस्था व्यक्ताव्यक्तं सुनिश्चलम् | तदा प्रवर्तते निद्रा योगध्यानपरायणा || ९ || प्. ८६ब्) आनन्दं भक्षयेद् यस्तु अमृतामृतसम्भवम् | प्रवर्तते निरानन्दं निश्चलस्थाववर्जितम् || १० || निरौपम्यं निराभासं ध्यानधारणवर्जितम् | शून्यं कृत्वा ततो दृष्टिं शून्यं चैव तु लक्षयेत् || ११ || शून्यं शून्यं पुनः शून्यं त्रिशून्यमुच्यते क्षणात् | सर्वं शून्यं निराभास सामरस्यं तदा भवेत् || १२ || घृते घृतं यथा क्षिप्तं क्षीरे क्षीरं तथैव च | केवलत्वं यदा प्राप्तं न किञ्चिदपि चिन्तयेत् || १३ || निस्कामोच्छ्वासिकांस्त्यक्त्वा पूरकश्चामृती भवेत् | कुम्भकं च यदाप्रोक्तं योगिनां योगधारणात् || १४ || निवृत्तिर्यत्र जायेत सर्वं शून्यं प्रवर्तते | शून्यमध्यगतं शून्यं स्थितं व्योमनि व्योमवत् || १५ || प्. ८७अ) न रक्तं न च वा पीतं न शुक्लं कृष्णमेव च | सर्वैर्गुणैर्विनिर्मुक्तः स्थानातीतं परापरम् || १६ || पूरकं च त्वया प्रोक्तं कुम्भकं च पुनः पुनः | नमामि दुर्लभं देवं कथं जानन्ति मानवाः || १७ || वायुना पूरकं कृत्वा कुम्भकं कुम्भवत् पुनः | माया ह्येषा कृता वत्स येन मुह्यन्ति जन्तवः || १८ || कुम्भकं च इदं कृत्वा हृत्स्थानं रूपवर्जितम् | अन्तः शरीरसंस्थं तु न बाह्यं तु कदाचन || १९ || सर्वं स परमं नाम पूरकं चेदमुच्यते | तत्रोत्पन्नं यथाकाशं निश्चलस्थानवर्जितम् || २० || इदं शान्तं तथा पुत्र ब्रूह्येनं च स्वतन्त्रतः | नन्दिना क्रियते मुद्रा ओष्ठौ तत्र प्रपीडितौ || २१ || प्. ८७ब्) शिवं ध्यात्वा मुनीन्द्रैस्तु न किञ्चिदपि चिन्तयेत् | सन्तुष्टोहं महाभोगिर्कथितं ते स्वतन्त्रतः || २२ || मयातीतं परं शान्तं वाग्जाल परिवर्जितम् | मद्भावसन्धिमाख्यातं भावयेच्च पुनः पुनः || २३ || अभावे भावना चात्र महार्थ हितलोचनः | न शक्नोमि महाभोगिन्यदि जन्मशतैरपि || २४ || भावयेत् परमानन्दं यः स्वं वेदसमुक्तितम् | अनन्तं शून्यमित्युक्तं हृच्छून्यं रूपवर्जितम् || २५ || नान्तः शरीरे संस्था तु न बाह्ये तु कदाचन | सर्वं समरसं नाम निष्ठाशून्यं प्रवर्तते || २६ || परे शून्ये प्रलीनास्ते स्वरूपं नैव विद्यते | मनोबुद्धिरहङ्कारं स्थितं माद्वीकशूलवत् || २७ || प्. ८८अ) इन्द्रियाणि तु शून्यानि परे शून्ये लयं गताः | परे शून्ये यदालीनः स्वरूपं नैव दृश्यते || २८ || तूर्यैः पटरुनादैश्च जनकोलाहलैस्तथा | युक्ति तत्त्वस्य निष्णातो न मनः परिचाल्यते || २९ || मयाबन्धं कृतं वत्स स्थानं ध्यानं चराचरम् | केवलस्य कुतः स्थानं ध्यानं तस्य न विद्यते || ३० || धारणादि न चास्तीति सर्वशून्यं च निर्गुणम् | निर्गुणं च परं भित्त्वा भित्त्वा चैव मया कृतम् || ३१ || स्वेच्छया स रसं नाम अत्युच्छिन्नं समन्ततः | धनुर्धरो यथा शूर आकर्णं पूरयेच्छरः || ३२ || लक्ष्यं भित्वा ततो लक्ष्यमेवं योगी सताहितः | न धनुर्न च वा काण्डं लक्ष्यं पुरुषमेव च || ३३ || एवं ज्ञात्वा परं तत्त्वं स्थितं व्योमनि व्योमवत् | प्. ८८ब्) आपूर्यान्यतमं काण्डं स्तम्भ दृष्टि व्यवस्थितम् || ३४ || इदं तत्त्वं यदा प्राप्तं न किञ्चिदपि चिन्तयेत् | न चित्तं न च वा बुद्धिर्न स्थानं वर्णमेव च || ३५ || न च ध्यानं न वा ध्येयं न ग्रन्थिर्वायुमेव च | न ग्रन्थं न च वा ग्रन्थी न बिन्दुं नादमेव च || ३६ || न लक्ष्यं न च वा लक्षी न शिखा तुर्यमेव च | तेदौ मध्यं यदा प्राप्त न किञ्चिदपि चिन्तयेत् || ३७ || न वायुं न च वा काशं न वह्निं सलिलं तथा | न सोमं न च वा सूर्यं न ब्रह्मा विष्णुरेव च || ३८ || न रुद्रं न च वा कालमीश्वरं शिवमेव च | अनाख्यं च निराभासं निस्तत्त्वं च निराश्रयम् || ३९ || छन्नं सर्वगतं शान्तं स्थितं व्योमेषु व्योमवत् | तदा प्रवर्तते किञ्चित् पश्यमेन पुनः पुनः || ४० || प्. ८९अ) तन्मानं च पुनः कृत्वा स्थूलं शून्ये प्रलीयते | सूक्ष्मं शून्यं यदा प्राप्तं परे शून्ये प्रलीयते || ४१ || तस्मिन् स्थाने शुभे प्राप्ते निश्चले निर्गुणे तथा | तत्रैव धारयेच्चित्तं यदन्योस्तीति कारणम् || ४२ || एषा सा परमाकाष्ठा परं चित्तं तथैव च | एषा सा परमा बुद्धिः परा चापि प्रवर्तते || ४३ || योगिनस्तु ततः प्रश्नं पतते नात्रसंशयः | इदं विष्णुर्विजानीयात् पाशः क्रोधेन च्छिद्यते || ४४ || महतां सर्वदेवानां मत्वादेवश्च कीर्तितः | तारयेच्च प्रजाः सर्वास्तुम्बुरुस्तेन चोच्यते || ४५ || ईश्वरत्वे तथापीष ईश्वरत्वं प्रकीर्तितम् | हरते सर्वपापानि हरो देवः प्रकीर्तितः || ४६ || लयनं सर्व जातीनां लयनाल्लिङ्गमुच्यते | एवं सर्वगतं देवं ब्रह्मरूपो न निर्मलः || ४७ || क्रिमिकीटपतङ्गेषु स्थावरे जङ्गमेषु च | यत्किञ्चिद्वाङ्मयं सर्वं सृष्टिदेवं पकीर्तितम् || ४८ || तस्य देवातिदेवस्य शक्तिर्नादयते जगत् | एवं सर्वगतं शून्यं हृदये तत्र लक्षयेत् || ४९ || यदि सर्वगतं देव शून्यं ब्रूहि किमुच्यते | अथ शून्यं परं ब्रह्मलक्षणं ग्रहणं कुतः || ५० || भगवन्देवदेवेश चन्द्रार्धकृतशेखर | एतत् प्रश्नं परं गुह्यं प्रसादं कुरु शूलभृत् || ५१ || षडङ्गेन तु योगेन हृद्यं शून्यं तु ग्राहयेत् | पूर्णं निवर्तनं तेन पूर्णं भावं च लक्षयेत् || ५२ || पूर्णाहुतिं ततो दद्याद्दीक्षाकाले समाश्रिते | प्. ९०अ) भावितात्मा स योगेन सिद्धिः खेचरतां व्रजेत् || ५३ || प्राणायामं तथा ध्यानं प्रत्याहारं च धारणा | तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते || ५४ || एतज्ज्ञान मयं प्रोक्तं ज्ञेयं शून्यं प्रकीर्तितम् | इन्द्रियाश्च ततः शून्यं चित्तं शून्यं तथैव च || ५५ || बुद्धिशून्यं विजानीयादात्मशून्यं ततः पुनः | अग्निशून्यं ततः कृत्वा धर्मशून्यं च निष्कलम् || ५६ || निर्धुमं च परं शून्यं कुम्भमध्ये जलं यथा | हिमकाले तु संप्राप्ते विवर्णं निश्चलं भवेत् || ५७ || एवं खंकाष्ठधूस्तद्वत्खतिष्ठे द्विनियोजयेत् | इदं तत्वं यदाप्राप्तं पश्यते? जन्म बन्धनात् || ५८ || प्. ९०ब्) न प्रवर्तेत चाद्वैतं गृहस्थस्य कदाचन | इन्द्रियेभ्यो यतः सक्तः सक्तोमात्सर्य एव च || ५९ || अविद्या ग्राहयेद्रागमतरागं पुनः पुनः | तस्मान्निवर्तते तत्वं चित्तं येन न निर्जितम् || ६० || निर्जितं च यदा चित्तं तदा श्रेयः प्रवर्तते | शान्तो दान्तो जितक्रोधो भिक्षाशी विगत स्पृहः || ६१ || इदं तु योगिने दृष्ट्वा नन्दनीयः प्रयत्नतः | दर्शनान्मोचयेत् पापं स्पर्शनाद्दीक्षितो भवेत् || ६२ || आलापात्गत्र?संपर्काद्भोजनाच्छयनासनात् | कुलानद्धरते स्कन्द दशपूर्वान्दशापरान् || ६३ || पक्वं चैव प्रतिज्ञानं घटिका च चतुर्विधाम् | प्रथमं धूलि भेदं च द्वितीयं हृच्छेदबन्धनम् || ६४ || प्. ९१अ) तृतीयं ग्रन्थि भेदं च चतुर्थं परमुच्यते | चित्तसम्बोधमात्रेण कथं गृह्णन्ति तत्पदम् || ६५ || केन वा गृह्यते चित्तं कस्मिन् स्थाने प्रलीयते | देवदेव महादेव सर्वस्तत्त्वार्थभेदक || ६६ || ब्रूहि मे परमं ज्ञानं येन सिद्ध्यन्ति साधकाः || खटिका प्रोच्यते मोक्षमुद्धरेत् ग्रन्थि भेदतः | खमिव परमं ज्ञात्वा खटिकेषा प्रकीर्तिता || ६७ || चित्तं चित्ते तु सङ्गृह्य बुद्धौ बुद्धिं तथैव च | सा तु बुद्धिः पराज्ञेया तत्वमार्गानु सारिणी || ६८ || शृणु शून्यस्य वै लक्ष्यं धरं विशति तत्क्षणात् | प्रविष्टे च परे तत्वे समत्वं जायते क्षणात् || ६९ || प्. ९१ब्) समत्वं च यदा प्राप्तं परानन्दं प्रजायते | परानन्दं यदा प्राप्तं न किञ्चिदपि चिन्तयेत् || ७० || प्रविशेत् तन्मयो भूत्वा शिवबीजेन साधकः | तदा न श्रूयते शब्दं शङ्खभेरी स दुन्दुभिः || ७१ || ताडितं च न बिन्देत ततस्तन्मयतां गतः | एतत् ते परमं गुह्यं परं ज्ञेयं न संशयः || ७२ || इदं प्रत्ययमापन्नं तत्गुरुः पाशहा भवेत् | पुष्पं पत्रं फलं तोयं यो दीक्षां कुरुते नरः || ७३ || नवनाभं ततो यागं कृतं तेन न संशयः | अन्यथा कुरुते दीक्षां तत्गुरुर्ब्रह्महा भवेत् || ७४ || भावनायास्तथा शैव द्वैतं चैवमशेषतः | क्लिश्यन्ते ते महामूढाः संसारे च पुनः पुनः || ७५ || द्वैतं चैव महाद्वैतं द्वैतैकत्वं तथैव च | प्. ९२अ) अद्वैतं न च वा द्वैतमतिर्मे परमार्थतः || ७६ || वंशं नाममयाज्ञातं त्वत्प्रसादान्महेश्वर | महारथं कीदृशं च जटा वै कीदृशी भवेत् || ७७ || भास?नाम किमुत्पन्नं किं वा खट्वाङ्गमुच्यते | संक्षेपाद्वददेवेश येन मोक्षं ध्रुवं भवेत् || ७८ || भावयेच्चापरं शून्यमनन्तं परिवर्जितम् | भवच्छेदकरं शान्तं परं कस्मतदुच्यते || ७९ || जटावत् स्नापयेच्चित्तं जटा ह्येताः प्रकीर्तिताः | महास्नानं तदा प्रोक्तं महाव्रतं तदुच्यते || ८० || नास्ति तत्परमानन्दं चित्तकं चित्तवर्जितम् | ततः खकाष्टवत्तिष्ठेत् खट्वाङ्गं तादृशं भवेत् || ८१ || प्. ९२अ) एवं गूढं विजानीयात् गुहवासी तथोच्यते | न नाम ग्रहणान् मुक्तो न काय तमनाच्छुचिः || ८२ || चित्तं धामयते प्राज्ञो मोक्ष इत्यभिधीयते | व्रतस्या चरणं कृत्वा योगं तत्र समभ्यसेत् || ८४ || मयातीते परंब्रह्म लोकत्रयविवर्जितम् || ८५ || व्रतेन सहिता योगाः स्वयं प्रोक्ता महेश्वर | योगहीन व्रतामुढा मुद्रा पञ्चक भूषिताः || ८६ || एतन्मे संशयं ब्रूहि येन निस्संशयो भवेत् || ८७ || व्रतेन सहिता योगाः सर्वं सिद्धि प्रदाः शुभाः | योगहीनव्रतामूढा न मुच्यन्ति कदाचन || ८८ || व्रतस्य चरणं कृत्वा लोकयात्रा विवर्जितम् | प्. ९३अ) निस्पृहो निस्पृहे नित्यं समलोष्टाश्म काञ्चनः || ८९ || शब्दं स्पर्शं रसं रूपं गन्धं चैव तु पञ्चमम् | एतामुद्रा महत्यश्च मुच्यते चतुरं जगत् || ९० || इति मुक्तो व्रजेन्मोक्षं यत्र देवो निरञ्जनः || इ * श्री * र्व * द्धा * नि * ण * गो * रं * मा * म् || शिवं भवतु || ########### END OF FILE #######