#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00127 Uniform title: nirvaṇatantra Manuscript : ngmcp reel c 24/2 manuscript 217b Description: Transcribed from ngmcp reel C 24/2 manuscript 217b . Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 22, 2008 Internet publisher : Muktabodha Indological Research InstituteInternet publisher: Muktabodha Indological Research Institut Publication year : 2008 Publication city : Publication country : United States #################################################### प्रथमः पटलः | श्रीगणेशाय नमः प्. १) कैलाशपर्वते रम्ये नानारत्नोपशोभिते | विपरितरताशक्ता चंडी पप्रछ शङ्करम् || १-१ || श्रीचंडिकोवाच निराकारं निर्गुणञ्च स्तुतिनिंदाविवर्जितम् | सुनित्यं सर्वकर्तारं वर्णातीतं सुनिश्चलम् || १-२ || संज्ञादिरहितं शांतं किमाकारं प्रतिस्थितम् | तस्मादुत्पत्तिर्देवेश किमाकारेण जायते || १-३ || श्रीशंकर उवाच शृणु देवी परं तत्वं वर्णातीतां च वैष्णवीम् | गुणालयां गुणातीतां स्तुतिनिन्दाविवर्जिताम् || १-४ || आकाररहितां नित्यां यस्माद् रागादिवर्जिताम् | पूजनार्थाय देवेशि स्वयमुत्पत्तिकारिणीम् || १-५ || येन रूपेण ब्रह्माण्डो जायते शृणु तत् शिवे | आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः || १-६ || खेरुत्पद्यते तोयं तोयाद्दुत्पद्यते मही | पंचभूतैश्च ब्रह्माण्डा भवेयुः पर्वतात्मजे || १-७ || ब्रह्माण्डोत्थापनार्थाय कूर्मपृष्ठेद् ह्यनंतक | तन्मूर्द्ध्नि वालुकाकारा ब्रह्माण्डो बहवः स्थिताः || १-८ || कारुण्यवारिमध्ये तु कूर्मश्चरति नित्यशः | अहमेव त्रिशूलेन पालयामि पुनः पुनः || १-९ || श्रीचण्डिकोवाच किमाकारं तु ब्रह्माण्डं तन्मे ब्रूहि महेश्वर | सृष्टिप्रकारं तन्मध्ये किमाकारं हि तत्ववित् || १-१० || श्रीशंकर उवाच जंत्वाकारं तु ब्रह्माण्डं नानाविग्रहि पार्वति | ब्रह्माण्डविग्रहं प्रोक्तं स्थूलक्षुद्रादिकं हि यत् || १-११ || मेरुस्तन्मध्यके देवी तथा ससकुलाचलाः | मूलादिमस्तकांतं वै सुमेरुर्नाम पर्वतः || १-१२ || स्थितं नेरोरधोभागे ह्यंगुल्याश्चोर्द्धदेशतः | भूर्लोकादि महेशानि सप्तस्वर्गे क्रमेण हि || १-१३ || अंगुल्यां सप्त पातालास्तिष्ठन्ति परमेश्वरि | सत्यलोके निराकारां महाज्योतिस्वरूपिणीम् || १-१४ || मायया छादितात्मानं चंपकाकाररूपिणीम् | हस्तपादादिरहितां चन्द्रसूर्याग्निरूपिणीम् || १-१५ || मायाबंधनं संत्यज्य द्विधा भिन्ना यदोन्मुखी | शिवशक्तिविभागेन जायते सृष्टिकल्पना || १-१६ || प्रथमे जायते पुत्रो ब्रंहसंज्ञो हि पार्वति | श्रीकालिकोवाच शृणु पुत्र महाघोर विवाहं कुरु यत्नतः || १-१७ || एतत् छ्रुत्वा ततो ब्रह्मा उवाच सादरं प्रिये | त्वां विना जननी नास्ति शक्तिं मे देहि सुंदरि || १-१८ || तच्छ्रुत्वा जगतां माता स्वदेहान्मोहिनीं ददौ | द्वितीया सा महाविद्या सावित्री परमा कला || १-१९ || अस्याः संगं समासाद्य वेदविस्तरणं कुरु | अनायासे सृष्टिकर्ता भव त्वं महिमण्डले || १-२० || प्. २) द्वितीये जायते पुत्रो विष्णुः सत्वगुणाश्रयः | शृणु पुत्र महाघोर विवाहं कुरु यत्नतः || १-२१ || तव दर्शनमात्रेण निष्कामो जायते पुमान् | सत्यं करोमि हे मात मोहिनां देहि मे शिवे || १-२२ || देहात् शक्तिं विनिष्कृत्य ददौ तस्मै च कालिका | वैष्णवी तां महाविद्यां श्रीविद्यां परमेश्वरी || १-२३ || तामाश्रित्य महाविष्णु पालयत्यखिलं जगत् | तृतीये जायते पुत्रो म्हायोगी सदाशिवः || १-२४ || तं दृष्ट्वा सा महाकाली तुष्टियुक्ता भवन् मुदा | शृणु पुत्र महायोगिन् मद्वाक्यं हृदये कुरु || १-२५ || त्वां विना पुरुषः को वामा विना कापि मोहिनी | अतस्त्व परमानन्द विवाहं कुरु मे शिव || १-२६ || यदुक्तंमपि हे मातः स्वां विनानास्ति मोहिनी | सत्यमेतज्जगन्मातर्मां विना पुरुषो न च || १-२७ || अस्मिन् देहे संस्थिते च न करोमि विवाहकम् | कुरु देहांतरं मातः करुणा यदि वर्तते || १-२८ || तत्क्षणे सा महाकाली ददौ भुवनसुंदरीम् | आदिभूता यथा काली तथा भुवनसुन्दरी || १-२९ || तामाश्रित्य महायोगी संहरत्यखिलं जगत् | शंभुरष्टविभागश्च शक्तिश्चाष्टविधा मवेत् || १-३० || कालिकाद्या महाविद्या ह्यनेन परमेश्वरि | इति ते कथितं कांते यथा ब्रह्मनिरूपणम् || १-३१ || गोपनीयं प्रयत्नेन विद्योत्पतिर्यथा प्रिये | इति चण्डिकाशंकरसंवादे निर्वाणतंत्रे प्रथमः पटलः || १ || द्वितीयः पटलः | श्रीचंडिकोवाच त्वत्प्रसादान् महादेव श्रुतं ब्रह्मनिरूपणम् | इदानीं श्रोतुमिच्छामि क्षितौसृष्टिर्यथा भवेत् || २-१ || श्रीशिव उवाच शृणु देवी प्रवक्ष्यामि यथासृष्टिः प्रजायते | सत्यलोके महाकाम्नी महारुद्रेणसंपुटा || २-२ || चंपकाकृतिविस्तारा चंद्रसूर्याग्निरूपका | अनादिपुरुषं युक्ता तदंशाजीवसंज्ञकाः || २-३ || ज्वलदग्नेर्यथा देवि स्फुरंतिविस्फुलिंगकाः | तस्याश्चुतं परं विद्रुं यदाभूमौपतत्यपि || २-४ || तदैवसहसा देवी सङ्गायुक्तोभवत्यपि | स्थावरादिषु कीटेषु पशुपंक्षिषु शैलजे || २-५ || चतुरशीतिलक्षं वै जन्म चाप्नोति सोच्ययः | ततोलनेत् परेशानि मानुष्यं दुर्लभं तनुम् || २-६ || यतो मानुषदेहस्तु धर्माधर्माधिपश्च सः | ततोपि लभते जन्म पुनर्मृत्युमवाप्नुयात् || २-७ || जायते मृयतं चैव कर्मपाशात् सुनिश्चयः | चतुरशीतिलक्षेषु नानायोनिषु शैलजे || २-८ || श्रीचंडिकोवाच कथं वा लभते जन्म कथं मृत्युर्भवेत् प्रभो | तत् प्रकारं महादेव श्रोतुमिछामि तत्त्वतः || २-९ || श्रीशंकर उवाच प्. ३) इहयत् क्रियते कर्म तत् परे चोपभुज्यते | जीवस्तृणजलौके व देहा देहांतरं व्रजेत् || २-१० || संप्राप्य चोत्तरं देहं देहं त्यजति पूर्वजम् | इति श्रुत्वा च सा चंडी पप्रछपरमेश्वरम् || २-११ || प्रासे चोत्तरदेहे तु पिण्डं दानादिकं कथम् | शृणु देवी प्रवक्षामि मायादेहं तदेव हि || २-१२ || माया देहः परेशानि वायुरूपो न चान्यथा | वायुरूपो यतो देह आकाशस्थो निराश्रयः || २-१३ || अतश्च पिंडदानेन वायु स्थिरतरो भवेत् | प्रथमे मस्तकं देवी जायते चक्रमावधि || २-१४ || ततो यमपुरं गत्वा धर्मादिकं हि यत् | तद् भुक्त्वा चापरे किंचित् यदिकर्म न विद्यते || २-१५ || यमाज्ञया तदा जीवः प्रययौ ब्रह्मसाधनम् | तस्मात् कर्मानुसारेण यदि स्यात् दुर्लभं तनुम् || २-१६ || महाविद्यां भाग्यवशात् प्राप्नोति परमं गुरुम् | तत्वज्ञानं महेशानि यदि भाग्यवशाल्लभेत् || २-१७ || तदैव परमं मोक्षं यावद् ब्रह्माण्डसृष्ठति | ब्राह्मणस्य महामोक्षं सा युज्यं क्षत्रियस्य च || २-१८ || सा रुप्यं चोरुजातस्य श्रूद्रस्य सहलोककम् | महाविद्या प्रसादेन पुनरागमनं न हि || २-१९ || वृहद्ब्रह्मांडशेषे तु सर्वमोक्षं यदा शिवे | तदा सर्वस्य निर्वाणं भवत्येव न संशयः || २-२० || श्रीचण्डिकोवाच वृहद्ब्रह्माण्डवाह्ये तु किं पुनः परमेश्वर | तत् सर्वं श्रोतुमिच्छामि यदि स्नेहोस्तिमां प्रति || २-२१ || श्रीशंकर उवाच ब्रह्माण्डस्य वाह्यदेशे ब्रह्माण्डा वहवः स्थिताः | अनंतस्य प्रमाणं तु किं वक्तुं शक्यते मया || २-२२ || सा एव निर्मितं सर्वं सैवसर्वं सुरेश्वरि | इति श्रीचंडिकाशंकरसंवादे निर्वाणतन्त्रे द्वितीयः पटलः || २ || तृतीयः पटलः | श्रीशिव उवाच प्रकृत्या जायते पुंसां प्रकृत्या सृज्यते जगत् | तोयाद् यद् वुद्वुदं देवी यथा तोये विलीयते || ३-१ || प्रकृत्या जायते सर्वं पुनस्तस्यां विलीयते | तस्मात् प्रकृतियोगेन जायते नान्यथा क्वचित् || ३-२ || ब्रह्मविष्णुशिवं देवी प्रकृत्या जायते ध्रुवम् | तथा प्रलयकाले तु प्रकृत्या लुप्यते पुनः || ३-३ || शाक्ता एव द्विजाः सर्वे न शैवा न च वैष्णवाः | उपासते यतो देवीं गायत्रीं परमाक्षरीम् || ३-४ || गायत्रीं शृणु चार्वङ्गि चतुर्वेदप्रपूजिताम् | वेदमातेति विख्यातां त्रिवर्गफलदायिनीम् || ३-५ || हालाहलं समुद्धृत्य नाभ्यक्षरं समुद्धरेत् (समुद्धेत्) |(?) वामकर्णसमायुक्तं पुनर्वार्भिसमुद्धरेत् || ३-६ || कर्णयुक्तं मूर्द्ध्निरेफं ततश्च सुरवन्दिते | वारुणं च समायुक्तं चंद्रबीजं ततः परम् || ३-७ || नादयुक्तं खगयुतं चैकं व्याहृतिमुद्धरेत् | तत् पदञ्च समुद्धृत्य सवितुस्तदनंतरम् || ३-८ || वरेण्यमिति चोचार्या भर्गोदेवस्य धीमही धियो यो नः प्रचोदयात् प्रणवं तदनंतरम् || ३-९ || ततश्चाधीतगायत्रीं प्रणवं तदनंतरम् | इति जप्त्वा महेशानि साक्षान्नारायणो भवेत् || ३-१० || धियो योर्मध्यभागे च यकारद्वयमेव च | तत्र तत्र महादेवि अनंतश्रुतिमेव च || ३-११ || इति जप्त्वा महेशानि युक्तो भवति तत्क्षणात् | अंत्ययकारयो स्थाने योकारत्रतियः पठेत् || ३-१२ || स चांडाल इति ख्यातो ब्रह्महत्या दिने दिने | अत एव महेशानि तव स्नेहात् प्रकाशितम् || ३-१३ || शावित्री परमा विद्या त्रैलोक्येषु च दुर्लभा | अस्या ग्रहणमात्रेण भूपूज्यो नात्र संशयः || ३-१४ || अंगन्यासस्य मंत्रं यत् तच्छृणुष्व प्रियं वदे | प्रणवद्वयं हृत्पद्मे भुकारं शीर्षदेशके || ३-१५ || भूवः शिखायां श्वःकारं कवचे विन्यसेत् सुधीः | नेत्रत्रये भूर्भुवः स्वः स्वःकारं करं युग्मके || ३-१६ || नमः स्वाहा वषट् हूं वौषट् फट् च क्रमतो न्यसेत् | ध्यानं शृणु वरारोहे यथा ध्यात्वा यजेन्नरः || ३-१७ || श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा | श्वेतैर्विलेपनैः पुष्पैरलंकारैश्च भूषिता || ३-१८ || आदित्यमण्डलांतस्था ब्रह्मलोकगताथवा | अक्षसूत्रधरा देवी पद्मासनगताथवा || ३-१९ || ओं तेजोऽसि शुक्रमस्य मृतमसि धामनामासि | प्रियन्देवानां गायत्री एकपदी द्विपदी त्रिपदी चतुष्पद्यः || ३-२० || नमस्ते तुरीयाय दर्शतत्वाय प्रदाय परोरजसे | एवं ध्यात्वा यजेद् देवीं गायत्रीं परमाक्षरीम् || ३-२१ || पुनर्ध्यात्वायं त्रीपीठे पुष्पं दद्याद् वरानने | आदौभिकोणं विन्यस्य षट्कोणं तद् वहिर्न्यसेत् || ३-२२ || वृत्तं चाष्टदलं पद्मं तद् बहिश्चतुरस्रकम् | चतुर्द्धरिसमायुक्तं सावित्रीयंत्रमीरितम् || ३-२३ || जीवन्यासादिकं कृत्वा पूजये तां त्रिवर्गदाम् | हात्यहलादिकं मंत्रं समस्तं परमेश्वरि || ३-२४ || समुच्चार्य वदेन् पाद्यं सावित्रीं ते युतां ततः | त्यागात्मकमनुः पश्चात् त यथा विभवविस्तरैः || ३-२५ || पूजयेद् बहुयानेन चान्यथा ब्रह्मणः स्मृतः | द्रव्याभावे वारारोहे पाद्याद्यैरुदकात्मकैः || ३-२६ || पूजयित्वा यजेद् देवीं गायत्रीं परमाक्षरीम् | दशभिर्जन्मजनितं स तेन च पुराकृतम् || ३-२७ || भियुतं तु सहस्रेण गायत्रीं हंति पातकम् | महेशवदनोत्पन्ना विष्णोहृदयसंस्थिता || ३-२८ || ब्रंह्मणा समनुज्ञाता गछ देवि यथेछया | इति मंत्रं समुच्चार्य देव्या वामकरे बुधः || ३-२९ || समर्पयेत् (समर्पयेयेज्) जपफलं तत स्तोत्रादिकं पठेत् | विधिवल्लक्षजापेन पुरश्चरणमीरितम् || ३-३० || तदशांशं हुनेत् पश्चात् पुरश्चरणसिद्धये | प्. ५) होमस्य तु दशांशैकं तर्पणं तदनंतरम् || ३-३१ || तर्पणस्य दशांशैकमभिस्रेकं ततः परम् | अभिषेकस्य दशांशेक कुर्याद् ब्राह्मणभोजनम् || ३-३२ || ततः सिद्धा भवेद् देवी त्रिवर्गफलसाधिनी | माहात्म्यं चास्य मन्त्रस्य चतुर्वेदेनभाषितम् || ३-३३ || अपि मार्जनमंत्रस्य प्रकारं शृणु यत्नतः | भूमौ शिरसि चाकाशे आकाशे भुवि मस्तकम् || ३-३४ || मूर्द्ध्नि भूमौ तथाकाशे यजुर्वेदे सुरेश्वरि | समाथर्वेदिनं देवि ऋग्वेदे शृणु शैलजे || ३-३५ || शूमे शिरसि चावण्यां भूमौ शून्ये शिरे तथा | भूमौ शून्ये तथा मूर्द्ध्नि चापनार्जनमाचरेत् || ३-३६ || आपोहिश्चेनि? ये मंत्राः अष्टाक्षरपदेन तु | मार्जनं यत् क्रमेणैव सर्वपापविनाशनम् || ३-३७ || व्यतिक्रमेण चार्वंगी ब्रह्महत्या पदे पदे | अत एवं क्रमं सर्वं तव स्नेहात् प्रकाशितम् || ३-३८ || स्तुतिं च कवचं देवी पवित्वा प्रणमे सुधीः | श्रीदेव्युवाच तुरियं धामयो देव परमात्माः स एव हि || ३-३९ || शिवः पद्मे स्थिते वाह्ये नमस्कारः कथं भवेत् | श्रीशिव उवाच शिरपद्मे महादेवस्तथैव परमोगुरु || ३-४० || तत् समो नास्ति देवेशि पूज्यो हि भुवनत्रये | तद्रूपं चिन्तयेन्मन्त्री वाह्ये गुरुचतुष्टयम् || ३-४१ || तदंशा भावसंभूता ये चान्ये गुरवो जनाः | तथैव ब्राह्मणाः सर्वे चांसावतारसंस्थिताः || ३-४२ || यदैव वाह्ये चैतांश्च प्रत्यक्षे भावयेत् तदा | सहस्रारे महापद्मे तदा चिन्तां विवर्जयेत् || ३-४३ || प्रत्यक्षे दर्शने देवी वाह्ये तद् ब्रह्मचिंतयन् | नमस्कारादिकं देवि कुर्यात् साधकसत्तमः || ३-४४ || एभ्यो दर्शनमात्रेण नमस्कारादिकं चरेत् | न कुर्याद् यदि मोहेन स भवेद् आपदाश्रयः || ३-४५ || ब्राह्मणादीन समालोक्य ब्रह्मचारि यतित्रयम् | दृष्टिमात्रेण गिरिजे प्रणमेद् दंडवद् भुवि || ३-४६ || महापातकयुक्तोपि मुक्तो भवति तत्क्षणात् | न कुर्याद् यदि मोहेन महापातकवान् भवेत् || ३-४७ || रक्तवस्त्रं समालोक्य तथा तस्माङ्गभूषणम् | दंडहस्तं त्रिशूलं च दृष्ट्वा प्रदक्षिणत्रयम् || ३-४८ || प्रकुर्यात् साधकश्रेष्ठश्चान्यथा पातकी भवेत् | इति निर्वाणतन्त्रे तृतीयः पटलः || ३ || चतुर्थः पटलः | श्रीदेव्युवाच स न्यासं कीदृशं नाथ अवधूतं च कीदृशम् | कीदृशं वा ब्रह्मचारी गृहस्योवाथ कीदृशः || ४-१ || श्रीशिव उवाच दिव्यप्रकाशमूर्तिं च चिंतयेद् दंडधारिणम् | वीरस्य मूर्ति देवेशि सदा भस्मादि भूषणम् || ४-२ || कौलिकस्य गृहस्थस्य मूर्तिं तद् ब्रह्मचारिणम् | गृहस्थस्य दिव्यमूर्तिं चंदनादिविभूषितम् || ४-३ || सर्वेषां पितृरूपोसौ गृहस्थः साधुरूपकः | प्. ६) श्रीशिव उवाच शृणु देवी प्रवक्षामि वृहद्ब्रह्माण्डलक्षणम् || ४-४ || मेरुपर्वतमध्ये तु सर्वदेवाश्रयं प्रिये | महावीरा नदी तत्र मध्यदेशे सदा स्थिता || ४-५ || सुमेरोश्चाद्धूदेशे तु शत्यलोकं वरानने | अधोभागे महेशानि प्रतिष्ठति रसातलम् || ४-६ || एवं क्रमे मेरुमध्ये भुवनानिचतुर्दश | पातालसप्तकस्योद्धे ब्रह्मपद्मं सुरेश्वरि || ४-७ || अधोवक्रं हि तत् पद्मं धरामध्ये चतुर्दलम् | पद्ममध्ये बीजकोषे क्षितिचक्रं मनोहरम् || ४-८ || वलयाकाररूपेण समुद्राः सप्तसंस्थिताः | जम्बुद्वीपं मध्यदेशे चतुष्कोणं मनोहरम् || ४-९ || त्रिकोणं मदनागारं कंदर्पश्चाधि देवताम् | ऐन्द्रबीजं हि लं रूपं गजेंद्रवाहनं शिवे || ४-१० || त्रिकोणे मदनागारे विन्दुरूपो महेश्वरम् | मायाशक्तिर्महेशानि भुजगाकाररूपिणी || ४-११ || तयैव वेष्ठितं लिंगं सार्द्ध त्रिवलयाकृतिः | लिंगं छिद्रं खवक्त्रेण समाछाद्य स्थिता सदा || ४-१२ || ऐन्द्रबीजं वरारोहे लिंगस्य वामदेशके | सुसिद्धं ब्रह्मसदनं नादोपरि सुसुन्दरम् || ४-१३ || तत्रैव निवसेद् ब्रह्मा सृष्टिकर्ता प्रजापतिः | वामभागे च सावित्री वेदमाता सुरेश्वरी || ४-१४ || तस्याः प्रसादमासाद्य सृष्टिं वितनु ते सदा | सद्रूपं ब्रह्मसदनं लक्षयोजनविस्तृतम् || ४-१५ || तत् सर्वं परमेशानि ऋग्वेदाख्ये मयोदिनम् | त्रिकोणं परमेशानि द्विषष्ठि तमकोष्ठका || ४-१६ || तदेव पर्वतं प्रोक्तं सर्वदेवाश्रयं हि तत् | त्रिकोणमध्ये तद्वाह्यपश्चात् पूर्वं वरानने || ४-१७ || स्थावरं पर्वतं पश्य कीटं पशुमनुत्तमम् | खगं नारादिकं देवी नास्ति? किं पृथिवीतले || ४-१८ || त्रिकोणवाह्ये गिरिजे पर्वतं वहुरूपकम् | नीलाचलं मंदरश्च पर्वतं चंद्रशेखरम् || ४-१९ || हिमालयं सुमेरुंश्च मलयं भस्मपर्वतम् | चतुष्कोणे वसे देवी एतत् सप्तकुलाचलम् || ४-२० || एतेषां शिखराज्जातं पर्वतं बहुरूपकम् | नानादेवालयं देवी तथैव दानवालयम् || ४-२१ || तृणागुल्मलतावल्ली नानारूपाणि तत्रैव | पापिष्टास्तत्र वै जाताः कर्मयोगेन पार्वति || ४-२२ || जायंते च प्रियंते च पूर्वोक्ते नैव वर्त्मना | इति निर्वणतंत्रे योगविवरणं नामचतुर्थः पटलः || ४ || पंचमः पटलः | श्रीशिव उवाच एतत् पद्मस्योर्द्धदेशे भीमाख्यं पंकजं शुभम् | पत्रषट्कं तथा वृत्तं चतुर्द्वारविभूषितम् || ५-१ || पद्ममध्ये बीजकोशे भुवर्लोकं मनोहरम् | सिंदूरसदृशं रक्तवर्णेनशोभितं सदा || ५-२ || सिंदूरारक्तवस्त्रेण निर्मितं चक्रपाणिना | प्. ७) तस्योर्द्धे निवसेद् विष्णुः श्रीवाणी वामदक्षिणे || ५-३ || ब्रह्मणा सृज्यते लोकः पालते चक्रपाणिना | वैकुण्ठं नाम तत् सर्गं नानादेवालयं हि तत् || ५-४ || वैकुंठस्य दक्षभागे गोलोकं सर्वमोहनम् | तत्रैव राधिका देवी द्विभुजा मुरलीधरा || ५-५ || नारदाद्यैमुनिगणैः सेवितं वेदपारगैः | वैकुंठसदृशं स्थानं नास्तिज्ञाने च सामके || ५-६ || अत्र मध्ये तथा बाह्ये यथा सर्वं प्रपश्यति | तथैव भूमिगाः सर्वे ज्यौतिषं परिपश्यति || ५-७ || नाना भोगयुताः सर्वे नानारत्नेन भूषिताः | इंद्राद्या देवताः सर्वे तिष्ठंति रक्तति हेतवे || ५-८ || महासत्वमयं लोकं चेद् वाहु विराजितम् | पीतांबरं र?तमूर्ति वनमालाविभूषितम् || ५-९ || एवं भक्तजनं सर्वं वैकुंठे चोपशोभितम् | विष्णुशब्दं विष्णुगानं वैष्णवं विष्णुरूपकम् || ५-१० || विष्णुगानं विना नास्ति वैकुंठे परमेश्वरि | यद् रूपं गोलकं धाम तद् रूपं नास्ति मानके || ५-११ || ज्ञाने वा चाक्षुषे किं वा ध्यानयोगेन विद्यते | शुद्ध षत्वमयैं देवी नानादेवेनशोभितम् || ५-१२ || तत्रैव भाति कैलाशस्तत्रैव ब्रह्मणः पुरम् | वैकुंठनगरं तत्र तत्रैवरविरालयम् || ५-१३ || चंद्रालयं हि तत्रैव कंदर्पनिलय प्रिये | सर्वदेवालयं तत्र देवकन्यादिशोभितम् || ५-१४ || मध्यदेशे गोलकाख्यं श्रीविष्णोर्योगमंदिरम् | श्रीविष्णोस्सत्वरूपश्य यत् स्थूलं चित्र?मोहनम् || ५-१५ || तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेधुना | यत्रैव सततं भाति द्विभुजोसुरवीधरः || ५-१६ || निराकारो महाविष्णुः साकाशेपि क्षणे क्षणे | यदा साकाररूपोसौ तदैव मुरलीधरः || ५-१७ || तदा सत्वमयो विष्णुः येनंपातिनिश्चितम् | वैष्णवस्य महामोक्षं यत्रैव परमेश्वर || ५-१८ || इति स्थानस्य माहात्म्यं संक्षेपेण मयोदितम् | विस्तरेणा न शक्नोमि जन्मांतरशतेन च || ५-१९ || बीजकोषस्य वाह्ये तु वेष्टितं तोय मण्डलम् | प्रमाणं सुन्दरं तोयं यथा क्षीरोद् सागरम् || ५-२० || धुस्तरस्य ज्योतिषाकारं कोटिचन्द्रसमद्युति | वलयाकाररूपेण सुशुभ्रं तोय मण्डलम् || ५-२१ || गंगादिशरितः सर्वास्तत्रैव भांति सुन्दरि | इन्द्रादिदेवताः सर्वे रजूयमानानिरंतरम् || ५-२२ || गंधर्वयक्षनामादि कुष्मांडा भैरवास्तथा | वेदगानेन भासंते मूर्तिमंतः सदैव हि || ५-२३ || मालवे नवरागेन सा प्रमानं सदा प्रिये | (?) मलारेण सदाथर्व वसंते न तथा पुन || ५-२४ || हिंडोलेन यजुपाठं सदा कुर्वीत वेधसा | कर्णाटे नैव ऋग्वेदं श्रीरागेण तथा शिवे || ५-२५ || निर्दिष्टः पाठमेतत् तु अनिर्दिष्टमतः परम् | तत्रैव वर्तते रागाः सहस्राणि च षोडश || ५-२६ || प्. ८) तत्रैव भांति तालाश्च सहस्राणि च षोडश | मुरारेर्मुरलीगानात् सर्वे तालाः प्रजायते || ५-२७ || तेन तालेन रागेण सदागायंति वेधसा | तद् रागस्य विभागं हि कुर्वंति मुनयोजनाः || ५-२८ || वसंताद्याश्चक्रतवस्तिष्ठंति तत्र संततम् | (?) नानाधातूप्रसूनेन भूषितं मुरलीधरम् || ५-२९ || तत्रैव राधिका देवी नानासुखविलाशिनी | वदंती मुरलीगानं कुरु कांतप्रमोहनम् || ५-३० || येन शब्देन कामस्य उत्पत्तिर्जायते सदा | तद् रागां चैव तत् तालं कुरु गानं प्रयत्नतः || ५-३१ || एवमानंदशंयुक्ता महावेशविलाशिनी | वामभागे सदा भाति राधिका भक्तवत्सला || ५-३२ || प्रार्थनैकं प्रकुर्वती राधिका भक्तिसंयुता | श्रीराधिकोवाच तव भक्तियुता मर्त्या अथवा भक्तिसंयुता || ५-३३ || गोलोकस्थं महाविष्णुं द्विभुजं मुरलीधरम् | सदानंदयुतं देवं ममसंगे विराजितम् || ५-३४ || एवं ध्यायंति ये मर्त्यास्तस्योपायस्तु कीदृशम् | तद्वद स्वविशेषेण यन्महं तव वल्लभा || ५-३५ || श्रीभगवानुवाच ये यथा यां भजंत्ये पतेन मार्गेण सद्गतिम् | दास्यामि शृणु चार्वंगी सदा त्वं भक्तवत्सला || ५-३६ || आधौराधा ततः कृष्णो जल्पंति ये च मानवाः | तेषांश्च सद्गतिश्चात्र दास्यामि नात्र संशयः || ५-३७ || गुरुणाभावमार्गेण मंत्रमार्गेण चैव हि | ये जना मां भजंत्येव ते नरा मत्समाः सदा || ५-३८ || या नारि मामभेदेन भजते पुरुषं सदा | त्वत् समासा सदा नारी श्रूयते नात्र संशयः || ५-३९ || भक्त्या वाप्यथवा भक्त्या जल्पंति युगलं यदि | तव भक्त्या प्रदास्यामि सद्गतिं शृणुराधिके || ५-४० || मद्भक्ता नैव गछंति कदाचिद् यममन्दिरे | सत्यं सत्यं पुनः सत्यं सत्यं सत्यं हि राधिके || ५-४१ || इति श्रुत्वा च सा देवी राधिका प्रेमवत्सला | अंके शेते महाविष्णोः कामवाणेन पीडिता || ५-४२ || विष्णुलोकमिदं देवी चाप्रं शृणु यत्नतः | इति निर्वाणतन्त्रे पञ्चमः पटलः || ५ || षष्ठमः पटलः | श्रीशंकर उवाच एतत् पद्मस्योर्द्धदेशे महापद्मसुदुर्लभम् | दशपत्रं नीलवर्णं सजलं येन रूपकम् || ६-१ || ता दिप्तां तैः सचंद्रैश्च पंकजं चाति शोभितम् | तन्मध्यबीजकोशे निवसति सततं वह्निबीजं सुसिद्धम् || ६-२ || वाह्ये तंत्रै * * प्यं(?) नवतपननिभं स्वस्तिकं त त्रिभागे | (?) स्वर्लोकाख्यमिदं देवि सर्वदेवैः प्रपूजितम् || ६-३ || साकारं वह्निबीजं च सदैव मेषवाहनम् | सद्रालयं हि तत्रैव महामोहस्य नासनम् || ६-४ || भद्रकाली महाविद्या वामभागे सुशोभिता | प्. ९) भद्रकाली महाविद्या सदा संहारकारिणी || ६-५ || ब्रह्मणा सृज्यते लोकः पाल्यते विष्णुरूपिणा | पर देवी रुद्ररूपः सदा संहारकारकः || ६-६ || संहरेद् रुद्ररूपेण भद्रकालिकया सह | रुद्रस्य भावनाद् देवि किं न सिद्धति चंडिके || ६-७ || यद् रूपं कथितं पूर्वं गोलकं सर्वमोहनम् | तस्माद् वै सर्वतोभावे रुद्रलोके चतुर्गुणम् || ६-८ || रुद्रलोकं महास्वर्गं गोलोकाद् वै चतुर्गुणम् | महामोक्षप्रदं नित्यं रुद्रं तस्यांगभूषणम् || ६-९ || भद्रकाली महाविद्या रुद्रत्ववामदेशके (?) | विष्णुना कल्पते यद्यत् कालीरूपेण युज्यते || ६-१० || अतः काली महादेवी सदैव मुरलीधरः | आराध्यस्यङ्ग यत्नेन वैकुंठाधिपतिर्भवेत् || ६-११ || गोलोकाधिपतिर्देवि स्तुतिभक्ति परायणः | कालिका या प्रसादेन स भवेत् लोकपालकाः || ६-१२ || लोकानां रक्षणार्थाय सस्त्रीको मुरलीधरः | समाराध्य भद्रकाली गोलोके निवसेत् सदा || ६-१३ || प्रसादं कालिकायाश्च भज्यते विष्णुना सदा | अनश्च पालकोविष्णुर्महासत्वपरायणः || ६-१४ || इतिश्रीनिर्वाणतन्त्रे षष्ठमः पटलः || ६ || सप्तमः पटलः | श्रीशंकर उवाच एतत् पद्मस्योर्द्धदेशे विमलं पद्मसुन्दरम् | शोभितं द्वादशैः पत्रैः शोणं वंधूकसन्निभम् || ७-१ || वांछातिरिक्तफलदं सुद्धा सिंदूरसोदरम् | पद्मं मध्ये बीजकोषे षट्कोणं मंडलं शुभम् || ७-२ || मंडलस्य मध्यदेशे वायुबीजं मनोहरम् | सजीवं वायुबीजं च वेदवाहुविराजितम् || ७-३ || लोकत्रयस्य ईशानं ईश्वरं सर्वपूजितम् | या विद्या भुवनेशानि त्रिषुलोकेषु पूजिता || ७-४ || इश्वरस्य वामभागे सा देवी परितिष्ठति | महर्लोकमिदं भद्रे पूजास्थानं सुरेश्वरि || ७-५ || अत्रैव मानसं योगं कुरुते योगवित्तमैः | सिंदूरारक्तचार्वंगि स्फाटिकैर्निर्मितं ततः || ७-६ || अतश्च मानवाः सर्वे ज्योतिषं परिपश्यति | सर्वावयवसंयुक्ता देवास्तिष्ठंति संततम् || ७-७ || भूमिगाः परिपश्यंति चक्राकारं हि तेजसम् | स्वर्लोकगामिनः सर्वे स्वर्गेतिष्ठंति पार्वती || ७-८ || भूर्लोके निवसेद् ब्रह्मा भुवर्लोके जनार्दन | स्वर्लोके निवसे छंभुः सदा संहारकारकः || ७-९ || ब्रह्मादीनां च ईशानः सर्वकर्ता च ईश्वरः | सर्वस्वमी स्वरूपश्च सर्वकर्ता सुरेश्वरः || ७-१० || सृष्टिष्ठितिलयादीनां कर्ता च परमेश्वरः | गोलोकं कथितं देवि यद्रूपशोभितं सदा || ७-११ || तस्माछवगुणं देवी महर्लोकं सुसुंदरम् | विस्तिर्णं च शतगुणं सर्वं शतगुणं (सर्वम् शतगुणं) शिवे || ७-१२ || महर्लोकस्य माहात्म्यं किं वक्तुशक्यते मया | प्. १०) गोलोकस्य शतगुणं सर्वत्रपरमेश्वरि || ७-१३ || महर्लोके वसेद् यो द्वि सामान्यभावतत्परः | तस्माद् एव शतांशैकं गोलोकं मुरलीधरम् || ७-१४ || तदाज्ञां प्राप्यसहसा सृज्यते पद्मयोनि वा | तदाज्ञया पातिलोकान् द्विभुजोमुरलीधरः || ७-१५ || एवं हि रुद्ररूपेण संहरत्यखिलं जगत् | सर्वकर्ता यतो देवी अतः स परमेश्वरः || ७-१६ || ईश्वरः सर्वकर्ता च निर्गुणश्चाचलः शिवः | भुवनेशीं विना देवी स्पंदितुं नैव शक्यते || ७-१७ || पंगुप्रायः सदा ईशो गामित्वं न हि शक्यते | भुवनेशीं समाराध्य सर्वस्वामी स-ईश्वरः || ७-१८ || अत एव महेशानि तपैव मोक्षदायिनी | विश्वमाता च सा देवी विश्वपालनकारिणी || ७-१९ || मोक्षदा सर्वलोकानां मुक्तिदा विश्वमातृका | भुवनेशीं विना ईशः किंचित् कर्तुं न शक्यते || ७-२० || अत एव हि सा देवी मोक्षदा सर्वरूपिणी | इति ते कथितं किंचिन् महर्लोकस्य लक्षणम् || ७-२१ || समासेन परेशानिः अथान्यत् शृणु सादरम् | इति निर्वाणतन्त्रे सप्तमः पटलः || ७ || अष्टमः पटलः | श्रीशंकर उवाच अस्योर्द्धे निर्मलं पद्मं सर्वमोहनकारणम् | षोडशैः पत्रकैर्युक्त मोहांधकारनासनम् || ८-१ || धूममध्ये यथा वह्निस्तथार्ज्योतिर्मयं प्रिये | पद्ममध्ये वराटे च जनलोकं सुसुंदरम् || ८-२ || महामोहांधसमनं तद् वाह्ये चन्द्रमंडलम् | देववृंदैर्गायकैश्च मुनिभिपरिशोभितम् || ८-३ || गोलोकस्य लक्षगुणमिह स्थानं सुदुर्लभम् | देवत्वं च मनोद्यं च विस्तीर्णं च तथा पुनः || ८-४ || सर्वलक्षगुणं देवी गोलोकान्नात्र संशयः | बीजकोशे मणिद्वीपे षट्कोणं यत्रमुत्तमम् || ८-५ || यंत्रमध्ये तु वृषभं महासिंहार्द्धदेहकम् | तस्योपरि सदागौरी दक्षभागे सदाशिवः || ८-६ || त्रिनेत्रपंचवक्त्रश्च प्रतिवक्त्रे त्रिलोचनः | विभूति भूषितांगश्च रजता च लम्बोदरः || ८-७ || व्याघ्रचर्मधरो देवो मनिमालाविभूषितः | लोकानामिष्टदाता च लोकानां भयनाशनः || ८-८ || लोकानां मुक्तिजनको लोकानां ज्ञानदायकः | आराधकस्य ब्रह्मत्व दायको विष्णुपूजितः || ८-९ || सर्वानंदकरो देवो अर्धनारिश्वरो विभुः | क्वचिज्योतिमया देवः क्वचिदाकारवर्जितः || ८-१० || देवानां पूज्यरूपश्च देवानां स्वामिरूपकः | भक्तस्य मुक्तिदो नित्यो विष्णुं तं दायकः प्रभुः || ८-११ || विल्वपत्रैः पूजकस्य निज सा युज्य दायकः | गोलोकाधिपतिं कृत्वा भक्तं रक्षति यः शिवः || ८-१२ || तस्य देवस्य माहात्म्यं किं विस्तारेण चंडिके | प्. ११) या गौरी लोकमाता च शंभोरर्द्धांगधारिणी || ८-१३ || त्रिगुणा सा महागौरी गुणैकेनपिनाकधृक् | तस्याः संगं समासाष्य सर्वकर्ता सदाशिवः || ८-१४ || इति निर्वाणतन्त्रे अष्टमः पटलः || ८ || नवमः पटलः | श्रीशंकर उवाच एतत् पद्मस्योर्द्धदेशे ज्ञानपद्मं सुदुर्लभम् | पत्रद्वयसमायुक्तं पूर्णचंद्रस्य मंडलम् || ९-१ || पद्ममध्ये बीजकोषे स्मरेच्चिंतामणिं पुरीम् | तन्मध्ये नवकोणं च यंत्रं परमदुर्लभम् || ९-२ || शंभुवीजं हि तन्मध्ये साकारं हंसरूपकम् | हंसः परं ब्रह्मरूपः साकारा शिवरूपकः || ९-३ || तारश्च कुर्वरारोद्धेति गमागमपक्षवान् | (?) शिवशक्ति पदद्वंद्वं विंदुत्रयविभूषितम् || ९-४ || विहारश्चास्य हंसस्य व्योमपंकजपूरिते | एवं हंशमणिद्विपे तस्या क्रोडे परः शिवः || ९-५ || वामभागे सिद्धकाली सदानंदस्वरूपिणी | तस्याः प्रसादमासाद्य सर्वकर्ता महेश्वरः || ९-६ || तपोलोकमिदं भद्रे सर्वदेव सुदुर्लभम् | यत्र ब्रह्मादयो देवा ध्यानयोगं समभ्यसेत् || ९-७ || मनसापि न लभ्येत योगेन तपसा न च | तपोलोकं गोलकस्य चतुर्लक्षगुणं शिवे || ९-८ || ब्रह्मलोकेषु ये देवा वैकुंठे ये सुरादयः | शंभुलोके वसेत् ये ये ते च भक्तिपरायणाः || ९-९ || तपसापिन स्तम्भे त तपोलोकमतः शिवे | तपोलोकसमोनालि लोकमध्येस्तु लोचने || ९-१० || सा लोकां हि महर्लोके सा रूप्यं जनलोकके | सा युज्यं तपलोकेषु निर्वाणं द्वि तदूर्द्धके || ९-११ || अतो ब्रह्मादयो देवाः तपोलोकार्थिनः सदा | तस्य लोकस्य माहात्म्यं मयावक्तुं न शक्यते || ९-१२ || इति ते कथितं कांते स्वर्गषट्कस्य लक्षणम् | यज्ज्ञानाद् मह्यं च जीवन्मुक्तश्च साधकः || ९-१३ || यज्ज्ञानाज्जननीगर्भं न विंशति कदाचन | आयुरारोग्यमैश्वर्यं सप्राप्नोति न संशयः || ९-१४ || पुराणानि च सर्वाणि मयैवोक्तानि पार्वति | एतद् रूपे च तन्मध्ये व्यक्तरूपो न विद्यते || ९-१५ || गूढज्ञानं च तन्मध्ये अतः किंचिन् न बुध्यते | एवं हि वेदशास्त्रेषु गानमध्ये सुलोचने || ९-१६ || शब्दज्ञानं यतो नास्ति अतः किंचिन् न बुध्यते | अस्तादशपुराणानि सांगं वेति च यो नरः || ९-१७ || तस्य स्थान पुराणानि सदा श्रवणमाचरेत् | चुंबके चाल्यं पाठज्ञे न श्रोतव्यं कदाचन || ९-१८ || शास्त्रस्य लक्षणं ह्येतत् व्याख्या चान्यत् प्रकाशते | शब्दब्रह्मस्वरूपश्च ममवक्त्राद्विनिर्गतः || ९-१९ || संदेहो नैव कर्तव्यो यदि मुक्तिं प्रयच्छति | संदेहात् यामरो याति रौरवं पितृभिः सह || ९-२० || ज्ञानं च निर्मलं कृत्वा बुद्धिं च निर्मलां ततः | प्. १२) महाभक्तियुतो भूत्वा सर्वप्राणिहिते रतः || ९-२१ || शब्दब्रह्ममयं ज्ञात्वा शृणोति तंत्रकं यदि | तदामुक्तिमवाप्नोति सत्यं सत्यं न संशयः || ९-२२ || अष्टादशपुराणानि श्रवणे नैव यत् फलम् | चतुर्वेदानि सांगानि श्रवणे नैव यत् फलम् || ९-२३ || मेरुतुल्यं सुवर्णं च गुरवे ब्रह्मरूपिणे | सशस्यो परमेशानि सप्तद्वीपां वसुंधराम् || ९-२४ || प्रदद्याद् भक्तिभावेन यदिस्याद् वेदपारगे | तस्माद् वै परमेशानि फलं वहुविधं शिवे || ९-२५ || अस्य तंत्रस्य चार्वंगि शृणोति पटलं यदि | तत् फलान् कोटिगुणितं फलं स लभते ध्रुवम् || ९-२६ || इति निर्वाणतन्त्रे नवमः पटलः || ९ || दशमः पटलः | श्रीशंकर उवाच ज्ञानपद्मस्योर्द्धदेशे सद्वस्रदलपङ्कजम् | अधोवक्त्रं महापद्मं सुमेरोमूर्द्ध्नि संस्थितम् || १०-१ || यस्य पत्रं महेशानि सर्वशक्तिसमन्वितम् | शुक्लं रक्तं त पीतं कृष्णं हरितमेव च || १०-२ || विचित्रं चित्ररूपेण नानावर्णानिशोभितम् | शुक्लं क्षणात् क्षणाद्वक्तं क्षणात् पीतं सुशोभनम् || १०-३ || कस्मिन् क्षणे शुक्लवर्णं हरितं वर्णमुत्तमम् | चित्ररूपं च चार्वंगि धत्ते कस्मिन् क्षणे प्रिये || १०-४ ||(?) एवं नानाविधैर्देवि तत् पद्मं शोभितं सदा | यथैव गोलकं धामप्रतिपत्रे तथैव हि || १०-५ || गोलकाधिपतिस्तत्र भक्तिभाव परायणः | कैलासाधिपतिर्देवि ध्यानयोगं सदाभ्यसेत् || १०-६ || एवं ब्रह्मादया देवा इन्द्राद्यास्त्रिदशेश्वराः | स्तुतिभक्तिपराः सर्वे दिव्यभावैः सदा स्थिताः || १०-७ || लक्षं लक्षं महेशानि तत्रैव मुरलीधरम् | शतलक्षं शिवं तत्र ब्रह्मा लक्षशतं प्रिये || १०-८ || प्रत्यहं परमेशानि ब्रह्माण्डावहवोभवन् | तन्मध्ये स्थापयेत् ब्रह्मा तत्रैव कमलापतिम् || १०-९ || शिवं वहुविधाकारं तत्रैव स्थापनं चरेत् | एवं हि परमेशानि नानाशक्तिं प्रविन्यसेत् || १०-१० || प्रतिब्रह्माण्डमध्ये तु ब्रह्मादि देवता त्रयम् | नानाशक्तियुतं कृत्वा ब्रह्माण्डं स्थापनं चरेत् || १०-११ || ब्रह्मपद्मे पृथिव्यां तु वर्तते मानुषादयः | ते सर्वे देवि ब्रह्माण्डास्तन्मध्ये भुवनानि च || १०-१२ || पातालसप्तकं तत्र तत्रैव स्वर्गसप्तकम् | एवं क्रमे सर्वदेहे भुवनानिचतुर्दश || १०-१३ || प्रतिर्देहे परेशानि ब्रह्मांडं नात्र संशयः | कथितं वाह्यदेशस्य ब्रह्मांडस्य च लक्षणम् || १०-१४ || यन्मध्ये वर्त्तते साक्षाद् भुवनानि चतुर्दशः | तदेव विग्रहं देवी महाब्रह्माण्डमध्यगम् || १०-१५ || एवं वहुविधं देवी तत्र ब्रंह्मांडके क्षितै | वृहद्ब्रह्मांडा ये सर्वे तेपि जन्यः शरारिणः || १०-१६ || प्. १३) पृथिव्यां तेपि वत् तत् तेजं तोयकारविग्रहाः | महाब्रह्मांडमध्ये तु वृहद्ब्रह्मांड तिष्ठति || १०-१७ || तन्मध्ये जन्तवो देवि तन्मध्ये भुवनानि च | सृष्टिमार्गेणभेदोस्ति स्थूलसूक्ष्मादि भेदकः || १०-१८ || महाब्रह्मांडके यद्यत् प्रकारं परमेश्वरि | तत् तत् सर्वं हि देवेशि वृहद्ब्रह्मांडमध्यतः || १०-१९ || तेन रूपे देहमध्ये भुवनानिचतुर्दशम् | सृष्टिप्रकारे ब्रह्माण्डभेदोनास्तिसुनिश्चितम् || १०-२० || स्थूलक्षुद्रा हि चार्वंगि मेदकः परिचारकः | पद्ममध्ये बीजकोषे भुवनानिचतुर्दश || १०-२१ || स्थानं बहुविधाकारं सर्वदेवस्य चाश्रयम् | तन्मध्ये सत्यलोकं च महारुद्रस्य कारणम् || १०-२२ || दशकान्तेन स्वर्णेन निर्मितं चक्रपाणिना | दिक्षुतोयमंडलं च यथा पूर्णेन्दु मंडलम् || १०-२३ || परितः पारिजातानि मध्ये कल्पद्रुमं पुनः | कल्पवृक्षस्य निकटे ज्योतिर्मन्दिरमुत्तमम् || १०-२४ || उद्यदादित्यसंकाशं चतुर्द्वारविभूषितम् | मन्दवायुसमायुक्तं गंधधूपैरलंकृतम् || १०-२५ || तन्मध्ये वेदिकां देवि रलसिंहासनं प्रिये | महाकाली परमाचन काकाररूपतः || १०-२६ || मायया छादिनात्मानं तन्मध्ये समभागतः | महारुद्रः स एवात्मा महाविष्णुः स एव हि || १०-२७ || महाब्रह्म स एवात्मा नाममात्रविभेदकः | एकमूर्त्तिस्त्रयो नाम्ना ब्रह्मविष्णुमहेश्वराः || १०-२८ || नानाभावे मनो यस्य तस्य मोक्षो न विद्यते | ब्रह्मांडास्तत्र जायन्ते लक्षं लक्षं सुलोचने || १०-२९ || तत्र ब्रह्मा तत्र हरितस्तत्र रुद्रः प्रविन्यसेत् | एवं ब्रह्मांडनिर्मानं कृत्वा विष्णुः सनातनः || १०-३० || स जीवं मूर्तिनिर्माय यथा जन्तोश्च विग्रहम् | एवं ब्रह्मांडविविधं नित्यं सृजतिनिर्गुणः || १०-३१ || निर्गुणो पिण्डरूपश्च सिद्धिकारण एव हि | केचिद् वदंति स ब्रह्मा कैचिद् विष्णुप्रकथ्यते || १०-३२ || केचिद् रुद्रो महापूर्वे एक देवो निरंजनः | आद्याशक्तियुतो देवश्चनकाकाररूपकः || १०-३३ || ई इ जालस्य दीपाभं चंद्रसूर्याग्निरूपकः | महाज्योतिर्निराकारः सुदग्धं चायगोलकम् || १०-३४ || सत्यलोके बीजकोषे चिंतामनि गृहे शुभे | ध्यायेन्निरंजनं देवं रत्नसिंहासनोपरि || १०-३५ || तस्यान्तिके निजगुरुं पूजाध्यानपरायणम् | स कान्तं पूजयेद् देवं रजता च लसोदरम् || १०-३६ || सुवक्त्रां चारुवदनां सुप्रकाशस्वरूपिणी | एवं कान्तायुतं देवं स्वमूर्त्तिस्थं विचिन्तयेत् || १०-३७ || यथा दर्पणगर्भेषु परिपश्यन्ति पर्वतम् | सहस्रारे महापद्मे तथा देवं विचिन्तयेत् || १०-३८ || परं ब्रह्मालयं ह्येतत् परं मोक्षलयं प्रिये | निर्गुणस्यालयं साक्षान् महाकाल्यालयं शिवे || १०-३९ || प्. १४) तत्रैव वर्त्तते नित्यो निकारश्च निश्चलः | यस्य रूपं परानन्दं परापरजगत्पतिः || १०-४० || नित्यानन्दपरा देवी कालीकालप्रकाशिनी | आद्याशक्तिर्महाकाली देव निर्वाणकारिणी || १०-४१ || जायंते च क्षितौ वृक्षा यथा पृथ्व्यां प्रलीयते | नोया तु बुद्बुदं जातं यथा तोये विलीयते || १०-४२ || जलजे नदिदुत्पन्नं लीयते च यथा घने | तथा ब्रह्मादयो देवाः कालिकायाः प्रजायते || १०-४३ || तथा प्रलयकाले तु पुनस्तस्या प्रलीयते | शक्तिज्ञानं विना देवि मुक्तिर्हास्याय कल्पते || १०-४४ || एकांशेन भवेद् ब्रह्मा एकांशेन जनार्दनः | एकांशेन भवेत् शंभुः कालिकायाः सुलोचने || १०-४५ || अपरा सा महालीन * द्यादीनां समुद्रवत् | गोष्प देव यथा तोयं ब्रह्माद्या देवतास्तथा || १०-४६ || गोष्पदः किं विजानीयात् समुद्रस्य जलं शिवे | तेन ब्रह्मा न जानंति विष्णुः किं वेति शंकरः || १०-४७ || सृष्टिकर्तुं यदा काल्या तत्पन्ने च सुरादयः | तथा प्रलयकाले तु पुनस्तस्यां प्रलीयते || १०-४८ || अतो निर्वाणदा काली पुरुषः स्वर्गदायकः | दक्षिणस्यां दिशिस्थाने संस्थितश्च रवेः पुनः || १०-४९ || कालीनाम्ना पलायन्ते भीतियुक्तः समन्ततः | ततः सा दक्षिणनाम्नी त्रिषुलोकेषु गीयते || १०-५० || पुरुषोदक्षिणः प्रोक्तो वामाशक्तिर्निगद्यते | वामपादक्षिणं जित्वा महामोक्षप्रदायिनी || १०-५१ || अतः सा दक्षिणां नाम्नी त्रिषुलोकेषु गीयते | निर्गुणं पुरुषं काल्या सूज्यते लुप्यते यतः || १०-५२ || अतः सा दक्षिणा नाम्नी त्रिषुलोकेषु गीयते | वैष्णवी या महाविद्या कालिका जगदम्बिका || १०-५३ || साकाररूपा सा काली चनकाकाररूपिणी | हस्तपादादिरहिता सोमसूर्याग्निरूपिणी || १०-५४ || तस्याः स्थान हि कथितं सत्यलोकं वरानने | यत् स्थानं सर्वदेवस्य प्रार्थनीयं सदानघे || १०-५५ || तस्य स्थानस्य माहात्म्यं किं मया कथ्यतेऽधुना | सहस्रदलपद्मस्य चैकपत्रेसुलोचने || १०-५६ || सहस्रगोलकं धाम अतो वक्तुं न शक्यते | जन्मांतरसहस्रेण जिह्वाकोटिशतेन च || १०-५७ || तद्वक्तुं न हि शक्नोमि एकपत्रस्य शोभनम् | अतस्त्वं हि वरारोहे विरताभवपार्वति || १०-५८ || किं जल्कमध्ये या शोभा किं वक्तुं शक्यते मया | तन्मध्ये कर्णिकां देवी तन्मध्ये बीजकोषकम् || १०-५९ || बीजकोषस्य मध्ये तु सुधासागरमुत्तमम् | लक्षयोजनविस्तारं तु मुभंतोय मडलम् || १०-६० || तन्मध्ये तु मणिद्वीपं सहस्रयोजनं शिवे | प्. १५) परितः पारिजातांश्च कदम्बवनमुत्तमम् || १०-६१ || मध्ये कल्पद्रुमं तत्र जोतिर्मन्दिरमुत्तमम् | चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् || १०-६२ || मन्दवायुसमायुक्तं गंधपुष्पं समन्वितम् | देवकन्या सहस्राणि परिचर्या परायणाः || १०-६३ || तन्मध्ये वेदिकां देवी पंचाशदक्षरात्मिकाम् | तस्योपरिमहेशानि रत्नसिंहासनं शिवे || १०-६४ || महाकाली महारुद्रश्च नकाकाररूपकम् | इन्द्रजालस्य दीपाभं महाज्योतिः सनातनः || १०-६५ || इति ते कथितं कान्ते सप्तस्वर्गं क्रमेण हि | श्रुत्वा गोपय यत्नेन नप्रकारूपं कदाचन || १०-६६ || अतिस्नेहेन देवेशि तव स्थाने प्रकाशितम् | संक्षेपेण मयाप्युक्तं विस्तारेण हि शक्यते || १०-६७ || इति श्रीचंडिकाशंकरसंवादे निर्वाणतन्त्रे सत्यलोककथनं नाम दशमः पटलः || १० || एकादशः पटलः श्रीचण्डिकोवाच त्वत् प्रसादात् महादेव पवित्राहं न चान्यथा | इदानीं श्रोतुमिच्छामि तत्त्वज्ञानं सुदुर्लभम् || ११-१ || श्रीशंकर उवाच तत्त्वे ज्ञानादि कथने शंकते मम मानसम् | एतत् प्रसंगश्रवणे विरता भवपार्वति || ११-२ || येन ज्ञानप्रसादेन विष्णुः सत्वगुणाश्रयः | शृणु देवी प्रवक्षामि ब्रह्मालोकपितामहः || ११-३ || तत्त्वज्ञानप्रसादेन शंभुः संहारकारकः | अन्ये मुक्ताश्च ये सर्वे तेपि तत्त्व प्रसादतः || ११-४ || तत्वज्ञानं परेशानि कथं वा कथ्यते मया | विरताभव देवेशि न हि पूछ पुनः पुनः || ११-५ || इति तस्य वचः श्रुत्वा शांकरी वाक्यमव्रवीत् | यदि तत्वं महादेव न मे कथयसि प्रभो || ११-६ || प्राणत्यागं करिष्यामि पुरतस्तेन संशयः | श्रीशंकर उवाच शृणु देवि प्रवक्षामि तत्वं परमदुर्लभम् || ११-७ || श्रुत्वा गोप यत्नेन स्वयोनिरिवसुन्दरि | मद्यं मांसं तथा मत्स्यमुद्रां मैथुनमेव च || ११-८ || पंचतत्वमिदं देवी निर्वाणमुक्तिं हेतवे | अष्टैश्वर्यं परं मोक्षं मद्यपानेन शैलजे || ११-९ || मांसभक्षणमात्रेण साक्षान्नारायणो भवेत् | मत्स्यभक्षन्मात्रेण काली प्रत्यक्षता भवेत् || ११-१० || मुद्रा सेवनमात्रेण भूपूज्यो विष्णुरूपधृक् | मैथुनेन महायोगी ममतुल्यो न संशयः || ११-११ || तंत्रान्तरे तु देवेशि मयैव कथितं पुरा | माहात्म्यं चास्य धर्मस्य पुरैव कथितं मया || ११-१२ || तत्वज्ञानमिदं कान्ते निर्वाणमुक्तिकारणम् | एकत्र पंचतत्वानि यत्रैव मिलनं भवेत् || ११-१३ || तत्रैवाहं प्रगच्छामि ते नरा मत्समाः सदा | सा नारी कालिका रूपा मृते तस्यां प्रलीयते || ११-१४ || ये नराः साधुरूपाश्च तत्वज्ञानपरायणाः | प्. १६) जीवमुक्ताश्च ते प्रोक्ता ब्रह्मरूपा न चान्यथा || ११-१५ || सा युज्यापि महामोक्षं नियुक्तं क्षत्रियादिषुः | ब्राह्मणपरमेशानि यदि तत्वपरायणः || ११-१६ || सत्यं सत्यं पुनः सत्यं परतत्वे प्रलीयते | यथा तोयं तोयमध्ये लीयते परमेश्वरी || ११-१७ || तथैव तत्व सेवायां लीयते परमात्मनि | इति ते कथितं कांते तत्वज्ञानं विमोक्षदम् || ११-१८ || येन ज्ञानप्रसादेन मोक्षसिद्धिर्न संशयः | क्षितिं विना यथा नास्ति संस्थितेः कारणं सदा || ११-१९ || तोयं विना यथा नास्ति पिपासा नाशकारणम् | तमोहन्ता यथा नास्ति भास्करेण विना प्रिये || ११-२० || विना वह्निं प्रयोगेन यथा किंचिन्न पच्यते | विना चंद्रेण देवेशि सुधा वृष्टिर्न जायते || ११-२१ || मातृगर्भं विना कान्ते ह्युत्पत्तिर्न यथा भवेत् | तत्वज्ञानं विना देवि तथा मुक्तिर्न जायते || ११-२२ || अत एव महेशानि गोपनं कुरु यत्नतः | दिव्यभावयुतानां च तत्वज्ञानं सदा भवेत् || ११-२३ || वीरभावयुतानां वै तत्वं मेवां सदानघे | न पशोरालये कुर्यान् न पशोर्ज्ञानगोचरे || ११-२४ || न पशोः सन्निधाने च न पशोर्दृष्टिगोचरे | अन्यथा पक्षिकीटस्य दर्शने नैव कारये || ११-२५ || सिद्धिवर्त्य शृणु प्राज्ञे यत् कृत्वा सिद्धिमाप्नुयात् | एकां शक्तिं समानीय एकैव साधकः सदा || ११-२६ || पूजयेद् बहुयत्नेन पंचतत्वे न कौलिकः | एवं कृत्वा लभेत् सिद्धि नान्यस्य दृष्टिगोचरे || ११-२७ || श्रीचक्रपूजा यत्रैव तत्रैव धन सिद्धये | सिद्धिर्न जायते तत्र कदाचिद् अन्य सन्निधौ || ११-२८ || तत्रैव कामना सिद्धिर्यत्र चक्रं प्रपूजयेत् | आयुरारोग्यमैश्वर्यं श्रीचक्रपूजनाद् भवेत् || ११-२९ || कीर्त्तिवृर्द्धिर्यशोवृद्धिर्मुक्तिं भागिन संशयः | वांछा सिद्धिर्ज्ञानसिद्धिर्देव्याः प्रीतिश्च जायते || ११-३० || श्रीचक्रपूजां यः कुर्यात् स एव संभुरव्ययः | अश्वमेधसहस्राणि वा जपे य शतानि च || ११-३१ || इष्ट्वा यत् फलमाप्नोति तत्फलं कौलिकार्चने | वापि कूपतदागादि दत्वा यत् फलमाप्नुयात् || ११-३२ || तत् फलात् कोटिगुणितं यदि चक्रं प्रपूजयेत् | तदन्नं मेरुतुल्यं स्याद् बिन्दुः सिंधुसमोपमम् || ११-३३ || पुष्पं च मेरुसदृशं यदि चक्रं प्रपूजयेत् | तन्मध्ये वर्त्तते देवि यदि व्याधियुतो नरः || ११-३४ || शिव बुध्या प्रपूज्यो हि भ्रांति तत्र विवर्जयेत् | सूर्यस्य प्रतिबिम्बं यत् तत्तो ये परिपश्यति || ११-३५ || गंगा तोये यथा सूर्यं हीनतोये तथा पुनः | सूर्यस्य दूषणं नास्ति सूर्यैकः परितिष्ठति || ११-३६ || तथैव परमेशानि साधके नास्ति दूषणम् | मन्नाराधनमात्रेण तदात्मा तन्मयो भवेत् || ११-३७ || प्. १७) अत एव महेशानि दूषणं नास्ति रेतसि | रेतः पवित्रं परमं शक्तिर्मोक्षस्य कारणम् || ११-३८ || पूजाहीना च या शक्तिर्जपहीना च या पुनः | धृत्वा साधकरेतश्च सा नारी कालिका श्वयम् || ११-३९ || भ्रांतिरत्र न कर्त्तव्या यदि मुक्तिं प्रयछति | या नारी भ्रान्तिसंयुक्ता आगता चक्रमंडले || ११-४० || सप्तजन्मनि सा नारि चांडाली पतिवर्जिता | एवं रूपां च यां नारिमवज्ञां करुते यदि || ११-४१ || धनपुत्रवर्जितश्च स चंडालो न चान्यथा | इति ते कथितं कान्ते तत्वज्ञानं विमोक्षदम् || ११-४२ || येषां देहे महेशानि तत्वज्ञानं मयोदितम् | ते पुनर्जननीगर्भे न विशन्ति कदाचन || ११-४३ || जीवन्मुक्ताश्च ते प्रोक्ताः शिवरूपाश्च ते नराः | शृणु देवि प्रवक्षामि कौलिकस्य च लक्षणम् || ११-४४ || यस्मिन् देवे यदाचारो निर्दिष्टां मंत्रसाधने | तदाचारविशिष्टो यः कौलिकश्चैव कीर्त्तितः || ११-४५ || शैवे शाक्ते गानपत्ये सौरे चांद्रे सुलोचने | तत्वज्ञानमिदं प्रोक्तं वैष्णवे शृणु यत्नतः || ११-४६ || इति निर्वाणतन्त्रे तत्वज्ञानविवरणं नाम एकादशः पटलः || ११ || द्वादशः पटलः | श्रीचंडिकोवाच शृणु नाथ परानन्द मम प्राणेश्वरप्रभो | वैष्णवस्य यथा तत्वं तन्मे ब्रूहि जगत्पते || १२-१ || श्रीशंकर उवाच शृणु तत्वं वरारोहे वैष्णवस्य त्रिलोचने | गुरुतत्वं मंत्रतत्वं वर्णतत्वं सुरेश्वरि || १२-२ || देवतत्वं ध्यानतत्वं पंचतत्वं वरानने | तत्रादौ श्रीगुरोस्तत्वं स्नेहाद्वक्षामि पार्वति || १२-३ || स तैलं वर्तिका युक्तं देहस्थं ब्रह्मतैजसम् | गुरुणा मंत्रदानेन तत् सूत्रं दीपितं भवेत् || १२-४ || देवतायाः शरीरं हि जीवादुत्पद्यते ध्रुवम् | अत एव हि तस्यात्मा देवरूपो न संशयः || १२-५ || ईश्वरस्य तु यद् बीजं तदेव अक्षरात्मकम् | तेन वर्णात्मकं देहं जंतोरेव न संशयः || १२-६ || मंत्रवर्णो सवर्णा निलीयन्ते परमेश्वरि | वर्णतत्वमिदं देवि मम सर्वस्य यद् भवेत् || १२-७ || स्वयं देवो न चान्यस्मि निर्मलो देवरूपकः | सर्वत्र देवतां ध्याये तृणगुल्मलतादिषु || १२-८ || ध्यानेन लभते सर्वं ध्यानेन विष्णुरूपकः | ध्यानेन सिद्धिमाप्नोति विनाध्यानेन सिद्धति || १२-९ || इति ते कथितं देवि वैष्णवस्य सुरेश्वरि | यज ज्ञानादमरत्वं च विष्णुरूपो न संशयः || १२-१० || यः कुर्यात् परमेशानि तत्वज्ञानं मयोदितम् | स्वर्गभागी भवेन्मर्त्यो विष्णुलोके महीयते || १२-११ || यदिमुक्ति यतो मर्त्यो मनसा चिंतयन् सदा | ते नरा न हि गछंति कदाचिद्यममन्दिरम् || १२-१२ || इति ते कथितं तत्वं वैष्णवस्य सुरेश्वरि | यजज्ञानादमरत्वं च लभते नात्र संशयः || १२-१३ || इति श्रीनिर्वाणतंत्रे विष्णोस्तापकथनं नाम द्वादशः पटलः || १२ || त्रयोदशः पटलः श्रीचण्डिकोवाच शृणु देवि प्रवक्षामि मंत्रं दशाक्षरं परम् | यस्य श्रवणमात्रेण मूढोपि विष्णुरूपकः || १३-१ || पु मंत्रोपि च देवेशि शक्तिमन्त्रं जपेद् यदि | अज्ञात्वा तन् महामंत्रं सभवे ब्रह्मराक्षसः || १३-२ || अज्ञात्वा तन् महामन्त्रं तत्र ज्ञानी भवेद् यदि | तथापि नरकं गछेद् इति देवस्य सम्मतम् || १३-३ || शृणु देवि प्रवक्षामि दशार्णं मंत्रमुत्तमम् | माया बीजं लक्ष्मी काली च पाशकम् || १३-४ || गगणं पक्षिबीजं पवह्निकान्ता ततः प्रिये | इति ते कथितं चंडि दशाक्षरमनूत्तमम् || १३-५ || यजज्ञानादमरत्वं च लभते नात्र संशयः | अस्य ग्रहणमात्रेण नरोनारायणो भवेत् || १३-६ || अस्य प्रसादमात्रेण चंडि निर्वाणतां(?) व्रजेत् | दंडोपरिजप्तेद् एतत् दशार्णं परमेश्वरि || १३-७ || अस्य मन्त्रान् महामन्त्र जायते नात्र संशयः | सर्वे देवता(?) स रूपाश्च दशर्णाज्जायते ध्रुवम् || १३-८ || महाविद्योपासकश्च दशार्णं वह्नि पश्यति | इह लोके दरिद्रश्च परे च ब्रह्मराक्षसः || १३-९ || तस्माद् यत्नेन देवेशि दशार्णं श्रावयेद्गुरु | केवलं श्रवणं कुर्यात् जपेत् साधकोत्तमः || १३-१० || या श्रावये हशार्णं च स न ये गुरुरुत्तमः | मंत्रदाना यथा देवि तथैव(?) सदगुरु स्मृतः || १३-११ || दशार्णदाता यो देवि स एव परमो गुरुः | यथा मरतरंगीन्या नसनासुकलापगा || १३-१२ || दशार्णस्य समोनास्ति मन्त्रोपि सुरपूजिते | त्वत् समा यदि नारी च मत्समः पुरुषोस्ति च || १३-१३ || दशार्णस्य समो नास्ति मनो हि कथ्यते मया | दशकान्तस्य स्वर्णस्य सदृशं वौहमशाचेत्(?) || १३-१४ || दशार्णस्य स मंत्रं कथयेवस्तदा प्रिये | श्रीप्रासादाद् त्य(?) यं मंत्रो दशार्णः परमेश्वरि || १३-१५ || ऊर्द्ध्वाम्नाये महातंत्रे माहात्म्यं कथयामिति | अतः परं प्रवक्षामि यद् रुपं दंडधारणम् || १३-१६ || साधुरूपो गृहस्थश्च ब्राह्मणौ ब्रह्मवादिनः | सर्वोपायपरित्यक्तः सदाधर्मपरायणः || १३-१७ || जितेन्द्रियोजितक्रोधः समत्वं सर्वजातिषु | पुत्रे रिपौ समत्वं च समं स्वर्णे च पार्थिवे || १३-१८ || दयाभावश्च सर्वत्र पुत्रे मित्रे रिपो भवेत् | लाभा लाभे जये नाशे निंदायां पौष्टिके तथा || १३-१९ || काये * *? न संवंधे मृत्युमारभ्य युगान्तिके | ब्रह्मज्ञानं विनाज्ञानं यस्य चिन्तेन विद्यते || १३-२० || स न्यासधर्म तस्यैव नान्यस्य सुरपूजीते | प्. १९) सन्यासधारणं कार्यं विप्रस्य मुक्तिहेतवे || १३-२१ || यो विप्रो धारये दंडं सैवनाराणयः स्वयम् | चतुर्भुजाः प्रजायन्ते दंडधारणमात्रतः || १३-२२ || सर्वलक्षणं युक्तो ब्राह्मणो गमनं चरेत् | गत्वा च दंडिनं दृष्ट्वा प्रणमेत् दंडवत् क्षितौ || १३-२३ || त्वमेव देव देवेश त्वमेव त्राणकारकः | त्वमेव जगतां वद्यस्त्राहि मां शरणागतम् || १३-२४ || इति श्रूत्वा दंडधारि पप्रछसादराज्जनम् | कस्त्वं कस्य युतस्त्वां हि कथया गमनम् वद || १३-२५ || १३- श्रुत्वा तद् वचनं विप्रः प्रोवाचात्मनिवेदनम् | विप्रवेशसमुद्भुतो ह्यमुक्तोहं विवेकवान् || १३-२६ || नास्ती मे पितरौ साक्षात् नास्ति मे स्त्रीसुतादयः | वृतौ च माता पितरौ मृताः भ्रातादयः सुनाः || १३-२७ || पश्चात् सकान्ता नाशे तु ह्यहमत्यन्तनापवान् | अत एव च भो स्वामिन् देहि मे परमाश्रयम् || १३-२८ || सत्यं कुरु द्विजश्रेष्ठ यदुक्तं वै ममान्तिके | मिथ्या भाषणदोषेण ब्रह्मवर्त्मविवर्जितः || १३-२९ || भवत्येव न सन्देहो द्विजमत्पुरतो वद | स्थिता यां यौवनायाञ्च कान्तायां परमेश्वरि || १३-३० || सर्वं हि विफलं तस्य यः कुर्याद् दंडधारणम् | पितरौ विद्येते देवि यः कुर्याद् दंडधारण || १३-३१ || विद्यते च वालभावो यस्य कान्ता सुतस्तथा | सन्यासधारणं तस्य वृथा हि परमेश्वरि || १३-३२ || सगुरुश्चापि शिष्यश्च रौरवाख्यं प्रयच्छति | इत्यादि दृढवाक्यन्तु श्रुत्वादडो(?) जितेन्द्रियः || १३-३३ || सन्यासदानं तस्यैव दद्यान्मुक्तीं च सास्वतीम् | आदौ दशाक्षरं मंत्रं प्रथमं श्रावयेद्गुरुः || १३-३४ || तत श्रुत्वा च महावर्त्मगमनं कारये ततः | क्रोशं वा क्रोशयुग्मं वा वेगेन गमनं चरेत् || १३-३५ || गुरुणा सहशिणपृष्टे पृष्टे त्रिविधानतः | तिष्ट तिष्ट महाबाहो मां त्यक्त्वा न हि गच्छतु || १३-३६ || शिष्यः परमहंसस्त्वत्वत् समो नास्ति भूतले | क्षन्तव्यमपराधं मे त्वं हि विष्णुः स्वरूपधृक् || १३-३७ || त्वमेव जगतां वन्यस्त्वमेव सर्वपूजितः | त्वमेव परमो हंसस्तीष्ठ तिष्ठ तु मा व्रत || १३-३८ || सशिष्य दंडिना देवि इति वाक्यं वदेत् यतः | अतः सः परमो हंसः पथिशे ते प्रमोहितः || १३-३९ || तस्यैव दर्शनार्थाय चान्तरीक्षे स देवताः | स स्त्री कासपरिवारा आयान्तिदिग्विदिक्षु च || १३-४० || एतस्मिन् समये दंडी शान्तयेत् शिष्यमुत्तमम् | फुत्कारं बहवो दत्वा मंत्रेणानेन सुव्रते || १३-४१ || फूत्कारैर्वायुयोगैश्च पुनः प्राणं प्रयोजयेत् | जन्मांतरन्तु तस्यैव तत्क्षणे जायाते किलु || १३-४२ || जन्मान्तरं समालोक्य संस्कारमाचरेत् गुरुः | प्. २०) कुंडोत्तिके समानीय अन्नप्रासनमाचरेत् || १३-४३ || अमुकस्यं समाभाष्य पुष्पं वह्नौ विनिक्षिपेत् | इति नाम्ना तु संस्थाप्य महासंस्था(?)रमारयेत्? || १३-४४ || ततो पिंडं डिना देवि शिष्यायज्ञानहेतवे | शृणुशिष्य महाधीरमद्वाक्यं हृदयं गुरु || १३-४५ || तत्रान्तरं तु तस्यैव पृथिव्यानाधिकारिता | मृतदेह स्वरूपोयं शरीरोयं न संशयः || १३-४६ || विरतोमंत्रसर्वत्र ज्ञेया द्याहारवेष्टया | ब्राह्म * * * * * * * * * ? भोजनं तव || १३-४७ || पंचतत्वं सदा सेव्यं *?प्त भावे जितेन्द्रियः | सदैव मानसां पूजां सदा मा * * * * *? || १३-४८ || * * * * * * * * * * * * * ? कुंडे * तः | सदैव मानसं भोगं त्यागं कुरु प्रयत्नतः || १३-४९ || षड्वर्गषु जितो? भूत्वा नरा? नारायणः स्वयम् | भवत्येव न सन्देहो? दंडधारणमात्रः || १३-५० || पितृवंसे सप्तदशमातृ * * * * * *? | कान्तायाः सप्तमञ्चैव लक्ष्मी नारायणो भवेत् || १३-५१ || इति श्रुत्वा वचस्तस्य शिष्यञ्चैतानन्न वा * *? | * * * * * * * *? तत् करोमि निरन्तरम् || १३-५२ || पंचतत्वं सदा सेव्यं कस्माल्लाभं वदस्व मे | यत्रैव वर्त्तते दंडो बहुशिष्य * * * *? || १३-५३ || * * मत्वा? प्रयत्नेन पंचतत्वविचेष्टया (?)| अथवा वीरमध्ये तु य * * *? मनं चरेत् || १३-५४ || तत्वज्ञानि गृहस्थस्य सन्निधानं व्रजेत् किल | सुदूरमपि गन्तव्यं यत्रास्ते कुलनायक || १३-५५ || * * * *? न च स्वार्थं? देवतायाः कृते पुन | आचार्यपत्नीं दृष्ट्वा तु भिक्षां कुर्यात् समाहितः || १३-५६ || हे मातर्देहि मे भिक्षां कुण्डली तर्पयाम्यह | एव मुक्ता ततो दंडी महासंस्थारमाचरेत् || १३-५७ || कुण्डान्तिकं समानीय होमयेद् विधिपूर्वकम् | ततो हुनेत् करं धृत्वा आज्यैरष्टा हुतासनः || १३-५८ || विपरीतक्रमेणैव कुर्याद्दंडविशेषणम् | ततः कुर्यात् प्रयत्नेन अन्तर्यज्ञोपवीतकम् || १३-५९ || शिखान्त सशिष्यमंत्रः पूनमध्ये विनिक्षिपेत् | मूलेन यज्ञसूत्रं तु तस्मिनेव निवेशयेत् || १३-६० || घृतमृत्तिकया पुगं विलिप्य शोधयेत् ततः | ततः पूगं मूलमंत्रै दंडमध्ये विनिःक्षिपेत् || १३-६१ || पूर्णाहुतिं ततो दद्यात् तत् पूगमानयेत् सुधीः | यज्ञसूत्रं स शिखायां तत् युगं शोधयेत् प्रिये || १३-६२ || मूलमन्त्रं जपेत् तत्र गजान्तकसहस्रकम् | ततश्च श्रावयेन्मंत्रं कालिकायाश्च सुन्दरि || १३-६३ || अथवा श्रावयेन् मंत्रं तारायाः परमदुर्लभम् | मूलमन्त्रं समुच्चार्य पूगभस्मप्रयत्नतः || १३-६४ || भक्षणा तत् क्षणात् साक्षाद् दंडी यज्ञोपवीतवान् | भवत्येव न सन्देहो नरोनारायणो भवेत् || १३-६५ || बिल्वपत्रं समानीय वंशस्यैकं समानयेत् | प्. २१) बिल्वदंडे कालिकाया जपेत् मंत्रं प्रयत्नतः || १३-६६ || जीवन्यासं ततः कृत्वा दंडो देविं विचिन्तयेत् | बिल्वस्थित च चैतन्यं वंशदंडं नियोजयेत् || १३-६७ || इष्टदेवी स्वरूपेण दंडोयं परमेश्वरि | शिष्यस्य दक्षिणे हस्ते दंडस्य स्थानमाचरेत् || १३-६८ || कमंडलुं समानीयवारुणं * * *? भवेत् | वारुणीं निक्षिपेत् तत्र मूलमंत्रं ततो जपेत् || १३-६९ || * * * * * * * * * * * * * * ? न्यसेत् | गैरिकं कोपिनं वस्त्रं यत्नेन परिधापयेत् || १३-७० || दंडधारणमात्रेण नरोनारायणो * * *? | * * * * * *? यां दंडोपरिविभावय || १३-७१ || गुरुप्रज्ञां महाकाली दंडोपरिविभावयेत् | साक्षान्नारायणस्त्वं हि दयाधर्मपराभव || १३-७२ || न च माता पिता वापि सर्वं दंडान्तिके स्थितम् | चौरवद् गमनं गेहे गृहस्थस्य द्विजस्य च || १३-७३ || नारायणं सदा भाष्य * * * * *? जेत्सुधीः | इति श्रुत्वा गृहस्थश्च पुटाज्वलि परो भवेत् || १३-७४ || द्वारे च दंडिनं दृष्ट्वा प्रणमेत् * * * * *? | * * * *? प्रयत्नेन कूर्ममांसं विना प्रिये || १३-७५ || आदायभीक्षां देवेशि चौरवद् गमनं चरेत् | तथा हि * * * *? त्रिरात्रवसतिं चरेत् || १३-७६ || तीर्थभूमिं ततो गत्वा सप्तरात्रं वसेत् ततः | ब्राह्मणो दंडिनं दृष्ट्वा प्रणमेद्विधिपूर्वकम् || १३-७७ || तोय पूर्णं च देवेशि किं वा शून्यकमण्डलुम् | दृष्टिमात्रेण तत् पात्रं पूर्णतोयं भवेद्ध्रुवम् || १३-७८ || दद्यान् न यदि मोहेन स भवेदापदाश्रयम् | त्रिंशद्वर्षं सहस्राणि वने च विटपो भवेत् || १३-७९ || इति ते कथितं चंडि संन्यासधारणं परम् | पाषंडा य न वक्तव्यं प्राणान्तेऽपि कदाचन || १३-८० || ८१५ || इति निर्वाणतन्त्रे चंडिका शंकरसंवादे त्रयोदशः पटलः || १३ || चतुर्दशः पटलः | श्रीशंकर उवाच | शृणु देवि प्रवक्षामि अवधूतो यथा भवेत् | वीरस्य मूर्तिजानीयात् सदा तत्वपरायणम् || १४-१ || यद् रूपं कथितं पूर्वं संन्यासधारणं परम् | तद्रूपं सर्वकर्माणि प्रकुर्याद् वीरवल्लभः || १४-२ || दंडिनं मुंडन देवि आवस्यकं समाचरेत् | यथा तथा नैव कुर्याद् देवी यस्य च मुंडनम् || १४-३ || असंस्कृतकेशानां मुंडलेक्षिकुचोच्चयाम् | अस्थिमाला विभूषो वा रुद्राक्षान् वापि धारयेत् || १४-४ || दिगम्बरो वा वीरे प्रश्चाथवा कौपिनी भवे | रक्तचंदनदिव्यांगः कुर्याद् भस्मांगभूषणम् || १४-५ || क्षमादानं तपोध्यानं वीरभावे न शैलजे | शिवोहं भैरवानन्दो मुक्ताहं कुलनायकः || १४-६ || एवं भावपरो मंत्री हेतुयुक्तः सदा भवेत् | सम्विदासेवनं कुर्यात् सदा कारणसेवनम् || १४-७ || प्. २२) भवेत् साक्षात् स पुरुषः शंभुरूपो न संशयः | निर्वाणमुक्तिमाप्नोति ब्राह्मणो वीरभावतः || १४-८ || अवधूतः क्षत्रियश्च महायोगि न संशयः | स्वरूपोपि भवेद् वैश्यः शूद्रोपि सहलोकभाक् || १४-९ || संपूर्णफलमाप्नोति विप्रो निर्वाणतां व्रजेत् | त्रिभागफलमाप्नोति क्षत्रियोवीरभावतः || १४-१० || पादद्वयन्तु वैश्यस्य शूद्रस्य चैकपादकम् | ब्राह्मणस्य विनान्यत्र संन्यासो नास्ति चंडिके || १४-११ || कुर्यान् मोहेन योन्यत्र सैवपापाश्रयो नरः | गुप्तभावेन देवेशि शृणुयात् प्राणवल्लभे || १४-१२ || संन्यासिना सदा सेव्यं पंचतत्वं वरानने | द्वादशाब्दे तु देवेशि यदि मृत्युर्न जायते || १४-१३ || सैव चानन्दविख्यातो द्वादशाब्दे सरस्वती | अवधूतस्य आष्यातः शृणुष्व पर्वतात्मजे || १४-१४ || वनायपि (?) भारति च पुरी च गिरिरेव च | एकस्थाने च संस्थित्वा इष्टध्यानादिकं चरेत् || १४-१५ || यो मंत्रः तद् ब्रह्मप्राज्ञः शरणः परिकीर्तितः | श्रेष्ठकेशो जटाजूटः सदा नन्ददवत्? चरेत् || १४-१६ || अन्तयोनी(?) महावीरो हरन्यः सैवशैलजे | नानाशास्त्रेषु यो विज्ञो नानाकर्मविसारदः || १४-१७ || स देष्ट देवी भावेन भावयेद् यो हि चांगना | स एव भारते वीरो महाज्ञानी जितेन्द्रियः || १४-१८ || प्. २३) सदोर्द्धे बाहुर्? यो वीरो मुक्तकेशो दिगम्बरः | स एव समभावेन भावयेद् यो नरोत्तमः || १४-१९ || इष्ट देवीं विना नास्ति शवीरः परिकीर्तितः | नाना देवेन्द्र पीठेषु क्षेत्रेषु तीर्थभूमिषु || १४-२० || भ्रमणं कुरुते नित्यं कुर्याद्यत्नेन पूजनम् | देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा || १४-२१|| अन्तर्यागे न योनिश्चः स वीरः पुरिरेव च | अवधूताश्रमो देवि यस्य भक्तिः सुनिश्चला || १४-२२ || तस्य तुष्टा भवेत् काली किं न सिध्यति भूतले | अवधूतं समालोक्य शंभूवत् पूजनं चरेत् || १४-२३ || शक्तितः पंचतत्वानि यत्नेन च निवेदयेत् | पंचतत्व विना भेद्रे आनन्दो नैव जायते || १४-२४ || अतो हि भक्तिभावेन ते नैव पूजा * * *? | इति ते कथितं कान्ते अवधूतस्य लक्षणम् || १४-२५ || येन विज्ञानमात्रेण शिवत्वं लभते नरः | शटायभक्तिहीनाय न दातव्यं कदाचन || १४-२६ || गुरुभक्तिविहीनाय तत्वनिंदा पराय च | इदं तंत्रं सुगुप्तं च प्राणान्तेऽपि कदाचन || १४-२७ || न श्रावयेदभक्ताय सिद्धिहानिः प्रजायते | कदाचिद् वा स्वपुत्राय स्वशिष्याय महात्मने || १४-२८ || श्रावयेद् भक्तियुक्ताय यदि तद् योग्यता भवेत् | श्रूत्वा गोपपयत्नेन स्वयोनिमिव शैलजे || १४-२९ || संक्षेपात् कथितं किंचित् किमन्यत् श्रोतुमिच्छति | इति श्रीनिर्वाणतंत्रे चंडिकाशंकरसंवादे अवधूताश्रमविवरणं नाम चतुर्दशः पटलः || १४ || समाप्तः शुभम् ########### END OF FILE #######