#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00040 Uniform title: pāñcarātrarakṣā Author : vedāntadeśika Editor : Pandit M. Duraisvami Aiyangar Editor : Pandit T. Venugopalacharya Description: The Pāncarātrarakṣā by Vedānta ḍeśika edited by M. Duraiswāmy Aiyangār and T. Venugopālacārya The author of this was Veṅkaṭanātha popularly known as Vedānta Deśika. He was a śrīvaiṣṇava and great scholar. He lived between 1269 and 1369. He was the son of Anantasūri of Tuppil near conjeevveram. Tradition regards him as an incarnation of the bell of Lord Tirupati. His first and main teacher was his uncle. His first work dates to 1290. Thereafter he wrote over a hundred works. The Pāñcarāatrarakṣā is a basic introductory text to the Vaiṣṇava Pāñcarātra system in which Vedānta Deśika quotes from numerous Vaiṣṇava and other sources. His concern is to establish the authority of the Pāñcarātra and establish it excellence with respect to other traditions. In that context he refers to various zaiva schools And texts and so is important also for the historian of those traditions. Notes: Revision 0: June 14, 2007 Revision 1: November 13, 2014 Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Publisher : The Adyar Library and Research Center Publication year : 1942 Publication city : Adyar Publication country : India #################################################### श्रीपान्चरात्ररक्षा ओf श्री वेदान्त देशिक एदितेद् ब्य पंडित ं. डुरैस्wआम्य आइयन्गार् अन्द् पंडित ट्. Vएनुगोपालचार्य ठे अद्यर् लिब्रर्य अन्द् रेसेअर्छ् चेन्त्रे, मद्रस्. १९४२ श्रीपाञ्चरात्ररक्षा श्रीमद्वेदान्तदेशिकप्रणीता श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी | वेदान्ताचार्यवर्यो मे संनिधत्तं सदा हृदि || सिद्धान्तव्यवस्थापनाख्यः प्रथमोऽधिकारः मङ्गलाचरणम् चातुर्व्यूहं परं ब्रह्म षाड्गुण्यपरिकर्मितम् | पञ्चरात्रस्य कृत्स्नस्य प्रसूतिं पर्युपास्महे || अनन्यदेवतास्थायिन्यायतेमहि ते वयम् | पञ्चरात्रमहाम्भोधिपारदृश्वनि सज्जने || आरोहन्त्वनवद्यतर्कपदवीसीमादृशां मादृशां पक्षे कार्तयुगे निवेशितपदाः [पदां- च छ पदान्- क ख ग] पक्षे पतद्भ्यः परान् | सर्वानुश्रवसारदर्शिसशिरःकम्पद्विजिह्वाशन- क्रीडाकुण्डलिमौलिरत्नधृनिभिः सारात्रिकाः सूक्तयः || पाञ्चरात्र प्रामाण्यम् अत्र तावत् प्रत्यक्षितसमस्तवेदार्थतत्त्वस्थितिभिः पाराशर्यप्रभृतिभिः महाभारतादिषु भगवच्छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि | शारीरके च कपिलकणभक्षभिक्षुक्षपणकपशुपतिसमयप्रतिक्षेपसमनन्तरं तन्त्रान्तरसहपाठादिसंभवन्मन्दमतिव्यामोहशमनाय उत्पत्त्यसंभवात् न च कर्तुः करणम् इति सूत्राभ्यां पूर्वपक्षमुपक्षिप्य विज्ञानादिभावे वा तदप्रतिषेधः विप्रतिषेधाच्च इति सूत्रद्वयेन जीवोत्पत्त्याद्यनुक्तितत्प्रतिषेधप्रतिपादनद्वारेण सिद्धन्तः समर्थितः | भगवद्यामुनमुनिभिर्भाष्यकारैश्च इदं महोपनिषदं चतुर्वेदसमन्वितम् | सांख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् || वेदान्तेषु यथासारं संगृह्य भगवान् हरिः | भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् || इत्यादिप्रमाणगणप्रतिपादितप्रक्रियया अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव् यतासंग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन द्वचिदप्यप्रामाण्यं न शङ्कनीयमिति निरणायि | कर्मकाण्डेऽपि प्रमाणलक्षणे संभवेद्वदविरोधानां व्यासाद्यपरिगृहीतानामेव स्मृतीनामप्रामाण्यमसूत्र्यत् | ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः समानयोगक्षेमं सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि आगमप्रामाण्ये निराचक्रिरे | उक्तं च- तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रे समानं सांख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् || वेदान्तेषु यथासारं संगृह्य भगवान् हरिः | भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम् || इत्यादिप्रमाणगणप्रतिपातिदप्रक्रियया अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव् यतासंग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन द्वचिदप्यप्रामाण्यं न शङ्कनीयमिति निरणायि | करमकाण्डेऽपि प्रमाणलक्षणे संभद्वेदविरोधानां व्यासाद्यपरिगृहीतानामेव स्मृतीनामप्रामाण्यमसूत्र्यत् | ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः समानयोगक्.एस्मं सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि आगमप्रामाण्ये निराचक्रिरे | उक्तं च- तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रैः समानं पातृत्वेन प्रसजति तदा सोमपास्ते सुरापाः || इति | शूद्रार्चनादिप्रसङ्गे त्वेवं प्रतिबन्दी श्रीकृष्णमुनिभिरुक्ता- हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः | निर्वाहः क्रियते तद्वच्छास्त्रस्यास्यापि नान्यथ || इति | अयमर्थः [ङ्: अस्यार्थः]- यथा हविष्कृदाधावेति शूद्रस्य बहुयाजिनोऽगाराच्छूद्रवर्जम् इत्यादिवाक्येषु कर्मविशेषाधिकारमुपचारविशेषं वा समालम्ब्य निर्वाहः तद्वदिहापीति | भट्टारकैश्च तन्त्रान्तरेभ्य इदं सार्वत्रिकेण प्रामाण्येन व्यभज्यत्- तस्मात् सांख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् || चत्वार्ः सिद्धन्ताः इति | तदेतत् महतो वेदवृक्षस्य मूलभूतो महानयम् इत्यद्युक्तानन्तशाखाश्रयऋगादिस्कन्धभिदुरनिगमतरुमूलभागोपबृं हणरूपं स्वमूलनिगमभागभेदात् [घ्: भागभेदवदृगादि] ऋगादिदेव चर्धावतिष्ठते- आगमसिद्धन्तः मन्त्रसिद्धन्तः तन्त्रसिद्धन्तः तन्त्रान्तरसिद्धन्त इति | सिद्धन्तानाम् असांकर्यस्थापनम् चत्वारश्चैते सिद्धन्ता ऋगादिवदेव शाखाभेदैरवान्तरतन्त्रैर्भिद्यन्ते | तत्र यथा ऋगादयो वेदभेदाः तत्तच्छाखाभेदाश्च पूर्वपूर्वपरिग्रहानुसारेण व्यवतिष्ठन्ते पुत्रादिभिश्च परिगृह्यन्ते तथा [घ्: तथात्र] सिद्धन्तभेदास्तदवान्तरभेदाश्च प्रथमपरिग्रहान्सारेण व्यवतिष्ठन्ते | यथा च [ख्: चकारः पुस्तके नास्ति] वाचनिकातिरिक्ते वेदान्तरशाखान्तरसूत्रान्तरसंकरे दोषः तथेह सिद्धन्तसंकरे तन्त्रसंकरे प्रत्येकतन्त्रान्तः [ख्: प्रतिनियत] पातिनियतवैकलिप्कधर्मादिसंकरे च | असंकीर्णा चेयं व्यवस्था [प्रमाणान्तरसहकृत क ख ग च झ] प्रमाणसहकृतपारंपर्यपर्यालोचनया व्यवस्थाप्या | इदं च गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात् [संस्कारासेवनात् छ ज] भागवतानामब्राह्मण्यं पूर्वपक्षिणा प्रसञ्जितं परिहरद्भिरभगवद्यामुनमुनिभिरर्थतः समर्थितम्- यदेते [य एते क ख ग च छ ज झ्] व.शपरंपरया वाजसनेयशाखामधीयानाः कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते | ये पुनः सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन [धर्मात्यगेन न्यायपरिशुद्धौ पाठः] एकायनश्रुतिविहितानेव चत्वारिंशत्संस्कारान् कुर्वते [अनुतिष्ठन्ति क ख ग च] तेऽपि स्वशाखागृह्योक्तमर्थं यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात् प्रच्यवन्ते अन्येषामपि परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् | सर्वत्र [सर्वे हि ज] हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समाचारा उपलभ्यन्ते | यद्यपि सर्वशाखाप्रत्ययमेकं कर्म, तथापि परस्परविलकषणाधिकारिसंबद्ध धर्मा न द्वचित् समुच्चीयन्ते | विलक्षणाश्च त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो द्विजेभ्यः त्रययन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्य एकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्म्णा इति नोभयेषामप्यन्योन्यशाखाविहितकर्माननु.ठानमब्राह्मण्यमापादयति | यथा चैकायनशाखाया अपौरुषेयत्वं तथा काश्मीरागमप्रामाण्य एव प्रपञ्चितमिति नेह प्रस्तूयते | प्रकृतानां तु भागवतानां सावित्र्यनुवचनादित्रयीधर्मसंबन्धस्य स्फुटतरमुपलब्धिः न तत्त्यगनिमित्तव्रात्यत्वादिसंदेहं सहते इति | अत्र विज्ञानशब्देन संवित्सिद्ध्यादिषु स्वयमेव स्थापितं विशिष्टं ज्ञानं विविक्षितम् | आह हि- यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले | इति तत्तुल्यनृपतिनिवारणपरं वचः || न तु तत्पुत्रभृत्यकलत्रादिनिवारणम् | तथा सुरासुरनरब्रह्माण्डशतकोटयः || क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः | ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ताः || विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषुः [ग्: लवविप्रुषः; क च झ : जलविप्रुषः] इति | इमं च वेदभेदं भोजराजबलदेवाचार्यादयश्च विविञ्चते - यो वेदवृक्षं बहुमूलशाखं नानाफलार्थिद्विजसंघसेव्यम् | पूर्श्रवानुश्रवभेदभिन्नमारोपयत्तं[आरोपयन्तं क ख च झ] पुरुषं रपद्ये || इत्यादिभिः | एवं च सर्वत्रासम्करः संग्रहेण प्रदर्शितः श्रीसात्त्वते - न शास्त्रार्थस्य शास्त्राणां बुद्धिपुर्व उपप्लवः | आचर्तव्य इहाज्ञानात् [इहाज्ञात्वा घ छ] पारम्पर्यक्रमं विना || इति | अस्खलितपारंपर्यप्रत्यभिज्ञानेषु [स्थानेषु अद्देद् घ ङ्] परिदृश्यमानप्रमाणमूलानि आचारपरंपरापरिगृहीतानि च कर्माणि न मात्रयापि परित्याज्यानि [परिहाप्यानि क ग घ ङ् च छ ज] न च तद्विरुद्धन्युपादेयानीत्युक्तं भवति | श्रीपौष्करे च अधिकारिनिरूपणाध्याये प्रतिनियताधिकारिविषयसिद्धान्तानाम् त्वाभिप्रायेणैव सिद्धन्तभेदस्तदवान्तरभेदश्च दर्शितः | असांकर्ये पौष्करवचनानि यथा- कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते | क्रमागतैः स्वसंज्ञाभिर्ब्राह्मणैरागमं तु तत् || विद्धि सिद्धन्तसंज्ञं च तत् पूर्वमथ पौष्कर | नानाव्यूहसमेतं च मूर्तिद्वादशकं हि तत् || तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं हि यत् | प्रादुर्भावान्तरयुतं धृतं हृतप्द्मपूर्वके [तत् पत्मपूर्वके ज] || लक्ष्म्यादिशङ्खचक्रा[चक्राख्या घ]ख्यगारुत्म्यसदिगीश्वरैः | सगणैरस्त्रनिष्ठैश्च तद्विद्धि कमलोद्भव || मन्त्रसिद्धान्तसंज्ञं च शास्त्रं सर्वफलप्रदम् | विना मूर्तिचतुष्केण यत्रान्यदुपचर्यते || मन्त्रेण भगवद्रूपं केवलं वाङ्गसंवृतम् | युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर || भिन्नैराभरणैरस्त्रैरावृतं च सविग्रहैः | तन्त्रसंज्ञं हि तच्छास्त्रं परिज्ञेयं हि चाब्जज || [मूल्यानवृत्ति घ] मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै | चतुस्त्रिद्व्यादिकेनैव योगेनाभ्यर्थितेन तु || संवृताः परिवारेण स्वेन स्वेनोज्झितास्तु वा | यच्छवत्याराधिताः [आराधितं क ख ग झ] सर्वं विद्धि तन्त्रान्तरं तु तत् || एवं नानागमानां च सामान्यं विद्धि सर्वदा | नामद्वयं वा [द्वयं च घ ङ् च छ ज] सिद्धन्तं पञ्चरात्रेति पौष्करे || एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् | नानाशयवशेनैव सिद्धद्यैः प्रकटिकृतम् || संक्षिप्तं सप्रप्रञ्चं च तृतीयमुभयात्मकम् | सेतिहासपुराणैस्तु वेदैर्वेदान्तसंयुतैः || ये जन्मकोटिभिः सिद्धस्तेषामन्तेऽत्र संस्थितिः | इति | अत्र एकैकस्य सिद्धन्तस्यामुलादेव बहुभिर्भेदैः संस्थितत्ववचनात् चतुर्णां सिद्धान्तानां तदवान्तरतन्त्रभेदानां च सिद्धान्तरतन्त्रान्तरसंकरपरिहारेणैव सर्वदावस्थानं सूचितम् | चतुर्णामपि सिद्धन्तानां मोक्षप्रदत्वम् अत्र च [चकारः पुस्तकेषु नास्ति ख ग ज झ] सिद्धन्तसंज्ञितानामेषां चतुर्णामै मोक्षप्रदत्वमनन्तरमेवोक्तम् - तस्मात् [यस्मात् ङ् च] सम्यक् परं ब्रह्म वासुदेवाख्यमव्ययम् | एतस्मात् प्राप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा || सिद्धान्तसंज्ञा विप्रास्य सार्धका अत एव हि | इति | अत्र सार्थका इति बहुवचनान्तसामानाधिकरण्यात् सिद्धन्तसंज्ञाशब्दोऽपि बहुवचनान्तः सन् आगमादिविशेषणयोगेन चतुर्धा संज्ञावस्थानमभिप्रैति | पञ्चरात्रशब्दवत् सिद्धन्तशब्दोऽपि चतुर्णां साधारण इति चात्रैव पूर्वमुक्तम् | पाद्म्ने च सदागमादिसिद्धन्तचतुष्के सत्पदप्रदे इति चतुर्णां सत्पदशब्दवाच्यभगवत्पद[भगवत्प्राप्ति- ख] प्राप्तिसाधनत्वमुक्तम् | हयग्रीवसंहितायामपि कस्यचिन्मोक्षैकान्त्यम् अन्येषामपि फलान्तरेण सह मोक्षप्रदत्वमुक्तम्- आगमाखं हि सिद्धन्तं सन्मोक्षैकफलप्रदम् | मन्त्रसंज्ञं हि सिद्धन्तं सिद्धिमोक्षप्रदं नृणाम् || तन्त्रसंज्ञं तु [संज्ञं हि क ख ग ङ् च छ झ] सिद्धन्तं चतुर्वर्गफलप्रदम् | तन्त्रान्तरं हि सिद्धन्तं वाञ्छितार्थफलप्रदम् || इति | अत्र वाञ्छितार्थशब्देनाविशेषात् त्रिवर्गवदपवर्गोऽपि संगृह्यते | अत एषां चतुर्णामपि परब्रह्मभूतवासुदेवप्रापकत्वात् अपवर्गार्थिभिर्मोक्षोपायोपदेशप्रदेशेषु [उपदेश क ख ग झ कोशेषु नास्ति] विकल्पोऽविशिष्टफलत्वात् इति न्यायेन सदक्षरदहरमधुभूमवैश्वानरशाण्डिल्यनाचिकेतोपकोसलप्रतर्दनसंव् अर्गान्तरादित्यानन्दमयविद्यादिष्विव वैकल्पिकः परिग्रह्ः | ब्रह्मस्वरूपनिरूपकधर्मव्यतिरिक्तानां तत्तद्विद्याप्रतिनियतगुणानां यथा विधासु परसरमनुपसःआरः तथात्रापीति प्रत्येकं पर्तिनियतानां प्रक्रियाणां परस्परासंकरेण प्रयोगः सिद्धः | यत्र तु मधुविद्यादौ वमुपदप्राप्त्यादिपूर्वकब्रह्मप्राप्तिवत् परंपरया वासुदेवप्राप्तिरभिधीयते तत्रापि तत्तदर्वाचीनपर्वव्यहितपरप्राप्तिकामानामधिकार [कामनायामधिकारः घ] इति व्यवस्था | तदभिप्रायेण चोक्तं भाष्ये तद्धि वासुदेवाख्यं परं ब्रह्म संपूर्णषाड्गुण्यवपुः सूक्ष्मव्यूहबिभवभेदभिन्नं यथाधिकारं भक्तैर्ज्ञानपूर्वेण कर्मणाभ्यर्चितं सम्यक् प्राप्यते | विभवार्चनात् व्यूहं प्राप्य व्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत् इति वदन्ति इति | अतश्चतुर्णामप्यपवर्गे तात्पर्यम् | फलान्तरसाधनवचनस्यान्यार्थत्वं स्वयमेवोक्तम् [उक्तं पौष्करे घ] प्रत्ययार्थं च मोक्षस्य सिद्धयः संप्रकीर्तिताः इति | एवं चतुर्णामपि मोक्षप्रदत्वे हि [सिद्धे हि घ] त्रययन्तसारोपबृंहणरूपत्वमपि समञ्जसं भवति | सिद्धान्तसंकरे तन्त्रसंकरे च पाद्मवचन विचारः पाद्मे चर्यापादे चतुर्णामेतेषां परस्परविभागः सिद्धान्तसंकरे तन्त्रसंकरे च दोषः प्रपञ्चितः | तच्चतुर्धा स्थितं शास्त्रमृगादिवदनेकधा | एकैकं भित्यते तन्त्रं शाखाभेदेन भूयसा || प्रथमं मन्त्रसिद्धन्तं द्वितीयं चाममाह्वयम् | तृतीयं तन्त्रसिद्धन्तं तुर्यं तन्त्रान्तरं भवेत् || इति | अत्र आगममन्त्रसिद्धान्तयोः पौष्करोक्तक्रमात् व्युत्क्रमेणोपादानं सिद्धिमोक्षप्रदमन्त्रसिद्धन्तप्राशस्त्ये तात्पर्यात् | अत्रापि हि आगमसिद्धन्तस्य केवलमोक्षप्रदत्वलक्षणोऽतिशयः [अतिशयः क ख ग झ कोशेषु नास्ति] कर्मणामपि संन्यासः कथ्यते यत्र चागमे इति पर्दर्शित एव | अत्र काम्यकर्मणा स्वरूपतः संन्यासः स्ववर्णाश्रमादिनियतानां [स्ववर्णाश्रनियतानां क ख ग च झ] तु भगद्गीताष्टादशाध्यायनिर्णीतप्रकारेण सात्त्विकत्यागः स्वशाखागृह्योक्तमर्यादया च सर्वत्र नित्यनैमित्तिकादिपरिग्रहः | अत आगमसिद्धान्ते सर्वकर्मस्वरूपत्याग् इति न भर्मितव्यम् कर्मविशेषभूयस्त्वात् | अत एव हि तन्निष्ठनधिकृत्योक्तम् - त्रयोदशविधं कर्म कामादिपरिवर्जितम् | गुणैः सांयमिकैर्युक्तमनुतिष्ठन्ति साधवः || इति | अत्रैवोद्दिष्टक्रमेण चत्वारः सिद्धन्ता यक्ष्यन्ते- सिद्धन्तानां पाद्मोक्तं लक्षणम् एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः | देव्यः श्रियादयश्चापि संपूज्याः परिवारवत् || आयुधैः शङ्कचक्राद्यैः श्रीवस्ताद्यैश्च भूषणैः | मूर्तिमद्भिः परिवृता केवला वाम्बुजासन || कथ्यते यत्र तत् प्रोक्त मन्त्रसिद्धन्तमग्रिमम् | वासुदेवादयो व्यूहाश्चत्वारः साधकैरपि || [क्रमागताः घ] क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तु [कक्ष्यापूज्यास्तु क ग ङ् झ] प्रभवाप्ये | कर्मणापि संन्यासः कथ्यते यत्र चागमे || तन्त्रमागमसिद्धन्तं तदुक्तं कमलासन | नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते || मूर्तियो द्वादशाङ्गानि तेषामेव तथापरे | प्रादुर्भावगणाश्चापि मूर्त्यन्तरगणा अपि || प्रादुर्भावान्तरयुताः सदिग्देवैः [सह देवैः ज] सयायुधैः | मूर्तिमद्भिश्च देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् || तत् तन्त्रसिद्धन्ताह्वानं चतुर्थं परमं पुनः | सौम्यसिंहादिभूयिष्ठवक्त्रभेदैश्चतुर्मुख || द्वित्र्यादिमुखभेदा वा मूर्तिरेकैव पूज्यते | संवृता परिवारैः स्वर्विना वा सर्वकामदा || यत्र तन्त्रान्तरं तत् स्याच्चतुर्थं चतुरानन | येन सिद्धन्तमार्गेण कर्षणादिक्रिया कृता || आदौ तेनैव सकला नान्यसिद्धन्तवर्त्मना | तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि || सिद्धन्तसंकरस्तस्मात् तन्त्रसंकर एव च | दोषाय कल्पते राजराष्ट्रधामक्षयात्मने || सीद्धान्तसंकरे जाते प्रमादात् तस्य शान्तये | कृत्वा संप्रोक्षणं पूर्वं सहस्रकलशाप्लवः || कर्तव्यः स्नपनं कुर्यात् तन्त्रसंकरसंभवे | अन्ते महोत्सवं कुर्याद् ध्वजारोहणपूर्वकम् || इति | अत्र पाद्मोक्ततन्त्र[तन्त्र घ कोशे नास्ति]तन्त्रान्तरलक्षणं पौष्करोक्ताविरोधेन नेतव्यम् | यदि द्वयोर्ग्रन्थयोरैकार्थ्यं संभवति तदा न विरोधः | इतरथा तन्त्रतन्त्रान्तरलक्षणं [इतरतन्त्रेषु अभ्युपगमसिद्धन्ततन्त्रतन्त्रान्तरलक्षणं क ख ग] द्विप्रकारमनुसंघेयम् | यथा न्यायविस्तरे सर्वतन्त्रप्रतितन्त्राभ्युपगमाधारसिद्धन्तेषु अभ्युपगमसिद्धन्तस्य द्वेधा लक्षणमक्षपादाभिप्रेतं वर्णयन्ति- साधितः परतन्त्रे यः स्वतन्त्रे च समाश्रितः [समाहितः ज] | स ह्यभुपगमो न्याये [नायो क झ] मनसोऽनमतिर्यथा || दद्विशेषपरीक्षा वा सद्भावेऽन्यत्र साधिते | यथान्यत्र मनःसित्थौ [सिद्धं क झ] तस्याक्षत्वपरीक्षणम् || इति | पारमेश्वरोक्तं तन्त्रतन्त्रान्तरलक्षणं तु पौष्करोक्तेन समानमेव [पौष्करोक्तसमानमेव घ ज] | तथाहि प्रायश्चित्ताध्याये संकरादिदोषपरिहारार्थं विभज्यमानेषु सिद्धन्तेषु आगममन्त्रसिद्धन्तप्रपञ्चनान्तरमुच्यते - परव्यूहादिभेदेन विनैकैकेन मूर्तिना | साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः || तथास्त्रैर्विग्रहोपेतैरावर्तं तन्त्रसंज्ञितम् | नृसिंहकपिलक्रोडहंसवातीश्वरादयः || मुख्यादिवृत्तिभेदेन देवला वाङ्गसंयुताः | चक्राद्यस्त्रवरैश्चाथ भूषणैर्मकुटादिभिः || कान्तागणैश्च यक्ष्म्याद्यैः परिवारैः खगादिभिः | पूजिता विधिना यत्र तत् तन्त्रान्तरमीरितम् || इति | तदेव व्यवस्थितेषु सिद्धन्तेषु संकरपरिहारः पाद्मे सप्षटः | तस्मिन्नेव चाध्याये क्वचित् सिद्धन्ते तदवान्तरतन्त्रभेदे वा दीक्षितस्य सिद्धन्तरोक्तासु तन्त्रन्तरोक्तासु च क्रियासु अनधिकार उक्तः - एकत्र सिद्धन्ते दीक्षितस्य अन्यत्र नाधिकारः एकत्र दीक्षितस्तन्त्रे सिद्धन्ते वा द्विजोत्तमः | क्रियां न कुर्यादन्यत्र कर्षणादि [कर्पणादींश्चतुर्मुख क ख ग च] चतुर्मुख || आचार्यकमथार्त्विज्यं पूजाद्यं मधुविद्विषः | तन्त्रभेदे च सिद्धन्तभेदेऽपि च [हि ग] न युज्यते || इत्युक्त्वा पुनरप्युपर्युपरितन्त्रस्थितानाम् [तन्त्राधिकाराणां क ख ग च झ] अधोऽधस्तन्त्राधिकारित्वमुक्तम् [अधिकारित्वं प्रदर्शितम् क ख ग ङ् च ज झ]- उपरितनतन्त्राधिकारिणाम् अधस्तनतन्त्रेषु तत्तन्मार्गेण करणेऽधिकारः तन्त्रान्तरे तथा तन्त्र-मन्त्र[मन्त्रे ज झ; मन्त्रसिद्धन्त ख]सिद्धन्तवर्त्मनि [वर्त्मना क झ] | दीक्षितानां क्रमेणैव ह्युपर्युपरि योगदः | अन्येषामधिकारः स्यात् तत्तत्संस्कारपूर्वकम् || करणागमसिद्धन्तनिष्ठेनान्यैस्त्रिभिः सदा | अर्चनीयमथान्याभां मन्त्रसिद्धन्तिना तथा || पूजनीयमथान्येन तन्त्रसिद्धान्तिनानिशम् | स्वेन तन्त्रान्तरेणैव पूजनीयं स्वके गृहे || इति | अत्राप्युत्कृष्टसिद्धान्तस्थितेनापि [अपि घ कोशे नास्ति] अपकृष्टसिद्धन्तस्थानेषु तत्तत्सिद्धन्तप्रकारेणैव पूजनीयत्वमुक्तम् उत्कृष्टसिद्धन्तस्थितस्य स्वस्थानेऽपकृष्टसिद्धन्तप्रसङ्गाभावत् | अत एव ह्यन्तरमेवमुच्यते [अनन्तरमेवोच्यते क ख ग झ]- मुख्याधिकारिणः सन्ति यदि गौणाधिकारिणः | स्वतन्त्रेण प्रवेष्टव्याः प्रासादे च स्वतन्त्रके || इति | स्वतन्त्रेण स्वकीयेन प्राक् प्रवृत्तशास्त्रेणेत्यर्थः | विशेषतश्च एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायातिशयश्च[चकारः घ छ ज कोशेषु नास्ति] तत्रैवोक्तः- एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायह् तत्सिद्धन्तान्यमार्गेण स्थापितं बिम्बमालये | अज्ञानादथवा मोहादेकायनविधानतः | अर्चयनापदं सर्वामाप्नोतीह परत्र च || इति | एवमेकैकसिद्धन्तस्थितानां सिद्धान्तान्तरक्रियासु यथोक्तप्रक्रिययानधिकारे समर्थिते सिद्धन्तान्तरप्रतिष्ठितेषु भगवदायलेषु तदन्यसिद्धन्तस्थितानां प्रदक्षिणप्रणाममालाकरणदीपारोपणसंआर्जनसेचनोपलेपनालंकरणरक् षणसंवर्धनहविरादिसमर्पणस्तोत्रादीनां साधारणधर्माणामपि प्रतिषेधप्रसङ्गमाशङ्क्य [प्रतिषेधमाशङ्क्य क ख ग च] परिजहार- प्रदक्षिणप्रणामादि राधान्तेऽन्यत्र केवलम् | हिवितं नार्चनं कुर्याद्राजराष्टभयावहम् || इति | [तत्रिव छ ज] तत्रिकोनविंशेऽध्याये सिद्धन्तसंकरे प्रत्यवायं विस्तरेण प्रतिपाद्य असंकीर्णसिद्धन्तधर्माणामेवाधिकारिणामन्होन्यसंबन्धा[आदि घ कोशे नास्ति]दियोग्यत्वम् इतरेषां तु बाह्यानमिव वर्जनीयत्वमपि प्रतिपादितम्- सिद्धान्तानां चतुर्णां तु सांकर्य व्यसनावहम् | सिद्धान्तेषु चतुर्ष्वेकं पूर्वैर्नृभिरनुष्ठितम् || त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी | तस्माज्जन्मप्र.भृकराधान्तनियतो भवेत् || अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् | मन्त्रमण्डकुण्डादिक्रियामुद्रोपचारकैः || योगं नयति यो मोहात् स्वसिद्धन्तोक्तवर्त्मनि [वर्त्मना घ] | सोऽपि स्वकुलजान् सर्वान्[धर्मान् क ख झ] परमात्मानमब्जज [परम् आत्मानमिति पदछेदः (टिप्पणी) || नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः | निष्फला च क्रिया तस्य प्रत्युतानर्थकारिणी [कारणम् घ ज] || अकर्मणोऽस्य तत्कोपो [कुप्येच्च देवस्तत्कोपो घ] राजराष्ट्रभयावहः | कर्ता कारयिता चोभौ [चैव क ख ग झ] सान्वयं विनशिष्यतः || न संनिधानं च हरेर्धाम्नि हानिश्च संपदाम् | राधान्तसंकरः कार्यो नान्यसिद्धन्तकर्मणा || मन्त्रसिद्धन्तमुख्येषु चतुर्ष्वपि यथापुरम् | अनुतिष्ठन्ति ये कर्म समाराधनमच्युते | असंकरेण तेऽन्योन्यं [संबद्ध हि क ख च ज झ] संबन्धार्हा नरोत्तमाः || इति | असंकरेणानुतिष्ठन्तीत्यन्वः | सिद्धन्तसंकरे दोषप्रपञ्चनम् तत्रैव जीर्णोधाराध्यते- या मूर्तियेन तन्त्रेण यादृशेनाधिकारिणा | प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् || मूर्तिस्तदेव तन्त्रं च स एव स्थापकः पुनः | तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पिते सति | नृणां नरपतेश्चापि रष्ट्रस्य च भवेत् क्षयह् || इति | तस्मिन्नेवोत्तरत्र प्रायश्चित्ताद्याये - जनने मरणे चैव श्वसृगालखरादिभिः | स्पृष्टे च बिम्बे तन्त्राणां संकरे समुपस्थिते | एवमादिषु चान्येषु संप्रोक्षणविधिर्भवेत् || इति | नरादीयेऽपि - व्यत्यये परिवाराणां भोगादीनां च गौतम् | पूर्ववत् स्नपनं कृत्वा शान्तिहोमं स्माचरेत् || इति | अत्रादिशब्देन सिद्धन्तव्यत्ययतन्त्रव्यत्ययादिसंग्रः अपेक्षितत्वादविशेषाच्च | अत एव ह्यत्रैवोक्तम् - तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद | यस्तन्त्रेण समारब्धं तत्तन्त्रणैव कारयेत् || [अनुक्ताश्च क ख ग] अनुक्तांश्चान्यतन्तेषु निरीक्ष्यात्र नियोजयेत् [निरीक्ष्यान्यत्र योजयेत् क ख च झ] | विशेषांश्च [विशेषाच्च क ख ङ्] मुनिश्रेष्ठ त्वन्यथा राष्ट्रनाशकृत् || इति | पारमेश्वरे च प्रतिष्ठाध्याये - विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि वार्षके [सिद्धेऽपि चार्षके क ख ग च छ ज झ] | स्थाने तु कर्मबिम्बानां व्यत्ययं न समाचरेत् | द्वाराङ्गावृतिदेवानां पूजाया भवनस्य [हवनस्य घ ङ्] च || इत्यारभ्य न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा | न तु द्रव्यान्तरं चैव न च कुर्यात् क्रियान्तरम् || मन्त्रान्तरं [तन्त्रान्तरं क ख ग ङ्] न कुर्वीत सर्वं कुर्याद्यथापुरम् | पुर्याच्चेदेवमादीनां विपर्यासं महामते | राज्ञो राष्ट्रस्य नाशः स्यात् स्र्वस्यापि स्वसंततेः || इति | तत्रैव- भोगानां च विपर्यासं मन्त्राणां च विपर्यायम् [महामते घ छ ज] | द्यानानां चैव मुद्राणां देवतानां तथैव च | अन्येषामेवमादीनां [चैवमादीनां क ख ग च झ] व्यत्यासं न समाचरेत् || इति | तथोत्तरत्र प्रायश्चित्तद्याये - प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ | प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् || योऽर्चयेदन्यमार्गेण तथा चार्चापकस्तु यः | तावुभौ कलुषात्मानौ राज्ञओ राष्ट्रष्य वै गुरोः || कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा | वित्तहानिं विशेषेण कुर्यातामालयस्य च || [न कार्यं घ छ] न कुर्यात् तन्त्रसांकर्यं पञ्चरात्रपरायणः [परायणैः घ छ] | पुनः प्रतिष्ठा कर्तव्या कृतश्चेत् तन्त्रसंकरः || इति | तत्रैव सिद्धन्तभेदं [तत्रिव च सिद्धन्तभेदान् छ ज] विस्तरेण प्रतिपाद्यानन्तरमुच्यते- शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च | देशिकस्याभिजातस्य यथापूर्वं परिग्रहः || तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा | विपरीते ते कृते चात्र राजराष्ट्राद्यनर्थकृत् || ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक्प्रकारतः | ततः सिद्धन्तसांकर्यं नाचर्तव्यं कृतात्मभिः || यद्यदिष्टतमं लोके पूर्वसिद्धविरोधि तत् | प्रतिग्राह्यमथान्योन्यं विरुद्धं संत्यजेद्बुधः || इति | एवं कालोत्तरे चतुर्विधपूजानिर्णयाध्याये- वैदिकैस्तान्त्रिकैर्वापि श्रोतैर्वापि द्विजोत्तम [श्रौतैर्वा द्विजसत्तमः ज] | स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् || ऋष्यादिपूजिते स्थाने पारंपर्यक्रमं विना | विशेषं नाचरेत् किंचिद्राजराष्ट्रसमृद्धये || इति | अस्मिन्नेवोत्तरत्र प्रायश्चित्तध्यायेऽप्येतावेव ऽऽलोकौ पठितौ | तत्रैव- यद्विम्बं येन शास्त्रेण समारब्धं पुरा द्विज | प्रासदो[प्रासादं च छ ज] वा ततस्तेन शास्त्रेणैव समर्चयेत् [तदर्चयेत् घ छ ज] || तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना | राज्ञो राष्त्रस्य कर्तुश्च [विनाशं] स नाशं कर्तुमिच्छति || न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसंकरम् | शास्त्रसंकरदोषेण महान् दोषो भवेद्धुवम् || इति | यद्यपि वैखानसपञ्चरात्रसंकरपरिहारस्यप्यत्रैव शास्त्रे प्रतिपादनात् तत्परिहारार्थमिदं वचनमिति वक्तुं शक्यम् तथापि येन शास्त्रेण इति सामान्य वचनात् सर्वविषयमेव | यत् तत्रोक्तम् - महोत्सवेषु सर्वेषु देशकालानुसारतह् [देशिकेन्द्रानुसारतः क ख ग च छ ज झ] | विशेषं नाचरेत् किंचिद्राजराष्ट्रसमृद्धये || इति निगम्यते [चोच्यते क ख ग ङ् झ] | एवं पञ्चरात्राखैकशास्त्रावान्तरसंकरस्यात्यन्तगर्हितत्वे वैखानसपञ्चरात्रसम्करः कैमुत्यनिषिद्धः [कैमुतिकन्ययसिद्धः क ख ग ऽऽअ झ] | परस्परं च द्वयोरपि स्पष्टं प्रतिषिध्यते | पञ्चरात्रस्य तु वैखानसैरपि द्वचित् द्वचिदुपजीव्यत्वमस्ति | तथाहि - वैखानसेन पाञ्चरात्रस्य संकरे दोषः | पाञ्चरात्रं तु सर्वोपजीव्यम् ब्राह्मणे क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः | अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वर्कर्मसु | सात्वातं विधिमास्थाय गीतः संकर्षणेन यः || इत्यादिभिरविशेषेण ब्राह्माणादीनां [श्रीमत्पञ्चरात्र घ छ ज] श्रीपाञ्चरात्रोक्तमार्गेण भगवदर्चनादिकं कर्तव्यमिति महाभारतादिष्वभिधीयते | न हि द्वचिदपि सूत्रविशेषादिनियमः कृतः | प्रत्युत [सर्व क ख ग कोशेषु नास्ति] सर्वसूत्रनिष्ठानां तदन्वयस्तस्मिन्नेव शास्त्रे प्रतिपाद्यते - निषेकादींश्च संस्कारान् स्वसूत्रोक्तान समाचरेत् | पञ्चरात्रोदितान् वापि ये स्वयंश्यैरनुष्ठिताः || इति | न च बोधायनविखनःशौनकाद्युक्तेषु भगवत्प्रतिष्ठार्चनादिषु सत्सु किमन्येनेति वाच्यम् तदुक्तिरहितसूत्रनिष्ठानामन्यापेक्षयां साधारणशास्त्रपरिग्रहोपपत्तेः | [न क्वचित् पूर्णोपदेशः सम्भवतीति तच्छक्तस्य पूर्णोपादानं क ख ग ङ् च झ] न च द्वचित् पूर्णोपदेशे संभवति तच्छक्तस्यापूर्णमुपादातुं युक्तम् | अत एव हौत्रं होतृशाखोक्तमध्वर्यवोऽपि परिगृह्णन्ति | अतो येषु सूत्रेषु भगवदर्चनादिकं प्रत्यपादि तन्निष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम् | तथा च शिष्टैरनुष्ठीयते | ननु च वैखानससूत्रानुसारिषु [काश्यपीय घ ज] काश्यपमरीचिभार्वगात्रेयेषु शास्त्रेषु तदनुबन्धिषु चाधिकारग्रन्थेषु संग्रहविस्तरूपेषु भगवत्प्रतिष्ठार्चनादिकं पूर्णमुपदिशत्सु किं पञ्चरात्रेण? मैवम् तत्सूत्रनिष्ठान् प्रत्येव तत्प्रक्रियोपदेशात् | तर्हि तन्निष्ठानां पञ्चरात्रप्रक्रियाया अनुपादेयत्वे तस्याः सर्वसूत्रनिष्ठसाधारण्यं भज्येतेति चेत् तन्न उक्तोत्तरत्वात् [दत्तोत्तरत्वात् क ऽऽअ च ज झ] | काश्यपीयादीन्यपि हि [हि क ख घ च झ कोशेषु नास्ति] शास्त्राणि कांचित् प्रक्रियामुपदिशन्ति तेषु तेष्वर्थेषु शास्त्रान्तरोपजीवीन्येव एवं पञ्चरात्रोक्तमपि क्वचित् द्वचिदुपजीवन्ति | यथोक्तं बृगुप्रोक्तक्रियाधिकारे- गुरूपदेशसंसिद्द्यैः कल्पमन्त्रैरथापि वा | आसनाद्युपचारैष्तु पूजयेदिति केचन || इति | अत्र कल्पमन्त्रशब्देन भगवच्छास्त्रोक्तमन्त्राणामेव ग्रहणम् | अत एव हि अथीतवेदान् वैखानसान् प्रति गुरूपदेशसंसिद्धैः इति विशेष्यते | न च तत्तन्मन्त्रकल्पाः पञ्चरात्रतन्त्रेभ्यः पृथग्भूताः | चतुर्धा व्यूधे हि तस्मिन् शास्त्रे प्रत्येकं च संहिताभेदभेदिनि सर्वेऽपि भगवन्मन्त्रकल्पास्तदङ्गमन्त्रकल्पाश्च यथायथं समाविशन्ति | अत एव हि तांस्तान् भगवन्मन्त्रकल्पान् आर्षपञ्चरात्रमित्यभियुक्ता व्यवहरन्ति [वर्णयन्ति क ख ग अ ज झ] | तन्निष्ठांश्च कल्पभागवतशब्देन व्यपदिशन्ति | एवं भार्गवादिष्वपि वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् | विप्रान् वेदविदः शुद्धान् मन्त्रकल्पविचक्षणान् || इत्यादिषु मन्त्रकल्पवेदनोक्तिस्तत्र तत्रापेक्षितग्रहणार्था | तथा भार्गवे क्रियाधिकारे सारस्वतप्रतिष्ठादिकं प्रक्रम्योच्यते- अनेन विधिना स्थाप्य कल्पमन्त्रेण पूजयेत् इति | न चात्र कल्पमन्त्रस्वरूपतदङ्गादिकमुपदिष्टम् | अतः कल्पोक्तप्रक्रियैवात्रानुसरणीया | एवं तत्र सुदर्शनरूपस्य भगवतः प्रतिष्ठार्चनादौ पर्क्रान्ते फलभेदापेक्षया प्रक्रियान्तरमुपक्षिप्यते - एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् | देवलं भुक्तिकमाश्चेत् स्मरेन्मन्त्रं षडक्षरम् || इति | न चात्र षडक्षरमन्त्रप्रक्रियायाः प्रपञ्चनम् | ततश्च वासिष्ठगार्ग्यविहगेन्द्राहिर्बुध्न्यादिसंहितोक्तप्रक्रियैव शरणम् | एवं द्विभुजप्रभृतिषोडशभुजपर्यन्तरूपोपदेशेऽपि अनुक्तमप्य[अपि घ कोशे नास्ति]पेक्षितमन्यतो ग्राह्यम् | अत एव हि कृष्णरूपाण्यनन्तानि इत्यादिभिः कृष्णनरसिंहादिरूपाणामसंख्येयत्वेन वक्तुमशक्यतया विरम्यते | तेषु च [देषुचित् क ख ग] कानिनिच्छास्त्रान्तरोक्तानि संग्राह्याण्येव | अत इदं वेदान्तेषु यथासारं संगृह्य भगवान् हरिः इत्युक्तप्रक्रियया सर्ववेदान्तसारोद्धारेण सर्वजनहितैषिण | भगवता स्वयमेव प्रणीतं श्रीमत्यञ्चरात्रशास्त्रं सर्वसूत्रनिष्ठानामुपजीव्यमिति सिद्धम् | यत्तु श्रीवैखानसे - वखानसपाञ्छरात्रयोः परस्परनिन्दावचनानां प्रक्षिप्तत्वपक्षः आग्नेयं पञ्चरात्रं तु दीक्षायुक्तं च तान्त्रिकम् | अवैदिकत्वात् तत्तन्त्रं त्यक्त्वा वैखानसेन तु | सौम्येन वैदिकेनैव देवदेवं समर्चयेत् || इत्यादि यच्चोक्तं श्रीपाञ्चरात्रे तन्त्रसारसमुच्चये- अश्रीकरमसौम्यं च वैखानसमसात्त्विकम् [अतात्त्विकम् क ख ग झ] इत्यारभ्य तद्विधानं परित्यज्य पञ्चरात्रेण पूजयेत् इत्यादि यानि च पाद्मपारमेश्वरादि.वतिवादवचनानि तानि नूनम् इक्षुभक्षणचिकीर्षुभिः [इक्षुभक्षकर्तृचिकीर्षुभिः क ख ग घ] प्रक्षिप्तानि परस्परस्थानाक्रमणलोलुपैर्वटुभिर्वा [पटुभिर्वा ज] पूजकाधमैर्निवेशितानि | अविरोधोपयोगाभ्यामुभयोरपि शास्त्रयोः | मध्यस्थैर्हि कृतं धर्मविद्यास्थाननिवेशनम् [निवेशनम् | इति क ख ग च] || अन्यथा पर्सिद्धप्रामाण्योः [प्रसिद्धप्रामाण्ययोः ख ग कोशयोः नास्ति] परिग्रहप्राचुर्यवतोः प्रसिद्धतरेषु श्रीरङ्गश्रीमद्वेङ्कटाद्रिश्रीहस्तिशैलवृषभगिरिप्रभृतिषु पारंपर्येण प्रवृत्तयोः वासादिनिबद्धश्रीवैष्णवधर्मशास्त्रकाण्डादिषु [धर्मशास्त्रकर्मकाण्डादिषु ज] भगवानुवाच- शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः | स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् || अष्टाक्षरविधानेनाइपथवा द्वादशाक्षरैः | वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः || स्थापितं मां ततस्तस्मिन्नर्चयित्वा विचक्षणः | पुरुषं तु ततः सत्यमच्युतं च युधिष्ठिर || अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः | अन्ये त्वैवं विजानन्ति मां राजन् पाञ्चरात्रिकाः || वासुदेवं च राजेन्द्र संकर्षणमथापि वा | प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते || एता अन्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः | विद्ध्यनर्थान्तरा एव मामेवं चार्चयेद्बुधः || इत्यादिभिः वैष्णैवशास्त्रभेदत्वेन समप्रिपठितयोर्वेदाविरुद्धयोः भगवद्यामुनमुनिवासुदेवस्वामिप्रभृतिभिः स्थापितप्रामाण्ययोरविशेषवैष्णवसमयपरिग्रयोः [श्रीपञ्चरात्र क च] श्रीमत्पञ्चरात्रवैखानसशास्त्रयोः द्वयोरप्यप्रामाण्यप्रसङ्गात् | प्रस्परनिन्दावचनानि स्वशास्त्रप्रशंसापराणि अथैतानि परस्परापकर्षवचनानि असंकीर्णबहुकोशपाठावलोकनादाप्तभाषितानीति मन्येहहि तथापि प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रं इत्यादिषु उदितहोमप्र[प्रशंसार्थम् क च]शंसार्थानुदितहोमनिन्दावत् [निन्दादिवत् क च] प्रक्रान्तशास्त्रप्राशस्त्यप्रतिपादनपरत्वेन[प्राशस्त्यमात्रपरत्वेन घ छ ज] नेतव्यानि | न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु निन्द्यादितरत् प्रशंसितुम् इति न्यायविदः | एवमेव साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवान् इत्यादौ वेदनिन्दाप्रसङ्गेन वेदविरोधमाशङ्वय स्वशास्त्रप्रशंसादिपरत्वेन पर्यहारि भाष्यकारैः न्यदर्शि च ऋग्वेदं भगवोऽध्येमि इत्यारम्ह्य सऽहों भगवो मन्त्रविदेवास्मि नात्मवित् इति भूमविद्योपक्रमगतस्य तदितरसमस्तवेदाध्ययनादात्मवेदनालाभवचनस्य भूमविद्याप्रशंसामात्रे तात्पर्यम् | अपि च- चत्वार एकतो वेदा भारतं चैकमेकतः | समागतैः सुरर्षिभिस्तुलामारोपितं पुरा || महत्त्वे च गुरुत्वे च ध्रियामाणे ततोऽधिकम् [यतोऽधिकम् घ ङ् छ ज] | महत्त्वाच्च गुरुत्वाच्च महाबारतमीरितम् [उच्यते घ] || इत्यादिवचनानि वेदेभ्योऽपि महाभारतस्याधिकं ब्रुवाणानि वेधार्थोपबृंहणरूपातिशयशालिमहाभारतप्रशंसार्थानिः न पुनर्वेदानामपकर्षगन्धमभिदधते | किंच बह्वृचाम्नाये ऋग्याथा कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाधो यः कश्च गेष्णः इति यजुरादिनिन्दा र्.ग्वेदस्तुत्यर्थैव | एवमिहापि श्रीवैखानसपञ्चरात्रयोः परस्परापकर्षवचनानामाप्तत्वेऽपि स्वाभिमतस्तुल्यर्थतयैव निर्वोध्व्यम् अन्यथा सर्वोपप्लवप्रसङ्गात् अविस्रग्भणीयवचनानां यथाश्रुतस्वीकारेऽतिप्रसङ्गाच्च | एवमेव [एवमिव ङ् छ] हि शैवागमे कारणतन्त्रे जल्प्यते [कथ्यते क ख ग च] - शैवगमकारणतन्त्र वचनानामपि स्वशास्त्रप्रशंसापरत्वम् शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च | शैवाः सर्वं प्रकुर्वन्ति ये गृहस्था द्विजोत्तमाः || यामले मातृनमन्त्रे च कापाले पञ्चरात्रके | बौद्धे वाप्यार्हते चैव लागुडे वैदिकेऽपि च || अन्येष्वपि च मार्गेषु तत्तच्छास्त्रानुसारतः | शैवाः सर्वं प्रकुर्वन्ति तल्लिङ्गस्थापनादिकम् || मुख्यत्वादिह शैवस्य मुख्यमाहात्म्यतोऽपि च | अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने || इति | ननु पाशुपताधिकरणे पत्युरसामञ्जस्यात् इति पशुपतिपरणीतानां शैवादीनां सर्वेषां तन्त्राणामप्रामाण्यसमर्थनात् एतस्मिन्नपि वचने [जैनालयं क ख ग च] जिनालयं प्रविष्टसु सवासा जयमाविशेत् इत्यादिभिर्दर्शनस्पर्शनाद्ययोग्यविषय[विषयं क ख ग कोशेषु नास्ति]जैनयामलबौद्धदिबाह्यमततन्त्रैः [बौद्धबाह्यादितन्त्रैः क ख ग च] सह वैदिकस्य समभिव्याहारात् वैदिकानर्हेषु बाह्येषु च शैवस्याधिकारोक्तेः शैवान् पाशुपतान् स्पृट्वा योकायतिकनास्तिकान् | विकर्मस्थान् द्विजान् शूद्रान् सवासा जयमाविशेत् || इति विज्ञानेश्वरसंगृहीतधर्मशास्त्रवचनेन स्पर्शादिषु परिहरणीयत्वेन प्रसिद्धस्य शैवस्य वैदिकदेवताप्रतिष्ठादिषु मुख्याधिकारित्वजल्पनात् [कल्पनात् क ख ग च] लोके च शैवेः क्वचिदपि [शैवे कदाचिदपि क ख ग झ] भगवत्प्रतिष्ठाद्यनुमत्यभावात् तत्स्पर्शादि.वपि स्थापिते पञ्चरात्रेण देवे [देवैः क ख ग च ज झ] षड्भिः शिवाध्वभिः [शिवादिभिः क च; शिवार्थिभिः ख ग झ] | प्रतिष्ठादौ कृते मोहाद् दोषः सर्वक्षयात्मकः || शान्तिश्च तस्य भूयोऽपि पञ्चरात्रोक्तवर्त्मना | प्रतिष्ठाप्य सहस्रेण कलशैः स्नापनं हरेः | महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकम् || इति पाद्मादिप्रतिपादितप्रायश्चित्तविशेषानुष्ठानदर्शनाच्च शैवस्तुतिवचनस्यास्य त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय | दर्शयित्वाल्पमायासं फऌअं शीघ्रं प्रदर्शय || इत्यादिप्रकारेणाप्रामाण्यमनीश्वरप्रक्षिप्तत्वमतिवादरूपतया स्वीयतन्त्राधिकारिशैवस्तुतिमात्ररूपत्वं वा कल्पनीयमिति चेत् हन्त तर्हि अनयोरपि श्रिवैष्णवमार्गभेदयोरन्यतरस्येतरत्र [इतरतन्त्रप्रविष्टैः क च झ; इतरतन्त्रविशिष्टैः छ ज] शिष्टैरप्रवेशनात् परस्परसंकरप्रसङ्गे च तत्तत्तन्त्रोक्तप्रायश्चित्तनुष्ठानदर्शनाच्च परस्परापकर्षपरस्परमर्यादाप्रवेशनवचनानि प्रक्षिप्तत्वादप्रमाणानि अतिवादरूपतया स्वतन्त्रस्तुतिपराणीति वा [वा क ख ग झ कोशेषु नास्ति] निर्वाह्यत्वात् परंपरागतमर्यादापरित्यागेन [प्रस्परप्रवेशोऽनर्थमर्थ इति घ] परस्परप्रवेशो न क्षम इति मध्यस्थदृष्ट्या संपश्यध्वम् | तत्र पक्षे पतन्तस्तु पतन्त्येव परमधर्ममर्यादोपप्लवात् | अतो वैखानसपञ्चरात्रयोः पञ्चरात्रावान्तरभेदचतुष्कस्य तत्तदवान्तरतन्त्रभेदानां च परस्परमसंकरेणैव सर्वदा स्थितिरिति सिद्धम् | अपकृष्टसिद्धन्तत्यागेनापि उत्कृष्टसिद्धन्तप्रवेशकवचनानां प्रक्षिप्तत्वपक्षः तत्रेदं तु किंचिद्विमर्शनीयम् | यत् [यत्तत् क ख ग] पारमेश्वरकलोत्तरयोः प्रमाणभूतानामेव [भगवच्चास्त्र क ख ग कोशेषु नास्ति] भगवच्चास्त्रसिद्धन्तानामाकारान्तरेणोत्कर्षापकर्षयोगात् प्राक्प्रवृत्तपकृष्टसिद्धान्तपरित्यागेनापि उत्कृष्टसिद्धान्तप्रवेशनं न दोषाय प्रत्युत गुणायैव उत्कृष्टतन्त्रपरित्यागेन निकृष्टतन्त्रप्रवेशने समानतन्त्रसंकरे च दोष इत्युक्तम्- इदमपि दत्तोत्तरप्रायम् | तथाहि- श्रीसात्त्वते द्वाविंशे परिच्छेदे [समाधिपुत्रकसाधक घ; समयपुत्रिवासाधन् ग; समयपुत्रकसाधक क ख च झ] समयिपत्रकसाधकलक्षणोक्त्यनन्तरम् आचार्यलक्षणे सांकर्यमागमानां च वेत्ति वाक्यवशात्तु यः इत्युक्त्वा शास्त्रसंकरशोधनार्थमनन्तरमुच्यते- तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् | पौरुषं चारविन्दाक्ष तद्भेदमवधारय || यदर्थाध्यसंदिग्धं [स्वल्पं क ख ग] स्वच्छमल्पाक्षरं स्थिरम् [स्मृतम् क च; स्थितम् ख ग] | तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् || प्रशंसकं वै सिद्धीनां संप्रवर्तकमष्यथ | सर्वेषां रञ्जकं [गूढं क ख ग घ ङ् च छ झ] गूढनिश्चयीकरणक्षरम् || मुनिवाक्यं च तद्विद्धि चतुर्वर्गफलप्रदम् | अनर्थकमसंबद्धमल्पार्थं शब्दडम्बरम् || अनिर्वाहकमाअद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् | हेयं चानर्थसिद्धिनामाकरं नरकावहम् || प्रसिद्धार्थानुवादं यत् संगतार्थं विलक्षणं | अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् || इति | अत्र अनिर्वाहकमाद्योक्तेः इति दिव्यमुनिभाषितयोः विरुद्धार्थत्वमुच्यते | असंबद्धमिति पूर्वपरविरुद्धत्वम् | तदिदमुभयमपि निदृष्टसंहितत्यातेन उत्कृष्टसंहितापरिग्रहवचने श्रीसात्त्वतपौष्करनारदीयपाद्मादिविरोधात् सामान्यनेन सर्वसंकरनिषेधपरस्वपूर्वापरग्रण्थविरोधमवधारयन्तो धृष्टबुद्धयः कतिचन तन्त्रतन्त्रान्तरमर्यादाप्रवृत्तस्थानाक्रमणलुब्धागममन्त्रसिद्धन्तभिम् आनिपुरुषकृतप्रक्षेपोऽयमिति मन्यन्ते | उत्कृष्टैद्धन्तस्वीकारवचनानां मन्त्रसिद्धन्तस्तुतिपरत्वपक्षः अन्ये तु प्रागुक्तन्यायेन मन्त्रसिद्धन्तादिस्तुतिपरतामातिष्ठन्ते | न खल्वेतावता कालेन कल्पारम्भकृतयुगात् प्रभृति संतन्यमानेषु सात्त्वतशास्त्रसंहितास्रोतोभेदेषु अपकृष्टसंहितां परित्यज्योत्कृष्टसंहितां कश्चित् परिजग्राहेति महाभारते श्रीमद्वराहपुराणादिषु वा परःशतेषु पञ्चरात्रप्रस्तावेषु महर्षयः सूचयन्ति | न चार्वाचीनैरप्यार्चायैरितः पूर्वं तथा कृतमिति संप्रदायविदः शिष्टा विदामासुः | अतः शिष्टानुष्ठानबलादेव स्तुतिपरत्वमध्यवस्यामः | यदि चैवं शास्त्रार्थः स्यात् एतावता कालेन तन्त्रतन्त्रान्तरस्थानानि सर्वाणि मन्त्रसिद्धन्तादिना व्याप्यरन् | इतः पूर्वमनुवृतावपि परस्तादेतद्बलावयम्बनेन तन्त्रतन्त्रान्तरसिद्धन्तयोः सर्वत्रोच्छेदः प्रसज्येत् | अथ चेदैहिकभोगादिप्राचुर्यत् पुरुषाणां च त्रिवर्गप्रावण्यतिशयात् तन्त्रतन्त्रान्तरयोः सर्वत्रानुवृत्तिः संभवतीति मन्वीथाः तर्हि [राज् घ कोशे नस्ति] राजरष्ट्रसमृद्ध्यर्थेषु स्थानेष्वैहिकफलप्रचुरयोरेव तन्त्रतन्त्रान्तरयोर्थापूर्वमवस्थानमुचितम् | न हि राजसु राष्ट्रेषु वा सुलभाः केवलमुमुक्षवः | तन्त्रान्तरसिद्धन्तस्य श्रीकरत्वं मोक्षप्रदत्वं च श्रीकरसंहितायां च प्रागुक्तस्यैव सिद्धन्तचतुष्टयस्य वेदसिद्धन्तो दिव्यसिद्धन्तस्तन्त्रसिद्धन्तः पुराणसिद्धन्त इति प्रागुक्तादूरविप्रकृष्टैर्नामभेदैर्विभागमुक्त्वा पुराणसिद्धन्तसंज्ञितस्य तन्त्रातन्त्रसिद्धन्तस्य मोक्षप्रदस्यापि विशेषतः श्रीकरत्वमुक्तम्- एतत् पुराणसिद्धन्तं श्रीकरं च विशेषतः | इदं श्रीकरसंज्ञाख्यं भोगमोक्षफलप्रदम् || इति | अस्य च पूर्वापरं सर्वं सन्मार्गदीपिकायां विस्तरेणं द्रष्टव्यम् | भोगमोक्षफलप्रदमित्यस्य श्रीकरसंज्ञकसंहिताविशेषान्वितत्वेऽपि तस्याः संहितायाः पुराणसिद्धन्तान्तःपातित्वात् विशेषत इति [विशेष इति क ख ग च] नियमात् चकारेणानुक्तसमुच्चयाच्च कृत्स्नस्यापि तन्त्रान्तरसिद्धन्तस्य विशेषतः श्रीकरत्वं मोक्षप्रदत्वं च सिद्धम् | श्रीकामाश्च प्रायशो हि राजानो राष्ट्रवर्तिनश्चेति तत्समृद्ध्यर्थेषु साधारणस्थनेषु तन्त्रान्तरसिद्धन्तस्यौचित्यमधिकम् | निःसङ्गास्तु स्वगृहादिषु आगमसिद्धन्तादिमर्यादामनुतिष्ठन्तु नाम् | अस्तन्त्रतन्त्रान्तरस्थानेषु अन्यसिद्धन्तावतरणवचनमपवर्गप्रत्यासत्त्यतिशयनिबन्धनप्राशस्त्याधिव् अयपरमिति मन्तव्यम् | तदपेक्षयैवेदमुक्तं कालोत्तरे स्वयं व्यक्तं तथा दिव्यमुत्कृटफलदं यतः इति | उत्कृष्टसिद्धन्तस्वीकारवचनानां स्वयंव्यक्तस्थानैषयत्वपक्षः अपरे त्वाहुः व्यवस्थितस्थानविषयमेवेदम् [एवेदं क ख ग च छ ज झ कोशेषु नास्ति] अपकृष्टसंहितात्यागेनोत्कृष्टसंहितापरिग्रवचनमिति | तथाहि यदुक्तं कालोत्तरे - अनेकभेदभिन्नं च पञ्चरात्राख्यमाअगमम् | पूर्वमागमसिद्धन्तं मन्त्राख्यं तदनन्तरम् | तन्त्रं तन्त्रान्तरं चेति चतुर्धा परिकीर्तितम् || इति चतुर्धा विबागं सामान्येन प्रतिपाद्य [नारायणीयं मौदध्यमाग्नि घ; नारायणीयमौद्गल्यम् क ख ग झ] नारायणीयमौदध्यमग्निकाश्यपसंज्ञितम् इत्यादिना शास्त्राण्येतानि सुर्वत इत्यन्तेनागमादिसीधान्तेषु चतुर्षु कतिपयसंहितानां [निदर्शनं क ख ग् च] निवेशनमनुक्तानामपि संहितानामुपलक्षणतयोदाहृत्य एतद्वै पञ्चरात्राख्यं शास्त्रं सर्वोत्तमोत्तमम् इति चतुर्विधमपि पञ्चरात्रशास्त्रं सर्वोत्तमत्वेन निगम्य आगमादिसिद्धन्तानां स्वयंव्यक्तादिनाम्नापि निर्देशः चतुर्धा भेदभिन्नं च स्वयंव्यक्तादिभेदतः | स्वयंव्यक्तं हि सिद्धन्तमागमाख्यं पोरोदितम् || मन्त्रसिद्धन्तसंज्ञं यत् तद् दिव्यं परिकीर्तितम् | तन्त्रसंज्ञं हि यच्छस्त्रं तत् सैद्धं समुदाहृतम् | तन्त्रान्तरं तु यत् प्रोक्तमार्षं तत् समुदाहृतम् || इति प्रगुक्तानामेवागमसिद्धन्तादीनां [प्रागुक्तानामेव सिद्धन्तानां क; प्रागुक्तानामेव सिद्धन्तादीनां ख ग] स्वयंव्यक्तदिव्यसैद्धर्षरूपेण वक्ष्यमाणोपयोगिसंज्ञान्तराणि निर्दिश्य स्वयंव्यक्तेन दिव्येन पूज्यमाने तु कौतुके [कौतुकात् क झ; स्वयंव्यक्तेन इत्यारभ्य सार्धऽऽलोकद्वयं ख ग पुस्तकयोः न दृश्यते] | तन्त्रतन्त्रान्तराभ्यां तु न कुर्याद् देवपूजनम् || पूज्यते यदि संओहात् स्थाननाशो भवेद् ध्रुवम् | राज्ञो राष्ट्रस्य कर्तुश्च मरणं जायते ध्रुवम् || तस्मात् पूजा न कर्तव्या तन्त्रतन्त्रान्तराध्वना | [स्वयंव्यक्ते च दिव्ये च सैद्धे चार्षे द्विजोतम क ख ग] अनुक्तं यत् स्वयंव्यक्ते दिव्ये शास्त्रे द्विजोत्तम || यत् किंचित् तत्तदादेयं तन्त्रतन्त्रान्तरे यथा [तथा क ख ग ङ् झ] | तन्त्रतन्त्रान्तरोक्तेन पूज्यमानेऽपि देशिकैः || तद्विवानं परित्यज्य स्वयंव्यक्तोक्तवर्त्मना | दिव्योक्तविधिना कार्यं पूजनं प्रतिमासु च [प्रतिमासु चेति क ख ग च झ] || स्वयंव्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः | तस्मादुर्कृष्टशास्त्रोक्तमार्गेण सुपूजयेत् || इति तन्त्रतन्त्रान्तराभ्यां पुज्ज्यमानेऽपि तद्विधानं परित्यज्य उत्कृष्टफलदत्वेन उत्कृष्टेन स्वयंव्यक्तेन दिव्येन च शास्त्रेण पूजनं युक्तमिति | उत्कृष्टसिद्धन्तस्वीकारवचनानां स्वयंव्यक्तस्थानविषयत्वम् तदिदं सर्वस्थानविषयं प्रतिनियतस्थानविषयं वेति विचारणीयम् | यदि [सर्वविषयं ङ् छ ज] सर्वस्थानविषयं तदा परिगृहीततमसात्त्वताद्यनेकसंहिताग्रन्थसंकोचः प्रसज्येत् | अपिच अस्मिन्नेवोत्तरत्र स्वयंव्यक्तादिस्थानलक्षणनिरूपणाध्याये तत्तत्स्थानलक्षणमुक्त्वा पश्चात् चतुर्विधपूजानिर्णयाध्याये चतुर्विधपूजनस्य यथाक्रमं वैदिकं तान्त्रिकं श्रौतं मिश्रं चेति चतुर्विधम् इति प्रकम्य मूलश्रुतिदिव्यमन्त्रप्रवृत्तश्रुतितत्संभेदनिमित्तनामधेयानि प्रतिपाध्यानन्तरमुच्यते - वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वा दिजसत्तम | स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् || ऋष्यादिपूजिते स्थाने पारंपर्यक्रमं विना | विशेषं नाचरेत् किंचिद्राजराष्ट्रसमृद्धये || इति | अत्र स्वयंव्यक्तस्थाने चरुर्णां पूजाविशेषाणां यथारुचि विकल्पेन परिग्रहं प्रतिपाद्यं ऋष्यादिपूजितेषु स्थानान्तरेषु पारंपर्यक्रममन्तरेण मात्रयापि विशेषं नाचरेदित्युक्तत्वात् यत्र [यत्र क ख ग कोशेषु नास्ति] स्वयंव्यक्ते विकल्पेन कर्मणां प्रवृत्तिः संभवति [संभवतीति क ग] तत्रैवापकृष्टफलशास्त्रपरित्यागेन उत्कृष्टफलशस्त्रपरिग्रहवचनं लिङ्गवशान्नेतव्यम् | पवित्रं दक्षिणे कर्णे इति लिङ्गात् दिवा संध्यासु कर्णस्थब्रह्मसूत्रः इत्यस्य स्थाननियमवत् प्रतिनियतस्वयंव्यक्तेषु स्थानेष्विति व्यक्तमवसीयते | अस्मिन्नेवोत्तरत्र प्रायश्चित्तध्यायेऽपि वैदिकैस्तान्त्रिकर्वापि इत्यादि श्लोकद्वयं पुनः पठितम् | मानुषे भवने देवं तन्त्रमार्गेण पूजयेत् इति चोक्तम् | पुनश्च - यद्बिम्बं येन शास्त्रेण समारब्धं पुरा द्विज | प्रासादो वा ततस्तेन शास्त्रैणैव तदर्चयेत् || तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना | राज्ञो राष्ट्रस्य कर्तुश्च स नाशं कर्तुमिच्छति || न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसंकरम् | शास्त्रसंकरदोषेण महान् दोषो भवेद् ध्रुवम् || इत्युक्तम् | अतोऽप्यत्रापकृष्टशास्त्रपरित्यागेनोत्कृष्टशास्त्रपरिग्रहवचनं स्वेनैव नानाशास्त्रार्थविकल्पयोग्यत्वेन प्रतिपादिते स्वयंव्यक्ते स्थाने स्थापनीयमिति सिद्धम् | स्थानविशेषमधिकृत्य शास्त्राधिकारिणोः नियमपराणां वचनानामर्थविचारः यदपि चात्र स्थानविशेषमधिकृत्य [शास्त्राधिकारिणः क ख ग च] शास्त्राधिकारिणोर्नियमः क्रियते- स्वयंव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना | मूलागमसमेतेन मुखैर्भागवतैः सदा || पूजनं प्रयतैः कार्यं पञ्चकालपरायणैः | वैष्णवायतने कार्यं केवलैः पाञ्चरात्रिकैः || सांतानिकैः प्रविष्टैर्वा मुनिवाक्योक्तर्वर्त्मना | अनुक्तान्यर्थजालानि सिद्धन्तेष्वागमादिषु | अन्योन्यापेक्षया ग्राह्यं शास्त्रोष्वन्यन्न चाहरेत् || इति एतदपि प्रकृष्टस्थाने प्रकृष्टाधिकारिणां [प्रकृष्टशास्त्रपरिग्रह क ख ग च झ] प्रकृष्टशास्त्रादिपरिग्रहौचित्यमपकृष्टस्थानेऽपकृष्टाधिकारिणामपक् ऋष्टशास्त्रादियोग्यत्वं च स्थापयति अन्यथा वैष्णवायतने क्वचिदपि दिव्यशास्त्रानवतारप्रसङ्गात् मानुषेऽपि भवने मुख्याधिकारिभिः प्रतिष्ठिते दिव्यशास्त्रेण पूजनादिकर्तव्यत्वस्य पारमेश्वरनिरूपणे दर्शवि.यमाणत्वाच्च | अत्रापि सिद्धन्तसंकरपरिहार एव अनुक्तान्यर्थजालानि इत्यादिना स्थापितः | यत् पुनः पारमेश्वरे स्वयंव्यक्तनिर्णयाध्याये - दिव्यशास्त्रेण पूजनस्य सर्वत्र संभवः स्वयंव्यक्तं तथा सिद्धं विबुधैश्च [सिद्धविबुधैश्च क ख ग च] प्रतिष्ठितम् | मुनिमुखैश्च [मुखैस्तु ख च छ ज झ] गन्धर्वैक्षैर्विद्याधरैरपि || रक्षोभिरधमैर्मुखैः स्थापितं मन्त्रविग्रहम् | दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः || इति इदमपि दिव्यशास्त्रस्य सर्वस्थानेषु संभवं [समभावं ख ग; सद्भावं घ ङ् च छ ज] दर्शयति न तु शास्त्रान्तरपरित्यागेन दिव्यप्रवेशम् | [यत्त्वनन्तर क ख ग च] यच्चनन्तरमुक्तम् - स्थापितं मनुजैर्देवं मुनिवाक्येन यत्र तु | पूजयेद् द्विज तत्रापि ज्ञानिभिस्तत्त्वदर्शिभिः | वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः || इति इदं च व्यामिश्रमुनिवाक्यस्थापितेऽपि [अपि क ख ग ङ् च कोशेषु नास्ति] स्थाने व्यामिश्रयागमुक्तैर्वासुदेर्वैकनिष्ठैः पूजनमात्रं प्रशस्तमित्याह न पुनर्मनुवाक्यपरित्यागेना[परित्यागेन स्वाधिकारानुगुण घ ङ् च छ ज] स्याधिकाराननुगुणोत्कृष्टशास्त्रेण पूजनं विदधाति प्राक्प्रवृत्तशास्त्रानुसारेण तैरपि तत्र पूजनस्य युक्तत्वात् उत्कृष्टशास्त्रनिष्ठानामप्यपकृष्टशास्त्रधर्मेषु लोकानुग्रहार्थं [अनुग्रहाद्यर्थं घ ज] प्रवृत्तेः संहितान्तरादिसिद्धत्वस्य प्रागेव दर्शितत्वात् | यच्चेदमनन्तरमभिधीयते - व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः | स्थापितं मनुजैन्द्रैस्तु निषद्वाकादिकोविदैः | अर्चयेद् देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना || इति इदमपि दिव्यशास्त्रेण स्थापितस्थानविषयमनुसंधेयम् | मुनिवाक्यपरित्यागपूर्वकदिव्यमार्गपरिग्रहवचनस्य दिव्यमार्गप्रशंसापरत्वम् इतं त्ववशिष्यते | यदुक्तम् - मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते | तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति || मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् | भवेत् संनिधिमाहात्म्यं कालं कल्पक्षयावधि || दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः | तत्र दिव्यं परित्यज्य कदाचिच्च महामते || मुनिवाक्योक्तमार्गेण न कुर्यात् पूजनादिकम् | कुर्याद्वा यति वा मोहाद्विप्रः संमूढचेतनः* || *[स वृथार्थश्चिरात् तस्य भक्तिबीजेन वै सह | समन्त्रं कर्म तन्त्रं च सिद्धयश्च पराङ्मुखाः | इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसंततिः || इति क च ज झ पुल्स्तकेषु अधिकः पाठः |] घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति | तस्मात् सर्वप्रयत्नेन दिव्यमार्गं च न त्यजेत् || इति [अस्यापि इत्यारभ्य न त्यजेदिति इति पर्यन्तं घ ङ् कोशयोः न दृश्यते] अस्यापि प्रागुक्तन्यायेन दिव्यमार्गप्रशंसापरत्वं सुव्यक्तम् तत्रापि इति अपिशब्दादिलिङ्गात् दिव्यमार्गं तु न त्यजेत् इति निगमनेन तत्रैव तात्पर्यविश्रमाच्च | दिव्यमार्गपरिग्रहवचनानां मुनिवाक्यपूजितस्वयंव्यक्तस्थानविषयत्वम् यद्वा कालोत्तरोक्तन्यायेन विकल्पतश्चतुर्विधपूजायोग्यं स्वयंव्यक्तं स्थानम् मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते इत्यनूद्य तत्रापि दिव्यमार्गेण पूजनेच्छायां मुनिवाक्यपरित्यागेन दिव्यमार्गेण पूजनमविरुद्धमित्युच्यते | न ह्यत्र मुनिवाक्यस्थापितस्थाने क्वचिदपि दिव्यमार्गप्रवेशः प्रस्तूयते अपि तु मुनिवाक्यपूजित एव | सा च मुनिवाक्येन पूजा स्वयंव्यक्तेऽपि यति [यद्यपि ख ग] पूर्वं वर्तेत तत्र कुतश्चित् प्रमाणात् स्वयंव्यक्तक्षेत्रत्वे अवसिने सति मुनिवाक्यपरित्यागेनापि दिव्यशास्त्रोक्तविधिना दिव्यशास्त्राधिकारि पूजयेदित्युक्तं भवति | शास्त्रस्य दिव्यादिनाम्ना विभागः एतेन दिव्याद्यायतननिर्णयाध्यायोक्तः प्रपञ्चोऽपि प्रत्युक्तः | तथा हि - दिव्याद्यायतनानां च पूजाद्यं यत् त्वयोदितम् | शास्त्रं दिव्यादिभेदेन यथाद्वक्तुमर्हसि || इति सनकेन पृष्टः शाण्डिल्यः [इति पृष्ठः सनकः क ख ग] वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम् इत्यादिना साक्षाद्भगवत्प्रणीतं ब्रह्मरुद्रेन्द्रप्रमुखैः प्रवर्तितं शास्त्रं दिव्यमित्युक्त्वा ब्रह्मरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः | स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् || इति [ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति क ख ग झ कोशेषु न दृश्यते] ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति विभज्य एतत्तु त्रिविधं विद्धि सात्त्विकादिविभेदतः इति मुनिभाषितस्य त्रैविध्यं प्रस्तुत्य साक्षाद्भगवतः श्रुतार्थमात्रनिबन्धनरूपं शास्त्रं सात्त्विकम् भगवतः श्रुतमेकदेशं स्वयोगमहिमसिद्धं च शेषं [अशेषं संकलयय ब्रह्मादिभिस्तच्छिष्यैश्च स्वयं प्रणीतं शास्त्रं राजसम् [केवलसत्त्वयोग क ख ग झ] केवलस्वयोगविकल्पोत्यैरर्थैः कृतं शास्त्रं तामसम् इति मुनिभाषितस्य त्रैविध्यमुक्त्वा देवलं मनुजैर्यत्तु कृतं तत् पौरुषं भवेत् इति दिव्यात् मुनिभाषिताच्च [व्यक्तीभवदप्रामाण्यं ख ग] व्यतिरिक्तं संभवप्रामाण्यमयोगिभिः मनुजमात्रिअः प्रणीतं पौरुषं वाक्यं प्रतिपाद्य पुनर्दिव्यसात्त्विकराजसतामससंज्ञितानि प्रमाणभूतान्येव शास्त्राणि संहिताविशेषनियमेनापि विभज्य सात्त्वतपौष्करजयाख्यादीनि शास्त्राणि दिव्यानि ईश्वरभारद्वाजसौमन्तवपारमेश्वरवैहायसचित्रशिखण्डिसंहिताजयोत्तर् आदीनि सात्त्विकानि सनत्कुमारपद्मोद्भव[पाद्मोद्भव क ख च]शातातपतेजोद्रविणमायावैभविकादीनि राजसानि पञ्चप्रश्नशुक्रप्रश्नतत्त्वसागरादीनि तामसानीति संहिताविभागनिर्देशानन्तरमुच्यते - संहितानां दिव्यसात्त्विकदिभेदेन विभागः अपकृष्टशास्त्रस्थाने उत्कृष्तशास्त्रपरिग्रहवचनस्य स्वयंव्यक्तस्थानपरत्वम् तामसेन तु मार्गेण पूजाद्यं यत्र वर्तते | तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत् || राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः | तत्रापि सात्त्विकेनैव पूजद्यं शुभदं सदा || सात्तिविकेन तु पूजाद्यं वर्तते यत्र चान्वहम् [नित्यशः क ख ग च झ] | तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् || यत्र राजसामर्गेण न प्रवृत्तं त्वर्चनादिकम् | तत्र तामसमार्गेण न कुर्यादर्चनादिकम् || विविधानां राजसामन्योन्यं स्यान्न संकरः || इति | मुनिभाषितेषु त्रिषु शास्त्रेषु उत्कृष्टमध्यमाधमगुण[गुण क ख झ ग कोशेषु नास्ति] संज्ञानिर्दिष्ठेषु अपकृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तत्परित्यागेनापि उत्कृष्टगुणसंज्ञितशास्त्रेण पूजाद्यं सिद्धिदम् | उत्कृष्टगुणसंज्ञितशास्त्रप्रवृत्तिस्थाने तद्विपरीतेन शास्त्रेण पूजनादिकं न कर्तव्यम् | [ननु समानगुणसंज्ञितानां ग; ननु गुणसंज्ञितानां ख च] समगुणसंज्ञितानां चान्योन्यं न संकरः कार्य इत्युक्तम् | इहापि यत्र इति सामान्येन निर्दिष्टेऽपि प्रागुक्तन्यायेन प्रभुतानुभावतया सर्वसहस्वयंव्यक्तक्षेत्रविशेषविषयत्वं मन्तव्यम् न तु सार्वत्रिकत्वम् | प्राक्प्रवृत्ताकृष्टशास्त्रप्रत्यभिज्ञानेऽपि दिव्यस्यापरित्याज्यत्वं वा यद्वा चिरकालरष्टरक्षोभादिना विच्छिन्नपारंपर्यप्रत्यभिज्ञानेषु स्थानेषु किंकर्तव्यतामूढान् प्रति पूर्वमप्रकृष्टशास्त्रप्रवृत्तावपि तदज्ञानदशाया मुपप्ल्वाभिसंध्यभावात् स्र्वाधिकारिणां मुख्यानामुत्कृष्टशास्त्रपरिग्रौचित्यभिहोच्यते तत्र पुनः कुतश्चित प्रमाणात् प्राक्प्रवृत्तशास्त्रपरिज्ञाने दिव्यस्यापरित्याज्यवं च | इदं च तत्रापि इत्यतिवादलिङ्गात् अपिशब्दात् सुच्यते | अपिशब्दस्यातिवादलिङ्गत्वं चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः इत्यादिप्रयोगेषु प्रसिद्धम् | अत एव ह्यत्रैव पुनः संकरप्रिहारे सरम्भः क्रियते- भेदं दिव्यादिकं सम्यग्ज्ञात्वा सर्वं समाचरेत् | यो न ज्ञात्वा तु सांकर्यान् पूजाद्यमनुतिष्ठति || स हि सर्वस्य जगतः सांकर्यं कुरुते सदा | विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विजः || न कुर्याच्छास्त्रसांकर्यं हितैषी शास्त्रकोविदः || इति | अतो यथोक्त एवार्थः | उत्क्र्ष्टशास्त्रपरिग्रहस्य अधिकारिविशेषविषयत्वं वा किचित्तु मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते | तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति | मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् || इत्यादीनां वचनानामधिकारिविशेषविषयतया व्यवस्थामिछन्ति व्यामिश्रयामुक्तैस्तु तीव्रभक्तिसमन्वितैः इति प्रक्रमात् ऐतिकामुष्मिकसांसारिकफलविरक्तानाम् अपवर्गासन्नतमशास्त्रपरिग्रहस्य युक्तत्वाच्च | तत्तत्तन्त्रोक्तसांसारिकफलसक्त्तनां तु यथापूर्वं परिग्रह इति | सात्त्विकादिशास्त्रत्रयमपि प्रमाणमेव स्यान्नागरद्राविडवेसरं [द्रावलवैशसं ग ऽऽअ] च क्रमेण वै सत्त्वरजस्तमांसि | महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आदिदेवः || इति विमानक्रियादिविषयोत्तममध्यमत्वादिविवक्षया [सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया क ख ग ङ् च छ ज कोशेषु नास्ति] सत्त्वादिगुणोक्तिवत् इहापि तद्विवक्षया तद्गुणोक्तेः प्रमाणभूतशास्त्रविषयेष्वेव सात्त्विकराजसतामसविभागस्य यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः इत्यादिभिर्गवद्गीतायामपि प्रतिपादितत्वात् | अप्रमाणभूतस्य [अप्रामाण्यस्य क ख ग छ ज झ] पौरुषस्य तु वाक्यस्य केवलं मनुजैर्यत्तु क्र्टं तत् पौरुषम् भवेत् इति पृथङ् निर्देशात् | सर्वत्र पौरुषे वाक्ये तद् ग्रह्यमविरोधि यत् | केवलं तद्विधानेन न कुर्यात् स्थापनदिकम् || इति हि पौरुषसंज्ञिते वक्ये [विरुद्धंशसद्भावः क ख ग च झ] विरुद्धविरुद्धंशसद्भावोऽत्र दर्शितः | अतः सात्तिवकराजसतामसंज्ञानिवेशोऽत्र सत्त्वरजस्तमःप्रौरतत्तत्फलसिद्धिविशेषतारतम्याभिप्रायेणेति मन्तव्यम् | कृत्स्नं पञ्चरात्रं प्रमाणं कात्स्न्यरेन हि भगवच्छास्त्रस्य प्रामाण्यं प्रागेव पर्तिपादितम् | न चात्र भगवद्व्यतिरिक्तब्रह्मादिपुरुषक्र्टांशेषु कारणदोषः संभवति पञ्चरात्रस्य कृट्ष्न्यस्य वक्ता नारायणः स्वयम् इति स्ववक्तृके शास्त्रे भगवतैव तेषामृषीणां तत्तत्पुण्यविशेषानुसारेण नित्येऽपि वेदे सुत्रकाण्डमन्त्रकृत्त्ववत् संहिताकर्तृत्वस्याधिकारतया समर्पितत्वात् | यथा च व्यासोक्ते महाभारते वैशम्पायनसंहिताभेदः [संहिताभेदः घ ङ् छ ज] एवमत्रापीति न संकटं किंचित् | अतः कृत्स्नं पञ्चरात्रं प्रमाणम् | तस्यावान्तरसंहिताभेदः ऋगादिवच्चतुर्धावस्थितः | तद्वदेव यथाधिकारं व्यवस्थितानुष्ठानतया सिद्धन्तादिसंकरपरिहारेणैव सर्वदनुवर्तनीयम् | तथानुवर्तनं [तथानुवर्तमानानां ग घ ऽऽअ छ ज; तथानुर्वर्तने क झ] यथाधिकारं साक्षात् परंपरया वा सद्ब्रह्मवासुदेवाख्यपरमपुरुषार्थप्राप्तिसाधनमिति [प्राप्तिसूचनमिति क ख] सिद्धम् | पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता | श्रीपञ्चरात्रसिद्धन्तव्यवस्थेयं समर्थिता || अहितविहतिदीक्षै [दक्षैः क ग ऽऽअ च छ झ ञ्]र्बाहुभिर्व्यूहभेदै##- र्निगमनिजमतैश्च [निजनिगमशतैश्च क ग; निजनिगममतैश्च ख झ] व्यक्तभूमा चर्तुभिः | प्रथमयुगसमग्रम् धर्ममभ्यस्यमानान् प्रशमितकलुषान् [कलुषो वः घ ङ् छ ज] नः पातु वैकुण्ठनाथः || इति श्रिकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रिमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां सिद्धन्तव्यवस्थापनाख्यः [व्यवस्थाख्यः घ ङ् ज; व्यवस्थानाख्य छ] प्रथमोऽधिकारः नित्यानुष्ठानस्थापनाख्यः द्वितीयोऽधिकारः अथादौ समुपक्षिप्तमच्छिद्रं स्थाप्यतेऽधुना | स्वयंप्रयोजनं नित्यं स्वामिसेवनमञ्जसा || ससामान्यविशेषात्मा चर्येयं हृदयंगमा | ससूत्रसुमनःस्तोमा मालेवामोदिनी विभोः || अभिगमनादिना भगवत्सेवनं सर्वेषां समानम् इह [तावदेकस्मिन् क ख च झ] तावदेकैकस्मिन्नहोरात्रे कालपञ्चकविभागेन अभिगमनोपादानेज्यास्वाध्याययोगरूपभगवत्सेवनं स्ववर्णाश्रमजातिगुणनिमित्तदि[जातिनिमित्तदि क ख ग झ]नियतधर्मसचिवं भगवद्धर्मनिष्ठानां सर्वेषां समानम् | तच्च संहिताभेदुषु चोदनाख्यविऽसेषेऽपि सूत्रभेदेषु समानचिदनाख्यचत्र्वारिंशत्संस्कारादिवत् लेशतो भिन्नरूपं प्रतिपाद्यते | तत्र रहस्याम्नायविदामेवायं धर्म [अयं निजधर्मः ज] इति अविदितसात्त्वतधर्माणामाकस्मिको भ्रमः | ते तु स्वशाखोक्तप्रकारेण पाञ्चकालिकधर्ममनुतिष्ठन्ति इतरे च यथास्वं तत्तत्संहितोक्तप्रक्रिययेति व्यवस्था | वर्गद्वयेऽप्यधिकारिविशेषमात्रेणैव हि भेदोऽनुशिष्यते | यथोक्तं पाद्मे ब्रह्मोवाच - कर्षणादि प्रतिष्ठान्तं कर्म यस्य प्रसिद्धये | तम् समाराधनवित्धिं श्रोतुमिच्छामि संप्रति || आराधनविधिः कीदृगधिकारि च कीदृशः | भवंस्तदशेषेण ब्रूहि मे भक्तवत्सल || एकायनिनां मुख्यमधिकारित्वम् अन्येषां तु दीक्षया श्रीभगवानुवाच- श्रूयतामभिधास्यामि पृष्टं निरवशेषतः | आद्यमेकायनं वेदं सद्ब्रह्मप्रतिपादकम् || तेनैव संस्कृता विप्रा मुख्यकल्पाधिकारिणः | अन्येषां ब्राह्मणादीनां वर्णानां दीक्षया क्रमात् || अधिकारोऽनुलोमानामपि नान्यस्य कस्यचित् | पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिणः || प्रतिलोमभुवां सूतः प्रथमस्तत्र [प्रथमं तत्र क झ] शस्यते | त्रयाणां क्षत्रियादिनामनुलोमभुवामपि || सूतस्य च विशेषेण दीक्षात्मार्थप्रानिशम् [दीक्षामात्थ परानिशम् क ख ङ् च झ] | परार्थयजनं कुर्युर्विप्रा मुख्यानुकल्पयोः || नैवाधिकारिणो गूणा दीक्षासंस्कारवर्जिताः | यथैव दिक्षणीयेष्ट्या ब्राह्मणादयः || तथिअव दीक्षाविधिना जायमाना यथोदिताः | पूजाविधौ भगवतः प्रकल्पन्तेऽधिकारिणः || इत्यादि | एवं संहितान्तरेष्वपि ग्राह्यम् | जयाख्यसंहितायां पञ्च कालाः पाञ्चकालिककर्माणि च तदिह तत्तत्सिद्धन्तोक्तवर्त्मना चतिर्विधपञ्चरात्रिणां [पञ्चरात्राणां क ख ग च झ] साधारणमभिगमनादिपञ्चकम् | मन्त्रसिद्धन्तादिष्वपि हि कालपञ्चकविभागोऽयमुपदिश्यते | यथोक्तं साक्षाद्भगवन्मुखोद्गततया रत्नत्रयमिति प्रसिद्धेषु जयाख्यसात्त्वतपौल्ष्करेषु जयाख्यसंहितायाम् - नारदः एको हि श्रूयते देव कालो लोके न चापरः | पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः || श्रीभगवानुवाच - एकसयैव हि कालस्य वासरीयस्य नारद | आ प्रभातान्निशान्तं वै पञ्चधा परिकल्पना | पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः || नारदः एककालाश्रितानां च कर्मणा लक्षणं वद | परिज्ञातैस्तु यैः सद्यः कृतकृत्यो भवाअम्यहम् || श्रिभगवानुवाच ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे | उअपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः || अभिगच्छेज्जगद्योनिं तच्चभिगमनं स्मृतम् | ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् || भगवद्यागनिष्यत्तिकारणं प्रहरं [प्रहरः क ख ग च झ] परम् | ददुपादानसंज्ञं वै कर्मकालपदाश्रितम् || ततोऽष्टाङ्गेन यागेन पूजयेत् परमेश्वरम् | साधिकं प्रहरं विप्र इज्याकालस्तु स स्मृतः || श्रवणं चिन्तनं व्याख्या ततः[तपः क ख ग च झ] पाठसमन्विता | स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम् || दिनावसाने संप्राप्ते पूजां कृट्वा समभ्यसेत् | योगं निशावसाने च विश्रमैरन्तरीकृतम् | पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मदिद्धिदः || नारदः श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः [उत्तरः क ख ग च छ झ] | तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः || यागस्य अष्टावङ्गानि श्रीभगवानुवाच अन्तःकरणयागादि यावदात्मनिवेदनम् | तदाद्यमङ्गं यागस्य नाम्नाभितमनं महत् [तच्चाभिगमनं भवेत् क ख ग च झ] || पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने | बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद || मध्वाज्याक्तेन दध्ना वै पूजा च पशुनापि वा [पशुना सह क ख ग ऽऽअ झ] तत् तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् || निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने | संप्रदानं तु तन्नाम यागाङ्गं प~चमं स्मृतम् || वह्निसंतर्पणं षष्थं पितृयागस्तु [पितृयागं तु क ख ग ङ् च छ झ] सप्तमम् | प्राणाग्निहवनं नाम्ना [अनुयागं क ख ग् ऽऽअ च छ ज झ] त्वनुयागस्तदष्टमम् | प्रददाम्यचिराद्यद्वै तन्निष्ठानां परं पदम् || इति | अचिरादित्यनेनास्य कर्मणः कर्मान्तरेभ्यः स्वभावतः प्राशस्त्यमुच्यते | स्मरन्ति च व्यासादहः - न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् | सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः || यताधि [इति क च झ] | प्रयाससाम्यवैषम्यानादरेण सरूपतः प्राशस्त्यं द्रव्यादिष्वपि विद्यते | यथोक्तमाश्वमेधिके श्रीवैष्णवधर्मशास्त्रे - सर्वेषामेव पुष्पाणां सहस्रगुणमुत्पलम् | तस्मात् पद्मं तथा राजन् पद्मात्तु शतप्त्रकम् || तस्मात् सहस्रपत्रं तु पुण्डरीकमतः परम् | पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका || बकपुष्पं ततस्तु स्यात् सौर्वर्णं तु ततोऽधिकम् | सौर्वर्णाच्च प्रसूनात्तु मत्प्रियं नास्ति पाण्डव || पञ्चकालविधौ पाद्मवचनानि इति | एवं जपहोमदानादिष्वपि परैद्धम् | पाद्मेऽप्येवं प्रशस्तमं [प्रसिद्धतम्ं क ख ग झ] पञ्चकालसेवनमुक्त्म् - पञ्चकालविधिज्ञानां प्राशस्त्यं भगवन्निह | कथितं पञ्च के काला विधयश्चापि पञ्च के || मह्यं जिज्ञासमानाय कथयस्व यथातथम् | न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम् || श्रीभगवानुवाच - आद्यं कर्माबिगमनमुपादान ततः परम् | इज्या च पश्चात् स्वाध्यायस्ततो योगस्ततः परम् || पञ्चैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् | कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख || उत्थानादिक्रमादेतदभियान[अभिधानं क ख घ ङ् च झ]मुदीरितम् | ब्राह्मे मुहूर्ते बुद्ध्येत ध्यायन्नारयणं परम् | उथायासीत् शयने कीर्तयन्नम वैष्णवम् || इत्यादिरध्यायः कृष्नोऽपि पाढ्यः | एवं संहितान्तरेष्वपि तत्र तत्र तंग्रहेण विस्तरेण च [चकारः क ख ग च छ ज झ कोशेषु नास्ति] पञ्चकालविधिर्द्रष्टव्यः | किंच नमस्ते पञ्चकालज्ञ पञ्चकालपरायण | पञ्चकालैकमनसां त्वमेव गतिरव्यया || इत्यादिषु पाञ्चकालिकधर्मस्य भगवदेकवेद्यत्वं भगवतिप्र्यतरत्वं तन्निष्ठानामव्यवथानेन [अप्यव्यवथानेन क ख ग च झ] भगवत्प्राप्तिश्च प्रतिपाद्यते | भोजोक्ताः संगवादयः पञ्चकाला अन्यार्थाः यत्तुक्तं भोजराजेन प्रयोगपद्धतिरत्नावल्याम् तत्र संगवादयः काला अहरहः प्रवर्तन्ते | संगवः समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अध्यात्मविद्भिरुपदिष्टाः | उदयात् पञ्च नाड्यः संगव उक्तः | तस्मात् द्विगुणमात्राः सम उपदिश्यते | तावत विष्णुप्रियः इत्यादि | तत्र पुष्पविशेषाराध्यविशेषनिर्णयार्थोऽयं कालविभागः | न त्वभिगमनादिपञ्चककर्तव्यार्थः | तथाहि पूर्वमुक्तम् [संगवे तत्तिथि इत्यारभ्य प्रदर्शनं कृतम् इति यावत् क ख ग झ पुस्तकेषु नास्ति] संगवे तत्तिथिचिदितं पुष्पं गृःनीयात् | समे पद्मैः करवीरैर्विष्णुप्रिये धर्मे कुमुदैः बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् इति | उत्तरत्र चैवं तत्तत्कालाराध्यभगवन्मूर्तिविशेषप्रदर्शनं क्र्टम् तत्र संगवे वैकुण्ठस्य प्रीतिः समेऽनिरुद्धस्य विष्णुप्रिये शिंशुमारस्य धर्मे बडबामुखाग्नेः विरागे कपिलस्य इत्येवं पञ्चानां पञ्च प्रीतिकालविशेषाः इति | अतो जयाख्यसंहिताद्युक्तप्रकारेणैवाभिगमनादिपञ्चकव्यवस्था नित्या | अन्यत् काम्यादिकम् | पाञ्चकालिकधर्मे सच्छिद्राच्छिद्रत्वविभागः एवं दिनचर्यामर्यादायां स्थितायां देषांचित् त्रैकाल्यार्चनादिविधानानि विषुवायनोपरागजन्मत्रयद्वादशिपर्वश्रवणादिवैशेषिकार्चनान्यपि यथाबलं तदन्तःपातेन नेतव्यानि | अशक्तमधिकृत्यैव समाहृत्यानुष्ठानं क्वचिद्विधीयते | सच्छिद्रपञ्चकालता च तावन्मात्रयोग्यस्यैव | अन्यार्थकर्मान्तरितत्वं सच्छिद्रत्वम् | द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् | अच्छिद्रपञ्चकालज्ञः स तु भागवतः स्मृतः || इति तु पूर्णस्य मुखाधिकारिणः स्तुतिः | न तु तस्यैव पाञ्चकालिकभागवतत्वप्रतिपादनपरम् | चतुर्व्यूहविभागज्ञः पञ्चकालपरायणः | द्वादशाक्षरनिष्ठो यः स वै भागवतोत्तमः || इति शाण्डिल्यवचनमपि तथैव | पाञ्चकलिकधर्मः श्रीभाष्यकारादीनाम् अभिमतः एवं द्वादशाक्षरोपादानमपि व्यापकान्तरोपलक्षणम् स्वसंहितोक्तमन्त्रनिष्ठामात्रेण [निष्ठामन्त्रेण क ऽऽअ छ ज झ; निष्ठामात्रेण ख ग च] यथार्हं सर्वेषां पञ्चकालधर्मप्राप्तेः | अत एव हि भाष्यकाराणां शिष्याः प्रशिष्याश्च श्रीमदष्टाक्षरेण समाराथनं प्रपञ्चयन्तः पञ्चकालकल्पनयैव दिनचर्यामुपदिदिशुः | तथाहि भाष्यकाराव्यवहितशिष्यैर्वङ्गिवंशेश्वरैः श्रीरङ्गनारायणाचार्यैर्ब्राह्मामुहूर्तप्रभृति दिनचर्या प्रपञ्चयद्भिर्हरिसंकीर्तनसंसारनिर्वेदसात्त्विकधृत्यालम्बनसमनन्तर कालहिता[कालविहित क ख ग ऽऽअ च छ ज झ ञ्]ध्यवसापपर्यन्तमुक्त्वा अनन्तरमुच्यते - इत ऊर्ध्वमहं तावद्याज्जिवं श्रियः श्रियः | पदयोरर्चनं कर्तुं यतमानः समाहितः || अभिगच्छन् हरिं प्रतः पश्चाद् द्रव्याणि चार्जयन् | अर्चयंश्च ततो देवं ततो मन्त्राञ्जपन्नपि || ध्यायन्नपि परं देवं कालेषुक्तेषु पञ्चसु | वर्तमानः सदा चैवं पाञ्चकालिकवर्त्मना || स्वार्जितैर्गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः | आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् || इति | श्रीपराशरभट्टारकैश्च गर्भजन्मजरादुःखमिश्रसंसारसागरात् | उत्तिर्य भगवत्प्राप्तिं लिप्सेत् पुरुषो यति || प्रातरुत्थाय संस्मृत्य हरिं तच्चरणोत्थिताम् | गङ्गां विभाव्य तीर्थाम्भस्ततस्तदवगाह्य च || श्रितुस्मृत्युदितं कर्म यावच्छक्ति परात्मनः | आराधनत्वेनापाद्य सोर्धपुण्ड्रश्च तर्पयेत् || मन्त्रैराधारशक्त्यादिपारिषद्यान्तसंस्थितैः | इति पूर्वाचार्योक्तं संग्रहेण प्रदर्श्य हरिं प्रणम्य चायम्य प्रानान् प्रणिपतन् गुरून् इग्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य ऋषिछन्दोदेवताबीजशक्तीः प्रकाश्य भाष्यकारानुक्तो मन्त्रन्यासस्तच्छिष्याद्युक्तप्रकारेणोपादेय इति ज्ञापनाय मन्त्रन्यासं ततः कृत्वा मन्त्रार्थमपि चिन्तयेत् इति संग्रहेणाभिवाय [पूर्वैः इत्यारभ्य स्वयमेधाभिधाय इत्यन्तं क ख ग झ पुल्स्तकेषु नास्ति] पूर्वर्ग्रन्थेष्वनिवेशितं मन्त्रार्थचिन्तनमत्यन्तोपयुक्ततया [मन्त्रार्थमत्यन्तोपयुक्ततया घ ज] स्वयमेवाबिधाय एवं संचिन्त्य मन्त्रार्थं ततस्तं पुरुषं [तत्पुरुषं क झ; परमिति पदं क ख ग घ झ कोशेषु नास्ति] परम् इत्यादिना पूर्वैरुक्तं ध्यानं संक्षिप्य तदनुक्तं पादादिकेशान्तध्यानं प्रपञ्च्य षोडशोपचारक्रमेण समाराधनं च विहितम् | उपचारान्तराणामपि सर्वेषामेते षोडश प्रधानतामाः | तदनुबन्धेनैवान्यत् सर्वमनुष्ठीयते | देशकालावस्थाद्यनुसारेण संक्षेपविस्तारस्वीकारश्च शास्त्रीयः | अतः पूर्वैककण्ठ्यमिहाप्यनुसंधेयम् | अत एव हि तदुभयानुसारिभिर्नारायणमुनिभिरपि पञ्चकालकल्पनया तत्तत्कालानुष्ठेयानि यथाक्रमं प्रपञ्छितानि | तथाहि - भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् | एकान्तिभिरनुष्ठेयं नित्यं समभिदध्महे || ब्राह्मे मुहूर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् | उत्थाय तत्र शयने समासीनः समाहितः || इत्यारभ्य द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् | निक्षिप्य चिरमात्मानं तत्पादब्जे कृती भवेत् || यो नारायणदासीयो माधवाराधनक्रमः | तत्राभिगमनं नाम् प्रथमः पटलो ह्ययम् || इत्यन्तेनाभिगमनं परिसमाप्य अहो द्विदीयभागेन कृष्णाराधनतत्परः | द्रव्यारण्याराधनानि शास्त्रियाणि समार्जयेत् || इत्यादिभिः पटलैः तत्तत्कालांशसाधनीयमुपादानादिकमपि यथाक्रमं प्रपञ्चितम् | तदेवं चतुर्विधपञ्चरात्रनिष्ठानां तत्रापि यत्किंचिद्व्यापकमन्त्रप्रधानानां सर्वेषामपि भगवदेकान्तिनां यथायथं प्राचीनपरिगृहीतवैकल्पिकमर्यादाभेदैः पाञ्चकालिकधर्मः प्राप्तः | प्रपन्नैः पञ्चकालक्रमः त्याज्य इति पूर्वपक्षः तत्र ते स्वाधिकारानुरूपं प्रपत्तिमेव केवलामव्यवहितामपवर्गसाधनमवलम्बन्ते तैरयं पञ्चकालक्रमः परित्याज्यः परिग्राह्यो वेति विचार्यते | प्रपत्तिप्रकरणेषु तदङ्गत्वेन तदुपदेशाभावात् विलम्बाक्षमस्याधिकारिणः शातवार्षिकव्रतपूरणावधिकालक्षेपाक्षमत्वात् तदेकदेशभूतयोगशक्तौ च तस्यैवोपायत्वस्वीकारप्राप्तेः यथाशक्ति [वर्णाश्रमानुष्ठानरूपस्य क ख ग च झ] वर्णाश्रमधर्मानुष्ठानरूपस्य भगवत्प्रीणनस्य तदाज्ञानुपालनस्य कर्तव्यत्वेऽपि व्यासदक्षादिधर्मशास्त्रोपदिष्टकालविभागपूर्वकदिनचर्यामर्यादयापि [दिनचर्याद्वारापि क ख ग झ] सिद्धेः अन्यथा कर्मणां परस्परोपरोधप्रसङ्गाच्च परित्याज्य इति पूर्वः पक्षः | प्रपन्नैः पञ्चकालक्रमो ग्राह्य इति सिद्धन्तः राथान्तस्तु परिग्राह्य एवायमिति | तिष्ठतु तावदिह प्रमाणोपपत्तिपरामर्शः | भाष्यकाराद्युपदेशसंप्रदायस्तावत् परामृश्यताम् | अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्ये इत्यारभ्य शौनकव्यासबोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन वर्त्मना स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रियाप्रतिपादनं कथंभूतमधिकारिणमधिकृत्य भाष्यकारैः कृतमिति कर्णे तवागतम्? भवतु तच्छक्तमधिकार्यन्तरं प्रतीति चेत् न प्रपत्त्येकनिष्ठैः तत्च्छिप्यप्रशिप्यादिभिः [प्रशिष्यादिभिश्च क ख ग च झ] योभ्यैरद्य यावत् यथाशक्ति तदनुष्ठानदर्शनात् साधनबुद्ध्या च तदनुष्ठानाभावस्य भगवत्कैंकर्यैकरतिः परमैकान्ती भूत्वा इत्यादिभिस्तत्रैवोपदेशात् अनन्योपायेऽनन्यप्रयोजने चाधिकारिणि परमैकान्तिशब्दस्य साम्राज्यात् अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्ये इत्यस्य पूर्ववृत्तापेक्षायां तमेव शरणमुपच्छेदखिलेत्यादिना शरणागतिप्रकारश्च पूर्वोक्तः इति तत्प्रबन्धस्थवाक्यद्वयेन परिपूर्णशरणागतिविषयस्य गद्यग्रन्थस्य पूर्ववृत्तत्वप्रतीतेः | एतच्च समर्थविषयते | अतस्तथाविधप्रपन्न एवात्र परमैकान्ती | तमाधिकृत्यैव कि.चित्सिद्धान्तश्तां का.चित् संहितां प्रधानीकृत्य समाराधनप्रयोगोऽत्र संगृह्यत इति यथासंप्रदायमकामेनापि स्वीकरणीयम् | पञ्चकालप्रक्रिया श्रीभाष्यकाराभिमतेति समर्थनम् | तच्च समारावनमर्घ्यादिपात्रपक्षेप्य[प्रक्.एस्प क ख ग घ ङ् च झ]तत्तदासनभोगानुपूर्वीसमर्पणीयोउपचारिकसांस्पर्शिकाभ्यवहारिका दिभेदभिन्नगन्धपुष्पादिपरःशत्रद्रव्यसापेक्षं दृश्यते | तदपि न्यायतः स्वयमेवार्जितं मुख्यम् | अशक्तस्य तु पुत्रशि.यादिमुखेन तत्प्रेरणरूपार्जनव्यापारः | पूर्वसिद्धद्रव्यस्यापि तत्काले तदर्थोपादानमिति समाराधनात् पूर्वमेवं नान्तरीयकं सम्यग्द्रव्योपादानम् | अत इज्योपदेशेनैवार्थात् [अर्थादपेक्षित क ख ग च झ] तदपेक्षितोपादानमपि स्वकालप्राप्तमुपदिष्टं भवति | ततोऽपि पूर्वमभिगमनमपि तद्विधायकतत्तच्छास्त्रतत्तन्मन्त्रविशेषादिपरामशादन्ततः प्रपत्तिरूपतयैव परिणतमिति प्रागेव तदुपदेशेनार्थादभिगमनमप्युपदिष्टं भवति | अत एव हि तदभिप्रायविद्भिर्नारायणमुनिभिः - द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् | निक्षिप्य चिरमात्मानं तत्पादाब्जे कृती भवेत् || इत्यभिगमनं निगमितम् [निर्णीतम् क छ; निर्दिष्टम् ज] दद्विवरणं च गद्यादिकमेव | अनुयागपर्यन्तसमाराथनसमनन्तरभाविस्वाध्यायश्च श्रुतिस्मृतीतिहासपुराणमन्त्रजपसत्संवादाध्यात्मस्त्रश्रवणप्रवचनाध्य आत्मा यथासंभवं भगवच्छास्त्रधर्मशास्त्रादि.वन्तरभावियोगोपकारकज्ञानसंधुक्षणप्र योजनः प्रतिपाद्यत इति तत्कालनित्यः सोऽपि द्वयमर्थासंधानेन सह सदैवं वक्ता इति गद्योक्तस्य द्वयवचनस्य शास्त्रीयकर्मान्तरानुपरोधेन यथावसरमुपनिपातादुपदिष्ट एवेति ज्ञायते | सदावचनं हि न निद्राकाले अशक्ययत्वात् | न मौनकाले तद्विधिवोरोधात् [तद्विरोधात् क ख ग झ] | न मन्त्रान्तरादिसाध्यसमाराधनादिकाले तैरव [तेनैव क ख ग च] तदुपरोधात् | अतो यथावसरं तत्प्राप्तिः | एवं योगोऽपि [अपि क ख ग ङ् च पुस्तकेषु न दृश्यते] द्वयार्थानुसंधानैकाग्र्यरूपः सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोः तत्पूर्वापररात्रेषु युञ्जानः इत्याद्युक्तावसरलब्धयत्नलभ्यः [अवसरयुक्तयत्नलभ्यः क झ; अवसरयत्नलभ्यः घ; अवसरलब्ध्या युक्तयत्नलभ्यः च छ] | श्रीवैकुण्ठगद्ये च स्वतन्त्रप्रपत्तिनिष्ठामेव विधाय ततश्च प्रत्यहमात्मोज्जिवनायैवमनुस्मरेत् इत्यारभ्य परमपदपर्यङ्कनिलयस्य भगवतः परिपूउर्णध्यानयोगमुक्त्वा अनुसंधानविशेषांश्चोपदिश्य श्रीमत्पादारविन्तं [पादरविन्दयुगलं क च झ] शिरसि कृतं ध्यात्वा अमृतसागरान्तर्निमग्नसर्वाक्यवः सुखमासीत् इत्यनेनानन्यप्रयोजनो विचित्रो योगः प्रतिदिनकर्तव्यत्वेन विहितः | तदधिकारे च विस्तरेण दर्शयिष्यामः | नित्ये च एवं शरणमुपगम्य तत्प्रसादोपवृंहितमनोवृत्तिस्तमेव भगवन्तं सर्वेश्वरेश्वरमात्मनः [स्वामित्वेन सुहृत्त्वेन क ख ग च झ] स्वामित्वेनानुसंधाय अत्यर्थप्रियाविरतविशदतमप्रत्यक्षतापन्नानुध्यानेन [अनुसन्धानेन क ङ् छ ज] ध्यायन्नसीत् इति समारधनारम्भोक्तस्यानुध्यान्स्य स्वादुतमस्य समाराधनवदेव अनन्यप्रयोजनकैंकर्यरूपतयावसरे प्राप्तिर्युक्ता | तस्मादनन्यप्रयोजनप्रधानतया परिपूर्णसमाराधनविशेषोपदेशिभिर्भाष्यकारैरर्थतः शास्त्रान्तरैश्च सिद्धमन्यदपि सर्वमनुज्ञातमिति विज्ञायते | अत एव हि तच्छिष्यप्रक्षिष्यादयः पञ्चकालविभागेनैव भगव्त्सेवां प्रत्यपीपदन् | प्रपत्त्यावृत्तिप्रसङ्गादिचिद्यानि तु निक्षेकालविभागेनैव भगवत्सेवां प्रत्यपीपदन् | प्रपत्त्यावृत्तिप्रसङ्गादिचोद्यानि तु निक्षेपरक्षान्ते [निक्षेपरक्षायां क ख ग च ज झ] परिहृतानि | अत्र यदुक्तं प्रपत्त्यङ्गत्वेनोपदेशाभावात् परित्याज्य इति तदसत् भ्हष्यकारोक्तनित्यसमाराधनस्यापि तत एव परित्याज्यत्वप्रसङ्गात् | तच्चेत् भगवत्प्रीत्येकप्रयोजनतयानुष्ठेयमित्यनुज्ञायते तर्हि तदनुबन्धि सर्वमपि तद्वदनुज्ञायताम् | प्रपत्त्यङ्गसर्वधर्मस्वरूपत्यागविधिवादिनोऽपि हि [हि क ख ग च झ पुस्तकेषु नास्ति] स्वामिनि भगवति दासभूतस्य प्रपन्नस्य स्वरूपप्राप्तां किंकरवृत्तिमनुजानन्ति | यत्तु शातवार्षिकव्रतावधि विलम्बाक्षमत्वमुक्तम् तत् तथैव | न ह्यस्य निष्पन्नोपायस्य शातवार्षिकव्रतमनुष्ठेयं ब्रूमः | यथा हि नदीतरणाय नौकागमनं प्रतीक्षमाणाः पुरुषाः केचित् लीलाद्यूतेन कालं यापयन्ति केचित् पणबन्धद्यूतेन द्यूतमर्यादानुपालनं चोमयेषां समानम् तत्रानियतकालभाविनौकागमनसमये वैहारिका विहारद्यूतविच्छेदेनापि नादीं तरन्ति बद्धपणास्तु यावद्द्यूतसमाप्ति विलम्बन्ते तद्वदिहापीति तत्त्वविदां संप्रदायः | पाञ्चकालिकयोगशक्तौ प्रपत्तिनिष्ठाविरोधपरिहारः यच्चान्ययुक्तं योगशक्तौ तस्यैवोपायत्वस्वीकारः प्राप्नोतीति तदपि मन्दम् | स्वयोगमहिमप्रत्यक्षिततत्त्वत्रयाणां नाथमुनिकुरुकेश्वरप्रभृतीनां प्राक् परिगृहीतप्रपत्त्युपायैकनिष्ठानामेव पश्चादपि भगवत्प्रसादलब्धयौगिकभगवदानन्दास्वादस्य प्रसिद्धत्वात् | अन्यथा तथाविधानुसंधानपूर्वकभाष्यकारोक्तसमाराधनादिशक्तौ तस्याप्युपायत्वस्वीकार[स्वीकार क ख ग च झ पस्तकेषु नास्ति]प्रसङ्गात् | तच्चेत् स्वामिकैंकर्यरूपमिति स्वादुतमतया [स्वादुतमतया क ख ग च झ पुस्तकेषु नास्ति] स्वयंप्रयोजनत्वेनोपादीयेत् समाधावप्ययं समाधिकदरिद्रसुखसंदोहात्मनि समः समाधिः | प्रपन्ननुगुणं च यौगिकमनुसंधानं [शाण्डिल्यस्मृतावपि क च झ] शाण्डिल्यस्मृतावुच्यते - ईदृशः परमात्मायं प्रत्यागात्मा तथेदृशः [अयमीदृशः घ ऽऽअ छ ज] | तत्संबन्धानुसंधानमिति योगः प्रकीर्तितः || योगो नामेन्द्रियैर्वश्यैर्बुद्धेर्ब्रह्मणि संस्थितिः | प्रयुक्तैरप्रयुक्तर्वा भगवत्कर्मविस्तरे || इति | एतदनुबद्धमेव [एतदनुसंधानमेव क ख ग ज झ] द्वयार्थानुसंधानम् | एतद्विरुद्धं तु राहुमीमांसकानां कबन्धमीमांसकानां चानुसंधान वेदबाह्यमिति श्रीकृष्णमुनिभिरुक्तम् - चेतनस्त्वेक एवेति मतिर्या केवला क्रिया | फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे | स एनं प्रीतः प्रीणाति ब्राह्मणस्यानुगे न ते || इति | पाञ्चकालिकधर्मस्य स्मृत्युक्तकर्मभिर्नोपरोधः यत्त्वपरमुक्तम्- व्यासदक्षाद्युपदिष्टवत्र्मनापि स्ववर्णाश्रमोचितभगवदा~जानुपालनरूपदिनचर्यासिद्धिः [अतश्चेत्वेव सर्वत्र पाठः | पूर्वपक्षानुवादे तु अन्यथेति दृश्यते |] अतश्चोभयसंभेदे कर्मणां परस्परोपरोधप्रसङ्गश्चेति तत्र तावदविदितश्रौतस्मार्तवृत्तन्तानामयं परस्परोपरोधचोद्यावतारः | एवं ह्यत्र परिहृतं श्रीकृष्णमुनिभिः - पश्विर्ष्टि[दर्धी ख ग च ञ्]दर्विहोमानां ससोमानां समुच्चयः | यथा बहुनामेकस्मिन् तथैवास्यपि कर्मणः || इति | न चात्र तावानप्युपरोधः | व्यासस्मृतौ अभिगमनसंवादनम् अपि च तत्रापीदमभिगमनादिपञ्चकमनुप्रविष्टं दृश्यते | व्यासस्तावत्##- ब्राह्मे मुहूर्त उत्थाय धर्ममर्थं च चिन्तयेत् | कायक्लेशं तदुभूतं ध्यायीत मनसेश्वरम् || इत्यारभ्य प्राभातिकस्नानसंध्योपासनप्रकारमुपदिश्य अथागत्य गृहं विप्रः समाचम्य यथाविधि | प्रज्वाल्य वह्निं विधिवत् || इत्यादिना प्रातर्होमं च विधाय अनन्तरमाह - देवादीनां नमस्कुर्यादुपहारं निवेदयेत् | दद्यात् पुष्पादिकं तेषं वृद्धांश्चैवाभिवादयेत् || गुरुं [गुरूंश्चैव क ख ग च झ] चैवाप्युपासीत हितं चास्य समाचरेत् | वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः || जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् | अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः | वैदिकांश्चैव निगमान् वेदाङ्गानि विशेषतः || इति | अत्र दक्षोक्तप्रक्रियया द्वितीयार्धयामसाध्यवेदाभ्यासादिषु [अदृष्टांशः ख ग] अदृष्टार्थांशो जपस्तोत्रशब्दाभ्यां जयाख्यसंहितायामुपलक्ष्यते | वृत्तिकर्शितस्य कस्यचित् [अदृष्टांशः ख; दृष्टांशः क ग झ] दृष्टार्थांशोऽस्ति चेत् अभिगमनकालसंकोचेन परस्मिन्नुपादाने समन्वेति | अत्र देवनमस्कारोपहारनिवेदनपुष्पादिप्रदानादभिगमनं सिद्धम् | देवनमस्कारश्चात्र विष्णुनमस्कार एव स्वरसतः प्राप्तः निरुपाधिकदेवत्वस्य देवतान्तरनमस्कारस्यापि तत्रैव विश्रमात् | अत एवादौ ध्यायीत् मनसेश्वरम् इति ध्येयतयोक्त ईश्वरोऽपि जयादि.विव सर्वेश्वरो विष्णुरेव | ईश्वरो विक्रमी धन्वी इति च तन्नामसु[नामसु क ख च ज झ] पठ्यते उत्तरत्र [अत एवोत्तरत्र क ख ग ङ् च झ] न विष्ण्वाराधनात् पुण्यं विद्यते दर्म वैदिकम् इति स्वयमेवाभिदानाच्च | इदमेव विष्णुनमस्कारादिरूपमभिगमनं तत्परशास्त्रेष्वपि नानाप्रकारमुपदिश्यते | देवादीनाम् इत्यादिशब्देन पित्रादिसंग्रहः | व्यासस्मृतौ उपादानसंवादानम् एवं प्रथमकालकर्तव्यमुक्त्वा द्वितीयकालसाध्यं समाराधनोपकरणसंपादनमुपादानमाह- उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये | सावायेद्विधानर्थान् कुटुम्बार्थे ततो द्विजः || इति | एतच्च लौकिकेश्वराभिगमनं गत्यन्तरहीनस्यापद्विषयम् | स्मरन्ति हि- नगरप्रवेशनानि [प्रवेशनादि क झ] च वर्जयेत् इति | उक्तं च [श्री क ख ग च झ पुस्तकेषु नास्ति] श्रीशाण्डिल्यस्मृतौ- बुद्धरुद्रादिवसतिं श्माशानं शवमेव च | अटवीं राजधानीं च दूरतः परिवर्जयेत् || इति | कालपञ्चककृत्यं तत्र प्रपञ्चितं [यथायोग्यं क ख ग च छ ज झ] यथायोगं सर्वैर्ग्राह्यम् | इदमेव चोपादानं भगवदर्थत्वेन भगवच्छास्त्रेषु विधीयते | अत्रापि कुटुम्बार्थे इति न केवलं तादर्थ्यं विवक्षितम् [कुटुम्बार्थे इति वचने केवलतादर्थ्यमविवक्षितम् क ख ग झ] तद्बुद्धेः सर्वत्र प्रतिषेधात् | अगीयत च [गीयते च क च झ] स्वयं भगवता- यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर || इति | अतो भगवदाराधनरूपयज्ञशिष्टेन [कुटुम्बभरणमपि क ख ग च झ; कुटुम्बरक्षणमपि ङ् छ] कुटुम्बसंरक्षणमपि भगवदाज्ञानुपालनरूपमेवेति तद्विवक्षया महर्षिणा कुटुम्बार्थे इत्युक्तम् | धर्मर्थ च चिन्तयेत् इत्यारम्भोक्तार्थचिन्तनमपि धर्मशेषतया | कायक्लेशचिन्तनं तु क्लेशरहितोपायवेषणार्थम् | स्मरन्ति हि मन्वादयः- अक्लेशेन शरीरस्य कुर्वीत धनसंचयन् | अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा || इत्यादि | व्यासस्मृतौ इज्यासंवादनम् अथ तृतीयकालकृत्यमाह - ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् इत्यादिना | स्नाने चैवं भगवद्नुसंधानमाह- अभिमन्त्र्य जलं मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः | भावपूतं तदव्यग्रं ध्यायन् वै विष्णुमव्ययम् || आपो नारयणोद्भूतास्ता एवास्यायनं पुनः | तस्मानारायणं देवं स्नानकाले स्मरेद्बुधः || इति | तधा - त्रिपदां वात्र सावित्रीं तद्विष्णोः परमः पदम् | आवर्तयेद्वा प्रणवं देवं वा संस्मरेद्धरिम् || इति च | तर्पणेऽपि- आदावोंकारमुच्चार्य नामान्ते [नमोऽन्ते ग च छ] तर्पयामि च | देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः || तिलोदकैः पितॄन् भक्त्या सूत्रोक्तविधिना ततः || इति | अत्र प्रणवपूर्वकत्वेन भगवदात्मकत्वानुसंधानं विहितम् | एतदेव च नित्ये भाष्यकारैरपि दर्शितम्- देवानृषीन् पितॄन् भगवदात्मकात् ध्यात्वा संतर्प्य इति | तृतीयकालसाध्यं साक्षादिज्यारुपं समाराधनमेवाह- न इष्णवाराधनात् पुण्यं विद्यते कर्म वैदिकम् | तद्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् || तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण च | नैवाभ्यां सदृशो मन्त्रो वेदेषुक्तश्चतुर्ष्वपि || निवेदयीत् स्वात्मानं विष्णावमलतेजसि | तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः || इति | अत्र तद्विष्णोरित्यादेः स्तुतिः न याज्ञवल्क्यादिविहितप्रणवाद्यपकर्षपरा | एवं विष्ण्वाराधनस्य सर्वोत्तरस्त्वकण्ठोक्तेः पूर्वापरग्रन्थेषु सामान्यतो विशेषतश देवतान्तरार्चनवचनमन्तवत्प्रिमितफलार्थिप्रतिबुद्धेतराल्पमेधसः पुरुषानधिकृत्येति मन्तव्यम् | गीयते च अन्तवतु फलं तेषां तद्भवत्यल्पमेधसाम् इति | उक्तं च [उत्तरत्र च क ख ग ज झ] महाभारते- ब्रह्माणं शितिकण्थं च याश्चान्या देवताः स्मृताः | प्रदिबुद्ध न सेवन्ते यस्मात् परिमितं फलम् || इति | आह च बादरायणः - नान्यं देवं नमस्कुर्याद्विष्णुपादाब्जसंश्रयः इति | कर्मणां परिपाकत्वादा विरिञ्चादमङ्गलम् | इति मत्वा विरक्तस्य वासुदेवः परा ततिः || इति च | पाञ्चरात्रोक्तं समाराधनमेव सर्वेषां मुख्यम् इदं च विष्ण्वाराथनं भगवच्छस्त्रेषु तैस्तैर्व्यापकमन्त्रप्रभृतिभिस्तत्तदधिकारानुरूपं प्रपञयते | अधिकृतशास्त्राप्रतिपादितस्य पूर्णोपदिष्टस्यैव मुख्यत्वं होतृशाखोक्तहौत्रपरिग्रहन्यायेन सिद्धम् | एतेन अलाभे वेदमन्त्राणां पञ्चरात्रोदितेन वा इति स्मृतिरपि प्रणवाष्टाक्षर द्वादशाक्षरादिमन्त्राणामाथर्वणरहस्यान्मायाद्यधीततया वेदमन्त्रशब्देन संग्रहात् पञ्चरत्रोदितिन वा इत्ययमंशस्तान्त्रिकसंक्षितप्रत्यक्.एस्तरश्रुतिमूलमन्त्रान्तरविषयतया योज्यः | भगवत्समाराधनस्य नित्यत्वम् नित्यं चैतद्वैश्वदेवादिवत् भगवत्समाराधनम् | नित्यमराधयेद्धरिम् इति वचनात् | शानकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं परम् | प्र वः पान्तमन्धसो धियेत्यर्धर्चविधानतः [धित्यृचोऽर्धस्य घ ङ् ज; चोऽर्धर्च ख ग; धि इत्यर्धर्च क झ] || इति सूत्रान्तरानुसारात् | स्नात्वा नित्यं शुछिः कुर्याद्देवर्षिपितृतर्पणम् | देवताभ्यर्चनं चैव समिदाधानमेव च || इति सामान्यतो मनुक्तेश्च | उक्तं चानुशासनिके श्रीपुण्डरीकनारद संवादे - ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः | केशवाराधनं हित्वा नैव याति परां गतिम् || इति | एवं यल्गयाज्ञवल्क्यादिष्वपि [योगयाज्ञवल्क्येनापि क ख ग] - विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः | तस्मात् पूज्यतमं नान्यमहं मन्ये जनार्दनात् || इत्यादिकमुच्यते | एवंविधदेवतार्चनाकरणे च प्रत्यवायं स एवाह - यो मेहादथवालस्याकृत्वा देवतार्चनम् | भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते || इति | भगवदर्चावताररहितगृहन्य[अर्चारहितगृहस्थस्य घ] पुरुषस्याभोज्यान्नत्वमप्यन्यग्रोच्यते - केश्वार्चा गृहे यस्य न तिष्ठति महीपते | त्स्यान्नं नाइव भोक्तव्यमभक्ष्येण समं हि तत् || इति | अनन्तरं च पञ्चमहायज्ञपूर्वकं प्राणाग्निहोमं प्रपञ्चयन्नेवमाह [एवाह क ख ग ङ् च ज झ] - स्वाहाप्रणवसंयुक्तं प्राणायान्नाहुतिं ततः | अपानाय ततो हुत्वा व्यानाय तदनन्तरम् || उदानाय ततः कुर्यात् समानायेति पञ्चमम् | विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः || शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् | ध्यात्वा तु मनसा देवमात्मानं वै परजापितम् || इति | अत्रापि देवप्रजापतिशब्दौ पूर्वोक्तनयेन विष्णुपरौ मन्तव्यौ [मन्तव्यै क ख ग झ पुस्तकेषु नास्ति] हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः इत्यादिभगवद्यामुनेयोपात्तकर्मकाण्डस्थप्राणाग्निहोत्रविषयव्यासवचनानु साराच्चास्मिन्नपि [अस्मिन्नेव क ख ग झ] व्यासवचने देवध्यानं तदेव हृदयस्थहरिध्यानमिति गम्यते | ईदृशं च भोजनमेवानुयागसमाख्ययान्यत्र व्यपदिश्यते | [अथ क ख झ पुस्तकेषु नास्ति] अथान्यदपि भोजने अपेक्षितं सर्वमुपदिश्य व्यासस्मृतौ स्वाध्यायसंवादनम् भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् | इतिहासपुराणाभ्यां वेदं समुपबृम्हयेत् || इति चतुर्धकालसाध्यं स्वाध्यायमाह | एवमन्येऽपि स्मरन्ति भुक्त्वोपस्थाय चादित्यं पुराणानि सदा पठेत् इत्यादि | अत्र परिपूर्णज्ञानस्योपबृंहणनिरपेक्षस्याधिकारिविशेषस्य द्विषडष्टषडक्षरद्वयादिजप एव स्वाध्याय इत तत्र तत्र तद्विधिः | अत एव रहस्यान्माये वेदान्तरनिषेधेन द्विषट्कमात्रस्वाध्यायविधानं निर्व्यूढम् | व्यासस्मृतौ योगोऽपि आक्.एपलभ्यः यत् पुनरनन्तरं [पञ्चकाऽ ख घ] पञ्चमकालकृतमुक्तम् ततः संध्यामुपासीत इत्युपक्रम्य हुर्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा चान्नमभिष्टकम् | सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि || इत्यादि अत्र रात्रिभोजनवचनेन तदनन्तरं योगोऽपि दिवाभोजनानन्तरोक्तः स्वयमेवागछतीति तदनुक्तिः | तधाहि पूर्वं दिवाभोजनानन्तरमेवमाह##- हुगानुमन्त्रणं कुर्याच्छ्रद्धायामिति मन्त्रतः | तथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणीति हि || सर्वेषामेव योगानामात्मयोगः परः स्मृतः | योऽनेन [योगेन क ख च छ झ] विधिना कुर्यात् स याति पदमक्षयम् || इति | एवं च निगमयामास - इत्येतदखिलेनोक्तमहन्यहनि यन्मया | ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् || नास्तिक्यादथवालस्याद्ब्राह्मणो न करोति यः | स याति नरकान् घोरान् काकयोनौ च जायते || नान्यो विमक्तये पन्था मुक्त्वाश्रमविधिं सुखम् | तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठनः || इति | अत्र परमेष्ठि सर्वकर्मसमाराध्यो विष्णुरेव | विष्णोरेव सर्वकर्मसमाराध्यत्वम् भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | जज्ञैस्त्वभिज्यसे नित्यं सर्वभूतमयाच्युत | हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृत् || इत्यादिषु प्रसिद्धम् | अयं चारु परमेष्ठि विहितकर्मतोष्यत्वेनोच्यते | परमे वादे तिष्ठीति परमेष्ठि | स च तमसः परस्तात् तद्विष्णोः परमं पदम् इत्युक्ते शुद्धसत्त्वमये [वकुण्ठादि घ ङ् ज] वैकुण्ठसंज्ञके लोके वर्तमानः पुरुषोत्तम एव | एवं वैयासे धर्मशास्त्रे भगवतः पञ्चसु कालेषु भजनं भगवन्नित्यकर्मानुप्रवेशेनैव विहितमिति न कस्यचित् तत्परित्याग उपपद्यते | दक्षोक्ताअलाष्टकविभागोऽपि पाञ्चकालिककर्मानुगुणः यत्तु दक्षेणोक्तं कालाष्टकविभागेन दिनकृत्यः तदपि प्रकृतानुगुणमेव | प्रातरुत्थय कर्तव्यं यद्द्विजेन दिने दिने | तत् सर्वं संप्रवक्ष्यामि द्विजानामुपकारन्कम् || उदयास्तमयं यावन्न विप्रः क्ष्णिको भवेत् | नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः || स्वकं कर्म परित्यज्य यदन्यत् कुरुते द्विजः | अज्ञानादथवा लोभात् त्यागेन पतितो भवेत् || इति | नित्यनैमित्तिककर्मणां तदुपकारिकाम्यकर्मणां च यथाकालमनुष्ठानमविच्छेदेन कर्तव्यमिति प्रतिपाद्य दिवसस्याद्यभागेन कृत्यं तस्योपदिश्यते | द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा || षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् | भागेष्वेतेषु यत् कृत्यं तत् प्रक्ष्याम्यशेषतः || इति कालाष्टकविभागेन कृत्यविभागां सामान्यतः प्रस्तुत्य दक्षस्मऋतौ प्रधमद्वितीयकालकर्तव्यस्त्याभिगमनेऽन्तर्भावः उषःकाने त्न् संप्राप्ते शौचं कृत्वा यथार्थवत् | ततः स्नानं प्रकुर्वीतं दन्तधावनपूर्वकम् || इत्यादिना संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु | यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत् || इत्यन्तेन स्नानाचमनसंध्यावन्दनादीनि यथावत् प्रतिपाद्य- संध्याकर्मावसाने तु स्वयं होमो विधीयते | स्वयं होमे फलं यत्तु न तदन्येन जायते || ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विटपतिः | एतैरेव हुतं यत्तु तद्धुतं स्वयमेव हि || इति प्राभातिकं होमं चोक्त्वानन्तरमाह - देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणः [वीक्षणं छ ज] | देवकार्यस्य सर्वस्य पूर्वाह्णस्तु विशिष्यते || देवकार्याणि पूर्वाह्णे मनुष्याणां तु मध्यमे | पितॄणामपराह्णे तु कार्याण्येतानि यत्नतः || इति | अत्र प्रात्रोमानन्तरं देवकार्यविधानात् तत्कालचोदितं भगवदभिगमनमपि सामान्यत् उपदिष्टं भवति | यत्त्वनन्तरमुक्तम् - द्वितीये तु तथा भागे वेदाभ्यासो विधीयते | वेदस्वीकरणं पूर्वं वोचारोऽभ्यसनं जपः | तद्दाने चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधाः || इति, तदप्यनुगुणं | उक्तानि हि जयाख्यसंहितायां जपध्यानार्चनस्तोत्राणि प्रथमप्रहरपर्यन्तेऽभिगमने | उपादानं चानन्तरमेवाह - दक्षोक्ततृतीयकालकृत्यस्य उपादानेऽन्तर्भावः समित्पुष्पकुशादीनां स कालः समुदाहृतः | तृतीये तु तथा भागे पोष्यवर्गार्थसाधनम् || इति | इदं चोक्तं जयाख्यसंहितायाम् ततः पुष्पफलादीनाम् इत्यादिना | अत्र पोष्यवर्गार्थसाधनम् इत्येतत् प्रागुक्तन्यायेन भगवत्प्रीणनतयैवेति ग्राह्यम् | आह चात्र प्रातः स्नानं [स्नानदि क ख ग; स्नानादीन् च झ] प्रक्रम्य पूर्वमेव सर्वेषु कर्मसु भगवदनुसंधानम् - [ध्यायेत् क ख ग अ झ] ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु | ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः || इति [इति च घ] | असूत्रयच्च भगवान् शौनकः हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च इति | अत्र कर्मशब्देनानवच्छेदात् [दृष्टादृष्टसर्व क ख] दृष्टादृष्टार्थसर्वकर्मसंग्रंहः | अन्यदेवत्य[अन्यदैवत्य ज] कर्मण्यपि तदन्तरात्मभूतो हरिरनुसंधेय इत्येवकाराभिप्रायः | नित्यमित्यनेन काम्यत्वनैमित्तिकत्वशङ्काव्युदासः | स्वतः प्राप्तं कर्मकाले स्मरणं चकारेण संगृह्यते | एवं शास्त्रीयेषु सर्वेषु [सर्वेषु क ख ग झ पुस्तकेषु नास्ति] कर्मसु भगवदनुसंधानं नित्यमिति सिद्धम् | एतदेव रागप्राप्तेष्ववर्जनीयमिति जयाख्यसंहितायां नयमेषु पठ्यते- शयनासनयानादावसक्तश्चपि [असक्तश्चापि घ छ ज] भोजने | गृद्गतं न त्यजेद्ध्यानमानन्दफलदं हि यत् || इति | सर्वसंग्रहेण तूच्यते - आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः | इदमेकं सुनिष्पन्नं धेयो नरायणः सदा || इति | एतच्च नित्यात्वात् स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्च स्वतन्त्रप्रपत्तिशास्त्रार्थनिष्ठैरपि [शास्त्रनिष्ठैरपि क ख ग च ज झ] दुस्त्यजम् | उक्तं चैवं स्वयं प्रयोजनत्वं नारायणमुनिभिः _ वृत्तिः स्वामिनि दासस्य सरूपानुगुणा शुभा | भक्तिश्रद्धसमायुक्ता तत् समाराधनं विदुः || किं किं न साध्यं भगवदाराधनपरैर्नरैः | वैष्णवानां विशेषेण स्वयमेतत् प्रयोजनम् || इति | भगवदनुसंधानविच्छेदोऽपि हि पुरुषार्थहानित्वेन स्मर्यते - यनुमुहूर्तं क्षणं वासुदेवो न चिन्तयेत् | सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया || इति | पुरुषार्थहानिः कामक्रोधाद्यरीणामवकाशः अनात्मादिष्वात्मबुद्धिहेतुः अस्वाभाविकसुखदुःखकारणं चेत्यर्थः | एकस्मिन्नप्यतिक्रान्ते मुहूर्ते द्यानवर्जिते | दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् || इति | स्विन्नवृत्तीनामन्यपराणामपि - व्यापृतेनापि मनसा विष्णुः सेव्योऽन्तरान्तरा | मेधिबद्धो भ्राम्यमाणो घासग्रासं करोति गौः || इत्यादिभिर्यथावसरः क्षुच्छन्तिकरक्र्मसमाधिना तावन्मात्रप्रयोजनत्वेन भगवत्सेवनं स्मर्यते | तदिह सिद्धोपायस्य उपायं साधयतश्च भगवत्कैंकर्यमरोगस्य आरोग्यार्थिनश्च क्षीरास्वादवत् स्वयंप्रयोजनमेव | दक्षोक्तचतुर्थ पञ्चमकालकृत्यस्य इज्यायामन्तर्भावः यत्तु चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत् इतादिना स्नानभेदानप्युपदिश्य पञ्चमे तु तथा भागे संविभागो यथार्हतः | पितृदेवमनुष्याणां कीटाणां चोपदिश्यते || इत्यादीना- संविभागं ततः कृत्वा गृष्थः शेषभुग्भवेत् | भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् || दक्षोक्तषठसप्तमकालकृत्यस्य स्वाध्यायेऽन्तर्भावः | अष्टमकालोक्तलोकयात्रा तु न परमैकान्तिनाम् इत्यन्तेन संग्रहेण देवतार्चनं [देवार्चनादिकं छ ङ् छ ज] भोजनपर्यन्तमुक्तम् तत्रापि अवान्तरपर्वभेदेन द्विधा विभक्तोऽयं काल एव ज्याकालः इत्येकीकृत्य निर्दिश्यत इति न विरोधः | अत्र देवस.विभागशब्धनिर्दिष्टमर्थमुत्तरत्र देवतार्चनशब्देन विशेषतयामास- संध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् इति | एवम् इतिहासपुराणाभ्यां षष्थं सप्तममभ्यसेत् इत्युक्तं कालद्वयं स्वाध्यायकाल इत्येकीकृतम् | अत्र मात्रया [कालत्रयवैषम्यं क ख ग च] कालवैषम्यं मतभेदादुपपद्यते | अष्टमे लोकयात्रां तु बहिःसंध्यां ततः पुनः इत्युक्तलोकयात्राकालविभागस्तु लोकपराङ्मुखे भगवदेकान्तिनि नातीवाइएक्षित इति तदनुक्तिः | यथोक्तं पूर्वश्रवे [पूर्व (ग्रन्थे) श्रवे च] गुरोर्गुरौ संनिहिते विर्ट्तिः कार्या यथा गुरौ | [विद्यागुरुष्वनन्येष्वप्यन्या क ख ग ङ्] विद्यागुरुष्वनन्येषु नित्या वृत्तिः स्वयोनिषु || इति | उक्तं च ब्रह्मविद्भिः - अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् | अर्थकामपरा यूयं नारापणपरा वयम् || नास्ति संगतिरस्माकं युष्माकं च परस्परम् | वयं तु किंकरा विष्णोर्यूयमिन्द्रियकिंकराः || इति | अहेरिव गणाद्भितः इत्यादिषु च भिन्नशिलगुणपरिहार उपदिश्यते | संन्यासप्रकरणे समानशीलैः सहवासो न दोषाय इति कपिलानुशिष्टस्य कैमुत्येन गृहस्थादिष्वपि मोक्षार्थिषु त्यल्यप्रसरतात् | आमनन्ति च बह्वृत्तः- नेदंविदनिदंविदा समुद्दिऽऽएस्न सह भुञ्जीत न सधमादी [सधर्मा क ख ग च झ] स्यात् इति | तस्येदमुपबृंहणम् - आविद्यः [अवैद्यः क च] प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते | आविद्येन [अवैद्येन क च] न केनापि वैद्यः किंचित् समाचरेत् || इति | अहन्यहनि धर्मस्य योनिः साधुसमागमः | मोहजालस्य हेतुर्हि [योनिर्हि घ ङ् छ ज] धूर्तैरेव समागमः || इति | तथा- मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः | तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः || अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान् | ददाति ध्यायिनां नित्यमपवर्गप्रदो हरिः || वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः | न शौरिचिन्ताविमुखजनसंवासवैशसम् | [इत्यादिभिश्च घ ङ्] इत्यादिभिर्ब्रह्मविदां लोकनैरपेक्ष्यं सिद्धम् | अत एव हि लौकिकेश्वराभिगमनमप्यापद्विषयमिति पूर्वमेवोक्तम् | यत्तु पश्चादुक्तम् - दक्षस्मृतौ वेदाभ्यासस्य योगेनाविरोधः प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् | यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते || इति अत्र योगासमर्थस्य तच्छेषभूतः स्वाद्यायः समर्थस्य तु योग एवेति न समानकालदुभयविधायकशास्त्रद्वयविरोधः | विस्तरेण चाह योगमन्ते दक्षः | तत्र चैष सारः प्रोक्तः - सर्वोप्साधिविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् | एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तरः || इति | याज्ञवल्क्यश्च वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं ब्रह्मणि न्यसेत् इति | वृत्तिहीनं बाह्यवृत्तिरहितमित्यर्थः | अतः स्वाध्याययोगयोरेकैकस्मिन् प्रदोषादिकाले तदंशभेदेन क्रमात् प्रयोगेऽपि [प्रयोगभेदेऽपि क ख ग झ] न विरोधः | यत्रैकाग्रता तत्राविशेषात् इति शारीरकसमर्थितप्रकारेण एकाग्रतानुगुणकालान्तरेऽपि स्वगुणभूतस्वाध्यायादिनिरोधेनापि योगोऽनुष्ठातुं युक्तः | यामयामार्धविभागे स्वाध्यायादिषु नातिदूरपूर्वापरन्यूनाधिकनाडिकाविभागादयस्तु मतभेदतया निर्वाह्या इति | एवं स्मृत्यन्तराण्यपि संवादनीयानि [संपादनीयानि क ख ग च झ] | पञ्चकालधर्भावश्यक्तानिगमनम् अतः पञ्चसु कालेषु तैस्तैः कर्मभिर्भगवत्सेवनस्य नित्यत्वेन विधानात् व्यासदक्षाद्युक्तमर्यादया भगवदाज्ञानुपालनेऽपि नीरन्ध्रभगवदुपासनसिद्धेः अधिकृतशास्त्रोक्तप्रशस्ततमपूर्णशास्त्रार्थपरिग्रहोउचित्यस्य प्रागेव दर्शितत्वात् [भाष्यकारतदन्तेवासिप्रभृतिभिश्च प्रपत्त्येकनिष्ठैस्तदनुसारेण भगवद्भजनस्योक्तत्वात् तद्योग्यैश्चाद्य यावत् तदनुष्ठाय यथाशक्ति परिग्रहात् अनिपुणपरित्यागस्यानादरणीयत्वात् [अनिपुणपरित्यागस्यानादरणीयत्वात् क ख ग झ पुस्तकेषु न दृश्यते] यच्छीलः स्वामी तच्छीला प्रकृतिः इति न्यायेन नाहंकारान्न संरम्भान्नामर्षन्नार्थकारणात् | न [भेदवादात् क ख ग झ] हेतुवादाल्लोभाद्वा धर्मं [जह्यात् क ख च छ झ] जह्यां कथंचनः || इति वदता भगवता वसुदेवनन्दनेन स्वामिना तदासैः समशीलैर्भवितव्यत्वात् स्वामिसंप्रीननस्वरूपानुरूपवृत्तेश्च सर्वाभिमतत्वात् तत्प्रीणनस्य च नित्यानां मुक्तानामिव च मुमुक्षुभिः प्रत्यक्षेणावतन्तुमशक्यत्वात् श्रुतिः स्मृतिर्ममैवाज्ञा इति तदुक्त्यनुसारेण शास्त्रादेव तत्प्रीणननिश्चयात् येनास्य इत्यादिप्रतिपादितप्रकारेण तत्तत्संहिताभेदभिदुरेषु परमात्मसंप्रीणनप्रस्थानभेदेषु कांचिन्मर्यादामवल्म्ब्य स्वतन्त्रप्रपत्तिनिष्ठैरपि स्वाधिकारोपदेशाद्यनुरूपम् कुसीदमेके विहरन्ति सर्वे य [यच्छब्दः च कोशे नास्ति] आशीर्वदन्तो ददत्यत्र किंचित् | पर्यन्तलोकास्त्विह ते भवन्ति अनाशिषस्तु विजयायानन्ताय || यस्य सर्वे समारम्भा अनाशीर्बन्धनस्त्विह | त्यागे यस्य हुतं सर्वं स त्यागी स च पण्डितः || अथ भो [अयि भो क च झ] भगवन्तं याचेत न भो इत्याह आश्रयितव्यो भगवान् भवति न त्वेव याच्यः इति रहस्यान्मायादिचोदितप्रकारेण प्रयोजनान्तरप्रार्थनारहितैः स्वयंप्रयोजनत्वात् पञ्चस्वपि कालेष्वविच्छेदेन भगवत्संप्रीणनरूपशास्त्रीयकैंकर्यव्यापारेण यावन्न्यासविद्याख्ययागावभृथम् आगामिनिश्रेयसकालनिर्विशेषमबन्ध्यकालो यापनीय इति दिद्धम् | अयमत्र सारः - पाञ्चकालिकधर्मानुष्ठानप्रयोजनम् माङ्गल्यसूत्रवस्त्रादीन संरक्षति यथा वधुः | तथा प्रपन्नः शास्त्रीयपतिकैंकर्यपद्धतिम् || यद्वन्मङ्गलसूत्रादेस्त्यागे संरक्षणेऽपि वा | रक्षेन्निरोधाद्भोगाद्वा [निरोधैर्भोगैर्वा क ख; निरुन्ध्याद्भोगैर्वा च] पतिस्तद्वदिहापि नः || इति | कालं सर्वमिहाभ्युपेत्य भग्वत्कैंकर्यमादेशिकं तत्पर्वक्रमपञ्चके किमु वयं मान्ये विमन्येमहि | त्यक्त्वा वि.शतिपञ्चकं शतमिव प्राप्तुं मुधा मुह्यता- मस्माकं सदसद्विवेकिषु मतं हासास्पदं मा स्म भूत् || [एष श्लोकः क ख ग च झ पुस्तकेषु कालं सर्वम् इति श्लोकात् पूर्वं दृश्यते | उपरुन्धन् इति तेषु पाठः] अनुपुरमनुरुन्धन्नान्तरध्वान्तराशिं न च पुरत उदेता नास्तमेता च पश्चात् | स्वविषयनिजधर्मान् शुद्धसत्त्वान् स सत्त्वा-[सतत्त्वान् छ] नवतु भवतुषारादक्षरयोमसूर्यः || इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां नित्यानुष्ठानस्थापनाख्यः द्वितीयोऽधिकारः नित्यव्याख्यानाख्यः तृतीयोऽधिकारः [स पञ्चपरतत्त्वज्ञः पञ्चकालपरायणः | जितपञ्चेन्द्रियक्लेशः पञ्चभ्यो नागमद्भयम् || इत्ययं श्लोकः तृतीयाधिकारस्त्यादौ ङ् छ कोशयोः दृश्यते] अथोपक्रम्यते नित्यकर्तव्यक्रमसंक्रमः [संचयः क ख झ; सं(क्रमः)चयः च] | नाथयामुनपूऋनादिसंप्रदायसरित्यपथे || अभिगमनम् | सर्वकर्मसाधारणानि अङ्गानि अत्र यदुक्तं भगवद्यामुनाचार्यैः श्रीमद्गीतार्थसंग्रहे - ज्ञानी तु परमैकान्ती परायत्तात्मजीवनः | तत्संश्लेषवियोगैकसुखदुःखदेकधीः || भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः | लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः || निजकर्मादिभवत्यन्तं कुर्यात् प्रीत्यैव कारितः | उपायतां परित्यज्य न्यस्यद्देवे तु तामभीः || इति इदं तावत् आ प्रबोधात् [आ प्रभातात् क] आनिशान्तमनुष्ठीयमानेषु कर्मसु [सर्वेषु कर्मसु च] न विस्मर्तव्यम् | समयाचारनियमाध्यायश्रीवैष्णवधर्मशास्त्रादिकथितं परमैकान्तिनां विशेषकर्तव्यं च सर्वं यथावदधिगन्तव्यम् | सर्वेषु च कर्मारम्भेषु भगवच्चस्त्राद्युक्ततत्तन्मन्त्रः भगवानेव इत्याधिकं भाष्यकारनित्योक्तं च वाक्यं पठितव्यम् | अन्ते च सर्वं स्वनियाम्येत्यादिक्रमेण समन्त्रकं भगवति समर्पणीयम् | [न चतदखिलमुपासनाधिकार्यन्तरं क ख ग च झ] न चैतदखिलमपि उपासनोपायाधिकार्यन्तरमात्रविषयमिति भ्रमितव्यम् [मन्तव्यम् ख ग] तथा सति तत्सहपठितगुरुभजननिर्माल्यभक्षणनिषेधादेरपि तावन्मात्रविषयकत्वप्रसङ्गेनालेपकवादावतरप्रसङ्गात् | प्रपञ्चितं चैतत् पूर्वस्मिन्नधिकारे निक्षेपरक्षादिषु च | भाह्यमुहूर्तकर्तव्यानां उपक्रमः तत्र भाष्यकारोक्तनित्यानुष्ठाननिष्ठस्य ब्राह्ममुहूर्तादिप्राप्तौ यत् कर्तव्यं तत्तावत् तच्छिष्यप्रशि.यग्रन्थतनुमूलभूतसंहिताद्यनुसारेण संगृह्यते | पूर्वमेव यथाकालं विश्रान्ते निद्रां निर्विश्य प्राप्ते यामिन्याः पश्चिमे यामे सावधानेन निद्रा परित्याज्याः यामद्वयं शयानस्तु युक्तस्वप्नावबोधस्य इत्यादिषु स्मरणात् | येषु च योगग्रन्थेषु कृत्स्नायां रात्रौ निश्चिद्रयोगार्थं स्वप्नसमयसंभावितेन्द्रियक्षोभादिपरिहाराय च जागरः प्रतिपाद्यते ते[ स तु क ख ग झ] विश्रमनिरपेक्षयोगदशापन्नपूर्णारोग्यपुरुषविशेषविषया [विषयः क ख ग झ] | तत्तत्पुरुषशक्त्यनुसारेणैव हि नित्यनैमित्तिककाम्यविषयाणां सर्वेषां शास्त्राणां प्रवृत्तिः | अत एव हि धर्मसाधनेषु प्रधानतमं शरीरं प्रवृत्ते ब्रह्मा स्मृत्वायुषो वेदमुपवेदमथर्वणाम् इत्यथर्वणवेदोपवेदभूतायुर्वेदे ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णे निरूपयन् इत्यभिदाय अजीर्णे पुनरा संध्यागमात् स्वापो विधीयते | ईदृशसर्व[पुरुषश्चब्दः घ पुस्तक एव दृश्यते]पुरुषक्रोडीकारेण हि युक्तस्वप्नावबोधस्य इति गीतम् | तस्मात् सर्वेषु मानवेषु प्रायिकतयौत्सर्गिकौ निद्राप्रबोधकालौ यामद्वयं शयानः इत्यादिभिरुपदिश्यत् [उच्यत् इति घ] इति विषयव्यवस्था | ब्राह्ममुहूर्तप्रबोधः तत्फलं च एवं प्राप्तकालमपनीतनिद्रातमस्कत्वेन सत्त्वस्थः प्रसन्नधीश्च भवति | तेन पूरव्यामानुसंहितमन्तःकरणचित्रभित्तिगतं विचित्रशुभाश्रयविशिष्टं ध्येयं निद्रातमोऽन्तरितमपि तत्कालसमुन्मुषितसत्त्वसंधुक्षितसात्त्विकज्ञानरूपप्रदीपप्रकाशेन सम्यगवलोक्येत् [अवलोक्यते घ] | तत [स एव छ]एव चापररात्रयोगो निष्पद्यते य एष सात्त्वतादिषु ब्राह्ममुहूर्तात् पूर्वमेव कर्तव्यत्वेन प्रप~च्यते - समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः | कमण्डलुस्थितेनैव समाचम्य तु वारिणा | गुरून् देवं नमस्कृत्य ह्युपविश्याजिनासने || इत्यादिना | एतत्संहितानिष्ठानामेष योगकालनियमः [एष कालनियमः क ख ग झ] | निःशब्दे सर्वसुषुप्तिकाले च ऐकाग्र्यातिशयसंभावनया च तद्विधिः | तत्तत्पुरुषशक्त्याद्यनुसाराच्च तत्तत्कालविधेरविरोध इत्युक्तम् | अत्र- निद्रान्ताचमनादिकम् वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् | यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले || इद्यादिभिः मन्वाद्युपदिष्टसोदककमण्डलुधाराणादिकं भगवद्योगिनोऽप्यनपोदितमिति ज्ञापनाय कमण्डलुस्थितेनैव इत्युक्तम् | निद्रान्तनिमित्ततया [तोयाभाव क ख ग च झ] उत्तरकर्माङ्गतया चात्र तन्त्रेणाचमनम् | तुशब्देन स्वशास्त्रोक्तविशेषः [तोयाभाव क ख ग च झ] तोयालाभदशायां दक्षिणश्रवणस्पर्शश्च व्यज्यते | स्मरन्ति हि - सम्यगाचमनाशक्तावलाभे [शक्तावभावे क ख ग च झ] सलिलस्य च | पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् || इति | अत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानमपि साधारणम् | अजिनासने इति चेलाजिनकुशोत्तरम् इति गीते प्रधानांशग्रहनं | ततस्त्वभिमतेनैव [अभिमतेनैव तिष्ठेत् क ख ग च झ] त्वास्ते पद्मासनादिना इति जितासनगतत्वं विधीयते | अपररात्रयोगः यच्च समं कायशिरोग्रीवं धारयन्नचलं स्थिरम् इत्यादिना योग दशापेक्षितं गीतं तदपि सर्वमिह सविशेषमुपदिश्यते [समं कायेत्यारभ्य उपदिश्यते इति यावत् घ ङ् कोशयोरन्यत्र न दृश्यते]- समं कायशिरोग्रीवं संधाय सह वक्षसा | दृङ् नासाग्रगता कार्या विनिमीलितलक्षणा || जिह्वा तालुतलस्था च सान्तरे दशनावली | ईषदोष्ठपुटौ लग्नौ धार्यौ द्वौ बाहुकूर्परौ || ऊरुमध्यप्रदेशे तु हस्तौ नाभेरधो [नामावधः घ ङ् छ] न्यसेत् | अधरोत्तरयोगेन वामदक्षिणतः क्रमात् || अचलं योगपट्टेन त्वेवं सढार्य विग्रहम् | संकोच्यापानदेशात्तु ह्युपरिष्टात् तमेव हि || विकास्य वर्णहीनेन[विकास्यावर्णहार्णेन घ ङ् छ] हार्देनालक्ष्यमूर्तिना | विषयान्तर्निविष्टं तु क्रमाच्चित्तं समाहरेत् || कुर्याद्वै बुद्धिलीनं तु तां च कुर्यात् स्वगोचरे | समाधायात्मनात्मानं सह मन्त्रैस्ततः [मन्त्रैः स्वतः क झ] क्रमात् || इति | योगे तादात्म्यभावनस्य उपपत्तिः यत् पुनरिह योगदशायां तादात्म्यभावनमुपदिश्यते - ततो जाग्रत्पदस्थं चाप्यनिरुद्धं च मन्त्रपम् | परावर्त्य शतं बुद्द्या तदभिन्नेन चेतसा || तन्मन्त्रजपसामर्थ्यात् तादात्म्यस्थितिबन्धनात् | महिमा तु सविज्ञानस्तदीयस्तस्य जायते || अभ्यासाद्वत्सरान्ते तु तदद्वैतसमन्वितः | अथ प्रद्युम्नमन्त्रं तु परावर्त्य शतद्वयम् || योऽयं सोऽहमनेनैवाप्यद्वैतेन सदैव हि | एवमेव समभ्यासान्मतिमांश्च्छिन्नसंशयः || तत्प्रभावाच्च तेनैव तथा कालेन जायते | अनेन क्रमयोगेन जपध्यानान्वितेन तु || निखिलं [निखिलं वापि क ख झ] चाप्यधिकुर्यानमन्त्रबृन्दं पुरोदितम् | यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे || प्रलीनमूर्तिरमलोऽप्यनन्तस्तेजसां निधिः | चिदानन्दघनः शान्तोऽप्यनौपम्यो ह्यनाकुलः || समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् | ध्यातृध्येयाविभागेन यावत् तन्मयतां व्रजेत् || यदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् | अभ्यासाद्भगवद्योगी ब्रह्म संपद्यते तदा || इति अत्र न स्वरूपैक्यादिकं विवक्षितं शरीरशरीरिणोर्जीवात्मपरमात्मनोः शारीरकसमर्थितप्रकारेणाविरूद्धस्य अस्पृष्टलक्षणादोषस्य अशेषशास्त्राणुगुणस्य अनुकूलतर्कशालिनः तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः [तन्मयत्वेन साधवः च] [इत्याद्युपबृंहण घ] इत्युपबृंहणशतसुस्थितस्य अवस्थितेरिति काशकृत्ष्न्यः इति सूत्रितस्य पूर्वापरग्रन्थसंहितान्तरानुगुणस्य विशिष्टाद्वैतस्य विवक्षितत्वात् | ध्यातृध्येयाविभागेन इत्यादिना च निर्विकल्पकसमाध्यवस्थोच्यते | ब्रह्म संपद्यते तदा इति च परमसाम्यरूपफलप्रतिपादनम् | उक्तं च ब्रह्मैव भवति इत्यादिवाक्यान्यधिकृत्य भाष्यकारैः प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव यथा सेयं गौरिति इति | अन्यथा निरञ्जनः परमं साम्यमुपैति मम साधर्म्यमागताः इति श्रुतिस्मृतिभ्यां विरोधः | तथा च श्रुत्यन्तरम् यथोदकं शुद्धे शुद्धमासिकं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम इति | साम्ये च स एवेति व्यपदेशः श्रुतावेव दृश्यते वैष्णवं वामनमालभेत् स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयति इति | एवं च सति [एवं सति घ] महिमा तु सविज्ञानस्तदीयस्तस्य जायते इत्यादिप्राकरणिकग्रन्थसामञ्जस्यं भवति | शारीरके च फलपादे मुक्तस्याविर्भूतस्वरूपस्य गुणाष्टकविशिष्टस्य जगद्व्यापारव्यतिरिक्तं भोगमात्रसाम्यं च सूत्रितम्- जगद्व्यापारवर्जं प्रकर्णादसन्निहितत्वाच्च भोगमात्रसाम्यलिङ्गाच्च इति | अत उपायदशायां फलदशायं च विशिष्टैवयानुसंधानमेवात्र विवक्षितम् | एतेन लाञ्छनन्यासाद्यनन्तरं मुद्रां बद्ध्वा [स्मरेद्ध्यानं क ख ग घ झ] स्मरेद्देवं देवोऽहमिति भावयेत् इति समाराधनारम्भग्रण्थोऽपि [समाराधनग्रन्थोऽपि ङ् छ] निर्व्यूढः | बद्ध्वा मूलादिकां मुद्रां देवोऽहमिति भावयेत् [इति समाराधन इत्यारभ्य भावयेत् इत्यन्तं क ख ग च झ कोशेषु नास्ति] इत्यादिष्विवेतिकरणादिवशात् दृष्टिविधित्वं सुस्पष्टम् | अत एव हि तथाविधभावनयाप्यनन्तरं योग्यतापादनमात्रमुक्तम् - न्यासेन देवमन्त्राणां देवतादात्म्यभावनात् | अप्राकृटाङ्गकरणात् पूजामर्हति साधकः || इति | अन्यथा देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः | अप्राकृताङ्गकरणात् पूजामर्हति साधकः || इति | अन्यथा देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः | धूपावसानिकैर्भोगैर्ध्यात्वा नारायणं हृदि || योगस्वरूपे शाण्डिल्यस्मृतिः श्रीकृष्णमुनिश्च इति समनन्तरकर्तव्यं कथं संगच्छते | न हि स्वरूपैक्यभावनायां हृदि पुनर्नारायणध्यानमिति किंचित् स्यात् | न च शेषवृत्तौ प्रवर्तमानस्य स्वरूपैक्यभावनं जाघटीति | अतो दृष्टिविधिपक्षोऽत्र स्वीकार्यः | यद्वा गत्यन्तरे संभवति दृष्टिविधिविवक्षा च न युक्ता | अतस्तच्छरीरतया ताधधीन्यादिभिः सर्वानुवृत्तस्तद्व्यपदेशः | तदभिप्रायेण च स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकारः | योगे च भिन्नलक्षणयोः परमात्मप्रत्यगात्मनोः संबन्धानुसंधानमेवेति शाण्डिल्यस्मृतिवाक्येन स्थापितं पूर्वाधिकारे | उक्तं च विप्रकीर्णं सात्त्वते नित्यं संगृह्यान्ते श्रीकृष्णमुनिभिः स्वरूपैक्यादिबुद्धेरवैदिकत्वम्##- चेतनस्त्वेक एवेति मतिर्या केवला क्रिया | फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे | स एनं प्रीतः प्रीणाति ब्राह्मणस्यानुगे न ते || इति | योगमध्ये श्रान्तौ चिश्रमाभ्यनुज्ञा एवं यथावदनुष्ठितयोगस्य श्रान्तिसंभावनायां ब्राह्ममुहूर्तात् पुनर्विश्रमोऽनुज्ञाप्यते - ततः श्रमजयं कुर्यात् तक्त्वा ध्यानासने क्रमात् | समासीत् शयानश्च [समास्ते शयनस्थश्च घ; समप्ते शयनस्थश्च ङ् च छ] कालं रात्रिक्षयावधि || इति | ब्राह्ममुहूर्ते विशेषकर्तव्यानि हरिकीर्तनं च तत्र [अत्र क ख ग च झ] ब्राह्ममुहुर्तप्रभृतिविशेषकर्तव्ये [कर्तव्यं क झ] दिङमात्रं दर्शितम्- ब्राह्मे मुहूर्ते संप्राप्त उत्थाय शयनात्ततः | स्नात्वाब्यर्च्य जगन्नथं समिदाधानमाचरेत् || इत्यादिना | तदिदं संहितान्तरेषु विस्तृतम् | अत्र हरिर्हरिर्हरिरिति मुहुः संकीर्तयन् हरिमेव चिन्तयन्नुत्तिष्ठेत् | अत्र हरिशब्दसंकीर्तनं सप्तकृत्य इति श्रीमद्गृध्रसरोमुनिभिर्नित्यक्रमसंग्रहे[नित्यकर्मसंग्रहे क ख ग च झ] निबद्धम् | उत्तिष्ठातश्च हरिशब्दपूर्वकभगवदनुस्मरणं श्रीविष्णुधर्मे भगवता शौनकेनोक्तम् - उत्तिष्ठंश्चिन्तय हरिं ब्रजंश्चिन्तय केशवम् | भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् || इति | सर्वकर्मारम्भावसानेषु च हरिसंस्मरणं तेनैव स्वकीयसूत्रेऽप्युक्तम् हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च इति | स च निद्रानन्तरमनुस्मर्तव्यो हरिः नरो नारायणश्चैव हरिः कृष्णस्तथैव च इति धर्मदेवतात्मजत्वेन [धर्मदेवतात्मकत्वेन क झ] स्मर्यकाणेषु भगवदवतारेषु तिऋतीय इति संप्रदायः गजेन्द्रमोक्षकश्चैव- ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन् व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः | आबिर्भाणोओ रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ हस्तैः कौमोदकिमप्यवतु हरिरसावंहसां संहतेर्नः || इति | स खलु तमोमयग्राहग्रस्तस्वाश्रितगजेन्द्रमोचकः सुषुप्तिरूपस्वेतरदुर्निवारतमोग्राहग्रस्तजन्तुजालमोचकत्वेनानुसंधीयते | तमधिकृत्यैव पौराणिकोपजप्यं प्रातः स्मरामि इत्यादिऽऽलोकत्रयं प्रभाते सर्वैः पठ्यते | तत्फलश्रुतौ च हरिरित्येन भगवान्निर्दिष्टः- श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् | लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः || इति | [पापं तद्विकाररूपं क; पापं तद्विपाकरूपं ङ् च झ] सर्वमनिष्टं हरतीति [हरतीत्यत्र क ख ग ध च झ] हरिश्चब्दः | ब्रह्माणमिन्द्रं रुद्रं च यम वरुणमेव च | प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते || इत्यादिभिस्तस्यैव निखिलजगदुदयविभवलयलीलस्य निरङ्कुशस्वातन्त्र्यं चानुसंधेयम् | एवमुत्थाय निद्रान्ताचमनं मुख्यं दक्षिणश्रवणस्पर्शरूपं वा तदानीं शक्यं विधाय तस्मिन्नेव शयने समासीनः प्रतिसंहितयोगो योगशास्त्रोक्ते यतमानव्यतिरेकैकेन्द्रियवशीकाराख्ये क्रमभाविनि संज्ञाचतुष्टये द्वितीयावस्थारूपव्यतिरेकसंज्ञान्यायेन भूतभाविदशाविशेषपरामर्शाय कृताकृतप्रत्यवेक्ष्णाय च नियतेन्द्रियः समाहितोऽतिक्रान्तमनन्तं कालं निरर्थकमवलोक्य निर्वेदं परं गच्छेत् | निर्वेदप्रकाराश्च विविधास्तत्तत्संहिताविशेषेष्वनुसंधेयाः | तदिदं संगृहीतं नारायणमुनिभिः - ब्राह्मे मुहूर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् | उत्थाय ऽऽअयने तत्र समासीनः समाहितः | व्यर्थं वीक्ष्य गतं कालं निर्विद्याहमितः परम् || इति | विस्तरेणोद्धृतं चैतद्वङ्गिवंशेश्वरैः - ब्राह्मे मुहूर्ते संप्राप्ते निद्रां त्यक्त्वा प्रसन्नधिः | हरिर्हरिरिति व्याहरेद्वैष्णवः पुमान् || उत्थाय शयने तस्मिन्नासीनो नियतेन्द्रियः | त्रस्तनिर्विण्णहृदयो व्यर्थं वीक्ष्य गतं वयः || इत्यादिभिः दुस्तरां दुर्दशामेतां कधयिष्यामि कस्य वा इत्यन्तैरधिकविंशैः ऽऽलोकैः | यद्यपि मुमुक्षोः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन | तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् इति प्राथमिकगुरूपसत्तिकालम् पूर्वमेव तृणीकृतहिरण्यगर्भादिभोगः परिपूर्णो निर्वेदः संवृत्तः तथापि विषमविपाकविशेषगुणत्रयाश्रयभूतप्रकृतिसंबद्धतया संभावितविषयसङ्गादिदोषपरिहाराय तथाविध एव निर्वेदोऽनुवर्तनीयः | अगीयत चास्य नित्यानुवर्तनीयत्वममानित्वादिगुणगणमध्ये- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् इति | अतः सिद्धोपायस्यापि पराङ्कुशपरकालादीनामिव भगवदनुभवच्छेदकतया हेयतमरजस्तमोमयनिद्रादिप्रतिकूलवर्गप्रवाहानुवृत्तिदर्शनेन संसारवैराग्योपचर्यार्थम् अहरहस्तदुचितावसरेषु निर्वेदः कर्तव्य एव | सात्त्विकधृत्यवलम्बनम् एवं सति विवेकवोमोकादिसप्तकान्यतमभूतानवसादविरुद्धावसादवशा दुत्तरकैंकर्यप्रवृत्तेरनिष्पत्तिः स्यादिति तत्परिहारायानन्तरमुच्यते - इति निर्विद्य तदनु धृतिमालम्ब्य सात्त्विकीम् | विधृय चेमं निर्वेदं सर्वकार्यावसादकम् || इत्यादिना गतजलसेतुबन्धनाभिलाषतुल्यानुतापप्रशमनपूर्वकं सात्त्विकधृत्यवलम्बनात्मकागामिकालशक्यकैंकर्यनिश्चयः | सात्त्विकधृतिस्वरूपं चैवं [चेदं क ख ग ङ् च छ झ] भगवता गीतम् - धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी || इति | सात्त्विकधृतिप्रकारः स च निश्चयप्रकार एवं तत्कालोचितकर्तव्यविभागेन संगृहीतः - इत ऊर्ध्वमहं तावद्यावज्जिवं श्रियः श्रियः | पदयोरर्चनं कर्तुं यतमानः समाहितः || अभिगच्छन् हरिं प्रातः पश्चाद् द्रव्याणि चार्जयन् | अर्चयंश्च ततो देवं ततो मन्त्रान् जपन्नपि || द्यायन्नपि परं देवं कालेषूक्तेषु पञ्चसु | वर्तमानः सदा चैवं पाञ्चकालिकवर्त्मना || स्वार्जितैर्गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः | आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् || इति | अत्र इत ऊर्ध्वम् यावज्जिवम् सदा इत्यादयः शब्दाः कैंकर्यप्रारम्भदिवसे तावत् स्वरसवाहिनः | उत्तरोत्तरदिवसेष्वपि निरुपाधिककैंकर्योपचसिद्ध्यर्थे निर्वेदविषयतयानुवर्तमानानां भगवदासक्तिविरोधिनामान्तराणाम् अष्टादशचण्डालषड्वृषलादिशब्दव्यपदेश्यानां दोषविशेषाणां निःशेषनिवृत्तिलक्षणवैशिष्ट्यलाभार्थं प्राज्ञप्रज्ञापहारकप्रबलतर[प्रबलतर क ख ग च झ कोशेषु नास्ति]विषयेन्द्रियादिमूलसंभावितपाक्षिक[मूलभूतपाक्षिक घ ङ् छ]कैंकर्यविच्छेदपरिहारार्थं चेदंप्रथमं प्रवर्तमानेनैवं [इदंप्रथमप्रवर्तनेनैवं क ख ग च झ; इदं प्रथमं प्रवर्तमानेनैव तथैव घ] मनोरथानुवर्तनं कार्यमेव | अत एव नारायणमुनिभिरपि- भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् | एकान्तिभिरनुष्ठेयं नित्यं समभिदध्महे || इति नित्यकर्तव्यं प्रक्रम्य उक्तम् - व्यर्थं वीक्ष्य गतं कालं निर्विद्याहमितः परम् | आराधयेयं ध्यायेयं भजेयं पुरुषोत्तमम् || कीर्तयेयं नमस्येयं चिन्तयेयमनारतम् | व्रजेयं शरणं चेति निश्चित्य मनसा स्वयम् || पाञ्चकालिकधर्माणां स्वयंप्रयोजनत्वम् इति | अत्र [तत्र क च झ] गमयिष्यामि वासरान् इत्यनेन प्रकृतस्य परमैकान्तिनः प्रकारान्तरेण कालयापनमशक्यमिति अच्छिद्रकैंकर्यस्य स्वयंप्रयोजनत्वं व्यज्यते | तदेव हि कण्ठोक्तं नारायणमुनिभिः - किं किं न साध्यं भगवदाराधनपरैर्नरैः | वैष्णवानां विशेषेण स्वयमेतत् प्रयोजनम् || इति | यदत्र धर्मार्थचिन्तनं तदुपायभूतकायक्लेशचिन्तनं च स्मर्यते तत्र कैंकर्यरूपो धर्मः तच्छेषभूतोअऋथः [कैंकर्यरूपधर्मशेषभूतः घ ऽऽअ छ] तयोर्गुरुलघूप्सायविवेकार्थं कायक्लेशचिन्तनम् | तत्र न पूर्वाह्णमध्यंदिनापराह्णानफलान् कुर्यात् यथाशक्ति धर्मार्थकामेभ्यः तेषु च धर्मोत्तरः स्यात् इत्यादिभिर्गौतमाद्युक्त[कामोपाधिक क ख ग झ]कामौपायिकप्रवृत्त्यंशोऽपि धर्माविरुद्धो भूतेषु कामोऽस्ति भरतर्षभ इत्युक्तसत्संतानोत्पादनादिमात्रार्थशास्त्रीयकामविषयतया गृहस्थस्य कैंकर्यपक्षे निक्षिप्यते | निर्विघ्नकैंकर्यसिद्धिप्रार्थनम् [यदथं क ख ग झ] तदयमपवर्गाङ्कुरभूतस्वयंप्रयोजनस्वामिकैंकरियमहानन्दलाभः विध्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते इति कथं भविष्यतीति भयात् अनन्तरं प्रतिबन्धकनिवृत्तिः प्रार्थ्यते [कथ्यते क ख ग झ] - एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे | कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि || स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् | पूरयत्विति संप्रार्थ्य मन्त्रमेतमुदीरयेत् || इति | स च प्रार्थनामन्त्रः त्वययाराधनकामोऽयम् इत्यादिको यथान्यायं देशिकसकाशादधीत्यात्रान्वहं प्रयोक्तव्यः | एवमेव हि सर्वेषां मन्त्राणां समाधिः | विपर्यये हि नैष्फल्यं दृष्टादृष्टप्रत्यवायश्च तेषु तेषु शास्त्रेषु पठ्यते - यदृच्छया श्रुतो मन्त्रश्छन्नेनाथ च्छलेन वा | पत्रेक्षितो वा व्यर्थः स्यात् प्रत्युतानर्थदो भवेत् || इति | अस्यैव श्लोकस्यान्यत्र तम् जपेद्यद्यनर्थकृत् इति चतुर्थपादस्य पाठः | एवंविधनिर्विघ्नकैंकर्यसिद्धिरपि निर्विघ्नकैंकर्यसिद्धये गुरुपरम्पराप्रपत्तिपूर्वकहरिध्यानम् संकल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् | व्रतान्तमखिलं कालं सेचयत्यमृतेन तु || इति श्रीसात्त्वतादिकथितप्रकारेण भगवत्प्रासादेव भविष्यतीति तत्सिद्ध्यर्थमपि पर्थमं हरेरेव ध्यानमुच्यते - इति संप्रार्थ्य तत्सिद्ध्यै संस्मरेत् प्रथमं हरिम् इत्यादिना | अत्र गुरूपरम्पराप्रपत्तिपूर्वकमिदं द्यानं विवक्षिताम् गुरून् प्रपद्य प्रथमं तद्गुरूंश्च ततो हरिम् इति तस्मिन्नवसरे नित्यान्तरोक्तेः | उक्तं च श्रीसात्त्वते अपररात्रयोगारम्भे गुरून् देवं नमस्कृत्य ह्युपविश्याजिनासने इत्यादि | सर्वत्र शास्त्रीयकर्मारम्भे भगवत्पर्यन्तगुरुपङ्क्तिप्रदानं निश्रेयसाय भवति | उक्तं च रहस्याम्नायब्राह्मणे स चाचार्यवंशो ज्ञेयो भवति आचार्यामाणामसावस्वावित्या भगवत्तः इति | देवगुरुभक्तिरेव सर्वतन्त्त्वप्रकाशकारणमिति कठवल्ल्यां श्रूयते - यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ | तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः || इति | [उक्तं क ख ग ङ् च झ] स्मर्यते चापस्तम्बादिभिः देवमिवाचार्यमुपासीत इत्यादि | योगान्गतं ध्यानम् एवं मनोरथसिद्ध्यै गुरूपसत्तिपूर्वकं भगवन्तं प्रपद्य भगवच्छास्त्रतदुपबृंहणनित्यगद्यस्तोत्रादिषु विप्रकीर्णोक्तध्यानं यथावगमं समाहृत्यानुतिष्ठेत् | गुणोपसंहारपादोक्तन्यायेन ध्येयरूपादिषु साधारणमसाधारणं च सर्वं तत्तत्संहितादिविशेषानुसारेणावगन्तव्यम् | सप्रणवं व्यूहादिनामसंकीर्तनम् एवं परिपूर्णं भगवन्तमनुसंधाय ततो वासुदेवादिव्यूहनामचन्तुष्टयं केशवादिव्यूहान्तरमानामानि मत्स्यादिदशावतारनामानि अन्यान्यप्यधिगतानि पृथग्भूतानि स्तोत्रनिबद्धनि देव्यादिनामानि च प्रहर्षजनकेनोच्चैःशब्देन संकीर्तयेत् | तत्कालचिदितं समुचितं भगवन्मन्त्रं जपेत् | वेदाभ्यासं च [तत्कालचोदितं भगवन्मन्त्रं वेदाभ्यासं च क; कालोचितं समिदितं भगवन्मन्त्रजपवेदाभ्यासं च ख ग; तत्कालचोदितं समुचितभगवन्मन्त्रजपं वेदाभ्यासं च घ च झ; तत्काले चोदितं ङ् छ] यथाबलमाचरेत् | तत्र वासुदेवादिकल्किपर्यन्तसंकीर्तनं प्रणवपूर्वकमन्त्रात्मकं पारमेश्वरे प्रोक्तम् - संप्रबुद्धः प्रभाते तु उत्थाय शयने स्थितः | नाम्नां संकीर्तनं कुर्यात् षोडशानां प्रयत्नतः || ओं नमो वासुदेवाय नमः संकर्षणाय ते | प्रद्युम्नाय नमस्तेऽस्तु अनिरुद्धाय ते नमः || क्रमशः केशवादीनां यावद्दामोदरं द्विज [द्विजः क ख ग च झ] | नमो नमः केशवाय नमो नारायणाय च || माधवाय नमश्चैव गोविन्दाय नमस्ततः | विष्णवेऽथ नमस्कुर्यान्नमस्ते मधुसूदनः || नमस्त्रिविक्रमायाथ वामनाय नमस्ततः | श्रीधराय नमश्चाथ हृषीकेशाय ते नमः || नमस्ते पद्मनाभाय नमो दामोदराय च | दिव्यानामवताराणां दशानामथ कीर्तनम् || एकशृङ्गादिकानां तु विहितं क्रमशः प्रभोः | नमस्ते मीनरूपाय कमठाय नमस्ततः || नमोऽस्त्वादिवराहाय नारसिंहाय ते नमः | नमो वामनरूपाय नमो रामत्रयाय च || कुठारज्याहलास्त्राय नमः कृष्णाय वेधसे | कल्किन् विष्णो नमस्तेऽस्तु सर्वं सप्रणवं द्विज || यथास्थितक्रमेणैव भेदांस्त्वेतान् [भेदास्त्वेते ङ् छ] हरेर्विभोः | नमस्कुर्यात् प्रभाते तु योगान्ते तु दिनक्षये || शब्देनोच्चतरेणैव संहृष्टिजनकेन तु | स्तोत्राणि चाथ मन्त्राणि [मन्त्राणि इति नपुंसकान्तत्वेनैव सर्वेषु कोशेषु दृश्यते] उदीर्यान्यानि वै ततः || इति | एवं च संगृहीतं वङ्गिवंशेश्वरैः - चिकीर्षनीप्सितं कर्म तन्नामान्यनुकीर्तयेत् | चतुर्भिर्वासुदेवादैर्नामभिः सह संयतः || जपेद् द्वादशनामानि केशवादीनि चादरात् | दशावतारनामानि मत्स्यकूर्मादिकान्यपि | जपन्नुत्थाय शयनादर्चयिष्यन् सदा हरिम् || इति | संध्यापूर्व्कालकर्तव्यक्रमः एवमुच्चैस्तरेण [उच्चैःस्वरेण च] शृण्वतामपि सकलदुरितहारिणा [दुष्कृतहारिणा घ] हरिसंकीर्तनेन संहृष्टमानसः संध्यायामासन्नायां संधातृत्वेन सर्वेषां संध्येति परिकीर्तितं भगवन्तमुपासितुं जिगमिषुः [हरिं ब्रवम्स्तल्पदुत्थाय क च झ] हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय भुवि विन्यसेत् | नमः क्षितिधरायोक्त्वा वामं पादं महामते || इति पारमेश्वरादिपठितेन नमःपूर्वेण क्षितिधरलिङ्गेन मन्त्रेण महावराहं क्षितिधरमनुध्यायन् वामपादं भूमौ विन्यस्येत् | ततो भूधरमन्त्रेण वामपादं भुवि इत्यपि स एव मन्त्र उच्यते | तत्र क्षितिधरणसाम्यात् कूर्मादिरूपान्तरशङ्कादासाय श्रीमद्वाराहमन्त्रेण न्यस्येद्वामपदं भुवि इति विशेषशब्देन व्याचख्युः | महावराहमहिप्या भुवः प्रपदनं चात्र महाभारतादिषु समन्त्रकमुपदिश्यते नमोऽस्तु प्रियदत्तायै तुभ्यं देवि वसुंधरे इति | पृथिव्याः प्रियदत्तेति कीर्तनं च विष्णोः ब्रह्मण्यदेवेति कीर्तनवत् अनवसादहेतुत्वेन स्मर्यते - पृठिव्यां प्रियदत्तेति गायन् सर्वंसहेति वै | विष्णुऽम् ब्रह्मण्यदेवेति [किर्तनवत् इत्यारभ्य ब्रह्मण्यदेवेति इति यावत् क ख ग झ कोशेषु नास्ति] कीर्तयन्नावसीदति || इति | ततः पदक्रमान् कुर्वन् विष्णुक्रमणमन्त्रेण पादेन्द्रियाधिदैवतं त्रिविक्रमं विष्णु ध्यायेत् | क्रान्ते विष्णु बले हरिम् इति पदविक्षेपे विष्णोरनुध्येयतोक्तेः तदनुसंधानस्य च तत्तदुचितशास्त्रीयप्रकाशकसापेक्षत्वात् | इति संध्यापूर्वकालकर्तव्यक्रमः | स्नानाय निर्गमनं देशवध्यानं च ततः स्नानीयदर्भतिलवस्त्रादिकं दृष्टादृष्टार्थं स्नानोपकरणं सर्वं समाहृत्य तमस्तिरोहितदुष्टजन्तुपलायनार्थं निर्गममार्गं सञ्चालयेत् | यथोक्तं पारमेश्वरे बहिर्निर्गममार्गं तु संचाल्य इत्यादि | ततो गृहान्निर्गच्छन् केशवमनुध्यायेत् व्रजंश्चिन्तय केशवम् इति स्मरणात् | केशशब्देन अंशवो ये प्रकाशन्ते यदादित्यगजं तेजः इत्याद्युक्तांशव उच्यन्ते तद्व्त्त्वात् केशवः | गच्छतो मार्गादिप्रकाशनार्थं दिङ्मोहाद्यान्तरतमोनिरासार्थम् क इति ब्रह्मणो नाम् ईशोऽहं सर्वदेहिनाम् | आवां तवाङ्गे संभूतौ तस्मात् देशवनामवान् || इति ब्रह्मरुद्रोपलक्षितविश्वसृष्टिरक्षाहेतुत्वात् केशिवधोपलक्षितसर्वदुष्टदमनस्वभावत्वाच्च असहायदशासाहाययार्थं च [च इति क ख ग कोशेषु नास्ति] तदा तच्चिन्तनम् | विण्मूत्रविसर्तजन्ं शौछविधिश्च ततः स्वाश्रमादिभ्यो बहिः नैऋत्यां दिशि द्वेत्रेषुपातप्रमितां भुवमतिक्रम्य शुद्धदेशे निक्षिप्तस्नानोपकरणो यथोक्तनियमैर्विण्मूत्रविसर्जनं कृत्वा स्ववर्णाश्रमावस्थाद्यनुगुणादृष्तार्थमृत्संख्यावर्णपरिमाणादिनिय मवद्गन्वलेपक्षयकरम् अर्शःपीडादिरहितं शौचं कुर्यात् | अत्र मूत्रपुरीषयोरेकस्य प्रवृत्तौ तस्यैव शुद्धिः | क्रमेणोभयप्रवृत्तौ यथाक्रमम् | युगपत्प्रवृत्तौ पुरीषशुद्धिः प्रथममिति निषकर्षः [निष्कर्षकाः घ ङ् छ] - तत्र पाद्मे [तत्रैव पात्मे क ख ग च झ] उपवीतं कर्णदेशे विद्याय च तृणादिना इत्यादिना विण्मूत्रविसर्जनप्रकारमुक्त्वा [अनन्तरमेव क च झ] अनन्तरमेवं शौचविधिरुक्तः - दक्षिणेतरहस्तेन गृहीत्वा मेहनं ततः | दक्षिणे मृत्तिकां हस्ते समुत्थाय जलाशयम् || प्रागुदीच्यामुदीच्यां वा गत्वा शौचं समाचरेत् | मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् || अन्तरा चान्तरा वामं करं प्रक्षाल्य वारिभिः | तन्मात्राभिस्तदन्ते द्वौ करौ द्वादशसंख्यया || संशोध्य च करौ जङ्घे कटिं चोरू च वारिभिः | प्रत्येकं मृत्तिकामात्राचतुष्केण विशोधयेत् || इति | पितामहस्तु सनत्कुमाराय एवमाह - ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत् | उदीचीं प्रागुदीचीं वा शौचाचारक्षमां दिशम् || यत्रोदकं प्रभूतं तु तद्गत्वा शौचमाचरेत् || इति | स्मरन्ति च देशादिभिन्नं शौचम् - देशं कालं [तथा ज्ञानं क ख च] तथात्मानं द्रव्यं द्रव्यप्रयोजनम् | उपपत्तिमवस्थां च ज्ञात्वा शौचं समाचरेत् || इति | दिवसादिभेदेनापि शौचतारतम्यं स्मर्यते - अह्नि यच्छौचमुद्दिष्टं निश्यर्धं तु ततो भवेत् | पथि पादस्ततः प्रोक्तो यथाशक्त्यातुरस्य तु || इति | पारमेश्वरे तु प्रावृडादिकालभेदेनापि मृत्संख्याभेदादिकमुक्तम्- अस्पृष्टतीर्थः [शौचाद्यं घ ङ् छ; शौचार्थं क ख ग झ] | गन्धलेपक्सयकरं शौचं कुर्यादतन्द्रितः || तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः | पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुधये || मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् | अर्थप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता || द्वितीया च तृतीया च तदर्घं [तदर्धा ख ग घ ङ् छ] परिकीर्तिता | बिडालापदमात्रं तु तदूर्ध्वं परिकीर्तिता || पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः | दश वामकरे देयाः सप्त तूभयहस्तयोः || पादाभ्यां तिल्सृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः | नियोजयेत्ततो विप्रः [विप्र क ख] कट्यां वै सप्त मृत्तिकाः || स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये | भक्तानां शोत्रियाणां च वर्षास्वेवं निरूपितम् || प्रावृट्सुक्तासु वै तस्मादेकमृद्व्यापनोदनम् | शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः || [एकस्मात् क ख ग च झ] एतस्मादपि चैकैका परिलुप्या [परिपाल्या घ कोशादन्यत्र] तु मृत्तिका | हेमन्तशिशिरे विप्रैः [विप्र घ ङ् छ] शोत्रियैः संयमस्थितैः || पथि शौचं प्रकर्तव्यं देशकालानुरूपतः | गन्धलेपमपास्यैवं [अपास्यैव क ख ग च झ] मनःशुद्ध्या विशुध्यति || विहिताः पादशौचे तु बिडालपदसंमिताः | मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात् ततः || वर्णानां शुद्रनिष्ठानां कटिशौचे तथैव हि | सप्त सप्त उभाभ्यां तु कराभ्यां त्रितयं पुनः || सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् | अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तमः || चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् | बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः || एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् | पाणिना क्षालितेनैव पुनराचामयेद्बुधः || इति | आचमनं दन्तधावनं च आचमनप्रकाराश्च बहुधा धर्मशास्त्रेषु भगवच्छस्त्रेषु च प्रतिपादिताः | तत्र स्वसूत्रोक्तमन्यद्वा यथाधिगममाचमनं [यथाशक्त्यधिगमं छ ज] कुर्यात् | आचमनोक्त्यनन्तरं च पारमेश्वरे दन्तधावनमुखशोधनप्रकार उक्तः - एव प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः | प्राङ्मुखोदङ्मुखो वापि उपविश्यासने ततः || अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् | प्रातर्हृत्वा च मृद्वग्रं कषायकटुतिक्तकम् || भक्षयेद्दन्तकाष्ठं च दन्तमांसान्यबाधायन् | द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् || पयोभिः सह तर्जन्या ब्रह्मन् द्वादशसंख्यया | काष्ठलाभे तु रोगे वा कर्तव्यं दन्तधावनम् || षोडशाङ्गुलदीर्धैष्तु वक्रग्रन्थिविवर्जितैः | हेमादिनिर्मितैर्वापि कुशदर्भादिभिस्तथा || जिह्वानिर्लेखनं चैव गण्डुषमुखधावनम् | कुर्यादाचमनं विप्रः[विप्र घ] शुचिना [शुद्धेन घ ङ् छ] सलिलेन च || इति | अत्र अर्कादिभिरित्युक्तं तत्रैव विवृतम् - अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् | शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् || आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम् | अन्यानि च पवित्राणि तेषु संपन्नमाहरेत् || इति | अत्राभक्षणीयस्यापि काष्ठस्य भक्षणोक्तिः भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था | पाद्मेऽप्येवं दन्तधावनमुक्तम्- आचम्य प्राङ्मुखो भूत्वा दन्तधावनमाचरेत् | न्यग्रोधोदुम्बराश्वत्थप्लक्षाम्रार्जुनधातकी || पलाशवेणुखदिरशमीदारूणि धावने | तन्दानामुदितान्येकादश चाम्भोरुहासन || दन्तधावनकाष्ठं च द्वादशाङ्गुलमायतम् | ब्राह्मणक्षत्रियविशां क्रमेणैतदुदाहृतम् || इति | अत्र [सर्वत्र प्रतिषिद्धानां घ ङ् छ] सर्वप्रतिषिद्धानां वर्जनं [सर्वत्र विहितानां घ ङ् छ] सर्वविहितानामुपादानं च | द्वचिद्विहितानां द्वचिच्च प्रतिषिद्धनां गत्यभावे ग्रहणमिति निष्कर्षः | एवं सर्वत्र भाव्यम् | यथोक्तलक्षणं च दन्तकाष्ठं समन्त्रकं गृहीत्वा आयुर्बलम् इत्यादिस्मार्तमन्त्रपूर्वकं प्रादैषिण्येन प्रथममधरतो दन्तधावनं कुर्यात् | काष्ठालाभादिसशासु तत्ततरुपर्णैस्तृणैर्वा तेषामप्यभावे द्वादशगण्डुषैर्मुखशुद्धिः | उक्तं चैवं नारायणमुनिभिः- तीर्थं संशोध्य संक्षाल्य पादावाचम्य वाग्यतः | तृणैर्वा शास्त्रसंसिद्धैर्वर्टार्कखदिरादिभिः | दन्तान् संशोध्य निर्लिख्य जिह्वां गण्डुषयेन्मुहुः || इति | स्मरन्ति च- अलाभे दन्त्काष्ठानां प्रतिषिद्धदिनेष्वपि | अपां द्वादशगण्डुषैर्मुखशुद्धिर्भविष्यति || इति | अत्र प्रतिपत्पर्वषष्ठीषु चतुर्दश्यष्टमीषु च | दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् || अष्टम्यां च चगुर्श्यां पञ्चदश्यां त्रिजन्मसु | तैलं मांसं व्ययायं च दन्तकाष्ठं च वर्जयेत् || इत्यादिभिः प्रतिषिद्धदिनानि ग्राह्याणि | दन्तशुद्ध्यनन्तरं दन्तकाष्ठं क्षालयित्वा भङ्क्त्वा शुद्धस्थले प्रक्षिपेत् | स्नार्हतीर्थम् तत्र यच्छुद्धेः पुर्वं जलाशयगमनमुक्तं तत्र भागवतं भागवताश्रितं च तीर्थं विवक्षितं | यथाहुः- तीर्थं भागवतं शुद्धमुपगच्छेन्मनोहरम् इति | ततस्तीर्थं समाश्रित्य शुद्धं भागवताश्रितम् इति च | स्मरन्ति च- जलं शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः | विष्णुगङ्गासमं तीर्थं महापातकनाशनम् || भवद्विधा भागवतीस्तीर्थभूताः स्वयं प्रभो [विभो घ] | तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता || ये भजन्ति जगद्योनिं वासुदेवमनीश्वरम् | न तेभ्यो विद्यते तीर्थमधिकं राजसत्तम् || यत्र भागवताः स्नानं कुर्वन्ति विमलाशयाः | तत्तिर्थमधिकं विद्धि सर्वपापप्रणाशनम् || इति | स्नानविधिः तत्र द्रष्टव्यम् एवं गृहीतस्नानोपकरणस्तीर्थमासाद्य मुखशोधनपर्यन्तं कृत्वा वक्ष्यमाणक्रमेण तीर्थावगाहनादिपूर्वकं सर्वक्रियामूलभूतं स्नानमाचरेत् | प्रातःस्नानस्य नित्यत्वं प्रभावश्च तत्र तत्र [अत्र घ; तत्र तत्र क ख ग ङ् च झ] वर्णभेदेन स्नाननियमं स्मरन्ति पितामहादयः - अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् | मन्त्रवत् प्रोक्षणं चापि द्विजातीनां विशिष्यते || इति | तत्र शक्तस्य वारुणमेव स्नानम् | तदशक्तस्य तु- गौणस्नानानि न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि | न चान्यवस्त्रमाच्छाद्य नाविज्ञाते जलाशये || इत्यादिभिस्तत्प्रतिषेधात् स्नानान्तराणि भवन्ति | तेषु च वारुणानन्तरमाकण्ठस्नानम् अशक्तावशिरस्कं वा इति स्मराणात् | तत्राप्यशक्तस्य [असमर्थस्य घ] कापिलम् | तस्मिन्नप्यशक्तस्य तत्तच्छास्त्रोदितेषु पार्थिवाग्नेयवायव्यदिव्य[पार्थिववायव्यमान्त्र क झ] मान्त्रमानसात्मध्यानपञ्चाङ्गपुरुषान्तरकृतस्पर्शपूर्वका[स्पृ ष्टिपूर्व्व्क घ ङ् छ]वगानरूपेषु स्नानान्तरेषु तत्कालसंभावितम् | तत्रापि स्वशक्यं कुर्यात् | आह चैवं क्रतुः - प्राक्छौचं स्नानमादेयं ब्राह्मं वा स्नानमिष्यते | वृद्धातुराणामुष्णाद्भिर्योगाङ्गैर्वा यमादिभिः || इति | अत्र यधाधिकारमिति विवक्षा | एवं चोक्तं पारमेश्वरे - विना विविधसंपर्करिः पञ्चाङ्गं स्नानमाचरेत् | मुखं करद्वयोपेतं पादौ कटितटावधि | स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि || इति | शीतोदकस्नानासमर्थस्य उष्णोदकस्नानम् | तच्चनुपहतस्याप्रतिषिद्धेषु दिवसेष्वेव | एवं शक्त्याद्यनुगुणं स्नानं कुर्यात् | बलानुरूपं च स्नानं प्रत्येकं समुदितं वा संजगृहुः - दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः | एतैः समस्तैर्यस्तैर्वा कृतशुद्धिर्यथाबलम् || इति | अन्यथा त्वकर्मण्यो भवति स्नामुलाः क्रियाः सर्वाः इति विधानात् | अत्रिश्च स्नानजपहोमदानानां नित्यत्वमाह - अस्नाताशी मलं भुङ्क्ते अजपः पूयशोणितम् | अहुताग्निः कृमिं भुङ्क्ते अदाता कीटमश्नुते || इति | संध्योपासनम् अर्घ्यदानं च एवं स्नातः कृतोर्धपुण्ड्रः स्नानाङ्गं भगवदात्मकदेवर्षिपितृतर्पणं कृत्वा आचम्य मन्त्रप्रोक्षणमन्त्राचमनपुनःप्रोक्षणस्वात्मपरिषेचनानि स्वसूत्रसंहितोक्तप्रकारेण कृत्वा [कृत्वा इति पदं घ कोशादन्यत्र न दृश्यते] गायत्र्याभिमन्त्रितजलमादित्यान्तःस्थिताय परमात्मनेऽर्घ्यरूपं दद्यात् | अत्र जलाञ्जलिप्रक्षेपस्त्रिरिति सनत्कुमाराय पितामहः प्राह - उभाभ्यां तोयमादाय गस्ताभ्यां सुसमाहितः | गायत्र्या चाभिमन्व्यापस्तारव्याहृतिपूर्वया | रवेरभिमुखस्तिष्ठन्नुर्ध्वं त्रिः संध्ययोः क्षिपेत् || इति | ततो वज्रीभूततज्जलनिहतमन्देहाख्यरक्षोनिरसनपाप्मावधूननार्थं प्रदक्षिणं प्रक्रम्य [परिक्रम्य क च झ] मार्गशीर्षादिमासेशान् केशवादीन् [देशवादीन् इति पदं घ कोश एव विद्यते] गायत्रीमावाह्य अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरां वा [अष्टोत्तर्सहस्रमष्टोत्तरशतं गायत्रीं ख; अष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीं ग; अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरं वा गायत्रीं घ; अष्टोत्तरसहस्रमष्टोत्तरशतं वा यथाशक्ति गायत्रीं इति निक्षेपचिन्तामणौ] गायरीं जपेत् | न चङ्क्रमन्न च हसन्न पार्श्वमवलोकयन् | न पदा पादमाक्रम्य न चैव हि तथा करौ || इत्यादयश्च जपकालनियमाः | अष्टाक्षरजपः मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः | मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत् || तेषां तु पावनायाहं नित्यमेव हुधिष्ठिर | उभे संध्येऽधिष्ठामि ह्यस्कन्नं तद् व्रतं मम || तस्मादष्टाक्षरं मन्त्रं [अत्र च मन्त्रशब्दः सर्वेषु कोशेषु च नपुंसकान्तत्वेन दृश्यते] मद्भक्तैर्वीतकल्मशैः | संध्याकालेषु तप्तव्यं सततं चात्मशुद्धये || इति श्रीवष्णवधर्मशास्त्रोक्तशीमदष्टावक्षरजपोऽपि यथाशक्ति संध्यायामवसरे कार्यः [सढ्यायामेव कार्यः इति च कोशे पाठान्तरतया निर्दिष्टम्] प्राणायामेन शत्रकृत्वः प्रणवव्याहृतिसंभेदविशेषेण दशकृत्वो गायत्रीजपं सहस्रतुल्यं बोधायनादयः स्मरन्ति च फलतारत्म्यं स्मर्यते | तत्रैषा काष्ठा- अनन्तं विष्णुसंनिधौ इति | गणनायां च कराक्षसूत्रयोर्यथाशक्ति विकल्पतः करणत्वम् | उक्तं च जयाख्यसंहितायाम् जपं तु द्विविधं कुर्यादक्षसूत्रकरार्पितम् इति | अक्षसूत्रार्पितं करार्पिर्तं वेत्यर्थः | तदेव विशेषितं श्रीसात्त्वते स्फाटिकेनाक्षसूत्रेण स्वकैर्वा करपर्वभिः इति | अत्र स्फाटिकेनेत्यक्षमालावर्गोदाहरणम् शास्त्रान्त्रेषु पद्माक्षमालादीनामाधिक्यस्मरणात् | फलविशेषार्थं तु मणिमुक्तामयाद्यक्षमालाभेदाः | प्रतिष्ठाविशेषादि नियमाश्च तत्र तत्र प्रपञ्च्यन्ते | करेऽपि शङ्खपद्ममुद्रादिभेदाश्च [शङ्खपद्ममुद्राश्च ङ् छ] | तत्रैष सारः - कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु | अनामिकान्तं देवेश [देवेशि घ ङ् छ] जपेत् कोटिसहस्रकम् || इति | बोधायनीये तु श्रीमदष्टाक्षरविधावेवमुक्तम् - क्रियायागाद् दशगुणो जपयज्ञः प्रकीर्तितः | उच्चाच्छतगुणो ज्ञेय उपांशुश्चेत् स्मृतस्तदा | उपांशोर्मानसः प्रोक्तः सहस्रगुणतोऽधिकः || इति | अन्यदपि तत्रोक्तम् जपमध्ये गुरुर्वापि वैष्णवो यः समागतः | संभाषणादिपूजां तु तस्य कृत्वानुमान्य च | अनुश्राव्य ततः कृत्वा जपशेषं समाहितः || सर्वस्य प्रभवो यस्माद्विष्णुपादाश्रया नराः | तन्मूलतः क्रियाः सर्वाः सफलास्तु भवन्ति हि || इति | नारदीये श्रीमदष्टाक्षरब्रह्मविद्यायाम् - सर्वः सप्रणवो जप्यो जपादप्रणवादपि | सहस्र इति विज्ञेयः प्रणवो ह्यक्षरं परम् || असंख्याताच्च संख्यातः सहस्रगुण उच्यते | संख्यातादपि साहस्रं सोर्ध्वपुण्ड्रतनोर्जपः || इत्युक्तम् | एवम् विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः | उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः | उच्चैर्जपादुपांशुः स्याद्विशिष्टो दशभिर्गुणैः | जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः || इत्यादिकमपि दृअष्टव्यम् | सूर्योपस्थानम् एवमा सूर्योदयात् पूर्वोत्तराशाभिमुखस्त्वपरोत्तरदिङ्मुखः इत्यादिस्मृत्यनुसारेण प्राङ्मुखः प्रागुदङ्मुखो वा तिष्ठन् गायत्रीमावर्त्य पूर्ववत् कृतप्राणायामत्रयः संध्योपस्थानसंकल्पपूर्वकम् उत्तमे शिखरे इति मन्त्रेण गायत्रीमनुज्ञाप्य स्वसूत्रोक्तैर्मन्त्रैरादित्यमण्डलान्तःस्थितं भगवन्तमुपस्थाय सप्रदक्षिणं भगवदात्मकसंध्यादिपञ्चकनमस्कारं कृत्वा स यश्चायं पुरुषे | यश्चासावादित्ये | स एकः इत्यधीतं हृदयान्तःस्थितं परमात्मानमभिवाद्य प्रणम्य [दिगादिनमस्कारमपि पूर्वपूर्वोपदेश क ख ग च झ] दिगादिनमस्कारणामपि स्वपूर्वपूर्वोपदेशानुष्ठानपारंपर्यमस्ति चेत् तत्रापि भगवदात्मकध्यानपूर्वकं प्रणमेत् | एवं तु उपस्थानप्रकारं पितामहः सनत्कुमारायाह- एताभिः प्राञ्जलिर्नित्यं विस्पष्टोदितमण्डलम् | सहस्ररश्मिं भर्गं [भगवन्तं क ख ग] तमुपतिष्ठेद्दिवाकरम् || ततस्तस्मै नमस्कृत्वा संध्यायाः पञ्च देवताः | प्रदक्षिणनमस्कारैर्दिशश्चैवोपतिष्ठते | परमात्मानमात्मानं भावयित्वा द्विजोत्तमः [द्विजोत्तम ख ग घ] || इति | आधारशक्त्यादितर्पणम् तत आधारशक्त्यादिपारिषदान्तान् देवर्षिपितॄंश्च भगवदात्मकान् ध्यात्वा प्रणवपूर्वकैस्तत्तनामभिः संतर्प्य शुचौ [देशे क ख ग] स्थले स्नानवस्त्रं निष्पीड्य आचम्य आवाहिततीर्थं मन्त्रांश्च स्वात्मनि समाहरेत् | तत्र यद्यप्यार्षी वष्णवी प्राजापत्येति त्रिविधाः संध्योपास्तिभेदाः [आत्मनि क च झ] तत्तत्संहितासूच्यन्ते तथापि तासां संहितानां लुप्तप्रायत्वेन तत्तत्प्रकाराणां दुर्ज्ञानत्वात् पारमेश्वरपरमसंहितादिषु परि[परिदृश्यमान क ख ग च झ] पूर्णदृश्यमानसंध्योपासनप्रकारभेदानामपि यथावदुपदेशानुष्ठानपारंपर्यासिद्धेः भगवच्छास्त्रसंहितास्वेव [स्वसूत्रसंहिताचार क ख ग च झ] स्वसूत्रोक्तसंस्काराचाराभ्यनुज्ञानात् प्रथमपरिगृहीतपरित्यागे निर्बन्धाभावात् यथासूत्रमनुष्ठानेऽपि भगवत्समाराधनरूपत्वसिद्धेः स्वसूत्रविहितमेव संध्योपास्त्यादिकं [संध्योपासनादिकं क झ; संध्योपस्थानादिकं ख ग च] कर्तुमुचितम् | उक्तं हि नारदीये स्वसूत्रविहितान् वापि विषेकादीन् समाचरेत् इत्यादि | पाद्मे च शौचाचमनन्तधावनस्नानानि यथाक्रमं विधायानन्तरमेवं संध्योपासनमुक्तम् - आचम्य प्रोक्षयेद्दर्भवारिभिर्मन्त्रवत्तनुम् | ओंपूर्वया च गायत्र्या वारिभिश्चाभिमन्त्रितैः || आत्मानं परिषिच्योर्धमुत्क्षिपेत् सलिलाञ्जलिम् | योद्धुकामानि रक्षांसि संध्ययोरुभयोरपि || शाम्यन्ति तैर्वज्रभूतैर्हतानि प्रेरितैर्जलैः | प्रायश्चित्तं तु हिंसायाः परिक्रम्य प्रदक्षिणम् || तर्पयेदुअविश्याथ स्वशाखोक्तैर्मन्त्रैर्ध्येर्यं हृदि स्थितम् | अभिवाद्य गुरून् वृद्धांस्तथा भागवतान् क्रमात् || इति | अत एव हि श्रीमद्भट्टारकैरुक्तम् - प्रातरुत्थाय संस्मृत्य हरिं तच्चरणोत्थिताम् | गङ्गां विभाव्य [विगाह्य क च] तीर्थाम्भस्ततस्तदवगाह्य च || श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मनः | आराधनर्वेनापाद्य सोर्ध्वपुण्ड्रश्च तर्पयेत् || इति | तद्गुरुभिः श्रीवत्साङ्कमिश्रैरपि वटुकपूर्णाभ्यर्थनया अभिगमनसारमुपदिशद्भिरादावुक्तम् प्रातरुत्थाय स्वगुरोश्चरणारविन्दे स्वात्मानं समर्प्य कृतार्थं निर्भरं स्वात्मानमनुसंधाय स्नानादिकं स्वकर्म कृत्वा शुचौ देशे आसीनः इत्यादि | वङ्गिवंशेश्वरैश्च - धृतोर्ध्वपुण्ड्रो देवर्षिपितॄन् संतर्प्य मन्त्रतः | प्रयतः परया [प्रपन्नः परया क च झ; प्रपत्तिपरया ख ग ङ् छ; प्रपत्तिफलया घ; प्रयतः परया इति वङ्गीशकारिकापाठः] भक्त्या स्वमर्माराध्यमच्युतम् || आदित्यमण्डलान्तःस्थं प्रणम्य मनसा स्मरन् | संधातृत्वेन सर्वेषां संध्येति परिकीर्तितम् || श्रुतिस्मृत्युदितं कर्म [श्रुतिस्मृत्युदितं सम्यक् घ; श्रुतिस्मृत्युदितं सर्वम् इति कारिकापाठः] स्ववर्णस्वाश्रमोचितम् | फलाभिसंधिरहितं परब्रह्मार्चनात्मकम् || न्यस्य कर्तृत्वभोक्तृत्वे स्वामित्वं च परात्मनि | नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितः || गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् | सांध्यं कर्माखिलं साधु समाप्य च यथाविधि || ततः स्वकर्मभोक्तारमादित्यान्तरवस्थितम् | उपस्थ्याय स्वकरिमर्न्त्रैर्नारायणमतन्द्रितः || इत्यादि | संध्यार्ध्ये भगवदर्घ्यत्वभावनम् अत्र गायत्र्यभिमन्त्रिजलाञ्जलिप्रक्षेपे भगवदर्थ्यरूपत्वमपि भावनीयतया संगृहीतं नारायणमुनिभिः - आपो हीत्यादिभिर्मन्त्रैर्वाचकैः परमात्मनः | संप्रोक्ष्य मन्त्राचमनं मन्त्रैस्तत्प्रदिपादकैः || आदित्यान्तःस्थितस्यार्घ्यं वितीर्य परमात्मनः | प्रतिपादिकया विष्णोः सावित्र्या तं जपेद्धरिम् || ध्यायन् जप्त्वोपतिष्ठेत तमेव पुरुषोत्तमम् | नारायणात्मकान् देवानृषीन् संतर्पयेत् पितॄन् || तत आधारशक्त्यादीन् सर्वान् पारिषदान्तकान् | संपीड्य तीरे तद्वस्त्रं पुनराचय वाग्यतः | पाषण्डादिभिरालापदर्शनादीनि वर्जयेत् || इति | यथोपदिष्टसंध्यानादरे च दोषं स्मरन्ति - संध्यानादरे दोषः अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् | संध्यां नोपासते विप्राः कथं ते ब्राह्मणः स्मृताः || सायं प्रातः सदा संध्यां ये न विप्रा उपासते | कामं तान् धार्मिको राजा हीनमर्मसु [शुद्रकर्मसु घ ङ् छ] योजयेत् || इति | स एष संध्याक्रमः | ब्रह्मयज्ञः अथ ब्रह्मयज्ञं प्रत्यक्षतैत्तिरीयश्रुत्याद्यनुसारेण उदित आदित्ये कुर्यात् माध्यंदिनानन्तरं वा भोजनात् पूर्वमेव[माध्यंदिनान्तरमेव वा भोजनात् पूर्वं क ख झ] वा यत्र द्वचिदवसरे वा | तीर्थासन्नभगवदालयप्रणामः तीर्थस्नानसमनन्तरं महाभारतोक्तप्रकारेण तीर्थासन्नविष्ण्वायतनं च नमस्कुर्यात् | भगवन्मन्दिरप्रवेशदशायां कर्तव्यस्य दिङ्मात्रं दर्शितं श्रीसात्त्वते - प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् | अश्वत्थं च वटं धेनुं सत्समुहं गुरोर्गृहम् || दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः | दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् || न यानपादुकारुढो न सोपानत्कपादभृत् | न विक्षिप्तमना भूत्वा संविशेद्भगवद्गृहम् || इति | तत्र च प्रदक्षिणानि प्रणामाश्च युग्मान् कुर्यात् एकत्रिपञ्चसप्तादिगणना विषमं हि यत् इति विषमप्रतिषेधात् | प्रवेशे निर्गमे चैव विष्वक्सेननतिं चरेत् इति विधानात् विष्वक्सेनं तत्तद्द्वारपालांश्च प्रणम्यानुज्ञाप्य तत्र तत्र प्रविशेत् [तत्र प्रविशेत् क ख ग झ] | चक्रवद् भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् | पश्चाद्भागेन निर्गच्छेद् देवतासंनिधौ सुधिः || इति | प्रविष्टश्चाष्टाङ्गेन तत्तद्देशकालशक्येन मस्तिष्कसंपुटप्रह्वाङ्गपञ्चाङ्गदण्डादिषु अन्यतमेन वा प्रणमेत् | तत्राष्टाङ्गप्रणामं प्रणामप्रकाराः मनोबुध्यभिमानेन सह न्याय धरातले | कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् || इति सात्त्वतोक्तमुदाहरिष्यति भाष्यकारः | मस्तिष्कादिपञ्चकं तु श्रीवैखानसशास्त्रे पठितम् - स मस्तिष्कप्रणामः स्यादञ्जलिं मस्तके न्यसेत् | प्रणामः संपुटः स स्याद्धृदयेऽञ्जलिमर्पयेत् || प्रल्हादः संपुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया | पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशन् || बद्धञ्जलिर्नमस्कुर्यात् स पञ्चाङ्ग उदाहृतः [उदीर्यते घ ङ् छ] | पादौ हस्तौ प्रसार्यैव शेते भुमौ च दण्डवत् | स दन्ण्डाङ्गप्रणामः स्यात् प्रणामानेवमाचरेत् || इति | संकर्षणसंहितायां सुकृतप्रणामप्रकरणे त्वेवं प्रणाम उक्तः ##- लल्लटेदरजान्वङ्ध्रियुगाग्रानूर्ध्वगौ करौ | भुमौ संधाय मनसा वासुदेवमनुस्मरन् || इति | एवं चाष्टाङ्गप्रणामः स्मर्यते - उरसा शिरसा वाचा मनसा च कपोलतः | पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते || इति | रहस्याम्नायब्राह्मणे च नमस्कारप्रकरणे जानुभ्यां पाणिभ्यां शिरसा च नन्तव्यं भवति इत्यादिना पूर्णनमस्कारस्वरूपादिकमुपदिश्य तत्फलं चोक्तम्- सर्वैः करणैर्नमन् समग्रो नमति | समग्रो नमन् आप्तकारि भवति | आप्तकारि भगवन्तमाप्नोति इति | एवं द्वादशाङ्गप्रणामादिकं तत्र तत्र द्रष्टव्यम् | एकहस्तेन नमनं तु श्रीभागवत् प्रतिषिद्धम् - एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् | न्याययस्तस्य करच्छेद इति धर्मविदो विदुः || इति | अञ्जलित्वमपि ह्यस्य [अञ्जलित्वमप्यस्य क ख ग च झ] नास्ति तौ युवतावञ्जलिः पुमान् इति नैघण्टुकपाठात् | चामरग्राहिणीप्रभृतीनां तु व्यापृतान्यहस्ततया एकहस्तनमनाभ्यनुज्ञा | अतोऽवज्ञादिमुलैककरनमने करच्छेददण्डानुशासनमिति यथा तथा वापि सकृत् कृतोऽञ्जलिः इत्यादीनामविरोधः [इत्यादीनामप्यविरोधः घ] | योग्यतायां सत्यां द्वाभ्यां पाणिभ्यां प्रणमतोऽपि ऊनत्वमामनन्ति यथा ह्ययम् देवलपाणिभ्यामेव नमति न जानुभ्यां न शिरसा एकेन ज्ञानेन नमति स्पर्शविशेषज्ञानेन [स्पर्शविषयविशेष छ] हीयते | इतराणि ज्ञानानि कर्मणः | एकेन नमन् ऊनो नमति | ऊनो नमन् अनाप्तकारि भवति | अनाप्तकारी न भगवन्तमाप्नोति इति | आवार्यनामग्रहणे [आचार्यदर्शने क ख ग ङ् च छ झ] भगवन्नमग्रहणे [भगवतो नामग्रहणे घ] च अञ्जलिबन्धादिकं तत्र तत्र ग्राह्यम् | दर्शितश्चायमाचारः संभवपर्वणि व्यासप्रस्तावे महर्षेः कीर्तनात् तस्य भीष्मः प्राञ्जलिरब्रवीत् इति | भगवत्सेवाप्रकारः एवं यथारं प्रणम्योत्थितश्च [चकारः क च झ कोशेषु नास्ति] भगवतः पुरस्ताद् दक्षिणतोऽवस्थाय गुरुपरंपरया भगवन्तं शरणमुपगम्य पावनमनोहरतद्दर्शनानन्दबृंहितसर्वाङ्गः प्रीतिपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् | भगवदर्चावतारदर्शनमाहात्म्यं [माहात्म्यशब्दो घ कोशादन्यत्र नास्ति] चैवमुक्तं श्रीपौष्करे - इति | अन्यत्र तु महतामपि पातकानां प्रायश्चित्ततया विधीयते - अहरेकं हरेर्बिम्बमापीठादवलोकयेत् इति | आ पीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् | पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् || इत्यादि च | स्तुतिसंकीर्तनादेश्च प्रभावः - एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः | यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा || कलौ संकीर्त्य केशवम् कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः | कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् || इत्यादिषु ग्राह्यः | भगवत्प्रसादस्वीकारप्रक्रिया अत्र भगवत्प्रसादलब्धं तुलसीपादोदकादिकं यत्किंचिदपि प्रणिपात्पुरःसरं हर्षोत्फुल्लकपोलः शिरसा संभाव्यः यथर्हमुपयुञ्जीत | अत्र प्रतापभूपरचितस्तथाचमननिर्णयः इत्यादौ शिष्टाः पठन्ति - [आम्रेक्षुखण्ड घ ङ् छ] आम्रेक्षुदण्डताम्बूलचर्वणे सोमपानके | विष्ण्वङ्घ्रितोयपाने च नाद्यन्ताचमनं स्मृतं || इति | तन्मूलभूता चाथर्वणश्रुतिर्नारायणमुनिभिः संगृहीता भगवान् पवित्रं वासुदेवः पवित्रं तत्पादौ पवित्रं [तत्पादौ पवित्रं क झ कोशयोः नास्ति] तत्पादोदकं पवित्रं न तत्पान आचमनं यथा हि सोमे इति | एवं भगवत्सेवयात्मानं कृतार्थं मन्यमानो भगवदनुज्ञया द्वचिन्निभृतमुपविश्य जपादिभिरुपासीत | भगवन्मन्तिरे च तत्तच्छास्त्रोदितान् अपचारान् परिहरेत् | एवं तु श्रीवाराहे पुराणे द्वात्रिंशदपचाराः पठिताः - द्वात्रिंशदपचाराः श्रीधरण्युवाच- देवदेव जगन्नथ श्रुतं त्वत्तो मयाखिलम् | यान् कृत्वायोग्यतां यान्ति तव वेश्मप्रवेशने | तान् ब्रूहि देवदेवेश भक्तवत्सल माधव || श्रीभगवानुवाच- अपचारानह वक्ष्ये तच्छृणुष्व वसुढरे || गीतवादित्रनृत्तदिपुण्याख्यानकथाश्च ये | लोपयन्त्यश्च पारुष्यैर्मम वेश्मसु मानवाः || ते यान्ति वसुधे पापा नरकानेकविंशतिम् | ततस्तेऽपि महाभागे गार्दभीं योनिमाश्रिताः || वर्तन्ते तत्र वै देवि सप्त जन्मानि सौकरीम् | वस्त्रेणाच्छाद्य देहं तु यो नरः प्रणमेत्तु माम् || श्वित्रीं च जायते मूर्खस्त्रीणि जन्मानि भामिनि | कृष्णकम्बलसंवीतो यो नरः प्रणमेत्तु माम् || चण्डालयोनितां याति जन्मानि [भुवि घ] नव पञ्च च | तैलेनाभ्यक्तसर्वाङ्ग उपानद्गूढपादकः || यो नरः प्रविशेद् गेहं मम भूतधरे शुभे | स याति गृहपालानां योनौ [गृहजालानां योनिं घ ङ् छ] जन्मत्रयं शुभे || नखरोमाणि यश्चैव केशास्थीनि तथैव च | यः क्षिपेन्मम गेहेषु तस्य पापफलं शृणु || माक्षिकीं योनिमाश्रित्य नखरोमचितस्तथा | सप्त जन्मानि तत्रैव नरकानेकविंशतिम् || ताम्बूलं चर्वितं यस्तु प्रक्षिपेन्मम मन्दिरे | स याति नरकं घोरं यावदाभूतसंप्लवम् || ततो मुक्तो महाभागे शुनकोऽपरजन्मनि | संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः || निष्ठीवनकरो यस्तु मन्दिरे मम सुन्दरि | क्रिमिभक्ष्ये पतेद् घोरे नरके पापकृन्नरः || श्लोष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् | श्माशानमध्ये गत्वा तु यो नरो मामथार्चयेत् || सप्तजन्मकृतात् पुण्यात् तत्क्षणान्मुच्यते नर | सार्गाली [मारालीं घ] योनिमाश्रित्य वसेज्जन्मत्रयं शुभे || मुत्रयेन्मन्दिरे यस्तु मम देवि शुभानने | स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः || तस्मान्मुक्तस्तु रक्तादिनिम्बक[बिम्बकद्रुम ङ् छ]द्रुममास्थितः | जनिष्यति वरारोहे ह्यष्टजन्मानि सौकरीम् || पुरीषं वा प्रकुर्वीत यो नरो मम मन्दिरे | स याति नरकान् घोरान् पर्यायेणैकविंशतिम् || ततो मुक्तो महाभागे विष्ठायां जायते क्रिमिः | अनुगम्य तथा प्रतमिच्छया यस्तु मानवः || आराधितुमथेच्छेन्मां स व्रजत्यधमां गतिम् | बलिभुग्योनितां याति जन्मानि भुवि भूधरे || भरणं तु तथा कृत्वा मृत्कस्य वसुंधरे | मन्दिरं न प्रवेष्टव्यं प्रविष्टस्य फलं शृणु || चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च | भविष्यति वरारोहे व्याधः क्रूरोऽथ निष्ठुरः || भुक्त्वा श्राद्धं महाभागे मनुजो मामथार्चयेत् | चटकत्वमनुप्राप्य ततो गोधावपुर्गतः || छायामाक्रम्य यो मोहाद्विमानस्य वसुंधरे | प्रदक्षिणमकुर्वस्तु यस्तिष्ठेन्मतिपूर्वकम् || तिष्ठेत् स कानने शुन्ये कण्टकर्बहुभिर्वृतः | फलपुष्पविहीनश्च अरण्ये शून्यवृक्षताम् || समिपे मन्दिरस्यापि शकृन्मूत्रं करोति यः | स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् || ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् | ग्रामे जन्मशतं सुभ्रु विष्ठाभूक् सूकरस्तथा || अनिबद्धप्रलापान् ये कुर्वते मम संनिधौ | तेऽपि तित्तिरितां गत्वा जायन्ते जन्मपञ्चकम् || आरोपितं प्रदीपं ये नयन्त्यन्यत्र मन्दिरात् | अन्धास्तेऽपि भविष्यन्ति जन्मानि नव पञ्च च || कथायां कध्यमानायां मन्दिरे मे वरानने | अनाहृत्य च ये यान्ति तेषां पापफलं शृणु || बधिरास्ते भाविष्यन्ति मूका वै जन्मपञ्चकम् | पादौ प्रसार्य ये गेहे शेरते मे नराधमाः || लालां विसृज्य चोच्छिष्टां तेषां पापफलं शृणु | तोयहीनेऽतिरौद्रे च वने वै शुन्यवृक्षताम् || जायन्ते सप्त जन्मानि ततश्चण्डालतामियुः | दरिद्राश्चैव मूर्खाश्च भविष्यन्ति त्रिजन्मकम् || अन्यदेवार्थसंदिष्टैः पुष्पैर्यो मामधार्चयेत् | ममैव तु महागेहे मण्डूकत्वं व्रजन्ति ते || जन्मद्वयं तु वै मूढाः शूद्रातां यान्ति ते नराः | अन्यदेवगृहं गत्वा ह्यस्नात्वा यो व्रजेद् गृहम् || ममैव वसुधे तस्य फलं पापस्य मे शृणु | गृहाद् गृहमथो गत्वा भिक्षार्थी क्षुधितः स्वयम् || भिक्षामलब्ध्वा तत्रापि दरिद्रो जायते नरः | चत्वारि चैव जन्मानि तेषामन्ते च योऽबुधः || चण्डालयोनिमाप्नोति जन्मानि दश पञ्च च | अन्यदेवसमं यस्तु मन्यते मां तु सोऽधमः || चण्डालयोनितां याति जन्मानि नव पञ्च च | कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः || स पूतिगन्धसंयुक्तः कुष्ठी चैव धरे शुभे | भवै त्रीणि जन्मानि भवत्येव न संशयः || विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् | श्वपचान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् || उत्सवे वासुदेवस्य यः स्नाति स्पर्शशङ्कया | स्वर्गस्थाः पितरस्तस्य पतन्ति नरके क्ष्णात् || पिबेत् पादोदकं विष्णोर्वैष्णवानां विशेषतः | तत्र नाचमनं कुर्याद्यथा सोमे द्विजोत्तमः || प्रकारन्तेरण द्वात्रिंशदपचाराः इति श्रीवाराहे पुराणे धरणीप्रश्ने द्वात्रिंशदपचारो नाम पञ्चचत्वारिंचात्र च उक्तानुक्तसमुच्चयः कार्यः | तत्रेयमेका प्रक्रियाः ##- अपचारास्तथा विष्णोर्द्वात्रिंशत् परिकीर्तिताः | यानैर्वा पादुकरिवापि गमनं भगवन्दृहे || देवोत्सवाद्यसेवा चाप्रणामश्च तदग्रतः | एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् || उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् | पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् || शयनं भोजनं चैव [मिथ्या घ ङ् छ] मुधाभाषणमेव च | उच्चैर्भाषा वृथा जल्पो रोदनाद्यं च विग्रहः || निग्रहानुग्रहौ चैव स्त्रीषु साकूतभाषणम् | अश्लीलकथनं चैवाप्यधोवायुविमोक्ष्णं || कम्बलावरणं चैव परनिन्दा परस्तुतिः | शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणं || ततत्कालोद्भवानां च फलादीनामनर्पणं | विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु || पृष्ठीकृत्यासनं चैव परेषामभिवादनम् | गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा || इति | एवं प्रक्रियान्तराण्यपि तत्र तत्र ग्रायहाणि | तथा- प्रमादादपि कीलालं यः स्पृशेद्वैष्णवओ नरः | उपचारशतेनापि न क्षमामि वसुंधरे || स्वादीनशयनं जल्पं स्वाध्यायं च विशेषतः | आसनारोहणं चैव न कुर्यात् केशवालये || यो विष्णोः प्रतिमाकारे लोहभाव करोति च | यो गुरौ मानुषं भावमुमौ नरकपातिनौ || इत्याद्युक्तान्यपचारान्तराण्यपि द्रष्टव्यानि | एवं भगवन्मन्दिरे सावधानः परिहृतापचारः पूर्ववत् प्रण्म्य विष्वक्सेनादीन् अनुज्ञाप्य निर्गच्छेत् | प्रारर्होमाभिगमने ततः स्वदेवाधिष्ठितमाश्रमगृहादिकमागत्य सुप्रक्षालितपाणिपादः स्वाचान्तः स्वर्णरजतताम्रादिपात्रैः स्वयं पूर्वाहृतेन मणिकस्थेन वा वारिणा गृहं संप्रेक्ष्य स्वसूत्रविधिना स्वाग्निं भगवदात्मकं हुत्वा देवगृहमागत्य दुरात् प्रणमेत् | अत्र चैवमभिगमनं वङ्गिंशेवरैदर्शितम्- ततः कुम्भं समादाय शुचिनापूर्य वारिणा | हरेरारावनार्थाय मौनी नियतमानसः || पाषण्डावेक्षणादीनि वर्जयन् [वर्जयेत् क ख ग ङ् च झ] यत्नतः पथि | ध्यायन् नारायणं देवं यागभूमिं स्माश्रयेत् || ततः प्रक्षाल्य चरणौ स्वाचान्तः सुसमाहितः | ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा मुनिः || स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वितः | समिदाज्यादिभिर्द्रव्यैर्मन्त्रैरपि यथोदितैः || हुत्वाग्नीनग्निहोत्रादावुक्तं कालमपि क्षिपन् | पराराथनरूपेण कृतेनैव स्वकर्मणा || कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते | लब्धाधिकारो देवस्य ध्यानार्चनजपादिषु || विनिष्क्रम्याग्निशालाया गत्वा यागगृहं स्वकम् | अर्चयित्वा परात्मानं देशकालाद्यपेक्षया || पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना [पूर्वकालोक्तवर्त्मना घ ङ् छ] | केवलाञ्जलिना वापि विहितेन यथ तथा || इति | अत्र परारावनरूपेण कर्मणा शुद्धन्तःकरणस्य ध्यानार्चनादिषु अधिकारविधानात् केषांचित् कुदृष्टीनां मतं निरस्तम् | उक्तं च कुडृष्टिमतोपन्यासमध्ये परकालसूरिभिः - स्तुतिजपनिजबिम्बालोकनध्यानसेवा- स्मृतिकथनसमर्चाकर्मभिः श्रौतदूरैः | वृषभशिखरिनाथ त्वामभिप्सन्ति केचि- च्छुतिपथपरिनिष्ठप्रापणीयाङ्घ्रिपद्मम् || इति [इति शब्दः च कोश एव दृऽऽयते] | एवं च संगृहीतं नारायणमुनिभिः - पाषण्डादिभिरालापदर्शनादीनि वर्जयेत् | गृहानागत्य संक्षाल्य पादावाचम्य वाग्यतः || द्वारपालाननुज्ञाप्य प्रविश्य सदनं हरेः | अभिगम्य च देवेशं निभृतः परया मुदा | मनोबुद्ध्याभिमानेन सह न्यस्य धरातले | कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् || अष्टाङ्गेन प्रणामेन दिव्यशास्त्रोदितेन च | प्रणमेत् पुण्डरीकाक्षं भक्तिमारावनामितः || द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् | निक्षिप्य चिरमात्मानं तत्पादाब्जे कृती भवेत् || इति | इह च ब्राह्मे मुहूर्ते संप्राप्ते उत्थाय शयनात् ततः | स्नात्वाभ्यर्च्य जगन्नाथं समिदधानमाचरेत् [समिद्दानं समाचरेत् घ] || इत्येतावत् सात्त्वतोक्तं सर्वेषां [सर्वेषामिति पदं घ ङ् छ कोशेषु नास्ति] समानम् | शेषं तु तावत् [तावत् शब्दः घ ङ् छ कोशेषु नास्ति] तत्तत्संहितानिष्ठानामेव | एवं संहितान्तरेषु कालान्तरकर्मत्वपि ग्राह्यम् | जयाख्यसंहितायां तु सर्वसंहितोक्ताभिगमनं संग्रहेणोक्तम् - ब्रह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे | जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः | अभिगच्छेज्जगद्योनिं तच्चभिगमनं स्मृतम् || इति | पाद्मे च आद्यन्तकर्मावच्छेदेन दर्शितम् - कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख | उत्थानादिक्रमादेतदभियानमुदीरितम् || इति | संधोपासनानन्तरकृत्यं चैवं विवृतम् - अभिवद्य गुरून् वृधांस्तथा भागवतान् क्रमात् | प्रविश्य स्वाश्रमं देवमभिगम्य यथाविधि || अर्चयेज्जपहोमान्तं दद्याद् ग्रासं गवामपि | अञ्जनालेपनैः स्रग्भिर्वासोभिर्भुषणैस्तथा || अलक्तकरसाद्यैश्च ताम्बूलमुखशोधनैः | उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् || इति | एतेन देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणं इति स्मृत्यभिप्रेतमपि विवृतम् | अत्र च उपेतो मङ्गलैरन्यैः [उपेतो मङ्गलैर्नयेदभिगमक्रियाम् इति क ख ग अ झ कोशेषु पूर्णमुपात्तम्] | एवं व्यासाद्युक्तदेवादिनम्[देवतानमस्कार क ख ग च झ; देवतादिनमस्कार ङ् छ]स्कारोपहारनिवेदनपुष्पादिप्रदानवृद्धभिवादनगुरूपसेवन##[# छ]तद्धिताचरणवेदाभ्यासजपाध्ययनधारणतदर्थविचारणधर्माद् इशास्त्रवैदिकनिगमवेदाङ्गावेक्षणप्रभृतीनि प्रथमकालकर्तव्यानि पूर्वाधिकारविशोधितप्रक्रियया प्रतिसढेयानि | इति व्याख्यातमभिगमनम् || इति अभिगमनम् | उपादानम् अथोपादानं व्याख्यास्यामः | तच्चैवं संगृहीतं वङ्गिवंशेश्वरैः- प्राप्तेऽथाह्नो द्वितीयेंऽशे स्वास्त्रमन्त्रेण धर्मतः | आर्जयितार्चनाद्रव्यमशेषं च यथोदितम् || इति | तदेतद्व्याख्यातं नारायणमुनिभिः- उपादानार्हाणि तदनर्हाणि च द्रव्याणि अहो द्विदीयभागेन क्षृणाराथनतत्परः | द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत् || प्रभूतानि विशुद्धानि शुद्धदेशोद्भवानि च | अरौद्राण्यनिषिद्धानि संगृहीतानि वैष्णवैः || सुगन्धीनि मनोज्ञानि पुष्पाण्यभिमुखानि च | [वासांसि इत्यारभ्य देवभोग्यानि यानि अ इति यावत् क ख ग झ कोशेषु नास्ति] वासांसि धनधान्यानि चन्दनाद्यनुलेपनम् [चन्दनान्यनुलेपनम् ङ् च छ] || अन्यानि हरिवर्थानि तानि मूलफलानि च | संक्षालितानि बहुशो देवभोग्यानि यानि च || दधिक्षिराज्यमुख्यानि द्रव्याणि च विशेषतः | उत्तमानुपदंशांश्च मुद्गमाषादिकान्यपि || ताम्बुलादीनि चान्यानि सर्वाण्यादाय सादरम् | यथार्ःअं तानि संस्कृत्य प्रक्रमेतार्चनं ततः || इति | यत्तूक्तं श्रीसात्त्वते - प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि | पूजार्थमस्त्रमन्त्रेण पुष्पादीन् यत्नतः सदा || यायादरण्यमथवा निर्बाधं हि तदार्जयेत् | अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि || हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः | उग्रगन्धास्त्वकर्मण्यास्त्वप्रसिद्धस्तथैव च || चतुष्पथशिवावासश्मशानावनिमध्यजाः | क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः || वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः | अम्बुजानि सुगन्धीनि सितरक्तानि कानिचित् || योक्तव्यानि पवित्राणि नित्यमाराधने तु वै | साङ्कुराणि च पत्राणि भूगतान्येवमेव हि || विहितान्यर्चने नित्यं यथर्तुप्रभवानि च | न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् || विशेषतः सकामस्य सिद्धिभूतियुतस्य च | अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः || सद्यो हृतानां विहितं त्वम्लानानां यथाक्रमम् [यथाक्रियम् घ; यथाक्रियः ङ् छ] | प्रदानमम्बुसिक्तानां तेषां कार्यं न चान्यथा || निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात् | भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् || इति | तदिदं नियमपरिच्छेदानुशिष्टत्वात् विषर्ययानर्हमवधातव्यम् | शक्तमधिकृत्य चात्र स्वारसिकं स्वयंप्रवृत्त्यादिकमुपदिश्यते पक्षान्तरस्याप्यन्यत्रनुज्ञानात् | अत्र वैशेषिकार्चनादिषु कदाचित् प्रतःशब्दस्य मुख्यार्थता अन्यथा र्वभिगमनविधिना प्रातःकालोपरोधात् अन्येषु च सर्वेषु शास्त्रेषु द्विदीयकाल एव द्रव्यार्जनविधानात् | प्रातःशब्देन संनिकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते | सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् इतिवत् | अत एवात्रत्यमुत्थानं च न स्वापानन्तरभावि | अपितु ततः [पुष्पकुशादीनां घ ङ् छ] पुष्पफलादीनामुत्थायार्जनमाचरेत् इति जयाख्यसंहितोक्तमभिगमनान्तरं देवसंनिधेरुत्थानम् | इह च श्रीवैष्णवधर्मशास्त्रोक्तपुष्पनियमः पूर्वाधिकारे प्रसङ्गात् दर्शितः | पाद्म्ये त्वेवं विचित्रद्रव्योपादानमुक्तम् [द्र्वयोपार्जनमुक्तम् क ख ग झ] [उपादद्याद्यथापुर्वं क झ; उपादद्याद्यथापूजा ख ग च]उपादद्यात्तथा पूज्सासाधनानि यथातथम् | पुष्पाणि फलमुलानि विविधान्योषधीरपि || दध्यादि च हविर्योग्यतण्डुलानि [तण्डुलादि घ] गुडानि च | स्नानीयान्यपि वस्त्राणि स्वादूनि सलिलानि च || दर्भान् पत्राणि [पर्णानि घ ङ् च छ ज] समिधो यथाशक्ति यथावसु | आहृत्य याञ्चयार्थैवा [याञ्चयाप्तैर्वा क झ; याञ्चया तैर्वा ख ग] पूजास्थाने निवेश्ययेत् | नीत्वोपादानसमयमित्थं तदनु पूजयेत् || इति | अस्यां संहितायां संहितान्तरेषु पुष्पप्रकरणहविष्पाकप्रकरणादिषु [हविःप्रकरणादिषु क ख ग च झ] च हेयापादेयसमस्तद्रव्यविभागो द्रष्टव्यः | अत्र याञ्चयेत्युक्तोऽ[अयं इति शब्दः घ ङ् छ कोशेषु न दृश्यते]यमधमाधमपक्षः स्वप्रयत्नकृतं शस्तं मध्यमं वन्यमुच्यते | अधमं तु क्रयक्रीतं याचितं [पारक्यं क ख ग च झ] त्वधमाधमम् || इति पुष्पप्रकरणोक्तस्य सर्वेषु द्रव्येष्वविशेषेण संचरणात् | पुष्पेषु वर्ज्यानि अवर्ज्यानि च भोजराजस्त्वेवं पुष्पेषु राजसतामसादिविभागं पुष्पाङ्कुरपत्रमूलधूपवर्ज्यावर्ज्यविभागं च [घ कोश एव च कारो दृश्यते] संजग्राह अथ पुष्पाणि त्रिविधानि सात्त्विकानि राजसानि तामसानीति | शुक्लानि सात्त्विकानि | रक्तानि राजसानि | कृष्णानि तामसानीति | शुक्लानि द्विविधानि शुक्लवर्णं वलर्क्षमिति | रक्तम् अरुणमिति [अरुणं चेति क ख ग च झ] | रक्तं तपाकुसुमादिवर्णम् | अरुणं किंशुकदिवर्णम् | पीतं द्विविधम् पीतं हरितमिति | कृष्णं द्विविधम् नीलं [श्यामलं क ङ् च]श्याममिति | नीलं तापिञ्छादि [नीलं तापिञ्छदि ख ग् च कोशेषु नास्ति] | [कृष्णश्यामं च] श्यामं विष्णुक्रान्तादि | फलमेषां भित्यते सात्त्विकादर्धफलानि राजसानि तस्मादर्धफलानि [राजसादर्धफलानि क ख ग च झ] तामसानि इति | एतानि स्वारामोत्पादितानि [स्वारामोत्पनानि क झ; स्वारामोत्पन्नादीनि च] आरण्यानि क्रीतानि प्रतिग्रहावल्लब्धानि याचितानि [अयाचितानि ख ग घ ङ् च छ] ग्राह्याणि पुष्पाणि | तत्र स्वारामजमुत्तमम् | आरण्यं मध्यमम् | [क्रयक्रीतं घ]क्रीतमधमम् | [अयाचितं घ] याचितमधमाधमम् [याचितमधमाधमम् क ख ग झ कोशेषु नास्ति] | प्रतिग्रपुष्पे दातुरेव फलम् | कर्तुः किंचिद्भवेन्न वा | तस्मात् प्रतिग्रहलब्धैः पुष्पैर्नार्चयेत् | करवीरौ पद्मौ [केतकीजाति क ख ग च झ] जातिमाल्लिकोत्पलानि तिन्त्रिणा[त्रीणि घ] तगर् चम्पक श्वेतार्क कुटज बकुल [कदली क ख ग ङ् च छ झ] कन्दली तुलसी तमाल वनमाल[वनमाली घ ङ् छ] मरुवक शमी सिन्दुवार पलाश सहदेवी फणिज्जक पुंनाग वंशपुंनाग क्षुद्रपुंनाग मालती श्वेतकुमुद कन्दल पद्म महापुष्प नाग सदाभद्रा प्रियङ्गु बिल्व वनमल्लिका यक्ष्म्यगस्त्यद्वयं [अतसीद्वयं छ] वैष्णवी कर्णिका(रो) द्वावशोकौ कुटजस्था[लक्ष्म्यगस्त्यद्वयवैष्णवीकर्णिकाराशोककुटजास्तथा क ख ग च झ] कारण्ड नन्द्यावर्तद्वयक्षुद्रकेतक्य इत्यादीनि पुष्पाणि | एतानि च तिथिभेदेन ग्रहण अयन संक्रान्ति व्यतीपात विषुवादिभेदात् संगवादिकालविशेषाच्च समग्रफलानि भवन्ति | तत्र तिथिंपुष्पाणि वैष्णवी कन्दल [वैष्णवये कदली क ग च झ; वैष्णव्ये कन्दल घ ङ् छ] पद्म लक्ष्मी सिन्दुवार द्रोण प्रियङ्गु मालती पाटल केतकी जातिमल्लिका महाजाति पलाशाश्वत्थपत्राणि तिथीनामानुपूर्व्येण पुष्पाणि गृह्णीयात् | नन्द्यावर्तकैः संक्रान्त्यां भगवन्तं पूजयेत् | उपनन्द्यावर्तकैरयने | विषुवे तुलसीभिः | व्यतीपाते फणिज्जकैः | ग्रहणे [मकरन्दैः ङ् छ; मन्दरकैः मकरन्दैः घ] मरन्दैः पूजयेत् | संगवे [तत्तिथि ग घ] तत्तत्तिथिचिदितं पुष्पं गृह्णीयात् | समे पद्मैः धर्मे कुमुदैः करवीरैर्विष्णुप्रिये बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् | अत्र संगवादयः काला अहरहः प्रवर्तन्ते | संगवः समो विष्णुप्रियो धर्मो विराग इति पञ्च काला अद्यात्मविद्भिरुपदिष्टाः | उदयात् पञ्चनाडीभ्यः [नाड्यः क ख ग च झ] संगव उक्तः | तस्मात् द्विगुणमात्रात्[द्विगुणमत्रः क च झ] सम उपदिश्यते | तावता विष्णुप्रियः | तावता धर्मः | तावता विराग इति | तत्र पूर्वापरौ भूत्वा[भूत्वा इत्येव सर्वत्र पाठः] नाडीद्वयतः संगवादयो मुहूर्ता उक्ताः | तत्र संगवे वैकुण्ठस्य प्रीतिः | समेऽनिरुद्धस्य | विष्णुप्रिये शिंशुमारस्य | धर्मे बडवामुखाग्नेः | विरागे कपिलस्य | इत्येवं पञ्चानां पञ्च प्रीतिकालाविशेषाः | दिवापुष्पैर्दिवापूजा मुख्या | रात्रिपुष्पैर्निशि | विहितेष्वपि सच्छिद्रं मुकुलं जीर्णं पर्युषितं भुक्तशेषं घ्रातं परिम्लानमस्पृष्टं जन्तुभिर्भक्षितं [जन्तुभिर्भक्षितं क ख ग घ झ कोशेषु नास्ति] जन्तुभिरधिष्ठितमशुभदेशे पुष्पितमापद्यपि न गृह्णीयात् | पाणी प्रक्षाल्य पात्रे पुष्पाणि गृह्णीयात् | पिधाय स्थापयेदनातपे [अप्रतापे क झ ग च झ] प्रदेशे यथा न परिम्लायते | केवलपुष्पनिवेदनात् माला वरा | मालायाः स्रक् वरा | एकगुणा माला | बहुगुणा स्रक् | तत्र सूत्रैः पुष्पाणि न ग्रन्थीयात् निर्माल्यसमानि भवन्तीति | देवोद्दिष्टानां निन्दां न कुर्यात् प्रशंसामेव सर्वदा कुर्यात् | देवोद्दिष्ठं मनुष्यो न गृह्णीयात् देवस्वं भवतीति | यत्किंचित् पीतवर्णं पुष्पं जलजं स्थलजं वा तदापदि संग्राह्यम् | अनुक्तमपि नान्यत्र [अनुक्तमप्यन्यत्र क ख ग झ] | तत्रापि वर्जनीयानि विशेषेण वर्जयेत् | कराण्डं [कोरण्डं ग घ ङ् छ ञ्] कृष्णवर्णं कपित्थं गिरिकर्णिकाम्र विभीतक शिरीष मदयन्ती निर्गुण्डि सिन्दुवार किंशुक शल्मली जपा अर्क कनकोन्मत्त कारञ्ज विषपादपबन्धूक माधवी नीप अर्जुन पाटलि चिञ्चा कोशातकी अलाबु शिग्रू [शिग्रुः क ङ् च] इत्येतानि वृक्ष्ऽवल्लिषु विशेषेण [विशेषेण इति पदं घ कोश एव दृश्यते] वर्जयेत् | यव मुद्ग प्रियङ्गु निष्पाव शण दूर्वा भूतृण माषाणामेवाङ्कुराणि गृह्णीयात् | अन्येषामङ्कुराणि निर्माल्यसमानि भवन्तीति | अपामार्ग सदाभद्रा तुलसी बिल्व अश्वत्थ पलाश धातकी तमाल गन्धपूर्ण कृष्णा ब्राह्मी शमीवृक्षाणामेव पर्णानि गृह्णीयात् | उत्पलान्येनामेव मुकुलं गृह्णीयात् | पद्मोत्पलादीनां जलजानां दिनद्वयादूर्ध्वं पर्युषितत्वम् | सर्वेषां मूलानामुशीरमूलमेव विशिष्टम् | देवदारुकृतं धूपं चन्दनागरुमिश्रितं [विधूमाङ्गारेत्यारभ्य कृष्णागरुमिश्रितं इति यावत् ङ् छ कोशयोः न् दृश्यते] विधूमाङ्गारसंभवं शस्तम् | सालसर्ज्जरसं कृष्णागरुमिश्रितं प्राण्यङ्गवर्जितमन्यं वा धूपं निवेदयेत् | पात्रे गव्येन सर्पिषा दिव्येन [दिव्येन इति पदं घ कोशे नास्ति] तैलेनापि कृतं सूत्रवर्तियुतं सुखानिलदीपितो दीपो भवेत् | दुकूलं क्षौमं नेत्रम् सूत्रं वा कार्पासिकं सुगन्धधूपितं नवं वस्त्रं भवेत् | हेमरत्नमयमाभरणं दद्यात् | दोषयुक्तं भुक्तपूर्वं वा मनुष्यैर्नाभरणं भवेत् इति | तदेतन्ननासंहितापरामर्शसमुद्धृतसारभूतस्य [सारम् क ख घ ङ्] | अन्यदपि सर्वं तत्तत्संहितासु विस्तरेण द्रष्टव्यम् | श्रीशण्डिल्यस्मृतौ च काष्ठपर्यन्तवर्ज्यावर्ज्यद्रव्यविभागः कृतः | श्रीविष्णुस्मृत्यादिषु प्राण्यङ्गसुगन्धेषु कस्तूरीमृगमदयोरङ्गरागतया परिग्रहः | अर्चायां शुक्लाम्बरसमर्पणं पद्मकल्हारेतररक्तपुष्पवर्जनमित्याद्यपि ग्राह्यम् | योगक्षेमार्थेश्वराभिगमनादिस्वरूपशोधनं च पूर्वाधिकारसिद्धं न विस्मर्तव्यम् | उपादाने प्रति ग्रहनियमः एवं द्रव्याण्यार्जनः प्रतिग्रहनियमश्च तत्र तत्र संक्षिप्तः | यथोक्तं श्रीशाण्डैल्यस्मृतौ - कुलटाषण्डपतितवैरिभ्यः काकिणीमपि | उद्यतामपि गृह्णीयान्नापद्यपि कदाचन || इति [इत्यादि घ] | उक्तं च श्रीसात्त्वते - तस्करात् पतितात् [चण्डात् सात्त्वतसंहितापाठः] षण्डाड्डम्भलोभमदान्वितात् | मात्रावित्तं न गृह्णीयादभक्तादुपचारतः [व्पचारतः क झ] || इति | स्मर्यते च केशवार्चा गृहे यस्य न तिष्ठति महीपते | तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् || इति | अत्र[तत्र क ख ग च झ] पद्वमन्नमपकं वा केशवार्चनरुप[नित्यकर्म क च झ]नित्यधर्मरहिते गृहे न प्रतिग्राह्यम् उभयत्रान्नशब्दप्रयोगात् अन्यथा पक्वान्नमिति विशेषेण प्रयोगानुपपत्तेः | प्रतिग्रगुणदोषविस्तरश्च धर्मशास्त्रेषु पठितव्यः | सर्वेषु चापदनापद्द्शाभाविषु प्रतिग्रहेषु यमोपदिष्टं मन्त्रविशेषं भगवान् शौनकः स्मरति- दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति | प्रतिग्रहीतृभिश्चैव न ते मद्विषयोपगाः || इति | तथा बलादिमन्त्रान्तरैरपि तत्तन्निष्ठानां प्रतिग्रहादिः | यद्यप्यस्त्रमन्त्रेण सामान्यतः सर्वपुष्पादिग्रहणमुपदिष्टं तथापि तुलस्या मन्त्रविशेषास्तत्तत्कल्पेषुपदिश्यन्ते- तुलस्यमृतजन्मासि इग्यादयः | प्रतिग्रहोपायनियमाः एवं वृत्त्यर्थतयानुज्ञातैरध्यापनयाजनादिभिरपि यथाशास्त्रं प्रयुक्तैः समुचितानि समाराधनोपकरणानि संपादयेत् | पूर्वनिष्पन्नसंपूर्णद्रव्यस्तु न प्रतिग्रहादिषु प्रवर्तेत | आपत्स्वनन्तरा वृत्तिः इत्यनुज्ञागेष्वपि वृत्तिं प्राप्य विरमेत् इति स्मारणात् न नित्यं प्रवर्तेत | कृषि वाणिज्ये च स्वयं कृते कुसीदं चैवमाद्यपि गत्यन्तरासंभवे | सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः इत्याद्युक्तनन्दनवनकर्णादियतनमपि पुष्पफलादिपूजोपकरणार्थतया उपादानकोटौ निविशते | अत्र परिव्राजकानां न स्वयं पुष्पापचयादि कर्तव्यम् [कर्तव्यम् घ कोशे नास्ति] | यथोक्तं यतिधर्मसमुच्चये फलपुष्पोत्पाटने प्रायश्चित्तविधानादद्भिः कर्तव्यमन्याहृतैर्वा इति | एषा च वृद्धवसिष्ठस्मृतिस्तत्रोपाता जले मत्स्यादीनां स्थले पशुमृगसरीसृपादीनां सर्वप्राणिनामभयं दत्वा पुष्पमूलफलोपादानच्छेदनमधुमांसानृतवचनदानानि वर्जयेत् इति | इतरेषां तु स्वयं परतो वा अन्यारामादिसंभूतानामदत्तानां ग्रहणे तस्करत्वमपि स्यात् | इति तत्र तत्र द्रष्टव्यम् | स्मर्यते च द्रव्यगृहदारादिनियमो मन्वादिभिः यानशययासनान्यस्य कूपारामगृहाणि च | अदत्तान्युपभुज्ञ्जान एनसः स्यात्तुरीयकभाक् || अदतानामुपादानं हिंसा चैवाविधानतः | परदारोपसेवा च शारीरं त्रिविधं स्मृतम् || इत्यादिना | तदिह साक्षाद्वा परंपरया वा समाराधनोपकरणभूतशास्त्रीयसमस्तद्रव्योपादानेषु[द्रव्योपायेषु क ख घ च] स्वशक्येषु ध्यानादिविरोधिकायक्लेशकरबह्वायासरहितेषु न्यायतः प्रवर्तेत | इत्युपादानसंग्रहः | पूर्वसिद्धद्रव्यस्य आन्तरगुणोपादानम् प्रभूतायासवर्जनमपि हि [हि शब्दः ग च छ कोशेषु नास्ति] मुमुक्षूणामवश्यंभावित्वेन परिगणितेष्वष्टसु गुणेषु गौतमः पठति [प्रभूतायासेत्यारभ्य पठति इति पर्यन्तं ख कोशे विसृष्टम्] दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति यस्य तु खलु संस्काराणामेकदेशोऽपि अष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति इति | एवं सति बाह्यद्रव्यार्जनवत् संप्रीणनेषु प्रधानदमानाममानित्वादिगुणानां सदाचार्यसेवा सत्संभाषणादिभिर्ज्ञानबृद्धिहेतुभिः न्यायतः प्रवृतैः[प्रवृत्तैः इति पदं घ ङ् छ कोशे.वेव विद्यते] सम्यगुपार्जनमपि पूर्वसिद्धपरिपूर्णबाह्यपूजोपकरणस्य उपादानकौटौ [उपादानकाले घ ङ् च छ] निवेशनीयम् बाह्यद्रष्टव्याभाव इव गुणाभावेऽपि महाभारताद्युष्टाक्दशचण्डालषड्वृषलसंज्ञितहेयगुणयोगेन अनन्तरभावीज्यानर्हत्वप्रसङ्गात् | अत एव हि तन्निर्बन्धः [अत एव श्रुतिनिबन्धः क ग च; अत एव हि श्रुतिनिर्बन्धः ख; अत एव हि श्रुतेर्निर्बन्ध ङ् छ] क्रियते श्रुतादन्यत्र संतुष्टस्तत्रैव च कुतूहली इति | तस्मात् समराधनोपयुक्तं [समाराधनोपकरणं क ख ग च झ] बाह्यान्तरं च सर्वं यथार्हमुपादद्यात् | इति व्याख्यातमुपादानम् || इति उपादानम् इज्या सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा जानुन्याधाय सव्येतरभुजमपरं [सव्येतरभुजं क ख ग च झ] नागभोगे निधाय | पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे देवीभूषादिजुष्ठो [जनयतु जगतां शर्मवैकुण्ठनाथः ङ् अयमेव पाठः पाञ्चरात्ररक्षाहृदये आदृतः] नवजलदनिभः पातु दिव्यः परओ नः || अथेदाअनीं मन्त्रसिद्धन्तोपास्यपरूपविषयां भोगार्चनमयीमिज्यां भाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन व्याख्यातमः - मन्त्रसिद्धन्ते परिवारभेदस्तु [गूणभूत ङ् च] गुणीभूतमूर्त्यन्तरयोर्वैकल्पिकः | तत्र प्रथममधिकारिविशेषे वृत्तवर्तिष्यमाणयोः संगतिं दर्शयन् कर्मारम्भेण मन्त्रेण प्राप्तं कालमनुस्मरेत् | इज्यामेवाभिसंदध्यात् सा योनिः सर्वकर्मणाम् || इति प्रशंसितं चिकीर्षितग्रन्थैषयभूतमहोरात्रकृत्ये प्रधानांशं दर्शयति - नित्यग्रन्थस्थस्य अथशन्दस्य विवरणम् अथशब्दस्य प्रसिद्धिप्रकर्षसिद्धनन्तर्ये संभवति, अर्थान्तरतात्पर्यपरिग्रहोऽनुपपन्न इति भाष्यादिषु स्थापितम् | अथ गद्यैः [वक्ष्य इत्यादि क ख ग च झ] यथावत् प्रपत्तिप्रतिपादनानन्तरम् तत एव तन्निष्ठाधिकारिविशेषसिद्धिसमनन्तरं वा [वा शब्दः क ख ग झ कोशेषु नास्ति] | यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसंधाय तमेव शरणमुपगच्छेदखिलेत्यादिना इति वक्ष्यमाणानुसाराच्च अत्र तथाविधशरणागतिविषयगद्यग्रन्थस्य [विषयग्रन्थस्य क च झ] पूर्ववृत्तत्वं विवक्षितमिति ज्ञायते | न च तत्र अखिलजगदाधार इत्यादिवक्ष्यमाणमात्रपङ्क्तिर्विवक्षिता तस्याः प्रपत्तिकरणत्वादर्शनात् यथावस्थितस्वरूपरूपगुणविभूत्यादीनां च गद्य एव प्रपञ्चनात् अनन्यशरणस्त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये इति च तत्र कण्ठोक्तेः | तस्माद्यथोक्त एवात्र [अत्र इति पदं क ख ग झ कोशेषु नास्ति] अथशब्दार्थः | परमैकान्तिशब्दार्थः परमश्चासौ एकान्तश्चेति परमैकान्तः | सोऽस्यास्तीति परमैकान्ती | एकत्र अन्तो निश्चयः प्राप्यतया प्रापकया च | तदुभयं संभूय परमैकान्तः | परमश्चासौ एकान्ती च इति वा समासः | तत्राप्यनन्योपायत्वानन्यप्रयोजनत्वयोः समुच्चयात् पारम्यम् | अनन्योपायत्वं च अनन्यदेवताकत्वपर्यन्तम् | यथोक्तम् - चतुर्विधा मम जना भक्ता एव हि ते श्रुताः | तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः || इति | अनन्यप्रयोजनत्वं च आत्मानुभवानन्दनैरपेक्ष्यपर्यन्तम् | तदप्युक्तम् - ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः | सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् || इति | एतेन तुल्यन्यायतया भगवदनुभवानन्देऽपि [एतेन भगवदानन्देऽपि क ख ग झ] फलित्वाभिप्रायो निरस्तः मुक्तानन्दस्यापि सार्वभौमन्तःपुरशुकक्षीरास्वादनसुखवत् स्वतन्त्रेण परेणैव स्वप्रीत्यर्थमुपपादितत्वात् | एवंविधं च परमैकान्तित्वं मन्त्रसिद्धान्तादिनिष्ठे.वपि संभवतीति पूर्वाधिकारे स्धापितम् | दृश्यते च सदाचार्यसकाशात् यथावस्थितगद्यत्रयादिश्राविणामिदानीमपि तत्संभवः | तत्र हि यथावत् पारावर्यनिश्चयादन्यभवत्युन्मूलनेन अनन्यदेवताकत्वादिकं च [च इति पदं घ कोशेषु न दृश्यते] सिध्यति | तां चावस्थां स्वयमेवाह भगवान् [आह च स्वयमेव भगवान् क ख ग झ] - अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः | मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः || इति | निरतिशयभोग्यभगवत्स्वरूपादिनिश्चयेन विषयान्तरवैमुख्यात् अनन्यप्रयोजनत्वमपि तत्रैव सिध्यति यस्यां दशायां भगवानत्यन्तासनः सुहृदादिवत् स्वच्छन्दारावनयोग्यो भवति | यथोक्तं भगवता शौनकेन - पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् | तेषां तत्परमं ब्रह्म दूराद् दूरतरे स्थितम् || तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः | विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके || इति | परमैकान्तिनां देवतान्तरवर्जनम् एवं परिमितविषयत्यागिनां परिमितदेवतान्तरत्यागो नियमो भवति काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः | प्रतिबुद्ध न सेवन्ते यस्मात् परिमितं फलम् || इति परिमितफलसङ्गतदभावाभ्यां [फलसङ्गसदसद्भावाभ्यां घ] देवतासंबन्धासंबन्धप्रतिपादनात् | अतो यथा - परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि | सर्वेषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति || इति प्रतिपादितस्य परमात्मेतरसर्वविषयविरक्तस्य प्रव्रजिताधिकारिणो देवतान्तरवर्जनम् तथा त्रिष्वप्याश्रमान्तरेषु प्रतिबुद्धाधिकारिणः | स्मर्यते च प्रव्रजितानां देवतान्तरार्चनत्यागः | अत्रिः - त्रैकाल्यमर्चनं विष्णोर्देवतानां तदात्मनाम् | नमस्कारार्चनदीनि कुर्यान्नान्यस्य कस्यचित् || इति | क्रतुः - ईश्वरो भगवान् विष्णुः परमात्मा महानजः | शास्ता चराचरस्यैको यतीनां परमा गतिः || इति | पुनः स एवाह - ध्यायतेऽर्चयते योऽन्यं विष्णुलिङ्गमुपाश्रितः | कल्पकोटिशतैश्चापि गतिस्तस्य न विद्यते || इति | एवं प्रतिबुद्धानां सर्वेषां देवतान्तरवर्जनं प्रागेव दर्शितम् | एतेन - देवताप्रतिमां दृष्ट्वा यतिं चैव त्रिदण्डिनम् | नमस्कारं न कुर्याच्चेदुपवासेन शुध्यति || इत्यादिकमपि प्रतिबुद्धेतरविषयं मन्तव्यम् | प्रतिबुद्धस्यापि स्वनमस्कारयोग्यभगवत्तत्परिवारादिप्रतिमासु लब्धावकाशमेतत् | निषिद्धनुवर्तने समाराधनानर्हत्वम् एवं परेमैकान्तिशब्देनाधिकारिविशेष उक्तः | तस्य च परदारस्तश्चैव परद्रव्यापहारकः | न स्पृशेन्मामनादृत्य स्पृष्ट्वा च पतितो भवेत् || इत्यादिभिरनर्हतापादकानि सर्वाणि [सर्वाणि क ख ग च झ कोशेषु नास्ति] तत्र तत्र द्रष्टव्यानि | संगृहीतं च समाराथनोपयुक्तसर्वद्रव्यसाधारण्येन वङ्गिवंशेश्वरैः - निषेधाविषयीभावादृते नैवापरो गुणः | प्रीतिहेदुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु || इति | आराधकस्यापि हि अर्चनाङ्गवस्तुत्वमविशिष्टम् | यथा च प्रशस्तजातिष्वेव तुलस्यादिपत्रपद्मादिपुष्परम्भादिफलगङ्गातोयादिषु तैस्तैरुपहतिनिमित्तैर्निषेधविषयता एवमाराधकेऽपि यतः कुतश्चिदुपघातादा प्रायश्चित्तादनर्हतया निषेधविषयत्वं भवति अन्यथा नाविरतो दुश्चरितात् इत्यादिश्रुतिकोपप्रसङ्गात् उपहतिविषयस्पृष्टबिम्बादिषु च प्रायश्चित्तविधानात् | ब्रह्मविदोऽपि ह्युत्तराघाश्लेषवचनं [प्रामादिकादिविषयं घ] प्रामादिकविषयमिति स्थापितं भाष्यादिषु | सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् इत्यादिभिश्च सूत्रैरयमर्थः सिद्धः | अपि च राजवदुपचारो ह्यत्र विधीयते | राजोपचारवृत्तिश्चापचारपरिहारप्रधाना तद्वदिहापि | यथा च गुणवति राजनि सेवकानां सापराधानामपि क्षामणमात्रेण निरपराधता तथेहापीति तल्लाभः [इति लाभः घ ङ् छ] | इदमपि संगृहीतम् - अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि | प्रापश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् || इति | यत्त्वनन्त्रमुक्तम् - अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति | अतोऽनन्ङ्गिकृताशेषकर्तृदोषविमर्शया | कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्क्रियाम् || इति एतदपि क्षामणयोग्यताख्यापकम् अन्यथा क्षमस्वेति प्रार्थनाविधानानुपपत्तेः [प्रार्थनानुपपत्तेः क ख ग झ] | न चैतावता कृतापराधेन [कृतापराधेन क ख ग च झ कोशेषु नास्ति] निर्भयेन भवितव्यम् प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति न्यायात् | अकर्मण्यतापादका दोषाः अत्र चाकर्मण्यताहेतूनपराधानेवमाह [अपराधानाह क ख ग च झ] भगवान् शृणु सुन्दरि तत्त्वेन आहारस्य विनिर्णयम् | आहारो यस्त्वनाहारस्तच्छृणुष्व वस्.उम्धरे || भोजनं यस्तु भुञ्जीत मम योगाय माधवि | अशुभं कर्म कृत्वापि पुरुषो धर्मसंश्रितं || आहारं चैव कर्मण्यमुपयुञ्जीत नित्यशः | [सर्वे चात्रैव कर्मण्या व्रीहयः शालयस्तथा | इति वराहपुराणपाथः] सर्वेषां च ततः कर्म प्रवृत्तेः प्राणधारणम् || अकर्मण्यानि वक्ष्यामि यरिन तुष्यामि संप्रति | राजान्नं च न भोक्तव्यं मम भक्तैः कदाचन || राजान्नेन तु भुक्तेन त्वपराधो महान् भवेत् | द्वात्रिंशदपराधांस्तु न सेवेत मम प्रिये || भोज्यान्नपानाहारेषु ये मया परिकीर्तिताः | दन्दकाष्ठमखादित्वा यस्तु मामुपसर्पति || द्वितीयमपराधं तु धर्मविन्न प्रवर्तते | गत्वा मैथुनसङ्गं तु यस्तु मां स्पृशते नरः || तृतीयमपराधं तु कल्पयामि वसुंधरे | दृष्ट्वा तु मृतकं देवि यस्तु मामुपसर्पति || चतुर्थमपराधं तु न क्षमामि वसुंधरे | स्पृष्ट्वा [दृष्ट्वा क ख ग च झ] रजस्वलां नारीं यस्तु मामुपसर्पति || पञ्चमं त्वपराधं च दृष्ट्वा वै न क्षमाम्यहम् | पृष्ट्वा तु मृतकं चैव संस्कारं मृतकस्य वै || अपराधमिमं षष्थं न क्षमामि वसुंधरे | म्मार्चनविधौ काले वातं मुञ्चति निर्घृणः || सप्तमश्चापराधोऽयं मम देवि न रोचते | ममैवार्चनकाले तु पुरीषं यस्तु मुञ्चति || अष्टमश्चापराधोऽयं ममात्र तु न रोचते | मदीयार्चनकाले तु यो हि वाचा प्रभाषते || नवमं चापराथं तु न क्षमामि वसुंधरे | यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपश्यति || दशमश्चापराधोऽयं मम देवि न रोचते | परिधायैकवस्त्रं च यस्तु वै मां प्रपद्यते [प्रपश्यति क ख ग च झ] || एकादशापराधस्तु मम विप्रियकारणम् | क्रुद्धस्तु यश्च कर्माणि कुरुते कर्मकारकः || द्वादशं चापराधं तु कल्पयामि वसुंधरे | अकर्मण्यपि पुष्पाणि यस्तु मामुषकल्पयेत् || त्रयोदशापराधं तु न वक्ष्यामि वसुंधरे | यस्तु रक्तेन वस्त्रेण कौसुम्भेनाधिगच्छति || चतुर्दशापाराधं तु न क्षमामि वसुंधरे | अन्धकारे तु मां देवि यः स्पृशेत्तु कदाचन || पञ्चदशापराधं तं कल्पयामि वसुंधरे | यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् || षोडशं चापराधं तं कल्पयामि न संशयः | वासः समवधून्वन् वै यस्तु मययुपकल्पयेत् || सप्तदशापराधं तं कल्पयामि न संशयः | वाराहं यस्तु मांसं वै भक्षयित्वा प्रपद्यते || एकोनविंशापराधं प्रतिजानाति माधवि | जालपादं [जालघातं क ङ् च] समश्नन् वै यस्तु मामुपसर्पति || अपराधं विंशमिमं कल्पयामि वसुंधरे | स्पृष्ट्वा वै दीपकं यस्तु मोहात् स्पृशति माधवि || एकविंशापराधं तं कल्पयामि वसुंधरे | श्मशानं यस्तु वै गत्वा मम चैवाभिगच्छति || द्वाविंशापराधं तु तमहं चोपकल्पये | पिण्याकं भक्षयित्वा तु मम चैवोपसंक्रमेत् [च कोशादन्यत्र उपचक्रमेत् इति पाथः] || त्रयोवि.शापाराधं तं नरो मम च कल्पयेत् | मज्जनानवजानन् यो मां तु पश्यति माधवि || चतुर्विंशापराधं तं कल्पयामि वसुंधरे | एकहस्तप्रणामं च यः करोति च मामिनि || पञ्चवि.शापराधं तं न क्षमामि वसुंधरे | परप्रापणकेनैव यस्तु मामभिगच्छति || सप्तविंशापराधं तं न क्षमामि वसुंधरे | नवाग्रं ये तु ब्रीहीणामदत्त्वापीह भुञ्जते || अष्टाविंशापराधं तं कल्पयामि वसुंधरे | अदत्त्वा सुमनो यो वै धूपं मे दातुमिच्छति || एकोनत्रिंशापराधं कल्पयामि वसुंधरे | लोपानत्कस्तु यो मर्त्यो मामेवमुपसर्पति || अपराधमिमं ग्रिंशं कल्पयामि वसुंधरे | भेरीमताडयित्वा तु यस्तु मां प्रतिबोधति || एकत्रिंशापराधं तु कल्पयामि वसुंधरे | अजीर्णरसमाविष्टो यस्तु मामुपसर्पति | महापराधं तद्विद्याद् द्वात्रिंशमिह चोत्तमम् || इति | एवमेतान्यन्यानि चानर्हतानिमित्तानि परिहरतः संभवे च सानुतापं यथोचितं प्रायश्चित्तमनुतिष्ठत इह समाराधनाधिकारित्वम् | जात्यादिनिबन्धनोऽप्यधिकारविशेषः एवं जात्यादिनिबन्धनाधिकारविशेषोऽपि शास्त्रेषु श्रूयते | यथोक्तं श्रीसात्त्वते - अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् | योगिनामधिकारः स्यादेकस्मिन् गृदयेशये || व्यामिश्रयागमुक्तानां विप्राणां वेदवेदिनाम् [वेदवादिनाम् ख ङ् छ] | समन्त्रे तु चतुर्व्यूहे त्वधिकारो [मन्त्रे तु चातुर्व्यूहे तु अधिकारो क ख ग ङ् च झ] न चान्यथा || त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः | अमन्त्रमधिकारस्तु चातुर्व्यूहक्रियाक्रमे || सक्रिये मन्त्रचक्रे तु वैभवीये विवेकिनाम् | ममतासंनिरस्तानां स्वकर्मनिरतात्मनाम् || कर्मवाङ्मनसैः सम्यग्भक्तानां परमेश्वरे | चतुर्णामधिकारो वै वृत्ते [प्राप्ते क च झ] दीक्षाक्रमे सति || एवं संप्रतिपन्नानां मन्त्रपूर्वं यथास्थितम् | विधानमेकमुर्तीयं समानकर्णस्य सांप्रतम् || इति | जयादिषु चाप्तादिभेदो द्रष्त्व्यः | सर्वेषामन्ततो भगवत्प्राप्तिः समाना | विकलानामपि भागवतानम्* [*ङप् इन् अल्ल् ंष्ष्. अन्द् प्रिन्तेद् एदितिओन्स्] इति इज्या स्वाध्याः अथ स्वाद्यायं व्याख्यास्यामः | चतुर्थे काले संप्राप्ते स्वावगतवेदवाक्यार्थव्यक्तीकरणाय विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां मनुपराशरपाराशर्यशुकशौनकादीनां महर्षीणां प्रबन्धान् [महर्षीणां प्रबन्धान् इत्यस्य स्थाने वेदोपबृंहणानि इति पदं ख ग च झ कोशेषु दृश्यते] श्रवणमननजपादिभिरभ्यसेत् | तदिदमुक्तं व्यासेन तत्कालकृत्यम्- इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् इति | दक्षेण तु इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् इति | एवम् भुक्त्वोपस्त्याय चादित्यं पुराणानि सदा पठेत् इत्यादिकं च द्रष्टव्यम् | झ कोशेषु दृश्यते] श्रवणमननजपादिभिरभ्यसेत् | तदिदमुक्तं व्यासेन तत्कालकृत्यम्- इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् इति | दक्षेण तु इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् इति | एवम् भुक्त्वोपस्त्याय चादित्यं पुराणानि सदा पठेत् इत्यादिकं च द्रष्टव्यम् | उपबृंहणनिरपेक्षस्य उपबृंहणीयवेदभागजप एव युक्तः | तत्रापि साक्षाद्भगवत्प्रतिपादक एव भागो जप्य इति श्रीशाण्डिल्यस्मृत्यादिषूक्तम् | संग्रहरुचीनां महामन्त्रसक्तानां च सर्वसारभूतव्यापकमन्त्रजपोपदेशः | जपादिकालेऽपि गुर्वादिषु मौनवर्जनं सर्वत्रोक्तम् | आह चैवं चोधायनः ##- स्वाध्यायमध्ये गुर्वादिपुरस्कारः जपमध्ये गुरुर्वापि वैष्णवो यः समागतः | संभाषणादिपूजां तु तस्य कृत्वानुमान्य च || अनुश्राव्य ततः कुर्याज्जपशेषं समाहितः | सर्वस्य प्रभवो यस्माद्विष्णुपादाश्रया नराः || तन्मूलतः क्रियाः सर्वाः सफलास्तु भवन्ति हि || इति | तत्र मौनमन्त्रार्थचिन्तनादयो नियमास्त्रत्र तत्र ग्राह्याः | शिष्यगुरुसब्रह्मचारिभिः श्रेयोऽर्थिभिरनसूयुभिः वीतरागैः सह वादः बोधयन्तः प्रस्परम् इत्युक्तसंवादोऽपि तत्त्वनिर्णयफलत्वाविशेषात् इतिहासपुराणादिवत् स्वाध्यायकाल एव प्रवर्तनीयः | स्मरन्ति चाभिगमनान्तः पातिनि पूर्वयामस्वाध्याये जपेदध्यापयेच्छिप्यान् धारयेच्च विचारयेत् इति | विचारोऽभ्यसनं जपः इति च [च कोशादन्यत्र चकारो न विद्यते] | उक्तं चानुयागविधानानन्तरं श्रीसात्त्वते समाचम्य पुनर्यात् प्रयतो भगवद्गृहम् इत्युक्त्वा मनोबुद्ध्यभिमानेन सह न्यस्य धरातले | [कूर्मवदित्याद्युत्तरार्धं घ ङ् छ कोशेषु नास्ति] कूर्मवच्चतुरः पादान् शिरस्तत्रिव पञ्चनम् || इत्याष्टाङ्गप्रणामं[इत्यादिना साष्टाङ्गप्रणामं घ ङ् छ] च विधाय अष्टाङ्गेन नमस्कृत्य ह्युपविश्यात्रतो हरेः [विभोः घ ङ् छ] | आगमाद्ययनं कुर्यात् तद्वाक्यार्थविचारणम् [विचारणात् ङ् छ] || इति | तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादी नां श्रवणमननप्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः पारुष्यमनृतं प्सिशुन्यं चैव सर्वशः | अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् || इत्यादिनिदर्शितविविधवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति | शमाद्युपयुक्तशब्दशीलनं कुर्यादिति स्वाध्यायसारः | उक्तं हि महाभारते - यच्छृउतं न विरागाय न धर्माय न शान्तये | सुबद्धमपि शब्देन काकवाशितमेव तत् || इति न शब्दशास्त्राभिरतस्य मोक्षः इत्यादि च [इति च क ख ग च] | सायंसंध्यादिकम् अथ लोहितायति भास्करे अथासूत्रं सायंसंधोपासनं सायंहोमः पुनर्यथाशक्ति [भगवदभिगमनं क ख ग च झ] भगवदभिगमनहविर्निवेदनपूर्वकं भोजनम् | केनचिन्निमित्तेन विलुप्ते भोजने प्राणाग्निहोत्रमन्त्रजपः | ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति क्रमः | तत्र प्रमाणानि - उभे संध्ये भगवानभिगन्तव्यः नानिवेद्य हरेः किंचित् समश्नीआत्तु पावनम् सायं प्रातर्द्विजातीनामश्नं श्रुतिचोदितम् | नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः || प्राणाग्निहोत्रमन्त्रांश्च विलुप्ते भोजने जपेत् प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् तत्पूर्वापररात्रेषु युञ्जानः इत्यादीनि | [अनन्यप्रयोजनाधिकारिकर्तव्यपूर्वयाम् क अ झ] अनन्यप्रयोजनाधिकर्तव्यः पूर्वयामस्वाध्यायश्च त्रयोदश्यां प्रदोषाख्यकाले [कालांशे घ] वर्जनीयः | यथा संगृहीतं कालविधाने- महाप्रदोषे मौनाचरणम् विषुवायनद्वितयपञ्चदशीप्रथमाष्टमीषु कलिनाथतिथौ | रजनीमुखे च मदनाधिपतेर्विधिराह नाध्ययनकर्म नृणाम् || इति | स्मृत्यर्णए चैतदुपात्तम् - मितसंध्यस्त्रयोदश्यां संस्मर[त्रयोदश्यामस्मरन् क ख ग झ; त्रयोदश्यां च स्मरन् घ]न्नात्मनो हितम् | अह्वोऽष्टांशेन संयुक्तं रात्र्यर्धं मौनमाचरेत् || इति | एवं तत्कालनियतसावित्रीहोमादिव्यतिरिक्तदशायां प्रदोषाख्यकाले मौनविधानात् मन्त्रजपादिकमपि वर्जनीयम् | यथोक्तं कृष्णमन्त्रकल्पे ##- स्वाध्यायजपमात्रं निषिध्यते | मन्त्रजपादिकं तु विधीयते | उक्तं चाष्टाक्षरजपस्य नित्यत्वं बोधायनेन - एवं गुरोः [गुरुः घ] समारभ्य मन्त्रानुष्ठानमाचरेत् | अष्टाक्षरं जपेद्विद्वान्नित्यमष्टसहस्रकम् || अजप्त्वास्टाक्षरं मन्त्रं नाहमश्नामि किंचन | यावज्जिवं जपामीति पश्चादहरहर्जपेत् || अष्टाक्षरजपो यस्य नित्यो नैमित्तिकोऽपि वा | काम्यो वापि भवेत् तस्य नित्या देवार्चना [नित्यदेवार्चना क ख च झ] स्मृता || इति | न चात्र मौनविधिकाले भगव्द्धर्मविच्छेदः तदानीं यधाविधि मौनानुष्ठानस्यैव [यघाविहितमौनानुष्ठानस्यैव क ख ङ् च छ झ] भगवत्सेवारूपत्वात् | प्रवृत्तिविषया निवृत्तिविषया वा भगवदाज्ञैव सर्वदानुवर्तनीयेत्यच्छिद्रानुष्ठानसिद्धिः | यद्यपि च अतत्क्रियस्य प्रदोषे हरिदर्शनादिकं प्रदिषिध्यते तच्चानुपालितं परमैकान्तिभिर्भाष्यकारादिभिः तथापि [स्वगृहार्चायाः इत्यत्रस्वशब्दः घ ङ् छ कोशेषु न दृश्यते] स्वगृहार्चायास्तत्क्रियत्वात्तदनुज्ञा [तत्क्रियत्वात् इति बहुषु कोशेषु पाठः क झ कोशयोः परं तत्क्रियात्वात् इति वर्तते] | उक्तं चैवं बोधायनीये पुराणसारसमुच्चये - आस्थानस्थः सदा सेव्यो विमानस्थस्तु कालतः | स्वगृहे सर्वदा सेव्यो मध्यरात्रं विना प्रभुः || इति | मध्यरात्रेऽप्युपरागादिनिमित्तविशेषसंभवे स्नानादिपूर्वकभगवत्सेवाजपादिकमवश्यकर्तव्यतया विधीयत इति न विरोधः | स्वाध्याययोगयोः अनुयागात् पूर्वमेव समाहृत्यानुष्ठानं केषांचिन्मते एतौ च स्वाध्याययोगौ अह्निकानुयागात् पूर्वमेव कुषुचित् संहिताविशेषेषु समाहृत्योपदिश्यते | यथा संगृहीतं नारायणमुनिभिः = पुनः प्रणम्य देवेशमह्नो भागे तुरीयके | द्विषडष्टषडणादिमन्त्रेषु स्वानुसंहितम् || विशेषेण जपेन्मन्त्रमष्टोत्तरसहस्रकम् | अष्टोत्तरशतं वापि यथाशक्ति दशावरम् || गुर्वादींश्च नमस्कृत्य बीजशक्त्यादिकं तथा | मन्त्रनाथं प्रणम्येशमापादादवलोकयन् [आपादादवलोकयन् इत्यारभ्य स्वधाम नीत्वा देवेशं इति यावत् ख ग कोशयोः नास्ति] || जप्त्वा च सुचिरं योगमास्थाय प्रणमेद्धरिम् | स्वधाम नीत्वा देवेशं [स्वधा मनसा देवेशं इति क कोशे] प्रह्वः सपरिवारकम् || तत्रार्घ्यादिभिरभ्यर्च्य रक्षां कृत्वास्त्रनायकैः | पुनः पुनः प्रणम्याथ होमाद्यं संविधाय च | अनुयागं ततः कृत्वा कृतकृत्यो भवेन्नरः || इति | अयमेव क्रमो विस्तरेणोक्तस्तद्गुरुभिर्वङ्गिवंशेश्वरैः | तथाहि - प्राप्तमह्नश्चतुर्थांशं स्वाध्यायार्थमुदीरितम् | विज्ञाप्य विष्णवे तस्मै लब्धानुज्ञस्ततोऽपि च || बाह्यार्थादखिलाच्चेतः स्माहृत्येन्द्रियैः सह | जपन्नस्टाक्षरं मन्त्रं प्राणायामपुरःसरम् | प्रयतः परया भवत्या पूर्वमेव समाहितः || कराङ्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् | गुरून् मन्त्रमृषिं छन्दो देवताश्च [ऋषिच्छन्दोदेवताश्च छ] यथाक्रमम् || शक्तिं बीजं च शिरसा प्रणमेदेवमादृतः [प्रणमेद्देवमादितः क झ; प्रणमेदेवमादितः ख ग] | इदं गुरुभ्यः सर्वेभ्यः [पूर्वेभ्यः क च झ] क्रियते शिरसा नमः || मन्त्रज्ञानप्रदातृभ्यस्तद्गुरुभ्योऽपि सांप्रतम् | नमस्ते मन्त्रराजाय नमस्तेऽस्टाक्षरात्मने || नमस्ते चेतनाधार परभ्रह्माभिधायिने | स्थित्वान्तर्हृदये सर्वानात्मनः संनियच्छते || ऋषयेऽष्टाक्षरस्यान्तर्यामिने हरये नमः | अष्टाक्षरमहामन्त्रवर्णसंख्याभिमानिनीम् [संख्याभिद्यायिनीम् क ख ङ् च झ] || छन्दश्च देवीं गायत्रीं शिरसा प्रणमामहम् | मन्त्रशक्तिः स्थिता यस्मिन्नाश्रितेष्टार्थदायिनि [इष्टार्थसाधिनि ख ग; इष्टार्थदायिनी च] || पदं नारायणायेति शक्तिं तां प्रणतोऽस्म्यहम् [प्रणमाम्यहम् मुद्रितकारिकापाठः] | अकारादुत्थितं बीजं वासुदेवाभिवायिनः [वासुदेवभिधयिनम् ङ् छ] || तद्बीजमस्य प्रभवं प्रणवं प्रणतोऽस्म्यहम् | [मन्त्रस्य देवतां इत्यारभ्य शिरसा हरिम् इति यावत् मन्त्र शक्तिः इति श्लोकात् पूर्वं क ख ग च झ कोशेषु पठ्यते] मन्त्रस्य देवतां आपि परमात्मानमव्ययम् || नारायणं परं ब्रह्म नतोऽस्मि शिरसा हरिम् | प्रणम्य चैवं गुरादीन् गन्धाद्यैरभिपूज्य च || अनिशं भगवद्बिम्बमापीठादवलोकयन् [अवलोकयेत् क ख ग च झ] | जपेदष्टाक्षरं मन्त्रं तदर्थमनुचिन्तयन् || अष्टोत्तरसहस्रं वा शतं वा दश वोत्सुकः | जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम् || सप्त्नीकं सनुयात्रं सद्वारपगणेश्वरम् | कृत्वैवं मनसा योगं सुचिरं हृष्टमानसः || उत्थाय च ततो योगाद् दण्डवत् प्रणिपत्य च | स्तुत्वा च बहुभिः स्तोत्रैः दृत्वा चापि प्रदक्षिणम् || स्तित्वाग्रे देवदेवस्य कृत्वा मूर्ध्निं स्वमञ्जलिम् [स्वम~ज्नलिम् इत्यनन्तरं जितन्त इति मन्त्रेण तं देवं शरणं व्रजेत् इति मुद्रितकारिकायां श्लोकार्धम् अधिकं दृश्यते] | ततः स्वस्मै प्रपन्नाय [तस्मै प्रसन्नय क ख ग ङ् च छ झ; स्वस्मै प्रसन्नाय घ] दत्ते तेनाभये सति || निर्भयः सर्वभूतेभ्यो भवेन्निर्वृतमानसः | कर्मण्यवसिते तस्मिन् तुर्लभे दुष्करेऽपि च || अर्घ्यं दत्त्वा यथापुर्वं स्वमात्मानं[स्वं चात्मानं क ख ग घ ङ् च झ] निवेद्य च | स्वनिवेदनमन्त्रेण दासशिष्यात्मजात्मनः || सादरः स्वेन [स्वोदकं स्वेन क ख च झ; सोदकं स्वेन ग ङ् छ] परात्मने | निदध्यात् स्वं च कर्तृत्वं तस्मिन्नेव परात्मनि || क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान् | असंख्यानविषह्यांश्च [असह्यानविषह्यांश्च क ख घ च झ; असङ्ख्यानपि संङ्ख्यांश्च ग] क्रियमाणानहर्निशम् || अज्ञानतोऽप्यशक्त्या वाप्यायस्याद् दुष्टभावतः | कृतापराधं कृपया क्षन्तुमर्हसि मां विभो || अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया | क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम् || उपचारापदेशेन कृतानहरहर्मया | अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम || शिरसा प्रार्थितेनैवं प्रसन्नेन परात्मना | क्षान्तसर्वापचारेण करुणामृतवर्षिणा || वात्सल्यौदार्यसौशील्याद्यनन्तगुणराशिना [गुणशालिना घ ङ् छ] || अशरण्यशरण्येन कृपया परया स्वया | सस्मितालोकमधुरमाहूयाद्भुतया गिरा || दत्तं तत्पदयोर्युग्मं स्वयमेव स्वमूर्धनि | वहंस्तच्चरणस्पर्शनिहताशेषकल्मषः || आसित्वा सुचिरं तस्य पुरतः परया मुदा | समुत्थाय ततस्तस्मै भूयो भूयः प्रणम्य च || स्मारयित्वा स्वकं धाम तद्यानाय प्रणम्य च | दत्त्वाथ पादुकायुग्मं तत्र देवं समानयेत् [समापयेत् घ ङ् छ] || सप्त्नीकं सानुयात्रं सद्वारपगणेश्वरम् | ततस्तदर्हविन्यासं सूपधानं स्वलंकृतम् || अनन्तभोगशयनमधिरू.घे परात्मनि | आसीनयोस्तथा [तदा क ख ग च झ] देव्योर्देवपार्श्वे यथायथम् || आसीनेषु यथाभागं सेनान्यादिषु सर्वतः | अथार्घ्यपाद्याचमनताम्बूलादि यथोचितम् || देवाय देवीयुक्ताय सानुगाय निवेद्य च | प्रणम्य दण्डवद्भूम्यां भूयो भूयः पुरो हरेः || अनुयागादिकं चाथ चिकीर्षनाह्निकं विधिम् | दत्तनुज्ञः परेणापि गमनायात्मनो बहिः || निर्गन्दुकामो निक्षिप्य देवं दौवारिकादिषु | समयः सनुतापश्च चण्डादीन दारपालकान् || कुमुदादीन् गणेशांश्च चक्रादीन्यायुधान्यपि | गरुडं च विशेषेण शेषं शेषाशनं तथा || प्रणम्य स्मारयेद्देवं सस्नेहादरसाध्वसम् [साध्वसः क ख च झ] | निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् || निधित्सन्निव चक्षुः स्वमर्पयन्निव कल्पकम् | सर्वे भवन्तः सगणाः संनद्धः सर्वदिक्ष्वपि || सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् | मम नाथं मम गुरुं पितरं मातरं च मे || हरिं श्रियं भुवं चापि तान् पालयत सर्वतः | यथानिक्षिप्तरूपं मे संदर्शयत सर्वदा || भवतः शरणं गत्वा व्रजामि गतसद्वसः | इति विज्ञाप्य तान् पश्चात् प्रार्थयेत् हरिं गिरा || ननु देव त्वमेवैकः सस्थावरचरं जगत् | ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च || संहरिश्यसि चाप्यन्ते रूपैः स्वैः स्वैर्यथेप्सितैः | केन त्वं पाल्यसे देव केन वा त्वं विहिंस्यसे [विहन्यसे क च झ] || अत्स्त्वमेव त्वां देवयु चन्डादीन पालकानपि | मां च मामकमप्येतत् सर्वं गृहमशेषतः || पालयित्वा स्वसंकल्पमात्रेण मधुसूदन | त्वां मया त्वयि निक्षिप्तं विश्वस्तेनार्थिकल्पक || आगताय यथाकालं सर्वं मे दातुमर्हसि | इति विज्ञाप्य पुरतो दण्डवत् प्रणिपत्य च || होमं पितृक्रियां पशादनुयागादिकं च यत् | सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया || वीक्षमाणस्तमेवैकं चक्षुषा स्निग्धपक्ष्मणा | मुर्ध्नि न्यस्ताञ्जलिपुटो विनिष्क्रम्य शनैः शनैः || बद्ध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च | होमाद्यमनुयागान्तं वैधं कर्म स्माचरेत् || इति | एवमष्टाङ्गयजनमध्ये स्वाध्याययोगयोः समाहृत्योपदेशात् तत्तद्देशकालावस्थाभेदेन यथाक्रमानुष्ठानाशक्तौ इज्यादेरपि यथोचितकालान्तरे समाहरणं रहस्याम्नायादिषु प्रपञ्चितमिहाविरुद्धमिति सूचितम् | स्वाध्याययोगयोश्च यथावसरं मात्रया सर्वत्रानुप्रवेशः प्रागेव दर्शित इति व्याख्यातः स्वाध्यायः | इति स्वाध्यायः योगः अथ योगं व्याख्यास्यामः | तत्र अनन्यप्रयोजनाधिकर्तव्यो योगविषेषः ईदृशः परमात्मायम् इत्यादिना श्रीशाण्डिल्यस्मृत्युक्तः प्रागेव दर्शितः | श्रीसात्त्वताद्युपदिष्टयोगप्रकाराणामविरोधश्च सम्यक् समर्थितः | तत्र भगवान् पराशरस्त्वेवमाह [तत्र पराशरस्त्वेवमाह भगवान् क ख ग झ]- आत्मप्रयत्नसापेक्षा विशिष्ता या मनोगतिः | तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते || इति | अयमेव त्वनन्यप्रयोजनस्य योगः | क्षुद्रयोगान्तराणि तु सिद्ध्यन्तरार्थान्येव योगशास्त्रेषु पठ्यन्ते | यद्यपि अनन्यप्रयोजनस्यापि तत्र तत्रोक्तन्यासविद्याभेदात् स्वनिष्ठाविषयतत्तत्संहितोक्तप्रक्रियाभेदाच्च अनुसंधेयरूपगुणविभूत्यादिकं नाना भवति तथापि स्वरूपनिरूपकानन्दत्वादिपञ्चकनिरूपितस्वरूपै सर्वशेषिणि परस्मिन ब्रह्मणि श्रीमति पुरुषोत्तमे तत्तद्विद्योदितरूपादिविशेषविशिष्टे मनोवृत्तिनैरन्तर्यरूपत्वं योगस्याविशिष्टम् | अत एव पृथग्भूतेषु दृष्टेषु चतुर्ष्वाश्रमकर्मसु | समाधौ योगमेवैकं शाण्डिल्यः सममुक्तवान् || इति महाभारतवचनं सुसंगतं [वचनमपि संगतं छ] भवति | योगे अनुसंधेया विषयाः अत्र तु भाष्यकाराद्युक्तनित्यगद्यस्तोत्रादिषु यथानुसंधानमुक्तं तथैव तत्संप्रदायनिष्ठैरनुसंधेयम् | श्रीवैकुण्ठगद्ये [तु शब्दः घ कोशेऽधिकः पठ्यते] अनन्यगतेः प्रपत्तिमेवापवर्गोपायं विधाय तस्यैव क्षुधितस्यारोगस्य क्षीरान्नभोजनादिवत् [क्षीरान्नभोजनवत् क ख ग ङ् च झ] स्वयंप्रयोजनतयैव ध्यानयोगविशेषः तदनुबन्ध्यनुसंधानविशेषाश्च प्रपऽऽञ्चिताः | तथहि स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् इत्यारभ्य स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य इत्यन्तेन प्राप्यप्रापकभूतशरण्याध्यवसायमुक्त्वा अनन्तरम् एइआन्तिकात्यन्तिकपरिचर्यैकमनोरथः इति पुरुषार्थविशेषलिप्साया अनन्यप्रयोजनतां प्रतिपाद्य तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः इत्यनन्योपायतानुसंधानमभिदाय तस्यैव भगवतः इत्यादिना महाविभूतेः श्रीमतः इत्यन्तेन शरण्यत्वाद्युपयुक्ताकारानभिदाय चरणारविन्दयुगलमनन्यात्मसंजीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् इति शरणवरणमेव मोक्षोपायत्वेन [मोक्षोपायत्वेनापि घ] विधाय ततश्च प्रत्यहमात्म्ज्जीवनायैवमनुस्मरेत् इति स्वतन्त्रप्रपत्तिनिष्ठस्यैव प्रत्यहं [प्राणरक्षणार्थं इति घकोशादन्यत्र पाथः] प्राणरक्षणार्थभोजनादिन्यायेन आत्मोज्जिवनार्थमनुस्मरणविशेषं विधाय विस्तरेण प्राप्यान्तर्गतं परमपदं वर्णयित्वा महति दिव्ययोगपर्यङ्केऽनन्तभोगिनि श्रीमद्वैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादिकं सर्वं परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनम् इत्यादिना भगवन्तं नारायणं ध्यानयोगेन दृष्ट्वा इत्यन्तेन परिपुर्णध्यानमुक्त्वा पुनः भगवतः इत्यारभ्य भगवत्परिचर्यायामाशां वर्धयित्वा इत्यन्तेन मां नयेद्यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् कदा द्रक्ष्यति मां पतिः इतादिवत् पुरुषार्थप्राप्तिमनोरथप्रकारान् प्रतिपाद्य तयैवाशया तत्प्रसादोपबृंहितया भगवदभिगमनं दूरात् सपरिवारस्य भगवतो नारायणस्य समस्तपरिवाराय इत्यादिना मन्त्रेणप्रणम्य उत्थाय पुनः पुनः प्रणामं चाभिद्याय [अनन्तरमेव क झ] अनन्तरमेवमनुसंधानमुक्तम् अत्यन्तसाध्वसविनयावनतो भूत्वा भगवर्पार्षदगणनायकैर्द्वारपालकैः कृपया स्नेहगर्भया दृशावलोकितः सम्यगभिवन्दिततस्तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलम्त्रेण मामैकान्तिकात्यन्तिकप्रिचर्याकरणाय परिगृह्णीप्ष्व इति याचमानः प्रणम्य आत्मानं भगवते निवेदयेत् | ततो भगवता अमर्यादशीलवता [अमर्यादाशीलवता क ख ग च छ झ] अतिप्रेमान्वितेनावलोकनेन सर्वदेशसर्वकालसर्वावस्थोचितान्त्यशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वसविनयावनतः किंकुर्वाणः कृताञ्जलिपुटो भगवन्तौपासीत | ततश्चानुभूयमानभावविशेषो निरतिशयप्रीत्या अन्यत् किंचित् कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानो भगवन्तमेवाविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन्नसीत | ततो भगवता स्वयमेवात्मसंजीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्.एशापहं निरतिशयसुख्हवहमात्मीयं श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वा अमृतसागरान्तरिमग्नसर्वावयवः सुखमासीत इति | योगे गद्यत्रयस्य प्रत्येकमुपयोगविशेषः अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेदभूयस्तया कैंकर्यत्वरातिशयाच्च प्राभातिकेऽभिगमने मितगद्यानुसंधानमुचितम् | बृहद्गद्यं तु समाराधनकाले विशेषतोऽनुसंधेयानां स्वरूपरूपगुणविभूतिदेवीभुषणायुधपरिजनपरिच्छदद्वारपालपार्षदादी नां यथावदनुसंधानहेतुतया [अनुसंधेयतया क ख ग झ] यथवस्थितस्वरूपरूपगुणविभूतिलिलोपकरणविस्तारमनुसंधाय तमेव शरणमुपगच्छेत् अखिलेत्यादिना इति समाराधनस्यादौ [समाराधनादौ इति घ कोशादन्यत्र पाठः] अन्ते च भाष्यकारैरेव विनियुक्तम् | श्रीवैकुण्ठगद्यं तु यामुनार्यसुधाम्भोधिमवगाह्य यथामति | आदाय भक्तियोगाख्यं रत्नं संदर्शयाम्यहम् || इति प्रारम्भात् पश्चादपि ध्यानयोगेन दृष्ट्वा इत्यभिधानात् फलरूपविलक्षणानुसंधानभेदानां विधानात् अविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन्नसीत इति कण्ठोक्तेश्च योगार्थकल्पिते काले [योगार्थसंकल्पकाले क ख ग च झ] विशेषतोऽनुसंधेयमिति भाष्यकाराशयः प्रतीयते | न च भक्तियोगाख्यं रत्नम् इति प्रारम्भात् मुपायभूतभक्तिविषयोऽयं प्रबन्ध इति भ्रमितव्यम् अनन्यगतिकस्य प्रपत्तेरवात्रोपायत्वेनोपदेशात्; उपायभूते फलभूते चानुसंधानविशेषे भक्तियोगशब्दप्रवृत्त्यविरोधाच्च | ततः सिद्धोपायैरप्ययं योगः स्वकाले निवेशनीयः | योगकालानियमादैकाग्र्यानुरूपै कालान्तरेऽपि [अनुरूपकालान्तरे क ख ग च झ] कदाचिद्भवति | यामिन्यां भवद्ध्यानस्य तु पावनत्वातिशयः स्मर्यते - प्रपन्ननामपि योगानुष्ठानस्यम् उपपातकयुक्तोऽपि महापातकवानपि | यामिन्याः पादमेकं तु ब्रह्मध्यानं समाचरेत् || इति | योगस्य पञ्चप्रकारभगवद्रूपविषयत्वम् ततश्च परस्मिन् व्यूहाख्ये विभवनिवहेऽर्चावतरणे [तथाप्यन्तर्यन्तर्यजहत् क ख ग झ] तथान्तर्यन्तर्यप्यजहदधिकारादिनियमाः | निरुध्य स्वं चित्तं निरवधिमहानन्तजलधौ निरस्तान्यापेक्षा नयत सफलं कालमखिलम् || एषु च [चकारः क ख ग झ किशेषु नास्ति] परव्यूहप्रभृतिषु चित्तलम्बनेषु प्रपत्त्येकनिष्ठा नाथमुनिप्रभुतयः सुलभतमत्वेन परिपूर्णत्वाविशेषाच्च समाहितचितानामप्यनुसंधेयमर्चावतारमेव चेतसः शुभाश्रयमालम्बन्त | तत्र यद्यपि शीघ्रसाक्षात्कारहेतुभूतो मन्त्रविशेष उच्छिन्नसंप्रदाय इति वृद्धा विदामासुः तथापि स्वावगतैर्मन्त्रविशेषैरमन्त्रकं वा यथासंभवं यथासंप्रदायं तदनुसंधानमस्याप्यवर्जनीयमेव [तदनुसंधानमप्यवर्जनीयमेव क ङ् च छ झ; तथानुसंधानमप्यवर्जनीयमेव ख] | सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः इत्यादिना तस्य पूर्णत्वं सिद्धम् | श्रीवैखानसेऽपि तदनुसंधानस्यैव मुख्यत्वं प्रतिपादितम् | यथोक्तं क्रियाधिकारे मानसी होमपूजा च बेरपूजेति सा त्रिधा इत्युपक्रम्य [इति प्रक्रम्य घ ङ् छ]- योगे प्रपन्नस्य अर्चावतारानुसंधानं मुख्यम् यथोपयोगशक्यत्वात् कर्तुं पुष्पादिपूजनम् | चक्षुषः प्रीतिकरणान्मनसोऽपि तथैव च [मनसो हृदयस्य च इति घ कोशादन्यत्र पाठः] || प्रीत्या संजायते भक्तिर्भक्तस्य सुलभो हरिः | तस्मात् त्रयाणामेतेषां बेरपूजा विशिष्यते || इति | आह च भगवान् शौनकः सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् | दृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः || तामर्चयेत् तां प्रणमेत् वा यजेत् तां विचिन्तयेत् | विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् || इति | अतो यत्र द्वचित् भगवद्रूपे यथाशक्ति [यथाशक्ति क ख ग झ कोशेषु नास्ति; अतः द्वचित् भगवद्रूपनिरन्तरानुसंधानं ख] निरन्तरानुसंधानं नाधमुनिप्रभृतिवत् सिद्धोपायैरपि निर्वेशनीयम् [निवेशनीयम् क ख ग झ] | एवं तु सात्त्वतोक्दः संध्यादिनिद्रान्तकर्मसंग्रहः - सात्त्वताद्युक्तं सायंसंध्यादिकम् प्राप्तेऽथ संध्यासमये स्नात्वा वा जघनावधि [स्नात्वा च जघनावधि ख] | क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् || [अर्चयित्वार्ध्यपूजाधैः क ख ग झ] अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत्तथा | यथाशक्ति जपं कुर्यादासाद्य शयनं ततः || समाधाय बहिर्देवं निरालम्बपदे स्थितम् [स्थितः ङ् च छ] | अप्रमत्तेन [अप्रयत्नेन ग घ ङ् छ] वै तावदनिरुद्धेन चेतसा || सह तेनैव वै निद्रा यादवभ्येति सांप्रतम् || इति | पाद्मे त्वेवमुक्तम्- ततः पश्चिमसंध्यायां प्राप्तायां तत्र चोदितम् | जपहोमादिकं सर्वं कृत्वा परमपुरुषम् || अर्चयित्वा यथान्यायं यथापूर्वमशेषतः | भुक्त्वा संविश्य शयने समुत्थाय महानिशि || आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् | योगासने समासीनो युञ्जीतात्मानमात्मनि || यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख | संहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् || आत्मानं चापि हृत्पद्मे परमात्मनि विष्ठिते | संहरेदुत्थितो योगात् स्वापं क्लेशापहं व्रजेत् || इत्येष कथितो ब्रह्मन् योगकालश्च पञ्चमः || योगस्य यथाशक्त्यनुष्ठेयत्वम् इति | न चैतन्निरन्तरभगवदनुसंधानं सनकादिसाध्यमस्मदादिभिर्दुऽशकमिति मत्वोदासितव्यम् यथारोग्यं भोजनवत् यथाशक्ति तदास्वादस्यापरित्याज्यत्वात् | उक्तं व [च शब्दो घ कोशे नास्ति] श्रीमत्प्रह्लादेन - आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् | पापक्षयश्च भवति स्मरतां तमहर्निशम् || इति | अतो यथा वा [वा शब्दः घ ङ् छ कोशेषु नास्ति] - द्रष्टुमिच्छामि ते रूपमैश्वरं परमेश्वर | मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || भगवत्कैंकर्यरूपनिद्रानुभवप्रकारः इत्येतावद्वादिनोऽर्जुनस्य भगवान् विश्वरूपं स्वात्मानं दर्शयामास एवमत्रापि स्वानुभवसापेक्षान् [स्वानुभवतापेक्षाणां ङ् च छ; घ कोशोऽत्र शिथिलः] यथामनोरथं परमोदारो भगवानेव स्वात्मानमनुभावयति | अतो निर्यत्नलब्धेन भगवदनुभवानन्दसंदोहेन कृतार्थोऽस्मीति मन्यमानः करणकलेबरानुगुण्यावधि सुखमासीनो विविधव्यापारायस्तस्य [व्यापारायत्तस्य क ख ङ् च छ झ; व्यापारायासितस्य ग] करिष्यमाणयोगोपकरणभूतस्य करणवर्गस्य विश्रान्तये स्वयमुपनमन्तीं निद्रां न निवारयेत् युक्तस्वप्नावबोधस्य इति स्मरणात् | निद्रैव तदा कैंकर्यम् | सुषुप्तौ च तद्भावो नाडीषु तच्छ्रुतेरात्मनि च इति शारीरकसुत्रोक्तेन प्रासादखट्वापर्यङ्कयनायेन [प्रासादखट्वाङ्गपर्यङ्कन्यायेन ग] नाडीपुरीतद्ब्रह्मसु [ब्रह्मणि ख ग घ ङ् छ] स्वात्मनः शयनमनुसंधाय लक्ष्मीपरिष्वङ्गव्यञ्जकेन माधवशब्देन भगवन्तं संकीर्तयन् यथा प्रियया संपरिष्वक्तः इत्यारभ्य प्राज्ञात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् इत्याम्नातप्रक्रियया [इत्यादिप्रक्रियया क ख ग च झ] [परमात्मनि परिस्वङ्ग इति घ कोशादन्यत्र पाठः] परमात्मपरिष्वङ्गविशेषं च परामृश्य यत् करोषि इत्यादिप्रस्थानेन निद्रामपि समाराधनत्वेन मन्यमानः संशुद्धशुस्कपादः शास्त्रोक्तप्रकारेण समुचिते स्थाने शास्त्रीये शयनीये चोदितदिक्छिराः शुद्धत्वानग्नत्वादिनियमयुक्तः [शुद्धत्वादिनियमयुक्तः घ] श्रीशाण्डिल्यस्मृत्याद्युक्तप्रकारेण स्वाराध्यस्य भगवतश्चरणारविन्दयोर्विन्यस्तशिरस्कः शयनासनयानादौ इत्यादिविधानात् तमेव माधवं हृदये [हृदयेऽपि घ] ध्यायन् तमेव कीर्तयन् सुखं शयीत | यदा यदा च [च शब्दः घ कोशादन्यत्र नास्ति] निद्राविच्छेदस्तदा तदा तमेव ध्यायेत् | संकोर्तयेच्च तानि नामानि पुनरा निद्रागमात् | सोऽयं प्रदोषप्रभृति ब्राह्ममुहूर्तावधि [मुहूर्तपर्यन्तं ङ् छ] सारस्वतस्रोतस [स्रोत इव क ख च झ] इव विश्रमान्तरितस्य योगस्यावसरः अवसरान्तरेऽप्यैकाग्र्यसंभवे कर्मान्तरसंकोचेन स्वीकार्य इति [स्वीकार्यमिति ख ग घ ङ् छ] प्रागेवोक्तम् || इति योगः पञ्चकालपरस्य सर्वो व्यापारः कैंकर्यरूपः एवं वर्तमानस्य सर्वः कालोऽप्यबन्ध्यो भवति सर्वे व्यापाराः कैंकर्यरूपा भवन्ति सर्वोऽप्यानुषङ्गिको भोगः क्रीडाशुकक्षीरास्वादन्यायेन स्वामिभोगशेषभूतो भवतीति भगवत्कैंकर्यकरतेः परमैकान्तिनोऽनादिमायानिशावसानेऽनन्तमोक्षावसरप्राम्भे च प्रत्युषवदास्थितोऽयमायुःशेषकाल इति | स चायमौत्सर्गिकः क्रम उक्तः | अपवादे तु व्युत्क्रमविलोपादिप्रवृत्तिः | तथाहि- उपवासदिवसेष्वेकदश्यादिषु अनुयागस्य लोपो भवति | सप्ताङ्गमेव च [च कारः क ग ङ् च झ कोशेषु नास्ति] तदानीं यजनम् | पञ्चकालानुष्ठानक्रमस्य क्वचित् अपवादः अत एव चानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः | तदर्थकालश्च [तदर्थः कालश्च घ ङ् छ] तस्मिन् दिवसे स्वाध्याययोगादिष्वन्यतमेन यथोचितं यापनीयः | कदाचित् द्वादश्यादिषु प्रभाते पारणं भवति | तदर्थं पूर्वं यजने [पूर्वयजने क ख घ झ] कृतेऽपि स्वकालप्राप्तं मध्यंदिनयजनं सप्ताङ्गं तिष्ठति | वैशेषिकार्चनेषु बहुषु एकदिवसे क्रमात् संभवस्तु अङ्गगुणविरोधे च तादर्थ्यात् इति न्यायेन उपादानादिप्रवृत्तिर्लेशतः प्रतिरुध्यते | तत्र पूर्वदिवसार्जितैर्द्रव्यैः परोपनीतैर्वा तत्तत्क्रियानिष्पत्तिः | यजनं च सर्वस्मिन् कालेऽभ्यनुज्ञातम् | खिन्नवृत्तेरन्यपरस्यातुरस्य कलहाद्युपद्रुतस्य च भोजनात् पूर्वं यदाकदाचिल्लब्धेऽवसरे [लब्धावसरे क ख ग च झ] भवति | अत्यन्ताशक्तौ तु ऋत्विक्पुत्रशिष्यादिभिः स्वसमैरन्यैः कार्यते | तत्र त्वयमपवादः सम्र्यते - विधुरो ब्रह्मचारी च वानप्रस्थोऽथ भिषुकः | परार्थं कर्म कुर्वाणाः पातयन्ति पतन्ति च || इति | ईषच्छक्तौ तु संकुचितयजनम् एकोपचारमारभ्य तत्तच्छक्त्यात्यनुसारेण सहस्रोपचारान्तविधानात् | विषुवायनद्वितयपञ्चदशी इत्यादिना प्रतिषिद्धे.ववसरेसु वेदाभ्यासरूपस्वाध्यायो लुप्यते | तदा तत्कालमप्यनन्यपरस्य परधानतमो योगः समास्कन्दन्ति | त्रयोदऽऽईनिशामुखे च तस्याप्यपवादं केचिदिछन्ति | तदापि सर्वक्रियान्तरनिरोधपूर्वकं मौनव्रतमनुष्ठीयमानं सात्त्विकत्यागप्रक्रियया स्वकीयेन मया स्वप्रीत्यर्थं भगवतैव कार्यते इत्यनुसंधेयम् | तस्मात् आलोड्य सर्वशास्त्राणि इत्यारभ्य धेयो नारायणः सदा इत्यादिभिरुक्तं भगवदनुस्मरणं सर्वत्र सावकाशम् | अविछिन्नस्मृतिसंततिरूपत्वादिकं तु मात्रया भज्यते | आशौचादिष्वपि भगवत्संकीर्तनादि कार्यम् एवं मृतकसूतकाद्यप्रायत्यकालेष्वपि प्रयतकर्तव्यशास्त्रीयसर्वकर्मविलोपः | तदानीं तु [विलोपवत्तदानीं ख; विलोपात्तदानीं ग] मौनावसरव्यतिरिक्तः कालः संकीर्तनेन स्मरणेन च यापनीयः सततं कीर्तयन्तो माम् तस्मात् सर्वेषु कालेषु मामनुस्मर इत्यादेस्तदानीं निरपवादत्वात् | प्रत्युत - चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् | नाशौचं कीर्तनं तस्य पवित्रं भगवान् हरिः | नाशौचं कीर्तने तस्य स्मरणे वापि विद्यते || [अपवित्रः पवित्रो वा इति विष्णुधर्मे पाठः] अशुचिश्चाप्यनाचारः सर्वावस्थां गतोऽपि [सर्वावस्थागतोऽपि घ ङ् छ] वा | यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः || इत्यादिभिः कीर्तनस्मरणयोराशौचकालेऽपि अनुष्ठेयत्चोक्तेः | किंच [किंच इति शब्दो घ कोशे नास्ति] संकीर्तयेज्जगन्नथं वेदं वापि समीरयेत् | ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् | यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् || इत्यादिभिः देशकालावस्थाधिकार्याद्यविशेषेण [अधिकार्यादिविशेषेण घ; अधिकार्यादिविशेषेण विहितवेदाभ्यास ख ग; अधिकार्याद्यविशेषेण विहितं वेदाभ्यास क झ] वेदाभ्यासध्यानयजनार्चनस्थाने [ध्यानजपार्चनस्थाने क ख ग घ च] तुल्यफलतया संकीर्तनस्य विहितत्वात् प्रपन्नाभिमतभगवत्प्रीतेश्च तावतैव सुलभत्वाच्च सर्वदेशसर्वकालाधिकार्यद्यनुगुणं संकीर्तनमेव कर्मान्तरलोपकाले समुचितम् | विशेषतः कलिधर्मत्वाच्च [कालधर्मत्वाच्च क ख ग] | कलौ युगे प्रयतस्यापि ह्यन्याशक्तस्य तदेव युक्तम् | यथाह भगवान् शौनकः कीर्तनादिव कृष्णस्य मुक्तबन्धः परं व्रजेत् इति | अत एवाभिगमनस्य न् कदाचिदपि लोपः अप्रयतस्यापि दूरावस्थितस्य[दूरादवस्थितस्य घ ङ् छ] संकीर्तनप्रणामाञ्जलिबन्धभाषास्तोत्रलौकिकवाक्यमात्रपूर्वकप्रपदनैर पि तत्स्वरूपनिष्पत्तेः | ननु [भागवतसदाचार्य क ख छ झ; भागवतस्य घ] भागवतस्य सदाचार्यसकाशात् सम्यगधिगतवेदान्तस्य ब्रह्मवित्त्वेन सद्यःशौचविधानादनुवृत्तशौचासिद्धेः कथं कर्मविलोपः मैवम् रहस्याम्नायनिष्ठानामेव तच्छाखागृह्योक्तप्रक्रियया तदभावात् | मन्त्रसिद्धान्तादिनिष्ठानां तु दीक्षितानामपि प्रक्रान्तमहोत्सवाधिकारिष्वेव तन्निषेधः | यद्यपि ब्रह्मवित्त्वमेतेषामविशिष्टम् [ब्रह्मवित्त्वं तेषामप्यविशिष्टं क ख ग च झ; ब्रह्मवित्वमेव तेषामविशिष्टं ङ् छ] तथापि कृतादिषु त्रिषु [त्रिषु शब्दः घ च कोशयोः नास्ति] युगेषु तेषामपि सद्यःशौचम् वृत्तस्वाध्यायसंपन्नस्यावसंकोचनं तथा इति [घटिका व्यवस्था घ ङ्] व्यवस्थावचनेन कलियुगे वृत्तदिनिमित्तघसंकोचप्रतिषेधात् | न च वाच्यम् - एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः | व्यहात् केवलवेदस्तु निर्गुणो दशभिर्दिनैः || इत्यादिषुक्तस्याग्निवेदादिनिमित्तस्याघसंकोचस्यायं प्रतिषेधः न तु ब्रह्मवित्त्वनिमित्तस्येति [इति शब्दः घ् च कोशयोः नास्ति] | मैवम् यथोक्तब्रह्मविदामपि वृत्तगुणशब्देन ग्रहणसंभवे संकोचकाभावत् | न च ब्रह्मविच्चब्देन प्रव्रजितग्रहणं ब्रह्मविदां प्रव्रजितानां च सद्यःशौचार्हत्वेन [सद्यःशौचानर्हत्वेन घ ङ् छ] पृथगुपादानात् [पृथुगुपादानात् | यथोक्तम् ..... मैवम् | ब्रह्मवेदनादीनामपि ङ् छ; ब्रह्मवादिनामपि घ; पृथगुपादानादिति यथोक्तब्रह्मविदामपि च अत्र कोशाः पाठतो बहुधा भिद्यन्ते | अस्मिन् स्थले ख ग घ ङ् कोशेषु यथोक्त इत्यस्यानन्तरं मैवमित्यस्य पूर्वं च पङ्क्तिलोपसूचकानि चिह्नानि च दृश्यते] | तर्हि सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा इति सहपठितानां सत्रिप्रभृतीनामपि सत्रव्रतब्रह्मचर्यदानादिगुण[गुण इति पदं क ख ग झ कोशेषु नास्ति]निमित्तमघसंकोचनमिति तेषामपेतदन्तिमयुगे न स्यादिति चेन्न [न इति पदं क ख ग च झ कोशेषु नास्ति] अनुष्ठानतस्तद्व्यवस्थापनात् | अद्यापि हि सद्यः शौचं व्रत्यादिषु शिष्टैरनुष्ठीयते | न [शारीराधिगम इति घ कोशादन्यत्र पाठः] शारीरकाधिगमसिद्धब्रह्मवेदनवतामपि गृहस्थानां क्वचित् तधानुष्ठानं [तदनुष्ठानं क ख ग च झ] दृश्यते | अनन्तबाह्यकुदृष्टिसिद्धन्तव्याकुलतत्त्वाध्यवसाये रागादिदोषान्धकारबहुले बहुलनिशीथखद्योतकल्पगुणलवेऽपि [अपि शब्दः क ख ग च झ दोशेषु न दृश्यते] कलिविलुप्तस्वधर्मवर्गेऽस्मिन् काले ब्रह्मविदामसंभवादेव [तदनुष्ठानदर्शनं क ख ग ङ् च झ] तथानुष्ठानादर्शनमिति चेत् तर्हि कस्येदानीं ब्रह्मविदः सद्यःशौचेन कर्मलोपं परिजिहीर्षसि कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे | यस्य चेतसि गोविन्दो गृदये यस्य नाच्युतः || इति न्यायेन यः कश्चिद्यत्र क्वचिद् ब्रह्मविदथापि [ब्र्ह्मविदपि क ख ग च झ] संभवतीति चेत् सत्यम् स तावत् व्यासागस्त्यबृगुपतिविभीषणप्रभृतिभिस्त्वयाप्यदृष्टे क्वचित् प्रदेशे वर्तमानः स्वान्तरात्मसाक्षिकं तथानुतिष्ठतु नाम् तदन्येषां [अन्येषां क ख ग च झ] तु भागवतमर्यादां प्रविष्टानां परिपूर्णब्रह्मवित्त्वाभावेऽपि [हि शब्दः घ ङ् छ कोशेषु नास्ति] ह्युपनीतावस्थत्वमात्रेण द्विजत्ववत् [संस्कारविशेषादियोग क ङ् च छ झ] संस्कारवेषादियोगमात्रेण भागवतत्वमात्रं सिद्धमिति तावन्मात्रवैशिष्ट्य[वैशिष्ट्य घ कोशादन्यत्र नास्ति]शालिनां तन्निबन्धनाधसंकोचे प्रमाणं क्वचिन्न पश्यामः | अत एव हि [हिशब्दः घ कोशे नास्ति] तेषामपि पौष्करादिषु आशौचमनुमतम् | यत्तु तत्रत्यसंस्कारविशेषवतः कस्यचित् आशौछकालेऽपि मानसयागमात्रमनुमन्यते तत् गायत्रीस्मरणपूर्वकजलाञ्जलिप्रक्षेप्न्यायेन नेतव्यम् | विष्ण्वर्चनमपि हि [हि शब्दः क अ झ कोशेषु नास्ति] प्रत्यक्षश्रुतिसिद्धं नित्यं चेति प्रागेवोक्तम् | मानसयागमात्राभ्यनुज्ञानेन [मात्रानुज्ञानेन क अ झ] शेषनिषेधश्च तत्रापि दिद्ध इति | तदेवं स्वतः प्राप्तिमपवादप्रकारांश्च [अपवादप्रकारं च क ख; प्राप्तानपवादप्रकारांश्र ग; स्वतः प्रापतमपवादप्रकारं च च] यथावदधिगम्यायं धर्मोऽनुष्ठेयः | धर्मानुष्ठानप्रकारस्य दुरूहत्वम् एकं यदि भवेच्छास्त्रं ज्ञानं निःसंशयं भवेत् | बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदर्लभम् || इत्यादिभिर्याथार्थ्येन अतिविततगहनगम्भीरविविधविकल्पबहुतरशास्त्रसंक्षोभजनितदिङ्मोहशान्त् अये सर्वैः संकलनमात्रं [शान्तये कलामात्रं ङ् च छ; शान्तये सर्वैः संकलन इति पङ्क्तिः घ कोशे उपनीतावत्थत्वमात्रेण इति पूर्वनिर्दिष्टवाक्यस्यानन्तरं प्रमादवशाल्लिखिता प्रतिभाति] त्विह कृतम् | अनेनैव प्रस्थानेन प्रशमितदिङमोहैः समर्थैः आ प्रमातात् अनुष्ठेयानि सर्वाणि कर्माणि प्रत्येकं बहुतरेतिकर्तव्यतामुख्यानुकल्पविकल्पापवादादिविधायकतत्तच्छास्त्रेषु यथावदधिगम्यानुष्ठेयानि | हन्त तर्हि दुर्ज्ञाने दुष्करेऽस्मिन् प्रस्थाने को नाम् [अद्य इति शब्दः क ग च झ कोशेषु नास्ति] अद्याधिकारि स्यादिति चेत् मैवं भेतव्यम् भगवत्पूजनस्य नित्यत्वसुकरत्वादिकम् न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् | सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः || नित्यं विष्ण्वर्चनं परम् इत्यादिभिः सर्वोत्तरत्वेन च [च शब्दः क ख ग च झ कोशेषु नास्ति] नित्यत्वेन च श्रुतेऽस्मिन् धर्मे अष्टवर्षस्य ब्रह्मचर्यधर्म इव यथाकथंचिदनुप्रवेशस्यापि [अपि शब्दः क ख ग च झ कोशेषु नास्ति] युक्तत्वात् स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् | न हि कल्याणकृत् कश्चिद् दुर्गतिं तात् गच्छति | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते | इत्यादिन्यायेन [इति न्यायेन क ख च झ] भगवतैवाश्रितवत्सलेन शेषपूरणात् | स्मरन्ति च- सकृदुच्चरितं [सकृदुच्चारितं घ ङ् छ] येन हरिरित्यक्षरद्वयम् | बद्धः परिकरस्तेन मोक्षाय गमनं प्रति || सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा | वैकुण्ठनामग्रहणमशेषाघविनाशनम् || सकृत् स्मृतोऽइ गोविन्दो नृणां जन्मशतैश्चितम् | पापराशिं दहत्याशु तूलराशिमिवानलः || हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः | अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः || दुर्गसंसारकान्तारमपारमभिधावताम् | एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः || एकोऽपि कृष्णे सुकृतप्रणामो दशाश्चमेधावभृथेन तुल्यः | दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय || उपोषितः पोषितो वा दृष्टो वा [दुष्टो वा छ] प्रणतोऽपि वा | प्रसह्य हरते पापं को न सेवेद्धरिं ततः || को हि भारो [कोऽतिभारः क ख ग ङ् च छ झ] हरेर्नाम्नि जिह्वायाः [जिह्वया क ख झ] परिकीर्तने | आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् | पापक्षयश्च भवति स्मरतां तमहर्निशम् || किं त्वया नार्चितो देवः केशवः क्लेशनाशनः | उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः || अन्यत् पूर्णादपां कुम्बादन्यत् पादावनेजनात् | अन्यत् कुशलसंप्रश्नान्न चेच्छति जनार्दनः || पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु | भवत्येकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः || पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्द्युपहृतमश्नामि प्रयतात्मनः || अण्वप्युपहृतं भक्तैर्मम तोषाय [भोगाय ख ग घ] कल्पते || इत्यादि | उक्तं च नारदीये श्रिमतष्टाक्षरब्रह्मविद्यायां षोडशोपचारोक्त्यनन्तरम्- एव्वमष्टाक्षरेणैव सर्वत्रार्चनकर्मणि | उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा || तुलसीपद्मपालाशसुवर्णकुसुमैः शुभैः | पूजयित्वा जगन्नथं फलमानन्त्यमश्नुते || गन्धैः पुष्पैः फलैर्मूलैः पग्रैर्वारिभिरेव [फलैः पत्रैर्धूपैर्वारिभिः क च झ] वा | नित्यं भगवतः पूजां यथासंभवमाचरेत् || समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः | साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् || इति | एतेन भगवत्पूजनस्य नित्यत्वं सुकरत्वं स्वयंप्रयोजनत्वं च व्यक्तमुक्तम् | यत् पुनरिदं विकलसमाराथनादौ प्रत्यवायादिकमुच्यते- नित्यार्चने वैकल्येऽपि दोषाभावः सर्पं दृष्ट्वा ध्यानं यथा कायं [दृष्ट्वा नरः कायं ख ग ङ् छ; दृष्ट्वा महाकाव्यं घ] कम्पते च मुहुर्मुहुः | अमन्त्रमर्चकं दृष्ट्वा तथा भीतो [महाभीतः घ] जनार्दनः || गन्धहीने भयोत्पत्तिः पुष्पहीने तु संकुलम् | नैवेद्यहीने [निवेद्यहीने ख ग घ ङ् छ] दुर्भिक्षं मरणं मन्त्रहीनके || अमन्त्रमविधिं चैवमकालं चैव पूजनम् | नित्यं राष्ट्रभयं कुर्यात् तद्ग्रामं [ग्रामस्तु इति चेत् साधुः] तु विनश्यति || अमन्त्रैणैव यत्पूज्यं पिशाचासुरवर्थ्नम् | व्याधितस्करदोषौ च अन्नवृष्टिर्महद्भयम् || इत्यादि तदेतत् सर्वं राजराष्ट्रादिसमृद्ध्यर्थ[समृद्ध्यर्थं क ख ग च झ]काम्याराधनेषु अन्येष्वपि पूर्णानुष्ठानशक्तस्य संपूर्णद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकलप्समर्थस्यानुकल्पेन वृत्तौ च [प्रवृत्तौ च क ख ग च झ] दोषमाह न तु नित्ये कर्मणि [नित्यकर्मणि क च झ] निष्कामस्य यथाशक्तिकरणे | स्मरन्ति च मन्वादहः - वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः | तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् || इत्यादि | अस्ति चान्यो भगवद्धर्मस्य विशेषः यमधिकृत्यायं सात्त्वतसंग्रहः - सकृत् त्र्यहं च सप्ताहं पक्षं मासमधापि वा | यो यजेद्विधिनानेन भक्तिश्रद्धसमन्वितः || सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र [योग क ख झ] संस्थितः | यावज्जीवावधिं कालं बद्धकक्षो महामतिः || इति | एतदेव संक्षिप्तं नारायणमुनिभिः - दिनमेकमपि प्रीतो यः कुर्यान्मदिमान्नरः | सुकृती किं पुनर्यावज्जिवमेवं समाचरेत् || इति | उक्तं चाहिर्बुध्न्येन - समाराधयस्त्वेवमेकाहमपि नारद | मुक्तिः करे स्थिता [करस्थिता क ख ग च झ] तस्य सर्वे कामाश्च किं पुनः || इति | तदिदं फलार्थिविषयम् | अन्येषां तु स्वयंप्रयोजनत्वं प्रागेव स्थापितम् | तदभिप्रायेणोक्तं वङ्गिवंशेश्वरैः - एवमेकदिनं वाथ [यावत् क ख ग च झ] द्विदिनं त्रिदिनं तु वा | मासं वा वत्सरं वापि यावज्जीवितमेव वा || वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखम् | प्रारब्धे मध्यतो विर्घ्नैर्विच्छिन्नेऽप्यत्र कर्मणि || नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः | प्रारब्धेष्वसमाप्तेषु विच्छिन्नष्वन्यकर्मसु || भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि | कृतः स्वल्पांशकोऽप्यस्य स्थित्वा सुचिरमक्षयम् || त्रायेतैव स्वकर्तारं स्वशक्त्या भवभीतितः | श्रद्धावानधिकार्यस्मिन्नुक्ते [युक्ते मुद्रितकारिकापाठः] कर्मणि वैष्णवे || नापरः कुलवृत्तादिगुणः कर्तुर्विशेषतः [कर्तुं विशेषतः क झ; कश्चिद्विशेषतः घ; कर्तृविशेषतः च] | येन केनचिदेषित्रा भाव्यमस्मिंस्तु कर्मणि || तस्मिन् सुदुर्लभे लब्धे [क्रियैव घ ङ् च छ] कृपैवानन्तरक्रिया | ज्ञानक्रमतपोयोगयुक्तानप्यधिकारिणः || श्रद्धाहानिः परो दोषश्च्यावयेदधिकारतः | स्वोक्तासूपनिषत्स्वेवमुक्तवानुत्तमः पुमान् || श्रद्धश्रद्धे समुद्दिश्य तस्माच्छ्रद्ध परो गुणः | नेह कालक्रियाकर्तृद्रव्यदिग्देशसंश्रिता [संस्थिता क ख ग झ] || एषितारं तदिच्छां वा विहायास्ति नियन्त्रणा | निषेधाविषयीभावादृते नैवापरो गुणः || प्रीतिहेतुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु | अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् || प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना | अहो हरिं ब्रुवन्नेवं मुक्तिमेत्यप्यहो अहो || अहो अहो सुलभता कृपा चेयमहो अहो | अस्त्येव निर्मलं तोयमयत्नसुलभं भुवि || दृश्यन्ते च शुभा दूर्वाः सुलभाः सर्वदिक्ष्वपि | अस्ति जिह्वा हरिं [वक्तुं ङ् छ] स्तोतुमात्मीयैवास्यमध्यगा || स्वकरावपि कर्मीणौ ध्यातुमस्त्येव मानसम् | अतो न हानिर्मन्त्राणां [योग ङ् च छ] यागविघ्नकरी हरेः || सामग्र्येषा हि संपूर्णा [वक्त्रादिः मुद्रितकारिकापाठः] पत्राद्येकैकमेव तु | अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि || प्रायश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् | सत्यसंकल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके || नित्यनिर्दोषनिःसीममहाविभवयोगिनि [महामहिमयोगिनि ङ् छ] | स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि || निर्मलानन्त्विज्ञाननिधवुदधिशायिनि | स्वसंकल्पकृताशेषजगज्जन्मलयस्थितौ || अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति | अतोऽनङ्गिकृताशेषकर्तृदोषविमर्शया || कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्र्क्रियाम् || इति | अत्र तत्क्रियाम् इति सामान्यनिर्देशात् यथाधिकारं साक्षात् समाराधनम् परैस्तत्प्रवर्तनम् समारावनापेक्षितप्रदानेन शुश्रूषणम् इत्यादिकं सर्वं संगृहीतम् | उक्तन्यायेन यनूनाधिकोपचारादिकमपि स्र्वमुपपादितं मन्तव्यम् | अपि च अप्रयत्नलभ्यैरान्तरपुष्पादिभिरपि भगवदुपासनं स्मर्यते - भगवदाराधने आन्तरपुष्पादीनां मुख्यत्वम् अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः | सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः [तथैव च घ] || ज्ञानं पुष्पं तपः पुष्पं द्यानं पुष्पं तु सप्तमम् | सत्यमेवास्टमं पुष्पं तेन तुष्यति देशवः || इति | आह च भगवान् शौनकः - रागाद्यपेतं हृदयं वागदुष्टानृतादिना | हिंसादिरहितः कायः केशवाराधनं त्रयम् || इति | पूर्णानुष्ठतुः समाहृत्यानुष्ठातुश्च तुल्यफलत्वम् प्रत्येकं संपूर्णसमाराधनमित्यर्थः | अतो यथाधिकारं यथाशक्यमत्र श्रद्दधानैः दर्यार्द्रहृदयदेशिकोपदेशपूर्वकमनुप्रविश्य देशकालदशाद्यानुगुण्येनाच्छिद्रं यथाक्रमं समाहृत्य वानुतिष्ठद्भिः अनन्यप्रयोजनैः परमैकान्तिभिः अनवधिकपरमपुरुषचरणपरिचरणरूपम् [परिचर्यारूपम् क ख ग च झ] अपवर्गैश्चर्यं यथारोग्यं यथायोग्यं चात्रैव भोइतव्यमिति सिद्धम् | ग्रन्थोपसंहारः [सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्जयित्वा जानुन्याधाय सव्येतरभुजमपरं [सव्येतरमितरभुज क ख ग ङ् च झ; सव्येतरभुजमितरं ङ् छ] नागभोगे निधाय | पश्चाद्भाहुद्वयेन प्रतिभटशमने [प्रदिभयशमने घ] धारयन् शङ्खचक्रे देवीभूषादिजुष्टो जयनतु [वितरतु ङ् छ] जगतां शमं वैकुण्ठनाथः [नवजलदनिभः पातु दिव्यः परो न - इत्यस्मिन्नेव ग्रन्थे इज्यारम्भे दृश्यमानः पाठः (१३७ पुटे)] || विदितनिगमसीम्ना वेङ्कटेशेन तत्त- द्बहुसमयसमक्षं बद्धजैत्रध्वजेन | प्रतिपदमवधानं पुष्यतां सात्त्वतानां प्रषदि विहितेयं पञ्चकालस्य रक्षा || कण्डुलाः [किल च]कलिकज्जलाविलधियः केचिज्जडा निष्फलं विक्रोशन्तु वियच्चरैः सह बलिव्यत्यासवित्रासिभिः | मोघाशापि तथाविधेष्ववितथेष्वार्येष्वमोघा [आर्गेष्वमोघा क च झ] भृ.शं मुक्तरिश्वर्यमहाफलोद्गमधिया चर्येयमाचर्यताम् || त्यक्तं शास्त्रमलेपकप्रभृतिभिः किं तेन तस्यागतं प्रद्विष्टं जगदेकचक्षुषि दिवाभीतैस्ततस्तस्य किम् | दुग्धं पित्तहतैर्जुगुप्सितमतस्तस्यापि किं दुर्जनै- स्त्यक्तं चेदपि मत्कृतं सुरुचिरं किं देशिकैस्त्यज्यते || इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां नित्यव्याख्यानाख्यः तृतीयोऽधिकारः श्रीपाञ्चरात्ररक्षां संपूर्णा ########### END OF FILE #######