#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00112 Uniform title: pāśupatabrahmopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: pāśupatabrahma upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### पाशुपतब्रह्मोपनिषत् भद्रं कर्णेभिः- इति शान्तिः पूर्वकाण्डः जगन्नियन्तृविषयाः सप्त प्रश्नाः अथ ह वै स्वयंभूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायते कामेश्वरो वैश्रवणः || १ || वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयंभुवं परिपृच्छति- जगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि कस्य वशानि कालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते कस्य महिमा गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् || २ || विवरणम् पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् | परमानन्दसंपूर्णं रामचन्द्रपदं भजे || इह खलु अथर्वणवेदप्रविभक्तेयं पाशुपतब्रह्मोपनिषत् हंससूत्रस्वरूपप्रकटनव्यग्रा निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजयते | अस्याः संक्षेपतो प्. २२८) विवरणमारभ्यते | वालखिल्यस्वयंभूप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | आख्यायिकामवतारयति- अथेति | अथ प्राण्यदृष्टपरिपाकानन्तरम् | ह वा इति वृत्तार्थस्मरणार्थौ निपातौ | स्वयमेव भवतीति स्वयंभूः ब्रह्मा तस्य प्रजाः सृजेयमिति कामं कामः कामकामो जायते प्रादुर्बभूव | तत्संकल्पानुरोधेन कामेश्वरो रुद्रः, ललाटात् क्रोधजो रुद्रोऽजायत इति श्रुतेः, वैश्रवणश्च || १ || वैश्रवणनामकः ब्रह्मपुत्रः वालखिल्यः ऋषिपूगश्च स्वयंभुवं परिच्छति | किमिति ? जगतां का विद्येत्यादि सप्तधा प्रश्नः कृतः | एतदहं त्वत्तः सकाशात् श्रोतुमिच्छामि | त्वद्विनैतद्वक्ता न हि कोऽपि विद्यते | अतो ब्रह्मन् त्वं ब्रूहि || २ || सप्तप्रश्नानामुत्तराणि स्वयंभूरुवाच- कृत्स्नजगतां मातृका विद्या || ३ || द्वित्रिवर्णसहिता द्विवर्णमाता त्रिवर्णसहिता चतुर्मात्रात्मकोंकारो मम प्राणात्मिका देवता || ४ || अहमेव जगत्त्रयस्यैकः पतिः || ५ || मम वशानि सर्वाणि युगान्यपि च || ६ || अहोरात्रादिमतिसंवर्धिताः कालाः || ७ || मम रूपा रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि || ८ || गगनो मम त्रिशक्तिमायास्वरूपः नान्यो मदस्ति || ९ || तमोमायात्मको रुद्रः सात्विकमायात्मको विष्णू राजसमायात्मको ब्रह्मा | इन्द्रादयस्तामसराजसात्मिका न सात्त्विकः कोऽपि अघोरः साधारणस्वरूपः || १० || प्. २२९) इति पृष्ठो भगवान् स्वयंभूरुवाच | किमिति ? जगतां का विद्या इत्याद्यप्रश्नमपाकरोति- कृत्स्नजगतां मातृका अकारादिक्षकारान्तरूपिणी विद्या, तस्या वैखरीप्रपञ्चनिर्वाहकत्वात् || ३ || का देवता इति द्वितीयप्रश्नमपाकरोति- द्वित्रिवर्णेति | पदरूपेण द्वित्रिवर्णसहिता स्वयमकारोकाराख्यद्विवर्णतो मीयत इति द्विवर्णमाता मकारेण सह त्रिवर्णसहिता स्थूलमेतद्ध्रस्वदीर्घप्लुतम् इति श्रुत्यनुरोधेन य ओंकारः चतुर्मात्रात्मको भवति सोऽयं मम प्राणात्मिका देवता || ४ || जाग्रत्तुरीययोरस्य को देवः इति प्रश्नमपाकरोति- अहमेवेति | अस्य जाग्रदादितुरीयान्तकलनाकलितस्य जगत्त्रयस्य अहमेक एव देवः, मम सूत्रादिरूपेण जगत्त्रयचालकत्वात् || ५ || यानि कस्य वशानि इति प्रश्नमपाकरोति- ममेति | कृतादियुगानि, अपिचशब्दाभ्यां स्थावरजङ्गमात्मकं जगच्च मद्वशे वर्तत इत्यर्थः || ६ || कालाः कियत्प्रमाणाः इति प्रश्नमपाकरोति- अहोरात्रेति | निमेषाहोरात्रादिमत्या संवर्धिताः कल्पावसानाः कालाः || ७ || कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते इति प्रश्नमपाकरोति- मम रूपा इति | यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || इति स्मृतेः || ८ || कस्य महिमा गगनस्वरूपः इति चरमप्रश्नमपाकरोति- गगन इति | गगनः गगनम् | क्रियाज्ञानेच्छारूपेण दुर्गालक्ष्मीसरस्वतीरूपेण वा मायामयाः तिस्रः शक्तयः तत्कार्यजातं च मन्महिमास्वरूपमित्यर्थः | अहमेतादृशः परमेश्वरः, मदतिरेकेण न किंचिदस्तीत्याह- नान्य इति || ९ || रुद्रादयः किंगुणविशिष्टा इत्यत आह- तम इति | तस्य सर्वसंहारकतया तामसगुणोपाधित्वात् | विष्ण्वतिरेकेण न सात्त्विकः कोऽपि, तस्य सर्वमर्यादापालकतया शुद्धसत्त्वरूपत्वात् | अत एवाऽयं अघोरः सर्वसाधारणस्वरूपः सत्त्वगुणावष्टम्भतः शान्तरूपेण भक्तकोटिसाधारणत्वात् || १० || प्. २३०) सृष्टियज्ञे कर्त्रादिनिरूपणम् समस्तयागानां रुद्रः पशुकर्ता रुद्रो यागदेवो विष्णुरध्वर्युर्होतेन्द्रो देवता यज्ञभुङ् मानसं ब्रह्म महेश्वरं ब्रह्म || ११ || सृष्टियज्ञे रुद्रादयः कीदृशाः सन्तः किं कुर्वन्ति इत्यत आह- समस्तेति | तत्र रुद्रस्तु अग्निष्टोमादिवाजिमेधान्तसमस्तयागानां विशसनकर्मणि पशून् करोतीति पशुकर्ता यागसामान्यस्य पशुप्रधानत्वात् रुद्रः | यागदेवः, यागप्रधानाहुतिद्रव्यस्य विष्ण्वायत्तत्वात्, विष्णुः अध्वर्युः अन्यूनाधिकतया तत् पालयन् | चालकत्वात् होता इन्द्रः, स्तुतशस्त्रकृत्त्वात् | तत्तद्देवतारूपेण पशुपतिरेव यज्ञभुक् | मानसं ब्रह्म- वाङ्मौनपूर्वं मानसं मनसा सर्वर्त्विङ्निर्वर्त्यप्रयोगद्रष्टृत्वेन यज्ञोपबृंहणात्- महेश्वरं ब्रह्म ब्रह्मणः सर्वद्रष्टृतया ब्रह्म ब्रह्माणं महेश्वरं विद्धि || ११ || नादानुसंधानयज्ञः मानसो हंसः सोऽहं हंस इति तन्मयं यज्ञो नादानुसंधानम् | तन्मयविकारो जीवः || १२ || कोऽयं यज्ञ इत्यत्र नादानुसंधानम् इत्याह- मानस इति | हंसः- सोऽहमिति चिरभावनातः तन्मयं तद्भावसाधनं यत् नादानुसंधानं तदेव मानसो यज्ञो भवतीत्यर्थः | एवमनुसंधाता जीवस्तु उच्छ्वासनिःश्वासवद्यन्मनः तन्मयविकारः | जीवस्य प्राणमन-उपाधिकत्वात् तद्विकारत्वं युज्यत इत्यर्थः || १२ || परमात्मनो हंसत्वनिरूपणम् परमात्मस्वरूपो हंसः | अन्तर्बहिश्चरति हंसः | अन्तर्गतोऽनवकाशान्तर्गतसुपर्णस्वरूपो हंसः || १३ || प्. २३१) हंसस्तु स्वतत्त्वज्ञानेन स्वातिरिक्तभ्रमं हन्ति अपह्नवं करोतीति हंसः परमात्मा भवति | स कुत्र आसनमर्हतीत्यत्र- सोऽयं हंसः प्राणापानोपाधियोगात् अन्तर्बहिश्चरति | यद्वा- सर्वप्राण्यन्तर्बहिश्चरति प्रत्यगभिन्नब्रह्मरूपेण उपलभ्यते, अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः इति श्रुतेः | सर्वप्राण्यन्तः कामादयो वर्तन्ते, बाह्ये शब्दादिविषयाश्च, तथा सति स्वव्याप्तेः अनवकाशात् कथमन्तर्गतो बहिर्गतो वा भवितुर्महतीत्यत्र- सर्वप्राण्यन्तर्बाह्यगतकामशब्दादिविषसर्पग्राससुपर्णस्वरूपो हंसः | प्रत्यगभिन्नं ब्रह्मास्मीति सम्यग्ज्ञानस्य स्वान्तर्बाह्यकलनाविलयपूर्वकत्वात् हंसः स्वान्तर्बहिः व्याप्य परिपूर्णौ भवतीत्यर्थः | तथाच स्मृतिः- विषया बाह्यदेशस्था देहस्यान्तरहंकृतिः | सर्वग्रहोपसंशान्तौ स्वयमेवावशिष्यते || इति || १३ || यज्ञसूत्रब्रह्मसूत्रयोः साम्यम् षण्णवतितत्त्वतन्तुवद्व्यक्तं चित्सूत्रत्रयचिन्मयलक्षणं नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं चिद्ग्रन्थिबन्धनम् अद्वैतग्रन्थिः || १४ || यज्ञसाधारणाङ्गं बहिरन्तर्ज्वलनं यज्ञाङ्गलक्षणब्रह्मस्वरूपो हंसः || १५ || बाह्यान्तर्भासमानयज्ञब्रह्मसूत्रयोः साम्यमाह- षण्णवतीति | चतुरङ्गुलमानेन षण्णवतिसंख्याविशिष्टं यज्ञसूत्रं यथा व्यक्तं भवति तथा षण्णवतितत्त्वतन्तुविशिष्टं ब्रह्मसूत्रं व्यक्तं भवति | यज्ञसूत्रं तु सूत्रत्रयविशिष्टतन्तुलक्षणं, ब्रह्मसूत्रं तु द्वितुर्याविकल्पात्मना चित्सूत्रत्रयचिन्मयलक्षणं भवति | यथा यज्ञसूत्रं सूत्रत्रयं त्रिरावृतं यदि तदा नवसूत्रं भवति तथा ब्रह्मसूत्रमपि द्वितुर्याविकल्पत्रयं त्रिरावृतं चेत् नवमहातत्त्वात्मकं भवति | यद्वा- तुर्यविश्वविराडोत्रादिभेदेन नवतत्त्वं तुर्यप्राज्ञबीजानुज्ञैकरसात्मना त्रिरावृतं तृतीयपादपर्यवसन्नं प्. २३२) भवति | यद्वा- नवतत्त्वत्रिरावृतं ब्रह्मसूत्रं ब्रह्मविष्णु महेश्वरात्मकं गार्हपत्याद्यग्नित्रयकलोपेतं वा भवति | एवं त्रिधाभिन्नब्रह्मसूत्रैक्योपायस्तु चिन्मात्रादतिरिक्तं त्रिधा विभक्तं न किंचिदस्तीति चिद्ग्रन्थिबन्धनम् | व्यष्टिसमष्टितदैक्यावभासकचितामैक्यं ग्रन्थिबन्धनतः कथमित्यत्र- अद्वैतग्रन्थिः तदैक्यग्रन्थेः तद्भेदग्रासत्वात् अद्वैतग्रन्थिः अद्वितीयपरमात्मा भवतीत्यर्थः | यदा यज्ञसूत्रब्रह्मग्रन्थिः तदैक्यहेतुः तथा अत्रापीत्यर्थः || १४ || बाह्यान्तःसूत्रयोः सामानाधिकरण्यमाह- यज्ञेति | यज्ञसूत्रं बहिः ज्वलतीति यथा बाह्ययज्ञसाधारणाङ्गं भवति तथा ब्रह्मसूत्रमन्तर्ज्वलतीत्यन्तर्यज्ञसाधारणाङ्गं भवतीति ज्ञेयम् | हंसस्तु अन्तर्यज्ञाङ्गलक्षणब्रह्मस्वरूपो भवति || १५ || ब्रह्मयज्ञो ब्राहमणाधिकारिकः उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः | ब्रह्माङ्गलक्षणयुक्तो यज्ञसूत्रम् | तद्ब्रह्मसूत्रम् | यज्ञसूत्रसंबन्धी ब्रह्मयज्ञः तत्स्वरूपः || १६ || बाह्ययज्ञास्तु उपवीतलक्षणसूत्रवद्ब्रह्मगा ब्रह्मणाश्रया भवन्ति | यज्ञसूत्रं ब्रह्माङ्गलक्षणयुक्तो वेदाङ्गलक्षणयुक्तो ब्राह्मणो भजति | तत् ब्रह्मसूत्रमपि स एव भजति | तत् कथमित्यत्र- यज्ञसूत्रवद्ब्राह्मणसंबन्धी ब्रह्मयज्ञः, ब्रह्मनिष्ठाया ब्राह्मणनिर्वर्त्यत्वात् | यो यन्निष्ठः स तत्स्वरूपो भवति || १६ || प्रणवहंसस्य ब्रह्मयज्ञत्वम् अङ्गानि मात्राणि | मनोयज्ञस्य हंसो यज्ञसूत्रम् | प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् | प्रणवान्तर्वतीं हंसो ब्रह्मसूत्रम् | तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् || १७ || प्. २३३) यत्प्रणवनिष्ठः प्रणवो भवति तदङ्गानि कानीत्यत्र- मात्राणि अकारादिमात्राः | अङ्गिप्रणवस्वरूपं कीदृशमित्यत्र- मनोयज्ञस्य अन्तर्यज्ञस्य फलत्वेन यो विराजते हंसः तत्स्वरूपमेव यज्ञसूत्रम् | प्रणवं प्रणवः ब्रह्मसूत्रमयं ब्रह्मयज्ञश्च | यत एवम् अतो हंस एव सर्वं, तदतिरिक्तं न किंचिदस्ति इत्यर्थः | यो हंसः प्रणवार्थतया प्रणवान्तरुपलभ्यते स एव ब्रह्मसूत्रम् | प्रत्यगभिन्नं ब्रह्म यत् ब्रह्मसूत्रं तदेव ब्रह्मयज्ञमयं निर्विशेषब्रह्मज्ञानम् | तदेव मोक्षक्रमं स्वातिरिक्तभ्रममोक्षणस्य स्वमात्रज्ञानमेव साधनं, तदतिरिक्तसाधनजालस्य तन्मोक्षणेऽकिंचित्करत्वात् | अयमेव हि क्रमः ; नान्यः पन्था अयनाय विद्यते इति श्रुतेः || १७ || ब्रह्मसंध्याक्रियारूपो मनोयागः ब्रह्मसंध्याक्रिया मनोयागः | संध्याक्रिया मनोयागस्य लक्षणम् || १८ || मनोयागः कीदृश इत्यत आह- ब्रह्मेति | तत् त्वमसि अहं ब्रह्मास्मि इति प्रत्यक्परब्रह्मणोरैक्यमेव संध्याक्रिया मनोयाग उच्यते | तयोः संध्याक्रिया हि मनोयागस्य लक्षणम् इत्यत्र- जीवात्मपरमात्मनोः एकत्वज्ञानेन तयोः भेद एव विभग्नः, सा संध्येति- नोदकैर्जायते संध्या न मन्त्रोच्चारणेन तु | संधौ जीवात्मनोरैक्यं सा संध्या सद्भिरुच्यते | इति श्रुतेः स्मृतेश्च || १८ || हंसप्रणवाभेदानुसंधानं अन्तर्यागः यज्ञसूत्रं प्रणवम् | ब्रह्मयज्ञक्रियायुक्तो ब्राह्मणः | ब्रह्मचर्येण चरन्ति देवाः | हंससूत्रचर्या यज्ञाः | हंसप्रणवयोरभेदः || १९ || प्. २३४) हंसस्य प्रार्थनास्त्रिकालाः | त्रिकालास्त्रिवर्णाः | त्रेताग्न्यनुसंधानो यागः | त्रेताग्न्यात्माकृतिवर्णोंकारहंसानुसंधानोऽन्तर्यागः || २० || चित्स्वरूपवत्तन्मयं तुरीयस्वरूपम् | अन्तरादित्ये ज्योतिःस्वरूपो हंसः || २१ || यज्ञाङ्गं ब्रह्मसंपत्तिः | ब्रह्मप्रवृत्तितत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति || २२ || हंसप्रणवयोः अभेदं वक्तुं भूमिकां करोति- यज्ञसूत्रमिति | यज्ञत्वेन सूचनात् यज्ञसूत्रं ब्रह्मप्रणवं प्रणवः, यज्ञस्य विष्णोः प्रणवार्थत्वात् ब्रह्मयज्ञक्रिया निष्कामकर्मानिष्ठानसहकृतध्यानसमाधिः, तदनुष्ठाता ब्राह्मणः, तस्य परापरब्रह्मवित्त्वात् | ब्रह्मभावे मनश्चारो ब्रह्मचर्यं विदुर्बुधाः इति श्रुत्यनुरोधेन देवा इन्द्रादयोऽपि सदा ब्रह्मचर्येण चरन्ति, तेषां प्रजापतिशिष्यत्वेन ब्रह्मवित्त्वात् | यज्ञा अपि हंससूत्रचर्याः अन्तर्यज्ञानां प्रत्याहारधारणाध्यानसमाधीनां हंससूत्रचर्याभिर्वावहेतुत्वात् | आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् इति स्मृतिसिद्धः हंसप्रणवयोरभेदः, वाच्यवाचकयोरेकत्वात् || १९ || हंसप्रणवयोरेकत्वं कथमित्यत्राह- हंसस्येति | प्रत्यगभिन्नपरमात्मनो हंसस्य आप्त्युपायभूताः प्रार्थनाः श्रणवादयः | ते त्रिकालाः, श्रवणादीनां कालपरिच्छेद्यत्वात् | भूतादित्रिकाला एव अकारादित्रिवर्णाः | विश्वविराडोत्रादित्रेताग्न्यनुसंधानोऽनुसंधानमन्तर्यागः | तत् कथमित्यत्र- विश्वादित्रेताग्न्यात्मनां द्वितुर्याविकल्पपर्यवसन्ना- नां व्यष्टिसमष्टितदुभयैक्याकाराद्याकृतिवर्णवदोंकारार्थ- निष्प्रतियोगिकतुर्यतुर्यहंसः स्वमात्रमित्यनुसंधानोऽनुसंधानमन्तर्यागः || २० || विश्वविराडोत्रादिचित्स्वरूपवत्तन्मयं तद्गतहेयांशापायसिद्धं तुर्यप्रविभक्ततुरीयस्वरूपम् | तद्विकल्पितान्तरादित्ये स्वान्तःकामादिवृत्त्यवभासकप्रत्यक्सूर्ये तदभेदेन विद्योतमानज्योतिःस्वरूपो हंसः परमात्मा || २१ || तदनुसंधानात्मकान्तर्यज्ञाभिधानाङ्गं सम्यग्ज्ञानमङ्गिब्रह्मसंपत्तिहेतुः, स्वाप्तेस्वातिरिक्तासंभवसिद्धस्वज्ञानपूर्वकत्वात् | प्. २३५) अत एव ब्रह्मविदादयः पराक्प्रवृत्तिनिरसनपूर्वकं प्रत्यगभिन्नब्रह्मगोचरा प्रवृत्तिः तदालम्बनभूतः प्रणवः तदर्थभूतप्रत्यक्परविभागैक्यासहतुर्यतुर्यहंसरूपेण तुरीयोंकाराग्रविद्योतं तुर्यतुर्यं ब्रह्ममात्रमसन्न हि इत्यादिश्रुतिततिसूचनात् हंससूत्रं मद्व्यतिरिक्तमणुमात्रं न विद्यते इति निर्विशेषब्रह्मज्ञानं तेनैव हंसः स्वमात्रमिति ध्यानमाचरन्ति | एवंनिष्ठाः तत्स्वरूपा एव भवन्तीत्यर्थः || २२ || षण्णवतिहंससूत्राणि प्रोवाच पुनः स्वयंभुवं प्रतिजानीते ब्रह्मपूत्रो ऋषिर्वालखिल्यः | हंससूत्राणि कतिसंख्यानि कियद्वा प्रमाणम् || २३ || हृदादित्यमरीचीनां पदं षण्णवतिः | चित्सूत्राघ्राणयोः स्वर्निर्गता प्रणवाधारा षड्ङ्गुलदशाशीतिः || २४ || बालखिल्यः स्वयंभूमुखात् एवमवगम्य पुनः स्वावगतिदार्ढ्याय ब्रह्मयज्ञसूत्रेयत्तां पृच्छतीत्याह- प्रोवाचेति | वालखिल्यो मुनिः पुनः स्वयंभुवं प्रति हे भगवन्- भवान् सर्वं प्रतिजानीते, तव निरङ्कुशसर्वज्ञत्वात्- हंसस्य परमात्मनः प्रापकतया सूचनात् सूत्राणि कतिसंख्याकानि कियद्वा तत्प्रमाणं तदियत्तेति तद्बुभुत्सया प्रोवाच पृष्टवान् || २३ || प्रश्नोत्तरं भगवानाह- हृदीति | हृदि विलसितकामादिवृत्तिसहस्रभावाभावप्रकाशचिदादित्यमरीचीनां तत्त्वकिरणानां वराहोपनिषत्प्रकाशितानां पदं स्वरूपं षण्णवतिः, कार्पासकयज्ञसूत्रषण्णवतितुल्यमित्यर्थः षण्णवतिसंख्याकचित्तत्त्वमरीचयः क्व आविर्भूता इत्यत्र- चित्सूत्रोपलब्धिहेतुहृदयाद्याघ्राणयोः विश्वकायविराड्ढृदये तत्संकल्पत आविर्भूय- आघ्राण इत्यत्राकारः छान्दसः- घ्राणयोः घ्राणाभ्यां अकारादिस्वरात्मकोच्छ्वासरूपेण बहिर्निर्गतानि तत्त्वानि प्. २३६) तेषां भेदाः | किमाधारा इत्यत्र परापरब्रह्माधिष्ठितप्रणवाधाराः सन्तः अद्यापि वर्तन्ते | कतिविधा इत्यत्र षडङ्गुलदशाशीतिः षण्णवतिविधा भवन्ति | यद्वा- षण्णवत्यङ्गुलपरिमितषण्णवतितत्त्वात्मका भवन्ति || २४ || हंसात्मविद्यैव मुक्तिः वामबाहुदक्षिणकट्योरन्तश्चरति हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः || २५ || ये जानन्ति तेऽमृतफलकाः | सर्वकालं हंसं न प्रकाशकम् | प्रणवहंसान्तर्ध्यानप्रकृतिं विना न मुक्तिः || २६ || इत्थंभूतविराट्छरीरवामबाहुदक्षिणकट्योरन्तश्चरति हंसः परमात्मा यथा यज्ञसूत्रं वामबाहुदक्षिणकट्यन्तं विराजते तथा वामबाहुदक्षिणकट्युपलक्षितसर्वाङ्गं स्वाविद्यापदतत्कार्यजातं तदन्तर्बहिश्च विश्वविश्वाद्यविकल्पानुज्ञैकरसान्तभेदेन चरति | वस्तुतस्तु हंसः तत्सर्वापह्नवसिद्धपरमात्मरूपेण अवशिष्यत इति योऽर्थः सोऽयमर्थो ब्रह्मगुह्यप्रकारः नान्यत्र विदितः, अत्रैव विशेषतः प्रकटितत्वात् || २५ || विद्याफलमाह- य इति | किं सर्वेऽप्येवं हंसं आत्मतया विदित्वा तद्वेदनफलं अमृतत्वं नाप्नुयुः इत्यत आह- सर्वेति | श्रुतिः स्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते | आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः || इति स्मृतिसिद्धस्वाज्ञारूपश्रुतिस्मृतिमार्गोल्लङ्घकानां निष्प्रतियोगिकब्रह्ममात्रं भावरूपं ब्रह्मातिरिक्ताविद्यापदतत्कार्यजातमपि निष्प्रतियोगिकाभावरूपं नानयोः वाच्यवाचककार्यकारणाधाराधेयत्वम् अस्तीति सर्वकालं सदा न प्रकाशकं प्. २३७) हंसमात्मानं, विद्धीति शेषः | तेषां स्वापराधदोषावृतत्वात् दिवाभीतसूर्यवदात्मा स्वरूपप्रकाशको न भवतीत्यर्थः | सत्त्वकृतेः मुक्तिः नेतरस्येत्याह- प्रणवेति | प्रणवहंसः स्वान्तःप्रणवार्थतुर्यतुर्यहंसः सोऽहमिति ध्यानप्रकृतिः ध्यानशीलो जीवन्मुक्तः | तस्य मुक्तिः करस्था | तं विना न कस्यापिमुक्तिरस्ति || २६ || बाह्यापेक्षया आन्तरयागस्य श्रेष्ठत्वम् नवसूत्रान् परिचर्चितान् | तेऽपि यद्ब्रह्म चरन्ति | अन्तरादित्यं न ज्ञाअतं मनुष्याणाम् || २७ || जगदादित्यो रोचन इति ज्ञात्वा ते मर्त्या विबुधास्तपनप्रार्थनायुक्ता आचरन्ति || २८ || वाजपेयः पशुहर्ता अध्वर्युरिन्द्रो देवता अहिंसा धर्मयागः परमहंसोऽध्वर्युः परमात्मा देवता पशुपतिः || २९ || ब्रह्मोपनिषदो ब्रह्म | द्वाध्याययुक्ता ब्रह्मणाश्चरन्ति || ३० || ये तु पुनः विश्वविराडोत्रादिप्राज्ञबीजानुज्ञैकरसान्ततया मिथो भिदाचर्चितान् परस्परभेदेन व्याहृतान् नवसूत्रान् आत्मेति भजन्ति तेऽपि यत् ब्रह्मेति वदन्ति तदेव चरन्ति भजन्ति, विश्वादिनवकगतहेयांशापाये तेषामपि ब्रह्मरूपत्वात् | तथापि ते यथावत् न जानन्तीत्याह- अन्तरिति | मनुष्याणां मनुष्यैः स्वान्तर्विलसितचिदादित्यस्वरूपं न ज्ञातं, तेषां स्वाज्ञानावृतत्वात् || २७ || तेषां कुत्र रुचिः ? जगदात्मकादित्यो रोचते, तेषां नामरूपमोहितदृष्टित्वात् | ते परमार्थात् हीयन्त इत्यर्थः | केचन एवं ज्ञात्वा मर्त्या विबुधाश्च स्वाज्ञानजस्वातिरिक्तध्वान्तग्रासचित्तपनप्रार्थनायुक्ताः चिदादित्योऽस्मीति नित्यानुसंधानशीलाः परमार्थतत्त्वमाचरन्ति || २८ || किमाचरन्तीत्यत्र अन्तर्यागमित्याह- वाजपेय इति | वाजं स्वातिरिक्तान्नरसं पिबतीति प्. २३८) वाजपेयो निर्विशेषज्ञानयज्ञः | देहादावात्मात्मीयाभिमतिपशुं हरतीति पशुहर्ता | य इन्द्रः परमेश्वरो देवतात्वेन अभिमतः स एव अध्वर्युः भूत्वा ज्ञानयज्ञचालको भवति | बाह्ययज्ञापेक्षया अस्य श्रैष्ठ्ये हेतुः अहिंसात्मकोऽयं मोक्षधर्मयागः | ज्ञानयागनिर्वाहकोऽध्वर्युः परमहंसपरिव्राजक एव | यज्ञदेवता तु पशुपतिः परमात्मैव देवता || २९ || इत्थंभूतब्रह्मोपनिषदः परमतात्पर्यार्थस्तु ब्रह्मैव नेतरत्, ब्रह्मणो वेदवेदान्तार्थत्वात् | के एवं आचरन्तीत्यत्र- स्वाध्याययुक्ता वेदवेदान्तार्थपारीणाः ब्राह्मणाः आचरन्ति, तेषां ज्ञानयज्ञे मुख्याधिकारित्वात् || ३० || ज्ञानयज्ञरूपोऽश्वमेधः अश्वमेधो महायज्ञकथा | तद्राज्ञा ब्रह्मचर्यमाचरन्ति | सर्वेषां पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रममिति || ३१ || महायज्ञकथा कीदृशी इत्यत्र- स्वातिरिक्तप्रपञ्चपशुमेधनं विशसनं अपह्नवः, श्वः परश्वो वा भवत्विति विश्वासानर्होऽश्वमेधः स्वज्ञानसमकालमेव स्वातिरिक्तसामान्यस्य अपह्नोतुं युक्तत्वात् | इयमेव हि निर्विशेषमहाज्ञानयज्ञकथा ख्यातिरित्यर्थः | तादृशाश्वमेधमहायज्ञे निष्प्रतियोगिकस्वमात्रतया राजत इति तद्राजा तेन तद्राज्ञा स्वकृतसाधनानुष्ठानेन ये अनुगृहीताः कृतार्था भवन्त्विति ते हि द्विविधब्रह्मचर्यमाचरन्ति ब्रह्मचर्यस्य तत्प्रसादबहिर्भूतानां सुदुर्लभत्वात् इति यत् तत् सर्वेषां मुमुक्षूणां यो ब्रह्मप्रापकमार्गोऽस्ति तं पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रमं चेति विद्धि || ३१ || तारकहंसज्योतिः ब्रह्मपुत्रः प्रोवाच | उदितो हंस ऋषिः | स्वयंभूस्तिरोदधे | रुद्रो ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणवस्तारकः स एवं वेद || ३२ || प्. २३९) इति स्वयंभुवा अनुगृहीतः ब्रह्मपुत्रः वालखिल्यगणः प्रोवाच | किमिति ? भगवदुपदेशमहिम्ना उदितो हंस ऋषिः सर्वापह्नवसिद्धनिष्प्रतियोगिकस्वमात्रतया हंसः परमात्मा प्रादुर्भूतः, तेन अहं कृतकृत्योऽस्मीति शिष्योक्तिमाकर्ण्य अतीव हर्षितः सन् स्वयंभूस्तिरोदधे | स्वस्वरूपं गतवानित्यर्थः | रुद्रो वैश्रवणोऽप्येवं वेदेत्याह- रुद्र इति | वैश्रवणेन साकं रुद्रोऽपि स्वयंभूमुखतः ब्रह्मोपनिषदः परमाशयो ब्रह्मतारकार्थः पशुपतिः हंसज्योतिरस्मीत्येवं विदितवानित्यर्थः || ३२ || उत्तरकाण्डः अखण्डवृत्त्या ब्रह्मसंपत्तिः हंसात्ममालिका वर्णब्रह्मकालप्रचोदिता | परमात्मा पुमानिति ब्रह्मसंपत्तिकारिणी | अध्यात्मब्रह्मकल्पस्य आकृतिः कीदृशी कथा || १ || कथं एवं विदितवानित्यत आह- हंसेति | अभिधेयरूपस्य हंसात्मनो मालिकावर्णोऽभिधानात्मकोऽयमोंकारः तदर्थरूपं ब्रह्मैव कालेश्वरस्वरूपमासाद्य एवं कर्तव्यमेवमकर्तव्यमिति सर्वप्राणिहिताहितविषयप्रचोदिता प्रचोदयिता प्रेरको भवति | स्वेन रूपेण पुमान् ईश्वरः स्वगतविशेषापाये निष्प्रतियोगिकपरमात्मा स्वमात्रमवशिष्यत इति या संविदखण्डाकारवृत्तिरुदेति सेयं ब्रह्मसंपत्तिं करोतीति ब्रह्मसंपत्तिकारिणी भवति इति या ब्रह्म वेद ब्रह्मैव भवति इत्यादिवेदान्तप्रसिद्धा सैवाध्यात्मब्रह्मकल्पस्याप्तावाकृतिः निरङ्कुशोपायभूतेत्यर्थः | उक्तार्थदार्ढ्याय चोदयत्येवम्- कीदृशी कथेति || १ || प्. २४०) परमात्मनि जगदाविर्भावो मायिकः ब्रह्मज्ञानप्रभा संध्या कालो गच्छति धीमताम् हंसाख्यो देवमात्माख्यमात्मतत्त्वप्रजा कथम् || २ || अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः | अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् || ३ || शिवशक्त्यात्मकं रूपं चिन्मयानन्दवेदितम् | नादबिन्दुकला त्रीणि नेत्रविश्वविचेष्टितम् || ४ || त्रियङ्गानि शिखा त्रीणि द्वित्रीणि संख्यमाकृतिः | अन्तर्गूढप्रमा हंसः प्रमाणान्निर्गतं बहिः || ५ || ब्रह्माकारवृत्तिकथा कीदृशी इत्यत्र- ब्रह्मज्ञानसूर्यप्रभा प्रत्यक्परचित्सिद्धिमैक्यं करोतीति संध्येत्युच्यते | तया हि खलु धीमतां जीवन्मुक्तानां कालो गच्छति, जीवन्मुक्तानां निर्विशेषब्रह्मसमाधिक्षपितकालत्वात् | स्वातिरिक्तपराक्प्रपञ्चग्रासहंसाख्यः प्रत्यग्देवं स्वप्रकाशचिन्मात्रं परमात्मानं भजति चेत् तदा स्वात्मतत्त्वे कथं विश्वविराडोत्रादिप्रजा जायते || २ || इत्यत्र- परमार्थतः स्वातिरेकेण कापि प्रजा न जायते, मायया पुनः प्रत्यगादिभावमेत्य यदा भासते तदा तद्भास्यवर्गोऽपि जात इव लक्ष्यत इत्याह- अन्तरिति | नारदपरिव्राजकोपनिषद्यष्टमात्रात्मकोऽन्तःप्रणवः सम्यक् प्रपञ्चितः | तत्रान्तःप्रणवनादावभासकः प्रत्यक् हंसः स्वान्तर्बाह्यविकल्पितपराक्प्रत्ययकदम्बबोधकोऽवभासको भवति | तथा चेत् किं तत् प्रत्यक्तत्त्वं न दृश्यत इत्यत्र- पराग्दृशामन्तर्गतप्रमया गूढं भाति प्. २४१) तद्दृष्ट्या ज्ञाननालं सर्वप्रकाशकज्ञानप्रत्यग्रूपेण प्रकाशितुं नालं नालं, समर्थमिव न हि स्थितमित्यर्थः | किं तदप्रकाशात्मकम् ? इत्यत्र- स्वेन रूपेण विराजितं तस्य स्वयंप्रकाशत्वेन सर्वप्रकाशकत्वात् || ३ || कैः एवं विदितम् इत्यत्र- प्रत्यग्दृष्टिभिः यत् शिवशक्त्यात्मकं शबलरूपं तदेव स्वगतविशेषांशापायतः सच्चिदानन्दोऽस्मीति वेदितं भवतीत्यत्र एष सर्वेषु भूतेषु गूढोत्मा न प्राकाशते | दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः || इति श्रुतेः | पुनः स्वाज्ञदृष्ट्या नादबिन्दुकला इति प्रणवावयवाः तत्कार्याणि अनुग्रहोपसंहारतिरोधानानि त्रीणि सदाशिवाद्यधिष्ठितानि एतद्विकल्पजातं दक्षिणाक्षिमुखे विश्वः इति, नेत्रस्थं जागरितं विद्यात् इति च, श्रुतिसिद्धनेत्रादिचतुर्दशकरण- निर्वर्त्यजाग्रदवस्थाभिमानिविश्वविचेष्टितं विकल्पितमित्यर्थः || ४ || विश्वेन कानि कानि विकल्पितानीत्यत्र- स्थूलसूक्ष्मकारणभेदेन त्र्यङ्गानि शरीराणि तदारूढविश्वतैजसप्राज्ञाख्यशिखारूपाणि त्रीणि द्वित्रीणि पञ्चभूततत्कार्यभौतिकानि संख्यं संख्यानि यानि संख्यावाचकानि सर्वत्र आकृतिः नामरूपविकृतिश्च उक्तानि अनुक्तानि च सर्वाणि विश्वस्वाज्ञानविकल्पितानीत्यर्थः | एवंविकल्पकविश्वगतविकल्पापाये स एव प्रत्यक् भवतीत्याह- अन्तरिति | यः पुरा सर्वप्राण्यन्तर्गूढप्रमारूपेण हंसो वर्तते सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिश्रुतिप्रमाणात् प्रत्यगभिन्नब्रह्मतत्त्वं बहिर्निर्गतं प्रकाशितं भवति | यदेवं श्रुतिप्रमाणसिद्धं तदेव सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेत् || ५ || हंसार्कप्रणवध्यानविधिः ब्रह्मसूत्रपदं ज्ञेयं ब्राह्म्यं विध्युक्तलक्षणम् | हंसार्कप्रणवध्यानमित्युक्तो ज्ञानसागरे || ६ || एतद्विज्ञानमात्रेण ज्ञानसागरपारगः | प्. २४२) आत्मानमेवावेदहं ब्रह्मास्मि इति विधिच्छायापह्नव[पन्न]वाक्योक्तलक्षणं ब्राह्म्यं ब्रह्ममात्रतया सूचनात् ब्रह्मसूत्रं स्वावशेषतया पद्यत इति पदं सदैकरूपेण विजृम्भत इति ज्ञेयम् | एवं हंसार्कप्रणवध्यानं यः करोति सोऽयं ज्ञानसागरे ब्रह्मणि समाप्तो भवेदित्युक्तो भवति || ६ || यः कोऽपि मुमुक्षुः एतदुक्तलक्षणं ब्रह्माहमस्मीति विज्ञानमात्रेण स्वान्तर्बाह्यविजृम्भितस्वातिरिक्त- ज्ञानाज्ञानतत्कार्यभ्रमसागरपारनिष्प्रतियोगिकब्रह्ममात्रा- वस्थानलक्षणविकलेबरकैवल्यतो भवतीत्यर्थः || परचित एव करणप्रेरकत्वम् स्वतः शिवः पशुपतिः साक्षी सर्वस्य सर्वदा || ७ || सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु | विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि || ८ || चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं शृणोत्यपि | अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु || ९ || स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् | प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः || १० || श्रोत्रमात्मनि चाध्यस्तं स्वयं पशुपतिः पुमान् | अनुप्रविश्य श्रोतस्य ददाति श्रोत्रतां शिवः || ११ || मनः स्वात्मनि चाध्यस्तं प्रविश्य परमेश्वरः | मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु || १२ || स एव विदितादन्यस्तथैवाविदितादपि | अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः || १३ || तत्तद्रूपमनुप्राप्य ददाति नियमेन तु | प्. २४३) स्वाज्ञविकल्पितकरणग्रामसत्त्वे तच्चालकः कः ? इत्यत आह- स्वत इति || ७ || स्वस्वविषये || ८-९ || न स्वभावतः, स्वतो निर्विकारत्वात् || १०-१२ || स्वस्यैव करणत्वं करणग्रामचालकत्वं यदि तदा अयं संसारी स्यादित्याशङ्क्य तत्रात्मात्मीयाभिमानाभावात् तद्विलक्षणतो न संसारीत्याह- स एवेति | यः करणजातस्वरूपी सन् तच्चालकोऽपि भवति स एव || १३-१४ || आत्मान्यस्य मायाकल्पितत्वम् ततश्चक्षुश्च वाक् चैव मनश्चान्यानि खानि च || १४ || न गच्छन्ति स्वयंज्योतिःस्वभावे परमात्मनि | अकर्तृविषयप्रत्यक्प्रकाशं स्वात्मनैव तु || १५ || विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः | इत्यादि केनोपनिषदि सम्यक् प्रपञ्चितमित्यर्थः | समानप्रकरणत्वात् प्रत्यक्त्वमपि मायिकमित्यत्राह- अकर्तृविषयेति || १५ || वस्तुतः स्वात्मनि मायासंभवः प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमः || १६ || तथा सति कथं मायासंभवः प्रत्यगात्मनि | तस्मात् तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने || १७ || स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि | व्यावहारिकदृष्ट्येयं विद्याविद्या न चान्यथा || १८ || प्. २४४) तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् | व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः || १९ || प्रकाश एव सततं तस्मादद्वैत एव हि | अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः || २० || प्रकाश एव सततं तस्मान्मौनं हि युज्यते | वस्तुतः स्वात्मनि मायासंभवमाह- प्रत्यगिति || १६ || यस्मादेवं तस्मात् || १७-१८ || स्वातिरेकेण व्यावहारिकदृष्टिरपि नास्तीत्याह- व्यावहारिकेति || १९ || अद्वैतमित्युक्तिरपि न तात्त्विकीत्याह- अद्वैतमिति, तद्द्वैतसापेक्षा अद्वैतमिति चोक्तिः || २० || आत्मज्ञानिनः ब्रह्मात्मत्वम् अयमर्थो महान् यस्य स्वयमेव प्रकाशितः || २१ || न स जीवो न च ब्रह्मा न चान्यदपि किंचन | न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च || २२ || न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च | यदा ब्रह्मात्मकं सर्वं विभाति स्वत एव तु || २३ || तदा दुःखादिभेदोऽयमाभासोऽपि न भासते | जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् || २४ || न तत् पश्यति चिद्रूपं ब्रह्मवस्त्वेव पश्यति | धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते || २५ || प्. २४५) भेदा[दोऽ]भेदस्तथा भेदाभेदः साक्षात् परात्मनः | नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा || २६ || ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च | तथैव ब्रह्मविज्ज्ञानी किं गृह्णाति जहाति किम् || २७ || अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् | यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् || २८ || अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा | नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् || २९ || ब्रह्मैवेदममृतं तत् पुरस्ताद् ब्रह्मानन्दं परमं चैव पश्चात् | ब्रह्मानन्दं परमं दक्षिणे च ब्रह्मानन्दं परमं चोत्तरं च || ३० || स्वात्मन्येव स्वयं सर्वं सदा पश्यति निर्भयः | तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता || ३१ || एवंज्ञानी शिव एवेत्याह- अयमिति || २१ || ब्रह्मा चतुर्मुखः || २२- २५ || भेदाभेदः साक्षात् परात्मनः- सापेक्षभेदाभेदयोः सविशेषत्वात्- नास्ति || २६-२८ || तदपाणिपदं तथा- इत्यादि मुण्डकोपनिषत्समानप्रकरणमित्यर्थः || २९-३५ || सत्यादि परविद्यासाधनम् एवंरूपा परा विद्या सत्येन तपसापि च | ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदान्तवर्त्मना || ३२ || प्. २४६) स्वशरीरे स्वयंज्योतिःस्वरूपं पारमार्थिकम् | क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः || ३३ || स्वज्ञस्य क्वचित् गमनाभावः एवं स्वरूपविज्ञानं यस्य कस्यास्ति योगिनः | कुत्रचिद्गमनं नास्ति तस्य संपूर्णरूपिणः || ३४ || आकाशमेकं संपूर्णं कुत्रचिन्न हि गच्छति | तद्वब्रह्मात्मविच्छ्रेष्ठः कुत्रचिन्नैव गच्छति || ३५ || ब्रह्मज्ञानिनः अभक्ष्याभावः अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् | आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वतः || ३६ || चित्ते शुद्धे क्रमाज्ज्ञानं त्रुट्यन्ते ग्रन्थयः स्फुटम् | अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः || ३७ || न सम्यग्ज्ञानिनस्तद्वत् स्वरूपं सकलं खलु | अहमन्नं सदान्नाद इति हि ब्रह्मवेदनम् || ३८ || ब्रह्मविद् ग्रसति ज्ञानात् सर्वं ब्रह्मात्मनैव तु | ब्रह्मक्षत्रादिकं सर्वं यस्य स्यादोदनं सदा || ३९ || यस्योपसेचनं मृत्युस्तज्ज्ञानी तादृशः खलु | ब्रह्मस्वरूपविज्ञानाज्जगद्भोज्यं भवेत् खलु || ४० || प्. २४७) जगदात्मतया भाति यदा भोज्यं भवेत् तदा | ब्रह्मस्वात्मतया नित्यं भक्षितं सकलं तदा || ४१ || यदाभानेन रूपेण जगद्भोज्यं भवेत्तु तत् | मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् || ४२ || स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः | अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् || ४३ || आहारशुद्धिः चित्तशुद्धिद्वारा ज्ञानहेतुः स्वाज्ञानाम् | स्वज्ञानी तु स्वातिरिक्तं सर्वं स्वमात्रतया ग्रसतीत्याह- अभक्ष्यस्येति || ३६ || ज्ञानं जायते तेन त्रुट्यन्ते || ३७-४५ || ज्ञानिनः स्वसर्वात्मत्वदर्शनम् अस्तितालक्षणा सत्ता सत्ता ब्रह्म न चापरा | नास्ति सत्तातिरेकेण नास्ति माया च वस्तुतः || ४४ || योगिनामात्मनिष्ठानां माया ह्यात्मनि कल्पिता | साक्षिरूपतया भाति ब्रह्मज्ञानेन बाधिता || ४५ || ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् | पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् || ४६ || इत्युपनिषत् || सर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकं स्वमात्रमवशिष्यते न कदाचित् तदतिरिक्तमस्तीति ब्रह्मविज्ञानसंपन्नो योगी स्वाज्ञदृष्टिप्रतीतम् अखिलं जगत् प्. २४८) मरुमरीचितुल्यतया कदाचित् पश्यन्नपि सदा तत् स्वात्मनः पृथक् नैव पश्यति | ब्र्ह्ममात्रस्य निष्प्रतियोगिकत्वेन ब्रह्मातिरिक्तमस्ति नास्तीति नहि विभ्रभावकाशोऽस्तीत्यर्थः || ४६ || इत्युपनिषच्छब्दः प्रकृतोपनिषत्समाप्त्यर्थः || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | पाशुपतोपनिषदो व्याख्यानं लिखितं लघु | पाशुपतीयविवृतिः द्विशतग्रन्थभूषिता || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे सप्तसप्ततिसंख्यापूरकं पाशुपतब्रह्मोपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######