#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00603 Uniform title: pañcaratnavyākhyā Manuscript : IFP transcript T00658 copied from MS GOML D5087 Description: Four viraśaiva texts all called pañcaratnavyākhyā Notes: Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : No place, unknown or undetermined #################################################### पञ्चरत्नव्याख्याचतुष्टयम् पञ्चरत्नव्याख्या- तन्त्रसारप्रकाशिका पृ०. १-२१ पञ्चरत्नव्याख्या- तारकदीपिका पृ०. २२-२८ पञ्चरत्नव्याख्या- शिवतत्त्वप्रकाशिका पृ०. २९-३६ पञ्चरत्नव्याख्या- श्रुत्यर्थप्रकाशिका पृ०. ३७-६६ १. पञ्चरत्नव्याख्या- तन्त्रसारप्रकाशिका ड् ५०८७ पृ०. १-२१ २. पञ्चरत्नव्याख्या- तारकदीपिका ड् ५०८८ पृ०. २२-२८ ३. पञ्चरत्नव्याख्या- शिवतत्त्वप्रकाशिका ड् ५०८९ पृ०. २९-३६ ४. पञ्चरत्नव्याख्या- श्रुत्यर्थप्रकाशिका ड् ५०९० पृ०. ३७- पृ० २) पञ्चरत्नव्याख्या-तन्त्रसारप्रकाशिका || शिवाय नमः || तन्त्रसारप्रकाशिका || शिवं श्रीवीरणाराध्यं नत्वा कुर्वे समासतः | व्याख्यां श्रीपञ्चरत्नस्य तन्त्रसारप्रकाशिकाम् || नत्वा पतिं तत्समवेत शक्तिं षडध्व हेतुं परमां परां वा || वक्ष्ये त्रयाणां पशुसंचयानां पाशात्मनां लक्षणमध्वनां च || अथास्य तन्त्रसार पञ्चरत्नस्य व्याख्यां तंत्रसारप्रकाशिकाख्यां संक्षेपतश्चिकीर्षुः प्रथमं पतिलक्षणमाह नत्वेति | पतिं पतिपदार्थरूपं परशिवं नत्वा || तदुक्तं नारायणोपनिषदि- पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् || तथा श्रीमत्किरणे- तथा नादिः शिवः कर्ता सर्वस्य जगतः स्थितः | यथा कालोह्यब्द? वि * र्तापि दृश्यते फलसाधनः || एवं शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया || श्रीमन्मृगेन्द्रे- अथोपलभ्यते * * * * कार्यत्व धर्मकम् | कर्तारमस्य जानीयो विशिष्टमनुमानतः || पौष्करे- विवादाध्यसितं विश्वं विश्ववित्कर्तृपूर्वकम् | कार्यत्वादावयोः सिद्धं कार्यं कुम्भादिकं यथा|| लयभोगाधिकारात्म व्यापार त्रय लक्षितः || स्वभावादच्युतः शक्तः पदार्थः पतिसंज्ञितः || पराख्ये- मूर्ताः सावयवाः (ह्य)र्था नानारूप परिच्छदाः|| स्थूला वयव शिष्टत्वाद्बुद्धिमद्धेतु पूर्वकाः || अतोऽस्ति बुद्धिमान् कश्चिदीश्वरः समवस्थितः || पृ० ३) विश्वसारोत्तरे- अचेतनस्य मायादेः प्रवर्तकतया पतिः | सिद्धः सर्वार्थ वित्कर्ता व्यापकः सततोदितः || इत्यादि सकल * * * * * * * गम प्रकरणैः पतिदार्थः प्रसिद्धः | अथ पतिरूपकृत्ये आह वृद्धजाबालोपनिषदि- ङिरञ्जनो नित्यस्वरूपः * * * * वादानध्यासुः सकलागम संवेद्य इति || श्रीमृगेन्द्रे- तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः | ईश तत्पुरुषाघोरवामाद्यैर्मस्तकादिकम् || जगज्जन्मस्थितिध्वंस तिरोभाव विमुक्तयः || कृत्यं सकारकफलं ज्ञेयमस्यै तदेव हि || पौष्करे- यथार्कः पऽऽन्कजं नित्यं बोध संशोषणादिभिः | कर्मभिर्बोधकाख्याभिर्लभतेऽत्र तथा शिवः|| बिन्दुक्षोभो यतः शम्भोः शक्तिरेव प्रवर्तते || ज्ञानक्रियात्मिका सापि सत्यानि * * * * * * त प्रभुः| अनन्यस्य शिवास्यैव वस्तुतो मूर्तिरैश्वरी || अथ समवेतशक्तिस्वरूपमाह - तत्समवेतशक्तिं नत्वेति | श्वेताश्वतरोपनिषदि- परास्यशक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च|| मृगेन्द्रे- करणं च न शक्त्यन्यच्छक्तिर्वा चेतनाचितः| निषयानियमादेकबोधे कृत्ये च तत्तथा || रत्नत्रये- शक्तिरप्रतिघोदारमरीचि निचयात्मिका | चितिरेव मताम्लान महिमा परमेष्ठिनः || पौष्करे- व्यापकं नित्यमचलं सर्वतोमुखमैश्वरम् | तस्मिन्विस्पष्टचिन्मात्रो व्यापकत्वादि धर्मवान् || अनन्योन्यश्च तच्छक्तिः समवायात्स्थितः शिवः | इत्यादि|| अथ शुद्धमायास्वरूपमाह- षडध्व हेतुम् | वर्णादि षडध्व निदानभूतां परमां उत्कृष्टां परां वा कुण्डलिनीं नत्वेति| पृ० ४) श्वेताश्वतोपनिषदि- मायां तु प्रकृतिं विंद्या दिति|| पौष्करे- वागीश्वरी पराविद्या कुटिला कुण्डली परा | शुद्धमाया परो बिन्दुः शब्द ब्रह्मेति कथ्यते || रत्नत्रये- जायतेध्वा यतः शुद्धो वर्तते यत्र लीयते | स बिन्दुः परनादाख्यो नादबिन्द्वुर्न * * * म् | कन्द?ः परमानन्दो शिवो नित्योदितः प्रभुः || नास्तमेति नचोदेति न श्रान्तो न विकारवान् | सर्वभूतान्तर चरः शब्द ब्रह्मात्मको रविः|| पौष्करे- नाडकुण्डलिनी शंभोः शक्तेः शुद्धा जडात्मिका | न तादात्म्यात्स्थिता किं तु वर्तमाना परिग्रहे | शिवे कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता || उपादानत्वतो हेतोः कुलाले मृत्तिका यथा | वृत्तिस्तत्वात्मिका चास्याश्चतुर्धा संव्यवस्थिता || शिवतत्वं सदेशाख्यमैशंविद्याह्वयं तथा || शुद्धान्येतानि तत्वानि रुद्राणूनां महात्मनाम् || इत्यादि | अथ पराव्यवस्थामाह बृहदारण्यकोपनिषदि- वाचं धेनुमुपासीत तस्याश्चत्वारस्स्तनास्तस्याः प्राणभूष भो मनो वत्साः | विश्वसारोत्तरे- तस्याश्चतस्रो वाग्रूपा वृत्तयो वैखरीमुखाः वैखरी मध्यमा चान्या पश्यन्ती सूक्ष्मसंज्ञिता सिद्धान्त वैखरी | मूलाधारे परा प्रोक्ता पश्यन्ती हृदये स्थिता | मध्यमा कण्ठदेशस्या ताल्वोष्ठ पुटवैखरी || पौष्करे- मूर्ध्नि * * * * दाध्वनि शिरः * * * * मिश्रध्वनि स्थिताः| अशुद्धाध्वनिता वाचः स्थूलात् स्थूलतरा स्थिताः|| इत्यादि | अथ षडध्वोत्पत्तिमाह- महोपनिषदि- अध्वनामध्वपतेः श्रेष्ठस्याध्वनः पारमशीयेति | स्वायंभुवे- कार्याणि नाम तस्याश्च षडध्वानां प्रकीर्तिताः | वर्णाध्वा च पदाध्वा च मन्त्राध्वा भुवनाध्वकः || तत्वाध्वा च कलाध्वा चेत्यध्वानः षडमी मताः || षौष्करे- शब्दरूपास्त्रयस्तेषांमर्थरूपास्त्रयः स्मृताः | पृ० ५) वर्णाध्वात्र समाख्यातः पञ्चाशद्वर्णसञ्चयः || एकाशीति पदान्येव पदाध्वेति निगद्यते | पञ्चभिर्ब्रह्मभिश्चाऽऽन्गैर्मन्त्राध्वा सद्भिरुच्यते || शतद्वय चतुर्विंशद्भुवनो भुवनार्थकः || षट्त्रिंशत्त्वसंयुक्तः तत्वाध्वेति प्रकीर्तितः || शान्त्यतीता च शान्तिश्च विद्या सार्धं प्रतिष्ठया | निवृत्तिश्चेति भिदया कलाध्वा पञ्चचोदिताः || तथा तात्पर्यसंग्रहे- अध्वानमध्वपतिमध्वनि तारतम्यं, श्रेष्ठाध्व पारगमनं सफलं ब्रवीति | म....ढ्वनामिति महेश्वर गृह्यकारः | पित्राकुमारमुपनीय यमाहवाक्यं....... इत्यादि | अथाधो मायास्वरूपमाह- श्वेताश्वतरोपनिषदि- मायां तु प्रकृतिं विद्यादिति | तथा स्वायंभुवे- मायातत्वं जगद्बीजमविनाश्यं शिवात्मकम् | वि * * मकलं सूक्ष्ममनाद्यव्ययमीश्वरम् || मृगेन्द्रे- ग्रन्थिजन्यं कलाकाल विद्याराग नृमातरः| गुणाधिगर्व चित्ताक्ष पशु * * न्यनुक्रमात् || तथा पौष्करे- कालो नियतिश्च कला साक्षान्मायोद्भवानि च | रौरवे- कलातत्वाद्रागविद्ये द्वे तत्पु * * * * *|| पौष्करे- पञ्चकञ्चुकसंयुक्तः प्रकृतिं भोक्तुमुद्यतः | अविद्यादि समायुक्तः पुरुषः परिकीर्तितः || * * * * * तु क्रमायातं निरूप्यते | तच्च मायोद्भवं यस्मात्कलातः स्थूलतां गतम् || किरणे- विश्वराजाधिराजे * * * * * भ्य मन्त्रराट् | शिवशक्तिप्रभावाच्च किलानन्तः प्रबुध्यते || पौष्करे- अथ प्रकृति तत्वाच्च गुणतत्वमजायत | क्षोभक * * * * * श्रीकण्ठोनन्तविक्रमः || गुणतत्वात्पराबुद्धिरभवन्मुनिपुऽऽन्गवाः | अत ऊर्ध्वमहंकार तत्वसं * * * र्त्यते || स च त्रिविध उद्दिष्टः प्रथमस्तत्र तैजसः | पृ० ६) वैकारिको द्वितीयः स्यात्तथा भूतादिकः परः | तैजसादप्यहंकारान्मनोबुद्धीन्द्रियाणि च | पञ्चकर्मेन्द्रियाणि स्युरहंकारात्तु वैकृतात् || अहंकारात्तु भूतादेर्जाता तन्मात्र संहतिः | महाभूतानि जायन्ते क्रमात्तन्मात्र पञ्चकात् || मतऽऽन्गे- मायान्तर्वर्तिनः प्रोक्ताः पशवः पाशधर्मिण इत्यादि | अथ पशुलक्षणमाह- त्रयाणां पशुसञ्चयानां लक्षणं वक्ष्य इति | श्वेताश्वतरोपनिषदि- अनिशश्चात्मा बाध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः | किरणे पशुर्नित्यो ह्यमूर्तज्ञो निष्क्रियो निर्गुणो प्रभुः | व्यापीमायोदरान्तस्थो भोगोपाय विचिन्तकः || पौष्करे- पशुः पशुत्वसंयोगादमुक्तः पशुरुच्यते | यस्मास्वद्र क्रियाशाली कलाहीनोऽप्यनीश्वरः || सिद्धान्तशेखरे- नित्यो मूढः पराधीनः कर्ता भोक्ता पशुः पुमान् || अथ पशुभेदमाह- कारणे- पशवस्त्रिविधा ज्ञेया सकलः प्रलयाकलः | विज्ञानाकल इत्युक्तास्तेषां लक्षणमुच्यते || भेदोयः सकलादीनां पाशबन्धविशेषतः | माया कर्म मलैः पाशैः संयुक्तः सकलः स्मृतः || पाशाभ्यां मलकर्मभ्यां संबद्धः प्रलयाकलः | मलैकपाशसंयुक्तो विज्ञानाकल उच्यते || पौष्करे- मलेनैकेन बद्धेषु विज्ञानाकलनामसु | मलपाकमपेक्ष्यैव कांश्चिच्छुद्धा * गोचरे || योद(ज)यत्याधिकारेषु * त्वा दृक्क्रिययोत्कटान् | कांश्चिद्भोगाह्वये तत्वे तत्वेन्यानीश्वराह्वये || अन्यान्विद्याह्वये तत्वे सर्वज्ञान् बलशालिनः | मलपाकवशाः * क्षुतेष्ठष्टावधिकारिणः || बैन्दवेन शरीरेण युक्ताः सर्वज्ञतायुताः | पृ० ७) सदाशिव गुणोपेताः महान्तश्चक्रवर्तिनः | अतिसौन्दर्य लावण्या लक्षिण मनसस्तथा || अधिकारवशाच्छंभोर्न्यून कर्तृत्वशक्तयः | स्थिति संरक्षणादान भवानुग्रहकारिणः || वसन्तश्चेश्वरे तत्वे माया गर्भाधिकारिणः | तेषामनन्तः प्रथमः ततः सूक्ष्मशिवोत्तमः || एकनेत्रैक रुद्रौ च त्रिमूर्तिश्च क्रमात्ततः | श्रीकण्ठश्च शिखण्डी च तेऽधोऽधो न्यूनशक्तयः || यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते | तथा परांश्च मन्त्रेशान् विद्यातत्व निवासिनः | करोति शिव एवैते संख्यया सप्तकोटयः || दीक्षाकरणभूतानां मन्त्रणामीश्वरा इति || मन्त्रेश्वरास्ते कथिताः लोकानुग्रहकारिणः | सर्वज्ञा अपि मन्त्रेशास्तेऽधोऽधो न्यूनशक्तयः || त्रयो * * देह सापेक्षं तदर्द्धमखिलेऽध्वनि | कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् || विनाधिकरणे ना * * न विकृतेरधः कृत्वाधिकारमाशेष्टमुपैतिस्वाध्वसंहृत् | मलपाकवशाद्योग्य शिवानुग्रहसंयुतम् | सप्तकोट्य इत्ये * * * * * र्ध्वं विमोचितम् | ये त्वपक्वमलास्सन्ति विज्ञानाकल नामसु | ते यावन्मलपाकान्तं तिष्ठन्ति मलमात्र * || * * * * कलाभिश्च कर्मभिश्च कदाचन | विज्ञान केवलाः साक्षात् त एव मुनिपुऽऽन्गवाः || अधिकार मलोपेताः शिवे * नु मताः सदा| अथ पूर्व समुद्दिष्ट प्रलयाकलनामसु | सुपक्कमलकर्माणस्ते यान्ति * * * * * || पृ० ८) तथा परांश्च मन्त्रेशः प्रलया कलनामसु | बद्धेषु मलकर्मभ्यां मलपाकानुसारतः || मायागर्भाधिकारा * * * श्च शिवदीक्षया | निवृत्त मलकर्माणः परमन्त्रेश्वरैः कृतैः || कलादिभिश्च सहिता मायागर्भाधिकारकैः | * * * * * जैर्देहै युक्तास्तदवशीकृताः || भुवनेशान् करोतीशः ते तु पञ्चाष्टकादयः | कामिके- पक्वत्रिपा * * सकलास्तथा पक्वत्रिशकाः | स्युः क्रोधाद्या मण्डलिनः शतरुद्रास्तथा परे || श्रीकण्ठो वीरभद्रश्च पक्वपाशत्रयाः स्मृताः | अन्ये चाक्षीण पाशास्ते बद्धाः संसारिणः स्मृताः | रौरवे- शतरुद्रास्तु ते प्रोक्ताः ब्रह्माण्डे परितः क्रमात् || दशदिक्परिरक्षार्थं स्थिता रुद्राः पुरोदिताः | एकैकस्यां दिशि दिशि स्मृता दश दश क्रमात् || श्रीकण्ठाधिष्ठिताः सन्त शतरुद्रा महौजसः | ते स्वतुल्यमवेध्यैश्वर्यं ब्रह्मादीनां प्रजासृजाम् || प्रयच्छन्ति महात्मानो देवेभ्यश्चामितौजसः | तेऽपि मायां जनाः प्रोक्ता ब्रह्मविष्ण्विन्द्रसंज्ञकाः(ज्ञिताः) | वीरभद्रादयश्चैते माजांजन विवर्जिताः || वीरभद्र इति ख्यातः शतरुद्राधिपस्तथा | ते तु मण्डलिनोष्टौ च कला मस्तकवासिनः || क्रोधादयस्तथा चाष्टौ गुणतत्वो परिस्थिताः | श्रीकण्ठो गुणतत्वस्थः तदधो भुवनाधिपः || तेषामुत्पत्तिसंहारस्थित्यनुग्रहकारणम् || पौष्करे- पशुस्वरूपमित्युक्तं पाशरूपमथोच्यते || अथ पाशलक्षणमाह- त्रयाणां पाशात्मनां लक्षणं वक्ष्ये इति || पृ० ९) किरणे- आत्मस्थं तत्पशुत्वं स्यात् पशुरप्यध्व मध्यगः | प्रोक्तमेव मलस्तेन मलस्तद्भिन्नलक्षणः || मलोऽज्ञानं पशुत्वं च तिरस्कार करस्तमः | अविद्या व्यावृतिर्मूर्ध्वा पर्यायास्तस्य चोदिताः || मृगेन्द्रे- तदेकं सर्वभूतानां मनादि निबिडं महत् | प्रत्यात्मस्थ स्वकलान्ता वायुशक्ति समूहवत् || स्वायंभुवे- अथानादि मलः पुंसां पशुत्वं परिकीर्तितम् | तुषकंदुकवज्ज्ञेयं मायाबीजांकुरस्य तत् || इत्यादि | अथ मायेय पाशमाह पौष्करे- मयत्यस्माज्जगद्विश्वं माया तेन समीरिता| न च माया स्वरूपेण पुंसां कार्यकरी स्थिता || कार्यैरणोपकारित्वाद्यदिदं तन्न चात्मनाम् | पराख्ये- प्रयोक्त्रादि महिप्रातमेतदण्वर्थ साधनम् | प्रत्यात्म नियतं भोग भेदतोप्यवसीयते || स्वायंभुवे- एवं मायां जनस्थोऽणुर्निजदोष तिरस्कृतः | याति तन्मयतां तेषु माया भोगेषु रञ्जितः || कारणे- तस्य शुद्धस्य सम्बन्धं समायाति शिवात्कला | कलोद्बच्चलित चैतन्यो विद्यादर्शित गोचरः || रागेण रञ्जितश्चाथ प्रधानेन गुणात्मना | बुद्ध्यादि करणानीक संबन्धाद्बध्यते पशुः || ततो नियति संश्लेषात्स्वार्जिते विनियम्यते | कालेन काल संख्यान कार्य भो(भा)ग विमोहितः || एवं तत्व कलाबद्धः किञ्चिज्ज्ञो देहसंयुतः | माया भोग परिष्वक्तस्तन्मयः सहजावृतः || शिव * * * दुःखादि भोगं भुऽऽन्क्ते स्वकर्मतः || अथ कर्मपाशमाह- विश्वसारोत्तरे- धर्माधर्मात्मकं कर्म तच्च त्रिविधमर्थतः | जात्यायुर्भोगदं येन नामिश्रं पच्यते क्वचित् || पृ० १०) किरणे- यथानादिर्मलस्तस्य कर्माप्येवमनादिकम् | यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना || मृगेन्द्रे- कर्मव्यापारजन्यत्वाददृष्टं सूक्ष्मभावतः | जनकं धारकं भाग्यमध्यात्मादि त्रिसाधनम् || तत्सव्यानृत योनित्वाद्धर्माधर्म स्वरूपकम् | स्वापे विपाकमभ्येति तत्स्रष्टा * * वियुज्यते || अथाध्वत्रय लक्षणमाह- त्रयाणामध्वनां लक्षणं वक्ष्ये इति | मतऽऽन्गे- जलादीनां गुणान्तानां तत्वानामुत्तरोत्तरम् | वृद्धिर्दशगुणा ज्ञेया भूतत्वाच्छतकोटितः || शतोत्तर गुणानि स्युः शेषाण्युक्तानि शासने || मायान्तानि तु तत्त्वानि तेभ्यस्तत्वं सहस्त्रधा | यावत् सदाशिवं तत्वं तत्परं लक्षसंज्ञिकम् || चतुष्कं शान्ति पर्यन्तमतो मेयः परश्शिवः || तथा सिद्धान्तसारावल्याम्- क्ष्मातत्वं शतकोटियोजनमपः प्रारभ्य गोणान्तकं पंक्त्यातद्गणना तथा प्रकृतितो मायावसानं शतम् || साहस्त्रं च सदाशिवावधि * * * त्यन्तकं लक्षतो व्याप्योर्ध्वं परतोऽप्यमेयविभवो बिन्दोरधिष्ठायकः || कामिके- शुद्धाध्वा बैन्दवः प्रोक्तो मल्येन कलुषात्मनाम् | मायादि परतः प्रान्तो मिश्राध्वा मलकर्मिणाम् || शुद्धाध्वा सकलानां प्रकीर्तितः | किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोनंतोसिते प्रभुः|| पौष्करे- श्रीकण्ठो गुणतत्वस्थः तदधो भुवनाधिपः || इत्यादि| अथ च शब्दात् संहारशक्तिपा(वा)तलक्षणे आह- मृगेन्द्रे- द्वयोरप्यध्वनोरेवक्रम प्रसव योगिनोः | विलयः प्रतिलोम्येन शक्ति तत्वद्वयावधि || पौष्करे- तन्मात्रेष्वेव भूतानि तन्मात्राण्यहं कृतौ| इन्द्रियाणि मनश्चापि बुद्धौवासां गुणेष्वपि || पृ० ११) त्रिगुणाः प्रकृतौ सापि रागाद्यं तत्वपञ्चकम् | मायायां लयमायाति सा तु नित्योपपादिता || मायोपरि विशुद्धाध्वा बिन्दौ प्रलयमिच्छति | बिन्दुःकलादि शक्त्यात्मा शिवाधिष्ठितविग्रहः || नित्यमास्ते शिवस्यास्य विषयात्मतयाग्रतः | पुनः प्रवर्तते विश्वं जगदारभ्यबिन्दुतः || तथा तत्वप्रकाशे- मायापुरुषः शिव इत्येतत्त्रितयं * र्त्थसंहारे | अवशिष्यते पुनस्तत्प्रवर्तते पूर्व तत्सृष्टौ || मृगेन्द्रे- स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् वा(पा?)चयन् कर्म कर्ता | मायाशक्तिर्व्यक्ति योग्याः प्रकुर्वन् पश्यन् सर्वं यद्यथा वस्तुजातम् || कामिके- सृष्टिसंहारयोः काले रोधशक्तिः शिवात्मिका | पशूनां पक्व पाशानां मुक्तिहेतोः पतत्यधः || अथ शक्तिपातलक्षणमाह- मृगेन्द्र- येषां शरीरिणां शक्तिः पतत्यविनिवृत्तये| तेषां तल्लिऽऽन्गमौत्सुकां मुक्तौ द्वेषो भवस्थितौ|| भक्तिश्च शिवभक्तेषु श्रद्धा तच्छासके विधौ || पौष्करे- कर्मनाशान्मलस्यापि विपाके सहकारिणः | पतत्युन्मीलिनीशक्तिस्तदानुग्रहकारिणी|| तस्यां पतित मात्रायां मलस्याधो नियामिका| शक्तिर्निवर्तते तस्यां निवृत्तायां महात्मनाम् || वैराग्यं जायते क्षिप्रं संसाराद्दुःखसागरात् | दिदृक्षा जायते शम्भोः पादपऽऽन्कजयोरपि|| कथं द्रक्ष्यामि देवेशं मोक्ष्येऽहं बन्धनात् कथम् | को वा दर्शयिता शम्भोरिति सञ्जायते मतिः || एवं संसारतो भीतमनुगृह्णाति चेश्वरः || इत्यादि विस्तरभयान्न लिखितम् || दीक्षासमेतः परिपूतकायो न्यासैस्सतत्वैः कमलं विलिख्य | प्रदर्श्य मुद्रां नलिनीं यजेत श्रीपद्मपीठस्थितलिऽऽन्गमीशम् || पृ० १२) अथ क्रियापाद आरभ्यते- दीक्षेति | यजुर्वेदोपनिषदि- आचार्यः पूर्वरूपम् | अन्तेवास्युत्तररूपम् | विद्यासन्धिरिति | सिद्धान्तशिरोमणौ इति शुद्धेन शिष्येण प्रार्थितः परमोगुरुः | शक्तिपातं समालोक्य दीक्षया योजयेदमुम् || स्वायंभुवे- तत्वैरेभिर्निबद्धात्मा सर्वधर्मौश्च संयुतः || नान्येन शक्यते मोक्तुं मुक्ता दीक्षां शिवात्मिकाम् || मतऽऽन्गे- विशिष्टं दीयते ज्ञानं क्षीयते पाशसञ्चयः | मायाकर्म मलोद्भूतो यया दीक्षेति सा मता|| सिद्धान्तशेखरे- सेयं दीक्षा द्विधा भिन्ना साधाराधार वर्जिता | आचार्य मन्तरेणैव क्रियते शऽऽन्करेण या || विज्ञाना कलनाम्नश्च प्रलयाकल कस्य च | तीव्रशक्तिनिपातेन दीक्षा साधारवर्जिताः || गुरुमूर्तिं समाश्रित्य मन्दशक्ति निपातनात् | कुरुते सकलस्येशः साधारान्तमिमां विदुः || साधारात्रिविधा प्रोक्ता स बीजा बीज चिह्नया | यथाक्रमं कर्मभक्तिर्ज्ञानकाण्डेषु ताः स्फुटाः || सबीजा द्विविधा लोक धर्मिणी शिवधर्मिणी | अधर्मं सञ्चितं सर्वं कर्मगामि विशोध्यते || धर्मावशेषतो यत्र सा दीक्षा लोकधर्मिणी || भौतिकी नैष्ठिकी चेति द्विधा सा शिवधर्मिणी || व्रतमोक्ष समायुक्ता भौतिकीति निगद्यते | शरीरपात पर्यन्त व्रता सा नौष्ठिकी मता || अथ निबीजदीक्षाया द्विविधो भेदो निगद्यते | सद्यो निर्वाणदात्वाद्या चिरं निर्वाणदा परा || प्रारब्ध सञ्चितागामि कर्मजालं विशोध्यते | अतितीव्रेण पाकेन शरीरादि जुगुप्सताम् || ययात्यन्त विरक्तानां सद्यो निर्वाणदा तु सा | प्रारब्धकर्मणां भोगाद्यया मुक्तिमनन्तरम् || पृ० १३) यान्ति बालादयः सेयं चिरं निर्वाणदा भवेत् | चक्षुषि स्पर्शदीक्षा च वाच(चि)की मानसी तथा || शास्त्री च योगदीक्षेति षोढा सा तु प्रकीर्तिता(र्त्यते) || चक्षुरुन्मील्य यत्तत्त्वं ध्यात्वा शिष्यं समीक्षते | पाशबन्ध विमोक्षाय दीक्षेयं चाक्षुषी भवेत् || विधाय दक्षिणे हस्ते शिवं ब्रह्माऽऽन्ग संयुतम् | संस्पृशेच्छिष्यमूर्ध्नि स्यात्स्पर्शदीक्षा भवेदियम् || तत्वेचित्तं समाधाय द्योतितेश्वर तेजसा | उच्चरेत् संहिता मन्त्रान् वाग्दीक्षेयं प्रकीर्तिता || मानसं विधिमाश्रित्य मानसीत्यभिधीयते || शास्त्रस्य संप्रदानेन शास्त्रदीक्षा समीरिता | तत्वद्योत * * गस्य प्रदानाद्योगजा भवेत् || आज्ञादीक्षादि भेदेन सा पुनः सप्तधा भवेत् | आज्ञोपमा स्वस्तिका च कलशस्नपना परा || विभूति पट्टायत्ते च स्वायत्ता सप्तकीर्तिताः | गुर्वाज्ञापालने दक्षा या सा ज्ञेति प्रकीर्तिता || पूर्वेषां समयाचार सदृशा चोपमा मता | आरोप्य स्वस्तिकां शिष्यं गुरोरक्षिणकर्मणा | स्वस्तिका कलशस्नानादभिषेका ह्वया च सा || भूति पट्ट मयी दीक्षा भस्मना या प्रकीर्तिता | शिष्यस्य फाले गुरूणा समयाचार मार्गतः || आचार्यो लिऽऽन्गमादाय समभ्यर्च्य यथाविधि | शिष्यस्यालोकनं सम्यगायत्तं परिकीर्तितम् || प्रह्वी भूय ततः शिष्यो लिऽऽन्गं स्वीकृत्य भक्तितः | गुरोः स्वायत्तमित्युक्तं स्वोत्तमाऽऽन्गादि धारणम् || भेदोपभेदसंयुक्ता सा पुनर्द्विविधा भवेत् | तयोर्ज्ञानवती चाद्या द्वितीया च क्रियावती || पृ० १४) आद्या विशिष्टज्ञानादि युक्तेन मनसा कृतिः | विशिष्टमलपाकस्य क्रियते गुरुणैव सा || अन्या क्रियावती कुण्ड मण्डलादि समेतया | भेदोपभेदसंयुक्ता निर्बिजा परिकीर्तिता || ज्ञानोपदेशिनी दीक्षा चिन्मयी परिकीर्तिता || साधारैवं बहुविधा संक्षेपात् समुदीरिता | मृगेन्द्रे- दीक्षानल स्पृष्टमलस्य(स्स ?) जन्तोस्वाक्यं बलं व्यक्तिमुपैति योगात् | शक्त्याविभोश्चुम्बित हृत्प्रदेशं नान्येन पुंसा विनिवृत्तिरेति || इत्यादि विस्तरभयान्नलिखितम् || इत्थं दीक्षा समेतः सतत्वैर्न्यासैः परिपूतकायस्सन् अथ तत्वन्यासमाह रौरवे- शिवतत्वं शक्तितत्वं मस्तके विन्यसेद्गुरुः || सदा शिवेश्वरं तत्वं द्वयं वक्तेषु विन्यसेत् || विद्याञ्च मोहिनीं चैव कालं चैव कलां तथा | अविद्यां नियतिं चैव रागञ्च हृदये न्यसेत् | पुरुषं प्रकृतिं चैव बुद्ध्यहऽऽन्कारमेव च | मनः श्रोत्रं त्वचं नेत्रं जिह्वां प्राणं तथैव च | वाचं पा(वा)णिं तथा पादं गुदञ्चोपस्थमेव च || शब्दं स्पर्शं च रूपञ्च रसं गन्धं तथैव च | आकाशं वायुमनलं जलं गुह्ये तु विन्यसेत् || पृथिवीतत्वमेकन्तु पादयुग्मेऽपि विन्यसेत् | षट्त्रिंशतत्त्वविन्यास उक्तः शैवागमोदितः || पृथिव्यादिनि तत्वानि भोगस्थानानि देहिनाम् | भुवनैः सह शोध्यानि क्रमयुक्त्या यथा तथा|| इत्यादि | अथ पद्ममण्डलमाह- कमलं विलिख्येति || कारणे- अथ वक्ष्ये सुरश्रेष्ठ पद्ममण्डल लक्षणम् | चतुरोष्टौ षोडश च द्वात्रिंशच्च तदार्ल्लि(ं)खेत् | शक्त्यग्नि शशि सूर्याणां विम्बान्तत्र क्रमाल्लि(ं)खेत् | गुरुक्त्या तत्स्वरूपञ्च ज्ञात्वा तत्र शिवं यजेत् || इत्यादि | पृ० १५) अथ पद्ममुद्रामाह- नलिनीं मुद्रां प्रदर्श्येति | कारणे- मोचयत्वखिलं बन्धं शैवं द्रावयते द्रुतम्| मृ ? मोचनाद्द्रावणाच्चैषा शक्तिर्मुद्रेति गीयते || मणिबन्ध समौ हस्ता(तौ?) ऊर्ध्वायांगुष्ठयोजिते || किञ्चिदाकुञ्चितौ कार्या मध्येऽऽन्गुष्ठौ नियोजितौ || आसनादौ प्रयोक्तव्या पद्ममुद्रेयमीरिता | उद्धृताऽऽन्गुष्ठकामुष्टि वामांगुष्ठाग्रगर्भिणी || सा स्याद्वामाऽऽन्गुली गुप्ता लिऽऽन्गमुद्रा शिव प्रिया | विधि संपूरणी ह्येषा धर्माधर्म विनाशिनी || दीक्षायां विनियुक्तेयं पूजाकाले प्रयोजयेत् || इत्यादि | अथ पद्मपीठस्वरूपमाह- श्रीपद्मपीठस्थितलिऽऽन्गमीशं यजेदि(ते)ति | कामिके- कर्णिका शिवतत्वं च किञ्जल्काः शिवतत्वगाः | सदा शिवेश्वरे तत्वे आज्ञाचक्र स्थिते दले | विद्यावृन्तं च मायादि नरान्तं नालमीरितम् || पृथिव्यादि जलान्तं च कन्दं पृथ्वी सरःस्मृतम् || यदाज्ञाचक्रमुदितं तदष्टदल सारसम् | तत्र सूर्येन्दु दहन शक्तिमण्डलगः शिवः || पौष्करे- गुरुपदेश मार्गेण स्मृतिरावाहनं मतम् | स्थिरेण मनसा भक्त्या लक्षमूर्ति निवेशनम् | आराधकेन देवस्य यदेतत्स्थापनं मतम् | त्वदीयोऽहमनुग्राह्यः स्थातव्यं भवता प्रभो | आराधकस्य भावोऽयं सन्निधानं बुधैः स्मृतम् || मत्प्राणावधिरत्रेश न गन्तव्यं त्वयान्यतः | गृहाण परमां पूजामित्येतत्सन्निरोधनम् || अपक्वपाशबद्धेषु दीक्षादी न नरेष्वपि | श्रीकण्ठस्या प्रकाशेयं कथितं ह्यवकुण्ठनम् || ध्यात्वा हृत्पंकजे देवं वक्ष्यमाणमथा यजेत् || इत्यादि विस्तर भयान्न लिखितम् | पृ० १६) भक्तो महेशः परम प्रसादी सुप्राणलिऽऽन्गी शरणः शिवैक्यः | आधार पद्मप्रभृति प्रसिद्धमाचारलिंगादिकमर्चयन्ताम् || अथ चर्यापाद आरभ्यते | भक्त इति | भक्त्याद्यैक्यान्ताः षट्स्थलज्ञानिनः आधाराद्याज्ञान्त षट्कमलप्रसिद्धाचारादि महालिऽऽन्गानि अर्चयन्ताम् | तथा हंसोपनिषदि- गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिः प्रदक्षिणी कृत्य मणिपूरकं गत्वा अनाहत मतिक्रम्य विशुद्धौ प्राणान्निरुध्याज्ञामनुयायय ब्रह्मरन्ध्रं ध्यायन् त्रिमात्रोहमिति सर्वदा ध्यायेत् | तथा योगशतके- आधारे लिऽऽन्ग नाभौ हृदय सरसिजे तालु मुले ललाटे द्वे पत्रे षोडशारे द्विदशदले द्वादशार्धे चतुष्के | वासान्ते बा(फा)लमध्ये ड फ क ठ सहिते देशे स्वराणां मध्ये हंसं सुदीप्तं सकलदलयुतं वर्णरूपं नमामि || र्न आचारे दिव्यलिऽऽन्गे निरूपम निजभक्तस्थलांगैक भाजि ध्राणास्ये चित्तहस्ते न च घन सुखहेतौ क्रियाशक्ति युक्ते | घ्रात .... य द्रव्यमप्यर्पणविषय विधानोपदिष्टं समर्प्य प्रायः सद्भक्ति पूर्णः स्वयमयमिह गन्ध प्रसादं भजेत|| स्वाऽऽन्गे माहेश्वरात्मन्यनुपम सहजज्ञान शक्ति प्रयुक्ते जिह्वास्ये सुप्रसिद्धे परतर गुरुलिऽऽन्गाभिधे संस्थितेऽस्मिन् | निष्ठा भक्ति प्रभाव प्रणिहित सुमहद्बुद्धि हस्तेन विद्वान् रस्यं द्रव्यं समर्प्य स्वयममलरसाख्यं प्रसादं भजेत || योऽसौ नित्यप्रसादी स्थल परम...ड प्राप्त दिव्याऽऽन्ग भाजि स्वेच्छाशक्ति प्रयुक्ते दृशि जगति मुखे पाणिनाहं कृतेन | साक्षाल्लिऽऽन्गे शिवाख्ये सविनयमवधानात्मता भक्तियुक्तो द्रष्टव्यांशं समर्प्यार्पण विनिहित रूप प्रसादं भजेत || संसक्त प्राणलिऽऽन्ग स्थल विहित निजाऽऽन्गे मनः प्रणा(णे) नाना- लिऽऽन्गे चास्मिंश्चराख्ये त्वचि जगति मुखेत्यादी शक्ति प्रयुक्ते | पृ० १७) स्प्रष्टव्यं चार्पयित्वा स्वयमनुभव भक्ति प्रभावोपपन्नो नित्यं स्पर्श प्रसादं निरतिशय सुखं तत्ववेत्ता भजेत || लिऽऽन्गे साक्षात्प्रसादे विमलशरण संज्ञाऽऽन्ग संस्थेपि चास्मि- ञ्छ्रोतव्यं श्रोत्रवक्त्रे निखिलमिह पराशक्तियुक्ते समर्प्य | आनन्दाकार भक्तिः स्फुरतर परमज्ञान हस्तेन सोयं शब्दाख्यं तत्प्रसादं स्वयमविरतमत्याश्रयस्थो भजेत || ऐक्याऽऽन्गे भाजि लिऽऽन्गे महति हृदि मुखे चिन्महाशक्तियुक्ते नित्यं भावेन हस्तेन च समरस भक्तिः स्वयं सच्चिदात्मा | ज्ञातव्यं चार्पयित्वा विमलमतिरवश्यं समर्प्यार्पणीयं तस्माल्लब्धं विशुद्धं घनतर परिणाम प्रसादं भजेत || इत्यादि | अथान्तःपूजामाह- सिद्धान्तशिरोमणौ- बुद्धीन्द्रिय नवद्वारे बोधदीपे हृदालये | पद्मपीठसमासीनं चिल्लिऽऽन्गं शिवविग्रहम् || भावयित्वा सदाकालं पूजयेद्भाव वस्तुभिः | क्षमाभिषेक सलिलं विवेको वस्त्रमुच्यते || सत्यमाभरणं प्रोक्तं वैराग्यं पुष्पमालिका | गन्धः समाधि संपत्तिः अक्षतानि अहंक्रिया || श्रद्धाधूपो महाज्ञानं जगद्भासि प्रदीपिका | भ्रान्तिमूल प्रपञ्चस्य नैवेद्यं तन्निवेदनम् || मौनं घण्टा परिस्पन्दः ताम्बूलं विषयार्पणम् | विषय भ्रान्तिराहित्यं तत्प्रदक्षिण कल्पना || बुद्धेस्तादात्मिका शक्तिर्नमस्कार क्रियामता | एवंविधैर्भावसिद्धैरुपचारैरदूषितैः || प्रत्यऽऽन् मुखमनाभूत्वा पूजयेल्लिऽऽन्गमान्तरे || वातूलोत्तरे- न क्रियारहितं ज्ञानं न ज्ञान रहिता क्रिया | अपश्यन्नन्धको दग्धः पश्यन्पऽऽन्गुश्च दह्यते || पृ० १८) ज्ञानक्रियात्मिका चर्या ततः कार्या मनीषिभिः || इत्यादि | विस्तरभयान्न लिखितम् || सोऽहं मनुश्चित्तलयोप्यधीनवातः स तारश्चतुरोयमांश्च | प्राहुर्गुरुक्त्या हठराजयोगी शैवं यमं मुक्तिदमभ्यसेच्च || अथ योगपादः प्रारभ्यते| योगिलिऽऽन्गैक्य एव सोऽहमिति | याज्ञवल्क्योपनिषदि- संयोगो योग इत्युक्तो जीवात्म परमात्मनोः | सिद्धान्तशेखरे- योगसारमथो वक्ष्ये शैवसिद्धान्त चोदितम् | योगो नाम स विज्ञेयः शिवात्मैक्यं मनीषिभिः || योगजे- संयोगो योग इत्युक्तो शिवतन्त्रे शिवात्मनोः || मृगेन्द्रे- तदात्मवत्वं योगित्वं जिताक्षस्योपपद्यते || योगबीजे- एक एव चतुर्धायं महायोगोऽभिधीयते | मन्त्रालयो मठो राजा योगेन्तर्भूमिकाः क्रमात् || अथ संक्षिप्य चतुर्योगस्वरूपमाह- सोऽहं मनुरिति || योगबीजे- हकारेण बहिर्याति सकारेण विशेन्मरुत् | हंस हंसेति तन्मन्त्रं जीवो जपति सर्वदा || गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः | सोहं सोहमिति प्राप्ते मन्त्रयोगः स उच्यते || प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि|| इत्यादि | चित्तलय इति | योगतारावल्याम्- सदाशिवोक्तानि सपाद लक्षलयावधानानि लसन्तु भूमौ | नादानुसन्धान समाधिमेकं मन्यामहे मान्यतमं लयानाम् || इत्यादि| अधीनवात इति | योगसंग्रहे- षट्कर्मभिस्त्रिभिर्बन्धैरष्टाऽऽन्गैरष्टकृम्भकैः | मुद्राभिर्दशाभिः प्रोक्तो हठयोगो वशानिलः || स तार इति | योगजे- राजानं दीप्यमानं तं परं ब्रह्माणमव्ययम् | देहिनं प्रापयेद्यस्तु राजयोगः स उच्यते || इत्यादि | विस्तरभयान्न लिखितम् || इमांश्चतुरोयमांश्च प्राहुरिति | अथ चतुर्योगिनां लक्षणमाह- शिवयोगप्रदीपिकायाम् | पृ० १९) एकाक्षरं द्व्यक्षरं वा पञ्चाक्षरमथापि वा | अष्टाक्षरं वा मोक्षाय मलयोगी जपेत्सदा || यस्य चित्तं निजेध्येये मनसा मरुता सह | लीनं भवति ना देवालय योगी स एव हि || भवेदष्टाऽऽन्गमार्गेण मुद्राकरण बन्धनैः | शरीरसाधको यस्तु हठयोगी वशानिलः || त्रिषु लक्षेषु यो ब्रह्म साक्षात्कारं गमिष्यति | जाने वाथ मनोवृत्ति रहितो राजयोगवित् || श्र * * पके यस्तु मनो नियम्य त्रिकोणमार्गाच्छशि भास्कराभ्याम् | बाह्यान्तरऽऽन्गप्रवणै * * * * भिरष्टादशानि हठराजयोगी || इत्थं हठराजयोगी गुरूक्त्या च मुक्तिदं श्रेवं यमं शिवयोगमभ्यसेत् || योगबीजे देवी | ज्ञानादेव हि मोक्षोऽस्ति वदन्ति ज्ञानिनः सदा || न कथं सिध्यतेऽस्तु योगः किं मोक्षदो भवेत् || ईश्वरं- ज्ञानेनैव हि मोक्षोऽस्ति वाक्यं तेषां तु नान्यथा | सर्वे वदन्ति खड्गेन जयो भवति तर्हि किम् || विनायुद्धं * र्येण कथं जयमवाप्नुते | तथा योगी परहितं ज्ञानं मोक्षाय नो भवेत् | योगोऽपि ज्ञानहीनस्तु न * * * * * * क्तकर्मणि | योगं सद्गुरुणा यान्ति सज्जना नान्य कर्मभिः | बाह्ये वाभ्यन्तरे ब्रह्म सर्वजन्तुषु भासते | तथापि गुरुमज्ञात्वा तेन पश्यन्ति तत्पदम् || तस्माद्गुरुमुखादेव दीक्षितोयः शिवार्भकः | चतुर्वर्गफलप्राप्त्यै शिवयोगं समभ्यसेत् || योगार्णवे- ईश्वर उवाच- हृदयकमलमध्ये दीपवद्वेदसारं प्रणवमयमतर्क्यं योगिभिर्ध्यान गम्यम् | हरिगुरु शिवयोगं सर्वभूतस्यमेकं सकृदपि मनसा मां ध्यायते यः स मुक्तः || पृ० २०) शिवयोगप्रदीपिकायाम् - हृदिज्ञाना * * * * मोक्ष इत्येतद्वाक्यमादरात् | गृहीत्वा ज्ञानयोगेऽस्मिन्समाहित मनाभव|| इत्यादि विस्तर भयान्न लिखितम् || ज्ञात्वा शिवं यः क्रियया प्रपूज्य चर्याचरो युज्यत ईश्वरेण | स एव मुक्तो महिम प्रयुक्तः क्र * * वीरण देशिकेन्द्रैः || अथ चतुःपाद क्रममाह- ज्ञात्वेति | यः पुमान् ज्ञानपादेन षट्त्रिंशत्तत्वातीतं परशिवं ज्ञात्वा क्रियापादोक्त क्रियया प्रपूज्य चर्यापादोक्त षट्स्थलचर्या चरः सन् योग पादोक्ताभ्यासेनेश्वरेण युज्यते स एवमुक्तः | तदुक्तं किरणे- पति पाशपशुज्ञान विचार प्रतिपादकम् | क्रियाचर्या समोपेत योगमुक्ति भरावहम् || मृगेन्द्रे- श्रीपदार्थं चतुःपादं महातन्त्रमितीरितम् | निश्वासकारिकायाम्- अनाख्ये तु निरालम्बे ह्यग्राह्ये मानवर्जिते | निस्स्त(स्त)त्वे योजितो मुक्तः इति शास्त्रस्य निश्चयः || सुप्रभेदे- शिवे संयोजितं रूपं सायुज्यमिति वक्ष्यते | ज्ञानात् सायुज्यमेवं हि तोये तोयं यथा तथा || स्वायंभुवे- यथा जलं जले क्षिप्तं क्षीरे क्षीरमिवार्पितम् || तथैव ह्येकतां याति दीक्षामन्त्रेण मन्त्रवित् || रौरवे- जले जलं यथाक्षिप्तं क्षीरे क्षीरं घृते घृतम् | अविशेषो भवेत्तद्वदात्मा तु परमात्मनि || योगजे- घृतात्पृथक्त्वरहितं घृते लीनं घृतं यथा | तत्वे लीनस्तथा योगी पृथग्भावं न विन्दति | तथा सिद्धान्तशिरोमणौ- जले जलमिव न्यस्तं वह्नौ वह्निरिवार्पितम् | परे ब्रह्मणि लीनात्मा न विभागेन दृश्यते || इत्यादि | महिम प्रयुक्त इति | योगजे ईश्वरः- अन्तर्योगं बहिर्योगं योजनाति विशेषतः | त्वया मया च वन्द्यः स्यात् शेषैर्वन्द्यस्तु किं पुनः || पृ० २१) एव ज्ञानी वसेद्यत्र सदेशः पुण्यभाजनः | दर्शनादर्चनात्तस्य त्रिसप्तकुलसंयुताः || जनामुक्तिपदं यान्ति किं पुनस्तत्परायणाः || इत्यादि विस्तरभयान्न लिखितम् || इदं तु तन्त्रसार पञ्चरत्नमपि वीरण देशिकेन्द्रैः श्रीमत्सोसलि वीरणाराध्यनामाचार्य सार्वभौमैः कृतं विरचितम् | व्याख्या श्रीपञ्चरत्नस्य समस्तागम सम्मिता | अकारि रेवणाराध्यैः तन्त्रसार प्रकाशिका || श्री इति श्रीमत्सोसलवीरणाराध्यस्य कृतेः तन्त्रसार पञ्चरत्नस्य व्याख्या रेवणाराध्य विरचिता तन्त्रसार प्रकाशिकाख्या परिसमाप्ता || शिवमस्तु|| शिवाय नमः || पृ० २२) तारकदीपिका|| || श्रीगुरुवीरेश्वराय नमः || श्रीशिवाय नमः || शिवमस्तु|| शिवं श्रीवीरणाराध्यं नत्वा तारक दीपिकाम् | कुर्वे तारक पूर्वस्य पञ्चरत्नस्य पञ्चिकाम् || आपो ज्योतिः श्रुतिः सुजनी ह्यग्निमीलेऽग्र्य वेदः पद्माकोशं यजुरपि तथा चैष आत्मेति नाम| चूडाथर्वा प्रथम कथिता तारकाख्यं शिवं यं प्राहुः सर्वोपनिषदु इमं सर्वसिद्धान्त मीडे || अथास्य तारक पञ्चरत्नस्य तारक प्रदीपिकां व्याख्यां संक्षेपतश्चिकीर्षुर्देशिक सार्वभौमोपदेश गम्यं वेद वेद शिरो गायत्रीस्तोत्र पात्रं तारक ब्रह्मस्वरूपं दर्शयति- आप इति | ओं भूः ओं भुवः | ओं सुवः | ओं महः ओं जनः ओं तपः ओं सत्यं ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि|| धियो योनः प्रचोदयात् | ऊं मापोज्योती(ति) रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् | इत्यापो ज्योतिरिति श्रुति सुजननी गायत्री | तारकाख्यं यं शिवं प्राह| आग्निमीले पुरोहितमित्यग्रवेदो- ऋग्वेदः | यं प्राह- पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् || तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् || तस्य मध्ये महानगि विश्वार्चिर्विश्वतो मुखम् || तस्य मध्ये वह्नि शिखा अणियोर्ध्वा व्यवस्थिता|| नील तोयद मध्यस्था विद्युल्लेखेव भास्वरा | नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा|| तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः || स ब्रह्म स हरिः सेन्द्रः सोअग्निः? सोक्षरः परम स्वराट् || इति | पद्मकोशमिति यजुर्वेदः यं प्राह- एवम आत्मान्तर्हृदये अणी- पृ० २३) यान् व्रीहेर्वायवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाक तण्डुलाद्वा एषम आत्मान्त हृदये ज्यायान् पृथिव्या ज्ये * * * * * नन्तरिक्षे ज्यायान् | इत्येष आत्मेति | सामवेदः यं प्राह- प्रथमा रक्तपीता ब्रह्मदेवत्या द्वितीयाद्युमती कृष्णा विष्णु देवत्या तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या यावसानेस्य चतुर्थ्य | मात्रा सा विद्यावती सुवर्नवर्ना पुरुष देवत्या सर्वस्यान्तस्थानेभ्यो ध्यायिभ्यः प्रदीपवत्प्रकाशयति प्रथ्यायितव्यं सर्वमिदं ब्रह्मविष्णु रुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूत्ये(ते) र्न कारणं, कारणं तु ध्येयः स सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्यगः | इति प्रथमेति कथिता अथर्वा चूडा | अथर्व शिखा| तद्धृदयम् | तम एव यस्या यतनम् | तद्धृदयम् द्वयं तमसः परिज्योतिः | सलिल एको दृष्टो द्वैतो भवति| आर्द्रं ज्वलति| अयमादर्शे | चक्षुर्वै ब्रह्म | योऽयं दक्षिणेक्षन्पुरुषः | चक्षुष्येष आत्मा | एत मेवात्मानं वैश्वानरमुपास्ते | पुरुषः | परमात्मा | अंगुष्ठमात्रः पुरुषः दिव्यो ह्यमूर्तः पुरुषः | हृद्यन्तर्ज्योतिः पुरुषः | स एव नेति नेत्यात्माग्राह्यः| एक उ आत्मा मन्तव्यः | सर्वकर्मसाक्षी परमात्मा विज्ञानात्मा पुरुषः | पुरुषं कृष्णपिऽऽन्गलम् | पुरुषः परमात्मा | हृदि ह्येष आत्मा| सर्वं ह्येतद्ब्रह्मायमात्मा| तद्ब्रह्मण्ये तदुपासितव्यम् | सर्वं खल्विदं ब्रह्म | पुरुष एवेदं सर्वम् | पुरुषोयोऽऽऽन्गुष्ठाग्रे प्रतिष्ठितः | स एषाग्निः सलिले सन्निविष्टः | उदकात्त्रायते सर्वलोक महेश्वरः | स एवायमप्सु पुरुषः | संसार महद्भयात् तारयतीति तारम् | नमस्ताराय च इति सर्वोपनिषदः यं शिवं प्राहुः | सर्वसिद्धान्तं स्वेष्टदेवतया समस्त जनानां सत्यपक्षम् | इमं तारक ब्रह्मस्वरूप पर शिवमीडे | स्तौमि | अहमिति शेषः | एष चतुर्वेद द्वात्रिंशदुपनिषद्गायत्री रहस्यार्थो देशिक कुञ्जरोपदेशाद्वेदितव्यः || तज्ज्ञानं सद्गुरोर्ज्ञेयं नान्यथा शास्त्रकोटिभिः | पृ० २४) इत्यादि | विस्तर भयान्न लिखितम् || हंसारूढः कमलनिलयो वाक्पतिर्विश्वसृढ्यः? त्रातासर्वं नलिन भवनावल्लभः शेष शययः | शर्वः स्वान्ताम्बुरुह यदनो हैमवत्याधवस्तं शम्भुश्चैकोऽखिल मत समं वेद्व्यहं सर्वसंज्ञम् || अथ पूर्वोक्त परमशिवः एक एवात्म भू स्वभू भव भेदात् त्रिधा भिन्न इत्याह- हंसेति | य एकः शंभुः हंसारूढः प्राणारूढः | कमलनिलयः हृत्कमलाश्रयः | वाक्पतिः पराशक्तिवल्लभः| विश्वं सृजतीति विश्वसृट् | तदुक्तं श्वेताश्वतरोपनिषदि- सूक्ष्माति सूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् | विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति || अन्यत्रा विधेः स्पष्टतरोऽथोथः | यः शम्भुः | नलिन भवना वल्लभः हृत्कमलाश्रया पराशक्तिकान्तिः | शेषशययः कुण्डलिनि शक्तेः ऊर्ध्वसंस्थः | सर्वं त्राता रक्षिता | तदुक्तं निश्वासकारिकायाम्- शक्तेरूर्ध्व स्थितं शम्भुं केवलो याति तन्मयः | इति | अन्यत्र विष्णोः स्पष्टतरोऽर्थः | यं शंभुः स्वान्ताम्बुरुहसदनः समस्तजन हृदय कमलाश्रयः | हिमवत्याधवः हिमवद्धृदयं तत्प्रस्थितायाः परशक्तेः कान्तः | श्रृणाति हिनस्ति शर्वः रुद्रः | तदुक्तं श्वेताश्वतरोपनिषदि- परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल क्रिया च | अन्यत्र रुद्रस्य स्पष्टोऽर्थः | सर्वसंज्ञं ब्रह्मादि समस्तनामधेयकम् | तं तारकमहं वेद्मि | जानामि | मेघारूढास्त्रिदशसुपतिर्देह भृत्कृष्णवर्त्मा कालश्चैको विमल यमराड्राक्षसस्त्रैपुरस्थः | पाश्यब्धीशः सकल जगतां प्राण उक्तः समीरो नारारूढास्त्रिनयन सखस्त्वीश ईशानकाष्ठः || अथ पूर्वोक्त विश्वसृडादिसंज्ञकः शिवः एक एव दिक्पाल संज्ञया भिन्न इत्याह- मेघेति | एकः ईशः त्रिदश सुपतिः दशेन्द्रियान्तःकरण- पृ० २५) त्रय रक्षकः मेघारूढः उक्तः | तत्र श्रुतिः | एतमात्मानं वैश्वानरमुपास्ते एक ईशः विमल यमराट् | निर्मल राजयोगजा समानः का * * * * क्रण(कृष्ण)पिंगलवर्णः | तत्र श्रुतिः- पुरुषं कृष्णपिऽऽन्गलम् | एकः ईशः त्रिपुरस्थः हृत्खेचर सूर्यचन्द्रादि मण्डलत्रय संस्थितः(स्थः) | अथवा देह त्रयस्थः | राक्षसः रक्षक उक्तः | तत्र श्रुतिः | विशदं विशोकं | एक ईशः अब्धीशः हृदय जलधिनायकः | पाशी संसार पाशवान् उक्तः | तत्र श्रुतिः - ज्ञात्वा देवं मुच्यते सर्वपाशैः | एकः ईशः समीरः सर्वेन्द्रियाणि सम्यक् प्रेरकः | सकल जगतां प्राण उक्तः | तत्र श्रुतिः- हृदिस प्राणज्योतिः | एक ईशः त्रिनयन सखः प्रतिपत्पौर्णमास्यमावास्या दृष्टित्रय सहचरः | नारारूढः नरसमूहेऽन्तर्यामि तयारोहकः उक्तः | तत्र श्रुतिः | नारायणः परं * * * * *| पौलस्त्यो नरवाहनः इत्यत्र- स्वार्थे अण् प्रत्ययः | एक ईशः ईशानकाष्ठः ईशानमन्त्रस्थित उक्तः | * * * * शानः शिव एको ध्येयः | शिवऽऽन्करः | सर्वमन्यत्परित्यज्य समापाथर्व शिखा | अथवा ईशानः सर्वविद्यानामिति मन्त्रे वा भवतु | काष्ठो * * * कमास्थितौ | इत्यमरः | अतो दिक्पालसंज्ञान्तरऽऽन्गे तारक ब्रह्मणोऽस्ति इत्यत्र श्रुतिः- इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः सुपर्णो गरुत्मान् | एकं सद्विप्रा बहुधा वदन्ति विष्णुं यमं मातरि श्वानमाहुः | तुराषाण्मेघवाहनः | इत्याद्यमरवाक्येन बहिर्दिक्पालानां स्पष्टतरोऽर्थः | विस्तर भयान्न लिखितम् || कामात्मायः परशिव इदं लोकजालञ्च सृष्ट्वा तास्मिन्व्याप्या चरचरचयं योजिता द्वैतमार्गे | प्रत्यक्कृष्णार्जुन रुचिरगः सर्वकर्माणि कर्ता नो चेत् * * यं त्रिभुवनमिदं नष्ट चेष्टं तथा स्यात् || अथ पूर्वोक्त दिक्पालसंज्ञः शम्भुः आदि काम इत्याह- कामेति कामात्मा इन्द्रादि स्वरूप धारक त्वात् कामरूपी | अथ वादिस्मर रूपः | तदुक्तं छन्दोग्योपनिषदि - स्मरो वा आकाशाद्भूयांस्तस्माद्यद्यपि बहव आसीरन् पृ० २६) न स्मरन्तो नैव ते कञ्चन श्रृणुयुः | अथ मन्वीरन् | अथ विजानीरन् | स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् स्मरमुपास्वेति | स यः स्मरं ब्रह्मेत्युपास्ते | यः परः शिवः इदं लोकजालं जगत्समूहं सृष्ट्वा तास्मिल्लोंकसमूहे व्याप्य | अचर चर चयं स्थावर जऽऽन्गमगणं प्रत्यक् स्त्री पुंरूपं लतावृक्षादि स्थावर द्वयसमूहं स्त्री पुंरूप देवमानव तिर्यगादि जऽऽन्गमसमूहं प्रथन् प्रथन् अद्वैतमार्गे एकत्वे योजिता | तत्र श्रुतिः| तत्सृष्ट्वा तदेवानुप्राविशत् | ततः पतिश्च पत्नी चाभवताम् | यदिदं किञ्च आपिपीलिकाभ्यः स्त्रीपुमांसौ संपरिष्वक्तौ | तदुवाच * * * यन सूत्रे- एकं लक्ष्यं द्विधा कर्तुं बहवः सन्ति धन्विनः | मार एको महाधन्वी द्वयमेकं करोत्यहो || * * * काय कस्मं कृष्णार्जुनरुचिश्चामल श्वेत स्थान प्रकाशकः सन् | अन्यत्र स्पष्टोऽर्थः | सर्वकर्माणि कर्ता सर्वेन्द्रिय व्यापार प्रभृति निखिलक्रियाकारकः | तत्र श्रुतिः- स्मरो मन्त्रानधीने कर्माणि कुरुते इति | तथा कामो नो चेत् इन्द्रिय भुवनं अचेष्टं नष्ट व्यापारं स्यात् | मूलाधाराष्टद? मदनागारगोनऽऽन्ग आदिः साष्ट त्रिंशत्परिमित कलार्केन्दु वह्न्यग्रगोयः | तस्य ज्ञानाद्भुवि परतरे भुक्तिमुक्ति भवेताम् प्रोक्तं श्रीवीरण गुरुवरैः तारकं पञ्चरत्नम् || अथ पूर्वो कामस्य स्थानं तज्ज्ञानफलं चाह - मूलेति | यः आदिरनऽऽन्गः स्मरः मूलाधाराष्टदलमदनागारगः शिरष्कञ्जस्थ मूलाधाराष्टपत्र त्रिकोण मार्गगः | तत्र श्रुतिः- ऊर्ध्वमूलस्त्व वाक्छा(शा)खाः एषोऽश्वत्यः सनातनः | अष्टपत्रमधोपुष्पमूर्ध्वनालमधो मुखम् | कदलीपुष्पसऽऽन्काशं सर्ववेदमवाप्तिकम् | तत्रार्क चन्द्रवह्नीनामुपर्युपरिचिन्तयेत् | त्रिमात्रादर्धमात्रं वा यस्तं वेद स वेदवित् || शिवयोगप्रदीपिकायाम्- तन्मध्यमोग्निरिति योनिरियं त्रिवेणी पृ० २७) योगस्थलं तदिदमेव भवेत् त्रिकूटम् || यः आदिरनऽऽन्गः साष्टत्रिंशत्परिमित कलार्केन्दु वह्न्यग्रगः अष्टत्रिशंत्संख्या प्रमाणित कलायुक्त सूर्यचन्द्राग्निबिम्बाग्रस्थः | तदुक्तं स्कान्दे- तापिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः | सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा || कलाः द्वादशधा भानोः कम्भाक्षर युगानिताः | अद्रुता मानदा पूषा तुषिः पुष्टिरतिर्धृतिः || शशिनी चन्द्रिका कान्तिः ज्योत्स्ना श्रीः प्रीतिरऽऽन्गदा | पूर्णापूर्णामृता चान्द्राः कलाः षोडश सस्वराः|| धूम्रार्चिरूष्मा ज्वालिनी ज्वालिनी विस्फुलिऽऽन्गिनी | सुश्रीः सुरूपा कपिला हव्यकव्य वहा तथा | कला दशविधा वह्नेः यागदीक्षान्तान्ताक्षरान्विताः || सूर्यचन्द्राग्निबिंबस्थाः आदिकामः शिवः स्मृतः || तस्य हृदयकमल मण्डल त्रयस्थि तस्यादि स्मरस्य पर शिवस्य ज्ञानात् भुवि भूलोके परतरे अत्युत्कृष्टे भुक्तिमुक्ति भोगक्षमोक्षौ भवेतां स्यातम् | तदुक्तं श्वेताश्वतरोपनिषदि- अंगुष्ठमात्रो रवितुल्यरूपः इति | तथा योगसारसमुच्चये- अनाहते द्विषट्पत्रे हृच्चक्रे दिव्यतेजसि | तन्मध्ये पद्ममष्टारं प्राणस्थानमधोमुखम् | ज्वलन्तीं कर्णिका यान्तर्लिऽऽन्गाकारां तदन्तरे || पद्मरागनिभां मूर्तिमाश्रित्याऽऽन्गुष्ठमात्रिकाम् | सिद्धकन्याश्वगव्धर्वा नागकन्याः सुराऽऽन्गनाः || स्मरमात्रे वशं यान्ति नरनार्यः किमद्भुतम् || तथा रतिरहस्ये- हृदयान्त्यं प्रणवाद्यं व्योमस्थान स्थितं तु स समीरम् | मद विवश वाम नयना कर्षणकृन्मदन मन्त्रोयम् || बृहदारण्यकोपनिषदि- यथा सर्वासामपां समुद्रः एकायनमेवं पृ० २८) सर्वेषामानन्दानां उपस्थ एकायनं प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किञ्चन वेदनान्तरमिति| तथा शिवराघवसंवादे- सर्वेषामपि कामानां रतिरेका प्रयोजनम् | सुखानि सर्वाण्येकत्र रतिरेकत्र च स्थिता || तुलया तोलितं पूर्वं रतिं शतगुणाधिका | इत्यादि | भुक्तेर्विस्तर भयान्नोक्तम् || मुक्तैस्तु - श्वेताश्वतरोपनिषदि- एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः | हृदामनीषा मनसाभि कॢप्त य एवं विदुस्ते अमृता भवन्ति | तथा शिवयोगप्रदीपिकायाम्- हृदि ज्ञानादेव मोक्षः इत्येतद्वाक्यमादरात् | गृहीत्वा ज्ञानयोगेऽस्मिन् समाहित मनाभव || शिवसऽऽन्कल्पोपनिषदि- अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत् | सूक्ष्मात् सूक्ष्मतरे ज्ञानं तन्मे मनः शिव संकल्पमस्तु || तथा सुप्रभेदागमे- शिवे संयोजितं रूपं सायुज्यमिति कथ्यते | ज्ञानात्सायुज्यमेव हि तोये तोयं यथा तथा || तथा मानवपुराणे- सञ्जाते परमज्ञाने ब्रह्मात्मैकत्वगोचरे | सिद्ध्यत्येव परा मुक्तिः सन्देहो नास्ति कश्चन || इत्यादि | ग्रन्थविस्तारभयान्न लिखितम् | एतत्तारकं पञ्चरत्नं श्रीवीरणगुरुवरैः श्रीमत्सोसलि वीरणाराध्य देशिक सार्वभौमैः प्रोक्तं भाषितम् | श्रीः | वीरणाराध्य शिष्य श्रीवीर(रेव)णाराध्ययोगिना | व्याख्या श्रीपञ्चरत्नस्य कृता तारकदीपिका|| || इति श्रीमद्वेद वेदशिरः शिवागमपुराणप्रभृति प्रवीण श्रीमत्सोसलिवीरणाराध्यस्य कृतेः तारकपञ्चरत्नस्य व्याख्यारेवणाराध्यविरचिता तारकप्रदीपिकाव्या परिसमाप्ता|| शिवमस्तु शिवाय नमः | श्रीः | पार्थिवे श्रवणे शुक्ल दशम्यां लिखितन्त्विदम् || ? पृ० २९) || पञ्चरत्नव्याख्या || शिवाय नमः || शिवतत्वप्रकाशिका || शिवं श्रीवीरणाराध्यं नत्वा कुर्वे समासतः | व्याख्यां श्रीपञ्चरत्नस्य शिवतत्वप्रकाशिकाम् || वन्दे ह्यनाख्यं परिशेष सिद्धं तल्लिऽऽन्गरूपौ परमौ शिवौ तौ | तल्लिऽऽन्गरूपाद्य शिवा शिवौ तौ तल्लिऽऽन्ग जापो नलरूपमीशम् || अथास्य शिवरहस्य पञ्चरत्नस्य व्याख्यां शिवतत्वप्रकाशिकाख्यां संक्षेपतश्चिकीर्षुः प्रथममनामधेयं वस्तुस्वरूपमाह- वन्दे इति | परिशेषसिद्ध परिशेष प्रमाण शिष्टं अनाख्यमवाऽऽन्मनस गोचरं वस्तु वन्दे नमामि | अहमिति शेषः| तत्र श्रुतिः- यतो वाचो निवर्तन्ते अप्राप्य मनसा सह | नेति नेत्य स्थूल मनण्व ह्रस्वदीर्घमिति | तथा महिमस्तवे- अति * * * ण्डास्य * * * त च महिमा वाऽऽन्मनसयोरतद्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि || तल्लिऽऽन्गरूपौ | तस्यानाख्यस्य लिऽऽन्गस्वरूपौ तौ प्रसिद्धौ परमौ शिवौ शिवा शिवौ वन्दे | तदुक्तं श्वेताश्वतरोपनिषदि- तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् | पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् || न तस्य कार्यं करणञ्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञान बलक्रिया च || तथा वायवीयसंहितायाम्- तमीश्वराणां परमं देवतानां च दैवतम् | पतिं पतीनां परमं विदाम भुवनेश्वरम् || न तस्य करणं कार्यं तत्समश्चाधिको न हि | परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता || पृ० ३०) ज्ञानं क्रिया बलं चैव यया विश्वं प्रवर्तते || इत्यादि | तल्लिऽऽन्गरूपार्ध शिवा शिवौ च | तयोः परमशिवयोः लिऽऽन्गरूपौ अर्धौ शिवा शिवौ | अर्धनारीश्वरं वन्दे | तदुक्तं यजुर्वेदे- आखुस्ते रुद्र पशुस्तं जुषस्वैषते रुद्रभागः सह स्वस्रा * * * वि कयेति | तथा तात्पर्यसंग्रहे- या मा मनन्ति तव शऽऽन्कर धर्मदारा नध्वर्यवः सहज सिद्धतया स्वसारम् | तस्याः प्रभावमतिवाड्मनसं शिवायाः कार्त्स्नेन वक्तुमनलं कमलासनोऽपि || आदित्यपुराणे- अर्धनारीश्वरो * * * * * श्वेश्वरः शिवः | नारीभागान्महादेवः ससर्ज पृथगीश्वरीम् || न तस्या विद्यते जन्मजाते किल भा * * * * | * * * न जानन्ति यस्य ब्रह्मादयः सुराः | यस्यास्तु शक्तिभिर्व्याप्तो ब्रह्माण्डानाञ्च को * * * * | * * * * गाद्विभक्तेव द्रष्टा साथ विरिञ्चिना | ततः प्रभृति विप्रेन्द्रा मैथुन प्रभवाः प्रजाः || लैऽऽन्ग * * * * * * महस्तुतान्येव चाण्डानि कथितानि तु | तत्र तत्र चतुर्वक्त्रो ब्रह्माणो हरयो भवाः | अण्डेष्वेतेषु सर्वेषु * * * * * र्दश | प्रत्यण्डं द्विजशार्दूलास्तेषां हेतुर्महेश्वरः | अस्याष्ट मूर्ते शर्व * * स्य शिवस्य ग्रहणे प्रकृतिस्तस्याः प्रजाश्च महदादयः | जलबुद्बुदमुत्पन्ना अवतीर्णः पितामहः || ब्रह्मदयोऽस्य पशवः सर्वे देहाभिमानिनः | * * * * * * * * डोमा महेश्वरयोः तेज आपो ज्योतिस्सरूप- तदिति | तल्लिऽऽन्गजापोनलरूपम् | तयो हिरण्याय नमः | हिरण्यलिऽऽन्गाय नमः | शिवाय नमः शिवलिऽऽन्गाय नमः इत्यादि | तथा कूर्मपुराणे- ज्वालामालावृताऽऽन्गाय ज्वलनस्तम्भरूपिणे | नमः शिवाय शान्ताय ब्रह्मणे लिऽऽन्गमूर्तये || इत्यादि | तल्लिऽऽन्गजं तन्महालिऽऽन्गजातं रुद्रमहं नमामि | तथा लैऽऽन्गे- पृ० ३१) नमः श्रुतिनिदानाय ज्वालालिऽऽन्गाय लिऽऽन्गिने | हेमलिऽऽन्गाय हेम्ने च वारिलिऽऽन्गाय चाम्भसे || शिवाय शिवलिऽऽन्गाय व्यापिने व्योम व्यापिने || इत्यादि | अवेदोपनिषज्जननी गायत्री प्रसिद्धं जलानलाख्यमापोज्योतिर्नामकं परमं शिवं नमामि | तथा गायत्री शिरसि- ओ मापो ज्योतीरसोमृतं ब्रह्म भूर्भुवः स्वरोम् || तथा सूतसंहितायाम्- आ मापो ज्योतिरित्येतद्गायत्र्याः शिर उत्तमम् || अथ पूर्वोक्त शिवस्य लिऽऽन्गस्वरूपमाह - तत्कि(त्क)मिति | तत्कं तदीयं अनन्तरूपं बहुरूपं महालिऽऽन्गं नमामि | तदुक्तं बृहदारण्यकोपनिषदि- ज्वालायै नमः ज्वालालिऽऽन्गाय नमः | हिरण्या * * * * तयोर्लिऽऽन्गजात तेज आपो ज्योतिः स्वरूपमीशमहं वन्दे | तदुक्तं नारायणोपनिषदि- आपो वा इद ? सर्व मापा विश्वाभूतान्यापः प्राणा वा आपः पशव आपोन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापः छन्दांस्यापो यजूंष्यापः सत्यमापः सर्वादेवता आपो भूर्भुवः सुवरापः | तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः | तस्याः शिखायामध्ये परमात्मा व्यवस्थितः || तथा लैऽऽन्गपुराणे- भूर्भुवस्तथा ह्यापो ह्यन्नं वा मृतमेव च | प्राणो वै जगता मापो भूतानि भुवनानि च || बहुनात्र किमुक्तेन चराचरमिदं जगत् | आपः शिवश्च तन्मध्ये वाह्निरूपो व्यवस्थितः || इत्यादि | विस्तर भयान्न लिखितम् || जला नलाख्यं परमं शिवं वा त्रयी त्रयी मस्तक मात्र सिद्धम् | तत्कं महालिऽऽन्गमनन्तरूपं तल्लिऽऽन्गजं रुद्रमहं नमामि || पृ० ३२) अथ पूर्वोक्त शिवस्वरूपं प्रकटयति- जलेति | त्रयी त्रयी मस्तकमात्र सिद्धम् | यावन्नेन्द्रिय वैकल्यं तावत्पूजय शऽऽन्करम् | त्वरितं जीवितं याति त्वरितं याति यौवनम् || त्वरितं व्याधिरभ्येति तस्मात्पूज्यः सदाशिवः || तथा स्कान्दे- यदा नृदेहोऽस्ति यदा द्विजत्वं यदा च पट्वीकरणप्रवृत्तिः | तदैव नैजं पदमीक्षितव्यं च्युतं घृतंकः पुनराददीत || तथा भर्तृहरिः- यावत्स्वस्थमिदं शरीर मरुजं यावज्जरा दूरतः यावच्चेन्द्रिय शक्तिरप्रतिहता यावत्क्षयो नायुषः | आत्म श्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् सन्दीप्ते भवने तु कूप खननं प्रत्युद्यमः कीदृशः || पुनस्तमेव श्रुत्यर्थं प्रकटयति- ऋग्वेदे- तव श्रिये मरुतो मर्दयन्तः रुद्र यत्तेजनिमचारुचित्रम् | तथा नैरुक्तः- हे रुद्र परमेशान | चार्वत्यन्त शोभनं तथा चित्रं चायनीयं पूजार्थं लिऽऽन्गजनन चन्द्रधररुद्रस्वरूपमाह- तदिति | तल्लिऽऽन्गजं तन्महालिंगजातं रुद्रमहं नमामि | तथा सामवेदे- सोभ्यायोत्तमपुरुषाय मध्यमपुरुषाय ब्रह्मचारिणे चन्द्रललाटाटाकृत्ति वाससे नमो नमः || लिऽऽन्गपुराणे- लीयन्ते यत्र गम्यन्ते लोका लिऽऽन्गं तदुच्यते | लिऽऽन्गे सोमः सोमधरो रुद्रः साक्षाद्व्यवस्थितः || इत्यादि || तद्बीजजं काञ्चनमणुमीड्यं विष्ण्वादयोऽस्मात् प्रथमं बभूवः | हिरण्यगर्भादिक तातमेनं सुवर्णवर्णं श्रुतयो वदन्ति || अथ पूर्वोक्त रुद्रवीर्याज्जगत्सृष्टिमाह- तदिति | ईड्यं काञ्चनमण्डं सौवर्णाण्ड तद्बीजजं तस्य कृशानुरेतसो रुद्रस्य बीजादग्नेर्जातम् | अस्मादण्डाद्विष्ण्वादयो प्रथमं बभूवुः | तदुक्तं शिवसंकल्पोपनिषदि- पृ० ३३) अण्डं हिरण्मयं मध्ये समुद्रं रुद्रस्य वीर्यात्प्रथमं बभूव | अण्डाद्विष्णुर्ब्रह्मा जातवेदाश्च तन्मे मनः शिवसंकल्पमस्तु || तथा लैऽऽन्गे- सौवर्णमभवच्चाण्डं मावेष्ट्याद्यं तदक्षरम् | अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् || तस्मादण्डाद्बभूवादौ विष्णुर्ब्रह्मा हुताशनः || इत्यादि | अथाण्डजननस्य शम्भोः सुवर्ण वर्णत्वमाह- हिरण्येति | यद्यस्मात्कारणात् श्रुतयः हिरण्यगर्भादिक तातं ब्रह्मादि जनकमीशं सुवर्णवर्णं वदन्ति | तदुक्तं नारायणोपनिषदि- नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतये उमापतये पशुपतये नमो नम इति || तथा तात्पर्यसंग्रहे- उक्तो हिरण्यपतिरेष हिरण्यबाहुरुक्तोंम्बिका पतिरुमापतिरेष उक्तः | इत्यादि | अष्टौ पदाष्टा पद बीजरूपौ यद्बीजवृक्षौ जगदेक पूज्यौ| तदर्चितं चाच्युत मुख्यदेवैः रुद्रस्य लिऽऽन्गं जगदालयं हि || शिखिहेमबीजम् | अथ हरबीज तद्बीजयोरभेदमाह- अष्टेति | बीजवृक्षौ अष्टापदाष्टापद बीजरूपौ | हिरण्य हिरण्य रेतसौ यद्यस्मात्कारणात् जगदेक पूज्यौ ततः अच्युत मुख्य देवैः | तदुक्त मृग्वेदे- ओमग्निमीले पुरोहितम्| यजुषि- वह्नि मुखा वै देवाः || साम्नि- एतमेवात्मानं वैश्वानरमुपास्ते | अथर्व शिरसि- यो वै रुद्रः सभगवान्यश्चाग्निस्तस्मै नमो नमः | तथा पुरुषार्थ सुधानिधौ- गुरुवर्ह्निर्द्विजातीनां सर्वेषां ब्राह्मणो गुरुः | गुरुरेव पतिः स्त्रीणां सर्वस्याभ्यागतो गुरुः || इत्यादि | अथ वित्तमहत्वमाह- ऋग्वेदे पिपिरो हिरण्यैः | शिवधर्मोत्तरे- ज्ञानवृद्धा वयोवृद्धास्तपोवृद्धा बहुश्रुताः | पृ० ३४) इत्येते धनवृद्धस्य द्वारे तिष्ठन्ति किऽऽन्कराः || तथा स्कान्दे- वित्तेन हीनं पुरुषं त्यजन्ति दाराश्च मित्राणि सहोदराश्च | तं वित्तवन्तं पुनरेव यान्ति वित्तं हि लोके पुरुषस्य दैवम् || तथा भर्तृहरिः - यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः | स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति || इत्यादि | हिरण्य हिरण्यरेतसोर्महत्वं सकललोकप्रसिद्धम् | कृशानुरेताः सर्वज्ञो हिरण्यरेताहुत भुगुभयत्राप्यमरः तत्तस्मात्कारणात् अच्युत मुख्यदेवैः नारायण प्रभृतिभिः शिखि हेमबीजं हिरण्य हिरण्यरेतसोर्निदानं रुद्रस्य लिऽऽन्गं अर्चितम् (तथा च नैरुक्तः- हे रुद्र) तदुक्तं मृगेन्द्रे- तव श्रिये मरुतो मर्दयन्तः रुद्र यत्तेजनिमचारु चित्रम्| तथा च नैरुक्तः- हे रुद्र परमेशान चार्वत्यन्त शोभनं तथा चित्रं चायनीयं पूजनीयमिति स्मृतम् | यत्तेजनिम लिऽऽन्गं यत्तव तन्मरुतः सुराः | विष्ण्वादयः श्रिये स्वस्वपदप्राप्त्यर्थमादरात् || मर्दयन्तस्स्वीयहस्त स्पर्श पूर्वं यजन्ति हि|| तथा व्यासाष्टके- सर्वस्य पूजार्हमिहोत्तमाऽऽन्गं संपूज्यते लिऽऽन्गवरं हरस्य | अनेन पर्याप्तमतीव मूढाः प्रभुर्यथेवेच्छति तत्करोति || ब्रह्मात्र लिऽऽन्गे हरिरत्र जातः सुरासुराश्चेदमिहार्चयन्ति | तथापि मूढा न विचारयन्ति को वाधिकोऽप्यस्ति समोहरस्य || नवज चक्राऽऽन्क सरोरुहाऽऽन्कं लिऽऽन्गाऽऽन्कितं पश्य जग जगद्भगाऽऽन्कम् | हस्त प्रबद्धे सति कंकणे तु पश्यन्ति मूढाः खलु दर्पणेन || तथा लैऽऽन्गे- शिवस्त्रिलिऽऽन्गमखिलं देवि प्रकृतिर्मम देहजा|| पुल्लिऽऽन्गं पुरुषो विश्वो मम देह समुद्भवः || उभाभ्यामेव वै सृष्टिर्लोकानां तु न संशयः पृ० ३५) इत्यादि || ४ || विदन्ति वेदाः शिवपादचिह्नं शिवेति वाचं वदतान्त्यजेन | भुञ्जीत साकं श्रुतिराह सत्यं कृतन्त्विदं वीरणदेशिकेन्द्रैः || अथ शिव शब्दोच्चारण फलं वेदवेद्य शिवस्वरूपं चाह- विन्दन्तीति | शिवेति वाचं वदता अन्त्यजेन साकं सहभुञ्जीतेति श्रुतिः सत्यमाह | तथा सामवेदे- अपि वा यश्चण्डालः शिवेति वाचं वदेत्तेन सहसंवसेत्तेन सहभुञ्जीत तेन सहभुञ्जीतेति | तथा स्कान्दे- देवाः षोडश लक्षाणि नवलक्षाणि मानुषाः | दशभिर्दशभिस्तद्वज्जलजा विहगा मृगाः | सरीसृपास्तु लक्षणि एकादश च स्थावरा || अष्टौ च दश लक्षाणि सप्तजन्मान्यमूनि वै || शिवेति मऽऽन्गलं नाम यस्य वाचि प्रवर्तते | सप्तजन्मकृतं पापं भस्मी भवति तस्य वै || वसेत्तेन विशेत्तेन साकं तेन वदेत्सह | तेन सार्धं तु भुञ्जीत भुञ्जीत श्रुतिराह हि || इत्यादि | अथ वेदमहिमानमाह- वेदाः शिवपादचिह्नं विन्दन्ति | तदुक्तं कठवल्युपनिषदि- शर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रब्रबीमिह्योमित्येतत् || तथादित्यपुराणे- वेदा अचुः- न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः | अद्यापि न वयं विद्मः स देव त्रिपुरान्तकः || श्रृण्वन्तु देवताः सर्वाः सत्यमस्मत्परं वचः | नास्ति रुद्रान्महादेवादधिकं दैवतं परम् | न यथा कूर्म रोमाणि श्रृऽऽन्गञ्च नर मस्तके | न यथास्ति वियत्पुष्पं न तथास्ति हरात्परः || इत्यादि | पृ० ३६) ईश्वर उवाच- मत्प्रसादाद्भविष्यध्वं हे वेदा लोकपूजिताः | युष्मानाश्रित्य विप्रेन्द्रा कर्म कुर्वन्तु नान्यथा || ये वै युष्माननादृत्य शास्त्रं कुर्वन्ति मानवाः | निरये ते विपच्यन्ते यावदिन्द्राश्चतुर्दश || श्रेयसे त्रिषुलोकेषु न वेदादधिकं परम् | विद्यते नात्र सन्देहः इति दत्तोवरो मया || इत्यादि विस्तरभयान्न लिखितम् || इदन्तु शिवरहस्य पञ्चरत्नं वीरणदेशिकेन्द्रैः श्रीमत्सोसलि वीरणाराध्यनामाचार्य सार्वभौमैः कृतं विरचितम् || श्रीः श्रीः श्रीः | वारणाराध्यशिष्य श्रीरेवणाराध्यनिर्मिता || व्याख्या श्रीपञ्चरत्नस्य शिवतत्वप्रकाशिका || श्रीः || || इति श्रीमद्वेदवेदशिरः शिवागमपुराण प्रभृति प्रचुरशास्त्रप्रवीण श्रीमत्सोसलिवीरणाराध्यदेशिक कुञ्जरस्य कृतेः शिवरहस्य पञ्चरत्नस्य व्याख्या रेवणाराध्य विरचिता शिवतत्वप्रकाशिका परिसमाप्ता || || श्रीशिवाय नमः|| पृ० ३७) श्रुत्यर्थप्रकाशिका || शिवाय नमः|| श्रुति श्रुति शिरोरत्न गायत्री शिरसि स्थितम् | अग्निमी?ए पयोज्योतिरतारकं भवतारकम् || वन्दे सर्वेश्वराचार्य सार्वभौम तनूभवम् | सोसलीवीरणाराध्यं लोकाराध्यं यमीश्वरम् || रेवणाराध्यनामाहं कुर्वे श्रुत्यर्थ दीपिकाम् | श्रुति श्रुति शिरोरत्न पञ्चरत्नस्य पञ्चिकाम् || ऋग्वेदे वेद्य पवत इति मनौसर्वगीर्वाणतात- मावो राजान मन्त्रे सुरनरगण पूज्यं यजुर्वेद वेद्यः(द्ये?) | तं देवेष्वाख्य मन्त्रे विधु विधिषु वरं सामवेद प्रपद्य- ईशानादावपर्व श्रुति चरममगो चिन्त्यमेनं नमामि || तत्र तावदाचार्यः श्रुतिसार पञ्चरत्नस्यास्य श्रुत्यर्थ प्रकाशिका व्याख्यां संक्षेपतश्चिकीर्षुः प्रथमं श्रुत्यर्थ साधनं पुराणमिति दर्शयति | स्कान्दे सूतसंहितायाम्- यश्चतुर्वेदविद्विप्रः पुराणं वेत्ति नार्थतः | तं दृष्ट्वा भयमाप्नोति वेदो मां प्रतरिष्यति || तथा शैवे वायवीयसंहितायाम्- यो विन्द्याच्चतुरो वेदा साऽऽन्गोपनिषदो द्विजः | न चेत्पुराणं सञ्चिन्त्य नैव सस्याद्विचक्षणः || तथा महाभारते- पुराणैरेव वेदार्थो वि * * ज्ञायते खलु | बिभेति मानवाद्वेदः पुराणाभ्यास वर्जितात् || इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् || बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति || तथा तात्पर्यसंग्रहे- वेदार्थनिर्णयविधौ हि पुराणमऽऽन्गं निर्णीत वेदविषयाः स्मृतयो भवन्ति | आर्षः श्रुतेरिव पुराण गिरः सकाशे पृ० ३८) नालं प्रकाशयितुमात्मबलावलेपम् || अतोऽस्य श्रुतिसार पञ्चरत्नस्य श्रुत्यर्थप्रकाशिकाख्या व्याख्या पुराणप्रभृतिभिरेव करणीयेत्ययमाशयः | अथ तत्र भवान् अत्र रेवणाचार्यो निर्विघ्न परिसमाप्त्यर्थञ्चतुर्वेद स्तोत्र पात्रमीश्वरं नमस्कुरुते | तदुक्तमलंकार सर्वस्वे- आशीर्नमस्क्रिया वस्तु निर्देशो वापि तन्मुखम् | इति | अथ परमेश्वरः सर्वदेवता जनक इति ऋग्वेदे दर्शयति- ऋगिति | ऋग्वेदे- वेद्यसोमः पवत इति | मनौ ज्ञातव्यः सोमः पवत इति प्रतीकमवति मन्त्रे सर्वगीर्वाणतातं विष्ण्वादि समस्तदेवता जनकम् | तदुक्तमृग्वेदे- सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनिताथ विष्णोः | तथा चादित्यपुराणे- उमया सहितो देवः सोम इत्युच्यते बुधैः | स एव कारणं नान्यो विष्णोरपि च वै श्रुतिः || तथा काशीखण्डे- मतीनाञ्च देवः पृथिव्या वह्नेः सूर्यस्य वज्रिणः | साक्षादपि च विष्णोर्वै सोमो जनयितेश्वरः || तथा कालिकाखण्डे- द्यावापृथिव्योरिन्द्राग्न्योः धियां विष्णोर्यमस्य च | वरुणस्य शशांकस्य जनिता परमेश्वरः || तथा लैऽऽन्गे- सोमं ससर्ज यज्ञार्थं सोमाद् द्यौः समजायत | धरा च वह्निः सूर्यश्च वज्रपाणिः शचीपतिः || विष्णुर्नारायणः श्रीमान्सर्वं सोममयं जगत् || तथा तात्पर्यसंग्रहे - सोमे लतात्मनि महेश्वर गौणवृत्त्या विष्णोरवादि जनकत्वमृचा कयापि | त्वययेव तद्भवितु मर्हति मुख्यवृत्त्या नेन्द्रेन पऽऽन्कज भवे नितरां मुरारौ || पृ० ३९) पुनस्तमेव श्रुत्यर्थं प्रकटयति- महोपनिषदि- अप एव ससर्जादौ तासुवीर्यमपा सृजत्| तदण्डमभवद्धैमं विश्वस्यायतनं महत् || तथा शिवसऽऽन्कल्पोपनिषदि- अण्डं हिरण्मयं मध्ये समुद्रं रुद्रस्य वीर्यात्प्रथमं बभूव | अण्डाद्विष्णुर्ब्रह्मा जातवेदाश्च तन्मेम * * * * * ग्रन्थपातः * * नियमिति स्मृतम् | यत्तेजसिमल्लिऽऽन्गं यत्तव तन्मरुतः सुराः | विष्ण्वादयः श्रिये स्वस्वपदप्राप्त्यर्थमादरात् || मर्दयन्त स्वीय हस्तस्पर्श पूर्वं यजन्ति हि || इत्यादि | विस्तरभयान्न लिखितम् || अथ सामवेदप्रपदमन्त्रे शिवस्य ब्राह्मण्यं दर्शयति- त्वमिति | सामवेद प्रपद्ये | प्रपद संज्ञामर्हतीति दण्डादिभ्योय इति य प्रत्ययः | अथवा प्रपूर्वात् पदॢगताविति धातोः सर्वेगत्यर्था धातवो ज्ञानार्था इति भाष्य वचनात् | सामवेद ज्ञातव्ये वा त्वं देवेष्वाख्याभिधानं यस्य तस्मिन्मन्त्रे | विध * * * दशावताररूपा विष्णवः | विधयो नवब्रह्माणः तेषु वरं श्रेष्ठम् | तदुक्तं स्कान्दे- विष्णुसंख्या ह्यसंख्याता ह्यसंख्याताः पितामहाः | असंख्याताः सुरेन्द्राश्च नित्य एको महेश्वरः || अतो विधु विधिष्विति बहुवचन प्रयोगः कृतः | विधुः श्रीवत्सलाञ्छनः विश्वसृड्विधिरुभयत्राप्यमरः | तदुक्तं सामवेदप्रपदमन्त्रे- त्वं देवेषु ब्राह्मणोस्यहं मनुष्येषु | ब्राह्मणो वै ब्राह्मणमुपधावत्युपत्वा धावामि || तथा पराशरपुराणे- ततो विप्रस्य संबन्धः शिवस्यैव हि युज्यते| सऽऽन्कराः सर्वदेवाश्च वृषलस्तु पुरन्दरः || पितामहस्तु वैश्यश्च क्षत्रियः परमो हरिः | ब्राह्मणो भगवान् रुद्रः सर्वेषामुत्तमोत्तमः || पृ० ४०) ब्रह्मभावो हि रुद्रस्य ब्राह्मण्यं नैव हेतुजम् || ब्राह्मणो वै सदाः * * के ब्राह्मणोनुपधावति | महाब्राह्मणमीशानमुपधावेन्न चेतरम् || तथा मानवपुराणे- रुद्र एव सदा साक्षाद्ब्रह्मणो ब्रह्म भावतः | ब्राह्मणः पठितस्तस्माद्ब्राह्मणो रुद्र एव वै || प्रजानां पालको राजा विष्णुः सर्वस्य पालकः | तेन राजा हरिस्तस्य ब्राह्मण्यं त्वौपचारिकम् || जगद्विस्तरणे नैव कार्येण भगवानजः | केवलं वैश्य एवस्यान्न राजान द्विजोत्तमः || ब्राह्मण क्षत्रिय विशो रुद्र विष्णु पिता महाः | तत्सेवा तत्परः शूद्रः इन्द्रः सामश्रुतिः खलु || तथा स्कान्दे- ब्राह्मणो भगवान् रुद्रः क्षत्रियो विष्णुरुच्यते | ब्रह्मावैश्यस्तथा प्रोक्तो वासवः शूद्र उच्यते || तथा तात्पर्यसंग्रहे- त्वं ब्राह्मणस्त्वदुपधावनमेव कार्यं न ब्राह्मणैस्त्वदितरे न भवन्त्युपास्याः | न ब्राह्मणा न वरवर्णनिषेवणेन संभावयेम * * * * * नः प्रपदं प्रमाणम् || पुनस्तमेव श्रुत्यर्थं प्रकटयति यजुर्वेदे | यो वै स्वां देवतां अति यजते प्रस्वायै देवतायैच्चवते न परां प्राप्नोति | पापीयान् भवति | तथा च नैरुक्तः- अस्यार्थः कथ्यते विप्रो(प्रा) यस्तु स्वां देवतां शिवम् | * * * क्रम्य यजते पूजयत्यन्य देवताम् || स हि प्रच्यवते स्वीय देवतायै नराधमः | भूत्वा पराधीन परां प्राप्नोति गतिमुत्तमाम् || न गच्छत्यथ पापीयानति पापी भवेद्ध्रुवम् | तथा वीरागमे- ब्राह्मणानां च सर्वेषां शिव एवाधि दैवतम् | विष्णुसंस्मरणादेव ब्रह्मत्वं नैव विद्यते || पृ० ४१) शिवं विसृज्य देवेशं विष्णुमाराधयेद्द्विजः | पायसान्नं विसृज्याथ शुन्युच्छिष्टं च भक्ष्येत् || इत्यादि | विस्तर भयान्न लिखितम् | अथाथर्वणवेदे शिवेतर देवता परित्यागमाह- ईशानेति | श * * * * * दीर्यस्य तस्मिन्नथर्व श्रुति चरममनौ अथर्वशिखोपनिषन्मन्त्रे चिन्त्यं ध्येयं एव एनञ्चतुर्वेदस्तोत्रपात्रं शिवं नमामि वन्दे | अहमिति शेषः | तथाथर्वशिखायाम्- ईशानः शिव एको ध्येयः शिवऽऽन्करः सर्वमन्यत्परित्यज्य समाप्ताथर्वशिखा एतामधीत्यद्विजो गर्भवासाद्विमुक्तो विमुच्यत इत्यों सत्यम् | तथा व्यासविष्णु संवादे- विष्णुः- गच्छत्वं शरणं देवं सर्वभावेन शऽऽन्करम् | सन्त्यज्य तृणवद्देवान् ब्रह्मविष्ण्वादिकांस्तथा | यो महादेवमन्येन हीनदैवेन दुर्मतिः | सकृत्साधारणं ब्रूते सोऽन्त्यजोनान्त्यजोन्त्यजः || कर्ताहं सर्वजगतां मम कर्ता महेश्वरः | तस्य देवाधिदेवस्य कर्ता कोऽपि न विद्यते || अत्र मे वचनं व्यास श्रृणु मूर्ख यथार्थवत् | यच्छ्रुत्वा सर्वभूतानां शिव एव भवेन्मतिः|| किमत्र बहुनोक्तेन शिवं ध्यायेच्छिवऽऽन्करम् | शिवादन्यत्परित्यज्य दैवतं भुक्तिमुक्तये|| सर्ववेदशिखाथर्वशिखा प्राप्यैवमेव हि | तथा ब्रह्मगीतायाम्- ब्रह्माविष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः || (भगवद्गीतायाम्- ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ||) शंभु भक्त्यैव सर्वेषां सत्यमेव मयोदितम् | अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम् || पृ० ४२) तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीथति| अयमेव हि वेदार्थो नापरः पर मास्तिकाः|| अन्यथा चेत्सुरकस्सत्यं मूर्धा मेऽत्र पतिष्यति| अयमेव हि सत्यार्थो नापरः परमास्थिकाः|| विश्वासार्थं शिवं स्पृष्ट्वा त्रिर्वः शपथयाम्यहम्|| तस्माद्देवो दितोह्यर्थः सत्यं सत्यं मयोदितम्| गृह्णामि परशुं तप्तं सत्यमेव न संशयः|| अन्यथा वेदवाक्यानामर्थ इत्यभि शऽऽन्कया| अनिश्चितार्थाश्चेन्मूर्धा युष्माको च पतिष्यति|| सत्यमेव मया प्रोक्तं शम्भोः पादौ प्रशाम्यहम्|| सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे|| तथा शैवे वायवीयसंहितायामुपमन्युः- सर्वान्यत्परित्यज्य शिव एव शिवऽऽन्करः| परोध्येयोऽथ देवेशः समाप्ताथर्विणी श्रुतिः|| तथा चादित्य पुराणे रविः- मुमुक्षुभिः सदाध्येयः शिव एव निरञ्जनः| सर्वमन्यत्परित्यज्य ध्यायन्नेवं विमुच्यते|| तथा मानवपुराणे मनुः- अतो मुमुक्षुभिस्सेव्यः साम्बः सर्वेश्वरा ह्वयः| सर्वमन्यत्परित्यज्येत्याह चाथर्वण श्रुतिः|| पराशर पुराणे-पराशरः- सर्वमन्यत्परित्यज्य शिव एव शिवऽऽन्करः| ध्येय इत्याह परमा श्रुतिराथर्वणप खलु|| तथा सूतसंहितायां व्यासः- अतो मुमुक्षुभिः प्राज्ञैः शिव एव शिवऽऽन्करः| ध्येयः सर्वं परित्यज्य शिवादन्यत्तु दैवतम्|| अस्मिन्नर्थे श्रुतिः साध्वी समाप्ता वेद वित्तमाः|| तथा सूतगीतायां सूतः- पृ० ४३) सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते| प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः|| अतोऽपि स शिवोध्येयः प्राधान्येन शिवऽऽन्करः| सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात्|| शिखा चाथर्वणप साध्वी सर्ववेदोत्तमोत्तमा| अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि|| तथा च चतुर्वेद तात्पर्यसंग्रहे हरदत्ताचार्यः- ब्रह्मादिकं सकलमन्यदपोह्य पुंसां ध्यातव्यमेकमभिधाय शिवऽऽन्कर त्वाम्| वक्तव्यमन्यदनपेक्ष विमोक्षहेतु माथर्वणः परिसमाप्तिमुवाच वेदः|| पुनस्तमेव श्रुत्यर्थं प्रकटयति श्वेताश्वतरोपनिषदि- विश्वाधिको रुद्रो महर्षिः हिरण्य गर्भं जनयामासपूर्वम्| स नो बुद्ध्या शुभया संयुनक्तु|| तथा सूतसंहितायाम्- ततो विश्वाधिकं रुद्रं महर्षिं सर्व साक्षिणम्| ब्रह्मविष्ण्वादयो देवाः पूजयामासुरादरात्|| तथा मानव पुराणे- रुद्रं विश्वाधिकं साक्षात् महर्षिं सततोदितम्| हिरण्यगर्भसंज्ञस्य देवस्य जनकं तथा|| ब्रह्म विष्ण्वादयो देवाः पूजयन्ति सदाशिवम्|| इत्यादि| प्रतिषेधमुखेनापि दोषमाह- श्वेताश्वतरोपनिषदि- यथाचर्मवदाकाशं वेष्टयन्ति मानवीः| तथा शिवमविज्ञाय दुःखस्यान्तो भविष्यति| पराशर पुराणे- विहाय साम्बमीशानं यजन्ते देवतान्तरम्| ते महाघोर संसारे पतन्ति परिमोहिताः|| तथा सौरसंहितायाम्- शिवमेकं परित्यज्य योऽन्यदैवमुपासते| तृषितो जाह्नवी तीरे कूपं खनति दुर्मतिः|| सर्वान् देवान् परित्यज्य यजेत्पञ्चास्यमीश्वरम्|| पृ० ४४) सर्वान् मन्त्रान् परित्यज्य जपेत्पञ्चाक्षरी मनुम्|| तथैव ऋग्वेदे भस्म जाबालोपनिषच्छिरसि अथर्वणि| रुद्राक्ष जाबालोपनिषच्छिरसि वेदवाक्यं वेदितव्यम्| ग्रन्थ विस्तरभयान्न लिखितम्|| अत्र स्वभावोक्तिरलऽऽन्कारः| तदुक्तं प्रतापरुद्रीये- स्वभावोक्तिरसौ चारु चथा वद्वस्तु वर्णनम्| वृत्तमपि स्रग्धरा नामकम्| तदुक्तं वृत्तरत्नाकरे- म्रभ्नैर्यानां त्रयेण त्रिमुनियति युता स्रग्धरा कीर्तितेयम्|| इति|| भस्मध्यानाच्छ्रुतिः श्री भसित गुणगणं भस्मजाबालकीया तद्रुद्राक्षं त्रयीयाक्षमणि फलगणं साक्षाज्जाबालकी सा| रौद्री पञ्चाक्षरी श्री शिव जनिम धृतिं सेव्यतीर्थ प्रसादा- सुक्त्वा जाबालशाखा जयति तु जगतां दीपिकांतां नमामि|| इत्थं चतुर्वेदस्तोत्र पात्रमीश्वरं प्रणम्येदानीं भस्मरुद्राक्ष पञ्चाक्षर शिवलिऽऽन्गधारण शिवपाद तीर्थ शिव प्रसाद प्रतिपादकानां श्रुति शिरसां नमस्कारमाह- भस्मेति| भस्म जाबालकी ऋग्वेद भस्म जाबालोपनिषत्संबन्धिनीया श्रुतिरस्ति भस्मध्यानात्प्रतीकवती सा श्रुतिः श्री भसित गुणगणं श्रीमद्भस्मगुण समूहमुक्त्वा जयति सर्वोत्कर्षेण वर्तते| जगतां दीपिकां जगत्प्रकाशकां तां भस्म जाबालोपनिषदं नमामि| तदुक्तमृग्वेदे भस्म जाबालोपनिषदि - भस्मध्यानादीश्वरध्यानो भवति| भस्म ध्यानात् पञ्चाक्षरी स्मरणो भवति| भस्म ध्यानात् स्थाणुत्वं च गच्छति| स एव भस्म ज्योतिः स एव भस्म ज्योतिः| विभतिः| विभूति धारणद्ब्रह्यैकत्वं गच्छति| स एव भस्म ज्योतिः स एव भस्म ज्योतिः| विभूति धारणात् देवा मृतत्वं च गच्छति| स एव भस्म ज्योतिः| स- पृ० ४५) एष भस्म ज्योतिः| भस्म मननादेव पापं भस्मसात् करोति| भस्म मननादेव किलिकिञ्चतद्विदीनि विनश्यति| भस्म मननादेव संसारोत्तरणं करोति| स एष भस्म ज्योतिः| स एष भस्मज्योतिः|| तथा मानवपुराणे- भस्म ज्योतिर्भवत्येव शिवाख्यं न हि संशयः| जाबालोपनिषत्सर्वं प्राहेदं परया मुदा|| इत्यादि| अथ रुद्राक्ष महत्वमाह- तदिति| अक्ष जाबालकी अथर्वणे रुद्राक्ष जाबालोपनिषत्संबन्धिनी या त्रयी श्रुतिरस्ति सा तद्रुद्राक्षमिति प्रतीकवती रुद्राक्ष जाबालोपनिषदक्षमणि फलगणं रुद्राक्षधारणं फल समूह मुक्त्वा जयति जगतां दीपिकांतां नमामि| तदुक्तं अथर्वणि रुद्राक्ष जाबालोपनिषदि- अथ कालाग्निरुद्रः प्रोवाच| तद्रुद्राक्षं वाग्विषयं कृते दश गो प्रदाने यत्फल मवाप्नोति तत्फल मश्नुते स एष ज्योति रुद्राक्षमिति होवाच तद्रुद्राक्षं करो स्प्रष्टुमिच्छन् शत गो प्रदान फलं भवति तद्रुद्राक्षधारणं कतुमिच्छन् द्विशत गोप्रदान फलं भवति| तद्रुद्राक्षधारणमात्रेण सहस्र गो प्रदान फलं भवति| तद्रुद्राक्षं करयोर्धार्यमाणे द्वि साहस्र गोप्रदान फलं भवति| तद्रुद्राक्षं कण्ठे धार्यमाणे त्रिसहस्र गोप्रदान फलं भवति| कर्णयोर्धार्यमाणे एकादश सहस्र गो प्रदान फलं भवति| एकादश रुद्रत्वं च गच्छति| शिरसि धार्यमाणे कोटि गोप्रदानफलं भवति| एतेषां स्थानानां कर्णयोः फलं वक्तुं न शक्यमिति होवाच| तथा मानव पुराणे- रुद्राक्षं धारयन् पापं कुर्वन्नपि च मानवः| सर्वं तरति पाप्मानं जाबाल श्रुतिराह हि|| इत्यादि| विस्तर भयान्न लिखितम्| अथ पञ्चाक्षर स्वरूपमाह- रौद्रेति| रुद्रोपनिषत्पञ्चाक्षर पृ० ४६) मुक्त्वा जयति जगतां दीपिकां तां नमामि| तदुक्तं यजुषि श्रीरुद्रोपनिषदि- नमः शिवाय च शिवतराय च तथा शिवज्ञान विद्यायाम्- वेदानां यजुषां मध्ये शत रुद्रे व्यवस्थितम्| प्रमाणं वेदवाक्यत्वात्परमार्थ प्रकाशितम्|| तथा सूतसंहितायाम्- एषा पञ्चाक्षरी विद्या शतरुद्रीय मध्यगा| पावनी सर्व भूतानां रुद्रैकादशनी ततः|| सिद्धान्तशिखामणौ- नमः शब्दं वदेत्पूर्वं शिवायेति ततः परम्| मन्त्रः पञ्चाक्षरो ह्येषः सर्वश्रुति शिरोगतः|| सप्तकोटिषु मन्त्रेषु मन्त्रः पञ्चाक्षरो महान्| ब्रह्म विष्ण्वादि रुद्रेषु यथा शंभुर्महत्तरः|| इत्यादि| अथ शिवलिऽऽन्गधारणमाह- रौद्री तु| तु शब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति भाष्यवचनात्| शतरुद्रीयोपनिषदपि श्रीशिव जनिमधृतिं श्रीमच्छिवलिऽऽन्गधारणमुक्त्वा जयति जगतां तां दीपिकां नमामि| तथा यजूषि शतरुद्रीये - या ते रुद्र शिवातनूर घोरा पापकाशिनी| तथा सिद्धान्तशिरोमणौ- शिवः सर्व गतश्चापि स्वाधारे व्यज्यतेऽधिकम्| शमी गर्भे यथा वह्निर्विशेषेण विभाव्यते|| सर्वगत्वं महेशस्य सर्वशास्त्र विनिश्चितम्| तथाप्याश्रय लिऽऽन्गादौ पूजार्थमधिकास्थितिः|| नित्यं भाति त्वदी येषु या ते रुद्र शिवा तनूः| अघोरा पापकाशीति श्रुतिराह सनातनी|| या ते रुद्र शिवा तनूरघोरा पापकाशिनीति| यजुषा गीयते यस्मातस्माच्चैवोघवर्जितः| वेदशास्त्र पुराणेषु कामिकद्यागमेषौ च|| लिऽऽन्गधारणमाख्यातं वीरशैवस्य निश्चयात्|| तथा स्कान्दे- शाऽऽन्कर संहितायाम्- स्वप्नकोटि कृतं पापं ब्रह्महत्यादिकं च यत्| पृ० ४७) यथा प्रबोध समये तन्मिथ्या भवति स्फुटम्|| तथैव स्वकृतं पापं लिऽऽन्ग धारणतः पुरा| यदस्ति तल्लयं याति लिऽऽन्ग धारणतष्प(प)रम्|| पवित्रमित्यादि ऋग्वेदे- पुष्पस्य सुरभिर्यद्वद्देहस्य लिऽऽन्गकम्| इत्यादि वीरतन्त्रेऽप्युक्तम्| विस्तर भयान्न लिखितम्|| अथ शिवलिऽऽन्ग पादतीर्थ सेवामाह- जाबालेति| जाबालशाखा सेव्यतीर्थं स्वीकार्य शिव पादोदक मुक्त्वा जयति जगतां दीपिकां तां नमामि| तदुक्तं जाबाल शाखायाम्- भगवतः पादौ प्रक्षाल्य शऽऽन्खं प्रपूर्य गन्धपुष्पाक्षतादिभिरभ्यर्च्य चरुं निवेद्य श्यं(मं)मे गऽऽन्गायमुनेत्यभिमन्त्र्य कद्रुद्रायेति मा त्वा रुद्रेति सम्मार्जनं कृत्वा ऋतं सत्यं परं ब्रह्मेति प्राशयेत्| य एवं कुर्यात् स कुलजान् दश पूर्वान् दशाव(प)रान् आत्मानं च तारयेत्| तथाभियुक्त सूक्तिः- यच्च वाक्यं भगवतः पादावित्येतदादिकम्| अस्ति जाबाल शाखायामीश पादोदकस्य हि|| सेवा विधान कथनं तद्वाक्यमपि कीर्तितम्|| तथा शिवज्ञान संग्रहे- ततः पात्रं प्रतिष्ठाय पादोद् समन्वितम्| अर्चयेद्गन्ध पुष्पाद्यैरुपचारैरनेकधा|| तत्पात्रं शिरसा धृत्वा धन्योऽहमिति संस्मरन्| इयं(मं) मे गऽऽन्गायमुनेत्यभिमन्त्र्य ततः परम्|| कद्रुद्रायेति मन्त्रेण मा त्वा रुद्रेति मन्त्रतः| गृहीत्वा पाणिना तीर्थं सर्वाऽऽन्गमभिषेचयेत्|| सर्वो वै रुद्र मन्त्रेण द्वाभ्यां च प्राशयेत्ततः| ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिऽऽन्गलम्|| ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः| पृ० ४८) इति शेषं पिबेत्तीर्थं ज्ञानवैराग्य सिद्धये|| ब्रह्माण्ड पुराणे च- पादोदकं पुरभिदः पाशजाल हरं परम्| पाणि शुक्तिभिरादाय पपुः कामं गणेश्वराः|| इत्यादि| अथ शिवप्रसाद स्वीकारमाह- जाबाल शाखा तु| जाबालोपनिषदपि-सेव्य प्रसादं स्वीकार्य शिवप्रसाद मुक्त्वा जयति जगतां दीपिकां तां जाबालोपनिषदं नमामि वन्दे| तथा जाबालोपनिषदि-रुद्रेणात्तमश्नन्ति रुद्रेण पीतं पिबन्ति रुद्रेण घ्रातं जिघ्रन्ति| तस्माद्ब्रह्मणाः प्रशान्त मनसो विद्वांसो निर्माल्यमेव भक्षयन्ति| निर्माल्यमेव निषेवेत निर्माल्यमेवशनीयात्|| तथा सिद्धान्त शिखामणौ- भुञ्जीयाद्रुद्र भुक्तान्नं रुद्रपीतं जलं पिबेत्| रुद्राघ्रातं सदा जिघ्रेदिति जाबालकी श्रुतिः|| तथा स्कान्दे- शिष्टाश्शान्ताश्च रुद्रेण भुक्तमेव हि भुञ्जते| घ्रातमेव हि जिघ्रन्ति पीतमेव पिबन्ति च|| तथा चाभियुक्त सूक्तिः- विद्वांसः परमार्थज्ञाः प्रशान्त मनसोऽन्वहम्| शान्त चित्ता ब्राह्मणा हि रुद्रेणार्ति प्रहारिणा|| शिवेनात्तं तेन भुक्तमेवाश्नन्त्युप भुञ्जते| रुद्रेण पीतं पिबति रुद्रेणाघ्रातमेव हि|| जिघ्र(घ्रं)ति निर्माल्यमेव भक्षयन्त्यवधानतः| तस्माद्धेतोर्हि निर्माल्यमेवाश्नीयादिति स्फुटम्|| इत्यादि यजुषि रुद्रेणात्तममृतमित्याद्युक्तं विस्तर भयान्न लिखितम्|| इष्टं प्राणंत्वथर्व श्रुति शिरसि गतं लक्षणं वाजपायाः| श्रीशावास्य(श्य) श्रुतौ षण्मुखकरणमिदं याज्ञवल्क्य श्रुतीष्यम्| तेजो बिन्दु त्रयी हंस निगम शिरसोर्बिन्दुनाद स्वरुपी ज्ञाते वाराणशीं तां सकल श्रुति शिखा यत्तदाहुर्नमामि|| पृ० ४९) इत्थं पूर्वोक्तश्लोक द्वचेन शिवाधिक्यादि बाह्यमुपदेश मुक्त्वा इतः परमुत्तर श्लोक द्वयेनेष्ट लिऽऽन्गाद्यान्तरऽऽन्गिकमुपदेशं दर्शयितु मत्रश्लोके इष्टलिऽऽन्ग प्राणलिऽऽन्गाजपायोग षण्मुखीकरण बिन्दुनाद वाराणशी तारक ब्रह्मलक्षणान्यति संक्षेपतो दर्शयति इष्टमिति| अथर्वश्रुति शिरसि अथर्वशिरोपनिषदि इष्टं इष्टलिऽऽन्गस्वरूपं गतं ज्ञातम्| सर्वे गत्यर्था धातवो ज्ञानार्था इति भाष्य वचनात्| तदुक्तमथर्व शिरोपनिषदि - इष्टमूर्जंतपसानुयच्छत इति| तथा वातुले तन्त्रे- सकलं दृक्कला ग्राह्यमिष्टलिऽऽन्ग स्थलं महत्| इष्टावाप्ति करं साक्षादनिष्ट परिहारकम्|| इष्टमूर्जः स्वभक्ताना मनुयच्चति सर्वदा|| इष्टं लिऽऽन्गमिति प्राह तस्मादाथर्वणी श्रुतिः|| तथा सूतगीतायाम्- घृतकाठिन्यवन्मूर्तिः सच्चिदानन्द लक्षणा| शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा|| इत्यादि| अथेष्ट लिऽऽन्गस्य प्राणभूतं प्राणलिऽऽन्गस्वरूपमाह- प्राणमिति| प्राणं तु प्राणलिऽऽन्गमपि अथर्वश्रुति शिरसि वा अथर्वशिरोपनिषद्येव गतं ज्ञातम्| वास्याद्विकल्पोपमयोरेवार्थे च समुच्चये| इति विश्वः| तथाथर्वशिरोपनिषदि-प्राणेष्वन्तर्मनसो(सा) लिऽऽन्गमाहुरिति| तथा वातुलतन्त्रे- प्राणलिऽऽन्गं मनोग्राह्यं भवेत्सकल निष्कलम्| तत्प्राणेष्टंष्वन्तर्मनसो लिऽऽन्गमाहुरिति श्रुतिः|| तथादित्य पुराणे- प्राणेष्वन्तर्मनसं लिऽऽन्गमाहुर्यस्मिन् क्रोधो या च तृष्णा क्षमा च| तृष्णांच्छित्वा पाशजालस्य मूलं बुद्ध्या संचिन्त्यस्थापयित्वाथ रुद्रे|| इत्यादि| विस्तर भयान्नलिखितम्|| अथाजपामाह- श्रीति| अजपाया लक्षणं अजपायोग स्वरूपं पृ० ५०) श्रीशावाश्य श्रुतौ- श्रीमदीशावास्योपनिषदि गतं जातम्| तदुक्तमीशावास्योपनिषदि- यो सा वसौ पुरुषः सोऽहम्| तथा सूतसंहितायाम्- अथाहमिति मन्त्रोऽयं जीवात्म प्रतिपादकः| शक्तिमन्त्रः सकाराख्यः परमेश्वर वाचकः| प्रकृतार्थे प्रसिद्धत्वात्प्रसिद्धः परमेश्वरः|| संसारे(रि)त्वेन भावोऽहं स एव परमेश्वरः| सोऽहमेव न सन्देहः स्वानुभूति प्रमाणतः|| श्रुतिरप्येवमेवाह परमार्थ प्रकाशिनी| एवं वाक्यानुसारिण्या युक्त्याचार्य पुरस्सरम्| अहं सः सोऽहमेवेति विजानीयाद्विचक्षणः|| हंसोपनिषदि- हंसहंसेति सदाये सर्वेष्ठ देहेषु व्याप्तो वर्तते| यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा न मृत्युमेति| अथ हंस ऋषिः अव्यक्त गायत्रंच्छन्दः परमहंसो देवता| षट् संख्याहोरात्रयोरेकविंशति सहस्राणि षट् शतान्यधिकानि भवन्ति| तथा विवेक मार्तण्डे- सकारेण बहिर्याति हकारेण विशेन्मरुत्| हंसहंसेति तन्मन्त्रं जीवो जपति सर्वदा|| शतानि षड्दिवारात्रौ सहस्राण्येक विंशतिः| अजपा नाम गायत्री योगिनां मोक्षदायिनी|| अस्याः सऽऽन्कल्प मात्रेण नरः पापैः प्रमुच्यते|| तथा योग बीजे- सकारेण बहिर्याति हकारेण विशेन्मरुत्| हंसहंसेति मन्त्रोऽयं सर्वे जीवा जपन्तितम्|| गुरु वाक्यात्सुषुम्नायां विपरीतो भवेज्जपः| सोऽहं सोऽहमिति प्राप्ते मन्त्रयोगः स उच्यते|| पृ० ५१) प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि|| तथा शिवयोग प्रदीपिकायाम्- सकारान्तमिदं बीजं बहिर्याति स बिन्दुकम्| सविसर्ग षकारान्तं बीजमन्तर्विशेददः| अजपा नाम संकल्प्य नरः पापैः प्रमुच्यते|| शिवयोगमवाप्नोति शीघ्रमेव न संशयः|| इत्यादि| अथ षण्मुखी मुद्राकरणं याज्ञवल्क्य श्रुतीऽयम्| याज्ञवल्क्योपनिषत्स्तुत्यं गतं ज्ञातम्| तथा याज्ञवल्क्योपनिषदि- शक्यमासनमास्थाय समाहित मनास्तथा| करणानि वशीकृत्य विषयेभ्यो बलात्सुधीः|| अपानमूर्ध्वमाकृष्य प्रणवेन समाहितः| हस्ताभ्यां बन्धयेत्सम्यक् कर्णादि करणानि वै|| अऽऽन्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां तु चक्षुषी| नासापुटावथान्याभ्या प्रच्छाद्य करणानि च|| आनन्दा विर्भवं यावत् तावन्मूर्धनि धारयेत्| प्राणः प्रयात्यनेनैव ततस्त्वायुर्विघात कृत्|| ब्रह्मरन्ध्रे सुषुम्नायां मृणालान्तर सूत्रवत्| नादोत्पत्तिस्त्वनेनैव शुद्धस्फटिक सन्निभः|| आं मूध्नो वर्तते नादो वीणा दण्डवदुत्थितः| शंखध्वनि निभस्त्वादौ मध्ये मेघधवनिर्यथा|| व्योमरन्ध गते नादे गिरि प्रस्रवणं यथा| व्योमरन्ध्र गते वायौ चित्ते स्वात्मनि संस्थिते|| तथा नन्दी भवेद्देही वायुस्तेन जितो भवेत्|| तथा सिद्धान्तशेखरे- वज्रासनं समादाय कर्णादीन् बन्धयेद्यथा| अंगुष्ठाभ्यामुभौ कर्णौ तर्जनीभ्यामथाक्षिणी|| पृ० ५२) मध्यमाभ्यां निबध्नीयान्नासिका युगलं दृढम्| षण्मुखी करणं ह्येतन्नादोत्पात्तौ प्रशस्यते|| तथा श्वेताश्वतरोपनिषदि - मनोनुकूले न तु चक्षुः पीडने गुहानि वाता श्रयेण प्रयोजयेत्| नीहार धूमार्क जलानलानां खद्योतविद्युत्स्फटिकः शशीनाम्| एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभि व्यक्ति कराणि योगे|| तथा शिव योग प्रदीपिकायाम्- वक्त्रे चापूर्य वायुं हुतवह निलयेऽपानमाकृष्य धृत्वा स्वाऽऽन्गुष्ठाद्यऽऽन्गुलीभिर्वर करतलयो षड्भिरेवं निरुध्य| श्रोत्रे नेत्रे च नासापुट युगलमथानेन मार्गेण धीराः पश्यन्ति प्रत्ययान्सप्रणव बहुविधध्वान संलीन चित्ताः|| इत्यादि| विस्तर भयान्न लिखितम्|| अथ बिन्दु लक्षणमाह- तेज इति| तेजो बिन्दुत्रयी शिरसि तेजोबिन्दूपनिषदि बिन्दु स्वरूपं ज्ञातम्| तथाथर्वणे तेजोबिन्दैपनिषदि- तेजो बिन्दु परं ध्यानं विश्वातीतं हृदिस्थितम्| आणवं शाम्भवं शाक्तं स्थूलं सूक्ष्मं परं च यत्|| तथा निश्वासकारिकायाम्- धूमाभ्र पटलाकारं विस्तीर्णं सर्वतोमुखम्| दृश्यते नश्यते चैव खद्योत सदृश द्युतिः|| हरि कुंकुम संकाशो मध्यमो बिन्दुरुच्यते|| नेत्र मध्य स्थितो दीप्तः पूर्यते स्वेन तेजसा|| शुद्ध स्फटिक संकाशो बिन्दुर्ज्ञेयः परात्परः| दश देवमयं बिन्दुं दशकर्म फलप्रदम्|| दशरूपं च बोद्धव्यं सूक्ष्मात्सैक्ष्मतरं परम्| सितं रक्तं तथा कृष्णं नीलं मेघ साप्रभम्| पीत रक्तञ्च पीतञ्च कपिलं धूम्रमेव च|| पृ० ५३) दशमं स्फटिकाभं च फलमेषां पृथक् पृथक्| निर्वशी करणे श्वेतं रक्तं भूत विनाशने|| पिशाच नाशने कृष्णं शिवेनोक्तं महात्मना| सर्वग्रह विनाशाय नीलं वै परिकीर्ततम्|| मेघाभं व्याधि नाशाय पीतरक्तञ्च मारणे| पीतमाकर्षणे चैव मारणे कपिलं स्मृतम्|| सर्वकर्म सुधूम्राभः स्फटिकाभस्तु मोक्षदः| श्वेतादीनाञ्च सर्वेषां बिन्दूनां देवताः क्रमात्|| अ(न)न्तेशादयो मुख्याः शिखण्ड्यन्ताः प्रकीर्तिताः| कालाग्निरुद्रो नवमो दशमस्तु सदा शिवः|| इदं मुख्यं शिवाख्यस्य बिन्दुदेवस्य लक्षणम्| बिन्दु ध्यानात्सदा योगी योगसिद्धिमवाप्नुयात्|| इत्यादि| अथ नाद स्वरूपमाह- हंसेति| हंसनिगम शिरसि हंसोपनिषदि नाद स्वरूपं ज्ञातम्| तथा हंसोपनिषदि- एषोसौ परमहंसो भानु कोटि प्रतीकाशो अस्यैव जपकोट्या नाद मनु भवति| स च दशविध उपजायते| चिणिति प्रथमणिच् | चिणिति द्वितीयः| घण्टानादस्तृतीयः| शऽऽन्खनादश्चतुर्थः| पञ्चमस्तन्त्रीनादः| षष्ठस्तालनादः| सप्तमो वेणुनादः| अष्टमो भेरीनादः| नवमो मृदऽऽन्ग नादः| दशमो मेघनादः| नवमं परित्यज्य दशममेवाभ्यसेत्| तस्मिन् मनोविलीने मनसि गते सऽऽन्कल्प विकल्पे दग्धे पुण्य पापे सदा शिवोम्| तथा शिवालोके चिण् चिण् चिण्| घण्टा पुनः शंखध्वनयोनु वल्लकी निनादः| सत्तारवेषु भेरीमर्दल नादादशोदिता नादाः| सिद्धान्तशेखरे- नादाभ्यासेन चानेन संभवन्ति अणिमादयः| बहुधा सिद्धयोन्याश्च दूरश्रवण दर्शने|| पृ० ५४) इत्यादि विस्तर भयान्न लिखितम्| इत्थमिष्ट प्राणा जपा षण्मुखी बिन्दु नाद स्वरूपाण्युक्त्वा इतः परं सकल श्रुति शिरो गायत्री शिरः प्रसिद्धं गुरूपदेश गम्यं परमात्मज्ञानं दर्शयति- सकलेति| सकल श्रुति शिखाः क्षेत्र जाबालोपनिषदादीनि समस्त श्रुति शिरांसि| तां प्रसिद्धां प्रक्रान्त प्रसिद्धानुभूतार्थस्तच्छब्दो यच्छब्दोपादानां नापेक्षत इति भाष्य वचनात्| वाराणसीमविमुक्तक्षेत्रम्| यद्वाराणसी संस्थपरमात्मस्वरूपं तारकं ब्रह्माहुः| तदहं नमामि वन्दे| तदुक्तं क्षेत्रजाबालोपनिषदि- अथह्येनमत्रिः पप्रच्छ याज्ञवल्क्यम्| य एषोऽव्यक्त आत्मातं कथमहं विजानीयामिति| सहोवाच याज्ञवल्क्यः - सोऽविमुक्त उपास्यो य एषोनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः| इति| सोऽविमुक्तः कस्मिन् प्रतिष्ठित इति| वरणायां नाश्यां च मध्ये प्रतिष्ठित इति| का वैवरणा का च नाशीति| सर्वानिन्द्रिय कृतान् दोषान् वारयतीति| तेन वरणा भवति| सर्वानिन्द्रय कृन्पापान्नाशयतीति तेन नाशी भवति| कथमं वास्यायनं भवतीति| भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य सन्धिः| सोऽविमुक्त उपास्य इति| अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे| येनासावमृती भूत्वा मोक्षी भवति| इति तथा सूतसंहितायाम् - वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे| भ्रुवो घ्राणस्य यः सन्धिरिति जाबालकी श्रुतिः|| तथा काशी खण्डे शिवः- सर्वान् पापान् वारयति यच्च नाशयति क्षणात्| तत्स्थानं वाराणशीति भ्रुवोर्मध्यं विदुर्बुधाः|| लिऽऽन्गज्योतिस्त्वमेवार्ये लिऽऽन्गी चाहं महेश्वरः| तदेतदविमुक्ताख्यं ज्योतिरालोक्यतां प्रिये|| पृ० ५५) तथा शिवलोके - सऽऽन्गे हि गऽऽन्गा यमुना तटिन्योश्चित्रं किमप्यस्त्यविमुक्ततत्वम्| यल्लिऽऽन्ग्यात्म् तारकात्म ज्योतिस्तदेवेश भवंतमीक्ष्ये|| क्षेत्रेऽविमुक्ते जहतो रुद्रो सून् दक्षिण श्रुतौ| व्याचष्टे तारकं ब्रह्म मोक्षी भवति नान्यतः|| तथा मानव पुराणे- भ्रुवोर्घ्राणस्य यः सन्धिस्तत्र वाराणसी स्थिता| तत्राविमुक्तं क्षेत्रं तस्मिन् रुद्रः स्सदा स्थितः|| लिऽऽन्ग ज्योतिः स्वरूपेण सदा विश्वेश्वराह्वयः| संसार तारकः साक्षात् पूजनीयः स मुक्तये|| तथा शऽऽन्करसंहितायाम्- भ्रुघ्राण मध्येष्वविमुक्त देशे विश्वेश्वराख्यं परमात्म लिऽऽन्गम्| ध्यानामृतासक्तधियो महान्तो ध्यात्वा परां मुक्तिमवापुरन्ये|| इत्यादि विस्तर भयान्न लिखितम्| अथ तदविमुक्तक्षेत्रसंस्थमग्न्यादि प्रचुर नाम युक्तं नाम युक्तं परमात्मस्वरूपं तारकं ब्रह्म सकल वेदान्त गायत्री शिरस्स्वपि दर्शयति| श्रीमदृग्वेदे- ओं अग्निमीले पुरोहितम्||१|| यजुर्वेदे- नमोऽग्न्येऽप्सुमते||२|| सामवेदे- नमोऽग्नये पृथिवी लोकक्षिते||३|| अथर्व शिरसि- यो वै रुद्रस्स भगवान् यश्चाग्निस्तस्मै वै नमो नमः||४|| शिव सऽऽन्कल्पोपनिषदि- यो वेद उदकात्त्रयते सर्वलोक महेश्वरः| ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवः संकल्पमस्तु||१|| श्रीरुद्रोपनिषदि- नमस्ताराय च नमः शंभवे च||२|| अथर्वशिरोपनिषदि- अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्म जरामरणसंसार महद्भयात्तरयति तस्मादुच्यते तारम्||३|| ब्रह्म विद्योपनिषदि- अर्घमात्रा तु सा ज्ञेया प्रणवस्योपरिस्थिता||४|| पृ० ५६) ध्यानबिन्दूपनिषदि-त्रिमात्रादर्ध मात्रं वास्तं वेद स वेदवित्||५|| हंसोपनिषदि- त्रिमात्रोहमिति एवं सर्वदा ध्यायेत्||६|| कठवल्युपनिषदि- अंगुष्ठमात्रः पुरुषः||७|| प्राणाग्निहोत्रोपनिषदि- महानेवायं पुरुषो योऽऽऽन्गुष्ठाग्रे प्रतिष्ठितः||८|| ब्रह्मोपनिषदि- एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा||१०|| श्वेताश्वतरोपनिषदि- अऽऽन्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये संनिविष्टः||९|| अमृत बिन्दूपनिषदि- एक एवात्मामन्तव्यः||११|| महोपनिषदि- पुरुषः परमात्मा||१२|| मुण्डकोपनिषदि- दिव्यो ह्यमूर्तः पुरुषः||१३|| पूर्व तापनीयोपनिषदि- पुरुष एवेदं सर्वम्||१४|| उत्तरतापनीयोपनिषदि- सर्वं ह्येतद्ब्रह्मायमात्मा||१५|| वृद्धजाबालोपनिषदि- सर्वकर्मसाक्षी परमात्मा||१६|| प्रश्नोपनिषदि- विज्ञानात्मा पुरुषः||१७|| बृहदारण्यकोपनिषदि-हृद्यन्तर्ज्योतिः पुरुषः स एष नेति नेत्यात्मा गम्यः||१८|| आश्वलायनोपनिषदि- हृदिह्येष पुरुषः||१९|| तैतिरीयोपनिषदि- आनन्द आत्मा||२०|| परमहंसोपनिषदि- यत्पूर्णानन्दैक बोधः तद्ब्रह्म||२१|| मण्डल ब्राह्मणोपनिषदि- ब्रह्मैवेदं विश्वमिदं वरिष्ठम्||२२|| जाबालोपनिषदि- तद्ब्रह्मै तदुपासितव्यम्||२३|| नारायणोपनिषदि- ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिऽऽन्गलम्||२४|| छान्दोग्योपनिषदि- एषोन्तरक्षिणि पुरुषो दृश्यते एष आत्मा||२६|| माण्डुकोपनिषदि- स आत्मा विज्ञेयः|| कौषीतकी ब्राह्मणोपनिषदि- य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति| य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपासे इति||२७|| ऐतरेयकोपनिषदि- उपासते हृदयं ब्रह्मेत्यरुणयो ब्रह्म देवताः||२८|| तेजोबिन्दूपनिषदि- परं गुह्यमिदं स्थानं व्यक्त ब्रह्म निराश्रयम्||२९|| याज्ञवल्क्योपनिषदि- मध्यमेऽपि हृदयस्य ललाटे स्थाणुवण्व? पृ० ५७) लति लिऽऽन्गमदृश्यम्||३०|| यजुर्वेदोपनिषदि- य एषोऽन्तर्हृदययाकाशस्तस्मिन्नयं पुरुषो मनोमयः अमृतमयो हिरण्मयः|| ३१|| कैवल्योपनिषदि- एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम्| समस्त साक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मारूपम्|| श्रीमदृग्वेदे- अमृतनादोपनिषदि-सव्याहृतिं स प्रणवं गायत्रीं शिरसा सः त्रि पठेदायत प्राणः प्राणायामः स उच्यते||१|| यजुर्वेदेक्ष नारायणोपनिषदि- गायत्रीमावाहयामि सावित्रीमावाहयामि| सरस्वतीमावाहयामि| ओं भूः ओं भुवः स्वः ओं महः ओं जनः ओं तपः ओं सत्यं| ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि| धियो योनः प्रचोदयात्|| ओ मापो ज्योतीरसोऽमृतं ब्रह्म भूभुवः स्वरोम्|| सामवेदे छन्दोग्योपनिषदि- वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमथर्वणञ्चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदम्| वाग्वा इदं सर्वं भूतं गायति त्रायति च या वै सा गायत्री||३|| अथर्वशिखोपनिषदि- इति त्रिरुक्त्वा चतुर्थः शान्त आत्मा प्लुत प्रयोगेण समस्तमोमिति प्रयुक्तमात्म ज्योतिः||४|| श्वेताश्वतरोपनिषदि- एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित्|| हृत्पद्मेऽऽऽन्गुष्ठमात्रे रविशशिशिखिनां मण्डलाग्र प्रदीप्ति- मापो ज्योतिःस्वरूपं यमिकुहरगतं सर्वभूतेषुगूढम्| प्रत्यक्षं लक्षमन्तः सकल भुवनगं मेघविद्युत्प्रभाभं सूक्ष्मं ब्रह्मामृतं तं परमति तमसो ज्ञानरूपं नमामि|| अथात्रश्लोके पूर्वश्लोकलिखित सकलशास्त्र शिरोरत्न चतुर्वेद तच्छिरो भूत द्वात्रिंशदुपनिषत्तज्जननी गायत्री तदर्थः क्रमात्किञ्चित्प्रकटी क्रियते- हृत्पद्म इति| बृहदारण्यकोपनिषदि- हृदयं वै ब्रह्मेति हृदयं वै ब्रह्मेत्यहृदयस्य किं स्यात् हृदयं वै संराट् परमं ब्रह्म नैनं हृदयं जहाति| तथा शिवालोके- पृ० ५८) हृच्चक्रमेतममलं सप्तमण्डल मण्डितम्| मण्डलत्रयसंयुक्तं तथार्केन्द्वनलात्मकम्|| तथा स्कान्दे- निर्भिद्य सप्तावरणं यस्य तेजो हृदि स्थितम्| बहिः प्रकाशते तस्मै महादेवायते नमः|| इत्यादि| अऽऽन्गुष्ठमात्र इति श्वेताश्वतरोपनिषदि| अऽऽन्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये सन्निविष्टः|| तथा पौष्करे- अऽऽन्गुष्ठमात्रभुवने कैवल्यं संभवेत्पशोः|| तथा शऽऽन्कर संहितायाम्- अन्ये पुरा योगपरक हृदब्जे ज्वलन्तमऽऽन्गुष्ठमितं पुराणाम्| लिऽऽन्ग स्वरूपं शिवमप्रमेयं संभाव्य तस्मिल्लंयमापुरार्यः|| इत्यादि| रवि शशि शिखिनां मण्डलाग्र प्रदीप्तमिति| ध्यानबिन्दूपनिषदि- अष्टपत्रमधो पुष्पमूर्ध्वनालमधोमुखम्| कदली पुष्प संकाशं सर्ववेदमवाप्तिकम्|| तत्रार्क चन्द्रवह्नीनां उपर्युपरिचिन्तयेत्| त्रिमात्रादर्ध मात्रं वा यस्तं वेद स वेदवित्|| तथा शिवयोग प्रदीपिकायाम्- यस्तं शिवं केवल चित्स्वरूपं सूर्येन्दु वैश्वानर मण्डलस्थम्| गुरु प्रसादात् त्रिमलं क्षयित्वा ज्ञात्वा यजेन्मोक्ष सुखं स याति|| तथा महाभारते- हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधो मुखम्| ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्ण(र्णि)कम्|| कर्णिकायां न्यसेत्सूर्य सोमाग्नीनुत्तरम्| तस्य मध्ये स्मरेद्रूपं शिवस्य ध्यानमुत्तमम्|| इत्यादि| आपो ज्योतिः स्वरूपमिति| प्राणाग्नि होत्रोपनिषदि- आपोज्योतिरसो मृतो आपः पुनन्तु पृथिवीं पृथिवीपूता पुनातु माम्|| तथा शिवयोगप्रदीपिकायाम्- यथा ज्योतिराकारं ब्रह्मामृत शिवात्मकम्| पश्यन्ति सूरयो श्रान्तं तद्विष्णोः परमं पदम्|| तथादित्यपुराणे- अप्सु तिष्ठति........विस्तं विदुः परमेश्वरम्| पृ० ५९) आपोरूपञ्च यस्यैव नमस्तस्मे परात्मने|| इत्यादि| वमि कुहर गतमिति| योगिभिर्हृदय गुहायां ज्ञकतमित्यर्थः| याज्ञवल्क्योपनिषदि- अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः| तमद्भुतं पश्यति शुद्ध बुद्ध्या प्रयाणकालेऽपि विहीनशोकः| तथा योगसारसंग्रहे- ऽऽहृदय कुहरमध्ये दीपवद्वेदसारं प्रणवमयमतर्क्यं योगिभिर्ध्यान गम्यम्| हरि गुरु शिव योगं सर्वभूतस्थमेकं सकृदपि मनसा वा ध्यायते यस्स मुक्तः|| तथा शिवराघवसंवादे- हृत्पद्म मध्ये सुषिरं तत्र वै भूत पञ्चकम्| तत्र मध्ये महाकाशमाकाशे निर्मले नलः|| तन्मध्ये च महेशानं ध्यायेद्दीप्ति मयं शिवम्|| इत्यादि| सर्वभूतेषु गूढम् इति| ब्रह्मोपनिषदि- एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा| कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च|| श्वेताश्वतरोपनिषदि- घृतात्परं मण्डमिवाति सूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम्| विश्वस्यैकं परिवेष्टितारं ज्ञात्वादेवं मुच्यते सर्वपाशैः|| तथा वायवीयसंहितायाम्- घृतात्परं मण्डमिव सूक्ष्मं ज्ञात्वाधिपं शिवम्| सर्वभूतेषु गूढञ्च सर्वपाशैः प्रमुच्यते|| इत्यादि| प्रत्यक्षमिति| अक्षिण्यक्षिणी प्रत्यक्षम्| लक्षमन्तः अन्तर्लक्षात्मकम्| बृहदारण्यकोपनिषदि- चक्षुर्वै ब्रह्म चक्षुर्वै ब्रह्मेत्य पश्यतो हि किं स्यात्| चक्षुर्वै सम्राट्| परमं ब्रह्म| नैनं चक्षुर्जहाति| तथा चन्द्रावलोकने- आत्म ज्योतिर्मनोज्योतिर्ज्योतिश्चक्षुर्न पश्यति| सबाह्याभ्यन्तरं ज्योतिः तज्ज्योतिः शिव उच्यते|| तथा सूतसंहितायाम्- गुरूपदेशेन शिवं विलोकयेद्विलोकनेनापि शिवं विलोकयेत्| विलोकनञ्चापि विसृज्य केवलं स्वभाव भूतं स्वचिदेवशिष्यते|| पृ० ६०) इत्यादि| सकल भुवन गमिति| विश्व व्यापकमित्यर्थः| श्वेताश्वतरोपनिषदि- सूक्ष्माति सूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम्| विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्ति मत्यन्तमेति|| तथा च चन्द्रावलोकने- चक्षुरग्रस्थितं नित्यं प्रस्फुरन्तं मणिर्यथा| तं दृष्ट्वा व्यापकं शंभुं भव बन्धैः प्रमुच्यते|| तथा वायवीय संहितायाम्- सूक्ष्माति सूक्ष्ममीशानं सलिलस्यापि मध्यगम्| स्रष्टारमपि विश्वस्य वेष्टतारं च तस्य तु| शिवमेवेश्वरं ज्ञात्वा शान्तिमत्यन्त मृच्छति|| इत्यादि| मेघ विद्युत्प्रभाभमिति| नारायणोपनिषदि- पद्मकोश प्रतीकाशं हृदयं चाप्यधोमुखम्| तस्यान्ते सुषिरं सूक्ष्मं तस्मन्त्सर्वं प्रतिष्ठितम्|| तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः| तस्य मध्ये वह्नि शिखा अणीयोर्ध्वा व्यवस्थितः|| नीलतोयद मध्यस्था विद्युल्लेखेव भास्वरा| नीवार शूकवत्तन्वी पीता भास्वत्णूपमा|| तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः|| याज्ञवल्क्योपनिषदि- नीलतोयद मध्यस्थं विद्युल्लेखेव भास्वरम्| नीवारशूकद्रूपं पीताभं सर्व कारणम्|| तथा सूतसंहितायाम्- नीलतोयद मध्यस्थं विद्युल्लेखेव भास्वरम्| नीवारशूकवद्रूपं पीताभासं विचिन्तयेत्|| इत्यादि| सूक्ष्ममिति| याज्ञवल्क्योपनिषदि- हृत्पऽऽन्कजे व्योम्नि यदेव रूपं सत्यं सदानन्द मयं सुसूक्ष्मम्| तद्ब्रह्म निर्भासमयं गुहायामिति श्रुतिञ्चापि समामन्ति|| तथा वातुले- तत्स्वरूपं सूक्ष्मरूपं ज्योतीरूपमनुस्मरेत्| विद्युद्रुपमिवाकाशे प्रत्यक्षं सर्वतोमुखम्|| तथा शिवराघवसंवादे- शिखाग्रे द्वादशांगुल्ये स्थितं सूक्ष्म तनुं शिवम्| पृ० ६१) अन्तश्चरन्तं भूतेषु गुहायां विश्व मूर्तिषु| ध्यात्वा तं धारयेच्चित्ते तद्दीप्त्या पूरयेत्तनुम्|| इत्यादि| ब्रह्मामृतमिति| ब्रह्मविधोपनिषदि- यस्मिन्स लीयते शब्द तत्सत्यं ब्रह्म गीयते| ध्रुवं यश्चिन्तयेद्ब्रह्मा सोऽमृतत्वाय कल्पते| सोऽमृतत्वाय कल्पते| गायत्री शिरसि- ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्स्वरोम्| तथा सूतसंहितायाम्| ओ मापो ज्योतिरित्ये तत् गायत्र्याः शिर उत्तमम्|| इत्यादि| अति तमसः परमिति| कैवल्योपनिषदि- हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम्| अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्म योनिम्|| तदादिमध्यान्त विहीनमेकं विभुं चिदानन्दमरूपमद्भुतम्| ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्त साक्षिं तमसः परस्तात्|| श्वेताश्वतरोपनिषदि- वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्| तमेवं विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽपवर्गाय|| तथा वायवीय संहितायाम्- वेदाहमेतं पुरुषं महान्तममृतं ध्रुवम्| आदित्य वर्णं तमसः परस्तात् संस्थितं प्रभुम्|| इत्यादि| ज्ञानरूपमिति| तारकब्रह्मज्ञान स्वरूपं तं परमशिवमहं नमामि वन्दे| शिव सऽऽन्कल्पोपनिषदि- अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तं परं च यत्| सूक्ष्मात् सूक्ष्मतरं ज्ञानं तन्मे मनः शिव संकल्पमस्तु|| श्वेताश्वतरोपनिषदि- एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः| हृदामनीषा मनसाभिकॢप्तोय एनं विदुरमृतास्ते भवन्ति|| तथा शिवयोग प्रदीपिकायाम्- हृदि ज्ञानादेव मोक्ष इत्येतद्वाक्यमादरात्| गृहीत्वा ज्ञान योगेऽस्मिन् समाहित मना भव|| सुप्रभेदागमे- शिवे संयोजितं रूपं सायुज्यमिति वक्ष्यते| पृ० ६२) ज्ञानात् सायुज्यमेवं हि तोये तोये यथा तथा|| तथा मानव पुराणे- संजाते परम ज्ञाने ब्रह्मात्मैकत्व गोचरे| सिद्ध्यत्येव परा मुक्तिः सन्देहो नास्ति कश्चन|| इत्यादि ग्रन्थ विस्तर भयान्न लिखितम्| श्रुतिसार पञ्चरत्नस्यास्य मया कृतोपदेश शिरोमणिर्नाम समाहृतिरेव व्याख्या तत्रैव सर्वं वेदितव्यं देशिक पुऽऽन्गवोपदेशेन||४|| वंशे श्रीरेणुकस्यामित श्रुति निलयो वारणासीश्वरो भूत् सर्वेशस्तस्य सूनुः शिवयम निलयो वीरणाराध्यनामा| पुत्रस्तस्य व्यधत्ताखिल श्रुत सहितं सर्व मर्त्यैरलांघ्यमाचार्यैश्चोपदेश्यं सकल श्रुतिशिरोरत्नवत्पञ्चरत्नम्|| अथ लोकाराध्यो वीरणाराध्य नामाचार्य वर्यः स्ववंशानुक्रमं स्व(स्य)कृतेः शिवस्तोत्रस्य श्रुतिसार पञ्चरत्नस्य महिमानञ्चाह - वंश इति| श्री रेणुकस्य वंशे श्रीमद्रेवणासिद्धेशदेशिक सार्वभौमा स्वयममित श्रुति निलयः सकल शास्त्र प्रवीणो वाराणसीश्वरोऽभूत्| उत्तर वाराणसीपुर प्रसिद्ध वाराणसी देव नामाचार्य कुञ्जरो बभूव| तदुक्तं दीक्षाविधाने-क्र(कृ)तौ सदा शिवाचार्यस्त्रोतायामेक वर्णकः| द्वापरे रेणुकाचार्यः कलौ श्री रेवणा ह्वयः|| अत एव श्रीमद्रेवणा सिद्धश देशिक सार्वभौमान्वयानुक्रमोये वृद्धानुक्रमं अनतिक्रम्य तदीय वंश पयः पारावार संवर्धनराका निशाकर श्रीरेवणा सिद्धेशवरात्मज श्रीमद्रेवणाराध्य नाम्ना मया श्रीमदुपदेश शिरोमणावुच्यते| सकल सकल सिद्धे रेवणा सिद्ध केतुर्विमल कुल जनेः श्री वाराणसीश्वरस्य सुनय तनय सर्वेशस्य सूनुर्यमीन्द्रः सकल ...... कल दक्षः सोसली वीरणाख्यः पृ० ६३) अयं वंशानुक्रमः सर्वलोक प्रसिद्धः| तदुक्तं श्रीगिरीन्द्रेण सटीक ग्रन्थेकोत्तर श.....प्रतिस्थलमपि| अस्ति स्वस्ति करो भूमेराकारः शिव संविदाम्| नाम्ना वाराणसी नाथः सर्वसिद्धान्तत्कोविदः(पारगः)|| सर्वेति| तस्य वाराणसीश्वरस्य सूनुः पुत्रः शिव यमनिलयः शिवयोगाश्रयः| सर्वेशः साक्षात्....ंअ वाराणशी..ंअकूट निकट श्रीसोसलि सर्वेश्वराचार्यवर्योऽभूत्| तदुक्तं वीरणाराध्यैः श्रुति सार प्रकाशिकायाम्| श्रीयद्योगीन्द्रवृन्दान्तः पद्मसद्मनिवासने| वाराणसी संभवाय नमः सर्वेश्वराय च|| पुत्र इति| तस्य सर्वेश्वराचार्य सार्वभौमस्य पुत्रो वीरणाराध्य नामा श्रीमत्सोसलि वीरणाराध्य नामधेयो देशिक सार्वभौमोऽभूत्| तदुक्तं - करिय बसव देवेन सटीक स्वात्मयोग प्रदीपिकाद्यन्तयोरपि| गुरुं विश्वेश्वरं वन्दे परं भावामुपाश्रितम्| वरं तत्वज्ञ यतिषु चरन्तं श्रुति वर्त्मसु|| नमः श्री गुरु वीरेश मूर्तिमास्थाय शोभिने| नमस्ते सच्चिदानन्दरूपाय परमात्मने|| इत्यादि विस्तर भयान्न लिखितम्| वंशानु क्रमस्यास्यकथा तद्विद्वृद्धैर्वेदितव्या|| अथास्य पञ्चरत्नस्य महत्वमाह- अखिलेति| अखिल श्रुत सहितं शिवोक्तं समस्त वेदवेदान्तागम पुराणेतिहास प्रभृति शास्त्र समूह युक्तम्| तदुक्तं नारायणोपनिषदि- ईशानः सर्वविद्यानांमीश्वरः सर्वभूतानामिति| तथा वायवीय संहितायाम्- अऽऽन्गानि वेदाश्चत्वारो मीमांसा न्याय विस्तरः| पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश|| पृ० ६४) आयुर्वेदो धनुर्वेदो गान्धर्वं चेत्यनु क्रमात्|| अर्थशास्त्रांतरं तस्माद्विद्याह्यष्टादश स्मृताः|| अष्टादशानामेतासां विद्यानां भिन्न वर्त्मनाम्| आदि कर्तात(कविः) साक्षाच्छूल पाणिरिति श्रुतिः|| इत्यादि| अत एव सर्व मर्त्यैरलंघ्यं शिव प्रणीतत्वाद्वेदोपनिषत्प्रभृति समस्तशास्त्र वाक्यं तद्वाक्यानुसारि वृद्धवाक्यं तु नाति क्रमणीयमित्याह| स्कान्दे शिवः| श्रुति स्मृति महावाक्यमेषां वाक्यं न लंघयेत्| आज्ञाच्छेदी मम द्रोही शुनी गर्भे स जायते|| वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थ युक्तं वचनं प्रमाणम्| यस्य प्रमाणं न भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्|| न यस्य वेदा न च शैवशास्त्रं न वृद्धवाक्यं हि भवेत्प्रमाणम्| स पातकोद्दिष्टहतो दुरात्मा नात्मापि तस्येह भवेत्प्रमाणम्|| इत्यादि| अथ श्रुतिसार पञ्चरत्नस्यास्य रहस्य ज्ञानं देशिक कुञ्जरोपदेश मन्तरेण येन केनापि न ज्ञायते इत्याह- आचार्यैरिति| आचार्य शब्द वाच्यैः देशिक शार्दूलैरुपदेश्यञ्च| तदुक्तं सिद्धान्त शिरोमणौ- आचिनोति हि शास्त्रार्थानाचारे स्थापयत्यलम्| स्वयमाचरते यस्मादाचार्यस्तेन कथ्यते|| यजुर्वेदोपनिषदि- आचार्यः पूर्वरूपम्| अन्ते वास्युत्तर रूपम्| विद्या सन्धिः|| ईशावास्योपनिषदि- तद्विज्ञानार्थं स गुरुमेवाभि गच्छेत्समित्पाणिः श्रोत्रियम् ब्रह्मनिष्ठम्|| योगजे- वेदान्त तर्कोक्तिभिरागमैश्च नानाविधैः शास्त्रकदंबकैश्च| ध्यानादिभिः सत्करणैरगम्यं चिन्तामयैरेक गुरुं विहाय|| शिव रहस्ये- न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्| पृ० ६५) विदितं विदितं विदितं विदितं शिव शासनतः|| शिवताभरिते भुवन त्रितये शिवतां जनता न कदापि गता| गुरुदर्शनतः शिवतामगमत् गुरुरतः शिवतो गुरुरेव गुरुः|| तथा स्कान्दे- प्रस्फुटं शाम्भवं वेधं स्वसंवेद्यं परं पदम्| तज्ज्ञानं सद्गुरोर्ज्ञेयं नान्यथा शास्त्र कोटिभिः|| न तर्काच्छब्द विज्ञानात् ना चाराद्वेद पाठनात्| न मन्त्रान्न..... याल्लक्ष्यान्न हठात् प्राण धारणात्|| न हंसोच्चारणाज्जीव ब्रह्मणोरैक्य भावनात्|| वेदान्त श्रवणान्नैव तत्त्वमस्यावबोधनात्| न दाम्यान्न च सन्यासान्न चैवाश्रम पालनात्|| न षड् दर्शन वेषादि धारणान्न मुण्डनात्| नानन्तोपाय यत्नेभ्यः प्राप्यते परमं पदम्|| गुरु दृक्पात पात्राणां दृढानां सत्य वादिनाम्| कथनाद् दृष्टिपाताद्वा सान्निध्याद्वाव लोकनात्|| अवाच्यन्तु गुरोः सम्यक्प्राप्यते परमं पदम्| अत एव शिवोनोक्तम् - न गुरोरधिकं परम्| इत्यादि ग्रन्थ विस्तर भयान्न लिखितम्| सकल श्रुति शिरोरत्नवत्| जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते| इति विश्वः| तस्यास्ति तस्मिन्निति मतुप् प्रत्ययः| सकल वेदोपनिषत्सु श्रेष्ठ वाक्य युक्तम्| पञ्च रत्नं व्यधत्त अकरोत्| श्रीमत्सोसलि वीरणाराध्य नामाराध्य कुञ्जरः श्रुतिसार पञ्चरत्नं व्यधत्तेत्यन्वयोन्वेष्टव्यः|| व्याख्या श्रीपञ्चरत्नस्य समस्त श्रुति सम्मिता| अकारि रेवणाराध्य नाम्ना श्रुत्यर्थ दीपिका|| इमां व्याख्यां पठित्वा तु पाठ्यमन्यन्न विद्यते| ज्ञात्वा ज्ञेयं नोपदेश्यं देशिकैर्भुक्तिमुक्तिदाम्|| पृ० ६६) श्रीमदैतरेयकोपनिषदि- ता एताः संहिता नानन्ते वासिने प्रब्रूयान्ना संवत्सर वासिने ना प्रवक्त्र इत्याचार्य आचार्यः|| श्रमद्योगसारे- पाण्डित्यादर्थ लाभाद्वा प्रमादाद्यः प्रयच्छति| तस्या वस्यं महाचोरे डाकिनी शाप आपतेत्|| द्वादशाब्दं तु शुश्रैषां यः कुर्यादप्रमत्तधीः| तस्मै शिष्याय शान्ताय दातव्यं ब्रह्मचारिणे|| || इति श्रीमद्वेद वेद शिरः शिवागम पुराण प्रभृति प्रवीण श्रीमत्सोसलि वीरणाराध्यस्य कृतेः श्रुति सारपञ्चरत्नस्य व्याख्या तत्तनय श्रीमद्रेवणा सिद्धेश्वरात्मज श्री रेवणाराध्य विरचिता श्रीमद्वेद वेद शिरः शिवागम पुराण प्रभृति प्रचुर शास्त्र प्रख्या श्री मद्वृषेन्द्र प्रमुख मुखोद्गीत रहस्यार्थ समाख्या श्रुत्यर्थ प्रकाशिकाख्या व्याख्या परिसमाप्ता|| शिवमस्तु शिवाय नमः स्वाधीन मनसां पुंसां गृहमेव तपोवनम्| अति राज्य स्थितो योगी जनकः सनकाधिकः|| ||श्रीः|| ########### END OF FILE #######