#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00048 Uniform title: parāprāveśikā Author : kṣemarāja Description: E-text transcribed from Volume 15 of the Kashmir Series of Texts and Studies . Notes: E-text transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: 11/28/2005 Publisher : Research Department Jammu and Kashmir State Publication year : 1918 Publication city : Bombay Publication country : India #################################################### ओं नमः शिवाय निखिलतत्त्वात्मने अथ पराप्रावेशिका श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता | विश्वात्मिकां तदुत्तिर्णां हृदयं परमेशितुः | परादिशक्तिरूपेण स्फुरन्तीं संविदं नुमः || इह खलु परमेश्वरः प्रकाशात्मा, प्रकाशश्च [ननु परमेश्वरः प्रकाशस्वभावत्वेऽपि किं शान्तब्रह्मवादिनामिव केवलबोधस्वभावः स्यादित्याशङ्क्याह प्रकाशश्चेति |] विमर्शस्वभावः, विमर्शो [विमर्शो हि परिमितापरिमितत्वाभ्यां द्विधा, तत्र परिमितत्वे शून्यादिप्रमात्रुचितेन तेन संवित्प्रकाशस्य परिच्छिन्नत्वं मा भूदित्याशयेनाह विमर्शो नामेति, स च विमर्शो विश्वाकारेण सृष्टौ, तत्प्रकाशेन स्थितौ, स्वात्मसात्कारात्मना संहरणेन संहारे च पूर्णाहन्ताचमत्कारात्मक इति यावत् |] नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन च (प्. २) अकृत्रिमाहम् इति विस्फुरणम् | यदि [यदिति | विमर्शविकलः सूर्यादिप्रकाशो यथा परापेक्षत्वात् जडपक्षपाती अस्वातन्त्र्यमाश्रितवान् तथैव निर्विमर्शतया संवित्प्रकाशेऽपि प्रसक्तिरापतेदिति भावः |] निर्विमर्शः स्यात् अनीश्वरो जडश्च प्रसज्येत | एष एव च विमर्शः - चित्, चैतन्यं, स्वरसोदितापरावाक्, स्वातन्त्र्यं, परमात्मनो मुख्यमैश्वर्यं, कर्तृत्वं, स्फुरत्ता, सारो, हृदयं, स्पन्दः इत्यादिशब्दैरागमेषूद्धोष्यते [इह शैवशासननये संवित्प्रकाशस्य विमर्शप्राधान्यमेव तत्तदागमेषु समुद्धुष्टं, स एव भिन्नभिन्नाभिरागमभाषाभिराम्नायते, यथा - चैतन्यमिति विमर्श एव मुख्यमात्मनो रूपमित्यभिप्रेत्य धर्मवाचिना शब्देन निर्देशः कृतः | तथा स्वरसोदितापरावाक् इति - वक्ति विश्वमभिलपति प्रत्यवमर्शेनेति वाक्, सैव परामर्शान्तराणामाधारभूतत्वात् पूर्णत्वाच्च परा, अत एव अनिरुद्धप्रसरत्वात् अहमिति परिपूर्णचिद्वपुषा सदोदितत्वात् स्वरसोदितेति | तथा स्वातन्त्र्यमिति, स्वातन्त्र्यं च संयोजनवियोजनादिरूपं स्वस्मात् बहिष्कृतमिदन्तापदं स्वात्मनि संयोजयति, संयोज्यापि वियोजयति, शून्यादिभूमिकायां च न्यग्भावयति, - इत्यादिलक्षणत्वेन जडाद्वैलक्षण्याधायीति | तथा ऐश्वर्यमिति विश्वसर्गादावनन्यापेक्षित्वं न तु अस्य मायागर्भाधिकारिणो ब्रह्मादेरिव परेच्छावशवर्तित्वेन नियतिनियन्त्रणावत्त्वम् इति | तथा कर्तृत्वमिति, एतदेव कर्तृत्वं यत् अलौकिकेन कार्यकारणभावेन स्वान्तःप्रकाशैक्येन स्थितस्य शिवादेः पृथिव्यन्तस्य विश्वस्य इदन्तया समुन्मीलनं योगिनिर्माणवत् इति | तथा स्फुरत्तेति स्फुरणसंबन्धः, तद्धटादेर्नास्ति, तथात्वे हि सर्वेषां सदैव घटादिकं प्रस्फुरेत् न कस्यचिद्वेति सर्वसर्वज्ञता तद्विपर्ययो वा प्रसज्येत, अतो मम स्फुरतीति मदीयं स्फुरणमाविष्ट इत्यर्थः | सारमिति अतुच्छं रूपं, सा परमेश्वरस्य विमर्शशक्तिरेवेति | हृदयमिति विश्वप्रतिष्ठास्थानत्वात् | स्पन्द इति अचलस्य चित्प्रकाशस्य चलत्ताभासनं, यत् तत्र अनतिरिक्तत्वेपि अतिरिक्ततयेव विश्वावभासनमित्यर्थः |] (प्. ३) अत एव [विमर्शशक्तिमाहात्म्यादेव परमेश्वरो विश्ववैचित्र्यप्रथात्मना स्वात्मनैव समुल्लसतीति प्रतिपादयन् विमर्शशक्तिलक्षणमुपसंहरति अत एवेति | मायाप्रकृत्यादेर्जगत्सृष्टौ कारणान्तरस्य भेदाभेदविकल्पैरुपहतत्वात् न तत्कर्तृत्वमुपपद्यते इति भावः |] अकृत्रिमाहमिति - सतत्त्वः स्वयंप्रकाशरूपः परमेश्वरः पारमेश्वर्या शक्त्या शिवादि - धरण्यन्तजगदात्मना स्फुरति प्रकाशते च | एतदेव [यद्विश्वात्मना परमेश्वरस्य प्रस्फुरणम् इदमेव पारमार्थिकं कर्तृत्वं, तत्स्फुरणात्मनैव प्रकाश्यमानस्य विश्वस्याजडभावोऽपि स्यादित्याह एतदेवेति |] अस्य जगतः कर्तृत्वमजडत्वं च, जगतः [ननु जगद्विषयं कीदृक् कार्यत्वं भेदेनाभेदेन वा, भिन्नत्वे तत्कर्तुः परमेश्वरस्य स्वातन्त्र्यं नाम विघटेत, अभिन्नत्वे कथं तत् इत्याशङ्क्याह जगत इति | अस्य जगतः परप्रकाशं विना अचेत्यमानत्वात् स्वात्मलाभो दुर्घटः, तदाश्रयत्वावलम्बनात् तत् प्रकाशशरीरतामेतीत्येतदेव कार्यत्वं, केवलं मायास्वातन्त्र्येण भेदोद्भासनादभिन्नत्वेऽपि भिन्नव्यवहार इति भावः |] कार्यत्वमपि एतदधीनप्रकाशत्वमेव, एवंभूतं जगत् (प्. ४) प्रकाशरूपात् कर्तुर्महेश्वरादभिन्नमेव, भिन्नवेद्यत्वेऽप्रकाशमानत्वेन [अभेदत्वे विश्वं भातुं प्रगल्भेत, अन्यथा स्वरूपशून्यत्वात् विश्वव्यवहारो हानादानादिरूपो विनश्येदित्याशयेनाह भिन्नवेद्यत्वे इति |] प्रकाशनायोगात् न किंचित्स्यात्, अनेन [ननु यदि जगत् परमेश्वरादभिन्नं तत् प्रकाशैकरूपस्य जगतो भासमानत्वात् परमेश्वरे सारूप्यभेदो दुर्वारः, तेनापि तस्य तिरोधीयमानत्वं भवेदिति शङ्कां निवारयन्नाह अनेनेति | प्रत्युत स्वात्मनि लब्धेऽपि प्रकाशावरणात् स्वयमेव नष्टं भवेदित्यर्थः |] च जगता अस्य भगवतः प्रकाशात्मकं रूपं न कदाचित् तिरोधीयते, एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगत् आत्मनः प्राणभूतं कथं निरोद्धुं शक्नुयात्, कथं च तन्निरुध्य स्वयमवतिष्ठेत, अतश्चास्य [ज्ञापकादिकारकाणि पूर्वसिद्धे ईश्वरे व्यापरीतुं न शक्नुवन्तीत्याशयं गृहीत्वा तद्विध्यादिकर्तुः प्रमातुरपि ताद्रूप्येण सत्त्वात् न तत्सिद्धिः प्रमाणाधीना, इत्यतः स्वप्रकाशत्वं तस्यानुभवसिद्धमित्याह अतश्चास्येति |] वस्तुनः साधकमिदं बाधकमिदं प्रमाणमित्यनुसंधानात्मकसाधकबाधकप्रमातृरूपतया चास्य सद्भावः, तत्सद्भावे किं प्रमाणम् ? - इति वस्तुसद्भावमनुमन्यतां, तादृक्स्वभावे किं प्रमाणम् ? - इति प्रष्टृरूपतया च पूर्वसिद्धस्य (प्. ५) महेश्वरस्य स्वयंप्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम् | किं च [संवित्प्रकाश एव सर्वजीवितभूतो मायीयव्यवहारे प्रमाणं कल्पयति इत्यतः पूर्वसिद्धत्वात् तत्र प्रमाणं किमपि नोपयुज्यते इत्याह किं चेति | परप्रकाशापेक्षयान्यत्सर्वं जडतया स्वात्मानमपि भासयितुमशक्तं कथं परं व्यवस्थापयितुमुद्यच्छेदिति यावत् |] प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं चातिशयय सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धौ अभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः [कश्च उपयोग इति, प्रमाणं नाम अभिनवाभासरूपं प्रमातरि प्रमितिलक्षणां विश्रान्तिं विदधत् प्रमाणं भवति, प्रमाता च नित्यावभासितत्वादविच्छिन्नाभासः सर्वाः प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते, तत् तस्मिन् कथमभिनव आभास उपयुज्यताम् तत्प्रमितिश्च कुत्रान्यत्र विश्राम्यतु, तस्मात् देहप्राणनीलसुखादिवेद्य एव प्रमाणोपयोगः न तु प्रमाणजीवितभूते परमेश्वरे | तदुक्तम् प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || इति |] | एवं च शब्दराशिमयपूर्णाहन्तापरामर्शसारत्वात् [शब्दराशिमयेति, शब्दराशिः - अकारादि - हकारान्तो वर्णसमूहो गर्भीकृतसमस्तविश्वस्तन्मयो योऽनन्यमुखप्रेक्षित्वस्वातन्त्र्यविश्रान्तिरूपः अहमेव प्रकाशात्मा प्रकाशे इत्येवं - रूपः पूर्णाहन्तापरामर्शः स एव सारम् अतुच्छं रूपं यस्य तस्य भावस्तस्माद्धेतोरित्यर्थः |] (प्. ६) परमशिव एव षट्त्रिंशत्तत्त्वात्मकः प्रपञ्चः | षट्त्रिंशत्तत्त्वानि [षट्त्रिंशत्तत्त्वानि, तस्य भावस्तत्त्वम् इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम्, यथा गिरिवृक्षपुरप्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति |] च, - १ शिव २ शक्ति ३ सदाशिव ४ ईश्वर ५ शुद्धविद्या ६ माया ७ कला ८ विद्या ९ राग १० काल ११ नियति १२ पुरुष १३ प्रकृति १४ बुद्धि १५ अहंकार १६ मनः १७ श्रोत्र १८ त्वक् १९ चक्षुः २० जिह्वा २१ घ्राण २२ वाक् २३ पाणि २४ पाद २५ पायु २६ उपस्थ २७ शब्द २८ स्पर्श २९ रूप ३० रस ३१ गन्ध ३२ आकाश ३३ वायु ३४ वह्नि ३५ सलिल ३६ भूमयः, इत्येतानि | अथैषां लक्षणानि | तत्र शिवतत्त्वं नाम इच्छा - ज्ञान - क्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव [सर्वप्रमातृणामन्तः परिस्फुरत्पूर्णाहन्ताचमत्कारमयं सर्वतत्त्वोत्तिर्णं सकलतत्त्वराशिगतसृष्टिसंहारशतसहस्रप्रतिबिम्बनसहिष्णु महाप्रकाशवपुः शिवतत्त्वम् |] एव | अस्य जगत् स्रष्टुमिच्छां परिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छाशक्तितत्त्वम् [तस्यैव स्वस्वातन्त्र्यमाहात्म्यात् बहिरुल्लिलसिषया परानन्दचमत्कारोद्रेकात् अहमिति परामर्शः शक्तितत्त्वम् |] (प्. ७) अप्रतिहतेच्छत्वात्, सदेवाङ्कुरायमाणमिदं जगत् स्वात्मनाहन्तयाच्छाद्य स्थितं रूपं सदाशिवतत्त्वम्, [यदा परमेश्वरः शुद्धचिन्मात्राधिकरण एवाहमित्यंशे इदमंशमुल्लासयति तदा तस्य प्रोन्मीलितमानचित्रकल्पभावराशिविषयत्वेन अस्फुटत्वात् इच्छाप्रधानं सदाशिवतत्त्वम् |] अङ्कुरितं जगदहन्तयावृत्य स्थितमीश्वरतत्त्वम् [स्फुटीभूते च इदमंशे यदाहमंशं निषिञ्चति तदा ज्ञानशक्तिप्रधानमीश्वरतत्त्वम् | अनयोः प्रोक्तयोस्तत्त्वयोरहंविमर्शस्याविशेषेऽपि इदमंशस्य ध्यामलत्वाध्यामलत्वाभ्यां विशेषः |], अहन्तेदन्तयोरैक्यप्रतिपत्तिः शुद्धविद्या [यदा पुनः प्ररूढभेदभावराशिगतेदमंशस्फुरणे चिन्मात्रगतत्वेनाहमंशः समुल्लसति भेदाद्वैतवादिनामिव ईश्वरस्य यः समधृततुलापुटन्यायेनाहमिदमिति परामर्शः तत् क्रियाशक्तिप्रधानं विद्यातत्त्वम् |], स्वस्वरूपेषु भावेषु भेदप्रथा माया [मायेति, दुष्करतमवस्तुसंपादनाप्रतीघातरूपा अचिद्रूपे शून्यादौ च प्रमातृताभिमानं प्ररूढं कुर्वती चिदेकमयानपि भावान् भेदेन आभासयन्ती स्वरूपं तिरोदधती कलादिक्षित्यन्तानां भावानामुपादानकारणं च माया |], यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या [मायाशक्त्येति, स्वातन्त्र्यापरपर्यायया |] स्वरूपं (प्. ८) गृहयित्वा संकुचितग्राहकतामश्नुते तदा पुरुषसंज्ञः, अयमेव मायामोहितः कर्मबन्धनः [कर्मबन्धन इति, कर्माणि स्वात्मनो बन्धकानि अभिमन्यमानः |] संसारी [संसारीति, संसरति इत्यतः संसारी, देहोऽपि स्वरूपसादृश्यं बाल्ययौवनादिषु अनुवर्तयन् संसरतीव, बुद्ध्यादेस्तु जन्मान्तरेऽपि संसरणम् |], परमेश्वरादभिन्नोऽपि अस्य मोहः परमेश्वरस्य न भवेत् - इन्द्रजालमिव ऐन्द्रजालिकस्य स्वेच्छया संपादितभ्रान्तेः, विद्याभिज्ञापितैश्वर्यस्तु [विद्याभिज्ञापितैश्वर्यस्तु इति, विद्यया स्वरूपप्रकाशनशक्त्या अभिज्ञापदं प्रापितमैश्वर्यं यस्य, अत एव चिद्धनः शरीराद्यपि विश्वमचिद्रूपव्यामिश्रणशून्यं संवेदनमेव अभिमन्यमान इत्यर्थः |] चिद्धनो मुक्तः [मुक्त इति, पुनर्जन्मबन्धविरहात् देहे स्थितेऽपि मुक्त इति व्यपदेशयोग्य इति भावः | पतिते तु परमशिवस्वरूप एवेति |] परमशिव एव | अस्य सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं नित्यत्वं व्यापकत्वं च, शक्तयोऽसंकुचिता अपि संकोचग्रहणेन कला - विद्या - राग - काल - नियतिरूपतया [नियतिरूपतया भवन्तीति, यथा राज्ञापहृतसर्वस्वस्य अनुकम्पया जीवनार्थं किंचित् स्तोकं धनं दीयते तथैव अणुत्वमापन्नस्य बोधस्य अपहृतसर्वज्ञत्वादेस्तत्स्थाने किंचित्कर्तृतादिपरमार्थं कलादिकं वितीर्यते इति भावः |] भवन्ति | अत्र कलानाम [कलेति, यया सर्वं कर्तुंमसमर्थः किंचिदेव घटादिकं करोतीति |] (प्. ९) अस्य पुरुषस्य किंचित्कर्तृताहेतुः, विद्या [विद्येति, यया किंचिदेव पुरोवर्ति घटादिकं जानाति न पुनर्दूरव्यवहितं वस्तु इति |] किंचिज्ज्ञत्वकारणम्, रागो [राग इति, अपूर्णमन्यतया इदं मम उपयुज्यते, भूयासं, मा कदाचित् न भूवम् इत्येवंरूपः |] विषयेष्वभिष्वङ्गः, कालो हि भावानां भासनाभासनात्मकानां क्रमोऽवच्छेदको [क्रमोऽवच्छेदक इति, आज्ञासिषं जानामि ज्ञास्यामि इति, अकार्षं करोमि करिष्यामि इति ज्ञानक्रियास्वरूपेण भावानपि तथा कलयन् अवच्छिनत्ति इति |] भूतादिः, नियतिः [नियतिरिति, ममेदं कर्तव्यमिति, इदं स्वर्गादिफलकमश्वमेधादिकमेव मया कर्तव्यं न निरयादिफलकं ब्रह्महननादि इति | अथ च नियतादेव कारणान्नियतमेव कार्यमित्यादि बहुविधं नियतिरूपम् |] ममेदं कर्तव्यं नेदं कर्तव्यम् इति नियमनहेतुः, एतत् पञ्चकम् अस्य स्वरूपावरकत्वात् कञ्चुकमिति [कञ्चुकमिति, स्वरूपाद्व्यतिरिक्तमपि अव्यतिरिक्ततया पूर्णसंवित्स्वरूपमाच्छाद्य स्थितमित्यर्थः |] उच्यते, महदादि - पृथिव्यन्तानां तत्त्वानां मूलकारणं प्रकृतिः, एषा च सत्त्वरजस्तमसां [सत्त्वरजस्तमसां सुखदुःखमोहात्मकानां प्रकाशक्रियानियमनस्वभावानां साम्यावस्था सामान्यं रूपं, यत्रैषामङ्गाङ्गिभावो नोपलभ्यत इत्यर्थः |] साम्यावस्था (प्. १०) अविभक्तरूपा, निश्चयकारिणी [निश्चयकारिणीति, इदमेतादृक् इत्येवंरूपो निश्चयः |] विकल्पप्रतिबिम्बधारिणी [सत्त्वप्रधानत्वेन स्वच्छतया प्रतिबिम्बग्रहयोग्यत्वात् विकल्पप्रतिबिम्बधारिणीति भावः |] बुद्धिः, अहंकारो नाम - ममेदं न ममेदमित्यभिमानसाधनम्, मनः संकल्पसाधनम्, एतत्त्रयमन्तःकरणम् [अन्तर्वेद्यस्य सुखादेर्ग्रहणसाधनत्वात् अन्तःकरणम् | अङ्गाङ्गिभावेन गुणानां कार्यं, वक्ष्यमाणस्य भूतेन्द्रियादेः कार्यवर्गस्य च कारणम् |] | शब्दस्पर्श - रूप - रस - गन्धात्मकानां विषयाणां क्रमेण ग्रहणसाधनानि श्रोत्र - त्वक् - चक्षुर्जिह्वा - घ्राणानि पञ्च ज्ञानेन्द्रियाणि | वचनादान - विहरण - विसर्गानन्दात्मक्रियासाधनानि परिपाठ्या वाक्पाणि - पाद - पायूपस्थानि पञ्च कर्मेन्द्रियाणि | शब्द - स्पर्श - रूप रस - गन्धाः सामान्याकाराः पञ्च तन्मात्राणि [तन्मात्राणीति, तदेव नाधिकं तत्र अन्यदस्तीति तन्मात्रशब्देनावान्तरविशेषरहिता शब्दाद्या उच्यन्ते |] | आकाशमवकाशप्रदम्, वायुः संजीवनम्, अग्निर्दाहकः पाचकश्च, सलिलमाप्यायकं द्रवरूपं च, भूमिर्धारिका, (प्. ११) यथा [यथेति, यथा वटबीजे तत्समुचितेनैव वपुषा अङ्कुरपत्रफलानि तिष्ठन्ति एवं नानाविधतनुकरणादिवैचित्र्यशालि विश्वमिदं हृदयबीजान्तःस्थितं | मयूराण्डरसे सर्वशिख्यवयवानुप्रविष्टवर्होपवर्हादिपूर्णरेखादिवैचित्र्य- शिल्पकल्पनाकौशलवत् अवधानधनैः सूक्ष्मेक्षिकयावधार्यम् |] न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं विश्वमेतच्चराचरम् || इत्याम्नायनीत्या पराभट्टारिकारूपे हृदयबीजेऽन्तर्भूतमेतज्जगत् | कथं ? - यथा घटशरावादीनां मृद्विकाराणां पारमार्थिकं रूपं मृदेव, यथा वा जलादिद्रवजातीनां विचार्यमाणं व्यवस्थितं रूपं जलादिसामान्यमेव भवति, तथा पृथिव्यादिमायान्तानां तत्त्वानां सतत्त्वं मीमांस्यमानं सदित्येव भवेत्, अस्यापि पदस्य निरूप्यमाणं धात्वर्थव्यञ्जकं प्रत्ययांशं विसृज्य प्रकृतिमात्ररूपः सकार एवावशिष्यते, तदन्तर्गतमेकत्रिंशत्तत्वम्, ततः परं शुद्धविद्येश्वर - सदाशिवतत्त्वानि ज्ञान - क्रियासाराणि शक्तिविशेषत्वात् औकारेऽभ्युपगमरूपेऽनुत्तरशक्तिमयेऽन्तर्भूतानि | अतः परमूर्ध्वाधः सृष्टिरूपो विसर्जनीयः, एवं - भूतस्य हृदयबीजस्य महामन्त्रात्मको विश्वमयो [विश्वमयो विश्वोत्तीर्ण इति, सर्वाकारत्वं निराकारत्वं चात्र क्रमेण हेतुः |] विश्वोत्तीर्णः परमशिव एवोदयविश्रान्तिस्थानत्वान्निजस्वभावः | ईदृशं हृदयबीजं तत्त्वतो यो वेद समाविशति च स परमार्थतो दीक्षितः [दीक्षित इति, तिलाज्याहुतिवर्जितमेतत्परिज्ञानमेव तत्त्वतो दीक्षा इति भावः |] प्राणान् धारयन् लौकिकवद्वर्तमानो जीवन्मुक्त एव भवति, देहपाते परमशिवभट्टारक एव भवति || इति श्रीमन्महामाहेश्वराचार्यवर्यक्षेमराजविरचिता पराप्रावेशिका समाप्ता || सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते | तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रक्षौजःशालिना कर्मवृत्त्यै || १ || श्रीमत्कश्मीराधिराजेन मुख्यै- र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || (तिलकम्) श्रीस्वात्मशिवार्पणं शिवदं च बोभवीतु अध्येतृश्रोतृविम्रष्टृणाम् || ########### END OF FILE #######