#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00062 Uniform title: parātantra Main title: parātantram Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Publisher : Publication year : Pre-1900 Publication city : Publication country : India #################################################### परातन्त्रम् लेफ्टिनेण्ट कर्नल श्री धन शम्शेर जङ्ग बहादुर राणा प्रकाशक चण्डी कार्यालय प्रयाग-६ प्रथम संस्करण संवत् २०१६ श्रीललितात्रिपुरसुन्दर्यै नमः प्रथमः पटलः बहुसिद्धिसमाकीर्णे श्मशाने करवीरके | तत्र वीरगणाः सर्वे महाहल्लालहु/कृते || १ || निवर्तितमहाचक्रे योगे त्रिदशमण्डले | महावृन्द महास्फाल रणडाकिनी याचिते || २ || ब्राह्म्याद्या मातरश्चाष्टौ क्षेत्रेशभैरवादयः | गणेश वटुका सिद्धा मातृचक्रे तु मेलके || ३ || श्रीनाथादिगणाः सर्वे वीरनाथावतारिके | सिद्धिनाथावकासेन सन्तोषितकुलेश्वरम् || ४ || सर्वभूषां परित्यज्य सानन्दोल्लासमानसम् | सामरस्यस्थितं देवं पृच्छते कुलसुन्दरी || ५ || श्री देव्युवाच सर्वशास्त्रोदितं ज्ञानं त्वत्प्रसादात् श्रुतं मया | यामलाष्टकपूर्वं तु तन्त्रानेकविधानि च || ६ || शिरश्छेदश्च बहुधा महामन्थानषट्ककम् | मालातन्त्रे च वीत्कारे सागराम्वा महामते || ७ || प्. २) चतुर्विंशति वै लक्षाः श्रुता सर्वे तथोदिताः | इदानीं संशयो जातस्तवैव वचनात्प्रभो || ८ || एका सा परमा शक्तिरद्वितीया परेश्वरि | एका शक्तिर्महामाया विश्वंव्याप्यावतिष्ठता || ९ || नादिमध्या न वान्तास्तु यया सर्वं प्रवर्तते | त्वयोक्ता न द्वितीया सा तन्त्रे कुलमहार्णवे || १० || एषा संधार्यते विश्वमेका त्रैलोक्यपूजिता | एतदेव वचो ब्राह्मी षडाम्नाय कथं प्रभो || ११ || षट्सिंहासनगा प्रोक्ता देव्यः षण्णायिकाः स्मृताः | षडाम्नायविभिन्नैव एका स परमा कथम् || १२ || अभिन्ना वाथ भिन्ना वा वद देव जगत्पते | कथमेका पराशक्तिर्विभिन्ना परमेश्वरी || १३ || षट्सिंहासनगा देवि नायिका षट्प्रकीर्तिताः | षडाम्नायविभिन्नाश्चेत्किं संज्ञाभेदनामतः || १४ || पूर्वसिंहासना देवी याम्यसिंहासनाश्रिता | सिंहासनं पश्चिमगा सौम्यसिंहासना परा || १५ || सिंहासनमूर्ध्वगता ह्यधः सिंहासनस्थिता | षट्सिंहासनसंस्था सा षडाम्नायेतिकीर्तिता || १६ || कथं सिंहासनं संज्ञास्थिता ह्याम्नायदेवता | तन्त्रे वा यामले वापि चतुर्विंशतिलक्षके || १७ || प्. ३) ग्रंथे त्वया सूचिता वै षडाम्नायविशेषतः | एका परा विभिन्ना किं षट्सिंहासनमाश्रिता || १८ || आद्याशक्तिः परा ह्येका कथं षट्शक्तितां गता | या आद्या प्रकृतिः सूक्ष्मा भिन्नरूपेण संस्थिता || १९ || बिन्दुमालिनीरूपा सा सर्वथाद्यव्यवस्थिता | एतन्मे महतीं शंकां निर्णीतुं परमेश्वर || २० || उदये ग्रन्थिसुदृढं सर्वज्ञपरमेश्वर | यद्येका परमा शक्तिराद्या प्रकृतीरीश्वरी || २१ || किमर्थं कस्य रक्षार्थं षडाम्नायप्रकीर्तिताः | त्रैलोक्यरक्षणार्थाय समया पालनाय च || २२ || साधकप्रार्थनायैव वदस्व परमेश्वर || श्रीसदाशिव उवाच अपि प्रियतमे देवि निशामय वदामि ते | गुह्याद्गुह्यतमं दिव्यमकथ्यं कथयामि ते || २३ || तव स्नेहात्प्रवक्ष्यामि रहस्यं कौलिकान्वयं | ओं इति नमस्कृत्य प्रवक्ष्यामि विष्णुमायां जगन्मयीं || २४ || नारायणीं महामायां प्रकृतिं विश्वरूपिणीम् | एका परापरा शक्तिः प्रकृतिर्विश्वमोहिनी || २५ || विश्वसंमोहनात्सा च वैष्णवीति प्रकीर्तिता | धारणाद्धात्रिमित्याहः पालनात्परमेश्वरी || २६ || प्. ४) त्रैलोक्यमोहनात्माया भावनात्प्रकृति स्मृता | विश्वसंधारणात्सा तु वैष्णवीति प्रकीर्तिता || २७ || कैवल्यमोक्षदा भूता माया नारायणी स्मृता | ईश्वरोपि वशे यस्या सूत्रे बहुशकुन्तवत् || २८ || यां विना परमेशोपि शव इत्यभिधीयते | जीवितुं नैव शक्नोति विना तां परमेश्वरः || २९ || ईशोप्यनीशतां याति प्रकृत्यालोकनं विना | दारुष्वेव यथा वह्निर्मथनात्संप्रकाशते || ३० || मायासंप्रगृहीतो वै सृष्टिस्थित्यन्तकृद्भवेत् | जीवहीनो यथा देहश्चलितुं नैव शक्यते || ३१ || शववत्कर्महीनत्वात्समाधिं संस्थितः प्रिये | मायाविरहितो यावन्निशाकाले तु गीयते || ३२ || शवैव निश्चलो देवो बिन्दुमालिन्यसंग्रहात् | मायया कवलीकृत्वा शिव इत्यभिधीयते || ३३ || शिवशक्तिसमायोगात्सर्वं जगदिदं भवेत् | चितिरूपेण सा माया विश्वं व्याप्य व्यवस्थिता || ३४ || अहं सदाशिवो देवः प्रकृतिर्विष्णुरुच्यते | उभयोर्मेलनाद्देवि शिवशक्तीति गीयते || ३५ || प्रवर्तनाय सर्वेषां संसारचक्रवान्भवेत् | त्वं तु देवी विष्णुमाया नारायणजगन्मये || ३६ || प्. ५) देवस्यानन्दरूपोहं जाने देव सदाशिवः | एवं प्रवर्तये देवि देवौ हरिहरावुभौ || ३७ || सृष्टिस्थितिश्च संहारकल्पे कल्पे कथं भवेत् | शिवशक्त्यात्मकं विश्वं पश्य दिव्येन चक्षुषा || ३८ || न पद्माङ्की न वज्राङ्की न चक्राङ्की यतः प्रजाः | लिङ्गाङ्की च भगाङ्की च तेन माहेश्वरी प्रजाः || ३९ || यया सृष्टं सृजेद्वेधा साष्टधा पाल्यते हरिः | संहर्ता हरते रुद्रः सर्वे तदनुगाः सुराः || ४० || एका सा परमा देवी विश्वं व्याप्य व्यवस्थिता | चतुर्विंशतितत्वेन ब्रह्माण्डं चेतयन्ति च || ४१ || पृथिवी वायुराकाशजलवह्निमयं वपुः | धृत्वा संसृज्यते विश्वं कल्पे कल्पे यथेच्छया || ४२ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पञ्चभूतात्मकं चैव शरीरं पञ्चसंकृतम् || ४३ || एकीकृत्य तथा पञ्चभूतरूपेण संस्थिताः | निर्जीवो जीवरूपेण पञ्चभूतत्वमागतः || ४४ || सिंहासनमहाम्नायपञ्चभूतानि सङ्गमः | आद्या सा परमा शक्तिर्व्योमस्था कुलरक्षिणी || ४५ || ब्रह्माण्डव्यापिनी नित्या परब्रह्मस्वरूपिणी | चतुर्विंशतिभिस्तत्वैः सर्वबीजस्वरूपिणी || ४६ || प्. ६) ब्रह्मस्वरूपिणी साक्षात्स्त्रीपुंभेदेन भिद्यते | लीलया क्रीडते नित्या ललितारूपधारिणी || ४७ || अरूपा रूपवान्भूत्वा पुंरूपं धार्यते शिवे | कदाचिल्लीलया देवी मायारूपेण क्रीडति || ४८ || कदाचिद्धरिरूपेण शिवरूपेण स्वेच्छया | ब्रह्मरूपधरा माया ह्येच्छारूपधरा परा || ४९ || एषा परापरा देवी प्रकृतिर्विश्वमोहिनी | प्रवर्तयति संसारं समया पालनाय च || ५० || श्रीनाथक्रमसिध्यर्थं षडाम्नायत्वमागता | षट्सिंहासनगा देवी समास कथयामि ते || ५१ || पुरानन्दवने देवि निर्जने पशुवर्जिते | सदाशिवोहं षट्चक्रसमाधिध्यानमाश्रितः || ५२ || त्वं तु कापालिनी भूत्वा मामपृच्छत्षडन्वयम् | प्रथमं पूर्ववक्त्रेण रूपं तत्पुरुषेण च || ५३ || कथयामास प्राची तु सिंहासनमहोद्गतम् | नायिका रुद्रशक्तिर्या शिवं तत्पुरुषं परम् || ५४ || पूर्णेश्वरी महोग्रासा पूर्वाम्नाअयप्रकीर्तिता | चक्रेश्वर्यां तु वक्ष्यामि साधकानां हिताय वै || ५५ || ध्यानं तु चित्तेधिष्ठाय ध्यातव्या परमेश्वरी | इन्द्रनीलसमप्रख्यं दशदोर्दण्डधारिणीम् || ५६ || प्. ७) वराभयकरं रम्यं सत्रिशूलं कपालकम् | डमरुं चाक्षमालां च शक्तीं चैव कराम्बुजे || ५७ || इक्षुचापं शरं चैव खड्गहस्तं सुशोभिनीम् | महाप्रेतोपरि तत्र चन्द्रसूर्यासनास्थितां || ५८ || प्रत्यालीढां त्रिनेत्रां च मुंडमालाविभूषितां | वासुकीशङ्खपालौ तौ कर्णभूषणतां गतौ || ५९ || अनन्तहारमाला च हाराऽलंकारभूषितां | विशालत्रयनेत्रां च चन्द्रार्द्धकृतशेखराम् || ६० || एषा पूर्णेश्वरी देवी हाहाराव रवप्रियाम् | पूर्णेश्वरीति विख्याता साहंकारा रजोयुता || ६१ || गिरौ पूर्णालये पीठे लक्ष्मीवनश्मशानके | इन्द्रेणाराधिता नित्या बहुरूपावतारिणी || ६२ || पूर्वाम्नायेति विख्याता पूर्वदेवर्षिपूजिता | ईश्वरी सर्वविद्यानां महाभाग्यभरावहा || ६३ || नानारूपधरा नित्या बहुरूपावतारिणी | जया जयंती विजया अजिता नारसिंहिका || ६४ || व्याघ्रेश्वरी कराला च राजेशी भुवनेश्वरी | रक्तदंता विशालाक्षी कामेशी चण्डमालिनी || ६५ || विद्युज्जिह्वा डामरेशी नाटेशी नृत्यनायिका | नन्दी चैव महाकालभृंगिणी च कुलालिका || ६६ || प्. ८) नवनाटेश्वरी तत्र चतुःपञ्चरसान्विता | बहुभेदा देवदेवी भैरवाष्टकमातृकाः || ६७ || नाटेश्वरीति विख्याता भैरवी चक्रपालिका | क्षेत्रविघ्नेशवटुकयोगिनीमातृकाष्टकाः || ६८ || ब्रह्माण्याद्याः प्रपूज्यन्ते कुमारी कामदा सदा | नृत्यमाने पुरा देव भैरवा मातृभिर्वृतः || ६९ || नृत्यभैरवनामा तु पूर्वचक्रे व्यवस्थिता | गणेशक्षेत्रडाकिन्यो गणास्तत्पुरुषाश्रिताः || ७० || वाममार्गे समाराध्य न तु दक्षिणतः क्रिया | प्लक्षद्वीपे कुशद्वीपे बहुधा च तदन्वगाः || ७१ || वश्याकर्षणस्तंभं च सिद्धयस्त्वणिमादयः | मरीचिना समाराध्य शक्राय च प्रदत्तवान् || ७२ || इत्येष पूर्व चाम्नाय प्राचिसिंहासनस्थिता || ७३ || || इति श्री परातन्त्रे पूर्णेशी पूर्वाम्नायक्रमः पटलः प्रथमः || १ || द्वितीयः पटलः दक्षिणाम्नाय वक्ष्यामि महावीर्या महोल्वणा | अघोरभैरवोद्दिष्टा निश्येशी च निरङ्गला || १ || निरालम्बेश्वरी नित्या अघोरं तच्छिरं विदुः | सिंहासनगता नित्या निशेशी रक्तचर्चिका || २ || चैतन्यभैरवी केचिद्रक्तकालीति केचन | सुन्दरी कालिका केचिदघोरेश्वरी केचन || ३ || ध्यानरूपं तु वक्ष्यामि भैरव्या याम्यदिक्स्थिता | नित्या निरंशनिरता निशेशी निर्गुणाश्रया || ४ || क्रतुनाराधिता देवि धर्मराजाय वै पुरा | सम्प्रदायकरेणैव देवी चैतन्यभैरवी || ५ || चतुर्वेदासना देवी महाफेत्कारसंस्थिता | प्रज्वलन्ती चितामध्ये दक्षिण्यदक्षदा परा || ६ || अलातचक्रवद्यस्या भ्रमन्ति शिरमालिका | स्नायुरक्षा कृशाङ्गी च अस्थिचर्मावशेषिता || ७ || व्याघ्रचर्मा कटिवृता नरचर्मोत्तरीयका | सहस्रादित्यसंकाशा तप्तकाञ्चनसुप्रभा || ८ || प्. १०) पञ्चवक्त्रा चातिभीमा त्रिपञ्चनयनैर्युता | ईषद्धास्यललज्जिह्वा निम्ननाभिकृशोदरी || ९ || विकरालासनस्थाता चक्रवक्त्रासनस्थिता | रौद्री भयापहा घोरा चन्द्रार्द्धकृतकेतना || १० || वर्बरार्द्धमुक्तकेशी नागराजविराजिता | कबन्ध-उष्णीययुता ब्रह्माशीर्षशिखामणिः || ११ || सद्यश्छिन्नजगद्रक्तः शिरोमालाविभूषिता | भुजाषोडशसंयुक्ता गजकञ्चुककिङ्किणी || १२ || पाशांकुशकपालञ्च खट्वाङ्गं मुण्डडिण्डिमं | खड्गखेटवाणधनुश्चक्रदण्डकमण्डलुम् || १३ || अभयं वरदं चैव तर्जनी विधृता करैः | मुदिता सिद्धिमधुना शक्तिभिः परिवारिता || १४ || हूंहूंहूंकारनादेन त्रासयन्देवतागणान् | ऋग्यजुःसामाथर्वाख्या वेदस्योपरि परि || १५ || शवरूपी महादेव हृदयोपरिसंस्थिता | निशेशी च महोग्रा च दक्षिणाचारवर्जिता || १६ || ज्येष्ठानुज्येष्ठभेदास्ति याम्यसिंहासनाश्रितां | तस्याङ्गदेवताः सर्वे बहुभेदा महोल्वणा || १७ || जंभिनी स्तंभिनी नारामोहिनी अंधिनी शिवा | मृत्युञ्जया चर्चिका च सिंही दक्षिणकालिका || १८ || प्. ११) प्रचण्डा उग्रचण्डा च उग्रतारा कपालिनी | त्वरिता छिन्नशीर्षा च वगला वाक्प्रदायिनी || १९ || नीला सरस्वती भीमा त्रैलोक्यडामरेश्वरी | त्रैलोक्यविजया चण्डी रक्तचामुण्डी भैरवी || २० || दक्षिणाम्नायदेवेशी नानाभेदविसारिणी | ब्रह्माद्याष्टभैरवाष्टक्षेत्रपालाष्टमेव च || २१ || स्वक्षेत्रनाथं वटुकं गणेशं योगिनीगणाः | एका विभिन्नरूपा सा समयी पालनाय च || २२ || अघोरस्य गणाः सर्वे नानापारिषदावृता | महाचण्डाट्टसंराव पूरयन्ती दिगन्तराः || २३ || वेताला बहुला तत्र डाकिनीगणसंवृताः | बाललीलासमापन्ना निशाचरगणावृतः || २४ || दण्डपाशोद्यतकराः सर्वसाधकसिद्धिदा | शाकपुष्करद्वीपेषु साधकाभेददर्शिनी || २५ || चौहारे गह्वरे पीठे योनिमण्डलमार्गगा | वामाचाररता पूज्या ह्यणिमाद्यष्टसिद्धिदा || २६ || सूत्रीयता मया प्रोक्ता दक्षिणाम्नायसङ्गतम् || २७ || || इति श्रीपरातन्त्रे निशेश्वरी दक्षिणाम्नायो द्वितीयः पटलः || २ || तृतीयः पटलः सिंहासनप्रतीच्यां तु संक्षेपं शृणु पार्वति | अनेकशतसाहस्रश्रीनाथेनावतारितम् || १ || मन्त्रनानारहस्यञ्च यामलं लक्षसंमितम् | स्वनाभिमथनाद्देवि स्वकीयरसना पुरा || २ || ब्रह्माण्डं गर्भतस्तस्या जातिदिव्येन योनिना | तदारभ्य महेशानि कुजादेवीति विश्रुता || ३ || ज्येष्ठबालप्रभेदेन कुब्जिका लोकपूजिता | सद्योजातमुखोद्गीता पश्चिमाम्नायदेवता || ४ || कुब्जिका जगतामाद्या महासंहाररूपिणी | अनन्तदेशिकः सेव्या नित्या शिवसमागता || ५ || ज्येष्ठबालप्रभेदेन बहुमार्गप्रवाहिनी | द्वात्रिंशताभेदयुक्ता कुब्जिका भैरवाश्रिता || ६ || वृषभे संस्थितं देवं खवर्णरूपशोभिनम् | एकवक्त्री त्रिनेत्रञ्च मुजाष्टादशधारिणम् || ७ || प्. १३) डमरुं परशुं वाणं खड्गमकुंशवज्रकम् | शंखं च वेणुवाद्यञ्च वरदाभयदक्षिणे || ८ || वामे खट्वाङ्गशूलञ्च धनुः फलकपाशकम् | घण्टाकपालवेणुञ्च अभयं भयनाशनम् || ९ || पट्टेन बन्धितं जानुवामेरुत्था च कुब्जिका | एकवक्त्रा त्रिनेत्रा च अरुणा वर्णवर्णिता || १० || द्विभुजा वरदा देवी सिंहस्थाभयदायिनी | नागाभरणभूषाङ्गी खण्डेन्दुकृतमस्तका || ११ || सर्वलोकेशपाशेन चारुपीनघनस्तनी | सर्वाभरणसंशोभा लक्षणैश्च सुशोभिता || १२ || एवं ध्याये कुजामाता पश्चिमाम्नायभैरवी | तत्रैव बहुभेदास्ति कुब्जिका कुलमार्गगा || १३ || विभिन्ना सिद्धिनाथेन श्रीनाथेनावतारिता | कुजेशनाथवीरेण कुजाम्नायप्रकाशिता || १४ || नवात्मा श्रीशिखानाथ स्वच्छन्दः श्रीललितेश्वरः | क्रमेशी च त्रिखण्डा च महत्तारि त्रिखण्डिका || १५ || त्रिशुद्धि उग्रचण्डा च चण्डा चण्डकपालिका | अन्नपूर्णा कपाली च ज्वालामालिनी कामिनी || १६ || प्. १४) ब्राह्म्याद्या मातरगणा असिताङ्गादिभैरवाः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || १७ || वाराही चैव माहेन्द्री चामुण्डा सप्तमी स्मृताः | अष्टमी च महालक्ष्मी एताः सर्वत्र पूजिताः || १८ || असिताङ्गो रुरुश्चण्ड क्रोधीशोन्मत्तकस्तथा | कपालो भीषणाख्यश्च संहारो चाष्टमस्तथा || १९ || षडाम्नायप्रपूज्या वै मातृका सह भैरवी | गणेशो वटुकः क्षेत्रयोगिनीसङ्घका स्मृता || २० || डाकिनी भूतवेतालचेटिकागणसंवृता | डाकिन्यादिमहारावा षड्योगिन्यः प्रकीर्तिताः || २१ || डाकिनी राकिनी घोरा लाकिनी काकिनी तथा | साकिनी हाकिनी प्रोक्ता याकिण्यः सप्तधारवः || २२ || संस्थिता देवताः पूज्या च रुरूपेण भैरवः | सद्योजातः साधिता सा कुब्जिका चक्रनायिका || २३ || अङ्गिरा साधिता विद्या दक्षाय प्रतिपादिता | नहुषाय ततो दत्वा ततो चन्द्रान्वयाय च || २४ || पार्थिवानाञ्च सौम्यानां कुलदेवीति कीर्तिताः | अनेकसिद्धिदा सर्वक्रियास्तु बहव स्मृताः || २५ || प्. १५) दुर्वासाराधिता विद्या निराचालाकलाश्रिता | वाममार्गे रता नित्या दक्षिणा फलवर्जिता || २६ || मकारपञ्चकैः पूज्यानां यथाफलदा भवेत् | शौचाचारनिराचारनिष्कलङ्का निराश्रया || २७ || अणिमादिमहासिद्धिसाधनाच्छीघ्र सिद्धिदा | मोक्षदा भोगदा देवी कुब्जिका कुलमातृका || २८ || बहुधा वर्णिता देवी तवाग्रे श्रीमतादिषु | मन्थानभैरवश्चास्ति चतुर्विंशमतेषु च || २९ || || इति श्रीपरातन्त्रे पश्चिमसिंहासनकुब्जिका पटलस्तृतीयः || ३ || चतुर्थः पटलः वामदेवाश्रिताम्नाय कथयामि तवाग्रतः | उत्राम्नायमुत्तरं तु कालीकुलसमुद्भवा || १ || कोटिकोटिप्रभेदोस्ति कालिका तीव्रनायिका | आज्ञासिद्धिप्रदा देवी विष्णुतेजोपवृंहिता || २ || नारायणी महाकाली जगद्रक्षणतत्परा | कालि काली महाकाली चण्डयोगेश्वरीति च || ३ || तिष्ठन् गच्छन्स्मरन्नित्यमुच्यते महतो भयात् | आब्रह्मस्था वरान्ता च कालेन कलयन्ति च || ४ || तं कालं कलयेत्काली ततः सा कालिका स्मृता | अनेकचक्रचक्रेशी नानाभेदा महागमा || ५ || शक्यते कालिका देव्या देवा ब्रह्मादयोपि हि | तथापि लेशमात्रं तु कुमारीक्रमतः शृणु || ६ || नीलवर्णा महाकाली त्रिमुखा नवलोचना | पीतं तु दक्षिणं वक्त्रमुत्तरं पावकोपमम् || ७ || मण्डलान्वितनेत्रा च अष्ट चाङ्गी तनूधरा | पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा || ८ || प्. १७) सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुताः | अस्थिकुंठलगोडाढ्या मौलीकापालमालिनी || ९ || किङ्किणी नौपुरा राव वीरघण्टारवोत्तमा | शिवा प्रेतसमारूढा मुखशोणितनिर्भरा || १० || इन्द्राद्यः ब्रह्मविष्णुश्च रुद्रेश्वरसदाशिवः | पीतश्यामरक्तधूम्रश्वेताभा पञ्चकारकाः || ११ || वज्रदण्डशक्तिशूलखष्ट्वाङ्गायुधधारकाः | तर्जनी मुखनिक्षिप्ता शिवाधस्था त्रिलोचना || १२ || बद्धपद्मासना देवी पीनोन्नतपयोधरा | वामहस्ते कपालञ्च रक्तपूर्णानि शोभने || १३ || धारयन्ती त्रिशूलञ्च सशवं दक्षिणे करे | चक्रं च दक्षिणे हस्ते अंकुशमुद्गरं तथा || १४ || वामे पाशं च खट्वाङ्गमृतवालञ्च धारिणम् | चित्कला कलनातस्थां ज्योतिरूपाश्च केवला || १५ || निर्वाणपदातीतां भावातीतामगोचरा | अस्मिन्मूर्तौ महादेव्या नववक्त्राणि पूजयेत् || १६ || बहूनि भेदरूपाणि कालिकाया महेश्वरी | आज्ञासिद्धिप्रदा नित्या कौलमार्गप्रवर्तका || १७ || मकाकुलालिकायाता विष्णुः कालित्वया गता | यस्या प्रभावमतुलं वर्णितुं नैव शक्यते || १८ || प्. १८) दुर्वासा नारदो व्यासवसिष्ठः कौशिकस्तथा | त्रिश्चतुः पञ्चसप्ताभादेकाभात्सिद्धिमागता || १९ || अणिमाद्या महासिद्धिस्तस्याङ्गसिद्धयः स्मृताः | मोक्षदा सिद्धिदा काली निर्वाणेशीश्वरी शिवा || २० || कैवल्यमेका सिद्धिः स्यात्महाज्ञानप्रकाशिनी | साधका भैरवः साक्षाज्जरामरणवर्जितः || २१ || धनदस्य न सा भूति न शक्रस्य प्रजायते | या भूति साधकस्यैव भवेत्त्रैलोक्यदुर्लभा || २२ || पञ्चवक्त्रक्रमं देवि पञ्चकाल्यानुशासिता | गुह्यकाली महादेवी वैष्णवी ब्रह्मरूपिणी || २३ || वामदेवाश्रिता सर्वमहाभैरवकोटयः | गणेशवटुयोगिन्यः शतकोटिसहस्रका || २४ || भूतवेतालडाकिन्यो चेटका राक्षसाः खगाः | फेनवा काकगृध्राश्च उलूका गरुडादकाः || २५ || शृङ्गाली कङ्कती युगा नानारूपा महाबलाः | आम्नायज्ञा वदन्तीह उत्तरं तु निरुत्तरम् || २६ || || इति श्रीपरातन्त्रे उत्तराम्नाय गुह्यकालि पटलश्चतुर्थः || ४ || पञ्चमः पटलः ऊर्ध्वसिंहासनं वक्ष्ये त्रैलोक्यैश्वर्यसूचकम् | सर्वचक्रेश्वरी नित्या सर्वाम्नायप्रपूजिता || १ || सर्वसिंहासनमयी ईशानासनसंस्थिता | परब्रह्मेश्वरी माया देवी नारायणी स्मृता || २ || निद्रा बुद्धिः क्षमा क्षांतिः क्षुधा लज्जा स्मृतिर्धृर्तिः | प्रज्ञा शांति प्रभा ज्योति तस्या पादांगुलीनखे || ३ || यस्या दृग्यानमात्रेण साक्षाल्लक्ष्मीपतिर्भवेत् | यस्थार्चाकर्मसुरता यस्या मार्गानुसारिणी || ४ || राजराजसमो भूत्वा सुरराजसमोपि वा | भुक्त्वा तु विपुलान्भोगान्नन्ते निर्वाणमाप्नुयात् || ५ || कदाचिद्योषितो भूत्वा कदाचित्पुरुषो भवेत् | विष्णुरूपेण सकलं दुष्टान्सर्वान्विनाशयेत् || ६ || जगद्व्याप्तावनीमाया मोहयेत्स सुराऽसुरान् | अनूपारूपिणी भूत्वा सुन्दरी कथयामि ते || ७ || पद्मरागप्रतीकाशं कुंकुमोदकसन्निभाम् | सुभ्रुवां च सुनेत्रा च सुन्दरी चारुहासिनी || ८ || प्. २०) कृशमध्य चतुर्बाह्वी खण्डेन्दुकृत शेखराम् | त्रिनेत्रा सर्वभूषाङ्गी चारुवेशा मनोरमाम् || ९ || पाशांकुशेक्षुचापञ्च पञ्चवाणधनुर्धराम् | ब्रह्मविष्णुरुद्र-ईशा पञ्चमण्डपपादुकाम् || १० || सदाशिवाख्य पर्यंङ्कसंस्थिता परमेश्वरी | पराशक्ती सुन्दरीति त्रिपुरेशीति गीयते || ११ || महामोक्षप्रदा देवी परब्रह्मस्वरूपिणी | बहुभेदा विशालाक्षा बहुरूपा प्रकाशिनी || १२ || कामेश्वरी रुद्रशक्ती पूर्णपीठावतारिणी | वज्रेशी वैष्णवी नित्या कामरूपनिवासिता || १३ || शक्तीश्वरी भगेशी च जालन्धरे प्रतिष्ठिता | ब्रह्मशक्ती समुल्लासपीठमह्वरविग्रहा || १४ || उड्यानपीठनिलया परब्रह्मात्मिका शिवा | सर्वचक्रेश्वरी सर्वपीठेशी मन्त्रविग्रहा || १५ || सर्वमन्त्रेश्वरी सर्वदेवेशि दिव्यविग्रहा | षडाम्नायेश्वरी नित्या निरंसा निःपरिग्रहा || १६ || नित्या षोडशविद्याया नवचक्रे व्यवस्थिता | नवचक्रेश्वरी नित्या नवकोणाग्रतस्थिताः || १७ || त्रैलोक्यमोहनं चक्रं सर्वाशापरिपूरकम् | सर्वसंक्षोभणं चक्रं सर्वसौभग्यदायकम् || १८ || प्. २१) सर्वार्थसाधकं चक्रं सर्वरक्षाकरं परम् | सर्वकामप्रदं चक्रं सर्वसिद्धिप्रदायकम् || १९ || सर्वानन्दमयं चक्रं नवमं चक्रनायिकाम् | सर्वतद्वैन्दवे लीनां तच्छ्रीचक्रमुदारितम् || २० || त्रिपुरा त्रिपुरेशी च सुन्दरी पुरवासिनी | श्रीर्मालिनी च सिद्धाम्बा महात्रिपुरसुन्दरी [महात्रिपुरभैरवी] || २१ || अनेकदेवतावृन्दलीना चक्रेषु संस्थिता | वैन्दवो च त्रिकोणे च अन्तरालेऽष्टकोणके || २२ || द्विदशारे च मन्वस्रे नागपत्रेषु सर्वतः | पत्रषोडशसंख्याते चतुरस्रे गुणस्पृहम् || २३ || रेखायुक्तचतुर्द्वारे त्रैलोक्यं तत्र पार्वति | हिरण्यरजते ताम्रे मणौ पत्रेथ भूर्जके || २४ || कौशेयस्थण्डिले वापि दृष्ट्वा तु प्रणमन्प्रिये | सर्वतीर्थेषु सुस्नात सर्वयज्ञेषु दीक्षितः || २५ || सर्वदः सर्ववित्साक्षान्महेश्वरसमो भवेत् | श्रीचक्रं कारयित्वा तु यो दद्यात्साधकाय च || २६ || भूचक्रं तेन दत्तं हि सशैलवनकाननम् | स वै महापशुपतः स वै वैष्णवसत्तमः || २७ || सर्वदः सर्वदर्शी च ब्रह्मज्ञानी स वै सुधीः | महादानानि ये प्रोक्ताः मुनिभिः ब्रह्मवादिभिः || २८ || प्. २२) तत्फलं लभते नूनं श्रीचक्रस्य प्रभावतः | कोटिलिङ्गप्रतिष्ठस्य यत्फलं समुदाहृतम् || २९ || तत्फलं लभते नूनं श्रीचक्रस्य च पूजनं | विष्णोः कोटिप्रतिष्ठायाः फलं प्राप्नोति निश्चितं || ३० || हिरण्ये रजते ताम्रे मणौ भूर्जे च पट्टके | अङ्कयित्वा धारयेद्यस्तु कंचे कण्ठे भुजेपि वा || ३१ || यानि कानि च पापानि ब्रह्महत्यासमानि च | मुच्यते सर्वपापेभ्यः श्रीचक्रस्य च धारणात् || ३२ || पापानि विलयं यान्ति ज्ञानाज्ञानकृतानि च | सर्वं संदह्यते शीघ्रं चक्रराजस्य धारणात् || ३३ || भूतप्रेतपिशाचैर्वा श्वापदैर्ब्रह्मराक्षसैः | डाकिनीशाकिनीभिर्वा वीक्षितुं नैव शक्यते || ३४ || महाक्रूरग्रहैर्वापि जन्मस्थानस्थितोपि वा | गोचरे लग्नगे वापि सर्वं शुभग्रहं भवेत् || ३५ || अकालमृत्युं हरति सदा सन्निहिता परा | परा सन्निहिता यत्र किं कुर्वन्त्यन्यदेवता || ३६ || श्रीचक्रं धारयित्वा तु यस्तु प्राणान्परित्यजेत् | कांकटेनानुरीक्षे वा निषिद्धे कश्मलेपि वा || ३७ || कृत्वा चान्द्रीयलौल्येन पापानि सुबहून्यपि | स कैवल्यं लभेन्नूनं न पुनर्जन्मभाग्भवेत् || ३८ || प्. २३) यमदूताः पलायन्ते कृत्वा श्रीचक्रधारिणम् | ब्रह्मज्ञानेन वा मोक्षः काश्यां वा यस्तनुं त्यजेत् || ३९ || श्रीचक्रधारणाद्वापि त्रयो मोक्षस्य कारणम् | सर्वदेवगणास्तत्र सर्वधर्मश्च तत्र वै || ४० || गङ्गाद्याः सरितः सर्वे पुष्कराद्या जलाश्रिताः | पुरुषार्थमनुष्याश्च क्षेत्रानन्दवनादयः || ४१ || वाजिमेधादियज्ञस्य फलं त्वविकलं भवेत् | वामदक्षिणयागेन सुन्दरी द्विविधा स्मृता || ४२ || सुन्दरी द्विविधा प्रोक्ता वामदक्षिण सानला | अचिरेण भवेद्वामः सर्वकामानसंशयः || ४३ || दक्षिणाचारयागेन भिक्षूनां परमा स्मृता | तदन्याचारयोगेन आशु सिद्धिफलं लभेत् || ४४ || वेदोक्तैर्दक्षिणाचारैः कैवल्यं केवलं फलम् | अत एव महादेवि साक्षाद्ब्रह्मस्वरूपिणी || ४५ || षोडशार्णा महादेवी वाच्यरूपेण संस्थिता | तुरीया सा महाविद्या साक्षाज्जाग्रत्स्वरूपिणी || ४६ || वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि | वणितुं नैव शक्नोमि श्रीविद्या षोडशाक्षरीम् || ४७ || ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा | एकोच्चारणं देवेशि राजसूयस्य कोटयः || ४८ || प्. २४) षोडशार्णा महाविद्या न प्रकाश्या कदाचन | विना गुरुप्रसादेन श्रीविद्या षोडशाक्षरी || ४९ || दृष्ट्वा प्रजपते यस्तु स भक्षो योगिनीगणैः | श्रीगुरोः कृपया लब्धो न प्रकाश्या कदाचन || ५० || विना गुरुप्रसादेन जपेन्नैव कदाचन | श्रीगुरोः कृपया लब्धा सर्वसौभाग्यदायिनी || ५१ || सुधासुरङ्गिनी वेगशब्दचातुर्यदायिनी | सौभाग्यभागसंपन्ना कलाकुशलदायिनी || ५२ || भुवनत्रयसौभायं त्रैलोक्याकर्षणं तथा | परंब्रह्मणि लीनत्वं ददाति यश उत्तमम् || ५३ || षोडशार्णा महाविद्या भुक्तिमुक्तिफलप्रदा | निःसरन्ति महाविद्या विस्फुलिङ्गा यथा प्रिये || ५४ || साक्षात्सच्चिन्मयी नित्या ज्ञानमोक्षप्रदायिनी | महासंपत्प्रदा विद्या साक्षादक्षररूपिणी || ५५ || षोडशार्णा महाविद्या श्रीविद्या कथिता पुरा | निधीनां रक्षणं कार्यं चौरेभ्यस्तु यथा प्रिये || ५६ || प्राणेनापि रक्षणीया श्रीविद्या षोडशाक्षरी | न देया यस्य कस्यापि देया प्राणप्रदायिनी || ५७ || राज्ञराज्यप्रदेयानि प्राणेभ्योऽप्यधिकाय च | सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमथाधमं || ५८ || प्. २५) ताम्रं लक्षगुणं प्रोक्तं रौप्यं कोटिगुणं भवेत् | सौवर्णानन्तफलदं अथासौ किं ब्रवीमि ते || ५९ || बाला सा प्रथमा विद्या ततो वाग्भैरवी स्मृता | संपत्प्रदा श्रीपदाश्च ततस्त्रिपुरभैरवी || ६० || बिन्दुमालिनी चिल्लेखा हृल्लेखा श्रीपराकला | षट्कूटा नवकूटा च लोपामुद्रा त्रिकूटिका || ६१ || पञ्चमी पञ्चकामिन्यविद्या श्रीकामराजकं | षोडशार्णा महाविद्या सा वै श्री परमा परा || ६२ || परायुक्ता च प्रासादः शाम्भवं समुदाहृतः | अणिमाद्या महासिद्धि अन्तरायप्रकीर्तिताः || ६३ || पञ्चसिंहासनदेव्याः महात्रिपुरसुन्दरी | साक्षाज्जाग्रत्स्वरूपा च वैष्णवी परदेवता || ६४ || सर्वस्वरूपिणी नित्या प्रकृति परमेश्वरी | सर्वजीवस्वरूपा च व्याप्य सर्वत्र संस्थिता || ६५ || सिवशक्तिः वयो नास्ति पुमान्नस्त्री नपुंसकः | सर्वजीवस्वरूपा च आदात्मलिङ्गस्वरूपिणी || ६६ || सर्वोत्पत्तिहेतुभूता योनिरित्यभिधीयते | सिंहासनस्वरूपाया ऊर्ध्वाम्नाय मयोदितम् || ६७ || लेशमात्रं महादेवि साक्षाज्जाग्रत्स्वरूपिणी || ६८ || || इति श्री परातन्त्रे श्रीविद्या ऊर्ध्वाम्नायक्रमः पटलः पञ्चमः || ५ || षष्थः पटलः अधाम्नायं शृणुष्व त्वं सावलिजिनमातृका | अशेषकर्मनिर्माणा कलौ शीघ्रफलप्रदा || १ || बौद्धमार्गे निरातङ्का निरर्गल नलप्रभा | आत्मायान्तरसाराणि ख्याता सा वज्रयोगिनी || २ || त्रिवक्त्रा रक्तवर्णा च नृत्यपादा शवासना | त्रिनेत्रा मण्डलं व्रीतेहादाभरणभूषिता || ३ || मुण्डमालाविभूषाङ्गी व्यालयज्ञोपवीतिनि | व्याघ्रचर्माम्बरा देवी सिंहचर्मोत्तरीयका || ४ ||| वैरोचनी वज्रपूर्वा वज्रघण्टा वरपिवा | चतुर्भुजा प्रेतसंस्था बर्बरार्द्धशिरोरुहा || ५ || कर्तॄकपालखट्वाङ्गडमरुं च धृता करैः | सौगतानुगमा साक्षात्कलौ शीघ्रफलप्रदा || ६ || इहैव फलदा नित्या नापवर्गफलप्रदा | सौगतानुगमा सर्वा नानाभेदसमाश्रिता || ७ || कालचक्रं सम्वरं च हयग्रीवाख्य भैरवम् | योगाम्बरं च कालेशं सा बलिसौगमाश्रिताः || ८ || || इति श्रीपरातन्त्रे षडाम्नायभेदे अधाम्नायक्रमः पटलः षष्ठः || ६ || सप्तमः पटलः श्री देव्युवाच देवदेव महादेव सर्वज्ञ परमेश्वर | अत्यद्भुतमहं मन्ये कालीक्रमकुलोद्भवम् || १ || मनः संकंपतेतीवलोमहर्षश्च जायते | कथं सा कालिका देवी शतकोटिप्रभेदतः || २ || एतद्भेदत्रयं क्वापि न श्रुतं परमेश्वर | सर्वं कालिक्रमाश्रित्य स्थिते च भासते मनः || ३ || चक्रेश्वरी चक्रभेदं का च सर्वाधिकाश्रिता | क्रमभेदकुलोद्भेदं कथं पूजाक्रमं प्रभो || ४ || तस्यार्चनेन देवेश लभेद्वा कि महाफलम् | इह चामुत्र किं भुंक्ते साधकः परमेश्वर || ५ || कथं काली ह्यनालंबा कालं वा कालघस्मरा | निर्गुणा निष्कला नित्या निरंशेति त्वयोदिता || ६ || कोटिभेदलक्षभेदवक्त्रं यदि न शक्यते | मुख्यमार्गानुगा देवी नायिकां वद शङ्कर || ७ || यस्यार्चने न सकलं कालिकापूजितं भवेत् | एक एव परा नित्या या देवी चितिरूपिणी || ८ || प्. २८) सर्वस्वरूपा सर्वेशी चितिरूपा श्रिता परा | यस्यामुत्पद्यते विश्वं लीयते स्थीयते पुनः || ९ | वद देव महेशान नमस्ते शशिशेखर | तासां चक्रेश्वरी नित्या का रूपा केति संख्यका || १० || अमृतस्यैव पानेन यथा तृप्यन्तु देवता | नायिकां क्रमभेदञ्च श्रुत्वा तृप्यामि पुष्कलः || ११ || वद खेदो न ते देव सर्वज्ञ सर्व सर्वदा || १२ || श्रीसदाशिव उवाच ब्रह्माण्डकोटिलक्षाणि भस्म सा कुरुते यसा | तां कालग्रासरसनां कालसंकर्षिणीं नमः || १३ || यस्या क्रीडार्थमखिलं ब्रह्माण्डं कन्दुकायते | तां कालग्रासनरतां कालसंकर्षिणीं नमः || १४ || शृणु देवि प्रवक्ष्यामि यत्त्वया मनुपृच्छते | एका एव पराशक्तिः बहुभेदप्रकाशिनी || १५ || नित्या निरंशा सा देवी ब्रह्मसत्यप्रकाशिनी | वक्त्रकोटिसहस्रैस्तु जिह्वा कोटिशतैरपि || १६ || वर्णितुं नैव शक्नोति शताब्देनापि सुन्दरि | पञ्चवक्त्रेण जिह्वाभिः पञ्चभिः परमेश्वरि || १७ || लक्षकोटिप्रभेदेषु दशमात्रं वदामि ते | कालिका क्रमभेदेषु या श्रेष्ठा मोक्षदायिनी || १८ || प्. २९) तानि ते कथयिष्यामि क्रमपञ्चविनिर्णयम् | परंब्रह्ममयी नित्या साक्षाज्जाग्रत्स्वरूपिणी || १९ || निर्लेपा निर्गुणा नित्या गुणैः संक्रीडते जगत् | न पुमान्न स्त्रियः साक्षान्न षण्ढः प्राकृतो न च || २० || अव्यक्तरूपा परमा जाग्रद्गुणगुणालका | पृथिवी वायुरापोग्नि खं पञ्चभूतसन्मता || २१ || तस्या रूपमिदं सृष्ट्यर्थं सृजते गुणैः | धारणी परमा देवी धरण्यादिशिवान्तया || २२ || पृथुत्वात्पृथिवीत्युत्काततः सर्वं महाह्यभूत् | सर्वजीवं प्राणयन्ती सर्वत्र चरणक्षमः || २३ || सम सर्वत्र प्रत्यायुर्गुणैर्वायोः समार्पितः | चतुर्विधं जीवनाच्च जगत्स्थावरजङ्गमम् || २४ || जलैः समुद्धयत्सर्वं तद्गुणं सा जलोत्थितम् | दहत्यग्नि जगत्सर्वं स मध्यं मध्यमेव वा || २५ || तेजसा प्रज्वलन्नेव तेजा सास्या समाश्रिता | व्यापकत्वान्महत्वाच्च निरंशत्वाद्गुणाश्रयात् || २६ || आकाश ह्यर्पिता देव्याः सर्व संधार्यते गुणाः | महासौभाग्यजननी महासारस्वतप्रदा || २७ || महासौन्दर्य शुभगा महामृत्युविनाशिनी | ब्रह्मविष्णुसुरेन्द्रादिवन्दितायौघहारिणी || २८ || प्. ३०) सर्वतीर्थमयी देवी सर्वधर्ममयी शिवा | सर्वक्षेत्रमयी पुण्या सर्वकार्यार्थसाधिनी || २९ || महाभोगप्रदा शान्ता महामोक्षफलप्रदा | यस्या प्रभावतो देवी सर्वशुद्ध्यति नान्यथा || ३० || वामाचाररता वापि दक्षिणाचारकृद्भवेत् | निराचारापि साचारा पापो धर्म न विद्यते || ३१ || किमाचारविचारेण यदि काल्यार्चने रतः | विनाचारविचारेण यदि काल्या न दीक्षिता || ३२ || निराचारा क्रिया सर्वा साचारा क्रियते य सा | स्वेच्छात्र भक्षनियमो निराहारसमस्मृतम् || ३३ || कालीनामाक्षरपदं जपन्यावानि नश्यते | महापातककोटीनि लीलयैव विनश्यते || ३४ || दह्यते सर्वपापानि तूलराशिमिवानलः | चक्रोद्धारं प्रवक्ष्यामि शृणुष्वैकमना शिवे || ३५ || बिन्दु त्रिकोण पञ्चारनवकोण पुनर्लिखेत् | अष्टारं चाष्टदलकं दशद्वादशकं तथा || ३६ || षोडशं दल संलिख्य मुण्डप्राकार संलिखेत् | चतुःपञ्चाशकं देवी कवध समुदाहृतम् || ३७ || त्रिशूलाग्र मुण्डमाला चतुःपञ्चाशकं प्रिये | अष्टदिक्षु श्मशानाष्ट विलिखेत्कामदायकम् || ३८ || प्. ३१) ज्वलिताग्नोदक् च शवं शृगालोलूकभैरवम् | काकवेताल चैत्यञ्च लिङ्गं चाष्टश्मशानके || ३९ || चिताष्टदिक्षु प्रलिख्य महापातकनाशनम् | हिरण्यं रजते ताम्रे मणौ वापि च टङ्किते || ४० || चन्दनागरु कर्पूरनाभिकाश्मीर सिन्दुरैः | रक्तचन्दनयुक्तेन हेतुना घृष्टयेत्सुधीः || ४१ || भाजने लेपयेत्तेन लिखेद्धेमशलाकया | ऋजुरेखा सुरेखेन रम्यदृष्टिमनोहरम् || ४२ || प्रतिमायां पटे वापि स्थण्डिले पुस्तके हृदि | खड्गे वापि त्रिशूले वा महापात्रेऽथवा स्त्रियाम् || ४३ || एते नवसु वै पूज्या नवयोनिपरा प्रिया | दिवायां ब्रह्मचर्ये वै मङ्गलायाः प्रपूजयेत् || ४४ || रात्रौ यथेच्छया पूज्या कालिका कुलशासिनी | कूटस्थ प्रकृति स्वाम्बा लीला भुवनपावनी || ४५ || वृहद्वृहद्वतिप्रोक्ता रेण्वादपि महामनु | अरूपायां तु वक्ष्यामि रूपमव्यक्तरूपिणीम् || ४६ || विना ध्यानेन वै पूजा सकलाप्यकला स्मृता | तस्मात्साधक सिद्ध्यर्थं ध्यानयोगं वदामि ते || ४७ || पितामहेन देवेन मां समाराध्य प्रार्थितः | तुष्टेन वै मया प्रादाद्ब्रह्मणे लोकसर्जने || ४८ || प्. ३२) ब्रह्मणापि पुलस्त्याय दत्तं कालिकुलक्रमम् | तेन विश्ववसे प्रादाद्विश्रवा धनदाय च || ४९ || ततो लङ्काधिपाः सर्वे वंशाः कालिक्रमानुगाः | दशास्यं कुम्भकर्णं च विभीषणमहेन्द्रजीत् || ५० || हिरण्यकशिपुर्वाणो वलिर्जालन्धरस्तथा | अम्बरीषोर्द्धमान्धाता नहुषो हैहयादयः || ५१ || नारदाद्या मुनिगणो दुर्वासा गाधिनन्दनः | विरूपाक्षादयः सिद्धा रेमिरे स्वेच्छया मुदा || ५२ || तस्या प्रसादलेशेन त्रैलोक्यविजयो भवेत् | ब्रह्मणा प्रेरितः पश्चाल्लंकेश्वरवधाय च || ५३ || विश्वामित्रवसिष्ठाभ्यां राघवाय प्रदत्तवान् | सूरयूतीरतीर्थे वै दशोनाहृच्छताक्षरी || ५४ || त्रिशताक्षरि मन्त्रे वै त्रिलोक्यैश्वर्यदायिनी | दशवर्णा मया देवी गोपिताः यत्नतः पुरा || ५५ || यदि पूर्णा भवे देवि मन्त्रं वै त्रिशताक्षरीम् | यो जानाति स पुण्यात्मा भैरवोहं न संशयः || ५६ || मन्त्रमातेति विख्याता त्रैलोक्यैश्वर्यदायकं | समस्तमन्त्रजननी सर्वमन्त्रप्रवृंहिणी || ५७ || बहुधा वर्णितं मन्त्रमाता सर्वप्रदायिनी | त्यङ्गिरा महाकाली मोक्षसौख्यप्रदायिनी || ५८ || प्. ३३) नानया सदृशी विद्या विद्यते भुवनोदरे | राज्यदा धनदा मोक्षदातृ कैवल्यदायिनी || ५९ || तेनास्तवे च रामेण रावणो विनिपातितः | आद्या काली क्रमं पञ्च एका सा पञ्चधा गता || ६० || काली कुलसमुद्भव पुरस्तनावतारिता | कुमारी त्रिमुखा काली नवकाक्षरा स्थिता || ६१ || आद्या या सृष्टिकाली च द्वितीया स्थितिकालिका | संहारकालिका उग्रा तृतीया दिव्यरूपिणी || ६२ || अनाख्या कालिका देवी चतुर्थयेमाश्रिता | भाषाकाली पञ्चमी तु अद्वैतभावमास्थिता || ६३ || अभिन्नरूपास्ता सर्वा गुह्यकालीतनौ श्रिता | तथा तनौ तथा पादा शरीरावयवाङ्गेषु || ६४ || शरीरावयवा वक्रा बाह्वादीनाशनं दिकाम् | पञ्चकाली महाग्रासा एका सा भिन्नरूपिणी || ६५ || आत्मा वैश्वरभूता या गुह्यकाली प्रकीर्तिता | तासां ध्यानं प्रवक्ष्यामि शृणु पापतयापहम् || ६६ || अथ वक्ष्ये महादेव्या ध्यानयोगमनुत्तमम् | योगविज्ञानमात्रेण साधकः सिद्धिभाग्भवेत् || ६७ || नीलोत्पलदलश्यामा नीलरत्ना विनिर्मिता | ज्ञानलक्ष्मीच्छटाटोपज्योतिर्मण्डलसंभवा || ६८ || प्. ३४) दशवक्त्रा महाकाली सप्तविंशतिलाचना | अष्टोत्तरशतार्द्धं च भुजादण्डै नरानना || ६९ || दीपकं ऊर्द्धकं वक्त्रं चण्डयोगेश्वरी मतम् | ज्योतिर्मयमहावक्त्रं निर्वाणपददायिनी || ७० || तदधः सिंहवदनं श्वेतवर्णं सुभास्वरम् | फेरुवक्त्रं च तदधः कृष्णं त्रैलोक्यडामरम् || ७१ || कपीन्द्रस्य मुखं वामे रक्तवर्णं महोल्वणम् | कोलवक्त्रं भवेद्दक्षं धूम्रवर्णं भयानकम् || ७२ || तार्क्ष्यवक्त्रं च वामञ्च पिंगवर्णसचुञ्चुकम् | दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् || ७३ || गजास्यं वामके प्रोक्तं गौरवर्णं महोल्वणम् | हयास्यं दक्षिणे काल्या श्यामवर्णं विचिन्तयेत् || ७४ || सर्वदंष्ट्रा कराला च त्रिनेत्रा भीमनादिनी | भ्रभङ्गकुटिला भीमा कालास्य श्रीमुखोत्तमा || ७५ || पिङ्गलोर्ध्वजटाटोपचन्द्रार्द्धकृतशेखरा | नानारत्नैश्च घटिका श्वेतकाद्यालिमालिनी || ७६ || सप्तविंशतिमुण्डैश्च रक्तविप्लुषसंयुता | वज्राणि पुष्पसंयुक्तं शिरोमाला प्रकीर्तिताः || ७७ || चिद्रत्नवटिका काद्यं खड्गपाशं च शक्तिकम् | खट्वाङ्गमुण्डधनुषं चक्रं घण्टा च सुस्वनः || ७८ || प्. ३५) वालप्रेतञ्च शैलञ्च कङ्कालनकुलं तथा | सर्पं च कुट्टनीवंशषडम्रं ओविका पुनः || ७९ || वह्निपात्रञ्च दण्डञ्च स्रुवमष्टादकेशरी | वस्त्रमुद्गरडमरुं विभ्रती वाणबाहुभिः || ८० || चिद्रत्नवटिकाकर्तृतर्जन्यं कुशदण्डकम् | रत्नपूर्णं च कलशं त्रिशूलं दुष्टनाशनम् || ८१ || पञ्चपशुपता वाणं पद्मद्वीपमनागतम् | कुन्तञ्च पाणिजातञ्च फणिका तोमरं तथा || ८२ || पुष्पमाला डिण्डिमं च गृद्धं स्वस्तिकवर्द्धनी | कमण्डलुश्रुवाञ्चैव पशुपुष्टिभयापहम् || ८३ || नन्द्यावर्तं कुण्डलं च मांसखण्डसुशोभनम् | वीजपूरफलं शूची विभ्रती दक्षबाहुभिः || ८४ || व्याघ्रचर्मपरीधानां कालचर्मोत्तरीयकाम् | किंकिणीजालशोभाढ्यां वीरघण्टानिनादिनीम् || ८५ || नौपुरारावनिर्घोषा घर्घरारावभीषणा | कनकाङ्गदकेयूरा महास्थिकृतशोभना || ८६ || मुण्डमाला गले देव्या आपादान्तविलम्बिनी | रक्तपद्ममयीमालां शुष्ककाद्यलिकास्तथा || ८७ || काञ्चीकट्टारकोपेतां कटि देव्या विराजितां | ब्रह्मसूत्रोज्वलत्कण्ठाद्योगपट्टोत्तरीयका || ८८ || प्. ३६) सौम्याग्रभूषणैर्युक्ता नागराजाद्यलंकृता | रक्तकुण्डलकर्ण/श्री पञ्चकालासनस्थिता || ८९ || शिवासनं तदूर्ध्वं च नीलं नादोर्ध्वलांछनम् | महार्घरत्नमांसञ्च कृष्णवर्णं चतुर्भुजम् || ९० || एकवक्त्रं त्रिनयनं भैरवाभरणान्वितम् | कर्तृकपालहस्तं च डमरुखट्वाङ्गधारिणम् || ९१ || एवं भैरवपीठन्तु देव्या आसनमुत्तमम् | पञ्चप्रेतं च तदधः ब्रह्माद्याः पञ्चकारणाः || ९२ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पीतश्यामं रक्तधूम्रं श्वेताभावं च कारणाः || ९३ || दण्डचक्रशक्तिशूलखट्वाङ्गायुधधारकाः | तर्जनीमुखनिःक्षिप्ता शिवधस्था त्रिलोचना || ९४ || पिङ्गरक्तत्रिगुण्याभिहेतुत्कारणभीषणा | वज्रदंष्ट्रा नखस्पर्शा पद्मपृष्ठे शिवोत्तमा || ९५ || शचीपत्यादिरन्तं च दिगवर्णं सवर्णकम् | इन्द्रं पीताभवज्रं च वह्निं रक्तं सशक्तिकम् || ९६ || यमं कृष्णं च दंडं च धूम्रं नैरृत्यखड्गकम् | वरुणं पाशशुभ्रास्य वायुः श्यामांकुशध्वजम् || ९७ || कुवेरं कुंकुमगदां शुभ्रमीशानशूलकम् | दिगष्टपतये ज्ञेयमासनं परिकीर्तितम् || ९८ || प्. ३७) शुक्लं कृतयुगं ज्ञेयं पीतं त्रेतायुगं स्मृतम् | द्वापरं चारुणं वर्णं श्यामं चैव कलि स्मृतम् || ९९ || ऋग्वेदं शुक्लवर्णं च यजुर्वेदं सुवर्णवत् | सामं रक्तमिति ख्यातं कृष्णाथर्वणमुच्यते || १०० || उपवेदस्तथा वर्णा नवमासनमुच्यते | सहस्रसूर्यज्वालाग्रमासनं परिकीर्तितम् || १०१ || पद्मोपरिस्थिता देवी नृत्यमाना सदोदिता | अथवा सुख चासीनं सर्वदेवाधियन्त्रिता || १०२ || सहस्रसूर्यप्रतिभां दुर्निराक्षा दुरासदाम् | सर्वदेवाश्रयी नित्या मालिनी जयमङ्गला || १०३ || मुक्तहू/कारजिह्वाग्रलालयन्तं विचिंतयेत् | प्रत्यालीढपदा वापि नृत्यमानापि च स्मरेत् || १०४ || सर्वमन्त्रमयी धीरा सर्वलक्ष्मी जयेस्विरा | एवं ध्याया महाकालीमभीन्न नवयौवना || १०५ || भासाक्रमस्य मध्यस्था चक्रेशी परमेश्वरी | पंचकाली प्रभेदास्तु विशेषं शृणु पार्वति || १०६ || नववक्त्रा महाकाली सप्तविंशतिलोचना | ऊर्ध्वं ज्योतिर्मयं वक्त्रं चण्डयोगेश्वरीभिधाम् || १०७ || चिद्रत्नवटिका मुद्रा मूल्यदेव्यास्तु एव सा | वक्त्रैकरत्नमुद्रां च विहीना पंचकालिका || १०८ || प्. ३८) वक्त्रं शस्त्रं भुजं मालामासनानि क्रमाणि च | भूषणादीनि वर्णानि यथा श्रीगुह्यकालिका || १०९ || सृष्टिस्थिती च संहार अनाख्यायां महेश्वरि | भाषाकाल्या तुल्यरूपा विशेषं स च तान् शृणु || ११० || विशेषिका विशेषेण तद्वक्ष्यामि क्रमेण तु | नीलजीमूतसंकाशा नववक्त्रा महेश्वरी || १११ || पूर्वोक्तध्यानराजे तु तुल्या चान्या महेश्वरी | बद्धपद्मासना देवी पीनोन्नतपयोधरा || ११२ || जिह्वाग्रेन वाम दंष्ट्रां दर्शयन्तीं त्रिभङ्गिकाम् | मदघूर्णितदीर्घाक्षी ध्यानलोचनतत्परा || ११३ || चिद्रत्नवतिकाह्यज्या वरदाभयपाणिनी | तर्जन्यग्रे स्थितं वज्रं मूर्तिं ज्वलनसप्रभाम् || ११४ || रश्मिद्वादशसंयुक्तामनाक्षेशीं स्मरेत्सदा | संहारचक्रमध्यस्थं निर्मांसा कोटरांबिकाम् || ११५ || प्रत्यालीढपदा देवी दन्तोष्ठपृष्ठपिडिंका | लेलिहाना ललज्जिह्वा मुक्तहूंकारराविणी || ११६ || वरदानं परीत्यक्षे वित्राणामजकेशरी | दशशक्तिसमायुक्तां विश्वसंहारकारिणी || ११७ || स्थितिक्रमस्य मध्यस्था ईषत्प्रहसितानना | खर्वा लम्बोदरी देवी राजलीनासनस्थिताम् || ११८ || प्. ३९) अजकृष्णो परित्यज्य ब्रह्मकंकालवल्लभाम् | वादयंती महाकाली स्थितिस्थां षोडशात्मिकाम् || ११९ || सृष्टिक्रमस्य मध्यस्थां अट्टहाससमन्विताम् | ऊर्ध्वा समयद चारुललिता तनुविग्रहा || १२० || विहाय ब्रह्मवीणाञ्च विभ्रती चन्द्रभास्करौ | योनिपंचकमध्यस्थां ध्यायेत्सृष्ट्यैकहेतवे || १२१ || अनाख्याचक्रमध्यस्था भासादेवी जगन्मयी | सर्वा कालीसृता देवी षोडशारे प्रतिष्ठिता || १२२ || चन्द्रसूर्योपरिभ्युज्या मञ्जीरद्वयधारिणी | जगद्भासयते भासाकाली विष्णुसमुद्भवा || १२३ || बाला कुमारी या काली सर्वा संसृतरूपिणी | त्रिमुखाष्टभुजा देवी कपालमालसंयुता || १२४ || पिबन्तु रुधिरं दिव्यं कृष्णवर्णा त्रिलोचनम् | पाशांकुशवज्रशूलं खट्वाङ्गं मुद्गरं तथा || १२५ || मृतबालमुंडहस्तं कपालं रक्तपूरितम् | एवं ध्यात्वा महादेवी नानाभोगफलप्रदा || १२६ || एतदेव हि भेदोयं पञ्चकारस्य कारणम् | ततः समस्तरूपाणि कालिकाक्रमोद्भवा || १२७ || विधिवत्पूजयेन्नित्यं विधिलोपं न कारयेत् | यथा गुरोपतिष्ठन्तु तदेव व्रतमाचरेत् || १२८ || प्. ४०) देवतामन्त्ररूपाणि गुरुरेव न संशयः | शिवे रुष्टे गुरु त्राता गुरु रुष्टे न कश्चन || १२९ || गुरुरेव सदा पूज्यो कालिकातुष्टिहेतवे | अन्धे तमसि संमग्न गुरुरेव परां गतिः || १३० || बन्धुपुत्रसहस्रेषु मातुः पितु शतेष्वपि | एतेभ्यो गौरवत्वाच्च गुरुरित्यभिधीयते || १३१ || ब्रह्महत्यादिपापानां निष्कृतिः समुदाहृतम् | गुरुद्रोहिकृतानां तु निष्कृतिर्नास्ति पार्वति || १३२ || गुरोश्च देवतायाश्च द्वैतभावं न कारयेत् | स्वात्मविक्रियतो वापि गुरुरेव प्रपूजयेत् || १३३ || गुरु तुष्टे जगत्तुष्टावित्याज्ञा परमेश्वरी | न माता न पिता पुत्र त्राता बन्धु सुहृन्नृप || १३४ ||| गुरोर्गुरुतरं देवि न कुर्यात्त्रिभि सर्वथा | यस्य प्रसादाज्जानीया त्रैलोक्यं सचराचरं || १३५ || न तोषितो गुरुर्येन तस्य स्यान्निष्फलक्रिया | यस्य वक्त्राद्विनिर्याता देवी शब्दमयी परा || १३६ || न गुरुं वंचयेच्छिष्यैः प्राणैः कण्ठगतैरपि | देवता मन्त्रसकलं लघिनं तेन भैरवः || १३७ || गुरुदैवतमन्त्राणि मनाग्भेदं न कारयेत् | भेदेन निरयं याति समूलं विनिहन्ति वै || १३८ || प्. ४१) गुरुं संतोषयेद्यत्नैः स्वप्राणेनापि श्रद्धया | द्वीपकस्यैव वेतालपरिगतिमवाप्नुयात् || १३९ || गुरु संतोषितो येन रक्षितं भुवनत्रयम् | नातः परतरं किञ्चिद्गुरुरत्यधिकं प्रिये || १४० || अशरीरा वर्णरूपा ब्रह्माण्डव्यापिनी शिवे | पिण्डदानादिसंस्कारं यथा पित्रोस्तथा गुरोः || १४१ || अकृत्वा नरं याति षष्ठिवर्षशताधिकम् | शरीरदा पिता देवि ज्ञानदा गुरुरेव च || १४२ || गुरोर्गुरुतरं नास्ति संसारे दुःखसागरे | यस्य वक्त्राद्विनिर्याता वर्णब्रह्ममयं वपुः || १४३ || तरयन्नात्र सन्देहो नरकावर्णवतो ध्रुवम् | अहोहं संप्रवक्ष्यामि सारं सर्वार्थकामदम् || १४४ || एकाक्षरी नवाक्षरीञ्च षोडशाक्षरि वारुणि | चतुःपंचाशवर्णं च शताक्षरी विशेषतः || १४५ || द्विशताक्षरी मन्त्रञ्च दशोना त्रिशताक्षरी | सहस्राक्षरि देवेशि प्राणभूतास्तु कालिका || १४६ || मन्त्रोद्धारं अम्बरं परमं वह्नि आपंच धरणी तथा | रावणी नाम सा विद्या मोक्षदा भुक्तिदा प्रिये || १४७ || एकाक्षरी परा विद्या भोगमोक्षप्रदा स्मृता | शिवशक्तीसमायोगो भवेदत्र च पार्वति || १४८ || प्. ४२) महाकुंडलिनीं देवी महारावणिपूजिता | वह्निं शिवाक्षरो नां च वरुणम् || १४९ || शिखी च मधुहा युक्ता काली प्राणमुदाहृतम् | ख्फ्रेंमात्मिका लिख्य महाचण्डमनालिखेत् || १५० || योगेश्वरीपदं दत्वा विद्येयं सा नवाक्षरी | षोडशाक्षरि या विद्या प्राणभूताश्च तां शृणु || १५१ || यस्योपदेशमात्रेण ब्रह्मभूयाय कल्पते | त्रिपदं तु समोद्धृत्य महारावं ततो लिखेत् || १५२ || निशामाधवसंयुक्तं ज्ञेयं त्रिदशवन्दिते | सत्यारूढे सास्वतश्च तुष्टिना कवलीकृतम् || १५३ || सत्यमत्या समारूढा सूक्ष्मेशकवलीकृता | ततश्चक्री जाठरं च नारायणसमन्वितम् || १५४ || माधवेन समायुक्तो वलानुज पुनर्लिखेत् | माया चंडी कूर्चरक्षा महाराव पुनर्लिखेत् || १५५ || नतिं नियोजयेद्देवि शिरमन्त्रं समुच्चरेत् | वर्णषोडशमाख्यातं मन्त्रंराजमुदाहृतम् || १५६ || पंचपिंडाग्रतो दत्वा महाशब्दशशी भवेत् | अनादि महामन्त्रं वर्णराजमुदाहृतम् || १५७ || शताक्षरं मन्त्रराजं तथा पंचशताक्षरम् | पंचाक्षरमादिमन्त्रं तथाष्टाक्षरमन्त्रकम् || १५८ || प्. ४३) दशोना त्रिशता विद्या महामन्त्र उदाहृतम् | द्विशतं तु महादेवी नवत्यधिकसुप्रभे || १५९ || शिवेष्टहेतो हि पुरा सहस्राक्षरमालिका | एकेभ्यरतरं देवि कुलाचारक्रमे विधिः || १६० || परंब्रह्मस्वरूपं तु नादबिन्दुकलात्मिका | सकलार्णवमध्यस्था सकलार्णवरूपिणी || १६१ || श्रीगुरोः कृपया देवी संप्रदायक्रमागतम् | लभ्यते यदि भाग्येन कोन्य धन्यतरो भुवि || १६२ || मनुष्यवपुराछन्ना सशिरो नात्र संशयः | वर्णितुं नैव शक्नोमि कालिकाया कुलक्रमम् || १६३ || वर्णषोडशकं विद्या राज्यदा प्राणदा स्मृता | महासौख्यप्रदा शांता सा काली प्राणदायिनी || १६४ || वैखरी यान्यभादत्वादशक्ता गुणवर्णने | ब्रह्मविद्यास्वरूपा सा भुक्तिमुक्तिफलप्रदा || १६५ || एकोच्चारेण देवेशि वाजपेयस्य कोटयः | अश्वमेधसहस्राणि प्रादन्यभुवनस्तथा || १६६ || प्रयागे स्नानजं पुण्यं मकरस्थे दिवाकरे | तस्य शतगुणं प्रोक्तं कालिका विधिनाचरेत् || १६७ || प्. ४४) चतुराश्रम्य यत्पुण्यं क्रमेण परिसेवितम् | यत् पुण्यं वर्णधर्मस्य तत् पुण्यं कालिकार्चनात् || १६८ || काश्यादितीर्थयात्रां च सार्द्धकोटित्रयान्वितम् | तुलनायाति देवेशि सत्यं सत्यं न संशयः || १६९ || लक्षजापेन देवेशि किं पुनः सिद्धिभाग्भवेत् | यस्या सामर्थतो देव्या भुवनानि चतुर्दशम् || १७० || अभवत्परमेशानि तेषां कारणरूपिणी | पुरश्चर्या कृता येन तेषां विद्या फलाङ्गमम् || १७१ || अकृत्वा तु पुरश्चर्या न मन्त्रो फलदो भवेत् | ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी || १७२ || निःसरन्ति महामन्त्रो विस्फुलिङ्गा यथा प्रिया | अग्रे सकाशाद्बहवो भेदा विद्या प्रकाशिता || १७३ || प्रणवा सर्वमुत्पन्ना परब्रह्ममयी तु सा | मायाहर्तारक्षिता च नान्या तु भवनेश्वरि || १७४ || नानाम्नायस्वरूपेण नानारूपेण मायया | मोहयन्ती जगत्सर्वं पुत्रपौत्रप्रवर्द्धिनीम् || १७५ || स्त्रीपुंभावेन सततं ग्रन्थितं कामसूत्रके | सर्वंत्र व्यापिनी चापि ब्रह्मस्थाननिवासिनी || १७६ || प्. ४५) सौभाग्यवन्धग्रहणा विश्वयोनीरितीरितः | चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी || १७७ || साक्षात्संविन्मयी देवीरूपिणी भोग्यदायिनी | महासंपत्प्रदा नित्या साक्षादक्षररूपिणी || १७८ || षोडशाक्षररूपेण विश्वं व्याप्य व्यवस्थिता | नवाक्षरी महाविद्या पंच चाष्टाक्षरी तथा || १७९ || एकाक्षरी दशार्णा च शतार्णा च सहस्रकम् | एतेषु मन्त्रवर्गेषु विश्वं व्याप्य व्यवस्थिता || १८० || चतुर्वेदेषु यत्सारं तदङ्गेषु च यत्स्मृतम् | पुराणे स्मृतिसारेषु यस्तु सारतमं महत् || १८१ || तत्सर्वेभ्योऽधिकं सारं सारात्सारतरं परम् | नवनीतं यथा दध्रासारोद्धृतघृतं भवेत् || १८२ || तदेवममृतं नाम देवानां प्राणधारणम् | तथा समस्तशास्त्रेषु वेदे तन्त्रेषु चाज्ञया || १८३ || उद्धृत्य सर्वसारेभ्यो ब्रह्मणे प्रतिपादिता | ब्रह्मणोपि वसिष्ठाय वसिष्ठो राघवाय च || १८४ || दत्तं सर्वात्मने तेन ततो मर्त्यावतारिता | अद्वैतादिविधा कृत्वा मुनिना ज्ञानदृष्टिना || १८५ || दर्शेनात्रि शताक्षर्या मन्त्रवीर्या प्रकाशिता | सौम्यसिद्धिकृतानेन देवी प्रत्यङ्गिराभिधा || १८६ || प्. ४६) नारदानुमतेनैव संज्ञा देव्या द्विधा कृता | निधाननिव चौरेभ्यो रक्षणीयो प्रयत्नतः || १८७ || न देया यस्य कस्यापि देया प्राणप्रदायिने | निर्मलाय प्रशान्ताय प्राणेभ्योपि प्रियाय च || १८८ || ज्ञाननिष्ठाय दातव्यं सारमेतन्महेश्वरि || १८९ || || इति श्रीमहाश्रोतशिरश्छेदे करवीरयोगे परातन्त्रे क्रमे द्वादशसाहस्रिकायां कालिक्रमनिर्णयसूत्रं सप्तम पटलः || ७ || अष्टमः पटलः श्री देव्युवाच नमो देवाधिदेवाय सर्वज्ञाय महात्मने | सृष्टिस्थित्यन्तकर्त्रे च सर्वव्यापि नमोस्तु ते || १ || जय देव जगन्नाथ किंचिन्प्रष्टुं मम प्रभो | मनो मे तरलं जातो भया वक्तुं न चात्महे || २ || प्रसीद परमेशान संशयं छेत्तुमर्हसि || ३ || श्रीसदाशिव उवाच मा शंकां कुरु देवेशि त्वदन्यो नास्ति मत्प्रिया | निःशङ्कं स्वेच्छया देवि पृच्छेयं हृदि वाञ्छितम् || ४ || यं यं त्वं संशयो देवि तं तं पृच्छ यथेच्छया || ५ || श्रीदेव्युवाच नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर | चिद्रूपिणी परादेवी कालिकात्वं गता यदा || ६ || कस्माद्द्वैधगता देव नारदानुमतेन च | सर्वागमविदः शूरः साधकानां वरो मुनिः || ७ || किं भेदं वै चकाराथ शिवष्टनारदो पुरा || ८ || प्. ४८) श्रीसदाशिव उवाच धन्यासि कृतकृत्यासि श्रोतुं जानासि तत्वतः | एतत्सूक्ष्मानि भेदेन पुनः श्रोतुं मतिस्तव || ९ || जाता परमिका बुद्धि नमस्ते परमेश्वरि | सप्तादशाक्षरी विद्या विद्यायाः परमा कला || १० || खंडस्य खंडिनी खंडखंडखंडाण्डखण्डिनी | खंडचक्रगता काली विद्या सप्तदशाक्षरी || ११ || फणीरूपस्य कारस्य अकुला बिन्दुभक्षिणी | तृधारानुहता लक्ष्मी विद्या सप्तदशी स्मृता || १२ || अकुलाकुलमध्यस्था कलास्था अकला कला | अकला परमानन्दा सिद्धि सप्तदशाक्षरी || १३ || रावस्थं रावमध्यस्थं रावरावनियोजिता | रावलीरावला ज्ञेया महासप्तादशाक्षरी || १४ || कान्तगादिच्छान्तजातं महाहल्लोल हूंकृतम् | रावरालकलाक्रान्तं एताः सप्तदशी कला || १५ || अक्षराक्षरयोगेन कालि शब्देन यस्थिता | योगेश्वरीपदं नास्ति विद्या सप्तदशाक्षरी || १६ || हहहाहहललीनी विलीनी हहने हसा | हाना दानापदैर्लीना विद्या सप्तदशाक्षरी || १७ || एवं सप्तदशं वर्णं वर्णीयं परमेश्वरी | क्रमसर्वातुरं तीव्रं निर्गुणं परमेश्वरीम् || १८ || प्. ४९) शतद्वयं तु वर्णेन नवत्यधिककीर्तितम् | त्रिगुणै रहिता विद्या त्रिखण्डा परिकीर्तिताः || १९ || नवषोडशवर्णानां भेदो नात्र च विद्यते | अनया विद्यया देवी जन्ममृत्यु विहाय च || २० || नारदाद्या मुनिश्रेष्ठा योगिनः कपिलादयः | त्रिलोकविजयी भूत्वा स्वेच्छया विचरन्ति वै || २१ || अव्याहतगतिः प्राप्तत्रिकालज्ञो भवस्वता | शोणिताख्ये पुरे देवि हरिणं करविग्रहम् || २२ || नारदेन मुनीन्द्रेण कृष्णाय संप्रदत्तवान् | हरिणालंभनास्तेषु प्रयोज्य हरमोहितः || २३ || वासुदेवोपि पार्थाय रक्षार्थं प्रददौ पुरा | भृगोपभुक्तपुष्पेन्दु शिवयोग्यं यथा भवेत् || २४ || तद्वन्निरक्षरं वस्तु अक्षरैरपि संयुता | नोद्धारं लेखयेद्देवी साक्षाद्वर्णेश्वरी परा || २५ || शापो भवति वै नूनं मन्त्रहानि प्रजायते | विमुखा भवते काली पापानामाश्रयो भवेत् || २६ || कर्णे कर्णे तु देवेशि हृदिस्थ कुरु सर्वदा | गुरुवक्त्रादिनिष्क्रान्ता श्रोतमार्गे हृदि स्थिता || २७ || उदके लिखितं यद्वन्मन्त्रोद्धारं तथा भवेत् | भोगमोक्षप्रदां विद्यां पुस्तके नैव लेखयेत् || २८ || प्. ५०) सम्वत्सरकृतावासे ज्ञात्वा कर्म शुभाशुभम् | ततो मन्त्रोपदेष्टव्या यद्यात्मशुभमिच्छति || २९ || अपरीक्षितशिष्याय यस्तु मन्त्रं प्रयच्छति | निरये निरतं वासो भविष्यति सुदारुणे || ३० || तस्मात्सर्वप्रयत्नेन न प्रकाश्यं कदाचन | आस्तिकबुद्धि यस्यास्ति तस्मै देवी प्रसीदति || ३१ || शङ्का या जायते तानि शङ्काया दुःखभाजनम् | शङ्काया सिद्धिहानिः स्यान्निर्विकल्पं समाश्रयेत् || ३२ || कर्तव्यं चाप्यकर्तव्यं नैव तत्र विचारयेत् | मयापि वुष्णुना सार्द्धं ब्रह्मणा मुनिभिः सह || ३३ || एकपात्रं गृहीत्वा तु निर्विकल्पं यथाश्रिता | देवगन्धर्वदैत्यादीन्रक्षपन्नगमानवाः || ३४ || सप्तधातुभिः संक्लिन्नैर्मलमूत्राश्रवावहैः | तेषां किं तद्विचारेण निर्विकल्पं समाचरेत् || ३५ || सूर्योदये किं तमसि तिष्ठन्ती भुवनादयः | तथा देव्याः प्रभावेण किमाचार विचारयेत् || ३६ || किं बहूक्तेन देवेशि गोपनीयं प्रयत्नतः | सर्वसिद्धिं महेशानि गोपनीयं प्रयत्नतः || ३७ || प्रकटे मृत्युमाप्नोति सिद्धिहानिश्च जायते | यस्मिन्मन्त्रे यदाचार तत्र धर्मस्तु तादृशः || ३८ || प्. ५१) कृतार्थस्तु न जायेत् स्वर्गं वा मोक्षमेव वा | नाधर्मो नैव पापादि जायते तत्मेव च || ३९ || किं च धर्मों महान्वापि पुण्यराशि प्रवर्द्धते | शक्तौ सर्वसमुत्पन्नं यत्किञ्चिज्जगतीगतम् || ४० || तस्माच्छुद्धमशुद्धं वा शक्तिब्रह्मस्वरूपकम् | सर्ववेदविदो विप्र सदाचारेण सुव्रत || ४१ || चाण्डालत्वे परे पापे ह्यात्मा सर्वत्र वेत्तते | आत्मा ब्रह्म विजानीहि भ्रान्तिज्ञानं परित्यजेत् || ४२ || ज्ञानमेव परं तत्वं तस्माज्ज्ञानं समाश्रय | ज्ञानमार्गेण सकलं विकल्पं परिवर्जयेत् || ४३ || सविकल्पो महादोष पापभाक् जायते ध्रुवम् | शिवशक्तीमयं देहं रजः शुक्रं प्रजायते || ४४ || परं ब्रह्मणि संलीनो परा वाच्या परेश्वरि | नीराज्यमधुमैरेयै द्रव्यभेदा भवन्ति हि || ४५ || सर्वज्ञत्व वरारोहे यज्ञदोषो न विद्यते | अश्वमेधमहायज्ञे वाजिहत्या कथं भवेत् || ४६ || जलं क्षीरं घृतं चैव मधुमैरेयमैक्षवम् | पौष्यं तरुभवं धान्यं संभवं तक्रनिर्मितम् || ४७ || सह---रभवं चैव विविधबहुभेदतः | अज्ञानैः संस्कृतं सद्यो महापातककृद्भवेत् || ४८ || प्. ५२) ब्रह्महत्या सुरापान स्वर्णस्तेयादिपातकात् | पूजनादेव निर्वर्त्य निर्विकल्प समन्त्रवित् || ४९ || जलं जलचरं सर्वं घटपूर्णं समानय | स्थापिते दिनसप्ताहे जलं जीवसमन्वितम् || ५० || अनामिषं नास्ति किंचित्सर्वक्षीरादिकं प्रिये | समवृक्षसमा वह्निस्तथा सुन्दरि तिष्ठति || ५१ || सर्वभूतेषु विज्ञानं ज्ञातव्यं देशिकोत्तमैः | काष्ठादिमथनाद्देवी प्रकटा ब्रह्मरुच्यते || ५२ || तत्काष्ठं दह्यते तेन तेन ब्रह्ममयं जगत् | धर्माधर्मपरित्यागात्सकलोपि परत्र च || ५३ || विगतस्त्रीरजं वापि ये चास्ति सकलं प्रिये | विचारयेत्स्वमूत्रादि भ्रान्तिरेव हि कारणम् || ५४ || अन्नं ब्रह्म विजानीयात्तेन यस्य समुद्भवम् | नानाजीवाश्रयं तत्तु पुरीषं केन दुष्यते || ५५ || गोमूत्रं प्राशनं देवि गोमयस्यापि भक्षणम् | प्रायश्चित्तेषु कथितं ब्रह्महत्यादिमोचने || ५६ || मलमूत्रेषु ये भ्रान्ति दोष एव न संशयः | स्त्रीरजः परमेशानि देहस्तेनैव जायते || ५७ || कल्पितं दूषितं तेन प्राप्यते परमं पदम् | पुरुषस्य तु बीजं तु विन्दुरित्यभिधीयते || ५८ || प्. ५३) बिन्दुस्तु परमेशानि कायोयं शिवरूपधृक् | शिवतत्वेन शास्थादिदूषणं नास्ति वै तदा || ५९ || सूतः पवित्रं देहस्य कारणं केन रायुद्यते | ज्ञानमार्गेण सकलं निर्विकल्पस्य सुन्दरि || ६० || विकल्पस्य महेशानि पापभाक् जायते नरः | मातृगर्भस्य वीर्यन्तु शिशुरेव न संशयः || ६१ || निर्विकारतया यस्परस्य नाकुत्सितो भवेत् | तत्तु दूषणसंयुक्तमन्यत्सर्वशुभं भवेत् || ६२ || ब्रह्मानन्दमयं ज्ञानं परं ब्रह्ममयो भवेत् | तं ज्ञात्वा परमेशानि कथयामि वरानने || ६३ || न ब्रह्मणस्तु न ब्रह्मं न क्षत्रं क्षत्रियस्तथा | वैश्यो न वैश्य शूद्रो न शूद्रस्तु परमेश्वरि || ६४ || विचारे परमेशानि पुष्केसौ नैव पुष्कलः | सर्वेषां तु विजानीहि परमात्मा विनिश्चयात् || ६५ || आकाशात्पतितं तोयं निम्नमार्गेन गच्छति | ग्राममध्यगतं सर्वं विष्टामूत्रादिषूदितम् || ६६ || मृतगोस्वाहिमार्जारखराभिरुधिरान्वितम् | समस्तमपि देवेशि गङ्गायां मिलितं यदा || ६७ || गङ्गामृतं तदेवास्ति कालुष्यं नैव तिष्ठति | मलमूत्रेषु ये दोषा भ्रम एव हि कारणम् || ६८ || पवित्रं स्त्रीरजः प्रोक्तं यतो देहे विनिःसृतम् | रुधिरादिप्रधानेन प्राप्यते परमं पदम् || ६९ || प्. ५४) पुरुषस्य तु यद्बीजं बिन्दुरित्यभिधीयते | सर्वस्य कारणं रेतो तं देह केन निन्द्यते || ७० || भगलिङ्गस्य संस्पर्शाद् गर्भादिनिःसृतः पुमान् | यदा तदा जन्मकाले को न स्याद् गुरुतल्पगः || ७१ || पुण्यपापविनिर्मुक्तं ज्ञानमेतच्छृणु प्रिये | ब्रह्माण्डकोटिजननी एकैवाहैस्वरूपिणी || ७२ || भुक्त्वा नानाविधैर्वाहं क्रीडार्थं सकलं जगत् | कुलालचक्रभेदेन घटाकाशं यथा घटे || ७३ || दृश्यते परमेशानि आकाशं व्याप्य तिष्ठति | घटे भवति भिन्नत्वेनाकाशे भिन्न भावयेत् || ७४ || यथा देहगतो जीवो धेहनाशे वरानने | व्याप्य तिष्ठति सर्वत्र तस्माद्ब्रह्मपदं महत् || ७५ || अत एव महेशानि निर्विकल्प सदा भवेत् | एवं संविन्मये ज्ञानं समता सर्वजन्तुषु || ७६ || सर्ववर्णेषु चाभावेत्समता नात्र संशयः | यथा सूर्यप्रकाशेन समत्वञ्च प्रवर्तते || ७७ || दत्तमथापि चान्यस्य तमः संहरते क्षणात् | शोषयेत्सर्वमूत्रादिचन्दनं नैव कर्दमम् || ७८ || अत एव महेशानि सन्ति सर्वमयो भवेत् | सिद्धिस्तु देवि विज्ञेय श्रीगुरोः कृपया प्रिये || ७९ || || इति श्रीपरातन्त्रे परमार्थनिर्णयोऽष्टमः पटलः || ८ || नवमः पटलः श्रीदेव्युवाच यथा संसाधये देव प्रयोगादीञ्जगत्पते | साधकः संविभागेन तथा कथय शङ्कर || १ || श्रीसदाशिव उवाच शृणु देवि प्रवक्ष्यामि यथा संसिद्धिसूचकम् | येन संसाधयेद्वीरो वीराचारकुलसन्ततेः || २ || अकृत्वा तु पुरश्चर्या प्रयोगं कर्तुमिच्छति | महापातककोटीनां भाजनं स भविष्यति || ३ || नातः परतरं देवि कुलमार्गस्य दूषकाः | तस्मात्सर्वव्ययेनापि प्राणान्तेनापि सर्वदा || ४ || कर्मणा मनसा वाचा पुरश्चरणमाचरेत् | वर्णलक्षजपेन्मन्त्री हविष्यासी जितेन्द्रियः || ५ || दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया | पूजयेद्विधिना देवी मपञ्चकपुरस्कृतः || ६ || साङ्गं सपरिवारं च तत्र न्यूनं न कारयेत् | दशांशं हवनं कुर्यात् विल्वपत्रैर्घृतप्लुतैः || ७ || छागमांसैस्त्रिमध्वक्तैर्देवीसन्तुष्टिहेतवे | तर्पयेत्सुधया देवी दशांशैर्हवनस्य वै || ८ || प्. ५६) तर्पणस्य दशांशेन मार्जनं समुदाहृतम् | तद्दशांशेन वै कुर्यात्कुमारीभोजनं महत् || ९ || कलौ चतुर्गुणं कुर्यात्पुरश्चर्यां तु साधकः | दीक्षां प्राप्य न कुर्याद्वै पुरश्चर्याविलंबनम् || १० || आयुश्चञ्चलतां ज्ञात्वा स्वात्मश्रेयस्तु चिन्तयेत् | दीक्षां प्राप्य पुरश्चर्यामकृत्वा म्रियते यदि || ११ || ब्रह्मभूता भवेन्नूनं शतवर्षमनाश्रये | तस्मात्सर्वात्मना देवि पुरश्चर्यां समाश्रयेत् || १२ || चन्द्रसूर्योपरागे वा पुरश्चरणं कारयेत् | स्पर्शान्मुक्तिं तु संजप्ये पुरश्चरणमुच्यते || १३ || दशांशं सर्वकर्माणि कारयेत्पूर्वयोदितम् | ततः प्रयोगकर्माणि शृणु वक्षामि सांप्रतम् || १४ || वीरदीक्षा न शक्तो य संपूज्य विधिवत्पुरा | श्मशाने शिवदक्षे वा गृहे वा वाहने स्थिता || १५ || दीपादित्रिविधैर्नित्यमभावत्पर्वणी पुनः | सत्यवाक्धैर्यसंपन्नः कामक्रोधविवर्जितः || १६ || शक्तीसहायसंयुक्तो वीरः सहायकोथवा | सहायद्रव्यहीनाथ भिक्षाशी च निशाशमे || १७ || सहस्रैक्यं जपेच्चादौ कायशुद्ध्यर्थहेतवे | देवी तुष्टा हुनेच्चैव यथापूर्व मयोदितम् || १८ || ततो लक्षजपेन्मन्त्री दिवा चाहारवर्जितम् | भुक्तोर्द्धभावनाऽशक्ते सन्ध्यायां भुक्तमेककाम् || १९ || प्. ५७) गायत्र्या तु जपेद्युग्मं न्यस्य चैव षडङ्गकम् | ततो रात्रौ जपं कुर्याद्यथाशक्त्या क्रमेण तु || २० || दशांशेन हुनेत्पश्चान्मन्त्रसंसिद्धिहेतवे | होमान्ते कन्यकापूजाकृतसिद्धि भवेद्ध्रुवम् || २१ || अथवा द्विगुणं जाप्य यावद्वै सप्तवासरम् | क्रूरादौ चाष्टमे सेकाद्धोमान्ते ग्रहशान्तिकम् || २२ || त्रिसंध्यं मध्यरात्रौ च एकद्वित्रिचतुर्दिनम् | वातादिशेकतो शान्तिहोमाद्रोग प्रमुच्यते || २३ || अष्टम्यां वा चतुर्दश्यां समारभ्य हरः शतं | दशांशहोमतः शेकान्महाशान्ति भवेत् स्फुटम् || २४ || जपेत्पञ्चशतं मन्त्री येच्छस्या त्रिशतं हुनेत् | होमान्ते शेकतः पश्ये पुष्टिं चैव समाप्नुयात् || २५ || त्रिशतं त्रिशतं हुत्वा जप्त्वा चैवाष्टमेहनि | होमान्ते सेकतो जप्त्वा पुष्टिमाप्नोति मानवः || २६ || जप्त्वा चैव तु साहस्रं हुनेत्पञ्चशतानि वै | नागाश्वगाष्टलोकानां पुष्टिमाप्नोति सेकतः || २७ || निर्गलाद्गलयत्राणि आत्मनो वा परस्यथ | त्रिसंध्यां वर्तनाद्वश्या त्रिसप्ताहान्प्रजायते || २८ || श्मशानशर्करा गृह्य मन्त्रैरष्टशतं जपेत् | यत्र यत्र क्षिपेद्गौरी निगदास्फोटनं भवेत् || २९ || भूतांकुशस्य दण्डेन त्रिधाभिमंत्रितान्दधान् | नावाशकटयन्त्राणि संभयेन्मोचयेश्लथात् || ३० || प्. ५८) दूर्वातन्तुविषक्षोभं दुःकुलं दुष्टजन्तुषु | वालुका सप्त जप्त्वा तु महामेघान्तु वारयेत् || ३१ || राजिका सप्त जप्त्वा तु ग्रस्तभूतादिभिर्नरः | ताडये हृदि मुद्रायां कृत्वा स त्यज्यते ध्रुवम् || ३२ || कृत्वा चातुर्थकाद्याश्च सप्त जप्त्वा------- नतु | अभ्यक्षणो निवर्तन्ते चित्रा गुग्गुलधूपतः || ३३ || लूर्तागर्दभविस्फोटव्याधयो विविधास्तथा | सप्त जप्तो दक्ष सेकात्पानाले यद्विनाशयेत् || ३४ || एकविंशतिवारैस्तु जलं चैवाभिमंत्रितम् | स्थावरं जङ्गमं वापि विषपानाद्विनाशयेत् || ३५ || पुष्पान्न सिद्धि सिद्धार्थं श्मशानस्य च भस्मकम् | सप्त मन्त्रा हनेच्छत्रुं स शत्रुं मोहनाय च || ३६ || महापात्रे धान्यपुञ्जे मद्यपूर्णघटेषु च | अक्षच्चं तद्भवेत्तस्य नित्यं पूजारतस्य च || ३७ || अर्थकोषे विल्वगतासौ लिख्य पतकं जपेत् | धनदेन समं द्रव्यं न कदाचिद्विनश्यति || ३८ || गजा शाले मुक्तदामे पूजयेन्पंकजान्पलैः | न कदाचिद्विनश्यन्ति गजा वृद्धिं प्रजायते || ३९ || कृत्वा च नवकोष्टामश्वस्थानकदम्बकैः | स पूज्याश्वा न नश्यन्ती वृद्धिमायान्ति शोभना || ४० || सितगुञ्जा च सर्त्पाखां धामव्याघ्रवराटिका | सप्त जप्त्वा मुखे धार्या अस्त्रभयो न जायते || ४१ || प्. ५९) वालानि सर्पखा मन्त्रा शतखेमातसंख्यया | कण्ठे वद्धा वृद्धि यान्ति आयुषा प्रज्ञया दृढ || ४२ || पुष्यार्के श्रीफलं पक्वं सहस्रार्द्धेन मन्त्रितम् | तज्जलैः संचिता नारी अपुत्रो सूयते सुतः || ४३ || अष्टोत्तरशतेनैव पुष्पमालाभिमन्त्रिता | यस्य संदीयते कण्ठे ये कयुद्धे जयी भवेत् || ४४ || अहोरात्रोषितो भूत्वा अनुदिग्यो जपेत्तु यः | स्वार्थं वाथ परार्थं वा अपमृत्युर्विनश्यति || ४५ || पुण्डरीकांशुनावत्स्याको गुह्यं दीप्तसंमुखे | वर्णजापात्सहस्रेण अञ्जनीयपश्यनिधिम् || ४६ || चतुःपथमृदं गृह्य गृहार्द्धे पञ्चविंशति | जप्त्वा संक्षेपयेन्निद्रां बंधो भवति दुर्भगा || ४७ || तिलतण्डुलसिद्धार्थं प्रत्येकं दशमन्त्रितम् | एकीकृत्य क्षिपेद्यस्तु पदं नाक्रमते रिपुः || ४८ || फल्वाणिवंशिकं पञ्चविंशाधिकशताभिधम् | भूतायां संक्षिपेद्यत्र तत्र रोगी भवेज्जनः || ४९ || लीरा चाक्षतसिद्धार्थसभस्मशतमन्त्रितम् | यत्र यत्र क्षिपेन्मन्त्री तत्रारोग्यं प्रवर्तते || ५० || कण्ठमात्रोदके स्थित्वा जपेत्पञ्चशतं यदि | वरुणेन तथा होम महावृष्टि भवेद्ध्रुवम् || ५१ || शतार्द्धन्तु जपेन्मन्त्री शतार्द्धं होमयेत्प्रिये | वशी कुर्यान्न सन्देहो सप्ताहेन शचीपतिम् || ५२ || प्. ६०) जप्त्वा पञ्चशतं मन्त्री शतार्द्धं होमयेत्पुनः | पुनः पञ्चशतं जप्त्वा सिद्धार्थं चाक्षतं तथा || ५३ || मस्तके कण्ठवाहौ वा धृता दीव्यस्य स्तंभनम् | अपामार्गशतं हुत्वा तत्क्षारं यस्य दीयते || ५४ || दुर्भगो जायते सत्यं प्रीतिनाशमवाप्नुयात् | सिद्धार्थगुग्गुल चैव एकीकृत्य शतत्रयम् || ५५ || होमान्ते च महाप्रीतिं विप्रीति सप्रजायतम् | हैमवीजशताष्टा च होमयेत्सप्तवासरम् || ५६ || उन्मत्तो जायते शीघ्रं वभ्रुलं वा घृतान्वितम् | सप्ताहा च निशारात्रौ जपेच्छ्रद्धासमन्वितः || ५७ || दिवा च ब्रह्मचर्येण रात्रौ कुर्याद्यथेच्छया | कर्पासास्तितुषातैलं युक्तं पञ्चशतं हुनेत् || ५८ || एकविंशदिने देवि शक्रस्यापि श्रियं हरेत् | गुरुशुक्रतृतीयायां पूजा कुंभे शतं जपेत् || ५९ || हुत्वा त्रिमधुरं सेकाद्भ्रष्टश्री लभते श्रियम् | विष्टनप्राकृतिं कृत्वा अंगुष्ठा मस्तकावधि || ६० || छित्वा पञ्चशतं हुत्वा स्वकुलं परिनेष्यति | सिन्दूरमक्षता युक्तं शताष्टपरिमन्त्रितम् || ६१ || कृत्वा कन्याकरे दत्वा आविष्टावेष्टकब्रुवेत् | राजिकाधूमजं क्षारं दशधा चाभिमन्त्रितम् || ६२ || प्. ६१) महारोगप्रशमनं स्नानमात्रेण निश्चितम् | तैलं वाथ घृतं वाथ अष्टधा वाभिमन्त्रितम् || ६३ || पानात्नाभिप्रदानाच्च प्रसूते सुखनिद्रया | शिरस्थाने घटं पूज्य अष्टोत्तरशतं जपेत् || ६४ || हिताहितेषु कार्येषु स्वपरै वादयन्भवेत् | हताम्बर समादाय कृष्णमावर्त्यलक्षकम् || ६५ || तथैवादृश्यकः सभ्यक्रीडते वसुधातले | पञ्चविंशतिसाहस्रं करे कृत्वा यवा जपेत् || ६६ || जपान्ते भक्षयेत्प्राज्ञो वागीश्वरसमो भवेत् | लाक्षार्द्धहोमयेद्वीरः कदम्बकुसुमैर्यदा || ६७ || कुण्डादुत्तिष्ठत शीघ्रं वेतालाः सिद्ध्यते तदा | काकिनी वीरहोमेन तुष्टा भूतपिशाचकाः || ६८ || लक्षार्द्धार्द्धेन होमेन नित्यं दद्यान्यलैककाम् | कन्याहस्तान्तरं गृह्ण लक्षार्द्धन्तु श्मशानके || ६९ || जप्त्वा भूतभविष्यञ्च वर्तमानभवन्पतिम् | नृगोलोचनकौ गृह्य सलाक्षाशतमन्त्रितम् || ७० || ललाटे तिलकं कृत्वा यो दध्येत्स वशो भवेत् | कुंकुमागुरुकर्पूररोचनानिसुमिश्रितैः || ७१ || शताभिर्मंत्रितं कृत्वा तिलकं यः करिष्यति | रणे राजकुले द्यूते विवादे स जयी भवेत् || ७२ || प्. ६२) सिद्धार्थकवराश्वेता प्रत्यूषे कलशोदरे | कृत्वा प्रातश्चतुर्दश्यां संपूज्य मधु संयुज्यते || ७३ || मुखे प्रक्षिप्य जप्त्वा तु परवादे जयो भवेत् | शीवश्रपुंखिकामूलं शताष्टपरिजपितम् || ७४ || शिरोवेष्टिक ये वद्धा परवादैर्निवारणम् | आचाराचारभेदेन तत्र देवि न विद्यते || ७५ || निराचारापि साचारा तस्य देव्याः प्रभावतः | विशेष किं बहूक्तेन सारमेतद्वदाम्यहम् || ७६ || नृचर्ममासनं कृत्वा नरपात्रे प्रपूजयेत् | यथा गुरुमुखोद्दिष्टनिर्विकल्पेन साधयेत् || ७७ || लाक्षारसनिभेनैव हेतुना परिपूरितम् | फलं दत्वा तत्र मध्ये पात्रे हेतुप्रपूरिते || ७८ || अष्टम्यां वा चतुर्दश्यां वा विशेषतः | शिवरात्र्यां तथा पूजा निशायां परिपूजयेत् || ७९ || यथा श्रीचक्रपूजां वै तथा सर्वं समाचरेत् | बिन्दुचक्रे त्रिकोणे तु महापात्रं तु थापयेत् || ८० || पञ्चकाल्यां तु पञ्चारे चरुकं पञ्च वै क्रमात् | नातः परतरं भद्रे कालिकाक्रमपूजने || ८१ || भोगी स्वर्गसुखं मोक्षं आज्ञासिद्धिं भवेद्ध्रुवम् | सत्यं सत्यं महादेवि सममेतद्ब्रवीम्यहम् || ८२ || प्. ६३) अन्यथा कुरुते यस्तु हेतुवादकुतर्कतः | परिश्रमं केवलं तु न संसिद्धिमवाप्नुयात् || ८३ || इत्येतत्ते समाख्यातं कालिकायाः कुलक्रमम् | विधानं परमं दिव्यं शास्त्रैः कालिक्रमागतैः || ८४ || गोपनीयं प्रयत्नेन न दद्याद्यस्य कस्यचित् | गुरुभक्तिरतो यो हि महाशास्त्रमयी तु सा || ८५ || रम्यं पुष्पफलं दृष्ट्वा वस्त्रालङ्कारमेव वा | स्वात्मप्रियानि भव्यानि यत्किंचिद्भुवि दुर्लभम् || ८६ || गुरवे प्रथमं दत्वा नतः स्वात्मनि धारयेत् | गुर्वागमक्रमारीणा पूजकाय प्रदापयेत् || ८७ || गुरु संतुष्टमाने तु सन्तुष्टा कालिकाक्रमम् | येनेदं लिख्यते शास्त्रं यस्य हस्तेषु तिष्ठते || ८८ || यत्र स्थितं प्रपूज्यन्ते विधिवत्परमेश्वरीम् | स निर्विघ्नं तु सण्मासं यावज्जीवति चैव हि || ८९ || पुस्तकं पूजितं येन इदं कालिकुलक्रमम् | समग्रं पूजितं तेन कालिका कालनाशिनी || ९० || आब्रह्मस्तम्बसकलं कालेन कलयेत्सदा | तं कालं कालिकादेवी कलयेत्सा युगे युगे || ९१ || न कालीसदृशो यज्ञो न कालीसदृशी तपः | न कालीसदृशी धर्मो न कालीसदृशी भुवि || ९२ || प्. ६४) जीवमुक्त स विज्ञेयो महापाशुपतः स वै | महायोगी विजानीहि कालिकापथसंश्रिता || ९३ || अहं मृत्युञ्जयो देवो मङ्गलाचर तो भवेत् | कलौ विशेषतः काली पूजितव्या प्रयत्नतः || ९४ || देवतासंयुतं विघ्नं वर्जितस्थानकं प्रिये | यो ज्ञाता भैरवो देव श्रोतो रुद्रसमः भवेत् || ९५ || स एकधा च बहुधा साधकानां हिताय च | नानातन्त्रप्रवाहास्तु नानाम्नायत्वमागताः || ९६ || तत्र भेदे नामभेदा एका शक्ती सहस्रधा | मङ्गला च महामाया चण्ड कापालिनी शिवा || ९७ || चामुण्डा चर्चिका चण्डा सृष्टिस्थित्यन्तकालिनी | अनाख्या च महाभाषा गुह्यकाली जया परा || ९८ || सिद्धिलक्ष्मी विश्वलक्ष्मी महाप्रत्यङ्गिरा स्मृता | सुन्दरी त्रिपुरा चारु उग्रचण्डा प्रकाशिनी || ९९ || विभिन्ना बहुधा जाता नानाभेदमाश्रिता | एका सा बहुरूपा च जानीयाद्दिव्यचक्षुषा || १०० || स एव साधकः श्रेष्ठः सिद्धिज्ञानस्य भाजनम् | स एव साधकाः श्रेष्ठः सिद्धि ज्ञानस्य भाजनम् | अनुष्ठानरतः सर्वं सिद्धिभागी भवेद्ध्रुवम् || १०१ || || इति श्री श्रोतशिरश्छेदे महाकरवीरयोगे परातन्त्रे नवमो पटलः || ९ || समाप्त ########### END OF FILE #######