#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00042 Uniform title: parātrīśikālaghuvṛtti Commentator : abhinavagupta Editor : śāstrī j z Description: E-text transcribed from the Kashmir Series of Texts and Studies Volume 68 . Notes: The e-text was transcribed by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski . Revision 0: April 13, 2007 Publisher : Research Departement Jammu and Kashmir State Publication year : 1947 Publication city : Shrinigar Publication country : India #################################################### परात्रीशिकालघुवृत्तिः | महामाहेश्वराचार्यवर्य श्रीमदभिनवगुप्तरचिता | यत्र तेजसि तेजांसि तमांसि च तमस्यलम् | तेजांसि च तमांस्येतद्वन्दे ज्योतिरनुत्तरम् || १ || सदागमप्रवाहेषु बहुधा व्याकृतं त्रिकम् | श्रीमदुत्पलदेवीयं तन्त्रसारं तु वर्ण्यते || २ || सदाभिनवगुप्तं यत्पुराणं च प्रसिद्धिमत् | हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् || ३ || तत्र स्वात्मदेवतैव प्रबुद्ध्यमानावस्थायां स्वात्मानं परामर्शोशेनावतरन्तं पृच्छतिं | तत उच्यते श्रीदेव्युवाच इति | किं पृच्छति ? तदाह अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् | येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ || हे स्वात्मरूप देव सर्वत्र ज्ञाने करणे च प्रथममभिमुखीभूत, तव तावदनुत्तरं रूपम् उत्तरम् उत्कृष्टमुपरिवर्ति, तच्च जडापेक्षया ग्राहकरूपम् | तस्य तु चिदात्मनः स्वप्रकाशस्य न ग्राहकान्तरमस्तीति अनुत्तरत्वम् | (प्. २) तेन अनुत्तरं संविद्रूपं सदा सर्वत्रावभासितं पूर्वापरदेशकालविहीनमनपह्नवनीयम्, किं तत्रोच्यताम् | इदं तु तत्रोच्यते तत्किल कथं केन प्रकारेण कौलिकस्य कुलसमूहस्य देहाक्षभुवनादेः अपूर्वरूपस्य स्वतः स्वतन्त्रतः सिद्धिं उभयेन्द्रियसंवेद्यतया अभिव्यक्तिं ददाति, दा दाने दोऽवखण्डने इति च धातुगत्या सृजति संहरति चेत्यर्थः | अनुत्तरं चिदेकरूपं सत् कथं नवनवेन अत एव पर्यनुयोज्येन वेद्यवेदनवेदकादिभेदेन भातीत्यर्थः | ननु किमेतेन | ज्ञातेनानेन प्रकारेण ज्ञातमात्रेण खेचरी बोधभूमिसंचारिणी सती इयं संविच्छक्तिः १समताम् अविकल्पत्वं पूर्णत्वमात्मनो व्रजेत् गच्छेज्जानीयात् | २तत्प्रकारापरिज्ञाने तु न खेचरी अबोधरूपे वेद्यांशे संचरणात् | तत एव वेद्यैः नीलादिभिर्नियन्त्रितेति न पूर्णशक्तिः | किंच धारणादिक्रमेण प्राणयोगादिकृताः सिद्धयः सन्ति अनुत्तरं संविन्मात्ररूपमक्रमं कथं कौलिकसिद्धिं सक्रमां ददाति येन ज्ञातमात्रेण देवीरूपत्वं व्रजेत् || १ || एतद् गुह्यं महागुह्यं कथय स्व मम प्रभो | हृदयस्था तु या शक्तिः कौलिनी कुलनायिका || २ || तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् | एतदप्रकटमतिशयेन महत् उत्कृष्टमगुह्यं स्वप्रकाशं यथा भवति तथा कृत्वा प्रभो ३आच्छादने स्वरूपस्य प्रकटने च प्रभवनशील हे स्व स्वात्मन् मम पृच्छन्त्याः संविदः ______________ १तत्समतामिति पाठान्तरम् | २तत्प्रकारेऽपरिज्ञाते तु इति पाठान्तरम् | ३निजस्वरूपस्याच्छादकप्रकटननोच्छादनैकरूप, प्रकटनेन च प्रमातृरूपत्वात्प्रभवनशीलेति पाठान्तरम् | (प्. ३) कथय विमर्शपदवीं १वाक्यप्रबन्धपर्यन्ततामानय | ननु ग्राहकरूपं सर्वस्य हृदये स्फुरति तत्र किं प्रश्नेन | २सत्यं, स्फुरितमपि न तत्त्वतो हृदयङ्गमीभूतम् | हृदयङ्गमीभावेन विना भातमप्यभातमेव रथ्यागमने तृणपर्णादिवत् | हृदयङ्गमतावगमनसाध्या हि तृप्तिर्जीवन्मुक्तता, तत्समावेशसाध्या हि तृप्तिर्विभूतिरूपेति द्विविधा तृप्तिः परामर्शेन विना न भवतीति युक्त एव प्रश्नः | तदेव दर्शयति हृदयस्था हृदये संविद्रूपे स्थिता या स्वातन्त्र्यलक्षणा शक्तिर्यस्याः कुलं ग्राह्यग्राहकग्रहणचक्रं निर्मेयत्वेन प्रयोजनं तत एव कौलिनी | तस्य निर्मितस्य कुलस्य नायिका सा अधिष्ठात्री, तद्वेदनेन तदवभासनकर्त्री च तत्स्वरूपसंहर्त्री च | तां मे कथय परामर्शपदवीं नय | येन परामृश्यतानयनेन तृप्तिं भुक्तिमुक्तिरूपां व्रजाम्यहमिति संवेदनरूपां कथयेति णिचौ | एवं प्रबुद्ध्यमानरूपा संवित् यदा प्रश्नं निर्भृतावभासमानपरमार्थस्वरूपं करोति तदा प्रबुद्धावस्थाप्रतिपत्तौ सैव पूर्णरूपा भैरवदेवतात्मिका प्रतिवचनदात्री संपद्यते | नच ३अत्र ऐदंप्राथमिकत्वं कदाचित् अपितु पुरातनमेव तत्परमावर्तमानं कालभेदकल्पनया भातीति भूतत्वेन व्यवह्रियते || २ || ५दिव्यरूपत्वेन प्रत्यक्षाभावात्परोक्षेण तदेतदुच्यते श्रीभैरव उवाच | शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् || ३ || कथयामि न सन्देहः सद्यः कौलिकसिद्धिदम् | __________________ १वाक्यजन्यपर्यन्ततामिति पाठान्तरम् | २सत्यं स्फुरतीति पाठान्तरम् | ३न चात्रेच्छां प्राथमिकीं काचिदित्यपि पाठः | ४वेद्यत्वेन चेत्यपि पाठः | (प्. ४) कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः || ४ || १महान् भागः प्रबुद्धत्वावस्थायामुज्जिगमिषालक्षणा यस्याः सा त्वमेवंभूता शृणु स्फुटमवधारय | २अहमुत्तरस्यापि ग्राहकस्यापि यदनुत्तरं रूपम् | अपिशब्दाद् ग्राह्यग्रहणादेरपि | कौलिकसिद्धिदं ३विश्वावभासनादिभोगापवर्गतृप्तिप्रयोजनं | तत्कथयामि तच्च हृदयङ्गमतां नयामि | यथा सद्य एव अवधारणमात्रे संपन्ने एव पुनरत्र सन्देहो न भवति | यस्मात् अयमिति भासमानो यः कौलिको विधिः स मम हृदयाकाशे हृदयत्वेन सदा विदितः सन् चिदात्मतया तावदास्ते | सदेव सौम्येदमग्र .... एकमेवाद्वितीयं .... तदैक्षत इत्यादिश्रुतेः || ४ || ततश्च अथाद्यास्तिथयः सर्वाः स्वरा बिन्द्ववसानकाः | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ || पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ || वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वे शादि विख्यातं पुरस्ताद् ब्रह्मपञ्चकम् || ७ || अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिरुदाहृता | सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि || ८ || ____________ १महानुभवैकप्रबुद्धेति पाठान्तरम् | २यतोऽहमुक्रस्येति पाठान्तरम् | ३विश्वावभासकादिभोगेति पाठान्तरम् | (प्. ५) इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा | इह पदार्थप्रकाशनमेव तावत् संवेदनं प्रसिद्धम्, पदार्थश्च ज्ञातृज्ञेयस्वभावः, तत्र ज्ञातृता नाम उन्मेषनिमेषलक्षणेन संकोचविकासात्मज्ञानक्रियालक्षणेन स्वभावेन स्वपरिस्पन्दनसारा नतु परिनिष्ठिता | परिच्छिन्नजडरूपघटादितुल्यस्य च संकोचविकासयोगः कथम् | त्रिकोणं हृदयस्पन्दनादिषु यथायथा स्फुटीभवति तथातथा ज्ञातृत्वमुत्कृष्यते | १या बहिरिव संविदि यथायथा न्यूनीभवति, तथातथा तन्निकृष्यते | यावज्जडपाषाणादौ स्वयं संकोचविकासलक्षणो विसर्गः स्वातन्त्र्यात्मा भगवतोऽनुत्तरस्य शक्तिः | तेन भैरवसंघट्टविश्रमणोदयपरमार्थशिवशक्तिस्वरूपं रुद्रयामलमुच्यते | संकोचविकासयोगे एव मध्ये अनुत्तरः, आनन्दः, इच्छा, ईशना, उन्मेषः, ऊनता, इच्छेशनयोरस्फुटस्फुटवेद्योल्लासः ऋ ॠ ऌ ॡ भवति, तयोरिच्छेशनयोरनुत्तरानन्वाभ्यां सन्धियमानत्वात् ए ऐ, उन्मेषोनतयोस्ताभ्यामेव तथाकृतत्वात् ओ औ इति भवति, तदनन्तरं वेद्यजातस्य वेदकात्मकबिन्दुस्वरूपसंस्कारशेषत्वभित्यनेन रूपेण परिपूर्णं२ भवति, इत्येवं पूर्णानन्दचिद्रूप३विसर्गशक्तिमयं परभैरवयामलम् | तत्र विसर्गरूपता सामान्याकारा विशेषेषु पञ्चदशस्विति पृथग् गणनार्हा न भवति | एवं कौलिको विधिर्मम तावद् हृदि संविद्रूपतादात्म्येनावस्थितः | अथानन्तर ४मिदंपरामर्शमहिम्ना प्रसरन्ति ये अकाराद्या बिन्दुपर्यन्ताः ____________________ १ज्ञातृतेत्यर्थः | २पूर्णो भवतित्यपि पाठः | ३विसर्गशक्तिमयपरभैरवेति पाठान्तरम् | ४इदमिति पदं नास्ति क. पुस्तके | (प्. ६) स्वराः, त एव परमानन्दरूपस्य स्थितिं पूरयन्तीति तिथय उक्ताः | एवं सा बोधचन्द्रस्य प्रकाशानन्दमयस्यानुत्तरस्य विमर्शशक्तिः पञ्चदशभिस्तिथिभिः पूर्यते | ते चैते सर्वे स्वराः शब्दनस्वरूपाः १परमार्थात्मानो जगदपेक्षया स्वयं राजन्तः स्वप्रकाशाः तेषामन्तः सोमसूर्यौ संकोचविकासौ तदात्मा तेषां तदन्तः तेषामन्तः बिन्दुद्वयात्मा विसर्ग इति यावत् | ततः सर्वेष्वेतेषु कालेन संकलनात्मना परामर्शनयोगः | ततो हेतोः | परामर्शो हि स्पन्दनात्मैव, नतु परिनिष्ठिताचलजडरूपः | बहिरपि च सोमसूर्यौ रात्रिदिवससंकोचविकासरूपेण तिथिपञ्चदशकस्य अन्तः २चरतः इति | इयं सा भगवती परामर्शशक्तिः | यश्च असाविच्छायामीशने च वेद्योल्लासः स एव पृथग्भवन् स्थूलतया भूतपञ्चकात्मा सूक्ष्मत्वेन च तन्मात्रपञ्चकात्मेति दश तत्त्वानि, पृथिवी जलं तेजोवायुराकाशः गन्धो रसो रूपं स्पर्शः शब्द इति | स एव वेद्योल्लासः करणतया सृज्यमानानीन्द्रियाणि तत्तत्क्रियाशक्तिप्रधानानि उपस्थपायुपादपाणिवागादीनि कर्मेन्द्रियाणि ३ज्ञानशक्तिप्रधानानि बुद्धिन्द्रियाणि घ्राणरसनाचक्षुस्त्वक्श्रोत्रमिति | ततो वेद्यतायाः क्रमेण संसारे वेदनाभसस्योल्लासे मनोऽहंकारः बुद्धिः प्रधानं पुरुसः | तथा पृथिव्यादीनि पुरुषान्तानि कादिषु मान्तष्विति | पुरुषस्य च ४संवेद्यरूपस्यैवोपरि मान्तस्य वेद्यराशौ गणनम् | तेन हि विना पृथिव्यादि वेद्यं कथं भवेत् | ५तेन वेद्याभासस्यैवेयद्रूपं यद्वेद्यराशेरेव अत्यक्तवेद्यभावस्य भिन्न - ____________ १परमार्थात्मनो इति पाठान्तरम् | २तिथिपञ्चदशकस्यान्तः चरन्तः इति पाठान्तरम् | ३ज्ञानशक्तिप्राधान्यानीति पाठान्तरम् | ४ संवेद्यरूपस्यैवोपरिमणस्येत्यपि पाठः | ५न वेद्याभासस्यैवेदं रूपमिति पाठान्तरम् | (प्. ७) वेद्यवेदकैकीकरणम् | तद्व्यावृत्तानि तत्त्वानि | कलाः वायुरूपा किंचित् कर्तृत्वेन प्रेरिका | अशुद्धविद्या तेजोरूपा किंचिज्ज्ञत्वेन प्रकाशिका च | माया सलिलरूपा अभिष्वङ्गरूपनिमज्जनात्मकस्तम्भनस्वभावा | इन्द्रोपलक्षिता पृथिवीरूपा रागशक्तिः | ता एताश्चतस्रः शक्तयः पुरुषं धारयन्ति मध्ये त्रिशङ्कुवद१विश्रमयन्ति, अन्यथा पाषाणादिवत् जडभुमिमेवापतेत्परमेश्वरवद्वा संविद्गगनमेवापतेत् | उभयथापि मायाप्रमातृताभावे वेद्यमपि न किंचिदिति, संकोचविकासावपि न कौचित्, संकोचेन विना २विकासस्याप्ययोगात् | तद्विसर्गरूपेण संकोचविकासात्मना इदं सर्वमाक्षिप्तं | यत् ३वेद्यसृष्टिः समुचि(दि)तवेदकसृष्टिश्चेति | आकाशशक्तया४ तु नात्र मायाप्रमातृताधाने प्रयोजनमस्ति | सा हि अन्तर्लीना पुरुषस्य ५वेद्यशून्यतया वेद्यावकाशसहिष्णुतया च ६प्रमातृत्वात् तदीया नित्या विमर्शशक्तिः | यदा तु वेद्यतायाः क्रमेण प्रछादनं संविद्रूपस्य च प्रथनं तत्र तावत् धृतिः, तद्रूपस्यैव आप्यायनं तत्प्रकाशयोगः | तत्रैव परमस्वातन्त्र्यलाभात्मकं स्पन्दनं सर्वत्र तेनैव रूपेण व्याप्तम् | इत्येतद् बृंहकं स्वरूपस्य पूरकं व्यापकं पञ्चकं शादीनां विद्येश्वरसदाशिवशक्तिशिवलक्षणं सूक्ष्मपृथिव्यप्तेजोवायवाकाशरूपं, सद्योजातवामदेवाघोरतत्पुरुषेशानरूपं ब्रह्मपञ्चकशब्देनाख्यातमिति | एवमसौ ७परापररूपा ८विसर्गशक्तिः | तथाभूतञ्च ९पञ्चकरूपं पुनरप्यनुत्तरविश्रान्तम् | तदेवं १०विसर्गशक्तिरेव अथाद्या ______________________ १विश्रामयन्तीति पाठान्तरम् | २विकासस्याप्यभावादिति पाठान्तरम् | ३वेद्यसृष्टिश्चेति इति पाठान्तरम् | ४आकाशशक्त्यात्मेति पाठान्तरम् | ५वेद्यत्वेति पाठान्तरम् | ६प्रमातृरूपत्वादिति पाठान्तरम् | ७श्रीपरापररूपेति पाठान्तरम् | ८विमर्शशक्तिः इति पाठान्तरम् | ९भूतपञ्चकरूपमिति पाठान्तरम् | १०तथैव विमर्शशक्तिमयमित्यपि पाठः | (प्. ८) इत्यादिना ब्रह्मपञ्चकम् इत्यन्तेनैव वपुषा विकसतीति | तदिदं शक्तिचक्रमविच्छिन्नप्रबन्धं भगवतो भैरवनाथस्य | अनुत्तरेच्छोन्मेषत्रिकोण१विसर्गशक्तयः एव हि पञ्चभेदवत्य२श्चिदानन्देच्छाज्ञानक्रियाशक्तयो वाच्यभूतपञ्चकशक्तिमययः इति | ततश्च सर्वमेतदविभागपरामर्शरूपं प्रथमतः ततो विभागपरामर्शात्मना पञ्चाशद्विमर्शरूपं परामृश्यरूपेण तु ३कर्मतां प्राप्तं बहिस्तत्त्वजालं जायते | तस्य परामर्शात्मतैव जीवितम् | सा च मातृकारूपा | अत एव सर्वेषां मन्त्राणां गुप्तार्थभाजां ४बीजपिण्डात्मनां चतुष्कलनवात्मादीनां पुरुषरूपवाच्याध्यवसितानाञ्च विद्यानां संवेद्यमानस्फुटार्थरूपाणां नमःशिवाय इत्यादिमालामन्त्राणां स्त्रीरुपवाच्याध्यवसितानां च सर्वेषामियं योनिः अविभागपरामर्शतारूपं कारणं | सर्वेषु शिवरुद्रादिरहस्यतन्त्रेषु यत्किंचिदुच्यते तत्सर्वं इत एवोदेति | ५यत्किल परावर६सिद्धिदं रूपं तत्सर्वं तत्त्वषट्त्रिंशत्यां७ लभ्यते | तस्याश्च परामृश्यं यज्जडरूपं शरीरस्थानीयं तस्य परामर्शता जीवितं, सा च अस्यां भगवत्यामिति इथमेव सर्वं ददाति | अत एवेह भगवत्याः प्रष्टुरूपत्वम् | अनयैव हृदयङ्गमतया यशस्विनि इति ८प्रसिद्धम् | इयता विश्वात्मरूपेण प्रसिद्धा जातेति यशस्विनीत्यामन्त्रणम् | एषा च सा त्रिविधा सृष्टिरकारमूला क्षकारपर्यन्ता अनुत्तररूपा ९प्रसूतिः पुनरपि शिवात्मन्येव१० विश्रान्तिद्वारेण ______________________ १विमर्शशक्तय इति पाठान्तरम् | २पंचभेदवत इति पाठान्तरम् | ३तूत्तरतां प्राप्तमिति पाठान्तरम् | ४बीजात्मगतानामिति पाठान्तरम् | ५यत्किंचिदिति पाठान्तरम् | ६परासिद्धिरूपमिति पाठान्तरम् | ७त्रिंशत्येतिपाठान्तरम् | ८प्रसिद्धमिति इति पाठान्तरम् | ९अनुत्तररूपात्प्रभृति इति पाठान्तरम् | १०शिवात्मन्येवानुत्तरधाम्नि इति पाठान्तरम् | (प्. ९) तत्रैवानुत्तरधाम्नि विश्रमणं यस्याः सा तथाभूता उदाहृता ज्ञेया सती | अनयाभिज्ञातया तदनुत्तरस्पन्दस्वरूपं सुष्ठु ज्ञातं भवतीति यत्किल तदनुत्तरमिति यावत् | एवं हृदयस्था पूर्वमविभागपरामर्शरूपा १शक्तिः विभागपरामर्शतां कौलिकसिद्धिरूपतामनेनैवानुत्तररूपस्वातंत्र्येण प्रतिपद्यते इति निर्णीतं शिवरुद्ररहस्यादितन्त्रेषु || ८ || नन्वविभागपरा२मर्शे पृथग्विभागपरामर्शमूलभूते हृदयस्वरूपे ३सति न निवृत्तः सन्देहः ? इत्याशङ्क्यादिशति चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् | तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः || ९ || चतुर्दशेन स्वरेण परिपूर्णानुत्तरानन्दशालिना संपूर्णक्रियाशक्तिशरीरोन्मेषोनत्वसंपदा क्रियाशक्तिद्वारान्त४र्लीनेच्छाज्ञानयुगलेन युतं सततं मिश्रीभूतं यदिदं तृतीयं ब्रह्मसदाशिवतत्त्वा५त्मकं ग्राह्यराशिविलक्षणं सद्रूपं विश्वं तत् तिथीशानां पञ्चदशानां स्वराणां ६योऽन्तः पर्यन्तस्थितिभूतो विसर्गः तस्मिन् सम्यक् अवियोगेन अन्वितं विश्रान्तं सत् भैरवात्मनो भगवतः शब्दराशेः विश्वशरीरस्य हृदयं सारभूतम् | यथा हि सर्वतत्त्वमयशरीरस्य विभक्तत्वगादिसन्तानतन्त्रितस्य७ तदविभागप्रकाशविमर्शविश्रान्तिधाम हृदयपदमुच्यते, तथैव भगवतो भैरवनाथस्य तदिदं विभक्ततत्त्वभुवनादिमयं विश्वरूपं परामर्शसारं पञ्चाशद्वर्णमयं शरीरं ___________________ १शक्तिः, सा विभागेति पाठान्तरम् | २परामर्शस्यत्येपि पाठः | ३सतीति पदं नास्ति क. पुस्तके | ४तदुक्तं [अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके | त्रिशूलत्वमतः प्राहशास्ता श्रीपूर्वशासने || तं लो. |] ५सदाशिवतत्त्वात्मकमघोरप्रकाशस्वरूपमस्फुटीभूतेदन्तात्मकग्राह्य राशिलक्षणमिति पाठान्तरम् | ६यतो निश्चय इति पाठान्तरम् | ७यंत्रितस्येति पाठान्तरम् | (प्. १०) तस्य तदविभागपरामर्शसारमिदं हृदयम् | भो भगवति सुश्रोणि! विश्रान्तपरमानन्दमयधामशक्तित्रयगतानवरतसङ्कोचविकासरूपत्रिको. नपरिस्पन्दनरूपमेतद् हृदयं भैरवात्मनो भैरवस्य आत्मभूतायास्तदविभागवत्याः श्रीपरादेव्याः १तत्त्वं भवति | अनुत्तररूपा संवित् तावत्, बीजात्मनो २प्रथमस्वरकोट्योः स्वरूपविश्रान्तिसतत्त्वयोः परिस्पन्देन तत्स्पन्दप्रभावादेव मध्यकोटौ विभक्तपरामर्शात्मना सृष्टिरूपेण समस्ततत्त्वम३यीति | अत एव वक्ष्यते सृष्टिं तु संपुटीकृत्य इति || ९ || एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् | हृदयं देवदेवस्य सद्यो योगविमोक्षदम् || १० || एतत् बीजं यो लभते स लाभकाल एव न पशुः, यतोऽस्मिन् लब्धे एतत् हृदयं ४जायते | एतदहृदयतैव भैरवत्वम् | ५ततो रुद्रयोगिनीयामलेन ६यावत् न जातं शक्तिस्वरूपोन्मीलनं तावद् एतद् हृदयं७ कथमस्योन्मीलति | अस्मिन्नुन्मीलिते सत्यऽनेन हृदयेन सहयोगः | एतद् हृदयलाभः श्रीभैरवयामलसमावेशलक्षणो जीवत एव विमोक्षद इति उन्मीलनमात्रे जीवन्मुक्ततालक्षणा परा कौलिकी सिद्धिरनुत्तरे संविन्मात्ररूपे यथा विधीयते, तथा दर्शितम् || १० || अधुना येन प्रकारेण अपरा अपि सिद्धयो विभूतिलक्षणाः संवित्परिस्पन्दपरामर्शबलात् प्राणनाडिकालवेलामन्त्रविद्याचर्यादिविडम्बननिरपेक्षात् भवन्ति, तं प्रकारमुपक्र- ______________ १एतत्तत्त्वं भवति क. पाठः | २स्पन्देन प्रथमेति पाठान्तरम् | ३मययैवेति पाठान्तरम् | ४ज्ञायते इति पाठान्तरम् | ५अथेति पाठान्तरम् | ६योजनत इति पाठान्तरम् | ७हृदयप्रकाशमुन्मीलनं मीलयतीति पाठान्तरम् | (प्. ११) मपूर्वं दर्शयति अस्योच्चारे कृते सम्यङ् मन्त्रमुद्रागणो महान् | सद्यः सन्मुखतामेति स्वदेहावेशलक्षणम् || ११ || मुहूर्तं स्मरते यस्तु चुम्बके नाभिमुद्रितः | स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः || १२ || अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि | प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् || १३ || साक्षात् पश्यत्यसन्दिग्धमाकृष्टं रुद्रशक्तिभिः | प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् || १४ || त्रयेण मातरः सर्वा योगेश्वर्यो महाबलाः | वीरा वीरेश्वराः सिद्धा बलवान् शाकिनीगणः || १५ || आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः | यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् || १६ || एतत् संवित्तत्त्वं हृदयतां चेत् प्रतिपन्नं तदा जीवन्मुक्ततेति उक्तम् | यदा तु १तदेव प्राणबुद्धिभूमिषु सिद्धरसविध्यमानधातुन्यायेन समावेशक्रमेणैतधृदयात्मकपरामर्शपात्रतापादनया प्राणबुद्ध्यादिजडिमन्यक्कारिण्या २प्रसरद्रूपमभ्यासदशां संपाद्यते, तदास्य स्वविमर्शावेशाभ्यासादेव नाडीप्राणजयादिशास्त्रान्तरीययोगनिरपेक्षा एव अपरा अपि सिद्धयो विभूतिरूपाः कौलिकस्य सिद्धयो जायन्ते इति तात्पर्यम् | अस्य बीजस्योच्चारे प्राणरूपतायां समावेशेन तावत्कृतमात्र एव ज्ञानक्रियाशक्तिशरीरा मन्त्रमुद्राः सद्य एव ________________ १परशरीरस्येति पाठान्तरम् | २प्रहरद्वयमिति पाठान्तरम् | (प्. १२) संमुखतामुच्चारयितुराभिमुख्यं प्रतिपद्यन्ते | कथम् स्वदेहावेशलक्षणं कृत्वा | तेन हि प्राणेन स्वदेहोऽप्याविश्यते | ततश्च संपूर्णज्ञानक्रियात्मक१हृदयरूपान्तर्लीनीकृतेन प्राणनाड्यधिष्ठितो देहोऽपि तधृदयरूपतासमाविष्टज्ञानक्रियात्मिकाभिर्मन्त्रमुद्राभिराविश्यते तावत्तावदुपक्रमो विभूतीनां मन्त्रमुद्रायत्तत्वादिति | अथ तथावेशो निरन्तरं यदि घटिकाद्वयमभ्यस्यति चुम्बके वक्त्रे समस्तबाह्यसद्रूपभावराशिनिष्ठचुम्बनात्मनि निगिरणप्रवृत्ते काकचञ्चुपुटाकारे सद्वृत्तिरूपसोमस्वभावपरमशीतलरसास्वादकारिणि सति नाभिमुद्रितं नाभिस्थानावधिं कृत्वा २पूर्णकुम्भकसमावेशाभ्यासेन, तदा मन्त्रमुद्रासमूहः देहे वाग्रूपे कालरूपे च ३परेशस्यैवाभिव्यज्यते बुद्धिरूपे च प्रत्यगात्मनि प्रकाशते, ज्ञानक्रियावेशाद्यथा ४प्रश्ने कृते झटिति प्रतिभासते, अतीतानागतवर्तमानं तत्सर्वमवितथमेव भवति | ५तथाभूततेजश्च सामान्याकारमन्त्रमुद्रावेशाभ्यासे दृढीभूते तमेवाभ्यासं निरन्तरं मध्ये विच्छेदशून्यमेकरसं सकृद्विभातं प्रहरपर्यन्त तां यदि नयति, यां कांचिन्मन्त्रदेवतां मुद्रादेवतां वा हृदये संधीयते, तदा ६तामेव रुद्रशक्तिभिर्निरन्तरसमावेशावष्टम्भनवीर्यरूपाभिराकृष्टा- मानीतां७ साक्षाद्रूपेण स्वशरीरतादात्म्येन प्रतिपन्नामाकृतितः८ पश्यति | ९तथा प्राप्तेऽपि यदि समावेशं न त्यजति तदा प्रहरद्वयं निरन्तरं समाविष्टो देह ______________________ १हृदयरूपस्यान्तर्लीनस्य कृते इति पाठान्तरम् | २पूरककुम्भकेति पाठान्तरम् | ३परवशस्येवेति पाठान्तरम् | ४प्रकटने कृते इत्यपि पाठः | ५तथा भूते चेति पाठान्तरम् | ६तमेवं रूपशक्तिभिः इति पाठान्तरम् | ७आसादितामिति पाठान्तरम् | ८आकृतितः कालतश्चेति पाठान्तरम् | ९तथा स्वीकारे प्राप्ते इत्यपि पाठः | (प्. १३) प्राणादिकं स्वकं न किंचित् पश्यति १निरावरणं चिद्रूपघनमेव सकलमवलोकयति | तथा एतस्मिन् सर्वदा यावदतिपरिक्षीणेन देहेन अन्यशरीरकल्पेन अविच्छेदे पुनरपि यदा समावेशाभ्यासं न परित्यजति, यदा प्रहरत्रयं निरन्तरं सकृद्विभातविभेदवन्ध्यस्वरूपे समावेशशालिनि तिष्ठति, तदा मातरो ब्राह्म्यादिकाः, योगेश्वर्यश्च तच्चक्राभ्याससिद्धाः वीराश्च अघोरादयः, वीरेश्वराः नवात्मदेवताप्रभृतयः समुन्मीलयन्ति | तच्चक्राभ्यास२जातविभूतयश्च सिद्धा जायन्ते | एते महता भैरवबलेन युक्ताः | यश्च शाकिनीनां शक्तीनां खेचर्यादिभेदभिन्नानां संबन्धी गणो वर्गः भैरवबलेन बलवान् | एते सर्वे परमां सिद्धिं धरण्यादिशिवान्ताध्वविषयां अनेनैव देहेन ३स्वतन्त्रतां ददति | यतः एते सर्वे ४मातृप्रभृतयो देवताविशेषाः समयं दत्त्वेति मर्यादापूर्वकं भैरवेण भगवता स्वरूपाविभेदेन स्वरूपावभासनेन भैरवचक्रानुजीवितत्वेन प्रकर्षेण ५चोदिताः | सर्वे एते देवताचक्रेश्वरा६स्तदाविष्टप्राणा ७भैरवभूता एव, अतस्तदनुगामिन्यो भवन्ति | तदुक्तं आगत्येति | विशिष्टं किञ्चिदेकतमं उत्तममध्यमाधमफलराशिमध्यात् खड्गगोरोचनोद्दिष्टपातालादिफलं हृदयेऽभिसंहितं भवति, तदा तदपि प्रयच्छन्ति || १६ || यथा अन्येषां प्राणनाडिजयप्रभृतीनां योगानां विशिष्टचर्यासामग्र्यादिबाह्यापेक्षावशात् कालवेलादिसंकोचः ___________________________ १निरावरणेति पाठान्तरम् | २वीरेश्वरा नवात्मदेवताप्रभृतयः तच्च क्राभासेति अधिकः | ३स्वातंत्र्यमिति पाठान्तरम् | ४मात्रा इति पाठान्तरम् | ५भावितेति पाठान्तरम् | ६तदाविष्टप्राणादिश्चेति पाठः | ७भैरवभूत एवेति पाठान्तरम् | (प्. १४) यथोक्तं कुलबीजकमस्यान्तर्भोगः कौलं कृषादिषु | इति | तथा अत्र न कश्चिदवच्छद इति समादिशति अनेन सिद्धः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ || अयं त्रिष्वपि कालेषु अविशिष्ट इत्यर्थः || १७ || ननु किं तत् साधयन्ति१ अनेनेत्याह यत्किंचिद्भैरवे तन्त्रे सर्वमस्मात् प्रसिद्ध्यति | मन्त्रवीर्यसमावेशप्रभावान्न नियन्त्रणा* || १८ || यदन्यशास्त्रेषु किचित्साध्यमुक्तं तत्सर्वमनेनैव सिद्ध्यतीति का अ२त्रासाध्यगणनेति यावत् | ननु केन विधानेनायं मन्त्रो ग्राह्य इत्याशङ्क्योत्तरमाह् अस्मिन्नये न कदाचिन्नियन्त्रणा | एत३त्प्राप्तिमात्रमेव साध्यं, नत्वत्र विद्याव्रतादि किंचित्सहकारिभावेनोपयोगि केवलं परिक्षीणशङ्कातङ्कत्वमत्र उपयोगि शङ्कायाः सन्देहविप्रतिपत्तिसारतया एकरसतद्विमर्शात्मकसमावेशविघ्नभूतत्वादिति स्फुटीक्रियते || १८ || अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः | स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः || १९ || अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः | शाकिनीकुलसामान्यो भवेद्योगं विनापि हि || २० || अविधिज्ञो विधानज्ञो जायते यजनं प्रति | आसतां तावदन्ये विधयः४, मण्डलदर्शनोपलक्षितमधिवासनादि हातृवधिपर्यन्तं मन्त्रार्पणविधिजातमपि न किञ्चि- __________________ १साधयत्यनेनेति पाठान्तरम् | २साध्यानामिति पाठान्तरम् | ३एतत्प्राप्तिरेव साध्येति पाठान्तरम् | *मन्त्रवीर्यसमावेशे न कदाचिन्नियन्त्रणा इति पाठान्तरम् | ४अन्यो विधिः इति पाठान्तरम् | (प्. १५) दत्रोपयोगी | एवमिति उक्तं वक्ष्यमाणं च यस्तत्त्वता निःशङ्कतया वेत्ति, स भुक्तिमुक्तिरूपसिद्धिभागी | स एव परमार्थतो योगेन समावेशलक्षणेन युक्तः | स एव सत्यतः शिवतादानभेदपाशक्षपणलक्षणां दीक्षां प्राप्तः | एतज्ज्ञानमात्रादेव सर्वशक्त्युपलक्षितोऽसौ संपूर्णस्वरूपो १ज्ञायते २सिद्धो भवतीत्यर्थः | ३एतत्समावेशाभ्यासाद्योगं विनापि* शाकिनीकुलेन देवताचक्रेण सामान्यस्तुल्यो भवति अनेन ज्ञातमात्रेण सर्वस्य वस्तुनः पूरणात् | यजने यत् विधानमितिकर्तव्यता, तामविद्वानपि विद्वानेव भवति पूर्णतत्फललाभात् | ४यस्तु लौकिकवैदिकशैववामदक्षिणकुलादिप्रसिद्धान्* ५विधीन्विधित्वेन न जानाति, स एव ६अत्र यजने विधिज्ञो जायते अनुत्तरविधिं यतो जानाति | अनुत्तरसंविन्मात्ररूपे सर्वमन्यत् बहिरङ्गं भवति || २० || ननु चतुर्दशयुतं इत्यनेन यत् बीजमुक्तं, तत् कथं विश्वाविभागिसंपूर्णशक्तिकस्वात्मरूपपरदेवतापरामर्श७मयं भवतीति निरूपयति कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् || २१ || _____________________ १जायते इत्यपि पाठः | २प्रसिद्धि इति पाठान्तरम् | ३यतः समावेशाभ्यासलक्षणं योगं इति पाठान्तरम् | ४यश्चेति पाठान्तरम् | ५विधित्वेन नियंत्रणात्वेनेति पाठान्तरम् | ६स एवात्र यजने इति पाठान्तरम् | ७रूपमित्यपि पाठः | *विनापि-इत्यनन्तरमयं पाठोऽधिको दृश्यते :- शाकिनीकुलं शक्तिचक्रेश्वरमेकं यास्यन्ति निश्चिन्वति | भगवत्यो देवतास्तासां माननीयः तच्चक्रेश्वरतायोग्यत्वलाभात् [योगबलाद्भवति] इति | *प्रसिद्धानित्यनन्तमयमधिकः पाठः शङ्कासङ्कोचकार्यकारणाभाववृत्तिविधीन् इति | (प्. १६) शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् | तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् || २२ || अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते | तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः || २३ || सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः | यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः || २४ || तथा हृदयबीजस्थं जगदेतच्चराचरम् | *यथा घटशरावप्रभृतिप्रपञ्चवर्जने मृण्मात्रमेव सत्यं, मृद्रूपतात्मकप्रपञ्चवर्जनेनापि गन्ध इत्येव सत्यं गन्धरूपताविशेषापरामर्शे अहमित्येव सत्यं, तथाभूतभेदभङ्गेऽपि सुखदुःखमोहरूपता सारम्, सुखादिवैचित्र्यकर्तने वेद्यवेदकमात्ररूपता, १पर्यन्ते वेद्यवेदकरूपभेदविगलने सदित्येव अवशिष्यते, तत्रापि वर्णत्रयपरामर्शविशीर्णताकरणे आद्यवर्ण२मात्रविश्रान्तिः, तथा जलतत्त्वादेरपि मायातत्त्वपर्यन्तस्य वेद्यरूपस्याशुद्धाध्वमध्यपातिनः सर्वस्यैवान्त्यविश्रान्तिकाले सर्वमेकघनममृतमात्मभूतम्, ३सैव ब्रह्मतापत्तिः ब्रह्मवादिनां विश्रान्तिः तन्निर्मथनप्रवृत्त्या ४तु भैरवोऽपि, विश्वसृष्टिकारी | गीतं च मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् | संभवः सर्वभूतानां ततो भवति भारत || (भ०गी० १४|३) इति | तस्यापि ५यदा ६सन्मात्रविश्रान्तिधाम्नः स्वरूपभेदवि _____________________ १पार्यन्तिकीति पाठान्तरम् | २वर्णमनुत्तरमात्रेत्यपि पाठः | ३सैवेति पदं नास्ति क. पाठः | ४अत्रेति पाठान्तरम् | ५यथेति पाठान्तरम् | ६संविन्मात्रेत्यपि पाठः | *गन्धरूपताविशेषः परामर्शतः घट इत्येव सत्यं तथाभूतं जगदेतच्चराचरमित्यधिको पाठो दृश्यते | (प्. १७) गलनेन रूपं परामृश्यते, तदा प्रकाशविमर्शनशक्तिरूपेऽनुप्रविष्टस्य तस्यावभासनमिति तच्छक्तिस्वरूपात्तदभिन्नं परमार्थत इति शक्तिस्वरूपमेवावशिष्यते इति | तच्च इच्छा वा क्रिया वा ज्ञानं वा यतः सर्वं वस्तु इच्छामि करोमि जानामि वा इत्येवंभूतविमर्शशक्तिविश्रान्त्या विना न जातुचिदवभाति | इच्छामीत्यत्र च शक्तित्रयानुवेधनमेवं जानामि करोमीत्यत्रावियुक्तत्वादास्ताम् | तेन शक्तित्रयात्मकस्वरूपविश्रान्तं तदवभासमानं भवति | तस्यापि शक्तित्रयस्य एकमेव १स्वतन्त्रं स्वरूपं स्वातंत्र्यादेव | अथ अध ऊर्द्ध्वग्रन्थिरूपं बिन्दुद्वयमयं संविदात्मकं परभैरवदेवतात्मकं तात्त्विकं वपुः | तदेतद्वेद्यवेदनवेदकविश्रान्तित्रयमयं २वर्णत्रयस्वरूपं तत्त्रयम् | तत्र यां विश्रान्तिं प्रधानीकरोति तदन्तमेवोच्चारणं ३त्रिधा संपद्यते | ४तत् त्रयोपभोगे भुक्तिमुक्तिरिति क्रमेण सिद्धयः ५यत्र तदेकघन६ एव एकः परामर्शो ७विश्रान्तिस्थानमक्रमं सर्वं सद्रूपमिच्छादिद्वारेण ८परभैरवे विसृज्यते क्षिप्यते, ८परभैरवे चाभेदेन ९तदिच्छादिद्वारेण वेद्यतया बहिर्विसृज्यते इति नैसर्गिकसद्रूपं वेद्यं भैरवात्मकवेदकस्वरूपमित्युभयस्प१०र्शनाच्छक्तिरूपतेति चातुर्दशी वेदकवेदनरूपावरोहेण वेद्याभिन्नसामान्यरूपता ब्राह्मी विश्रांतिः, - इत्येवंभूतविश्रांतित्रयमय११शान्तोदिततदुभयलक्षणत्रयैकरसताकारि परं विसर्गतत्त्वं संविद्भैरवनाथ एवेति तात्पर्यार्थः | योजना तु कालाग्निं ______________________ १स्वतन्त्रं रूपमिति पाठान्तरम् | २चरणत्रयेति पाठान्तरम् | ३इति त्रिधेति पाठान्तरम् | ४तत्र भोग उभयभुक्तिरिति पाठान्तरम् | ५यस्य तु | ६तदेकघट इति पाठान्तरम् | ७विश्रांतिस्थानक्रममित्यपि पाठः | ८परभैरवेच्छाभेदेनेत्यपि पाठः | ९तदिच्छेति पाठान्तरम् | १०विमर्शनादिति पाठः | ११शान्तादि इति पाठान्तरम् | (प्. १८) पृथ्वीतत्त्वं सप्रथमभुवनमादितः १कृत्वा मायातत्त्वपर्यन्तं २तृतीयब्रह्मणि ३विश्रान्तम् | विश्वेत्यादिक्रमेण यत् भैरवदेवताचक्रं परभैरवीयं शक्तित्रयरूपं शक्तिचक्रं, तदनन्तस्य विसर्गस्यान्तर्विद्यते | ४तस्य च यश्चोदकः प्राणेन विना सर्गचोदनानुपपत्तेश्चतुर्दशः प्राणरूपः, स एव शुद्धाध्वनि विद्यातत्त्वादिके ५शिवतत्त्वान्ते व्यापकः | यतोऽत्र स परमेश्वरो वेद्यभूतदेहादिसङ्कोचविगमात् सन्मात्रप्रमातृस्वभावत्वात् भिन्नस्य भिन्नाभिन्नस्य च सर्वस्य ज्ञाता कर्ता च | परमेश्वरो विद्येश्वरवर्गात्प्रभृति मायासङ्कटान्तः ६पातिताभावात्सर्वगः, पाशैरागन्तुकैर्वियोगान्निर्मलः, सहजाणवमल७वैकल्यासंभवात् स्वच्छः, क्रमेण वेद्यराशेरिदमित्येवंभूतस्याहमित्येवाच्छादनेन व्यतिरिक्तवेद्याकाङ्छावियोगात् तृप्तः, स्वायतनः स्वात्मन्येव यतमानः प्रबुद्धानन्दः तत एव भेदलक्षणाशुद्धितिरोधानात् शुचिः | एवं बोधक८स्वरूपमयत्वात् योऽणु९स्तच्चोदकविश्रांतिसमावेशाभ्यासनिष्ठः, सोऽचिरादेव तदन्तर्वर्तिशुद्धविद्यादिशिवान्ततत्त्वान्तर्गत१०शुद्धाध्वावस्थितमीश्व- रस्य संबन्धि ज्ञानं तदाक्षिप्तं च कर्तृत्वं विशुद्धं परापररूपमश्नुते प्राप्नोति | ११एतच्च विश्रान्तित्रयाभ्यासे १२तत्तत्फललाभोपलाक्षिततुरीयपरविश्रान्तौ सर्वमभेदैकरसेनास्ते | यथाहि १३न्यग्रोधधानायां महावृक्षस्तदात्मकस्वरूपशक्त्यभिन्न एव भवति, तथा हृदयात्मनि बीजे चरं शुद्धं, अचरमशुद्धं, चरञ्च प्रमातृ, अचरं ____________________ १छित्वेत्यपि पाठः | २तृतीयं ब्रह्मणोरूपे इति पाठान्तरम् | ३विश्रान्तं परं प्राणमित्यपि पाठः | ४तस्याग्रेऽयमधिको पाठः अतः (अन्तः) परो यदपेक्षयेति | ५शिवान्ते इति पाठान्तरम् | ६पतित्वाभावादिति पाठान्तरम् | ७वैकल्पसंभावनादन्यः इति च | ८चोदकस्येवंभूतरूपमयत्वादित्यपि पाठः | ९एतच्चोदकविश्रांतिः समावेशोऽभ्यासेति पाठान्तरम् | १०शुद्धाशुद्धेति च क. पाठः | ११एतद्विश्रांतिभासे इति पाठान्तरम् | १२तत्तत्फललाभोपलक्षणं चतुर्थ्यन्तपरमिति च पाठः | १३न्यग्रोधनामा इति पाठान्तरम् | (प्. १९) प्रमेयमिति सर्वं हृद्गतशक्ति१कलाया अविभागेनैव १मातीति || २४ || तदत्र सद्यो योगविमोक्षदम् इति यत् पूर्वं सूचितंपरभैरवसमावेशफलं, तदुपसंहारद्वारेण प्रकटयति एवं यो वेत्ति२ तत्त्वेन तस्य निर्वाणगामिनी || २५ || दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता | एवमिति उक्तप्रकारेण हृदयं ४तत्त्वेन निश्चयेन निःशङ्क तया यो वेत्ति तस्य ५दीक्षा तत्त्वेन ६परमार्थेन ७निर्वाणं फलत्वेन गम्यते यया सा असंदिग्धा स्वप्रत्ययेनैव एतद् हृदयस्वरूपलाभ८युक्ता भवति | भैरवदेवताभिर्हृदयान्तर्गताभिः स्वरूपनिमीलनात्मकप्रपञ्चस्पन्दपरिवर्जनेन स्वरूपोन्मीलनात्मकपरिस्पन्दप्रवणाभिर्दत्तमेतद् हृदयलक्षणं परं ज्ञानं ९क्षपितश्च संकोचात्मकमूलपाश इति जानात्येव | तेन १०दानक्षपणलक्षणां ११दीक्षां १२स्वप्रकाशं नयेत् | न अत्र तिलादीनामुपयोगः | एतावता जीवन्मुक्त्यात्मकपरमसिद्धिपरिनिष्ठितधियं१३ प्रति १४अन्यलाभादिकं न किंचिदुपयुज्यते इत्युक्तम् || २५ || अधुना तु समावेशाभ्यासोपयोगी पूजाविधिर्वक्तव्यो यतो वक्ष्यते कृतपूजाविधिः सम्यक् (३३ श्लो०) _______________________ १कलायाः इति च पाठः | २भवती पाठान्तरम् | ३वेदेति पाठान्तरम् | ४तत्त्वो इति पाठान्तरम् | ५दीक्षेति पदमन्यत्र नास्ति | ६परमार्थेन भवतीति पाठान्तरम् | ७निर्वाणफलत्वेन गच्छति यस्य सा असंदिग्धेति पाठान्तरम् | ८लाभो भवतीत्यपि पाठः | ९क्षपितसंकोचात्ममूलपाश इत्यपि पाठः | १०दानक्षपणलक्षणा इति च पाठः | ११दीक्षेति च पाठः | १२स्वप्रकाशं (स्वप्रतीति) इति पाठान्तराणि | १३हृदयमित्यपि पाठः | १४हृदयलाभेति पाठान्तरम् | (प्. २०) इति | तदत्र देहप्राणभुवि बुद्धिपदे च समावेशाभ्यास इति | तत्र हृदयमात्मसात्कर्तुं न्यासं दर्शयति मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च || २६ || न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् | एकैकेन दिशां बन्धं दशानामपि कारयेत् || २७ || तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये | शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः || २८ || पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थण्डिलञ्च वा | पुरा पूर्वं तालत्रयं १हृद्बीजकलात्रयविश्रान्तित्रयरूपं वैखरीशब्दपर्यन्तं स्वात्मनो दद्यात् | तत्स्वीकारकं स्वात्मानं विघ्नानां चतुरण्डगतभेदाभिमानसङ्कल्पानां शान्तये २बहिरन्तश्च पादपाणिहस्तमुखशब्दक्रमेण पातालभूम्यन्तरिक्षगतभेदविघ्नशमनाय कुर्यात् | एवं कृत्वा मूर्धादिस्थानतादात्म्यापत्तिभाजि हृदयस्थाने एव दण्डभङ्गिभाजि हृदयबीजेन पञ्चकृत्व उच्चारितेन जन्मचारप्रवाहलयविच्छित्तिलक्षणचिदानन्देच्छाज्ञानक्रियालक्षणस्पन्द- पञ्चकभाङ् न्यासं शरीरे कुर्यात् | शिखायाश्च तद्देहगतमूर्धादिपञ्चशक्तिकब्रह्मपञ्चकाविभागभूमिभाजः प्राणबुद्धिरूपायाः पञ्चकस्य प्रत्येकं पञ्चकभेदात्प्रथमचरमकोटिद्वयभेदस्पर्शाच्च सप्तविंशतिकृत्व उच्चारितेन हृदयबीजेन हृदयरूपताविश्रमणरूपं नियन्त्रणात्मकं बन्धं कुर्यात् | ततश्च ३स्थानबीजरूपहृदयमयीकर्तुं दश दिशः सकृत्सकृ४दुच्चार्यमाणेन हृदयबीजेन बध्नीयात् हृदयरूपानुत्तरपरामर्शशेषा एव कुर्यात् | एत्येवं कृत्वा पुष्पादिके _______________________ १हृदयबीजेति पाठान्तरम् | २बहिः स्वपाणिहस्तेति पाठान्तरम् | ३स्थानरूपीति पाठान्तरम् | ४उच्चारितेनेति पाठान्तरम् | (प्. २१) पूजोपकरणेऽपि अर्घ्यपात्रविश्रान्तपरमानन्दरसस्य सप्तविंशतिकृतोच्चारितेन हृदयबीजेन हृदयतादात्म्यं कृत्वा तद्रसाभ्युक्षणद्वारेण हृदयतादात्म्यं कुर्यात् | अनन्तरं पूजाधारस्य लिङ्गस्थण्डिलादेः | एवं सामान्येन भेदं विलाप्य १देहप्राणाधिष्ठितमपास्य तदुपास्ययागगृहेऽप्यपोह्य पूजोपकरणेषु पराकृत्य पूजाधारेऽपि निराकुर्यादिति तात्पर्यम् || २८ || एवं कृते सति पश्चात्तत्र २पूजाधारे बाह्याभ्यन्तरादि बहुभेदशतान्यतम३रूपे यथारुचि यथासंभवपरिगृहीते४ लिङ्गस्थण्डिलमण्डलादिके पूज्यपरिकल्पनापूर्वकं ५पूजास्वरूपमाह चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना || २९ || तत्र सृष्टिं यजेद् वीरः पुनरेवासनं ततः | सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमारभेत् || ३० || सर्वतत्त्वसुसंपूर्णा सर्वावयवशोभिताम् | यजेद् देवीं महाभागां सप्तविंशतिमन्त्रिताम् || ३१ || ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् | पूजयेत् परया भक्त्या स्वात्मानं च निवेदयेत् || ३२ || चतुर्दशेति जाग्रदादितुर्यावस्थान्तदशाचतुष्टयव्याप्तिशालि यदेतदौकारान्तं बीजस्य वपुः, तावत्यां व्याप्तावासनं कल्पनीयम् | तथाभूतौकारविश्रान्ता६ आदिक्षान्ता सृष्टिर्विसर्गशक्तिस्वीकृता उपरिवर्तिनी भावनीया | सर्वाभेदघनतु _________________ १देहप्राणादिष्विति पाठान्तरम् | २पूजाधारेष्वपीति क. पाठः | ३रूपेणेति पाठान्तरम् | ४परिगृहीतेति पाठान्तरम् | ५पूजास्वरूपावगमादिति पाठान्तरम् | ६विश्रान्ता इत्यनन्तरं सर्वैर्वा - इति पदमस्ति | (प्. २२) र्यातीतवृत्तिविश्रान्त्यां तस्यां यत् विश्रमणं विसर्गः, स एव यागः | तस्यामपि च तुर्यातीतवृत्तौ विसर्गकलायां स्वीकृतसकलसृष्टिकार्यायां तदेव जाग्रदादिदशाचतुष्कक्रोडीकारकमौकारान्तं रूपं प्रक्षिप्य यजेत् १यन्मध्यवर्तिविसर्ग उभयकोटि२गतसद्वृत्तिस्पर्शी, विसर्गा३त्मरूपामत एव सर्वतत्त्वमयीं सर्वैश्च अवयवायमानैर्भावराशिभिर्युक्तां महेशानस्य परभैरवस्य अभेदेन वर्तमानां श्रीपरादेवतामनुत्तरस्वरूपां स्वीकरोति | एतदुक्तं भवति | हृदयस्य मूलभागे ४सद्वृत्तिरूपे वेद्यांशे जाग्रत्स्वप्नसुषुप्तात्मकातिस्फुटस्फुटास्फुटास्फुटभेदत्रयशालिनि सर्वदा सन्मात्रप्रथमकलावपुषि विश्रम्यावृत्तौ अनुत्तररूपायां शक्तिशिवतत्त्वान्तं क्रमेण तुरीयपदपर्यन्तं विश्रान्तेन क्रमाभिन्नसमस्ततत्त्वस्वीकरणादासनव्याप्तिः प्रदर्शिता भवति | ततो विसर्गात्मिका षोडशी भैरवात्मिका कला यावत् सर्वोत्तीर्णा स्पृश्यते, तावत् तस्यां सर्वमभेदेन आस्ते इति समस्ताभेदरूपा सप्तदशी यासौ कला, सैव अनुत्तररूपा याज्या | तस्यां ५तथा प्रवर्तिता विश्रान्तिः | स एव परमार्थतो यागः | तद्रूपतासिद्ध्यर्थमेव तु सुगन्धिभिरयत्नत एव हृदयानुप्रवेशशालिभिः पुष्पैर्६हृदयान्तःस्वरूपसमर्पणादेव हृदयस्य पोषकैर्बाह्याभ्यन्तरैः सर्वैर्द्रव्यैर्यथाशक्तितया, अस्वीकृतशक्तिस्वरूपस्य सङ्कुचितवृत्तेर्यागं प्रत्ययोग्यत्वात् शक्त्या स्वरूपविकासरूपया तदुपयोगिन्यापि बाह्यया आनन्दिन्या स्नानविलेपनधूपताम्बू- _________________________ १येनेति पाठान्तरम् | २गतस्वरसद्वृत्ति-इति पाठान्तरम् | ३सर्वातीतरूपामित्यपि पाठः | ४सद्व्याप्तिरूपवेद्यांशे इति पाठान्तरम् | ५तथा इत्यनन्तरमयं पाठोऽधिको दृश्यते तथा पूरणा (पूर्णा) अत् एव सप्तविंशतिकृत्वः (कृत्व) प्रवर्तितेति | ६हृदयान्तेति पाठान्तरम् | (प्. २३) लासवादिसंभारसुभगया बाह्यद्रव्यशक्त्या सम्यगर्चयेत् | कथम्, परया भक्त्या परिमितस्य देहप्राणपुर्यष्टकादेरप्रधानताकरेणन तद्रूपतानिमज्जनात्मकप्रह्वीभावसंपादनपुरःसरेण तदुक्तरूपयाज्यदेवतात्मकपरसंविद्रूपप्रधानत्वापादनलक्षणेन भजनेन १श्रद्धातिशयेन समावेशदायिनेत्यर्थः | परा चासौ भक्तिः | पुष्पादेर्यागोपकरणस्य स्वात्महृदयहठानुप्रवेशसुन्दरो यो भागो रमणीयः परिमलः तेन पूर्यमाणमात्मानं सर्वाभेद२रूपवृत्तिनिश्चयात्मना नियमेन ३वेदयेत् | सप्तविंशतिकृत्वः४ उच्चारणावसरे तत् तत् पुष्पादिबाह्याभ्यन्तरभावराशि५संपूर्यमाणाभिन्नस्वरूपं श्रीपरादेवतामयमात्मानं यथा वेत्ति, तथा पुनःपुनरात्मस्वरूपं परामृशेदिति यावत् | एषा ६तावत्स्फुरणरूपा पूजा | ततश्च जठरीकृतसमस्तभोग्यस्वभावतत्त्वप्रसरस्य भोक्तुर्भगवतो भैरवस्य उद्दीपनात्मना होमेन तदन्तःकृतसंस्कारशेषभोग्यस्वभावविलापनदहन सामर्थ्यात् परामर्शः कर्तव्यो येन जीर्णन्यायेन संस्कारस्य बीजरूपतया ७सुषुप्त्यवस्थावत् पुनरुत्थानलक्षणसंस्कारात्मकमूलभेदप्रसवमहाव्याधिशङ्का शाम्यतीति || ३२ || अनेनाभिप्रायेण यजनमुपसंहरन् होमं सूचयति | एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः | तत्रापि तिलादीनां शिखासंख्याभिजप्तेन तोयेन अभ्युक्षणं स्रुक्स्रुवादीनां वह्नौ चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना इत्यादिसंपुटीकरणपर्यन्तं याज्यदेवतासमर्पणम् | ततस्ति- ____________________ १सद्य अतिशयेनेति पाठान्तरम् | २रूपां वृत्तिमिति पाठान्तरम् | ३नियमयेत् इति पाठान्तरम् | ४कृत्वोच्चारणावसरे इति पाठान्तरम् | ५संपूर्यमाणं निजस्वरूपमिति पाठान्तरम् | ६तावत्पूरणरूपेति पाठान्तरम् | ७सुषुप्त्यवस्थादृष्टान्तेन (सुषुप्तावृत्तान्तेनेति) पाठान्तरम् | (प्. २४) लाज्यादिहवनं संपूर्णरूपतया आत्मानं च निवेदयेत् इति व्याख्यातेन क्रमेण पूर्णाहुत्यार्पणमिति अग्निकार्यविधिः | एवं यागहोमोमय१मेलनात्मकं पूर्णं हि पूजायाः स्वरूपम् || इयता च स्वात्मरूपा श्रीभगवती परा देवी सम्यक् पूजिता भवति | यतोऽ२न्तर्मलस्य ३विगलनं ४ यावन्न जातं तावत् स्फुटसंविदात्मकत्वं पूरितं न भवति, ततो पूजैवेयमित्याभ्यन्तरसंकल्पनिवृत्त्या बाह्यद्रव्यसंहरणेनैतदाह कृतपूजाविधिः सम्यक् स्मरन् बीजं प्रसिद्ध्यति || ३३ || आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् | हृत्पद्मान्तर्गतं ध्यायेत् सोमांशुं नित्यमभ्यसेत् || ३४ || सम्यगिति उक्तप्रकारेण कृतपूजाविधिः, सम्यगिति च उक्तवक्ष्यमाणोपदेशदिशा बीजं स्मरन् परामृशन् सम्यक् प्रसिद्ध्यति परभैरवदेवतावदनेनैव देहेन समस्तविभूतिभाजनं भवति | अस्य हृदयपरामर्शस्याभिनवाभिनवरूपतया भासमानस्य पूर्वपूर्वतरादेः सम्यगनवभासमानत्वात् कालभेदयोगापहस्तनादवभासनीयस्य वस्तुनः सर्वथा ५आभ्यन्तरस्यैव सतः प्रकाशनात् स्मरणरूपसादृश्यात् स्मरणत्वेन व्यपदेशात् शतृप्रत्ययेन च भूताभिन्नं वर्तमानं दर्शयित्वा इदं सूचितं भवति | तथा अयं परामर्शः स्वीकर्तव्यः, यथा विच्छेदशून्यः सकृद्विभातस्वभावोऽकालकलितः संपद्यते | सम्यक्स्मरन्निति (यत्) उक्तं तत् सम्यक्त्वं यद्यपि पूर्वं दर्शितं ______________________ १मेलनात्मकादिपूर्णं हि इति पाठान्तरम् | २अन्तर्लीनस्येति क. पाठः | ३विगलितमिति क. पाठान्तरम् | ४यावत्स्वात्मरूपं नेति पाठान्तरम् | ५सर्वदाभ्यन्तरे रहस्य इवेति पाठान्तरम् | ६विभेदशून्य इति पाठान्तरम् | (प्. २५) कालाग्निमादितः कृत्वा ............................................. | (२१ श्लो) इत्यनेन विस्तृतग्रन्थेन तथापि स्फुटेन रूपेण निर्णीतं निरूपयति आद्यन्तरहितमिति | बीजं वाचकरूपं हृदयं तस्य वाच्यं सोमांशं सशक्तिकस्य भगवतो भैरवनाथस्य यामलं संघट्टप्रभापुञ्जस्तं वाच्यवाचकाभेदक्रमेण अभ्यसेदिति उपदेशः | सोमांशमिति पाठे तु परिपूर्णज्ञानचन्द्रात्मकं प्रकाशानन्दपरमार्थं | १तत एव ज्वलनगलनवृत्तिसारसंकोचविकासशक्तिप्रदर्शितविश्वोन्मेषनिमेषशत- संपादनाप्रतिहतसामर्थ्यमूलेन उत्तरोत्तरेण सकार औकार अःकारलक्षणेन भागत्रयेण आविष्टमनुत्तरं त्रिकोणात्मकं महाहृदयम् | तस्य च त्रयो भागा अंशाः | सोमश्च अंशश्चेति समाहारे द्वन्द्वः | तदेतत् चतुष्कमाभिमुख्येन स्वसंविद्रूपहृदयविश्रान्तं सत् बुद्धिप्राणदेहभूमिपर्यन्तस्वीकारात्मना समावेशपर्यन्तं क्षिपेत् तद्रूपपरामर्शप्रधानं विगलितजडभावं तदवष्टम्भैकसारं बुद्धिप्राणदेहेन्द्रियादिकं समस्तं कुलं तत्रैव तद्रूपप्रकाशनविकासवशात् प्रकाशकुलतामायान्तं कुर्यादिति विसर्गचतुष्कसमाएशोऽनेन दर्शितः | तत्र मुख्यमेव तावत् पूर्णहृदयस्वरूपमाह आद्यन्ताभ्यामुत्पत्तिविनाशाभ्यो रहितं यत् २विश्वस्य बीजं, तत एव बीजत्वात् विश्वात्मना विकसत् अनवरतं विकासं गच्छत् विश्वस्य कालरूपाणां तिथीनां मध्यगं सामान्यरूपतया अविभागपरामर्शरूपं स्वस्मिन्हृदये संविल्लक्षणे संकोचविकासलीलायोगात्कमलरूपेऽन्तर्गतं तां संविदं प्रविश्य सङ्कोचहठापसरणकारितया विकासयत् ध्यायेत् नित्यम् | अतश्च पूर्णभैरवतासिद्धिः | उत्थानापेक्षया पाठापेक्षया च | आद्यन्तौ स्वरव्यञ्जनरूपौ | तद्रहितं यत् बीजं ______________________ १तदेवेति पाठान्तरम् | २विहृह्येति पाठान्तरम् | (प्. २६) विसर्गात्मकं यतश्च अन्या पञ्चदश तिथयो विकसन्ति, तच्च सर्वतिथीनां१ मध्यगतम् | तत् हृदयपद्मे पूर्ववत् ध्यायेत् | *एतद्बीजापेक्षया आद्यन्ताभ्यां व्यञ्जनविसर्गाभ्यां रहितं त्रिशूलवृत्तिमात्ररूपं, विकसत् तिथिषु प्राणापानकलासु मध्यगतं तत्प्राणरूपसमावेशकारि तद्द्वारेण देहं समाविशत् बीजरूपेण हृदि ध्यायेत् | अवर्गे स्थिता वर्णाः | आदयः स्वराः, अन्त इति यः तदन्तः कालयोगेन इत्यत्र विसर्ग उक्तः, तेन स्वरविसर्गाभ्यां रहितमनच्कसद्वृत्तिरूपं बीजं तथैव २विकासिनीषु प्राणापानकलासु मध्यगतं देहे हृदि ध्यायेत् || ३४ || ३अत्र फलमाह यान्यान् कामयते कामांस्तान्ताञ्छीघ्रमवाप्नुयात् | अज्ञः प्रत्यक्षतामेति४ सर्वज्ञत्वं न संशयः || ३५ || एवं मन्त्रफलावाप्तिरित्येतद्रूद्रयामलम् | एतद्भ्यस्यतः सिद्धिः सर्वज्ञत्वमवाप्नुयात् || ३६ || एताश्च सिद्धय उक्ता एव, एषु कालाग्निमादितः ० इति अत्र शीघ्रमिति मुहूर्तं स्मरते यस्तु इति अस्मात् प्रत्यक्षतामेति सर्वज्ञत्वं इति च प्रहरत्रयमात्रेण सिद्धिरुक्ता | प्रहरचतुष्कविभेदेन समावेशे तु सर्वस्मिन्नेव प्रकाशमये दिनरूपतां गते शर्वरि सङ्कोचे क्षीणे अनेनैव देहेन भैरववत् सर्वज्ञो भवति | एतदुपसंहरति एवमिति एवं सर्वेषां ______________________ १बीजानामिति पाठान्तरम् | २विकसत्सु इति पाठान्तरम् | ३तत्र क. पाठः | ४यातीति पाठान्तरम् | ५मुहूर्तादीनामिति पाठान्तरम् | ६अग्नेः प्रत्यक्षतामिति पाठान्तरम् | *अयं पाठोऽधिको दृश्यते इह विशेषभोग्यस्वभावविलापनदहनपरामर्शः कर्तव्यः विसर्गांशसमावेशः | (प्. २७) मन्त्रफलानां २परापरसिद्धिरूपाणां यस्मादित एव अनुत्तरबीजादवाप्तिः, अतो हेतोरेतदेव सपादकोटिरुद्रयामलफलसंपादकत्वात् रुद्रयामलं शिवशक्त्योरत्र नित्यसंघट्टात् | अत एव एतद्भ्यस्यतः संक्षेपतः फलं सर्वज्ञत्वसर्वकर्तृत्वलक्षणभैरवरूपतालाभ इत्याह एतदभ्यस्यतः ........................................ इति | अभ्यासेन विनापि तु जीवन्मुक्तता परमा कौलिकीसिद्धिरिति शिवम् || ३६ || ************ यदालूनविशीर्णं सद्गोपितं तन्त्रभाषया | अत्राभिनवगुप्तेन भासितं तदनुत्तरम् || १ || एतद्विवेकनिष्ठास्तु मा भूत भ्रमभाजनम्४ | सच्छिष्याः प्राप्नुताद्यैव५ भैरवीभावसंपदम् || २ || संपूर्णानुत्तरानन्दयोगक्षेमादि६ जानताम् | त्रिलोकीकवलीकारसमावेशविशारदाः || ३ || यस्यां सदात्मना पूर्णमिच्छाज्ञानक्रियात्मना | विसृज्यते यतश्चैमां वन्देऽनुत्तरसंविदम् || ४ || ___________________ १मन्त्रकलानामिति पाठान्तरम् | २परापराणां कौलिकीसिद्धि इत्यपि पाठः | ३भाषितमित्यपि पाठः | ४भाजनाः इति पाठान्तरम् | ५प्राप्नुयादेव इत्यपि पाठः | ६भिजायतामिति पाठान्तरम् | (प्. २८) अभिनवरूपाशक्ति- स्तद्गुप्तो यो महेश्वरो देवः | तदुभययामलरूप- मभिनवगुप्तं शिवं वन्दे || ५ || *********** समाप्ता इयमनुत्तरतत्त्वविमर्शिनी परात्रीशिकालघुवृत्ति त्रिनयनचरणसरोरुहाचिन्तनलब्धप्रसिद्धिनाम- भिनवगुप्तपादानां कृतिरिति शिवम् || *********** ########### END OF FILE #######