#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M0409 Uniform title: parātriṃśikāvivaraṇa Secondary title: The Parātrimshikā with commentary. The latter by Abhinavagupta Commentator : abhinavagupta Description: K.S.T.S. volume 18 Notes: Data entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Revision 0: April 28, 2017 Publisher : Kashmir and Jammu Research Dept. Publication year : 1918 Publication city : Bombay Publication country : India #################################################### प्. १) ओं तत्सत्स्वप्रकाशानन्दवपुषे शिवाय नमः | अथ श्रीपरात्रिंशिकाग्रन्थः | श्रीमदभिनवगुप्ताचार्यकृततत्त्वविवेकाख्यव्याख्योपेतः | विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः | तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् [अभिनवसृष्टौ - शुद्धाध्वरूपायां महः - पारिपूर्ण्यलक्षणं तेजो यस्यां सा विमलकलाश्रया - परविमर्शसारा जननी शक्तिः तथा पञ्चमुखेति - पञ्चशक्तिपूरिताभिलाषः आकाङ्क्षणीयविरहात् भरिततनुः - पूर्णस्वभावो जनकः शिवः तदुभयेति - तत्सामरस्यात्मनः संघट्टात् स्फुरितभावः उल्लसितसत्ताको यो बहिरुल्लिलसिपास्वभावो विसर्गः स प्रकृतिः यत्र तादृशम् अनुत्तरामृतकुलं स्वातन्त्र्यरूपं मम हृदयं संस्फुरतात् इति - सर्वत्रात्र ह्यहं - शब्दो बोधमात्रैकगोचरः | इति मीमांसावाक्येन ममेति बोधस्य हृदयं सत्तादायि स्वातन्त्र्यलक्षणं जगदानन्दादिशब्दवाच्यं पारमार्थिकं वस्तु संस्फुरतात् - सम्यक् विकसतात् स्वातन्त्र्यरहितो हि बोधोऽबोध एव तेन यत् बोधस्य अबोधलक्षणं स्र्वातन्त्र्यराहित्यं तत् अपास्य बोधतया स्फुरतात् इत्यर्थः | अथ च अभिनवगुप्तस्य विमलाभिधाना जननी नरसिंहगुप्तो जनक इति प्रसिद्धिः | अस्य पद्मस्य व्याख्याविस्तरस्तु तन्त्रालोकविवेकेऽस्ति तत एव द्रष्टव्यम् |] || १ || प्. २) यस्यामन्तर्विश्वमेतद्विभाति बाह्याभासं भासमानं विसृष्टौ | क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां वन्दे देवीं स्वात्मसंवित्तिमेकाम् [यस्यामन्तरिति प्रतिबिम्बलक्षणोपेतत्वात् अतिरिक्तत्वेऽपि अनतिरिक्ततया इत्यर्थः | बाह्याभासमिति इदन्ताभासं विश्वं विभाति | क्षोभ इति इदन्ताभासलक्षणे क्षीणे सति स्वात्मसंवित्तिं-स्वस्मिन्नेव आत्मनैव संवित्तिः प्रकाशो यस्याः ताम् - इति अनुत्तरास्वरूपकथनम् | वन्दे समाविशामि |] || २ || नरशक्तिशिवात्मकं त्रिकं हृदये या विनिधाय भासयेत् [अन्तःस्थितमेव बहिः प्रकटयेदित्यर्थः |] | प्रणमामि परामनुत्तरां निजभासां [स्वीयशक्तीनाम् |] प्रतिभाचमत्कृतिम् || ३ || जयत्यनर्घमहिमा विपाशितपशुव्रजः | श्रीमानाद्यगुरुः शंभुः श्रीकण्ठः परमेश्वरः || ४ || प्. ३) निजशिष्यविबोधाय [अन्यशास्त्रनैरपेक्ष्यं विबोधो यथा स्यात्तदर्थम् |] प्रबुद्धस्मरणाय [अन्यशास्त्रेण ये प्रबुद्धास्तेषां स्मरणाय |] च | मयाभिनवगुप्तेन श्रमोऽयं [भ्रमः - शास्त्रलक्षणः |] क्रियते मनाक् || ५ || श्रीदेवी उवाच अनुत्तरं कथं देव सद्यः कौलिकसिद्धिदम् | येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || १ || परमेश्वरः पञ्चविधकृत्यमयः सततम् [सततं - सृष्टयादिनिर्भासेऽपि |] अनुग्रहमयया परारूपया शक्त्या आक्रान्तो वस्तुतोऽनुग्रहैकात्मैव नहि शक्तिः शिवात् भेदमामर्शयेत् | सा च शक्तिः लोकानुग्रहविमर्शमयी प्रथमतः परामर्शमयया पश्यन्त्या आसूत्रयिष्यमाणानन्तशक्तिशताविभिन्ना [बहिरनुद्भिन्ना इत्यर्थः |] प्. ४) प्रथमतरं परमहामन्त्रमययाम् अदेशकालकलितायां संविदि निरूढा तावत् पश्यन्त्युद्भविष्यदुक्तिप्रत्युक्त्यविभागेनैव वर्तते | सैव च सकलप्रमातृसंविदद्वयमयी सततमेव [सततमेवेति पश्यन्त्याद्याविर्भावेऽपि |] वर्तमानरूपा ततस्तु पश्यन्ती यद्यत् [यद्यत् - इष्यमाणादि वस्तुजतम् |] अभीप्सितं तत्तदेव समुचितकारणनियमप्रबोधितं [कारणम् - इच्छादि |] बोधसूत्रमात्रेण विमृशति यथा [पश्यन्ती हि सर्वस्य सामान्यभूरिति कथ. तत्रेच्छादिक्रमं इति आशङ्का तत्र स्फुटप्रतीत्यै दृष्टान्तमाह यथा इति |] अनेकभावाभावज्ञानसंस्कारसंस्कृताया मेचकधियः [नीलधियः |] स्मृतिबीजप्रबोधकौचित्यात् [सदृशादृष्टचिन्ताद्येकतमस्य स्मृतिबोधकस्य सत्वात् |] किंचिदेव स्मृतिर्विमृशति नहि प्रथमज्ञानकाले भेदोत्र [पश्यन्त्याम् इष्यमाणादिना भेदस्याप्रथनात् |] प्. ५) अस्फुरत् यत्र वाच्यवाचकविशेषयोः अभेदः मध्यमा पुनः तयोरेव वाच्यवाचकयोः भेदमादर्श्य सामानाधिकरण्येन [तादात्म्येन |] विमर्शव्यापारा वैखरी तु तदुभयभेदस्फुटतामययेव - इति तावत् व्यवस्थायां स्वसंवित्सिद्धायां [तत्र स्फुटभेदस्य स्वानुभवसिद्धत्वात् न प्रमाणगम्यमेतदिति भावः |] यैव परावाग्भूमिः सैव मायीयशब्दशक्तिपरमार्थस्वभावासांकेतिकाकृतकपारमार्थिकसंस्कारसार अ वक्ष्यमाणनयेन मन्त्रवीर्यभूतांशचोदिता तदुत्तरं पश्यन्त्यादिदशास्वपि वस्तुतो व्यवस्थिता तया विना पश्यन्त्यादिषु अप्रकाशतापत्त्या जडताप्रसङ्गात् | तत्र [तत्रेति प्रथमतरभुवि | इदम् इत्यादि-क्रमेण निर्विकल्प-सविकल्पदेशकालानां स्वरूपनिर्देशः |] च इदम् एवम् अत्र इदानीम् - इत्यादिभेदकलना न काचित् तत एव च परमहामन्त्रवीर्यविसृष्टिरूपाया [पश्यन्त्या इत्यर्थः |] आरभ्य वैखरीप्रसृतभावभेदप्रकाशपर्यन्तं यत् इयं [इयं परा वाग्भूमिः |] स्वचमत्कृतिमयी प्. ६) स्वात्मन्येव प्रकाशनमये विश्रम्य स्फुरति तदेवं स्फुरितमविच्छन्नतापरमार्थम् अहम् इति | तदेतत् अग्रे स्फुटीभविष्यति | तन्मध्य एव तु पश्यन्त्यां यत्र भेदांशस्यासूत्रणं यत्र च मध्यमायां भेदावभासः तत्र उभयत्र ज्ञानक्रियाशक्तिमये रूपे सदाशिवेश्वरसारे [शक्ति-शक्तिमतोरभेदोपचारात् ज्ञानशक्तिमान् सदाशिवः उद्गिक्तक्रियाशक्तिरीश्वर इति |] सैव अहम् इति चमत्कृतिः अन्तःकृतानन्तविश्वेदन्ताचमत्कृतिपूर्णवृत्तिः तत् पश्यन्तीमध्यमात्मिका स्वात्मानमेव [अनुद्भिन्नोद्भिन्नेदन्तालक्षणं स्वं रूपमित्यर्थः |] वस्तुतः परसंविदात्मकं विमृशति परैव च संवित् देवी इत्युच्यते | इयता पश्यन्त्यादिसृष्टिक्रमेण बाह्यनीलादिपर्यन्तेन स्वविमर्शानदात्मना क्रीडनेन [स्वेच्छया हर्षानुसारी स्पन्दः क्रीडा तात्पर्येणात्र सर्वमयसर्वोत्तीर्णस्वरूपकथनमेवाभिप्रायः |] प्. ७) सर्वोत्तीर्णत्वेन सर्वोत्कर्षावस्थितेः भगवतो भैरवस्य तथा [तथा-सर्वोत्कर्षेण |] स्थातुमिच्छया विजिगीषात्मना इयदनन्तज्ञानस्मृतिसंशयनिश्चयादिव्यवहारकरणेन सर्वत्र च भासमाने नीलादौ तन्नीलाद्यात्मभासनरूपेण द्योतनेन सर्वैरेव तदीयप्रकाशावेशैः तत्प्रवणैः स्तूयमानतया [यदुक्तम् स्तुत्याख्यं नास्ति वस्त्वन्यद्व्यापकात्परमेश्वरात् | सर्वोत्तिर्णादिरूपेण शिवोऽहमिति हि स्तुतिः || इति |] यथेच्छं च देशकालावच्छेदेन सर्वात्मतागमनेन [न चात्र देशकालावच्छेदेन सर्वात्मतागमनेन इति विरुद्धं शङ्क्यं यतो यो हि व्यापकः सोऽवश्यं सर्वदिक्षु सर्वकालेषु वर्तते न तु दिक्कालाद्यनवच्छेदेन सर्वात्मता | उक्तं हि श्रीसोमानन्दपादैः दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते | अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते || इति | दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये | स्वानुभूत्येकमानाय नमः शान्ताय तेजसे || इति तत्रभवद्भर्तृहरिपादैर्यत्सर्वात्मताया लक्षणं कृतं तदेतदनेन निराकृतम् |] अत एव मुख्यतो प्. ८) भैरवनाथस्यैव देवत्वमिष्यते तच्छक्तेरेव भगवत्या देवीरूपता | यदुक्तम् - दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु | तथा च एवं- विधमुख्यपारमैश्वर्यमयदेवत्वांशांशिकानुग्रहात् विष्णुविरिञ्च्यादिषु [यथा हि अन्यत्राचार्याभिनवगुप्तपादैर्निर्णीतम् एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे | तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते || ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयन् | स ब्रह्मा विष्णुरुद्राया वैष्णव्यादेरतः क्रमात् || इति |] देवताव्यवहारः | एवं भगवती पश्यन्ती मध्यमा च स्वात्मानमेव यदा विमृशति अहमेव परावाग्देवतामयी एवमवोचम् इति तदा तेन रूपेण उल्लसन्मायारम्भतया [इयं द्वयी हि इदन्ताभासलक्षणा अतो मायारम्भणम् इत्यर्थः |] स्वात्मापेक्षतया तन्मायीयभेदानुसारात् तामेव पराभुवं स्वात्ममयीं प्. ९) भूतत्वेन [सामान्यभूतकालत्वेन |] अभिमन्वाना भेदावभासप्राणनान्तर्बहिष्करणपथव्यतिवर्तिनीत्वात् परोक्षतया [अक्षेभ्यो यत् परं तत् परोक्षम् इति परोक्षलक्षणम् |] सूर्यादिसंचारायत्तदिनविभागकृताद्यतनानवच्छेदात् [ब्रह्मलोको हि मेरूर्ध्ववर्ती सूर्यस्तु अधोवर्ती इति कथं तत्राद्यतनत्वव्यवहारः सूर्यादिसंचारेण परिच्छिद्यते इत्यर्थः |] ब्रह्मणोऽनेककल्पसंमितमहः ततोऽपि विष्णुप्रभृतेः [तदूर्ध्ववर्तित्वात् |] अन्तश्च प्राणचारादौ [बाह्यदिने सशतषट्कैकविंशसहस्रप्राणचारास्तत्रैव षष्टयब्दोदय इति स्वयमूह्यम् |] प्राणीयशतसहस्रांशेऽपि अहर्व्यवहारः - इति अवस्थितं काल्पनिकं च अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथम् (?) इति न्यायात् भूतानद्यतनपरोक्षार्थपरिपूरणात् परोक्षोत्तमपुरुषक्रमेण विमृशेत् अहमेव सा परावाग्देवीरूपैव सर्ववाच्यवाचकाविभक्ततया एवमुवाच इति तात्पर्यम् प्. १०) सुप्तोऽहं किल विललाप इति एवमेव उपपत्तिः | तथाहि - ताम् अतीतामवस्थां न स्मरति प्रागवेद्यत्वात् इदानीं पुरुषान्तरकथितमाहात्म्यात् अतिविलापगानादिक्रियाजनितगद्गदिकादिदेहविक्रियावेशेन वा तदवस्थां चमत्कारात् प्रतिपद्यते नहि अप्रतिपत्तिमात्रमेव एतत् मत्तः सुप्तो वा अहं किल विललाप इति मदस्वप्नमूर्छादिषु हि वेद्यविशेषानवगमात् परोक्षत्वं परावस्थायां तु वेद्यविशेषस्य अभाव एव - इति केवलमत्र वेदकतादात्म्यप्रतिपत्त्या तुर्यरूपत्वात् मदादिषु तु मोहावेशप्राधान्यात् - इति इयान् विशेषः परोक्षता तु समानैव | एवं सर्व एव प्रमाता गुरुशिष्यादिपदे अन्यत्र वा व्यवहारे स्थितः सर्वकालमेव यत्किंचित् कुर्वाणः एनामेव संविदमनुप्रविश्य सर्वव्यवहारभाजनं भवति अतः तामेव वस्तुतो विमृशति देवी उवाच इति यावदुक्तं स्यात् अहमेव सततं सर्वमभेदेन प्. ११) विमृशामि पराभूमौ अन्यथा पश्यन्तीमध्यमाभूमिगं स्फुटमिदं प्रथनं न स्यात् तावदेव उक्तं भवति देवी उवाच इति | एवमेव पुरस्तात् भैरव उवाच इति मन्तव्यम् | तत्रापि हि स्वपरशक्त्यविभागमयो भैरवात्मैव अहमुवाच - इत्यर्थः | केवलं शक्तिप्रधानतया सृष्टिस्वभावाख्यामर्शे अहम् इति उचितो देवीपरामर्शः शक्तिमत्प्रधानतया संहारावेशविमर्शे मह-अ इति भैरवरूपचमत्कारः | स्फुटयिष्यते च एतत् | एतच्च [पूर्वोक्तं सर्वं संगृह्य आह एतच्चेति |] पश्यन्तीमध्यमाभुविज्ञानशक्तिमययामेव परस्या इच्छाशक्तिमययाः संविदो विमर्शनं तदेव च सर्वारम्भपर्यन्तशास्त्रप्रयोजनम् अत एव ज्ञानशक्तावेव सदाशिवमययां पूर्वोत्तरपदवाक्यक्रमोल्लासात् वास्तवपरमहामन्त्रवीर्यविमर्श एव दकार- एकार-वकार-यकार-उकार-वकार-आकार-चकार-भकार-ऐकार- प्. १२) रेफ-अकार-वकार-अकारादिपदवाक्ययोजना | उक्तं च स्वच्छन्दतन्त्रे गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं [गुरुशिष्यपदे इति शिवशक्तिलक्षणे | तन्त्रमिति विमर्शलक्षणं शास्त्रम् |] समवतारयत् || इति | एवं च अनुग्रहशक्तिः सततं सर्वप्रमातृषु अनस्तमितैव [संविदमेव अनुप्रविश्य व्यवहारभाजनं भवति इत्युक्तेः |] - इति सैष षडर्धसारशास्त्रैकप्राणः पर एव संबन्धः [यदुक्तम् शिवस्य परिपूर्णस्य परस्यामिततेजसः | तच्छ्रक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरः || सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः | अवान्तराच्च योगेन सादाख्यात् क्रमशः पुनः || प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः | तृतीयस्तु पुनर्देवि श्रीकण्ठे नन्दिना सह || द्वाभ्यां देवात्तु स त्वेवं तेन दिव्यः प्रकीर्तितः | ऋषीणां च समासेन नन्दिना प्रतिपादितम् || चतुर्थस्तद् भगवता दिव्यादिव्यः प्रकीर्तितः | व्याक्यानक्रमयोगेन विद्यापीठप्रपूजने || शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः | इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः || इति | अत्र च ऐकात्म्यस्यैव भेदगन्धस्यापि विगलनात् सर्वसर्वात्मतालक्षणपूर्णत्वात् पर एव संबन्ध इति |] | अत्र अनुत्तरे संबन्धान्तराणां प्. १३) महदन्तराल-दिव्यादिव्यादीनामुक्तोपदेशेन परैकमयत्वात् | तदुक्तं त्रिकहृदये नित्यं विसर्गपरमः स्वशक्तौ परमेश्वरः | अनुग्रहात्मा स्रष्टा च संहर्ता [विसर्गपरम इति तदेकलग्नः अहमिति स्रष्ट्टरूपः तद्वैपरीत्येन संहर्तृरूपः |] चानियन्त्रितः || इति | एवम् अमुना क्रमेण सदोदितता एवंपरमार्थमयत्वात् परमेश्वरस्य चित्तत्त्वस्य यदेव अविभागेन अन्तर्वस्तु स्फुरितं तदेव पश्यन्तीभुवि वर्ण-पद- वाक्यविबिभाजयिषया परामृष्टं मध्यमापदे च भेदेन स्थितं वस्तुपूर्वकं संनन्नं यावत् वैखर्यन्तम् अनुत्तरं कथम् इत्यादि भिन्नमायीय-वर्ण-पद- वाक्यरचनान्तम् | एतदेव तदनुपलक्ष्यं भैरववक्त्रं सृष्टिपरामर्शात्मकम् अनुत्तराहंभावसाराकाराकाररूपशिव-शक्तिसंघट्टसमापत्तिक्षोभात्मकं १४) त्रिकशास्त्रप्रसरबीजं ध्रुवपदं मौलिकं सर्वजीवतां जीवनैकरूपम् अत एव व्यवच्छेदाभावात् स्थाननिर्देशाद्ययोगात् [ननु च इत्थं हि परतन्त्रनीति - यत् आदौ कश्चित् भक्तोऽनुग्राह्यजनावेदनपूर्वकं देवीभैरवयोः स्थाननिर्देशं करोति यथा स्वच्छत्दादौ कैलासशिखरासीनमित्यादि इहापि तत् अत वचितमेव इति किं न कृतम् (?) अत एवाह व्यवच्छेदाभावादित्यादि | न च एतत् स्थानादिकथनं स्थूलपक्षे एव युज्यते नान्तारूपतायाम् इति मन्तव्यम् | कैलासेत्यादावप् इसूक्ष्मार्थस्यैव कथनीयत्वात् तथाहि - के मूर्धन्ये ब्रह्मविले एला स्फुरन्ती शक्तिः तस्याम् आसः आसनम् उपरिस्थितिः यस्य व्यापिनीसमनात्मनः शिखरस्य सर्वाध्वोपरिवर्तिनः पदस्य तत् कैलासशिखरं तत्र आसीनं तदुत्तीर्णं प्रकाशतत्वमिति ||] स्थानादिपूर्वकत्वं नोपपन्नम् | वस्तु च प्रश्नतदुत्तररूपं सततोदितमेव प्रथममविभागमयम् तेन एतावदेव अत्र तात्पर्यम् - स्वात्मा सर्वभावस्वभावः स्वयं प्रकाशमानः स्वात्मानमेव स्वात्माविभिन्नेन प्. १५) प्रश्नप्रतिवचनात् (नेन) प्रष्ट्टप्रतिवक्तृस्वात्ममयेन अहन्तया चमत्कुर्वन् विमृशति - इति अहमेव एवं-विचित्रचमत्कारेच्छुः तथा जानन्नेव तथैव भवामि - इति यावत् तावदेव देवी उवाच अनुत्तरं कथम् इत्यारभ्य भैरव उवाच शृणु देवि इति मध्यतो यावत् इत्येतद् रुद्रयामलम् इति | यद्वा सर्वाणि पञ्चस्रोतःप्रभृतीनि शास्त्राणि यावत् लौकिकोऽयं व्यवहारः स एष उक्तः परः संबन्धः | गोप्यमुपदेशसारं सद्यो भैरवपदावहं सततम् | अभिनवगुप्तेन मया-व्याख्यातं प्रश्नसर्वस्वम् || शिष्यहितपरतया तु इदमेव संगृह्य अभिदध्मः | सर्वेषु व्यवहारेषु ज्ञेयं कार्यं च यद्भवेत् | तत्परस्यां तुर्यभुवि गतभेदं विजृम्भते || भेदासूत्रणरूपायां पश्यन्त्यां क्रमभूजुषि | अन्तःस्फुटक्रमायोगे मध्यायां तद्विभेदभाक् || प्. १६) मध्या पश्यन्त्यथ परामध्यास्याभेदतो भृशम् परोक्षमिव तत्कालं विमृशेन्मत्तसुप्तवत् || जाहणकुणहजहिं शिहपहिल-उ-उशिअसब्वो विअलिअरो-ओविअम्व-इजाणिब्ज उका अब्वईणजो-अन्तिहि मज्जिअभेदस्फुरन्तु कामेण आसरिसेइणओअव इसोच्चिअरेच्चभेरेणमतु-उजिमणि अवत्थवहिअणुसंदेइखनेन || एवमेव एतदनुत्तरत्वं निर्वक्ष्यति - इति | तदुक्तं श्रीसोमानन्दपादैः पञ्चविधकृत्यतत्परभगवद्भैरवभट्टारकस्य प्रथमशाक्तस्पन्दसमनन्तरम् | इत्यादि निजविवृतौ | तद्ग्रन्थिनिर्दलनार्थ [अर्थस्य स्फुटानुक्तिः ग्रन्थिः तस्य निर्दलनं विवेकः |] एव अयमस्माकं तच्छासनपवित्रितानां यत्नः | उक्तः संबन्धः | अभिधेयं त्रीशिका इति तिसृणां शक्तीनाम् इच्छा-ज्ञान-क्रियाणां प्. १७) सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानाम् [सृष्टिस्थितिसंहारतिरोधानानुग्रहाः सृष्ट्यादयः तथा उद्योगादयः उदयावभासवर्वणकालग्रासस्वरूपविश्रान्तयः इत्यादिनामान्तरैर्निर्वक्तुमर्हाणाम् इति |] ईशिका ईश्वरी ईशना च ईशितव्याव्यतिरेकेणैव [कर्मांशानुप्रवेशयोगात् तदव्यतिरेकित्वम् |] भाविनी - इति एतच्छक्तिभेदत्रयोत्तीर्णा तच्छक्त्यविभागमयी संविद्भगवती भट्टारिका परा अभिधेयम् तद्योगादेव च इदमभिधानं त्रीशिकाख्यम् | त्रिंशका इत्यपि गुरवः पठन्ति अक्षरवादसाम्यात् व निरुक्तमाहुः - तिस्रः शक्तीः कायति - इति त्रिंशका न तु त्रिंशच्श्लोकयोगात् त्रिंशिकाः एतावतोऽपि [एतावत इति सशतसहस्रद्वयसंख्याकल्प इत्यर्थः |] त्रिंशकार्थत्वात् | तथाहि श्रीतन्त्रसारे त्रिंशकार्थस्त्वया प्रोक्तः सार्धकोटिप्रविस्तरः | इति | अभिधानाभिधेययोश्च पर एव संबन्धः तादात्म्यात् - इति उक्तप्रायम् | प्रयोजनं च सर्वप्रमातॄणां प्. १८) विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानाम् इत्थं निजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः | प्राणदेहादिभूमावेव हि अन्तर्बहिष्करणविषयायां प्रेरणाख्यायाम् उद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिः - इति गीयते | त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः किमपेक्षया वा (?) इति तदुक्तं श्रीस्पन्दे इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् | स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः || इति | स्फुटीभविष्यति च एतत् अविदूर एव | जहि जहि धाव-इ जंकुण तहि तहि विअविअका-उ | अच्छात उपरिउणविअपाय इहल-इफलसिवणा-ओ || प्. १९) तदनेन स्वसंवेदनेन प्रयोजनमेव अत्र सकलपुमर्थपर्यवसाअम् - इति प्रयोजनप्रयोजनानवकाशः [यदुक्तं स्तोत्रे फलं क्रियाणामथवा विधीनां पर्यन्ततस्त्वन्मयतैव देव | फलेप्सवो ये पुनरत्र तेषां मूढा स्थितिः स्यादनवस्ययैव ||] | उक्तान्येव संबन्धाभिधेयप्रयोजनानि | अथ ग्रन्थार्थो व्याख्यायते | अनुत्तरम् इति न विद्यते उत्तरमधिक. यतः यथा हि तत्त्वान्तराणि षट्त्रिंशत् अनाश्रितशिवपर्यन्तानि परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदमधिकयन्ति नैवं परा परिपूर्णा परभैरवसंवित् [स्वव्यतिरिक्तमन्यत् किमपि न अधिकयति |] तस्याः सदा स्वयमनर्गलानपेक्षप्रथाचमत्कारसारत्वात् | तथा न विद्यते उत्तरं प्रश्नप्रतिवचोरूपं यत्र यत एव हि महासंवित्सिन्धोः उल्लसदनन्तप्रतिभापर्यन्तधाम्न प्. २०) उल्लास्यप्रश्नप्रतिभानादिपात्रं भवति शिष्यः तदेव वस्तुतः तत्त्वं सततोदितम् - इति किमिव आचार्यीयमुत्तरमन्यत् स्यात् | उत्तरणम् उत्तरो भेदवादाभिमतोऽपवर्गः स हि वस्तुतो नियतिप्राणतां नातिक्रामति | तथाहि प्रथमं शरीरात् प्राणभूमावनुप्रविश्य ततोऽपि बुद्धिभुवमधिशयय ततोऽपि स्पन्दनाख्यां जीवनरूपतामध्यास्य ततोऽपि सर्ववेद्यप्रक्षयात्मशून्यपदमधिष्ठाय ततोऽपि सकलमलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्वव्यक्त्या अणुरपवृज्यते आरोपव्यर्थत्वात् - इति | ईदृश एव नाभिहृत्कण्ठतालुब्राह्मभैरवबिलाद्यधिष्ठानक्रमप्राप्त प्. २१) ऊर्ध्वतरणक्रम [तथा सृष्टिक्रमेण तन्त्रालोके संविन्मात्रं हि यच्छुद्ध. प्रकाशपरमार्थकम् | तन्मेयमात्मनः प्रोज्भय विविक्तं भासते नभः || स एव खात्मा मेयेऽस्मिन् भेदिते स्वीक्रियोन्मुखः | पतन् समुच्छलत्त्वेन प्राणस्पन्दादिसंज्ञितः || तेनाहुः किल संवित् प्राक् प्राणे परिणता तथा | अन्तःकरणतत्त्वस्य वायुराधारतां गतः || इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा | स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत् प्रतिभा मता || सा प्राणवृत्तिः प्राणाद्यैः रूपैः पञ्चभिरात्मसात् | देहं यत् कुरुते संवित्पूर्णस्तेनैव जायते || इति | इयं यथाप्रसूति लयभावनया ऊर्ध्वक्रमणम् || ४८ ईदृशमिति प्रह्यक्षतया व्यवच्छेदः तादृशमिति परोक्षतया व्यवच्छेदः इति |] उत्तरः तथा उत्तरन्ति अत इति उत्तरो बन्धः उत्तरणमुत्तरो मोक्षः तत् एवंविधा उत्तरा यत्र न सन्ति उत्तरं च शब्दनं तत् सर्वथा ईदृशं [४८] तादृशम् इति व्यवच्छेदं कुर्यात् तत् यत्र न भवति अव्यवच्छिन्नम् इदम् अनुत्तरम् | इदम् इत्यपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणमेव - इति व्यवच्छेदकत्वात् विकल्पात्मैव प्. २२) अत एव यावदनुत्तरे रूपे प्रविविक्षुः मायीयः प्रमाता तावत् कल्पित एव विशेषात्मनि तत्र तु अविकल्पितं यत् अविनाभावितद्विना कल्पितरूपास्फुरणात् तदेव वस्तुतोऽनुत्तरम् | तत्र हि भावनादेः अनुपपत्तिरेव वस्तुतः - इति भावनाकरणोज्झितत्वमुक्तं [यथा श्रीसोमानन्दपादैः भावनाकरणाभ्यां किं शिवस्य सप्ततोदितेः | सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना || सर्वदा मातृपित्रादितुल्यदार्ढ्येन सत्यता | एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः || ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना | करणेन नास्ति कृत्यं क्वापि भावनयापि वा || इति ||] न तु अनुपयुक्तित एव तत् ईदृशमनुत्तरं व्यवहारवृत्तिष्वपि एवमेव - इति | तदुक्तं मयैव स्तोत्रे विनत इव नभस्याविच्छिदैव प्रतनु पतन्न विभाव्यते जलौघः | प्. २३) उपवनतरुवेश्मनीध्रभागाद्युपधिवशेन तु लक्ष्यते स्फुटं सः || तद्वत् परभैरवोऽतिसौक्ष्म्याद् अनुभवगोचरमेति नैव जातु || अथ देशाकृतिकालसन्निवेशस्थितिसंस्पन्दितकारकत्वयोगाः | जनयन्त्यनुभाविनीं चितिं ते झटिति न्यक्कृतभैरवीयबोधाः || इत्यादि | तथा च वक्ष्यते उत्तरस्याप्यनुत्तरम् इति | व्याख्यायते च एतत् | एवमेव नरात्मनः शाक्तमुत्तरं ततोऽपि शाम्भवं तथा तेष्वपि भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्येव उत्तरोत्तरत्वं भूतादिष्वपि पृथिव्यादिरूपतया जाग्रत उत्तरं स्वप्नः ततः सुप्तं ततस्तुर्यं ततोऽपि तदतीतं जाग्रदादिष्वपि स्वात्मन्येव चतुरादिभेदतया उत्तरोत्तरत्वम् | तदेतत् श्रीपूर्वपञ्चिकायां प्. २४) मयैव विस्तरतो निर्णीतम् इह अनुपयोगात् ग्रन्थगौरवात् च न वितत्य उक्तम् | तत् ईदृशमौत्तराधर्यद्वैतसंमोहाधायि उत्तरत्वं तथा विप्रराजन्यवैश्यशूद्रान्त्यजातिविभागमयम् ऊनाधिकत्वं यत्र न स्यात् भावप्राधान्यमुत्तरशब्दस्य | उत्तराः पश्यन्त्याद्याः शक्तयः अघोराद्याः पराद्याः [परसूक्ष्मस्थूलरूपतया पश्यन्ती मध्यमा वैखरीति व्यवस्थिताः एतेन च क्रमेण इच्छाज्ञानक्रियारूपाः शक्तयः | अधिष्ठातृलक्षणा अघोर- घोराश्च शक्तयः | परादिस्वरूपम् यथा अन्यत्र - यया इदं शिवादिधरण्यन्तम् अविकल्पसंविन्मात्रतया विभर्ति च पश्यति च भासयति च परमेश्वरः सा अस्य पराशक्तिः | यया दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा परापरा यया परस्परविविक्ततया भेदेन सा अपरा | एतत् त्रितयं यया आत्मनि क्रोडीकारेण अनुसंधानात्मना ग्रसते सापि परैव कालकर्षिणीशब्दान्तरनिर्दिष्टा इति |] ता यत्र न स्युः नुद प्रेरणे इत्यस्य नोदनं नुत् तया तरणं दीक्षाक्रमेण तरः शिष्यचैतन्ये गुरुः चैतन्यं प्. २५) प्रेर्यते [आत्मनो ग्रहणं कुर्याद्दीक्षाकाले गुरुर्धिया | इति नीत्या अप्रबुद्धे शिष्यचैतन्ये स्वकीयं प्रबुद्धं चैतन्यं प्रेर्यते इति |] तेन हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कलेऽपि वा पूर्णाहुतियोजनिकादिस्थित्या [योजनिकेति यथोक्तं तन्त्रसारे तत्त्वशुद्धि - शिवयोजनारूपा दीक्षा इति |] मोक्षदां दीक्षां विधत्ते तत् अत्र चैतन्यस्य स्वप्रकाशस्य व्यापिनो देशकालाकारविशेषाविशेषितस्य कथङ्कारम् [अत्र क्रमेण हेतुपूर्वः संबन्धः कार्यो यथ - यत आकाराविशेषितः कथं सकले निष्कले वा इति यतो व्यापी कथं योजनं यतो देशकालाविशेषितः कथं मोक्षदां विधत्त इति यतश्च स्वप्रकाशः स्वतन्त्रश्च कथं विधानं तत्र संभवेत् | तत्र भोगमोक्षप्राप्त्यर्थं सकलनिष्कलयोगः केवलं मोक्षप्राप्त्यर्थं निष्कल एवेति दीक्षाक्रमः |] इमा विडम्बनाः (?) तत् एवंविधो नुदा प्रेरणेन तरः तरणं यत्र न भवति तत् अनुत्तरम् | यत् वक्ष्यते एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी | दीक्षा भवति * * * * * * * * * * * (?) || इति | अनिति श्वसिति इति क्विपि अन्-अणुः आत्मा देहपुर्यष्टकादिः तथा अननं जीवनम् प्. २६) अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या वृत्तिः यः शून्यप्रमाता [नन्नाम हि इदं मातृमानमेयत्रयात्मविश्वाभेदेन अवभासमानं प्रकाशतत्त्वम् इच्छादिशक्त्यविशेषितं तदेव स्वस्वातन्त्र्यात् स्वात्मनि स्वाविभागेनावस्थितं विश्वात्ममेयमवविभासयिषया आत्मनः पृथक्कृत्य सर्वस्मात् उत्तीर्णोऽहम् इत्यामर्शनेन सकलभावशून्यत्वात् निरावरणरूपतया न्यप्रमाता इत्यागमेषु आम्नातः | शून्यत्वं चात्र सकलभावक्षयात् न तु संविदोऽपि तथात्वे च सर्वमनेलमूकं स्यात् | उक्तं च अन्यत्र सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः || इति |] इति अभिहितः तस्यैव उत्तरत्वं सर्वतः परमार्थतया आधिक्यं यत्र- भैरवैकमयत्वात् जडाजडभरिते जगति जडैः जीवदेकमग्नैः स्थीयते [अत्रायं भावः घटो मम स्फुरतीति कोऽर्थः मदीयं स्फुरणं स्पन्दनमाविष्टो मद्रूपतामापन्न एव चिन्मयत्वात् | उक्तं च श्रीमदुत्पलदेवप्रभुपादैः एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडाः * * * * * * * * * * * * * * (?) || इति | येऽपि अन्ये जडेभ्यो जीवन्त इति प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टकशून्याकारास्तावत् जडा एवेति तेषामपि किमुच्यते एवं च सति घटशरीरप्राणपुर्यष्टक-सुख-तदभावरूपं सत् यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम् | तथा ईश्वरप्रत्यभिज्ञायाम् तथाहि जडभूतानां प्रतिष्ठा जीवदाश्रया | इति |] प्. २७) जीवतां च जीवनं नाम प्रागुक्तं ज्ञानक्रियारुपमेकं पारमेश्वर्यं सर्वेषां परत्रापि हि स्ववत् देहादिरेव [अजीवन्त इति जीवन्त इति च आपात एवाभाति न तु संविद्रूपे इत्यर्थः |] पृथक्तया भाति | यत् पुनः प्राणनं तत् अभेदेनैव स्वप्रकाशम् एतदेव च परमार्थः | यदुक्तं श्रीमदुत्पलदेवपादैः ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् | इति | तथा च जीवनं ज्ञानक्रिये एव इति | अ इति च या इयम् अमायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधिस्वात्म- चमत्काररूपा शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहंभावप्रथमपर्यवसानो- भयभूमिगा [शाक्तोल्लासमयी प्रथमभूमिः - अहमिति विश्वामर्शमयी पूर्णाहंभावभूमिः पर्यवसानभूमिरित्यर्थः |] कला तस्या एव वक्ष्यमाणनयेन या इयं नुत् विसर्गन्तता तस्या एव तरः प्लवनं - सर्वोपरिवृत्तित्वं यत्र | प्. २८) अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा नुत् प्रेरणा क्रमात्मकक्रियामयी यत्र तत् अनुत् आकाशादि लोकप्रसिद्ध्या ततोऽपि सातिशयमनुत्तरम् तस्यापि [अनुत्तरस्यतिशयमेवाह तस्यापीत्यादिना |] हि आकाशादेः संयोगिघटादिचित्रोपाधिवशात् समवायिशब्दादियोगात् च स्यादपि ईदृशी सक्रमा क्रिया | संवित्तत्त्वे तु सर्वतोऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारे विच्छिन्नचमत्कारमयविश्रान्त्या स्वीकृतशङ्क्यमानोपाधिभावसकलेदन्तास्पदभावपूगपरिपूरिताहमात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानाभासे इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावात् अक्रमैव स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा प्. २९) क्रिया इति तदेव अनुत्तरम् अतिशयमात्रे तमपो विधिः द्विवचनविभज्योपपदे अत्र तरप् | तत्र अयं शुक्लोऽयं शुक्लः अयमनयोः अतिशयेन शुक्लः इति वाक्येऽयमर्थः - अनयोः शुक्लयोः मध्यात् अतिशयेन अयं शुक्लः शुक्लतरः एषां तु शुक्लानामयमतिशयेन शुक्लः इति कोऽयमधिकोऽर्थः तथाहि - अयं प्रासादः शुक्लः अयं पटः शुक्लः अयं हंसश्च शुक्लः एषां सातिशयः शुक्लतमः इति तत्र प्रासादोऽपि शुक्लः पटोऽपि शुक्लः इति किमिव अधिकमुक्तं स्यात् तमपि प्रत्यये एवंविधवाक्यकरणमयुक्तमेव न च तरपः तमप् अधिकमतिशयमभिदध्यात् एवं तावत् तु स्यात् - अविवक्षिते प्रतियोगिविशेषे तमप्प्रयोगः प्रतियोगिविशेषापेक्षायां तु तरप् प्रतियोग्यपेक्षैव प्. ३०) द्विवचनविभज्योपपदार्थः एक एव हि प्रतियोगी भवेत् अनयोः अयं शुक्लोऽतिशयेन इति न तृतीयः प्रतीयते प्रतीयते निर्धारणार्थेन प्रथमस्यैव प्रतियोगित्वावगतेः | न च द्विप्रभृत्यपेक्षा भवति एकस्य युगपत् एकैकापेक्षा मता - इति तस्य क्रमेण नाधिकोऽर्थः कश्चित् | तारतम्यम् इति तु प्रयोगः क्रमातिशयेऽव्युत्पन्न एव रूढः न तु तरप्-तमप्प्रत्ययार्थानुगमात् तार्यं ताम्यम् इत्याद्यपि हि स्यात् | तदलम् अकाण्डे श्रुतलवकौशलप्रथनेन | इह तु उत्तरक्रमिकप्रतियोग्यपेक्षायां अनुत्तमम् इत्यपि प्रयोगे अयमेव अर्थः | तथाहि आगमान्तरे अद्यापि यन्न विदितं सिद्धानां बोधशालिनाम् | न चाप्यविदितं कस्य किमप्येकमनुत्तमम् [अद्यापीति सम्यक्प्रकाशसमापत्तौ सिद्धानामिति परशक्तिपातवशोन्मिपितगुरुशास्त्रसंप्रदायानाम् अत एव बोधशालिनां स्वातन्त्र्याख्यबोधमूलविमर्शशालिनां यन्न विदितं स्वयमेव तथाधाराधेयोभयस्वरूपत्वात् वेद्यतया न ज्ञातम् तथा कस्यापि सामान्यजनस्य न च अविदितं तेन विना कस्यापि सिद्ध्यनुपपत्तेः ज्ञातमेव ज्ञानार्हम् अत एव आपाते विरोधिरूपत्वात् किमपीति - सर्वोत्कृष्टमित्यर्थः |] || प्. ३१) इति | एवं स्वातन्त्र्यसाराकलितक्रियाशक्तिशरीरमनुत्तरम् | तदुक्तमुत्पलदेवपादैः सक्रमत्वं च लौकिक्याः [लौकिक्या इति हस्तोत्क्षेपणापक्षेपणादिरूपायाः | कालशक्तित इति आभासविच्छेदनप्रदर्शनसामर्थ्यरूपात् पारमेश्वरात् शक्तिविशेषात् | शाश्वत्या इति अत्यक्तप्राच्यस्वभावायाः | प्राभव्या इति प्रभ्वव्यतिरेकिण्याः | अत्रायं तात्पर्यार्थः - लौकिकज्ञानव्यवहारमूलज्ञातृज्ञेयप्रकाशने सामर्थ्यं ज्ञानशक्तिर्देवस्य ततैव संयोजनादिस्वतन्त्रतात्मा विमर्शशक्तिरेव क्रिया सा तु वेद्यच्छायाच्छुरणम् अच्छत्वादवच्छेदकम् अभ्युपयती क्रमवती भाति वस्तुतोऽक्रमत्वेपि इति कालानवच्छेदात् तावत् अक्रमत्वं स्थितमेव इति किमत्रोच्यते उन्मिषितेऽपि वेद्यग्रामे मायाप्रमातृपदमध्यासीनोऽपि भगवान् यावदेव बाह्याभ्यन्तररूपवेद्यकुलं स्वात्मनि प्रकाशस्यात्मविश्रान्ति | इति इदमित्यस्य विच्छिन्न | इत्यादिनयेन विश्रमयति प्रसते तावत् तन्निष्ठोऽवभासनक्रमोऽपि ग्रस्त एवेति अहमिति या संयोजनादिचित्रितसमस्तभावप्रकाशोपसंहारपर्यन्तदशा विशेषविमर्शलक्षणा क्रिया सा निष्क्रमैवेति ||] क्रियायाः कालश्क्तितः | घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव || इति | तत् व्याख्यातमिदमनुत्तरं षोडशधा | यदुक्तं सारशास्त्रे अनुत्तरं तधृदयं हृदये ग्रन्थिरूपता | ग्रन्थिं षोडशधा ज्ञात्वा कुर्यात्कर्म यथासुखम् || प्. ३२) इति | तथा हृदये यः स्थितो ग्रन्थिः * * * * * * * * (?) | इत्यादि | तत् ईदृक् अनुत्तरं केन प्रकारेण किमुत्तररूपपरित्यागेन उत स्वित् अन्यथा (?) - इति [सामान्यविच्छेदको विशेषः प्रकारः | उत्तररूपेति विश्वोत्तीर्णस्वरूपेण अन्यथेति विश्वमयस्वरूपेण स्वीकारात् | ] | कश्च अयं प्रकारः - यदनुत्तरं सर्वमिदं [ज्ञानज्ञेयभेदेन द्विधैव जगत् |] हि ज्ञानज्ञेयजातं सर्वत एव अन्योन्यं भेदमयं विरोधमुपलभते ततश्च इदम् औत्तराधर्यं भवेदेव - इति कस्मिंश्च प्रकारे मोक्षे एव किं वा बन्धाभिमतेऽपि [किं मुक्तावेव ईदृशमनुत्तरस्वरूपमुपलभ्यते किं वा बन्धाभिमते संसारेऽपि इति अपिशब्दस्यायं भावः यत् संसारोऽस्ति न तत्त्वतः इति प्रोक्त नीत्या वस्तुतोऽसंभवी संसारो मोहनीशक्तिवशाद्बन्धतयाभिमतोऽपि इति |] (?) - इति थमुप्रत्ययस्य विभक्तिविशेषार्थानियमेन प्रकरमात्रे विधानात् प्रकारमात्रविषय एव अयं प्रश्नः | देव इति व्याख्यातम् | कुलं स्थूलसूक्ष्मपरप्राणेन्द्रियभूतादि - समूहात्मतया कार्यकारणभावात् च | यथोक्तम् प्. ३३) संहत्यकारित्वात् इति | तथा कुलं बोधस्यैव आश्यानरूपतया [शिवात्मा खलु प्रकाशः शक्तिसदाशिवादिपरिपाठ्यनुसारेण भूतपञ्चकपर्यन्तः स्त्यानीभवति वेदितृस्वभावन्यग्भावात् वेद्यतोत्कर्षात्मकं काठिन्यं स्त्यानीभवनं तथा च सति तदेव स्वात्मनि बन्धतयाभिमन्यते पशुजन इति | आश्यानतायामपि न स्वस्वरूपं कदाचित् परित्यजति हिममिव जलत्वमित्याह नहीत्यादिना | उक्तं च महार्थमञ्जर्याम् स्त्यानस्य क्रियावशादिक्षुरसस्येव शिवप्रकाशस्य | गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुन्चन्ति || इति |] यथावस्थानात् बोधस्वातन्त्र्यादेव च अस्य बन्धाभिमानात् | उक्तं हि कुल संस्त्याने बन्धुषु च (घा. भ्वा. प.) इति | नहि प्रकाशैकात्मकबोधैकरूपत्वात् [बोधैकरूपत्वादिति विशुद्धचिन्मयप्रमात्रैकात्म्यमनुज्झतामेव भावानां प्रकाश उपपद्यते तेन ज्ञानशक्तिमूलत्वात् स्मरणविकल्पादीनामपि इत्यमेव मन्तव्यम् | उक्तं चेश्वरप्रत्यभिज्ञायाम् वर्तमानावभासानां भावानामवभासनम् | अन्तःस्थितवतामेव घटते बहिरात्मना || इति |] ऋते प्. ३४) किमपि एषामप्रकाशमानं [अप्रकाशमानमिति नीलादेरर्थजातस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनरर्थशरीरोत्तीर्णा प्रकाशमानता तर्हि यथा ज्ञानानुत्पादे सर्वान् प्रति तन्नीलमेव भण्यते न कंचिद्वा प्रति वस्तुतो वा स्वामयेव तन्नीलं परस्य परनिष्ठतानुपपत्तेः स्वात्मन्यपि वा न नीलं नापि अनीलं प्रकाशानुग्रहेण विना व्यवस्थानायोगात् तथा अप्रकाशमानतापि इति अप्रकाशमानताप्रसङ्गोपरतिः |] वपुरुपपद्यते तत्र कुले भवा कौलिकी सिद्धिः - तथात्वदार्ढ्यं परिवृत्त्य आनन्दरूपं हृदयस्वभावपरसंविदात्मकशिवविमर्शतादात्म्यं [हृदयस्वभावेति स्पन्दस्वभावः |] तां सिद्धिं ददाति अनुत्तरस्वरूपतादात्म्ये हि कुलं तथा भवति | यथोतम् व्यतिरेकेतराभ्यां [स्वसत्तायामन्याभावः अन्याभावे स्वस्य भाव इति व्यतिरेकान्वयौ |] हि निश्चयोऽन्यनिजात्मनोः | व्यवस्थितिः प्रतिष्ठाय सिद्धिर्निर्वित्तिरुच्यते || इति | सद्य इति शब्दः समाने अहनि इत्यर्थवृत्तिः उक्तनयेन [काल्पनिकं च अद्यतनत्वम् अकाल्पनिके संविद्वपुषि कथं स्यात् इत्युक्तो नयः |] अह्नोऽनवस्थितत्वात् समाने प्. ३५) क्षणे इत्यत्र अर्थे वर्तते | समानत्वं च क्षणस्य न सादृश्यम् अपितु तत्त्वपर्यवसाययेव एवमेव सद्यःशब्दात् प्रतीतिः | अतस्तस्मिन्नेव क्षणे इति वर्तमानक्षणस्य सावधारणत्वेन भूतभविष्यत्क्षणान्तरनिरासे तदुभयापेक्षकलनाप्राणां वर्तमानस्यापि कालतां निरस्येत यतो यावदिदं परमेश्वरस्य भैरवभानोः रश्मिचक्रात्मकं निजभासास्फारमयं कुलमुक्तम् तत् च एतत् अन्तर्मुखपरभैरवसंवित्तादात्म्यलक्षणं निरोधमेति तदा तदेव परमानन्दामृतास्वादमयमदेशकालकलितम् अनुत्तरं ध्रुवं विसर्गरूपं सततोदितं | तदुक्तं श्रीवाद्यतन्त्रे संरुध्यं [एतदेव अत्र संरोधनं यत् नीलादेरर्थजातस्य आश्यानस्य देहप्राणादिप्रमातृताभिमानेन वेद्यतोत्कर्षात् तन्निमजनात् तस्यापि प्रकाशैकमग्नत्वमुक्तनयेन |] रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम् | कालोभयापरिच्छिन्नं वर्तमाने सुखी भवेत् || प्. ३६) इति | विस्तारितश्च विस्तरतोऽन्यत्र मयैव कालोभयापरिच्छेदः | तथा कुलात् प्राणदेहादेः आगता सिद्धिः भेदप्राणानां नीलसुखादीना निश्चयरूपा तां ददाति इति - शरीरादयो [यदेतत् संक्षेपेणोक्तं तदेव विवृण्वन् आह शरीरादयो हित्यादि | अयमत्र भावः - यदाहुरन्ये धर्माधर्मसम्बन्धादेव सर्वो व्यवहारः तेनैव इच्छागुणेन करणानि अचेतनान्यपि स्वस्वकार्येषु प्रवर्तन्ते न पुनस्तदधिष्ठानादिति शङ्का | झगितीति न तु इच्छादिव्यवधानेनेतिभावः |] हि झगिति अनुत्तरध्रुवविसर्गवीर्यावेशेन अकालकलितेन प्राणादिमध्यमसोपानारोहेणैव भावानां तथात्वनिश्चयरूपां सिद्धिं विदधते | यथोक्तम् अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् [परप्रमातुरनन्यापेक्षस्वातन्त्र्यलक्षणात् ईश्वरसमो भवतीति |] | (स्प० उ० १-८) इति | तथा करणानीव देहिनाम् | (स्प० उ० २-१०) इति | तथा कुले शिवशक्त्यात्मनि संनिहितेऽपि सिद्धिरुक्तनेयन जीवन्मुक्ततामयी समभिलषिताणिमादिप्रसवपदं [अणिमा महिमा चैव लघिमा गरिमा तथा | प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः || इति हि सिद्धयोऽत्राभेदसारा एव मन्तव्या इति | तथाहि चित्स्वरूप एव सर्वान्तर्भावक्षमत्वादणिमा व्यापकत्वान्महिमा भेदमयगौरवाभावात् लघिमा विश्रान्तिस्थानत्वात् प्राप्तिः विश्ववैचित्र्यग्रहणात् प्राकाम्यम् अखण्डितत्वादीशित्वं सर्वंसहत्वाद्वशित्वं यत्रकामावसायित्वं च इति यत्र सिद्धयः सत्यतः परिपूर्णतया विद्यन्ते इति ||] प्. ३७) तां सद्यः अनाकलितमेव भावनाकरणादिरहितत्वेनैव ददाति | यदुक्तं श्रीसोमानन्दपादैः | भावनाकरणाभ्यां किं शिवस्य सततोदितेः [भावनाकरणाभावे सततोदितत्वमेव हेतुः तत्तद्रूपाभासेपि तदेव हेतुः |] | इति | तथा एकवारं [एकवारमिति यथा तन्त्रालोके गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात् समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथिताम् | विलीने शङ्काभ्रे हृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान् ध्वान्तजयिनः || इति | प्रमाणेनेति स्वयमूहितेन |] प्रमाणेन शास्त्राद्वा गुरुवाक्यतः | प्. ३८) ज्ञते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना || करणेन नास्ति कृत्यं क्वापि भावनयापि वा | इति | कुले [कुले शिवशक्तिसंघट्टात्मनि या विसिसृक्षा सैव अन्तःस्थितवती बहिरौन्मुख्यरूपा विसर्गलक्षणा शक्तिः |] जाता सिद्धिः शाक्त- हादिरूपप्रसरणात् आरभ्य बहिर्भावपटलविकासपर्यन्तं भेदावभासना तां ददाति तदेव हि अनुत्तरं महाप्रकाशात्म अन्तःकृतबोधमयविश्वभावप्रसरम् अनुत्तरत्वादेव निरतिशयस्वातन्त्र्यैश्वर्यचमत्कारभरात् भेदं विकासयति | नहि अप्रकाशरूपं भावविकासप्रकाशे कारणं भवेत् प्रकाशात्मकं चेत् नूनं तत् परमेश्वरभैरवभट्टारकरूपमेव - इति किमपरेण [अत्रायं मायाप्रकृतिपरमाण्वादिः यदि प्रकाशरूपं तर्हि कृतं तदुक्त्या यदि च न तथापि अलब्धसत्ताकं स्वात्मनि कथं परत्र कारणतामियादिति |] वाग्जालेन | तथा येन अनुत्तरेण विशेषेण ज्ञाता मात्रा मानेन प्रमात्मना त्राणं पालनं पतित्वं यासां प्रमातृप्रमाणप्रमेयप्रमितिरूपाणां ता मात्रा विज्ञाता प्. ३९) येन तत् विज्ञातमात्रं | तथा विशेषेण प्रतिपत्तिदार्ढ्यबन्धेन यत् ज्ञातं तत् विभातमेव न पुनः भावनीयं सकृद्विभातात्मत्वात् | तथा ज्ञातमात्रं ज्ञातमेव ज्ञेयैकरूपत्वात् न तु कदाचित् ज्ञातृरूपं घटादि तथा ज्ञाता ज्ञेयरूपा भेदमयी इयं माया तदुभयं विगतं यत्र तत् विज्ञातमात्रं घटादयो यत्र ज्ञात्रेकरूपत्वेन स्वप्रकाशात्मानः यत्र च माया न प्रभवति तेन विज्ञातमात्रेण | खे ब्रह्मणि अभेदरूपे स्थित्वा चरति - विषयमवगमयति तथा हानादानादिचेष्टां विधत्ते स्वरूपे च आस्ते इति खेचरी अन्तर्बहिष्करणतदर्थसुखादिनीलादिरूपा तथाहि वेद्यवेदकभावानुल्लासिपदे शून्ये संविन्मात्रदृगुल्लासे संवेद्यगतान्तरैक्यरूपदिश्यमानभेदोल्लासे स्फुटभेदोद्रेके च क्रमेण व्योमचरी-गोचरी-दिक्चरी-भूचरीभूता याः शक्तयः प्. ४०) ता वस्तुत उक्तनयेन स्वभावचरखेचरीरूपशक्त्यविभक्ता एव - इत्येकैव सा [सा हि परमेश्वरस्य स्वरूपादभिन्ना शक्तिरेकैव तात्त्विकी इदमिति परामर्शभेदमात्रजन्मना नानारूपविभक्तभावभेदेन अवभासमाना सती बहुत्वेनापि व्यपदेशमर्हतीति | शक्तिशब्देन च व्यक्तिव्यपदेशः परमेश्वराच्छक्तिमतो भेदाभावप्रतिपादनमेव प्रयोजनमिति |] परमेश्वरी शक्तिः | यदुक्तम् शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः | इति | ततः स्त्रीलिङ्गेन निर्देशः नहि आत्मनो मनसः इन्द्रियाणां बाह्यानां च भेदविषयस्य व्यवस्थापनं व्यवस्था च युज्यते - अभिसंधानद्ययोगात् अप्रकाशत्वात् च सैव खेचरी कामक्रोधादिरूपतया वैषम्येन लक्ष्यते तस्याः समता सर्वत्रैव परिपूर्णभैरवस्वभावात् अणुमात्रमपि अविकलानुत्तरस्वरूपापरिज्ञानमेव चित्तवृत्तीनां वैषम्यं स एव च संसारः [संसारो गमनागमनादिरूपः | तदेव द्रढयति अपूर्णेति | अपूर्णाभिमननं द्विविधम् एकः प्रकाशस्य स्वातन्त्र्यहानिरूपः द्वितीयः स्वातन्त्रया बोधरूपः तत्रैकत्वेन व्यपदेशः स्वस्वरूपापहानेरेकत्वात् |] प्. ४१) अपूर्णाभिमानेन स्वात्मनि अणुत्वापादनात् आणवमलस्य तदपूर्णरूपपरिपूर्णाकाङ्क्षायां [* * * * * * * * (?) अभिलाषो मलोऽत्र तु | इति नीत्या |] भेददर्शनात् मायाख्यस्य [भिन्नवेद्यप्रयात्रैव मायाख्यं जन्मभोगदम् | कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् || इति ] मलस्य तच्छुभाशुभवासनाग्रहेण कार्ममलस्य च उल्लासात् [इयत्पर्यन्तम् अणुमात्रमपि इत्याद्येव उपोद्बलितम् सूक्ष्मेक्षिकावधार्यमेतत् |] स्वरूपापरिज्ञानमयतद्वैषम्यनिवृत्तौ [तस्यानुत्तरस्य वैषम्यनिवृत्तौ त्रिलक्षणस्य मलस्याभावात् |] मलाभावात् क्रोधमोहादिवृत्तयो हि परिपूर्णभगवद्भैरवभट्टारकसंविदात्मिका एव | यदुक्तं श्रीसोमानन्दपादैः * * * * * * * * (?) उत्सरत्प्रकृतिः शिवः | इति | तथा सुखे [क्रमात् सत्त्वरजस्तमोगुणकार्ये |] दुःखे विमोहे च स्थितोऽहं परमः शिवह् | इति | प्. ४२) दुःखेऽपि प्रविकासेन स्थैर्यार्थे धृतिसंगमात् | इत्यादि | क्रोधादिवृत्तयो हि चिच्चमत्कारतादात्म्यात् अन्यथा तत्स्वरूपलाभस्यैव अयोगाच्च परमेश्वर्यः करणदेवता एव भगवत्यस्तास्ताः क्रीडा वितन्वत्यः शिवार्कस्य दीधितिरूपाः तथा ता एव [आभ्यन्तरक्रोधादिवृत्तय एव |] तत्तत्परस्परसांकर्यलब्धासंख्येयरूपाः तत्तदुच्चाटन- मारण-शान्त्यादिरूपेषु कर्मसु परिकल्पिततत्तत्समुचितसौम्यरौद्रप्रकाराः कृत्यादिभेदात् [वामा संसारवमनात् इत्यादिः कृत्याभेदः स्वयमेवोह्यः |] देवतात्वेन [परिवारेति शक्तयः | यथोक्तम् बहिर्मुखस्य मन्त्रस्य वृत्तयो याः प्रकीर्तिताः | ता एवान्तर्मुखस्यास्य शक्तयः परिकीर्तिताः || इति |] उपास्या उक्ताः मतादिशास्त्रेषु भगवद्भैरवभट्टारकपरिवारभूताश्च | यथोक्तम् प्. ४३) उच्चाटने काकवक्त्रा * * * * * * * * (?) | इत्यादि उपक्रम्य ता एव देवदेवस्य रश्मयः कादिधारिकाः || इत्यादि | तथात्वेन तु अपरिज्ञातस्वरूपाः चिच्चमत्कारं विकल्पेऽपि निर्विकल्पैकसारं तेन तेन विचित्रवर्णाक्षरपुञ्जात्मना घोरतरात्मना विकल्परूपेण देवतात्मना शङ्कातङ्कानुप्रवेशेन तिरोदधत्यः सांसारिकपाश्यपशुभावदायिन्यः | यथोक्तम् पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः | इति | तथा विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् | इत्यादि | तथा शब्दराशिसमुत्थस्य [अकारादिः क्षकारान्तः शब्दराशिः | शक्तिवर्गस्य - कादिवर्गस्य कलाभिः - ककाराद्यक्षरैः |] शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः || प्. ४४) इति | ज्ञातस्वरूपाः ता एव उक्तयुक्त्या जीवन्मुक्तताप्रदायिन्यः | तथा उक्तम् यदा त्वेकत्र [एकत्रेति सामान्यस्पन्दे | तस्येति कादिवर्गस्य | चक्रेति आदिहान्सस्य |] संरूढस्तदा तस्य लयोद्भवौ | नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || इति | स्वरूपपरिज्ञानं च एतावदेव - यत् एतासु वृत्तिषु [वृत्तिषु - क्रोधादिषु |] उदयसमयनिर्विकल्पैकरूपासु [यथोक्तम् यदा समग्रज्ञानाप्रज्ञातृस्पर्शदशास्वपि | स्थितैव लक्ष्यते सा च तद्विश्रान्त्या तथा फले || इति |] विकल्पोऽपि उदयमानो वर्णराशिसमारब्धतत्तद्विचित्रशब्दारूषितत्वेऽपि न तादृशेन वर्णपुञ्जात्मना शक्तिचक्रेण युज्यते यत् तस्य प्राक्तननिर्विकल्पैकव्यवहारमयस्य विकल्पात्मनो मातुः प्. ४५) स्वरूपं खण्डयेत् | न च विकल्पा अनुभवात् विकल्पान्तराद्वा भिन्नाः अपि तु स एव एकः स्वातन्त्र्यभेदितभावोपरागलब्धभेदभूताद्यभिधविज्ञानचक्रप्रभुः तदेवं खेचरीसाम्यमेव मोक्षः तत् च अनुत्तरस्वरूपपरिज्ञानमेव [अनुत्तरेति अयमत्राभिप्रायः - न चात्र एतन्मन्तव्यं यदि स्वरूपमेव मोक्षः तदलं खेचर्या खेचरी हि शक्तिदशा आम्नायेपूक्ता अनुत्तरस्वरूपं सर्वाध्वोपरिवर्तीति यतोऽत्र अनुत्तरस्वरूपपरिज्ञानं मोक्षः तच्च खेचर्यैव सूक्ष्मतमविमर्शरूपया सिद्धयतीति |] सततोदितं परमेश्वर्याः शिवात्मनि संघट्टसमापत्त्या उभयविमर्शानन्दरूढि | शिवो हि परवाङ्मयमहामन्त्रवीर्यविसृष्टिमयः परमेश्वरीविसृष्टया तद्वीर्यघन्ताअत्मकप्रसूननिर्भरया [तस्य अनुत्तररूपस्य प्रकाशस्य वीर्यं परिस्फुरणं बाह्यवीर्यं च तेन वनात्मकं तत्तादात्म्येन वर्तमानं च तत् प्रसूनं विश्वलक्षणमिदन्तास्फुरणं बाह्यप्रसिद्धं च तेन निर्भरया संकुलया सृष्ट्या तादृक्क्रियारूपया |] सृष्ट्या युज्यते | तथा हि सर्वेषामन्तर्बहिष्करणानां प्. ४६) यत् यत् अनुप्रविशति तत्तत् मध्यनाडीभुवि [सर्वान्तरतमत्वेन वर्तमानत्वात् मध्यमिति यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते | इति-वचनेनन चैतन्मन्तव्यं नभःकुसुमं व्यतिरिक्तमेवेति तदपि प्रकाशैकत्वान्न तथा इति |] सर्वाङ्गानुप्राणनसारायां प्राणात्मना चेतनरूपेण आस्ते यत् ओज इति कथ्यते तदेवसर्वाङ्गेषु अनुप्राणकतया तदविभक्तवीर्यरूपत्वेन ततोऽपि पुनरपि नयनश्रवणादीन्द्रियद्वारेण वृंहकरूपं रूपशब्दादि अनुप्रविशत् वृंहकत्वादेव तत् वीर्यक्षोभरूपकामानलप्रबोधकं भवति [अयमत्रभावः - प्रमाणप्रमेययोर्यत् शब्दाद्यात्म श्रोत्रादिरूपं च कलाजालं तस्य ग्राह्यग्राहकाभावात्मपरस्परसंघट्टात् यत् मेलनं ततः शुचिर्नामाग्निरुद्भूतः संघट्टात्सोमसूर्ययोः इति-नीत्या मध्यधामानुप्रवेशात् विसर्गानन्द उन्मिषति तदनुकल्पतया यत् अन्य आनन्द उपचर्यते येन तदपि परसंविदनुप्रवेशे कारणतामतेतीत्यर्थः |] | यथोक्तम् आलापाद्गात्रसंस्पर्शात् * * * * * * * * (?) || इत्यादि | एकेनैव च रूपाद्यन्यतमेन उद्रिक्तप्राक्तनबलोपबृंहितस्य सर्वविषयकरणीयोक्तक्षोभकरणसमर्थत्वं सर्वस्य सर्वस्य सर्वसर्वात्मकत्वात् प्. ४७) स्मरणविकल्पादिनापि सर्वमयमनोगतानन्तशब्दादिवृंहणवशात् जायत एव क्षोभः परिपुष्टसर्वमयमहावीर्यमेव पुष्टिसृष्टिकारि न तु अपूर्णं नापि क्षीणं समुचितशैशववार्द्धकयोरिव वीर्यविक्षोभे च वीर्यस्य स्वमयत्वेन अभिन्नस्यापि अदेशकालकलितस्पन्दमयमहाविमर्शरूपमेव परिपूर्णभैरवसंविददात्मकं [अत्रायं भावः संकोचतारतम्येन पाशव ज्ञानमीरितम् विकासतारतम्येन पतिज्ञानं तु बाधकम् || इति सिद्धानरीतिः | तत्र इष्टेन शिवलिङ्गेन विश्वं संतर्पितं भवेत् | इति | कुलादिदर्शने पुनरसौ लिङ्गपूजा निषिद्धा तत्र लिङ्गपूजायां सर्वाध्वमयतां ते भावनयाहुः पारमेश्वरं लिङ्गं हि गर्भीकृतनिखिलाध्वप्रपञ्चम् इति | अन्ये पुनर्देह एव सर्वाध्वमय इति तत्रैव साक्षात्कारः सुलभः इति किमनुपपत्तिना बाह्येन लिङ्गादिना फलम् | यदाहुः हृदयगुहागेहगतं सर्वज्ञं सर्वगं परित्यज्य | प्रणमति मितमतिरशिवं शिवाशयाश्मादिमश्लाघ्यम् || इति | इह पुनः परमाद्वयदर्शनं त्रिकमते तद्विधिना तन्निपेधेन वा न किंचित् प्रयोजनं यच्चात्र कुलदर्शनं कृतं तदभिज्ञोपदर्शनफलमेव तथा पूर्वपक्षतोद्दयोतनार्थं कुलात् परतरं त्रिकम् इत्युक्तेश्च | यदुक्तं भट्टनायकेनापि अनेनैवाशयेन नपुंसकमिदं नाथ परब्रह्म फलेत्कियत् | तत्पौरुषनियोक्त्री चेन्न स्यात् त्वच्छक्तिसुन्दरी || इति |] स्वातन्त्र्यमानन्दशक्तिमयं प्. ४८) सुखप्रसवभूः नयनयोरपि हि रूपं तद्वीर्यक्षोभात्मकमहाविसर्गविश्लेषऽयुक्त्या [अत्रायं भावः - पूर्वकोटावुल्लिलासयिपाद्यात्मभिर्व्यापारैरनुपहिते निस्तरङ्गजलधिप्रख्ये अनुत्तरात्मनि विसर्गे परस्मिन् प्रकाशे प्रथममुल्लासनलीलात एव व्यतिरिक्तविमृश्याभावात् चित्परामर्शः स्फुरेत् येन अस्य सर्वत्रैव स्वातन्त्र्यमुदियात् ततः स्वस्वातन्त्र्यमाहात्म्यादेव अनुत्तरप्रकाशात्मा परमेश्वरः स्वस्वरूपं गोपयति प्रमाणादिदशारोहेण | तत्रेत्थं क्रमः नीलसुखादिरूपेण बहिर्भावनं सृष्टिः तथा कंचित्कालं चर्वणं स्थितिः स्वात्मसात्कारेण संहारः तदनु ज्ञातोऽयमर्थः इति संतोषाभिमानात् लयः ततोऽपि बहीरूपताविलापनेन स्वात्मन्येव विश्रमणमनुग्रहः | उक्तं च परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते | इति |] एव सुखदायि भवति | श्रवणयोश्च मधुरगीतादि | अन्यत्रापि इन्द्रिये अन्यत् केवलं परिपूर्णसृष्टितां न अश्नुते स्वात्मन्येव उच्छलनात् तथा च तद्वीर्यानुपवृंहितानाम् अविद्यमानतथाविधवीर्यविक्षोभात्मकमदनानन्दानां पाषाणानामिव रमणीयतरतरुणीरूपमपि नितम्बिनीवदनघूर्णमानकाकलीकल्गीतमपि प्. ४९) न पूर्णानन्दपर्यवसायि यथा यथा च न वृंहकं भवति तथा तथा परिमितचमत्कारपर्यवसानं सर्वतो हि अचमत्कारे जडतैव अधिकचमत्कारावेश एव वीर्यक्षोभात्मा सहृदयता उच्यते यस्यैव एतद्भोगासङ्गाभ्यासनिवेशितानन्तवृंहकवीर्यवृंहितं हृदयं तस्यैव सातिशयचमत्क्रिया दुःखेपि एष एव चमत्कारः अन्तर्व्यवस्थितं हि यत्तत् दयितसुतसुखादि वीर्यात्मकं तदेव भावनासदृशदृगाक्रन्दादिबोधेन क्षोभात्मकं विकासमापन्नं पुनर्न भविष्यति इति नैरपेक्ष्यवशसविशेषचमत्क्रियात्म सुःखसतत्त्वम् | तदुक्तम् दुःखेऽपि प्रविकासेन * * * * * * * * (?) | इति | यदा सकलेन्द्रियनाडीभूतमरुदादिपरिपूरणे तु महामध्यमसौषुम्नपदानुप्रवेशे निजशक्तिक्षोभतादात्म्यं प्रतिपद्यते तदा सर्वओ प्. ५०) द्वैतगलने परिपूर्णस्वशक्तिभरविमर्शाहन्तामयचमत्कारानुप्रवेशे - परिपूर्णसृष्ट्यानन्दरूपरुद्रयामलयोगानुप्रवेशेन तन्महामन्त्रवीर्यविसर्गविश्लेषणात्मना ध्रुवपदात्मकनिस्त्तरङ्गाकुलभैरवभावाभिव्यक्तिः | तथाहि तन्मध्यनाडीरूपस्य उभयलिङ्गात्मनोऽपि तद्वीर्योत्साहबललब्धावष्टम्भस्य कम्पकाले सकलवीर्यक्षोभोज्जिगमिषात्मकम् अन्तःस्पर्शसुखं स्वसंवित्साक्षिकमेव | न च एतत्कल्पितशरीरनिष्ठतयैव केवलं तदभिज्ञानोपदेशद्वारेण इयति महामन्त्रवीर्यविसर्गविश्लेषणावाप्तध्रुवपदे परब्रह्ममयशिवशक्तिसंघट्टानन्दस्वातन्त्र्यसृष्टिपराभट्टारिका- रूपेऽनुप्रवेशः | तद्वक्ष्यते ततः सृष्टिः यजेत् * * * * * * * * * * (?) | इत्यादि | तथा प्. ५१) यथा न्यग्रोधबीजस्थः * * * * * * * * (?) | इत्यादि | तथा * * * * * * * * (?) इत्येतद्रुद्रयामलम् || इत्यादि | अन्यत्रापि उक्तम् लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः | शक्त्यभावेऽपि [बाह्यशक्त्यभावेपि शाक्तस्वरूपावेशे स्मरणपुरःसरं भावनातिशयात् तन्मयीभावः इति भावः |] देवेशि भवेदानन्दसंप्लवः || इति | भरात् स्मर्यमाणो हि संस्पर्शः तत्स्पर्शक्षेत्रे च मध्यमाकृत्रिमपरात्मकशक्तिनालिकाप्रतिबिम्बितः तन्मुख्यशाक्तस्पर्शाभावेपि तदन्तर्वृत्तिशाक्तस्पर्शात्मकवीर्यक्षोभकारी भवति इत्यभिप्रायेण | तथा शक्तिसंगमसंक्षोभशक्त्यावेशावसानकम् | यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं [स्त्रीसङ्गानन्दाविर्भूतसमावेशान्ते यत् सुखं त्यक्तस्त्रीपुरुषाविपर्यालोचनं स्वात्ममात्रनिष्ठं तत् स्वाक्यमात्मन एव संबन्धि नान्यत आघातं भावयेत् स्त्रीसङ्गमस्तु व्यक्तिकारणमेवेत्यर्थः |] स्वाक्यमुच्यते || इति | * * * * * * * * (?) स्नेहात्कौलिकमादिशेत् | इति च | महावीरेण भगवता व्यासेनापि प्. ५२) मम [मम - परब्रह्मस्वरूपस्य महत् - स्थूलं यतो वेद्यतया परामृश्यमानं गर्भं - संविल्लक्षणस्ववीर्यसंक्रान्तिम् ततः - इदन्तया परामृश्यमानात् स्वभावात् | इदमत्र तात्पर्यम् - परब्रह्मस्वरूपं परामृशत् प्रकृतिलक्षण तत्त्वमवभासयामि तस्येदन्तायामपि चित्प्रकाशानुप्रवेशं विना प्रकाशमानत्वाभावात् ब्रह्मस्वरूपत्वं व्यवच्छिन्नवेद्यस्वरूपत्वात् तु स्थूलम् इति सकलजगद्भावभेदकहेतुभूतेदन्तात्मकं महद्ब्रह्म मम जगत्सिसुचारसिकस्य योनिस्थानीयम् इति |] योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् | संभवः सर्वभूतानां ततो भवति भारत || इत्यपि गीतम् | सोमानन्दपादैरपि निजविवृतौ भगवत्या रतस्थाया प्रश्न इति परैकमयत्वेऽपि तन्मयमहदन्तरालाभिप्रायेण इति | तदलम् अमुना त्रिकशास्त्ररहस्योपदेशकथातिप्रस्तावेन | तदिदम् अनुत्तरं कौलिकसिद्धिदं येन ज्ञातमात्रेण खेचरीसाम्यम् उक्तनयेन || १ || एतद्गुह्यं महागुह्यं कथय स्व मम प्रभो प्. ५३) गुह्यम् अप्रकटत्वात् यतो गुहायां मायायां स्वरूपाअरिज्ञानमययां सत्यां स्थितमपि [स्थितमित्यत्र अयमाशयः - सर्वथा हि प्रकाशस्वरूप आत्मा तावत् प्रकाशत एव न केनापि अंशेन न प्रकाशते इति अप्रकटमिति सर्वथा हृदयंगमीभावमप्राप्तमित्यर्थः |] अप्रकटम् | अथ च महत् अगुह्यं सर्वस्य एवं-विधचमत्कारमयत्वात् | मातृमानमेयमयभेदाविभागशालिनी भगवती शुद्धविद्यैव त्रिकोणामायायामतिशयप्रतिफलितभेदावग्रहा [चिकीर्षालक्षणपरामर्शरूपा परमेशशक्तिर्माया ततश्च वस्तुतो विद्यैव या हि जननभूः सा कथमविया यत् पुनरस्या अविद्यात्वं तत् स्रक्ष्यमाणजडवस्त्वपपेक्षया इयमेव सांख्यनये प्रकृतिरित्युक्ता यत् पञ्चस्तव्याम् यामामनन्ति मुनयः प्रकृतिं पुराणीं विद्येति यां श्रुतिरहस्यविदो गृणन्ति | तामर्धपल्लवितशंकररूपमुद्रां देवीमनन्यशरणः शरणं प्रपद्ये || इति | देवी च माया यतो हि इयहन्ताच्छादितोन्मिमिष्विदन्तास्वरूपा स्फुटमिदमहमिति प्रतीतिरूपा अत एव च अन्यत्र मन्त्रवीर्यत्वमस्या उक्तम् | एतद्दशामधिशयानो हि मन्त्रः स्वोचितफलदानसामर्थ्यभाक् भवतीति | उक्तं चान्यत्र न पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् | पुंस्तत्त्वे जडतामेति परतत्त्वे तु निष्फलः || इति | तथा श्रीतन्त्रालोके च योगिनीहृदयं लिङ्गमिदमानन्दलक्षणम् | बीजं योनिसमापत्त्या सूते कामपि संविदम् || इति |] भवति प्. ५४) इति मायापि जगज्जननभूः विद्यैव वस्तुतः तत् उक्तेन नेयन सा एवंभूतत्वेन अपरिज्ञायमानत्वात् अभेदमाहात्म्यतिरोहिततत्प्रमात्रादिकोणत्रयत्वात् महागुहा इति उच्यते सैव च वस्तुतः पूजाधाम त्रिशूलं त्रिकार्थे | तदुक्तम् सा त्रिकोणा महाविद्या त्रिका सर्वरसास्पदम् | विसर्गपदमेवैष [एतद्धामसमापत्त्या स्वातन्त्र्याख्यकौलिकशक्तेरानन्दधारा प्रसरतीत्याह विसर्गपदमिति | विसर्गपदता तस्याः तन्त्रालोके विवृता यथा विसर्गता च सैवास्या यदानन्दोदयक्रमात् | स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः || इति क्रमोच्छलत्तया बहिरुच्छलितमपि सत् विश्वं नवनवं भाति उक्तं चान्यत्र एतल्लिङ्गसमापत्तिविसर्गानन्दधारया | सिक्तं सद्व तद्विश्वं शश्वन्नवनवायते || इति | संहारक्रमोऽत्र भावनयैव लभ्यते इति | सर्वरसेति भोगमोक्षरूपमित्यर्थः | भेदाभावेनैव सृष्टेरत्र महत्त्वमित्यर्थः |] तस्मात् संपूजयेत्त्रिकम् || इति | तथा उदेत्येकः समालोकः प्रमाणार्थप्रमातृगः | प्. ५५) इति | ततश्च ईदृश्यां महागुहायां शुद्धविद्याहृदयमययां महासृष्टिरूपायां जगज्जन्मभूमौ स्वचमत्काररूपेण भवति यत् मह-अ इति यत् एतत् गुह्यम् एतेन हि यत् इदमविच्छिन्नभैरवभासा विमर्शरूपं स्वातन्त्र्यं भावेभ्यः स्वरूपप्रत्युपसंहारक्रमेण आत्मविमर्शविश्रान्तिरूपत्वं प्रकाशस्य हि स्वाभाविकाकृत्रिमपरवाङ्मन्त्रवीर्यचमत्कारात्म अहमिति [पूर्णाहन्ताया लक्षणं यथा विरूपाक्षपञ्चाशिकायाम् प्रत्यवमर्शात्मासौ चितिः स्वरसवाहिनी परा वाग्या | आद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा || इति |] | यथोक्तम् प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः | इति | तदेव गुह्यम् अतिरहस्यं तथाहि - सृष्टिक्रमेण यथा अविकृतानुत्तरध्रुवरूपविश्रान्तो भैरवभट्टारकः सकलकलाजालजीवनभूतः सर्वस्य आदिसिद्धोऽकलात्मकः स एव प्. ५६) प्रसरात्मना [प्रसरात्मनेति स्पन्दरूपया स्वात्मोच्छलत्तयेत्यर्थः | यदुक्तम् तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः | आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते || इति आनन्दशक्तिरेव परविसर्ग इत्युच्यते | यथोक्तम् अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा | सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् || इति | तत्रेत्थं क्रमः * * * * * * * * (?) विसर्गरहिता तु सा | शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा || विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च | शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते || विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः | इति |] रूपेण विसर्गरूपतामश्नुवानो विसर्गस्यैव कुण्डलिन्यात्मक- ह-शक्तिमयत्वात् पुनरपि तच्छाक्तप्रसराभेदवेदकरूपबिन्द्वात्मना नररूपेण प्रसरति | तथा [तथा पुनरपीति यथा पूर्वं विसृज्य सकलं कर्तव्यं शून्यतानले | चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् || दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि | चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः || तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि | रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे || प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् | चित्तप्रलयनामासौ विसर्गः शांभवः परः || इति |] पुनरपि तन्मूलत्रिस्फुटयिष्यते प्. ५७) च एतत् अविदूर एव | महे - परमानन्दरूपे पूर्वोक्ते यदिदम् उक्तनयेन अ इति रूपं तदेव गुह्यम् एतदेव च महागुह्यं - जगज्जननधाम तथा उभयसमापत्त्या आनन्देन अगुह्यं सर्वचमत्कारमयं स्व ! आत्मन्नेव हे प्रभो एवंविधवैचित्र्यकारितया प्रभवनशील आमन्त्रणमेतत् तच्च आमन्त्र्यस्य आमन्त्रकं प्रति तादात्म्यमाभिमुख्यं प्रातिपदिकार्थात् अधिकार्थदायि [आमन्त्रणे च इति सूत्रे प्रातिपदिकार्थातिरिक्ते आमन्त्रणे प्रथमा इति वृत्तिकारः |] | यथोक्तम् | संबोधनाधिकः प्रातिपदिकार्थः | इति | निर्णीतं च एतत् मयैव श्रीपूर्वपञ्चिकायाम् | एतत् कथय - परावाग्रूपतया अविभक्तं स्थितमपि पश्यन्तीभुवि वाक्यप्रबन्धक्रमासूत्रणेन योजय | यथोक्तं प्राक् प्. ५८) गुरुशिष्यपदे स्थित्वा * * * * * * * * (?) | इत्यादि | पराभट्टारिकायाश्च पश्यन्त्यादितादात्म्यं निर्णीतं प्रागेव | तथा मम इत्यस्य प्रत्यगात्मसंबन्धित्वस्य इदंभावस्य यत् गुह्यं मह-अ इत्युक्तम् अहमिति | तथा हि मम [ममेदं भासते इति इदंपदस्य स्वात्मनि असत्कल्पत्वात् संहारक्रमेण मदीयं स्फुरणं स्पन्दनरूपतामाविष्टम् इत्यनेन अहंपरामर्शैकसार एव व्यपदेश्यः न तु अत्र कश्चित् सृष्टिक्रमो नापि संहारक्रम इत्यवधार्यं स्वयमेव सूक्ष्मदर्शिभिः |] इदं भासते इति यत् भासनं तस्य विमर्शः पुनरपि अहंभावैकसारः स पुनः अहंभावो भावप्रत्युपसंहरणमुखेन इति मह अ इत्येतद्रूप एव यथोक्तं प्राक् | यदुक्तम् इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् || इति | अन्यत्रापि घटोऽयमित्यध्यवसा नामरूपातिरेकिणी | परेशशक्तिरात्मेव भासते न त्विदन्तया || (ई० प्र० अ० १ आ० ५ श्लो ० २०) प्. ५९) इति | तदुक्तं श्रीसोमानन्दपादैः निजविवृतौ | अबीजं शुद्धशिवरूपम् इत्यादि | तदेव अस्माभिः विपञ्चितमिति | तथा स्वमम - सुष्ठु अविद्यमानं मम इति यस्य अहन्ताभरैकरूपत्वात् विश्वं न किंचित् यस्य व्यतिरिकनिर्देशप्राणषष्ट्यर्थयोगि भवति | शास्त्रान्तरदीक्षितानां विज्ञानाकलानां प्रलयकेवलिनां च यद्यपि ममेति व्यतिरिक्तं नास्ति तथापि यत् भेदयोग्यतावसाना स्यादेव प्रबोधसमये तद्विकासात् अहंभावरूढिः तदपाकृत्यै सुष्ठुशब्दार्थे सुः | यदुक्तं मयैव स्तोत्रे यन्न किंचन ममेति दीनतां प्राप्नुवन्ति जडजन्तवोऽनिशम् | तन्न [तन्नेति तेषां निषेधरूपम् अत आह सर्वमस्मीति |] किंचन ममास्मि सर्वमित्युद्धुरां धुरमुपेयिवानहम् || प्. ६०) इति | शोभनेन द्वैतकलङ्काङ्कनाकालुष्यलेशशृन्येन अमेन परमार्थोपदेशाद्वयात्मना ज्ञानेन मानम् अवबोधो यस्य स्वप्रकाशैकरूपत्वात् | अमतीति अमा अ इति मा यत्र अविद्यमानं मा मानं निषेधश्च यत्र नित्योदितत्वात् संहारश्च यत्र नास्ति सा भगवती अमा इति उच्यते | मा शोभना सततोदिता यत्र मायां प्रमाणप्रमेयव्यवहृतौ सा तादृशी मा यस्य इति बहुब्रीह्यन्तरो बहुब्रीहिः | परमेश्वरो हि प्रमाणादिव्यवहारेऽपि परशक्तिमय एव सर्वथा अद्वैतरूपत्वात् तस्य आमन्त्रणमात्मन एव || १ || इदमेव सार्धश्लोकनिरूपितानन्तप्रश्नतात्पर्यसंग्रहेण एतदुक्तं भवति इति निर्णेतुं निरूप्यते प्. ६१) हृदयस्था तु या शक्तिः कौलिकी कुलनायिका | तां मे कथय देवेश येन तृप्तिं लभाम्यहम् || २ || सर्वस्य नीलसुखादेः [नीलेति बाह्यान्तरग्राह्यस्य देहेति ग्राहकस्य उभयोः प्रतिष्ठास्थानं संविदित्यर्थः |] देहप्राणबुद्ध्यादेश्च परं प्रतिष्ठास्थानं संविदात्म हृत् तस्यैव निजस्वातन्त्र्यकल्पितभेदा अया - विचित्राणि घटादिज्ञानानि तत्स्था इयं स्फुरणमयी शक्तिः कुलस्य नायिका शरीरप्राणसुखादेः स्फुरत्तादायिनी ब्राह्म्यादिदेवताचक्रस्य वीर्यभूता निखिलाक्षनाडीचक्रस्य मध्य-मध्यमरूपा जननस्थानकर्णिकालिङ्गात्मा अस्ति | तत्रैव च कुले भवा कुलरूपा कौलिकी यद्वा कुले भवमकुलात्म प्. ६२) कौलं तत् यस्यामन्तः तादात्म्येन अस्ति स कौलिकी कुलं हि अकुलप्रकाशरूढमेव तथा भवति | यदुक्तम् अपि त्वात्मबलस्पर्शात् | (स्प० १ नि० ८ का० उ) इति | तथा तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || (स्प० २ नि० १० का०) इति | देवानां ब्रह्मविष्णुरुद्रादीनाम् ईशस्य आमन्त्रणं | तन्मे कथय इत्यपि पठन्ति श्रीसोमानन्दपादाः व्याचक्षते च तत् तस्मात् इति | यद्वा तत् कथय येन तृप्तिं परमानन्दमयीं लभे परमाद्वयनिर्वृतिस्वातन्त्र्यरसाभवामि इति समन्वयः | ब्रजामि इत्यपि पाठः | अहमित्यनेन सर्वप्रमातृजीवनरूपमेव सततं परामृश्यते तत् च एवमभिहितस्वरूपोपदेशेन प्रत्यभिज्ञाय निजमीश्वररूपं परिपूर्णभावात्मिकां तृप्तिं विन्दति इति प्राक् प्रकटितमेव | प्. ६३) तदुक्तं सोमानन्दपादैः स्वविवृतौ हृदि अयो गमनं ज्ञानम् इत्यादि | इति शिवरसं पातुं येषां पिपासति मानसं सततमशिवध्वंसे सत्तां शिवेन निवेशिताम् | हृदयगगनग्रन्थिं तेषां विदारयितुं हठाद् अभिनव इमां प्रश्नव्याख्यां व्यधात्त्रिकतत्त्वगाम् || तदत्र प्रश्नसर्वस्वे श्रीभैरव उवाच व्याख्यातं प्रागेव एतत् किं पुनरुक्ततापादनेन भैरवो भरणात्मको [भरणं विश्वस्य धारणं स्वात्मनि तथा स्वात्मभित्तिलग्नत्वेन पोषणं च यतोऽनेनैव अन्यत्रोक्तं विश्वं बिभर्ति धारणपोषणयोगेन इति | तथा तेन चास्य धारणं पोषणं च इति विश्वमयत्वेनास्य सर्वत्र स्फुरणात् विश्वं संवित्प्रकाशलग्नं चैतन्यव्यक्तिस्थानमित्याचार्याभिनवगुप्तपादा अन्यत्र | तथा स्वस्मिन्नेव स्वात्मनैव विमर्शात्मकश्चेति |] महामन्त्ररवात्मकश्च केवलमत्र शक्तिमत्प्राधान्यं [प्रसरे पश्यन्त्यादिरूपतया शक्तिप्राधान्यं संहारे पुनः शक्तिसंकोचेन शक्तिमत्प्राधान्यं सुबोधमेवेति |] संहाररूपेण मह-अ इत्येवं रूपम् इत्युक्तं प्राक् स्फुटीभविष्यति प्. ६४) च अग्रत एव | तत् इयान् अत्र तात्पर्यार्थः | परा [परेति अनुत्तरस्वरूपा निराकाङ्क्षा पूर्ह्येत्यर्थः | स्वरूपसत्तया प्रसरन्ती अभ्युपगमरूपत्वादिच्छाशक्तिः सापि परानुत्तररूपैवेत्यर्थः तत्रैव हेतुमाह भैरवस्याविभेदिनी इति | तत्रेत्थं क्रमः - औन्मुख्ये इच्छा सा परैव ज्ञानशक्त्यौनुख्ये पश्यन्ती स्थितौ तस्याः क्रियाशक्त्यौन्मुख्ये मध्यमा स्थितौ वैखरीति |] भगवती संवित्प्रसरन्ती स्वरूपतः | परेच्छाशक्तिरित्युक्ता भैरवस्याविभेदिनी || तस्याः प्रसरधर्मत्वज्ञानशक्त्यादिरूपता | परापरापरारूपपश्यन्त्यादिवपुर्भृतिः [आदिना मध्यमावैखरीग्रहणम् |] || तदेवं प्रसराकारस्वरूपपरिमर्शनम् | प्रश्न इत्युच्यते देवी तन्मयप्रश्नकारिणी || तस्य [प्रश्रसतत्त्वमुक्त्वा परस्परं प्रश्नोत्तरसतत्त्वमाह तस्येत्यादि |] प्रसररूपस्य परामर्शनमेव यत् | तदेव परमं प्रोक्तं तत्प्रश्नोत्तररूपकम् || तदेवापरसंवित्तेरारभ्यान्तस्तरां [व्यस्ततयोत्तरस्वरूपमाह तदेवापरेत्यादि |] पुनः | परसंविद्धनानन्दसंहारकरणं मुहुः || प्. ६५) अन्तर्भावितनिःशेषप्रसरं भैरवं वपुः | प्रतिवक्तृस्वरूपेण सर्वदैव विजृम्भते || एतौ प्रसरसंहारावकालकलितौ यतः | तदेकरूपमेवेदं तत्त्वं प्रश्नोत्तरात्मकम् || तदेवं परसंबन्धमनुत्तरतयान्वितम् | षडर्धसारसर्वस्वं गुरवः [गुरव इति श्रीशंभुनाथादयः |] प्राङ् न्यरूपयन् || पफिल-उ फुर-इ फुरण अबि आरिणा होइपरावर अवरविहैण देवि विसरिम इऊ उ | सासच्चिअ परिसरि सेइसऊऔदेउ विलोम-इ भैरव ऊऔ उत्तरु एहु अणुतुल || शृणु देवि महाभागे उत्तरस्याप्यनुत्तरम् || ३ || कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः | कथयामि सुरेशानि सद्यः कौलिकसिद्धिदम् || ४ || प्. ६६) देवि इति प्राग्वत् | महान् भागो यस्याः या भज्यमाना उक्तवक्ष्यमाणोपदेशानुशीलनेन सेव्यमाना पारमेश्वर्याख्यमहाबलदा भवति इति | महत् - परममहद्रूपतया प्रसिद्धोऽनाश्रितशिवरूपः स यस्याः भागः अंशः पारमेश्वरी हि शक्तिः अनन्तषट्त्रिंशदादितत्त्वगर्भिणी [अयमत्राभिप्रायः यदुक्तम् सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः | आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् || नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मविलं हठात् | शक्तितत्त्वे लयं याति गृहीत्वा सचराचरम् || शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः | ततस्तेन क्रमेणैव लीयते सप्यनाश्रिते || सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे | सा शक्तिः साम्यसंज्ञा स्थान्नित्याकल्पा कलात्मिका || यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् | इति |] | महान् - बुद्ध्यादिः तत्त्वविशेषो भागो विभागकलापेक्षि रूपं यस्याः पारमेश्वरी हि संविदेकघनशक्तिः स्वस्वातन्त्र्योपकल्पितभिन्नज्ञेयकार्यप्रतिष्ठापदत्वे बुद्दिरित्युच्यते | प्. ६७) यदुक्तं श्रीसोमानन्दपादैः अपरस्थितौ [अत्र कैश्चिदित्यं विकल्पितं - निर्विमर्शः शुद्धः प्रकाश इति सविमर्शत्वे हि सविकल्पत्वमापतेत् तथाहि जानातीति ज्ञानं बोधो बुद्धिवृत्तिः कथं वृत्तिमतीं बुद्धिं विना स्यात् इतो बुद्धिः प्रकृतेः प्रजाता जडा न च तया तस्य शिवतत्त्वस्य संबन्ध इति तथा चोक्तं पूर्वपक्षव्यवस्थायां श्रीमत्सोमानन्दपादैः बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा | न च तस्य तया योग इति चेत् * * * * * (?) || इति | अत्रान्यैरित्यमुत्तरो दत्तः - अपरावस्थायामख्यात्युल्लसितेषु भिन्नेषु भावेषु बुद्धिरुच्यते अभेदे तु चिन्मये बोधोऽस्य सहज इति | अत्रायं पुनस्तात्पर्यार्थः - पुर्यष्टकप्रमातृणां बुद्धिः पूर्णप्रमातृतायामबोध्यरूपं बोधमात्रमिति ज्ञानकालेऽपि शिवसत्तास्तीति दर्शितम् |] सा बुद्धिर्यत्पुनः सूक्ष्मं सर्वदिक्कमवस्थितम् | ज्ञानं बोधमयं तस्य शिवस्य सहजं [प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना तदभावात् |] सदा || इति | भागो भेदः स यत्र अस्ति रूपे इति मत्वर्थीयाकारप्रत्ययान्तेन भागशब्देन विभक्तं रूपमुच्यते | विभक्ते च वपुषि परिच्छेदोऽन्योन्यव्यवच्छेदेनैव भवति इति प्रसादात्मकविषयनिश्चयो बुद्धावुपजायमानोऽपररम्यारम्यादिविश्ववर्तिनो [अपर इति भिन्नः |] भावान् अस्पृशन्नेव प्. ६८) प्रत्युत तान् व्यवच्छिन्दन् उपजायते इति | सुखवृत्तिबुद्धेः धर्मैश्वर्यादिरूपत्वात् सत्त्वात्मको गुणनिःष्यन्दः इति गीयते | यदि तु तत्रापि अन्तस्तमाम् अनुप्रविश्यते तत् तद्द्वारेणैव तन्मूलवर्तिनि परमानन्दधाम्नि भवेदेव सततमुदयः अत एव महस्य सर्वतोऽखण्डितपरिपूर्णनिरर्गलनिरपेक्षस्वातन्त्र्यजगदानन्दमयस्य आ - ईशत् भागाः [इह खलु अशून्यं शून्यम् इत्युक्त्या केवलानश्रये भावभेदाकलुषिते संविदात्मनि सत्त्वगुणवृत्तौ विश्रान्तिमासाद्य स्वात्मानमेव केवलतया साक्षात्कुर्वन् निजानन्दविश्रान्तस्तिष्ठेत् | १ | ततः राक्संवित्प्राणे परिणता इति नीत्या प्रमाणात्मनः प्राणस्य हृदयाद्द्वादशान्तं रेचकक्रमेण उदये कथंचिद्वहिरौन्मुख्यात् ममातृसंमतात् निजादानन्दान्निष्क्रान्तो निरानन्ददशास्थस्तिष्ठेत् | २ | ततोऽपि अपानात्मनि प्रमेये पुनरुदयति परेण प्रमेयेण कृतमानन्दं विभावयेत् यतस्तत्र प्रमेयोदयदशायामपि परानन्दस्तिष्ठेत् | ३ | ततोऽपि हृदये क्षणं विश्रम्य नीलसुखादिप्रतिभासमानमेयानामन्योन्यमेलनात्मना संघट्टेन ब्रह्मानन्दनिष्ठस्तिष्ठेत् | ४ | ततोऽपि मानमेयौघग्रासतत्परः संघट्टनपरायणः प्रमातृसंमतमानन्दं विभावयेत् - स्वात्ममात्रविश्रान्तिरूपतया विमृशेत् महानन्दमयस्तिष्ठेत् | ५ | ततोऽपि एतत्सर्वानुसंधातृरूपस्वात्मप्रकाशरूपे जगदानन्दे तिष्ठेत् | ६ | यदुक्तं तन्त्रालोके जगदानन्दस्वरूपम् यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरेत् | यदनाहृतसंवित्ति परमामृतवृंहितम् || यत्रास्ति भावनादीनां न मुख्या कापि संगतिः | तदेतज्जगदानन्दमस्मभ्यं शंभुरूचिवान् ||] सुखलक्षणां प्. ६९) अंशा यतः यत् यत् किल सुखं तत् महानन्दनिर्वृतिपरमधाम्नि विसर्गशक्तौ अनुप्रवेशात् तथाऽचेत्यमानतया कियद्रूपतां प्राप्तम् | तदुक्तं भट्टनारायणेन त्रैलोक्येऽप्यत्र [भवाभवातिभवरूपे |] यो यावानानन्दः कश्चिदीक्ष्यते | स बिन्दुर्यस्य तं वन्दे देवमानन्दसागरम् || (६१ श्लो०) इति प्राङ्नयेन यदुक्तं मह-अ इति रूपं तदेव भजनीयं यस्याः परमेश्वरस्य हि स्वचमत्कारवृंहितं यत् अहम् इति तदेव शाक्तं वपुः तदेव च पराभट्टारिकारूपमिति उच्यते अत एव सैव च परमेश्वरी सर्वं शृणोति - श्रवणाख्यया सत्तया तिष्ठन्ती श्रवणसंपुटस्फुटक्रमिकस्वस्वपन्दमयवर्णराशिनिष्ठमैकात्म्यापादन- रूपसंकलनानुसंधानाख्यं स्वातन्त्र्यं तेन हि विना कलकललीनशब्दविशेषं शृण्वन्नपि - न शृणोमि प्. ७०) इति व्यवहरति प्रमाता | कलकलमात्रविषयमेव तु संकलनमिति तत्रैव श्रुतमिति व्यवहारः | वस्तुतस्तु स कलकलध्वनिः श्रोत्राकाशे अनुप्रविशन् न वर्णान् अनुप्रवेशयन् तथा भवेत् तद्वर्णातिरिक्तस्य कलकलस्यैव भावात् [तस्मादेकः क्रमविरहितः कल्पितासत्यभागो वाक्यस्फोटो जनयति मतिं तादृशि स्वाभिधेये | वर्णास्ते ते प्रकृतिलघवः कल्पनैकप्रतिष्ठास्तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः || इति स्फोटवादो वैयाकरणैरुपगतः |] तद्वर्णविशेषविवक्षायां च कलकलस्य च कारणाभावादेव अनुत्पत्तिः स्यात् - तद्विवक्षोत्पन्नस्फुटवर्णमयशब्दकार्यत्वेपि सजातीयशब्दोत्पत्त्यनुपपत्तेः | सर्वथा त एव वर्णाः तेन स्फुटरूपेण संकलनामगच्छन्तः कलकलशब्दवाच्याः तत्संकलनावधानोद्युक्तस्य भवेदेव कियन्मात्रस्फुटोपलम्भ प्. ७१) इति संकलनमेव अत्र उपयोगि | संकलनं च भगवती सैव परा परमेश्वरी करोति | यदुक्तम् तदाक्रम्य बलं मन्त्राः (स्प० २-१०) इत्यादि | वस्तुतो हि शृणोति पश्यति वक्ति गृह्णाति इत्यादि भगवत्या एव रूपम् | यथोक्तम् येन रूपं रसं गन्धं स्पर्शशब्दौ च मैथुनम् | एतेनैव विजानाति किमत्र परिशिष्यते || (कठ० उ०२-३) इति वेदान्ते परमेश्वरेण | न तु श्रवणं नाम स्फुटकलकलात्मकतारगद्गदादिरूपवर्णाकर्णनमेव | तथाहि - श्रीपरमेश्वर एव श्रीस्वच्छन्दशास्त्रे जपविभागनिर्णयावसर एवमेव निरूपितवान् आत्मना श्रूयते यस्तु स उपांशुरिति स्मृतः अत्र हि मध्यमापदे आत्मैव संशृणुते नापरः ज् प्. ७२) इत्युक्तम् स्थानादिप्रयत्नस्फुटतायां दन्तौष्ठ पुटादिसंयोगविभागेन अतिनिभृतमपि शब्दोच्चारे निकटतरवर्तिपरश्रवणमपि स्यादिति सशब्दतापत्तिरेव | परैः संश्रूयते यस्तु सशब्दोऽसौ प्रकीर्तितः | इत्युक्तम् यतः न चात्र निकटादिविशेषः कश्चित् इति | परप्रमातृदर्शनमात्रगोचरजिह्वोष्ठपुटादिसंयोगे तु यद्यपि आत्मन एव श्रवणं स्यात् न परस्य तथापि मध्यमापदमेव एतत् संपद्यते - वर्णस्य बहिरात्मलाभाभावात् | वायवभिघातात् हि स्फुटवर्णनिष्पन्न एव न च तत्र वायवभिघातो बाह्यतापत्तिपर्यन्तः स्यात् | ओष्ठादिचलनमपि न तत्र वर्णांशेऽनुप्रविशेत् अपि तु स्वात्मनिष्ठमेव तात्कालिकं तत्स्यात् तात्कालिकेङ्गितनिमिषितकरव्यापारादिस्थानीये प्. ७३) स्फुटस्थानकरणप्रयत्नयोगे तु वर्णनिष्पत्तावपि यदि नाम ध्वनीनां तारतम्येन तारमन्द्रादिविभागे दूरादूरादिश्रवणं स्यात् सर्वथा परैः श्रूयते - इति वैखरीपदमेव एतत् इत्यत्वं प्रसक्तानुप्रसक्त्या | सैव [श्रवणलक्षणा |] परमेश्वरी आमन्त्रणयोगेन स्फुटं शक्तिरूपतयोक्ता नर-शक्ति-शिवात्मकं [स्फुटं शक्तिरूपतया उक्ता इत्येव सविचारं स्फुटयति - नरशक्तीत्यादिना तत्र भेदप्रधानो नरः भेदाभेदप्रधाना शक्तिः केवलमभेदप्रधानः शिव इति | यदुक्तं विभागाभासने चास्य त्रिधा वपुरुदाहृतम् | इति | इच्छा-ज्ञान-क्रियास्वरूपमत्र सुबोधं सृष्टिक्रमेण |] हि इदं सर्वं त्रिकरूपमेव तत्र यत् केवलं स्वात्मनि अवस्थितं तत् केवलं जडरूपयोगि प्. ७४) मुख्यतया [मुख्यतयेत्यस्यायमभिप्रायः - यज्जडं स्वात्मनि अलब्धसत्ताकमेव परमार्थतः प्रकाशलग्नमेव इदानीं तावत्ताटस्त्येन भासमानतया मुख्यतो जडमित्यर्थः |] नरात्मकं घटः तिष्ठति [घट इति सविकल्पकं ज्ञानम् इदमिति निर्विकल्पमित्यनयोर्विशेषः] इतिवत् एष एव प्रथमपुरुषविषयः शेषः | यत् पुनरिदमित्यपि भासमानं [इदोमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् || इति | तया घटोऽयमित्यध्यवसा नामरूपातिरेकिणी | परेशशक्तिरात्मेव भासते न त्विदन्तया || इति | तत्रायं विवेकः - ये पुनर्नामरूपे ते भेदहेतुभूततया नरात्मके यत्पुनरिदमित्यध्यवसायशक्तिः सा अभेदतया शक्तिस्वरूपा यत आत्मेव इयमभिन्ना - अहन्ताच्छादितत्वात् |] यदामन्त्र्यमाणतया आमन्त्रकाहंभावसमाच्छादिततद्भिन्नेदंभावं युष्मच्छब्दव्यपदेश्यं तच्छाक्तं रूपं त्वं तिष्ठसि इत्यत्र हि एष एव युष्मच्छब्दार्थः आमन्त्रणतत्त्वं च | तथाहि यथा अहं तिष्ठामि तथैव अयमपि इति तस्यापि अस्मद्रूपावच्छिन्नाहंभावचमत्कारस्वातन्त्र्यमविच्छिन्नाहंचमत्कारेणैव प्. ७५) अभिमन्वान आमन्त्रयते यथार्थेन मध्यमपुरुषेण व्यपदिशति सेयं हि भगवती परापरा सर्वथा पुनरविच्छिन्नचमत्कारनिरपेक्षस्वातन्त्र्याहंविमर्शे अहं तिष्ठामि [तथा च विरुपाक्षपञ्चाशिकायां प्रथमो मध्यम उत्तम इति पुरुषा भेदिनस्रयोऽपि मिथः | मत्तस्तु महापुरुषात्प्रत्यवमर्शात्मनो न बहिः || युष्मच्चेपापोहवदहमिति यद्भाति भिन्नमिव रूपम् | तदिदं भागविभेदो न त्वहमेकोस्मि यन्नित्यम् || इति |] इति पराभट्टारिकोदयः यत्र उत्तमत्वं पुरुषस्य यदुक्तम् यस्मात्क्षरमतीतोऽहमक्षराद्वपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || इति | अत्र क्षराक्षररूपात् उभयतोऽपि हि उत्तमत्वम् अस्मि इत्यस्मदर्थेन उक्तम् नहि [ननु अहं तिष्ठामीत्यत्र शरीराद्यहन्तैव स्फुटं प्रतीयते तत्कथमत्र पराभट्टारिकोदयः (?) इत्यत आह - नहीत्यादि अयं पुनरत्र भावः - स्वतन्त्रप्रकाशघनाविनश्वरवस्तुतत्त्वं हि परमार्थः तदेव स्वस्वातन्त्र्यात् गृहीतदेहाग्रहंभावोऽपि अहमित्युच्यते तत्प्राच्यस्वरूपानपहारतोद्दयोतनाय | देहादेस्तु प्रत्यक्षमेव विच्छिन्नतापरमार्थत्वम् इति कथं तत्र अस्मीति व्यपदेशः | अत्र प्. ७६) सर्वत्र अहमिति परिमितं शरीरादि अपदिश्यते तस्य प्रत्यक्षेणैव ताद्रूप्यविरोधात् | तदेवमीदृशं स्वयंप्रथात्मकं [स्वयंप्रकाशात्मकं न तु नररूपशक्तिरूपभेदभेदाबेह्दतया प्रकाशाधीनमित्यर्थः |] शिवात्मकं रूपम् अत एव बोधस्यास्य स्वसंवित्प्रथात्मकस्य किंचिन्न ऊनं नाप्यधिकं [भेदाभेदरूपम् |] - तस्याप्रकाशरूपस्य चिन्मये अननुप्रवेशात् [प्रकाशरूपस्य पुनः चित्स्वरूपेऽनुप्रवेशादित्यर्थसिद्धम् |] तदपेक्षया च माध्यस्थ्यमपि न किंचित् - इत्युपचयापचयमध्यस्थानीयेदन्तानिर्देश्याभावलब्धप्रतिष्ठानेन [उपचयः प्रकाशे अपचयः घटे माध्यस्थ्यं युष्मदि इति |] तद्बोधाविच्छेदरूपास्मदर्थाः विच्छेदितोऽपि युष्मदर्थ एवमेवेति अत एव अलिङ्गे युष्मदस्मदी गीते | देहगतसंख्याद्युपचारेण परापरादिशक्तिगर्भीकारात् संख्यायोगस्तु उपपद्यते प्. ७७) तथाहि - स्वस्वातन्त्र्योपकल्पितभेदावभासस्य अनन्तशरीराद्येकतयैव विमृशेत् आवां युवां वयं यूयं इति च उपचयाद्यास्तु देहगता उपचरितुमपि न शक्याः - चिद्रूपस्य ऊनाधिकतानुपपत्तेः सर्वं हि सर्वात्मकमिति नरात्मानो जडा अपि त्यक्ततत्पूर्वरूपाः शाक्त-शैवरूपभाजो भवन्ति - शृणुतग्रावाणः मेरुः शिखरिणा महं भवामि अहं चैत्रो ब्रवीमि इत्यपि प्रतीतेः | शाक्तमपि युष्मदर्थरूपमपि नरात्मकतां भजत एवं - शाक्तरूपमुज्झित्त्वा त्वं गतभयधैर्यशक्तिरि अनामन्त्रणयोगेनापि प्रतिपत्तेः | भवानित्यनेन पादा गुरव इत्यादिप्रत्ययविशेषैश्चापरावस्थोचितनरात्मकप्रथमपुरुषविषयतयापि प्. ७८) प्रतीतिसद्भावात् त्यक्तशाक्तरूपस्यापि च अहंरूपशिवात्मकत्वमपि स्यात् | वयस्ये दयिते शरीरचित्तत्त्वमेव अहं भवामि इति प्रत्ययात् शिवसव्रूपमपि च उज्झितचिद्रूपमिव नरशक्त्यात्मकं वपुराविशत्येव | कोऽहम् एषोऽहम् अहो अहं धिक् माम् अहो मह्यम् इत्यादौ हि अहमीति सुणीकृत्याविच्छिन्नं स्वातन्त्र्यं मुख्यतया तु विच्छिन्नैव इदन्ता प्रतीयते यत्र भगवत्या अपराया उदयः हे अहम् इत्यादौ परापरशाक्तस्पन्दस्पर्श एवं शिवस्य किं तु पूर्वं पूर्वमव्यभिचरितमुत्तरत्र तेन नररूपं स्फुटयैव प्रतिपत्त्या शाक्त-शांभवधुरमारोढुं शक्नुयादेव न पुनर्वैपरीत्येन आरोहणं स्फुटप्रतीतिमयम् अत्यक्तनिजनिजरूपतया प्. ७९) त्र्यात्मकत्वात् एकद्विबहुरूपभागित्वमेति प्रत्येकमेतत् त्रिकम् | उक्तं हि एकं वस्तु द्विधा भूतं द्विधा भूतमनेकधा | इति एकात्मकत्वे हि अप्रतियोगित्वात् शिवताप्रतियोगिसंभवे शाक्तत्वम् अनेकतायां भेद एव नरत्मभाव एकस्यैव घटः घटौ घटाः घटपटपाषाणा इत्यपि हि तिष्ठति तिष्ठतः तिष्ठन्ति इति च एकेनैव क्रियाशक्तिस्फुरितमेव एतत् यथोक्तं अनेकयेकधा कृत्वा को न मुच्येत बन्धनात् | इति | अत एव नर-शक्ति-शिवात्मनां युगपदेकत्र परामर्शे उत्तरोत्तरस्वरूपानुप्रवेश एव - तस्यैव वस्तुतः तत्परमार्थरूपत्वात् स च त्वं च तिष्टह्तः स च त्वं च अहं च तिष्ठामः इति प्रतीतिक्रम प्. ८०) एव अकृतकसंस्कारसारः शाब्दिकैर्लक्षणैरनुगम्यते तथा च निजभाषापदेष्वपि संस्कारस्य यत्र नामापि न अवशिष्यते बौद्धान्द्रद्रविडादिषु तत्रापि अयमेव वाचनिकः क्रमः वचनक्रमश्च हार्दीमेव प्रतीतिं मूलतोऽनुसरन् तत्प्रतीतिरसरूपतया प्रतीतेरपि एवंरूपत्वमवगमयेत् यथोक्तं मयैव न हृदयंगमगामिनी गीः | इति | तत् सर्वथा अकृतका एवंप्रतीतिः यथोक्तम् न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः | इति | श्रीमालिनीतन्त्रेऽपि | एवं सर्वाणुसंघातमधिष्ठाय यथा स्थिता | तथा ते कथिता शंभिः शक्तिरेकैव शांकरी || इति | श्रीतन्त्रसमुच्चयेऽपि नर-शक्ति-शिवावेशि विश्वमेतत्सदा स्थितम् | व्यवहारे क्रमीणां च सर्वज्ञानां च सर्वशः || प्. ८१) इति | तदेव नरशक्तिंशिवात्मकं स्फुटप्रतिपत्तिसंप्रदायोपदेशेन दर्शितं नरः शक्तिः शिव इति तु सर्वंसहः प्रतिपत्तिक्रमः परमेश्वरेच्छास्वातन्त्र्यसृष्टः इत्यलं परशक्तिपातपवित्रितबहुश्रुतसहृदयसोपदेशकतिपयजनहृदयहारिण्या [सहृदया इति रसिकश्रोतारः कतिपयेति तथा चोक्तम् पूजकाः शतशः सन्ति भक्ताः सन्ति सहस्रशः | प्रसादपात्रमाश्वस्ता द्वित्राः सन्ति न पञ्चपाः | इति |] प्रसक्तानुप्रसक्त्या | तत् व्याख्यातं शृणु देवि इति | उत्तरस्यापि इति यदुक्तं - कथमनुत्तरमिति तत्र प्रतिवचनम् - उत्तरस्यापि संनिहितस्य यत् अनुत्तरं प्रागुक्तक्रमेण हि उत्तरमपि अनुत्तरतादात्म्येनैव भवेत् नान्यथा अत एव उत्तरमपि अनादृत्य अनादरे षष्ठी उत्तरं रूपं हि अनादृततद्भावमनुत्तररूपमेव [अनादृतोत्तरभावम् |] भेदो हि अयमुत्तररूपो नितरामेव प्. ८२) अभेदभुवमधिशयय [अधिशयय - आश्रित्य | तथा - भेदरूपतया |] तथा भवेत् | यथोक्तं परव्यवस्थापि [परव्यवस्था - भेदनियमः | परे - भिन्नपदार्थे |] परे यावन्नात्मीकृतः परः | तावन्न शक्यते कर्तुं यतोऽबुद्धः परः परः || इति | तथा उत्तरस्यापि [उत्तरस्यापीति वक्ष्यमाणस्य | अनुत्तरम् - उत्तीर्णम् |] ग्रन्थभागस्य अनुत्तरं तेनापि उत्तरीतुं न शक्यते | पश्यन्त्या [पश्यन्त्या अपीति विमर्शसतत्त्वं हि प्रकाशतत्त्वं स एव विमर्शः प्रथमप्रसररूपः | यदुक्तम् अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा | स्वरूपज्योतिरेवान्तः सूक्ष्मा धागत्रपायिनी || इति | सैव चार्थप्रतिपादनेच्छारूपविवक्षास्वरूपे मनसि विज्ञानरूपे वर्तते या मध्यमेति कथ्यते इयं च नित्यं प्राणापानन्तरे सर्वसाधारणैकेति | यदुक्तम् आस्ते विज्ञानरूपत्वे स शब्दोऽत्र विवक्षया | मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् || इति | पुनरपि च सैव वक्त्रनाड्यां प्राप्ता कण्ठादिस्थानविभक्तककारादिवर्णासाधारणा वैखरीत्युच्यते सैव ग्रन्थरूपेति इत्यतस्तक्ष्यैतत्प्रसररूपत्वात् कथं तेन निर्णेतुं शक्यते | उक्तं च स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा | वैहरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धना || इति |] प्. ८३) अपि पराभट्टारिकायाः प्रथमप्रसरत्वात् उत्तरस्यापि च मदीयस्य एतदेवानुत्तरं परमार्थः उत्तरस्य त्रिशूलप्रेरणादिमयस्य [यथालोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः प्रिये || इति | त्रिशूलेन लोलीभूतशक्तित्रितयेन य उत्तरः समावेशस्तस्य | यथोक्तं लोलीभूतमतः शैतिग्रितयं तत्त्रिशूलकम् | यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः || इति |] यत् अनुत्तरं विशान्तिस्थानं किं तत् (?) इत्याह - यतः स्यात् अयं कौलिको विधिः - कौलिकः कुलाकुलात्मा प्राक् व्याख्यातो विधीयमानत्वात् विधिः महासृष्टिरूपो [महासृष्टिरूपः - शुद्धविद्यारूपः] गर्भीकृतानन्तसृष्ट्यादिकोटिशतो यस्मात्प्रसृत एतदेव तदनुत्तरं यदुक्तम् प्. ८४) यतः [यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः | यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः || तत्र यत एकस्मात् कर्तुः सर्वमिदं कार्यजातं प्रभवतीति यतः सर्वम् इत्येकस्य तत्त्वस्य सर्वकर्तृत्वं प्रतिपादितं तथा यस्मिन् सर्वम् इति सर्वज्ञत्वम् इदमत्यन्तभिन्नाभासमयं भावजातं संवेद्यमानतामात्रनिबन्धनतत्तत्स्वात्मना सत् सुखादिसर्वावस्थानुगतैकसंवेदितृत्वमात्रस्वभावे प्रकाशात्मनि यस्मिन् स्थितं नानात्वमेवेदमित्थं यद्वशात् स्फुरतीत्यर्थः यःसर्वम् इत्यनेन स्वेच्छामात्रव्यतिरिक्तोपादानरूपवस्त्वन्तरनिरपेक्षत्वमस्योक्तम् सर्वतश्च य इत्यनेन सर्वस्मिन् वेद्ये वस्तुनि य एवैकः परिस्फुरति तेन नास्य स्वरूपविक्रियेत्यर्थः यश्च सर्वमयो नित्यम् इति कार्यानारम्भेऽपि सर्वात्मकत्वप्रतिपादनम् इत्यमत्र तात्पर्यार्थः - सर्वमेकः सर्वज्ञः सर्वकर्ता निरुपादानः निरुपाधिर्नित्यं सर्वात्मकत्वेनावभासते इति श्रीमद्राजानकरामकण्ठटीकायाम् |] सवं इति | तथाहि इदं विश्वं चिच्चित्तप्राणदेहसुखदुःखेन्द्रियभूतघटादिमयमेकस्यां [चित् इति शून्यप्रमाता |] वा परस्यां परमेश्वर्यां भैरवसंविदि [ननु च सर्वमिदं प्रकाशरूपमेवान्यथा जगतोऽन्धताप्रसङ्गस्तत्किमिति उक्तं संविदि अभेदेनैव बोधात्मकेन रूपेणेति अयमत्र भावः - यद्यपि प्रकाशसत्तां विना न किञ्चित् प्रकाशते इति सत्यं तथापि परस्परं ते विच्छिन्ना एव अनुत्तरस्वरूपे तु परस्परविच्छेदो नास्ति इति अनुत्तरत्वमस्य |] अविभागेनैव बोधात्मकेन रूपेण आस्ते यद्यपि बोधात्मकं प्. ८५) रूपं नास्तमेति जातुचिदपि तदस्तमये अप्रकाशमानतापत्तेः तथापि परस्पराभावात्मकोऽवच्छेदः तत्र नास्ति विश्वात्मान [आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्विभुः | अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः || स यदास्ते चिदाह्रादमात्रानुभवतज्ञयः | तदिच्छा तावती तावत्तावज्ज्ञानं क्रिया हि सा || सुसूत्रमशक्तित्रितयसामरस्येन वर्तते | चिद्रूपाह्लादपरमो निर्विभागः परस्तदा || इति शिवदृष्टौ |] एव भावाः तत्र च यदि एषामवस्थितिः न स्यात् तत् प्रथमानुसंधानादिकमेव अक्षप्रेरणोपयोग्यपि न भवेत् इति समुचितानुदितेदन्ताकमहंपरामर्शमात्राभिन्नमेव भावजातं विगतभेदकलनं तिष्ठति न तत्र कश्चित् अवच्छेदः तथा यदि अत्र स्पष्टः सन्नयं विधिः कौलिकः स्थितो प्. ८६) विश्रान्तिं प्राप्तः सर्वमिदं हि षट्त्रिंशदात्म ततः सामान्यस्पन्दसंविदात्मनः शक्तिमतः परशक्तिप्रधानात् शिवात् स्वशक्त्या सृष्टमपि सत् तत्रैव भैरवविशेषस्पन्दात्मनि शक्तिप्रधाने स्वस्वरूपे विश्राम्येत् तदेव स्वस्वभावनिष्ठितत्वं भावानां | यदुक्तं यस्मिन्सर्वं इति | तदे तत् शिवशक्त्यात्मैव सामान्यविशेषरूपमेकात्मकमपि परमेश्वरेणैव उपदेशोपायप्रवेशाय पृथक्कृत्य निरूप्यमाणं वस्तुतः पुनरेकमेव स्वतन्त्रचिन्मयमहमित्यैश्वर्यशक्तिसारमनुत्तरम् | यत्र कीदृशे स्वस्वरूपेऽवस्थितः मम हृद्व्योम्नि ममेति यत् एतत् हृदयं सर्वभावानां स्थानं प्रतिष्ठाधाम नीलादीनां हि अन्ततः क्रिमिपर्यन्तं चिदंशानिविष्टानां न किंचित् नीलादि रूपमिति प्रमातुरेव प्. ८७) ममेति अविच्छिन्नचमत्कारांशोपारोहित्वं मम नीलं भातम् इति तदेव निलादिरूपत्वमिति तस्य ममेत्यस्य नीलाद्यनन्तसर्वभावहृदयस्य यत् व्योम यत्र तत् ममकारात्मकं विश्वं वीतं [विशेषेण इतं गतं वीतम् |] सम्यक् धृतम् अत एव त्यक्तभिन्ननिजरूपतया शून्यरूपं व्योम यत्र तथा ममेत्यस्य भिन्नाभिन्नरूपपरापरसंविदात्मनो यत् हृदयं पर्यन्तप्रतिष्थाधाम अहमिति तस्यापि व्योम संहाररूपकलनेन म ह अ इति नरात्मकं लीनं बिन्द्वात्मशक्तौ म-इति कुण्डलिनी-ह-कलारूपायां प्रविश्य परिपूर्णनिरर्गलचमत्कारे सर्वाविच्छिन्ने अ-इत्यनुप्रविष्टं तथा भवति एतदेव मम हृद्व्योम एवं यत इदं प्. ८८) प्रसृतं यत्र च विश्रान्तं तदेव नित्यमनावृतस्वभावं स्वयं प्रथमानम् अनपह्नवनीयमनुत्तरम् | यथोक्तम् यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् || इति | आवरकत्वेन निरोधकाभिमतोऽपि हि तदावरणादिस्वातन्त्र्येण प्रकाशमानो दृक्क्रियात्मक एव परमेश्वरः यदित्ययं निपातः सर्वविभक्त्यर्थवृत्तिः अपरवाक्यीयसंबन्धौचित्यात् विशेषे स्थास्नुरत्र पञ्चम्यर्थे सप्तम्यर्थे च वर्तते | अयं हि आञ्जस्येन [सूचमार्थविवेकं विनापि |] अर्थः - यदयं [यत् - यस्मात् |] कौलिकः सृष्टिप्रसरः यच्च मम हृद्व्योम्नि अवस्थितः तदेवानुत्तरम् | एवं तस्यैव प्रसरविश्रान्त्युभयस्थानत्वं प्. ८९) निरूप्य प्रसरक्रमस्वरूपं क्रियाशक्तिस्पन्दविसर्गं निरूपयति कथयामि इत्यादि तदेव हि रूपम् अहं परानुत्तरात्मपरापरादिमयपश्यन्त्यादिप्रसरपरिपाट्याऽविच्छिन्नैकतापरमार्थ् अः कथयामीति समुचितव्यपदेशं पराभट्टारिकोदयभागिवैस्वर्यन्तं वाक्यप्रबन्धं शास्त्रीयलौकिकादिबहुभेदं व्यक्तयामीति तदुक्तम् सर्वतश्च यः इति | प्रथमपर्यन्तभुवि पराभट्टारिकात्मनि तत्प्रसरात्मनि च परापरादेवतावपुषि अनुत्तरध्रुवपदविजृम्भैव तदाहुर्निजविवृतौ [तथैव शिवदृष्टावपि यदा तु तस्य चिद्धर्मविभवामोदजृम्भया | इत्याद्युक्तम् | श्रीमदुत्पलदेवप्रबुपादैरपि स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् | यत्स्वयं निजरसेन घूर्णसे तत्समुल्लसति भावमण्डलम् || इति] श्रीसोमानन्दपादाः - प्. ९०) कथयामि इति उच्चारयामि उत्कलिकात इति तथाहमेव सर्वस्य अन्तश्चिद्रूपेण कथयामीति तदेवास्माभिः युक्त्युपदेशसंस्कारैः निर्मलयय हृदयङ्गमीकृतम् | स्वरूपं चास्य परमेश्वरस्य सद्य इति - य एव च परमेश्वरो भैरवात्माकुलानुत्तरध्रुवधामतया - उक्तम् तदेवेदं सर्वं तत् कौलिकविधिरूपं नहि प्रकाशविमर्शशुद्धभैरवस्वरूपातिरेकि किंचित् भावानां सत्त्वं सत्तासंबन्धार्थक्रियाकारित्वादीनामपि सत्ताहेतुता पराभिमतानामपि सत्तायोगे तथात्वानुपपत्तेः सत्त्वान्तरार्थक्रियान्तरयोगे चानवस्थापत्तेः प्रथमत एव तथा विमर्शजीवितप्रकाशमयत्वमेव सत्त्वं तत् च स्वातन्त्र्यविमर्शसाराहंभावभरितमिति भैरवरूपमेव | यद्वा सति सद्रूपे यस्यति यत्नं करोति क्रियाशक्तिप्राणत्वात् तत् सद्य इति प्. ९१) क्विपि नपुंसकनिर्देशः सद्यदिति केचित् गुरवः पठन्ति | तदुक्तं श्रीसिद्धसन्ताने प्रकाशमानाभासैव यद्भूतिस्तत्सदेव हि | इति | श्रीस्पन्देऽपि तदस्ति परमार्थतः | इति | श्रीसोमानन्दपादैरपि यत्सत्तत्पस्मार्थो हि परमार्थस्ततः शिवः | इति स्वरूपमुक्तम् | तदुक्तं यः सर्वं इति | अस्यैव क्रियाशक्तिप्रसरं निरूपयति कौलिकसिद्धिदम् इति कौलिकं यत् व्याख्यातं तस्य सिद्धिः तथात्वदार्ढ्यं तत् यतो भवति तत्र हि परमार्थप्रमातरि सकलं कुलाकुलादि तथा भवति यत्र प्रतीयमानं सर्वं तथात्वदार्ढ्यं भजते | तदुक्तं परात्परतरं त्रिकम् | प्. ९२) इति | अन्यत्रापि वेदाच्छैवं ततो वामं ततो दक्षं ततः कुलम् | ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् || इति | श्रीनिशाचारेऽपि वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् | संस्कार्यो भैरवे सोऽपि कुले कौले त्रिकेऽपि सः || इति | श्रीसर्वाचारेऽपि वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् | क्रमाद्भैरवतन्त्रेषु पुनः संस्कारमर्हति || इति | क्रमश्च एष एव यथोक्तम् - एवं यत् सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति | यथोक्तम् यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः | इति | तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः किंबहुना सर्वमेवानुत्तरमनुत्तरत्वात् इति | अयं तात्पर्यार्थः - प्. ९३) स-अल बहुसंवे-अणफुरितमत्त उजहित हिंचि अजत्तो हित्त-उपफुर | इज कुट्टि उस अलभाव संवे-अणर-अणणिहाणुइउ || परिआणहुएत्तिअणुतुरुछत्तुहजसट्ठ-उसम्मूढतुणिअच्छहतुह-अत्तासिअऊ-उ-ऊ- उसुबाहिरवितुरहुंबन्धुणमोक्खत-उइरिअवहुविकुणसिविसग्गुणिमसिद्व- उपुणसंहरसिज्जितिपविण्णुविरिञ्चरुद्रम-अलक्खहिमसरणिरोहचिन्त-इमलक्ख-एक्कवा- अपरिआणहु-अत्ताण-उपरमत्थ-अण्णुणकोइविआसुबहुइउस-अलौसत्थत्थ | इतीदृक् व्याख्यानं त्यक्त्वा यत् अन्यैः व्याख्यातं तत्प्रदर्शनं दूषणम् यद्यपि पदवाक्यसंस्कारविहीनैः सह ब्रीडावहा गोष्ठी कृता भवति तथापि सचेतसोऽनुत्तरमवबोधयितुं तत् एकवारं तावत् लिख्यते - अनुत्तरम् इत्यादिना सार्धेन शोकेन शिवविषयः [अत्रायं भावः | शिवः विषयो यस्येति विग्रहः यतः येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् || इत्युक्तम् | तथा शक्तिर्विषयो यस्येत्येवं विग्रहो बोध्यः यतः तां मे कथय देवेश || इत्युक्तम् इति पूर्वपक्षव्याख्या तदेव तिरसितुमाह - अत्र यदीत्यादि तत्र अनुपपत्तिमाह तन्नरेति |] प्रश्नः | हृदयस्था प्. ९४) इत्यादिना श्लोकेन शक्तिविषयः | तथा शृणु देवि इत्यत्र प्रतिवचनग्रन्थे उत्तरस्याप्यनुत्तरम इति तत्रार्थः उत्तरं च शृणु अनुत्तरं च इति | अत्र यदि एषा त्रिकार्थाभिप्रायेण व्याख्या तत् नरविषयतृतीयप्रश्नप्रसङ्गः | अथ तु यामलाभिप्रायेण तत्रापि न द्वे वस्तुनी शिवशक्त्यात्मके यामलमुच्यते येन [येनेति द्विवस्तुपृथक्स्वभावतया इत्यर्थः |] पृथक् प्रश्नविषयतोपपत्तिः अथशब्दार्थश्च [अथाद्या इत्यत्र वचयमाणः |] न संगच्छते - स हि सजातीयनिश्चयानन्तर्यवृत्तिः उत्तरस्वरूपावधारणमन्तरेण च अनुत्तरविषयस्यैकप्रश्नस्य अनुपपत्तिः तथाहि [यदुक्तं तैः प्रतिवचनग्रन्थे उत्तरं च शृणु अनुत्तरं चेति तन्निर्दलयितुमाह उत्तरस्वरूपेति तदेव समर्थयति तथाहीत्यादिना |] केषुचित् वृद्धपुस्तकेषु ईदृक् श्लोकान्तरं दृश्यते प्. ९५) श्रुतं देव महाज्ञानं त्रिकाख्यं परमेश्वर | उत्तरं च तथा ज्ञानं स्वत्प्रसादावधारितम् || इति | तस्मात् श्रीसोमानन्दपादनिरूपितव्याख्यानुसारेणैव यत् गुरवः समादिक्षन् तदेव सर्वस्य करोति शिवम् | इत्यसंस्कृतदुर्व्याख्यातामसोन्मूलनव्रतः [तामसं तमोपटलम् |] | षडर्धशासनापूतहृदम्बुजविकासकः || संस्त्यानानन्तपाशौघविलापकलसद्रुचिः [संस्थानः श्यानीभूतः | ; सूर्यपक्षे पाशौघः पिशाचादिसमूहः |] | दीप्तोऽभिनवगुप्तेन व्याख्याभानुः प्रकाशितः || एवं यतोऽयं कौलिको विधिः प्रभवति यत्र च प्रतिष्ठापदवीं भजते यन्मयं च इदं कौलिकं तदेवानुत्तरमित्युक्तम् | तत्र कस्तावत् कौलिको विधिः (?) कथं च अस्य प्रसरोऽनुत्तरात् (?) कथं चात्रैव अस्य प्रतिष्ठा (?) कथं च प्. ९६) अनुत्तरैकरूपत्वं [कौलिकविधेरिति योज्यम् |] (?) यच्चोक्तम् - उत्तरस्याप्यनुत्तरमिति तत् [युक्तिरनुभवोपयोगी तर्कः ततश्चात्र गुरुतः शास्त्रतः स्वत इति फलितम् |] सर्वं युक्त्यागमस्वसंवेदननिष्कर्षणतत्त्वावबोधावाप्तविमर्शनिपुणान् शिष्यान् प्रति वितत्य निर्णिनीषुः भगवान् प्रस्तौति ग्रन्थान्तरम् एतावद्दृढोपदेशनिर्दलितभेदाभिमानविकल्पानल्पसंस्काराणां तु सर्वमेतावतैव अनुत्तरं कथम् इत्यादिसार्धश्लोकयुगलनिगमितेन [निगमितेति - इत्थं मयापदे परप्रतिपत्त्यै नयः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि बोधहेतवः तत्र साध्यवत्तया पक्षसाधनं प्रतिज्ञासंदिग्धसाध्यवान् पक्षः यथा - पर्वतोऽयं वह्निमानिति तत्रैव परप्रतिपत्त्यै लिङ्गप्रतिपादकं हेतुः यथा - धूमवत्त्वादिति तत्रैव स्फुटप्रतिपत्तिकारणमुदाहरम् यथा - धूमवान्यः स वह्निमान् इति महानसादौ व्याप्तिदर्शनात् पक्षे साधनोपसंहार उपनयः - तथा चायमिति तत्रैव पक्षे साध्योपसंहारो निगमनमिति यथा - तस्मात्तयेति तत्र दृढशक्ति पातवतां निगमनेनैव प्रतिपत्तिरिति किं तेषामन्येन अन्येषां तर्केणैव प्रतिपत्तिरिति वचयमाणग्रन्थावताः |] प्रश्नेन शृणु देवि इत्यादिना सार्धश्लोकनिर्णीतेन चोत्तरेण अनुत्तरपदप्राप्तिवशाविष्टजीवन्मुक्तभावानां प्. ९७) कृतकृत्यता अतस्तावन्मात्र एव दृढप्रतिपत्तिपवित्रीकृतैर्विश्रमणीयम् - इत्युद्भुजाः फूत्कुर्मः | तदनुत्तरपरभैरवपदविमलदर्पणान्तर्निविष्टकौलिकपदप्रविविक्तये ग्रन्थान्तरमवतरति इत्युक्तम् || ४ || तद्यथा अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानगाः | तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ || ५ || पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु | क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते || ६ || वायवग्निसलिलेन्द्राणां धारणानां चतुष्टयम् | तदूर्ध्वं शादि विख्यातं पुरस्ताद्ब्रह्मपञ्चकम् || ७ || प्. ९८) अमूला तत्क्रमाज्ज्ञेया क्षान्ता सृष्टिरुदाहृता | सर्वेषामेव मन्त्राणां विद्यानां च यशस्विनि || ८ || इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा | तत्राकुलमनुत्तरमेव कौलिकं - सृष्टिरूपमिति निर्णीयते | अथ तत्सृष्टिरिति संबन्धः तदेवानुत्तरं पदं - सृष्टिरित्यर्थः यद्यपि च सृष्टावपि प्राक्तननयेन कालापेक्षि पौर्वापर्यं न स्यात् तथापि उपदेश्योपदेशभावलक्षणो भेदो यावत् स्वात्मनि स्वातन्त्र्यात् परमेश्वरेण भास्यते तावत्पौर्वापर्यमपि - इति तदपेक्षया अथ-शब्देनानन्तर्यम् - प्. ९९) अनन्तरमकुलमेव सृष्टिरूपमिति यावत् न तु प्रश्नप्रतिज्ञाभ्यामानन्तर्यमथ-शब्देनोक्तम् - एकप्रघट्ऽकगतसजातीयप्रमेयापेक्षक्रमतात्पर्यप्रतीतिप्रवणत्वादस्य [अस्य - अथशब्दस्य |] अन्यथा तूष्णींभावादेरनन्तरमिदम् इत्यपि सर्वत्र तत्प्रयोगावकाशः अस्तु - क इव अत्र भवतः क्लेशः (?) इति चेत् - न कश्चित् - ऋते प्रतीत्यभावात् [प्रतितिबाध एव क्लेश इत्यर्थः तेन नापातक्लेशः अपि तु मूलक्लेशा एवेति भावः |] यत्तु श्रीसोमानन्दपादाः अकारः शिव इत्युक्तस्थकारः शक्तिरुच्यते | इत्यागमप्रदर्शनेन अथ इत्येतावदेवानुत्तरम् [तथा च सति अधिकरणसिद्धान्तनीत्या यत् पूर्वमुक्तं यद्यपि पौर्वापर्यं न संभवति तथा तूष्णींभावादेरपि इत्यादि तच्छङ्कैव काचिन्नास्तीति | एकस्मिन्कार्ये सिद्धे कार्यान्तराणि स्वयमेव सिद्ध्यन्ति यत्र सोऽधिकरणसिद्धान्तः |] इति व्याचचक्षिरे थकारहकारसमव्याप्तिकताभिप्रायेण सर्वत्र प्रथमोल्लासे प्रसरदनन्तानन्तवस्तुसृष्टिशक्त्यभेदरूपत्वात् प्. १००) सर्वभूतस्थजीवनरूपपरनादावलम्बनरूपत्वाच्च अथ-शब्दार्थस्य तत् नास्माभिः वितत्य विवेचितम् - तादृशस्य आगमस्य यतो न साक्षाद्वयमभिज्ञाः तैस्तु तथा-विधागमसाक्षात्कारिभिरनेकयुक्तिशतसहिष्णुता सूत्रग्रन्थस्य सूत्रितैव धूलिभेदप्रदर्शनमपि [चूर्णिकार्थाभिधानम् |] तेनैवाभिप्रायेण [तेनैव - समव्याप्तिकताभिप्रायेण] तैरितश्च [तैः - सोमानन्दपादैः इतः परात्रिंशिकालक्षणात् अमुत इति तत्तदागमात् |] अमुतश्च विततम् | वयं तु तच्छासनपवित्रितास्तद्ग्रन्थग्रन्थिनिर्दलनाभिलषितस्वात्मपवित्रभावाः तैः निर्णीतेषु एवमादिषु अर्थेषु उदासीना एव | धूलिभेदादिना च कल्पितसामयिकलिप्यपेक्षणमपि [सामयिकः - सांकेतिकः |] प्. १०१) भवेदपि कस्यचित् [यतः सर्वेदेशेषु विपरीतैव वर्णरचना अतो न सर्वस्य उपायाय | कालभेदश्च इत्थमेव बोध्याः |] उपायाय न तु तत्सकलदेशकालगतशिष्यविषयम् - इति नास्माभिः वितत्य विपञ्चितम् एतदनुभवयुक्त्यनुप्रविष्टानां च तदकार्यकरं स्वकल्पनाभिश्च सुकरम् अवस्थितं च अन्येषां च एतदुपदेशानभिज्ञानां [इत्यमत्र विवेकः निदाघतापतप्ताश्मपतिताव्बिन्दुवत्सदा | अन्तःस्पर्शं नो करोति मूढानामुपदेशगीः || तथा चोक्तमन्येन ज्ञेयत्वमप्युपगता हृदये न रोढुं शक्ताः प्रमूढमनसामुपदेशवाचः | आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः || इति |] तदुपदेशनमपि अकिंचित्करम् इत्यलमनेन प्रकृतविघ्नविधायिना | प्रस्तुतमनुसरामः - अ आद्यो येषां स्वराणां यदि वा थकारेण सुखोच्चारणार्थेन सह अथ् आद्यो येषामिति प्. १०२) आद्य-शब्दश्च अत्र न व्यवस्थामात्रेण अपि सामीप्यादौ अपि तु आदौ भव आद्यः तथापि अमीषां वर्णानां परावाग्भूमिरियमिह निर्णीयते यत्रैव एषामसामयिकं नित्यमकृत्रिमं संविन्मयमेव रूपं संविन्मये च वपुषि सर्वसर्वात्मकता सततोदितैव सा च परमेश्वरी पराभट्टारिका तथाविधनिरतिशयाभेदभागिन्यपि पश्यन्त्यादिकाः [मयुराण्डरसन्यायेन परा वटधानिकान्यायेन पश्यन्ती माषशमिकान्यायेन मध्यमा ततः परं वैखरी |] परापराभट्टारिकादिस्फाररूपा अन्तःकृत्य तत्तदनन्तवैचित्र्यगर्भमयी नहि तत्र यन्नास्ति तत् क्वाप्यस्ति इति न्याययम् परामृशत च प्रथमां [अत्रायं भावः | स.विन्निष्ठा विषयव्यवास्थितयाः इति सिद्धान्तोक्तिः तच्च न भिन्नरूपप्रमात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तत्तद्विभिन्ननिश्चयादिरूपप्रमात्मद्वारेण अमी भावा यदि चैकस्मिन्नेव अहमिति स्वरूपे तिष्ठन्ति अन्यथा अर्थानां जडानां तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां देशकालक्रमिणां स्वरूपमात्रप्रतिष्ठानां न कश्चित् समन्वयः स्यात् | उक्तं चेश्वरप्रत्यभिज्ञायाम् तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि | प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते ||] प्रतिभाभिधानां संकोचकलङ्ककालुष्यलेशशून्यां भगवतीं संविदम् | तथाहि - यत्किंचित् चरमचरं च तत् पारमार्थिकेन अनपायिना रूपेण वीर्यमात्रसारात्मना तदुद्भविष्यदीषदस्फुटतमेषदस्फुटतरेषदस्फुटादि- वस्तुशतमृष्टिकालोपलक्ष्यमाणतत्तदनन्तवैचित्र्यप्रथोन्नीयमानतथाभावेन प्. १०३) संविदि भगवद्भैरवभट्टारिकात्मनि तिष्ठत्येव तथावधानातिशंयरूढैः [अत्रायं भावः | संविन्निष्ठा विषयव्यवस्थितयाः इति सिद्धान्तोक्तिः तच्च न भिन्नरूपप्रमात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तत्तद्विभिन्ननिश्चयादिरूपप्रमात्मद्वारेण अमी भावा यदि चैकस्मिन्नेव अहमिति स्वरूपे तिष्ठन्ति अन्यथा अर्थानां जडानां तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां देशकालक्रमिणां स्वरूपमात्रप्रतिष्ठानां न कश्चित् समन्वयः स्यात् | उक्तं चेश्वरप्रत्यभिज्ञायाम् तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि | प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते || तथा देशकालक्रमजुपामर्थानां स्वसमापिनाम् | सकृदाभाससाध्योऽसावन्यथा कः समन्वयः || इति | तथा इत्थमत्यर्थभिन्नार्थावभासस्वचिते विभौ | समलो विमलो वापि व्यवहारोऽनुभूयते || इति तदेतदुक्तं तथावधानेति | अनेनैवाभिप्रायेण शिवोपनिषदि ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनां तु विशेषोऽयं संबन्धे सावधानता || इति |] सहसैव सर्वज्ञताभूमिरसंकुचितपरमार्था अकृत्रिमतद्रूपा अधिशययते एव परानुग्रहपवित्रितैरभ्यासक्रमशाणनिघर्षनिष्पेषिततदप्रत्ययरूप- कम्पाद्यनन्तापरपर्यायविचिकित्सामलैः सविचिकित्सैरपि प्रतिभातकियन्मात्रवस्तुदत्तसंकोचा [प्रतिभातेति अयमत्र भावः - इह नीलं गृह्णतः प्राणस्तुटिषोडशकात्मा वेद्यावेशपर्यन्तमुदेति तत्र आद्या तुटिरविभागैकरूपा द्वितीया ग्राहकोल्लासरूपा अन्त्या तु ग्राह्याभिन्ना तन्मयी उपान्त्या तु स्फुटीभूतग्राहकरूपा मध्यं यद्द्वादशकं तस्यार्धं निर्विकल्पस्वभावं विकल्पाच्छादकं तत्र स्वरूपेणैका आच्छादनीये विकल्पे पञ्चकत्वमुन्मिमिषिषा उन्मिषत्ता सा चेयं स्फुटक्रियारूपत्वात्तुटिद्वयात्मिका स्पन्दनस्यकक्ऽस्णरूपत्वाभावात् उन्मिषितता स्वकार्यकर्तृत्वं च इत्येवमाच्छादनीयविपयपाञ्चविध्यात्स्वरूपाच्च षट्क्षणा निर्विकल्पकाः ततोऽपि निर्विकल्पस्य ध्वंसमानता ध्वंसः विकल्पस्य उन्मिमिपिषा उन्मिषत्ता तुटिद्वयात्मिका उन्मिषितता च इति षट् तुटयः स्वकार्यकर्तृता तु ग्राहकरूपता इत्युक्तं न सा भूयो गण्यते इति तत्र विकल्पन्यूनत्वे तुटिन्यूनता एवं स्थिते यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता तावद्द्वयं हसति यावत् द्वितुटिकः शिवावेशः तत्र आद्या तुटिः सर्वतः पूर्णां द्वितीया सर्वज्ञानकरणाविष्टा अभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृत्वाय कल्पते - न त्वाद्या तदेतद्भट्टकल्लटेन तुटिपात इति आम्नातम् - तुटेराद्यायाः पातोऽपचयोऽपरा तुटिर्द्वितीयेत्यर्थः |] न तु कृत्रिमा | यदाहुः श्रीकल्लटपादाः तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वलाभः | इति | एवमेष स्वप्रकाशैकरूपोऽपि अर्थो युक्त्या प्. १०५) प्रदर्श्यते - यत् यत् स्वसामर्थ्योद्भूतोत्तरकालिकार्थक्रियायोग्यतादिवशनिःशेष्यमाणसत्यतावशाव अप्ताविचलसंवादं विरोधावभासि संमतक्रमिकविकल्प्यमाननीलादिनिष्ठविकल्पपूर्वभावि निर्विकल्पसंविर्द्रूपं तत्तद्विकल्पनीयविरुद्धाभिमतनीलपीताद्याभासाविभागि भवति यथा [यथा चित्रज्ञाने न तावच्चित्रं रूपं न भासते - संवित्तिविरोधात् जडस्य च प्रकाशायोगः तेनेदं ज्ञानात्मकमेव रूपं न च आकारभेदेन ज्ञानभेदः - चित्ररूपस्यैकस्य आकारभेदाभावात् यथा नीलस्यैको नीलस्वभाव आकारः तथा वैचित्र्यस्यैकस्य चित्रस्वभाव एवाकारः तस्मिंश्चात्मभूते ज्ञानं प्रवर्तमानं कृत्स्न एव प्रवर्तते यदि वा न प्रवर्तत एव न तु भागेन प्रवर्तते तस्य निर्भागत्वात् ये त्वमी भागाः परस्परविविक्ताः प्रतिभान्ति न ते चित्रं रूपमिति भावः | शिखरस्थस्य हि सत्यपि गृहादिवेद्यभेदे एक एव नगरावभासः स्यात् | मेचकबोधो निर्विकल्पकनीलादिज्ञानं तत्राप्यविभाग एवेत्यर्थः |] चित्रज्ञानशिखरस्थसंविन्मेचकबोधादि यत्तु तद्विरुद्धरूपनीलपीताद्याभासाविभक्तं न भवति तत्तदनन्तस्वसामर्थ्योद्भूतनीलपीताद्याभासविकल्पपूर्वभाग्यपि द्f १३६, प्. १०६) न भवति यथा नीलैकसाक्षात्कारि ज्ञानम् भवति च इदमस्तमितोदेष्यदुभयविकल्पज्ञानान्तरालवर्ति उन्मेषप्रतिभाति शब्दागमगीतं [शब्दागमः - प्रक्रियाशास्त्रम् |] निर्विकल्पकं ससंवादविरुद्धाभिमतनीलादिविकल्पपूर्वभावि तस्मात्तदनन्तावभासाविभागमयमेवेति उभयोश्च ज्ञानयोरन्तरालमनपह्नवनीयं - ज्ञानयोर्भेदादेव तच्च संविदात्मकमेव अन्यथा तेनैव संवित्संस्कारोच्छेदे [संस्कारोच्छेद इति नवनवाभासाः प्रतिक्षणमुदयव्ययभाज इति व्यवहारहानिः ततश्च कस्मिंश्चिदर्थे पूर्वगृहीते यत्संवेदनं पूर्वं बहिर्मुखमभूत् तस्यान्तर्मुखं यत् चित्स्वरूपत्वं तत्कालान्तरेऽपि अवस्थास्तु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशतीति स्मरणशक्तिः | तथानुसंधानमेकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम् |] स्मरणाद्यनुसंधानाद्ययोग इति प्रतिभाख्यस्य धर्मिणः सर्ववादिनः प्रति प्. १०७) अविवाद [उक्तं हि सूत्रविमर्शिन्यामनेनैव विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः | अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् || इति |] एव इति न असिद्धिः संकेतव्युत्पत्तिकालानवलम्बनात् च अस्य अविकल्पत्वमेव सहजासामयिकतथापरामर्शयोगो हि जडविलक्षणसंविद्रूपनान्तरीयक्रो [ननु च विशुद्धसंवेदनरूपे भगवति कथं परामर्शो विकल्पतुल्यः स्यात् (?) इत्यत आह - जडेत्यादि | उक्तं च स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || इति | न च वाच्यं कथं तथापि तद्विकल्परूपं न स्यात् इति न विकल्पतुल्यत्वं - भेदानुल्लासादिति | तथा चोक्तं अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः स ह्युक्तो द्वयाक्षेपी विनिश्चयः || इति |] न विकल्पतुल्यत्वं - भेदानुल्लासात् भेदसारतालब्धतया तु अर्थभावं कुर्यात् विकल्पानां च अविकल्पं विना नोदयः - अस्वातन्त्र्यात् अस्वातन्त्र्यं च प्. १०८) संकेतादिस्मरणोपायत्वात् संकेतादिस्मरणं च तथा अनुभवं विना कुतः संविदश्च प्राङ्न्यायेन कालादिपरिच्छेदाभावः इति एकैव सा पारमेश्वरी प्रतिभा अस्मदुक्तिमाहात्म्यकल्पिता एवंविधा अपरिच्छिन्नस्वभावापि सर्वात्मैव मध्येऽपि वर्तमानभूतभविष्यद्रूपविकल्पान्तरप्रसवभूरेव तथा [तथा चेति इत्थं तन्मतं - यदि हि ज्ञानादर्थः पृथगवभासितात्मा भवेत् ज्ञानमन्तरेणापि असावुपलभ्येत (?) न चैवमस्ति तस्मादभेद एव ज्ञानार्थयोरिति | यदाहुः सहोपलम्भनियमादभेदो नीलतद्धियोः | इति | तस्माज्ज्ञानमेव सर्वत्र तथा तथा प्रतिभाति न तद्वयतिरिक्तो नाम कश्चिदिति ज्ञान एव च एकत्रायं प्रमेयप्रमाणप्रमितिव्यवहारः समाप्यते इति तस्य हि विषयाकारता प्रमेयं ग्राहकाकारणता प्रमाणं स्वसंवित्तिश्च फलमिति | यथोक्तं यदाभासं प्रमेयं तत्प्रमाणं फलते पुनः | ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक्कृतम् || इति | तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते अविद्याविरतौ तु स्वच्छमेवैतत् संपद्यते न किंचिद्वेति | तदुक्तं नान्योऽनुभावो बुद्ध्यास्तु तस्यानानुभवः परः | ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते || इति | तथा अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः | ग्राह्यग्रहकसंवित्तिभेदवानिव लक्ष्यते || इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यत् | परिहृत्य दुःखसन्ततिमभयं निर्वाणमाप्नोति || इति सौगतमतम् |] च विवेककुशलैरालयविज्ञानमेव प्. १०९) मेवोपगतं ससंवादत्वं च तदनन्तरभाविनां विकल्पानां दर्शितमेव - इति नासिद्धो हेतुः साध्यधर्मिणि न च एकावभासिविकल्पसंविभागकारिणि [यत् वेद्यते येन वेदनेन तत् ततो न भिद्यते यथा - आत्मा ज्ञानस्य वेद्यन्ते नीलादयः भेदे हि ज्ञानेनास्य वेद्यत्वं न स्यात् - तादात्म्यस्य नियमहेतोरभावात् अन्येनान्यस्य असंबद्धस्य वेद्यत्वेऽतिप्रसंग इति भेदे नियमहेतोः संबन्धस्य व्यापकस्यानुपलब्ध्या भेदाद्विपक्षाद्वयावर्तमानं वेद्यत्वमभेदेन व्याप्यते इति | यच्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः | यथोक्तं भेदश्चाभ्रान्तिविज्ञाने दृश्येतेन्दाविव द्वयः | इति |] अविकल्पके विपक्षे सदा वा कदाचिदपि वा वर्तते न च ततोऽस्य व्यावृत्तिः संदिग्धा - इति न विरुद्धो नानैकान्तिको न प्. ११०) संदिग्धविपक्षव्यावृत्तिः [यथा छिदिक्रिया छेद्येन संबध्यते भिद्यते च तथा ज्ञानक्रियापि ज्ञेयेन सह संभत्स्यते भेत्स्यते च - इति सहोपलम्भनियमस्यापि विपक्षाद्वयावृत्तिः संदिग्धेति पूर्वपक्षः | अत्र - ज्ञानस्वपरसंवेद्यतामात्रेणैव नीलतद्धियोर्युगपद्ब्रह्मणनियमस्योपपत्तेः बाह्याभावाज्ज्ञानं परस्य संवेदकं न भवति इत्युत्तरपक्षः | ] दृष्टान्तधर्मणि अपि चित्रज्ञानादौ हेतोरेवमेवासिद्धतादिदोषाः परिहृता भवन्त्येव हेतुदोषेषु तु परिहृतेषु दृष्टान्तादिदोषा निरवकाशा एव इत्यादि बहुनिर्णीतकल्पमपरैरेव इति किं तदनुभाषणक्लेशेन | सिद्धं तावत् ह्येतत् यत्प्रातिभं निखिलवैषयिकावबोधपूर्वापरान्तरचरं निखिलात्मकं तत् | तस्यां प्रलीनवपुषः परशक्तिभासि ग्लानिर्घटेत [घटेत - विश्लेषमाप्नुयात् |] किमभाववशोपकॢप्ता [अभावेति - यथान्यैरुक्तम् अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् | इति |] || प्. १११) शरीरप्राणादौ परधनसुखास्वादपटलमनालोक्य स्वस्मिन्स्पृशति हृदये ग्लानिमसमाम् | प्रविष्टा चेदन्तर्निखलजगतीसूतिसरसा परा देवी हन्त प्रविलसतु पूर्णं हविरिव || तदुक्तं स्पन्दे ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः | तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका || इति | एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || इति च | मायीयकार्ममलमूलमुशन्ति तावद् अज्ञाननाममलमाणवमेव भद्राः | बीजं तदेव भवजीर्णतरोः परस्मिन् संविन्निशातदहने दहते क्षणेन || यथाहुः मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् | इति | तदेवोक्तम् प्. ११२) तदुन्मेषविलुप्तं चेत् | इति | एवमेव च व्याख्यातम् अतोऽन्यथा ग्लानेः विलोपकत्वमस्याश्च अज्ञानात् सरणम् अज्ञानस्य च उन्मेषेण विलोपः - इति किं केन संश्लिष्टम् इति नृपनिरूपणप्रायमेव भवेत् स-इपरिउण्णपमरु-उत्ताण उतहुगहिअबुणभज्जिअणिज्ज-इ | अजाणिअविहड-इअञ्जाण उजम्पुसुअच्छ-इपूरि-अकज्ज || तदेवं भगवती परावाग्भूमिः गर्भीकृत स्वस्वातन्त्र्यसत्तोद्भविष्यत्पश्यन्त्यादिविनिविष्टपरापराभट्टारिकादिप्रसरात् तद्गर्भीकारवशाविवादघटितसकलभूतभुवनभावादिप्रपञ्चप्रबोधैक्यचम् अत्कारसारा परमेश्वरभैरवभट्टारकाविर्भावप्रथिततथाविधाद्भुत- भूतपरमार्थस्वरूपा स्वात्मविमलदर्पणनिर्भासितानन्तसृष्टिस्थितिसंहारैक्यमयमहासृष्टिशक्तिरादि- क्षान्तरूपा प्. ११३) अथाद्या इत्यादिना ग्रन्थेन निःशेषं भगवता निर्णीयते इति स्थितम् | तदेवं [तत्रैव सर्वमस्तीति स्थिते |] स्थिते ग्रन्थार्थो निर्णीयते - अकारादि-विसर्गान्तं शिवतत्त्वं कादिङान्तं धरादि-नभोऽन्तं भूतपञ्चकं चादि-ञान्तं गन्धादि-शब्दान्तं तन्मात्रपञ्चकं टादि-णान्तं पादादि-वागन्तं कर्माक्षपञ्चकं तादि-नान्तं घ्राणादिश्रोत्रान्तं बुद्धिकरणपञ्चकं पादि-मान्तं मनोऽहंकार-बुद्धि-प्रकृति-पुरुषाख्यं पञ्चकं वायवादिशब्दवाच्या यादयो वकारान्ता रागविद्या-कलामायाख्यानि तत्त्वानि धारयन्ति - पृथग्भूततया अभिमानयन्ति इति धारणानि द्वौ अत्र णिचौ प्रयोज्यप्रयोजकभावद्वैरूप्यात् तथा हि - ध्रियन्ते [ध्रियन्ते - अवस्थितिं भजन्त इत्यर्थः |] स्वात्मनि एव सर्वे भावाः प्रकाशात्मनि परमपरिपूर्णे पदे भैरवात्मनि प्. ११४) सर्वात्मनि यथोक्तं शिवदृष्टौ आत्मैव [आत्मा - स्वस्वभावः |] सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः [चिद्वपुरिति आत्मसात्कृतसमस्तवेद्यार्थः |] | अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्त्रियः शिवः || इति | यथोक्तं स्पन्दे यत्र स्थितमिदं सर्वं | इति | एवं स्वात्मन्येव प्रभास्वरे प्रकाशनेन ध्रियमाणान् भावन् धारयति स्वयमप्रकाशीभावेन - जडतास्वभावेदंभावास्पदताप्रापणेन [स्वभावेदंभावेति - यदुक्तं प्रत्यभिज्ञायाम् इदं भावोपपन्नानां वेद्यभूमिमुपेयुयाम् | भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् || इति |] प्रकाशयति परमेश्वर एव पुनरपि अहंभावेनैव आच्छादयति | तदियं भगवत्सदाशिवेशदशा शुद्धविद्यामयी एकेन णिचा ध्वनिता तत्रापि च यत् इदन्ताया अहन्तया आच्छादनं तदाच्छादनीयेदन्तोपपत्तौ प्. ११५) उपपद्यते [विद्येश्वरादिरूपायामिदन्तायां सत्यामुपपद्यते नान्यथेति |] न च शुद्धपरमेश्वरचिन्मयरूपापेक्षं भिन्नप्रथात्मकमिदन्ताख्यं रूपमुपपद्यते - इति आच्छादनीयानुपपत्तौ तद्वशेन तदाच्छादकतापि अहंभावस्य नोपपन्ना इति तथाविधेश्वरबोधानुपपत्तिः तदनुपपत्तौ च न किंचित् भासेत - कारणाभावात् इत्युक्तमसकृत् भासते च इदं तद्भासाव्यतिरेकरहितमपि परमेश्वरशक्तित एव बहिः प्रथते - कारणान्तरासंभवात् स्वसंविदि च संविद एव सर्वमयत्वप्रथनात् | तदेवं स्वात्मरूपं जगत् भेदेन भासमानं प्रकाशात्मन्येव अहमात्मनि भासते सामानाधिकरण्येन इति इयता एतावत् अवश्यमेवाक्षिप्तं - यथा ईश्वर एव कस्यापि वेदितुर्भिन्नान् वेद्यान् अहन्तया पश्यति यश्चासौ कोऽपि वेदयिता सोऽपि भासनात् स्वात्ममय एव - इति स्वात्मनि तथाविधाः शक्तीरधिशेते प्. ११६) याभिरसौ तदैव भिन्नवेद्यवेदकीभावमुपाश्नुवीत रागादिभिरेव च तथाविधत्वमस्येति रागादय एव आध्रियमानान् भावान् उक्तन्यायेन धारयन्तमीश्वरं प्रति प्रयोजकतां गच्छन्ति अतस्तस्यैव पुंस्त्वव्यपदेशकारणैकभूता द्वितीये णिचि उत्पन्ने धारणशब्दवाच्याः णिजुत्पत्तावपि सर्वत्रैव प्रकृत्यर्थान्वयानपायो ध्रियमाणतया प्रकाशमानस्यैव हि धार्यमाणता प्रकाशनासंज्ञा उपपद्यते यतः यथोक्तं मयैव शिवदृष्ट्यालोचने प्रेषोऽपि स भवेद्यस्य शक्तता नाम विद्यते | इति | भर्तृहरिरपि अप्रवृत्तस्य हि प्रैषे प्रच्छादेर्लोद्विधीयते | प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः || इति | तदेवं धारणशब्देनापरशास्त्रेषु कञ्चुकनामधेयप्रसिद्धान्येव प्. ११७) तत्त्वानि इह निरूपितानि यदुक्तं श्रीतन्त्रसारे धारयन्ति पशोः पाशान्भावान्स्वात्ममयांस्तथा | विद्यामायानियत्याद्याः शोध्यास्तेन प्रयत्नतः || इति | यत्तु श्रीसोमानन्दपादैः धारणशब्देन अङ्गानि निरूपितानि पक्षान्तराश्रयणेन [अन्यार्थकथनेनेत्यर्थः |] तत्र परपक्षसर्वदृश्यत्वप्रथनमात्मनि अभिप्रायः तेषां हि ईदृशी शैली [शीले भवा शैली समाधानपूर्विका प्रवृत्तिरिति कययटः रचनेन्ये शैली स्वमतमित्यन्ये |] स्वपक्षान्परपक्षांश्च निःशेषेण न वेद यः | स्वयं स संशयाम्भोधौ निमज्जंस्तारयेत्कथम् || इति | शादि-क्षान्तं महामाया विद्येश्वरसदाशिवशक्त्याख्यं तत्त्वपञ्चकं तथाहि - मायातत्त्वस्य उपरि विद्यातत्त्वाधश्च अवश्यं तत्त्वान्तरेण भवितव्यम् - यत्र विज्ञानाकलानां [इत्यमत्रेश्वरप्रत्यभिज्ञोक्तः क्रमः स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः || शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता | निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् || एते च विज्ञानकेवलाः शूउन्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः इति |] स्थितिः यथोक्तम् प्. ११८) मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः || इति | तथाहि महामायाभावे मायापदे प्रलयकेवलानामवस्थितिः विद्यापदे च विद्येश्वरादीनाम् - इति किमिव तत् विज्ञानकेवलास्पदं स्यात् अत एव विद्यापदप्रच्युतानामपि एषां भेदमयभावराशिगतभिन्नवेद्यप्रथानुदयात् मायीयाभिधानमलानुल्लासे तत्र विज्ञानकेवलो मलैकयुक्त इति अज्ञानात्मकाणवमलावलम्बित्वं श्रीपूर्वशास्त्रे कथितम् त एव शुद्धविद्यापदानुग्रहात् प्. ११९) बोधिता मन्त्रतदीशादिभावभागिनो [उक्तं हि अन्यत्र मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् | इति |] भवन्ति इति तरैवोक्तं विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् | इत्यादिना मन्त्रमहेश्वरेशत्वे संनियोज्य | इत्यादिना च | केषुचित्तु शास्त्रेषु सा महामाया भेदमलाभावोपचारात् विद्यातत्त्वशेषतयैव निर्णीयते क्वचित् पुनरज्ञानमलसद्भावोपरोधात् मायातत्त्वपुच्छतया यथा केषुचित् शास्त्रेषु रागत्त्वं पुंस्येव लग्नम् इति न पृथक् परामृष्टम् यथा वा इहैव श्रीत्रिकागमेषु नियतिकालौ न पृथक् निरूपितौ अत्र मते विद्याद्यनाश्रितशिवान्तं ब्रह्मपञ्चकं निर्णेष्यते च एतत् एषां च तत्त्वानां बृहत्त्वं बृंहकत्वं च प्रायो भेदसमुत्तीर्णत्वात् संसारसूतिकर्तृत्वात् च एवमेतानि प्. १२०) चतुस्त्रिंशत्तत्त्वानि प्रक्रियात्मना स्थितानि अकारमेव आदिरूपतया भजन्ते | तत्र इदं विचार्यते - प्रथमतः शिवतत्त्वम् अ वर्गे ततो भूतानि इत्यादि यावदन्ते शक्तितत्त्वम् - इति कोऽयं सृष्टिसंहारज्ञप्तिस्थित्यवतारक्रमाणां मध्यात् क्रमः सर्वत्र च श्रीमालिनीविजयोत्तरसिद्धातन्त्र-स्वच्छन्दादिशास्त्रेषु क्षकारात् [क्षकारात् प्रभृतीति इत्थमत्र क्रमः - पृथिव्यां क्षकारमेकमेव पदमन्त्रवर्णरूपं अवाद्यव्यक्तान्तेषु तत्त्वेषु हादि-टान्तास्त्रयोविंशतिवर्णाः चतुरक्षरे द्वे पदमन्त्रे पञ्चाक्षराणि त्रीणि पुमादिमायान्तेषु घादि-ञान्ताः सप्त वर्णाः पदमन्त्रे द्वे पञ्चाक्षरमेकं द्व्यक्षरं द्वितीयमिति शुद्धविद्येश्वरसदाशिवेषु च ग-ख-का वर्णास्त्रयः पदं मन्त्रं च त्र्यक्षरमेव शिवतत्त्वे पुनः स्वरषोडशात्मकमेकमेव वर्णपदमन्त्रतत्त्वमिति तच्च शक्तित्वप्राधान्यादेकमेव शक्तिर्हि न शक्तिमतो भिन्ना भवितुमर्हतीति भावः | क्षित्यादितत्त्वचतुस्त्रिंशतः क्षकारात्प्रभृति चैकमेकं योजयित्वा पूर्वे व्यापकतयाभिमते सशक्तिके षट्त्रिंशे तत्त्वे संहारक्रमस्य अध्वशुद्धावुचितत्वात् विसर्गादारभ्य आनुलोम्येन अकारपर्यन्तस्वरषोडशकत्वम् | उक्तं चान्यत्र तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः | कृत्वा शैवे परे प्रोक्तः षोडशार्णो विसर्गताः || इति |] प्रभृति प्. १२१) अवर्गान्तं पार्थिवादीनां शिवान्तानां तत्त्वानां निवेशः उक्तः आद्यधारिकया [धारिकेति मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत | धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा || इति |] व्याप्तं तत्रैकं तत्त्वमिष्यते | एकमेवं पृथक् क्षार्णं पदार्णमनुषु स्मरेत् || इत्यादिना तत्रैव च पुनर्भिन्नयोनिमालिनीभट्टारिकानुसारेण [मालिनीति | यदुक्तं श्रीमज्जयद्रथराजनकैः * * * ** * * * (?) भिन्नयोनिस्तु मालिनी | इत्यस्या व्याख्यानावसरे भिन्ना स्वरैर्भेदिता योनिः कादिलक्षणा यस्याः | तत्र शक्तिवाचको मालिनीमन्त्रः शक्तिमद्वाचकस्तु मातृकामन्त्रः | तत्र मातृका प्रसिद्धैव | मालिनी यथा न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ण क ख ग घ ङ इ अ व भ य ड ढ ठ झ ञ ज र ट प छ ल आ स अः ह ष क्ष म श अं त ए ऐ ओ औ द फ इति | त्रिकहृदयेऽपि नादिनी तु शिखाग्रस्था नकाराक्षरसंज्ञिता | इति | तदुक्तं मालिनी हि भगवती मुख्यं शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुघम् अन्वर्थं चैतन्नाम रुद्रशक्तिमालाभिर्युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति रलयोरेकत्वस्मृतेः अत एव भ्रष्टविधिरपि मन्त्र एतन्न्यासात्पूर्णो भवति साञ्जनोऽपि गारुडवैष्णवादिर्निरञ्जनतामेत्य मोक्षप्रदो भवतीति |] फकारादीनामभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थितीनामपि प्. १२२) फे धरातत्वमुद्दिष्टं चादि-ञान्तेऽनुपूर्वशः | त्रयोविंशत्यवादीनि * * * * * * * * (?) | इत्यादिना पार्थिवादितत्त्वयोजना निरूपिता | पुनरपि च तत्रैव श्रीविद्यात्रयानुसारेण [विद्यात्रयेति या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते || इति प्रथमोच्छलत्तात्मकत्वेन बहिरुल्लिलसिपास्वभावा प्रमातृविश्रान्तिधामभूता परा इत्युक्ता ततोऽपि एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् | ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते || इत्यन्तरासूत्रितेच्छाक्रियामयी यत्र यत्र मिलिता मरीचयस्तत्र तत्र विभुरेव जृम्भते | इत्येवंरूपा परापरेत्युक्ता | ततोऽपि एवंभूतमिदं वस्तु भवत्विति यदा पुनः | जाता तदैव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यते || इति तत्तत्प्रमातृप्रमेयादिवैचित्र्यमयी च अपरेत्युक्ता | यथोक्तमाचार्याभिनवगुप्तपादैः ययेदं शिवादिधरण्यन्तमविकल्पसंविन्मात्ररूपतया विभर्ति च पश्यति च भासयति च परमेश्वरः सास्य पराशक्तिः यया दर्पणहस्त्यादिवत् भेदाभेदाभ्यां सा परापरा शक्तिः यया परस्परविविक्ततात्मना भेदेनैव सा अपरा शक्तिः | इति विद्यात्रयनिरूपणं पारमेश्वरशास्त्रेषु] प्. १२३) निष्कले पदमेकार्णं त्र्यर्णैकार्णद्वयं द्वये | इति परापराभट्टारिकानुसारेण [श्रीमन्मालिनीविजये मायां तु मार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः | क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः || विद्यादिसकलान्तं च तद्वदेव परापराम् | योजयेन्नेश्वरादूर्ध्वं नियत्यादिकमष्टकम् || न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः | निष्कले परया कार्यं यत्किंचिद्विधिचोदितम् || इति | अत्र सूक्ष्मतरबोधवतां मूलार्थः सुबोध एवेति न निर्णीतः अन्येषां तु युक्तिकथनमपि पिष्टपेषणतुल्यमकिंचित्करमित्यर्थः |] ओंकारं शिवतत्त्वम् अघोरे इत्यत्र शक्तितत्त्वम् इत्यादिक्रमेण पार्थिवादितत्त्वनिरूपणा योजिता | पुनरपि च तत्रैव श्री-विद्यातत्त्वानुसारेण फकारादीनामभिन्नयोनिमातृकानिवेशावाप्ततत्त्वान्तरस्थितीनामपि प्. १२४) फे धरातत्त्वमुद्दिष्टं चादि-ञान्तेऽनुपूर्वशः | त्रयोविंशत्यवादीनि * * * * * * * * (?) || इत्यादिना तत्त्वयोजना | श्रीमदपराभट्टारिकाभिप्रायेण च सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् | अपरायाः समाख्याता व्याप्तिरेषा विलोमतः [अत्र पिण्डार्थः - इच्छाशक्ति- ज्ञानशक्ति-क्रियाशक्तित्रितयं वैपरीत्येन बोद्धव्यमित्यर्थः |] || इत्यादिना फट्कारे पार्थिवप्राकृताण्डद्वयम् हुंकारे मायीयं ह्रींकारे शाक्तमण्डं च इति तत्त्वनिवेशः | श्रीपराभट्टारिकाव्याप्तिनिरूपणे च सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण परा व्याप्तिरुदार्हृता [एतत्कथने पुनरयमभिप्रायः एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् | अन्तर्भाव्याचरेच्छुद्धिमनुसन्धानवान् गुरुः || अशक्तौ क्रमान्तरोऽप्यस्तीत्याह अनन्तर्भावशक्तौ तु सूक्ष्मे सूक्ष्मं विशोधितम् | तद्धि शुद्धं बीजभावात्सूते नोत्तरसन्ततिम् || इति | एतच्च सर्वं त्रिकसारे प्रसिद्धम् |] || प्. १२५) इति अन्यथैव प्रक्रियायोजनं निरूपितम् | पुनरपि मातृकासद्भावरतिशेखरकुलेश्वरादिमन्त्रभट्टारकाद्यभिप्रायेण अन्यथा अन्यथा च अपरतन्त्रेष्वपि एवमेव विपर्यस्तप्रायं बहु बहुशो निरूपितम् तत् पुनरिह सर्वमेवान्यथा इति परिदृश्यते - इति महान् अयमागमविदः स्वकटकक्षोभ इव सर्वविनाशकः समुद्भूतः | न च सांकेतिकमिदं - येन पुरुषेच्छावशोपकल्पितेन रूपेण च अन्यथा अन्यथा निरूप्यमाणमिह संगतं भवेत् यथा - दाक्षिणात्याः चौरशब्देन ओदनं व्यपदिशन्ति सैन्धवास्तु तेनैव दस्युम् ओदनं तु क्रूरश्रुत्या तया तु काश्मीरिका वितुषितयवगोधूमतण्डुलान् इति - सांकेतिकत्वे हि अनवस्थितत्वात् अपारमार्थिकत्वात् च शोध्यशोधकभावाद्यनुपयोगात् अनिरूपणीयत्वमेव स्यात् संकेतस्यापि परमार्थसत्तैव नहि संकेतो नाम अन्यः कश्चित् - ऋते परमेश्वरेच्छातः प्रसिद्धो हि न संकेतो भगवदिच्छाप्रकल्पितः - प्. १२६) तन्नामाक्षरलिप्यादिगताप्यायनादिकर्मविधिजनिततच्छान्तिकादिफलसंपत्तेः इति चेत् - तर्हि एकेनैव संकेतेन सर्ववस्तुसंपत्तौ किं संकेतान्तराश्रयेण तदाश्रयणे वा स्वशास्त्रितशास्त्रान्तरीयलौकिकपार्षददैशिकघनकृतप्रतिपुरुषनियताद्यनन्त- संकेतनिवेशनपूर्वकं तदपि निरूप्यमेव न तावद्भिरुपयोगः एतावतैव कार्यसिद्धिः - इत्यपि निरक्षरकुक्षिकुहरैः उच्यमानं श्रूयमाणं च शोभत एव | अविकला भगवदिच्छा न विचारपदवीमधिशेते (?) इति चेत् - अलं ग्रन्थधारणवाचनव्याख्यानविचारणादिमिथ्यायासेन परित्याज्य एवायं गुरुभारः तूष्णींभावशरणैरेव स्थेयम् भगवदिच्छैवोत्तारणीयमुत्तारयेत् तदिच्छैव अनुग्रहात्मा एवं विचारणायां पर्यवसाययति न प्. १२७) खलु पादप्रसारिकयैव सुखं शयानैः भुञ्जानैश्च स्वयम् अविमृशद्भिः स्वापेक्षतीव्रतरादिपरमेश्वरानुग्रहोत्पन्नाधिकाधिकसूक्ष्मतमविमर्श- कुशलधिषणापरिशीलनपराङ्मुखैः वा स्थातव्यमिति | तत् सर्वदा विमृश्यमिदं वर्तते - इति एतावत् न जहीमः तत् अत्र अवधार्य स्थीयतां यावत् परिहरामः सर्वमिदं किंचित् न वस्तुतः चोद्यजातं परमेश्वर्यां परावाग्भुवि अनुत्तरदुर्घटकारितात्मकनिरपेक्षस्वातन्त्र्यसारायां पारतन्त्र्यांशलेशमात्रपरमाणुनापि अनुपरक्तायाम् - इति प्रायः प्रागेव प्रतिसमाहितमदः तथापि विस्तरतः परिह्रियते - यत् तावदुक्तं शिवतत्त्वं ततः पृथिवी इत्यादिकोऽयं क्रमः इति तन्न कश्चित् क्रमः - इति ब्रूमः अक्रमं यत् एतत् परं पारमेश्वरं विचित्रं गर्भीकृतानन्तवैचित्र्यं स्वातन्त्र्यं त्रिकार्थरूपं तदेव एतत् तथाहि - येयमपरा परापरा पराभट्टारिका पारमेश्वरी भैरवीया सत्ता सा सदाशिवतत्त्वानाश्रितशक्तितत्त्वस्यापि उपरिवृत्तिः - प्. १२८) तदन्तस्यापि आसनपक्षीकृतत्वात् [दिव्यतनुसंजीवनार्थं ह्ययं क्रमः यथान्यत्र महाप्रेतं न्यसेत्पश्चात्प्रहसन्तमचेतनम् | रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् || तद्यथा - आधारशक्तिमूले मूलं कन्द आसारमूलकम् लम्बिक्रान्ते कलातत्त्वान्तो दण्डः मायात्मको ग्रन्थिः चतुष्किकात्मा शुद्धविद्यापद्मं तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः प्रकर्षेण लीनत्वात् बोधात्प्राधान्येन वेद्यात्मकदेहक्षयान्नादामर्शात्मकत्वाच्चेति तन्नाभ्युत्थितं तन्मूर्धरन्ध्रत्रयनिर्गतं नादान्तवर्तिशक्तिव्यापिनीसमनारूपपरात्रयं द्विषट्कान्तं तदुपरि शुद्धपद्मत्रयमौत्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेयभूतां यथाभिमतां देवतां कल्पयित्वा पूजयेदिति | अत्रान्तरश्लोकाः द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्फुरत् | देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् || मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका | खेचरीयम् स्वसंचारस्थितिभ्यां स्वामृताशनात् || इति इत्यन्तर्यागः |] | तथाहि ईश्वरं च महाप्रेतं प्रहसन्तमचेतनम् | इत्यनेन सदाशिवान्तमासनं नादान्तपक्षनिविष्टं श्रीपूर्वशास्त्रोपसंहृतम् इत्येतत्सर्वमासनम् इत्युक्त्वा प्. १२९) तस्य नाभ्युत्थितं शक्तिशूलशृङ्गत्रयं स्मरेत् इति शक्तिप्रख्यव्यापिनीसमनात्मकशृङ्गत्रयमुक्तं तत्रापि उन्मनसोर्ध्वकुण्डलिकापदपरमधामसितकमलत्रयरूपतया निरूपितम् इत्येतत् परमासनं - परापर्यन्तत्वात् इति तदुपरि च देवीनां स्थितिः इति तदेतत्परं पश्यन्त्याख्यं ज्ञानशक्तेरेव पर्यन्तधाम नादाख्यरूपमतिक्रमणीयत्वेनैव स्थितं यथोक्तं शिवदृष्टौ अथास्माकं ज्ञानशक्तिर्या सदाशिवरूपता | वैयाकरणसाधूनां सा पश्यन्ती परा स्थितिः || इति | प्रत्यगात्मनि हि बुद्धिः पश्यन्ती रुद्रदेवता | परं सदाशिवज्ञानशक्तावेव अनाश्रितशिवशक्त्यात्मनि विश्राम्यति मनोऽहंकारयोः ब्रह्मविष्णुदेवतयोः [ईश्वरप्रत्यभिज्ञायां तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् | भिन्नप्रमेयप्रसरे ब्रह्मविष्णू उदाहृतौ || इति | अत्र विवेकेच्छुभिस्तन्त्रालोक एवावधार्यम् |] प्. १३०) वैखरीमध्यमापदे पत्योरीशसदाशिवक्रियाशक्तिपदमेव [ईश्वरतत्त्वस्यैव सदाशिवे |] परा प्रतिष्ठाभूः इति तावत् आगमसिद्धं स्वसंवेदनबृंहितं च तत् पश्यन्त्युपरि पराभूमिः भगवती - यत्र सर्वमभेदेनैव भाति च [सूक्ष्मबुद्धिविवेच्योऽत्र क्रमः |] विमृश्यते च | यद्यपि हि विद्यापदे मायापदेऽपि अभेदेन भासना स्थितापि तत्र विमर्शोऽन्यथा विद्यापदे हि इदमिति [ईश्वरभट्टारके |] प्रमातृप्रमेयजातमेकतोऽहमात्मनि [सदाशिवभट्टारके |] संक्रामेत् तदाच्छादितं विमृश्यते - अहमिदम् इति तत् एतत् समाने चिदात्मनि अधिकरणे [ज्ञानशक्तिशिवे |] उभयं प्रतिबिम्बितमभेदेनैव अवभासमानं सामानाधिकरण्यमुक्तम् अत एव ईश्वरावस्थायां [ज्ञानरूपशिवावस्थायाम् |] परापरात्मिकां प्. १३१) दशां भावा भजन्ते यथैव मायाध्वनि [शुद्धविद्यारूपं महामायां च त्यक्त्वा सैव - ईश्वरावस्थैव |] अपरां न तु सैव परापराशक्तिः अपरा वेति यत् [परत्वसंभवे करणमाह यदिति यस्मादीश्वरतत्वे परापरत्वं तत्र दर्शितं तेनायातमीश्वरावस्थायां परत्वम् |] ईश्वरतत्वं प्रति अभिहितं [अभिहितमिति - परापररूपत्वेन चेति योज्यम् |] श्रीमदुत्पलदेवपादैः [यथोक्तम् अत्रापरत्वं भावानामनात्मत्वेन भासनात् | परताहन्तयाच्छादात्परापरदशा हि सा || इति | परत्वं पूर्णत्वमनन्यापेक्षाहमिति अपरत्वमपूर्णतान्यापेक्षतेदमिति | तथैव ईश्वरप्रत्यभिज्ञायामपि सामान्याधिकरण्यं च सद्द्वियाहमिदंधियोः | प्रकाशस्य यदात्ममात्रविश्रमणेऽनन्योन्मुखः स्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहमित्युच्यते यस्त्वन्योन्मुखः स इदमिति स च स्वप्रकाशनमात्रे पुनरनन्योन्मुखे रूपे विश्राम्यति परमार्थतः | तत्राद्ये विमर्शे शिवतत्त्वं द्वितीये विद्येश्वरता मध्यमे तु रूपेऽहमिदमिति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथे ईश्वरभट्टारके च इदंभावस्य तु ध्यामलाध्यामलताकृतो विशेषः - ये एते अहमिति इदमिति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् अहमिति ग्राहके इदमिति च ग्राह्ये तन्निरासेन चैकस्मित्रेवाधिकरणे यत्संगमनं संबन्धरूपं तत् सती शुद्धा विद्या अशुद्धविद्यातो मायाप्रमातृगताया अन्यैव | तत्र यदाहमित्यस्य यदधिकरणं चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदस्यास्फुटत्वात् सदाशिवता अहमिदमिति इदमहमिति तु इदमंशे स्फुटीभूतेऽधिकरणे यदाहमंशविमर्शं निपिञ्चति तदेश्वरतेति विभागः |] तत् प्रदर्शितागमविपर्यासङ्कायुक्तम् - प्. १३२) इति न मन्तव्यम् मन्त्रमहेशादिषु [शुद्धविद्यामहामायायां विमर्शस्वरूपमाह उत्पलदेवमहोदयः - मन्त्रेति |] तु रूपं बोधैकपरमार्थमपि अपरबोधैकपरमार्थात् अन्यदहम् इदं पुनरिदमेव [पुनरिति उपरिवर्त्यहन्ताया भिन्नमेवेदमंशप्राधान्यं यस्मान्महामायेति संज्ञा परैः कृता यदुक्तं तत्रैव भेदधीरेवेति |] इति संवित् विज्ञानाकलानां तु बोधैकपरमार्थेनापि रूपेण अहं नेदम् इति संवित् अप्रबोधात् अहमित्येव तत्र अप्रबुद्धम् प्रलयकेवलिनाम् इदमहम् इत्यप्रबुद्धमेव अत्र [अत्र - प्रलयाकले मायापदे - सकले च |] मायापदे च तन्निर्विकल्पकताभासेन यद्यपि अस्ति तथाविध एव प्राणभूतो विमर्शः तथापि तद्रूपव्यवहारकस्य प्. १३३) तत्प्रसादासादितसत्ताकस्यापि तदव्यतिरिक्तस्यापि वा पश्चात्तनस्य विमर्शस्य इदं शरीरादि अहमहं योऽसौ ज्ञाता इदं घटादिकम् इदं यत्तत् ज्ञेयम् इति भेदेनैव विमर्शरूपतया व्यवहारो विकल्पात्मैव तत्र तु तथाविधत्वे कारणान्तरासंवेदनात्कल्प्यमानेऽपि च कारणे पुनरपि तहाविधबोधाविनिर्भागमात्रपर्यवसानात् तस्यैव अविकल्पसंविदात्मनः तथा सामर्थ्यं तथा सामर्थ्ययोगादेव च तदनन्तवैचित्र्यात्मकत्वम् - इति ऐश्वर्यमनपायि सिद्ध्येत् अस्यां च सत्तायामैश्वर्यमनपेतं - यतो वैर्खयात्मनि एवंमायीये वेद्येऽपि वा मध्यमामये धाम्नि भासनातिरेक्यपि संभाव्य एवं विमर्शः | अत्र तु परसंविदि यथैव भासा तथैव व्यवहारमयोऽपि विमर्शः तेन - जल इव जलं ज्वालायामिव ज्वाला सर्वथा अभेदमया एव भावा भासन्ते न तु प्रतिबिम्बकल्पेनापि केवलं यावत् एषापि परमेश्वरी उपदेशाय निरूप्यते प्. १३४) तावत् अधरसत्ताकॢप्ता तथा भवति | एवं च भासात्मकं भैरवरूपं स्वतः सिद्धम् अनादि प्रथमं सर्वतः चरमं च सर्वतश्च वर्तमानमिति किमपरं तत्र उच्यताम् | तत्त्वभावविकासात्ममयमात्मैक्येनैव स्वप्रकाशं प्रकाशयति तथैव च विमृशति अनपेततथाचमत्कारत्वेऽपि यच्च तत् तथाविमर्शनं तत् भाविमायीयानन्तसृष्टिसंहारलक्षकोट्यर्बुदपरार्धसाक्षात्कारिणि भासने भवेत् तथारूपमेव भवति तथा भवच्च तत् यदि सृष्टौ प्राथमिकं माध्यमिकं वा पदं भासनात् विमृशेत् तत् पूर्वस्य तदुत्तरव्यभिचारणाशंकासंभावनानपगमात् अपरिपूर्णमप्रथितेतरभावराशिखण्डिताभेदं कथमनिर्व्यूढपरभैरवमहाधामसमाश्रिताधस्तनपश्यन्त्यादि- निष्ठभेदासूत्रणकलङ्कं [परिपूर्णम् |] तथाविधवस्त्वपोषणवशनाममात्रीभूतपराभट्टारिकारूपं प्. १३५) तत् किमपि रूपं भवेत् एतादृशधारारोहणाभावे च न किंचित् इदं विजृम्भमाणं भासेत विजृम्भेत इति न व्रजतु अपूर्णता मा प्रतिष्ठभावराशिरभेदकथा खण्ड्यताम् मा निर्वाक्षीद्भैरवाश्रयता भेदकलङ्कमुद्ववहतु नामधेयमात्रेण परत्वम् - इति वक्तुं युक्तम् तत् एतदेव भवति संगच्छते च यदि प्रथमतरं सर्वचरमे एवमाभासा पतन्ती तत्रैव विमर्शेनापि पदं बन्धयेत् स हि चरमो भागः तथा तावत् स्वात्मरूपं बिभ्रत् तत्स्वात्मरूपनान्तरीयकतास्वीकृततदनन्तनिजपूर्वपूर्वतरादिभागान्तरो भासमानो विमृश्यमानश्च पूर्ण एव तत्पूर्वोऽपि भागः तदुत्तरभागपृष्ठपातिवृत्तपूर्वपरिपूर्णभासासारविमर्शतादात्म्यात् तदुत्तररूपपरिपूर्णतामजहत् स्वयं च स्वरूपनान्तरीयकताहठकृष्टस्वपूर्वपूर्वतरादिभागान्तराभोगो भासमानो विमृश्यमानश्च तथैवाखण्डितः - इत्येवं तत्पूर्वपूर्वगताभासा तत्तद्द्वित्रादिनिजनिजोत्तरभागभासाविभागे प्. १३६) लब्धभैरवभावस्वभावाव्यभिचारानुरोधबलस्वीकृतस्वस्वपूर्वभाग- चमत्कार एकैकमपि परं पूर्णा भवति यावत् स्वप्रंकाशनिजभैरवाभिमतनिकटतरवर्ति रूपं तदेव स्वेच्छाविश्रान्तिधाम वा भैरवाख्यं वपुः स्वयमेव तद्विमर्शकुशला भवत प्रसंख्यानपराः ह्रदगिरि-तरुप्रभृत्युपाधिसंकोचेन रहिते तद्वत्यपि वा अरण्यानीप्रदेशे दूरादखण्डिता दृष्टिरेवमेव अखण्डिततामुपाश्नुवाना भैरवबोधानुप्रवेशं प्रति संप्रदायतामासादयेत निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् | इत्यादि अन्यथा भागशः पाते प्रथमभागात् आरभ्य यदि वा निरवयवमेव एतत् तत्क इव अपरसंवेदनेभ्योऽपूर्णाभिमतेभ्यो विशेषः विशेषस्तु गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इव अपूर्णसंविदन्तरेभ्यः पूर्णाभिमतसंवेदनस्य - इति स्वयमेव जानन्तु सोपदेशाः पारमेश्वराः | परमेशशक्तिपातकिरणाविकसिते तु पशुजनहृदयकुशेशये प्. १३७) न अस्मदीयैर्वचनशतैरपि अतितीक्ष्णाभिधेयसूचिभिरपि संभेदोऽथ विकासोऽथ विअरीतुं शक्यः घटेऽपि एवमेव परिपूर्णो दृष्टिपातः तत्रापि हि अविकल्पा संवित् झगिति चरमभागे एव निपतति ततस्तु क्रमात् विकल्पसंविद आयान्त्य आ चरमनिकटभागात् अन्तस्तरामन्तस्तमां च अनुप्रविशन्ति इति किमन्येन | तदेवमेव इहापि शिवतत्त्वं सदा अविकल्पमेव विकल्पसूति स्वातन्त्र्यसरसमनादि सर्वादिभूतं सिद्धम् अत्र तावत् न विमतिः तत्तु परिपूर्णं तथा भवति यदि सर्वचरमां पार्थिवीमेव भुवमधिशेते धरासंवित् हि तथा धरां विषयतयापि अभेदेनाभासयेत् विमृशेत् च यदि तत्स्वरूपसर्वस्वावभासविमर्शयोः व्याप्रियेत स्वरूपसतत्त्वं च अस्याः परिपूर्णप्रसरतत्स्वातन्त्र्यकॢप्ताप्ररूढाभेदतत्पूर्वकैकरसभेदावभासत- द्वशोदितसंकुचच्चित्स्वातन्त्र्यसत्तामयमायाग्राहकतद्ग्राह्यचक्राविभेदात्मकप्र् अधानतद्विकारधीतत्त्वतत्परिणामात्मकाहंकारतन्मूलकारणपूर्वकत- न्मात्रवर्गप्रसृतखादिजलान्तभूतवर्गाधरवृत्तितया प्. १३८) अवस्थानं धरायाः सा हि यावदाक्षेपेणैव वर्तमाना तावत् स्वरूपसतत्त्वैव यावदेव पञ्चगुणत्वात् तन्मात्राणि आक्षिपेत् तावत् तानि आक्षिप्यमाणानि निजस्वरूपोपकॢप्तये समाक्षिप्तप्राक्तनप्रातिष्ठिकमूलान्तरपरम्परानुबन्धि- स्वकपूर्वकमूलान्येव नहि उपादानाभिमतकारणस्वरूपानन्वयः कार्यसत्तायां स्यात् इति न्याययम् निमित्तकारणादीनि कथंचित् न अन्वीयुरिति उच्येतापि कदाचित् एतच्च प्रकृतविघातकमन्यत्र तदभिधानप्रवणे शास्त्रे निष्कुष्य निष्कुषितमस्माभिरेव - इति न इह विततम् | तदेवं प्रथमं तावत् धरा ततोऽपि जलं च तद्भासा विमर्शचमत्कारमन्तःकृत्य तथाविधधरणितत्त्वसंस्कारसत्ताकं पूरयेदेव इति यावत् अन्ते सैव पूर्णसंविद्भगवती शिवात्मैव तत् अनेनैव प्. १३९) उपदेशयुक्तिनयेन प्रदेशमात्रमपि ब्राह्मणः सर्वरूपम् एकैकत्रापि च तत्त्वे षट्त्रिंशत्तत्त्वमयत्वं शास्त्रेषु निरूपितम् | एवं च श्रीस्पन्दशास्त्रोपदेशो दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || इत्ययं हृदयंगमीकर्तव्यः चरमेण पादेन तदेवात्र सूचितमिति किमन्यत् यच्च येन विना न भवति तत् तावत् स्वरूपं यथा शिंशपात्वं वृक्षस्य स्वरूपं [अत्र शिंशपात्वं वृक्षादन्यत्र क्वचित् न हि वर्तते यथा यत्र यत्र शिंशपात्वं तत्र तत्र वृक्षत्वमिति शिंशपात्वं वृक्षत्वं स्वरूपम् अत्र यतः शिंशपात्वं वृक्षेण विना न संभवति इति स्वरूपम् ननु च कथमन्यदन्यस्य स्वरूपं भवेत् नियतिविरोधात् (?) इत्यत आह परमेशस्वातन्त्र्येति यत्तु यावत्स्वरूपं न भवति इति तथाहि अत्र न हि यत्र यत्र वृक्षत्वं तत्र शिंशपात्वं वानीरादिवृक्षे तदभावादिति वृक्षत्वं शिंशपात्वस्वरूपं न भवतीति |] पारमेशस्वातन्त्र्यतिरोहितनियतिविजृम्भायां यत्तु यावत् स्वरूपं न भवति तत् प्. १४०) तेन विना भवत्येव यथा वृक्षत्वमृते शिंशपात्वापवादो न भवन्ति च धरादीनि उत्तरोत्तरतत्त्वानि जलादिपूर्वपूर्वं विना - इति तावत्स्वरूपाण्येव धरा हि न जलं विना भवेत् - धृतेरेव काठिन्यदर्शनात् इत्येवं क्रमेण भूतानि तन्मात्रैर्विना कथं तान्यपि इन्द्रियजृम्भया विना इन्द्रियाण्यपि तत्तथाविधाध्यवसायेन विना सर्वाणि चैतदाद्याविभक्तान्वितसूक्ष्मरूपमूलकारणविनाकृतानि न भवन्ति मूलप्रकृतिरपि भोग्या भोक्तारं विना तद्भोग्यविभागभागित्वादेव संकुचितं संकोचवशादेव च स्वात्मारोहितकालकलादि पाशजालं संविदात्मकं चान्तरेण कथं संविदश्चाखण्डरूपायाः कथं संकोचकारणस्वातन्त्र्यं मायापरपर्यायं विना संकुचितत्वं स्वातन्त्र्यं च संकोचे संकुचिततासारतत्संकोचिततारतम्यापेक्षि भवदीषदसंकुचितासंकुचितेषद्विकासिविकस्वररूपं विरहयय प्. १४१) नैव भवेत् सर्वमेव चेदं प्रथमानं स्वतन्त्रपरिपूर्णप्रथासारभैरवं विना किंचिदेव न - इति स्वसंवित्सिद्धोऽयं तत्त्वक्रमः | श्रुतिरपि [श्रुतीति अयमर्थः - पृथ्वी जलात्मिकाप्यस्तीति मन्तव्यं कुतः (?) इत्यत आह - काठिन्यं विनेति अयं भावः - यति पृथिवी जलात्मिका न स्यात् तत् स्थितिमेव जह्यादिति काठिन्यं हि जलकृतमेवेति काठिन्यं परस्परसंश्लेषः |] जलात्मिका काठिन्यं विना क्व - इंतिधरापि पूर्विका सलिलेऽस्तु इति कथ्यमानम् अपि किं न छेदयेत् प्रत्युत परिपूर्णसर्वात्मकभैरवभट्टारकात्मकप्रासंवित्परिपोषणायैव स्यात् सर्वश्चायं परापराभट्टारिकादिरूपपश्यन्त्यादिसत्तासमयोद्भविष्य- दीषत्स्फुटस्फुटतरादितत्त्वभेदानुसारेण [अहन्तायां हि भेदोऽस्फुट एव इदन्तायां तु स्फुटतरः तत्त्वभेदः यदुक्तमीश्वरप्रत्यभिज्ञानम् अत्रापरत्वं भावानामनात्मत्वेन भासनात् | परताहन्तयाच्छादात्परापरदशा हि सा || इति |] पराभट्टारिकामहति तदुचितेनैव [तेजसि परोचितेन |] वपुषा विराजते प्. १४२) तत्र हि निःस्वस्येव हस्ते द्रविणमसन्न क्वचिदपि स्यात् भविष्यदपि [ननु च परापरादिभेदः परादशायां कथमन्तर्भवेत् यदा हि भेद उद्भवति तदा पश्यन्त्यादिव्यपदेशः अनुद्भवे पुनः कथं तत्र तद्व्यपएश इत्यत आह भविष्यदपीत्यादि प्रथममिति भविष्यत्ताभावेऽपीत्यर्थः |] वस्तु चरममपि प्रथमप्रकाशे भासेतैव केवलमेकरसतद्भेदसारस्फुटरूपापेक्षया भविष्यत्ता तथाहि - भविष्यति कर्की हनिष्यत्यधर्मपरान् - इत्यादि यदि न प्रकाशितं तत् कथं पुराणेषु निबद्धम् क्वचन सर्गे बभूव कर्की तथैव व्यधित - इति चेत् किं स एवासावन्य [असादिति भविष्यन् |] एव वा अन्यश्चेदप्रकाशोऽसौ [अन्यश्चेदित्यस्मन्मतं - स्ववचनेन प्राप्तोऽसीत्यभिप्रायः |] स एव चेत् कथं कालभेदः अकालकलितश्चेत् कथमिव (?) चित्त्वाद्विश्वरूपत्वात् - इति चेत् तर्हि अकालकलिते संविदात्मनि सततविश्वशक्त्यवियुक्ते स्वातन्त्र्यवशसंकोचविकासावभासितसंहृतिसृष्टिमताविरूद्धैकरूप- तदात्मकवपुषि परमेश्वरेऽस्मज्जिह्वाग्रहृदयानपायिनिभैरवभट्टारके प्. १४३) सर्वमस्ति - इत्यस्माभिरुपन्यस्यमानमेव मुक्तमन्दाक्षं कथं नाद्रियते विवृततरकण्ठमेव वा स्वयमेव न निर्णीय निरूप्यते तस्मात् शिवतत्त्वमिदमनाद्यन्तं स्वयं प्रथमानं पूर्णतात्मकनिरपेक्षतामात्रसतत्त्वस्वातन्त्र्यसारमन्तः क्रोडीकृत्यात्मतैकपरमार्थं तत्त्वजातं परसंविदि सततोदितत्वात् सर्वाविरोधित्वात् निखिलानुग्राहकत्वाच्च अवस्थाशब्दव्यपदेशासहिष्णौ यावदकालकलितमासीनं भैरवरूपमवतिष्ठते तावदेतच्छास्त्रसमुचितेनैव महासृष्ट्यादिरूपेण न तु मितसृष्ट्यादिक्रमेण - इति सिद्धम् स एष एव संपुटेयोगे अस्मद्गुरूणां संप्रदायः - शुद्धपरसत्तया सर्वस्यैव एकैकतत्त्वस्य निखिलस्य च तत्त्वौघस्य संपुटीकरणात् वक्ष्यते चाप्येतत् पश्यन्तीदशायाश्चारभ्य भेदासूत्रणात्मांशांशोल्लासः इति [हेताविति शब्दः |] ततः प्रभृत्येव शोध्यशोधकभाव प्. १४४) इति तावद्व्यवस्थानपह्नवनीया यथोक्तम् यत्सदाशिवपर्यन्तं पार्थिवाद्यं [अत्र शोध्यशोधकभावतयारोहक्रम इत्यतः पार्थिवाद्यं सदाशिवपर्यन्तमित्युक्तम् |] च सुव्रते | तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् || इत्यादि पश्यन्ती च परापराभट्टारिकासतत्त्वा परशक्तेरेव स्वात्मशक्तिर्दर्पणकल्पा यत्र तत्पराभट्टारिकास्वरूपमेव चकास्ति - प्रतिबिम्बवत् यच्च [ननु च पराभट्टारिकायामपि भेदाभेदन्यायेन प्रतिबिम्बकल्पनमस्त्येव तदपि प्रतिबिम्बोक्त्यैव कथनीयमिति किं परापरायामेवोक्तिरीतिरित्यत आह - यच्चेति तत्र हि बिम्बप्रतिबिम्बे एकमेव रूपमित्याशयः |] रूपं सदा बिम्बे प्रतिबिम्बे चैकतापरमार्थं मुखपरामर्शमात्रमिव न तत्प्रतिबिम्बितमुच्यते [यथोक्तमनेनैवान्यत्र इदं हि प्रतिबिम्बस्य लक्षणं यद्भेदेन भासितुमशक्तमन्यव्यामिश्रत्वेनैव भाति तत्प्रबिम्बमिति |] - तन्मात्रसतत्त्वादेव यत्तु तत्रान्यथा च भाति मुखाकार इव पूर्वापरवामदक्षिणतादिविपर्ययात् प्. १४५) एतदेवापि तदेवापि तदेव [तदेवेति परतत्त्वं परापरशक्तावित्यर्थः | स्वरूपानपहानेन पररूपसदृक्षताम् | प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् || इति | अन्यव्यामिश्रणायोगात् तद्भेदाशक्यभासनम् | प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा || इति प्रतिबिम्बसतत्त्वमन्यत्र | न देशो नो रूपमित्यादिनयोऽत्र बोद्धव्यः |] प्रतिबिम्बितमुच्यते तच्च तत्समानधर्मैव भवति न तु विजातीयम् एवं च पश्यन्तीसतत्त्वपरापराविमलमुकुरिकायां तत्तत्तथाविधोक्तक्रममपूर्णपृथिव्यादितत्त्वसामग्रीनिर्भरम् [कार्यकारणविवेकेनैकैकत्र षट्त्रिंशत्त्वमिति क्रमेण |] अन्तस्तथाविधसहजाकृत्रिमपारमार्थिकानपायिकादिपरामर्शक्रोडीकारेणैव वर्तमानमपि श्रीपराभट्टारिकावपुः प्रतिबिम्बमर्पयत् स्वरूपान्यथात्वसहिष्णुकादिपरामर्शानन्यथाभावेनैव तत्पैकरूपं परामृश्यं धरण्यम्भःप्रभृति तथोल्लसद्भेदसूत्रणतया सजातीयायां विमलायां च यावत्प्रतिबिम्बयति तावद्धरादितत्त्वानां प्. १४६) विपर्यास [स्वस्वरूपस्येति योज्यम् |] एवोपजायते यत् परसंविदि शक्तितत्त्वं तदेव परापरात्मनि पृथिवीतत्त्वं यत्तु धरातत्त्वं तच्छक्तितत्त्वम् इति क्षकारात् प्रभृति धरादीनां स्थितिः | भगवद्भैरवभट्टारकस्तु [ननु च यथा तन्त्रभेदेन क्षकारादौ द्वितत्त्वव्याप्तिर्न्यायसिद्धा तथा अवर्गेऽपि व्याप्तमित्यत आह भगवदित्यादि |] सदापूर्णोऽनन्तस्वतन्त्र एव न विपर्यस्यते जातुचिदपि [तत्र हेतुः चिद्रूपातिरेकाद्यभावादित्यादि |] - चिद्रूपातिरेकाद्यभावात् इति उक्तं बहुशः | परात्मनि परामर्शे परामर्शैकतत्त्वान्येव तत्त्वानि परामर्शश्च कादि- क्षान्तशाक्तरूपपरमार्थ इति तत्र अभेद एव परापरायां तु भेदाभेदात्मकता प्रतिबिम्बन्यायेन सा च परापरामर्शमयी कादि-क्षान्तवर्णमालाशरीरा यावत्स्वोर्ध्वव्यवस्थितपराभट्टारिकानिविष्टतत्त्वप्रतिबिम्बानि धारयति तावत् तेष्वेवामायीयाश्रौतकादि-क्षान्तपरमार्थपरामर्शेषु ऊर्ध्वाधरविपर्यासेन तत्त्वानि संपद्यन्ते ऊर्ध्वबिम्बाधरप्रतिबिम्बधामस्वभावमहिम्ना - प्. १४७) इति तात्पर्यम् ततः पृथिवी क्षकार इत्यादिशोध्यरूपापेक्षया न किंचिद्विरुद्धम् तत्रापि परदशानपायात् एष एव कादिवर्णसंतानः तत्रैव च स्वांशोद्रेकात् स्वांशान्तर्वर्तिमध्यमापदोल्लासात् स्वरूपवर्तमानवैखरीरूपप्रावण्याच्च [प्रावण्यादिति लग्नत्वात् |] वर्ण-मन्त्रपदरूपता शोध्यांशवृत्तिः - इत्यास्ताम् अप्रकृतमेतत् निर्णीतं च मयैव श्रीपूर्वप्रभृतिपञ्चिकासु यद्यप्युक्तं श्रीमालिनीभट्टारिकानुसारेण अन्यथा चान्यथा स्थितिः इति तदपि निर्णीय निरूप्यमाणं विमृशन्तु त्रिकोपदेशविशीर्णाज्ञानग्रन्थयः पारमेश्वराः अनाश्रितशक्त्यात्मकपश्यन्तीपरमकोटिमतिक्रम्य [अनाश्रितस्य शक्तिस्वरूपा यासौ पश्यन्ती सैव परमकोटिः सर्वभावारम्भावस्था |] पारमेश्वर्यां परसंविदि देवतास्तिस्र इति यदुक्तं तत् तावन्न प्रस्मर्तुमर्हन्ति तत्रभवन्तः एवं च परसंविदन्तर्वर्तिनि प्. १४८) मध्यमापदे परापराभट्टारिकाविजृम्भास्पदे स्थितिर्विमृश्यते मध्यमा तावत्स्वाधिकारपदे क्रियाशक्त्यात्मनि ऐश्वरे पदे स्फुटवेद्यप्रच्छादकवेदनरूपा वाच्ये वाचकं तत्रापि वाच्यमध्यस्यते विश्वत्र वाच्ये विश्वात्मनि वाचकमपि यदि विश्वात्मैव तदेवं परम्पराच्छादनमिश्रीभावात्मै निर्वहेत् अध्यासः न त्वन्यथा नहि त्रिचतुरङ्गुलन्यूनतामात्रेऽपि पटः पटान्तराच्छादकः स्यात् विश्वात्मकत्वं च परस्परस्वरूपव्यामिश्रतया स्यात् बीजात्मनां स्वराणां वाचकत्वं योनिरूपाणां च व्यञ्जनानां वाच्यत्वं - क्रमेण शिवशक्त्यात्मकत्वात् बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते | इति | तथा बीजयोन्यात्मकाद्भेदाद्द्विधा बीजं स्वरा मताः | कादिभिश्च स्मृता योनिः * * * * * * * * (?) || इति श्रीपूर्वशास्त्रनिरूपणात् शिव एव हि प्रमातृभावमत्यजन् प्. १४९) वाचकः स्यात् प्रमेयांशावगाहिनी च शक्तिरेव वाच्या भेदेऽपि हि वाचकः प्रतिपाद्यप्रतिपादकोभयरूपप्रमातृस्वरूपाविच्छिन्न एव प्रथते शिवात्मकस्वरबीजरूपा श्यानतैव शाक्तव्यञ्जनयोनिभावो - बीजादेव योनेः प्रसरणात् इति - समनन्तरमेव निर्णेष्यामः अत एव स्वरात्मकबीजव्यामिश्रीभावश्चेद्योनेः तत्समस्तफलप्रसवो हन्त निर्यत्नः - इत्यपवर्गभोगावकृष्टपच्यावेव भवतः बीजवर्णोऽपि स्वात्मनि योनिवर्णोऽपि तथैव - इति किं कस्य भेदकम् - इति कथ्यमानं नास्मानाकुलयेत् ये वयमेकां तावदनन्तचित्रतागर्भिणीं तां संविदात्मिकां गिरं संगिरामहे [यथोक्तम् न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते || तथा वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || इति |] मायीयेऽपि व्यवहारपदे प्. १५०) लौकिकक्रमिकवर्णपदस्फुटतामयी एकपरामर्शस्वभावैव प्रत्यवमर्शकारिणी प्रकाशरूपा वाक् अन्यैश्च एतत्प्रयत्नसाधितम् इह च एतावदुपदेशधाराधिशयनशालिनामप्रयत्नत एव सिद्ध्यति इति नास्माभिरत्र वृथा वैयाकरणगुरुगृहगमनपूतशरीरताविष्क्रियामात्रफले निर्बन्धो विहितः एवमेव नवात्मपिण्डप्रभृतिष्वपि मालामन्त्रेष्वपि च क्रमाक्रमपूर्वापरादिभेदचोद्यप्रतिविधानं सिद्धमेव एवं भगवती मालिन्येव [ह्रीं न फ ह्रीं इति शक्तिमन्त्रः ह्रीं-अ-क्ष-ह्रीमिति शक्तिमद्वाचकः न फ कोटिसमावेशभरिताखिलसृष्टये || इति यहुरूपगर्भे | न शिखा ऋ ॠ ऌ ॡ च शिरोमालाथ मस्तकम् | नेत्राणि चोर्ध्वेऽधोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती || ब कवर्ग इ आ वक्त्रदन्तजिह्वासु वाचि च | व-भ-याः कण्ठदक्षादिस्कन्धयोर्भुजयोर्ड-ढौ || ठो हस्तयोर्झ ञौ शाखा ज्र-टौ शूलकपालके | प हृत् छ-लौ स्तनौ क्षीरमास जीवो विसर्गयुक् || तत्परः कथितः प्राणः ष-क्षावुदरनाभिगौ | म-श-ताः कटिगुह्योरुयुग्मगा जानुनी तथा || ए-इअकारौ तथा जङ्घे तत्परौ चरणौ द-फौ || इति न्यासः | कर्णयोरूर्ध्वे णौ मुद्रे कर्णपाली संविवेशस्तत्र उ ऊ इति |] प्. १५१) मुख्यपारमार्थिकमध्यमाधामशक्तिसतत्त्वम् अत एवोक्तं श्रीपूर्वशास्त्रे यथेष्टफलसंसिद्ध्यै मन्त्रतन्त्रानुवर्तिनाम् | न्यसेच्छाक्तशरीरार्थं भिन्नयोनिं तु मालिनीम् || इति भिन्नयोनित्यं च निर्णीतम् अन्यत्रापि न पुंसि न परे तत्त्वे शक्तौ [शाक्तं यथा देहगध्वसमुन्मेषे समावेशस्तु यः स्फुटः | अहन्ताच्छादितोन्मेषि भावीदंभावयुक् स च || व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् | नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् || यथोक्तमन्यत्र पुंस्तत्त्वे जडतामेति परतत्त्वे तु निष्फलः | शक्तौ मन्त्रो नियुक्तस्तु सर्वकर्मफलप्रदः || इति | अत्र विशेषोऽन्यत्र व्यक्तात् सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च | अव्यक्ताद्वलमाद्यं परस्य नानुत्तरे त्वियं चर्चा || इति |] मन्त्रं निवेशयेत् | जडत्वान्निष्क्रियत्वाच्च न ते भोगापवर्गदाः || इति | एवं च स्थिते सर्वसर्वात्मकत्वात् यदेव न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ब क ख ग इत्यभिहिता इहत्यपरसंविदमपेक्ष्य क्रमेण प्. १५२) श्रोत्रं नादात्मकभावरूपं योन्यात्मामृताप्यायकारिणि [आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् | इति चोक्तमन्यत्र |] बीजचतुष्काप्यायभूमौ पतितं वृंहितत्वमवाप्य झटिति ग्रहणात्मकरससतत्त्वरसनामयत्वं प्रतिपद्य धरण्याकारगन्धविशेषीभूय तत्रैव स्पर्शकरणतां श्रित्वा एतावच्च शाक्तं यौनं धाम ईशानबीजेनाधिष्ठाय वागात्मनि करणशक्तौ प्रतिफलितं ततोऽपि करणशक्तेरुन्मेषोर्ध्वाश्रयणबीजरूपतया बुद्धिरूपां शाकयोनिमधिशयय पृथिव्यप्तेजोयोनिसमाविष्टं पश्यन्तीरूपानुमूर्त्या तु ग्रहणात्मकपाणिरूपायां तत्रैव बीजेषु प्रसृत्य चाक्षुष्यां भुवि तत्सामान्या शुद्धविद्या करणे तत्सर्वान्त्यकरणे च घ्राणे स्थित्वा ईशानबीजेनाक्रम्य श्रोत्रशक्तिमालम्ब्योन्मेषोर्ध्वबीजयोगेन आनन्देन्द्रिययोनिगं सदाशिवेश्वरशुद्धविद्यामयं भवति इति सर्वाग्रमध्यान्तगामित्वेनापरिच्छिन्नमनन्तशक्ति शिवतत्त्वम् अत्रोक्तं भवति प्. १५३) मालिन्यामिहत्यापरसंविदनुसृत्या पश्यन्त्यात्मकसत्तानुसृत्या च क्रमेण वायुर्माया चेति प-घ सादाख्ये नभः ख-ला-च-ङ ईश्वरः इच्छैव शक्तिमयी शुद्धविद्या अनुत्तर एव स्वतन्त्रोऽहंभावः अ शिवाख्यो माया भ शुद्धविद्या रागः स्पर्शश्च यः कालः पायुरहंकृच्च ड नियतिः हस्तौ मनश्च ढकारः आनन्देन्द्रियं बुद्धिश्च ठः पुमांश्च ञः धीरूपं नियतिश्च जः अहंकृतं नियतिरूपं च रः मनः पादेन्द्रियं प्रकृतिश्च टः श्रोत्रं मनो हस्तश्च प त्वग्रसः कालश्च ध-ल रसना आनन्दशक्तिः शैवी आ घ्राणं वियदातेजश्च स वाग्विसर्गशक्तिश्च अः करौ ईशो जलं च ह पायुर्माया वायुश्च ष आनन्देन्द्रियं सादाख्यं पृथिवी च क्ष पादौ पुमान् शब्दश्च स शब्दः कला नभश्च श स्पर्शः बैन्धवी शवशक्तिः अं रूपं नासिका त्वक् च त रसः शिवशक्तिः सात्त्वी ए गन्धः प्. १५४) सैव दीर्घः ऐ नभः तथैव वायुतेजसी ओ नेत्रे रसश्च औ आपः अहंकृत् पायुश्च द पृथिवी फ अत्रैव च यथोक्तम् शरीरनिवेशः - इत्येवं सर्वसर्वात्मकत्वं निर्व्यूढं भवेत् पराभट्टारिकैव हि प्रोक्तनयेन पश्यन्त्यां प्रतिबिम्बं स्वकमर्पयमाणा तत्समकालमेव [पश्यन्त्यां प्रतिबिम्बार्पणकाल एव |] स्वात्मतादात्म्यव्यवस्थितमध्यमधाम्नि भिन्नयोनितामश्नुवाना तत्तद्योनिबीजपरस्परसंभेदवैचित्र्यस्य आनन्त्यादसंख्येनैव प्रकारेण तत्तत्कुलपुरुषादिभेदेनापरिगणनभेदभागिनी मालिन्येव यथोक्तम् अनन्तैः कुलदेहैस्तु कुलशक्तिभिरेव च | मालिनीं तु यजेद्देवीं परिवारितविग्रहाम् || इत्यनेनैव च क्रमेण बहिर्भुवनेषु तत्त्वेषु शारीरेषु च चक्रेषु अभ्यासपरो योगी तत्तत्सिद्धिभाक् प्. १५५) यत्रैव देहे प्राणे वा भवति यथा [ननु च यद्येवं तर्हि स्वेच्छातन्त्रत्वात् सर्वमेव सर्वसिद्धिप्रदं भवेदिति किं नियमो निबद्ध इत्यत आह यथेत्यादि |] काश्चिदेवौषध्यः समुद्भूय किंचिदेव कार्यं विदधते तथा काचिदेव समुद्भूय भावना मन्त्रन्यासहोमादिगतिर्वा कांचिदेव सिद्धिं वितरेत् अत्रापि यावन्नियतिव्यापारानतिक्रमात् तथाहि प्रतिशास्त्रमन्यथा चान्यथा च वर्णनिवेशपुरःसरं निजनिजविज्ञानसमुचिततत्तद्वर्णभट्टारकप्राधान्येन तत्तद्वर्णप्राथम्यानुसारायातनियतपरिपाटीपिण्डितवर्णसमूहरूपः प्रस्तारो निरूपितः तत एव च मन्त्रोद्धारो निरूपितः तामेव मातृकारूपां तथाविधवीर्यदानोपबृंहितमन्त्रस्फुरत्तादायिनीं दर्शयितुं यथा श्रीनित्यातन्त्रेषु एकारात्मकमोहनबीजप्राधान्यहेतुपरनादात्मनिवेशप्राधान्यात् [हेतुपरनादात्मेत्यपि पाठः सद्भिः स्वीकृतः उत्तमार्थाभिप्रायेण न तु प्रस्तावापेक्षयेति |] तदनुसारापतितश्रीमन्त्रादिफान्तक्रमेणैव निवेशः अत्र कुलपुरुषाणां कुलशक्तीनां च एष एव प्. १५६) निवेशे अभिप्रायः न च वर्णमन्त्रादिगुप्तिमात्रमेव फलं तथा - श्रीवाजसनेयतन्त्रे वर्णान् यथोचितं निवेश्योक्तम् इत्येतन्मातृकाचक्रं दिव्यं विष्णुपदास्पदम् | ज्ञातं गुरुमुखात्सम्यक् पशोः पाशान्निकृन्तति || इति | तथा श्रीत्रिकहृदयेऽपि चक्रशूलाम्बुजादीनां प्राणिनां सरितां नृणाम् | आयुधानं च शक्तीनामन्यस्यापि च कस्यचित् || यो निवेशस्तु वर्णानां तद्वीर्यं तत्र मन्त्रगम् | तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः || इति | तथाहि - मन्त्राणामक्षरमात्रान्यथाभावेऽपि तेषामेव [समानानामेव |] शास्त्रेष्वाणवशाक्तशाम्भवादिविभागेनान्यथात्वम् यथा मायाबीजस्य प्रणवस्य सर्वस्यामृतबीजस्य वैष्णव-शैव-वामादिशास्त्रेषु यथा वा चतुष्कलभट्टारकस्य कौलोत्तरादौ श्रीमदुच्छुष्मशास्त्रे च अत्र च कुलपुरुषबहुभेदप्रकटनायामभियुक्तानामुपायो लिख्यते प्. १५७) पूर्वे परेषामपरे परे पृष्ठवदेव च | पूर्वेपि च यथापूर्वं मातृकाया विधिर्मतः || एतेनैवानुसारेण भिन्नयोनिस्वरूपतः || शाक्ताद्यसंख्या देवीयं परैवोत्तरमालिनी || इति | ऊर्ध्वाधो विनिविष्टेषु भेदसंख्येषु धामसु | एकं बिन्दुरथापि प्रागन्येषु प्राक्तनान्त्यगाम् || स्वपृष्ठगां च तां संख्यां विनिवेश्यैकतः क्षिपे | अस्मादन्यैर्भवेत्संख्या स्पृष्टैरिष्टैः पुनः क्रमः || यथोक्तं कुलशक्तीनां विधिरानन्त्यवेदने | तदेतेन विधिना ये कुलपुरुषशक्तियोगिनो निरधिकारीभूताः यथोक्तम् ब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यलम् || मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः | अनुगृह्याणुसंघातं याताः पदमनामयम् || इति मन्त्रमहेश्वराः न तु मन्त्राः - तेषां स्वलयावसरे अनामयपदपर्यन्तताभावः तेभ्यो नैव मन्त्रोद्धारः - तस्य निष्फलत्वात् तत एव प्. १५८) अभिन्नयोनिमध्ये तु नादिफान्तं कलौ युगे | इति तदेवं भगवती पराभट्टारिका पदभेदशालिनी मध्यमया मुख्यया वृत्त्या भगवन्मालिनीरूपैव अनन्ता परिगणनप्रदर्शितवैश्वरूप्यस्वस्वरूपापीति तत्रापि च तथैव स्वात्मनि सर्वात्मकत्वेनांशत्रयोद्रेकात् वर्ण-पद- मन्त्रात्मकत्वम् एतच्च शोधनकरणभावेन इति मन्तव्यम् पश्यन्त्यंशोल्लसन्तो हि पाशाः सूक्ष्मा एव शोध्या भवन्ति - अन्तर्लीनत्व एव पाशत्वात् उदितोदितविजृम्भामयशाक्तप्रसरे तु मध्यमापदे शोधनकरणतैव अन्तर्लीनपटमलापसरणे बाह्यस्थूलमलस्येव तत् पराभट्टारिकासंविदन्तर्गतं तु वैखरीपदं विमृश्यते न हि तत्रैव वैखर्या असंभवः तथाहि - बाला द्वित्रैर्वर्षैः यद्यपि स्फुटीभूतस्थानकरणाः भवन्ति तथापि एषां मासानुमासादिनानुदिनमेव वा हि उत्पत्तिरधिकाधिकरूपतामेति - इति तावत् स्थितम् तत्र यदि मध्यमापदे तथाविधवैखरीप्रसरस्फुटीभविष्यत्स्थानकरणाविभागवर्णांशस्फुरणं प्. १५९) न स्यात् तदहर्जातस्य बालकस्य मासजातस्य संवत्सरजातस्य वा व्युत्पत्तौ न विशेषः स्यात् मध्यमैव सा व्युत्पत्त्या विशिष्यते (?) इति चेत् कथमिति चर्च्यतां तावत् - शृण्वन्नेव ताञ्शब्दान् पश्यंश्चार्थान् व्युत्पद्यते वर्णांश्च श्रूयमाणानेव परामृशेत् श्रूयन्ते च वैखरीमयाः तेषु च असौ रूपी एव जात्यन्धवत् तस्मात् अन्तर्मध्यमानिविष्टस्थानकरणादिमयी अस्त्येव वैखरी मूकेऽपि एवमेव सर्वात्मकत्वं च संविदो भगवत्या एवोक्तम् एवं च वैखरीपदमेव मध्यमाधामलब्धविजृम्भं स्वांशे परस्परवैचित्र्यप्रथात्मनि स्फुटवाच्यवाचकभावोल्लासे जाते तत्त्वजालमन्तःकृत्य यावदास्ते तावदपराभट्टारिका तदन्तर्वर्तिमध्यमापदोल्लासे परापरा पश्यन्त्युल्लासे च स्वरूपतो भगवती देवी च इति शोधकभावेन स्थितिः त्रैधमेवावतिष्ठते शोधको हि विश्वात्मा विततरूपो वैतत्यं चैवमेव भवतीत्युक्तम् शोधनं प्. १६०) @@@@@@@@ ११.५८ प्रति तु करणत्वं कर्तुरेव स्वस्वातन्त्र्यगृहीतसंकोचस्य शाक्तमहिमविश्रान्तस्य भगवतः शोध्यता तु संकोचैकरूपस्य सप्तत्रिंशातिक्रान्तत्रैकैकरूपभैरवभट्टारकाविनिर्भक्तपराभट्टारिका- तुल्यकक्ष्यपरापरादेवताक्षोभात्मकसदाशिवज्ञानशक्तिविस्फारितपशुशक्ति- रूपपश्यन्तीधामप्रथमासूत्रितभेदात्मनो [अयमत्र तात्पर्यार्थः स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलमिदं स्वस्वरूपापहानितः || भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् | कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्रयम् || इति पाशसमूहः स्थूलः ऊर्ध्वमपि पाशजालं सूक्ष्मरूपेणास्तीति प्रथमासूत्रितेत्युक्तम् |] नरात्मनः पाशजालस्य इति निर्णयः | यथोक्तं श्रीसोमानन्दपादैः शिवदृष्टौ अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे | शिवः करोतु परया नमः शक्त्या ततात्मने || इति सर्वक्रियाकलापे एवंरूपतासूचकं शिवदृष्टौ प्. १६१) तत्रापि च उत्तरोत्तरं शोध्यशोधकानामपि विगलनम् त्यज धर्ममधर्मं च उभे सत्यानृते त्यज | उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज || इति | तदियमेतावती धारा यच्छोधकमपि शोधनमपि शोध्यमेव - इति श्रीषडर्धशास्त्रे एवोक्तम् एकोत्कर्षः तिसृणामपि चासां युगपत् स्थितिर्भवत्येव वक्ति ह्यन्यत् विकल्पयंश्च अन्यत् जल्पत्यविकल्पमेव अन्यत्पश्यति अत्र तु परिपूर्ण एव तावति भगवान् भैरव एव - इत्याद्यनुभवसंप्रदायोपदेशपरिशीलनेन - अस्यार्थय स्वसंविन्मयस्यानपलापनीयत्वात् न तत् युगपत् अपि तु तथा- सौक्ष्म्यादलक्षणम् इति यौगपद्याभिमानः शिरीषकुसुमपल्लवशतव्यतिभेद इव इति चेत् केयं खलु भाषा - युगपत् इति समानकालम् - इति चेत् अन्तर्मुखे संविदात्मनि प्रोक्तनयेन कः कालः तस्य ज्ञेयरूपप्राणगमागमादिमयाभासतदभावप्राणत्वात् ज्ञेयोपाधिगतोऽपि प्. १६२) ज्ञानमवस्कन्देत् सः इति चेत् - ज्ञेयस्य स्वात्मनि भासामयेऽन्यथा वा कोऽस्य विशेषो ज्ञानमुखेनोक्तः इतरेतराश्रयसंप्लवः स्वतो भेदात् इत्याद्यपि सर्वमुच्यमानं ज्ञानमुखमेवापतेत् तथा च स एव दोषो बहुतरकुसुमपल्लवशतव्यतिभेदोऽपि चानेक इत्युच्यमाने सर्वत्र सूक्ष्मः - परमाण्वन्तावयवयोगात् नास्ति कर्म - इत्यापतेत् न च अनुसंधानं ज्ञानाभावेन सह स्यात् - अनुसंधायाः स्मृतिभेदे तस्याश्च अनुभवोपजीवित्वेऽनुभवाभावात् | वितत्य च विचारितं मयैतत् पदार्थप्रवेशनिर्णयटीकायाम् - इति किमिह वृथावाग्जालेन प्रकृतोपदेशविघ्नपर्यवसायिना | एवं भगवत्यपराशोधकभावेन स्थिता परापरापि च यत्र भगवतीनामघोरादीनां शक्तीनां स्थितिः - यद्योगात् विज्ञानाकलसाधकयोगिनो मन्त्रमहेशादिरूपेणाघोराद्याः संपन्नाः ब्राह्म्यादिशक्त्यनुग्रहेणैव प्. १६३) साधकाणवो ब्रह्मविष्ण्वादयः परमेश्वरो हि भैरवभट्टारकः समग्रशक्तिपुञ्जपरिपूर्णनिर्भरवपुर्निजशक्तिनिवेशनया ब्राह्म्यादीन् स्वातन्त्र्यात् करोति इति किमन्यत् | एवं शोधकस्यापि शोध्यत्वमित्यन्य उत्कर्षः * * * * * * * * (?) कुलात्परतरं त्रिकम् | इति स्थित्या ततश्च शोध्यशोधनशोधकानां सर्वत्रैव त्र्यात्मकत्वात् त्रिकमनपायि यथोक्तं मयैव स्तोत्रे * * * * * * * * (?) यत त्रिकाणां त्रितयं समस्ति | इति | न चैवमनवस्था - सर्वस्यास्य भगवत्परसंविदेकमयत्वात् * * * * * * * (?) येन त्यजसि तत्त्यज | इत्येवमेव मन्तव्यं शोधनमपि अन्ततः शोधकोऽपि वा भेदांशोच्छलत्तायां पाशात्मकत्वात् शोध्य एव शोधनं च परमार्थतः सर्वमलप्लोषचतुरभैरवसंविदभेदि हुतवह एव सर्वस्यानुप्रवेशे परिपूर्णतैव यद्वक्ष्यति प्. १६४) एवं यो वेत्ति तत्त्वेन इत्यादि | तत् परसंविदेकमयपरापरादिदेवतानां सर्वात्मकत्वात् परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः | इत्यादिवचनात् लौकिकशास्त्रान्तरीयादिवाच्यवाचकानन्त्यमपि संगृहीतम् | तत् एवं कृतकरिष्यमाणाद्यनन्तसंकेतगर्भीकारेणैव अयं शोध्यशोधकभावो न चानवस्था नातिप्रसङ्गो नातिव्याप्तिर्न संकेंतितस्यापारमार्थिकता - इति स्थितम् एवं स्थिते प्रकृतमनुसरामः - अकाराद्या एव कालयोगेन सोमसूर्यौ यौ तौ तदन्तः प्रकीर्तिताविति संबन्धः तच्छब्देन प्राक्तनश्लोकोकमकुलं भैरवात्म परामृश्यते तेनाकुलमेवान्तर्गृहीतकलनाकं - कुलशक्तेरत्रैव [अत्रेत्यकुले | शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता | इति | यथा च विज्ञानमानन्दं ब्रह्मेति विज्ञानाकलावस्था हि तुर्यता यदि तत्र कलनात्मिका शक्तिर्न स्यात् तदा तुर्यातदतीतयोः को विशेषः स्यादित्यर्थः | तथैव स्पन्दशास्त्रे तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || इति | तथा शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः | इत्यभिप्रायः |] निवेशात् कलनात्मिका हि विमर्शशक्तिः तामन्तरेणाकुलमपि प्. १६५) तुर्यातीतं नाम न किंचित् - सौषुप्तपदाविष्टत्वात् तुर्यानन्तरताया अपि समानत्वात् विमर्शशक्तिश्च परा परमेश्वरी [यदुक्तं राजनकमङ्लेन स्तुतौ एकस्त्वं त्रिनयन दृश्यसेऽधिकर्तुं ज्ञातुं वा त्रिभुवनमीश्वरः प्रकाशः | तादात्म्यं विवृतवती विमर्शशक्तिर्भेदेऽपि प्रथयति तेन भेददोषम् || इति |] भैरवभट्टारकस्य निरतिशयस्वातंत्र्यात्मिका पूर्णकृशतदुभयात्मतदुभयरहितत्वेनावतिष्ठते [सर्वस्य स्वात्मान्तःक्रोडीकृत्य वर्तमानत्वात् पूर्णा स्वस्वरूपव्यतिरिक्तस्य भारी भूतस्य कस्यचिदपि सत्ताभावात् कृशपूर्णत्वं व्यतिरिक्तेणोपपद्यते कृशत्वं चेत्यतस्तदुभयात्मकत्वं तदुभयराहित्वं च |] तत्र यद्यपि प्. १६६) न कश्चिदत्र क्रमयौगपद्योदयकलङ्कः [क्रमयौगपद्योदयो हि सृष्ट्याद्यधीनः सृष्ट्यादयश्च स्वस्वभावाविमर्शं एवेति तात्पर्यम् | एतावत्या इति पूर्णकृशेत्यादिपरिमाणायाः | स्वातन्त्र्यं चास्यैतदेव - यत्सृष्ट्यादिभेदाभासेऽपि ऐतदात्म्यमिति तत्र हेतुः - परिपूर्ण इति भेदस्यापि प्रकाशानन्यत्वादिति भावः |] प्रोक्तोपदेशनयेन एतावत्याः पराभट्टारिकासंविदोऽनन्तागामिप्रलयोदयात्मकस्वस्वभावविमर्शैकघन- त्वादिति स्वतन्त्रः परिपूर्णोऽयं भगवान्भैरवो विभुः | तन्नास्ति यन्न विमले भासयेत्स्वात्मदर्पणे || इति नीत्या क्रमयौगपद्यासहिष्णुस्वात्मरूपमध्य [न चैतन्मन्तव्यं - क्रमे हि स्वातन्त्र्यखण्डना यौगपद्यं कथं न स्यात् इति क्रमापेक्षतयैव यौगपद्यमित्यदोषः |] एव यावत् क्रमाक्रमावभासः तावत् तदनुसारेणायं क्रमो विचारणीयः अक्रमस्य [यदि च क्रमो विचारणीयः तर्हि अक्रमोऽप्येवं विचारणीय इत्यतोऽक्रमेत्यादि |] तु तत्पूर्वकेण संविद्येव भावात्प्रतिपादनाय [कथं तर्हि क्रमाक्रम इत्यत्राक्रमोच्चारणमित्युच्यते - प्रतिपादने त्यादि |] अस्तु - प्. १६७) सर्वथैव सक्रमत्वात् तथा च सर्व एवायं वाग्रूपः परामर्शः क्रमिक एव अन्तःसंवित्मयस्त्वक्रम एव - इति सदैवेयमेवंविधैव एवमेव विचित्रा पारमेश्वरी पराभट्टारिका ततस्तत्क्रमानुसारेण अत् इत्यादिव्यपदेशः एवं परमेश्वरस्य स्वात्मनि इच्छात्मिका स्वातन्त्र्यशक्तिरनुन्मीलितभावविकासा तथाविधान्तर्घनसंवित्स्वभावविमर्शसारा अ इत्युच्यते | सा चावस्थानेन इच्छेति व्यपदेश्या इष्यमाणानुद्रेका तत एवानुत्तरसत्तापरामर्शात्मिकैव [यदुक्तं महार्थमञ्जर्याम् सन्निति हृदयप्रकाशो भवनक्रियाया भवति कर्ता | सैव क्रियाविमर्शः * * * * * * * * * * * * * (?) || इति |] एषा परमेश्वरः सततं स्वस्वरूपामर्शकोऽकुलशक्तिपदात्मकमपि रूपमामृशन् यद्यपि कुलशक्तीरनुयातु तथापि कुलपरामर्शतोऽस्य स्यादेव विशेषः - इति भैरवशक्तिमद्विमर्शसत्तेयं प्. १६८) तादृश्येव [तादृश्येवेति परस्परौन्मुख्यात्मिका स्पन्दरूपा स्वात्मोच्छलत्तेत्यथः | यदा तु तस्य चिद्धर्मप्रभवामोदजृम्भया | विचित्ररचना नानाकार्यसृष्टिप्रवर्तने || भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः | इति स्पन्दात्मिका बहिरौन्मुख्यमात्ररूपिणी स्रष्टव्यानारूपितेच्छामात्ररूपा वा स्यात् तत्तदीशनीयविषयारूपणया प्रक्षोभात्मप्रयत्नरूपतां श्रयन्ती वह्नीरूपतयैश्वर्यं भजमाना वेत्यस्या द्वैधम् | यदुक्तं मध्यायां सा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा काचित् पुनः प्रयत्नतामापन्ना सन्निकृष्टेति तत्रेशानरूपत्वमस्याः |] पुनः प्रसरन्ती आनन्दशक्तिः आ इति प्रसृता | परिपूर्णेच्छा इ इति | इच्छैव भाविज्ञानशक्त्यात्मकस्वातन्त्र्येण जिघृक्षन्ती ईशनरूपा ई इति | उन्मिषन्ती तु ज्ञानशक्तिरिष्यमाणसकलभावोन्मेषमयी उ इति | उन्मिषत्तैव उन्मिमिषतामपि अन्तःप्राणसर्वस्वरूपोन्मेषोत्तरैकरूपैरपि अन्तःकरणवेद्यदेशीयास्फुटप्रायभेदांशभासमानभावराशिभिः संकोचवशेन ऊनीभूतानुत्तरसंवित्सर्वभावगर्भीकारेण अनङ्गधैनवीरूपपरदेवताया प्. १६९) ऊधोरूपा ऊढसकलभावराशिः सुस्फुटाप्रसृता ज्ञानशक्तिः ऊ इति | तदेवमेते परमेश्वरस्य भैरवस्य द्वे शक्ती प्रथमा स्वरूपपरिपूरणारूपत्वात् पूर्णा चान्द्रमसीशक्त्यव्यतिरेकाच्च सहोमया वर्तत इति सोमरूपा स्वानन्दविश्रान्तिभावा इच्छाख्या कलना महासृष्टिव्यपदेश्या यद्वक्ष्यते तत्र सृष्टिं यजे दिति (२८) | द्वितीया तु तत्स्वरूपभावराशिरेचनानुप्रवेशोद्रिक्ता तद्रेचनादेव कृशा भावमण्डलप्रकाशनप्रसारणव्यापारा सूर्यरूपा स्वरूपभूता कुलसंवित्संजिहीर्षात्मिका महासंहारशक्तिर्ज्ञानाख्या तत्रापि च प्रसरत्प्राक्तनरूपपर्यालोचनावशात् स्वात्मनि यथाक्रमं सोमसूर्यरूपतायुगलकभावेन स्वसंविदात्मकं भावाख्यं च रूपमवेक्ष्य विपर्ययोऽपि सोमसूर्यात्मकसृष्टिसंहृतिकलनयोः न च अत्रानवस्था - ज्ञानेच्छयोरपि प्. १७०) प्रसराप्रसरान्तरादिरूपत्वं तयोरपि प्रसराप्रसरयोरिच्छाज्ञानप्रसराप्रसरान्तरादिपरिकल्पनाप्रसङ्गात् इति वाच्यम् उपसंहरत बाह्यबिभ्रमभ्रमभ्रमणं तावत् अनुप्रविशत सूक्ष्मां विमर्शपदवीम् यावद्धि घटादावपि विज्ञानं जायते तावदेव ज्ञेयघटाद्यंशकर्बुरीकृतस्वयंप्रथं ज्ञानं प्रथत एव तत्रापि च तद्रूपकर्बुरीभावघटादिप्रथमसूक्ष्मोल्लासोऽपि संवेद्यः - एकभावोद्गमस्य अन्यतः कुतश्चिदभावस्य प्रथमानत्वात् संविद एव स्वातन्त्र्यं भावोज्जिगमिषात्मकमीशनं स्वसंवित्प्रमाणलब्धमेव तद्भावानुचयरूपा संविद्धना परिपूर्णा स्वातन्त्र्यसत्तापि संवेद्या स्वात्मन्यानन्दघनो भवंस्तथा स्वतन्त्रः स्यात् - इत्यानन्दोऽपि नापह्नवनीयः अनुत्तरश्च शक्तिमानव्यपदेश्यपरचमत्कारसारो भैरवभट्टारकः सर्वत्र कर्तृत्वेन भासत एव तत्रापि त्वनुत्तरानन्देच्छेशनोन्मेषणे न त्वनिमेषाणां स्वरूपविमर्शे प्. १७१) तेषां विच्छेदविचारणेन ज्ञानभूमिमधिशयानानां ता एव भगवत्यः संविच्छक्तयः समापतन्त्यनन्या एव स्वयं संविदः - परिपूर्णत्वेनाभेदात् संवेद्योपाधेश्चं भेदकत्वात् - तस्य देहसंवेद्यमात्रतयैव भावात् अत एव श्रीतन्त्रसारे निजोत्तमाङ्गच्छायातत्त्वम् इत्युक्तम् स्वपदा स्वशिरश्छायां यद्वल्लङ्घ्हितुमीहते | पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला [अयमर्थः - स्वशिरश्छाया यथोत्तरोत्तरगामित्वात् स्वपादाक्रमनं न सहते तथा ज्ञानशक्तिः इयमपि नोत्तरोत्तरगामित्वात् ज्ञेयाद्यपेक्षां सहते | यो हि इत्थं मन्यते ज्ञेयादिसापेक्षं ज्ञानशक्तिस्वरूपमिति तदत्र स्वप्रकाशत्वादस्याः कथमीदृशी विडम्बनेति स्वानुभवशून्यानामनवसरेऽपि महती खलु भ्रान्तिः | यदुक्तं भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम | इति ज्ञेयादिसत्तायां स्थूलदृश्वनां स्फुटं ज्ञानशक्तेराविर्भावः ज्ञेयाद्यभावेऽपि सूक्ष्मदर्शिनामस्त्येव स्वपकाशत्वेन ज्ञानादिशक्त्याविर्भाव इति तात्पर्यम् |] || इति | तदेवं षट्कं प्रवृत्तं ज्ञानशक्त्यन्तम् | क्रियाशक्तिस्तु प्रसरन्ती विचार्यते - इच्छाज्ञाने एव प्. १७२) परस्परस्वरूपसांकर्यवैचित्र्यचमत्कारमयपूर्वापरीभूतस्वरूपपरिग्रहे संरम्भसारा क्रिया [पूर्वापरीभूतावयवरूपा हि क्रिया | उक्तं च हरिणा यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते | आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते || इति | तथा गुणभूतैरवयवैः समूहः क्रमजन्मनाम् | बुद्ध्या प्रकल्पितो भेदः क्रियेति व्यपदिश्यते || इत्यत्र च पूर्वापरत्वं परस्परसांकर्येणैवेति |] तत्र यद्यदन्यव्यामिश्रितसांकर्यमन्यसंबन्धादेति तत्तदनामर्शनीयशून्यप्रायस्वरूपाक्रमणपुरःसरीकारेण तथा भवति - प्लवानामिव भेकादिः तत्रानुत्तरानन्दात्मकं वपुर्न व्यपसरति - अव्यपदेशरूपत्वात् सर्वज्ञानेषु [असर्वज्ञानत्वं चेत्थम् परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका | इति | तथा परं ज्ञानं कथं देव इति पश्ने शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः | इत्युत्तरं दत्तम् | गीतायामपि यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || इति |] सर्वाधारवृत्तित्वेन पर्यवस्यति - प्. १७३) पर्यन्तभित्तिरूपत्वात् अपि तु क्रमसहिष्णुत्वात् संरम्भेच्छैवेशनान्ता स्वात्मनि अनुत्तरानन्दपदे च प्रसरणक्षमा ततः सैव शून्यात्मकं स्वं वपुरवगाहमाना भास्वरं रूपं तेजोमयमिव प्रथमं गाहते ऋ-ॠ इत्यत्रहि इ- ई इत्यनुगमो भास्वररूप-रेफश्रुत्यनुगमश्च कथमपह्नूयताम् यथाह भगवान्पुष्पदन्तः रश्रुतिसामान्याद्वा सिद्धम् इति | शून्ये [एतदेव योगिनिदर्शनेन स्फुटयति शून्ये हीत्यादि |] हि निश्चले रूपे अनुप्रविविक्षायां भास्वररूपसंवित्तिसोपानाक्रमण्ं स्थितमेव ततो निश्चलरूपानुप्रवेशात् पार्थिवरूपसतत्त्वनिश्चलतात्मक-लकार-श्रुत्यनुगमे ऌ- ॡ इति तथा च पर्यन्ते ईशनरूपतैव समग्रभावात्मस्वरूपोल्लङ्घनेन दीर्घतरं प्लुत्वा निश्चलां शून्यां सत्तामेतीति प्. १७४) प्लुतत्वमेति ऌवर्णस्य दीर्घा न सन्ति इति न्यायात् अवर्णादीनां तु दीर्घस्यैव दीर्घतरता प्लुतत्वं तच्च प्राङ्नीत्या [आनन्दो ब्रह्मणो रूपमित्यादिनीत्येत्यर्थः |] दीर्घत्वमेव पृथगपर्येषणीयम् इत्यास्तां तावत् एतच्चतुष्कं शून्यरूपतानुप्रवेशात् दग्धबीजमिव षण्ठरूपं भण्यते न तु सर्वथा बीजरूपत्वाभावात् बीजयोन्यात्मकशिवशक्त्युभयातिरेकिणः [यदि हि बिजत्वं न स्यात् एषां तदा तृतीयस्य कस्यचिद्व्यपदेशः स्यात् | क्षुभ्यति क्षोभयत्यपीति बीजत्वं तत्रैष्वपि क्षोभोऽस्त्येव क्षोभणा तु नास्तीति सर्वथा बीजत्वाभाव इत्यर्थः |] कस्यचिदप्यभावात् श्रीपूर्वादिशास्त्रेषु [तदभावश्च कथमित्यत आह पूर्वादीति |] चानभिधानात् लौकिकसुखादिषु चैवंविधैव विश्रान्तिरानन्दरूपेति तदेवामृतबीजचतुष्कमित्युक्तम् तदेवमिच्छेशनं चानन्दवपुषि अनुत्तरपरधामनि च प्राग्भाविनि स्वरूपादप्रच्याविनि अनुप्रविश्य अ आ इ ई इति च न तु विपर्यये यथोक्तम् अवर्ण इवर्णे ए इति अनुप्रवेशे चानुत्तरपदानुप्रवेशे प्. १७५) स्यादपि कश्चिद्विशेषः आनन्दपदानुप्रवेशे हि स्फुटता अनुत्तरधामसंभेदे तु सूक्ष्मता तदपेक्षया तथाहि भगवान् भुजगविभुरादिशत् छान्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते | इति | लोकेऽपि प्राकृतदेशभाषादौ स्फुट एव प्रचुरो निवेशः पारमेश्वरेष्वपि एकारौकारयोरैकारौकारापेक्षया यत् ह्रस्वत्वमङ्गवक्त्रादिविनियोगे दृश्यते तदेवमेव मन्तव्यम् - अय एकार अव ओकाराभिप्रायेणैवम् - ए ओ इति बीजं स्थितम् एतदपि तथा शवलीभूतं संविद्वपुः तथैव च तदेव रूपमनवसत् अ आ ए इति ऐ एवमुन्मेषेऽपि वाच्यम् - अ आ उ ऊ इति ओ आ ओ इति औ केवलमुन्मेषो ज्ञानशक्त्यात्मा प्रसरन् यद्यपि शून्यतावगाहनं कुर्यात् तथापि अस्येशनेच्छात्मकोभयरूपप्रवेश एव शून्यता इच्छेशनयोस्तु स्वपरिवृत्तिरूपं प्. १७६) नास्ति - इत्युक्तनयेनैव स्थितिः एवमिच्छाज्ञाने अनुत्तरस्वरूपानुपवेशेन प्राप्तोपचये पश्चात् परित्यज्य तथाविधोपाधिपरिस्पन्दसत्तामभेदसत्तारोहणचिन्मयपुरुषतत्त्वसतत्त्ववेद- नारूपबिन्दुमात्रावशेषेण वपुषा तथानुत्तरपदलीने अमिति तथाहि औकारे एव क्रियाशक्तिपरिस्पन्दः परिसमाप्यते इति - इच्छाज्ञानयोरत्रैवान्तर्भावात् त्रिशूलरूपत्वमस्य षडर्धशास्त्रे निरूपितम् * * * * * * * * (?) त्रिशूलेन चतुर्थकम् | इत्याद्युद्देशेषु बिन्दुः [अत्रार्थोऽयम् अत्र प्रकाशमात्रं यत् स्थिते धामत्रये सति | उक्तं बिन्दुतया शास्त्रे शिवबिन्दुरसौ मतः || इति न्यायात् स्वभावाविशिष्टमपि यदा विश्वं स्वस्मात् स्वस्मिन्नेवैक्यगमनाय विसृजति तदा शक्तिमद्रूपप्राधान्यं पूर्णतावेशलक्षणं शांभवं तत्त्वमित्युक्तम् |] पुनर्वेदनामात्रशेषतैव सर्वस्य वेदनामात्राविशेषमपि विश्वं यदा स्वात्मन्येकगमनाय विसृजति स्वात्मनश्च सकाशात् तन्निर्माणेन प्. १७७) विसृजति स एव परमेश्वरः प्रथमं शक्तिमद्रूपप्रधानतया इदानीं तु शाक्तविसर्गप्रधानतया अः इति औकारपर्यन्ते हि निर्भरीभूते क्रियाशक्तिप्रसरे एतावदनुपविष्टमनुत्तरपदस्य भैरवभट्टाअकस्य स्वरूपसतत्त्वस्य इच्छा [इच्छाज्ञानक्रियाशक्तिनामकं त्रितयं खलु | परमेश्वरस्वातन्त्र्यख्यापकं कथितं परे || इच्छाशक्ताविष्याअणं विश्वं जातं यदैव हि | ज्ञानशक्तिरभिव्यक्तिकारणं तस्य ब्रूमहे || क्रियाशक्तिर्बाह्यरूपपरिस्फुरणकारणम् | एकमेव हि स्वातन्त्र्यमादिमध्यान्तभेदभाक् || तेन नैषां पृथङ्नाम कदाचिदपि लभ्यते | तत्र स्फुटप्रतीत्यर्थं यथा मूल एव उल्लिलसिषेत्यादि |]-ज्ञान- क्रियात्मकशक्तिपरिस्पन्दादिमध्यान्तभागाः उल्लिलसिषा-उल्लसत्ता- उल्लसिततास्वभावाः सूक्ष्मतमप्रसंख्यानगृहीततावद्भूमिकाधिरूढयोगिजनस्फुटलक्षणीयाः [प्रसंख्यानं समाधिः |] श्रीस्वच्छन्दादिप्रक्रियाशास्त्रेषु प्रबुद्धप्रसरणावरणादिरूपत्वेनोक्ताः [प्रबुद्धेति इच्छा प्रसरणेति ज्ञानं आवरणेति क्रिया |] अत एव शिवदृष्टिशास्त्रे सप्तमाह्निके प्. १७८) सुनिर्भरतराह्लादभरिताकाररूपिणि | निलीनशक्तित्रितये परामन्यनुभावनात् || इत्यादि तस्यापि शक्तिर्मृत्पिण्डघटवद्विश्वरूपताम् | गता * * * * * * * * * * * * * * (?) || इत्यन्तं निरूप्य एकमेव हि तत्तत्त्वं न संख्यातोऽतिरिक्तता | इति यच्छिवतत्त्वमेव अनन्तविचित्रस्वातन्त्र्यस्फारस्फुरणशक्तिचमत्कारभरिततोपात्तभैरवभावं निर्णीतम् तत्रायमेवोक्तक्रमः संप्रदायप्रथमाह्निकेऽपि स यदास्ते [शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिषति तावदपि तावदस्त्येवोक्तरूपशिवता तथा च शकिपञ्चकमपि तदानीमेकरूपमपि व्यवहारापेक्षया कार्यवशादस्त्येव तथाहि परापरावस्थायां योऽहमिति सहजप्रत्यवमर्शात्मा प्रकाशः स एव परानपेक्षत्वादानन्दरूपो निर्वृतचिन्मयः स्थित एव तदुक्तं चिदाह्लादेति पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं न तु बाह्ये तत एव तत्रैव लयो यस्य स तथा अनेन निर्वृतचित्कथिता इच्छाज्ञानक्रियास्तु भिन्नविषयाद्यपेक्षया स्फुटीभवन्ति परावस्थायां पुनः पूर्णोऽहमित्येव प्रकाशते - तावत्प्रकाशत्वात् तदेव ज्ञानं संरम्भरूपत्वात् सैव क्रिया तत्स्वभावेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति तावच्च स्वरूपं क्रियेति योज्यम् | भिन्नविषयाद्यभावेऽपि अभ्युपगमप्रकाशसंरम्भाणां सर्वदा प्रकाशमयत्वेनाविचलनात् इच्छादिव्यवहारयोग्यतैवेत्युक्तं सुसूक्ष्मेति सुसूक्ष्मत्वमेपितव्याद्यविभागेन विभागापरिकल्पनात् अत एव शक्तिसामरस्य. पूर्णचिन्मात्रप्रकाशतात्मत्वात् चिद्रूपाह्लादपरत्वं चोक्तमिति चिदभेदाख्यातिवैचित्र्यभिन्नघटदेवदत्तात्मकवेद्यवेदकावभासनं नामरूपं पूर्वापरीभूतावयवा क्रियेत्यर्थः |] चिदाह्लादमात्रानुभवतल्लयः | तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा || प्. १७९) सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते | चिद्रूपाह्लादपरमो निर्विभागः परः सदा || इति | तथा घटम् घटादिग्रहकालेऽपि घटं जानाति यावसा | जानाति ज्ञानमत्रैव [अत्रैवेति क्रियायां] निरिच्छोर्वेदनक्षतिः || औन्मुख्याभावतस्तस्य [इच्छापूर्वभाग औन्मुख्यम् |] निवृत्तिर्निर्वृतिं विना [विनेति - संविन्निष्टत्वाद्विषयव्यवस्थितीनामिति |] | द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितिम् || इति | तथा प्. १८०) यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया | तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या || तत्कर्मनिर्वृतिप्राप्तिरौन्मुख्यं तद्विकासिता | न चौन्मुख्यप्रसङ्गेन [अत्र स्फुटीकरणार्थं निदर्शनेन शिवदृष्टावौन्मुख्यं साधितम् | यथा गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् | आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते || व्रजतो मुष्टितां पाणेः पूर्वः कम्पस्तदेक्ष्यते | बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः || तदास्था प्रविकासो यस्तदौन्मुख्यं पचक्षते | किंचिदुच्छूनता सैव महद्भिः कैश्चिदिष्यते || तस्येच्छा कार्यतां याता यया सेच्छः प्रजायते | औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता || इति |] शिवः स्थूलत्वभाक् क्वचित् | इत्यादि एतदागमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतं स एष [स एषेति शक्तिविसर्गयुक्तो विश्वं निर्मिणोतीति यथोक्तम् अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा | सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् || इति | तथा कला सपदशी तस्मादमृताकाररूपिणी | परापरस्वस्वरूपबिन्दुगत्या विसर्पिता || प्रकाशः सर्ववस्तूनां विसर्गरहिता तु सा | शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा | विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च || इति |] परमेश्वरो विसृजति प्. १८१) विश्वं तच्च धरादिशक्त्यन्तं कादि-क्षान्तरूपम् - इति एतावती विसर्गशक्तिः षोडशी कला इति गीयते पुरुषे षोडशकले तामाहुरमृतां [षोडशानामपि कल्लानामाप्यायकारित्वात् नित्योदितत्वेन चानस्तमितत्वादमृतामिति |] कलाम् | इत्येषा हि न सांख्येया नापि वैदान्तिकी दृक् अपि तु शैव्येव [शैष्येवेति स्वात्मनः स्वात्मनि स्वात्मक्षेपे वैसर्गिकी स्थितिः | इति |] विसर्गशक्तिरेव च पारमेश्वरी परमानन्दभूमिबीजम् [यदुक्तं सिद्धयोगीश्वरे मते सात्र कुण्डलिनी बीजं प्राणभूता चिदात्मिका | तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः || इति |] एवं हि अकारादिरूपं प्. १८२) घनतापत्त्या योनिरूपतां गृहीत्वा स्वरूपाप्रच्युतं तदेव स्वस्वरूप एव योनिरूपे संक्रामद्विसर्गपदमित्युच्यते यथोक्तम् स विसर्गो महादेवि यत्र विश्रान्तिमृच्छति | गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते || इत्यादि अकारस्यैव घनता कवर्गः - कण्ठ्यत्वात् [यदुक्तम् अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा | जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च || इति | तद्यथा अकुहविसर्गाः कण्ठ्याः | इचुयशास्तालव्याः | ऋटुरषा मूर्धन्याः | ऌतुलसा दन्त्याः | उपूपध्मानीया ओष्ठ्याः | ञमनणङा नासिक्याः | एदैतौ कण्ठतालव्यौ | ओदौतौ कण्ठौष्ठ्यौ | जिह्वामूलीयमेव जिह्वामूल्यम् | अनुसारो नासिक्यः इति |] इकारस्य चवर्गः - तालव्यत्वात् उकारस्य पवर्गः - औष्ठ्यत्वात् ऋकारस्य टवर्गो - मूर्धन्यत्वात् ऌकारस्य तवर्गो - दन्त्यत्वात् यशौ चवर्गस्यान्तः रशौ टवर्गस्य लसौ तवर्गस्य वकारोऽपि तपवर्गयोः प्. १८३) घनता अबोधस्यामूर्तस्यापि [अबोधत्वं स्वातन्त्र्यराहित्येन यदुक्तम् मायोपरिमहामाया तत्र च विज्ञानकेवलिनां स्थितिः ते च निरुक्त्या विज्ञानं बोधात्मकं केवलं स्वातन्त्र्यविरहितं रूपं यथा च प्रत्यभिज्ञायाम् शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता | निर्मिता स्वात्मनो भिन्ना भत्रा ते कर्तृतात्ययात् || इति |] चिन्मात्रस्यापि क्रियाशक्तिरूपतैव सा चोक्तनीत्या शक्तिषट्कक्रमेणैवोपजायते - तेन पञ्च प्रसृताः षड्गुणिताः त्रिंशत् षड्भिः सह षट्त्रिंशत् भवन्तीति तदेवं शिवबीजमेव स्वातन्त्र्यात् घनीभूततया क्वचिद्वपुषि शाक्तरूपे कुसुमतया तिष्ठत् योनिरित्यभिधीयते तदेव हि पुष्पं पूवोक्तनयेन ग्राह्यग्रहणग्राहककोणत्रयमयं वस्तुतः प्रसऊतिपदं बीजसंमिश्रतयैव भवति - तदैव पुष्परूपत्वात् अन्यदा [अन्यदेति इदंप्रथायाम् |] तु योग्यतयैव तथाव्यपदेशः [तथेति योनितया |] तथा च तत् कुसुममेव त्रिकोणतया योनिरूपं प्. १८४) तत्स्फुटीभूतविभक्तग्राह्यादिरूपसोमसूर्याग्निसृष्टिस्थितिसंहृति इडापिङ्गलासुषुम्नाधर्माधर्मशवलादिकोणत्रितया पारमेश्वरी भैरवी भट्टारिका मुद्रा तद्रूपयोन्याधारतया योनिरिति निर्दिष्टा तथा च श्रीकुब्जिकामते खण्डचक्रविचारे अमुमेवार्थं प्रधानतयाधिकृत्यादिष्टम् मायोपरिमहामाया त्रिकोणानन्दरूपिणी | इत्यादि अत एव तथाविधबीजकुसुमैकघनभावशिवशक्तिसंघट्टः स्वयं स्वात्मनैव पूज्यं इत्युपदिष्टम् श्रीत्रिकतन्त्रसारे शिवशक्तिसमापत्त्या शिवशक्तिघृनात्मकः | शिवशक्तिसमापत्तित्रिकं संपूजयेत्परम् || इति | एवं च घनीभावोऽपि वैखरीरूपे यद्यपि स्फुटीभवति तथापि सर्वसर्वात्मनि परावाग्वपुषि मुख्यतयावतिष्ठते तत्र परं कण्ठोष्ठस्थानकरणान्यपि सर्वसर्वात्मकमेव इति विशेषः तथाहि अन्तरपि संजल्पेत् पश्येदिति स्फुट प्. १८५) एवानुभवः [न हि इष्टे नामानुपपत्तिरित्यर्थः |] भेदश्च स्थानादिकृत एव - श्रुत्येकप्राणत्वात् वर्णानां किं बहुना बालोऽपि व्युत्पाद्यमानोऽन्तः तथारूपतया [तथेति संजल्परूपतया |] विमृशति भावजातं विपर्ययेण [मिथ्याज्ञानं विपर्ययः एकस्मिन् धर्मिणि विरुद्धनानावमर्शः संशयः |] संशयेनापि वा विमृशत्यवच्छेदं तावत्संवेदयत एव स च वाग्विमर्शकृत एव अत एव संवारविवाराल्पप्राणमहाप्राणताश्वासनादानुप्रदानादियोगोऽपि [स एव प्राणो नाम वायुरूर्ध्वमाक्रामन् मूर्ध्नि प्रतिहतो निवृत्तो यदा कोष्ठमभिहन्ति कोष्ठेऽभिहन्यमाने मनाक् गलविलस्य संवृतत्वात् संवारो वर्णधर्मं उपजायते विवृतत्वाद्विवारः संवृतो गलविले नादः अव्यक्तश्च नादः विवृतश्वासे उपरिवर्ती तौ श्वासनादावनुप्रदानमित्याचक्षते - वर्णनिष्पत्तेरनु पश्चात् प्रदीयते इति अनुप्रदानम् | अन्ये तु ब्रुवते - अनुप्रदानमनुस्वानो घण्टानिनादवत् यथा घण्टानिनादोऽनुस्वानमनु भवति तथा तत्र स्थानाभिघातजे ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गात् घोषो जायते यदा श्वासोऽनुप्रदीयते तदा श्वाअध्वनिसंसर्गादघोषः | महति वायौ महाप्राणः | अल्पे वायौ स्वल्पप्राणः | सिद्धान्तकौमुद्यां वर्णानां बाह्यत्वं साधितं यथा - बाह्यप्रयत्ना अष्टौ इति महाभाष्ये तद्यथा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण इति | तत्र विभागो यथा - ख फ छ ठ थ च ट त क प श ष सा विवाराः श्वासा अघोषाश्च | ह य व र ल ञ म ङ ण न झ भ घ द ध ज व ग ड दाः संवारा नादा घोषाश्च | वर्गाणां प्रथमतृतीयपञ्चमा यरलवाश्च अल्पप्राणाः वर्गाणां द्वितीयचतुर्थौ श ष स हाश्च महाप्राणा इत्यर्थः |] प्. १८६) च अन्तस्तथा समुचितस्वभावः स्यादेव अन्यथा सस्थानेषु भेदायोगात् अन्तर्हितकरणशक्तयोऽपि स्युरेव - शृणोम्यश्रौषं पश्याम्यद्राक्षं संकल्पयामि समकल्पयमित्यादेरपि संकल्पस्यान्यथावैचित्र्यायोगात् तदनया युक्त्या [अनुभवानुसारी तर्को युक्तिः |] निभालितयान्तरधिकमधिकमनुप्रविश्य परिशीलयतां संविदं यत्र सर्वसर्वात्मकबोधैकघनकण्ठौष्ठादिधाम्नि तथाविधबोधैकघनविमर्शात्मकस्वातन्त्र्यसारमहामन्त्ररूपवर्ण- भट्टारकनिवेशः [यदुक्तं विरूपाक्षपञ्चाशिकायाम् प्रत्यवमर्शात्मासौ चितिः परावाक्स्वरसवाहिनी या | आद्यन्तप्रत्याहृतवर्णगणा सत्यहन्ता सा || इति | तथेश्वरप्रत्यभिज्ञायाम् अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः * * * * * * * * * * * (?) ||] बोधैकघनतानिर्विशेषतायाम् प्. १८७) इदं स्थानम् इदं करणम् अयं वर्ण इति कथंकारं विभागः (?) इति चेत् - यदेवं स्वातन्त्र्यं तथाविधे स्वात्मनि घटोऽयं सुखमिदं ज्ञानमिदं ज्ञाताहम् इत्यवभासयति [अत्र सूक्ष्मबुद्धिविवेच्योऽयं भावः | तत्र प्रश्नोत्तरे इत्थम् - नन्वनुतरतानन्दौ स्वात्मना भेदवर्जितौ | कथमेतावतीमेतां वैचित्रीं स्वात्मनि श्रितौ || शृणु तावदयं संविन्नाथोऽपरिमितात्मकः | अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः || अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद् घटादिवत् || परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् | जडाद्विलक्षणो बोधो यतो न परिमीयते || इति | ज्ञातेति ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः | स्थितिर्माताहमस्मीति ज्ञाता शास्त्रार्थविद्यया || इति |] प्. १८८) तस्यैवंविधचित्रतररूपावभासेन को वा कियान् वा प्रयासः अत एव सर्वे पाषाणतरुतिर्यङ्मनुष्यदेव रुद्रकेवलिमन्त्र तदीशतन्महेशादिका एकैव पराभट्टारिकाभूमिः सर्वसर्वात्मनैव परमेश्वररूपेणास्ते इति तद्विचित्रस्थानादिसार्वात्म्यनिर्विशिष्टस्फुटास्फुटव्यक्ताव्यक्तादिरूपशब्द-शरीर अ मन्त्रवीर्यम् इति गीयते तथाहि वीणाविपञ्चीकच्छपिकामुरुजादिषु स एव स्वनोऽन्यतोऽन्यतो देशादप्युद्भवन्नेकस्थान इति कथ्यते एवं तारमध्यमन्द्रेष्वपि [यदुक्तं वर्णशिक्षायाम् स प्राण उत्थितो नाभेरुरःकण्ठशिरोधृतः | मृदुमध्योत्तमैर्याति मन्द्रादिध्वनिनादताम् || मन्द्रमध्यमतारैर्हि ध्वनिभिः सवनत्रये | शंसन्ति शास्त्रे गायत्रं त्रैष्टुभं जागतं क्रमात् || इति |] तत्स्थायिस्वरैकात्म्येऽपि [यथा तारमध्यमन्द्रादिभेदेऽपि स्वर एक एव स्थाग्रिरूपः |] वाच्यम् अत एव [सर्वस्य सर्वात्मकत्वात् |] च स एव वर्णः प्. १८९) क्वचित्प्राणिनि स्तानान्तरसमुल्लास्यपि भवति यथा ध्वांक्षेषु ककारटकाररेफा उच्चरन्तः सर्व एवोदरपायुकण्ठतालुनिर्वर्त्या उपलभ्यन्ते अव्यक्तत्वेऽपि [ननु च ते हि ककाराद्या अव्यक्तत्वान्न कण्ठादिस्थानोचार्यकादितुल्या इत्यत आहाव्यक्तत्वेऽपीति |] त एव तावन्तः शब्दत्वात् शब्दस्य च मातृकातिरेकिणोऽभावात् मातृकातिरेक्यपि अव्यक्तः सब्दोऽनुपयोगान्न संगृहीतः इत्यप्ययुक्तम् [अथ चोपयोगे सति सर्वं सुस्थं मातृकया च सर्वथोपयोग इत्युक्त्या ध्वांक्षादिषु हि ककाराद्या विजातीयाः सन्तोऽपि अनुपयोगान्नोक्ता इति मातृकातिरेकी शब्दोऽवश्यमभ्युपगन्तव्य इति कथं त एवेति कथनमित्यत आह इत्यप्ययुक्तमिति |] अव्यक्तवर्णरूपस्यापि [दण्डापूपन्यायोऽत्र बोध्यः |] मौरुजसामुद्रादिध्वनितस्य ह्लादपरितापकारित्वमपि अस्त्येव - इति कोऽन्योऽभिमत उपयोगः पारमेश्वरेऽपि अव्यक्तध्वनेर्मुख्यतयैव प्रायशो मन्त्रत्वं निरूपितम् - अर्धचन्द्रादीनामेव मन्त्रव्याप्तिसारत्वेनाभिधानात् तत्र च प्. १९०) निरोधिनीमनुप्राप्तः शब्दः शुमशुमायते | इत्याद्युक्तम् - घण्टाकांस्यादिध्वनीनां श्रोत्रघट्टनादीनां च नादोपदेशे निरूपणात् हयो हेषति यद्वच्च दान्त उद्रवतीव च | सिंहो गर्जति यद्वच्च उष्ट्रः सीत्कुरुते यथा || तथोदीर्य पशोः प्राणानाकर्षन्ति बलाधिकाः | महामन्त्रप्रयोगोऽयमसाध्याकृष्टिकर्मणि || इत्युक्तं गुह्ययोगिनीतन्त्रे तत्रोपायमात्रमेतत् | वस्तुतस्तु आन्तर एवासौ नादात्मा मन्त्र इति तु कथ्यमानं भवद्भिरपि अस्माभिरपि व्यक्तवर्णमालादिमन्त्रेष्वपि न न संचारयितुं शक्यते तस्मात् अव्यक्तो वर्णात्मैव शब्दो यथा विदूरगतोऽपि घटो घट एव इति स्थितं स [स चेति वर्णात्मा शब्दः |] च प्राणभीर्यादिभेदेन स्थानान्तरमपि अनुसरन् स एवेत्यपि स्थितम् अत एवेदानीं सर्वभूतरुतज्ञानं यच्छेषमुनिना भगवतोपदिष्टं तद्धृदयंगमीभूतम् अन्यथा शब्दार्थप्रत्ययानां य इतरेतराध्यासो प्. १९१) यच्च ध्यानधारणासमाधिसंयमेन [तन्तयमेकत्र संयम इति संयमलक्षणम् |] तत्प्रविभागपर्यन्तपरलाभः स कथमस्फुटवर्णरूपत्वातिरेकिविहगादिकूजितज्ञानाय पर्यवस्येत् यदा तु त एव वर्णा वर्णानामेव परमार्थतोऽर्थतादात्म्यलक्षणं वाचकत्वं तदा युक्त्या त एव विहगादिरुतज्ञानं भीर्यादिशब्दा अपि हि अर्थवन्त एव - जयाजयसूचकतयोपदेशात् विहगादिरुतवत् तदभिप्रायेणैव शिक्षासूत्रकारसूत्राणि हविसर्जनीयावुरस्यावेकेषां [यदुक्तम् हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् | उरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम् || इत्यादि | तथा कण्ठोक्तहविसर्गाणां स्वैर्भागैः स्थानमिष्यते | हविसर्गावुरःस्थौ हि कण्ठाधोभागजौ मतौ || इति |] रदनमूलमेकेषाम् इत्यादीनि वाचकीभवन्ति न तु अपरथा कथं चिदपि अत एव किंचिद्वैचित्र्यमालम्ब्यान्यत्वम् अन्यत्वं चाशङ्कमानैः विसर्जनीयाज्जिह्वामूलीयोपध्मानीयौ प्. १९२) अनुनासिकेभ्यः पञ्चयमान् [ङुं ञुं णुं नुं मुमित्येवंरूपान् |] डकारढकारयरलवक्षकारेभ्यः तानेव लघुप्रयत्नतरान् [यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघुप्रयत्नतरः इति |] भेदेनाभिमन्य चतुःषष्टिर्वर्णा उक्ताः अन्यत्वं [यदुक्तं साम्बपञ्चाशिकायां या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं वर्णानत्र पकटकरणैः प्राणसङ्गप्रसूतान् | तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये || इति |] चात्र स्वरव्यञ्जनयोरिव ऋवर्ण-रशब्दयोः श्रीत्रिकरत्नकुलेऽपि उक्तम् अष्टाष्टकविभेदेन मातृका या निरूपिता | तदेव कुलचक्रं तु तेन व्याप्तमिदं जगत् || इति मातृकाज्ञानभेदे विस्तरतो निरूपितमेतत् [तदुक्तम् इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् | एतत्रयसमावेशः शिवो भैरव उच्यते || कामस्य पूर्णता तत्त्वं संघटे प्रविभाष्यते | विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोन्न्युते सति || इति अमृतमिति विकासदशामयमित्यर्थः |] प्. १९३) इह तु तत्प्रक्रियानभिनिवेशः - पूर्णतैकसारत्वात् तदेवं सर्वत्रायमीदृशः संविदनुप्रवेशक्रमः पदार्थः संकल्प्यमानः साक्षात् क्रियमाणो वा मायीयासांकेतिकस्वरूपभूतशुद्धविमर्शात्मपरवाङ्मन्त्रमहामहसि तावत् प्रतिष्ठां भजते यत्र सर्ववादिभिरविकल्पा दशा गीयते ततश्च परमन्त्रमहापृथिव्यादौ शुद्धव्यामिश्रादिपारमार्थिकबीजपिण्डरूपकादिवर्णात्मकमेव अन्यथा मेरुबदरजलज्वलनभावाभावघटसुखनिर्विकल्पज्ञानानि - इत्येकमेव सर्वं स्यात् विकल्पोऽपि तत्प्रमादोत्थः तामेव सरणिमनुसरेत् न तु प्रत्युत तत्स्वरूपं भिन्द्यात् तथा च यदेव तदसांकेतिकं मन्त्रवपुः तदेव अन्योन्यविचित्ररूपं पश्यद्भिः सर्वज्ञैः संकेतोपायमुपास्यतया उप- [यथा - ईश्वर उवाच कथयामि वरारोहे यन्मया जप्यते सदा | अकारादिक्षकारान्ता मातृका वर्णरूपिणी || चतुर्दशस्वरोपेता बिन्दुत्रयविभूषिता | कलामण्डलमास्थाय शक्तिरूपं महेश्वरि | ककारादिक्षकारान्ता वर्णास्तु शक्तिरूपिणः | व्यञ्जनत्वात्सदानन्दोच्चारणं सहते यतः || उच्चारे स्वरसंभिन्नास्ततो देवि न संशयः | पञ्चाशद्वर्णभेदेन शब्दाख्यं वस्तु सुव्रते || अकारः प्रथमं देवि क्षकारोऽन्त्यस्ततः परम् | अक्षमालेति विख्याता मातृकावर्णरूपिणी || शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते | शब्दातीतं परं धाम गणनारहितं सदा || आत्मस्वरूपं जानीहि ईशस्तु परमेश्वरः | इति |] प्. १९४) दिश्यते तत्रैव चासांकेतिके वाङ्महसि तथा खलु मायीयाः संकेताः पतन्ति यथा त एवामायीयासंकेतितमन्त्रतादात्म्यं प्रतिपद्यन्ते तथा स्वरूपप्रतिपत्तिरेव हि तेषां वाचकताभावो नान्यः कश्चित् [अन्यथा हि वाच्येभ्यः को वाचकस्य विशेष इति तात्पर्यम् |] अत्र स्फुटमभिज्ञानमभ्यासवशात् असांकेतिकतामापन्ने चिरतरपूर्ववृत्तगोशब्दपरामर्शः तथैव संकेतकाले गोपरामर्शोऽपि अन्यामायीयासांकेतिकपरामर्शधामन्येव निपतति प्. १९५) यावत् बालस्यापि जन्मान्तरानुसरणेऽपि चित्स्वभावस्यादौ स्थितैवासांकेतिकी सत्ता - अन्यथानवस्थानात् एवमेव खलु संकेतग्रहणोपपत्तिः नान्यथा इतीश्वरप्रत्यभिज्ञाटीकायामपि श्रीमदुत्पलदेवपादैर्निर्णीतम् अत्र चानुप्रवेशयुक्तिः पश्यत्यन्यच्छृणोत्यन्यत्करोत्यन्यच्च जल्पति | चिन्तयत्यन्यदा भुङ्क्ते तत्र सांकेतिकी स्थितिः || इति भट्टारकश्रीश्रीकण्ठपादाः मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् इत्याद्यप्यवोचन् तदप्यसांकेतिकमन्त्रवपुः [तदिति सांकेतिकमपि संकेतस्य हि पारमार्थिकतयाऽसंकेतिकमेवोत्पत्तिस्थानम् इति |] स्वबीजमनुधावदनुत्तरपदपर्यवसायि भवति तदप्यनुत्तरपदं सत्तथाविधानन्तसमुदायवैचित्र्यसंरम्भसारं विसर्गदृष्ट्या प्रसरदेव विसर्गस्यैव हकलापर्यन्ततया प्रसरात् तस्या अपि प्. १९६) हकाराख्यशक्तिकुण्डलिन्याः [यथोक्तं देवीस्तुतौ श्रीपञ्चस्तव्यां प्रथमे स्तवे या माया त्रपुसीलतातनुलसत्तन्तूत्थितिस्पर्धिनी | वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् | शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः || इति | अयमत्र भावः - मात्रेत्यनुस्वानरूपा कुण्डलिन्यपि विसतन्त्वाभा ध्येयेति तथैव चानवधानतायां विश्वजननेति शक्तिपातानुविद्धेन तु ज्ञातस्वरूपा मोक्षदेत्याह ज्ञात्वेत्थमिति तथा मात्रा सूक्ष्मतमानुत्तररूपा कौलिकीशक्तियोगात् प्रसरन्ती हकाराख्येति अथ वा तामधिष्ठाय शक्तिः कुण्डलिनी विश्वजननव्यापारबद्धोद्यमेति मुन्महे |] स्वरूपाभेदात्मकबिन्दुस्वरूपधारणा - अनुत्तरपद एव संक्रमात् स्वरूप एव विश्राम्यति एकाक्षरसंवित् [एका चासावक्षरा चासौ संविदित्येकाक्षरसंवित् कर्मधारय इति पुंवद्भावः किलेत्यविप्रतिपत्तौ व्यक्तिप्रतिषेधे जात्यनुगम इति न्यायेन देशकालकलनापि तन्मययेवेति एका सर्वव्याप्त्रीत्यर्थः |] किल स्वरूपत एव देशकालकलनोपादानादिनैरपेक्ष्येणैव प्रागुक्तपूर्णतत्त्वतानयेन [यदुक्तं पूर्णतत्त्वेति पूर्णत्वं हि एतदेव - यद्देशकालादियोगित्वम् | यदुक्तं न तैर्ज्ञातं तत्स्वरूपं ये त्वेवं मन्वते बुधाः | देशकालाद्यवच्छेदरहितं परमं पदम् | इति | तथा च हरिणा दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये | स्यानुभूत्येकमानाय नमः शान्ताय तेजसे || इति | विसर्गभूमाविति शांभवविसर्गे |] झगिति विसर्गभूमौ धावति प्. १९७) विसर्गभूमिश्लेष एव आनन्देच्छेशनोन्मेषतत्प्रसृतितद्वैचित्र्यक्रियाशक्तिमयानाम् आकारादीनां स्थितिः स [स एवेति - शक्तिविसर्गः |] एव विसर्गः स्वसत्तानान्तरीयकतयैव तथैवातिभरितया सत्तया प्रसरन् द्रागित्येव हकलामयः [यदुक्तम् विसर्गं एवमुत्कृष्ट आश्यानत्वमुपागतः | हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते || इति |] संपद्यते हकलामयतासंपत्तिरेव वस्तुतः कादिसत्तानन्ततत्त्वजालस्थितिः हकलैव च पुनरपि बिन्दावनुप्रविशन्त्यनुत्तरपद एव पर्यवस्यति - इत्येकैवाद्वयपरिपूर्णरूपा संवेदनसत्ताभट्टारिकेयं परा भगवती परमेश्वरी न त्वत्र क्रमादियोगः कश्चित् [यदुक्तं तन्त्रालोके पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता | मतान्त्यक्षणबन्ध्यपि न पाकत्वं प्रपद्यते इति | ईश्वरप्रत्यभिज्ञायाम् सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः | घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव || इति |] तदेतदुच्यते प्. १९८) अहमिति विपर्यये तु संहृतौ अह् अं इति द्वैधमपि च इयमेकैव वस्तुतः संवित् एवमेष स सर्वत्र घटसुखादिप्रकाशेऽपि स्वात्मविश्रान्तिसर्वस्वभूतोऽहंभावः यथोक्तं प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः | इति | स च वस्तुतः सर्वात्मकः - समनन्तरनिर्णीतनीत्या इति पराभट्टारिकानुविद्धो भैरवात्मक एव यथोक्तं मयैव स्तोत्रे विश्वत्र भावपटले परिजृम्भमाणविच्छेदशून्यपरमार्थचमत्कृतिर्या | तां पूर्णवृत्त्यहमिति प्रथनस्वभावां स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् || इति | एष एव श्रीवामनविरचिते अद्वयसंपत्तिवार्तिके उपदेशनयो बोद्धव्यः तेन स्थितमेतत् - अकार एव सर्वाढ्यो यत्रापि हर्षघटनीलादौ प्. १९९) हकाराद्या अपि वर्णाः तत्रापि तथाविधानन्तनिजपूर्वापरवर्णसमाक्षेप एव अन्यथा तस्यैव हादेः समुदायायोगान्ते परमाक्षिप्यमाणत्वादेवान्तर्निलीना विकल्पगोचरत्वमप्राप्ताः अत एव सर्वत्र विज्ञाने सर्वा एव देवताः सममेव समुदायं दधत्यश्चित्रां संवित्तिवृत्तिं वर्तयन्ति तदनेनैवाशयेन कालाधिकारादावेकस्मिन्नेव प्राणे प्राणषोडशांशेऽपि वा षष्टितद्द्विगुणाद्यब्दोदयपूर्वकं मातृरुद्रलोकपालग्रहनागादीनामुदयप्रलयाश्चित्रा निरूपिताः तत् चित्रानन्तोदयप्रलयसमय एव द्वितीयेऽपि प्राणचारादित्यकालकलितत्वमेव तत्त्वं - वस्तुतः परमार्थः यदि परमेतावन्मात्रं मायीयाध्यवसायानध्यवसेयमिति नास्तिताभिमानकारी परसंविदि तु तत्कालं भासते एव अत एवैकस्यामेव ज्ञानकलनायां पश्यत्यन्यद्विकल्पयत्यन्यत् इत्याद्युपदेशेन यदुक्तं देवतात्रयाधिष्ठानं तत्सर्वत्रैवानपायि प्. २००) सर्वाण्येव च संवेदनानि वस्तुतोऽहमितिपरमार्थानि विमर्शमयान्येव तदेवं स्थितम् - एतद्विश्वमन्तःस्थितमानन्दशक्तिभरितो वमन् ग्रसमानश्च विसर्ग एव परमेश्वरो घनीभूय हकारात्मतां प्रतिपद्यानन्तसंयोगवैचित्र्येण क्षरूपतामप्येति [क्षरूपतामिति-ककार-सकार-अकार-विसर्गात्मकताम् |] स एवैष दूत्यात्मकशाक्तयोनिसंघट्टसमुचितवर्णात्मकक्षोभरूपानाहतनाददशा-श् रयणेन [दूतीति योक्ता संवत्सरात्सिद्धिरिह पुंसां भयात्मनाम् | सा सिद्धिस्तत्त्वनिहानां स्त्रीणां द्वादशभिर्दिनैः || अतः सरूपां सुभगां सुरूपां भाविताशयाम् | आदाय योषितं कुर्याद्यजनं पूजनं हुतम् || स्त्रीमुखाद्ग्राहयेदादौ स्त्रीमुखे निक्षिपेत्पुनः | ईत् कुलप्रक्रियायाम् |] मध्यमसौषुम्नपदोच्छलत्तत्तदनन्तभावपटलात्मा विसर्गो विश्लिष्यन् ध्रुवधाम्नि अनुत्तरपद एव प्रविशति इति प्रागपि उक्तमेतत् | अमी चाकाराद्याः स्थितिमन्तः प्राणे तुटिषोडशकादिस्थित्या एकां तुटिं संधीकृत्यार्धार्धभागेन प्. २०१) प्रलयोदययोर्बहिरपि पञ्चदशदिनात्मककालरूपतां तन्वते इति - तिथयः कलाश्चोक्ताः षोडश्येव च कला विसर्गात्मा विश्लिष्यन्ती सप्तदशी कला श्रीलाद्यादिशास्त्रेषु निरूपिता सा तु सप्तदशी देवी हकारार्धार्धरूपिणी | इति | विसर्गस्य हकारार्धत्वात् ततोऽपि विश्लेषस्यार्धत्वादिति निरवयवस्यैकवर्णस्य कथमेषा विकल्पना (?) इति चेत् - अस्मत्पक्षे सर्वमेवानवयवं चिन्मयैकावभासनानतिरेकात् तथापि च स्वातन्त्र्यादेव अवयवावभासेऽपि अनवयवतैवानपायिनी तथा इहापि अस्तु को विरोधः एवमेव वर्णोपपत्तिः अपरथा दन्त्योष्ठ्यकण्ठ्यतालव्यादिवर्णेषु क्रमप्रसारी पवन आघ्रातकः कथं कण्ठं हत्वा ताल्वाहन्ति - इति युगपदापूरकत्वेऽपि समानकालता स्यात् यत्र कण्ठघातोत्थं रूपं तत् तु ताल्वाहतिजं सर्वत्र संभवति श्वासनादयोश्च पश्चात्प्रतीयमानतयानुप्रदानत्वमुच्यते प्. २०२) द्विमात्रत्रिमात्रेषु च द्विकादियोगो गर्भीकृत एकद्वयादिरेव तथैव मात्रकेऽपि अर्धमात्रादियोगः संवेद्यः यथोक्तं भट्टनारायणेन प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते नमः | इति | इह तु पञ्चाशद्वर्णा विश्वमपि वा अक्रममेकमेव क्वचित्तु मतादिशास्त्रेषु विसर्गविश्लेषस्यैव अनुत्तरपदसत्तालम्बनेनाष्टादशी कला इत्यभ्युपगमः | तदेवमेताः कला एव ह्लादनामात्रचित्तवृत्त्यनुभावकाः स्वरा इत्युक्ताः स्वरयन्ति [स्वृ-शब्दोपतापनयोरिति धातोः |] शब्दयन्ति सूचयन्ति चित्तं स्वं च [स्व-शब्दः आत्मात्मीयवचनः इति |] स्वरूपात्मानं रान्ति एवम् इति परप्रमातरि संक्रामयन्तो ददति स्वं च आत्मीयं कादिंयोनिरूपं रान्ति [रा-दाने इत्यस्य धातो रूपम् |] - बहिः प्रकाशयन्तो ददति इति स्वराः एत एव हि चित्तवृत्तिसूचका नादात्मकाः करुणाशृङ्गारशान्तादिकां चित्तवृत्तिमाक्रन्दनचाटुकस्तुत्यादौ प्. २०३) केवला वा योनिवर्णनिविष्टा वा तिर्यक्तत्तदहर्जातादिष्वपि प्रथमत एवापतन्तः संकेतविघ्नादिनैरपेक्ष्येणैव संविदासन्नवर्तित्वात् स्वरकाक्वादिरूपतामश्नुवानाः प्रकाशयन्ति - इत्यर्थधर्मा उदात्तादय [उदात्तानुदात्तस्वरिताः इति | तत्र यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठविवरस्य चाणुत्वं स्वरस्य च वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति तमुदात्तमाचक्षते यदा तु मन्दप्रयत्नो भवति तदा गात्रस्य स्रंसनं कण्ठविवरस्य महत्त्वं स्वरस्य च वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदात्तमाचक्षते उदात्तानुदात्तस्वरितसंनिकर्षात् स्वर इत्येवं लक्षणा बाह्याः प्रयत्नाः | स्रंसनमिति शैथिल्यं स्निग्धता मृदुता कण्ठरन्ध्रस्य महत्त्वादेव शीघ्रं वायुर्निष्क्रामन् जलावयवान्न शोषयति च अतः स्वरस्य स्निग्धता भवति | कण्ठरन्ध्रस्याणुत्वादेव वायुः शनैर्निष्क्रामन् जलावयवान् शोषयतीति रूक्षता - अस्निग्धता भवति महाभाष्ये आयासो दारुण्यमणुता स्वस्येत्युच्चैः करणानि शब्दस्य आयासो गात्राणां दारुण्यं दारुणता स्वरस्य रूक्षता स्वस्य कण्ठविवरस्य संवृतता | अथ नीचैः करणानि शब्दस्य अन्यवसर्गो मार्दवमुरुता स्रस्येति अन्यवसर्गो गात्राणां शिथिलता स्वरस्य मार्दवं महत्ता कण्ठविवरस्येति अभ्याससमधिगम्यश्चासौ स्वरविशेषः पह्लादिवदिति श्रीकययटः | पाणिनिस्तु उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरित इत्याह |] उपदिष्टाः तेषामेव चित्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात् प्. २०४) एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय आदिक्षान्ताः समापतन्त्योऽहमहमिकया [यदुक्तम् अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः || इति कोशे |] अक्रममेव भासमानाः कलनामयतयैव ज्ञानक्रमसंक्रमणमेव दिश्यमानं देशमुत्थापयन्ति अन्यथा मेरुपरमाण्वोरविशेषात् इति न्यायेन गर्भीकृतदेशात्मकवैचित्र्यक्रियावैचित्र्यात्मकं क्रमरूपं [यदाहुः - क्रमेणाक्रमेण भावानां परिच्छित्तिः कालः न चैतन्मन्तव्यं - संविल्लग्ना एव भावा अवभासन्ते तत् कथं तदनुपक्तस्य भावजातस्य कालयोग इति परमेश्वरे एव क्रमाक्रमस्यापि अन्तर्भाव इति | ननु यद्येवं तर्हि परमेश्वरे कालयोगः स्यात् (?) न - इति मन्महे कुतः तद्भासनं च देवस्य काली नाम शक्तिः यदुक्तं संविदेव प्रमेयेभ्यो विभक्तं रूपं गृह्णाति अवच्छेदयोगाद्वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिः तत्र प्राच्यभागे कालाध्वा उत्तरे तु देशाध्वेति | यदुक्तमीश्वरप्रत्यभिज्ञायाम् मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः || इति |] कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि प्. २०५) युञ्जानत्वेन ग्रसमानाः प्रोल्लाससमयेऽपि [प्रोल्लाससमय इति आदौ हि निस्तरङ्गजलधिप्रख्येऽनुत्तरात्मनि परस्मिन् विसर्गे प्रकाशैकघने प्रथममुल्लसनशीलो व्यतिरिक्तविमृश्याभावात् चिद्विमर्शपरः स्वात्ममात्रपरामर्शनतत्पराहंपरामर्शः स्फुरति स एव प्रोल्लाससमय इत्युच्यते येनास्य सर्वत्रैव स्वातन्त्र्यमुदियात् | अयं भावः - स्वस्वातन्त्र्यमाहात्म्यादेव हि अनुत्तरप्रकाशात्मा परमेश्वरः स्वं स्वरूपं गोपयित्वा प्रमाणादिदशामधिशयानः पृथग्भावजातमाभासयेत् तद्यथा स एव परः प्रकाशः संकुचितप्रमातृभूमिकावभासनपुरःसरमुद्योगादिकलाचतुष्कमुत्थापयति तद्यथा उद्योगोऽर्थावविभासयिषा तत्र सक्तेन सदैव बहिर्मुखेन द्वादशशण्ठवर्जमकारादिविसर्गान्ताः कलास्तत्स्वभावतया प्राप्तपरिपूर्णस्वरूपेण प्रमाणात्मना सूर्येण एकैकं भावमीषत्संकुचितेन नीलसुखादिना रूपेण भासयेत् बहिः सृजेत् पूरयेत् तथात्वेनैव कंचित्कालं स्थापयेत् चर्चयेत् स्वात्मसात्कारेण संहरेदित्यर्थः | यः कश्चनार्थक्रियार्थी हि प्रमाता प्रमाणोपारूढमेवार्थजातं प्रथममालोचयेत् अनन्तरमिदमित्थम् इति विकल्पयेत् तदनु ज्ञातोऽयं मयार्थः इति संतोषाभिमानात् बहीरूपताविलापनेन स्वात्मन्येव विश्रामयेदित्यनुभवसाक्षिकोऽयमर्थः | एवमाभासनादिरूपतामापन्नस्य भावजातस्य प्रमोपारोहानन्तरं स्वेन रूपेणावभासमानस्य षोडशारबुद्धीन्द्रियादिकलाभिः प्राप्तपूर्णनिजरूपस्योच्छूनरूपतापत्त्या तद्रूपतिरस्कारात्मना विसर्गग्रासेन मन्यरस्य देहादिरूपमेयेन्दोः परिमिते प्रमातरि संजीविन्यमृतकला विसर्जनतत्तत्प्रमातृप्रमेयाद्यात्मना स्थूलेन रूपेण समुल्लास इतीदमुक्तं भवति | यत्किंचिद्भावजातं तत्तदीषत्तासमासादनपुरःसरमिन्द्रियद्वारोपारोहेण ज्ञेयतामासाद्य तत्तदर्थक्रियाकारितया स्वात्ममात्रविश्रान्त्युपजनेन संविदः पूर्णतामावहतीति | यदुक्तं श्रीमदुत्पलदेवप्रभुपादैः सर्वभावमयभावमण्डलं विश्वशक्तिमयशक्तिबर्हिषि | जुह्वतो मम समोऽस्ति कोऽपरो विश्वमेधमययज्ञयाजिनः || इति |] रिक्तरूपतया उद्योगावभाससंक्रामविलापनरूपेण प्. २०६) द्वादशात्मिकां कृशरूपतामाश्रयन्त्यः तद्गृहीतप्रमदादिगतोद्योगादिकलाचतुष्टयपरिपूर्णतयापि अङ्कुरीभूय सालसं षोडशात्मकभरितपूर्णरूपतया प्रविशन्त्योऽन्तर्बहिश्च तदमृतानन्दविश्रान्तिरूपं चमत्कारसत्तासारकलाचतुष्कं विसृजन्त्य एवंविधामेव पूर्णकृशात्मकदोलालीलां निर्विशमानाः सोमसूर्यकलाजालग्रसनवमनचतुरा [यदुक्तं महार्थमञ्जर्याम् सप्तदश भालनेत्रे द्वादश षोडश चान्यनेत्रयोः | इति | तत्र भालनेत्रं स्वातन्त्र्यशक्तिः दक्षिणनेत्रं प्रमाणशक्तिः वामनेत्रं प्रमेयशक्तिः अत्र पुनरयमर्थः - द्वादशमरीचिविषयः सौरो धामक्रमः षण्ठर्णरहिता द्वादश स्वरा वर्णक्रमः ता एव मरीचयोऽत्र प्रथमोदितनिरावरणधामसु द्वादशसु शून्यमार्गेषु पतिताः संवित्क्रमः - इति प्रकाशचक्रव्याप्तिः | आनन्दचक्रे बैन्धवामृतप्रसरेण धामक्रमः षण्ठस्वरैः सह षोडशकव्याप्त्या वर्णक्रमः बुद्धिकर्माक्षमनःसु षोडशसु संवित्क्रम इति चानन्दचक्रव्याप्तिः | मूर्तिचक्रे स्वातन्त्र्यधननिरावरणधामसु सप्तदशसु तथा धामक्रमः आदिवर्णाधिष्ठिताकाराद्यक्षरपर्यन्तं सप्तदशधाप्रसृतो वर्णक्रमः | चान्द्र्य एव भूमिका बाह्यात् पराङ्मुखीभूता अन्तर्विमिमर्शयिषवोऽपि अमया सहानुभूयमानाः सप्तदशैव संवित्क्रमः इति |] अकारमेवादितया मध्ये च कादियोनिजातमवसाने प्. २०७) च बिन्दुं ददती अहम् इत्येषैव भगवती सृष्टिः तदुक्तं श्रीसोमानन्दपादैर्निजविवृतौ अं अ इत्येषैव विकृताविकृतरूपा मातृका इत्यादि ते तु अ इत्येतदनुत्तरमाकाराद्याश्च तिथयः यद्वा बिन्दुरंकारः अकाराद्यास्तिथयस्तदन्तो विसर्ग इत्यपि व्याचक्षते तदेव संवित्सतत्त्वं स्पन्द इत्युपदिशन्ति स्पन्दनं च किंचिच्चलनं स्वरूपाच्च यदि वस्त्वन्तराक्रमणं तच्चलनमेव न किंचित्त्वं नो चेत् चलनमेव न किंचित् तस्मात् स्वरूप एव क्रमादिपरिहारेण चमत्कारात्मिका - उच्छलत्ता ऊर्मिरिति मत्स्योदरीति- प्रभृतिशब्दैरागमेषु निदर्शितः स्पन्द प्. २०८) इत्युच्यते - किंचिच्चलनात्मकत्वात् स च शिवशक्तिरूपः सामान्यविशेषात्मा तद्व्याख्यातम् आद्यास्तिथयः बिन्द्ववसानगाः कालयोगेन सोमसूर्यौ तस्यैवं कुलस्यान्तः पृथिव्यादीनि च यावत् ब्रह्मपञ्चकं तावत्तेषां स्वराणामन्तः कथं क्रमात् | अथ च क्रमस्यादनं भक्षणं कालग्रासः तथा कृत्वेति क्रियाविशेषणं च शोभने व्रते भोगे रिक्तत्वे भोगनिवृत्तौ च पूर्णत्वे सुव्रते आमन्त्रणमपि एतत् एवं व्याख्येयम् एवममूला - अकारमूला अविद्यामानमूला च अनादित्वात् स क्रमो यस्याः प्रश्लेषेणातद्रूपोऽन्यथारूपोऽपि क्रमो यस्याः तथाप्यमूला अमूलस्य यदातननमातत् ततस्तदेव च क्रमो यस्याः एषा चाज्ञेया ज्ञातृरूपा एषैव च ज्ञेया - अन्यस्याभावात् अविद्यमानं क्षान्तं तूष्णीमासनमविरतं सृष्ट्यादिरूपत्वेन अस्याम् आक्षाणामैन्द्रियिकाणामन्ते समीपे प्रागपर्यवसाना या प्. २०९) भवेदित्युपचारादाक्षान्ता सृष्टिरपूर्वमाहरणं स्वात्मानुप्रवेशात्मस्वरूपं संहाररूपं यस्याम् एषैव च शिवात्मकबीजप्रसररूपाणां मननत्राणधर्माणां सर्वेषामेव वाच्यवाचकादिरूपवर्णभट्टारकात्मनां मन्त्राणां शक्त्यात्मकयोनिस्पन्दानां सर्वासां तद्बीजोद्भूतानां वेदनारूपाणां विद्यानाम् इयं समा सर्वत्रानूनाधिका सर्वेषु तन्त्रेषु तन्त्रणासु च सर्वासु क्रियासु सर्वकालं च सर्वं ददती सिद्धिसंघम् आख्याता प्रकटाख्यातिरूपतां मायीयामुद्दिश्य भेदो वर्णानां तथाहि - त एव शुद्धमन्त्ररूपा वर्णाः प्रथमं पञ्चविधविपर्ययशक्त्यादिरूपप्रत्ययात्मकभावसृष्टितामेत्य [द्विधा हि सृष्टिः - भावसृष्टिर्भूतसृष्टिश्चेति तत्र प्रत्ययरूपा भावसृष्टिः तन्मात्ररूपा भूतसृष्टिः | तत्रेत्थं भावः एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः | गुणवैषम्यविमर्दात्तस्य च भेदास्तु पञ्चाशत् || इति भावसृष्टिः | भूतसृष्टिर्यथा अष्टविकल्पो दैवस्तैर्यग्योनिश्च पञ्चधा भवति | मानुष्यश्चैकविधः समासतो भौतिकः सर्गः || तत्र गुणविभागः ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः | मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः || इति ब्राह्मप्राजापत्यैन्द्रपित्र्यगान्धर्वयाक्षराक्षसपैशाचा इत्यष्टधा दैवसर्गः | पशुमृगपक्षिसरीसृपस्थावराः पञ्चधा तिर्यग्योनिः | संस्थानस्य चतुर्ष्वपि अविशेषादेक एव मानुष्य इति |] स्वरूपमावृण्वते प्. २१०) पञ्च [अविद्यास्मितारागद्वेषाभिनिवेशास्तमोमोहमहामोहतामिस्रान्धता- मिस्रसंज्ञकाः पञ्चेति एकादशेन्द्रियवधाः सप्तदश बुद्धिवदा इत्यष्टाविंशतिः आध्यात्मिकाश्चतस्रो बाह्याः पञ्चेति तुष्टयो नव ऊहशब्दाध्ययनत्रिविधदुःखविघातसुहृत्प्राप्तिदानान्यष्टौ सिद्धयः | तत्राशक्तयः बाधिर्यं कुष्ठतान्धत्वं जडताजिघ्रता तथा | मूकता कौण्यपङ्गुत्वक्लैव्योदावर्तमत्तताः || इत्येकादश एताबद्धेतुका बुद्धेरशक्तिः | स्वरूपतो बुद्धेरशक्तिविपर्ययात् तुष्टिसिद्धीनामित्युक्ता तुष्टिर्यथा प्रकृत्युपादानकालभाग्या आध्यात्मिकाः शब्दादयः पञ्चेत्युपरमा अपि पञ्च भवन्ति उपरमश्च सेवादयो हि धनार्जनोपायाः सेवकादीन् दुःखाकुर्वन्तीति मत्वा दुःखावहकर्मणो निवर्तनम् |] विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् | अष्टाविंशतिभेदा तुष्टिर्नवधाष्टधा सिद्धिः || इति हि एत एव प्रत्ययाः पाशवसृष्टिरूपाः पाशा मुख्यतया यथोक्तम् स्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः || प्. २११) इति | तथा परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | इत्यादि एवं प्रत्ययसृष्टित्वान्तरालीकरणेन स्फुटश्रूयमाणश्रुत्यात्मकक्रमाभासमानमायीयवर्णसृष्टिराद्य- पारमार्थिकशुद्धरूपालिङ्गिता तत्तत्कार्यफलप्रसवदायिनी निरूपिता श्रीपूर्वशास्त्रे सर्वशास्त्रार्थगर्भिण्यै * * * * * * * * (?) | इत्येवं-विधया अनया संपबुद्धः सन्योनिं विक्षोभ्य शक्तितः | तत्समानश्रुतीन्वर्णांस्तत्संख्यानसृजत्प्रभुः || इत्यादि तैस्तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः | इत्याद्येवमाख्याता अप्रकटा मायान्धानां सर्वदैव ख्याता प्रकाशा शुद्धवेदनात्मिका यस्याः सर्वत्र स्वस्वभावात्मकप्रभावप्रख्या प्रसरानिरोधो यस्या इत्यामन्त्रणम् शोभनव्रते - इति | तदयमत्र संक्षेपार्थः प्. २१२) स्वातन्त्र्यैकरसावेशचमत्कारैकलक्षणा | परा भगवती नित्यं भासते भैरवी स्वयम् || तस्याः स्वभावयोगो यः सोऽनिरुद्धः सदोदितः | सदाशिवधरातिर्यङ्नीलपीतसुखादिभिः || भासमानैः स्वस्वभावैः स्वयंप्रथनशालिभिः | प्रथते संविदाकारः स्वसंवेदनसारकः || स्वस्वसंवेदनं [स्वस्मिन्नेव स्वेनैव संवेदनं नाम प्रकाशप्रकाशं तादृक्प्रकाशसत्तेत्यर्थः तेनात्र प्रमाणापेक्षा नापि काचिदित्यर्थः नहि स्वसंविद्रक्षितेर्थे प्रमाणापेक्षेति भावः |] नाम प्रमाणमिति वर्ण्यते | बालतिर्यक्सर्वविदां [बालेति किंचिज्ज्ञः | तिर्यगिति मूढः |] यत्साम्येनैव भासते || इन्द्रियाणि त्रिरूपं च लिङ्गं परवचःक्रमः | सारूप्यमन्यथायोगः प्रतीत्यनुदयो यमः || इत्यादिको यस्य सर्वं द्वारमात्रे निरूप्यते | तत्स्वसंवेदनं प्रोक्तमविच्छेदप्रथामयम् || येषां नाक्षत्रिरूपादिनाममात्रेऽप्यभिज्ञता | तेषामपि तिरश्चां हि समा संवित्प्रकाशते || प्. २१३) एवं भासा स्वभावेन स्वरूपामर्शनात्मिका | स्वरूपामर्शनं यच्च तदेव परवाग्वपुः || तद्विचित्रस्वभावत्वाद्विचित्रप्रथनामयम् | प्रथने पारतन्त्र्यं हि न जातु भजते क्वचित् || अपारतन्त्र्यात्संकेतप्रत्यूहादेः कथं स्थितिः [स च प्रकाशो न परतन्त्रः प्रकाश्यतैव हि पारतन्न्यं प्रकाश्यता च प्रकाशान्तरापेक्षतैव न च प्रकाशान्तरं किंचिदत्रास्ति इति स्वतन्त्र एक एव प्रकाशः इति न तत्र विमर्शो विकल्प्यरूपोऽसांकेतिकत्वात् |] | अतः संकेतरहितं [उत्तमवृद्धादिना कल्पित इदमस्याभिधेयमित्येवं समयः संकेतः |] स्वस्वरूपविमर्शनम् || देशकालकलामायास्थानघातक्रियोत्तरम् | परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् [स्वातन्त्र्यादेव च देशकालावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभाव इत्यन्यत्र |] || स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् [वस्तुनः सतो गुणान्तराधानं संस्कार इति भाष्ये |] | शुद्धविद्यात्मकं रूपमहमित्युभयात्मकम् [अहन्तयैवेदन्ताक्षेपादिति भावः |] || तदेव मातृकारूपं धरादीनां निजं वपुः | तत्पारमार्थिकाकारं शुर्त्याश्यानसव्रूपतः || बीजयोन्यात्मकं प्रोक्तं शिवशक्तिस्वरूपकम् | शिवशक्त्योस्तु संघट्टाद्वन्योन्योच्छलितत्वतः || प्. २१४) परस्परसमापत्तिर्जगदानन्ददायिनी | अन्तःस्थविश्वपर्यन्तपारमार्थिकसद्वपुः || यद्वीर्यमिति निर्णीतं तद्विश्लेषणयोजना | विसर्ग इति तत्प्रोक्तं ध्रुवधाम तदुच्यते [यदुक्तं देवीभावनायां पञ्चस्तवीस्तोत्रे मूलालवालकुहरादुदिता भवानि निर्भिद्य षट् सरसिजानि तडिल्लतेव | भूयोऽपि तत्र विशसि ध्रुवमण्डलेन्दुनिःष्यन्दमानपरमामृततोयरूपा || इति |] || अनुत्तरपदावाप्तौ स एष सुघटो विधिः | अस्मादेव तु मायीयाद्वर्णपुञ्जान्निरूपिता || मायामालम्ब्य भिन्नैव श्रीपूर्वे सृष्टिराक्षरी | पञ्चाशद्भेदसंभिन्नप्रत्ययप्रसवात्मिका [यथा स्पन्दे परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः || इति प्रत्ययसर्गः |] || बन्धरूपा स्वभावेन स्वरूपावरणात्मिका | अत्रैवान्तर्गतास्तास्ताः [अत्रेति अमायीये वर्णपुञ्जे |] खेचर्यो [द्विधा हि खेचर्यादिशक्तयः ताश्च खेचरीगोचरीदिक्चरीभूचरीरूपाः द्विधात्वं च आसां परशक्तिपातपवित्रितानां चिदानन्दप्रसरोद्वमनशीलतया अकालकलितत्वादभेदसर्वकर्तृत्वपूर्णत्वल्यापकत्वस्वरूपोन्मीलन-परमार्थतयेति मायामोहितानां तु नानन्दप्रदतयाः शून्यप्रमातृभूमिचारितयाः कालकलाशुद्धविचारागनियतिमयतया बन्धयितृतयेतिः | गौर्वाक् तदुपलक्षितासु संजल्पमयीषु बुद्ध्यहंकारमनोभूमिषु चरन्ति गोचर्यः शक्तिपातवतां तु शुद्धाध्यवसायाभिमानसंकल्पप्ररोहिण्यः परेषां तु विपर्यासिन्यः | दिक्षु बाह्येन्द्रियेषु दशसु चरन्तीति दिक्चर्यः अनुगृहीतानामद्द्वयप्रथनसाराः परेषां तु द्वयप्रतीतिपातिन्यः | भूरूपादिपञ्चकं मेयपदं तत्र चरन्तीति तदाभोगमयाश्यानीभावेन तन्मयतामापन्ना भूचर्यः प्रबुद्धानां चित्प्रकाशशरीरतया स्फुरन्त्य इतरेषां सर्वतो न्यवच्छेवतां दर्शयन्त्य इति द्विधा स्थितिः | अत्र पुनर्बन्धाभिप्रायेणैव स्थितिः यतो विषयात्मिका इत्युक्तं षिञ् बन्धने इति धात्वनुसारात् |] विषयात्मिकाः | तन्वते संसृतिं चित्रां कर्ममायाणुतामयीम् || प्. २१५) अस्याः साम्यं स्वभावेन शुद्धबहिरवतामयम् || प्रोक्तं प्रागेव जीवत्वं मुक्तत्वं पारमार्थिकम् | भिन्नाया वर्णसृष्टेश्च तदभिन्नं वपुः परम् || वीर्यमित्युक्तमत्रैव यद्गुप्त्या मन्त्रगुप्तता | तदेतदहमित्येव विसर्गानुत्तरात्मकम् || स्वस्वभावं परं जानञ्जीवन्मुक्तः सकृद्बुधः | सिद्ध्यादिप्रेप्सवस्तेन कॢप्तसंकोचसूत्रितम् || नाभिकुण्डलहृद्व्योम्नो योगिनोऽहमुपासते | तदेतत्किल निर्णीतं यथागुर्वागमं मनाक् || एनां संविदमालम्ब्य यत्स्यात्तत्पृच्छ्यतां स्ववित् | नैतावतैव तुलितं मार्गांशस्तु प्रदर्शितः || प्. २१६) इयतीति व्यवच्छिन्द्याद्भैरवीं संविदं हि कः | एतावाञ्छक्तिपातोऽयमस्मासु प्रविजृम्भितः || येनाधिकारितैरेतदस्माभिः प्रकटीकृतम् | अस्माकमन्यमातॄणामद्य कालान्तरेऽपि वा || भवत्यभूत्वा भविता तर्कः सूक्ष्मतमोऽप्यतः | यः सर्वयोगावयवप्रकाशेषु गभस्तिमान् || श्रीपूर्वशास्त्रे निर्णीतो येन मुक्तश्च मोचकः | एतत्तु सर्वथा ग्राह्यं विमृश्यं च परेप्सुभिः || क्षणं मर्त्यत्वसुलभां हित्वासूयां विचक्षणैः | आलोचनक्षणादूर्ध्वं यद्भवेदात्मनि स्थितिः || चिदर्काभ्रलवास्तेन संशाम्यन्ते स्वतो रसात् | परसंवेअणाभासम-ऊ-इणा-ऊर-अरमहसोआ-इम-ऊ-इणस-इभास-इम अलाहि शरणिअपसरहु परिसरिसनं जतुहसो पश्च-अप हिलुअवर्ण परिगाहरु इर वसत्तिपलमहस्म ओहुभितुर कदसुख विसरिपि असिद्धि धराइम उस अल विपरिसि अभास-इ वाहिरविहरिणी एहि विसर्गाभूमि अनार्दहुक्त-इ लर्थ ईण पवि मिणं दहुअमलाहं विहरिणी कु-इलित्थत अणुत्तर परप-इ जश्चि अभवि अतत तचमप्प-इ भस्म-इवि बिन्दुविसरि प्. २१७) सुताए हुप आसत्त त-अह सत्तमल हिंपुविसि विभेत विहंसः तमालि निमा-इ अ-अह सुततस्मह भोअमभण अ-इलं मरु निभुंऊ अपारहमरल पदुद्यो प्रन्तीप सार- इमात द्वय भासि विगम-इ विला-अनु सोश्रिअं असि तमर्थ अहिंसा अ-इपविमन्ती अलस- इरसा मच्छेअरि परिदेवितरंगणि प्रफ-ऊ असुह सारंगिणि रितत्तस्म कीलालसा तुहि मत्तिदिविरह एणि हानुण पिज्जति जतस्मा-इ लालणमहो संम-अलालसा | एवमुत्तरस्याप्यनुत्तरमिति यदुक्तम् तन्मयोऽसावुत्तरस्य इत्यंशेनोपात्तः कुलात्मा शाक्तः सृष्टिप्रसरः स विस्तरतो निर्णीतः तच्चोत्तरमपि यथानुत्तरं तथा निरूपितम् इदानीं त्वनुत्तरमेव स्वरूपेण विस्तरतो विचारपदवीमपेक्षते एवं विध्यनुवादौ निर्वहतो यदि अनूद्यमानो विधीयमानश्चांशः स्वरूपतो लक्षितौ च स्यातां यथा यदेव शिवनामस्मरणमेतदेव समस्तसौख्योच्छलनमिति द्वावप्यंशौ लक्ष्यौ प्. २१८) इह तु यद्यपि अनुत्तरं नाम अन्यद्वस्तु किंचिन्नास्ति - अन्यत्वे तस्याप्युत्तरत्वे एवाभिपातात् तथापि स्वातन्त्र्यकॢप्तोपदेश्योपदेशकभावाभिप्रायेणेयं व्यवस्था इत्युक्तं प्राक् ततश्च विस्तरतोऽनुत्तरस्वरूपनिरूपणाय ग्रन्थान्तरावतारः - तन्निरूपयति चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् || ९ || तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः | एतन्नायोगिनीजातो नारुद्रो लभते स्फुटम् || १० || हृदयं देवदेवस्य सद्यो योगविमुक्तिदम् | अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् || ११ || प्. २१९) सद्यस्तन्मुखतामेति स्वदेहावेशलक्षणम् | मुहूर्तं स्मरते यस्तु चुम्बकेनाभिमुद्रितः || १२ || स बध्नाति तदा सर्वं मन्त्रमुद्रागणं नरः | अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि || १३ || प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् | साक्षात्पश्यत्यंसंदिग्धमाकृष्टं रुद्रशक्तिभिः || १४ || प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् | त्रयेण मातरः सर्वा योगीश्वर्यो महाबलाः || १५ || प्. २२०) वीरा वीरेश्वराः सिद्धा बलवाञ्छाकिनीगणः | आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः || १६ || यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् | अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः || १७ || यत्किंचिद्भैरवे तन्त्रे सर्वमस्मात्प्रसिद्ध्यति अदृष्टमण्डलोऽप्येवं * * * * * * * * (?) || १८ || भैरवरूपस्य विश्वस्य प्रदर्शितयुक्त्यागमनिरूपितनररूपापराभट्टारिकास्वभावः शाक्तः तस्य हृदयं सारं शिवरूपं परमेश्वर्या श्रीमत्पराभट्टारिकया समालिङ्गितं भैरवशब्देन विश्वस्य प्. २२१) सर्वसर्वात्मकतावपुः शक्तिरूपं तत्सहितस्यात्मनः प्रति एकस्य भेदस्य नररूपस्य एतावच्छिवात्मकं हृदयं परेणाभेदेन सर्वात्मकताया एव तेन तया च विनास्य भेदस्यैवायोगात् इत्युक्तं प्राक् | सुश्रोणि इत्यामन्त्रणम् - अशोभनमायात्मकतायामपि अनपेतं शुद्धचिन्मयं यदेतत् श्रोण्यां हृदयं योनिरूपमुक्तं तन्नोऽन्तःकृतसकलमन्त्रमहेशादिभिः यत् स्थावरान्तप्रमातृजालस्याहमात्मनोऽस्माकमिति समुचितापतितव्यपदेशस्य भैरवात्म पूर्णतामयम् अन्तर्गतविश्ववीर्यसमुच्छलत्तात्मकविसर्गविश्लेषानन्दशक्त्यैकघनं ब्रह्म बृहत् व्यापकं बृंहितं च न तु वेदान्तपाठकाङ्गीकृतकेवलशून्यवादाविदूरवर्तिब्रह्मदर्शने इव एतच्च तृतीयं नराद्यपेक्षया शिवपरैकरूपम् अत एवामीषु शास्त्रेषु अत्र च मुख्यतया तदेव हृदयं पूज्यतयोपदिष्टम् अननुप्रविष्टतथावीर्यव्याप्तिसारहृदया अपि तावन्मात्रबाह्याचारपरिशीलनेनैव क्रमवशशिथिलीभवच्छिथिलितविदलद्विदलितपाशवनियमबन्धना प्. २२२) एतद्धृदयव्याप्तिं स्वयमेव समधिशेरते तर्हि एतद्धृंदयानुप्रवेश एव एतद्धृदयेऽनुप्रविष्टोऽस्मि इयं देवी परा इत्येतच्छाब्दविकल्पकल्प्याः अस्य च प्रत्युत हृदयान्तरमार्गणादित्युक्तं विस्तरतः अपि तु संकोचयन्ति हृदयं नहि शास्त्रपाशा नो संविदं कलुषयेद्यदयं च लोकः | सम्यक्स्वभावपदवीपरिपूर्णरूपा सैवोल्लसल्लयभरा भरिता स्थितिः स्यात् || यदुक्तं मयैव स्तोत्रे भवद्भक्त्यावेशाद्विशदतरसंजातमनस्यं क्षणेनैषावस्था स्फुटमधिवसत्येव हृदयम् | इति | अत एव कोणेषु पूज्यास्तिस्रो मध्ये देवी परानन्दभैरवनिर्मथनरूपा नित्यानन्दरसप्रसरेणैव क्षोभात्मकविसर्गेण - इति देवतानां संप्रदायो यामलयोगे वीराणामपि आनन्देन्द्रियनित्यानन्दक्षोभात्मकदूतीसंघट्टजेन - इति एकवीरतायामपि प्. २२३) स्वरूपानन्दविश्रान्तियोगेन पुंसोऽपि आनन्देन्द्रियनिःसरणधामत्रिकोणकन्दाधोविनिविष्टचित्तनिवेशात् आनन्दक्षोभप्रसवं करोति तदिन्द्रियमूलतत्पर्यन्तसंघट्टघनतायाम् अत्रोक्तम् वह्नेर्विषस्य मध्ये तु * * * * * * * * (?) | इति एवमानन्दयोग एव हृदयपूजा यथोक्तं त्रिकतन्त्रसारे आनन्दप्रसरः पूजा तां त्रिकोणे प्रकल्पयेत् | पुष्पधूपादिगन्धैस्तु स्वहृत्संतोषकारिणीम् || इति सर्वं हि मुद्राद्वयानुविद्धं - ज्ञानक्रियाशक्तिसारत्वात् केवलं देवतासु ज्ञानमुद्रा अन्तरुद्रिक्ता क्रियामुद्रा बहिः वीरेषु विपर्ययः अनुप्रवेशस्तु समतया विपर्ययाच्च अनेनैवाभिप्रायेण ज्ञानशक्त्यात्मके लिङ्गे क्रियाशक्तिसमर्पणमुक्तम् एवमेतत् चतुर्दशसु युतं संश्लिष्टं पञ्चदशात्मकं तिथीशान्तेन विसर्गेण षोडशेनान्वितम् प्. २२४) यद्वा चतुर्दशसहितं युतं युग्मं षोडशतिथीनां पञ्चदशानामीशो विसर्गः तस्यान्तः सप्तदश्यनुत्तरकला तदन्वितं हृदयं - सर्वाणि घटसुखादीनि वस्तूनि तामेव बीजसत्तां परमार्थरूपेणाक्रामन्तीत्युक्तं विस्तरतः अत एव तत् हृदयम् एवं षोडशधा हृदयमेतत् तत्रानुत्तरानुसारेण यदेतत् ब्रह्मसामरस्यं वेद्यवेदकयोश्चतसृणां दशानामुद्योगादीनां समाहारोऽविभागभूः प्राथमिकी तया युतमविभागि य एते तिथीनामीशा ऊकारान्ताः तत्प्रभवत्वादन्यस्येति [स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ | इत्युक्त्या |] हि उक्तम् तेषां तिथीशानामन्ता - अमृतवर्णाः चत्वारः तैः सम्यगन्वितम् तच्च तृतीयं - नराद्यपेक्षया शिवरूपं परं वेदकश्चतसृभिर्दशाभिरुल्लसन् वेद्यमेव ताभिराप्यायकौतुकात्मना ता एवामृतकलाः स्वात्मनि एकीकुर्वन् वेद्यवेदकक्षोभसमापत्त्या ऐकात्म्यलक्षणप्रसंख्यानेनाभ्यासेन प्. २२५) वा गम्यं भैरवात्मना विश्वहृदयमनुत्तरं प्रविशेत् | यथोक्तम् सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | इति | इच्छोल्लसत्तात्मनि आनन्दशक्तौ यदेतत् संहृत्य अनुसृत्या क्रियाशक्तिमपेक्ष्य तृतीयं रूपमिच्छात्म तदेव प्राक्कोटाविष्यमाणाद्यकलुषं [प्राक्कोटौ हीष्यमाणादिना कलुषम् इति कथं ब्रह्म (?) इत्यतः प्राच्यभागेऽकलुषमिति तात्पर्यम् |] ब्रह्म चतुर्ये दश चत्वारिंशत् भैरवभेदापेक्षया परभैरवपरशक्तित्रयसहितानि तत्त्वानि यथोक्तम् षट्त्रिंशच्छोधनीयानि शोधको भैरवः परः | परं [परं त्रिकमिति यथादौ निबद्धम् विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः | तदुभययामलस्फुरितभावनिसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् || इति | करणं शोधनोपायः |] त्रिकं तु करणं दीक्षेयं पारमार्थिकी || प्. २२६) इत्यादि तैर्युतम् आनन्दशक्तिर्हि प्रागपररूपा पूर्णा कथं तिथीशैर्बीजैः तदन्तैश्च योनिरूपधरादिभिः समन्वितम् - इति क्रियाविशेषणम् तदेव हृदयं सर्वत्रात्र सकृद्विभातं प्रसंख्यानगम्यं रूपं मुख्यतः तत्र योग्यानां तु परशक्तिपातपवित्रितानां वृथैन्द्रजालिककलनालालसानां वा योगाभ्यास इति मन्तव्यम् | इच्छाभिप्रायेण तृतीयमिच्छा तच्च वृंहितमिष्यमाणेनाभिन्नेन पूर्णं ब्रह्म चतुर्दश चत्वारिंशद्युतानि निर्विभागभाञ्जि यतोऽन्तरं युतशब्दो विभक्तवाच्यपि युतसिद्धत्वादित्यादौ [अयुतसिद्धयोः संबन्धः समवाय इत्यत्र युतसिद्धयोरपृथक्सिद्धयोरित्यर्थः यथामुमेवाभिप्रायमन्तःकृत्य यु- मिश्रणेऽमिश्रणे चेति सिद्धान्तकौमुद्यां पठितम् |] तिथीश्वरस्य कुलमयानुत्तरकलात्मनोऽन्तः आनन्दः तस्यानु - पश्चात् सम्यगितं बोधमयम् | ईशानापेक्षया तृतीयमिच्छारूपं प्रसरवशाद्बृहद्भूतमीशानतापन्नं चतुर्दशानां चत्वारिंशत प्. २२७) उक्ताया युतं परस्परव्यामिश्रता यत्र तिथीश्वरस्याकुलमयानुत्तरा कलनान्तः संहृतिः - कुलशक्तिप्रथमस्पन्दस्तेनान्वितम् | उन्मेषात्मकज्ञानशक्तियोगेन तृतीयं ब्रह्मेशानमेव यदा [ईशानस्यैवं तृतीयब्रह्मतामुपपादयति यदेत्यादि |] चतुर्दशानां तस्या एव तत्त्वचत्वारिंशतो युतं प्रथमविभागो यत्र तथाविधं भवति तथा तिथीशान्तेन कुलशक्तिप्रथमस्पन्देन सम्यक् प्ररुरुक्षुतया अन्वितम् संशब्दोऽत्र भरणापेक्षः | तज्ज्ञानशक्तिक्रियाशक्तिमध्यकोटिरूपप्राङ्निर्णीत- ऊकारकलालम्बितोढतारूढ्या यदेतत् ब्रह्म यत्किंचिच्चराचरं तदशुद्धशुद्धाशुद्धसृष्ट्यपेक्षया तृतीयं शुद्धसृष्ट्यात्मकं यत् अत एव तिथीश्वरैः हृदयभूततया तदन्तैश्च कादिक्षान्तैः समन्वितम् | अथ शून्यचतुष्कानुसृत्या चतुर्णां धरादीनां दशा विनाशात्मिका विद्यते यत्र तद्व्योम तेन प्. २२८) युतं तृतीयं ब्रह्मेच्छाख्यं तिथीश्वरस्यार्कस्य अन्तेन बाह्येन तेजसान्वितम् | व्याख्यातक्रमेण तृतीयं ब्रह्मेशनम् एतदपि एवमेव | तृतीयं ब्रह्मेच्छाख्यं चतुर्णां नभःप्रभृतीनामन्तर्दशा यत्र साधारतया समन्वितं तिथीशान्तस्य वह्नेः तेजसो यदनुसरद्रूपं तेन सहितं व्योमात्म | तथैव तृतीयं ब्रह्म चतुर्दशयुतं तिथीशान्तसमन्वितं परिपूर्णशून्यरूपप्लुत्या भैरवात्म | इच्छा खलु निजस्वभावभूतेशनसहिता वेद्यभूमेर्व्योमसत्तां यदाक्रामति तदा किंचित्प्रकाशभुवि विश्रम्य झटिति अपर्यन्तां काष्ठपाषणप्रायां निश्चलां व्योमभूमिमनुप्रविशति यत्रापवेद्यसुषुप्तमहाव्योमानुप्रविष्टान् योगिनः प्रत्युच्यते भेरीकांस्यनिनादोऽपि व्युत्थानाय न कल्पते | इत्यादि | प्. २२९) अधुनोक्तव्याप्ति यदेतत्परस्पररूपसांकर्यवैचित्र्यं शक्तीनां तदुद्देशेन एवमिच्छा यदानुत्तरपदप्रवेशशालिनी भवति तदा शक्तिक्षोभस्य रसनादेरनन्तरं तत्रोच्यते - विलम्बितमध्यद्रुतानां चिद्विशेषस्पन्दानां सत्त्वादियोगजुषां चतुःशब्दोपलक्षिता चतुर्थी दशा यत्रास्ति सामान्यस्पन्दरूपा तदकुलं तेनाकुलेन अनुत्तरेण युतं तृतीयं ब्रह्मेच्छात्म ईशनसहितं तिथीशस्याकारस्यान्तेनानन्दशक्त्यात्मना अन्वितम् | तदपि तथैव पुनरपि परां सत्तामनुप्रविशति यदा तदा भैरवात्म परिपूर्णं दीर्घीभूतं नः - अस्माकमिति पूर्ववत् अत एवैतदेव बीजयुग्मम् एवंविधबीजवैचित्र्यानुप्रवेशात् आच्छादप्रसवसमर्थम् - इति कामवाक्तत्त्वोपयोगेनोच्यते | कामेन कामयेत्कामान्कामं कामेषु योजयेत् | इत्यादि प्. २३०) ए-ओकारगतं बीजं वाग्विधानाय केवलम् | इत्यादि पञ्चमषष्ठवर्णद्वयेन यदुक्तं चतुर्दशयुतं तृतीयं ब्रह्म तिथीशान्तसमन्वितं तदेव भैरवात्मानुत्तरपदानुप्रविष्टम् एतत् ब्रह्म चत्वारिंशद्युतमुक्तनीत्या तिथीशान्तसमन्वितं भैरवात्मवेदनरूपतया बिन्द्वात्मकं हृदयम् सकलमिदं तत्त्वजालं भैरवात्मतयोच्छलत् अत एव बहिर्विसृज्यमानं वृंहितं ब्रह्म विसर्गात्मकं बहिःस्थितं च भैरवात्मतयैकीभूतं भेदात्मकव्यवच्छेददारिद्र्यापसारणेन सर्वसर्वात्मकपदप्राप्त्या वृंहितम् - इति विसर्गपदं निर्णीतं चैतदवधानेन | एवं षोडशात्मिका बीजव्याप्तिरुक्ता | योनिव्याप्तिस्तु प्रतिवर्णं प्रागेवोक्ता वर्गीकरणाभिप्रायेण तु निरूपणीया बाल्ययौवनस्थाविरदेहान्तरग्रहणरूपदशाचतुष्टयसमाहारमयं पाञ्चभौतिकमन्तः तिथीशान्तेन प्रवेशनिर्गमनात्मना प्राणापानरूपेण युतं तृतीयं च पुर्यष्टकात्म ब्रह्म प्. २३१) वृहत्त्वाच्च शून्यम् अत्र च यत् हृदयं शक्त्यात्म त एते सर्व एव शरीरप्राणपुर्यष्टकशून्यतुर्यशक्तिरूपा बोधात्मकशिवबीजसातिशयघनताक्रमप्राप्तक्रमिकतथाभावा बाह्यात्मभूतात्मातिवाहिकात्मान्तरात्मपरमात्मव्यपदेश्याः प्रमातारः एतद्भैरवात्म हृदयम् प्रवेशोपायोऽत्र - सर्वाः [सर्वाः प्रामातृभूमीरिति यदुक्तम् सर्वाः शक्तीर्दर्शनस्पर्शनाद्याः स्वे स्वे वेद्ये धौगपद्येन सम्यक् | क्षिल्वा मध्ये स्फाटिकस्तम्भभूतस्तिदृन्विश्वाधार एकोऽवभासि || इति | तथा बहिष्करणबुद्ध्यहंकृतिमनःसुषुम्नाश्रयाचतुर्दशसु चण्डिके पविषु येन येन व्रजेत् | कला क्षिपनिकेतनं जननि तत्र सा तादृशी दशोदयति दुर्लभा जगति वा सुरैरप्यहो || इति |] प्रमातृभूमीरनवच्छेदेनाक्रामेत् अन्तर्बहिष्करणत्रयोदशकं प्रकृत्या सह च चतुर्दश चत्वारिंशद्युतं द्विगुणितमशीतिः तिथयः पञ्चदश ईशा प्. २३२) रुद्रा एकादश युक्ताः कालास्त्रयः एवं - द्वादशोत्तरशतमर्मगतस्थूलसूक्ष्मपरशाक्तस्पन्दरूपमन्त्रवीर्यविकास- स्फुरीकृतविसर्गविश्लेषणसंघट्टक्षोभात्मिकां शरीरसत्तामेव भैरवरूपां परिशीलयेत् युगपन्निवेशसंप्रदाययुक्त्या चतस्रो मधुरकषायतिक्ताम्लदशा यस्य मद्यसुरासवादेः [यदुक्तम् धीकर्माक्षगता देवीर्निषिद्धैरेव चाचरेत् | निषिद्धं लोकविद्विष्टं * * * * * * * * (?) || इति | तथा नित्योदिता परा शक्तिर्यद्यप्येषा तथापि च | बाह्यच्र्याविहीनस्य दुर्लभा कौलिकी स्थितिः || इत्युक्तमन्यत्र | लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् | निष्कम्पत्वे सकम्पस्तु कम्पं निर्हासयेद्बलात् || न चैतदत्र अवश्यं कार्यमिति मन्तव्यम् क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् | मद्यादिपूजानिरतैः सुदुष्प्रापो हि शंकरः || इत्यादिविरोधात् किं तर्ह्यत्र प्रतिपत्तव्यं - प्रत्यभिज्ञातस्वरूपाणां न विचिकित्सामलोऽवधेय इति | शङ्काशून्योऽपि तत्त्वज्ञो मुमुक्षोः प्रक्रियां प्रति | न त्यजेच्छास्त्रमर्यादां चेत्याज्ञा पारमेश्वरी || इति स्फुटं सुरादिप्रतिषेधनात् तस्मादत्र सर्वथा महार्थमञ्जर्येव प्रमाणम् यथा यत्र रुचिः इत्यादि |] तत् तिथीशान्तम् प्. २३३) उभयविसर्गात्मद्रव्यसमन्वितं तदिन्द्रियद्वयान्तर्वर्ति कुसुमशब्दवाच्यं मलं तृतीयं ब्रह्म जगदिन्धनदाहशेषं भस्म भैरवात्म भरिताकारमाप्यायकमम्बु हृदयं च सर्वेन्द्रियान्तर्वर्तिरसाश्यानोभयरूपं तदेतानि द्रव्याणि यथालाभं भेदमलविलापकानि [यदुक्तम् यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा | विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् || इति |] तथाहि दृश्यते एवायं क्रमः - यदियं संकोचात्मिका शङ्कैव समुल्लसन्ती रूढा फलपर्यन्ता संसारबीजतरोः प्रथमाङ्कुरसूतिः [यदुक्तमत्रैव पूर्वम् मायीयकार्ममलमूलमुशन्ति सन्तः संकोचनाम मलमाणवमेव भद्राः | मूलं तदेव भवजीर्णतरोः * * * * * * * * * * * * * * * * (?) || इति | अत्रायं संक्षेपः - यथोक्तमनेनैव - नात्र भक्ष्याभक्ष्यशुद्ध्यशुद्धिविवेचनया वस्तुधर्मोज्झितया स्वात्मा खेदनीय इति | नहि शुद्ध्यशुद्धी वस्तुनो रूपं परमार्थतः तयोः परस्परव्यभिचारदर्शनात् | धीरैरेकत्र या शुद्धिस्तत्राशुद्धिः परैः स्मृता | विहितत्वेऽपि दानस्य दीक्षितत्वे यथा पुनः || कल्पनामात्रमेवैतत्तस्मात्सद्भिरुपेयताम् | न कल्पना सत्यतो वै मिथ्येयमिति निश्चयः || तस्मादत्रोत्तरत्वं हि चोदनाप्रविचारणे | एतत्खलु ह्यसंदिग्धं वादिनः प्रतिवादिनः || इति | तत्रेत्थं विचारणा - चोदना ह्यबाध्येति भीमांसकवाक्येन कथमशुद्धमिति चेत् न शिवचोदनाया एव बाधितत्वं युक्तिसिद्धं यथा संकोचतारतम्येन पाशवं ज्ञानमीरितम् | विकासतारतम्येन पतिज्ञानं तु बाधकम् || इति | तथा शिवोपनिषदि किंचिज्ज्ञैर्या स्मृता शुद्धिः सा शुद्धिः शंभुदर्शने | न शुद्धिः * * * * * * * * * * * * * (?) || इति | उक्तं च यो निश्चयः पशुजनस्य जडोऽस्मि कर्मसंपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि | इत्येतदन्यदृढनिश्चयलाभसिद्ध्या सद्यः पतिर्भवति विश्ववपुश्चिदात्मा || इति |] सा चाप्रबुद्धान् प्रति स्थितिर्भवेत् - प्. २३५) इति प्रबुद्धैः कल्पिता बालान् प्रति च कल्प्यमानापि च तेषां रूढा वैचित्र्येणैव फलति अत एव वैचित्र्यकल्पनादेव सा बहुविधधर्मादिशब्दनिर्देश्या प्रतिशास्त्रं प्रतिदेशं चान्यान्यरूपा यथोक्तम् ग्लानिर्विलुण्ठिका [यथा स्पन्दे ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः | तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका || इति |] देह * * * * * * * * (?) | इति | सेयं यदा झटिति विगलिता भवति तदा निरस्तपाशवयन्त्रणाकलङ्को भैरवहृदयानुप्रविष्टो भवति - इति सर्वथा एतदभ्यासे यतितव्यम् श्रीतिलकशास्त्रेऽयं भावः | श्रीभर्गशिखायामपि उक्तम् वीरव्रतं चाभिनन्दद्यथायोगं तथाभ्यसेत् | इत्यादि | श्रीसर्वाचारेऽपि अज्ञानाच्छङ्कते मूढस्ततः सृष्टिश्च संहृतिः | मन्त्रा वर्णात्मकाः सर्वे वर्णाः सर्वे शिवात्मकाः || प्. २३६) पेयापेयं स्मृता आपो भक्ष्याभक्ष्यं तु पार्थिवम् | सुरूपं च विरूपं चं तत्सर्वं तेज उच्यते || स्पृश्यास्पृश्यौ स्मृतो वायुश्छिद्रमाकाश उच्यते | नैवेद्यं च निवेदी च नैवेद्यं गृह्यते च यत् || सर्वं पञ्चात्मकं देवि न तेन रहितं क्वचित् | इच्छामुत्पादयेदात्मा कथं शङ्का विधीयते || इति | श्रीवीरावलिशास्त्रेऽपि अयमेवाभिप्रायः उक्तं च क्रमस्तोत्रे सर्वार्थसंकर्षणसंयमस्य यमस्य यन्तुर्जगतो यमाय | वपुर्महाग्रासविलाससक्तं संकर्षयन्तीं प्रणमामि कालीम् || इति | व्याख्यातं चैतन्मया तट्टीकायामेव क्रमकेलौ विस्तरतः अत एव षडर्धशास्त्रेष्वेषैव क्रिया प्रायो नियन्त्रणारहितत्वेन पूजा तत्परिपूरणायैव सर्वद्रव्यालाभात् संवत्सरमध्ये चतुस्त्रिर्द्विःसकृद्वा पवित्रकविधिरुक्तः | क्रियायाः पूरणार्थाय यागाज्ञापूरणाय च | चतुः सकृद्वा यः कुर्यान्न पवित्रं स निष्फलाः || प्. २३७) इति विज्ञानक्रमो विस्तरत उक्तः | जातीनां च ब्राह्मणादीनां नास्ति स्थितिः - कल्पितत्वात् उपदेशव्यङ्गतेति तु दुर्बुद्धीन् पशून् प्रत्याययेत् - इति च भगवता मुकुटसंहितायां विस्तरतो निर्णीतम् इह तु अयत्नसिद्धमेव | गुणा इच्छाद्या निर्णीताश्चतुर्दश स्वरेभ्य ओकार-औकारमध्यगः तिथीशान्तो विसर्गः तृतीयं ब्रह्म ष-हमध्यगम् एतद्वीजं वस्तुतो विश्वस्य तथाहि - यत्किंचित् सत् पार्थिवप्राकृतमायीयरूपं भासते तत् इच्छायां ज्ञाने वा क्रियायां वा पतितमपि सर्वात्मकत्वात् त्रिकरूपं परत्र शिवपदे विसृज्यते सर्वं च शिवपदात् विसृज्यते - इत्यविरतमेष एव प्रबन्धो निर्विकल्पकः विकल्पोऽपि प्रमदारातिप्रभृतिरेवंकार्यभूत् अत एवंकारी भवति एवंकारी भविष्यतीति वर्तमानकालत्रयानुसंधितो भेदपरमार्थतयैव विसर्गः प्. २३८) इति प्रत्युत मोक्षमयशिवभूमिरेव सदैव दैवदग्धानां संसारभयमरुमहाटवी संपन्ना | जलात्स्फूर्जज्ज्वालाजटिलवडवावह्निनिवहः सुधाधाम्नः पूर्णाद्भयसदनदम्भोलिदलना [दशम्याः पूर्णिमान्तः चन्द्रस्य पूर्णत्वं ततश्चाशन्युद्गमः इति शास्त्रम् |] | विकल्पादैश्वर्यप्रसरसरणेः संसृतिदरः कियच्चित्रं चित्रं हतविधिविकासात्प्रसरति || ईश्वरप्रत्यभिज्ञायामप्युक्तम् सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पाना. प्रसरेऽपि महेशता [नहि प्रत्यगात्मा नाम पशुरन्यः कश्चित् अन्योऽपि अहम् अपि तु परिगृहीतग्राह्यग्राहकप्रकाशघनो यः स एवाहं सचाहमेव न त्वन्यः कश्चित् अतो विकल्पसृष्टिरपि मम स्वातन्त्र्यलक्षणो विभव इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः | यथोक्तम् शङ्कापि नो विशङ्क्येत निःशङ्कत्वमिदं स्फुटम् || इति |] || इति | यथा चाकृतिमध्य एव चतुर्भुजत्रिनयनपूर्णकृशाद्या आकृतयो द्रव्यमध्ये च सुरासवाद्या प्. २३९) बलादेव तां सत्तां समधिशाययन्तीव लिप्यक्षराणीव सती अवर्णभूमिः - इत्युत्कर्षभागित्वमेषाम् [एषामिति चतुर्भुजादीनां लिप्यक्षराणां चेति |] एवं सर्ववर्णमध्येऽपि अयं वर्णः [वर्णं इति - अयमुत्कर्षभागी इति शेषः |] तथाहि - सकारस्तावत् परमानन्दामृतस्वभाव [स्वभाव इति यदुक्तम् कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाष्यते | विषयस्यामृतं तत्त्वं च्छाद्यत्वेऽणोश्च्युते सति || इति |] उल्लसन् एव समस्तं वर्णजालमाक्षिप्य उल्लसति यद्यत्सत्यसुखसंपत्सत्तादीनां पारमार्थिकं वपुः सीत्कारसमुल्लासशेपकम्पवराङ्गसंकोचविकासोपलक्ष्यम् तदेव हि सत्यादीनाममायीयं वस्तुतो रूपं तथाहि परहृदयग्रहणेङ्गितनिपुणा गगनगवयगवाद्यनन्तपदप्राङ्मध्यान्तभाविनोऽपि गकारादिमात्रादेवाभीष्टं चिन्वते - तावति प्. २४०) सत्यपदेऽनुप्रवेशात् एवमेकैकस्यैव वर्णस्य वास्तवं वाचकत्वम् यथोक्तम् शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरः | तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् [तेषां शब्दार्थप्रत्ययानां यः प्रविभागः तत्र संयमात् त्रयमेकत्र संयम इति पारिभाषिकसंज्ञा संयमस्य |] | (यो० सू० ३-१७) इति अत एव प्रायशोऽमी अकार-चकाराद्या एकवर्णात्मानो निपातविभक्त्यादयो [यथात्र निपतन्ति परनिष्ठेष्वर्थेषु इति निपाताः लिङ्गसंख्याकारककृतविशेषाभावात् असत्त्वं यदुक्तमीश्वरप्रत्यभिज्ञायाम् नाहन्तादिपरामर्ऽऽअस्भेदादस्यान्यतात्मनः | अहं मृश्यतयैवास्य सृष्टेस्तिङ्वाच्यकर्मवत् || इति | अत्र प्रकृतोपयोगार्थमुपमानोपमेययोः वैपरीत्यं कल्पनीयं यथा प्रत्ययविकल्पसमुच्चयादिरूपनिपातासत्त्वभूतशक्तिभिः निषिध्यमानसमुच्चीयमानव्यतिरिक्तोऽर्थो नाभिधीयते यथा अहन्तेश्वरात्मादिभिरहंमृश्यतयैव सृष्टेरम्यरिक्तोऽर्थोऽभिधीयते नेश्वर आत्मेत्यादि |] मायापदेऽपि पारमार्थिकमिव प्रमातृपदलीनमिदन्तापराङ्मुखमसत्त्वभूतं तत्तन्निषिध्यमानसमुच्चीयमानाभिन्नरूपनिषेधसमुच्चयादिकमर्थ- मभिदधति एष एव भावस्तत्रभवतो भर्तृहरेः यदाह प्. २४१) पदमाद्यं पृथक्सर्वं पदं साकाङ्क्षमित्यपि [साकांक्षम् - इतरेतराध्यासात् |] | इति वाक्यविचारे | तथा च वेदव्याकरणे पारमेश्वरेषु शास्त्रेषु मन्त्रदीक्षादिशब्देषु अक्षरवर्णसाम्यात् निर्वचनमुपपन्नं तत्तु [ननु च यद्येवं तत् सर्वत्राक्षरवर्णमूलत्वात् सर्वस्य सर्वत्रैवाक्षरवर्णसाम्येनैव निर्वचनं प्राप्तं तन्मूलत्वात् पदवाक्ययोः मूलं परित्यज्य शाखां गृह्णतो हि महाननर्थः स्यादित्यत आह तत्तु इत्यादि कुत इति हेतुमाह नियतिवशादिति परमेश्वरेण हि सर्वं नियतिशक्त्या स्थापितं ततश्च ब्रह्मक्षरसंहत्यास्य पदस्यायमेवार्थं इति नियम इत्यर्थः |] न रूढं - नियतिवशादिति न लोकपर्यन्तं तदेवं सकार ईदृशः औकारविसर्गावपि व्याख्यातौ तदुक्तं श्रीपूर्वशास्त्रे सार्णेन त्रितयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण परा व्याप्तिरुदाहृता [त्रयोऽवयवा अस्याः संख्याया इति त्रितयं त्रिसंख्याकमण्डं तत्र पार्थिवप्राकृतमायीयाभिधानं तच्च सकारवर्णेन व्याप्तं तत्पर्यन्तं सकारस्य व्याप्तिरित्यर्थः त्रिशूलेन चतुर्थकमिति चतुर्थकं शाक्तमण्डं तच्च त्रिशूलेन - औ-बीजेन पूर्ववत् षट्त्रिंशदुक्त्या तदतीतमाह सर्वेति स्पष्टम् - इयं परा दीक्षेति भावः |] || इति | तथा प्. २४२) शिष्येणापि तदा ग्राह्या यदा संतोषितो गुरुः | शरीरद्रव्यविज्ञानजातिकर्मगुणादिभिः [अन्यशास्त्रशिक्षया |] || भेदिता तु यदा तेन गुरुणा हृष्टचेतसा | तदा सिद्धिप्रदा ज्ञेया नान्यथा वीरवन्दिते || इति | अन्यत्रापि एकं सृष्टिमयं बीजम् [यदुक्तम् एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी | द्वावेतौ यस्य जायेते सोऽतिशान्तपदे स्थितः || इति |] * * * * * * * * (?) | इति | अत एवालेख्यं पुस्तके इति नियमः श्री पूर्वशास्त्रेऽपि वामजङ्घान्वितो जीवः पारम्पर्यक्रमागतः | इति | इहापि वक्ष्यते यथा न्यग्रोधबीजस्थः * * * * * * * (?) | इति | तदेतत् भैरवात्मनो हृदयं - मालिन्यपेक्षया नकारत्वात् वस्तुतस्तु अकाराद्योगिन्याश्च प्. २४३) विसर्गशक्तेः जातः प्रादुर्भूतप्रमातृभावो रुद्रो रोधको द्रावकश्च पाशानां स एव ना - पुरुषः एतत् स्फुटं लभते न तु अरुद्रो नापि अयोगिनीगर्भसंभवः सद्योयोगो भैरवैकात्म्यं स एव मोक्षो [यथोक्तम् मोक्षश्च नाम नैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संवित् * * * * * * * * (?) || इति |] निर्णीतः तं ददातीति यो लभते स एवंविधो नान्यः यश्चैवंविधः [एवंविधो योगिनीजो रुद्रश्चेत्यर्थसिद्धम् |] स स्फुटं लभते एवं हृदयमेव लभते - सद्योयोगविमोक्षदमेवेति सर्वतो नियमः मन्त्रा वर्णभट्टारका लौकिकपारमेश्वरादिरूपा मननत्राणरूपाः [मनु अवबोधने वैङ् पालने इति धातुभ्याम् |] विकल्पसंविन्मयाः मुद्राश्च सकलकरचरणादिकरणव्यापारमययः क्रियाशक्तिरूपाः तत्कृतो गणः समूहात्मपरशक्त्येकरूपः स्वस्यात्मनः प्. २४४) प्राणपुर्यष्टकशून्यादेः [यथेश्वरप्रत्यभिज्ञायाम् कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् | अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् || मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः | शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् || इति अत्रायं भावः - मलेन संविद्भागस्य निमज्जनात् कर्तृतामयं चिद्रूपस्य तत्त्वं स्वातन्त्र्याख्यं कलाख्येन तत्त्वेनोपोद्वलितं मलेन न्यक्कृतं सदुद्वलितमिदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नं यदापि परामृष्टतथाभूतवैभवनित्यत्वैश्वर्यादिधर्मसंभेदेनैवाहंभावेन शून्यादि देहान्तं विध्यते तदा तुर्यतेति |] देहस्य य आवेशः - झटिति परस्वरूपानुप्रवेशेन पारतन्त्र्यात्मकजडतातिरोधानेन स्वतन्त्रकर्तृतानुविद्धप्रमातृतोदयः तथा स्वं स्वभावं पदार्थस्य ददातीति स्वदा ईहा इच्छाद्या क्रियान्ता तया आवेशः तदेव लक्षणं यत्र तथा कृत्वा य उदेति सोऽस्य बीजस्योच्चारे ऊर्ध्वचरणे स्थितौ सत्याम् अस्य अकारस्य यथैतत् तथा निर्णीतं बहुशः सद्य इत्यनेन स अत् इत्यनुप्रवेशः सूच्यते तन्मुखतां तत्पररूपप्राधान्यमेति न तु पशूनामिव तद्रूपं प्रत्युत तिरोधत्ते प्. २४५) अत एव मुहूर्तम् - अकालकलितत्वेऽपि परकलनापेक्षया उन्मेषमात्रं यः स्मरति - अनुसंधत्ते स एव व्याख्यातं मन्त्रमुद्रागणं संबध्नाति - स्वात्मन्येकीकरोति अद्वयतः कथं (?) - चुम्बकेन [चुवि वक्त्रसंयोगे इति धात्वनुसारात् |] विश्वस्पर्शकेन शाक्तेन रूपेणाभितः सर्वतो मुद्रितं मुद्रणं कृत्वा तुरवधारणे य एव शाक्तस्पन्दमुद्रित एवंविधतत्त्वमयशिवरूपानुसंधायकः स एवैवं करोति न तु नरैकरूपः पाषाणादिः यदतीतं यच्चानागतं यदनर्थरूपं प्रागन्याभावात् इतरदपि स एव कथयति - कथापर्यन्ततां नयति असंकल्पनात् कथं (?) पृष्टः प्रश्ने ज्ञीप्सा पृष्टं तद्यस्यास्ति स तथा | यदेव किल ज्ञीप्सति तत्तदेवान्तर्गतं बहिष्कुरुते || यथोक्तम् यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदि स्थितान् | सोमसूर्योदयं कृत्वा संपादयति देहिनः || प्. २४६) इत्यादि | एको हि असौ स्मरणोत्प्रेक्षणादावपि तावानेव वर्तमानो न स्तो भूतभविष्यती यथोक्तं कालोभयापरिच्छिन्नम् * * * * * * * * (?) | इत्यादि | प्राग्भवत एवानधिकरूपस्य पुनरिदं जानाति करोति इत्यादिसंकोचासहिष्णोः सकृद्विभातत्वम् अत एवोक्तं भूताद्यपेक्षया वर्तमानकालस्य तदभावे वस्तुतोऽप्रसक्तेः अकालकलितत्वमेव वस्तुतत्त्वम् इति हि उक्तमसकृत् स एव तु कालशक्तिमवभासयति चित्राम् | किं च जाग्रति कस्मिंश्चिद्घटिकाभिमतापि या | तस्यामेव प्रमातारः स्वप्नगाश्चित्रताजुषः | दिनप्रहरवर्षादिवैचित्र्यमपि चिन्वते || इति नीत्या प्रकृष्टो हरः संहारोऽकुलाख्यः ततोऽनन्तरमभिप्रेतं प्रेतशब्दवाच्यसदाशिवतत्त्वनिविष्टज्ञानशक्त्याभिमुख्येन प्. २४७) देवताया इच्छाया रूपं रूपाणां कलनम् साक्षस्य सेन्द्रियस्य रूपस्यादनं भक्षणमतनं [अद भक्षणे अत सातत्यगमने इति धात् |] च सातत्यगमनं कृत्वा रोधनद्रावणरूपशक्तिभिराकृष्टः पश्यति असंदिग्धं कृत्वा एतदुक्तं भवति - यदिदं दर्शनं नाम तत्सर्वतरङ्गप्रत्यस्तमयाख्याकुलसत्ताधिरूढस्य अनन्तमहिमस्वातन्त्र्ययोगात् इच्छाशक्तिमतः सैवेच्छा स्वान्तर्गता इष्यमाणवस्तुन ईषदस्फुटभेदावभासनरूपज्ञानशक्त्यात्मकतामेति तज्ज्ञानशक्तिविशेषस्पन्दनरूपसमस्तेन्द्रियाणां बहीरोधनम् एतदेव सातत्यगमनम् तच्च द्रावणं तदेव भक्षणम् एते एव वमनभक्षणे दर्शनस्य सर्वप्रथैकमयत्वात् प्रथायाश्च तथाविधवैचित्र्ययोगात् अनिश्चितोभयालम्बनत्वमपि स्थाणुपुरुषादावपि असंदिग्धमेव एवं दुष्कृतमयी प्. २४८) परमेशशक्तिः एवं तु असौ परापररूपस्मृतिशक्तिमान् भैरव इत्याह प्रहरद्वयेत्यादि एवं तु स्मरन् जायते व्योम विद्यते यत्र पुर्यष्टके शून्ये च तत्प्रमातृरूपतामादधानः प्रहरोपलक्षितं दर्शनाख्यं रूपं यदा पुनः पुनः परामृशति स्मरत्यपि च प्राग्वत् साक्षात्पश्यत्यसंदिग्धमाकृष्टो रुद्रशक्तिभिः इति संबन्धः | तावद्धि तदपि दर्शनमेव इत्युक्तम् | एवं तु अपरात्मकविकल्पशक्तियुक्त इत्युच्यते त्रयेणेति - पश्यन् स्मरंश्च व्योमस्थो यदा पुनरपि पश्यति तदनेन प्रहरोपलक्षितदर्शनत्रयेण मातरोऽन्तःप्रमातृमययः परमेशशक्तयः ताश्च प्रमातृत्वादेव सिद्धाः प्रमात्रन्तरविषयसिद्ध्यनपेक्षाः तद्रूपैकात्म्यलक्षणेन योगेनैश्वर्यं तथा गृहीतस्वातन्त्र्यांशाः महत् - बाह्येन्द्रियवृत्त्यपेक्षया सर्वत्राप्रतिहतप्रसरत्वं बलं यासां ता अन्तःकरणदीधितयः ता अपि सिद्धा एव - विश्वत्र पाशवशासनयन्त्रणानिरपेक्षतयैव सरभसप्रवृत्तिरूपत्वात् प्. २४९) वीरा - बुद्धिक्रियेन्द्रियाख्याः तेऽपि सिद्धा एव तेषामपि चेश्वराः कादिवर्णात्मानः तेऽपि सिद्धाः तत् कादिवर्णोद्धारोदितश्च ब्राह्म्यादिदेवतात्मा तत्तद्द्वेषरागादिचित्तवृत्तिरसमयः शक्तिसमूहः सोऽपि सिद्ध एव अत एव बलवान् एते सर्वे संभूय पराज्ञया - परस्य मां मानमयीम् असौ पर इति विकल्पात्मिकां सिद्धिम् यद्वा समीहितं फलमेव अहं ददति प्रयच्छन्ति अज्ञातार्थक्रिये ज्ञातार्थक्रिये च एष क्रमेण विकल्पयोगः किं बहुना ये मन्त्रिणोऽपरकुलान्तमन्त्रसिद्धा पि साधयन्त्यपि च तेऽपि अनेन हृदयेन सेत्स्यन्ति जीवन्मुक्ताः - एतेन विना पारमार्थिकी सिद्धिर्न भवतीति भावः | यत्किंचिद्भैरवेत्यादि तथा ये सिद्धाः साधयन्ति च ये च सेत्स्यन्ति अणिमादियोगात् तेऽपि अनेनैव योगेन नहि एतद्धृदयानुप्रवेशं प्. २५०) विना व्यावहारिक्यपि सिद्धिः यतो - भैरवे विश्वात्मनि तन्त्रे क्रियाकलापे यत् किंचित् सिद्धिजातं तदत एव एवमेष परमेश्वर एव हृदयात्मा एवंरूपतया शक्तित्रितयवृंहितसततोदयमानसंह्रियमाणानन्तसंविदैक्यशाली परिकल्पितः सन् अदृष्टसंदर्शनमेवमख्यातिरूपमण्डं मायामलम् अण्डं च भावानां भेदाख्यं सारं लुम्पति एवमदृष्टम् एतद्धृदयमण्डलोऽपि चत्वार्यण्डान्येव लोपः संकोचः तद्योगि एवमेष विद्यामायोभयात्मा परमेश्वर एक एव चिद्घनः यथोक्तम् दर्शनं तु परा देवी स्मरणं च परापरा | विकल्पस्त्वपरा देवी त्रिकशक्तिमयः प्रभुः || मायाविद्ये उभे तस्य माया तु चतुरण्डिका | विद्या स्वरूपसंवित्तिरनुग्रहमयी शिवा || इति | यदि तु योगप्राधान्यं तदा श्रीपूर्वादिशास्त्रनिरूपितं पूर्वमेव व्रतादि कृत्वा अस्योच्चारे कृते इत्यादि स्पष्टमेव व्याख्येयं यतो प्. २५१) दृष्टकार्येषु नियतिपरतन्त्री क्रियाकलापं निपतमेवाक्षिपति योगिनामपि हि नाडीचक्रकरणभावनासंवेदनयुक्त्या नियम एव || १७ || अस्येदानीं त्रिकार्थस्य यदुक्तं कुलात्परतरं त्रिकम् इति सर्वोत्तरमनुत्तरत्वं तन्निरूपयति अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः | स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः || १८ || मण्डलं - देवताचक्रम् अपश्यन्नपि - अप्राप्तमेलकोऽपि [अत्रायमभिप्रायः - एकैका वाहदेवी अक्लेशेन स्वारस्येनैकैकस्मिन् निजनिजविषये आदिदेव्यधिष्ठानेन मेलापमापादयतीति चेन्द्रियदेवतानां द्वादशानां मेलाप इति |] चर्यानिशाटनहठादिना मण्डलानि शरीरनाडीचक्रानुचक्ररूपाणि योगाभ्यासेनासाक्षात्कुर्वन्नपि त्रिशूलाब्जादिमण्डलमदृष्ट्वापि - प्. २५२) नात्र मण्डलादिदीक्षोपयोगः एवमेव कश्चित् - परशक्तिपातानुगृहीतो वेत्ति यः एतज्ज्ञानमेव हि दीक्षा कान्यात्र दीक्षा अत एव एवं जानन् विभुना भैरवभट्टारकेण दीक्षितोऽत एव स्वयं [यदुक्तम् स्वयंगृहीतमन्त्राश्च क्लिश्यन्ते चाल्पबुद्धयः | लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः || संकेतबलतो नास्य पुस्तकात्प्रथते महः | इति | तथा पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः | तापसाः परहिंसादिवश्या इह चरन्त्यलम् | न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् || इति |] गृहीतमन्त्रश्च - इत्येतद्धृदयातिरिक्तमन्त्रविषयम् नहि अयं मन्त्रो - हृदयमयत्वात् मन्त्रमहेशतन्महेशरूपोत्तीर्णत्वात् अस्य पुस्तकेष्वलेख्यमेवेदं हृदयमिति परशक्तिपातानुग्रहादेव एतल्लाभस्तत्त्वत इति निर्णीतम् | तथा यः कश्चिदिति - जातिव्रतचर्यादिनैरपेक्ष्यमत्र वेदनमेव प्. २५३) हि प्रधानम् स सिद्धिभाक् योगी - योगमेकत्वमिच्छन्ति इति यतो - ज्ञानदानमायाक्षपणलक्षणा च तस्यैव दीक्षा [यथोक्तम् ददाति ज्ञानसद्भावं क्षिपयत्यखिलं मलम् | दानक्षपणधर्मत्वाद्दीक्षेति हि प्रकीर्तिता || इति |] चकारोऽवधारणे ततश्च सर्वतो मन्तव्यः तदाह - स एव सिद्धिभाग्योगी स एव दीक्षितः नित्यमिति || १८ || अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः | सर्वाभिः देवताभिः सर्वशक्तिभिश्च सर्वज्ञैरसौ ज्ञायते एतज्जानन्नेव तैरपि यत्किंचित् ज्ञायते तदनेन ज्ञातमात्रेण ज्ञायते इति प्राग्वत् | सर्वाभिः शक्तिभिरिति करणे तृतीया || प्. २५४) तथा शाकिनीकुलसामान्यो भवेद्योगं विनापि हि || १९ || अनेन ज्ञातमात्रेण योगमाभ्यासिकं मायीयदेहपातावाप्ततदैक्यरूपं च विनापि शाकिनीकुलस्य - विशेषस्पन्दात्मनः सामान्यस्पन्दरूपोऽकुलरूपः शक्तिचक्रेश्वरो भवेदिति || १९ || किं च अविधिज्ञो विधानज्ञो जायते यजनं प्रति || २० || विधिः - क्रिया ज्ञानं तद्यस्य द्वयं नास्ति स पशुः यथोक्तं किरणायाम् पशुर्नित्यो ह्यमूर्तोऽज्ञो निष्क्रियो निर्गुणः प्रभुः | व्यापी मायोदरान्तःस्थो भोगोपायविचिन्तकः || इति स पशुरपि अनेन ज्ञातमात्रेण विधानं ज्ञा च यस्य स - कर्ता ज्ञाता च विषयसंगतकरणं प्. २५५) प्रति जायते यजनं च अस्यापूर्णमपि पूर्णं भवतीति - सर्वमयत्वात् हृदयस्य || २० || तथाहि कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् | शिवो विश्वाद्यनन्तान्तः परं शक्तित्रयं मतम् || २१ || कालाग्नेर्धरातत्त्वादिभुवनात् मायातत्त्वं यावत् ब्रह्मनः सकारस्य देहे विश्वभुवनात् विद्यातत्त्वादेरारभ्य यावत् शिवोऽनाश्रितशक्तिरूपः अनन्तस्य - अकारस्य अन्तः परं विसर्गात्मकं शक्तित्रयं तच्च परम् उक्तं च सार्गेण इत्यादि || २१ || तदन्तर्वर्ति यत्किंचित्शुद्धमार्गे व्यवस्थितम् | अणुर्विशुद्धमचिरादैश्वरं ज्ञानमश्नुते || २२ || प्. २५६) यत् किंचिद्वस्तु व्यवस्थितं [विचित्रावस्था संजातास्येति व्यवस्थितं तारकादित्वादितच् |] विचित्रावस्थं तत् हृदयबीजान्तर्वर्ति शुद्धं भवेत् तदेव चैश्वरं ज्ञानम् अणुः - अण्यते प्राणिति अणति नदति परिमितोच्चारात् मूर्धन्यो भगवत्प्रभावादचिरादेव प्राप्नोति [नदनरूपतया मूर्धन्यो भवन् ऐश्वरं ज्ञानमचिरात् प्राप्नोति न तु शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता | निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृर्तात्ययात् || इत्यादिनीत्या विशुद्धबोधात्मकत्वमेव यथा च श्रीस्पन्दसूत्रेषु तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || इति | अयमेव च ब्रह्मज्ञानशिवज्ञानयोरन्योन्यं भेदः तथाहि - मायोत्तीर्णतायां हि तत्रैकत्र ब्रह्माप्तिरपरत्र च विज्ञानाकलावस्थेति सूक्ष्मबोधतां विवेच्योऽन्नेदृशः क्रमः अपराबोधेऽपि न कश्चिद्दोष इति |] || २२ || प्. २५७) कथम् तच्चोदकः [अयमत्राभिप्रायः - तस्यैश्वर्यस्य चोदको गुरुरेव शिवो ज्ञेयः विशुद्धस्वरूपतायां लब्धायां स्वातन्त्र्यलक्षणमैश्वर्यं यद्यपि अयत्नसिद्धमेव तथापि तत्र द्वयी गतिः - नियतिरागतः यथोक्तम् वैष्णवाद्याः समस्तास्ते विद्यारागेण रञ्जिताः | न विदस्ति परं तत्त्वम् * * * * * * * * (?) || इति तदर्थमेव चोक्तं तच्चोदक इति तथोक्तम् मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् | इति तदर्थमेव चात्र तच्चोदक इति तेन न केवलं ज्ञानमेव स्वविमर्शलक्षणं स्वभावहेतुरित्युक्तेर्भावनाप्राधान्यं शैवशास्त्रेषु कथ्यते तत एष चोक्तं स्वतः शास्त्रतो गुरुत इति सम्यक् ज्ञानम् इति |] शिवो ज्ञेयः सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः || २३ || यः - तच्चोदको गुरुः स शिव एव ज्ञेयः शिव एव तच्चोदकः स चाज्ञेयौ ज्ञातैव स्वायतनः - स्वान् अयान् विज्ञानरूपान् भावांस्तनोतीति | सर्वं चैतद्विस्तरतो निर्णीतमेव || २३ || प्. २५८) एवं विस्तरशोऽभिधाय तात्पर्येण निगमयति [निगमयतीति - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि परप्रतिपत्तये पञ्चावयवास्तर्कस्य इति तत्रावयवचतुष्कसिद्धार्थगर्भीकारेण साध्योपसंहरणं निगमनं तेन - सिद्धमर्थं साधयति निगमयतीत्यर्थः |] यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः | तथा हृदयबीजस्थं जगदेतच्चराचरम् || २४ || एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी | दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता || २५ || इह असत् [यथा शिवदृष्टौ शशशृङ्गादिकेनापि विभोरस्ति समन्वयः | इति | तथा अल्पातिर्यदि न ख्याति ख्यातिरेवावशिष्यते | ख्यातिश्चेत्स्न्याति रूपत्वात्स्न्यातिरेवावशिष्यते || तथा कः सद्भावविशेषः कुसुमाद्भवति गगनकुसुमस्य | यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् || इति | तथा विश्वोन्मेषदशायां दैशिकनाथस्य यावान्प्रसरः | कलिलावस्थायां विश्वनिमेषेऽपि तावान्भवति || इति मयूराण्डरसन्यायोऽन्न स्फुटं सिद्ध इति बोध्यम् |] तावन्न किंचित् - इत्युक्तं विश्वं प्. २५९) च विश्वात्मकमिति ततश्च यथा वटबीजे तत्समुचितेनैव वपुषा अङ्कुरविटपपत्रफलानि तिष्ठन्ति एवं विश्वमिदं हृदयान्तः एवं परिज्ञानमेव असंदिग्धा निर्वाणदीक्षा यथोक्तम् इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदीक्षा च शिवसद्भावदायिनी || इति | अन्या अपि दीक्षा भोगान् वितरेयुरपि एतत्परिज्ञानमेव तु तत्त्वतो दीक्षेति तत एवात्र सर्वोत्तरत्वं - कुलशास्त्रेभ्योऽपि आधिक्यात् यथाहि तुलाङ्केषु ऊर्ध्वमूर्ध्वं परिमितेऽपि उन्नत्यवनतियोगेऽनन्तमन्तरं परिमाणस्य भवति प्. २६०) एवमूर्ध्वोर्ध्वतत्त्वेषु देशकालभोगसंवेदनानाम् अनन्तमेवान्तरमित्ति एवमेवाधिकीभवेत् षट्त्रिंशतोऽपि अधिकं भवेदिति यतश्च संवेदनमेव दीक्षा तत एव उक्तमेतत्संविदनुप्रविष्टो वीरो वा योगिनी वा निजपरसत्तासततोदिता मायीयबाह्यान्तःकरणरश्मिदेवताद्वादशकचक्रेश्वरपरभैरवभट्टार- कात्मकनिर्णीततत्त्वाहंरूपानुगृहीतेन कृतदीक्षादाविति एवमनुत्तरपदमुत्तररूपापरित्यागेनैव यथा भवति तथा व्याससमासाभ्यां भूयसा निर्णीतम् अधुना तु इदं वक्तव्यमुच्यते तावत्सर्वशास्त्रेषु मनुष्यदेहमास्थाय च्छन्नास्ते परमेश्वराः | निर्वीर्यमपि ये हार्दं त्रिकार्थं समुपासते || इति तत्कथमस्योपासा तथापि चानुत्तरसत्तयात्रापि भाव्यम् अनुत्तरत्त्वादेव सा च कथम् (?) इत्याकाङ्क्षां निर्णिनीषुर्ग्रन्थान्तरमवतारयति मूर्ध्नि वक्त्रे च हृदये गुह्ये मूर्तौ तथैव च | न्यासं कृत्वा शिखां बद्ध्वा सप्तविंशतिमन्त्रिताम् || २६ || प्. २६१) एकैकं तु दिशां बन्धं दशानामपि योजयेत् | तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये || २७ || शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः | पुष्पादिकं क्रमात्सर्वं लिङ्गे वा स्थण्डिलेऽथ वा || २८ || चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना | तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः || २९ || सृष्टिं तु संपुटीकृत्य पश्चाद्यजनमारभेत् | सर्वतत्त्वसुसंपूर्णां सर्वाभरणभूषिताम् || ३० || प्. २६२) यजेद्देवीं महेशानीं सप्तविंशतिमन्त्रिताम् | ततः सुगन्धिपुष्पैस्तु यथाशक्त्या समर्चयेत् || ३१ || पूजयेत्परया भक्त्या आत्मानं च निवेदयेत् | एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः || ३२ || मूर्धादीनि बाह्यतयोचितरूपाणि वस्तुतः परंब्रह्मरूपाभिहितपञ्चात्मकव्योमादिधरण्यन्तसतत्त्वेशानादिसार- चिदुन्मेषेच्छाज्ञानक्रियारूपाण्येव - मन्त्रलिङ्गात् यथा मन्त्राः १ ईशानमूर्ध्ने २ तत्पुरुषवक्त्राय ३ अघोरहृदयाय ४ वामदेवगुहाय ५ सद्योजातमूर्तये प्. २६३) इति तत्रैतत्पञ्चकाविभागात्मकमुपक्रमोपसंहारयोः रूपमिति द्वे मध्ये च प्रोल्लसति विभागत्वे पञ्चानामेकैकशः पञ्चात्मकता - इति पञ्चविंशतिः | अत्रैव मालिन्यादिमन्त्राणामनुप्रवेशः | तिस्रश्च देव्यः प्रत्येकमिच्छादित्रययोगात् नवात्मतां प्राप्ताः पुनरपि सृष्टिस्थितिसंहृतिवशात् त्रैधमापन्ना इति सप्तविंशतिसंस्मृतहृद्बीजेन शिखाया - एवंरूपधरण्यन्तपरिकल्पनस्वातन्त्र्यरूपायाः परिचिद्बुद्धिस्पर्शप्राणब्रह्मरन्ध्रवाहरूपैरुपचर्यमाणायाः बन्धनं - सर्वाविभागसारं तादात्म्यम् मूर्धादिषु केवलेष्वपि प्रत्येकं सर्वाणि वक्त्रादीनि परस्परं विशेषणानि तच्च निर्णीतमेव सर्वसर्वात्मकत्वनिर्णयेनैव दिश्यमाना घटाद्या एव दिशः तास्च स्वापेषया दशैव भवन्ति तत्रापि एतदेव बन्धनम् - आत्मसाक्षात्कारात्मकम् एतच्च तालत्रयेण ताला प्रतिष्ठाविश्रान्तिः तत्र सकारादि हृदयमेव तच्च प्. २६४) सशब्दं मध्यमान्तं शब्दनं हि शब्दः तच्च मध्यमैव - वैखर्याः तच्छेषात्मकत्वात् - इत्युक्तं बहुशः | एषा च विघ्नानाम् - अभेदात्मनि अखण्डिते परमात्मनि खण्डनात्मकसंकोचसारभेदकल्लोलकलङ्कानां शान्तिः - अभेदभैरवार्णवतादात्म्यमेव यदाहुः श्रीसोमानन्दपादाः अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे | शिवः करोतु परया नमः शक्त्या ततात्मने || इति | एवमेव सप्तविंशतिजप्तं तोयमित्यर्घपात्रविधिः तोयमत्र सर्वमेव हृदयद्रवात्म - अनियन्त्रितत्वात् असंकोचदानाच्च पुष्पं व्याख्यातम् लिङ्गं च * * * * * * * * (?) यत्र लीनं चराचरम् | इत्येतदपि निर्णीअमेव विश्वात्मनि तत्त्वे आसि-क्रियायामधिकरणस्य कर्तुश्च आसनस्य स्वातन्त्र्यात् कल्प्यमानस्य स्वातन्त्र्येण कल्प्यमानत्वं प्. २६५) चतुर्दशेन औकारेण - तस्यैव त्रिशूलरूपत्वात् इत्युक्तमेव | सृष्टिः - आदिक्षान्ततादात्म्यमयं हृदयं शक्तिर्गुह्यमिति वीरत्वम् अत एव आसनमपि सर्वं तत्रैव - आधाराधेययोः परस्परैकरूपत्वात् यथोक्तम् सर्वभूतस्थमात्मानम् * * * * * * * * (?) | इत्यादि - संपुटीकरणसृष्टेरादिक्षान्तायाः प्रत्येकं स्र्वशश्च हृदयबीजेन परतत्त्व एवोल्लासात् संहाराच्च न चानवस्थेत्युक्तमेव सृष्टेश्च संपुटीकरणमुभयसंघट्टक्षोभानन्दरूपं तदुत्थद्रव्योपयोगोऽपि क्त्वा अत्र शब्दप्रतीतिपौर्वापर्यमात्रे सर्वतत्त्वैः सुष्ठु अभेदेन सम्यगनपायितया पूर्णत्वं सर्वत्र च परमाणावपि यदा समन्तात् भरणं - सर्वात्मीकरणं सर्वैर्वा घटसुखतिर्यङ्नरविरिञ्चिविष्णुरुद्रमन्त्रसदाशिवादिप्रमातृरूपैः अवयवमानैरहमेकरससावयवित्वं निर्णीतमेव अत एव विशिष्टाकृत्यायुधादिध्यानमत्र नोक्तम् - तस्य निर्मेयत्वात् आरुरुक्षुरेतावत्त्रिकार्थाभिलाषुकश्च प्. २६६) कथमारोहतु (?) इति चेत् - कस्यायमर्थिभावो मा तर्हि आरुक्षत् सिद्धातन्त्रादिविधिमेव तदाशयेनैव निरूपिततद्ध्यानादिसंकोचमालम्बताम् असंकोचितानुत्तरपदे हि अनधिकृत एव एष एव सदोदितो योगः गन्धपुष्पादि निर्णीतम् यथा-शब्दः सहार्थे तृतीया च तत्रैवोक्ता परयैव हृदयरूपया पूजयेत् कथं (?) भक्त्या - तादात्म्यानुप्रवेशप्रह्वतात्मना भक्त्या स्वयं-कॢप्तेन पूज्यपूजकविभागेन पूज्यो हि स्वयं सृज्यते स परं स्वतन्त्रचिन्मयतापरमार्थ एव - अनुत्तरस्वातन्त्र्यबलात् न घटादिरिव जड इति विशेषोऽत्र तदुक्तं श्रीप्रत्यभिज्ञायाम् स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् [उत्तरस्याप्यनुत्तरमित्यस्य व्याख्याने प्रागेवोक्तमेतत् |] || इति | भक्त्या च लक्षणया पूजनेन परं तत्त्वं लक्ष्यते - सर्वक्रियास्वेवंरूपताप्रत्यभिज्ञानमुपायत्वात् लिप्यक्षरस्येव मायीयवर्णव्युत्पत्तौ तस्यापि च वर्णवीर्यानुप्रवेश इवात्मानं निवेदयेत् - प्. २६७) अन्यस्य निवेद्यस्याभावात् एवं च आत्मानमेव निःशेषेण निरुत्तरपदं वेदयेत् - अनुत्तरसत्तानुसारेण अत्र संभावनायां लिङ् - सततमेवंमयत्वेनैवावस्थितेः इति हि उक्तम् उपासानुसारेण तु नियोगादावपि | एवम् आ - समन्तात् सर्वत्र सदा यत् ख्यातं पारमार्थिकशुद्धशिवस्वरूपप्रथात्मिका ख्यातिः तदेव यजनं परभैरवसंविद्देवतायाः पूजनात् तया च तादात्म्यसम्यग्गमनरूपताकरणात् सर्वत्र च परिमितात्मीयात्मरूपस्वत्वनिवृत्त्या परिपूर्णचिद्घनशिवशक्त्यात्मकात्मीयरूपपरस्वत्वापादनात्मकात् दानाच्च एतदेव अग्निकार्यं - सर्ववासनाबीजानां सर्वपदार्थेन्धनग्रासलाम्पट्यजाज्वल्यमाने शिवसंघट्टक्षोभक्षुभितपरशक्त्यरणिसततसमुदितपरभैरवमहामहसि सर्वाभिष्वङ्गरूपमहास्नेहाज्यप्राज्यप्रतापे हवनात् अन्तर्दाहात् अयमेव अग्निकार्ये विधिर्दीक्षापर्यन्तोऽपि नान्यः पृथक् कश्चित् - इति तात्पर्यम् | प्. २६८) स्वस्वरूपपरिज्ञानं मन्त्रोऽयं पारमार्थिकः | दीक्षेयमेष योगश्च क्रियायामप्यनुत्तरः || अत व प्रागेवोक्तम् [अत्र देहलीदीपन्यायेन नशब्दो योजनीयस्तेन न गुणमावहति न वा खण्डनामावहतीत्यर्थः |] - यथन्यत्र मन्त्रोपासादिक्रियोत्तरेण ज्ञानग्रन्थेनोत्तीर्यते नैवमिहेति यदुक्तम् उत्तरस्याप्यनुत्तरम् इति सूत्रे तदेवैतदन्तेन ग्रन्थेन निर्व्यूढं - हृदयस्यैव यागदीक्षाक्रियारूपत्वात् [द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यते इति रूपत्वशब्दस्य प्रत्येकमत्र संबन्धः |] तस्य चानुत्तरत्वात् | श्रीसोमानन्दपादैस्तु स्रुक्स्रुवसंस्कारादि [शिवशक्तिरूपौ हि स्रुक्स्रुवौ परस्परौन्मुख्येन स्थापनीयाविति बाह्येऽपि क्रमः |] सर्वंसहत्वप्रतिपादनेनापि अखण्डितत्वाभिप्रायेण निरूपितम् एवमादौ अङ्गहृद्भेदधूलिभेदाद्यपि [चूर्णिकादिभेदो न्यासरूपः |] तद्रूपं युज्यते न किंचिदत्र नाप्युपपद्यते नाप्यस्ति नाप्यधरशास्त्रपातित्वेन तदुपजीवकत्वम् इति निर्णीतप्रायमेव || प्. २६९) किमेवमुपासायां भवति (?) इत्यवतरति कृतपूजाविधिः सम्यक्स्मरन्बीजं प्रसिद्ध्यति | एवमनवरतं व्यवहारेष्वपि बीजं स्मरन्नेव - स्मरणादेव कृतपूजाविधिः प्रकर्षेणान्यकुलशास्त्रादिशैववैष्णवान्तशास्त्रातिरेकेणैव भगवद्भैरवभट्टारकरूपसमाविष्टः निजपरसंविच्चमत्कारवशनिर्मितभावक्रीडाडम्बरो जीवन्मुक्त एव प्रथमोक्तनयेन भवति इत्यनुभव एवायमावर्तते न त्वन्यत् किंचिदिति स्मरणम् उक्तम् | श्रीमतशास्त्रेष्वेवमेव उपासकस्त्वननुप्रविष्टवीर्यसत्तासारहृदयोऽपि क्रमपूजामाहात्म्यात् बीजं सम्यक् स्मरन् प्राप्तहृदयाख्यतत्त्वमन्त्रवीर्यः प्रकर्षेण सिद्ध्यति - क्रमपूजामाहात्म्यादेव तारतम्यातिशयात् स्वयं वा प्रसन्नगुरुभट्टारकवदनकमलाद्वा प्. २७०) मन्त्रवीर्यं हृदयात्मकमासादयति जीवन्मुक्तश्च भवतीति यावत् | अत्र द्वारपरिवारगुरुपूजनं गुणं खण्डनां [संकोच्यान्तर्मुखीकृत्य विकास्य बहिर्मुखीकृत्य हृष्यति स्वात्मन्यानन्दातिशयमनुभवति तथैवोभयस्य भैरवस्य भैरव्याश्च महानन्दं विसर्गभुवमित्यर्थः | एतदेव हि नामास्य परस्य प्रकाशस्यानन्यसाधारणं रूपं तत् सदैव सृष्टिसंहारकारित्वमिति अन्यथा हि अस्य जडेभ्यो वैलक्षण्यं न स्यादिति |] वा न वहति तत एव भट्टपादैः न्यरूपि | अत्र तु कुलपर्वाणि [पूरणाद्विधेः पर्व तच्च षोढा - सामान्यं सामान्यसामान्यं सामान्यविशेषो विशेषसामान्यं विशेषो विशेषविशेष इति एतच्चान्यत्र विस्तरतो निरूपितम् | तद्विधिः यथादृष्टमण्डलोऽपि पर्वदिनानि पूजयन् वर्षादेव पुत्रकोक्तं फलमेति विना संध्यानुष्ठानादिभिरिति तथा पवित्रकविधिः विधिपूर्वकः परमेश्वराज्ञापूरकश्च यथोक्तम् विना पवित्रकेण सर्वं निष्फलमिति तत्र कालपरिच्छेदोऽन्यत्रान्वेष्यः तद्विधिर्यथा सुवर्णमुक्तारत्नविरचितात् प्रभृति पट्टसूत्रकार्पासकुशान्तमपि कुर्यात् तच्च तत्त्वसंख्याग्रन्थिकं सति विभवे मासि मासि पवित्रकम् अथवा चतुर्षु मासेषु सकृद्वा तदकरणे प्रायश्चित्तं जपेत् ज्ञान्यपि संभवद्वित्तोऽप्यकरणे प्रत्यवैति ज्ञाननिन्दापत्तिश्च |] पवित्रं चेति सम्यक्त्वं पूजाविधेः यत्रान्तरखिलं भाति यच्च सर्वत्र भासते | स्फुरत्तैव हि सा ह्येका हृदयं परमं बुधाः || प्. २७१) रासभी वडवा वापि स्वं जगज्जन्मधाम यत् | समकालं विकास्यैव संकोच्य [वीर्यलक्षणम् |] हृदि हृष्यति || तथोभयमहानन्दसौषुम्नहृदयान्नरे | स्पन्दमानमुपासीत हृदयं सृष्टिलक्षणम् || ध्यायन्स्मरन्प्रविमृशन्कुर्वन्वा यत्र कुत्रचित् | विश्रान्तिमेति यस्मांच्च प्रोल्लसेद्धृदयं तु तत् [उक्तं च एकीकृतमहामूलशूलवैसर्गिके हृदि | परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः || अथ तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् | प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् || अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते | चिद्विमर्शः पराहंकृत् प्रथमोल्लासिनि स्फुरेत् || इति |] || तदेकमेव यत्रैतज्ज्ञानं वैकल्पितं परम् | तत्त्वानि भुवनाभोगाः शिवादिपशुमातरः || स्वं स्वं विचित्रं विन्दन्तः स्वरूपं पारमार्थिकम् | चित्रीकुर्वन्त्येव यान्ति तां चित्रां संविदं पराम् || प्. २७२) दशाद्रव्यक्रियास्थानज्ञानादिष्वपि सर्वशः | अशङ्कयैव संक्रामः पूजास्य सततोदिता || क्रमपूजनमात्रं च कुलपर्वपवित्रकैः | सहात्र पूजने प्रोक्तं सम्यक्त्वं त्रिकशासने || यथोक्तम् द्रवाणामिव शारीरं [पदमिति व्याकरणम् | वाक्यं मीमांसा | प्रमाणं तर्कः |] वर्णानां सृष्टिबीजकम् | शासनानां त्रिकं शास्त्रं मोक्षाणां भैरवी स्थितिः || उपासायाः समापत्तिर्व्रतानां वीरवृत्तिता | तथैव पर्वमध्ये तु कुलपर्वाणि शासने || सर्वेषां चापि यागानां पूरणाय पवित्रकम् | पवित्रकं न कुर्वन्ति चतुस्त्रिद्विःसकृत्तु ये || कुलपर्व न जानन्ति तेषां वीर्यं न रोहति | फुर-इ फुरणम अलह का-अब्बह पर देउ सोहि औस मगाह सव्य काल नीसंकस-ऊ सहजा जाणु पूजस पज्ज इ इ उ उ ह || एवमनुत्तरस्वरूपं विस्तरतो निर्णीतं - यत्र भावनाद्यनवकाशः प्रसंख्यानमात्रमेव दृढचमत्कारलक्षणहृदयङ्गमतात्मकप्रतिपत्तिदार्ढ्यपर्यन्तं यत्रोपायधौरेयधाराधराणि धत्ते सिद्धिप्रेप्सुषु तु योगो वक्तव्यः - स्वातन्त्र्यानीयमानास्वपि दृष्टयोगसिद्धिषु लौकिकप्रसिद्धिनियत्युत्तरत्वेऽपि पारमेशव्यवस्थारूपनियत्यनतिक्रमात् यदुक्तं शिवदृष्टौ तथापि चित्रकर्मार्थमुपायो वाच्य आदरात् | इति तत्रापि चानुत्तररूपस्य नास्ति खण्डना काचित् - दृष्टसिद्धीप्सायत्नस्येव तदाप्तितत्फलविश्रान्त्यादेरपि परैकमयत्वात् किन्तु जीवन्मुक्तापेक्षया मन्दशक्तिपातोऽसावुच्येत अपूर्णप्रायत्वात् || तं योगमार्गं निरूपयितुं ग्रन्थशेषोऽवतरति आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् | हृत्पद्मान्तर्गतं ध्यायेत्सोमांशं नित्यमभ्यस्येत् || ३३ || प्. २७४) एतदेव हृदयंबीजं दीपकाभावात् गमागमशून्यत्वात् सततोदितत्वाच्च अनाद्यन्तं तदेव विकसत् परिपूर्णत्वं यातं तिथीनां मध्यगं - हृदयत्वात् तदेव संकोचविकासधर्मोपचरितपद्मभावे कन्दे गुह्ये हृदैव ध्यायेत् किं च अस्य ध्यानमाह सोमांशं षोडशकलात्मकं सोमरूपम् अभितः समन्तादस्येत् क्षिपेत् - परिपूर्णचन्द्रस्यास्य हृत्कर्णिकानिवेशिकलया स्वस्वद्वादशान्तगपुष्पाद्युदयस्थानात् आहृतामृतस्पर्शः प्रोद्यन्नादानुसारचुम्बिकालक्षणकाकचञ्चुपुटमुद्रामुद्रितः पुनस्तदपसृतशिशिरामृतरसास्वादविकस्वरहार्दसोमप्रसरन्नादनिर्मथित- सुधापानपूरितचन्द्रमाः पुनः सूर्यकलोदयमयानच्कसकारमात्रविश्रान्तो रोमाञ्चस्तोभोत्पतनर्वाष्पकम्पस्तम्भाद्यनुगृहीतदेहोऽभ्यासं कुर्यादिति भट्टधनेश्वरशर्मा | आद्यन्तरहितं सकारमात्रं षोडशाकारादितिथिसहितं कलाग्रासक्रमेण हृदयेऽन्तर्निक्षिपेत् नालिकाजलाकर्षणवत् चलनकम्पनस्पन्दनसमाविष्टमूलाधारत्रिकोणभद्रकन्दहृन्मुखमुद्रासु प्. २७५) युगपदेव विलंम्बितमध्यद्रुततरतदतिशयादिधाराप्राप्तिवशगलितसूर्यसोमक- लाजालग्रासे आद्यन्तरहितं कृत्वा आद्यन्ताभ्यामेतद्बीजमातृकापेक्षया औकारसकाराभ्यां रहितं विश्लेषणयुक्तिलब्धवीर्यपरिचयं ध्रुवं विसर्गात्मकं विकसतां पञ्चदशानां तिथीनां यन्मध्यं तिथिरहितमेव ग्रस्तकालं षोडशं ततोऽपि गच्छति यत् सप्तदशी कला इत्युक्तम् सोमस्य षोडशात्मकम् आमृतमंशं हृत्कमले ध्यायेत् तदेव नित्यमभ्यस्येदित्यस्मद्गुरवः तथाहि - सहोमया भगवत्या संघट्टात्मकसमापत्तिक्षोभेण तत्त्वनिर्मथनात्मना वर्तते इति सोमो भट्टारकः तस्य समग्रभावावयविनः परिपूर्णाहमात्मनोंऽशो नीलसुखादिः तदेवमभ्यस्यति स्वस्वरूपावर्तनसृष्टिसंहारावर्तचक्राक्षमालिकया पुनः पुनरावर्तयतीति यत् सत्यं भाव्यते स एव एष सततोदितो हृदयजपः संभावनायां लिङ् | प्. २७६) अन्ये तु हृत्स्थानात् द्वादशान्तं यश्चारः षट्त्रिंशदङ्गुलः तत्र सूर्यरूपतयोल्लास्य बहिरर्धतुटिमात्रं विश्रम्य अविनाश्यमृताख्यविसर्गरूपसोमकलोदये सपादाङ्गुलद्वितयमात्रायां तुटौ तुटौ प्रत्येकं चन्द्रकलापरिपूरणे पञ्चदश्यां तुटौ पूर्णायां हृत्पद्मे पूर्णश्च भवति अर्धतुटिमात्रं च तत्रापि विश्रान्तिः एवं षोडशतुट्यात्मा षट्त्रिंशदङ्गुलश्चारो भवति इत्यवस्थायामाद्यन्तरहितम् अनस्तमितत्वात् विकसत्सु द्वितीयादिषु अन्तर्गतं सोमांशं विसर्गरूपं हृत्पद्ममध्ये विश्लिष्य सप्तदशात्मकं परिशीलनेन ध्यायन् कलाग्रासाभ्यासं कुर्यात् इत्यादि समादिशन् सर्वं चैतत् युक्तमेव मन्तव्यम् | अत्र चावृत्त्यानन्तं व्याख्यानं सूत्रत्वादुपपन्नमेव यत उक्तम् अनन्तार्थसूत्रणात्सूत्रम् इति त्रिंशिका चानुत्तरसूत्रम् इति गुरवः | एवं पूर्वेष्वपि श्लोकसूत्रेषु || ३३ || प्. २७७) किम् इत्थमभ्यासे सति भवति (?) इत्याह यान्यान्कामयते कामांस्तांस्ताञ्छीघ्रमवाप्नुयात् | अस्मात्प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः || ३४ || एवमभ्यासात् यद्यत्कामयते तत्तदचिरादेव तथाविधसर्वमयहृदयवीर्यसमुच्छलितेच्छाप्रसरावष्टम्भविशेषबलोद्योग- संरम्भसोत्साहः पुनः पुनः तत्स्थितिरूढिरूपाभ्यासात् प्राप्नोति किं बहुना सर्वज्ञत्वं - परभैरवात्मकत्वमनेनैव देहेन इति सर्वमुक्त्वोपसंह्रियते पर्यन्ते हि प्रसरस्योपसंहारे विश्रान्तिरूपाकुलसत्तासादने भैरवता - इत्युक्तमसकृत् || ३४ || सोऽयमुपसंहारग्रन्थः एवं मन्त्रफलावाप्तिरित्येतद्रुद्रयामलम् | एतदभ्यासतः सिद्धिः सर्वज्ञत्वमवाप्यते || ३५ || प्. २७८) मन्त्राणां शास्त्रान्तरीयाणां वर्णानां च फलमेवमवाप्यते नान्यथेति समाप्तौ रुद्रस्य रुद्रांयाश्च यद्यामलं - संघट्टः निर्विभागप्रश्नोत्तररूपस्वरूपामर्शनप्रसरात् आरभ्य यावद्बहिरनन्तापरिगणनीयसृष्टिसंहारशतभासनं यत्रान्तः तदेतदकुलोपसंहृतमेव - इति प्रसंख्याननिगमनम् | एतदभ्यासात्सर्वज्ञत्वम् इति योगफलनिगमनम् | सततोदितं हि एतत्सर्वस्य इति शिवम् || इत्थं प्रपन्नजनतोद्धरणप्रवृत्तश्रीमन्महेश्वरपदाम्बुजचञ्चुरीकः | वृत्तिं व्यधात्त्रिकरहस्यविमर्शगर्भां काश्मीरिकाच्चुखलकादधिगम्य जन्म || १ || एतावदेतदिति कस्तुलयेत्प्रसह्य श्रीशांभवं गतमनर्गलिताश्च वाचः | एतत्तु तावदखिलात्मनि भाति यन्मे भातं ततोऽत्र सुधियो न पराङ्मुखाः स्युः || २ || प्. २७९) अज्ञस्य संशयविपर्ययभागिनो वा ज्ञान. प्रकम्परहितं प्रकरोति सम्यक् | रूढस्य निश्चयवतो हृदयप्रतिष्ठां संवादिनीं प्रकुरुते कृतिरीदृशीयम् || ३ || एतावदर्थरससंकलनाधिरूढधाराधिरूढहृदयो विमृशेदतोऽपि | यद्युत्तरं तदपि नैव सहेत नेदं सोपानमेतदमलं पदमारुरुक्षोः || ४ || कश्मीरेषु यशस्करस्य नृपतेरासीदमात्याग्रणीः श्रीमान्वल्लभ इत्युदाहृततनुर्यः प्राग्र्यजन्मा द्विजः | तस्य स्वाङ्गभवः प्रसिद्धिपदवीपात्रं समग्रैर्गुणैः श्रीशौरिः शिशुचन्द्रचूडचरणध्यानैकरत्नाकरः || ५ || शीलस्यायतनं परस्य यशसो जृम्भास्पदं नर्मभूर्वात्सल्यस्य समग्रलोककरुणाधर्मस्य जन्मस्थितिः | श्रीमद्वत्सलिकाभिधा सहचरी तस्यैव भक्त्युल्लसत्प्रोद्रिक्तान्तरवृत्ति शंकरनुतौ यस्या मनो जृम्भते || ६ || तस्यैवात्मभवो विभावितजगत्सर्गस्थितिः शंकरध्यानार्चापरिचिन्तनैकरसिकः कर्णाभिधानो द्विजः | यो बाल्येऽप्यथ यौवनेऽपि विषयासक्तिं विहाय स्थिरामेनामाश्रयते विमर्शपदवीं संसारनिर्मूलिनीम् || ७ || प्. २८०) भ्राता ममैव शिवशासनरूढचित्तः प्रेप्सुः परात्मनि मनोरथगुप्तनामा | यः शास्त्रतन्त्रमखिलं प्रविवेक्तुकामः प्राप्तुं परं शिवपदं भवभेदनाय || ८ || शिवशास्त्रैकरसिकः पदवाक्यप्रमाणवित् [१] | रामदेवाभिधानश्च भूषितोत्तमजन्मकः || ९ || एतत्प्रियहितकरणप्ररूढहृदयेन यन्मया रचितम् | मार्गप्रदर्शनं तत् सर्वस्य शिवाप्तये भूयात् || १० || अन्तर्व्द्यामत्रिगुप्ताभिधानः प्राप्योत्पत्तिं प्राविशत्प्राग्र्यजन्मा | श्रीकाश्मीरांश्चन्द्रचूडावतारैर्निःसंख्याकैः पावितोपान्तभागान् || ११ || तस्यान्ववाये महति प्रसूताद्वराहगुप्तात्प्रतिलब्धजन्मा | संसारवृत्तान्तपराङ्मुखो यः शिवैकचित्तश्चुखलाभिधानः || १२ || प्. २८१) तस्माद्विवेचितसमस्तपदार्थजाताल्लब्ध्वापि देहपदवीं परमेशपूताम् | प्राप्ताभयोऽभिनवगुप्तपदाभिधानः प्रावेशयश्त्रिकसतत्त्वमिदं निगूढम् || १३ || ये तावत्प्रविवेकवन्ध्यहृदयास्तेभ्यः प्रणामो वरः केऽप्यन्ये प्रविविञ्चते न च गताः पारं ध्हिगेताञ्जडान् | यस्त्वन्यः प्रविमर्शसारपदवीसंभावनासुस्थितो लक्षैकोऽपि स कश्चिदेव सफलीकुर्वीत यत्नं मम || १४ || स्वात्मानं प्रविवेक्तुमप्यलसतां ये बिभ्रति प्रार्थना तान्प्रत्यात्मकदर्थनान्न परतः किंचित्फलं सोष्यते | विश्वस्यास्य विविक्तये स्थिरधियो ये संरभन्ते पुनः तानभ्यर्थयितुं मयैष विहितो मूर्ध्ना प्रणामादरः || १५ || भ्राम्यन्तो भ्रामयन्ति मन्दधिषणास्ते जन्तुचक्रं जडं स्वात्मीकृत्य गुणाभिधानवशतो बद्ध्वा दृढं बन्धनैः | दृष्ट्वेत्थं गुरुभारवाहविधये यातानुयातान्पशून् तत्पाशप्रविकर्तनाय घटितं ज्ञानत्रिशूलं मया || १६ || बहुभिरपि सोऽहमेव भ्रमितस्तत्त्वोपदेशकंमन्यैः | तत्त्वमिति वर्णयुगमपि येषां रसना न पस्पर्श || १७ || परमेश्वरः प्रपन्नप्रोद्धरणकृपाप्रयुक्तगुरुहृदयः | श्रीमान्देवः शंभुर्मामियति नियुक्तवांस्तत्त्वे || १८ || प्. २८२) तत्तत्त्वनिर्मलस्थितिविभागिहृदये स्वयं प्रविष्टमिव | श्रीसोमानन्दमतं विमृश्य मया निबद्धमिदम् || १९ || हंहो हृच्चक्रचारप्रविरचनलसन्निर्भरानन्दपूर्णा देव्योऽस्मत्पाशकोटिप्रविघटनपटुज्ञानशूलोर्ध्वधाराः | चेतोवाक्कायमेतद्विगतभवभयोत्पत्ति युष्मासु सम्यक् प्रोतं यत्तेन मह्यं व्रजत किल हृदि द्राक्प्रसादं प्रसह्य || २० || व्याख्यादिकर्मपरिपाटिपदे नियुक्तो युष्माभिरस्मि गुरुभावमनुप्रविश्य | वाक्चित्तचापलमिदं मम तेन देव्यस्तच्चक्रचारुचतुरस्थितयः क्षमध्वम् || २१ || समाप्तमिदं परात्रिंशिकातत्त्वविवरणम् || शतैरेकोनविंशत्या त्रिंशिकेयं विवेचिता | सर्वेषु त्रिकशास्त्रेषु ग्रन्थीर्निर्दलयिष्यति || इति श्रीपरात्रिंशिका समाप्ता विवृतिश्चात्र तत्र भवत् - श्रीमन्महामाहेश्वराचार्यवर्य-श्रीर्मदभिनवगुप्ताचार्यविरचिता प्. २८३) सद्विद्यानां संश्रये ग्रन्थविद्वद्वव्यूहे ह्रासं कालवृत्त्योपयति | तत्तत्सद्धर्मोद्दिधीर्षैकतानसत्प्रेक्षौजःशालिना कर्मवृत्त्यै || १ || श्रीमत्कश्मीराधिराजेन मुख्यैर्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || तत्राजीवं निर्विशद्भिर्मुकुन्दरामाध्यक्षत्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || (तिलकम्) श्रीमत्स्वात्मशिवार्पणं बोभवीतु | ########### END OF FILE #######