#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00215 Uniform title: parātriśikāvivṛti Commentator : rājānakalakṣmirāma Commentator : lakṣmirāma Manuscript : Statsbibliothek zu Berlin Preussischer Kulturbesitz orientabteilung hs or. 11633 vollst. Description: Notes: This e-text was created by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski from manuscript Hs. Or. 11633 with written permission of the STAATSBIBLIOTHEK ZU BERLIN PREUSSISCHER KULTURBESITZ ORIENTABTEILUNG. Revision 0: Sept. 18, 2010 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### स्थिरित्येतद्रुद्रयामलम् एतदभ्यासतः सिद्धिः सर्वज्ञत्वमवाध्यते || एवं द्विप्रकारपूजनेन | रुद्रश्च रुद्राणी च रुद्रौ तयोः शिवशक्त्योर्यामलमुभयङ्घङ्टात्मकं रूपम् सिद्धिर्बाह्याभ्यन्तरी चेत्योम् तदुक्तं धर्माधर्मान्तरे चित्तं रुधं येन तदा तु सः यद्वक्ति सभवेन् मन्त्रः किं पुनर्मात्रिकोत्थित इति | तथा च श्रुतिः || या वा गुदिता या चानुदिता शिवा नः शन्तमाभव | सुमृडधीका सरस्वति मातेन्योम सन्दृशे इति | हे सरस्वति परब्रह्मणऽविना भाविनि परामर्शात्मिके शक्तेया त्वं वाग्रूपा चित्परामर्शात्मिका उदिता वै खर्यात्मनाऽविर्भूता | या च त्वमनुदिता मध्यमारूपेण सती परैर संवेद्या या च त्वं शिवा चिदात्मपरामर्श परतयादुःख संपर्क शून्यापश्यन्ती रूपा | या च त्वं शन्तमा चिदानन्दघनत्वने परारूपा | सा त्वं नोस्माकं सुमृडधीका विभाविता लौकिकचिदानन्दाभवेत्याशं सा | तथा ते तव स्वरूपस्य व्योमचिदात्म परामर्श विस्मरण लक्षणं छित्रं च तुर्ष्वपि वाक्ष्वामासन्मृशेमाद्राक्षम् त्वत्स्वरूप साक्षात्कारान्नित्यम प्रश्रुतो भूयासमित्याशास्महे || इति श्रीपरात्रिंशिकाविवृती राजानकलक्ष्मीरामविरचिता समाप्ता || संवत् ४३ कान्नत्यैकादश्यां लिखितेयम् || इच्छाज्ञानक्रियाः तिस्रः शक्तीः कायति त्रिंशिका न तु त्रिंशच्छकयोगा त्रिंशिका एतावतो पि त्रिंशिकार्थत्वात् तथा हि श्रीतन्त्रसौरे त्रिंशिकार्थस्त्वया प्रोक्तः सार्वकोटिप्रविस्तर इति ओं श्रीमहागायत्र्यै नमः || ओं यन्मेयं यश्च कार्यं जगदभिलषणीयं प्रकाश्यं प्रमाता कर्तेच्छुः सप्रकाश्यः पर इति न हि सम्भासकाद् भासमन्यत् | इच्छाज्ञानक्रियाहंमयवपुरखिलं भावजातं स्वरूपान्निष्कर्षच्चिद्विमर्शप्रकृति जयति सत्पारमेशं महस्तत् || या सुन्दर्यास्त्रिकूटी स्फुरति हृदि सदोपासनां त्रिलोकी कर्मोपासार्वबोधश्रुतिमनननिदिध्यासनव्यक्तरूपा तस्या वीजेषु पूर्वार्थघटनपरिपाटी मनाङ्मे विधेया नीरोषं तत्र कर्णं वितरत्ति यदि लोको * ये?षानुकम्पा || इह खलु नुत्तरमनहमनिश्कमस्पन्दमप्राणमदेहमविज्ञानं किमपि स्वरूपं प्रतिष्ठितं स्पन्दात्मकं प्रथममासीत् | तेन निजेच्छया वक्ष्यमाणानन्देच्छैषणादिकं विकासयितुं यत् स्वतन्त्रस्वच्छस्वच्छन्दनिराभासस्वरूपात् किमञ्चिच्चलनात्मकः स्पन्दोऽगीकृतः स एवात्युपगमरूपः ओंकारः तदेव समुपशान्तसमस्तप्रपञ्चमोङ्कारतत्त्वं प्रजापतिर्वर्णयति यथा ना सदासीन्नौ सदासीत् तदानीं नासीद् रजो न व्योमपरोवत् | इति तथा न मृत्युरासीन्न मृतं तर्हि न रात्र्याशुह्ना?श्तसीत् प्रकेतुः श्त?नीदवात्तं? स्वधया तदेकं तस्माद् धान्यान्न परः किंचनासतमश्तसीत्तमसा गुढमग्रे प्रकेतं सलिलं सर्वमां इदमिति || श्वयमत्र पदार्थः || शुसङ्घटोनास्तीति ज्ञानं विशेषेणविशेष्यभावसम्बन्धभूषितं शून्यार्थतावस्थायां न बभूव सत्घटोयमिति ज्ञानं नो बभूव यतो रजः लोको नासीत् | न व्योम तथा यदपरं वा पुरग्निजलादिकं तदपि नासीत् | मृत्युशरणं न मृत्युं जन्म तर्हि तदानीं रात्रे दिवसस्य च स्थितिनासीत् | यत् तदानीमासीत् तद् दर्शयति | श्तनीदित्यादिना तदद्वितीयं वस्तुसंविन्मात्रं स्वधया स्वधारूपं विभक्तिव्यत्ययच्छान्मसः अन्नमयमनसोरपि अन्नरूपं अवातमप्राणमानीत् | स प्राणं बभूव अनश्व सप्राणने प्राणस्यापि प्राणभूतं मनसोपि मनोभूतं यत् तत्त्वं तदेवासीदित्यर्थः || प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं मनसो यन्मनो विदुरिति श्रूत्यन्तरात् | सदेव सौम्ये दमद्ध? आसीदिति च यत्रास्ति नास्तीति ज्ञानं विमर्शपदवीं नारोहति सा च शानिर्वचनाहा तदनहत्वेन तमः शब्देन निर्वेश्या तदेव तमश्तसीदित्यादि आदौ तमसान्धकारेण हन्नं?तम आशीत् | अयमर्थः शुद्ध्यमस्यन्ध्यमप्यन्धकारत्यास्तं बभूव तमसो पि ज्ञानं नासीत् | यदि? कश्चिद्ध्रू *?त् येन् किञ्चिन्मात्रमपि नासीत् तर्हि तम एवासीदन्यथा तम आसीदिति सूक्तवाक्यं कथं घटते इति तं प्रत्युक्तम् | प्. २) तमसागूढं च्छन्नं तमोप्यासीत् तमोप्यनुभवगोचरं न बभूव अन्यथा तस्माद्धान्यन्न परः किञ्चनासेत्युक्तं न बभूव तस्मादनिर्वाश्यात् तत्त्वात् | ह प्रसिद्धं अन्यन्किञ्चनापि परस्य कस्यचिन्नासनासीदित्यर्थः सर्वाभावे पि ध्वान्तमेव यदि तर्हि न किञ्चना स इति कथमभिदध्यादिति भावः || ननु यदि तदानीं विश्वं नासीत् तर्हि कथं तस्माद् विश्वरहितात् तत्त्वप्रपञ्चो निर्गतः यत्र हि यन्न सत् तत्र कथं तन्निर्गम इत्याशङ्क्याह प्रकारान्तरेण विश्वं तत्रासीदिति नैवमिति परिहरति प्रकेतं सर्वं सलिलमा इदमिति प्रथममा बहुभवनेच्छातः प्रागीषद्रसात्मकं विश्वमासीत् तदिच्छानन्तरे तु समश्ताद् रसात्मकमिदं सर्वं दृश्यं सलिलं प्रकेतं प्रकृष्ठस्थित्या रसरूपं स्थिरं रसो प्यत्र स्नेहः स च चिद्रूप एव चिद्रसतया विश्वमासीत् | नन्व? दृश्याकारेणोच्छूनं स्थूलमासीत् | आदावन्ते चिद्रसरूपं मध्ये चिद्रसबुद्बुधरूपमित्युक्तेः | एवंविधावस्था समाधिसुप्तिमूर्च्छास्वद्यापि चेत्यते तत्र हि देहप्राणबुद्ध्यादि वा ह्यनीलाद्यन्तरसुखादि विमर्शाभावो स्येव सर्वजनप्रसिद्धः ओङ्कारो ब्रह्मतत्वमिति फलितोऽर्थः || यदुक्तं || यदयमनुत्तरमूर्तिर्निजेच्छया सकलमिदं जगत् द्रष्टुं य स्पन्दे स स्पन्दः प्रथमः शिवतत्वमुश्यते तज्ज्ञैरिति | इयमेवाभ्याकृतदशा भागवतेऽपि पुराणे दर्शिता वेदैः || क इह नुवेदवतावरजन्मलयोग्रसरं यत उदगादृषिर्य मनुदेवगणा उभये तर्हि न सन्न चासदुभयं न च कालजवः किमपि न * ?त्र साश्त्रमव कृश्यशयी तव देति || प्. ३) एवं विधात् पूर्णस्वरूपात् सामान्याभागयुक्त्याद् विशेषभागरहितादीषद्रसात्मकविश्वरूपाच्छुद्धतमात् कामाख्ये इच्छाविशेषः सर्वथा सलिलात्मकः शुद्धतरः प्रादुर्बभूव सोऽपि बहुस्यां प्रजायेयेत्येवं रूपः इति एकाकी नरमास्यहमिति न्यायात् | प्रकाशस्य स्वरूपमात्रविश्रान्तोऽनन्यविषयः स्वात्मप्रकाशताविश्रान्तिस्वरूपो विमर्शः अहमराध्यः शिवतत्त्वं अनन्योन्मुखस्वप्रकाशता विश्रान्तिरोङ्कारः चिदानन्दमयी विश्वभवनस्वभावमयी संविदेव किञ्चिदुच्छूनतां गता सती इच्छाशक्तिरूपा सर्वभावानां बीजभूमिः शक्त्या सं?स्था शक्तिशिवतत्त्वद्वयमेव मन्त्रजल्पनप्रारम्भे ओं क इति वर्णद्वयं शुद्धसंविद्रूपप्रकाशाभिप्रायेण शिवतत्त्वं अहंविमर्शाभिप्रायेण शक्तिरिति यामलिमते शिवशक्ती एतदुक्तं भवति परिपूर्णान्तरमुखनिर्विभागसमैकरसचिन्मात्राद् बहिरवतरणेच्छा लक्षणरसरूपं जलं प्रादुर्भूतम् || इह कश्मिरदेशे गिरिविशेषे कस्मिंश्चित् सदा शून्ये वसन्तग्रीष्मयोः प्रशलज्जले उलूखले सन्ध्यासमये प्रथमश्वेदनमिव इति यावदुक्तं भवेत् तावदागतं ओं क इति अयं दृष्टान्तः दान्द्धान्तिकस्तु कामयोन्यादिप्रकाशवर्णपुञ्जः स्वतन्त्रचैतन्यकामेश्वरस्य स्वशक्तिस्फारणवशेन बहिरावरणं सूचयति इति मन्त्रार्थरहस्योद्घाटनमयोग्यमपि सामान्यजनविषये स्फुटीकर्तुं शिष्योपरोधमुपादत्ते इति स्वयमेव शिवशक्तिपातविद्धान्तःकरणा उपासकवर्याधार्यन्ताम् प्. ४) प्रतिबीजं तु पूर्ववर्णितशृष्टान्तार्थं नैव स्फुटी कुर्मः अग्र एव मन्त्रार्थव्याख्यानेन स्फुटी भविष्यति द्वयमपि कंजलं कामाख्यं पुंसिकः कं शिरोश्शुनोः | चेतनाशक्तेरिच्छा प्रादुर्भाव माह प्रजापति सूक्ते कामस्तदग्रे समवर्तता *?मनसोरेतः प्रथमं यदासीदिति तत्तस्मात् सर्वाभावरूपादग्रे कामः ककारः समवर्तत समजायत अधि बहुभवनभावार्थं तस्मात् कस्मादित्य पेक्षायामाहा यदादिमं वस्तु आदिकारणं सङ्कल्पविकल्पात्मकस्य मनसो भवति उक्तं च पुराणान्तरे अप एव ससज्जार्यौता? सुवीर्यमवा सृजत् तदण्डमभवद्धेमं सहस्रांश्च समप्रभम् || आप्ः सामान्यविषय इच्छात्मको रसः बहुभवनरागः वीर्यमहमिदमित्यादि विमर्शन सामर्थ्यं शक्तिमाया प्रकृति पृथ्वी लक्षणात्मकमण्ड चतुष्टयं हैमं परप्रकाशलक्षण कनकमयम भवत् सूर्य तुल्य प्रकाशं परप्रकाशमयत्वा दण्डस्य ईषन्द्रस्वेदन मात्र सर्वथा स्वेद विशेष तद्घटनभवन घनतरभाव घनतमी भाव क्रमेण सूक्ष्मश्चिद्रस एव ब्रह्माण्ड भेरवाण्ड तया परिणतः सूक्ष्मस्य स्थूलत्व निष्पत्तिरद्यापि सर्वानुभव विषयी भवति पञ्चभूताशयुक्तस्य कोमलस्य शुक्रविन्दोर्योनि प्रक्षिप्तस्य सतः कलिल बुद्बुदाद्यवस्था क्रमेणाति कठोरवगर्थ्यदिपरिणामदर्शनात् | तथा च रसरूपस्य तुहिनस्य क्रमेण कालान्तरेण स्फटिकमणिभावः वीजादेरङ्कुरादिक्रमेण क *?रसाखास्कन्धादि परिणामोपि दृश्यते एत देवस्तुति द्वारागुरुभिरुक्तम् || प्. ५) आश्यानं चिद्रसस्यौघं साकारत्वमुपागतम् जगद्रूपतया यन्मे प्रत्यक्षं भैरवं वपुरिति || आकाशादीनां चिद्घनरूपताभिप्रायेण औपनिषदैरपि ब्रह्मैवाकाशादीनां कारणमित्युक्तम् तथा चैतत्तिरीयोपनिषत् तस्माद्वा एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुस्नायोरग्निरग्नेराप *? अद्यः पृथिवी पृथिव्या ओषधय ओषधिभ्योन्नमित्यादि यश्च कश्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणः स्थित इति ते तिरीय घोषणया योनिक्षिप्तं वीर्यं मन्तर्बहिर्व्याप्य चिन्मात्रजीवोय स्थितः न काचिदत्र विप्रतिपत्तिः || परं तु मासत्रय पर्यन्तं मासचतुष्टयं यावजीवस्या स्फुटत्वं न त्वभावः तदनन्तरं तु यस्मिन्मासे जीवस्पन्दः स्फुटी भवति तत्प्रभृत्येव स्वतन्त्र चिदात्मान्तर्यामीता सृशीं चित्स्पन्दन क्रियां करोति य या ज्ञायते स्पन्दन क्रिययैवघनीभूतयासनैः सनैः जठरेन्द्रिय विषये अवकाशात्मकमाकाशमुत्पद्यते इति सावधानः सर्वोजनश्चेत्यताम् | किं परमेश्वरादाकाशं नोत्पद्यते अपितु उत्पद्यते एवेति सर्वेषामनुभव आकाशोत्पत्तौ सत्यं बीजविन्द्वन्तरूतपरिच्छिन्नाकाशोत्पत्तिः स्पन्दन क्रियया भवति उपाधिना बाह्य महाकाशोत्पत्तिस्तु परमेश्वरात् कथमिति चेत् महाकाशमपि चित्प्रकाशात् सर्वाभासकाद्भासते आकाशजासनं चित्कर्तृकमाकाशजननमेव तस्यभासा सर्वमिदं विभाति इत्युपनिषत् अत प्. ६) एवोक्तं आत्मन आकाशः सम्भूत इति नदि?चित्स्पन्दनं विना तत्रावकाश प्रादुर्भवः प्रथमं विन्दोरसात्मकत्वेनच्छिद्राभावादित्यलं विस्तरेण | यस्यापि व्योमवायवग्निजलभूमिष्वपि कर्तृत्वं साक्षादभिहितं तथापि व्योमाद्युपाधिकश्चिति क्रियाकर्तान्तर्यामी कारणं व्योमादीनां जडत्वेन स्वातन्त्र्या भावात् तथा चाहुर्भारतीतीर्थ पादाः ईश्वरोन्तर्यमयतीत्युक्ते व्योमाद्युपाधिकम् ब्रह्मवाग्वादि हेतुः स्यात् तेजं आदीक्ष्मणादपीति | यद्येवं तर्हि आकाशाद्वायुर्वायोरग्निरित्यादि भूतकर्तृत्वरचना कथं विरचिता स्वभावं विहायोपाधि कल्पनायोगादिति चेत् अनुभवज्ञापनार्थमेतद् इति ध्रूमः एष ह्यनुभवः सर्वस्य अवकाशाभावे स्पन्दनाभावः वंशवेण्वदीनामत्यन्त प्रवलवायु सङ्घट्टै न परस्परं वह्न्युत्पत्तिः सूक्ष्माग्निकरणविषये मुखफुत्कारे प्रक्षेपेण ज्वालातिशयोत्पत्तिः वाक्य सूर्यसन्तापाधिक्ये धृष्ठ्युद्भवः अभ्यन्तर ज्वारादि सन्तापाधिक्ये स्वेदजलोत्पत्तिरित्यादि फलितमेतत् चिदेव घनीभूता आकासादि प्रपञ्च भावेनेति || महारामायणेऽपि इक्ष्वाकुकुलसंवादे यथा || इह सर्वं समं शान्तं चिद्श्योसततमव्ययम् अपर्यन्तमनाभासमासीदस्ति भविष्यति यन्नोन्धं नाप्यधोनाशान तमो न प्रकाशनम् नेतरत्किञ्चिदपि च सर्वमेव सदेव च चिन्मात्रैकात्मना तेन परमेणेश्वरेणनः आद्यन्त मध्यमुक्त न सङ्कल्पश्चेतितः स्वयम् स्थितः सङ्कल्परूपात्मामनो ज्योतिरजस्ततः प्. ७) तेन संकल्पितं व्योम मनसेदं वृहद्वपुः मनोव्योम्नोर्घनतया सम्पन्नः पवनः स्फुरन् मनोव्योमानिल श्लेषात् प्रकाशं बुद्धवांस्ततः तेजोंशभाव सङ्कल्परूपं पश्चात्पयः स्थितम् स चतुष्टयपिण्डोषमनसोण्डतयौ स्थितः अण्डं तत् पद्मजं भूत्वा सम्पन्नं पश्यरोदसी तत्रत्व वयवाभासं मेर्वादीदं महत् स्थितम् जगत्तयेति ब्रह्मैव परिपूर्णं विलोक्यते स्पन्दैर्भाव विकाराद्यैः सविकारमिव स्थितम् इति || फान्दोग्यप्यत एव सिद्धान्तः सर्वं खल्विदं ब्रह्मैतज्जलानीति | अकाशस्यकामोत्पत्तौ किं प्रयोजनमिति चेत् स्वातन्त्र्यमत्र हेतुः | यदपि न किंचिच्चेत्यात्मकमनुत्तरमग्रे आसीत् तत् सत्वे किं प्रमाणं प्रपञ्चज्ञानाभावे तज्ज्ञातुरप्य योग्यत्वादिति चेत् उच्यते | प्रथमं सदेवसोस्येत्यादि वेदान्त वाक्यं प्रमाणातिशयः तदनु सुप्तोर्स्थितस्य मुखशयन प्रबोधस्सृतिरपि प्रमाणं न हि सुप्तसमाध्यादौ स्वात्मनि देहप्राण बुद्ध्यादिकमविमृशति कश्चित् स्वात्मानमपह्नूयात् नाह मासं तदेति | किन्तु मुखमहमस्वाप्सं न किञ्चिदवेदिषमिति मुखशयनानुभवाज्ञानुभवश्चाद्यत न कालीनः सृष्ट्यग्रे पूर्वानुत्तर चित्तत्व सत्वं बोधयति कथं सुप्ति मूर्छादौ समये ज्ञानाभावेपि प्रबोधसमये पूर्वबोधस्सृति द्वार सृष्टि दर्शनं यथा जातं तथैवाग्रेपि प्रपञ्चबोधाभावेपि बोधकसत्तानापोह्न तुं शक्या अन्यथा ज्ञानादि साक्षिणो भावे अस्वाप्समित्युत्तमपुरुषार्थ अहं विमर्शः स्मृतिश्च कथं भवेतामित्यात्मा नित्यत्व ग्रहस्याज्यः इति नित्यश्चिदात्मा सिद्धः || ननु ब्राह्मणत्व जनित्वा गायत्र्या एव जपोभवद्भिः किं न विधीयते न प्. ८) गायत्र्याः परं जप्यमित्युक्तेः सवितु सम्भ?र्गोध्या वाम इति विमर्शत्यागानुपपत्तेरिति किमिति गायत्रीमन्त्रमुप नयनकाले प्रथममुपदिष्टं विहाय ओं क इत्यादि जल्पनारम्भः किमर्थं क इति चेत् सत्यम् एतस्मिन्नपि सति कास्या?श्चिदपिक्षतेरभावात् य एव ब्रह्मवेदो गायत्री श्रेष्ठ्यं बोधयति स एव सौभाग्य विद्यामपि तदेकतया योजयति अथर्वणे हि सवितृपादेन प्रणवः परासृष्टः तद्भर्गपदेन ककारः इति गायत्री सुन्दर्योरभेदान्नामभेद एव न तु वस्तुभेदः शृणु भृग्वङ्गिरो वेदाभिहितां त्रिपुरोपनिषदम् तत्र हि प्रथमं तत् सवितुरित्यादि त्रिपदागायत्र्या एव परोरजस्य सा वदोमिति अन्ये पादमेलनं प्रथमं विधाय तदनु जातवेदसे मन्त्रं? तदनुत्र्यम्बक कूटं पठित्वा गायत्री मन्त्रस्य त्रिपुरात्व षद्घोषितम् तत्सवितुरित्यारभ्यमामृतादित्यन्तमष्टोत्त शताक्षरायाः सुन्दर्यामन्त्रः श्रौतोदर्शितः यदुक्तं तत्र शताक्षरी परा विद्यात्रयी मयी साष्टार्णा त्रिपुरापरमेश्वरी आद्यानि चत्वारि पदानि परब्रह्मविकासितानि द्वितीयानि शाक्ताख्यानि तृतीयानि शैवानि तत्र लोकौः वेदाः शाश्त्राणि पुराणानि धर्माणि वै चिकित्सितानि ज्योतींषि च शिवशक्ति योगादित्येव घटनाध्या पद्यते इति तयी मयी इत्यादेरयमर्थः यथा क ध्र त्रं? ले कूटं हसादिकूटं सादिकूटं च तान्त्रिकमतेन त्रिपुरामन्त्रः तथैवेयं परमेश्वरी त्रिपुरावेदमार्गेणापि त्रयी मयी कूटत्रय मयी भर्गरूप ब्रह्ममन्त्रशक्ति शिवमन्त्रमयी च प्. ९) अत्रापि तदित्यारभ्य सा वदोमित्यन्त आदिकूटं जातवेदसे इत्यारभ्याग्निरित्यन्तं द्वितीयकूटं तदनुत्र्यस्वकमित्यतो मामृतादित्यन्तं तृतीयकूटम् चैवमष्टोत्तरशतं वलाः अत्र श्रौतमन्त्रस्यायं समुदायार्थः प्रथमं चिदर्क प्रकाशरूपं तदनु विमर्शः तदनन्तरं प्रमातृ प्रमाण प्रमेयात्मक सृष्टिद्वया चिन्तनमिति || लोकाश्चतुर्दशविधो भूतगणः अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति मानुष्यश्चैकविधः समासतो भौतिकः सर्ग इति साङ्ख्याभिहितः यद्वा भूरादयः सप्त अतलवितलादयः अधोदेश इति चतुर्दशविधः शास्त्राणीत्यनेन बौद्धनैयायिक साङ्ख्याजैन वैशेषिकजैमिनीय षटुर्की प्रतिपादिता धर्माणि धर्मशास्त्राणि षट्त्रिशन्मुनि स्मृतयः षट्त्रिशन्मुनिनामानि यथा मनुगौतम संवर्त विष्णुश्य वनकश्यपाः वृहस्पत्युशनाः शङ्खशाता तपपराशराः पितामहाङ्गिरो दक्षयमापस्तम्बदे बलाः बुद्धबोधायनभ्यासवसिष्ट जमदग्नयः लिखितच्छागलेयात् त्रिविश्वामित्रमरीचयः सोमनारद हारीतयाज्ञ वल्क्य प्रचेतसः कात्यायनोथ जाबालिपैठीन सिसुमन्तुना धर्मशास्त्र प्रणेतारः षट्त्रिंशन्मुनय स्मृता इति पुराणानि मद्वयं भद्वयं च व ब्रत्रयं व चतुष्टयम् आलिना प पुराणानि कूस्कंगेति चतुष्ट प्रचक्षते इति | चिकित्सतानि आयुर्वेदशास्त्राणि वाराही बृहज्जातक सूर्यब्रह्मवटेश्वर सिद्धान्त कुरूहलादीनि || शिवः प्रकाशः शक्तिर्विमर्शः तयोर्योगात् सामरस्य लक्ष्मणाद्भवति इति प्. १०) सर्वः प्रपञ्चः शिवशक्तिमय इति | अधुना तत्पदेन ककार परामर्शेनं त्रिपुरोपनिषद्घोषितं दर्श्यते अथैतस्मिन्नन्तरे परं गह्वरं व्याख्यास्यामः महामनुसमुद्भूतं तदिति ब्रह्मशाश्वतम् | परोभगवान्निर्लक्षणो निरञ्जनो निरुपाधिराधिरहितो देव उल्मीलयति पश्यति विकसति तश्चैतन्य भावं कामयति स एव देवः शिवरूपी दृश्यत्वेन विकासते यतिषु यज्ञेषु योगिषु कामं कामयति कामंकामो जायते कामिनी जायते अकचट पयशान् सृजति स कामो जायते निरञ्जनः कामत्वेनोज्जृम्भते कामः ककारं व्याप्रतिकामदेवं तदिति ककारं गृह्णाति तत्पदार्थ इत्येवं वदेति अत्रायं वाक्यार्थः || महामनुर्महामन्त्रस्तत्सवितुर्वरेण्यमित्यादिस्तस्मादुद्भूतं प्रकटं यत् तदितिपदं तत् नित्यं ब्रह्मोज्ञेयमव्यक्तं निर्मलमनादि स एव परोदेवः अकामः प्रथमं सन् स्वेच्छया चैतन्य भावमवरोहेणेच्छां कामयते स एव परमेश्वरः कामत्वेन विकसति दृश्यरूपेण जातः इति तद्ब्रह्मैव ककारः सावित्रीमन्त्रे प्रथमपद द्वये निरीषणं निष्क्रियं ब्रह्मतद्भर्ग पदेन ध्येयमभिहितम् तृतीयपादे तु प्रचोदकत्वे वलेन स क्रियं सविमर्शं ब्रह्मप्रोक्तं सौभाग्य विद्यायां तु कामरूपं विमर्शात्मकं तत्त्वं ककार प्रारम्भेण निर्दिष्टमिति | ऐक्यमेव तत्पदकाम पदयोरत्वह्यम् | कादि विद्या इव गायत्रीमन्त्रेपि प्. ११) शिवशक्तिमय एव चतुर्विंशत्यक्षरापेक्षया वृहती जगत्यादिवद् गायत्रीच्छन्दस ई प्रत्ययरूप स्त्रीलिङ्ग निर्देशेन शक्तिरूपत्वं मन्त्रावस्थया अर्थावस्थायां तु प्रकाशात्मक बोधभर्गार्कवाच्यतया प्रचोदकान्तर्यामि रूपध्यान वर्णनवशाच्छिव रूपत्वं एतश्च यथा तथा सत्कृते गायत्रीमन्त्रविवरणे सृष्टिर्विधेयेत्यलम प्रकृतेन प्रकृतं व्याख्यास्यामः || अत्र शक्तितत्त्वे समानेक भावभावनमग्रे सम्भविष्यतीति विमर्श गर्भे बहुस्यां प्रजायेयेत्यत्र ककार वर्णे जलरूपे इच्छात्मके ये बहुशब्दवाश्येदन्तात्मरूपः सूक्ष्मश्चिदंशो ज्ञानात्म शक्तिरूपः यश्चौस्यां प्रजाये येति प्रकाशरूप शिवतत्त्वाख्यश्चिद्भागः अन्तर्भूतोहं रूपः तथा अस्ति जनीधातु द्वयार्थानुसारेण यः सर्ता प्रादुर्भाव द्वारा क्रियारूपश्चिद्भागो बहुभावनाख्य इत्येतदंशत्रयं रसरूपं सद्यदाघनीभूतं तदा शुद्धेच्छा ज्ञानक्रियारूप कोणवर्ण उपासकं प्रति अवतारितः जपनकाले ए इति ध्र अद्यतावदागतं तों क ध्र इति अत्र एष्टव्य ज्ञेयो कादविषये क्रमेण | इच्छाज्ञानक्रिया विश्रान्तिः एतद्दशायां सदा शिवेश्वरौ शुद्धविद्याकरणौ अहमिदं सर्वं जानामी करोमीति स्फुट इच्छाज्ञानक्रियाः सम्भूता एकार वर्णं दशाग्रहणेन | सात्त्वत भक्तशिरोभगवन्नारद पञ्चरात्रमतानुसारिणस्तु अकारो भगवान्विष्णुर्वासुदेवस्तु विद्वपुः सङ्कर्षणादिको व्यूहस्तत्र सूक्ष्मतया स्थितः प्. १२) अकारस्यैव घनतां ककारादिविचिन्तयेत् ककारो वासुदेव व्यूहः प्रथमं चिद्वासुदेव परिणामः सङ्कर्षण प्रद्युम्नानिरुद्धव्यूहाः सर्वान्तः करण युत सर्वजीव सृष्टिः श्रीभगवद्वासुदेवे वसति वासुदेवोपि सर्वत्र वसति अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणः स्थित इति तैत्तिरीय श्रुतेः प्रथमं निरीषणो भगवानकार इच्छात्म रूकारपरिणाषेण घनीभूतः तस्मान्निर्गतः जीवमनोहङ्काराः एतद् व्यूहत्रयाक्षरं एकार इति एकार लिपेस्त्रयः कलाकोणाः प्रथमकोणो शुद्धिः द्वितीयकोणोमनः तृतीयोहङ्कारः इति व्यूहत्रय समुदाय वाचकः एकारः || एतदेवोक्तं ज्ञानालयेपि || एकाराद्वैष्णवी शक्तिर्विश्वपालन तत्परेति इत्याहुः | तन्मते त्वयं महामन्त्रार्थः ओं तत् वाचिद्वासुदेवाख्यं सवितुः सवितारं चतुर्व्यूहात्मकं सर्वसृष्टि प्राणिजातानां प्रसवितारमुत्पादकं वरेण्यं श्रेष्ठंमक्षरंभशः भगाकारं वर्णं त्रिकोणसर्ग रूपमेकारं वर्णं देवस्य वासुदेव सम्बन्धि सर्वं ध्यायामः चिद्वासुदेव परिणामं मनोशुद्ध्यहङ्काराख्यं सर्वं चिन्तयामः रेफषष्ठीविभक्तीछान्दसे तथा च त्रिपुरोपनिषत् प्राणिनः सूसूते प्रसूते शक्तिर्यासा त्रिपुराशक्तिराद्या | इयं त्रिपुरा परमेश्वरी महाकुण्डलिनी देवी त्रिकोणाशक्तिरेकारेण महाभागेन भगाकारेण प्रसूते तस्मादेकारे एव गृह्यते वरेण्यं श्रेष्ठं भजनीयमक्षरं नमस्कार्यम् तस्माद्वरेण्यमित्यत्र एकाक्षरं गृह्यते इत्येवं चेदेति || प्. १३) एकारसम्बन्धिनी वामपार्श्वमारभ्य दक्षिणपार्श्वं यावत् प्रथमाअ रेखा एकं पुरं | द्वितीया द्वितीयं पुरं शरीरं तृतीयं शरीरं तु दक्षिणपार्श्वे तूर्वाधो भावेन चित्रितांलेखा ध्र तृतीया वामभाग प्रथमादारभ्याधो भागमिलिता एवं पुरत्रय मयी परमेश्वरी त्रिकोणाशक्तिः महाकुण्डलिनी सर्वावरणरूपेण कुण्डलाकार शरीरमूलं | कुण्डलिनीनामनाडीत्रयमेकाराख्यापि त्रिपुराशक्तीरेखात्रय रूपत्रिवलयरूपा वलयत्रय मेलनं *? इति || ननु कुण्डलिनी शब्दस्यकोर्थः इति चेत् शृणु | योगिमते प्रथमं मेढ्रादूर्वं नाभेरवस्तात् कन्दस्थानं नाम प्रदेशः तत्रैकानाडी सर्वनाडी नामाधार भूता सर्वप्राणिजातेष्वय स्थिता अन्त्रवेष्टनिका ओंकारलिपिरचना कुन्तलावर्ति सदृशी या जलावर्तशङ्ख्या कृति प्रसुप्तभुजगेन्द्र तूल्यरूपा नवच्छिन्न महर्निशं प्लवमाना कुण्डलाकारा तिष्ठति तस्या अन्तरेपि या प्राणवायुशक्तिश्च लद्गतिः? सर्वस्पन्दानां हेतु भूतासापि कुण्डलाकारेव कुण्डलिनीनाश्यं स्थितत्वात् आधाराधेययोर भेदोपचारात् अङ्गुष्ठमात्र हृदय स्थित पुरुषस्याङ्गुष्टमात्रत्ववत् अङ्गुष्ठमात्रः पुरुष इति क्रतेः इडापिङ्गलासुषुम्णाभिधान पुरत्रय मयी प्राणशक्तिः कुण्डलिनीनाम | प्रातीतिकमते तु या प्राणसत्तादायिनी तत्प्रचोदका तदा रोहावरोह जननी चिद्विमर्शशक्तिः सा महाकुण्डलिनी स्थूलसूक्ष्मकारणाख्य पुरत्रयस्था प्. १४) तन्मयी च एष्टव्य पुरस्थेच्छा रूपे ज्ञेय पुरस्था ज्ञेयरूपेण कार्यपुरस्था क्रियारूपेण इत्येवं त्रिपुरा ध्येया चैतन्याख्या कुण्डेलीनत्वात् कुण्डलिनी इति एतत् सर्वं महारामायणे उपनिबद्ध यथा परिमण्डलिताकारा कन्दस्थान समाश्रिता अन्त्रवेष्टनिकाकाराष्व? नाडीनाडीशताश्रिता वीणाग्रावर्त सदृशी सलिलावर्त सन्निभा लिप्याद्योङ्कार संस्थाना कुण्डलावर्तवत् स्थिता देवासुर मनुष्येषु मृगनक्र खगादिषु कीटादिष्वब्ज जान्तेषु सर्वेषु प्राणिषूदिता शीतार्तसुप्तभोगीन्द्रो भगवद्बद्धमण्डलासरोभूमध्य रन्ध्राधोविशदः वृत्तिवश्चला सिताकल्पाग्निविगलदिन्दुवद् बद्धकुण्डला अनारतं रसस्पन्दैः प्लवमानैव तिष्ठति तस्या अभ्यन्तरे तस्मिन्कदली कोशकोमला यावात शक्तिः स्फुरति वेणाविवलसद्गतिः सोक्ता कुण्डलिनीनाम्ना कुण्डलाकारवाहिनी प्राणिनः परमाशक्तिः सर्वशक्तिजय प्रदा अनिशं निःश्वसद्रूपा कुपिते वतु जङ्गम् संस्थितो श्वीकृतमुखी स्पन्दानां हेतुतां गतेति | इति ओं क * *?त्यनेन गायत्री पदद्वयार्थो दर्शितः अधुना तृतीयपादार्थं सदाशिवादि कीटान्तं सर्वबुद्धि प्रचोदकत्वलक्षणं प्रथमकूट स्थित त्रि ल ह्नीं सहितद्वितीय तृतीयकूटाक्षरा हे न सहैकी करिष्यन्द्रवमं शुद्धेच्छा ज्ञानक्रिया त्रिकोणविस्तारं बहुभवनमाह त्रि ले र्गि बीजद्वयेनैवं विधकोणत्रयरूपा त्रिपुराशक्ति भगाकारा योनिव्वीर्य प्रक्षेपमपेक्षते वीर्यं प्. १५) तु अनन्तैष्टव्यज्ञे यकार्यविषये शनाख्यमैश्वर्यं अर्थतः कध्वमकर्तुमन्यथा कर्तुलीला विरचन सामर्थ्यं कामेश्वरी त्रिपुराभगे भगवान्कामेश्वरः प्रविशति | स्वयं कामेश्वर्या अवतारो वासुदेवोपि गायति | मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधास्यहमिति || महद्ब्रह्म महती विमर्शशक्तिस्त्रिकोणरूपा तस्मिन्नेकारे त्रिकोणे अहमिदमित्याख्यं चिद्वीर्यं ददामीत्यर्थः | त्रिधाभावनान्तरं अनन्तैष्टव्यादि विषयभावा पत्त्या तद्विषयै श्वर्यातिशवोत्पत्तिरीकारो जातः ईकार ईशन ऐश्वर्यमिति यावत् ईशानाख्य ईकारः ध | ल लकारः लेखर्षभ इन्द्रः परमैश्वर्य विशिष्टः बहुविधः सम्पन्नः लोकोपि योनौ वीर्यं प्रक्षेपेण गर्भोत्पत्तिर्जायते इहापि शुद्धाश्वनिजाष्टव्य ज्ञेयादयोनन्ताः पदार्थाः तया तद्विषये शनानि नीलपीत घटघटतटवट कुड्यगिरिनदी गगनादीनां गर्भस्थानीयानां सदा शिवादिदशायां स्वात्मभेद पटलोदनेन ममता विधानम् अग्रेमाया प्रकृत्यादोवपि मलिनमार्गे अनन्तेष्टव्यादि विषय तद्विषयर्थभितेच्छा किञ्चिज्ज्ञान किञ्चित्करण विस्तारो मध्यकूटार्थेन दर्शयिष्यामः | शुद्धमार्गे ईशान विस्तारस्तुर्यग्रूपत्वेन मायामार्गे ईशान विस्तारो मलिनरूपत्वेन || यदुक्तं ज्ञानार्णवे || ईकाराद्विश्वकत्रीयं मायातुर्यात्मिका प्रिये इति | सर्वक्षेत्र पीठतीर्थकानन वनपृथिवी गङ्गादिकं महामायापात्रं गर्भजातं प्रथमकूटलकारार्थः || प्. १६) यदुक्तं ज्ञानार्णवे लकारात् पृथिवी देवी सशैलवनकानना पञ्चाशत्पीठ सम्पन्ना सर्वतीर्थमयी परा सर्वगङ्गामयी सर्वक्षेत्रस्थानमयी शिवे इति || लकार इहेन्द्रवाचकः शुद्धभूमिवाचककश्च || शुद्धविमर्शदार्ढ्यमेव मायाबीजेनाह || ह्नीं इति || अत्र व्योमवह्नि दीर्घस्वरार्धेन्दु विन्दुसमुदायरूपं ह्रींकारः अस्यायमर्थः सा विमर्शशक्तिः हकारेण प्रकाशात्मक शिवसंबन्धनेन परमाकाशशायित्वं रेफेण परप्रकाश तेजोमयत्वं ईकारेण शुद्धाशुद्धरूपतया सर्वकर्तृत्वमर्धचन्द्रेण सर्वयोनिरूपाधारत्वम् बिन्दुरूपेण सर्वसाक्षित्वं हर ई बिन्द्वर्धचन्द्रविशिष्ट ह्रीं बीजेन बोधयतीति सिद्धो ह्रींकारार्थः || इह शुद्धाध्व भूमा वहमिदं भावविषयोय आच्छाद्याच्छादक भावो न तु भट्टारकादीनामङ्गुष्ठ पात्रप्रभृतीनां चाव स्थितः सोध्रे?वितन्यते || अथवाकासेश्वरी शक्तिः ह्रीं मायारूपेह परं महामाया न तु अशुद्धाध्वनि इवमायामात्रं | महामायायाः शुद्ध संवेदनात्मकत्वं कथमिति चेत् इयति प्रत्यक्ष शिवनाथस्य शाम्भवशक्तिमन्त्र महेश्वर मन्त्रेश्वर मन्त्राणां पञ्चानां कर्तृत्वादिति ध्रूमः || आद्यकूटान्ते ह्रीं इति देहलीदीपन्यायेन स्वस्थितं दर्शयन्पूर्वत्र शक्यण्डे शुद्धतारूपं त्वं महत्वं | उत्तरत्र मायाप्रकृत्यादौ मायात्वमेव बोधयति मायोपरि महामाया शुद्धविद्येति गीयते इत्युक्तं हि इयता जपपरिवृत्तिः ओं क ध्र त्रि ल ह्नीं इति सिद्धः प्रथमकूटविमर्शः || प्. १७) ननु प्रथम ह्रीं बीजस्यातात् पर्यार्थो ज्ञातः मध्यमचरमयोः पुनाकोभिप्राय इति चेत् उच्यते | शृणु हात्रावधानेन त्रिकशास्त्रस्य निर्णयम् निर्णेतुं त्रिपुरा रूपमत्युत्कण्ठातवास्तिवत् | ह्रींकारस्य त्रिरुश्चारणमेतदर्थम् | प्रकाश भुविपरमशिवदशायां परापरारूपिणी अधरधरायां नरदशायां अपरारूपिणी नरशक्ति शिवपुरस्था त्रिपुराख्या महाशक्तिः स्वच्छन्दभट्टारकस्य स्वस्वरूपावरण विधायिनी अघोरेण घोराघोरेण घोरेण स्वात्मरूपेण कूटत्रयरूपधारिणी || ब्रह्मविष्णुमहेश्वर लक्षणं कारणं दक्षिणाग्नि गार्ह पत्याहवनीय लक्ष्णं वह्नीत्रयं प्रभावोत्साह मन्त्रलक्षणं शक्तित्रय मुदात्तादि लक्षणं स्वरत्रयं भवाभवाति भवाध्यं लोक्षणं कत्रयं महामन्त्र चतुर्विशत्यक्षररूपं पादत्रयं भूताकाश चित्ताकाश चिदाकाशात्मकं खत्रयं गङ्गायमुनासरस्वत्यात्मकं त्रिवेणीजलत्रयं कायिक वाचिक मानसिक लक्षणं तपस्त्रयं मनोबुद्ध्यहङ्काराख्यमन्तः करणत्रयं विश्वतैजसत्र?ज्ञा लक्षणं जीवत्रयं उकारमकाराकारलक्षणं वर्णत्रयं प्राणापान व्यानात्मकं वायुत्रयं वृहदारण्यकोपनिषच्छन्दितं सत्वरजस्तमोलक्षणं गुणत्रयं भूतभविष्यद् वर्तमानलक्षणं कालत्रयं इच्छाज्ञानक्रियालक्षणेन मुख्येन त्रिकोण स्वात्मरूपं जगज्जालंपिपत्ति पूरयति पालयति गौणत्रिकान्तररूपमात्मानमागूरितवती स्वात्मनि त्रिपुराकामेश्वरी कूटत्रयापवर्तनेन मुहुर्मुहुश्चिन्तनीया येन प्. १८) तन्मयता पत्या तद्भावोभवेत् || काद्योलान्तो विमर्शः ह्रीं हृल्लेखा पराविमर्शशक्तिस्त्रिपुराख्या | तथा हसाद्योलान्तो विपरिणामः सैव | साद्योलान्तोपि तथैवसान तु तद्व्यतिरिक्तं किञ्चित् चिद्विमर्शं विना सर्व त्रिकजातस्या भासनानुपपत्तेः इति ह्रीं बीजत्रयार्थः || ननु ह्रीं बीजस्य कथं कामकलाभगवत्या अर्थे सङ्केत इति चेत् त्रिपुरोपनिषद्घोषणेनेति ध्रूमः यथा मायात्मकेन ह्रीं कारेण हृल्लेखा पराभगवती त्रिकूटावसाने निलये निलये धाम्निराह | सा घोरेण व्याप्नोति सैवेयं भगवती त्रिपुरेतिव्या प्रियते इति सर्वं विश्वं त्रिकजातमयमिति त्रिपुरारूपं सर्वमिति मन्त्रार्थः | सर्वस्य त्रिपुरात्मकत्वेन त्रिकत्वमिति स्वयमेव कामकलाभट्टारिकया महाराज्ञ्याचार्यवर्यभगवच्छङ्करपादविश्वासजननार्थं बालकं प्रतिस्वावेश विधान द्वाराबहिर्घोषितम् यथा देवानां त्रितयं त्रयी हुत भुजामिति निगद व्याख्यातं पद्यम् || विश्वोत्तीर्णं विश्वमयं द्विविधं रूपमेव तत् रञ्जितं तद्विमर्शेन त्रिकशास्त्रेषु पठ्यते इति | एवं त्रिकार्थ तत्त्वं ये विमृशन्ति शुधाः सदा ते विख्याताद्विजा भूमौत्रिकजातीय संज्ञाया त्रिकाः तिकीत्याद्यापि अपभाषन्ते || त्रिकाः | कुलसान प्रतिष्ठानात् कुल पूजारताश्च वेते कौला भुवि विख्याताः कुलसूत्र प्रपाठकाः || महाब्राह्मण जातीय सोद्दिष्टाभट्टा संज्ञका सर्वोत्कृष्ट प्रबोधस्था भट्टास्ते पण्डिताः स्मृताः प्. १९) मन्त्रप्रयोग कुशला राजानका इतीरिताः रैन इत्यप भाषन्ते ताञ्जनाः इत्यादि जातिनिर्णय विस्तारः संहिता सुद्धष्टव्यः || अधुना शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दि तु मपीति न्यायेन शक्तिमतः सकाशाच्छक्तेः प्राधान्य तथा सूचनार्थं शुद्धमार्गे मन्त्रमहेश्वरादि प्रमातृतार तस्यार्थं च किञ्चिन्मात्रं निरूप्यते | यथा | तत्र तावद् विमर्शशक्त्या महाराज्ञी भट्टारिकया चिन्मात्र शिवानाथ रामायानन्योन्मुख्य प्रकाशात्मक स्वस्वरूपावस्थितिलक्षणं राज्यं विश्राणितं यदनुग्रह वसात् परमेश्वरेति व्यपदेशो लोकेख्यातिमगमत् ईशनमैश्वर्य शक्तिः सामर्थ्यमित्यर्थान्तरम् ईशानाभावेनीश्वरत्वं प्रसज्येत | कुतः परमैश्वर्यं स्वविमर्श वलोद्योग भावनात् स्वस्थितिः परा | अन्यथाधोगतिस्तस्मान् निर्विमर्शोन चिच्छुभा | एवं सदाशिवेश्वर दशायां मध्यमायामपि अहमिदमिति समधृत पुटन्यायेन विमर्शनं यदस्ति शिवनाथ रामस्य तदपि तन्मालिकादानं राज्ञी भट्टारिकया कामकलया तस्मैदत्तं परंतु सदाशिवरूपे इदमंशो स्फुटः अहमिदमिति इच्छाप्राधान्येऽहमंशस्यश्यामलत्वात् अशुद्धत्वं न किञ्चित् | ईश्वरनाथेपि अहमंसोश्यामलः इदमहमिति इदं भाग एवाहं भागस्य निषिञ्चनात् मालिन्यमत्रापि न किञ्चित् विमर्शराज्ञी माहात्म्यात् विद्येश्वर प्रमातृदशायां तु यद्यप्यस्य शिवनाथस्य स्वतो भिन्न वेद्यापदार्थ प्. २०) दर्शनं * *?स्ति तथापि शुद्धचिन्मात्र गृहीताहं भावभवनं तु नराज्ञ्यादत्वापहृतं येन तां प्रत्यन्यदीय तु मालम्भः स्यात् यथा तया परमेश्वरत्वात्मक राज्या प्रदायिनी शिव स्वामिनो विमर्शशक्तिरेव शुद्ध विद्यायां तु अहमिदमोरेकत्वाव भासात्म? किञ्चिन्मालिन्यंमिति प्रमातृ वलेश? * *?शुद्धत्वम् || रमाणा शिवनाथो हि जातु गन्तु बहिर्मुखः देहराक्षसमेकान्ते सदशेन्द्रियशीर्षकम् दृष्टाभीतोभवत् तत्र स्वकीया नवधानतः माया परवसो जातः कुटुस्वममताधिकः जलज्ज्वालाविलासेन मित्यास्वर्ण शतस्पृहः स्वरलोकौघकार्यार्थं त्याजितस्तेन रक्षसा अन्यापशदवत् तत्र निर्विमर्शः परिभ्रमन् इतस्ततो विही *?ग्र्य कुलजातिधनाश्रयः जीवरामेण शान्तास्ते निरहङ्कारिणः परे स्वकायशक्तिमाने तुं शचिवास्तेन मानिताः स्वविमर्श पदप्राप्तिः पत्नीवार्ता ततः श्रुता सत्सङ्गसद्विमर्शेन स्वशक्ति वलसञ्चयः गृहीतो यत्पुनर्देव्यानुकम्पैषा कृता शिवे विरावदुःख क्रन्दादिकारिणो रावणाययुः देहादि यातुधानास्ते विलयं रामतेजसि इत्यभिप्रायबोधकं मध्यान्त कुटयुगं व्याख्यास्यामः तत्र प्रथमं मध्यकूट निर्णयार्थमवसरः || एवं विधविमर्शशक्ति सचिवो पि सन् कामेश्वर नाथैनेकशक्तिरंजित स्वरूपस्वतन्त्रता माहात्म्यात् परिपूर्णा हन्ता स्फूति भूमितो वरुह्यजालकारक्रिमिवत् स्वात्मानं बद्ध्वाऽणुः प्. २१) पुद्गलः पशुः सम्पद्यते इत्येतत् स्वातन्त्र्य सूचकं द्वितीयं कूटं पठति हसकल ह्रीं इति इहमायाद्यण्डात्मके मध्ये कूटे स्वरूपस्थगगन जवनिकान्तगे तत्वं स्वतिरोधान शक्त्या चिद्विमर्शशक्ति स श?त्या पत्न्या सह खेलनं परिमित प्रमातृदशायामङ्गीकरोति अहमिदं सर्वं जानामिकरोमीति पूर्णाहन्ता विमर्शं च त्यजति तेनन्नू?नो भवति ममता स्वीकृत परिच्छिन्न देहे विशेषोन्तः प्रवेशदशायां हस इत्येवं विमृशन्भवति अकार बिन्दु विसर्गाणां जानामिकरोमि सर्वमित्यक्षराणां च विस्मरणात् अङ्गुष्ठपरिमाण हृदयस्थित पुरुषावस्थात्युपगमेन प्राणरज्जुग्रथित देहयन्त्रधारी हृदयकमलाद्वायुशक्तिरूपेण कन्दस्थानस्थ कुण्डलिनी मूलद्वारा द्वादशान्तं यावदुत्थाय स्वर्ण कलिकास्तु?व्य मुखान्तरङ्ग भूतापूर्णं मन्यतात्मकाणवमल गौणबहिरङ्ग भूतभिन्न वेद्य प्रथात्मकमायीय मल शुभाशुभवासनात्मक कार्ममल खचिते स्वात्मनिहं सजपमात्रं विदधाति हस इत्यर्थः उश्ण्यासेहः निश्श्वासे सः अहं सः सोहमिति वा जपति तस्मिन्नपि सत्यणोर्विमर्शा त्रुटनात् विद्यायां वाप्य विद्यायां स्वसत्तां न जहास्यहो इति महाभक्तजन कृतस्त वनद्वारा नित्यविमर्शोस्योपोद्वलितः इहापिविमर्शराज्ञीं तं सेवते परं तु तिरोधानेन हकारेण सूर्यरूप प्राणपरामर्श सकारेण चन्द्ररूपापान परामर्शः अत्राप्यस्ति प्रकाश विमर्श सत्ता हकाराक्षरे प्रकाशसत्ता सकाराक्षरे प्. २३) विमर्शसत्ता प्रकाशविमर्शो शिवशक्ती तद्रूपं हसेति वर्णद्वयं तथा च त्रिपुरोपनिषत् तदेवं शिवशक्त्यात्मकमावेदितम् शिवोयं परमं दैवं शक्तिरेषा तु जीवता सूर्या चन्द्रमसोर्यो *?द्रं सस्तत्पदमुच्यते इति शिवोहकारः जीवता सकारः प्राणापान सम्बन्धात् हस इति हंस इति वर्णद्वय जपेपि तत्पदं प्रकाश विमर्शस्थानमुच्यते इत्यर्थः | एतदजपाजपाधिकारिणमाह || क इति ककारः प्राणः ह साक्षर द्वयाश्रव इत्यर्थः उच्छ्वासो निःश्वासो हि प्राणधर्मः चैतन्यात्मान्यून जपाङ्गी करणार्थं प्राणत्वेन परिणतः प्राक्संवित् प्राणे परिणता एतस्मा ज्ञायते प्राणः स प्राणस्तदवाङ्मन इत्यादिश्रुतेः यद्वा हकारो गगनं वाह्यमाभ्यन्तरे च सकाराख्य जीववर्गभावेन जीववर्गो बहुविधः देव तिर्यङ्नरादि भेदेन हसेति वर्णद्वयमेवाधि करणमाधेयश्च सम्भूतः आकाशशरीरं ब्रह्म तदेवाग्निस्तद्वायुः तत्सूर्यस्तदु चन्द्रमा इत्यादिश्रुतेः माया ग्रहणजनितन्यूनता भावेन पुरु रूपोजातः इन्द्रोमायाभिः पुरुरूप ईयते इति श्रुतेः चैतन्यनाथस्य जीववर्गस्य भावनाद्वारापशु भावाङ्गीकरणं स्वतन्त्रता हेतुः || परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य देवी मायाशक्तिः स्वात्मावरणं शिवस्यं तत् इति वचनात् || ननु चिन्नाथस्य पशुभावेपि देवतिर्यगादिषु जीववर्गेषु परस्परमेकस्मात् कस्य चिद्विशेषोस्ति ईशनज्ञानकरण लीलायामतः सर्वेषां तुल्यत्वमिति चेत् मैवम् शृणु प्. २३) रहस्योपदेशम् चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् अतश्च तन्मयं सर्वं भावयन् भैरवो भवेदिति | यत् स्वामिनो धर्मः इच्छाज्ञानं क्रिया वा देहेन्द्रिया विशेष प्रवेश द्वाराह अजपाजपो वा कामक्रोधलोभमोहमदहर्षादिसोम सूर्यो वास सदाशिवनाथात् प्रभृति क्रिमिकीटदंशमषक पुत्तिका पर्यन्तं सर्वसाधारणोनात्र कश्चिद्भेदोस्ति | वासुदेवः सर्वं मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ये चैवसात्त्विका भावा राजसास्तामसाश्चये मत्त एवेतितान्विद्धि इत्यादि उपनिषत्पटह प्रणादं न शृणोपि किं येन शिवाद्वैत विस्मरनं कुरुषे या ब्रह्मादीनामिच्छा ज्ञानक्रियाः सन्तिता एव विद्याकलाद्वारापिपीलिकादीनामपि इत्येतच्छिवमयं विश्वं विमृशयेन सर्वभवतीति भङ्गोभवेत् ब्रह्म महारामायणेप्ये तदेव मुहुर्मुहु रुपदिष्टम् यथा ब्रह्मविष्ण्विन्द्र रुद्राद्या यद्यत् कुर्वन्ति सर्वतः तदहं चिद्वपुः सर्वं करोमीत्येव भावयेति | कुत एतदिति चेत् यैव चिद्गगना भोगभूषणे व्योम्नि भास्करे धरा विवरकोशस्था सैव चित्कीटकोदरे इत्यु कुत्वात् देहेन्द्रियादिषु तु जीवानां परस्परं व्यतिरेकः देवादीनां तेजोमय शरीरेन्द्रियाणि मर्त्याणां पार्थिव शरीरेन्द्रियादिकम् | पक्षिणां वायवमेवं शरीरेन्द्रियाधिक्य दर्शनात् || ननु षट्क तानि दिवारात्रौ सहस्राण्येकं विंशतिः हंसहंसेति हंसेति जीवजपति नित्यश इति नयेन च देहर्निशं सोहमिति जल्पति तर्हि किं भूतमस्य येना प्. २४) यं प्रमाता मुमुक्षुत्वमाकाङ्क्षते सर्वत्रसोहमिति विमर्शस्य सुलभत्वात् इति चेत् अस्तु यदि जानीषे सर्वत्र सर्वदा चिन्नाथः परमेश्वरो निर्विशेषो वसति इत्येता वन्मात्रमेव तर्हि प्राचीन बहुविध जन्मसङ्घार्जिताना भाग्यानामा विर्भाव सम्पत्तवसमीपस्थातुमस्ति धन्योसि कृतार्थस्त्व मनयैव चिद्विश्रान्त्यामाकुरु ध्यानधारणादिकम् न्यत् यदुक्तमष्टा वक्रमुनिना | यदि देहपृथक् कृत्यमितिं विश्रस्य तिष्ठसि अधुनैव सुखी शान्तै बन्धमुक्तो भविष्यसि | तथा अयमेव हिते बन्धः समाधिमनुतिष्ठसीत्यादि | एते निर्बन्ध नत्वोपदेशास्तुती व्रतरस्वतन्त्र शैवशक्तिपात विशुद्ध हृदयेषु विश्रान्ति लभन्ते नत्वन्येषु मन्दमन्दतरानुग्रहपात्रेषु तद्विषये हि विद्यायां वाप्य विद्यायां मित्यादि महारहस्योपदेशेन प्रविशन्ति अवकाशा भावात् मन्दाधिकारिभिर्वक्ष्यमाणेषु वचन प्रपञ्चेषु भरवशः कार्यः यथा आत्मा ज्ञातव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः यस्तं न वेद किदृचा करिष्यति य इह तद्विदुसु इमे समासते इति स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्म निष्ठमित्यादिषु अविद्यावद्विषया वेदा इति नयेन ये श्रुति स्मृत्युपनिषत् पुराणादिषूपदेशाः ते मुमुक्षुभिरधिकारिभिः ग्राह्याः स्वविमर्शोद्वोधार्थं सर्वत्र भ्युपदेशस्तदर्थमेवेति शुद्ध विमर्शः सर्वैरधिकारिभिर्विधेयः स्वविमर्शबोधार्थमेव कृपातिशय विधायिना स्वयं परमेश्वरेण निस्तरङ्गोपदेश शतकं द्वादशोत्तर सहितं विज्ञानभैरवे प्. २५) योगशास्त्रे स्वभक्तजनोद्धारणार्थमभिहितं शाम्भव शाक्ताणवोपाय द्वारेण | तत्र प्रथमुपाय त्रयबोधकं | रूर्ध्वं प्राणोह्यधोजीव इति पद्यनिर्णीत प्राणारोहावरोह दशायां उर्ध्वे वाधोदेशे वा गुरूपदेशमार्गेण विमर्शनं यदि भवेत् तर्हि मोक्षो हस्तगत एवेति तत्रैवाधार्या | इयतै तत्सम्पन्नं हृदाकाशे प्राण तत्प्रोचदकान्तर्यामिह समाग्रहणेनाकाश जीव तदन्तर्यामि रूपत्वं परमेश्वरेणाङ्गी कृतं तदेव मन्त्रजल्पन समये अगतं हसक इति | अत्र कारस्यात्म शन्दार्थ वाचकत्वादात्मा जीवान्तर्यामीज्ञेय इति केचित् | प्राणभवनानन्तरं हकारः नादात्मा सोहमिति जल्पेना नाहतरूपत्वं शब्दनेन हेतुना | दन्ध्वनीति हृदियत्परं पदं तत्सदक्षरमुपास्महे मह इत्युक्तं हंसहंसजपेनैव कयापि स्वात्म विस्मृति विधायिन्या कलयाशक्त्या वा स्वात्मानमजानान इवानेल मूकजड प्रायोजातः येन सत्गुरुशास्त्रो पदेशं श्रुत्वापिति बोधान शक्तिमोहिनी रागेणानध्य विषयोन् मुख स्वात्म प्रकाश स्थितिं न लभते यदुक्ता सापिति बोधान शक्तिः स्तुति द्वारा गुरुभिः || यत्र स्वंर्गि जयाकयापि कलया विस्मार्य नित्योच्छलत् पूर्णानन्दरसाभि दे?श वशतः स्वात्मापि देशान्तरे स्मारं स्मारमपारशासन गणैर्नोवेर्द?वादैरपि प्रायः काप्यपरापरमयी शक्तिर्जयत्यैश्वरीति | अनेलमूकत्वमेव मन्त्राक्षरेणाह || ल इति लकारः जात्यम् जड इव सम्भुतः पशुभावादित्यर्थः महामन्त्रपादद्वयेपि प्. २६) कूटद्वयार्थः तत् सर्वानुभूतः अति स्पृहणीयो बोधार्क प्रकाशः शुद्धाध्वनि मायादि दशायां च तु व्यवहारेण क्रीडन्नन वरतमारोहावरोह विधायी मन्त्रस्तुतिं कुर्वन्नपि धीमहि धिया ज्ञानेन हंसजप्येनापि महिमही पृथिवी वसम्भुतः जडोजातः पुनरपियोधियः स्वविमर्शशक्तीः स्वस्वरूप स्थितो शुद्धमार्गे प्रचोदयादिति श्रीविद्या गायत्र्योरभेदार्थः तथा च त्रिपुरोपनिषत् धीमही त्यस्य व्याख्यानं धीमहत्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्षरे तन्मही लकारः इति इयता हसक हलवर्ण समुदायस्यायमर्थः फलितः शिवनाथो हंस इति वर्णद्वयरूपेण प्राणाकाश जीवपरिमित शब्दान्तर्यामिदशा ग्रहणेन जडरूपत्वेन परिणत इति एतज्जाड्यमपि ह्रीं हृल्लेखा शक्तिः सैव व्याख्यात चरेयं | यदुं कुचान्यत्र शिव इव गृहीत पशुभाव इति सिद्धोयं द्वितीय कूटविमर्शः || तदित्यारत्यभर्गे पर्यन्तं शुद्धाध्व विमर्शः प्रथमकूटार्थाभिमतो योजितः | तदनन्तरं देवस्य धीमहीत्यन्तं द्वितीयकूटाभिप्रायः पूर्वं समाप्तः अधुना तृतीय प?दार्थ तृतीय कूटार्थो योजयि तु मवसरः || अस्यैवाणु पर्यायस्य पुद्गल पशोः पाशबद्ध स्वामिनाथस्य स्वयमेव स्वस्वातन्त्र्यादनु तदनु सोपि स्वस्वरूप प्रकाश स्थितिं पुनरप्यनु भवति इत्ये तदाह तृतीयकूटं सकल ह्रीं इति स सकारः प्रमाता ककामेन स्वेच्छया पुनरपि ललेखस्न?भः सर्वदेवेन्द्रश्चक्रेश्वरो भवदित्यक्षरार्थः यद्वास इति पूर्वप्रक्रान्तः हंसहंसजपनेनापि योजात्यमिवा गतो विस्मृत स्वशक्तिविभवो मध्यावस्थामप्यागतः प्. २७) कोहंकोहमित्याद्यपि शक्तिपात कणपात पात्रभूतः स एव स्वानुग्रहशक्त्या स्वस्वरूपं प्राप्तः पुनरपि स्वप्रबुद्ध भावेन सोहंसोहमित्यनवरतं विमृशति सर्वसाक्षी सर्वकर्तेति एषे वरचना पद्येनापि स्पन्धा गुरुभिः || सोहंसोहमिति स्फुटं निजमहोरात्रं जपंस्तत्र सामायेशा द्विस्मृत तत्स्वरूप विभवोयाति स्वयं संशयम् कोहंकोहमिति प्रबोधवसतो भूयोपियो निश्चयः सोहंसोहमिति प्रकाशित वपुः सत्वं चिदर्कः स्वयमिति | प्रथमं महाप्रकाशः शुद्धतमस्ततः सदा शिवादि दशायां सुद्धाशुद्धपदवीं गतः मायादशायां पुनरशुद्ध पदवीं स्वेच्छया गत्वापि पुनः स्वात्मप्रत्यभिज्ञाया शुद्ध एव सम्भूतः एतदेवाह सकल ह्रीं इति || अथवा सकल इति सकलमिदं शुद्धतम शुद्धतर शुद्धाशुद्ध अशुद्धभूयः शुद्धतमत्वं ह्रीं भवति पूर्वोक्ता मायाशक्तिरेवेत्यर्थः ननूद्धार प्रबन्धेषु कामकला विद्यायाः कादित्वमेव दृश्यते न तु प्रणवादित्वमिति किमर्थं ओं? क ध्र इत्यादि जप इति चेत्सत्यं पञ्चदशाक्षर्या अभिप्रायेण कादित्वमेव दृश्यते न षोडशी पदार्थमेतदपि समीचीनं || ननु षोडशी भेदा वहवोन्य प्रकारेण वर्णिताः || लक्ष्मीपरामदन वाग्भवादयः तथामायादि बीजवर्णं नं मुखे कृत्वा पञ्चदश्याः षोडशीत्व मुक्तम् यदा ह कल्पलताकारः ह्नीं ध्नीं न्लीं ध्रों ध्रें इति बीजानां मध्ये यद्येकं बीजं त्रिकुटादौ दीयते तदा त्रिकुटाः सकलाः षोमुशार्णा भवंतीति तस्मान्माया लक्ष्मीकाम बीजवाग्बीजैकतर मुखपञ्चदशीं विहाय किमिति प्रणय षोडशी पक्ष अमृत इति चेत् संहिता प्. २८) पञ्चस्तव्यादि ग्रन्थानुरोधात् प्रणवप्राधान्यं कादि विद्यायां न इष्टम् संहितायां हि ल हर राष्ट्रस्थ मुनिकृतराज्ञी भट्टारिका स्तुति द्वारा एष एव पक्षो गृहीतः यथा काद्यां दिव्यां हादि मध्यां च सान्तां प्रकाशयन्तीं दिव्यकूटैः स्वरूपम् कार्यातीतां कारणातीत शक्तिं तारुण्यराज्ञीं शरणं त्वां प्रपन्नः इयं वर्णना पञ्चदश्याः | षोडशी स्तुतीर्यथा वृद्धां परां भुवनेश्याधिरूढां त्रिकूटाभ्यामादि तारार्ण नित्याम् शक्रादिभिर्द्वादशभिः प्रसेव्यां वृद्धां राज्ञीं शरणं त्वां प्रपन्नाः || वृद्धां षोडशीं भुवनेशी ह्रींकारः तस्यामधिरूढां ह्रीं क ए इत्यादि षोडशी रूपामित्यर्थः त्रिकूटैः वाग्भव कामराज शक्तिकूटैराढ्यां भरिता तथा आदौ प्रथमं क ए ई इत्यादेः प्राक् तारार्णः ओंकार ऐंकार ह्रींकारा नित्यं यस्याः सा तां बहुविधां षोडशीं वयंस्तुम इत्यर्थः तारार्णस्य ओंकार वाचकत्वमेवात्यन्तं प्रसिद्धं शक्रादयः शक्रकामलोपा मुद्रामनु चन्द्रकुवेरागस्त्य नन्दि सूर्यशङ्कर विष्णुदुर्वासामुनयः तैः प्रसेन्यां द्वादशोपासकानां शक्रादीनां तत्तत्कामा भेदान्मन्त्रभेदक्षमोप्यन्यथा यथा क्र य त्र? ल ह्नीं ह्र स क ह्र ल ह्नीं सकल ह्नीं * * *? न्द्रोपास्या क्रमः क्र ल ह्नीं इति कामपूज्या ह्र स क्र ल ह्नीं ह्र स क ह्र ल ह्नीं इति लोपामुद्राजपः क्र ह्र ध्र त्र? ल ह्नीं ह्र क्र ध्र त्र? ल ह्नीं स ह्र क ध्र त्र? ल ह्नीं त्रर्गि? मनुक्रमः इत्यादिकल्पलतादौ भेदोनुसन्धेयः यस्मिन् क्रमेस्माभिर्विवरणं कृतं स एव दुर्वासोमुनि जपः परं तु ओंकार बिन्दुनाद हीनाः यदुक्तं बिन्दुनां हीनानाद हीनादुर्वासः पूजिता भवेदिति प्. २९) क्र ध्र त्र ल ह्र र्री इत्यादि स्फुटं तथा गणेश वटुकस्तुता रतीति विशेषणेन प्रणवे षोडशी सूचिता यथा त्रिकार्थ विवेको नामपञ्चस्तवी विवरणमस्ति तट्टीकाकारेणेवं व्याख्यातम् गणेशः गणस्नामी महादेवः तेन मकारो लक्ष्यते वटुर्वामन रूपो हरिः तेना कारोलक्ष्यते ककारस्य ब्रह्मायाश्यः तेनोकारो लक्ष्यः तेन मकाराकारोकार समुदाय ओङ्कारः तेनस्तुतेत्यर्थः तथा रति सहायः कामः कामबीजं ककारः तेनान्विता इत्यादि अत्र म अ उ इति निर्देशेन सृष्ट्यवरोहण क्रमेण क्रमोनेनैव प्रकारेण इति सुवितम् यदुक्तं ब्रह्मरहस्ये निर्मलं व्योमसङ्काशं सूक्ष्मात् सूक्ष्मतरं परमित्यात्य नादाशुत्पश्यते शक्तिः शक्तेर्बिन्दुः प्रजायते चन्द्रात् प्रजायते तेजस्तेजसो रुद्रसम्भवः रुद्रात् प्रजायते विष्णुविष्णोर्ब्रह्मा प्रजायते ब्रह्मणो जायते सर्वं जगत् स्थावर जङ्गममिति तारार्णस्य वर्णान्तराणामपि वाचकत्वे ओङ्कार प्राशस्यं कादिविस्यायां ननियमेन सिद्ध्यतीति चेन्न धग्वे?दे हि साक्षात् प्रणव षोडशी पक्षोभिहितः निस्सन्देहं विद्यापदस्योङ्कार वाश्यतया निर्देशात् यथा कामो योनिः कमला वज्रपाणिर्गुहा हसामातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकलामायया च पुरूश्येषा विश्वमातादि विद्या इति त्रिपुरोपनिषदि कामः कः योनिरेकमला ई वज्रपाणिर्लकारः गुहा ह्रीं हसाहसौ मातरिश्वाकः अह्रं हकारः इन्द्रोलकारः गुहा ह्रीं सकलाः सकार ककारलकाराः माया क्रौ? एष कामकला विद्या पञ्चदशार्णा पुरूची बहुविधासती विश्वमाता सकलजननी प्. ३०) षोडशाक्षरी भवति कथमित्यत्र हेतुगर्भं विशेषणमाह यतः आदिविद्या आदौ कादिविद्या प्रथमं विद्या वेदनरूपबिन्दुगर्भः ओंकारबीजं यस्याः सा आदिविद्या विद्याबीजमोङ्कारमादौ दत्त्वा तरुणी एव षोडशी भवति इत्यर्थः ननु विद्याशब्दस्य कथमोङ्कारवाचकत्वमिति चेच्छृणु वेद वचनं हि विद्यासंवेदनं सवित्तिरित्यर्थः वेदनं च बिन्द्वात्मकं बिन्दुरूप एवोङ्कारः अविभागेन वेदनं बिन्दुः वेदनाद् बिन्दुरूपमित्युक्तत्वात् अविभागवेदनात्मा यो बिन्दुः स एव तात्विकः ओङ्कारवर्णः चित्प्रकाशरूपो हि प्रणव इति रामकण्ठपादैः सर्वतोभद्रे निर्णीतत्वात् ओं तत्सदिति श्लोकविवरणे || ननु विभागरहित संवेदनस्य कोर्थ इति चेत् उच्यते संविद्रूपोयः प्रकाशः स ओंकारः विश्वोत्तीर्णविश्वमयरूपेण प्रकाशो पि द्विविधः द्वैविध्येपि ब्रह्मवाचक एव तस्य वाचकः प्रणवः इति न्यायात् वाचकत्वमपि प्रणवस्य पदरूपेण वाक्यरूपेण च विश्वोत्तीर्णरूपेण समुदाय शक्त्या पदत्वं विश्वमय रूपेणावयव शक्त्या वाक्यत्वं तत्र वाक्याभिप्रायेण व्यस्तत्वं पदाभिप्रायेण समस्तत्वं तत्र स्वतन्त्रं यत्पदत्रयं आकारोकार मकारलक्षणं तदेव वाक्यं तत्र विभागवेदनात्मक बिन्दुरूपोंकार शब्दस्य स्थूलमात्रात्रयात्मकं यत् विभागज्ञानं उकारस्य ऋग्वेद जाग्रद्भूर्ब्रह्मात्मकं | अकारस्य यजुः स्वप्नभुवो विष्णुरूपं | मकारस्य सामगाढनिद्रा स्वर्लोक रुद्रात्मकं यद्विश्वमय भेदप्रकथनं ओंकारस्यार्थः | तद्विश्वमयब्रह्मवाचकत्वाभि प्रायेण गलिताकारादि वर्णविभाग वेदनं प्. ३१) विश्वोत्तीर्णमखण्डं ब्रह्मापि बोधयति प्रणवः समस्तमखण्डं चिद्रूपं लक्षणया भागत्यागात्मिकया बोधयति इति अविभागे वेदनात्मा बिन्दुर्लक्ष्यार्थः || ननु ओंकारस्य यास्तिस्रो मात्राः स्थूलाः ताभिर्विश्वमय चिद्वाचकत्वं तस्य सेत् स्यति विश्वोत्तीर्णं तु किं रूपाभिर्मात्राभिर्वन्थीति चेत् अर्धमात्रालक्षणेन सूक्ष्मेण स्वांशने बिन्दुरूपेण तद्रूप प्रतिपादनादिति ध्रूमः | एतदेवा विभागवेदनात्मक बिन्द्वाख्यमोङ्कारस्य तात्विकं रूपं इत्येतदभिप्रायेण श्रीभगवानाह ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधोसत इति ब्रह्मवाचकता प्रणवस्येर्थं फलिता स्हूलप्रपञ्चोपाहित चैतन्यमुकारस्य यास्योर्थः सूक्ष्मप्रपञ्चोपाहित चैतन्यमकारस्यार्थः स्थूलसूक्ष्मरूपभाग हेतु भूतमाया शक्त्युपाहित चैतन्यं मकारस्य वाश्योर्थः स्थूलसूक्ष्म प्रपञ्चांश तत्कारणमायां शपरित्यागेन तु केवल चैतन्यमर्धमात्राया वास्योर्थः तस्या अपि तदुपाधि त्यागेन चिन्मात्रं लक्ष्यम् एवं चतुर्णामेकाश्रयत्वादेकं परिपूर्णं शुद्धं बोधमात्रं ब्रह्म ओंकारार्थ इति सिद्धम् अपि च वेदनं बिन्दुरोङ्कार इति पर्यायमात्रम् यत्येवं तर्हि विज्ञान वाद अयाति फलतो विभागवेदनमेवोपास्यं सूक्ष्मतर त्वादिति चेत् सत्यं यद्यपि सर्वप्रपञ्चात् सूक्ष्मतरं संवेदनमेव तथापि तस्य वाचक इति निर्देशेन संवेदनं संवेत्तुर्वाचकं संवेत्तारं सूक्ष्मतमं बोधयति न तु स्वतन्त्रं संवेदनं संवेदनस्य संवेतृविश्रान्तत्वादिति तस्मादपि सकाशात्संवेतृलक्षण आत्मा स्वप्रकाशः सूक्ष्मतम उपास्य इति ज्ञानमात्र विश्रान्तोमावगा * * *? कायाश्रित क्रियाद्वारा सूक्ष्मतरं संवेदनमपि यथा कथं चिदनुमीयते संवेत्तानुभविता विज्ञातृलक्षणो नित्यः परमेश्वरः कदाचिदपिनोह्यते | प्. ४१) तत्र ज्ञानं स्वतः सिद्धं क्रियाकायाश्रितासती परैरप्युप लक्ष्येत तयान्यज्ज्ञानमूह्यते इत्युक्त त्वात् विज्ञातारमरेकेन विजानीयादिति ज्ञानं सूक्ष्मतरं विश्रान्तं सूक्ष्मतमे विज्ञातरि इत्यभिप्राय बोधकः पूर्वगुरुः सम्पन्नः प्रणवोर्ध्वार्धमात्रोतोप्यणवे महते नम इत्यर्थम् सारस्वत स्तोत्रकारोपि ब्रह्मवाचकत्वमक्षरस्योपनिबध्नाति यथा त्रयीं तिस्रवृतीस्त्रि भुवनमथं त्रीनपि सुरानकाराद्यै वर्णैस्त्रिभिरभि दधत्तीर्ण विकृति तुरीयं ते धामधूनिभिरनु रुन्धानमणुभिः समस्तं व्यस्तं त्वा सरण च गृणान्योमिति पदमिति | रहस्य शास्त्रे स्वपि || संवेतृलक्षणं परमेश्वरं महाराजमपेक्ष्य ओंकाररूपसंवेदनस्य पीठतया निर्देशः कृतः केनापि महाराजादिना हि पीठमाक्रस्य तेन तु स्वतन्त्रं तत् यत् षट्पत्रं कमलमुदितं तस्य या कर्णिकाख्या योनिस्तस्या स्त्रिविधमुदरे यत् तदोङ्कारपीठम् तस्मिन्नन्तः कुचभरनतां कुण्डलीतः प्रवृत्तां श्यामाकारां सकलजननीं सन्तते भावयामि इति || ननु पञ्चस्तव्यामकाराकारोकारसमुदायः प्रणवः प्रतिपादितः ब्रह्मरहस्ये पि तथा निर्देशात् अन्यत्र कुत्रचित् प्रथममकारः तत उकारः ततो मकारः इति किमर्थं भेदनिर्देश इति चेदुच्यते पाञ्चरात्राणां उकारमकाराकाररूपक्रमेण उच्चार इष्टः उन्मिषितसङ्कल्परूपं विधातारं ब्रह्मरूपं प्रद्युम्नव्यूहदशामुल्लङ्घ्य तथा मकाररूपं रुद्रात्मकमनिरुद्धव्यूहं मकारं तामसमुल्लङ्घ्य परप्रकृतिरूपचिद्वासुदेवसायुज्यस्योपेयत्वादतस्तन्मते बालकस्याक्षरग्रहणारम्भसमये इत्थं सङ्केतः | उ स अ ओं इति क्रमेण पृथ्वीतत्व प्रकृतितत्वाधिष्ठातृ भूतयो ब्रह्मनारायणोन्दशां मायाश्रयामुल्लङ्घ्य प्. ४२) शुद्धविद्येश्वरसदाशिवशक्तितत्त्वदशामारुह्य परमशिवसायुज्यस्येष्टत्वात् यत् तु मधुसूदनसरस्वतीसन्न्यासिपादैरकारस्य ऋक्जाग्रन् भूर्ब्रह्मरूपो र्थः उकारस्य यजुः स्वप्नान्तरिक्षलोकविष्णुरूपो र्थः मकारस्य सामनिद्रा स्वर्गरुद्रात्मको र्थः प्रदर्शितः अ उ म इति क्रमस्य स्फुटीकरणादिति तदपि पौराणिकमतमपेक्ष्य द्रष्टव्यं पुराणेषु हि सृष्टिप्रादुर्भावो नेनैव क्रमेणाभिहितः | प्रथमं नारायणः तदनन्तरं तन्नाभेः सकाशाद् विरिञ्चिः सञ्जातः तदनु तल्ललाजान् महादेवो जातः एष श्रीभगवतावरोहणक्रमः तन्मते बालकं प्रतिसङ्केतः अ उ म ओं इति इयता एतज्जातं वेदनमात्रं विद्याबिन्दुरूपं तु वेदनं तद्रूप ओङ्कार इति ओङ्कारमादौ दत्वा पञ्चदस्याः षोडशी त्वं सिद्धं प्रथमं प्रणवोच्चाराद् देवी पञ्चदशाक्षरी महाराज्ञी षोडशार्णा शिवं पायात् प्रपञ्चतः विमर्शशक्तिः संवेत्तृरूपेयं षोडशाक्षरी नारायणादभिन्नेयं यस्मादन्य इति श्रुतेः || यस्मादन्यो न परो स्ति जातो य अविवेश भुवनानि विश्वा प्रजापतिः प्रजया संविदानस्त्रीणि ज्योतींषि स च ते षोडशी अत्रायमर्थः यस्माच्चिन्मात्ररूपात्मकाशादन्यः जातः अपरो जायमानः प्रमेयादिवर्गः पर उत्कृष्टो नास्ति प्रमेयादेर्जडत्वेन पराधीनत्वाद्धीनत्वम् यः प्रजापतिर्जायमान सङ्कल्प विधायी परप्रमाता भुवनानि सर्वाणि अविवेश प्रविष्टो भवति सर्वसत्ता प्रदत्वेन सर्वव्यापकत्वात् स एव सर्वस्वामी प्रजया ककारात्मकेन कामेन इच्छाशक्ति सन्तानेन सर्वं चेतनाय मानः प्. ४३) त्रीणि ज्योतींषि सूर्यचन्द्रवह्निलक्षणानि प्रमाणप्रमेय प्रमात्रात्मकानि स च ते समवाय सम्बन्धेन गृह्णाति | यस्मिन्द्यौः पृथिवी चान्तरिक्षोमतंसनः सहप्राणेश्च सर्वैरिति श्रुतेः सूर्यं प्रमाणमित्याहुः सोमंमेयं प्रचक्षते योयं वह्निः परं तत्वं प्रमातुरिदेमेवतदिति तन्त्रालोके || अथ च प्रजापतिः त्रिपुरदाहकालेशररूपी विष्णुः त्रीणि ज्योतींषि त्रीणि कूटनि क ए ई लादीनि पञ्चदशी वर्णपुञ्जात्मक कूटत्रयङ्वालध्र?पाणि सचते तेषु समवेतो भवति स षोडशी मुखं चन्द्र इति यदारोपः स एव भगवान् षोडशी षोडशी रूपो भवति शुद्धप्राणगगनवायुवह्नि सलिल पृथिवीन्द्रियमनोन्नवीर्यतपो मन्त्रकर्मलोकनामरूपाख्य षोडशकलपुरुषरूपमायात्मको भवति दैवी ह्येषा गुणमयी मम मायादुरत्ययो त्युक्त त्वात् षोडशाक्षरी रूपत्वेन विष्णोः शक्तिरूपत्वं सूचितम् इति विमर्श शक्तिनारायणयोरभेदेन परमशिवार्धाङ्ग त्वात् तेषां परस्परं सामरस्यात्मा लोलीभावोमिश्रणं यामलं सङ्घट्टा इति यावत् तथा च बृहत्कथासरित्सागरे देवीं प्रतिमहादेववचनम् मदीयार्धाङ्गश्रूतो सौ ततो विष्णुस्त्व चात्मना यो हि नारायणः सात्वं शक्तिः शक्तिमतो मम ततः प्रभृति विख्यातं रूपद्वयमिदं मम अर्धनारीश्वरं रूपं मर्धहारिहरं वपुः अतो ददामि नित्यत्वं स्वभक्तेषु हरे गतिमिति शाक्तानां विष्णुसायुज्यमिति सिद्धान्तः | गोविन्द भगिनी देवी तदन्ते तद्गति प्रदेत्यत्र च विष्णुस्वरूपैव महामायाशक्तिः राज्ञी भट्टारिकेत्येतत् स्वयमेव श्रीभगवान् भागवते स्वमायां बोधयति | प्. ४४) अचिंष्म?न्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् धूपोपहारवलिभिः सर्वकामवरं प्रदाम् नामधेयानि कुर्वन्ति स्थानानि च नराभुवि दुर्गेति भद्रकालीति विजया वैष्णवीति च कुमुदा चण्डिका कृष्णामाधवी कन्यकेति च मायानारायणी शोणाशारदेत्यस्विकेति च नामानि निगदव्याख्यातानि स्थानानि बालाश्रमतूलमूल्यषोडशीग्रामादीनि प्रसिद्धानि | त्रिकूट प्रादुर्भावो यथा संहितायाम् || त्रिपुरं दह्यमानस्य भैरवस्य महात्मनः हिमालयं धनुः श्रेष्ठं कृष्यमाणस्य तेजसा सन्धारणे कर्मणे च वाणस्योत्सर्जनेपि च विष्णु ज्योतिः समुत्पन्नं तदेव त्रिविधं पुरा शल्यात् प्रकटितं ज्योतिस्तद्वै त्रिपथगं पुनः संधारणे तु या ज्वाला सा बालेति प्रकीर्तिता कृष्यमाणा च या ज्वालातरुणी सा प्रकीर्तिता उत्सलने च या ज्वाला वृद्धा सेति प्रकीर्तिता बालागता लोहपुरं पाताले वरवर्णिनि तरुणी तु गता ज्वालापुरं दौर्वर्णमीश्वरि वृद्धासु महती ज्वला सौवर्णं पुरमीश्वरि एक दैवोत्गता ज्वाला एक दैव पुरत्रयम् भस्मीकृत्योर्थिता तत्र व्याप्यसर्वं जगत् स्थितेति इति वैष्णवी शक्तिस्त्रिपुराख्या माहामायेति निर्णयः || यथा विमर्शरूपेण सर्वजगद् व्यापिनी तथा कामकला विद्यावर्णरूपेणापि जगन्मयी सकलजननी राज्ञी इति प्रकारान्तरेणापि कूटत्रयार्थो दर्शितः स्वयं महेश्वर भट्टारकेन योगिनी हृदये यथा | शिवशक्त्याद्यया मूलविद्यया परमेश्वरि जगत् कृत्स्नं यथा व्याप्तं सृणुष्वा वहिता प्रिये प्. ४५) पञ्चभूतमयं विश्वं तन्मयी सासनातनी तन्मयी मूलविद्या च तथा च कथयामिते || हकाराद् व्योमसम्भूतं ककारात् तु प्रभञ्जनः रेफादग्निः सकाराश्च जलतत्त्वस्य सम्भवः लकारात् पृथिवी जाता तस्माद् विश्वमयी च सा गुणाः पञ्चदशख्याता भूतानां तन्मयी शिवा यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः व्याप्तं पञ्चदशार्णैः सा विद्या भूतगुणात्मिका पञ्चभिश्च तथा षद्भिश्चतुर्भिरपि चाक्षरैः स्वरव्यञ्जनभेदेन षट्त्रिंशत् तत्त्वरूपिणी तत्त्वातीत स्वभावा च विद्यैषा भाविता सदेति अयमत्र तात्पर्यार्थः शिवशक्ति सामरस्यं प्रकाशविमर्शः पूर्वोक्तनयनेन प्रकाशविमर्श एव घनीभूतः सन् पञ्चभूततया परिणमते तेषां भूतानामक्षराणि च हकारादीनि प्रकाशविमर्शघनीभूततया सम्पन्नानि शिवशक्ति रूपपञ्चभूतात्मकत्रये वर्णास्तद्रूपविश्वमयी कामकला भगवती पराविश्येत्यर्थः पञ्चानां भूतानां व्याप्यव्यापकभावेन पञ्चदशगुणाभवन्ति तथा हि व्योमादीनां पूर्वः पूर्वोव्यापकः उत्तर उत्तरोव्यापकः आकाशस्य शब्दोनामैको गुणः वायोर्द्वौ शब्दस्पन्नौ वह्नेसूयः शब्दस्पर्शरूपाणि जलस्य चत्वारः शब्दस्पर्शरूपरसाः पृथिव्याः पञ्चशब्दस्पर्शरूपरसगन्धाः चैवं पञ्चदशगुणा महाभूतायाम् भट्टारिकाया अपि पञ्चदशैव वर्णाः वाग्भव कूटीयानि पञ्च क्र ध्र त्र? प्रभृतीनि कामराजीयानि षट् र्ह्र? सा?दीनि शक्तिकूट सम्बन्धीनि चत्वारि सादीनि प्. ४६) एवं पञ्चदशाक्षररूपपञ्चभूतमयी सौभाग्यविद्या यस्य यस्य पदार्थस्य या या शक्तिः सा सा सर्वेश्वरी स सर्वो महेश्वर इति निर्णयेन शिवशक्तिमयं सर्वं जगदिति कूटत्रयार्थः || विवरणकारशिवरूपेणापि शिवेनैष एष एवार्थो भङ्ग्य?अन्तरेण किञ्चिन्मात्रं यद्धितानि तस्तत्र स्वतन्त्रपरमेश्वरविश्राणितविमर्शशक्तिकणकृपाकटक्ष एव हेतुरिति सत्तमैरुपासकगुरुवरैरस्मभ्यं प्रतिन *? सूयनीयमितिक्षन्तव्यं तैरित्योम् अस्माद्रेच्चारु दूराद्रिविपिन मिलितद्वेतगङ्गावगाहात् पूतस्वान्तेन कास्मीरिकविशुधशिवस्वास्युपाध्यायनाम्ना व्याख्यातो मन्त्रराजः प्रकटविमलसत्सम्प्रदायः परायाः श्रीः ........................................................................................................................ ........................................................................................................................ अस्माश्वेतशिला तस्याद्रितः तस्या आपातमारभ्येति यावत् || सम्पूर्णमिदं मन्त्रविवरणम् | ########### END OF FILE #######