#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00664 Uniform title: paramahaṃsapaddati Manuscript : Ragunath Temple, Jammu, JandK manuscript 1065 gh Description: Copied from Shri Raghunath Temple MSS Library manuscript 1065 gh digitized by eGangotri on archive.org https://archive.org/download/RudrayamalaTantraParamhansPaddhati1065GhaAlm5Shlf4DevanagariTantra/Rudrayamala%20Tantra%20Paramhans%20%20Paddhati_1065_Gha_Alm_5_Shlf_4_Devanagari%20-%20Tantra.pdf Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: September 21, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नो. ४३८७ तित्ले- मृगेन्द्रवृत्तिः औथोर्- श्री भट्टनारायणकण्ठः एxतेन्त्- १४० सुब्जेच्त्- तन्त्रम् मिस्सिन्ग् पगे नो. ८ अपूर्ण पृ० १अ) श्रीगणेशायनमः चंद्रार्धचूड(चंद्रस्यअर्द्धचन्द्रार्द्धच * * * * * यस्य * * * * ? र्द्धचूडःतस्यचरणाब्जयुगं||आगम?युक्तिभिर्गूढंआगमयुक्ति?गूढागम?युक्तिगुढ*?क्रम्यितियथागमशक्तिगूढं|| ) चरणाब्जयुगंप्रणम्यवागीश्वरींगणपतिंक्रमशोगुरुंश्च|लेशाद्यथामतियथागमयुक्तिगू ढंश्रीमन्मृगेंद्रपरमार्थमहंव्यनज्मि १ केचित्स्वबोधविभवप्रथनायतावद्गर्जंत्यहो व्रतनयत्प्रकृतोपयोगि|अ न्येपुनःपटुधियोनविवेचयंतिस्पष्टार्थमेतदितितत्तदुपेक्षमाणाः २ संक्षेपतःप्रकृतवस्तुपरिस्फुटंयेव्याचक्षतेपदपदा र्थसमन्वयेत| प्रायःकुशाग्रमतिभिस्तिहाद्रियंतेव्याख्याकृतोविफल(कुशाग्रमतिभिः चपुनः विफलविस्तरभीरुभिस्तेव्याख्याकृताद्रियंते)विस्तरभीरुभिश्च ३ साक्षात्छ्रीकंठनाथादि वसुकृतिजनानुग्रहायावतीर्णात्छ्रुत्वाश्रीरामकंठात्छिवमतकमलोन्मीलनप्रौढभास्वान्|श्रीविद्याकंठभट्टस्तदि दमुपदिशन्नादिदेशैकदा(एकदाश्रीविद्याकंठभट्टःमांतत्मृगेंद्रंउपदिशन् पाठयन् इदंआदिदेशिदंकिंतेवत्सवंअत्रस्पष्टार्थांलघ्वींसर्वोपयोग्यांविवृतिंविरचय)मांस्पष्टार्थामत्रलघ्वीविरचयविवृतिंवत्ससर्वोपयोग्यां ४ उपर्युपर्येवकृतानिकैश्चिन्मतां तराणांहिनिवंधनानि|नोद्भिन्नमुद्रंत्विदमघ(अद्ययावतद्यारभ्यभ्यनुद्भिन्नामुद्रायस्यततुद्भिन्नमुद्रंनव्याख्यातमित्यर्थः)यावत्तस्माद्गुरुर्मामिदमन्वशात्सः ५ तेनाहमस्यांविवृतोप्रवृत्तोनोल्लंघ नीयाहिगुरोरनुज्ञा|यदृछयाकोतिगभीरशव्दंमृगेंद्रमाक्षेप्तमिदंव्यवस्येत् ६ किमपियदिहनोक्तंयच्चकिंचिद्दुरुक्तंकथि पृ० १ब) तमपिमयायत्प्रस्फुटंनावभाति|दिनकृतिवदोषापह्नवैक(दोषाणांअपह्नवःदोषोपह्नवः एकंमुख्यंप्रवृताएकप्रवृत्ताःदोषापह्नवेएकप्रवृत्ताः)प्रवृत्तास्तदपि(दोषापह्नवैकप्रवृत्ताः)विवुधमुख्याःस्पष्टयंतः(स्पष्टीकुर्वंतः)क्षमंतां ७ अतः परंप्रवर्त्तंतांवृत्तयोप्युत्तरोत्तराः|प्राक्ज्वालितात्प्रदीपाद्विकस्वरादीपसंततिः ८ अथानादिमलापेतित्यादितत्तंत्रं यत्पुनःपरमेशंनमस्कृत्येत्याद्युपोद्घात्प्रकरणं|तत्संवंधाभिधेयप्रयोजनतंत्रावतारक्रमनिदर्शनार्थं|पुराखलु तत्रभवान्भरद्वाजशिष्यःसमधिगतसकलवेदशास्त्रार्थसतत्वोमुनिर्हारीतनामाशिवशक्त्युन्मुखीकृतचे तोभिःसमासादितदीक्षैःज्ञानक्रियाचर्यायोगजिज्ञासुभिःनैमिशारण्यवासिभिस्तपोधनैःकृतप्रणामांज लिभिरूर्धस्रोतःप्रसृतंश्रीमत्कामिकभेदंमृगेंद्रोत्तरसंज्ञकंपृष्टःसतान्शिष्यगुणोपपन्नान्दृष्ट्वापरमेश्वरादि प्रणामपूर्वकमिदमाहेतिहारीतशिष्यस्तत्प्रशिष्योवास्वगुरूक्तमनुकुर्वन्स्वशिष्यानिदमवदत्|परमेशंनम स्कृत्यभरद्वाजमृषिंततः|हरादिंद्रक्रमायातंज्ञानंशृणुतसुव्रताः १ हेसुव्रताःपरमेश्वरभक्तिप्रकर्षपरिपोषितशो पृ० २अ) भातिशयत्वात्सुष्टुशोभनंव्रतंशास्त्रीयनियमानुष्ठानंयेषांतेवश्रोतारःसंवोधिताः|यद्वक्ष्यत्युपसंहारे|भवत्सुशिवशी तांशुज्योत्स्नापांडुष्विदंमया|तदिछयैवोक्तमिति|(शिवेछैवोक्तं)हरादिंद्रक्रमायातं|ज्ञानंश्रुणुताकर्णयतेतिसवंधः|हरतिपशु भ्यःपाशान्पुंसोप्यूर्ध्वं(पुंस्त्वोपरिवर्त्तमानः)ततस्तुहरिति यद्यपियोगिकीयंसंज्ञा अनंतेशादिष्वपिसामान्या|तथापिइंद्रशव्दसंनिधेरि होमापतावेवहरशव्दोज्ञेयः|यथाहुः|अर्थःप्रकरणंलिंगंशव्दस्यान्यस्यसंनिधिः|प्रोक्ताःसामान्यशव्दानांविशेषस्थितिहेतविति|कुतेतदितिचेत्|यस्मादैंद्रेअस्मिन्कामिकभेदेभगवतुमापतेर्वक्तृत्वेनेंद्रस्यचश्रोतृत्वेनैव संवंधःप्रतीतः|तथाहि|पुरस्तादिहैवमुनीनामिंद्रोवक्ष्यति|शिवोद्गीर्णमिदं ज्ञानंमंत्रमंत्रेश्वरेश्वरैः|(विद्यातत्वाधिकारिणःसप्तकोटयोमंत्रास्तदात्मकादेवाः|| मंत्रेश्वराःअनंतादयः|ईश्वरतत्वाधिकारी * * * * * * * * * * * *?)कामद त्वात्कामिकेतिप्रगीतंवहुविस्तरं|तेभ्योऽवगत्यदृग्ज्योतिर्ज्वालालीढस्मरद्रुमः|इहावुमापतिर्मह्यमिति|तस्मा द्धरात्श्रीकंठनाथादिंद्रादिक्रमेणायातमितिअवतीर्णं|किंतत्|ज्ञायंतेऽनेनविद्याचर्याक्रियायोगाइतिज्ञानं पृ० २ब) शास्त्रं|किंकृत्वाशृणुत|परमेश्वरंनमस्कृत्य|सृष्टिस्थितिसंक्षोभणादिभिश्चिदचिल्लक्षणंविश्वमीष्टेइतीशः| ईदृक्त्वंचांनंतेशादीनामप्यस्तीतिपरमपदेनविशेषणं|परमश्चासावन्येषांतदनुग्रहतःशिवत्वाभिव्यक्तेःईशश्च स्वातंत्र्येणस्थित्त्यादिकरणात् परमेशस्तनमस्कृत्य|कायवाङ्मनोभिस्तस्मिन्प्रह्वीभूय|ततित्यनंतरंतंत्राव तारकंभरद्वाजमृषिमिति|(ऋछतिजानातिइतिऋषिः)क्रगतावितिधात्वर्थतःसर्वेषांचगत्यर्थानांज्ञानार्थत्वादबगतपरमार्थतयाऋषिस्तं नमस्कृत्यश्रृणुतेतिश्रोतॄणांनमस्कारोपदेशः|अनमस्कृतपरमेश्वराणांअप्रणतगुरूणांचनिर्विघ्नसंहि ताधिगमनासंभवात्|यश्चश्रोतृजनमेवंशिक्षयति सोऽर्थात्कृततथाविधविधिःप्रवृत्तितिगम्यते|तेन यथापरमेश्वरंगुरुंचनत्वाऽहमुपदेष्टुंप्रवृत्तस्तयापूपमपिश्रोतुंप्रवृर्त्तध्वमितिव्यवस्थितं|यथाचैतदिंद्रस्योमाप तिनाउपदिष्टंयत्तद्ग्रंथपरिसमाप्तौयद्यपिग्रंथेएवास्तितथापिव्याख्यानोपक्रमेसंवंधादेरवश्याभिधेयत्वात्किंचिदुच्यते| पृ० ३अ) कदाचिदतिरुचिररत्नप्रकरविनिचितकनकमयकमनीयमहीतलमनोहरसप्तमजलधितटविहरणहे(चतुरं)बाकिनंनीलो पलत्विषंचतुर्भुजंद्विकंधराधरंमुखद्वयेनवेदाध्ययनसुरापानसंकरकारिणंअसुरनिवहपरिवृतंदुर्मदंमहासुरंत्रि दशपतिरपश्यत्|अथतथाविधदुराचारदर्शनजनितकोपाकुलितमुनिगणसहितःशतक्रतुरक्षममाणोलव्ध वरत्वात्प्रसभमस्त्रैरवध्यतामस्यवुध्वाफेनेनांतर्निहितवज्रेणासुरस्यशिरोद्वयंचिछेद|तद्व्यापादनतश्चव्रह्मह त्याजनितमद्यमांशकमानस्तत्प्रशांतयेभगवंतमच्युतंनाम्नांसहस्रेणृग्यजुःसामभिश्चास्तौषीत्|प्रसंन्नेनचहरि णानवोदितभास्वत्भास्वरंसर्वभूताभिभावुकंनारसिंहंकवचंप्रयछताप्रोक्तं|यथैतत्सन्नद्धदेहस्तंउत्तरकुरुषुभग वंतंपिनाकिनमाराधयवर्षसहस्रांतेचतंदृष्ट्वाऽभिमतमासादयिष्यसीत्त्युक्तांतर्हितेमुरारौसर्वंतदिंद्रेणकृतं|अ थप्रत्यक्षीभूतेभगवतिपिनाकिनिनिखिलदुःखांतश्चास्यसंजातःश्रीमत्कामिकाख्यंचास्मैपरमेश्वरुपदिदेश|य पृ० ३ब) तश्चेंद्रस्यनृसिंहरूपिणःसमुपदिष्टमिदमुमापतिना|ततोमृगेंद्रस्यश्रोतृत्वान्मृगेंद्रसंज्ञयाप्रथितं|संवंधस्त्वत्रषट् प्रकारःपरादिः|तथाहि|सर्गादौपरमेश्वरःऊर्ध्वप्राक्दक्षिणोत्तरपश्चिमस्रोतःपंचकभेदभिन्नंज्ञानंस्वेछानुगृहीत विद्येश्वराष्टकप्रवोधनानंतरं(प्रलयेयेसुप्ताःस्थितानंतादयस्तेषांवोधानंतरंप्रथममेवअभिव्यक्तंयत्तदेव मंत्रेश्वरादिभ्यवक्षमाणसदृशंआदिदेशेत्यर्थः)तदभिव्यक्तंमंत्रेश्वरादिभ्योवक्ष्यमाणवदादिदेश|तथाचोक्तंश्रीमत्किरणे|सृष्ट्यनंत रमेवेशःशिवान्सृष्ट्वादृशात्मजान्|ज्ञानमेकंविभज्याशुतेषांतत्संख्ययावदत्|कामिकंप्रणवाख्यस्यशिवाख्य स्यतुयोगजमित्यादि|अत्रचात्मजानितिआत्मनैवनिरधिकरणेनानुग्रहेणानुगृहीतानित्याशयः|तेभ्यःउमापतिः प्राप|तस्माच्चशक्रः|ततोपिभरद्वाजः|तत्सकाशात्तुहारीतः|सपुनःस्वशिष्येभ्यःप्राहेतिपुरस्तात्सर्वंस्पष्टीकरि ष्यामः|अभिधेयाश्चेहज्ञानक्रियायोगचर्याः|प्रयोजनंत्वत्रतत्वज्ञप्तिः|तत्प्रयोजनमपिभुक्तिमुक्ती|परमेश्वरसद्भा वप्रसाधकप्रमाणोपन्यासस्तद्वाधकनिराकरणंच यद्यपितत्प्रणीतागमप्रामाण्यसाधनायप्रथममेवोपयुज्यतेत पृ० ४अ) थापिशास्त्रकारेणैवाग्रेतद्विवेचितं|अतस्तत्रैववक्ष्यामः|केवलमेतावदेवेहप्रतिजानीमहे|यदुक्तंआयुर्वेदाच्च(अमुकोषधेनामुकरोगोगच्छतिइतिआयुर्वेदेनीश्वरप्रणीतेन|गणितेनसूर्यादिग्रहणज्ञानं||मंत्रवादात्मंत्राभिजप्तपानीयादिताडनादिनाभूतादिनाशः||)गणितान्मं त्रनादाच्चसस्वरात्(स्वरात्गांधर्वविद्ययामेघदीपाद्युत्पत्तिः|)रसोपनिषदाटोपादाप्तः(रसोपनिषदात्धातुर्वादात्सुवर्णाद्युत्पत्तिरितिआयुर्वेदादिनाईश्वरःसिद्धः)सपरिगृह्यतिति|तच्चाप्तत्वं(अविद्यावृतत्वात्)सांजनत्वादसर्वार्थदृशांदर्शनांतरप्रणेतृणांस्व स्वविषयमेव|नित्यनिर्मलनिरतिशयसर्वार्थज्ञानक्रियाशक्तेस्तुसर्वदासर्वानुग्रहप्रवृत्तस्यपरमेश्वरत्वादेवसर्वाधिष्ठातुः सर्वविषयं|एवंविविधविशेषणविशिष्टस्यवक्तुर्विप्रलंभकत्वासंभवान्नाप्रामाण्यं|एतच्चयथावसरंवक्ष्यामः|तदेव मीदृक्रूपोभगवानागमस्यकर्त्ता|आगमस्तुतंज्ञापयति|अतश्चद्वयोरपिविसदृशक्रियत्वान्नात्रेतरेतराश्रयदो षः(विजातीयक्रियात्वात्)स्यात्|यथाकश्चिदेवंवक्ति|देवदत्तोहमायातिति|तद्वाक्यश्रवणाच्चतदन्येमन्यंते|हतदेवदत्तोयमापातिति |नचात्रदेवदत्तस्यतद्वाक्यस्यचेतरेतराश्रयत्वंयुक्तं|तदुक्तेषु(ईश्वरोक्तेषु)चदृष्टार्थेषुविषभूतरसवादादिषु(गरुडादिमंत्राविषभूतादिनाशकाः)तदागमस्य(ईश्वरागमस्य)फलवत्वमु पलभ्यादृष्टार्थस्यापितछासनस्यावितथत्वमनुमीयतेइत्यलमनेनप्रकृतमनुसरामः|तदेवंहारीतमुनिःस्वशिष्या पृ० ४ब) णांज्ञानोपदेशंप्रतिज्ञायेंद्रक्रमायातत्वंदर्शयितुंआह|नारायणाश्रमेपुण्येभरद्वाजावयोद्विजाः|तेपुःशिवंप्रतिष्ठाप्यत देकाहितमानसाः|व्रदर्याश्रमनाम्निविष्णोराश्रमेतदाश्रमत्वादेवपावनेभरद्वाजप्रभृतयोमुनयस्तेपुरितिसंवंधः|भरद्वाजा दीनामृषीणामद्विजत्वप्रसिद्ध्यसंभवात्द्विजाइतिविशेषणंवागीश्वरीगर्भसंयोजनसंजननादिनाकृतदीक्षात्वेनोत्क र्षवत्वंनपुनरुपनीतत्वमात्रंस्मार्त्तवत्द्विजशव्देनेष्टं|अदीक्षितानांतंत्रादिश्रवणानधिकारात्|प्रत्युतप्रत्यवायश्रुतेः |शिवंप्रतिष्ठाप्येति|लोहवाणलिंगादावाधारेसामान्यमंत्रादिना(प्रथमंतुसामान्यमंत्रविधिनाशिवस्थापनंकृतंतदुत्तरंविशेषप्रतिष्ठाजिज्ञासयाविशेषप्रक्ष्मापिकरिष्यंति)परमेश्वरप्रतिष्ठापनंपरिकल्प्येत्याशयः|अन्य थायथावद्विदिततत्तद्विधानानांपुरस्तात्प्रतिष्ठादिविषयस्यप्रश्नस्यानुपपत्तेः|तस्मिन्नेवैकस्मिन्नाहितमेकाग्रीकृ तंमानसंयैस्तेतथाविधाःसंतः|तेषुःशिवाराधनलक्षणंतपश्चक्रुरित्यर्थः|अथतान्भावितान्मत्वाकदाचित्त्रिदशा धिपःतदाश्रमपदंभेजेस्वयंतापसवेषभृतनंतरंचतान्भावितात्तंत्रश्रद्धालून्ज्ञात्वाकस्मिंश्चित्कालेमुनिरूपधारीश पृ० ५अ) क्रःतदीयमाश्रमंसिषेवे|ततश्च|सतैःसंपूजितःपृष्ट्वातांश्चसर्वाननामयंप्रोवाच|चोदनाधर्मःकिमर्थंनानुवर्त्यते|सिंद्रस्तै र्भरद्वाजादिभिराश्रमसमुचितेनातिथिसत्कारेणाभ्यर्चितेस्तान्भरद्वाजादीन्प्रत्येकंकुशलंपृष्ट्वाव्रवीत्|किंतदित्यत आह|चोदनाधर्मःकिमर्थंनानुवर्त्त्यतिति|चोदनेतिक्रियायाःप्रवर्त्तकं(विधि)वचनमाहुः|तदाम्नातोधर्मःकिमितिनानु ष्ठीयते|चोदनैव(विशेष्यसंबद्धेवकारःअन्ययोगंव्यवछिनत्ति|यथापार्थेवधनुर्द्धरःपार्थिवसदृशोऽन्योधनुर्द्धरोनास्तीत्यर्थः||एवंविशेषणसंबद्धेवकारअयोगंव्यवछिनत्ति||यथा||शंखःपांडुरेव||तद्वदत्रापिचोदनैवहिप्रमाणंप्रमाणमेवचोदनेतिक्रमेणेवकारोविशेष्यविशेषणसंबद्धअन्ययोगायोगौव्यवछिनत्ति||)हिधर्मेप्रमाणंप्रमाणमेवचोदनेत्येवमन्ययोगायोगव्यवछेदनेनततःप्रवर्त्तमानामैहिकस्यामु त्रिकस्यचफलस्याविसंवादात्|(अवश्यभावित्वात्)तथाचोक्तंश्रुतिस्मृत्युदितंधर्ममनुतिष्ठह्निमानवः|इहकीर्त्तिमवाप्नोतिप्रेत्यचानुत्त मांगतिमिति|तद्विपरीतंतुत्रयीवाह्यंलिंगाराधनादिचयत्तत्त्रयीबाह्यत्वादेवफलुप्रायं|यदाहभट्टः|तथातिक्रांतवे दोक्तमर्यादाव्यवहारिणांसंवादिष्वपिवाक्येषु(नास्तिकादिप्रणीतासंदिग्धार्थेष्वपिचैत्यवंदनादिवाक्येषु)नेष्यतेमानहेतुता|मनुरपि|यावेदवाह्यास्मृतयोयाश्चकाश्चित्कुदृष्टयः(चार्वाकादिप्रणीतग्रंथाः) |सर्वास्तानिष्फलाःप्रेत्यतमोभूताहिताःस्मृताः|इत्येवंजैमिनिमतानुसारिणः|तस्यवचःश्रुत्वा|तूचुर्नन्वयंधर्म पृ० ५ब) श्चोदनाविहितोमुने|देवताराधनोपायस्तपसाभीष्टसिद्धये|तेभरद्वाजादयः|इंद्रंतापसरूपत्वात् मुनिशव्देनामं त्र्यनन्वितिप्रतिवचनमवोधन्|योयमस्माभिरभिहितोरुद्राख्यदेवताप्रसादनोपायलक्षणोधर्मःतपसासमीहितसि ध्यर्थंआसेव्यतेसचोदनयैवाभि हितोव्यवस्थापितः|तथाहि|चोदनानामलिंङ्लोट्तव्यदादिशव्दव्यवस्थापितवि धिनिषेधरूपयजनादिक्रियाप्रवर्त्तकवचनमभिधीयते|यथाज्योतिष्ठोमेनयजेतस्वर्गकामेनकभंजंभक्षयेदित्यादि|तच्चमुख्यतया श्रौतंधर्मरूपंतन्मूलत्वाच्चस्मार्त्तमपि|तथाचोक्तं|तस्मात्श्रुतिस्मृतीएवप्रमाणंधर्मगोचरिति|तथावेदोऽ खि लोधर्ममूलंस्मृतिशीले(वेदविप्रंअखिलोपिवेदःस्मृतिर्मन्वादिःशीलंआचरणंचधर्ममूलंभवति)चतद्विदां|इतितदास्तांतावदेवंविधाश्रुत्यादिसदागमार्थाविरोधिन्यःपौराणिक्यःसंहि ताः|अन्याश्चकाश्चनश्रुतयोयासामिदंतात्पर्यं|यथामहाभारतादौ|येभक्तावरदंदेवंशिवंरुद्रमुमापतिं(उमापतिंअर्चयंतीतिशेषः)इहलोकेसु खंप्राप्यतेयांतिपरमांगतिमिति|सर्वरूपंभवंज्ञात्वालिंगेयोर्चयतिप्रभुं|तस्मिन्नभ्यधिकाप्रीतिंकरोतिवृषभध्वजः पृ० ६अ) इतितथाआदित्यावसवोरुद्रामुनयश्चमहौजसः|विधिवल्लिंगमाराध्यपदमिष्टतमंगताइति|तथामृत्भस्मगोशकृ त्पिष्टगुडखंडादिलिंगकं|संपूजयन्प्रतिष्ठाप्यश्रद्धावानधिगच्छतीति|तंत्राप्रामाण्यामभ्युपगम्यापिव्रूमः|यदभिप्रायेणेदमभि धीयतेभवद्भिःसतावत्श्रुत्यर्थेवस्मर्यतां|तत्रहिवेदेस्तिसंहितारौद्रीवाच्यारुद्रश्चदेवता|सांनिध्यकरणेप्यस्मि न्विहितःकाल्पिकोविधिः|रुद्रोदेवतास्याइतिरौद्रीसंहिता|ऋग्यजुःसामलक्षणेचाथर्वणेचवेदेस्ति|यजु र्वेदेहिरुद्रैकादशिनीसंहिताश्रूयतेयस्यांभगवंतोरुद्राःसर्वाभिप्रेतसाधकाःपठ्यंते|ऋग्वेदेपित्रियंवकंयजामहे इमांरुद्रायतवसेकपर्दिनेइमारुद्रायस्थिरधन्वनेगिरित्यादिकाऋग्विधानाम्नाताःतत्तद्विशिष्टविधानफलावि यंतेव|सामवेदेप्यस्ति|श्रूयतेहि साष्वांविधाने|आवोराजातद्वोवर्गाज्यहोहानिदेवव्रतानिचैषारौद्रीनामसंहि ताएतांप्रयुंजानोरुद्रंप्रीणातीति|एवमाथर्वणेपिरुद्राराधानविधयःतन्मंत्रसंहिताश्चसंभवंति|नचकेवलसंहिता पृ० ६ब) मात्रमेवास्ति|तत्रतत्ररुद्रेवदेवतावाच्यरूपतयाश्रूयते|यमुद्दिश्येषतेरुद्रभागःसहस्वस्रांविकपातंजुषस्वस्वाहे तिश्रुतिः|नचैतावत्यावत्काल्पिकितिकल्पोवेदांगंतदुक्तोविधिःभगवतःसांनिध्यकल्पनायश्रूयते|तथाहि| काठकेसूत्रपरिशिष्टीयेरुद्रकल्पेत्रिषवणमुदकोपस्पर्शनमित्युक्तोक्तंदर्भेष्वासीनोदर्भमुष्टिंधारयमाणोरक्षो गोप्यविज्ञेयोभवति|शाकपावकपयोभैक्षभक्षःषड्भिर्मासैःप्रत्यक्षीभवंतंभगवतंपश्यतीति|एवंचश्रद्दधानमन सांजैमिनीयछायाश्रयिणामपिचोदनाप्रदर्शितोयमस्त्येवप्रसिद्धः पंथाः|किंपुनःपरमेश्वरप्रकाशनविहतम हामोहतिमिरतयाविस्पष्टदृष्टीनामन्येषां|इत्युक्तेपिपरंभावंजिज्ञासुःप्रहसन्प्रभुः तानाहमिथ्या ज्ञानंवःश व्दमात्रंहिदेवता|एवमपिकथितेतदीयंभक्तिप्रकर्षंज्ञातुमिछुरिंद्रत्वेनपरमैश्वर्ययोगात्प्रभुःप्रभवनशीलः| सतान्मुनीन्सस्मितमाह|किंतत्मिथ्याज्ञानंवःयुष्माकंसंवंधियदेतल्लिंगार्च्चनादिशिवाराधनप्रतिपादकज्ञानंशा पृ० ७अ) स्त्रंतत्मिथ्यानसत्यंतत्प्रणेत्तथाविधदेवतानुपपत्तेः|यतःकर्मानुष्ठानादेवफलंदेवतातःशव्दमात्रंहिदेवतानख लुवयंप्रत्यक्षेतरप्रमाणापह्नवप्रवृत्तदुराचारचार्वाकवदसंभवमेवदेवतायाःप्रतिपद्यामहे|किंतर्हिविद्यतेएवदेवता |सातुशव्दान्नातिरिच्यतेअपितुअपोगोलकवह्निवदनुपलभ्यमानवाच्यार्थपृथग्भावःशव्देव|तेषुतेषुक्रियावि शेषेष्वंगभावंगछन्यागसंप्रदानदेवताविशेषाख्यांलभते|तदुक्तं|अविनिर्भिष्णशव्दार्थंध्यायेदोंकारमीश्व रमिति|नचात्रकश्चिदेकेवविश्वेशितास्तीतिनियमःप्रतिज्ञातुंशक्यः|अनेकाकारसुप्रसिद्धवहुतरदेवतावि शेषश्रवणात्|तच्चेदमनुपममहिम्नःशव्दरूपस्यैवविजृंभितं|यदेकमपिसत्तत्तद्देवताविशेषप्रतीतिहेतुता मात्मप्रतीतिहेतुतांचाभ्येति|तथैवश्रुतिः|इंद्रं मित्रंवरुणमग्निमाहुरथोदिव्यःसुपर्णोगरुत्मान्|एकंस द्विप्राबहुधावदंत्यग्निंयमंमातरिश्वानमाहुरितितत्संस्थितमेतच्छव्दात्मिकादेवतेत्येवमन्वयेनाभिधायव्यतिरेकेणामुमेवार्थंद्रढयितुमाहशव्देतरस्त्वेयुगपत्भिन्नदेशेषुयष्टृषुनसाप्रपाति सांनिध्यंमूर्त्तत्वादस्म पृ० ७ब) दादिवत्|शव्दव्यतिरिक्तादित्यदिदेवताविद्यतेकिंविग्रहवत्यविग्रहोभयरूपाऽनुभवरूपावानुभयरूपत्वेऽवस्तुत्वाद्यत्किंचित्त त्वंनस्यातुभयरूपत्वेविरुद्धधर्माध्यासःस्वसिद्धांतविरुद्धानेकांतवादाभ्युपगमः व्यस्तपक्षद्वयोद्भावित दोषप्रसंगश्च |अविग्रहवत्वेशव्देनैवकिमपराद्धं|विग्रहवत्वेतुभिन्नदेशावस्थितेषुयुगपत्प्रारब्धयागेषुयज्वसुमूर्त्तत्वात्तस्याःसांनि ध्यानुपपत्तिः|ननुमूर्त्तत्वेसत्यपिसांनिध्यंपरस्परविदूरदेशस्थोपस्थातृजनोपहृत(उपस्थातृजनैःउपहृतासमर्याययोस्तौतयोः)सपर्ययोरर्केंदुविंवयोर्दृष्टमिंत्य नेकांतिकंमूर्त्तत्वंनानेकांतिक(इंद्रादिःसकलदेशासंनिहितःमूर्त्तत्वात्घटादिवतित्यत्रमूर्त्तत्वंसोपाधिकोहेतुः||तथाहि|| प्रकृतेअनीश्वरत्वमुपाधिःससाध्यस्यसकलदेशासंनिहितस्यव्यापकोस्तियत्रयत्रसकलदेशासंनिहितत्वंतत्रतत्रघटादावनीश्वरत्वमितिसाध्यव्यापकत्वं||यत्रयत्रमूर्त्तत्वंतत्रतत्रअणिमाद्यष्टानीश्वरत्वंनास्तिइतिकुतःयोगिनिमूर्त्तत्वमस्तिपरंतुअनीशत्वंनास्तीतिसाधनाव्यापत्यकत्वमिति)अर्केंदुविंवयोःस्वप्रभाभास्वरयोरुच्चतरत्वेनसकलदेशोपलक्ष्यस्थानमात्रस्थयो र्वहुजनोपलंभयोग्यदेशावस्थानमेवसांनिध्यंभवतांप्रतिभातिनवास्तवं|तथाचात्युत्तुंगरंगोत्संगवर्त्तिनीनर्त्त कीविदूरदेशवर्त्तिभिर्भूयोभूयोभिप्रेक्षकैःप्रेक्ष्यमाणानैकैकंप्रतिप्राका म्यशक्त्यासांनिध्यंभजते|तस्मात्स मकालमनेकगृहभोजनोपनिमंत्रितानांयथास्माकमनेकगृहभोजनंनदृष्टमेवंदेवतायास्तुल्यकालंभिन्नदेशस्थयाग पृ० ८) यह पेज उपलब्ध नही है | पृ० ९अ) सांनिध्यंमूर्त्तत्वान्नसंभाव्यमितिशव्दमात्रत्वमेवास्याःसाधीयः|किंचनचतत्साधकंकिंचित्प्रमाणंभात्यबाधितं|नकिलतथा विधव्यत्यय(नाशदशारहितस्येत्यर्थः)दशाविरहितपरमपरोक्षवपुषःप्रकृष्टातिशयैश्वर्योपपन्नज्ञानानंतमहिम्नोदेवताविशेषस्यसाधकंकिमपिप्र माणंप्रतिभाति|तथाहि|अपरोक्षत्वेनसकलप्रमाणज्येष्ठस्यप्रत्यक्षस्यतावन्नासौगोचरः|न ह्यतींद्रियविषय ग्रहणक्षमत्वंप्रत्यक्षस्यसंभवति|अथव्यवहितविप्रकृष्टार्थविषयंयोगिप्रत्यक्षंतत्सत्तानिश्चायकमितिचेत्|त न्न|यस्मादस्मदाद्यतींद्रियार्थदर्शिनोयोगिनःसूक्ष्मादिविषयस्तत्प्रत्यक्षंतेनचेशःसाक्षात्क्रियतित्येतत्सर्वमनुपप न्नं|प्रमाणाभावात्|अतींद्रियोऽतींद्रियार्थदर्शीचकश्चित्साधयितुमिष्टस्तस्य(अतींद्रियस्येऽतींद्रियार्थदर्शीनश्च)तथाविधपुरुषप्रत्यक्षेणासिद्धे नसाधनं प्रामाणिकस्यापिभवतःकिमितिनत्रयावहं|नन्वस्त्यत्रानुपहतसामर्थ्यंमनुमानं|तथाहि|जगदि दमुर्वीपर्वतसरित्समुद्रादिधर्मिकार्यमितिसाध्योधर्मःसावयवत्वात्यद्यत्सावयवंतत्तत्कार्यंयथावलभिप्रा पृ० ९ब) कारपुष्करिण्यादिविपक्षव्यावृत्तश्चायं हेतुःयत्रकिलात्मादौकार्यत्वंनास्तितत्रसावयवत्वमपिनास्तीति|नचास्य(नचित्यस्यितिपदेनसहअन्वयः)हे तोरीश्वरशरीरेणाने कांतिकत्वं|यथाहुर्जैमिनियाः|(मयाकिंवक्तव्यंजैमनीयापित्वद्धेतुंदूषयति)अनैकांतश्चहेतुस्तेतच्छरीरादिनाभवेदितितस्यापि(शरीरस्यापि) तदिच्छा कार्यत्वेनअस्माभिरिष्यमाणत्वादितिसिद्धेच|जगतःकार्यत्वेपियद्यत्कार्यंतत्तद्विशिष्टज्ञानक्रियोपपन्नकर्तृकाविनाभा वि|घटपटादिवत्|कार्यंचेद्दंजगत्तत्तस्मादिदमपिनिरतिशयज्ञत्वक र्तृत्वसंपन्नंनिर्मातारंगमयति|यश्चात्रनिर्मा तासकीश्वरिति|किमेतन्नप्रमाणंभवेदेतत्यद्यवाधितंस्यात्|यावतापरमाण्विंद्रियादेर्जगद्भागस्यासिद्धंसा वयवत्वमितिभागासिद्धोयंहेतुः|परमाणूनामा(परमाणवःकार्याणिअचेतनत्वेसतिअनेकत्वात्)चैतन्येसत्यनेकत्वाद्घटादिवत्कार्यत्वमत्यभिचारिइतिकिलभव तामभ्युपगमः|यद्यप्येतद्दृष्टांतीकृतंवलभिप्राकार(तडागादि)पुष्करिण्यादितद्गतमुपादानसहकारिकारणाद्यानुगुण्यवैगुण्या न्निर्वृत्तसदसन्सनिवेशंसावयवत्वं(वलभिप्राकारपुष्करिण्यादिगतंसावयवत्वंसमीचीनासमीचीनतत्तक्षादिकर्तृकंकृत्रींव?)तदन्यदेवतत्तत्सन्निवेशसदृशमितरदेवहिमहीमहीधरादिगतं(महीमहीधरादिगतंसावयवत्वंतुअकृर्त्रिमंपरिरामिसावयवमितिदृष्टांतासिद्धिः)सावयत्वं|वस्तुसा पृ० १०अ) दृश्यावलंवनपूर्वव्याप्तिदर्शनाहितसंस्काराचतदनुगुणसाध्य(यादृशंसाध्यंयादृशंसाधकंतादृशमेवानुमितिःप्रामाणिकी)साधनार्थंप्रामाणिकमितिःप्रवर्त्ततितियुक्तं|नपुनःसा वयवत्वशव्दमात्रसामान्याश्रयेण|यदाह|धर्मकीर्त्तिःसिद्धंयादृगधिष्ठातृ(यादृशअधिष्ठातातक्षाइतियावत्चतुरअचतुरोवासमीचीनश्वेसमीचीनसंनिवेशादिजायतेतदभावेनजायते|| असमीचीनतक्षाचेदसमीचीनसंनिवेशादिजायते||तदभावेनजायते||प्रसिद्धेपिवस्तुभेदेशव्दसाम्यातनुमितिर्युक्तानभवति||योयोपांडुगुणवान्ससवह्निःस्यात्||तथाचजलमपिवह्निस्यात्)भावाभावानुवृत्तिमत्सन्निवेशादितद्युक्तंतस्माद्यदनु मीयते|वस्तुभेदेप्रसिद्धेपिशव्दसाम्यादभेदिनः|नयुक्ता नुमितिःपांडुद्रव्यादिवहुताशनिति|अपिचवलभ्यादीनाप क्षांतर्भावे दृष्टांताभावः|नचेत्तत्रांतर्भावः|तदाईश्वरस्यसर्वकर्तृत्वहानिः|स्थपत्याद्यन्वयव्यतिरेकानुविधायिनौ भावाभावौवलभ्यादीनांदृष्टौ|नचदृष्टंकारणमपहायकारणांतरतदीश्वराख्यंकल्पयितुमुपपन्नं|एवंहिसतिसर्वत्रकार्यका रणभावोविप्लवेत|तदुक्तं|यस्मिन्सतिभवत्येवयत्ततोन्यस्यकल्पनेतद्धेतुत्वेनसर्वत्रहेतूनामनवस्थितिरिति|किंच| नतावतशरीरजगन्निर्मातृदेवताविशेषाभ्युपगमोयुक्तः|तस्यजगल्लक्षणकार्यसंपादनासंभवात्|यदाह(किंचकार्यत्वंहेतुसोपाधिकः|उपाधिस्तुशरीरजन्यत्वंतस्यसाध्यव्यापकत्वेसतिसाधनाव्यापकत्वमस्ति|अशरीरीधर्मीतद्विपरीतस्वरूपंसशरीरीतत्साधकःकाःकार्यत्वंहेतुःयत्रयत्रकर्तृजन्यत्वंतत्रतत्रसरीरजन्यत्वमितिसाध्यव्यापकत्वंयथाघटःयत्रपत्रककार्यत्वंतत्रतत्रकर्तृजन्यत्वंनास्तिपर्वताद्यंकरादौतदभावात् साधनाव्यापकत्वमितिअहकार्यंशरीरसंयुक्तनेति)कार्यंश रीरसंयुक्तेनकर्त्रा(जगत्सशरीरकर्तृकंकार्यत्वात्घटवत्)व्याप्तंसदैवयत्|कार्यत्वात्तेनजगतःकर्त्तादेहीप्रसज्येतिति|ततश्चधर्मिस्वरूपविपरीतसाधकःका पृ० १०ब) र्यत्वहेतुःशरीरवत्वेत्वस्मदादिवदुत्पत्तिप्रलययोगित्वं|तच्चास्यशरीरंस्वनिर्मितंकर्त्रंतरनिर्मितंवास्वनिर्मितत्वेकि मसौतत्सर्गकालेसशरीरःशरीररहितोवा|देहेंद्रियरहितस्यनक्वचित्किंचित्कार्यंदृष्टमित्युक्तं|शरीरवांश्चेत्शरीरं सृजति|तर्हितदप्यस्यशरीरंकिंकृतं|स्वकृतत्वेन्यकृतत्वेवानवस्थेत्येवमादिवाधकसद्भावात्तत्साधकंप्रमाणंनकिंचि दुपपद्यते|अथोच्यतेवाक्यमागमलक्षणंप्रमाणमस्तियदत्यंतातींद्रियार्थनिश्चायकंततःप्रवर्तमानस्याभिप्रेतसंप त्तेर्दृष्टत्वात्|तदाहुः अक्षलिंगाति(अक्षाणिइंद्रियाणिलिंगानिअनुमानानिअतिक्रम्यगछतीतिअक्षलिंगातिगः)गोह्यर्थःपुंसःशास्त्रेणदर्श्यतितिएतदेवनिराकर्तुमाह|वाक्यंतदन्यथासिद्धं||वा क्यमागमलक्षणंपुराणेतिहासादिगीतंयथाहमहाभारतादौभगवान्व्यासमुनिःसशिवस्तातंतेजस्वीप्रसादाद्याति तेग्रतःसेंद्रादिषुचदेवेषुतस्यैवैश्वर्यमुच्यते|तंगच्छशरणंदेवदेवादिंभुवनेश्वरमित्यादि|श्रुतावपियोरुद्रोअग्नौयो अप्सुयोषधीषुयोवनस्पतिषुयोरुद्रोविश्वाभुवनाविवेशतस्मैरुद्रायनमोअस्तुतथा|त्रियंबकंयजामहित्यादि|तदे पृ० ११अ) तदन्यथासिद्धंअत्रहिपौर्वापर्यपर्यालोचनानिराकृतो(पौर्वापर्यपर्यालोचनयाविचारेणनिराकृतः)यथाश्रुतश्रुतिसमुत्पादितोवाक्यार्थः|अतोनैवप्रतीतिमात्र(प्रतीतिमात्रेणअभ्रांलवुद्धयः)वि प्रलव्धवुद्ध्ययस्तयेतिप्रतिपत्तिंभावयंति|तयाकिलविषंभक्षयमाचास्यगृहेभुङ्क्थाइत्यत्रविषभक्षणेभ्यनुज्ञानंश्रू यमाणमपिनवाक्यार्थः|किंतर्हि|प्रतिकूलगृहभोजननिषेधेवतात्पर्यं|एवंभारतादावुपाख्यानद्वारेणसो द्योगस्यविजिगीषोर्द्विषदुपशमोनिर्विघ्नः|क्षत्रियाणांचस्वधर्मानुष्ठानमभ्युदयायेत्येवमर्थः|स्तुतिवादःश्रुतौतु मंत्रार्थवादपदानां(अक्षययंहवैचातुर्मासयाजिनःसुकृतंभवतीतिचातुर्मासयागस्यकार्यस्यअतिशयंस्तुतिरितियावत्तदावेदनंविनापुरुषाणांप्रवृत्तिर्नजायतेऽतोमंत्रार्थवादानांस्तावकत्वमिति)कार्यातिशयावेदनंविनापुरुषाप्रवृत्तेः श्रद्धावहविविधाभ्युदयज्ञानोपजनन(श्रद्धावहानियानिविविधाभ्युदयज्ञानानितेषांउपजननीयाप्रतीतिस्तस्यांगत्वंमंत्रार्थवादानांनतुस्वरूपयार्थार्थ्यप्रमित्यंगत्वंइतिवाशव्दार्थज्ञानातभ्युदयज्ञानंजायतेअभ्युदयज्ञानात्श्रद्धाभवतितथाहिचातुर्मासयागातक्षयंसुकृतंभवतिइतिशाव्दवोधात् सुखादिज्ञानंजायतेततःअहोचातुर्मासयागः समीचीनः यस्मादस्माकंअ**?प्सिसुरयादिजायतेऽतोस्माभिरपिविधेयितिश्रद्धा)प्रतीत्यंगत्वंनस्वरूपयाथा र्थ्यमित्यंगत्वमितिनतदुक्तिमात्रात्विशिष्टदेवतासदभावावेदकत्वं|तथाचाहुः|स्तुतिबादकृतश्चैषजनानांमतिविभ्रमन पौर्वापर्यापरामृष्टःशव्दोन्यांकुरुतेमितिमिति|अथसकललोकसिद्धाप्रसिद्धिरनपह्नवनीयाविद्यते|यत्सर्वो ह्ययमाविद्वदंगनावालोजनःपरमेश्वरस्येच्छाविधिप्रेरितःप्रवर्ततेदैवमेवात्रकारणमितिव्रुवाणोदृश्यतेच|उ पृ० ११ब) पाख्यानानिचिक्षमखमथनकालदमनकामदाहांधकवधत्रैलोक्याक्रमणाद्युपरचितानिवहुशःपठंतःक थयंतः शृण्वंतश्चोपलभ्यंतेतदुद्देशेनचार्थविनियोगनियमजपतपःप्रभृतिक्लेशकारिणीमपिकर्मपद्धतिमनु तिष्टंतोस्मानवगमयंति|तदुतसंतिदेवताविशेषाइत्याह|लोकवादाः क्वसाधवः| अपर्यालोचितपौर्वापर्यगतानुग तमूर्खजनप्रवर्तितात्प्रवादमात्रादसकृद्दृष्टव्यभिचाराद्वस्तुसिद्धिमिछन्नहोवतवृथैवदैन्यास्यदतामुपपातो सि|अथ प्रत्ययितपुरुष(प्रामाणिकाप्तितियावत्)प्रवर्तितःप्रवादःतर्ह्यागमेवासौप्रत्ययितत्वं(प्रत्ययितस्य)चतस्यकतमेनप्रमाणेनसिद्धंतत्प्र वर्तितादागमप्रामाण्याच्चतत्सिद्धिस्तत्सिध्याचागमप्रामाण्यमितीतरेतराश्रयदोषः(आप्तप्रणीतादागमात्पुरुषस्य प्रामाण्यसिद्धिः||पुरुषप्रामाण्यसिद्ध्याचागमप्रामाण्यसिद्धिरित्यन्योन्याश्रयः)नित्यत्वेत्वागमस्य कार्येवार्थेप्रामाण्यंनसिद्धेइतिनयुष्मदभिमतदेवताविशेषःकथमपिसिध्यतीतिशक्रोक्तिमभिधायहा रीतमुनिःस्वोक्त्यास्वशिष्यानाहित्यनीशवचोवारिवेलानुंन्नोब्धिनेवसःशक्रेणनचवालैषांधीशैलःसारगौ पृ० १२अ) रवातित्यनेनोक्तेनक्रमेणेश्वरनिराकरणवचनान्येवनिम्नमार्गानुसरणाद्वारीणितेषांवेला(वलवृद्धिरितियावत्)समुल्लासस्तस्यानुंन्नः प्रेरितोप्येषांभारद्वाजादीनांसंवंधीमतिपर्वतस्सारवत्वात्गुरुत्वाच्च(तृणपर्णादिराशिगुरूरपिनिःसारत्वात्वायुनावाजलेनअयनेतुंशक्यः|| वालुकायांसारवत्वेपर्वतिवगुरुत्वाभावः)हेतोर्नचचालनचकंपेकेननुन्नित्याह|अव्धिनेवश क्रेणयथाकिलवेलाचलस्समुद्रजलतरंगदृढाहतःस्वावष्टंभान्न(स्वंअवष्टंभोयस्मिसःस्वावष्टंभस्तस्मात्स्वस्थानादित्यर्थः)चलत्येवंमुनिमतिःतीक्ष्णाग्रत्वादिसाधर्म्यात्प र्वतेनरूपकीकृताचस्वस्थैर्यान्नव्यचलत्ततश्चेन्द्रंप्रतितेपुनरिदमभ्यदधुः|नजातुदेवतामूर्त्तिरस्मदादिशरीरवत्वि शिष्टैश्वर्यसंपन्नासातोनैतन्निदर्शनं|विभूतियोगतारतम्यमस्मदादिलोचनगोचरचारिसामान्य(योगात्र्यदाः)पुरुषमात्राश्र यंदृष्टंअदृष्टविग्रहस्यदेवताविशेषस्याणिमाघैश्वर्यसंपत्तिमनुमापयतितत्कथंप्राकाम्यशक्तिजनितंयुगपदने कदेशमात्रसंनिधिमात्रमसंभाव्यंमन्यसेनहिकदाचिदस्मदादिशरीरवद्देवतामूर्त्तिः|क्लेशकर्म(पंचक्लेशाःकर्मप्रसिद्धं आशयःवासना)विपाकाशययो गिन्यव्यापिकावा|इच्छामात्रेणास्मदादिसृष्टिस्थितिध्वंसकरणक्षमविशिष्टैश्चर्ययसंपन्नत्वात्मूर्छिताणुत्राणा पृ० १२ब) द्धिमूर्त्तित्वमस्मदादिमूर्तित्वविलक्षणंचास्याःततश्चयुगपदनेकदेशसंनिधिनिराकरणायोपात्तस्यमूर्त्तित्वाख्य स्यहेतोरप्रयोजकत्वंदृष्टांतश्चानुपपन्नःसाध्यधर्मासिद्धत्वात्साध्योहिधर्मस्तुल्यकालमनेकदेशासंनिधिलक्ष णोत्रसर्वात्मनानास्तियस्मादस्मदादिमध्यवर्त्तिनां मूर्त्तिमतांसतामप्यणिमादिसिद्धिप्रकर्षयोगिनांयोगि नांयुगपदनेकदेशसंन्निधिरद्यत्वेपि नां(इदानीमपि)संभाव्यःनचनिरतिशयसकलोत्कर्षयोगिनःपरमेश्वरस्यस्वदर्शना भिनिवेशिभिः(स्वदर्शनंमिमांसातस्यांअभिनिवेशविद्भिर्मीमांसकैः)कुंभकारादिनिदर्शनकलुषीक्रियमाणजगंनिर्माणस्यकिंकायःकिमाश्रयःकिमुपकरणि त्याद्यसद्विकल्पविप्लवोनुप्रविशतितथाचोक्तंसिद्धचूडामणिनाकिमीहःकिंकायःसखलुकिमुपायस्त्रिभु वनंकिमाधारोधातासृजतिकिमुपादानितिच|अतर्क्यैश्वर्येत्वययनवसरदुस्थोहदधियःकुतर्कोयंकांश्चि न्मुखरयतिमोहायजगतांइतियथाचाशरीरदेवताविशेषसंभवोसंभवद्वाधस्तथेश्वरसिद्धिप्रकरणेवक्ष्या पृ० १३अ) मःसतुतथातयाप्रतिपाद्यमानोपिनतन्निराकरणप्रवणानांप्रयोजनहेतुर्भविष्यतीतिअत्रदैवोपहतत्वमेवा पराध्यतियथाहराजाउत्पलदेवःसमुज्वलन्न्यायसहस्रसाधितोप्युपैतिसिद्धिंनविमूढचेतसांमहेश्वरःपाणित लेस्थितोपिसन्पलायतेदैवहतस्यसन्मणिरितिरीदृशाभ्यांचहेतुदृष्टांत्ताभ्यांसाध्यसिध्युपगमेन्यत्राप्ययमेव न्यायःप्रसज्यतित्याहअथास्त्वेवं(घटशब्दःनिरर्थकः शब्दत्वातिंद्रशब्दवत्)घटेन्यायःशव्दत्वादिंद्रशव्दवत्भवताकिलशब्दमात्रंहिदेवतेतिप्रतिज्ञातंअ तःशव्दव्यतिरिक्तंदेवतानभ्युपगमेसत्येतदापतितंयदुतवाचकव्यतिरिक्तवाच्यार्थासंभवःइंद्रादिशव्दानांय थानान्योवाच्योर्थोविद्यतेएवंशव्दत्वाविशेषात्घटादावप्ययमेवन्यायोस्तुनचैतद्युक्तंअनुभवविरोधात्तथाहि नादत्तेघटशव्दोंभश्चंद्रशव्दोनराजतेघटतेचेष्टतेअर्थक्रियामितिघटःचंदतिह्लादयतिदीप्यतेचेतिचंद्रित्येवं विधयाशव्दव्युत्पत्याशव्दव्यतिरिक्तवाच्यार्थासंभवतोघटशव्दस्यैवोदकाहरणंचंद्रशव्दस्यैवचाह्लादनादिप्राप्तं पृ० १३ब) नचानयोस्तदस्तिअपितुतद्वाच्ययोःपृथुवुध्नोदराकारभास्वरविंवस्वरूपयोस्तत्तदर्थक्रियाकरणक्षमत्वंदृष्टंततोन वाच्यवाचकयोरैक्यंततश्चनशव्दमात्रंदेवताकिंतर्हितद्वाच्यैवेतिसिद्धंइदानींवाक्यंतदन्यथासिद्धमितिपरमत मनुसंधायदूषयतिअथान्यविषयंवाक्यमस्तुशक्रादिवाचकंकर्मरूपादिशव्दानांसार्थकत्वंकथंभवेतिंद्रोवज्री हिरण्मयित्यादीनिवाक्यानिशक्रादिदेवतालिंगानिमंत्रार्थवादपराणिनत्वेषांस्वरूपयाथार्थ्यमितिय द्भवद्भिरभिहितंतत्तथास्तुस्वार्थप्रतिपादनपराणांतुश्रूयमाणानांकर्मरूपादिशव्दानांकथमर्थवत्वंस्यात्त त्रकर्मशव्दाःक्रियाभिधायिनःव्री हीनवहंतीत्यादयः|एवंरूपशव्दाजात्यादिशव्दाश्चयथाश्वेतंछागमालभेते त्यत्रश्वेतशव्दस्यरूपाभिधायिनः|छागशव्दस्यचजातिवाचिनःशक्रादिशव्दवत्शव्दत्वाविशेषात्स्वरूपयाथार्थ्या संभवेसत्वानर्थक्यंततश्चचोदनावाक्यानामकिंचित्करत्वंयद्वाशक्रादिवाचकस्यवाक्यस्यान्यविषयत्वेकल्प्य पृ० १४अ) मानेतद्विषयाणामिंद्रोवृत्रमवधीदित्यादीनांकर्मशव्दानांसहस्रदृग्वज्रपाण्यादीनांचरूपाद्यभिधायिनांशव्दानांक थमर्थवत्वंस्यात्नचार्धजरतीयन्यायुपद्मादयितुंशक्योयेनविधिशव्दानामेवस्वरूपयाथार्थ्यंनेंद्रादिशव्दानामिति स्यात्यदप्युक्तंलोकवादाःक्वसाधवितितदयुक्तंयतःप्रवादोप्यखिलोमिथ्यासमूलत्वात्नयुक्तिमत्सचेदमूलो भूतानांहताःसर्वाःप्रवृत्तयःनद्यास्तीरेगुडशकटंपर्यस्तमित्यादेर्निर्मूलस्यापिप्रवादस्यैकांतेननमिथ्यात्वंकदाचि त्संवादित्वात्ततश्चसर्वप्रवादोनसत्यित्येतन्नयुक्तिमत्नप्रमाणोपपन्नमितियावत्समूलत्वेसतिमिथ्यात्वासिद्धेःमूलंचास्या गमःतथाचाहुःप्रसिद्धिमागमःप्राप्तोलोकित्यभिधीयतिति०अथनिर्मूलोयःप्रवादःसचेन्मिथ्यारूपःतदप्ययु क्तंयस्मादेवंकल्प्यमानेभूतानांसर्वाःप्रवृत्तयोव्याहन्येरन्सर्वोहिहितप्रेप्सुरहितजिहासुर्वानप्रमाणघटनां(प्रमाणसत्तांनिश्चित्य)कृत्वा तांपुरस्कृत्यलोकव्यवहारेदृष्टफलेसेवाकृष्यादावदृष्टफलेवेष्टापूर्त्तादौप्रवर्त्ततेकिंतुप्रायशोगतानुगतिकप्रवा पृ० १४ब) दमात्राधिवासितमतिः|(लोकव्यवहारेइष्टापूर्त्तौचगतानुगतिकप्रवादमात्राधिवासितमतिःपुमान्प्रवर्त्ततेइतिपूर्वेणान्वयः)कीदृशंचभवताप्रवादस्यमूलमन्वेष्टव्यं०यदिचिरकालप्रवृत्तत्वेनवहुजनोद्घोष्यमाणत्वंतद्युक्त मेवअन्यथाप्रवादेवनासौतथाचसतिनास्यमिथ्यात्वंचिरतरमनेकजनप्रथितत्वेपिकुतोस्योद्भवित्येवंविधिमूलंपरी क्ष्यते०तर्ह्यागमपरीक्षैवेयंनलोकवादविचारःनचैतदेवं(आगमपरीक्षापर्यंतंकिमर्थंयत्नःक्रियतेत्वयापिशिष्टाचारःस्वीकृतित्यताहमचेति)यतोभवद्भिरपिश्रुतिरूपादागमादन्येवसज्जनसेवितोव्यवहा रःशिष्टाचाराख्योधर्ममूलत्वेनाभ्युपगतित्यलंप्रद्वेषेण०तदेवंसमूलेन(वेदोखिलोधर्ममूलंस्मृतिशीलेचतद्वितामिति)लोकप्रवादेनेश्वराख्यविशिष्टदेवतासंभवः|त थाहि०उपमन्युर्हरंदृष्ट्वाविमन्युरभवन्मुनिः|किंतुनामाखिलजनप्रतीतमेतद्यन्मुनिरुपमन्युःपरमेश्वरेणवरप्रदानेना नुगृहीतःतथाचमहाभारतेआनुशासनिकेपर्वणिभगवद्व्यासमुनिनोपमन्युवाक्यंप्रदर्शितंआहमांभगवानीशः प्रहसन्निवशंकरः|वत्सोपमन्योप्रीतोस्मिपश्यमांमुनिपुंगव|दृढभक्तोसिविप्रर्षेमयाजिज्ञासितस्त्वसि|अनया वत्ससद्भक्त्यातेत्यर्थंप्रीतवानहं|तस्मात्सर्वान्प्रदास्यामिवारान्येमनसिस्थितानिति|अथोच्यतेमिथ्यैतदुपमन्युनात्म पृ० १५अ) प्रभावकथनायोक्तंअत्रहिकिंप्रमाणंयदेवमसौभगवतानुगृहीतिति०तदसत्०यस्मात्०कथंतस्यवचोमिथ्यायस्यवश्यःप योनिधिः|यस्यकिलसकलमुनिजनप्रत्यक्षपरिदृश्यमानःक्षीराव्धिस्वाधीनःतस्यवचसःकिंनाममिथ्यात्वं|अयमाशयःप रमेश्वरात्प्राप्तवरोहमित्यनृतवादित्वंतदानींतस्य भवेत्यदिदुग्धोदधिवशीकारःप्रचुरमुनिजनप्रत्यक्षोनस्यात्यदिचसं वादीन्यपि(प्रमाणिकानि)वचांसिमिथ्यातर्हिनकिंचित्सत्यवचनंप्रशांतरागद्वेषाणांसाक्षात्कृतभूतभविष्यदर्थानांमुनीनांमपिमि थ्यावादित्वाभ्युपगमेमन्वादयोपिदत्तदक्षिणास्त्वयेत्यहोस्वदर्शनकौशलंकिंच|क्रोडीकृतोहिपाशेनविषज्वालाव लीमुचाहुंकृत्यमोचितःपत्यादृष्टःश्वेतोघनैर्जनैःविषानला?र्च्चिः(कदाचित्कालिंजिरेश्वेतनामाऋषिःशिवभक्तःशिवंनिरंतरंपूजयन्स्थितस्तदायमेनस्वदूताःप्रेषितास्तदानयनार्थंतैर्दूतैःशिवपूजनासक्तंतंदृष्ट्वापरावृत्त्यगतंतदाक्रोधाक्रांतेनयमेनांगत्याशीविषपाशेनकृत्वासश्वेतःशिवलिंगेनंसहगाढंबद्धासर्पविषंज्वालयायदाविवशोजातस्तदाशिवेनतस्मादेवशिवलिंगाशुचिर्भूत्वाहुंकारंकृत्वाक्रोधाग्निनायमंभस्मीकृत्यश्वेतृषिर्मोचितितिकथा)परंपराक्षेपभीषणेनाशीविषपाशेनविवशीकृ तःश्वेतःपातीतिपतिस्तेनयत्पात्राणशीलेनपरमेश्वरेणहुंकारमात्रंकृत्वाक्रोधाग्निनाभस्मीकृत्यमोचितिति घनैरविरलै र्भूयोभिर्जनैरस्मत्सजातीयैर्मुनिप्रभृतिभिश्चदृष्टः|अत्रापिचत्रिकालदर्शिभिर्देवैश्चप्रवर्त्तितेप्रवा पृ० १५ब) देयद्यसमाश्वासस्तर्हि(अविश्वासः)आगमेवनसहतितिवक्तव्यंतथाचसतिश्रुतिरप्यसहनस्यभवतःप्रामाण्यलाभेदैन्येनभीत भीतामुखमन्वीक्षतितितदनुकंपयासंरक्ष्यतामतिसाहसं|ननुमिथ्यात्वहेतूनांदोषाणांकर्त्राश्रयत्वादकृतकत्वेननि त्यत्वात्श्रुते स्तस्याःप्रामाण्यायकोयमुपहासोनकश्चित्किंतुकर्त्रभावनिश्चयेप्रमाणंनोत्पश्यामःप्रत्युतस्व यंभुवेनमस्कृत्येत्यादिवाक्यवद्रचनावत्वात्कर्तृव्यापाराविनाभावित्वमुत्प्रेक्षामहित्यलमनेनप्रकृतमनुसरामः| इतिवादानुषं गेणहरशंसाप्रहर्षितान्|साश्रुगद्गदवाचस्तान्वीक्ष्यप्रीतोभवद्धरिः||उक्तवद्देवतास्तित्वप्रस्तावाया तपरमेश्वरप्रशंसाहर्षप्रवृत्तानंदाश्रुवशादविस्पष्टगिरस्तान्भरद्वाजादीन्दृष्ट्वाइंद्रस्तान्प्रतिपरंतुतोषेत्येवंहारी तमुनिःस्वशिष्यानाह०स्वंरूपदर्शयामासवज्रीदेवःशतक्रतुः|तरुणादित्यसंकाशंस्तूयमानंमरुद्गणैः|प्रत्य ग्रार्कभास्वरंदेवैर्गणैश्चस्तूयमानमात्मीयंरूपंवज्रपाणिर्देवःशतक्रतुःप्रकटीचकारःतेजोतिशययोगस्यहेतुत पृ० १६अ) याशतक्रतुर्वज्रीतिचविशेषणद्वयं०कुलिशस्यहिस्वभावेवायंयदद्भुतप्रभाभास्वरत्वंशतक्रतुत्वाच्चतज्जनितपुण्यप्रभा वादद्भुतभूरिमहःसमूहत्वमितितेतमृग्भिर्यजुर्भिश्चसामभिश्चास्तुवन्नताः|सोव्रवीदुच्यतांकामोजगत्सुप्रवरोपि यः|तेवव्रिरेशिवज्ञानंश्रूयतामितिसोव्रवीत्|किंत्वेकोस्तुममप्रष्टानिखिलश्रोतृसंमतः|तेभरद्वाजादयःतंप्रत्य क्षीकृतस्वस्वरूपंइंद्रंऋग्यजुःसामभिःप्रह्वाःसंतस्तुष्टुवुः|सचसर्वजगत्प्रवरोवरोभवद्भि रभ्य र्थ्यतामितिता नाह|तेतदैवमुक्ताःपारमेश्वरंज्ञानंशास्त्रंवृतवंतः सतुतदभ्यर्थितंज्ञानोपदेशंदातुंतान्प्रतिवचनंश्रूयतामित्याह|किं तुममैकेवभवतांमध्यात्सकलश्रोतृजनाभिमतोयथावसरंअनुक्तवस्तुनःप्रष्टाभवतुसर्वैश्चैवभवद्भिःश्रूयतामित्ये वंभगवताशक्रेणोक्तेसतिअथतेषांभरद्वाजोभगवानग्रणीरभूत्|वाग्मीप्रगल्भःपप्रछन्यायतः सुरपूजितं|अ थानंतरंतेषांमध्यादैश्वर्यादिगुणयोगात्भगवान्विविधशास्त्राभ्यासाधिवासप्रशस्यवाग्युक्तत्वाच्चवाग्मीप्रष्टव्या पृ० १६ब) वसरेषुअकौशलाप्रतिपत्याद्ययोगात्प्रगल्भश्चभरद्वाजोमुनिर्न्यायतितिन्यायेनशिष्योचितयानीत्यायुक्त्युपपन्नपूर्वपक्ष करणेनवाइंद्रमपृछत्किंमप्रछेदित्याह|कथंमहेश्वरादेतदागतंज्ञानमुत्तमं|किंचचेतसिसंस्थाप्यनिर्ममेभगवानिदं|यदेतत् भगवतास्मभ्यमुपदेष्टुमारव्धमितरेभ्योज्ञानेभ्यःसातिशयफलत्वात्छ्रेष्टतमंज्ञानंतत्कथंमहेश्वरात्प्रशांतस्वरूपान्नि ष्कलाश्छिवात्प्रसृतं|ज्ञानंहिद्विरूपमवबोधरूपंशव्दरूपं(ज्ञानमनेनेतिज्ञानंशास्त्रंशब्दसमुदायितियात्)चतदववोधरूपंशव्दरूपारूढंसर्वेषुप्रवर्त्ततेतत्रादितःपरमेश्व रादवबोधरूपमेवतावत्कथंप्राप्तंकथंचशब्दरूपतामेत्यवहुभेदभिन्नंसंपन्नंकिंचाकलयय(विचार्य)भगवानिदमकरोत्|नह्य नभिसंहितप्रयोजनः(निष्प्रयोजनवान्)कश्चित्कर्त्ताकिंचित्कार्यंकुर्वन्दृष्टः|तस्यचभगवतेतत्करणेकिंकारणमित्यर्थः|अथा त्रप्रतिवचनं|सृष्टिकालेमहेशानःपुरुषार्थप्रसिद्धये|विधत्तेविमलंज्ञानंपंचस्रोतोभिलक्षितं|सर्गप्रारंभेपरमेश्वरेण पुरुषार्थस्यभुक्तिमुक्त्यात्मनःसंपत्यर्थविमलमित्यववोधात्मनोनादरूपत्वेन(विमलाचासौमितिश्चविमलमितितद्रूपोयोअवबोधात्मातस्यनादरूपत्वेनसूक्ष्मरूपत्वेनेकोर्थः||अथवाविमलंइतिप्रतीकंधृत्वाव्याख्या|तथाहिविमला)प्रथमंप्रसृतत्वादगृहीतोपाधिभेदंपरत पृ० १७अ) स्तूर्ध्वप्राग्दक्षिणपश्चिमोत्तरस्रोतःपंचकेनाभितःसमंतात्प्रसृतत्वेनलक्षितमितिसदाशिवरूपेणदर्शनात्मतां प्रापितंज्ञानंनिर्मितमितिक्रमः|प्रयोजनंचपूर्वप्रश्नितमुपवर्णितं|किंचतद्वर्तिवाचकव्रातवाच्यानष्टौमहेश्वरान्|स प्तकोटिप्रसंख्यातान्मंत्रांश्चपरमेध्वनि|मंत्रोद्धारप्रकरणाभिधास्यमानज्ञानमध्यवर्तिनोवाचकव्रातस्यमंत्रगणस्य येवाच्यानंतादयोष्टौविद्येशास्तांस्तथामायीयस्याशुद्धस्याध्वनस्तत्कालमनाविर्भावाछुद्धविद्याभुवनेकृतस्थि तीन्सप्तकोटिसंख्यातान्मंत्रान्परमेश्वरोविधत्तितिपूर्वेणसंबंधः|कालसामान्येपिप्रथमलकारस्यस्पष्टत्वात्सृष्टिकाले व्यधादित्यर्थः|प्रतिसर्गकालंवातथाकरोतीतिवर्त्तमानतैवतत्रविद्येश्वराणांवामादिशक्तियोगित्वेनस्वसमप्र भावाविर्भावनंनामकरणंमंत्राणांत्वावरणापगमात्प्रकटीकृतदृक्क्रियत्वमुभयेषामप्येषांपरमेश्वरात्ज्ञान क्रियाशक्त्योरुद्दीपनंज्ञेयं|नपुनर्मुक्ताणुवन्निर्मलीकरणमधिकारमलेनापरत्वान्मुक्तेरस्याइतिवक्ष्यामः|तदेवंमं पृ० १७ब) त्रमहेश्वरान्मंत्रांश्चोक्त्वामंत्रेश्वरान्वक्तुमाह|अष्टादशाधिकंचान्यछ्रुतंमायाधिकारिणांमंत्रेश्वराणामूर्ध्वाध्वस्थि तेशोपमतेजसांमायायामधिकारिणोमायाधिकारिणःतेषामुपरितनशुद्धाध्ववर्तिविद्येश्वरसमानधाम्नामष्टाद शाधिकंशतंविधृत्तिति|पूर्वेणैवसंवंधः|तत्रमंडलिनोष्टौवक्ष्यमाणःक्रोधाद्याश्चाष्टावेवरुद्राणांचव्रह्मांडधा रकाणांशतंश्रीकंठवीरभद्रौचेत्येवमष्टादशोत्तरंशतंप्रागवन्मंत्रेश्वरत्वेशिवेननियुक्तमित्यर्थः|तेषुव्यक्तःसभगवा निदंयोग्येषुसिद्धयेप्रकाशयत्यतोन्येषुयोर्थःसमुपपद्यते|तेष्वनंतादिषुमंत्रमहेश्वरेषुमंडल्याद्दिषुचमंत्रेश्वरेष्व भिव्यक्तोदेविदमित्यनंतरोपक्रांतंज्ञातंप्रकाशयति|कस्मिन्विषयेकिमर्थंप्रकाशयतीत्याह|योग्येषुसिद्ध येपरिपक्वांजनत्वान्निरतिशयश्रेयःप्रेप्सुषुभुक्त्यर्थंमुक्त्यर्थंचवक्तीत्यर्थः|अतोन्येष्विति|एतछास्त्रार्हेभ्योयेन्येअपरि पक्वांजनतयापशुशास्त्रानुवर्तिनस्तेषुविषयेषुयःकापिलपांचरात्रादिप्राप्योर्थःसम्यगितितदुक्तयोग्यतानुसारेणोपप पृ० १८अ) द्यते|अनुगुणोभवतितंप्रकाशयति|पशुशास्त्रप्रणेतॄनधिष्ठायतत्तच्छास्त्रप्रकाशनमपिपारंपर्येणकुरुतितियावत्| अथास्यज्ञानस्यास्मभ्यमभिधीयमानस्यकिमभिधानमित्याह|शिवोत्कीर्णमिदंज्ञानंमंत्रमंत्रेश्वरेश्वरैःकामदत्वात् कामिकेतिप्रगीतंवहुविस्तरंपरमेश्वरात्प्रोक्तेनक्रमेणप्रसृतमेतत्ज्ञानंशास्त्रंस्कंदस्यदेव्यास्तदन्येषांचपृथक्पृथक् |श्रोतॄणांबहुत्वाद्वहुभेद त्वेनविस्तरंअभिमतकामदत्वात्कामिकत्वेनोपदेष्टृभिर्मंत्राणांमंत्रेश्वराणांचेश्वरैः मंत्रमहेश्वरैरनंतादिभिरुपदिष्टं|तेभ्यागमययकस्मैकियताग्रंथेनकोदत्तवानित्याह|तेभ्योवगत्यदृक्ज्योतिर्ज्वाला लीढस्मरद्रुमोददानुमापतिर्मह्यंसहस्रैर्भवसंमितैः|तेभ्योनंतेशादिभ्यस्तृतीयनेत्राग्निशिखानिर्दग्धस्मरतरुर्भगवा नुमापतिरधिगम्यभवसंख्यैरेकादशभिःसहस्रैःसंक्षिप्यमह्यमदात्सोहमिदानींतचापिविस्तरंहित्वासूत्रैःसारार्थवा चकैःवक्ष्येनिराकुलंज्ञानंतदुक्तैरेवभूयसातत्राप्यर्थवादानुवादरूपंविस्तरंत्यक्त्वासारार्थाभिधायिभिर्वाहुल्येनक्वचि पृ० १८ब) त्तदुक्तैःक्वचिच्चात्मीयैर्निराकुलंक्रमंज्ञानंशास्त्रमभिधास्यितींद्रोमुनीनाहेतिहारीतस्वशिष्यान्ब्रूते|भट्टविद्याकंठात्मजभ ट्टनारायणकंठकृतौमृगेंद्रटीकायांउपोद्घातप्रकरणंप्रथमं|| ||अपानादिमलापेतःसर्वकृत्सर्वविच्छिवः|पूर्वव्यत्यासित स्याणोःपाशजालमपोहति|संवंधाभिधेयप्रयोजनानिप्रथममेवविवेचितानि|अथेत्यानुषंगिकसंवंधादिकथनादनं तरंविद्याख्यः पादःप्रक्रम्यते|अत्रचशास्त्रेपतिपशुपाशाख्यास्त्रयः पदार्थाःपशूनामस्वातंत्र्यात्पाशानामाचैतन्या त्तद्विलक्षणस्यपत्युःपंचविधकृत्यकारित्वं|(सृष्टिस्थितिसंहाराविर्भावतिरोभावात्मकंपंचविधंकृत्यं)तत्कारकाणिस्वशक्तिरूपाणिमायादीनिचक्रियाचदीक्षाद्यातत्फलं चपशूनांअनुग्रहाख्येनकर्मणापरकैवल्यासादनमित्याद्यभिधास्यमानंतद्गर्भीकारेणेदंमूलसूत्रं|अनादिमलापे तिति|अनादिशव्दःक्रियाविशेषणं|(यस्यमलापेतत्वमनादि)अनादिकृत्वा(अनादिकृत्वेतिटीकाकारःप्रत्युरुत्तममध्यमाधमभेदेनत्रैविध्यंप्रगटीकृतवान् तदाचयतौमुख्यंपतित्वंमुक्ताणुवर्गोमध्यमःपतिस्तत्रपतित्वंपरमेश्वरेणकृतं अतोगौणंतत्||यस्यअणुवर्गस्यपरमेश्वरेणअनादिमलोदूरिकृतःपरंतुअधिकारमलतिष्ठतिसअधमःपतिस्तत्रापि*?णमेवपतित्वमितिपरस्परंभेदः)मलापेतःस्वभावनिर्मलःपरमेश्वरः(पतिः)तथानादिश्चासौलापेत श्चतत्प्रसादात्प्रध्वस्त(अनादिरपिमुक्ताणुवर्गीश्वरप्रसात्प्रध्वस्तसमस्तमलःअधिकारमलरहितः)समस्तमलोमुक्ताणुवर्गः|किंचअनादेर्मलादपेतःस्वाभाविकमलविदारणात्परमेश्वरेणप्रक पृ० १९अ) टीकृतदृक्क्रियः(प्रकटीकृतेदृक्क्रियेयस्यसः||यस्यदृक्शक्तिःक्रियाशक्तिश्चपरमेश्वरेणप्रगटीकृते)किंचिदवशेषितत्वादादिमताधिकारमलेनयुक्तोमंत्रमंत्रेश्वरमंत्रमहेश्वरवर्गित्येवंसमासत्रयकरणान्मु क्ताणुभिर्विद्येश्वरादिभिश्चसहितःपतिपदार्थोत्रसूचितः|तस्यचत्रिविधस्यापिसर्वज्ञतासर्वकर्त्तृत्वंचविद्यते|मुक्तात्मनां तुसत्यपिसर्वार्थ(मुक्तात्मनांसर्वार्थविषयिणीदृक्शक्तिःक्रियाशक्तिश्चवर्त्तते)दृक्क्रियत्वेपाशजालापोहनसामर्थ्यमस्तिनत्वपोहनकर्तृत्वंयतःतेकरणीयस्याभावान्नप्रवर्त्तंते|अतःस्वात्म न्येवश्रेयोयोगाछिवत्वमेतेषां|विद्येश्वराणांशिवपदप्राप्तिहेतुत्वात्शिवत्वं|भगवतस्तुशिवत्वंसर्वानुग्रहप्रवृत्तत्वात्|तथाचमुक्तात्म नामप्रवृत्तत्वाद्विद्येश्वराणांचपरमेश्वरपारतंत्र्यात्स्वतंत्रःसभगवान्किंकरोतीतिआह|पूर्वव्यत्यासितस्याणोःपाश जालमपोहतीति|अणोरिति|विज्ञानाकलप्रलयाकल(विज्ञानेनविलक्षणज्ञानदृष्ट्याकलःकलातत्वरहितः||प्रलयेनिंद्रियादीनामितिशेषस्तेनअकलःकलातत्वरहितः||)सकलत्वेनत्रिरूपस्य|तथाविज्ञानाकलप्रलयाकलात्म नोर्विपर्यवसित(विपर्यवसितःमलोपयासाविपर्यवसितमलानाशितमलाइतियावत्० तादृशीयाईश्वरशक्तिःतयाकृताधिकारःतयाकृताधिकारश्चताभ्यांभेदाभ्यांभिनौविज्ञानाकलप्रलयाकलौ||ईश्वरशक्तिनाशितमलःसनिच्छाशक्तिदत्ताकारेतान्विज्ञानाकलःप्रथमः||ईश्वरशक्तिनाशितमलःसनीश्वरशक्तिदत्ताधिकाररहितःविज्ञानाकलोद्वितीयः||एवंईश्वरशक्तिनाशितमलःसनीश्वरशक्तिदत्ताधिकारवान्प्रलयाकलःप्रथमः||ईश्वरशक्तिनाशितमलःसनीश्वरशक्तिदत्ताधिकाररहितःप्रलयाकलाद्वितीयः)मलेश्वरशक्त्यधिकारतदन्यथाभावभेदात्प्रत्येकंद्विविधमोःसकलस्यापित्रिवंधनवद्धस्यकुतश्चिदुपा यात्प्रक्षीणकर्मतयाकेवलकलादियुक्तस्यच|एवंद्विप्रकारस्यास्यैवचप्रत्येकंविदेहसदेहभेदात्प्रतिभेदंचमलाद्यधि पृ० १९ब) कारविरहिणःतद्युक्तस्यचेत्यष्टप्रकारस्य(त्रिविधबंधनबद्धोविदेहसकलः१|| उपायात्प्रक्षीणकर्माकेवलकलादियुक्तोविदेहसकलः२| त्रिविधबंधनबद्धःसदेहसकलः३ उपायात्प्रक्षीणकर्माकेवलकलादियुक्तःसदेहसकलः४त्रिविधबंधनबद्धविदेहोमलाद्यधिकारयुक्तःसकलः५उपायात्प्रक्षीणकर्माकेवलकलादियुक्तविदेहोमलाद्यधिकारयुक्तःसकलः६||त्रिविधबंधनवद्धविदेहोमलाद्यधिकाररहितःसकलः७उपायात्प्रक्षीणकर्माकेवलकलादियुक्तविदेहोमलाद्यधिकाररहितःसकलःइत्यष्टभेदाः)इत्थमनेकभेदभिन्नस्यात्मनःपरमेश्वरःपाशजालंयथासंभवमपोहतीति संवंधःयस्यचयथाचापोहतितत्सर्वंयथावसरमग्रेवक्ष्यामः|कीदृशस्याणोरित्याह|पूर्वव्यत्पासितस्येति|पूर्वैरना दिकालानैर्मल कर्ममाणापरमेश्वरनिरोधशक्त्याख्यैर्यथासंभवंहेतुतयास्थितैर्व्यत्पासितस्यपरमेश्वराद्वैसादृश्यंप्रा पितस्यतत्प्रेर्यस्यवंधांतरयोगिनश्च(पुत्रकलत्रधनादिरूपबंधनांतरयोगिनः)अयमर्थः मलेनेश्वर(अविद्यया)निरोधशक्त्याकर्मभिश्चसद्भिरणोरशिवत्वंततश्चवंधांत रयोगः|(पुत्रकलत्रादिबंधनांतरयोगः)तदपोहनेतुशिवत्वं|एवंचशिववैसादृश्येतेवानादयोहेतवः|शिवस्त्वप्रतिबद्धनिरतिशयसर्वार्थदृक्क्रिया शक्तिः(सर्वार्थविषयकदृक्शक्तिमान्सर्वार्थविषयकक्रियाशक्तिमान्शिवः)तेषांयोग्यतामपेक्ष्यानुग्रहेप्रवृत्तःपाशव्रातमपोहति|निरस्यति|उपसर्गादस्यत्यु ह्योर्वावचनमित्यपोहति पदं|तदेवमखिलतंत्रार्थसूचनादेतन्मूलसूत्रं|तथाचैवेहव्याख्यानावसरेवक्ष्यति|यत्रवीजिवारूढोमहातंत्रार्थपा दपः आभातिमूलसूत्रं(अथानादिमलापेतितिपूर्वप्रोक्तोक्तंश्लोकात्मकंमूलसूत्रंतदात्मकंबीजंतदन्यत्सर्वश्लोकात्मकोमहातंत्रात्मकःपादपः)तदथशव्दाद्यलंकृतमिति|अथैतत्सूचितार्थप्रकाशनार्थमुत्तरसूत्रं|त्रिपदार्थंचतुष्पादंमहा पृ० २०अ) तंत्रंजगत्पतिःसूत्रेणैकेनसंहृत्यप्राहविस्तरशःपुनः|पाशसद्भावेह्यात्मनां(पशूनां)जन्मस्थितिध्वंसतिरोभावानुग्रहकृद्भगवा न्(जीवानांतिरोभावंकरोतितामजीवानांअविद्ययास्वस्वरूपाऽप्रकाशनंकरोति||अथवायोगिनांतिरोभावसामर्थ्यंकरोति||विद्यमानस्यापियोगिनःअस्मद्दृगविषयत्वंतिरोभावः||अंतर्धानमित्यर्थः||जीवानांअनुग्रहंकरोतिभोगदानंवामोक्षदानंवाकरोतीति||)भवतीतिपतिपशुपाशात्मव्यतिरिक्तंनकिंचित्पदार्थांतरंप्रयोजनवत्|एष्वेवान्येषामंतर्भावादितित्रिपदार्थत्वमु क्तं|किंचपाशजालमपोहतीत्यपोहतिक्रियाक्षिप्ताःक्रियाचर्यायोगपादाः|(क्रियापादचर्यापादयोगपादाः)पतिपशुपाशोक्त्याक्षिप्तश्चविद्यापा दितिपादचतुष्टयोपक्षेपःकृतः|महातंत्रमितिदर्शनांतरेभ्योधिकफलत्वाच्छिवभेदकत्वेनपरत्वाद्वामहत्तंत्रितत त्तत्प्रमेयत्वाच्चतंत्रं|एकेनैवामुनासूत्रेणसंहृत्यसंगृह्यपुनर्विस्तरेणैतदेवप्रमेयंजगत्पतिःश्रीकंठनाथःप्राह|मूल सूत्रात्सर्वकृत्सर्वविदितिविशेषणद्वयंव्याचष्टेजगज्जन्मस्थितिध्वंसतिरोभावविमुक्तयः|कृत्यंसकारकफलंज्ञेय मस्यैतदेवहि|तेनस्वभावसिध्येनभवितव्यंजगत्कृता|अर्वाक्सिद्धेनवस्थास्यान्मोक्षोनिर्हेतुकोपिवा|जगतोजन्म वज्जंतुचक्रस्यभोगोपयोगि(भोगानुकूलकारकसहितस्य)परिकरसहितस्यपौनःपुन्येनतत्तद्विविधयोनिषुउद्भावनं(सर्जनं)जन्मस्थितिस्तदिछानिरु(तस्यीश्वरस्यिछयानिरुद्धस्य) पृ० २०ब) द्धस्यसर्वलोकस्यस्वःगोचरेनियोगः(स्वगोचरेस्वर्गनरकादौनियोगोनियोजनं)स्थापनं|ध्वंसादानंजगद्योनावुपसंहारःतिरोभावो(यथाविस्तृतस्यपटादेर्निकटेगोलाकरणंवाविस्तारंप्राप्तस्यवटादेर्बीजीभावकरणंआदानंतथामायाख्येएकत्रिंशत्तमेतत्येजगद्योनाख्येउपसंहारोध्वंसः१आत्मनःतिरोभावोनामस्वकीयकर्मानुगुणभोगादप्रच्यावोऽदूरीकरणं||संरक्षणमपिनामांतरं)यथानुरूपाद्भोगादप्रच्यावःसं रक्षणाख्ययान्यत्रोक्तः|यदाहवार्त्तिककारः|स्वसंस्कारोचिताद्भोगादप्रच्यावश्शरीरिणां|प्रोक्तंसंरक्षणंनामन्याये नपरिकल्पनमितिविमुक्तिशव्देनात्रानुध्यानरूपोनुग्रह(अयंममभक्तेतस्यसमीचीनंभवतुअयंमेवानुग्रहः)इत्येतत्परमेश्वरस्यसंवंधिपंचविधंकृत्यं|कारकैःशक्त्या दिभिःफलेनचभुक्तिमुक्त्यात्मनासहितंज्ञेयमववोद्धव्यं|एतच्चनमायादिभिःकर्मभिर्वानिर्वर्त्तयितुंशक्यं|(कर्त्तुंशक्यं)आचै तन्यात्|नापिपुरुषेण|(पशुना)अस्य(अणोः)मलनिरुद्धशक्तित्वात्|नचानीश्वरोत्रकर्त्तायुक्तः|यच्चैतत्सृष्ट्यादिकर्त्तुंशक्नोतिसो वश्यंतद्विषयज्ञःचिकीर्षितकार्यविषयाणांज्ञानविशेषाणामंशेनापिवैकल्पेतत्तत्कार्यानिष्पत्तेः|अतश्चसर्वक र्त्रासर्वज्ञेनतेनचस्वभावसिद्धेनजगतः कर्त्राभवितव्यं|अर्वागित्यादिमत्वेनसिद्धेतस्मिन्नभ्युपगम्यमानेयदिकारणा त्कुतश्चित्तस्यासावनुग्रहस्तस्यापिकारणंतत्कारणस्यापिकारणांतरमृग्यमित्यनवस्था|अथास्यविनैवकारणंस्व पृ० २१अ) तेवतथाविधमैश्वर्यंतदकस्माज्जातं|तर्ह्येषनिर्हेतुकोमोक्षोऽन्यानपेक्षणात्सर्वस्यैवस्यात्तस्यापि(सर्वस्यापि)वानस्यात्|यदाहुः|नि त्यंसत्वमसत्वंवाहेतोरन्यानपेक्षणात्|(यदिहेतोःकारणस्ययदिअन्यानपेक्षणंतदातस्यहेतोनित्यंनियमेनसत्वंस्यात् नित्यत्वं स्यातथवासत्वंमिथ्यात्वंस्यात्||यदिहेतोःअन्यस्यअपेक्षातदाभावानांकादाचित्कत्वसंभवोभवतीति)अपेक्षातोहिभावानांकादाचित्कत्वसंभविति|तस्मात्स्वभावसिद्धनित्यनिरति शयनिर्मलसर्वार्थदृक्क्रियःपतिपदार्थःपूर्वमुद्दिष्टोनेनलक्षितःपरीक्ष्यतेपुरस्तात्|इदानींपशुपदार्थंलक्षयितुमाह|चै तन्यंदृक्क्रियारूपंतदस्त्यात्मनिसर्वदा|सर्वतश्चयतोमुक्तौश्रूयतेसर्वतोमुखं|सदप्यभासमानत्वात्तन्निरुद्धंप्रतीयते|व श्योऽनावृतवीर्यस्यसोतेवाविमोक्षणात्|ज्ञानक्रियात्मकंयच्चैतन्यंतदात्मन्यस्ति(एकस्मिनपिदीपेप्रकाशकत्वंदाहकत्वंतथाएकस्यामपिचिछक्तौज्ञानजनकत्वेनदृक्शक्तित्वंकार्यजनकत्वेनक्रियाशक्तित्वं||तथाचपरमेश्वरेनित्यासतीतिष्ठति)नतुशरीरसमवेतमितिचार्वाक निराकरणेवक्ष्यामः|तच्चसर्वदैवास्ति|नतुमुक्तावेव|मुक्तौतुसंवित्यभावोयथावैशेषिकैरिष्टःतथाविधायामोहरू पायामुक्तेर्निराकरिष्यमाणत्वात्|तच्चात्मनश्चैतन्यंज्ञानक्रियात्मकंसर्वतोमुखमस्ति|नतुक्षपणकानामिवदे हप्रमाणकत्वनियमादव्यापिपशुपदार्थप्रकरणेव्यापकत्वस्यवक्ष्यमाणत्वात्|अत्रहेतुमाह|यतोमुक्तौश्रूयते पृ० २१ब) सर्वतोमुखंमुक्तात्मनांसर्वतोमुखस्यचैतन्यस्यश्रवणादित्यर्थः|नच(असदुत्पत्तिमाशंक्याहनचेति)तेषांतुतदानीमेवतदुत्पद्यतितिवाच्यं|सदुत्पत्तेःस त्कार्यवादप्रकरणेभिधास्यमानत्वात्|अथमुक्तावेवतथाविधचैतन्यश्रुतेः पूर्वंचतदनुपलंभादन्वयव्यतिरेकाभ्यां(मुक्तिसत्वेसर्वतोमुखचैतन्यसत्वंमुक्त्यभावेसर्वतोमुखचैतन्याभावः)सं सारावस्थायांसर्वतोमुखत्वंचैतन्यस्यकुतित्याशंकानिरासायाह|सदप्यभासमानत्वादित्यादि|सत्यमनुपलंभःसंसारा वस्थायांतथाविधस्यचैतन्यस्यसत्वन्यथासिद्धः|व्यंजकाभावकृतो(व्यंजकानितुदीक्षाक्रियाउपासनावृत्त्यात्मकंज्ञानंएतैकृत्वाईश्वरनिरूपिताजीवनिष्ठानिरोधशरेवअनुग्रहशक्तिर्जायते)हीयोनुपलंभःसनाभावसाधकः|अपितुअस तिव्यंजकेयश्चायमनुपलंभःसव्यंजकाभावकृतः|अतश्चनासत्वंसाधयति|तच्चसर्वतोमुखत्वं सदपियस्मान्नप्रथ तेततःकेनापि(केनापिप्रतिबंधकेनप्रतिबद्धं|प्रतिबंधकंतुअविद्या)प्रतिवद्धमित्यवसीयते|अस्माच्चहेतोरनावृत(परमेश्वरस्य)निजसामर्थ्यस्यमुक्तेःपुरासात्मावश्यित्येवंद्विती यंपदार्थमभिधायतृतीयपदार्थंलक्षयितुमाह|प्रावृतीशवलेकर्ममायाकार्यंचतुर्विधं|पाशजालंसमासेनधर्मानाम्नै वकीर्त्तिताः|प्रावृणोतिप्रकर्षेणाछादयत्यात्मनांदृक्क्रियेइतिप्रावृतिः|स्वाभाविक्य(कर्मादिआगंतुकोमलः)शुद्धिर्मलित्यर्थः|ईष्टेस्वातंत्र्येणेती पृ० २२अ) शःतदीयंवलंरोध(अयंभावःपरमेश्वरस्येकैवशक्तिःसाप्राणिनोसमीचीनकर्मसामग्रीचेतनुग्राहिकाभवति|असमीचीनसामग्रीचेत् निरोधिकाशक्तिर्भवति)शक्तिर्द्वितीयःपाशः|तथाह्यग्रेवक्ष्यति|तासांमाहेश्वरीशक्तिस्सर्वानुग्राहिकाशिवा|धर्मानुवर्त्तनादे वपाशित्युपचर्यते इतिक्रियतेतत्फलार्थिभिरितिकर्म|तस्यचानादित्वमाद्यकोटेरनुपलभ्यमानत्वात्यतःशरीर वतःकर्मकरणंतच्चशरीरंकर्मारव्धंतान्यपिशरीरांतरेणकृतानितच्चकर्मजमितिसोयंतृतीयःपाशः|मात्यस्यांश क्त्यात्मनाप्रलयेसर्वंजगत्सृष्टौव्यक्तिंयातीति(प्राप्नोति)माया|यथोक्तंश्रीमत्सौरभेये|शक्तिरूपेण(सूक्ष्मरूपेण)कार्याणितल्लीनानिम हाक्षये|विकृतौव्यक्तिमायांतीति|स्वकार्येणकलादिनासहितेयमप्यनादिकालीना|चतुर्थःपाशित्येतदात्मनां सहजसामर्थ्यप्रतिवंधकत्वात्पाशानांजालमिवजालंसमासतःसंक्षेपादुक्तंएषांचयेधर्माव्यापारास्तेनाम्नैवप्रद र्शिताः|अन्वर्थेनस्वाभिधानेनसूचितास्तथापियथावसरंवक्ष्यंते|अथपदार्थत्रयोपसंहारः|इतिवस्तुत्रयस्या स्यप्राक्पादकृतसंस्थितेः|चर्यायोगक्रियापादैर्विनियोगोभिधास्यते|इत्थमस्यैवपदार्थत्रयस्यविद्यापादेस्थितस्य पृ० २२ब) चर्यादिपादत्रयेणविनियोगोविभजनमभिधास्यतेवक्ष्यतेएवंविधेनविधिनापतिःपाशोपशमनंकृत्वापशूर्नाकैवल्य दोभवत्यात्मनामितिप्रतिपदमेषामेवप्रविवेकोभिधास्यतित्यर्थः|तत्फलकथनायाह|विनियोगफलंमुक्तिर्भुक्तिरप्य नुषंगतः|परापरविभागेनभिद्येतेतेत्वनेकधा|तस्यचविनियोगस्यविभजनस्यमुक्तिःफलंअनुषंगतःअनुनिष्पन्नतया भुक्तिरपिवक्ष्यमाणभौतिकदीक्षादिभिःसमभिलषितभोगोपभोगात्परतः(अंले)परकैवल्याविर्भावः|तथाचोक्तंरुरुसं हितायां|दीक्षापूतागणपतिगुरोर्मंडलेजन्मवंतःसिद्धामंत्रैस्तरुणदिनकृन्मंडलोद्भासिदेहाः|भुक्त्वाभोगान्सु चिरममरस्त्रीनिकायैरुपेताःस्रस्तोत्कंठाःशिवपदपरैश्वर्यभाजोभवंतीति|तेभुक्तिमुक्तीपरापरविभागेनवहुधाभि द्येते|तत्रपराभुक्तिःपातालादिकलांताध्ववर्त्तिविचित्रैश्वर्यसंपन्नतत्तद्भुवनाधिपत्यं|तत्तद्भुवनवासित्वमात्रंचापरा| एवंपरामुक्तिःपरमेश्वरसाम्यं|अपरातुमंत्रमंत्रेश्वरत्वं|आसांचयथावहुभेदत्वंतथाग्रेवक्ष्यामः|अथान्येभ्योदर्शनेभ्यःको पृ० २३अ) स्यपारमेश्वरस्यज्ञानस्यविशेषितिमुनिःप्रष्टुमाह|वेदांतसांख्यसदसत्पादार्थिकमतादिषु|ससाधनामुक्तिरस्तिकोविशे षःशिवागमे|वेदांतविदांमतेषूपनिषदादिशास्त्रेषुसांख्यमतेषुचषष्ठि(षष्ठिपदार्थाभिधायकानिषष्ठिप्रकरणानिसांख्येतिष्ठंतिइतिषष्ठितंत्रंसांख्यं)तत्रादिषुसदसद्वादिनामर्हतांचमतेष्वकलंकत्रि तयप्रभृतिषुद्रव्यादिपदार्थवादिकाणादादिशास्त्रेषुआदिग्रहणात्सौगतादिमतेष्वपियतोमुक्तिस्तत्साधनानिचश्रूयते |ततःकोसौशिवागमेविशेषितिविशेषजिज्ञासयातद्व्यवसितस्यमुनेःप्रश्नः|नसंदिग्धत्वेन|आदावेवविशेषसंभा वनानिश्चयतःश्रोतुंप्रवृत्तत्वात्|नापिविपर्यस्तत्वेन|तेवव्रिरेशिवज्ञानमित्यभ्यर्थनाप्रवृत्तत्वेनदर्शनांतरानभिनि विष्टत्वप्र तीतेः|तत्तदागमश्रुतामुक्तिस्तत्साधनानिचपरस्तात्तेषुतेष्ववसरेषुग्रंथकृतैवानुभाष्यदूषयिष्यंतितिना स्माभिःपृथक्प्रयत्नेनदर्श्यंते|अत्रसिद्धांतः|प्रणेत्रसर्वदर्शित्वान्नस्फुटोवस्तुसंग्रहः|उपायाःसफलास्तद्वत्छैवेस र्वमिदंपरं|(उत्कृष्टं)प्रणेतारोहिरण्यगर्भाद्याः(चतुर्मुखाद्याः)काणादपतंजलिकपिलप्रभृतयश्च|तेचासर्वज्ञाः|अपरत्वेनाभिमताः|स्वप्रमेया पृ० २३ब) दूर्ध्ववर्त्तिनोयुक्त्यागमोपपन्नस्यप्रमेयजातस्यतैरनवगमात्|तदुक्तं|स्वभावपुरुषाव्यक्तकर्मकालात्मवादिभिः|परमेशम दृष्ट्वैवमुक्तिर्मिथ्यैवकल्पितेति|तथासुगतोयदिसर्वज्ञःकपिलोनेतिकाप्रमा|अथोभावपिसर्वज्ञौमितिभेदस्तयोःकथ मिति|तैर्यतःप्रणीतानिशास्त्राणि|अतेवैतेषुवस्तुसंग्रहोप्यस्फुटःपुंप्रतिवद्धापवर्गज्ञानम्(पुरुषोजीवस्तत्प्रतिबद्धोयोऽपवर्गस्तस्ययत्ज्ञानं)स्पष्टमित्यर्थः|येचात्रोपा याःपुंप्रकृतिविवेकज्ञानव्रह्माद्वैताभ्यासषोडशपदार्थतत्वज्ञानादयः|फलानिचस्वर्गापवर्गलक्षणानितत्सर्वंत द्वदस्पष्टमेव|तथातथावक्ष्यमाणनिर्वाहासहत्वात्तस्मात्तेभ्योस्यशास्त्रस्यायंविशेषः|यदिहसर्वंप्रकृष्टंयतःपशुपा शातीत निरतिशयसर्वार्थज्ञानक्रियात्मनापरमेश्वरेणेदमादिष्टमितिप्रणेतृगतंपरत्वंउपायानामपिदी क्षादीनांपरिदृष्टसंवादित्वात्परत्वं|तथाहिसद्दीक्षादिनाव्रह्महत्यादिमहापातकयोगिनोप्यपेतपातकत्वंदृष्टमित्यतो विषस्यमारणात्मकशक्त्यपहरणवत्पाशानांवंधकत्वव्यपगमःसिद्धः|तदुक्तं(शुद्धिं)व्रजतितुलायां(यदिक्षासमीचीनाभवतितदाइयंपारीक्षा|यथाप्रथमंशिष्यस्यपाषाणादिभिस्तोलनंविधेयंपश्चात्तस्मैदीक्षांदत्वायैरेवपाषाणैःशिष्युत्तोलितस्तैरेवपुनःपाषाणैरुत्तोलनेनपूर्वमानापेक्षयालघुमानमितोभवतिपापक्षयात्)दीक्षातोव्रह्महेत्यतोमु पृ० २४अ) ख्यात्प्रत्ययतोजानीयाद्वंधनविगमंविषक्षयवदिति|फलंचेहान्य(अन्यानियानिसर्वदर्शनानितेभ्योदृष्टायेभोगापवर्गास्तदात्मकात्फलात्प्रकृष्टमित्यर्थः)सर्वदर्शनदृष्टाद्भोगापवर्गलक्षणात्फलात्प्रकृष्टं|उक्तं हिश्रीमन्मतंगके|अग्निहोत्रादिभिःपूतास्तथाचांद्रायणादिभिः|लोकत्रयेपिमोदंतेविमानस्थायशस्विनः|अथाप्नुयुः पदंशाक्रमिष्ट्वाक्रतुशतंविधेः|यागतिःशिवभक्तानांशाठ्येनापिमहात्मनां|नसायज्ञसहस्रेणप्राप्यतेमुनिपुंगवेति| अपवर्गोप्यस्मिन्दर्शनेसर्वान्यागमागोचरत्वात्परस्तत्तदागमप्रणेतृणांसांजनत्वेना(अंजनंअविद्या)सर्वज्ञत्वात्तदुपदिष्टायामुक्तेर्मु क्त्याभासत्वात्|उक्तंचश्रीमद्भार्गवोत्तरे|अन्यतंत्रेषुयेमुक्ताधर्माधर्मक्षपान्नराः|तेत्ररुद्राणवःप्रोक्ताःगुणत्रयविवर्जि ताइति|अथकिंतदन्यदर्शनानामस्फुटत्वमित्याह|वेदांतेष्वेकेवात्माचिदचिद्व्यक्तिलक्षितः|आत्मैवेदंजगत्सर्वं नेहनानास्तिकिंचन|तथाएकोवशीसर्वभूतांतरात्माएकंविश्वंबहुधायःकरोतीत्यादिश्रुतिभिःपरमात्मैवसक लचिदचिद्भावाविर्भावतिरोभावप्रकृतिभूतःपरिपूर्णषाड्गुण्यवैभवस्वतंत्रःएकोपिसन्संसृत्यर्थंतत्तद्विविधमनो पृ० २४ब) लक्षणोपाधिभेदेनस्वभावांतरानुविधायी(चिद्रूपोपिजडिवनश्वरिवचाति)यथावदवगतोभ्युदयायभवतीतिवेदांतविदःप्रतिपन्नाः(इतिप्रतिपत्तिवंतःज्ञानवंतितियावत्)सेवहिसत्वात्मनि शांतुपाधौशांतिवरतोबहुलेतुरागवानिव|अज्ञानात्मकेचतमसिमुग्धिवास्ते|नतुततोन्यत्पृथक्विंचिदवतिष्ठते|त स्यैवतथातथावैचित्र्येणावस्थितेःसत्यत्वात्(याविचित्रतानानासाव्रह्मणेवितिसत्वंनान्यदित्यर्थः)द्वैतप्रतिभासस्यद्विचंद्रादिज्ञानवत्भ्रांतत्वात्|तथाचाहतत्रभगवान्भ र्तृहरिः|यथाविशुद्धमाकाशंतिमिरोपप्लुतोजनः|संकीर्णमिवमात्राभिश्चित्राभिरभिमन्यते|तथेदममृतंव्र ह्मनिर्विकारमविद्यया|कलुषत्वमिवापन्नंभेदरूपेप्रवर्त्ततिति|एवंचाभिन्नमेवेदंपरंव्रह्मपरमात्मलक्षणंमन सांहिसंसारधर्मैःसुखदुःखादिभिर्योगः|परमात्मातुसूर्यिवांभःप्रतिविंवभेदैरुपाधिभिरभिन्नोपिभिन्निवप्रति भाति|तथाचश्रुतिःयथाह्ययंज्योतिरात्माविवस्वानयोभिन्नातहुधैकोनगछन् उपाधिनाक्रियतेभेदरूपोदेवः क्षेत्रेष्वेवमज्जोयथात्मेति|तदेतन्नोपपद्यते|यतः|प्रतिज्ञामात्रमेवेदंनिश्चयःकिन्निवंधनः|ओंमित्युपपत्त्यनुपपत्तिप पृ० २५अ) र्यालोचनपरिहारेणयद्येतदंगीक्रियते(सुखेनअंगीक्रियतां)काममवतिष्ठतां|नतुप्रामाणिकरीत्यायस्मात्प्रतिज्ञामात्रमेवैतत्|नत्वत्रहेतुदृ ष्टांतादिसंभवः|तदभावान्निश्चयःकिंनिवंधनःकिमाश्रयः|प्रमाणनिबंधनोहिनिश्चयःतत्तत्प्रमेयव्यवस्थापनसमर्थो भवतिनान्यथा|नन्वत्रप्रमाणंआगमस्तावछ्रुतिरूपःप्रदर्शितेवेत्याह|अथप्रमाणंतत्रात्माप्रमेयत्वंप्रपद्यते|यत्रैतदु भयंतत्रचतुष्टयमपिस्थितं|यदिप्रमाणमसत्यरूपंपरमार्थतःपरमात्मनेवसत्यत्वात्तथाविधेनप्रमाणेनैतत्प्रमीय माणंमनोनिर्मितेनप्रदीपेनसंतमसावस्थितपदार्थप्रविवेचनप्रायं|अथसत्यमेवप्रमाणं|एवंतर्हिसपरमात्माप्रमेय त्वेनस्थितः|प्रमाणंहिप्रमेयंपरिछिंदत्प्रमाणतामासादयति|इतरथाप्रमाणतैवास्यनस्यात्|किंचातःकि मन्यत्|यत्रैतत्द्वितयंप्रमाणप्रमेयलक्षणं|तत्रप्रमातृप्रमित्यात्मकमन्यदपिद्वयमन्योन्यसत्वव्यपेक्षत्वात्स्थि तमेव|नहिप्रमातारंकर्त्तारमंतरेणप्रमाणप्रमेययोःक्वचित्किंचित्करत्वंकरणकर्मणोःक्रियासिद्धौकर्त्राश्रयत्वात्| पृ० २५ब) प्रमितिरपिक्रियारूपोव्यापारस्तेभ्यःपृथगेवान्वयव्यतिरेकाभ्यामुपलभ्यतितिचतुष्टयमवश्यंभावि|यदाहाक्षपादः |चतसृषुचैवंविधासुसर्वोपिव्यवहारःपरिसमाप्यतिति|किंचातित्यताह|अद्वैतहानिरेवंस्यान्निष्प्रमाणकतान्यथा| भोगसाम्याविमोक्षौचयौनेष्टावात्मवादिभिः|प्रमाणप्रमेयव्यवहारांगीकरणेसत्यद्वैतहानिरतःस्वाभ्युपगमविरो(स्वसिद्धांतत्तंगादित्यर्थः) धःतदपह्नवेतुनिष्प्रमाणकत्वंकिंचभोगसाम्यमविमोक्षश्चात्मवादिभिरनभ्युपगतौदोषौप्रसज्येते|सर्वैरेवात्म वादिभिःप्रत्यक्षविरोधभीरुभिर्दृश्यमानंभोगवैचित्र्यमवश्याभ्युपेयं|आत्मनांचमुक्तिरेष्टव्या|निश्रेयसहेतुतयैव शास्त्राणांप्रवृत्तेः|तदिह|नादत्तेकस्यचित्पापंनचैवसुकृतंविभुः|तथानकर्त्तृत्वंनकर्माणीत्यभ्युपगमाद्विचित्रफ लदायिनांप्रतिनियतजंतुकृतत्वेनभोगप्रतिनियमकारिणांकर्मणामेवाभावाद्भोगसाम्यप्रसंगोदुर्निवारः|आत्म नानात्वेहिकश्चिद्दुःखितःकश्चित्सुखितितिभोगवैचित्र्यमुपपन्नं|नान्यथा|यतेवसंसारितायाःप्रभवस्तत्रैवनिरंशे पृ० २६अ) परमात्मनिपदिलयोमोक्षस्तत्पुनरपिततेवप्रादुर्भावःपुनश्चमोक्षितिसेयंगतानुगतिका|नतुमोक्षः|तथाहतत्रभवा नवधूताचार्यः|त्वन्मतेश्वरविज्ञाननिष्पन्नापिमुक्तयः|भजंतेनाविसंवादमांभसाइवकृष्टयः(जलोपरिकृतारेखाः) इतिततश्चमोक्षाभा वात्तदुपायानामात्मावारेज्ञातव्यःश्रोतव्योमंत व्यित्यादीनामानर्थक्यमपिच|अस्यपरमात्मनश्चेतनाचेतनवि श्वोत्पत्तिहेतुत्वेचेतनाचेतनत्वंप्राप्तं|कार्याणांकारणस्वभावान्वयात्यदाहुःतदतद्रूपिणोभावास्तदतद्रूपहेतुजाइ ति|ततश्चविरुद्धयोरन्योन्याभिभवेनैवात्मलाभाद्भावाभावयोरिवैकस्मिन्कालेचेतनाचेतनस्वभावयोःपरमा त्मन्यवस्थानंनोपपद्यते|यथाहतत्रभवान्खेटखनंदनः|विरुद्धावेककालस्थौधर्मावेकाश्रयंगतौ|इतरेतरनाशात्तौ कुरुतोलोपमात्मनिति|नचास्यानंगत्वात्केनचिदंगेनचेतनत्वंकेनचिच्चाचेतनत्वंयुक्तं|सांगत्वाभ्युपगमे तुकु सूलादिवत्कार्यत्वात्परमकारणताहानिःकिंच|यद्यदुपादानकारणंतत्तदचेतनं|यथामृदादि|अचेतनश्चायंपर पृ० २६ब) मात्माउपादानकारणत्वात्चेतनत्वेनास्योपादानकारणत्वं|अस्त्वचेतनेकोदोषितिचेत्चेतनानांकारणंस्वयमचेत नितिविचित्रेयमुक्तिः|आचैतन्याभ्युपगमेचास्यवुद्धिमत्कर्त्रनधिष्ठितस्यमृत्पिंडादेरिवनस्वकार्यजननेसामर्थ्यं|येपिचग्रा हकत्वेनस्वसंवेदसिद्धाआत्मानोभोक्तारस्ततुत्पन्नाइत्युच्यंतेतेप्युत्पाद्यत्वात्घटादिवदचेतनाःप्रसज्यंतित्यनेकदो षाश्रयस्यपरमात्माद्वैतस्यानुपपत्तिः|अथैवंवेदांतवादिनांमतेनिराकृतेकापिलोक्तात्प्रकृतिपुरुषविवेकज्ञा नान्निश्रेयसावाप्तिर्भविष्यति|यथाचाहुः|एवंतत्वाभ्यासान्नास्मिनमेनाहमित्यपरिशेषात्|ऐकांतिकमात्यं तिकमुभयंकैवल्यमाप्नोतीति|श्रुतिरप्याह|अजामेकांलोहितशुक्लकृष्णांवह्वींप्रजांजनयंतींसरूपां|अजोह्ये कोजुषमाणोनुशेते(मेवमानः)जहात्येनांभुक्तभोगामजोन्यिति|एतदपिनिराकर्त्तुमाह|सांख्यज्ञानेपिमिथ्यात्वंकार्येकार णवुद्धितः|सांख्यज्ञानेप्येतदसम्यक्त्वं|यत्कार्येमायोद्भूतकलाजनितेप्रधानेकारणवुद्धिः|परमकारणताभ्रमः| पृ० २७अ) मूलप्रकृतिरविकृतिरितिहितेषामभ्युपगमः|कलादीनांतत्त्वानांपृथक्पृथगुपलभ्यमानप्रयोजनानांकारणभूत स्यजगन्निधिभूतस्यमायात्मनोनवगमात्|उक्तंचक्वचित्|गुणतत्वोर्ध्वभोग्यस्यकर्मणोनुपलव्धितः|कैवल्यमपि सांख्यानांनैवयुक्तमसंक्षयादिति|तद यमर्थः|येयंकापिलैःपरमकारणतयापरिकल्पितासत्त्वरजस्त मोलक्षणगुणत्रयसाम्यात्मिकाप्रकृतिस्तस्यास्तावत्तगुणेभ्योन्यत्वं|गुणाएवप्रकृतिरितितेहिप्रतिजानते|गुणेभ्यो नन्यत्वेचावश्यमनेकत्वमस्याः|यच्चाचैतन्येसत्यनेकंतत्कारणांतरपूर्वकंयथातंतवोमृत्पिंडावासतिचकारणांतर पूर्वकत्वेनपरमकारणता|इदंचतेप्रष्टव्याः|यदुतद्रष्टृदृश्ययोःसंयोगःसंसारहेतुःतत्पूर्वकश्चवियोगोपवर्गकार णमितियदुच्यतेतत्रसंयोगस्तावत्पुंप्रधानयोर्द्रष्टृदृश्यलक्षणेवनपरस्पराश्लेषरूपःउभयोरप्यमूर्त्तत्त्वेनतादृश स्यानुपपत्तिः|प्रधानंचनस्वतोदृश्यमप्रत्यक्षत्वेनतस्येष्टत्वात्|नचमहदहंकारादिरूपेणपरिणतेःद्द्रष्टातद्रष्टुंशक्नोति पृ० २७ब) |ततश्चकथमनयोराद्यःसंयोगः|तदभावाच्चकथंतत्पूर्वकोवियोगः|एवंचसंयोगवियोगानुपपत्तेरकारणत्वमेवपुरु षार्थंप्रतिप्रधानस्यितश्चमिथ्यात्त्वमेतदीयस्यज्ञानस्य|कुतित्याह|अकर्त्तृभावाद्भोक्तुश्च|अभोक्तुःपुरुषस्यभोगायतने नदेहेनभोगसाधनैरिंद्रियैर्भोक्तव्यैरिंद्रियार्थैर्भोगेनचसुखदुःखवेदनात्मनाफलेनचकिंप्रयोजनं|यतश्चास्यभोग स्तदधिकरणतत्साधनसहितोस्ति|अतोभोक्तृत्वमपह्नोतुमशक्यं|यश्चभोक्तासकथमकर्त्ता|अकर्त्तरिकारणा दिसंवंधस्यनिरर्थकत्वात्|दृक्क्रियात्मकत्वमेवस्वरूपंचैतन्यस्य|ततश्चकर्त्तृत्वनिरासाह्र?त्त्वमपिनिरस्तं|संवेदन स्यापिक्रियात्मनःकर्त्तृत्वानपगमात्|नह्यकर्त्तुःसंवेदनंचाप्युपपन्नं|इतश्चसांख्यज्ञानस्यमिथ्यात्त्वमाह|स्वातंत्र्या दप्यचित्वतः|अचेतनमपिप्रधानं|वुद्धिमत्कर्त्तृप्रेरणंविनास्वातंत्र्येणकथंकार्यकरणेप्रवर्त्तते|नह्यनुसंधानशून्य स्यवुद्धिमतोपिघुणकीटस्येवाक्षरलेखनेप्रवृत्तिर्युक्ताकिंपुनःपरिणामिनोजडस्य|पश्चान्नचेतनपुरुषःसतदधीनो पृ० २८अ) नकर्त्तेतिप्रकृतिस्थानान्नेयमुक्तिरुचिता|इदानीमनेकांतवादिनिराकरणायसंख्यातस्तन्मतंपूर्वपक्षपितुमुच्यते|इहस प्तपदार्थास्युर्जीवाजीवास्रवास्त्रयः|संवरोनिर्जरश्चैवबंधमोक्षावुभावपि|स्याद्वादलांछिताश्चैतेसर्वेनैकांतिकत्वतः|त त्रतावज्जीवपदार्थस्तत्तंत्ररीत्याजीवास्तिकायसंज्ञयापरिभाषितः|त्रिविधश्चासावनादिसिद्धमुक्तवधभेदात्|अत्राना दिसिद्धोर्हनूजीवास्तिकायाख्यः व्यपेतमोहादिवंधोमुक्तः|तदावृतस्तुवद्धः|अजीवपदार्थोपिपुद्गलाकाशधर्मा धर्मास्तिकायैश्चतुर्भेदैर्भिन्नः|अत्रापिपृथिव्यादिमहाभूतानिचत्त्वारितृणगुल्मादिलतादिरूपंस्थावरं|जरायुजां डजस्वेदजोद्भिज्जभेदभिन्नंजंगमंचेतिषट्प्रकारोयंपुद्गलास्तिकायः|आकाशास्तिकायोद्विरूपः|लोकाकाशास्ति कायोऽलोकाकाशास्तिकायश्चेति|लोकानामंतराकाशंलोकाकाशमितिस्मृतं|अलोकाकाशास्तिकाय श्चवहिस्तेषांसकीर्त्तितः|धर्मास्तिकायःपुद्गलास्तिकापादन्योभ्युदयहेतुः|अधर्मास्तिकायोपितत्प्रतिवं पृ० २८ब) धकृदिति|अयमसावजीवपदार्थश्चतुष्प्रकारः|आस्रवश्चक्षुरादींद्रियपंचकस्ययथास्वंप्रवृत्तिः|तथाचाहुः|वृत्तिः पंचविकल्पा|ध्रुवाध्रुवाचक्षुरादिवर्गस्य|यैषास्रवत्यजस्रंयतस्ततोसाविहास्रवःप्रोक्तिति|इंद्रियसंयमलब्धप्रति ष्ठंध्यानमास्रवनिरोधात्मकत्वात्संवृणोत्यास्रवमितिसंवरःतप्तशिलाशयनकेशोल्लुंछनादितपःसंचयनिर्जी र्णवीर्यंकर्मनिर्जरशव्देनोच्यते|नानानिरयसंसरणकारणंमोहादिरष्टविधोगणःस्वातंत्र्यविद्यातहेतुत्वाद्वंधः| उक्तंच|मोहादिकोगणश्चैषवंधोजीवस्यकल्पितः|लोहपंजरसंवद्धंयथाक्षिप्तंजलाशये|अलावुकमधोयातितद्व ज्जीवःसवंधनितिप्रक्षीणसर्वावरणत्वात्स्वातंत्र्यसंप्राप्तावूर्ध्वपदासादनंमोक्षः|यदाहुः|लोहपंजरविछेदात्प्लवते लावुकंयथा|आरोहतितथामोक्षंजीवोमोहादिसंक्षयात्|नित्यवोधसुखाद्यैश्चधर्मैर्युक्तःसतिष्ठतीति|एतेचसप्तप दार्थाःस्याद्वानुगताः|तथाहि|देहग्रहणात्पूर्वंजीवःकिमस्त्युतनेतियःपर्यनुयुङ्क्तेतंप्रत्यनेकांतवादोभ्युपगंतव्यः| पृ० २९अ) स्यादस्तिस्यान्नास्तिस्यादस्तिचनास्तिचस्यादवक्तव्यंस्यादस्तिचावक्तव्यं|स्यान्नास्तिचावक्तव्यंचस्यादस्तिचनास्तिचावक्त व्यंचेति|अत्रहियद्यत्पर्यनुयोज्यंतत्तत्सदसत्तयासमाधेयं|तत्रवाच्यतयावाच्यतयापिचविरोधहानिस्तुघटनीया इति सप्तभंग्यमोघव्रह्मास्त्रवतामजेयमिहकिंतत्|यत्स्यादस्तिस्यान्नास्तिस्यादितिपुद्गलिभिर्भ्राम्यतेजगत्सर्वमि ति|ननुचअनेकांतवादिनातावदेकांतानभ्युपगमान्नियमेनानेकांतवादोभ्युपगतव्यः|तथाचस्वसिद्धांतेवैकांत इति|कुतःसर्वत्रसप्तभंगी|नैषदोषः|अनेकांतवादेप्येकांतानभ्युपगमात्|यतःस्यादनेकांतः|स्यादेकांतः|स्या दनेकांतश्चैकांतश्च|स्यादवक्तव्यःस्यादेकांतश्चावक्तव्यश्च|स्यादनेकांतश्चावक्तव्यश्च|स्यादेकांतश्चानेकांतश्चाव क्तव्यश्चेति|तदेतल्लेशतोदूषयितुमाह|तदेवसत्तदेवासदितिकेनप्रमीयते|स्यादस्तिस्यान्नास्तिचेतियदुक्तंतदसंग तं|नहियद्यदैववस्तुअर्थक्रियाकारितयासत्त्वेनावगम्यतेतत्तदानीमेवासत्वेनैकांततःकश्चिदप्यवैतिकःकिला पृ० २९ब) नुद्भ्रांतमतिःपुनःप्रस्फुरद्रूपेसदितिप्रत्ययकारिणिघटादौनायमस्तीतिवुद्धिंकुर्यात्|असतिचतस्मिन्प्रख्योपा ख्याविरहिणिसत्तांनिश्चिनुयात्|विधिनिषेधरूपयोर्भावाभावयोःपरस्परपरिहारेणैवात्मलाभात्|अभावोहि तदसंभवलव्धजन्मापियदितेनैवभावेनसहितस्यात्तदानीमभावेवनस्यात्|तदुपमर्दनेनैवतस्यस्वरूपसिद्धेः|एवं भावोपियदिस्वप्रतिपक्षेणाभावेनाव्यतिरिक्तोभवेत्तर्हिभावेवनभवेत्|ननुघटरूपेणस्वात्मनास्तिघटः परा त्मनापटरूपेणनास्तीतिसदसत्त्वमुक्तं|नतुतद्युक्तं|किंकिलैतावताप्रतिपादितंस्यात्घटःपटात्मनानभवति घटेवापटोनास्तितदेतदभिमतमेव|अतदात्मकत्वेनतत्राविद्यमानत्वात्पटाद्भिद्यमानोयंघटोन्येवेतिसिद्धंसा ध्यते|तदाह|सदन्यदसदन्यच्चतदेवंसिद्धसाध्यता|ननुस्वात्मनायथाघटःस्वसामर्थ्यक्रियांकरोत्येवंपटात्मना पितत्कार्यंकुर्यान्नचकरोत्यतःपटात्मनानास्तियदिस्वात्मनापिपरात्मवन्नस्यात्तदास्वकार्यमपिनकुर्यात्तस्मादस्ति पृ० ३०अ) चनास्तिचेत्युक्तं|तथैतद्घटत्वमघटत्वंचपरस्परमभिन्नं|भेदेहितद्वुद्ध्यभिधानानुवृत्तिर्नस्यात्घटश्चाघटश्चेतिसासामा नाधिकरण्यंचनभवेत्|अस्तिचैतत्तस्मादुभयात्मकोसौक्रमेणतछव्दाभिधेयतामुद्वहन्स्यात्घटश्चाघटश्चेत्यविरोधः एतदप्युक्तं|यतोनास्तिकश्चिदभेदःतथाहि|अघटशव्देघटोनभवतीतिप्रसज्यप्रतिषेधोवास्यात्घटादन्यःपटा दिरितिवापर्युदासः|आद्येपक्षेघटश्चाघटश्चस्यादित्युक्तेघटाघटयोरव्यतिरेकात्|घटस्याभावेवघटित्यभिप्रेतं| एवंचेष्यमाणेसर्पाभावोपिसर्पेवस्यात्|तथाचसतिसर्पादिवत्तदभावादपिभयंस्यात्|ससर्पनिःसर्पदेशयोः समेवोपलंभोभवेत्|पर्युदासपक्षेपिघटत्वादन्यदघटत्वंभिन्नमेवपटत्वादिकंकथ्यते|तच्चघटत्वाद्भिन्नं|अभेदेहि घटादिष्वपिपटवुद्ध्यभिधानानुर्वृत्तिर्नस्यात्|घटादावपिस्पृष्टेघटप्रत्ययश्चनस्यात्|तस्मान्नघटाघटयोरभेदिति|न सदसतोरेकाश्रयत्त्वं|किंचअसज्जघन्यंसछ्रेष्ठमित्यपिव्रुवतेवुधाः|नैकत्रतदपेक्षातःस्थितमेवोभयंततः|यदपिस पृ० ३०ब) दसछव्दाभिधेयंश्रेष्ठाश्रेष्ठरूपंवस्तुतदपितद्विदोनैकत्राभिदधति|तस्यापिभिन्नविषयत्वात्|नहियदेवाश्रेष्ठंतदेव श्रेष्ठमितिवक्तुंशक्यं|अयमेवहिभावानांभेदः|यद्विरुद्धधर्माध्यासः|अथमतंयत्तत्छ्रेष्टाश्रेष्ठत्वंतदेकत्रसंभवत्येव|अ पेक्षावशात्|यथायंदेवदत्तोयज्ञदत्तसकाशादभिरूपःचैत्रापेक्षयातुनीरूपिति|एवंतर्हियज्ञदत्तस्याश्रेष्ठत्वं|चैत्रस्य चश्रेष्ठत्वमित्युभयं|ततित्यपेक्षातः|एवंभिन्नंलव्धंयदपिद्वयंतदापेक्षिकत्वादसत्यं|अपेक्षाहिनामनवास्तवी|तस्याःकि लवस्तुनःसतिसद्भावेकिंप्रयोजनं|सिद्धसत्ताकत्वेनानपेक्षत्वात्|तथाचाहुः|संश्चसर्वोनिराशंसोभावःकथमपे क्षतिति|नचालव्धसत्ताकेवस्तुन्यपेक्षायाःकिमपिकरणीयमस्ति|तस्यासत्वादेवतदपेक्षानुपपत्तेः| तदिद मुक्तं|अपेक्षानसतांसिद्धेरसिद्धेरपिनासतामिति|तदेवंनकथंचिदपिसदसतोरभेदोपपत्तिः|अथचेत्तदस द्भावेसदयुक्ततरोयतः|तत्कर्मसंकरभयादव्यापित्वंचतेजगुः|सामान्येतरसंवंधज्ञानाभावादचेतसः|तस्यदेहात्पूर्वं पृ० ३१अ) सदसत्वेनाभिमतस्यव्यापकत्वात्पुद्गलांतरैःसहकर्मसंकरःशंक्यते|व्यापकत्वेहिविप्रकीर्णानांकर्मणांभोक्तृन्प्र तिनियमःकिंकृतः|अव्यापकानांतुतेषांप्रत्येकंव्यवस्थितोमोहादिवंधपदार्थेवतन्नियामकितिकर्मसंकरभयादव्या पकत्वंअचेतसःदुर्वुद्धयःजगुःऊचुः|कुतेषांमंदवुद्धित्वमित्याह|सामान्येतरसंवंधज्ञानाभावात्|सामान्येनअनादि कालीनेनात्मनोव्यापकत्वेनयःसंवंधःसर्वकालभावित्वेनसाधारण्यमस्यितरेणचमुक्तावेवसंजातत्त्वात्तथारूपे णतपोर्ज्ञानंसम्यगवबोधस्तेषांपुद्गलवादिनांनास्ति|यदिहितदववोधेषांस्यात्तदानैवमयुक्तमेवकल्पयेयुः|मो हादिपाशावरुद्धसहजव्यापकस्वभावस्यात्मनःस्वभावतेवाव्यापकत्वाभ्युपगमोयस्तस्यविरुद्धत्वात्|तथाहि|यः प्रागव्यापकःसोंतेकथमन्यादृशोभवेत्|सविकासादिधर्माचेत्ततोदोषपरंपरा|प्राक्पूर्वंसंसारावस्थायामव्यापको यःसकथंमोक्षेव्यापकः|अव्यापकत्वंचतदानीमप्यभ्युपगंतुमयुक्तंएवंहिसंसारमुक्तयोरविशेषःस्यात्|अथतथा पृ० ३१ब) विधधर्मस्यविकाससंकोचधर्मित्वमभ्युपगम्यते|यदुतसंसृतौसंकोचमेतिमुक्तौतुविकसतीतिततोविपरिणामितज डत्वाद्यनेकह्येषसंततिःप्रसज्यतितिनकथंचिदपिसदसद्वादिमतमुपस्थापयितुंशक्यं|इदानींपादार्थिकदर्शनप्रदर्शि तमुक्तिनिराकरणायाह|षट्पदार्थपरिज्ञानान्मिथ्याज्ञानंनिवर्त्तते|रागद्वेषौममत्वंचतद्विशेषगुणास्ततः|क्रम शोविनिवर्त्तंतेदेहसंयोगजायतः|सामुक्तिर्जडतारूपाततोमुक्तःशवोनकिं|द्रव्यगुणकर्मसामान्यविशेषसमवा यानांषण्मांपदार्थानांसाधर्म्यवैधर्म्यतत्वज्ञानंनिश्रेयसहेतुरित्यभ्युपगमात्|द्रव्यादिपदार्थषट्कस्ययथावद्ज्ञा नादज्ञाननिवृत्तौरागादिदोषोपशमेवुद्धिसुखदुःखेछाद्वेषप्रयत्नधर्माधर्माधर्मसंस्काराणांनवानामात्मगुणा नांदेहसंयोगतत्त्वात्क्रमेणनिवृत्तौयामुक्तिःसावुद्ध्यायुपरमेसतिआत्मनस्तद्विनाकृतस्यकिंचिद्ज्ञत्वोपरमाज्ज डतारूपांगीक्रियते|ततःशवोपिकिंनमुक्तःकल्प्यते|तस्यापिवुद्ध्यादिगुणविरहेणेछाज्ञानादिविनाकृतत्वादिति पृ० ३२अ) भावः|अथसौगतमुक्तिनिराचिकीर्षयातन्मतमनुभाष्यदूषयति|चिद्व्यंजकस्यकर्मादेःक्षणिकत्वान्मुहुर्मुहुः|व्य ज्यतेजायमानैवक्षणिकेतिमतापरैः|चिद्ज्ञानंग्रहीतृरूपंसंवेदनंसाचिद्व्यंजकस्यव्यक्तिहेतोःकर्मणोव्यापारस्य योगसंग्रहणादेर्यदिवाकर्मणोग्राह्यस्यघटपटादेरादिग्रहणात्करणस्यचक्षुरादेःसहकारिणालोकादेश्चा नतिस्थैर्यात्प्रतिक्षणमुत्पद्यमानैवव्यज्यतेप्रकटीभवति|अयमर्थः|वक्ष्यमाणसत्कार्यवाददृशाभिव्यक्ति तिरोभावभाजामूभावानांव्यापारभेदेनावस्थादेशकालादिभेदेनचानतिस्थैर्यात्तद्ज्ञानमपि|तत्तदुपाधिभे दान्मुहुर्मुहुर्व्यज्यमानंक्षणिकं|तदेवचप्रमाणमितिपरेमन्यंते|तदाहुः|नित्यंप्रमाणंनैवास्तिप्रामाण्याद्व स्तुसंगतेः|ज्ञेयानित्यतयातस्याध्रौव्यात्क्रमजन्मनिति|चिदेवहिपाक्षणिकातत्तदर्थप्रकाशरूपानुभव सिद्धानत्वेतद्व्यतिरिक्तात्माविद्यते|संवेदनव्यतिरिक्तस्यभेदेनाप्रतिभाषनात्|यथाहुः|एकमेवेदंसविद्रूपंवि पृ० ३२ब) षविषादाद्यनेकाकारविवर्त्तंपश्यामः|तत्रयथेष्टंसंज्ञाःक्रियंतामिति|संवेदनेवक्षणिकेजलधाराप्रवाहवत्स दृशपरापरोत्पत्तिभ्रमाद्विकल्पेनस्थैर्यमध्यारोप्यतित्यविद्याजनितासेयमात्मदृष्टिः|तदुक्तं|मिथ्याद्ध्यारोहणा र्थंचोयत्नोऽसत्यपिभोक्तरीति|आत्मग्रहेहिसतितदन्यत्रपरत्वाभिमानात्स्वपरभेदः|ततश्चरागद्वेषाद्यनर्थोद्भवा दात्मग्रहोवंद्धितिभगवतासुगतेननैरात्म्यभावनोपदिष्टा|यदुक्तं|आत्मनिसतिपरसंज्ञास्वपरविभागात्परि ग्रहद्वेषौअनयोःसंप्रतिवद्धाःसर्वेदोषाःप्रजायंतिति|नचाभ्युपगतस्याप्यात्मनोनित्यत्वंघटतेयत्सत्तत्सर्वंक्ष णिकं|अक्षणिकस्यक्रमयौगपद्याभ्यामर्थक्रियानुपपत्तेःसत्तायाएवासिद्धत्वात्|तदाहुःअर्थक्रियासमर्थंय त्तदत्रपरमार्थसत्|असंतोक्षणिकास्तस्मात्क्रमाक्रमविरोधतिति|तथाहि|नित्योभावःक्रमेणवार्थक्रियां कुर्याद्युगपद्वानतस्यतावत्क्रमेणकरणमुपपद्यते|यस्मादयमप्रच्युतोनुत्पन्नस्थिरैकस्वभावःसचकालांतरनिर्व पृ० ३३अ) र्त्यामर्थक्रियांतदानीमेवकिंनकरोति|नह्यसाववसरांतरकरणीयंस्वभावांतरेणकुर्यात्स्वभावस्यैकरूपत्वा त्स्वभावान्यथाभावेहितद्वतोपितदव्यतिरेकाद्विनाशतस्ततश्चानित्यत्वं|अथोच्यते|सपदार्थोर्थक्रियांकरोत्ये वयदिसहकारिणोस्यसन्निहिताःस्युस्तदसन्निधानादकुर्वाणस्यनास्योपालंभयोग्यत्वमिति|नैवं|सहकारिणो स्याकिंचित्कराश्चेत्किमर्थंतानपेक्षते|किंचित्करत्वेतुयत्तत्किंचित्कुर्वंतितत्ततोऽव्यतिरिक्तं|व्यतिरिक्तं वाव्यतिरिक्तकरणेकिंतस्यतदपेक्षया|तदव्यतिरिक्तकरणेसेवसहकारिभिःक्रियतित्यायातं|नवा स्थिरस्यकरणमुपपन्नं|तत्स्वभावस्यसतस्वहेतुभ्येवोत्पत्तेः|कृतस्यचकर्त्तुमशक्यत्वात्|अथस्थिरस्वभा वस्यास्यसहकारिणोतिशयाधानंकुर्वंतियेनकालांतरेर्थक्रियांकरोतीति|एतदप्यसत्|यस्मादनाहिताति शयात्स्वभावादाहितातिशयोन्येवेतिस्थिरैकस्वभावतैवत्रुट्यति|तथाहि|सहकारिभ्योतिशयोत्पत्तौसपूर्वो पृ० ३३ब) त्पन्नानाहितातिशयस्वभावःस्वतेवविनष्टोभ्युपगंतव्यः|तस्यानश्वरस्वभावत्वेननाशहेतोरपितत्राकिंचित्क रत्वात्|विनश्वरोद्भवस्वभावत्वेवावैयर्थ्यात्तस्यचस्वभावस्याविशेषात्प्रतिक्षणमितिक्षणिकतातदेवंननित्यस्य क्रमेणार्थक्रिया|नापियुगपत्करणमुपपद्यते|यस्मायौगपद्येननिर्वर्त्तितार्थक्रियोपितस्मात्स्वभावान्नविर मेत्|स्थिरैकस्वभावत्वात्स्वभावविरतौस्वभावहानिःक्षणिकत्वमेव|अथनास्यस्वभावांतरयोगःकिंतुन करोत्येवायंकार्यस्यत्वयंविपाकःकृतस्ययत्कर्त्तुमशक्यत्त्वमेव|तदप्ययुक्तं|तस्यतावदर्थक्रियामकुर्वतौस्यै वसत्तायाएवदुर्ल्लभत्वात्|अर्थक्रियासमर्थंयत्तदत्रपरमार्थसदित्युक्तत्वात्|अर्थक्रियाकरणलक्षणात्स्वभा वात्तदकरणात्मकस्वभावोन्येवेति|कथमस्यनस्वभावांतरयोगः|यदिचयौगपद्येनापिकुर्वन्ननवरतंकरो तितदास्वभावाविशेषात्सर्वदासर्वार्थक्रियाकरणप्रसंगिति|क्षणिकमेवेदंसंवेदनंयुक्तं|नतुतद्व्यतिरिक्तनि पृ० ३४अ) त्यात्मसिद्धिरितिपूर्वःपक्षः|सिद्धांतस्तुतदसत्कर्मणोभोगादतीतानुभवस्मृतेः|तदेतत्क्षणिकत्वंसंवेदनस्य नैरात्म्यभावनाभ्युपगमनंचनयुक्तं|स्वसंवेदनसिद्धस्यस्थिररूपस्यापरोक्षस्यात्मनःप्रकाशनात्|ननुसदृशपरा परक्षणोत्पत्तिविप्रलव्धत्त्वात्स्थैर्यमध्यारोपितमित्युक्तं|तदयुक्तं|स्वात्मनिक्रियाविरोधादध्यारोपानुपपत्तेः|यद पिक्षणभंगसाधनार्थमक्षणिकस्यक्रमयौगपद्याभ्यामर्थक्रियाविरोधात्सत्तायाएवासिद्धत्वाद्यत्सत्तत्क्षणिक मित्यनुमापनघटनंकृतं|तत्स्वसंवेदनलक्षणप्रमाणवाधितत्वादयुक्तं|अक्षणिकस्यसतःसर्वस्यसंवेदनस्या नुभवसिद्धत्वात्|अनैकांतिकंचसर्वस्यसतःक्षणिकत्वेनव्याप्तिप्रदर्शनेसतिऽक्षणिकस्यपरमार्थसतोवैध र्म्यदृष्टांतस्यासंभवाद्विपक्षव्यावृत्यदर्शनेनहेतोःकेवलान्वपिनोगमकत्त्वाभावाद्विरुद्धश्चायंरसत्वारव्योहे तुः|साध्यविपर्ययेणाक्षणिकत्वेनसर्वार्थक्रियाकारिणिघटादौसिद्धव्याप्तिकत्वात्यदप्येतद्व्याप्तिसाधना पृ० ३४ब) र्थंनित्यस्यक्रमयौगपद्याभ्यामर्थक्रियाविरोधादितिहेत्वंतरं|तदप्याश्रयासिद्धत्वादयुक्तं|नहिनित्यःकश्चिदर्थो भवद्भिरभ्युपगतोयत्रायंहेतुःसिद्धःस्यात्|नचानित्यस्यापिमण्यादेरर्थस्यक्रमेणानेकदेशस्थांस्तांस्तान्भावा न्प्रकाशयतोयुगपच्चैकग्रहगतान्घटपटादीनवभासयतःकश्चिद्विरोधः|अपिचनतावत्क्षणिकंसंवेदनमनेक क्षणानिर्वर्त्यार्थक्रियानुष्ठानसमर्थयुत्पत्यनंतरंद्घ्वंसिनस्तदुपपत्त्ययोगात्|नचारोपितंस्थैर्यंतत्तद्व्यापारनिर्वर्त्त नक्षमं|तस्यचस्वात्मन्यध्यारोपानुपपत्तेरित्युक्तत्वात्|आरोप्यस्यचावस्तुत्वेनार्थक्रियानुष्ठानमसंवद्धं|वस्तुत्वे चस्थिरस्यैवाववोधस्यात्मरूपत्वेनास्माभिरभ्युपगमान्नास्तिभेदः|क्षणव्यतिरिक्तश्चसत्तासंत्तान्योनकथंचि दुपलभ्यते|तस्मात्कर्मानुष्ठानदर्शनान्यथानुपपत्त्यावस्तुसिद्धमेवास्यचिदात्मनःस्थैर्यं|इतश्चैतत्क्षणि कत्वमयुक्तं|कर्मणोभोगात्क्षणांतरानन्वपिनिविज्ञानेकर्मभोगोनुपपन्नःयेनैवहिदृष्टंसेवाकृष्यादिकर्मकृतं पृ० ३५अ) तमेवतस्यभोक्तारमुपलभामहे|दृष्टवच्चादृष्टकल्पनायुक्तिमतीयद्युभयजन्मनिशरीरादिभेदेप्यभिन्नेकेव भोक्ताभ्युपगम्यतेतदाहिकर्मफलभोगोनिर्वाधोभवति|अथचैत्यवंदनाख्यंकर्मान्येनकृतमन्यस्यैवतत्फले नस्वर्गादिनायोगित्यकृताभ्यागमकृतविप्रणाशप्रसंगोदुर्निवारः|उक्तंचश्रीमन्मतंगे|कृतमेकेनयत्कर्म तद्विपाकंपरःकथं|प्राप्नोतियुक्तिदौर्वल्यादिति|मनुनायंदोषः|ऐहिकस्यकर्मणोलव्धशरीरेणज्ञानसंता नेनपरत्रभोगोपपत्तेः|तदयुक्तं|अशरीरस्यज्ञानसंतानस्यसद्भावेप्रमाणाभावात्कर्मफलभोगान्यथानुप पत्त्याविज्ञानसंतानसिद्धिस्तत्सिद्ध्याचकर्मफलभोगित्यनुपपन्नमस्थैर्यंसंवेदनस्य|अतश्चक्षणिकंसंवेदन मित्यसत्|कुतित्याह|अतीतानुभवस्मृतेः|अतीतःसमतिक्रांतोयस्यानुभवस्तस्यस्मरणात्|यदाहिस्थिरस्व भावन्नुभयकालानुसंधातात्माभ्युपगम्यतेतदानुभूतविषयासंप्रमोषरूपंस्मरणमुपपद्यते|नतुक्षणिकत्वे पृ० ३५ब) नहिप्राक्तनक्षणानुभूतसुखदुःखादिसंवेदनंवर्त्तमानेनकालांतरभाविनावाक्षणेनस्मर्त्तुंशक्यं|तस्यान्यत्वात् |यथानदेवदत्तानुभूतंतत्पुत्रःस्मरति|दृश्यतेचशैशवाद्यनुभूतंयौवनस्थाविरायवस्थासुस्मर्यमाणं|सावेयमतीता नुभवस्मृतिःक्षणिकतांविज्ञानस्यनिरस्यति|नतुस्थिरस्वभावमात्मानमनुमापयति|तस्यस्वसंवेदनसिद्धस्यस्वानु भूत्यैकप्रमाणत्वात्|तदेवंकर्मोपभोगादतीतानुभवस्मृतेश्चनक्षणिकत्वमुपपद्यतेचितः|तदाह|स्थितिर्निरन्व येनाशेनस्मृतेर्नापिकर्मणः|सूच्यग्रनिपतत्सर्षपवदनवस्थापित्वादविश्रम्यैवविनश्यत्सुविज्ञानक्षणेषुप्रोक्त (?????मेवस्मृतेश्चनक्षणिकत्वमुपपद्यतेचितः|तदाह|स्थितिर्निरन्वयेनाशेनस्मृतेर्नापिकर्मणः|सूच्यग्रनियतत्स र्षपवदनवस्थापित्वादविश्रम्यैवविनश्यत्सुविज्ञानक्षणेषुप्रोक्त?????)वन्नस्मृतेरवस्थितेरुपपत्तिःकल्प्यते|नापिकर्मण इत्यलमलीककल्पनाकुलीकृतस्थितिनाक्षणभंगाभिनिवेशेन|किंचायमपरोत्रदोषः|यदुतविनाशलक्षणोपै पृ० ३६अ) तिनमुक्तावप्युपप्लवः|नचास्त्यनुभवःकश्चिद्भवावस्थावरंततः|शुद्धचित्संततिसमुत्पादोभवतांमोक्षःस्यात्|यदिवा प्रदीपनिर्वाणरूपः|आद्येपक्षेस्वपरिकल्पितस्यप्रतिक्षणविनाशित्वलक्षणस्योपप्लवस्यमुक्तावप्यनुपशमः|द्वि तीयेतुप्रदीपनिर्वाणरूपत्त्वात्संवेदनासंभवतः कश्चिदप्यनुभवोनास्तीतितथाविधात्संवेदनविनाशात्मका त्काष्ठकुड्यादीनामपिसुलभान्मोक्षात्संसारावस्थावरंसौगतानामिति|कृतमेवंविधमोक्षलिप्सया|तदि यतावेदांतसांख्यसदसत्पदार्थिकादिमतेष्वसर्वदर्शिप्रणेतृत्वाद्वस्तुसंग्रहस्यास्फुटत्वमसंवद्धतांचोद्भाव्यद र्शनांतराणामप्येषैववार्त्तेतितत्तदभिनिवेशिनांननिरतिशयनिश्रेयसयोगितिवक्तुमाह|इत्याद्यज्ञानमूढानां मतमाश्रित्यदुर्द्धियः|अपवर्गमभीप्संतिखद्योतात्पावकार्थिन|शिवशक्तिविद्येश्वरादावुपादेयसतत्वेमल कर्ममापादौचहेयेपरमार्थेयेषांनास्त्यववोधः तेषामज्ञानमूढानांदर्शनांतरप्रणेतृणांसंवंधिमतंशास्त्रमाश्रित्या पृ० ३६ब) कुशलमतयोयेमुक्तिमिछंतितेखद्योतादग्न्यभ्यर्थिनःकीटमणेर्वह्निंलिप्सवस्तेयथाव्यर्थश्रमास्तथातेविफ लक्लेशाभवंतीत्यर्थः|तथाहि|यत्त्कैवल्यंपुंप्रकृत्योर्विवेकाद्योवासर्वंव्रह्ममत्वाविरामः|यावाकाश्चिन्मुक्तयःपाश जन्यास्तास्ताःसर्वाभेदमायांतिदृष्टौ|यदेतत्कपिलकल्पितंपुंप्रकृत्योर्विवेकात्कैवल्यंपाचसर्वंखल्विदंव्रह्मेतिम त्वाद्वैतविकल्पप्रहाणेसतिव्रह्मप्राप्तिः|याश्चपाशजन्याःकाश्चित्पांचरात्रादिभिर्मुक्तयोभ्युपगताः|यथाहुः|ईशा स्तुतेसमभवन्प्रकृतेःपरस्याःकृष्णानिरुद्धमकरध्वजरौहिणेयाइति|यथावाकालैकवादिनां|कालःसृज तिभूतानिकालःसंहरतिप्रजाः|कालःसुप्तेषुजागर्त्तिकालोहिदुरतिक्रमिति|यथावाकेषांचित्|चित्तमेवहि संसारोरागादिक्लेशदूषितं|तदेवतद्विनिर्मुक्तंमोक्षित्यभिधीयतिति|एताःकिलप्रकृतिकालवुद्ध्यादीनांवं धकत्वेनपाशरूपत्वात्पाशजन्यामुक्तयःसर्गारंभेभेदमायांतिविनश्यंतीत्यर्थः|यदुक्तंश्रीमन्मतंगे|तस्मात्प्र पृ० ३७अ) धानशव्देनतत्वमुक्तमचेतनं|तस्मात्पर(नास्त्यपरंयेषांभावःप्रतिष्ठितः|नतेमुक्तामुनिव्याघ्रपुनरायांत्यधोगतिमिति|तथाउपादानेषुलीनानांपुनरावर्त्तनंध्रुवमिति||तेषांतुयथाविधसिद्धाध्यासभाजांननिरं)तरमज्ञानध्वांतसंततिरंतःकरणमावृणोति|अपितुतेक्रमेणविवेकप्र थनात्परमेश्वरानुग्रहास्पदतांकस्मिंश्चिदपिकालेपास्यंति|तथाचोक्तंश्रीमत्पौष्करपारमेश्वरे|नमोक्षंयातिपु रुषःस्वसामर्थ्यात्कदाचन|मुक्त्वाप्रसादंदेवस्यशिवस्याशिवहारिणिति|अथैवंमतांतरोक्तायामुक्तेःप्रागु क्तवदसत्यत्वेततःकिंतद्वैलक्षण्यमिहत्ययोःसिद्धिमुक्त्योरित्याह|शैवेसिद्धोभातिर्मूर्ध्नीतरेषांमुक्तःसृष्टौपुंव रोभ्येतिनाधः|विश्वानर्थान्स्वेनविष्टभ्यधाम्नासर्वेशानानीशितःसर्वदास्ते|इहशास्त्रेयःसिद्धःसविविधभुवनो पपन्नविचित्रैश्वर्यसंपादिततद्भोगभाक्सर्वोत्कर्षशालीभवति|तथाचोक्तं|वृहस्पतिपादैः|यन्माहात्म्यंभ गवतिपरमशिवेनुपममव्ययमचिंत्यं|तन्माहात्म्यंसिद्धेहतवंधनमंडलेभवतीति|नचदर्शनांतरप्रतिपन्नव्रह्मल यसंविद्विनाशप्रकृतिपुरुषविवेकायात्मनोमोक्षस्यैवंगुणत्वमित्युक्तं|यस्त्वस्मिन्दर्शनेमुक्तःसवंधकारणा पृ० ३७ब) नांमलकर्ममायापरमेश्वरनिरोधशक्तीनामुपरताधिकारत्वात्पुनःसर्गप्रारंभेनाधोभ्येति|नसंसारीभवती त्यर्थः|किंतर्हिसकरोतीत्याहविश्वानर्थानिति|आविर्भूतनिरतिशयसर्वार्थज्ञत्वकर्त्तृत्वतःशिवसमा नमहिमत्वात्सतेजसासमधिष्ठितसर्वार्थोपिसन्मुक्तात्मानकिंचित्करोति|करणीयाभावात्|एवंचेन्मु क्तेःपूर्वमकिंचित्त्करोभूत्|मुक्तश्चतद्रूपेवेतिकोत्थमुक्तौविशेषः|अयंविशेषः|यतःसर्वेशानेनपरमे श्वरेणअनीशितःअप्रेरितस्तदानीमसौभवति|किंकंचिदेवकालमप्रेर्यः|नेत्याहसर्वदेति|सर्वकालंतंप्र त्यप्रेरकःशिवभट्टारकोभवतीत्यर्थः|भट्टविद्याकंठात्मजभट्टनारायणकंठविचरितायांमृगेंद्रवृत्तौद्वि तीयंप्रकरणं तदेवंदर्शनांतरापरिदृष्टमत्युक्तष्टंभुक्तिमुक्त्याख्यंफलंतत्साधनोपायश्चास्मिन्शास्त्रेप्रति पाद्यतित्युक्तं|इदानींसर्वेशानानीशितितिप्राक्तनप्रकरणोपसंहारेसर्वेशानशव्देनसूचितंसमर्थयन्नी पृ० ३८अ) श्वराख्यंपदार्थमुपपादयितुमाह|अत्रचप्रकरणांतरोपक्रमेपंचप्रकारःसंवंधोवाच्यः|तथाचोक्तंश्रीमत्पौ ष्करे|अनंतरंयत्पटलात्सूत्रंतंत्रेप्रवर्त्तते|वक्तव्यस्तस्यसंवंधःपंचधासमवस्थितः|तंत्रवस्तुत्रयात्सूत्राद्वा क्यात्प्रकरणात्तथा|पटलाच्चेति|तंत्रवस्तुनःपतिपशुपाशात्मकस्यपदार्थत्रयस्यत्रिपदार्थंचतुष्पादमि त्यनेनोपक्रमात्|सांप्रतंपतिपरीक्षालक्षणःसंवंधः|सौत्रस्तुसर्वकृत्सर्वविछिवित्यनेनोक्तः|वाक्यात्मक श्चतेनस्वभावसिद्धेनभवितव्यंजगत्कृतेत्यादिभिर्वाक्यैः|प्राकरणिकोपिविद्यापादाख्येनप्रकरणेन|पाटलि कस्तुपूर्वपटलांतेसर्वेशानशव्देनसूचितान्वयः|अनेनैवक्रमेणविद्यापादांतंयावत्संवंधपंचकमनुसंधेयं| अथोपलभ्यदेहादिवस्तुकार्यत्वधर्मकम्|कर्त्तारमस्यजानीमोविशिष्टमनुमानतः|अथशव्दोधिकारार्थः|अ त्रहिपतिपदार्थपरीक्षाधिक्रियतित्यर्थः|अत्रचतनुकरणभुवनादीनांभावानांसन्निवेशविशिष्टत्वेनकार्यत्वंवुध्वा पृ० ३८ब) अनुमानेनैषांवुद्धिमत्कर्त्तृपूर्वकत्वंप्रतीयतितितात्पर्यं|ननुदेहस्यैवतावत्कार्यत्त्वमसिद्धं|नहिक्वचित्कदाचिद्दे हःकेनचित्क्रियमाणोदृष्टः|सत्यं|केनचित्क्रियमाणात्वंदेहस्यनदृष्टमितिकर्त्तृदर्शनापह्नवोनयुक्तः|तस्यानुमे यत्वेनदर्शनाविषयत्वात्|देहस्यतुक्रियमाणत्वंकथंनदृष्टं|अभूत्वाभावित्वमेवहिकार्यत्वंतच्चदेहस्योपलभ्यते एव|तथाहि|शुक्लशोणितकललाघुपादानाद्दिहुपचयितिधात्वर्थगत्याप्रतिमासोपचीयमानोगर्भस्थोदे हःप्रतीयतितिकथमेषकार्यत्वमतिक्रमेत्|किंचसन्निवेशविशेषवत्वाद्विनश्वरत्वाच्चदेहादेःकार्यत्वमपह्नो तुमशक्यं|यद्यत्सन्निवेशविशेषवद्विनश्वरंतत्तत्कार्यं|यथाघटादि|तथाचैतेदेहादयःपदार्थाः|तस्मादेतेपि कार्याः|एवंचसतिदेहादिवस्तुजातंधर्मिवुद्धिमत्कर्त्तृपूर्वकमितिसाध्योधर्मः|कार्यत्वात्|यद्यत्कार्यंतत्त द्वुद्धिमत्कर्त्तृपूर्वकंदृष्टंयथारथादि|यत्तुनैवंविधंनतत्कार्यंयथात्मादि|ननुघुणाक्षरेकार्येपिनवुद्धिमत्कर्त्तृपू पृ० ३९अ) र्वकत्वमस्तीत्यनैकांतिकःकार्यत्वहेतुः|नैवं|तत्रकार्यताप्येवानन्वयात्|यथेष्टसंचारमात्रेवकिलघुणस्य कर्त्तृतानतुविशिष्टसन्निवेशाक्षरनिर्मितौ|सतुसन्निवेशस्तथान्यथास्यपरिसर्वतःस्वभावतेवोपपद्यते|न नुतद्भावेभावात्तदभावेचाभावात्घुणकर्त्तृकमेवाक्षरं|यद्येवंतत्तथाचारित्वेभावादतथाचारित्वेचाक्षरस्या नभिव्यक्तेरव्यवधानेनघुणाक्षरस्यवुद्धिमत्कर्तृपूर्वकत्वमस्तीतिकुतःकार्यत्त्वहेतोरनेकांतिकत्वा|नचा यमकृष्टजातैः शाल्यादिभिर्वनद्रुमादिभिर्वानैकांतिकः|तेषुसकर्त्तृभावस्यानिश्चयात्|तेषांचपक्षीभू तत्वात्|नन्वसिद्धव्याप्तिकस्यपक्षीकरणमात्रेणयदिहेत्त्वाभासानांन्निरासःतर्हिनकेचनहेतवोहेत्वाभासाः |भवेदेतद्यद्ययंकार्यत्त्वहेतुरसिद्धव्याप्तिकःस्यात्यावतादृष्टांतीकृतदृष्टकर्त्तृकघटादिव्यतिरिक्तास्त्रैलो क्योदरवर्त्तिनस्तनुकरणभुवनादयोभावाधर्मिणःकर्त्तृपूर्वकाः|कार्यत्वातुपलभ्यमानकर्त्तृकघटादि पृ० ३९ब) त्यनुमानेक्रियमाणेकिमन्यदवशिष्यते|यत्रकार्यत्वस्यव्याप्तिर्नसिद्धास्यात्|ननुचात्रानुमानेयेवघटादिदृष्टां तेधर्मीसदृष्टकर्त्तृकत्वान्नतावत्सिसाधयिषितेश्वरनिर्वत्यः|तस्यतुकुंभकारकार्यत्वेनेशस्यासर्वकर्त्तृत्वंअथेश्वरकर्त्तृ त्वंदृष्टांतधर्मिणोघटादेरिष्टंतत्साध्यभ्रष्टोदृष्टांतः|प्रतीतिवाधश्चनहिघटादिकमर्थंकुलालाघन्वयव्यतिरेकानुविधा यिनमीश्वरकर्त्तृकत्वेनकश्चिदप्यवैति|विरुद्धश्चायंहेतुः|यादृश्योहिघटादेःकर्त्ताकुलालादिःक्लेशादिभागनीशोवि नश्वरश्चतादृग्जगतोपिकर्त्ताप्राप्नोति|तदुक्तंजैमिनीयैः|कुंभकाराद्यधिष्ठानंघटादौयदिचेष्यते|नेश्वराधिष्ठित त्वंस्यादस्तिचेत्साध्यहीनता|तथासिद्धेचदृष्टांतेभवेद्धेतोर्विरुद्धता|अनीश्वरविनाश्यादिकर्त्तृकत्वंप्रसज्यतिति| सादेषसर्वदोषावकाशोयद्यस्माभिरसर्वविषयमीश्वराधिष्ठानमुपगम्यते|यावतापेपितुकुंभादीनांकर्त्तारःकु लालादयस्तेपितत्प्रत्यवेक्षणानुगृहीतशक्तयस्तत्तत्कार्यनिवर्त्तनसमर्थाभवंतीतिव्रूमः|ननुकुत्रैतद्दृष्टं|यत्कुलाल पृ० ४०अ) तंतुवायदिसद्भावेभावात्तदभावेचाभावादपिघटादिकार्यजातमीश्वराधिष्ठितमितिकुत्रवानदृष्टंकिंनश्रुतं|भगवता स्वयमादिष्टंसर्वजनप्रसिद्धेष्वपिशास्त्रेषूद्घुष्यमाणंभवद्भिः|समाधिश्यचभूतानिधारयाम्यहमोजसा|पुष्णामिचौष धीःसर्वाःसोमोभूत्वारसात्मकिति|नतदस्तिविनायत्स्यान्मयाभूतंचराचरमिति|श्रुतावपि|योरुद्रोअग्नौयोअप्सु योषधीषुयोरुद्रोविश्वाभुवनाविवेशेति|अतेवभवदुद्भावितःप्रतीतिविरोधोपिनिरस्तः|अज्ञोजंतुरनीशो यमात्मनःसुखदुःखयोः|ईश्वरप्रेरितोगछेत्स्वर्गंवाश्वभ्रमेववाइत्येवंविधायाःप्रत्युतप्रतीतेःसिद्धत्वात्|नचा यंविरुद्धोहेतुःविपर्ययव्याप्त्यभावात्|दृष्टांतधर्मिणिघटादौस्वसाध्येनवुद्धिमत्कर्त्तृपूर्वकत्त्वेनव्याप्तेःसिद्धत्वा त्वुद्धिमत्कर्त्तृपूर्वकत्वविरहिणोविपक्षादात्मादेर्व्यावृत्तत्वात्सविरुद्धुच्यते यःसपक्षनिवृत्तोपिविपक्षमेव व्याप्नोति|यथानित्यःशव्दःकृतकत्वादितिवुद्धिमत्कर्त्तृपूर्वकत्त्वंचघटस्यकुंभकारकार्यत्वात्सिद्धमितिकासाध्यभ्र पृ० ४०ब) ष्टता|नचसर्वेवदृष्टांतधर्माःसाध्यधर्मिणिक्वाप्यनुमानेभवंति|येनानीश्वरविनाश्यादिकर्त्तृकत्वप्रसंगःस्यात्| तथाह्यनित्यःशव्दःकृतकत्वाद्घटादिवदित्यत्रापिशव्दस्यकुंभकारकार्यत्वरौहित्यपारिवर्त्तुल्यादयोघटधर्माःकिमि तिनभवंतीतिभवद्भिर्वक्तव्यमितिनकिंचिदेतत्|नन्वेतेकार्यत्वसन्निवेशादिमत्वादयोहेतवः|कार्यस्यानेककर्त्तृ तामपिसाधयंतीतिधर्मिस्वरूपविपरीतसाधनत्वाद्विरुद्धाः|तथाचमंडनः|सन्निवेशादिमत्सर्वंवुद्धिमद्धेतुमद्यदि| प्रसिद्धसन्निवेशादेरेककारणताकुतः|रथाद्यवयवानानातक्षनिर्मायितापि|दृश्यंतेजगतिप्रायुपकार्योपकारकाइति |तदप्ययुक्तं|रथादीनांकार्याणामनेकतक्षविरचितनामपिएकस्थपतीछानुवर्त्तनंविनानिष्पत्त्यदर्शनात्|तदेवं कार्यत्त्वहेतुनाजगतोवुद्धिमत्त्कर्त्तृपूर्वकत्वसिद्धौयोसौतत्तद्वैचित्र्यसंपादिकेछाज्ञानक्रियाशक्तियुक्तःकर्त्तासित्य स्मदादिकार्यविलक्षणक्षित्यादिकार्यविशेषजनककारणविशेषावगमोयुक्तः|नचैतदप्रसिद्धंयस्मात्वैशिष्ट्यंका पृ० ४१अ) र्यवैशिष्ट्याद्दृष्टंलोकस्थितावपि|लोकव्यवहारेपिविशिष्टंकार्यंदृष्ट्वाविशिष्टमेवकारणमनुमीयते|याविचित्रभावना दिवस्तुचित्रलेपादिकलाकलापस्यामुख्यतांमध्यत्वमनुयमसौंदर्यसंपदंचदृष्ट्वातत्तत्कर्त्तुरपितद्गतवैलक्षण्याद्वैशिष्ट्यम वसीयते|अतश्च|यद्यथायादृशंयावत्कार्यंतत्कारणंतथा|यत्कार्यंधूमादि|यथेतियेनप्रकारेण|गिरिगुहागतत्वेनत दुत्संगवर्त्तितयातदपरपार्श्ववर्त्तित्वेनचोपलव्धं|यादृशंचतार्णपर्णादिनास्वरूपेणविशिष्टं|यावत्परिमाणंतनुतर रेखाकारमंवुदनिवहवहलंवातत्कारणंवह्निलक्षणं|तथेतिपर्वतोत्संगस्थंवातछिखरनिविष्टंवातत्पश्चाद्भाग गतंवातादृशंचतावत्प्रमाणकंवाल्यत्ववहुत्वेनयथानुमीयते|एवंजगल्लक्षणकार्यस्यतत्तत्प्रकाराकारवैचित्र्य मुपलभ्यतत्तद्विशेषविषयनिरतिशयज्ञानक्रियाशक्तियुक्तंकारणमनुमीयते| तच्चनित्यंकालानवछेदाद्वैतत्पा न्नप्रदेशगम्क्रमाक्रमसमुत्पत्तेःक्रमाद्युत्पत्तिशक्तिमत्|यस्माभूत्वाभवनम्भूत्वाचाभवनंतस्यकालेनावछेदा पृ० ४१ब) दर्नित्यत्वं|यत्तुपूर्वापरकोटिद्वयविरहात्कालानवछिन्नमतोनित्यं|किंचनतत्क्वचिदवस्थितं|अपितुवैतत्यात्महत्वा दिग्देशानवछिन्नत्वात्सर्वगंसर्वत्रतत्कार्योपलव्धेश्चविभुःतथाक्रमयौगपद्याभ्यांतनुकरणादिकार्यस्योत्पादनात्क्रमेण युगपच्चोत्पादिकयाशक्त्यायुक्तं|ननुजगत्सृष्टिस्थित्यादिकातत्क्रियानाकरणीकाक्रियात्वात्छिदिक्रियावत्|अ तस्तस्यापिकरणेनभवितव्यमित्याह|तस्यास्तिकरणंयेनदृष्टानाकरणाकृतिः|अनागामिचतत्ज्ञेयंकार्यस्या नादिसंस्थितेः|यस्मादकरणिकाक्रियानसंभवतिअतस्तस्यभगवतःकिमप्यवश्यंकरणमस्ति|तच्चकृत्यस्यसर्गा देरनादित्वेनावस्थानादनागामि|अनागंतुकं|अथकिंतत्करणमित्युच्यते|करणंचनशक्त्यंन्यत्छक्तिर्नाचेतनाचि तः|शक्तिरेवास्यविश्वेशितुःकरणंतयैतत्क्रियानिष्पादनात्|साचेच्छादिरूपेतिवक्ष्यामः|उक्तंचश्रीमत्किरणे|इ छैवकरणंचतस्ययथासद्योगिनोमतेति|शक्तिश्चचेतनरूपा|नहिचित्स्वभावस्याचिद्रूपाशक्तिर्भवति|य पृ० ४२अ) FOḻईO णो. ४२अ ईष् ण्Oट् आVआईḻआBḻE. पृ० ४२ब) तिरेववाव्यक्ताख्याएतत्कत्तृत्वेनास्तु|यांविनातस्येश्वरस्यापितत्कार्यानिष्पत्तिरुपलभ्यते|क्षित्याद्यात्मनापारार्थ्य प्रवृत्तान्यानपेक्षणीप्रकृतिरेव|अतःकिमीश्वरेणेति|कापिलाः|तथाहि|यद्यथापरिणामैकस्वभावंतत्रतत्ततः| अन्यानपेक्षवीजादिसामग्रीयद्वदंकुरे|महदादिविकारौयपरिणामस्वभावकं|त्रिगुणात्मप्रधानंचतेनसांख्यम नीश्वरंइति|यदिवापुरुषेवेदंसर्वंयद्भूतंयच्चभव्यमिति|अणोःपुरुषादेवविवर्त्ततयाचिदचिल्लक्षणविश्वप्रा दुर्भावादिवाभविष्यतिकिमीश्वरेणेतितदसद्बहिर्बीजभूतानांकर्मणांमायादीनांचाचेतनानांवुद्धिमदधिष्ठि तानांसृष्ट्यादिकृत्यमुपपन्नमित्युक्तत्वात्प्रकृतेरप्यौत्सुक्यनिवृत्त्यर्थंकार्येषुप्रवृत्तिर्नितरामयुक्ता|तस्याआचैत न्यादौत्सुक्यस्यचचेतनधर्मत्वात्पुरुषस्यापिपरिणामित्वाद्यनेकदोषोपनिपातात्स्वतंत्रस्यचाभिरुचितहानेरनि ष्टोपनियातस्यचानुपपत्तेरस्ववशत्वात्स्थितिजन्मप्रलयकर्त्तृत्वनिरासेसतिपारिशेष्यान्महेश्वरस्यैवैतत्स्थितिज पृ० ४३अ) न्मादिकार्यमितिपारिशेष्यानुमानमनवद्यमितिगमकमेतत्|इदमिदानींविविच्यते|यदितावत्परमेश्वरःकारु ण्यात्संसारिजनोज्जिहीर्षयाजगतांस्थितिजन्मादौप्रवर्त्तते|तत्किमर्थंप्रत्युतसांसारिकेषुदुःखेषुवराकानिमान्प्रा णिनोनियोजयति|अथतस्यैवंविधेवस्वभावः|तन्मुक्तमपिजंतुंकिंसंसारयतीत्याह|मुक्तस्यशिवेवसः|स त्यं|कारुण्यादेवभगवान्प्राणिनोनुगृहीतुंप्रवर्त्ततेन?यत्तुदुःखमोहादिनानिरयाद्युपभोगेनवातान्संयोजयति|त न्निजकर्मानुरूपवशात्|नचकर्मापेक्षितयाईश्वरस्यस्वातंत्र्यहानिरित्याशंकनीयं|करणापेक्षयाकर्त्तुःस्वातं त्र्यव्याघातादर्शनाद्भांडागारिकापेक्षस्यराज्ञःप्रसादादिदानवत्|यतुक्तंसिद्धगुरुभिः|स्वतंत्रान्याप्रयोजत्वंक रणादिप्रयोक्तृता|कर्त्तुःस्वातंत्र्यमेतद्धिनकर्माद्यनपेक्षितेति|नचाभुक्तस्यकर्मणःक्षयोभवति|तत्तद्योनिश रीरोपभोगभुक्तविचित्रकर्मक्षयतस्तत्साम्याद्वात्युत्कटमलपरिपाकवशप्रवृत्तशक्तिपातापसारितमलस्यावा पृ० ४३ब) प्तानुग्रहस्यजंतोर्निरस्तसमस्तपाशत्वादाविर्भूतसर्वार्थतत्वकर्त्तृत्वस्यमुक्तात्मनःसंसार्यताहेतोःपशुत्वस्याभावा छिवस्वरूपेवभगवान्भवति|नतुपशोरिवास्यकुत्सितभवभोगोपभोगहेतुर्भवतीतिभावः|पुनरपीश्वरकर्त्तृक त्वमेवजगतोघटयितुमनुमानंप्रतिसमाधातुमाक्षिपति|संवंधाग्रहणेवाधामानस्याभ्येतिकस्यचित्|नन्वस्य स्थितिजन्मादेःकार्यस्याविनाभावलक्षणसंवंधोयदिकदाचिज्जगत्कर्त्रासहकेनचिदपिगृहीतःस्यात्|तदैतद नुमानंसिद्ध्येत्संवंधस्यैवत्वग्रहणात्कथंनास्यवाधेति|यदिकस्यचिन्मतंस्यात्तदिदमप्यसौप्रत्यनुयोज्यित्याह|सा परस्यापिधूमोन्योगिरौमाहानसाद्यतः|सैषावाधासर्वस्याप्यनुमानवादिनःप्रसक्ता|तथाहि|महानसादिगता नांविशिष्टदेशकालाकाराणामेवधूमातिव्यक्तीनांसंवंधग्रहणेधूममात्राच्चपर्वतादौवह्निमात्रानुमानमि त्यगृहीतसंवंधैवधूमव्यक्तिःकथंतथाविधवह्निव्यक्तिंगमयेदितिसंवंधग्रहपर्यनुयोगःसमानः|ततश्च|यत्रस्या पृ० ४४अ) दुभयोर्दोषःपरिहारश्चवासमः|नैकःपर्यनुयोक्तव्यस्तादृगर्थविनिश्चयिति|नैतदस्माकमेवचोद्यं|अथधूममा त्रस्यैववह्निमात्राविनाभावलक्षणःसंवंधोगृहीतस्तदिहापिकार्यमात्रात्कर्त्तृमात्रानुमानमदुष्टं|अन्यथासर्वा नुमानोछेदेवस्यात्|तदुक्तं|साध्यसाधनसामान्येनाविनाभावनिश्चयात्|प्रवृत्तिरनुमानस्यतदभावस्तदन्यथेति|इत्थं चविचित्रतत्तत्कर्माशयाधिवासितभोक्तृभोगतत्साधनतदुपादानादिविशेषज्ञःकर्त्रानुमानांतरेणानुमीय तितिनकश्चिद्दोषः|तदिदमुक्तंतत्रभगवद्वृहस्पतिपादैः|भवभोक्तृभोगसाधनतदुपादानादियोविजानातित मृतेभवेन्नहीदंपुंस्कर्माशयविपाकज्ञमिति|अस्तुतर्हीश्वरःकर्त्ता|सतुनतावदशरीरःप्रत्येतव्यः|कार्यंशरीर युक्तेनकर्त्राव्याप्तंसदैवयदित्यादिनादेहविरहिणःकर्त्तृत्वायोगस्योक्तत्वात्|तथाहिलोकेवपुष्मतोदृष्टंकृत्यं| घटपटादिकार्यंशरीरवतैवक्रियमाणदृष्टं|नाशरीरेणेति|किंचातः|सोप्यस्मदादिवत्|एवंचसत्यस्मदादिवत्क्ले पृ० ४४ब) शादियुक्तोसर्वज्ञःपरिमितशक्तिर्देशाद्यवछिन्नःसोपीश्वरःशरीरत्वात्प्राप्नोतीतिपूर्वःपक्षः|सिद्धांतस्तु|मूलायसंभ वात्छाक्तंवपुर्नोतादृशंप्रभोः|अशरीरस्यापितावत्स्वदेहस्यंदादौकर्त्तृत्वंदृष्टमितिकार्यंशरीरयुक्तेनकर्त्राव्याप्तमित्युक्त मभ्युपगम्यापिव्रूमः|शरीरवत्वेपिभगवतोनप्रागुक्तदोषप्रसंगःकुतित्याह|मूलायसंभवादिति|मूलंमलःसर्वानर्थमू लत्वात्|अविद्यावृतिरुगलानिपापमूलक्षयादिभिःपर्यायैर्वक्ष्यमाणत्वाच्चादिग्रहणात्कर्माणिरोधशक्तिश्च तदसंभवान्नहिपरमेश्वरस्यमलकर्मादिपाशजालंसंभवति|यन्निमित्तंप्राकृतंवपुःकल्प्यते|अपितुशाक्तमितिश क्तिस्वरूपैःसद्योजातादिभिःपंचभिर्मंत्रैःस्वेछादिनिर्मितमपरिमितसामर्थ्यमदिग्देशकालाकारव्यवछिन्नमनुप ममहिमतत्छरीरंनत्वस्मदादिशरीरसदृशं|अतेवहितद्वपुःपंचभिर्मंत्रैःपंचकृत्योपयोगिभिःईशतत्पुरुषाघोरवा माजैर्मस्तकादिकं|यथाक्रममनुग्रहतिरोभावादानरक्षणोत्पत्तिलक्षणकृत्यपंचकेऽवश्यमुपयोगोयेषांतैरीशानादि पृ० ४५अ) भिःपंचभिर्मंत्रै(स्वेच्छादिनिर्मितमपरिमितसाम)स्तन्मूर्द्धादिवपुर्देवस्योच्यतित्यध्याहारः|वरैःपुष्णातिध्यायिनितिव पुःशव्दस्यान्वर्थता|भक्तानुग्रहणायतत्तदाकारग्रहणस्यागमेषूपदिष्टत्वात्|तथाचोक्तंश्रीमत्पौष्करे|साधकस्यतु लक्षार्थंतस्यरूपमिदंस्मृतमिति|अथकथंभगवतीशानमूर्द्धत्वमित्याह|ईष्टेयेनजगत्सर्वंगुणेनोपरिवर्त्तिना|समू र्द्धसमदेशत्वान्मूर्द्धानावयवस्तुनोः|येनगुणेनमंत्रेणसर्वस्रोतोनुस्रोतसामूर्द्ध्वस्थितत्वात्सर्वानुग्रहहेतुत्वाद्वाउपरिव र्त्तिनाजगच्चिदचिदात्मकंविश्वमीष्टे|सुत्तमांगवत्सर्वोर्ध्वस्थितत्वान्मूर्द्धेवमूर्द्धा|नपरमार्थतोदेहावयवः|तत्पु रुषवक्त्रंव्याचष्टे|तस्यतस्यतनुर्पापूस्तस्यामुषतियेनसः|तत्त्राणाद्व्यंजनाच्चापिसतत्पुरुषवक्त्रकः|तस्यतस्याम रनरादेर्यापूःपुरीतनुःतस्यांपुरियजमानस्वरूपस्याधिष्ठानभावेनोषितस्तत्पुरुषः|तदुक्तं|स्वात्मैवायंवसतिस कलप्राणिनामीश्वरोंतरिति|तत्पुरुषितियस्माद्व्यनक्तिज्ञानक्रियेत्रायतेजन्मादिभयात्ततस्तत्पुरुषवक्त्रः|व्यं पृ० ४५ब) तनत्राणरूपत्वाद्वक्त्रमित्यभिधीयतितिश्रुतेः|अघोरहृदयत्वंवक्तुमाह|हृदयंवोधपर्यायःसोस्यघोरःशिवोयतः |परिग्रहस्यघोरत्वाद्घोरोक्तिरुपचारतः|हृदयमाशयोवोधितिपर्यायःशिवोवोधोयस्माद्भगवतःतस्मादयोरहृ दयः|ननुघोरमश्रेयोरूपंयदुच्यतेतद्घोररूपताकथंदेवस्येत्याह|परिग्रहस्यघोरत्वादिति|येयंपरमेश्वरस्यघोररूपोक्तिः सानवास्तवी|किंतुपरिग्रहस्यस्वशक्त्युत्तेतितसामर्थ्यस्याशुद्धाद्धाधिकारनिकुरुवंस्ययोरत्वाद्घोरशक्तिर्देवु पचारादुच्यते|तथाचोक्तं|विषयेष्वेवसंलीनानधोयःपातयुंत्यणून्|रुद्राणून्याःसमालिंग्यघोरतर्योपरास्तुताइति| वामदेवगुह्यत्वमभिधत्ते|वामस्त्रिवर्गवामत्वाद्रहस्यश्चस्वभावतः|वामंधामपरंगुह्यंयस्यासौवामगुह्यकः|धर्मार्थ कामलक्षणेनत्रिवर्गेणप्रलोभ्यवमत्यधोनिक्षिपतीतिवामः|स्वभावेनरहस्योगुह्योभावः|कथ्यते|इत्थंपृथगनयोः पदयोरर्थंप्रदर्श्यविग्रहंकरोतिवामंधामेति|दिवेर्धातोर्युत्यर्थत्वाद्देवशव्देनतेजोभिमतं|तेनवाममधस्तनेध्वनिवमन पृ० ४६अ) शीलंयत्तेजस्तद्गुह्यमप्रकटमस्येतिवामदेवगुह्यःपरमेश्वरः|सद्योजातमूर्त्तित्वंनिरूपयति|सद्योणूनांमूर्त्तयःसंभवंतिय स्येछातस्तेनसद्योभिधानः|सद्योमूर्त्तिर्योगिनांवाविधत्तेसद्योमूर्त्तिःकृत्यशैघ्यरान्नमूर्त्तेः|पत्युरिछयाहिकर्मप्रक्षया पक्षिप्रमेवात्मनांतास्तामूर्त्तयोजाताइतिसद्योजातमूर्त्तिर्देवः|यद्वक्ष्यतिदीक्षाप्रकरणे|सद्येनजनयेत्सद्योनानानि ष्पन्नविग्रहमिति|यद्वायोगिनांतत्तत्समाधिभाजांसद्यस्तत्क्षणंमूर्त्तीर्विधत्ते|प्रोक्तवन्मंत्रमयस्वमूर्त्तिसदृशींतनुं संपादयतीत्यचिरात्स्वसमताभिव्यंजकत्वात्सद्योमूर्त्तित्वं|नतुशीघ्रसंजातस्वदेहत्वादित्यर्थः|एतदेवदृढयति |इत्थंशक्तिःकुर्वतीदेहकृत्यंदेहाभावादुच्यतेदेहशव्दैः|तस्याभेदायेपिवामादयःस्युस्तेपिप्रोक्ताःकृत्यभेदेनसद्भिः |परमार्थतःपरमेश्वरस्याशरीरत्वात्छक्तिरेवदेहकार्यं|कुर्वंतीदेहाख्ययोक्ता|तस्याश्चैकस्यापिकृत्यभेदाद्वा मादिभेदभिन्नत्वं|यथावह्निशक्तेर्दाह्यप्रकाश्यपाच्यार्थविषयेदाहप्रकाशप्रकरणा(पचना)द्गौणमनेकत्वं|वस्तुतेक पृ० ४६ब) FOḻईO णो. ४६ब् ईष् ण्Oट् आVआईḻआBḻE. पृ० ४७अ) छदं|तत्रेत्येवंस्थितेसतीत्यर्थः|एकस्याएवशक्तेर्वामादिकृत्यवशाद्वामादिभेदभिन्नत्वमित्युक्तं|साचशक्तिःसर्वज्ञान क्रियारूपाशिववत्सर्वाणूनांविद्यतेव|तेषांचानाद्यविद्यारुद्धत्वात्छिवानुग्रहंविनानतत्समानाभवंतीतिप्रक्षीण कार्ममायीयवंधानांविज्ञानकेवलानामंजनपरिपाकाद्यनुसारेणतत्पदयोग्यानामष्टकंमंत्रकोटिसप्तकपरिवारंवामा दिशक्तिनवकयुक्तंचकरोतिअथैषामपिसप्तकोटिसंख्यातानांमंत्राणामनंतेशादयष्टवाष्टावीशितारितिवक्तु मारभ्यते|तेषामनंतःसूक्ष्मश्चतथाचैवशिवोत्तमः|एकनेत्रैकरुद्रौचत्रिमूर्त्तिश्चामितद्युतिः|श्रीकंठश्चशिखं डीचराजराजेश्वरेश्वराः|राजानोलोकेशाइंद्रादयः|तेषांराजानःशतरुद्राः|तदीश्वराणांमंडलिप्रभृतीनामप्ये तीश्वराःप्रभवः|विद्यामहेश्वराइतियावत्|एतेचीषदप्राप्तयोगत्वान्नियोज्याःपरमेष्ठिनः|अधिकारमलांशाव शेषात्किंचिदनवाप्तपरमेश्वरसाम्याइत्यस्यैतेप्रेर्याः|अथैषामष्टानामपिसर्वज्ञत्वसर्वकर्त्तृत्वसंभवात्किंस्विदभि पृ० ४७ब) न्नरूपत्वमुतकश्चिद्विशेषित्याह|सर्वज्ञत्वादियोगेपिनियोज्यत्वंमलांशतः|परस्परंविशिष्यंतेमंत्राश्चैवमधःस्थिताः| यद्यपिसर्वेसर्वार्थदृक्क्रियाःतथाप्येकैकस्यस्वस्वाधोवर्त्तिनोनियोज्याइतिप्रेर्यतालक्षणमलांशावशेषादधोवस्थि तानामेषामूर्ध्वस्थमवेक्ष्यकलयाकर्त्तृत्वस्यन्यूनत्वमितिपरस्परविशेषः|तदुक्तं|योहियस्माद्गुणोत्कृष्टःसतस्मादू र्ध्वमिष्यतिति|नकेवलमेतेवविशिष्यंते|यावत्तदधोवर्त्तिनोमंत्राप्येवमेवपरस्परविशेषभाजःतानेवमंत्रान्वि शिनष्टि|तेचमंत्रेश्वरव्यक्ताशिवशक्तिप्रचोदिताः|कुर्वंत्यनुग्रहंपुंसांयदायेषांसयुज्यते|तेचमंत्राःपरापरमंत्रेश्वरव्य क्तयाशिवशक्त्याव्यापारितायोग्यतानुरूपेणकदाचित्केषांचिदनुग्रहंकुर्वंति|नतुयोग्यतानपेक्षं|अतिप्रसंगा त्|प्रयोक्तृदेहसापेक्षंतदर्थमखिलेध्वनिकृत्वाधिकारंस्थित्यंतेशिवंविशतिसेश्वरं|तेषांसप्तकोटिसंख्यातानांमं त्राणामर्द्धंप्रयोक्तृणामनुगृहीतृणांदेहंशरीरमाश्रयत्वेनापेक्षमाणंमीशमपेक्षतितितत्सापेक्षमाचार्याधिकरणे पृ० ४८अ) श्वरापेक्षमखिलेमायीयेध्वनिस्वमधिकारमनुग्राह्यानुग्रहलक्षणंनिर्वर्त्त्यस्थितिकालस्यांतेमायीयस्याध्वनोप्युपरमस मयेसेश्वरमितिमंत्रेश्वरैःसहितंशिवसायुज्यंगछति|अपरस्यार्द्धस्यकावार्त्तेत्याह|विनाधिकरणेनान्यत्प्रधानविकृतेर धः|कृत्वाधिकारमीशेष्टमुपैतिस्वाध्वसंहृतौ|अन्यदपरमर्द्धमीशेष्टमितियत्रयत्रपरमेश्वरस्यानुग्रहेछातत्रतत्रतदिछ यैवविनाधिकरणेनेत्याचार्यलक्षणमधिकरणमनपेक्ष्यैवप्रधानाचासौविकृतिश्चेतिप्रधानविकृतिः शुद्धविद्या स्याधःसर्वत्रमायीयेचाध्वनिस्वमधिकारंकृत्वास्वस्याध्वनोनुग्रहमार्गस्यसंहृतौसमासौअपैति|अपवृज्यते|तदुक्तं तत्रभवद्भिःसद्योज्योतिःपादैःजगतिकृतेतत्रार्द्धंमंत्राणांशिवसमाहूतान्पुंसः|अनुगृह्ययातिहिविनादेशिकमू र्त्तिंप्रयुक्तमीशेनेति०इत्थंमंत्रानुक्तामंत्रेश्वरान्वक्तुमाह|ततोनंताद्यभिव्यक्तःपतीनांग्रंथितत्वतः|कलायारव्ध देहानांकरोत्यष्टादशंशतं|तच्चसात्मकमाक्रम्यविश्रमायावतिष्ठतित्यंतर्विश्रांताणुसंघातंमायातत्त्वंवक्ष्यमाणंत पृ० ४८ब) स्माद्ग्रंथितत्वतस्तद्गर्भाधिकारिणांकलाद्यारव्धशरीराणांमंडल्यादीनांपतीनामष्टादशाधिकंशतमनंतेशाद्यभिव्यक्तः परमेश्वरःकरोति|कलाद्यारव्धदेहत्वमेषांकरोतीत्यर्थः|ननुचाष्टादशाधिकंचान्यछतंमायाधिकारिणां|विद्येश्व राणामित्यादिनासाक्षात्परमेश्वरानुगृहीतत्वमेषामुक्तं|इहत्वनंताद्यभिव्यक्तस्यभगवतस्तत्करणमुच्यतितिविरो धः|नैवंयतोनंतादीनामेवकलादियोगकरणेकर्त्तृत्वंनतुपरमेश्वरस्य|शुद्धेध्वनिशिवःकर्त्ताप्रोक्तोनंतोसितेप्र भुरितिश्रुतेः|सतुकलादियोगिनोभोगभुजस्तान्साक्षादनुगृह्णातीतिनकश्चिद्दोषः|तेप्यन्येषांविनियोक्तार इत्याह|तानप्याविश्यभगवान्सांजनान्भुवनाधिपान्|येभ्यःसर्वमिदंयेषांशक्तिःकर्मनिवंधना|तानपिमंडलि प्रभृतीनष्टावधिष्ठायसपरमेश्वरोन्यानपिव्रह्मप्रभृतीन्समलान्भुवनेशानुत्तेतितदृक्क्रियाशक्तीन्करोतीतिपूर्वेणै वसंवंधः|किंविधानित्याह|येभ्यःसर्वमिदंजगत्स्थावरंजंगमलक्षणमाविर्भवतीतिविशेषः|येषांशक्तिःकर्मनि पृ० ४९अ) वंधनाकार्मपाशोयेषामुपरोधकत्वान्ननिवृत्तः|सकलानामेवैषांपरमेश्वरादनुग्रहोयतः|नपरमेतानेवकरोतीति यावत्|प्रणेतृन्यशुशास्त्राणांपशूस्तदनुवर्त्तकान्|स्वसाध्यकारकोपेतान्कालधामावधिस्थितान्|पशुशास्त्राणामा र्हतसांख्यपांचरात्रादीनांप्रणेतृनर्हत्कपिलप्रभृतींस्तदनुष्ठातृंश्चपशून्स्वसाध्येनतत्तछास्त्रोपदिष्टेनफलेनतत्साध नहेतुभिःकारकैश्चयुक्तान्कालाग्निभुवनांतंयावत्करोतीतिपूर्वेणैवसंवंधः|अथैतान्सृष्ट्वादेवःकिंकरोतीत्याह| स्थितौसकारकानेतान्समाक्रम्यस्वतेजसा|पुनक्तिस्वार्थसिद्ध्यर्थंभूतैरनभिलक्षितः|एतान्कारकैर्भोगसाधनै स्तत्वभावभुवनादिभिर्युक्तान्स्वतेजसानिजेछाशक्त्यासम्यगधिष्ठायस्वार्थसिद्ध्यर्थमित्यात्मीयस्यव्यापारस्यसंपत्त ये|यद्वास्वैरात्मभिरर्थ्येतित्यर्थोभोगापवर्गलक्षणःपुरुषार्थः|तस्यनिष्पत्त्यर्थंनियोजयति|नतून्मत्तवत्नाप्य प्रयोजनं|प्रयोजनानुद्देशेनमंदस्याप्यप्रवृत्तेः|नचक्रीडार्थंरागादिविरहिणस्तदसंभवात्राप्यात्मनिमित्ते|परिपूर्ण पृ० ४९ब) त्वाद्भूतैःप्राणिभिरविद्यावशादविदिततदृक्क्रियः|तदियतासृष्टिस्थितीउक्त्वासंहारंवक्तुमाह|भोगसाधनमाक्षिप्य कृत्वाकारणसंश्रयं|तच्चसात्मकमाक्रम्यविश्रमायावतिष्ठते|भविनांभवखिन्नानांसर्वभूतंहितोयतः|स्थित्यंतेभो गसाधनंतनुकरणभुवनाद्युपसंहृत्यकारणेमायाख्येलीनंकृत्वातच्चमायाख्यंकारणमंतर्निहितात्मव्रातमधि ष्ठायसंसारिणांभवाध्वभ्रमणश्रांतानांविश्रमार्थमवतिष्ठते|निरुद्धव्यापारांस्तांस्तान्करोतीत्यर्थः|कुतित्याह|स र्वभूतहितोयतः|यस्मात्सर्वेषांभूतानांहितायप्रवृत्तः|परमेश्वरःखेदापनोदायश्रांतिंस्वापलक्षणामेषांकरोति| ततस्तुस्वायावसानमासाद्यपुनःप्राग्वत्प्रवर्त्तते|वक्ष्यमाणकालपरिमाणस्यस्वापस्यांतेभूयः पूर्ववदहर्मुखेपरमे श्वरश्चेष्टते|तत्स्वापेपिक्रियादिशक्तयस्तत्तत्कार्यनिष्पादनोद्युक्ताभवंतीत्याह|स्वापेप्यास्तेवोधयन्वोधयोग्यान्रो ध्यान्रुधन्याचयत्कर्मिकर्म|मायाशक्तिर्व्यक्तियोग्याःप्रकुर्वन्पश्यन्सर्वंयद्यथावस्तुजातं|जाग्रदवस्थायामिवस्वापा पृ० ५०अ) वस्थायामपिमलपरिपाकतारतम्यापेक्षयावोधनार्हान्वोधयन्रोधनार्हान्रोधनशक्त्यारुंधन्कर्मिणांकर्माणिपरिणा मयन्मायाशक्तीश्चप्रसवाभिमुखीःकुर्वन्सर्वंचिदचित्तत्वभावभूतभुवनात्मकंयथावदवलोकपन्नास्तेयद्यथेति|नत्व दस्मदादिवदयथावस्त्वभासोप्यस्यभवतीतिवक्ष्यामः|तदियताजगत्सृष्टिस्थितिध्वंसलक्षणंकृत्यत्रयमिहोक्तमिति प्रकरणोपसंहारः||भट्टविद्याकंठात्मजभट्टनारायणकंठविरचितायांमृगेंद्रवृत्तौचतुर्थंप्रकरणं|अथमूलसूत्रो पात्तसर्वकृत्यदाक्षिप्तपतिपदार्थस्यानुग्रहतिरोभावाख्यकर्मद्वयमवशिष्टमभिधातुंप्रकरणांतरं|अस्यचसौत्रः पादार्थिकश्चसंवंधौस्पष्टौप्राकरणिकस्तुविद्यापादाख्येनप्रकरणेनज्ञेयः|वाक्यात्मकोपिजगत्सृष्टिस्थितिध्वंस तिरोभावविमुक्तयःकृत्यमित्यादिभिर्वाक्यैःपाटलिकःपुनःवोधयन्वोधयोग्यानितिपूर्वपटलेवोपक्रांतः|त मःशक्त्यधिकारस्यनिवृत्तेस्तत्परिच्युतौ|व्यनक्तिदृक्क्रियानंत्यंजगद्वधुरणोःशिवः|तममोमलस्यशक्तेश्चभगव पृ० ५०ब) त्संवंधिन्यावामाख्यापायोसावधिकारोन्यग्भावनव्यापृतत्वं|तस्यनिवृत्तेर्विरामाद्यासौपरिच्युतिः|कैवल्याभिमुखी भावः|तथाचोक्तंश्रीमत्स्वायंभुवे|क्षीणेतस्मिन्यथासास्यात्परंनिश्रेयसंप्रतीति|तस्यांतत्परिच्युतौसत्यांजगदुद्धरण प्रवणःपरमेश्वरोदृक्क्रियानंत्यमणोरात्मनःप्रकटीकरोति|सत्योरेवानंतयोर्दृक्क्रिययोर्मलावछन्नत्वादावृतानंत्य योस्तत्परिणतेरावरणपगमादभिव्यक्तिःक्रियतेनत्वपूर्वोत्पादित्युक्तं|वक्ष्यामश्चसत्त्कार्यवादे|यान्विमोच यतिस्वापेशिवाःसद्योभवंतिते|संहृतौवासमुद्भूतावणवःपतयोथवा|स्वापावस्थितान्यान्परमेश्वरोनुगृ ह्णातितेतुतत्कालेवशिवाःसंपद्यंतेनत्वधिकारिणोभवंति|तेषांमलांशानवशेषतेःप्रेर्यत्वेनशिवत्वयोगा त्|तदानींचाधिकारिणामनुपयोगात्|किंचसंहारेसृष्टौवायान्विमोचयति|तेपिसद्येवशिवाःसंपद्यंतेनव्यतिरे केण|अथवेत्यनयोःसृष्टिसंहारकालयोरंजनपरिपाकवैलक्षण्यतस्तत्क्षणंशिवत्वव्यक्त्यानिरधिकारमूर्त्तिभाजः पृ० ५१अ) साधिकाराःपतित्वयोगिनोवाआत्मनोभवंतीत्यर्थः|तत्रसंहारेयेषामधिकारवाननुग्रहस्तेतदानींरुद्राणवःसृष्टौ त्वधिकारिणोभवितारः|सर्गारंभेतुसाधिकारानुग्रहानुगृहीताःयतयितिऽपराचरविद्येश्वराद्यधिकारभाजोभवंती ति|अथसृष्टिसंहारकालयोरश्रुतमपिकथमनुग्राह्याणांशिवत्वंलभ्यतितिचेत्|लभ्यतेव|मलपरिपाकस्यप रमेश्वरानुग्रहस्यचानियतकालत्वात्|अथैवंसर्गसंहारस्वापकालेषुअनुगृहीतानांमुक्तिविशेषमुक्तास्थिति कालानुगृहीतानांतद्विशेषमाह|रुद्रमंत्रपतीशानपदभाजोभवंतिते|स्थितौयाननुगृह्णातिगुरुमास्थायचि त्वतः|गुर्वधिकरणःपरमेश्वरःस्थितिकालेचित्वतितितदनुध्यानवशात्परावरनिश्रेयसविषयपाप्रशस्यपाचि तायुक्तान्यानणूननुगृह्णातितेमंदतीव्रादिशक्तिसंपातवैलक्षण्यात्पंचाष्टकादिरुद्राणांसप्तकोटिसंख्याता नांमंत्राणांतत्पतीनांचविद्येश्वराणामीशानस्यचेश्वरसदाशिवशांतलक्षणस्यसंवंधिपदंभजंतितितत्पदभाजःत पृ० ५१ब) त्सालोक्यादिपदयोगिनोभवंतीत्यर्थः|ननुशक्तिपातविशेषात्तत्तत्पदभाक्तंचेत्तर्हितद्विशेषःकथंज्ञेयित्याह|येषांशरी रिणांशक्तिःयतत्यपिनिवृत्तये|तेषांतल्लिंगमौत्सुक्यंमुक्तौद्वेषोभवस्थितौ|भक्तिश्चशिवभक्तेषुश्रद्धातत्छासके विधौ|अनेनानुमितिःशिष्टहेतोःस्थूलधियामपि|अशरीरिणांतावद्गुरुभिःशक्तिपातस्यदुर्लक्षत्वाछरीरवतां येषांपारमेश्वरीशक्तिर पुनराविर्भावापयतति|तेषांतत्पातेमुक्त्युत्कंठा|संसारद्वेषः|परमेश्वरभक्तिपरेषुभ क्तिः|तत्छासकेशास्त्रेश्रद्धाचेतिलिंगंचिह्नं|अनेनैवचिह्नेनप्रकर्षवतावशिष्टस्यसंसारस्थितिहेतोःपाशजा लस्यासूक्ष्मवुद्धीनामप्यनुमानं|पूर्वोक्तानांचिह्नानामेवमंदत्वेसतिपशोःपाशशैथिल्यमांद्यंमंदमतपोप्यनुमि न्वंतीतिभावः|ननुकिमनेनात्यंतापूर्वेणशक्तिपातनिश्चयेनसकलदर्शनप्रसिद्धंतावदिदंकैवल्यप्राप्तिकारणंलिंग त्वेनकिंननिश्चीयते|यदुक्तं|नदूष्यत्युपकारेणनापकारेणकुप्यति|यःसमःसर्वभूतेषुजीवन्मुक्तःसिष्यतिति|तत्राह| पृ० ५२अ) पशुदृग्योगसिद्धानांकर्मव्यक्तिद्वयंसमं|ज्येष्ठादिफलयोग्यानांसाधिकारासुमुक्तिषु|उपापादरवैशिष्ट्यान्मृग्यतेतत्त्र यंपुनः|पशुदृग्भिःपाशवैर्ज्ञानैस्तदुक्तेनचपतंजलिप्रभृतिप्रणीतेनयोगेनयेसिद्धाःसत्वगुणप्रसादान्माध्यस्थ्यंप्राप्ता स्तेषांयत्कर्मभ्यामुपकारापकाररूपाभ्यांचेष्टाभ्यांप्रसादक्रोधलक्षणंव्यक्तिद्वयंसममितिनापकारिणिक्रोधव्यक्ति र्नाप्युपकारिणिप्रीतिव्यक्तिर्माध्यस्थादेवैतद्भवतुनास्माभिर्निषिद्ध्यते|इहपुनरयंविशेषः|यदधिकारवतीषु मुक्तिषुविषयेषूपायस्यदीक्षादेर्लोकधर्ममयीदीक्षाशिवधर्ममयीतथेत्यादिनावक्ष्यमाणाद्वैशिष्ट्यादादरस्यच तत्तत्पदप्राप्तिप्रीतिश्रद्धात्मनोवैलक्षण्यात्यथोक्तंश्रीमत्सूक्ष्मस्वायंभुवेयोपत्राभिलषेत्भोगान्सतत्रैवनियो जितः|सिद्धिभाङ्मंत्रसामर्थ्यादिति|तस्मादुपायादरवैलक्षण्यान्मंत्रमहेश्वरादिपदप्राप्तिलक्षणज्येष्ठफलयो ग्यतांमंत्रेश्वरपदप्राप्त्यात्मकमध्यफलार्हत्वंपंचाष्टकाद्यपराधिकारिपदयोजनायोग्यतांचनिश्चेतुंकर्मव्यक्तित्र पृ० ५२ब) यंमृग्यते|अन्विष्यते|भक्तिश्रद्धाभिव्यक्तितारतम्यादुत्कृष्टमध्यमापकृष्टरूपसाधिकारापवर्गपदभात इत्यनुग्राह्याभवंतीत्याशयः|यच्चैतत्साधिकारमुक्तित्रयंदर्शितं|ततःद्वयोर्व्यक्तिकरःकश्चित्च्युतिसिद्धिविलक्षि तः|मध्यमापकृष्टयोर्मुक्त्योरुपर्यधोवर्त्तिनःपदस्यप्राप्यतयास्वस्मात्पदात्च्युतिसंभवेनचकश्चिद्व्यक्तिहकरोंतरायः नंत्वनंतरमेवापवर्गस्यप्राप्तिःतृतीयस्यांतुतत्पदाधिकार्यधिकारसमाप्तिसमनंतरेणैवतल्लाभः|अथकिंनिमि त्तमेतच्चिह्नवैचित्र्यं|यद्वशात्त्रित्वंसाधिकारायामुक्तेरित्याह|ईषदर्थनिवृत्तेतुरोधकत्वेतमःपतेः|भवंत्येतानिलिं गानिकिंचित्छिष्टेचदेहिनां|तमःपतेःक्रियादृङ्निरोद्धुर्वामदेवनाथस्ययद्रोधकत्वंतस्मिन्किंचिन्निवृत्तेऽर्धनिवृ त्तेमनागवशिष्टेचसत्येतच्चिह्नतारतम्यंशरीरिणांभवति|अतेवंयोग्यतात्रयमप्येतत्समतीत्यमहेश्वरः|स्वापेणु मनुगृह्णातिसाधिकारमिदंयतः|एतद्योग्यतात्रयमनपेक्ष्यैवस्वापेणुमनुगृह्णाति|अणुमितिजातावेकवचनं|यो पृ० ५३अ) ग्यतावैचित्र्येणानुग्रहवैचित्र्यमणूनांतदानींनकरोतीतिभावः|अत्रैवहेतुमाह|साधिकारमिदंयतः|यस्माद्योग्यतात्र यमधिकारापेक्षं|नचतदानीमधिकारोपयोगस्तस्मान्नापेक्षते|सर्गमूलेतृतीयायांस्वापवद्भूतसंहृतौ|भविष्यतिस र्गारंभेसंहारोपांतेवक्ष्यमाणलक्षणायांतृतीयस्यांचभूतसंहृतौयाननुगृह्णातितेशिवाःसंपद्यंतेस्वापावस्थानुगृ हीताणुवत्|स्वापेणुमनुगृह्णातीतियत्प्रागुक्तं|ततोणुशव्दंलक्षयितुमाह|सयद्व्यपास्यक्रियतेतद्विधोयोणुरु च्यते|सित्यनंतरोक्तःसर्गादौतृतीयेचभूतसंहारेस्वापेचयोनुग्राह्यः|योयद्व्यपास्यापनीयतादृग्विधःक्रियते|अभि व्यक्तशिवभावःसंपद्यतेसोणुशव्दवाच्योज्ञेयः|अणुःसन्नपवृज्यतितियावत्|तदेवंवोधयन्वोधयोग्यानितियत्प्रा गुक्तंतद्दृक्क्रियानंतव्यक्त्याप्रदर्शितं|यदपिरोध्यान्रुंधन्नित्यादिसूचितंतद्यान्विमोचयतिस्वापित्यनेनकेषांचि देवतथाविधानुग्रहभाक्तेसतिअन्येषामर्थाक्षिसोरोधितिकृत्वानविपंचितं|इदानींतुपाचयन्कर्मिकर्मेत्युक्तंनि पृ० ५३ब) र्वर्णयितुमाह|तथाबीजंशरीरादेःपाचयत्यानिवेशनात्|भगवतःशक्तयःसर्वकार्येषुप्रसृताः|ताभिःशरीरेंद्रिय जात्यायुर्भोगकारणंकर्मदेहभाजांतत्स्वापेपाचयति|फलदानोन्मुखमापादयतियस्मात्नयोग्यतांगमभजत्स द्यःस्यादौषधादिवत्|योग्यतायार्हत्वस्यागंसंपादकंपाकाख्यंसंस्कारमभजदनासेव्यमानंतत्कर्मसद्यस्तत्क्षणं हरीतक्याद्यौषधमिवनस्यान्नभवेत्फलदमितिशेषः|यदाहुःअप्राप्तपाकंहरीतक्यादिद्रव्यंसदपिस्वकार्यसंपा दनाशक्तंयोग्यतांगस्यपाकस्यानासादनादिति|एवंसदपिकर्मापक्वंतत्फलदानाशक्तं|अतःपाकापेक्षं|पा कश्चास्यनस्वतःसंभवतीत्याह|पाकार्हमपितत्यक्तुंनेशत्यात्मानमात्मना|धर्मसामान्येवायंसर्वस्यपरिणा मिनः|पाकयोग्यमपितत्स्वयमात्मानमात्मनानपाचयितुमीशं|सर्वस्यैवहिपरिणामिनोवस्तुनःक्षीरादेरे वायंसाधारणोधर्मःयत्किमप्यपेक्ष्यपरिणामित्वंनान्यथा|परिणामित्वाच्चकर्मणोप्यन्यापेक्षोविपाकः|अनेन पृ० ५४अ) मायाशक्तीर्व्यक्तियोग्याःप्रकुर्वन्नित्येतदपिप्रकाशितं|तस्यापिपरिणामित्वात्|नचैषांमलमायाकर्मणांपरिणा मकत्वमनीशेनसुशक्तमित्युक्तं|ईशतीत्यदुष्टं|ईशिवाचरतीतिसर्वप्रातिपदिकेभ्यित्येकितिक्रियःस्मरणात्| तदियतातावत्सर्वकर्तृत्वंपरमेश्वरस्यप्रतिपादितं|अतेवचास्यसर्वज्ञत्वंसिद्ध्यतीत्याह|सर्वज्ञःसर्वकर्त्तृत्वात्सा धनांगफलैःसह|योयज्जानातिकुरुतेसतदेवेतिसुस्थितं|सर्वकर्त्तृत्वादेवेश्वरस्यसर्वज्ञत्वं|सर्वविषयंज्ञानंविना सर्वकर्त्तृत्वानुपपत्तेः|योहियत्तत्क्रियासिद्धिंतदंगानितत्फलानिचजानातितस्यैवविचित्रतत्तत्कारकोपयोगा भिसंधानवतस्तत्तत्कर्तृत्वंघटते|कुविंदादेरिवपटादिकृतौ|अतः|यस्तुतत्राज्ञःसतत्कार्यकरणायनालं|वालि शिवन्यायविद्याद्युपन्यासित्येतत्सुस्थितमित्यव्यभिचारीति|तच्चास्यावृतिशून्यत्वात्रव्यंजकमपेक्षते|तत्रसां शयिकंतस्माद्विपरीतंनजातुचित्|शिवस्यतत्सर्वज्ञत्वमनाद्यावरणशून्यत्वान्नव्यंजकापेक्षं|नापिसंसारिण पृ० ५४ब) इवसंशयविपर्ययानध्यवसापयुक्तं|अतेवहेतोः|तथाहि|यानिव्यंजकमीक्षंतेवृतत्वान्मलशक्तिभिः|व्यंजक स्यानुरोधेनतानिस्युर्व्याहतान्यपि|यानिकिलज्ञानानिमलशक्त्यावृतत्वाद्भोगनिष्पादनायव्यंजकंकलाद्यपेक्षंते| तानिव्यंजकस्यकलादेःस्वल्पप्रकाशकरणात्तथाविधव्यंजनभांजिज्ञेयविषयेव्याघातवंत्यपिभवंति|नचैश्वरंज्ञा नमेवंविधं|पूर्वोक्तादेवावृतिशून्यत्वात्कारणात्|तथाचोक्तंश्रीकिरणे|अनादिमलमुक्तत्वात्सर्वज्ञोसौततः शिविति|यतश्चैवंअतः|नाध्यक्षंनापितल्लैंगंनशाव्दमपिशांकरं|ज्ञानमाभातिविमलंसर्वदासर्ववस्तुषु|अ क्षसव्यपेक्षंहिज्ञानंप्रत्यक्षं|अक्षव्यापारणात्|तदभावेभावात्तद्भावेभावानुविधायित्वाच्चव्याहतमपिस्यात्|न चैवंशांभवंज्ञानंअतोनप्रत्यक्षं|नाप्यानुमानिकं|तस्यप्रत्यक्षाधीनवृत्तित्वात्|शाब्दत्वंतुदूरापास्तं|अत्यंतपरो क्षार्थविषयत्वात्तस्यनचकिंचिद्भगवतःपरोक्षं|अतःसर्वविषयंतस्यज्ञानंप्रकाशते|ननुपंचवक्त्रस्त्रिपंचदृगित्यादिनाश्रू पृ० ५५अ) यतेवागमेष्वीश्वरस्यशरीरेंद्रिययोगः|तत्सद्भावेपिकस्मान्नतत्सव्यपेक्षेईश्वरस्यज्ञानक्रियेनास्यज्ञानक्रियोपयोगी शरीरेंद्रिययोगः|स्वभावतेवसर्वार्थक्रियाशक्तिमत्वादिछामात्रेणैवसर्गस्थित्यादिकरणक्षमत्वात्भक्तानुग्रह णार्थंचाकारग्रहणं०अन्यथानिराकारेध्यानपूजाद्ययोगात्यदुक्तंश्रीमत्पौष्करे०साधकस्यतुलक्षार्थंतस्यरूपमिदं स्मृतं|सर्वतःपाणिपादंतत्सर्वतोक्षिशिरोमुखमिति|तदेकंविषपानंत्याद्भेदानंत्यंप्रपद्यते|कर्त्तृत्वंतदभिन्नत्वात्तद्व देवोपचारतः|यथावस्थितवस्त्ववभासात्मनस्तावत्तदीपस्यैकस्यज्ञानस्यज्ञेयानंत्यादुपाधिभेदात्कृतमौपचारिक मानंत्यं|शास्त्रात्मनोपिस्रोतोभेदादध्यंतृभेदात्प्रवर्त्तयितृभेदात्तेषांचपरापरत्वाद्गौणमेवानंत्यं|सर्वज्ञानक्रिया रूपाशक्तिरेकैवशूलिनित्यनयादृशातस्माद्गानादभिन्नत्वात्कर्तृत्वमपितथैवोपचारादानंत्यंप्रतिपद्यते|अथ निर्वर्णितार्थोपसंहारायव्याख्येयोपक्षेपापचायंश्लोकःसत्तास्वरूपकरणार्थविधेयदृग्भिर्लेशोदिताभिरिति पृ० ५५ब) येविदुरीशतत्वं|तेमोचयंतिभविनोभवपंकमग्नांनोविस्तरेणपुरुषाःपशुपाशरूपं|अथोपलभ्यदेहादिवस्तुकार्य त्वधर्मकं|कर्त्तारमस्यजानीमित्यादिनातावदीश्वरस्यसत्तासाधिता|नित्यंकालानवछेदाद्वैतत्यान्नप्रदेशगं|क्रमाक्र मसमुत्पत्तेःक्रमाद्युत्पत्तिशक्तिमदितितत्स्वरूपमुक्तं|करणंचनशक्त्यन्यछक्तिर्नाचेतनाचितित्यनेनकरणंकथि तं|विनियोगफलंमुक्तिर्भुक्तिरप्यनुषंगतः|इत्यमुनार्थःप्रयोजनमुपवर्णितं|जगज्जन्मस्थितिध्वंसतिरोभाव विमुक्तयः|कृत्यमित्यनेनपंचविधंविधेयमुक्तं|दृक्चास्यज्ञानंनाध्यक्षंनापितल्लैंगमित्यादिनानिर्णीतमि त्येताभिःसत्तास्वरूपकरणार्थविधेयदृग्भिःसंक्षेपोक्ताभिरीशतत्वंयेविदुःजानंतितेपुरुषाःसंसारकर्दम निमग्नान्संसारिणोमोचयंति|नतुविस्तरेणपशुरूपंपाशरूपंवाईश्वरंयेविदुः|यथाआत्मैवेदंसर्वंपुरुषेवे दंसर्वमित्येवंविधपुरुषरूपेश्वरवादिनःकर्मकालाव्यक्तादिपाशरूपेश्वरवादिनोवापशूनांस्वयमेवानाद्यज्ञाननि पृ० ५६अ) र्मग्नत्वेनाकिंचित्करत्वात्पाशानांचतत्पाशनेवचरितार्थत्वात्तत्तत्संयोगेवियोगादौवानिगलादिवत्परापेक्ष त्त्वेसतीत्यनीश्वरत्वात्तथाविधेश्वराववोधात्परमोचनंसकललोकोपहासावहंयतःपशुशव्दःचात्रसमनंतर प्रकरणोपक्रम्यमाणात्मतत्वोपक्षेपापयोहृतः भट्टविद्याकंठात्मजभट्टनारायणकंठकृतौमृगेंद्रवृत्तौईश्व रपदार्थप्रकरणंपंचमं अथविश्वनिमित्तस्यप्राप्तंलक्षणमात्मनः|तदीशोक्तौगतप्रायंतथाप्युदेशुच्य ते|अथेदानींपाश्चात्यपटलांतसूचितांभिधानस्यात्मनोलक्षणमुच्यतितिपाटलिकप्राकरणिकौ संवं धौज्ञेयौ|सौत्रादयस्तुप्राग्वदुन्नेयाः|प्रतिपटलमुच्यमानातिपौनरुक्त्यमावहंति|विश्वस्यजगतोनिमित्तं प्रवर्त्तनहेतुरात्मातद्भोगसाधनायतनुकरणभुवनादीनामुत्पत्तेः|तस्यात्मनोलक्षणमीश्वरोक्त्यनंतरमवसरप्रा प्तंकथ्यते|तच्चयद्यपितेनस्वभावसिद्धेनभवितव्यंजगत्कृतेत्यत्रेश्वरसिद्ध्यनुषंगेणचैतन्यंदृक्क्रियारूपंतदस्त्या पृ० ५६ब) त्मनिसर्वदा|सर्वतश्चयतोमुक्तौश्रूयतेसर्वतोमुखमित्यादिनोक्तप्रायंकथितकल्पं|तथाप्युद्देशः|सोपपत्तिकत त्स्वरूपसंक्षेपुच्यते|कार्यंक्षित्यादिकर्त्तेशस्तत्कर्त्तुर्नोपयुज्यते|नस्वार्थमप्यचिद्भावान्नानर्थ्यंकर्त्तृगौरवात्|का र्यत्वंतावत्क्षित्यादेरेवसन्निवेशादिमत्वेनप्राक्कथितं|तस्यचकर्त्ताप्रागुक्ताभिर्युक्तिभिरीशःसिद्धं|तत्तुकार्यंत दुपयोगिवास्यात्|स्वोपयोग्यनुपयोग्यन्योपयोगिवेतिचत्वारःपक्षाः|तत्रनतावदीश्वरोपयोगि|नहिपृथिव्यादि भिस्तस्यस्वात्मन्यर्थक्रियाकाचित्क्रियते|नित्यपरिपूर्णस्वरूपत्वात्|नचतत्क्षित्यादिकार्यंक्षित्याद्यर्थमेवक्रियते| तेषामाचैतन्यात्करणीयस्याभावाच्चेतनस्यहिधर्मादिचतुर्वर्गप्रेप्सोःकरणीयंसंभवतिनपटादेः|नचैतत्का र्यमनर्थकं|कर्त्तृगौरवान्|सामान्येनापिकर्त्रायत्कार्यंक्रियतेतत्रानर्थकंभवतिकिंपुनःपरमेश्वरव्यापारि तैर्जगत्कर्त्तृभिर्व्रह्मादिभिःस्तत्कार्यकरणेनचप्रयोजनंप्राक्प्रदर्शितं|पारिशेष्यान्परार्थंतत्|तत्क्षित्यादिकार्यं| पृ० ५७अ) कश्चात्रपरित्याह|क्षेत्रज्ञःसपरस्तयोः|कर्त्तृकार्ययोःपरोभ्यःप्रस्तुताभिधानःक्षेत्रज्ञःपश्चात्मेत्यर्थः|अत्रचार्वाक छाययाआत्मनिरासापेदमाशंक्यतेपरोदेहस्तदथत्वात्परार्थाःक्ष्मादयोननु|ननूपलभ्यमानप्रयोजनानांक्षित्यादी नांपरार्थत्वमस्तु|सत्वत्रपरःकायेव|यस्यारंभकाश्चोपयोगिनश्चपृथिव्यप्तेजोवायवस्तस्मान्नक्षित्यादीनां परार्थत्वेनात्मनामनुमानं|अत्रोत्तरं|कायोप्यचित्त्वादान्यार्थ्यंसुतरांप्रतिपद्यते|देहोपिपरार्थेव|आचैतन्यात्| पृथिव्यादिवदिति|तस्याप्यान्यार्थ्यंपारार्थ्यंसुतरामुपपद्यते|ततश्चदेहस्यक्षित्यादीनांचपरार्थत्वात्परात्मैवा त्रयुक्त्युपपन्नः|ननुदेहादन्यत्रयदिचैतन्यंस्यात्स्यादेतदेवंपृथ्व्यादिचतुर्भूतविकारके प्राणादिकारणीभूते गर्भादौसंखेदुद्भवः|किण्वादिद्रव्यविकारेमदशक्त्युत्पत्तिवत्|तथाहि|कृशोहंस्थूलोहमितिशरीरेवा हंप्रत्ययोदृष्टः|नचतद्व्यतिरिक्तात्मोपलभ्यते|देहेस्त्यात्मेत्यस्याश्वेविषाणमित्यादिवत्प्रत्यक्षनिराकृत पृ० ५७ब) त्वात्|अथपरार्थाश्चक्षुरादयः|संघातत्वात्|शयनाद्यंगवतित्यादिनाकरणादीनांकर्त्तृप्रयोज्यत्वादिनावानुमा नेनात्माप्रसाध्यते|नतद्युक्तं|तस्यात्मापलापिनश्चार्वाकान्प्रत्यसिद्धेर्नह्येषांप्रत्यक्षादन्यत्किंचित्प्रमाणं|सि द्धावपिवानुमीयमानस्यात्मनोदेवदत्तादिवत्परत्वंप्रसज्यते|यत्किलस्वयंप्रकाशतेसेवात्मातत्प्रकाश्यस्तु परितिविविक्ततयाआत्मपरभावस्यप्रकाशमानस्यैवसंकरोनवस्थानंचस्यात्|तदुक्तं|आत्मायदिभवेन्मे यस्तस्यमाताभवेत्परः|परात्मातदानींस्यात्सपरोयस्तुमीयतिति|तथाप्रकाशतेसंविदेकातदन्यत्तु प्रकाश्यते|प्रकाश्यंचभवेत्कर्मतच्चकर्त्राविनाकथमिति|तस्मान्नानुमानेनदेहव्यतिरिक्तात्मोपलभ्य ते|अपितुचैतन्यविशिष्टःकायेववस्तुसन्नित्याशंक्याह|चेतनश्चेत्|अथमन्यसेकायेवचेतनात्मकःतथा हि|यस्मिन्नुपचितेयस्योपचयःयदपचयेचापचयःतत्तदात्मकं|यथावह्न्युपचयापचययोरुपचयापचयावनुगछे पृ० ५८अ) दौशयं|यौवनस्थाविरभोजनलंघनादिहेतुकौचदेहसंवंधिनावुपचयापचयावनुकुर्वद्विज्ञानंदेहात्मकमेव|अतोदेह रावचेतनितिपूर्वःपक्षः|अथैतत्प्रतिक्षेपः|नभोग्यत्वाद्विकारित्वाच्चजातुचित्भोग्याविकारिणोदृष्टाश्चिद्विहीनाःप टादयः|सोप्येवंदेहश्चेतनःकदाचिन्नभवति|भोग्यत्वाद्विकारित्वाच्च|येयेकेचनविकारिणः परिणामिनोभोग्याश्चते तेह्यचेतनादृष्टाःयथापटादयः सदेहोप्येवंविधः|तस्मान्नचेतनः|नन्वंगनादिभिर्भोग्यत्वमनैकांतिकं|भोग्यत्वेपि तत्राचैतन्याभावात्|नानैकांतिकं|तदीयस्यदेहस्यैवभोग्यत्वात्|यद्येवंनिर्जीवस्यदेहस्यकथंनोपभोगः|भवत्येव तदवस्थोचितुपभोगः|क्रव्यादादेः नपुनः कांतादेःकामिन्याद्यवस्थायायेनावस्थांतरापत्तेर्विकारित्वेनवीभत्स रसहेतुत्वात्|तदुक्तिरत्रैव|क्वतद्वक्त्रंक्वतदधरमधुक्वायताक्ष्याःकटाक्षित्यादि|एवंगजाश्वादावपिज्ञेयं|तस्मात्स्थि तमेतद्विकारित्वाद्भोग्यत्वाच्चदेहस्याचैतन्यमाचैतन्याच्चपारार्थ्यमिति|पुनरपिपरमतमाशंकते|यस्मिन्सतिचसत्वा पृ० ५८ब) द्वा|यस्मिन्सतियस्यभावोपदभावेचाभावस्तत्तत्कार्यं|शीतमिवहिमस्य|सतिचशुक्लशोणितात्मकदेहारंभकभूतविशे षपरिणामेसत्वादसतिचप्रध्वस्तेतस्मिन्नसत्वाचैतन्यंभूतविशेषपरिणामकृतमितिवायद्यवेषि|तदेतदनुपपन्नं|यस्मा न्नसत्यपिशवेचितिःयत्सद्भावेवयस्यभावस्तत्तस्यकार्यमितिनियमोत्रावश्यंप्रतिज्ञातव्यः|अन्यथातदभावेपिभ वतस्तत्कार्यत्वायोगात्|यथाग्निसद्भावेवसंभवन्धूमोग्निकार्यः|एवंचशरीरारंभकभूतसद्भावेवभावः|तद भावेचाभावेवचैतन्यस्ययदिस्यात्तद्देहसंबंधितयाप्रतीयेत|यावताशरीरसद्भावेपिगर्भादावुत्तरकालंचचेतना पगमोदृष्टःतन्नसतिसत्वंदेहारंभकंचैतन्यसाधकं|ननुमृतशरीरेपिप्राणाद्यात्मकस्यवापोरूष्मरूपस्यचतेजसो पगमान्नजीवावस्थायामिवशरीरारंभकभूतसद्भावस्तस्मादत्राचेतनत्वं|यच्चतत्सतिसत्वमनैकांतिकीकर्त्तुम शक्तं|मैवं|गतासवोपिहिकेचनचलत्संधयःसोष्माणश्चकियंतमपिकालमुपलभ्यंते|तेषांचजीवदवस्थावद्देहारं पृ० ५९अ) भकभूतसद्भावेपिनचैतन्यसंभवोगर्भावस्थायांचसकलसामग्रीसद्भावेपिकदाचिच्चैतन्यासंभवस्तस्मात्सतिसत्वमनैकांति कमेव|ननुजीवदवस्थायांपरिणामवैशिष्ट्याच्चैतन्यसंभवस्तथाविधपरिणामाभावातितिगतासुदेहेतदभावितिपुन रपिचार्वाकभूमिकयैवाशंक्यते|परिणामस्यवैशिष्ट्यादस्तिचेत्कौमारयौवनाद्यवस्थाभेदादवांतरतत्तदवस्थाविशेष भेदेनचदेहारंभकभूतपरिणामकृततत्तद्वैशिष्ट्याज्जीवदवस्थायांयच्चैतन्यमस्तितत्तथाविधभूतपरिणामकृ ततत्तद्घटपटशकटाद्यनेकार्थप्रकाशकानिसक्रमाणिहिविज्ञानानिपूर्वपूर्वनिरोधेसत्त्युत्तरोत्तराणिपरिणाम वैशिष्ट्यादेवभवंति|नान्यतितिनदेहादन्यच्चैतन्यमितिचोद्यं|अत्रपरिहारः|नस्मृतिस्तदा|तदेतिप्रत्यर्थंसक्र मसंवेदनविशेषस्यपरिणामित्वाभ्युपगमेसतिस्मृतिर्नावकल्पते|परिणामविशेषाणांक्रमभाविनांभिन्नत्वा त्|असंविदितस्यान्यविदितस्यचान्येनास्मरणात्|नह्यननुभूतंदेवदत्तानुभूतंवाचैत्रादिनास्मर्त्तुंशक्यं|एवंमाभूत्स्मृ पृ० ५९ब) तिःकिंनःछिन्नमितिचेत्तदप्ययुक्तमित्याह|नाप्येवंसुप्रतीतत्वात्स्मर्त्ताकायेतरोस्त्यतः|सकललोकप्रसिद्धस्मृत्यपह्न वस्तावन्नशक्यः|स्मृतिश्चैवमुपपद्यते|देहस्यासकृत्परिणामित्वेपिएकस्वभावस्तदन्यस्तत्तदर्थसंनिधौतत्तद्ज्ञानस्या न्येवानुभवितासेवानुसंधातास्यादिति|अतित्यस्मात्स्मृत्यन्यथानुपत्तिलक्षणादपिहेतोर्देहादन्यःस्मर्त्तानास्तीति नचवाच्यं|किमेभिःपटानुमानासहिष्टगोर्व्यर्थैर्हेत्वादिभिरितियतश्चार्वाकस्यानिछोरपिदुर्गतस्यदौर्गत्यमिववला देवानुमानंख्यातिमनुवध्नाति|तथाहितेनप्रत्यक्षैकप्रमाणवादिनापिचतुर्महाभूतव्यतिरिक्ततत्वांतरानभ्युपगमे मृत्पाषाणादिस्थावरलक्षणापृथिवीजलादिश्चसरःसरित्समुद्रादिर्नादृष्टस्यगुणभेदेनसर्वंप्रत्यक्षेणावगाहितुंश क्यं|तस्यप्रतिनियतव्यक्तिहेतुत्वेनाशेषजगदंतर्गतपदार्थविषयान्वयग्रहणाक्षमत्वात्|अपिचयत्रकाठिन्यंसापृथिवी स्थलोपलपर्वतादिवत्पृथिवीत्वाभावेकाठिन्यस्याभावोचाद्यादाविव|यच्चद्रवस्वरूपंतज्जलं|तैलघृतक्षीरादेरप्युदक्त्वादित्या पृ० ६०अ) द्यन्वयग्रहणमनुमानांगंकल्पनीयं|धर्मिणीचदेहेपक्षीकृतेतद्गतस्यकाठिन्यादेःपृथिव्यादिधर्मत्वनिश्चयात्पृथिव्यादि भूतचतुष्टयारव्धत्वमपिनानुमानंविनावगंनुंशक्यं|किंचप्रत्यक्षमेवप्रमाणंनानुमानमितिप्रमाणाप्रमाणचिंतानास्यप्र त्यक्षनिश्चेया|यथाहधर्मकीर्त्तिः|प्रमाणेतरसामान्यस्थितेरन्यवियोगतः|प्रमाणांतरसद्भाविति|नपरंःप्रत्यक्षसि द्धत्वमनुमानस्यतत्प्रत्यापनार्थंचेहपरिशेषानुमानंप्रकरणारंभेदर्शितं|नतुस्वसंवेदनसिद्धत्वेनापरोक्षस्यात्मनःसा धनायतत्रप्रमाणांतरस्यानुपयोगात्|यदाहुः|अनुभूतौप्रमाणानांपरिनिष्ठासमाप्यते|स्वततस्तयैवयाज्ञप्तिःकिं तत्रान्यैःप्रमांतरैरिति|गतमेतत्|यत्तुपरिणामस्यवैशिष्ट्यादस्तिचेन्नस्मृतिस्तदेत्यखंडमेवश्लोकार्द्धंतदेतत्श वावस्थायांसूक्ष्मतरसंवेदनसंभवेपिपरिणामस्यवैशिष्ट्यादितिस्मृत्यभावप्रतिपादकत्वेनपरमताशंकयाव्या ख्यायसमाधीयते|यदुतनाप्येवंसुप्रतीतत्वात्|नह्येवंक्वचित्प्रसिद्धंयद्गतासोःसूक्ष्मतरसंवेदनमस्तिस्मृतिस्तुना पृ० ६०ब) स्तीत्यपितुसुप्रतीतमेतत्|यन्निर्जीवेवपुषिकाष्ठादाविवसंविन्नास्त्येवेतितस्माद्देहादन्यःस्मर्त्तास्तीत्येवमपिव्याख्या यमानेनकश्चिद्दोषाः|एवंपशुपदार्थंप्रसाध्यतद्विशेषान्वक्तुमाह|नाव्यापकोनक्षणिकोनैकोनापिजडात्मकः|नाक र्त्ताभिन्नचिद्योगीपाशांतेशिवताश्रुतेः|सचात्मानाव्यापकोनापिक्षणिकः|देशकालाभ्यामनवछिन्नत्वात्|तदाहुः| अनवछिन्नसद्भावंवस्तुपदेशकालतः|तन्नित्यंविभुचेछंतीत्यात्मनोविभुनित्यतेति|नचासावेकः|एकोवशीस र्वभूतांतरात्मेतिप्रतिपन्नानांव्रह्मविदामिवजन्ममरणकरणादिप्रतिनियमदर्शनस्यपुरुषवहुत्वज्ञापकस्यापह्नो तुमशक्यत्वात्|नचनैयायिकवैशेषिकाणामिवजडः|नापिसांख्यानामिवाकर्त्ता|नचकेषांचिदिवागंतुनाचि तायुक्तःकुतित्याह|पाशांतेशिवताश्रुतेःपाशानामविद्यादीनामंतेतत्प्रतिबंधकत्वव्यपगमेयतोस्यात्मनःशिव त्वव्यक्तिःश्रूयते|तथाचोक्तं|अथात्ममलमायाख्यकर्मवंधविमुक्तये|व्यक्तयेचशिवत्त्वस्यशिवाद्ज्ञानंप्रवर्त्तति पृ० ६१अ) ति|नचतछिवत्वमव्यापकत्वादिधर्मयुक्तं|ज्ञत्वकर्त्तृत्वरहितंवा|नित्यंकालानवछेदाद्वैतत्पात्रप्रदेशगमित्यादिनाप्रत्युततद्वि लक्षणत्वस्योपपादितत्वात्|नचव्यापकत्वनित्यत्वादेर्मुक्तावेवोदयात्संसार्यवस्थायामभावितिमंतव्यं|असदुत्पत्यसंभवस्यो पपादयिष्यमाणत्वादिति भट्टविद्याकंठसूनोर्भट्टनारायणकंठस्यकृतौमृगेंद्रटीकायांपशुपदार्थनिर्णयप्रकरणंषष्ठं शिवःपूर्वव्यत्पासितस्याणोःपाशजालमपोहतीतिमूलसूत्रोपात्तात्पशुपाशेश्वरलक्षणात्पदार्थत्रयादवशिष्टम नंतरपटलांतोपक्रांतंपाशपदार्थंलक्षयितुंप्रकरणत्रयं|अत्रचसौत्रप्राकरणिकपाटलिकपादार्थिकाःसंवंधाःसु स्पष्टाः|वाक्यात्मकस्तुप्रावृतीशवलंकर्ममायाकार्यंचतुर्विधं|पाशजालंसमासेनधर्मानाम्नैवकीर्त्तिताइत्यादिभि र्वाक्यैरनुसंधेयः|अथाविद्यादयःपाशाःकथ्यंतेलेशतोधुना|येषामपापेपतयोभवंतिजगतोणवः|अथेतिपशुप दार्थादनंतरमविद्याज्ञानमंजनमाणवःपाशादौयेषांतेकर्ममायारोधशक्त्याख्याःपाशाःअधुनाइदानींलेशतःसं पृ० ६१ब) क्षेपतःकथ्यते|येषामपगमेपशुंत्त्वान्मुक्ताणवःआत्मानोजगतःपतयोभवंति|तत्रशिववदन्यानधीनस्वातंत्र्याभि व्यक्तिर्मुक्तात्मनांपतित्त्वं|विद्येश्वराद्यधिकारभाजांतुपंचविधकृत्यकारित्वं|अथमुक्तेःप्राक्कुतोवसीयतेपाशितत्वम णोरितिचेत्|ज्ञानक्रिययोःसर्वार्थताव्याहतेः|अन्यथाहिपाशाभावेपारतंत्र्यंवक्तव्यंकिंनिवंधनं|स्वाभाविकंचेन्मु क्तेषुमुक्तशव्दोनिवर्त्तत|पाशरहितस्यहिपुंसोनवद्धत्वं|अबद्धस्यचकिंकृतंपारतंत्र्यं|यदनिछतोप्यस्यानिष्टप्रा प्तिरिष्टव्याघातश्चभवति|अथमन्यसेनास्यतत्पारतंत्र्यंपाशकृतंअपितुस्वाभाविकमितितर्हिमुक्ताणुषुमुक्त शब्दस्यनिवृत्तिर्व्यपगतपाशेहिमुक्तशव्दोलोकेप्रसिद्धः|एतदेवघटयन्नाह|वंधशून्यस्यवशितादृष्टावद्धस्यवश्य ता|एतावतीतेवद्धत्वमुक्तत्वेवद्धमुक्तयोः|इयदेवतद्वद्धस्यवद्धत्वं|यत्पाशितत्वेसत्यपाशितवश्यता|स्वतंत्रपर मेश्वरायत्तत्वमित्यर्थः|मुक्तस्यचैतावदेतन्मुक्तत्वं|यद्वद्धत्वापगमात्तद्वशित्वं|स्वातंत्र्याभिव्यक्तिःतथाहिलोके पृ० ६२अ) पिवंधरहितोवशीवद्धश्चवश्यित्युच्यतेकिमतित्याह|तत्पारतंत्र्यंवद्धत्वं|तत्तस्माद्धेतोर्यदेतदात्मनिष्टप्राप्त्यादौपारतंत्र्यंत द्वद्धत्वंगमयतीतिशेषः|नह्यवद्धस्यस्वातंत्र्यव्याघातोभवतीति|नचतदात्मनोनादिकालीनतयाज्ञानक्रियाशक्तिव न्नित्यमेष्टव्यं|अनिष्टप्रसंगात्|तथाहितस्मिन्नित्येचिदादिवत्|मुक्तिसाधनसंदोहोव्यर्थोनमनयाधिपा|तस्मिन्ना त्मनःपारतंत्र्येनित्येभ्युपगम्यमानेकदाचिदपितदनुछेदान्मुक्तिसाधनकलापःपरैरपीष्टोज्ञानयोगादिरनर्थकः|स्वा तंत्र्याभिव्यक्त्यभावात्|सदैवात्मनोवद्धतयावस्थितेरित्यलमनयाधिपा|निर्वायतामीदृशीसंसारानुछित्तिहेतुर्मतिरि तिभावः|तस्मात्स्थितमेतत्पाशकृतंपारतंत्र्यं|पाशाश्चांजनादयः|सकिलात्मा|नित्यव्यापकचिछक्तिनिधिरप्यर्थ सिद्धये|पाशवंशांभवंवापिनान्विष्यत्यन्यथावलं|यदिह्यणुरनाद्यविद्योपरुद्धचिछक्तिर्नभवेत्तदानींनित्यव्यापक चित्छक्त्यास्यदत्वेसत्यपिकथंभवावस्थायांभोगलक्षणस्यार्थस्यनिष्पत्तयेपशोरिदंपाशवंपशूचितंकलायुत्तेजनंस्व पृ० ६२ब) सामर्थ्यस्यान्विष्पत्यपेक्षते|मुक्तिनिमित्तंचकथंशांभवंवलमन्वेष्टि|नान्यथावलंप्रतीक्षते|पाशानभ्युपगमेसतिस्वभा वतेवामलचित्स्वरूपत्वात्तदन्वेषणस्यानर्थक्यात्|यतश्चावस्थाद्वयेप्ययंपाशवंवापारमेश्वरंवावलोत्तेजनमपेक्षते|त स्मात्किमप्यस्यास्तिज्ञानक्रियासंनिरोधकं|यत्कृतःस्वातंत्र्यव्याघातः|तदावरणमस्याणोःपंचस्रोतसिशांकरे|प र्यायैर्बहुभिर्गीतमदृष्टंपशुभिःसदा|अस्यात्मनस्तदावरणमंजनंपंचस्रोतसिशैवंशास्त्रेवक्ष्यमाणैर्नामभिरभिहितं|त त्तुपशुभिःपशुशास्त्रप्रणेतृभिःकदाचिदपिनवुद्धं|अथकैर्नामभिस्तत्छास्त्रेषूक्तमित्याह|पशुत्वपशुनीहारमृत्यु मूर्छामलांजनैः|अविद्यावृतिरुग्लानिपापमूलक्षयादिभिः|नचतदेकैकस्मिन्नात्मनिभिन्नमपित्त्वेकमनेकचिदा वारकशक्तियुक्तमित्याह|तदेकंसर्वभूतानामनादिनिविडंमहत्|प्रत्यात्मस्थस्वकालांतापायिशक्तिसमूहवत्|तदा वरणंचतुर्द्दशविधस्यापिभूतसर्गस्यैकमेव|कस्मादित्यत्रैवविशेषणद्वारेणहेतुमाह|अनादीति|यस्माद्वक्ष्यमाणयोपप पृ० ६३अ) त्त्यातत्सर्वभूतानामनादि|नमायीयवंधनवदागंतुकमतेवैकमनेकत्वेहितस्याचेतनत्वात्कारणांतरपूर्वकत्वेनानादित्वा नुपपत्तिः|नचकारणांतरपूर्वकत्वेपिकलादिवत्पारंपर्येणवंधकत्वादनादित्वंभविष्यतीतिवाच्यं|यथोक्तंश्रीमत्किर णे|यथानादिमलस्तस्यकर्माप्येवमनादिकं|यद्यनादिनसंसिद्धंवैचित्र्यंकेनहेतुना|तस्मादनादिकंकर्ममायाप्येवंभवेत्तथे ति|तद्विरहिणःशिवस्येवपुनर्वंधासंभवात्|तत्सद्भावेवानमलरहितत्वमितिवक्ष्यामः|निविडंघनमभेद्यमित्यर्थः| व्यापकानामात्मनामावारकत्वात्|महत्प्रत्यात्मस्थेनस्वस्वपरिणामकालापसारिणाशक्तिव्रातेनयुक्तं|तथाचोक्तं तत्वत्रयनिर्णये०मलशक्तयोविभिन्नाःप्रत्यात्मंचैवतद्गुणावटिकाइति|तच्चांजनं|तदनादिस्थमर्वाग्वातद्धेतुस्तदतोन्यथा |रुणद्धिमुक्तानेवंचेन्मोक्षेयत्नस्ततोमृषा|तत्तेषामात्मनामनादौकालेस्थितमनादिस्थं|नत्वादिमत्वेनस्थितं|अत्रै वयुक्तिमाह|अर्वाग्वेति|यदिह्यादिमत्वेनात्मसुस्थितंतदभ्युपगम्यते|तदातद्योगेहेतुर्वाच्यित्यध्याहारः|तदतोन्य पृ० ६३ब) थेति|यदितुतदंजनमतोन्यथेतिहेतुमनपेक्ष्यैदात्मानमाश्लिष्यति|तदानींमुक्तानप्यात्मनोरुणद्धि|उपरुद्धदृक्क्रिया न्करोतीतिप्रसक्तं|कोदोषितिचेत्मोक्षेयत्नस्ततोमृषेति|मुक्तात्मानोपियदिपुनःपुनर्मलेनयुज्यंतेततोगजस्नानप्रा येस्मिन्मोक्षेमिथ्यैवयत्नःभूयोपिमलयोगतःसंसारितायाःसंभवात्|तस्मान्नागंतुकमात्मनांमलंकिंतर्ह्यनादि|तथा चोक्तंश्रीमत्स्वायंभुवादौ|अथानादिर्मलःपुंसांपशुत्वंपरिकीर्त्तितमिति|अथास्यैवयुक्त्यंतरमाह|तदेकंवहुसंख्यंतु तादृगुत्पत्तिमद्यतः|तदंजनमेकं|अनेकत्वेप्रमाणाभावात्|यतोयस्मात्तादृशमितितथाविधमनेकत्वपरिणामि त्वादिगुणयुक्तं|यदनेकंघटादिवदुत्पद्यमानंदृष्टं|नचैतदुत्पत्तिमत्|अनाद्यात्मावारकत्वात्|अतेकमनेकत्वेहि कारणपूर्वकत्वादस्यादिमत्वंस्यात्|प्रत्यात्मस्थस्वकालांतापायिशक्तिसमूहवदिनियदुक्तंतदुपपादयितुमाह|किंतु तछक्तयोनेकायुगपन्मुक्त्यदर्शनात्|एकस्याप्यस्यानेकाःप्रत्यात्मस्थाश्चित्क्रियासन्निरोधिकानित्याःशक्तयेष्टव्याः|अन्य पृ० ६४अ) थैकत्वेसत्येकस्मात्पुरुषादपसृतेतस्मिन्सर्वेषांतुल्यकालंमुक्तिःस्यात्|यतस्तुनमुक्तिर्योगपद्येनोपलभ्यतेतस्मात्कार णात्तछक्तिवहुत्वाभ्युपगमोयुक्तः|नचतास्तछक्तयःस्वातंत्र्येणरुंधंत्यपसरंतिवा|किंतर्हि|तासांमाहेश्वरीशक्तिः सर्वानुग्राहिकाशिवा|धर्मानुवर्त्तनादेवपाशित्युपचर्यते|प्रावृतीशवलेकर्मेत्यादिनाप्राङ्मलेननांतरीयकतयोद्दि ष्टांपरमेश्वररोधशक्तिंव्यापारेणलक्षयति|तासांमलशक्तीनांचित्क्रियासंनिरोधकत्वलक्षणस्यधर्मस्यानुवर्त्तनाद्धे तोःशैवीशक्तिःपाशतयोपचर्यते|नचतत्रमुख्यंपाशत्वं|कुतितिविशेषणद्वारेणात्रैवहेतुःसर्वानुग्राहिकाशिवे तिसाहिसकलजगदनुग्रहस्वभावत्वेनतछ्रेयःप्रसाधिका|एवंचपरिणामयतीताश्चरोधांतंकार्क्कचित्त्विषा|पदो न्मीलनमाधत्तेतदानुग्राहिकोच्यते|परिणामशव्दात्प्रातिपदिकाद्धात्वर्थितिणिचिकृतेपरिणामयतीतिरूपं|एताश्च सर्वभूतगतांस्तस्यसंवंधिनीशक्तिःरोधांतंतदधिकारकालंयावत्परिणामेनयोजयतिपतिशक्तिःकार्क्वचित्त्विषा पृ० ६४ब) हेतुभूतयोन्मीलनंयदाकरोतितदानुग्राहिकेत्युच्यते|कशव्देनमूर्द्धासदानुग्रहैकव्यापारीशानःईशानमूर्द्धाइतिमंत्रलिं गं|सेवसकलजगदनुग्रहेनित्योद्युक्तत्वादर्केणोयमितःततःप्रवृत्तयापरश्रेयःप्रकाशिकयाज्ञानभासातयोन्मीलि तस्वरूपाणामणुवर्गाणांयदोन्मीलनमाशयविकासनंकरोतितदानुग्राहिकाभण्यते|अत्रमुनिः प्रश्नयति|शंभो श्चिदाद्यनुग्राह्यंतद्विरोधितयामिथः|युगपन्नक्षमंशक्तिःसर्वानुग्राहिकाकथंभूतोपकारार्थंप्रवृत्तस्यजगत्प्रभोः अपकारकमाविश्ययुज्यतेतुंनंतोदनं|चितःसकलात्मानःआदिग्रहणादचितोमलकर्ममायातत्कार्याणित देतत्सर्वंसर्वेशित्वादेवकिलपरमेश्वरस्यानुग्राह्यं|तच्चानुग्राह्यत्वमेषांचिदचितांपाश्यपाशानांतुल्यकालंनघटते| तथाह्यचितांपाशानांअनुग्रहेपाश्यस्यप्रत्युततिरस्कारःस्यान्नानुग्रहः|चितामनुग्रहेचतद्वंधानांन्यग्भावनमि तिपरस्परविरोधित्वाद्युगपदेषामनुग्रहानुपपत्तिः|तत्कथंसर्वानुग्राहिकाशक्तिरुक्ता|किंचकृपयासर्वभूतानामनुग्र पृ० ६५अ) हप्रवृत्तस्ययत्पुरुषकारकस्यापकारकंदुःखमाणवादिपाशजालमनुगृह्यावृतदृक्क्रियाशक्तित्वादस्वातंत्र्यादिव्यथिता नांपरमात्मनांबंधकानुग्रहेणव्यथितव्यथनंनयुक्तमितिपूर्वःपक्षः|सिद्धांतस्तुनतोदनायकुरुतेमलस्याणोरनुग्रहं| किंतुयत्क्रियतेकिंचित्तदुपायेननान्यथा|सत्यंचिदचितामनुग्राहिकाशक्तिर्नचास्यास्तुल्यकालमपितदनुग्रहोनुपप न्नः|परस्परविरोधाभावात्|नत्वणोर्व्यथनार्थंमलस्यपरिणामरूपमनुग्रहंकरोति|अपित्वनुग्रहायैव|तथाहि|यत्किं चिदुपायेनकर्त्तुमुचितंतत्रानुपायेन|अयंचसाधूपायः|यदुत|नसाधिकारेतमसिमुक्तिर्भवतिकस्यचित्|अधिकारो पितछक्तेःपरिणामान्निवर्त्तते|सोपिनस्वतेवस्यादपियोग्यस्यवस्तुनः|सर्वथासर्वदायस्माच्चित्प्रयोज्यमचेतनं| यावत्किलमलस्याधिकारस्तावन्नमुक्तिःकस्यचिद्भवति|तन्निवृत्तिरेवमुक्तिशव्दाभिधेया|यतः|अधिकारश्चतछ क्तेःपरिणामात्समाप्यते|सचपरिणामस्तदर्हस्यापिवस्तुतोनस्वतोभवितुंशक्तःसर्वप्रकारेणसर्वकालंचाचेतन पृ० ६५ब) स्यचेतनप्रयुक्तस्यतत्तत्कार्यदर्शनात्|तस्माच्चिदनुग्रहस्यतदर्थांजनादिपरिणा मस्यचपरस्परमविरोधितिप्रथमचोद्यनिरासः| अथद्वितीयस्यपरिहारः|यथाक्षारादिनावैद्यस्तु दन्नपिनरोगिणः|कोटाविष्टार्थदायित्वाद्दुःखहेतुःप्रतीयते|पाशावृतदृक्क्रियावृत्तिष्वणुषुतत्तत्पाशशक्त्यनुवर्त्त नद्वारेणजन्मद्रावणादिदुःखदायित्वाद्वामोपिपरमेश्वरस्तदभ्युदयायैवप्रवृत्तत्वान्नदुःखहेतुरवगम्यते|यथावैद्यःक्षा रशस्त्रादिनारोगिणांव्यथयन्नपिकोयौप्रांतेअभिमतस्यारोग्यलक्षणस्यार्थस्यसाधकत्वाद्यथाहेतुरपिनदुःखदायि त्वेनैवज्ञायते|नन्वत्यंतशुद्धस्वरूपस्यभगवतःकिंपाशधर्मानुवर्त्तनेनेत्याह|सर्वगत्वान्महेशस्यनाधिष्ठानंवि हन्यते|नचयत्रास्तिकर्त्तव्यंतस्मिन्नौदास्यमेतिसः|अचिदधिष्ठानंभगवतोनविहन्यते|सर्वगत्वान्महेशतयासर्वकर्त्तृ पृ० ६६अ) त्वाच्चयत्रयत्रकर्त्तव्यंकिमप्यस्तितत्रतत्रचतादर्थ्यमेत्यापितत्तत्कर्त्तुरधिष्ठानेनसर्वदैवसर्वंकरोतीत्युक्तमीश्वरसिद्धौ|उ दास्तित्युदासः|तस्यभावौदास्यमकर्तृत्वमित्यर्थः|तदेवंयुगपत्सर्वानुग्राहित्वंशक्तेःप्रसाध्यतदेवघटयन्ननुग्रहशव्दार्थमा ह|धर्मिणोनुग्रहोनामयत्तद्धर्मानुवर्त्तनं|नसोस्तिकस्यचिज्जातुयःपत्यानानुवर्त्तते|धर्मिणोनुग्राह्यस्यधर्माणांयदनु वर्त्तनंसोनुग्राहकस्यानुग्रहःक्रमविकस्वरस्वरूपाणांपद्मानामिवविवस्वतःसितितथाविधोधर्मःकस्यचिदपिध र्मिणोनास्ति|यःपरमेश्वरेणनानुवर्त्त्यते|नाधिष्ठीयते|तस्यसर्वव्यापकत्वात्|एवंच|गताधिकारनीहारवीर्यस्य सतेधते|पशोरनुग्रहोन्यस्यतादर्थ्यादस्तिकर्मणः|गतःसमाप्तः|श्रेयोदृक्प्रतिरोधकत्वरूपोधिकारोयस्यतद्ग ताधिकारनीहारस्यतमसोमलस्यसंवंधिवीर्यंसामर्थ्यंयस्यतस्यतथाविधस्यसतःपशोर्बद्धात्मनोनुग्रहेधते|वर्द्ध ते|वहुलीभवति|निवृत्ताधिकारायांमलशक्तावितियावत्|अन्यस्यतुमलादेःपाशजालस्ययत्कर्मणःपरिणामि पृ० ६६ब) तादेस्तादर्थ्यं|तत्प्रयोजकत्वंतस्मादनुग्रहोभवति|वद्धात्मविमुक्त्यैयत्परिणामनाप्रयोजकत्वंसेवपाशानामनुग्रहित्य र्थः|एवंचप्रकृतेकिंव्यवस्थितमित्याह|वोद्धृत्वपरिणामित्वधर्मयोरनुवर्त्तनं|मलस्यसाधिकारस्यनिवृत्तेस्तत्परिच्युतौ| मलस्यसाधिकारस्येत्याणवस्यांजनस्याधिकारनिवृत्तेःतद्भावभाविन्यानादिकालीनायाः परमेश्वररोधशक्तेरपग मोन्मुख्याःपरिच्युतौकिंचित्छिथिलीभावेसतिवोद्धृत्वधर्मानुवर्त्तनमात्मनोनुग्रहःपरिणामित्वधर्मानुवर्त्तनंपा शानामिति|उपसंहरन्नाह|इत्येवंयौगपद्येनक्रमात्सुघटेवहि|मायायाःसाधिकारायाःकर्मणश्चोक्तेवते|इत्ये वमुक्तयायुक्त्यायौगपद्येनचिदचितोरनुग्रहोनविरुद्धःक्रमात्सुघटेवनदुरुपपादः|मलवच्चमायायाश्चकलादि क्षित्यंतस्वाधिकारसहितायाःकलाद्याविर्भावलक्षणस्तदुपसंहारात्मकश्चकर्मणस्तुफलदानौन्मुख्यापादनात्म कःसोयमनुग्रहोमायाकर्मणोरनुक्तोप्युक्तेवज्ञेयः|सर्वथासर्वदायस्माच्चित्प्रयोज्यमचेतनमितिसामान्येनसर्वस्यैवो पृ० ६७अ) क्तत्वादिति भट्टविद्याकंठात्मजनारायणकंठकृतौमृगेंद्रवृत्तोवाणचपाशपरीक्षाप्रकरणंसप्तमं अथपाश पदार्थपरीक्षाधिकारात्समनंतरपटलांतसूचितकर्मपाशपरीक्षाप्रस्तावःपदार्थादिसंवंधाश्चास्यप्रोक्तप्रकरणा रंभेवोक्ताः|अथेंद्रियशरीरार्थैश्चिद्योगस्यानुमीयते|निमित्तमागामिभावाद्यतोनागाम्यहेतुमत्|अथेत्याणव रोधशक्त्याख्यपाशद्वयविचारानंतरं|इंद्रियैरंतःकरणवहिःकरणैःशरीरेणचस्थूलसूक्ष्मरूपेणार्थैश्चेंद्रिया र्थैर्विषयैर्योयंचिदात्मनोयोगःतस्यागामिभावादुत्पत्तिमत्वात्कारणंनिमित्तमनुमीयते|नह्युत्पत्तिमच्चाहेतु कंकिंचिद्भवति|इत्थंसामान्येनकारणमात्रंप्रसाध्यतद्विशेषंवक्तुमाह|तस्यप्रदेशवर्त्तित्वाद्वैचित्र्यात्क्षणिकत्वतः| प्रतिपुंनियत्वाच्चसंततत्वाच्चतद्गुणं|तस्येंद्रियशरीरार्थैश्चितांयोगस्ययत्सुरनरतिर्यगादिनियतस्थानवर्त्ति त्वं|यच्चवैलक्षण्यंविचित्राणिहिप्राणिनांशरीराणींद्रियाणिविषयाश्चदृश्यंते|तत्रजातिदिग्देशकालादिवैचित्र्य पृ० ६७ब) तावत्प्रसिद्धं|इंद्रियवैचित्र्यमपियथापरावृत्तजिह्वत्वंगतानांचक्षुश्रवत्वंभुजंगमानां|अनालोकालोकित्वमुलूका दीनांपुरुषाणांचकेषांचिद्विपुलदृशामप्यदर्शनंअंधप्रायाणामपिसूक्ष्मार्थदर्शित्वमिति|विषयवैचित्र्यंतुयथाजल धरनिपतज्जलकणोपजीवित्वंचातकानांमयूराणामवकराहारत्वंकुक्कुटादीनांचकमलकिंजल्करसास्वादनंम धुकरसारसानामित्यादि|यतश्चक्षणिकत्वमनित्यतादेहादेःयस्माच्चप्रतिपुरुषनैयत्यं|नहिशरीरेंद्रियविषयाणां साधारण्यं|भोगसाम्यप्रसंगात्|यतश्चतत्संततत्वंतत्तप्राणिसंततत्वेनकिलजन्मांतरेपिशरीरेंद्रियादिस्थितं| यथाजात्यायुर्भोगप्रदेभ्यःकर्मभ्यःआयुःप्रदस्योपक्षीणत्वान्मृतस्यापितस्यैवजातिभोगदेकर्मणीसंतत्यात्ववति ष्ठेते|नत्वन्यमुपसर्पतः|ताभ्यांचतत्तज्जातिदेहेंद्रिययोगःक्रियते|यतेवंतस्मात्कारणात्तत्रदयिकर्मतादृग्गु णंतत्तद्देशवर्त्तिनोविचित्रान्विनश्वरात्प्रत्यात्मनियतान्भवांतरभाविनश्चदेहेंद्रियार्थांदातुंक्षममित्येवमनुमीयते| पृ० ६८अ) कारणासंभविनांगुणानांकार्येष्वनुपलव्धेः|किंच|ईशाविद्याद्यपेक्षित्वात्सहकारितदुच्यते|कर्मव्यापारजन्यत्वाददृष्टंसू क्ष्मभावतः|ईशशव्देनलक्षणयोक्तामैश्वरींरोधशक्तिंअविद्यांचमललक्षणामादिग्रहणान्मायांचयस्मादवश्यंफलदाने पेक्षतेतस्मात्सहकारित्वमस्यकर्मणः|नतुस्वातंत्र्यमाचैतन्यादित्युक्तं|अतेवास्यापेक्षणमौपचारिकंनतुकुंभकारस्य सूत्रदंडचक्राद्यपेक्षणतुल्यं|अन्यथाकुंभकारस्यापिसूत्रदंडाद्यपेक्षित्वात्सहकारित्वंस्यात्|किंचव्यापारेणयज्जन्यमतः क्रियतितिकर्मसौक्ष्म्याच्चादृष्टमित्युच्यते|तच्चजनकंधारकंभोग्यमध्यात्मादित्रिसाधनं|जनकंनिमित्ततयादेहेंद्रियभु वनादेः|यतःकर्मफलोपभोगायैवतत्तत्तनुकरणादियोगोत्पादः|धारकत्वंचतस्यैवप्रतिनियतकालस्यमातृत्वेनभो ग्यंचतत्फलद्वारेण|किंचअध्यात्मादित्रयंसाधनंयस्यतत्तथा|तत्राध्यात्मशव्देनांतःकरणतयासन्निकर्षेणात्मान मधिकृत्ययद्वर्त्ततेतन्मनुच्यते|आदिग्रहणाद्वाक्कायौगृह्येते|एवंचमनोवाक्कायाःसाधनंयस्यतद्यथाक्रममिष्टदेवता पृ० ६८ब) नुध्याननमस्कारस्तोत्रपाठयजनादिरूपधर्मात्मकंकर्मपरस्वाजिहीर्षातत्प्रवादतदुपघातादयोयथासंख्यंमनोवाक्काय कर्मकृताःसाधनंयस्यतदधर्मात्मकंयद्वाध्यात्मभूतदैवानिहेतुतयाधिकृत्याध्यात्ममधिभूतमधिदैवतंचयत्सुखदुःख मुत्पद्यतेतस्यत्रिविधस्यापिसाधनं|कर्मवशाद्धिचेतःप्रसादाद्युद्वेगादिचाध्यात्मिकंसुखदुःखमुदेति|आधिभौतिकं चांगनासंभोगगजसिंहाद्यभिभवरूपं|आधिदैविकंचाभिमतानभिमतवात्वर्षातपादिकृतं|तत्सत्यानृतयोनित्वाद्धर्मा धर्मस्वरूपकं|स्वापेविपाकमभ्येतितत्सृष्टावुपयुज्यते|मायायांवर्त्ततेचांतेनाभुक्तंलयमेतिच|तच्चकर्मधर्माधर्मस्वरूपं| सत्यानृतप्रकृतित्वात्|सत्यप्रकृतिकर्मधर्मरूपं|अनृतप्रकृतिअधर्मात्मकं|स्वापेचसर्वभूतसंहारकालेविपाकंपरि णाममभितःसमंतादेति|सृष्टावितिसृष्टिसमनंतरमेवास्ययथास्वंभोगःप्रवर्त्तते|अंतेचसंहारेमायायांसंस्का ररूपतयावर्त्ततेनचाभुक्तंतद्विनश्यति|उपसंहारायाह|इतिमायादिकालंतप्रवर्त्तकमनादिमत्|कर्मव्यंजकमप्येतद्रो पृ० ६९अ) धिसद्यन्नमुक्तये|इत्थंप्रतिपादितस्वरूपमेतत्कर्ममायादिकालाग्न्यंताध्ववर्त्तिदेहेंद्रियार्थप्रवर्त्तकमित्यत्रैवास्यप्रभविष्णुतामा योर्ध्वंप्रशंसनात्|तच्चैतद्यद्यपिव्यापारजन्यंतथापिप्रवाहनित्यत्वादादिमत्वंनास्योपपद्यतितिचर्चितप्रायं|किंचेतत्क र्मशुभस्वरूपत्वात्पुण्यव्यंजकमपिसद्रोधिरोधकंसंसारकारणमित्यर्थः|कुतित्याह|सद्यन्नमुक्तये|यस्मात्पुण्यात्मक मपिकर्मसद्विद्यमानंनमुक्तयेनापवर्गाय|अपितुतत्प्रतिवंधायैवकल्पते|यत्कर्मक्षयात्तत्साम्याद्वाशक्तिपातानुसार समासादितानुग्रहाणामेवकैवल्यं|ननुसद्यन्नमुक्तयेइत्ययुक्तमुक्तं|सत्यपिकर्मणितत्साम्यान्मुक्तेराम्नातत्वात्|य दुक्तंश्रीमत्किरणे|समेकर्मणिसंजातेकालांतरवशात्ततः|तीव्रशक्तिनिपातेनगुरुणादीक्षितोयदा|सर्वज्ञःसशि वोयद्वदिति|नैषदोषः|तथाविधस्यकर्मणःसत्तोप्यसत्वंपरस्परप्रतिवद्धशक्तित्वेनाफलत्वात्|दीक्षोत्तरकालकृ तकर्मवत्|यदुक्तंखेटकनंदनेन|कृतमपिफलायनस्याद्दीक्षोपर्यूषरोप्तवीजमिव|वलवद्विशेषशास्त्रव्यतिकरजातंवि पृ० ६९ब) हायकर्मैक भट्टविद्याकंठात्मजभट्टनारायणकंठकृतौमृगेंद्रटीकायांकर्मविचारप्रकरणंमष्टमं अथसर्वज्ञवाक्येनप्र तिपन्नस्यलक्षणं|कथ्यतेग्रंथिपाशस्यकिंचिद्युक्त्यापिलेशतः|अथशव्दश्चानंतर्येपाशपदार्थपरीक्षाधिकारेकर्मपाश विचारानंतरंग्रंथ्यात्मनोमायाख्यस्यपाशस्यकिंचित्संक्षिप्तंलक्षणंकथ्यते|अस्यचानंतरप्रकरणोपसंहारेमायाशव्दो पक्षेपात्पाटलिकःसंवंधोज्ञेयः पदार्थादिसंवंधचतुष्टयंतुप्रागुक्तं|सर्वज्ञवाक्येनप्रतिपन्नस्येति|प्रावृतीशवलेकर्ममा येत्यादिनाउद्देशसूत्रेणवक्तुमभ्युपगतस्यकिंचिदिति|नहिसकलंमायालक्षणंसंक्षेपेणाप्यभिधातुंशक्यं|तथाचोक्तं तत्रभगवद्वृहस्पतिपादैः|अपिसर्वसिद्धिवाचःक्षीपेरन्दीर्घकालमुद्गीर्णाः|मायायामानंत्यान्नोच्यतेस्रोतसांसंख्येति| युक्त्यापिलेशतितिनागममात्रेण|केवलेन| अपितुस्तोकादनुमानोपपन्नमपितल्लक्षणमुच्यतित्य पृ० ७०अ) र्थः|तदेकमशिवंवीजंजगतश्चित्रशक्तिमत्सहकार्यधिकारांतसंरोधिव्याप्यनश्वरं|तद्ग्रंथितत्वमेकंपरमकारणत्वात्|अ नेकत्वेप्रमाणाभावाच्च|अशिवंमोहकत्वात्|वीजंजगतित्युपादानकारणंविविधशक्तियुक्तंच|सहकारिणांकर्मणा मधिकारांतंयावत्|संरुणद्व्यणून्वध्नाति|तछीलमितिसहकार्यधिकारांतसंरोधिकर्माभावेग्रंथितत्वस्याप्रवृत्तेः|व्यापि चतत्सर्वगतंस्वकार्यव्यापकत्वेनअनश्वरंत्वंनित्यत्वात्|महाप्रलयेप्यात्मवदीश्वरवच्चतस्यावस्थानात्|तदुक्तंतत्वत्रयनि र्णये|शंभुःपुरुषोमायानित्यंविभुकर्त्तृशक्तियुक्तंच|सुप्तेपिविकृतिजातेत्रितयंजागर्तितत्वानामिति|युक्त्यापिलेश तित्युक्तं|अतस्तांयुक्तिंदर्शयति|कर्त्तानुमीयतेयेनजगद्धर्मेणहेतुना|तेनोपादनमप्यस्तिनपटस्तंतुभिर्विता|सन्निवे शादिमत्वादुत्पत्तिमत्वंकिलजगतःकर्त्तारमनुमापयति|तेनैवोत्पत्तिधर्मकत्वेनोपादानमप्यनुमीयतां|नत्त्युत्पत्तिम तामुपादानकारणंविनोत्पत्तिर्दृष्टा|यथापटादेस्तत्वाद्यभावेकिंच|तदचेतनमेवस्यात्कार्यस्याचित्वदर्शनात्|प्राप्तः पृ० ७०ब) सर्वहरोदोषःकारणानियमोन्यथा|तच्चग्रंथितत्वमचेतनं|अचेतनस्यैवतत्कार्यस्यकलादेरुपलंभात्|अन्यथेत्यचेतनत त्कार्योपलंभेपितस्यचेतनत्वाभ्युपगमे|कारणानियमलक्षणःसर्वहरिति|सर्वानुमानोछेदकःसकलव्यवहारहरःको पिदोषःप्राप्तः|प्रागुद्दिष्टमविनश्वरत्वंव्यापित्वंचसाधयितुंयुक्तिमाह|यद्यनित्यमिदंकार्यंकस्मादुत्पद्यतेपुनः|अव्यापि चेत्कुतस्तत्स्यात्सर्वेषांसर्वतोमुखं|जगत्संहारेयद्युपादानकारणस्यमायाख्यस्यापिनाशःस्यात्तत्पुनःसर्गादौकस्मा दुपादानाज्जगदुत्पद्यते|अतोनास्यानित्यत्वं|अथोच्यते|सर्गादावुपादानमपिदेवःस्रक्ष्यतीतिनैतद्युक्तं|एवंहिसतितत्का र्यस्येवतस्याप्युपादानंविनानुत्पत्तेरुपादानांतरंपरिकल्प्यं|तस्याप्यन्यदित्यनवस्थास्यात्|व्यक्त्युपसंहारेणशक्तिरूपत यात्ववस्थानेनकश्चिद्दोषः|एवमस्याव्यापित्वेसर्वतोमुखस्यकार्यस्यानुत्पादःस्यात्|अतोव्यापकत्वमवश्यमभ्युपेयं|त थैकत्वेयुक्त्युपन्यासः|यदनेकमचितत्तुदृष्टमुत्पत्तिधर्मकं|नतदुत्पत्तिमत्तस्मादेकमभ्युपगम्यतां|यद्यदनेकमचेतनंघटपटादि पृ० ७१अ) वदुत्पत्तिमद्दृष्टं|इदंतुनोत्पत्तिमत्|नकारणजन्यं|परमकारणत्वात्|अतेकं|नहिपरमकारणानिवहुलीभवंतीति|ननु जगदुत्पत्तौपरपटिकल्पितपरमाण्वादिवदुपादानकारणवहुलत्वंयदिस्यात्ततःकोदोषः|तथाहि|पटस्तंतुगणाद्दृष्टःस र्वमेकमनेकतः|वहुभ्योपिहितंतुभ्यःपटस्यैकस्योत्पत्तिर्दृष्टा|तद्वच्चजगत्सर्वमनेकस्मात्कारणादुत्पद्यतांकिंग्रंथ्यात्म कपरमकारणकल्पनयेतिचोद्यं|अत्रपरिहारः|तदप्यनेकमेकस्मादेववीजात्प्रजायते|यत्तद्भवतानेकतत्वात्मकंकारणंप टस्योक्तंतदनेकमप्येकस्माद्दुत्तूकूलकार्यासादिद्रव्याद्दुत्पन्नत्वादेकं|यथाचैकस्माद्दुत्तूकूलकार्यासादिद्रव्यादनेकाकारपटाद्यु त्पत्तिः|एवंपरमकारणात्सर्गस्थितिलयाधाराख्यात्सर्गादौमायातत्वाज्जगदुत्पत्तिरितिनकश्चिद्दोषः|परमात्मन एवसकाशाच्चिदचिदाविर्भावतिरोभावावितियेषांपक्षःतान्प्रतिक्षिपति|येषांचिद्धर्मकाद्धेतोरचिदप्युपजायते|तेषां धूमेनलिंगेनजलंकिंनानुमीयते|चित्स्वभावकाद्धेतोर्यैरचितामप्युद्भवोभ्युपगतः|तैर्धूमाज्जलानुमानंकिंनक्रियते| पृ० ७१ब) कार्यकारणप्रतीतिनियमासंभवेसत्यतत्स्वभावादपितत्स्वभावस्योत्पत्तिप्राप्तेः|यथानदृष्टाधूमाल्लिंगात्कदाचिदपि जलप्राप्तिः|तथाह्यचित्स्वभावस्यस्वविरुद्धाच्चित्स्वभावान्नोत्पत्तिर्दृष्टा|अतत्स्वभावात्तत्स्वभावस्योत्पत्तौसर्वंसर्वस्मा दुत्पद्येत|परमाणुकारणंजगदितियेषामभ्युपगमस्तान्प्रत्याह|भूतावधिजगद्येषांकारणंपरमाणवः|तेषांपूर्वोदिता द्धेतोर्ज्ञातैवज्ञानसूक्ष्मता|येषांपृथिव्यादिभूतावधिस्थित्यंतंपारमाणवंजगत्तेषांपूर्वोदिताद्रव्यादिषट्पदार्थज्ञाना त्षोडशपदार्थाववोधाद्वानिश्रेयसावाप्तेर्हेतोर्ज्ञानसूक्ष्मताप्रवोधतैक्ष्ण्यंज्ञातं|तादृग्विधसूक्ष्मदर्शिन्यावुद्ध्यापरमा णुकारणतामभिदधानानतेवाच्यतामर्हंति|परमाणूनांकैश्चित्परमाणुकतैवनिषिद्धा|षट्केनयुगपद्योगात्ष डंशत्वस्यापरिहार्यत्वात्|किंचाचैतन्येसत्यनेकत्वाद्घटपटादिवत्तेषामपिकारणपूर्वकत्वेनभाव्यमितिच|कुतःपर मकारणता|ततश्चनतत्प्रकृतित्वंजगतः|ननुयद्वानःतावन्मातापितृसंवंधिभ्योदेहेंद्रियादिभ्यस्तत्तत्स्वसदृशशरीरक पृ० ७२अ) रणाद्युत्पद्यमानमुपलभ्यते|ततःकिमदृष्टेनमायादिना|कारणेनकॢप्तेनेत्याशंक्याह|शरीरादेःशरीरादियदितन्नि खिलात्यये|कावार्त्तानाखिलध्वंसोनसर्वज्ञोमृषावदेत्|मातापितृसंश्लेषशरीरेंद्रियादिकारणकंजंतूनांशरीरेंद्रियादि तद्भावेभावात्तदभावेचाभावादितियद्यभिमतंतदस्तु|किंत्वेतत्प्रष्टव्योभवान्|तन्निखिलात्ययेसर्वसंहारेदेहेंद्रियाद्युत्प त्तेःकीदृशीगतिः|अथसक्रमेवसर्वभावानांनाशः|नतुयुगपत्सर्वसंहारित्युच्यते|तदयुक्तं|श्रुतिस्मृतीतिहा सपुराणादिसदागमगीयमानस्यसंहारस्यापह्नोतुमशक्यत्वात्|तदपह्नवेचप्रथमसृष्टिरपिनेष्टा|ततश्वसृष्टिसंहारौ जगतोनसंभवतितिव्रुवाणःसर्वज्ञतामेवजप्त्वात्|अथकथंसंहाराभावमभिदधतोमिथ्यावादित्वमित्याह|एकदेशे पियोधर्मःप्रतीतोयस्यधर्मिणः|सतस्यसर्वतःकेनजायमानोनिवार्यते|कोटिशोमरणंदृष्ट्वासंहतानांशरीरिणां |सोपिप्रतीयतेकालोयत्राशेषजनक्षयः|सर्वज्ञेनहिस्वस्यवचसःप्रमाणोपपन्नतयापरीक्षणंप्रतिज्ञानं|यदाह|तापा पृ० ७२ब) त्छेदान्निकर्षाच्चसुवर्णमिवसर्वतः|परीक्ष्यभिक्षवोग्राह्यंमद्वचोनतुगौरवादिति|इयंतुसंहारसंभवेनिर्बाधातावदुपपत्तिः| यदुत|यस्यधर्मिणोवह्न्यादेःक्वाप्येकदेशेधूमप्रकाशदाहादिधर्मोदृष्टः|सतस्यसर्वत्रोत्पद्यमानः केननिषिद्ध्यते|ततश्चदु र्भिक्षमारीकृतभंगादिनैकदेशेजंतुसंघातस्यक्रमिकांकोटिशोविपत्तिमुपलभ्यकृत्स्नजगत्संहारकालःसदागमो दितोप्यनुमानेनोल्लिंग्यते|तदानींचमायायामुपसंहृतानिसर्वकार्याण्यासन्नित्याह|तदाधाराणिकार्याणिशक्ति रूपाणिसंहृतौ|विवृतौव्यक्तिरूपाणिव्याप्रियंतेर्थसिद्धये|प्रागुक्तानिरुपपत्तिभिर्नित्यत्वव्यापकत्वादिगुणयु क्तंयत्तुमायाख्यंकारणमुपपादितंतदाश्रयाणितनुकरणभुवनादीनिसंहारकालेशक्तिरूपाण्यवतिष्ठंते|सृष्टौतुव्य क्तिस्वरूपाणिस्वस्वप्रयोजननिष्पत्तयेसव्यापाराणिभवंतीतिसर्वंसुस्थं|अत्रमुनिःसत्कार्यवादमसहमानःप्रश्रयति| तंत्वादिकारकादानंपटासत्वेपटार्थिनः|सत्वेकारकशव्दोपिव्यपैतीतिहतंजगत्|साफल्यमसदुत्पत्तावस्तुकारक पृ० ७३अ) वस्तुनः|यदेतछक्तिरूपतयामायाख्येपरमकारणेजगतोवस्थानकारणमुक्तं|तन्नोपपद्यते|तथाहि|दृष्टवददृष्टक ल्पनाकर्त्तव्या|दृश्यतेचतंतुतुरीवेमादिकारकग्रहणमविद्यमानपटस्यार्थिनः|नतुपट्टसद्भावेसति|पटस्यहिसत्वेसति कारकशव्दोपितंत्वादेर्नोपपन्नः|विद्यमानत्वादेव|असदुत्पत्तौहिकारकवस्तुनःसाफल्यंनान्यथेति|अत्रपरिहारः| उत्पादयतुसर्वस्मात्सर्वःसर्वमभीप्सितं|अथाशक्यंयतःशक्यमत्रवःकिंनियामकं|नचपश्यामितत्किंचित्|आ स्तांतावत्सदुत्पत्तिः|असदुत्पत्तौकारकवस्तुनःतुरीतंतुवेमादेःसाफल्याभ्युपगमेसर्वेभ्योभावेभ्यःसर्वःसर्वमभीप्सि तंकिमितिनोत्पादयति|अथनशक्यंसर्वस्मात्सर्वमुत्पादयितुंकुतश्चित्कस्यचित्कार्यस्योत्पत्तिदर्शनात्|एवंतर्हिय स्मादेवकारणाद्यदुत्पद्यतेतस्मादेवतत्|नान्यस्मात्|तत्रकिंनियामकंभवतां|नहितस्मिन्कारणेकिमप्यन्यन्नियाम कमुत्पश्यामः|येनाभिज्ञातेनान्यदेनादृत्यतदेवतदुत्पत्यर्थिनोगृह्णीमहि|अथसर्वस्मात्सर्वोत्पत्तिप्रसंगभयात्तस्यैव पृ० ७३ब) कारणस्यतत्कार्यजनिकाशक्तिर्नान्यस्येति|तदेतत्सिद्धंसाध्यतित्याह|शक्तिश्चेत्सिद्धसाध्यताकिमन्येनकार्यप्रतिनियत कारणेनेतितत्तत्कार्यजनिकाशक्तिरेवनियामिकाभविष्यति|अतछक्तिमतस्तज्जननायोगात्|यथानपुत्रजननंचंड स्योपपद्यते|यद्येवंतस्मिन्नेवकारणेतत्कार्यजननशक्तिमत्वंनान्यत्रेतिशक्तिरूपतयातत्रतत्कार्यमवस्थितमित्यास्मा कीनपक्षानुप्रवेशात्सिद्धंसाध्यतेभवद्भिः|उपचयदूषणमाह|अन्यथाकारकव्रीतप्रवृत्त्यनुपपत्तितः|श्रुतिरादानमर्थश्च व्यपैतीत्यपितद्धतं|सत्यसदुत्पत्यभ्युपगमेकारकव्रातस्यैवप्रवृत्तिर्नोपपद्यते|असतोहिकार्यस्यवंध्यासुतादेरिवोत्पत्तये किंकिलकारकाणिकुर्युः|कारकप्रवृत्यनुपपत्तेश्च|घटादिचिकीर्षोर्मृत्पिंडाद्यानयेत्यादिकाश्रुतिस्तेषांचकारकाणा मादानंग्रहणमर्थश्चतद्व्यापारलक्षणाक्रियाव्यपैतिविघटते|तस्मिंश्चव्यपेतेसर्वचेष्टाव्याघातः|प्रत्युतयुष्मत्पक्षेजग द्व्याहतंस्यात्|ननुशक्त्यात्मनाकारणेकार्यंनावस्थितं|अपितुतदुत्पादिकाशक्तिस्तत्रास्तीत्यतत्छक्तिमतस्तज्जननायोगात्| पृ० ७४अ) कार्यकारणप्रतिनियमसिद्धौनकाचित्क्षतिरितिपराभिप्रायमाशंक्यतंपराकरोति|अथास्त्युत्पादिकाशक्तिर्नकार्यंशक्ति रूपकं|तयोर्विशेषणंवाच्यंनैतत्पश्यामिकिंचन|अथमतंप्रतिनियतकार्यजनिकाकारणेशक्तिरस्ति|नतुशक्त्यात्मनाका र्यमवस्थितमिति|तदेतछव्दमात्रेणभिन्नं|नार्थेन|वक्तव्यंत्यत्रविशेषणंभवता|यदुततत्तत्कार्यजनिकाशक्तिःकारणेस्ति| शक्त्यात्मनावातत्तत्कार्यंकारणेस्थितमिति|अत्रनहिकिंचिद्विशेषणमुत्पश्यामः|यतेवं|तस्मान्नियामिकाजन्यशक्तिः कारकवस्तुनः|सान्वयव्यतिरेकाभ्यांरूढितोवावसीयते|तस्मात्स्थितमेतत्|यदुतजन्यशक्तिःकारकवस्तुनोनियामि काइदमस्मादेवोत्पद्यतिति|साचजन्यशक्तिरन्वयव्यतिरेकाभ्यांप्रसिद्ध्यावावगम्यते|सत्येवमृत्पिंडेघटाद्युत्पत्तिरसत्यनु त्पत्तिरेवेत्यन्वयव्यतिरेकौ|रूढिश्चेयमाबालवालिशांगनास्थिता|यद्घटोत्पत्यर्थिनोनमृत्पिंडव्यतिरिक्तमुपादानंकुला लस्योपाहरतीति|ननुमृत्पिंडेयदिघटःस्यात्तत्कुंभकारव्यापारंविनाप्युपलभ्येत|नचोपलभ्यते|तस्मान्नमृत्पिंडेघटोस्ति| पृ० ७४ब) अपितुततःकुंभकारेणक्रियते|यतस्तद्व्यापारानंतरमुत्पद्यमानस्यघटस्योपलंभः|नैतत्|उपलव्धिकारणाभावात्तत्रघ टस्यानुपलंभः|नत्वसत्वात्|यदापुनःकुलालादस्याभिव्यंजनक्रिययोपलव्धियोग्यताभवतितदोपलभ्यतेव|यदाख ननादिनाकिलमूलोदकादि|ननुकिलमूलादेःप्राक्सत्वेप्रमाणमस्तिनतुमृत्पिंडेघटस्य|तस्माद्घटस्ततोभवतिन त्वभिव्यज्यतितियुक्तमुक्तं|एवंचेत्तदत्रापिसत्वेप्रमाणमसदकरणादुपादानग्रहणादित्यादिसंभवेदित्यभिव्यक्तिवा देवमुक्तः|यद्येवंतर्हिसतोभावस्यसत्वादेवजननंनोपपद्यते|दृश्यमानस्यघटादेरिवेतिपुनः सदोषस्तदवस्थेवेत्या ह|तद्व्यक्तिर्जननंनामतत्कारकसमायुश्रयात् तेनतंतुगताकारंपटाकारावरोधकं|वेमादिनापनीयाथपटव्यक्तिः प्रकाश्यते|तदेतत्पटादेर्भावस्यजननमभिमतं|यत्तुरीतंतुवेमादिसमाश्रयाछक्त्यात्मनावस्थितस्यतस्याभिव्यक्तिः यतःपटाकारप्रतिवंधकंतंतुगतमाकारंवेमादिकारकव्रातेनायास्यानंतरंपटस्यव्यक्तिःप्रकाश्यतेनतूपलभ्यमानपटांत पृ० ७५अ) रवत्सदेवतंत्वादिभ्यःपटाद्युत्पद्यतितिअभिव्यक्तिरपिकिमसत्कार्य|उनयंग्येत्येवमादिकुतार्किककुविकल्पपरिहारोग्रंथवि स्तरभीरुत्वान्नलिखितः|व्यक्तिस्वरूपत्वादभिव्यक्तेरभिव्यंग्यता|नवेत्यादयःकिलवितर्कादूरापेताएवप्रकाशवत्|यथाहि प्रकाश्यप्रकाशात्मकत्वान्नप्रकाशांतरप्रकाश्यः|एवमभिव्यक्तिर्व्यक्तिस्वभावान्नाभिव्यक्त्यंतरमपेक्षतिति|तदेवंप्रकृते किंसिद्धमित्याह|यथाकटादिगूढस्यपटादेस्तद्व्युदासतः|नासतःक्रियतेव्यक्तिःकलादेर्ग्रंथितस्तथा|यद्वत्कटाद्यवछि न्नस्यपटादेर्वस्तुनस्तदाछादकायनपात्राविद्यमानस्यव्यक्तिःक्रियते|अपितुसदेवपटादिव्यज्यते|एवमुपसंहारका लेशक्त्यात्मनालीनंकलादिकार्यमहर्मुखेग्रंथितः|ग्रंथितत्वादनंतेशव्यापारेणाभिव्यज्यतितिमायाख्यपरमकारण सिद्धिः|भट्टविद्याकंठात्मजभट्टनारायणकंठकृतौमृगेंद्रवृत्तौग्रंथितत्वपरीक्षाप्रकरणंनवमं युक्त्यागमाभ्यांग्रंथि तत्वमुपपाद्यतत्कार्यभूतंकलादिकमभिधातुंतछेषभूतंप्रकरणांतरमाह|अस्यचप्राक्तनमेवसंवंधपंचकंज्ञेयं|ग्रंथिजन्यं पृ० ७५ब) कलाकालविद्यारागतृमातरः|गुणधीगर्वचित्ताक्षमात्राभूतान्यनुक्रमात्|मायातत्वात्प्रथमतःकलाभिधेययोःकला नियत्योःकालस्यनृशव्देनोक्तस्यपुंसश्चपुंप्रत्ययहेतोस्तत्वविशेषस्याभिव्यक्तिः|कलातत्वात्तुविद्यारागाव्यक्तानांमातृ शव्देनचप्रकृतिरव्यक्ताख्या|तत्सकाशाद्गुणाः|तेभ्योवुद्धिः|तस्याहंकारः|तस्मात्तैजसाद्वुद्धींद्रियाणिमनश्च|वैका रिकात्कर्मेंद्रियाणिभूतादिसंज्ञामात्राशव्देनोद्दिष्टानितन्मात्राणि|तेभ्योभूतानीत्यस्मादनुक्रमातेतद्ग्रंथितत्वनो ऽभिव्यंग्यं|विधत्तेदेहसिद्ध्यर्थंयत्साक्षाद्यत्पदांतरात्|यथापुनक्तियद्धेतोस्तादृक्तदधुनोच्यते|अशुद्धाध्वन्यधिकृतोनंते शनाथात्मनांदेहादिकॢप्त्यैग्रंथितत्वाद्यत्साक्षादव्यवधानेनकलादिकार्यंव्यनक्ति|यच्चयदांतरात्स्थानांतरात्कला देर्विद्यारागादिव्यनक्ति|तद्यस्मात्कारणादभिव्यक्तंपदार्थंवायेनप्रकारेणपुनक्ति|देहादिसिद्धौयोजयति|तत्तादृगि दानींकथ्यते|कर्त्तृशक्तिरणोर्नित्याविभ्वीचेश्वरशक्तिवत्|तमश्छत्रतपार्थेषुनाभातिनिरनुग्रहा|तदनुग्राहकंतत्वंक पृ० ७६अ) लाख्यंतैजसंहरः|मायांविक्षोभ्यकुरुतेप्रवृत्त्यंगंपरंहितत्|अणोरात्मनःशिवशक्तिवद्यद्यपिनित्याव्यापिकाचकर्तृशक्तिःमु क्तौतथाविधत्वसंश्रवणास्तथाप्यनादिमलावृतत्वात्करणीयेष्वर्थेषुननिरनुग्रहासाभावति|तस्यानुग्राहकंसमर्थकंकला ख्यंतत्वं|हरतिभोगभुक्त्यर्थमधोवर्त्तिनोणूनितिहरोनंतेशःमायांविक्षोभ्यप्रसवोन्मुखींकृत्वाकुरुतेअभिव्यनक्तीत्यर्थः| यस्मात्कलाख्यंतत्वंपरंप्रवृत्यंगंआत्मनः कर्त्तृस्वरूपसमर्थनंतेनैवव्यापृतत्वान्नह्यसौतेनानुत्तेजितकर्त्तृभावःप्रवर्त्तितुंश क्तःस्यात्|तैजसत्वंचास्यसहजमलतिरस्करणेनाणोरेकदेशेनप्रकाशनहेतुत्वात्|एतदेवाह|तेनप्रदीपकल्पेनतदास्व छचितेरणोः|प्रकाशयत्येकदेशंविदार्यतिमिरंघनं|सेषप्रागुक्तोमहेश्वरस्तदातस्मिन्मायाप्रसवाभिमुख्यकालेऽतिम लिनचिछक्तेरात्मनस्तेनतैजसेनकलाख्येनतत्वेनकिंचित्प्रकाशकारित्वाद्दीपप्रायेणनिविडंतमोनिर्भिद्यैकदेशंप्र कटयति|मलावछिन्नांकर्त्तृतांसमुपोद्वलयतीतियावत्|कलाशव्देनोद्देशसूत्रेनिपतिरपिलाघवादुपक्षिप्ता|तयोश्च पृ० ७६ब) कलानियत्योरन्वर्थकलाशव्दाभिधेयतांवक्तुमाह|कलित्येषयोधातुःसंख्यानेप्रेरणेचसः|प्रोत्सारणंप्रेरणंह्याकुर्वती तमसःकला|कलित्येषसंख्यानार्थवृत्तिरेकोधातुःकलक्षेपितिप्रोत्सारणार्थवृत्तिरन्योधातुः|तत्रैकदेशेतमसोमलस्य क्षेपणंप्रोत्सारणंकुर्वाणायाःकलायाःक्षेपार्थवृत्तिप्रकृतिभूतःप्रथमः|द्वितीयस्तुसंख्यानार्थवृत्तिःकलनादियन्नया नियमनात्कलाशव्दापरपर्यायायानियतेः|इदानीमात्मनःकलायाश्चकर्त्तृकारकतामभिधातुमाह|इत्येतदुभयं विप्रसंभूयानन्यवत्स्थितं|भोगक्रियाविधौजंतोर्निजगुःकर्तृकारकं|जंतोरनासादितभोगस्याणोर्योभोगक्रियाविधि स्तस्मिन्नुत्पाद्यित्यनेनप्रागुक्तेनप्रकारेणेतदात्मकलाख्यंकर्त्तृकारकं|निजगुरुपदिदिशुर्गुरवः|तैर्हिभोक्तृतयाक र्तृत्वेनात्मोक्तः|तस्यकर्त्तृशक्तेरुपोद्वलकत्वात्कारकंहेतुःकर्त्रीकला|प्र योक्त्यादिमही पृ० ७७अ) प्रांतमित्यादिनातस्याएवप्रयोक्तृशव्देनवक्ष्यमाणत्वात्|कथंचैतत्द्वयंस्थितमित्याह|संभूयानन्यवदेकीभूयालक्षितव्य तिरेकमितियावत्|उक्तंचवृहस्पतिपादैः|जंतोर्विभात्पतिश्लेषात्साद्वितीयेवचेतनेति|विप्रेत्यामंत्रणेनवक्ताश्रोतारंमु निमवहितंकरोति|विद्यातत्त्वस्यव्यापारंवक्तुमाह|एवंव्यक्तक्रियाशक्तिर्दिदृक्षुर्गोचरंदृशः|भजत्यनुग्रहापेक्षांस्वयंद्र ष्टुमशक्नुवन्|तदर्थंक्षोभयित्वेशःकलामेवजनिक्षयां|तत्वंविद्याख्यमसृजत्करणंपरमात्मनः|उक्तेनप्रकारेणव्य क्ताक्रियाशक्तिर्यस्यसतथाविधोणुर्गोचरंप्रतिविंवितविषयंवुद्ध्याख्यद्रष्टुमिछुर्दृशोज्ञानस्यानुग्रहापेक्षांभजते| ज्ञानशक्त्यनुग्रहमपेक्षतितितात्पर्यं|स्वयंद्रष्टुमशक्नुवन्नितिविशेषणभावेनहेतूपन्यासः|स्वयंवोद्धुमसमर्थत्वादि त्यर्थः|तदर्थमनंतेशःकलांतत्वाविर्भावनसहांप्रक्षोभ्यजन्यजननाभिमुखींकृत्वाआत्मनःपरंप्रकृष्टंकरणंविद्याख्यं सृष्टवान्|परत्वंचास्यसाक्षात्साध्यस्यैवोपकारकत्वात्|तदुत्तेजितज्ञानशक्तेरंतःकरणवहिःकरणैर्योगितितेषामप पृ० ७७ब) रत्वं|पदुततेनप्रकाशरूपेणज्ञानशक्तिप्ररोचिना|सर्वकारकनिष्पाद्यमवैतिविषयंपरं|तेनविद्याख्येनतत्वेनप्रकाशकत्वा त्ज्ञानशक्त्यभिव्यंजकेनसर्वैर्वुद्धींद्रियैः|कर्मेंद्रियैर्यथास्वंनिर्वर्त्यंपरंकर्तृविषयात्कार्यात्मकविषयादन्यत्ज्ञेयाख्यंयद्वा परमिति|अव्यवहितंविषयंप्रतिविंवितवाह्यविषयत्वेनसन्निकृष्टंवुद्धितत्वमेवैतिजानाति|विद्याख्येनकरणेनकिलप्र तिविंवितस्रक्चंदनादिबाह्यविषयाभोग्यरूपावुद्धिर्गृह्यते|यदाहखेटकनंदनः|वुद्धिर्विषयाकारासुखादिरूपासमास तोभोग्येति|तथा|रविवत्प्रकाशरूपोयदिनाममहांस्तथापिकर्मत्वात्|करणांतरसापेक्षःशक्तोग्राहयितुमात्मा नमिति|रागतत्वाभिव्यक्त्यर्थमाह|तदभिव्यक्तचिछक्तिदृष्टार्थोप्यपिपासितः|नैतितंजनकंरागंतस्मादेवासृजत्प्रभुः |तेनविद्याख्येनतत्वेनाभिव्यक्तज्ञानशक्तित्वाद्दृष्टार्थोप्यणुरपिपासितोऽसंजाताभिलाषःसन्नैतिनभोग्याहरणायग छति|अतस्तस्याभिलाषस्यजनकंरागंततेवकलातत्वात्प्रभवनशीलोनंतेशनाथःससर्ज|सतेनरंजितोभोग्यंमलीमसम पृ० ७८अ) पिस्पृहन्|आदत्तेनचभुंजानोविरागमधिगछति|तेनरागेणरंजितोजनिताभिष्वंगःसोणुर्मलिनतममपिमायीयभोग्यमभि लषन्नुपाहरति|नचैवमुपभुंजानोविरज्यते|चुरादीनामणिजंतत्वाच्चस्पृहन्नित्यदुष्टं|कालतत्वनिरूपणायाह|इतिप्रवृत्तः करणैःकार्यरूढैःसभौवनैः|भोगभूमिषुनाभुङ्तेभोगान्कालानुवर्त्तिनः|इत्येवमुक्तनीत्याकलोत्तेजितकर्तृत्वःसन्प्रवृत्तोभो गोद्युक्तःनापुरुषःकालेनानुवर्त्तिनस्तासुतासुभोगभूमिषुसुखदुःखादिरूपान्भोगान्भुङ्ते|कैर्भुंङ्तेइत्याह|भौवनदेहस हितैःकरणैर्वुद्धींद्रियैःकर्मेंद्रियैस्त्रिविधेनांतःकरणेनमलिनत्वात्क्रियाज्ञानशक्त्योःकर्मेंद्रियवुद्धींद्रियाणामपेक्षा कीदृशैःकरणैरित्याह|कार्यरूढैरविभुत्त्वतोनिराश्रयाणामेषांचेष्टाद्ययोगात्भूततन्मात्रात्मककार्याश्रयस्थैःसद्भिः |उक्तंचखेटकनंदनेन|एतत्कार्यंदशधाकरणैराविश्यकार्यतेचेष्टां|अविभुत्त्वात्करणानितुकार्यमधिष्ठायचेष्टंतेइति| अथकोसौकालोनामकुतुत्पन्नःकिंवाकरोतीत्यत्रोच्यते|त्रुट्यादिप्रत्ययस्यार्थःकालोमायासमुद्भवः|कलयन्नासमु पृ० ७८ब) त्थानान्निपत्यानियतंपशुं|त्रुटिलवनिमेषमुहूर्त्तादेःप्रत्ययस्यज्ञानस्यार्थोनिमित्तंयःसकालःसमुहूर्त्तमास्तेप्रहरंभ्राम्य तीत्यादिप्रतीतिरजस्रपरिवर्त्तिनोयस्माद्भवतिसमायातदुत्पन्नःपशुत्वेनमलेनयुक्तमात्मानंकलयन्कालित्युच्यते|यदा हुः|जलयंत्रभ्रमावेगसदृशीभिःप्रवृत्तिभिः|सकालःकलयंस्तावत्कालाख्यांलभतेततिति|कीदृशंपशुंकलयन्नि त्याह|आसमुत्थानान्नियत्यानियतं|नियतेःसमुत्थानंस्वकारणादभिव्यक्तिः|ततारभ्ययावत्संहारमसौपशुंक र्मजनितेसुखदुःखोपभोगेनियछति|नचायंकालस्यव्यापारः|तस्यकलनमात्रेवचरितार्थत्वात्|अत्रपराशंका| ससाधनस्यभोगस्यकर्मतंत्रतयाजगुः|केचिन्नियामकंकर्मपदन्यदतिरिच्यते|अवश्यंतावद्भोगस्तत्साधनानिच भोक्तुःकर्माधीनानि|तदपेक्षांविनाभोगवैचित्र्यस्यानुपपत्तेरित्युक्तं|तन्नियामकत्वंचतस्यैवभविष्यति|ततश्चयद न्यन्नियत्याख्यंतत्वंकल्प्यतेतदतिरिच्यते|निष्प्रयोजनत्वात्तदधिकीभवति|तथाचोक्तं|यस्माच्चयेनचयथाचयदाच पृ० ७९अ) यच्चयावच्चयत्रचशुभाशुभमात्मकर्म|तस्माच्चतेनचतथाचतदाचतच्चतावच्चतत्रचविधात्वशादुपैति|अथात्रपरिहारः|भो गोर्थःसर्वतत्वानांसोपिकर्मनिवंधनः|कर्मैवास्तुशरीरादिततःसर्वमपार्थकं|माभून्निपतितत्वंतदन्यान्यपिभोगसाधना नि|तत्वानिकर्मनिवंधनान्येव|तेषांचावश्यंकर्मापेक्षित्वात्कर्मैवकेवलंभोगसाधनमस्तु|यद्विनान्यान्यकिंचित्कारीणि| तथाचसतिशरीरेंद्रियविषयादेःसर्वस्यानर्थक्यं|अथदेहादिसापेक्षंतत्युमर्थप्रसाधकं|ननुदेहादिसव्यपेक्षंकर्मपुरुषा र्थसाधनसमर्थंनकेवलंनह्येकंजनकं|किंतर्हिसामग्र्येवकार्यजनिकेत्यत्रोच्यते|ततोनियतिसापेक्षमस्तुकर्मनिया मकं|एवंतर्हियथादेहेंद्रियादिभिःस्वस्वव्यापारप्रवृत्तैःसहकर्मपुरुषार्थसाधनक्षमं|एवंस्वकार्यनिष्पादकनिय तितत्वसापेक्षंतन्नियामकमस्त्वितिनकश्चिद्दोषः|पुंस्तत्वंततेवाभूत्युंप्रत्ययनिवंधनं|आपूरकंप्रधानादेर्भौवनेरु द्रसंश्रयं|संहारसमयेपदनंतेशनाथेनविश्रामितंतत्तस्मादेवमायातत्वात्पुंस्तत्वमाविरभूदित्यर्थः|पुंप्रत्ययनिवंधनमि पृ० ७९ब) तिपुंप्रतीतेर्हेतुः|अनेनमायागर्भस्थेभ्योधिकारिरुद्राणुभ्यस्तत्तद्भुवननिवासिभ्यश्चवैलक्षण्यमुक्तं|तेषांपुंप्रत्यया योगात्|तच्चपुंस्तत्वंप्रधानादेस्तत्वव्रातस्यापूरकंपुरुषार्थत्वेनकार्यसहितस्यप्रधानस्येष्टत्वात्|एवंछात्रहेतुक त्वादध्ययनस्यछात्राध्यापकाइत्यादिवदापूरकशव्दोज्ञेयः|भौवनेचाध्वनितत्पुंस्तत्वंरुद्रसंश्रयं|तथाचोक्तं श्रीमत्स्वतंत्रे|अतःपुरुषतत्वेतुभुवनानिनिवोधमे|दिव्यास्ताःसलिलौघेवेत्यादिपुंरागसंपुटितरूपश्चैतत्पुरुषत त्वंरुद्राणामाश्रयत्वेनेष्टं|यथोक्तंश्रीमत्किरणे|वामदेवोथभीमश्चाप्युग्रश्चभवसंज्ञकः|सर्वेशानैकधीरौचप्रचंड श्चेश्वरःपुमान्|उमाभर्त्ताह्यजोनंतेकश्चैवशिवस्ततः|रागतत्वेस्थिताएतेरुद्रास्तीव्रवलोत्कटाः|अत्रैवपुरुषो ज्ञेयःप्रधानगृहपालकिति|ततःप्राधानिकंतत्वंकलातत्वादजीजनत्|सप्तग्रंथिनिदानस्ययत्तद्गौणस्यकारणं|त तोमायातःपुंस्तत्वप्रसवादनंतरंकलातत्वादव्यक्तंतत्वमुदपद्यतकीदृगित्याह|सप्तग्रंथिनिदानस्येत्यादि|यत्प्रधानंमहा पृ० ८०अ) दहंकारयोस्तन्मात्रपंचकस्येत्येवंसप्तानांग्रंथीनांकार्ययोनीनामुद्भवहेतोर्गौणस्यतत्वस्यकारणं|यथाहितस्यकांचनरत्ना देरुत्तरकालभाविन्यःकरिपुरुषतुरंगादिरूपाःकटककुंडलाद्याभरणात्मिकावार्थक्रिया शक्तिरूपतयास्थिताः| एवंशक्त्यात्मनास्थितस्वस्वकार्यजनकतन्मात्रादिग्रंथिसप्तककारणस्यगुणतत्वस्याव्यक्तादुद्भवः|ततोवुध्याद्यु पादानंगौणंसत्वंरजस्तमः|तद्वृत्तयःप्रकाशाद्याःप्रसिद्धाएवभूयसा|ततितितस्मात्प्राधानिकात्तत्वाद्वक्ष्यमा णभावप्रत्ययसहितायावुद्धेरुद्भवहेतुर्गौणंतत्वंसत्वरजस्तमोरूपमजीजनदितिपूर्वेणसंवंधः|तेषांचसत्वादीनां प्रकाशप्रवृत्तिनियमात्मिकास्तिस्रोवृत्तयोवाहुल्येनप्रथिताइतीहनोक्ताः|त्रयोगुणास्तथाप्येकंतत्वंतदवियोगतः| एकैकश्रुतिरेतेषांवृत्याधिक्यनिवंधना|त्रित्वेपिपरस्परावियोगाद्गुणतत्वमेकंज्ञेयं|ननुयेचैकेसात्विकाभावाराज सापेचतामसाः|इत्यादौभिन्नमेषांसत्वादीनांकार्यंश्रूयतेनत्ववियोगादेकमेतत्तत्वमित्याहेकैकश्रुतिरित्यादि|एषां पृ० ८०ब) गुणानामिदंसात्विकमिदंराजसमिदंतामसमित्यादिकाएकैकश्रुतिर्वृत्याधिक्यहेतुकी|अधिकवृत्तिसत्वंयस्यससा त्विकःपदार्थः|एवंराजसतामसौविज्ञेयौ|इत्थंचसति|नतदस्तिजगत्यस्मिन्वस्तुकिंचिदचेतनं|यन्नव्याप्तंगुणैर्यस्मिन्ने कोवामिश्रकोगुणः|अस्मिन्जगतितादृगचेतनंवस्तुनकिंदप्यस्तियद्गुणैर्नव्याप्तंयत्रवामिश्रकोन्यासंपृक्तेकेव सत्वादिगुणः|उन्मग्ननिमग्नादिवृत्तिसत्वादिगुणत्रयान्वितंसर्वंजगदितितात्पर्यं|एवंगुणतत्वमुक्त्वावुद्धितत्वंवक्तु माह|वुद्धितत्वंततोनानाभावप्रत्ययलक्षणं|परंतदात्मनोभोग्यंवक्ष्यमाणार्थसंस्कृतं|वक्ष्यमाणलक्षणाधर्मादयो भावास्तथाचविपर्ययाशक्त्यादयः प्रत्ययाः|तेवलिंगंसत्तागमकंयस्यतदभिधास्यमानैरर्थैर्विषयैःसंस्कृतमुप रक्तंवुद्धितत्वंपरंप्रकृष्टमव्यवहितमात्मनोभोग्यंविषयाणांभोग्यत्वेपितत्प्रतिविंवितत्वेनासन्निकृष्टत्वादपकृष्टत्वं यतःउक्तंचतत्रभगवत्सद्योज्योतिःपादैः|वुद्धिर्विषयाकारासुखादिरूपासमासतोभोग्येति|भावान्वक्तुमाहभावा पृ० ८१अ) वुद्धिगुणाधर्मज्ञानवैराग्यभूतयः|सात्विकाव्यत्ययेनैतेरागमुत्सृज्यतामसाः|धर्मज्ञानवैराग्यैश्वर्याख्यावुद्धिगुणाभावसं ज्ञयाविज्ञेयाः|भावयंतियतोलिंगंनभावाइतिस्मृताः|एतेचसात्विकावोद्धव्याः|व्यत्ययेनविपर्ययेणैतेरागमुत्सृज्यवै राग्यविवर्जितास्तामसाःअधर्माज्ञानानैश्वर्यरूपाः|अवैराग्यलक्षणस्तुभावोराजसः|प्रत्ययान्संचष्टे|प्रत्ययास्तदुपादा नास्तेष्टौनवचतुर्गुणाः|सप्तपंचचविख्याताःसिद्ध्याद्यावर्गशोमुने|तेधर्मादयुपादानमुत्पत्तिहेतुर्येषांतेसंसार्यणोःप्र त्यायनात्प्रत्ययाइष्टाःकियंतित्याह|अष्टौनचेत्यादि|अष्टविधासिद्धिर्नवविधातुष्टिर्वक्ष्यमाणलक्षणा|उक्तंचसांख्यैः |ऊहःशव्दोच्ययनंदुःखविद्यातत्रयंसुहृत्प्राप्तिः|दानंचसिद्धयोष्टाविति|तथाआध्यात्मिकाश्चतस्रःप्रकृत्युपादानका लभाग्याख्याः|वाह्याविषयोपरमात्पंचचनवचतुष्टयोभिहिताइति|चतुर्गुणाःसप्ताष्टाविंशतिसंख्याभवंति|ताव त्संख्यासंख्याताशक्तिःकर्मेंद्रियवुद्धींद्रियमनसांविद्याताएकादश|वाधिर्यमांध्यमघ्रात्वंमूकताजडताचया|उन्मा पृ० ८१ब) दकौष्ठ्यकौण्यानिक्लैव्योदावर्त्तयंगुताइति|वुद्धिवधाश्चप्रागुक्तानांतुष्टिसिद्धीनांविपर्ययाःसप्तदशेत्यष्टाविंशतिः| तथाचाहुःकापिलाः|एकादशेंद्रियवधाःसहवुद्धिवधैरशक्तिरुद्दिष्टा|सप्तदशवधावुद्धेर्विपर्ययात्तुष्टिसिद्धीनामिति|पं चचविख्याताइति|विपर्ययभेदास्तमोमोहमहामोहतामिस्रांधतामिस्राख्याः|एतेपंच|सिद्धयोष्टौ|तुष्टयोनव|अ शक्तयोष्टाविंशतिरित्येवंवर्गशःवर्गक्रमेणपंचाशत्प्रत्ययाः|येचैवंसंख्यातःप्रतिपादिताःभावाःसप्रत्ययास्ते षांलेशाल्लक्षणमुच्यते|किंतदित्याह|सांसिद्धिकावैनयिकाःप्राकृताश्चभवंत्यणोः|एतेभावाःसांसिद्धकादिभे दात्त्रिधासंसार्यणोर्भवंति|अथतेषांसांसिद्धिकादीनांस्वरूपमभिधत्ते|विशिष्टधर्मसंस्कारसमुद्दीपितचेतसां| गुणःसांसिद्धिकोभातिदेहाभावेपिपूर्ववत्|विशिष्टेनेष्टापूर्त्तादिधर्मसंस्कारेणसम्यगुद्दीपितंप्ररोचितंचेतोयेषां तेषांनपरंदेहसंयोगेयावद्देहाभावेपिप्राग्वद्योगुणःप्रकाशतेससांसिद्धिकोनामवोद्धव्यः|लोकधीगुरुशास्त्रेभ्यो पृ० ८२अ) भातिवैनयिकोगुणः|यस्तुसद्यथावद्धितलोकबुद्धेर्गुरुतःशास्त्राद्वासमर्जितःसवैनयिकोभातिप्रकाशते|समर्जितो वैनयिकोमनोवाक्तनुचेष्टया|योमनोवाक्तनुचेष्टया|शुद्धव्यापारेणार्जितःसवैनयिकोवोद्धव्यः|प्राकृतोदेहसंयोगेव्यक्तः स्वप्नादिवोधवत्|यःपुनःस्वप्नमदमूर्छाप्रवुद्धस्ययथाप्रस्तुतसंस्कारिवदेहसंयोगेवव्यज्यते|नदेहापायेपिसप्राकृतोना मगुणोविज्ञेयः|अथैतेभ्यःसांसिद्धिकादिभ्योधर्मेभ्यःफलविशेषान्वक्तुमाह|स्वर्गोमुक्तिःप्रकृतित्वाविद्यातौयोनि क्रांतिर्निरयावाप्तिवंधौ|रूपेष्वर्थाविनयप्राकृतेषुसंपद्यंतेसविद्याताःक्रमेण|तत्रतावद्वैनयिकेषुचरूपेषुक्रमेणा र्थाःसंपद्यंतेस्फीतिमुपयांति|केतित्याह|स्वर्गित्यादि|धर्मात्स्वर्गः|ज्ञानान्मुक्तिः|वैराग्यात्प्रकृतिलयः|ऐश्व र्यादविद्यातः|यथेष्टसिद्धिरित्यर्थः|अथाधर्मात्तिर्यगादियोनिक्रांतिः|अज्ञानान्निरयावाप्तिः|अवैराग्याद्वंधः|अनैश्व र्याद्विद्यातः|अथसांसिद्धिकेषूच्यते|वश्याक्रांतिस्तत्परिज्ञानयोगोभोगानिछाविघ्नसंद्यव्यपायः|भोगासक्रिर्न्यक्कृति पृ० ८२ब) र्देहवुद्धिर्विघ्नश्चार्थास्तेषुसांसिद्धिकेषु|धर्मादिषुसांसिद्धिकेषुसत्स्विदमिदंसंपद्यतितिपूर्वेणसंवंधः|किंकिमित्यत्राह वश्याक्रांतिरित्यादिवश्याक्रांतिःसांसिद्धिकाद्धर्मात्तत्परिज्ञानयोगस्तादृग्विधाद्ज्ञानाद्भोगेष्वनभिलाषोवैराग्यात्वि घ्नसमूहापगमः|ऐश्वर्याद्भोगेष्वासक्तिः|सांसिद्धिकादधर्मात्न्यक्कृतिर्न्यक्कारस्तथाविधादज्ञानाद्देहलव्धिः|अवैरा ग्यात्कार्येषुविघ्नोनैश्वर्यादिति भट्टविद्याकंठात्मजभट्टनारायणकंठकृतौमृगेंद्रवृत्तौमायाकार्यविचारप्रकरणंद शमं इत्थंभावान्विचार्यप्रत्ययान्प्रागुद्दिष्टान्लक्षयितुंसमनंतरोपसंहृतप्रकरणशेषभूतंप्रकरणांतरमाह|अथसि द्ध्यादिवर्गाणांलेशात्सामान्यलक्षणं|कथ्यतेविप्लवोमामूत्समासोक्तेः प्रभेदशः|अथेतिभावोक्त्य नंतरंप्रत्ययसंवंधिनांसिद्धितुष्ट्यादिवर्गाणांसंक्षेपात्साधारणंलक्षणंकथ्यते|किमर्थमित्याह|विप्लवोमाभूदिति|प्रभे दशःप्रविभागशःवर्गशःयासंक्षेपोक्तिःकृतातस्याःसकाशाद्विप्लवोमतिसंमोहोमाभूत्|तेष्टौनवचतुर्गुणाःसप्तपंच पृ० ८३अ) चेत्येतावतासंक्षिप्तप्रभेदकथनेनवुद्धिविप्लवोयःशंक्यतेसः|एवंविधातुष्टिःइत्थंविधासिद्धिरित्येवंसामान्यलक्षणेसंक्षि प्तेकृतेनभवतीत्येतदर्थमिदमित्यर्थः|अथतदुच्यतेपुंप्रकृत्यादिविषयावुद्धिर्यासिद्धिरत्रसा|तुष्टिर्नुरकृतार्थस्यकृतार्थो स्मीतियामतिः|पुंस्यात्मनिप्रकृतावव्यक्तेआदिग्रहणाद्व्यक्तेचयावुद्धिर्विज्ञानंसासिद्धिरित्युच्यते|यात्वकृतार्थस्यनुः पुंसःकृतार्थोस्मीतिवुद्धिःसातुष्टिः|अशक्तिःकारकापायेसदर्थाप्रभविष्णुता|किंचित्सामान्यतोन्यत्रमतिरन्या विपर्ययः|कारकाणामंतःकरणबहिःकरणानांअपायेविनाशेसतिविद्यमानेप्यर्थेअप्रभवनशीलत्वंअशक्तिः| अंधवधिरादेरिवरूपशव्दादौकिंचित्साधारण्यादन्यस्मिन्नन्यादृशीवुद्धिर्विपर्ययः|मरुमरीचिकास्विवजलावगतिः |प्रकाशकतयासिद्धिर्व्यक्तादेःसत्वभावजा|प्रकाशार्थप्रवृत्तत्वाद्रजोंशप्रभवापिच|सैषासिद्धिर्व्यक्त्यादिप्रकाशक त्त्वात्सात्विकी|सत्वस्यप्रकाशस्वरूपत्वात्|किंचप्रकाशार्थप्रवृत्ततयाहेतुभूतयारजोंशप्रभवाप्यसौसिद्धिर्ज्ञेया|नह्य पृ० ८३ब) मिश्रागुणाजनकाइत्युक्तंयतः|तुष्टिर्मिथ्यास्वरूपत्वात्तमोगुणनिबंधना|सुखरूपतयाव्रह्मन्सात्विक्यप्यवसीयते| अकृतार्थस्यकृतार्थोस्मीतिवुद्धिस्तुष्टिर्योक्ता|सेयंमिथ्यारूपत्वात्तमोगुणलक्षणासुखरूपतयासात्विक्यप्यव्यवग म्यते|अशक्तिरप्रवृत्तत्वात्तामसीदुःखभावतः|राजस्यपिगुणोदृष्टःकार्येकारणसंश्रयः|अप्रवृत्तिरूपाशक्तिरु क्ता|अतश्चास्मैतामसीदुःखहेतुत्वाच्चराजस्यपिविज्ञेया|योहिकार्येऽशक्त्याख्येदुःखरूपोप्रभविष्णुतारूपोवागुणोस्ति सोवश्यंकारणाश्रयः|रजस्तमोलक्षणकारणजनितित्यर्थः|विपर्ययस्तमोयोनिर्मिथ्यारूपतयासच|सामान्यमात्र काभासात्सत्वात्मेतिविनिश्चितः|विपर्ययस्यमिथ्यारूपत्वात्तमःप्रभवत्वं|सचविपर्ययःसाधारण्यमात्रप्रथनात्प्रका शरूपःसत्वात्मकोपिनिश्चितः|उपसंहरन्नाह|इतिवुद्धिप्रकाशोयंभावप्रत्ययलक्षणः|बोधित्युच्यतेवोधव्यक्तिभूमि तयापशोः|इत्येवंप्रतिपादितोभावप्रत्ययलक्षणोवुद्धिप्रकाशःपशोःसंसार्यणोर्वोधव्यक्त्याश्रयत्वाद्वोधसंज्ञयोच्यते| पृ० ८४अ) अथात्रमुनिःसांख्यछाययाप्रश्नयति|वुद्धिर्वोधनिमित्तंचेद्विद्यातद्व्यतिरिच्यते|रागोपिसत्यवैराग्येकलायोनिःकरोति किं|उक्तयानीत्यावोधनिमित्तत्वंवुद्धेर्यदुच्यतेतद्विद्यायाआनर्थक्यं|तस्यापिवोधहेतुत्वेनाभ्युपगमांत्|यदिचसामान्य व्यापारत्वेपितदभ्युपगमःतदानवस्था|किंचअवैराग्यलक्षणेवुद्धिधर्मेरागरूपेसत्यपिकलाजन्मारागःकिंकरोति नकिंचिदप्यस्यकार्यमवैराग्येणैवातिशयवतातत्प्रयोजनस्यसंपत्तेः|अथैतत्प्रतिक्षेपः|व्यंजकांतरसद्भावेव्यंजकंय द्यपार्थकं|मनोदेवार्थसद्भावेसतिधीरप्यनर्थिका|वोधव्यंजकविद्याख्यंतत्वंवुद्ध्यात्मकव्यंजकांतरसद्भावेसतियद्यन र्थकंतर्हिभवतोपिकापिलस्यमनिंद्रियलक्षणार्थसद्भावेवुद्धिरप्यनर्थिका|तथाहि|रूपादिग्राहकचक्षुरादिकर णावधातरिमनसिव्यंजकांतरेणवुद्ध्याख्येनकिंप्रयोजनं|मनोधिष्ठितैरिंद्रियैरेवतत्तत्त्कार्यसिद्धेः|अथैवंव्रुव तेकेचित्त्करणत्वविवक्षया|सोपिदैवैर्मनःषष्ठैःपक्षोनैकांतिकःस्मृतः|अथप्रोक्तवद्वुद्धेरप्यानर्थक्यप्रसंगतयाव्यं पृ० ८४ब) जकांतरसद्भावेव्यंजकस्यानर्थक्यंप्रसज्यतित्येवंनपर्यनुयुज्यते|किंतुकरणत्वविवक्षयैवंकेचिद्व्रुवतेचोद्यंकुर्वंति|यदुत वुद्ध्याख्येकरणेसत्यपिकिंविद्याभिधानेनकरणेन|यथोक्तं|साविद्यातत्परंकरणमिति|इहाप्युक्तं|तत्त्वंविद्याख्यमसृ जत्करणंपरमात्मनिति|सोप्ययंपक्षोमनःषष्ठैर्बुद्धींद्रियैरनेकांतिकः|तथाहि|वुद्धींद्रियपंचकस्यस्वस्वविषयग्रह णक्रियायांकरणस्यसतष्षष्ठेनमनसाकरणांतरेणांगीक्रियमाणेनानैकांतिकीकृतमेतत्|यत्करणांतरसद्भा वेकरणानर्थक्यमिति|प्रत्युतकरणांतरापेक्षस्यकासुचित्क्रियासूपलंभात्|उक्तंश्रीमत्पराख्ये|करणंकरणापे क्षमाजाविभकरास्त्रवदिति|यथाचैषांश्रोत्रादीनांपंचानांमनःषष्ठत्वंकरणत्वेसामान्येप्यात्मवादिभिरिष्टं|तथा वुद्धौसत्यामपितत्ग्राहिकाविद्यासेत्स्यतीतिनकश्चिद्दोषः|एवंचपक्षद्वयेनाशंकितंचोद्यंसमर्थ्यपक्षांतरेणाप्याशंकमा नस्तद्दूषणायाह|अथैकविनियोगित्वेसत्येकमतिरिच्यते|श्रोत्रदृक्पाणिपादादिततोभिन्नार्थमस्तुनु|नन्वेकस्मिन्विष पृ० ८५अ) येविनियोगोस्तियस्यसपदार्थेकोन्यस्येकविनियोगित्वेसत्यतिरिच्यते|अधिकीभवति|ध्वांतध्वंसक्षममण्यालोक संभविवदीपःततश्चसुखदुःखमोहात्मकपुंभोगसाधनत्वंवुद्धेरेवपर्याप्तमतस्तदर्थमिष्यमाणायाःपुनरपिविद्यायाआ नर्थक्यमित्याशंक्यैतन्निरासः|श्रोत्रदृक्पाणिपादादीतिततित्येवाभ्युपगमात्|एकविनियोगित्वेसत्येकस्यातिरेकत्वां गीकरणेसतीत्यर्थः|नुरितिपशुत्वयोगिनोभोक्तुःपुंसःयदुक्तंप्राक्|भोगभूमिषुनाभुङ्क्तेभोगान्कालानुवर्त्तिनिति| तस्यनुःपुंसःश्रोत्रदृगादिपाणिपादादिचभवत्पक्षेभिन्नार्थमस्त्वेकविषयंमाभूत्|ननुकेनोक्तं|श्रोत्रदृगादेरेकविषय त्वं|नहिश्रोत्रग्राह्यमर्थंदृक्गृह्णातिपाणिकार्यंवापादःकरोति|पृथगर्थत्वेनैषांप्रातिस्विकस्वरूपत्वात्|सत्यंकिं तुभोगैकसाधनत्वविवक्षयैवमुक्तं|तथाहि|भोक्तुःपुंसाम्रादिसौरभानुभवतस्तदन्वेषणोघमस्ततश्चांम्रास्संती तिश्रवणात्तत्रप्रवर्त्ततं|दृशातद्दर्शनं|रसनेनचास्वादनमित्येकविनियोगित्वमिंद्रियाणामनुभूयमानमपिभवत्पक्षेन पृ० ८५ब) FOḻईO णो. ८५ब् ईष् ण्Oट् आVआईḻआBḻE. पृ० ८६अ) थाविधानियान्यक्षाणींद्रियाणितद्गोचरांस्तद्विषयान्स्वीकृत्यपुंप्रयुक्तस्येतिपुंसाप्रकर्षेणयुक्तस्यसाक्षात्स्वान्मन्येवो पकारकत्वेनस्थितस्यास्यैवविद्याख्यस्यकरणस्यवुद्धिर्यतःकर्मतामेतिग्राह्यत्वमागछतितेनेनराविद्यातोदूरं भिन्ना|तदियताविद्यावैययर्थ्यंनिराकृत्याथद्वितीयचोद्यस्यनिरासः|रागोनगौणस्तद्विधर्मतः||तच्चभोग्यत्वमेतद्वावीतरागस्ततोहतः||रागोनवुद्धिगुणोऽवैराग्यलक्षणःकुतःइत्याह०तद्विधर्मतःतस्मादागमोक्ताद्रागात्गौणस्यवैधर्म्ययतः|लुप्तभावप्रत्ययो विधर्मशव्दःकिंतद्वैधर्म्यमित्याहतच्चभोग्यत्वमिति|अवैराग्यलक्षणोवुद्धिधर्मःस्रक्चंदनवनितादिर्वाविषयेवं वहिष्ठोयःपरेषांरेषांरागत्वेनेष्टः तस्यैतदेववैधर्म्यंयद्भोग्यत्वंभोगाधिष्वंगहेतुनारागेणभोजकेनचभाव्यं|नचभो ग्यस्यभोगहेतोश्चाभेदः|एतद्वाभोग्यत्वंरागस्यांगीक्रियतेतर्हिवीतरागस्ततोहतः|ततित्येवमभ्युपगमाद्वीतरागाभा वदोषःप्रसज्यतेभोक्तृगतरागानभ्युपगमेवहिष्ठवरांगनादिभोग्यविशेषरूपरागोपगमेचसतिसरागवीतरागसन्नि कर्षस्थत्त्र्यपादौभोग्यविषयेसर्वेषांसरागताप्राप्नोति|नहिकश्चिदत्रवीतरागोभवेत्|वस्तुतोवीतरागाणामपिभोग्य पृ० ८६ब) विशेषसन्निधिमात्रादेवसरागतायाइष्टत्वात्|उक्तंचसद्योज्योतिःपादैः|भोग्यविशेषेरागेनहिकश्चिद्वीतरागःस्यादि ति|तस्माद्भोक्तृगतेवरागोपगमोनभोग्यविशेषरूपःस्रगादिः|अवैराग्यलक्षणवुद्धिधर्मात्मकोवा|अतश्च|रागो र्थेष्वभिलाषोयोनसोस्तिविषयद्वये|उक्तवद्भोक्तृगतोरागोयोर्थेषुस्रगादिष्वभिलाषित्यभिलाषहेतुरेवाभिलाष शव्देनोक्तः|कारणेकार्यस्याभेदोपचारात्|आयुर्घृतमितिवत्|सचरागाख्योर्थेष्वभिलाषरूपत्वादभिलाषहेतुर्विषय द्वयेएकस्मिन्वाह्येस्रक्चंदनादौवीतरागाभावप्रसंगतयानास्तीत्यभ्युपगंतव्यः|द्वितीयस्मिंस्तुअवैराग्यलक्षणेवु द्धिधर्मेभोग्यरूपत्वादभिलाषहेतुत्वंनास्तियस्मादभिलाषहेतुत्वंनास्तितस्मादभिलाषहेतुनारागेणजन्यते|असौ वुद्धिगतस्पृहान्मकःक्रियारूपोभोग्यत्वसंपादकित्यलं|ननुकर्मैवसुखदुःखादिरूपंभोग्यत्वमभिलाषहेतुत्वेनभवि ष्यतीत्याह|कर्मास्तुव्यापकंकल्प्यंकल्पितेपीतरत्रयत्|प्रागुक्तेस्मिन्विषयद्वयेसरागवीतरागात्मकस्थितिव्यवस्थापक पृ० ८७अ) त्वेनव्यापकंकर्मास्तु|यत्तदितरत्रेतिरागेपरिकल्पितेपिकल्प्यंकिलावश्यमभ्युपगंतव्यं|तद्धेतोरपिकर्मेष्टव्यं|तदेवतत्तद्वस्तु वैचित्र्यात्सरागवीतरागताकारणत्वेनास्त्वितिपूर्वःपक्षः|सिद्धांतस्तुकर्मणःकेवलस्योक्तंनियतावेवदूषणं|केवलस्य कर्मणोनियतिसिद्धावेवदूषणंदर्शितं|तथाचोक्तं|भोगोर्थःसर्वतत्वानांसोपिकर्मनिवंधनः|कर्मैवास्तुशरीरादिततः सर्वमपार्थकं|अथदेवादिसापेक्षंतत्पुमर्थप्रसाधकं|ततोनियतिसापेक्षमस्तुकर्मनियामकमिति|तस्मात्रनुकरणभोगा दिवैचित्र्यमात्रेवचरितार्थत्वात्|कार्यांतरेप्रमाणाभावाच्चनकर्मणोरागकार्यसंपादकत्वमपितूक्तप्रयोजनःकलाजन्यो रागःसिद्धः|नचरागवत्द्वेषस्यापितत्वांतरत्वंद्वेषादीनांरागजनितप्रवृत्तिविशेषात्मकत्वात्कस्मिंश्चिदभिलषणीये वस्तुनिकिलव्याहन्यमानेस्यद्वेषादयःसंजायंते|नन्वितरेतरोपमर्देनरागद्वेषयोर्यतोवस्थितिःतस्मादेकस्मिन्पुं सिसहानवस्थानदोषःप्राप्नोतीत्याह|दोषःसहानवस्थानोनासाम्याद्द्वेषरागयोः|सर्वस्यसर्वदासर्वाप्रवृत्तिःसुखवुद्धि पृ० ८७ब) जा?|प्रवृत्तस्यसुखंदुःखंमोहोवाप्युपजायते|प्रवृत्यनंतरंद्वेषोरागस्तत्पूर्वकालतः|द्वेषांतेसपुनर्येनवीर्यवद्योगकारणं|क स्तावदयंसदानवस्थानदोषः|यद्येककालनयातदेतन्नदूषणं|अपितुभूषणमेव|नहियदैवयत्ररागस्तदानीमेवतत्रद्वेषः |अथयस्मिन्नेवभोक्तरिरागस्तत्रद्वेषित्येतन्नोपपन्नं|तदप्युक्तं| नह्यनयोराश्रयेविरोधः|किंतुविषयेतुल्यवलत्वेनरागद्वे षयोःक्रमिकतयाएकस्मिन्नाश्रयेविषयेव्यावृत्तौनकश्चिद्दोषः|भवद्भिरुद्भावितस्यसहानवस्थानस्येष्टत्वात्|तथाहि| सर्वस्यव्यवहर्त्तुःसर्वव्यवहृतिःसुखदुःखवुद्धिसंभवाप्रवृत्तस्यचास्यसुखंवादुःखंवामोहोवाजयते|भोजनादिप्रवृत्त्यनं तरंचतत्रैवद्वेषःतत्पूर्वकालस्तुरागःपुनश्चद्वेषांतेकस्मिंश्चित्कालेतदभिलाषः|यस्माद्यदेववीर्यवद्वलीयस्तदेवयो गस्याभिष्वंगजनितस्यसंश्लेषस्यकारणं|यतेवंतस्माद्रागस्यद्वेषाद्वलीयस्त्वात्सहानवस्थानदोषोनदोषः|इत्थंप्रासंगि कीरागतत्वोपपत्तिमुक्ताहंकारतत्वव्यापारमाह|अथव्यक्तांतराद्वुद्धेर्गर्वोभूत्करणंचितः|व्यापाराद्यस्यचेष्टंतेशारीराःपंच पृ० ८८अ) वायवः|अव्यक्ताद्व्यक्तंगुणतत्वंव्यक्तांतरंतत्कार्यंवुद्धिस्तस्याःसकाशादहंकारंचितात्मनःसंरंभवृत्यंतःकरणमुपप द्यते|यद्व्यापाराछारीराःशरीरांतश्चराःपंचवायवश्चेष्टंतेस्वंस्वंव्यापारंविदधति|केतित्याह|प्राणापानादयस्तेतुभि न्नावृत्तेर्नवस्तुतः|प्राणापानादयोयेपंचवायवस्तेवृत्तेर्व्यापारभेदाद्भिन्नाः|नत्वेषांवास्तवोभेदःवायुरूपत्वाविशेषात्| अथैषामेवव्यापारभेदंवक्ति|वृत्तिंलेशान्निगदतोभरद्वाजनिबोधमे|तत्रकाप्राणस्यवृत्तिरित्याह|वृत्तिःप्रणयनंना मयत्तज्जीवनमुच्यते|यत्तदूहंमति०पुंसांभ्रमत्यंधेवमार्गती|तत्कुर्वन्नुच्यतेप्राणःप्राणोवाप्राणयोगतः|चित्यातिवाहि केशक्तैप्राणशव्दःकलासुच|प्रकर्षेणनयनंप्रणयनं|कोष्ठस्थस्यवायोर्वाह्यद्वादशांतंयावत्तंप्रपाणंसैषाप्राणस्य वृत्तिर्व्यापारः|एतच्चव्यापारतोनिर्वचनं|फलतस्तूच्यते|यत्तज्जीवनंनामसाप्राणस्यैववृत्तिः|अयमाशयः|प्रण यनात्प्राणितिनिरुक्तदृशाव्यापारेणप्राणशव्दोलक्षितः|प्रकर्षेणअननंप्राणनंजीवनंततोपिप्राणित्युच्यतिति पृ० ८८ब) फलविषयमस्यनिर्वचनं|फलतस्तूच्यतेयतः|पुरुषाणामूहंमार्गयमाणांधेवमतिर्भ्रमति|सप्राणस्यैवव्यापारः|ऊहो विमर्शात्मकस्तर्कः|तत्रास्याधिपःप्राणेनैवप्रेरणंक्रियते|प्राणारथाधिरूढाहिसासंविद्विमृशति|प्राणोवावलंतद्योगा त्प्राणुच्यते|यस्माच्चितिचैतन्येआतिवाहिकेकलादिक्षित्यंतेतत्वशरीरेशक्तौचवलात्मिकायांकलासुचसोमसूर्या द्यात्मिकासुप्राणशव्दोज्ञेयः|अपानस्यवृत्तिमाह|तथापनयनंभुक्तपीतविण्मूत्ररेतसां|कुर्वन्नपानशव्देनगीयतेतत्वद र्शिभिः|अपनयनमधःप्रापणंभुक्तपीतविण्मूत्ररेतसांयत्करोतिअतस्तत्वज्ञैरपानाख्ययोक्तः|अथसमानव्यानयो र्व्यापारोक्तिः|समंततोन्नपानस्यसमत्वेनसर्पणं|कुर्वन्समानित्युक्तोव्यानोविनमनात्तनोः|अन्नपानस्यसर्वत्रसाम्येन नियमात्समानस्यसमानत्वंदेहस्यविनमनाद्व्यानस्यव्यानता|उदानस्यवृत्तिरुच्यते|विवक्षायत्नपूर्वेणकोष्ठव्योमगुण ध्वनेः|वागिंद्रियसहायेनक्रियतेयेनवर्णता|सुदानःशरीरेस्मिंस्थानंपद्यस्यधारणे|जपःफलंवाच्यशेषंपत्यास्कं पृ० ८९अ) धांतरेरितं|वक्तुमिछाविवक्षायत्नःसंरंभःतौपूर्वौयस्यकोष्ठस्यव्योम्नांतरस्याकाशस्यगुणरूपोयःशव्दस्तस्ययेनवागिं द्रियसचिवेनविवक्षायत्नपूर्वेणविभज्यवैचित्र्यंक्रियतेसोस्मिंदेहुदानशव्दोज्ञेयः|यस्यचवायोःप्राणादेर्यत्स्थानंधारणे सतिजपश्चतज्जपात्फलंतदेतद्वक्तव्यं|शेषभूतंभगवताप्रकरणांतरेणयोगपादाख्येनादिष्टं|भट्टविद्याकंठात्मजभट्टना रायणकंठकृतौमृगेंद्रवृत्तौप्रत्ययादिविचारप्रकरणमेकादशं इदानीमहंकारस्यत्रैरूप्यंतत्कार्याणितद्विचारश्चप्रस्तूयं तितिप्रकरणांतरारंभःप्राग्वत्संवंधपंचकमत्राप्यनुसंधेयं|अथशेषार्थसिद्ध्यर्थंस्कंधानस्यातेवसः|त्रीन्निश्चकर्ष सत्वादिभूयिष्ठानीशशक्तिगः|अथानंतरंशेषभूतस्यार्थस्यतन्मात्रेंद्रियादेःसिद्ध्यर्थमस्याहंकारस्यातेवेत्यहंका रादेवसभगवाननंतरप्रकरणांतेपतिशव्देनोक्तोयःसमायागर्भाधिकारिणामनंतादीनामीशानांशक्तिगस्तदभि व्यक्तशक्तिस्सत्वरजस्तमोवहुलांस्त्रींस्कंधान्निश्चकर्षनिष्कृष्टवान्|अविभिन्नमहंकारमाविर्भाव्यत्रिधाव्यमजदित्यर्थः| पृ० ८९ब) तदेवत्रैविध्यमाह|तैजसोवैकृतोयोन्योभूतादिरितिसंस्मृतः|तेभ्यःसमात्रकादेवामात्रेभ्योभूतपंचकं|तैजसवैकारिकभूता दिकसंज्ञकेभ्यस्तेभ्योहंकारसंधेभ्योदेवावुद्धींद्रियकर्मेंद्रियाख्यासमात्रकास्तन्मात्रसहितास्तन्मात्रेभ्यश्चभूतपंचकमभिव्य क्तमितिशेषः|अथकुतःकिमभिव्यक्तमाह|श्रोत्रंत्वक्चक्षुषीजिह्वानासाचमनसासह|प्रकाशान्वयतःसात्वास्तै जसश्चससात्विकः|श्रोत्रादिवुद्धींद्रियपंचकस्यमनसश्चप्रवोधवत्वात्प्रकाशान्वयोस्ति|अतःसात्विकाएतेदेवाःस चसात्विकेवतत्प्रकृतिरहंकारस्कंधस्तैजसोनामज्ञेयः|वाणीपाणीभगःपायुःपादौचेतिरजोभवाः|कर्मान्वयाद्रजो भूयानाणोवैकारिकोत्रयः|वाक्पादपाणिपायूपस्थाः पंचराजसादेवाःतेषांकर्मान्वयात्कर्मेंद्रियत्वाद्रजोवहुलो वैरिकारिकाख्योहंकारस्कंधःप्रकृतिभूतः|शव्दःस्पर्शश्चरूपंचरसोगंधश्चपंचमः|गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयो जिताः|शव्दस्पर्शरूपरसगंधाविशिष्टगुणानभिव्यक्तविशेषत्वेनतावन्मात्रपदेभूतप्रकृतित्वरूपेयोजितास्तन्मात्रा पृ० ९०अ) शव्देनज्ञेयाः|तावत्यश्चमात्रास्तन्मात्राइतिस्त्रीलिंगोयमिहतन्मात्राशव्दः|गुणाविशिष्टत्वंचैतासामित्थं|यथापृथिव्यां खटखटादिरूपःशव्दःस्पर्शश्चशीतोष्णःरूपमप्यनेकविधंशुक्लादिषड्विधश्चरसोगंधश्चसुरभ्यसुरभिरूपोस्तिनैवंतत्का रणभूतपृथिवीतन्मात्रावस्थिताविशेषाउपलभ्यंते|अपित्वविशिष्टगुणपंचकमात्रंपृथिवीतन्मात्रमेवमन्यते|एता श्चतन्मात्राःप्रकाशकर्मकृद्वर्गवैलक्षण्यात्तमोभवाः|प्रकाशकृत्सात्विकोवुद्धींद्रियमनोलक्षणोयोवर्गः|यश्चक र्मकृद्राजसत्वाद्व्यापारप्रवृत्तःकर्मेंद्रियवर्गः|ताभ्यांवर्गाभ्यांवैलक्षण्यंवैसादृश्यंयस्मादेतासांतन्मात्राणामतस्तमो भवाएताः|प्रकाश्यत्वाच्चभूतादिरहंकारेषुतामसः|एषुचाहंकारस्कंधेषुमध्याद्योयंभूतादिरहंकारस्कंधःसयस्मा त्प्रकाश्यस्तत्कार्यस्यतन्मात्रात्मनोमनोवुद्धिभ्यांवुद्धींद्रियैश्चयोगिभिरुपलभ्यत्वात्ततोयंतामसोविज्ञेयः|उक्तंचसां ख्यैः|भूतादेस्तन्मात्राःसतामसाइति|अथमनसोव्यापारुच्यते|देवप्रवर्त्तकंशीघ्रचारिसंकल्पधर्मिच|मनःशव्दा पृ० ९०ब) दिविषयग्राहकाःश्रवणादयः|देवनाद्योतनाद्वादेवाइंद्रियाणितेषांप्रवर्त्तकमुद्योजकमाशुसंचरणशीलंसंकल्प गुणंचमनोवोद्धव्यं|श्रोत्रादयस्तुदेवायथास्वंशव्दादिविषयग्राहकाःवचनादानसंह्लादविसर्गविहृतिक्रियाः|वागादी नांपदान्यत्वंपदेसत्यप्यतद्गुणाः|वचनंभाषणं|आदानंग्रहणं|आह्लादानंदः|विसर्गोमलवियोगः|विहृतिःसं चारः|एताःक्रियाःक्रमेणवागादीनांज्ञेयाः|काकाक्षिन्यायेनवागादीनामितियोज्यं|ततश्चवागादीनांपदान्यत्व मितियत्तस्याश्रयभूतंस्थानंततोन्यदेवेंद्रियं|नहिकर्णशष्कुल्यादेरेवश्रवणादित्वं|अपितुतत्स्थानस्थायाइंद्रियश क्तेः|कुतित्याह|यतःपदेसत्यप्यतद्गुणाः|तछक्तिविरहिणोजनादृश्यंते|नचैषांतानिस्थानानिनसंति|मनस त्तेयुक्तिमाह|आत्मेंद्रियार्थनैकृष्ट्येसर्वदेवाप्रवृत्तितः|प्रवृत्तिकारकास्तित्वंयुक्तितोप्यवसीयते|आत्मनोभोक्तु रिंद्रियैर्भोगसाधनैरर्थैश्चशव्दादिभिर्भोग्यैःसन्निकर्षेसत्यपिसर्वेषांदेवानामिंद्रियाणांयस्मान्नप्रवृत्तिः|अपितुकस्य पृ० ९१अ) चिदेवातोयत्तदिंद्रियंप्रवृत्तंतस्यप्रवृत्तौकारकमस्तीतियुक्तितोनुमानादवसीयते|यदाहुः|युगपद्ज्ञानानुत्पत्तिर्मनसोलिं गमिति|सर्वदैवेतिपाठेइंद्रियार्थसन्निकर्षेसत्यपिकदाचिदेवेंद्रियाण्यर्थग्रहेप्रवर्त्तंते|नसर्वदाततोनूनमेषांप्रवर्त्तकंकिमप्य स्ति|यद्विनानप्रवर्त्तंतितिव्याख्येयं|अपिसमुच्चये|नपरमागमोमनःसत्तावेदकोयावद्युक्तिरपीत्यर्थः|एवंचसति|तत्वां तरोक्तवृत्तिभ्योवैलक्षण्याद्विलक्षणं|संकल्पोवीजमभ्येतिमनस्तत्पारिशेष्यतः|तत्वांतराणांकलारागविद्यादीनामु क्तायावृत्तयोव्यापाराःताभ्यस्तावद्वैलक्षण्यं|संकल्पनाख्यस्यकर्मणोस्तिविलक्षणश्चायंसंकल्पोवीजमुद्भवहेतुं गमयति|ज्ञापयति|पारिशेष्याच्चमनस्तद्विज्ञेयं|ज्ञानंतदक्षयोगात्तत्क्रमयोगितयाक्रमात्|तथाप्याभातियुगपन्नाशु संचरणादृते|तस्यमनसोऽक्षैर्योगाद्ज्ञानमुत्पद्यते|तच्चक्रमयोगितयाक्रमिकं|यथारूपानुभवकालेनस्पर्शनानुभुवः|र साद्यनुभवोवायद्यपिस्वादुसुरभ्यभिजातमर्मरशव्दवदभिरूपंचद्राद्यिष्ठशष्कुल्यादिकमास्वाद्यमानंयुगपत्पंचद्ज्ञानोत्पाद पृ० ९१ब) हेतुस्तथाप्युत्पलपत्रशतव्यक्तिभेदवदलक्ष्यसूक्ष्मक्रमाणिक्रमिकाण्येवतानिरसादिज्ञानानि|एतच्चशीघ्रसंचारितांवि नाययुगपन्मनसःपंचज्ञानोत्पादनंनाभातिनप्रकाशते|भौतिकेंद्रियवाद्यभिप्रायेणाहंकारित्वमिंद्रियाणामाक्षेप्तुमा ह|नियतार्थतयाक्षाणिनानायोनीनिकस्यचित्|गंधादिव्यंजकत्वाच्चतदाधारात्मकान्यपि|शव्दैकग्राहकंश्रोत्रंस्पर्शैक ग्राहिणीत्वगिति|अन्यान्यपिनियतार्थतयाहेतुभूततयाकस्यचिद्वादिनःपक्ष्येक्षाणींद्रियाणिभिन्नकारणानिआहंकारि कत्वेहिनैषांनियतार्थत्वंस्यात्|गंधादिव्यंजकत्वाच्चहेतोस्तेषांगंधादीनामाधाराआश्रयाःपृथिव्यादयःतदाधारा त्मकानिदृष्टंहिपार्थिवमेवद्रव्यंगंधव्यंजकंघ्राणंचगंधस्यग्राहकंतस्मात्पार्थिवंघ्राणमाप्यंरसनंतैजसंचक्षुरित्येव मन्यत्|तत्किंयुक्तंनचेत्याह|तथास्तुयदिनादत्तेसगुणंकारणांतरं|त्वगिंद्रियमयुक्तार्थग्राहियुक्तपराङ्मुखं|तेजो वारिमहीद्रव्यंदृगादत्तेसरूपकं|ततस्त्रिद्रव्यजासास्यान्नपरेणेष्यतेतथा|एकैकमिंद्रियंस्वकारणादन्यत्कारणांतरं पृ० ९२अ) गुणसहितंयदिनादत्तेनगृह्णातितत्तथास्तु|अयमर्थः|यदींद्रियंस्वकारणसमानजातीयंद्रव्यंतद्गुणंचगृह्णीयात्तदानीं विषयनियमःप्रकृतिनियमगमकिष्यते|यावताद्रव्यांतराणितद्गुणांश्चगृह्णाति|तस्मान्ननियतार्थतयाप्रकृतिगमक त्वमक्षाणामुपपन्नं|अथकिंतदनैयत्यमित्याहत्वगिंद्रियमित्यादि|तथाहित्वगिंद्रियंयुक्तस्यस्वकारणत्वाद्गृहीतुमुपप न्नस्यपराङ्मुखंनस्यात्|तदातदेवतत्परत्वेनगृह्णीयात्स्वकारणादन्यत्वेनचायुक्तग्रहणानांपृथिव्यप्तेजसामर्थानांगृ हीतृतत्कथंविषयनियमसिद्धिः|तथादृक्दृष्टिः|तेजोद्रव्यंपृथिवीद्रव्यंचभिन्नरूपंगृह्णाति|अतश्चसादृक्त्रिद्रव्य ताभवेत्|नचास्यास्त्रिद्रव्यजत्वंपरेणेष्यते|तैजसत्वेनाभ्युपगमात्|किंचयेनोपलभ्यतेयोर्थःसतस्यार्थस्यकारणं|न प्राप्तमपिकर्मादिसेयंव्यसनसंततिः|भवत्पक्षेयेनेंद्रियेणयोगंधाश्रयःपृथिव्यादिरुपलभ्यतेसपृथिव्यादिस्तस्य कारणमित्यभ्युपगमः|तथाचसतिभूतेषुतद्गुणेष्वेवचिंद्रियेभ्यःप्रतीतयःस्युः|कर्मसामान्यसमवत्यादितद्रव्येभ्योगु पृ० ९२ब) णेभ्यश्चपदार्थांतरं|नचतदात्मकान्पक्षाणि|तस्मात्कर्मादेरक्षैर्ग्रहणंनप्राप्तं|उक्तंचखेटकनंदनेन|भौतिकत्वाच्चनियमे कर्मसामान्ययोःस्फुटं|देवेभ्योवुद्धयोनस्युःसमवायेचदेहिनामिति|सेयंप्रकृतिनियमगमकेविषयनियमेंगीक्रिय माणेनिष्फलाक्लेशपरंपराप्रसज्यते|तस्माद्विषयाणामिंद्रियाणांचभवदभिमतग्राह्यग्राहकनियमासंभवान्नक्षित्या दिप्रकृतिनियमसिद्धिरित्याहंकारिकाण्येवेंद्रियाणीतिसिद्धं|अभ्युगम्यापिब्रूमः|कर्णरंध्रविशिष्टंखंशव्दवर्गावभा सकं|नासारंध्रविशिष्टंतद्ध्रूतकेननिवार्यते|तददृष्टावरुद्धंवातदप्यन्यत्रकिंकृतं|प्राप्तंगृह्णातिनातोद्येशप्तंकेना पिदस्युना|नियतविषयत्वेप्यक्षाणामिदंताववद्भवान्पृष्टोव्याचष्टां|यदिकर्णरंध्रविशिष्टोनभोभागःशव्दवर्गस्येत्य नेकविधस्यशव्दस्यद्योतकः|तन्नासारंध्रादिछिद्रांतरंतथाविधत्वादुच्यतां|केनतद्ग्रहणंनिवार्यते|अथात्रादृष्टंपुरु षार्थप्रदंकर्माख्यमस्तियेनश्रोत्रनभोभागेवशव्दवर्गावभासकोननासारंध्रादिरितिनियमः|तर्हितदपीतितथा पृ० ९३अ) प्यन्यत्रेतिअस्मिन्पक्षेपितथात्वाभ्युपगमस्यकाक्षतिः|तत्रहिकिंकृतंकोवाधकोजातः|आनाहंकारिकत्वेसत्यप्यदृष्टावरुद्ध त्वस्यकोदोषित्यर्थः|अन्यथाह्यातोद्येतंत्रीषंशमुरजादिवाद्येप्राप्तमपिआस्यनासारंध्रसन्निकर्षस्थमपिशब्दंतदास्यरं ध्रंघ्राणछिद्रंवाकिंकेनापिदस्युनादुराचारेणशप्तत्वाछव्दंनगृह्णातीतिकाक्वाव्याख्येयं|एतच्चप्रोक्तवद्युक्त्युपपन्नं|य त्रापिचयुक्तिर्गमिकानसंभवतितत्र|युक्त्यगम्येपिसद्वाक्यात्प्रतीतिरनुपद्रवा|मितार्थादमितार्थस्यज्यायस्त्वमितिसू रयः|असंभवद्युक्तिकेपिवस्तुनिसदागमोक्तेःप्रतीतिरवगमोनिर्वाधःकुतित्याह|मितार्थादिति|यस्माल्लिंगसापे क्षत्वेनपरिमितार्थादनुमानात्सर्वदर्शिज्ञानस्यागमरूपस्यापरिमितार्थत्वेनज्यायस्त्वमित्यागमविदः|मात्राभ्योभूतपं चकमितियदुपक्रांतंतद्विशेषयितुमाह|व्योमप्रभंजनाग्न्यंवुभूमयोभूतपंचकं|शव्दाद्येकोत्तरगुणमवकाशादिवृत्ति मत्|धूननज्वलनप्लावखरत्वावेदिनोगुणाः|शव्दावाद्यादिषुव्योम्निसवर्णप्रतिशव्दगाः|आकाशोवायुर्वह्निर्जलंपृ पृ० ९३ब) थिवीतिभूतपंचकं|एतच्चशव्दाद्येकोत्तरगुणंशव्दादयेकोत्तरगुणायस्यतदेवं|तेनशव्दैकगुणमाकाशंशव्दस्पर्शगुणो वायुः|शव्दस्पर्शरूपगुणोग्निः|शव्दस्पर्शरूपरसगुणंजलं|शव्दादिपंचगुणापृथिवीतिवक्ष्यमाणावकाशादिवृत्ति युक्तंचैतद्ज्ञेयं|एतेवाद्यादिषुगुणाःशव्दास्तेधूननत्वलनाद्यावेदिनः|यतःशकशकादिशव्दोवायौकंपनावेद कः|धकमधकमादिशव्दोग्नौज्वलनंसूचयति|एवंचछलचछलादिशव्दोंभसिवहनंखडखडादिशव्दात्मकश्चपृ थिव्यांखरत्वंकथयति|एतेचशव्दाएतेषांपरस्पराहतिवशादुत्पन्नाः|व्योम्निआकाशेसवर्णंसमानाक्षरंप्रतिशव्दंगा यंतीति|सवर्णप्रतिशव्दगाभवंतीतिशेषः|तदुक्तंभोगकारिकासु|शव्दस्तत्द्रव्यजनितःपृथग्भूतचतुष्टये|प्रतिश व्दकसंघातोनभस्येवोदितोवुधैरिति|अवकाशादिवृत्तिमदितिभूतपंचकस्यसामान्यंयद्विशेषणमुक्तंतद्विभज्यवक्तु माह|व्यूहोवकाशदानंचपक्तिसंग्रहधारणाः|वायुव्योमहुताशांवुधरणीनांचवृत्तयः|व्यूहोविरचनं|वायोर्वृत्तिः|अ पृ० ९४अ) वकाशस्यास्यदस्यदानंव्योम्नोव्यापारः|पक्तिःपाकःतेजसः|संग्रहोऽवष्टंभोंऽभसां|धारणंधृतिर्धरण्याः|अत्रमुनिर्वैशे षिकत्छाययाप्रश्रयति|शव्दःखगुणेवेतितदन्यत्रोपलब्धितः|व्रुवतेभगवन्केचित्सर्वभूतगुणःकथं|भोगवन्य तोभेर्यादेरुत्पद्यतेतदन्यत्रोपलंभात्खगुणित्याकाशगुणेवशव्दुपपद्यते|आश्रयादन्यत्रोपलव्धेर्नस्पर्शवद्विशे षगुणित्यर्थः|अतश्चकथमयंसर्वभूतगुणुच्यते|अत्रोच्यतेक्वान्यत्रश्रवणाकाशेकथमन्यत्रतद्गुणः|पदेष्टादाश्रया त्तत्रनिर्णेतानुभवोनृणां|आश्रयादन्यत्रोपलव्धितितियदुक्तंतत्क्वान्यत्रयदिश्रवणाकाशित्यभिमतंतत्तद्गुण श्चान्यत्रवेतिकथं|अयमाशयः|तदित्याकाशपरामर्शः|तद्गुणःसन्श्रोत्राकाशुपलभ्यमानःकथमन्यत्रेत्युच्य ते|अथपरेष्टादाश्रयादित्यभिमतं|नतद्युक्तं|अत्रह्यनुभवःपुंसांसंवंधीनिश्चायकः|शव्दाश्रयेवशव्दुपलभ्यते| तथाहि|इहमुरजेशव्दिहवीणायांशव्दितिप्रतीतिः|कदाचित्त्कर्णमूलेपिसंविदित्यथमन्यसे|श्रोत्रवृत्तिवदस्यापिप पृ० ९४ब) रिणामोस्तुकाक्षतिः|अथमन्यसेकदाचित्कर्णमूलेपिसंविद्भवतीति|किंचातः|किमेतावताआकाशैकगुणत्वं शव्दस्यसिद्ध्यतिश्रोत्रवृत्तिवद्वीचीतरंगवृत्यास्यापिइतिशव्दस्यपरिणामात्छ्रोत्रनिकटेपिकदाचिदुपलंभोस्तु|नचैता वताकाचित्क्षतिः|नवप्रत्यक्षागमव्याहताहेतवोर्थंगमयंतिहेत्वाभासत्वात्|यथासेव्यंनरशिरःकपालंशुचित्वाज्जा ड्यजनकोग्निरनुष्णत्वादित्यादौतदाह|आगमाध्यक्षविहताहेतवोनार्थसाधकाः|कालात्ययापदिष्टत्वादितिन्यायवि दोविदुः|आ गमेनितिपंचसुशव्दोयमित्यादिनाप्रत्यक्षेणस्पर्शवद्विशेषगुणत्वानुभवात्मकेनयेषांबाधःसंभवति तेहेतवःकालात्ययापदिष्टत्वान्नार्थसाधकाभवंतीतिन्यायविदोमन्यंते|यदिचाश्रयादन्यत्रोपलव्धेराकाशगुणत्वं शव्दस्योच्यतेतदानींइत्यपिस्थितमेव|इदमपिप्रसज्यतित्यर्थः|किंतदित्याह|अयंगंधोप्यस्तुनभोगुणः|येनकेतक पुष्पादेर्वैकष्ट्येप्युपलभ्यते|आश्रयादन्यत्रोपलव्धेरयंगंधोप्याकाशगुणित्यवश्यंस्थितं|यतःकेतकीचंपककुसुमादेर पृ० ९५अ) र्विप्रकृष्टत्वेपिअनुभूयतेगंधोस्यचप्रत्यक्षेणागमेनवायथावाधस्तथाप्रागुक्तस्याश्रयादन्यत्रोपलव्धेरित्यस्यहेतोर्हेत्व वरत्वमितितात्पर्यं|उपसंहरन्भूतचतुष्टयगुणविशेषानाह|इतिपंचसुशव्दोयंस्पर्शोभूतचतुष्टये|अशीतोष्णोमही वाद्योःशीतोष्णौवारितेजसोः|भास्वदग्नौजलेशुक्लंक्षितौशुक्लाद्यनेकधा|रूपंत्रिषुरसोंभःसुमधुरःषड्विधःक्षि तौ|गंधःक्षितावसुरभिःसुरभिश्चमतोवुधैः|इत्यनयोक्तयायुक्त्यापंचसुभूतेष्वयंशव्दः|एष्वेवाकाशवर्जितेस्पर्शः| तत्रमह्यांवायौचाशीतोष्णः|अंभसिशीतेव|तेजस्युष्णेव|रूपंत्रिष्विति|पृथिव्यप्तेजस्वेव|तत्राग्नौभासुरंप्र दीप्तं|जलेशुक्लं|क्षितौशुक्लाद्यनेकविधं|रसःक्षित्यंभसोः|तत्राप्यंभसिमधुरः|क्षितौकट्वम्ललवणतिक्तम धुरकषायाः|गंधःपृथिव्यांसुरभ्यसुरभिरूपोविद्वद्भिरिष्टः|अथयथैषांभूतानांशरीरसन्निविष्टत्वं|तथोच्यते|दे हेस्थिमांसकेशत्वङ्नखदंतेषुचावनिः|मूत्ररक्तकफस्वेदशुक्लादौवारिसंस्थितं|हृदिपक्तौदृशोःपित्तेतेजस्तद्धर्मदर्श पृ० ९५ब) नात्|प्राणादिवृत्तिभेदेननभस्वानुक्तेवते|गनावृत्त्यनुषंगेणखंसमस्तासुनाडिषु|अस्थिमांसादौपृथिवीभौतिके शरीरेवस्थिता|अत्ररक्तादौजलं|हृत्प्रदेशेपक्तौपाकक्रियायामन्नपानेंधनमौदर्यंतेजस्तस्मिन्दृशोःपित्तेचतत्स्थितं| तद्धर्मदर्शनादित्येकैकस्मिन्योज्यं|तत्रहृदितद्धर्मस्यौष्ण्यस्यपक्तौतद्धर्मस्यपाकस्यदृशोःप्रकाशस्यपित्तेचसंतापौ ज्वल्यादैरुपलंभात्तेजःसन्निविष्टंप्राणापानादिवृत्तिभेदेनवायुर्यथावस्थानावस्थितःतथाचतवोक्तमेवेतिवक्ताश्रो तारंभरद्वाजंमुनिंस्मारयति|यदुक्तंप्राक्|वृत्तिःप्रणयनंनामयत्तज्जीवनमुच्यतिति|सर्वासुचनाडीष्वाकाशंगर्ववृ त्यनुषंगेणेत्यहंकारव्यापारानुषंगात्स्थितं|इदानींततःकलादिक्षित्यंततत्वव्रातंसूक्ष्मदेहारंभकत्वेनवक्तुमाह०प्र योक्त्र्यादिमहीप्रांतमेतदण्वर्थसाधनं|प्रत्यात्मनियतंभोगभेदतोव्यवसीयते|प्रयोजयतिक्रियाशक्त्युत्तेजनेनपु मांसमितिप्रयोक्त्रीकला|तदादिक्षित्यंतंचैतत्तत्वर्वृदंपुमर्थसाधनमेकैकस्यात्मनोनियतमसाधारणं|भोगभेदात्प्र पृ० ९६अ) तीयतेसाधारणत्वेभोगभेदानुपपत्तेः|ननुभोगभेदेकर्मणोनिमित्तत्वमित्युक्तं|सत्यं|किंतुनसाक्षातपितुपारंपर्येण|तथा हिकर्मकृतस्तत्वशरीरभेदस्तद्भेदकृतंचभोगवैचित्र्यमित्यदोषः|सतुभोगभेदः|करिनरतुरगादिभेदभिन्नःसूक्ष्मशरीरवैचि त्र्यंविनानभवतीत्यत्रापिकर्मणेवहेतुतेतिनकश्चिद्दोषः|एतच्चसूक्ष्मशरीरं|सर्वतोयुगपद्वृत्तेरनुत्पादादंसर्वगं|भि न्नजातीयमप्येकफलंदीपांगवस्तुवत्|यद्येतत्सर्वगंविभुस्यात्तत्सर्वत्रयौगपद्येनवृत्युत्पादोभवेत्|नचैवं|यावता क्वचिदेकदेशेवैतद्वृत्तेः कर्मफलोपभोगलक्षणायाःसमुत्पादोभिन्नजातीयमनेककलादिप्रत्युद्भूतमपिचैतद्दीपां गवस्तुवदेकफलं|यथाभिन्नकारणजन्यतैलपात्रवह्निवर्त्त्यादिवस्तुतमोनिवृत्तिलक्षणैकार्थसाधकमेवंतन्मात्र महदहंकारकलाद्युद्भवमप्येतत्कर्मोपभोगफलंज्ञेयं|अथव्याख्यातार्थोपसंहारायप्रकरणांतरोपक्रमायचश्लोकः| इत्यातिवाहिकमिदंवपुरस्यजंतोश्चित्संगचिद्गहनगर्भविवर्त्तिलेशात्|नैतावतालमितिभौवनतत्वपङ्तिमाधारदेह पृ० ९६ब) विषयाभ्युदयायवक्ष्ये|इत्थमिदमस्यसंसारिणोजंतोरतिवाहयत्यवश्यंभोग्यंकर्मेत्यातिवाहिकंवपुर्लेशात्संक्षेपादुक्तमिति शेषः|कीदृशं|चित्संगात्चित्संश्लेषवशात्चितचिदपिचैतन्यावियुक्तत्त्वाच्चिद्रूपमि त्यर्थः|गहनंमायातद्गर्भेविव र्त्ततेतछालमितिगहनगर्भविवर्त्ति|एतावताचनपयग्निमितिकृत्वाभोग्याश्रयभूतांभौवनतत्वपङ्तिवक्ष्ये|किमर्थमि त्याह|आधारदेहविषयाभ्युदयाय|सूक्ष्मशरीरस्याधारोयोभौतिकोदेहस्तस्ययोवैषयिकोभ्युदयःस्रक्चंदनाद्युपभोग स्वरूपः|तदर्थं|यद्वा|आधार(आधारश्चदेहाश्चविषयाश्चतेषांअभ्युदयायुत्पत्तये)आश्रयोदेहाःस्थूलास्तत्तद्भुवनजाःविषयाइंद्रियार्थास्तेषामभ्युदयायोत्पत्तयेभौवनत त्वपङ्तिवक्ष्ये|यतस्तत्वभुवनसंततावाश्रयभूतायांदेहवैचित्र्यंभोगवैचित्र्यंचदीक्षायामवश्यंज्ञेयं|यत्तदग्रेवक्तुमिष्टं| भट्टविद्याकंठात्मजभट्टनारायणकंठविरचितायांमृगेंद्रवृत्तावहंकारादिकार्यविचारप्रकरणंद्वादशं अथोक्तार्थप्र सिद्ध्यर्थमित्यादिनाभुवनादिवर्णनंप्राक्तनप्रकरणांतसूचितंससंवंधप्रयोजनंप्रस्तौति|अथोक्तार्थप्रसिद्ध्यर्थंभुवनादि पृ० ९७अ) विनिर्ममे|साधारणोभ्योयोनिभ्यःकलादिभ्योमहेश्वरः|अथोक्तेत्यशुद्धात्मनांनिरतिशयश्रेयःप्रतिवंधककर्मपाशप्रशमाय तत्तद्भोगसाधन(तत्तद्भोगसाध नानितनवःशरीराणिकरणानिइंद्रियाणिभुवनानिचतेषांसिसृक्षासृष्टुंइछातस्यानंतरं)तनुकरणभुवनसिसृक्षाऽतोनंतरंमहेश्वरोनंतेशनाथःउक्तस्यसंसारिणोर्भोगलक्षणस्यार्थस्यप्रकर्षेणसा कल्पेनसिद्ध्यर्थनिष्पादनायसाधारणेभ्यःकलादिभ्यःप्रकृतिभ्योभुवनानिरचयांचक्रे|रचनाचैषांनप्रागभाववतामुत्प त्तिरपितुसत्कार्यवादप्रकरणोक्तवछक्त्यात्मना(बीजात्मना)स्थितानांव्यक्तरूपतयास्वकारणादभिव्यक्तिः|तानिकालानलादी निकलाप्रांतानिमंडलं|सांसारमितितत्वज्ञाभोगस्थानंप्रचक्षते|तानिचकालाग्निभुवनादीनिकलाभुवनांतानि एतच्चभोगस्थानंसंसारमंडलंपरमार्थविदःकथयंति|प्राक्प्रोक्तंसकलंभोग्यंभुवनजातंकलादिभ्योज्योतिभ्योजायते |नतुमायातः|तस्याःश्रीमत्स्वायंभुवादावकार्यत्वश्रुतेः|(अकार्यत्वश्रुतेः)सन्निवेशवतीत्वेभोग्यत्वाभ्युपगमेचभोग्यस्यसंनिवेशवतो घटादेरिवानित्यत्वप्रसंगभयादसन्निवेशवतीत्वमभोग्यत्वंचावश्यमंगीकार्यं|ननुपुंसोमायायद्यभोग्यातर्हितत्कार्य पृ० ९७ब) व्यतिरेकेणान्यस्यभोग्यस्यासंभवान्नकिंचिद्भोग्यमित्यभोक्तैवपुरुषःप्रसक्तः|सत्यं|किंतुकार्यंतदीयंव्यक्तरूपतयाऽवस्थि तं|तदस्यभोग्यंनत्वसौशक्तिमात्ररूपत्वात्तस्या(मायावीजरूपत्वात्)इत्युक्तं|यद्येवंतद्गर्भेतत्तद्भुवनविशेषश्रुतेर्भुवनानांचसन्निवेशविशिष्टतां विनाभुवनत्वायोगान्मायातत्वस्यापिसन्निवेशवत्वंप्रसक्तमित्याह|मायायामपिपठ्यंतेगहनेशादयोधिपाः|तत्वशुद्धि श्चदीक्षायांसर्वंतत्कृतिमस्तके|नित्यत्वव्यापकत्वादिश्रवणादवसीयते|द्रष्टंपुरादियद्भोग्यंमूर्त्तंप्रलयधर्मच|यद्यपि मायातत्वेमंडलेश्वरगहनेश्वरादयो(मंडलेशाभिन्नाःगहनेश्वराश्चभिन्नाः)रुद्राभुवनाधिवासिनःपठ्यंते|यद्वक्ष्यति|ध्रुवतेजोधिपौरुद्रौगहनेशश्चसर्वराट्| मायाधिकारिणोरुद्रामंडलाधिपतीश्वराइति|दीक्षायामपितत्वशुद्धिर्मायातत्वस्थत्वेनयद्यपिक्रियापादेभिधा स्यते|तथापिनतत्तस्याःसन्निवेशविशिष्टतामापादयति|किंतुतानितत्तत्वस्थत्वेनोक्तानिभुवनानितन्निवासिन श्चमंडलेश्वराइत्येतत्सर्वंतत्कृतेस्तत्कार्यभूतायाःकलायामस्तकेज्ञेयं|शक्तिरूपायामायायाःप्रथमाव्यक्तिःकलात पृ० ९८अ) न्मूर्द्धन्येतत्सर्वंस्थितमित्यर्थः|कुतेतद्ज्ञायतित्याह|नित्यत्वव्यापकत्वादित्यादियतोनित्यत्वंव्यापकत्वंचास्याप्रागुपपादि तमागमेषुश्रूयते|यदिचभुवनगर्भत्वमस्यास्तदासन्निवेशवतीस्यात्तथाचसतिअव्यापिकाविनश्वरीचभवेतत्रापिहेतुमा ह|दृष्टंपुरादीत्यादियद्यस्मात्कारणाद्दृष्टंदृश्यमानंचपुरप्राकारादियत्तद्भोग्यत्वेसतिमूर्त्तंप्रलयघर्मिचदृष्टं|अस्याश्चसन्निवेशवं तिभुवनानिगर्भेस्थितानिभोग्यत्वंचयदिसाक्षादंगीक्रियतेतदामूर्त्तत्वंविनश्वरत्वंचप्रसज्यतितितत्कार्यस्यैवकलादेर्व्यक्तरू पस्यभुवनयोगित्वेसतिनकश्चिद्दोषः|एषेवचन्यायोमहामायाख्यायांशुद्धविद्यायामप्यनुसर्त्तव्यित्याह|शुद्धाध्वन्यपि मायायाःपरस्याःपतयःकृतौ|येतस्यामपिपठ्यंतेतेपितत्कृतिमस्तके|शुद्धेध्वनिपरस्याःशुद्धविद्याख्यायामायाव्यपदेशः |तथाचोक्तंश्रीमद्रौरवे|मायोपरिमहामायेति|तत्रकृतौकरणीयेस्वेस्वेधिकारेयेधिकृतास्तेपितत्कार्यमूर्ध्निश्रीमन्म तंगाद्युक्तक्रमेणस्थितावगंतव्याः|इदानींमधस्तादर्द्ध्वैकदेशवर्त्तिनोव्रह्मांडस्यविस्तारोछ्रायौतद्गतभुवनप्रमाणंचवक्तुं पृ० ९८ब) योजनप्रमाणंपरमाण्वादिक्रमेणवर्णयति|रजोविलोक्यतेतिर्यक्जालाविष्टार्करोचिषां|तदष्टाष्टगुणस्थानेतृतीयेस्या त्कचाग्रकं|लिंक्षापूकाययोप्येवमंगुलंतत्त्रिसंगुणैः|तैरेवगुणितंपाणिर्धनुस्तद्वेदलक्षितं|दंडोद्वेधनुषीज्ञेयःक्रोशस्तत्तद्धि सहस्रिकं|द्विक्रोशमाहुर्गव्यूतिंद्विगव्यूतिंचयोजनं|कपालमर्बुदंस्थौल्यात्व्रह्मणोंडस्ययोजनैः|आदित्यभासांत्तिर्यग्जा लांतरप्रविष्टानांसतांसूक्ष्मतमंयद्रजोदृश्यतेतदष्टगुणीकृत्यतत्प्रमाणं|पुनरष्टगुणितंकार्यंयावत्तृतीयेस्थानेकचा ग्रकंनामप्रमाणंभवति|उक्तंचश्रीमत्स्वतंत्रे|अष्टानांपरमाणूनांसमवायोयदाभवेत्|त्रसरेणुस्तदाख्यातस्तत्पद्मरजु च्यते|त्रसरेण्वष्टकंदेविवालाग्रंतद्विधीयतेइति|तैरष्टभिःकचाग्रैर्लिक्षा|तदष्टकेनयूका|ताभिरष्टाभिर्यवोज्ञेयः|एव मितियवाष्टकेनांगुलं|तत्त्रिसंगुणितैस्तैरेवगुणितंपाणिः|तदंगुलंतैरेवेत्यष्टभिस्त्रिगुणितैश्चतुर्विंशत्यंगुलैर्गुणि तं|सतुपाणिर्हस्तोभवति|वेदशव्दस्यचतुःसंख्यालक्षकत्वात्तेषांपाणीनांचतुष्केणलक्षितंधनुःसंज्ञंप्रमाणंवोद्धव्यं| पृ० ९९अ) धनुर्द्वयेनदंडोदंडसहस्रद्वयेनक्रोशः|क्रोशद्वयेनगव्यूतिः|तत्द्वयंचयोजनं|एषांयोजनानामर्वुदंकोटिविस्तृतंव्रह्मां डकपालंज्ञेयं|तस्यांतःकांचनंधामकालाग्नेस्तावदेवहि|यत्रांतकालतीक्ष्णांशुकोटितेजास्तथाविधैः|रुद्रैरास्तेवृतोदेवः कालाग्निरितिविश्रुतः|सर्वाध्ववर्त्तिभूतानांयस्मिन्नुद्धृत्ततेजसि|भयमुत्पद्यतेशक्त्यासंहर्त्र्याचोदितेप्रभौः|तस्येतिव्र ह्मांडस्यांतः|कालाग्नेःसौवर्णंगृहंकोटिः|यत्रगृहेकल्पांतार्ककोटिसमदीप्तिस्तथाविधानेकरुद्रावृतःकालाग्नि स्तिष्ठति|यस्मिन्पारमेश्वर्यासंहर्त्र्याख्ययाशक्त्याक्षयायप्रेरितेउद्दीपितेतेजसिसमस्ताध्ववर्त्तिनांभूतानांत्रासःसंजायते |तस्यस्वभावतोज्वालाःप्रवृत्तादशकोटयः|योजनानांतदर्द्धेनधूमःसांद्रःसुदारुणः|प्रकृत्यातज्ज्वालादशकोटिप्रमा णाधूमाःपंचकोट्यःसांद्रोद्यनोदारुणोदुःसहः|ततःपुटास्त्रयस्त्रिंशद्दशलक्षोनकोटिकाः|तदंतराणिद्वात्रिंशल्लक्ष काणिदुरात्मनांस्थानानियातनाहेतोर्निर्मितान्यध्ववेधसा|ततोनंतरंनाकविस्ताररूपास्त्रयस्त्रिंशत्युष्टःप्रत्येकंनवति पृ० ९९ब) लक्षाणितदंतराणिद्वात्रिंशत्|तेभ्येकैकंलक्षप्रमाणं|एतानिपापीयसांपातनार्थंकृतान्यध्ववेधसाभुवनाध्वस्रष्टाऽनंते शेन|तानितेनामभिर्वक्ष्येद्विजमुख्यनिवोधमे|रौरवध्वांतशीतोष्णसंतापाव्जमहांवुजाः|कालसूत्राष्टमाह्येतेनरकाइति विश्रुताः|अथमहानरकाणामष्टानांसंज्ञाः|सूच्यास्यकालखड्गाख्यक्षुरधारांवरीषकाः|तसांगारामहादाहःसंतापा श्चेतियेमुनेभवंत्यष्टौसुवीभत्सामहाशव्दपदानुगाः|सुवीभत्सातिभयानकाःमहाशव्दस्यपदंनरकमित्याख्यारूपमनु गतंयेषांमहानरकसंज्ञाइत्यर्थः|अथनरकराजाष्टकं|लाक्षाप्रलेपमांसादनिरुछ्वासनसोछ्वसाः|युग्माद्रिशाल्मली लोहप्रदीप्तक्षुत्पिपासकाः|कृमीणांनिचयश्चेतिराजानःपरिकीर्त्तिताः|अथलोहस्तंभेत्यादिनाराजराजेश्वरेश्वराष्टक संज्ञाउच्यंते|लोहस्तंभोथविण्मूत्रस्तथावैतरणीनदी|तामिस्रश्चांधतामिस्रःकुंभीपाकःसरौरवः|महापदानुगोवीचीरा जराजेश्वरे श्वराः|अथैषांपुटानांसांतरालानांसंख्यांकलयितुमाह|एषांपुटानांनरकैःसार्द्धंयोजनसंख्यया|भवंतिको पृ० १००अ) टयस्त्रिंशत्द्वेचलक्षेद्विजोत्तम|त्रिंशद्योजनकोट्योलक्षद्वयंचेतित्रयस्त्रिंशत्पुटानांसांतरालानांप्रमाणं|ततस्त्रिंशत्सहस्रा णित्यक्त्वाभूर्नवलाक्षिकीभवत्ययोमप्यर्द्धेनपूर्वेणार्द्धेनकांचनी|ततोनंतरंत्रिंशत्सहस्राणियोजनानांत्यक्त्वानवलक्ष प्रमाणाभूःपूर्वेणार्द्धेनहेममयीअपरेणत्वयोमयी|योप्यधस्तात्पुटस्तस्यामृदर्द्धंचार्द्धमायसं|तत्रद्वात्रिंशतोमीषांनिर याणांपतिस्थितः|कूष्मांडितिविख्यातः प्रलयार्कानलद्युतिःकरालवदनःक्रुद्धोवृत्तकोटरलोचनः|टंकपाणिस्त थाभूतैभूतैर्भूयोभिरावृत्तः|अनंतरोक्तायानवलाक्षिक्याभुवोहैमात्पुटादधस्थोयोयोमयःपुटःतस्याप्यर्द्धंपार्थिवंअ र्द्धंत्वायसं|तत्रचामीषांप्रागुक्तानांनरकाणांद्वात्रिंशतोस्येशःकूष्मांडाख्यःकरालवदनत्वादिविशेषणविशिष्ट स्तथाविधैर्भूतैःपरिवृतास्तेवृत्तकोटराणिपरिवर्त्तुलगर्भाणिसतारकत्वाल्लोचनानियस्यसेवं|टंकःप्रागुक्तःपर शुः|अयोरूक्मपुटादूर्ध्वमष्टमीयंवसुंधरा|साहस्राःषट्परामध्याव्यर्कलक्षत्रिकोटिकी|वसत्योनवसादस्राःपरादशस पृ० १००ब) हस्रिकी|तदासांसप्तकंसद्भिःख्यातंपातालसप्तकं|कांचनमायसंचयत्पुटद्वयमुक्तंततोनंतरमियंवसुंधराभूमिरष्टमी यस्यांवयमास्थिताःएतद्व्यतिरिक्ताश्चान्याःषड्भूमयःसहस्रप्रमाणाः|अस्यास्तासांचषण्णांयामध्येभवामध्यासप्तमीभूमिः |साविगतद्वादशकलक्षकोटित्रयप्रमाणा|द्वेकोट्यावष्टाशीतिश्चलक्षाणीत्यर्थः|एतस्यभूमिपृष्ठकस्यांतरालेवस त्यास्पदान्येकैकंनवसहस्रप्रमाणकानि|परेत्यूर्ध्ववर्त्तिनीयावसतिर्वक्ष्यमाणसहस्रयोजनप्रमाणकांचनास्पदहाट केशाधिष्ठानभूतासादशसहस्रा|आसांचवसतीनांसप्तकंतत्सप्तपातालमितिविद्वद्भिरुक्तं|तत्रामतोधिपतितु च्यमानंनिवोधमे|आभासंपरतालाख्यंत्रितलंचगभस्तिमत्|महातलंरसांकंचपातालंसप्तमंमुने|इत्थंनामतुक्त्वा धिपतीन्कथयति|सप्तस्वेतेषुदैर्त्येंद्रभुजंगक्षणदाचराः|सप्तसप्तसमाख्यातास्तानप्यथनिवोधमे|एकैकस्मिन्दैत्यें द्रोनागोराक्षसश्चैतेषुसप्तसप्तकथितास्तांश्चुच्यमानान्वुध्यस्व|दैत्याःशंकुश्रुतिःपूर्वेप्रह्लादःशिशुपालकःकर्कंधु पृ० १०१अ) कोहिरण्याक्षोवृहद्गर्भोबलिस्तथा|इतिसप्तसुदैत्यसप्तकं|नागानाह|काद्रवेयाःकुटिलकोवासुकिःकंवलस्तथा|का र्कोटकोथकालांगोदुर्दर्शस्तक्षकस्तथा|कड्वापत्यानिकाद्रवेयाः|अथनागांनंतरोपक्रांतंरक्षःसप्तकं|विकटोलोहिता क्षश्चयमाख्योविकटाननः|करालोभीमनिर्ह्रादःपिंगलश्चेतिराक्षसाः|अथहाटकेशभुवनं|तेषामुपरिनिःशेषपाता लाधिपतीश्वराः|साहस्रेकांचनेधाममंडलेहाटकेस्थितः|यंस्तुवंतिप्रियप्राप्त्यैयतायतिविभूषणैः|दैत्यपक्षःसुराही शललनाललितैःपदैः|तेषांपातालानामूर्ध्वंतदीश्वरोहाटकेशःस्थितः|यंभगवंतंदानवगुह्यकदेवनागांगनाःसुं दरैःस्तुतिपदैःस्तुवंति|कीदृश्यस्ताइत्याह|यताःप्रयताःकिंभूतैःपदैस्तुवंतिपतिविभूषणैः|पतिर्द्रुतमध्यवि लंवितरूपापरिपाटी|सैवभूषणंयेषांस्तुतिपादानांतैःगीत्यनुषक्तैश्चाटुभिराराधयंतीत्यर्थः|किमर्थंप्रियप्राप्त्यै| यतस्ताःकामवशीकृताः|ततःकोटिशतंपृथ्वीनानाजनसमाश्रया|द्वीपशैलसरिद्वारिनिधिमंडलमंडिता|ततो पृ० १०१ब) नंतरंविविधजनास्पदावक्ष्यमाणद्वीपजलनिधिवृंदैर्भूषिताभूः|द्वीपानांप्रमाणंसंज्ञांचाह|जंवूशाककुशक्रौंच शाल्मगोमेदपुष्कराः|लक्षादिद्विगुणाद्वीपाःक्षाराद्यन्धिभिरावृताः|वक्ष्यमाणवल्लक्षादारभ्योत्तरोत्तरद्विगुणद्वि गुणमानकःक्षारक्षीरादिस्तत्तत्प्रमाणकैःसमुद्रैःपरिवृताजंव्वादिद्वीपाःसप्त|ततोहिरण्मयीभूमिर्लोकालोक श्चपर्वतः|तमःपरस्ताद्गर्भोदःकटाहश्चेतिभूतलं|पश्चाद्भूमिःकांचनमयीलोकालोकसंज्ञोद्रिः|तद्वहिस्तमः|तत स्तुगर्भोदाख्योव्धिरंडकाटाहश्चेत्येतत्भूतलं|अथैतद्विभागंविस्तरेणज्ञातुमिछन्मुनिःप्रश्रयति|चित्रशैलसरिद्द्वी पकाननोदध्यलंकृतां|पृथ्वींभगवतींशक्रश्रोतुमिछामिविस्तरात्|त्वपिवक्तरिदेवेशसर्वप्रत्यक्षदर्शिनि|निष्ठाज्ञ सिरसाकृष्टंश्रुतौधावतिमेमनः|विविधनगसरिद्द्वीपोपवनार्णवमंडितांभुवंविस्तराछ्रोतुमिछामि|त्वपिकिलसकल प्रत्यक्षदर्शिनिउपदेष्टरिममनिरवशेषज्ञानौत्सुक्याक्षिप्तंचेतःश्रवणनिमित्तंधावति|वर्त्तयिष्यित्यैंद्रंवचः|वर्त्तयिष्येद्विज पृ० १०२अ) श्रेष्ठप्रस्तुतोक्तिशरीरवत्|द्वीपांन्नदीवनांतांश्चशृणुष्वैकाग्रमानसः|इतःपरमध्वग्रंथःसुगमत्वात्क्वचित्प्रदेशवृत्याव्या ख्यायते|वर्त्तयिष्येअभिधास्ये|प्रस्तुतोक्तिशरीरक्रमेण|जंवूद्वीपंक्षितेर्नाभिस्तद्वृत्तंलक्षयोजनं|क्षाराव्धिनापरिवृतं परिवृत्तेनतावता|तावतेतिलक्षप्रमाणेन|तस्यमध्येस्थितःशैलराजराजोहिरण्मयः|तिरस्कृतांशुमद्ज्योतिर्मेरुःसु रनिषेवितः|तन्मध्येपर्वताधिराजोदेवसेवितःकांचनमयःप्रतिहतार्ककांतिर्मेरुःस्थितः|सषोडशसहस्राणिक्षि तौविष्टोमहीतलात्|तदूनमुन्नतोलक्षंमूलेषोडशविस्तृतः|समेरुर्भूमेरंतःषोडशयोजनसहस्राणिप्रविष्टोमहीतला दारभ्युर्ध्वयावच्चतुरशीतियोजनसहस्रोन्नतिः|मूलेचषोडशसहस्रविस्तारः|ऊर्द्ध्वतोस्यशरावाकृतिविस्ताराधिक्ये नद्वैगुण्यं|उक्तंचश्रीमत्स्वतंत्रे|षोडशैवसहस्राणिऊर्द्ध्वभागेप्ररोपितः|तान्यस्यमूलेविस्तारस्यादूर्ध्वंद्विगुणस्तुसः| सशरावाकृतिर्देविमेरुर्देवाश्रयोद्रिराडिति|त्रिषुपादांतरेष्वस्यचतुर्वृद्धेषुपर्वसु|नेमयःकटकाकारानिर्गतादीप्तिम पृ० १०२ब) त्तराः|एकादशसहस्रातुमनुसाहस्रिकीपरा|नेमिर्यामस्तकोपांतेलोकपालसमाश्रया|चक्रवाटेतितामाहुसर्वरत्नप्रभा वतीं|अस्यमेरोःस्वोछ्रायपादेनपंचविंशतिसहस्रात्मकेनांतरंयेषांतेषुतथाविधेषूत्तरंचतुःसहस्रविवृद्धेषुपर्वसुभागसं धिषुकटकाकाराःसुष्टुदीप्तास्तिस्रोनेमयोमेखलानिर्गताः|तदेवैषुत्रिषुस्थानेषुचतुर्वृद्धत्वंदर्शयति|एकादशसह स्रेत्यादिना|एकाआद्यादशसहस्रप्रमाणाद्वितीयामनुसाहस्रिकाचतुर्दशसहस्राचतुर्वृद्धत्वोक्तेश्चतृतीयाष्टादशस हस्रविस्तृता|सानेमिर्यामस्तकसमीपेलोकपालाश्रयभूताचानेकरत्नप्रभासुरांचक्रवाटोक्त्याआगमज्ञाआहुः|ए वंचप्रागुक्तचतुरशीतियोजनसहस्रोछ्रायस्यमेरोःपर्वत्रयंपंचसप्ततिसहस्रमानकं|कटकत्रयंतुनवसहस्रोन्नतमेकैक स्यत्रिसहस्रमानकत्वमित्यागमः|सिद्धगंधर्वमरुतांतदधःपर्वसुस्थितिः|चक्रवाटाधस्थितेषूक्तेषुत्रिषुपर्वसुसिद्धादी नामास्पदं|यातुचक्रवाटाख्याऊर्ध्वमेखलातस्यामष्टसुशृंगेषुपुर्योष्टौसमवस्थिताः|प्राच्यादिष्विंद्रमुख्यानांनामतस्ता पृ० १०३अ) न्निवोधत|स्पष्टःश्लोकः|नानारत्नप्रभातालमंडलालंकृताहरेः|सिद्धसाध्यमरुज्जुष्टारुक्मभूरमरावती|विविधरन्नकांतिक लापपरिवेषभूषितासिद्धादिसेविताहेमभूतलाप्राच्यामिंद्रस्यामरावत्याख्यापुरीरक्तपीतमणिप्रापहेमप्राकारगोपुरा||वह्नेस्तेजोवतीवह्नितुल्यभूतनिषेविताः||गोपुरंपुरद्वारशालावह्नितुल्यैस्तत्समरूपप्रभाभिर्भूतैःसेविताः|मृत्योःसंयमानीतुंगलोहप्राकारमंडला|काल पाशपितृव्याधिप्रेतमारिनिषेविता|कालपाशादिजुष्टाऽत्युन्नतापसप्राकारसमूहासंयमनीनामदक्षिणस्यांदिशियाम्यपु री|मारीनामयुगपदनेकलोकक्षयहेतुरुत्पातोविशिष्टदेवताधिष्ठानः|साचदेवताप्रेतपतिनाज्ञप्तायत्रक्वचित्त्कार्यंक रोति|कृष्णादैत्यपतेर्मृत्योर्धामवदैत्यसेविता|नीलरत्नप्रभाजालवितानवरभूषणावैडूर्येंद्रनीलप्रभापुंजवद्भिर्वितानश्रे ष्ठैर्भूषितायमपुरीवदसितवर्णादैत्यजुष्टाकृष्णाख्यानिरृतेःपुरी|शुद्धवत्यंवुनाथस्यस्फटिकोपलनिर्मिता|पांडुराभ्रोपमै र्पादःसेविताभातिधामभिः|शुद्धवतीनामवरुणस्यनगरीस्फटिकशिलाविरचितामकरकूर्मादिसेविताश्वेताभ्रशु भ्रैर्गृहैःशोभते|वायोर्गंधवतीतुंगश्वेतपीतध्वजाकुला|वलवद्भूतसंतुष्टासर्वरत्नविनिर्मिता|श्वेतैःपीतैश्चध्वजैर्युक्ता पृ० १०३ब) विचित्ररत्नविरचितासमर्थभूतनिषेवितावायोःपुरीगंधवतीनाम|महोदयाचंद्रमसःश्वेतामुक्तादिनिर्मिता|द्विजसं द्यस्तुताभातिपुरैर्हिमगिरिप्रभैः|सोमस्योदीच्यांमहोदयाख्यापुरीशुक्लामुक्तादिनिर्मिता|आदिग्रहणाच्चंद्रकांति षदा|साचव्राह्मणवृंदस्तुताप्रालेपाद्रिद्युतिभिर्भवनैःशोभते|ज्वलल्ललाटदग्दग्धस्मरमृत्युयशोभृतः|पुरीयशोवती सर्वरत्नजारुद्रसेविता|ज्वलतातृतीयेनाक्ष्णादग्धौकामकालौयेन|अतेवतथाविधसकलजगद्वैरिविनाशाद्यशोभृत ईशाननाथस्यसर्वरत्नविनिर्मितारुद्रैःसेविताचयशोवतीनामपुरी|इतिसर्वर्त्तुसुखदाश्चक्रवाटार्द्धविस्मृताः|पुर्यो ष्टावनिलोद्धूतपारिजातरजोरुणाः|वेधसानिर्मितालोकपालचक्रानुवर्त्तिनांभूतयेस्वर्गित्येतागीयंतेकविभिःक्षि प्तौ|सर्वेषामृतूनांसंवंधिसुखंददातीतिसर्वर्त्तुसुखदास्तथाचक्रवाटार्द्धेननवसहस्रात्मकेनविस्तीर्णाः|लोकपालचक्रा नुवर्त्तिनामिंद्राद्याराधकानांभूतयेभ्युदयायस्वर्गित्येताःपुर्यःकविभिगीयंते|पारिजातःस्वर्गद्रुमविशेषः|तत्कुसुमर पृ० १०४अ) जोरुणत्वेनमनोरमत्वमासांयुक्तं|अथव्रह्मणःपुरीचतुर्दशसहस्राणियोजनानांस्वयंभुव||मध्येमनोवतीनामपुरीलोके शवंदिता|याचकारारुणानुच्चैर्विद्यन्मार्गान्महःश्रिया|सावित्र्याःस्पर्द्धमानेवस्वर्गकामातिविर्त्तिनी|महःश्रियेतितेजो लक्ष्म्या|स्वर्गेकामाःस्वर्गकामाः|तेषांततःप्रवृत्तिनिवृत्तीइतिस्वर्गकामवर्त्तिनीत्वमतेवतेजोतिशययोगात्व्रह्म पदावाप्तिहेतुत्वाच्चसावित्र्यास्पर्द्धमानेव|तस्यामुपासतेदेवामुनयश्चमहौजसः|महायोगीश्वरैर्सिद्ध्यैयमाद्यैर्भूतवे धसं|तस्यामतुलवलादेवमहर्षयश्चमहतांयोगिनामपिध्येयंविधातारंसिद्ध्यर्थंयमनियमादिभिरुपासतेसेवंते| अहिंसासत्यास्तेयव्रह्मचर्यापरिग्रहाःयमाःशौचसंतोषार्जवस्वाध्यायेश्वरप्रणयनानियमाः|तदीशभागेतस्या द्रेःशृंगमादित्यसन्निभं|यत्तत्ज्योतिष्कमित्याहुःसदापशुपतेःप्रियं|तस्याव्रह्मपुर्यादीशानदिग्गतंमेरोःशृंगम तिदीप्तंपरमेश्वरस्येष्टंज्योतिष्काख्यं|तस्यसानुषुहैमेषुरत्नचित्रेषुसंस्थिताः|स्कंदनंदिमहाकालगणेशादिगणेश्वराः पृ० १०४ब) |मूर्द्ध्निदेवादिदेवस्यस्थानंत्रिपुरविद्विषः|रुद्रायुतगणैर्जुष्टंव्रह्माद्यैश्चसुरोत्तमैः|तस्यज्योतिष्कस्यसमभूभागेषुप्रकृष्टानांस दाशिवतत्वाधोवक्ष्यमाणत्वादवरास्कंदनंदीशादयोगणेश्वराः|शिरसितुव्रह्मेंद्रादीनांचिनेतुःसाक्षाद्भगवतःस्थानमने कसंख्यैरुद्रैर्व्रह्माद्यैश्चदैवैःसेवितं|इतिमेरुरधोस्थानेदिक्षुयेभूधराःस्थिताः|तत्छिष्टानिनवद्वीपेवर्षाण्यस्मिन्निवो धमे|इत्थंमेरुरुक्तः|अस्याधोवक्ष्यमाणविष्कंभशैलाश्चत्वारः|प्राच्यादिदिक्षुयेस्थिताः|तद्वर्जितानिवर्षाणिनवास्मि न्जंवूद्वीपेवधारय|तत्रविभागाद्रींस्तावदाह|निषधोहेमकूटश्चहिमवांश्चाचलोत्तमां|मेरोर्दक्षिणतोनीलःश्वेतःशृंगी तिवामतः|सहस्रद्वयविष्कंभादशोत्सेधानवांतराः|प्रागायताःसुपर्वाणःसागराहितकोटयः|मेरोर्दक्षिणदिग्भा गेनिषधहेमकूटहिमवंतः|उत्तरेनीलश्वेतशृंगवदाख्याविभागाचलाः|एतेद्वियोजनसहस्रविष्कंभादशसहस्रोछ्रायाःन वसहस्रव्यवधानाःप्राक्पश्चिमदिग्वर्त्तिक्षारोदलग्नपर्यंताःसुपर्वाणिति|सुष्टुशोभनानिपर्वाणिवक्ष्यमाणान्यंतरस्था पृ० १०५अ) निवर्षाणियेषां|तदर्द्धेनान्तविष्कंभौमाल्यवद्गंधमादनौ|याम्योत्तरौप्राक्प्रतीच्योर्मेरुतस्तावदंतरौ|निषधादिशैलमानार्द्धेनगृही तविस्तारौसहस्रविस्तारावितियावत्|दक्षिणोत्तरायतौमेरुतःप्राच्यांप्रतीच्यांचमाल्यवद्गंधमादनौतावदंतरावितियावदेव चतुर्दिक्षुस्थितनिषधादिशैलवर्षावृतशिष्टंचतुस्त्रिंशत्सहस्रायाममंतरंदक्षिणोत्तरदिशोस्तावत्प्रमाणमेवानयोर्मध्यमि त्यर्थः|तदेवविभागाचलैःपरिछेत्तुमाह|पश्चान्माल्यवतःप्राच्यांगंधमादनशैलतः|इलावृतंनीलगिरेर्याम्यतोनिषधादुद क्|माल्यवतोद्रेःपश्चिमदिग्भागेगंधमादनाद्रेःप्राङ्नीलगिरेर्दक्षिणतोनिषधादुत्तरेचिलावृतंवर्षंजंवूद्वीपमध्यस्थंभद्राश्वं माल्यवन्प्राच्यांवर्षंभद्रजनाकुलं|सुकेतनंतुमालंप्रतीच्यांगंधमादनात्|माल्यवतःप्राग्भद्राश्वंवर्षंगंधमादनात्प्रत्य क्शोभनग्रहेकेतुमालंनाम|निषधाद्धरिवर्षेपद्याम्यतोहेमकूटतः|नाम्नाकिंपुरुषंख्यातंभारतंहिमवद्गिरेः|रम्यका ख्यमुदङ्नीलाद्धिरण्यंश्वेतपर्वतात्|यदुत्तरंशृंगवतःकुरुवर्षंतदुच्यते|विष्कंभशैलाश्चत्वारोमेरोःस्थैर्यायवेधसा|ल पृ० १०५ब) क्षार्द्धोन्नतपःकॢप्ताःस्तेषांपूर्वेणमंदरः|श्वेतोहरिद्राचूर्णाभोयाम्यतोगंधमादनः|प्रतीच्यांविपुलोनीलःसुपार्श्वःसौम्यतोरु णः|सहस्रयोजनोछ्रायास्तेषुकल्पद्रुमाःस्थिताः|कदंवजंव्वावश्वत्थन्यग्रोधौचोत्तरांतिकाः|मेरोर्दार्द्यार्थंश्वेतपीतनीला रुणवर्णाःप्राच्यादिदिक्षुमंदरगंधमादनविपुलसुपार्श्वाख्याविष्कभाःपंचाशत्सहस्रोछ्रायाःसृष्टाः|येषुयोजनसह स्रोन्नतपःकदंवजंव्वादयश्चकल्पपादपाःस्थिताः|जंवूफलरसोद्भूतामेरुंपर्येत्यनिम्नगा|विवेशमूलमेवास्यकनकी कृत्यतांमहीं|तांपीत्वापक्षिसर्पाखुमृगशाखामृगादयः|वभूवुःकांचनायेचसत्वास्तस्यांकृताप्लवाः|पर्येत्य|प्रद क्षिणंकृत्वा|अस्येतिमेरोः|शाखामृगावानराः|आदिग्रहणेनगजाश्वादयः|द्वीपकेतुरभूज्जवूःकल्पशाखिषुसत्स्वपि| प्रभावातिशयात्ख्यातंजंवूद्वीपमिदंततः|द्वीपानांकेतुर्ध्वजोद्वीपकेतुः|अथविष्कंभशैलानांसरांस्युपवनानिचोच्यंते|तत्र प्राच्यांविष्कंभशैलस्यमूलेचैत्ररथंवनं|सरोरुणोदकंनामतत्रहेमाब्जमंडितं|स्पष्टं|याम्याद्रिमूलेगंधर्वसुरसिद्धाप्सरोवृतं|नं पृ० १०६अ) दनंमानसंतत्रसरोमानसतस्करं|दक्षिणेविष्कंभशैलमूलेनंदनाख्यमुपवनंसरश्चात्रमनोहारिमानसंनाम|वैभ्राजंवै पुलेमूलेसितोदश्चह्रदोत्तमः|देवैर्निषेच्यतेछन्नःकमलैरंशुमत्प्रभैः|विपुलाख्यस्याद्रेर्मूलेवैभ्राजाख्यंवनंसितोदकंना मसरःयदर्ककांतिभिरब्जैर्मंडितंसुरैरासेव्यते|सौपार्श्वेधृतिमन्नामकाननंभद्रकोह्रदः|सौगंधिकांबुजछन्नःसेव्य तेपितृभिःसदा|सुपार्श्वस्यमूलेधृतिमद्वनंपितृसेव्यंअतिसुरभ्यव्जछव्जंभद्रकाख्यंसरःसांप्रतमिलावृतादिद्वीपनिवा सिनोजनस्याहारायुःकांत्यादिवर्णनं|त्रयोदशसहस्रायुर्जंवूफलरसाशनः|मेर्वालोकोपलव्धार्थोजनःसुत्वगिला वृते|मेर्वालोकेनचद्वीपेनप्रकाशेनाधिगतपदार्थःसुत्वगितिकांतश्छविः|वर्षायुतायुनीलाव्जद्युतिःपनससारभुक् |केतुमालेजनोदिव्यदेहवंधःसुखीवली|वर्षाणामयुतंदशसहस्राण्यायुर्यस्यसतथापनसाख्यानिफलानितेषांसा रोनिष्यंदःतंभुङ्क्तितिपनससारभुक्|चंद्रविंवद्युतिनीलाव्जाशनोभद्रवाजिनि|दशवर्षसहस्रायुर्दुःखशोकभयोजि पृ० १०६ब) तः|भद्रवाज्जिनीतिभद्राश्वेवर्षे|त्रिंशदब्दसहस्रायुःकामवृक्षफलाशनः|युग्मप्रसूतिःकुरुषुश्यामापुष्पद्युतिर्जनः|का मादिछातोवृक्षफलाशनंयस्ययथेष्टानिवृक्षफलानिनिर्मायभुङ्क्तुइत्यर्थः|कुरुष्वितिकुरुवर्षे|युग्मप्रसूतिःर्युगपत्क न्याकुमारौस्तः|श्यामाप्रियंगुःतत्पुष्पद्युतिः|गौरप्रायकांतिः|अथात्रैववर्षेसन्निकर्षस्थौचंद्रद्वीपभद्राकरद्वीपावुच्य ते|भूतवेदसहस्रौद्वावेकदिक्संधिलक्षितौ|सोमवाद्याशयोःसिद्धमुनिचारणसेवितौ|चंद्रभद्राकरौद्वीपौचंद्ररक्ताव्जरु ग्जनौ|ऐलावृतंतयोरायुःफलंमूलंचभोजनं|अंतर्भावःकुरुष्वव्धौसान्निध्यात्कीर्त्तितौततः|कुरुवर्षोपांतवर्त्तिनिक्षारा व्धौपंचचत्वारिंशद्योजनसहस्राण्यावृत्यस्थितौ|एकेनदिक्संधिनालक्षितौदृश्यमानौउत्तरवायव्यदिग्गंतौसिद्धादिजुष्टौ चंद्रभद्राकरौद्वीपौज्ञेयौ|तत्रचंद्रद्वीपेचंद्रद्युतिर्जनः|भद्राकरद्वीपेचरक्ताव्जरुचिःतद्वासिनांचेलावृतोक्तमायुःअशनंचफ लमूलानि|अव्धौयद्भूतवेदसहस्रसंख्यांस्थानं|तस्मिंस्थितावितिव्यधिकरणेसप्तमी|सान्निध्यात्सामीप्यात्|अध्यर्द्धानिसह पृ० १०७अ) स्राणिद्वादशायुर्हिरण्वति|जनस्येंदुत्विषोनित्यमश्नतोलाकुचंफलं|हिरण्यवत्संज्ञेवर्षेलकुचफलाशिनश्चंद्रकांतेर्जनस्य सार्द्धानिद्वादशसहस्राण्यायुः|नीलनीरजरम्यस्यरम्यकेद्वादशस्थितिः|जनस्याव्दसहस्राणिन्यग्रोधफलमश्रुतः| रम्यकाख्येवर्षेनीलाव्जद्युतेर्जनस्यवटफलाशिनोद्वादशसहस्राणिस्थितिः|रजतद्युतिरिक्ष्वादस्तावदायुर्हरौजनः| रौक्मःकिंपुरुषेप्लक्षभोजनोव्दायुतस्थितिः|हरिवर्षेरजतप्रभःप्रागुक्तापुरिक्षुमेवान्नत्वेनासमंतादत्तीतिइक्ष्वादस्त देवभोजनोजनःकिंपुरुषवर्षेहेमाभःप्लक्षफलाश्यव्दायुतजीवीच|इतिकिंपुरुषादीनिवर्षाण्युक्तानियानिते|न तेष्वस्थाभेदोस्तिविवर्त्तिषुकृतादिषु|युगानुरूपप्रज्ञायुस्तेजोवलधनप्रजः|कृष्टाकृष्टाशनोदुःखत्रयार्त्तोभारतेजनः| गुणेकोयदुद्युक्तोनेष्टंकिंचिन्नसाधयेत्|सर्वासांफलभूमीनांकर्मभूःकारणंयतः|इत्थमुक्तेकिंपुरुषादिवर्षेयुगप रिवर्त्तेनेपिनावस्थाभेदोस्ति|अस्मिंस्तुभारतेवर्षेजनःकृतादियुगानुसारीणिवुद्धिजीवितकांतिवीर्यार्थापत्यानियस्य पृ० १०७ब) सतथाविधः|एतानिवुद्ध्यादीनीकृतादिषुयुगेषुजनस्ययथायथंह्रासवंतीत्यर्थः|आध्यात्मिकाधिदैविकाधिभौतिक दुःखत्रयार्त्तः|कृषिजाताकृष्टजातभोजीचात्रजनः|एकस्त्वयंगुणोयत्कृतोद्यमः|किंपुनर्नसाधयेत्|सर्वमेवसाधयितु मलमितियावत्|कुतित्याह|सर्वासांयस्मात्फलभूमीनामियंकर्मभूमिःकारणं|कर्मभूमिरियंव्रह्मन्फलभूमिर तःपरा|इहयत्क्रियतेकर्मतत्परत्रोपभुज्यतिति|सर्वासामित्यतिशयोक्तिः|अन्यत्रासंभवात्|नवाव्धिस्रोतसिद्वी पानवचात्रार्द्धकस्थले|इंद्रद्वीपप्रभृतयोनामतस्तान्निवोधमे|अत्रभारतेवर्षेनवभिरव्धिस्रोतोभिर्युक्तेअर्द्धंकंयेषां तान्यर्द्धकानिजलावृतार्द्धानिस्थानानियत्रतस्मिंस्तादृशि|यथोक्तंश्रीमत्किरणे|जलंपंचस्थलंपंचेति|एवंविधेभा रतेवर्षेइंद्रद्वीपादिद्वीपनवकंनामतोभिधीयमानवधारय|अथतदाह|इंद्रद्वीपःकशेरुश्चताम्रपर्णोगभस्तिमा न्|नागद्वीपश्चांद्रमसोगांधर्वोवारुणस्तथा|कुमारिकाख्योनवमोनानापर्वतनिम्नगाः|नानाजातिजनाकीर्णाभा पृ० १०८अ) रताख्येप्रकीर्त्तिताः|एतेनवद्वीपाविविधजातिजनपदसंकुलाःभारतनाम्निवर्षेकथिताः|द्वीपशब्दोर्द्धर्चाद्दिपाटात्पुंस्य पिज्ञेयः|आग्नीध्रोनामनृपतिर्जंवूनाथोमनोःकुले|तज्जातनृपसंज्ञाभिःकथ्यंतेभारतादयः|मनुवंशस्याग्रीध्रनाम्नोजंवू द्वीपाधिपतेर्भरतादयोनवपुत्राआसन्|तत्साधितानिज्जंवुद्वीपखंडानिनवभारतादिसंज्ञाभिःप्रसिद्धानिः|अथाव्धिस प्तकांतरितद्वीपसप्तकमुच्यते|क्षारक्षीरदधिस्नेहरसमद्यामृतोदकैः|लक्षादिद्विगुणाद्वीपाजंवुद्वीपादयोवृताः|जं वुद्वीपादिद्वीपसप्तकंक्षारक्षीराद्यव्धिसप्तकेनलक्षादिद्विगुणप्रमाणेनांतरितंज्ञेयं|जंवुद्वीपाख्यायाःकारणंद्वीप केतुरभूज्जंवूरित्यादिपूर्वमुक्तं|इदानींशाकादिद्वीपानांस्वसंज्ञयार्थवत्तांवक्ति|शाकेशाकद्रुमस्कंदःशाकसंज्ञानि वंधनः|कुशोभूत्कांचनःकौशेस्वयंभुवि पक्षति|क्रौंचेक्रौंचोहतोदैत्यःक्रौंचाद्रौहेमकंदरे|स्कंदेन**?सुचिरंचित्र मापीसुमायिना|सशैलस्तस्यदैत्यस्यख्यातश्चित्रेणकर्मणा|केतुतामगमत्तस्यनाम्नाक्रौंचंतदुच्यते|***?द्वीपेशाका पृ० १०८ब) ख्योवृक्षुन्नतःशाकाख्याहेतुः|व्रह्मणियष्टुमिछतिहेमकुशोत्पत्तिःकौशेद्वीपेकुशसंज्ञाकारणं|क्रौंचे**?काचनकं दरंक्रौंचाद्रौयुध्यमानःक्रौंचाख्योदैत्यः|कार्त्तिकेयेनहतितिक्रौंचोपलक्षितत्वात्क्रौंचद्वीपसंज्ञा|शाल्मलेशाल्मली वृक्षोहैमःसाहस्रिकोर्कभाः|प्रियोमराणांतत्केतुःसतदाख्यानिवंधनः|सहस्रयोजनोन्नतःसूर्यद्युतिःशाल्मलीवृक्षःशाल्मलिद्वीपेअस्याख्यानिबंधनंस्थानं||गोमेदेगोपतिर्नामराजाभूद्गोसवोधतः||याज्योभूद्वह्निकल्पानामौत्तथ्यानांमनोःकुलेः|सतेषुहरियज्ञाय प्रवृत्तेषुभृगून्गुरून्वव्रेतंगौतमःकोपादशयत्स्त्वगामित्क्षयं|यज्ञवाटेर्स्थितागावोदग्धाःकोपाग्निनामुनेः|तन्मेधसा महीछन्नागोमेदःसततोभवत्|गोसवाख्ययज्ञकृत्गोपतिसंज्ञोराजामनुवंश्युतथ्यवंश्यानामग्निवत्तेजस्विनामौ तथ्यानांयाज्योभूत्|तेष्वौतथ्येष्विंद्रयज्ञार्थंगतेषुसभृगून्गुरुत्वेवृणीतसः|क्रोधाद्गौतमशप्तःक्षयंययौ|तस्यय ज्ञवाटगतागावोगौतमक्रोधाग्निनादग्धाः|तन्मेदश्छत्रभूतलत्वात्गोमेदसंज्ञोद्वीपः|नदीपुष्करणीनामहेमपु ष्करमंडिता|तयासपुष्करद्वीपःख्यापितःसुरसेवितः|हेमाव्जयापुष्करिण्याख्यपानघोपलक्षितोदेवजुष्टपुष्करद्वीपः| पृ० १०९अ) यथाकिंपुरुषाद्येषुकृतावासःसदाजनः|शाकद्वीपादिषुतथाक्षीरादिकृतभोजनः|हिमेंदुहिमनीलाब्जसस्यकस्फ टिकद्युतिः|दशवर्षसहस्रायुर्नष्टदुःखैककंटकः|किंपुरुषादिषुवर्षेषुयद्वत्त्रेतादियुगेष्वपिकृतयुगावस्थोजनः|त थाशाकादिद्वीपेषुक्षीराद्याहारोयथाक्रमंतुहिनचंद्रादिकांतिर्दशवर्षसहस्रजीवीदुःखाख्यमहाकंटकनिर्मुक्तोज्ञे यः|सप्तमादुदधेर्वाग्द्वेकोटीसत्रिकंदलं|पंचाशच्चसहस्राणिकर्णाद्धेमाद्रिगर्भतः|सप्तमादुदधेरर्वागितिमेर्वा भिमुख्येनतस्यैवमेरोर्गर्भतः|तन्मध्यभागादारभ्यकर्णादितिविष्कंभशैलानामंतरालभागादिलावृतवर्षजनितकोणा त्कोटिद्वयं|त्रिकेनसहितंदलंकोट्यर्द्धंत्रिपंचाशल्लक्षाणिसहस्रपंचाशत्प्रमाणं|ततोहिरण्मयीभूमिर्नानारत्नद्रुमाचला |क्रीडार्थंवेधसासृष्टादेवानांदशकोटिकी|विविधानिरत्नानिद्रुमाश्चाद्रयश्चयस्यांसातादृक्सुराणांविहरणायहेममयी योजनकोटिदशकप्रमाणाभूर्द्धात्रानिर्मिता|लोकालोकोवहिस्तस्यालोकालोकनियामकः|योजनायुतधिष्कंभस्तुंग पृ० १०९ब) शृंगपरिछदः|अंतःस्थितंलोकंवहिस्थितंचालोकंनियमयतीतिलोकालोकनियामकः|तद्वाह्येलोकाभावित्यर्थः|योजना युतविष्कंभितिदशसहस्रविस्तारः|अत्युछ्रितशृंगपरिवारः|तस्यश्रृंगेषुतीक्ष्णांशोर्भासश्चंद्रातपोयमः|नतापयंतिवैकृ ष्ट्याद्धामान्याशाभृतांमुने|लोकालोकस्याद्रेरत्युन्नतत्वाछिखरस्थानिलोकपालविहरणगृहाण्यर्कभाभिर्विप्रकृष्टत्वा ज्ज्योत्स्नावदालोकमात्रहेतुभिर्नताप्यंते|तमःपरस्तान्निविडंलक्षाण्येकोनविंशतिः|चत्वारिंशत्सहस्राणिपंचत्रिंशच्च कोटयः|सप्तविंशतिलक्षाणिकोटिश्चैकासमुद्रराट्|हैमंकटाहकंकोटिर्गर्भोदेतिसमंततः|लोकालोकस्यवहिस्त मअंधकारंपंचत्रिंशत्कोटयेकोनविंशतिलक्षाणिसहस्रचत्वारिंशतासह|तद्वाह्येतुगर्भोदाख्योव्धिराजोयोजनको ट्यासप्तविंशत्याचलक्षैर्विस्तीर्णस्तस्यापिवहिःकोटिप्रमाणंकांचनंकटाहमिति|कोटिशतप्रविभागःएवंभूर्ल्लोकस्यवि स्तारात्प्रमाणमुक्त्वाभुवर्ल्लोकादिलोकषट्कस्योछ्रायमानमाह|तिथिलक्षोभुवर्ल्लोकोभ्रुवेप्रांतोमहीतलात्|तदूनको पृ० ११०अ) टिस्वर्ल्लोकस्वर्गिवर्यसमाश्रयः|महद्विकोटिर्यत्रास्तेमरीच्यादिमुनिव्रजः|जनोष्टकोट्यवछिन्नःपितृजह्नुजनाश्रयः|तपोर्क कोटिर्यत्रास्तेमहायोगीसनंदनः|ऋभुःसनत्कुमारश्चसनकश्चमहातपाः|ततःसत्याधिपस्थानंसत्यलोकःस्वयंभुवः|कामा तिशयसंपन्नःकोटयोनवसप्तच|सावित्रीमूर्त्तिमत्यास्तेयत्रवेदाश्चसानुगाः|महीतलाद्भूपृष्ठादारभ्यध्रुवप्रांतितिज्योतिश्च क्रालंवनभूतध्रुवपर्यंतपंचदशलक्षोछ्रायोभुवर्ल्लोकः|पंचाशीतिलक्षोछ्रायस्वर्गिवर्याणांस्वर्वासिमुख्यानांआस्यदं स्वर्ल्लोकः|महर्ल्लोकोमरीच्यादिमुनिवृंदस्थानंद्विकोटिः|जनलोकस्त्वष्टकोटिपरिछिन्नःपितृणांजह्नुप्रभृतीनांचमु नीनांनिवासः|तपोलोकोद्वादशकोट्युछ्रायः|सनंदृमुसनत्कुमारसनकाद्याश्रयः|ततोनंतरंसत्यैकवुद्धित्वात्प्राप्तक ल्पाधिपत्यस्यव्रह्मणःस्थानं|सकलैश्वर्यसंपत्तिमान्षोडशकोट्युछ्रितःसत्यलोकः|यस्मिन्मूर्त्तिमतीसावित्रीवेदोपवेदा श्चासते|ततश्चतस्वःषट्चेतिमधुत्रिपुरचिद्विषोः|स्थानेज्योतिष्मतीचित्रेकोटिरंडकटाहकः|शतकोटिप्रविस्तीर्णिति पृ० ११०ब) व्रह्मांडगोलकः|भूयसातुल्येवायंसर्वस्रोतःसमानतः|तदुपरिचतस्रःकोटयोमधुविद्विषःविष्णोःकांतिमत्स्थानं|त्रिपुर विद्विषःशंभोस्तादृग्विचित्रंषट्कोट्युछ्रायकंअंडकटाहकश्चैककोटिः|इत्थंभूर्लोकादयोयथापंचाशद्योजनकोटयः|तथातदूर्ध्वं पंचाशदेवेति|व्रह्मांडपिंडःशतकोटिविस्तारोछ्रायः|अयंचसर्वेषूर्ध्वपूर्वदक्षिणपश्चिमोत्तरेषुस्रोतःसुप्रायेणतुल्यमाना कृतिः|तस्यप्राचीदिशंशक्रःपात्यग्निःपूर्वदक्षिणां|दक्षिणांभूतसंहर्त्ताराक्षसोदक्षिणापरां|पश्चिमांवरुणोदेवोनभस्वान्प श्चिमोत्तरां|उदीचींसोमपक्षेशावीशःप्रागुत्तरांदिशं|ऊर्ध्वेव्रह्माहरिरधःसर्वार्थावहिताःसदा|तस्यव्रह्मांडस्यप्राच्यादिदिक्पा लकाइंद्रादयः|उदीच्यांसोमवैश्रवणौ|ऊर्ध्वव्रह्मपालकःस्थितः|अधस्तुविष्णुः|एतेचनित्यंसर्वात्मनासावधानाःस्थि ताः|एषामपिनियंतारोरुद्रादशदिशस्थिताः|भूतिमंतोप्यमीयेषांनोत्क्रामंतिभयात्पदं|नानारूपैर्महावीर्यैस्तरुणार्कसम प्रभैः|वृतानानायुधधरैर्नामभिस्तान्निबोधमे|एषांलोकपालानांरुद्राधिष्ठातारःप्रतिदिशंदशदशस्थिताः|यद्भीत्यामहै पृ० १११अ) श्वर्यैर्युक्ताप्येतेस्वंस्वंस्थानंपालकत्वेननोझंति|एतेचानेकाकारैर्विचित्रायुधैरतिवलैर्वालार्ककांतिभिरनुचरैर्वृताः|अथैषां नामान्याह|वुध्नवज्रशरीराजकपालीशप्रमर्दनाः|प्राग्विभूत्यव्ययौशास्तापिना|कीत्रिदशाधिपाः|एतेशक्रस्यनियंतारः|अथा ग्नेः|भस्मक्षयांतकहरज्वलनाग्निहुताशनाः|पिंगलःखाटकोवभ्रूर्दहनश्चग्निदिग्गताः|विधातृधातृकर्त्रीशकालमृत्युवियोज काः|याम्यधर्मेशसंयोक्तृहराश्चयमनायकाः|निरृत्यधिपतीनाह|निऋतिर्मारणक्रोधहंतृधूम्रविलोहिताः|ऊर्ध्वलिंगवि रूपाक्षदंष्ट्रिभीमाःपलादयाः|पलंमांसमत्तीतिपलादः|पिशिताशनोराक्षसोनिरृतिः|तंपातीतिपलादयाः|अथवरु णेश्वराः|वलातिवलपाशांकश्वेतभूतजलांतकाः|महावलमहावाहुसुनादाष्टरवाःकपाः|अव्दुरवोमेघनादः|कंजलंपां तिरक्षंतीतिकपाः|वाद्यधिपाउच्यंते|लघुशीघ्रमरुद्वेगसूक्ष्मतीक्ष्णक्षयांतकाः|कपर्दीन्वीद्देशपंचांतयत्तैरुद्राश्चवायुपाः|नि धीशोरूपवान्धन्यसौम्यशांतजटाधराः|कामप्रसादलक्ष्मीशप्रकाशाश्वेंदुपक्षयाः|इंदुपक्षयाइतिइंदुपक्षयोरुत्तरदिक्पालत्वे पृ० १११ब) नपूर्वमुक्तयोरेतेपतयः|विद्येशसर्वविद्ज्ञानवेदविघ्नेष्ठवेदयाः|विद्याविधातृभूतेशवलिप्रियसुखाधिपाः|ईशानदिक्स्थाने इमेविद्येशादयोनियंतारअथतदुपरिष्टादुच्यंते|शंभुर्गणाध्यक्षविभुत्र्यक्षचंडामरस्तुताः|विवक्षणनभोलिप्सुसंविवाहा श्चमूर्द्धनि|शंभ्वादयोदशरुद्रामूर्द्धनीतिव्रह्मणोधिष्ठातृत्वेनस्थिताः|वाहशव्दःसंपूर्वोविपूर्वश्चरुद्रयोःसंवाहविवाहयो र्वाचकः|व्रह्मांडादधोवर्त्तिनोरुद्रान्कथयितुमाह|क्रोधनानिलभुग्भोगिग्रसनोदुंवरेश्वराः|वृषोविषधरानंतवज्रदंष्ट्रि विषाधिपाः|ततोंभःप्रमुखाभोगभूमयस्तासुसंस्थिताः|पंचाष्टकानियोक्तृणांक्षेत्रावाप्तफलश्रियः|अनंतरंव्रह्मांड स्योपरिष्टात्यथायथंजलाद्याभोगभूमयः|तासुचाष्टकाः|अष्टपरिमाणाःपंचगणारुद्राणांस्थिताः|कीदृशित्याह|नि योक्तृणांक्षेत्रावाप्तफलश्रियः|क्षेत्रातदव्यासितात्स्थानादवाप्तायाफलश्रीस्तस्यानियोक्तृणांसंपादकानांतत्तदध्यासि तक्षेत्रफलसंपत्तिस्तत्प्रसादादेवफलतीत्यर्थः|अतस्तेषांनामान्याह|भारभूत्याषाढिडिंडिलाकुल्यमरपुष्कराः|प्रभासनैमि पृ० ११२अ) शौचेतिगुह्याष्टकमिदंजले|एतदंभस्तत्वस्थंगुह्याष्टकं|श्रीशैलजल्पकेदारभैरवाम्रातकेश्वराः|हरिश्चंद्रमहाकालमध्याःसाति पदारुचौ|सातिपदाइति|स हअतिपदेनेतेवर्त्तंते|अतिगुह्याष्टकमेतदितियावत्|रुचावितितेजस्तत्वव्यवस्थिताइत्यर्थः| महेंद्रभीमविमलकुरुक्षेत्रगपाखलाः|सनापदोत्तराःसाट्टहासाःसनखलाःखगे|सनापदोत्तराइति|सहनापदेनवर्त्तं तिति|उत्तरोन्यःखलशव्देनोक्तोरुद्रोयेषांतेमहेंद्राद्याःसनाखलाइत्यर्थः|खगेनभस्वतिवायुतत्वेस्थाणुस्वर्णाक्षुगोक र्णभद्रकर्णमहालयाः|वस्त्रायदाविमुक्ताङ्करुद्रकोट्यःखमंडले|पवित्राष्टकमित्याहुः|खमंडलित्याकाशतत्वेएतत्प वित्राष्टकमितिवदंति|गर्वेमात्रेंद्रियोदरे|स्थाण्वष्टकंद्विजश्रेष्ठनामतःकथयामिते|माकोटमंडलेशानद्विरंडछगलंड काः|स्थलस्थूलेश्वरौशंकुकर्णकालंजरावपिइत्यहंकारेतन्मात्रेंद्रियतत्वांतरेमाकोटादिस्थाण्वष्टकंस्थितं|अथवुद्धि तत्वस्थंभुवनाष्टकमाह|सूक्ष्मामरपुराण्यष्टौवुद्धौपैशाचमादितः|राक्षसंयाक्षगांधर्वंमाहेंद्रंचमहर्द्धिमत्|सौम्यंप्राजेश्वरं पृ० ११२ब) व्राह्मंदीप्तंपरमयाश्रिया|वुद्धितत्वेसूक्ष्मभुवनाष्टकंतेषुपैशाचमादितित्यादौपैशाचं|ततोराक्षसादि|ब्राह्मंदीप्तंपरमयाश्रिये तिमहर्द्धिमतोमाहेंद्रादप्यतिशयाय|अधिकांतिःअथगुणतत्वे|योगिनांभुवनाष्टकं|गौणेयोगीशधामानित्वकृतंकृ तभैरवं|व्राह्मवैष्णवकौमारमौमंश्रैकंठमंततः|ततस्तु|वीरभद्रस्यरुचिमद्धामयोगिविस्तुतं|स्वपदाधोधिकारस्थसर्व रुद्राधिकश्रियः|स्वस्मात्पदादधोधिकारस्थेभ्योभ्यधिकाश्रीर्यस्यसाक्षात्परमेश्वरेणानुगृहीतत्वात्तस्यवीरभद्रस्ययोगि भिरभिष्टुतंभास्वरंभुवनं|अत्रैवचैतेरुद्रागुणतत्वमूर्द्धिस्थित्यः|केतित्याह|वामदेवभवानंतभीमोमापत्यजेश्वराः|स र्वेशानेश्वरावेकवीरैकशिवसंज्ञितौ|उग्रःप्रचंडदृक्केशोगुणानांमूर्द्ध्निसंस्थिताः|तपसागुरुणोपास्यक्रोधादीन्गुरुतां गताः|स्वाधिकारविधौतीक्ष्णारुद्राःसर्वार्थदृक्क्रियाः|ऊर्ध्वस्थान्क्रोधेशादीन्महतातपसाआराध्यगुरुतामनुग्रहकृ त्त्वंप्राप्ताः|निजेधिकारविधौतीक्ष्णाःकुशलाःसर्वार्थज्ञानक्रियायोगिनश्चैते|तेभ्योदशगुणश्रीकान्प्रधानाधिपतीछृणु| पृ० ११३अ) क्रोधेशचंडसंवर्त्तज्योतिःपिंगलसूरगाः|पंचांतकैकवीरौचशिखेदितितेस्मृताः|वाम देवादिभ्यःप्रागुक्तेभ्योदशगुणाश्री र्येषांतिमेक्रोधेशादयः|प्रधानाधिपाः|सर्वेंद्रियःसर्वतनुःसर्वांतःकरणाश्रयः|पुरुषेनियतौयंताकालेफलनशक्तिमा न्|पुरुषतत्ववर्त्तिनिभुवनेसर्वेंद्रियत्वादिविशेषणविशिष्टोरुद्रोधिष्ठाता|यदुक्तंप्राक्पुंस्तत्वनिरूपणावसरे|भौवनेरु द्रसंश्रयमिति|एवंनियतौनियंतृसंज्ञःकालेचकलनशक्तिमान्स्थितः|भुवनेशमहादेववामदेवभवोद्भवाः|एकपिं गेक्षणेशानांगुष्ठमात्राश्चभास्वराः|परमेशोपमारागविद्यागर्भेकालपदे|महापुरचतुःषष्टिमंडलेमंडलाधिपाः|रा गविद्येगर्भेप्रागुक्तरीत्यायस्यतस्मिन्कलाभुवनेअष्टाष्टकक्रमेणश्रीमन्मतंगाद्युक्तेनमहापुरचतुःषष्टिमंडलंयत्स्थि तं|तत्रामीमंडलेशादयोभुवनाधिपतयः परमेश्वरोपमशक्तिमत्वात्सुकांतयःस्थिताः|कथंपुरचतुःषष्टिमंडलंस्थि तमितीहनोक्तंश्रीमन्मतंगादिनोक्तंज्ञेयं|अथतेषामप्यधिपतीनाह|अनंतस्त्रिकलोगोप्ताक्षेमेशोव्रह्मणःपतिः|ध्रुव पृ० ११३ब) तेजोधिपौरुद्रौगहनेशश्चविश्वराट्|मायाधिकारिणोरुद्रामंडलाधिपतीश्वराःसंसारचक्रकारूटभूतग्रामविवर्त्तकाः| एतावत्येवघोरेयंसर्वभूतभवावनिः|सीदंत्यज्ञानिनोयस्यांपंकेगाविवावलाः|अमीमायाधिकारिणोनंतेशादयोष्टौ रुद्राःसंसारेवाजस्रभ्रमाच्चक्रंतदारूढस्यभूतग्रामस्यविवर्त्तकाःसंसारकाः|इयत्येवचेषाघोराशिवासर्वभूता नीभवभूमिःयस्यामविद्वांसःकर्दमनिमग्नाशक्तवलीवर्दवदवसादंयांति|अथविद्याभुवनस्थाविद्याराज्ञ्युच्यंते| भृगुणीब्रह्मवेतालीस्थाणुमत्यंविकापरा|रूपिणीनंदिनीज्वा लासप्तसप्तार्वुदेश्वराः|विद्याराज्ञ्यस्तुकथिताविद्या यांरुद्रसंस्तुताः|एताःसप्तविद्याराज्ञ्योऽनंतरोक्तमंडलाधिपतिरुद्राभिष्टुताःसप्तानामर्वुदानांमंत्रकोटीनामीश्वर्यः| तासामुपरिदीप्तश्रीर्देवोविद्याधिपःस्थितः|मंत्रेशेशचिदाविष्टरुद्रव्यूहाष्टकानुगः|उछुष्माःशंवराश्चंडामहावीर्याः पदद्रुगाः|रुद्रागणाःसदिक्पालाःशास्त्राणिपतयस्ततः|तेचानंतप्रभृतयोगदिताएवनामतः|स्वस्वरूपाच्चतेविप्रपूर्वं पृ० ११४अ) प्रश्नानुषंगतः|भृगुणीप्रभृतीनांविद्याराज्ञीनामूर्ध्वंविद्याधिपाख्योरुद्रोदीप्तश्रीर्निरतिशयज्ञानक्रियासंपद्युक्तःस्थितः| कीदृगित्याह|मंत्रेशेशेति|मंत्रेशानामनंतादीनांप्रेरकत्वेनीशीश्वरभट्टारकः|तच्चिदाविष्टास्तदुत्तेजितदृक्क्रियायेरुद्राः तेषांव्यूहाष्टकंतदनुगंयस्यसव्यूहाष्टकानुगः|तत्रयेरुद्राःस्थितास्तीश्वरप्रेर्याइत्यर्थः|उक्तंच|ईश्वरोधस्थविद्यानांप तीन्संप्रेरयत्यणून्|तेनप्रेरितमात्रास्तेकुर्वतेधस्तनं जगतिति|उछुष्मादयश्चरुद्राः|गणाश्चात्रदेविस्कंदचंडेशवृष भप्रभृतयोदिगीश्वराश्चेंद्रादयःशास्त्राणिच|निश्वासकारिकादीनिपतयश्चानंतादयःस्थिताः|तेचानंतादयोना म्नास्वरूपेणचप्रश्नानुक्रमेणपूर्वमुक्ताः|सादाशिवेपवित्रांगसकलादिपरिछदः|देवःसदाशिवोविंदौनिवृत्यादि कलेश्वराः|नादेध्वनिपतिःशक्तौसर्वशक्तिमतांवरः|योनिर्विश्वस्यवागीशाःपतयःपरतःशिवः|सदाशिवभुव नेपवित्राणिसद्योजानादीनिव्रह्माणिअंगानिचसर्वात्मसुशिवज्वालिन्यादीनिसकलनिष्कलाख्यादयश्चाष्टौरुद्राः पृ० ११४ब) परिछदाःपरिवारोयस्यसेवंविधःसदाशिवनाथःस्थितः|वैंदवेतुस्थानेनिवृत्तिप्रतिष्ठाविद्याशांत्याख्यकलाधिपति चतुःष्कंनादभुवनेध्वनिपतिर्नादेश्वरःस्थितः|यथोक्तंनादाधिकाराक्तौश्रीमत्स्वतंत्रे|सुषुम्नेशःस्थितस्तत्रचंद्रकोट्यर्वुदप्र भः|दशवाहुस्त्रिणेत्रश्चश्वेतपद्मासनेस्थितः|शशांकशेखरः|श्रीमान्पंचवक्त्रोमहातनुरिति|शक्त्यवपि|शाक्तसं श्रयेसकलशक्तिमतांवरिष्ठःपरमेश्वरःस्थितः|अत्रैवचयोनिर्विश्वस्येतिनादविंद्वादिक्रमेणसकलजगदुत्पत्तिहे तुःकुंडलिन्याख्याशक्तिःस्थिता|यथोक्तंश्रीमत्स्वतंत्रे|तत्रकुंडलिनीशक्तिर्मायाकर्मानुसारिणी|नादबिंद्वादिकंका र्यंतस्याइतिजगत्स्थितिरिति|वागीशाःपतयित्यत्यस्मिन्नेवस्थानेयेभुवनेश्वरत्वेनस्थिताःयथोक्तंतत्रैव|भुवना धिपतीनांचहेतुस्तद्वासिनांप्रिये|परतःशिवितिसकलकारणातीतनिष्कलंपरंशिवस्वरूपंज्ञेयं|तथाहिश्रीमत्स्व तंत्रेवोक्तं|तदतीतंवरारोहेपरंतत्वंनिरामयमिति|अथैतदाक्षेप्तुंमुनिःप्रश्रयति|सदाशिवशिवांतार्घकल्पिताणुवपु पृ० ११५अ) स्थितिः|सर्वातिशयविश्रामस्तदूर्ध्वंपतयःकथं|सदाशिवतत्वादूर्ध्वंशिवतत्वांतंयावद्योऽध्वातत्राणूनांनिवृत्यादिकलेश्व राणांध्वनिपतिप्रभृतीनांचवपुस्थितिर्दिव्यदेहयोगःकल्पितः|तत्रचसदाशिवतत्वेसर्वातिशयविश्रामः|नहिततोन्यन्नि ष्कलशिवतत्वादृतेअतिशायिकिमप्यस्तिएवंचकथंतदूर्ध्वंपतयुक्ताः|सिद्धांतः|ईशानतीत्यशांतांतंतत्वंचसादाशिवंस्मृ तं|भुवनान्यपिनादादिकालानान्यःपतिःशिवात्|अनंतेशादिविद्येश्वरोपलक्षितमीश्वरतत्त्वमतिक्रम्यनिष्कलतत्वां तंसदाशिवतत्वंज्ञेयं|अत्रचनादविंद्वादिकलाएवभुवनतत्वेनबोद्धव्याः|शिवभट्टारकेवचात्रसर्वतत्वाधिपतिर्नान्यः कश्चित्|ततश्चतदूर्ध्वंपतयःकथमित्यस्यचोद्यस्यानवकाशः|यद्येवंनादेध्वनिपतिःशक्तौसर्वशक्तिमतांवरितिभि न्नत्वं|पतीनांयदुक्तंतत्कथमित्याह|किंतुयःपतिभेदोस्मिन्सशास्त्रेशक्तिभेदवत्|कृत्यभेदोपचारेणतद्भेदस्थानभेदतः |शिवभट्टारकादन्योनात्राधिपतिः|किंतुनिवृत्यादिकलेश्वराणांयोस्मिंछास्त्रेभेदःसयथैकस्याएवशक्तेःकृत्यभेदोपचा पृ० ११५ब) (रेणतद्भेदस्थानभेदतः|शिवभट्टारकादन्योनात्राधिपतिः|किंतुनिवृत्यादिकलेश्वराणांयोस्मिंछास्त्रेभेदःसयथैकस्याएव शक्तेःकृत्यभेदोपचा)रेणवामादिभेदभिन्नत्वमेवंस्थानभेदहेतुकःकृत्यभेदकृतश्चज्ञेयः|तमेवकार्यभेदंदर्शयितुंविंदुभुवनस्थ निवृत्यादिकलेश्वरचतुष्टयस्यसाधारणंतावद्रूपमाह|करोत्युन्मीलनंयाभिःशक्तिभिर्नरतेजसः|तानिवृत्यादिसंज्ञानांभुव नानामधीश्वराः|आणवस्यसर्वज्ञत्वसर्वकर्तृत्वात्मनस्तेजसोपाभिःशक्तिभिः प्रकाशनंदेवःकुरुतेताःशक्तयेवनिवृत्ति पतिष्ठादिसंज्ञानांभुवनानामीश्वरत्वेनोक्ताः|इत्येतत्समानमासांस्वरूपं|अथासाधारणंचाहनिवर्त्तयतिभूतानि पयासास्यनिवर्त्तिका|निवृत्तिरितितत्स्थानंतत्रेशोपिनिवृत्तिमान्|यथाशक्त्याचतुर्दशविधंभूतसर्गंनिवर्त्तय तिसंसारवैनृष्ण्यजननेनकैवल्याभिमुखंसंपादयति|साभगवतःशक्तिर्भवनिवर्त्तनव्यापारकारिणीतच्चतदधिष्ठेयंस्था नंनिवृत्तिसंज्ञंतदधिपतिश्चपरमेश्वरोनिवृत्तिमानित्ययमसौस्थानभेदात्कृत्यभेदाच्चभाक्तुक्तोभेदः|एवंप्रतिष्ठादीनाम पृ० ११६अ) पिसंज्ञेयं|तथाहि|निवृत्तस्यगतिर्भूयोययाप्रच्यावलक्षणा|निषिध्यतेप्रतिष्ठासास्थानंतद्वांश्चतत्पतिः|अभिध्यानानु गृहीतस्योन्मुप्यस्याणोःपुनरधोध्वनिसंसारलक्षणागतिर्ययानिषिध्यते|सागतिनिवृत्तिहेतुत्वात्प्रतिष्ठाख्याशैवी शक्तिःस्थानंचतत्प्रतिष्ठाभुवनं|तदीश्वरश्चप्रतिष्ठाधिपतिसंज्ञोविज्ञेयः|त्यक्त्वाप्तगम्यविषयंययाज्ञानंददात्यणोः|सा विद्यास्थानमप्यस्याविद्येशश्चतदीश्वरः|आप्तविषयंशव्दविषयंगम्यविषयंचानुमेयंज्ञानंत्यक्त्वापारिशेप्यात्साक्षात्कृ ताशेषपदार्थजातंज्ञानंययाशक्त्याणोरात्मनःपरमेश्वरोभिव्यनक्तिसाशक्तिस्तच्चभुवनंविद्याख्यंतदीश्वरश्चविद्या धिपाख्ययावोद्धव्यः|सर्वदुःखप्रशमनंययास्यकुरुतेहरः|साशांतिस्तत्पदंचेतितत्कुर्वन्सोपिशांतिमान्|निखि लदुःखशमनंययास्यात्मनःशिवनाथःकरोतिसातदीयाशक्तिःतच्चस्थानंशांत्याख्यंतच्चकुर्वन्सोपीश्वरःशांतिमा नुच्यते|इत्थंविंदुकलाचतुष्कमुक्त्वानादकलोक्त्यर्थमाह|ऊर्ध्वाधोविषयालोकोमहान्यश्रमहत्तरः|महत्तमश्चक्रियते पृ० ११६ब) चितोयाभिर्विमुच्यतः|ताइंधिकाद्यास्तत्स्थानंतद्वानीशस्तिसृष्वपि|विमोचनंविमुक्तिर्वधापगमः|विमुचमिछत्यात्मन इतिक्यचिकृतेशत्रंतस्यविमुच्यतितिरूपं|एवं|चविमुच्यतोमोक्षैषिणःपुंसःऊर्ध्वाधोविषयःप्रकाशोमहानिंधिकया विधीयते|सेवचदीपिकाख्ययामहत्तरःसंपाद्यते|रेचिकयात्वसावेवमहत्तमःक्रियते|तानिचैतासांस्थानानिइंधिकादि संज्ञानीतिसृष्वप्येतासुकलास्वधिपतिस्तद्वानितींधिकादुद्युपलक्षितोवेदितव्यः|अथमोचिकायाश्चोर्ध्वगायाश्चो क्तवद्व्यापारमाह|सर्वज्ञत्वादियोगेपिनियोज्यत्वंमलांशतः|प्रमार्ष्टितंययासास्यमोचिकातत्पदंचयत्|मोचकस्तत्क्रि याकृच्चययेशानंकरोतितं|सोर्ध्वगातव्यदंचेतितदीशश्चोर्ध्वगापतिः|विद्येशाद्यधिकारभाजांसर्वज्ञत्वादिगुणयोगे पिमलांशावशेषतःप्रेर्यत्वंयदस्तितद्यथाशक्त्यात्मनोनिवर्त्तयतिसास्यभगवतोमोचिकाख्याशक्तिःतस्याश्चयत्स्था नंतत्कृत्यकारीचपरमेश्वरस्तदेतत्सर्वंमोचिकाख्याव्यपदेश्यं|ययाकृतानुग्रहमीशानंसंपादयतिसाशक्तिस्तच्चस्थानमू पृ० ११७अ) र्ध्वगाख्यं|तदधिष्ठाताचेश्वरूर्ध्वगाधिपतिरित्युक्तः|येपितत्पदमापन्नाःशैवसाधनयोगतः|तेतत्स्थित्यंतमाह्लादंप्राप्य यांतिपरंपदं|नचसृष्ट्यादिकुर्वंतिस्वार्थनिष्ठाहितेयतः|तत्तद्विधोपदेशरूपेणज्ञानाख्येनवक्ष्यमाणानेकविधभुवनयो जनात्मकेनदीक्षाख्येनशैवेनपारमेश्वरेणसाधनोपायेनयुक्ताणवस्तत्पदावाप्तिभाजस्तत्स्थितिपर्यंतनिरतिशयानं दात्मकंभोगंप्राप्यपरमपदंयांतिशिवसमानाःसंपद्यंतेनचपरमेश्वरवत्सृष्टिस्थित्यादिकृत्यंविदधति|यतःस्वार्थेपरेनि र्वाणावाप्तिलक्षणेनिष्ठाविश्रांतिर्येषांतेवंविधाः|ततःपरंप्राप्यस्यान्यस्यचवस्तुनोसंभवात्प्रेर्यतापगमाच्चसृष्टि स्थित्यादिकृत्यंनतेकुर्वंतीतियावत्|उपसंहरन्नाह|इतिसादाशिवंतत्वंव्याख्यातंलेशतस्तव|लेशतःस्वल्पयामात्रया तवेतिप्रष्टुर्भरद्वाजमुनेःईशानतीत्यशांतांतंतत्वंसादाशिवंस्मृतमित्युक्त्वातछक्तितत्वमपितदंतर्भूतमेवेतिवक्तुमति दिशति|शक्तावप्येवमित्येषसकलःकृत्ययोगतः|कृत्यंतदादिविषयंनिष्कलोन्यत्रसर्वदा|शक्तिरप्येवंव्यापिकैवज्ञेया पृ० ११७ब) इत्येवमुक्तपारीत्याएषसदाशिवनाथःकृत्ययोगात्स्थित्यादिव्यापारवशात्सकलःसहिकलाभिव्रह्मपंचकसंवंधिनीमि रष्टत्रिंशत्संख्याभिस्तारासुतारातरणीत्याभिरारव्धमूर्त्तिकः|यथोक्तंप्राक्तद्वपुःपंचभिर्मंत्रैःपंचकृत्योपयोगिभिः| ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकमिति|तच्चकृत्यंतदादिविषयमितितदादिर्विषयोयस्यप्रथमतस्तदिछयैपंच विधकृत्यनिष्पत्तिरित्यर्थः|अन्यत्रेति|स्थित्याद्यप्रवृत्तौतदुपरमेवासार्वकालंनिष्कलेवपरमेश्वरःकार्यार्थंकला कल्पितमूर्त्तित्वात्|भूमिप्राधानिकग्रंथिविद्याबिंदुकलादिषु|गुणकारादशाद्यास्युर्नादकोटेरधोमुने|भूमिश्च पृथिवीप्राधानिकंचप्रकृतितत्वंग्रंथिश्चमायातेषुभूमिप्रधानग्रंथितत्वेषुविद्यायांचशुद्धविद्यायांविंदुनादकलान वकेचेत्येवमत्रगुणकाराः|गुणबंधस्थानानिस्युःसंतीत्यर्थः|तत्रपार्थिवप्राकृतमायीयतत्वत्रयेगुणात्मिकासत्वरजस्त मोवहुलाःकाराःपाशाःसंतिसत्वादिगुणत्रयमत्रपाशतयास्थितमित्यर्थः|सत्वस्यरजस्तमोपेक्षयाप्रकाशत्वेनोत्कर्षेस पृ० ११८अ) त्यपिरजस्तमोभ्यामन्यंत्वेनविषयत्वासंभवात्पाशत्वसिद्धेः|तथाचोक्तंसिद्धगुरुणासत्वगुणावछन्नोभविनांभोगोमलो शुचिर्बंधःपतिविभवानलदात्यःपुंसांचेतोगुणप्रभविति|विद्यायांविंदुनादकलानवकेचगुणानांसर्वज्ञतातृप्त्यनादि वोधादीनांयानिरतिशयस्यमहत्तमस्यालोकस्यकर्त्रामध्यमीकलारोचिकाख्यातदधोवर्त्तिचनादकलाद्वयंबिंदुकला चतुष्कंच|शुद्धविद्यामायाव्यक्तंपृथिवीचकाराःप्रतिवंधकत्वेनस्थिताः|अतेवाह|दशाद्यास्युर्नादकोटेरधितिना दस्ययाकोटिरूर्ध्वगाख्यायाःपर्यंतस्तदधोदशैताःप्रोक्तवन्नादविंदुकलानवकंशुद्धविद्यातत्वंचेत्यतेतद्दशकंनिरति शयसर्वज्ञत्वतृप्त्यादिपारमेश्वरगुणप्रतिवंधस्थानत्वादाद्याइतिमुख्याःकाराः|वंधनभुवः|अन्येतुभूमिप्राधानि कोग्रंथिरित्यसमस्तपाठाभिप्रायेणैवंव्याचक्षते|यदुतगुणानांसत्त्वरजस्तमसामशुद्धानांप्राधानिकस्तावत्पाशग्रंथि रिवग्रंथिभूमिरितिमुख्यव्याप्तिस्थानंविद्यायांविंदुनादकलानवकेचेत्येवंदशस्वाद्येषुस्थानेष्वन्येतुशुद्धास्तेसत्वादयस्तत्त पृ० ११८ब) द्भुवनंनिर्वर्त्त्यतत्तत्कृत्योपयोगिनःसंभवंति|यथोक्तमागमांतरे|पार्थिवप्राकृतांडाभ्यामूर्ध्वमंडद्वयेपरे|शुद्धाःसत्वादयः संतिविंदुनादकलासुचेति|अत्रचशुद्धत्वादेवकारात्वमनुपपन्नमितिनचोद्यं|परकैवल्यप्रतिवंधहेतुत्वेनतथाविधाना मपितेषांपाशत्वानपगमात्|उक्तंच|समनांतंवरारोहेपाशजालमनंतकमिति|इदानींप्रागुक्तानांगहनेशादीनां किपदास्पदमितिप्राग्यन्नोक्तंतद्वक्तुमाह|ऊर्ध्वंकलायाविद्याधःश्रूयंतेगहनाधिपाः|तदंतरालमेतावदितिधीजात्र लक्षणा|विद्याशव्देनात्रमाया|तदुक्तंश्रीमत्पौष्करे|मायाविद्यापरास्मृतेति|अस्याधःकलायाश्चोर्ध्वागहनेशाद योरुद्राःशास्त्रेषुश्रूयंते|तत्रतयोर्मायाकलयोरेतावत्प्रमाणमंतरालमितिवुद्धिजैवात्रलक्षणामानंपरिछिन त्ति|नत्वत्रप्रमाणंपरमुच्यते|मायातत्वस्यानंतत्वश्रुतेः|तथाचोक्तंतत्रभगवद्वृहस्पतिपादैः|अपिसर्वसिद्धवाचः क्षीपेरंन्दीर्घकालमुद्गीर्णाः|मायायामानंत्यान्नोच्येतस्रोतसांसंख्येति|उपसंहर्त्तुमाह|द्वयोरप्यध्वनोरेवंक्रमप्रसवयो पृ० ११९अ) गिनोः|विलयःप्रातिलोम्येनशक्तितत्वद्वयावधिः|एवमित्युक्तेनप्रकारेणक्रमिकोयःप्रसवःसर्गस्तद्योगिनोर्द्वयोरपिशु द्धाशुद्धयोरध्वनोःसर्गविपर्ययेणसंहारक्रमेणविलयः|यतेवयस्यप्रसवस्तस्यैवतत्रांतर्भावित्यर्थः|शक्तितत्वद्वयावधि रितिशुद्धस्यतावत्परशक्त्यंतः|अशुद्धस्यमायाशक्त्यंतःअत्यर्थंसंक्षेपेणसूचितंसंहारक्रमंविशेषजिज्ञासुर्मुनिःप्रश्नय ति|व्यस्तस्याथसमस्तस्यविलयःसकदाकियान्|तत्वमार्गस्यभगवन्व्रूहिसर्वार्थदर्श्यसि|यतःसर्वगतार्थद र्शित्वंत्वयिभगवन्नतोस्माकमादिशकथंकेनक्रमेणकियत्कालीनश्चव्यस्तस्यप्राधानिकादेःसमस्तस्यशक्तितत्वां तस्यतत्वाध्वनोविलयुपसंहारितिप्रश्नार्थः|अथात्रोत्तरं|महास्वापेसमस्तस्यव्यस्तस्यावांतरोलयः|सर्गोप्येवंस्थि तेःकालःकथ्यमानोवधार्यतां|अनवरतमनंतपुरुषोपभोगसाधनतनुकरणभुवनादिजननापचितशक्तेर्माया तत्वस्यपुनस्तत्कार्यनिर्वर्त्तनक्षमविचित्रशक्त्युत्तेजनार्थंभविनांभवभ्रमणखिन्नानांवाविश्रांत्यैव्यस्तस्यप्राधानिकादेरध्वनो पृ० ११९ब) विलयः|स्वेछापरिगृहीतसदाशिवादिसकलरूपोपसंहृतलक्षणेमहास्वापेसमस्तस्याप्यध्वनःप्रतिसंचरः|यथायादृश श्चासौतथाग्रेस्पष्टयिष्यति|सर्गोप्येवमितिव्यस्तसमस्तत्वेनतथाहिपरापरविद्येश्वराद्यनेकाधिकारिकृतत्वेनव्य स्तःपरमेश्वरेछाप्रेरितानंतादिरूपतयातुसमस्तः|तदित्थंव्यस्तसमस्तस्यचाध्वनःकदाविलयस्यितिप्रश्नितंयत्तदियनाप्रत्युक्तं०इदानींकियानितिकिमत्कालीनःसविलयितिप्रश्नस्योत्तरस्थितेःकालित्यादिनास्थितिपूर्वकत्वाद्विलयस्थितेस्तावत्का लोभिधीयमानःश्रूयतां|कोसावित्याह|चतुर्युगसहस्रांतमहर्हेमांडजन्मनः|निशातावत्यहोरात्रमानेनार्धपरा र्द्धके|विलयोव्युत्क्रमेणैषप्रकृत्यादिनिवार्यते|कृतादियुगचतुष्टयसहस्रांतमानकंकनकांडजस्यव्रह्मणः संवंधिदिनंतावत्येवचरात्रिरवेनाहोरात्रमानेनषष्ठ्यधिकशतत्रयसंख्यातेब्देएकदशशतसहस्रगणनयापरार्द्धसं ख्यायदाव्दानामुत्पद्यतेतदाव्यस्तस्यप्रधानिकस्याध्वनोविलयः|एषचव्युत्क्रमेणेतिसृष्टिक्रमवैपरीत्येनपश्चाद्व्यस्त स्याध्वनःसर्गोभूतसंहारस्तुपूर्वमितिवैपरीत्यंतदाचप्रकृत्यादिप्रधानादियत्सर्गस्योपादानकारणंतन्नपार्यतेतत्तद पृ० १२०अ) धिकृतैरुपसंहृत्यव्यापारःक्रियते|अथकथंतदधिकृतास्तदानीमासतित्याह|तदारुद्रशतंवीरश्रीकंठौचप्रधानयाः| शक्त्याक्रम्यजगत्सूक्ष्मंसूक्ष्मदेहांश्चचित्त्वतः|प्रकृतिस्थाशयान्कालंतत्स्वायांतमुपासते|तस्मिंश्चकातेशतरुद्राःश्री कंठवीरभद्रौचक्रोधेशचंडसंवर्त्तादयश्चप्रधानाधिकृताःप्रकृतिस्वापावसानंयावत्स्वाधिष्ठेयंजगत्तदानींशक्तिरूपत यावस्थानात्सूक्ष्मंप्रकृतिस्थितकर्माशयान्क्षित्यादिकलांततत्वारव्धसूक्ष्मदेहांश्चित्वतश्चाणून्स्वशक्त्याधिष्ठाय तिष्ठंति|तदनंतरंशिवेष्टमंत्रभृन्नुन्नमंडलाधिपतीरिताः|कालेजगत्समुपाद्यस्वाधिकारंप्रकुर्वते|पुनरवांतरसर्ग प्रारंभेपरमेश्वरेछाचोदितानंतादिविद्येश्वरप्रेरितैर्मंडलाधिपतिसंज्ञितैरधिकारिरुद्रैःप्रवर्त्तितास्तेतस्मिन्कालेजग न्निर्माययथास्वमधिकारंविदधति|अत्रप्रकृतिस्थाशयत्वश्रुतेर्मुनिःसंदिहानःप्रश्नयतिकर्मधर्मादिकंतच्चगुण त्वेनमतौस्थितं|गुणिनोनगुणोपैतिप्रकृतावुच्यतेकथं|धर्माधर्मरूपंयत्कर्मतद्वुद्धेर्गुणत्वेनस्थितमित्युक्तं|भावावु पृ० १२०ब) द्धिगुणाधर्मज्ञानवैराग्यभूतयित्यादिना|नहिगुणिनःसकाशाद्गुणस्यापगमोदृष्टः|नहिपटाछौक्ल्यंशर्करादेर्माधुर्यं वापृथक्कर्तुंशक्यं|ततश्चप्रकृतिस्थाशयत्वश्रुतिःकथमितिप्रश्नार्थः|सिद्धांतस्तु|सत्यंवुद्धिगुणःकर्मनापैतिगु णिनोगुणः|देहाक्षफलभूमीनांतात्स्थात्तत्रोपचर्यते|(भवत्येववुद्धिगुणत्वंप्रागुक्तरीत्याधर्माधर्मरूपस्यकर्मणःगु (णिनश्चसकाशान्गुणस्यव्यपगमः|तत्रतुप्रकृतौतत्कर्मस्थितमित्युपचर्यते)भवत्येववुद्धिगुणत्वंप्रागुक्तरीत्याधर्मा धर्मरूपस्यकर्मणःगुणिनश्चसकाशान्गुणस्यव्यपगमः|तत्रतुप्रकृतौतत्कर्मस्थितमुत्यपचर्यते|कस्मादुपचा रवीजादित्याह|देहाक्षफलभूमीनांतात्स्थ्यात्प्रकृतिस्थाएवभोक्तृणांशरीरेंद्रियार्थभोगभूमयः|तत्कर्मापित त्स्थत्वेनोक्तं|वुद्धिस्थत्वेपिकर्माशयस्यवुद्धेस्तत्स्थत्वात्प्रकृतिस्थाशयत्वमात्मनामुक्तमित्यविरोधः|दृश्यंतेचता स्थ्यादेरुपचारवीजादनेकविधाःशव्दानामौपचारिकाःप्रवृत्तयः|तथाहि|आधारेकारणेकार्येसमीपेचोपकारके|धर्मा पृ० १२१अ) द्यनुकृतौचेतिलक्षणांसूरयोजगुः|मुख्यार्थानुगमानुपपत्तेर्गुणार्थंप्रतिप्रतीतिकारिणींलक्षणांसूरयस्तद्विरोजगुःऊचुः |कुत्रकुत्रेत्याह|आधारित्यादि|तत्रतावदाधारेयथामंचाःक्रोशंतीति|अत्रहिमंचानामधिकरणभूतानामाचैतन्याद्रोद नलक्षणेनक्रोशनार्थेनाननुगमादानर्थक्यात्|तत्स्थानांवालानांसंवंधियत्क्रोशनंतक्षेषुतात्स्थ्यात्मलक्षणयोक्तं|का रणेतुलक्षणायथा|शालीन्वृष्टोदेविति|अत्रहिमुख्ययावृत्त्याशालिवर्षणस्यार्थोनन्वितितिलक्षणयाकालोचितायां वृष्टौशालिकारणभूतायांप्रतिवंधवैकल्पयोरसंभावनात्संपन्नमेवशालिलक्षणंकार्यसुपचर्यते|अथवाआयुर्घृतमिति आयुष्कारणेघृतेआयुषस्तत्कार्यस्योपचारःएवंकार्येपिलक्षणासंभवति|यथाऊर्णाःप्रावरणाःकेचिदपरेछूलावासि ति|अत्रकिलसूत्रभावंविनाभाविनाकम्वलपटादिभावेनापरिणतयोरूर्णातूलयोर्मुख्ययावृत्त्याप्रा(जलरूपंस्रोतःगु) वरणत्वंमसभावितंतत्कार्यस्यकंवलपटात्मनेवतदुपपत्तेः|ततश्चकंवलेपटादौचतयोःकारणभूतयोरूर्णाकार्यासयोरुप पृ० १२१ब) चारःकृतःसमीपार्थलक्षणायथागंगायांघोषिति|अत्रहिमुख्ययावृत्त्याप्रवहज्जलरूपंस्रोतःगुणवृत्त्यावातद्विशेषंयदि किंचिद्गंगाशव्दःकथयेत्तदास्यासंभाव्येवग्रामाधिकरणतेतिसामर्थ्यात्तत्सामीप्यलक्षणत्वेनतद्व्यवतिष्ठते|उपकारकेपि लक्षणादृश्यते|यथाभिक्षावासयंतिकारीषोध्यापयतीति|अत्रकिलनभिक्षास्तत्प्रावरणांचलंकरेणगृहीत्वागमननि षेधंकुर्वंति|नापिसर्वथास्मात्स्थानान्नगंतव्यमितिप्रणयवचनैरवस्थापयंति|अपितुप्रचुरान्नव्यंजनवत्यस्तृप्तिहेतुत्वा न्निवसनक्रियायामुपकारकत्वेनसंभाव्यमानाःप्रयोजकत्वेनोपचर्यंते|एवंचनकारीषोंगपुत्राधीष्वेतिव्रुवन्माणवक मध्यापयति|नापितछरीरमनुप्रविश्यभूतवेतालादिभिरिवैनंपाठयति|किंतर्हिशीतापनुतिहेतुतयाध्ययनविध्युपका रकत्वेनानुकूल्यंभजंस्तत्प्रयोजकत्वेनोपचारितः|किंचधर्माद्यनुकृताविति|आदिग्रहणादाकारानुकृतौवा|तत्रधर्मानु कृतौयथा|सिंहोमाणवकःगौर्वाहीकिति|अत्रकिललक्षणयासिंहधर्माणांशौर्यादीनामनुकृत्यर्थंमाणवकेसामा पृ० १२२अ) नाधिकरण्येनसिंहशव्दःप्रवृत्तःमुख्ययावृत्त्यातस्यसिंहत्वस्यासंभवाद्वाहकेतिपृष्ठवहनत्वासंभवात्तिष्ठद्भक्षणगछन्त्रृणादनादिव लीवर्द्दगतधर्मानुकरणायगोशव्दःसामानाधिकरण्येनोपचरितवृत्तिरेवप्रवृत्तः|मुख्ययावृत्त्यातथानन्वयात्|एवमाका रानुकृतौयथासूचिभेद्यैस्तमोभिरिति|अत्रहितमसोमूर्त्तत्वान्सूचिभेद्यत्वंमुख्यवृत्त्यानसंगतमतोलक्षणयातिनिविडत्वंव क्तुमाकृतिःसूचिभेद्यत्वेनानुकृताएवंनामद्यनानितमांसियद्वस्त्रादिवत्सूच्यादिनाभेदमप्येषांवक्तुंशक्यमित्यर्थः|तदि यताप्रासंगिकमुपचारवीजमनेकाकारमुदाहृत्यप्रकृतमुपसंहारक्रममनुसरन्नाह|एवंगुणादिसर्गाणांपरार्द्धेगुणकार णं|कलालेढिकलामायास्वाधिकारपराङ्मुखी|तन्निवृत्तौनिवर्त्तंतेदेवास्तदधिकारिणः|सर्गस्थित्यादिकोयस्मादधि कारस्तदाश्रयः|गुणादिसर्गाणांप्रागुक्तनयेनपरार्द्धसंज्ञकेकालेप्यतीतेगुणकारणमव्यक्ताख्यंकलास्वात्मन्युपसंहरति| तामपिकलांस्वस्मादधिकारात्पराङ्मुखीस्वव्यापारोपसंहारेछुर्मायास्वात्मन्येवोपसंहरति|तस्यचमायाधिकारस्यनिवृत्तौ पृ० १२२ब) तदधिकृताःसर्वेनिवर्त्तंतेविरतव्यापाराआसतेयस्मात्तेषांसर्गस्थित्यादिरूपोधिकारःसर्वोमायाश्रयः|तद्विरतौचकथंतेषांनवि रामःस्यात्|इत्थमशुद्धेध्वनिप्रतिसंचरुक्तः|इदानींशुद्धाध्वनिवक्तुमाह|एवंमंत्रेशमुख्येषुविशत्स्वभिमतंपदं|विद्यामत्तिसदात त्वंतद्विंदुर्बैदवंध्वनिः|नादमत्तिपराशक्तिःशक्तिमीष्टेस्वयंहरः|अनेनैवक्रमेणमंत्रेश्वरप्रधानेषुमंत्रमहेश्वरेष्वनंतादिषुनिवर्त्ति ताधिकारत्वात्परकैवल्यप्रेप्सुषुसत्सुविद्यातत्वंसदाशिवतत्त्वेसमुपसंहृतवैभवंभवति|तच्चवैंदवेर्बैदवमपिनादात्मनिना दोपिपरस्यांशक्तौतांतुशक्तिंसाक्षात्परमेश्वरस्वात्मन्युपसंहरति|कलाप्रसवांकरोति|एवंचकृतेसतिपरमेश्वरःआकल प्यस्वदृक्छक्त्यास्वायंसृष्ट्यैप्रवर्तते|निजयाज्ञानशक्त्याभवभ्रमणखिन्नानांभविनांयथोचितभोगोपयोगितनुकरणभुवना द्यनेककार्यप्रत्यवापचितशक्तेश्चमायाख्यस्योपादानकारणस्यविश्रमायस्वापमव्यापृतत्वमियताकालेनेतेभवितोविश्रा म्यंति|उपचितसामर्थ्यंचपुनःसर्गक्षमंमायाख्यकारणंसंजायतित्येवमाकलप्यपरमेश्वरःसृष्ट्यर्थंप्राग्वत्प्रवर्तते|यथाचैता पृ० १२३अ) न्युक्तानिस्वस्मिन्स्वस्मिन्कारणेविलीयंते|एवमन्यदपीत्याह|एवंतत्वानिभावाश्चभुवनानिवपूंषिच|शुद्धाशुद्धाध्वनोर्विप्रव्या ख्यातानिसमासतः|अनेनैवक्रमेणान्यदपितत्वभावभुवनादिसितासिताध्ववर्त्तियत्किंचित्तस्मिंस्तस्मिंकारणेप्रलीनंसंक्षेपतो व्याख्यातंज्ञेयं|अत्रमुनिःप्रश्नयति|विद्यापंचाणुदेहश्चविंदुर्नादोथकारणं|पंचस्कंधःपरोमार्गःक्वभावाःप्रत्ययास्थिताः |शुद्धाशुद्धयोरध्वनोस्तत्वभावभुवनानांसंक्षेपादेवंविधंस्वस्मिन्कारणेप्रतिसंचरितियद्भगवतास्माकमादिष्टं|तत्रविद्या सदाशिवविंदुनादपरशक्तिरूपेशुद्धेध्वनिभावप्रत्ययाःक्वस्थित्याइतिप्रश्नार्थः|अथात्रसिद्धांतः|नादःसूक्ष्मःकलाका लरागयुग्मेसपूरुषेस्थूलःपंचकलोनादःपंचतत्वाश्रयोमुने|प्रधानादिचतुर्ग्रंथिनिधिर्विंदुश्चतुष्कलः|गर्वेमनोमु खादेवावुद्धौभावादयःस्थिताः|पंचमंत्रतनुर्देवःस्थितस्तन्मात्रपंचके|सूक्ष्मभूतेषुमंत्रेशामंत्राःस्थूलेषुसंस्थिताः|इद मत्रतात्पर्यं|पंचस्कंधस्थाप्यस्यशुद्धस्याध्वनोव्याप्यत्वेनाशुद्धोध्वाव्यवस्थितः|तत्रचोच्यमानवद्विशिष्टव्याप्तेर्विंदुतत्वस्यांत पृ० १२३ब) र्गतत्वेनभावप्रत्ययानामवस्थितेर्नकश्चिद्विरोधः|तथाहिसूक्ष्मःपरोनादःकलेतिकलाव्याप्यत्वादुपचारतःकलाशव्दसामा नाधिकरण्येनोक्तः|तथानिखिलनादविंद्वादिप्रमेयगर्भीकारेणतत्कारणंपरंनादस्वरूपमवस्थितमेवंसमस्तासिताध्वक्रोडीकारेण कलास्थितेतितद्भावेनतस्युपचारःकृतः|कालयुग्मेनियतिकालात्मकेरागयुग्मेचविद्यारागस्वरूपेसंपुटेसपुरुषितिपुंस्तत्वस हितेएतानिपंचतत्वान्याश्रयोयस्यसपंचतत्वाश्रयः|पंचकलःस्थूलोनादः|अनेनैवचक्रमेणप्रधानगुणमहदहंकारलक्षणंय द्ग्रंथीनांपाशरूपाणांप्रकृतीनांचतुष्टयंतन्निधिरितितद्गर्भः|प्रागुक्तनिवृत्त्यादिकलाचतुष्टयात्मकोविंदुर्वोद्धव्यः|एतदंत र्गतेगर्वेअहंकारतत्वेमनसासहकरणदशकंवुद्धौतुधर्माधर्मादयोभावाः|तदुपादानाश्चप्रागुक्ताःप्रत्ययाःस्थिताः|इत्थंच सदाशिवनाथःपृथिव्यादितन्मात्रपंचकाधिष्ठातृसद्योजातादिपंचकमंत्रतनुस्तन्मात्रपंचकेस्थितः|सूक्ष्मेषुसूक्ष्मदेहारंभ केषुभूतविशेषेषुमंत्रेशानांव्याप्तिः|मंत्राणांस्थूलेषुपृथिव्यादिष्वित्येवंशुद्धोप्यध्वैतत्प्रमेयगर्भीकारेणावस्थितित्यदोषः| पृ० १२४अ) अथव्याख्यातार्थोपसंहारायव्याख्येयस्यक्रियापादस्यचोपक्षेपायश्लोकः|इतिपदणुनिरोधिध्वांतवीजाद्यदृष्टंपशुमतसृतदृग्भिः पाशजालंसुभूरि|तदुपशमनिमित्तंवक्ष्यमाणक्रियातोरुचदविहतशक्तिःशांभवीमंत्रसंयत्|इत्येवमुक्तेनप्रकारेणाणून्पशू न्निरुणद्ध्यवश्यमित्यणुनिरोधिध्वांतबीजादिमलकर्ममायामहेश्वररोधशक्त्यात्मकमनंतात्मावारकत्वेनानेकशक्तियोगात्|सुष्ठुभूयोतिशयेनभूयिष्ठंपशुमतेष्वनाश्वरशास्त्रेषुसृतादृग्ज्ञानंयेषांतैरदृष्टमनवगतंपाशानांसंवंधिवंधनहेतुत्वाज्जालमिवजा लंतस्योपशमनहेतोरभिधास्यमानक्रिययाहेतुभूतयादेदीप्यमानाऽप्रतिहतप्रभावाशिवमंत्रसमृद्धिः|अयमाशयः|वक्ष्य माणादीक्षाक्रियाक्रमोत्तेजितसहजसामर्थ्यामंत्रसमृद्धिर्मलकर्मामायादिपाशोपशांतिनिमित्ततामेत्याभ्युदयायभवतीतियस्मा दचिंत्यानुपममहिम्नामूलमंत्राणांविषयापहारादाविवमलकर्ममायीयपाशछेदेनसामर्थ्यमव्याहतं|तथाचाहसिद्धगुरुः सद्योज्योतिर्मंत्रतत्वकरणीयनिरूपणावसरे|विषवन्निकृंततिपशोस्तूर्णंमलकर्मयोनिकार्याणि|आराधितस्तुसिद्धी पृ० १२४ब) र्यछतिविविधाश्चसाधकेभ्यिति|किमप्यनुपयोगियद्यदपिकिंचिदप्रस्तुतंप्रमेयमधिकृत्यतत्रखलुनिष्फलंवर्जितं|अपि त्ववसरोचितप्रकृतवस्तुमीमांसकानांमृगेंद्रविवृताविहस्फुरतुतद्विदामादरः|शांकरकंठश्रीमद्विद्याकंठादनुग्रहंलव्ध्वा|ना रायणकंठिमांतत्पुत्रोव्यरचयद्विवृतिं भट्टविद्याकंठात्मजभट्टनारायणकंठविरचितायांमृगेंद्रवृत्तौभुवनाध्वप्रकरणं समा प्तश्चविद्यापादः प्रभवतियतःसर्वज्ञत्वंयतोखिलकर्त्तृताप्रसरतितथाकार्येचासौपराप्रतिभायतः|निरुपधिपरंशांतंधा मस्मरामितदीशितुःस्वयमपिविभोर्वागीश्वर्यागिरांपदगोचरः|अथेदानींयोगपादःप्रारभ्यते|तत्रतावत्|अस्मात्प्रवितता द्वंधात्परसंस्थानिरोधामस्मरामितदीशितुःस्वयमपिविभोर्वागीश्वर्यागिरांपदगोचरः|अथेदानींयोगपादःप्रारभ्यते|तत्रता वत्|अस्मात्प्रवितताद्वंधात्परसंस्थानिरोधकात्|दीक्षैवमोचयत्यूर्ध्वंशैवंधामनयत्यपीतिश्रुतेदीक्षायाएवनिरतिशयकैवल्या वाप्तिहेतुत्वात्तस्याश्चसर्वस्याएवपशुपाशेश्वरस्वरूपनिरूपणोपायभूतेनसमस्ताध्वव्याप्तिप्रदर्शकेनमंत्रमंत्रेश्वरादिमाहात्म्यनि पृ० १२५अ) श्चायकेनज्ञानेनविनानिष्पादयितुमशक्यत्वात्तदवबोधकोविद्यापादःसपरिछदःपशुपाशेश्वरस्वरूपनिरूपणायप्रथममुक्तः ततःक्रियापादोप्यनेकविधसांगदीक्षाविधिप्रदर्शनायोपदिष्टःसंप्रतितुज्ञानक्रियाक्रमज्ञेनापिसाधकपुत्रादिनासमाध्याद्य नभ्यासादनात्मविदासतायथोपदिष्टस्वस्वव्यापारानुष्ठानंसंपादयितुंनशक्यमितिप्राणायामाद्यंगसहितोयोगज्ञप्तयेयो गपादोपक्रमः|अत्रचप्रक्षीणपाशस्याणोःपरमेश्वरस्वरूपावभासनंतात्पर्यमितितंत्रवस्तुत्रयेणपशुपाशेश्वरलक्षणे नसंवंधोव्यवस्थापितः|प्रयोजनंचतदुपन्यस्तंज्ञेयं|सौत्रोपिसंवंधस्त्रिपादार्थंचतुष्पादमित्युद्देशसूत्र**?माल्लव्धःवाक्या त्मकश्चचर्यायोगक्रियापादौर्विनियोगोभिधास्यतित्यादिभिर्वाक्यैःप्राकरणिकोपिसमयिनःपुत्रस्यगृहीताभिषेकयो श्चसाधकाचार्ययोस्वश्योपयोगियोगप्रकरणमित्युक्तं|एतत्पाटलिकस्त्वनंतरपादपटलांतेसुरयोगींशजुष्टमित्यनेनोप क्षिप्तः|अथानात्मवतांमत्त्वास्वाधिकारंसुदुष्करं|यतेरत्रान्मवत्तायैदेशिकाद्याजिगीषवः|आत्माविद्यतेयेषांतेआत्मवंतः पृ० १२५ब) आत्मारामत्वेननियुक्तत्वात्साक्षात्कृतात्मस्वरूपाः|नित्ययोगेमतुप्|अनेवंविधानांदेशिकपुत्रसमयिसाधकानांनिजनिजाधि कारकरणमत्यर्थदुष्करंवुध्वातेदेशिकप्रभृतयुत्तरोत्तरभूमिकाजपैषिणस्तदर्थंपतेरन्|प्रपत्रवंतःस्युरितिविधौलिङ्|अथता वत्किमिदमात्मवत्वंनामेत्याह|तदात्मवत्वंयोगित्व|युज्यतेशिवलक्षणयास्वस्वरूपाभिव्यक्त्यावश्यमितियोगीतस्यभावो योगित्वं|आत्मवत्वाविनाभावि|अतेवयुजिर्योगित्यस्यधातोर्योगशव्दोज्ञेयः|नतुयुजसमाधावित्यस्यसमाधिरूपस्यतदंग त्वेनेष्टत्वात्|एतच्चजिताक्षस्योपपद्यते|नह्यवशीकृतेंद्रियग्रामस्यान्यदपिकार्यंनिर्वहति|किंपुनर्योगित्वं|तथाचाहुः|इंद्रि याणांविचरतांविषयेष्वयहारिषु|संयमेयत्नमातिष्ठेद्विद्वान्यंतेववाजिनामिति|जितेंद्रियस्यत्वचिरादेवस्वरूपलाभः|उक्तं चसनकेन|इंद्रियाणींद्रियार्थांश्चतन्मात्राणिमनस्तथा|नियम्यगतसंकल्पःपरमात्मनिलीयतिति|कथंतज्जिताक्षत्वंस्या दित्याह|प्राणायामाद्यनुष्ठानाज्जिताक्षत्वंशनैःशनैः|वक्ष्यमाणलक्षणप्राणायामाद्यंगसप्तकाभ्यासाज्जितेंद्रियत्वंशनैःक्र पृ० १२६अ) मेणभवति|द्वितीयःशनैःशव्दोभ्यासविषयेशनैर्वक्ष्यमाणमात्राविवर्द्धनक्रमेणप्राणायामादयोनुष्ठेयाः|यस्मादतिमात्र मभ्यस्यतांवातगुल्मगुदोदावर्त्तोर्ध्वश्वासोन्मादस्मृतिमोक्षादयोयोगविघ्नहेतवोदोषाउद्भवेयुः|अथसांगंयोगमुपदेष्टुमाह|प्रा णायामःप्रत्याहारोधारणाध्यानवीक्षणे|जपःसमाधिरित्यंगान्यंगीयोगोष्टमःस्वयं|प्राणायामादीनिसप्तांगानियोगस्य सतुस्वयमष्टमोंगित्वेनज्ञेयः|अथैषांप्राणायामादीनांलक्षणंवक्ति|प्राणःप्रागुदितोवायुरापामोस्यप्रखेदनं|प्रेरणा कृष्टिसंरोधलक्षणंक्रतुदोषनुत्|प्राणादिवृत्तिभेदादेकस्यापिवायोःप्राणापानादिपंचभेदत्वं|तद्वृत्तयश्चविद्यापादे प्रदर्शिताः|तादृग्विधस्यतस्यवायोःखेदनंस्वातंत्र्यभावादाधिक्येनवहिःप्रेरणं|तस्यैवचांतस्तथाकर्षणंसंरोधश्च कुंभीकरणं|रेचनप्रवेशनविरामः|एवंलक्षणयत्प्राणादीनांप्रखेदनंप्राणायामः|क्रतुशव्देनेंद्रियाणिसंकल्पोवा तेषांदोषाः|विहिताननुष्ठाननिषिद्धाचरणकृताःतान्रुदत्युपशमयतीतितद्दोषनुत्|उक्तंहि|दह्यंतेध्यायमानानांधा पृ० १२६ब) तूनांचयथामलाः|प्राणायामैस्तथादोषाःशाम्यंतींद्रियगोचराइति|अथप्रत्याहारस्यलक्षणं|ततःसुखलवास्वाहेते षांवृत्तस्यचेतसः|प्रत्याहारोविधातथःसर्वतोविनिवर्त्तनं|ततःप्राणायामाभ्यासादनंतरंप्रत्याहारःकार्यःकिंरूपोसा वित्याह|तेषामिति|तेषामिंद्रियाणांसंवंधिवैषयिकोयःसुखलवःआनंदलेशःतदास्वादेवृत्तस्यतत्परस्यचेतसःस र्वेभ्येवेंद्रियार्थेभ्यःप्रत्याहरणंप्रत्याहारोविरोधेयः|इत्थमनुष्ठितःकिंस्यादित्याह|तेनेंद्रियार्थसंसर्गविनिवृत्तेश्चितोम तिःधारणायोग्यतामेतिपदेस्वेछाप्रकल्पिते|तेनप्रत्याहारेणचितश्चित्तस्येंद्रियार्थसंयोगात्प्रत्याहृतत्वाद्याविनिवृ त्तिःस्वव्यापारविरतिस्तस्याहेतुभूतायाःस्वेछाप्रकल्पितेपदेवक्ष्यमाणधारणायोग्यतांमतिरम्येति|नचात्रमतिर्वुद्धिः |अपितुमननंमतिःसंकल्पाख्यश्चेतसोव्यापारः|तस्यैवधारणाश्रवणात्|यदाहपतंजलिः|देशवंधश्चित्तस्यधारणेति| तथाधारणासुयोग्यतामनुसिति|ध्यानंवक्तुमाह|चिंतातद्विषयाध्यानंतच्चादिष्टंमुहुर्मुहुः|धारणानिरुद्धस्यचित्तस्य पृ० १२७अ) त्रिनेत्रपंचवक्त्राद्याकारविषयायाचिंतातद्ध्यानं|तच्चादिष्टमितिहेमालिहिमरक्ताभवक्त्रांवुजचतुष्टयमित्यादाववसरांतरेषु मुहुर्मुहुरुक्तं|अथसमाधेर्लक्षणं|तदेकतानतामेतिससमाधिर्विधीयते|तद्ध्यानमेकृतानतांध्येयैकनिर्भासत्वंयदाभ्येतित दासमाधिरितिशास्त्रेषुप्रदिश्यते|तथाचाहपतंजलिः|तदेवार्थमात्रनिर्भासंस्वरूपशून्यमिवसमाधिरिति|जपस्यलक्षणं कथति|जपस्तद्भाषणंध्येयसंमुखीकरणंमुने|मानसस्यांतःसंजल्परूपस्योपांशुसंज्ञस्यचस्वसंवेद्यलघुध्वनेर्भाष्यस्यचश्रू यमाणस्यमंत्तस्यध्येयसंमुखीकरणायावर्त्तनंजपित्युक्तं|ऊहमिदानींलक्षयितुमाह|ऊहोभिवीक्षणंवस्तुविकल्पा नंतरोदितः|यत्तदूहंमतिःपुंसांभ्रमत्यंधेवमार्गती|तत्कुर्वन्नुच्यतेप्राणित्यनेनविद्यापादेप्राणाख्यस्यवायोःसौक्ष्म्या च्चलक्ष्यंनुदन्०|ऊहनंयदुक्तं|यथाचश्रीमत्स्वायंभुवे|नुदन्नूहःप्रवर्त्ततिति|सूहोभीवीक्षणात्मकस्तत्तद्भूमिकाप्रा प्तितोलव्धेवस्तुन्यसंतोषकृताद्विकल्पात्समनंतरमुदितुद्भूतोज्ञेयः|अथकस्मिन्नूहोसौकार्येयोगिनुपयोगीत्याह| पृ० १२७ब) यदावेत्तिपदंहेयमुपादेयंचतत्स्थितेः|तत्पोषकंविपक्षंचयच्चतत्पोषकंपरं|तस्यूहस्यस्थितिरवस्थानंततोहेतोःक्रमेण यदेतियस्मादर्थेयस्मात्कारणाद्योगीसमुत्पद्यमानःयथावस्थितसकलवस्त्ववभासनवाहेयंपदंतस्यचपोषकंतद्विपक्ष कंविपक्षयोपोषकंचवेत्ति|तथोपादेयंतत्पोषकंविपक्षकंविपक्षपोषकंचजानात्यतेषप्रकृष्टंयोगांगं|यथोक्तंश्रीमन्मा लिनीविजये|योगांगत्वेसमानेपितर्कोयोगांगमुत्तमं|हेयाद्यालोचनायेतिश्रीमत्स्वायंभुवेपि|अनेनलक्षयेद्योगीयो गसिद्धिप्रवर्त्तकं|निरोधकंचयद्वस्तुवहुधासंव्यवस्थितमिति|इत्यंयोगांगान्युक्त्वाफलमेषामभिधातुमाह|एषुव्यस्त समस्तेषुकृतयत्तस्ययोगिनः|विभातिशक्त्योविश्वंव्याप्यभानोरिवत्विषः|नतमीष्टेनरःकश्चित्रक्षोदानवमानवाः|रोरु चानमतीत्यैतादृक्क्रियाप्राणरोचिषा|एषुप्राणायामादिष्वंगेषुसमस्तेष्वसमस्तेषुवाक्ताभ्यासस्ययोगिनःसर्वाःशक्त योविवस्वतिवदीप्तयोविश्वंव्याप्यभांतिभ्राजंतेसर्वकार्येष्वयमव्याह|तसामर्थ्यःस्यादित्यर्थः|तथाहि|नैनमत्युग्रतेजस्त्वाद्देदी पृ० १२८अ) प्यमानंसंतंराक्षसदानवत्रिदशमनुजेभ्यःकश्चिदप्याक्रामति|प्रकृष्टैर्ज्ञानक्रियावीर्यतेजोभिरेतान्दानवादीनतीत्यातिक्रम्य स्थितत्वादितिरोरुचानत्वादितिविशेषणद्वारेणहेतुः|अत्रमुनिःप्रश्नयति|निवृत्तेर्मनसोहेतुःसंसर्गात्प्राणखेदनं|निवृत्ति र्द्धारणादीनांमूलंसर्वस्यतत्ततः|विस्तरेणसुरश्रेष्ठविकृष्टमपितत्स्थितं|यदन्यत्साधनंकिंचिद्योगसिद्धेश्चकथ्यतां|इंद्रिया र्थसंसर्गान्मनसोयानिवृत्तिर्विरतिस्तस्याःकिलप्राणायामाःकारणत्वेनेष्यंते|प्राणादिजयाद्धिमनसोवश्यताभवति साचमनसिंद्रियार्थेभ्योनिवृत्तिर्द्धारणादीनांहेतुस्ततश्चहेतोस्तत्प्राणखेदनंसर्वस्यधारणादेर्मूलमितिकृत्वाविस्तरे णोच्यतां|यच्चान्यद्योगसिद्धेर्विप्रकृष्टमृंगांगितयासाधनंस्थितं|हितमितजीर्णाशननिर्वाधस्थानाध्यासनादिशौचा दिवातदपिभगवन्नमरेश्वरास्मभ्यमभिधीयतामितिमुनेःप्रश्नः|अथान्नोत्तरं|नशक्यंविस्तराद्वक्तुंतत्प्रसंगभयाद्विधेः|प्र श्नस्यावश्यवाच्यत्वात्तथाप्युद्देशुच्यते|विधिप्रदर्शकत्वेनोपचाराछास्त्रेपिविधिव्यपदेशःविस्तरेणवक्तव्येभिधीयमानेशा पृ० १२८ब) स्त्रस्यातिविस्तरप्रसंगःस्यादितिविस्तरेणतावदभिधेयंवक्तुमयुक्तं|यथायथंविस्तारभीरवोहिश्रोतारः|तथाप्यवश्यवक्त व्यत्वात्प्रश्नस्योद्देशः|संक्षिप्तसकलविधिनिरूपणंक्रियते|तत्रादितस्तदंगतयास्थितंशौचंसंक्षेपतोवक्तुमाह|मूत्रा द्युत्सृज्यविधिवदेकार्द्धदशसप्तभिः|मृद्भिर्लिंगगुदासव्यहस्तयुग्मानिशौचयेत्|द्विर्व्रतीत्रिरयःपीत्वाद्विर्विमृज्याननं स्पृशेत्|खवाहुनाभिहृत्कानिद्विस्त्रिर्वाशौचिताधरः|विण्मूत्रोत्सर्गंविधिवदितिसामान्यशास्त्रविद्व्यनतिक्रमेणकृ त्वा|यथोक्तंवासिष्ठे|अवकुंठितशिराभूमिमयाज्ञियैस्तृणैरंतरितांकृत्वामूत्रपुरीषेकुर्यात्|उदङ्मुखअहनिनक्तंदक्षिणा भिमुखिति|ततेकपंचदशसप्तसंख्याभिर्मृत्तिकाभिर्यथासंख्यंशिश्नंचपायुंवामहस्तमुभौचपाणीशौचयेत्|द्विर्व्रतीति समयिसाधकादीनांचतुर्णामपिचर्यापादेव्रतित्वमव्रतित्वंचवक्ष्यति|तथाचायमव्रतिविषयःशौचविधिः|व्रतीतुतदे वद्विगुणमाचरेत्|ततःत्रिरयःपीत्वाइत्याचम्यद्विश्चास्यंपरिमृज्यखानींद्रियछिद्राणिवाहुनाभीहृछिरसीचस्पृशेत् पृ० १२९अ) द्वौवारौत्रीचारान्वाधरोष्ठौचक्षालयेत्|तदनंतरंतुहिजजीर्णाशनस्वस्थस्त्रिकुड्यावेष्टितेगृहे|वाधाशून्येचनादौवास्वासनस्थ उदङ्मुखः|नमस्कृत्यमहेशानमुमास्कंदगणाधिपान्|ऋजुग्रीवाशिशिरोवक्षानासाग्राहितदृग्द्वयः|पार्ष्णिभ्यांवृषणौरक्षनदं तैर्दंतानसंस्पृशत्|विष्टव्धेदेहोदंताग्रेजिह्वामाधायसुस्थितः|रेचयेछक्तिपर्येतंपुटेनैकेनमारुतांहितंअपीडाकरंजीर्णेपरि णामप्राप्तौअशनंयस्यसेवंस्वस्थः|अतेवधातुसाम्यादिनात्रिभिःकुड्यैःप्राकारैरावृतेनिःशव्देग्रहेनिर्वाधेवावनेगिरि गुहादौवासुखावस्थितिहेतुत्वात्सुष्ठुशोभनेचेलाद्युत्तरेआसनेपीठपट्टादौशोस्थितः|यद्वाभ्यासवशात्सुष्ठुस्थैर्यसुख हेतावागमांतरेषूपदिष्टलक्षणेपद्मस्वस्तिकार्द्धचंद्रादिकेयोगासनेतिष्ठतीतिस्वासनस्थः|उत्तरदिङ्मुखःपरमेश्वरंदेवीं गुहंगणेशंचनत्वासुस्पष्टशिरःकंठवक्षाःस्वनासिकाप्रांतनिहितदृष्टिर्विवर्द्धितोत्तराराधरदंतपङ्क्तिःपार्ष्णि(मेर्नकश्चि द्विरोधः|तथाहिसूक्ष्मःपरोनादःकलेतिकलाव्याप्यत्वादुपचारतःकलाशव्दसामानाधिकरण्येनोक्तः|तथानिखिल) पृ० १२९ब) भ्यांमुष्कपीडनमुद्घातवशादुन्प्लुतौवारक्षत्रकुंचितशरीरःसुस्थितोदंतप्रांतनिहितजिह्वःसन्यथाशक्तिदक्षिणेननासापुटेन वायुंशरीरांतःस्थंनाडीशोधनार्थंरेचयेत्|वहिःक्षिपेत्|संरेचकस्तदभ्यासाद्वेधविक्षिप्तकर्मसु|क्रमशःशक्ततामेतिविकृष्ट विषयेष्वपि|उक्तलक्षणस्यरेचकस्याभ्यासात्क्रमेणव्यवहितविषयेष्वपिवेधकर्मसुविक्षिप्तकर्मसुचविशरारुनाकरणरू पेषुयोगीशक्ततांप्राप्नोति|अथपूरकलक्षणं|वाह्येनवायुनामूर्तेःशक्तिसीमप्रपूरणं|पूरकःसत्तद्भ्यासात्सुगुर्वपिविक र्षयेत्|वहिष्ठेनमारुतेनयथाशक्तिमूर्त्तेःप्रकर्षेणपूरणंपूरकस्तस्मिन्नभ्यस्तेसुष्ठुगरिष्ठमपिशिलाद्या?क्रष्टुंशक्रोभवेत्| कुंभकंकथयितुमाह|त्यागसंग्रहणेहित्वानिरोधःकुंभकःस्मृतः|रोधशक्तिस्तदभ्यासाद्व्यक्तिमेत्यनिवारिता|रेचना त्मकंत्यागंपूरणंरूपंसंग्रहणंत्यक्त्वांतस्थस्यवायोर्निरोधात्कुंभीकृत्यावस्थापनंयत्कुंभकस्तस्याभ्यासादव्याहतरोध शक्तिरभिमतवस्तुस्तंभनसामर्थ्यंव्यज्यते|तथास्यचरतोविद्वान्सोमसूर्येशवर्त्मसु|तद्धर्मयोग्यतांवुध्वायोगीसंसाध पृ० १३०अ) येन्मतं|तदभ्यासद्विधेयत्वेनास्यवायोश्चरतःप्रचारज्ञोयोगीमध्यवामदक्षिणनाडीचारेषुचिकीर्षितवस्त्वानुगुण्यंनिश्चित्ययथा स्मिन्कर्मणिदक्षिणश्चरन्श्रेष्ठःअमुष्मिन्मध्यमः|एतस्मिंस्तुसौम्यःप्रशस्तित्येवंमत्वाभीष्टंयोगीसाधयेत्|तथाहि|पूरकंकुंभ कंवापिभजेच्चंद्रपथिस्थिते|पुष्टिमृत्युजपाद्यर्थंस्वात्मनोन्यस्यरेचकं|अनग्निज्वलनेवृक्षशोषणेवीजनाशने|स्तोभोन्मादविषो द्दीप्तिमुखेष्वार्कंतुरेचकं|ध्यानार्चनजपाद्येषुदेहत्यागेचशांकरे|कुंभकोरेचकश्चेष्टोदीक्षासंस्थापनेषुच|वामनाज्यवस्थि तेमरुतिकुंभकपूरकौस्वपुष्ट्यर्थमात्मनाप्यायनार्थंमृत्युंजयार्थंचकालवंचनायादिग्रहणाछांतिकादिसिद्ध्यैचकुर्या त्|परस्यपुष्ट्याद्यर्थंवामस्थंरेचकंभजेत्|पदात्वनग्निज्वलनवृक्षशोषणनिर्वीजीकरणस्तोभोन्मादविषोद्दीपनप्रमु खकार्याणिकर्त्तुमिष्टानितदानींसौरमार्गस्थेनचारेणरेचकंकुर्यात्|स्तोभस्वल्पस्यविषज्वालादेर्वहलीकरणंशांकर इतिशिवाश्रयसौद्युम्नमार्गस्थंविषुवतिकर्त्तव्यतयोक्तंयत्तद्ध्यानार्चनजपादिकार्यं|उत्क्रांतिर्वातद्विषयेदीक्षासंस्थापनेकुं पृ० १३०ब) भकरेचकाविष्टौसंस्थापनंप्रतिष्ठापनं|अथैषांरेचकादीनामभ्यासायकालपरिणामप्रतिनियमंवक्तुमाह|पवीयान्मध्यमोज्ये ष्ठःसतालैर्द्वादशादिभिः|तालोद्वादशभिर्जानुपरिणाहपरिभ्रमैः|हस्तेनजानुमंडलपरिभ्रमणंयावत्याकालमात्रया|क्रि यतेतावतीभिर्द्वादशभिस्तालाख्यःकालांशोज्ञेयः|तैश्चतालैर्द्वादशभिःकनिष्ठःप्राणायामः|चतुर्विंशत्यामध्यमः| अष्टाचत्वारिंशताश्रेष्ठः|तथात्युक्तंश्रीसर्वज्ञानोत्तरे|तालद्वादशकोज्ञेयःप्राणायामस्तुकन्यसः|मध्यश्चतुर्भिर्विंशत्याश्रे ष्ठस्तत्द्विगुणोभवेदिति|इत्थंप्रतिनियतप्राणरेचकपूरककुंभकसमुदायरूपोयःप्राणायामःसोपिध्यानतयोपेतःसगर्भो न्यस्तदुक्तितः|यथासगर्भःस्थैर्यामनसोनतथेतरः|सोप्ययंप्राणायामोध्यानेनजयेनचयुक्तःसगर्भाख्ययाज्ञेयः|यस्तुवि नैवध्यानजपाभ्यांक्रियतेसनिर्गर्भः|यथाचमनःस्थैर्यहेतुत्वंसगर्भस्यनतथानिर्गर्भस्येति|सगर्भप्राणायामार्थमभ्यासःका र्यितितात्पर्यं|प्रातर्निशाकृतंपापंदिनांतेचदिवाकृतं|प्रभातेकृतोयंसगर्भःप्राणायामोनिशाकृतं|पापंहंतिदिनांतेतुकृतः पृ० १३१अ) सदिवाकृतंहंतीत्यग्रस्थेनसंवंधः|एवंचेन्नकश्चिन्निर्गर्भेणप्राणायामेनप्रयोजनं|अतःकिंतेनेत्याह|हंत्यगर्भोपिदेवानांप्रच लत्वंप्रधानतां|देवानांमनःसहितानामिंद्रियाणांविषयेष्वनाद्यविद्यावशात्प्रकर्षेणधावतामेषनिर्गर्भःप्राणायामःसातत्ये नक्रियमाणःप्रचलत्वंप्रकृष्टवेगत्वंहंति|इंद्रियजपकारीत्यर्थः|किंच|स्नातोभवतितीर्थेषुसर्वक्रतुषुदीक्षितः|पोतःपितॄ णांयःशश्वत्सगर्भमिममाचरेत्|यस्तुनित्ययुक्तत्वेनेमंजपध्यानयुक्तंसगर्भमभ्यस्यतिससर्वतीर्थेषुस्नातस्यसमस्ताध्वर दीक्षितस्यचफलंलभते|पितॄणांचसंसारोत्तरणेपोतःप्लवोभवति|तत्प्रसादात्तेपिभवाव्धितःसमुत्तरंतीत्यर्थः|सगर्भ तामेववक्तुमाह|ध्यायेदध्वांतगंदेवंजपेत्तद्वाचकंसदा|क्षित्यादीन्यथतत्वानितद्रूपाधिकृतानिवा|सर्वाधिष्ठातृत्वेनहेतु नाध्वनःपर्यंतवर्त्तिनंपरमेश्वरंसकलकारणातीतंपरमार्थत्वेनध्यायेत्|तस्यचवाचकंमंत्रंजपेत्|ध्यानजपाववियुक्तौप्रा णायाममयेकुर्यादित्यर्थः|यदिवाधारणाफलंलिप्सुःपृथिव्यादीनिपरमेश्वरस्वरूपाश्रयत्वेनचध्यायेत्|सकलचिदचिद्भावा पृ० १३१ब) धिष्ठातृतयाभगवतःसर्वदासर्वत्रावस्थितेः|अथपृथिव्यादितत्वध्यानेकिंभगवद्भावनयेत्याह|यस्मिन्नाचेतनंतत्वंसिद्धमप्युप कारकं|शैवंवपुरितिध्यायेदतोयद्यत्समीहितं|यतःकिलस्वभावजडंपृथिव्यादिवस्तुजातंशिवस्वरूपाधिष्ठानंविनाकृ तध्यानाभ्यासतःसिद्धमपिनोपकारकं|अतःपारमेश्वरमेवैतत्सर्वंवपुरितिध्यायेत्|अतोयद्यत्किमप्यभिप्रेतमचिद्रूपम पिवस्तुध्यायेत्|यतश्चैवमतः|सिद्धयेधारणादीनांवृत्तीनामनिलस्यच|सगर्भंकुंभकंविद्वानातिष्ठेदविखिन्नधीः|धारणा दीनांयोग्यंगानांप्राणादिवृत्तीनांचप्रागुक्तानांप्रणयनाद्यर्थानांसिद्ध्यर्थंसगर्भंकुंभकाभ्यासमनुद्विग्नवुद्धिःसन्नातिष्ठेदा चरेत्|अयमर्कगुणंकालंकृतचित्तव्यवस्थितिः|प्राप्नोतिधारणाशव्दंधारणासिद्धिदानन|अयंसगर्भककुंभःकद्वा दशगुणंकालंचित्तवृत्तिनिरोधेनकृतःसन्धारणाव्यपदेशंलभते|कुतित्याह|धारणासिद्धिदानतः|धारणासंवंधिनीः सिद्धीस्तथाभ्यस्यमानोददाति|स्थित्यर्थोधारणाशव्दःस्थानार्थोप्युपचारतः|स्थानंप्राथमिकस्येमान्यवन्यादीनिनेतर पृ० १३२अ) त्|स्थितिरवस्थानं|नियतदेशेहृत्कंठादौचेतसोधारणाशव्देनोच्यते|उपचारात्तुतिष्ठत्यस्मिंस्तथाविधयाधारणयेतिस्थानमधि करणरूपमनेनाभिधीयते|प्राथमिकस्यप्रथमाभ्यासप्रवृत्तस्यारुरुक्षोःपृथिव्यादीनिपंचतत्वानिअभ्यासस्यस्थानंनत्वन्य दप्रत्यक्षंमहदहंकारादितत्वजातंउपलभ्यमानपृथिव्यादितत्वाभ्यासपूर्वस्तुतत्तदभ्यासःसुगमेवेतिसर्वयोगशास्त्रेषूप देशक्रमः|अथैषामेवरूपाकृतिप्रयोजनलांछनान्यभिधत्ते|तानिहेमहिमज्योतिःकृष्णस्वछानिरूपतः|वेद्यर्द्धमंडलत्र्य स्रवृत्तपद्माकृतीनितु|स्थैर्याप्यायनविप्लोषप्रेरणाशून्यताप्तये|भवंतिवज्रकज्वालाविंदुशून्यान्वितानितु|तानिपृ थिव्यादीनिपंचतत्वानियथासंख्यंरूपतःपीतसितोज्वलकृष्णस्वछानिसंस्थानाच्चतुरत्प्रार्द्धेंदुत्रिकोणपरिवर्त्तुलपद्मा कराणिक्रमाच्चवज्रेणवारिजेनज्वालयाविंदुनाशून्येनचलांछितानिस्थैर्याद्यर्थंभवंति|तत्साधकानिसंपद्यंतित्यर्थः |तानिच|वाधकान्यनुवर्त्तीनिमध्यस्थान्यवगत्यच|योगीव्यस्तसमस्तानिविभृयादिष्टसिद्धये|पृथिव्यादीन्येवमित्रामित्रमध्य पृ० १३२ब) स्थत्वेनव्यस्तसमस्तानिवुध्वातेषुकार्येष्विष्टसिद्ध्यर्थंयोगीधारयेत्|अथधारणारूपतत्फलजिज्ञासयामुनिःप्रश्नयति|क्व देशेधारणारूपंचिंतनीयंविपश्चिता|किंचव्यस्तसमस्तानांफलंव्रूहिसुरेश्वर|धारणासुपदेतद्रूपंहेमहिमज्योतिरित्या दिनोपदिष्टंतत्कस्मिंस्थानेतद्विदाचिंत्यं|आसांचधारणानांव्यस्तानांसमस्तानांफलंसुराधिनाथास्मभ्यमादिशेतिप्र श्नः|अथात्रप्रतिवचनं|हृदिचेतसिविक्षिप्तेधारयेत्क्षितिमर्थवित्|जलंपिपासितःकंठेमंदेग्नौतठरेनलं|प्राणादिवृत्ति सिद्ध्यर्थंहृत्कंठादिषुमारुत|विषाद्यभिभवेव्योमतेषुयत्राथवर्त्तते|चेतसोयदाविक्षिप्ततास्यात्तत्प्रयोजनज्ञोयोगीहृत्प्र देशेपार्थिवींधारणांस्थैर्यकारिणीत्वेनोक्तांधारयेत्|दुर्वारयातृषातुयदाबाधितःस्यात्तदावारुणांधारणांकंठेविभृया त्|आप्यायनार्थंतस्याःप्रोक्तत्वात्|जाठरस्याग्नेर्मांद्येसतितत्संधुक्षणार्थंजठरेप्रागुक्तामाग्नेयींवध्नीयात्|प्राणादिवृत्तीनां प्रागभिहितानाप्रण|पनाद्यानांसिद्ध्यर्थंस्वाधीनत्वेसतितत्तत्फलसंपादकत्वायपूर्वोक्तेष्वेवदूत्कंठादिषुस्थानेषुवाय पृ० १३३अ) व्यांधारयेत्|विषोन्मादमदव्याद्ध्याद्यभिभूयमानस्तुतेष्वेवहृदयादिषुमध्यादन्यतमेस्थानेव्योमधारणांवध्नीयात्|यत्रवा विषाद्युपद्यातवत्यंगेतथाधारणाद्युपयोगवत्सप्रयोजनंतस्मिन्धारयेत्|इदानींपरस्परमेषांपृथिव्यादीनांमध्यस्थारातिमि त्रत्वंविवेचयन्सर्वसाधारणत्वमाकाशस्यतावत्प्रथममभिधातुमाह|खंसमस्तेषुभूतेषुवारिवायूशिखिक्षिती|वार्यग्नःभूमि पवनौवारिक्ष्मेअनलानिलौ|मध्यस्थारातिमित्राणिचतुष्केयुग्मयुग्मशः|परिज्ञायेतिमतिमान्योजयेदिष्टसिद्धये|आ काशस्तावद्व्यापकत्वादंतर्वर्त्तित्वेनसर्वेषामवकाशदायित्वेनमित्रमेषांज्ञेयं|वारिवायूशिखीइत्यादेश्चतुष्कत्रयादेकैक स्मिंश्चतुष्केयथाक्रमंयुग्मयुग्मशितिद्वयंद्वयंक्रमान्मध्यस्थारातिमित्राण्येतानिवोद्धव्यानि|तथाहि|वारिवायूशिखि क्षितीइत्यत्राद्येचतुष्केजलपवनयोःक्षित्यग्न्योश्चपरस्परंनमित्रत्वंनशत्रुभावितिमध्यस्थत्वमेषांवोद्धव्यं|वाद्यग्नीभूमिपव नावित्यत्रापिमध्यमचतुष्केबाध्यवाधकभावेनपरस्परमेषांचतुर्णामवस्थितेररातित्वंशत्रुता|वारिक्ष्मेअनिलानिलावि पृ० १३३ब) त्यत्रतुतृतीयस्मिंश्चचतुष्केभुजलयोर्वाद्यग्न्योश्चान्योन्यंपोषकत्वान्मित्रत्वमित्येवंपरिज्ञायवुध्वाप्राज्ञोयोगीतथातथासाध कत्वेनवाधकृत्वेनवायथावसरमिष्टसिद्ध्यर्थमेतान्प्रयुंजीत|अथविद्यापादांतर्गतप्रत्ययादिविचारप्रकरणेप्राणादिवायू नांस्वरूपोक्तौस्थानंयद्यस्यधारणे|जपःफलंवाच्यशेषंयत्यास्कंधांतरेरितमितियदुक्तं|ततःप्राणादिवृत्तीनांस्थानं साधारणंफलंचज्ञातुंमुनिःप्रश्नयति|कानिप्राणादि|वृत्तीनांस्थानान्यस्मिंछरीरकेजितासुकिंचस्यादितिव्रूहिसुरोत्त म|प्राणापानादिपवनवृत्तीनांप्रणयनापनयनाद्यानांकानिस्थानानियेषुतज्जयःकार्यः|तासुचप्राणादिवृत्तिषुजिता सुअस्मिंछरीरकेकिंफलंभवतीतिभगवन्निंद्रास्माकमाचक्ष्वेतिप्रश्नार्थः|व्यापकस्याथात्मनस्तत्कृतमव्यापकत्वमत्यल्पत्वं कुत्सितत्वंवावायवोतयितुंकप्रत्ययः|अत्रोत्तरं|तस्यहृन्नाभ्युरःकंठपृष्ठदेशेषुधारणात्जपःप्रणयनादीनांवृत्तीनांयोगिनोभ वेत्|तस्यप्रागुक्तस्यप्राणादिरूपतयास्थितस्यवायोर्नाभ्यादिषुपृष्ठांतेषुपंचसुस्थानेषुरोधात्प्रणयनाद्यानांप्राणादिवृत्तीनांज पृ० १३४अ) योभवतियोगिनः|सतुयोगीजिताप्रणयनोधत्तेस्वेछयादेहमात्मनः|जितापनयनोश्नातिशकृदादिजहातिन|विजितोन्नयनो भ्येतिवाग्वशित्वादिकान्गुणान्|समानवृत्तिविजयाद्भवेत्यक्तजरोवशी|वपुर्विहारवशिताभवेद्विनमनेजिते|पंकांवुकंटका संगोवीर्यमक्षयमद्भुतं|जिताप्रणयनाख्याप्राणवृत्तिर्येनसेवंविधोयोगीयावद्रुचिस्वेछयास्वदेहधारयति|वृत्तिःप्रण यनंनामयत्तज्जीवनमुच्यतेइतिप्रणयंनस्यजीवनरूपत्वेनोक्तत्वात्जितात्वपनयनाख्यायानवृत्तिर्येनसतादृग्विधो योगीअश्नन्नपिनिर्मलदेहोभवति|अपानजयाद्धिविण्मूत्रादिमलभावेननास्यपानाशनादिपरिणमति|अपितुरस धानुभावेनैवातःशकृदादिमलोज्झितेषसंपद्यते|सर्वदेहिनांहिरसमलधातुभावेनान्नपानपरिणतिर्भवति|विजि ताचोन्नयनाख्योदानवृत्तिर्येनासौअलौकिककवित्ववक्तृरूपवाकस्वातंत्र्यप्रभृतीन्गुणान्प्राप्नोति|येनतुसमानवृ त्तिर्विजिताससर्वदाजरावर्तितःसर्वसहस्ववशदेहोभवति|विनमनाख्येचव्यानवृत्तिव्यापारेकृतजपस्वेछयावपुषि पृ० १३४ब) विहरति|व्रह्मरंध्रेणश्रवणछिद्रादिनावामरुत्प्रेरणाकर्षणादौशक्तःस्यादित्यर्थः|तथाकर्दमजलकंटकाद्युपविष्टस्या पितैरसंपर्कनाश्रयरूपोपिअविनश्वरंचास्यवलंसंजायते|एवमानुषंगिकप्रश्नप्रतिवचनादनंतरंप्रकृतमभिधीयते|धार णाद्वादशध्यानंदिव्यालोकप्रवृत्तिदं|समाधिरणिमादीनांद्वादशैतानिकारणं|द्वादशभिःसगर्भैःकुंभकैर्द्धारणा पूर्वमुक्ताताश्चद्वादशध्यानंज्ञेयं|तच्चदिव्यामलौकिकीमालोकप्रवृत्तिंप्रकाशाविर्भूतिंददातीतिदिव्यालोकप्रवृत्ति दमितितदभ्यासस्यफलमुक्तं|एतानिचद्वादशध्यानानिसमाधिरित्युच्यते|सत्वणिमादिदिव्यसिद्धिकारणं|अभ्यस्तै वंविचसमाधेरणिमाद्याविर्भावःस्यात्|प्राणायामंविनाप्येवंवश्यात्माचेतसिस्थितः|समभ्यस्यन्नवाप्नोतिगुणानुक्ता ननंतरं|एवमनेनप्रकारेणात्मनिनित्ययुक्ततयावश्यात्मायोगीविनापिप्राणायामेनक्वचिदपिदेशेकृतिनिरोधायां चित्तवृत्तौस्थितेवतदभ्यस्यन्सानंतर्येणैतानुक्तान्गुणानणिमादीन्लभते|किंच|यद्यद्वस्तुयथोद्दिष्टक्रमयोगात्प्रपद्यते| पृ० १३५अ) तत्रतत्रास्यचिद्व्यक्तिस्तद्व्याप्तिविषयाभवेत्|इतिवाह्येस्थितेसर्वमाकलययेवचक्षुषा|हेयान्पदार्थान्संत्यज्यशिवतत्वंसम भ्यसेत्|यथोक्तक्रमाभ्यासाद्यद्यत्पृथिव्यादिशिवांतंतत्वंप्रतिपद्यते|धारणादिनास्वात्मीकरोति|तत्रतत्रास्ययोगिन स्तद्व्याप्तिविषयास्वसंविद्व्यक्तिर्भवति|तथाहि|आदौपृथिव्यादितत्वानांशिवमंत्रमहेश्वरमंत्रमंत्रेश्वरमंत्रविज्ञानाक लप्रलयाकलसकलैःसप्तभिःशक्तिमद्भिरेतावतीभिरेवैतछक्तिभिःस्वरूपेणपृथिव्यादीनांसहेकैकस्यपंचदशप्र कारतयाजाग्रदादिशिवभेदेनपिंडस्थादिरूपतयाचयावतीव्याप्तिः|यथोक्तंश्रीमन्मालिनीतंत्रे|शक्तिमछक्तिभेदन धरातत्वंविभिद्यते|स्वरूपसहितंतच्चविज्ञेयंदशपंचच|शिवादिसकलात्मानःशक्तिमंतःप्रकीर्त्तिताः|तछक्तयश्चवि ज्ञेयास्तद्वदेवविचक्षणैः|एवंजलादिमूलांतंतत्वव्रातमिदंमहत्|पृथग्भेदैरिमैर्भिन्नमित्यादितदेवंतावद्व्याप्तिकस्य योगिनःसंवित्तावतीत्येवंश्रीमत्कामिकतंत्रेश्रुतं|यद्वाह्यंतस्मिंस्थितेसर्वंवस्तुस्वदृग्गोचरतांप्राप्तंवुध्वाशिवव्यतिरि पृ० १३५ब) क्तान्सर्वानेवतान्पादानिवपदार्थान्सर्वाध्वपर्यंतवर्त्तिशिवपदप्राप्तिहेतुत्वाद्विद्याप्रभृतींस्त्यक्त्वाशिवतत्वमभ्यस्येत्तदेक निष्ठस्याथेयान्पदार्थान्संत्यजेतिपाठेस्पष्टेवार्थः|शिवगर्भान्समातिष्ठन्प्राणायामादिकानपि|जहातिजंतुर्यःप्राणा न्सशिवत्वंप्रपद्यते|आस्तांतावद्व्याप्तिविषयाचिद्व्यक्तिर्वक्ष्यमाणोक्त्रांतिविधिंविनापिपरमेश्वरध्यान्जपगर्भान्प्राणा यामान्कुर्वन्योजंतुःप्राणांस्त्यजतिसशिवतामेति|अपवृज्यतित्यर्थः|अथात्रमुनिःप्रश्नयति|रूपंपरंमहेशस्यध्यातुं शक्यंनजानुचित्|वैचित्र्यात्कल्पितंआंत्यैतत्रास्थाचेतसःकथं|किलनिष्कलस्वरूपस्यतावद्भगवतःस्वरूपंनिराकार त्वेसतिनीरूपत्वाद्ध्यातुंनशक्यं|यदाहुः|आकारवांस्त्वंन्नियमादुपास्योनवस्त्वनाकारमुपैतिवुद्धिरिति|अथास्यपरमा र्थतोरूपासंभवेपिध्यायिनांचित्तवृत्रिनिवंधनभूताकारविशेषकल्पना|तर्त्येतत्कल्पितंरूपंश्वेतपीतरक्तादिवैचित्र्या द्भ्रांत्यैस्यात्|कथंतत्रचेतसास्थाव्यवस्थितिः|कल्पितत्वेनासत्यरूपविषयेस्वभावचंचलस्यचेतसःकथंनियमनमि पृ० १३६अ) तिप्रश्नः|अथात्रसमाधिः|पार्थिवाप्यविचित्रांकेनध्येयेधारणेतदा|तथाप्यभ्यासतःसिद्धाःश्रूयंतेयोगिनस्तयोः|सत्यं|अ रूपस्यभगवतःस्वरूपमुक्तेनक्रमेणध्यातुमशक्यं|तत्रतुनिरालंवनोपदेशक्रमेणतत्स्वरूपावाप्तिर्भविष्यति|यत्तुवैचित्र्या त्कल्पितंभ्रांत्यैइत्युक्तं|आगमोपदिष्टस्यध्यानस्यपरमार्थत्वेनवैकल्पिकत्वानुपपत्तेः|तदुपदिष्टतत्तद्विविधविध्यनुष्ठा नस्येवैकल्पिकृत्वापगमेसतिदीक्षादेरप्यसत्यत्वादानर्थक्यमितिकृतमागमेन|किंचवैचित्र्याध्येयंप्रतिव्यानमाशक्यमि तियदुच्यतेतदास्तांतावत्परमेश्वराकृतिचिंतनं|येप्येतेसुस्पष्टपार्थिववारुण्याख्येद्वेधारणेसकलमान्ययोगशास्त्रप्रसि द्धेतेचविचित्ररूपवज्रांकितत्वात्सितसलिलोपलांछितत्वाच्चनध्येयेध्यातुंनशक्ये|नचैवमित्यत्राभ्युपगमोयुक्तः|यतस्त योःपार्थिवाप्ययोर्धारणयोस्तथातथारूपवैचित्र्येसत्यपिसाभ्यासानांयोगिनामनेकशःसिद्धयःश्रूयंते|तथैवमाग मोपदिष्टस्यधारणाफलस्यानेकशःसाभ्यासयोगिलव्धस्यापियेयंप्रतीतिस्तस्यांसत्यामपिभोगविप्लुतचित्तस्यकथं पृ० १३६ब) स्याच्चित्तसंस्थितिः|नाधिकृत्याविरक्ताणून्प्राहेदंसाधनंहरः|अथोच्यतेजन्मसहस्रसात्मीकृतविविधभोगाभ्यासवि क्षिप्तचेतसांकथमतिचंचलस्यचेतसःसंस्थितिःसम्यङ्निरुद्धसकलवृत्तित्वेनावस्थानंस्यात्|यथोक्तं|चंचलंहिमनःकृ ष्णप्रमाथिवलवद्दृढं|तस्याहंनिग्रहंमन्येवायोरिवसुदुष्करं|तथा|अपिचंडानिलोद्धूततरंगस्यमहोदवेः|शक्यतेप्रसरोरोद्धुं विषयेभ्योनचेतसिति|नैतद्युक्तं|यतोनेदंयोगाख्यंसाधनमविरक्तान्जंतूनधिकृत्यपरमेश्वरादिदेश|अपितुप्रचुरवै राग्यनिर्ज्झरनिर्द्धूतभवभोगस्पृहाकलंकाः केप्येवसुचिरंसंजातनिःसारसंसारभोगविजुगुप्साःपारमत्रेतिनचाभ्यास वनांकिमपिदुष्प्रायंदृष्टेपिसंभवति|अतश्च|शक्यतेविषयीकर्त्तुंजगदप्यखिलंशनैः|किमुचित्रंवपुर्द्दांतैर्वैराग्यास शालिभिः|वैराग्येणनैस्पृह्येणाभ्यासेनचपुनःपुनस्तदासेवनात्मकेनशालंतेशोभंतेइति|वैराग्याभ्यासशालिनःदां ताश्चोपशमयुक्ताःएवंविधैर्योगिभिःशनैःशनैर्निखिलमपिजगद्धारणाव्याप्तिक्रमेणगोचरीकर्त्तुंशक्यतेकिंपुनर्ध्ये पृ० १३७अ) यंचित्रंपारमेश्वरंवपुरित्येवंसालंवनंयोगमुपदिश्यप्रकृष्टमनालंवनमुपदेष्टुंभूमिकांविरचयति|केयंवारूपकेयत्तासर्वाधिष्ठा नयोगिनः|सर्वदासर्वभूतानांसर्वाकारोपकारिणः|स्थानरूपप्रमाणानिपरिकल्प्यस्वचेतसा|यत्रोपरमतेचित्तंतत्तद्ध्येयं पुनःपुनः|यद्वासर्वाधिष्ठानयोगिनःपरमेश्वरस्येयमेवश्वेतवर्णादशभुजापंचवक्त्राद्याकृतिर्ध्यातव्येतिकोयमेवंविधरू पंप्रतिनियमोनकश्चिदित्यर्थः|विततवैभवविजृंभावतःपरिमितरूपाकृतिस्थानोपासनमसमीचीनमेवकिलभगवतः| अतश्चवहिरंतर्वाविचलितचेतसास्थानरूपप्रमाणाकृत्यादिपरिकल्प्ययत्रयत्रभावशरीरेभूतशरीरेवाचित्तमुपशाम्यति| तत्रतत्रभूयोभूयःप्रयत्नवतागुरूपदेशसमधिगतयुक्तिनाध्यातव्यं|उक्तंचपारमेश्वरे|नेंद्रियाणिनचप्राणानमनोधिष णेषणा|नाहमस्मिनचान्योस्मिचित्तस्यप्रलयस्ततः|चित्तक्षयोपरावाप्तिरितिसत्यंगणांविकेति|अथास्यैवफलमाह |तेनास्यचेतसःस्थैर्यंसविशेषगुणंशनैः|उन्मील्ययोगसंस्कारंहतविघ्नस्यजायते|तत्रास्थाचेतसःकथमितियत्प्राक्पर्यनुयु पृ० १३७ब) ङ्क्तंतदर्थमिदंतेनामुनाप्रागुक्तेनयोगेनास्ययोगिनोनिर्विघ्नस्यचसतश्चेतसःस्थैर्यमचांचल्यंपरस्वरूपविश्रांतेरतिविल क्षणंजायते|कीदृशंतत्स्थैर्यमित्याह|सविशेषगुणं|सविशेषाःसातिशयगुणाःप्रायुक्ताणिमादयोयत्रतत्तथाकिं कृत्वैतत्तून्यद्यतित्याह|शनैर्योगसंस्कारमुन्मील्यक्रमेणयोगसंस्कारंतल्लयरूपंप्रकाश्यतद्वासनाधिष्ठितत्वात्तद्व्यव हारावस्थितस्यास्यनिर्विघ्नस्यसतस्तत्रैवचित्तस्थैर्यंजायतित्यर्थः|एवमातिष्ठतःसम्यग्विनैवाकारकल्पनां|अकिंचि च्चिंतकस्यास्यरूपमुन्मीलतिस्वकं|सर्वार्थदृक्क्रियारूपमानंदमयमव्ययं|यत्प्राप्यनपुनर्दुःखंयोगमेत्यशिवावहं|ए वमेनंप्रागुक्तंयोगविधिंसम्यक्शुद्धाभ्यासातिशयवशेनाकारकल्पनांविनाप्यनुतिष्ठतोयोगिनःअकिंचिच्चिंतकस्य किंचिदप्यचिंतयतश्चित्तक्षयात्स्वात्मन्येवनिस्तरंगमहोदधिप्रशांतेवस्थितस्यस्वकंनिजंरूपमुन्मीलतिविकसति|अपरि मितंसंपद्यते|प्रसरन्निरावरणनिजस्वरूपोभवतीत्यर्थः|कीदृक्स्वकंरूपमुन्मीलनीत्याह|सर्वार्थदृक्क्रियारूपमित्यादि| पृ० १३८अ) सर्वार्थाःसर्वविषयादृक्ज्ञानंक्रियाचव्यापाररूपातेएवरूपंयस्ययतः|ज्ञानक्रियेशिवःप्रोक्तःसर्वार्थनिर्मलेपरितियछि वरूपमागमेषूपदिष्टंतदानंदमयमनुरूपमाह्लादसुंदरमव्ययंचाविनश्वरमस्ययोगिनेवमभ्यस्यतोभिव्यज्यते|यत्प्राप्तेर्जन्म मरणाद्यशिवमश्रेयावहतीत्यशिवावहंसंसारलक्षणंदुःखयोगंनैतिनप्राप्नोति|उक्तंचश्रीमदवभूतगुरुणा|यथानीतारसें द्रेणधातवःशातकुंभतां|पुनरावृत्तयेनस्युस्तद्वत्तन्मतचोदिताइति|अत्रस्वरूपप्रसंशापूर्वमतिरहस्यतयासर्वान्प्रत्यप्रकाश्य त्वमभिधातुमाह|एतत्समस्तगुह्यानांगुह्यंसिद्धामरस्तुतं|साक्षादालोचनंशंभोरत्युत्पावनमुत्तमं|नाल्पकालोषिता द्यैतद्देयंनातिप्रमादिने|नामेधिनेनाजपसेयश्चनाभ्यर्चयेछिवं|यतेतत्सर्वेषांरहस्यानामप्यतिशयेनगूहनीयं|निरति शयनिश्रेयसावाप्तिहेतुत्वात्|अतेवचसिद्धैरमरैश्चाभिष्टुतंसाक्षात्परमेश्वरस्यतेजसःप्रकाशकत्वमत्युत्कृष्टं|पाव नंपवित्राहेतुः|तस्मादेतन्नाल्पकालोषितायानतिचिरोयसन्नत्वादविज्ञातनिरतिशयश्रद्धाभक्तियोगायशिष्यायनातिप्रमा पृ० १३८ब) दिनेसप्रमादायनचाप्रज्ञायानयोरुभयोरपिरक्षितुमशक्यत्वान्नाप्यतपसेनियमविरहितायनचयःपरमेश्वरार्चनंकरोति|एतयो रप्रमादित्वाज्जडत्वेसत्यपि|तयोविरहाद्भक्त्ययोगातश्चानधिकृतत्वं|तदेवमस्यापियोगविधेर्भुक्तिमुक्तिलक्षणंफलमवगंत व्यमिति|एतदुपसंहारायपुरस्तादभिधास्यमानचर्यापादोपक्षेपायचायंश्लोकः|अस्याभ्यासाद्दिव्यसिद्ध्यंशुजालैरिष्टान् लोकान्रोरुचानोविहृत्य|कालेहित्वायास्रवंदेहमास्तेस्वात्मन्येवाश्चर्यचर्याधिवासः|अस्यैवंविधस्यनिरालंबनस्ययोगा भ्यासःपुनःपुनःसेवनंतस्माद्दिव्यालौकिक्यश्चतुःषष्टिगुणाणिमादिसिद्धयोयेषांतेदिव्यसिद्धयःअंशुजालाःशक्ति प्रसराः|तैरोरुचानोवितततेजःपुंजत्वाद्देदीप्यमानःसन्नभिप्रेतान्लोकान्यथेछंविहृत्येतितेषुस्वर्गादिलोकेविहरणं क्रीडालक्षंनिर्वर्त्यअपगतानिवाह्यविषयैकग्रहणप्रवणानिअंतरात्मोपलंभपराङ्मुखानिआसवंतिवहिःसातत्येन गछंतीत्यास्रवशव्दवाच्यानींद्रियाणियस्मात्तमयास्रवंपरिहृतवहिर्वृत्तित्वेनसर्वदांतर्मुखसमग्रेंद्रियग्रामंदिव्यमपिदेहंय पृ० १३९अ) थाभिमतेकस्मिंश्चिदपिकालेहित्वासंत्यज्यस्वस्वरूपेवास्तेनिर्वृतोभवतीत्यर्थः|कीदृशःसन्नित्याह|आश्चर्यचर्याधिवासि ति|आश्चर्यप्रधानासाआश्चर्यचर्यात्यद्भुतत्वादप्रमेयंस्थित्यादिपंचविधकृत्यकर्त्तृत्वंतस्याधिवासःअपाश्रयःपरमेश्वरवदि छामात्रसंपाद्येपंचविधेस्थित्यादौव्यापारशक्तोपिस्वात्मन्येवास्तेकरणीयस्याभावादित्येतद्विवेचितप्रायंविद्यापादेवेति|| || ||इतिभट्टविद्याकंठात्मजभट्टनारायणकंठविरचितायांमृगेंद्रवृत्तौयोगपादप्रकरणंसमाप्तश्चायंयोगपादः शि वायनमः श्रीरामायनमः श्रीगणेशायनमः संक्षिप्तोक्तिःस्फुरतिविततंस्फारयंतीप्रमेयंपौर्वापर्यक्रमविमृशना त्यौनरुक्त्यंनकिंचित्|नातिव्याप्तिःप्रकृतकथनान्नैवचाव्याप्तिरित्थं योगःसांगोजयतिगदितःश्रीमृगेंद्रागमेस्मि न्|| ||संवत्१७७६समैनामभाद्रपदमासेकृष्णपक्षेत्रयोदश्यांरवीवासरेलीषीतंकाश्यांमध्येरामघाटसमीपे|| || श्रीरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामराम|| पृ० १४०) || ||श्रीकृष्ण|| श्रीरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामश्रीरामनारायणवासुदेवहरे श्रीरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामरामराम श्रीरामनारायणवासुदेवहरे|| ||श्रीरामरामरामरामरामरामरामरामरामरामरामरामरामरामराम ########### END OF FILE #######