#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00218 Uniform title: parameśvarīmatatantra Manuscript : NGMPP manuscript 5-5148 Reel no: B 133/3 Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski from NGMPP reel no: B 133/3 manuscript no. 5-5148 Revision 0: Sept. 18, 2010 chapter 15 to end added Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः श्रीमहाभैरवाय श्रीदेव्युवाच श्रुतं देवमयासर्वं त्वत्प्रसादावधारितं | अधुनाश्रोतुमिच्छामि पारंपर्य क्रमागतं || कथं मेरुः समुत्पन्न उद्धारस्तस्य कीदृशः | सन्तानं कीदृशं देव यत्रोत्पन्नं चराचरं || षड्विधञ्च कुलाम्नायं षोढान्यासेनसंयुतं | मन्त्रमुद्राश्च विद्याश्च अनेकाकारविस्मयम् || कथं केन प्रकारेण मेरु मध्ये व्यवस्थितम् | वागीश्वरी महामाया चामुण्डा कुलनायिका || मृत्युंजया महाकाली त्रोटलात्रिपुरभैरवी | समय विद्या कुलाकाराख्या सिद्धामार्त्तण्डभैरवी || महासम्मोहनी नित्या कृतान्ती मुक्तिदापरा | कुलमाता महादेव सट्प्रकारां व्यवस्थिता || यत्प्रसादात् स्वयं ब्रह्मा सृजते स चराचरम् | मायाशक्तिः परागुह्या यया सिधोजनार्दनः || मायाजालं च कुरूते रूपाणि च वहूनि च | हंसवागेश्वरी नाम शेषसम्पादितात् तु या || सरस्वती महाविद्या या दत्ता षड्मुखस्य च | कामनिर्नाशनी चैव पुनस्तस्य प्रकोपनी || स वाणधनुषश्चैव मोहयन्ति चराचरम् | यस्या विद्या प्रसादेन सिद्धोसौ मकरध्वजः || वक्रप्रस्तारिका विद्या ब्रह्मनित्या(विद्या) तथैव च | संजीवनी महाविद्या यया कालो वशीकृतः || गर्भयागं पुनर्देव पुत्रस्योत्पत्ति कारणं | विषसंक्रमणी विद्या पुनस्तस्य प्रणाशिनी || विद्याकामदुघानाम सप्तपातालसाधनी | दू(तृ)तीयं च विधानं च कन्यानां च सुरेश्वर || प्. १ब्) मेरु मध्ये कथं देवसमुत्पन्नं चराचरं | एतत् सर्वं समासेन प्रसादं कुरु भैरव || श्रीभैरव उवाच शृणु देवि परं गुह्यं मेरोरूधारमुत्तमं | यं दृष्ट्वा विधियोगेन सर्वपापैः प्रमुच्यते || कर्मणा मनसा वाचा यत्पापं समुपार्ज्जितं | तत्सर्वं क्षयमाप्नोति दृष्ट्वा मेरुं परं शुभं || स योनिः सर्वविद्यानां कौलिकस्य विशेषतः | सन्तानन्तत उत्पन्न षड्विधञ्च कुलक्रमं || कुलंशरीरमित्याहुः शक्तिरूपं व्यवस्थितं | पुनश्चाकाश रूपेण ज्ञानं कौलमुदाहृतम् || तत्र मध्ये समुत्पन्ना आज्ञापरमदुर्ल्लभा | नवकोटि प्रमाणेन पूर्वोक्तं कुब्जिकामतं || चतुराशीतिसाहस्रं तत्र मध्ये मयोद्धृतं | पुनस्तत्रैवमध्ये तु उद्धृतं मेरुमुत्तमं || पारंपर्यक्रमं दिव्यं तत्र मध्ये व्यवस्थितम् | उद्धारं सर्वविद्यानां उत्पन्नं तत्र मध्यतः || शास्त्रे शास्त्रे स्थिता मन्त्रा उद्धृतानि बहुधानि च | सामर्थ रहिताः सर्वे सखिलाविघ्नदायिकाः (कीर्तिता) || न सिध्यंति वरारोहे ये स्थिता मेरुवाह्यतः | मकालमाये रेफोऽग्निरुविष्णुर्विद्रुताम्बर || यश्चभूताम्नया देवि मेरुर्मेलाप रोधनात् | मेरुमध्योद्धृता विद्या मेरुमध्योद्धृतः क्रमः || महागुरु प्रसादेन सिध्यते नात्रसंशयः | न दीक्षा न कुलं चर्या न ज्ञानं कौलिकोद्भवं || आज्ञा चैवाधिकारश्च यावत् मेरुं न पश्यति | तावद्भ्रमति संसारे विकलेन्द्रियवत्सदा || स पाअपः पशुवद्देवि तावन्नैवे दृशी गतिः | मेरौ दृष्टे भवेद्दिक्षा मेरौ दृष्टे मलक्षयः || मेरौ दृष्टे परां शान्तिमचिरेणाधिगछति | तस्मात् सर्वप्रयत्नेन द्रष्टव्यो वरवर्णिनि || प्. २अ) आज्ञासिद्धिः प्रवर्त्तेत यत्कामं तद्ध्रुवं लभेत् | यत्र स्थाने शुभे रम्ये उद्धृतं च महानगं || विद्याप्रस्तारसंयुक्तं पंचाशीति पुरोद्भवं | देवदानवसिधाश्च यक्षगन्धर्वकिन्नराः || अन्तरिक्षस्थिताः सर्वे पश्यन्ति वरवर्णिनि | नमस्कारं प्रकुर्वन्ति निर्मलत्वेन हेतुना || सर्वपापैः प्रमुच्यन्ते दृष्ट्वामेरुं परं शुभं | सुसंपूर्णः कुलाचार्या एतच्छास्त्रार्थ बोधकः || उद्धरेद्विधियुक्तात्मा परिपूर्णा निश्चितामतिः (परिपूर्णो विनिश्चयः; पूर्णो निश्चितधीः क्रमात्) | विधिहीनं न कर्त्तव्यं यदि साक्षात्महेश्वरः || तस्मात् सर्वप्रयत्नेन विधानं शोभनं शुभं | पंचोपचारसंयुक्तं गन्धपुष्पसमन्वितम् || कर्पूरकुंकुमैर्मिशुंलिप्त्वा मेरुं समुद्धरेत् | भूमिपीठे पठे वापि अथ शैले सुशोभने || खटिकायां लिखेत्प्राज्ञे रेखाश्च भुवनानि च | पूर्वपश्चिमतश्चैव उत्तरं दक्षिणेन तु || कोष्टकानिविचित्राणि शतमेकोन सप्ततिः | नाभिमालां परित्यज्य अष्टमादि गुहाननाः || कुमारं अग्रतः कृत्वा द्वे द्वे वृद्धानि यानि च | वामदक्षिणभग्नानि उर्द्धभागक्रमेण तु || नेत्र वेद रितु वर्जं यथा संख्या दिशोरविः | भग्नाश्चैवमधोभागे षट्प्रकाराणि पूर्ववत् || भग्ने भग्ने महादेवि ये स्थिताः कथयामिते | कैवल्यं लोकभूतानि ऋषयो नवकस्तथा || एकादशेन संयुक्तमत ऊर्धं ततः शृणु (ऊर्द्ध भाग क्रमेण तु) | विश्वे(विष्णु)रूद्रा गुहाश्चैव मातरो भैरवा ननाः || नामैकं मेरुसंज्ञं च तत्रसर्वं समुद्धरेत् | प्. २ब्) कैलासं पूर्व भागे तु दक्षिणे गन्धमादनम् || मन्दरं पश्चिमस्थश्च उत्तरे निषधालयम् | चतुःशृंगो महामेरुः सर्वकामार्थसाधकः || प्रस्तारं तत्र कुर्वीत सर्वविद्यालयं परम् | अकारादि विसर्गान्तं सोडशैव स्वराल्लिखेत् || चतुस्त्रिंशति वर्णानि पंचस्वरविभूषितान् | प्रथमं स्वरहीनश्च द्वितीयं स्वरसंयुतं || एकैकस्य तु वर्णस्य भेद द्वयं प्रकीर्तीतम् (द्वयमुदाहृतम्) | पूर्वं पूर्वेणसंयुक्तं द्वितीयेन द्वितीयकं || षडर्धेन तृतीयं तु चतुर्थेन चतुर्थकं | पंचमे पंचमं योज्यं ओंकारादि समुधरेत् || ध्रुवनाभिगतं कुर्यात् पूर्वा (न्ते, दि) वर्ण पूर्वकं | तस्यान्ते गन्धशिखरं मन्दरान्ते तृतीयकम् || उत्तरान्ते पुनर्द्देवि वेदवर्णं व्यवस्थितं | ध्रुवादौ ध्रुवमन्तेषु (ध्रुवादौ वा ध्रुवम्पानो?; ध्रुवादौ ध्रुव मध्यान्ते) वर्णा भूतरसानि च || रामानां वेदमध्ये तु स्थिताश्चैव नपुंसकाः | पुनस्तेष्वादि चान्तेषु पूर्वादारभ्य चोत्तरे || स्थितास्ते क्रमयोगेन वर्णास्तु वसवोनिघे (वसु संख्यया) | कैलासे तत्र वर्णानां मधश्चत्वारिमन्दिरात् (कैलासे तु ऋवर्णानामधो भागे वरानने; कैलासे त्व ऋवर्णाभ्यां चत्वारि भुवनान्यधः) | कान्तादि संस्थितास्तत्र संख्यासंख्यैर्व्यवस्थिता (वेद संख्या) || क्रममध्यगतास्त्रीणि संस्थिता गन्धमादने | मन्दरे इ ऌ उर्धे तु वेदवर्णा व्यवस्थिताः || ऌ भ्रुमध्यगतास्त्रीणि (मध्यास्तु यो * *?) उत्तरे निषदालये | आकाशे मन्दरे देवि कैलासे भैरवानने || तस्यादिश्चैव अन्तेषु (दावेवचान्तेषु) स्थितं वर्णचतुष्टयं | क्षकारादि स्थितास्त्रीणि तस्यान्ते एवमेव हि || प्. ३अ) आदौ चत्वारो वर्णाश्च आन्ते वेदगृहेषु च | कान्ते युगसमाख्याता गुडो(ओगु)मध्ये तथैव च || मनरे भूतचत्त्वारः स्थितास्ते वामदक्षिणे | ऋषिमध्य परित्यज्य कोषकानि तु संस्थिताः || तेषु स व्यापसव्येषु रसवर्णाव्यवस्थिताः | नवके च पुनर्द्देवि वसवः परिकीर्त्तिताः || छा(का)दौ वेदाः समाख्याता अन्य चत्वारि यानि च | तेषु चत्वारिवर्णानि (चत्वार्यन्यानि यानि च) सिद्धं प्रस्तारमुत्तमं || एषा योनिः परा गुह्या मन्त्रसृष्टिर्व्यवस्थितम् | योनिर् मध्यगता योनिर्यावत् कोणाश्चतुर्दश || एषक्रमगतो मेरुश्चतुः शृगः सुरालयः | अत्रमध्ये समुत्पन्नाः सिद्धविध्या अनेकधा | पारंपर्यक्रमेणैव गुरु वक्त्रात् तु लभ्यते || इति पारमेश्वरीमतेनवकोटिसंहितायां चतुराशीतिसहस्रमेरुद्धारः चतुर्विंशतिमः पटलः || देव्युवाच अद्य मे सफलं जन्मः अद्य मे सफलं तपः | श्रुतं मेरुं परंगुह्यं सर्वपापक्षयङ्करं || निर्मलत्वं च संप्राप्तं त्वयि तुष्टे सुरेश्वर (त्वया तुष्टेन शङ्कर) | अधुनाश्रोतुमिछामि विद्या नामानि यानि च || कथं सिध्यन्ति देवेश सामर्थ्यं कीदृशं भवेत् | श्रीभैरव उवाच आदौ दीक्षाभिषेकं च सर्वपापप्रनाशनं || पश्चाद्देविक्रमं ज्ञात्वा षोढान्यासेनसंयुतं | शब्दाराशिकुकाराख्यं अङ्गवक्त्रे तु संयुतां (शब्दराशिः कुकाराख्या अङ्गवक्त्रेषु संयुता) || पुनस्तं (ततः) क्रमयोगेन नवात्मानादिनी परं(दं) | विद्या त्रयं परं गुह्यं अघोराष्टकमेव च || अङ्गद्वादशकं चान्यं सडङ्गश्च ततः पुनः | ग्रन्थादिकं ततो न्यासं त्रिभिर्भेदैश्च तद्ग्रहं || प्. ३ब्) द्वादशानि च श्लोकानि (दशैव तथा श्लोका) पंचरत्नानि यानि च | पीठश्चतुः क्रमं दिव्यं षोढान्यासेनसंयुतं || कुलदीक्षाभिषिक्तस्य पारंपर्य क्रमस्य च | मन्यन्ते क्रमज्येष्ठानि ये युक्ताश्च कुलागमे || तस्य देयमिदं ज्ञानं सोढान्यासं क्रमोद्भवं | विन्यसेद्विधियुक्तात्मा त्रिष्कालञ्च दिवानिशि || ये के चित्पापसंघाताः सप्त जन्मान्तरेषु च | दहते न्यासमात्रेण कल्पान्ते भास्करो यथा || शस्त्रसंघातसङ्कीर्णे संग्रामेष्वा पदेषु च | न भयं विद्यते तस्य स वज्रपञ्जरो यथा || कामं क्रोधन्तथा लोभं मायाहंकारमेव च | संपर्काभोजनालापं न कुर्यात् केनचित् सह || नमस्कारं न कुर्वीत ज्येष्टस्यापि कदाचन | गुरोरपि न पतेत्पादौ म्रियते नात्र संशयः || तस्मात् सर्व प्रयत्नेन नमस्कारंम्विवर्ज्जयेत् | षण्मासाभ्यासयोगेन सामर्थ्यं च वदाम्यहं || काष्ठपाषाणधातूनां भूतग्रामं चतुर्विधं | नमस्कारात् क्षयं यान्ति गिरिर्वज्र हतो यथा || अब्दैः षोडशभिर्देवि खेचरत्वं भविष्यति | देव्युवाच न जानाम्य प्यहंनाथ षोढान्यासं च कीदृशं || वक्तुमर्हसि देवेश यदि तुष्टोसि मे प्रभो | श्रीभैरव उवाच यो सौ देवि मयाख्यातश्चतुःशृङ्गो महानगः || उद्धारं सर्वविद्यानां तत्र मध्ये व्यवस्थितं | तदहंसंप्रवक्ष्यामि उद्धारं या दृशं भवेत् || कैलासशिखरे देवि षद्वर्णं वर्णपूरिक्तं | शिरस्थं तं विजानीया छ्रीकण्ठंस्तत्र देवता || पुनस्तस्यैव त्रैव अन्ते च शिखरे गन्धमादने | प्. ४अ) अनन्तं तम्विजानीयात् संस्थितं वक्त्रमण्डले || मन्दरान्ते तृतीयं च भैरवं तत्र संस्थितं | दक्षनेत्रस्य मध्यस्थं त्रिमूर्त्ति वामनेत्रगं || निषधान्तं गृहं तस्य वेदवर्णसमुद्भवं | ध्रुवादि भूतवर्णस्थं अम(रा)रीशं प्रतिष्ठितं || दक्षिणे श्रवणे न्यस्य अर्घीशं रितुवर्णगं | वामश्रवणविन्यासं सर्वपापक्षयंकरं || कैलासे वाम मध्ये तु श्रीकण्ठस्य अधः स्थितं | भैरवोभारभूतिस्तु भानुनासा पुटे न्यसेत् || अतिथिः सो मध्ये तु अष्टमं गन्धमादने | अनुस्वारविसर्गान्तं लोकस्थं मन्दरे विदौ || स्थाणुरुद्रं विजानीयाद्दक्षगण्डस्थले न्यसेत् | निषदेकाकमध्यस्थं रुद्रनामहरम्महत् || वामगण्डस्थले न्यासं कर्त्तव्यं वरवर्णिनि | कैलासे कब्य आदिस्थं कर्णाशं नामनामतः || दन्तपंक्तौ न्यसेद्धीमान् भूतीशं दंष्ट्रमध्यतः | तस्य बीजं रु अन्ते च आदौ चैव समुद्धरेत् || वामं नासा पुटे पूर्वं विश्ववर्णं व्यवस्थितं | सद्योजातं विजानीयात् न्यस्तमोष्टस्य (मस्तके चाष्ट) मध्यतः || रुद्रो अनुग्रहीशश्च महातेजो महामनाः | तस्मात् सर्वप्रयत्नेन ऌ अन्ते अधरे न्यसेत् || अंक्रूरं घंटिकाग्रे च जिह्वा मूले विसर्गजं | महासेनं विजानीयाद् रुद्रश्चैव महाबलं || वामगण्डादि उत्पन्नं भुजमूले तु दक्षिणे | क्रोधं नाम महारुद्रं न्यासं कृत्वा तु यत्नतः || पुनश्चाकाशमध्यस्थं चंशु? नामानमिश्वरं | प्. ४ब्) तत्रैवं वाहुमध्ये तु न्यासं कृत्वा सुरेश्वरि || पश्चान्तं च विजानीयात् ख अधः कूर्परा न्यसेत् | कङ्काले (कङ्कणे) शिवमित्याहुर्घकारं वर्णपूर्वकं || एकपादं करे न्यस्य अर्घीशान्ते व्यवस्थितं | कूर्म्पं?चकारमध्यस्थं वाममूले व्यवस्थितं || एकहस्तस्थितं वाहुव्व पूर्वं वाम *?न्यसेत् | चतुराननेनसंयुक्तं जकारंकूर्परे स्थितं || रूकारं कङ्कणे न्यस्तं अजितस्तत्र देवता | स्वान्ते (यान्त) वर्णस्य(वर्णेन)संभूतकरे(नवर्णसंभूति)शर्म(सव्ये)व्यवस्थिता || एवं न्यासं महादेवि उभौवाहू प्रतिस्थितं | जंघा मूले शशाङ्कार्द्धं तत्र सोमेश्वरं विदुः || दक्षिणे तद्द्विजानीयात् पूर्णेन्दु मूरुभूषितं (न्दुतरूसंस्थितं) | लांगलीशो महादेवि तत्र स्थाने नियोजयेत् || दारुकं जानुमध्यस्थं न्यासं कृत्वात्रपूर्वकं | ग्रहमालास्थितं पूर्वं जंघामध्ये व्यवस्थितं || अर्धनारीश्वरं देवं न्यासं कृत्वानु यत्नतः | उमाकान्तं णमध्यस्थं न्यासंपास्पदक्षिणे || तकारं वाममूले तु आषाढीनामनामतः | तत्रस्थाने कृतं न्यासं तद्द्वितीयं अधः स्थितं || दण्डिनं मेरुमध्यस्थं न्यासं कृत्वा सुरेश्वरि | ढकारं यस्य ऊर्द्धे तु छ(हि?)कारमधः संस्थितं || जानुन्यासं विजानीयाद्धात्रीशो नामनामतः | मीनं दधेस्तु (धकार)मध्यस्थं जंघास्थाने नियोजयेत् || तकारस्य अधस्थाने ध्रुवान्ते ऊर्धसंस्थितं | मेषोनाम महारुद्रो वामपादे व्यवस्थितः || लोहितं दक्षकुक्षिस्थं विन्यसेद्वरवर्णिनि | प्. ५अ) थ(ठ)कारं यस्य मूर्धिस्थं अधोषकारमेव च (सुवर्णं तस्य पूर्वकं) || भूतादि मन्दरस्थं च वामकुक्षौ नियोजयेत् | शिखिवाहिमहारुद्रं तत्र स्थाने प्रति स्थितं || मोकारं यस्य उर्द्धं तु पृष्ठ मध्ये व्यवस्थितं | छगलण्डं (* *?) विजानीयात्तत्र रुद्रं व्यवस्थितं || मन्दरे ऋषिमालायां रि(धि)कारस्य अधः स्थितः | नाभिस्थाने विजानीयाद्विरण्डन्तत्र देवता || तत्रैव ऋषिमालायां भे च मधे व्यवस्थितं | महाकालं विजानीयाद्धृदि मधे व्यवस्थितं || य(*?)कारमधकोष्ठे तु गो पूर्वे यस्य संस्थितं | वागीशो भैरवस्तत्र त्वचिन्पासोत्तमोतमः || तस्यान्ते रक्त(वक्त्र) मध्ये तु नवके पूर्वसंस्थितं | भूजङ्ग भैरवस्तत्र पिशितस्य(स्थो) पिनाकिनः || स(ग)कारस्य अधः स्थाने रि(?)पूर्वे यस्य संस्थितं | एतद्बीजं विजानीयात् न्यस्तं तत्र पिनाकिनः || वेचामध्ये स्थितं बीजं स्नायु मध्ये व्यवस्थितं | खड्गीशो भैरवस्तत्र विन्यसेद्वरवर्णिणि || वे अन्तमाश्रयं यस्य वा(*?)गीशान्त(नै) मधः(र्व्यव)स्थितम् | अस्थिमध्ये स्थितं रुद्रम् सम्यकं नामनामतः || अधो यस्य र(न)कारस्तु ककारं पूर्वसंस्थितं | तद्वर्णंमध्यमध्यस्थं भैरवश्चेत नामतः || सिवारं यस्य अन्ते(श्व) च पिनाकी अधः संस्थितम् | शुक्रस्थं तद्विजानीयात् भैरवो भृगुनामतः || खड्गीशं भैरवं यत्र तत्र उर्द्धे व्यवस्थितं | लकुलीशः प्राणमित्याहुः अर्घीशस्य अधः स्थितं || क्रोधमध्ये स्थितं रुद्रं वर्णान्ते यद्व्यवस्थितं | संवर्त्तकं विजानीयाद्युगान्तेयः क्षयंकरः || शब्दराशिमिदं प्रोक्तं सर्वपाप क्षयंकरं | न्यस्तं सर्वाङ्ग देशेषु पंचप्रणवसंपुटं || दुर्गमार्ग जलाग्नीषु दुष्टदंष्ट्री भयेषु च | वादे विवादे संग्रामे न भयं विद्यते क्वचित् || यत्र कुत्र चिद्देशेषु तिष्ठते साधकेश्वरः | तस्य संपर्क मालायाद्रुद्रलोकं स गच्छति || इति पारमेश्वरीमते नवकोटि संहितायां चतुराशीतिसाहस्रे शकराशिपंचविंशतिमः पटलः || श्रीदेव्युवाच पंचप्रणवयोगेन न्यासमुक्तं त्वया प्रभो | तमहं श्रोतुमिछामि त्वत्प्रसादाद्यभैरव || श्रीभैरव उवाच शृणु देवि परंगुह्यं उद्धारं दुर्लभञ्च यत् | न्यासं पूजा च संस्कारं न तेन रहितं भवेत् || तमहं कथयिष्यामि पञ्चप्रणवदेवता | कैलासे यस्य वर्णस्य पूर्वपूर्वे नपुंसके || लोकान्ता(दि)शिरसाक्रान्तं मन्दिरे यद्व्यवस्थितम् | पूर्वप्रणवयोगोयं यत्रोत्पन्नं चराचरम् || छा(अ)न्तं वर्णं समुद्धृत्य ल(न)कुश(ल) यत्रसंस्थितं | नवके संस्थितं देवि आसनं तस्य संस्थितं || त्रिमूर्तिनाशिरोभिन्नं बिन्दुमस्तकभूषितं | परशक्ति समुत्पन्नं द्वितीयं प्रणवं विदुः || अधस्थं यस्य वागी(ली)शो उर्द्धे क्रोधाक्षरं भवेत् | तद्वर्णं रक्तमारुढं चतुर्थस्वरसंयुतम् || क्रूरवर्णं शिरे दत्तं बीजमैश्चर्यदायकं | प्. ६अ) मन्दरे भूत पूर्वं तु संगृह्यशिखिवाहनं || झण्टीशं मस्तके दत्तं भुजङ्गासनसंस्थितम् | चतुर्थप्रणवं प्रोक्तं बिन्दुमस्तकबूषितं || एतद्घोरतरं बीजं जित(दत्त?)कालानलप्र(मालनाशु)भं | यस्य स्मरणमात्रेण ब्रह्माण्डं परिकल्पते || शिकारं पूर्ववर्णस्य प्राणमूर्द्ध्नि स्थितं | सावित्री मस्तके दत्तं उच्चारश्च स बिन्दुकम् || प्रणवण् निर्वाणमित्युक्तं पावकासनसंस्थितम् | एतेपंचमहाबीजा आदिभूताकुलागमे || न्यास पूजा च संस्थानं(स्कारं) ना(स्वा?)नेन रहितं भवेत् | उक्तं देवि परंगुह्यं पंचप्रणवसंपुटं || ननेनैवविधानेन न्यासपूजा सदा कुरु | क्रमिकन्तं विजानीयाच्चतुर्वर्ग फलं लभेत् || देव्युवाच द्वात्रिंशदक्षरां देवी सर्वकामार्थ साधनीं | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || एतानि पञ्च देवानि येन सिद्धाः सुरेश्वराः | आदि भूतां परां सूक्ष्मां श्रोतुमिछामि तत्त्वतः || जन्मजन्मान्तरं पापं भस्मसाद्यान्ति तत्क्षणात् | श्रीभैरव उवाच आदौवर्णं समुत्पन्नं रुद्राणां वा(ऋ)षिमन्दिरे | यत्र मध्ये महादेवि मेषो(माया)रुद्रो महाबलः || पूर्वं तु तद्विजानीयान्मालिनी शिरसि स्थितम् | पूर्वं वागीश वर्णस्य स्त्रायुरूर्द्ध्वं व्यवस्थितं || द्वीतीयञ्च समुत्पन्नं नाभि रुद्रं तृतीयकं | ग्रहमालास्थितं वर्णं ततो मध्ये व्यवस्थितम् || प्. ६ब्) स्नायु रुद्रं तदग्रे च पंचमं परमेश्वरि | वागीशे शान्तं मारूढं भूतीशं मस्तके स्थितं || षष्ठे बीजं विजानीयात् तस्यान्ते शिखिवाहनं | लोर्द्धे च मस्तके तस्य रकारासन संस्थितं || झण्टीशं शिरसे चैव कूरन्तस्योपरिस्थितं | हृद्बीजं परमं देवि सर्वसिद्धिप्रदायकं || क्रोधवर्णं समुद्धृत्य अमरीशासन स्थितम् | अष्टमञ्च भवेद्बीजं वकारन्तस्य अग्रतः || सूक्ष्मरुद्रं शिरेदत्तं चतुर्वक्त्रमधस्थितम् | रुद्रमालादि तस्याग्रे वागीशं भूतिसंयुतम् || ल(न)कुलीरक्तमारूढं व्यञ्जनं शिरसिस्थितम् | अनन्तेनन्तेनसमायुक्तं द्वादशं बीजमुत्तमम् || पुनः प्राणं समुद्धृत्य द्विःस्थाने तु महेश्वरि | भुजङ्गमासनस्तेषां उभौवर्णे प्रदापयेत् || व्यञ्जनश्चैव वर्णेन त्रिमूर्त्ते न विभुषितम् | अर्घीशमासनश्चैव व्यञ्जनोर्द्ध्वमतःपरम् || क्रोधकूर्म्मान्त वर्णानां टतवर्गानि मानि च | केवलञ्च समुद्धृत्यमेकारान्तेषु अग्रतः || श्रीकण्ठं यद्भवेद्वर्णं केवलं च ततः पुनः | सद्योजातेनसंयुक्तं शिवेशपरमेश्वरम् || सर्वपापहरं बीजं एकविंशे सुरेश्वरि | अनन्तेनसमायुक्तं तस्यान्ते रक्तसंस्थितम् || महाकालं पुनर्द्देवि सव्यकर्णासनस्थितं | क्रोधवर्गद्वितीयञ्च त्रिमूर्त्तेन तु भेदितम् || चतुर्विंशतिमंबीजमक्षरं सिद्धिदायकं | प्राणादि संस्थितं यच्च कूर्म्मन्तस्योपरिस्थितं || प्. ७अ) क्रूरानन्तेनसंयुक्तं पंचविशतिमं विदुः | पुनस्तं क्रूरसंयुक्तं वेदस्वरविभूषितम् || अग्रे तस्य महादेवि क्रोधरुद्रालयं परम् | सुक्ष्मरुद्रेणसंयुक्तं सप्तविंशतिमं महत् || दक्षपादोद्भवं वर्णमुमा(का)न्तस्य मन्दिरम् | अष्टविंशतिमं बीजं सूक्ष्मं तस्योपरिस्थितं || पुनरैतव बीजेत उभे अग्रे व्यवस्थिते | पुनः स्नायुस्थितं वर्णं सुक्ष्मरुद्रसमन्वितम् || झण्टीशेनसामायुक्तं कूर्मन्तस्योपरिस्थितं | एषाविद्यापरागुह्या पराशक्तेर्व्यवस्थिता || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | पंचवक्त्रोद्भवाह्येते अत्रविद्याननेषु च || पूर्ववक्त्रे समुत्पन्नो भूतामां च पितामहः | पुनर्नारायणे देवि संभूतश्चोत्तरानने || एकादशानि रुद्राणि याम्य वक्त्रोद्भवानि च | सिद्धास्ते नात्रसंदेहो अस्या विद्या प्रभावतः || ईश्वरश्च महादेवि प्राची वक्त्रसमुद्भवम् | परापरे शिवः सिद्धः ऊर्द्ध्ववक्त्रे सुरेश्वरि || वक्रे वक्रे महादेवि सिद्धा ह्येते सुरोत्तमाः | सिद्धाप्रजायते न्योपि सिद्धैस्तु संहिता पुरा || हृदयेन महादेवि सानुष्ठान परायणाः | शिरेगांधर्वमित्याहुः (शिरसागन्ध्र्व आहुः; गन्धवोः शिरसा सिद्धाः) पूजाराधनतत्पराः || गन्धर्वत्वं च संप्राप्तः शिरोदेव्याः प्रभावतः | महर्ज्जनतपः सत्यं ये सिद्धा अत्र संस्थिताः || द्वात्रिंशदक्षरा देव्या शिवाराधनतत्पराः | ज्ञानसिद्धाः समाख्याता ऊर्ध्वलोक निवासिनः || प्. ७ब्) इन्द्राद्या देवताः सर्वे धर्म्मराजो यमो निलः | नि-ऋतिर्वरुणश्चैव ये यक्षाधनदादयः || सिद्धास्ते नात्रसंदेहः कवचे वरवरवर्णिनि | चन्द्रादित्या गुहा अथात डिन्मेषादि राशयः || नेत्राराधनयोगेन सिद्धास्ते नात्रसंशयः | नागा विद्याधराः सर्वे पर्वताः सागराः सरित् || यद्भूता भुवि पाताले अस्त्र योनिसमुद्भवाः | अनुष्ठानेन देवेशि स्वसिद्धिसहिताः पुरा || सामर्थ्यं यस्य यो देवि वर्त्तते भुवनान्तरे | द्वात्रिंशदक्षरी विद्या त्वत्प्रसादात् सुरेश्वरि || विद्यायोनिसमुत्पन्नं त्रैलोक्यं स चराचरं | एषादेवि परामाया मन्त्र सृष्टि(मूर्ति)व्यवस्थिता || पूजामानेन देवेशि त्रैलोक्यं पूजितं भवेत् | तस्याङ्गानि च वक्त्राणि न्यासं कुर्याद् वरानने || देव्युवाच श्रुतं देव परंगुह्यं देव्यानुद्धार(तद्ध्यानं)मुत्तमं | तस्याङ्गानि च वक्त्राणि त्वया चोक्तानि यानि च || तमहं श्रोतुमिछामि त्वत् प्रसादाच्च भैरव | श्रीभैरव उवाच कथयामि न सन्देहो य त्वया परिपृच्छितं | देव्याः सप्ता(रुद्रा)क्षरं मूलं कस्यान्ते यादृशं भवेत् || तमहं संप्रवक्ष्यामि हृदि देव्या न संशयः | खण्डपावकमारूढं खण्डमायाधः संस्थितं || प्राणमूर्धगतं कुर्यादाषाढी तस्य चाग्रतः | क्रोधवर्णासनारूधं महाकालं च केवलं || पिनाकी म?द्भवेद्वर्णं केवलं च ततः पुनः | एतानि वेदवर्णानि विद्या सप्तान्तसंस्थिताः || प्. ८अ) विद्यासप्तेति चत्वारि अस्यान्ते ते समालिखेत् | तस्यान्ते हृदयं चैव दशमेष्टाक्षरं विदुः || इच्छासिद्धिकरं दिव्यं हृदयं कुब्जिकस्य तु | रुद्रान्ते संस्थिता त्रीणि मूलविद्यानु यानि च || मस्तकन्तद्विजानियात्मार्त्तण्ड भैरवी सह | भुवनान्ते भूतबीजानि मूलविद्या तु संस्थिता || देवीज्ञानशिखानाम वौषडन्ता च संस्थिता | शिखान्ते पंचवर्णानि कवचं परिकीर्त्तितं || सर्वसर्वादरी देव्या कुलिशः पञ्जरं इव | तस्य पुरत ये वेदास्त्रिनेत्रासंस्थितानि च || त्रैलोक्य दर्शनी देवी संभूता चतुरक्षरी | विद्यान्ते युगवर्णानि देव्यास्त्रेसंव्यवस्थितं || सर्वार्थरक्षणी देवी दिशासु विदिशासु च | नमः स्वाहा वौषडन्तं वषट् हुंफट् च संयुतं || श्रीभैरव उवाच अथातः संप्रवक्ष्यामि देव्या वक्त्राणि यानि च | नकारादि यै(ए?)कारान्तं ये वर्णा रुद्रसंस्थिताः || सृष्टिशक्तिर्नमोन्ते च पूर्ववक्त्रे प्रपूजयेत् | तस्यान्ते च सु(स्व)वर्णानि संभूताश्चोत्तरानने || मायाशक्तिर्नमोन्तश्च पूजितव्यं प्रयत्नतः | दक्षिणास्ये पुनर्देवि भूतवर्णा व्यवस्थिताः || रौद्रीशक्तिसमायोगान्नमोन्तं पूजनं भवेत् | पश्चिमे ऋतुवर्णानि शक्तिमैश्वर्यदायिके || नमोन्तं पूजनन्तस्य इच्छाशक्ति फलं लभेत् | ऊर्द्धवर्णै स्थितौ नेत्रो मोक्षशक्तिरुदाहृता || पूजितव्यं विधानेन सर्वपापैः(बन्धै) प्रमुच्यते | एतेषु पंचवक्त्रेषु विद्याबीजानि यानि च || प्. ८ब्) आदौ उच्चारणं कुर्याद्यो यस्य या दृशानि च | अङ्गानि पंचवक्राणि न्यासं प्रणवसंयुतम् || मूलविद्यां जपे देवि सर्वसिद्धि प्रदायिकीं | इति पारमेश्वरीमते पंचप्रणवमूलविद्याङ्गवक्त्रोद्धारः षड्विंशतिमः पटलः || श्रीभैरव उवाच अथातः संप्रवक्ष्यामि नवात्मा न्यासमुत्तमं | नाभिवर्णं समुद्धृत्य प्राणं तस्यासनं भवेत् || प्राणं रक्तसमारूढं रक्तं क्रोधासनस्थितं | महाकालासनं क्रोधं महाकालं पिनाकिनं || पिनाकी स्नायुमारूढं स्नायु वागीशमुर्द्धगं | ध्रुवान्ते सम(र्व)मारूढं नादबिन्दुविभूषितं || एतत्सर्वाङ्गदेहेषु न्यासं कुर्यादनात्मनः | (महाकालं पिनाकिनं पिनोकी स्नायुमारूढं || ध्रुवान्ते समारूढं नादबिन्दुविभूषितं | एतत्सर्वाङ्ग देहेषु न्यासं कुर्वात यत्नत ||)??????? न भयं विद्यते तस्य त्रैलोक्ये स चराचरे | श्रीभैरव उवाच या सा देवि परागुह्या मालिनी मातृकोद्भवा | भासयन्ती स्वतेजे(देहे)न मा(लि)नं स चराचरं || तस्योद्धारं परंगुह्यं शृणुष्वेकाग्रमानसाः | मेषोनाममहारुद्रो मूलं विद्यादि संस्थितः || तद्वर्णं शिरसि न्यस्तं नादिनी देवि संस्थितं | नाथिमध्यगतं वर्णं लोहितस्योपरिस्थितं || ग्रसनीतिसमाख्यातं संस्थिता वक्त्रमण्डले | प्. ९अ) भारभूस्प?तिथिश्चैव नासिकाग्रे व्यवस्थितौ || दक्षगण्डस्थलं वाममेते वर्णा नपुंसकाः | निवृत्यायै प्रतिष्ठायै विद्यायै शान्तिमेव च || एषादेवि शिरोमाला मालिनी शिरसि स्थिता | कूर्म्मवर्णं पुनर्देवि तृतीयं नेत्रसंस्थितं || न्यासं कृत्वा तु चामुण्डा सर्वविघ्नप्रणाशनी | पुनश्चक्षुश्च(द्व)योर्मध्ये या देव्या प्रियदर्शनी || मीनरुद्रोद्भवं वर्णं विन्यसेद्विधिपूर्वकं | पुनर्नारायणी देवी श्रवणाभ्यामध(ण योर्मध्य सं)स्थिता || विन्यसेद्विधि पूर्वं तु उमाकर्णे च या स्थिता | ध्रुवादि मोहिनी देवी दक्षिणे कर्ण भूषणं || ध्रुवान्तं वामकर्णे तु प्रज्ञायै तत्र संस्थितम् | कैवल्यं मन्दरस्थं च नासिकाग्रे व्यवस्थितं || गुह्यशक्तिं विजानीयाद्वज्रिनीवज्र(क्र)मध्यतः | व(क)कान्तं(रा)स्थितं तत्र खड्गीशं यत्रसंस्थितम् || कराली च कपाली च शिवाघोरा वशि(*?)र्वरा | पञ्चैताः क्रमयोगेन क्रोधवर्गे व्यवस्थिताः || न्यासं कुर्वीत देवेशि अधोर्द्धं दन्तपंक्तिषु | अष्टवागेश्वरी वाचा त्रिमूर्त्तिश्च सरस्वती || जिह्वान्यासं च कुर्वीत व(च)कारं कण्ठमध्यतः | तत्रमध्यस्थिता देवी शिखिवाहीति विश्रुता || ऋषिपूर्वं समुद्धृत्य तत्र भीमा व्यवस्थिता | दक्षिणे तु भुजे दण्डे शिखरं यस्य मन्दिर(ण्डित)म् || तत्रैव ऋषिमालायां यामे मध्ये व्यवस्थितम् | शिखरं वामहस्तस्य वायुवेगा प्रतिष्ठिता || प्. ९ब्) नमो दक्ष भुजादण्डे दा(चा)रुवर्णासनस्थिता | पूनर्विनायकी देवी ग्रहादिवर्णसंस्थिता || न्यासं वामभुजादण्डे पूर्णिमाकरमध्यतः | ढान्तवर्णसमायोगा न्यासं कृत्वा करेषु च || रू(कं)कारिणी च या देव्या अजितावर्णसंस्थिता | अङ्गुलीन्यासं कर्त्तव्यं दक्षिणस्य करस्य तु || पुनर्वाम करे देवि अंगुली न्यास पार्वती | सर्ववर्णसमायोगादाकाशान्ते व्यवस्थिता || दीपनी शूलदण्डं च भुजंगे दक्षिणे करे | जयन्ती शूलमित्याहुर्जकारस्य तु पूर्वकं || करे वामे कपालञ्च वर्णे सोमेश्वरासनं | कपालीनामविख्याता वामहस्ते प्रतिष्ठिता || पवनी हृदये यो ह्य लोहितं वर्णपूर्विका | अंबिका च ततो देवि छहु(मम; वक्र)मध्ये व्यवस्थिताम् || न्यासं प्राणस्य कर्त्तव्यं इछाशक्ति हृदिस्थितम् | लोकान्ते तस्य वर्णस्य उद्धारं पूर्वतस्थितम् || सकारं बिन्दुसंयुक्तं हृदिमध्ये नियोजयेत् | देवी तु परमात्मायै न्यासं कृत्वा प्रयत्नतः || एकहस्तस्य यद्वर्णं छागली तत्रसंस्थिता | दक्षिणस्तनमध्यस्थं वामे वै पूतनां विदुः || पिनाकी तत्र वर्णं च पूर्वे यर्द्धे(दत्वा) च विन्यसेत् | अनन्तेनसमायोगादामोटीक्षीरमध्यतः || पुनस्तं लंबिनी देवी आसने स्वेनसंयुतं | न्यासंकुर्वीत यत्नेन उदरमध्ये तु संस्थितम् || संवर्त्तकस्य मध्यस्थं देवी संहारिका भवेत् | नाभि न्यासं विजानीयात् महाकालीमपूर्वकं || न्यासंनितंवमध्यस्थं कुर्वीत्त परमेश्वरि | प्. १०अ) लोकानां पूर्ववर्णे तु गुह्येसु कुसुमा युधा(न्यसेत्) || संवकं शुक्रमध्ये तु श्रुक्रा(सूक्ष्मा) देवी व्यवस्थिता | आषाढीक्रूरसंयुक्ता तत्र ताराव्यवस्थिता || ऊरू मध्यगतं न्यासं जानुन्यासमतः शृणु | ना(वा)मादिवर्णमुद्धृत्यझण्टीशं यत्रसंस्थितम् || ज्ञानशक्तिप्रयत्नेन विन्यसेदक्षजानुनि | ऋ अन्तं वामजानुस्थं कैलासे यत्प्रतिष्ठितं || क्रियाशक्ति स्थिता तत्रन्यासंकुर्वीत यत्नतः | सद्योजातस्य(स्तु) गायत्री दक्षजंघेषु संस्थिता || सावित्री वामजंघाया ऋकारं तस्य पूर्वकं | दहनी दक्षिणे पादे दकारासनसंस्थिता || वामपादे फकारस्य(तु फेत्कारि) न्यासं कुर्यात् प्रयत्नतः | एतद्देविपरंगुह्यं मालिनी न्यासमुत्तमम् || विन्यस्तं विधियोगेन पंचप्रणवसंपुटम् | भूतप्रेतपिशाचानि यक्षरक्षमहोरगाः || अन्येपि हिंसका ये च संस्थितावरवर्णिनि | तस्य दृष्टि निपातेन विद्रवन्ति दिशोदश || अशनीवज्रपा(धा)तेषु राजचौर भयेषु च | संग्रामे जयमाप्नोति शस्त्रघातं न विद्यते || महारक्षा भवेत्तस्य सर्वशस्त्रेषु चैव हि | लभेत्सौभाग्य मतुलमायुरारोग्यसंपदं || न्यासंकुर्वीतयत्नेन स्मशाने तिष्ठते यदि | भूतप्रेतपिशाचैश्च ज्वलन्तं दृश्यते तु सः || ददन्ति विपुलां सिद्धिं निशाचारेणसुन्दरि | सप्तवारान्कृतन्यासा गजाश्वे तिष्ठते यदि || प्. १०ब्) अथवाभूमिपादेन शस्त्रंसंगृह्यपाणिना | प्रविश्यति महावीरः संग्रामे युद्धकांक्षिभिः || दृश्यते परचक्रे तु एकेरौनिकरूपिणः | पंचाशद्रूपपिण्डस्य एकोसौ देवि दृश्यते || प्रहरन्शस्त्रजालेन पादेषुगजसंस्थितः | निर्ज्जित्य परसैन्यानि आगछन्ति न संशयः || मालिनी न्यासयोगस्य सामर्थ्यं ईदृशं भवेत् | अन्ते मुक्ति मवाप्नोति पुनर्ज्जन्म न विद्यते || इति पारमेश्वरीमते मालिनीन्याससप्ताविंशतिमः पटलः || श्रीभैरव उवाच देव्या भू?यं परंगुह्यं प्रवक्ष्याम्यनुपूर्वशः | परा च अपरा चैव तथा चैव परापरा || न्यासं कृत्वा तु देवेशि सर्वपापैः प्रमुच्यते | पञ्चप्रणवमंत्राणि आदिस्थाने भवन्ति वै || पराविद्यादिसंयोज्य श्रीकण्ठन्तदनन्तरं | शिवं च पूर्वमुद्धृत्य सद्योजातेनसंयुतम् || ज्ञानशक्तिसमायोगात् भुजंगं पंचमं विहुः | नवादि दीपिनी वर्णे प्राणन्तस्योपरिस्थितं || त्रिमूर्त्तेन समायुक्तं लोकादिसंयुतं लिखेत् | पुनस्तु अंबिका देवी शुक्रभैरवसंस्थिता || सप्तमं च महाबीजं लोकान्तं पुरतः स्थितं | पावनी बीजमुद्धृत्य लोहितं यत्रसंस्थितम् || भुजङ्गञ्च पुनर्देवि नवमन्तस्य अग्रतः | महाकालोद्भवं वर्णं तस्य अग्रे पुनर्लिखेत् || शिवायवर्णसंयुक्तं(भागेन) सद्योजातेनसंयुतं | ऋ आदिश्चैव योगेन नवादे *? ग्रतस्थितं || ध्रुवादि आसनं दद्यात् लोकादि मस्तके स्थितं | ध्रुवान्तस्य अधश्चैव एषुवर्णेषु मध्यगः || ध्रुवान्ते अन्तमन्ते च सद्योजातविभूषितम् | चतुर्दशं च इत्युक्तं दीपिनी तदनन्तरं || केवलं शूलदण्डस्थं पुनस्तं तस्य अग्रतः | ध्रुवान्ते आसनंस्थं च षोडशं बीजमुत्तमम् || झण्टीशेनसमायुक्तं लोहितं तदनन्तरम् | भृखु?कं बीजमुद्धृत्य अम्बिकामूर्द्ध्निसंस्थितं || पक्षान्तान्तं शिरसे दत्तं सविसर्गं समालिखेत् | ऋ आदिवर्णमुद्धृत्य शिवं यत्रव्यवस्थितम् || रुद्रान्तेनसमायुक्तं दीपनीतदनन्तरम् | अनन्तेन समासक्तं? बीजं विंशतिमं(भुजंगं पंचमं) विदुः || मे च मध्यगतं देवि नितंत्वं मालिनी स्थितम् | अमरीशासनारूढं बीजं परमदुर्लभं || भारद्भूति अधो गृह्य प्रचण्डं भैरवानने | ऋ पूर्ववर्णयोगेन बीजं द्वात्रिंशमं(गुपतरं) प्रिये || ऋषिपूर्वं समुद्धृत्य मालिनीजिह्वसंयुतम् | केवलं वैनितं वंच भैरवे हृदिसंस्थितं || पुनस्तस्यादि अग्रे तु कान्तं तस्याग्रतो स्थितम्(लिखेत्) | उमाकान्तं समुद्धृत्य ज्ञानशक्तिसमन्वितं || छगलण्ड भैरवं यत्रवर्णं तस्याग्रतस्थितम् | महांकालं पुनश्चैव तस्याग्रे संस्थितं प्रिये | पाने(सो)मध्यगतं देवि लोहितं सूक्ष्मसंयुतं | स्नायुरुद्रं च तस्याग्रे मालिनी वक्त्रसंस्थितम् || प्. ११ब्) पुनरेत्तानि बीजानि उभौ अग्रे व्यवस्थितौ(चत्वार्यग्रे स्थितानि च) | उभौ प्राणौ(रक्षवर्णौ)समुद्धृत्य झिण्टिशेनादिसंयुतं || केवलं चैव तस्याग्रं अंबिका यत्रसंस्थितम् | रक्तवर्णं समुद्धृत्य युगस्थानेषु सुन्दरि || ध्रुवादि आसनस्थौ चिद्वौ वर्णो पूर्वसंस्थितौ | तस्याग्रे संस्थितौ द्वौ तु केवलानि च भैरवि || पंचप्रणवादि अन्तस्थं तस्याग्रे तु पुनर्ल्लिखेत् | विद्यया विश्वबीजञ्च पुरतस्तस्पदापयेत् || भूतादि वर्णमुद्धृत्य दीपिनी संस्थितं कुरु | ऋपूर्वं शिरसे दत्तं परस्य(ण्या) हृदयं विदुः || अस्य बीजस्य यत्पूर्वं ते नेदं संपुटं कुरु | अस्या विद्यादि (विद्यायाविश्व) बीजं च पुरत(स्त)स्पदापयेत् || एषा विद्या परा देवि त्रिषु लोकेषु दुर्लभा | चतुश्चत्वारि बीजानि जीवभूताव्यवस्थिताः || अर्द्धं चडी?नि(अर्द्धं च त्रीणि)वर्णानि अपरा च ततः शृणु(अन्ते च नियोजयेत्) | प्रणवादि द्वितीयं च प्रथमं बीजमुत्तमं || भुजंगासनमारुढं हराद्येनविभूषितम् | ठ आद्येन शिराक्रान्तं बीजंपरमदुर्लभं || वकारोर्द्धं समादाय *(?)वान्तेन विभूषितम् | शुक्रा देवी शिराक्रान्तं बीजं सुरवरार्चितं || ध्रुवान्ता स(न)मारूढं प्राणंबिन्दु(णबीज)युतं कुरु | मालिनी वामपादञ्च केवलं च ततः पुनः || ध्रुवादिखण्डमारुढं अर्द्धेन्दुपुरतस्थितम् | अपरा च समाख्यात्ता सर्वविग्नप्रणाशनी || यक्षापरापरादेव्या तस्यो द्वारं वदाम्यहं | सर्वसिद्धिप्रदासाक्षाद्भुक्तिमुक्ति प्रदायिका |५???? प्. १२अ) ध्रुवान्ते अधसंगृह्यक्षान्तन्तस्योपरिस्थितं | शुक्लवर्णसमारूढं सविसर्गसमालिखेत् || प्रणवादि पुनः कृत्वा विद्यानाम परापरा | न्यासं सर्वाङ्गदेहेषु कुर्वीतवरवर्णिनि || धर्मकामार्थमोक्षञ्च लभते नात्रसंशयः | श्रीभैरव उवाच महान्यासंप्रवक्ष्यामि अघोरस्याष्टकं परं || प्रणवादि समुद्धृत्यं श्रीकण्ठन्तदनन्तरम् | अपूर्वमो(म)ष्टसंयुक्तं संस्थितं गन्धमादने || तृतीयं च समाख्यातं शूलदण्डं चतुर्थकं | अपूर्वेश(ण)शिरोभिन्नं चतुर्थं बीजमुत्तमम् || तस्यान्ते अंबिका देवी संस्थितं छान्तमन्दिरे | विश्वमालादिसंयुक्तं रक्तस्थं मुर्द्ध्निबिन्दुकं || पंचमं च महाबीजं शुक्रचैवाग्र(विसर्ग)संयुतं | अघोर्याश्च शिरोन्यासं ऋतुवर्णं पतिष्ठितं || प्रणवादि आदि बीजं शूलदण्डं द्वितीयकं | अमरी आस(श)नसंयुक्तं बिन्दुमस्तकभूषितं || पावनीवर्णमुद्धृत्य केवलं च तृतीयकं | चतुर्थं केवलन्देवि भुजंगं भैरवालयं || तस्याग्रे मालिनीवर्णन्नितम्बं केवलं स्थितं | तस्यान्ते(ग्रे) शिवमित्याहु रुद्रान्तेन विभूषितं || झण्टीशेन शिरस्थेन रक्तवर्णं समालिखेत् | छकारान्तं समुद्धृत्य अमरीशासनस्थितम् || श्रका देवी शिराक्रान्तं सप्तमं परिकीर्तितम् | पराया विश्वबीजं च अष्टमं तस्य दापयेत् || विसर्गेन समायुक्तं भृगुवर्णं तदग्रतः | प्. १२ब्) एतानि नवयोगानि परमघोरेणसंयुताः || वक्रन्यासं प्रकुर्वीत कण्ठन्यासमतः परं | ऋ अन्तमादि मुद्धृत्य शिरोबिन्दु विभूषितं || तस्याग्रे रक्तमित्याहुर्द्वितीयं वर्णसंस्थितं | ऋपूर्वमोष्ठसंयुक्तं भुजंगं तदनन्तरं || ध्रुवान्ते रक्तमारूढं पादितस्याग्रतस्थितं | शिरे तस्य ऋपूर्वं च षष्ठमं बीजमुत्तमं || अंबिका च पुनर्द्देवि छा(ढा)न्तवर्णे प्रतिष्ठितम् | एकादशे चतुर्थं च शुक्रमध्यगतं लिखेत् || घोररूपं च तस्याग्रे न्यासं कण्ठस्य मध्यतः | झण्टीशं वर्णमुद्धृत्य ज्ञानशक्ति विभेदितम् || नवादि वर्णं तस्याग्रे द्वितीयं बीजसंस्थितं | ऋपूर्वमोष्ठसंयुक्तं तृतीयं बीजमुत्तमं || अनन्ते न समायुक्तं भुजंगं तस्य अग्रतः | ध्रुवादि आसनं दद्यात् मे च मध्ये समालिखेत् || (प्र)चण्डवर्णं समुद्धृत्य (ऌ) पूर्वेण(च) समन्वितम् | शुक्रमध्यगतं वर्णं सविसर्गं तदग्रतः || घोरा तस्याग्रतो दद्याद्धृदिन्या संप्रतिष्ठितम् | ज्ञानशक्तिं समुद्धृत्य अनन्तं शिरसि स्थितं || ऋक्षादि वर्णमुद्धृत्य विस्वादि संयुतं कुरु | तत्रैव ऋषिमालायां भे अन्ते संस्थितं च यत् || क्रियाशक्तिसमायोगात्तृतीयं बीजमुत्तमं | शुक्रं विसर्गवर्णं (शुक्लवर्णं विसर्गं) च पुरतस्तस्य दापयेत् || भीमवर्णेनसंयुक्तं न्यासं (भू?)द(र)मध्यतः | मालिनी वामजानुस्थं ज्ञान(क्रिया)शक्ति समुद्भवं || प्. १३अ) क्रूरवर्णं शिरे(वे)दत्तं प्रथमं बीजमुत्तमम् | अध(प)रस्य द्वितीयं च तस्याग्रे संस्थितं कुरु || ऋष्यादि वर्णमुद्धृत्य विश्वादि शिर(व)भूषितं | कान्तं वर्णं च तस्याग्रे स्वेतरुद्रालयं परं || उमाकान्तोद्भवं वर्णं झण्टीशेनसमन्वितं | शिखा(सासि)मध्यगतं गृह्य भैरवं शुक्रसंभवं || लोकान्तेन समायुक्तं भीषणं(णः) प(पु)रतः स्थितं | नाभिमध्यगतं देवि न्यासं कुर्वीत यत्नतः || पंचप्रणवादि तं? बीजं तस्याग्रे अंबिकां कुरु | मालिनी वक्त्रवर्णन्तु मन्दरे भूतसंस्थितं || महाकालं पुनर्द्देवि केवलं च समुद्धरेत् | तस्याग्रे शुक्लबीजं च भृगुकं यत्र भैरवं || पंचमं च महाबीजं विसर्गसंहितं लिखेत् | वमनीं अग्रत कृत्वा गुह्ये नयासंप्रकल्पयेत् || क्रियाशक्तिं समुद्धृत्य बिन्दुमस्तकभूषितं | मालिनी वामपादं च आदिस्थं तद्वरानने || अर्द्धेनुपुरतस्तस्य ध्रुवादि खण्डसंयुतं | यादिस्थं रुद्रमालायां सूक्ष्मन्तु शिरसि स्थितम् || वामे मध्यगतं गृह्य स्नायु रुद्रालयं परम् | शुक्रमध्यगतं देवि स विसर्गं समालिखेत् || पवनीं पुरतः कृत्वा गुदन्यासं प्रकिर्त्तितं | वज्रदेहमिदं चैव न्यासं परम दुर्लभम् || असाध्यं सुर दैत्यानां न्यासं यस्य शरीरगम् | इति पारमेश्वरी मते विद्यात्रयमघोर्याष्टकोद्धारो अष्टाविंशतिमः पटलः || प्. १३ब्) श्रीभैरवौवाच परा द्वादशकं न्यासं प्रवक्षाम्यनु पूर्वशः | न काले नापमृत्युश्च न विघ्नं तस्य जायते || सर्वव्याधि विनिर्मुक्तो रुद्रस्य सदृशो भवेत् | पंचप्रणवादि योगेन शुक्रवर्णं समुद्धरेत् || भृगु भैरव बीजं च तस्याधो अंबिकां कुरु | उद्धृतव्यं प्रयत्नेन स्थानानि द्वादशानि च || द्वादशस्वरभेदेन भेदितव्यं प्रयत्नत | पूर्वं पूर्वेण संयुक्तं द्वितीयेन द्वितीयकं || तृतीयेन तृतीयं च चतुर्थेन चतुर्थकं | पंचमे पञ्चमं योज्यं षष्टे षष्ठं नियोजयेत् || सप्तमे सप्तमस्थं च अष्टमे अष्टसंयुतं | तस्याग्रे च पुनर्देवि नवमे नवमं कुरु || दशमे दशमं चैव रुद्रमेकादशेन च | द्वादशेन पुनर्द्देवि विसर्ग सहितं कुरु || सर्व बिन्दुसमायुक्ता द्वादशैते महाबलाः | अंबिका च महादेवि स्वरैरेभिः प्रभेदितम् || उच्चारं प्रणवादिश्च सकारसहितेन च | सिद्धिः प्रथम उच्चारं ऋद्धिनामा द्वितीयकं || द्युतिनाम तृतीयं च लक्ष्मीनामा चतुर्थकम् | पञ्चमी दीप्ति माली च शिवा षष्ठि प्रकीर्त्तिता || सुमुखी सप्तमी देव्या मालिनी चाष्टमी भवेत् | नन्दा वै नवमी प्रोक्ता हय वेगा तदग्रतः || रुद्रे महामुखी चैव विश्वे शा च(यी) तदग्रतः | बीजद्वयसमायुक्तं पञ्चप्रणवपूर्वकं || एकैकस्य तु कर्त्तव्यं न्यासं सर्वाङ्ग(र्थ)सिद्धिदम् (पादौ जानूरु? गुह्ये च नाभौ हृत्कण्ठतः मुखे नासा पुटे चैव कर्णे मंत्रे शिरे न्यसेत्) | द्वादशाःङ्गमिदं न्यासं षडंगं च अतः शृणु || भृगुभैरवमुद्धृत्य पञ्चप्रणवसंयुतं | मालिनी मुखवर्णं च वज्रिणी यत्रसंस्थिता || रक्तभैरवमूर्द्धस्था एकपादं तदग्रतः | सम(धर्म)वर्णसमारुढं तृबीजं हृदये न्यसेत् || नमोन्तोच्चारणं तस्य संस्थितं हृदि मध्यतः | कैलासे शिखरे देवि श्रीकण्ठं यत्रसंस्थितम् || पूर्ववर्णं विजानीयात् महाकालं तदग्रतः | ऋकारखण्डमारूढं द्वितीयं वर्णमुत्तमम् || नाग(म)मध्यगतं गृह्य आरूढमात्मनस्य च | ऋपूर्वं शिरसि दत्तं तृतीयं बीजमुत्तमम् || द्विजमध्यगतं देवि मालिनी शूलमुत्तमम् | सद्योजातेनसंयुक्तं चतुर्थं च समालिखेत् || विश्वमालान्तु योगेन नितंवं देवि पंचमम् | मन्दरे लोकमध्यस्थं तस्याग्रे तु समालिखेत् || अधस्थं वर्णं संगृह्य आषाढी भैरवस्य तु | मंदरान्तं शिरे दत्तं सप्तमं बीजमुत्तमम् || ग्रहमाला ऋतु स्थाने कैलासवर्णभूषितं | खण्डपावकमारूढं अष्टमं च समालिखेत् || पानोमध्यगतं गृह्य रुद्रेषु ग्रहमन्दिरे | आषाढी भैरवारुढं कैवल्यं वर्णभूषितं || शिरो न्यासं प्रकुर्वीत स्वाहा कारान्तसंयुतम् | मालिनीकण्ठ(मुख)वर्णञ्च स्नायू भैरवमन्दिरं || प्रथमं बीजामित्याहुर्नामादि शिर(व)भूषितम् | का ऊ (उ; र्द्र; दि)मध्यगतं देवि रुद्रदी(द्राणी)प द्वितीयकम् || पुनरस्यैव अग्रे तु पूर्ववर्णेनसंयुतं | प्. १४ब्) दहनी वर्णमुद्धृत्यमालिनी पादसंस्थितं | मालिनी मूर्द्ध्नि वर्णं च कैवल्यं वर्णभूषितम् || कैलास शिखरान्तस्थं अग्रतस्तस्य दापयेत् | मेषवर्णं पुनर्द्देवि अनन्तेनसमन्वितम् || सप्तमं च समुद्धृत्य अष्टमं कान्तसंस्थितं | सूक्ष्मभैरवसंयुक्तं नवमं च ततः शृणु || मंदरे भूतमध्यस्थं पृष्ठे रुद्रालयं परम् | रुद्रान्तेन समायुक्तं नवमं बीजमुत्तमम् || दुधे(त्ववि)मध्यस्थितं वर्णं मीन रुद्रालयं परं | दशमं च विजानीयाद् वौषडन्ता च या शिखा || मालिनी मुखवर्णञ्च भूतवर्णे व्यवस्थितम् | स्थापितं पूर्व वर्णं च जपन्तीं च समालिखेत् || शूलदण्डासनं तस्य भुजंगं यत्र संस्थितम् | मन्दरान्तेन संभिन्नं उमाकान्तं तृतीयकम् || तस्यसूक्ष्मं शिरे(वे)दत्तं कैवल्यं यद्व्यवस्थितम् | पृष्ठ(पूष्णि)भैरवमुद्धृत्य चतुर्थं वर्णमुत्तमम् || जयन्ती रक्तमारूढं तस्यान्ते पंचमं विदुः | अनन्तेन समायुक्तं मीनवर्णन्तदग्रतः || भुजंगभैरवं वर्णं प्रथमं(सप्तमं) च समालिखेत् | भूषणन्तस्य दात्तव्यं शिरस्थं गन्धमादने || वागीशं च ततो देवि अष्टमं केवलं भवेत् | मालिनी कण्ठवर्णस्य आरूढं भृगुजं(कं) कुरु || न ऊर्द्धे ग्रहमालायां तादिवर्णं व्यवस्थितं | सोपि बिन्दुयुतं कार्या तद्वर्णन्तस्य अग्रतः || सोपि रक्तासनं कुर्याद् रुद्र बीजं व्यवस्थितम् | केवलं(कवचं) तद्विजानीयात् हुंकारान्तं व्यवस्थितम् || प्. १५अ) भूतमध्यस्थितम्वर्णं मालिनीमुख(कण्ठ)संस्थितम् | प्रथमं तद्विजानीयात् संवर्त्तकं तदनन्तरं || ध्रुवान्ते अधः संगृह्य छहू(भूज)मध्ये व्यवस्थितम् | ऊर्द्धमनु(रुञ्चा)ग्रहीशेन क्रूरेण च समन्वितम् || भूषितञ्च वरारोहे तृतीयं बीजमुत्तमम् | शंवकस्य तु वर्णस्य ऊर्द्धवर्णम्व्यवस्थितम् || तस्यादिं गृह्य मेधावी ध्रुवान्ते आसन स्थितम् | लोकान्तं शिरसे दत्तं चतुर्थं बीजमुत्तमम् || विसर्गेनसमायुक्तं शुक्रवर्णं तदग्रतः | कैलास शिखरस्थञ्च वर्णादि (चा)ग्रतः स्थितम् || ध्रुवादि आसनस्थञ्च पिशितं भैरवं कुरु | सप्तमन्तद्विजानीयाल्लोहितश्चाष्टमं भवेत् || आषाढी रुद्रवर्णेन आरुढं नात्रसंशयः | नवकेशांवकं गृह्य वेशोमध्ये व्यवस्थितम् || केवलन्तद्विजानीयान्नवमं नात्रसंशयः | क्रोधभैरवमूद्धृत्य नागमव्यासनं कुरु || सूक्ष्मरुद्रं शिरे दत्तं दशमं बीजमुत्तमम् | पंचप्रणव योगेन वषडं नेत्रमुत्तमम् || जकारं यस्य उर्द्धन्तु स बीजं यत्रसंस्थितम् | एकादशे चतुर्थस्य पिशितस्यासनं कुरु || विश्वमालादि संबिन्नं क्रूरं शिरसिसंस्थितम् | पूर्ववर्णं विजानीयात् पावनी तस्याग्रतः स्थिता || शुक्रवर्णं पुनर्द्देवि क्षे(ना)न्तेन विभूषितम् | कैलास शिखरस्थं च चतुर्थं वर्णमुत्तमम् || मेषरुद्रोद्भवं वर्णं लोकान्तं शिरभूषितम् | प्. १५ब्) पंचमं बीजमित्याहुश्चाषाढी तदनन्तरं || संवकं च पुनर्द्देवि सप्तमं च समालिखेत् | एकादशादि चाग्रे तु आषाढी आसनस्थितम् || मन्दरान्ते न संभिन्नं अष्टमं बीजमुत्तमम् | षडंगस्य इदं देवि फडन्तं अस्त्रमुत्तमम् || षट्कौशिकमिदं पिण्डं शिवशक्तिसमुद्भवं | शुठ्यं ते नात्रसंदेहः सप्तजन्मान्तिकं मलम् || पुनरन्यं प्रवक्ष्यामि ग्रन्थि न्यासं यथा भवेत् | सर्वेषामादि बीजानि ये भूता कथयामिते || अकारादि विसर्गान्ता ये वर्णा मातृकोद्भवाः | एकैकं तेषु पूर्वस्थं ग्रन्थि न्यासं सदा कुरु || आदि युक्तेन प्रथममनन्तमङ्गुलीषु च | द्वितीयेन समायुक्तं कालग्रन्थिं वरानने || अधोङ्गुष्ठ(गुल्फ)स्य कर्त्तव्यं न्यासं परम दुर्लभं | तृतीयेनादि युक्तेन ज्येष्ठग्रन्थिरुदाहृतम् || न्यासं जंघासुमध्यस्थं कर्त्तव्यं वरवर्णिनि | रौद्रिग्रन्थि चतुर्थेन आदिभूतेन जानुनि || पंचमेन समायुक्तं वामदेवं प्रकीर्त्तितम् | न्यासं कृत्वा प्रयत्नेन स्थिचाभ्यां देवि यत्नतः || षष्ठं गुदस्य मध्यस्थं पूर्वोच्चारं जगस्य च | ब्रह्मग्रन्थिं पुनर्द्देवि ब्रह्मस्था तेषु विन्यसेत् || सप्तमेन तु पूर्वेण स्वरेण वरवर्णिनि | अष्टमं गुह्यमध्ये तु कामग्रन्थिमुदाहृतम् || अष्टमेन तु बीजेन आदवुच्चारणं कुरु | नवमे बीजयोगेन सोमग्रन्थिं च विन्यसेत् || अधो नाभिस्थितं स्थानं संपूर्णं चन्द्रवद्यथा | प्. १६अ) सूर्ययग्रन्थि पुनर्देवि विन्यसेन्नाभि मध्यतः || दशमेन तु पूर्वेण कुर्वीत वरवर्णिनि | आदि एकादशं बीजं स्थितमुदरमध्यतः || न्यासं कुर्वीत यत्नेन प्राणग्रन्थिं सुरेश्वरि | हृदये जीवग्रंत्थि च द्वादशेनसमन्वितम् || विष्णुग्रन्थिं विजानीयात् कण्ठस्थाने त्रयोदश | न्यासं कुर्वीत यत्नेन रुद्रग्रन्थिं चतुर्दशः || चतुर्द्दशेन बीजेन संस्थितं तालुमध्यतः | ईशग्रन्थिं कृतं न्यासं बीजं पञ्चदशेन तु || ललाटस्थं विजानीयात् तस्योर्द्धे षोडशीं कलां | सदाशिवस्य देवस्य ग्रन्थिमूर्त्ते व्यवस्थिता || षोडशी कलभेदेन ग्रन्थिन्यासं प्रकीर्त्तितम् | पुनर्द्वादशकं चैव अंबिकान्यासमुत्तमम् || तदहं संप्रवक्ष्यामि महासिद्धिकरं परम् | शुक्रभैरव मुद्धृत्य शूलदण्डासनस्थितम् || तस्योर्द्ध्वे अंबिका देवी कुटबीजमिदं महत् | उद्धृतव्यं प्रयत्नेन स्थानेषु द्वादशेषु च || द्वादशस्वरभेदेन भेदितव्यं (प्र)यत्नतः | एकैकेन स्वरेणैव अकारादि विसर्गजाः || प्रथमे बीजयोगेन सिद्धिनामा प्रकीर्तिता | न्यासं पादेषु कर्त्तव्यं सर्वसिद्धिप्रदायकं || द्वितीयेन तु बीजेन ऋद्धिनामा महाबला | अत्रन्यासं प्रकुर्वीत सिद्ध्यते नात्रसंशयः (जानु न्यासं प्रकर्तव्य मृद्धि हेतोर्नसंशयः) || रा(वा)मबीजेन देवेशि पूर्वेण चक्र(ऊरू)मध्यतः | अ(घु)तिन्यासं च वक्ष्यामि सर्वाकृष्टिकरं परम् || प्. १६ब्) चतुर्थं गुदमध्यस्थं यत्र लक्ष्मीर्व्यवस्थिता | न्यासं कुर्वीत यत्नेन महालक्ष्मी प्रसाधनं || पञ्चमेन तु बीजेन नाभिन्यासं व्यवस्थितम् | दीप्तिनामाधरा देव्या ज्ञानदीपप्रदायिका || हृदिमध्यगता देवि षष्ठबीजादि संस्थिता | मायानाम परासूक्ष्मा सर्वमाया प्रबोधनी || सप्तमं बीजमाश्रित्य शिवाकण्ठस्य मध्यतः | शिवाशान्ति करी सा तु विन्यस्ता देवि यन्ततः || सुमुखि नामया देव्या(वी) अष्टमे बीजसंस्थिता | मुखमध्यकृतं न्यासं वाचां सिद्धिकरं परम् || नवमेन तु बीजेन आदि भूतेन चात्मना | पुरप्रवेशं कुरुते नासिका न्यासमुत्तमम् || नेत्राभ्यां नन्दिनी देवी सर्वानन्दकरी सुभा | दशमेन तु पूर्वेण विन्यस्ता दूरदर्शनी || एकादशेन बीजेन हरिकेशी महाबला | दुराश्रवणा च कुरुते विन्यस्ता कर्णमध्यतः || मूर्ध्निस्थं द्वादशे नैव महाकेशी प्रतिष्ठिता | धर्म्मकामार्थ मोक्षं च न्यासं सर्वार्थ सिद्धिदं || इति पारमेश्वरीमते द्वादशाङ्ग षडङ्ग अंबिकान्यासमुधारमेकोन त्रिंशतिमः पटलः || श्रीभैरव उवाच पुनरन्यं प्रवक्ष्यामि तद्ग्रह(द्धृतं)न्यासमुत्तमम् | येन विन्यस्त मात्रेण सर्वसिद्धिञ्च जायते || श्रीकण्ठं नादिनी देवी परा बीजं तृतीयकम् | अनन्तं ग्रसनी बीजं तृतीयं परसम्भवं || प्. १७अ) सूक्ष्मरुद्रं निवृत्तीश्च विद्या बीजान्तसंस्थितम् | प्रतिष्ठायै त्रिमूर्तादि अन्ते बीजं परस्य च || अमरीशादि विद्यायै तृतीयं परपञ्चमम् | अर्घीशं शान्ति पूर्वस्थं माया बीजं तृतीयकं || भारभूतिश्च चामुण्डा परस्य सप्तमं लिखेत् | अतिथिं पूर्वतः कृत्वा मध्यस्थं प्रियदर्शनी || तस्यान्ते अष्टमं बीजं लोहितं च समुद्धरेत् | नारायणी पुनर्देवि स्थाण्वीशमादि(संस्थि)तम् || तस्यान्ते रक्तमित्याहुः परस्पपरमञ्च यत् | हरेशं मोहनी बीजं मकारं पुरतः स्थितम् || झण्टीरुद्रोद्भवं वर्णं प्रज्ञा(जा)यै मध्यसंस्थिता | तस्यान्ते (अष्टमं बीजं लोहितं च समुद्धरेत्) वदातव्यं रुद्रबीजं परस्य च || भूतिपूर्वं विजानीयाद् गुह्यशक्तिस्तदग्रतः | पराबीजं लिखेत् प्राज्ञो द्वादशञ्च न संशयः || सद्योजातं पुनर्द्देवि वज्रिनी मध्यसंस्थिता | तृतीयञ्च पुनर्द्देवि पराबीजं त्रयोदशं || पूर्वे अनुग्रहीशं च मध्ये काली व्यवस्थिता | तस्यान्ते परमं बीजं बीजं देयं चतुर्दशं || क्रूरवर्णं पुनर्देवि कपाली मध्यसंस्थितम् | परापञ्चदशं बीजं पुनस्तं तस्य दापयेत् || शिवामध्यगतं कुर्यात् महासेनञ्च पूर्वगम् | पराषोडशमं बीजं तृतीयं परतः स्थितम् || पूर्वं क्रोधं समुद्धृत्य घोरां च तदनन्तरं | सप्तदशं पुनर्देवि पराबीजं तदग्रतः || प्. १७ब्) प्रचण्डभैरवं पूर्वं द्वि?र्वरामध्यसंस्थिता | अष्टादशतृतीयञ्च पराबीजं समुद्भवम् || प्रचण्डभैरवं पूर्वं मध्ये सरस्वतीं विदुः | तस्यान्ते तु पुनर्देवि (पराव?)जं समुद्धरेत् || शिवमादिसमालिख्य वा गेगी?मध्यसंस्थिता | पराबीजं तृतीयञ्च पुरतस्तस्य दापयेत् || एकपादं महारुद्रं मध्ये तु शिखिवाहिनी | तस्यान्ते चैव दातव्यमेकविंशतिमं परा || कूर्मभैरवपूर्वस्थं भीमा च मध्यसंस्थिता | पराबीजं तृतीयं च न्यासं कुर्वीत यत्नतः || एकहस्तं(नेत्रं) पुनर्देवि वायुवेगस्य पूर्वक(ग)म् | तृतीयं चैव दात्तव्यं पराबीजं सुनिश्चितं || नामा च चक्र मध्यस्थं पराबीजं तदग्रतः | चतुराननेन संयुक्तं आदिस्थं न्यासमुत्तमम् || वामकङ्गणसंभूतं भैरवं आदि संस्थितं | देवी विनायकी नाम अग्रतस्तस्य दापयेत् || पराबीजं पुनर्यद्वत्तृतीयं संस्थितं कुरु | सर्म्मभैरवपूर्वस्थं पूर्णिमामध्यसंस्थितं || पराविद्या समुत्पन्नं (पुरतस्थं तृतीयकं) | पूर्वे सोमेश्वरं देयं मध्ये झंकारि(णीं) विदुः || तृतीयं बीजं दातव्यं पराविद्यासमुद्धृतम् | लांगलीशंपुनर्देवि कुर्दन्या पूर्वसंस्थितं || पराबीजं तृतीयं च तस्यान्ते च समालिखेत् | दारुभैरवपूर्वस्थं दीपिनी मध्यसंस्थिता || उद्धृतव्यं प्रयत्नेन पराबीजन्तदग्रतः | अर्द्धनारीश्वरं देवं जयन्ती पूर्वसंस्थितं || प्. १८अ) पराविद्यो(बीजो)द्भवं वर्णं तृतीयं च समालिखेत् | पूर्वबीजं समुद्धृत्य उमाकान्तं च भैरवं || कपाली मध्य देशे तु तृतीयं च परोद्भवं | आषाढीभैरवं पूर्वं पवनीमध्यसंस्थितं || पराबीजं तृतीयञ्च उद्धृतव्यं सुयत्नतः | अंबिका या तु पूर्वे तु स्थापितं दिण्डिभैरवं || अंबिकान्ते तृतीयं च पराबीजं समुद्धरेत् | धात्रीशं भैरवं पूर्वं महासेनं च (इच्छाशक्तिश्च) मध्यगाम् || पराबीजं तृतीयं च आलिखेद्वरवर्णिनि | मीनरुद्रश्च पूर्वे तु सर्म्मरुद्रो महाबलं || उधृतव्यं तृतीयं च महाबीजं परस्य च | मेषभैरवपूर्वस्थं छागलीमध्यसंस्थितं || तृतीयं च पराबीजं स्थापितव्यं तदग्रतः | लोहितं भैरवी देवि पुत (नापार्श्व) पूर्वगं || अन्ते बीजं तृतीयं च परादेव्या समुद्भवं | शिखिवाही महारुद्रं आषाढी मध्यसंस्थिता || तस्यान्ते परमुत्पन्नं स्थितं बीजं सु(दु)र्लभं | छगलण्डं पुनर्देवि तस्यान्ते लंविनीं विदुः || परावर्णं(पर) विजानीयात् तृतीयं नात्रसंशयः | द्विरण्डं भैरवं हुत्वा मध्ये संहारिणी भवेत् || पराबीजं तृतीयं च उद्धृतव्यं प्रयत्नतः | पूर्वे रुद्रं महाकालं महाकाली च मध्यगा || उद्धृतव्यं तदन्ते च पराबीजं न संशयः | वागी(ली)शं भैरवं पूर्वं अन्ते कुसुमायुध स्थितं || उद्धृतव्यं प्रयत्नेन अन्ते बीजं परस्य च | भुजंगभैरवं पूर्वं देवी मध्ये तु संस्थितं || प्. १८ब्) पराबीजं तृतीयं च उद्धृतव्यं प्रयत्नतः | पूर्वे विनायकीत्याहुः मध्ये तारा व्यवस्थिता || पराबीजं तृतीयं च तस्यान्ते संस्थितं कुरु | खड्गीशं भैरवं देवि ज्ञानशक्तिश्च पूर्वगं || तृतीयं च समुद्धृत्य बीजं चैव परस्य च | संवकञ्च समुद्धृत्य क्रियाशक्तिश्च मध्यगा || परायाश्च तृतीयं तु तदन्ते तस्य दापयेत् | श्वेतभैरवपूर्वस्थं गायत्री मध्यसंस्थिता || अपरस्य तृतीयं तु तस्यान्ते कुरुयत्नतः | सावित्री मध्यदेशे तु भृगुः पूर्वे व्यवस्थितः || अपरस्य तृतीयं तु तस्यान्ते च समालिखेत् | लकुलीशं भैरवं पूर्वं दहनी मध्यसंस्थितं || उद्धृतव्यं प्रयत्नेन तस्यान्ते तु परापुनः(परां) | संवर्त्तकं महारुद्रं पूर्वभागे व्यवस्थितं || मध्ये फेत्कारिणी देवी त्रिविद्यान्तं तृतीयकं | देवी यज्ञो पवीतञ्च न्यासं सर्वाङ्गसिद्धिदं || सर्वविघ्नोपशमनं कुर्वीतवरवर्णिनि | अकारादि क्षकारान्ता ये वर्णा रुद्र संभवाः || एकैकं तस्य पूर्वे तु उच्चारं देवि संस्थितं | नकारादि फकारान्तं मध्यस्थं मालिनीं कुरु || परा च अपरा चैव तथा चैव परापरा | एताषु त्रिषु विद्याषु बीजं पंचाशतानि च || मालिन्योद्भववर्णानामेकैकं पुरतस्थितं | शब्दराशि कृतं न्यासं वर्णभैरवसंयुतम् || मालिनी च पुनर्देव्या विन्यस्ता योगिनी सह | परा च अपरा देवी तथा न्यास परापरा || प्. १९अ) परेषु सर्वमन्त्रेषु न्यासं पूर्वं च यत्कृतम् | तद्ग्रहेन विना देवि तत्सर्वं निस्फलं भवेत् || विन्यस्तं विधियोगेन देवी यज्ञो पवीतकम् | सबीजं भवते सर्वं पूर्वमासे च यत्कृतम् || इति पारमेश्वरीमते तद्ग्रहोद्धारस्त्रिंशतिमः पटलः || श्रीभैरव उवाच अथातः संप्रवक्ष्यामि श्लोकानि द्वादशानि च | येन विज्ञान मात्रेण सर्व पापैः प्रमुच्यते || अर्घीशमन्दिरे देवि अधोवर्णं प्रतिष्ठितम् | पूर्वेनिष च (सं)स्थं च शिरे(व) तस्य प्रदापयेत् || देवी कुसुमायुधा वर्णं तस्य ऊर्द्धे तु दापयेत् | आदिबीजं विजानीयात् भुजङ्गस्थं न संशयः || एकादशे ऋषिस्थाने मालिनी कण्ठ ऊर्द्धतः | उद्धृतव्यं प्रयत्नेन उभौस्थाने तदग्रतः || पुनस्तं बीजमग्रे तु पावकासनसंस्थितम् | अधस्तस्य प्रदातव्यं शृमध्योर्धसंयुतं || मालिनी संभवं शुक्रं शिरसि तस्य दापयेत् | मन्दिरे भूतमालायां पूर्वे वर्णं व्यवस्थितं || रिकारा(नवका)दि समारुधं ऋवणं च शिरे स्थितम् | लोकादि वर्णभेदेन भूषितं पंचमं भवेत् || हु अंतं च समुद्धृत्य लोकान्तेन समन्वितम् | रुद्रसंवर्त्तकं नाम भूतबीजान्तसंस्थितम् || एषाषडक्षरी विद्या आदिभूताअ कुलागमे | अत्रमध्ये समुत्पन्ना श्लोकानि द्वादशानि च || प्. १९ब्) पंचाशद्वर्णभेदेन यथा भवति तछृणु | विद्या बीजं द्वितीयस्य पूर्वे पूर्वं व्यवस्थितम् || तस्यान्ते च पुनर्देवि तद्वर्णं संस्थितं कुरु | एतानि च सुवर्णानि युगस्थानेषु कारयेत् || मातृकोद्भववर्णं च एकैकन्तेषु दापयेत् | द्वितीयञ्च तृतीयञ्च विद्या बीजानि यानि च || पूर्वे पूर्वे च कर्तव्यं एकैकं मातृकाक्षरं | अकारादि सकारान्ता पावनी पूर्णताङ्गता || इति वै द्वादशश्लोकाः पूर्वमीशेन भाषिताः | यः पठेद् दीयते यस्य कर्णः कर्णो पदेशिकाः || गुप्तागुप्ततरा ह्येते पुस्तकेन च संलिखेत् | एषा षडक्षरी विद्या न देया यस्य कस्यचित् || अदीक्षितेन दातव्यं कुलमार्गस्य निन्दके | प्रमादाहदत्ते यस्तु सिद्धिहानिस्तु जायते || न्यासं कुर्वीत यत्नेन मेखला कुब्जिकस्य च | भूतप्रेतपिशाचाश्च दुष्टदंष्ट्र(दस्युं)भयानकाः || यमश्चित्रो विचित्रश्च तेषु दूता महाबलाः | स जीवोजीव हीनस्य स पापे निर्मलस्य च || न शक्नोति वरारोहे वक्त्रं तस्य निरिक्षितुं | निर्ज्जित्ययमदूतानि रुद्रलोकं स गच्छति || अथान्यं संप्रवक्ष्यामि शरीरे द्वादशानि च | आक्रम्यमूलकरणैरधोर्द्ध्वं च विद्यधृयेत्? || शक्तिदीपशिखाकारा स्फुरन्नाडी निवेशयेत् | ब्रह्मरन्ध्रं तु तत्प्राप्य विष्णुरुद्रेश्वरं शिवं || विज्ञानममृतं दिव्यं चतुर्वर्गफलप्रदं | प्. २०अ) नासिकारन्ध्र ऊर्द्धे तु यावद्व्योमविलाश्रयं || उर्द्धस्था परमाशक्तिर्वर्षनी परमामृतम् | चन्द्रबिम्बकलाकान्तं धौतचामीकरप्रभं || ध्यायेच्चात्मनि संलीनमापादतलमस्तकं | नासिकाग्रे गता दृष्टिरमृतं तस्वादयेत् परं || काकचंचु पुटाकारमौष्टौ चाकृष्य सद्भुतम् | आत्मा समरसं देवि आदिस्थाने परामृतम् || समाधिरेषा देहस्य समलं च प्रयच्छति | सर्वाङ्गममृतं सिच्य तत्रस्थं देहविग्रहं || तदावर्णपदावस्थां स बाह्याभ्यन्तरं प्रिये | (अहन्य हनि विन्यस्य) धर्माधर्मो समेपदे || योजयेच्चात्मनो देहे योगं मृत्युविनाशनम् | आपादतलमूर्द्धान्तं नादान्तं तत्वमुत्तमम् || चन्द्रसूर्यसमैकत्वं यः पश्यति समुच्यति | उत्पतेन्निपतेच्चैव पुनरारुद्रेश्वरे पदे || नादो पदेशं वेत्ता च लभते शाश्वतं पदम् | करणद्वयसंक्षोभात् सोमार्क्कातलमध्यगौ || यदाबिन्दु विनिष्क्रान्तन्तदातछ्रेयताङ्गतः | परबिन्दुविनिष्क्रान्तं नित्यादित्य प्रवाहकम् || ये पिवन्ति च मुक्तास्ते ते यान्ति परमाङ्गतिं | एते च द्वादशश्लोकाः पूर्वं देवि मया श्रुताः || नमया भाषिता देवि स्वयमेवविनिर्गताः || पंचरत्नस्य संबंधे दशश्लोका उदाहृताः || निरालम्बपदे द्वे तु इति द्वादशकीर्तिताः | श्रीभैरव उवाच अथान्यं संप्रवक्ष्यामि पंचरत्नानि यानि च | प्. २०ब्) पञ्चस्थानविशुध्यर्थं कृतं न्यासं सुरेश्वरि || ततो मध्यगतं गृह्य ग्रहेषु भूतमंदिरे | एकादशे चतुर्थे तु शिखा मध्ये व्यवस्थितम् || द्वितीयं च समुद्धृत्य पवनी तस्या(पा)ग्रतस्थितम् | महाकालोद्भवं वर्णं पुरतस्तस्य दापयेत् || मालिनी मूर्ध्निवर्णन्तु पंचमञ्च न संशयः | एतानि पञ्चवर्णानि लोकादि भूषितं कुरु || (लोकमध्यगतं वीक्ष्य अधस्तेयां नियोजयेत् | अर्घीशेन समारूढा लोकान्तेन विभूषिताः ||) भ्रुमध्यगतं वर्णं पिनाकी भैरवस्य च | तत्रारुढानि सर्वाणि अर्घिशासनसंस्थिताः || एतानि पंचरत्नानि पंचस्थानेषु विन्यसेत् | प्रथमं मुर्ध्निमध्यस्थं संस्थितं चन्द्रमण्डलं || षोडशारं महापद्मं अधोमुखविलंबितम् | कुन्देन्दु तु हिनाभासन्तस्य मध्ये तु कर्णिका || तत्र मध्यगतं वर्णं प्रथमं रत्नमुत्तमम् | अकारादिविसर्गान्तं षोडशानि कलानि च || संस्थितानि दलाग्रेषु संपूर्णशशिरश्मयः | श्वेतवर्णामृतेनैव वर्षन्तं चिन्तयेद्बुधः || तस्य पंकजमध्यस्थं आत्मानं चिन्तयेत् ततः | प्रथमे रत्नयोगेन संलीनं दीपवद्यथा || अनेना भ्यास योगेन षण्मासात्पलित | क्षयादिव्यतेजो महाकायो अब्दमेकेन जायते || वर्षैः षोडशभिर्देवि खेचरत्वं न संशयः | प्रथमक्रमयोगेन ये सिद्धाः कथयाम्यहम् || चतुःषष्टिस्तु कोटीनां सिद्धानां योगिनी सह | अधिकारं प्रकुर्वन्ति गगनस्था वरानने || प्. २१अ) द्वितीयं हृदिमध्यस्थमष्टपत्रं सुशोभनम्(सकर्णिकम्) | श्वेतं पीतं च वर्णाभं कर्णिका मध्यसंस्थितं || तत्र मध्यगतं ध्यायेत् द्वितीयं रत्नमुत्तमम् | शब्दः स्पर्शञ्च रूपञ्च रसो गंधञ्च पञ्चमः || मनोबुद्धिरहंकार एकैकं च दलेषु च | मध्यस्थं कुरुयत्नेन आत्मानं वरवर्णिनि || अब्दमेकेन देवेशि उत्पद्यन्ते च ये गुणाः | दूरश्रवणविज्ञानं दुरादर्शनमेव च || अनेनक्रमयोगेन अभ्यासेन न संशयः | वर्षद्वादशभिर्देवि सिद्ध्यंते नात्रसंशयः || पंचाशत्कोटियोगिन्यः सिद्धैस्तु सहितः पुरा | अधिकारं मया दत्तं स्वर्गस्थाः क्रीडयंतिताः || पुनर्नाभिगतं चक्रं षट्पत्रं पंकजे स्थितम् | रक्तश्वेतमयं सर्वं मध्ये रत्नतृतीयकं || पिण्डस्थञ्च विजानीयात् संस्थितं विषमध्यतः | तत्र मध्यगतं जीव(बीजं) दीपाकारं विचिन्तयेत् || तावत्तच्चिन्तयेद्देवि यावत्तल्लयतां गतः | षण्मासाभ्यासयोगेन वागीशो नात्रसंशयः || वदते सर्वशास्त्राणि अदृष्टा (न्य) श्रुतानि च | परकायप्रवेशञ्च कुरुते नात्रसंशयः || सप्तविंशति वर्षैस्तु कथितासिद्धिखेचरी | द्वात्रिंशत्कोटि सिद्धानां योगिन्या सहितानि च (योगिन्यः सिद्धैश्चैव सह स्थिता) || अत्रसिद्धावरारोहे पाताले अधिकारिणः | या सा शक्तिः परासूक्ष्मा सुसुप्तभुजगोपमा || तस्य मध्ये त्रिकोणञ्च सिन्दूरारुणसन्निभम् | प्. २१ब्) योनिस्थं परमं दिव्यं यथोत्पन्नं चराचरम् || तस्यमध्यगतंध्यायेच्चतुर्थं रत्नमुत्तमम् | महादीप्तिकरं दिव्यं भासयन्तं चराचरं || आत्मानं सूक्ष्मरूपेण तत्रस्थाने लयं कुरु | तस्यैवाभ्यासयोगेन निर्मलत्वं च जायते || धूननं कंपंना वेशं आनन्दं सुर्मि(घूर्ण)मेव च | दिव्यभाषागमन्निद्रां विषुवेचारं संस्थितम् || सतताभ्यासयोगेन वाचां सिद्धिश्च जायते | निग्रहानुग्रहं चैव रूपस्य परिवर्त्तनम् || दृश्यो अदृश्यतां याति अब्दद्वादशकेन तु | खेचरैः सहसामान्यमिच्छासिद्धिश्च जायते || अनेनाभ्यासयोगेन सिद्धिर्वा कथयाम्यहम् | अष्टादशानिकोटीनां सिद्धानां योगिनी सह || अधिकारं प्रकुर्वन्ति मर्त्यलोके व्यवस्थिताः | पुनश्चाधारमध्यस्थं स्थितं चक्रं महेश्वरि || त्रिदलं कर्वुराकारं स्वेतरक्तं च पंकजं | तस्यमध्ये समुत्पन्नं वंशांकुरनिभं प्रिये || रक्तवर्णं महातेजं तस्यान्ते संस्थिता शिखा | अंगुष्ठपर्वमानेन दीपाकाराव्यवस्थिता || तस्यमध्ये स्थितं देवि पंचमं रत्नमुत्तमम् | आत्मबीजेनसंयुक्तं तत्रस्थं सूक्ष्मरूपिणं || तावच्चिन्तयते देवि यावत्तल्लयतां गतः | आनन्दंप्पूर्मि(घूर्ण)मावेजायते मण्डुकप्लुतिः || योगनिद्रास्थितो योगी पश्यते अवनी तलं | दिव्यभाषागमं चैव परकायप्रवेशनं || वलीपलितनिर्मुक्तो मृत्युस्तस्य न जायते | अब्दैः षोडशभिर्देवि सिद्धो भवति निश्चितम् || प्. २२अ) अत्र चक्रे तु ये सिद्धा अष्टकोटिमहाबलाः | योगिनी सहसिद्धानां नागलोकाधिकारिणः || एतानि पंचरत्नानि कुलमार्गे व्यवस्थिताः | महासिद्धि कराह्येते न देया यस्य कस्यचित् || कुलमार्गाभिषिक्तस्य अनुष्ठानरतस्य च | अनेकजन्मयोगेन लभते नात्रसंशयः || श्रीदेव्युवावाच श्रुतं देवत्व शेषस्तु न्यासः परमदुर्लभः | इदानीं श्रोतुमिच्छामि षदूतीन्यासमुत्तमम् || येन विन्यस्यमात्रेण षोढान्यासफलं लभेत् | तन्मे कथय देवेश यदि तुष्टोसि शंकर || श्रीभैरव उवाच साधु देवि महाप्राज्ञे यत्त्वया पृष्टमादरात् | तदहं संप्रवक्ष्यामि तव भक्त्या न संशयः || न देयं यस्य कस्यापि यतं क्रूरास्तु मानवाः | आदेशेन विना देवि यो दद्याज्ज्ञानमुत्तमम् || भक्षयन्ति च योगिन्यो डा?द्याः क्वद्धानसंशयः | धनंधान्यं कलत्रं च पुत्रपौत्रादि संततिं || निघ्नन्ति ऽसतशः क्रुद्धा भैरवादेशतः सदा | तस्माद्भक्तं दृढं गुप्तं समयाचारपालकम् || कुलीनं सत्त्वसम्पन्नं * * * * * * * * | * * * * * * * * * * * * * * * || * * * * * तं बीजं छङ्गमध्योपरिस्थितम् | सखिमध्यं गतोधस्ता देयं बीजं खगेश्वरम् || भूतादि मन्दरस्येवदयवाजवरपरम् | * * * * * * * * * * * * विभूषितम् || प्. २२ब्) बिन्दुमस्तकसंभिन्नं कालिका हृदयं परम् | हादिबीजं समुद्धृत्य तस्याग्रेरीलु मध्यगम् || विश्वादिमस्तके भिन्नं द्वितीयं वर्णमुत्तमम् | नुभा * * पुनर्देवी ह्यनन्तेनसमन्वितम् || षादिवर्णं पुनर्देवि अनंतेनसमन्वितम् | पिनाकिवर्णमुद्धृत्य भे?सयोर्म्मध्यसंस्थितम् || विश्वादिनासमायुक्तं वमुवर्णे प्रकीर्तितम् | मे? च मध्यगतं बीजं ऋ अन्तेनसमन्वितम् || बिन्दुना शिरसाक्रान्तं भृगुवर्णन्निकेवलम् |? शास्त्रं बीजं समुद्धृत्य * * * * * * * * ||? * * ? शिरसि तस्यैव नागमध्यगतः परम् | भे? आदि ऋषिमालायां सद्यो जातेनसंयुतम् || जच्छीमध्यं पुनर्वर्णं नोगूमध्ये तदग्रतः | त्रिमूर्त्तिना शिरो भिन्नं वर्णं चन्द्र कलांकितम् || जवमध्यं त्रिधा देवी देयं बीजं वरानने | भुजंगासनमासीनं तद्बीजं कारयेत् त्रिधा || प्रथमस्य त्वनन्तेन द्वितीयस्य त्रिमूर्तिना | अर्घीशेन तृतीयस्य शिरो देशं विभूषयेत् || क्रूरेणशिरसाक्रान्तं बीजत्रयमुदाहृतम् | रक्तवर्णे पुनर्देवि क्रोधवर्णं तदग्रतः || ठीरमध्येन संभिन्नं बीजमेकोन विंशकम् | पुनः क्रोधं समुद्धृत्य ख उर्ध्वे अधसंस्थितम् || कीरमध्यस्थितं वर्णमुमाकान्तः शिरः स्थितम् | झंटीशेन समायुक्तं वज्रिणीवर्णमग्रतः || प्. २३अ) विश्वादिना शिरोभिन्नं बीजं स्यात् सप्तविंशकम् | महाकालद्वयं देवि अनन्तेन विभूषितम् || बिन्दुमस्तकसंभिन्नमेकमेकोनविंशकम् | लोहितं वर्णमादाय पानो मध्ये व्यवस्थितम् || वेशमध्ये समुद्धृत्य वालीशासनसंस्थितम् | शिरसिक्रूरसंयुक्तं माषाढन्तस्य चाग्रतः || दशविंशतिमं बीजं द्व्यधिकंजन्तसंस्थितम् | वेसोमध्यं पुनर्देवि तस्याषाढी मुखे स्थितम् || भुजंगासनसंस्थश्च वज्रिणी बीजमग्रतः | ऌ अन्तेन समायुक्तं बीजं षट्विंशकं वरम् || अन्ते च प्रणवो देयो विलोमात् पूर्वसूचिता | एषादेवी महाकाली कालकालानल प्रभा || सर्वज्ञादि गुणैर्युक्ता भुक्तिमुक्तिफलप्रदा | न देया देवदेवेशी यस्य नो भैरवी तनुः || मयापि गोपिना पूर्वं ब्रह्मविश्वेष्णीश्वादिषु? | देवदानवसिद्धेषु यक्षगन्धर्वकेषु च || नागेषुनागपत्नीषु गोपिताभुविदुर्लभा | यो ददाति इमां देवी गुरुतस्तस्य जगत्त्रये || नादेयं वियुते तस्य आत्मदारादिकं च यत् | इदानीं देवि ते गुह्या गुह्यापि प्रकटी कृता || गोपनीया त्वया देवि सर्वथा सर्वदा प्रिये | दत्त्वादौ प्रणवान्यं च ततः कूढं * * * * || उ आदिमं समुंधृत्य ग अन्तेयद्व्यवस्थितम् | तस्याधो रक्तबीजं च पूतना तदधः स्थिता || क्रोधबीजासवो दद्यात्तज्वलमध्य मधः पुनः | प्. २३ब्) छङ्गमध्यमधस्तस्माद्ध्रुवान्तासनसंस्थितं || तस्याधो रक्तबीजं च पूतना न दधः स्थिता | अ अंतेन तु संयुक्तं नाम बिन्दुकलाङ्कितम् || कूटराजमिदं देवि देव दानवनाशकृत् | शाकिनीहृदयं गुह्यं तव भक्त्या मयोदितम् || येन जप्तं हुतं ध्यातं लक्षाणां रससंख्यया | तस्य संकल्पमात्रेण निग्रहसंप्रवर्तते || मेषरुद्रं समादायमहाकालं तदग्रतः | सद्योजातेनसंयुक्तं बीजराजं द्वितीयकम् || द्विरण्डभैरवं गृह्य प्रचण्डं तस्य चाग्रतः | वज्रिणी बीजमन्त्रे तु आषाढी तदनंतरम् || विश्वादिनाशिरो भिन्नं बीजराजं रसान्वितम् | ॠ ए मध्यं समुद्धृत्य कषान्तं संस्थितं पुरः || सोमेश्वरासनस्थं च वसु संख्यं प्रकीर्त्तितम् | कूर्मरुद्रं ततो दद्यादनंतेनसमन्वितम् || नादबिन्दुशिरोभिन्नं ठी अंतं तस्य चाग्रतः | ऋ अंतेन समायुक्तं पिनाकी तदनन्तरम् || विश्वादिना समायुक्तम स्वरं रुद्र * * कम् | बुजंगभैरवं गृह्य ध्रुवाद्यासनसंस्थितम् || मीनरुद्रंसमादायमन्दरस्थेन मण्डितम् | मालिनीशूलदण्डं च महाकालं तदग्रतः || अनंतं बिन्दुसंयुक्तं तस्य मूर्ध्ने निवेशयेत् | भृंगभैरवकं पश्चात् केवलं तस्य चाग्रतः || द्विरण्डं भैरवं तस्मात् सम्वर्तं तदनंतरम् | इकारेणसमायुक्तमुमाकान्तमतोग्रतः || क्रोधभैरवमादाय ओ आदिं तस्य चाग्रतः | दुधे मध्यमुमाकान्तां नेषढस्थेनभूषितम् || प्. २४अ) लकूलीशं ततोद्ध्र्त्य मेषरुद्रं तदग्रतः | द्विधाकार्यं वरारोहे दहनी तस्य चाग्रतः || लकुलीशं पुनर्दद्यान्तं द्विधा च सुरेश्वरि | (* * * * समुद्धृत्य अकारेण समन्वितम् || भुजंगभैरवं तस्य मन्दरस्थेन भूषितम् ||)??? मीनरुद्रं ततो दद्यात् महाकालं तदग्रतः | द्विधाकार्यं महादेवि लोहितं कूर्ममेव च || ग्रसबीज द्वयं द्वेधा हुं फट् स्वाहान्त संयुता | द्रष्टव्यासंपुटेनैषा साकिनीतन्त्रनायिका || श्मशाने चैकवृक्षे वा नदीतीरेथ संगमे | लक्षमेकं जपेद्यस्तु विद्यां वीरव्रते स्थितः || तस्य विध्वं समायान्ति ज्वररोगादि शत्रवः | तीव्राज्ञा जायते नूनं निग्रहानुग्रहेषु च || किमन्यदुच्यते देवि देव्या सामर्थ्यमद्भुतम् | यस्याः स्मरणमात्रेण ज्वरभूतादिनाशनम् || अन्यच्च कथयाम्यस्याः सान्निध्यकरणं परम् | घृतप्लुतं महाफल्गु विशेषेण तु होमयेत् || एषा देवि त्रिधा ख्याता शिवोदूतीं समुद्धरेत् | न देया यस्य कस्यापि यो न वीरांशभाग्भवेत् || * * * पंचकं चादौ दत्वा देवि ततोद्धरेत् | प्रणवादिसमुद्धृत्य आषाढी तदनंतरम् || तदधो देवी दातव्यं सद्योजातेनसंयुतम् | पूतना बीजमादायमन्दरस्थेन भूषितम् || अनंतमग्रतस्येषासी मध्यं च ततो लिखेत् | ऋकारेण शिरोभिन्नं पंचमं बीजमुत्तमम् || प्. २४ब्) महाकालं ततोद्धृत्य सोमंसोमासनस्थितम् | ऋकारेण शिरोभिन्नं अंते ऋ अंतसंस्थितम् || लकुलीशं पुनर्भद्रे वज्रिणी चेश्वरे स्थिता | भृगुवर्णं बिन्दुयुक्तं छगलण्डोग्रतः स्थितम् || सोमेश्वरमथोद्धृत्यमन्दरस्थेन भूषितम् | अनंतमन्ते दातव्यं बिन्दुचन्द्रकलांकितम् || दहनीबीजमादाय निषढस्थेन भूषितम् | ऋ अंतमन्ते दातव्यं बिन्दुचन्द्र कलाधिकं || * * * * ग्रतो देवि शृंगमीश्वरसंयुतम् | ध्रुवादि वां समालिख्य पिनाकी तदनंतरम् || झंटीशं मस्तके दत्तं तदग्रे ऋ अधः स्थितम् | मन्दरस्थे न तद्भिन्नं मन्ते चानन्तसंयुतम् || पूतनोर्ध्वं महाबीजं मन्तेवज्रा युधा पुनः | तस्या धस्ताकादत्तं कान्तं ध्रुवादि संयुतम् || ठकारस्य अधोदद्यात् पूर्णिमां सर्वसिद्धिदं | भममध्यं समुद्धृत्य पूतनामग्रतः स्थितम् || रवीर्चे बिन्दुमादाय तस्याधस्तात्त देव तु | मन्दरस्थेन संभिन्नमन्ते चानन्तसंस्थितम् || देवतापंचकं चान्ते विलोमेनप्रदापयेत् | एषा देवी महागुह्या भेल्लखीनामविश्रुता || मोहनीसर्वसत्वानां तैलयागप्रयोगतः | स रहस्या महाख्याता न देया यस्य कस्यचित् || पूर्णिमा द्वितीयं चादौ तस्यान्ते रक्त मालिखेत् | क्रोधबीजं समादाय आषाढी ह्यासन स्थितम् || झंटीशेन शिरोभिन्नं वेदवर्णमुधाहृतम् | प्. २५अ) महाकालं समादाय अंबिकातदनंतरम् || अनंतेनसमायुक्तं रसबीजं प्रकीर्तितम् | भुजंगंबीजमुद्धृत्य क्रोधबीजमतः परम् || आषाढी ह्यासनारूढं ज्ञानशक्तिविभेदितम् | थे च मध्यगतं गृह्य महाकालं ततो यतः || ध्रुवाद्यासनमारूढं शिरसिक्रूरदूषितम् | ठी दूमध्यस्थितं गृह्य झंटीशेनसमन्वितम् || भृगुवर्णं समादाय वज्र बीजासनस्थितम् | र ल मध्यगतं गृह्य वालीशं बीजमग्रतः || ऋ आदिना शिरो भिन्नं बीजं भुवनसंख्यया | एषा विद्या महादेवी नेत्र पूतीति कीर्तिता || पंचप्रणवयोगेन आद्यन्तेन वरानने | समुद्धरेदिमां विद्यां सर्वकामार्थसाधनीम् || अथातः संप्रवक्ष्यामि सर्वकर्म्मप्रसाधनीम् | महाविद्या महादेवि अस्त्रदूतीति नामतः || तणोमध्यगतं गृह्य प्राधान्यासनसंस्थितम् | तस्याग्रे चाम्बिका देवी मात्मामध्यासने स्थितम् || तस्याग्रे क्रोधबीजं तु एकारोपरिसंस्थितम् | वज्रीणीबीजमादाय की ज मध्यस्थितं प्रियेः || मन्दरस्थेनसंभिन्नं चतुर्थं बीजमुत्तमम् | एकादशादि संगृह्य ज्ञानशक्त्याविभूषितम् || छङ्गमध्यगतं गृह्य ध्रुवाद्यासनसंस्थितम् | नादबिन्दुकलायुक्तं बीजं त्रैलोक्य डामरम् || मालिनीवामपादं तु ऋषिरादि स्थितं पुनः | प्. २५ब्) एतत्तु पतितं कुर्यात् सप्तमादक्षरात्परं || महाकालं द्वयं गृह्यमीषामध्यगतोद्धरेत् | चावे मध्ये ततो गृह्य भुजंगेन तु भाषितम् || सद्योजाते स संभिन्नं बीजमीखरसंज्ञकम् | पानोमध्यगतं गृह्य दहनी तस्य चाग्रतः || भुजंगं भैरवारूढं विश्ववर्णं प्रकीर्तितम् | स्नायुवर्णं समुद्धृत्य अनंतेनसमन्वितम् || अतोमध्यगतं गृह्य शूलदंडोपरिस्थितम् | ततस्तारां समुद्धृत्य कुसुमायुधभूषितम् || पुनः पूर्वाक्षरं दत्वा वर्णानां विंशतिः | स्मृताः मनोमध्यगतं गृह्य ध्रुवान्तासनसंस्थितम् || पधमध्यमधो गृह्य रेफाक्रान्तं तु मस्तके | पवनीबीजमुद्धृत्य भुजंगासनसंस्थितम् || पामोमध्यगतं गृह्य सद्योजातेनसंयुतम् | खीनूमध्यगतं तस्मादनंतेनसमन्वितम् || दहनीबीजमादाय मन्दरास्थेनमंडितम् | क्रोधबीजं ततोद्धृत्य क्रूरेण परिकल्पितम् || वेवूमध्यगतं ग्राह्यं ऋशांसेनविभूषितम् | मेषवर्णमतः पश्चात् क्रोधवर्णानलान्वितम् || तारकाबीजमुद्धृत्य बिन्दुयुक्तं चकारयेत् | दकाराद्यं समादाय ऌ उर्द्धे यद्व्यवस्थितम् || थस्याधस्थमथोद्धृत्य अनन्तेनसमन्वितम् | थघोमध्यगतं गृह्य मन्दरस्थेनमंडितम् || पंचत्रिंशतिमं बीजं सा च तारा स बिन्दुका | एकादशाद्यमुद्धृत्य भुजंगेनदथान्विते || * * * * * * * * ह्यधोवालीशसंयुतम् | प्. २६अ) क्रूरेणमस्तके भिन्नमष्टत्रिंशतिमं स्मृतम् || नाराद्विनवमुद्धृत्य ईकारासनसंस्थितम् | कषामध्यमतोन्यस्त्वा ह्यधो * * * संयुतम् || क्रूरेणमस्तके भिन्नमष्टत्रिंशतिमं स्मृतम् | ताराद्वितीयमुद्धृत्य ईकारासनसंयुतम् || मेषवर्णं ततो दत्वा पतितं कारयेत् प्रिये | भृंगभैरवबीजं च तस्याग्रे वज्रिणि भवेत् || अनंतेनसमाक्रान्तं भुजंगेन तु भूषितम् | मालीन्या शिवाग्रे तु पतितं तच्चकारयेत् || हरबीजद्वयं देयं रुद्रवर्णं ततोलिखेत् | करालिने पदं दत्वा बीजत्रयमथोद्धरेत् || चामुंडा हृदयं मार्गान् मुद्राराजस्ततो भवेत् | कुब्जिकापादमादाय गुह्यपूर्वं च सर्वदा || हुंफट् स्वाहान्तसंयुक्तं विद्याराज्ञी प्रकीर्तिता | यस्त्विमां जपते विद्यां जुहुयाच्च विसेषतः || त्रैलोक्यविजयी देवि भवेत् सत्यं न संशयः | प्रणवन्यासं प्रथमं नवाअत्मानं द्वितीयकम् || त्रिखंडायास्तृतीयं तु समयात्मं चतुर्थकम् | पंचमं शब्दराशि मालिन्या षष्ठमं स्मृतम् || सप्तमं च त्रिविद्याया ह्यघोर्याष्टकमष्टमम् | नवमं द्वादशांगं तु षडंगं दशमं स्मृतम् || षोडशग्रंथिसंयुक्तं न्यासमेकादशं स्मृतम् | प्. २६ब्) द्वादशे द्वादशं ज्ञेयं तद्ग्रहस्य त्रयोदशं || श्लोकद्वादशेका न्यासं भुवनाख्यं प्रकीर्तितम् | रत्नपंचकविन्यासं पंचाधिकदशं स्मृतम् || षड्दूत्यः षोडशं ज्ञेयं षोढा न्यासमिति स्मृतम् | त्रिसन्ध्यं विन्यसेद् यस्तु शुद्धकायो दृढव्रतः || तस्य दृष्टि निपातेन स्फुटंति गिरयोपि च | इति पारमेश्वरीमते द्वादशश्लोकपंचरत्नोद्धारः एकत्रिंशतिमः पटलः || देव्युवाच द्वादशानि च श्लोकानि स बाह्याभ्यन्तराणि च | पंचरत्नोपदेशं च श्रुतं निर्म्मलं तां मया || अधुना श्रोतु मिछामि क्रमस्य पूजनं यथा | येन विज्ञान मात्रेण आज्ञा सिद्धिः प्रवर्त्तते || या सा शक्तिः परासूक्ष्मा जगत् माता व्यवस्थिता | एकमात्रा द्विमात्रा च त्रिमात्रा च कथं भवेत् || अर्द्धमात्रा परासूक्ष्मा कस्यवर्णार्धसंस्थि(र्णे व्यवस्थि)ता | भगाकारा कथं देव अर्द्धलिंगा व्यवस्थिता || प्. २७अ) निर्वाणपदभेदेन मथिता भैरवेण तु | कु(इ)काराख्या महा(परा)देव्या तत्र मध्ये व्यवस्थिता || आज्ञासनेन रूपेण रुद्रशक्ति समुद्भवा | षट्प्रकारं कथं सिद्धं कथं पीठ चतुष्टयं || पीठ देव्यः कथं देव सिद्धिश्च सहिताः स्थिताः | कस्मिन् स्याने समुत्पन्ना ब्रह्मग्रन्थिः किमुच्यते || प्. २७ब्) सकलं कीदृशं देव निष्कलं च कथं भवेत् | मुक्तिभेदं किमाख्यातं अस्तिनासि विवर्ज्जितम् || शब्दःस्पर्शञ्च रूपञ्च रसोगंधं च पञ्चमः | षट्चक्रपिण्डमध्यस्थं चेतो भूतं व्यवस्थितम् || इन्द्रियाणां गुणं वेत्ति केषुस्थाने पृथक् पृथक् | सप्तविंशति भेदानि(देन) अग्र(ह्यत्र)मध्ये कथं स्थिता || नाडी संचारभेदेन षट्प्रकारेण भैरव | चक्रे चक्रे स्थितो देवो जीवाख्यः परमः प्रभुः || तस्य चंचकिमाख्यातं वंधे मुक्तिः कथं भवेत् | वृक्षत्रयं समाख्याहि स बाह्याभ्यन्तरेषु च || मुद्रासी?सो? महादेव खेचराद्या यथा भवेत् | समयमुद्रा परादेव्या कथं जानामि तत्वतः || गृहं पूर्वं किमाख्यातं पश्चिमं च कथं भवेत् | एतद् भेदं परं गुह्यं ममाख्याहि महेश्वर || स्थितिं कस्य विजानीयाल्लयं कस्य प्रतिस्थितम् | उभयोश्चैव योगेन किं जातं परमेश्वर || मातृकावर्णभेदेन षट्प्रकाराः कथं स्थिताः | सप्तविंशति भेदेन मण्डलानि वदस्वमे || कालज्ञान(नो) पदाञ्चैव(पदेशेषु) उद्भवास्तमनेषु च | विपरीतप्रयोगेन(च) वंचनं(र्वणं) च वदस्वमे || त्रिविधमधिकारं च समय(तथा)संकेतमण्डलं | अनेनैव शरीरेण कथं मुक्तिर्भविष्यति || गमनं त्रिषुलोकेषु पिण्डपातं न विद्यते | एतत् सर्वं समासेन प्रसादं कुरु भैरव || श्रीभैरव उवाच प्. २८अ) कथयामि न संदेहो गुप्तं गोप्यं सुरक्षितं | आदिभूतं कुलाम्नायं तन्मया गोपितं पुरा || उत्तरं दक्षिणे मूलं दक्षिणं पश्चिमस्य च | पश्चिममुत्तरे योज्यं पराशक्तिर्व्यवस्थिता || भैरवाख्यं द्वितीयं तु यस्य(स्यो) पूर्वं व्यवस्थितम् | तस्यार्द्धे वामभागेन ऊर्द्धे चैव प्रलंबितम् || पूर्वे मूलं प्रकुर्वीत द्वौ शांखौ वामदक्षिणौ | अन्ते सव्यापसव्येन तृतीयं च नियोजयेत् || या सा शक्ति परा(रमा)सूक्ष्मा अर्द्धवर्णा व्यवस्थिता | तस्यान्ते पूर्वरत्नस्य दक्षिणावर्त्त योजिता || भैरवस्य कलाह्येषा लिंगभूता व्यवस्थिता | रुद्रशक्तिरियं देवि अत्रोत्पन्नं चराचरं || मध्ये मन्थान योगेन भैरवं शक्तिभीः सह | अव्यक्ताव्यक्त रूपेण उत्पन्ना परमेश्वरि || आज्ञानामपरासिद्धिः कुकाराख्या विनिर्गता | एषा सा व्यक्तरूपेण शक्ति रूपा त्वधः स्थिता || निर्वाणपदरूपेण तस्योर्द्धे भैरवः स्थितः | षट्कौशिकमिदं पिण्डं कुलकौलं व्यवस्थितम् || योजनाति वरारोहे स भवेत् कुलयोगिनः | अत्र पूजाप्रकर्त्तव्या षड्विधञ्च कुलक्रमम् || ओंकारमध्य देशे तु जालाख्यं दक्षिणेन तु | पूर्णपीठं स्थितं वामे अग्रे श्रीकामरूपकम् || रकारं च मिकारं च पंचप्रणवसंयुत(पुट)म् | मध्यस्थं पूजयेद्देवि ओंकार त्रयसंस्थितम् || ओंकारवर्णसंयुक्तं पंचप्रणवसंपुटं | पूजितव्यं प्रयत्नेन पीठे जालन्धरेषु च || प्. २८ब्) चकारं च षकारं च देवी देवादि संस्थिता | पूर्णपीठस्य मध्यस्थं पूजितव्यं प्रयत्नतः || उकारं देवि पूर्वस्य चकारं सिद्धिपूर्वकम् | अग्रे पीठे महादेवि पूजयेत् प्रणवसंपुटं || एतत् पीठचतुष्कं तु शक्तिकोणे प्रपूजयेत् | पंचरत्नानि मध्ये तु यदुक्तं न्यास मे पुरा (यदुक्तं ते मया पुरा) || विकारं प्रथमं पूज्य अकारन्तदन्तरम् | मकारं च तृतीयं च स्वाकारं च चतुर्थकम् || आकारं पंचकस्थं च पुनस्तत् षष्ठमेव च | रुद्रशक्तिषु मध्यस्थं सृष्टियोगेन पूजयेत् || ज्ञान षट्कमिदं शुद्धं चतुष्कं च अतः शृणु | आकारे सिद्धनाथं च स्वाकारं द्वितीयकम् || तृतीयं चक्र कारेण मकारेण चतुर्थकम् | आदि सिद्धाश्च चत्वारि पीठस्थाने प्रपूजयेत् || देव्यापंचकमध्यस्थं कुलमार्गे व्यवस्थितम् | माकारे प्रथमा देव्या सकारेण द्वितीयका || तृतीया च ऊकारेण चतुर्थी च च पूर्विका | कुकारे पंचमा देव्या संस्थिता वरवर्णिनि || एते महल्लि(हात्मि)का पंचमध्यस्थं पूजनं कुरु | आकारं च अकारे च उकारं च तृतीयकं || रुद्रस्य शिखे स्थाने त्रिकं चैव प्रपूजयेत् | चतुष्कं पंचकं षट्कं चतुष्कं पञ्चकं त्रिकम् || षट्प्रकारमिदं देवि उक्तं सङ्केतकेन तु | सप्तविंशति भेदानि स बाह्याभ्यन्तरेषु च || कुलदीक्षाभिषिक्तेन ज्ञातव्यं कुलयोगिभिः | अस्योर्द्धे पूजयेद् देवि गुरुपङ्क्तिः क्रमेण तु || प्. २९अ) तस्याग्रे कुलवृक्षाणं त्रयमेकत्रपूजयेत् | कदाहं वामकर्णे तु करज्जं दक्षिणे तथा || कदम्बं नासिकाग्रे च वृक्ष त्रयमुदाहृतम् | आनन्दस्तु विसर्गान्तः कादिठान्तस्तथा विलः || डादिहान्तः प्रभुर्ज्ञेयो योगी सलाज्ञादि लान्तकः | कादिक्षान्तस्तथा तीतः पादः स्मादक्ष वर्णकः || आनन्दश्चा बलिश्चैव प्रभुर्योगी तथैव च | अती तश्चैव पादश्च षट्प्रकाराणि पूजयेत् || प्रभालोका ललिता उत्पला प्रतिमा शंखासिंद्या | शिवामन्मथा सद्या पुरुषा शांत्या(मर्त्या)भैरवा || रक्ता सर्वापुष्पा कमला खख(पद्मा)गागगणाघोरा | एक चर्या संपूर्णा सूर्या खड्गा देवा अश्वा चन्द्रा || पूर्णा डमरुका विनया आत्मा तत्वास्थविरा धनुषा | पादा पवना शब्दा ब्रह्मा भावा योगा स्वगा रक्ता || तेजा आत्मना उत्पला भुवना कुला संक्षेपा पिशाचा | एतानि सिद्धनामानि षड्विधानि भवन्ति च || मातृकाक्षरयोगेन आदि भूतानिकारयेत् | पूर्वं वर्णं समुद्धृत्य अन्ते आनन्दसंस्थितम् || षड्विधस्थान भेदेन पूजितव्यं प्रयत्नतः | विशुद्ध षोडशैर्भेदैः कण्ठस्थाने प्रपूजयेत् || अकारादि विसर्गान्तं पूजितव्यं प्रयत्नतः | अत्रमध्यगतं वर्णं यस्य नामस्य पूर्वकं || सोपि नामा भवेत् तस्य कौलिकस्य वरानने | ते नैव ध्यान योगेन सिद्ध्यते नात्रसंशयः || पुनस्तं हृदिमध्ये तु द्वादशारमनाहतम् | कंठमध्यगतं विद्यादत्रमध्ये समुद्भवम् || नामवर्णादि योगेन योगिनस्तु न संशयः | सिद्ध्यते नात्रसंदेह अस्यान्यासरतः सदा || प्. २९ब्) नाभिमध्यगतं देवि उरुमध्ये व्यवस्थितम् | दशभिस्तु मणिर्बिन्नं स्वाधिस्थानं षडात्मकम् || वल(पर)मध्यगतं विद्याल्लिङ्गस्थाने प्रपूजयेत् | वलमध्यगतं देवि आधारे वर्णसंस्थितं || पूजितव्यं प्रयत्नेन तत्र सिद्धचतुष्टयम् | आज्ञा स्थाने पुनर्देवि भ्रूमध्ये अक्षरद्वयं || द्वौ सिद्धौ पूजयेन् देवि आज्ञासिद्धिप्रदायकौ | यस्य चक्रस्य(सिद्धय)द्वर्णनामपूर्वे व्यवस्थितम् || अन्ते आनन्दयोगेन तन्नामं तस्य कीर्त्तितम् | या यस्य स्थ(नु)कुलं चक्रं नामभेदेनसंस्थितम् || तस्य ध्यानप्रयोगेन सिद्धतेनात्रसंशयः | यावत् स्वकुलनामं च न ज्ञानं कुलचिन्तकैः || तावन्ते दर्शने बाह्या न पूजा नैव पूजकाः | सम्पूज्य(र्ण)मण्डलस्थं चक्रमं संपूज्ययत्नतः || तमहंसंप्रवक्ष्यामि मण्डलस्य यथाविधि | कुंकुमैश्चन्दने नैव रक्ते न अलिनापि वा || घृतं च पयः पानीयंमधुलाक्षारसेन वा | गोरोचना च कर्पूरं पंचामृतमथापि वा || सिन्दूरमथपिष्टेन अथवा भस्मशोभनं | विष्णुनां गोमये नैव यथालाभेन कारयेत् || मणिरत्नमये पीठे सूर्यसोमान्त(भ)संभवे | स्फटिके नृपावर्त्ते का च पीठे सुशोभने || विषाणेकरिसंभूते कांचने राजतेपि वा | ताम्रपीठेथवाद्योषे श्रीखण्डे चन्दनोद्भवे || रक्तचंदनपीठे वा अशोकमधुकोद्भवे | पट्टे पाषाणमध्यस्थे मृत्पीठे भूतलेपि वा || प्. ३०अ) पीठचतुष्कमध्यस्थं पाणिमानेनमण्डलं | कर्त्तव्यं वामहस्तेन मेखलात्रयसंयुतम् || तत्रमध्यगतं कूर्यात् षट्चक्रं शोभनं प्रिये | शिवशक्तिकलैर्युक्तं पूर्वोक्तं यादृशं मया || तत्र मध्ये षडा(व्रता)रं च सिद्धपीठचतुष्टयम् | सप्तविंशतिभेदैश्च पूजितव्यं प्रयत्नतः || जातीपुष्पकदंवैश्च पारिजातकपाटलैः | सपत्रैः कुन्दकैर्विल्वैः र्मरुकवीरैश्च यूथिकैः || मल्लिकारक्तपद्मानि र?कपुष्पोत्पलानि च | सुगन्धीन्यपि पुष्पाणि केशरः कुंकुमस्य च || कर्त्तव्यं साधकेन्द्रेण यथालाभेन पूजनम् | धूपंदीपं च नैवेद्यं तर्पणं चासवेन तु || फल्गुषं त्रिविधं दद्यादन्ते जापं समारभेत् | द्वात्रिंशदक्षरी देव्याः पंचप्रणवसंपुटा || सहस्रञ्च सहस्रार्द्धं शतार्द्धार्द्धार्द्धमेव च | मुद्राबन्धं परं कृत्वा प्रणिपत्यनिवेदयेत् || एकांगं चैव पंचांगमष्टांगं सर्वमेव वा | नमस्कारं प्रकुर्वीत चरुकं प्रासनं कुरु || फल्गुषं दीपनैवेद्यं आसवं पुरतः स्थितम् | प्रासितव्यं प्रयत्नेन प्रणिपत्यविसर्ज्जयेत् || षोढान्यासमिदंशुद्धं क्रमेणसहितं यथा | आख्यातं देवदेवेशि पारंपर्यक्रमागतम् || यः करोति इदं न्यासं त्रिकालं च दिवानिशि | भूतप्रेतपिशाचानि(श्च)यक्षकुष्माण्डराक्षसाः || पश्यंति पावकं रूपं ये चान्ये हिंसकाः प्रिये | सतताभ्यासयोगेन षण्मासेनवरानने || प्. ३०ब्) दहते सर्वपापानि ब्रह्महत्यादि यानि च | पुनरन्यप्र(नि)वक्ष्यामि कुलपर्वाणि यानि च || षष्ठी भाद्रपदे मासे कृष्णाश्विनि चतुर्दशी | कार्त्तिकेनवमीशुक्लामार्गेकृष्णाचतुर्दशी || पौषे च पूर्णिमा देवि माघेवरचतुर्थिका | फाल्गुनेनवमीशुक्ला चैत्रेकामं त्रयोदशी || वैशाखे च तृतीया च ज्येष्ठे च दशमीसिता | आषाठैकादशीशुक्ला अमावास्या च श्रावणे || विज्ञेयारण्यषष्ठी च पंचमी दक्षिणायणे | दीपोत्सवं रजोत्सर्गं कर्त्तव्यं चोत्तरायणे || एतानि देव पूर्वाणि कथिता वीरवन्दिते | यः पर्व पू(ज)येन्नित्यं विशुद्धेनान्तरात्मना || अब्दैर्द्वादशभिर्द्देवि खेचरैः सहमोदते | अनेनैव विधानेन क्रमपूजां सदाकुरु || शरीरस्थं पुनर्देवि पूजितव्यं प्रयत्नतः | सिध्यते नात्रसन्देहो भावयुक्तो पदा भवत् || वांछन्ते यस्य देवाव(स्त) चरणपु(मा)राधनं भ्क्तिमन्तः संसारछेदहेतोर्नियतिवसुगताः | पुण्यपापैर्विमुक्ताः || निर्वाणं येन नीतं क्षणहृतकलुसं चन्द्रसूर्याभिषिक्तं तं वन्दे(देव) आदिनाथं विमलपदगतं नित्यमेवं नमामि || १ || यो सौ सिद्धा च याद्यः सुरवरनमितो योगिभिर्वन्द्यमानभ्यत्का श्री उड्डियाणं विविधगुणगणालं कृतं दिव्यवृन्दैः || कृत्वाख्याति महोच्चैस्सुरवरभुवने योगिवृन्दस्य मध्ये तस्याहं पादयुग्मं स्तुतिशरणगतो नित्यमेवं नमामि || २ || येन व्याप्तं च(श्व) पीठं गिरिवरशिखरालं कृतं गह्वरैश्च श्रीमज्जालन्धराख्यं विजितगुणनिधिं योगीनेन्द्रेण (कृतगुणनिधिनायोगिनायेन नित्यम्) देवं(वन्द्यं) || प्. ३१अ) गत्वा पातालमूले विषधरविविधा मर्दिता येन दैत्या | तं श्रीखेचक्रनाथं(श्चक्रीशस्पार्थसिद्ध्य)प्रणम सततं पातुमां(श्रद्धया)पादयुगमं || ३ || यः श्रीनाम्ना कुरङ्गी शिवभुवनगतैः क्रीडते कामभोगैगं त्यक्त्वा श्रीपूर्णपीठं बहुललितपदैश्च चर्च्चितं दिव्य वृन्दैः || भुक्त्वादीपानशेषा नमरगुणगणालंकृते दिव्यवृन्दैस्तस्याहं पादयुग्मं यु(स्तु)तिशरणगतो नित्यमेवं नमामि || ४ || त्यक्त्वा श्रीकामरूपं निशिनिशिभवने योगिनी प्रार्थ्यमानो गत्वा कैलासदिव्यं(पीठं) सुरवरशिखरे तोषितो येन श(म्भुः) || लङ्कायान्तत्क्षणार्द्धे पुनरपि च गतो लङ्कनाथाभिषिक्तः श्रीमातलङ्कनाथः सुरयुवति गणैरर्च्चितं पाद(नु)युग्मं || ५ || कृत्यानेकाधिकारं विविधजनबुधा(पद्य)मर्दिता येन सिद्धा नानातीव्रैस्त्रवेधैः सुरवरभवने योजिता येन सत्वाः || तीव्राज्ञाभुक्तभोगान् भ्रमणमति कृतः क्षेत्रपीठेपपीठैः वज्रस्फोटं कृतात्यं प्रणमतसततं पंचमं चर्यनाथं || ६ || नाम्ना यो वज्र बोधेर्व्रतचरणरतोराधितो येन रुद्रकृत्वा विद्याव्रतं यः सुरवरभवने शक्तिखट्वांग मुद्रं | कृत्वा तत्राधिकारं सुरवरगुरूणा सोभिषिक्तः प्रयत्ना देवं सद्योगिनेन्द्रं सकलगुणनिधिः पातुमां षष्ठनाथः ||७ || एवं सिद्धान्वये या सकलगुणनिधि मन्त्रमार्गे प्रसिद्धा स्वर्गे ब्रह्मादि देषैः? क्रमचरणरतैर्मत्यलोके मुनीन्द्रैः | पाताले चान्तरीक्षे विषधरविविधैरर्च्यमानः समस्तैस्तत्रस्थैर्देवदिव्यै स्तवचरणगतः कुन्नमामि || ८ || इत्येतैरष्टभिर्वृत्तैस्त्रिवारं स्तौति यः स्वयं तस्य देव्या प्रसादेनसिद्धाज्ञा संप्रवर्तते | नश्यन्ति विघ्नसंघाता दिव्यजानोदयो भवेत् | हृत्पद्मस्थ मनन्तपीठनिलयं बिन्दु त्रिमात्रान्वितं तेजो मण्डलमध्यमं प्रविलसद्दिव्याङ्गनालं कृतं || ओंकाराख्यमनेकसिद्धनिकरैः संसेव्यमानं जगत् | ख्यातं नित्यमहं नमामि विपुलं तद्भुक्तिमुक्ति प्रदं || १ || ज्ञानाग्नि ज्वालदीपं सकलमलहरं नाभिमध्ये स्थ(प्र)संस्थं दिग्नागा वेष्टितं च त्रिभुवनभुवनं दक्षवामोर्द्धमध्यं | तत्स्थानं ज्ञानरूपं रमति परकला नेत्रचंद्रार्द्ध युक्तं तछ्रीजालन्धराख्यं विषमसमपदं दिव्यपीठन्नमस्ते || २ || स्वाधिष्ठानोर्द्धवासं सकलगुणमयं पिण्डमध्येस्थ(प्र)संस्थंसंपूर्णपूरयन्तं तरलतडिभंशोधयन्तं सुशुधं || कंदे कुब्जाष्ट(स्व)रूपा तदुपरिभुवनं मध्यग्रन्थि प्रभिन्नं त्रिष्कोणं तत्प्रदेशं रविंशशि निरयं पूर्णपीठन्नमस्ते || ३ || उत्पन्नं यत्र पिण्डं सकलगुणमयं भूतसंघात विश्वं त्रैगुण्याकाशलिंगं युगकुटिलगतं बुन्दुयंत्रावतारं || ब्रह्माकालस्य मध्यो क्रु?रतिमणिरिवयोगिभिस्तं स्वपक्षं सिद्धं सिधावतारं त्रिभुवननमितं कामरूपं नमस्ते(नमामि) || ४ || प्. ३२अ) उक्तानि पीठसूत्राणि चत्वारि वरवर्णिनि | ज्ञातव्यं चक्रभेदेन शरीरस्थं सुसिद्धिदं || अधुनासंप्रवक्स्यामि त्रिखण्डा यादृशो भवेत् | पूजितव्या प्रयत्नेन सर्वसिद्धिफलप्रदा || ःमनमो नरायणागतृमामो न फ्र्ंलिरुभुलिरुभुफ्रें रिभुरिभु || फ्रें रि हे रि हे || फ्रें तिवजीसंनिवजीसं || फ्रें णि भक्षोणि भक्षो || फ्रें णिस्राणि रमा || फ्रेंणिवद्राविणि वड्रावि || फ्रें णिमभ्राणि मभ्रा || फ्रें निसत्रानि सत्रा || फ्रें रिभिरिभि || फ्रें रिविरिवि || फ्रें टत्रु टत्रु || फ्रें दनु दनु || फ्रें नां नीर्त्तव रिपस्रहसपरूक्यलोत्रै यामा || फ्रें त्यनृ त्यनृ || फ्रें सह सह || फ्रें राद राद || फ्रें ये प्रिवसरासुतणिशोसमां || फ्रें द्धेक्रु द्धेक्रु || फ्रें ष्ट्रंदं तकृ वि २ || फ्रें वेभ्रु लङ्गपि फ्रें क्षिकारता फ्रें हूं ज्जिद्तुवि फ्रें खेशितंलिज्व फ्रें शेकेर्र्द्ध-ऊ फ्रें ण्डेमुचा || फ्रें ह्स्रां फ्रें श्रीं ह्रीं ऐं ऐं ह्रीं श्रीं फ्रें ह्स्रौं ःमनच्चेविनिश-ई ण्डेमुचा ःमनच्चे विणिन्द्रा इण्डेमुचा ःमन च्चेवि रिश्वगेयो ण्डेमुचा ःमन च्चेवि हिरावाण्डेमुचा ःमन च्चेवि विष्णवै ण्डेमुचा ःमनच्चे विरिमाकौण्डेमुचा ःमनच्चे विरिश्व हेमा ण्डेमुचा ःमन च्चेवि णिह्माब्र ण्डेमुचा | थाद्यत | फ्रें भंशु नं चवणांतॄ मा फ्रें रंक ष्टिप्र फ्रें रंकद्धि प्. ३२ब्) ऋ फ्रें रंकद्धिसि फ्रें रंक दच्छेर्म्मकरप फ्रें यंदहृ ह्यगु तृमार्वस फ्रें नांनीर्तवरिप र्मकस्तम मसनलन्मूनोदच्छ्राणोरकशीवत्वसर्वस फ्रें नांनीर्त्तवरिपपरूस्वस्व फ्रें नांतीगतहति प्रत्रार्वस फ्रें णांरीमराज-अ फ्रें नांकीधसार्थमाकार्वस फ्रें नांनीमिगाशका आमन फ्रें ण्डेमुचा ःमन || फ्रें यद्रारु तेवगभ मोन ओं फ्रें || अस्या विद्यादि अन्ते च अन्तं पूर्वं व्यवस्थितम् | ज्ञातव्यं पदभेदेन विलोमेन यथाभवेत् || समयाचारहीनस्य प्रमदा लंघने कृते | अज्ञानादथवा मोहात् सर्वपापप्रमोचनी || क्रमपूजावसाने च जप्तव्या परमेश्वरी | श्रीभैरव उवाच योगविप्लवकानां च हास्यं कुर्वन्ति ये नराः | योगिनी समयचक्राणि(योक्तानि) व्रतचर्याणि यानि च || वीरमेलापकं मंत्र मागमं शिवभाषितम् | दूषयन्ति दुराचारा विघ्नं कुर्वन्ति ये सदा || निग्रहंते प्रवक्ष्यामि षड्विधं च यथा बह्वेत् | मातृणां च ऋतु स्थाने दारुबीजं व्यवस्थितम् || उद्धृत्य षड्विधन्देवि सर्वबिन्दु युतं कुरु | अनन्ते न समायुक्तं पूर्ववर्णं च कारयेत् || मालिनी जिह्वसंयुक्तं द्वितीयं वीरवन्दिते | ध्रुवान्तस्थं तृतीयं च भूतीशेन चतुर्थकम् || खे(क्षे)अन्ते पंचमं योज्य षष्टं लोकान्तसंस्थितम् | पंचप्रणवपूर्वस्थं मन्त्ररत्नं शिरोद्भवं || प्. ३३अ) प्रणवञ्च तृतीयं च बिन्दूहीनं समालिखेत् | एतानि नवबीजानि विशुद्धं परतः स्थितम् || तस्यान्ते डाकिनीनाम गृहत्वचंपुनः | स्वाहान्तं पूजयेद् देवि विंशवर्णा त्रयोधिकाः || मालिनीशूलदण्डं च नवके पूर्वसम्स्थितम् | षड्विधं तं विजानीयाद् यादृशं पूर्वसंस्थितम् || रि (स) अन्तं बिन्दुसंयुक्तं स्थापितं कुरुयत्नतः | अन्ते रत्नं द्वितीयं तु लक्ष्मीबीजन्तदग्रतः || अनाहृतं समुच्चार्य राक्षशी तदनन्तरं | तस्यान्ते रक्तवर्णानि शोषयेति पुनः पुनः || स्वाहान्तं योजयेद् देवि द्वितीयं नात्रसंशयः | नवके च तृतीये च पिनाकी भैरवः स्थितः || भेदितं षट्प्रकारेण यथापूर्वन्ततैव हि | तृतीयरत्नयोगेन पूर्वं पूर्वेणसंयुतम् || उद्धारं देवि कुर्वीत तदन्तं मणिपूरकं | तस्यान्ते लाकिनीमांसं गृह्णगृह्णेति पठ्यते || स्वाहान्तं पूजनं कुर्यान्नाभिस्थं योगिनीं विदुः(कुरु) | संवकं वर्णमुद्धृत्य षट्प्रकारेण पूर्ववत् || सप्तान्ते रत्नसंयुक्तं चतुर्थेन वरानने | पुनस्तं पूर्वबीजं च रत्नान्ते च नियोजयेत् || स्वाधिष्ठानं तदग्रे तु शाकिनीनामसंयुतम् | शंकारूपेन इत्युक्तं गृह्णगृह्णेति पयते || स्नान्यु स्वाहान्तसंयुक्तं पूजितव्यं प्रयत्नतः | शिखरस्थं भुजे वामे मालिनी वर्णमारूतम् || सड्विधं तं विजानीयाद् यथा पूर्वं व्यवस्थितम् | अष्टमं पञ्चमं रत्नं नवमं पूर्ववत् प्रिये || प्. ३३ब्) आधार यक्षिणी नामतस्यान्ते संस्थितं कुरु | जृंभये इति (यद्भवन्ति च) वर्णानि द्विस्थाने संस्थितानि च || अ(स्व)स्तिस्वाहान्त योगेन पूजनं पंचमस्य च | क्रोधभैरवमुद्धृत्य आदि एकादशे स्थितम् || पूर्वैः स्वरप्रयोगेन षडेते भेदितानि च(स्तथा) | माया बीजान्तयुक्तेन पूर्वबीजं तदग्रतः || त(प)स्यान्ते काकिणी देवी आज्ञापूर्वं समुद्धरेत् | तस्यान्ते क्रव्यमा मंत्रासंहरेति पदद्वयं || गुदं स्वाहान्तयोगेन पूजनं षष्ट कस्य च | निग्रहे षट्कमित्युक्तं त्रैलोक्यनिग्रहे क्षणात् || साधितवं बिधानेन सद्यः प्रत्ययकारकम् | एकैकस्या युतं जाप्यं कर्त्तव्यं वरवर्णिनि || होमं चैव दशांशेन योगस्य संग्रहे स्थितम् | प्रथमस्य त्वचं कुर्यात् पौरुषं घृतमिश्रितम् || नृरक्तं घृतयोगेन द्वितीयस्य वरानने | महामांसघृतं कुर्यात् देयं देवि तृतीयके || चतुर्थं स्नायुं होमं च घृतेन सहसंयुतम् | हुतं देवि सहस्रैकं पंचमं चास्थिसंभवम् || तच्चूर्णं घृतसंयुक्तं अग्निकुण्डे तु होमयेत् | अयुतस्य दशांशेन मज्ज(ह्य)होमं तदग्रतः || षड्विधं च इदं होमं कुर्वीतवरवर्णिनि | सिद्धं चैव विजानीयात् पश्चात् कन्यां प्रपूजयेत् || सिंदूरं रक्तवस्त्राणि कुंकुमं कज्जलान्वितं | तिलकं पुष्पधूपञ्च आसनं विविधं प्रिये || मत्स्यमांसविचित्राणि षड्रसंभोजनं शुभं | तृप्तिं कुर्वीत यत्नेन दक्षिणां च समर्प्ययेत् || प्. ३४अ) नमस्कारं प्रकुर्वीत प्रार्थितव्यं प्रयत्नतः | यत्मया साधितं कार्यं तस्याज्ञा मुक्ति मे भवेत् || अनेनैव विधानेन निग्रहं साधितं यथा | मनसाकुरुते योगी निग्रहं यस्य कस्यचित् || एकं दशशतं चैव सहस्रैकमथापि वा | मारयेन्नात्रसंदेहः संक्रुद्धेनान्तरात्मना || अथवा भूपतेश्चैव निग्रहं कर्तुमिच्छति | विधानन्तस्य वक्ष्यामि येना सौ म्रियते ध्रुवं || प्रेतकेशनिवस्त्रं च चूर्णं कृत्वा चिताग्निना | सादितं नररक्तेन निशार्द्धे मण्डलं कुरु || कृष्णाष्टम्यां चतुर्दश्यां सष्ट्चक्रं तस्य मध्यतः | पूजयेत् षट्क योगेन दक्षिणाभि मुखः स्थितः || दक्षिणावर्त्त योगेन एकैकामुत्तरेण तु | देवदत्तस्य नामं तु मध्यस्थं कुरु यत्नतः || चिन्तितं साधकेन्द्रेण जीवहीनं सुविह्वलं | अमुकं च मयादत्तं गृह्णगृहेति कथ्यते || षट्सप्तमदिने पूर्णे म्रियते नात्रसंशयः | मारणि भूपतीनां च विधानं समुदाहृतम् || विघ्नन्नैवप्रकुर्वंन्ति आश्रमं पालयन्ति ये | दर्शनानां च सर्वेषां भक्तिं कुर्वन्ति ये सदा || इदं तस्य न युंजीत लुब्धे नैव कदाचन | आज्ञाहानिः परत्रञ्च नरपतेनात्रसंशयः || तस्मात् सर्वप्रयत्नेन क्षुद्रे क्षुद्रं नियोजयेत् | जिघांसन्तं जिघांसीयान्नन्तेन ब्रह्महा भवेत् || निग्रहं च समाख्यातं न देयं यस्य कस्यचित् | ब्राह्मणेषु कुमारिषु तथा वै लिङ्गधारिणे || प्. ३४ब्) निग्रहन्नैव कर्त्तव्यं अपराधशतैरपि | इति पारमेशवरीमते क्रमपूजाधिकारे निग्रहे द्वात्रिंशतिमः पटलः || देव्युवाच श्रुतं नाथमयासर्वं पारंपर्यं सुनिश्चितम् | षोढान्यासेनसंयुक्तं निग्रहानुग्रहे यथा || अद्यापि संशयो स्माकं वर्त्तते हृदि मध्यतः | त्वया पूर्वं समाख्यातं निर्वाणपदमुत्तमम् || मुद्रामन्त्रविहीनञ्च व्रतचर्याविवर्ज्जितम् | पारंपर्यक्रमं दिव्यं शरीरस्थं वदस्वमे || कथं जीवः समुत्पन्नो भूतानां चैव लक्षणं | कःकालोग्रसते तस्य कस्मिन् काले व्यवस्थित || दिनंदिनार्द्धमित्याहुस्त्रीणिपंचाष्टमेषु च | पक्षे मासं च षण्मासमब्दै कस्य च लक्षणं || चिह्नानि वद देवेश अपमृत्युर्यथा भवेत् | दिनसंख्यादि नैकेन संक्रान्तिषु यथा भवेत् || विषुवंग्रहयोगानि राशिनक्षत्रयानि च(लक्षणम्) | ग्रहणं चन्द्रसूर्याणां चक्रभेदं वदस्व मे || श्रीभैरव उवाच यो सौ अचिंत्यमित्याहुः शिवः परमकारणः | तस्येच्छा निर्गताशक्तिः प्रसुप्तभुजगोपमा || तडित्पुंजसहस्राभा सहस्रकिरणोज्ज्वला | हृदये क्षिप्यसामाया वेद(देवि)सिद्धान्तमातृका || सुप्तावस्था गता सा तु(सूक्ष्मा) गुर्वाज्ञायाः प्रबोधने | उत्पन्ना तत्र मध्ये तु त्रिता(वि)द्यास्त्रीणि देवताः || ब्रह्माविष्णुस्तथारुद्रस्त्रिगुणं भुवनान्तरे | प्. ३५अ) त्रिरंशकमिदं पिण्डं त्रिषण्डे आयुसंस्थितम् || अंशकास्त्रीणि कालस्य भुंजते च पृथक् पृथक् | ब्रह्मांशं विष्णुरशं च रुद्रांशं त्रिविधपुमान् || त्रयस्त्रिंशति वर्षास्तुते त्रिभागा व्यवस्थिताः | प्रजापतिश्चरेद्वायुः प्रविष्टो भूतपंजरे || यावद्ब्रह्मा शरीरस्थः कालरूपेण भुंजति | तावद्ब्रह्मादि योगेन ज्ञातव्यं काललक्षणं || यदा वास्तमने ब्रह्मा उदयं कुरुते हरिः | चलते कालरूपेण सृष्टिरुद्रस्य मध्यतः || तेनापि विष्णुयोगेन ज्ञानस्य वंचनं भवेत् | गतो ब्रह्मा गतो विष्णुः सृष्टिभोगाः क्षयं गताः || भक्षितास्ते वरारोहे गर्भे रुद्रस्य संस्थिताः | यदा तु दयते रुद्रस्तृतीयावस्थसंस्थित || तदा रुद्रस्य योगेन कालचिह्नानि पश्यति | यदाकालगतं शेषं सृष्टिरूपं महेश्वरः || स तत्र दृश्यते किंचित् पानीयं कर्दमे पि वा | संहृत्यसर्वरुद्रेण जीर्णं कन्दं कृतं यदा || निस्तेजञ्च भवेन्नालं पद्मस्य पतनं भवेत् | यदा बिंदुं महापद्मं स नालं कन्दशेखरं || तदा बिन्दुं विजानीयादस्थि अभ्यन्तरे स्थितम् | आज्य(अज)मज्जालयं स्नायुं मांसंरक्तन्तथा त्वचं || षट्धातुं विध्यते रुद्रः पच्यते रोमसंकुलं | शब्दहीनौ तदाकर्णौ घ्राणहीना च नासिका || ज्योतिर्हीनाभवेदृष्टि रसहीनासरस्वती | कंपते च महामेरुर्वृषणो मूलवर्जितः || प्. ३५ब्) संजीर्णेन च ते(अजीर्णं भवति) स्तंभं यदा रुद्रोदयो भवेत् | सकलाकालसंयुक्ता विक(का)लाकालविवर्ज्जिता || या कलादर्शयेत् कालं सा कलाकालमेव च | लक्षितव्यं प्रयत्नेन सा कलाकालवासिनी || कालस्य वंचनं कुर्याद् यो यस्य अंशके स्थितम् | एतानि त्रीणि भेदानि त्रिभिर्देवैः समुद्भवाः || ब्रह्माविष्णुश्च रुद्रश्च ज्ञातव्यं मन्त्रमध्यतः | यो यस्य अंशके आयु(प्राप्त)स्तत्तस्य चक्रमध्यतः || पश्यते ज्ञानयोगेन सुसुप्त स्वप्नगेपि वा | स्वप्ने वा यदि प्रत्यक्षं समाधिगुणयोगतः || विवर्णां पश्यते छायां अब्दमेकं स जीवति | उत्तराभिमुखोभूत्वा पश्यते यदि दक्षिणं || दिङ्मोहं च समाख्यातं सप्तमासं स जीवति | शुद्धनिर्म्मलमादित्यं विरश्मिं पश्यते यदा || वर्षद्वयं मनुष्याणां मृत्युरात्मनि विंदति | (अरुन्धतीं ध्रुवं चैव सोमच्छाया महाख्यातं सप्तमासं स जीवति || शुद्धनिर्म्मलमादित्यं विरश्मिं पश्यते यदावर्षद्वयं मनुष्याणां मृत्युरात्मनिविंदति ||) अरुन्धतीं ध्रूवं चैव सोमच्छाया महापथं || यो न पश्यति देवेशि अहधिकन्न जीवति | मध्ये चंद्रं स च्छिद्रं च अधोभागेन पश्यति || जानीयाद्वत्सरैकेन तस्य मृत्युर्न्नसंशयः | भग्नशाखाद्रुमं चैव गन्धर्वनगरन्तथा || पश्येत्प्रेतपिशाचानि दशमासंसजीवति || प्. ३६अ) यस्य वैस्रातमात्रस्य हृदि पादौ च शुष्यते | धूमो वा मस्तके नास्ति सप्तमासं स जीवति || अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत् | पांसौ च कर्दमे वापि सप्तमासं स जीवति || रक्तमाल्यानु लेपानि रक्तकृष्णानि वाससी | लभते स्वप्नयोगेन षण्मासानि स जीवति || परासरस्य कालस्य तत्वज्ञानं वदाम्यहम् | लेखन्यादि प्रयोगेन विधियोगेन भावयेत् || मार्गशिषस्य मासस्य कृष्णा च पंचमी पया|| संचा(हा)रं ज्ञानयोगेन(गं च) रात्रौ जागरणं यजेत् || आहरेन्निर्व्रणं भूर्ज्जे रोचना सृक्त कुंकुमम् | लिखेत्पूर्वमुखोभूत्वा द्वादशा अक्षराः शुभाः || मात्राबिन्दुसमायुक्ता दर्शयित्वा पुनः पुनः | संवृत्यशुक्लसूत्रेण जप विद्यां समालभे(लिखे)त् || सितचन्दननैवेद्यैर्ज्जातीपुष्पैर्म्मनोरमैः | पूजयित्वाक्रमाम्नायं वामाद्यामन्त्रसंयुतम् || शरावपुटमध्यस्थं जातीकुसुममध्यगं | स्थापयित्वा जपेन्मन्त्रं यावद्रात्रिक्षयं गता || विमले सुप्रभाते च क्रमं संपूज्य यत्नतः | कुमारीं च ततः पूज्य विद्यालद्धामतः शृणु || ह्रीं ह्रूं स्व्लें महापतये रक्षरक्ष मां अमृतोद्भवे | ह्रीं ह्रूं स्व्लें विच्चे संपुटित्वा जपेन्मन्त्रं देव्याः क्षोभं जपेन तु || कथ्यते नात्रसंदेहः शुभं वा शुभमेव वा | न च क्षुभ्यति सा देव्या जप्तविद्या च संपुटा(सांप्रतम्) || प्. ३६ब्) दर्शयन्ति महाहानिं भ्रष्टोसौ योगिनी कुले | एवं कृत्वा यदा पश्येद् भूर्जस्थानेक्षण्भु? शुभात् || वाचा पयन्निरूपेच्च समानिविषमानि च | अक्षरोप्यधिको यत्र तत्र राज्यं विधियते || मात्रायाभ्यधिके(धिकेलभेल्)लाभं समे आरोग्यवत्सलं | बिन्दुहीनं यदापश्येत् तदाहानिं विनिर्दिशेत् || मात्राहीने भवेद्व्याधिर्मृत्युः स्यादक्षरं विना | वामादि क्रमयोगेन पूजयेदुपदेशतः || शुष्कतालुक-ओष्ठं च अकस्माद्धूसाच्छवि | शुष्क च(भ?)भग्नमायाति षण्मासं तस्य जीवितं || सुनीलं मण्डलं व्योम्नि पश्यते च दिने दिने | शितं हरितकृष्णं च वत्सरांर्द्ध स जीवति || आत्मीयामशिरां छायां तथा कृष्णाश्च तारकाः | यदा पश्यति देवेशि ऋतुमेकं स जीवति || तैलाभ्यङ्गन्तथा पानं रक्तं चैव विलेपनं | रक्तांवराणि कृष्णानि स्वप्ने च पश्यते यदा || राक्षसैर्भूतवेतालैः श्वानशूकरगर्दभैः | गृध्रैकं कैरुलूकैश्च महिषैरुष्ट्रमेव च || यदा पश्यति चात्मानमेभि परिवृत्तो नरः | स्वप्ने च पश्यते यो वै अब्दमेकं स जीवति || शंखावर्त्ते ध्रूवोर्म्मध्ये गुल्फेषु मर्म संश्रु?षु | यो न जानाति तत्त्वज्ञः स्पंदनं च मुहुर्मुहुः || नेत्राभ्यां करजैः क्रा(जिह्वा)न्तं सोमसूर्यं न पश्यति | धूमं च मस्तके नास्ति मासमेकं स जीवति || प्. ३७अ) तालुमध्यगतं धूमं महाज्ञानं तदुच्यते | जिह्वाचारुंधती प्रोक्ता नासाग्रं ध्रुव उच्यते || रसनाशुष्कमायाति हिकका च वहते सदा | शुष्यन्ति सर्वगात्राणि ऋतु(या स)मेकं स जीवति || लोहदण्डधरंकृष्णं सन्मुखं पश्यते यदा | समाधि स्वप्न योगेन अष्टमासं स जीवति || तारागणं न पश्येत स्थूलकायात्मकं यदा | दीपगन्धं न जिघ्राति अब्दमेकं स जीवति || निशिचापं दिवा उल्का अमेघे विद्यु दर्शनं | दिग्मोहो दुष्टदेशे च षण्मासान् म्रियते ततः || चक्षुर्भ्यां श्रवते नित्यं न शृणोति अनाहतं | दीपगन्धं न गृह्नाति वर्षार्द्धे म्रियते नरः || रक्तपद्मोपमं वक्त्रं जिह्वाकृष्णा च जायते | गात्रे वर्णान्यनेकानि मासमेकं स जीवति || बिन्दुं यो हित पश्येत नेत्राभ्यां पुरतः स्थितं | तस्य मृत्युं विजानीयात् मासमेकं स जीवति || (बिन्दुयोनि न पश्येत नेत्राभ्यां पुरतः स्थितं | तस्य मृत्युं विजानीयात् मासमेकं स जीवति ||) शीतलत्वं गतो भानुरुष्णत्वं च निशाकरः | ददामृत्युविजानीयादर्द्धमासेनसंशयः || इति || देव्युवाच या सा विद्या महातेजा कालाग्नि रुद्रसंभवा | कालसंकर्षनी नाम सर्वसिद्धि प्रदायिका || तमहं श्रोतुमिछामि प्रसादं कुरु भैरव | श्रीभैरव उवाच शृणु देवि महागुह्या कालसंकर्षणी परा | प्. ३७ब्) सिद्ध्यते यत्प्रसादेन त्रैलोक्ये स चराचरं || आदेशं कुरुते कालं मारयेद् रक्षयेद् यथा | सर्वसिद्धिकरी ह्येषा कथयामि तव प्रिये || ल(न)कूलीशं महारुद्रं ध्रुवान्तमधःसंस्थितम् | नवादि आसनारूढं निषव्यन्तेन भूषितम् || नादबिन्दुशिरेदत्तं प्रथमं अक्षरं विदुः | मंदरे भूतपूर्वे तु वामाद्रिमालिनी तु या || नवादि आसनारूढं झण्ठीशेनसमन्वितम् | ऌपूर्वेणसमायुक्तं गन्धशिखरभूषितम् || (द्वितीयं बीजमुत्तमम् ||)??? चामुण्डाहृदयं प्रोक्तं सर्वग्राहकरं परं | क्षे पूर्वं तु समुद्धृत्यसावित्री भूषितं कुरु || बिन्दूनादशिवाक्रान्तं नारसिंहं महाबलं | मातृमण्डलवर्णं च षष्ठं क्षे अन्तसंयुतम् || सोपि बिन्दुयुतं कुर्याद्बीजं त्रैलोक्यडामरं | तद्बीजं तस्य अग्ने तु अनन्तेनविभूषितम् || क्रूरवर्णं शिरे(वे)दत्तं मोहनं पंचंमाक्षरम् | एकादशादि संहृत्य(गृह्य)सद्योजातेनसंयुतम् || शूलदण्डासनारूढं अंकुशं बिन्दुसंयुतम् | एकादशे चतुर्थे तु केवलं सप्तमं लिखेत् || च पूर्वेण महाकालं रुद्रं सप्तमं भूषितम् | तस्य वर्णं चतुर्थं तु शिरसी दापयेद् बुधः || तस्याग्रेच्छान्तवर्णस्तु अंबिका यत्रसंस्थिता | रुद्राणा सप्तमं गृह्यविश्वादि भूषितं कुरु || ऋषीणां वेदवर्णञ्च बिन्दुमस्तकभूषितम् | मातृ षष्ठे तदग्रे तु ऋण्ष्टीशेनसमन्वितम् || प्. ३८अ) तस्याग्रे रुद्रपूर्वं तु नवमाला तृतीयकं | एकादशे चतुर्थन्तु व्यंजनं तस्य दापयेत् || एकादशादि संगृह्य तस्यान्तमग्रतस्थितम् | शूलदण्डं शिरेदत्तं ग्रहमाला तृतीयकम् || विश्वमालादि संभिन्न देवी अष्टदशाक्षरी | नमोन्ते जयकाले तु स्वाहान्तं हवने भवेत् || समसमानिवर्णानि न्यासं कुर्यात् तु षड्विधं | महाप्रेता सनारुढं भूतमण्डलमध्यगं || जपेदेकाग्र चित्तस्तु कृष्णाष्टम्यां तु सर्वरीम् | प्रत्यक्षा भवते देव्या यत्कामं तद्ध्रुवं लभेत् || वेला व्रतेनसंयुक्तः पंचमुद्राधरः शुचि | अष्टोत्तरसहस्रन्तु जप्त्वा होमं समर्पयेत् || नृमांसं मदिरा युक्तंः घृतमिश्रं तु गुग्गुलूम् | षण्मासात् सिद्धिमाप्नोति सूरसामान्यतां व्रजेत् || कालसंकर्षणी नाम न देया यस्य कस्यचित् | कुलमार्गाभिषिक्तस्य पारंपर्यरतस्य च || तस्य देयमिदं ज्ञानमन्यथा नरकं व्रजेत् | इति पारमेश्वरीमते कालज्ञानसंकर्षणी त्रयस्त्रिंशतिमः पटलः || देव्युवाच कालोदयं मयाज्ञातं अंशकानि विशेषतः | अधुनाश्रोतुमिछामि वंच(ध)नं च यथा भवेत् || विपरीत न चारयोगे आत्मानं संक्रमते यथा | चक्रस्थं तं बीजानीयाद् ध्यानधारणयोगतः || प्. ३८ब्) श्रीभैरव उवाच यत्नात् पूर्वं मयाख्यातं शक्त्योर्द्धं अंशकत्रयं | महानिलयं तस्योर्द्धे (तस्योर्द्धे तु महानीलं) त्रिपथं वरवर्णिनि || पच्य(ख)ते तत्र मध्ये तु विष्णुरुद्रप्रजापतिः | उत्पन्नं तत्र मध्ये तु बीजभूतं वरानने || पृथिव्यायस्तथा तेजो वायुराकाश निष्कलं | बीजमध्ये स्थिता ह्येते पृथग् भिन्ना क्रमेण तु || यदासौ निर्मले क्षेत्रे पतितं बीज रोहणं | तदाभिद्यन्ति भूतानि स्वकीयगुणपञ्चकैः || तत्रत्रिपथमध्ये तु सूक्ष्मभूताव्यवस्थिताः | ऊर्णातन्तु निभाकारा गतासानाभि मण्डले || चतुरङ्गुलमानेन अष्टधा कुटिलं गताः | प्रसूता नाभि मध्ये तु शाखैः शाखमनेकधा | दशनाद्व्यावृ(धृ)तं चक्रं नाभिस्थाने प्रतिष्ठितम् || इडा च पिंगला चैव सुषुम्ना च तृतीयका | उर्द्धभागे स्थिता ह्येता त्रिभिर्देवैर्व्यवस्थिता || गान्धारि हस्ति जिह्वा च पूषा चैव वरानने | अधोमार्ग गता ह्येता वृहत् शाखा प्रलम्बिता || यथा(जया) अलंवुषा चैव दक्षिणस्था भवन्ति हि | वाममार्ग प्रयोगेन संस्थिता कुहुशंखिनी || नाभेरूर्द्ध गतानाडी एकात्रितयरूपिणी | सा प्रसूता वरारोहे ब्रह्मावर्तेनसंस्थिता || नाडी संचारयोगेन संस्थितं पद्मया दृशम् | तमहंसंप्रवक्ष्यामि शृणुष्वेकाग्रमानसः || पंचपंच पुनः पंच पंचपुनः पुनः पञ्च | पंचमालासमाख्याता संस्थिता पंचविंशकम्(तिः) || प्. ३९अ) ग्रन्थिस्थानप्रयोगेन नाडीसंचारसंथिता | पूर्वमालादि उत्पन्नं द्वितीयस्य द्वितीयके || विश्रान्ता तत्र मध्ये तु गतापूर्व तृ(द्वि)तीयके | पूर्वबिन्दु द्वितीयस्य प्रथमस्य द्वितीयकं || ग्रन्थितं नाडियोगेन तृतीयस्य द्वितीयकम् | द्वितीयस्य द्वितीयेन तृतीयादि विभेदयेत् || तृतीयस्यय द्वितीयेन चतुर्थे आदियोजितम् | तृतीयादिं चतुर्थस्य द्वितीयं ग्रन्थितं कुरु || चतुर्थस्य द्वितीयेन पंचमादिन्नियोजयेत् | (पंचमस्य द्वितीयेन चतुर्थापि योजयेत् ||) चतुर्थस्य द्वितीयेन पंचमस्य तृतीयकम् | ग्रंथितं पूर्वयोगेन नाडीसंचारभेदितम् || चतुर्थस्य तृतीयं च पंचमस्य द्वितीयकम् | पंचमस्य चतुर्थे च चतुर्थे पञ्च योजितम् || चतुर्थस्य चतुर्थेन पंचमं तु प्रयोजितम् | पंचमान्त चतुर्थस्य चतुर्थस्थान योजितम् || (पञ्चमस्य चतुर्थेन चतुर्थान्तं नियोजयेत् | वरानने पूर्वे चतुर्थ योगेन द्वितीयान्ते विभेदितम् | द्वितीयस्य चतुर्थेन द्वय(पंच)मस्य तृतीयकम् | भेदितं नात्रसंदेहो यथा पूर्वन्तथैव च || तृतीयेन द्वितीयस्य)????? चतुर्थान्तं तृतीयस्य चतुर्थस्थान योजितम् | चतुर्थस्य चतुःस्थानं तृतीयान्तेनसंयुतम् || तृतीयान्तं द्वितीयस्य चतुर्थस्थानसंस्थितम् | तृतीयस्य चतुर्थेन द्वितीयान्तं नियोजयेत् || पूर्वान्तेन चतुर्थं च द्वितीयस्य प्रथमस्य चतुर्थकं | ग्रंथितं पूर्ववद्वेवि अत उर्द्धमतः शृणु || प्रथमस्य द्वितीयेन द्वितीयस्य तृतीयकम् | एकत्र ग्रंथितं कुर्याद् ये चान्ये द्वे तथैव हि || प्. ३९ब्) नाडीचक्रमिदं शूक्षमं मष्ट(सप्त)पत्रं व्यवस्थितम् | शून्यरूपं स्थितं तत्र मध्यस्थं परमेश्वरम् || तद्बाह्ये षोडशाकारं षोडशकलसंयुतम् | चन्द्रादित्यमयं सर्वं नाडीचक्रं व्यवस्थितम् || एषा प्रकृतिराख्याता पंचविंशसमुद्भवा | अत्रमध्ये स्थितं देवं जीवाख्यं परमेश्वरम् || सत्वंरजस्तमैश्चैव वेष्टितं त्रिविधेन तु | अष्टपत्रस्य मध्यस्थं दलेषु यादृशं शृणु || इन्द्रो अग्निर्यमश्चैव नैर्-ऋत्यं वरुणानिलं | कौबेरमीशपर्यन्तं दलेषुसंस्थितानि च || शब्दस्पर्शञ्च रूपं च रसोगंधं च पंचमः | मनोबुद्धिरहंकारो दलेधः संस्थितानि च || कामं क्रोधन्तथा लोभं मदं मात्सर्यमेव च | मोहं दंभं च पैशून्यं एकैकस्य पृथक् पृथक् || यो सौ अचिंत्यमित्याहुः सर्वज्ञः परमेश्वरः | मध्यस्थं तं विजानीयाद् रूपमव्यक्तसंस्थित || प्रेरकन्तस्य देवेशि मनोनामकमात्मनः | येन येन हि भावेन मनः संयुज्यते नृणां || तस्य तन्मयतां याति विश्वरूपो मणिर्यथा | चतुर्विंशति तत्त्वानि पत्रे पत्रे व्यवस्थिताः || प्रकृतिं च विजानीयात् पुरुषे बन्धनात्मिकां | मुक्तिन्तेन विना देवि निष्कलं च तदा भवेत् || सकलं तत्र मध्यस्थं निष्कलं तेन वर्जितम् | अत्र मध्य गतं विद्यात् कालं कालोदयानि च || प्रकृतिं योन जानाति चतुर्विंशात्मरूपिणीं | वृथापरिश्रमं तस्य मुक्तिस्थानं न गच्छति || प्. ४०अ) अथातः संप्रवक्ष्यामि तिथिसंख्या यथा भवेत् | दिनमेकेन देवेशि ये दिनाः काय संभवाः || प्राणा पानस्य चारेण दिनं रात्रिर्विधीयते | एकविंशसमाख्याताः सहस्राः षट्च्छताधिकाः || सप्तविंशोत्तराज्ञेया संक्रान्तिषु शतानि च | विषुवाः षष्टि समाख्याता(विज्ञेया) अमावस्या च पूर्णिमा || यो सौ त्रिकालरूपेन अष्टसंग्रहसंस्थितम् | विंशोत्तरशतं यावद् भ्रमते चन्द्रमण्डलम् || यदाजानाति तत्त्वज्ञः सोमग्रहमुपागतम् | अमृताशनस्थितो योगी पूजयेत् तत्त्वनायकम् || सर्वदेव मयंशंभुं सर्वविश्वेश्वरं प्रभुं | ज्योतिरूपं परंशातं अव्यक्तं निर्म्मलं च यत् || जीवाख्यं परमं शुद्धं निर्मले मलनाशनं | तस्य पूजाप्रकर्त्तव्या प्लावितममृतेन तु || येगता(पशुयो)तिर्यग्योनीषु * नरके चाति दारुणो | उद्धरेत् तत् कुलं सर्वं दशपूर्वं दशापरम् || रस्मिज्वाला कुले दीप्तं भानुविवंसुनिर्मलं | ग्रंथि(ग्रसि)तं पंचवाराणि अहोरात्रेण दृश्यते || पितृयानस्य पूर्वेण या कलादैविकी मृता | तां कलां तर्पयेद् देवि सूर्यग्रहसु पा गते || देवया तस्य पूर्वेण पितृयानस्य चोत्तरे | सेतुबंधस्य मध्ये तु भूत्वा भूयो न जायते || पूजितव्यं प्रयत्नेन हृदिस्थं परमेश्वरं | दिव्यधारामृतेनैव भानुग्रासं यदा भवेत् || प्. ४०ब्) देवदानवसिद्धानां गन्धर्वो रगराक्षसां | तृप्यन्ति सर्वभूतानि विकला तर्पिता यदि || यदा भवति संक्रान्तिर्विषु वा पिण्डमध्यतः | तुर्यस्थानसमारूढः पूजयेत् तत्त्वनायकम् || गुरुपदेशयोगेन स्थानं परमुदुर्ल्लभं | त्वरितं तद्विजानीयाच्छीघ्रं सिद्ध्यति मानवः || येनज्ञातं सुरेशानि तूर्यस्थानस्य तर्पणं | अश्वमेधस्य यागस्य क्षिप्रलभति तत्फलम् || न योगात् सदृशं मन्त्रं न योगात् सदृशं तपः || न योगात् सदृशं तीर्थं त्रिषुलोकेषु दृश्यते | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || तद्भावभावितात्मानं चिन्तयन्ति परापरं | इन्द्राद्या देवताः सर्वे चन्द्रसूर्यादयोग्रहाः || महर्षयः सप्तपूर्वं मवादय अशेषतः | अष्टाशीति सहस्राणि वा लखित्पादयोपि च || अनेनैव तु योगेन सिद्धास्ते वरवर्णिनी | इतिखलुपुङ्गलाकारं नाडीसञ्चारमण्डले || मुख्यं कथितमिहसिद्धि हेतोर्बोद्धव्यं यत्नतः | सिद्धिः एत देवि परंगुह्यं निर्वाणं परमं पदम् || शरीरस्थं परं दिव्यं न देयं यस्य कस्यचित् | देव्युवाच नैव जानाम्यहं नाथ उदयास्त मनं यथा | विषुवं नैवजानामि ग्रहणं चन्द्रसूर्ययोः || राशिसंक्रमणं चैव सकलं निष्कलं कथं | को वेत्ति अत्रमध्यस्थः सुखदुःखानि यानि च || कस्य धर्म्मञ्च पापं च को गतः कोत्र तिष्ठति | प्. ४१अ) चन्द्रसूर्यादि भेदेन कथमात्माप्रतिष्ठितः || ज्ञायते केन योगेन इन्द्रियं विषयानि च | अनीता नागतं चैव वर्त्तमानार्थमेव च(बोधकम्) || अनिमादि गुणोपेतं साधनं च कथं भवेत् | निर्वाणं मोक्षमार्ग च विविधं कालवंचनम् || अनेनैव शरीरेण यथाभवति तद्वद | श्रीभैरव उवाच यो सौ देवि मयाख्यातं चक्रं प्रकृति संभवं || तत्रमध्यगतं देवं सर्वज्ञं परमेश्वरम् | तद्ब्रह्म च महादेवं तद्विष्णुं परमं पदं || तच्चन्द्रसूर्यमित्याहुरिन्दु वरुणमेव च | तं कालं भवमित्युक्तं तं वायुं तं खगेश्वरम् || सर्वदेवमया सो हि तत् शून्यं भरितं स्थितम् | चैतन्यं सर्वगं नित्यं सर्वप्राणि हृदि स्थितम् || विषयस्थमतीतं च वायुसंयोगसंस्थितम् | भ्रमते चक्रमध्यस्थं मनः पवनसंयुतम् || दक्षिणचारुयोगेन पिंगलं भानुमारुतम् | प्राणापाणप्रयोगेन नीयते च शनैः शनैः | यस्य पत्रस्थ मध्यस्थं तिष्टते परमात्मनः | तस्यतन्मयतां भावं धारयेन्नात्रसंशयः || अन्य पत्रस्य मध्यस्थं यदासंक्रमते तु सः | संक्रान्तिं तद्विजानीयात् तैः षड्भिश्चोत्तरायणं || विषुवं द्वादशं चैव या राशिं संक्रमेषु च | अब्दैर्द्वादभिश्चैव ग्रहणो भास्करस्य च || षण्मासदिनयोगेन चन्द्रस्य ग्रहणं भवेत् | प्. ४१ब्) समाधिस्थो महायोगी रविचन्द्रस्य मध्यगः(त) || प्रत्यक्षं दृश्यते ग्रा(श्वा)संस्थानभेदेन या दृशां | चन्द्रमण्डलमध्यस्थं आत्मानं कुरुते यदा || ग्रहणं तस्य जानामि सोमस्थं पश्यते ध्रुवं | चन्द्रसूर्यस्य चक्राणि सृष्टिसंहारकारकाः || पारंपर्यक्रमेणैव गुरुवक्त्रात्तु लभ्यते | यस्य चक्रस्य मध्यस्थं आत्मानं क्रमते लयं || चन्द्रसूर्यप्रयोगेन ज्ञायते नात्रसंशयः | धर्माधर्मं च मोक्षं च ज्ञानं वैराग्यमेव च || कामं क्रोधं च लोभं च यत्र(चक्र)स्थं कुरुते ध्रुवम् | मरुतस्थं विजानाति संयोगे वामदक्षिणे || प्राणापानस्य मध्यस्थं नासिकाग्रे व्यवस्थितम् | ऊर्द्धं ह्यग्नि दधश्चापतिर्यगश्च प्रभञ्जनः || मध्ये तु पृथिवीं विंद्यान्नप्तश्चैव तु सर्वगः | भूतान्ते विषुवं चारं सुषुम्नाभिन्नमस्तकं || यदा भवति मध्यस्थ मात्मानं वरवर्णिनि | वहतिनात्रसंहेहो योगं विषुवमूत्तमम् || कोलचिह्नानि सर्वाणि उक्तानि यन्मया पुरा | वंचनं तेषु देवेशि यथा भवति तच्छृणु || चन्द्रादित्य मयं सर्वं त्रैलोक्यं स चराचरम् | मार्गं च तद्विजानीयाद मार्गन्तेषु वर्जितम् || संचारं कथयिष्यामि प्रकृतिस्तस्य चात्मनः | वृषभं तत्र मध्ये तु मैथुनस्थं च वायसं || रुद्रमानं सदातिष्ठेत् महाशब्दमनाहतम् | सत्वंरजस्तमश्चैव तस्य वंधत्रयं भवेत् || प्. ४२अ) सोमसूर्याग्नि चारेण त्रिपादास्तत्रसंस्थिताः | अधस्तात् तु विजानीयाद् ब्रह्मादि अंशकेषु च || पृथिव्यापस्तथा तेजश्चतुर्थं वायुसंस्थितम् | ऊर्द्धभागे स्थिता ह्यते(क्षेत्रे) शृंगाश्चत्वारि यानि च || सार्द्धं त्रीणि स्थिता वामे पुनरेत्तानि दक्षिणे | नाडीसञ्चारभेदेन अस्थिरूपा व्यवस्थिताः || एतानि सप्तहस्तानि द्वौशीर्षौ चन्द्रसूर्ययोः | यो सौ मध्यगतो देवि रचते च अनाहतम् || मैथुनेन विना तस्य नशब्दो नैव जीवितम् | तस्मात् सर्वप्रयत्नेन मैथुनस्थं सदाकुरु || मैथुने मोक्षमाप्नोति मैथुनमायुवर्द्धनम् | सर्वसिद्धिकरं देविमैथुनं परिपठ्यते || तस्य देवाधि देवस्य प्रकृतिस्थस्य सुन्दरि | मोचनं संप्रवक्ष्यामि आत्मनो वंचनस्य च || उत्पत्तिस्तत्रमध्ये तु कालं कालोदयेषु च | एते त्रीणि समाख्याता वृषपादांशकेषु च || तत्रस्थं कारणं योज्यं नीयते च शनैः शनैः | संकोच्य सप्तहस्तानि नाडीस्थं यत्समीरणं || द्वे शीर्षे चतुःशृङ्गानि त्रिबन्धं प्रकृतिता सह | गुरुवक्त्र शते नैव करणे वरवर्णिनि || सव्यस्थं क्रमयोगेन चतुर्विंशात्मकं कुरु | संकोचमिति विख्यातं पिण्डस्थं च तदा भवेत् || हृदि ह्याकाशमध्यस्थं दीपाकारं व्यवस्थितम् | दह्यते हृदिमध्यस्थं इन्द्रिया विषयानि च || प्. ४२ब्) सावित्री यस्य कायस्थाः कालानलसमप्रभा | यक्षदीप्ति गतो वह्निः शुष्कमार्द्धं च निर्दहेत् || तथा दहति कर्माणि योगिशो अत्र संस्थितः | यदा सौ शिखिरूपेण सर्वं संकोच्यतिष्ठति || तदामुक्तं समाख्यातं सर्वमार्गेषु गच्छति | पितृयानस्य पूर्वेण देवयानस्य चोत्तरे || सेतुबन्धपूर्वे तु नीयते च शनैः शनैः | या सा वायु(म) कलासूष्मात्रिभिर्देहैर्व्यवस्थिता || एकासंवरणीनाम द्वितीया च विसर्जनी | कला चैव तृतीया च अन्तेष्टिर्नामविश्रुता || विसर्जनीं समाश्रित्य अभ्यासेन मुहुर्मुहुः | नीयते बंधयोगेन सा च संवरणी कला || अन्तेष्टि पद(क्ष)मध्यस्थं विलोमेन प्रवेशयेत् | ब्रह्मस्थानं परित्यज्य विष्णुरुद्रेश्वरं पदम् || शंखिणी द्वारभेदं च कुंचिको दद्याटयेद्विलम् | या सा नाडी परासूक्ष्मा सुषुम्ना नामविश्रुता || विभिद्य मूर्द्ध्निमार्गन्तु प्रतिष्ठा तत्र मध्यतः | मार्गेन तेन गन्तव्यं स्थानं चैव निरामयं || प्रथमं च द्वितीयं च सुशिरमस्थिमध्यगम् | तृतीयं च समाश्रित्य लयं कृत्वा सुयत्नतः || वंचनं च समाख्यातं कालस्य वरवर्णिनि | न तत्र भिद्यते जन्म न कालक्षयमेव च || धर्माधर्मौ परित्यज्य लीयते परमे पदे | तत्रस्थाने यदालीनं प्राणापानः क्षयं गतः || आगतं च गतं चैव नोस्वासं स्वासमेव च | प्. ४३अ) न शृणोति च शब्दानि मुक्ता चैव मनाहतम् || रूपं चैव नज्जानाति वर्णानि यादृशानि च | नवसंसा ते जिह्वा शीतोष्णं स्पर्शमेव च || घ्राणञ्चैव न गृह्णाति गन्धं दुर्गन्धमेव च | बुद्धि दृश्यमिदं सर्वं त्रैलोक्यम् स चराचरम् || य स? चाह्य?मनेबुद्धिस्तदा द्वैतं न विद्यते | एकीभूतं यदात्मानं सर्वेन्द्रिय विवर्जितम् || चैतन्यं चेतनं चेता न कालक्षयमेव च | एतद्देवि परंब्रह्म निर्वाणं परमाक्षरम् || ज्ञायते गुरुवक्त्रस्थं मुक्तिस्थानं सुनिर्मलम् | अन्यत्पुरप्रवेशं च कुरुते साधकेश्वरः || या सा देविमयाख्याता कलानामविव(स)र्ज्जनी | हस्तमात्रप्रमाणेन पुष्पं करतले स्थितम् || अन्ते वंधं प्रकुर्वीत कलासंवरणी तु या | नीतं पुष्पस्य मध्यस्थं मारुतं च शनैः शनैः || तं पुष्पं चलितं दृष्ट्वा द्विगुणं च समभ्यसेत् | द्विहस्तमात्रयोगेन पुष्पसंक्रमणं यदा || सिधयते नात्रसंदेहः पंचहस्तप्रमाणतः | पुष्पं च चलितं दृष्ट्वा वज्रक्षीरं विभेदयेत् || विभेदिते वज्रवृक्षे परकायलयं कुरु | परस्य हृदिमध्ये तु पंकजस्थं यदा भवेत् || तदा भिद्यन्ति भूतानि स्वकीय गुणपंचकैः | रूपे रूपं विजानाति श्रवणे शब्दं शृणोति च || नासिकाग्रस्थितो वायुः प्राणं गृह्णाति या दृशम् | सर्वं जानाति चैतन्यः शीतोष्णं स्पर्शमेव च || प्. ४३ब्) स्थाने स्थाने विसर्पन्ति इन्द्रिया विषयानि च | पूर्वोक्ता यादृशी विद्या तत्सर्वं वदते ध्रूवम् || परकायप्रवेशश्च उक्तं देवि सुदुर्ल्लभं | द्विपदे चतुष्पदे चैव अपदे पदसंकले || संक्रमेन्नात्रसंदेहो अस्य योगप्रभावतः | अथ उत्कान्तिमिच्छन्ति वैराग्यो पहता नराः || तसहं संप्रवक्ष्यामि सद्य उत्क्रमणं यथा | पूर्वं संकोचयोगेन लयं याति परे पदे || उत्क्रमेन्नात्रसंदेहः पुनर्जन्म न विद्यते | सर्वं देविमयाख्यातं यत्सुरैरपि दुर्ल्लभं || आत्मसंविन्निभेदेन किमन्यत् परिपृच्छसि | इति पारमेश्वरीमते गुह्ये आत्मसंवित्तिभेदश्चतुस्त्रिंशतिमः पटलः || देव्युवाच अत्रैव मेरुमध्ये तु या स्थिता कुलनायिका | त्रिपुरामन्त्रविख्याता वक्त्रांशाबान(गादिषु)संयुता || सप्तविंशति योगिन्यः पंचमुद्रा तथैव च | वक्तुमर्हसि देवेश सामर्थं पूजने विधिं || चतुष्के च महातन्त्रे उत्तरे षट्ककेषु च | रुद्रयामलमध्ये च पूर्वोक्तं तन्मया श्रुतम् || विशेषेन पुनर्देव यथा भवति तद्वद | श्रीभैरव उवाच कथयामि न संदेहः पारंपर्यं यथास्थितम् | ब्रह्मणो विष्णुतेजाच्च रुद्रतेजात्समुद्भवा || त्रिपुरा च महाविद्या भुक्तिमुक्तिफलप्रदा | तस्योद्धारं प्रवक्ष्यामि मेरुमध्ये यथास्थितम् || प्. ४४अ) मालिनीवामकर्णस्य ध्रुवान्ते भूषणं च यत् | अधस्तस्य समुद्धृत्य लकुली यत्रसंस्थितम् || अधोर्ध्वेत(अर्द्धे अर्द्धे)द्विजानीयाच्छलदण्डासनस्थितम् | सरस्वती समोपेतं क्रूरं शिरसिसंस्थितम् || वाग्भवं च महादेवि ब्रह्मतेजसमुद्भवम् | अस्य बीजप्रभावेन सृष्टि रूपः पितामहः || करालीवर्णमुद्धृत्य श्वेत रुद्रादि संस्थितम् | तत्रैव वामनेत्रस्थं भैरवेन युतं कुरु || शुक्रभैरव ऊर्द्धं वै पूतना यत्र संस्थिता | आसनं तद्विजानीयादम्बिकामूर्द्ध्निसंस्थितम् || अयं बिन्दुयुतं कुर्यात् कामराजं प्रतिष्ठितम् | विष्णुतेजः समुद्भूतं महाक्षोभकरं विदुः || सतताभ्यासयोगेन माहासौभाग्यदायकम् | जलमद्ध्यगतं देवि भैरवं रेतः संभवम् || भैरवं तस्य देवेशि अधरस्थं नियोजयेत् | महासेनोद्भवञ्चैव पुरतस्तस्य दापयेत् || त्राणं मूर्द्ध्नि गतं कुर्यात् तद्बीजं रुद्रसंभवम् | एतानि त्रीणि बीजानि त्रिभिर्देवि समुद्भवाः || (इमेनवास्त्र यो बीजा देव त्रय समुद्भवा ||) सुषुप्ताः संस्थिता ह्येते प्रबुद्धाफलदायकाः | ततहंसं प्रवक्ष्यामि गुह्याद्गुह्यतरं स्थितम् || विद्यात्रयं परं गुह्यं दीपनं त्रिपुरस्य च | छगलण्डभैरवं यत्र दहनी यत्र संस्थितः || उद्धृत्यविधियोगेन उभौ वर्णौ पुनः पुनः | अनन्तेन समायुक्त वज्रिणी तस्य चाग्रतः | पञ्चार्लं?भैरवं यत्र तद्वर्णमग्रतः स्थितम् | प्. ४४ब्) ज्ञानशक्ति समुद्भूतं शिरस्थं तस्य दापयेत् | तस्याग्रे संवकं बीजं देवीखड्गीशमासना(गामिनम्) || भैरवं रक्तसंभूतं गुह्यशक्ति समन्वितम् | अष्टाक्षरी महाविद्या ब्रह्मबीजप्रदीपिनी || क्रोधवर्णं समुद्धृत्य पिनाकी आसने स्थितम् | वामनेत्रोद्भवं सर्वं(रुद्रं) संयोगं तस्य दापयेत् || मालिनी प्रथमं बीजं झण्टीशेन समन्वितम् | तृतीयं पूतनारूढं वर्णं क्रोधसमुद्भवम् || ज्ञानशक्तिसमारूढं धात्रीशमग्रतः स्थितम् | तस्याग्रे मेषवर्णं च गुह्यशक्ति विभूषितम् || महावर्णानि तस्याग्रे उद्धरेद्वरवर्णिनि | वर्णसंवर्त्तकोनाम गायत्री भूषितं कुरु || दक्षिणस्य भुजे मूले या भीमा शिखरे स्थिता | तांन्वा? बिन्दुयुतं कुर्यादूद्धरेद्वरवर्णिनि || तस्याग्रे तु कराली च ध्रुवादि आसनस्थिता | तस्याग्रे रक्तसंभूत मकारसनं संस्थितं || महाक्षोभकरीह्येषा विद्या एकादशाक्षरी | कामराजादि संभूता विष्णुतेजः प्रबोधनी || ध्रुवमादै समुद्धृत्य तृतीयस्य सुरेश्वरि | महाकालं समुद्धृत्य सद्योजातेनसंयुतम् || द्वितीयञ्च समाख्यातं आत्मबीजं सुदुर्ल्लभम् | देवीं संघा(हा)तिकां नामबिन्दुमस्तकभूषितम् || अमरे शासनं दत्वा क्रोधवर्णं समालिखेत् | भुजंगं च ततो देवि उकारासनसंस्थितम् || एषा पंचाक्षरी विद्या मुक्ति बीजप्रबोधनी | विद्याङ्गेषु षडङ्गेषु वक्त्रेषु पूजनेषु(प्रपूजयेत्) च || प्. ४५अ) वाग्भवं कामराजस्य मुक्तिदं परमेश्वरि | या यस्य दिपिनी विद्या उच्चारन्तस्य पूर्विकं || अनेनैव विधानेन स जीवा निखिला भवेत् | त्रिभिस्तेजैञ्च संभूता त्रिपुरा तेजदीपिणी || ज्ञातव्या पुरभेदेन सर्वसिद्धि प्रदायका | न्यासमात्रे कृते देवि त्रैलोक्यं वशमानयेत् || तमहं संप्रवक्ष्यामि न्यासस्थानानि यानि च | मूर्द्ध्नि स्थानं च प्रथमं व्रततेजो व्यवस्थितम् || पुनर्नारायणन्तेजं गुह्यस्थाने च विन्यसेत् | हृदये रुद्रतेजेन न्यासं कृत्वा तु यत्नतः || वाग्भवं दक्षनेत्रस्थं वामे चैव जनार्दनः | ललाटे शिवमित्याहुर्विन्यसेद् वरवर्णिनि || दक्षिणेश्रवणे न्यस्तं वाग्भवं देवि यत्नतः | कामराजस्थितं वाम श्रवणे नात्रसंशयः || रुद्र तेजो महादेवि न्यसेद्वक्त्रस्य मध्यतः | दक्षिणे तु भुजा दण्डे पुनर्देवः पितामहः || केशवस्य स्थितं तेजं भुजे वामे प्रतिष्ठितम् | विन्यसेद् विधियोगेन रुद्रं पृष्ठस्य मध्यतः || वाग्भवं दक्षजंघायां वामे कामः प्रतिष्ठितः | नाभिमध्यस्थितं रुद्रं पुनस्त.क्म् सर्वसंधिषु || एषा विद्यात्मको न्यासः षडंगञ्च अतः शृणु | माया वागेश्वई नाम हृदिस्थाने नियोजयेत् || कामराजं शिरेदत्तं शिखास्थानेषु मुक्तिदं | वाग्भवं कवचे योज्यं नेत्रौ काम प्रतिष्ठितौ || न्यस्यास्त्रं रुद्रबीजेन दिशासु विदिशासु च | प्. ४५ब्) षडंगञ्च इदं देवि वक्रन्यासमतः शृणु || वाग्भवं पूर्ववक्त्रस्थं तेजो विद्या समन्वितम् | वामे न्यासं प्रकूर्वीत कामराजं सुरेश्वरि || तस्यापि दीपिनीविद्या न्यासं वक्त्रान्तरे स्थितम् | रुद्रबीजं न्यसेद्धीमान् वक्त्रे चैव तु दक्षिणे || पूर्वविद्यादि योगेन वक्त्रं न्यासं सुदुर्ल्लभं | वाग्भवं पञ्चवाणानि चापेन सहितानि च || तमहं कथयिष्यामि यथा न्यासं व्यवस्थितम् | रुद्रमालादि वेदा(देवा)नां मन्दिरे मीनसंस्थितम् || त्रिस्थाने संस्थिता ह्येते आलिखेद्वरवर्णिनि | अमरीशासनारूढं मध्यस्थं कुरु यत्नतः || त्रिरक्षरमिदं चापं वाग्भवं संस्थितं यतः | बीजाङ्गे पञ्चवाणानि ये भूता कथयाम्यहम् || शूलदण्डं समुद्धृत्य नवके पूर्वसंस्थितम् | सर्वगभैरवं वाणं न्यासं गुह्यस्य मध्यतः || एकादश ऋषिस्थाने च्छ(चा)ङ्गमध्ये व्यवस्थितम् | अंबिका वर्णमुद्धृत्य वर्णानां सृष्टिकारकाः || द्वितीयं वाणमित्याहुः संस्थित्तं नाभिमण्डले | पुनस्तं हृदिमध्ये तु वर्णं संदीपनं परम् || तृतीयं वाणमित्याहुस्त्रैलोक्यं यत्र संथितम् | नाभि मालादि संभूतं शिखरे निषद(ध)स्य च || सरस्वती समुद्भूतं सर्ववागेश्वरं विदुः | चतुर्थं च महावाणं न्यासं वक्त्रस्य मध्यतः || ठे-आ(लोका)दिपंचमं चैव क्रूरं यत्र व्यवस्थितम् | मूर्द्ध्नि न्यासं महादेवि सर्वसंजीवनं परं || एतानि पंचवाणानि ब्रह्मबिजाङ्गसंभवः | प्. ४६अ) वाचा सिद्धिकरास्त्वेते विन्यस्ता पिण्डमध्यतः || कामराजाङ्गं संभूतं पंचवाणं वदाम्यहम् | विलुमध्यगतं गृह्य नवके वाम मन्दिरे || पूर्ववर्णं विजानीयान्मांसस्य भैरवा श्रयं | रुद्रमाला द्वितीयं च ऊर्द्धे यस्य विनायकी || अनन्तेनसमायुक्तं तद्वर्णं बिंदु भूषितम् | रक्तभैरवमारूढं द्वितीयं वर्णमुत्तमम् || तद्वर्णं तस्य अग्रे तु शूलदण्डासनं कुरु | तृतीयं बीजमित्याहुर्वक्त्रंभैरवभूषितम् || चकारान्तं समुद्धृत्य अंबिका यत्र संस्थिता | मालिनीकंठ(मुख)वर्णं वै चतुर्थमक्षरं विदुः || य वर्गे आदि संबीजं पंचमं च समुद्धरेत् | पुनरेतानि बीजानि त्रीणि अग्रे व्यवस्थिताः || प्रथमं कामराजस्य वाणं शिरसि विन्यसेत् | अष्टाक्षरमिदं वाणं रक्तवर्णं तु संस्थितम् || कराली वर्णमुद्धृत्य आदि एकादशे स्थितम् | द्वितीयस्य स्थितं पूर्वं दहनी तस्य अग्रतः || नवकादि स्थितं वर्णं तत्रारूढं सुरेश्वरि | विश्वमालादि वर्णेन भूषितं बिन्दुसंयुतम् || वक्त्रस्थं भैरवं तस्य तृतीयं तस्य अग्रतः | चतुर्थी अंबिका देवी स्नायु रुद्रासनं कुरु || विश्वमालान्तसंयुक्तं मेषं तस्याग्रतः स्थितं | वागीश अग्रतस्तस्य षष्टमंचनसंशयः || पुनरेतानि बीजानि चत्वारः पुरतः स्थितः | दशाक्षरमिदं वाणं न्यसेद्वक्त्रस्य मध्यतः || ककुलीशं पुनश्चैव तृतीये पूर्वसंस्थितम् | प्. ४६ब्) मकारं यस्य ऊर्द्धे तु चुकारमग्रतः स्थितः || पृष्ठभैरववर्णं चरि अंतमासनं कुरु | लोकादि शिरसेदत्तं अर्घीशस्य द्वितीयकम् || पुनः संवर्त्तकं गृह्य रुद्रमालान्तसंयुतं | तृतीयं बीजमित्युक्तं तस्याग्रे भीममालिखेत् || पंचमं वायुवेगस्थं वामस्य शिखरे स्थितम् | पुनरेत्तानि बीजानि तस्याग्रे त्रीणि आलिखेत् || तृतीयं च महावाणं वसुवर्णं हृदिस्थितम् | त्रिमूर्त्तिभैरवं पूर्वं लस्थं क्रोधसमुद्भवं || मालिनी जिह्ववर्णेन भेदितं बिन्दुसंयुत्तम् | तृतीयं दीपनी बीजं ज्ञानशक्ति विभूषितम् || तारामध्यगतं गृह्य मेषस्यो परिसंस्थित्तम् | चतुर्थबिन्दुसंयुक्तं आषाढी नामनामतः || महाकालं पुनर्देवि ध्रुवादि संयुतं कुरु | क्रूरवर्णं शिरेदत्तं पञ्चमं बीजमुत्तमम् || देवी नेत्रं तृतीयं च अनन्तेन समन्वित्तम् | लोहितं सप्तमं बीजं दक्षकुक्षिसमुद्भवम् || वागीशं चाष्टमं योज्यं पुनश्चत्वारि अग्रतः | देवीवर्णाक्षरं वाणं चतुर्थन्नाभिमध्यतः || क्रूरं पूर्वसमुद्धृत्य सम्बकं तस्य अग्रतः | लोकान्तं पुरन्तस्तस्य द्वितीयमक्षरं विदुः || पुनस्तं संवकं बीजं अनन्तेन विभूषितम् | शूलदण्डासनारूढं चतुर्थं स्नायुसंभवं || पंचमं वायुवेगं च त्रीण्ये तान्यग्रतः पुनः | वर्गसंख्यानि विजानि पंचमो बाणसंस्थितः || प्. ४७अ) योनिमध्ये कृते न्यासो महासिद्धिकरो भवेत् | एतानि पंचवानानि कामबीजसमुद्भवाः || विन्यसेद्विधियोगेन पूजाकाले तु यत्नतः | देव्युवाच कामबीजानि वाणनि अङ्गवक्त्राणिथानि च | श्रूतं देवमयासर्वमुद्धारं त्रिपुरस्य च || अधुनाश्रोतुमिच्छामि पूजनस्य यथाविधिः | श्रीभैरव उवाच त्रिस्थानं त्रिपुरं विद्या दासनत्रयसंयुत्तम् || पीठत्रयं तथा बीजं रूपत्रयमुदाहृतम् | चर्यात्रीणिसमाख्याता उच्चारं त्रिविधं भवेत् || लयंत्रिविधमित्याहुः स्थाने स्थाने पृथक् पृथक् | एकैकस्य तु बीजस्य नव भेदाः प्रकीर्तीताः || भेदे भेदे स्थिता देव्या स्वस्थान नामसंयुता | पूजितव्या प्रयत्नेन आदिबीजेनसंपुटम् || एकान्ते विजने स्थाने पशु दृष्टि विवर्ज्जिते | शोभने गन्धयुक्ते च पूजयेत् तिपुरभैरवी || दिग्वासा मुक्तकेशश्च नेत्रे कज्जलभूषिते | पूजाकाले च कर्तव्यं सर्वसिद्धिप्रदायकं || त्रिवर्णं पंकजं देवि पूर्णपीठे व्यवस्थितम् | तप्तहेमप्रतीकाशं स बाह्याभ्यन्तरेषु च || आसनं तद्विजानीयात् पुरं ब्रह्मस्य कीर्तितम् | तत्र मध्यगतं बीजं वाग्भवं सुरपूजितम् || स्वमात्रा वेष्टितं कुर्यात् त्रिःप्रकारार्द्धमेव च | सुशुद्धहेमसंकाशं विस्फुरन्तं विचिन्तयेत् || तस्याङ्गे(न्ते) नव योगिन्यः पञ्चवाणस्तथैव च | प्. ४७ब्) वाचां सिद्धि करं दिव्यं पूजितव्यं प्रयत्नतः || पुनर्जालन्धरे देवि षट्पत्रं पङ्कजं शुभं | यथाबाह्ये तथा देहे रक्तवर्णं विचिन्तयेत् || तत्त्रिमात्रार्द्धसंयुक्तं कामराजं सुरेश्वरि | जवापुष्पनिभाकारं भ्रमन्तं चिन्तयेद् बुधः || नवदूति समोपेतं पंचवाणसमन्वितम् | महाक्षोभकरं देवि परं विष्णोः प्रकीर्त्तितम् || उड्डियानं पुनर्देवि अष्टपत्रं सुशोभनं | कुन्देन्दु तु हिनाभासं पुरं रुद्रस्य कीर्तितम् || कामोर्द्धे च महाबीजं पंकजस्थं तृतीयकं | निर्वाणं च समाख्यातं निर्वाण पद दायकम् || नवदेव्या समोपेतं पूजितव्यं प्रयत्नतः | महाशान्तिकरं दिव्यं मुक्तिदं विघ्ननाशनम् || पीतै रक्तैः सितैः पुष्पैः कर्पूरादि सुगन्धिभिः | फल्गुषं त्रिविधं देयं त्रिभि(त्रिषु)स्थानेषु योजयेत् || धूपं दीपं च नैवेद्यं तर्पणं च यथाविधिः | सर्वं संपूर्णतः कृत्वामुद्रयामुद्रितं कुरु || अथातः संप्रवक्ष्यामि मुद्राबंधं च यादृशं | सर्वसिद्धिकरं दिव्यं निर्विघ्नं विघ्ननाशनं || करमध्ये मुखं वामं दक्षिणं न भसन्निभम् | पृष्ठे पृष्ठयुतङकुर्यात् तर्ज्जनी कन्यसान्तरे || दक्षिणेस्य कृतं वामे वामाख्यां दक्षिणस्य च | अन्योन्य ग्रंथितं कुर्यादं गुष्ठेनदानामिकां || गृहीत्वातत्प्रयत्ने न वामेन दक्षिणेन तु | ज्येष्ठांगुलीषु कर्त्तव्यं अंकुशं अध ऊर्धतः || एषा सा द्राविणी मुद्रा वाणपूर्वां च दर्शयेत् | प्. ४८अ) तर्ज्जनीवामहस्तस्य ज्येष्ठा तस्योपरिस्थित्ता || नामिकाकन्यसा रुढा अंगुष्ठं तत्र मध्यतः | स्पर्शं चैव प्रकुर्वीत तर्ज्जन्या कन्यसाङ्गुली || क्षोभनी चैव विख्याता महाक्षोभकरी विदुः | दर्शितव्या प्रयत्नेन द्वितीय वाणसंयुता || महासिद्धिकराज्येषा त्रैलोक्य क्षोभकारिका | द्वौहस्तौ संपुटौ कृत्वा अन्योन्यग्रथितांगुली | तर्ज्जन्यादक्षहस्तस्य वामेकरे अनामिका | ग्रथितव्यं प्रयत्नेन वामस्य तर्ज्जनी तु या || तेनापि सव्यहस्तस्य गृहीत्वा तु अनामिकाम् | पुनरेव हि कर्त्तव्यं द्धोर्धौ मध्यमाङ्गुली || अंगुष्ठं वामहस्तस्य हस्तमध्ये नियोजयेत् | योनिमुद्रा त्वियं देवि सर्वसिद्धिकरी परा || तृतीयवाणयोगेन योनि स्थाने प्रदर्शयेत् | संकोच्य अंगुली त्रिणि अंगुष्ठे न निरोधयेत् || तर्ज्जनि वामहस्तस्य वामकर्णे नियोजयेत् | तर्ज्जयन्तीं दिशां सर्वां भ्रामयेन् नेत्र संयुतां || चतुर्थवाणसंयुक्तां महाविघ्नप्रशनीम् | मुष्टिबंधं च कर्त्तव्यं करेवामे च दक्षिणे || संयोगं तेषु कर्त्तव्यं तर्ज्जन्यौ च प्रसारयेत् | अंगुष्ठयुगलं चैव तेषु मूले नियोजयेत् || निरालंबा महामुद्रा पंचमे वाणसंयुता | दर्शितव्या प्रयत्नेन भुक्तिमुक्ति फलप्रदा || कामराजस्य ये देवि पंचवाणव्यवस्थिताः | तेषु बीजं द्वितीयं च एकैकस्य पृथक् पृथक् || प्. ४८ब्) तत्पूर्वं दर्शयेन्मुद्रां चतुर्वर्गफलं लभेत् | पुष्पं धूपं च नैवेद्यं जाप्यं पूजां तथैव च || तेजं गृह्णन्ति देवेशि भूताश्च राक्षसादयः | मुद्रया रहितानाञ्च प्रभवन्ति न संशयः || तस्मात् सर्वप्रयत्नेन मुद्रितं स फलं भवेत् | मुद्रितेन स्थितं तेजो मुद्रितं च स्थिरं व्रतम् || मुद्रितेन स्थिरापूजा मुद्रिते न स्थिरं परं | मुद्रयासिद्धिमाप्नोति यत्कामं तद्ध्रुवं लभेत् || मुद्रया रहिता देवि त्रिपुराविघ्नदायिका | तस्मात् सर्वप्रयत्नेन पूजान्ते मुद्रितं कुरु || येनवैवद्धमात्रेण द्रवते कामिनी जना | द्रावणी सा समाख्याता महाप्रीति करी शुभा || स्वर्ग्गे मर्त्ये च पाताले यास्त्रियो मदगर्विताः | तासां क्षोभकरीमुद्रा क्षोभणीक्षोभकारिका || सिद्धगन्धर्वकन्यानां देवासुर स पन्नगां | आनयेन्नात्रसंदेहो योनिमुद्रा प्रभावतः || दुष्टनारी कुराजानां शत्रूणां च विशेषतः | तर्ज्जन्यात्रासित्रास्सर्वे मोहं गच्छन्ति तत्क्षणात् || धर्म्मार्थ काम मोक्षं च राज्यं चैव विशेषतः | लभते नात्रसंदेहो वध्वा चैव निरामया || मुद्रित्तस्य गुणा ह्येते कथितानि मया तव | द्रावणी योनिमुद्रा च क्षोभणी तर्ज्जनी तथा || मुद्रा चतुष्टयं बद्धा निरालंवा च पंचमी | सर्वंसंपूंर्णतः कृत्या पूजान्ते जपमारभेत् || पूर्वं मध्यगतं कुर्ययादुभौ अन्ते नियोजयेत् | प्. ४९अ) नीत्वा त्रीणि परे तत्वे कामस्था त्रिप्रभेदिनी(रेश्वरी) || कूटं दीपशिखाकारं लयं कृत्वा मुहुर्मुहुः | पुनस्त्रीणि उभौ ह्येकं स्थाने स्थाने विलोमतः || एष जाप्यविधिः प्रोक्तो रहस्यं प्रकटी कृतम् | ब्रह्मचारी जितक्रोधी नक्त भोजी दृढव्रतः || अनेनैवविधानेन लक्षजाप्यं करोति यः | होमं चैव दशांशेन त्वामंत्रः स्थिरो भवेत् || ब्रह्मवृक्षोद्भवैः पुष्पै करवीरैर्जातीकादिभिः | क्षौद्रं लाक्षारसं क्षीरं अग्निकण्डे तु होमयेत् || सामर्थं तस्य देवेशि यद्भवेत् कथयाम्यहम् | ऋग्वेदोथयजुर्वेदः सामवेदो-अथर्वणः || इतिहासपुराणानि तर्कव्याकरणानि च | आगमानि अशेषाणि पंचवक्त्रोद्भवानि च || गीतं वाद्यं तथा नृत्यं कवित्वञ्च मनोरमं | ये भूता ये भविष्यन्ति विद्यास्यानानि यानि च || प्रत्यक्षं भवते सर्वमस्या विद्या प्रभावतः | यस्यकस्यायि मूर्खस्य स्त्रीकुमारस्य कन्यका || वागीशो भवते साक्षाद्भुजाग्रं यावन्मस्तके | राजा च राजपत्नी च राजकन्या तथैव च || ब्राह्मणी क्षत्रिणी वैश्या शूद्री वा वरवर्णिनी | क्षुभ्यन्ति साधकेन्द्रस्य ददन्ति विपुलं धनम् || आवर्त्त्यसप्तवाराणि यस्य नामविदर्भितम् | विंशद्गव्यूतिमानेन आनयेन्नात्रसंशयः || म्रियतेनात्रसंदेहो यदितेन न काम्यते | लक्षमेकेन जप्तेन होमं चैव यथाविधि || प्. ४९ब्) वागीशो भवति साक्षाद्रूपेणमकरध्वजः | भुंजते विपुलान्भोगानस्या विद्याप्रभावतः || लक्षद्वयेन जप्तेन सिद्धे होमकृतेन च | भवते नात्रसंदेहो भूपतिः साधकेश्वरः || यदा जपति चत्वारि लक्षानि साधकेश्वरः | आज्ञासिद्धिः प्रवर्त्तेन पातालं स्फोटयेत् तु सः || विलद्वारं समाश्रित्यशतमष्टोत्तरं तु सः | सिद्धार्थराजिकानाञ्च विलद्वारं तु ताडयेत् || क्षुभ्यंति नात्रसन्देहः कन्याः पातालवासिनीः | नागराक्षसदैत्यानां या स्थितावरयोषितः || आगच्छन्ति न संदेहो यत्रासौ साधकेश्वरः | नमस्कारं प्रकुर्वन्ति आदेशं या च यन्ति च || स्वर्गपातालमार्गेण प्रविश्य साधकेश्वरः | यदा न रोचते देवि अष्टलक्षजपं कुरु || देवदानव सिद्धानां स्वर्गपातालवासीनां | महाक्षोभं प्रकुर्वन्ति ददन्ति कामिकं फलम् || नवलक्षकृते जापे होमेन साधितेन च | कोटी चतुर्दशानाञ्च विद्याधरपतिर्भवेत् || इति पारमेश्वरीमतेमेरुमध्ये त्रिपुरोद्धारः पंचत्रिंशतिमः पटलः || देव्युवाच पूजाजपविधानं च मुद्रासामर्थयादृशं | त्रिपुरस्य महादेव निखिलं च श्रूतं मया || या सा संजीवनी विद्या जरामृत्युविनाशनी | यत्प्रसादेव(न) देवाश्च(वेश) अमराः परिकीर्तिताः || कथं सा मेरुमध्ये तु वर्णभूताव्यवस्थिता | उद्धारं कीदृशं तस्यास्तन्मे वद महाप्रभो || यस्य जाप्येन देवेश अमरत्वं च जायते | प्. ५०अ) उथानं मृतकानां च यस्याविद्या प्रभावतः || ऊन्च्लेअर् fरोम् हेरे (अथातः संप्रवक्ष्यामि वागीशी कालिकाम्पराम् | चामुण्डां मोहिनीं नित्यां कृतान्त्री मृत्युनाशनीम् || * *? खेचरी मायां तथा देवि सरस्वतीम् | त्रिपुरादि द्वयं गृह्य *?ककारेण विना ततः || नान्व मध्यगतं गृह्य पिनाक्यबीज बिन्दुना | वागीस्वरी परा देयाभूयो रुद्रादिमं भवेत् ||? लकुलि च महाकालि उद्धरेन्द्रो न शोणिनां | वाजनिद्धौ तत् प्राणं द्विधा रक्षासन स्थितं ||? त्रिमृत्युर्नुग्रहं क्रूरं * * * * * * * * | कृयामन्वी देवि मामातलोहितमुद्धरेत् ||? तत्*?नु यथा न्यायं नानुवादुति चोद्धरेत् | महाकालं * * * * * * * * * * * * || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * ||? ऊन्च्लेअर् उप्तो हेरे श्रीभैरव उवाच शृणु देवि परां गुह्यं विद्यापरमदुर्लभां | इन्द्राद्या देवताः | सर्वे आगताः पुरतो मम | स्तुतोहं विविधैः स्तोत्रैर्दिव्यवर्षशतंपुरा | ततो मया सु तुष्ठेन दत्ता अमरसुन्दरी | तेषुमध्ये महादेवि शुक्रेणष्ववतारिता || विंशाक्षरी महाविद्या दशदूती समन्विता | संजीविनी विविख्याता द्वित्तीयं नामकीर्तितम् || अमरत्वं ददेच्छीघ्रं मेरुमध्ये मयोद्धृता | दानवानां हितार्थाय शुक्रेण धारिता तु सा(क्रमेण साधिता पुरा) || देवी सुरे महायुद्धे ये म्रियन्ति महासुराः | तेषां जीवप्रदः शुक्रे अस्या विद्या प्रभावतः || तिष्ठते यस्य देहे तु विद्या दूती समन्विता | शतमष्टोत्तरं जाप्यं यः करोति दिने दिने || पूजाविधान योगेन तस्य वक्ष्यामि ये गुणाः | भूतप्रेतपिशाचानि अपमृत्युर्महाभयं || ज्वरशूलं तथा रोगं अस्त्राणि कुलिशादयः | संग्रामे जपमाप्नोति महाविघ्नैर्न्न भूयते || सिंहव्याघ्रभयं नास्ति यन्नगेषु तथैव च | तमहं संप्रवक्ष्यामि उद्धारं यादृशं भवेत् || ब्रह्मणे क्षत्रिये वैश्ये शूद्रे वा वरवर्णिनि | परीक्षितेषु दातव्यं कुलमार्गोपदेशिके || एकान्ते विजने स्थाने पशु दृष्टि विवर्जिते | चतुःशृंगं महामेरु मालिखेद्वरवर्णिनि || इन्द्रेह्यग्निर्यमश्चैव नैर्-ऋत्यं वरुणा निलं | प्. ५०ब्) कौबेरमीशपर्यन्तं दिशासु विदिशासु च || पंचरत्नेनसंपूर्णं वर्द्धन्यासहितं घटम् | श्रीखण्डचन्दने नैव श्वेतवर्णानि कारयेत् || दिव्यानि पुष्पवस्त्राणि वेष्टयित्वा पुनः पुनः | मणिरत्नमयं कुंभं अभावे कांचनं शुभम् || अथवौप्यमयं देवि पुरस्तस्य दापयेत् | पुष्पैर्धूपैश्च नैवेद्यैः पूजयित्वा पुनः पुनः || उद्धारं तत्र कुर्वीत विद्यां संजीवनीं पराम् | मेरुमध्यगतं यच्च ध्रुवं नाम(घ)प्रतिष्ठितम् || आदिवर्णं समुद्धृत्यवर्णनां जीवनं परम् | ध्रुवान्ते वर्णं अर्घीशमधस्तस्यव्यवस्थितम् || एकहस्तान्तसंगृह्य लोकादि भूषितं कुरु | द्वितीयं तु समाख्यातं भृगु वर्णं तृतीयकम् || पुनर्भृगुं चतुर्थे च शुक्रवर्णेन भूषितम् | मालिनी दक्षिणे पादे धात्रीशं यत्र संस्थितम् || अधस्तस्य(स्यां) स(न)मुद्धृत्य चतुरानन भैरवम् | जिह्वाशक्ति समोपेतं पंचमं बीजमुत्तमम् || मालिनी कंठ(मुख)संभूतं महासेन(मोकारस्येव)स्य ऊर्द्धतः | ऋतुवर्णं विजानीयान्मालिनी शिखमेव च || विश्वादि वर्णसंयुक्तं सप्तमं बीजमुत्तमम् | पुनः क्रूरेणसंयुक्तं जपन्ती अष्टमं भवेत् || ध्रुवादि आसनन्तस्य बीजं काल निवारणं | पुनस्तं वर्णमुद्धृत्य जयन्ती यत्र संस्थिता || सोपि विश्वादि वर्णेन त्रिमूर्ति संयुतं कुरु | मालिनी कण्ठ(मुख)वर्णं च कूर्मान्ताधो व्यवस्थितम् || सोपि बिन्दु युतं कुर्यात् स्नायु रुद्रालयं परं | प्. ५१अ) दशमं च समाख्यातं अमृतं जीवलक्सणम् || लोहित्तं च पुनर्वर्णं रुद्रान्ते पूर्वसंस्थितम् | शूलदण्डे समारूढं विश्वान्तेन विभूषितम् || उमाकान्तं पुनर्देवि द्वादशं केवलं(शवं) भवेत् | मालिनी या शिवादूती ग्रहमाला व्यवस्थिता || भुजंगं तु समारूढं पञ्चार्थ(प्रचण्ड)भैरवं | तस्य बिन्दु शिरे चैव अक्षरं विश्ववर्णकम् || आषाढी भैरवं यत्र तस्यान्तान्ते च व्यवस्थितम् | चतुर्दशं समाख्यातं सूक्ष्मरुद्रेण भूषितम् || भृगुरुद्रं समूद्धृत्य नान्तस्थं बिन्दु भूषितम् | तस्यान्ते क्रोधवर्णं च पूर्वमेकादशे स्थितम् || अमरीश रुद्रमारूढं बीजं षोडशमं विदुः | शूलं दण्डं पुनर्देवि ओंकारादि स्थितं पुनः || पुनस्तं भृगुकं रुद्र लोकान्तेन विभूषितम् | शुक्रमध्यगतं वर्णं यत्र भृगुर्व्यवस्थितः || स्नायुवर्णसमारूढं विश्वन्तेन विभूषितम् | अंबिका तस्य अग्रे तु लकुली यत्र भैरवः || अनन्ते न समायुक्तं उक्तं विंशाक्षरी भवेत् | अस्याङ्गानि पुनर्देवि ये भूता कथयाम्यहम् || नामवर्णादि संगृह्यविद्यामूले तु संस्थिता | हृदिन्यासं प्रकुर्वीत नमोन्तं वरवर्णिनि || तस्यान्ते भूतवर्णानि शिरन्या प्रतिष्ठितम् | स्वाहान्तं तद्विजानीयाद्वेदवर्णाक्षरी शिखा || वौषडन्तेन संयुक्ता अपमृत्युविनाशनी | कवचे त्रीणि(षड्) बीजानि हुंकारान्ते व्यवस्थिता || प्. ५१ब्) द्वौ वर्णो नेत्रमध्ये तु तस्यान्ते ये प्रतिष्ठितं | वषडन्तं विजानीयात् त्रीणि अस्त्रे(ग्रे)व्यवस्थितं || तस्यान्ते च फडित्याहुः षडङ्गं कालवंचनम् | अस्यदूती प्रवक्ष्यामि शृणुष्वैकाग्रमानसा || पूजितव्याप्रयत्नेन दशैताः सिद्धिदायिकाः | प्राणाद्या वयवः पंच ह्रींकारादि समुद्धरेत् || संजीवनी तदग्रे च नमोन्तं पूजनं कूरु | चतुर्दशानि वर्णानि ऐन्द्रभागे प्रपूजयेत् || नागाद्यास्त पुनश्चैव तस्याग्रे वायुमुच्चरेत् | संजीवनी च तस्याग्रे दूती चतुर्दशाक्षरी || भक्तियुक्तो महादेवि अग्निकोणेषु पूजयेत् | धराद्याः पंचभूतानि अग्रे संजीवनीं कुरु || ह्रींकारादि समुद्धृत्य नमोन्तं दक्षिणे स्थितम् | पूजितव्यां प्रयत्नेन दूती चतुर्दशाक्षरी || शब्दादि इन्द्रियाणां च मायाबीजेन मोहितम् | संजीवनी च तस्याग्रे नमोन्तं कुरु नैर्-ऋते || नमः संजीवनी चैव मायाबीजादि मुच्चरेत् | नमोन्तं नव बीजानि पश्चिमेन प्रपूजयेत् || मायादि बुद्धिरुच्चार्य उक्तसंजीवनीं पुनः | नवबीजात्मिका ह्येषा अनिलस्था प्रपूजयेत् || संजीवनीं पुनश्चैव अहंकारादि संभवेत् | मायादि पूजनं तस्य कौबेरे रुद्रवर्णगाः || ईशाने सत्व(नव)मित्याहुरग्रे संजीवनीं पुनः | पूर्वन्तस्य समुच्चार्य मायाबीजं सुरेश्वरि || अस्यापि नव बीजानि रजोमध्यस्थितं कुरु | अग्रे संजीवनीं चैव ह्रींकारादि नमोन्तिकम् || प्. ५२अ) मायाबीजं नमोच्चार्य पुनः संजीवनी युतम् | मध्यस्थं पूजनं कुर्यात् पद्मे वृ(सु)दलेषु च || सिते पीढं सितैः पुष्पैर्धूपं दीपं स चन्दनम् | नैवेद्यं विविधञ्चैव तस्याग्रे च निवेदयेत् || मुद्राबंधं प्रकुर्वीत जाप्यं च तदनन्तरम् | अस्य मुद्रां प्रवक्ष्यामि स्थैर्यी करणमुत्तमम् || पञ्चवक्रोद्भवा विद्या येन कालो वशी कृतः | अन्योन्य करपृष्ठानि अंगुली ग्रंथितं कुरु || सव्याङ्गुष्ठेनवामस्य कन्य सा च निरोधयेत् | पुनरेव हि कर्तव्यं वामेन दक्सिणस्य च || वामे ज्येष्ठांगुली चैव तर्ज्जन्या दक्षिणेन तु | गृहीत्वा तत्प्रयत्नेन दक्षिणस्य तथैव च || मध्ये अनामिके द्वे तु उद्धृतव्यासु यत्नतः | कालसंकर्षणी नामपंचवक्त्राव्यवस्थिता || अनेनैव विधानेन पूजितव्या प्रयत्नतः | एषा विद्या परागुह्या जीवाख्या मृत्युनाशनी || न तस्या जायते मृत्युर्यदा साधयते तु सः | व्रत(ध्रुव)चर्यया समोपेतं ब्रह्मचारी दृढव्रतः || जपते दशलक्षाणि लक्षहोमं तु गुग्गुलुं | शरीरस्था भवेद् देवि अमरत्वं प्रयच्छति || दीर्घायुः स(य)सुराः सर्वे अस्या विद्या प्रभावतः | इतिपारमेश्वरीमते संजीवनीविद्या उद्धारः षट्त्रिंशतिमः पटलः | देव्युवाच रुरुभेदे महातन्त्रे पूर्वोक्तं यत् त्वया प्रभो | उद्धृता तत्र मध्ये तु नित्या च मदनोत्कटा || प्. ५२ब्) वज्रप्रस्तारभेदेन कुलनित्या तथोद्धृता | पुनस्तस्यैव मध्ये तु विद्या च द्वादशाक्षरी || आसनं पंचवाणानि सर्वदूती समन्वितम् | करणविज्ञानयोगं समाधीर्यादृशी भवेत् || स्तंभनं कीलनं चैव मारणोच्चाटनन्तथा | सुवशी करणंस्त्रीणां सौभाग्यं यादृशं भवेत् || कथं केन प्रकारेण सिद्ध्यते च कदाचन | किमर्थं तेन सिद्ध्यन्ति साधकानां सुरेश्वर || महासंदेहमुत्पन्नम्महाभ्रान्ति क्षयं कुरु | श्रीभैरव उवाच शृणु देवि प्रवक्ष्यामि यत् त्वया परिपृच्छितम् | वर्णानि बिंदु मात्राणि संप्रदायन्तथैव च || कुलमार्गे स्थितं शुद्धं ज्ञातव्यं मेरु मध्यतः | अन्येषु सर्व तन्त्रेषु पंचवक्रोद्भवेषु च || जीववर्णविहीनास्ते सिद्धविद्या अनेकधा | स जीवं निखिलं चैव बीजसंकरवर्जितम् || संपूर्णसिद्धिदं चैव मेरुमध्ये व्यवस्थितम् | तमहं कथयिष्यामि संपूर्णं च यथा भवेत् || वज्रप्रस्तारभेदेन या विद्या द्वादशाक्षरी | त्रिबीजरहिता सास्यादादिमध्यान्तमेव च || तस्योद्धारं प्रवक्ष्यामि यन्मया गोपितं पुरा | भारभूति स्थितं रुद्रं यस्य पूर्वे सुरेश्वरि || वामान्तं यद्भवेद्वर्णं तद्बीजं प्रथमं भवेत् | उच्चारं बिन्दुयुक्तं च तस्यान्ते अंबिका भवेत् || रक्तवर्णसमारूढं लोकादि शिरसि स्थितम् | ध्रुवमालादि संभिन्नं द्वितीयं बीजमुत्तमम् || प्. ५३अ) उर्द्धे यस्य ऋकारं च स्वेतं रुद्रं पुरःस्तितम् | तद्वर्णं गृह्यमेधावी मांसवर्णासनं कुरु || ऋपूर्वं च शिरोदत्तं गुह्यंतमग्रतस्थितम् | वामादि शिरसे तस्य ऋ(अ) आदि केवलं विदुः || पंचमञ्च समाख्यातं बीजं वर्णासनं परं | पूर्वमेकादशे वर्णं उधृत्य वरवर्णिनि || रुद्रान्तं शिरसे चैव दीपनी आसनस्थितम् | ऋ(ऌ)पूर्वं शिरसेदत्तं तत् षष्ठमं कुशाक्षरम् || अस्याविद्यादिमं बीजं अंकुशाग्रे नियोजयेत् | सप्तमं च समाख्यातं बीजं परमदुर्ल्लभम् || आषाढी यस्य ऊर्द्धे या? रोमध्ये व्यवस्थितम् | तद्वर्णं सूक्ष्मसंयुक्तं अष्टमं चाक्षरं विदुः || मालिनी उरुमधे तु यत्र तारा व्यवस्थिता | वागीशमानारूढं ऋपूर्वं च शिरे(व्यव)स्थितम् || नवमं बीजमित्युक्तं नितंबं केवलं पुनः | ऋषिमाला तृतीये तु तद्वर्णं संस्थितं विदुः || फान्तं वर्णं समुद्धृत्य छि(त्रि)-ऊर्द्धे संस्थितं च यत् | केवलं तद्बिजानीयाद् बीजमेकादशं भवेत् || पुनस्तं रक्तमारूढं द्वादशम्बीजमुत्तमम् | ऊर्द्धे च अंबिका देवी वामे मध्ये व्यवस्थिता || त्रयोदशं च इत्युक्तं शिरे(र) यस्य ऋपूर्वकम् | अस्याविद्यादि अन्तस्थं तबीजमग्रतस्थितम् || अस्यान्ते च पुनर्देवि आदिमं च नियोजयेत् | एषा सा परमा विद्या निखिलासिद्धि दायिका || उत्पन्ना मेरुमध्ये तु विद्यापंचदशाक्षरी | प्. ५३ब्) पुनरन्यं प्रवक्ष्यामि आसनस्य यथाविधि || ऋ अन्तं प्रथमं बीजं मालिनी कुसुमा युधम् | ल(न)कुलीशं तदग्रे तु ध्रुवान्तमध(ध्य)संस्थितम् || दीपनी आसनारूढं विश्वादि भूषितं कुरु | क्रूरेण शिरसाक्रान्तं द्वितीयं बीजमुत्तमम् || ई-अंते अधः संगृह्यपूंतना तस्य आसनम् | ऋपूर्वे शिरसिदत्तं सोपि बिन्दुयुतं कुरु || शुक्रमध्योद्धृतं देवं लोकान्ते संस्थितं कुरु | चतुर्थं बीजमित्याहुस्तस्या विद्यादि अग्रतः || पंचबीजमयं दिव्यं मूलविद्यासनं भवेत् | पंचवाणानि ये प्रोक्ता तेषुभूताक्षराणि च || एकैकमाद-ऊद्धृत्य संपूर्णाश्च भवन्तिते | एकादशादि उद्धृत्य भ्रान्तान्तं तस्य दापयेत् || रुद्रादि अन्तं संगृह्य झण्टीशेनसमन्वितम् | नवके ऋतुकोष्ठस्य हकारं यस्य ऊर्द्धतः || चतुर्थं तद्विजानीयात् स्नायु रुद्रालयं परम् | नवके नाममध्ये तु बिल्वमध्ये व्यवस्थितम् || आसनं वेदवर्णानां ककारादि स्थितास्तु ये | तृतीयेन विना देवि त्रिमूर्त्तिं त्रीणि भेदिता || सर्वे बिन्दुयुताः कार्याश्चत्वारि अक्षराणि च | पंचमं आदिदातव्यं अन्तं बिंदु संयुतम् || बिन्दुमस्तक योगेन पंचैते सिद्धिदायकाः | एतानि पंचबीजानि पंचवाणेषु दीपकाः(नाः) || अनेनरहिता देवि निष्फलानि भवन्ति ते | आसनं पंचवाणानि मूलविद्या तु दूतयः || प्. ५४अ) यत्कर्म्म अत्रमध्ये तु मारणोच्चाटनादयः | पूर्वोक्तं यन्मयादेवि रुरुभेदे च मध्यतः || वज्रप्रस्तार भेदेन उद्धृता ये मया पुरा | अनेनैव विधानेन सफलानि भवन्ति ते || निर्बीजा नैव जायन्ते संप्रदायविवर्ज्जिताः | स विघ्नास्ते समाख्याता निर्बीजन्नैव पूजयेत् || देव्युवाच या सा विद्या त्वया प्रोक्ता त्रैलोक्य क्षोभ कारिका | यस्याविद्या प्रसादेन सिद्धोसौ मकरध्वजः || द्वितीया च ततो देव पुनस्तस्य क्षयंकरी | कीदृशं च भवेच्चापं वाणानि कीदृशानि च || कीदृशं च स्वप्रोक्तम्मूलविद्या तु किदृशी | सामर्थं कीदृशन्तस्य कथं चैव स सिद्ध्यति || एतत् सर्वं महादेव प्रसादं कुरु भैरव | श्रीभैरव उवाच अत्र मध्ये समुत्पन्ना विद्याकामाङ्गनाशनी | अष्टाविंशति वर्णानि कामनिर्नाशनी परा || षड्वर्णरहिता सा तु कामसंजीवनी तु(पु) सा(रा) | धनुषं पंच वाणानि मूलविद्या समर्पिता || एतानि क्रमयोगेन त्रैलोक्यं मोहयन्ति ते | आराधितोहं पूर्वं तु विष्णु पुत्रेण धीमता || ततो मयासुतुष्टेन कामविद्या समर्पिता | शराणि धनुषं चैव मूलविद्या तु यादृशी || एतानि वर्णभेदेन मंत्ररूपा व्यवस्थिता | जाप्यहोम मनुष्टानं मुद्रापुष्पाणि यानि च || आसनं विधिसामर्थ्यं तत्सर्वं प्रकटी कृतम् | हेमकूटे गता(तदा) देवि गृहीत्वा केशवस्ततः || प्. ५४ब्) तत्रवर्षसहसार्द्धं विद्याराधनतत्परः | वर्णलक्षप्रमाणेन पूर्वं वाणजपं कृतम् || कृतं होमदशांशेन पुष्पैस्तै परिजातकैः | घृतेनमधुसंयुक्तं हुतं हव्यं हुतासने || द्वितीयं च पुनर्देवि तस्यापि चे दृशी क्रियां | वर्णलक्षप्रमाणेन सोपि जप्तो न संशयः || अशोककुसुमैः क्षीरं होमन्तस्य समर्पितं | जाप्यं कृतं चतुर्थ(तृतीय)स्य चतुर्ल्लक्षप्रमाणतः || करवीरकुसुमैरक्तैर्हुतं घृतविमिश्रितम् | जातीपुष्पैश्चतुर्थं च जलमध्ये जपं कृतम् || तस्यापि तादृशी संख्या पंचमन्तदनन्तरं | सोपि क्षीरसमुद्रस्थं वर्णलक्षप्रमाणतः || कृतं जप्तं विधानेन सिध्यते वरवर्णिनि | चापवद्वर्तुलाकारं लताजाति समुद्भवं || सिद्धतस्य न संदेहो मूलविद्या जपं कृतं | स्म इत्वंतेन संप्राप्तं अस्याविद्याप्रभावतः || स्वर्गे मर्त्ये च पाताले भूतग्रामे चतुर्विधे | द्वि पदे चतुष्पदे चैव अपादे पादसंकुले || अधिकारं मयादत्तं कामदेवस्य सुन्दरि | प्रविष्टः सर्व देहेषु सृष्टिरूपाव्यवस्थिता || पुनरन्यं प्रवक्ष्यामि उद्धारं यादृशं भवेत् | यादता कामदेवस्य शृणुष्वैकाग्रमानसा || पञ्चप्रणवादि उद्धृत्य क्रोधवर्णं द्वितीयकं | सकारस्य अधश्चैव आसनं तस्य दापयेत् || ध्रुवमाला(ना)दिसंयुक्तं अंबिका तस्य मूर्द्धगा | लोकादि शिरः संयुक्तं द्वितीयं बीजमुत्तमम् || प्. ५५अ) नवके वाम ऊर्द्धे तु जुकारस्य अधस्थितम् | नागमध्यगतं देवि आसनं तस्य दापयेत् || त्रिमूर्त्ति सहितं कुर्या च्छूलदण्डासनस्थितम् | तृतीयं बीजमित्याहुर्बिन्दुमस्तकभूषितम् || अं-आदिवर्णं (स)मुद्धृत्य शिव(र)स्य अधःसंस्थितम् | अनन्तेन समायुक्तं बिन्दुमस्तकभूषितम् || अर्घीशस्य अधश्चैव स्नायु वर्णोर्द्धसंयुतम् | आसनन्तस्य देवेशि भृगुं च भैरवं कुरु || दीपिनी शक्तिमारूढं क्षे-अंतेन तु भूषितम् | पंचमं बिन्दुसंयुक्तं जीवाकृष्टि करंपरम् || पुनस्तं भृगुकं देवि तस्याग्रे केवलं विदुः | पुनस्तं शूलदण्डं च स्नायु वर्णासनं कुरु || देवशुक्रसनोद्धृत्य शूक्ष्मरुद्रेणभेदितम् | शूलदण्डसमारूढं अष्टमं बीजमुत्तमम् || ककारान्तं समुद्धृत्य कैवल्यवर्णभूषितम् | मातरादि समारूढं नवमं सृष्टि दायकम् || चान्तस्य(वान्तं) अव(तस्य)संगृह्य भूतेषु वेदमन्दिरे | त्रिमूर्त्तिसहितं कुर्यात् त्रिशूलन्तेषु अग्रतः || अनन्तं पूर्वतः कृत्वा तस्यान्ते क्रोधमालिखेत् | क्रोधान्तरक्तमूर्द्धस्थं ककारान्तं नियोजयेत् || तस्याग्रे त्व च बीजं च पूर्णिमायान्ततोद्धरेत्(वयं) | विद्यादौ पंचबीजानि अन्ते कुर्याद् विलोमतः || द्वात्रिंशदक्षरी विद्या संभूता मेरू मध्यतः | एषा विद्या परागुह्या पंचवाणसमन्विता || अस्याधारणयोगेन सिद्धोसौ मकरध्वजः | सिद्धविद्याधरादैत्या यक्षगन्धर्व किन्नराः || प्. ५५ब्) मानुषापन्नगाश्चैव ये चान्ये सा काः प्रिये | विद्याराधनयोगेन कामदेव समास्तुते || यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा | संपर्कालापयोगेन विह्वलं भव(ज)ते जगत् || द्रवन्ति दर्शनाअद्देवि त्रैलोक्ये योषितस्तु याः | क्षोभयेन्नात्रसंदेहो मुनीनां च मतः प्रिये || पूजनान्तेन देवेशि त्रैलोक्यं वशगं भवेत् | स्त्रीणां चैव विशेषेण महासंमोहकारकम् || तिष्ठते यस्य देहस्या विद्यावाणेषु संयुता | सततं जपमानस्य शतमष्टोत्तरस्य च || कामदेवः स्वयं साक्षात्मानुषं देहमाश्रितः | इतिपारमेश्वरीमते वज्रनित्याकामदेव्या उद्धारे सप्तत्रिंशतिमः पटलः || देव्युवाच पूर्वोक्तं यत्त्वयादेव गर्भयागं सुदुर्ल्लभं | अपुत्रमानुषीणां च सुतोत्पत्तिः कथं भवेत् || तन्मे ब्रूहि महादेव मानुषाणां हिताय वै | श्रीभैरव उवाच या सा विद्या महागुह्या काम देवेन साधिता | तेनैव विधियोगेन गर्भद्यागं वदाम्यहम् || सृष्टिर्ब्रह्ममयासापि उत्पन्नामेरुमध्यतः | तमहं संप्रवक्ष्यामि विधानं यादृशं भवेत् || सुशुद्धे भूप्रदेशे च कृत(क्ष)वल्मीक वर्ज्जिते | प्रविश्यब्राह्मणीं भूमीं श्वेतपीता चर्या भवेत् || क्षत्रिणानृपभयावः(मित्याहुः) पीतवर्णा च केवला | किंचिद्रक्तमयापीता वैश्या नामवसुन्धरा || रक्तकृष्णमयी या तु शूद्री सा परिकीर्त्तिता | प्. ५६अ) यस्य यस्य हि वर्णस्य गर्भयागं च कारयेत् || तस्यतस्यांशके भूमीं गृहीत्वा फलदा भवेत् | अन्यवर्णान्य भूमीषु स विघ्नानि भवन्ति च || आचार्येण कृते देवि यजनं निष्फलं भवेत् | तस्माद्भूमीं परीक्षेत यजनं तु सदा कुरु || शोभने भूप्रदेशे च हस्तमुद्धृत्यमृत्तिकां | कुटि?तव्यं प्रयत्नेन क्षीरदारुसमुद्भवैः || मुद्गरैः शोभनैश्चैव इष्टं चूर्णेन शोभितम् | अष्टहस्तप्रमाणेन तत्रस्थानं सुशोभनं || वेदीं कृत्वा प्रयत्नेन क्षीरदारु समुद्भवम् | स्वेतानि कुंभयुक्तानि चत्वारि तोरणानि च || चूतपल्लवसंभूतैर्म्मार्ज्जयित्वा च वेदिकां | तत्रमध्यगतं कुण्डं षट्कोणं मण्डलं प्रिये || कोणे कोणेषु कर्त्तव्यं वर्द्धन्या सहितं घटम् | पंचरत्नेनसंपूर्णं शुद्ध * *?समन्वितम् || पुष्पवस्त्राक्षतैर्दीपैः परिपूर्णानि कारयेत् | माङ्गल्यं गीतवाद्यञ्च चतुर्वेदमयी ध्वनिः || अरस्थं पावकं गृह्यक्षीरदारु समुद्भवम् | प्रक्षिप्तं कुण्डमध्ये तु इन्धनं च ततोद्भवम् || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | उक्तं मन्थान भेदेन अमराग्न्धोयं मया पुरा || कुलद्रव्यानि संगृह्य तेषु पिण्डसमुद्भवः | षष्टितं दुनप्रस्थं च क्षतलीनं सुनिर्म्मलम् || गवांक्षीरेणसंयुक्तं ताम्रपात्रं सुशोभने | कुलाचार्येण कर्त्तव्यं साधनं चरुकस्य च || मुद्रया मुद्रितं कृत्वा चतुर्दिक्षुवलिं हरेत् | भूमी कुंभाक्षता दीपाः कुण्डारणिहविस्तथा || प्. ५६ब्) पंचभूतेषु संभूताः पंचद्रव्यानि यानि च | (पात्रं उदकाद्यानि यानि च) मूलविद्या तु देवेशि कुर्यात् सप्ताभि मन्त्रिता || पूजयित्वा प्रयत्नेन अग्निस्थं चरुकं कुरु | यावत् तत्सिध्यते देवि तावन्मन्त्रं मनुस्मरेत् || आसनं वामसंयुक्तं मौनं कुर्यात्सुयत्नतः | अस्यमन्त्रप्रसादेन सिद्ध्यते नात्रसंशयः || अवतार्यसुयत्नेन यावद्भवति शीतलम् | ऋतुकाले तु संप्राप्ते चतुर्थे पंचमे पवा || सुगन्धैः शोभनैर्द्रव्यैः स्नानं कृत्वा सुयत्नतः | पीठे चतुष्कमध्ये तु उपविश्य सुखासने || नमस्कारं प्रकुर्वीत भक्षितव्यं प्रयत्नतः | दक्षिणाचारयोगेन पुरुषं(पुमान्?) भवनिर्मितम्(भवति निश्चितम्) || वामेकन्या समाख्याता उभये तु नपुंसकम् | सर्वेषु दक्षिणान्दद्याद्विप्रेषु साधकेषु च || चारणेषु कुमारीषु ये चान्ये लिङ्गधारिणः | आचार्यं पूजयेद् देवि राजाश्च रत्नकांचनैः || गोदानं भूमिदानं च अन्नदानं तथैव च | दिव्याभरणवस्त्राणि प्रणिपत्यनिवेदयेत् || गर्भयागमिदं देवि कुलमार्गे व्यवस्थितम् | न देयं पशुलोकेषु आगम द्वेषकारके || कौलिकं चरुकं दिव्यं दीक्षितस्य प्रदापयेत् | अन्यथा सिद्धिहानिः स्याद्भवते नात्रसंशयः || इति पारमेश्वरीमतेगर्भयागे अष्टत्रिंशतिमः पटलः | देव्युवाच पूर्वे मृगावतारे च अनुष्ठानं त्वया कृतम् | युष्मद्देहे समुत्पन्ना योगिन्यः षड्विधानि च || प्. ५७अ) कोटीमेकं स पादञ्च उग्रतेजा महाबलाः | तेषु(तामिस्)त्वं प्रार्थितो देव आत्मपिण्डं ददस्व मे || युस्मत्पिण्डेन भुक्तेन अलिनामिश्रतेन च | सर्वास्ता तृप्तिमायान्ति चक्रस्थाः क्रीडयन्ति च || त्वया उक्तं पुनर्देव गृह्णगृह्णेति भाषितम् | आत्मरक्षाकृता चैव वज्र चक्रस्य मध्यतः || मयापि ईऽऽदृशी वार्त्ता श्रुता कैलासमध्यतः | महाक्रोधसमुत्पन्ना ममदेहाद्विनिर्गता || भासयन्ती जगत्सर्वं द्वादशादित्य सन्निभा | भक्षयामि न संदेहो योगिनी चक्रमुत्तमम् || ततो ब्रह्मादयो देवा आगताः पुरतो मत | स्तुतोहं विविधैः स्तोत्रैर्योगिनीसंघरक्षितम् || ज्ञात्वा तेजश्च बीजं च वर्ण भूता त्वया कृतं | त्रोतलानामविख्याता दशदूती क्षमन्विता || तस्याङ्गानि च चक्रानि आसनं मुद्रया सह | युक्ता युक्तानि कर्म्माणि निग्रहानुग्रहाणि च || सप्तकोट्ययुतानां च पूर्ववक्रेण भाषिता | तत्र मध्ये समुत्पन्नं तोतलं तंत्रमुत्तमम् || स पादलक्षमानेन या विद्या तत्र संस्थिता | कीदृशं तत्र सामर्थ्यं कर्माणि कीदृशानि च || श्रीभैरव उवाच त्रोतलं च महातन्त्रं पूर्व वक्त्रात्समुद्भवम् | अत्रसिद्धो महादेवि सूर्यवंशे प्रजापतिः || तनापि भयभीतेन त्रिभिर्म्मन्त्रैस्तु मुद्रिता | आदिमध्यावसानेषु वर्णमात्रादि मेन हि || पुनरेव त्रिभिर्म्मुद्रेरुट्घाटं तस्य कीदृशं | प्. ५७ब्) मुद्रास्त्रिस्रः समाख्याता मेरुमध्ये व्यवस्थिता || पारंपर्यक्रमेणैव गुरुवक्त्रात् तु लभ्यते | उद्घाटरहिता विद्या सिद्ध्यते न कदाचन || महाविघ्नं च कुरुते सुतदारार्थनाशनं | व्याधिश्च शोकसंताप दुःखानि विविधानि च || तस्मात्सर्वप्रयत्नेन सम्यगुद्घाटनं कुरु | उद्घाटिता महाविद्या स जीवासफला भवेत् || सिध्यते नात्रसंदेहश्चतुर्वर्ण(र्ग)फलप्रदा | मेरुमध्य गता देवि यथा भवति तच्छृणु || ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | कुलाचार्येणकर्त्तव्या गुटिकां शुभलक्षणाम् || पुनस्तां मूलविद्याया(द्यया) कुर्याद्विंशाभि मन्त्रिता | पादादारभ्यमूर्द्धान्तं विद्या(स्था)नानियानि च || कर्त्तव्यं क्रमयोगेन तिलकं साधकेन तु | महारक्षा समाख्याता त्रैलोक्ये स चराचरे || विघ्नं नैवप्रकुर्वन्ति नागाविद्याधरादयः | आसनं च ततः कुर्यात् सिंहं च विकृताननम् || तस्योद्धारं प्रवक्ष्यामि मेरुमध्ये यथास्थितम् | शिवस्य अर्द्ध(मुख)पूर्वस्थं रुद्रं संवर्त्तकं विदुः || क्रूरानन्देनसंयुक्तं बीजं पञ्चाननस्य च | संवर्त्तकस्य पूर्वेण द्वितीयं चाक्षरा भवेत् || तस्य पूर्वे पुनर्देवि तृतीयमक्षरं भवेत् | वामे मध्यगतं गृह्य नवके स्नायु भैरवम् || चतुर्थञ्च समाख्यतं जयन्ती पुरतः स्थितम् | भुजंगमासनन्तस्य पंचमं बीजमुत्तमम् || रुद्रमध्यगतं गृह्य ज्ञानशक्ति विभूषितम् | तस्यन्ते अंबिका देवि सप्तमं च सदालिखेत् || प्. ५८अ) ऋकारादि समुद्धृत्य ध्रुवादि आसनस्थितम् | भुजंगञ्च पुनर्देवि ज अन्ते आसने स्थितम् || पुनरेतानिवर्णानि उभौ अग्रे नियोजयेत् | क्रोधरुद्रोद्भवं वर्णं क्षे मध्ये व्यवस्थितम् || त्रिमूर्त्तिभूषितं कुर्याल्लोकादि संयुतं कुरु | द्वादशं च महादेवि बीजं पंचाननस्य च || वेनमध्यगतं गृह्यध्रुवं यस्य अधः स्थितम् | विश्ववर्णं च विख्यातं तस्यान्ते(त्रे) वालमध्यगं || एतद्वै वर्णयुगलं अस्याग्रे तु पुनर्लिखेत् | ततो मध्यगतं देवि खि(आ)कारस्य अधः स्थितम् || केवलं च समुद्धृत्य बीजं सप्तदशाक्षरम् | मालिनी वायुवेगा च वामेशिखरसंस्थिता || शिरसि तस्य दातव्यं भुजंगन्नात्रसंशयः | पुनरेतानि बीजानि युगल तस्य चाग्रतः || प्राणव(णान्त)र्णं समुद्धृत्य तस्यान्ते पुरतः स्थितम् | हुं अन्तं च पुनर्देवि अनन्तेनसमन्वितम् || क्रूरवर्णं शिरेदत्तमासनं समुदाहृतम् | पंचाननं समाख्यातं उग्रबीजं महाबलम् || स धर्मं नारसिंहं च विंशद्वर्णं त्रयाधिकम् | अस्य जापेन देवेशि लक्षजापेन यद्भवेत् || ये के चिद्ग?जसंघातास्त्रिस्थानमदविह्वलाः | तस्य दृष्टि निपातेन मदहीना भवन्ति ते || गन्धेन प्रलयं यांति विद्रवन्ति दिशोदशः | सिंहव्याघ्राश्च नागाश्च भूतप्रेताश्च राक्षसाः || असनीर्वज्रसंघातं क्षुद्र कर्माणि यानि च | विषयन्त्रं(न्तं) न(त्र) तस्यास्ति महाविघ्नानि यानि च || प्. ५८ब्) आसनेन तु सिद्धेन महारक्षा च जायते | आसनेन विना देवि महाविघ्नैर्विभूयते || अथातः संप्रवक्ष्यामि मूलविद्या तु यादृशी | निखिला विघ्नहीना च स जीवा यादृशी भवेत् || प्राणवर्णं समुद्धृत्य सूक्ष्मरुद्रेणसंयुतम् | लोकादि शिरसाक्रान्तं त्रिमूर्ति संयुतं कुरु || पुनस्तद्वर्णमुद्धृत्य ध्रुवान्ते आसनस्थितम् | नादबिंदु शिरेदत्तं द्वितीयं बीजमुत्तमम् || भारभूतिरधो गृह्य शिखरे उर्द्ध्वसंस्थितम् | झण्टीशेनसमायुक्तं देवी वक्त्राक्षरं परम् || मनोमध्यगतं देवी(गृह्य) कूर्मरुद्रालयं परम् | रुद्रबीजं समाख्यातं कंठस्थं त्वरितस्य च || सिंहमध्यगतं गृह्य ध्रुवस्य अधः संस्थितम् | ज्ञान(क्रिया)शक्ति शिरेदत्तं हृ(त)द्बीजं शक्तिसंस्थितम् || संवर्त्तकं समुद्धृत्य सूक्ष्मरुद्रेणसंयुतम् | नाभिवर्णं विजानीयात्त्रोतलस्य न संशयः || भृगुवर्णं पुनर्देविसि पूर्वेयद्व्यवस्थितम् | नागमध्यासनारूढं ऌ आदि भेदितं कुरु || ऌपूर्वं च शिरेदत्तं शूलदण्डासन स्थितम् | विष्णुबीजमिदं प्रोक्तं तद्गुह्यं त्वरितस्य च || पुनः संहारिणी देवी मालिनी नाभिमण्डले | ज्ञानशक्ति समायुक्तं ब्रह्मबीजं सुदुर्ल्लभम् || ऊरुभ्यां संस्थितं देवि त्रोतलस्य वरानने | नवकादिरिपूर्वस्थं प्राणान्तस्यो परिस्थितम् || बिंदुमस्तकसंभिन्नं अर्घिशासनसंस्थितम् | सूर्यबीजं विजानीयाज्जातुभ्यां देवि संस्थितम् || प्. ५९अ) भूतादि संस्थितं वर्णं वामपादे च(न) मालिनी | तस्याग्रे तु पुनर्देवि वर्णं सोमेश्वरस्य च || ध्रुवादिखण्डमारूढं पादानि त्वरितस्य च | एषा देवि समाख्याता विद्या परम दुर्लभा || निखिला च समाख्याता सिद्ध्यंते नात्रसंशयः | देव्युवाच पूर्वं देव त्वयाख्यातं मुद्रितात्व(न्त)रिता स्थिता | तेन(तत्र) जानाम्यहं नाथ कीदृशानि भवन्ति ते || श्रीभैरव उवाच यो सौ प्रजापतिः सिद्धो अस्याविद्या प्रभावतः | तेनापि(एतानि)पूर्ववक्त्रे तु गृहीत्वा त्रोतलोत्तरम् || उद्धृत्य त्वरिता विद्या त्रिभिर्मुद्रैस्तु मुद्रिता | तेजोहीनं कृतं सूर्यं मात्राहीनं विहंगमम् || शिरेवर्णविहीनं च एभिर्मुद्रैस्तु मुद्रितम् | आसनस्य तु देवेशि तस्यापि ईदृशं कृतम् || बीजं बीजं च सामर्थ्यं हुतं पंचाननस्य च | आदि मध्या वसाने तु त्रिवर्णरहितं कृतम् || मुद्रिता वर्णहीनाद्य स्ववर्णफलदायकाः | उद्घाटमीदृशं तेषां मेरुमध्ये व्यवस्थितम् || अस्यापि नव(दश)दूतीनां वज्रतुण्डादि संस्थितं | विद्यादि वर्णसंयुक्ता निखिलानि भवंति ते || विद्याङ्गानि करन्यासं जाप्यं होमं तथैव च | उद्घाटसहिता देवी सिध्यते नात्रसंशयः || पूर्वोक्तमन्त्रमध्ये तु यत्कर्मफलदायकम् | स्तंभनं कीलनं चैव परराष्ट्रस्य भंजनम् || वेताल साधनं चैव पिशाचराक्षसादयः | घटं कन्यावतारञ्च अकाले मेघवर्षणं || प्. ५९ब्) दैत्यविद्याधरानां च तेषु कन्या प्रसाधनम् | खड्गमालाजनं शूलं विवराणां प्रवेश(साध)नम् || गुटिका पादुकानां च परकाय प्रवेशनम् | नागानां नागकन्यानां पुष्पद्रव्यानि यानि च || सिध्यन्ति नात्रसंदेहः सर्वाकृष्टिकरं परम् | यक्षिणी साधनं चैव खेचरत्वं न संशयः || भूपतेः साधनञ्चैव अदृश्य(मुद्रिसं)पदमुत्तमम् | तिलकं पादलेपं च योगिनीनाञ्च मेलकम् || भवेद्विद्याधराणाञ्च चक्रवर्त्तिर्नसंशयः | भवेत् सौभाग्यमतुलं त्वरिता यस्य देहगा || पंचोपचारसहितं शुद्धभक्तिसमन्वितम् | राजपत्नी विशेषेण या तु पूजयते इमां || शतं सहस्रलक्षं तु नारीणामुत्तमा भवेत् | पुरुषोपि लभेद्राज्यं पूजनेन न संशयः || एषा विद्या मयाख्याता उद्घाटसहिता प्रिये | अस्याविद्या प्रसादेन सर्वकामार्थसाधकम् || नवलक्षेणजप्तेन होमेन साधितेन च | अस्याविद्याः प्रसादेन विद्याधरपतिर्भवेत् || इति पारमेश्वरीमते त्वरितानिखिलोद्धार एकोनचत्वारिंशतिमः पटलः || देव्युवाच त्वया पूर्वं प्रतिज्ञातं अघोरं मंत्रमुत्तमम् | कस्मिन् स्थाने समुत्पन्नं सामर्थ्यं तस्य कीदृशं || श्रीभैरव उवाच कथयामि न संदेहो यत्त्वयापरिपृच्छितम् | द्वात्रिंशदक्षरोपेतं अघोरं नामनामतः || रुरुभेदे महातन्त्रे सिद्धयोगेश्वरी मते | स्वच्छन्दललिते घोरे मार्त्तण्डे शिवसाधने || प्. ६०अ) त्रिखण्डे च निशाचारे योगिनीजालसंवरे | प्रचण्ड(पञ्च)मुण्डमालायां मत्स्योदर्यां महार्णवे || एतेषु सर्वतन्त्रेषु जीवहीनं प्रकाशितम् | शक्तिप्राणविनिर्म्मुक्तः पंचबीजविवर्ज्जितः || सामर्थ्यरहितो मन्त्रः सिध्यते न कदाचन | देव्युवाच यदा न सिद्ध्यते मन्त्रं प्रत्ययो नैव जायते | देवदानवसिद्धानां भ्रामिते किं प्रयोजनम् || श्रीभैरव उवाच यत्पृष्ठं कथयिष्यामि भ्रान्तिनिर्नाशनं परम् | अघोरस्य प्रसादेन दैत्यदानवराक्षसाः || जाप्येन दिव्यहोमेन ते च सिद्धामहाबलाः | दिव्य अस्त्रधरादैत्या दिव्य यानैर्व्यवस्थिताः || इन्द्राद्या देवताः सर्वे कृतास्ते हीनशक्तयः | स्वर्गे मर्त्ये च पाताले प्रतिमल्लोन दृश्यते || तत्सर्वं(दर्थं) च मया मन्त्रं वर्णकीलैस्तु कीलितं | हृ(कृ)तानि पंच बीजानि भकारेण तु पूरितम् || द्वात्रिंशदक्षरं मन्त्रं बीजहीनं प्रकाशितम् | भकारसहितं मन्त्रं नमस्ते मध्यसंस्थितम् || अष्टकीलामयादतत्ते नासौ नैव सिध्यति | देव्युवाच अघोरं च महामन्त्रं निखिलं सिद्धिदायकम् | प्रसादं कुरुदेवेश यदितुष्टोसि मे प्रभो || श्रीभैरव उवाच साधुसाधु महाप्राज्ञे साधकानां च वत्सले | कथयामि न संदेहो यन्मया गोपितं प्रिये || सुसमे भूप्रदेशे च निम्नोन्नत विवर्ज्जिते | प्. ६०ब्) पुष्पप्रकरशोभाढ्ये गंधधूपादि वासिते || तत्र स्थाने शुभे रम्ये कुंभं वारिसमन्वितम् | पंचरत्नेनसंपूर्णं दीपाक्षतसमन्वितम् || श्वेतचन्दनलिप्तांगं श्वेतवस्त्रावगुण्ठितम् | चतुर्दिक्षु इमां कृत्वा मध्ये मेरुं समालिखेत् || पंचोपचारसंयुक्तं आसवं फल्गुना सह | पूजयित्वा विधानेन उद्धरेन् मन्त्रमुत्तमम् || कैलासशिखरासीनं आदौ श्रीकण्ठसंस्थितम् | तस्याग्रे विश्वमालायां द्वितीयं बीजमुद्धरेत् || दक्षवाहुसमुद्भूतं शिवस्य कंकणं लिखेत् | सद्योजातेनसंयुक्तमकारपूरतः स्थितम् || शूलदण्डं तृतीयं च नवके आदि संस्थितम् | झण्टीशेनसमायुक्तं तृतीयं बीजमुत्तमम् || भूतीशं वर्णमुद्धृत्य अक्रूरेण समन्वितम् | तस्य बीज प्रभावेन सृष्टिरूपपितामहः || अस्याग्रे ग्रहमालायामष्टमेन(सप्तमे यद्) व्यवस्थितम् | पंचमं तद्विजानीयान्मालिनीं आसनोद्भवम् || ऋ-अंतं तस्य दातव्यं पुरतस्तस्य कंकणम् | सद्योजातेनसंयुक्तं भुजंगं तस्य अग्रतः || ऋपूर्वेण शिरोभिन्नं सप्तमं बीजमुत्तमम् | अंबिका बीजमुद्धृत्य नवादि आसनस्थितम् || लोकादि शिरसाक्रान्तं त्रिमूर्त्तिं भेदितं कुरु | विष्णुबीजं विजानीयात् सर्वसिद्धिप्रकाशकम् || प्. ६१अ) अस्य मन्त्रं द्वितीयं च भुजङ्गं च अतः परं | उभौ एतानि बीजानि पुरतस्तस्य दापयेत् || भाग(व)मेध्यं समुद्धृत्य आषाढी रुद्रमुत्तमम् | ऋपूर्वेण समायुक्तं नवादि अग्रतस्थितम् || णाधवर्णं(सोह्यादिवर्ण) समुद्धृत्यं व(रे)अन्तं यद्व्यवस्थितम् | संवकं रुद्रमित्युक्तं अस्थिमध्ये व्यवस्थितम् || नवादि आसनं दद्यात् जिह्वाशक्ति प्रभेदितम् | अंकुरेणशिरोभिन्नं लक्ष्मी बीजं प्रकीर्तितम् || आस्य जाप्येन होमेन अलक्ष्मीर्नैवतिष्ठति | इच्छाशक्तिं विजानीयादीप्सितं फलमाप्नुयात् || पुनः संवकमुद्धृत्य चतुर्थ ऋषि आसने | मालिनी नेत्रमित्याहुस्तृतीयं यद्व्यवस्थितम् || षोडशं च समाख्यातं नेत्रं कूर्म्मसमुद्भवम् | एकादशे चतुर्थञ्च रुद्रं शुक्रसमुद्भवम् || भृगुं नामविजानीयात् षोडशान्ते समालिखेत् | भूतमध्य चतुर्थञ्च रुद्रं पृष्ठसमुद्भवम् || नवादिशिरसाक्रान्तं आषाढी तस्य अग्रतः | ॡ(ऋ) अन्तेन समायुक्तं तस्याग्रे संवकं भवेत् || विंशवतद्विजानीयान्मंत्र(दान्त) शान्तं(त्रेणान्ते) पुनर्ल्लिखेत् | पुनर्भृगोद्भवं वर्णं तस्य पूर्वं पुनर्लिखेत् || झण्टीशेन समायुक्तं अक्षरं परमं विदुः | वामाङ्गमालिनी लिख्य भूतादि यद्व्यवस्थितम् || शिखिवाही विजानीयाद् रुद्रं कुक्षिसमुद्भवम् | शूलदण्डासनारूढं ऋ-आदिमूर्द्ध्निसंस्थितम् || अंक्रुरेण समायुक्तं चामुण्डा हृदयं परम् | प्. ६१ब्) तच्चघोरतरं बीजं जितकालानलप्रभम् | अस्यस्मरणमात्रेण ब्रह्माणं परिकंपति || रक्तभैरवमुद्धृत्य अतिथेश्चैव पश्चिमम् | तस्यमूर्द्ध्नि प्रदातव्यं धात्रीशं रुद्रमग्रतः || सोपि रक्तसमारूढं पुनरक्तं समालिखेत् | ध्रुवान्तमासनस्थं(न्त) च(स्य) सप्तविंशतिमं विदुः || लोहितं रुद्रमालायां नवमे यद्व्यवस्थितम् | झण्टीशेन समायुक्तम्मालिनी हृदयं परम् || एकादशे चतुर्थं च शू(मू)लदण्डासनस्थितम् | च्छान्तं मूर्द्ध्निप्रदातव्यं रुद्रानुग्रहभेदितम् || क्रूरेणशिरसाक्रान्तं बीजं चैव परापरम् | यस्योच्चारतामात्रेण त्रिकालं च दिवानिशि || विंशज्जन्मकृतं पापं भस्ममायाति तत्क्षणात् | सप्तमं रुद्रमालायां मालिनी मूर्द्ध्निसंस्थितम् || केवलन्तं विजानीयाद्वंशं विंशदशाक्षरम् | ऋषिमाला तृतीयं च नितंवमालिनीं विदुः || रुद्रं हृदयसंभूतं महाकालन्तदक्षरम् | एकादशे चतुर्थञ्च भैरवं शुक्रसम्भवम् || नागमध्यासनारूढं झण्टीशं मूर्द्ध्निदापयेत् | एतन्मन्त्रवरं गुह्यं द्वात्रिंशदक्षरं भवेत् || अघोरं च समाख्यातं सिद्धिसान्निध्यकारकम् | स्वर्गे मर्त्ये च पाताले ये मंत्रा दिव्यरूपिणः || तान्येवसप्तकोटीनां अयं राजासुरेश्वरि | दृश्यते यस्य पार्श्वे तु चतुःशृंगो महानगः || उद्धारं मन्त्र राजस्य नास्त(देयस्रे)कि मतः परम् | मणिरन्तैश्च संपूर्णमासमुद्रान्तमेदिनीं || प्. ६२अ) दक्षिणां गुरवेदद्यान्नतस्य निर्-ऋणी भवेत् | तथापि संवृ(भृ)ताचारा गुरुपूजा प्रयत्नतः || गोदानं भूमिदानं च अन्नदानन्तथैव च | दिव्याभरणवस्त्राणि प्रणिपत्यनिवेदयेत् || पूजयित्वा प्रयत्नेन आज्ञाप्रार्थयते ततः | आज्ञालब्धेन देवेशि कृतार्थं मन्यते तनुं || आदेशं गुरुतो लब्धा ततो यजनमारभेत् | संशोध्यभूमिं यत्नेन सर्वलक्षणसंयुतां || आश्रमन्तत्र कुर्वीत क्षेत्रमालंभनं कुरु | अश्वस्थकीलकं पूर्वं हस्तमात्रं प्रमाणतः || अष्टोत्तर शतंजप्त्वा दूती मन्त्रेणसाधकः | निखनेद्भूमि मध्ये तु अग्निदूतीं ततोर्द्ध्वतः || सोपि तेन विधानेन कीलकः खदिरोद्भवः | दक्षिणे देवदारुं च नैर्-ऋते तु विभीत्तकम् || औडुम्बरं तु वारुण्यां वायव्ये शिशयोद्भवम् | उत्तरेवटसंभ्हुतमैशान्यां बिल्वसंभवम् || महापूजाप्रकुर्वीत साधको मन्त्र तत्परः | पंचमुद्राधरो वीरो रक्त कृष्णाम्वरस्तथा || सिंहचर्मासने चापि अभावे मृगचर्म च | भस्मस्नानं प्रकुर्वीत मन्त्रस्नानं ततोर्द्ध्वतः || कृत्वायज्ञोपवीतानि दर्भकार्पाशकेशजां | अंगन्यासंप्रकुर्वीत मूलमन्त्रेणसाधकः || एकोच्चार्ं करेशुद्धिः परस्परविमार्जितौ | हृदये एकमुच्चारमेकेनैवशिरो भवेत् || शिखा एकेन इत्याहुरेकं कवचसंस्थितम् | त्रिनेत्रमेकमुच्चारं षद्विधं मंत्रसंस्थितम् || प्. ६२ब्) अङ्गन्यासंप्रकुर्वीत जात्पङ्गसहितं प्रिये | पूजितव्यं महादेवि पूर्वं गुरुमुखाच्छ्रुतम् || कुंकुमं चन्दनं चैव गोरोचनमधु तथा | एतानि सर्वद्रव्याणि रक्तेन सहितानि च || चतुरस्रं मण्डलं कुर्यान्मध्ये पद्मं समालिखेत् | मन्त्रादौ वेदवर्णानि अवर्ण सहितानि च || त्रयान्ते च त्रयान्ते च त्रयान्ते च पुनः पुनः | मन्त्रबीज प्रभेदेन विदर्भेनसमुच्चरेत् || ब्रह्मेन्द्रसहितादूती अवतर-अवतर नमः | अनेन विधिना देवि पूर्वे दिशि प्रपूजयेत् || पुनश्चत्वारि वर्णानि कवर्गेन विदर्भिताः | माहेश्वरी अग्नि दूति च अवतर-अवतर नमः || आग्नेयां दिशि पूजयेत् | घोरे घोरेति वर्णानि च वर्गेन विदर्भिताः | कौमारी यमदूती च अवतर-अवतर नमः || दक्षिणा दिशि पूजयेत् | पुनश्चत्वारि वर्णानि टवर्गेण विदर्भिताः | वैष्णवी राक्षी दूती अवतर-अवतर नमः || नैर्-ऋत्यां दिशि पूजयेत् | पंचमे चतुर्थवर्णानि तवर्गेण विदर्भिताः | वाराही वारुणी दूती अवतर अवतर नमः || पश्चिमं दिशि पूजयेत् | पुनश्चत्वारि वर्णानि पवर्गेण विदर्भिताः | ऐन्द्री वायु दूती च अवतर अवतर नमः || वायव्यां दिशि पूजयेत् | सप्तमे चतुर्थवर्णानि यवर्गेन विदर्भिताः | चण्डिका यक्ष दूती च अवतर अवतर नमः || उत्तर दिशि पूजयेत् | अन्ते चत्वारि वर्णानि सवर्गेन विदर्भिताः | प्. ६३अ) ईशाने च महालक्ष्मी अवतर अवतर नमः | ईशान्यां दिशि पूजयेत् | मध्ये तु पूजयेद् देवं द्वात्रिंशदक्षरं परम् | गुरुपंक्तिं ततः पूज्य क्षेत्रपालं ततोर्द्ध्वतः || पुष्पं धूपं च नैवेद्यं आसवं फल्गुकं ततः | सर्वं संपूर्णतः कृत्वा मुद्रया मुद्रितं कुरु || पद्ममुद्राकराली च भैरवी विकृता नना | मुद्राबन्धं प्रकुर्वीत पश्चाज्जाप्यं समारभेत् || विधानं संप्रवक्ष्यामि यन्मया गोपितं प्रिये | या सा शक्तिर्महामाया कुण्डालाख्या महेश्वरि || तत्स्थानं अस्य मन्त्रस्य एकीभूतं विचिन्तयेत् | तमुच्चार्यक्रमेणैव द्वादशादित्यसन्निभं || भासयन्तं स्वतेजेजन आपादतलमस्तकं | नाभिभेदक्रमेणैव हृदये चैव तिष्ठति || पुनस्तं विष्णुमार्गेण रुद्रभेदक्रमेण तु | माहेशमासन(मीशसं)स्थानं लयं कृत्वा पुनः पुनः || अनेनैव प्रकारेण उच्चारं विधिपूर्वकम् | पुनश्चैव विलोमेण उच्चरित्वा प्रवेशयेत् || तेनैव मार्गयोगेन स्वस्थानसहितं कुरु | सकृदुच्चारमेतत् तु नव देवि प्रकाशितम् || स्फटिकं मौक्तिकं वाथ मणिकं पुत्रजीवकम् | महाशंखोद्भवं चैव अथरुद्राक्षसंभवम् || अक्षमालां प्रकुर्वीत अंगुल्या नामिकोपरि | चारयेन्मेरुमार्गेण यथा भूमौ न गच्छति || जपान्ते चरुकं प्राश्य मन्त्राग्रे यद्व्यवस्थितम् | यच्छेषं समयीनाञ्च दातव्यं अथवाग्निषु || प्. ६३ब्) ब्रह्मचारी जितक्रोधः पशुसम्पर्कवर्जितः | दिनान्ते भोजनं कुर्याद्भूमिशायी जितेन्द्रियः || दशलक्षकृतं जाप्यं होमं चैव समारभेत् | शिवशक्तिसमुद्भूतं षट्कोणं शोभनं प्रिये || हस्तमात्रप्रमाणेन आननं चापि कारयेत् | अरणिस्थ पावकं गृह्य भूतदारुसमुद्भवम् || तस्य मध्यस्थितं मंत्रं अघोरं घोररूपिणं | महास्य महिक(सिव)र्णञ्च तालुपातालदारुणं || चन्द्रसूर्याग्निसंभूतं त्रिनेत्रानि विचिन्तयेत् | पंचमीचन्द्ररूपेण दंष्ट्रेणि भाषयन्ति च (संभावयेत् पुनः) || लेलिहानं महाजिह्वं ऊर्द्धवक्त्रं विचिन्तयेत् | विशन्ती तस्य मध्ये तु आहुतीं च विचिन्तयेत् || मुद्रामृगमुखी चैव गृहीतानेन आहुतीः | एकोच्चारेण कर्तव्यं प्रविशभैरवानने || ततो होमं दशांशेन निश्चले नान्तरात्मना | ततः सिद्धिं विजानीयाद्योजयेत् सर्वकर्मसु || अष्टपत्रे शुभे पद्मे एकैकं च समालिखेत् | मन्त्रं चत्वारिवर्णनि एकैकस्य पृथक् पृथक् || स्थापितव्यः प्रयत्नेन इन्द्राद्या ईशगोचरे | यस्य यस्य स्ववर्गस्य तान्येव हि समालिखेत् || पूर्ववत् प्रथमं गृह्य उत्तरस्य द्वितीयकं | तृतीयमग्निदिग्भागे द्वौ पूर्वं वरुणस्य च || राक्षसे पूर्वमन्तस्थ मे तन्मन्त्रं षडक्षरम् | शिंशपादारुसंयुक्तं नृमांसमध्यसंस्थितम् || होमयेद् घृतसंयुक्तं सहस्रमष्टसंयुतम् | उत्तिष्ठति न संदेहो विमानमग्नि मध्यतः || प्. ६४अ) तत्रारूढो महावीरो भुवनानि चतुर्दश | सप्तब्रह्माण्डपर्यन्तं भ्रमते नात्रसंशयः || या दूतीपूर्वदिग्भागे षोडशाक्षर संयुता | होमयेद्ब्रह्मपुष्पाणि ब्रह्मवक्त्रेनसंयुता || स्वाहान्तं कुरु उद्धारं ब्रह्मास्त्रं चैव देहि मे | अष्टोत्तरसहस्रेण दीप्तानलसुतेजसं || उत्तिष्टेत्कुण्डमध्ये तु साधकस्य करे स्थितम् | ब्रह्माद्या देवताः सर्वाभुवनानि चतुर्दश || मारयेन्नात्रसन्देहो एतन्मन्त्रं सुदुर्जयं | या स्थिता अग्नि दिग्भागे माहेशी च नवाक्षरी || लांगली पुष्पमादाय मेषरक्तेनसंयुतम् | पावकास्त्रं समुच्चार्य देहि देही विभाषयेत् || अष्टोत्तरसहस्रेण सिध्यते नात्रसंशयः | कालानल समं तेजं दुःसहः सर्वदैवतैः || निर्दहेत्साधकः क्रुद्धो भुवनानि चतुर्दशः | या स्थिता याम्यदिग्भागे कौमारी नामनामतः || कुंकुमस्य प्रयोगेन माहिषं रक्तसंयुतम् | अष्टोत्तरसहस्रं तु होमये कुण्डमध्यतः || स्वाहान्ते शक्तिरुच्चार्य देहि मे शक्ति षण्मुखे | उत्तिष्ठति न संदेहो अमोघा?शक्तिदुर्जया || यस्य क्रुद्धो महावीरो मारयेन्नात्रसंशयः | विभीतकस्य पत्राणि उलूक(जलौका)रक्तसंयुतम् || वैष्णवीदूतियोगेन सहस्रेण हुतेन च | होमान्ते दृश्यते देवि चन्द्रहासं सुदुर्लभम् || तेन खड्गगृहीतेन प्रतिमल्लोन दृश्यते | अष्टोत्तरसहस्रन्तु समिधां वरुणोद्भवां || मीनस्नेहसमायुक्तं वाराही मन्त्रमुच्चरेत् | प्. ६४ब्) स्वाहान्ते प्रथमं कुर्याद् वरुणास्त्रं तु देहि मे || दृश्यते कुण्डमध्ये तु सोपि संगृह्यपाणिना | यदीच्छेत्साधको देवि महावृष्टिस्तु जायते || पुनर्वायव्यदिग्भागे इन्द्राणी नामनामतः | वज्रीपत्रस्य होमेन तस्यैव क्षीरसंयुतम् || अष्टोत्तरसहस्त्रेण स्वाहान्ते होमितेन च | वज्रं च लभते वीरो अस्या देव्या प्रभावतः || क्रुद्ध च मारयेत् क्षिप्रं यदिशक्रसमो भवेत् | उत्तरे चण्डिका देवी अष्टवर्णा व्यवस्थिता || गृहीत्वा वटपत्राणि श्वानशोणितसंयुतम् | अष्टोत्तरसहस्रेण गदासिद्धिर्भविष्यति || अनन्तं लभते वित्तं निधानं कुण्डमध्यतः | अक्षयं तद्विजानीयादीशान्याञ्च द्युता शृणु || अष्टोत्तरसहस्रं तु बिल्वमादायसाधकः | घृतयोगेन होतव्यं निश्चलेनान्तरात्मना || होमान्ते दृश्यते देवि शूलं त्रिदशदुर्जयम् | मारयेन्नात्रसंदेहो यदि ब्रह्मास्वयं हरिः || विपरीत प्रयोगेन पूर्वदूती यदा हुनेत् | देवदारुसमुद्भूतमश्वरक्तेनसंयुतम् || होमयेद्विधिसंयोगात् सहस्राणि चतुर्दशः | रथं मे देहि उच्चाअर्य मन्त्रान्ते साधकोत्तमः || उत्तिष्ठति न संदेहो नन्दिघोषो महारथः | श्वेताश्वं श्वेतसंयुक्तं पताका सहितं प्रिये || तत्रारुह्यमहावीरो उत्पत्ते नात्रसंशयः | अजेयः सर्वलोकानां हर्ता कर्ता स्वयं प्रभुः || विपरीतोच्चारयोगेन गुग्गुलुं घृतसंयुतम् | होममष्टसहस्रं तु कुरुते साधकेश्वरः || प्. ६५अ) पटं पावक संभूतं लभते नात्रसंशयः | पुनस्त्रे नैवमन्त्रेण विपरीतं वरानने || साधितायमदूती च गोपालेन हुतेन तु | पटमदृश्य दण्डं च लभते नात्रसंशयः || वैष्णवी च विलोमेन नृमांसं घृतसंयुतम् | अष्टादशसहस्रेण राक्षसीं विधिमाप्नुयात् || माया प्रपंच रूपाणि रुपाणि च न संशयः(कुरुते साधकेश्वरः) | विपरीतेन योगेन या दूती पश्चिमेन च || मत्स्यमांसस्य होमेनसहस्रेण वरानने | सर्वाकृष्टिं विजानीयाल्लबते नात्रसंशयः || इन्द्राणी वायुदिग्भागे गवांक्षीरेणसंयुतम् | होमयेत् मृगमांसं च सहस्रं च शताधिकम् || गुटिकासिद्द्धिं जानीयाल्लभते नात्रसंशयः | उत्तरे यस्य(क्ष) दूती च विलोमेनसमुच्चरेत् || गवाज्येन(गवां सारेण) समायुक्तं वटपत्राणि होमयेत् | अक्षयं लभते वित्तं तस्य ईशान भाषितम् || महालक्ष्मी विलोमेन बिल्वपत्राज्यसंयुतम् | अष्टोत्तरसहस्रेण वीर(रस)सिद्धिमवाप्नुयात् || एतत्कर्म अघोरस्य उक्तं च परमेश्वरि | यदिच्छेत्साधयेत्कर्म(सर्व) अस्यमंत्र प्रभावतः || (यदि मेरुश्चलेत्स्थानात् सागरं वा महीश्रयेत् | सूयञ्चेत्पतितो भूमौ एतान्मिथ्याम * *?वे || सत्यं सत्यं महेशानि ना दूनं कथितं मया || इति पुस्तकान्तरेधिकः पाठः| एतावान्भागः प्राचीन ताडपत्र पुस्तकात् | क्षर लिखित्वादुद्धृतः ? इतदुत्तरः षट्पञ्चाशत्पटलान्तोय च १४८८ शब्दालेखिता?न्मध्यदेशी * * * * * * * * * * * *? पुस्तकान्तरा दुद्धृत्य * * *? | तस्मिन्पुस्तकान्तरे पुष्पिकासु क्वचित् पारमेश्वरीमते * *?त्कुब्जिकामते इत्यु * *? दृश्यते) इति पारमेश्वरीमते नवकोटिसंहितायां चतुराशीतिसाहस्रे अघोरनिर्णयोनामचत्वारिंशतिमः पटलः || प्. ६५ब्) श्रीदेव्युवाच भगवन्सर्वमाख्यातं मेरुमध्ये यथास्थितं | उद्धारं सर्व विद्यानां नाडीसंचारभेदतः || वज्रप्रस्तारिका विद्या ब्रह्मविद्या तथैव च | द्वात्रिंशद्वर्ण भेदेन पुराप्रोक्ता त्वया नघ || या विद्या बहुधा तंत्रे पूजामादात्कुलक्रमे | व्रतस्योद्धार मात्रेण यथापापैः प्रमुच्यते || उद्धारक्रमयोगेन पूजाध्यान क्रमेणा तु | वर्णसंख्या व्रतं कश्चित् कथं होमं च तर्पणं || न्यासं च कीदृशं दयात् साधनं वा कथं भवेत् | द्रव्यं च कीदृशं चैव अधिकारि विशेषतः || अयगूढतरं देव प्रयुक्तं यत् सुरेश्वर | संज्ञातं च सुरेंद्राणां तत्सर्वं च समासतः || कृपा परम कल्याण यदि मे प्रीतिरूत्तमा | अस्ति चेत्कथयस्वात्र मेरुमध्ये सुरेश्वर || ईश्वर उवाच यन्न कस्य चिदाख्यातं देवि गोप्यं तथापि ते | कथयामि यदा विद्या सामर्थ्यं वसुसाधनं || विष्णनाथपुरा देवि दैत्येन्द्र विजयाय च | आराधितस्तु शक्रेण तुष्टो लोक पितामहः || मयापि वर्गशो विद्या त्वांशपेश्वर सुन्दरि | जानन्नपि महादेवि पृछसे च पुनः पुनः || तथापि कथयिष्यामि सावधानं कुरुष्वथ | सुसमे(कान्ते)स्था कुले धूपदीपगंधा स वादिभिः || संभृते संभृताचारो पशुदृष्टि विवर्जितः | स्वयं दीक्षां गुरोर्लब्ध्वा नदीपर्वतभूगृहे || स्थित्वैकं विन्यसेन्न्यासं मंत्रन्यासं तथैव च | उद्धरेद्धि विमुक्तात्मा एकं मध्यगतं क्रमम् || द्वात्रिंशदक्षरं देवं कार्यकारण रूपतः | प्. ६६अ) ध्रुवं नाभिगतं विद्यादादिवर्णं सुरेश्वरि || वाम मध्ये तु कुक्षंतं निवृत्ति क्षत्रसंस्थितं | ऌ आदिवर्णयोगेन द्वितीयं बीजमुत्तमम् || एकादशे ऋषिस्थाने अंबिकाप्राणसंस्थिता | अक्रूरं च शिवेदत्तं साधिमध्यगतं पुनः || मंदरे ए(ऌ) अंतस्थं चतुर्थं वर्णमुत्तमम् | भागमध्यगतं देवि तावंके यत्रसंस्थिता || पावनी हृदयं चाथ नरके रुद्रमंदिरे | ध्रुवादि वर्णयोगेन षष्टं बीजं सुरेश्वरम् || नरके आदिवर्णं न? मोहिनी भूषितं कुरु | लंबोदरी श्वेतगेहे सामानी गंधमादने || मातृवर्णं विजानीयाद्यासां मध्यं गुरुर्भवेत् | कार मध्ये तु देवेशि सूक्ष्मं भैरवभेदितं || दशमंत्रं विजानीयात्कासमध्यं तु कालयुक् | एकादशे ऋषिस्थाने झंटीसेन विभेदितम् || रविसंख्याक्षरं देवि मायाबीजं त्रयोदशम् | कालामोडी गतं कृत्वा अंबिका च तथा भवेत् || कारमध्ये तु देवेशि झंटीसेनसमन्वितम् | वज्रिणी अंबिकाधस्था दनन्तं गंधमादने || याममध्यगतं देवि अष्टादशमुदाहृतम् | धेनु मध्यं तु संगृह्य मंदरे सूक्ष्मसंयुतम् || कालोनाम महारुद्रो से? च मध्ये व्यवस्थितः | एकादशे ऋषिस्थाने मंदरे सूक्ष्मसंयुतम् || एकविंशं विजानीयाद्वाविंशं वाधमारभेत् | अगमध्यं केवलं तु त्रयोविंशाक्षरं पुनः || पलयोर्मध्यगतं देवि रुद्रे तु वसुमंदिरे | चतुर्विंशाक्षरं भद्रे ततो रुद्रपदं भवेत् || भूतादि रक्तसंस्थं च पूर्वमूर्द्धनि संस्थितम् | प्. ६६ब्) बिंदुभैरवसंभिन्नं एतत्कालानलप्रभम् || अष्टाविंशाक्षरं देवि अत ऊर्द्धं च तच्छृणु | हे हे तस्थाधवर्णं च शूलदंडासनस्थितम् || कूर्मोनाम महारुद्रः सद्योनाथविभूषितः | अहमध्यं केवलं वधात्रींशो भैरवस्मृतः || याममध्यगतं सूक्ष्मं पालीशं नाम भैरवम् | युगमध्यगतं कुर्यादनंताक्रांतमष्टकम् || अंबिकाजीवमध्यस्थं क्षे अंतं स्वर्गभूषितम् | द्वात्रिंशदक्षरं देवमेवं वर्णैर्व्यवस्थितम् || स्वर्गे मर्त्ये तथा देवि पाताले पन्नगालये | नारदश्चांगिराश्चैव भरद्वाजोथ गौतमः || विश्वामित्र वशिष्ठाद्या ये चान्ये देवदानवाः | अस्य विद्या प्रभावेन चंद्रसूर्यादयो ग्रहाः || जगतां स्थित ये देवि संचरंति दिवानिशि | मकरध्वजोपि देवेशि आराध्य परमेश्वरम् || सर्वसौभाग्यसंपन्ने स्व? भवत्सुरसत्तमः | षडंगन्यासयोगेन वर्णन्यासक्रमेण च || शुद्धात्मने भवेद्यानं तद्धिन्यासादि भिर्भवेत् | न्यासंगुरुमुखे नैव ज्ञातव्यं वरवर्णिनि || आज्ञागुरुप्रसादेन सिद्ध्यते नात्रसंशयः | विन्यस्य विधिवद्भूयो ध्यायेन्मूर्तिं च चिंतयेत् || कुंदसिंदूरवर्णाभा वागैश्वर्यप्रदां स्मरेत् | यास्ता एकधनुर्वाण पाशांकुशवराभयैः || बीजपूरं तथारुक्षे वामे पूर्णकपालकं | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || वक्त्रैः पीतारुणस्यामश्वेतांजननिभाः प्रिये | चतुर्द्धारेषु द्वौ द्वौ च हेतुकादीन् प्रकल्पयेत् || प्. ६७अ) आणवो रक्तेन शाक्तेन शांभवेनाथ चाखिलैः | समया साधका चार्यनिर्वाणे कृतदीक्षया || शांभवी चिन्मयी विद्या शक्तिः स्यात्रिगुणात्मिका | गुरूक्तमानवीदीक्षा कर्म्मानेक विधास्त्विह || आवाह्यमंडले देवं अर्घं दद्यात् सुरेश्वरि | क्षीरेण ब्रह्मणांस्तावदाज्येन पृथिवी भुजः || वैश्यांस्तु मधुना शूद्रांस्त्वैक्षवेना सवेन च | नित्य पूजाभवेन्मुख्या या च पर्वणि पर्वणि || अथवा मा?सिकी पूजा नातो विच्छेदमर्हति | योद्भवो मधु हेतुः स्यादासवः परिकीर्त्तितः || चतुर्द्रव्यं समासाद्य चतुर्भिराधका(सवा)दिभिः | मुमूक्षूणां फलाधिक्यं अल्पाल्पवृत्ति पूजनात् || अधिका वृत्तिपूजायां उभुक्षोरधिकं फलम् | सर्वावृत्तंतिकासाहीं पूजा स्यात् परमेश्वरि || एवमेतन्महामंत्रं भुक्ति मुक्ति प्रदं नृणां | अथान्यं संप्रवक्ष्यामि अत्रप्रासंगिका गतम् || इद्वारुक्तं गमोममंखमुख्यलजस्य सविदेधिरवदविदधेहेमविदधे | ध्रुवादि वर्णं देवेशि भागमध्य द्वयं पुनः | सूक्ष्मभैरवसंभिन्नं का * * * * सं भवेत् || नवरुद्रमालायां ध्रुवाद्यासनसंस्थिता | नवके आदिवर्णं तु ध्रुवाद्यासनसंयुतं || श्वेतो नाममहारुद्रो मायादेवी स्वतः * * || झंटीशेनानवोद्भिन्नं वारुणं सूक्ष्म भेदितम् | क्रोधीनं गुल्फशक्त्या च विश्वयुक् नवमं स्मृतम् || सासिमध्यगतं देवि सद्धासं नामनामतः | वारिमध्यगतं बिन्नं लोहितं सूक्ष्मभेदितम् || लंबोदरी महादेवी गुह्यशक्त्या विभूषिता | रवार्तो यदिशब्दः स्याद्वको नामंत्वनंतरम् || प्. ६७ब्) क्रोधवर्णं पुनर्देवि विधाय वेगासनस्थितः | महाकालं केवलं च वकं चाष्टदशं भवेत् || पुनः क्रोधं समुद्धृत्य इंदुयुक् बिन्दुसंभवम् | दधमन्यं महादेवि शिवे अक्रूर भूषितम् || भागमध्यस्थितं वर्णं केवलं तु पुनः पुनः | भृगुभैरव वर्णं च द्वाविंशं नात्रसंशयः || वारिमध्यगतं देवि वज्रिणी अक्षसंस्थिता | शिवे तु दीपनी युक्तं बिंदुभेदित मस्तकम् || वारुणं अंशकं देवि केवलं तु पुनर्भवेत् | कालो नाम माहारुद्रों प्रांशुकस्तवभूषितः || गुरोर्मध्ये केवलं तु याम मध्ये तथा पुनः | वह्निजाया समायुक्ता द्वात्रिंशाक्षरभूषिता || विद्यापरमकल्पाणि सर्वकामफलप्रदा | इमामेवपुरा बोध्य विद्यां त्रैलोक्य मोहिनीं || तारकं नाम दैत्येंद्रं जितवान् रुद्रध्वजः | लक्षजापेन देवेशि सिध्यते नात्रसंशयः || ब्रह्मगुहसमिद्धोमाञ्क्षीराज्य मधुवर्द्धनैः | सर्वकामेषु देवेशि सर्वकामात्वमागता || हास्वायांत्र इजे याने भंजयतेपधि | क्षयपाणसोत्वमतत्तणि मामणि भद्रायद्गतसर्वभद्रा पद्भ्रुवेनि मालिनेसिविकुंडलिने नरेंद्रा याववेंद्रायषडंगमेवं विन्यस्य लक्षमेकं स्वसमतः || बिल्वपुष्पसमिदर्क फलहोमे धनप्रदः | श्वेतपत्र स्थितो हार कटकेयूरकुंडली || रक्ताकल्पस्मिते दिवः पिंगाक्षस्त्रिमुखस्त्रिपात् | पद्मं नामकरं वक्ष्ये चषकं तद्दिनं दधत् || प्. ६८अ) कृत्वातं मंडलं कृत्वा वस्वरं वेषभूषितम् | पूर्वभद्राय पूर्णभद्राय वनमालिने || सनिकुंडलिने नरेन्द्रा यशरेन्द्राय | मातृभैरवसंयुक्तामर्चयेदिंदिरा प्रदाम् || एक एवसतन्मंत्रः कालादि गुणभेदतः | संपदे विपदश्चैव कुर्याद्यस्य परस्य च || नानारूपप्रभावाः स्युः किन्नकुर्युर्विजानतां | शोषयंत्यपिवांभोधीन् ब्रह्मांडं स्फोटयंत्यपि || विवर्णयंति चालोका संहरं यावाखिलम्? | मूकं वा वाक्यतिं कुर्युर्मूकं कुर्युश्च वाक्पतिं || दरिद्रं धनदं कुर्युरिक्तीकुर्युश्च वित्तपम् | दीर्घायुषं क्षणात्कुर्युर्जीवेयुश्च गतायुषं || स्वुरामानं क्षणात्कुर्युर्बद्धं च मोचयंत्यपि | मंत्राक्षराणि यावन्ति तैर्यथासंभवेन तु || परित्कृ?प्तशरीरांगमंत्रतेजस्तु देवता | एवं मंत्रमयी यस्माद् देवदेहविरूपता || मंतारं त्रायते यस्मात् तेन मंत्रमिदं स्मृतं | अक्षरं क्षरणा भावान्निरंगत्वाञ्च निष्फलम् || मुदकरोति देवानां द्रावयन्त्रिपुराननान् | द्रावणान्यासजालस्य तत्परस्य व्यमोहनात् || तनमुद्रेति सा प्रोक्ता तंत्रेस्मिन् परमेश्वरि | ना पुत्रायना शिष्या य देव विप्रगुरुद्गुहे || दत्ते च सिद्धिहानिः स्याद्देवता स्यानि आपतेत् | एवमेतद् गृहस्यार्थं तवाद्य प्रकटी कृतम् || किमन्य तृपृच्छसे देवि सर्वतद्वदस्व मे | श्रीदेव्युवाच भगवन् भूतभव्येश श्रुतं तत्पुरुषस्य च | मेरुमध्ये कथं देवि चंडिका व्यक्तिमागता || प्. ६८ब्) वर्णसंख्यास्तु देवेश न्यासध्यानं कथं भवेत् | एतत् संक्षेपरूपेण वदतस्यास्तु सुव्रत || श्रीभैरव उवाच तंत्रे चैवागमे सा तु विस्तरेण प्रकाशिता | तथापि कथयिष्यामि मेरुद्धार क्रमेण च || सर्वलक्षणसंयुक्तः साधकः स्थिरमानसः | एकान्ते विजने स्थित्वा ऋतुलक्षावधिर्जपेत् || तावता युत होमेन सर्वानाप्नोति यत्नतः | चरुतंदुलकैराज्यब्रह्मपुष्पसमुद्भवम् || ध्रुवंनाभिगतं देवि देवी बीजं तु अग्रतः | कालमध्यगतं गृह्य ध्रुवाद्यासनसंस्थितम् || २(ऌ) आदि वर्णयोगेन तृतीयं बीजमुत्तमम् | मोहिनी ध्रुव आदिस्थ केवलं भगयुक्पुनः || गुह्यशक्ति समोपेतं पंचमं तु न संशयः | श्वेतभैरवमुद्धृत्य टां तस्थं लोहितं पुनः || मोहिनी वर्णयोगेन सप्तमं तु न संशयः | नवादि दीपनी देवी अमरीशेनसंयुता || श्वेतभैरवमुद्धृ स गुह्यशक्त्या विभूषितम् | एकादशादि देवेशि मंकु(द)रे गुह्यशक्ति युक् || या सि मध्यं तु संगृह्य वामे मध्येनसंयुतम् | लोहितं संगृह्यनिग्मसंख्यं सुरेश्वरि || एकादशे श्वेतरुद्रं मंदरे गुह्यशक्ति युक् | भीषणी ऋषिगेहे तु वायुवेगात् तथा भवेत् || महाकालं ते च मध्ये कैलासे भगयुग्भवेत् | पाशिमध्यं केवले तु महाकाल ध्रुवादिशं || लोहितं केवलं देवि वामे शक्तिस्तदग्रतः | धेनुमध्यसमोपेतं गुह्यशक्ति विभूषितम् || भागमध्ये केवलं तु बिंदुभैरवभूषितम् | याममध्यं तु देवेशि धात्रीकं गुह्यशक्तिकम् || प्. ६९अ) शरकं नरके वाथ क्रोधीशं वायुसंयुतम् | भेदमध्ये महाकालि महाकालेनसंयुतम् || कुं अन्तश्चाधसवकं श्वेतपूर्वं करालिनि | क्रोधीशस्तत्र देवेशि याममध्येन भेदितम् || लोकादिशिरसाक्रान्तं धर्म्मबीजं तदग्रतः | अग्ने विद्यातृतीयं तु बिंदुभैरवसंयुतम् || कुशमध्ये पुनर्देवि तनोर्मध्यं तदग्रतः | शंडीशेन ततः कृत्वा दीपनीं मूर्द्ध्नि विन्यसेत् || आदौ तु ऋषिमालायां भीषणी केवलं भवेत् | भागमध्यं तथा देवी नावे मध्यं न संशयः || ताराख्याग्रहमालायां सूक्ष्मेशं मेदरं विदुः | वेस्वंतं केवलं तद्वद्भे च मध्यगतं पुनः || यामो मध्यं तथा देवि वह्निजाया ततो भवेत् | विद्यादौ त्रितयं बीजं मत्ते वै लोमतो भवेत् || शक्त्यन्ते चंडिका या च बीजं मध्यांतसंस्थितम् | ग्रहांते हृदयं देविश्छ्रान्ते तु मतिर्भवेत् || ज्ञानशक्तिर्युत देवि अक्षुणं च शोरोन्नितम् | वस्वन्तं च शिखा ज्ञेया क्रिया * * तदग्रतः || पुनस्तावद्भिरेवान्ते रौद्रशक्त्या समन्वितम् | अभ्यर्त्रैश्च तथा नेत्रं सरस्वत्या च विन्यसेत् || भूतान्तैर्वस्त्रमाख्यातं चामुंडाशक्तियुगनतिः | एवमस्त्रपदैः कृत्वा मंडलेतां विचिंतयेत् || शक्तौशक्तिं च संलिख्य षड्वर्णान् विन्यसेद् वहिः | चतुरष्टांतसंयुक्तं वहिर्भेदाष्टकं भवेत् || दशाष्टद्वंद्वशोराज्ये सप्तत्रिंशत्तथा भवेत् | प्. ६९ब्) चतुःषष्टिभिरावीनामेकैकं तु दशाग्रहे || परिवेष्टसमायुक्तं चतुर्द्वारसमन्वितम् | भूबिंबेशक्तिदुर्गां च चक्रं वा शक्तिमालिखेत् || दूर्वादलश्यामलांगी केयूरघंटिकादिभिः | विराजमाना चक्रेण * * * सापिपाणिता || भीषयत्य सुरान् सर्वान् त्रिनेत्रान् सेभ्रु?मूर्द्धजान् | हृदिब्रह्मसमारुधां ज्वलत्पावकसन्निभाम् || परिचक्रधरं देवं प्रतिवक्त्रं त्रिलोचनम् | धवलांवरसंवीतं धवला हि विभूषणं || द्विजा हि कुंडलाभ्यां च वाहूराजन्यसंभवौ | विशौ तु मेखलादामपद्भ्यामन्यौनु नूपुरौ || पुस्तकाक्षस्रजं शूलमंकुशं नृकपालकम् | सक्तिपाणा हि टंकाख्यं वरदाभयशोभितम् || नीलजीमूतसंकाशं रसनाकल्पमडितम् | अनेकवक्त्रनयनं करानेकविखंडितम् || सात्विकं मोक्षदं देवि राजसंकास्य वर्द्धनम् | शत्रुक्षयकरं विद्धि तामसं त्रिविध भवेत् || इंद्रगोपनिभंविष्णुं मंडनानेकमंडितं | रथांगंकंवुनलिनं गदास्त्रासंख्यमालकम् || पाशांकुशधरं देवं भीमाक्षंशितदण्डिनम् | कालमेघनिभप्रख्यं ज्वलत्रगुणान्वितम् || वह्निं वमंतमज्ञायवैनतेयोपरिस्थितम् | निवृत्यादिभिरावीनां सद्यप्रिसमावृताम् || अष्टादशं तु परितः उत्पाद्यावर्णशक्तयः | वह्निरष्टाष्टकं देवि देवीनां परितो यजेत् || लोकपालांश्च तद्वेती नेती सर्वमर्चयेत् | प्.७०अ) आर्यया भद्रा भद्रकाली अंबिकाव्याघ्रमुखि सिंहमिखी जया नंदा || उमाराकाप्रभासंध्या धारिणी धरणी प्रभाः | सिंहिनी वज्रिणी सत्या समाराध्याशाकंभरीति || विश्वरूपा हरिणीविरुपाक्षाधरा उषातीग्मा षष्ठीपुंरूपिणी | रुद्रवीर्या यक्षिणी किंकरी सुरापि पासिनी षंडापशुवती मेधा सरस्वती || मिखदिणी पावनी स्थिरा ताराक्षिनी पयस्विनीदिदृक्षा शशिरेखा कालरात्री माधवी शंखिनी क्रूर्द्धिनी कपर्दिनी || हुंकारी दुर्गा दुर्विसहागगनरेखाभयंकरी गायत्री वागेश्वरी तिरस्क्रियासती महाकालीधमा हारिणा ओंकारी यामापद्ममुखी दुष्टसारिणी || ५० || काली विकराली तपस्विनी च्छेदिनी किराती कपर्दिनी कराली अनं * गा चंडा विराणी द्रुर्गासरस्वती व्याधीघ्नी सृष्टिसंहृति स्थिती कान्तिसौ दामिनी चंडाविणी विनाशिनी ताराक्षी तारिणी कात्यायनी सुभद्रासिद्धानिर्वृती लक्ष्मी दीप्ती सुमुखी नित्यानिरक्तिनी || आनंदिनी भीमा घोरा देवकी गगनाखड्गीशंखनीट्लिनी वामनी स्तंभनीत्रासी मोहिनी असुराविनतासु न ता स्मृतिर्धृतिः कनका अज्ञाशिवाहुंकारी क्षेमंकरी वषट्कारी सूर्यया चंद्रासतिरती दुर्गा वसुधा वसुदा कनकाखिलवस्त्रा यंत्रेकाखिल कल्प्यते नवैकपंचाष्टदशसंख्यातस्तु यथा क्रमात् || प्. ७०ब्) मध्यकुंभे समाबाह्य कलासार्द्धं सुदेवकि | कलानाशकनेसेति निगद्यते | भक्षतां प्रजपेत्तत्र यथापूर्वोपचारतः || अलिपंक्त्यादिभिश्चाल्प द्रव्यैर्वा साधु साधयेत् | सर्वासां चैव देवानां तथा पंचोपचारतः || वर्णानां व्ययये नाथ पठेत्पाद क्रमेण तु | तत्तत्तद्वर्णं देवेशि योजयेदुपदेशतः || एवमाराध्यदेवेशीं साधयेत् सर्वमात्मनः | अस्तुल्क्तसिवैलोमाज्ज्ञातव्यं गुरुवक्त्रतः || इति कुब्जिकामतेतत्पुरुषनिर्णयोनाम एकचत्वारिंशतमः पटलः | श्रीदेव्युवाच एवमेतत्त्वया प्रोक्तं पुरुषस्यो क्षमे विधिः | सुक्षेपायमहेशान तथान्यान्त्रपि कोटिशः || तृमुंडादि महातंन्त्रे ब्रह्मतंन्त्रे सुरेश्वर | नोक्तमा अस्य कुत्रापि विधानं शोभनं शुभंम् || सर्वपापहरोदेवो मोक्षैकफलदे विभुः | शिवः स्वच्छन्दभेदेन स्थितः परमकारणः || आब्रह्मस्तं च पर्यन्तं चरेषु स्थावरेषु च | व्याप्तं सर्वत्रदेवेशं चराचरगुरुं परं || न जानाशि ग्रहं नाथ कथं केन क्वचिद् विधं | मेरुमध्ये यथादेवं तत्सर्वं वक्तुमर्हसि || वर्णानां च यथा रूपं सर्वजयकरंपरम् | न्यासध्यानसमायोगं पूजनं सर्वदेवतम् || अन्यच्च * * ट्घातं देवयथा योग्यं च मे वद | श्रीभैरव उवाच साधु भाविनि भद्रन्ते यत्पुरा गोपित मया | अकथ्यमपि देवेशि तव स्नेहेन सुंदरि || प्. ७१अ) क्रूरास्ते मानवाः सर्वे मोहयन्ति परस्परम् | त्वयापि सर्वदा गोप्यं यत्समत्वान्नसंशयः || आवयोस्तु विभागं च किंचिन्मात्रं न विद्यते | ममात्यंत प्रियासित्वं नान्यः प्रियतमो भवेत् || अद्यमे वदतो वाक्यं शृणुदेवि यथास्थितम् | पूर्वोक्त क्रमतो देवि प्रस्तार्यं च परस्परम् || सर्वविद्यालयं साक्षात् पारंपर्यक्रमागतम् | सर्वकामदुत्वघं देवं वर्णरूपैर्व्यवस्थितम् || सर्वार्थसाधकं देवमुद्धरे त्वं नगेश्वर | विधिहीने भवेद्व्याधिर्विधिहीनेर्मृतिर्भवेत् || विध्यभावे महादेवि सोग्निर्नान्यो भयसपि | सर्वथा विधियुक्तं च उद्धरे त्वं नगेश्वरम् || आदौ च विश्वमालायां ध्रूवं नाति प्रतिष्ठितम् | ऋजुमध्यं तु संगृह्य ध्रुवाद्यासनसंस्थितम् || क्रूरंतं शिवेदत्तं सापिमध्यं च सुंवक | वेदवन्तं विजानीयादुत्तरे निषधालये || नवकेशरकं गृह्य गवावंने?नभूषितम् | पंचमंत्र विजानीयाददेन्मध्यस्तु उत्तमम् || सासिमध्यद्वयं देवि केवलं सप्तमं भवेत् | दीपनी शूलदण्डे तु चरेन्मध्ये तु वज्रिणी || पुनः सा वज्रिणी देवी सूक्ष्म भैरवसंयुताम् | मुद्रीशंकात्व मध्ये तु मुनीनामत्तसंयुतम् || तारगुणोत्तमादाय आमोटीक्षरमध्यतः | एकादशं तु देवेशि भौतीशं क्रूरमस्तकं || माया देवीं केसरे तु जहरं निषधालये | वेश्यन्तं नवके देवि वज्रिण्यासनसंस्थितम् || नवादि दीपनी देवी दशपंच न संशयः | प्. ७१ब्) वसिमध्ये त्वयां चैव दश सप्तसुरेश्वरि || नवके चतुर्वर्णं च दीपन्यासेन संस्थितः | भीषनां ऋषिमालायां ध्रुवांतासनसंस्थिताम् || ऋत्ववर्णं गृहमालायां ताराक्षा दीर्घसंस्थिताः | गुणोमध्यं तु देवेशि अनन्तासनयुग्भवेत् || रुद्रशक्ति समायोगाद्देवाविंशन्नसंशयः | नतोर्षेरुत्तवर्णं च ब्रह्मासार्थपतिर्भवेत् || भिन्नशक्तिश्च संभिन्ना अष्टाविंशन्नसंशयः | छगलंडं भूतमध्येन बाह्यासनसंस्थितम् || अका मध्यस्थाने च मध्यासनसंस्थिता | गणमध्ये अधश्चैव धेनु मध्येस्तु धेनुकान् || लोहितं नरके देवि केवलं रुद्रमंदिरे | वामोरुगांतताराक्षा भगमध्ये व्यवस्थिता || मंदरे सूक्ष्मसंयुक्तं चतुस्त्रिंशाक्षरं भवेत् | रुद्रशक्त्या भवन्तौ द्वौ भवेतामविचारतः || भूतादि वर्णं देवेशि नवाद्यासनभूषितम् | झटीशेनशिरो लोका शिवादि शिवभूषितम् || शवकं नवके वर्णं गुह्यशक्तिविभूषितम् | वांतं न च केसेर्विगाय आदि भेदितं कुरु || मे च मध्ये महाकालं ज्ञानशक्ति विभूषितम् | कैलासे मंदिरे देवि देविञ्च कंठकेवलं || एकाः वलवमंदिरस्था भूमीशो ससिमध्यमः | ताराक्षासंयुतः सोपि ध्रुवादिस्थासन विदुः || अग्निज्याधश्च धृग्वशीशंके अंतबिंदु भूषितम् | सापि मध्यकेवलं तु धात्रीशं कांतु मध्यतः || प्. ७२अ) अनन्तं गंधशिखरे भिन्ना चाथ सुरेश्वरि | शरं चैव * के चैव सूक्ष्मभैरवभेदितम् || भावेत्तं चरवरद्भ्याशं सद्योजातेनभेदितम् | बिंदुभैरवसंभिन्नं हंसवर्णं ततो यतः || ध्रुवान्तं नैवदेवेशि मातृकासंख्यको भवेत् | तारां ते तु महाशक्तिं हंसात् प्राक्संप्रयोजयेत् || एवमेतन् महामंत्रं तवस्नेहो च भाविनि | प्रकाशितं रहस्यार्थं न्यासांश्चार्थ नव प्रिये || द्वादशं *?श्च च हृदयनिवृत्तिश्चात्मने ततः | नवांतं च शिवोज्ञेया प्रतिष्ठाज्ञानसंयुता || शिखा ततो ग्रहार्णं स्याद्विद्या चैव क्रियाथवा | वर्णवद्यक्षरंगांति स्वात्मशक्तिश्च भैरवि || ऋतिवर्णं साद्यतीतानेत्रं संजीवनं पुतः | भूतांते वर्णमाख्यातं मोक्षशक्तिं ततः परम् || महालक्ष्मी युतं कृत्वान्यासमेतं समाचरेत् | चक्रे त्वेवं प्रयुंजीत यथाशक्ति क्रमेण तु | उर्द्धादि क्रमतो देवि पदन्यासं तु कारयेत् | विद्यान्यासं मातृकायाः शब्दराशिः मतः परम् || न्यासं कृत्वा पुरेशानि ध्यायेत् तं चक्रमध्यगम् | शक्ति द्वं द्वं लिखेत् पूर्वं त्रिपुराशक्तियुग्भवेत् || अन्तरे तु तयायुक्तं नेत्रं भ्रूमंडलं भवेत् | अग्नेः शक्तिर्विभिन्नं च अंतेशक्तिं नियोजयेत् || स्वराणामंतरे देवि जीवं प्राणं तु कारयेत् | चंद्रबिंबं लिखेद् दन्ते शक्त्याशक्तिं नियोजयेत् || शक्तिं द्वे द्वे न्यसे च्छक्तिं मध्ये शक्तिं द्वितीयकं | स्वराणां च महादेवि न्यसेद्वर्णान्विभागशः || आद्यद्वित्वं च शक्तिः स्यात्क्रमादक्रमयोगतः | प्.७२ब्) विन्यसेन्मातृकां देवीं स्वशिरेणाग्निदीर्घयुक् | बिंवाष्टके महादेवि चंडिकां विन्यसेत् ततः || अग्निबीजं ततो न्यस्या मध्ये देवं विचिन्तयेत् | धवलास्वरसंवीतं धवलाकल्पभूषितम् || धवलं धवलाब्जस्थं धवलावासमध्यगम् | धवलैरेवमार्गाद्यैस्तथा पूज्योपकारकैः || शूलटंकाक्षवलयं ज्ञनमुद्रामभीष्टदम् | दक्षेवामे तथा देवि अहिपाशांकुशौ तथा || पुस्तकं मकरालं च दधत्पूर्णसमप्रभम् | यथा वा देवि देवेशं दक्षिणामूर्तिरूपिणम् || पूर्णामृतघटं चोर्द्धे वामे चाथ सुपुस्तकम् | अक्षस्रंजं दक्ष ऊर्द्धे मुद्रां ज्ञानमयीं तथा || एकवक्त्रं त्रिनेत्रं च कुंदसिंदूरभास्वरम् | इत्थं विचिन्त्यदेवेशं पूजयेदुपचारतः || अंगमूर्तिनिवृत्यादि मातृभैरवयोगतः | विद्येशनित्यमाराध्यतद्वेत्रीन्परितो यजेत् || इन्द्राद्या देवताः सर्वे वाहनैः शस्त्रसंयुताः | विस्तरेणाद्य देवेशि तवस्नेहात् प्रकाशितम् || त्वं च देवि स्वराख्या(त्र्या)न्यान्प्रकाशयन चान्यथा | अनादि सिद्धिसंसारे अज्ञानेन विमोहिताः || सकृदुच्चारमात्रेण सप्तजन्म कृतं महत् | पापानि विलयं यान्ति सत्यं सत्यं न संशयः || लक्षमात्रकृते जापे सिद्धिना मालयो भवेत् | नलदुर्गेशि देवेशि त्रैलोक्यं च समालभेत् || लक्षत्रये कृते जापे साक्षाद्वै श्रवणो भवेत् | प्. ७३अ) वेदलक्षान्त्रिवेदीशो कर्ताहर्ता स्वयं विभुः || पंचलक्षैर्महादेवि गाणपत्यफलं लभेत् | लक्षैरेकादशोर्देवि साधको मत्समो भवेत् || तत्वलक्षाहसौ देवो मया तुल्यः सदाशिवः | कुलान्तारयते स्प्त दशपूर्वादशापरेन् || इतो वक्तुं न शक्नोमि सत्यं सत्यं वरानने | सूर्यो वा तपते भूमौ सागराता महीश्चरेत् || मंहींगछेच्च पाताले विधुराग्निर्भवेद्यदि | भग्नं पर्वतराजस्य एतन्मिथ्या भविस्यति || ब्रह्मपुस्यसमिद्धोमं तिलतंडुलकैः क्रमात् | लाजापूपफलानां तु मधुरैः सह भाविनि || ज्ञात्वा भवो विमुक्तोसौ द्वाराये परमेश्वरि | सर्वैर्द्रव्यैस्तथा देवि सर्वकामां नवाप्नुयात् || इत्युक्तं च रहस्यार्थं इतः किं कथयाम्य?हम् | श्रीदेव्युवाच भगवन्सर्वमाख्यातं विधानं शोभनं परम् | तत्परस्य तथेशस्य देवी सर्वार्थ सिद्धिदं || विधानं परमं गुह्यं देवि सिद्धः सुपूजितः | भैरवीति च विख्याता या देवी सर्वसिद्धिदा || तस्यास्तु परमं बीजं मंत्रमंत्रादि संयुतम् | न्यासध्यानसमायुक्तं सामर्थ्यं तस्य कीदृशम् || भैरवी समया देवी यथावत् परमेश्वरी | कथयस्व प्रसादेन येनजानामि सुव्रतः || श्रीमहादेव उवाच शृणु देवि यथा सा तु पूज्यते च कुलक्रमान् | कुलकुब्जेश्वरी देवी कुलाचारक्रमेण तु || कुलजा योगिनी जाता योगिन्यः सिद्धयोगिनः | आराध्यविधिना देवि प्राप्नुयुस्तेन संशयः || प्. ७३ब्) अन्यैश्च सिद्धिवर्गैश्च भैरवीं भवभक्तिनीं | न्यासमात्रे कृते देवि सर्वपापक्षयो भवेत् || तारपंचक माद्यन्तं योजयेत् सर्वसिद्धये | हृदिमध्येंडंविका देवी आत्मशक्ति समन्विता || नवादि दीपनी देवी त्रिमूर्त्या भेदितं कुरु | लोकादि शिवभिन्नं च देव्याबीजं सुरेश्वरि || हंसविजौ तु दीपन्या वामांते भौतिकेन तु | क्रूरभैरवसंभिन्नं द्वितीयं वरवर्णिनि || सहांत्तौ क्रोधसंरुद्धौ विधुमध्यं सुरेश्वरि | मेषे नाम महारुद्रो गुणोंतः सूक्ष्मयुग्भवेत् || ताराक्षभावमध्यस्था यामोन्तेन भेदितम् | एकादसादि वर्णं च विल्लमध्ये तु पूतना || मंदरे सूक्ष्मरूद्रेण भेदितेनैडयुक्भवेत् | महाकालंभे च मध्ये कात्रमध्यं नरा भवेत् || धात्रीशं दीपनी युक्त शरम्ध्ये सुरेश्वरि | रुद्रसंख्यां समाख्यातं विद्यांतेग्नहसंयुतम् || प्रथमं हृदयं देवि द्वितीयं शिव उच्यते | तृतीयं शिष्यसंज्ञेया ततोर्द्धं च चतुष्टयम् || तस्मात्कारणसंख्यार्णैर्वीक्षणं देवि पूजितम् | देवी बीजेन चास्त्रं स्यादुमाज्येष्टां च रौद्रिका || विजया मंगला चैव सिद्धिदा सर्वपूर्वका | गुह्यादि पदसंयुक्तां देवतातुलमोत्थिताः || नवाधारेषु नत्वं तु नत्वाभ्यां व्याप्यसमाहिताः | भूबिंबे चंद्रबिंबं च मध्यबिंबे सुधाकरः || करेह्य बिंबानि चंद्रस्य चतुर्द्धारोपि कल्पितः | प्. ७४अ) साध्यबीजं महादेव्या अष्टावष्टौ तथावहिः || विन्यसेन्मातृकं तत्र देवीबीजं ततो वहिः | मध्यविवगतां देवीं वालार्ककिरणारुणाम् || कुरुकुंभलतांगीं च नानाकल्पविभूषितां | चापवाणवराभीष्टा करपल्लवशोभिताम् || शोणारधौरक्तपातः सम्यक्किंजल्क सस्वरम् | द्विपंच शोभनं देवी ध्वान्तादौ साधकेश्वरि || गुणलक्षकृते जापे होमे त्वेक गुणेन च | पललाताक्षहोमेन साधयेत् सर्वमात्मनः || माया हंसि सिद्धासति उमाकालि सरस्वति | ग्रामणि भैरवि मुक्ता(देवि) एकवक्त्राः चतुर्भुजाः || कुचलंबिका?दिग्वासाः सावधानाः स दूषणाः | लोकशक्तिस्तथासंघाः कुचलंविविभूषणाः || पादुका पंक्तिसाक्षाच्चनमस्कारादि पूर्ववत् | एव एवंमभ्यर्च्यनां देवी भैरवीं भवशातनीं || ध्यानयेत्पादसंभिन्नं धूपदीपादिसंयुतम् | षण्मासाभ्यासयोगेन साधकः खेचरो भवेत् || इति श्रीकुब्जिकामते शालनिर्णयो नामद्विचत्वारिंशतितमः पटलः | श्रीदेव्युवाच देवदेवजगन्नाथलोकानुग्रहकारकः | त्वत्प्रसादेन शास्त्रार्थं श्रुतं विस्तरतः प्रभो || अधुना श्रोतुमिच्छामि भैरव्याः क्रममुत्तमम् | कलाकाष्ठादि रूपेणनिमेषान्मेष आग्नतः || पक्षशब्दे कृते तत्र कलिद्वापरयोगतः | अन्यान्यपि च या देवि शुक्तितेहसुरेन्यपि || एकद्वित्रिचतुःपंचषट्सप्ताष्टकं नवम् | दंशेकद्वादशत्रिंशचतुर्दशषुपंच च || प्. ७४ब्) दशसप्त तथात्रिंशत्सहस्त्रकः | अर्द्धलक्षं तथालक्षं चतुःपंच च पंच च || कोटिभेदेन देवेश अनंतं त्रिविधार्णवम् | ज्ञानविज्ञानसंभिन्नं सर्वं सा सूजनि स्फुटम् || न्यास ध्यानं तथा पूजा वक्रंसर्वार्थसिद्धिदं | ब्रह्मादिस्तं व पर्यन्तं व्याप्तं देव्यास्तु तेजसा || इति सर्वं सुरेशान विस्तरेण वद प्रभो | श्रीभैरव उवाच || देवि गोप्यमिदं ज्ञानं सर्वं यत्परिपृच्छति | तथापि स्नेह भावेन वक्ष्यामि सुरसुंदरि || श्रीभैरव उवाच || भैरवींति च या देवी विद्धितां गरुडध्वजम् | या देवी हरिरित्युक्ता स देवो भैरवः स्मृतः || नकुलीशी शक्तिश्च रेफोहत्वंवरं पुनः | नादबिंद्वात्मकैः सोद्रौत्वं चाहं विद्धि पार्वति || दृग्वलाकुलवांतांतं शिखिज्यातेन भेदितम् | नादाअदि संज्ञकं कुलीनदि सर्वेदभूषितम् || सर्वाम्नायक्रमं चैतज्ज्ञातव्यं वरवर्णिनि | पूर्ववत् समयं देवी संपूज्य च कुलक्रमम् || पादौ च विश्वमालायां ध्रुवं नामप्रतिष्ठितम् | देवी बीजं ततो देवि बहुमध्यं प्रयासिनां || त्रिस्थाने दौ समुद्धृत्य आघौरुतात्त भेदितौ | दीपनी शूलदंडं च नवाद्यक्रूरभेदितौ || द्वितीयं तु महाकालं निकरान्यासनस्थितम् | पूतनाशूलदंडं च तदधः कारयेद्बुधः || वेदवर्णं पुनर्देवि उत्तरेनिषधालये | मंदरे क्रूरसंभिन्नं चतुर्थं तु न संशयः || तृतीयं तु सुरेशानि नवादि क्षेत्रभूषितौ | संहारिका ततो देवि द्वेकमध्ये व्यवस्थिता || एकादशं तु दीपन्या भेदितं क्रूरमस्तकम् | प्. ७५अ) न सवर्णं पुनर्देवि गुणैतं केवलं भवेत् || भे च मध्ये महाकालं गायत्र्या भिन्नमस्तकम् | गुणेंतं नादिनी देवी अनंतं गंधमादने || तद्वल्लवादिमुद्धृत्य चात्ममध्यं तु केवलम् | नारायणी महादेवी अनंतेन विभुषिता || वायुवेगा पुनर्देवि चंडिकान्तं समुद्धरेत् | पुनर्यागौरियद्राज्यं त्रिषुलोकेषु कथ्यते || मूकोपि वाक्पतिर्भूयाद्व्रतहीनोपि वित्तपः | शीतलेनासितुल्पश्च तेजसा तरणि प्रभा || गुर्वाक्षायां नुतैरेव सिध्यते नात्रसंशयः | न्यासं तु कारयेद् यत्नान् सर्वंसिद्धिकरं परम् || देवी बीजं महेशानि वाचांते पूर्वपत्रके | उल्कं चंद्र प्रभं कृत्वा भैरवी हृदयं हृदि || देवी कामं तथा देवि महा उल्कं तथा पुनः | धरा दौ त्रिपदं प्रोक्ष भैरवी हृदयं शिवः || देवी तृतीयसंभिन्नं वीक्षोल्कं भैरवी तथा | देवीति प्रथमं बीजं युक्तं तद्वन्नियोजयेत् || कामबीजं महादेवि सहस्रोल्कं च प्रतिमुक् | भूयाहुपूर्ववदेवमुद्यनीयानियोजयेत् || महाचक्रं च यद्भिन्नं त्रिपुरायाः सर्वतः प्रिये | हृदयं वास्तुसंभिन्नं चंडिकांतं प्रकल्पयेत् || वक्त्रे चाथ प्रयुंजान चंडिका बीजमुत्तमम् | अन्ते वाचं ततः कामं तार्तीयं च पुनः पुनः || विष्णुः सदाशिवे शस्य रुद्रो ब्रह्माथवारविः | ततोऽष्टाष्टकं देवि न्यास योगं शृणु प्रिये || यासि मध्येसन कुलीदंडेन भेदितं कुरु | अष्टादिनि च दीर्घादि शिरोभिन्ननि कारयेत् || अक्रूरेण तथा देवी ब्रह्माणि असिताप्नुकम् | प्. ७५ब्) माहेशीरुरुभेदे च कौमारी चंद्रसम्युता || वैष्णवी क्रोधसंभिन्ना वाराह्युन्मत्त भैरवी | इन्द्राणी सकपालाख्या चंद्रिकाभीषणेन तु || संहारेण महालक्ष्मी यामलं वै प्रकल्पयेत् | बीजं तथा ह्रस्वदीर्घं मातृभैरवयोगतः || केशवं प्रथमं देवि नारायणमनंतरम् | माधवं चाथगोविंदं मधुसूदनमेव च || त्रिविक्रमं कुब्जांगवरसंभैरवीति च | वासुदेवेनसंभिन्नं विंद्यान्ते एवमेव हि || दुमध्यं दक्षवाहू चेव पार्श्वो पार्श्वाधारके | असंपृष्टे परगलेमस्तकेष्वेवमाचरेत् || अष्टां तं च तथायोक्ष अष्टबाहुं च भैरवं | आदौ तु मातृकां देवीं प्राग्भवावक्रमेण तु || अष्टाभुवं चाष्टांशो देशे हुत्वा बीजाष्टकं ततः | (न्यासमात्रे कृते चात्र सर्वपापक्षयो भवेत् || लक्ष्मीसरस्वती प्रीतिरतिः कातिः सकं ततः |) न्यासमात्रेकृतेचात्र सर्वपापक्षयो भवेत् || लक्ष्मीसरस्वती प्रीतिरतिः कांतिः सती जया | मंगला सर्व पूर्वा च केशवांते तु पूर्ववत् || ततः कुर्वीत देवेशि मंडलं हस्तमानतः | सितकैः कुंकुमैश्चैव सिंदूरमृगनाभिः * * || लिप्त्वा तु पीठे पट्टे वा हेमराजतनाम्रके | स सर्वं मोहनं चक्रं न्यासे तत्र समाहितः || शिवं शक्तिं च देवेशं अन्योन्य मथनात्मकम् | मध्यसूत्रं प्रकुर्वीतमध्य चक्रं यथा भवेत् || प्राग्योनि च समंभित्वा लिखेच्छक्तिं स लक्षणम् | पूर्वोक्त शिवशक्त्यग्रे न्यसेत् सप्तार्णवं वहिः || परिवेशक्रमेणाथ वेष्टयेदग्रमग्नतः | अष्टारं चंद्रबिंबं च परिभ्राम्याथ वाक्यतः || टांतमाखंडलं भिन्नमग्रेणगुणमालिखेत् | मध्ये बीजं महेशान्याः सकलं विन्यसेद्बहिः || प्. ७६अ) महाबीजं तु परितः संवर्त्तं शाग्निसंयुतम् | क्षेमंतभूम्निसंभिन्नं अंतरान्ते विधानतः || वृंदे पृष्टे अष्टवर्णं यथा पूर्वं न संशयः | ठकारान् विन्यसेद् वर्णा नंते विद्यां सुरेश्वरीं || प्रवेटेनसंभिन्ने श्रियासंवर्तकं न्यसेत् | तन्मध्ये तु सुरेशानं भैरवी सहितं स्मरेत् || वाक्श्रुती तथातीतौ सदसद्भाववर्जितौ | सृष्टिस्थित्यंत रहितै सर्वकारणकारणौ || अर्द्धनारी हितस्तौ च पूज्यौ माध्यं च तौ सदा | वामदक्षे अविवदौ दक्षे वामेषु पुस्तकम् || नानारत्नमयैः कॢप्तं स्फाटिकीमक्षमालिकाम् | ज्ञानमुद्रामधो देशे वामे पूर्णकपालकम् || वंधकासिरसाभासौ सर्वकल्पविभूषितौ | नयासोक्तविधिना देवी पूजनं सर्वदा कुरु || ब्रह्माद्या देवताः सर्वे पादमूले व्यवस्थिताः | अंत्ये च ऋषयो देवि ये चान्ये भूतजातयः || रुद्रलक्षजपादीशः स्वयंभू कुसुमैर्हुतः | भवेदाचारनियतः पशुदृष्टिविवर्जितः || सर्वजन्मकृतं पापमुद्धारेण क्षयो भवेत् | बहुनोक्तेन किं चात्रसर्वं साधयते तु सः || एतद्विद्याद्धिवत्क्लिष्टे शिष्टे देयो न चान्यथा | अन्योन्यं संप्रवक्ष्यामि विद्यामंत्रं सुदुर्लभम् || अंबिकाभृगुमध्यस्था शूलदण्डासनस्थिता | भौतिकं मूर्द्धिविन्यस्तं आदावंते च मध्यतः || एवं वा चिंतयेद् देवं पाशांकुशदवाविकम् | अक्षश्रक्पुस्तकं चान्यौ इक्षुकोदंडसायकां || प्. ७६ब्) कौमोदकीं च जलजं धवलाकल्पमंडितम् | चक्रमध्ये सुरेशान्यामर्क्येदुपदेशतः || प्रजागरं च सुरंबाह्ये ह्रासांते नु षोडशम् | तत्वसंख्यं दंतपत्रं पार्थिवं चक्रसंयुतं || तद्बाह्येमंडलं चापि विधिद्वारोपशोभितम् | अष्टावरणमेतद्धि चक्रं चैतत्सुरेश्वरि || प्रणवं मध्य देशे तु श्रीबीजेन पुटी कृतम् | षडार अंशमंत्राणि अष्टारेश्वरयुग्मशः || मन्मथं द्वादशारे तु द्वादशासुर बिंदुमत् | चंडिकां षोडशे न्यस्य चतुर्विंशे मंत्रमालिखेत् || द्वात्रिंशे लिपिवर्णानि वज्रं माहेन्द्रमालिखेत् | वारुणं वारुणे चैव वेष्टयेच्छक्तिमंकुशे || पुर्ववत्पूजयेद् देवीं वागुरीं मदनावतीं | नारायणीं रमां देवीं यामिनीं नादिनीं तथा || निरवद्यां महादेवीं यमजिह्वां ततोर्चयेत् | देवी बीजं महेशानि दीर्घाष्टक विभूषितम् || अक्षस्रक् पुस्तकं तासां पाशांकुशवराभयां | वज्रसंख्यादिकातास्तु प्रौढाः सर्वार्थदायिकाः || स्थितास्तदग्नतो देवि सहस्रं चाष्टकं शतं | अक्षसूत्रं समादाय आदिक्रातं विभूषितम् || अथबाहुर्लिपिर्वैस्तु मुक्तादि मणिसंभवैः | पंचाशतीमोक्षार्थी सप्तविंशति पौष्टिके || त्रिंशतिर्द्धनसंपत्तापंचदश्याभिचारके | माध्यं च शांतिके ज्ञेयं अर्थलाभं च नामिके || कनिष्टायां सर्वसिद्धिः स्यादेतैर्जपलक्षणम् | चतुरस्रं योनिसंकाशं त्रिरस्रं वर्तुलं सुभम् || अन्यान्यपि च कुंडानि कर्तव्यानि परमेश्वरि | होमे मुद्रा त्रयः प्रोक्ता मृगीहंसी च सूकरी || प्. ७७अ) मुद्राहीनं च यद्धोमं तद्धोमं निष्फलं भवेत् | शूकरीकरसंकोची हंसीयुक्तकनिष्टिका || मृगीकनिष्टतर्जन्या मुद्रात्रयमुदाहृतम् | एणी च शूकरी देवी ग्रथिनी मुष्टिरंजिनी || अभिचारे शूकरी स्यादितरं शांतिकादिषु | कनिष्ठांगुलिमारभ्य प्राग्दक्षिणक्रमेण तु || अनामिकांतं वै देवि तत्कोटिगुणितं भवेत् | कमलाक्षे च रुद्रश्च पलाशं च जपार्णवम् || होतव्यं मधुना वाथ फल्गुनी अलिमिश्रितम् | एवमाराब्ध देवेशं त्रिभिर्वर्षैः सुसंयतः || श्रीयाधनदतुल्योसौ वाचावागीश्वरो भवेत् | कीर्त्या च विष्णुना तुल्यः स्वर्गार्थं स्थितैं ममः || बहुनोक्तेन किं वासौ मया वंद्यो महेश्वरः | इति कुब्जिकामतेभैरवीनिर्णयोनामचत्वारिंशतितमः पटलः || श्रीदेव्युवाच || ययातु धर्मकामार्थं कैवल्यं च प्रपद्यते | ज्ञातृप्रसादरूपेण सा सदानंदरूपिणी || अणुस्थूलादि भेदेन सर्वं सासृजनिस्फुटम् | अमर्त्यः पूर्वदेवोयः अगस्त्याद्याः सुतापसाः || भजंति सुधि यो नित्यमनेकोपायसंकुलैः | वर्णविद्यार्थभूयस्त्वाह हत्वाद्ब्रह्मगद्यते || विद्याब्रह्मसमत्वाच्च ब्रह्मविद्या तु सा स्मृता | तस्माद् विद्योत्तमां देवीं सर्वसौभाग्यसंपदां || त्वन्तः परमकल्याण नान्यो वेत्ताजगत्त्रये | तामरादि महातंत्रे आम्नायैर्वामनादिषु || उक्तं च भवता सर्वं न ज्ञातमेव साध्यतः | कथयत्वं समासेन सांगोपांगां त्रयी मयीं || प्. ७७ब्) श्रीभैरव उवाच || साधु साधु महाप्राज्ञे गूढमेतदतीवतु | यामले यामले देवि नवकोटि प्रमाणतः || उमेति कुब्जिका पंच उक्ता सा विस्तरेण हि | अत्रापि शृणु देवेशि यथापूर्वं मयोद्धृता || जयद्रथे पंचकीलीत्रिः कीलीयामले मते | राजराजेश्वरे पंच षट्कीलास्कंदयामले || कालवेधं च जानद्भिर्वद्धः सत्तश्च निर्मलाः | तंत्रे तंत्रे महाविद्या जीवहीनाः प्रकाशिताः || न सिद्ध्यंति वरारोहे कीलिता विघ्नदायिका | समयं तु पुरादत्वा श्रीक्रमावलिपूजने || कुलाचार्यः सुसंपन्नः शास्त्रवित्सर्वलक्षणः | गंधं पुष्पं सुधूपं च दीपं नैवेद्य कर्म च || अशेषैः संभृता चारः पशुदृष्टि विवर्जितः | कस्यतारसहस्रेण पलभारशतैरपि || न तृप्यामि महादेवि पंचकीलाः प्रकीर्तिताः | तद्यथा मरणं विद्यात्तरया वर्गरिद्रता || शाशिमध्यगतं देवि कारुण्यं दीपनी युतम् | श्रोतुं कात्वमधोरूपे यामे योध्यन्त यानुगम् || पंचान्तकं ततोत्तस्थं मंदरे सूक्ष्मगं पुनः | गुणोन्ताद्भु तथा योज्ये फट्कारा दीपनी युता || रूद्यादि वर्णयोगं चरु अंतं बिंदुमस्तकम् | विष्णुपद्भ्यां समायोज्य सर्वान्तां सिद्धिमातृकां || चंडिकाराकुमार्देवि नित्योनित्य नंदिता | चतुर्थ्यारथसंबुध्या शक्तिबीजं तु केवलम् || करालिकापुतना च कुलचक्रपदं भवेत् | नायिका यै भगवती चंडं चाथ करालिनी || अनंतं गंधशिखरे मालिनी च महेश्वरि | प्. ७८अ) अंबिकाराजसद्दीर्घतद्वन्मर्त्या विभेदितम् || तदेवषष्टस्वरयुक् चंडिकां चैवमेव हि | सिंहादौ तु स चंडा च अंकुशं कामशक्तिदम् || पावनीशूलदंडं च भे च मध्यं तु हंसिनीम् | निर्वारणं च दरुणं * * * मंदरेण तु || कांतं सांतं स वलान्तं पूरप्रशम*?नि च | शक्तिः क्रोधः पूतना च त्वरिताष्ट क्लेशतः || दहनीकातृमध्ये नरके पूतनानि च | सर्वांभोधि शक्तिर्ब्रह्मा शचीपतिः || शक्रप्रथमनी देवी युगेहसल्लयुक् | अनमेध्यं केवलं तु शूलं दंडं तथैव हि || अमृगा दुर्बला देवी भक्षिणी कालयुक् पुनः | स्वशत्रु युज्ग्राहिरजाभिंदिछिंदि युक्पुनः || असिनातं जपेद्वैद्वं च्छेदयेति तथैव च | भैरवो भैरवी देवी चामुंडा चंडसंयुता || महाकालं महाकाल्याः सकलं च मनोरथान् | साधयद्वितयं देवि पावनी शूलकालयुक् || कारुणिके भगवति कालहा भैरवं पुनः | रूपधारिणि देवेशि त्रिदशं वारुणं भवेत् || शूलदंडागुणों तवमंत्रे शक्तिकमानतः | मंत्रस्तु जननी देवी रुद्रान्तेन च मंदिरे || भुजंगभैरवस्थं च राधादिनागमध्यतः | बिंदु मध्ये जपत्याख्या गुणोंतं केवलं विदुः || वत्सले देवदेवेशि महाकाली तदग्रतः | रुद्राग्निंदिबिल्वमध्यं तु * * पदमुद्धरेत् || विद्यादौ चोद्धृता बीजाः प्रसीदमदनानरी | कुबुद्धिं कुरु देवेशि गुरुश्चक्र सुता प्रिये || कुमारीं तु समायोज्य देवी मंकुशभूषितां | अंबिकां कुरु मध्यस्था षष्टशूलं स पद्म फट् || प्. ७८ब्) ततो अर्घ्यात्तपनीस्यात् प्रजानां गतिरव्ययः | जगत्यतीतं देवेशि उद्गता सर्वकामदा || एषा प्रत्यंगिरा देवी नाम्ना त्रैलोक्य मोहिनी | अनया विद्यया देवी त्रैलोक्यस्य जनार्दनः || सर्गसंस्थिति संदेवी करोत्वेषा जगन्मयी | राजविद्या महादेवी राजगुह्या पुरेतमा || राजोत्तमोन्त मासा तु पावनानां च पावनी | दवोदावे महादावे अविव्यालाग्नि जनादिषु || आहवे जयमाप्नोति पर्थिवत्सहिभूपति | यमादि साधनं देवि अणिमादि गुणाष्टकम् || अंजनंग्रसकल्पा च मंत्राण्यन्यानि मुद्रया | रूपबीजा कृशानन्या तपनी प्रमुखा अपि || इत्थं प्रभावो देव्यास्तु सिद्ध्यन्ते ते तु सिद्धयः | द्वाविंशदक्षरं देवि कल्पांते तु प्रदापयेत् || अंगनांते पुराकृत्वा अंगे बीजद्वयं लिखेत् | शरत्काले तु संप्राप्ते निराहारो जितेंद्रियः || दिनं प्रति यथाख्यातं सहस्रं च दिने दिने | नवरात्रे तु संप्राप्ते यथाविभवविस्तरैः || अराध्यपरमेशानीं स भवेत् सामर प्रियः | मयापि यद्धतस्तेन सुखमास्यामि नित्यशः || दशग्नीवः पुरादेवि दर्पतो मदनुग्रहात् | तस्य ज्येष्टो महाभागो मत्सखस्तु पराजितः || स एवं दन?राज्यं च स तु हीनं सतः * * | समुयागत्य शरणं प्रसन्नः स धनेश्वरः || आदिष्ठातां मया तस्य तथासौभाग्यतो भवत् | दशकंधो नाललोकान् जितवान् विजितेंद्रियः || प्. ७९अ) जयद्रथः कामदेवो ब्रह्मा च विनता प्रभुः | स वैकुंठोथदुश्चर्य इतराणि अपि वादिराट् || कुर्वन्त्वेते महादेव्या आदेशं सर्वदा प्रिये | कृत्वादौ मातृकां देवीं नदिफान्त क्रमेणताम् || श्रीकंठनादिनीं देवीं आदिख्यांत स नादवान् | परानाथं च अर्वा च पादुकास्थानपोथिताः || परमात्मा अंबिकां च पातसंदीपनं ततः | क आदिभिन्नं देवेशि द्वितीयं तद्व देव हि || जापनीं शूलदंडं च महाकालं स हंसिनिं | पुनस्तां दीर्घसंभिन्नं सर्वत्राभिर्नियोजयेत् || सर्वज्ञां चाथदेभिन्नां हृदयं चात्र पार्वति | निर्वाणपद्मदे देवीं तृप्तां ये च शिवो भवेत् || वारुण्यसूक्ष्मसंभिन्नं श्वेतं कालं च यांतगम् | पावनी प्लवसंभिन्ना नरके पावनी पुनः || नवादि दीपनी युक्तं शवकं कालभैरवम् | नारायणी महादेवी मंदरे सूक्ष्मसंयुता || चतुर्थानादि बोधां तु देवी बीजं च कल्पयेत् | देवी बीजं समुद्धृत्य क्रोधं च बिल्वमध्यगम् || ततो भवे महेशानि हरिता क्लिष्टके शतः | दलनीभिर्महादेवीं स्वतंत्रा पतनच्छदम् || हुंगुर्वा पावनी देवी धात्रीशो दीर्घबिंदुमत् | भीषणीं रांतसंभिन्नाजलजं सूक्ष्मभेदितम् || तरणाभिः पुनस्तां च श्रीकंठोलुप्तशक्तिकः | निखिलं पदमुद्धृत्य अविप्रशमनीति च || देवेङ्गं व्यस्त्रसमापोक्ष्य पन्नगं शक्तिशास्त्र फट् | गुरुणां पादुका पंक्तिं ज्ञातव्यं चोपदेशतः || पदन्यासं वर्णभेदैरन्यैश्चापि सुरेश्वरि | न्यासानन्यान्विधातव्या गुरुवक्त्रविनिर्गतान् || प्. ७९ब्) अनेकवक्त्रनयनामनेकांतु करांबुजाम् | अनेक पाणि चरणां नेत्रानेक विभूषिताम् || अनेकभरणसंदीप्तां नीलकुंतलमुर्द्धजाम् | ध्यायेन्तामथ देवेशीं निश्चले नांतरात्मना || उदयार्कसमप्रख्यां किरणानेकसंकुलाम् | वंधूकपुष्पसंकाशां सिंदूरसदृशोपमाम् || पंचवक्त्रां दशभुजां पीनोन्नतपयोधराम् | सर्वाभरणसंभिन्नां सर्वलक्षणलक्षिताम् || त्रिपंचनयनां सौम्यां मुक्तकेशीं हिम प्रभाम् | सिद्धलक्ष्मी महादेवीं सिद्धिमुक्तिप्रदायिनीम् || नित्यप्रसिद्धयोगेशीं कुलाकुल महेश्वरीम् | अक्षमालां कपालं च * * * खड्गसंयुताम् || मुंडखट्वांग हस्तां च वरदा भय पाणिनीम् | पाशांकुर धरां देवीं प्रेतस्योपरिसंस्थिताम् || पाठक्रमगतैर्वर्णैर्विन्यसेदं कुशद्वयम् | विष्णुबीजं न्यसेद्देवी दलाग्रे च पुनः क्रमात् || दलपंचकसंयुक्तं रेखासप्तदलावृतम् | अष्टादशोर्द्धरेखांकिं भूतिराग्रहमुत्तमम् || शिखाग्रे त्रिशिखां पूज्यमंडलाखंडलस्य च | मध्यादि शरपत्रेषु यावत्कोष्ठाश्च बाह्यतः || कंटकादि न्यसेद्विद्यां युवतिः षोडशैः क्रमात् | तेषु षोदशकोष्ठेषु माजीनमध्यगै सह | मुखाग्रं शरपत्राणि साग्रं राष्टसपत्रकम् | षोडशारं महादेवी द्वात्रिंशद्गणशोभितम् || ब्राह्मे षष्टिचतुःपूर्वं पररेखा त्रयान्वितं | प्. ८०अ) भूविंवै परिसंयुक्तं वीथी द्वारोपशोभितम् || देवी बीजं वसंलिख्य पत्रेष्वपि पृथक् पृथक् | देवी देवौ च देवेशीं मध्यगे पदसंयुते || हाकिन्या तु यथाषट्को अष्टोतरनवात्मकम् | वसुभिस्तु शिवोभिन्नं षोडशे तु नवात्मकम् || द्वात्रिंशे तु महादेवीं विद्यार्णां च युथा क्रमात् | चतुःषष्टि युतां देवीं विवेकानु विलोमतः || विन्यसेन्मातृकां युक्तां बाह्येतां केवलं भवेत् | भूबिंबे चंडिकां देवीं वज्रेभुभा?गुरीमपि || द्वात्रिंशेन तु वर्णानि वाक्ये चत्वारि वानि च | ब्राह्मी क्षात्री तथा वैश्वा शूद्रीकंट्टकीनीति च || रजकी मोचकी पश्चाच्चंडाली च यथाक्रमात् | वट्काष्टकेतु वट्कीभीर्योजयेन्मातृभैरवात् || बीजाष्टकं तथा चादौ गुरुवक्रोपदेशतः | कामरूपी कोलगिरिः सौवाराव्यालकौ तथा || मलयं श्रीकुलांतं च जालंधं देवि कोटकम् | पीठेश्वर्यो महादेव्यः कामाक्षां च या तथा || देवी पूर्वं तु कोला यै सौवारायां तथा पुनः | तज्जायं तु तथा देवी समलांगं तु पूर्ववत् || कुलायां च तथा वापीं जलायां तद्वदेव हि | देवकायां निवांगे पूजाअपायाति भूय च || त्वङ्मांसे रक्तपित्तास्थि मज्जाशुक्र स जीवकाः | पीठादौ योजयेदेतत्त्वगाद्याबीजपूर्विकाः || एवमष्टाष्टकं देवि पूर्वन्यासक्रमेण च | सद्योजातं तु पूर्वेण वामदेवं तु दक्षिणे || अघोरं पश्चिमे न्यस्य पुरुषं चोत्तरे विदुः | ज्ञानापूर्वे प्रविन्यस्य तत्कालाभिश्च तां त्यज्येत् || प्. ८०ब्) इकारं प्रथमं पूज्यज्ञाकारं व द्वितीयकम् | क्रियाख्यां च देवीति पात्वेकामांससंयुताम् || ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः | प्रेतमध्ये महेशान्या आसनं मुंडसंयुतम् || धर्मज्ञानं च वैराग्यमैश्वर्यं दिक्पुनः पुनः | आकारं प्रथमं देवी मुडविश्वेति संज्ञितम् || रुदं च वलमध्ये तु अर्चयेत् सुरपादपान् | कंदनालं तथापर्णं मातृकां पूर्ववत् प्रिये || गुणरुष्कं न धर्मादीन् तत्र प्रेतासनं भवेत् | चंडिकाद्यंत मध्ये च चतुर्भ्यां च परा परा || अपरा तु तथा देवी महाप्रेतं च तंयुतम् | पद्मासनं महादेव्या उमामाचलनिर्भवेत् || सिद्धिलक्ष्म्यादि मूर्त्यन्ते देवी युगे तु युक्पुनः | मंडलेस्मिन् महादेवी सान्निध्यं कुरुयुग्मकम् || आरंभानि महेशानिमर्चयेदुपदेशतः | सपर्यासाधनं वक्ष्ये वामे त्वर्य स हेतुकम् || यथाविधानं संशोध्य रूपसंख्योप चारतः | चंडिकाशक्तिमत्पूर्वं तुकारपीठये सह || न चंडिका बीजमुद्धृत्य वसे हेति च चंडिका | चंडं च भैरवं देवं पादुका पंक्तिसंयुता || आनंदं च निवृत्तिति कलादेवी पुनः पुनः | जकारं पीठं श्रीपूर्वं उमां तां च करालिनीम् || पद्मपूर्वं तु चामुंडां ब्रह्मानंदं तथैव हि | प्रतिष्ठाप्यसमाख्याता त्रिबीजं पुनरेव हि || पूर्णपीठं तु देवेशि गिरि चामुंडचांडच | नाथेतिं संवरांते स्यामांतां चाथ च चंड्रकम् || प्. ८१अ) विद्याकलादि देवीति पादुकां पूर्ववत्पुनः | बीजानिमानि देवेशि चंडेशं पुरशंवके || सफेशक्ति महाबीज त्रिमलामत द्विसंयुतः | फेश्रीरुद्रनाथान्ते गालं तथा यांतिका देवी || कलादि पूर्वोक्तेन यथावत् * संप्रयोजयेत् | आरपूर्वेषु पादेषु ब्रह्मविष्ण्वंश भेदतः || ज्येष्ठा वामा च रौद्री च देवीनां पुरतः क्रमात् | षट्पंचाशत्पदं ज्ञेयं द्वादशंतं द्वितीयकम् || तृतीयं शिशुवर्णानि यथा देवी पुरार्चिता | सुराणामंतरे देव्याः पूज्याः षट्सुयथा क्रमात् || षड्दीर्घभेदितां कृत्वा प्राणजीवं च मादनम् | ततो भवेन् महेशानि ऐद्रो रेफं स दारुकम् || क्षकारं कालमारूढ मधस्था चैंद्रवारुणम् | दीपनी शूलदंडं च ध्रुवांतेनविभूषितम् || बीजमेनं महेशानि सर्वत्रैवा पराजितम् | नमोदिक्षु चतुर्थ्यन्ता महापूर्णितलोचना || टंकक्षोणिकाः सर्वावरदाभय शोभिताः | आत्मानमसूतांनुक्तं भूधरं मदनावती || शूलिनं धृतिसंयुक्तं विद्यात्मानं स भूषया | सितिकंठं चेंदिरां युक्तमपरं च कपर्दिनम् || विषापललितां देवीं सर्वज्ञं प्रजनां प्रिये | नीपट्युक् सती देवी पिनाकी सहजाद्गवीम् || वरदाय विरूपाक्षं वरेण्यायसुभद्रिकाम् | शूराया थसतीं देवीं स्मराय प्रिय दर्शिनीं || अघोराय सुभीमाय कुमाराय पराज्ञया | पाशांकुशधरानेत्रा रक्षसूत्रकमंडलून् || प्. ८१ब्) देव्यस्ता अंगपीठस्था जायाकल्पविभूषणाः | पानपात्रं च सर्वासां वामे दक्षे च मृण्मये || श्रीकंठादेः पदं देवी हेतुकं त्रिपुरांतकम् | अग्निवेतालसंगं च कृतानां च करालकम् || एकपादं महादेवी भीमाकृति स भीमकम् | अघोरे परौरुद्रौ स्यातां भैरवाय स भीमकम् || एते रुद्रा महावीर्या घृतशूलकपालकाः | अक्षसूत्रं सुधाकृष्टं मदप्रौठेंद्र शेखरः || एतारुद्रांगपीठस्थाः सिंदूरारुणविग्रहाः | रक्तोत्पलाभ्या * * * मलंकृतकरांबुजाः || दक्षेणाग्निष्टरमणा वामे शूणिमदालसाः | स्तंनारनतावालाः कृतचंद्रावतंसकाः || मुक्तकेश्या महोद्भूताः सर्वायौवनगर्विताः | ककुदश्च महादेव्यः पूजनीयाः प्रयत्नतः || आदित्ययोगिनी देवी श्रीमहायोगिनी तथा | श्रीसिद्धयोगिनी चैव श्रीगणेश्वर योगिनी || निशाचरी च प्रेताशी वागीशी कालरात्रिका | ठंकार योगिनी देवी रौद्री वेतालिका तथा || हंकारयोगिनी चैव रक्तवर्णासुवर्तुला | ऊर्द्धकेशी विरूपाक्षी सूक्ष्मांगी ऊर्धनेत्रगा || नवभोजनी च फट्कारी वीरभद्रांति मुख्यका | कलहप्रिया महायोग्या राक्षसी घोरनेत्रिका || सिद्धेश्वरी च फेट्कारी चामुण्डा वीरभासुरा | रौद्री हूंकारीणी कृष्णा भीषणा च सुर प्रिया || दुर्मुखा भोगिनी चैव खर्वांगी पादुकां तथा | दीर्घालंवौष्विका चैव मारिणी मंत्रयोगिनी || प्. ८२अ) कलहाक्षी ग्रामणी च चक्रीकंकालिका तथा | भुवनेशी कटंकारी डाटकी पादुकी तथा || कामाथदूतिका चैव काकदृष्टिरधो मुखी | धूर्जटा विकटा चैव ईश्वरी विषकंठिनी || द्वि षोडशा महादेवी पूज्यापुष्पशराशनम् | कोदंडपूनयावरद विभ्राणामदमंदगा || रतायारुषमारिष्टा अश्लिष्टान्य करोत्पला | कामदेवा पराद्यन्ते कामिनी प्रीति मे? पुनः || कामहा यथा देवेशि कमलांतेनतिर्भवेत् | कामचारविलासिन्यः कर्मणः कल्पकं पुनः || कामकेश्याववर्णायै काममर्द्धे शुचि स्मिते | रामाय विस्मितां देवीं विशालाक्षीं च कामकम् || रमकं लेलिहायुक् रतीनाथं दिगंवराम् | रतिप्रियां प्रियायुक्तं रात्रिनाथं स कुब्जिकाम् || रतिकांतां धरायै च रमणं च प्रणिंसकाम् | निषाचरंकषद्यासौ लग्नापथविमोहिनीम् || नंदकायमहायैत्रनंदनायसुरोत्तमाम् | नंदेतायसुलावण्यं निशाचाराय मर्दिनीं || कलहप्रियारति सुखमेकाक्षं पुष्पधन्वने | सुमुखे तु महाध * * भ्रामरापाटन्यथ || भ्रममाणसुमालिन्यां भ्रमा * * शिखा भवेत् | भ्रान्तायाथसुसुश्रापैराश्रम वासिने || भृगस्याथभ्रमायै च मोहनं दीर्घजिह्विकाम् | एकपाशाय वारायै नमोंता बीजपूर्विकाः || सक्रंदनाग्नि परमा * पितुं च निशाचरम् | प्. ८२ब्) पुरेतेरं च शाखाग्रं ज्ञानपद्मं च चक्रिणम् || ईशाग्ने च विधातव्या यथायोगा सुरेश्वरि | ग्रहराशि तथा होमैर्मातृका कर्णयोगतः || क्रोधिनी स्तंभिनी चैव शंखया मुनिधी पुनः | गणेशं क्षेत्रपालं च दुर्गां चैव सरस्वतीम् || ऐरावतः पुंडरीको वामनः कुमुदों जनः | पुष्पदंत्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः || नक्षत्रयात्परं षष्टि योगिन्यः परिवारिकाः | नानारूपधराः सर्वाः कामनम्रांगयष्टयः || कंठलंवितदिग्वासा मदाघूर्णितलोचनाः | दीपखड्गधराः केचिन्नासापानरताः पराः || करंकदंवकाठिन्यश्चामरा दलशोभिताः | तालवृंतं तथाच्छत्रं विविधा युध भूषणाः || दंभोली शक्तिदंडं च खड्गपाशं शूलीमपि | कौमोदकी गदांभोज सुदर्शनमनुक्रमात् || ऋग्वेदोथयजुर्वेदः सामवेदोप्यथर्वणः | पुराणं धर्मशास्त्रं च मींमासान्यपि वास्कलम् || ला?स्यैर्गानैः स वाद्यैश्च वेणुवीणा मनोरमैः | प्रीणयन्तो महादेवी गंधर्वाक्षरकिन्नराः || नागासुरामनुष्याश्च स्वमूर्त्याः सिद्धचारणाः | ऋषयश्च वशिष्टाद्या नारदोंगिरसस्तथा || अत्रिर्वशिष्टो भगवान् पुलस्त्यः पुलहः क्रतुः | विश्वामित्रभरद्वाज भृगुगौतमकश्यपाः || अन्ये वाल्मीकि प्रमुखाः प्रीणयंतो महेश्वरीं | सूक्तिभिः प्रस्तुतिभिश्च शास्त्रैर्वेदांगसम्मितैः || प्. ८३) एवमाराध्यविधिवज्जपे स्थित्वा तदग्रतः | शतंवाथशतार्द्धं वा सहस्रं वा तदर्द्धकम् || लक्षं तदर्द्धकं वापि रुद्रलक्षे शिवो भवेत् | कलुषं त्रिविधं देवी होतव्यं कस्य सम्मतम् || मध्वक्तः मधुभिः पंकै रवैरुत्पलैरपि | ब्रीहितिस्मचरुः सिद्धं पनसं नारिकेलकम् || देवी मंत्रे च रौद्रे च स्वयंभुः कुसुमैः सह | तर्पणादौ च होमे च विधेयमविशंकितम् || समासेनात्र देवेशि तवस्नेहेन भाषितम् | प्रकाशितं रहस्यार्थं सत्यमे तत्र चान्यथा || इति श्रीकुब्जिकामते चतुश्चत्वारिंशतितमः पटलः | श्रीदेव्युवाच || सर्वमेतद्भवानाह तत्त्वयामे व भाषितम् | सूचिता विस्तरेणात्र विद्या प्रत्यंगिरा सुभा || ना कुलः शिवभेदेन उपास्यः शिवयोगिनाम | मंत्रपक्षाभिधानं च योगध्यानं सुसिद्धयः || यथावेद्मि सुरेशान विश्वमाख्या हि यत्नतः | श्रीभैरव उवाच || विश्वामित्रः पुरादेवि वाशिष्ठेन तिरस्कृतः | तपस्तेपेतदाभीम्ममरुविक्रम चेतसा || वर्षाणां द्वादशैर्दिव्यैर्निराहारो जितेंद्रियः | तुष्टोह तपसा देवि भस्माद्भगमनुस्मरेत् || आदिष्टौ तु महामंत्रौ दिकसंख्या चाक्षतौ भवेत् | ताभ्यां ब्रह्मत्वमापन्न गुप्ते वक्ष्यामि सुंदरि || शैवना कुलतंत्रेभ्यो यमौ दूष्टौ सनातनौ | पूर्वोक्तं समयं देवि विज्ञातव्यं गुरुवक्त्रतः || रसभूतांतमध्यस्थं केवलं प्रथमं भ * त् | प्. ८३ब्) मेषोनाम महारुद्रः प्राणांतं बीजमुत्तमम् || महाकालं पुनर्देवि मंदरेसेन भूषितम् | वान्तोन्तेर्द्धच्छमध्यस्थत्तस्याधोनुंतमालिखेत् || त्रिमूर्त्या शिवया भिन्नं तृतीयं सप्तशून्यकम् | तदग्रे च महादेवि विष्णोर्जायं समालिखेत् || तात्तीपरसवं भिन्नमस्तिरुद्रं पुनर्भवेत् | गुह्यशक्त्या च मूर्द्ध्निस्थं वक्त्रवर्णं चकं लिखेत् || तस्यमूर्द्ध्नि प्रदातव्यमनंतं गंधमादने | वांतांतं न पुरेशावयामोमध्यं न संशयः || अस्य जापेन होमेन साधकः सर्वमाप्नुयात् | शृणु देवि प्रवक्ष्यामि अन्यथा संप्रदायकः || पूर्वोक्तमंत्रबीजा नामादौ वर्णत्रयं लिखेत् | बीजं च वनिता शंभो ना लिखेति पुषेणहम् || अधस्तावत्पदुक्तं गंधनेक्रूरमस्तकम् | चतुरानना त्रिमध्यस्था वागीश्वर्या च भेदितः || सापि मध्यगतं शुक्रं गुह्यवर्णेन भूषितम् | धूह्यारुदन्तं सूक्ष्मेशं कारणे वरवर्णिनि || सेनोनाम महारुद्रो विष्णोः शययासनस्थितः | सव्यबाहुस्थशिखरे मद्वर्णं केवलं भवेत् || अर्द्धनिश्यां महादेवि सुसुप्ते पाशबीजने | द्रव्याणि विधिवत्साध्य मंडलं हस्तमानतः || त्रिपुरां साधकस्तत्र ध्यायेदीपशितमंत्रतः | रक्ताभरणसंदीप्तमरुणं विश्वविग्रहम् || संदिग्धो दंडसंभिन्नं पीतरक्ताशिलाशितैः | आस्यैश्चंद्रांशुसंकाशैस्तद्विंवेनविनिर्मितैः || चंद्रार्कवह्निनेत्राब्जैराशीनं पद्मविष्टरेः | वर्गपादस्य मूले तु देवसिद्धैरूपस्थितम् || अक्षस्रक्पुस्तकं पाशमंकुशं वरदा भयम् | प्. ८४अ) मृगं रत्नसंहृष्टं देव्यावामोक?सिष्टया || पानपात्रं महेशान देव्यालोकन तत्परं | ईशानमीशतुल्याभं ध्यायेत् कुंकुमसन्निभं || ध्रुवंनासि गतं कृत्वा मध्ये देवं विधानतः | पात्रेष्वर्णान्वसुमितान्सुरान् केशरसंधिषु || व?ट्कंतदुह्यसेद्बाह्ये कुगेहं न च्छिपेत् पुनः | विपत्सां मातृकां देवी यथोक्तन्यसने पुरा || विनान्यासेन देवेशि यो मंत्रान् जपते पुनः | जपन्तन्निष्फलं तस्य वधिरे कर्णजापवत् || शब्दराशिविधाने च समाहित फलप्रदम् | सर्वशक्तिसमंयुक्तमाद्यत्रयमनंतरम् || हृदिन्यासं च देवेशि कर्तव्यं च विधानतः | नियां शक्तियुतां देवीं शिरन्यासे प्रकीर्तितम् || प्ंचपंच महादेवी शक्त्यादि न शिवा स्मृता | शक्तिस्तु तत्र संभिन्नं षष्ठ * * तनुच्छदम् || सप्तमे वीक्षणे देवि श्रीकंठं लुप्तशक्तितः | बीजत्रयं तथा चान्यमनंतं शक्तिसंयुतम् || न्यसेत्सशब्दं देवेशि अस्त्रं सर्वत्र रक्षितम् | नवाधारेषु तद्वर्णान्दशमं मूर्ति विन्न्यसेत् || संपुटि कृत्यमंत्रेण मातृकं स नवात्मजम् | जपादौ तु विशेषेण तेन निष्कलतो भवेत् || देवी मंत्रेण देवेन तत्वया द्रव्य लक्षणम् | ततः संपूजयेद् देवि निश्चलेनांतरात्मना || आत्मयागं पुराकृत्वा गंधपुष्परसादिभिः | उमावाक्प्रथमं देवि व्रवीद्दीर्घं तु देशिकः || वित्तादि विश्वदिक्संस्था देवताः पूजये क्रमात् | प्. ८४ब्) मातरो दिग्विदिक्संस्था भैरवाः पूर्ववत्प्रिये || वासुदेवाः कुगेहस्ताः शतधा च सुखान् पुनः | कराली वसती देवी सुमुखा दुर्मुखा पुनः | क्रोधिनी स्तंभिनी चैव सरस्वत्या च धूर्जटी | चापबाणधराश्चैता अरुणारुणभूषणाः || य * * विषिवद्देवि श्रीबीजेनवदीर्घकैः || व्याघ्राजिनादि विष्टरे विष्टोलक्षचंद्रं जपेद्वशी | जुहुवः स्वरसाहस्रं मधुभिः क्षीरसंभवैः || समिद्भिश्च गलक्षाक्षैः साधकः खेचरो भवेत् | अथान्यं संप्रवक्ष्यामि शृणु देवि प्रयत्नतः || प्रत्यंगिरेति विख्याता नाम्ना त्रैलोक्य मोहिनी | साधकानां हितार्थाय त्वयि स्नेहात् सुरेश्वरि || सुनी कृती समाभिन्नामादावंते च कारयेत् | भुजैरष्टादशैर्भिन्नामेकवक्त्रां त्रिलोचनाम् || अर्जुनोवाथ देवेशि उदितार्क समप्रभाम् | चापवाणौखड्गखट्टौ शंखासिनलिनंगदाम् || सूणिपाशा हि घंटां च वरदा भय शोभिताम् | दंडाशनि कपालं च मातुलुंगं च विभ्रतीं || त्रिशूलं मुंडसंयुक्तं मुडस्रङ्नंडितां शिवाम् | ध्यात्वैनां प्रजपेद् विद्यां लक्षमात्रं सुरेश्वरि || व्रीहीभिः पुंडरीकैश्च लाजाभिः केशरोद्भवैः | सांप्रतं शृणु देवेशि विद्यारूपाभिगर्भिताम् || शून्यादौ वा च मोक्ष अंतेवारं नियोजयेत् | नमसानंतरं देवि हृष्टांते वा समुद्धरेत् || शशिमध्यगतं देवि ज्वालशक्तिविभूषितम् | वेद्यन्तं डागमध्यतत्यासि मध्यं सहांत युक् || प्. ८५अ) परमात्मिकां महादेवीं भुजंगासनसंस्थिताम् | करालिकां समुद्धृत्य रुद्रां तेन विभूषिताम् || कपालिनीं मातृगेहे मंदरे सूक्ष्मभूषिताम् | दक्षे * च ततो देवि चक्रिणी गंधसंयुताम् || एकादशे ऋषिस्थाने केवलं नादिनी पुनः | वामादि वर्णयोगेन सासिमध्यं पुनस्तथा || एकादशे द्वि गं बीजं पन्नगासनभूषितम् | वदने च महादेवि रत्न श्रीकंठयुक्पुनः || रुद्रसमुत्यनरकं राशिनेर्णान् पुनर्लिखेत् | अष्टादशभुजैर्देवि तथा प्रत्यंगिरे पदम् || परसैन्यं परकर्मविध्यंसिनि पदं पुनः | मंत्रविच्छेदिनी पश्चा सर्वशत्रुच्चाटनी पुनः || सर्वभूतश्च दमनी सर्वदेवाश्च वंधयुक् | सर्वविघ्नांश्च च्छिंधियुगं गुणोन्तं सूक्ष्ममूर्द्ध्निषु || क्रोधं च अविवर्णेन भागमध्यं तु केवलम् | सर्वदुष्टान् भक्षयुग ज्वाला जिह्वे करालयुक् || वक्रे च सर्वपात्राणि स्फोटयं द्वितयं भवेत् | शृंखलां त्रोटयद्वंद्वं वाधां चैव सुरेश्वरि || महावारं समुद्धृत्य नो अंतं पन्नगासनम् | तरुमध्ये च तारा * यामो मध्येन भेदितम् || पंचान्तकं तनोन्तस्यं सूक्ष्मभैरवभूषितम् | नवादि वर्णमुद्धृत्य वामादि वर्णके कुरु || द्वा विंशत्यक्षरैर्देवि आत्मशक्त्या हृदि न्यसेत् | दशभूता सुरैश्चैव ज्ञानशक्त्या शिवोन्नतम् || त्रिंशद्भिस्तु शिखा प्रोक्तमिच्छाशक्त्या च विन्यसेत् | चतुर्दशैकवर्णैस्तु रौद्र शक्त्या तनुच्छिदम् || विदशैस्तु महादेवि क्रियाशक्त्या च लोचनैः | दशाष्टसंख्यकं चैव शस्त्रशक्त्या च विन्यसेत् || प्. ८५ब्) मूर्द्ध्निभ्रूमध्ये नयने श्रोत्रयोः कर्णयोर्न्नसोः | आस्येकंठे च दोर्मूले कूर्परे हृदि विन्यसेत् || नाभिपार्श्वद्वयोर्मूले कघांतालु द्वये पुनः | पादयोश्च महादेवि विन्यसेदुपदेशतः || पूजां कृत्वा विधानेन पूर्वोक्तांगारमान्तः | इति सर्वं सुरेशानि समानिलगमस्यतः || पादौप्रसार्ज्यन जपेदुत्कटासनवर्जितः | पश्चार्द्धेशमने वापि रथ्यायां नीचसंनिधौ || न जपेद्रिक्तभूम्यां च खट्वायां हर्म्म्यमध्यतः | अवीखरमार्जार अंगारोष्ट्रे तु रेणकम् || केशध्वजनखानां च स्नानवस्त्रगतोदकम् | अश्रीकरं मनुष्याणां अशुद्धं संस्पृशेद्यदि || एतेषां संभवे वापि कुर्यात्सुर्ययाग्नि दर्शनम् | आचम्य वाजपेच्छेषं कृत्वा वा प्राणसंयमम् || तुष्टीरवीकं च कीलग्नो मुक्तकेशो गणैर्वृतः | अपवित्रो निषिद्धश्च वाचां विग्लांपनं नव | क्रोधोमदः क्षुधातंद्रीनिष्टीवनविजृंभनम् || हंसवागेश्वरीबीजं सर्वत्रैवात्रसंपुटं | विन्यस्तवेदिका मध्ये शंकुस्तत्रावलंबनम् || शंकुसूत्राग्रसमिति सूत्रयोगादितः क्रमात् | प्राक्प्रत्यक्संस्थितं सूत्रं दक्षिणोन्तरगं तथा || वर्त्तुलाग्रं तु संस्थाप्य लांकयेत् कोणमत्स्यकम् | षट्सूत्रन्यासमार्गेण तत्सूत्रं चतुराश्रितम् || सूत्राण्या स्फालयेत् तत्र अष्टाविंशतिसंख्यया | प्रागग्राणि उदग्राणि सूत्राण्यं गुलमानतः || कोष्ठ सप्तशतं नूनं नवविंशतिकोत्तरम् | ऐंद्रमडलमध्यस्थं बाह्ये पंक्ति द्वयं न्यसेत् || प्. ८६अ) द्वारशोभोपशोभा च चतुःपंक्ति चतुष्टकम् | महावींथ्या चतुष्कं स्यात् पार्श्वयोरुभयोरपि || तन्मध्येरोपवीथ्यंतं पंक्तिद्वयमुदाहृतम् | तन्मध्ये पंचदशभिः पंक्तिभिः कमलं भवेत् || नवपद्ममिदं प्रोक्तं नववीथि विभूषितम् | षड्भिः षड्भिः पदैर्द्वारं द्वाराष्टकसमुज्वलम् || चतुर्भिश्च चतुर्भिश्च शोभाश्चैवोपशोभया | कोणेकोणपदैः षड्भिः पंक्तिद्वयसमाकृतिः || उक्तमार्गमनेनैव बाह्येवलयमालिखेत् | चतुर्भिर्वहुलैर्भागां च्छित्वाच्छित्वाथ वर्तयेत् || प्रथमं कर्णिका क्षेत्रं द्वितीयं केशराश्रियम् | तृतीयं दलसंधी स्यात् पत्राणि च चतुर्थके || तत्राष्टसूत्रयोगेन वर्तयेदष्टपत्रकम् | चतुष्कोणेषु सर्वेषु वज्राष्टकं समालिखेत् || मातृणामपि सर्वां सां देवभद्रगणेशयोः | नवपीठमिदं प्रोक्तं सद्यः प्रत्ययकारकम् || व्योमरेखाभवेत्तासां पद्मानां वायुसंस्थिताः | एवं लिखित्वा पत्रेण रजसा पूरयेच्छुभाम् || कर्णिकापीतवर्णेन रेखा सर्वाः सितेन च | रक्त पीत बहिः शुक्लं केशराणि प्रपूरयेत् || पत्राणि रक्तवर्णेन श्यामवर्णेनसंषिकम् | पद्मबाह्यं तु यत्क्षेत्रं तत्कृष्णेन प्रपूरयेत् || द्वाराणि शुक्लवर्णेन शोभां रक्तेन पूरयेत् | उपशोभाञ्च शुक्लेन कोणान् श्यामेन पूरयेत् || बलिभिश्चलिताभिश्च वीथिकां परिभूषयेत् | पीतवर्णेन रजसा ऐंद्रं तु परिपूरयेत् || रजसा कृष्णवर्णेन अन्ते श्वेतेन पूरयेत् | एवं मंडलमाख्यातं सर्वाम्नाय क्रमागतम् || प्. ८६ब्) मंडलेस्म्न् महादेवी पूजयेत् सर्व देवताः | तस्यमायार्चिताः सर्वा तार्चिता साधकेन तु || अभिषेकं प्रकुर्वीत पारंपर्यक्रमागतम् | तावत्सेकं प्रकुर्वीत यावत्प्रत्ययतां ब्रजेत् || प्रत्ययस्तु महादेवी गुरोराजा प्रभावतः | मधुलुब्धो यथाभृंगः पुष्पात्पुष्पांतरं व्रजेत् || ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् | शक्तिहीनम् गुरुं प्राप्य शिष्ये मुक्तिः कुतः प्रिये || मूलच्छिन्ने कृते वृक्षे कुतः पुष्पफलादिकम् | एकानेकविभिन्नेन कलशाद्यैर्मकारजैः || मकार रहिते देवि न तृप्तिं यातिताः क्रमात् | कुंडे द्वयस्तु सम्मिश्रं मयादौ विनियोजयेत् || तेनसर्वत्र संप्रोक्ष्यसंतर्प्य च कुलक्रमम् | संतर्प्यभैरवं भक्त्या भैरवी भवशातनी || तद्रूपधारको देवि स्वयं स्वीकृत्य यत्नतः | भैरवोहमिति ज्ञात्वा मुद्रां बध्वा तु दक्षिणे || वामे चोक्तितं कृत्वा मंत्रं कुरु शिवात्मकम् | चक्रमेलपकं तत्र नमस्कृत्य विधानतः || स्नापयेद्योगिनी चक्रं यथा देवी जयं कुरु | अब्दैर्द्वादशभिर्देवि सर्वदा सिद्धिमाप्नुयात् || इत्येतद्विश्वमाख्यातं विधानं सुरपूजितम् | पश्चिमाम्नाय हीनैश्च अप्राप्यं देशिकोत्तमैः || इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुरशीतिसाहस्रे भैरवीनिर्णयोनामपंचचत्वारिंशतितमः पटलः || ० || श्रीभैरव उवाच || एकानेकविभिन्नस्ताः पूर्वोक्ता वरवर्णिनि | वर्णमभ्यासतः पूर्वानवकोट्यासमाश्रितान् || प्. ८७अ) संहिताध्याय कल्पं च तंत्रं त्रिविधमुच्यते | संहिता चोत्तमं देवि तथा ध्यायं मध्यसंस्मृतम् || कल्पं तु कल्पसंज्ञोयं संहिता विस्मृतं भवेत् | ततो ध्यायं समाख्यातं संहिता तु प्रतिष्ठया || अध्याये नार्चने देवि कल्पे मंत्र जपादियम् | गुणान्दोषान्परा मृष्यमेष तेषु विशेषतः || वर्गवर्णात्मकं पिंडं प्राकृतं देवसंभवम् | नव प्रणवसंभिन्नमयशानि च वर्जयेत् || वाराह नृसिंहाक ध्रूवप्रासादमेव च | अदौ मध्ये तथा चांते भारयुक्ताः क्रमेण तु || स्त्रीपुं नपुंसका ज्ञेया वौषडन्ताः स्त्रियो मताः | षट्फडंताः पुरुषास्त्रितत्त्वा नपुंसकाः || मातृकासर्वविद्यानां मंत्राणां जननी परा | उद्धारस्तत्र कुर्वीत यस्रासद्धतो नरः || कुहूमध्ये कडध्वं च जीवं प्राणं समुद्धरेत् | कैलासमंदिरे देवि यद्वर्णं कर्णपूरकम् || तदंनाधः स्थितं वर्णं तृतीयं चंडनायकम् | मालिनीवामपादे च शिखासंभूतमंदिरे || भुजंग भैरवीं देवीं किअलासे वाममंदिरे | अक्रूरं च शिवेदत्तं बीजं कीलानलप्रभम् || अस्यजापनहोमेन दैत्य दानव राक्षसाः | सिद्धांशेनात्रसंदेहो देवाश्चापि तपोधनाः || अघोरस्य प्रभावेन देवि किं खथयामिते | अस्य बीजप्रभावेन पद्मनाभः प्रतापवान् || सुती सुती च वर्तेति प्राणायामं नियोजयेत् | ततो न्यसं प्रवक्ष्यामि अस्यघोरस्य सुंदरि || आदौ तु विश्वमालाया मनंतं गंधमादने | प्. ८७ब्) शिवे अक्रूरसंभिन्नं उत्तरे निषधालये || माया देवी समापेक्ष्य ध्रुवांतं क्रूरमस्तकम् | द्वितीयं च तृतीयं च अनंतं प्रथमं विदुः || बीजान्येतानि देवेशि त्रिस्थाने घोरमस्तके | ब्रह्मविष्णुशिवाश्चैता इच्छाज्ञान क्रियाश्च ते || एवं तु तत्समायोज्य जप्तकं चोपदेशतः | मालिनी स्वांतमध्यस्थं मंडरे सूक्ष्मगं पुनः || कैलासमंदिरे देवि झंटीशं मूर्द्ध्नि दापयेत् | पुनरेव महेशानि हू अंतं मूर्ध तद्भवेत् || कराली तृचयादिस्ता वज्रिणी * * मध्यगा | क्रोधरुद्रं समुद्धृत्य झंटीशेनविभूषितम् || त्रिस्थानं बीजमुद्धृत्य अनंता क्रूरमध्यगम् | प्रथमं मद्ध्यमं देवि त्रिमूर्तिन्निषधे स्थितम् || प्रज्ञां च वामकर्णस्था मधो देशे प्रतिष्टितां | पंचवर्गान्य वर्णानि तेषामग्रे प्रदापयेत् || ततः पूर्वोक्त विद्याया वर्णाश्च त्रिदशा स्मृताः | मानिन्या भावनेत्रां तु दारुकं मातृमंदिरे || द्विबिंदुमस्तके देवि चंडिशं वाममंदिरे | अग्ने चत्वारि वर्णानि पूर्वोक्ताया यथा क्रमात् || दक्षजानुस्थितं वर्णं लोकादि शिरसि स्थितम् | तदधः कारयेद् देवि प्राणं जीवं च मादनी || यैद्भानं तेन संभिन्नं द्वितीयं च ततः शृणु | आदि बीज द्वये देवि वामान्तं मूर्द्ध्निविन्यसेत् || गुणवर्णं पुनर्लिख्य त्रिबीजं पूर्वमेव हि | कैलासमंदिरे देवि श्रीकंठं चात्रसंस्थितम् || एकादशं चैव गायत्र्या * * भूषितं कुरु | नवके दीपकां देवि ईशेनाथविभूषितां || प्. ८८अ) पुनरेव महेशानि उभौवर्णौतदग्रतः | भूयश्च वर्णयुगलमुद्धरेदुपदेशतः || अनंतानन्तसंभिन्नं ठठमध्यं तदग्रतः | एकनेत्रभवं देवि दीपन्यानंतभेदितम् || अग्नेतं तु पुनर्लिख्य जिह्वाग्रेणोर्द्धतः स्थितम् | तेन मूर्द्ध्नि गतं कृत्वा तद्वत्क्रोधं सकांतकम् || भूयस्तौ अश्वदेवेश वारुणं सूक्ष्म भेदितम् | ऋषिमध्ये तु चाअमुडां वामादि मस्तकं व्रजेत् || एवमेषा महाविद्या देवी मूर्द्धा च सिद्धिदा | ब्रह्माणं पादयोर्देवि गुह्यदेशंकयामतम् || उदरे च तथा रुद्रं कंठे वै ईश्वरं न्यसेत् | सा शिवं च भ्रुवोर्म्मध्ये तदूर्द्धं च परंपरम् || द्विरंडभैरवं देवि ऋषिमध्ये तु केवलम् | शिवायां तु तनोंतश्च वामे मध्ये च चक्रिणं || उरुमध्येंतरालं च मेरोर्द्धे संव्यवस्थितम् | मूर्द्ध्नि तस्यास्तु देवेशि कलां देवीं प्रविन्यसेत् || संध्ये चंडे तथा अंबे नित्ये क्लिन्ने दुरेश्वरि | रक्ते घोरे विशालाक्षी सर्वत्रैवं नियोजयेत् || विद्ये भद्रे च आद्यन्ते अंते आदौ च मध्यतः | मद्यादौ आदि मध्यान्ते बीजानां व्यत्य येन तु || अंतरानंतमात्मानमन्ते अंते च नात्मिकीम् | वीणापंचकमेवादौ रममे तु विलोमतः || मानिनीग्रथनं देवि गुणोन्तकालमग्रतः | लोकांतं मूर्द्ध्नि विन्यस्य पुनश्चत्वारि अग्रतः || पद्मोद्भवं हसानंतं लोकादिं मस्तकं न्यसेत् | ग्रहो तु मग्रतः कृत्वा चतुर्थ्यां चतुरो भवेत् || प्. ८८ब्) मायादेवी त्रिधान्योर्क्व वारं चापि नवात्मकम् | ततोप्येवं समुद्धृत्य क्रूर्मेशांतं सुरेश्वरि || प्रथमं कृतुवर्णानि नकुलीशं दीपनं युतम् | भागमध्यं च क्रोधीशं कालं च कृतुमध्यगम् || अनंतं गंध शिखरे यामो मध्यं च पद्मजम् | हृदिन्यासं प्रकुर्वीत बीजपंचक मेलनात् || करालिकं समुद्धृत्य ध्रुवाद्ये नासनं कुरु | पूतनामग्रतः स्थाप्य मुद्रीशं कातकोहजम् || मंदरस्थं विजानीयात् पावन्या मूर्द्ध्निसूक्ष्मजं | अत्रीशं मंदिरादौ च पापायवं पद्मयोनिना || शिवन्यासं प्रकर्त्तव्यं गुणवंतं तदग्रतः | वज्रिणा च द्विधा कृत्वा भुजंगं मूर्द्ध्नि दापयेत् || भुजंगं भैरवं देवि अग्रतः केवलं लिखेत् | शिखादूतीं प्रविन्यस्ये च्छिखायां च न संशयः || भूतयुग्मांतकैर्देवि दूत्याअ च कवचं न्यसेत् | लोकादि वर्णं च यद्बीजं भूतमंदिरे * * || केवलं तत्समादाय हत्यात्तं अग्रतो न्यसेत् | रक्तभैरवमुद्धृत्य वामांगुलिषुमध्यतः || वेदाद्यमक्षरं देवि अमरीशं पुरतः स्थितम् | पावन्या हृदि यंतस्थं तं * * * * * * * || नासाग्रे संस्थितं देवि मूर्द्ध्नि तस्यास्तु दापयेत् | रुद्रादित्यपद्मयोनिश्च वायव्ये विनियोजयेत् || उर्द्ध्वं चत्वारि वर्णानि कालं प्राणस्थ बिंदुकम् | तारिका हेतुमुच्चार्य नेत्र दृत्यासविन्यसेत् || करालीभिपातसंभिन्ना हृद्यंत स्यास्तु दापयेत् | क्रोधभैरवमुद्धृत्य उमाकांतं तदग्रतः || लोकादि मंदिरे देवि पुरतो बिंदुभैरवम् | प्. ८९अ) अनंतेनाथचक्रि ङेत्तं चास्त्रं समुद्धरेत् || सर्वत्रैवं प्रयुक्तानि विद्याप्राणा न संशयः | वक्त्रन्यासे यथापूर्वं विद्यां चाथसुरेश्वरीम् || कलान्यासं प्रकर्तव्यं शिखाग्राच्चरणावधिः | चा उं दैत्ये भगवतिंग्य कुलेश्वरीं क्रीं ह्रीं हूं हूं आं क्षीं हं क्षें हौं उं इं ण न मेक्षः श्वं श्रीं प्रौं प्रींत्यघोरामुखि मुक्तिका पंचां अघोरे अघोरे यं रं लं वं हं सं क्लि लोकिनि महाकिलि विद्धे || चतुःषष्टिक्रमे विद्ये मूर्द्ध्नि देश विधानतः | कलान्ते वैस्तु सा ज्ञेया पूजायां च विशेषतः || सान्निध्यं कुरुते सात्र नित्या देवि कुलार्णवे | शक्तयोनंगरूपाः स्युश्चापेसु नमितं कुशम् || वेणी वज्रा विशालाक्षा वामावर्त परिभ्रमात् | अक्षोडं च शिखाग्रे तु पश्चिमेन तु वाग्भवम् || ऋक्षकर्णीं शिखामध्ये शिखामूलेषु वा न्यसेत् | क्षणदां च शिरो देशे वेष्टनेक्षयतां पुनः || पिंगाक्षीं तालुमध्ये च कोदंडेषु क्षयावतीं | क्षमां दक्षिनसोग्रे च वामाग्रे च इडा स्मृता || नीला दक्षिणनेत्रस्था वामनेत्रेलुपं न्यसेत् | लोलां दक्षिणगंडेचलेकां वामे च विन्यसेत् || लंकेश्वरीं ऊर्द्ध ओष्ठे नालसामधरोष्ठके | विमलां दक्षिणगले ऋतेशीं वामभागतः || विशालां चिबुके न्यस्य तारायां दक्षकर्णगम् | वडवां वामकर्णे च तारवां श्री च कर्णगां || महाक्रूरं कंठदेशे क्रोधांगांकुक्षकक्षगाम् | भयानकां वामकक्षे बीजानां मेलनं यथा || प्. ८९ब्) सर्वज्ञां च करालीं च स्तनयोर्वामदक्षयोः | हृदये तारकां न्यस्य ऋग्वेदन्नाभिमंडले || मेदोन्ते सा ननां देवीं सारां लिगस्य मूलतः | तदग्रे रससंग्राहिमुभयोर्दक्षवामयोः || शवरां तालजंघां च रक्ताक्षं गुदसूत्रके | गुदमध्येसु प्रसिद्धां बिन्दुं जिह्वा च विन्यसेत् || कर्णे दक्षे विन्यस्येद् बाहौ दक्षस्य मध्यतः | हस्ते च मेघनादां च चंडाग्रेष्ठंगुलीषु च || दक्षहस्तनखाग्रेषु कालकंठं तु विन्यसेत् | नवप्रसादी विन्यस्येद्वामकंठे विलोचने || बाहौ हस्ते चांगुलीषु चंद्रां चन्द्रावतीं पुनः | प्रपंचं विन्यसेद् देवि वामहस्त नखेषु च || प्रलायांतां पिचुवक्त्र द्वये पार्श्वे प्रविन्यसेत् | पिशाचीं वामपार्श्वे च पिशिताशीं दक्षपृष्वतः || वक्षौ च लोल्वयाज्ञेया वमणां दक्षजानुनि | तपनीं दक्षजंघायां वामनीं दक्षमूलके || विकृताननां दक्षयाणि अंगुलीषु प्रविन्यसेत् | वायुवेगां पुनर्देवि दक्षद्वारि प्रविन्यसेत् || वृहत्कुक्षिं दक्षपादतले पादस्य मध्यतः | विकृतं विन्यसेद् देवि वामोरौ विश्वरूपिणीम् || तदग्रे यमजिह्वां च वामजानुस्थले स्थिताम् | जपंतीं वामजंघायां दुर्जरां कामगुल्फके || पादांगुलीषु देवेशि यमांति कांचनसंशयः | यमद्वारे विडालीं च वेगगांवामपादगाम् || वामपादतले देवि पूजनां स वर्णां न्यत् | प्. ९०अ) एवं न्यासे कृते देवि योगिनीनां प्रियो भवेत् || सर्वसिद्धिकरं देवि सर्वाद्यविनिवारणम् | एवमेता महाधिप देवी सर्वार्थसिद्धिदा || अर्चिताः साधकस्यैताः प्रकुर्वंति यथेप्सितम् | सर्वस्माद्देवि कुर्वीत जपं नित्यविधानतः || जपान्ते तु गुरुंध्यायेद् ध्यानान्ते तु पुनर्जपेत् | जपध्यानपरिश्रांतो श्रावयेत् तदहानपि || जपं विना न सिद्ध्येत न कुतः फलदायका | न ध्यातो मोक्षमाप्नोति देवि कार्यं त्रिधा मताः || चक्रे चक्रेष्ट योगिन्यः परितः परितः स्थिताः | तद्ध्यानेन समाः प्रोक्ताः पूजायां च विशेषतः || जपेन कलुषं हंति पूजाभोगप्रदा भवेत् | केवलं च भवेद् देवि ध्यान योगेन देहिनाम् || तिष्ठन् गच्छन् शयानो वा मैथुने भोजनेपि च | मूषां वा च विना जाप्यं विधातव्यं प्रयत्नतः || इति श्रीकुब्जिकामतेषट्चत्वारिंशतितमः पटलः || ० || देव्युवाच || पुरानारायणो देवो देवानां प्रभुरव्ययः | तेनादिष्टं रहस्यं वै इत्युक्तं भवता मया || पुरामध्ये महावीर्या दर्पितादितिजासुराः | तेषां नाशयते नोक्तं सर्वंसंवदस्व मे || श्रीभैरव उवाच || पुरस्ताद्दानवा देवि लोकानां हिंसका भवन् | देवाः स ऋषस्यो नागा ब्रह्मालोकपितामहः || आदित्या द्वादशरुद्राः पंचाशति वा गुणाः | विष्टरश्रवसंप्राप्य यत्रास्ते स महोदधौ || प्. ९०ब्) ब्रह्मादयस्तु शक्रेण मुक्तिभिस्तस्य तुष्टुवुः | तया संप्रीतमनसो उवाच भगवान् प्रभुः || स्तोत्रेणानेन तुष्टोहं व्रियतामिति केशवः | श्रुत्वातद्वचनं देवा यथावृत्तंन्यवेदयन् || तस्मान्तेन सहप्राप्य शैलरूप्पु मयाशुभम् | अत्रापि तुष्टुवुस्तेपि यदस्मत्तोभिवांछितम् || इत्याकर्णावचोविष्णुर्देवि दैत्यनिवर्हणम् | क्रियतामिति तेनोक्तमुपायं ब्रूहिमे नघ || लिंगार्चन रता दैत्याः कथं वध्या भवंतिते | इत्याकर्ण्यसदैत्यारिरनया हन्यतामिति || द्वात्रिंशदक्षरं देवमस्त्रं नारायणा ह्वयम् | एकत्रेदं परं शस्त्रमघोरं चापरं महत् || तत्ते वक्ष्यामि देवेशि पुरावृत्तं यथा तव | अक्षराणां स्वरूपं च विधानं चाद्भुतं शुभम् || लोकानां रक्षणार्थाय देवदेवेन भाषितम् | विश्वदेवे महादेवि रस भूतां तु मध्यगाम् || वामांतामग्रतो लिख्य क्रियाख्यं वामजानुनि | द्वितीयं च तृतीयं च महादेवी समुद्भवम् || रुद्राणां मंदरे चाथ उतनोर्द्धतसंस्थितम् | तस्यमूर्द्ध्नि प्रदातव्यं गत्वानंतं न संशयः || पन्नगंपनसे नैव चर्मरूक्षं तदग्रतः | नारायणीं वामनेत्रे डां तां तं ग्रहगेहिगाम् || तस्य मूर्द्ध्नि न्यसेन्नागमादनस्थं न संशयः | वामवाहुस्थ शिखरो वां तां तं वामसंभवम् || मंदरे सूक्ष्मरुद्रं च तस्याधो वज्रिणीं कुरु | विनतां गांत्तमुद्धृत्य तस्याधः कालमालिखेत् || प्. ९१अ) प्राणरुद्रं समुद्धृत्य मध्ये च अंबिकाम् | सादिवर्णं तस्यार्द्धे लिखेत्तां पुष्करालयां || तद्वद्ग्रहान्तं देवेशि यत्र प्रागुद्धृतं मया | वज्रबीजं समुद्धृत्य वामेन्तमन्तभूषितम् || स्नातु मध्यगतां देवी सद्यादिं तस्य अग्रतः | अत्री रुद्रं कामत्व मध्ये ऊर्द्ध. झंटीशमालिखेत् || पुनर्तान्यं तमग्रे च पुरतस्तस्य दापयेत् | यामो अंतगतं लिख्य धे * * शांतमंदिरे || नासाग्रे गुह्यशक्त्या च शिरोदेशे प्रदापयेत् | कालोनाम महारुद्रो भे च मध्ये व्यवस्थितः || कृय?प्तं प्राणं पुनर्लिख्य गुह्यं शक्तिं समूर्द्धनि | तद्वर्ण योगं देवि अस्यामध्यं तदग्रतः || मेषाद्याद्वर्णनाकासां उरुमध्ये तु केवलं | तस्य मूर्द्ध्नि प्रदातव्यं स्थाणु रुद्रादि अक्षरम् || गुणोन्तं च शिरोवर्णं रुद्रान्ते न विभूषितम् | मोहांतं नवकं देवि वज्रिणी * नुमंदिरे || मंदरस्थं विजानीयात् तदग्रे कांति मालिखेत् | तस्याधः कांतसंभूतं ध्रुवांतेन विभूषितम् || चंडिकां विन्यसेद् देवि पुरतां क्रूरभूषितम् | मेषांतलोहितं देवि दीपन्यासनसंस्थितम् || क्षेलांतं पुरतो लिख्य गायत्र्या तु भूषितम् | अत्रीशंकात्व मध्ये तु केवलं पुरतः स्थितम् || मुनिगेहांतमादाय भागांतं पुरतः स्थितम् | प्रणवान्तं तु परस्तात् त्रिदशत्वं यमुदाहृतम् || रुद्रांतं हृदि विन्यस्य तदूर्द्धे च शिरो द्वयम् | प्. ९१ब्) वसुभिश्च शिखां देवि शक्त्या चैव तनुच्छदं || रुद्रानलैस्तु विन्यस्येत् तावदस्त्रं प्रकीर्तितम् | पृथिव्या याननेवं च व्योमो तंतात्मने कृतम् || कल्पान्तानांतगानं तं पंचस्वरविभूषितम् | अनेनैवं प्रयुंजीतदशैकेन महेश्वरि || वर्णत्रयेन परतो नवार्णैश्च तदग्रतः | तत्परस्तु रसाः प्रोक्ता भूतार्णैरेवमेव हि || ऊर्द्धास्ये वामदेवं तु ईषानं पूर्वदक्षिणे | अघोरं दक्षिणे देवि सद्यं वामस्य मंडले || पुरुषं पश्चिमे वक्रे वामोर्द्धे च परापरम् | न देयं दुष्टसत्वानां पारंपर्यविवर्जितम् || अज्ञान् शास्त्रविनिर्मुक्तान् क्रूरसत्वान्नदापयेत् | अथदत्तं प्रमादेन ज्ञानकोषं स्वसंपुटम् || आचार्यो नरकं याति यावदिंद्राश्चतुर्दश | कैलासमंदिरे देवि केशवं शिरसि स्थितम् || तस्योर्द्ध वा च शिवे आस्य वृत्ते च विन्यसेत् | नारायणं दक्षनेत्रे मंदरे माधवं विदुः || वामनेत्रे च गोविंदमुत्तरे निषधालयं | दक्षकर्णे तथा वामे ध्रुवादि श्रांतसंयुतम् || विष्णुंश्च सूदनं चैव वामानां वेदमध्यगम् | प्राङ्मुखेश्च वामनं देवि श्रीधरं हृषिकेशवम् || नासागंडयुगे चैवं देव्याबीजेनविन्यसेत् | पद्मनाभं च आद्येन तदंते रोमसंभवे || ओष्ठयोर्दत्तयुगले कराघंतं न संशयः | वासुदेवं संकर्षणं २ आदिश्चैव पश्चिमम् || मूर्द्धांतो विन्यसेत् पश्चात् प्रद्युम्नं चा निरुद्धकं | एकादशादि मुद्धृत्य चक्रिणं बाहुमूलगम् || प्. ९२अ) तदग्रादग्रपर्यन्तमंगुलीमूलमग्नगे | गादिनं शार्ङ्गी खड्गी च शंखिनीं विन्यसेत् पुनः || संतांतं नादि मेघं ततडादिश्च सुरेश्वरि | कालांतं प्राणपूर्वं च मध्यभैरवचालने || आदिश्च खांतमुद्धृत्य हलिं युगनिशूलिनम् | पाशिमंकुशिनं देवि तथापदक्षवामके || मातृणां मंदिरे पूर्वं यद्वर्णं चांतसंभवम् | चडुमध्यं ग्रहाणाम् च आदौ तु गुणमस्तकम् || तत्पूर्वं पश्चिमे देवि रुणां मंदिरे पुनः | काद्वर्णं धेनुमध्ये च गुणोत्तं देवि पूजितम् || मुकुंदं नंदजम् देवी क्रूरं नरक अर्द्धरिम् | हृष्टः सद्यः सात्वतश्च शौरिश्चेति दश स्मृताः || दक्षे पार्श्वे परिन्यस्येन् यानोन्तं शुभसंभवम् | भूतादि वर्णमुद्धृत्य जपेच्चैव जनार्दनं || भूधरं क्रूर उर्द्धेन षष्ठे वै भूतमंदिरे | मुनिपूर्वगुणं नाभौ उदरे चाथविन्यसेत् || विश्वमूर्तिं च वैकुंठे देवी बीजं च सर्वतः | देवमध्ये तु पुरुषं हृदये च विसंभवम् || वलिनं नरकेवाह्वोर्मूले वै रक्तसंभवम् | आमिषं ककुदन्तं च हृदिमध्ये वलानुजं || वृषद्यरं? वामकक्षे च आवेष्टं मेदसंभवम् | वामे दक्षे वदोर्भ्यां च वृतं सौममाश्रितौ || अक्षन्ते नरके चेत्तं कांतं मज्जासमन्वितम् | श्वासमध्यगतं शुक्रं दक्षपादे च बाहुगे || छंदमध्यागतं प्राणं विमलं वामपादगम् | क्षेत्रज्ञमध्ये आत्मानं नारसिंहं हृदिन्यसेत् || प्. ९२ब्) एवं भूते समाख्यातो न्यासे शुभमतं प्रिये | कृत्वादौ कंठंतेस्यः ययादूष्टं स्वदेशिकैः || विष्णपत्न्याः समायुक्ता एते रुद्राश्च विस्तरः | जगत्त्रये च संहर्ता पालने चाति गर्विताः || सूक्ष्मासोमातृणां सार्द्धं विष्णवोरुद्रमातरः | यथोद्धृतं मयापूर्वं श्रीकंठाद्याः सुरेश्वरि || भेदाभेदौ न चास्त्यत्र समर्थाः सर्वदेवताः | देवानामप्ययं देवोममाप्येषः सनातनः || सिद्धनाथादि ब्राह्म्यतं यथापूर्वं प्रपूजयेत् | चक्रासिशूलखड्गं च परशुंपाशनंदकम् || कंबु त्रिशिखि वज्रं च विशिखं शार्ङ्गमेव च | द्वादशार्कसमप्रख्यानायुधानिति चिंतयेत् || प्रधानमूर्ति प्रतिमाभ्रह्माण्याद्याः स भैरवाः | अथविष्णुसमुद्भूता मूर्तयः सर्वदिग्गजाः || आराध्य च महेशानं पूर्ववत्सर्वमाप्नुयात् | अमरेशांतमादाय यत्रासौ शिवमंदिरे || विष्णुबीजं महेशानि यत्रोत्पन्नं चराचरम् | द्वितीयं बीजराजेशं ज्वलनार्कसमप्रभम् || स्वन्तमध्यगतं देवी प्राणरुद्रं त्वधोगतम् | भुजंगभैरवं देवि तस्याधो देशभागतः || मूर्द्ध्नि तेषां प्रदातव्यं कगांतं बिंदुभैरवम् | एषा विश्वस्य जननी वागुरी तु प्रभास्यते || तुरीयमेकादशे देवी तदादिश्चैव मादनम् | तस्यादि संस्थितं मासं ते ऊर्द्धे चक्रमध्यतः || प्राणं च नवकेनं तु अधस्तस्य प्रदापयेत् | त्रिमूर्त्या च शिवे दत्तं २२ पूर्वं निषधालये || प्. ९३अ) २ अपूर्वं मंदरे देवि बिंदुभैरवभूषितम् | मया विश्वमिदं व्याप्तं द्विपंचनवधादश || ऊर्द्धं मे प्रोर्द्धगं बीजं क्रूरांतं लोकमध्यतः | तदादि मंदिरे देवि नासिकाग्रे व्यवस्थितम् || अधस्तस्या लिखेद्वर्णं भुज * * * * * * | निलीय हृदये देवि षानें तै?नुजमध्यगम् || पुरतस्तस्य दातव्यो नवके च विलेशयः | द्विरंडभैरवञ्चादौ ऋषिणां मंदिरे स्थितम् || ऋ-अम्तं शिवमाक्रांतं चक्षुश्रवमधो लिखेत् | छागलं भैरवं यत्र क्रूरस्योर्द्धे च संस्थितम् || तस्यमूर्ध्निप्रदाअतव्यं वामजानुस्तमक्षरम् | वामवाहुस्य शिखरे वायव्यं विनियोजयेत् || मालिनी प्रथमं बीजं गुणोन्तं केवलं विदुः | निःस्ववर्णं समुद्धृत्य धावन्ते ऋषिमन्दिरे || बिंदुभैरवसंभिन्नं विद्या चैव परापरा | जप्तव्या परमा देवी देवि सर्वार्थसिद्धिदा || अतिगुप्ततरासेयं जप्तामृत्युविनाशिनी | ध्याता सा मोक्षदा देवी अर्चिता विश्वकामदा || सर्वार्थसाधकीयं हि अनया सर्वविद्यया | रक्षां कृत्वा विधानेन जपेन हरणेन च || जितोहं सकलान् लोकान् पुरस्तानपि दानवान् | एक एव महादेव्यो विद्याराजस्य चेश्वरी || पृथुकठिनभरावरांग यष्टेसास्मर शरविकुलिताभियस्य | घनघर्मजबिंदुनिः सरद्योवि * श्लथमानदर्प्याः ||?????????? गुणाष्टकं तस्य करे समेत्य यावन्ती सत्तीहजगत्त्रयेषु | प्. ९३ब्) विद्यासमस्ताः सकलासने वा दैत्याः स यक्षोरगराक्षसाश्च || मृगादयोनंगशराभिद्याता वशे भवेत् तस्य यथामरेशः | शृणु देवि यथा सा तु पूज्यते साधकेन तु || अवर्गे विमना देवी कवर्गे मंगला स्मृता | सर्वेश्वरी च वर्गे च टवर्गेती विनाति च || तवर्गे मानिनी देवी सर्वज्ञा च पवर्गगा | पवर्गेण सत्ताहंसी ईश्वरी विनियोजयेत् || बीजानि मानिविन्यस्य वर्गान्ते सृष्टिमाकुलम् | विष्णोर्बीजं श्रियाकामं हरं च वनवा युतम् || अंगनाकामवग्निश्च व्यापकं च नियोजयेत् | वारुणं रूमध्यस्थं ध्रुवान्तां गुरभूषितम् || रक्तभैरवमुद्धृत्य तस्योर्द्धे कालपूतनां | तेषां मूर्द्ध्नि प्रदातव्यमुत्तरस्थं न शंसयः || वामान्तं प्रथमं मूर्ध्नि अक्रूरभाषितम् | क्रोधीशं भूतनाथं च त्रिमूर्त्यां बिंदुभैरवम् || यासि मध्ये सृष्टि देवि सद्यान्तं बिंदु भूषितम् | एषा विद्या महादेवी अंगन्यासं करी शुभा || कुलविद्या महेशानि इयं साक्षात् कुलेश्वरि | नवाधारेषु तदंडान् शंखयोश्चिबुके न्यसेत् || श्यामांगीराशिरांत्रिनयनामारक्त चंद्रांशुकां | विद्यामक्षगुणां वराभयधरां पाशांकुशाव्द्यां शिवाम् || विद्यां तत्सकलां समर्थ निचयं सौदामिनी संनिभां | वंदे धर्मसुखार्थ मोक्षफलदां कुशासना ध्यासिनीम् || कंदर्प्य मंदिरे देवीं यत्रोत्पन्नं चराचरम् | प्. ९४अ) मूर्द्ध्निहृत्सु तथावक्त्रे मेढ्रन्तं कल्पयेत् तनुं || चतुःषष्टिप्रकारेण विभजेच्च पुनः पुनः | द्वात्रिंशदक्षरं देविं त्रिपुरां च सुरेश्वरीम् || मातरोदिग्विदिक्संस्था भैरवानंग(त)मूर्तयः | अन्य(ङ्ग)संपूज्ययत्नेन प्रागुल्केनैववर्त्मना || इति श्रीकुब्जिकामते सप्तचत्वारिंशतितमः पटलः || ० || श्रीदेव्युवाच || भगवन्मेरुसन्ताने उद्धृताश्च कुलक्रमाः | पीठानां चैव उद्धारं शब्दनामनियानि च || पुष्पं च कीदृशं देव कथमुद्धारनिर्णयम् | एतन्मे संशयं नाथ यथावेत्ति वद प्रभो || श्रीभैरव उवाच || संताने द्वितीयं पुष्पमेकाविज्ञान भैरवी | नादिफान्तं स्मृतं वर्गं अये देवतापती || निर्गतं द्वादशं रुद्रं खमपुष्प तु द्वयेन तु | सूत्रं संतानकं प्रज्ञा गूढार्थेन व्रवीम्यहम् || संवर्तमंदलोद्यानं शून्यग्रहविनिर्मितम् | इति सिद्धद्वयं तत्व गुहां तुष्णीं समाधिषु || प्रत्ययाज्ञा भवेत् तत्र वृक्षं चैव कदंबकम् | सप्ताविंशतिभिश्च्छेदैर्भिन्नं मंथान भैरवम् || शिवशक्तिसमाचारमद्वैता चारगोत्रकम् | पीठनामद्वयं देवि यथोक्तं तव गह्वरे || न्यास योगं च उद्धारं तथा यदपि शंकरम् | पिठादौ वर्णमालिख्य पंचकै श्लोकं नवात्मकम् || कामरूपं हाकडोकं नेपालं पौंड्रवर्द्धनम् | पुरस्थिरं कान्यकुब्जं पूर्णांगिर्यं तदार्बुदम् || प्. ९४ब्) आम्नातकेश्वरं कास्त्रं त्रिश्रोतं कामकोटरम् | कैलासं भृगु नगरं केदारं चंद्रसूर्यकम् || श्रीकंठं काकिणीजालं कलुतं च पुनः पुनः | हेरिकोटं च गोकर्णं विन्यसेन् मेरुकेश्वरम् || अट्टहासं च विरजं राजवेण्यं महापथं | कोल्लगिर्यं कोल्लगिरियं सौराजं च जयंतिकां || उज्जयिन्याख्यां चरित्रंकिरि हस्तिनापुरं | इंदुकेशं प्रयागाख्यं पुष्टं मायापुरीं तथा || जरसां कलयं चैव शैलभेकंडमेव च | माद्रेंद्रं वारुकं चैवं हिरण्यपुरमेव च || महालक्ष्मीतनोद्यान च्छायाच्छत्रमतः परम् | एते पीठाः समाख्याताः पंचाशत् परिकीर्तिताः || सृष्टिन्यायेन संजाता वामावर्त्तपरिभ्रमात् | वामाद्या च शक्तीनां मध्यग्रे कूटमंडले || उदयं स्वरवर्णाना मुक्तं वै पीठविग्रहम् | मुद्रामंडलमध्ये तु माययागहनी कृतम् || स्वरवर्णविभागं च मेरु श्रीशंकर क्रमम् | आद्यप्रस्तावमाख्यातं संतानं सिद्धिसाधनम् || आनंदविमलं ज्योतिः शक्तिः कुंडलिनी कला | उमाविस्मृति तप्ता वा मुख्यैकश्चैक पादकम् || वागुरंपद्ययोनिश्च त्रिपादे ब्रह्मसागरः | वार्णे द्वयं महारत्नं गलितस्तप्त चामरम् || तांडवं च महाहारं स्थलमुन्मत्तसिंहकम् | जपानश्चैव संवर्त्तिः कंकालश्च त्रिलोचना || वासुदेवो विरूपश्च कमलोदरवाहनः | धनुर्द्धरो जिह्वजश्च द्विजोवारस्तथैव च || प्. ९५अ) अमृतं भद्रकालश्च मारुतो ह्यग्निपार्थिवः | वरुणः शक्तिपालश्च पवनामा तथैव च || सृष्टिश्च भैरवी देवी कुब्जिकेति प्रकीर्तिता | अनुलोमेन विन्यासं विलोमेनसमुद्धरेत् || एते वै शब्दनामानि घण्टादौ प्रतिरोपिताः | चतुःशृंगो महामेरुः पूर्वोक्तविधियुक्तितः || कालिका तु यथाप्रोक्ता तदूर्द्धेन वदाम्यहम् | अधः कालाग्निरुद्रं च तदूर्द्धं तु त्रयोदश || दंडयश्च समाख्यातारुगाद्या ऊर्द्धं गात्रधः | पुनरुर्द्धैकादशारुद्रा मंथाने अधिकारिणः || नवसिद्धास्तदूर्द्धे तु पुनरुर्द्द्धे सप्तयोगिनी | पंचमंडल ऊर्द्धे तु अः षडाद्या क्रमेण तु || शक्तित्रयं तदूर्द्धे तु तत्रोर्द्दे नाथचिंचिनि | कालाग्न्यादि हि नाथान्तं उक्तन्ते कुरुत्रयम् || गह्वरार्थस्य च देहे तु सिद्धसंतानवर्जितम् | न पूर्वं पश्चिमाचार्यं इत्युक्तं कादि भेदि हि || वर्णन्यासं महेशानि शृणु प्रस्तारमुत्तमम् | अकारं चादिनाथं च मेरुर्द्धेशंव्यवस्थितम् || अकारश्च जकारश्च ओलित्रितय देवताः | भकारं च मकारञ्च तकारं च इकारकम् || यथैते संस्मृताभूता देवदेवो महेश्वरः | चवकारसकारं च हेयहाकारमेव च || सप्तैत मातरो देवि लोकानुग्रह कारकाः | जफकारपकारश्च शवलाग्निश्च लांगलिः || टकारं च महेशानि ग्रहास्ते च न संशयः | न्यपकारं च नधकादकारं रथकारकम् || तनकारं च दकारं च टतकारं तथैव च | प्. ९५ब्) एते रुद्राः समाख्याताः सन्तानेनाधिकारिणः || ऋ ॠ ऌ ॡ कारं ए ओं तुकारमेव च | ओंकारं बिंदुसर्गं च कखगांतान् महेश्वरि || आज्ञासिद्धास्तु विख्याता एते रुद्राः प्रकीर्तिताः | चिंचिनी नाथनामानं कथाख्यामि महेश्वरि || सर्वशून्यं तु मध्ये तु कार्मुकोपरिसंस्थितम् | एवमेतन् मयाख्यातं पूर्वसंकेतकं द्विधम् || त्रितये च महादेवि पुष्पं त्रिपुरवाचकम् | येन विज्ञानमात्रेण संतान क्रमिणो भवेत् || साध ऊर्द्धगतं पिंडमादावंतविभूषितम् | आद्या यावद्भवे स्थाने पर्णात्मासनरूपिणी || आद्यामेव हि विद्याया मदिमधो च योजयेत् | ऊर्द्धे बीजत्रयस्यास्य विद्यामंत्रासनस्थिता || गृहीत्वा वर्णमेकैकमाद्यामाद्या तृतीययोः | अप्ये तु मूर्द्ध्नि साधेन विद्या चक्रासन स्थिता || विपरीतस्तु तौरारौ सोर्द्ध ऊर्द्धं त्वना दृतौ | दत्वा तृतीयविद्यायां कामजावास्तु देशतः || सा तु सिद्धासनगता सप्त विद्या प्रकाशिता | धर्माधर्मगतिं ज्ञात्वा शिवशक्तिं नियोजयेत् || वह्निना दीपिता विद्या स्फुरन्तीम् स्फुरा भवेत् | दत्वा च बीजत्रयस्योर्द्धे वर्ण्ये या साधयं अंतगौ || यांतस्था आद्यविघ्नौ च आचाहनविधौ परा | कर्पूरांतं महाबीजं शांतांतं दधो न्यसेत् || मुद्रया शिरसा क्रान्तं साधके नोर्द्धभूषितम् | एष नेत्रो महामंत्रः सर्वकामफलप्रदः || उत्तमांगं शुनाशीरं अधः श्वासा नियोजयेत् | प्. ९६अ) आद्यं चतुर्थसंयुक्तं बिंदुनोर्द्धविभूषितम् || तृतीयमक्षरं चैव देव्या वै परिकीर्तितम् | नांतेरामिंद्रसंयुक्तमाद्यातुर्येणभेदितम् || नवेनशिरसायुक्तं तृतीयं बीजमुत्तमम् | एषा कुलेश्वरी विद्या समयाचारपालिनी || जपपूजाविधानेन अक्षरः सर्वसिद्धिदः | अथातः संप्रवक्ष्यामि मूलविद्यां वरानने || य या विज्ञातया सम्यक् सर्वमेतत् प्रसिद्ध्यति | अथमध्यगतं गुह्यग्रौमध्यगतं कुरु || तस्या मध्ये न्यसेत् पश्चादकारोर्द्धं व्यवस्थितम् | कांतसाधनयकारांत माया बिंदु निरोधनः || वागुरोयं समाख्यातः सम्यक् प्रत्ययकारकः | त्रयाणां सार्द्ववर्णनामेकैकस्यासने न्यसेत् || आद्ययोर्द्ध्नं पकारांतमेवाद्वर्णनांवितम् | कामबीजं महेशानि स रहस्यं प्रकाशितम् || यस्योच्चारणमात्रेण जगत्क्षोभः प्रजायते | तृतीयं संप्रवक्ष्यामि शक्तिबीजं महाद्भुतम् || थाधं नाधं समायुक्तं गाद्यं नाध स यो चिरधः | अःपूज्यदूर्द्धं संयुक्तं शक्तिबीजं समुद्धृतम् || अनेनज्ञानमात्रेण कुर्यात्सप्तविषक्षयम् | एषाविद्यासमाख्याता सर्वाश्चर्य करीवरा || (एषाविद्यासमाख्यातार्प्यकरीवरा |)????? अनया विद्यया सम्यक् नास्ति नद्यतसाधयेत् | काकरो मोदनो ज्ञेयः संकेतो बिंदु मालिनी | शक्तिबीजं सकारश्च शेषावर्णायथा स्थिताः | हकारो भगवान्कालः सुरापे चैव वाहिता || प्. ९६ब्) अकारः प्रणवः साक्षात् सोमसूर्यात्मकः प्रभुः | संकोचश्च विकारश्च हस इत्यक्षरद्वयम् || प्रथमं च ककाराख्य हकारं च द्वितीयकम् | शक्तिबीजं तृतीयं तु ओं इ ओं व्यत्ययेन तु || ततोपरि महायोनि कुंडलाख्या विसर्पिणी | महामाया महाघोरा चतुर्था च सुरेण तु || गुह्यशक्तिः स्वरूपेण ज्ञाकाराख्यं महाज्वलं | रुद्रशक्तिः ककाराख्या कुंडलाख्या हरेंद्रुकम् || तन्मध्ये होमयेच्चिंत्तं कुसुमं ब्रह्मवृक्षकम् | ब्रह्मस्थाने तु यत्पुष्पमुदितं विश्वमायया || तत्पुष्पं होमयेत्कुंडे न पुष्पैरन्यजानिभिः | मज्जामेदस्तथा रेतो यथैतान्मधुरत्रयम् || रक्तं मेदस्तथा रेतो शिव एकारनिर्गतम् | शतमष्टदले देवि जपेदथ प्रतर्पयेत् || वेद्यासेन्पात्रयत्प्रोक्तं गुरुवक्त्रात् तु लभ्यते | चतुरस्रं ततो दत्वा कुर्याद्वारचतुष्टयम् || चतुष्कोणसमायुक्तं एवं स्यान्मंडलोत्तमम् | अष्टापदे चाष्टाशीति गेनाचासु सर्वदा || अष्टाष्टकपदस्यापि सगुरुर्भैरवा गमे | अष्टानामधुरारूढः पदव्यक्तिक्रमेण यः || अष्टधा कुरुते साधु सगुरुर्भैरवः शिवे | षोडशाधार चक्रेण षोडशः स्वरपालकः || षोडशांतकनाधारि * * * * * * * * | चतुर्दशपदान्तस्तु चतुर्दशविधायतः || चतुर्दशभिहीनः सर्गादशकौलेश्वरो धीमान् दशदिग्जनभैरवः || पाशाश्वमेधमध्यस्थः शस्ता चतुर्द्धा क्रम विज्ञानि चतुर्धासंततो यथा || प्. ९७अ) यः सदाद्रोधचंडेश समूर्तिस्तान्बिंदु लक्षस्था त्रिहोमान्ते च चारकः | त्रिनाभिश्चक्रकुंडस्य सग्ना एकाकी विनयत्थं यश्चैकपदः नायकः || एकाक्षरैक चक्रस्थः स गुरुर्भैरवागमे | षष्टि षष्टिर्भवेत् सूत्रैः सप्तसप्तक्रयोजितम् || चतुरस्रं पुरःकृत्वा चतुर्विंशांगुलं शुभम् | जापात्पश्चिमगं सूत्रंमग्निपश्चिमगं पुनः || पूर्वसूत्रं तु संस्थाप्य शेषाणि त्रीणि कोपयेत् | तृदंडा तु स्मृता योनिस्त्रियामासा त्रिदेवता || एकैकंदंडके प्राहुः षट्षट्सूत्राणि पादयेत् | योनयो येनया चंते समस्ताः समसंधयः || कोष्ठकान्पूनपंचाशद्भगरूपाणि तानि च | ईशादकारमारभ्य वारुणांतं प्रविन्यसेत् || विन्यस्येन् मातृकान् सर्वान् विष्णोर्दिशि च पश्चिमाम् | एतच्चक्राणि लिखेत्पट्टैस्तद्भेदारुमये दृते || त्रिकोणे च त्रिपादे च वर्णै काणि च लक्षणे | षण्मासाज्जायते सिद्धिः पूजाजपपरायणे || अतो मंत्रसमुद्धारो यथादेवि तथा शृणु | उजमध्यगतं वर्णं ऊर्द्ध्वेन शिरसाजतम् || अथमध्यगतं वर्णं परमध्यासनस्थितम् | द्वितीयमेतत्कथितमातमध्यसबिंदुकम् || रहं मध्यं अधिस्थं अंकमध्येन ना * तं | प्रथमा अक्षरी विद्या करशुद्धि करी स्मृता || सकलं च कलाख्यं च केवला ह्लादनं प्रिये | द्वयोः कृत्वा विपर्यासं पूर्वबीजेन वैरिणा || अंगन्यास विधौविद्या द्वितीया च कृशोदरी | तत्र प्रकट योगिन्यश्चक्रे त्रैलोक्यमोहने || प्. ९७ब्) अणिमाद्या महादेवि सिद्धयोष्टौ व्यवस्थिताः | तथैव गुप्तयोगिन्यः सर्वाशापरिपूरके || कामाकर्षणरूपाद्या देवताः परिकीर्तिताः | गुप्तगुप्ततराशौरिसर्वसंक्षोभकारके || अनंगकुसुमाद्याश्च शक्रदेव्या व्यवस्थिताः | संप्रदायक्रमायाता चक्रे सौभाग्यकारके || सर्वसंक्षोभिणी पूर्वासंस्थिता पुरसुंदरी | कुलकौलिनयोगिन्यः सर्वसिद्धिः प्रदायकाः || सर्वसिद्धिप्रदाद्यास्तु चक्रे सर्वार्थसाधके | अष्टसिद्धिक्रमेणैव सर्वसिद्धिफलप्रदा || निगर्भदेवताश्चक्रे सर्वरक्षाकरे परे | सर्वज्ञाद्या महादेवि संस्थिता वीरवंदिते || रहस्य देवताश्चक्रे सर्वरोगहरे प्रिये | वशिन्याद्या महादेव्यः संस्थिता परमार्थतः || सर्वसिद्धिमये चक्रे परमाभि रहस्यकाः | स्थिता कामेश्वरी पूर्वा मृतयुः पीठदेवताः || सर्वानंदमये चक्रे परिपूर्णे सुरेश्वरी | संस्थिताद्या मंत्रमयी महात्रिपुरसुंदरि || कौलातीत स्वभावान्तप्रान्तक्रमसमन्विता | परमा द्वैतं भावस्था महापूजा परा प्रिये || परायाप्यपरागौरी त्रितया च परापरः | तस्या नित्योदिता पूजा त्रिभिर्भेदैर्व्यवस्थिता || तत्रादि भेदस्त्रिपुरा द्वितीया त्रिपुरेश्वरी | तृतीयापुरसुंदर्या चतुर्थापुरवासिनी || पंचमे त्रिपुरसिद्धाश्च षष्टे त्रिपुरवासिनी | सप्तमे त्रिपुरासिद्धिरष्टमे त्रिपुरांबिका || नवमे तु महेशानि महात्रिपुरसुंदरी | अथाप्यनंतादिकपीठमध्ये मध्ये गुदक्षोदगुदप्रकोणे || षडादिकानपि पराणि चतुष्टयं च | प्. ९८अ) तन्मध्ययोनेरपि चाष्टयोनेः सन्तर्पयेत् श्रीरुरुपांदुकां च || विश्वमध्ये च भ्रांतं धर्ममायेन्दुसंयुतम् | सददर्शशिवं प्राराभगेवह्नि देदीप्य सर्वसं || मालिनी प्रथमं कालं शिवं * न्त विभूषितम् | चतुर्थान्ते च हृदयं महाशी भवमूर्ति युक् || अनेन देवि कुर्वीत भैरव्याः पीठमर्दनम् | ततो रक्ष्याम्यशेषेण तस्तुभं चक्रमुत्तमम् || सृष्टिरूपं स्थितिस्थं च संहारक्रमतो मतम् | त्रिधायस्थं त्रिकर्दाख्यं विप्रवाहं त्रिवेतनम् || पंचाशद्बीजखनिता त्रिधाहिन्ता महानये | येन ज्ञायेत वै सम्यक् सर्वमंत्र स्वभावतः || परमार्थत्वे सारभूत * * * मिदं मम | कथयामासमासेन चक्रस्य परमे विधिः || चक्राचारं तु कर्तव्यं तस्मिन् पिन्यवसे प्रिये | ततो नित्योदितातीम मंत्र * * * * * * * * || आद्यं कर्णं वहिः कार्यं प्रणम्य च मुहुर्मुहुः | उत्तराभिमुखो भूत्वा आलिखेच्चक्रमुत्तमम् || षोडशारे महादीपं सृष्टिरूपं स्वतेजसाम् | कर्णिकारे श्वत्थयुक्तं महातीक्ष्णं सुशोभनम् || तस्य ब्राह्मे तु वै रुद्रं निमिं दत्वा विशेषतः | आलिखेत् तु परं दिव्यं चक्रं च परमं महत् || तत्वान्नित्यपरं देवी निमिं दत्वा प्रयत्नतः | आलिखेत् तु तृतीयं वै चक्रं संसाररूपकम् || एतच्चक्रत्रयं घोरं सृष्टिस्थितिलयं करम् | तत्रस्था मातृका देवी त्रिधा कुर्याद् द्विधा तथा || कारयेत् सर्वथा नाधे पारंपर्यव्यवस्थितम् | जन्यदा तु परित्यज्यवर्णौ द्वौ घोरदर्पितौ || प्. ९८ब्) अनच्छाद्या तु देवेशि वागुराद्यहरत्पयान् | सृष्टिचक्रस्य आदौ तु षोडशानि समं ततः || वर्णानि कीलकादीनि पुर्वादीशानिकंतमम् | अथवा विन्यसेत् प्राज्ञः शून्यं कुर्याणि वै ततः || ततस्तिष्ठति चक्रस्य वर्णान्यन्यानि षोडश | पूर्वादीनिगजाकांत माशान्यां तु मनु क्रमात् || ततो न्यानि तु वर्णानि षोडशानि वरानने | संहारचक्र भावज्ञो सुरासुरनियोजयेत् || पूर्वादीशानकं यावद् वा गुरां तानि सुव्रते | अचलस्योदरस्तूर्णं कुर्याच्चक्रेश्वरीं शुभाम् || एतच्चक्र सा विन्यासं कारयेच्चक्रसंक्रमम् | सृष्टिचक्रस्य यद्वर्णं प्रथमं शक्तिरूपकं || स्थितिन्नवरसैर्युक्तं प्रथमं वर्णनायकं | विद्धि भैरव तत्वेन सर्वसौभाग्यदायकम् || स्थिति चक्रस्य भावज्ञा द्वितीयं चानु भावकम् | सृष्टि द्वादशसंयुक्तं कुरुतेंद्रेननायकम् || द्वितीयं वर्णसंयोगं विद्धिसर्वविभावकम् | लक्ष्मीबीजं ततो देवि तृतीयं परिकीर्तितम् || स्थिति चक्रस्य देवेशि दशमस्तु समुद्धरेत् | चतुर्थं तु विजानीयात् सर्वैस्वर्यप्रकीर्तितम् || सृष्टिप्रथमकं ग्राह्यं संहारस्याष्टमेनतम् | पंचमं तद्विजानीयाद् विद्या पंचाक्षरा भवेत् || एषा विद्या तु मूर्तीनां सर्वथा कालिका क्रमे | एतत् ते कथितं रुद्रमंत्रोद्धारं परं शुभम् || चतुर्थं तु परं ज्ञेयं क्रमसन्तानपुष्पकम् | उत्तरस्थं महादेवि यदुक्तं कालिकाक्रमे || अत्र ते दर्शितं मार्गं समासात्पश्चिमक्रमं || प्. ९९अ) इति श्रीकुब्जिकामते अष्टचत्वारिंशतितमः पटलः || ० || श्रीदेव्युवाच || चक्रसंकेतकं देवमुद्रासंकेतमेव च | पीठसंकेतकं चान्यद्विस्तरेणवदप्रभो || श्रीभैरव उवाच || यदुक्तं सर्वसंकेतं सर्वाम्नाय क्रमागतम् | गुह्यजं कथितं देवि पराशक्तिस्तु मातृका || मातृणां पूर्वतः सार तेन सा मातृका स्मृता | रुद्रशक्तिस्तु सा प्रोक्ता रुद्राणां मातृका यतः || अष्टौ गणेश्वरा ह्यत्र वर्गस्ताते तवाख्यते | अष्टौ ता मातरो देव्यो योगिन्यो भूयशस्तथा || स्थिताश्च सर्वदा सर्वे दृष्टा दृष्टफलप्रदाः | तेजोबलं प्रसादश्च रूपं ज्ञानं विशुद्धिता || परामुमुद्यमश्चेति सप्त सर्वोत्तमा गुणाः | इदमत्रोतमं कृत्स्नं जायेत भुवनत्रयम् || यदि शब्दा द्वयं ज्योतिरासं सारं न दीयते | एवं क्रमात् समुद्दिष्टं रुद्राणां लक्षणं महत् || ते नुग्रहकराः सर्वे पराद्येते कराः स्फुटाः | तैर्व्याप्तं च जगत् सर्वं शब्दार्थज्ञानरूपकम् || योनिरुष्मा तथा लब्धं षट्कोणं कुंडली कुलम् | मयवणो यशो हंसो अष्टधा वाग्भवे स्मृतम् || प्रथमं वाग्भवं चाथ सुवर्णं लोकविश्रुतम् | द्वितीयं हंसदेवं तु तृतीयं वह्निरोमणम् || चतुर्थं विश्रुतं माया पंचमं प्रणवं भवेत् | चतुष्कलं भवेत् सष्ठं सप्तमं चेश्वर प्रियम् || तदत्र समवायेन वह्निसंयोगजं परम् | दीपकं कुलसारं यत् तत् प्रोक्तं वकूरं सदा || कटाहस्तु ब्रह्मविलं कटाहः शक्तिमंदिरम् | कालरुद्रेति संयोज्य संहारस्तु महात्मनि || प्. ९९ब्) स शिवो भूतले साक्षात् स विजानी स मोचकः | सुदीप्तं मंडलाकारं बिंदुद्वयसमंकितम् || ईकारेदेतिमारूढ महाशिखि शिखासना | ईषत्वं हि यदांतस्था परमानंदरूपिणी || आनंदरससंप्रोक्ता नित्यानंद यथोदिता | वागुरं प्रथमं तत् तु पवर्णं चांवरं यतः || इमा या वैकतां प्राप्ता प्रकाशार्काग्निसोमगा | तदा त्रिकोणगो यत्र मकारं लोकविश्रुतम् || सोमार्कानलरूपं हि स्वरोच्चारमकारजम् | यस्मादिदकारमेकारं चैकोच्चारणसंस्थितम् || ओजापूकक्रमेणैवं कापूजा-ओक्रमेण तु | एष क्रमः समाख्यातः सृष्टिसंहारगोचरः || प्रकाशयति मार्गो ऽयं व्यक्ताव्यक्तपदे स्थितम् | धर्मार्थकाममोक्षाणां ज्ञानतो दंडधारकाः | क्रुद्धत्यर्थग्रही सिद्धा प्रेर्यप्रेरकरूपतः | चर्याधर्मे च पिंडस्थं षट्पादस्वाकृतो भवेत् || रूपस्थं काममोकारमवनीमत्र मंडलम् | चतुष्कं गुरुवक्त्रस्थं माषावधिमनुक्रमात् || देव्यादियुगदं चाथमूर्द्ध्नि मध्या च * * * | तेषु वा गुरुपंक्तिस्तु येषां जन्म तु कारते || ते पूज्याः पूर्णगिरिपीठे कामरूपांतमध्यतः | मोक्षाज्ञायां प्रथमो नाथ कामाज्ञायां द्वितीयकः || तृतीयं चाथसंपत्तौ धर्माज्ञायां चतुर्थकम् | लिंगमेकं त्रिधाभिन्नं त्रिग्योति द्वादशानिमान् || स्वरचक्रं स्वरे चैकं द्वितीयं कादितान्तकम् | पथादिमान्तं तृतीयं तु लिंगे तानि त्रय स्मृताः || लिंगत्रयसमायोगाच्छ्लोकानि द्वादशानि तु | प्. १००अ) स्थितानि ज्ञानरूपेण कर्णात् कर्णगतानि तु || अकारादिविसर्गान्तं ज्योतिकास्वरवेष्टितम् | त्रिकूटस्थं महल्लिगं स्वरवर्णं स्वयंभुवत् || कंदस्थानस्थितं तिष्ठेत् तत्रस्थं वागुरं जपेत् | तत्पश्चादादिकांतस्तु आवृतस्तु त्रिकूटगम् || परमांतरगताभासैर्हृदये च विराजते | एतत् ते वाणलिंगाख्ये नित्यानंदोदितं परम् || तत्रस्थं कामराजानं लक्षमेकेन तिष्ठति | तदूर्द्धे तुर्यसंस्थानं एकारं भुवनांतरे || धादि सा ता वृत्ते सकार मूर्द्धान्ते इतरं स्मृतम् | तत्रस्थं गोलकं तिष्ठेल्लक्षमेकेन निश्चलम् || स्वयंभुर्वाणलिंगं च इतरं? चापि सुव्रते | तेषु लक्षत्रयं कृत्वा बीजत्रितयमभ्यसेत् || पीठं तु मातृका प्रोक्ता तदीशो ऽहं स उच्यते | नादाख्यं तु परं रूपं विसर्गाख्यं परापरम् || क्रमेण कुलमावेश क्रमेणैव तु कालिकम् | निःशेषजं तु चक्रेण त्यक्तादोषपलालवत् || परसौभाग्यमाधत्ते तेनः नित्या प्रकीर्तिता | त्रिकोणमेकं दशमं वह्निगेहं च योनिकम् || शृंगाटकं च एकारं नामभिः परिकीर्तितम् | यदत्र समवायेन नरसंयोगजं परम् || दीपं च कुलसारं च तत् प्रोक्तं वागुरं सदा | पदानि चैव वर्णानि सत्यासत्यानि सुंदरि || व्यक्तध्यानादिभूतं हि पात्रामस्मिन् व्यवस्थितम् | ज्वलनेः संस्थितस्तस्मिन्नधो देवो वरानने || तावती यज्ञस्वध्य संपाशमस्मिन् व्यवस्थितम् | सावाद्यास्कपरित्यक्तमुच्यते देहसंक्षयात् || प्. १००ब्) अत्राप्यधिपतिर्ज्ञेयो रुद्रो देवो हुतासनः | तदिच्छया महेशनि भारतीयं प्रवर्तते || वामित्रि ये तथा वह्नि धाता वाग्बुद्धिदायकः | अथातः संप्रवक्ष्यामि चक्रसंकेतनिर्णयम् || तदर्थं देवि कुर्वीत त्रिहस्तं मंडलोत्तमम् | तस्य कुर्यात् त्रिभिर्भागे कर्णिकां चक्रचिह्निताम् || पद्मद्वयं तदर्द्धेन द्वारक्षेत्रं च तत्समम् | ब्रह्मसूत्रं पुरा दत्वा कर्णिकात्रयमध्यतः || याम्यां सौम्यायतं दद्यात् तत्रस्थं सप्तसूत्रकम् | तुरीयसूत्रं ततो लुप्त्वा मध्यांशश्च विभागशः || तृतीयं च समैर्भागैः कृत्वा अंशविवर्जितैः | तेन मार्गेण च पुनर्मध्यभागं विवर्द्धयेत् || तृतीयस्य द्वितीयस्य * * * * * * * * | प्रसारयेत् त्वधोदस्तं तत् तत् सूत्रं द्वयं द्वयम् || तमेव सप्तके सूत्रे ब्रह्मसानेवशंगतम् | (आपंचमादधस्थानां प्रणवांतां नम योजयेत् || तमेव सप्तके सूत्रे ब्रह्मसानेव संगतम् |) आपं च माधस्थानां प्रणवान्तां तम योजयेत् || तमेव सप्तके सूत्रे विशांतिश्च तृतीयके | सूत्रद्वयं द्वयं चान्यत् सुत्राण्ये चं भवंति षट् || चतुर्दशारमित्येवं दशारं च प्रसिद्ध्यति | तत्कोटिसंगतं पश्चात् सूत्रयुग्मं प्रसारितम् || दशारमेकं कथितमेतद्वक्त्र चतुष्टयम् | सूत्रा द्वितीयकात् षष्टाद्ब्रह्मसूत्रस्य पार्श्वयोः || सूत्रद्वयं द्वयं देवि मध ऊर्द्धं प्रसारितम् | सूत्रात्पंचमादूर्वा दद्यात् सूत्रद्वयं नयेत् || ऊर्द्धं चाधोमुखमध्यस्थ अशमर्मद्वितीया वधि | दद्यात् सूत्र तृतीयं च तयो रन्योन्यसंगतम् || प्. १०१) एवं चतुर्थमष्टारमेकारं वात्रपंचमम् | इति संसिध्यते चक्र कान्तिफान्ति कृतं समे || तच्छक्ति पंचकं सृष्ट्यानयं नामि चतुष्टये | पंचशक्तिश्चतुर्वह्निसंयोगच्चक्रसंगमम् || तत्र एकाष्टकं मध्ये द्विशांते च चतुर्दश | चतुर्दश दशद्वंद्वमष्टारैकं महेश्वरि || सृष्टिसंहारयोगे च शक्तिस्थानान्यनु क्रमात् | वह्न्ः पद्मद्वयं कुर्यादष्टषोडश सच्छदम् || चतुरस्रं ततो दत्वा कुर्याद् द्वारचतुष्टयम् | चतुष्कोणसमायुक्तमेवं स्यान्मंडलोत्तमम् || रक्तेन रजासा सूर्यंश्चक्रं(चन्द्र) शुक्लैर्द्वार चतुर्थकम् | अभिन्ना परमेशस्य शक्तिर्विश्वस्य संभवा || नवामारूपसंपन्ना रूपकायमयी शिवा | मंडनेसान संयुक्तं शिव व्योम तथा || रूपधारनिराधारा सर्वदामूर्द्ध्निविग्रहा | नाभिभूतात्रजगति जन्मस्थानोर्द्ध गामिनी || जननी सर्वभूतानाम भेदस्थितिकारिणि | जगतः प्रलयो देवि अप्रणीनां स्वरूपतः || सर्वेषां तु क्षयं देवि स्वांकेनाक्षरविग्रहा | वद्धा चतुर्विधां योनि पूजां कुर्यादनंतरम् | अस्यामंतरतावोष्टौ वक्त्रजैः कवचैः सुधीः | जिह्वाग्रे वहि निष्क्रामेद्यावदेकं गुणोच्छ्रिता || चक्रयोनिरयं देवि कवचं शृणुसांप्रतम् | कनिष्ठानामयोर्मध्ये वामहस्तस्य पार्वति || प्रवेश्य दक्षिणाः सर्वा अंगुष्ठाजामलौ वृतौ | तयोर्मध्ये तु वध्नीयाद्वामहस्तकनिष्टिकम् || मुद्रेयं हस्ति योनि सर्वकामफलपरदा | प्. १०१ब्) अन्योन्याभि मुखौ पादौ स्वस्तिकासनसंस्थितौ || तयोर्मध्ये भगाकारा चासने नैव चिंतयेत् | एषापादासने योनि ज्ञातव्या साधकोत्तमैः || एवं चतुर्विधा योनिं वध्वा ध्यायेज्जगत्विकाम् | त्रिकोणाष्टकसंविकुं?शरीरं परिचिंतयेत् || आधारबीजसंविष्टो ध्यायेत् त्रिपुरसुंदरीं | चक्रे च तारिते देवि साधकोस्योद्धरेत्करम् || यावन् मध्यगता पूजामणिमुक्ताप्रवालकैः | अभावकुसुमैश्चापि मूलमंत्रेण चार्चयेत् || असून्यं सर्वदाकुर्यात् कुर्याद्विघ्ना भ्यनेकशः | त्रिअंशसशिखामध्येललाटेचकात्न्यसेत् || भ्रुवोर्मध्ये दशारं च कंठदेशे द्वितीयकम् | चतुर्द्वारं स्वांतस्थं नाभौचाष्टदलं न्यसेत् || आधारे षोडशदलं पादयोर्द्वारचक्रकम् | अथातः संप्रवक्ष्यामि महासमयसंस्थिताम् || मूलारूढस्य योगेन विषेदकुलविग्रहे | प्रविध्वास्रंक्षिपत्यंतं कृत्वामुष्करं * * * || नत्वं तत्वेन संरुद्धं ज्ञात्वा योगी विचक्षणः | कर्णे कर्णे गतां देवीं चक्षुश्चक्षुर्गतां पुनः || यत्र यत्र च श्रोतः * साधनं कुरुसर्वदा | सा तत्र स्नेह मायाति ज्ञानसूत्रप्रभावतः || खेचरीब्यो नमस्तेस्तु भूचरीभ्यो नमो नमः | अंतरीक्स चरिभ्यस्तु सर्वयोगि गणेषु च || जंभेमेहितथा क्षे क्षीं स्त्रीं क्षे क्षः फट् तथैव च | स्वाहांतः प्रणवाद्याय वलिमंत्र उदाहृतः || यागादुअ यागमध्ये च यागांते दिग्वलिं हरेत् | प्. १०२अ) चक्रसंकेतको मानो मुद्रासंकेतकस्तथा || त्रिविधास्त्रिपुरादेव्याः संकेतः परमेश्वरि | एकादशादिकं देवि कराली क्रोधसंयुता || सासिमध्यगतं तंतु तदूर्द्धे आसनस्थितम् | यानेवर्ण चतुर्द्धे च नकुलीशूलदं युक् || पूतना दिवि मध्यस्था मृत्यन्तं प्राणदूर्द्धगम् | वाममध्यं महादेवि रक्तस्थं नरके स्थितम् || अधस्तस्य प्रदातव्यं शूलदंडं न संशयः | पूष्ट्याथभैरवं देवं नरके यन्नगे स्थितम् || पूतनां बिंबमध्ये च क्रोधदंडासन स्थिताम् | मायादेवीं च तस्यार्द्धे मूर्ध्नि अक्रूरभेदितम् || त्रैलोक्यक्षोभने देवि स्वयं राजसुरद्रुमः | विंश * * नाशने देवी अत्ययं * * यत्नतः || रक्तभैरव ऊर्द्धे च भैरवं रक्तसंयुतम् | पुनस्तं रक्तसद्भूत्या कोर्द्धवर्णं च स्पष्टे | बिंदुमालिनी ऊर्द्धे च योत्पत्तं पूर्वसेनकम् | एषा विद्या सुरेशानि त्रैलोक्योत्पत्तिमातृका || असृष्ट्या स्वमाया मायास्वमाधवर्णविभूषितम् | आदिबीजं च शिरसिवा स्वत्तं चोर्द्धभेदितम् || मायया संस्थिति मध्यं कामचक्रभगास्मिताः | कन्दरूपाष्टका देवैः सिद्धसंतानपूर्वकम् || नक्षत्रदेवता युक्तं न्यासपूजादि साधने | कृत्तिकाख्ये च नक्षत्रे देवताग्नि रुदीरिता || प्रजापतिश्च रोहिण्यां सोमोमृगशिरे स्मृतः | आर्द्रे रुद्रः समाख्यातः पुनर्वसुश्चादितिर्भवेत् || पुष्पे तु गुरु देवत्यमाश्लेषा सर्व देवता | मघा च पितरो देवि फल्गुणी अर्यमा भेवेत् || फल्गुण्यां च भगः प्रोक्तो हस्तेन सवितामता | प्. १०२ब्) चित्रा इन्द्रा स्वाती या विशाखेन्द्राग्निरीरिता || अनुराधे च मित्रं स्यात् ज्येष्ट इंद्र उदाहृतः | पितरो मूलनक्षत्रे आषाढे अस्य देवता || विश्वे देवास्तु आषाढे श्रवणे विष्णुदेवता | धनिष्ठाश्चाथवसवाः शक्रः शतभिषे विदुः || प्रोष्ठपदे महादेवि अत्रैकपदसंज्ञितः | पुनः प्रोष्ठपदे चापि अहिर्बुध्ननुदीरितः || पूषा च रेवती ज्ञेया अश्विनी अश्विनीं विदुः | भरण्यं चैवकी नाशं देवी देवेन वर्णकान् | जयंति देव्यो हरपाद पंकजं प्रसन्नवामामृतमोक्षदायकम् | अनंतसिद्धांतगतिप्रबोधकं नमामि चाष्टाष्टकरोहिणी कुलं || योगिनी चक्रमध्यस्थं मातृमंडल वेष्टितम् | नमामि शिरसानाथं भैरवं भैरवी प्रियम् | अनादि घोरसंसार व्याधिध्वंसैक हेतवे | नमः श्रीनाथवैद्याय कुलौषधविधायिने || आपादान् दुरितान् रोगान् समयाचारलंघनात् | सर्वाणि मे व्ययोहंतु दिव्यचक्रस्य मेलनात् || संपूजकाअनां प्रतिपादकानां जितेंदिर्याणाञ्च तपोधनानां | देशस्य राष्ट्रस्य पुरस्य राज्ञः करोति शांतिं भगवान् कुलेशः || नंदं तु सड्विध समस्तज्वलदलनायो हिंसासनाख्ये चतुः सार्ङ्गमहार्णवाये | नंदं तु सिद्धकुलकौलिकता परायेप्प?न्ये विशेषपदभेदकशांभवाये || नंद तु सिद्धगुरवस्तदनु क्रमौघा ज्येष्ठा युगाः समायिनो वटुकाः कुमार्यः | प्. १०३अ) संयोगिनी प्रवरवीरकुले प्रसूतानंदन्तु भूमि पतयो द्विजसाधुवर्गाः || नंदं तु नीतिनिपुणा निरवद्यनिष्ठानिर्मत्सरानिरूपमानि रूपद्रवाश्चानित्यं निरञ्जन रता निरवोनिरंशाः शान्ताश्च शांतसो कृतशोकशंक्यः || नंद?तु योगनिरता कुलयोग युक्ता मुख्यार्यमेक साधकपुत्रकाश्च | गावो द्विजा युवतयो यतयः कुमार्योधर्मेरनंतविघ्ना गुरुभक्तिरस्तु || नंदं तु कुलयोगीजा नंदं तु कुलपुत्रकाः | नंदं तु तेजसा चार्या ये चान्ये कुलदीक्षिताः || नंदं तु साधक कुला अणिमादि सिद्धिसाधकाः | पतं तु समय द्विषद्योगिनीना सास्माद्भवी स्फुटनुकारिषमाधारस्था यस्य गुरोश्चरण पंकज एवलभ्यः || याश्चक्रक्रमभूमिका च सतशो नाडीषु याः संस्थिता याः कायाभ्यंतररोमकूपनिलया या संस्थिता धातुषु | उच्छ्रासोर्मिमहत्तरंग शलिले या नीत्वाशयानाश्च ये ता देव्यः परिपंथितक्षणपरास्तू यां नु केनार्जिताः || यस्या आज्ञाप्रभावेन स्वस्तितं भुवनत्रयम् | नमस्ताभ्यः समस्ताभ्यो योगिनीक्षो निरंतरम् || श्रीमच्चंद्रपुरं विहारभुवनं तूर्णीकृता लीलया | शिष्यं सापादलगणितं नीतपदं क्षेचरम् || तन्मध्ये नरकं च भूमि पतिना स्वाज्ञासमाकर्षिता | तं देवं भववोदुःखदोषशमनं श्री आदिनाथं प्रभुं || श्रीमान्मित्रीशनाथः कृतयुगचरितस्त्रेतया ओढ्रनाथः | प्. १०३) षष्टीशद्वापरेशः कलियुगचरिताश्चिंचिणी विरनाथः || सा देवी मित्रदेवी कुलकमलमुखी सिद्धिदा मंगला वा तेषां पादाब्जयुग्मं क्षितितलचरणामस्तकस्तां नमामि || सतत बिंदुश्चक्र भासावितानिश्रमसमोहिनीभिः | प्रलयघननिभाभिर्भाविता भूतभावा भुवनभुवितभंगो भैरवो नः पुनातु || षेयं भुजास्यानवसिद्धिरोधमधानसंचारितदिव्यम् | निरस्त्रशास्त्रार्थविकल्पजाना देवा श्मशानेकरवीरकाख्ये || जयतु परमतत्वः प्रातसोप्रादानसंक्षक्षः परमपदविकाशेल्लासि तत्वाधिरुढाः | सकलभुवनलीलामंगलोद्दामदृष्टिर्विकसतुभुविलक्ष्मीः पीठजामंगलश्रीः || श्रीः पीठकैलासनिवासिनीभ्यो दिव्यासुरप्रावरणप्रियेभ्यः | योगींद्र चूडामणि चुंविताभ्यो नमः स्वसंवित् कुलयोगिनीभ्यः || प्रभूतभूतेहनिरवेद्यनामामासाग्रा मदोत्कटाभ्यः | दिग्वारसंचारितचर्विकाभ्यो वक्त्रोक्तिकं प्राश्यसुखी भवेयम् || दूरस्थाश्च ये ये च सामयिका जनाः | नंदं तु सकलास्तेजो दिव्य चक्रस्य मेलनात् || ये ये सामयिका लोकाः परलोकमितोगताः | तेषां खेचरिणां पानममृतां यो य कल्पतां || कामाः फलं तु वीराणां योगिनीं योगसिद्धये | राजानो धर्मिकाः संतु काले वर्षं तु वारिदाः || मे दिव्यक्रम भूसमयिनां मानं दकामत्सरा द्वेष्टारः कुलयोगिनी जनमनः पापंकुलद्वेषिणः | प्. १०४अ) वीरद्रव्यविनिंदकाकुलवधू वै हास्यका पूजनो हाधीन धियः पततु त इमे षद्योगिनिमंडले || रक्षां पर्व न हाकिनी त्वरिगता कृस्थिता काकिनीलाकिन्या मिषसंश्रिता हिततया मेदस्थिता काकिनी डाकिनी | पूर्णासुस्थित काकिनी परिवृतं हाकिन्यतो मजया गुह्यं पर्वतयाकिना परिधृतं श्रीभैरवो जीवितम् || दिव्यादि गुरुपर्यन्तं ब्रह्मादिस्थ सुखं मतम् | कालाग्न्यादि शिवांतं च जगत्स्वर्गेण तृप्यतु || नित्यमे तत्पठेत्सूत्रं शुभसौभाग्यभुग्भवेत् | शांतिश्च सर्वपापेभ्यः सर्वपापनिकृन्तनम् || व्याधयस्तस्य नश्यंति जीवेट् * शतसुखी | इति देवी समाख्यातं मेरुमार्गविनिर्गतम् || इति कुब्जिकामते पंचाशतितमः पटलः || ० || भगवन्पुष्पसंकेतं संतानक्रमसंभवम् | श्रुतं च कालिका प्रोक्तं त्रिपुरश्च सुरेश्वर | या विद्या परमेशानि देवाअनामुपकारिणी || मेरुमध्ये कथं देवि विद्या महिषवर्धिनी | विद्याहरेर्विद्या विद्याचार्य सुरेश्वर || एतत् सर्वं गणाध्यक्ष वदमे विस्तरं प्रभो | यस्याः कटाक्षमात्रेण दैत्यदानवराक्षसाः || विद्रवंति महादेवि सिंहतस्तु यथामृगाः | क्रमेण शृणु देवेशि विद्यामंतपदार्णवम् || कैलासमंदिरे देवि वामांतं सृष्टिभैरवम् | मध्यमपंचाक्ष्वं विल्वमध्यासने स्थितम् || खवर्णं च शिरसिनोर्वेन स विभूषितम् | रुववर्ते ध्रुवांतस्थं पुनस्तौ शूलदंड युक् || प्. १०४ब्) वज्रिणी होर्द्धमालिख्य सर्गमध्येन नाच्छिदम् | लब्द्धं ध्रुवादि संस्थं च केवलं वज्रिणीं पुनः || शूलदंडं समालिख्यमूर्द्ध्निशक्ति विभेदितम् | बिंदुमध्ये * * * * पुत्रानांतविभूषिताः || तद्वत्कालं समालिख्यविल्यमध्येथमूर्द्धनि | मेषं गुणोन्तमादाय ज्ञानशक्त्या च भूषितम् || योर्द्धदंडासना दांतं क्रूरं तस्या समालिखेत् | अखिलं भूसंभारे कारिके शक्तिमग्रतः || वज्रिणादंडतेजातवेदशे प्राणशूल युक् | सूक्ष्मातं निषधं क्रूरं ज्वलद्वद्रू प्रकीर्तितम् || उद्वद्धर्षपुनर्वाप्यसिंहक्रोधाग्निकुब्जकम् | पथिजाने महादेवि योष्टुं वाकूरमस्तकम् || एषा विद्या महाजाता महिषस्यातिगंधिनः | नाशायभगवती देवी विद्या महादिव्यनिवासिनी || हृदयं भुवनार्स्मैश्च रुद्रार्णैश्च शिरोरुंतम् | ग्रहार्णैश्च शिखाभूत्या भूतार्णैः कवच संस्थितम् || नेत्रसारसार्णैश्च रस्त्रार्णैक्षरस्त्रकं न्यसेत् | रकाशिमुषलं शूलं कपालं टंकमेव च || कोदण्डं खेटकां चापि विभ्राणां नीरद प्रभां | नखदंष्ट्रामुधाभीष्मां पार्श्वस्थां पंचाननां || सुमुखिं दुर्मुखीं चैव न्यान्या सिंहमुखीं तथा | सिंहासनस्थितां चैतानिहासर्वादितो यजेत् || स्वभूतिभिः समायुक्तां लोकात्रिभिरावृताम् | भूतलक्षजपेनाथलक्षैकहरणेन च || जपतर्पणपूजाद्यैः सिद्धोसौनात्रसंशयः | अथान्यं शृणु देवेशि ममवाक्यं प्रयत्नतः || प्. १०५अ) पंचांतके भगोन्तस्थं वायव्यं तस्य दापयेत् | अस्याग्नेजांतमालिख्य सृष्टिवर्णं स्वयं लिखेत् || स्वनन्तं गंधशिखरे तस्य मूर्ध्नि प्रदापयेत् | भे च मध्ये महाकालं दंडादीनि तदग्रतः || पावकीपांशुभाभिन्ना वायव्यां च नियोजयेत् | वांतमग्रे तदन्या च मूर्द्ध्निमध्ये गवाकरम् || न्यसे तु भैरवं प्राणे पुरतस्तस्य दीपनम् | उमाकांतस्य अग्ने च क्रोधवर्णं च कारयेत् || कालिकातोर्द्धकं ढीशं कलार्द्धे दण्डमालिखेत् | भैरवं दीपनं युक्तं त्रिमूर्ति विषये स्थितम् || लोकादिशिरसंभिन्नं देवी बीजमुदाहृतम् | लोहितमूर्द्धजं देवि पानोन्तं दंडसंस्थितम् || कांतवर्त्मं केवलं तु डेवुमध्यं च छागलम् | यांतं गान्तं मुदं देवि गोन्तं सूक्ष्मविभूषितम् || देहमध्ये तदग्रे च वामे मध्यं तु केवलम् | पानोत्माजुसंस्थ च कान्तमेकादसंस्थितम् || वामादि शिरसंभिन्न धरो अर्द्धं च पांसु युक् | या च वज्रिणी युक्तं पुनस्तं सूक्ष्मभेदितम् || भुजंगभैरवं देवि नरके शांति शक्ति युक् | ताधनांतांधसर्गं च वामास्तं गोध्वसोश्रितम् | क्षेतमेकादशं क्रूरं त्रिंशद्वर्णं स पंचकम् || नवार्णैर्वसुभिश्चैक दिग्भिश्च ग्रहसंख्यकैः | ब्रह्माद्याः संस्थिता देवि पदे स्वस्थानपंचके || नागैश्वर्य पदं देवं भोगमोक्षकरं यजेत् | पुस्तकं चाक्षमालां च ज्ञानमुद्रा पदं पुनः || शंखादि नलिनं देवि गदाकौशेय वाससं | प्. १०५ब्) जीमूतसंनिभं चाथधवलात्मा महेश्वरम् || निवृत्याद्याः कलादिक्षु वेदानदिकान् यजेत् | ब्रह्माण्याद्यास्तग्रे च इंद्राग्निः पितृपतिः पुनः || क्षपाचरः स वरुणो वायुश्च धनदो हरः | ब्रह्मानंतगमे पूज्या स्ववाहनाः स भूषणाः || ठकारपंचके देवि किमिदत्वा प्रयत्नतः | क्रमिस्वेन समावेश्य तद्वर्णं चक्रमध्यगम् || कर्णिकायां तु तन्मध्या देवं तद्बाह्यतो न्यसेत् | वर्गाष्टकं सुरेनाथ मातृकां बाह्यतो न्यसेत् || एतत् सर्वं महेशानि प्रवर्पेण सुरांकितम् | पुरज्ञस्य सहायोग्निस्त्रिपादः स शिरस्तथा || यत्रेदं तिष्ठते देवि लिखितं गेहमध्यगम् | तस्य सर्वाणि सिध्यन्ति यावंतीह महीतले || सिद्धयः सर्वदा देवि यथोक्तं परमेष्ठिना | अस्य स्वरूपं वक्ष्यामि सुरासुरनमस्कृतम् || अनया देवि चंद्रत्वं प्राप्तवान् सशतक्रतुः | ब्रह्मत्वं च तथा रुद्रक् ईश्वरत्वं मखेश्वरः || गुह्याद्गुह्यतराविद्या इतः पूर्वं सुरेश्वरि | नोक्ताकुत्रापि सा विद्या सांरतं शृणु चक्रमम् || क्षोर्द्धान्नौक्रूरशिरसौ महारावं च सूतिकम् | आषाढी यत्र देवेशि तस्याधो वर्णमालिखेत् || मुरतस्तस्य देवेशि याधं धांतांतमूर्द्धगम् | वामनांकस्तशिखरे यामोंतर वलं लिखेत् || नारायीकांत हस्तायामीशस्योपरितो न्यसेत् | वागुरं मूर्द्धि देवेशि ध्रुवांतोर्द्धं समालिखेत् || परमध्यं तदग्रे च मेषशूलार्णंकैः पुनः | गत्वानंतेन संभिन्नो धर्मरुद्रंदग्रतः || प्. १०६अ) सोमेश्वरस्थितं कांतं वायुसंभवम् | संवर्त्तको महादेवि तस्याधः शवकं स्थितम् || स्वस्तिनस्तु विजानीयाद्रक्तं तस्यासनं ददेत् | शक्तिवर्णं शिवे न्यस्य शून्यनादसमन्वितम् || पुरोभागे न्यसेद्दूती वर्गाष्टकसमन्विता | विद्यापरमकल्याणि सर्वापद्विनीवारिणी || प्रभावमस्या देवेशि वक्तुं कल्पशतैरपि | न शक्यते वरारोहे श्रोतुं वाकेन चित्फलम् || विद्यादौ वर्णयगणं मुहालक्ष्मीं च वैष्णवम् | हृदिन्यासं प्रकर्तव्यं शिरोदेशेथवारकम् || सदाशिवेनसंयुक्तमंशुमानिलपूर्वकम् | देव्यारुद्रेण वागीश शिखामध्ये च विन्यसेत् || तदग्रे वर्त्मनि ईश्वरेण च तां पुनः | युग्मन्तु ब्रह्मगायत्र्या नेत्राणां कुरुणे स्थितम् || गणां * मभ्यसं शास्त्रय पदं संवत् | फेट्कारी सर्वतो देवि न्यसेत् सर्व * * * * * || एकैकं च ततो गेहे शिरोभागे भ्रुवौ पुनः | दूषणासागंडकंठेषु वाहु हृन्नाभिशूवके || कघांजानु द्वये गुल्फे पादाग्रे च प्रविन्यसेत् | व्यापकं शिष्टवर्णानां नवात्माचादि संयुतम् || पूर्वोक्तेकारमध्ये तु स्मरेन्नारायणे प्रति | शयान महिभोगेषु कमलालिंगितस्तनुम् || दुग्धाब्धि द्विपनिचये ऋषिब्रह्मादि सेविते | नानाद्रुमलताकीर्णे नानाजनसमावृते || स्थितं वा देवदेवेशं शंखचक्रकपालिनम् | विद्यामक्षगुणंकंवु गदां पूर्णघटा मृतम् || किरीटहारकेयूर कटकाद्यैरुपस्थितम् | स्वांकस्थ पद्मकरया सर्वलक्षणलक्षितम् || प्. १०६ब्) दैत्यावलोकनरतं देवदेवं महेश्वरम् | उपचारैः समाराध्य गायत्रीं ब्रह्मणः सुतां || सावित्री विष्णुना देवि वागीशं वाक्यमावृतम् | धनदं च श्रियायुक्तं योनावेवं प्रपूजयेत् || मातरोष्टौ दलाग्रेषु वासुदेवं च मध्यतः | संकर्षणं दक्षभागे प्रद्युस्नं पश्चिमे यजेत् || उत्तरे चानिरुद्धं च आग्नेयादि प्रपूजयेत् | शांति श्रीसरस्वत्यौ च त्रिभिर्बहु विभूषिताः || जप्त्वालक्षगुणं देवि किल्विषैश्च विमुच्यते | रसलाक्षा भवेदोशो स्वयं ब्रह्मसदाशिवः || इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुरशीतिसाहस्रेपंचाशतितमः पटलः || ० || देव्युवाच || त्रिपुरानामविख्याता रक्तांगं न्याससंयुता | नित्याकामदुघानामसंवर्त्ता मंडलक्रमम् || लिंगं च कीदृशं ज्ञेयं यथान्यदपिशंकर | कथयस्व प्रसादेन पूजाहोमं च तर्प्पणम् || श्रीभैरव उवाच || उद्भूतं च पुरादेवि यन्मया त्रिपुरार्णवे | तदद्यसंग्रहेणात्र सुसृष्टं यादृशं भवेत् || सर्वागमानां सारं हि उद्भूतं मेरुसंग्रहे | तस्मान्मेरुं पदापश्येत् स्वहृष्टे नांतरात्मना || कस्यगोमयगंधेन कुंकुमागुरुसंभवेः | लिप्त्वा भूमौ पटेवाथ श्रीद्रुमं मेरुमेव च || नाभिमध्यास्थितं बीजं तस्याग्रेष्टभिसंभवम् | पुरतस्तस्य दातव्यं रुद्रबीजं तृतीयकम् || चतुराननमुद्धृत्य तुरीयं नाभिमंदिरे | रक्तं रुद्रस्थितं कुर्याद्विद्याबीजं शिवे स्थितम् || शृपूर्वं शिरसाक्रांतं स्थेणो मध्यं तथाग्रतः | दक्षशूलं समुद्धृत्य केवलं वायुसंभवम् || प्. १०७अ) उभावेतौ पुनर्लिख्य करालीबीजमग्रतः | भारभूतिस्थितिं कुर्यात्मज्जारुद्रसमा लिखेत् || देणोमध्यगतं कृत्वा विद्याधारेकुंठमग्रतः | निरंतरपदं भूयः श्वेतपूर्वं स भैरवम् || तस्याधो रक्तरुद्रं तु मंदरस्यं शिवेस्थितम् | अस्याग्रे दारुकं बीजं मूलंतं तदनन्तरम् || मालिनी हृदयं देवि पूर्वोपरिसंस्थितम् | तयोर्मूर्ध्निशतं कुर्यान्मालिनी योगमुत्तमम् || ऋषि माला तु मुद्धृत्य तदादिश्चैवमग्रतः | पूर्वोक्त मानदं देवि तत्पुरस्तात्वलोहितम् || शूलदंडासनारूढं नवादिमुपविन्यसेत् | मंदरस्थं विजानीयाद्रुद्रंधात्रिशमग्रतः || मेषोर्द्धे केवलं बीजं वामादि शिरसा न्यसेत् | कूर्मरुद्रस्य पुरतस्तत् पूर्वं केवलं लेखेत् || ज्ञानशक्ति समोपेतं शुक्ररुहे महेश्वरि | लक्ष्मीबीजं समुद्धृत्य नित्यं भीमासमग्रतः || उरुमध्यस्थितं कुर्याद्भैरवं क्रोधसंभवं | लोकांतेन प्रिया पातैः पंचमं प्रणवं भवेत् || मालिनी परथमं बीजमस्याग्रे कालमालिखेत् | लोकांतं शिरसाक्रांतं कारणानि पुनर्भवेत् || एषा विद्या पुराजाना मूलांडक्षोभकारिका | स्वर्गा पवर्गफलदा सद्यः प्रत्ययकारिका || इयं सा भैरवी नित्या सिद्धोसौ मकरध्वजः | कंदर्पमंदिरे भीमा कथादीन क्रमान्न्यसेत् || कंदर्प्याद्यंतपुरगमंते संवर्त्तकं न्यसेत् | विषं स विसद्वित्वेति निवर्तक्रमरोधिता || एष संवर्त्तनामानं मंडलं सुरसुंदरि | प्. १०७ब्) संवर्त्तान्ते स्मृतं तद्धि संवर्त्तक्षयकारकम् || संवर्त्ते निस्फले भूते विंदत्यात्मनियत्सुखं | निर्विकल्पं च संचिंत्य हेतु दृष्टाअंत वर्जितम् || तत्सुखं परमं देवि यत्रेदं स चराचरम् | उत्पत्ति व्यापकं तस्मात् तत्तद्विश्वं प्रतिष्ठितम् || क्रियायाः शक्तयस्तेषु त्रिषुस्थानेषु भैरवाः | वामज्येष्ठे च रौद्री च मध्ये वा नभसंभवाः || शक्तिर्विश्वस्य जननी मूलाद्भिद्यमातृका | वमनी यथाचारेण कल्पार्क भयग्गं विदुः || संवर्त्तक्रमयोगोयं देवि गोप्यं प्रकाशितम् | आनंदं विमलं ज्योति शक्तिरात्मफलप्रदम् || सर्वात्मपदयोगं च इतरत्वान्तु दिक्पुनः | तद्वद्रूप ऋषिप्रोक्तो तथा देवी प्रयत्नतः || मातृकावर्णयोगेन गुरुपिंडस्य मध्यगम् | भैरवी पिंडमध्यस्था दुःखराशि विमोचिनी || द्वात्रिंशल्लक्षणोपेतां भैरवीं विष्णुना सह | गायत्रीं वा तथालक्ष्मीं सर्वलोकैकमातरम् || या लक्ष्मीभैरवी देवी रूपं च रससंनिभा | पंच दीर्घे चतुर्ह्रस्वं पंच सूक्ष्मं षड्भुतम् || सप्तरक्तं त्रिगंभीरं द्विविस्तीर्णं यथोच्यते | बाहुनेत्रद्वयं कुक्षि जानुनी चस्तनांतरम् || पंचदीर्घं समाख्यातमथश्रीवाच जंघिका | पृष्टं गेहं च चत्वारि ह्रस्वान्युक्तानि चेश्वरि || सूक्ष्माण्यंगुलि पर्वाणि केशास्त्वक् दशनानखाः | कक्षं कुक्षिश्च वक्षश्च घ्राणस्कंधौ ललाटिका || षडैवमुल्लतं ज्ञेयमत ऊर्द्धं च यत्पशुः | पाणिपादतलेरक्ते नेत्रौ पाणितलानि च || प्. १०८अ) तालुजिह्वाधरौष्टा च सप्तरक्ताः प्रकीर्तिताः | स्वरः सत्वं च नाभिश्च त्रिगंभीरं प्रकीर्तितम् || उरोललाटिका चैव द्विविस्तार्णं महेश्वरि | द्वात्रिंशल्लक्षणो पेतैर्देवदेवं चलापति || विद्यामक्षगुणं द्वाभ्यामितराभ्यां चक्रकंबुकम् | अन्योन्या लिंगनकरौ * * * * शिवांकगां || मुखेसंयोज्यवेणु च गायंतं कृष्णमच्युतम् | आसंसंप्रेक्षवास्येन तारहारविभूषितौ || रथांगशंखविद्या च अक्षदामाहिशून्यपि | भूतपुंद्रुकयुक्ताख्यामभयं विभ्रती गिराम् || भैरवासनमारुढां मुण्डस्रग्बिन्दु लोचना | परमानंदसंदोहसंपूरितविलोचनाम् || गुणंसर्गमितिप्रोक्तं सूक्ष्मविंनां मयं भवेत् | संवर्त्तकनिरालंबे तत्कटिसमन्विते || महापद्मरत्नरश्मिधवलांग सुशीतले | तत्रावेश्मनिजं भावं देवंतं लक्षणान्वितम् || शिवांशिवासनारूढां बंधूककुसुमारुणम् | परितः शक्तयश्चाष्टौ दिक्षुशक्त्याग्रिमूर्तयः || लक्ष्मी कमलमुच्चार्य वसिनीमंकुशं पुनः | रक्तभैरवमारूढां पूतनाप्रग्नहान्वितां || पंचात्मिकं च देवेशिं वरणामग्रतः कुरु | धरे धरणि शब्दं च भावयेदग्नि दिग्गतम् || शुक्रबीजं समुद्धृत्य वर्गमध्ये च नाकुलं | एकं दशादि पुरतो नवके च तृतीयकम् || तदा दिक्षुसमाक्रांतं बीजं लोकादि मस्तकम् | अनंतादि क्रमेणैवं वर्णानां पुरतो लिखेत् || न निश्च भागवत्यंते स्वष्ठम्ना ध्यानसाम्यतः | प्. १०८ब्) कालिंदी सत्यभामा भूयो मित्रविंदासु नंदिनी || लक्षणानग्नजित्याख्या मूर्तयः क्रमतो भवन् | अपरा देवि कुर्वीत त्रिपुरस्य यथा परा || अस्य जापेनहोमेनलक्षमानेनयद्भवेत् | मृतपाषाणेन दारुण्य दृष्ट्या तच्चेतनं भवेत् || दिविमर्त्यजनेचाथ पाताले पन्नगालये | स्वच्छंदचरितो वीरो यथासौ देवकी सुतः || ततोन्यांसंप्रवक्ष्यामि विद्यां त्रैलोक्य मोहिनीं | त्रैलोक्य मोहने तंत्रे पुराते प्रकटी कृता || ध्रुवं नाभिगतं भूयो मारांकं क्रूरमस्तकम् | मोदकंशुक्रमस्तं च मादनं शुक्रमूर्द्धनि || अधस्तात्कारयेच्छक्तिं गुणोंतं शिरसि स्थितम् | पंचसमोपेतं गर्थानं तेन नादिनी || दीपनी च तथा विद्या माया मध्यं तदग्रतः | मानिनीं वामनेत्रे तु रम्यं रुद्रं समावनम् || विष्णुं वामस्तने न्यस्य पूर्ववत् परितो लिखेत् | पुनः समुद्धरेदन्यं देवि गोप्यं प्रकाशितम् || एषा विष्णुसमुद्भूता विद्यापंचाक्षरी शुभा | एवं वा भैरवीं देवीं कंठकं च नवाक्षराम् || पूर्वोक्ते चंडिका मध्येहं वासंवाधनां कुरु | विष्णवे भगवन् भूयस्तथा शंभुश्च पार्वति || दक्षिणामूर्तियोगेन सैव विद्या महेश्वरि | माया वागीश्वरी सैसाहं स वागीश्वरीं शृणु || हंसस्य पुरतो देवी समांतं हंस शक्तिकम् | भूयः सरस्वतीमग्रे नति स्वाहा वषट् अपि || वागुरं विष्णु देवीं च वायुरुद्रं समग्रतः | कामं सोहं समुद्धृत्य अद्य स्याहा समन्वितम् || प्. १०९अ) प्रपंचमुंडमालायां गदितं त्रिपुरार्णवे | एष विष्णुः शिवः प्रोक्तो ब्रह्मावाक् तरणि भैरवी || पुनस्ते ध्वं?बिका देवी मोजमध्ये व्यवस्थितम् | मंदारावस्थितं कुर्यान् मालिन्या उरुसंभवम् || कांतमेकादशे श्वेतमधस्तद्विल्वसंभवम् | श्रीकरं च समाख्यातं दर्पिता पावकस्य च || दुग्धाब्धिमध्यसंभूतं नलिनोत्तरतार्क्षगम् | अष्टबाहुं समासीनं भैरवाधिष्ठितोऽच्युतः || तप्तकांचनसंकाशं बंधूकारुणवच्छिराम् | नलिनासिगदाचक्रं कंबुपाशांकुशं पुनः || विद्याकपालमनिशं मनसंस्थामनोलयम् | अंगानि विन्यसेत् पंच भीभीसत्रासमदा || पृथुंसवक्षबीजाद्यैः सर्वज्ञादि भिरन्वितैः | पदैरष्टा युधैर्वीजैर्दशस्थानेषु तद्दश || ब्राह्मणोस्य मुखमासीद्वाहूराजन्यमेव च | उरूतदस्य यद्वैश्यः पद्भ्यां शूद्र इति क्रमात् || आपादस्वतलं देवि पादोर्द्धं वितलं पुनः | जंघापादतलं भूयो नितलं जानसर्वगम् || तलातलञ्च उरुभ्यां शुभस्थाने रसातलम् | पातालं कटिसंधिस्थं तद्वद्दूर्द्धविचिंतयेत् || भूर्ल्लोकं नाभिमध्ये च भूवर्लोकं हृदिसंस्थितम् | स्वर्ल्लोकं ह्युरसिज्ञेयं महर्ल्लोकं तु कंठकम् || जनलोकं तालुमध्ये तपोलोकं ललाटके | सत्यलोकं ब्रह्मरन्ध्रे भुवनानि चतुर्दशः || पूर्वोक्त विधिमानेन पूजाद्रव्याणि साधयेत् | प्. १०९ब्) मृतीबीजत्रयं भूयो मानिनीं शिरसंभवम् || कूर्मरुद्रस्य पुरतोन्यद्वर्णं ऋषिमंदिरे | अग्न्यादि बीजमुद्धृत्य गर्थानंतं शिवे न्यसेत् || वसनानंतपुरतो वेचु मध्ये समालिखेत् | संवर्तको महादेवि महाकात्यासनस्थितः || अस्य द्वारप्रदेशे च नरके दीपनीं न्यसेत् | अर्घाशमासनारूढा वायवे चासने न्यसेत् || क्षेपंचमक्षरं देवि नामादि मस्तकेंगजः | वर्णानि पुरतो भूयस्त्री बीजं पुनरे वहि || यथा विद्येयमाख्याता विद्यापंचाक्षरी मता | बीजानि तानि चोद्धृत्यरुद्राणां ऋषिमंदिरे || कालोनाममहारुद्रो वामान्तेन विभूषितः | मादनं भूतवर्णानि गुणवर्णानि पूर्ववत् || एवमेता महाविद्या तद्वद्भूताक्षरी मता | सर्वजापेषु संख्यातमंत्रार्थगुणरूपतः || विधेयं सर्वयत्नेन लक्षत्रयमथा विधेः | भ्रूणहा शुध्यते देवि नरः कालेनपीडितः || लक्षद्वादशकैर्विप्रो राज्ञः षोडशसंख्यकैः | वैश्यस्तु विंशतिः प्रोक्तो यथास्त्री सुद्रजातिभिः || पूर्ववन्मंडले वत्समनिषिच्यसहस्रधा | विमुक्तः सर्वपापेभ्यो स्वेहया च रते मही || ज्येष्ठं कनिष्ठमन्येषां सर्वेषां संयतात्मनाम् | तप एवगरीयो भूत्स्वभावश्चात्रकारणम् || ब्रह्मक्षत्रविषस्त्रीषु दीक्षा संस्कारभेदतः | जायते शुद्धभावस्तु न धर्मं लिंगसाधनम् || द्विजत्वं न भवेत्वाज्ञा यतः पराशरो मुनिः | प्. ११०अ) गर्दभे गर्दभो भूतो व्यासः कैवर्तकी सुतः || मडव्योमांडकी गर्भो ऋषिशृंगो मृगोद्भवः | वसिष्ठो गणिकाज्जातो मातंगोपि महामुनिः || हस्तिन्यामवलोजातः कौशिक्यां केशवो बलः | कुशापश्च मुरोद्भूतः कौशिकश्च महामुनिः || तैत्रीसुतस्तु तैत्रीयस्तथागस्यो घटोद्भवः | विश्वामित्रस्तु चांडाल्यां वाल्मीको म्लेच्छसंभवः || अन्येपि ऋषयः सर्वे द्विजाती भेदगोत्रिणः | तेषां यावत् कुलं नास्ति द्विजानां च कुलं गतः || जातिहीनापिते सर्वे तपसा द्विजतां गताः | तस्माज्जाति कुलेनैव नमन्ये द्विजतां गताः || न विप्रो विप्रवार्येन शूद्री गर्भोयदान हि | प्रातः संध्यादिभिश्चापि मातातद्ब्राह्मणी कथम् || शूद्रोपि शुद्धतां याति विप्रश्चांडाअलतां व्रजेत् | संस्कारभाविता सर्वे तपसाधौतकल्मषाः || तस्माद्दीक्षादि संस्कारैः कुर्ययाच्चमथा विधि | विधिहीनं न कर्तव्यं विधिना पूर्वचोदितम् || दीक्षितस्यापि दोषेण सापिता विधिना भवेत् | भक्तिः शांभवभेदेन चतुर्द्धा परिपठ्यते || निवृत्याद्यन्यबीजाभ्यां पादादि स्थान पंचके | ब्रह्माण्डव्यापका रुद्रा संवर्त्तके स्थिताः || तत्वबोध * * * * धा भिन्ने मतपार्वति | क्रियामयी च पूर्वोक्त्य कुंडमंडलपुत्रिकाः || चैत्रे दुःखाय दीक्षास्याद्वैशाखे सर्वसिद्धिदा | ज्येष्ठे मृत्यु प्रदासास्यादाषाटेवं धुनाशिनी || प्. ११०ब्) श्रावणे वृद्धिदा नॄणां नभस्ये दुःखदा मता | आश्विने सर्वसिद्ध्यैस्या कार्तिकें ज्ञानवृद्धिदा || शुभकृन्मार्गशीर्षे या पौषे ज्ञानविनाशिनी | माघे मेधा विवृद्धा स्यात् फाल्गुणे सर्ववश्य कृत् || हैमराजतताम्रादीन् कलशात्रवशोभनान् | तद्बहिः षोडशाद्वापि द्वात्रिंशद्विगुणं पुनः || स्वस्तिकं सर्वतोभद्रञ्चक्राब्जं प्राक्समीरितम् | दूकूल वेष्टितान् सर्वान् तंतुना त्रिगुणात्मना || हैमरत्नादि गंधाड्यैः पंचामृतपवित्रितान् | चक्रमभ्यर्च्य विधिवदष्ट षोडशसंख्यकैः || द्वात्रिंशच्चतुः षष्टिभैरव्यो भैरवागमात् | भक्षभोज्यानि सर्वाणि प्रदद्यात्तर्पणानि च || यथोपचारविभवैः संपूज्यानामपूर्वकम् | वैकुंठं परशंभुं च परापरमथेश्वरीं || दिव्यादिव्यक्रमं ज्ञात्वा गुरुतः संक्रम क्रमात् | क्रमसिद्धेः परंज्योतिर्नित्याने सान्निध्यतां भवेत् || निर्वाणपदसिद्धिः स्याद् देवैरपि सुदुर्लभा || इति श्रीकुब्जिकामते एकपंचाशतितमः पटलः || ० || श्रीभैरव उवाच || शृणु देवि परंगुह्यं विद्याशंकेतसंज्ञितम् | ब्रह्माण्डे क्षोभका रुद्रास्तथा विष्णु समुद्भवाः || मालिनी तद्ग्रहग्रंथि चतुःषष्टि क्रमेण हि | मातृका सर्वविद्यानामुद्धृतानसुरासुरान् || परापरादि क्रमतः सापिनाना विधा भवेत् | देवानां पुरतो देवी नवात्मानं नवात्मिकाम् || श्रीकंठं विन्यसेन् मूर्द्ध्नि संवर्तात्मानमेव हि | प्. १११अ) अमृताकर्षिणीन्द्राणी ऐशानीं चंद्रमा पुनः || ऊर्द्धकेशी ऋद्द्धिदारारूषाष्टा न्यसेत् पुनः | एकायामथैश्वर्यमोकारीमौषधात्मिकाम् || अंबिकामक्षयां ज्ञानं धात्रीश्चातीमेव हि | गायत्रीं घंटधात्रीं च जीर्णात्मा न विन्यसेत् तनौ || चंडाच्छाया जयाभूमौ कंकारी ज्ञानरूपया | टंकरस्राथटंकारी डामरी टंकारिणी पुनः || शाकिनी तामसी स्थास्ये दाक्षायण्यथ रात्रिका | नादा च पार्वती चैव फट्कारी वंघनीति च || भद्रकाली महामाया यशस्विन्यथवा मया | लंबौष्ठि वरदाश्री च घंटा चैव सरस्वती || ताकिनी दसवत्या च क्षयाभूयो इमाः कलाः | अन्ते च नमसा देवि देवी वासा च चंडिका || तत्वतो भैरवं देवं सर्वत्रैवं प्रविन्यसेत् | धवलामृतसंकाशा न्यस्तव्याः पिडितः || मात्रादंडधरादेव्यो विद्याक्षस्रक्कपालकाः | कपर्दकलितामौलौ वलेंदुकृतशेखराः || अथवा देवि कुर्वीत तत्तन्नाम पुरस्सरम् | ततः क्रमेणवर्णानि भौतकानि विनिष्क्रमात् || पुनरेव महेशानि ज्ञात्वा विद्याक्ष सूत्रकाम् | कैलासमंदिरे देवि आदिवर्णं समालिखेत् || क्रूरवर्णं शिवे न्यस्तं वामांतं भूतिसंभवम् | लोकादिमस्तकाश्रांतं शिवेन्यस्तं प्रकीर्तितम् || अनंतंगंधशिखरे श्वेतपूर्वं समुद्धरेत् | मध्यासनासीनं निषधे वदसंभवम् || एषा शिरसि विन्यस्येत् पूर्वलोकसंभवम् | प्. १११ब्) मुखवृत्तं विजानीयात् मंदरे सूक्ष्ममग्रतः || एकादशे तुरीयांतु तदंते तु ग्रहं न्यसेत् | लोकांतं शिरसिक्रांतं विन्यसेद् दक्ष चक्षुसी || पुनःस्त्रिमूर्तिं भौतीशं वामनेत्रे प्रविन्यसेत् | दक्षिणश्रवणे देवि अमरीशं समन्मथं || भ्रूवान्ते क्षयं चान्यं श्रवणे वामके विदुः | स्थानानि क्रमयोगेन मातृकासुरसुंदरीम् || पुनरन्यं प्रवक्ष्यामि भौतिकं चादिसंभवम् | मकरध्वजस्य पुरतोऽनंतागर्थस्य मंदिरे || अन्यस्य पुरतो भूयः सूक्ष्माग्रं बिंदु भैरवम् | एवमभ्यस्यतः पुंसः अहन्यहनि भक्तितः || अघौघं क्षीयते वर्षात् तेजसाभास्करो भवेत् | शीतले चंद्र तुल्यासौ ब्रह्मविष्णुशिवात्मकः || एवमन्यं सुरेशानि शृणुगुह्यं सनातनम् | सुराणामंतरे देवि त्राणं जीवं स भौतिकम् || अक्रूरं मूर्द्ध्नि विन्यस्तं सुरस्थानेषु विन्यसेत् | तद्वदच्छेवकरवत् संध्यानेषु तथा पुनः || वेदवर्णाः शिरो देवि त्वत्त्वनालं कृतं भवेत् | पांचनामवलांता नामं ते हंसं प्रकीर्तितम् || क्षेत्रमनुग्रहं मूर्द्ध्नि बिंदुनालं कृतं कुरु | विंशत्सहस्रभेदेन विद्यैषा परिकीर्तिता || इंद्रगोपनिभां बालां बालेन्दुकृतशेखराम् | कुंकुमारुणमुंडस्र ङमंडितामुत्ततस्तनीम् || श्वेतपद्मासनासीनामष्टौकामसरोरुहे | अथवा भौतिकीं देवीं संवर्त्तान्तं विन्यसेत् || द्वितीयन्तत्वदेवेह तृतीयमपि पार्वति | एतत्कामकलारूपमक्षरं शिरसि स्थितम् || प्. ११२अ) माया बीजं महेशानि अस्याग्रे रुद्रसंभवम् | आदिवर्णान्तभौतीशं रुद्रं चैववरात्मकम् || मालिनी वक्त्रवर्णस्य सूक्ष्मरुद्रं समूर्द्धनि | मालिन्यो देवमुद्धृत्य उमाकान्तं तदग्रतः || वशमध्यगतं देवि नरके ऋषिमंदिरे | मेषो नाम महारुद्रो रुद्राणामब्धि शंकरे || कालं तेष्वंतमालिख्य लोकांतं चान्तदेशतः | एवं ब्रह्मा च रुद्रश्च दुर्गावागन्य देवता || तत्तद्बीजयुतांगानि फट्कारां पंचमीं न्यसेत् | अस्त्रान्तनेवमंत्राणि न्यस्तव्या वैष्णवेषु च || मातृ ब्रह्मादि लोकांतं पूजनीयाः पृथक् क्रमात् | देवी गोप्यं प्रवक्ष्यामि यन्मया गोपितं पुरा || बीजानीतमसोद्धृत्य हंसाप्तौ सोहमेव च | आदि वर्णस्य शिरसि लोकादि मस्तके न्यसेत् || द्विरंडभैरवी देवीं भीषणीं ऋषिमंदिरे | ध्रूवांतमासनं दद्यात् अन्तं वान्त देशतः || गुणोंतमक्षरं देवि गृहाण ऋषिमंदिरे | अर्द्धमात्रा समायुक्तं देवी बीजं तु केवलम् || वारेन्तं वज्रिणी देवी सूक्ष्मरुद्रविभूषिता | ताराक्षग्रहमालायां मोजमध्यासनप्रभाम् || मालिनी चक्रवर्णस्य वाराही रक्तमूर्द्धनि | पुनरस्या विदेशे तु मायादि मस्तकं कुरु || कांतरुद्रस्य पुरतो न्यस्तव्या वायुसंभवम् | अमरीशांसनारुढा महाकालीनु पूर्विका || भुवोभगो भवेद्भूयो देवस्य पुरतो धनम् | ग्रहशक्तिस्तु देवेशि नकुलीशासनान्विता || ऋषिमध्यपुरतो चामुंडा पुरतः स्थिता | अंतरे बिंदुरुद्रं हि सिद्धिजोनस्तदग्रतः || प्रचोदयादितिक्षेपा व्यवस्थिता * * * * | एषा विद्या पुराजाता ब्रह्म * * * * * * || प्. ११२ब्) किं चाशाग्रे विधातव्या सारात्सारभवं पुनः | ध्रुवान्ते कालमालिख्य अस्याग्रे गंधसंभवम् || पावनी पातु संभिन्ना तेजवर्णो रसो मृतम् | ब्रह्मभूत्या तृतीया नामते वै नाम्तो भवत् || ब्रह्मक्षेत्रविशानां हि आद्या ब्रह्मप्रदर्शिनी | ब्रह्मविप्रे मुदितानां देवानामपि दुर्लभा || ब्रह्माद्याशांत्यतीता देवतावक्त्रपंचके | ते सर्वात्मने सक्त्यं तं स वक्त्राद्यंगषट्सु च || पादादि पिंडमध्येपि विन्यसेत् तत्व चिंतकैः | आदि वर्णादि पीतांतं पद्भ्यां लोके पितामहम् || आजानु गुह्यपर्यन्तं विष्णुस्वैं क्रमसंभवम् | हृदयाद्ब्रह्मपर्यन्तं रुद्रं कृष्ण प्रभं यजेत् || ईशं विष्णुप्रभं ध्यायेदाकचाद्धृदयावधि | धवला मृतसंकाशं तदूर्द्धेशं सदाशिवं || ते तत्रैव समाराध्य फलानीह प्रपेदिरे | बीजानि मध्यकोणे च भानुं बिंदुलके न्यसेत् || पादानि तत्वसंख्यानि निंबेचानुगतेन च | कुंजरं हंसवर्णेन उद्भवेनैव विष्णुना || रुद्रेणवेष्टितं सर्वं विष्णुनालं कृतं कुरु | तन्मध्ये भावयेद्देवीं तन्तु रूपां त्रयी मयीं || त्रिपदां त्र्यक्षरं ब्रह्मविष्णुरुद्रत्रिशक्तिकम् | मुखवाहरुपादेषु ब्रह्मक्षत्रविशेतराः || अभयष्टां कुशापाश कपाल त्रिशिखा कुलां | शंस्वारं नलिनी भोजमंडनाने कमंडिताम् || कुंकुमारुणमुंडस्रङ्मंडितां पद्मगां शिवाम् | सूर्यकोटिसमप्रख्या चंद्रकोटि समप्रभाम् || प्. ११३अ) कपर्दकलितां मौलौ अतिचंडविसर्जिताम् | सर्वज्ञक्रतुमया सूत्रगुणरेखा मनोहराम् || मेखला गुणसंलग्नां कांचीरत्ननितंबिनीम् | तर्कवेदागमाश्चापि रणन्मंजीरहंसिनीं || रोमराजी लताविद्युद्वलयांगदकुंडलां | देव्यासुरमनुष्याणां ऋषिणां च महौजसां || वानेतरत्कुशाकीर्णं मौलिमालाभिरक्षिताम् | भास्वरां प्रियगां देवीं वर्तुलां युगमंथराम् || जितकंदर्पलावण्यवंधुरामृतवर्षिणीम् | कुट्टिमे हैमरत्नाघे लताकल्पमहीरुहे || आसीनां शंभवेशानीमर्चयेदीक्षितो निशम् | शक्तिं वसने त्यादि भगवती पादुके पुनः || ऋग्यजुः सामरूपायै तत्स्था भरणमुक्तये | ज्ञानशक्ति नमस्तुभ्यं वराशिरमे शिवे || आदित्यं भास्करं भानुं देविं प्रागादि दिक्षु च | उमाच्छाया प्रभा नित्या प्रमातृ वर्गदेवताः || तामसी च सरस्वत्या वरदा भावका ह्वया | वरेण्या वा मया भूयो शाकिनी भद्रकालिकां || गायत्री देवकीरामा शाकिनी रात्रिकां पुनः | महाकाली हिरण्या च श्रीमही च यशस्विनी || योगात्मिका तनुस्था च वर्णाद्या रुद्रपूर्विकाः | नारायण्या प्रभावद्या चंडादाक्षायणी यमाः || मातृका वर्णबीजाद्या ब्रह्माताश्च सुरेश्वराः | कषाफलादिनीग्माद्यैः पूर्वोक्त क्रमतः क्रमात् || पलाशारग्वधो शीर्षपुष्पं काश्मनमेव च | वर्णपूतजपो पाथतल्लक्षात्सर्वमाप्नुयात् || विश्वामित्रः पुरादेवी अस्या विद्या प्रभावतः | प्. ११३ब्) ब्रह्मत्वत्तपसाजग्मुः अन्ये चापि तपो धनाः || जनाभा सेयं मया तस्य सर्वपापनिकृन्तनी | अथ गुह्यं प्रवक्ष्यामि शृणु देवि प्रयत्नतः || आदि विद्या विभेदेन विभजेत्तत्वसंख्यया | द्वितीयां ते तृतीयादौ विन्यसेदष्टमाक्षरी || विष्णुं समुद्धरें ङेन्तं पदेषु त्रिपदानि च | द्वितीयं विष्णुरुद्राद्यौ आदौर्चानंतमेव च || अवादेवि प्रकुर्वीत स्रजं विष्णुहरं त्रिषु | श्लोकानि तानि विन्यस्य पंचस्थानेषु वा पुनः || एवमेव तथातां हि लभ्यंते गुरुतोऽनिशं | वामान्तं भौतिकं क्रूरमाह्निकं दशशक्तिकम् || कामाज्ञानं च तस्याग्रे पंचांगं बिंदुमस्तकम् | महीने च पुनं ते च मानिनी वामनेत्रज || यानोंतमुद्धृत्य मध्यस्थं समादिं मस्तके न्यसेत् | दीपनीं मूर्द्धि दातव्या प्राणजीवसि भौतिकम् || लोकांत्तं शिरसाक्रातं च्छगलंडं स दीपनीं | पुनरेतौ स वाजीशं मादनं सर्वलोकतः || कलसा मस्तके देवि वामादि मूर्द्ध्नि विन्यसेत् | खड्गीशं नवके देवि चारेंतं शवकं भवेत् || मानवाद्य वधूर्वर्गे चंडिकां मानवाक्षराम् | आदौ चांते स देविभ्यामंते वै पार्थिवं न्यसेत् || पदानि पदविन्यस्य मातृका वर्गसंख्यया | अंगानि दशषट्कं वैकं बाहुमध्य पादयोः || भूतवर्णं समुच्चार्य हृदयेथगणाधिपम् | गणेशं कुतुवर्णेन शिवे न्यासंसदा * * || तपेरस्तु तथादेवि गणनाथं प्रकीर्तितम् | तद्वक्त चयमित्युक्तमेकदंताय वै पुनः || पंचाक्षरं लंबकर्णं नेत्रेषु पुरतो न्यसेत् | प्. ११४अ) रक्ततुंडाय बीजानि हूं फट् स्वाहास्त्र दिङ्मतम् || न्यस्त्वा देहस्य सन्नाहं मूर्तिशक्त्यादि शक्तिकीम् | पंचाशन्रागचक्रं च भूतवर्णसमप्रभम् || नागयज्ञोपवीतं च पुष्पासंपुष्टविग्रहम् | निविष्टपुष्करं तत्र पुष्पामदनमंदिरे || उदकं विष्णुरासीनां शिरस्य शर्करांबुजाम् | शंखचक्रशरंशूलं बीजपूरं विषाणकम् || गदाब्जमुत्पलाशं च त यत्क्रूरपंकजम् | शक्त्यादि वममूद्धृत्य शक्त्यन्तं गणपतिं न्यसेत् || मातृकोक्त विधानेन गणेशान् शक्तिका न्यसेत् | सम्यगभ्यर्च्य विद्यानां प्राप्नुयादक्षयं फलम् || नाभिमध्येस्य पुरतो देवी बीइजं तदग्रतः | आकाशमंदिराधस्थं पूजनासनमालिखेत् || संवर्तान्ते स्थितं बीजमक्रूरं शिरसि न्यसेत् | पंचांतको महारुद्रोर्थिमुमध्ये व्यवस्थितः || महत्तत्व * * देवि गणपतिसमन्वितम् | क्षेत्रमध्ये महेशानि मानिन्यामाहशंकरम् || मंदरस्थं विजानीयाल्लोहितं रक्तमूर्द्धगम् | पुनस्तं बीजमादाय शुक्लं सतभूषितम् || धात्रीशं पुरतो देवि मानिन्या शिवसंभवम् | तस्याग्रे गंधशिखरे अनंतं मूर्ध्निविन्यसेत् || त्रिस्थाने स्वादिबीजं हि न्यस्त्वाधस्थं वधूं पुरः | हूं फट् नमश्च वौषड्व त्रिविधं न्यस्त वर्तुलः || चंडिकारा च मा बीजं स्थाने स्थाने नियोजयेत् | अथान्यं संप्रवक्ष्यामि शृणु देवि यथाक्रमम् || विष्णुरुद्रश्च पुरतो स्वर्घांडं विष्णुसंभवम् | प्. ११४ब्) धारांते निस्तरे देवि ङोवु मध्ये वरानने || अपनीवरकेदंतमंबिकां पूर्ववत् पुनः | रुद्रान्तं सद्यमालिख्य धर्मरुद्रस्य अग्रतः || भाषणी रुक्षषि गेहे वज्रमध्यं तु भूषिता | पुनरेवमहेशनि दीपनीमेवसंभवं || याते उरुमध्यस्थ र ऊर्द्धे योनिमालिखेत् | अभूपतित्वं च * * महाकालस्य मूर्द्धनि || कामादि विन्यसेत् तद्वद् धात्रीशं प्राणसंभवम् | गुह्यशक्तिसमोपेतं ददापय स चंडिकां || सूतिबीजद्वयं भूयो व्यत्पयेनापि चोद्धरेत् | वर्मरुद्रस्य पुरतो लोहितं गंधमादने || रुतांतमग्नतः कृत्वा द्विस्थाने धात्रिसंभवम् | सूक्ष्मो नाममहारुद्रो अंबिकासनसंस्थितः || दहनीबीजमुद्धृत्य रागादिं मस्तके न्यसेत् | तद्वद्देवीं महाकालीमग्नतः क्रूरसंभवम् || वाअरुणेर्द्धे तु ताराक्षीं पुनस्तां सूक्ष्मभेदितम् | रुद्राणीं नवके भूयोरु अन्तं गंधसंभवम् || लोहितास्तरुहार्णं च वरायते समालिखेत् | पानोमेध्यगतं देवि व्याकृतंत्वविलोमतः || धर्माग्रेण तमालिख्य चणो मध्यं तु केवलम् | पुनरस्यादि बीजं हि अनंतं रक्तसंभवम् || आमोडीक्षीरमध्ये च मेषांते चांतचर्म च | रक्तरुद्रासने देवि अनन्तं विन्यसेत् पुनः || मूलदंडासनारूढं शुक्लप्राणं समुद्धरेत् | शुभवर्णं महाकालं रुद्राणां ऋषिमंदिरे || वाराहं पार्थिवं रुद्रं विष्णं ब्राह्मणमेव च | एवमेव क्रमं देवि तथान्यदपि पूर्ववत् || प्रथमं हृदयं देवि विष्णवे हृदयं न्यसेत् | प्. ११५अ) द्वादशार्द्धं शिवाज्ञेया भूयो धर्मस्तथा भवेत् || अस्त्रं हरति सर्वत्र दशचैकं प्रकल्पयेत् | ब्रह्माद्याशाश्वतीनान्ता भूतार्णाः पूर्वसंभवाः || पादानि दशभूतानि तत्तत्स्थाने स्रुतानि च | पंचभूतसमप्रख्यमयुतार्कप्रभामिव || आयुधानि विचित्राणि विचित्रा भरणानि च | सर्वक्रतुमयं सौम्यमष्टमेस चतुर्दले || निबंद्धे च त्रिकोणे च सिंहादिमंत्रं विन्यसेत् | षोडशे मातृक्वावर्ण योगोवैदर्भ एव च || वर्णान्तत्रगतोर्द्धं वै पार्थिवान्तं सुरेश्वरि | कोलवक्त्रं विशालाक्षं मर्त्यलोका वधिस्थितम् || तस्यार्द्धं वक्त्रदेशे तु पद्भ्यां लोके पितामहम् | योगीश्वरीं चकुकारे श्वासे प्राणं समर्चयेत् || ककुटस्य पथे देवि संपूज्यौदिति चाश्विनौ | हृदये च महाविष्णुं रविशशि दक्षवामके || भुजेकुक्षौ च वशखौ दंष्ट्राग्रे च वसुधरा | सर्वदेवमयं देवं साक्षाद्ब्रह्मस्वरूपिणम् | शंखानि खेटखड्गं च पाशांकुशगदाधनुः | अथवा नीलजीमूतप्रभार्का युतभास्करम् || धवलामृतशोभाढ्यमानंदभरितं हरिम् | अस्य सव्यापसव्ये तु अहं ब्रह्माग्रतो विषं || अनन्तं पश्चिमे यस्मान् मूर्ताद्या अंगपूर्विकाः | प्रागुक्तविधिना चाथ वर्जयित्वा वसुंधराम् || पद्मापद्मकरामंकविष्टरं पीतभास्वरम् | तत्तन्मंत्रेण संपूज्य नारसिंहं महाबलम् || जितषड्वर्गशुद्धात्मा स्वधर्मनिरतो जनः | ऋजुमध्यगतं देवि नभोमध्यगतां शिवाम् || प्. ११५ब्) रक्तभैरवमारूढां तस्याग्रे वेदभैरवम् | शुभशक्ति समोपेतं भुजंगक्रूरमग्रतः || महाविष्णुं तमुच्चार्य ज्वलन्तं शक्तिमग्रतः | मेदंरक्तसमारूढं ताराक्षी पातु भेदिता || आस्यते संपदं भूयो सहस्रारज्ञमस्तकम् | नारायणं चतुर्थं च तस्याग्रे यादृशं शृणु || नारसिंहं पुनर्देवि भीषणं भीषणं पुनः | कात्वमध्यं तु धात्रीशं रक्तरुद्रं स बिंदुकम् || मृत्युं च पुरतो देवि गुणोंतं मेषसंभवम् | भे च मध्ये समुद्धृत्य गंधानंतं शिवे न्यसेत् || महाकालं समुद्धृत्य वे वु मध्यसने स्थितम् | अस्याग्रे अंबिकाबीजं वामांतं च त्रिबीजकम् || एवमन्यानि बीजानि बाह्या येन यथा भवेत् | द्वात्रिंशति प्रभेदेन अस्या देव्या यथा क्रमात् || ज्ञातव्यं पुरतो देवि रहस्यन्ते वदाम्यहम् | न च भागविभागं च देवानामपि दुर्ल्लभम् || आदि विद्या विभेदेन एवं देवि नवानवी | द्वात्रिंशदक्षरी विद्या आदि प्रस्तावसंयुता || इति श्रीकुब्जिकामतेत्रिपंचाशतितमः पटलः || ० || श्रीदेव्युवाच || वंद्यास्मि देवदेवस्य सफलं जीवितं मम | पूर्वोक्ता या महादेवी सर्वपाशनिकृन्तनि || न तदस्या क्रमेदेव यथावेद्मि पुनः पुनः | सर्वागमेषु तंत्रेषु गोपिता सर्वकामदा || मार्तण्डभैरवे देव तथा च त्रिपुरार्णवे | सर्वसंमोहने तंत्रे रुरुभेदे च यत्नतः || इदानीं श्रोतुमिच्छामि सा विद्या संप्रदायतः | आपुरपत्नीसामाया दृष्टादृष्टफलप्रदा || प्. ११६अ) वक्तुमर्हसि देवेश यदि तुष्टोसि मे प्रभो | अघवामक्रमेणैव गेहमध्येसु विस्तरम् || श्रीभैरव उवाच || साधुपृष्टं महादेवि पुरा वै श्रवणेन तु | ब्रह्मणा वासवे नाथ विष्णुना च महात्मना || वागीशेन तु शुक्रेण सम्यगाराधिता सती | सा विद्या परमा देवि विष्णवे प्रोक्तवानडं || सांप्रतं कथयामीयं शृणुष्वायतलोचने | पूर्वोक्तक्रमतो विद्वान् स पूज्यश्रीक्रमं गुरुः || गोरोचनादिभिर्द्रव्यैर्लिखित्वा शुद्धभूतले | मेरुं तत्र महादेवी मातृका संयुतं तथा || पंचप्रणवयोगेन तद्ग्रहेण च मातृकाम् | विन्यस्य विधिवद्भूय उद्धरेन्मंत्रमुत्तमम् || पंचप्रणवसंयुक्तं तदुद्धारं पुरोक्तवत् | नवात्मान्तरितं कृत्वा जपकाले जपेन्नरः || प्रणमामि महादेवीं सर्वविद्यात्मरूपिणीम् | व्योमगां गजमध्यस्थां योन्याकारां नवांविकाम् || मांकुर्वे? तु योगिन्यो भुवस्थान्म?घषिष्ठिताः | उद्धरिष्यामि तां विद्यां शृणु तत्र प्रयत्नतः || कैलासमंदिरे देवि श्रीकंठो नामनामतः | आदिवर्णं विजानीयात् त्रैपुरे भवत्विदं || क्रूरवर्णं शिवेदत्तं मंदरे तु ततः परम् | भूतमध्ये चतुर्थं तु शंखिनी यत्र संस्थिता || तमाधाय च मेधावीरुपूर्वेण समन्वितम् | द्वितीयं तु वरारोहे तृतीयं तु ततः परम् || मंदरे ऋषिमालायां ते पूर्वं केवलं भवेत् | ततोर्मध्यगतं देवी पंचातं यत्र भैरवम् || चतुर्थं केवलं विद्याच्चतुर्थं वारुणं भवेत् | भगमध्यगतं गुह्यं मंदरे सूक्ष्मसंयुतम् || प्. ११६ब्) षष्ठं तं तद्विजानीयात् सप्तमं चाष्टमं शृणु | त्रिस्थाने हंसवर्णौ तुकांभवान्ताग्नि बिंदुमत् || प्रथमे वर्णसांकल्पे ज्ञानशक्ति विभूषितम् | द्वितीये वर्णसकले शवारुढं सुरेश्वरि || करालीवर्णमुद्धृत्य पूर्वं यंत्रसंस्थितम् | ध्रुवादिवर्णसंयुक्तं नवमंदशमं ततः || मंदरे भूतमालायां च्छागलं शिखिवाहिनीं | बिंदुमध्यासनारूढं सूक्ष्मरुद्रेणसंयुतम् || क्रोधवर्णं समुद्धृत्य नूपुरेणसमन्वितम् | एकादशं महादेवी हंसवर्णौ पुनः पुनः || त्रिस्थानेषु समुद्धृत्य क्रूरवर्णविभूषितम् | प्रथमेनतमंयुक्तं द्वितीये मूर्तिसंयुतम् || तृतीये तु ध्रुवांतं च त्रिस्थाने दीपनी युतम् | पुनः श्रीकंठनामानं देवी पंचदशाक्षरी || विश्वमध्ये शिवस्थाने रु पूर्वं गंधमादने | रुद्रवे च रुद्रमालायां गायत्र्या च समन्वितम् || भुजंगभैरवी देवी दीपनी यत्र संस्थिता | कैलासे वाममध्ये तु आदिवर्णेनसंयुतम् || पुनरेव महेशानी घोरेति पदसंभवेत् | पुनः श्रीकंठमुद्धृत्य घोराशब्दं न संशयः || कालो नाम महारुद्रो भे च मध्ये व्यवस्थितः | ध्रुवादिवर्णयोगेन त्रयोविंशं न संशयः || ठठि मध्यगतं देवि चतुर्विंशाक्षरो भवेत् | एकादशे ऋतुस्थाने च्छागली यत्र संस्थिता || भुजंगभैरवारूढा दीपनी यत्र संस्थिता | प्. ११७अ) अनंता क्रूरसंयुक्तं तत्त्वसंख्या न संशयः || शूलश्च च्छागली देवी दीपन्या सूक्ष्म बिंदुका | एकादशादि वर्णं च मायादेवी युतं कुरु || नारायणी मर्त्यदेवी सूक्ष्मरुद्रेण मंडिता | अष्टाविंशति वर्णोयं क्रोधसूक्ष्मविभूषितम् || पुनर्नारायणी देवी सूक्ष्मरुद्रविभूषिता | वाममध्यगतं देवी वज्रिणी यत्रसंस्थिता || सूक्ष्मरुद्रेण संयुक्तारायुक्ता च द्विधा कुरु | कैलासे ऋतुपूर्वेण युक्तं रा * सुरेश्वरी || द्वात्रिंशदक्षरी देवी वर्णरूपा व्यवस्थिता | एवं देवि मयाख्यातं आम्नाये पश्चिमे तरे || करांगन्याससंनद्धं वक्त्रन्यासमतः परम् | वर्णन्यासं ततो देहे मातृका शब्दवत् || त्रिविद्याद्योर्याष्टकं तु षोढान्यसासं तु देशिकः | यथा देवी पुराप्रोक्ता विस्तरेण शुविद्यया || पीठन्यासं ततो देवी सप्तविंशतिसंख्यया | संपूज्यश्रीक्रमान्नाथान् पादुकापङ्क्ति संयुतान् || यथोपचारसंयुक्तपुष्पगंधाक्षतादिभिः | पीठाष्टकं ततो देवी बाह्येष्टकं क्रमात् || समयाचारयोगेन दत्वा कर्णसमुत्तमम् | मुद्रां बधानिरालंबां क्षमस्वेति विसर्जयेत् || स्थित्वा तदग्रतः सम्यक् सहस्रं चाष्टकं शतम् | एवं ज्ञात्वा वरारोहे ध्यानगम्यामतींद्रियाम् || ध्यात्वातामिंदुसंपूर्ण वदनां भोजमंडलाम् | पंचवक्त्रां दशभुजां पिनोन्नतपयोधराम् || रहस्यानां रहस्यं तु गोप्यानां गोप्यमुत्तमम् | पावनः पावनीनां च मंगलानां च मंगलम् || प्. ११७ब्) इत्युक्तं क्रमयोगेन कथितं च सुरेश्वरि | अथान्यं संप्रवक्ष्यामि स्वगोप्यं देवि दुर्लभम् || विद्याद्यभेदभिन्नस्तु संक्षेपात् कथयामिते | पूर्वं देवासुरे देवि मध्यमाने महार्णवे || असुरैर्निर्जिता देवा रविशक्र पुरोगमाः | तस्मादागत्यसर्वे ते यत्राहं स्थितवान् प्रिये || प्रणम्यकायवागभिस्तु यथा वृत्तं न्यवेदयत् | इंद्रस्तु गुरुणासार्द्धं वेपमानः सुदुःखितः || ततः प्रसन्नचित्तोहं वीरश्रीविजयप्रदम् | भोगदं मोक्षदं चैव वाक्प्रदं शिवदं शिवम् || ज्ञानदं राज्यदं देवि खड्गपातालसिद्धिदम् | अष्टैश्वर्यखेचरत्वं स्वर्गकामफलप्रदम् || बहुनोक्तेन किं देवि सर्वकामफलप्रदम् | इदं विचिंत्य बहुशः सर्वदेवमयात्मकम् || मनुमंत्रं द्वात्रिंशदर्णघं कौले पश्चिम दिक्यते | अथविद्यामयाख्याता कृत्तिकाकुलनायिका || परापरविभागेन विद्यात्रैलोक्य मोहिनी | प्रोक्ता सा तु महेंद्राय गुरवे देशिकोत्तमः || पारंपर्यक्रमायाता त्रिप्रभेदा महेश्वरी | पर्यः शक्ति समुद्दिष्टा पारं शिवमिहोच्यते || परौघं प्रथमं देवि दिव्यौघं तदनंतरम् | दिव्यादि तृतीयं च गुरुः सर्वत्रमागताम् || ब्रह्माणं कायशुद्ध्यर्थं वाक्शुद्ध्यर्थं जनार्दनम् | मनः शुद्ध्यर्थकं रुद्रं त्रिशुद्धिं सर्वदा यजेत् || उलक्रमं तु विज्ञेयं मध्यज्येष्ठं शेखरम् | भक्तानामेव रक्षार्थं यथावत्कथयामिते || अपि सर्वागमज्ञस्य पूर्वाचार परस्य च | प्. ११८अ) ओलित्वा न विहीनस्य प्रणामं नैवकारयेत् || प्रणमामि महादेविं ब्रह्माविष्णीश सेवितां | सिद्धचारणसंघैश्च पन्नगैः स सुरासुरैः || सृष्टिस्थिति लयं अस्यां वंदेतां कुलकुब्जिकाम् | एवं भूतां तु तां विद्यामुद्धरेन्मेरुमध्यतः || पूर्ववत्समयं देवि संपूज्य च कुलक्रमम् | मंदरे ऋषिमालायां यत्र संस्थिताम् || प्रथमं देवि विज्ञेयं तनोर्मध्यं द्वितीयकम् | वाममध्यं तृतीयं तु भागमध्यगतं पुनः || माया देवि समायुक्तं मेदरे च चतुर्थकम् | वागीश्वरी वलोकांते पंचपंच न संशयः || च्छागलीं भूतमध्ये तु शिखिनीं कर्णमध्यतः | कैलासं मंदरे देवि सपूर्वेण समन्वितम् || सष्ठं तं च विजानीयात् सप्तमं चाष्टमं शृणु | नवात्मानं ततोद्धृत्य भूयस्त्वं परमेश्वरि || सासिमद्यगतं बीजमंविकास्थानगं कुरु | त्रिमूर्तिभैरवं देवि पूर्वनिषधालये || शिवप्रदेशसंभिन्नं कुब्जिकेति सुरेश्वरि | हंसवर्णं त्रिधा कृत्वा सृष्टिस्थितिलय क्रमात् || त्रिविधोपि समायुक्त कांतधार्णाग्नि बिंदुकम् | अनंतेन शिवोभिन्नं सृष्टिबीजं तु मध्यमे || पूर्वं निषदार्णेनभिन्नं संहारकं पुनः | ध्रुवांतं देवि संयुक्तं दशगौकं न संशयः || कर्मरुद्रं ततो देवि चामुंडा ऋषिमंदिरे | केवलंतं समादाय विलमध्य गतं प्रिये || महाकालं केवलं तु भे च मध्ये व्यवस्थितम् | एकादशे क्रोधवर्णं कलाली तत्र संस्थितम् || प्. ११८ब्) ध्रुवादि वर्णसंयुक्तं बिल्वमध्यगतं पुनः | ज्ञानशक्तियुतं देवि कैलासे रत्नमंदिरे || कूर्मरुद्रं समारभ्य कुलपंचाक्षरी युतम् | पुनरेव महेशानि आदि उद्धारयोगतः || एकोनविंशद्यर्णोयं श्रीकंठस्त्वत्रविंशतिः | एकादशे तु घोराख्या स पूर्वं गंधमादने || सद्योजातेनसंयुक्ता गायत्री यत्र पार्वति | नरके शूलदंडं च भुजंगो नाम भैरवः || अनंतेन शिवोभिन्नं द्वात्रिंशद्गंधमादने | महाकालं पुनर्देवि ध्रुवाद्यासनसंस्थितम् || ठ्विमध्यगतं गृह्य गायत्री संख्यकोक्षरं | हंसवर्णं द्विधादेव सृष्टिस्थिति विभेदतः || ध्रुवाद्यवर्णं देवेशि च्छागलीनामनामतः | शूलदंडासनारूढं अनंतंगंधमादने || अक्रूरेण शिरोभिन्नं आद्यहंसे सुरेश्वरि | द्वितीये च्छागली देवी शूलडंडं त्रिमूर्तिना || वर्णावेतौ सुरेशानि त्रैलोक्य वशमानयत् | करालि वर्णमुद्धृत्य ध्रुवादीति पदं भवेत् || वर्णावेतौ पुनर्दीप्ता तारमध्यं तु सूक्ष्मकम् | मंदरे ऋषिमध्यौ च चामुंडा कूर्मभैरवः || द्विधा च प्रोच्चरेद्देवि कैलासे वाममंदिरे | ज्ञानशक्तिसमोपेतं रु पूर्वं तं न संशयः || सारात्सारतरं चैव गुह्याद्गुह्यं मयोदितम् | पूतप्रवणकं चाथक्रमोत्क्रमगतं भवेत् || प्राग्भवं हंसवर्णं च शक्तिबीजे तथा भवेत् | मा बीजेव तथा देवि हंसाधः क्रमयोगतः || मंडिशो भैरवस्तत्र कांतपाताग्नि बिंदु युक् | पुनश्चान्याथ देवेशि वारुणं विनियोजयेत् || एवं भेदैः क्रमैर्वापि मातृकामंत्रसंपुटैः | प्. ११९अ) न्यस्वादौ तद्गृहिन्यासादूर्द्धप्राग्दक्षपश्चिमम् || उत्तरं वक्त्रकं चाथ अर्द्धवर्णं ततो न्यसेत् | पूजा ध्यानं च संदिष्टं यथापूर्वं न संशयः || षण्मासाभ्यास योगेन साधकोमत्समो भवेत् | इद्रमग्निं यमं रक्षं वरुणं विश्वगं शशिम् || ईशानं पूजयेन् मध्ये देवी सप्ताष्टकं ततः | धर्मादि प्रेत पर्यन्तं पंचपंचेति भेदतः || पुनः षोढाप्रभिन्नेन अष्टाविंशक्रमेण तु | योनिमध्यगतं लिंगं योन्यो देव पुटी कृतम् || तन्मध्ये वामनो रूपं लक्षयेच्च पुनः पुनः | मध्ये मंथानयोगेन कालाग्नि ज्वलिते किल || मधनाच्छिवशक्तिस्तु तदानंदः प्रजायते | निश्चलत्वं भवेद् देवि शिवशक्त्यो भवेदतः || तेनामृतेन चात्मानं प्लाव्यमानं विचिंतयेत् | एतत् तु परमं दिव्यं परमानंदलक्षणम् || एतत् ते माणिपूरस्य रहस्यं प्रकटीं कृतम् | गोपितं तं च मंत्रेषु लक्ष्मी तुल्यं प्रकाशितम् || दुर्लभं सिद्धमार्गस्य किंपुनस्त्वितरेषु च | उक्तकालेन सिद्ध्यन्ते अवश्यं नादृतं वचः || किंतु ज्योतिर्लताकारं चक्रमार्गस्य मध्यगम् | यद्वा महात्रदेवानां वंदेतां शांभरी मजाम् || दध्राप्रेमाणतायाभिः प्रयक्षफलदं यतः | सर्वागम विरोधेन न नित्यं योगिनी महम् || प्रवृत्ते भैरवी तंत्रे सर्वे वर्णा द्विजातयः | निंवृत्ते भैरवी तंत्रे सर्वे वर्णाः पृथक् पृथक् || इत्येवमेव देवेशि रहस्यं प्रकटी कृतम् | भक्तियुक्ता यदातव्यं त्वया सर्वत्र नंदिनि || प्. ११९ब्) लक्षं यतो जपस्तेन तदर्द्धस्तु हतक्रिया | मनसो वीश्वरोर्द्धेसि वसुदेव * * * * || विद्येयं परमेशानि सर्वकामदुद्या भवे | सप्तकोटीश्चरी देवी त्रिलक्षात् सिद्धिभाग्भवेत् || स्वाहा शीर्षके सञ्जिते ङे वाहसंक्ष्रें ह्रीं ह्रां जुहातेजसंकर्षणी नामा विद्या सघ फलप्रदा || हास्वामनां क्रटोक्षु वोप्रचोहंकं ह्रीं ओं ऐं जुः सः हवीश्वनयेत्व मनाकशीर्षकं स्वः यनोहंसं ह्रीं रुः स्वं उ || ० || इति श्रीकुब्जिकामतेत्रिपंचाशतितमः पटलः || ० || श्रीदेव्युवाच || भगवत्सर्वधर्मज्ञ विश्वकारणकारण | नवकोटिप्रमाणेन यदुक्तं कुब्जिका मते || उत्पन्नं मम विज्ञानं निर्वाण पदसिद्धिदं | अनेको वासनाख्येहं भवतामेद्य विस्तरात् || पुनः पृच्छामि तज्ज्ञानं व्रजेन्मुक्तिं च शास्वनीम् | शैवे च नाकुले पंचकल्पवेदादि निर्गतम् || पंचरात्रादिराद्धांतं ज्ञानं निर्वाणदं परम् | ब्रह्मत्वं तपसाजग्मुर्ये नैते च तपोधनाः || अत्र ते दर्शयिष्यामि तेभ्य उद्धृत्यसंवनात् | देवा अपि न जानंति किं पुनस्त्वितरे जनाः || सदाशिवान्ता वर्णाद्यास्तनु स्थानेषु विन्यसेत् | शिवं हकारमित्युक्तमौंकारः शक्तिरुच्यते || बिंदुनादात्मकौतद्वदुकारं बिंदुमस्तकम् | श्रीकंठं पुरतो न्यस्य अस्यादिश्चांत देवताः || वामांतं विन्यसेन्मूर्द्ध्नि मालिनी शिरसंभवान् | आदधेत्तं मध्यमं च मानिनी प्रथमं पुनः || दीप्ताय पुरतो देवि श्रीकंठस्यांत देशतः | मेरुरुद्रस्य अग्रे तु रुतांतं गंधसंभवम् || खिंनमध्यं समुद्धृत्य एष तस्या सनं भवेत् | प्. १२०अ) देववर्णं शिवेदत्तं चिह्नमध्यं समेदकम् || गंधानंतेनसंभिन्नं मांसं तस्या ततो ददेत् | रूपिणे च पुनर्देवि अत ऊर्द्धं च यच्छृणु || आनंदा ह्यपदं भूयः प्राणरुद्रं तु केवलं | मेदोनाममहारुद्रः शुभे भक्त्यासमन्वितः || रुद्राणां नरके रक्तं रक्तरुद्रासनस्थितम् | तयोर्मूर्द्धि प्रदातव्यं मंदरे सूक्ष्मसंभवम् || भागमध्यगतं देवि ताराक्षीं केवलं विदुः | सासिमध्यगतं शुक्ल कालं वापं च मं पुनः || ज्ञानं च पुरतो देवि रक्तस्योपरि लोहितम् | सूक्ष्मरुद्रस्थितं कुर्ययाच्छक्रस्योपरि पार्वति || धात्रीशं कांतमध्ये तु कालं वामानु मूर्द्धगम् | ब्रह्मचारी जितक्रोधी व्रतचर्या समन्वितः || स्वच्छः स्वच्छांवरः स्रग्वी नन्क्ताशी सुदृढव्रतः | ध्यानं कुर्यात् त्रिषुस्थाने ध्यानः शुक्लविस्तरे || इदुं गोक्षारकुंदाभं देवदेवं जगद्गुरुम् | अनन्तेन समवावद्ध कक्षैकविचरं शिवम् || अहं वद्धजटामौली शरच्चंद्रविराजितः | अनंता वेष्टितं वामे न कुटं सुमनोहरम् || नानामालागणैः कॢप्तां दक्षिणे वर्णमालिकाम् | पंकसूत्रमनंतं हि पुंडरीकाजिनां चरम् || पद्माशनं शिवं शांतं स्वच्छंदगतिरीश्वरम् | स्वचोक्तानि षडंगानि षट्पदानीहतन्तया || द्वात्रिंशदक्षरां देवि पिडमध्ये च विन्यसेत् | उमादुर्गाप्रभासत्या चामुंडाहंस्यापि पासिनी || विजया विरजा विश्वा जया च सुमुखेश्वरी | वामाज्येष्ठा च रौद्री च अंबिकेच्छा भयप्रदा || प्. १२०ब्) दाक्षायणी सुरानंदा भद्रकाली कुलांगना | कुलशाभा महादेवी हृल्लेखा गगनासती || रक्ताकरालिकाभूयो महासूक्ष्मा सरस्वती | संहारवो नाम महाकालासनस्थितः || पावकेनार्द्धसंयुक्तो वायुवेगासुसंयुतः | अनुग्रहशिवेपेतः स्वयं पूर्वापरे तु गम् || तत्तत्स्थानेषु तक्षेत्र विद्याबीजानि संस्थितः | पूर्वपंचार्णवत्कुर्यां शेषमन्ये सुरेश्वरि || दूतीशस्याग्रतो देवि चात्मनि समालिखेत् | आकाशमंदिरे घोरे ग्रहाणामुत्तमं शिवे || मूर्द्ध्निबिंदुपुतं कुर्यान् मानिन्या उरुसंभवम् | शुक्लं हृदयमध्यस्थं मध्यभागं तदग्रतः || वागीशमासनं दृद्यादक्रूरं शिरसि न्यसेत् | परंब्रह्मपदं देवि पुरुषं कृष्णमेव च || पामो मध्यगतं भूयः शुष्मं क्रूरस्य मूर्धगम् | शिवां च विलमध्यान्त भैरवं बिंदुमग्रतः || ध्रुवांतं कात्वमध्यस्य धेनुमध्यासनं भवेत् | खंडपावकमारुढं वेतंसनकरे पुनः || सूक्ष्मरुद्रा स्थितं कुर्यान् मानिन्या चक्रमुत्तमम् | स पूर्वं नवके पूर्वं ध्रुवान्तासनसंस्थितम् || रुद्राणां मंदिरे सद्यः पूर्वं चास्याग्रतो लिखेत् | नाभिवर्णं समुद्धृत्य ह मध्ये स बिंदुकम् || कटकं विश्वरूपाय वज्रिणी भौतिकेन च | प्रणामं चाद्यबीजं हि प्रणुक्त क्रमतोद्धरेत् || अघोरवसुनर्द्देवि पूजाहोमं च तर्पणम् | बीजानि भूतवर्णानि चतुर्युक्तं सुरेश्वरि || यजामहे तु देवीं तु मृत्योर्मुक्षीयवर्द्धनम् | बीजंसन्तं संभूयश्चानंतंचिंतमेव च || सर्वं वर्द्धये संते पुनरेवसमुद्धरेत् | प्. १२१अ) अमरीशादिमं बीजं स्थाणु रुद्रादि संयुतम् || अग्रे तस्यात उद्धृत्य तस्यां तं पुरतः स्थितम् | त्रिस्थानात्तौसमुद्धृत्य स्थाने स्वंगान षट्पदैः || रक्षोहनो वलहन सुमुखः कालरूपकः | विजयो जयंतः प्रजयो मनोन्मनाय बलाय च || भूतशक्त्याक्षरैर्मूर्त्तिं पदैः संक्रंदनादिभिः | अर्चयित्वा पुनस्तस्य रुद्रलक्षं यतव्रतः || मृत्युर्विलासकैर्देवि मंत्रोऽभीष्टफलप्रदः | विष्णुबीजं समुद्धृत्य रु अंतं हस्य अग्रतः || लोकोपि शिरसाक्रांतं एकरुद्रं तृतीयकम् | आकाशमंदरांतस्थमात्मादी बिंदुसन्निभम् || स्थापितव्यं प्रयत्नेन शिवं तस्यार्द्धसंभवम् | मानिन्यासक्रवर्णस्य शिवेरुद्रं तृतीयकम् || धात्रीशस्यासनं दयाद्दृषीणामंतरे स्थितम् | दीपनी त?ग्र देशे च साधने तं समालिखेत् || नासिकाग्रे पुनर्देवि अस्थिरुद्रासनं भवेत् | सहस्रांशे स्फुरत्यंते दधमध्यं ध्रुवांतकम् || काकानामं महारुद्रा दीपनी सूक्ष्ममूर्द्धगाः | एकादशादि पुरतो कांतं गांतं प्रविन्यसेत् || तुरीयं भूतमध्ये तु कांतं वैरोजमध्यतः | महाकाल्यासनत्वेन आलिंगं गंधमादने || शाकमन्ये शरीराय प्रणामास्तु परं पदम् | आत्मानं युते देवि विजानीहि पुरोक्तवत् || अप्रकृत्यात्मकं नाम संभूतं परमार्थतः | बीजानीमानि भूयश्च शंकरं लोकशंकरम् || नारायणं चौर्थ्यन्तं नवात्मानं पुरस्थितं | चत्वारि देववसूर्णैस्तथा वह्निः स्वभूतकैः || प्. १२१ब्) न्यस्तव्या विधियोगेन कायमध्ये सुरेश्वरि | अर्द्धनारीश्वरं देवं न सर्वत्रावतंसकम् || सोमार्कमश्चित्रै श्वनानाकल्पमनोहरम् | द्वात्रिंशल्लक्षणैर्वाद्यं देवदेवमुमापतिम् || पाशांकुशं वामदक्षे अक्षस्रक् नृकपालकम् | तप्तहाटकसंकाशं सोमंसिंदूरसंप्रतम् || सिंहास्तु विष्ट्यवे देवि पूर्ववत् परितोषयेत् | अंबुजं पश्चिमे पूज्यं बाणं धनददियगतं || रुद्रमाखंडलेयष्टा ईश्वरं स्वरसन्निभम् | अननादि चतुष्केषु हृल्लेखां च गदां पुनः || रक्तां करालिकां देवं महत्सूक्ष्मं महेश्वरम् | वंदसूत्पलधारिण्यो वेणीबद्धास्वलंकृताः || षष्टमेदष्टपूर्वादिरुतं वसूं चरं नवम् | रुतेजामग्नि दिग्भावे गोजलेशो वरे यजेत् || अवजामर्चयेद्वाजौ अत्रिजामैशकोणके | ब्राह्मण्यादि चतुःषष्टि विधानेन प्रयत्नतः || होमंदक्षिणकुंडे तु लाजातिलसतंदुलैः | स्वयंभूकुसुमैश्चापि नृप बिल्वमहीरुहैः || चंद्रकस्तूरिकोन्मिश्र गुडक्षौद्रघृतप्लुतम् | अर्द्धलक्षं जपेत् पूर्वं तथाहोमं स तर्पणम् || तर्पणानि पुनर्दद्यान्नवं स्वाघं मनोहरम् | त्रिभिर्वर्घैर्यताहारो व्रतचर्यासमन्वितः || पलमथा श्वाभिस्तृप्तौ परममीश्वरौ | प्रदद्यादीप्सितं सर्वं खेचरत्वा पवर्गकम् || भूप्रदेशं समं कृत्वा चंदनागुरु चर्चितं | कृत्वामंडलकं तत्र चतुष्पत्रं त्रियोनिकम् || ततः क्रमेणवर्णानि विन्यसे तिस्रबाह्यतः | प्. १२२अ) आदीक्षांत अकारोतौ विन्यसेज्जगदीश्वरीं || तन्मध्ये पूर्ववद्रूपं संविचिन्त्य हृदंबुजे | मनसावर्तते योगी यावद्ब्रह्मा स जीवति || हरंहरिं दक्षवामे वा दक्षे हरंहरिम् | त्रिशूलंकंबुकं देवि देवं चक्रं शिवं हरिः || तारं स बिंदुकं देवी हृदोल्कं प्रथमं हृदि | सर्वान्तपदभूयो मेषं तद्वच्छिरसि न्यसेत् || महोल्क नित्यतृप्तांते वीरं वीरोल्कमेव च | शिखायामनादि बोधं तृतीयं परमेश्वरीम् || आदि वर्णतृतीयान्ते ह्युक्तं स्वातं अमेव च | मदोगंधेन सहसा सर्वं स पंचमं पुनः || निद्यगन्तेश्च प्रशक्ती नेत्राणां रक्षणे न्यसेत् | वागीशं च सहस्रोल्क अनंतशक्तिस्तु कंटकम् || पूजयेत् पूर्ववद्भक्त्या भेदाभेदं न कारयेत् | संशयात्मा प्रणश्यति न सुखं न परांगतिम् || विश्वसेत् परमं धर्मे अधर्मे नैव विश्वसेत् | धर्मेण क्रतुविश्वापि यथा भोज्यंति देवताः || तस्मान्मंत्रमयं लोकं धर्मं मंत्रमयं विदुः | धर्मेण पृथिवीं जित्वा दिव्ययानैर्मनोहरैः || क्रीडन्तेद्यापि दृश्यन्ते देवाश्चापि तपोधनाः | तेनधर्मात्मके मंत्रे येषां प्रज्ञा न वर्तते | तेषां स्वर्गं च मोक्षं च इहमूत्र न हि क्वचित् | उत्तरं दक्षिणां चैव द्वावेतौ सर्वदेहिनाम् || पंथानौ तौ परिभ्रष्टे अधर्मं वर्द्धते निशम् | दर्द्धरीदंदशूकादि योनिस्तर्जयते खलु || तेषु दुःखान्यनेकानि भुज्यंते दुःखसंभवम् | न तत्र सुखले शोस्तिहाकष्टं परमेश्वरि || गर्भवासेति दुःखार्तो वाल्ये अज्ञानमोहितः | प्. १२२ब्) यौवने विषयापन्नो वार्द्धके मरणोन्मुखः || मृतस्य जन्मस्या देवं घटियंत्र भ्रमो यथा | तस्माच्चस्त्वजनोलोके श्रुतिवाक्यैर्नियम्यते || अपदादि दोषेण मध्यमो विनिविन्यसेत् | कषाय चर्मवन्मदोहठेनायातिमार्दवम् || तस्मादुर्गमये यंत्रे मंत्रवित्पंडितो जनः | संधायविधिना देवि विधानेन पुरोक्तवत् | खेचरी आदि सिद्धिनामधिपो जायते नरः | अथान्यं संप्रवक्ष्यामि सुगोप्यं भूविदुर्लभम् || येनविजानमात्रेण क्षुभ्यते भुवनत्रयम् | देवी बीजद्वयं देवी अंते एति द्वयं पुनः || यद्वार्णग्रहमालायामाषाटीभुविंसंस्थितम् | तृतीयं तद्विजानीयाद् यवध्ये * चतुर्थकम् || यस्य वर्णस्य बिंदुर्द्धेखिकारस्य अधः स्थितम् | मालिनी वक्त्रवर्णं च नवके पद्मवस्थितम् || ताराक्षीग्रहमालायां वमोंतं मस्तकं न्यसेत् | अस्यांते गंधशिखरे अनंतं क्रूरसंयुतम् || नारायणं सनेयुक्तं कामं रक्तासनं भवेत् | रुद्रांतं क्रूरशिखरं पिनाकी तस्य ऊर्द्धतः | एकादशे ऋषिस्थाने अर्घीशो यस्य ऊर्द्धतः | पुनरस्यादि रक्तस्थं गंधांकुरसमन्वितम् || ननादि वर्णमुद्धृत्य मालिनी दक्षमूलकम् | दंडव्यमासनं तस्य मालिनी वक्त्रसंभवम् || रु अंतं पुरतो न्यस्य विटेमध्यं तथा पुनः | मेदोनाम महारुद्रोशो उर्द्धे केवलं विदुः || यद्वर्णमेष ऊर्द्धे च मालिन्या तरुयुक्पुनः | रक्तरुद्रासनत्वेन सूक्ष्मरुद्रं शिवे न्यसेत् || प्. १२३अ) मालिनी प्रथमं बीजं झंटीशेनसमन्वितम् | संवर्तकं महारुद्रमस्तिरुद्रोस्थितम् भवम् | रक्तंरुदन्तमक्रूरं प्राणं मेषं पुनर्भवेत् | एकादशे च स्वस्थाने यद्वर्णं बिंदुमस्तकम् || अस्याग्रे च स फेत्कारी खंडसोमेश्वरान्वितम् | इतीदं परमं गुह्यं पवित्रं सर्वकामदम् || तस्य संस्मरणाद्देवि दैत्यदानवराक्षसाः | विद्रवंति महावीर्याः सिंहत्रस्तामृगा इव || अस्य जापेन होमेन भुक्तिमुक्ति करेस्थित | स्त्रीषु विद्यासुपठति स्वसाध्य कृते हरिः || तेषु वैरं न कर्तव्यमपराधशतैरपि | वीथीद्वारसमायुक्तं चतुरस्रं समालिखेत् || ग्रण?डपुष्करं क्षेन्तमंकुशं सर्वतो मुखम् | वर्णानु क्रमयोगेन षोडसारं कलान्वितम् || विन्यसेद् वर्णसोन्मध्ये मध्ये द्वात्रिंशदक्षरम् | व्यंजनाति चतुर्बाह्ये पद्ममष्टदलं पुनः || तद्वद्वर्णानि विन्यस्य वर्गिणाह षडक्षरम् | भूतच्छदेषु सर्वत्र ब्रह्मा अनंत देवताः || पुनरग्नि स्थितं कुर्ययान्नारसिंहं शिवान्वितम् | तत्रसंलिख्यकार्याणि साधयेद्वरवर्णिनि || सौदर्शनं महासिंहं तत्र विन्यस्य पार्वति | पिंगाक्षं दंष्ट्रिणं भीमं भद्रकायं सुदुर्जयम् || तत्र शंखासिखेटं च तोमरं मुद्गरं पुनः | पाशांकुशौ यदापद्म शरासशरमेव च || क्रनुदंडाग्नि वरदं देवदेवं जगद्गुरुम् | कौशेयवाससं रक्तं रक्ताभरणमंडितम् || वीक्षणं चैक वक्त्रं च भास्करा युत सुप्रभम् | तस्याहं वक्त्रशे * च ब्रह्मपादद्वये स्थितः | प्. १२३ब्) सिंहिकामं कुशं देवीं कुक्षौ स च स्मृतः | नेत्रेष्वग्नि दुस्तुराश्च शक्रेसैवाहमंडले || सर्वज्ञादि पदाद्यन्ते प्रथमं सप्तवर्णकम् | द्वितीयं ऋतुवर्णेन द्वितीयं सांकुशं भवेत् || देवी बीजं परेन्यस्य नवभिश्च तनुच्छदम् | गुणवदक्षरैर्देवि नेत्रमंत्र पदे पुनः || विष्णवे ईश्वरायमोदाय गगनाय वसवेतपसे अनंताय नारायणाय रामाय यमाय यज्ञपुरुषाय सर्वक्रियाय हराय सर्वकांतापरति प्रिया यजनाय लक्ष्मीश्वराय वरुणाय नृसिंहाय स्कंदाय हलिनेनंदाय हयग्रीवाय नंदकाय ओंकाराय फट्काराय स्वाहा पतये हरिहराय शंखचक्रा भयाभीष्ट पाशांकुशशराधनुः | प्रधानमूर्ति प्रतिमाः पिंडमध्ये व्यवस्थिताः || स्वरानुक्रमयोगेन वीजानामुत्तरे विभुः | शक्तयोन्यं जिनास्तास्तु मूर्तयः प्रथिता इमाः || रमाराका प्रभा सत्या चित्रक्षोम्ने हिरण्यगा | धामाज्येष्टा सुरारौद्री उमासंध्या वा निशा || शिवा विजया सर्वदा नित्या सर्वाणी सर्वमंगला | लक्ष्मी श्रीरतिः कांतिर्मेधा प्रज्ञासरस्वती || आह्लादिनी भगानंदा विजया सर्वमंगला | चित्रन्यस्ता विधिवद्यंत्र मध्ये पुरोर्चयेत् || केशवाद्या स्वरस्थाने शक्तिमूर्तेष्ट पत्रके | षडंगान् विन्यसेत् कोणे पत्रे विष्ट्यादिवेवताः || मध्ये त्रिकोणकोणेषु अहंब्रह्मा स्वयं हरिः | विष्टरेनंतभोगाख्ये आसने योगविष्टरे || प्. १२४अ) पश्चिमेर्क यताभाति फणेभिश्यान यत्रयत् | ऋषिभिः सिद्धसंघैश्च सेव्यमानं मुदान्वितम् || शाद्वलाभिः सुरेशाश्च वेणी बद्धाः स्वभूषणाः | एकेणश्लिष्टरमणाः पाशांकुशकपालकाः || भूप्रदेऽसेषु विजने लक्षद्वंद्वदृढव्रताः | तदर्द्धहोमयो देवि किंसुक प्रसवेन च || पद्मक्षीरमथोलाजा तिलतंडुलविल्वजैः | एवं कृते भवेदीशः स्वयं ब्रह्माहरिः स्वयम् || इतोवक्रं न शक्नोमि किमन्यैः क्षुद्रसिद्धिभिः | यदि मेरुश्चलोस्थानात् स्थानाच्चलति भास्करः || महीमध्येर्वयतानैतन्मिथ्या न भवेद्ध्रुवम् | ध्रुवं विष्णुं च रुद्रं च मन्मथं देव वर्ण युक् || शिवादि बीजमारभ्य षोडशानि समालिखेत् | शूद्रीबीजेरमाबीजमथवामन्मथद्वये || त्रिस्थाने वा गतं मंत्रं रमाबीजे स सूनि युक् | षोडशांते विलोमेन भूतवर्णाः करेस्थिताः || केशजालधरः सौम्यः शुक्रशंखखलमद्वयम् | ओतप्तहेमशंकाशं लक्ष्मीशंशासनस्थितम् || निस्तारुणाज्ञा हस्तान्तां कुंडली भूतपन्नगे | * * * तात पत्रैव आसीनं सुमनोहरम् || कन्या हि वद्धविलसद्धैमद्वीपे पयोदधौ | सुरपादतलाकीर्णे वसुच्छद स कर्णिके || ध्यात्वा तु तं पुरोक्तेन धर्मेणा सुप्रसिद्ध्यति | शृणुदेवि परं चान्यद्विष्णुंरुद्रपितामहम् || असाधनं सवर्णं तु श्वेतपूर्वं तु कारयेत् | रूतांतादि स्थितं कुर्याल्लोकादिं मस्तके न्यसेत् || कांतं रक्तासनारूढं उ ओंमध्यांतभेदिनौ | प्. १२४ब्) ङोवुमध्योर्द्धकैर्देवि भाषणीं ऋषिमंदिरे || खि ऊर्द्धचक्रिणी बीजमन्ते आषाढीसंसवम् | मूर्द्ध्नि तस्य प्रदातव्यं रुतांतं वाममंदिरे || विद्या त्रितयमुद्धृत्य भौतीशं लोप्यमूर्द्धनि | वेदवर्णस्य शिरसिबिंदुं धात्रीशमेव च | कुमंतमक्षरं देवि नासिकाग्रासनस्थितम् | मिनरुद्रोर्द्धगंकान्तं गंधानं तेन संयुतम् || तृतीयं ऋषिगेहे च एकरुद्रादि भूषितम् | नवादि दीपनी देवी आषाढीशासनस्थिता || वागीशो भैरवी नामवामान्तस्याशने स्थिता | अस्यांते नरकं तत्वन्सहाशीनं तु केवलम् || अस्याग्रे अंबिकाबीजं यामो मध्यासनस्थितम् | मेधा पुनः प्रयत्नश्च दूतीबीजद्वयं पुनः || लोकांतं मस्तका क्रान्तं द्वितीयार्थ हान्विताम् | सूतीबीजद्वयं भूयो भौतीशं तेजमध्यतः || वर्णानि पुरतो देवीमन्तः संख्याव्यवस्थिताः | मादनं पुरतोभूयः शुक्रंलोकांतसंयुतम् || अस्यान्तं रुवर्णानि अन्यं प्राणं स बिंदुकम् | तस्यान्ते अब्द्धिवर्णानि शुक्लतत्वं नियोजयेत् || भूतातितांनि चोद्धृत्य ऋतुवर्णान्तमूर्द्धनि | नामादि मस्तकोऽधस्ताद्वायव्ये विनियोजयेत् || हंसाक्षरस्य पुरतो तद्बीजं वाचसंयुतम् | पूर्ववदृतुसंख्यानि नवात्मान्ते च मेव हि || मेषरुद्रादितो देवीं नवात्मीमंतरे न्यसेत् | ब्रह्मणावासवेनेयं साधिता च प्रयत्नतः || सव्यादि पंचवक्त्रेषु हयबीजादि बीजकैः | न्यस्तव्या विधियोगेन अंशायं तु पदैः क्रमात् || हृदयं भूतवर्णेन शिवोपि स्यात् षडक्षरम् | प्. १२५अ) बीजद्वयेन च शिखा तद्वदेव तनुच्छदम् || ग्रहार्णैः पुरतो देवि नेत्राणां रक्षणे पुनः | दिक्रुतानि समाख्याता भूतवर्णा यथाक्रमात् || वागीश्वरी महामाया शिवदूती शिवांगना | सैवाराध्यशिवानंदा शिवाज्ञा शिवरूपिणी || गायत्रीं चैव सावित्रीमर्चयेच्च सरस्वतीं | वैरिंचाधोक्षजोरुद्रो वह्नेर्विश्व द्वये पुनः || वामां ज्येष्ठां च रौद्रीं च मध्यकोणे सरस्वती | वाचयन्तीं शिवामग्रे पशुमेदसमप्रभाम् || अरुणां मंगलां तन्वीं स्मेरवक्त्रां सुतप्रभाम् | गोवी?वधवलप्रख्यां पदाकुंकुमसंनिभाम् || वेदामृतकुंभे द्वे मुद्रामक्षगुणं करे | अनेका हि समावद्ध भुजंगमौलि विराजितम् || चंद्रखंडधरं देवं नागयज्ञो पवीतिनम् | रुरुचर्मांवरं देव पद्मविष्टरे कल्पपादके || पन्नगासनमारब्द्ध कक्षैक विचरं शुभम् | ध्यात्वासंपूजयेद्देवं लक्षमेकं यतव्रतः || होमयेद्विजपुष्पाणि लक्षमेकं तिलैः शुभैः | अब्दत्रयेण देवेशि वागीशो नापरो भुवि || इति श्रीकुब्जिकामतेनवकोटिसंहितायां चतुःपंचाशतितमः पटलः || ० || श्रीभैरव उवाच || गुह्यगुह्यं सुरेशानि विस्तरेण वदाम्यहम् | न्यस्ता देहस्य सन्नाहं ग्रामे वामन्तनेपि वा || भूतसंघे महादावेऽसंघे प्रेतबूमिषु | यक्षराक्षसदुष्टोघौस्तृणे इव च दृश्यते || आपो श्रीकंठपुरतो रुद्रान्तबिंदु भैरवम् | प्. १२५ब्) ओजमध्येस्य शिरसि जपन्ति क्रूरसंयुता || यमेशमंदिरा बीजा वा लिखेत् पूर्वमेव हि | भूतवर्णानि शिरसि विन्यसे देवमेव हि || द्वितीयं च द्वितीयेन षडर्द्धेन षडर्द्धकम् | चतुर्थं च चतुर्थेन दशार्द्धेन दशार्द्धकम् || द्वादशार्द्धं तथादेवि सप्तमे सप्तमं विदुः | विद्याष्टमष्टमं योज्य अशतार्द्धं प्रविन्यसेत् || शब्दराशि षडंगेषु न्यस्तव्यं सुप्रयत्नतः | यथाह अग्निना विद्या विद्या पंचाक्षरी तथा || षृणु देवि विधानं हि यत्सुरैरपि दुर्ल्लभम् | येनानुष्ठितमात्रेण पाशं विच्छिद्यतेखिलम् || सर्वशंकरदोषश्च ग्राम्योमूर्खः शठोपि वा | सोपि शक्तायते सद्यः सुरेद्रं इवभूतले || मानिनीदक्षजंघस्थं रुद्रांतं बिंदुभूषितम् | पुरतः केशवी देवी मानिनी शिवसंभवे || यवमध्यं समुद्धृत्य नावर्णं चर्मभैरवम् | मीनरुद्रोर्द्धगं यस्य मानिनीक्षीरसंभवा || वेचुमध्यं पुनर्देवि प्राणरुद्रं शिवान्वितम् | तत्पूर्वतस्तृतीयं हि लोकान्तं शिरशि स्थितम् || रु आदिवर्णयोगेन तद्वीजं पुरतो न्यसेत् | मेरुभैरव ऊर्द्धे तु लोकादिं शिरसि न्यसेत् || एवमेषा महाविद्या अस्याग्रे भक्षिणीं पुनः | बीजानि तानि चोद्धृत्य नारायण मनं ततः || नतिपूर्वकदेवेयं विद्यासर्वार्थसाधिकी | रसबूतार्णमध्यस्थं मानिनीशिरसंभवम् || यवमध्यगतंतंतु नारायणमनंतयुक् | वागीशस्याग्रतोहंसं वैलोमेनसमुद्धरेत् || नाभिमध्यं समुद्धृत्य व्याहृतिनामनंतकः | प्. १२६अ) प्राणरुद्रस्य पुरतः शुल्वरेफसमन्वितम् || रु अंतं नवके दण्डं हंफर्णानासमन्वितम् | वर्ण(र्म)णापनतिश्चांते हृद्या वामानामुद्धरेत् || व्यंजनादि क्रमेणाथ मध्यगानि सुरैःसह | क्रुद्धादि पदयुक्तैश्च तारशक्त्यर्णमेव च || गुरुवक्रोपदेशेन सर्वाज्ञादि पदैः क्रमात् | वर्णः कलाद्विजातीनां पूर्ववत्सुरसुंदरि || आलिखेत् प्रथमं चक्रं वाग्भवं वाग्भवेन तु | तन्मध्ये शक्तिगं देवी वसुवर्णं नृपान्वितम् || हंसशक्तिसमावेष्ट्यवर्णान् तारगतान् पुनः | शक्त्यष्टकं लिखेनेमि वेदांतसंजितम् || षोडशः षोडशानि स्युर्यदान्यैकैकचाष्टके | हरिस्तत्कोणमध्ये च ध्रुवं उत्तरसंभवम् || तन्मध्ये चिंतयेन्तील जीमूतरणि प्रभम् | प्रागुक्तलक्षणैर्युक्तमष्टकांडन्तनर्दिनम् || शंखचक्रगदापद्मपाशांकुशसमन्वितम् | धवलामृतसंकाशमरुणोब्जसमप्रभम् || विद्यामक्षगुणं कृत्वा रथांगं च चतुर्भुजम् | शरेक्षुपुंड्रकं देवं पाशांकुशसमन्वितम् || तदहंविष्टरासीनां पूर्णेन्दु सदृशाननाम् | दक्षिणा श्लिष्टरमणां पद्ममन्येन सुस्थिताम् || तप्तकांचनसंकाशां सर्वामंडनमडिताम् | कंटकं वाममायां च मन्मथं परमेश्वरीं || तद्बीजं मंत्रदेभूप वेतातंरक्तभैरवम् | तयोर्मूर्द्ध्नि स्थितं कुर्यात् काममध्यांतमक्षरम् || मालिनीशुक्लवर्णस्य शिवे वामादि भेदितम् | शुक्लं रक्तं समुद्धृत्य मालिन्या हृदि केवलम् || मालिनी शिव ऊर्द्धे च कूर्माद्यासनसंस्थितम् | प्. १२६ब्) देवादिमस्तकेदेवि खंडासाठी तु अग्रतः || ऋषिमालादि बीजं हि स्वस्तिकात्रादि संयुतम् | विजयेति महादेवि प्रसीदपदमेव च || बीजानि तानि चोद्धृत्य ऋषिमध्यादि केवलम् | अनंतमासनं दद्यादेकरुद्रांतदेशतः || ते ऊर्द्धं नरके मांसं केवलं तु तदग्रतः | एकादशादि वीजस्य दातव्यं पुरतः स्थितम् || करालीमग्रतो न्यस्य वागीशं भौतिकेन तु | गुणोंतं केवलं बीजं कालीशेनासनस्थिता || लक्ष्मीविद्या सुरेशानि बहुभोगकरी स्मृता | आयुः कांतिर्यशः कीर्तिर्ल्लक्ष्मी सौभाग्यमेव च || अस्य जापेन होमेन लभते शाश्वतं पदम् | अर्घं स हेतुकं वह्नि ओं नमोमांतु मंडलम् || संपूज्य सकली कृत्य भावयेच्च सुधापलम् | मूलविद्यामनुस्मृत्य शुक्लंशुक्लामृतस्रवम् || तेनात्मानं यागवस्तूनि प्रोक्षयेत्सुसमाहितः | विद्यया पूजयेन्नित्यमुक्तमार्गेण सुंदरि || जयीधीरो देवता हृदयं गमः | इत्याचारपरः शान्तः सत्यवादी दृढव्रतः | भिक्षाशी चाथनक्ताशी पयः शक्तु फलानि च || आसनं च शुचौ देशे चैलकृष्णां वरान्विते | उपविश्यनिजंपिंडं वसुलक्षं यथाविधि || न्यग्रोधपिप्पलप्लक्षनुदुंवर तिलानि च | ब्रीहिभिः कमलैरत्नैर्होमयेत्तर्कसंख्यया || होमयेद्ब्रह्मवृक्षेण संसारभयभीरुणा | अनुलोमविलोमस्तु कर्माणि विविधानि च || जपहोमार्च्चनाभिस्तु सिद्धिनामधिपो भवेत् | मूर्तिशक्तित्रयं देवि अंगपूजा च नामतः || प्राग्दले वा च्युतं वह्नै कामिनी भानु याम्यके | प्. १२७अ) निशाचरे मनोज्ञं च जलेविश्वतनुर्भवेत् || विमलां चापौ समारोप्य हरिंचोत्तरके दले | ऐशेभद्रामलंगानि गतमं वादिपूर्ववत् || यं यं कामयते नित्यं स्वर्गे मर्त्ये च पन्नगे | सोपि तल्लभते सम्यक् सत्यं सत्यं न चान्यथा || ततोन्यं संप्रवक्ष्यामि दुर्ल्लभं शंभुमुत्तमम् | येनसंस्मरणाद्देवि भवध्वान्तं विनाशयेत् || ध्रुवसूतीं समुद्धृत्य क्षे अंतं अंबिकां शिवम् | मालिनी प्रथमं बीजं तृतीयं ऋषिमंदिरे || नवकेशवकं देवि द्विधासूक्ष्मेशमूर्द्ध्निशम् | मालिनीरक्तबीजस्य पुरतोनंतमालिखेत् || धर्मरुद्रस्य पुरतोहंसं तत्प्रतिलोमतः | वह्निदूतीसमायुक्तं त्रिबीजं नवके हरिः || शिवायमेषरुद्रांते नृद्वर्णं ते च मध्यगम् | हंसान्ते तद्वदेवेह उद्धरेदपरं शिवम् || नाभिमध्यं समुद्धृत्य वालिनी शिवमग्रतः | ऋषिमध्यादि शवकं क्षेयस्योर्द्धे च सूक्ष्मजम् || खड्गीश भैरवस्यांते रुतांतं गंधमादने | वामबाहुस्थ शिखरे हंसं वै लोमतो भवेत् || अर्घीशमंदरार्द्धे च काललोकांतभूषितः | बीजानि तानि पुरतो ध्रुवांते चाथवा भवेत् || अंबिकांते अनंतं च क्षेनंतं पुरतस्तथा | स्यातामादी पते देवी नवात्मानौ ध्रुवां ततः || चंडिकाभ्यां समापोक्नं पुनरन्यानि तच्छणु | प्रासादसारभूतं तु अष्टधा शृणुसुंदरि || तावदामिष्टदे कृत्वा रक्तस्यो परिमारुतम् | लोकादि मस्तकाक्रांतं क्षयंतं शुक्लभैरवम् || धात्रीशं गंधसंयुक्तं शिवं ज्ञेयं तमेव च | प्. १२७ब्) लभ्यते हि प्रथमं यासि मध्यं च मारुतम् || अनुग्रहः समायुक्तं बिंदुनोपरिभूषितम् | द्वितीयमुद्धरे देवं शिवायेनतिपश्चिमम् || तृतीयं विष्णुबीजांते महेश्वरायेति तत्पथ | चतुर्थं चास्ति वा क्रूरं स्वान्तः स्वगः शिवान्पथ || चरमेनतिरुद्दिष्टं मंत्रं गौरीशिवात्मकम् | शिवमर्त्यं पुनर्देवि विद्धिसर्वं पुरोवृतम् || कैलासमंदिरे देवि श्रीकंठं प्रथमं विदुः | विष्णुंरुद्रंध्रुवं हंसं ध्रुवाय तु विजोमतः || पुरावृत्तनि मंत्राणि न कुलादि विभेदतः | शुद्धस्फटिकसंकाशमक्षंदशभुजं शिवम् || पंच वक्रधरं देवी पंचमूर्त्तिसमन्वितम् | पद्मासनोपसंविष्टं स्फुरंतं दीप्ततेजसम् || जटामुकुटधरंशांतं सर्वाभरणभूषितम् | अक्षयं च दशोपेतं मालया च परिस्कृतम् || दिव्यांवरधरं देवं विद्यावाहनमथोज्वलम् | परशुव्रज * * * अभयं च * क्षेत्रिकम् || घंटां नागं च वह्निं च वामे पाशांकुशं तथा | समजंघोरुचरणौ प्रमदाजितकूर्मकौ || ध्यात्वैवं पूजयेन्नित्यं देवं चैवार्द्धनारिशम् | आधारमासनं प्रोक्तमापश्च परमः शिवः || लांगलिंकमिति प्रोक्तं बिंदुंपीठमिति स्मृतं | न शिवेनविनाशक्तिर्न शक्तिरहितः शिवः || पुष्पेषुगंधवज्ञेयस्तिलेषु तैलवत्तथा | देहे च प्राणवच्छक्तिस्तस्माच्छक्तिं प्रपूजयेत् || शक्तिरेवासनं प्रोक्तं पंचानंतादयः क्रमात् | पार्थिवांडमवस्कंध नालं वद्ध्यंतमेव च || तनोनत्यसनं पूर्वं सिंहासन द्वितीयकम् | प्. १२८अ) योगासनं तृतीयं तु चतुर्थं पद्मासनं भवेत् || पंचमं विमलाख्यं च पंचभूतात्म्कं च ते | वृत्ताकारमनं तस्तु सूर्यकोटि प्रभान्वितम् || पादाश्चतुष्क कोणेषु सिंहरूपेण कल्पयेत् | दंष्टाकरालवदनास्त्रिनेत्राभीमरूपिणः || कोटिकोटिभिः संघैश्च प्रत्येकं परिपुरितम् | भूतरूपेण कोणेषु पादाकृतयुगादयः || श्वेतं रक्तं पीतकृष्णं सिंहरूपेण भावयेत् | अव्यक्तो नियतिः फलः कालश्चेत चतुष्टयम् || अव्यक्तस्फठिका भासो नियतिः कालांजनद्युतिः | फलेडाडिममुष्पाभाः कालाभिन्नां जनप्रभाः || * * * * विभ्यः प्रोक्तोमव्ययादेन्मनोन्मनी | एवं योगासनं प्रोक्तं पद्मासनमतः परम् || मायातत्वं वृत्तं ग्रंथिं सूत्रविद्यान्नशोभितम् | विद्येश्वरदलच्छत्रं शक्ति केशरसंयुतम् || विद्यातत्व समंतत्वं कांतकायां प्रकल्पते | बीजं प्रधानवर्णाभ मंकुरं रजतप्रभम् || तस्य नालं तु वै रूप्यं कंटकं रक्तपिंगलम् | शंखवर्णदलाग्रस्य मूला वा पदला स्मृताः || किंजल्के नीलपीतानि मध्येस्युः केशराणि तु | नवबीजानि तन्मध्ये हेमाभानिबिंदुः क्रमात् || वामादि शक्तयो देवि केशरेषु प्रकल्पयेत् | इंद्रादीशानपर्यन्तं न्यसेन्मध्ये मनोन्मनीम् || आत्मतत्यं न्यसेदग्रे विद्यातद्वर्णसौम्यके | दक्षिणे शिवतत्वं च मध्ये सर्वात्मतत्वकम् || एवं पद्मासनं प्रोक्तं तस्योर्द्धे विमलासनम् | मंडलत्रयमत्रैव कल्पैवं विमलासनम् || आत्मानं चतुरोभ्यर्च्य शेषमन्यं पुरोक्तवत् | प्. १२८ब्) लिंगमंडलमध्ये वा कार्णकोदररंजिके || सोमसूर्याग्नि विंबानां कालानां तत्र संजपेत् | अष्टवर्गकलाभिस्तु मंत्राष्टक दलाष्टकम् || भूतयंत्रस्य मध्ये च सत्यादि चतुरो न्यसेत् | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरोहादिदीर्घ युक् || पूर्वोक्ते नक्षणोपेतमुपचारैः प्रपूजयेत् | चिंतयेद् देवमीसानं शाश्वतं शिवमव्ययम् || जटामुकुटसंकाशं चद्रार्द्धकृतशेखरम् | वृषध्वज समारुढो भवानी सहितो विभुः || वामादि शक्तिपूजश्च आसीनः पद्मविष्टरे | स ईश्वर इति प्रोक्तः सर्वकारणकारणः || ईश्वराद्दक्षिणां शेतु ब्रह्माविष्णं तमुद्भवः | ईश्वराद्वामपार्श्वे तु विष्णुच्छिघंतमुद्भवः || आदित्यो दक्षिणे वक्षौ चंद्रो वै वामलोचने | जातवेदाललाटाक्षे आस्ये वेदाः समुद्भवाः || घ्राणोवायुः समुत्पन्नः श्रोत्रेखिल दिशोद्भवः | गणेशोगणसमुद्भूतो हृदये सण्मुखोद्भवः || नाभौ वै द्वादशा दित्याः सर्वलोकश्च कुक्षिजः | सर्वे चैकादशा रुद्रा अधरेषु समुद्भवाः || कटिदेशेषु वशवो मेढ्रे चैव प्रजापतिः | उरुभ्यामश्विनौ जातौ पादाभ्यां गंधगस्तथा || देवयक्षमंदरसिद्धविद्या धरादयः | गंधर्वोप्सरसः सर्वे पादमूले समुद्भवाः || अष्टाविंशद्देंवकोट्यः सर्वेरोमेषु चोद्भवाः | रूपस्य च तथाकोट्यो कोत्यो रोमाश्च संभवाः || ईदृग्भूतो महादेव ईश्वरस्त्रीदशेश्वरः | भवानी सामवर्णाभां द्विनेत्रां द्विभुजान्वितां || दक्षिकुक्षिकरां देवीं प्रसार्यैक करान्वितां | प्. १२९अ) सौक्ष्म्यमूलेवलां देवि किंचित्प्रहसिताननां || सर्वाभरणसंपूर्णां मुकुटाद्युपशोभितां | दुकूलवसनां देवीं पीनोरुजवनस्तनीं || चंद्रमंडल चक्राभामादिशक्तिमलं पराम् | सर्वाकारेषु वामांशे गौरीमेवं विचिंतयेत् || पुलिंगं सर्वमीशानं स्त्रीलिंगं भगवल्लभः | उमारुद्रात्मजाः सर्वे प्रजाः स्थावरजंगमाः || लक्ष्मीधात्री महाधात्री सावित्री च सरस्वती | गायत्री रसकोणेषु देवी बीजादि बीज युक् || दुर्गादेवी महादेवी योगिनी डाकिनी पुनः | ज्येष्ठायास्तु पराशक्तिः पुण्यसौर्याः समुद्भवाः || गुह्यं चाधुत अंतेषु निर्णीतं हि मयापुरा | सारभूतं परं गुह्यं शृणु देवि वदामिते || पिंडस्थं पिंडमध्यस्थं पिंडेन प्रकटी कृतम् | पिंडेन पिंडितं पिण्डं पिंडेषु च विनिक्षिपेत् || पिंडेन पिंडितं कृत्वा पिंडरूपमुदाहृतम् | एतच्छिव मयं पिंडं सर्वतत्व? मयं विदुः || दलाष्टकेषु वित्तेशान्तदग्रेषु उमादिकान् | पूजयित्वा विधानेन मंत्रैरेतैः सदाशिवम् || ओं हां शिवासनाय नमः || ओं महा?शिवमूर्त्तये नमः || ओं हौं विद्या देहाय नमः || ओं हां हौं शिवाय नमः || ऋत्वगैर्भूतमंत्रार्णैर्भूतमंत्राक्षरं पृथक् | अथवाष्टाक्षरैर्देवि अष्टांशानि प्रकल्पयेत् || प्रत्येकमक्षराक्षैश्च तथाष्टाक्षरान्वितैः | वियद्वायुरग्निजललक्षामये शरव्यमृतमुख्यात्मने चंडेशदुर्गाशुनी दिग्घ्राणपयोनसैन्यो वृषभः क्रमेण || पूजयेद्भुक्तमार्गेण लोकेशकुलिशादिभिः | प्. १२९ब्) वज्रिकायं ततः कुर्यात् कुंडेषु दलेषु क्रमात् || हस्तमात्रं खनेद्भूमौ विस्तारं तावदेव तु | मानांगुलेन कर्तव्य मल्यंनैवनु कारयेत् || एकांगुलप्रमाणेन परितो विष्टरं न्यसेत् | तद्वाह्ये मेखलाकायां विस्तारेणनवांगुला || अधस्तात्मेखलाकाया विस्तारेण दशांगुला | उत्सेधस्तत्समोज्ञेयः अंगुष्टं मध्यमेखला || त्रिरंगुलसमुत्सेध विस्तारे तावदेव हि | चतुरंगुलं तदूर्द्धस्तु विस्तारोत्सेधतत्समः || योनिः पंचांगुला ज्ञेयामानमष्टांगुलं भवेत् | गोमयेनोप लिम्पेत प्रोक्षयेदर्घवारिणा || रेखाषट्कान्तषट्कोणं पंगवं योनिमालिखेत् | वह्निमथनसंभूतं सर्वाथर्वणिसंभवम् || कुंडमध्ये तु संस्कुर्यादीक्षणप्रोक्षाणादिभिः | गर्भाधानादिकावह्नेरघोरेण पृथग् भवेत् || ध्यात्वैवमग्निं विधिवदक्षमानेन चात्मना | आदौ पश्चिमतः स्थानमूर्द्धतः शिव उच्यते || दक्षिणोत्तरबाहुभ्यां पार्श्वे चक्षुश्च कर्णयोः | मुखमध्यगतं यस्तु जिह्वाग्रे च प्रकीर्तितम् || यत्रकाष्ठास्ततः श्रोत्रास्तत्र भूमेन नायिका | काष्ठादग्नि ज्वला नेत्रा मूर्द्धिस्थानेन संशयः || मूर्द्ध्निस्थाने कृतं कश्चिद्रजोराज्यं विनश्यति | प्रज्वलग्निं तथा वह्निं वर्द्धमानमाचरेत् || शांडिल्यगोत्रस्य जमदग्नि ऋषिर्जीतवेदाग्निर्देवता त्रिष्टुव्रछंदः | कालीकरालीलो द्वीपीतीश्वेती ध्रूम्र पिंगसप्त जिह्वा अरुणमाता वरुणपिता पावकनामाग्रमावाहयेत् || एकहृदयं द्विवच्क्रं द्विनासिकर्म त्रिमेखलं त्रिपादं च सप्तजिह्वाभिराचितम् | प्. १३०अ) मेषारूढं चतुःशृगं जटामुकुटमंडितम् || दक्सिणे च चतुर्हस्ते वामभागे त्रिहस्तकम् | शक्त्यष्टकं तथा चैव श्रुक्श्रुवं दक्षिणे करे || तोमरं व्यजनं वामे घृतपात्रं विशेषतः | सुदीप्तं स्वर्ण वपुषं जयपिंगललोचनम् || एवं रूपमिमं ध्यात्वा सर्वकामार्थसाधनम् | संपूज्यविधिवद्वह्निं वह्निमंत्रेण होमयेत् || व्याहृतीनामंत्रभूयस्वाहा वै संज्ञपूर्वकम् | जलेनजपहोमेन वह्निः प्रीणाति नित्यशः || अष्टोत्तरसहस्रं वा तदर्द्धं चाष्टशतं तु वा | न्यग्रोधोदुंबरशमतिलराजीहविर्यवैः || यद्यत्प्रार्थयते मंत्री तत्तल्लभ्येत वै चिरात् | मंत्रानां साधने देवि त्रिधो पायाः प्रकीर्तिताः || जपतः फलपूजा च वैकल्पं ध्यानतो भवेत् | बुधप्रसादनत्वे च प्रसादः सर्वदेहिणांम् || सर्वदाजपते जीवो यथागौरी तथा शृणु | हंसस्य पुरतस्ता वद्गुणानिमति पश्चिमम् || ब्रह्महा शुद्ध्यते नित्यं जपहोमार्चनादिभिः | नतस्य दुष्कृतं किंचिद्ग्रहणदेवमुच्यते || ध्रुवादि ऋतु वर्णानि सर्वज्ञानि पदानि च | स्थानेषु षट्सु विन्यस्य पुरोक्त ध्यान पूर्वकम् || तेत्रांतं च शिवं ज्ञानं शेषोन्ते कालभैरवम् | ध्रूवादि परमं मंत्रं ध्रुवं प्रानं रु अंतगम् || बिंदुभैरवसंभिन्नं शिवायांत ध्रुवांतकम् | मानिनी शिववर्णं च ऋषिमध्यादि बिजकम् || ततोन्यं संप्रवक्ष्यामि विश्वमध्यस्य अग्रतः | देवी बीजं समुद्धृत्य नावांते धर्मभैरवम् || प्. १३०ब्) तृतीयं ग्रहमालायां अनंतंगंधमादने | यामोमध्यं केवलं तु विष्णोरनति पश्चिमम् || पूर्ववन्साध्यतं मंत्रं बिंदुसर्वार्थसिद्धिदम् | रसभूतां तु मध्यस्थं मीनरुद्रार्थबिंदुकम् || नारायणं चतुर्थ्यन्तं देवी बीजं तदग्रतः | लोकांतं शिरसाक्रान्तं गुणोंतं कालसेनयुक् || एवमेतत्परं विद्धि नेत्रांते एवमेव हि | तद्वदीशं तथान्या हि सत्यं लोकादिसंभवम् || ज्ञानं रक्तासनं क्षेन्तमस्तकं बिंदुभैरवम् | अस्याग्रे पूतवर्णानि यद्वासप्ताक्षरी भवेत् || नराणां नयनं तस्मान्ते न नारायणः स्मृतः | नतिश्च तस्मै देवीय ध्रुवंः सोहंस || पंचभूतमयं विश्वं शरीरं पंचभौतिकम् | तन्मयं च शिवः प्रोक्तः शिवोहमिति भावयेत् || तेननिर्वाणमेवेति सत्यं सत्यं वरानने | ध्रुवं विष्णुं समुद्धृत्य वह्निं चैवसमादनम् || एकनेत्रस्य पुरतो यद्वर्णं क्षेत्रबिंदुकम् | अस्याग्रे तु शिवं जेतुमाषाठीसांमग्रतः || ऋष्यादि ऋषिगेहे चलुकादि मस्तकं कुरु | अपरं मन्मथार्द्धे च विन्तारत्नं प्रविन्यसेत् || बीजानितानि पुरतः संकरायनमोरितम् | अष्टवर्णस्तथादेवि द्वादशांतमतः शृणु || बीजानि भगवद्भूयो तादर्थेनापि संयुतम् | यस्योर्द्धे प्राणवर्णं च ऋष्यंतं गंधसंभवम् || पूतना यस्य ऊर्द्धे च ध्रुवादि आसनं कुरु | कात्त्वमध्यस्य शिरसि वामादिं मस्तके न्यसेत् || वामे मध्यस्य पुरतो मानिनीस्तनमालिखेत् | वागीशभैरवस्याग्रे रुद्राणां ऋषिसंभवम् || प्. १३१अ) कूर्मादिवर्णयोगेन बीजानां च विलोमतः | केशवादि विभेदेन मूर्त्तिनां द्वादश क्रमत् || आदित्यरविभेदेन गायत्री मूर्तानां द्वादश क्रमात् | आदित्यरविभेदेन गायत्री संयुतेन च || न्यासांगमूर्तिमंत्राश्च जपपूजादि तर्पणैः | पूर्वोक्तेन विधानेन आत्मयोगपुरस्सरम् || लिप्त्वा भूमौसमं कल्प्य तत्वेधर्मनिहेतरौ | मातृकान्तं स शक्तिञ्च तत्रध्यायेत अच्युतम् || कौमोदकीं रथांगं च शंखंपद्मपरिस्कृतम् | कुंडले वनमालां च सर्वकल्पविमंडितम् || लवंगेन समावेश्य विष्ट्वादिष्टादि बोधितम् | केशवाद्या दलाग्रेषु वायु देवादि वासवान् || कबंधनियमे सूक्ष्मे शून्ये बिंदु विवर्जिते | निरालंबे च सा वेश्यमूला देवं विचिंतयेत् || तेनमुक्तिपदं गच्छेन्नपुनर्गभसंभवम् || इति श्रीकुब्जिकामते पंचाशतितमः पटलः || ० || श्रीभैरव उवाच || अथात्यंतरहस्यं तु वक्ष्याम्यत्रसुदुर्ल्लभम् | देवा अपि न जानंति किं पुनर्मानुषादयः || साधितव्य प्रयत्नेन जपपूजाअदि तर्पणैः | नाभिमध्यस्थितस्याग्रे देवी बीजं स खेटकम् || शुक्रं रक्तासनारूढं अस्याग्रे गजबिंदुकम् | कराली बीजमुद्धृत्य स्वयं रक्तं स बिंदुकम् || क्षीरवर्णस्य शिरसिकेकादिं मस्तके न्यसेत् | अस्याग्रे मादनं बीजं वामांतं क्रूरमस्तकम् || मानिनीक्रूरवर्णस्य पुरतोघातमालिखेत् | अधस्तात्कारयेदैंद्रलोकादिं शिरसि न्यसेत् || नित्यकालीं च धात्रीशं पुनस्तं रक्तमासनम् | शरमध्यं तदंते च धर्मं वै वस्तुकंठकम् || प्. १३१ब्) विष्णुबीजं समुद्धृत्य अपितद्दयितां पुनः | विद्यानीनयताकेयं सर्वसत्वरशंकरी || सर्वसंपत्प्रदाकीर्ति रथस्वर्गा प वर्गदा | एषाविद्या महादेवि ब्रह्मविष्णीशभेदतः || साधिता शक्तिबीजं च सर्वज्ञादि पदान्विना | मदद्रवेति नामाग्रे योजयेत् परमेश्वरी || इंद्रगोपनिभां देवी गोक्षीरसदृशोपमाम् | पाशांकुशवराभीतिं पद्मगां शशिशेखराम् || ओंकारी ह्रीं च फेत्कारी सर्वानंदा च अंकुशा | पापाशा ह्रींकाररुपा च ऐंकारी वज्ररूपिणी || निद्राचक्रा भयाभीतिमददाक्षायणी हरा | वेदावहु कृती चैव षोडशाद्याः समर्चयेत् || मध्य षट्केटकाराद्या आदिब्रह्माष्टके * * | जप्तव्ये द्वेष्टपुरतः लक्षमेकं पला * तः || तर्पणानि निवेद्याह होमयेद् बिंदुसंभवं | कुसुमैश्च ब्रह्मजानीनामोंकारादिषु होमयेत् || त्रिभिर्वर्षैर्जितात्मानः सिद्धानामधिपो भवेत् | देवी बीजस्य पुरतो ध्रुवेंदुश्चतुराननः || पुनस्तं बीजमुद्धृत्य प्रापवर्णं सपूर्वकम् | अस्याग्रे विष्णुरुद्रं च ग्रसच्चंद्रहसं तथा || हेषयद्वितयं धर्म त्रैलोक्य पदमेव च | नाशिनी सिंहरूपेण निमेकं च त्रिधा कुरु | अंते प्राग्व हिर्वर्णं च त्रिधाधर्माग्नि च द्वयम् | एषा सा सिंहिकानामं सिंहांते च दशांसतः || जप्येयमथवा सिंहमनंतं देवि पूर्वकम् | कृत्वान्यासं च पूर्वोक्तं संदेहादि यथा क्रमात् || अस्य जापेन होमेन पूर्वोक्त सिद्धिभाग्भवेत् | प्. १३२अ) सावित्रीं विष्णुं रुद्रं चानुपूर्वं पुरतो न्यसेत् || अधस्तात्कारयेद्रक्ताद्रक्तिन्तद्बिंदु भैरवम् | ऌपूर्वं देववर्णं च सुरेनंतंस्रबिंदुकम् || लिखतो देववर्णस्य ऌपूर्वं नंतिमग्रतः | भगवती रक्तगंधेन प्राणास्थश्चतुराननः || दहनी चोर्द्धसंयुक्त राजवेलैस्तनांतर | मालिन्या नाभिवर्णस्य मूर्द्ध्नि पूर्वकानगम् || प्राणो बीज स विष्णुश्चमाबीजं सत्यबिंदुकम् | लक्ष्मीशरीतिविख्याता बहुभोगहरावसा || कामदेवः स्वयं देवि चिन्तयन्सोमभास्करं | मानुषी रूपमाश्रित्य यथासौ चरते महीम् || तेनाग्नि ऋतु वर्णानि गुणाद्विगुणमेव च | त्रिपुरावत्समाराध्य न्यासयोगसमन्वितम् || वार्रिपूर्णं घटं चक्रे संपूज्यचक्रमादितः | तर्पयेदुक्तमार्गेण मासमेकं यतव्रतः || अहोरात्रं जपेद्विद्यां होमयेत् पद्मविल्लकैः | मधूक्षितं तिलंवाथ सर्वथालभते वसु || खिकारावस्थितं बीजं पूतनासनसंस्थितम् | नवादिमूलदंडस्तु रु अंतं मऌपूर्वकम् || एषविष्णुः शिवोब्रह्मा गणेशोवाक्सरस्वती | अथवा देवि कुर्वीत वेदवर्णं शिवे पुनः || मापूर्वामृतदूती च भूतवर्णाव्यवस्थिताः | ध्रुवं वित्तं समुद्धृत्यपिंडं च नाति पश्चिमम् || अपरं भूतवर्णं च शक्तिबीजं समादनम् | माबीजांत्यक्षरं देवि अपरं अक्षरं शृणु || धृतिबीजस्य पुरतः कराली तत्र संस्थिता | लोकान्तं शिरसा क्रान्तं रुद्रबीजं च शक्ति युक् || लक्ष्मी बीजस्य पुरविष्णु पिंडद्वयं लिखेत् | अथबीजं महेशानि पिंडवेदविभूषितम् || यद्वा सिधान्तसंभिन्न सिद्धांते भूमिमालिखेत् | प्. १३२ब्) दूतीबीजस्य पुरतो लोकं केशविणोपितम् || बीजानी मानि देवेशि ऋतुवर्णमुदाहृतम् | मादनं शक्तिपुरतो माबीजं भूतिसंयुतम् || नेत्रमध्यस्थितं पिंडं ध्रुवांते शक्तिमालिखेत् | अनंतं प्रथमं देवीं सुदर्शनसुरान्वितः || शिवान्वितं शिरसो भूयो विचक्रं ङेयुतं न्यसेत् | सुचक्रं स्वसादेवि त्रिलोक्यं मर्मणि स्थितम् || अस्त्रेशिवान्वितं भूयश्चक्रं शैवासुरांतकम् | अंगानि पंचविन्यस्य वर्णानि पृथगेववा || विरणत्किंकिणीजालनवजं घातमंडितम् | नीलसरोजनिलयं अरुणाब्ज विलोचनम् || नवनीतं पायसं च दोर्भ्यां गोपवधू कृतम् | पूजयेदुक्तमार्गेण लक्षहोमं स तर्पणम् || इंद्रतुल्यसमोलक्षं तत्समश्च पराक्रमे | पुनरन्यं प्रवक्ष्यामि तारशक्तिश्च मादनम् || मानिनी प्रथमं देवि * * * प्रथमो भवेत् | विष्णुर्मां भगवन् ङेन्तं रक्तरुद्रं ध्रुवादिगम् || सूक्ष्मं मज्जादि वा दिष्टं देशो मध्यं समालिखेत् | चक्रं मासयुगं भास्त्रपिंडंदूतीमनंतरम् || बीजानि हृदयं देवी ऋतुवर्णं शिवान्वितम् | एषु सखा विवर्णानि वर्णयुग्मांतरक्षणे || रुक्मिणीञ्च दलाग्रेषु वासुदेवादि वासवाः | पंकजारुणमध्यस्थं विपक्षस्कंदासने स्थितम् || पुष्टरंजनसंचारं गदीहैमादि संनिभम् | अंतेनिविष्टं कांतायागात्रशक्तमदान्वितं || होमं दशायुतं लक्षं दशविद्यापारिजैः | दूतीरुद्रं समुद्धृत्य ऋषिमालांतदेशतः || तदादिगंधसंभिन्नं मासचक्रं गुणान्वितम् | प्. १३३अ) अजंवक्त्रस्थितं सूक्ष्मं तनोतं जंघभेदितम् || अंगुलीदक्षमालिन्या नवादि आसनं कुरु | वागीसं वामकर्णेन अनंतं क्रूरमस्तकम् || पितामहस्य मध्ये तु वसुरुद्रं समालिखेत् | धात्रीशं बिदुगंधेनमेदंसूक्ष्मासने न्यसेत् || रुद्रांतमासनं देवि शिवामग्रे प्रदापयेत् | पिंडं च वर्मरुद्रं तु कांतस्थं गंधसंभवम् || एकादशादिमुद्धृत्य आकाशार्द्धेन भेदितम् | मादनं दान्तचक्रस्थं रक्तं देवं स बिन्दुकम् || देवीबीजं ध्रुवं देवि उद्धृतव्यं प्रयत्नतः | लोकानां स्थिति कर्ता च कृष्णोसौ दैत्यमर्दनः || यदाहानिर्भवे लोके धर्मस्य परमेश्वरी | मायाजालं च कुरुते रूपाणि तु वहून्यपि || स्वयं स्वच्छंदचरितः अजः सत्यः सनातनः | चत्वारि वेदवर्णानि अग्राद्विस्थान पंचके || अंगानि पंचषड्चक्र विन्यसेत् पंचपंचकम् | पूर्वोक्ताष्टाष्टकं भूयोरुक्मिण्यादि तथा वसून् || केशवाद्यादिनीजन्पाशक्तिः क्षेंशुमेव च | शिखिपिच्छसमावद्ध नीलनीलालकुंतलम् || ईसवस्मितमुखं रक्त चंद्ररेखा विभूषितम् | द्वात्रिंशल्लक्षणैर्युक्तं सर्वगं सर्वगं प्रभम् || नानाभरणसंदीप्तं चक्रशंखसुवेणुकम् | नितम्बबिंबविलसत् पीतांवरधरं हरिं || भ्राजमानं श्रियाभूम्या श्रीवत्साद्युपशोभितम् | केतुचक्रांबुजः शंखः स्वस्तिकांकित पदद्वयम् || गोपीगोपशराणां हि वृंदवृंदारकावृतम् | वसिष्टनारदाद्यैश्च वृत्तं देवां गनाजनैः || प्. १३३ब्) इति संचिन्त्यमनसा यजेदिष्ट्वा स्वशक्तिभिः | वासुदेवादि नाद्यन्तं मूर्तिभिः केशवादिकैः || दधिहैयंगवीनाशैः कृशरान्तं निवेदयेत् | नूपोपवारसंयुक्तं यथा प्रागीरितक्रमै || ब्रह्माविष्णुश्च रुद्रश्च गायत्रीं त्वग्निकोणके | तद्बीजपूर्वकं देवि सावित्रीं च सरस्वतीम् || एवं लक्षचतुष्कं हि जुहुयाच्च दशांशतः | साधुक्षितं पंकजं पंकजविल्लमथवातिलपायसम् || वर्षैस्त्रिभिः सुरेशानि जपतर्पणहोमतः | एतैस्त्रिभिरुपायैस्तु आज्ञयासौ प्रसीदति || पुनरावृत्तिहीनं च वक्ष्येहं शृणुसुंदरि | देवीबीजं महेशानि बिंदुमध्यस्थसूक्ष्मगः || स एवगंधसंयुक्तं कात्वम्मध्यं स दंडवत् | ग्रहमध्यस्थितं कुर्याद्यन्तिपानोंतसूक्ष्मगम् || मानिनीदंडमूलं च प्रथमं तत्तग्रतः | शुक्ल आदिसंभिन्नः पुनस्तं केवलं भवेत् || एकादशांतं पुरतो उरुमध्यांतकारयेत् | दोर्दंडमं चैविंदूर्द्धेगंधानं तेनसंयुतं || मांसरूपपदं देवि घनश्यामं च दासकम् | भगवन्विष्णु ङेजन्ते चलांगली चारुशासनः || उत्तरक्तौ स्थितौ भूयो वेदवर्णे शिवे न्यसेत् | लोकादिशिरसाक्रांत मायांतंदयिताग्रतः || अंगानिमनुभूतार्णैः पुनस्त्रिभिस्त्रिभिः क्रमात् | रंध्रेषु प्रतिवर्णानि दशस्थानेषु षड्दश || पंश्च श्लोकसमायुक्तं प्राणेमानं नियोजयेत् | तापिकं भास्करं देवं नेपदामदिभूषितम् || जालालकवरास्निग्ध शिखिपिच्छावतंसकम् | प्. १३४अ) पीतकौषेय वसनं मंदस्मेरोपशोभितम् || पादुकेरत्न खचिते पद्भ्यां वान्यस्त शकृतैः | स्थितं निक्तप्रियासक्त वामपादस्तनादधः || अनेनपशुयष्टिं च लोकानां रक्षणानि च | पूर्ववत्पूजितं जुष्टं हुतं मंत्रं स्वसिद्धिदं || सितमाल्यानुलेपश्च सितं वस्त्रविभूषितः | सितपद्मस्थितो मौनी दूरयुक्तमनो भुवः || सितद्रव्याणि संपाद्यविष्टरे मृगचर्मणि | स्थित्वानु प्रत्यहं देवं धनदं वा विचिन्तयेत् || कैवल्यपदमाप्नोति सत्यमेवं वरानने | सर्वमंत्र प्रसिद्धांतं मातृकामस्त्रयोगतः || मंत्रेषु जप्यमानेषु यत्रमानोपतद्धतः | व्रतानि विविधान्येवमाचरेद्भक्ति तत्परः || भक्तिहीने नरे देवि भस्मनी बहुतं हविः | अथान्यं संप्रवक्ष्यामि तवस्नेहेन सुंदरि || क्रूरास्तु मानवाः सर्वे मोहयंति परस्परम् | न प्रकाश्यमियं विद्या देवानामपि दुर्लभा || अमर्त्यादानवायुक्ता मनुष्याश्च तपोधनाः | सोमविद्या प्रभावेन स्वेच्छया चरते महीं || अस्यप्रभावमतुलं कंपते स चराचरम् | तर्पयित्वा क्रमंसर्वं सहस्रं प्रत्यहं जपेत् || दीक्षयित्वा शिशुं शुद्धं विद्या तस्मैददेकः * | उद्धारं तत्र कुर्वीत अत्रमेरौ सुशोभने || कैलासमंदरे देवि वामांतं क्रूरमस्तकम् | अस्यसंग्रंथितं रुद्रं मानवत्वं समालिखेत् || आसनं चक्रचोर्द्धं च दीपनी क्रूरमालिखेत् | निषधे वेदवर्णे तु शिवोभिन्नं तु कारयेत् || शिवशक्तिं ससंयोग्य जपंती क्षज्जमध्यगः | भैरवे अजरद्रस्य अ * सत्वेन दीपनी || प्. १३४ब्) यामोमध्यं तु वागिशं ध्रुवांतं आमनं दहेत् | एकादशांतसंभिन्नं लोकादि मस्तके न्यसेत् || एतद्वीरवराभद्रें सृष्टिं संहारकारिका | दक्षांगुलिसमूह * मक्षरं भैरवानने || तस्याथदेशसंभिन्नं देवी बीजं तु कारयेत् | पुनरेवमहेशानि रुद्रं विष्णुं पितामहं || सोमविद्यां समादाय सद्यः संस्तुत्पदायिकम् | महादारिद्र्यदौर्भाग्यनिशनादि विमोक्षणी || चक्रमभ्यर्च्यविधिवदजरामरतां लभेत् | वसुवृत्तं लिखेन्मध्ये त्वष्ट पत्रं शरोरुहम् || कालारंकर्णिकायां च पिंडरूपं तु विन्यसेत् | कलास्तु विन्यसेदादौ षोडशारे स बिंदुकम् || द्वितीयं हृदयस्थं च तृतीयं च दलं प्रति | चतुर्थं तृतीये तु चतुर्थदलपंक्तिके || लांगली पंचमे वृत्ते मेदरुद्रं स बिंदुकम् | षष्ठे तु शुक्लं विन्यस्य सप्तमे अंबिका भवेत् || कामक्रूरशिरस्था तु तद्वहिः साक्षराणि तु | षोडसान्यथ वृत्तानि बिंदुयुक्तानि विन्यसेत् || तद्दले वसुवृत्तस्य नृधादि पतिं लिखेत् | छदाग्रेषु शशिज्वालं सुधाबीजान्वितं लिखेत् || लिखित्वैवं महाचक्रं अर्चयेत् सोममीश्वरीम् | सुसमे भूमिभागे तु निम्नोन्तत विवर्जिते || गोमया लेपिते शुद्धे दर्पणोदरसन्निभे | विताने शुभ्रशोभाढ्ये चामरादिसुशोभिते || सुगंधि चंदना लिप्ते मालती कुसुमान्विते | प्. १३५अ) पुष्पमासे सुभेलग्ने पौर्णमास्यां तु साधकः || गुरोर्दिक्षां च संपाद्य मंत्री संयतमानसः | अपांवामंडलं कृत्वा तन्मध्ये स्थंडिलं लिखेत् || अक्षकैः स चतुष्कोणैर्मडलं पूर्ववत् पुनः | चक्रमस्मिन्समालिख्य मध्ये कुंडं सुशोभनम् || अर्कलक्षं दृढं शुद्धं तं तु त्रिगुणवेष्टितम् | नवरत्नानि निःक्षिप्य द्रोणतोयप्रपूरितम् || हयाद्वीनि चांगानानकशानाढकोदकम् | अष्टौ बाह्यस्य वृत्तस्थां निष्कोर्द्वादशकं मितम् || तदर्द्धार्द्धसंख्याभिस्तु षोडशाबाह्यमंडले | रौप्येणनिर्मितं रूपं मध्यकुंभे विनिक्षिपेत् || कलशेषु न्येषु चाक्षिप्यरत्नानां नवकं क्रमात् | दुकूलयुग्मैः संवेष्ट्य तत्रुद्धौतन वै क्रमात् || कृत्वाक्षता सुगंधाद्यैः पुष्पाणि सकलान्यपि | मध्यकुंभे समाबाह्य सोमंसंपूज्यसादरम् || स्मृत्वा कुंभं जपेद् विद्यां सहस्रं चाष्टशतं तु वा | मंत्राग्निं च समाधाय सोमकुंडे चतुर्ष्वपि || चत्वारो ऋत्विजस्तत्र पुण्याहं वाचयेत् तथा | समाप्यशिखिनः पूजां जुहूयान्मधुरोक्षितैः || सर्पिषापायसे नापि शालितंडुलकैस्तिलैः | तावद्भिस्तर्पणं देवि जनैः शुद्धैश्च संयुतः || न्यासत्रयं पुराकृत्वा आत्मानं मन्त्रविग्रहम् | खपंकजे पिंडमापूरितं र तथा वै शिष्यविग्रहम् || संहृत्योत्पाद्यनिरिभिः शुद्धायै मंत्रं समादिशेत् | कृत्वाभिषेकं विधिवज्जपेन्मंत्रमथा युतम् || अष्टोत्तरसहस्रं वा कृत्वा वागवशाज्जपम् | मालती जाति पुन्नागं राजापद्मं मधुक्षितैः || प्. १३६अ) एवं कृते महाविद्या सिद्धौसौ वत्सरांतरे | मासत्रयविधानेन सर्वसिद्धिमवाप्नुयात् || गुरुवर्गो हि लभ्यं हि देवता मंत्रसंहिताः | तेनदत्तेनगुरवः पूजनीयाः प्रयत्नतः || ० || इति श्रीकुब्जिकामतेषट्पंचाशतितमः पटलः समाप्तः || ० || ########### END OF FILE #######