#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00268 Uniform title: prāṇāgnihotra Manuscript : BHU C4257 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. २५१अ) ओं नमो गुरवे || अल्पवित्तानरा ये च अग्निहोत्रं न कुर्वते | तेषां प्राणाग्निहोत्रं तु प्रसादं कुरु शूलभृत् || १ || शरीरेस्मिन् कत्यग्नयः को यजमानः का पत्नी क ऋत्विक् | को ध्वयुः? | को होता | क उत्गतः | क उपद्रष्टा | कः प्रतिप्रसुता | कः स्नातकः | क इन्द्रः | क इन्द्राग्नी | किं हविर्धानं | किमिन्धनं | कः कलशः | का आपः | कोर्घः | किमर्घपात्रं | प्. २५०ब्) को गन्धः | किं पुष्पम् | को धूपः | को दीपः | का वेदिः | का अन्तर्वेदिः | इमिध्मं | के परिधयः | को यूपा | कारणिः | कश्च समः | कः पशुः | को होमः | का रसना | क उपयामः | कौ स्रुक् स्रुवौ | कः पुरोडाशः | कानि भुवनानि | के लोकाः | कानि लोकान्तराणि | किं जुहोति | क उमादेवताः | प्रीता भवंति | इत्येतत्सृष्टि तत्वं तु भगवन्वक्तु मर्हसि || || अति गुह्यतरं प्रश्नं यत्त्वया चोदितं परम् | यन्न कस्य चिदाख्यातं शृणु वक्ष्यामि षण्मुख || इदं रहस्यं परमं न देयं यस्य कस्य चित् | परिक्ष्य तु प्रदाततव्यं गुरुदेवाग्नि पूजके || प्. २५२अ) अस्मिञ्शरीरे सप्ताग्नयो भवन्ति *? | मुखे चाहवनीयोग्निर्दक्षिणाग्निर्मनस्थितः | हृदये गार्हपत्योग्निर्नाभ्यासौपसदस्मृतः | उत्तरोग्निर्भ्रुवोर्मध्ये ऊर्ध्वाग्निर्द्वादशान्तरे | अधोग्निः पादयोर्मध्ये इति सप्ताग्नयः स्मृताः || एतेषां तु शरीरेषु | पुरुषो यजमानः | प्रकृतिः पत्नी | प्राण ऋत्विका | प्राणोध्व *?ः | अपानो होता | समान उद्गाता | उपानता | द्रष्टाव्यानः | प्रतिप्रस्थाता | मनः स्नातकः | आत्मेन्द्रः | तृष्णेन्द्राणी | हविर्यानं | मूलमन्त्रः वह्निः | सूर्योदयो होमः | मूर्द्धाद्रोणः | कलशः शोणितमापः | प्. २५२ब्) केशादर्भाः ब्रह्मनाडि राज्यस्थालिका पुर्यष्टकं ग्रहाः | दन्ता अर्घः | कपालमर्घपात्रं | परमान्विवपः? | परमात्मा दीपः | तन्मन्त्रः | पुष्पम् | वातो गन्धः | नामावेदिः | जिह्वान्तर्वेदिः | इध्ममस्थीनि | अन्त्राणि परिधयः | शोत्रे च समः | अहङ्कारो धूपः | अरणि प्राणशक्तिः | बुद्धी भ्रुवौ | उपयामः | नेत्रे पुरोडाशः | चित्तं पशुः | हस्तौ स्रुक् स्रुवौ | इन्द्रियाण्या हृतयः || अनेनैव क्रमेणेति विद्वान्यदिजु होति वै || अथ त्रयस्त्रिंशद्देव कोट्यस्तृप्ता भवन्ति | य एवं वेत्ति स वेदवित् | स आ हिताग्निः सहथ्य कव्ययोः समर्थः | प्. २५३अ) तस्माच्छरीरेयेष्ट सर्वे देवता यष्टा भवन्ति | अतः परं प्रवक्ष्यामि आत्मज्ञानं शिवोदितम् | ज्ञानिनो येन मुच्यन्ते घोरात्संसारसागरात् || अत्र शरीरे पादयोर्विष्णुर्जङ्घयोर्मरुतः | जान्वोः पृथ्वी ऊर्धोः मित्त्रावरुणौ | कट्यमिन्द्राग्नि | गुदेवायुः | लिङ्गे भद्रः | अस्थि शीर्षे | कुवीरः | नाड्या अग्निः | उदरे समुद्रः | अन्त्रेषु नागाः | पार्श्वयोः हरिः | पृष्ठे पितरः | ओष्ठयोः धर्माधर्मौ | नासाग्रे त्वष्ट्या बाह्वोर्वायुः | ग्रीवायां कालरात्रिः | हस्तयोरिन्द्रः | हस्ततले क्रोधः | अङ्गुलीषु सर्पाः | नखेषु नक्षत्राणि | प्. २५३ब्) जिह्वायां शरस्वती | हन्योः? गुरुः | दक्षिण दंष्ट्रासयमः | वामदंष्ट्रासु बृहस्पतिः | दन्तेषु मरुतः | चक्षुषोः चन्द्रादित्यौ | श्रोत्रयोर्दिशः | नासापुटयोः द्वावश्विनौ | अङ्गप्रत्यङ्गेव सर्व हृदये ब्रह्मा | भ्रुवोर्मध्ये नारायणः | शिरसि महेश्वरः | तस्योपर्यव्यक्तः | सारास्तिस्रो रोमकोटयः तारका भवन्ति | अत्र नाभि प्रभृति शिरोन्तं यावत्सप्तलोकाः कथिताः नाड्यां भूर्लोकः | हृदये भुवोलोकः | कण्ठे स्वर्लोकः | जठरे महोलोकः | *? मूर्ध्नि सत्यलोकः || आभासतालमुत्तलं श्रीतालं च नभस्तलम् | नाड्यधस्ताल्लताभासं गुह्ये भूतालसंज्ञितम् | प्. २५४अ) कुड्प्रदे *? श्रीतालं गुल्फदेशेरसातलम् | पादयोश्च तथैवान्या पातालास्सप्तसंज्ञिताः || जम्बुद्वीपस्तु निद्रा स्याद् व्यतिः कौमार्यसंज्ञिताः | कुशद्दीपश्च चिद्धा तु क्रौञ्च द्वीपस्त्वहङ्कृतिः || अदान्ते सिंहलद्वीपो मनः पुष्करसंज्ञितः | बुद्धिः शाकलद्वीपः स्याद् द्वीपाः सप्ततथोदिताः || यथा ह्यस्मिञ्शरीरे तु सप्तनद्यो वसन्ति च | तथा चैव समासीनं शृणु वक्ष्यामि षण्मुख || गङ्गा च शिरसि प्रोक्ता ललाटे सिन्धुरेव च | नासाग्रे च वितस्तातु कण्ठे स्याच्छतरुद्रिका | हृदये यमुना प्रोक्ता नाड्यां चैव सरस्वती | ऐरावती तु गुह्ये स्याद् विपाशा तदधः स्थिता || सर्वतीर्थ मयं ह्येतच्छरीरमधुना शृणु | ब्रह्मद्वारे ब्रह्मतीर्थं केदारं शिरसि स्थितम् || वाराणसी ललाटे तु हृदये पुष्करं तथा | नाड्यांकनखलं चैव सर्वतीर्थानि चात्मनि || ब्रह्मावर्तं दक्षहस्ते तीर्थान्येतानि देहिनः | देवतीर्थं पितृतीर्थं वायुतीर्थमतः परम् || सोमतीर्थमग्नितीर्थं शरीरे तु सदास्थितम् | सत्यतीर्थं दयातीर्थं तीर्थमिन्द्रिय निग्रहः || सर्वभूतदयातीर्थं नान्यतीर्थं प्रकल्पयेत् | तीर्थानामधिकं तीर्थं यत्र भावो हि निर्मलः || प्. २५५अ) हृअये मेरुमाश्रित्य चन्द्रादित्यौ च तिष्ठतः | या बुद्धिस्स च आदित्यो यन्मनः स च चन्द्रमाः || अग्निश्चैवत्वहङ्कारो देवार्कर्मेन्द्रियाणि च | सर्वदेव मयो ह्यात्मा सर्वतीर्थमयस्तथा || तस्मात् सर्वप्रयत्नेन आत्मस्थमर्चयेत् सदा | आत्मस्थो येन हूयन्ते नात्मानं नार्चयन्ति ये || मूढाशयादुराचारा अन्यदेवारने रताः | न ते विदन्ति तं देवं सर्व व्यापि नमीश्वरम् || जन्मना पशवस्ते हि इति सत्यं षडानन | नार्चयेन्मृङ्मयं लिङ्गं न शैलं न च काञ्चनम् || अर्चयेद्देहजं लिङ्गं भुक्तिमुक्ति फलप्रदम् | प्. २५५ब्) स्वदेहा यतनं लिङ्गं मनो यत्र स्वयं प्रभुः || हृद्पीठे कर्णिकामध्ये तत्र लिङ्गं प्रपूजयेत् | हृत्पीठे भद्रपीठोयं सर्वरत्नविभूषितम् || तं ज्ञात्वा चैव षण्मासात् सर्वपापक्षयो भवेत् | अमण्डले न भोक्तव्यं न च वै वामपाणिना || नग्नो मुक्त शिखश्चैव भक्षयेन्न कदाचन | विष्णुसोमश्च सूर्यश्च ह्री हुताशः शचीपतिः || मण्डलादुपजीवन्ति तस्मात् कुर्वीत मण्डलम् | असुरायातु धानाश्च क्रूरकर्मणि राक्षसः || बलमन्नस्य हिंसन्ति मण्डलेन विवर्जितम् | मण्डलानि प्रकुर्वन्ति चतुरश्रं त्रिकोणकम् || प्. २५६अ) क्रमद्वयं परिमाणं विस्तीर्णं मुनिपुङ्गव | नखेनक्तनखी भुत्वा काष्ठेन व्याधिमिच्छति || अश्मना धनहानिः स्यान् मृण्मयेन कलिर्भवेत् || अतः परं प्रवक्ष्यामि आत्मज्ञानं विधानतः | यज्ज्ञात्वा मुच्यते जन्तुर्घोरात्संसारसागरात् || अस्त्रेण सोधयेत्पात्रं प्रणवेणासनं ददेत् | सकलं हंस रूपं च शरीरं चिन्तयेद्बुधः || हृदिस्थाने स्थितं कुण्डं प्रणवे नैव शोधयेत् | सोमसूर्याग्नि कुण्डे तु मध्यस्थं ज्योतिरुत्तमम् || हंसोहंसाक्षरो देवो जीवादित्यस्तु सुव्रते | यत्र ज्वाला कलापेतो भासयेन्नाभि मण्डलम् || एषा ज्वाला प्रधानास्याज्जिह्वाग्रं पाति सर्वदा | प्. २५६ब्) जठराग्निर्विचिन्त्योसौ पावकः परमेश्वरः || अनङ्गधेनु दुग्धा च द्वादशान्ते समाहितः | प्राणाद्या आहुतीः पञ्च जुहुयाद्यदि पावके || पात्रे सङ्गृह्य तच्चैनं रेचकं नैव शोधयेत् | पूरकेन विचिन्त्यै तत्सोमं रूपं षडानन || आप्यायकः स्मृत एषा पूर्णेनाथ कुशेन वा | प्रोल्लिखेल्लक्षणं विप्रः सिद्धाकामस्तु कर्मसु || अतः परं प्रवक्ष्यामि कलाः षोडशसंयुतः | सन्धयोद्वक्त्रमध्ये तु स्वाहा नैराहुती भवेत् || नाभि मध्ये स्मरेत् कुण्डं वक्त्र वह्नेन्दु मेखला | तन्मध्ये संस्थितं ज्योतिश्शिवाग्निः सर्वभक्षकः || प्. २५७अ) पद्मसंपुटके लीन ज्वालामाला वपुः स्थिते | द्वासप्तति सहस्राणि नाडयः परिकीर्तिताः || अन्नः सोमः स्रुवोहस्तौ दाता सूर्यो यजेद्धरिम् | ब्राह्मीं समाधिमास्थाय भुङ्के ह्यन्नं चतुर्विधम् || प्राणोपानः समानश्च उदानो व्यान एव च | एत्येता वायवः पञ्च शरीरेषु शरीरिणाम् || प्रणम्य हृदयं स्थानमपानस्य पुनर्गुदम् | समानो नाभि देशस्थमुदानः कण्ठमाश्रितः || पञ्चमस्तत्र विज्ञेयो व्यानः सर्वाङ्ग सन्धिषु | एतेषां जुहुयादन्नं शरीरं मन्त्रयेद् द्विजम् || एतैस्तृप्तैस्तु तुर्विधमाहारं शुक्लं पीतं जीर्णं समानं नयति | प्. २५७ब्) * *? करणात्ममानः स्थापनाद्वासमानः | उदानो नाम हिक्काशब्दश्छरिस्फारकास *? सोत्क्रान्ति चोदनः | ऊर्धं नामगमनाद्बोदानः? | व्यानोनामप्रसारणा कुञ्चनोल्लङ्घन प्लवनगमनशमनोर्थापन हसन गीतनृत्तवादित्राभिलाष चरित प्रवर्तको भवति | व्यापनाद्व्यायश्छनाद्वाव्यानः | प्राणो ह्यदित्य दैवत्यः | * * *? सोमदैवत्यः समानस्य तु पर्जन्य उदानो भद्र? दैवतः | व्यानं? *? विष्णु दैवत्य इत्ये *? देवताः पृथक् || प्राणाग्निहोत्र यत्नेन कुर्याच्चैव विधानतः | प्. २६०) सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते || अनेन विधिना यच्च भुङ्के ह्यन्नं समाहितः | तेन तृप्तेन तृप्यन्ते देवताः पितृभिः सह || हृदिस्था देवतास्सर्वा हृदि प्राणाः प्रतिष्ठिताः | चतुर्विंशति तत्वानि पुरुषो हृदये परः || नाभेरूर्ध्वमधस्थाश्च कण्ठा धस्तात् षडङ्गुलम् | हृदयं तद्विजानीयाद्विशस्या यतनं महत् || योग्निस्तृप्यति चाग्निस्तु एकस्तिष्ठति सप्तधा | त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः || विप्रादि श्वपचान्तानां भूतानां च हितो नलः | तस्मैता आहुतीर्दद्यात् तृप्तिर्भवति चार्धया || स ########### END OF FILE #######