#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00528 Uniform title: prāsādacandrikā Author : jñānaprakāśa Manuscript : IFP transcript T0093 pages 1 - 12 Description: Based on excerpts from the Suprabhedāgama and the Svāmbhuva it deals with a series of yoga ascents the stations of which are variously marked. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 13, 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || प्रासादचन्द्रिका || * * * दिकाख्य कलासु मध्यत्रिकत्रिकेणां लिरहात्रिशून्यम् एकैकहाने त्रिशून्यम् शून्यात् परं योजयथामशैवम् | शून्यं तावत् समाख्यातं सामरस्यं निबोध मे | आत्मन्ये * * * * * * त्रो ज्ञेयो द्वितीयकम् || १ || तृतीयं नाडिसंस्थं तु शक्तौ कुर्याच्चतुर्थकम् | पञ्चमं व्यापिने स्थाने समनायां तु षष्ठकम् || २ || तत्वे समरसो देव सप्तमं तु विधीयते | शिष्यात्मान ह्य पूर्वोक्तविधिना क्रमात् || ३ || पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् | पूरकं कुंभकं कृत्वा समानेन निरोधयेत् || ४ || यावत्यो नाडयो देहे तिर्यगूर्ध्वमध * * | समानेन समाकृष्टमेकी भूता भवन्ति ताः || ५ || तासु वै वायवस्तेऽपि प्राणेन समरसंगताः | नाड्यस्तु सुषुम्नायाम् एकीभूता व्यवस्थिताः || ६ || प्. २) ततो वै उच्चरेन्मन्त्रं ना * * * * चिन्तयेत् | मन्त्रमात्मा तथा नाडिरेवं समरसं भवेत् || ७ || वामदक्षिणऊर्ध्वे तु ततो नाडिं प्रमोचयेत् | सेतुबन्धेन यन्मार्गं तत्र गत्वा न जायते || ८ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एतेऽत्र समतां यान्ति तन्मयात पृथक् पृथक् || ९ || तस्मिन् समुच्चरेन्नादो यावच्छक्तौ लयंगतः | शक्तिमध्यगतो नोडेश्शक्त्या ता * * * यते || १० || सर्वं शक्तिमयान् तत्र सर्वं समरसं भवेत् | तदूर्ध्वं व्यापिनीं व्याप्य सर्वं तन्मयतां व्रजेत् || ११ || समन्ताद् व्यप्नवेद् यस्मात् व्यापिनीत्यभिधीयते | * * मूर्ध्वे समनां प्राप्य तन्मयत्वं व्रजेत् पुनः || १२ || सा च सर्वगता ज्ञेया सामरस्येन संस्थिता | षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् || १३ || तं मा * * * * * * भवत्यपि विचारणात् | स च सर्वेषु भूतेषु भाव तत्वेन्द्रियेषु च || १४ || स्थावरे जङ्गमे चैव चेतना चेतने स्थितः | ऊर्ध्वा न व्याप्य सर्वं तु सामरस्येन संस्थितः || १५ || प्रनह * * * * * * निनामपि यो मनः | यस्याज्ञा समयोभावस्थिरः पूर्णसमं ततः || १६ || प्. ३) एवं समरसः प्रोक्तो विषुवं तु निबोधते | प्रथमं प्राणविषुवं मन्त्रो ज्ञेयं मन्त्रो * कम् || १७ || तृतीयं नाडिविषुवं प्रशान्तं च चतुर्थकम् | पञ्चमं शक्तिविषुवं षष्ठं वैकल्यमुच्यते || १८ || सप्तमं तत्वविषुवं प्रविभागस्त्वथोच्यते | आत्मानं च मनः प्राणैस्संयोज्य विषुवं || १९ || * विषुवमाख्यातं मन्त्रं विषुवमुच्यते | मन्त्रमुच्चारयेद् यावत्तावन्नान्यमना भवेत् || २० || परापरविभागेन मन्त्रात्मानं तदुच्यते | मन्त्रं विषुवमि * * * * * स्थानं निबोधते || २१ || सर्वासामेव नाडीनां मध्ये यां संव्यवस्थिता | सुषुम्ना नाम सा ज्ञेया नाडीशक्त्या शिवं गता || २२ || तत्र प्रवाहयेन्नादं नाडी विष * * * * | * * * विषुवं चैव अधुना कथयामि ते || २३ || प्राणेन तु समुच्चार्य कारणान्यङ्गुलेङ्गुले | तान्यवस्थात्परित्यज्य कारणानि षडेव तु || २४ || सप्तमे * * * * * प्रशान्तेन्द्रियगोचरम् | प्रशान्तस्तमितो ज्ञेयोस्तिमिते निश्चलस्स्मृतः || २५ || निश्चलो निस्तरंगश्च स्थिरपूर्णस्समं ततः | एवं भवं स (मा) स्थाय देशा * * * * * * || २६ || प्. ४) एतत्प्रशान्तविषुवं शक्त्युपाधिर्निबोधमे | शक्तिमध्ये गतो नादः तदूर्ध्वं केचरेद्यदा || २७ || तावत्तच्छक्ति विषुवं कालाख्यं तु निबोधमे | तृट षोडशिकाया तु प्राण * * * * * || २८ || कालो भ्रूक्षेपमात्रस्तु तन्त्रान्ते कथितो मया | परापर विभावेन पुनरेव त्रिधा कुरु || २९ || अपरष्षोडशी यावत् कालस्सप्तदशः परः | परापरस्तु यत्कालः सुप्रिय * * * * प्रभुः || ३० || प्राणमेकं त्रिधाकालं कृत्वा चैवं यजेत्पुनः | अपरश्शशिमूर्ध्वस्थो व्यापिन्यां तु द्वितीयकः || ३१ || तृतीयं समनास्थाने कालो विषुवमुच्यते | * * ः समाख्यातः सप्तमं तत्वमुच्यते || ३२ || उन्मना परिता देवि तत्रात्मानं नियोजयेत् | तस्मिन्युक्तस्ततो ह्यात्म तन्मयं च प्रजायते || ३३ || तत्वाख्यं वि * * * वि सर्वेषां परत स्थितः | विषुवं न्यैवं विधं ज्ञात्वा को न मुच्येत बन्धनात् || ३४ || एवं विषुवमाख्यातं योजना च तथोच्यते | मन्त्रभावक्रिया * योजनायेतु परे शिवे || ३५ || विद्यातत्वास्पदं बुध्वा बिन्दुतत्वासने स्थितः | नादशक्तितनुश्चैव व्यापिनीकरणान्वितः || ३६ || सर्वं ज्ञात्वावबोधेन समनान्तं चरेस्तु सः | * * * * त्परं प्रोक्तं तेन चा पूरिता तनुः || ३७ || अध्वातीतं परं प्रोक्तं परं चाध्वमध्यमेध्यगम् | पूर्णाहुत्या रसोपेत पशुं योजयते परे || ३८ || ऊर्ध्वं * * * वस्सह समपादो व्यवस्थितः | नाभिस्थाने सृजेन्मूलं मुखेनाग्रमुखं समम् || ३९ || सृचोपरि सृचं देवी क्रित्वा चैव मधोमुखम् | पुष्पं दत्वा सृवाले तु दर्भेन सहितौ करौ || ४० || म * * * * हस्ताभ्यां गृहीत्वा यत्नतोऽपि च | मुखाग्रे दक्षिणं हस्तं वामं वै पृष्ठतः प्रिये || ४१ || मुष्टिभ्यां संगृहीत्वा तु उत्थानकरयोगतः | ततो तेन संप्राप्य अभिमानं तु कार * * || ४२ || * * हमेव परं तत्वं परापर विभागतः | तत्वमेकं हि सर्वत्र नान्यभावं तु कारयेत् || ४३ || भेदयेन्मन्त्रशूलेन मुद्राभावयुतेन च | मन्त्रो वै ज्ञानशक्तिं च चैव क्रियात्मिका || ४४ || भावश्च मन इत्युक्तं तन्मणा बुद्धिपूर्वकम् | वरश्च मनसागम्य इच्छाशक्त्यात्वधिष्ठितः || ४५ || यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्त | * * करणसंयोगात् तत्वस्वोच्चारणं भवेत् || ४६ || प्. ६) क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् | क्रियाकरणरूपेण न चैव त्रिविधा स्मृता || ४७ || ए * * * * * तत्वं करणेन विचक्षणः | नात्युच्चरं द्वितीयेन द्वाराणां सं निरोधनम् || ४८ || तृतीयं करणं दिव्यं क्रीत्वा वै तत्वमुचरेत् | पूरकं कुं * * * * * * द्वाराणि पादयेत् || ४९ || गुदद्वारेण रुद्धेन सर्वे रुद्धा भवन्ति हि | द्वारमेकं द्वितं चोर्ध्वे प्रवाहात्तद्विचिन्तयेत् || ५० || ना * * * * * * * * * * * * * * * | * * * * * * * * श्च सादा मुखगतश्चये || ५१ || ते कुंभकेन संकुंभ्य विकसन्ति समन्ततः | कारणं तु ततः कृत्वा लक्षणं तस्य वै शृणु || ५२ || जिह्वां तु तालुके योज्य किञ्चिदूर्ध्वं * * * * | * * त्प्रासार्य वक्त्रं तु किञ्चिदोष्ठेन संस्पृशेत् || ५३ || दन्तपङ्क्तिं तदैवेह दृष्टिश्चा योर्ध्ववर्जितः | कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते || ५४ || दिव्यं च करण * * * त्रस्योच्चारणं कुरु | कुंभितश्चैव यः प्राणो रेचयेत्तं शनैश्शनिः || ५५ || नाडयो ग्रन्थिपद्माश्च देहे एवं व्यवस्थिताः | रेचकेन समाक्षिप्य ऊर्ध्व स्रोतो * * * * त् || ५६ || प्. ७) ततो विज्ञानशूलेन ग्रन्थीन् भिन्दन्समुच्चरेत् | भित्वा हृत्पद्मग्रन्थिं तु शब्दो धुनुधुनायते || ५७ || तालुमध्यगतप्राणो यदा भवति मुच्चतः | बिन्धतस्ता ग्रन्थिसुशब्दो घुमुघुमायते || ५४ || एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते | तिस्रस्ते तु कलाः प्रोक्ता उपर्युपरि ताः क्रमात् || ५९ || तिष्ठते यत्र वै प्ता * मात तद्गतिमाव्ययात् | तत्तद्रूपं भवेत्तस्य धाश भावानुरूपतः || ६० || भ्रुवोर्मध्ये यदा गच्छेत् स्फोटशब्दः प्रजायते | बिन्दुं भेदयतो देवि शब्दोधु मधमायते || ६१ || कपिलैत्थैर्नालिकेरेण आचार्यस्सह बिन्दुना | अभिन्नो मोक्षमनं बाह्याभ्यन्तरं विना || ६२ || भित्वा बिन्दुं * * * * अर्धचन्द्रं विभावयेत् | भिन्दतश्चार्ध चन्द्रश्च फाले सिमिसिमायते || ६३ || अर्धचन्द्रं तु भित्वा वै भेदयेत्तु निरोधिनम् | तस्यां तु भियमानायां शब्दश्शिमिशिमायते || ६४ || स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् | प्राणस्सचरतिस्तत्र यस्मिन्स्थानेन तिष्ठति || ६५ || तत्तद्रूपं भवेदात्मा तां तां गतिमवाप्नुयात् | निरोधिनीं भेदयित्वा तु ततो नादं व्रजेत्पुनः || ६६ || प्. ८) वंशशब्दस्समश्शब्दः तत्र सूक्ष्मं प्रजायते | भेदयेन्नाद संस्थानं ब्रह्मरन्ध्रं स तु स्मृतम् || ६७ || भिन्दतो ब्रह्मरन्ध्रं तु शब्दश्शमशमायते | शक्तिमध्यगतः प्राणो वंशनादान्तसन्निभः || ६८ || तांश्च वै भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिभिः | भिद्यते च यदा शक्तिश्श * * मुशुमुस्ततः || ६९ || शक्तिं भित्वा ततो देवी तच्छेषं व्यापिनी भवेत् | अनुभावे भवेत्तत्र स्पृशेद्यत्र पिपीलिका || ७० || स्थानत्रयमिदं देवि पञ्चं पञ्चक तम् * * | यत्र यत्र च कत्प्राणः तत्तद्रूपमवाप्नुयात् || ७१ || तस्माद् वै सुप्रयत्नेन भित्वा धाम परां गतिम् | भित्वा वै व्यापिनं देवि न मना * * * * * त् || ७२ || मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् | जीवो वै केवलस्तत्र आत्मा ज्ञानक्रियान्वितः || ७३ || बन्धनाशेषनिर्मुक्तस्स * * त्र व्यवस्थितः | समस्ताध्व पदातीत सश्शुद्धविज्ञानकेवलः || ७४ || गृह्णातिनापरं भावं ततः परशिवात्मकम् | परापर विनिर्मुक्तः स्वात्मनात्मा व्यवस्थितः || ७५ || आत्मव्याप्तिर्भवेदेषा शिवव्यापिरतः परम् | इन्धनाशेष भावेन सर्वाध्वो पादिवर्जितम् || ७६ || प्. ९) विदित्वा परमं तत्वं शिवत्वं कल्पितं तु यैः | आत्मोपायाधिका शैवेन गच्छन्ति शिवं परम् || ७७ || आत्मतत्वगतिं यान्ति आत्मतत्वेन रञ्जिताः | तस्मादात्म परित्याज्यो यदि चेच्छिवमात्मनः || ७८ || आत्मतत्वं ततस्त्यक्त्वा विद्यातत्वं नियोजयेत् | उन्मना सा तु विज्ञेया मनस्संकल्प्य उच्यते || ७९ || संकल्प्य नयतो ज्ञेयमुन्मना युगपत् स्थितम् | तस्मात्सा च परा विद्या यस्मादन्या न विद्यते || ८० || विन्दते यत्र युगपत् साप्यग्ज्ञाति गुणान्परान् | वेदनानादि धर्मस्य परमात्म प्रबोधनात् || ८१ || व्यञ्जना परमार्थत्वे तस्माद्विद्येति सोच्यते | तत्र व्यञ्जयेत्तेजः परं परमकारणम् || ८२ || परस्मिन्तेजसि व्यक्ते तत्रस्थशिवतां व्रजेत् | अप्रदप्ते यथा वह्नौ शिखा दृश्येत चांबरे || ८३ || दशप्राणस्थि ह्यात्मा तद्वल्लीयेत तत्पदे | तद्वदेवाभिमानस्तु कर्तव्यो देशिकोत्तमैः || ८४ || अहमेव परो हंसः शिवं परमकारणम् | मत्प्राणे स पश्यात्मलयं स परमं गतः || ८५ || एवं यो वेत्ति तत्त्वेन वह्निवद्देह मध्यतः | यद्वद्वह्निमुखातीतस्तद्वद्योजयते परे || ८६ || प्. १०) सूक्ष्मस्वायंभुवे- यो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः | सिद्धिभा मन्त्रसामर्धो तत्तद्योजयते पदे || ८७ || तस्मिन्युक्तः परे तत्वे सर्वज्ञादिगुणान्वितः | शिव एको भवेद् देवी अविभागेन सर्वतः || ८८ || वह्निं निरोधभावेन शिवेन सह संयुतः | अन्यथा न चेद् देवी नदीवेग इवार्णवे || ८९ || स्थितस्स सागरेद्भिस्तु सिन्धो समरसी भवेत् | पुनर्विभा नाप्नोति तथात्मा तु शिवार्णवे || ९० || पूर्वोक्तं तदिदं सर्वं ज्ञात्वा तत्वे नियोजयेत् | एवमाचरते यस्तु आचार्यन्तु शिवात्मकम् || ९१ || शिवेन सहचारित्वाद् आचार्यस्तेन सोच्यते | तस्मान्मामानवीं बुद्धिं कारयेद्देशिकं प्रति || ९२ || आचार्यं च मन्त्रं च शिवज्ञाने शिवस्य च | नानात्मं नेव कुर्वन्ति विदेशाश्चत्रनायकः || ९३ || ब्राह्मणा क्षत्रिया वैश्याश्शूद्रो वा वीरवन्दिते | आचार्यत्वे नियुक्ताये ते जयन्ति शिवास्स्मृताः || ९४ || अन्यथा प्रागृरूपेण ये पश्यन्ति नराधमाः | नरके ते प्रपश्यन्ते सादाख्य वत्सरत्रयम् || ९५ || न तेन सह संभाषा कर्तव्या तु शिवार्थिना | प्. ११) कृत्वा संभाषणं तेन सोऽपि गच्छति तद्गति || ९६ || तस्माच्छिवसमास्सर्वे द्रष्टव्या मुक्तिमिच्छता | भुक्तिमुक्तिफलव्याप्तिर्भवेत्येव तदाज्ञया || ९७ || आचार्यस्स्वजनानां च कुलकोटिसहस्रजः | ज्ञानज्ञेय परिज्ञानात् सर्वांस्तांस्तारयिष्यति || ९८ || एवमुक्त विधानज्ञो तामज्ञश्चैव देशिकः | ब्रह्मणा क्षत्रिया वैश्या शूद्राश्चान्येऽथवा प्रिये || ९९ || सर्वे ते समधर्माणः शिवधामनि योजिताः | सर्वे जटाधराः प्रोक्ताः भस्मोद्धूलित विग्रहाः || १०० || एकभाक्ति भुजस्सर्वे सर्वे ये तु वरानने | पुत्रकाणां भवेदेकस्साधकानां तथा भवेत् || १०१ || नैष्ठिकानां भवेदेको न पश्यन्ति विभेदतः | एकैव सा स्मृता जाति भैरवीया शिवाज्ञया || १०२ || मन्त्रमेतत् समाहृत्य प्राज्ञातिं ह्युदरयेत् | साधकानां पुत्रकाणां तथा समयिनामपि || १०३ || प्राज्ञात्युदीरणाद्देवि प्रायश्चित्त भवेन्नरः | दिनत्रयं तु शूद्रस्य पञ्चाहं केशवस्य च || १०४ || पितामहस्य पक्षे कं नरके पच्यते तु सः | जनः शीलो भवेत् पश्चाद्यदि चेदुत्तमांगतिम् || १०५ || श्रीमत्प्रासादमन्त्रस्तु देवदेवेन भाषितम् | प्. १२) सप्तधा वर्तते यस्तु सर्वतीर्थफलं लभेत् || १०६ || अब्रह्मचारी ब्रह्मचारी अस्नातस्नातको भवेत् | पितॄन्पितामहांश्चैव तथैव प्रपिता महान् || १०७ || अक्षयं शिवलोकन्तु यान्ति सद्यत्प्रभावतः | प्रासादनादमुस्थाप्य जपेद्यस्सततं नरः || १०८ || अणिमादिगुणैश्वर्यं षड्भिर्मासैर्न संशयः | इति श्रीमत्कलालयदेवतीर्थस्य उत्तरतटे निवासि ज्येष्ठज्ञानप्रकाशवराचार्ये तस्यारुणदेवेन संगृहीतायां प्रासादचन्द्रिकायां मात्राज्योतीकारणेश्वर स्थानम् आनाध्वसमरसी भाव विषुवशब्दयोजनविधानविधिस्समाप्तः || श्रीमदरूणाचलाय नमः || अस्मिंश्च कोशे प्रासादचन्द्रिकया सह तत्वसिद्धान्तव्याख्या सिद्धान्तप्रकाशिका दशकार्यं षडध्वत्रिंशत्कलान्यासः पुरुषार्थसुधानिधिः सुप्रभेदागमः इति नामका विलिखिता वर्तन्ते || ########### END OF FILE #######