#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00303 Uniform title: prāyaścittasamuccaya Main title: prāyaścittasamuccaya Manuscript : NGMCP 5.2402 Reel B 427/2 Description: The subject matter is Shaiva temple architecture and the rites of Linga installation. Notes: Data entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski . Revision 0: February 11, 2014 Internet publisher : Muktabodha Indological Research InstituteInternet Publisher Muktabodha Indological Research Institute Publication year : 2014 Publication city : Publication country : United States #################################################### प्. १अ) ओं नमः शिवाय || महेश्वरं नमस्कृत्या भवपाशविनाशकं | ज्ञानक्रियात्मिका देवीं शक्तिं च शिवशीलनीं || प्रणम्य परया भक्त्या नन्दिस्कन्दविनायकान् | शिवज्ञान प्रणेनारं भक्त्या च परमेष्ठिनम् || अथ पाप विशुद्ध्यर्थं प्रायश्चित्तं समासतः | वक्ष्येऽहमागमोद्दिष्टं साधकानां क्रियावतां || समयाचारयुक्तानां साधकानान्तु सर्वदा | जायते विविधा सिद्धिरुत्तमाधममध्यमा || अन्यथा सिद्ध्यर्ते नैव प्रायश्चित्तविलंघनात् | कृषिफलं यथा क्षत्रे रक्षितव्यं गवादितः || रक्षणीयं यथा धर्म्मं चतुणामपि तत्समं | आचार्ययः साधको वापि पुत्रकः समयी तथा || एतैश्च रक्षणीयन्तु प्रायश्चित्तादिभिः पुनः | समयां समयज्ञस्य यष्टा यः पूर्व्वदीक्षितः || पुत्रकः पुत्रकस्यापि साधकः साधकस्य तु | गुरोरपि गुरुः प्रोक्तः समयोक्षिनि दर्शनात् || प्रायश्चित्तं शिवेनोक्तं धर्म्मं च परिनिष्ठितं | चतुर्भिरपि कर्त्तव्यमाश्रमेषु स्थितैर्गणैः || चतुर्णामाश्रमाणाञ्च वर्त्तनं कथ्यविशुध? | समेस्वलं जटीसुण्डीमुण्डविभक्ष्य भुक् भुविः ||? गुरो गुरु कुसेव्यसः संयोगः सत्यभाषितां | त्रिःकालत्यायिताऽक्रोधः क्षान्तिश्च ब्रह्मचारिणः || दानार्थनं जपोहोमेवि च तातिथि पूजनं | स्वदारयापिता पौर्व गृहिणो वृत्तिरिष्यते || अग्नि क्रियावनेवासः फलमुलादि भक्षणं | भूशययानि न धारित्वं प्रतिग्रह विवर्ज्जितः || सर्व्वेन्द्रिय समारोधो वृत्तिरेषावनान्तगे | सर्व्वारम्भ परित्यागोवृक्षमूल परिग्रहः || शासने समदाणां त्वम् सुख दुःख विर्कारिता | प्. १ब्) स वाह्या भ्यन्तरंणैव स रसो? ध्यान निष्ठता || प्रियाप्रिय परित्यागो यतिवृत्तिरुदाहृता | आचारमाचरेच्छैवं शास्त्रोक्तं पुरुभाषितं || अन्यथा पतनं प्रोक्तं समयाचार लंघनात् | समयांश्च प्रवक्ष्यामि देवदेवेन भासितान् || गुरोराज्ञां सदाकुर्यात् कर्मणा मनसागिरा | तत्समीपे स्वयन्नेव निन्दां कुर्ययान्न? तस्य वै || भास्यं गितं तथा नृत्यं शृङ्गारञ्च विवर्ज्जयेत् | * * *? वीक्षयेद्रामां कुमारीं पूजयेत् सदा || परिहासो न कर्त्तव्यो गुरु देवाग्नि य? सन्निधौ | विण्मूत्रष्ठी च नाहीनिदम्भान्चत्र विवर्ज्जयेत् ||? अभ्यङ्गोद्वर्त्तनं पत्रै क्षुरकर्म्म च वर्ज्जयेत् | मन्त्राचाररतानान्तु निन्दां नैव तु कारयेत् || चित्तोत्मादं प्रमादं च काम क्रोधौ च साहसं | विचिकित्सां परे वैरं कुसङ्गञ्जिह्यतां नभा? || उद्वेगमनुत्साहं च नास्तिकत्वञ्च संभमं? | दौल्यं दार्यं तथा भ्रांन्ति लोकयात्राञ्च वर्ज्जयेत् || निर्भयत्वं तथा यस्यं सर्व्वसाधनं कर्म्म सु | न निन्द्यात् कारणे देवं न च वाक्यं तदुद्भवम् || अन्येषाञ्च नयैशून्यं लिङ्गं छायादि लंयनं | ऋतु मृत्या च यत् स्पृष्टं पक्वमन्वादि वर्ज्जयेत् || निर्म्माज्यं देवदेवस्य वाश्रीयात्रावगाहयेत् |? देवद्रव्यं गुरोर्द्रव्यं न चान्यत्युप योजयेत् ||? उपेक्षा परिहारेण रक्षितव्यं प्रयत्नतः | गुरुदेवानि कार्ययाणि विशुद्धान्यपि कारयेत् || नार्थयेत् तत्फलं प्राज्ञे नानारम्भे क्रियासु च | शङ्करो नार्च्चितो यावत् तावत् कर्म्म न कारयेत् || शिववच्छिव भक्तास्तु द्रष्टव्यः शिवकांक्षिभिः | भयदारिद्र्यरागेभ्यो रक्षितव्यास्तु सर्व्वदा || स्वतिकायाद्वहिर्वायात्यमत्वायः कथंचन | प्. २) णोत् च्लेअर् प्. ३अ) रुद्र भक्तावतेषान्तु भोज्य मन्त्रं प्रकीर्त्तितं | छवि वाश्रमिणौ भोज्यौ ब्रह्मचारी गृहीतथा || अभोज्य मन्त्र्ययोरन्तं तथा दैवान्यलिङ्गिनां | जपः सर्वत्र सर्वेषां सहस्रमुवितात्मनां || कण्डमात्रे जलेकार्यय संयम्येन्द्रियवाहिनीं | एवं भवति शुद्धिस्तु गुरोर्द्ध यत्र नादिभिः || इति प्रकरे पारमेश्वरे महातन्त्रे सामान्यप्रकरणेश्रोत्वात्र पटलः || परमेश्वर उवाच || सद्योजातं गवां मध्ये वामदेवं शिवालये | प्रमशाने बहुरूपन्तु वक्त्रमग्नि त्रयालये || केदशानं पर्वताये तु प्रायश्चित्त येत्सदा | * * * ? ब्राह्मणं हत्या सद्योजातं जपेद्बुधः || सु*?म कामतः पंत्वा वामं देवं समभ्यसेत् | सुवर्णं चोरयित्वासु बहुरूपं जपेद्बुधः || गुर्वङ्ग नागमङ्गत्वा प्रमादात्पुरुषं जपेत् | एतैश्चतुर्भिः पुरुषैः पतितैः सहसंगमात् || * * * * * * * *(?) सहस्रं लक्षमेव च | प्रका *? कामतश्चैव लक्षन्तु परिवर्त्तयेत् || ब्रह्म मतो रहस्येव सहस्रन्तु जपेद्बुधः | रेतो **? पुरीषाणानुत्सर्गे अत्र भक्षणे || वामदेव शतं जप्त्वा तस्मात्पापात् प्रमुच्यते | अण्डजं वोण्डजं वस्थं यत्कर्मणे मतं तथा || चर्म्मतं तु पृहीत्वा तु सद्योजातं जपेद्बुधः | घृतं क्षीरं दधि मधु तैलं लवणमेय च || खण्डं गुडं शर्करं गृहीत्वा समभ्यसेत् | रौप्यं वैवहिरण पञ्चगृहीत्वा मणिमौक्तिकं || वक्तुरूपं जपेद्धीनात् * * * ? धेनु मेव च | * * * *(?) गृहीत्वा तु हयमश्चतरं गतं || जपेत्तत्पुरुषं सिद्धात् गृहीत्वा स्त्रिय मेव च | प्. ३ब्) णोत् च्लेअर् प्. ४अ) * * * * *? जानीयाः शिवो रवि विशोधिनाः | विमुक्ताः सर्वपापेभ्यः शिवज्ञानधराश्च ये | लोकसंवृतिरक्षार्थं प्रायश्चित्तं प्रकीर्त्तितं || इति पुष्करे पारमेश्वरे महातन्त्रे सामान्यपुरणे प्रायश्चित्तपटलः || ३ || ब्रह्मोवाच || गोमध्यमिति किं प्रोक्तं किञ्च प्रोक्तं शिवालयं | श्मशानं कि स्मृतं देव अग्निहोत्र गृहं च किं || किं पर्वताग्रं देवेश वक्तुमर्हसि तत्वतः | परमेश्वर उवाच || गोमध्यं गोष्ठमिभ्यातुर्गो सहस्रेण संमितं | नासहस्रादधो गोष्ठं ब्रह्मन् सामान्यमुच्यते || गोमध्यं मण्डलं प्रोक्तं सौरभेय त्रयं स्मृतं | तथा चा ऋषभं चैव धेनुमण्डलमेव च || सुरभ्यो यत्र पूज्यन्ते एकादश सवत्सकाः | अष्टौ दिक्ष स्थिता ब्रह्मन् स्त्रिस्रो मण्डलमध्यमाः || नासां मध्ये च वृषभः स्वयमेव व्यवस्थितः | देव्यः कामदुहावस्था सुरेभ्यस्तत्यदात्मिकाः || मण्डलं चाष्टहस्तन्तु नवधा दशधा भवेत् | चतुरस्रं चतुर्द्वारं चतुर्व्वर्णं मनोरमं || जपान्ते यत्र तत्वज्ञाः सद्योजातविधिस्थितैः | वाञ्छद्भिर्महविभूतिं मुक्तिं वाप्य निवर्त्तिकां || इति पुष्करपारमेश्वरमहातन्त्रे सामान्यप्रकरणे गोमध्यगाथा *? || ४ || श्रीपुष्करपारमेश्वरे पञ्चमन्यविधानं | सद्योजातेन गोमूत्रं वामदेवेन गोमयं || क्षीरन्तु बहुरूपेण दधि तत्पुरुषेण तु | ईशानेन घृतं ग्राह्यं गायत्र्या तु कुशोदकं || ततः सर्वात्मदेवेन एकस्थमपि मन्त्रयेत् | प्. ४ब्) ओंकामन्त्रहे स्वाहा || ओं जगद्योनि स्वाहा || वैष्णवी उत्तरस्यां || ओं अमोघमात्रे स्वाहा || वृषभस्तयोर्मध्ये || ओं जगधृदये स्वाहा ऐन्द्री प्राच्यां || ओं जगद्धिते स्वाहा || आग्नेयां आग्नेययां || ओं अमृते स्वाहा यामी दक्षिणस्यां || ओं नमो मालिनं स्वाहा || नै-ऋती नै-ऋत्यां || ओं जगद्धेनु स्वाहा || वारुणी पश्चीमायां || ओं शिव शक्ति स्वाहा ||| वायवी वायव्यां || ओं सर्वलोकसंजीवनि स्वाहा || कौवेरी उत्तरस्यां || ओं वरदे स्वाहा || ऐशानी ऐशान्यां || ओं सर्वतेजसंहारिणि सर्वामृतसंहारिणि स्वाहा || रौद्री वृषभस्था स्रवः || ओं श्रव श्रव गल गल दुलु दुलु अमृतं भवतु स्वाहा || सर्वासां वत्सकाः || इति धेनुमण्डलमन्त्रकोशः || परमेश्वर उवाच || सामान्यवाचकं ब्रह्म ऐकलिङ्गं शिवालयं | मण्डं तु विशेषेण शिवालयमुदाहृतं || युज्यन्ते यत्र विधिवच्छिवाः सृष्टिपुरःसुरा | एक एव स्थितो मध्ये व्योमव्यापी महाशिवः || तस्य सृष्टि शिवः पार्श्वे इक्षिणे समवस्थितः | वामे स्थिति शिवश्चैव कर्णिकायां शिवासने || ईशाने तस्य दिग्भागे संहाराख्यः शिवः स्थितः | अनुग्रहशिव प्राच्यां सौम्यायां मुक्तिदः शिवः || मुक्तिमूर्त्तिशिवाः स्थाप्या दिक्षु शेषास्वनुक्रमात् | व्योमव्यापि यदावस्थो विज्ञेयस्तु महाशिवः || भवयुष्मपदावस्थो ज्ञेयः सृष्टि शिवो च तु | सदा स्थिति शिवश्चैव भवोद्भवपदस्थितः || ओं मुञ्च मुञ्च पदावस्थः संहाराख्यः शिवः स्मृतः | प्. ५अ) शिवादि सर्वदान्तश्च विज्ञेयो भूमिदः शिवः || तत्वादि शिवपर्यन्तः प्रथमो मुक्तिदः शिवः | शिवान्तो न हि युष्मादि द्वितीयो मुक्तिदः शिवः || नमस्कारयुगादिस्थ प्रणवान्तस्तृतीयकः | मुक्तिमूर्त्ति सिवाज्ञ्ये नेत्रयः संपरिकीर्त्तिताः || मण्डलं कल्पनीयन्तु पूर्ववच्चतुरस्रकं | सूत्रमानविधानेन पूर्वं वापि मनोरमं || इति पुष्करपारमेश्वरमहामन्त्रे सामान्यप्रकरणे शिवालयमण्डलं || ओं व्योमव्यापिने नमः || महाशिवः || ओं भवभवे नमः || सृष्टिशिवः || ओं भवोद्भवे नमः || स्थितिशिवः || ओं मुञ्च मुञ्च नमः || संहारशिवः || ओं सर्वभूतसुखप्रदे नमः || अनुग्रहशिवः || ओं नमः शिवायः || ओं नमो नमः शिवाय नमो नमः || मुक्तिशिवः || ओं प्रथमनमः || तिरोभावशिवः || ओं सर्वसर्वदे नमः || भूतिदः शिवः || ओं नमः शिवाय || नम प्रथमो मुक्तिमूर्त्तिशिवः || ओं नमो नमः शिवाय नमः || द्वितीयो मूर्त्तिशिवः || ओं नमो नमः || तृतीयो मुक्तिमूर्त्तिशिवः || इति शिवालयमण्डलमन्त्रकोशः || परमेश्वर उवाच || श्मशानं यत्र दृश्यत् ते जन्मजीवविवर्ज्जिताः | नासहस्राधस् (?) तस्मात् करवीरादिकञ्च यत् || समान्यवाचकमिदम् विशेषमण्डलं च यत् | वद्गुरु पुस्प तु देयो योराज्यै रूपपश्चिमैः || अघोरः प्रथमस्तत्र द्वितीयो घोर उच्यते | घोरघोरस्तरञ्चैव सर्वरुद्रस्तथैव च || श्मशानमण्डलं स्यैते चत्वारस्तु शिवाः स्मृताः | प्. ५ब्) अघोरः पद्ममध्यस्थः प्राच्यां घोरः प्रतिस्थितः || घोरघोरतरो याम्यां सर्वो वरुणदिक्स्थितः | रुद्रस्तथोत्तराशास्थो मण्डले परिकल्पते || चतुः प्रेतशिरोरूढाः सर्व्वे पूज्या यथोदिताः | इति श्मशानमण्डलं || ओं अघोरेभ्यो नमः || मण्डलमध्ये || ओं अघोरेभ्यो नमः || प्राच्यां || ओं घोरघोरतरेभ्यश्च नमः || याम्यां || ओं सर्वतः सर्वसर्वेभ्यो नमः || वारुण्यां || ओं नमस्ते रूपरूपेभ्यो नमः || उदीच्यां || इति श्मशान मण्डल मन्त्रकोशः || अग्निहोत्र गृहम्ब्रह्मन् हूयन्ते यत्र वह्नयः | न सहस्राश्वश्चैव तस्मात् सामान्यवाचके || अग्निहोत्रगृहे ब्रह्मन् विशेषे मण्डलं स्मृतं | त्रिभिः पदैस्तु देवस्य तद्धि तत्पुरुषस्य तु || हरनेत्रत्रयाकारो विशेषस्तु प्रकीर्त्तितः | यत्र तद्गार्हपत्योग्निर्देवस्तत्पुरुष स्थितः || आहवाग्निर्महादेवो रुद्रस्या दक्षिणालयः | पश्चिमे पुरुषो देवो महादेव पुरास्थितः || रुद्रस्तु दक्षिणे भागे मण्डले परिकीर्त्तितः | पूज्यते सप्त देवेशः पुरुषो भुक्तिमुक्तिदः || इत्यग्नि होत्र मण्डलं || ओं तत्पुरुषाय विद्महे नमः || प्रमार्हपत्यः || ओं महादेवाय धीमहे नमः || आहवनीयः || ओं तत्रो रुद्र प्रचदयात् नमः || दक्षिणाग्निः || इत्यग्निहोत्र मण्डले मस्रः || परमेश्वर उवाच || पर्वताग्रन्तु शिखरं सामान्यं परिकीर्त्तितं | तद्वर्ष पर्वतानां स्यात् कुलाडीणां च कीर्त्तितं || विशेषमण्डलमिदं पर्वताग्रमिति स्थितं | मेरुस्तु वर्षशैलानात् प्रधानः परीकीर्त्तितः || विन्ध्यश्चैव कुलाद्रीणामीशानन्ता प्रभावदि | प्. ६अ) पर्वत्यर्थवशात् संज्ञा या त्र्यवर्णपदात्मिका || वान्यान्यस्य तु पूर्वाणि चत्वार्युक्तानि शासने | स शशिवाख्यं यद् वाच्यं तदग्रं परिकीर्त्तितं || तन्मध्ये यवीयन्तु चतुः पर्वताग्रसंस्थितं | ईशानं पूर्व(?)न्तिभ्यं पूर्वपर्वाणि संस्थितं || ईश्वरं दक्षिणे चैव पश्चिमे ब्रह्मणोचितं | उत्तरे पर्वणि शिवं मण्डले परिकीर्त्तितं || इति पुष्करपरमेश्वरमहातन्त्रे सामान्यप्रकरणे पर्वताग्रपटलः || ६ || उक्ते देवे समुत्पन्नै विधिवत् सायमाचरेत् | घृतं चानंमिकाङ्गत्या प्रासयेद् गव्यमात्मवत् || वामदेवस्य सुजयं कूर्व्वी वाष्टशतम्बुधः | परस्योच्छिष्टमं स्पर्शस्तुल्यता(?) ते प्रमादतः || उपस्युशैव (?) बुद्धिं स्यात् स्वजातीशस्य कीर्त्तिता | ब्राह्मणस्तु सुखोद्भूतस्तत्रांगं पूरक्षत्मकं (?) || वाहुभ्यां क्षत्रियो जातो * * *? शञ्च तत्स्मृतं | उरुभ्यां वैश्य उत्पन्नो वामस्याङ्गञ्च तद्विदुः || पद्भ्यां शूद्रः समुत्पन्नः यद्यश्चा मुञ्च तत्स्मृतं | जातीनायीश्वरा ह्येयं ब्रह्ममन्यः प्रतिष्ठिताः || * * * * * *? स्पर्शादहोरात्र * * *? तु | एकस्थौ तत्र जप्तव्यौ जातिशौ भुवि जातका | एकाहं क्षत्रिसंस्पर्शाद् वैश्य स्पर्शात्महं जपेत् || * * * * * * * * * * * *##? एकाहं वैश्य * * * * *? स्पर्शाद्यहं जपेत् || क्षत्रियो वैश्य एवाहे शूद्रस्पर्शाद् विशुद्ध्यति | बाह्यवर्णस्य संस्पर्शात् सर्वं * * * *? र्णिनां || मंडलस्थं शिवं गृह्य जात्यङ्गारस्य कर्म्मणा | स्वजातं शिवचोद्धारः त्वत्प्रतीर्थेत्? प्रकीर्त्तितः || प्. ६ब्) स्वाहान्तेन च विक्षेप उत्क्षेपः * * (?) तेन तु | एवं जाति समुच्चारं कृत्वा तान्दीक्षयेद् गुरुः || वाह्यवर्णस्य संस्पर्शादेवं शुद्धिः प्रजापते | दीक्षा कल्प? गुरोश्चैव जात्युद्धरण(?) पूर्वकं || पटाक्षे तु गुरोः कार्यं स्वयमेव विजानता | वर्णन्त्रय निधन्तोपि ब्राह्मणाः शिव दीक्षिते || दीक्षावान्तुल्य वर्णानामन्त्रवद्यादशङ्कितः | * * * * * * * * * (?) वर्णा क्षत्रियादयः || तेषामन्त्रम्परिहरन्याय? * * (?) भवेद्विजः | आमन्त्रितो न भुक्तन्तं यस्य वर्णस्यं वै द्विज || तज्जप्त्वाशौ जप्तैकत्र विशुध्यति * * * * (?) | अविश्वं भेदनश्च * * * * स्वयमभवा | चतुरस्रं चतुर्द्वरं चतुर्हस्तं सुदूर्लभ || चतुः पत्रेण पद्मेन जातिशस्य तु * *? मं | दशावः कर्णिका मध्ये पूर्वं तत्पुरु * *? ल || दक्षिणे वहुरूपश्च * *? देव * *? न्तरे | सद्योजातः पश्चिमे तु मर्धजातीश्वरं स्मृतः || * * नीयमिदं सम्यगीशानस्य तु मण्डलं | पुरुषः कर्णिका मध्ये ईशानः प्राग्दसेस्थितः || शेषा यथास्थिता एव विप्रजातीशमण्डले | अघोरः कर्णिक मध्येईशानो दक्षिणे दले || शेवाश्चैव? यथासंस्था क्षेत्रे जातीशमण्डले | कमले कर्णिका मध्ये ईशानश्चोन्तर दले || शेषाश्चैव यथावस्थां वैश्य जातीशमण्डले | सद्योजातः कर्णिकायामिशानः पश्चिमे दले || शेषा यथा स्थिताश्चान्ये शूद्र जातीश मण्डले | प्. ७अ) मन्त्रिणान्त न भोक्तव्यमन्येषां लिङ्गिनामिहं | भुत्कानुरोधाज्जप्तव्यंशतलिङ्गेश्वरो मनुं || ईश्वरो बहुंरूपश्च परिवाजक लिङ्गिनां | तथा पाशुपतानाञ्च वक्त्रो वै मव लिङ्गि वां || प्रमाणालिङ्गिनां चैव सद्यस्त्रापसु लिङ्गिनां | श्वेत रक्त पदानाञ्च वामदेवः प्रभुः स्मृतः || अन्येषां लिङ्गिनाञ्चैव तथा च गृहं लिङ्गिनां | कपास्य? लिङ्गिनो ये तु अभोज्यासो? प्रकीर्त्तिता || तेषां प्रमादतो भुक्त्वा पुनर्दीक्षान्तु कारयेत् | लिङ्गोद्धारं ततः कृत्वा कुर्याद् दीक्षां स्वयं बुधः || यो यस्यैव तु लिङ्गस्य ईश्वरः परिकीर्त्तितः | तेन लिङ्गः समुद्धारो निक्षेयोक्षय? कर्म्मणा || जातिश्वरस्यरय यद्यस्य? मण्डलं परिकीर्त्तितं | तदेय मण्डलं कुर्यात् मन्त्री? लिङ्गेश्वरस्य तु || आसनं न्यास मात्रन्तु ख्यातं जातीश मण्डले | आसनस्य वहिर्न्यासः प्रोच्यते तस्य बाधना || अन्तर्न्यासोप्य भेदेन प्रोक्तो भेदान्तु कथ्यते | ब्रह्मभिश्च तथाश्चैव अन्तर्न्यासो व्यवस्थिते || बहिर्मूर्त्तिधरैन्यासः सर्वेवान्तु यथोदितेः | स्वैः स्वैर्मूर्त्तिधरैः कार्यो मध्येङ्गे ब्रह्मभिस्तथा || ईशानः शिरसः सर्वे सर्वे तत्पुरुषो नमः | अथो? हृदया सर्वे वामगुह्य प्रकीर्त्तिताः || अजातमूर्तयः सर्वे ब्रह्म मन्त्राः प्रकीर्त्तिताः | उप ब्रह्माणि सर्वेषां ब्रह्माणि यदि कल्पयेत् || शिववच्चो प्रचारन्तु कार्यतवा? वाहनादिकः | पूजावसानं सर्वेषां सद्योजातादिभिः क्रमात् || शैवस्वान्तं न भोक्तव्यमविज्ञाय तु गोचरं | शैवाङ्गं नाममेवान्तु शुद्ध शैवास्तु ते स्मृताः प्. ७ब्) णोत् च्लेअर् प्. ८अ) वाअरिणा शुद्धि मायाति भिक्षापात्रन्तु पार्थिवा | विशुद्ध्यत्यय सा पृष्टं दारवं वारि शोधयात् || शंखस्य भुक्तेर्भाण्डस्य क्षालनं मथितेन तु | गोधूमस्य तु षेश्चैव कार्यमुद्यर्षणन्ततः || शुद्धिः क्षरिणवस्त्राणां वरिणा परिकीर्त्तिता | वैरवञ्चर्म्मणां शुद्धि वैदव्यानां तथैव च || भक्तव्यञ्जन भाण्डानां शुद्धिं शलिल शौचनात् | नित्यं चोदफभाण्डानां पराग्नि करणान्तथा || पात्रं कीटाम्बुमाज्जारैरासीदन्तु? विशुद्ध्यति | सप्तशः स्थः परिशुद्ध्या पर्यग्नि करणादपि || श्वखरोष्ट्रादिभिर्द्यानमवलीढञ्च संत्यजेत् | गोरूपाघ्मतकं पात्रं संपरित्याज्यमेव हि || नकूलैखजीढन्तु यत्पात्रं घ्रानमेव च | सप्तशश्वाद्भिर्मिक्तमग्निनाशुद्धिमेव हि || प्रणीतादार्च पूर्वाणि शुद्धिर्न्ययानि भाण्डवत् | प्रभूत मन्त्रं काकाद्यिर्जुष्टं तन्मात्र वर्ज्जनात् || उच्छिष्टस्य तु संस्पर्शादन्नदोषं विधाय तु | आचस्यान्नादिकं प्रोक्ष्य शुद्धं परिविशेत् पुराः || निश्चानां रुक्षणाच्छद्धिः स सेपातामनेयगः? | मत्वापनयनान्मुद्ध्निर्दुर्गन्धीनां? प्रकीर्त्तिता || आसनं न यं नं यानं शुद्धिमेति मृदंभसा | स्त्रियश्च सर्वतः शुद्धाः शकुनिः फलपातनात् || वाणी शुद्ध्यति मत्येन नदीवेगेन शुद्ध्यति | रजसा वित्र सवोदुष्टामनोदोघ्यान्निवर्त्तनात् || यथोदितेन शौचेन सर्वमेतद्विशुद्ध्यति | इति पुष्करे पारमेश्वरे महातन्त्रे सामान्यप्रकरणे भोजनोत्तरफलं || ७ || परमेश्वर उवाच || ब्रह्मन् भोजन पात्राणां शुद्धिं शृणु समासतः | प्. ८ब्) द्रव्याणाञ्च तथान्येषाम्विधिस्थानां तु मन्त्रिणां || सर्वेषामपि यात्राणामौपसानाञ्च शौचनं | अविरुद्धञ्च यत्किञ्चिद् विस्त? स विरोधतः || निर्म्माल्यं सद्यः संस्पृष्टंः त्यागात् संशुद्धिमेव हि | अमेध्या पहतानान्तु शुद्धिरुत्यागादुदाहृता || रेतोमूत्र पुरीषाणा मुपाद्यातास् परित्यजेत् | शोष्मणो पहतं यच्च सिक्तन्तिः मेहतेन तु || रक्तपूयवसर्पिश्च त्यागतः शुद्धिरिष्यते | अग्रे संस्कारतः शुद्धिर्म्यन्त्राज्याहुति योगतः || त्रिःपरिस्थत वस्त्रेण शुद्धिर्भवति चाम्भसां | चैत्रवद्रव्यं जातीनां शुद्धिः शास्त्रे प्रभाषिता || तत्क्षणाद्वहनात्सेकात् स्मर्यनासेपताद् भुवः | आगराः शुचयः सर्वे सर्वभृत्य गतं शुचिः || अदुष्टमेतमिक्षिप्तयच्चवाचा प्रशस्यते | विशुद्धमविशोध्यन्तु प्रोक्तानु क्रमशेषतः || निवेदना तु देवाय गुरवे च प्रयत्नतः || इति पुष्करपारमेश्वरमहातन्त्रे सामान्यप्रकरणे पात्रशुद्धिपटलं || ८ || हूयमानोययघोरेण सर्वकार्ये च पावकः | तदा पापात्मको दोषो यजमानसमुद्भवः || ब्रह्महत्यादिकं पापं सद्योजातेन नाशयेत् | सुरापानकृतं वामः प्रणाशयति पातकं || सुवर्णस्तेयजं पापं बहुरूपप्रमार्ज्जयेत् | गुर्वङ्गनागमत्पापं पुरुषोनिर्द्दहेत् क्षणम् || समस्त व्यस्त सम्पर्कात् सम्भवं पातकम्महत् | सदा आज्यस्य होमेन तदीशेत् सप्रमार्ज्जनं || जन्भोन् कुष्टी च कासादि हनेत् कुर्ययाद् गुरोः सदा | प्रमोदाहन्यथा कृत्वा वामदेवशतं जपेत् || निःसहनेन तु करोसि प्रसङ्गन्तु वारिणा | प्. ९अ) सौऽऽचयेच्च मृदां चैव सकृत्तिश्चा धरोत्तमं || अमेध्यो पहतं देहं मृद्भिः शुद्ध्यति सप्तभिः | उत्तमाङ्गो पद्याने च वारिणा स्नान माचरेत् || श्वप्रभृतानामुविक्ते पात्काकादीनाञ्च पक्षिणां | मृदा कृत्वानु तच्छौम्चमधमऽऽगि विशुध्यति || उत्तमाङ्गे तु सर्वत्र स्नानमेव हि वारिणा | प्रायश्चित्त जपं कुर्यया गायत्र्याष्ट शतं बुधः || उच्छिष्टस्य तु विक्षेपात् कृत शौचो यथाविधिः | स्नात्वा शुद्धिं समायविश्रियादशगुणाच्छतात् || मूत्रोच्चार कृते मन्त्री वारुणं स्नानमाचरेत् | भस्मस्नानं यद्वा कुर्ययात् मन्त्रस्नानं गृही सदा || दिवाकर करैर्युक्तं दिवास्नानं प्रशस्यते | अप्रशस्तञ्च तद्रात्रौराहोरन्यत्र वर्ज्जयेत् || अक्षमाला करादभ्रष्टो क्षालयेद् गन्धवारिणा | गायत्र्या तु शतं जाप्यं विधिस्थः कारयेत् सदा || सहस्रमन्त्रजस्यर्णात्सूत्रक्षेदे भवेत् तथा | जीर्यासूत्रस्यमंच्छेदे गायत्र्यष्ट शतं जपेत् || प्रमाणा श्लोषणासिक्तां यन्त्रिनिः सिंहनेन वा | अमेध्य भूगणा वापि अक्षमालां परित्यजेत् || अदीक्षिते नाक्षमाला नस्प्रष्टव्या कदाचनः | तथान्य मन्त्रिणाञ्चैव प्रायश्चित्तं शतं श्रिये || अन्यमन्त्र जपाच्छुद्भिः पुनः संस्कारकर्म्मणा | अत्यन्तो पहतायान्तु शुद्धिस्त्यागात् प्रकीर्त्तिता || इति पुष्करपारमेश्वरे महातन्त्रे सामान्यप्रकररणे प्रायश्चित्तपटलं || ९ || अथवाय स्रुवे सूत्र सङ्ग्रहे प्रायश्चित्तं लिखितं | अथाचार्य व्रतं श्रेष्टं चरेदाचार्य एव हि || सद्यादि शक्तिपर्यन्तामभ्यसेन्मन्त्रसंहितां | प्. ९ब्) पक्षत्रयमधःशायी नक्ताशीयरुभुस्तदा || मौनिश्रिषवणस्त्रायी द्वन्द्वादुद्विघ्नसंयमी | शुक्लाम्बलधरो नित्यं शुक्लमाल्यानुलेपनः || योगयप्ताक्षं सुन्त्री च मुञ्जाजिन पवित्रधृक् | होमं प्रतिदिनं कुर्ययाज्जपान्ते शक्तितः क्रमात् || घृतेन वाघृताक्तैर्वास्तिलैर्क्षीरेणतण्डुलैः | व्रीहिभिर्वासाभिद्भिर्वादध्ना चापि यवेस्तथा || श्रीफलैर्विल्व पत्रैर्वा पुष्पैर्वा यज्ञिकेः शुभैः | ततो व्रत समाप्तौ तु पूर्वोक्तं मन्डलं जपेत् || व्रतग्रहण कामे च देशिकः साधकस्त्रया | अभिषिंच्यात्मना चमनन्त विजये ततः || चरेन्मन्त्र व्रतं सध्वीमाध्यमन्त्रोक्तवर्त्मना | पारियात्रे महेन्द्रे वामस्वे वायलये? तथा || **? देव गुरौवायि विन्ध्ये वा शक्तिमत्यपि | गङ्गातटे समुद्रे वा श्रीशैले ऋक्षपर्वते || भर्तुदेनिस्रगायाम्वायोदधीमं मतः स्वयं | पुष्पपत्र फलोपेतस्मुत्कुशोपचिनं शुभं || प्राच्योदकं समित्स्थीतन्त्रिः शब्दं स्थानमाश्रयेत् | तस्मिस्थितं प्रसन्नात्मा कायशुद्धि समाचरेत् || कृच्छ चान्द्रायणधिर्वाशाकायैर्वा प्रचोदितः | प्राणवृत्ति निरोधेन प्रणवन्तु समभ्यसेत् || सहस्राणां शवं पूर्णं षण्मासात् कृत निश्चयः | शुद्धकायः सुनक्षत्रे निमित्तोय निवेदिने || संपूज्य देवदेवेशङ्कुर्ययाल्लिङ्गपरिग्रहं | स्थापितं ऋषिभिः पूर्वं सर्ववक्षण वक्षितं || आश्रयेत् सिद्धिदं सिद्धं स्वयं वा परिकल्पितं | कीमितं वर्ज्जयेद् विद्वां स्कन्द वि*?न्द्रमातृभिः || उपर्युपरिसिङ्गञ्च मुखसिद्धं तथैव च | प्. १०अ) अथवा लक्षणैर्यक्तं स्थण्डिलम्परिकल्पयेत् || स्थण्डिलेवि? हि मन्त्राणां सिद्धिरा प्रयर्तन्ते | श्रेष्टं पश्चान्मुखं लिङ्गं महोवात्प्राङ्मुखं स्मृतं || वाम्यकौवेरवक्तु तु वसिद्धा विच्यते बुधैः | परिगृह्येक्षितं लिङ्गं लिङ्ग कृत्वोदितं शुभं || पूजयेत् सततं मन्त्रां त्वादेहशययाश्चतं | गेयवुद्बूद सामान्यं दिव्यैश्वर्यविवर्जितं || * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * ||? प्. १०ब्) णोत् च्लेअर् प्. ११अ) एतदेव व्रतं कुर्यान्त्रिगुणके वलंसुधी | ज्ञानिनो न च यागेन पद शुद्ध्या च शुद्ध्यति || इतरेषां सु सर्वेषां समया नाम्व्यति क्रमेत् | जपेदेकादणात्मान समन्यो योषितस्व्यहं || कृत्वा कृच्छु मनोन्दोर्घा गतिपिण्ड व्रतं चरेत् | महा पातकिनाञ्चैव बुद्ध्यति क्रममादिशेत् || सर्वेषामेव पापानां परानिष्कृति रुच्यते | एकादशात्मनो व्यस्नो समस्तो वा विधौ जपः || आचार्योक्तं वचस्तथ्यं कुर्यात् तदविचारितं || तस्मात् सर्व मवाप्नोति परलोके हितं फलं | सकृज्जापात् समारभ्यः शिवस्यैका दशात्मनः || यक्षं यावत् परानिष्ठा प्रोक्ता पापकृतामिह | तस्माद् व्यतिक्रमं ज्ञात्वा प्रायश्चित्तं चरेद्बुधः || मन्त्र सित्*? धोगार्थलोकसंवृति सा व्रतः | नित्यं संध्या मुपाशीत लोपे चोपवसेद् दिवं || निरुजः सरुजश्चान्ते सद्योजात शतं जपेत् | देशिकश्चाह्निकच्छेदे त्रिगुणं शतये वहि || कृत्वास्वात्मकणे चान्ये प्रागुक्तञ्च शिवं जपेत् | बहु दैवशिके भ्रंशे षड्गुणं यदुदीरितं || होमः साहक्षिको वाम्याद्ब्रह्मभिः शतिकोपि वा | उपवासस्वथा स्नानं पञ्चगव्यासनं जपः || होमश्चैवमलं हन्ति सर्वशंकरजं नृणां | इति स्वायंभुवे सूत्रयं ग्रहे प्रायश्चित्तपटलं || १० || शिवधर्म्मोत्तरे प्रायश्चित्तं लिख्यते | अथवाप विशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् || कृत्वा शौचं तथा स्नानं शिवाग्नि गुरुपूजनं || प्. ११ब्) उत्थाय पश्चिमे यामे प्रगृहीव कमण्डलुः | धौतपादुक सा क्रम्य सूत्रं कूर्याद् यथागमः || दक्षो विनीतस्तत्वतोज सदा न विधानवित् | सहायः शौच कार्येषु तदभावे कमण्डलुः || वाचं नियम्ययत्नेनष्ठी च नोत्काश वर्ज्जितः | सिरः प्रावृत्य कुर्वीत अन्तर्द्धाय तृणैर्महीं || दिवा संध्यासु कर्णस्थो ब्रह्मसूत्रत् प्रदङ्मुखः | कुर्यान् सुत्र पुरीषञ्च रात्री चेद्दक्षिणामुखः || मार्ज्जनं वामहस्ते च वीरणाद्ये स्याज्ञिकैः | न विरामूत्रंतिरीक्षे? तच्छायामात्मन एव वा || नानिज्ञानज्ञ देवानां गोब्राह्मणजसंप्रति | जन्तुशाड्वलभ स्यास्थि वृक्षच्छायां विवर्जयेत् || पादावसेचनं सूत्रं पूरीष्टंष्टीवनं च यत् | दूरादायतनात्सर्वं यच्चात्यद्दि कृतं भवेत् || ग्ःईतं शिश्न चोत्थाय समायुक्त कमण्डलुः | शौत्त कुर्यात् मृदम्भोभिर्गन्धलेपापनुत्तये || तिस्रोलिङ्गे मृदो योज्यास्त्वेकैकान्तरवृत्तिकाः | आसलीफ स मात्राश्च पञ्चवामकरे तथा || मृदस्तिस्रः समाख्याता मूत्रोत्सर्गे भवेच्छुचिः | पञ्चायाने मृदोयोज्याः स तिस्रोत्तरमृत्तिकाः || दशवामकरे चैव स प्रपाण्योस्तथा द्वयोः | उपस्पर्शन काले तु तिस्रो दद्यात् तु हस्तयोः || तिस्र एव तथा योज्या जंघारौचि तु मृत्तिकाः | अक्षिणी नासिका कर्णौ त्रिभिः संशोध्य हस्तयो || कर्द्दमामध्य सूत्रैस्तु दिगङ्के पंच सप्तधा | क्षालिते वारिणा पूर्वं तिस्रोन्तरमृतिकाः || आसणि बंधाञ्च करौ मृत्तोयैस्तु विशोधयेत् | अन्तः कृत्वा भुजौ सम्यग् वहिर्जानु निधाय च || प्. १२अ) उद्धृतभिरनुष्णाभिः पूजाभिर्वस्त्र चक्षुषा | हङ्कुसाभिरेफानाभिस्त्रि चतुर्धा समाचरेत् || परिसृज्यद्विराम्यञ्च द्वादशाङ्गानि चा लभेत् | लीतूमेव? ततो भूयः शिव मन्त्रेण पूर्ववत् || आचमे ब्रह्मतीर्थेन ब्रह्मचारीस्तुदङ्मुख | तदन्तरान्तरैः पाणिमालोद्याप्तान्य चाम्भसा || वस्त्र शौचं प्रवक्ष्यामि तच्छद्धौ शुद्ध्यते यतः | वसु शौच विहीनौसौ शुचिरप्य शुचिर्भवेत् || देव कार्ययाययोग्यानां प्रत्यहं शौच सिष्यते | वा समामितरेषां तु कार्यं शौचं मलागमे || शुचिना तोरणं कृत्वा वंश दण्ड त्रयेण तु | तत्र वासांसि निर्णिज्य सम्यग्वधा विशोधयेत् || खगैर्वा दूषितेव्वक्षे निर्म्मले वा शिलातले | दूर्वानाले शुचौ वापि क्षालितेसु तृसोषु वा || विण्मूत्ररेवोदिग्यानां मृत्तो येन विशोधनं | कार्ययमादौ ततः क्षारैर्गोमूत्रायैश्च शोधनम् || मृद्वारितावदादेयं गन्धसिवावुधावपि | तस्यानान्तत्कृतो यावत् सर्वासु द्रव्य शुद्धिषु || कौशेयाविकयोरुक्षैः क्षोमाणां मौन सर्पयैः | श्रीफलरंशु पट्टानां कुट्यानामरिष्टकैः || चैलवदुर्ज्जनेत्राणां यक्षचामर चर्म्मणां | वल्कलानां च सर्वेषां शुद्धिः कार्याविजानता || चैदलालावु पत्राणां वस्त्रवच्छुर्द्धिरिष्यते | गोवालैर्घषणाञ्चैषान्विशेषः परिकीर्त्तितः || कांश्या यस्ता सुपात्राणां अपुसीमकं योरपि | शुद्धिः शौचार्थि कामार्या भस्मक्षाराल्ल वारिभिः || निर्लेपं काञ्चन रोययं सृभिः? पात्रं विशुध्यति | प्. १२ब्) मन्यस्म शंखशुक्तीनां शौचं तैजसवत् स्मृतं | रजस्वला सूतिकाद्यैर्मूत्रैयंश्चाति दूषितं || अग्नेरयाञ्च संयोगात् तैजसं शुद्धिमाप्नुयात् | शूद्रोच्छिष्टस्य पात्रस्य त्रिः कृत्वा परिमार्ज्जनं || शौचन्तु पूत कामेन कर्त्तव्यं तैजसस्य तु | द्रव्याणामिह सर्वेषां शुद्धिरु *? वनं स्मृतं || पालाल तृणकाष्ठानां प्रोक्षणाच्छुद्धिरिष्यते | श्रुवादि चरु पात्राणां सुशलोल्लखलस्य च || सूर्यगोरस भाण्डानां शुद्धिरुष्णेन वारिणा | शृंगास्थिदारुदन्तानान्तत्क्षणे परिशोधयेत् || अत्यन्तो पहतानान्तु गोमुत्रेणोदकेन तु || संहतानाञ्च द्रव्याणां प्रोक्षणात् शुद्धिरिष्यते | असंहतं द्रव्यशौचं कर्म्यं प्रत्यात्मिकं सदा || भक्ष्य धान्यादि शशीनामेकदेशस्य दूषणे | तावत् मात्रं समुद्धृत्य शेषः प्रोक्षणमर्हति || अम्भमाल्यी यसा कार्यं मृदीचेव विशोधनं | णेकमूलफलारीनां धान्यवच्छुद्धिरिष्यते || गो लीढमक्षिका लीढ कृसिसंस्पर्शनेषु च | छागावलेहनाच्छुद्धि रत्नस्याद्भिश्च प्रोक्षणात् || खरोष्ट्राश्व शृगालाद्यैर्विवराहावले कृतैः | तन्मात्रमन्नमुद्धृत्य शेषं संस्कारयेद् बुधः || दीप्तोत्सुकेन संस्पृश्य त्रिच्छागायातमेव च | सुवर्णतोयं संस्पृष्ट्वाः शुध्यत्येवं न संशयः || मक्षिका केशवन्मिश्रं पटान्तोपाटनञ्च यत् | रजः पिपीलिका युक्तं भुञ्जावोन्नमवेक्षतं || तावत् मात्रं समुद्धृत्य प्रोक्षयेदम्भमानतः | आज्याभि पारणाच्छुद्धिर्भस्मक्षपण वा भवेत् || प्. १३अ) णोत् च्लेअर् प्. १३ब्) शिवेनैकादशात्मानं स्वयमन्येनत्य पुनः | विप्रलक्ष्मी विशुद्ध्यर्थमभिषिञ्चेत्समं ततः || आचम्य प्रोक्षयेत् भूयस्तावदेवात्मनः शिरः | गृहे च परिजप्तेन स्नानं कुम्भेन कारयेत् || एवं भवति सुस्नातः सर्वपाप विवर्ज्जितः | सर्वतीर्थाभिषिक्तस्य श्रद्दधावः फलं लभेत् || सन्धात्रय परिभ्रष्टः शिवैकादशिका त्रयं | जप्त्वा विशुद्धिमाप्नोति स्नानहीनः शतं जपेत् || पर्वण्य पूज्य देवेशं गुरुमग्निं च भक्तितः | अहृत्वा च वलिं तत्र शिवस्याष्टशतं जपेत् || पुष्पं पत्रस्फलंसूसमन्त्रपानायमौषधं | अनिवेद्य तु भुञ्जानः प्रायश्चित्ती भवेन्नरः || शिवेन शव जप्तेन पूजया च विशुद्ध्यति | अनस्थिप्याणिसंघातं हत्वैका दशिकं जपेत् || हुत्वा च पक्षिणः सन्धांस्तिरेका दशिकां जपेत् | सर्पसार्ज्यरनकुलं श्वानम्रष्ट्वं हयं हयं || मजारींश्च शृगालांश्च हत्वाचाष्ट शतं जपेत् | जपेदष्ट सहस्रन्तु क्षत्रविड्गो वधेषु च || शिवाग्नि गुरु पूजा च योगिन्द्रद्विजभोजनं | हुत्वा वृद्धंस्त्रियं वालं शिवं पंचशतं जपेत् || जपेदष्टसहस्रन्तु सच्छूद्रविनिपातने | सदृष्टः शिवभक्तश्च नाद्यान्मृतक सूतके || संस्कारेषु च सर्वेषु गृहेषु कि सुतान्यतः | सूतके मात्रभोक्तव्यं मृतकञ्च विवर्ज्जयेत् || भुक्त्वा प्रमादनः स्नेह च्छ्विवस्याष्टशतं जपेत् | श्वविद्धरात्रचाण्डालर्म्मार्जारकपिकुक्कुटैः || उलूक गृध्रकाकाद्यैः स्पृष्टमत्रन्न भक्षयेत् | शिवैकादश जप्तेन गव्येन हविषा बुधः || पीतेन शुध्यते क्षिप्र स भोज्या हारदुषितः | तीर्थयात्रा विशुद्धात्मा स कृतः शिवभावितः || प्. १४अ) पुत्रैरपि न भुंजीत सार्द्धङ्कुरैरधार्मिकैः | महापातकशुद्ध्यर्थं सहस्त्राणि जपेद्दश || प्राणायामेस्त्रिसंध्यञ्च शिवमग्निञ्च पूजयेत् | रेतो सूत्र प्रवीषाणि प्राणयित्वा च वारुणिं || भुत्काञ्चात्र स भोज्यंत गत्वा चाप्यस्य जास्त्रियं | जप्त्वा शिवायुतं सस्य पूर्वोक्त विधिना बुधः || पंचगव्यं सकृत्योत्वा सर्वपापैः प्रमुच्यते | गोमूत्रं गोमयं क्षीरं दधिसर्प्पि सनुत् क्रमात् || जपेद्धि पञ्चभिर्ब्रह्मैः उकारेण कुशोदकं | पलाश पद्मपत्रे वा ताम्रपात्रेथवास्थितं || कृत्वैकस्थं शिवेनैव जपेदष्ट शतं पुनः | अहोरात्रोषितः स्नातः शिवस्य पुरतस्थितः || ओंकारेणैव मन्त्रेण प्राङ्मुखः स्वकरैः पिबेत् | पीतपात्रो भवेत् पुत्रः संपूर्ण शशि निर्म्मलः || ब्रह्महत्यादिभिः पापैः सर्वैरेष सुमुच्यते | मातृपितृसमुत्भूतं सहजागन्तुकञ्च यत् || अस्थिमज्जा गतं पापं ब्रह्म कूर्च्चक्षणाद्दहेत् | अष्टम्यां ब्रह्मकुर्चेन स्नापयित्वा स कृच्छिवं || पीत्वा च पातकैर्मुक्तः शिवलोके महीयते | तस्मात् प्रतिचतुर्म्मासम्ब्रह्मकुर्चम्पिवेन्नरः || सर्वपापविशुद्ध्यर्थम्महापातक शुद्धयेत् | तस्मादेतत्परंगुह्यं महापातकनाशनं || प्रायश्चित्तं शिवेनोक्तं न देयं यस्य कस्यचित् | एतद् रहस्यं परमं प्रायश्चित्तं शिवं बुधः || चरेत् प्रच्छन्तपायेषु प्रकाशे प्रार्थयेद् गुरुं | शिवज्ञानमिदं शान्तं महापातकनाशनं || प्रणिपत्य गुरुं पश्चात् प्रार्थयेच्छुद्धिरात्मनः | इति शिवधर्म्मोत्तरे प्रायश्चित्तपटलं || अथ किरणो प्रायश्चित्तं लिख्यते || प्. १४ब्) गरुड उवाच || नित्यहानिर्यदा देव प्रायश्चित्तन्तु तत्र किं | भगवानुवाच || शतजापादजा बुद्धिऽसंध्याते विकृते सतिं | नित्य हानैर्जपेदीशं शतकन्तु देशिकः || बहुदैव देशिक अंशे उपशमो भवेद् खग | सहस्रं पञ्चमस्यैकं वक्तव्यं सरुजो ध्रुवम् || विरुजो देशिकस्यापि बहुदैव शिवा क्रिया | नष्टा यदा युते द्वे तु जप्ता शुद्धित् ब्रह्मात्मिका || दुरायातस्य शतव्यं केरयस्या युतद्वयं | य संख्या यस्य वा पञ्च सहस्राणि दिनक्षयं || कर्तव्यो घोरसंज्ञस्य जपकार्यो यथार्थतः | आचार्यस्य वचोग्राह्यन्न देवस्य भवेत् * *? || गरुड उवाच || अन्यंकादिभिर्जुष्टं यदा तत्रापि किम्वदः | भगवानुवाच || श्वकाकाझीटसन्मंत्रं स्वत्यं त्याज्यन्तु देशिकैः | शेणाडक प्रमाणन्तु यदाबीटन्समं त्यजेत् || ग्रासमात्रं तत्रद्बुक्ष्य प्रोक्ता वायेन शुद्ध्यति | शुद्धिरजोगतात् स्नात्वाश्च काक्यसीड भक्षणा || कृक्लासं तण्डुकैऽस्पृष्टं हृद्रोमकारकं | श्वासकाशकरं जुष्टं विडासन कुलादिभिः || दर्भुक्तेऽप्रशनाच्छुद्धिः स्नात्वा गव्याज्यभक्षणात् | इति किरिणाख्ये महातन्त्रे द्विचत्वारिंशतमः पटलः || गरुड उवाच || गृहस्थो गृहिणी योगात्तच्छिष्टं सूतकं यदा | द्विजातीनां यथा यच्च तादृशं च वद प्रभो || भगवानुवाच || विप्रशुद्धिर्दशाशस्वात्क्षत्रिये द्वादशाहिका | दशयं दाहिका शुद्धिर्वश्येद्यत्रस्य सासिका || स्वधर्मस्थः क्रियामिष्टो जातिवृत्तसमायुतः | प्. १५अ) शुद्ध्यते तत्क्षणात् स्नानान्नित्य ह्यनिरतो न्यथा | पृथक् पाकः प्रकर्त्तव्यस्तद्योगं वर्ज्जयेत् सदा || तद्योगादोषसंबन्धो स्वेते प्रोक्तान्यथा नहि | अद्वैतेपि यथालोके चित्तस्था वामना भवेत् || नित्यहानिं प्रकृत्वा यस्तद्युक्तस्तत्समो भवेत् | तस्य तावत्तिका शुद्धिर्यावकात् सक्त भोजनात् || त्रिःस्नानं नक्तभोजित्वाद्घोरजापाच्छत त्रयात् | न हानिर्न पृथक् पाकस्तदा शुद्धिन्हयहात्मिका || सभाभावाद् यदा योगस्तदा व्यहात्मिका मता | उद्वाहिताश्च तस्रस्तद्ब्राह्मणे न स्त्रियो यदा || क्रमात् तत्सूतकद्धूर्ययाद् दशषट्येक वासरं | सूतकन्तु सुतादीनां मातृपक्षेण सूतकं || संपूर्णगर्भपतनाच्छुद्धिः स्नानात् क्षणात्मिका || अर्चाक्रस्या संज्ञस्य * * * * * * * *? | * * * * * * * * * * * * * * * * ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * *##? गुरु उवाच || भक्ष्याभक्ष्यविधा देव प्रायश्चित्तन्तु तत्र किं | उच्छिष्टः सूतके प्राप्ते बलादर्थादिहागते || भगवानुवाच || अष्टमङ्गलके पुंस्त्ये भुत्वा वामशतं जपेत् | नामप्रासननिष्कामे भुक्त्वा वक्त्रशतं जपेत् || चूडव्रते स गोदाने विवाहेषु न दोषभाक् | चतुर्थिकान्नं भुक्त्वा तु जपेद्गुह्यञ्च पूर्ववत् || पाकादिषु प्रतिषन्नं भोक्तव्यं पावनं यतः | द्वादशेका दशाहे तु भुक्त्वा घोरञ्जपेत् त्र्यहं || भोज्यमन्नं त्रयाणान्तु शूद्राणां न कदाचन | शौचाचारसमायुक्ताः शूद्रायेऽमद्यपाशऽभाः? || रुद्रार्च्चनपराभक्ता भोज्यास्ते अन्तजा न हि | तेषां मध्ये च कुम्भस्य कर्त्ताय स शुभो मतः || हंसामद्यविनिर्मुक्तो भक्त्या वाराम्वितो यदा | भोज्यो वान्योज्यज कामात् कष्टमार्गे तथा यदि || प्. १५ब्) भुक्त्वा घोरसहस्रन्तु जपेद् वृर्द्ध स कामतः | तदा गा * * ? कृप्तौ देवता स्थापनेषु च || भुक्त्वा पञ्चशतान्येव ईशानस्य तथा जपेत् | द्वावे वा श्रमिणौ भोज्यैः द्वाव भोज्यौ स्मृता वि *? || अत्रापि त्रिशतं जप्त्वा पञ्चमस्य विशुद्ध्यति | भुक्त्वान्यलिङ्गिनां स्थाने सहस्रं कल्पतेर्ज्जपेत् || कामतस्तु जपेदर्द्धन्न देवा कामतो जपेत् | अकामात् कामतो बुद्धातज्ज्ञैः सहविचार्य च || कर्त्तव्यं शास्त्रसंसिद्धमथ वा गुरुभाषितं | महापातकयुक्तानां प्रायश्चित्तं भवेद् गुरुः || सामान्यपातकानान्तु बुध्नाति क्रममादिशेत् | इति किरिणाख्ये महातन्त्रे त्रिचत्वारिंशतितमः पटलः || १३ || गुरु उवाच || विशेषपातकान् यत्र सामान्यानि स्थितानि च | प्रायश्चित्तञ्च यत् तेषाङ्कस्य वा कीदृशं वद || भगवानुवाच || ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गः जापयः | विशेषपातकान् यत्र तद् योगात् पञ्चमं भवेत् || हत्वा कामाद् द्विजं सद्य गवांगोष्ठे जपेयत् तदा | पीत्वा कामात् सुरां वामं शिव हर्म्ये जपेत् सदा || कृत्वास्ते यमकामाच्च घोरं पितृवने जपेत् | गुरुस्त्री गमने वक्त्र स कामान्तु जपेद् वयं || योगं कृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् | प्रकाशे कामतत् ह्यस्मिं लक्षमावर्त्य शुध्यति || अकामाद् वा रहस्यं च सहस्राच्छुद्धिरिष्यते | कामतः स रहस्यं च भवेत् तत्रा युतद्वयं || अकामतः प्रकाशे च तत्रापि वा युत द्वयं | गुरुद्रोहे कृते शुद्धिः कामतस्तु तदा न हि || दयावान् देशिकस्थस्य तदा कृच्छपुरः सदा | पुनर्याग प्रकर्तव्य शुद्धिस्तस्या न्यथा न हि || प्. १६अ) पातकत्रयसंयोगः सामान्यो ब्रह्मणादितः | मद्यपानं यदा शूद्रे दीक्षिते स्वल्पकं भवेत् || प्रवृत्ति त्वाद्य वस्त्रस्य दोषस्तत्र न जायते | नियमो घोरजापः स्यात् कर्त्तव्यश्च शतत्रिकः || गुरुस्त्री गमनं यच्च चतुर्णान्यपि तत्समं | गुरुद्रोहे शिवद्रोहे तस्मात् तस्य ननं भवेत् || काष्ठादि पार्थिवं गृह्य तेजोद्रव्यं विना खगः | सद्योजाताच्छताच्चुद्धिरकामा कीर्त्तिता तव || पंचविंशतिको जापः कर्त्तव्यः कामतः शतं | घृताद् याज्यङ्गृहीत्वा तु लवणं शर्करादिकं || अकामात् कामतो वापि जपेद् वामन्तु पूर्ववत् | रीतिकास्मारकां स्यादि गृहीत्वा तैजसं च यत् || धेनुं वा घोरतः शुद्धिः कामाकामस्तु पूर्ववत् | पुष्पगन्धादिकं यच्च वायव्यं स्त्रियमेव वा || अनड्वाहं गजाश्वादि गृह्य वक्त्रन्तु पूर्ववत् | क्षितिञ्च लिङ्गशास्त्रस्वा गृह्येशं पूर्ववज्जपेत् || अभक्ष्यभक्षणे जाते गुह्यकस्य शतं जपेत् | अकामास्त्रिशतं कामाज्जपेत् मधादि वर्ज्जनात् || शङ्करे सर्वपापानाङ्क्रमाद् ब्रह्मणि वा जपेत् | ज्ञात्वा काम स कामित्वमेकं वा वर्त्तयेद् वरं || निर्म्माल्यभक्ष्यणे जाते प्रमादायुतं जपेत् | अघोरस्य न चान्यस्य कामाद् यागाद् विशुद्ध्यति || निर्म्माल्यलंघने कामात् तद्वत् पंचशतं जपेत् | अजश्च त्रिशतं मोहाज्जपेद् गुह्य शतं पुनः || निन्दां प्रमादतः कृत्वा शिवस्याणोश्च वा पुनः | जपेदीशं तथा शुद्धिः शतमेकं सुयन्त्रितः || दशोर्द्धं त्रिशतादर्वाग् भवे स्नानजपाच्छुचिः | तदुर्द्धं पञ्चमं यावच्छतानक्तं विधीयते || बहुर्द्धमुपवास स त्रिरात्रसंयुताद् भवेत् | प्. १६ब्) ज्ञात्वा च तद्वलं ज्ञानं जातिम् भक्ति सहि * तां || यत्नाद् विचार्य तद् दद्याद् गुरुवालप्रवासनं | तदेवस्यं प्रकर्त्तव्यमथ वा गुरुभाषितं || निकृष्टजातिसंयोगे कल्पनीयं यथोदितं | इति किरिणाख्ये महातन्त्रे चतुश्चत्वारिंशतिमः पटलः || गरुड उवाच || निकृष्टजातिसंयोगे कामात् कामे कृते सति | प्रायश्चित्तं भवेत् किन्तु वदलोकाखिलाश्रयः || भगवानुवाच || अकामाङ्गोघ्नजा यस्मिन् मन्दिवे संस्थिता यदि | सर्वभाण्डपरित्यागात् कृच्छ्राच्छुद्धिर्नराच्छुचिः || कामतो यदि वा भुक्त्य सकृच्छानिकृच्छ्रतः | वामदेव जपाच्छुद्धिः परो कोत्रैव वामकृत् || ज्ञात्वा भुक्त्याथव्य तेन तदासौ तन्मयो भवेत् | रजकीचर्म्मजा स्पृष्टा यदि वा मन्दिरे स्थिता || भाण्डन्वामा इजाच्छद्धिख्यहात् पञ्चसहस्रिका | ताभ्याम्भुक्त्वात् स कामाद् वा कृच्छं घोरं जपे अहं || कामाद् वा द्विगुणं कर्म्म सकृद् योगाद् भवेदिह | अकामाद् वहुसंयोगः स जातस्तद् द्वयोरपि || तदा चान्द्रायणं कार्ययः मन्यथा नैव शुध्यति | वहं देवशिकोयोगः स जातः कर्म्मतोथ वा || तदा चान्द्रायणं कार्ययं वारिणा केवले न तु | प्राणि हिंसात्मके पापे शवघोर जपाच्छुविः || कामाद कामतो वापि घोरस्य दशरूपकं | सम्यग् विचार्यमो ज्ञात्वा दद्याच्छुद्धिं पुनर्गुरुं || गरुड उवाच || एकभक्तस्यहं कुर्या त्र्यहं च दयान्वितं | त्र्यहं च नक्त भोजित्वं त्र्यहं स्यात् मारुताशनः || एवं कृच्छस्समाख्यातः प्राजापत्य इति स्मृतः | त्र्यह मुष्णस्मि वेसांरि त्र्यहं स्यात् क्षीरभोजनं || त्र्यहमुष्णांघृते पीत्वा त्र्यहं चैकैवनीयदा | प्. १७अ) तप्त कृच्छं समाख्यातं जातिकृच्छं शृणुष्वथ || क्षीरस्य त्रिपसंस्थानं दिवसानेकविंशति | अतिकृच्छः समाख्यातः पराकञ्च निबोधमे || द्वादशाहं निराहारः पराक इति सस्मृतः | मासार्द्धं ग्रासवृद्धिः स्याच्छक्तै कृष्णो च ह्रासयेत् || चान्द्रायणः विधिः प्रोक्तो जडजा देव जलात्मकः | स्नात्वा स्नात्वा जपः कार्ययो मन्दिरे वाथ वा वहिः || समाप्ते तु विधौ कार्यं भोजनं शास्त्र चोदितं | इति किरिणाख्यं महातन्त्रे पञ्चचत्वारिंशतिमः पटलः || १५ || गरुड उवाच || परस्योच्छिष्टसंस्पर्शो यदि स्याद् देव तत्र किं | पात्रशुद्धिरपि प्रोक्तानोक्तां सापि वष प्रभो || भगवानुवाच || स्वजाति दीक्षितः स्पृष्टस्तदाचम्यविशुध्यति | आचम्य दीक्षितस्यापि स्वजातीशशतं जपेत् || तदेव शूद्रसंज्ञस्य स्पर्शनाद् दीक्षितस्य तु | स्पर्शाद् दीक्षितस्यापि शतान्यं चक्षुपोषितः || इतरेषां पादहीनं प्रायश्चित्तं भवेद् खगः | पुरुषो घोरवामाजाजातीशा ब्राह्मणादितः || त्रिरात्रमत्यज स्पर्शात् सहस्राणिदशौ चतुः | पंचमस्य तु मन्त्रस्य जपेत् तदविचारतः || कृच्छाघोरजपः कार्ययः पुनश्चाण्डालसङ्गमात् | अयुतैकं जपेद्धीमान् प्रायश्चित्तं विशुद्धये || ज्ञात्वा ज्ञात्वा यथा स्पर्शस्प्रायश्चित्तन्तु तस्य तत् | पात्रशुद्धिं शृणुष्वेतां स्वशास्त्र विहितां खगः || हेमरौप्यादि पात्राणां वारिणाशुद्धिरिष्यते | शङ्खादीनां भवेच्छुद्धिस्तुयैर्वामथितेन तु || भस्मना कांस्य शुद्धिः स्यात् ताम्रामस्नेन शुद्ध्यति | उच्छिष्ट विप्र पात्रस्य शुद्धिरेखा मयोदितो || प्. १७ब्) प्रोक्ष्य शुध्यत्व संदेहा ऊच्छिष्ट स्पृष्टभाजनं | तुम्वादि वेणु पात्राणां शुद्धिः स्यात् क्षीरवारिणा || शुद्धिश्चोदक भाण्डानां पर्यस्त्रि करणात्मिका | भृणादिकञ्च यत् किञ्चित् काष्ठं वा प्रोक्षितं शुचि || उल्लेखाङ्वू विशुध्यते तथा गोमय मार्जनात् | विष्टाद्यपह तस्माण्डं स्त्र्याज्यं स्याद् वेणु मृण्मयं || शेषस्यात् पूर्ववच्छुद्धिं रजसास्त्रि विशुद्ध्यति | त्यजेन्निम्माल्यसंस्पर्शाद् भाण्डं मृद्वेणुसम्भवं || शेषस्य पूर्ववच्छुद्धिर्वस्त्रशुद्धिर्जलार्भवेत् | आचारमाचरेच्छैवं शास्त्रोक्तं गुरुभाषितं || तदे तस्य प्रकर्त्तव्य मन्यथा यतनं भवेत् | गुर्वर्थन्नित्यहानिर्या न दोषो यत्य तस्ततः || इति किरिणाख्ये महातन्त्रे षट्चत्वारिंशतिमः प्रायश्चित्तपटलः || १६ || प्रतिष्ठा पारमेश्वरे महातन्त्रे प्रायश्चित्तपटलं लिख्यते | अकामाद् ब्राह्मणं हत्वा कामतो वा महामुने || सद्योजातं जपेत् तत्र ततः पापाद् विमुच्यते | सङ्गमे वागवाङ्गोष्ठे एकाहस्तु व्रतंचरेत् || सद्योजातं चरेद् ब्रह्मन् ब्रह्महत्या व्यपोहति | हत्वापि सु बहून्मन्त्री चरेच्छास्त्रात्रिकं व्रतं || निरपेक्षो जपाभिज्ञो दहेत् पापमशेषतः | दिवशान्तज्जयंत् कुर्याद् व्रतशेषं विशुद्ध्यति || गुरुपत्नींस्तुषां वापि दुहित्रिम्भगिनीन्तथा | अगम्यागमनं कृत्वा वामदेवं जपेद् बुधः || अंशमात्रोदकेविश्य आदित्याभिमुखस्थितः | उर्द्धं वा हर्दिवाहृत्स्नं जप्त्वा पापाद्विशुद्ध्यति || चाण्डालिनीम्विवर्णाम्वा संमोहात् कामचारिणीं | भुक्त्वाविष्ठा समेध्यान्तु वामदेवञ्जपेन्ननः || प्. १८अ) दिनानि त्रीण्यनुदिग्नौ नाभिमात्रोदके स्थितः | प्राणायामेन जप्तव्यः कृतात् पापाद् विमुच्यते || सुवर्णस्ते ययोधान्यं हृत्वा च प्रवरंस्त्रियं | वलाद कारणान्मन्त्रीति स्मात् पापाद् विमुच्यते || सुवर्णस्तेयगोधान्यं मित्रद्रोहे कृतेथ वा | मन्त्रशिवी कृतोत् सा तु समृत्काष्ठ व्रतं चरेत् || जानु सात्रोदके विश्यत्रिरात्रोपविशन्नरः | वामदेवं जपेत् मन्त्री तस्मात् पापाद् विमुच्यते || गोघ्नो वा * ई (?) वधो वापि मातृहापि शृहा तथा | प्रायश्चिती जपेद् घोरं विधिनानेन शुद्ध्यति || हत्वा च स्वां स्त्रिर्यं रामाद् दोषार्ढ्य पापमाचरेत् | अघोराष्टसहस्रन्तु जप्त्वा पापाद् विमुच्यते || अभक्षभक्षणं कृत्वा सुरां पीत्वा द्विजाधमः | दिनशेषं जपेद् वक्त्रं पातकैर्मुच्यते भृशं || भिक्षां त्यक्त्वा चेदेकान्नम् प्रमादाद् अश्नुयाद् यदि | सकृदुच्चारणाद् वक्त्रन्तद्दोषात् मुच्यते भृशं || एकान्तं नित्यमश्नीयाद् त्यक्ताचारो थ गुढवान् | अहोरात्रं जपेद् वक्त्र मन्त्रदोषाद् विमुच्यते || क्षत्रियम् वाथ वैश्यं वा अकामाद् विनिहत्य च | इशानाष्ट सहस्रेण शतं हुत्वा विशुद्ध्यति || शूद्रं हत्वा प्रमादात् तु महिषोष्ट्राखरादि च | ईशानशतजप्तेन तत्पापं नयते भृशं || श्वश्रूकञ्च समुत्सृष्ट द्विजो मोहात् प्रमादतः | गायत्र्यष्टशतं जप्त्वा क्षिप्रं पापात् प्रमुच्येते || व्रतलोपो व्रतभ्रंशः क्रियालोपो भवेद् यदि | गायत्र्यष्टशतेनैव अच्छिद्रं तावृताशं पुनः || इष्टमन्त्रव्रते युक्तो यदि वद्विषयो भवेत् | सद्यस्याष्टसहस्रेण गायत्र्या वा विशुद्ध्यति || भृणगुल्मलता वृक्षं वनं च्छित्या विशेषतः | प्. १८ब्) गायत्र्याष्टशतेनैव क्षणान्निर्म्मलवाम् व्रजेत् || व्याघ्रं सिंहं मृगं श्वानं वाजिनं हस्तिनन्तथा | सूकरादींश्च हत्वा च जपेदष्टशतं क्रमात् || कृमिकीकीटपतरमादियूकामत्कुणदंशकान् | मक्षिकादींश्च हत्वा तु सकृदेव विशुध्यति || शुनादंष्टा विशुद्ध्यते गायत्र्यष्टशतेन तु | मार्जारमूषकैर्दंष्ट्रः सप्तजप्तेन शुध्यति || शृगालवृकदंष्ट्रो वा शुद्ध्यते ष्टशतेन तु | कुम्भीरमकरैर्दष्टः सकृदेव विशुद्ध्यति || अन्नादि पुष्पजां हत्वा अनार्थानि बहूत्यपि | दृष्टादृष्टानि सूक्ष्माणि स्मरणादि व शुद्ध्यति || शिवनिन्दाय वादञ्च शिवमन्त्रस्य चैव हीं | गायत्र्यष्टसहस्रेण समादाच्छुध्यते भृशं || राजानं राजपात्रं वा कुलमुच्छाद्यशेषतः | प्राणायामशते नैव सद्ये नैकेन शुद्ध्यति || शिवस्य शिवमन्त्रस्य शैवाचारास्य चैव हि | निन्दकान्वमि हत्वापि समयाग्नं विलुप्यते || अस्त्रसंरोपणात् सिद्धं लक्षमेकं कदाचनः | शिवत्र यस्य घाते तु यदि ब्रह्मसमो भवेत् || शिवविद्याङ्ग संपूर्ण आचार्यः परमेश्वरः | शिववत् पूजनीयोसौ कृत्वा निन्दां शतं जपेत् || समयी आत्म वा नन्य पुत्रकश्च विशेषतः | कृत्वा निन्दां ततस्तेषां तदर्द्ध न विशुध्यति || प्रायश्चित्तं गृहस्थानां येन यन्त्रे स्थितौ | कुटुम्वा स कृचिन्नार्चायनीनां नास्ति पातकं || हत्वा तु देशिकं मोहात् भैक्ष्य भुक् सुसमाहितः | एकाशीति पदं मन्त्रं लक्षमावर्त्यशुध्यति || संहितायोरमो मन्त्री यः करोतीह पातकं | सर्वसद् भश्मशात्क्षिप्र सन्नशक्त्या करोति सः || प्. १९अ) अप्रबुद्धस्य दातव्यं प्रायश्चित्तं यथोदितं | व्रतदिशं च पूर्वोक्तं शिवमन्त्रस्य पारगैः || तुला पुरुष सहस्रस्य चान्द्रायणश तस्य च | तप्त कृच्छाति कृच्छ्रस्य ब्रह्मकूर्चशतस्य च || सर्वतीर्थाभिषेकस्य वहुक्त तु फलस्य च | भस्म गायत्रि जप्तस्य कलां नार्हन्ति षोडशीं || रुद्रकोटि सहस्रस्य भवेज्जप्तस्य यत्फलं | तस्याङ्गायत्रि मन्त्रेण शत जप्तेन तत्समं || ओं सद्योजाताय विद्महे महादेवाय धीमहे तन्नो घोरः प्रचोदयात् || इति भस्म गायत्री || ओं तत्सहेशाय विद्महे वाग्विशुद्धाय धीमहे तन्नः शिव प्रचोदयात् || शिव गायत्री || मन्यस्त तैजसं चापि स्नासुमस्त्रेन भस्मना | कांस्यं क्षारेण वस्त्रं च चर्म्मकाषाय वारिणा || आजावुकं वै दलं च वारिणा वल्कलं तथा | मृण्मयस्य पुनः पाकादुत्क्षणाद्वारवस्य तु || तैजसं च दहेत् पात्रं प्रोक्त्य शुद्ध्यति पूर्ववत् | प्रोषितैभृणकाष्टे च क्षितिर्गोमयवारिणा || अतिशस्तादिभिः स्पृष्टः स्रात्याविप्रो विशुध्यति | पादौ प्रक्षाल्य चान्यस्य शुद्धिर्भवति नान्यथा || उच्छिष्ट लोपसंपर्कात् पूर्वोक्त विधिमाचरेत् | विण्मूत्रलेपदुष्टञ्च त्यजेत् मृयभाजनं || सत्यपूता स्मृता वाचा सस्भिरा चरिता क्रिया | मनः पूतञ्च सर्वत्र पूतमित्यभिधीयते || इति द्रव्यशुद्धिः || प्रायश्चित्तं प्रवक्ष्यामि पञ्चब्रह्म क्रमेण तु | सर्वपापविशुद्ध्यर्थं स्मरणादेव मोचनं || सद्योजातं जपेद् गोष्ठे अरण्ये पर्वतोपि वा | सरितां सङ्गमे चैव श्मशानायतनेपि वा || प्. १९ब्) पुण्यतीर्थे पयोभक्ष्यः सद्योजातं सुवन्त्रितः | शवानिदश जप्त्वा तु ब्रह्मघानी शिवाग्रतः || निरशनः सप्ताहञ्च स्थित्या तु जपसंयुतः | त्रिस्त्रायी पञ्चगव्यासी चीनवल्कल धारकः || अनेन विधिना ब्रह्म ब्रह्महत्या विशोधयेत् | गोघ्नश्च श्रुषितोभूत्वा सद्यं पंचशतं जपेत् || उपपातकिनः सद्य एष एव जप स्मृतः | कार्यस्त्रि रुषितं स्नानं पुण्यस्थानसमाश्रितः || गोवधान्मुच्यतेक्षिप्र मंत्र नास्ति विचारणात् | सर्पदंष्ट्रोपवासेन सकृदेकेय शुद्ध्यति || सुरांपीत्वा अकासेन भस्म गायत्रह्येष्टिनः | सद्योजात सहस्रस्तु जप्त्वा शुध्यविकिल्विषात् || अभक्षभक्षणेप्येकङ्कृत्वा शुध्यति किल्विषात् | असत्प्रति गृहं गृह्ये सद्यो द्वादशभिः पुनः || मुच्यते किल्विषात् क्षिप्रं स्वेयि पश्चात्य कुत्सिनः | चाण्डालस्पर्शते भाष्य प्राणायामशतं जपेत् || सद्योजातेन मन्त्रेण नात्र कार्या विचारणा | गुरोर्वाक्यं लंघयित्वा पुत्रकाचार्य एव च || सदाः पंचसतं जप्त्वा मुच्यते गुरुलंघनात् | देवा च यदि वा रात्रौ दुःस्वप्नं यदि पश्यति || स्नात्वा जपेत् ततः सद्यात् तस्यान् मुच्येत किल्विषात् | त्रिसंध्यासु जपेद् यस्तु सद्योजात शतञ्जपेत् || अहोरात्र कृतं पापं तत्क्षणाद् देव नश्यति | प्रायश्चित्त विधानन्तु सद्योजातं न कीर्त्तितम् || वामदेवस्य वक्ष्यामि क्षत्रहस्या विशुद्धये | ब्रह्मक्षेत्र वधो जप्त्वा शतान्यष्टौ शिवाग्रतः || पंचगव्यासनं कृत्वा तस्मात् पापात् प्रमुच्यते | क्षुधार्त्रो वाप्य शक्रो वा अभक्षं यदि भक्षयेत् || जपेद् वास शतात् पञ्च तस्मात् मुच्येति किल्विषात् | अगम्यागमनं हुत्वा वामदेव शतं जपेत् || प्. २०अ) ब्राह्मणीमितरां वापि योभि गच्छेत दीक्षितः | ब्रह्मणोष्टशतं जप्त्वा तस्मात् पापात् प्रमुच्यते || क्षत्रियो द्विशतं नैव वैश्यस्तु त्रिशतेनपि | शूद्रो जप्त्वा तु चत्वारि वामदेवं शिवाग्रतः || एकरात्रोषितो भुत्वा तस्मात् पापात् प्रमुच्यते | कर्मणा मनसा वाचा अमृतं यो सु वर्त्तते || वामदेव शतं जप्त्वा तस्मात् प्रच्छति किल्विषात् | कामतेरिसतोत् सर्गे जपेद् वाम शतं द्वयं || रेतो सूत्रपुरीषं वा प्रमादाद्यदि भक्षयेत् | वामदेव शतं जप्त्वा तस्मात् पापात् प्रमुच्यते || चातुर्वर्णान्तु या भिक्षा आहृत्य शुध्यते यथा | सप्ताभियन्त्रितं कृत्वा प्रोक्षयित्वा निवेदयेत् || शिवाय गुरवे नैव हविष्यन्ते विनिर्दिशेत् | चतुष्पथे श्मशाने वा स्वप्तु कामो न्यतोपि वा || दिशासु प्रकिरेद् भस्मन केनोप्यभि भूयते | गुल्यादि पापसंयुक्तो वामदेवेन शुध्यति || अघोरेण प्रवक्ष्यामि प्रायश्चित्तमतः परं | निर्माल्यं भक्ष्ययेशस्तु दीक्षितः शिवशासने || अघोराष्टशतं जप्त्वा हुत्वाग्निंभुविशुध्यति | कर्मणा मनसा वाचा कृत्वा चैव तु पातकं || सप्त वारान् जपेद् घोरं तस्मात् पापात् प्रमुच्यते | अनस्थि प्राणि संपातं हत्वा घोराष्टकं जपेत् || दक्षिणस्तु वहुं हत्वा तमेव त्रिगुणं जपेत् | स्थावरार्णा यतान् पञ्च च्छित्वा कृत्वा प्रयोजनं || शतमेकं जपेद् घोरन्तस्मान् मुच्येत किल्विषात् | स्ववृत्तिं यः परिक्ष्यन्य अनाथा योनु वर्त्तते || दीक्षितः कुरुते पापन्तस्य शुद्धिर्निबोधने | कदाचित् स्वात् स्वकर्म्मेण पतितः पुनरागते || प्. २०ब्) अघोरं शततं जप्त्वा मासमेकं शिवाग्रतः | हुत्वा युतं शिवाग्नो तु तस्मात् पापात् प्रम्युच्यते || शिवशास्त्राणि यो निन्दे दीक्षितः शिवशासने || प्राणायामैर्ज्जपेद् घोरं स कृज्जप्त्वा विशुध्यते | उच्छिष्टं भक्षयेद्यस्तु स्पृशेद् वा यस्य कस्यचित् || अघोराष्टशतं जप्त्वा तस्मात् मुच्येत किल्विषात् | अघोरं जपते यस्तु कृष्णाष्टम्यां स कृ *? शि || मुच्यते सर्वपापेभ्यः निर्म्मलो निरुध्ये भवेत् | यस्तु चतुष्पथेर्सद्येत्त्रिपथं वापि दीक्षितः || दशधा वर्त्तयेद् घोरं तस्मात् पापात् प्रमुच्यते | एकतश्च नये विदा गायत्री चापि चैकतः || गायत्र्या लभते स्वर्गमघोरे वा शिवालयं | प्रायश्चित्तमघोरेण मया ब्रह्मन् प्रचोदितं || अधुना सम्प्रवक्ष्यामि प्रायश्चित्तं वरेण तु | आचार्यो द्रव्य लोभेन दीक्षयेद् ब्राहणसुसिः || शुचिः स्नात्वा जपेद् वक्त्रं शतमष्टोत्तरं बुधः | अग्निकार्यन्ततः कृत्वा तस्मात् पापात् प्रमुच्यते || क्षत्रियस्य शते नैव वैश्या स्यार्द्ध शतेन च | शूद्रे विंशति जप्ता तु स्त्रिपश्चापि तथैव च || स्पत वारान् जपेद् वक्त्रन् दीक्षितो मांसभक्षणे | अभक्षभक्षणो त्रिंशदवाच्य वचने तथा || गुरुनिन्दापवादे तु जपेद्वक्त्रं असेशतं | ग्रज्या?पहरणे वक्त्रं जपेदनानतः शतं || अस्त्रं रजस्वला स्पृष्टं यदि भक्षेत् प्रसादतः | सप्तवारान् जपेद् वक्त्रन् तस्मात् मुच्येत किल्विषात् || एकान्तं यस्तु वै भुंक्ते भैक्षं त्यक्त्वा प्रमादतः | सप्तवारान् जपेद् वक्त्रं तस्मात् मुच्येत किल्विषात् || रुद्रकोटिस्तु ये विप्रो जपेद् रुद्रस्य सन्निधौ | सकृत् तत्पुरुषं जप्त्वा कलां नार्हन्ति षोडशीं || प्. २१अ) कृत्स्नं दिसं जपेत् मन्त्री पापन्तस्य न विद्यते | ईशाने नाथ वक्ष्यामि प्रायश्चित्त विधिं क्रमं || अथ कश्चिद् विपविप्रकोपाविष्टप्रमादतः | सकृज्जप्त्वास ईशानं ब्रह्मद्वेषी शुचिर्भवेत् || यो निन्देत शिवं मोहात् तच्छास्त्रं योसिनन्तथा | ईशानाष्टशतं जप्त्वा न स्यात् पापात् प्रमुच्यते || देव योन्यष्टके द्वेष्टा अमृतं योस्तु भाषते | ईशानं पंचविंशभ्या जयमानं विशुध्यति || यस्तु प्रव्रजितां गच्छेद् ब्राह्मणीम्वा कुलघ्नियं | ईशानाष्टशतं जप्त्वा तस्मान् मुच्येत किल्विषात् || अकामात् सूतकान्नस्वा अभोज्यं भक्षयेद् यदि | ईशान जपविंशत्या पूतो भवति तत्क्षणात् || केशकीटोपविद्वान्नन्दूषितं रावापि केनचित् | सकृज्जप्त्वा तु ईशानन्तस्मात् पापात् प्रमुच्यते || अन्यैर्वा पातकैर्युक्तो महापातकिनोपि वा | ईशानं जपमानस्तु शुचिः स्नात्वा शिवाग्रतः || मुच्यते सर्वपापभ्यो राहुताचन्द्रमा यथा | एकान्नमर्थभैक्षम्वा यस्तु भुक्ते द्विजोत्तमः || यावन्त्यस्त्राति पिण्डानि तावद् दोषैर्न्न लिप्यते | अहोरात्रोषितो भूत्वा मुच्यते त्वत्प्रपातकैः || उपपातक युक्तोपि यदि शुध्यर्थमाचरेत् | पीत्वा वै पञ्चगव्यं तु तस्मात् पापात् प्रमुच्यते || ग्रहणे चन्द्रसूर्याभ्यां विषुवे चैव नित्यशः | ईशानं जपते यस्तुन्तस्मात् मुच्येत किल्विषात् || गोघ्रश्च ब्रह्मघातीश्च सुरापो गुरुतल्पगः | एकैकस्य प्रमाख्यातं मन्त्राणासुनुपूर्वसः || रौप्यं ताम्रं च कांस्यं च क्षीरञ्च स वणादयः | ईशानं पञ्चविंशत्या जप्त्वा युच्येत किल्विषात् || प्. २१ब्) कर्म्मणा मनसा वाचा पापं कृत्वा तु दीक्षितः | सकृज्जप्त्वा तु ईशानम्मुच्यते पापसंग्रहात् || ससुनं भक्षयेत् यस्तु पासाण्डं वापि दीक्षितः | पृश्ननादीनि भक्ष्याति भौमानिकवकानि च || सकृज्जप्त्वा तु ईशानं तस्यान्मुच्येत पापकान् | पापं संशोध्य तत्सर्वमीप्सितं फलमाप्नुयात् || देवैस्तु याति गुह्यानि यात्युक्तानि मनीषिभिः | देवेषु यानि चोक्तानि धर्म्मशास्त्रेष्वनेकशः || ब्रह्मभिस्थानि सर्वा सिद्धित्यन्ते किल्विषाणि तु | एतानि यो तु वर्त्तेत समर्थ सर्वकर्म्मसु || पञ्च ब्रह्म जपेद्यस्तु दीक्षितः शिवशासने | मनस्य तिष्टते पापं तेसः सूर्योदये यथा || हिंसा सद्य विनिर्मुक्तो भक्षा चाराम्वितो यथा | कुलालस्तु तथा भोज्यौ निवान्ये अंत्यजा इह || भुक्त्वान्तमन्त्यजातन्तु कष्टसर्गि तथा यदि | भुक्त्वा घोरमहतन्तु जपेदर्द्ध स कामतः || रजकी चर्म्मजा कृष्टा यदि वामन्दिरेस्थिता | चाण्डत्यागोदयाच्छुद्धिख्य होद्यैव सहस्रिका || ताभ्यां तु भुक्त्वात्वकामाद्य कृच्छाद्घोर जपान्त्यहं | कामान्नद्द्विगुणं कार्यां सकृद्योगो द्विधर्म्मतः || ओं नमो निर्म्माल्यमथनाथाय नमः | पूर्वदष्टाष्ट पुष्पं तु निर्म्माल्य परिशोधनं || चण्डेश्वरेण कर्त्तव्यञ्चण्डब्रह्मभिरेव तु | चण्डब्रह्मभिरापूर्ययवर्द्धनीयादमेव च || मुद्राभिः पूर्वसुक्ताभिरुद्राभिश्च यथाक्रमं | सद्योजातात् समारभ्य चण्डब्रह्मणि विन्यसेत् || सद्योजातं पश्चिमायान्वामदेवसुदग्दिशि | दक्षिणायामघोरस्तु प्राचीम्वक्त्रन्निवेशयेत् || प्. २२अ) लिङ्गमूर्द्ध्वा निवेशानङ्गन्धपुष्पाद्यनु क्रमात् | ततश्चण्डेश्वरं न्यस्य पूजयित्वार्घयेत् क्रमात् || निर्माल्योपनयनं कार्यं तच्च चण्डेश्वरेण तु | ओं ह्रं शुद्धेन्दु जताय नमः || शुद्धेन्दोश्च शरीरेस्वै न्यासं कुर्वीत देशिकः | निर्म्माल्य विप्लुषोनङ्गे पतन्तः शुद्धि कारणात् || ओं हूं नेत्र चण्डाय हूं फट् || नेत्र चण्डं च विन्यासा चक्षर्षी विविचक्षणः | अष्टपुष्पी प्रदानेन निर्माल्यस्य च गाहते || अकामतोथवा कामाद्दोषस्तत्र न विद्यते | चण्डेश ब्रह्मभिस्तोय मूर्द्धन्यायु प्रकल्पितं || वर्द्धनी चार्थ पात्रंन्तु लिङ्ग एव समाचरेत् | विसर्जितस्य देवस्य गन्धपुष्प निवेदनं || निर्माल्यं तु विजानीयात् त्यक्त्वा वस्त्र विभूषणं | आवाहन विसर्ग्गान्तस्य त्र्यहं कर्मकर्मिन्णां || निर्माल्यं तद्विजानीयात् यदा देवो विसर्ज्जितः | निर्म्माल्यं सततं नोष्टं लिङ्गमूर्द्धनि संस्कृतं || स्थापितस्य स्वयं भोर्वा नैव तात्कालिकस्य तु | देवं विसर्जयेन्नैव पूजितं लिङ्गमूर्द्धनि || तावद्यावन्त्र पूजायां कालोन्यः समुपस्थितः | लिङ्गे चापिण्डिकायाम्वा यावन्तिष्ठेति वार्चनं || निर्माल्यन्नैव जानीयान्निर्माल्यं पिण्डिका च्युतं | न लंघयेच्च निर्माल्यं स्पृष्ट्वा प्रक्षाल्य यत्करो || यत्र यच्च समुद्दिष्टन्तच्छौ चन्तत्र सिद्धिदं | प्रत्यहं विहितं कुर्मकुण्डस्योल्लेखनादिकः || कुण्डे तु जनयेदग्निन्त्रिष नैमित्त कर्मणि | चण्ड भस्म भवेत् पश्चाद् यदा देवे विसर्जितः || प्. २२ब्) कुर्याज्जागरणं चास्य यावद् वै गुरुमण्डलं | जनितः संस्कृतो वह्नि खोर्द्धं च विसर्जनं || अतः परं प्रवक्ष्यामि प्रायश्चित्त विधिक्रमं | यं कृत्वा * * * *? तु महापाप क्षयो भवेत् || देवचण्ड गुरोर्द्रव्यं कामतो भक्तितं तदा | त्रिलक्षं तु जपेद् घोरं लक्षमज्ञो जपेत् तथा || सप्तपञ्च शतान्वह्नौ हुत्वा चैव विशुध्यति | तदर्द्धं न तु संयोगी अर्द्धार्द्धेन तु सङ्गरी || अयुतं प्रतिशंकरे जप्त्वो योष्मनिशाद्वयं | तेषामपि हि येप्यन्ये कलुषिताश्च चेस्यसि || शुद्धिस्तेषामघोरेण भवेज्जपसहस्रिका | व्यापादितो यदा लिङ्गी शैवो चान्याशुमी तथा || प्रायश्चित्तं चरेत् मन्त्री गुरुक्तं शिवभाषितं | समस्तं बहुभिर्दन्तमाचार्यैर्गुरुणा विना || कर्त्तव्यं शास्त्रसंसिद्धं महापातक शुद्धये | उपपातकसामान्यम्बुद्धति क्रममादिशेत् || कर्त्तव्यमात्मनान्यैवानोशिकैर्न्नेतरेर्जनैः | दशलक्षं जपेत् पूर्वं द्विसंक्षंङ्गड्डुकान् ददेत् || प्रातस्नानं शिवे पूजा यावज्जाप्यं समाप्यते | समाप्ते त्रिदिनं नक्तेन्तिराहारस्तथा त्रयं || अचाचित त्रयं कृत्वा शुद्धिस्तस्य प्रकीर्त्तिता | अकामात् पादहीनं तु विहीनं गड्डुकैश्चरेत् || चरेत्वा दंसका सोपि तत्संयोगी विशुध्यति | पादार्द्धे नत्यकामस्य पादात् पादंदि शङ्करे || भृतीये वा चतुर्थे वा पादहीनं चरेत् क्रमात् | पादोस्यमवप्तस्य ततः पादं द्विजे हते || तत्यन्तुहते वैद्धि पादोरं क्षपणेनेहते | वर्साशुद्धिः सकामो नाम कामेर्द्धं विधीयते || एवं जपः प्रकर्त्तव्यो गड्डुकानां क्रमस्तथा | व्रतागमेषु सर्वेषु महापातक शुद्धयेत् || समयिनाञ्च गाङ्कत्यां हत्वा लक्षञ्जपेन्नरः | प्. २३अ) उपोषारं जनीपञ्च लड्डूकानां शतयुयं || दत्वाशुद्धि मवाप्नोति पादोनं वाप्यकामतः | यो निन्देत गुरुं शास्त्र स युतस्य जपाच्छुचिः || सहस्रं यदि कन्यानाङ्गर्वा च गुरुमातरं | निन्दा शुद्धिरघोरेण जपेन तु भवेन्मुने || उपेक्षितं गुरोर्द्रव्यं दैव चण्डगणस्य च | न्यासं कृत्वा तु वा तस्य कामतस्तस्करादिभिः || पंचविंशसहस्राणि अघोरेण जपेच्छुचिः | व्रतिने च हते क्रोधाद्यदि मृत्युर्न जायते || रक्तस्य दर्शनं दृष्ट्वा लक्षत्रयञ्जपेद्बुधः | रक्तं न दृश्यते वाथ तदा लक्षेण शुध्यति || किन्तु दद्यात् सहस्रैकङ्गड्डुकानां शिवस्य तु | अकामात् कामतोपिप्येवं शुद्धिर्धे नान्यथा भवेत् || गुरुं लिङ्गं तथा शास्त्रं प्रतिसास्वायय कामतः | पादेन यदि संस्पृष्टा अयुतं च जपेद् द्वयं || कामतः षट्गुणं कार्यङ्गड्डूकानां शतत्रयं | तदा निर्द्दोषतां मन्त्री नान्यथा शुद्धिमर्हति || गुरुशययांशनेयाने पादुकोपानहो तथा | अकामाद्रोहणङ्कृत्वा सहस्रा वर्त्तते शुचिः || ज्ञात्वा यदा रुहेत् प्राज्ञस्तदा वै षड्गुणं चरेत् | अघोरेण चरेन्मन्त्री पाप शुद्धिस्तदा भवेत् || आज्ञा लोपं गुरो कृत्वा शिवे चण्डेश्वरोपि वा | लक्षस्वै जपतः शुद्धिर्गड्डुकानां शवाष्टभिः || अकामादयुतं जाप्यं गड्डुकानां शतं भवेत् | आदेशं गुरुर्विलोप्य शतसाहस्रिकं जपेत् || प्रायश्चित्ते कृते शुद्धिरकामात्सहस्रं जपेत् | नित्यक्रिया विलोपे तु जपे तु जपे होमार्चनादिके || जपेत् पञ्चशतं घोरं कामतः सिद्धिरिष्यते | भूपिण्डमेकसन्तानं धाराधूपश्च मक्षिका || लिङ्गार्चनेन दुष्यन्ति विवश्चाप्य कामतः | प्. २३ब्) गुरुपुस्तक वह्नीनां यक्षनागेन्द्र योगिनां || गणमात्र्यम्बिकादीनां न निर्म्माल्यं शिवे यथा | गुरुर्व्याख्य शिवाख्यं च प्रदक्षिण विसर्जिते || चल लिङ्गे चत्वरे च चित्रे रत्ने च हेमजे | न निर्माल्यं दशस्थानेष्वन्यथा तु निरोध कृत || देवस्वं देवद्रव्यं च नैवेद्यञ्च निवेदयं | चण्ड द्रव्यं च निर्माल्यं षड्विधं परिकीर्त्तितं || देशविषयग्रामादि दाशीधान्य चतुष्पदं | देवस्वं तद्विजानीयादेवद्रव्यमतः शृणु || वस्त्रालंकारधात् भूतिमणि रत्नादि यानि च | देवद्रव्यं समुद्दिष्टं नैवेद्यं साम्प्रतं शृणुः || भक्षभोज्यान्नपानादि देवार्थे यत् प्रकल्पितं | नैवेद्यं तद्विजानीयात् त्रिवेदस्पिण्डिकोपरि || अपरेहनिसंहृत्य पिण्डिकासोन सङ्गतं | भक्षादि भक्ष्य पानादि देवाय यत्प्रकल्पितं || चण्डं द्रव्यं तु तज्ञेयं निर्माल्यं यत्करोन्वितं | न तजिघ्रं न जंघेन न दद्यान्न स विक्रयेत् || दत्वा क्रव्यादतां याति भुक्त्वा मातङ्गतां व्रजेत् | लंघनात् यतते सिद्धिं जिघ्रते च वृको भवेत् || स्पर्शनात् तु नरः स्त्रीत्वञ्जायते नात्रसंशयः | अन्यथा दहते चैव चाण्डालो जायते नरः || विक्रीणाति यदा पापी लुभकः स वरो भवेत् | अष्टधा यो न जानाति निर्माल्यस्य विधिक्रमं || देशिकः साधकः पुत्रः समयी तु विरुद्ध्यते | इति प्रतिष्ठा पारमेश्वरे महातन्त्रे प्रायश्चित्तपटलं || १५ || देवीमते प्रायश्चित्तं लिख्यते || विशेषं संप्रवक्ष्यामि शृणुष्वेकाग्रमानसा | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि || पूजाध्यानं जपो होमो द्विगुणं वसुपा चरेत् | पूर्णमास्यां तु सक्रान्तौ ग्रहणे चन्द्रसूर्ययोः || प्. २४अ) पर्वोत्सवेषु सर्वेषु पूजापञ्चाधिकं भवेत् | निर्यात सञ्चिपाते च पूर्वोक्तं विधिमा चरेत् || प्रदद्याद् गडुकानाञ्च जपाद्यञ्च विशेषतः | स्वप्ने शुभा शुभे दृष्टे पूजा होम जपादिकं || प्रत्यक्षा वेशने देव्याः क्षत्रसाल प्रदर्शने | उल्कापाते सृते वीरे जपपूजाधिकं भवेत् || योगश्चैव प्रकर्त्तव्यो लिङ्गस्यैवपूरणं | पुष्पैर्वासु मनोज्ञैश्च पद्मैर्नीलोत्पलादिकैः || फलैर्वा विविधैर्द्दिव्यैर्देविभक्तैः समुज्वलैः | लिङ्गपूरणकं कृत्वा पश्चाद्वीरैश्च भोजनं || अन्यथा न भवेत् मोक्षः सिद्धिश्चैव सुदूरतः | अभावे वा कृते वाथ आपदाद्यैर्न क्रियार्थिभिः || द्विगुणस्तु जपः कार्यः सन्ध्यालोपे तु देशिकः | प्रमादात् कथितं भद्रे कामतस्तु चतुर्गुणं || प्रमादाद्विक विच्छेदे कर्त्तव्यं च यतुर्पुनं | प्रमादेद्धीम विच्छेदे हुत्वा तु द्विशतं जपेत् || कामाच्चतुर्गुणं हुत्वा जपञ्चैव चतुर्गुणं | प्रमादा जपभङ्गे तु तत्पूर्वं तत्समं जपेत् || प्रमादाद्ध्यान विच्छेदे द्विगुणं ध्यानमाश्रयेत् | प्रमादाच्चसिते लिङ्गे स्थिरेवा चलसंज्ञके || पीठे वा पिण्डिकायाग्राद्विद्यालक्ष्यं जपेद्बुधः | चललिङ्गेग्नि दश्वे च तस्करेण हृतेथ वा || प्रायश्चित्तं स्मृतं लक्षं तत्र विद्याजपः | हस्ता तु पतिते लिङ्गे जले वहति वा स्थिरे || तत्रापि लक्षमावर्त्य पुनः संस्कारमर्हति | जपतस्त्र्यक्षसूत्रस्य पतनादयुतं जपेत् || निद्राभि भूतस्तु यदाति यदा नियतेत् साधके भुवि | तदार्द्ध लक्षं जप्तव्यं त्रयतेदयुतं जपेत् || देवं गुरुं तथा शास्त्रं प्रतिमां वाप्य कामतः | पादेन यद्दिसंस्पृष्ट्वा अयुतञ्च जपेद् द्वयं || प्. २४ब्) कामतः षड्गुणं कार्यं गडुकानां शतत्रयं | विसर्जितस्य देवस्य गन्धपुष्पनिवेदनं || निर्माल्यं तु विजानीयाद् वर्ज्यं वस्त्र विभूषणं | आवाहनविसर्गान्तं प्रत्यहं कर्मकर्मिणां || निर्माल्यं तद्विजानीयाद्यदा देवो विसर्जितः | निर्माल्यं सततं नेष्टं लिङ्गमूर्द्धनि संस्थितं || स्थापितस्य स्वयंभोर्वा नैव तत्कालिकस्य तु | देवं विसर्जये नैव पूजितं लिङ्गमूर्द्धनि || तावद् यावन्न पूजायाः कायोन्यः समुपस्थितः | लिङ्गे वा पिण्डिकायास्वा यावत् तिष्टति चार्चनं || निम्माज्यं नैव जानीयान्निर्म्माल्यं पिण्डिका च्युतं | गुरु वा लघु वा कर्म्म ज्ञात्वा चैव विभागतः || प्रायश्चित्तन्तु दातव्यं शास्त्रोक्तं गुरुभाषितं | गुरुवाक्यं प्रमादा स्वैकिन्तु तद्भाषितं मया || यद्ददाति गुरुः शिष्ये तेन शुद्धिर्यथा शिवे | लक्षोध्यायी गुरुः प्रोक्तेः सर्वत्रच्छिन्नशाज्ञयः || रागद्वेष विनिर्मुक्तो मात्सर्येर्ष्या मृतादिभिः | सोपि दद्याद्दलं ज्ञात्वा काल पात्रवयो वसु || प्रायश्चित विशुद्ध्यं *? परेषां गुरुकर्मणि | प्राणपीडा महायामो यथा वै न भवेन् नृणां || दातव्यं कर्म्मसारेण संक्षिप्तं सुविभावितं | अन्यैरपि हि कर्तव्यं भगिनी भ्राभृशिशु प्रियैः || उत्पन्ने प्राणसन्देहे संपाद्यञ्च ततो परैः | अथ वृद्धा तु रावालाव्याध्याधि परिपी*?ताः || तेषां संक्षिप्तमेवोक्तं स्त्रीणाञ्चैव तथा भवेत् | महापातक शुद्ध्यर्थं गुरुर्दद्यात् समं यथा || उपपातक सामान्यं बुद्धातिक्र समाचरेत् | एवमन्यानि पापानि उक्तानुक्तानि यानि तु || जपोपवास भोगेनाऽशुधोन्ये शुद्धिभाग् भवेत् | दीक्षितस्याभिषिक्तस्य शिव युक्तस्य निक्षितं || प्. २५अ) यदा वै चलते भक्तिरन्यर्तुर्वत्तरं वरजेत् | मैत्याभिषिक्तमात्रस्य नरा?पते पूर्वसञ्चितं || आक्रोषितस्ताद्वितो वा यदा बान्धव* * *? गच्छति | तदा तुष्कता दीक्षा इत्येवं वैश्वरो व्रजेत् || गुरुणा तु यथा प्रोक्तां प्रायश्चित्तं विपश्चितै | तत्तथैव तु कर्त्तव्यस्विशुद्ध्ये नान्तरात्मना || आचार्येण यदा दिष्टं प्रायश्चित्तं भवेत् तदा | अन्यथा नरकं यांति नान्यद्वत्तम्भवेत् क्वचित् || शिष्यान् परीक्ष्य यत्नेन दीक्षयेत् प्रतिबोधयत् | शिष्य दोषैः त्व दोषैश्च बाध्यते दीक्षितो गुरुः || प्रेषणाद्वाथ संसर्गाद् यति स्मादुर्ययः *?ण्डः | दुष्टभावस्परित्यज्य तदा तत्प्रति बोधयेत् || बोधितोपि प्रयत्नेन यद्यहो ताव बुध्यते | निर्विवेकन्तु तं दृष्ट्वा यत्ना तु परिवर्जयेत् || येऽव्यभिचारिण शिष्यान् दीक्षये तवेच्छया गुरुः | आचार्य सहशिष्यैस्तु पतते नरके ध्रुवं || शिष्यः शिष्य गुणोपेत् आचार्यस्तु गुणोकितः | दीक्षितास्तु न मुच्यन्ते दीक्षको नरकं व्रजेत् | आचार्यस्वगुणोपेतो दीक्षिता व्यभिचारिणः | दीक्षिता नरकं यान्ति आचार्यः शिवतां व्रजेत् || सुपरीक्षासु गोपेतांच्छिष्यान्यो दीक्षयेद् गुरुः | स गुरुः सह शिष्यैस्तु प्रयाति परमं पदं || परिक्षा त्रिविधा प्रोक्ता शिष्यानां शिवशासने | कालेन सन्नियोगेन स्वभावे नासमेव च || गुरुशययासनं यानं पादुको पानहौ तथा | अकामा द्रोहणं कृत्वा सहस्रा वर्त्तने शुचिः || ज्ञात्वा यदा रुहेत् प्राज्ञस्तदा वै षड्गुणं जपेत् | अघोरेण चरेन्मन्त्री पापशुद्धिस्तदा भवेत् || कुमारीङ्गान्तथा वह्निं यदिनं चापि सुन्दरि | यदि न संस्पृशेन् मोहात् सोपि पञ्चशेते शुचिः || प्. २५ब्) दीक्षितानान्तिरस्कारं दत्वा क्रोधवशं गतः | जपेत् पञ्चशतान् मन्त्री अघोरेण विशुध्यति || आसनं शयनं यानं प्रमादाङ्गुरु सन्निधौ | शतेनारुह्य जप्तेन भवेच्छुद्धिरकामतः || कामतः षड्गुणं जप्त्वा अघोरेण विशुध्यति | पैशून्ये द्वेववादेवा विरुद्धं जल्पितं यदि || ज्येष्ठादिभिः महान्यैर्वा प्रायश्चित्तं शतं जपेत् | त्रिगुणं जप्त्वा तु वर्गाणामेवं शुद्धिरुदाहृता || गुरुणापि समंजल्पं कृत्वारोप पदे स्थितः | जप्त्वा चाष्ट सहस्रन्तु अघोरस्य भवेच्छुचिः || तत् पुनस्तु विशेषेण वन्दयित्वाक्षमापयेत् | न नमन्ति च ये मोहात् क्रमायातात्महतरात् || वेसामप्य युतात् शुद्धिरासुयाता भवेत् प्रियेत् | गडुकानाम्प्रदाने तु ह्रासयेच्छतगुणज्जपेत् || होमे दशगुणाहानिर्ज्ञात्वैवं संप्रयोजपेत् | देवस्य गड्डुकाद्यास्तु पादेन स्पृशते यदि || अकामास्तु शतं जाप्यं कामतश्चा युतं जपेत् | पुस्तके पतिते हस्तादघोरस्या युतं जपेत् || तत्सूत्रं भूगतं ग्राह्यं भूमौ पुस्तक वाचने | आशने शयनस्थायां पडले वा गृहस्य च || विद्या पञ्चशतं जाप्यं कौमतस्तद्द्विधा भवेत् | शीर्णागमं स्वसिद्धान्तं भ्रष्टं शीर्णं घृतप्लुतं || अग्निकुण्डं तु होतव्यं हुत्वा विद्याशतं जपेत् | निर्विमोहं द्विजं हत्वा कामचारेण मन्त्रिणा || विद्यायापारणी भद्रे जाप्या शत सहस्रिका | ओं नमो भगवते रुद्राय शूलपान यहन २ दह २ पच २ नाशय २ सर्वपापं भक्ष २ ह्रीं ह्रूं फट् स्वाहा || समय लोपने ख्याता विद्याया वज्रनाशिनी | प्. २६) णोत् च्लेअर् प्. २७अ) त्यक्त्वा केशे तथा लक्षे भस्ममृज्जलकेपि वा | स्थाना जीर्णे भ्रमाच्छुद्धि मात्रामादाय नैकशः || नाभेरुर्द्धमतं स्नानमुपघातेन कूर्परे | न निंद्याच्छिवमाचार्यं न शास्त्रं दीक्षितान्न च || गांश्च वेदांस्तथाङ्गानि देवहृक्तानि देहिनः | यावज्जीवं सदा पूज्ये स्वगुरो काष्ठ पादुके || समक्षम्वा परोक्षम्वा पीठस्थे शिववद्गृहे | कथञ्चित् पतिते लेख्ये भूमौ युक्ते तथासने || पतिते च तथा सूत्रे पटलस्थे शिवम्व्रजेत् | जलाग्नि पतने वापि संत्यस्ता सरणे तथा || न मृताहीन सत्वा ये तेषां शुद्धिं वदाम्यहं | लक्षार्द्धं गडुकानां तु पंचलक्षाणि वै जपेत् || तावत्यानार्चतं तस्य यावज्जाप्यं समाप्यते | कामतस्तु विशुध्येत संन्यासे यौ जलेपि वा || पतनस्य न दोषोस्ति प्राप्त भारोहणं विना | मार्गन्त्रिवर्त्तनाहीना असन्यस्तेत्वया गते || महापथे वाप्यवस्यात् भैरवेपि समाचरेत् | तन्द्रार्थं चैव मन्द्राणां शावर्ण लक्षणन्न च || पशोर्द्दिक्षां न कुर्वीत रजः पातं न दर्शयेत् | त्रिकालमेककालं वा स्वस्थात्मा शिवमार्चयेत् || ध्यायेज्जपेद्गुनेद्वह्निं शिवात् पूर्वं न खादयेत् | कांश्यदत्तन्तु नाश्नीयात् भक्तम्यानञ्च वर्जयेत् || अक्षालितं कटिवस्त्रन्धारयेन्न कदाचनः | अष्टम्याञ्च चतुर्द्दश्यां पञ्चदश्याञ्च पक्षयोः || पूजाद्यमधिकं कुर्याद यनेषु च पर्वसु | तैलं मांसंस्त्रियं क्षौरं भ्यजेत् पद्यञ्च सद्ययः || चरुभुस्वर्त्तयेत्तासु नक्ते नैकासनेन वा | रोगार्त सध्वखिन्नञ्च भीतं व्रत सुविज्वलं || पालयेत् समयतस्तु शैवमन्यं च मानवः | प्. २७ब्) अत्रम्पुष्पवती स्पष्टं गर्भकर्मणि संस्कृतं || निष्क्रामन्यञ्चतुर्थ्यञ्च न खादेन्नाम कर्मणि | वारामादक कीर्त्तीनां तथैव करुतल्वनां || कर्णवेधे तथा वूद्धे प्रासनेत्रञ्च वर्ज्जयेत् | पुष्पोत्सवेन भोक्तव्यं सूतके मृतके तथा || इति हंसपारमेश्वरे महातन्त्रे प्रायश्चित्त प्रकरणं || पंचाशतिके हंस पारमेश्वरे महातन्त्रे प्रायश्चित्तं लिख्यते || सन्मार्गा ना द्विजातीनां भोज्य मन्त्रं प्रकीर्त्तितं | शूद्रस्य सद्ययस्यैवमभोज्यं स्याद्विजोत्तमः || ब्रह्मचारी गृही चैव भोज्या वेतौ प्रकीर्त्तितौ | शैवाचार्यौ च तायेव परानुग्रहकारकौ || ब्रह्मचर्य परित्यागाद भोज्यः शिव नैष्ठिकः | नित्यं सर्वगुणोपेतो न भोज्यः परलिङ्गिनः || शैवास्वायंभुवाये च स्वाचारस्था न दीक्षिताः | तेषामपि न भोक्तव्यमित्याह परमेश्वर || इति पंचशतिके पारमेश्वरे प्रायश्चित्तमिदं || २० || तिलकपारमेश्वरेण यश्चितं लिख्यते | स्वेष्ट लिङ्गे हृते नष्टे दग्धैष्टैव प्रमाणवतः || प्रायश्चित्तं भवेल्लक्षं त्रञ्चस्य रोहनं पुनः | प्रमादात्पतितं भूमौ पशुत्युष्ट मथापि वा || दशता हस्तिकं माप्यं कुर्यात्वं * * * * * ? | हस्तात्प्रच्यवितं सिद्धं सहस्रैः पंचभिः शुचि || द्विहस्तात्तु यदा लिङ्गं पतितस्तु प्रमादतः | तदा लक्षेण शुद्धिः स्यात् पुनः संस्कारमौलिकं || परमा प्राच्युतं लिङ्गं यदाधितं प्रसादतः | प्रायश्चित्तं मतस्यान्ति शलाका पतितं यतः || प्. २८अ) स्थावरं जङ्गमं चैव लिङ्गन्तु द्विविधं स्मृतं | कामतो कामतो वापि धातितं स्फाटितं यदा || प्रायश्चित्तं न तस्यास्ति इत्याह भगवान् च्छिवः | लिङ्गोत्पातं महाघोरमधिक्षेपं तपश्विनां || लक्षे सा सिद्धिजा श्रेष्ट ब्रह्मा केश्वयोरपि | शलाका पतितस्यैव प्रायश्चित्तं निगद्यते || शलाका पतितं दृष्ट्वा देशं त्याज्य सुदेशिकं | दुर्भिक्षं व्याधयस्तस्मिन्नीतयश्च निरन्तरं || तेदेशा नैव वृध्यन्ते न च दीर्घायुषो नराः | सप्त वैद्या धरे तन्त्रे निलकेतुस्तथैव च || शलाका पतिते विप्र जायते नात्रसंशयः | नातः परतरङ्किचिद्धर्म्मार्थ काम मोक्षदं || दृश्यते नैव भूलोके एवं मे निश्चयं स्थितः | अपवादा गुरोर्वाचः शुद्धिरेकानु यस्य तु || परेभ्यो दुःखमुत्पाद्य वाङ्मनः काय कर्म्मभिः | प्रमोदतः परिज्ञाय शुद्धिः शक्ति जपान्तदा || अकामाद्ब्राह्मणं हत्वा गत्वा गोष्ठे जपेज्जपं | अकामाच्च सुरां पीत्वा जपेद् वामं शिवालये || उपपातकिना सेय सर्वेषाञ्च विधि स्मृतः | गोघ्नस्त्रीरूपितो भूत्वा सद्यं पंच शतं जपेत् || स्नानं च पंचगव्याशी पुण्यस्थानसमाश्रितः | गोवधान्मुच्यते क्षिप्रमत्र नास्ति विचारणा || दिवा वा यदि वा रात्रौ दुःस्वप्नं यदि पश्यति | स्नात्वा जपेत् ततः सद्यस्तस्मान् मुच्येत किल्विषात् || पितुर्मातु श्वश्रुश्चापि पितृव्यस्य वधस्तथा | मातुलस्य वधश्चैव सामान्यं ब्रह्म हत्यया || क्षत्रियादि त्रयं हत्वा पादन्यूनोज्जपोत् भवेत् | बुधं कृत्वा त्यजानान्तु कृमि पक्षि मृगेषु च || प्. २८ब्) तत्र न्यूनं शताद्या वज्जपं युज्याद् दशावधि | अग्निदं गरंदं चैव तथा द्रव्य प्रहारकं || सस्त्रपाणिं रणे विप्र हत्वानो पातकं भवेत् | रेतो सूत्र पुरीषाणांश्च पचान्त्रस्य च भक्षणं || तर्दभसश्च तत्पानं सुरापान समोगणः | न्यून न्यूनाविधिर्द्योज्यो निषिलास्वन्त्यजादिषु || अभक्त्वा चान्नपानाद्वा विधिस्तत्राधिकः पर | इति तिलकपारमेश्वरे प्रायश्चित्तप्रकरणं || २१ || मतङ्गपारमेश्वरे महातन्त्रे प्रायश्चित्तं लिख्यते | श्वमार्ज्जारखरादीनाम्विष्णे? पात्स्नानमारेत् || नाभेरधश्च संयोगात् सृत्भिः शुध्यति सप्तभिः | उत्तमाङ्गो यथा लिप्तः स्नात्वा विद्याङ्ग पञ्चकं || जप्तव्यं शतमेकंन्तु द्विगुणं मन्त्रवारिणा | अदीक्षितेन संस्पृष्टः स्नानमाग्नेयमाचरेत् || बाह्य कर्णस्य संस्पर्शाद्वारुणं स्नानमाचरेत् | रेतोत्सर्गे कृते स्नात्वा जप्तव्यं ब्रह्मपञ्चकं || निर्माल्यं शङ्करे कामात् संपूज्य चण्डनायकं | जिस्णा तदुत्तरं कार्यं जपः शाङ्गस्य वै शतं || अकामतोपि संपात्तात् केवलस्य शतं जपेत् | यदत्त केवलं भुक्त्वा प्रमादान् मुनि सत्तमः || मृत्पात्रमग्निना दध्वं शंकतः शुद्धि मेव हि | तत्क्षणादारकं पात्रं लोहं क्षाल्याश्म ताडनः || क्षारोदकाद्वस्त्रशुद्भिः स लेपानाम लेपतः | अम्रेन ताम्र पात्रस्य कांश्य पात्रस्य भस्मना || वारिणा हेमरौप्यादेर्घर्षणात् | स्निग्धानां रुक्षणाच्छुद्धिः पात्राणाम् परिकीर्त्तिता || विण्मुत्र सद्यनिर्माल्य ऋतु मत्स्त्री विजातिभिः | मृत्पात्राणि समस्तानि सन्त्याज्यानि तु सङ्करात् || प्. २९अ) समयानां प्रमादातु शक्तिजापः प्रशस्यते | शतमुक्तपरानिष्टावाग् दोषाद् द्विगुणं भवेत् || अभक्ष भक्षणे साङ्गं देवं जप्त्वा विशुद्ध्यति | शतमेकं सहस्रं वा लक्षं वा सुविचार्य तु || अगम्यागमने चैव विधिरेवः प्रकीर्त्तितः | न्यायोपार्जित सद्वित्तं सत्*?याज्यं विजानता || स्थितेर्थसुपधितं वस्तु न लोभे नाधिकं क्वचित् | वस्त्र शर्याशनादीनां गायत्र्या शतमभ्यसेत् || देवाग्नि गुरुकार्येषु गृह्नीतंत्रन्निवेदनात् | शुध्यतो न्यायतो नित्यमन्यायान्मुनिपुंगवः || म्लानेभ्यो व्याधितोभ्यो वा यतिभ्यः किञ्चिदौषधं | सर्वेभ्यः सर्वदाम्राज्ञ्यंन्नदोषोस्त्यत्र शासने || खेरोष्ट्र काममार्जारश्च शृगालादिभिश्चयेत् | संस्पृष्टं लीढमाघ्रातं ज्ञात्वा वस्तु वसावलं || प्रोक्षणात् क्षालनाद् दोर्षात्यागोद्वा शुद्धि मे वहि | सुतप्तस्य शुतस्याथ शुद्धि राज्यस्य कीर्त्तिता || पुनः पाकेन संशुद्धिर्लवणस्य महाम्भसा | गुडस्यापि विक्लिष्टस्य प्रोक्षणाद् देव केवलात् || मधुरः पाकतः शुद्धिस्तथैवेक्षुरसस्य च | फलानां क्षालनाच्छुद्धिर्दध्नश्चैव निरीक्षणात् || कथितं शुद्ध्यते क्षीरं शेषः स्यात् पाकजं हितं | शुद्ध्यते प्रोक्षणात् क्षीरं पर्यग्नि करणादपि || अपवादाद्गुरोर्वाचः शुद्धिरब्दोन्नियम्य च | परेभ्यो दुःस्वमुत्पाद्य वाङ्मनः कायकर्मभिः || प्रमोदे नः परिज्ञाय शुद्धिः शक्ति जपोन्तदा | शताच्छत द्वयाद् वाथ सहस्राच्चक्रमोदिताः || गुरोर्न्निवेद्य कर्त्तव्यं गुरवे रोचते यदा | समुचितमपि शेषात् भावितत्रे विधानं गुरुलघु विनियोगात् साधकानां त्रिसंख्यं || प्. २९ब्) कथितमिह समग्रं सांप्रतं वर्त्तनार्थं शिववदन सुपुत्वं कथ्यते ने यथावत् | इति मतङ्गपारमेश्वरे महातन्त्रे प्रायश्चित्तप्रकरणं || २२ || वाराके प्रायश्चित्तं लिख्यते || भवेदलुप्त नियमो लोपे चोपवसेद् दिनं | बहुदैवसिके भ्रंशे त्रिरात्रश्च जपेत् मनुं || प्रमादात् सूतकान्तन्तु ज्ञात्वा च भक्ष्यभोजने | ईशान जपविंशत्या भूतो भवति तत्क्षणात् || केशकीटोपविद्धन्तु दूषितं वापि केनचित् | सकृज्जप्त्वा तु ईशानंन्तस्मात्पापात् प्रमुच्यते || एकात्रमथ भैक्ष्वम्वायस्तु भुंक्ते द्विजोत्तमे | यावन्तोश्नाति तत्पिण्डास्ता यद्दोषैर्न्न लिप्यते || लसुनं भक्ष्येद् यस्तु पलांण्डुं वापि दीक्षितः | भृजन्मादीनि भक्ष्याणि भौमानिकवकानि च || सकृज्जप्त्वानु ईशानंस्तस्यान्मुच्येन पातकात् | हिंसाचार विनिर्मुक्तो भक्ष्याचारान्वितो यदा || कुलालश्च तदा भोज्यां नैवान्यार्वात्व जातयः | भोज्यमन्त्रमन्त्र्यजाते कष्टमार्गे तथा यदि || भुक्त्वा घोरसहस्रन्तु जपेदर्द्धंनुकामतः | भिक्षाभ्यक्त्वापदैकान्नन्नयोगान्मुच्यते भृशं || एकान्नं त्रिन्यमश्नीयाद्व्यक्ताचारोथ गुढवान् | अहोरात्रं जपेद् वक्त्र मन्त्रदोषाद् विमुच्यते || पात्रस्य तैजसस्यास्मि स्ताम्रमस्नेन भस्मना | कांस्यं क्षारेण वस्त्रञ्च चर्म्मकाषाय वारिणा || मृन्मयस्य पुनः पाकात् तत्क्षणाद् दारवस्य च | सूत्रादि दुष्टलेपञ्च त्यजेत् मृन्मय भाजनं || तैजसं शुद्ध्यते चाग्नौ मृदागोमय वारिणा | सत्ययुताः स्मृता वाचः सत्भिरा चरितोः क्रिया || प्. ३०अ) मनः पूगञ्च सर्वत्र पूतमित्यभिधीयते | शुनादष्टो यदा मन्त्री आचार्य पुत्रकोपि वा || सप्तवाराज्जपेत् सद्यं स्नात्वा चैव विशुद्ध्यति | उपवासेन चैकेन सर्पदष्टो विशुध्यति || अज्ञानार्ब्रह्मणं हत्वा कर्मतो वा महामुने | सद्योजातं जप्येत्तत्र ततः पापात्प्रमुच्यते || सङ्गमे वाम वांगोष्ठे एकाहञ्च व्रतं चरेत् | सद्योजातं जपेत् तत्र ब्रह्महत्यां व्यपोहति || हत्वापि सुबहून्मन्त्री चरेड्डात्रिकम्बुजः | निरपक्षो जपाभिज्ञो दहेत् पापं विशेषतः || तद्दिनानि जपं कुर्याद् व्रतशेषं विशुद्ध्यति | अभक्षभक्षणं कृत्वा कामाकामे द्विजोत्तमः || दिन शेषं जपेद् वक्त्रं पातकाद्विप्रमुच्यते | सुरापो दशलक्षाणि पञ्चगव्याशनो निशि || शिवपूजारतो नित्यं जपेदात्म विशुद्धये | सुवर्णस्तेय गोधान्यं हत्वा च प्रवरांस्त्रियं || वलादकारणान्मन्त्री मित्रद्रोहे कृते तथा | जानुमात्रोदके विश्वन्निरात्रोय विशेन्नरः || वामदेवं जपे तत्रस्तस्मात् पापात् प्रमुच्यते | ग्रन्था पहरणे वक्त्रं जपेद ज्ञानतः शतं || अगम्या गमनं कृत्वा वामदेवशतं जपेत् | ब्राह्मणोष्टशतं जप्त्वा तस्मात् पापात् प्रमुच्यते || क्षेत्रियोद्धि शते नैव वैश्यस्तु त्रिशते न तु | शूद्रो जप्त्वा तु चत्वारि वामदेव शिवाग्रतः || एकरात्रोषितो भूत्वा तस्मात् पापात् प्रमुच्यते | यस्तु प्रव्रजिताद् गच्छेद् ब्राह्मणीन्तु कुलस्त्रियं || ईश्वानाष्ट शतं जप्त्वा दोषान्मुच्येत दीक्षितः | कदाच्चि च प्रमादेन वृषलीसङ्गमां चरेत् || ईशानस्य शतं जप्त्वा तस्मात् मुच्येत पातकात् | प्. ३०ब्) इति पाराके प्रायश्चित्तपटलः || २३ || अथ विद्या पुराणो प्रायश्चित्तं लिख्यते | अज्ञानाद् वा चरेद् वापि समयादि विलंघनं | कृत्वा वा कामतस्तस्य शुद्धिर्देव कथं भवेत् || ईश्वर उवाच || देवाग्नि गुरु शास्त्राणां कृत्वा निन्दां जपेच्छ्रतं | लघ्वादि भावं विज्ञाय ईशन्दशगुणोत्तरं || कृत्वा पूजां यथा शन्त्यास्तुत्वा चैव क्षमापयेत् | दश तत्साधकादीनां दीक्षितानां सथैव तत् || अन्यद् वा यत्कृतं पापन्तदीश स्मरणाद् दहेत् | निर्माल्य भोजने वक्त्रञ्चपेल्लक्षमतन्द्रितः || कामाद् दशगुणं चापि चण्डेशाय निवेदयेत् | भुक्त्वा युतञ्च देवस्ये नैवेद्य स विसर्जिते || तद्वन्निवेद्य शुद्धिःस्याल्लंघने च शतं जपेत् | भुक्त्वा गर्भादि संस्कारे सहस्रं परिवर्त्तयेत् || कांस्यपात्रे शतं जप्यन्तद्वन्यासादि भोजने | उच्छिष्टस्तु समानानां भुक्त्वापोह्य विशुध्यति || सहस्र स युतं चैव तथा मध्यमहीनयोः | द्वित्रिरात्रोपवासश्च सर्णोच्छिष्ट भोजनं || जघन्योच्छिष्टसंपर्का विदं दशगुणं स्मृतं | जपोपवास वृद्धिश्च एकरात्रादितः क्रमात् || मार्जारमूषकैर्जर्घ्वसन्नं भुंक्तें तु यः क्वचित् | जीर्णान्ते चापि वेत्स्नात्वा पञ्चगव्यं विशुद्धयेत् || सद्येन गोमयं ग्राज्यं गोमूत्रं मनसा घृतं | सर्वेणमयस्त्यास्ये न दधीशेन कुशोदकं || गायत्र्या चैकतः कृत्वा पिवेत् पापं विशुद्धयेत् | कृमिकीटादि संस्पृष्टं भुक्त्वा वात्तेन शुद्ध्यति || शतकोप हतं भुक्त्वा निराहारो नरं जपेत् | त्रिरात्रं लसुनादीनाम्भक्षणे चैव देवहि || प्. ३१अ) सुरापोदशलक्षाणि पञ्चगव्याशने निशि | शिवपूजारतो नित्यं जपेद्दात्मविशुद्धयेत् || विरामूत्रं भक्षयेद् यस्तु सप्ताहं शुद्धये जपेत् | सह पंक्तौ निकृष्टैस्तु भुञ्जानो दशधा जपेत् || शतं भुक्त्याथ यन्नोक्तं ज्ञात्वा तु गुरुलाघवं | जपः कार्यो विशुद्ध्यर्थमधमोत्तममध्यमः || कुतो शतशता चैव अधमो मध्यमे द्विकम् | किं भूत्तमो जपश्चार्द्धं त्रिकं स्याज्जप कर्मणि || लिंगं हित्वा गुरुं हत्वा जपेत् सर्व मतन्द्रितः | निशि भुक्त्वा तपं वह्नि प्रथमं चोत्तमे त्रिकं || दत्वासर्वाय सर्वस्वंन्तस्यात् पापात् प्रमुच्यते | द्विजं हत्वा जपेत् तद्व पञ्चा तप विवर्ज्जितः || भिक्षाहारोथ सर्वस्वं पूर्ववच्च निवेदयेत् | स्वशक्त्याकारं येद् वापि दीक्षां निर्वाण गामिनीं || पादपादश्च हीयते क्षत्रियादिष्वनु क्रमात् | अन्त्यजानां गर्वा चैव शूद्र हत्या व्रतं चरेत् || महिंषाश्च खरादीनां तदर्द्ध पादसम्मितम् | श्वशृगाल मृगादीनां तस्याप्यर्द्धं च दक्षिणम् || मण्डूकनकुलादीनां तस्य पादो विधीयते | क्षुद्रजन्तु वधं कृत्वा दशधा वर्त्य शुद्ध्यति || सर्वहिंसा कृतं पापमन्यन्तु कथनञ्च यत् | अघोरोघोरहा सर्व स्मरणादेव निर्द्दहेत् || वामं गुरुस्त्रियं गत्वा शुद्धये लक्षमभ्यसेत् | आर्द्र वासापयः पीत्वा भ्रामृजाया सहोदरां || पितृमाभृश्च स्वाश्वेश्रूयातुलादींश्च यो जपेत् | लक्षहानि क्रमादुक्तो गत्वा विप्रादि योषितं || अन्त्यजां पञ्चललक्षाणि नाभि मात्रोदके जपेत् | सामान्य स युतं शूद्रीं द्विगुणं द्विगुणं पुनः || वैश्यादि वर्णजां गत्वा गाङ्गत्वा चायुतं जपेत् | उभयोर्द्विगुणं प्रोक्तमजादीनान्तदर्द्धिकं || योनि पापन्दहेद् वामः सर्वमन्यच्च यत् भवेत् | लक्षञ्जप्त्वा भवेच्छुद्धि हेमंतु जरधुवं || प्. ३१ब्) हृत्वागाञ्च तदर्द्धेन स्त्रियन्तावदजाविकं | कांस्यवस्त्ररसादीनि लक्षणैकेन शुद्ध्यति || सद्योजातं दहेत् सर्वमन्यद् वा चौर्य सम्भवं | संकीर्ण कल्मषी मन्त्रान् सर्वानेव जपेच्छुवि || व्योमव्यापि शिवस्यापि सर्वपाप विशुद्धये | प्रायश्चित्तं चरे ज्ञात्वा कर्मणां गुरुलाघवं || कर्त्तुः शक्ति वयोवित्त स साध्ये न विशुद्धये | अज्ञानाज्ञानतो वापि कृतमेवं विशुद्ध्यति || कामतस्तु कृतं मोहान्त्रिगुणेन विशुध्यति | कायिकस्मैवमुद्दिष्टो लघुमध्योत्तमो जपः || कर्मणा च कृतस्यापि सताल्लश्चादितो जपेत् | नानसस्यैकतः प्रोक्तः पूर्वाकानां जपः क्रमात् || सर्वं समयिना सेतन्निर्द्दिष्टं शुद्धये समः | स्थितेर्थ पुत्रकादीनां सिद्धार्थं मन्त्रवादिनां || अनुग्रहाधिकाराय देशिकानाम दीष्यते | दीक्षया वा दहेत् सर्वं पापसाचार्य सत्तमः || अभिशस्तादिभीः स्पृष्टं स्नात्वा विप्रो विशुद्धति | पादौ प्रक्षाल्य वाचस्य शुद्धिर्भवति नान्यथा || उच्छिष्ट लेप संपर्कात् यो मुक्त विधिमाचरेत् | असत्प्रतिगृहं ग्रश्य सद्यो द्वादशभिः पुनः || मुच्यते किल्विषात् क्षिप्रं मन्त्रियश्चायय कुत्सितः | होमार्थं चैव गुर्वर्थ लिङ्गार्थया चितं च येत् || यदितस्भक्षयेल्लोभात् कदाचिदेव दुर्मति | जपेल्लक्षं स पादञ्च स्तंभ्य शुद्धिस्तदा भवेत् || इति विद्यापुराणे प्रायश्चित्तपटलं || १४ || अथ रौरवे प्रायश्चित्तं लिख्यते || अथातः सम्प्रवक्ष्यामि आत्मदीक्षा मनुक्रमं | भाषितं परमेशेन श्रीकण्ठाय महात्मने || शूद्रन्तु दीक्षयेद् यस्तु विधानेनोग्रजन्मने | प्. ३२अ) निर्माल्यं भक्षयित्वा तु आपत्सु शिवयज्ञवित् || आज्ञां वासमतिक्रम्य सासने पारमेश्वरीं | आत्मदीक्षामिमां कुर्याद् विधिवत् संमित व्रतः || इति रौरवे प्रायश्चित्तमिदं || २४ || मृगेन्द्र तत्व संहितायां प्रायश्चित्तं लिख्यते | साधनादिकविच्छेदे सद्योजाता युतं जपेत् || शतं वामं यतप्राणो वासरं मारुताशनः | वामस्यान्न व्यतिकरे हिंसा याम्वहुरूपिणे || वक्त्रस्य स्पन्दने रात्रौ दिवातद् द्विगुणं चरेत् | द्विजाशुच्छिष्ट संपर्काद् वस्त्राद्य न्यतसद्गुणं || चतुर्दलेः व्रमध्येष्टा स्थाने तु पञ्चमं जपेत् | षडहो योषितं लक्षं जपेद्वव्याशनोपि वा || जुहुयादयुतं जाप्यं द्विगुणं शुद्धिकारकम् | जपेन्निर्माल्य संपर्कात् सर्वब्रह्माणि लक्षशः || समग्रसंहिता लक्षञ्जपेन्निर्माल्य भोजने | वामाद्याः पतयः शाक्यपादार्थिक कपालिनां || अजातोधिपतिर्ज्ञेयस्त्रयी नैष्ठिक लिङ्गिनां | तदन्त भोजने शुद्धिर्जाति संपर्क शुद्धिवत् || किन्न्वैन्दवं व्रतं प्रोक्ते कापाल्यान्नागने मताः | ईशानस्य जपेल्लक्षं तत्संकर विशुद्धये || कापालि संकरे त्रीणि लक्षाणि कृत निश्चयः | प्रमादाद्योषितं गत्वा प्राणायामायुतं जपेत् || द्विपंच गुणितं शुद्धि प्रणवोच्चारसंयुतं | महापातक संयोगे शिवैकादशिका युतं || जपेद् दशगुणं प्राणसंयमीहलमूलभुक् | तत्समेष्वेव मूलस्यात् किन्तु प्राणायामं विना || पातकेषु तदन्तेषु क्रिया व्यति करेषु च | जपेदेकादशान्मानमेकं वा ब्रह्ममव्ययं || प्. ३२ब्) नादद्यात्करकं किञ्चित् सख्याजातांभमाहृतं | आददन्तपरिज्ञानात् तदुक्तार्द्धं समाचरेत् || बहुदैवशिके योगे तुल्यं साधर्म्म योगतः | नाक्षविलङ्घयेद्विद्वान् सृष्टिसंहारकारणं || विलंघ्याद्येतसो दोषाद्वहुरुपायुतं जपेत् || इति मृगेन्द्रतत्वसंहितायां प्रायश्चित्तपटलः || निस्वासकारिकायां प्रायश्चित्तं लिख्यते | असमाप्तोह्निको मन्त्री नान्य कर्मसमाचरेत् | प्रमादाह्निक विच्छेदे घृत होमौ विधीयते || आहुतीनां सहस्रन्तु गताञ्चैव हुतासने | द्वात्रिंशाक्षर मन्त्रस्य यावच्छक्त्या तु होमयेत् || हुता चैवं ततो मन्त्री शतमष्टोत्तरं जपेत् | अकाराच्चैव संच्छेदे आह्निके तु पदा भवेत् || मालामन्त्रस्य मन्त्रज्ञो द्विगुणान्तु समाचरेत् | शुनादष्टो विशुद्ध्येत गायत्र्याष्ट शतेन तु || मार्ज्जारमूषकैर्दष्टः सप्तजप्तेन शुध्यति | शृगाल वृकदष्टो वा शुद्ध्यतेष्ट शतेन तु || चाण्डाल स्पर्शसंभाषे प्राणायाम शतं जपेत् | सद्योजातेन मुच्यते नात्र कार्या विचारणा || स्तेयं कृत्वा जपेद् घोरं मनाक्तत्पुरुषं जपेत् | तत्संपर्केणचेशानं जपेत् पर्वतमस्तके || ताम्रं रौप्यं विटकं वाहृत्वास्तेय समंन्त्रयं | कंगुधान्यापरं धान्यं लोहं वा वहुधात्मकं || अर्थञ्च विविधत्कृत्वान्यूनं तत्र विनिर्णयः | अजं जप्त्वा भवेच्छुद्विर्हेमहर्त्तुर्न संशयः || हृत्यागाञ्च तदर्द्धेन स्त्रियस्वद्वदजादिकं | कांस्यं वस्त्रं रसाद्यञ्च लक्षैकेन विशुद्ध्यति || सद्योजातो दहेत् क्षिप्रमन्यद्वा रौप्य सम्भवे | देवाग्नि गुरु शास्त्राणाङ्कृत्वा निन्दां जपेच्छतं || प्. ३३अ) लङ्घादि भावं विज्ञाय ईशं दशगुणोत्तरं | कृत्वा यूनां यथा शक्त्या स्तुत्वा चैव क्षमापयेत् || दशतः साधकादीनां शतमेव तथैकतः | अन्यद्वायं कृतं पापंस्तदीशः स्मरणाद्दहेत् || गुरो कृत्वापवादं च तथा मन्त्री शिवस्य च | गायत्र्यष्ट सहस्रेण प्रमादाच्छुध्यते भृशं || शिव विद्याङ्गसंपूर्णं आचार्यः परमेश्वरः | शिववत् पूजनीयोसौ तन्निन्दान्न समाचरेत् || समयी चात्मवान्नस्यः पुत्रकश्च विशेषतः | कृत्वा निन्दां ततस्तेषां तदर्द्धेन विशुद्ध्यति || शिवस्य शिवमन्त्रस्य शैवा चार्यस्य कामतः | निन्दिकान्विनिहत्वापि हत्ययामविलिप्यते || शतमेकं जपेदीशं प्रायश्चित्तं विशुद्धयेत् | हृत्वा देवस्य सर्वस्वं पञ्चब्रह्माण्यनु क्रमात् || जपेत् पंच शतान्मन्त्री पञ्चातपसमन्वितः | भिक्षाहारः स्वशक्त्या वा दीक्षां निर्वाणगामिनीं || शतायुत सहस्राणि विंशद्विंशं सुदुत्तरा | लक्षं यावत् पराकाष्ठा जपस्येयं कृतिर्मना || हत्वा तु देशिकं कामाल्लैक्षभुक्तु समाहितः | एकाशीति पदं मन्त्रं लक्षमावर्त्य शुद्ध्यति || निःस्वासं प्रायश्चित्तं प्रकरणं समाप्तमिति || २७ || सप्तविद्याधरे प्रायश्चित्तं लिख्यते | व्यापादितो यदा लिङ्गी शैवीवान्याशुमी तथा | प्रायश्चित्तं चरेन्मन्त्री गुरुक्तं शिवभाषितं || षट्सप्तवहुभिर्दत्तं आचार्यैर्गुरुणा विना | कर्त्तव्यं शास्त्रसंसिद्धं महापातक शुद्धये || अष्टौ शतान्यघोरेण जुहुयाच्छिव पावके | अनाहुतं शिवे मन्त्रि निर्वाणे दोष शान्तये || प्. ३३ब्) इति स वैद्याधरे प्रायश्चित्तमिदं || २६|| निःस्वासोत्तरे प्रायश्चित्तं लिख्यते || असमाप्ताह्निको मन्त्री नान्य कर्मकथञ्चन | प्रमादाह्निकविच्छेदे घृतहोमो विधीयते || आहुतीनां सहस्रैक स प्रमादाच्छतं हुनेत् | पञ्चाशत्पंचविंशद् वा मन्त्रीमन्त्रं ततो जपेत् || विद्याधि येन मन्त्रेण पंचब्रह्मयुतेन च | परिगृह्य जपं मन्त्री संख्याच्छिन्नं जपेत् ततः || कल्पोक्तं तु जपन् कृत्वा रुद्राय विनिवेदयेत् | रुद्रार्पितं जपं मन्त्री विघ्नेन्द्रेण न बाध्यते || जानुभ्यामवनीं गत्वा जपमीशे निवेदयेत् | इति निःस्वासोत्तरे प्रायश्चित्तं समाप्तमिति || अथ साहस्रं शिव भेदे प्रायश्चित्तं लिख्यते | गुरुदेव स्वहर्त्ता च गुर्वङ्ग नाममाचरेत् || अमेध्या दशगुणं मांसं न प्रकृच्छं प्रदापयेत् | त्र्यहसम्भः पिवेन्तप्तं क्षीरं तप्तं त्र्यहं पिवेत् || त्र्यहमुष्ण घृतं पीत्वा त्र्यहं स्यात्मारुताशनः | तप्त कृच्छमिदं भद्रे महापातक नाशनं || पितुद्योसा तृप्रश्चाति कृच्छेण शुद्ध्यति | अश्नीया त्र्यहमेकैकङ्ग्रासं मध्यं दिने सुधी || पुनस्त्रीणि दिनैकं कमश्नीयान्तदयान्वितं | अहानि त्रीणि नक्तेन निराहाणस्त्रि वासरं || अति कृच्छ विधानन्तु समासात् तदुदाहृतं | अगम्यागमनं कृत्वा कृच्छ सान्तपनञ्चरेत् || गोमूत्रं गोमयं क्षीरं माज्यं दधिकुशोदकं | अहोरात्रोषितो भूत्वा पिवेत् सान्तपनं स्मृतं || गोश्व मृगादिकं हत्वा प्राजापत्यं चरेद्विजः | त्र्यहमयाचितं भुंक्ते वक्त भोजी दिन त्रयं || एक भक्तं त्र्यहं कुर्यान्निराहारो दिन स्वयं | प्. ३४) णोत् च्लेअर् प्. ३५अ) ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्ग नागमं | यैः कृतास्ते स्मृताः सत्भिः महापातकिनो नराः | यस्य योगस्तुतैः सार्द्धं सोपि चैतत्समो भवेत् | हत्वा विप्रञ्जपेत् सद्यङ्गवाम्मध्ये सुयन्त्रितः || सुराम्पीत्वा जपेद्वामं शिवहर्मे विशुद्धये | कृत्वास्नेय स कामाच्च घोरं पितृवने जपेत् || गुरुस्त्री गमने वक्त्र स कामाद्विच्चने वने | एषां योगाज्जपेदीशं नमाग्रे संयतेन्द्रीयः || प्रकाश्येकाग्रतः कृत्वा लक्षं जप्त्वा विशुध्यति | अकामाद् वा रहस्ये च सहस्राच्छुद्धिरेष्यपि || कामतस्तु रहस्ये च जपेत् तत्रा युत द्वयं | अकामतः प्रकाशे तु जपेत् तत्रा युत द्वयं || गुरुस्त्रीगामिनं कामाच्चीरान् कृच्छन्तु दीक्षयेत् | दयाकन्देशिको यस्य लक्षजापाद्विशुद्ध्यति | सुराम्पीत्वा जपेद् वामं सहस्रं कामतो यदा || अकामान्त्रिशतं जप्त्वा प्रमादाच्छुद्धिरिष्यते | निर्माल्य भक्षणे जाते प्रमादादयुतं जपेत् || बहुरूपस्तथा कामाद् दीक्षां कृत्वा विशुध्यति | रजस्वलान्नं भुंजानो गुह्यकस्य शतं जपेत् || कामात् पंचशतं यद्वतद्वर्न्निर्म्माल्यलंघनात् | निर्माल्यं शंकरे भुक्त्वा तत्र घोरशतं जपेत् || उपेक्षिते तु निर्माल्ये वायसश्वादि भक्षितैः | बहुरूप सहस्रन्तु जप्त्वा मन्त्री विशुद्ध्यति || शिवस्पर्शसु सम्पूज्य गुरुमस्मिन् विशेषतः | अदत्वा च वलिन्तत्र शिवाष्टक शतं जपेत् || अनिवेद्य यदा भुंक्ते शिवमिष्ट्वा शतं जपेत् | श्वविज्वराहच्छामाद्यैर्मार्ज्जारकपि कुक्कुटैः || ललूकगृध्रकाकाद्यै स्पृष्ट स्यात्तस्थ भक्षणात् | शिवैकादशिकां जप्त्वा पञ्चगव्येन शुद्ध्यति || पृतके सूतके भुक्त्वा जपेत् सवादिपञ्चकं | प्. ३५ब्) सहस्रं कामतो जप्त्वा अकामाच्च शतं जपेत् || द्विशतं गणिकान्नस्य पतितानां शतं जपेत् | अष्टमे वा सिंपुस्ते च वामदेव शतं जपेत् || नाम प्रासननिष्क्रामे भुक्त्वा वक्त्र शतं जपेत् | चतुर्थिकान्नं भुक्त्वा तु वामदेव शतं जपेत् || सद्यं श्लद्धे तु यो भुंक्ते अघोरं त्रिशतं जपेत् | सहस्रं कामतः प्रोक्तमसच्छुमन्त्र भक्षणे || वान्ते स्नानं जये कृत्वा सद्योजात शतं जपेत् | वापी कूप तडागानां वृक्षाणामोक्षणे तथा | शिवज्या प्रतिष्ठा च भुक्त्वा मंत्रान्य लिङ्गिनां || अभक्षभक्षणान्ताद्वा तदर्द्धं चाप्य कामतः | सद्योजातं जपेन् मन्त्री प्रमादात्यां स भक्षणे || दश * * * * * *? च वैवैकान्न भक्षणात् | भैक्ष्यं त्यक्त्वा प्रमादात् तु तवः शुद्ध्यति किल्विषात् || वस्त्रं चतुर्विधञ्चर्म्म प्रतिगृह्य शतं जपेत् | * * * * * * * * * * * ? तं जपेद् बुधः || दधि क्षीरं मधुसर्पिस्तैलं लवणमेव च | शर्कराक्षुञ्चैव गृहीत्वा * *? मभ्यसेत् || मणि मुक्ता प्रवालानि सुवर्णं रौप्यमेव च | सर्वशस्य समृद्धान्तु सर्वरत्न समन्वितं || गृहीत्वा पृथिवीं विद्वानीशानस्यूर्च्छदं दर्शयेत् | सर्वेषामेव पापानां शङ्करे * * * * * ? || पवित्राणि जपेत् पञ्चमकं वा वहुरूपिणं | वामदेवं जपेद्विद्वान्तु द्व्यत्येवं न संशयः || योनिं शंकरजं दोषं भस्मकाष्ठं शृणादिकं | गृहीत्वा वस्त्र **? त्किञ्चिद्वहुरूपं जपेद् बुधः || * * *? हारणे चक्रङ्कामाकामे कृते सति | गुरुपुत्रं गुरोभार्यां निन्दयेद्यास्तु दीक्षिता || ईशानस्य शतं जप्त्वा ततः शुद्धिमवाप्नुयात् | प्. ३६अ) मूषिकाश्च विद्याते च पञ्चगव्यन्तु भक्षयेत् || सप्ताभिमन्त्रितं कृत्वा सद्योजातेन शुद्ध्यति | श्वानदष्टे तथैवेह स्नानं पूर्ववदा चरेत् || असत्प्रतिग्रहं गृह्य सद्योजातशताच्छुचि | चाण्डालस्पर्शने स्नात्वा सद्योजातं सकृज्जपेत् || प्राणायाम त्रयं कृत्वा ततः शुद्धिमवाप्नुयात् | गुर्वाज्ञां लंघयेद्यस्तु दीक्षितानान्तु निन्दकः || सद्योजात शतं जप्त्वा ततः शुद्ध्यति मन्त्रवित् | दुःस्वप्न दर्शने स्नात्वा जपेत् सद्यं च पूर्ववत् || कर्मणा मनसा चैव प्रमादात् भाषितेऽनृते | वामदेव शतं जप्त्वा ततः शुद्ध्यति किल्विषात् || अकामाद्रेतसोत्सर्गे जपेद् वामशत द्वयं | गर्भापहरतो वक्त्रञ्जपेत् सम्यक्क्रतुः शतं || धेनुं प्रमादतो हृत्वा जपेत् सद्यादि पञ्चकं | शतानि पंच प्रत्येकमीशानेन विशुद्ध्यति || मनसा चित्तितं पापं कर्मणानन्ध तत्कृतं | सप्तवाराञ्जपेद् घोरं ततः शुद्ध्यति किल्विषी || स्थावराणां लताच्छेदे अघोरस्य शतं जपेत् | चत्वरं लंघयेद् यस्तु दशरुपाणि तं जपेत् || दिवासुप्ते प्रमादाच्च जपेत् सप्त त्रीपञ्चकं | गुरुञ्च क्षेदयेद् यस्तु दुष्टालीपेश्च मूढधी || उपवास त्रयं कृत्वा जपेद् ब्रह्मशत त्रयं | शिवारामेन्यदा कुर्यात् मूत्रोत्सर्गे शिवाङ्गणो || प्रत्येकं सोप वासस्तु जपेद् ब्रह्मशतं क्रमात् | चत्वरे वृक्षमूले वा श्मशानेथ शकृज्जपेत् || नग्नो वा दीक्षितः स्नात उपोष्याष्ट शतं जपेत् | दीक्षितायं शिवे भक्ता निन्दाङ्कूर्मन्न्य निन्दितः || गुरुदेवाग्नी विदुषान्दीक्षितानांणिवा गमे | प्. ३६ब्) सहस्र पंचमस्यैकं जप्त्वा शुद्ध्यति किल्विषात् || शर्पदष्टे शतं जप्त्वा उपवासाद्विशुद्ध्यति | तदा चाराद् न्यश निन्देद घोराष्टशतं जपेत् || गुरुदेवाग्नी वृद्धानां सन्निधौ स्नान भोजनं | परिहासं तथा दर्पङ्कृत्वा पञ्चपवित्रकं || दशवाराञ्जपेन्मन्त्रि वक्तुं तु क्लीव भाषणात् | गुरुपत्नी यदा दृष्टी दुष्ट बुद्ध्या शतं जपेत् || बहुरूपं प्रमादा तु विवस्त्रां त्रिशतं जपेत् | अनस्थि प्राणि संघातं हत्वा वै संहिताञ्जपेत् || पक्षिणस्तु बहून्हत्वातामेव त्रिगुणञ्जपेत् | सर्पमाणकमार्ज्जार नकुलश्वाश्व गर्दभात् || उष्ट्रं गजं मृगं व्याग्रं हत्वा चैशं शतं जपेत् | हत्वा शूद्रं स्त्रियं वासं शिवं पंच शतं जपेत् || जपेदष्ट सहस्राणि सच्छूद्रस्य निपातनात् | चाण्डालिनी यदा ज्ञानान्मन्दिरे संव्यवस्थिता || मृन्मयादित्यजेत् भाण्डं कृच्छ्र चीर्णो नरञ्जपेत् | सहस्राणि तदा पंच ततः शुद्धिमवाप्नुयात् || भुक्त्वा चा कामतश्चैव तप्त कृच्छाद्व्रताच्छुचिः | कामतो यदि सा भुक्त्वा स कृष्कृच्छाति कृच्छतः || वामदेवं जपेच्छुद्धिः पराकान्तेथ वा सकृत् | ज्ञात्वा भुक्त्वाथ वा तेन तदासौ तत्समो भवेत् || रजकीञ्चर्मकारीञ्च स्मृत्या वा मन्दिरे स्थितां | भाण्डभ्यागादजाच्छुद्धिःस्त्र्यहान्यञ्च सहस्रिका || अकामतो यदा स्पृष्टा भुक्त्वा घोरञ्जपेत् त्र्यहं | कामाद्वा द्विगुणं कर्म्म सकृद्योगात् भवेद्यादि || अकामाद्वाथ संयोगः संजातस्तद् द्वयोरपि | तदा चान्द्रायणं कार्यमन्यथा नैव शुद्ध्यति || बहु दैवसिको योगः सञ्जातः कामतौपि वा || तदा चान्द्रायणं कर्यं वलिना केवलेन तु | प्. ३७अ) मासार्द्धं ग्रासवृद्धिः स्यात् च्छुक्ले कृष्णे च ह्रासयेत् | चान्द्रायण विधिः प्रोक्तो जलाच्चैव मलात्मकः || एकभक्तं त्र्यहं कुर्यात् त्र्यहं कुर्यादयाचितं | त्र्यहं च नक्त भीजित्वन्त्र्यहं स्यात् मारुतासनः || एवं कृच्छ्रः समाख्यातः प्राजापत्यं यथाविधिः | त्र्यहमुष्णं पिवेद्वारीः त्र्यहं स्यात् क्षीर भोजनं || त्र्यहं मुष्णं घृतं पीत्वा निराहरो दिन त्रयं | तप्त कृच्छं समाख्यातं पराकं शृणु साम्प्रतं || द्वादशाहं निराहारः पराकल्प विधिः स्मृतः | सर्व सन्धिषु सर्वेषु कदाचिन्मैथुनन्दिवा || कृत्वा युतं जपेत् प्राज्ञः प्रणवस्य व्रते स्थितः | रात्रौ कृत्वा युतार्द्धं तु सन्ध्याया सयुतं जपेत् || मैथुनेङ्कृत्या हृद्वीजस्य शतञ्जपेत् | ब्रह्मचर्यादृतेधीमान् प्रायश्चित्तं गृही चरेत् || गृहस्थानान्तु सर्वेषां दीक्षितानां शिवाध्वरे | दशाहे न भवेच्छुद्धिः सूतके मृतके तथा || एकवृध्या चतुर्णान्तु अनध्यायो दिनामि तु | समयादि विधिस्थानांन्तपस्थानात्वयं विधिः || देवाग्नि गुरु कार्येषु विच्छेदो नैव विद्यते | ब्रह्मचर्यन्ततो मौनं क्षान्तिमाहारलाघवं || एतद् घोरं समुद्दिष्ट त्रयो वै पञ्चलक्षणं | स्वधर्मस्थः क्रियानिष्ठो ज्ञातवृत्तिं समाश्रितो || शुद्ध्यते तत्क्षणात्मानान्नित्यहानिरतो न्यथा | पृथम्वाकः प्रकर्त्तव्यस्तद्योग वर्ज्जयेत् सदा || तद्योगाद् दोष संबन्धस्तदासौ तत्समो भवेत् | तस्य वै नामसी शुद्धिर्याचकान् भक्त भोजनात् || त्रिकालं शुद्ध्यते स्नानाद् घोरजापाच्छतत्रिकात् | महानिघं पृथक्याकस्तदा शुद्धिस्त्र्यहात्मिका || प्. ३७ब्) यतन्मत्पूर्णगर्भस्य शुद्धिः स्यात् तत्क्षणात्मिका | अर्वाक् स्याच्चूर्णड संज्ञस्य सृतो वा लोमदुष्यति || येषां तत्सूतकस्तेषां स्पर्शः पञ्चदिनोर्द्धतः | कारुकाणान्तथा राज्ञां शिल्पिनां राजसेविनां || वैद्यानां दासकादीनां सद्यः शौचं प्रकीर्त्तितं | न चैवाभ्यन्तनियमो निःसङ्गानांत वह्निनां || शिव ज्ञानानलज्वाल प्रधस्त ज्ञानचेतसा | यदा पर्वतमादीप्तस्ताशु यन्तिमृगद्विपाः || तद्वद्ब्रह्मविदन्दोषानाशयन्ति कदाचन | सर्वस्य समता दृष्टौ शुद्ध्यर्थमविचारतः || शुद्धिरपि मुनिव्याघ्रसङ्गत्यागात् प्रकीर्त्तिता | प्राणाशुद्ध्यन्ति विधिवत् प्राणायामवलात् सदा || ध्यानाच्छुदिष्टि समुद्दिष्टा प्रधानस्य महात्मनः | विवेकाच्छुद्ध्यते ह्यात्मा यथोक्तं परमेष्ठिताः || सत्येन मनसः शुद्धिरिन्द्रियाणां यमादिभिः | अहिंसा सत्वमस्तोयं ब्रह्मचर्यमकल्कता || पञ्चंतेतु यमाः प्रोक्ता नियमाश्चमिबोधमे | अक्रोधो गुरु शुद्ध्यषाशौच रसाहार लाघवं || अप्रमादास्तुषाञ्चैते नियमासं प्रकीर्त्तिताः | धृतिः क्षेमादयास्तेषां शौचमिन्द्रिय निग्रहः || ह्री विद्यासत्सत्क्रोधो दशधर्म्मस्य लक्षणाः | सत्यं शौचं ममः शौचं शौचमिन्द्रिय निग्रहः || सर्वरुतदया शौचं जलशौचन्तु पञ्चमम् | आत्मज्ञानं स्मृतं षष्ठं भवेदिच्छेद कारकं || खनिभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधं | सर्वेभ्यः सर्वदा ग्राह्यं न दोषोस्त्यत्र शासने || न त्यजेत्क्षाणमेकं च स्मरणं पारमेश्वरं | वा शुचिः क्षेणतमप्येकं तिष्ठेद् वै दीक्षितोः च तु || प्. ३८अ) दशोर्द्धा त्रिशतादर्घाग्भयेत् स्नानमयाच्छुचिः | तदर्द्ध पञ्चमं यावच्छतं भक्षेन भोजनं || उपवासं ततश्चोर्द्धं त्रिरात्रं *?युत जपेत् | ज्ञात्वा पलायलं ज्ञानं जाति भक्ति सद्विष्णुं तां || दद्यात् तस्य तदा मन्त्री * * *? गुरु वाससः | तद्या वश्यं प्रकर्त्तव्यमथ वा गुरुभाषितं || प्रायश्चित्तं प्रकर्त्तव्यमन्यथा यतनं भवेत् | पुरुषा घोर वामाजाजातीशा ब्राह्मणादिषु || अन्त्यजानान्तु सर्वेषामीशानः प्रभुरिष्यते | इति वामदेवीयक्तियामं पदे प्रायश्चित्तपटलं || ३१ || अथाद्येन यद्रथाधिरपिंगलासने प्रायश्चित्तं लिख्यते | वामे वामासुवर्ती च देव दक्षिणागोचरी | सामान्यं वाम दक्षे वा प्रायश्चित्तं तु लिख्यते || द्विगुणश्च जपः कार्यः सन्ध्यालोपे च मन्त्रिणा | प्रमादात् कथितं भद्रे कामतश्च चतुर्गुणः || रसाशक्तिकविच्छेदे कर्तव्यं तु चतुर्गुणम् | * *? श्च साधकेन्द्रेण कामतस्तद्विधा भवेत् || प्रमाद्यतोसमच्छेदे हुत्वा यद्द्विशतं जपेत् | कामाच्चतुर्गुणं हुत्वा जपेद्यैव चतुर्गुणं || प्रमादात्प्र * मङ्गेन * * *? तत्समं जपेत् | कामतो जपभङ्गे च जपेद्विधि चतुर्गुणं || स्वमन्त्रैश्चैव कर्तव्या वैशेषिकमुदाहृतं | मन्त्रं सामान्यमाख्यामि प्रायश्चित्तं यथो भवेत् || ओं नमो भगवते रुद्राय शूलपाणये हन २ दह २ पच २ नाशय २ सर्व पापं भक्ष २ * * * * *? || विद्या साम *? कीख्याता प्रायश्चित्तार्थ कर्मिणां | प्रमादाद्यालितलिङ्गे स्थिरे वा * * *? के || प्. ३८ब्) णोत् च्लेअर् प्. ३९अ) अन्यांश्च मानुषान् हत्वातदर्द्धंञ्ज विनोदतः | वैद्धार्द्वन्नल्लिङ्गानाञ्च तथा वैष्णव लिङ्गिनाम् || न भेदो निर्निमित्तेन भेदाद्वारप्यायुतं जपेत् | शिवाग्नि गुरु निन्दायाः कर्तुघातेन दोष भाक् || शिव व्रतधराच्छाया लंघनाच्छतध्म जपेत् | हत्वा च तान कामेन पञ्चधा युतकं जपेत् || कामतो नियुतं जाप्यङ्कलहेना युतं जपेत् | अकामाल्लिङ्गभेदे तु लक्ष पञ्चाशकञ्जपेत् || कामतो द्विगुणं जाप्यं गुरुणां संमते न तु | तपस्विनान्निन्दने चैव योगिनीनान्तु दुषणे || स्त्रीणां च ताडने चैव शिवस्य नस्य दूषणे | अयुतं चैव जप्तव्यं न जपेद् विघ्न भाग्भवेत् || द्रव्याणां दूषणे चैव धीर चक्रे संस्थिते | तत्काल कलहोत्पत्रे सहस्रेण शुचिर्भवेत् || अथ वा भोजनं कार्यं समन्ते न तपस्विनां | गुरुद्रोहे कृते नैव अज्ञानान्योह वासनात् || पुनः सन्तापनङ्कृत्वा तद्गुरुं यदि यार्थयेत् | तदा लक्ष जपन्तस्य दातव्यं गुरुणा प्रिये || गुरुपत्नीं गतो मोहात् सकृत् पश्चात् पुनरुयजेत् | पुनः सन्नायनं कृत्वा प्रायश्चित्ताय सर्प्पति || तस्यापि लक्ष जाप्यन्तु दातव्यं निर्विकल्पतः | न त्यजेत् कामतो मोहात् नारकी स्यान्नसंशयः || प्रायश्चित्तं न तस्योक्तं दीक्षाफलविरोधिनः | आत्मघातिर्गुरोर्घाति घाती चैव परस्परं || प्रसादात् तापनं कृत्वा प्रायश्चित्तं च मार्गति | विद्यालक्षञ्जपन्तस्य दातव्यं चुम्बकेन तु || गुरुं सन्तोष्य यत्नेन पुनः संस्कार मर्हति | गुरुं गुरुतनाद्यैस्तु प्रमाद्रक्त दर्शनात् || प्. ३९ब्) दशलक्षं जपेत् तस्य तद्गुरोर्यदि सम्मतं | गुरोः स्थान निवासी च तस्याचारस्य लंघनात् || स्वागमस्य विरोधी च अस्थिति स्थिति कारकः | पुनर्लोकात् ससंभीते गुरुभ्यः स गुरुं व्रजेत् || भ्यक्ताचार विरुद्धस्तु प्रायश्चित्तं च मार्गति | विद्या लक्षञ्जपन्तस्य दातव्यं शास्त्र वेदिभिः || तेनापि भक्ति माश्रित्य शुचिस्तद्रतमानसः | विजने च शुचि स्थाने जप्तव्यं या च पूर्वके || संपूर्णं च जपेत् पश्चाज्जपन्तेषां समर्प्ययेत् | तेभ्यो भोज्यं प्रदातव्यं व्रताख्या द्रव्यसंभवं || यद्य सौभाजने नैव भोज्यं यदि तेष्वपि | अथ वा पुष्प ताम्बूल चन्दनोदकप्रासने || धारणे लेपने शुद्धिर्गुरुभ्यश्चाव धारणे | यथा शक्त्या तु मन्त्रने कर्तव्यं चावधारणं || प्रायश्चित्तेसु चीर्णे तु वर्त्तते च विरोधतः | पारम्पर्या तु वर्त्ति च वर्तयेच्च विशङ्कितः || इत्याद्ये जयद्रथाधिकारे पिङ्गलामते प्रायश्चित्तपटलं || ३२ || अघोरेश्वरी स्वच्छन्दे मन्त्र पीठे द्वादशसहस्रे प्रायश्चित्तं लिख्यते || देवचण्डगुरोर्द्रव्यं कामतो भक्षितं यदा | द्विलक्षं बहुरूपस्य जपेल्लक्षमकामतः || चतुःपंचगुणं वापि हत्वात्पंच विशुध्यति | तदर्द्धेन तु संयोगे तदर्द्धेन च साङ्करी || तदर्द्धं प्रतिसाङ्करे जप्तो पोष्यनिशा द्वयं | तेषामपि हि ये चान्येक सुषितास्तु चेतसि || सहस्रेण विशुद्धिः स्यादघोरेण जपस्य तु | गुरुतल्पमनानान्तु अग्निवर्णाययस्त्रियं || अवगृह्यात्रयः प्राणापासान्मुच्येत पातकात् | अथ वा दशलक्षाणि जप्त्वा घोरस्य सुन्दरि || प्. ४०अ) लक्षैकं गडूकान्दत्वा कामतोपि विशुद्ध्यति | अकामात् सप्तलक्षाणि जप्त्वा स्नानार्चनेषु च || शुद्ध्येते नात्र संदेहो लक्षार्द्धं गडुकैः सह | व्यापादितो यदा लिङ्गी शैवो वा व्याशुमी तथा || प्रायश्चित्तं तथा चरेन् मन्त्री गुरुक्तं शिवभाषितं | षट्सप्त बहुभिर्द्दन्तमाचार्यैर्गुरुणा विना || कर्तव्यं शास्त्रसंसिद्धं महापातक शुद्धये | उपपातकसामन्यैर्बुद्ध्यति क्रममादिशेत् || कर्तव्यमात्मनान्यैर्वा देशिकैर्नेतरैर्जनैः | दशलक्षान्जपेत् पूर्वं द्विलक्षङ्गडुकान् ददेत् || प्रातः स्नानं जपं पूजा यावज्जाप्यं समाप्यते | समाप्ते त्रिदिनं नक्रं निराहारस्तथा त्रयं || अयाचित त्रयं कृत्वा शुद्धिस्तत्र प्रकीर्त्तिता | पद्यं वै विमले प्रोक्ता पञ्चार्थ कालिके तथा || तदा शुद्धिर्भवेद् देवी शैवादौ घातिते प्रिये | अकामात् पदहीनन्तु विहीतं गडुकैश्चरेत् || चरेत् पादं स कामोपि तत्संयोगी विशुद्ध्यति | पादार्द्धेन त्वकामस्य पादात् पीदन्तु शङ्करो || तृतीये वा चतुर्थे वा पादहीनं चरेत् क्रमात् | शेषाणाम युतैकेन शुद्धिस्तेषामुदाहृता || शिवलिङ्गी क्रमं ज्ञात्वा प्रायश्चित्तं हतेद्यथा | पादोनं भगवन्तस्य भगवत्यावद्धिजे हते || द्विज तुल्यं हते बौद्धे पादानं क्षपणे हते | एवं जपः प्रकर्त्तव्यो गडुकानां क्रमात् तथा || चीर्णे शुद्धि सकामानाम कामार्द्धं विधीयते | प्रायश्चित्तेषु सर्वेषु गडुकानां जपस्य तु || अकामात् कामतो ज्ञात्वा तत्संयोगी च संकरी | प्रतिशङ्करसंयोगी कीर्णं रुद्धाति क्रममादिशेत् || गाञ्चसमपितं कन्यां हत्वा लक्षं जपेद् बुधः | प्. ४०ब्) उपोष्य रजनी पंचगडुकानां शत त्रयं | हत्वा शुद्धि मवाप्नोति पादुनम्वोप्य कामतः || निन्द्य देवगुरोः शास्त्रे अयुतैकं जपेच्छुचिः | व्रतिने तु हते क्रोधोद्यदि मृत्युर्न जायते || रक्तस्य दर्शनं दृष्ट्वा त्रिलक्षाणि जपेन्नरः | रक्तन्न दृश्यते वाथतत्स लक्षेण शुद्ध्यति || किन्तु दद्यात् सहस्रैकं गडुकानां शिवस्य तु | अकामात् कामतोप्येवं शुद्धिः स्यान्नान्यथा प्रिये || लिङ्गं गुरुं तथा शास्त्रं प्रतिमा वाथ कामतः | पादेन यदि संस्पृष्ट्वा जपेत् तत्रायुतद्वयं || कामतः षड्गुणं कार्यं गडुकानां शतत्रयं | तदा निर्दोषता मन्त्री नान्यथा शुद्धि मर्हति || गुरुशर्यासनं यानं पादुकोपानहौ तथा | अकामाद् द्रोहणं कृत्वा सहस्रा वर्त्तने शुचिः || * *? यदा दहेत् प्राचस्तदा वै षड्गुणं चरेत् | अघोरेण चरेन् मन्त्री पापशुद्धिस्तदा भवेत् || आज्ञा लोपं गुरोः कृत्वा शिवे चण्डेश्वरेपि वा | लक्षजाप्त्वा तवः शुद्धिः गडुकानां शताष्टभिः || अकामादयुतं जाप्यं गडुकानां शत त्रयं | आदेशं गुरवे लोप्येत् || अकामाच्छतमेकन्तु द्विगुणं च्छक्तिके भवेत् | गवाग्निमथ कौमारीं प्रतिमां चापि सुन्दरी || पादेन संस्पृशेत् मोहाच्छतैः स्यात् पञ्चभिः शुचिः | तिरस्कारं दीक्षितानां हत्वा क्रोध वशङ्कतः || जपेत् पंच शतान् मन्त्री अघोरेण विशुद्ध्यति | कामयित्वा तु कौध शतसाहस्रिकं नघे || * *? महाव्रतधरीं पुनः | विशेषाच्छि * * * *? सहस्रावर्तनाच्छुचिः || अघोरो हरते घोरं दुष्कृतं तस्य सुन्दरि | गुरवे दोषयित्वा तु *? दोषेण वा भु *? त् || अवश्यं तं चरेन् मन्त्री अर्चीणं बन्धनं भवेत् | वध्यते किम्विचारेण नान्यो वै मोचने क्षमः || प्. ४१अ) गुरोरपि अभावत्वात्मृतो वा प्रवसितो यदि | उपसन्ने तदा तस्य सम्प्रदार्य त्रिपञ्चभिः || दातव्यं देशिकेन्द्रैस्तुः प्रायश्चित्तं चरेद् बुधः | सहस्रम्वाथ तस्यार्द्धं गुरु वा लघु वा समं || अघोरेण प्रदातव्यं चरित्वा शुध्यते भृशं | होमार्थं चैव गुर्वर्थे लिङ्गार्थ योचितं च येत् || लौल्येन तृष्णया वाथ भक्षयेत् तन्तु दुष्यतिः | जपेल्लक्षं स पादञ्च तस्य शुद्धिस्तदा भवेत् || अकामात् पादहीनन्तु जप्त्वा शुद्धिमवाप्नुयात् | लंघयेच्छिव निर्माल्यस्प्रणालम्वाथ लंघयेत् || जप्त्वा युत त्रयं मन्त्री गडुकानां शताष्टकं | कामतस्तु विशुद्ध्यते प्रमादाद युत द्वयं || जलाग्नि पतने वापि सन्यष्टा मरणं यदा | न मृताहीन सत्वा यै तेषां शुद्धिम्वदामिते || लक्षार्द्धं गडुकानान्तु पंचलक्षं जपेत् पुनः | तावत् स्नानार्चनं तस्य यावज्जाप्यं समाप्यते || कामतश्च विशुद्ध्यर्थं कथितं तव सुन्दरीं | पतनस्य न दोषोस्ति स्थानादारोहणं विना || मार्गान्निवर्त्तनो हीना असन्यस्तमुपागताः | महापथेपि एतत् स्यात् भैरवेपि समाचरेत् || अकामाल्लङ्घिताच्छाया गुरुलिंग तपस्विनां | अघोरेण चरेन् मन्त्री प्रायश्चित्तं शतं क्रमात् || कामतो द्विगुणं जाप्यङ्कन्याच्छायान्तथा चरेत् | प्राकारतोरणोघ्नाले श्मशाने चत्वरे गुहं || चतुः पाथे च शृङ्गाटे नदी मध्ये च सङ्गमे | एकवृक्षे च सङ्गमे || एकवृक्षे च कूपादौ विण्मूत्र नैव कारयेत् | अकामाद्विशतं घोरं जपेत्थामाच्छत त्रयं || प्. ४१ब्) एवमत्ये *? क्षे शुद्धि घोरं जपात् भवेत् | पातयित्वा पशुंस्थार्थे सामान्यं प्राणिनं क्वचित् || सामान्यैः षणच्छतं जाप्यंच्छागाद्यैर्द्विसहस्रकं | आदेशं गुरुवे दत्वा जपे दश शतं शुचिः || अकामाद् * * ? ताच्छुद्धिरेव मन्यत्महन्तरे | पादुको पानशै शययां मासनञ्च तथैव च || पद्भ्यां स्थिवा प्रमादाच्च शिरसाधारणे जपेत् | अघोरं द्विशतं मन्त्री कामतः षड्गुणं जपेत् || गुर्वङ्ग भूषणं यच्च वस्त्र च्छययादि सुन्दरि | पद्भ्यां न संस्पृष्टोन्मन्त्री जिगीधा * *? श्चरेत् || कृत्वा चैव प्रमादेन द्विशतेन विशुद्ध्यति | कामतस्त्रिगुणं कृत्वा तस्य शुद्धिङ्कुपं? भवेत् || शङ्करं जन्महीनैस्तु समयाचार लङ्घनैः | कृत्या * * * * * * * * * * * * * * ? || * * * * * *? घोरमकामाच्छुध्यते * *?| कामतस्त्रिगुणं कार्यं लक्षं सकलुषश्चरेत् || * *? पादयित्वा तु कल्पानां च तपस्विनां | असंयुतैर्यदा वाक्यैन्निर्भत्सयेत्तयो वृतः || अघोरस्य शतात्पञ्च जप्त्वा चैव समापयेत् | यदा * * * * * *? द्वि गुणं भुजपेत् तदा || आहयेगो ग्रहे वैरं विद्वरे तस्करेपि वा | वधयन्तं वधे द्विप्रं न तेन ब्रह्महा भवेत् || भवेद्दाषो हते लिङ्गि त्यस्मिन् या शते हन्यपि | येन केन हि दोषण कर्म्मनिर्दुष्ट कुत्सितैः || चौर्यं वा प्रतिलङ्गं तु न वधे नैवनि ग्रहेत् | निग्रहो नैव कर्तव्यः स्त्रीणं चैव तपस्विनां || लिङ्ग भेदात् स्त्रियो हत्वा भवेद् वै घातितैस्तुतैः | निर्द्वारण परो दण्डो यति कन्यां शताम्भवेत् || प्. ४२अ) अपराध सहस्रेपि न हत्वान्न विडम्वयेत् | शतं चोद्यासने जप्त्वा पादुके गुरु सन्निधौ || अकामादुपविष्टस्तु तेन शुद्धिरकामतः | कामतः षड्गुणं जप्त्वा अघोरेण विशुध्यति || पैशुन्ये द्वेषवादेवा विरुद्धं जल्पितं यदि | ज्येष्ठादिभिः सहान्यैर्वा प्रायश्चित्तं शतं जपेत् || त्रिगुणं चोच्चवर्गाणामेवं शुद्धिरुदाहृता | गुरुणापि समं जल्पं कृत्वा राम पदेस्थितः || जपेदष्ट सहस्रन्तु अघोरस्य तदा शुचिः | किन्तु तस्य विशेषण वन्दनं चक्षमापनं || कृत्वा गयो विरोधेन एवं शोपि विशुद्ध्यति | अथ वा सर्व दोषाणां सामान्यं पापसंग्रहं || प्रायश्चित्त वियोगेन ज्ञात्वा कर्म लघुं गुरुं | दातव्यं शास्त्रसंसिद्धमथ वा गुरु भाषितं || गुरुवाक्यं प्रमाणम्वै किन्तु तत् भाषितं मया | यद् ददाति गुरु शिष्ये तेन शुद्धं यथा शिवे || सोपि दद्याद्वलं ज्ञात्वा कालं पात्रम्वयो वसु | शुद्ध्यर्थं च परेषान्तु गुरुकर्म हितं जपेत् || प्रारपीडा तथा मासं यथा नृन्न जायते | दातव्यं कर्म सारेण संक्षिप्तं सुविचारितं || अन्यैर्वाथ प्रकर्तव्यं भ्रातृ भग्नी शिशोरपि | प्राणोत्पन्ने च संदेहे संपाद्यते ततः परं || अथ वृद्धा तुरावाला व्याधिभिः परिपीडिताः | तेषां संक्षिप्तमेवोक्तं स्त्रीणां चैव तथैव हि || महापातक शुद्ध्यर्थङ्गुरुर्दद्याद्गुरोरपि | उपपातक सामान्यैर्वुद्धावुद्धात्मना चरेत् || एव मन्यानि पापानि उक्तानुक्तानि यानि तु | भागं संकल्प शोध्यानि अशुद्धान्येव शुद्धि भाक् || इति अघोरेश्वरी स्वच्छन्दे मन्त्रपीठे द्वादशसाहस्रे प्रायश्चित्तपटलं || ३३ || अथ मन्त्रपीठ स्वच्छन्दे प्रायश्चित्तं लिख्यते | प्. ४२ब्) अर्चनन्तु यदा मन्त्री दिनमेकं न कारयेत् || सहस्रार्द्धं जपेन् मन्त्री द्विगुणञ्चार्चनम् भवेत् | यथार्चनं जपस्तद्वद्विगुणः परिकीर्तितः || हानिङ्कृत्वा समाधीनां समाधीञ्च तथैव च | मम यज्ञे तथा युत्रै साधकाचार्ययोरपि || शत्वा लापे तथा क्रोधे कथयामि शृणु प्रिये | द्वे सहस्रे जपं कुर्यात् समया क्रोधने कृते || पुत्रके द्विगुणं कुर्यात् साधके द्विगुणञ्जपेत् | आचार्यक्रोशिवे देवि द्विगुणं साधकस्य तु || ताडिते समयत्ते तु येष्ट्यापिभिरनेकशः | यत्र रक्तं न दृश्येते बहुदण्डैश्च ताडितः || द्वे युते च वरारोहे कथिते च मया तव | पूर्ववच्च फलं धत्ते द्विगुणं पुत्रकादिषु || क्षुरिकादिभि सहस्रैस्तु हतस्तु कुलकादिभिः | रक्ते न विह्वली भूतो ह्यति क्लेशेन जीवितः || लक्षांश्चैव तु पंचाशत् कथितास्तव सुन्दरि | हन्यात् समयिनं न्यस्तु मुच्यते नात्र संशयः || द्विगुणं पुत्रकानान्तु हनेन कथितं मया | अस्यापि द्विगुणं प्रोक्तं साधकस्य महामते || आचार्यं हंति यो मोहाज्जप्त्वा कोटि चतुष्टयाः | बहुरूपस्य देवेशि नान्यथा तु कदाचनः || यः पुनः कैधचैतन्यो मोहा * *? निपातयेत् | तस्य वक्तुं न शक्रोमि प्रायश्चित्तं वरानने || मनसापि न चिन्तेत प्रायश्चित्तं कथं भवेत् | अन्यच्च शृणु कस्यापि लिङ्ग भेदस्तु जायते || अकामाद्धन्ति वा कोपि निर्णयस्तु तदीर्यते | व्रतम्महाव्रतं कोपि मुण्डखट्वाङ्गधारकः || कपालं वाम हस्ते चप्यक्षमाल विभूषितं | कर्णिका कर्णदेशे तु चन्द्रिका च शिरस्यथ || प्. ४३अ) हस्तौ पादौ विभूषेत कटिस्थाने सुमेखला | अनुज्ञां प्रार्थयित्वा तु गुरोराचार्यकस्य तु || ईदृशञ्च व्रतं कुर्यात् पर्यटेद्धरणी तले | एकरात्रन्तथा ग्रामे त्रिरात्रं खेटके तथा || पञ्चरात्रं पुरेभोक्तं सप्तरात्रं महापुरे | श्मशाने त्वेकलिङ्गे वा एकवृक्षे चतुष्पथे || शून्यागारे नदीतीरे पर्वते सिन्धु सागरे | पितृवनादि तीर्थेषु रुद्रतीर्थेषु सर्वदा || स्थानेष्वेषु जपं कुर्यात् काय शुद्धि निबन्धनं | शाकमूलं फलाशी च एकान्तर मथापि वा || हत्वा मान्य सकासस्तु समयी पुत्रकोपि वा | दशकोटीस्तदा जप्त्वा उपसर्पेद्गुरुं पुनः || सर्वार्थ शुद्धि शुद्धस्तु दीक्षितो भैरवेध्वरे | सर्वपाप विनिर्मुक्तो शुद्ध्यते नात्र संशयः || पुत्रके च मृते देवि कर्त्तव्यो द्विगुणो जपः | ततो वै द्विगुणो जापसापके तु मृते भवेत् || यदा चार्यो मृतो देवि कोवाशीति जपं कुरु | कूर्वे जपे ध्वरेरामथ पूर्ववद्यदि शोधितः || शुद्ध्यते नात्र संदेहो यदि वा कलुषितो हृदि | निन्हे समयिनं मोहात् सहस्रैकेन शुद्ध्यति || पूर्ववत् पुत्रकाद्येषु द्विगुणं द्विगुणं भवेत् | गुरुन्निन्दति मूढात्मा लक्षार्द्धेन स शुद्ध्यति || यस्तु पक्षेद्गुरोर्द्रव्यं हानिर्यत्रोप जायते | नत्र लक्षं जपेदेकं प्रज्ञाहीने तदर्द्धकं || यः शृणोति गुरोर्निन्दां न गच्छेन्ननिचारयेत् | सोपि देवि गुरुद्रोही लक्ष जाप्येन निर्म्मल || गणिकापि हि या भुक्ता गुरुणा शैलराद् भूते | अहोज्ञ्याशा तु शिष्यस्य पतोमा तेन कल्पिता || अत्रापि लक्षमेकन्तु जपेन्नैवात्रसंशयः | विण्मूत्रं कुरुते यस्तु भूभागे तु गुरु प्रिये || न शिष्ये न च कर्त्तव्यं तत्र स्थाने कथञ्चन | प्. ४३ब्) कृत्वा जप्त्वा युतं चैकं मूलमन्त्रस्य शुद्ध्यति || पशु क्रिडा यदा पश्येद कामा तु शतं जपेत् | दूराध्वोनन्ततो गत्वा आगतश्च पुनर्यदा || विंशतिस्तु सहस्राणि शिष्येभ्योक्तानि सुव्रते | परं शिष्ये स्वशिष्यञ्च द्विगुणं परिकीर्त्तितं || महाव्रते धरैसार्द्धं तथा पाशुपतै सदा | संपर्कं कुरुते यस्तु तस्य दोषं वदाम्यहं || लक्षमेकं जपेन् मन्त्री लक्षमन्तादि भक्षणे | श्वेतार्हं तत वौद्धानाम्भगवानान्तथैव च || पूर्वमेव फलं प्रोक्तं संपर्केन्नादि भक्षणात् | सोम ब्रह्मरपि स्कंद विष्णु देव्यश्च मातरः || उपजीवन्ति ये देवि पूजयित्वा तु भोजकाः | ते वै देवलकास्तेषां प्रायश्चित्तं वदाम्यहं || संपर्कतैः समङ्कृत्वा भाण्डं स्पृष्टं यदा भवेत् | मृन्मयस्य तदा त्यागं कुर्यादेवं विचारतः || लोहं ताम्रं तथा काश्यं हेमं रौप्यादि संभवेत् | अग्नौ शुद्धिस्तत तेषां भश्मना मलशोधनं || शंख शुक्त्यादितो यो *? पञ्चगव्येन शोधयेत् | वस्त्रं तोयेन शुध्येत मन्त्रतोयेन रञ्जितं || चर्मादीनि तथा चित्रम्मंत्रतोयेन प्रोक्षयेत् | काष्ठानां क्षालनं प्रोक्तं प्रोक्षणं शयनाशने || एवमरन्यनेकानि ज्ञात्वा चैव विशोधयेत् | जन्महीतैस्सहैकत्वं संपर्कं कामतो यदा || द्वे युते च जपेद् देवि अकामादयुतं जपेत् | अज्ञात्वा शास्त्र सत् भावं ज्ञानतत्व समुच्चयं || दीक्षाङ्करोषि यो मोहात् पश्चात्ता पङ्करोतियः | पञ्चलक्षं जपेत् तत्र यदि वांच्छति शोभनं || ज्ञानं शास्त्रं तथा मन्त्रं स्नेहाल्लोभात् प्रकाशयेत् | लक्षमेकं जपन्मन्त्री प्रायश्चित्तं विशुद्धयेत् || प्. ४४अ) तदर्द्धं तु जपेद् देवि शास्त्रं हरति वै यदा | भञ्जते तद्वदा ख्यातन्दहन्ता द्विगुणं जपेत् || अर्थ लोभेन विज्ञाय करोति यस्तु चुम्बकः | जानन्तपि न कुर्वीत तत्व भेदन्तथैव च || षष्ठिनेव सहस्राणि मन्त्रस्य परिवर्त्तनं | अग्निकार्यं न कुर्वन्ति देशिकाये प्रमादतः || वर्षाभ्यन्तरसंख्यायाः कर्तव्यं लक्षसंख्यया | प्राकारतोरणाद्वीजं श्मशाने चत्वरे गुहां || चतुष्पथेय शृङ्गाटि नदी मध्ये च सङ्गमे | एक वृक्षे तथा कूपे विण्सूत्र? क्रम *? यदा || अकामा द्विशतं घोरं जपेत् कामाच्छत त्रयं | एवमन्येषु क्षत्रेषु शुद्धिर्घोर जपात् भवेत् || इति सर्वस्वच्छन्दे द्वादशसाहस्रे प्रायश्चित्तं पटलं || ३४ || कामिका ब्रह्मावतारे कामिकाख्या प्रायश्चित्तं लिख्यते | नैष्ठिकस्या गृहस्थं वा घातयित्वा तु देशिकं || पञ्चाष्टकं समाश्रित्य एकलिङ्गं प्रसन्नधी | शतार्द्धे नन्तरं कृत्वा दशलक्षैस्तु शुध्यति || कामतस्तु * *? द्दिष्टमकामाद्धूतसंख्यया | यदिस्याच्छ सहस्रोसौ द्यास्तर्थि तु पराण्मुखः || विपर्यस्तामशगूटाक्ष च धर्मपरायणः | खरवभस्मलिप्तास्ते घातितोसौ विनायकैः || स्थिति संलक्षणार्थाय लक्षांशेन तु कारयेत् | तदस्त्रं धारयित्वाय वस्त्र पूतेन वारिणा || साधकं घटितं येन समयाचारसंयुतं | श्मशाने तु शिवं स्थाप्यमष्टलसैस्तु सेचयेत् || अकारादि हकारान्तैर्द्ध तुषा च वरानने | सेचयेत् परमेशेन विस्फुरन्तयते क्षणे || ज्ञानेन च महादेवि अज्ञानादष्टिसंख्यया | समयिनं तथा हत्वा गुर्वाराधन तत्परं || प्. ४४ब्) महानदं समाश्रित्य चतुलक्षैस्तु सेचयेत् | दशधन्यन्तरं यावद कामाल्लक्षसंख्यया || अपाशेक्ति यमाणस्तु सेचयेत् कारणेश्वरे | अथा शक्ति यमाणे तु पाश शुद्धिः प्रजायते || ब्रह्महत्यादिके जाते पूर्वमाने मुदाहृतं | स्वेष्टलिङ्गेर्द्धतमष्ट दग्धे चैव प्रमादतः || प्रायश्चित्तं लक्षं मन्त्रस्यारोहणं पुनः | प्रमादात्पतितं * * * *(?) स्पृष्ट मथापि वा || दशमास्तिकं वाप्यमिच्छेत् संस्कार मौलिकं | हस्ता तु पतिते लिङ्गे अयुतैः पञ्चभिः शुधी || द्विहस्तस्तु यदा लिङ्गे अयुतैः पञ्चभिः शुचौ | द्विहस्तास्तु यदा लिङ्गे पतितं तु प्रमादतः || सदा लक्षेण शुद्धिः स्यात् पुनः संस्कारमौलिकं | पुरुषमात्राच्युतं लिङ्गं यदिभिन्नं प्रमादतः || प्रायश्चित्तं ततस्यास्ति इत्याह भगवांच्छिवः | शिवलिङ्गेक्ष सूत्रे च शिवज्ञाने वरानने || भ्रष्टे नष्टे हते दग्धे लक्षमावर्त्य शुध्यति | प्रायश्चित्त शुद्धिः स्थापनञ्च तथापरं || इति कामिका प्रश्नोवतरि कामिकाख्ये प्रायश्चित्तं समाप्तमिति || ३५ || अथ सिद्ध योगेश्वरी मते चतुर्विंशति सहस्रे बीजभेदे प्रायश्चित्तं लिख्यते || ? सर्वे शुध्यति देवेशि भग्नलिङ्गि न शुध्यति | लिङ्गन्तु द्विविधा प्रोक्तं स्थावरं नङ्गमन्तथा || * * * (?) स्थावरं विद्या शतिशोपि च षङ्गमं | द्वयं क्रिया न शुध्येत स्त्रीणाम्वे निग्रहेष्वपि || नष्ट भ्रष्टे वपुक्षिप्रम्प्रमादा तु वियोगतः | प्रायश्चित्तं * *? लक्षम्पुनः स्यान्म * * * *? || चललिङ्गं यदा देवि पतितञ्चात् प्रतिष्ठितं | शतमष्टोत्तरं कृत्वा जपं कुर्याच्चतुर्गुणं || प्. ४५अ) पञ्चधा हस्त भ्रष्टे तु हते वै षड्गुणं जपेत् | एवं ज्ञात्वा तु मन्त्रज्ञः प्रायश्चित्तं तु कारयेत् || उक्तं च बीजभेदे तु अकामात् कामतोपि वा | गुरुदत्तं स्वतो वापि प्रायश्चित्तं चरेद् बुधः || अपास्तावरणैसार्द्धं सम्पर्काल्लक्षिको जपः | उक्ताचारविलोमे तु पञ्चसाहस्रिको जपः || प्रमादाद्योषितं हत्वा अमीवाप्य वा रोधिनीं | पञ्चधा लक्ष जाप्येन लक्षभोमेन वा शुचिः || समयि साधको वापि प्रमादाद् यदि घातिनः | जप्त्वा दशगुणं लक्षं लक्षं हुत्वा विशुध्यति | कामतः कोटि जापेन लक्षैश्च दशभिर्हुतै || विशुध्यत्यनु तापेन कपालव्रतसेवनात् | हत्वा च गाम्प्रमादेन प्रायश्चित्तं समाचरेत् || एकान्तरोपि वासश्च त्रिकालं स्नानशीलता | त्रिसन्ध्यन्तु जपः कार्यस्त्वष्टोत्तरशतं क्रमात् || षण्मासन्तु व्रते स्थित्वा प्रतिनो भोजयेत् ततः | कामतो विनिहत्याथ प्रतिनो भोजयेत् ततः || प्रायश्चित्तं न विद्यते || कोशानां विक्रयं कृत्वा शास्त्रे प्रतिमयोरपि | लक्षेण शुध्यते देवि पुनर्दीक्षान्तथैव च || विवस्त्रां वनिता दृष्ट्वा प्रमादात् प्रकटस्तनीं | सप्तधा वर्त्तयेद् देवि विशुध्येत न संशयः || इति सिद्धयोगेश्वरी मते चतुर्विंशति साहस्रे बीजभेदे प्रायश्चित्त पटलं समाप्तं || ३६ || अथ भैरवश्रोतसि सिद्धयोगेश्वरी मते चूडामणि तन्त्रे उत्तरोत्तरे प्रायश्चित्तं लिख्यते || देव्युवाच || प्रायश्चित्तं महादेश मूलमन्त्रे तु सूचितं | समयां लोपयेद् यस्तु ज्ञात्वा शास्त्रार्थ सन्ततिं || समयी पुत्रकोवाथ साधकाचार्ययोरपि | कर्मणा येन देवेश प्रायश्चित्ती भवेन् नरः || प्. ४५ब्) शुद्ध्यते कर्मणा केन तत्कथम्वद भैरव | भैरव उवाच || मूलतन्त्रे मया देवि सूचितः कथितौ न हि | कल्पाख्ये तु महातन्त्रे प्रायश्चित्तस्य निर्णयः || कथ्यते स समासेन प्राणिनांहितकाम्यया | निर्माल्य शंकरो मोहाज्जायते कस्यचिद् यदि || सहस्रं तु त्रिसंध्यायां यावत् सप्तदिनावधिं | आकर्त्तनाद् विशुध्येत समयाख्या तु विद्यया || कामान्निर्माल्य भक्षी च दिनार्द्धं दिनमेव च | षण्मासाच्छुध्यते तस्या जपमानास्थि सन्धिषु || अकात्कामतो वापि निर्माल्यस्य च शङ्करं | वर्ज्जयितं प्रयत्नेन यदीच्छेत् सिद्धिमात्मनः || भक्षयेत् भैरवे लिङ्गे चले वापि स्थिरेपि वा | स्वमन्त्रेण तु संसिद्धिः अन्यथा शंकरो भवेत् || यागकाले महादेवि वीरसंघस्य क्रीडने | न भवेच्छङ्करस्तत्र यो वा मन्त्रः प्रपूज्यते || अकामात् कामतो वाथ गुर्वावा लंघनेन तु | दुर्गतिः स दुरात्मा तु प्रायश्चित्तस्य भाजनः || न च सिद्धिर्भवेत् तस्य इहलोके परत्र च | प्रायश्चित्तं तदा तन्त्र कर्तव्यन्ति यमेन तु || षण्मासेन विशुध्येत त्रिसन्ध्यं जपमेवनात् | संख्याया रहितो देवि विधिः सर्वेषु चोदितः || संघयोद्गुरु पत्नीं तु दुहित्रीं भगिनीन्तथा | प्रायश्चित्तं न तत्रास्ति कल्पकोटि शतैरपि || अधिक्षेपं दहेत् तस्य आचार्यस्य मनोयमे | अब्दमेकं व्रते स्थित्वा नियमाज्जप सेवनात् || शुद्धकायो भवेत् तेन अन्यथा नरकं यजेत् | भ्रष्टे न गुरुणा देवि सिद्धिस्तस्य भवेद्ध्रुवं || तुष्यन्ति देवताः सर्वाः सम्प्रदायश्च विन्दति | अकृत्वा वा कथन्तस्य समयाचारलोपके || प्. ४६अ) एवं ज्ञात्वा तु मेधावी गुरोराज्ञान्तु याजयेत् | विवस्त्रां वनितां दृष्ट्वा प्रमादात् प्रकटस्तनीं || सपधावर्त्तयेद् देवी शुध्यते नात्र संशयः | पशु क्रीडां यदा पश्येदकामाच्च शतं जपेत् || मांसादि भक्षणे देवि निषिद्धानाम्पुरागमे | समये चैव मार्गे तु अनुष्ठान परायणः || सप्तधा वर्त्तनात् कामादकामादर्द्धता शुचिः | विरुद्धं वदते कश्चित् क्रुद्धः समयिभीः सह || सप्तसंख्या क्रमेणैव त्रिसन्ध्यं जपसेवनात् | क्रुद्धस्तु पुत्रकैसार्द्धं विरुद्धं वदते यदा || दिन द्वयं त्रिसन्ध्यं च जपेत् तत्समसंख्यया | आचार्यैः सहयत् किञ्चिद् वदते चाग्निरूपकं || अधिक्षेपम्महेशाति वाचया मनसापि वा | अयुतैकं व्रते स्थित्वा जप्त्वा चैव विशुध्यति || पुनः क्षमापयेत् तन्तु अन्यथा नैव शुध्यति | साधकैः सहदेवेशि क्रुद्धचित्तस्तु मन्दधी || द्विशतेन विशुध्येत नित्यानुष्ठान तत्परः | स्त्रीणामथाधिजे पञ्च प्रौढां वालाञ्च कन्यकां || दिनमेकं त्रिसध्यायां शतमष्टोत्तरं जपेत् | एष एव विधिर्देवि साधकाचार्ययोरपि || शस्त्रमनेकधा देवि पञ्चश्रोतात्मकं तथा | गारूडं भूतमन्त्रन्तु सिद्धान्तं वामदक्षिणं || शास्त्राद्विनिर्गता मन्त्रास्तर्जन्या करणादयः | इतिहास पुराणानि भारतञ्च भविष्यति || शिववक्त्राम्बुजाङ्गीर्णं सर्वं वै शास्त्रसागरं | शास्त्राणान्दूषणे देवि पञ्चस्रोतात्मके तथा || समयीभूषणे चैव शतमष्टोत्तरं जपेत् | अकामाद्यातयित् कंश्चिच्छैवं वै मलपञ्चकं || दशलक्षञ्जपेन्मन्त्री नियमस्थो व्रत स्थितः | घाटयेत् कामतो देवि प्रायश्चित्तं न विद्यते || अर्द्धा तु दर्द्धजाप्येन संयोगाच्छंकरे तथा | प्. ४६ब्) प्रहाराच्च जपेत् पञ्च रक्ताद्रक्त प्रदर्शने || हस्तमात्राच्युते लिङ्गे अयुतैकेन शुध्यति | वृद्धिसंख्या क्रमेणैव परिमाणं जपस्य तु || त्रिसन्ध्यंन्तु जपं कार्यं दिनवृद्धि क्रमेण तु | मासमेकं व्रते स्थित्वा प्रतिमां भोजयेत् ततः || आन्हिके तु शतैकेन सन्ध्यालोपे तथैव च | ब्राह्मणं घाने ये स्थानादयुतार्द्धेन शुध्यति || शुद्धि तथर्द्धितः ख्यातं द्विगुणं वौद्ध नग्नकं | अकामात् कामतो वापि प्रायश्चित्तं न विद्यते || इति भैरवस्त्रोतसि सिद्धयोगेश्वरीमते सार्द्धत्रिसाहस्रिके चूडामणि तन्त्रे उत्तरोत्तरे ज्ञानाधिकारे भैरवो भैरवोद्याने प्रायश्चित्तपटलं || अथ सिद्ध योगेश्वरी मते चतुर्विंशति साहस्रे त्रिकेसारोत्तरे प्रायश्चित्तं लिख्यते || अभक्षाभक्षणं कृत्वा पेयापेयं तथैव च | मैथुनं चैक जापेन अगम्यागमने द्विभिः || म्लेच्छादि स्पर्शने देवि त्रिजप्तेन तु मुच्यते | गोवध्यां ब्रह्महत्यां च सहस्रेणैव शोधयेत् || स्त्रीहत्या स युते नैव लिङ्ग भेदे तथैव च | सन्ध्यालोपे कृते चैव शतमष्टोत्तरं जपेत् || सहस्रै पंचभिर्द्देवि देवद्रव्यं विशोधयेत् | सर्वप्राणि वधं कृत्वा हत्वा चैव चराचरं || अष्टोत्तर शतेनैव मुच्यते सर्व किल्विषात् | दुःस्वप्ने तु त्रिधा जाप्या अरिष्टे च चतुर्विधा || निषिधा चरणे मन्त्री शतमष्टोत्तरञ्जपेत् | स्त्रीवालताडने चैव दुर्भाष्या भाषणे कृते || शतमष्टोत्तरञ्जप्त्वा सर्वपापाद्विमुच्यते | सहस्रन्तु जपेन् मन्त्री सम्पर्कादन्य मन्त्रिणा || अन्य व्रतधरैः सार्द्धं सम्पर्क्तन्तु विवर्ज्जयेत् | अथ कश्चित् प्रमादेन सहस्रं पञ्चधा जपेत् || प्. ४७अ) सर्वे पातकसंशुद्धिरयुतैकेन जायते | तोलितः शुध्येते पापी सर्वपापं करोति यः || अयुत जापादग्नि होमाच्युध्यते पंचपातकैः | अनध्याये पठज्छास्त्रं सहस्राष्टोत्तरं जपेत् || कामतो कामतो वापी यत्पापं समुपार्ज्जितं | सहस्रैकमकामस्तु न काशी स्नान पूर्वकं || पंचविंशति साहस्रैः स कामो मुच्यते भृशं | कथयामि ततो विद्यां प्रायश्चित्ते तु भैरवि || ओं अघोरे ह्रीं परमघोरे हूं घोररूपेहः घोघोरमुखी भीमभीषणे च मपि वहे रुरु र र फट् २ ह्रें हः फट् || परापरा समाख्याता विद्या पापप्रणाशिनी | उद्धृता दिव्य भेदंते त्वेक चत्वारिंशदक्षरैः || इति सिद्धयोगेश्वरी मते चतुर्विंशति सहस्रे त्रिकसारोत्तरे प्रायश्चित्तपटलं समाप्तमिति || ३८ || सर्वज्ञान महोदधौ प्रायश्चित्तं लिख्यते | ब्रह्महत्या सुरापानं गोवध्या गुरुनिन्दनं || चाण्डालस्पर्शसम्पर्कं कृत्वा प्राणि वदन्तथा | अभोज्य भोजनङ्कृत्वा सद्यो जातेन शुध्यते || विण्मूत्र भक्षणे देवि रतो गोमांस भक्षणे | अगम्यागमनं कृत्वा वामदेवेन शुध्यति || निर्माल्य भक्षणो च्छिष्टे उच्छिष्टस्पर्शनेपि वा | व्रत सोपे व्रतभ्यागे गुर्वाज्ञा लंघने तथा || च्छेदने पुण्यवृक्षाणां तथा निर्माल्यलंघने | लिङ्गिनो नन्दनं चैव अघोरेणैव शुध्यति || गर्भपाती गुरुद्रोही स्त्रीवधो नारि विक्रयी | मित्र विशुम्भघाती च देव ब्राह्मण निन्दकः || दीक्षयेद् द्रव्यलोभेन स्थापनञ्च करोति यः | रजस्वलान्न भोक्ता च वक्त्र जापेन शुध्यति || प्. ४७ब्) वाचिकम्मातसंपापङ्कायिकं यत्प्रकीर्त्तितं | सर्वं तन्नाशयेद् देवि ईश्वजापेन मानवः || एवं हि कर्मजं सर्वे शुभं वा यदि वा शुभं | शुभं कर्म समाश्रित्यनाशयेद शुभं प्रिये || जन्ममृत्युजराव्याधि दुःखशोकानुबन्धनं | जपहोमेन नपत्ति तस्मात् पुण्यं जपं कुरु || जपेन शुध्यते पापञ्जपेनाभ्यङ्गुलं लभेत् | दुःस्वप्नं वाथ वारिष्टं हन्यते पुण्य जापतः || पुण्यङ्कर्म सदा कुर्यात् पुण्येन प्राप्नुयात् सुखं | तस्मात् सुखं || तस्मात् पुण्य मयो भुत्वा पुण्यङ्कर्म समाचरेत् | गुरुवालयुवा कर्म ज्ञात्वा चैव विभागतः || प्रायश्चित्तन्तु दातव्यं शास्त्रोक्तं गुरुभाषितं | गुरुवाक्यं प्रमाणं वै किन्तु तद्भाषितं मया || इति सर्वज्ञानमहोदधौ प्रायश्चित्तप्रकरणं समाप्तमिति || ३९ || अथ रस स्वच्छन्देषु साहस्रे प्रायश्चित्तं लिख्यते | देवस्वे भक्षितं चैव अकामाद्वरवर्णिनि || बहुरूपस्य मन्त्रस्य कोटि जाप्येन शुध्यति | कामतो द्विगुणं जाप्येस्पुनर्दीक्षान्तु शुद्धयेत् || अथ वा शिव निर्माल्यम्प्रनालं वा प्रजंघयेत् | जप्त्वा युत त्रयं दत्वा गडुकानां शताष्टकं || कामतस्तु तदा शुद्धिरकामादयुत द्वयं | अकामाद् वह्नि द्रव्यो तु भक्षिते च कदाचन || लक्षार्द्धं तु जपेत् मन्त्री कामतो लक्षमारेत् | अकामाच्चण्ड द्रव्ये तु भक्षिते लक्षमाचरेत् || लक्ष द्वे येन कामा तु दीक्षयाच्च पुनः शुचिः | देव द्रव्ये गुरोर्द्रव्ये द्रव्ये चण्डेश्वरस्य च || त्रिरात्रमुप वासन्तु कृत्वा मन्त्रञ्जपेद् बुधः | निर्माल्यं भक्षितं येन अकामेन सुराधिपे || प्. ४८अ) पञ्चायुतानि जप्त्वा तु शुद्ध्येते नात्र संशयः | बहुरूपस्य मन्त्रस्य कामतो द्विगुणञ्जपेत् || शंकरस्थानु कामान्तु ये दृष्टामूलसम्भवाः | गुरु गुरु तराज्ञेया लघुलतरास्तथा || देव द्रव्यादिके दोषाः कथिता ये मया प्रिये | तत्संपर्का तु सम्पर्के कथिता मूलसम्भवाः || सङ्करस्य महाभागस्तृतीयांशेन कीर्त्तितो | बाह्य कीर्त्तितो जाप्यः अकामात् कामतोपि वा || शङ्करैः सहसम्पर्के प्रति शङ्कर एव च | शङ्करस्तु जपस्तत्र अर्द्धेन कथितो मया || इति रसच्छन्दे षट्साहस्रे प्रायश्चित्तमिदं || ३९ || पिचुमते प्रायश्चित्तं लिख्यते || ब्रह्मघाति जपेल्लक्षं व्रतस्थः सुसमाहितः | लिङ्गे प्रहारदायी च स्थिरे वा जीवसंज्ञके || जपेद् दश सहस्राणि पञ्चातपसमन्वितः | कर्णमासादिकं च्छित्वा शक्तः स्याद् दश लक्षिकः || नक्त भोजी जपेच्छुद्ध्येत् पञ्चातपसमन्वितः | नष्टेक्षसूत्रे देवेशि दशसाहस्रिको जपः || दग्धे लक्ष जपाच्छुद्धि कृते च दशधा ततः | यत्र मन्त्राः पुरन्यस्ता दोषा नैव विसर्ज्जयेत् || इति पिचुमते प्रायश्चित्तं समाप्तमिति || ४० || पारमेश्वरे महातन्त्रे प्रायश्चित्तं लिख्यते | गुर्विणीनां प्रकरणे भुक्त्वा वाम मनुस्मरेत् || वालानान्त्र्यमकरणे सद्योजातमनुस्मरेत् | निष्क्राम्यान्तं प्रासने च पुरुषेन्द्रं समभ्यसेत् || भुक्त्वा च चूडाकरणे कर्णवेधे तथैव च | व्रते तथा च गोदाने भोक्तव्यं निर्विशङ्कितैः || विवाहे तु यदन्तं स्याद् दोषस्तत्र न विद्यते | पर्ज्यञ्चतुर्थिकात्रन्तु भुक्त्वा वाम मनुस्मरेत् || पाकयज्ञेषु भोक्तव्यं हवियज्ञेषु चैव हि | सौमसंस्थासुभोक्तव्यन्तदन्तं पावनं स्मृतं || प्. ४८ब्) वोपी कूप तडागानामारागाणाञ्च कल्पने | प्रतिष्ठासु च देवानान्न भोक्तव्यं कदाचन || सूतके मृतके चैव भुक्त्वा वाममनुस्मरेत् | आत्मीयेपि न भोक्तव्यं सूतके मृतके तथा || भुक्त्वा त्रिरातमभ्यस्य बहुरूपं विशुध्यति | दिक्षितान्तन्तु भोक्तव्यञ्चातुर्वर्णस्य शङ्कितैः || त्रयाणां ब्राह्मणादीनां भुञ्जीत दीक्षितात्मनां | स्वधर्मे संस्थितानान्तु न शूद्राणाङ्कदाचन || असद्यपाश्चये शूद्राः शौचाचारसमन्विताः | शूद्रा भक्ताश्च ये तेषां भोज्यमन्त्रं प्रकीर्तितात् || द्वावेवाशुमिणौ भोज्यौ ब्रह्मचारी गृही तथा | अभोज्य मनयोरत्नं तथा चैवान्यलिङ्गिनां || जपः सर्वत्र सर्वेषां सहस्रमुषितात्मनां | कण्ठमात्रं जले कार्यं समयेन्द्रियवाहिनीं || एवं भवति शुद्धिस्तु गुरोर्वचनवानिति | इति पारमेश्वरे महातन्त्रे सामान्यप्रकरणे गुर्विणी भोज्यान्न पटलं समाप्तमिति || ४२ || अथाग्नेय महातन्त्रे मोहचुरोत्तरे प्रायश्चित्तं लिख्यते | प्रायश्चित्तं प्रवक्ष्यामि सांप्रतं ते शचीपते || दोषव्यपोहतार्थाय धर्मस्य स्थितये पुनः | मोहादज्ञानतो वापि अप्रसुप्ते जनार्द्दन्ते || पवित्रं कारयेद् यस्तु स पापी पाप मोहितः | पञ्चदिनमनाहारो जप्तापञ्चायुतं हरेत् || शुद्धिमेवं समत्पेतिना यथा तु कदाचनः | भाद्रादूर्द्धन्न कुर्वीत सिद्धान्ते दोषभाग्भवेत् || लक्षद्वये स घोरेण जप्त्वा चैव विशुध्यति | दैवादज्ञानतो वापि नाषाढदि त्रये कृतं || तत्राप्येवं विनिर्द्देशं प्रायश्चित्तं पुरन्दर | स्वशास्त्रे वर्त्तनं नित्यं समयाचारपालनं || प्. ४९अ) सुपरीक्ष्य प्रकर्त्तव्यं निषिद्धाचारवर्ज्जनं | यथा श्रुतं यथा दृष्टं निवर्द्वगुरुभिर्यथा || स्वसिद्धान्त विरोधेन तद्विलंघविलंघनं | सकृत्संध्यो विलोपे तु अजातस्य शतं जपेत् || त्रिकाललोपे त्रिगुणं सोपवासं स कामतः | एककालार्चेनै सुप्ते सहस्रं दक्षिणं जपेत् || एककालं द्विकालं वा त्रिकालं सार्द्धरात्रिकं | उपवासं समोपेतं कर्मलोपे कृते सति || देवार्थे चैव गुर्वार्थे काले लोपेन दोषभाक् | शास्त्रनिन्दा गुरोर्निन्दा लिङ्गानां यत्र वर्त्तते || तत्स्मात् स्थानाद् व्रजेद् दूरं सद्योजातशतं जपेत् | महापातकसंयुक्ता ये चान्ये पापकर्मिणः || पतिताश्चाभि शस्ताश्र्य ते तु वर्ज्याः प्रयत्नतः | अज्ञानात् स हुतिं कृत्वा दक्षिणस्या युतं जपेत् || न लंघयेद् गुरुच्छायां न शिवस्य न लिङ्गिनां | त्रिसतं रूपिणं जप्त्वा गो कन्या स द्विजे शतं || सहस्रांल्लुंटिते लिङ्गे वर्त्तिते द्विगुणाच्छुचिः | अयुतं स्त्रिचतुर्लुंठिते च्युते स्वभ्रे दशायुतान् || गड्डुकाद्याभिघाते च द्व्ययुताल्लघुतद् दलात् | स्तुत्यादौ वश्मे संस्पर्शे दक्षिणस्या युतत्रयात् || इष्टलिङ्गे हृते नष्टे वह्निलीढे प्रमादतः | जप्त्वा लक्ष स घोरेण तद्रूपं स्थापनाच्छुचिः || साधारे पतिते लिङ्गे तालेतालेऽयुतं जपेत् | निराधारे तु द्विगुणं कल्पं न्यूनाधिकन्ततः || अक्ष सूत्रापराधे तु उक्त पादञ्चरेद् बुधः | अविसर्जित पात्रे तु भङ्गे वाथ विवर्त्तिते || शतद्वयात्सहस्रान्तुत्तदर्द्धात् कुमतः शुचिः | द्विगुणं स्थण्डिले प्राहुः प्रायश्चीतं स स्वाधिपैः || निर्वाणे स शिवे वह्नौ त्रिरात्रं समुपोषितः | प्. ४९ब्) अयुतं रूपिणा जप्त्वा शुद्धिमूर्च्छत्य संशयः || रक्षितेपि हि निर्वाणे अहोरात्र सुपोषितः | सहस्रम्बहुरूपेण जप्त्वा शुध्यति साधक || पूर्वाह्नं चैव मध्याह्नं समाप्य स्थितये तनौ | चरेन्माधुकरिं वीक्षां भुक्ति मुक्ति समिहकः || तां भिक्षां वाचयीत्वा तु किञ्चित् स्थित्वान्यतो व्रजेत् | अविवर्तित्तं भ्रमेत् भिक्षां ज्ञात्वा वृत्तञ्च वर्णिनां || स्थितिं सुद्धासमं गच्छेच्छुचि स्थाने निधाय च | मृद्भिः संशोध्य चरणौ करौक्षाल्या चमेत् ततः || भस्मस्नानं ततः कृत्वा मन्त्रक्ययोरपि स्मरेत् | अस्त्रं दीवोल्क यो ध्यात्वा प्रेक्ष्यताम्ये विभय च || शिवाय गुरवे दत्वा भुञ्जीत विधिपूर्वकं | आचान्तः पूर्ववत् स्नातः स्मृत्वा नत्वा शिवं गुरुं || अयाचितैः स्थितिं कृत्वा स्वधनैर्वा क्रमागतैः | स्वजाति दीक्षितैः स्पृष्टः स्नात्वा चम्य शतं जपेत् || तस्मिन्न दीक्षितैः स्पृष्टे स्नात्वा चम्य शतं जपेत् | समीपे दीक्षितै स्पृष्टे स्नात्वा चम्य शत द्वयं || तस्मिन्न दीक्षितै स्पृष्टे सोपवासो जपो मतः | एवं बुद्धा प्रकर्त्तव्यामितरैः पादवर्ज्जितः || पुरुषाघोर वामोजा जातीशा ब्राह्मणादितः | त्रिरात्र मन्त्यजा स्पर्शादघोरस्या युताच्छुचिः || सकृच्छ्रं त्र्ययुतं शक्र चाण्डालस्पर्शने दिशेत् | ज्ञात्वा नात्र प्रकर्त्तव्यं प्रायऽऽचित्तं सुराधिपः || अन्नाद्यं मदिरा स्पृष्टं यदि भुक्ते त्वकामतः | विण्मूत्ररेतसा स्पृष्टं लीढं वा काककुक्कुरैः || कपि ग्राहशिवा दक्षैर्विड्वराहैश्च दूषितैः | शूद्रादुच्छिष्टसंस्पृष्टं स्पृष्टम्वा त्यन्त जातिभिः || कृत्वा स्नानं निराहारः किपिग्राहशिलादक्षे पंचगव्यं समाचरेत् | इति संध्यं सहस्रन्तु जपेद् घोरं समाहितः | प्. ५०अ) त्रिदिनं नक्तभोजी स्याद्भिः स्नायी ध्यान तत्परः || देवमिष्टं चतुर्थेह्नि सहस्रं होमयेत् ततः | उपवासन्तथानक्तं पञ्चगव्यं विशुद्धयेत् || क्षत्रियो ध्याननिष्ठे तु शुद्धिमेवं विनिर्द्दिशेत् | त्रिकालो प्लवनं वैश्ये सत्कृच्छ्रद्रे विनिर्द्दिशेत् || अकामाद् द्विगुणं कामात् सर्वेषां परिकीर्त्तितं | * *? नालावुजसुनस् पलाण्डुकवकानि च ||? अमेध्योदुदभवं मांसं त्यक्त्वान्निरसनस्त्र्याहं | मत्स्यकण्डूक साम्वुकनस्वं चैव कपर्द्दिकां || पीत्वा नैकोदकं मन्त्री पंचगव्योपवासकः | कृमिकीटा हि संयुक्तां भुक्त्वा वान्तेन शुध्यति || पक्षिका केश कीटैस्तु दुष्टं त्यक्त्वाल्प मोदनं | भस्म संस्पृष्टं प्रोक्ष्ये न शेषं भोज्यं न दुष्यति || पीतशेषस्तु यत्तोयं प्रमादाद् यदि तत् पिवेत् | उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति || पिवन्तोयं पतन्पन्ने तदन्तं योन्ति मोहितः | सहस्रं रूपिणं जप्त्वा पंचगव्येन शुध्यति || भुञ्जानस्य गुदशा वै उच्छिष्टस्यैन्द्रिये श्रुते | आदौ शौचं ततः स्नानंमाचान्तः प्रवरा चमेत् || सहस्रं रूपिणां जप्त्वा सोपवासो विशुद्ध्यति | अनाचान्तः पिवेत् तोयं भक्षयेद् वाथ सूत्रयेत् || जप्त्वा घोरन्निराहारः पञ्चगव्येन न शुध्यति | अर्द्धोच्छिष्टो यदा मन्त्री विष्ठमद्यादिना हतः || स्त्री दोषोप्य जपे घोरम्पञ्चगव्येन शुध्यति | विना यज्ञोपवीतेन पिवति भुंक्ते यदा नरः || पंचगव्यं निराहारो जप्त्वा घोरं विशुद्ध्यति | उच्छिष्टस्तु यदा स्पृष्टं उच्छिष्टैर्वेणुकादिभिः || स्नानं शौचं निराहारो पञ्चगव्यं जपाच्छुचिः | घोषार्करुकारौप्याणाम्यङ्ग शीशकयोरपि || प्. ५०ब्) भस्मासु वारिणा शुद्धि निर्णयस्साद्यथा हरे | शंखसाम्वुकन्शुक्तीनान्तेजसवच्छुद्धिरिष्यते || कथितं शुध्यते क्षीरं दधि शुद्धिर्निगद्यते | दधिपीडान्तरे धृत्वा वीक्षयेत् तदनन्तरं || अन्नादि लेपनिर्मुक्तम्प्रोक्षणाच्छुध्यते दधि | सुतप्तस्य श्रुतस्याथ शुद्धिराज्यस्य कीर्त्तिता || एवं मधुगुडादीनां प्रोक्षणादग्नि योगतः | सभृणा चैव सुक्षोदासोत्सिष्टानु स लेपिका || सभृणा प्रोक्षणाच्छुद्धा स क्षौदामार्जनाधिका | सोच्छिष्टा गोमयो दुष्टष्टा पूर्वसंस्कारसोधिना || अन्यच्छुद्धान्तरं वक्ष्ये समासात् पाकशासन | सुस्नानश्च समाचान्तः शुद्ध वा सा शुचिः पुमान् || पितृदेवोपयुक्तानां प्रत्यहं शौच मिष्यते | त्यागो परिधान वस्त्राणां प्रावरणस्य वज्रा गमे || रजक क्षालितं वस्त्रम्पुनर्द्धौतम्विशुद्ध्यति | चर्मणा रक्तं वस्त्राणां शुद्धिः क्षारवारिणा || कौशेयाम्विकयोरुक्षैः क्षौमाणां गौरसर्षपौः | श्रीफलैरंशुपहानां कुतपानांमरिष्टकैः || तृणकाष्ठादिकं सर्वं प्रोक्षणाच्छुद्धिमेव हि | शुद्धानां संहतानान्तु प्रोक्षणाच्छुद्धिरिष्यते || संहतानां बहूनान्तु यद्यन् लोपेन दूषितं | तत्र त्यक्त्वा तृणादीनां शोधयेत् साद्यथा शुचि || कारु हस्ता करं द्रव्यं शुद्धं पश्य प्रसारितं | फलानां क्षालनाच्छुद्धिर्विनादोषं पुरन्दर || दशाहाच्छुध्यते विप्रो द्वादशाहे न भूमिपः | वैश्यः पञ्चदशाहेन शुद्धिः शूद्रस्यमासिका || अनुष्ठान विहीनानां जातिमात्रः पुरन्दर | वेदवेदाङ्गसम्पन्नस्न्वाहिताग्निस्तु स द्विजः || शुद्ध्यते तत्क्षणात् स्नानाज्ज्ञात्वान्यत्र प्रकल्पयेत् | प्. ५१अ) असद्यपाः कुलीनाश्च नित्यं धर्मपरायणाः || शूद्रा शुध्यन्ति पक्षेण नात्र कार्याद्विचारणात् | उद्वाहिताश्चतस्रो वै ब्राह्मणे न सदास्त्रियः || सूतकन्तु क्रमात् तासां दशषट्द्व्येकवासरं | द्व्येन शुध्यते वृद्धिर्न वृद्व्याणद्व्यते शवः || सत्विषां वृद्धि वद्धानौ प्रवेश्यनास्ति सूतकं | नृपाणाङ्कारुकाणाम्वा दासीनाञ्च न सूतकं || मृतके तु पृथक्याकं कुर्याद् योगं न तैः सह | त्यक्तन्न चेदतौ जाति तदा शुद्धिर्भ * * *? त् || शुंसनात्पूर्णगर्भस्य स्नाना देव विशुद्ध्यति | जीवञ्जातो यदि शेयान्मृतो वा जायते यदि || सा वा शौचं न कर्तव्य * * * * ? समाचरेत् | अनाय करणात् सद्य एकाहो दन्त जन्मनः || चूडायास्त्रिदिनं प्रोक्तं तत्रामित्याधिकम्व्रतात् | अतोर्द्धं पूर्ववच्छुद्धिः सर्ववर्णेष्वियं स्थितिः || अहन्त कन्यायादन्तया द्विगुणं भवेत् | श्वस्रादिषु च विज्ञेएयं मातुलानाञ्च मातुले || देशान्तरे पृथक् पिण्डे स्नानं स्यात् तद्गुरुं विना | पशुत्वं कृतं येषां सम्यग् निर्वाण दीक्षया || तस्य संपर्क शून्यस्य न स्यातां मृतसूतके | अतश्च परतः शक्रसंपूज्यः सूतके सति || परान्न भोजने नित्यम्परात्र द्रविनः क्रियः | गृहस्थः सर्वकर्माणि नित्या * * * ? वर्जयेत् || द्रव्यैः संकल्पीतैः पूर्वं सूतकान् मृतकादपि | धर्मार्थं दीक्षितैः पूजा कार्या चोन्यादितैस्तथा || पृथक् पाकं विना पुम्भिर्लोकदीक्षानु सारिभिः | अन्तर्यागः प्रकर्तव्यो जपस्नानादिका क्रिया || प्रायश्चित्तं समादेश्य नान्यथा निश्चिता स्थितिः | प्. ५१ब्) एवं हि वर्त्तमानस्य त्रिधा सिद्धिर्न दूरतः | दुःस्वप्न दर्शने नरैतोत् सर्गे शतक्रते || अघोराष्ट शतं जाप्यन्तथा संभाष्यराधमं | अद्भिः संशुध्यते मात्रं स लेषन्तं मृदम्वुभिः || देवचण्डगुरुद्रव्यं भक्षितं यद्यमद्यतः | लक्षपादं तदा देयं द्विगुणं नैष्ठिके मतं || अथाक्रम्य सुनिर्माल्यञ्जपेत्पञ्च शतानि तु | त्रिगुणं कामतो ज्ञेयम् पञ्चगव्यसमन्वितं || यन्निर्म्यान्येन संस्पृष्टं तदा हारोप जीविता | अष्टांशोनन्तु निर्माल्यं दानलंघानभक्षणात् || लंघयेद् यस्तु निर्माल्यं दद्यादज्ञानतोपि वा | गुणायुतं जपेद् घोरं तथा योष्यद्विधाश्रुति || निर्माल्यस्पर्शने त्याज्यम्पण्यद्रव्यन्तथौषधं | स विकारस्य यस्तोयन्तथेक्षु हिंगुजीरकं || सैन्धवाद्यं स कर्पूरं कटुकाद्यं स व्रणुलं | अष्टं च चन्दनं भस्म वेणुमृन्मयदारवं || सर्वं त्याज्यं समुद्दिष्टं धान्यादि प्रोषितं शुचिः | एवमन्यत्र बोद्धव्यं ज्ञात्वा द्रव्यवलावलं || शोधयेत् सर्वदा धीमान्न शुद्धे वन्धनं ध्रुवं | द्रुतं यस्यापवर्गेच्छा स शुद्धौ कृत निश्चयः || शुद्धिविष्ट प्रतिष्ठस्या सिद्धिसु मुक्ती न दूरतः | अशीतिर्यस्य वर्षाणि वालोवाप्यऽनुषोडशः || प्रायश्चित्तार्द्रमर्हन्ति स्त्रियो वा व्याधि पीडिता | तत्रापि च परि क्लेशं ज्ञात्वार्द्धार्ध प्रकल्पयेत् || सुदुकरं स्वयं कर्त्तुमक्षमाद्विगुणोन्मतः | दशोर्द्धं त्रिंशतं यावज्जपात्स्नानेन शुध्यति || स नक्तं पञ्चमं यावत् सोपवासन्तदुर्द्धतः | तत्त्रिधायुतसंजापं तद्वृध्या द्विगुणं ततः || प्. ५२अ) तदर्द्धेन तु संयोगी तस्याप्यर्द्धस्तु शङ्करे | देशं कालं वयः शक्तिर्जातिभक्तिं क्रियाक्रमं || सुचित्रार्य प्रदातव्यं नोपवासो रुगान्विते | शिवार्षितैक चित्तानां सुवृत्तानां पुरन्दर || प्रायश्चित्तं समाख्यातं नोक्तवृत्ति स्थितात्मनां | सप्तकोटि प्रविस्तीर्णं मोहचूरात्मया तव || व्याख्यातं सारमादाय लक्षग्रन्थं न सुव्रते | पुनः स्पृष्टः समासेन त्वयाहं सुरनायकः || तदाख्यातं तदर्द्धेन मोहचूत्तुम्मया हरे | सिद्धिसारसहस्रैस्तु युग्मचन्द्रैस्तदन्ततः || योगज्ञानादि संयुक्तं व्याख्यातं शास्त्रमुत्तमं | सुसंक्षेपं सुगम्भीरं प्रतिष्ठा तन्त्रमुत्तमं || चतुर्गोचरसंवर्द्धं भूयः ख्यातं तदत्तरं | न देयं दुष्ट सत्वानां निन्दा तत्कानु वर्त्तिनां || गुरु देवद्विषां शस्त्र देशिकादि द्विषान्तथा | एवं चान्ये च ये केचित् दुष्टसत्वाः पुरन्दर || तेषां शास्त्रं सदा गोप्यं प्रायश्चित्तमतोन्यथा | गुरुदेवाग्नि भक्ताय शुद्दधानाय सुव्रते || तस्मै देयमिदं शास्त्रमित्याह भगवाच्छिवः | इत्याग्ने ये स महातन्त्रे प्रतिष्ठा तन्त्रे मोहचूरोत्तरं समाप्तं || ४३ || अथ वाथुले प्रायश्चित्तपटलं लिख्यते || ईश्वर उवाच || मार्गस्थाः साधकाद् यास्तु लुप्ताचारा व्रजन्त्यधः | पालनीयमतस्तस्यादाचारं शिवभाषितम् || दैवाद् रागात् तथा मोहाद् यदि दोषमुपागतं | स्नानञ्जपोपवासश्च होमं वै गडुकानि च || पञ्चगव्यासनं दानं मलदुष्कृतनाशनं | अत्यन्त सरुज देहे राजचौरभयं तथा || अग्निवारि भये तद्वत् सूतकान्नाशने तथा | प्. ५२ब्) गुरुदेवाग्नि कार्यये च नित्यहानिर्न दोषभाक् || नित्यं सामाग्रीणा नित्यं यावज्जीवन्तु कारयेत् | पुत्रकेन तथा वत्स कार्यं चागौरवं क्वचित् || गुरुणा साधके नाथ परं नित्यं विवर्जयेत् | गुरुस्तु भक्तितः पूज्यो मंतं कर्मणि यो जपेत् || योजयेद्यः प्रमादेन नक्षैकं दक्षिणे जपेत् | कुलाङ्गतः स क्रियश्च स च्छास्त्र निरतः सदा || शुद्धमार्गैक संसक्तः परदार विवर्जितः | चीर्णविद्या व्रतो दक्षो दम्भमाया विवर्जितः || योगाभ्यास रतो नित्यं प्राणि हिंसा विवर्जिताः | परायवादनिर्मुक्तो गुरुरेवं विधः स्मृतः || गृहस्थो ब्रह्मचारी वा प्रायश्चित्ती द्विधा स्थितः | प्रत्येकं द्विविधं ज्ञेयं समाकाम भेदतः || निष्कामासु सकामे तु द्विगुणां शुद्धिमादिशेत् | स कामस्य तु या शुद्धिर्भौतिकस्या भवेद् यथा || निष्कामं नैष्टिके वधिं || अस्त्रं याते रवौ पूजांशनंय परिवर्जयेत् | विना चन्द्रग्रहे वत्स तथा वै साधकेषु च || एकाह पूजालोपे तु सहस्रं पञ्चमं जपेत् | अकामतः प्रमादाच्च कामतो द्विगुणाच्छुचिः || उपवास * * * * * * * * *(##? त्रिकालं पूजनं येषामेक काम्रमथापि वा || प्रायश्चित्तं समन्तेषान्न न्यूनंनाधिकं क्वचित् | त्रिकालं पूजनें येषां यत्काला इति लोपनं || प्रागुक्तं तु ददत्तैन शुद्धिः कार्या न चान्यथा | एवं वै नैष्ठिकानान्तु वृद्ध्याः शुद्धि समादिशेत् || दैवाद्रोमात्तथा मोहाच्चौरराज भयादिभिः | एभिर्द्दोषैर्न कामित्वं शेषं ज्ञेयन्तु कामतः || एकाहन्तु तथारभ्य यावत् पंक्ति दिनावधिः | वर्द्धयेन्त्रि शतं प्रोक्तां होमं वै गडुकानि च || प्. ५३अ) पक्षैक लोपतो वत्स द्व्ययुतं दक्षिणं जपेत् | द्विगुणं मास लोपे तु द्व्ययुतं वर्द्धयेत् ततः || मासिमासि महासेन यावत् संवत्सरा वधिं | नित्यवद्भोम लोपे तु प्रायश्चित्तं समादिशेत् || अष्टम्यादिषु या पूजा जप होमादि कामता | चतुर्गुणन्तु तलोपे सद्योजात शताच्छुचिः || त्रिकाल लोपेत् त्रिगुणं सोप वासो जपो मतः | अकामतः समाख्यातं कामतो द्विगुणं चरेत् || भौतिकस्य समाख्यातं द्विगुणं नैष्ठिके मतं | चतुर्गुणं स कामस्य कथितं ब्रह्मचारिणः || बहुदैवसिके भ्रंसे प्रागुक्तं षड्गुणं भवेत् | उपवासविहीनस्तु सरुजः स जपः स्मृतः || सुदुष्करं स्वयं कर्त्तुमक्षसद्विगुणोन्यतः | प्रायश्चित्तं प्रकर्त्तव्यन्तच्छ्रोतस्थैश्च दीक्षितैः || सामान्य सिद्धि रक्षार्थं प्रायश्चित्तादिके तथा | स्वमन्त्रो न नियोक्तव्यः सहस्राच्छुद्धि नान्यथा || गरुडम्भूत तन्त्रञ्च लाभात् स्नेहाद् विवर्जयेत् | प्रमादात् कुरुते यस्तु वहुरूप शताच्छुचिः || ये कुर्वन्ति गुरोर्निन्दां समयि पुत्रकादिषु | तस्मात् स्थानाद्वजेद्दुरं सद्योजात शतं जपेत् || कर्मणा मनसा वाचा न कार्यं पारदारिकं | शुद्धिर्लक्षार्द्ध पादेन मोहाद् यदि समाचरेत् || कन्यानां द्विगुणं कार्यं तथा वर्णान्तरेषु च | ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः || विशेषपातकानान्तु सम्बन्धात् पञ्चसंस्मृतं | हत्वा कामाद्द्विजं सद्योगवांगोष्ठे जपेत् सदा || पीत्वा कामात् सुरां वामं शिवहर्म्ये जपेत् सदा | कृत्वा पायस कामन्तु घोरंपि भृवने जपेत् || गुरुस्त्रीगमनं कृत्वा प्रमादाच्च वने नरं | योगं कृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् || प्. ५३ब्) प्रकाशे कामतश्चैव लक्षमावर्त्य शुध्यति | अकामतो रहस्ये च सहस्राच्छुद्धिरिष्यते || कामतः स रहस्ये च तस्मिन् स्यादयुत द्वयं | अकामतः स रहस्ये च तत्रापि चायुतं द्वयं || गुरुद्रोहादृते शुद्धिः कामतस्तु तथा नहि | चान्द्रायणं पराकं वा कृच्छ्रं चैव यथा क्रमं || तप्तं कृच्छ्रं तथा कृच्छ्रं ब्रह्महत्यादि पञ्चसु | लक्षणं सम्प्रवक्ष्यामि क्रमाच्चान्द्रायणादिषु || एकभक्तं त्र्यहं कुर्या त्र्यहं चैव त्वया चितं | त्र्यहं वै नक्त भोजित्व त्र्यहं वै मारुताशनं || एतत् कृच्छ्रं समाख्यातं प्राजापत्य विनिस्मृतं | त्र्यहं मुष्णं विवेद् वारि त्र्यहं क्षीरेण भोजनं || त्र्यहं मूष्णं घृतं पीत्वा त्र्यहं वै केवलं यदा | तप्त कृच्छ्रं समाख्यातमति कृच्छ्रं शृणुष्वतः || क्षीरस्या त्रिपलं पानं दिवसानेकविंशतिः | अनेन क्रमयोगेन कृति कृच्छ्रमुदाहृतं || अति कृच्छ्रं समाख्यातं पराकश्च निगद्यते | द्वादशाहं निराहारः सपराक ईति स्मृतः || मासार्द्धं ग्रासवृद्धिः स्याच्छुक्ले कृष्णे च ह्रासयेत् | चान्द्रायण विधिः प्रोक्त जला देव जलात्मकः || शूद्राणान् दीक्षितानाञ्च मद्यपाने कृते पुनः | नियमादयुताच्छुद्धिरघोरात् कृच्छ्रतस्ततः || क्वमद्यंक्व शिवे भक्तिः क्वमांसं क्वभवार्चनं | मद्यमांस प्रवृत्तानान्दूरे तिष्ठति शङ्कर || गुरुस्त्री गमनं यच्च चातुर्णामपि तत्समं | अज्ञातागोघ्ना यस्मिन् गृहे वै समुपस्थिताः || सर्वभाण्ड परित्यागात् कृच्छ्राच्छुद्धिर्न चान्यथा | भुक्त्वा वा कामताश्चैव तप्त कृच्छ्रात् परः शुचिः || कामतो यदि वा भुक्त्वा सकृत्कृच्छ्राति कृच्छ्रतः | प्. ५४अ) वामदेवं जपेच्छुद्धिः पराकान्ते व्रतं मतं || ज्ञात्वा भुक्त्वाथ वातेन तदासौ तत्समो भवेत् | रजकी चर्म कृष्णां प्रमादात् स दिने स्थिता || भाण्डत्यागात् सदा शुद्धिस्त्र्यहात् पंचमतस्ततः | यदा भुक्त स कामाद् वा कृष्णा घोरजपान्त्र्यहात् || कामतो द्विगुणो वायं सकृद्योगार्द्विधिर्मतः | अकामाद् वहुयामाच्च ततश्चान्द्रायणाच्छुचिः || कामाद्वा वहुयोगाद्वै स रूपं किन्तु वारिणा | प्राणिहिंसात्मकं पापं शतघोर जपाच्छुचिः || स्वजाति दीक्षिते स्पृष्टे तदा चम्यशुचिर्भवेत् | आचम्य दीक्षितस्यापि स्वजातीश शतं जपेत् || समीपे दीक्षिते स्पृष्टे प्रायश्चिन्तु पूर्ववत् | तस्मिन् न दिक्षिते स्पृष्टे जपेत् स्नात्या शत त्रयं || एवमेवान्तेरस्पर्शाद्दीक्षितस्य तरस्य च | शतत्रयञ्च वै स्पर्शं सोपवासो भवेदजः || तथैव शूद्रसंज्ञस्य स्पर्शनाद् दिक्षीतस्य च | स्पर्शाद दीक्षीतस्यापि सहस्रं द्विरुपोषितः || इतरे पादहीनन्तु प्रायश्चित्तं प्रकुर्वते | पुरुषा घोर वा माता जातीशा ब्राह्मणोदितः || त्रिरात्रमन्न्यजा स्पर्शादघोरस्या युताच्छुचिः | कृच्छाद्घोरं जपेत् स्पर्शाच्चण्डालस्या युतत्रयं || ज्ञात्वा ज्ञात्वां यथा स्पर्शात् प्रायश्चित्तन्तु तस्य तु | अज्ञात्वाभाक्तयं येन पश्चाज्ज्ञात्वा षडाननः || स्पृष्ट मन्त्रादिकं चैव मदिरामेवमादिभिः | रेतो मूत्रपुरीषैर्वा काकश्चा नावलीढितं || विड्वराहैस्तधा गृध्रैर्गोमायुकपि कुक्कुटैः | सस्पृष्ट मत्र्यजे नापि शूद्राद्युच्छिष्ट भूषितः || स्नात्वा कृत्वात्व होरात्रम्पञ्चगव्यं समाचरेत् | सहस्रं प्रतिसंध्यन्तु द्वात्रिंशार्णवमभ्यसेत् || प्. ५४ब्) त्रिदिनं नक्तभोजी स्यान्निःस्नायी ध्यान तत्परः | इष्टादेवं चतुर्थेह्नि सहस्रं होमयेत् ततः || पूर्ववत् भोजनं कृत्वा नक्त्वाशि शुध्यते तथा | शिवापितैक चित्तस्य नृपस्यैवं विधीयते || त्रिधा स्नानन्तु वैश्यस्य सकृच्छूद्रस्य कीर्त्तितः | कामतो द्विगुणं जाप्यं सर्वेषां परिकीर्त्तितं || स्नात्वा वै पञ्चगव्यन्तु प्रत्येकं शतमन्त्रितं | पातव्यं तन्त्रिरात्रं वै द्वात्रिंशार्णैवमभ्यसेत् || स्तेयं परस्त्री सम्भोगं सुरापानादिकं ततः | प्रागुक्तेषु प्रदेशेषु जपेन्मन्त्रांस्तु पूर्ववत् || सुयन्त्रितं व्रत ज्ञैश्चाहनिसम्वत्सर द्वयं | अयाचितान्त्रो लध्वाशी स्त्रिस्नायी ध्यान कृत्सदा || वत्सरद्वितयस्यान्ते शिवक्षेत्रं त्रयो व्रजेत् | दीक्षा गुरोर्वोधके च प्रेरके क्रूरभाषणात् || लक्षाल्लक्षां शतशुद्धिःस्तद्दशांशेन कल्पयेत् | षड्गुणामुष्टि घाताद्यैरक्ता द्वादशधा मताः || शस्त्रैः शतगुणाच्छुद्धि ज्ञात्वा नात्र प्रकल्पयेत् | तत्र कुर्याद् व्रतं शक्त्या कृच्छ्र चान्द्रायणादिकं || व्रतान्ते पूर्वदिक्षाया ग्राह्यापंचाब्ज पूर्विकाः | सर्वस्वं च गुरोर्द्दद्याद् देशिकाचार्ययोस्तथा || चतुर्णां शुद्धिरादिष्टा शुद्धिर्नो गुरुतल्पगे | तथा शिव व्रतचरे देशिके साधकादिके || तेषान्तु रक्तपातेन लक्षजापेन शुध्यति | दण्डघाटादिकं दत्तं यदा रक्तं न दृश्येत || तदर्द्धाच्छुते मन्त्री प्रार्थयेत् पाद चन्दनैः | स्पृष्टं रजस्वलानान्तु भुक्तं तद्यद्यकामतः || शुद्ध्यत्ययुत जापेन निराहारेण नान्यथा | कामतो द्विगुणश्चैव स्नात्वा होमं विशुद्ध्यति || यत्किञ्चित् स्वयमस्नीपान्न दद्यात् परमेष्ठिना | प्. ५५अ) गुरुणां वा प्रसादेन तदाष्ट शतञ्जपेत् || निरामिषं शिवे देयं सर्वपाकं शुचिः सदा | मृतके सूतके वाथ भक्षितस्तु अकामतः || कामतो घोरमन्त्रस्य सहस्रं परिवर्त्तयेत् | गणान्नं मणिकान्नञ्च पतिता शाशने तथा || सीमन्तोन्नयने चैव नामधेयं तथा पुनः | अन्नप्रासन काले तु सहस्रं भक्षितो जपेत् || यः प्रवन्ध प्रजातस्य भुक्त्वा सम्वत्सरावधि | सद्यास्त्रा वशमारभ्य दक्षिणास्या युतं जपेत् || कामतो कामतो वापि सकृच्छूद्रान्नभक्षणात् | शतन्तु बहुरूपं स्यात् सच्छूद्रेषु शत त्रयं || वृक्षारामे तथा वापी कूपादिषु शिवालये | विवाहे तु वृषोत् सर्गे गोदानेषु शतं जपेत् || निषेधात्मांस गन्धादि प्रमादाद्भक्षितं यदा | अघोरस्या युतं जप्त्वा तदा शुद्धिमवाप्नुयात् || मैथुनाहारपापानां नियमस्याप्य रक्षणात् | अभ्यङ्गपानवस्त्रादौ सहस्रार्द्धेन शुद्ध्यति || भिक्षान्न भोगलोपच्च शुद्धिः स्यात् पंचभिः शतैः | अधः शयन संकल्प लोपादस्त्रं जपेच्छतं || ग्रह भूतपिसाचादि विच्छेदे तु कृते सति | शतत्रय स घोरस्य जपतो नान्यथा शुचिः || उपरोधात् तथा स्नेहात् कृत्वा शान्तिक पौष्टिके | शतत्रयाङ्ब्भेवे च्छुद्धिर्वहुरुपस्य नान्यथा || शिवधर्म स्थितानाञ्च प्रायश्चित्तमुदाहृतम् | लोकधर्मस्थितानाञ्च मृतके पूजिते तथा || प्रायश्चित्तं समादेश्य मन्तर्यागन्वितं तथा | सहस्र दक्षिणस्यैवं कर्त्तव्यं नान्यथा भवेत् || तूच्चाटनादिकं कृत्वा वहुरूपा युताच्छुचिः | न मारणन्तु मन्त्रेण मनसा क्वापि कारयेत् || देव प्रतिष्ठान्दीक्षाञ्च कृत्वा क्षेत्रादिषु त्रिषु | प्. ५५ब्) अघोरस्या युतं जाप्यं निराहारैः कृतः शुचि || पतुकार्या शमौर्णं वा क्षौमं मौञ्जन्तु वेष्ठनं | चर्म प्रतिग्रहं चैव गृहीतं यत्र कुत्रचित् || जप्तव्यपी यमे नैव त्रिशतं बहुरूपिणं | क्षीरं दधिघृताञ्चैव मधुमांसादिकं च येत् || लवणं तैल तीक्ष्णादि गन्धानि विविधानि च | त्रिशतं बहुरूपस्य जपेच्छुद्धिमवाप्नुयात् || रजतञ्च मणिहेमं विदुसंमौक्तिकन्तथा | ग्रामश्च वृषभं हस्ति स्त्रीपश्चांश्वेतरं नरः || आसयादिषु यत्नेन बहुरूपा युताच्छुचिः | मठ प्रतिगृहें कुर्याज्जपेदघोरस्य लक्षकं || पापानामप्यमेकानां शङ्करे समुपस्थिते | द्वात्रिंशाक्षर संजाप्यन्ततस्सिद्धिमवाप्नुयात् || अत्र शङ्कर दोषाच्च भाण्डशङ्करतस्तथा | शतत्रयादघोरस्य द्व्ययुताद्यानि शङ्करात् || कष्ठोपलतृणादीनां सृरणाच्छतशः शुचिः | स्वे दक्ष प्राणिघातेषु निरस्तेक हतेपि च || अजातस्य शतं जाप्य स कामात्तु तदर्द्धतः | आस्तुनश्च शते नैव मार्ज्जारे च सहस्रह || श्वशृगाल वधे चैव द्विगुणे कपिकुक्कुटे | सर्पाद्यण्डज घातै तु हंसादि शक्र तिष्ठति || सिंहादि मृगघाते तु अजादि पशु घातने | शतान्तनुः शताच्चैव बहुरूपशताच्छुचिः || श्वमृगालादि सर्पेर्वा यदि घातः प्रमादतः | स्नात्या शीताम्बु मध्ये समघोरञ्चा युतञ्जपेत् || श्वपाकंस्वेच्छ चाण्डालवौद्ध कापालि कालिकैः | वक्ताशैः सोमहृद्यूप श्मशान द्रुमस्पर्शनात् || कृत्वा स्नानं स चैलन्तु तृतीयस्य शताच्छुचिः | वामाङ्ग स्पर्शने चैव तथा दुःस्वप्न दर्शने || अरिष्टच्चिन्तनाच्चैव भाषणाद नृतस्य च | प्. ५६अ) कर्मणा मनसा वाचा सहस्रं हृदयं जपेत् || अकामतः प्रसुप्तस्य शुक्रादेः स्पन्दने सति | स्नात्वा पुरासं चैलस्तु अस्त्र मन्त्रं शतं जपेत् || कामतो गर्भपाताच्च तृतीयस्यायुतं जपेत् | धेनुं प्रमादतो हत्वा ह्यघोरालक्षतः शुचिः || धेनुनाञ्च शतं दत्वा लक्षादाप्यथ शुध्यति | भुक्ते भुक्तो तु शूद्रस्य सहस्रात् कामतः शुचिः || कर्मणा मनसा चा साधकादिषु श्वेदने | समाचारेत् तथा किञ्चिन्निर्वेदं येन जायते || कृत्वा पुरा त्रिरात्रन्तु द्वात्रिंशार्णा युताच्छुचिः | देवालये तु यः कुर्यात् पुरीषं मन्त्रमेव वा || देवता यतने रामे शिवक्षेत्रे विशेषतः | सहस्रमेकं जप्तव्यमकामात् पादतः शुचिः || शूद्रं वालकं हत्वा कामतो कामतोपि वा | लक्षमेकं क्रमाज्जप्त्वा तदर्द्धे नाप्य कामतः || नाधिकारे ह्यनु *? ने दशाहं वै भवेद् द्विजः | द्वादशाहं नृपस्यैवं वैश्यः पञ्चदशाह्निकं || निवर्त्तते तु नित्यादि शूद्रे मासं न चान्यथा | निर्वाण दीक्षितानान्तु सूतकं नैव विद्यते || विद्यते सूतकं तेषां लोकदीक्षानुसारतः | शिखाच्छेदो न तत्रास्थि दीक्षा सा लोकिकी मता || अन्तर्याग प्रकर्त्तव्यो लोकिकैरेव दीक्षितैः | जपं प्रदक्षिणादीनि कर्त्तव्यानि प्रयत्नतः || ब्रह्मचारी गृहस्थस्य भोज्यान्नौनायेरो क्वचित् | वानप्रस्थ यतीनान्तु पूर्ववद् दक्षिणं जपेत् || तथान्य लिङ्गिनां भुक्त्वा सहस्रं दक्षिणं जपेत् | द्विजातैश्चोप वा सेतु विहितस्ता दृशो जपः || यो मोहाद् गुरुपादैश्च मोहतः शपथम्वदेत् | ददाति चान्यो दुष्टात्मा ता वुभौ नरकं व्रजेत् || सङ्करेषु च सर्वेषु चेतसः शुद्धि कारणं | प्. ५६ब्) अघोर मन्त्रो जप्तव्यो यावच्चित्तं प्रसीदति || जप तीर्थोपवासाद्य शिवायतनयोगतः | गड्डुकानां प्रदानेन तिलाज्य वहनेन तु || आचार्य सन्निधानेन संहिता श्रवणेन तु | देवद्विज गो शिवाय पञ्च गगने न च || *?रेव महासेन किल्विषं शतशो नयेत् | मेघमुक्त्यो यथा भानुस्तद्वल्लोके विराजते || तस्मादद्यानि वृत्त्यर्थं प्रायश्चित्तं समाचरेत् | इति वा कुले महातन्त्रै आग्नेयाख्यं सामान्यप्रायश्चित्तविधानं || ४४ || लिङ्गन्तु त्रिविधं विद्धि व्यक्ता भक्तो भया कृतिः | लिङ्गमेदो न वक्तव्यः प्रायश्चित्त विधिम्प्रतिः || एकः शिवस्त्रयाणान्तु संस्थितस्तत्व भेदत | प्रायश्चित्त विधौ वत्स लिङ्गभेदं ततः शृणुः || यागेश्वरञ्च * * * * * * * * * * * | स्थितञ्चास्थाप्य मानञ्च विधि वा वलिमादिशेत् || * * * ? शुद्धि भेदास्तु भुर्याशो न्योन्यमूर्च्छनात् | स्वयं वै स्वेष्टलिङ्गे तु अपराधिविशोधकं || परैः कृतेपराधे च शुद्धिस्तत्र विधीयते | स्वेष्ट लिङ्गे साधकेन द्वयस्यात्र विशोधनं || अपराधि विधौ ज्ञेयाः स्वकृतश्चापरै कृतः | एकैको द्विविधो ज्ञेयः स कामाकाय भेदतः || द्विविधः सोपि विज्ञेयो भौतिको नैष्ठिकस्तथा | चतुर्द्धा भौतिकोत् सेयः समयाद्यैश्च भेदतः || लिङ्ग न पराधकरणा शोधनं कथ्यते पुनः | चलास्थाप्या चलास्थाप्या द्विगुणं परिशोधनं || पूर्वसिद्धे चले मुर्द्ध्निर्द्विगुणास्य प्रकल्पयेत् | स्थिरे चतुर्गुणं वत्स प्राक् शुद्धिशुद्धिमादिशेत् || साधारणा तथा साध्या द्विगुणा शुद्धिरीरिता | प्. ५७अ) द्वैताद्वैत संज्ञा तु द्विगुणां शुद्धिमादिशेत् || या तु साधारणाच्छुद्धिर्द्विगुणा तद्विना मताः | स्वेष्ट लिङ्गापराधस्तु परे रेव कृतो यदा || द्विगुणं स्वकृते प्राहुः प्रायश्चित्तं विशुद्धयेत् | निष्कामश्च सकामश्च स्वयमेवापरोथ वा || ज्ञात्वा ज्ञात्वा प्रकर्त्तव्याम्प्रायश्चित्तं शिखिध्वजः | साधकेभ्यो दीक्षितस्य शोधनं द्विगुणं मतं || भौतिकाद्ब्रह्मचारीणां शोधनं द्विगुणं मतं | वर्णेषु वर्णवाह्येषु दृष्ट लिङ्गे विशोधनं || तथैवस्य त्रिविलिङ्ग विशोधनं || तथैवस्य शिते लिङ्गे शोधनं पुरतः शृणु | चातुर्वर्णात्मको वर्गो नटके वर्त्तकोपरः || यदुपस्पर्शतः शुद्धिः स्ववर्ग्गैर्द्वितीयो मतः | काकादि वर्णस्तृतीयः स्नानं यत् स्पर्शतो भवेत् || श्वपवादिश्चतुर्थस्तु स चैल स्पर्शतो यतः | दर्शनं स्पर्शनं वत्स चतुर्वर्गैर्विवर्जितं || लिङ्गाश्रितानां दोषाणाम्प्रमाणं कथ्यते पुनः | येषु संजात मात्रेषु प्रायश्चित्ती भवेन्नरः || प्रायश्चित्तं पुराज्ञेयं लिङ्गच्छायान्न लंघयेत् | शतत्रगुणशुद्धिः स्यादघोरेण न चान्यथा || सहस्रा *(?)षिते शुद्धिर्द्विगुणं परिवर्त्तनात् | विचतुर्लुंठिते लिङ्गे विवृते तु महितले || शुचिश्चैवा युते नैव लक्षात् स्वभ्रध्युते शुचिः | अभिघाते तु संजाते द्व्ययुताच्छुचिमादिशेत् || अदूरादयुते नैव अभिघाताच्छुचिर्भवेत् | पादस्पर्शे लंघने च द्व्ययुताच्छुद्धिमादिशेत् || अर्द्धात् पादरजः स्पर्शे शुद्धिः स्यान्नान्यथा गुह | अयुताच्छूक्ष्म दृष्टे तु द्व्यकुरा तु तदम्भसा || सूत्रे सूत्रोदके नैव लक्षार्द्धात् पादतः शुचिः | रक्त रजस्वला स्पर्शाल्लक्षार्द्धाच्छुद्धिरचिता || प्. ५७ब्) तत्संयुक्तोदक स्पर्शात् पादोनापूर्ववत् शुचिः | विष्टास्पर्शात् तथा लक्षात् पादोनान्तु तदम्भशा || तथा निर्माल्य गर्त्ते तु पतिताच्छुद्धिमादिशेत् | विष्ठागर्त्ते निपाताच्च सार्द्ध लक्षाच्छुचिर्मता || स्थिरस्यो न्यूलनाल्लक्षाच्छुद्धिः स्यात् स्थापनास्तथा | समुद्भवान्तरस्थोपि समुङ्गकविवर्जितैः || समुङ्गकैस्तु लिङ्गे तु प्रमादात् पतिते सति | अयुतार्द्ध शतं हस्ते कल्पं न्यूनाधिकन्ततः || समुद्रकविहीने तु हस्तात्तु पतिते शिवे | हस्तमात्र प्रमाणाच्च पूर्वोक्ता द्विगुणाच्छुचिः || अयुतादपि नालीढे यदि कान्तिर्य हीयेते | कान्ति हीने शुचिर्लक्षीत् परित्यागे कृते परे || व्यङ्गितेष्पथविच्छाये नदी गर्भादि पानतः | हृते नष्टेथ पतिते महामर्त्ते प्रमादतः || श्वकाकालीढिते मीवे वाथ शुचिस्तथा | हृते रात्रौ तस्करैर्वाश्च पचैवार्थसेषिते || विरुद्ध वर्गद्वितये स्पृष्टे त्यागी विधीयते | लक्षैक जपेद्यत्नान्तद्रूपं स्थापयेत् पुन || तदा शुद्धिं मवाप्नोति साधकोदग्ध किल्विषः | अन्यथा नैव मुच्येते विविधैकल्पसंभवात् || एवं वै चाक्षसूत्रस्य प्रायश्चित्तं समाचरेत् | प्रागुक्त लिंगपादेन शुद्धिं तत्र समादिशेत् || लिङ्गाष्टांशेन प्रणायामपाराधेषु लिङ्गवत् | प्रायश्चित्तं प्रदातव्यं गुरुणा तत्ववेदिना || ब्राह्मणादि चतुर्वर्णैः शिवदीक्षा विवर्जितैः | स्वेष्टलिङ्गन्तु यत् पृष्टं प्रायश्चित्तं समादिशेत् || एकद्वित्रिश्चतुश्चान्तैर्द्विजाद्यैस्तु शतै शुचिः | कैवर्त्त वर्गौ संस्पृष्टं स्वेष्टलिङ्गे प्रमादतः || अयुताच्छुद्धिमाप्नोति साधको नान्यथाणुचिः | स्पृष्टे काकादि वर्गैस्तु त्र्ययुताच्छुध्यते नरः || प्. ५८अ) वाणायुतैश्च संशुध्ये दृष्टे तु रचमादिभिः | चतुर्वर्गेण संस्पृष्टे दर्शनाद् विगुणाच्छुचिः || स्वश्रोतो दीक्षितैर्लिङ्गं यदा स्पृष्टं न दोषभाक् | वामदक्षिण मार्गेस्थैः स्पृष्टं लिंगं प्रमादतः || अयुताच्छुध्यते मन्त्री महास्नानेन नान्यथा | वामदक्षिणकोलैश्च सम्पर्कं परिवर्जयेत् || शतेन स्पर्शतः शुद्धिः भावना द्वैत वर्द्धितैः | पञ्चपातक युक्तानां स्पर्शनं परिवर्जयेत् || अलापादयुताच्छुद्धिर्द्विगुणा स्पर्शतो मता | शयना अयुता च्छुद्धिर्भोजनाल्लक्षतः शुचिः || बौर्द्धं चार्वाकसंस्पर्शो शिवं निन्दारतेषु च | स च्छास्त्र दूषिकानाञ्च पतितानाम्विशेषतः || संपर्कं यत्नतो वर्ज्यं संपर्काद् द्विशताच्छुचिः | कौलिका पालिकानान्तु स्पर्शंन्तत् परिवर्ज्जयेत् || पञ्चाधकालयकाणां विवादं नैव कारयेत् | सम्भोषणं तथा स्पर्शं दूरतः परिवर्जयेत् || तथा सांख्यमतार्यैः सत्कार्यकृतवद्धिभिः | विवादौ नैव कर्तव्योस्तद्व्यपेशु लोलुपैः || दिगम्बरैः श्वेतपटैद्दर्शनं परिवर्जयेत् | तथा भगवेतैः *?र्द्वि वक्तव्यं परिवर्जयेत् || वर्ज्जिनानान्तु मूढात्मा यः करोत्पथसङ्गतिं | पृथापरिशुमस्तस्य न स शिवपुरं व्रजेत् || न चेद्देशः प्रकर्तव्यो न विवादः कदाचनः | यः करोति समूढात्माप्ययुताच्छुद्धिमाप्नुयात् || यत्र वै लक्षपादन्तु तत्र भूयोनुरोधनं | महास्नानं तदर्श तु महापूजा तु पादतः || पयोदधि घृतादीनां द्विसहस्र पलेन तु | महास्नानं प्रकर्त्तव्यं महात्रिफलसंयुतं || प्. ५८ब्) कल्लोलजाति पुन्नाग श्रीफलानान्तथैव च | महावर्त्तितद्वावर्त्ति तद्वादत्व शिवस्याग्रे प्रकल्पयेत् || रक्तवर्त्तियुतामातु दिव्यगन्धसमन्विता | महास्नानं समाख्यातं महापूजां तदर्द्धत || उपवासं द्वयं कार्यमयुते क्रियते सदा | दशांशेन जपाद्वोमम्विंशत्यंशेन गड्डुकात् || सत्यं व्रतं ब्रह्मचर्ये भूशर्यानक्त भोजनं | तिलाभ्यंगं परित्यागः सत्यवाग्घविषान्नु भुक् || कुर्वीत शास्त्रनिपुणो जपान्तं यावदेव हि | प्रायश्चित्त मवाप्नोति पंचगव्याशनं हितं || भूरत्नपान वस्त्रायैर्द्देशिकात् पूजयेत् क्रमात् | प्रायश्चित्तं यदा कल्पित् कर्त्तुर्न्नाश कुवाद्यदि || प्रार्थ्यान्याश्चैव कर्तव्यो यथोक्ताद् द्विगुणं पुनः | मप्रार्थ नैव कर्त्तव्या गुरुणा तत्र कोविद || शिववत् पूजयेत् किन्तुस्य गुरुं शिवशासने | वालवालीस वृद्धानांम्भोगिनां व्याधितात्मनां || स्त्रीणां तु कारुकानान्तु प्रायश्चितत्र विद्यते | यतो निर्वाजिका दीक्षा तेषु कार्या न चा परा || समयाचाररता दीक्षैव मोक्षेदा मता | निरपेक्षा तु सा दीक्षा सा प्रेक्षा वीज संयुता || सकामां समयार्थानां वीशजा देशिकेष्वपि | स्त्रिया वसोर्द्वयोर्भक्त्या लिङ्गार्चनरताः सदा || व्यतिक्रमे समुत्पन्ने प्रायश्चित्तं प्रदापयेत् | प्रागुक्तं पादतस्तेषाम् प्रायश्चित्तेन शोधनं || अशक्तितो न्यतः पूज्यं समयी पुत्रकादिभिः | स्वपोतः संस्थितैः पूज्यन्न पूज्यम्वा स दक्षिणैः || स्वगुरुर्न्नं नियोक्तव्यः पूजो जाप्यादि कर्मसु | स्वगुरुः शिववत् पूज्यो भ्राभृव्यादेशिकादयः || प्. ५९अ) साधकास्तद्व देवोक्ताः पुत्रकाभ्रातृवत्मताः | शिववत्समयस्थाश्च द्रष्टव्याः शिवमिच्छता || शान्त्यादौ देशिका योज्याः प्रतिष्ठायाम् विशेषतः | शोधने च तथा योज्याः साधकास्तेष्व भावतः || स्वकीये परकीये तु नियोज्याः सुशिवार्चने | समयी पुत्रको वाथ नाश्नीयात् पूजनम्विना || अवश्च पुरतो देवः संपूज्यः सूतके सति | गृहिणा सहसंयोगी सूतकीटेन नान्यथा || परकीये वा शेद्दूरे तदा योज्यस्तु पूजने | सूतकान्नादि जप्त्वा तन्त्रा प्रमाणेन सूतकी || अन्तर्यागं प्रकर्त्तव्यं सूतके नान्यथा शुचिः | प्रणमस्तेन्न गीतैश्च स्तोतव्यः परमेश्वरः || शिखाच्छेदे कृते शक्त्यै पूर्णाहुत्याह योजने | षडध्वरे प्रमाणाच्च चारेण षोढावितिकैः || * * म्मिमच्च नाथेन षोढा तत्वजिनेन तु | सूतकं मृतकं तेषां न कल्प्यं शिवपूजनं || पूजाकाले तु देवस्य विपुषोङ्गे पतन्ति ये | प्रायश्चित्तं तदा कार्यं यथानु क्रमयोगतः || आपादजानुपर्यन्तं सद्योजातस्तु सप्तधा | संस्मरेद् विधिवन्मन्त्रि शुध्यते नान्यथा क्वचित् || जानुनी गुह्यपर्ययन्तं विप्रेष्वऽऽगे तु संस्मरेत् | त्रिसप्तवारात्वामन्तु कलामन्त्रं न चापरं || आगुह्याद् हृदयान्तन्तु बहुरूपन्तथा स्मरेत् | त्रिसप्त वारान्वामन्तु कलामन्त्रं न चापरं || आगुह्या हृदयान्तन्तु बहुरूपं तथा स्मरेत् | हृदयात्मस्तकान्तन्तु सिक्तं चेत्स्नान माचरेत् || ईशानस्य शतं जाप्यं शुद्धि याति न चान्यथा | अकामा भौतिको यस्तु कुर्यान्निर्माल्यं संघनात् || प्. ५९ब्) तस्या युतेन शुद्धिः स्याच्छेषेषु त्रिषु पूर्ववत् | देवचण्ड गुरुद्रव्यं भक्षितं यच्च कामतः || भौतिको लक्ष जापेन शुचिः शेषास्तु पूर्ववत् | देवचण्ड गुरुद्रव्यं भक्षितं यद्य कामतः || भौतिको लक्ष जापेन शुचिः शेषास्तु पूर्ववत् | यन्निर्माल्येन संस्पृष्टं न गुह्यात् पुरुषेण वा || पादोनान्तु प्रमादाच्च प्रायश्चित्ती भवेन्नरः | प्रमादे भक्षणे तुल्ये मुपेक्षायान्तदर्द्धतः || गुरुदेव द्विजातीनान्द्रव्यं यत्नेन रक्षयेत् | अद्वैतं पूजयेद् यस्तु द्वैतलिङ्गे प्रमादतः || अकामाल्लक्ष जापान्तु त्रितयेष्वपि पूर्ववत् | एवं वै द्वैत मन्त्रन्तु निराचारैर्विवर्जयेत् || वर्निनं पात्रे तु सङ्गे चाथ विवर्जिते | शतद्वयात् सहस्रार्द्धान्तदर्द्वात् क्रमतः शुचिः || द्विगुणं स्थण्डिले प्राहुस्तस्तालेक्षे हुतासने | अविसर्जित पात्रे तु प्रायश्चित्तं विनिर्द्दिशेत् || शिवाग्निं धारयेद् यत्नात् प्रशान्तश्चेत् प्रमादतः | अघोरस्या युतं जाप्यन्तदा शुद्धिर्न्न चान्यथा || सेश्चरे द्विगुणो जापाः कर्त्तव्यास्तु विशेषतः | कीटामिषादि नैवेद्य दर्शनाच्छ ततः शुचिः || प्रमादामिषदानेन बहुरूपा युताच्छुचिः | शतं प्राणाङ्ग धूपे तु पञ्चमं परिवर्त्तयेत् || पात्राभिघाते द्विशतं जप्तव्यं दक्षिणस्य तु | त्रिपंच सप्तदशभिराचार्यैस्तत्र पारगैः || स्वशास्त्र नियतात्याशैः प्रायश्चित्तं प्रदापयेत् | न मूर्खे दीर्घसूत्रेर्वान्नास्तिकेर्वाथ हेतुकेः || यथा शास्त्रोपदिष्टं तु नन्यूनं नाधिकं क्वचित् | न्यूनादिक प्रदानेन देशिको नरकं व्रजेत् || प्. ६०) तस्मात् सर्व प्रयत्नेन यथोक्तन्तु समाचरेत् | इति वाथुले महातन्त्रे प्रायश्चित्तपटलं समाप्तं || ४५ || प्रायश्चित्त्युक्ति क्रमेणास्ति समुच्चय मन्यैः सद्भिरुदीरितम् | शास्त्रेभ्यः संगृह्य मयापि तथैवोक्तं किन्तु सारं समासतः || साराः समुच्चयाः सद्भिः संस्कृत्यसन्त्यनेकशः | कृतेषु चेत् कृतिस्तेषामस्माकं च तथा कृतिः || मत्तमयूरवंशजे श्रीरणि पद्रलम्वकर्ण इति नाम प्रथितः पृथिव्यां मुनिः | निखिल शैवसिद्धान्त श्रोत्रसंस्कार पावनः | चन्द्राङ्कित जटाजूटः कैलाशस्थश्वशंकरः || श्रीरणिपद्रकाश्रमाद्गोराटिकमठे गमत् | धारायांसीयकमिति अनुजग्राह पार्थिवः || आसीत्तत्सन्ततौ मुनिः श्री ईश्वर शिव इति जगतीपतिभिर्नृपैः पूजितपादपङ्कजः || तच्छिष्यो निखिलागमार्थ विमलादर्शो मुनिः श्रीहृदय शिव इति विद्येश्वर तुल्यकीर्तिः || यस्योच्छ्रितो दिक्षु तपः प्रभाव उदीच्यते साधुजनैर्जगत्यां हेलादुद्धृतागमशास्त्रसारः सझटित्पाखण्डितवादकण्डूः || तेतेदं विरचितमनेकसङ्ग्रामसंघट्टकोटिनिहिताखिलद्विपि || प्रायश्चित्तसमुच्चयः समाप्तमिति || ४६ || ########### END OF FILE #######