#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00621 Uniform title: prabhuliṅgalila Description: Notes: Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: March 27, 2022 Publisher : vīraśaivaliṅgibrahmaṇagranthamala Publication year : 1903 Publication city : Solapur Publication country : India #################################################### ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ६ वा. (भविष्यत्पुराणांतर्गत) प्रभुलिंगलीला भाग १ ला. वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८२५, सन् १९०३ पृ० १) श्रीगणेशाय नमः | श्रीनंदिकेश्वराय नमः | अविघ्नमस्तु | शुभमस्तु | || भविष्यत्पुराणे प्रभुलिंगलीलाप्रारंभः || श्रीमद्वेदशिखैकमत्यघटनासिद्धान्तसूत्रावली- तात्पर्यार्थमपार्थमायिकजगन्मिथ्यात्वबोधप्रदम् | सत्यं ज्ञानमनंतमाद्यमजरं सर्वेश्वरं शंकरं वंदेऽहं प्रभुलिंगमूर्तिमनिशं वाऽऽन्मानसागोचरम् || १ || कदाचिन्नैमिषारण्ये पुण्ये मुनिगणावृते | भागीरथीमहोदारप्रवाहपरिपोषितैः || २ || भूषितैरतुलस्निग्धपत्रपुष्पफलव्रजैः | निरंतरवसंताढ्यैर्नितान्तसुखशीतलैः || ३ || चंपकाशोकपुन्नागचंदनागरुतिंदुकैः | कपित्थाश्वत्थखर्जूरनारिकेलमधुद्रुमैः || ४ || पनसप्लक्षकदलीरसालबकुलासनैः | पलाशोदुंबरवटैर्जंबूजम्बीरपाटलैः || ५ || द्राक्षेक्षुदाडिमीकुंदबन्धुजीवकवेणुभिः | महेश्वरपदाम्भोजपूजार्हदलकोमलैः || ६ || पृ० २) असंख्यातैरनुस्यूतैर्बिल्वद्रुमकदंबकैः | मल्लिकामाधवीजाजीकरवीरकुरुंटकैः || ७ || श्यामन्तिकारुद्रजपानंद्यावर्तशमिद्रुमैः | अन्यैरनन्यसामान्यैर्मान्यैर्मुनिभिरन्वहम् || ८ || अभ्रंकषैरदभ्रैस्तैर्विभ्राजितदिगन्तरैः | परिपक्वफलस्यन्दिरसपूरितसारणैः || ९ || अच्छाच्छगुच्छविसरन्मकरन्दरसालसैः | भृंगैर्झंकारमुखरैर्नटद्विटपकोटिभिः || १० || शारिकाकीरकिर्म्मीरमयूरपिकनादितैः | दिव्यैरपि च मन्दारैः पारिजातैश्च कल्पकैः || ११ || सन्तानवृक्षप्रमुखसन्तानैरुपशोभिते | राजहंसकृतक्रीडैराजहंसोपशोभितैः || १२ || भ्राजद्भिरप्सरोवृन्दैराजीवकुमुदाकरैः | राजते राजताद्रींद्रधवलैर्भूतिभूषितैः || १३ || रुद्राक्षमंडपोदग्रशिखरैर्लिखितांबरैः | पृ० ३) नैमिषारण्यवर्णनम् | पर्णशालांगणप्रांशुवंशनर्तितवल्कलैः || १४ || काषायपंक्तिकलिततरुशाखाभिरुज्ज्वले | कोटिकोटिमहालिंगमंगलायतनोन्नते || १५ || सदाशिवाराधनोद्यद्धूपवासितदिक्तटे | हठाभ्यासिमहायोगिकृतयोगमठावृते || १६ || लयानन्दघनाक्रांतमहागह्वरबृंहिते | मंत्रोपास्तिरतोदंचद्गंगाशीकरसैकते || १७ || शिवराजमहायोगिसेविताश्रममंडपे | सर्वदातिथिपूजार्थसमाह्वानरवाकुले || १८ || अध्वरीयहविर्भागागतदैवतसंकुले | वेदवेदान्तसिद्धान्तपाठकध्वनिनादिते || १९ || सदा हरहरध्वानप्रतिध्वनितपुष्करे || नीवारकंदमूलादिसंपूर्णबहुशाद्बले || २० || स्फाटिकाच्छशिलासीनशिवपूजापरायणे | पंचाग्निमध्यविभ्राजत्तपस्विशतसंकुले || २१ || परमार्थपदध्यातृपरहंसगणावृते | पृ० ४) पारमेश्वरविज्ञानपरतत्वैकचिंतकैः || २२ || महापाशुपताघोरशैवशांभवदीक्षितैः || षट्स्थलज्ञानसंपन्नैः शिवजीवैक्यतत्परैः || २३ || श्वेताश्वतरशाखोक्तसमयाचारनिष्ठितैः || भक्तैर्माहेश्वरैश्चैव प्रसादिप्राणलिंगिभिः || २४ || शरणैरैक्यसंपन्नैर्वीरमाहेश्वरोत्तमैः || शिवार्पितानि भुंजानैरनर्पितपराऽऽन्मुखैः || २५ || जगच्छिवमयं सर्वमिति विज्ञाननिश्चितैः | प्राणलिंगांगसंबंधपदार्थपरिशोधकैः || २६ || परमानंदभरितैर्निराभारैर्निरंकुशे | परस्परपरित्यक्तजातिवैरैरनाकुलैः || २७ || गोव्याघ्रादिभिरेकत्र तृणांबुग्रहणोत्सुकैः | संवीते सकलानंदसंधानकरबंधुरे || २८ || कामधुक् कल्पिताकल्पहेमभाजनसज्जितैः | षड्रसायनसारान्नपानीयैः परितोषितैः || २९ || नानादिगंतादायातैरसंख्यैरतिथिव्रजैः | समाश्रितगृहद्वारवेदिकालक्षलक्षिते || ३० || पृ० ५) सूतागमनवर्णनम् | नित्योत्सवसमाराध्यगणाकीर्णशिवालये | एवंविधाश्रमे तत्वज्ञानदूरीकृतश्रमे || ३१ || शौनकाद्या महात्मानो मुनयः शंसितव्रताः | शिवज्ञानरता नित्यं शिवभक्तिरसाप्लुताः || ३२ || शिवध्यानैकनिष्ठास्ते शिवव्रतपरायणाः | शिवाराधनसर्वस्वशिवमाहात्म्यदर्शिनः || ३३ || शिवलीलानुसंधानशेमुषीमुषितांहसः | दैवादभ्यागतं सूतं सत्रयागदिदृक्षया || ३४ || व्यासप्रसादसंप्राप्तत्रिकालज्ञानशालिनं | हस्तामलकवत्सर्वपुराणार्थानुभाविनं || ३५ || शिवैकतानहृदयं शिवदीक्षापरायणम् | शिवाद्वैतानुसंधानचित्कलाकलितांतरम् || ३६ || सदा शिवशिवेत्येव जपन्तं द्व्यक्षरं मुहुः | दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखम् || ३७ || कृतेष्टप्राणभावैक्यं गुरुलिंगचरार्चकम् | भस्मोद्धूलितसर्वांगं फालभास्वत्त्रिपुंड्रकम् || ३८ || पृ० ६) रुद्राक्षहारवलयमुकुटांगदकुंडलम् | शिवदीक्षाक्षणक्षीणपूर्वजातीयलक्षणम् || ३९ || अक्षीणशिवयोगाढ्यमर्चनीयं द्विजातिभिः | कामहर्षिणमालोक्य ते महामुनिसत्तमाः || ४० || दूरादेव समुत्थाय प्रणम्याभ्यर्च्य तं गुरुम् | तद्दत्तभस्मरुद्राक्षप्रसादाशीर्भिरादृताः || ४१ || उपवेश्य सभामध्ये समुन्नतकुशासने || रांकवालंकृतानल्पव्याघ्रचर्मोत्तरच्छदे || ४२ || पृथक्पृथक् च ते सर्वे तदंघ्रिद्वयसन्निधौ | समर्प्य फलपुष्पादीनुपहारानतंद्रिताः || ४३ || भक्त्या भूयः समन्तात्ते दंडवत्प्रणिपत्य च | तदंघ्रिन्यस्तनिटिलदूरीकृतदुरक्षराः || ४४ || कृतांजलिपुटाः सर्वे स्थित्वा सूतं व्यजिज्ञपन् || ४५ || ऋषय ऊचुः | भगवन्सर्वशास्त्रज्ञ पुराणार्थविशारद | वेदप्रकाशकान्येव पुराणानि महामते || ४६ || कथितानि समस्तानि त्वयाऽस्माकं कृपानिधे || तत्र शैवं भविष्यच्च लैंगं वाराहमेव च || ४७ || स्कांदं मात्स्यं तथा कौर्मं मार्कंडेयं च वामनं | ब्रह्मांडं च दशैतानि त्रिलक्षग्रंथसंख्यया || ४८ || पृ० ७) ऋषिप्रश्नवर्णनम् | शैवानि सात्विकानीति श्रुतानि त्वन्मुखांबुजात् | भविष्यन्नामके तत्र पुराणे शिवसंमते || ४९ || कथितं शिवभक्तानां चरितं शिवयोरपि | यदा तिष्ये युगे पापे धर्मनिर्मूलनोद्यतैः || ५० || पाषंडैर्बहुभिः पापैर्बौद्धचार्वाककौलिकैः || देवतान्तरभक्तैश्च शिवनिंदापरायणैः || ५१ || दधीचिना गौतमेन शप्तैर्ब्राह्मणवंशजैः || दैत्यप्रकृतिभिः क्रूरैर्वैष्णवादि प्रभेदतः || ५२ || मार्गांतरप्रविष्टैस्तैः शिवभक्तिः खिलीकृता | तदा प्रमथनाथानामवताराञ्च्छिवाज्ञया || ५३ || तत्कृतप्रत्ययांस्तद्वद्दुष्टनिग्रहणानि च | वीरशैवशुभाचारसम्यगुद्धरणानि च || ५४ || युगावृत्तिक्रमेणैव भविष्यदपि भूतवत् | कृपया परयाऽस्माकं सर्वं कथितवानसि || ५५ || नंदीश्वरावतारेऽत्र तच्चरित्रप्रशंसने | प्रभुमूर्तेर्महेशस्य कल्याणाख्यमहापुरे || ५६ || समागमनमाख्यातं नंदीशस्य सभांप्रति | तदाराधनतुष्टस्य प्रभोरमिततेजसः || ५७ || शिवज्ञानोपदेशश्च वर्णितो भवता मुने | इदानीं श्रोतुमिच्छामः सर्वज्ञस्य महागुरोः || ५८ || पृ० ८) प्रभुमूर्तेर्महेशस्य लीलामानंददायिनीम् | कलिकल्मषनिर्मग्नसमुद्धरणकौशलाम् || ५९ || कथमेष महादेवः प्रभुमूर्त्या निरंजनः | भूमाववततारैतन्माहात्म्यं वक्तुमर्हसि || ६० || तत्कथामृतधाराभिरस्मानानन्दयाधुना | यदि श्रीगुरुकारुण्यपात्रताऽस्मासु विद्यते || ६१ || इति संप्रार्थितः सूतः प्रीतः संजातसंस्मृतिः | शिवावेशवशोत्पन्नपरानन्दलयोदयः || ६२ || चिरं समाहितस्वान्तश्चरणध्याननिर्वृतः | करस्थलिंगप्रसरत्किंचिदुन्मीलितेक्षणः || ६३ || बाह्याभ्यन्तरतौल्येन सर्वं शिवमयं स्मरन् | त्रैकालिकज्ञाननिधिः साक्षात्कृतजगत्त्रयः || ६४ || तत्कृतश्रीगुरुकथाप्रश्नसंजातसंभ्रमः | सर्वांगसंगतोदारपुलकांकुरनिर्भरः || ६५ || आनंदाश्रुपरिक्लिन्ननेत्रांचलसमंचितः | अवलोक्य मुनीन्सर्वान् स्मयमानमुखांबुजः || ६६ || विवक्षुरपि संकोच्य हर्षगद्गदितं वचः | तूष्णीं मुहूर्तमास्थाय पुनः स्फुरितवाग्झरः || ६७ || पृ० ९) सूतकृतगुरुध्यानं गुरुमहिमानुवर्णनं च | स्मरन् व्यासमुनिं भक्त्या गुरुं च गणनायकम् | मेघगंभीरया वाचा प्रोवाच वचनं शुभं || ६८ || सूत उवाच | साधु साधु महात्मानो मुनयः शंसितव्रताः | यत्कृतार्थतमो लोके युष्माभिर्भावितोऽस्म्यहं || ६९ || प्रश्नोऽयं भवतां सर्वजगदानन्ददायकः || क्रियते येन सुदृढा गुरौ भक्तिः परात्मनि || ७० || येषां देवे परा भक्तिर्यथा देवे तथा गुरौ | तैरेव क्रियते सोऽयं प्रश्नो वेदान्तगोचरः || ७१ || अहो सत्संगमहिमा वर्ण्यते केन वा भुवि || येन श्रीगुरुमाहात्म्यकथायां चोदितोऽस्म्यहं || ७२ || सत्संगश्च विवेकश्च निश्चलं नयनद्वयम् | एकेन विकलः काणो द्वाभ्यामंधः प्रकीर्तितः || ७३ || ये शिवे श्रीगुरौ भक्ताः सत्यवाचो जितेंद्रियाः | लिंगांगसंगिनः शुद्धास्ते वै सन्तः प्रकीर्तिताः || ७४ || भस्मरुद्राक्षनियताः पंचाक्षरपरायणाः | विश्वाधिकशिवज्ञाननिष्ठाः सन्तः प्रकीर्तिताः || ७५ || पृ० १०) वेदे शिवे गुरौ ब्राह्मे ये भक्तास्तत्कथामृते | सक्ता विरक्तास्ते सन्तस्तेषां संगो हि दुर्लभः || ७६ || अद्य मे सुदिनं जातं प्रेरितो यत्कथामृते | प्रभोर्भवद्भिर्मुनयः सत्यज्ञानचिदात्मनः || ७७ || यः प्रभुः स्रष्ट्टसृष्टानां जंतूनां शिष्टवर्त्मनाम् | इष्टलिंगांगसाहित्यमुपदेष्टा स्वयं गुरुः || ७८ || यः शिष्यजनरक्षार्थं स्वयं मानुष्यमास्थितः | प्राणं पश्चिममार्गेण धृत्वा चोद्बोध्य कुंडलीम् || ७९ || सदा केवलकुंभेन भावं लिंगे समर्पयन् || चरति स्वेच्छया भूमौ योगीव निरुपाधिकः || ८० || तस्य माहात्म्यमतुलं शृणुध्वं कथयामि वः || प्रभोर्माहात्म्यमखिलं भूतं भव्यं भवच्च यत् || ८१ || न शक्यते मया विप्रा वक्तुं वर्षशतैरपि || गुहास्थितो महादेवो यथोच्चारयतेऽत्र मां || ८२ || तथा कथा प्रतिध्वानसदृक्षेयं समीक्ष्यतां | नाहं वच्मि शिवो वक्ता श्रोताऽपि स महेश्वरः || ८३ || पृ० ११) प्रभुलीलावतारमाहात्म्यवर्णनम् | न यूयं मानवा विप्रा न कथेयं च लौकिकी | गुहेश्वरमहालिंगप्रभुमूर्तेर्गुरोरिदम् || ८४ || लीलावतारमाहात्म्यं शृणुत श्रद्धयाऽस्तिकाः | कालक्षेपार्थमेतन्न वार्ताश्रवणमात्रकं || ८५ || विशुद्धचित्ता ये भक्त्या शृण्वन्ति सततं नरः || शिवस्ताननुगृह्णाति तनुचित्तार्थबंधहृत् || ८६ || नेयं ज्ञातिजनद्वेषकृतयुद्धकथा कथा | न स्त्रीविषयभोगेच्छालंपटाभिकका कथा || ८७ || नानुश्रविकसौख्यार्थकर्मकांडकथाऽपि च | किन्तु कुंडलिनीयोगजनितानन्दनिर्भरा || ८८ || चिदाकाशमयात्मैक्यतृप्तिदेयं कथा शुभा | जन्ममृत्युजराक्रान्तजनकीटकथा नहि || ८९ || कर्मांधकारसंगत्या शैवं धर्ममजानताम् | कथेयं दुर्मदांधानां न स्वेच्छाचारिणां नृणाम् || ९० || अपि तु स्वेच्छयाऽऽरब्धलीलाविग्रहशालिनाम् || चिदाकाशमयांगानां सच्चरित्रवतां कथा || ९१ || पृ० १२) ततः शिवगुरुज्ञानभक्तिनिःश्रेणिकोपमा | भुक्तिमुक्तिप्रदा पुण्या कथेयं श्रूयतां द्विजाः || ९२ || ग्रसित्वेक्षुपलाशानि छागो रोमंथमाचरन् || तावन्मात्रेण संतुष्टो यथा भवति तुच्छधीः || ९३ || तथा नीचजनो लोके स्वर्गादिसुखमुत्तमम् | मत्वा कर्माणि कुर्वाणो जन्म मृत्युं च विंदति || ९४ || यथेक्षुरसमास्वाद्य सुखी भवति वारणः | तथा भक्तिरसं विद्वानास्वाद्यामृतमश्नुते || ९५ || यूयं शिवपदांभोजभक्तिभाजो मुनीश्वराः | प्रभुलिंगमहालीलामाकर्णयत सादरम् || ९६ || स्पर्शवेधिमये देहे यथायसविभूषणम् | तप्तजांबूनदमयं जायते समलंकृतम् || ९७ || तथा वचनमत्यल्पप्रयुक्तं शोभते तराम् | अप्राज्ञेनापि सर्वज्ञे कल्याणगुणभाजने || ९८ || अभिनीय नभः स्प्रष्टुमुन्नमयय भुजावुभौ | किमर्थमूर्ध्वमुतिष्ठेद्व्यापकं तत्समंततः || ९९ || तथा सगुणभावेन नैर्गुण्येनापि लीलया | व्यापकस्य प्रभोः कीर्तिमप्राप्य मम वागियम् || १०० || पृ० १३) किमन्यदाश्रयेत्तेन विना किंचिन्न विद्यते | गोवत्सो गां परित्यज्य भल्लूकीं नानुधावति || १०१ || तथा शिवं परित्यज्य मद्वागन्यं न संश्रयेत् | प्रभोरीशस्य माहात्म्यं पुरा प्रमथभाषितम् || १०२ || पुनः पुनर्युगावृत्त्या भविष्यदपि भूतवत् | संस्मृत्य कथयाम्यद्य शृणुध्वं यूयमास्तिकाः || १०३ || कालो ह्यनादिरेषोऽत्र भूयो भूयः कलौ युगे | प्रभोः प्रमथनाथानामवताराश्च तत्क्रियाः || १०४ || धर्मसंस्थापनार्थाय विज्ञेया आस्तिकोत्तमाः | यंत्रधारः प्रभुर्ज्ञेयः सर्वे यंत्राणि वै वयम् || १०५ || यथा प्रेरयते सोऽयं तथा कुर्मो न चान्यथा | सिद्धवीरेश्वरस्वामी श्रीगुरुः शिवयोगिनाम् || १०६ || बुद्धिं त्रैकालिकीं दद्यात् प्रभोर्लीलानुवर्णने | वाचो यतो निवर्तंते वेदाद्या मनसा सह || १०७ || आदिमध्यान्तशून्यो यो नादबिन्दुकलातिगः | एषोऽयमत्यनिर्देश्यः प्राज्ञैरपि च योगिभिः || १०८ || पृ० १४) श्रीशिवः सच्चिदानन्दो नामरूपविवर्जितः | निर्गुणः परमं तत्वं निर्विकल्पो निरंजनः || १०९ || सर्गसंहारसंसर्गवर्जितो भर्ग ईश्वरः | वशीकृतमहामायः स्वतंत्रः परमेश्वरः || ११० || नंदीश्वरादिप्रमथान्ब्रह्मादीन्सुरपुंगवान् | देवर्षीन् सनकादींश्च हृत्वाऽज्ञानतमश्च्छटाः || १११ || अनुग्रहीतुं सुज्ञानमुद्रया पुस्तकेन च | घंटामृतघटाभ्यां च कमनीयाकृतिं वहन् || ११२ || अर्धचंद्रजटाजूट आकर्णायतलोचनः | लंबमानलसत्कर्णः किंचिदुन्नतनासिकः || ११३ || कंबुग्रीवः पृथूरस्को धृतनागेंद्रकुंडलः | नागयज्ञोपवीताढ्यो योगपट्टाभिरंजितः || ११४ || समुन्नतभुजः श्रीमान्दीर्घरोमावलीयुतः | आवर्तनाभिरुचिरनितंबोरुद्वयांचितः || ११५ || पद्मरागप्रभाजालरंजितांघ्रिद्वयांचितः | दक्षिणामूर्तिरूपेण साक्षात्कृत्य विराजते || ११६ || तस्य श्रीदक्षिणामूर्तेर्वटमूलं हि मन्दिरं | तस्य न्यग्रोधवृक्षस्य जलं शान्तरसः स्मृतः || ११७ || पृ० १५) परमात्मस्वरूपनिरूपणम् | आलवालं च सद्गोष्ठी मुलमोंकार एव च | वेदः प्रकाण्डो विद्याश्च जटास्ताः परिकीर्तिताः || ११८ || तथोपनिषदः शाखा भक्तिः फलमितीर्यते | आनंदः फलसारः स्यादन्तर्ध्यानं प्रसाधनम् || ११९ || चिंतात्यागो महामार्ग इति ज्ञेयं महात्मभिः | तस्य न्यग्रोधवृक्षस्य मूले मुनिगणावृते || १२० || विद्यासिंहासनासीनो ज्ञानं मौनेन सद्गुरुः | बालोऽपि वृद्धशिष्येभ्यो य उपादिशदास्तिकाः || १२१ || तस्य देवस्य माहात्म्यं को वा वर्णयितुं क्षमः | स एव देवदेवेशो भूमौ भक्तानुकंपया || १२२ || परित्यज्य करे शूलं फणिभूषणसंहतिम् | भूतसंघाननेकांश्च कपालकृतभाजनः || १२३ || कंठे विषं ललाटेऽक्षि तिरोधाय गुरुः स्वयम् | कृपारसार्द्रनयनः सुधामधुरभाषणः || १२४ || मूर्तः शान्तरसः साक्षात्कान्त्या दान्त्या समुज्ज्वलः | मन्दस्मितमुखांभोजः कंदर्प इव सुंदरः || १२५ || पृ० १६) किंचित्काषायललितधौतांबरविभूषितः | साक्षान्मोक्षप्रदातेति जनतानंददायकः || १२६ || सर्वलोकप्रसिद्धोऽयं भक्ताभीष्टार्थसिद्धिदः | सिद्धवीरेश्वरो नाम्ना क्षितौ प्रत्यक्षतां गतः || १२७ || महायोगेश्वरस्यास्य महिमानं प्रशंसितुं | शक्तो नंदीश्वरः साक्षान्मादृशाः शक्नुयुः कथम् || १२८ || स एष सिद्धवीरेशः सदाचार्यशिखामणिः | संप्रदायद्वयं चक्रे सकलं निष्कलं च यत् || १२९ || सर्वेषां शांभवं धर्ममुपदिश्य दयानिधिः | रक्षति स्म जगत् कृत्स्नमक्षयज्ञानसागरः || १३० || जन्मभूमिरसौ सर्वकल्याणगुणसन्ततेः | स्वयं हि सर्वभूतात्मा चरलिंगवपुर्धरः || १३१ || शिवभक्तजनोदारजीवरत्नसमाकृतिः | कविर्मायांधतमसविध्वंसनविचक्षणः || १३२ || बौद्धचार्वाकजैनादिपरवादिनराधमैः | कीटैरगम्यसौलभ्यमहीरुहफलोपमः || १३३ || परमार्थशिवाचारपट्टबंधविराजितः | पृ० १७) गोशालाबद्धसुरभिर्भक्तानां स्वनिकेतने || १३४ || जैनमस्तकविन्यस्तशूलाख्यविरुदांकितः | दुर्मानबीजलक्ष्माभृन्मानमर्दनसाहसः || १३५ || मृदुलस्वपदन्यासविलासैः पावयन्महीम | लसन् गमनचातुर्यैर्नटलिंगतनुः शिवः || १३६ || दीयते दीक्षिते यत्तत् क्षीयते नेति वा वदन् | शिष्यसंरक्षणार्थाय स्वयं पर्यटति क्षितौ || १३७ || निजपादोदकं पुण्यं प्रसादं मुक्तिसाधनम् | प्रयच्छति गुरुर्योऽयं भक्तेभ्यः प्रणतार्तिहा || १३८ || आराध्यलक्षणाकार आराधकसुरद्रुमः | आराद्दूरी च सर्वत्र वर्तमानो जगत्त्रये || १३९ || पादार्चकजनस्वान्तरंधकारनिरोधकम् | गुरुशब्दाक्षरद्वंद्वं भजन्विजयते स्वयम् || १४० || शुद्धसत्वकलोपेतो निर्गुणोऽपि गुणाश्रयः | एकोऽपि जलकुंभस्थशशीवानेकतां गतः || १४१ || उपाधिभेदैः श्रुत्या च युक्त्या च न हि वस्तुतः | प्रत्यक्षतारकब्रह्म परात्परतरो गुरुः || १४२ || पृ० १८) मंत्रमूलं गुरोर्वाक्यं पूजामूलं गुरोः पदम् | ध्यानमूलं गुरोर्मूर्तिर्मुक्तिमूलं गुरोः कृपा || १४३ || अणोरणीयान्महतो महीयानपि सद्गुरुः | प्रणवप्राणपदवी प्रणवार्थप्रदर्शकः || १४४ || तृणीकृताणिमाद्यष्टसिद्धिर्यच्छिष्यसंततिः | स योगी कृतकृत्यानां स्वगृहांगणशेवधिः || १४५ || पुण्यैकनिरतानां च स्वर्णाहितमधूपमः | जागरः स्वप्नसौषुप्तभ्रमावस्थाविवर्जितः || १४६ || अवस्थात्रयसाक्षी च सहजानंदसुंदरः | प्राणलिंगांगसंबंधपदार्थज्ञानमादरात् || १४७ || उपदिश्य सुशिष्येभ्यः सुखलीलानुभावनैः | प्रसाद्य भोगमोक्षौ द्वौ यो रक्षति महागुरुः || १४८ || तस्मै श्रीगुरवे सुधींद्रतरवे सत्यात्मने स्वात्मने पुण्याय श्रुतिसंमताय यतये भूम्ने परब्रह्मणे | भक्तव्रातसदावनैकरतये श्रीसिद्धवीरेश्वर- स्वामींद्राय समस्तदेशिकमनःसांद्राय तुभ्यं नमः || १४९ || पृ० १९) इति शिवगुरुवर्यस्तोत्रसंजातहर्षस्तदनु तदनुकंपाजातसर्वार्थबोधः | मुनिगणमवलोक्य श्रोतुकामं समंतात्प्रभुगुरुशिवलीलां प्राह सूतो महात्मा || १५० || शृणुध्वमृषयः सर्वे सावधानेन चेतसा | वेदान्तसारसर्वस्वं न कस्याऽपि प्रकाशितम् || १५१ || अनादिमध्यनिधनमादेराद्यं निरंजनम् | सर्ववेदशिखालक्ष्यमसादृश्यमनामयम् || १५२ || एतत्तदित्यनिर्देश्यमवाऽऽन्मानसगोचरम् | सत्यं ज्ञानमनंतं यत्सदानंदघनं परम् || १५३ || निर्विकल्पं निराख्यातं निरालंबं निराकुलम् | परं ब्रह्म परं धाम परमात्मा परायणम् || १५४ || परात्परं परंज्योतिः परात्परपथातिगम् | स्वप्रकाशचिदाकाशं सर्वव्यापि सदातनम् || १५५ || न तत्र भानुराभाति न चेदं चंद्रतारकम् | नेमाश्च विद्युतो भान्ति कुतोऽग्निस्तत्र भासते || १५६ || पृ० २०) तमेव भान्तमनुभात्येतत्सर्वं विभाति च | तस्य भासा यतो वाचो निवर्तंते हृदा सह || १५७ || येनेदं निखिलं व्याप्तं यद्वै वाचोऽपि वाचकम् | न मन्यते यन्मनसा यन्मतं न मतं भवेत् || १५८ || अमतं यन्मतं तत्स्यादविज्ञातं विजानताम् | विज्ञातमविजानानामेकमेवाद्वितीयकम् || १५९ || केवलं ब्रह्म यल्लिंगं निर्विकाराख्यमिष्यते | तदेव परमं तत्वं सर्वाधिष्ठानमद्भुतम् || १६० || त्रिपाद्ब्रह्मामृतं पूर्णं निष्कलं सर्वकारणम् | अलिंगं लिंगमध्यस्थमद्वैतं प्रकृतेः परम् || १६१ || निर्विकाराख्यतत्वं तदनुत्तरपराक्षरम् | सिसृक्षया मायामनुगृह्णाति सात्विकीम् || १६२ || उदयं प्राप्तवांस्तस्माद्देवः सोऽयं सदाशिवः | महाकैलासमारूढः स एव परमः शिवः || १६३ || सर्वानुग्राहकः सोऽयं सर्वतत्वोत्तरोत्तरः | अदृश्यविग्रहो देवो भावग्राह्यो मनोमयः || १६४ || पृ० २१) पंचकारणसृष्टिक्रमोपन्यासनिरूपणम् | अरूपोऽयं सरूपोऽपि सकलोऽपि च निष्कलः | अवाऽऽन्मानसगम्योऽपि भक्त्या गम्यः परेश्वरः || १६५ || सदाशिवात्समुत्पन्ना चिच्छक्तिः सांबिका शिवा | शिवानन्या परानंदा सैवोमा चित्कला मता || १६६ || सदाशिवश्च चिच्छक्तिर्दांपत्यं स्वेच्छया गतौ | ताभ्यां शिवः समुत्पन्नः स एवेश्वर उच्यते || १६७ || सोऽपि कारणकैलासवर्ती सर्वपिधायकः | मिश्रतत्वमयो यस्माद्देवः सकलनिष्कलः || १६८ || शिवात्तस्मात्समुत्पन्ना स्वेच्छाशक्तिस्तयोर्द्वयोः | मिथुनीभूतयोर्जातः श्रीरुद्रो जगतांपतिः || १६९ || पंचवक्त्रधरः सोऽयं पंचब्रह्मात्मको यतः | अष्टमूर्तिर्जगद्रक्षासृष्टिसंहारकारकः || १७० || कार्यकैलासवर्ती यः श्रीकंठाख्यो महागणैः | असंख्यातैर्विहरति स्वेच्छया परमेश्वरः || १७१ || क्रियाशक्तिः समुत्पन्ना रुद्रात्तस्मान्मुनीश्वराः | सैव गौरी गिरिसुता वैष्णवी दक्षकन्यका || १७२ || गुणत्रयात्मिका देवी दुर्गा कालीति गीयते | पृ० २२) क्रियाशक्तेश्च रुद्रस्य मिथुनीभूतयोस्तयोः || १७३ || प्राप्तवान्विष्णुर्जगत्पालनतत्परः | निद्रालस्यप्रमादादितमोगुणयुतोप्ययम् || १७४ || रुद्रानुग्रहसंप्राप्तसत्वः सत्यसुखात्मकः | वैकुंठाख्यपुरे मेरौ वसन् रक्षति वै जगत् || १७५ || विष्णोस्तस्मात्समुत्पन्ना महालक्ष्मीरिति श्रुता | आदिशक्तिस्तयोर्जाता मिथुनीभूतयोर्द्वयोः || १७६ || ब्रह्मा सर्वजगत्स्रष्टा चतुरास्यो रजोन्वितः | जातः सत्याधिराजोऽयं परा शक्तिस्ततो ह्यभूत् || १७७ || पश्यन्ती मध्यमा वैखर्यवस्थाभिः परा च सा | स्वरूपेण च वाण्याख्या जाता शक्तिश्चतुर्विधा || १७८ || तया व्याप्तमिदं सर्वं चराचरमयं जगत् | ब्रह्माणी ब्रह्मणोर्जातं मिथुनीभूतयोर्द्वयोः || १७९ || चराचरमिदं सर्वं पिंडब्रह्मांडसंज्ञितम् | समष्टिव्यष्टिरूपेण सर्वं शिवमयं यतः || १८० || सदाशिवोऽपि सर्वज्ञः सर्वकर्ता जगत्पतिः | महेश्वरादिरूपेण स्वेच्छाशक्तिविजृंभणात् || १८१ || सृष्ट्वा जगदिदं सर्वं तदेवानुप्रविश्य च | पृ० २३) समष्टिव्यष्टिरूपेण सदसच्चाभवत्प्रभुः || १८२ || विश्वाभूतानि पादोऽस्य त्रिपाद्ब्रह्मामृतं दिवि | गुह्येश्वरः स एवायं महादेवो मुनीश्वराः || १८३ || उपादानोपकरणप्रयोजनविवर्जितः | स्वेच्छामात्रेण सकलं सृजत्यवति हन्ति च || १८४ || पिदधात्यनुगृह्णाति तथाप्यानंदलीलया | ज्ञानशक्त्योमया साकं रन्तुकामो निरुद्यमः || १८५ || सृष्टिक्रियायां ब्रह्माणं सृष्टिस्थित्योश्च माधवम् | सृष्टिस्थितिलयेष्वेकं रुद्रं पशुपतिं प्रभुम् || १८६ || अभिषिच्याकरोदीशः स्वाज्ञया तदधीश्वरान् | तस्माद्रुद्रोऽधिकस्ताभ्यां पशूनां पतिरीश्वरः || १८७ || प्रत्यासत्त्या शिवस्यायं नामधामादिभिः समः | सूत्रधारेण महता गुहेशेनाभिनंदितः || १८८ || पृ० २४) अध्यास्ते कार्यकैलासे शृंगे मेरोः समुन्नते | गुहेश्वरस्तु सर्वज्ञः सच्चिदानंदसुंदरः || १८९ || अनेककोटिब्रह्मांडमहाभांडातिगे पथि | निरंजनचिदाकाशे नित्यमुक्तैः समन्वितः || १९० || महाकैलासशिखरे प्रभुरास्ते चिदंबया || ऋषय ऊचुः | सूत पौराणिकश्रेष्ठ ब्रूह्यस्माकमशेषतः | महाकैलासमाहात्म्यं यज्ज्ञात्वा मोक्षमाप्नुयात् || १९१ || सूत उवाच | शृणुध्वमृषयः सर्वे सावधानेन चेतसा | किमस्ति शिवभक्तेषु रहस्यं भुवि मादृशाम् || १९२ || अयं मोक्षकरः प्रश्नो भवतां योगिसंमतः | महाकैलासमहिमा शक्यते केन वर्णितुं || १९३ || ध्यानस्थानेषु सर्वेषु महाकैलासवैभवं | ध्यात्वा तदूर्ध्वशिखरे ध्येयो देवः सदाशिवः || १९४ || अनेककोटिब्रह्मांडान्यसंख्यातैर्महागणैः | रक्षितानि महेशस्य महिम्नावहितानि हि || १९५ || तेषामनंतकोटीनां ब्रह्मांडानामथोपरि | निरंजनमहाकाशे निर्विकल्पे निरामये || १९६ || पृ० २५) महाकैलासवर्णनम् | देशकालापरिच्छेद्ये वेद्ये वेदान्तवेदिभिः | महाकैलासशैलोऽयं वर्तते शंकराज्ञया || १९७ || समुन्नतो योजनानां षष्टिकोटिभिरायतः | त्रिंशत्कोटिभिरानंदनिलयस्तेजसां निधिः || १९८ || शिखरं नवरत्नाढ्यं तस्योर्ध्वं भाति सुव्रताः || सदाशिवस्य नगरी वर्तते तत्र मुक्तिदा || १९९ || विचित्ररत्नप्राकारगोपुराट्टालकावृता | तन्मध्ये दिव्यभवनमवाऽऽन्मानसगोचरं || २०० || रत्नस्तंभसहस्राढ्यं राजते तस्य मध्यमे | रत्नपांचालिकारूपसर्वावरणशक्तिभिः || २०१ || समुज्ज्वले महाचक्रराजसिंहासनोत्तमे | चिदंबरमहायंत्रलसद्बैंदवमंडले || २०२ || वीरासने समासीनो महाशंभुः सदाशिवः | पंचविंशतितत्वोद्यत्पंचविंशतिसन्मुखः || २०३ || पंचाशन्मातृकास्त्रोद्यत्पंचाशत्करमंडितः || वामांकपीठिकासीनज्ञानांबालिंगनोत्सुकः || २०४ || किरीटहारवलयकेयूरांगदकुंडलैः | माणिक्यखचितैरन्यैर्भूषणैरभिभूषितः || २०५ || पृ० २६) सत्यज्ञानानंदघनः सहस्रांशुसहस्रभाः | लक्ष्यलक्षणशून्यश्रीरप्राकृततनुर्महान् || २०६ || यतो वाचो निवर्तंते अप्राप्य मनसा सह | स एष सर्वशक्तीनामाश्रयो बहुभिर्वृतः || २०७ || रुद्रैः सिद्धैश्च मुनिभिः सर्वैश्वर्यसमन्वितः | नित्यमुक्तैर्निराभासैरैक्यविज्ञानतत्परैः || २०८ || उपास्यमानः सततं सर्वव्यापी सनातनः | भक्तानुग्रहणार्थाय परमात्मा विराजते || २०९ || रत्नश्रृंगस्य परितस्तस्यान्यानि द्विजोत्तमाः | भान्त्येकादशश्रृंगाणि सूर्यकांतमयान्यहो || २१० || मूर्तयस्तेषु पंचान्याः शंभोः षडपि मूर्तयः | पंचविंशतिसंख्याका मूर्तयोऽन्याश्च सुव्रताः || २११ || निवसंत्येकपंचाशत्संख्याका मातृकास्तथा | तेषां च परितः शृंगाण्यग्निकान्तमयानि हि || २१२ || एकोत्तरसहस्रं स्युस्तेषु ध्यायन्त ईश्वरम् | वसन्त्यष्टोत्तरशतं तांडवेशस्य मूर्तयः || २१३ || सप्तकोटिमहामंत्रदेवताश्च वसन्ति हि || शृंगाण्येकाधिकदशसहस्राण्यभितस्ततः || २१४ || पृ० २७) भान्त्यच्छस्फटिकाभानि महान्ति गिरिशाज्ञया | तेषु विघ्नेश्वरस्कंदौ महाशास्ता च भैरवः || २१५ || नंदिभृंगिमहाकालप्रमुखाश्च गणाधिपाः | धर्मश्चतुष्पाद् वृषभः कामधेनुरभीष्टदा || २१६ || दुर्गाद्याः शक्तयो भक्ताश्चंडीशाद्यास्तथाऽनिशम् | पंचास्त्रमूर्तयः शैव्यो निवसंति शिवाज्ञया || २१७ || तेषां शृंगाणि परितो रत्नकांतानि संततम् | लक्षमेकोत्तरं विप्रा मनोज्ञानि विभांति हि || २१८ || प्रत्यक्शृंगगताः शिवार्चनपरास्तेषां स्थिता विष्णवो ब्रह्माणः शिवलिंगपूजनपरास्तेषामुदीचीनगाः | प्राच्या शृंगगताः पुरंदरमुखा ध्यायन्ति तं लोकपा याम्येषु प्रवसन्ति सन्मुनिगणाः श्रीदक्षिणामूर्तिगाः || २१९ || एकोत्तरदशलक्षाण्यभितः शृंगाणि तेषां स्युः | सौवर्णानि मुनींद्रास्तेषु च भूताधिपाः सन्ति || २२० || पुनरपि दशायुधानि श्रीरुद्रास्सिद्धगरुडगंधर्वाः | विद्याधराश्च सुरभिर्मणिकल्पकशंखपद्मनिधयश्च || २२१ || रमणीयरुद्र- पृ० २८ व पृ० २९ उपलब्ध नही है | पृ० ३०) * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * कैलासशैलोत्तमः | एषोऽन्तःप्रलयेषु सत्यमहिमा संवर्धतेंऽडोपरिद्राक् पश्यन्ति न पापलेशसहिता रक्षःप्रकृत्याश्रिताः || २३५ || महाकैलासशैलेऽस्मिन् सच्चिदानंदनिर्भरे | सर्वानुग्राहको देवः सर्वव्यापी सदाशिवः || २३६ || महेश्वरादिब्रह्मान्तसृष्टिस्थित्यंतकारकः | उपासकानुग्रहार्थं चिच्छक्त्या क्रीडति प्रभुः || २३७ || स एष रुद्रं सर्वेषां सृष्टिस्थित्यंतलक्षणे | आधिपत्येऽभिषच्यैनं कैलासेऽस्थापयत्प्रभुः || २३८ || सोऽपि मेरोरुदक्शृंगे ब्रह्माच्युतपुरोपरि | राजताद्रिरिति ख्यातो रुद्रावासः सतां गतिः || २३९ || सदाशिवाज्ञया सोऽपि सत्यज्ञानघनात्मकः | महाकैलासवत् पुण्यः पुण्यात्मभिरुपास्यते || २४० || तावन्मानोच्छ्रयायामस्तावच्छृंगसमन्वितः | सदाशिवस्य ये पुत्रा ये भक्ता ये महाजनाः || २४१ || ते सर्वे रुद्रदेवस्य स्वांशैरेव तथाविधाः | तद्वत्प्रभुत्वं रुद्रस्य तत्प्रसादादभूद्द्विजाः || २४२ || पृ० ३१) पंचवक्त्रधरो रुद्रः सद्योजातादिनामभिः | दशबाहुः शिवाख्याभिः सर्वाभिः समलंकृतः || २४३ || तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः || मायामयोऽयं सकलो निष्कलः केवलः पुमान् || २४४ || ब्रह्मविष्ण्वोरधिष्ठाता जगतः कारणं परं | गुणत्रयमयी माया शक्तिर्यस्य प्रशस्यते || २४५ || वास्तवेन चिदात्मैषा गौरी गिरिवरात्मजा | रुद्रस्य भार्या कल्याणी शिवोमा पार्वती द्विजाः || २४६ || तया क्रीडन्महेशोऽयं महेशस्य कृपाबलात् | विष्णुब्रह्मादिभिः सेव्यः श्रीकंठाख्यो जगत्पतिः || २४७ || अध्यास्ते कार्यकैलासं जंबूद्वीपस्थमात्मना || २४८ || इति किल कथितं वः सर्वशास्त्रार्थसारं प्रभुचरितमिदानीं सृष्टिपूर्वं मुनींद्राः | पठति परमभक्त्या यः शृणोति त्रिलोक्यां स गुरुकरुणयैव प्राप्नुयादीप्सितार्थान् || २४९ || पृ० ३२) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां नैमिषारण्यवर्णनसूतागमनृषिकृतप्रश्नसूतकृतगुरुध्यानतदीयमहि मानुवर्णनपरमात्मस्वरूपनिरूपणपंचकारणसृष्टिक्रमोपन्यासमहाक इलासवर्णनप्रारंभगतिर्नाम प्रथमोऽध्यायः || पृ० ३३) श्रीकैलासवर्णनम् | अथ द्वितीयोऽध्यायः || ऋषय ऊचुः | कथितं भवता सर्वं माहात्म्यं परमेशितुः | महाकैलासशैलस्य प्रभुलीलां वदाऽधुना || १ || सूत उवाच | श्रीसिद्धवीरगुरुपादसरोजभक्त्या निर्धूतसंसृतिभयाः परमानुभावाः | शृण्वन्तु सर्वमुनयः श्रुतिसौख्यशीलां भक्ताः पदार्थविमलां प्रभुलिंगलीलां || २ || तया सरस्वतीशक्त्या सह शंभोरनुज्ञया | ब्रह्मांडसृष्टिमकरोद्ब्रह्मा लोकपितामहः || ३ || क्षित्यादिसत्यलोकान्तं पातालाद्यतलान्तकम् | प्रासादन्यायतो लोकान्ससर्ज स पितामहः || ४ || भूतसृष्टिक्रमेणैव पंचीकरणपूर्वकम् | सृष्ट्वा ब्रह्मांडपिंडांडे संस्थाप्य गिरिशाज्ञया || ५ || प्रकृतौ विलयं याता ये जीवास्त्रिविधाः स्मृताः | गरुडाः किन्नरा यक्षा गंधर्वा मुनयः सुराः || ६ || मनुष्या उरगा दैत्याः सोमसूर्याग्नयस्तथा | स्त्रीपुंनपुंसकाख्या ये जीवसंघास्तथा परे || ७ || तेषां भोक्तृपदार्थानां भोग्यानि विविधानि च | भोगायतनसंघांश्च सृष्ट्वा तत्र चतुर्मुखः || ८ || नामरूपाध्वभेदेन षट्प्रकारमिदं जगत् | पृ० ३४) यत्ससर्ज तदाधारो महामेरुरभूद्द्विजाः || ९ || तदूर्ध्वशिखरे यस्तु कैलासाख्यो महागिरिः | महिमा वर्ण्यते केन तस्याद्भुतनिधेर्महान् || १० || सर्वस्य सृष्टिकार्यस्य कर्तैको यः सदाशिवः | स एव रुद्रो भगवान्भूत्वाऽध्यास्ते गिरिं यतः || ११ || मादृशाश्चर्मचक्षुष्काः शक्नुयुर्वर्णितुं कथम् || १२ || शुद्धसत्वगुणः सोऽयं रजताकारतां गतः | देदीप्यमानः प्रभया नयनानन्दकारकः || १३ || मूर्तः कैलासशैलोऽभूदमूर्तोऽपि शिवाज्ञया | तत्र भोगपुरं रम्यमानंदरसनिर्मितम् || १४ || वेदैरलभ्यमौन्नत्यं प्राकारस्यास्य भूसुराः | शास्त्रैरनवगाह्यं तत्खेयगांभीर्यमीर्यते || १५ || आगमैरनभिष्वंग्या महाट्टालसमुन्नतिः | अहर्निशमभेदेन प्रकाशोऽस्याप्यलौकिकः || १६ || शुद्धभक्तिर्महाराजवीथी तस्यां विराजते | सोऽहंतैवमणिप्रोतदिव्यतोरणबंधनम् || १७ || सादाख्यसूक्ष्मतत्वानि रम्यहर्म्याणि तत्पुरे | पृ० ३५) श्रीरुद्रसभावर्णनम् | ज्ञानवैराग्यसंपत्तिसांद्राणि सदनानि च || १८ || गणनातीतमहिमा कैलासोऽयं हरालयः | निजानंदमयं तत्र महेशस्यास्ति मंदिरम् || १९ || तन्मध्ये वृत्तिनिर्मुक्तचित्ताख्यद्वारशोभितम् | नादबिंदुकलातीतं भाति चास्थानमंडपम् || २० || अष्टैश्वर्यकलाजुष्टरत्नकुट्टिमघट्टितं | अतिरोहितसुच्छायमस्ति तत्रोन्नतं सवः || २१ || तत्राष्टमातृविलसत्प्रणवाग्रवेद्यां सुज्ञानयोगसमलंकृतदिव्यपीठे | भद्रासनैकरसिकः परमः सदाश्ते रुद्रो निजानुभवयोगसमाधिलीलः || २२ || नित्यसत्यनिरुपाधिनिरंशः शुद्धबुद्धपरिपूर्णचिदात्मा | निर्मलो निरुपमो निरवद्यो निर्गुणो निगमगोचर एकः || २३ || तद्द्वारदेशमधितिष्ठति धर्मलक्ष्मीस्तद्वाजिगेहमधितिष्ठति वेदलक्ष्मीः | तन्मूर्तिभावमधितिष्ठति शान्तिलक्ष्मीस्तन्मूलकोशमधितिष्ठति मोक्षलक्ष्मीः || २४ || प्राणापानौ तस्य बाहू निरीहौ तस्यांघ्री द्वावाद्यनादी प्रसिद्धौ | मूर्तिस्तस्य श्रीमदोंकारनादप्रादुर्भूतानंकशुभ्रांशुरेखा || २५ || पृ० ३६) रुद्रस्य तस्य त्रिगुणांकवामा वामांकपीठीमधिरुह्य माया | वशीकृता तेन तथाऽपि साऽभूज्जगत्सिसृक्षोरभिमानहेतुः || २६ || या संकल्पविकल्पपादयुगला लीलावती स्नेहमोहो- द्यद्बाहुलता मदोद्धतकटिः स्यात्कामलोभस्तनी || ज्ञानाज्ञानविलोचना च ममतावक्त्रा सतां मोहिनी- मंगीकृत्य विराजते त्रिभुवनीसृष्टिस्थितिध्वंसकृत् || २७ || समस्तसौंदर्यनिधेरमुष्याः कनद्विभूषामणिकांतयस्ताः | तदुल्लसद्भोगिफणामणिश्रीव्रजैर्मिलंति स्म समं समंतात् || २८ || महेश्वरापांगविलोकनानि नितंबिनीलज्जितदृग्विलासाः | परैरदृश्येन पथा मिलित्वा व्रजन्ति तादात्म्यमहो मुनींद्राः || २९ || पुरारिचारुस्मितदत्तलज्जा स्मितैः पुरंध्री स्मरमुद्गिरन्ती | तनोति तेनाशु मनोविकारं विकारशून्यस्य च तस्य चित्रम् || ३० || कलंकशून्यस्य सुधाकरस्य कर्पूरसंवासितचंद्रिकेव | सुवर्णरेखेव सुगंधिसार्दा मूर्तिद्वयी तत्र विराजते सा || ३१ || पृ० ३७) किंचापादतलावलंबितजटामूलालवालोल्लस- द्गंगातुरंगतरंगसंगतमहापीठाख्यकंदांचितः | रत्नस्यूतविभूषणावलिदलोदन्तप्रसूनस्तया वल्ल्येवाखिलमूलकारणवटः शंभुः स्वयं राजते || ३२ || कैलासे कमनीयकंकणझणत्कारोल्लसच्चामरै- रन्यैर्बीजनसाधनैरपि पतद्ग्राहैः कराभ्यां धृतैः | तांबूलाढ्यदुकूलयंत्रनिचयैर्भृंगारुभिश्चारुभिः सेवंते शिवकन्यकाः पशुपतिं देवं मृडानीधवं || ३३ || अन्याश्च रुद्रकन्याः शिवयोः समयोक्तसेवया धन्याः | सौंदर्यदर्शनोचितदर्पणघटनैश्च तालवृंतैस्तैः || ३४ || नवरत्नभद्रपीठे स्थितयोः शिवयोश्च पार्श्वयोरुभयोः | रुद्राश्च रुद्रकन्या गणनातीता भजन्ति सर्वत्र || ३५ || सा शक्तिरात्मदयितं त्रिभिरात्मगुणैश्च सेवितुं सततं | जनयांबभूव तनयान्विनयावनतानसंख्यातान् || ३६ || तेष्वेषु त्रिविधेषु मातुरधिकप्रीत्या महत्वं गता रुद्राः शुभ्रतनूभृतो हरिजटालालाटनेत्रान्विताः | पृ० ३८) अर्धांगाकलितांगना धृतवियद्गंगाः कलामौलयो रौद्रोद्रिक्तरसा भजंत्यगणिताः सांबं सभामंटपे || ३७ || किंचोरःस्थितकौस्तुभाः शिवपदध्यानावधानोत्सुका लक्ष्मीशाः कुसुमासनास्त्रजनकाः पद्मायताक्षाः परे | सेवंतेऽच्युतकोटयोऽनवरतं सत्वोत्तमाः पुत्रकाः सांबं सद्गुरुमादिमादिमगिरां तद्वामभागस्थिताः || ३८ || वेदानां सदनानि चारुवदनान्युद्यन्ति मंदस्मितै- र्बिभ्राणाः कनकोपमानतनवो वक्त्रेषु वामाभृतः | श्रित्वा दक्षिणभागमंबुजभुवः कुर्वंति सेवां विभो- रीशस्यागणिता रजोगुणयुताः पुत्रास्तृतीयाः परे || ३९ || तत्पश्चिमे गरुडकिन्नरयक्षसिद्धगंधर्वसाध्यविबुधैः सुरनाथसंघाः | स्थित्वा भजन्ति परितः परिपूर्णभावाः श्रीरुद्रमाद्यमधिपं जगतामसंख्याः || ४० || पुरतः परितः पुटपाकपरिस्फुरदिंदुरमंदहरस्मितरुक् | भववाहनभावमगाधिवसन् वृषभः शुशुभेऽभिमुखं शिवयोः || ४१ || पृ० ३९) तत्र दक्षशिरोगंडशैलायितभुजाबलः | भद्रकालीपतिर्वीरभद्रो रुद्रं निषेवते || ४२ || शिवानंदस्योपमानं शंकराभ्युदयाश्रयः | गिरिजेशसुखः स्थित्या आलवालो मृडस्य च || ४३ || लावण्यपूर्णवदनमुकुरः परमेशितुः | सत्प्रभावनिधिः साक्षात्सभिकानभिनंदयन् || ४४ || भृंगीशोऽप्यंगजारातेर्हृदये मुदमर्पयन् | प्रागुदग्दिशि देवस्य तनुते नाट्यचातुरीम् || ४५ || यां दिशं पश्यति शिवस्तत्रत्या नमिताननाः | यानाह किंचित्ते सर्वे वदंत्योमोममोमिति || ४६ || स्वामिन्महाप्रसादोऽयं प्रसादोऽयमनुग्रहः | इत्युक्त्वा तानि तान्याशु कार्याणि घटयन्ति च || ४७ || महादेवो यथा वक्ति वहन्ति शिरसा तथा | गोपतिश्रीपतिब्राह्मीपतिगीष्पतयोऽनिशम् || ४८ || समुद्रान्सप्त चाचान्तुं न्यंचितुं कांचनाचलं | ब्रह्मांडभांडकुहरं करेणैव विलोडितुम् || ४९ || यमदंष्ट्राः समुद्धर्तुं समर्था ये महाबलाः | पिशाचभूतवेतालास्ते कृतांजलयोऽनिशम् || ५० || पृ० ४०) शिवाज्ञां शिरसा धृत्वा सेवमाना वसन्ति हि | दुर्गाविनायकौ सप्त मातृकाः कालभैरवः || ५१ || परिवृत्य तथाहेलिप्रमुखास्तमुपासते | स्थिरभक्तिसमायुक्ताः समेत्योभयपार्श्वयोः || ५२ || आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ | गौतमात्रिभरद्वाजकण्वगालवकौशिकाः || ५३ || मार्कंडेयवसिष्ठाद्यास्तत्र तत्र शिवाज्ञया | तद्दर्शनोत्सुका आसन्नानतांगाः समंततः || ५४ || गौरीभूषणकान्तयः शिवफणाभृत्कुंडलादित्विष- स्तन्मंदस्मितचंद्रिकारदरुचो भृंगीश्वरस्योज्ज्वलाः | रंभाद्यप्सरसां रसार्द्रमनसां हारच्छटाच्छप्रभाः शक्रादिद्युसदां किरीटरुचयो दीव्यद्दिवादीपभाः || ५५ || किंचोद्यत्करदीपिका शतशतच्छायाः समस्ता अमूः केशाकेशिकथां मिथो विदधति प्रायः सभायां विभोः | यस्यां साभ्यधिकप्रभासमुदये संलीनसामाजिका राजद्राजतशैलराजशिखरे ज्योतिर्मयी राजते || ५६ || तदा गौरीमंदस्मितवदनसौंदर्यलहरी विहारित्रैगुण्यस्फुटकलितनेत्रांबुजयुगा | स्वयं माया सर्वेश्वरमपि वशीकृत्य महिता प्रणम्याह प्रेम्णा हरमभयदं स्वप्रियतमम् || ५७ || पृ० ४१) श्रीगौरीशंकरसंवादः | गौर्युवाच | देव सभायां भवतो भावजसंहारसेवमानास्त्वां | येऽवस्थितास्त एते किं सर्वे चिन्मयास्त्वदात्मानः || ५८ || किंवा जन्मविनाशौ भूयो भूयो महेश गच्छन्ति | उपदिश ममेति कृपया स तया पृष्टः पुनः स्मयन्प्राह || ५९ || शिव उवाच | शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यमिदं वचः || यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबंधनात् || ६० || मयि भक्तिर्द्विधा नृर्णां मुख्यगौणविभेदतः | निष्कामभक्तिर्मुख्या तु गौणी स्यात्कामसंयुता || ६१ || नामरूपक्रियास्त्यक्त्वा ये भक्ताः कामवर्जिताः | मामाश्रयन्ति सततं मामेव प्राप्नुवन्ति ते || ६२ || मंदप्रज्ञास्तु ये भक्ता अयुक्ताः फलकांक्षिणः | उपर्यधश्च ते देवि यातायातं प्रयान्ति हि || ६३ || इत्युक्त्वा विररामाशु भगवांश्चंद्रशेखरः | पृ० ४२) देवी निशम्य मुदिता पुनश्चिंतां चकार सा || ६४ || मदात्मकमिदं सर्वं जगत्स्थावरजंगमं | जाग्रत्यां मयि सर्वत्र ममाज्ञां कोऽनुलंघयेत् || ६५ || निष्कामो मोक्षमाप्नोतीत्यक्तं यच्छंभुना वचः | तत्खपुष्पसमं कामो मत्पुत्रोऽसौ यतोऽधिकः || ६६ || शिवोऽपि कामवशगो यतोऽर्धांगं हराम्यहम् | अहमेव परा शक्तिः सर्वस्याप्यादिकारणम् || ६७ || सच्चिदानंदरूपस्य शिवस्य परमात्मनः | अनादी नामरूपे द्वे संपाद्याहं जयाम्यहो || ६८ || सदाशिवादिब्रह्मान्तास्सेंद्राश्चामरपुंगवाः | मन्मायावशगाः सत्यं सर्वे विग्रहधारिणः || ६९ || योषिन्मुखासवासक्तास्तन्मूर्तिध्यानतत्पराः | तदंगालिंगनासक्ता जीवंत्येव न संशयः || ७० || स्त्रीपुंमयमिदं सर्वं मद्रूपं सचराचरम् | ममाभिमानः स्त्रीरूपे तत्राप्यतिशयेन यत् || ७१ || अतोऽहमेव सर्वस्मादधिका सर्वतोमुखी | इत्यहंकारदुर्वारा सा माया प्रोद्धताऽभवत् || ७२ || पृ० ४३) अल्लमशब्दनिर्वचनम् | अथ तस्या मतिं ज्ञात्वा सस्मारेशोऽल्लमप्रभुम् | सर्वव्यापिनमीशानं योगेशं सत्यचिद्घनम् || ७३ || ऋषय ऊचुः | सूत सर्वार्थतत्वज्ञ शिवभक्तिसुधांबुधे | अल्लमप्रभुरित्युक्तः कोऽयं रुद्रेण संस्मृतः || ७४ || प्रभुरल्लम इत्येष वाचकोऽयं महामुने | रूढ्या योगेन वोभाभ्यां व्युत्पत्तिस्तस्य कीदृशी || ७५ || अव्युत्पन्नोऽथवा शब्दः श्रौतो वा लौकिकोऽथवा | श्रोतुमिच्छामहे सर्वे वयं कथय सुव्रत || ७६ || सूत उवाच | शृणुध्वमृषयः सर्वे सावधानेन चेतसा | प्रभावल्लमशब्दस्य प्रवृत्तिं शास्त्रसंमताम् || ७७ || अकारः सर्ववर्णानामादिभूतः सनातनः | समस्तमंत्रबीजस्य प्रणवस्यादिमोऽप्ययम् || ७८ || अमृतत्वादमूर्तत्वादभयत्वादजत्वतः | अकारः प्रोच्यते ह्यात्मा श्रुतियुक्त्यनुभूतिभिः || ७९ || यच्छब्दसंस्कृता बुद्धिर्भवेद्यच्छब्दरूपिणी || ८० || तदादिवर्णश्रवणात्तच्छब्दार्थं स्मरेद्ध्रुवम् | अतोऽकारश्रुतेर्बुद्धिरजाद्यात्मकमीश्वरम् || ८१ || पृ० ४४) अव्यक्तं भावयेदर्थमनाद्यंतं परं शिवम् | अकारः सर्ववाक्सैषा व्यक्ता स्पर्शोष्मभिः परा || ८२ || नानारूपा बहुतरा भवतीति श्रुतिर्जगौ | अक्षराणामकारोऽसौ शिव इत्याह च स्मृतिः || ८३ || अनुत्तरस्तथाम्नायो विश्राम्यति पराक्षरे | प्रणवप्रकृतिः सोऽयमकारो गीयते बुधैः || ८४ || सर्वाऽपि मातृका तद्वदकारे जायते पुनः | लीयते वर्तते तस्मादकारः सर्वकारणम् || ८५ || नामरूपप्रपंचस्य ह्यधिष्ठानं चिदात्मकम् | तद्ब्रह्म लक्ष्यते तस्मादकारेण मुनीश्वराः || ८६ || अभिधानं चाभिधेयमेकं हि परमार्थतः | संविन्मात्रं यतः सत्तालक्षणं ब्रह्म शाश्वतम् || ८७ || तस्माच्छब्दार्थयोरैक्यं लाघवात्पंडितोत्तमाः | एवं सति हि शब्दानामर्थाभिव्यंजका न च || ८८ || अपूर्वा कल्प्यते शक्तिः प्रकाशत्वात्परात्मनः | एकैव सत्तासंबंधिभेदाद्भिन्ना गवादिषु || ८९ || जातिः सैव हि शब्दार्थस्तस्यां शब्दा व्यवस्थिताः | एक एव हि शब्दोऽयमकाराख्यश्चिदात्मकः || ९० || पृ० ४५) वाच्यभेदानुसारेण भिद्यते बहुधा स्वयम् | उपाधिविलये यद्वत्सुवर्णं कुंडलादिकम् || ९१ || तथाखिलं शब्दजालमकारात्मकमास्तिकाः | तदेवैकाक्षरं ब्रह्म वेदान्तेषु विनिश्चितम् || ९२ || श्रवणात्तस्य मननाद्ध्यानात्संदर्शनादपि | ये तदाकारतां प्राप्तास्त एतेंतः प्रकीर्तिताः || ९३ || आचरंत्य इवेत्यर्थे क्विबाचारार्थ इष्यते | तुगागमे च तल्लोपे नुमि रूपं प्रचक्षते || ९४ || ते च सिद्धा महाभागा वियन्मात्रशरीरिणः | तान् लातीत्यनुगृह्णाति या मा साऽस्यास्ति सोऽल्लमः || ९५ || मीयते हि यया सा मा ज्ञानशक्तिः प्रशस्यते | सैव विद्या परानंदा मायानिर्मूलनक्षमा || ९६ || विद्यायां रमते नित्यं मायां हेयां श्ववद्रहेत् | अनेनैव निरुक्तेन वीरमाहेश्वरः स्मृतः || ९७ || प्रभुर्विश्वाधिको यस्मात्सोऽल्लमप्रभुरुच्यते | योगेन रूढ्या चोभाभ्यामल्लमोऽयं सनातनः || ९८ || किंचाक्काल्लांबांबिकाद्या अंबार्थाः परिकीर्तिताः | पृ० ४६) सा माया रुद्रमहिषी सर्वस्याल्ला प्रकीर्त्यते || ९९ || सभायां गर्वितां तां प्रत्युक्त्वा तत्राल्लमाल्लमा | इत्यल्लमाप्रभुरिति प्रोच्यते प्रमथोत्तमैः || १०० || प्रोक्ता प्रभोर्दिव्यनाम्नः प्रवृत्तिर्मुनिपुंगवाः | व्युत्पत्तिश्चाधुना तस्य लीलां शृणुत सादरं || १०१ || स्मृतोऽथ रुद्रदेवेन प्रभुर्विश्वाधिको गुरुः | सुज्ञानसिद्धैः सर्वज्ञैः प्रसिद्धैः सिद्धपुंगवैः || १०२ || सेव्यमानो ललाटोद्यत्सितभस्मत्रिपुंड्रवान् | बहिःप्रसरदंतस्थतेजोराजिलसत्तनुः || १०३ || आजानुबाहुः सुशिरा आनंदरसनिर्भरः | करांघ्रिनखरेखाभिर्ज्ञापयन्तीभिरुज्वलः || १०४ || राजयोगैकसाम्राज्यसौभाग्यं सर्वसुंदरः | मायाकोलाहलमहामायामदविभंजनः || १०५ || अविद्यातूलवातूलस्तमःसागरवाडवः | अज्ञानध्वांतचंडांशुः प्रधानोद्यद्गजांकुशः || १०६ || अव्याकृतसमुन्मूलः प्रकृतिप्राणहारकः | अव्यक्तमूर्धपाषाणस्त्रिगुणारण्यपावकः || १०७ || पृ० ४७) शिवसभायाःप्रभुसमागमनम् | इत्यादिबिरुदांकैः स्वैः संस्तुतो योगिपुंगवैः | मुनिभिर्मौलिघटितकृतांजलिपुटैःस्तुतः || १०८ || सिद्धविद्याधरमरुद्यक्षगंधर्वकिन्नरैः | कृतपुष्पांजलिकरैस्तत्र तत्र नमस्कृतः || १०९ || पल्यंकिकां समारुह्य माल्यैर्मंदारसंभवैः | अल्लमप्रभुदेवोऽसावाजगामांबराध्वना || ११० || स द्रुतं प्रकृतिमुद्रितात्मनश्चिद्रसामृतपदैर्विनिद्रयन् | भद्रभद्र इव भासयन्दिशो रुद्रसन्निधिमवाप्तवान्प्रभुः || १११ || प्रभुमागतं समधिगम्य शंकरः सभया सहैव निजसिंहपीठतः | अवरुह्य वागमृतधारया स्वयं बहुमानयन्स्वसभिकैरपूजयत् || ११२ || इदमर्घ्यमर्घ्यमिदमंघ्रिसेचनं मधुपर्क एष इति शांभवोदितम् | वचनं निशम्य परिपालयन्दृशा शिवमाससाद तरसा कृपानिधिः || ११३ || मदनांतकोऽपि हृदये तमर्चयन् गुरुमात्मनोऽपि परमात्मभावितम् | निजपीठिकार्ध उपविश्य सादरं स्वयमप्यधास वदनेन भावितः || ११४ || पृ० ४८) अथ तन्महत्वपिहितात्मशांबरीं निजभामिनीमविगणयय शंकरः | परिपूर्णतत्वपरमार्थतत्कथाकथनैर्निनाय घटिकार्धमात्रकम् || ११५ || विहितेष्टगोष्ठिरथ तेन शंभुना प्रभुरन्यगोचरतनुः स्वयंप्रभः | निरवद्यनिर्मलनिरंजनाद्वयो निरगात्क्षणेन निजयेच्छयैव सः || ११६ || महतां निरंजनपदानुषंगिनां महिमा तथैव खलु मौनिसत्तमाः | भुवनावनाय पुरमाश्रयन्ति ते स्वयमंबरांगणनिरंगसंगिनः || ११७ || अथ तं महात्मभिरमात्रमात्रकैर्वरयोगिभिः सह तिरोहितं प्रभुम् || अवधार्य गौर्यहह कोऽयमित्यसौ हृदि शंकयैव पतिमाह सस्मिता || ११८ || हर देवदेव वरचिन्महोदधे गुरुरेक एव भगवान्भवान् स्मृतः | परिपूर्णसत्यसुखचिद्घनो महान् महतोऽप्यणोरणुतरोऽसि सर्वगः || ११९ || मम सर्वतत्वकलिताकृतेः पतिस्त्वमखंडचिद्रसघनो विभावितः | इतरांस्तु वामचरणांबुजादधः पतितान्करोमि विबुधान्मुनीनपि || १२० || अतिचित्रमेतदवगत्य कोऽप्ययं कृतपूजनो मुनिसुरासुरादिभिः | पृ० ४९) श्रीगौरीशंकरसंवादः | बिरुदांकनैरविगणयय मां स्तुतः पतिदिव्यपीठमधिरुह्य निर्भयः || १२१ || भवता किमर्थकलंकवर्त्मना परिपूजितो मधुरवाग्भिरादृतः | भयभक्तिभागसि तदा तदर्चने वद मे महेश मदमस्य वारये || १२२ || वसति क्व वैष जटिलोऽकुतोभयः क्व च वा गमिष्यति पुनः क्व वर्तते | तव तेन किं किमिदमस्य सेवनं कथमिष्टतेह तव भो विभो वद || १२३ || इति पृष्ट एष निजभार्ययार्यया स्मयमानवक्त्रसरसीरुहः शिवः | निजदन्तकान्तिपरिपूर्णदिक्तटो दयितामुवाच स चमत्क्रियं वचः || १२४ || अयि बालिके शृणु मुनिः पुरा पुराविदबोधदूरनिरहंक्रियाभयः | निजबोधसंपदभिधात्मभार्यया सुचिरं चचार परमाद्भुतं तपः || १२५ || परमात्मरूपसुतकांक्षया मयि स्थिरभक्तिभाजि सुचिरं तपस्यति | निरुपाधिकोज्ज्वलतनुर्ममाव्ययो तनयो बभूव दयितेऽल्लमस्तयोः || १२६ || महिमानमस्य न हि वेद्मि बालिके मुकुरं विनैव मुखमस्य सत्कृपाम् | पृ० ५०) अहमप्यनार्यगुणभावितः स्वयं निजकंठरत्नमिव विस्मृतिं गतः || १२७ || स गुरुः समस्तजगतामगोचरो निगमागमार्थनिरवद्यविग्रहः | मम चात्मबोधजनकोऽल्लमप्रभुः किमुतात्मनामसदृशप्रबोधवान् || १२८ || इति शंकरे वदति सातिगर्विता पुनराह देवमहहा किमात्थ भोः | मम जागरे सति कुतोऽल्लमप्रभुस्त्वनुबोधशब्दजननं जगत्त्रये || १२९ || तमहं न वेद्मि किमु सर्वतः स्थिता मम मायया जगदिदं सदावृतम् | मदनुग्रहो यदि जनेऽप्यकिंचने स तु वेत्ति निर्मलनिजात्मनिश्चयम् || १३० || अथवाखिलोऽपि भवतः प्रसादतो मदधीश्वरस्य निजतत्वविद्भवेत् | किमिदं ममेश पुरतोऽद्य वंचनं क्व नु वाल्लमः क्व नु चिदात्मवेदनं || १३१ || अमतं मतं ह्यविदितं विदितं श्रुतिवाक्यमेतदहहा बिरुदैः | कथमात्ववेदनमुदेति यशः किमिहाल्लमस्य कथयस्यधिकं || १३२ || पृ० ५१) यदि सर्व एव परतत्वविदः प्रभवंति हंत भुवनेषु तदा | परितः करीषकृतराशितलेष्वहहा पतेयुरिह वेदशिखाः || १३३ || इति पर्वतेंद्रतनयावचनं गिरिशो निशम्य दरहासमुखः | प्रभुमूर्तिकीर्तिमभितः प्रभया भुवि भानयन्निदमभाषत तां || १३४ || ऋतमेव वच्मि सति मययधुना तव निष्ठुरोक्तिरथ तावदलं | यदि सम्यगेव न विचार्य वदेस्तव सन्निधौ न निवसत्ययमाः || १३५ || अपि नो बिभेति स मृषालपितान्न वृथारटद्भिरपि संवदति | दृढबोधनैष्ठिकतयात्मपरो न हि माययैष परिभूयत आः || १३६ || भुवि मध्यमोत्तमकनिष्ठजनैर्हृदयेषु तद्वदयमाद्रियते | सरसीषु यावदुदकं कमलं परिदृश्यते हि परिमाणविदाम् || १३७ || परिपूर्णभावमनुभूय चिता कवलीकृताखिलजगद्विभवैः | अखिलात्मतामनुगतैः शरणैः क्रियते न कुत्र गमनागमनम् || १३८ || पृ० ५२) शरणोत्तमस्य हृदयान्तरिदं सकलं विभाति पुरवन् मुकुरे | स तु नैंद्रजालिकमिदं कलयत्यृतमित्यवाप्तपरमार्थपदः || १३९ || शरणः समस्तजगतां शरणं शरणार्थिना हि शरणो वरणः | शरणो ममापि मुकुटाभरणं शरणं विनाऽस्ति न हि मे शरणम् || १४० || न हि नामरूपकृतभेदकथा गिरिजेऽल्लमस्य परमार्थविदः | गगनायमानतनुरेष महान्प्रभुरव्ययः सकलवेदमयः || १४१ || इति शंकरे वदति सा गिरिजा विदिताल्लमप्रभुमहामहिमा | हृदयं तथाऽपि परिशीलयितुं स्मितपूर्वमाह विनयेन पतिं || १४२ || जगदीश तावकवचो न मृषा हृदयं तथाऽपि न हि निश्चिनुते | मम मायया न चलितो यदि स प्रभुरित्यवैमि परमार्थमिदम् || १४३ || तरुणीजनेषु तरलेषु धनेष्वभिलाषदूषितमना हि पशुः | यदि तेषु तेषु च विरागघनः स तु संमतः पशुपतिः सुतराम् || १४४ || पृ० ५३) त्रिगुणा वसन्ति मम योगिमनस्तव चालनाय तव नो विदिताः | यदि तद्विलासवशगं हृदयं भवेत्तमेव गुरुमाकलये || १४५ || वचनं निशम्य युवतेर्गिरिशो दरहासचंद्रकलया कलितः | पुनराह भामिनि न वेत्ति भवत्यहहाल्लमस्य महिमातिशयम् || १४६ || सदसि प्रगल्भवचनानि बहून्यवमत्य बोधरहिता त्वमिह | किमु वक्षि साक्षिणि परात्मनि ते दुरहंक्रियाल्लमविभौ न भवेत् || १४७ || त्यज दुष्प्रतिज्ञमुदितं यदि ते विजिगीषया स्य हृदयं वलते | परिभूतिमेष्यसि विरागकशादलिता लतेव करितुंडहता || १४८ || महिषी निशम्य गिरिशस्य वचो मुहुराह देव निटिलाक्ष विभो | अलमेतदद्य शपथं कलये कलया तमेककलया विजये || १४९ || अथ शांबरीं निजतमोविलसत्तनुमाकलयय पुरतोवनतां | पृ० ५४) असमानकांतिविजिताप्सरसं सरसं विलोक्य वचनं जगृहे || १५० || ललितांगि देवसदसि त्वरया कथितं मया सशपथं गदितं | विदितं त्वयानुभवती महती मुनिमानसानि मथितुं प्रथिता || १५१ || ममतावदत्र महिमोद्धरणे निपुणा त्वमेव नितरां जयसि | त्वयि दत्तकार्यभरया हि मया सुखमास्यते पुरहरांकतले || १५२ || तव हावभावसविलासकलाकलगीतनृत्तसुचमत्कारणैः | कुसुमास्त्रसायकशरव्यतया वशयाल्लमप्रभुममोघगते || १५३ || इति लालिता मृदुमधूक्तिसुधारसनिर्भरेण मनसांबिकया | अथ शांबरी कृतललाटतटांजलिरंजसाह बहुसाहसिका || १५४ || जगदंब देवि तव दासिकया न मयास्त्यसाध्यमवनौ किमपि | परमात्मनोऽपि भवकल्पिकया कृपया तवाप्यघटनं घटये || १५५ || विधिविष्णुरुद्रविबुधेंद्रमुखान्मदनालयैकशरणान् सततम् | पृ० ५५) मायाविजृंभणं तामसशांबरीभूलोकसमागमनं च | मम संविधाय महनीयधृतैः कियदल्लमस्य हृदयोद्दलनम् || १५६ || परिचारिकां प्रति मृदुप्रियवाक्परिपाटिका किमयि तेऽभिनवा | भवदाज्ञयैव कृतकृत्यतमाऽस्म्यहमंब मामनुग्रहाण ततः || १५७ || भुवि सागरेषु दिवि मेरुगुहास्वथया रसातलबिलेषु सताम् | हृदि वाल्लमोऽस्ति यदि तं सहसा वशमानयेंऽव तव सत्कृपया || १५८ || यदि यत्र कुत्र विलयं कलयेदणिमादिसिद्धिमहिमातिशयात् | तदहं स्वरूपमनुभूय झडित्यवकृष्य चाल्लममथो वशये || १५९ || इति माययोक्तमवधार्य वचो गिरिजानुगृह्य गमनाय भुवम् | क्रमुकच्छटानुगतनागलतादलपट्टिकामपि ददौ सदया || १६० || तदनु गिरिसुताज्ञां तामसी सैव माया | निजशिरसि वहन्ती निश्चितात्मप्रतिज्ञा | रजतशिखरिश्रृंगाद्वर्त्मना खेचराणामवनितलमथागादल्लमं जेतुकामा || १६१ || इति निगमशिखोक्तामीप्सितार्थप्रदात्रीं प्रभुशुभगुणलीलां श्रावयेद्यः शृणोति | पृ० ५६) स पुनरखिलभोगानैहिकानत्र भुक्त्वा शिवपदमथ लब्ध्वा जन्ममृत्यु न याति || १६३ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां कैलासवर्णनश्रीरुद्रसभानुभावविभावनगौरीशंकरसंवादप्रयुक्ता ल्लमशब्दनिर्वचनप्रभुसमागमनमायाविजृंभणतामसशांबरीभूलोकस् अमागमनप्रतिपादनगतिर्नाम द्वितीयोऽध्यायः || पृ० ५७) बि?व?इदेशवर्णनम् | श्रीनंदिकेश्वरायनमः || अथ तृतीयोऽध्यायः || सूत उवाच- श्रीसिद्धेश्वरवीरदेशिकमहासम्राट्पदांभोरुह- ध्यानानंदविधूतचित्तकलुषा ये सत्यशौचान्विताः | भक्ता निर्मलनित्यकृत्यनिरता मुक्तिद्रुमूलाश्रिता- स्ते शृण्वन्तु सदाल्लमप्रभुमणेर्लीलां सुशीलादृताम् || १ || हरेण यस्मिन् किल कार्मुकीकृते सुरोरगाः शान्तिमनूंस्तदा पठन् | विराजते संप्रति तस्य दक्षिणे गिरेः स कर्नाटकदेश आस्तिकाः || २ || बि?व?इरिति तत्र प्राकृतैरुक्तनामजनपद इह भाति क्षोणिसीमंतसीमा | सकलजनसमूहैः सत्यभाषाभिरामैः शिवगुरुपदभक्तैः सेव्यते धर्ममार्गैः || ३ || आर्यैरनार्यदूरैर्निर्मलशीलैश्च निखिलभूपालैः | धर्मः पदैश्चतुर्भिर्दुर्मददूरेऽत्र वर्तते देशे || ४ || पृ० ५८) तद्देशमध्ये शशिनः कलानां विभाति केलीसदनं विचित्रम् | महीपुरंध्रीवदनं पुरं तदालेख्यलेख्यं बनवस्यभिख्यम् || ५ || तदीयसर्वार्थविशेषवर्णने समर्थ एकः सरसीरुहोद्भवः | महेशमायागुणचित्रनिर्मितौ रहस्यमेतन्नगरं मुनीश्वराः || ६ || घनानि तत्रत्यवनानि भूरुहैः समंततोंऽकूरितपल्लवांकितैः || सकुड्मलैः पुष्पशलाटुशोभितैः फलान्वितैर्नित्यवसन्तसेवितैः || ७ || जंबीरजंबूफलपूरपूगैः खर्जूरमालूरकपित्थचूतैः | अशोकरंभापनसैश्च भोज्यैः पुन्नागचांपेयकनारिकेलैः || ८ || पुनःपुनः कोकिलशारिकाशुकद्विरेफकेकिध्वनिराजकूजितैः | सदा स्फुटैः पाटलजाजिमल्लिकाकुरुंटकैः कोरकितैश्च केतकैः || ९ || स्यामन्तिकाभिः करवीरनन्द्यावर्तैः स्थलाब्जैर्गिरिमल्लिकाभिः | वासन्तिकाकांचनकेसराद्यैः सर्वेषु कालेषु च पुष्पसांद्रैः || १० || सुगंधिपूर्णैर्युतपुष्पवाटीसहस्त्रसंख्यासमलंकृतं तत् | पुरं महामायिपुरारिभक्तैः सदामहाभोगपरैर्विभाति || ११ || पृ० ५९) बनवसीनगरवर्णनम् | कस्तूरिकालिप्तवितर्दिकाभिर्वीथीषु वीथीषु विशालरम्यम् | मालासहस्रैर्मणितोरणानां सदोल्लसत्पल्लवतोरणश्च || १२ || किंच गंधोदकक्लिन्नशीतलस्थलसंचराः | लसन्मलयजामोदमेदुराः पुष्पमंजरीः || १३ || संताड्य तद्गतास्वादं स्वीकुर्वन्तः समंततः | फुल्लपद्माकरश्रेणीमार्गेणागत्य निर्गताः || १४ || मंदं मंदं मधुस्फूर्त्या समागत्य वधूजनान् || परिगृह्य तदीयानि हृदयानि विदार्य च || १५ || चालयित्वोत्तरीयाणि कृत्वा परवशात्मनः || तदीयप्रणयोत्पन्नकलहान्परिहाप्य च || १६ || कलास्थानानि संस्पृश्य चोत्पाद्योत्कलिकां प्रियैः | पल्लवा इव तत्पुर्यां मलयानिलशावकाः || १७ || महेशमायासर्वस्वाः संचरन्ति पदे पदे || वेदशास्त्रागमाद्यासु विद्यास्वत्र द्विजोत्तमाः || १८ || पृ० ६०) भवन्ति प्रज्ञयांभोजभवव्यासजिगीषवः || अबाधयित्वा स्वजनान् परान्साधितुमुद्यताः || १९ || विजयं प्राप्य तत्रत्या विस्फुरन्ति महीभुजः | नवैव संख्यया यस्य निधानानि स किंप्रभुः || २० || असंख्यातधनैरेवमुद्धता व्यवहारिणः | भट्टास्तु विक्रमार्केऽपि प्रेषिता आक्रमन्ति तम् || २१ || बलभद्रं हलभृतो ह्रिया धवलयन्ति ते || वशीकुर्वन्ति मदनमपि तत्रांगनाः क्षणात् || २२ || गजाश्वास्तत्र शक्रस्य ह्रिया पांडुरयन्ति तौ | दातारमपि याचन्ते तत्रत्या नार्थिनोऽधमम् || २३ || दृष्ट्वार्थिनं न दातारस्तूष्णीं गच्छन्ति तद्गताः | पतिभक्तिविहीना स्त्री नाप्येका तत्र मार्गितुं || २४ || सतीसंरक्षणादक्षो नास्ति जाल्मोऽपि तत्पुरे | तत्प्राकारस्य चौन्नत्यं तत्खेयस्य च निम्नताम || २५ || पृ० ६१) मयकारराजवर्णनम् | विना न केऽपि जानन्ति नाकिनः कूर्मपन्नगान् || सौधावलीसमुत्सेधं चर्चितुं तु न केचन || २६ || सक्ता गृहाणां सौंदर्यं स्वर्गेऽपि न हि भूसुराः | मत्तेभबृंहितारावा मणिघंटाकलस्वनाः || २७ || बंदिमागधवृंदानां वाग्विलासपरंपराः | गंधर्वहेषितारावा हृद्यवाद्योदितस्वराः || २८ || कोलाहला प्रजानां च व्याप्नुवंति दिशो दश | रमणीये पुरे तस्मिन् ममकाराख्यभूपतिः || २९ || मंडलाधीश्वरस्सोऽयं महाहंकारगर्वितः | धीरोद्धतपरीवारः कामतंत्रपरायणः || ३० || वर्णितुं शक्यते तस्य सौभाग्यं कियदित्यहो | रतिराड्रूपसौन्दर्ये सुरराड्भोगसंपदि || ३१ || ऐश्वर्ये राजराजोऽयं माने स्यात्कुरुराट् स्वयं || त्यागेंऽगराजः कः स्तोतुं समर्थस्तं महीपतिम् || ३२ || महामायाविलासानामुत्पत्तिस्थानमेव सः || खड्गनिर्दलितारातिराजभिन्नार्कमंडलः || ३३ || पृ० ६२) स्वमातुलसुतां चारुगात्रीमंबुजलोचनां || त्रिजगन्मोहिनीं नाम्ना मोहिनीमप्युवाह सः || ३४ || तौ दंपती मदोद्रिक्तौ सन्नद्धौ मदनाहवे | चिक्रीडतुश्चिरं कालं श्रृंगाररसपोषकौ || ३५ || शचींद्राविव तौ नित्यं रमाशार्ऽऽन्गधराविव | रोहिणींदू इव रतिस्मराविव रराजतुः || ३६ || मोहिनीममकारौ तावभिधानोचितक्रियौ || मिथुनीभूय सुस्निग्धौ कामपाशेन संयुतौ || ३७ || चित्तैकरस्यसंपन्नौ ममतालतिकावृतौ | दिनानि कामतंत्रेण यौवनस्थौ विनिन्यतुः || ३८ || संतानलाभमप्राप्य चिंतापरवशावुभौ || रहस्युपरतक्रीडौ विचारं चक्रतुस्तदा || ३९ || किं राज्येन सुखेन किं रतिकथाचातुर्यशौर्येण किं किं वा नूत्नविचित्ररत्नविलसद्भूषाविशेषैः शुभैः | किं मातंगरथांगतुंगतुरगैरांदोलिकाक्रीडनैः स्वाद्वन्नैरतुलांबरैरपि तथा संतानहीनो यदि || ४० || पृ० ६३) मोहिनीमयकारयोःपुत्रविषयकोपासनादिवर्णनम् | अपुत्रस्य गतिर्नास्तीत्याहुः शास्त्रविदो बुधाः | ब्रूते वेदोऽपि नापुत्रस्य लोकोऽस्तीति हि स्फुटम् || ४१ || विचार्यैवं ज्योतिषिकान्पृच्छतःस्म मुहुर्मुहुः | शुश्रूषतस्तथा तद्ज्ञैः शाकुनानि वचांसि च || ४२ || अर्कादिवासरेषूक्ततत्तज्जातिग्रहोपरि | उपश्रुतीः शुश्रुवतुर्विकीर्याप्यक्षतादिकम् || ४३ || सामुद्रिकाणां हस्तेषु हस्तं दत्वा सुताप्तये | रेखास्ति वा नवा ब्रूतेत्यनुयोगं च चक्रतुः || ४४ || विप्रश्निकायाः पुरतः स्थित्वा मुक्ताक्षतादिकम् || दत्वा शूर्पेऽथ तद्दंडं गृहीत्वा पृच्छतां शुभम् || ४५ || आर्योक्तेन प्रकारेण व्रतानि सकलान्यपि | उपायनप्रदानाद्यैराचरेतुरिमौ द्विजाः || ४६ || बहुधार्थव्ययं कृत्वा दंपती पुत्रकाम्यया | पृ० ६४) मोहिनीममकारौ तौ मोहेन महतावृतौ || ४७ || पिण्याकलशुनद्रव्यैर्मातंगीकृतनर्तनैः | पूजयामासतुर्मद्यमांसाद्यैः क्षुद्रदेवताः || ४८ || न शिवं शिवपत्नीं तौ मूढात्मानौ जगत्पती | शुद्धसत्वकलापूर्णावुपासामासतुः किल || ४९ || एवं दिनेषु गच्छत्सु मोहिनी केषुचित्स्वयं | तामसक्षुद्रशक्तीनां सेवया गर्भमादधे || ५० || या तामसी महामाया संदिष्टा शिवभार्यया | सर्वज्ञयाऽपि देवस्य प्रभोस्तत्वं प्रकाशितुं || ५१ || साशाद्य सद्यस्तद्गर्भमभ्रान्तभ्रान्तिभाविका || प्रीतिं संपादयांचक्रे तयोरात्मानुरूपयोः || ५२ || मायासौन्दर्यसर्वस्वमाकृष्य जनमोहिनी | मोहिन्याः पुत्रिका भूत्वा जज्ञे विज्ञाननाशिनी || ५३ || तदा विविधवाद्यानां हृद्यध्वनिपरंपराः | शुभदंभोदगंभीराः पुरे तत्र जजृंभिरे || ५४ || ममकारो द्विजातिभ्यः सर्वेभ्यो भूरिदक्षिणाः | प्रसारितकराग्रेभ्यो ददौ संभूय सस्पृहम् || ५५ || पृ० ६५) मायोत्पत्त्या मुनीश्वरादीनां मनोविकारादिवर्णनम् | आशया क्षेत्रवित्ताश्वगजगोरथगोधनम् || यद्यत्प्रार्थयते योयस्तस्मै तस्मै ददौ च तत् || ५६ || गृहेषु मिथुनीभूय स्थितेभ्यो विषयेच्छया || इष्टार्थानर्थिसंघेभ्यः प्रददौ मोहिनीपतिः || ५७ || चित्रं समस्तजंतूनां मायोत्पत्तिमहोत्सवे | रेतांसि सुस्रुवुः सद्यः स्त्रीपुंसानां क्षणे क्षणे || ५८ || निर्लज्जया पुमान्नारीं पुमांसं च तलोदरी || आलिंग्यौष्ठं समास्वाद्य रहस्यस्थानमस्पृशत् || ५९ || ये तु निर्वाणमार्गस्था ग्रामक्षेत्रगृहादिकम् | त्यक्त्वा घोराटवीः प्राप्य निराहारास्तपस्विनः || ६० || गंगादितटिनीतीरेष्वद्रीणां गह्वरेषु च | सिद्धस्थलविशेषेषु तथा बिल्ववनेषु च || ६१ || पंचाग्निमध्यभागेषु हिमान्यां जलमध्यमे | फलांबुपत्रैः क्षुद्बाधां वारयन्तस्तथान्वहम् || ६२ || निरुद्धवृत्तयः स्वान्तर्ध्यायन्तः परमेश्वरम् | तपः कुर्वंति सततमपरित्याज्यनिष्ठया || ६३ || पृ० ६६) तेषां शिवैकतानानि चित्तान्युत्थाय लक्ष्यतः | संप्राप्य वृत्तिसारूप्यं विषयौन्मुख्यमाप्नुवन् || ६४ || वेपमानोत्तमांगानां वृद्धानां च तपस्विनां | निष्कलानां पलिक्नीनामप्यन्योन्यं रतिर्बभौ || ६५ || तरूणां च गिरीणां च लतानां च तृणाश्मनां || स्त्रीपुंमयानामन्योन्यप्रीत्या द्रावोऽभवत्तदा || ६६ || मृगपक्षिपशुव्रातास्त्यक्त्वापि तृणभक्षणं | दिवारात्रौ च सततं मिथुनीभूय रेमिरे || ६७ || स्थाणुभूतशरीराणां दीर्घकालसमाधिना | तिरोहितानां वल्मीकैर्युगावृत्तादपीदृशां || ६८ || ऋषीणामग्निकल्पानामपि ध्यानोदितस्त्रियां | अधः स्खलितवीर्याणां चित्तान्युत्कंठितां ययुः || ६९ || व्युत्थाय सर्वे मुनयः किमेतदिति विस्मिताः | चिंताक्रांताश्चिरं ध्यात्वा पुनरासन्बहिर्मुखाः || ७० || अहो कष्टमहोकष्टमस्माकं किमियं दशा || ययात्मज्ञानमुसृज्य विषयौन्मुख्यमाप्नुमः || ७१ || इति चिंतापरवशाः संभूय मुनयोऽखिलाः | पृ० ६७) श्रीदुर्वाससंप्रति मुनीनां मनोविकारकारणजिज्ञासा | अमंत्रयन्त तच्छान्त्यै शान्त्यै दान्त्यै च भूसुराः || ७२ || तदा दुर्वारसंसारदुःखाद्रिबलभेदनः | शैवमौनी शिवाचार्यः शिवदीक्षापरायणः || ७३ || निराभारमहावीरशैवलिंगैक्यनिश्चयः | दुर्वासास्तपतां श्रेष्ठ आजगाम शिवेच्छया || ७४ || आगतं मुनिमालोक्य मुनयो विगतज्वराः | पाद्यार्घ्याचमनीयाद्यैर्मधुपर्कैस्तथार्चयन् || ७५ || उपवेश्यासने रम्ये महार्हे प्रणिपत्य तं | कृतांजलिपुटाः प्रोचुर्भक्त्या परमयान्विताः || ७६ || महेशकृपयोपात्तत्रिकालार्थावबोधन | योगींद्र करुणासिंधो ऋषिबंधो गृहीष्व नः || ७७ || ब्रूहि किं कारणं चित्तचलनेऽस्माकमीदृशाम् | वातांबुपर्णवृत्तीनां दृढवैराग्यशालिनाम् || ७८ || गुहांतर्धर्ममेघाख्यं ध्यानं व्युत्थानमेति नः | वशं गच्छति कामस्य चित्तं दुर्विषयातुरम् || ७९ || का गतिस्त्वां विनाऽस्माकं शिवज्ञानैकसागर | पृ० ६८) उपसर्गभयादस्मान् पाहि पाशुपताग्रणीः || ८० || विज्ञापितो मुनिगणैरित्थं वाचंयमोत्तमः | दृष्ट्या विचार्य सुचिरं प्रतीच्या प्रोक्तवान्गुरुः || ८१ || श्रूयतां वचनं सम्यगहो तापसपुंगवाः | ममकाराह्वयो राजा पृथिव्यामस्ति दुर्जयः || ८२ || बनवस्याख्यनगरे मोहिनी तत्कुटुंबिनी | तयोः पुत्रीत्वमापन्ना जाता माया दुराशया || ८३ || सांख्यं योगं पाशुपतं ज्ञानानि विविधानि च | विनाशयितुमुद्युक्ता कलिकालवशात्स्वयम् || ८४ || इतः परं क्व वा योगः क्व तपः क्व मुमुक्षुता | क्व भक्तिः क्व च विज्ञानं यतो मायावशं जगत् || ८५ || इति ब्रुवंतं दुर्वासं प्रणिपत्य भयान्विताः | पुनरूचुर्मुनिश्रेष्ठा निष्ठाचांचल्यनिष्ठुराः || ८६ || ऋषय ऊचुः | माहेश्वरी महामाया नामरूपक्रियात्मिका | सदसत्त्वाद्यनिर्वाच्या याऽनाद्या श्रूयते श्रुतौ || ८७ || यद्रूपमखिलं विश्वं यया संच्छादितं महः | यदुपाधिवशाज्जीवः स्वयं साक्षान्महेश्वरः || ८८ || पृ० ६९) मुनीन्प्रतिदुर्वासकृतमायास्वरूपनिरूपणम् | पशुपाशविमोचिन्या दीक्षया सा विमोचिता | यया शिवत्वमायातं कृतकृत्या स्म ते वयम् || ८९ || प्रारब्धमपि निर्दग्धं योगज्ञानाख्यवह्निना | वांतान्नाशनवत्कस्मात्प्राप्तं चलनमीदृशम् || ९० || संभ्रष्टबीजकल्पस्य चित्तस्य शमशालिनः | केयं माया कुतः कुत्र ततोप्यन्या विलक्षणा || ९१ || अजेति श्रूयते माया ज्ञाननाश्येति च स्वयं | जाता पृथिव्यामित्युक्ता नष्टायाश्च कुतो जनिः || ९२ || विलक्षणायाः किं रूपं तन्निवृत्तिर्नवास्ति वा | सर्वं कथय नो विद्वन् रक्षास्माञ्छरणागतान् || ९३ || एतत्प्रार्थयमानास्ते मुनयो विनयोर्जिताः | महर्षेरंघ्रिनिकटे निपेतुर्दंडवद्भुवि || ९४ || तानुत्थाप्य महातेजा दुर्वासा भगवान्स्वयम् | माभैष्टेति समाश्वास्य पुनः प्रोवाच सस्मितम् || ९५ || या माया त्रिगुणा चेति वेदान्तेषु प्रशस्यते | सा द्विरूपा ह्यविद्येति मायेति च निगद्यते || ९६ || तमःप्रधाना मलिनसत्वा विद्या द्वयोस्तयोः | शुद्धसत्वमयी माया निर्मला दर्पणोपमा || ९७ || पृ० ७०) जीवोपाधिरविद्याख्या मायोपाधिर्महेशितुः | सैषा विचित्रा सुदृढा बह्वंकुरसमन्विता || ९८ || गुणभिन्नाप्यंकुरेषु तेषु भिन्ना गुणैः पुनः | नामरूपात्मिका बह्वी तूलाविद्या निगद्यते || ९९ || प्रतिबिंबा अनेकाः स्युस्तत्र तत्तारतम्यतः | देवतिर्यऽऽन्मनुष्यांडजोद्भिज्जस्वेदजादयः || १०० || जीवाः शिवमया एव यतश्चैतन्यबिंबिताः | तथाप्यल्पाश्च किंचिज्ञा यातायातं प्रयान्ति हि || १०१ || ईश्वरस्तु महामायी यतस्तत्प्रतिबिंबितः | वशीकृत्य स तां देवः क्रीडते स्वेच्छया द्विजाः || १०२ || तत्रापि गुणपर्वाणि तारतम्येन संश्रितः | ब्रह्मा विष्णुश्च रुद्रेशौ सदाशिव इतीर्यते || १०३ || प्रभुः सर्वाधिकः प्रोक्तो निरंजनपदांचितः | स एक एव नो याति मायाया वशमास्तिकाः || १०४ || अन्ये तु ब्रह्मविष्ण्वाद्याः कदाचित्तद्विमोहिताः | पृ० ७१) मुनीन्प्रति दुर्वासकृतमायाप्रभाववर्णनम् | पुनः प्रभोः करुणया प्रबुध्यन्ति यथातथम् || १०५ || अविजेया ततो माया येन केनापि सुव्रताः | जिता मयेति येनेयं विश्वस्ता स जितो भवेत् || १०६ || अतो मायाजये सम्यग्जागर्तव्यं बुधैरपि | मायापाशनिबद्धानां जीवानां का कथा पुनः || १०७ || जीवः पशुरिति प्रोक्तः शिवः पशुपतिः स्मृतः | पाशबद्धो यतो जीवः पाशमुक्तो महेश्वरः || १०८ || पशुपाशविमोचिन्या दीक्षया गुरुदत्तया || भाग्येनानुगृहीतो यः स जीवः शिवतामियात् || १०९ || अन्यस्तु कर्मतंत्रेषु बद्धः पशुरधोमुखः | प्रयाति सततं मोहाज्जन्ममृत्युपरंपरां || ११० || न विद्याभिजने हेतू दीक्षायां मोक्षसाधने | अनुग्रहः प्रभोरेव श्रीगुरोस्तत्र कारणम् || १११ || सैषैव माया दुर्धर्षा तामसी सर्वमोहिनी | कामतंत्रप्रधानैका ममकारात्मजाऽभवत् || ११२ || अजातापि च मोहिन्यां जाता कार्यार्थमास्तिकाः | पृ० ७२) तत्र हेत्वन्तरं वक्ष्ये संशृणुध्वं समाहिताः || ११३ || कदाचिद्राजते शैले देवर्षिगणसेविते || सभायां योगपीठस्थं रुद्रं पप्रच्छ पार्वती || ११४ || सा शक्तिः सर्वलोकानां शिवाऽनन्या चिदात्मिका | स्ववशीकृत्य तां मायामभिमानेन पश्यति || ११५ || स्वमायया जगत्सर्वं मोहयन्ती स्वयंप्रभा | सृष्ट्यादिकार्येष्वीशस्य साहाययं तनुते तराम् || ११६ || ततो रजोगुणोद्रिक्ता तमसा सात्विकीं कलाम् | तिरोधाय हरं दृष्ट्वा प्रश्नमेनं चकार सा || ११७ || देवादिदेव भूलोके यो वा को वा महेश्वर | अस्ति किं सहजानंदसौंदर्यरसनिर्भरः || ११८ || परवैराग्यसंपन्नं तं ममाचक्ष्व शंकर | परीक्षेत्तन्मनोदार्ढ्यमित्युक्तः शंभुरब्रवीत् || ११९ || देवि साक्षात्परं ब्रह्म सच्चिदानंदविग्रहः | अल्लमप्रभुरेकोऽस्ति गुरुर्मम जगत्त्रये || १२० || इत्यास्थानीस्थितैः सर्वैराश्चर्येणावधारितम् | पृ० ७३) मायाविलासवर्णनम् | वचनं देवदेवस्य श्रुत्वा मंदस्मितानना || १२१ || आः किमेतत्कियदिति न्यक्कारेण रजोन्विता | देवी कृतनृचित्कारा ह्याराद्रुद्रमभाषत || १२२ || देव्युवाच | किमिदं भाषसे देव मम माया दुरत्यया | यद्यल्लमप्रभुस्तस्या अवशः स्यात्तदोच्यताम् || १२३ || इत्युक्त्वा तामसीं मायां स्वीयामाकृष्य सुन्दरी | मोहिन्याः पुत्रिकां चक्रे प्रभुमप्यभिकायितुं || १२४ || साप्यजातापि जातेव भूमौ बनवसीपुरे | ममकारस्य तनया बभूव त्रिजगन्मयी || १२५ || तस्या गुणकथा वक्तुं को वा शक्नोति मानवः | तथापि कांश्चिद्वक्ष्यामि शृण्वन्तु मुनिसत्तमाः || १२६ || यक्षकिन्नरगंधर्वसिद्धविद्याधरामरान् | गरुडोरगमर्त्यादीन् बहुना किं महामुनीन् || १२७ || अपांगदामभिर्बद्धान्मेषानिव निमेषतः | योषितां किंकरीभूतान्करोत्येव स्वलीलया || १२८ || किंचैषा त्रिगुणा माया भुवनानि चतुर्दश | स्वयं ग्रसति भूयोऽपि निष्ठीवति विनिष्ठुरा || १२९ || पृ० ७४) स्वयं महाप्रभावेण(न) मायामयमिदं जगत् | संहृत्य सत्वसंपूर्णो यो रुद्रोऽभूत्स्वयंप्रभः || १३० || तस्यापि वक्षसि सदा या माया कामवर्द्धनी | रुद्राणीं स्थापयत्येव तस्याश्चित्रं चरित्रकम् || १३१ || मूर्तिपंचकमप्येवं स्त्रीनेत्रविवशीकृतं | करोति तस्मादधिकः को वास्ति जगतां त्रये || १३२ || तस्मान्नजयया केनापि माया वेश्याविलासिनी || अविचारितसिद्धेयमसद्भावोपकल्पिका || १३३ || श्रुतमप्यश्रुतं दृष्टमप्यदृष्टं वितन्वती | विभीषिका जगत्कृत्स्नं मायेयं भ्रामयत्यहो || १३४ || भ्रान्तस्य पुरुषस्यास्य जननी तनया स्वसा | स्नुषा भार्या स्वयं भूत्वा विकारयति मोहिनी || १३५ || जिगीषा यदि युष्माकं तस्याः कूटक्रियात्मनः | उपायमेकं वक्ष्यामि रहस्यं शृणुत द्विजाः || १३६ || निरंजनो महादेवो गुरूणां परमो गुरुः | सर्वज्ञः सर्वसाक्षी यः सोऽल्लमप्रभुसंज्ञितः || १३७ || सोऽयं चिद्गगनाकारो व्यापकोऽपि महेश्वरः | पृ० ७५) मनुष्यचर्मणा बद्धो गूढः पर्यटति क्षितौ || १३८ || यः स्मरत्यनिशं चित्ते तत्र सन्निहितो गुरुः | मायामुन्मूल्य सहसा शिवज्ञानं प्रयच्छति || १३९ || ततोऽल्लमप्रभुं नित्यं स्मरत श्रद्धयान्विताः | तन्नाममंत्रं तन्मूर्तिं पठत ध्यायतानिशम् || १४० || स सर्वसाक्षी ध्यातृर्णां चित्ते साक्षाद्भविष्यति | तेन दिव्यप्रभावेण माया निर्मूलिता भवेत् || १४१ || उपदिश्यैवमेकान्ते दुर्वासास्तपतां वरः | जगाम मेरुशिखरं स्वेच्छयैव महामनाः || १४२ || मुनयोऽपि तथा कृत्वा प्रभोश्चरणचिंतनं | मायामुन्मूल्य चित्तानि न्यरुंधन् व्यत्थितान्यपि || १४३ || ममकारनृपस्तत्र मोहिनी च कुटुंबिनी | मायायां प्रेमभरितौ बालायां सुखमापतुः || १४४ || मानुषावप्यनिमिषौ सदातद्दर्शनोत्सुकौ | क्वचिन्निमीलिताक्षौ तद्रूपं दध्यतुरद्भुतम् || १४५ || पृ० ७६) उरस्यादाय सस्नेहमालिलिंगतुरंजसा | प्रेम्णा समाहितस्वान्तौ न विचालयतः स्म तौ || १४६ || अंकप्रदेशे संस्थाप्य न वियोजयतः क्षणम् | तद्विलासेक्षणेनैव क्षुत्तृष्णादिविवर्जितौ || १४७ || मायैवेयं न मत्पुत्रीत्याश्चर्याविष्टमानसौ | मायेति नाम दधतुस्तस्यास्तत्पितरावुभौ || १४८ || ततो धात्र्यः स्तनं दत्वा कृत्वाभ्यंगं सुगंधिभिः || अभ्यषिंचन्नंजलिभिर्मंदं मंदोष्णवारिभिः || १४९ || अनार्द्रीकृत्य मृदुलैर्धौतैरंके निधाप्य च || मंडैर्हैययंगवीनैश्च पयस्तामप्यपाययन् || १५० || अलंकृत्यांजनैर्नेत्रे ललाटे भूतिरेखया | धौतकौशेयपुत्रेषु शाययामासुरादरात् || १५१ || मंदं मंदं हस्ततलैः संस्पृशन्त्यो विलासिनीं | अगायन्मधुरालापैरुलूलुध्वनिभिः शुभैः || १५२ || जय बाले जगल्लीले शुभशीले गुणावले | जय शृंगारसर्वस्वे माये मधुरनिस्वने || १५३ || इति तद्गुणगीतानि गायन्त्यो जयनिस्वनैः | आरार्त्तिकादिभिस्तस्याश्चक्रुर्मांगलिकोत्सवं || १५४ || पृ० ७७) सौवर्णरत्नदोलायां यावन्निद्राति बालिका | तावत्तिष्ठन्ति दोलाग्ररज्वाकर्षणतत्पराः || १५५ || अथ सा जाग्रती बाला दोलामंचमणिव्रजे | आत्मच्छायास्समालोक्य मेने सह विहारिणीः || १५६ || सा ता हसन्ती हस्ताभ्यामालिंगितुमथोद्यता | क्रीडतिस्मः पितुः कक्षे मातुः कक्षे क्वचित् क्वचित् || १५७ || मातुर्हस्तात्पितुर्हस्तं गत्वा चालिंग्य कन्धरां | मुखं मुखेन संयोज्य प्रमोदमुदपादयत् || १५८ || मंजीरकिंकिणीपुंजे पदयोर्ध्वनति स्फुटं | मंदं मंदं तत्र तत्र पदन्यासांश्चकार सा || १५९ || रत्नाऽऽन्गुलीयकस्तोमे कांचने कंकणद्वये || काचवल्ली पुरोभागे रोचमाने समन्ततः || १६० || मुक्तास्यूतांचलाग्रायां सक्तायामलिकोपरि | अश्वत्थपत्ररेखायामालोलायां मुहुर्मुहुः || १६१ || कनत्कनकशृंगारकरवीरदलस्रजा | जाम्बूनदघटीदाम्ना शोभितायां तनौ भृशं || १६२ || स्खलद्गतिविशेषैः सा चलन्ती रत्नकुट्टिमे | पृ० ७८) लीलया सह बालाभिः खेलति स्म मुदान्विता || १६३ || पित्रोर्धात्रीषु सर्वासु वयस्यासु च सादरं | हृष्टचित्तासु मायाया बाल्यलीला व्यजृम्भत || १६४ || उत्कंठितेषु सर्वेसु नागरेषु जनेषु च || स्तुवत्सु चारुतां तस्या अतिचक्राम शैशवं || १६५ || ततः कौमारवेलायां सा माया सर्वमोहिनी || शिक्षाचार्याऽभवद्गत्यां हंसांनां हस्तिनामपि || १६६ || कोकिलानां कलध्वाने शुकानां मृदुभाषणे || तथाभूताऽथ तारुण्ये सा माया शुशुभे तरां || १६७ || भावो मनसि वाचायां प्रसादो दृक्प्रसारणे | स्यान्मर्म हस्तसंज्ञायां कीलकं भृकुटौ च रुट् || १६८ || मानोन्नतिस्तथा बुद्धौ सर्वमन्यद्भ्रमावहं | बभूव यौवने तस्यास्त्रिजगन्मोहनाकृतेः || १६९ || दृष्ट्वैतद्भावशाबल्यं मूढः क्लीबोऽरसोऽथवा | मुनिर्वा मोहमाप्नोति किमुतान्ये रसाधिकाः || १७० || पृ० ७९) मायासौंदर्यवैभववर्णनम् | इत्थं शृंगारसर्वस्वतारुण्यरसनिर्भरा || त्यक्त्वा मुग्धात्वमध्यात्वे क्रमात्प्रौढात्वमागता || १७१ || तन्नाट्यश्रीस्तद्विलासानुभूतिस्तच्चातुर्यं तत्कलाकौशलं च | तद्गाम्भीर्यं तद्गतिस्तत्पदोद्यज्जंघाजानूरुद्वयी श्रोणिनाभी || १७२ || तन्मध्यं तज्जघनफलकं तन्नितम्बः कुचौ तौ पीनौ कार्कश्यगुणनिलयौ तद्गलस्तन्मुखश्रीः | तन्नासाक्षिद्वयमधरदन्तावलिभ्रूललाटश्रोत्रं तत्कैशिकरुचिरता तत्तनोः सौष्टवं च || १७३ || असदृशमहिमायायां मायायामेव जगति नान्यत्र || यत्तद्विलासलेशाल्लोकत्रययुवतिसौंदर्यं || १७४ || ममकारोऽन्वर्थोऽभूत्तस्यां स्वान्तर्गताखिलांडायां | पुत्रीभूतसुतायां निजभाग्यनिधानमाननीयायां || १७५ || राजाऽथ हेमरत्नप्रततिमहार्हाणि सोपबर्हाणि || आस्थानमण्डपादीन्यगणितगेहानि विरचयांचक्रे || १७६ || सौधप्रासादसालान्तरकलितमणिस्तम्भसाहस्रदीव्य- द्गेहान्तर्दासदासीपरिजनविबुधामात्यभृत्यालिवर्गैः | पृ० ८०) मायां संवेश्य तत्तादृशविविधकला पांडितीसत्प्रवीणैः सम्यक्शिक्षां परीक्षावधि निजतनयां कारयामास मोहात् || १७७ || काव्यानि नाटकान्यथ वैयाकरणोचितप्रबन्धांश्च | संगीतभरतवीणाछन्दःकोक्कोकरत्नशास्त्राणि || १७८ || द्यूतानि बहुविधान्यपि कुक्कुटमेषादिलावुकान्तानि | अतिदीर्घाभ्रंकषवेण्वादिस्तम्भाग्रनृत्यकृत्यानि || १७९ || भूम्यन्तरिक्षदिक्तटनटनाभ्यासांश्च कारयांचक्रे | नागरकर्नाटान्ध्रद्राविडभाषाश्च पाठयामास || १८० || माया स्वयं या सकलप्रपंचव्यष्ट्या समष्ट्या च विराजमाना || तस्याः कियद्वर्णनमेतदेवं मानुष्यवेषाश्रयणाद्यदुक्तं || १८१ || ममकारनृपस्ततः सुताया हृदि पाणिग्रहणक्रियां विधातुं || कुलशीलकलावयस्सु रूपैरनुरूपं सुगुणं वरं निदध्यौ || १८२ || विचार्य सुचिरं राजा वर्तमानमहीपतीन् | तत्रैकमपि नो मेने मायायाः सगुणं वरं || १८३ || पृ० ८१) पितृकृतमायाविवाहविषयकवरजिज्ञासा | एतस्मिन्नंतरे तस्य राज्ञः कुलगुरुर्महान् | अहंकाराह्वयः साक्षादहंकार इवाययौ || १८४ || तदा प्रीतमना राजा तस्मै पाद्यार्घ्यपूर्वकं | पूजां दत्वा स्वमात्मानं कृतकृत्यममन्यत || १८५ || भक्त्या प्रणम्य पार्श्वस्थं पप्रच्छ कुशलं नृपं | आम्रेडितोक्त्याहंकारः शिष्यं विनयभूषणं || १८६ || राजा पुनर्नमस्कृत्य कृतांजलिरथाब्रवीत् | गुरो युष्मत्करुणया सर्वं कुशलमेव नः || १८७ || किंतु पुत्र्या विवाहार्थं चिंतयामि निरंतरम् | एषा कुमुदपत्राक्षी स्मरप्रदरकेकरा || १८८ || कामचापभ्रूविलासा नीलचामरकुंतला | चतुर्थीचंद्रनिटिला नासाचंपकभासुरा || १८९ || दाडिमीबीजदन्ताढ्या कपोलजितदर्पणा | श्रीकारकर्णा बिंबोष्ठी कंबुग्रीवा कलावती || १९० || बिसकाण्डभुजादण्डा सुवर्णकलशस्तनी || सिंहमध्या पृथुश्रोणी नितम्बजितसैकता || १९१ || पृ० ८२) करभोरुस्मरक्रीडा निषंगसमजंघिका | कूर्मोपमानांघ्रिपृष्ठा नक्षत्रनखरोज्वला || १९२ || रक्तारविंदांघ्रितला रंभारतिजयोद्यता | त्रिजगन्मोहनाकारा मदीयकुलपावनी || १९३ || मायैषाऽस्या वरः को वा पाणिग्रहणमर्हति | प्रत्यहं चिन्तयाम्येतद्दयालो गुरुसत्तम || १९४ || विचार्याज्ञापय स्वामिन् शिष्योऽहं साधु शाधि मां | एवमभ्यर्थितो राज्ञा मायामहिमकोविदः || १९५ || मायावच्छन्नमेवेशं जानन्नतु निरंजनं | धन्यो गुरुरुवाचेदमहंकारो महीसुराः || १९६ || कोकिलेव रसालस्य पुष्पस्येवालिसुंदरी | हंसीव पद्मकाण्डस्य शिवस्यार्हा तवात्मजा || १९७ || तस्यैव मोहिनी सेयं नान्योऽर्हति महीपते | स एवास्या महामायी शिवोऽर्हति न संशयः || १९८ || श्रुत्वैतद्वचनं राजा विचिंत्य क्षणमात्मनि | प्रणम्य दण्डवद्भूमावाचार्यं पुनरूचिवान् || १९९ || पृ० ८३) मायाकृतशिवोपासनाप्रकारवर्णनम् | ममकार उवाच- शम्भुः सर्वजगत्कर्ता वेदान्तेष्वप्यगोचरः | कथं सुलभतां यायात्क्षुद्राणां मादृशां गुरो || २०० || मादृशां मलबद्धानामहंकारमहागुरो | कथं प्रत्यक्षतां यायादनुगृह्णातु वा कथं || २०१ || मदीयकन्यां स्वीकृत्य स्पृशेद्वा कथमंजसा | संबंधितां कथं यातः सामरस्यं कथं व्रजेत् || २०२ || यथेष्टमुपभोगाय कथमंगीकरोत्विमां | इत्युक्तवन्तं भूपालं शिष्यं प्रोवाच देशिकः || २०३ || यथार्थमेतत्त्वद्वाक्यं हरः सर्वजगद्गुरुः | विना भक्त्या हरिब्रह्मप्रमुखानामगोचरः || २०४ || कथा केवलमर्त्यानां कैव सत्यं महीपते | किंतु ब्रवीमि वेदान्तरहस्यं शृणु सन्मते || २०५ || यस्य भक्तिर्दृढा जाता श्वपचस्यापि शंकरे | सत्यं तमनुगृह्णाति शिवो हृदयसंस्थितः || २०६ || ततस्त्वं भक्तियोगेन समाराधय शंकरम् | अंगीकरोति विश्वेशो भवन्तं नात्र संशयः || २०७ || इत्याज्ञप्य महीपालं समाश्वास्य मृदूक्तिभिः || ययौ मायामणिगृहं ततः स तदनुज्ञया || २०८ || पृ० ८४) अहंकारो रहस्यस्यै शैवं धर्ममुपादिशत् | शिवार्चनाविधानं च भक्तेर्माहात्म्यमुत्तमं || २०९ || उपदिष्टा ततो माया गुरुणेष्टार्थसिद्धये | अष्टमूर्तिधरं देवं मधुकेश्वरमाश्रयत् || २१० || विनष्टसंशया निष्ठागरिष्ठाऽष्टविधार्चनैः || अष्टोपचारसंगत्या सावधाना तमर्चयत् || २११ || चंदनाक्षतधूपस्रग्दीपनैवेद्यवाद्यकैः || चंद्रानना तमानर्चत्त्रिकालं विधिपूर्वकं || २१२ || हृत्पुण्डरीकमध्यस्थं शिवं सर्वेश्वरेश्वरं || कामयन्ती प्राणनाथं नित्यं व्रतपराऽभवत् || २१३ || इति परमरहस्यं सूतपुत्रस्य वाक्यं भृगुतनयमुखास्ते सम्यगाकर्ण्य तुष्टाः || भवभयविनिवृत्यै भावितं हि त्वयोक्तं प्रभुचरितमिदानीं ब्रूहि सूतेत्यपृच्छन् || २१४ || यः शृणोति शिवसंनिधौ सदा माययाऽऽचरितमीश्वरार्चनं || पृ० ८५) मायाकृतशिवार्चनश्रवणफलम् | तस्य नाशमुपयाति सा भृशं चिन्मयस्य कृपयाऽल्लमप्रभोः || २१५ || इत्यार्षभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां मायाविलासतदुपासनाप्रकारवर्णनगतिर्नाम तृतीयोऽध्यायः || ३ || पृ० ८६) श्रीनंदिकेश्वराय नमः || अथ चतुर्थोऽध्यायः || सूत उवाच- श्रीसिद्धवीरगुरुपादसरोजयुग्मे भक्त्या विनिर्जितमहोर्जितमोहपाशाः || मुक्तीच्छया परविरक्तिपथं प्रयाताः शृण्वंतु सन्मुनिवराः प्रभुलिंगलीलां || १ || अहंकारेऽथ मायाया उपदिश्य गते नृपे || तथैव निश्चितस्वान्ते माया शिवरताऽभवत् || २ || एतस्मिन्नंतरे विप्राः सर्वानुग्राहकः प्रभुः || अल्लमः सच्चिदानंदो महामहिमसागरः || ३ || माया दुर्वारगर्वस्य निर्वापणकरोद्यमः || अमूर्तोऽपि समूर्तोऽभूत्तदुपास्त्युचिताकृतिः || ४ || ह्रीकरं कुसुमास्त्रस्य श्रीकरं ध्यायतां हृदि || दधावत्यद्भुतं रूपं शृंगाररससीकरं || ५ || प्रसार्य पश्यतां दृष्टिमनिमेषत्वदायकं || तद्वर्तुलत्वसौंदर्यं को वा वर्णयितुं क्षमः || ६ || विवृते वदने किंचिद्दन्तकान्तिच्छटाः परं || सम्पूर्णपूर्णिमाचंद्रचंद्रिकाः प्रहसन्ति हि || ७ || पृ० ८७) बनवसींप्रत्यागतप्रभोरवयवसौन्दर्यवर्णनम् | किंचिदुन्मीलिते नेत्रे वर्षतो जलजस्रजः || कुलालचक्रवत्ता नो निमीलन्ति निमीलने || ८ || हस्तपादतले रेखा अकस्मात्पश्यतां नृणां || श्रेष्ठं हरिविरिंचिभ्यां कथयन्त्येनमीश्वरं || ९ || उदितानुदितश्मश्रुरेखाननसुधाकरे || कलंकरेखेवाऽऽभाति जनताश्चर्यकारिणी || १० || षोडशाब्दीयवयसा जगन्मोहनकारकः || पुपोष वेषमुतलं योषाजनमनोहरं || ११ || सुवर्णकांचीसन्नद्धं कांचनांचलरंजितं || अन्तरीयं बबन्धायं लंबितैकपुरोंचलं || १२ || द्विपटीमुपमाशून्यां तपनीयांचलांचितां || सूक्ष्मांशुनिर्मितामेकांचलमूर्ध्वं प्रसार(काश)यन् || १३ || उरःस्थले यथा नूत्नरत्ननिष्कं प्रकाशते || यज्ञोपवीतन्यायेन दधौ शृंगारवारिधिः || १४ || यत्र पादनखच्छायाः प्रसरन्ति महीतले || पृ० ८८) पद्मरागमणिश्रेणी धागधग्येन सा बभौ || १५ || मुक्ताकुण्डलकान्तीनामत्युल्बणपरंपराः || घनीभवन्त्यभिनवा गण्डयोरुभयोरपि || १६ || तिर्यक्सुवर्णघुटिकादीप्यमानस्रजोर्द्वयं || कूर्परोर्ध्वस्थले बाह्वोरलंचक्रेऽतिसुन्दरं || १७ || जगद्बिरुदपांचालिकोल्लसत्पादहंसकौ || स्पर्धेते तदधः क्षुद्रकिंकिणीभिः समन्ततः || १८ || ईषद्वक्त्रशिखालग्नपुष्पमाल्योपशोभितं || सूक्ष्मोष्णीषांचलस्यूतस्वर्णकूर्चद्वयं बभौ || १९ || एकांगुलिशिखादत्तं वर्तुलं तिलकोत्तमं || मायाकल्पितवैचित्र्याः शून्यचिह्नमिवाबभौ || २० || नक्षत्रराजसत्कान्तिन्यक्कारिशुभलक्षणाः || नक्षत्रमालाप्रमुखा हारा वक्षःस्थले बभुः || २१ || साक्षरांगुलिमुद्राभिर्विराजितकरांगुलिः || पादांगुलीयकमणिप्रभाभासितपादुकः || २२ || विटवेषधरः साक्षाच्छृंगार इव सोऽल्लमः || पृ० ८९) मधुकेशालये प्रभोर्मृदंगवादनचातुरीवर्णनम् | पुरीं बनवसीं प्राप तत्रत्यैरभिनंदितः || २३ || संघीभूतैर्जनैस्तत्र परमाश्चर्यसंयुतैः || चक्षुश्चषकपीतास्यसुधाकरसुधाझरः || २४ || मधुकेशालयं गत्वा मुखमण्डपमाश्रितः || तत्रत्यमतुलाकारं प्रमाणातीतमद्भुतं || २५ || अशक्यं वादितुं येन केनापि शिवनिर्मितं || ददर्श मर्दलं प्रांशुं विद्याजीविगलार्गलं || २६ || गृहीत्वा बाहुदण्डाभ्यां निमेषाल्लघुतूलवत् || निधाय चोरुफलके सज्जीचक्रे यथाविधि || २७ || दर्शयन् वाद्यचातुर्यं साक्षान्नंदीव सोऽल्लमः || चतुर्दण्डिप्रतिभया सप्रमाणं सतालकं || २८ || वादयन् भरतन्यायैर्यथाशास्त्रं सुखावहं || श्रावयामास वाद्यज्ञैः सर्वैरद्भुतमीक्षितः || २९ || कलाभिज्ञास्तु तत्रत्याः सर्वाश्चर्यमनोहरं || दृष्ट्वाध्येत्यहहेत्याहो अहो इति तथा ब्रुवन् || ३० || पृ० ९०) स्याद्भ्रातः स्यारूत्तंस हे विद्याधिप हे पितः || अंग मार्दंगिक स्वामिन् भो महामहिमन्निति || ३१ || न श्रुतं न च वा दृष्टं विद्वद्रत्नं क्ववेदृशं || साधु साधु समीचीनं सम्यगित्याहुरास्तिकाः || ३२ || गणनामात्रपर्याप्ता वयं विद्याधिका इति || त्वत्पदाब्जपरागैकलेशेनाति च नो समाः || ३३ || अस्मद्भाग्येन दृष्टोऽयं लोकोत्तरगुणोत्तरः || अदृष्टपूर्वः पुण्यात्मेत्यस्तुवन् बहुधा प्रभुं || ३४ || श्रुत्वाऽथ माया वार्तां तां सन्निधौ मधुकेशितुः || ध्यानवृत्तिमपि त्यक्त्वा सखीः प्रोवाच सुन्दरी || ३५ || मायोवाच || आल्यः किमेतदाश्चर्यं श्रुत्वैतद्वाद्यनिःस्वनं || मयूरीव घनध्वानमहं नर्तितुमुत्सहे || ३६ || तरलाक्ष्यः कदा वापि पुरे तद्वाद्यकौशलं || श्रुतं किमेष सर्वज्ञो विद्याधिकशिखामणिः || ३७ || महापुरुष इत्येष मम चित्तं प्रसीदति || गत्वा तमेनं संप्रेक्ष्य यूयमायात सत्वरं || ३८ || पृ० ९१) प्रभोर्मायाकृतविद्यासौन्दर्यवर्णनम् | इत्याज्ञप्तास्तदा सख्यः समेत्य मुखमण्डपं || प्रभुं प्रेक्ष्य कृतार्थाः स्म इति चित्तेषु मेनिरे || ३९ || आश्चर्येण ततो गत्वा सख्यस्तां भर्तृदारिकां || प्रणम्य पूजा फलिता तवेत्याहुः स्मिताननाः || ४० || तस्य सौंदर्यचातुर्यसौमनस्यवयांसि च || श्रृंगाररसभूयिष्ठान्यादरादाचचक्षिरे || ४१ || आकर्ण्य कर्णामृतमंबुजाक्षी तद्रूपरेखादिविलासवृत्तं || संद्रष्टुकामा समुपेत्य शीघ्रं निध्याय तन्मूर्तिमवाप मोहं || ४२ || कुसुमायुधगर्वभंजनं तत्सुकुमारं वपुरद्भुतं यदेतत् || करुणामयमीक्षणं प्रसूते परमानंदसुधानिधिं समंतात् || ४३ || विद्याऽस्ति यत्र विनयो न हि तत्र लोके यद्यस्ति सा विनयसंपदहो न विद्या || विद्याविशेषविनयाविह पुण्यमूर्तौ विद्याधिके विमतहस्तिमृगाधिपे स्तः || ४४ || एवं निध्याय निध्याय माया हर्षाश्रुलोचना || कंचुकीकृतरोमांचा सखीमुखमवैक्षत || ४५ || विज्ञाय चित्तं तन्वंग्या विनयेन विचक्षणाः || पृ० ९२) पप्रच्छुरल्लमं सख्यः प्रगल्भवचसा प्रभुं || ४६ || भो विद्वन् भव्यसंचार कस्माद्देशादिहागतः || को वा जनपदो युष्मत्पदाम्भोजपवित्रितः || ४७ || कत्यक्षरं भवन्नाम किमणूकं कियत्पदं || कं देशं प्रति गन्तव्यमस्मास्वेव किमादरः || ४८ || शिव एव किमार्यायाः प्रसन्नोऽस्मत्सखीमणेः || सर्वं यथार्थमाचक्ष्व श्रोतुमिच्छाऽस्ति नः प्रभो || ४९ || एवमुक्तोल्लमः प्रोचे स्मयमानमुखांबुजः || वृत्तान्तमात्मनः सम्यगर्थगम्भीरया गिरा || ५० || देशो मदीयोऽयमिति नास्त्येको भुवि निश्चितः || किंतु सर्वेषु देशेषु संचरामि निरंतरं || ५१ || परदेशतया ख्यातो विद्याबलसमन्वितः || जगदाश्चर्यबिरुदपांचाल्यंचितपादुकः || ५२ || यो वा को वा प्रतिद्वंद्वी विद्यायां मम भूतले || निर्वापयामि तद्गर्वमलं मेति वचोऽवधि || ५३ || पृ० ९३) प्रभुंप्रति सखीकृतमायाविद्यानैपुण्यकथनम् | ततोऽल्लमाल्लमा चेति प्राकृतैरभिधा कृता || अल्लमः शिव एवेति साधुभिः समभिष्टुतः || ५४ || विचराम्येक एवाहं निर्भयो निरहंकृतिः || सुखगोष्ठी भवेद्यत्र तत्र तावद्वसाम्यहं || ५५ || नास्ति यत्र सुखास्वादो निर्यास्यामि क्षणात्ततः || चर्येयं मम कल्याण्य इत्युक्ताः पुनरब्रुवन् || ५६ || भो विद्वन् कमलाक्षीयमस्माकं भर्तृदारिका || मायाख्या ममकारस्य महाराजस्य नंदिनी || ५७ || अशेषविद्यानिपुणा मुहुर्वितरणाधिका || शुद्धदेशीयमार्गेण शिक्षिता नृत्तगीतयोः || ५८ || एतस्या नृत्यचातुर्यमवलोक्य भवादृशाः || शिरःकम्पं प्रकुर्वन्ति साक्षाद्रंभेति पण्डिताः || ५९ || पठितं भारतं शास्त्रं वीणानैपुण्यमार्जितं || विचित्रयति गीतानि गात्रवद्यंत्रसूत्रतः || ६० || नानाविधैरभिनयैरर्थं व्यंजयति स्फुटं || शब्दनाटककाव्यानि समभ्यस्तानि भूरिशः || ६१ || रचयत्यष्टभाषाभिः काव्यानि विविधान्यपि || बहुशास्त्रार्थतात्पर्यं सूक्ष्मदृष्ट्यावबुध्यति || ६२ || बहुना किं समस्तासु विद्यासु निवसत्यसौ || पृ० ९४) वाणी नृत्यति जिह्वाग्रे बालापि प्रौढतां गता || ६३ || तृणवत्पश्यति धनं गुणमेव धनं सखे || अनुपाधिकसौहार्दा मार्दंगिक गुणाधिके || ६४ || तरलाक्षीमिमां नित्यमाश्रित्य यदि तिष्ठसि || मणिः सुवर्णकणिकामिव त्वं शोभसे तरां || ६५ || ददाति च यथाकामं निर्वेशं निर्विवादतः || दिव्याम्बराणि धौतानि वारंवारं प्रयच्छति || ६६ || भूषणानि समस्तानि वांछितान्यमितानि ते || षड्रसायनसारान्नपानीयानि प्रदास्यति || ६७ || एनामेणायताक्षीं त्वं समाश्रित्य वसाऽत्र भो || भोगायतनमेतत्ते यथार्थय कुशीलव || ६८ || राज्ञो विज्ञाप्य भवतो विद्याकौशलमीदृशं || तेनापि बहुमानेन गौरवं कारयिष्यति || ६९ || कारयित्वा सूत्रधारं नाट्यशालाधिनायकं || नृत्यद्युवतिशिक्षायां मारिषं कर्तुमिच्छति || ७० || गतिं त्यज हितं श्रुत्वा मिलित्वा मायया सह || भुक्त्वा स्रक्चंदनादीनि सौख्यानि शुभमाप्नुहि || ७१ || इत्युक्त्वोपरते कान्ताजनेऽसावल्लमप्रभुः || पृ० ९५) राज्ञा प्रभुप्रदत्तपारितोषिकनाट्याचार्यताकथनम् | किमप्यनुक्त्वा गाम्भीर्यात्तूष्णीमास्त महामतिः || ७२ || इंगितज्ञेव तत्रैका भोगिनी नाम तत्सखी || हेमपात्र्याथ ताम्बूलं दापयामास मायया || ७३ || स्वीकृत्य वीटिकां सोऽपि सिद्धवेषधरो युवा || क्षणाज्जहार तच्चित्तं स्वविलासावलोकनात् || ७४ || ततः सखीभिः सा माया प्रणिपत्य महेश्वरं || तत्प्रसादात्कृतार्थेव सानन्दा प्रभुमैक्षत || ७५ || आगत्य पार्थिवं वेगात्प्रभुणा तस्य सन्निधौ || संस्थाप्याल्लममानन्दाद्ववन्दे राजनन्दिनी || ७६ || अथ प्रभोर्महाश्चर्यात्सभ्यैरनिमिषेक्षणैः || बहूकृतस्य माहात्म्यं प्राज्ञा राज्ञे व्यजिज्ञपत् || ७७ || एषोऽल्लमो महाराज महामहिमवल्लभः || सर्वासामपि विद्यानां प्रभुरीशानसन्निभः || ७८ || इत्येतद्वचनं श्रुत्वा राजा स्वस्थानसंस्थितैः || परीक्ष्य विद्यास्तास्सर्वाः सन्तोषाद्बह्वमानयत् || ७९ || भूषणाम्बरताम्बूलजाम्बूनदविहापितैः || संभाव्य नृत्यशालायामाचार्यं तं न्ययोजयत् || ८० || संप्रेष्य स्वात्मजां राजा स्वगृहं प्रभवे स्वयं || समस्तवस्तुभिर्भव्यं दिव्यं भवनमादिशत् || ८१ || पृ० ९६) माया स्वमंदिरं प्राप्य सानन्दं ससखीजना || आस्थानमण्डपे प्रोद्यन्मुक्तापीठान्तिकं ययौ || ८२ || तत्रासीना निःश्वसन्ती मनोरथसमं मुहुः || अत्युत्कण्ठावशेनैव रसोदयमसूचयत् || ८३ || सखीः प्रोवाच तन्वंगी साकांक्षं भावगर्भितं || भो सख्यः शृणुताश्चर्यं दृष्टमस्माभिरद्य यत् || ८४ || हरनेत्रानलज्वालास्पर्शहीनांगमंगलः || मार्दंगिकोऽयं कल्याण्यो मदनः स्यान्न संशयः || ८५ || अन्यथा रूपसौंदर्यममानुषमिदं भुवि || कथं सम्पद्यमानं स्याद्यस्य कस्यापि सांप्रतं || ८६ || हृद्यता पादतलयोः श्लाघ्यता जंघयोर्द्वयोः || चारुतोरुद्वयस्याऽपि कटेश्च कमनीयता || ८७ || मनोहरत्वं मध्यस्य नाभेर्गाम्भीर्यमद्भुतं || वलीनां वलनं तद्वद्रोमावल्याः सुरूपता || ८८ || वक्षःस्थल्या विशालत्वमौन्नत्यं भुजयोरपि || दैर्घ्यं बाह्वोश्च सौंदर्यं ग्रीवायाश्चुबुकाकृतिः || ८९ || ओष्ठयोः सौकुमार्यं च दन्तपंक्त्योश्च कान्तता || पृ० ९७) स्मरव्याकुलमायायाः प्रभुविषयकचिन्ता | श्मश्रुरेखा विलासश्च नैगनिग्यं कपोलयोः || ९० || सुषुमत्वं नासिकाया नेत्रद्वंद्वस्य रम्यता || लीला ललाटपट्टस्य भ्रुवोर्युग्मस्य वल्गुता || ९१ || रुचिरत्वं चालकानां शक्यते केन वर्णितुं || सौंदर्यसारसर्वस्वमूर्तेरस्य महात्मनः || ९२ || इत्युक्त्वोत्पन्नशृंगारविप्रलम्भरसाप्लुता || अभूद्रत्याख्यभावेन घनीभूतमनोभवा || ९३ || आलंबनोद्दीपनाख्यविभावविवशीकृता || तस्थौ मुहुस्तदीयांगसौंदर्यध्यानतत्परा || ९४ || हृदयस्थितसंकल्पादुन्मनीकृतचेतना || बभूव स्थैर्यराहित्या त्यक्तस्नानप्रसाधना || ९५ || न भुंक्ते नापि चाचामत्यहहा दुर्दशां गता || माया मायावशं नीता महामायाविनः प्रभोः || ९६ || शययायामुपबर्हस्था हस्तेनैकाकिनी क्वचित् || चिन्तयामास सुचिरं स्मरव्याकुलितेंद्रिया || ९७ || करं कपोले संधाय विचारयति सा क्वचित् || पृ० ९८) गणयत्यात्मना स्वस्य दशां शुभफलप्रदां || ९८ || क्वचिन्मदनखेदेन नेत्रयोरश्रुपूर्णयोः || निःसारयामास तदा नखाग्रैर्वारि सर्वतः || ९९ || पादांगुष्ठेन भूपृष्ठे लिलेख च मुहुर्मुहुः || सखीं प्रेषितुकामा तं लज्जयोपरतिं गता || १०० || अशक्ता स्थापितुं चित्तमेका गन्तुमनाः स्वयं || संचुकोच पुनर्माया मदने मर्मभेदके || १०१ || एवं विरहतापेन तप्यमाना निरंतरं || अवस्थातुमशक्ता सा नयोपायं व्यचिंतयत् || १०२ || काश्चित् प्रज्ञावतीरात्मसमाना मानशालिनीः || कर्पूरगंधीः सौंदर्यवतीराहूय चाब्रवीत् || १०३ || विद्याधिकोऽल्लमः प्राज्ञस्तस्य कुत्र निवेशनं || दर्शितं किल सम्यक् तज्ज्ञातं युष्माभिरालयः || १०४ || इति प्रश्नच्छलेनैव वयस्यास्तन्मनोरथं || अल्लमायत्तमित्येवं ज्ञात्वा प्रोचुरिदं वचः || १०५ || किं पिधाय सखि ब्रूषि यथार्थं वद सांप्रतं || वक्षि चेत् तत्क्षणेनैव पूरयामो मनोरथं || १०६ || पृ० ९९) मायामनोरथनिरूपणचिन्ता | संशयं त्यज हृद्ग्रन्थौ मौनं जहिहि मानिनि || वाचं देहीति विज्ञप्ता मनस्येवं व्यचिंतयत् || १०७ || मयोच्यमाने महति मधुरे मन्मनोरथे || अपराधत्रयं नूनं भविष्यति न संशयः || १०८ || यद्येषा बालिका कन्या कार्यं साहसिकं महत् || निर्भीका कर्तुमुद्युक्ता कियद्धूर्तेति वाग्भवेत् || १०९ || प्रथमो ह्यपराधोऽयं परिहर्तुं न शक्यते || यतो महाकुलीनाऽहं किंच राज्ञः प्रियात्मजा || ११० || यद्येतादृशदुर्बुद्धिर्न युक्तास्या इतीरणा || भविष्यति द्वितीयोऽयमपराधो न संशयः || १११ || यदि निष्कामपुरुषं सिद्धं निर्मलचेतसं || अकामनीयं कामित्वाद्भ्रांत्या व्यर्थमनोरथा || ११२ || एवंविधाभिलाषो हि चंद्रपाणिग्रहोपमः || भवेदुन्मत्तचित्तानां न प्राज्ञानां कथंचन || ११३ || स्वैरिणी भावतः सेयं वारणीयेति चेरणा || स्याच्चेत्तच्छ्रवणं नूनमपराधस्तृतीयकः || ११४ || पृ० १००) एवं विचार्य बहुधा चिंतापरवशात्मनि || न स्पष्टमूचे सा माया हृदिस्थं स्वमनोरथं || ११५ || भावं विज्ञाय मायायास्ततस्ता वामलोचनाः || दृक्संज्ञया तदान्योन्यं गत्वाऽन्यत्र व्यचिंतयन् || ११६ || कथमस्मत्सखी माया दह्यते विरहाग्निना || न जानीमो वयमिति स्वान्तस्थं गूहतेतरां || ११७ || स्वकीयनृत्तगीतानि स्वव्याहारामृतानि च || स्वचेतसि विचारांश्च स्वसंदिग्धपदानि च || ११८ || स्वनिश्चयकथाश्चापि कदाचिन्नोपगूहते | अस्मत्प्राणसमा सेयं माया किमनुतप्यति || ११९ || आबाल्यादपि विज्ञातमस्माभिस्तन्मनोगतं | किमर्थं गोपयत्येषा ज्ञातमेव हि नः खलु || १२० || एवमुक्तवतीमालिं कलाख्यां सकलाभिधां | तथेत्युवाच ते चोभे प्रोचतुर्मधुमानिनीं || १२१ || तत्सर्वं सा ततो ज्ञात्वा युवाभ्यां स्थीयतामिह | चिन्तानिवृत्त्यै मायाया उपायं चिन्तयाम्यहं || १२२ || अहं मायावधूं गत्वा श्रुत्वा तद्वृत्तमान्तरं | ज्ञात्वा गमिष्याम्येकैवेत्युक्त्वा मायान्तिकं ययौ || १२३ || पृ० १०१) सखींप्रति मायामनोरथनिरूपणम् | आलिंग्य तां प्रियालापैरादरान्मधुमानिनी | स्वेदोदकमथोन्मृज्य चुचुंब चुबुकं मुहुः || १२४ || अक्क मह्यं समाचक्ष्व न्यक्कुरुष्व वृथा श्रमं || हृदयस्था तवाद्धाहं गोप्यं किमिह ते मयि || १२५ || आवयोरन्तरं किंचिन्नास्तीति प्रियवादिनी | बिभेद चित्तं सा तस्या उपायेनैवमास्तिकाः || १२६ || एवं सा भिन्नहृदया प्रोन्नमयय शिरो भृशं | अपश्यन्मधुमानिन्या निमेषरहिता मुखं || १२७ || दृष्ट्वा मनोगतं गोप्यं वक्तुं समुपचक्रमे || उपक्रम्यावरुद्धाऽथ ह्रिया तूष्णीं स्थिताऽभवत् || १२८ || तस्याः स्थितेश्च चलने विस्मयं प्राप्य हा भृशं | शिरःकम्पं विदधती मुहुर्दैवं निनिंद सा || १२९ || मुहुर्वेपथुमारेभे भूयो भूयो भयाकुला || हुसूर्हुसूरिति प्राणमुच्छ्वसित्यंतराविला || १३० || कथंचिद्धृतलज्जा सा वक्तुं किंचित्समुद्यता | कंठे गद्गदिते तत्र तूष्णींभूताऽभवत्तदा || १३१ || गायन्तीभिः सखीभिः सा न किंचिदपि गायति || पृ० १०२) न पश्यति तथा क्रीडाशुकं मधुरभाषिणं || १३२ || न धत्ते भूषणान्यंगलतिकायां कदाचन || माधुर्यमार्दवस्यूतान्युदितानि न भाषते || १३३ || निषेधति तथा हारं श्लक्ष्णं मधुरमप्यहो | विगानेऽपि सखीपाठे न निवारयति स्वयं || १३४ || इति दुर्दशया तस्यां क्लिष्टायां मधुमानिनी || मायां प्रोवाच मर्मोक्त्या मनोभेदनतत्परा || १३५ || चन्द्रानने किमर्थं त्वमेतामाप्नोषि दुर्दशां || हैययंगवीने हस्तस्ये वृथा क्रोशसि सर्पिषे || १३६ || सुधाधारामये वर्षे नित्यं पतति मूढधीः | क्षुत्तृष्णाजयमज्ञात्वा यथा कृषिपरो भवेत् || १३७ || तथैवाल्लममानन्ददायिनं त्वमजानती | क्लिश्नासि किं तमाश्रित्य नित्यसौख्यपरा भव || १३८ || इत्थं माया स्वचित्तस्यमर्थं सम्यक् तदीरितं || श्रुत्वोत्थाय तदाश्चर्यमवाप्यातीव हर्षिता || १३९ || मर्मज्ञानप्रकोप्येयं सर्वज्ञेति विचार्य सा | अगोपयित्वा स्वात्मानं स्पर्शयित्वा ब्रवीत्सखीं || १४० || पृ० १०३) प्रभुंप्रति मायया सखीसंप्रेषणम् | येन केनाप्युपायेन ह्येतदेव प्रयोजनं | मद्रक्षणार्थमद्यैव साधनीयं त्वया सखि || १४१ || न साधयसि यद्येवं दोषः स्यात्तव सुव्रते | मित्रद्रोहात्परं नास्ति पापमित्याह चागमः || १४२ || मनोहरवचोगुंभमाधुरीसारवाग्झरी | त्वमेव मद्वयस्यानामग्रणीर्मधुमानिनि || १४३ || त्वमेवाधिकवेगेन गत्वाल्लमनिकेतनं || तस्मै विज्ञाप्य मद्वृत्तं कुरु तत्संमतिं सखे || १४४ || न चालयामि मच्चित्तं प्रभौ क्व च गुणाधिके | आनयेह महोपायैरानंदय ममान्तरं || १४५ || तथेत्युक्ताऽथ सा मायामाश्वास्य मधुमानिनी | कलां च सकलां प्राह युवाभ्यां स्थीयतामिह || १४६ || अप्रकाशितगोप्यार्थे वर्तेथां सकलाकले | मायायाः सन्निधावेव मर्मसंरक्षणोद्यते || १४७ || युवां विश्वस्य यास्यामीत्युक्त्वा ते सकलाकले | तत्रैव स्थापयित्वा सा जगामाल्लममंदिरं || १४८ || घुमघुमायमानोद्यत्पुष्पगुच्छमुपायनं || पृ० १०४) तां गृहीत्वाऽऽगतां प्राज्ञो ददर्श मधुमानिनीं || १४९ || अथोत्थायाल्लमः पीठात्प्रत्युद्गम्य शुचिस्मितः | अत्यन्तविनयात्साधुर्धूर्तां धूर्तक्रियां व्यधात् || १५० || कुत्र गच्छसि पद्माक्षि गच्छ गच्छ तवाऽधुना || मार्गदर्शी भवामीति सचमत्कारमब्रवीत् || १५१ || इत्युक्तवन्तं सा प्रोचे परिहासं त्यजाभिक | गच्छ गच्छ गृहं वार्तामाहरामि तव प्रियां || १५२ || एवमुक्तवती तेन सहाभ्यन्तः प्रविश्य सा | प्रसूनस्तबकं तस्मै ददौ स्नेहादुपायनं || १५३ || मुकुलीकृत्य हस्तौ सा विलासेन कृतानतिः | प्रोचे मधुरया वाचा वाचाला वाग्विदां वरं || १५४ || निवेशनगृहेणानेनालं तव महाप्रभो | मायाऽस्माकं प्रियसखी भवज्जालान्तरं गता || १५५ || त्वामेव स्मरति सदा तवैव वार्तामालप्य स्तुतिशतमातनोति तावत् | स्वं स्वं ते भवति सखे भवद्वियोगं शक्नोति क्षणमपि सा न सोढुमार्या || १५६ || पृ० १०५) प्रभुंप्रति मायाविरहवर्णनपूर्वकमधुमानिनीप्रार्थना | अस्मानप्यसुसदृशीर्न संस्मरंत्यास्त्वययेव स्वकमखिलं समर्प्य सा स्वं | त्वत्पादद्वयमिह संस्पृशामि नूनं त्वं त्राता भव मम भाव भावसख्याः || १५७ || अस्माकं स्वामिनी सा सकलगुणवती सर्वसौंदर्यसारा माया तस्यास्तु भूत्वा तदनुगुणगुणस्त्वं सुधीः प्राणनाथः | अस्मानेताः समस्तास्त्वदधिगतनिजस्वामिभावानुभावाः पाहि श्रीमत्कटाक्षप्रसरदमृतधारासहस्रैरधीश || १५८ || आगन्तुकोचितमिदं सदनं विसृज्य न्यक्कृत्य कृत्यभिहितं त्रिदशेंद्रभोगं | संक्रीडितुं निरुपमानसुखामृताब्धौ मायागृहं मणिमयं प्रविशार्यवर्य || १५९ || इत्युक्तो मधुमानिन्या मंदस्मितमुखांबुजः | अज्ञात्वेव तदाकूतं प्रभुः प्रोवाच सांजलिः || १६० || परदेशा वयं प्राज्ञे प्रभ्व्यो यूयं गुणाधिकाः | राज्ञः प्रियकुमारी सा माया भुवनमोहिनी || १६१ || पृ० १०६) यूयं युवतयः कान्ते विटवेषधरा वयं | कथं नु युज्यतेऽस्माकं युष्मासु स्थातुमीदृशां || १६२ || किंचाश्रित्य प्रवृत्तानामस्माकमुपजीवने | दूर एव सदा स्थित्वा सेवनीया भवादृशाः || १६३ || इति ब्रुवन्तं स्मितपूर्वमारात्तमल्लमं द्राऽऽन्मधुमानिनी सा | पुनर्बभाषे रसिकाग्रगण्य प्रभो किमेतद्वचनीयमात्थ || १६४ || उक्त्वाभिनीयप्रतिपादनं तन्मिथ्येव भातीति किमत्र चित्रं | युक्त्वा त्वयैव ह्यवलोकनीया मायागुणास्ते महिताः समस्ताः || १६५ || यत्प्रौढनायकशिरोमणिना युवत्याः शृंगारसारहृदयोर्जितमोहलौल्यं | स्थित्वा पदे पद इहार्य विभावनीयं तत्सर्वमद्य फलितं तव भाति सख्याः || १६६ || इति किल मधुमानिन्युक्तमत्यन्तसूक्ष्मं रसभरितमुदारं वाक्यमाकर्ण्य साधुः | अविदिततदभिप्रायेंगितः सन्निवेदं पुनरपि च बभाषे सोऽल्लमः सर्वगोऽपि || १६७ || श्रुतं भवत्या वचनं समस्तं मया यथास्वानुभवं च बुद्धं | पृ० १०७) अल्लममधुमानिन्योरन्योन्यसंवादः | तथाऽपि मन्मानसगोचरं तद्वदामि सत्यं शृणु सावधाना || १६८ || अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति | मलये भिल्लपुरन्ध्री चंदनतरुकाष्ठमिंधनं कुरुते || १६९ || अधिपतिषु तावदधिकस्पृहयाभ्याशं समेत्य कृत्येषु | उपजीविनामुपस्थितिरपराधायेति विबुधवार्तेयं || १७० || अतेव सेवकानां दूरेऽवस्थानमार्जवं समये | सेवार्थमंतिकस्थितिरुचितमिदं खलु नृणां शुभोदर्कं || १७१ || श्रुत्वैतद्वचनं भूयः प्राह सा मधुमानिनी | अलमल्लम बह्वीभिर्वृथा वाग्भिः कथंचन || १७२ || प्राज्ञस्यैतादृशी बुद्धिर्न योग्या समयासमा | निश्चयं शृणु मायायाः प्रियसख्या मम प्रभो || १७३ || त्वामेव नायकं कृत्वा नित्यसौख्यसुधार्णवे | रसानुभवलीलायां सदा क्रीडितुमिच्छति || १७४ || जानुश्रिय इवाऽकुंच्य मुग्धः पश्चाद्गलत्तनुः | पृ० १०८) रस्ये विरसवाक्यं त्वं त्यक्त्वा गच्छ यथासुखं || १७५ || आकर्ण्य प्रभुरिदमाह तां मृगाक्षीमस्मासु प्रियसवयास्तवाश्रितेषु | आदध्याद्यदि हृदयं तथाप्यधस्तात्तां कर्तुं वयमनुमन्महे कथं भोः || १७६ || अज्ञात्वा हृदयं प्रभोरनुचरस्तेनोन्नतस्थापित- स्तावन्मात्रभवन्मदान्धहृदयो दृप्येत चेन्मानवः | तस्याधःकृतमस्तकस्य पतनं शृंगादिवाद्रेर्भवे- देतां नीतिकथां विसृज्य स कथं वर्तेयमत्याहिते || १७७ || तस्मान्न युक्तमस्माकं मर्यादोल्लंघनं घने | कथामेतादृशीं भूयो न विस्तारयितुं क्षमा || १७८ || इति ब्रुवन्तं प्रौढिम्ना विजृंभितगुणोन्नतिं | प्रभुं प्रभाकरद्योतं प्राह सा मधुमानिनी || १७९ || उपसंहर वाक्यानि वंचनार्थानि मादृशां | किमज्ञातमिहास्माभिरस्ति वृत्तं भवादृशां || १८० || हृदयं तव मायाया रक्तं विटशिखामणे | अन्यथा सा कथं कुर्यात् त्वयि स्वात्मसमर्पणं || १८१ || मायायास्तव चास्त्येव संबंधोऽनादिरल्लम | पृ० १०९) किं क्लेशयसि मे चित्तमनुगृह्णीष्व भो विभो || १८२ || देवासुरमनुष्येषु सिद्धविद्याधरादिषु || को वा मायामतिक्रम्य वर्तेत पुरुषो यदि || १८३ || एवं दुर्दिनवर्षाभवाक्परंपरया तया || पुनः पुनः प्रेर्यमाणः स वाचालितुमक्षमः || १८४ || स्वप्रभावेण तां मायामायासयितुमुद्यतः | अंगीकुर्वन्निव तदा प्राह स्म स्मितपूर्वकं || १८५ || वक्तव्यमुक्तमस्माभिस्तूष्णीमास्म ततः परं | त्वमेव वेत्सि मायायास्त्वदीयाया हृदि स्थितं || १८६ || नारोपणीयो युष्माभिरपराधो मयि क्वचित् || इतः परं मया किंचिदपि नोत्तरमीर्यते || १८७ || इत्युक्तवन्तं सा प्रोचे हर्षगद्गदितं वचः | किमेतावदहो मां त्वं परितापितवानभूः || १८८ || नारिकेलसमं तावद्धृदयं तव गायक || अवद्यं मम चाभेद्यं विद्याविनयशेवधेः || १८९ || विज्ञाप्य मम मायायै त्वदाचरितमीदृशं | भवन्तं कारयिष्यामि बुद्धिमन्तं न विस्मर || १९० || भाव भाग्यवतां मध्ये भवानेव धुरि स्थितः | अथवाऽवश्यविद्यायां सिद्धो मन्त्रौषधादिभिः || १९१ || पृ० ११०) कस्मिन्मुहूर्ते त्वद्यात्रा दैवज्ञेन निरूपिता | केषु वा शाकुनेषु त्वं पन्थानं प्राप्तवानसि || १९२ || यतस्त्रिलोकमोहिन्या मायाया हृदयं भवान् | स्ववशं कृतवानद्धा दिनेनैकेन शीघ्रतः || १९३ || इत्यानुकूल्यं प्रापयय स्वेनैव मधुमानिनी | कृतार्थयन्ती स्वात्मानं ययौ मायांगनां प्रति || १९४ || तत्र मायावधूट्यास्तु ररंज हृदयं स्वयं | जुजृंभिरे तथांगानि कला ववृधिरे क्षणात् || १९५ || यतश्चकंपे वामाक्षिभुजोरुस्तनमेकधा | अभीप्सितार्थलाभः स्यादिति निश्चितवत्यभूत् || १९६ || तदा मुखविकासेन सखीं सा मधुमानिनीं | दृष्ट्वा समागतां हर्षादालिंग्य विवशाऽभवत् || १९७ || अथ पुलकितगात्री प्राह तां राजपुत्री सुमुखि गमनकार्यं किं फलं वा शलाटुः || इति कृतबहुमाना जीवयन्ती वयस्यां प्रियसखि फलमेवेत्याह निष्कृष्टमर्थं || १९८ || पृ० १११) मधुमानिन्या मायादत्तपारितोषिककथनं | ततः क्रमादल्लमवाक्यरीतिमथ स्वकीयोत्तरचातुरीं च || तदानुकूल्योचितनैपुणीं स्वां जगाद तस्याः पुरतः सखी सा || १९९ || श्रुत्वा वृत्तान्तमेषा सकलमभिमतं सौख्यसिन्धौ निमग्ना मायाऽस्यै षोडशोद्यच्छतसहितसहस्राढ्यसौवर्णमुद्रा | दीव्यत्कौशेयपट्टांबरमणिवलयस्वच्छमुक्ताललामा- न्याशापूर्णं ददौ वाऽऽन्मधुरतरसुधाधारया प्लावयच्च || २०० || तत्रत्यस्त्रीकदम्बं मधुयुवतिमथो तुष्टुवे बुद्धियुक्ती त्वन्निघ्ने द्वे यतस्त्वं युवयुवतिजनद्वंद्वसौख्यानुकूल्ये | निष्णातेति प्रभूतं कलकलमथ तं तत्र तासां निवार्य क्ष्माभृज्जानाति चेत्स्याद्विपदिति सकला गोपयामास सर्वं || २०१ || तस्मिन्प्रसऽऽन्गे सकलावधूटी चातुर्यसंक्षेपितपूर्वरंगे | उदर्कलाभोदितसौख्यसांद्रा रात्रिं कथंचिद्विनिनाय माया || २०२ || अथापरेद्युः स्मरबाणतप्तां सुखापयित्वा चटुवाग्भिरालिं | पृ० ११२) तया नियुक्ता मधुमानिनी सा ययौ निशायां गृहमल्लमस्य || २०३ || मधुरतरवचोभिस्तं प्रभुं प्रीणयित्वा रहसि कृतसपर्या भोज्यवस्त्रानुलेपैः | अविदितनिजवृत्ता येन केनापि तन्वी शयनगृहममुष्या जारभावान्निनाय || २०४ || अथ मायां दिव्यांबरभूषणमाल्यानुलेपतिलकाद्यैः || विरचितसदलंकारामानीय तदंकमाश्वलंचक्रे || २०५ || सख्यस्तत्तत्सेवाव्याजेनेतस्ततस्ततो जग्मुः || केलीसदनकवाटं स्वयमथ मधुमानिनी पिधायागात् || २०६ || अथ सा माया मन्मथभूतावेशाद्विजृंभितस्वान्ता || अल्लममालिंग्य हठादियेष पुरुषायितक्रियां कर्तुं || २०७ || तदा प्रभुर्नीलपयोदमध्ये विद्युल्लतेव द्युतिमात्ररूपः || शक्यः समालोकितुमेव गाढं नालिंगितुं किंचिदपि स्म शक्यः || २०८ || नीलं नभ इति लोकप्रवाद इव भाति सोऽस्तितामात्रात् || तस्यां केलिरिरंसौ सगुणोऽपि स निर्गुणो यथार्थतया || २०९ || पृ० ११३) प्रभौ रिरंसुमायानैपुण्यनैष्फल्यकथनम् | कुंदरदनारदांकुरनिष्पीतस्तदधरो मृषाभूतः || तस्याश्चकार लज्जां निजमुखफूत्कारकारितामात्रात् || २१० || हस्तेन हस्तमस्यामादित्सौ सोऽपि शून्यतां याति || गगनग्रहणसदृक्षो भवति समक्षं तदा तदारम्भः || २११ || दृढपीनकुचघटाभ्यां तदुरः संघट्टितुं यतेत यदा || अम्बरपरिरंभणमिव स तदा दुःखाकरोति तां यत्नः || २१२ || इति मदनमदान्धा भावितानेकबन्धा विरचितरतिनृत्या व्यर्थकृत्यैव साऽभूत् || अखिलजगति पूर्णोऽप्यल्लमो व्यक्ततीर्णो न विकृतिमुपलेभेऽनंगतंत्रेऽतिरेफे || २१३ || एषोऽल्लमस्य महिमा कथितो मुनींद्राः सर्वात्मनः सकलवेदशिखामयस्य || शृण्वन्ति ये सततमेतमुदारभावास्ते यान्ति बन्धरहितं परमं पदं तत् || २१४ || पृ० ११४) इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां मायाविलासवर्णनगतिर्नाम चतुर्थोऽध्यायः || पृ० ११५) अंल्लमवशंगतमायायाश्चिंतावर्णनम् | || श्रीनंदिकेश्वराय नमः || पंचमोऽध्यायः || सूत उवाच- श्रीसिद्धवीरगुरुमण्डलचक्रवर्तिपादाब्जभक्तिनिरताः परिभूतमायाः || मोक्षार्थिनः परिहृतोर्जितकाममोहाः शृण्वन्तु सन्मुनिवराः प्रभुलिंगलीलां || १ || अहो चिदम्बरतनुः परेशः परमः पुमान् || कथं क्रियासु किंचिज्ज्ञ इव मज्जति भो द्विजाः || २ || वशीकृताखिलजना माया दुर्घटकारिणी || वशं गतांऽल्लमस्यैवं परितापमवाप सा || ३ || दृगादिगोचरास्तस्यास्तस्य देहेंद्रियादयः || मायाया अपि मायात्वं गता हिमकला इव || ४ || अथ संतप्तसर्वांगी भृंगीव कनकस्पृहा || चिन्तामवाप तन्वंगी नितान्तान्तरदाहिकां || ५ || भीरुर्वीरेण कलहे सन्नद्ध इव मन्दधीः || पराजिताल्लमेनाहं वृथाभ्रमणमन्थरा || ६ || हस्तेन हस्तमोष्ठाभ्यामोष्ठं पादं पदेन च || देहेन देहं संबध्य न गृहीतुं क्षमाऽस्म्यहं || ७ || अहो बत बतेत्युक्त्वा ग्लानाननसरोरुहा || पृ० ११६) मुहुर्मुहुर्निःश्वसन्ती माया मूर्च्छामवाप सा || ८ || ततो मोहाद्विनिष्क्रम्य क्रमान्निद्रामवाप्य सा || तत्र स्वप्नमिवालोक्य प्रातः प्रबुबुधे ततः || ९ || केलिगृहाद्विनिष्क्रम्य सखीनां पुरतः स्थिता || खिन्ना विचलितापाऽऽन्गा जगाद स्वप्नमास्तिकाः || १० || विलोक्यमाने पुरतः पुरा रूपमिव स्थितं || प्रेम्णालिंगितुमुद्युक्तौ नास्त्यभिज्ञानमालयः || ११ || अप्रज्ञानेन मनसि प्रतिकूले कथंचन || मां न संगच्छते तावदाशैव मयि तस्य न || १२ || सर्वावस्थासु मामेवमल्लमः स्थापयत्यलं || किं करोमि क्व गच्छामि का गतिः प्राणधारणे || १३ || एवमुक्तवतीं मायामाश्वास्याल्यः प्रियोक्तिभिः || साधयामस्तवेष्टार्थमिति स्वप्नार्थमूचिरे || १४ || अल्लमोऽयं महाभागो धीरोदात्तगुणोत्तरः || वशं गमयितुं शक्यो नास्मादृशवधूशतैः || १५ || किं तु भाग्यवशात्पुण्यामनुगृह्णाति चेत्स्वयं || पृ० ११७) मायासख्योरुक्तिप्रत्युक्तिकथनम् | न लिप्यते पापकेन पद्मपत्रमिवांभसा || १६ || अतः साहसिकं त्यक्त्वा तदनुग्रहकांक्षया || प्रतीक्षणीयः समयस्ततः सोऽयं प्रसेत्स्यति || १७ || वक्तृतात्पर्यसामर्थ्याल्लोके स्वप्नः फलिष्यति || किंच स्वप्नोदितं सर्वं जाग्रति प्रातिकूल्यभाक् || १८ || अतस्तात्पर्यमर्यादा तव स्वप्नस्य भामिनि || त्वययाशा तस्य पूर्णास्ति स त्वां संगच्छतेतरां || १९ || विस्रंभादस्मदुक्तार्थे स्थिरा भव वरानने || इति तासां वचः श्रुत्वा माया प्रोवाच ताः पुनः || २० || अलौकिकनटस्यास्य मायानाट्यं न वेद्म्यहं || कथं वा ज्ञायते लोकैरलौकिककथेदृशी || २१ || गृहीत इव दृश्यते न खलु गृह्यतेऽसौ कथं वशं गत इवेक्षते न खलु कस्य वा प्रश्रितः || विमोहित इवोह्यते सकलमोहकोऽस्मादृशां न मुह्यति सदेहवन्नटति हा विदेहो ह्ययं || २२ || पृ० ११८) स्मरवदनन्यस्तपदः स्मरकलया पूरितेन रूपेण || स्मरबाणतप्तचित्ता वराननाः कर्तुमुद्यतो मायी || २३ || त्रिदिवादिवावतीर्य क्षितितलमकलंकतेजसा नूनं || चरति सुरयोनिरवनौ नहि नृर्णामीदृगद्भुतं नटनं || २४ || अथवा पुरहर एष स्मरवैरी सिद्धपुरुषसम्राड् वा || अहहा तथाऽपि कामो मामिह चूर्णीकरोतु बत तूर्णं || २५ || इति माया कुसुमायुधमायागाढांधकारपतिताऽर्ता || विलपन्ती क्रोशन्ती मूर्छन्तीति स्मरन्त्यदः सकलं || २६ || बुध्यन्ती स्थास्यन्ती निपतन्ती भ्रमवशाद्वृषस्यन्ती || विलुठन्ती चकृशन्ती भृशं तिरस्तत इतोपि धावन्ती || २७ || एवं संकल्पाद्यैर्दशाविशेषैस्तताप सा माया || तत्परितापनिवृत्त्यै सख्योऽल्लममेव भावयन्ति स्म || २८ || द्वित्रा दिवसा एवं गतास्ततश्चावगम्य तद्वृत्तं || गूढसखीमुखतस्तज्जननी मोहिन्यवाप तद्गेहं || २९ || पृ० ११९) विदितवृत्तान्तया मात्रा कृतमायागर्हणम् | अर्धरात्रसमये समवेत्य प्रेक्ष्य तां निजसुतां प्रतपन्तीं || विस्मिता बत बतेति जुगुप्सामाप्य लालनवचोभिरुवाच || ३० || बाले किमित्थमौचित्यं विहाय विहसन्मुखं || संशोष्य स्मरतप्तेव प्रलपन्ती कृशस्यऽहो || ३१ || विनालंबनमुद्दीप्तिर्नोद्दीपनमृते रतिः || नानुभावो रतिं हित्वा कुतः स्यात्सात्विकोदयः || ३२ || अथवा जारभावेन कस्मिन् वा पुंसि ते मतिः || लग्ना चेन्मानहानिः स्यादादौ मम ततस्तव || ३३ || किंच त्वज्जनको राजा ममकारमहीपतिः || न सोढुं शक्यते तेन ख्यातेनापयशोलवः || ३४ || अंडीरे मण्डलाधीशपुत्रिके कुत्र ते गतः || विवेकः कीरवाक्तुल्या विद्या तव कथं सहे || ३५ || मादृशीषु महासाध्वीष्वहं लज्जाभरात्कथं || मुखं पूर्णेन्दुसदृशं कलंकीकृतमावहे || ३६ || किंचिद्वा यदि जारत्वमस्ति चेत्तद्बहिः स्फुरेत् || पृ० १२०) न हि गोपयितुं शक्यं निंदिष्यंति समं समाः || ३७ || त्वं किं करोषि किंकर्यः स्मरविद्योपदेशिकाः || सख्यस्त्वां भ्रंशयन्त्येताः स्वयं भ्रष्टाः कथं सहे || ३८ || इत्युक्त्वा तन्मुखी भूत्वा हंजे कथमिमां कथां || उपदिश्य स्मरस्यास्यै कुतो निर्भीकतां गताः || ३९ || अहो विटविटीद्वंद्वसंधानकृतनैपुणीं || अभ्यस्य कुट्टिनीभावादुट्टंकितकलाकथाः || ४० || रतिमुत्पाद्य कस्मिंश्चिद्रसपोषणतत्पराः || कन्यां मदीयामन्यायात्प्रभ्रंशयितुमद्यताः || ४१ || विदितं यदि किंचिदपि प्रभुणा भवतीरवती किमियं नु सखी || श्रुतिना समदः कथमस्ति कथा मनुतिष्ठतु दुष्टतरालिजनाः || ४२ || विद्यावन्तोऽपि भूपालाः काले माद्यन्ति निश्चितं || कुपितश्चेदतो राजा स्त्रीवधं नावमन्यते || ४३ || सकले सकलं ज्ञात्वा ग्राम्यकक्ष्यां किमाश्रिता || परिहासादपि भ्रंशं शास्त्रान्न सहते विधिः || ४४ || पृ० १२१) मोहिनीं प्रति सकलानामसखीवचनम् | इति सकलास्ताः सकलामविशेषविशेषतो रुषाऽऽक्षिप्य || निह्नुवतीं मोहवतीं मोहिनिकामप्युवाच तां सकला || ४५ || देवि त्वदुक्तमेवं तथापि तावन्न कुप्यसि त्वं चेत् || कथये कुमारिकाया वृत्तं वृत्तस्तनोरुजघनायाः || ४६ || नास्माकमत्र मन्तुः सन्तानस्यापि केन चागन्तुं || मधुकेशालयशालामध्ये दध्यो दृशाऽल्लमं बाला || ४७ || अर्चावसाने मम माययाऽसौ दृष्टो यदा त्वत्तनया तदादि || विस्मृत्य सर्वं स्मरकार्मुकेभ्यः समर्पयामास निजं शरीरं || ४८ || मर्मस्वशेषेषु कठोरमारप्रक्ष्वेलनक्षोदितसर्वगात्री || प्राणान् बहिष्कृत्य निमेषमात्रप्रस्थापितानुच्छ्वसितीव माया || ४९ || इत्थं व्यथासागरवारिमग्नामुद्धर्तुकामाहमभीरभीकां || चकार गोप्यं स्मरकार्यसंधिं हठात्कथं वा कुरु मोहिनि त्वं || ५० || भयं परित्यज्य भणामि सत्यं शृणुष्व राशि त्वमिहात्मजायाः || पृ० १२२) मुखं कथं पश्यसि तावदेतत्कार्यं मया यद्यननुष्ठितं चेत् || ५१ || एवं परिज्ञातवधूस्वभावा सा मोहिनी तत्सकलामुखाब्जात् || आकर्ण्य पुत्रीविपदं हृदार्ता प्रेम्णा वयस्याः पुनराह तस्याः || ५२ || हे अक्का यन्मयोक्तं कठिनतरवचस्तत्सहध्वं कुमारी- द्रोहिण्या युष्मदीया खलु मम तनया येन केनापि तस्याः || चातुर्येणाल्लमस्य स्मरसमरसुखं साधु सम्पादनीयं मा भैष्टेष्टानुकूल्यान्मम दुहितृमणेः प्राणरक्षैव कार्या || ५३ || शृणुध्वं महिलाः सर्वाः पशुपक्षिमृगादिषु || उत्पाद्योत्पाद्य भाग्येन केनचिन्नरजन्मभाक् || ५४ || नरजन्मसहस्रेषु दारिद्र्यं प्राप्य तत्पुनः || केनचिद्राजपुत्रीत्वं प्राप्यते पुण्यकर्मणा || ५५ || तत्र पुण्यविशेषेण योग्यभोगानुभावनं || अस्ति चेज्जगतीमध्ये तत्स्याज्जन्मफलं महत् || ५६ || अतो मत्प्रेमतनयामसंत्यज्य यथासुखं || रतिसौख्यसुधावार्धौ संक्रीडयत सादरं || ५७ || पृ० १२३) प्रभोरंगीकारे समायासर्वसखीनामन्योन्यविचारः | इत्युक्ता सकला राज्ञीं कृतांजलिरभाषत || समयज्ञा मनस्तस्याः समाधापयितुं नयात् || ५८ || अस्मत्सख्यास्तु मायायास्त्वया राज्ञा च चिंतितं || यत्कार्यं तत्स्वतः सिद्धं भाग्यं सर्वत्र कारणं || ५९ || श्रुत्वैतन्मोहिनी भूयः स्मितपूर्वमभाषत || रहस्यमेतत्कर्तव्यं युष्माभिर्भावितात्मभिः || ६० || निशायामेव सम्बन्धः कार्यो मायाल्लमार्ययोः || न ज्ञायते यथा राज्ञा तथा चातुर्यमीर्यतां || ६१ || इत्युक्त्वा सा ययौ माता ततोऽल्लमविभोः क्रियां || विचित्रां फलसम्बंधरहितां तां विचार्य ताः || ६२ || दृढाश्मताडनात्पाणिपीडान्यायाद्भयान्विताः || मायया सह संमन्त्र्य रहस्यन्योन्यमूचिरे || ६३ || भयलज्जे परित्यज्य विहर्तुं स्वेच्छया सदा || कांक्षयास्माकमेवैष प्रयत्नो नाल्लमस्य हि || ६४ || लक्ष्यालक्ष्यस्वरूपोऽयमल्लमो जनयन्रुचिं || कामं न पूरयत्यद्धा सख्यः किं करवाम वै || ६५ || पृ० १२४) क्व वावधिरभाग्यस्य पापः कामो हि दुर्भरः || इति चिंताकुलास्वासु प्रौढवाचाऽल्लमोऽब्रवीत् || ६६ || यूयं संघीभूय भूयो युष्मास्वेव किमण्यहो || संमन्त्रयथ वक्तव्यं यथेदं ज्ञायते मया || ६७ || तमूचुस्ताः सखे सर्वं ज्ञातमेव त्वया ननु || तथाऽपि कथयिष्यामः श्रुत्वा प्रतिकृतिं वद || ६८ || त्वदधीनात्मजेत्येतमर्थं श्रुत्वा तु मोहिनी || मायाया जननी रात्राविंगितज्ञा समागता || ६९ || प्राणप्रियामपि सुतामाक्षिप्य बहुधा च नः || मन्दाक्षीकृत्य मायायाः पुरतो गर्हणोक्तिभिः || ७० || जुगुप्सिता सुता प्रेम्णा गोपयध्वमिति क्रुधं || उपसंहृत्य धिक्कृत्य गताऽस्माकं कथं रहः || ७१ || अल्लमोऽपि सखीवाक्यं श्रुत्वा लौकिकवन्नटन् || जगाद ननु भामिन्यः कथं मां गोपयिष्यथ || ७२ || केनोपायेन मायाया अपराधो न भाव्यते || राज्ञैव ज्ञायते चेद्वो रहस्यं सोढुमक्षमं || ७३ || पृ० १२५) मायाविषये प्रभुसकलयोरुक्तिप्रत्युक्तिः | विचार्य साधु सकलं ब्रूत मां यद्धितं वचः || इत्युक्ता सकलज्ञा सा सकलाऽल्लममब्रवीत् || ७४ || भ्रातृभिर्भगिनीभिर्वा भार्याभिरथ वात्मजैः || पुत्रिकाभिरथान्यैर्वा त्याज्या नीतिर्न भूपतौ || ७५ || क्षोणीपतिं विना सर्वैर्विदितं कार्यमेव नः || न रहस्यमिदं कर्तुं शक्यते येन केन वा || ७६ || अतस्त्वयि गृहस्थे तु प्रियसख्या मम प्रभो || यथा कथंचिद्राजाऽपि ज्ञास्यत्येव न संशयः || ७७ || बहिर्निवेशनं गत्वा यथापूर्वं स्थिते त्वयि || आह्वयिष्यामहे काले तदाऽऽगच्छ यथासुखं || ७८ || भुक्त्वा मायां तोषयित्वा पुनर्गत्वा स्वमंदिरे || एवं प्रवर्तसे चेत्त्वं गोपयिष्यामहेऽखिलं || ७९ || इति ब्रुवाणास्तास्सर्वाः स्मयन्नाहाल्लमः पुनः || विज्ञातुं तदभिप्रायं मायामपि विमोहयन् || ८० || सकले न मृषा वच्मि विलासार्थमपि क्वचित् || सत्यं ब्रवीमि सर्वज्ञे निश्चयं शृणु मे सखि || ८१ || मायां विना न शक्नोमि किंचिद्वा वक्तुमंजसा || पृ० १२६) स्वरूपमेव मे वेत्तुं न किंचिदपि शक्यते || ८२ || न पाणिपादचलनं न श्रुतिः श्रोत्रवर्त्मना || न कुत्राप्यस्ति शक्तिर्मे मनोदेहेन्द्रियादिषु || ८३ || बहुना किं तनुर्नैव तिष्ठति प्राणमारुतः || न संचरति तां त्यक्त्वा केवलात्मन्यवस्थिते || ८४ || अमृत्वा मृतवद्भामि किं करोमि शुभानने | अतस्तामनुसृत्यैव वर्तनीयं सदा मया || ८५ || इति तत्वार्थवक्तारमज्ञात्वा काममोहितं || विज्ञाय सकला मोहात्पुनरल्लममब्रवीत् || ८६ || किमिदमल्लम दैन्यवचोऽधुना मनसि धैर्यमवाप्नुहि मा कृथाः || समयलंघनमिष्टफलं नृणां भवति भाग्यवशात्स्वयमंजसा || ८७ || मायायास्तव च भवेदृणानुबन्धो यद्येवं मुहुरुभयोः समागमः स्यात् || तावत्त्वं मधुपतिभोगिनीसमाजे संतिष्ठ स्फुटमभिवादयन्मृदंगं || ८८ || संकेतं तव च वदामि तत्र नित्यं मायेयं मधुपतिसेवने समेत्य || सान्निध्ये तव किल शिक्षया नटन्ती सानन्दं रसकलया करिष्यते त्वां || ८९ || पृ० १२७) मधुकेशालये प्रभोः स्थितिकथनम् | यदि भवति रिरंसा मादनोन्मादहेतोः परमरहसि कृत्वा तत्र तत्रोपभोगं || विषयसुखसमुद्रे डोलयात्मानमेकं मम हि कुशलता ते साधनं सर्वकार्ये || ९० || प्रभुरिति सकलायास्तावदाकर्ण्य वाक्यं शुभमिति मधुकेशस्यालयं प्राप्य तस्थौ || अथ नरपतिपुत्री साऽल्लमस्नेहपाशग्रथितहृदयकोशा तद्वशं प्राप माया || ९१ || मायाविलासकथनं श्रुतमेतदार्यास्सर्वं भवद्भिरनुमोदिततत्वभावैः || शृण्वन्ति ये सततमीश्वरदत्तचित्तास्ते यान्ति शांभवपदं प्रविमुच्य मायां || ९२ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां प्रभुकृतमायाविलासनिरसनचातुर्यवर्णनगतिर्नाम पंचमोऽध्यायः | पृ० १२८) श्रीनंदिकेश्वराय नमः || षष्ठोऽध्यायः | सूत उवाच- सिद्धवीरेश्वराचार्यसार्वभौमपदाम्बुजे || भक्ताश्चिदमलस्वान्ताः प्रभोः शृण्वन्तु सत्कथां || १ || इत्थं प्रभोर्वशं गत्वा माया दुर्घटकारिणी || नृत्यव्याजेन तं नित्यं प्रावर्तत समाश्रिता || २ || एवं स्थितायां रुद्राणी कदाचिद्विमलाभिधां || आहूयेष्टवयस्यां तामुवाच वचनं रहः || ३ || सखि मे तामसी माया प्रभुमल्लममात्मनः || विलासैर्विषयासक्तं करिष्यामीति गां गता || ४ || तत्राल्लममहिम्नेयं स्वयमेव वशीकृता || विभीषयितुमुद्युज्य स्वयं भीतेव भाति मे || ५ || स्वकार्यं सर्वमुत्सृज्य विस्मृत्यात्मानमेव सा || अस्मदाज्ञामिवोल्लंघ्य वृथा तद्वशगाऽभवत् || ६ || अतस्त्वं भूतलं गत्वा विमले संप्रबोध्य तां | त्वया सहैव मन्मायां समानय ममान्तिकं || ७ || एवं गिरिजयाऽऽज्ञप्ता बाढमित्यभिवाद्य तां | संकल्पात्प्राप नगरीं ममकारमहीपतेः || ८ || पृ० १२९) पौरजनकृतविमलासौंदर्यवर्णनम् | तत्र सा विमला तन्वी सौंदर्यरसशेवधिः | अदृष्टपूर्वा ददृशे पौरैरायतलोचनैः || ९ || नैल्यसर्वस्वधम्मिल्लं चपले चारुलोचने | सुधास्रावार्द्रमधरं भुजकल्पलते मृदू || १० || विद्युन्निभामंगयष्टिं समपीनपयोधरौ | ऋज्वीं रोमावलिं लक्ष्यां वेपमानावलग्नकं || ११ || नितम्बबिंबं कंदर्परथांगजयमंगलं | रंभास्तम्भोपमावूरू जंघे मदनकाहले || १२ || रज्जत्किसलयोल्लासि पदद्वंद्वं कनन्नखान् | दृष्ट्वा तस्याः पुरजनाः कौतुकं प्राप्य तुष्टुवुः || १३ || अहो जगदतीतेयं का वा कमललोचना | वियुक्ता पंचबाणेन प्राप्ता वा भूतलं रतिः || १४ || अलौकिकी वा कान्तेयमचंचलतडिल्लता| भूचरी वाथ कल्याणी पूर्णेन्दो रुचिरा कला || १५ || चेतनेयं पताका वा स्त्रीरूपा पुष्पधन्वनः | प्रमदाकृतिमापन्नः शृंगाररस एव वा || १६ || पृ० १३०) इति स्तुवन्त्यां सा पौरजनतायां विलोकिता || मायया मधुकेशस्य निन्ये निजगृहं गृहात् || १७ || विविधैरुपचारैस्तामभ्यर्च्य विनयान्विता | विमलां तोषयामास माया विमलया गिरा || १८ || कस्मादागमनं देशात्किं नाम तव मंगलं | किमेष्यन्तीह संप्राप्ता मदीयाद्भाग्यगौरवात् || १९ || प्रियसख्या इव तव स्वान्तं स्निह्यति दर्शनात् || इत्युक्ता विमला प्रोचे मायां संबोधयन्त्यलं || २० || माये रहस्यवचनं सावधानेन मे शृणु | अस्मदीयजना एव तिष्ठन्त्वत्र तवांतिके || २१ || शिवस्तुरीयः सर्वज्ञो भूमावल्लमनामतः || स्वच्छन्दमवतीर्यार्ये वर्ततेऽत्र शिवालये || २२ || अलौकिकचमत्कारैः संवादयति मर्दलं | तद्वशीभूय माया मे कार्यं विस्मृतवत्यभूत् || २३ || अनिर्वाह्यप्रतिज्ञाऽपि त्यक्तलज्जा निराकुला | तत्रैव वर्तते भूयो नागच्छति ममान्तिकं || २४ || पृ० १३१) अज्ञातस्वकार्यांमायामुद्दिश्य विमलोक्तिनिरूपणम् | अतस्तत्सन्निधिं गत्वा संप्रबोध्य विवेकतः || मत्सन्निधिं प्रापय तामित्याज्ञप्ताऽहमंबया || २५ || तत्प्रेषणवशादेव त्वामानेतुमिहागता | इत्युक्ता विमलां प्राह माया विस्मितमानसा || २६ || क्वाऽहं क्वचांबिका देवी क्वानुगृह्णाति मानुषीं | अल्लमस्य वशं नीतां कथं जानाति मां स्वयं || २७ || आश्चर्यमिव मे भाति सर्वं ब्रूहि यथार्थतः | उक्तेत्थं विमला प्रोचे मायामज्ञातनिष्ठुरां || २८ || अचिंत्याद्भुतशक्त्या त्वं प्रभोरीशस्य मायया | तिरोहितात्मविभवा सर्वं विस्मृतवत्यसि || २९ || कियती त्वं हरिब्रह्मशक्राद्याश्च शिवाज्ञया | अवतीर्य क्षितौ पूर्वमज्ञातनिजशक्तयः || ३० || प्राकृता इव भार्यादिवियोगैरखिदन् खलु | स्वात्मानमेव नाजानन् बहुना किं शृणु प्रिये || ३१ || न ज्ञायते यदि स्त्रीभिः स्वरूपं किं तदद्भुतं | इत्युक्त्वाऽऽत्मप्रबोधार्थं मायायाः स्पष्टमाह सा || ३२ || शिवे सभायामात्मेशमल्लमप्रभुमादरात् | पृ० १३२) सर्वोत्तमत्वभावेन संस्तुवत्यद्रिनंदिनी || ३३ || असूयया कियांस्तस्य महिमेति निरस्य तं | मदीयया माययैव विजित्याकर्षयामि तं || ३४ || इति प्रतिज्ञयाऽत्र त्वामानिनाय महेश्वरी || विस्मृता किं स्मर स्वान्ते वार्तामेतामतिस्फुटं || ३५ || जातिस्मरत्वं संप्राप्य तावन्मात्रेण सा सखीं | विमलां तां बहूकृत्य प्रीत्या प्रोवाच भो द्विजाः || ३६ || विमले विमलात्मा त्वं त्रिमलक्षयकारिणि || यतो भवत्संगमतो ममाज्ञानं विनश्यति || ३७ || कलाभिर्वर्धमानं हृत्कमलं मम रोचते | स्थितिश्च चलनं हित्वा निश्चला भवति प्रिये || ३८ || अन्तश्चिन्तास्समस्ताश्च विनष्टा भ्रांतयो गताः | किमाश्चर्यकरं सर्वमिदं सज्जनसंगतेः || ३९ || यदा सज्जनसंगः स्यात्स्वरूपं ज्ञायते तदा | अतो मज्जननी साक्षात्त्वमेव न तु भामिनी || ४० || आस्तां तावत्प्रभोस्तस्य कथां कथय भामिनि | पृ० १३३) मायामुद्दिश्य विमलोक्तवल्लिगावीनगरवर्णनम् | तत्स्वरूपप्रभावादीन् श्रोतुं कौतूहलं हि मे || ४१ || इति संप्रार्थिता प्रोचे विमलाऽल्लमसत्कथां | यथाक्रमं यथाशास्त्रं पूर्वैः पूर्वतरश्रुतां || ४२ || विमला- शृणु माये वनवसी वल्लिगावी पुरद्वयं | क्षोणीवध्वाः स्तनद्वंद्वमिव संशोभतेतरां || ४३ || वल्लिगावी तयोः कल्पवल्लीवेष्टार्थदायिनी | भोगभाग्यावहा नृर्णामनौपम्यगुणाधिका || ४४ || सकलसुजनसेव्या सम्पदौन्नत्यभव्या निगमनियमनश्रीदानसेवाधुरीणैः | द्विजपदजसमाजैरंचिता पूर्णकामैः सुचरितवननीवी शोभते वल्लिगावी || ४५ || तत्राखिलश्रीनिलयौ महेशध्यानावधानोदितदिव्यभावौ | अकामनिष्कामसदाप्तकामनिजात्मकामौ मुनिदम्पती स्तः || ४६ || पुरुषो निरहंकारः सुज्ञानाम्बा तदंगना | तयोः को वेत्ति माहात्म्यं नाम्नैव ज्ञायते बुधैः || ४७ || पृ० १३४) तौ दम्पती सकलसम्पदनूनभोगभाग्यानुभूतिभिरुपात्तविरागभावौ | सन्तानहैन्यजनितांतरनंतचिन्ताक्रान्तौ परस्परममंत्रयतां निशान्ते || ४८ || मानहीनवनिता न गणेया दानहीनधनिताऽपि तथैव | ज्ञानहीनजनमूढसपर्या ध्यानहीनजपिताऽपि तथा स्यात् || ४९ || तद्वदेव सुतहीनजनश्रीश्चंद्रिका वनगतेव निरर्था | सूनुना सुमतिना भवितव्यं नौ ततो भवति नौः स हि तर्तुं || ५० || अपुत्रस्य न लोकोऽस्तीत्याह च श्रुतिरादरात् | इत्युक्तवन्तं भर्तारं सुज्ञानाम्बा ततोऽब्रवीत् || ५१ || भर्तः क एवं एष संकल्पः प्राज्ञस्य तव जायते | मृगतृष्णायितानंतजगज्जालैकसंसृतेः || ५२ || सुतैः सतीभिर्धनराशिभिर्वा गृहैर्गजाश्वैर्मणिभूषणैर्वा | असंगचैतन्यनिरंकुशस्य पुंमात्ररूपस्य चिदात्मनः किं || ५३ || मृषा विलासाः खलु मायिकास्ते प्रपंचरूपाः परमार्थतो न | अनित्यता तेष्वखिलैश्च दृष्टा नित्याऽनवद्या शिवभक्तिरेका || ५४ || पृ० १३५) पुत्रार्थं सुज्ञानांबानिरहंकारकृतानुष्ठाननिरूपणम् | अनादिमायान्धतमिस्रलेपात्स्वरूपविज्ञानपथे विनष्टे | स्वकण्ठचामीकरवच्छिवत्वं जीवो न जानाति गतः पशुत्वं || ५५ || अतः शिवज्ञानमवाप्य कामैर्भक्तिः शिवे संततधारयैव | धार्या न चान्यत्समपेक्षणीयं पुत्रादिकं सर्वमिदं वृथान्ते || ५६ || श्रुत्वा साध्वीवचनं निरहंकारोऽपि लोकरक्षार्थं | तनयं विज्ञानघनं कलये शिवमित्यमन्यत स्वान्ते || ५७ || अथ तपसा सर्वेश्वरमाराध्य तमेव पुत्रयिष्यामि | देवाश्चायन्नग्रे तपसा तामेव देवतामिष्टां || ५८ || ऋषयः स्वरन्वविंदन् तपसाऽरातींस्तथानुदन् पूर्वे || सर्वं प्रतिष्ठितं तपसीति श्रुतिराह परमता बुद्ध्या || ५९ || इति संकल्प्य महात्मा जपयज्ञं तन्निदानमित्यालोच्य | संध्याजपनयमपसृज्यैकान्तं प्राप भार्यया सह सः || ६० || तत्रागमोक्तविधिना परिशोध्य भूमिं व्याघ्राजिने कुशगते सशितोर्ध्वचित्तौ | पृ० १३६) तौ दंपती समुपविश्य शिवव्रतस्थौ पद्मासनं रुरुहतुर्नियमैर्यमैश्च || ६१ || बुद्ध्या निरुद्ध्य सहसाखिलचित्तवृत्तीर्भूतानि पंच परिशोध्य तदीयबीजैः | जित्वेंद्रियाण्यथ करस्थनिजेष्टलिंगे दृष्टिं निधाय परमात्मपदात्तलक्ष्यौ || ६२ || आकर्ण्य नादमथ चित्प्रणवान्तराले संधाय बुद्धिमपहाय विचित्रनादान् | प्राणं त्वपानमरुता सह योजयित्वा संबोध्य सुप्तकुलकुण्डलिनीं त्रिकोणे || ६३ || तस्माद्विभिन्नमुखपश्चिमनाडिकान्तर्मार्गेण षट्कमलभेदकृतोर्ध्वगत्या | स्थैर्येण वायुमुपवेश्य रहस्त्रिवेणीशृंगाटकान्तरमनःकमले घटित्वा || ६४ || उत्कील्य तत्र हृदयं बहिरंतरात्तं विस्मृत्य भेदमथ पूर्णसुधाम्बुराशौ | सच्चिद्घने परशिवायितदिव्यभावे स्वानंदकेलिरसतृप्तिमवापतुस्तौ || ६५ || सौख्येन तेन परिपूरितयोस्तयोः क्षुत्तृष्णाविमोहमृतिशोकजरा न च स्युः | रात्रिंदिवं च न हि नो गणरात्रबोधः सर्वात्मभावितधियां हि न भेदगन्धः || ६६ || पृ० १३७) श्रीमदल्लमप्रभोरवतरणवैचित्र्यवर्णनम् | इत्थं तयोः परशिवात्मजकांक्षयैव लोकोत्तरव्रतपरायणयोस्तदानीं | आरूढयोगपथयोः करपद्मसंस्थलिंगप्रभेव हृदये स्म घनीबभूव || ६७ || इत्युत्प्रेक्षाविषयमभितः प्रस्फुरत्सर्वतेजो जेतृब्रह्माभिधमभयदं शुद्धतेजः समग्रं | दंपत्योर्हृत्कमलकुहरे सद्गुणं निर्गुणं तत्प्रादुर्भूत्वा स्फटिकविशदं सर्वपूर्णत्वमाप || ६८ || तदनुविमलतेजस्तत्तयोरग्रभागे बहिरहह मिलित्वा प्रस्फुरद्विग्रहं सत् | पृथगिव ददृशे स्म प्राप्तनिद्रान्तभाजोः सुत इति मतिमात्मन्यावहद्दीप्यमानं || ६९ || सुज्ञानाम्बानिरहंकारौ दृष्ट्वा महाद्भुतं तेजः | सुततामवाप शिव इति परमानंदामृतांबुधौ मग्नौ || ७० || देवाः प्रसूनवृष्टिं दिष्ट्या कल्पद्रुमोद्भवां ववृषुः | नेदुः सुरदुंदुभयो ननृतुर्गन्धर्वकन्यकाप्सरसः || ७१ || प्रमथाः प्रमदोत्कर्षात्पेठुः सिद्धान्तहृद्यगद्यानि | हरिविधिशक्राद्याश्च स्वात्मानुभवेन हर्षमाणाः स्युः || ७२ || प्रभौ समस्तस्य तदावतीर्णे जगद्धितायाखिलभूमिभागे | पृ० १३८) स्थाणुव्रजाः पल्लविता बभूवुर्वंध्याश्च गावो दुदुहुर्घटोध्न्यः || ७३ || उन्मील्य चक्षुर्निरहंक्रियाख्यो मुनिर्गुहेशं स सुतायमानं | दृष्ट्वा निजान्तः पुनरप्यवेक्ष्य विभावयामास तयोस्तदैक्यं || ७४ || अथात्मजायामखिलान्तरस्थं निजात्मजीभूतमवेत्य चित्ते || सुविस्मितां प्रेक्ष्य समाहितात्मा चिरं निजानंदमयो बभूव || ७५ || अयं किमात्मातपतीक्ष्णभावं विसृज्य सद्मागतपद्मबंधुः | किमिंदुरुत्सृज्य हिमं सुधात्मा किमग्निरानंदमयोऽस्त्यदाहः || ७६ || इत्थं मुनिः स्वात्मगतं विचिंत्य शिवात्मतामात्मनि निश्चिकाय | पतिव्रता सा तनयं विभाव्य शिवं स्रवत्क्षीरकुचा बभूव || ७७ || अथ पुलकितगात्र्यां पुत्रमालिंग्य कक्षे कलयितुमुपसृत्योत्कंठितायां जनन्यां | करचरणमुखांगोपांगसंगीव बालः सुललितमुपदृष्टः सूर्यकोटिप्रभावान् || ७८ || तदनु मृदुलहस्तांभोजयुग्मं प्रसार्य प्रमुदितहृदि लीलाबालमाराद्गृहीतुं | पृ० १३९) भार्यांप्रति निरहंकारकृताल्लमामानुषबालगुणवर्णनं | गगनमिव न किंचित्स्प्रष्टुमासीत्स शक्यः किमिव पुनरवाप्तुं गाढमालिंगितुं वा || ७९ || किमिदमिति तया सुज्ञानया सोऽनुयुक्तः पतिरधिगततत्वः प्राह तां स्मेरवक्त्रः | सुत इव परमात्मज्योतिराभाति यन्नौ नहि सति सुतमात्रं विद्धि सर्वान्तरस्थं || ८० || न शक्यते वर्णयितुं प्रियेऽयं साकार इत्येव निराकृतिर्वा | स्वयंप्रभोऽसावकलः कलावाननादिरादिः पुरुषः पुराणः || ८ || नाजात इत्याद्रियते न जातो न हेतुदृष्टान्तसमन्वितः स्यात् | न निर्गुणो नापि गुणी परात्मा बालो न चाबाल इति प्रतीतः || ८२ || न भूमिरापोऽप्यनलोऽनिलो द्यौः स्प्रष्टुं क्षमन्ते परमार्थमेनं | नावच्छिदः कालदिगादिभिः स्यादस्यात्मनामात्मन ईश्वरस्य || ८३ || अणोरणीयान्महतो महीयान् यः कारणं कार्यमपि स्वयं स्यात् | तथा स्वयं कारणकारणाख्यो बोद्धुं न शक्यो न न बुध्यते च || ८४ || संतीव तस्याप्यखिलेंद्रियाणि न चेंद्रियार्थेषु गुणास्तदीयाः | पृ० १४०) न माययाऽसौ क्रियते स्ववश्यो मायां वशीकृत्य जयत्यसऽऽन्गः || २५ || मर्माणि सर्वाण्यपि वेत्ति योऽसौ तन्मर्मवेत्ता न हि योऽपि कोऽपि | सौंदर्यसारः स्वयमीक्षणीयः स्प्रष्टुं न शक्यो गगनायमानः || ८६ || वेदैरनेकैरखिलैश्च शास्त्रैर्वेत्तुं न शक्यो न हि तैरवेद्यः | अजाच्युतेंद्रादिसुरैरसाध्यस्तैः साध्वि सोऽसाध्यतयैव साध्यः || ८७ || जितेंद्रियाणां नियमेन नित्यं तपस्यतामेष मुनीश्वराणां | संलक्ष्यते कीलितवन्मनःसु न कील्यते सर्वगतो गुहेशः || ८८ || स्तनंधयाण्डीरशकृत्करा ये सुतास्तु योनिद्वयसन्धिलग्नाः || भवन्ति लोके शतशः पशूनां षडूर्मिबद्धाः सुखयन्तु तांस्ते || ८९ || सुतोऽयमस्माकमलौकिकत्वान्न यस्य कस्यापि च भूतभावि | कृतार्थतायै गुरुरावयोस्तु प्रत्यक्षतामेति दृशोर्गुहेशः || ९० || इति प्रियामात्मभुवः स्वभावं निवेदयामास पतिस्ततस्तौ | पृ० १४१) प्रभोर्नाममीमांसा | स्तुत्वा शिखाभिर्निगमागमानां प्रणेमतुर्भक्तिरसानुभावात् || ९१ || ततो निजानंदमयाम्बुराशौ निमज्य चोन्मज्य सतीपती तौ | अनुज्ञया तस्य कुमारजिष्णोः पुत्रोत्सवं श्रावयतः स्म पुर्यां || ९२ || अथागतेभ्योऽखिलयाचकेभ्यो यथेष्टमिष्टार्थचयं वितीर्य | माता पिता चास्य सुतस्य नाम कर्तुं मनस्येवममंत्रयेतां || ९३ || न नामरूपे न तनुक्रिया वा प्रभोरमुष्यास्ति किमस्य नाम | भवेत्त्रिलोकव्यवहारयोग्यं श्रुतिप्रसिद्धं श्रुतिमौलिमौलेः || ९४ || संसारिता नास्य विचार्यमाणे नासावसंसारिपदेन सिद्धः | सदा शरण्यः शरणार्थिनां यद्वात्सल्यशाली शरणेषु नित्यं || ९५ || मर्त्यो न चायं महितोऽपि मह्यां यतो न वर्णाश्रमपाशबद्धः | निवारणीयाः खलु सर्वधर्माः श्रुत्या परे ब्रह्मणि केवलेऽस्मिन् || ९६ || तस्मादलं शब्दनिषेधकार्थमाशब्दयोगाच्च भवेदलंमा | संज्ञाप्यलंमाप्रभुरित्यजस्रं भूयाज्जनाज्ञाननिरोधिकेयं || ९७ || पृ० १४२) यद्वाऽल्लमोऽयं प्रथितः सभायां भूयादकाराक्षरभावभाजां | अनुग्रहः श्रीकलनान्महेशो गुहेश्वरः श्रीगुरुरूपधारी || ९८ || हठाद्य एषोऽल्लम इत्यमोघं पठेत नामाक्षरमादरेण | कठोरसंसारगिरिं विभिद्य लुठन्निजानंदनिधौ सुखी स्यात् || ९९ || इति विचार्य गुरू त्रिजगद्गुरोर्दधतुरल्लम इत्यभिधां शुभाम् | प्रभुरथाल्लमदेवमहेश्वरः शिशुरिवाप तथाविधखेलनं || १०० || नटति कुत्र च कुत्र च गायति क्व च विलासवशात्परिधावति | क्व च निमील्य दृशौ भृशमीक्षते क्व च परामृशते निखिलं जगत् || १०१ || क्व च बुधप्रकरैः स्वयमीक्ष्यते स्तुतिभिराद्रियतेऽधिकगौरवात् | क्व च कलाकुशलैरनुभाव्यते क्व च पितृप्रमुखैरुपलाल्यते || १०२ || क्व च बुधाननुगत्य सकृच्छ्रुतिस्मृतिपुराणशुभागमसत्कलाः | क्षणमधीत्य पठत्युचितस्वरैः स्वयमपाठयदन्यवटुव्रजान् || १०३ || पृ० १४३) प्रभोरलौकिकबाललीलावर्णनम् | सकलनूत्नपुरातनसत्कृतिव्रजमधीत्य तदर्थमवेत्य सः | अपि च शास्त्रिगणान् पुरमागतानुगतः परिशीलयति स्म तान् || १०४ || जगति शास्त्रमतोऽधिकमस्ति वा किमथवात्र न चेति विचार्य तैः | न परमित्युदितोऽल्पमिति ब्रुवन् पितृकृताद्भुतशान्तिरभूत्प्रभुः || १०५ || अहह दृष्टिरभूदिति मातृका तमभिनीय गृहान्तरडोलनं | निटिलकेऽस्य मषीतिलकं दधौ त्रिरपि भूतिमधूलयदंगके || १०६ || अथ शिशूननुसृत्य विभुः स्वयं शिशुरिवाप्रतिमानविहारवान् | अभिनयन्निगमार्थमथाऽऽत्मनां क्वचिदगोचरगोचरतां ययौ || १०७ || अथ फणीन्द्रपुरं प्रविशन् क्षणात्फणिफणाग्रमणीन् प्रतिगृह्य सः | पुनरुपेत्य निजार्भकखेलने द्युमणिभाः फणति स्म च तैः प्रभुः || १०८ || तदनु शक्रपुरं प्रविशन्क्षणात्तदुपकण्ठवने कुसुमादिकम् | समनुभूय मरुत्सरिदाप्लुतस्तदणिमादिगुणैः पुनराययौ || १०९ || पृ० १४४) क्व च रवीन्दुयुगं परिगृह्य तद्रचिततालमनृत्यदयं प्रभुः | लसदुरोद्धृतवर्तुलतारकाकलितमौक्तिकहारललद्गलः || ११० || क्व च सुमेरुगिरिं परिवर्तयन् करयुगे नवनीतघटीमिव | धृतकुलाचलकन्दुककेलिभिः स विजहार महाद्भुतवैभवः || १११ || क्व च न पुष्पवदुज्वलमण्डलद्वयमसौ परिगृह्य सुमेलयन् | फणिपतिं परिवेष्ट्य तदंतरे रचितचाक्रिककेलिरभूत्प्रभुः || ११२|| अयमहो ननु बालक इत्यलं त्रिभुवनाद्भुतलीलतया प्रभुः | सकलकारणकारणमीशितेत्यमनुताखिललोकजनावलिः || ११३ || श्रुतिमूलकंदमृषिवृंदचिरभाग्यं हृदयारविंदगतमिंदुधरमाद्यं | हृतनादबिंदुकलमूर्ध्वचिदभिन्नं परिपूर्णमेतदिति भावयत तेजः || ११४ || इति विद्वदीरितमुदारमधुरार्थं वचनं निशम्य पितरौ मुदितभावौ | कृतकृत्यभावमुपगत्य हृदयाब्जे निजभागधेयमिति तुष्टुवतुरेनं || ११५ || पृ० १४५) सुज्ञानांबानिरहंकारकृताल्लमस्तुतिनिरूपणम् | जय जय जयाल्लम भवाब्धितरणे नौर्जय जय जयाल्लम कृतार्थय सदा नौ | जय जय जयाल्लम जगद्विनुतकीर्ते जय जय जयाल्लम चिदात्मनिजमूर्ते || ११६ || जय जय जयाल्लम परेश्वर सदात्मन् जय जय जयाल्लम परात्पर चिदात्मन् | जय जय जयाल्लम परामृतसुधाब्धे जय जय जयाल्लम कृतैक्यशुभलब्धे || ११७ || जय जय जयाल्लम सुभक्तमणिसिन्धो जय जय जयाल्लम विरक्तजनबन्धो | जय जय जयाल्लम चिदंबरसुधांशो जय जय जयाल्लम हृदम्बुजरिरंसो || ११८ || मज्जनक मत्सनक मत्कनकराशे मद्धृदय मत्सदय मद्गुरुवरेण्य | मद्विरद मद्वरद मज्जननमौले मद्विभव मत्प्रभव मत्प्रभुवतंस || ११९ || पृ० १४६) मत्करुण मत्करण मत्कमलभानो मद्वदन मत्सदन मद्विदित सूनो | मन्मुकुर मन्मुकुट मन्मनसिजारे मत्कुतुक मत्कतक मत्कथित सूरे || १२० || मन्नाथ मद्गुरुस्वामिन् मदभीष्टप्रदायक | मल्लिंगमूर्ते मत्कीर्ते प्रसीदास्मान्प्रभोऽल्लम || १२१ || इति संस्तुत्य संस्तुत्य जननीजनकावुभौ | नत्वा सद्भक्तिभावेन प्रार्थयामासतुः सुतं || १२२ || अज्ञानध्वान्तमखिलमपसार्य कृपानिधे | प्रदर्श्य सुज्ञानपथं रक्षास्मान् शुभलक्षण || १२३ || इति विज्ञापितो भक्त्या पितृभ्यां जगतः पिता | अनुकम्पावशादेतावल्लमप्रभुरब्रवीत् || १२४ || हे मातर्हे पितः श्रुत्या युक्त्या च हृदि निश्चितं | रहस्यमेतत्तत्वार्थं श्रूयतामवधानतः || १२५ || इष्टलिंगे स्थिरां दृष्टिमधिष्ठायान्यनिस्पृहः | दुष्टसंसारविभ्रान्तिमपजह्याद्दृढव्रतः || १२६ || पृ० १४७) पित्रोः प्रभुकृतत्रिविधलिंगाराधनोपदेशः | प्राणलिंगे दृढं भावं स्थिरीकुर्यात्प्रयत्नतः | प्राणायामसुखस्वापे प्लवमानो निरंतरं || १२७ || भावलिंगे शिवाद्वैतपरितृप्त्योन्मना भवेत् | इयमेव परा काष्ठा परमार्थानुभावने || १२८ || इत्युन्मनीकीलकमल्लमेशः प्रीत्या पितृभ्यामुपदिश्य सारं | सुज्ञानबोधामृतसिन्धुमग्नौ कृत्वा गुरू सर्वगुरुश्चचार || १२९ || इति गिरितनयायै शंकरः पंकजास्यै सकरुणमुपदिश्य प्रीणयामास धन्यां | तदवगतमिहोक्तं यन्मया सर्वमेतत्कलय मनसि भद्रे कार्यमीषत्करं नो || १३० || वच इति विमलायाः स्पष्टमाकर्ण्य माया कथमिति निजकार्यव्यर्थतायास्तताप | पुनरपि मुनिवर्याः शम्भुमायावृता सा वशयितुमिममाशापाशबद्धा बभूव || १३१ || प्रभुचरितममोघं यन्मया श्रावितं वस्सकृदपि दृढभक्त्या ये पठन्त्यामनन्ति | पृ० १४८) इह सकलसुखानामाश्रयीभूय भूयः प्रमथपदमथान्ते प्राप्नुवन्त्येव सिद्धं || १३२ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां प्रभुलीलावतारवर्णनगतिर्नाम षष्ठोऽध्यायः || पृ० १४९) मायां प्रति विमलोक्तहितोपदेशः | || श्रीनंदिकेश्वराय नमः || सप्तमोऽध्यायः || सूत उवाच- सिद्धवीरेश्वरानर्घ्यचरणाम्भोजभक्तितः | कृतकृत्या मुनिश्रेष्ठाः शृण्वन्तु प्रभुसत्कथां || १ || अथ माया प्रभोर्दिव्यमाहात्म्यं विमलोक्तिभिः | विज्ञाय विमलां प्राह त्रिमलक्षयकारिणीं || २ || विमले त्वदुपन्यस्तः प्रभुः साक्षात्परः शिवः | उपास्यमानः सोऽस्माकमभीष्टं किं न यच्छति || ३ || विमला प्राह तां मायां शृणु त्रैलोक्यसुंदरि | जेतुकामस्य मायायाः प्रभोस्तस्य महात्मनः || ४ || चित्तानुवृत्त्या सेवन्ते ये तेषां किं नु दुर्लभं | भक्तिर्विशुद्धा देवेशे भुक्तिमुक्त्युभयप्रदा || ५ || महाराज्येऽभिषिक्तस्य ग्रामणीत्वं यथाऽधमं | तद्वत् प्रभुपदाम्भोजभक्तस्य कियदैहिकं || ६ || आकर्ण्य माया तां प्रोचे प्रत्यक्षीकरणे प्रभोः | उपायं ब्रूहि विमले कृतार्थीकुरु मां सखि || ७ || पृ० १५०) विमला प्राह तन्वंगीं शिवं सम्पूज्य भक्तितः | तेन पुण्येन सद्गोष्ठीं लभेत्तादृऽऽन्महात्मनां || ८ || तस्मात्त्वमपि सर्वज्ञं नीलग्रीवं त्रिलोचनं | पूजयस्व सदा भक्त्या प्रसीदति ततः प्रभुः || ९ || मायां प्रोवाच विमले मधुकेशमहर्निशं | उपास्य नालभं किंचिदपि तस्य फलं ततः || १० || इतः परं न वक्तव्या कथेयमिति वादिनीं | उवाच मायां विमला माऽस्तु तेऽयं दुराग्रहः || ११ || पतित्वाऽनवधानेन स्वयं भूमिं निनिंद या | तन्न्यायं त्यज दुर्बुद्धे वृथा निंदसि शंकरं || १२ || विशुद्धबुद्धयः शम्भुं निजभक्ता भजन्ति ये | तेषां स्वर्णं मधुशिवः करस्थं स्वमनर्घ्यकं || १३ || अंगणे निधिराच्छन्नवस्त्रग्रथितकांचनं | कामधेनुः कल्पवृक्षश्चिंतामणिरिति श्रुतः || १४ || तं महादेवमाराध्य निजाभीष्टार्थसंततिं | को वा न लभते मर्त्यः किमत्राश्चर्यमीर्यते || १५ || पृ० १५१) मायां प्रति विमलोक्तेश्वरार्चनविधाननिरूपणम् | ज्ञात्वाऽनुष्ठानकर्तृर्णां सद्यः फलति शंकरः | अज्ञात्वाऽनुष्ठितं कर्म निष्फलं भवति ध्रुवं || १६ || अतः शास्त्ररहस्यं ते वक्ष्याम्युत्पललोचने | यच्छ्रुत्वा तदनुष्ठाय प्राप्नोत्युभयतः फलं || १७ || आदौ सद्गुणसम्पन्नं गुरुनाथमुपाश्रयेत् | गुरूपदिष्टा विद्यैव सद्यः श्रेयः फलिष्यति || १८ || असेवितगुरुं तेनानुपदिष्टार्चनाविधिं | भक्तिर्याति परित्यज्य हस्तिनीव मृगाधिपं || १९ || आगमोक्तविधानेन पात्रद्रव्याणि शोधयन् | अंगहस्तमुखादीनि ज्ञात्वा संपूजयेच्छिवं || २० || अविज्ञाय प्रमादेन शास्त्राचार्योपदेशने | मूढस्तामसपूजाया नैष्फल्यमधिगच्छति || २१ || रसनायां यथा शब्दं श्रवणे च रसं यथा | रूपं घ्राणे दृशि स्पर्शं त्वचि गन्धमिवार्पयन् || २२ || अविवेकेन मूढात्मा पूजाऽऽभासं करोति यः | निष्फलं तद्भवेत्तस्य न प्रसीदति शंकरः || २३ || पृ० १५२) तस्मान्मुखानि विज्ञाय मृडस्य परमात्मनः | विवेकेनार्पयद्धीमानिति शास्त्रार्थनिर्णयः || २४ || प्राकृतैः सहसाङीय बलात्पत्रादिकं नरः | लिंगाग्रे पातयित्वाथ नीचपक्वान्नमर्पयन् || २५ || विश्वासहीनो यः कुर्याद्राजसार्चनमीशितुः | तस्यार्चनं न गृह्णाति प्रीत्याऽसौ राजशेखरः || २६ || यो दानधर्मविमुखो ज्ञानविज्ञाननिंदकः | श्रीगुरूक्तागमविधिं विसृज्य स्वेच्छया पुनः || २७ || करोति तामसीं पूजां तां न जिघ्रति शंकरः || अतः शिवज्ञानशास्त्रपुराणागमसंहिताः || २८ || उपदिश्य तदीयार्थान् यो बोधयति सद्गुरुः | कृपार्द्रचित्तं भावज्ञं विद्वांसं तं गुरुं श्रयेत् || २९ || तदाज्ञया स्थिरीकृत्य भक्तिं जंगमसंयुतः | निरुद्धचित्तः सर्वेशं पूजयेद्विधिपूर्वकं || ३० || एकाग्रचित्तः सर्वेशमुपास्ते यो महामतिः | निष्कामो मुक्तिमाप्नोति सकामो भुक्तिमाप्नुयात् || ३१ || पृ० १५३) मायाय विमलोक्तशिवपूजोपदेशः | न दद्याद्भुक्तिदा मुक्तिं न भुक्तिं मुक्तिदायिनी | भुक्तिमुक्तिप्रदा सेयं शिवपूजा तु सात्विकी || ३२ || उपास्य शंकरं सर्वे हरिब्रह्मादयः सुराः | तत्तल्लोकाधिपत्यानि प्राप्नुवन् वैभवैः सह || ३३ || हस्तपादादियुग्देहं जीवहीनं सलक्षणं | यथा श्रीगुरुकारुण्यविहीनः कुजनस्तथा || ३४ || चतुःशीतं समाकृष्य सीरेणापास्य कत्तृणं | हल्या भूमिं समीकृत्य पर्जन्येऽप्यर्धवर्षति || ३५ || आर्द्रायामपि सार्द्रायां भूमौ जामित्वमाश्रितः | यो बीजं न वपत्यस्य सुक्षेत्रं वा कुतः फलेत् || ३६ || एवं विज्ञाय विधिवद्गुरोः सम्पाद्य सत्कृपां | दीक्षाविशुद्धहृदयो यजेत परमेश्वरं || ३७ || त्यक्त्वा भूतगुणान्सर्वान् पूजयेद्यदि शंकरं | कथं न स्यादभीष्टार्थलाभस्तस्य महात्मनः || ३८ || हस्तसंस्थेऽप्यथादर्शे यथान्धः स्वं न पश्यति | पृ० १५४) तथोपदेशहीनोऽपि न सिद्धिं लभतेऽर्चकः || ३९ || माये यदि त्वया शम्भुः पूजितः सद्विधानतः | पूजाफलं कुतो न स्यादुपदेशविधिर्न वा || ४० || न गृहीतोऽथवा सम्यऽऽन्मंत्रो जाप्यविधिर्न किं | न ज्ञातो वा यथाशास्त्रं भक्तिः पर्याप्यते न वा || ४१ || नास्ति वा तत्र ते श्रद्धा पूजायां सांप्रदायिकी | यद्यस्ति पूर्णसामग्री न भवेत्कामितं कुतः || ४२ || इत्युक्तवत्यां सद्युक्त्या विमलायां मदोत्कटा | माया विभवगर्वेण लघूकृत्येदमब्रवीत् || ४३ || एवंविधोपदेशादिप्रयासो मास्तु भामिनि | स्वेच्छयैव जगत्कृत्स्नं साधनीयं न चान्यथा || ४४ || श्रुत्वैतद्वचनं साध्वी संत्यज्य विमला तदा | तथाविधां कथां माया मग्ना दुर्भवसागरे || ४५ || केनोपायक्रमेणैनामुद्धरिष्यामि संकटात् | इति संचिंत्य मनसा युक्तिमेकां विचार्य च || ४६ || पृ० १५५) रहसि मायाविमलयोरुक्तिप्रत्युक्तिः | संस्मृत्य जगदंबायास्तामाज्ञां दुरतिक्रमां | स्नेहेनाभिमुखीकृत्य मायां वचनमब्रवीत् || ४७ || अनादिसिद्धा मैत्रीयमावयोर्नहि नूतना | त्वं वेत्सि किल पृच्छामि वाक्यमेकं वरानने || ४८ || न वंचयितुमर्हाऽहं वंचयिष्यसि चेच्छृणु | आज्ञा तव मया गौर्या दत्ता त्वं मा त्रपां वह || ४९ || यथार्थं ब्रूहि कल्याणि सत्यं हि नियमोत्तमं | इति तां सुदृढीकृत्य पप्रच्छ विमला रहः || ५० || वनिते लतिकातुल्या तवेयं तनुरुत्तमा | मनोजबाणभिन्नेव मर्मसंधिषु लक्ष्यते || ५१ || कथं दशेयं कल्याणि कस्मिन् जाता रतिस्तव | ब्रूहि तत्प्रतिकारं ते वक्ष्यामीत्युदिताऽब्रवीत् || ५२ || कथयिष्यामि विमले कामो मूर्त इवापरः | स्तवनीयगुणः कश्चिदस्ति विद्याधिकोत्तमः || ५३ || नाम्नांऽल्लम इति ख्यातो गम्भीरोदारविग्रहः | सर्वविद्यासु निपुणो धीरोदात्तगुणोत्तरः || ५४ || तन्मायापंजरे लग्ना रतिराजवशं गता | त्यक्ताभिमाना दुश्चित्ता चिन्ताक्रान्ता चलन्मतिः || ५५ || पृ० १५६) गतसत्वा धैर्यहीना वर्जिताखिलसंस्मृतिः | तूलायमाना गेहान्तःशालायां तूलिकागता || ५६ || सखीभिः सह संच्छन्ना छिन्ना मारशरालिभिः | पतिता दुर्दशामेतामभूवं लघुतां गता || ५७ || अथ सा विमला प्रोचे मायां चंद्रानने शृणु | सत्यं तव मनोहर्ता साक्षादल्लम एव सः || ५८ || प्रभुर्विश्वाधिकः साक्षी मायां वश्यां चकार यत् | नान्यो भवति मान्योऽयं नित्यमुक्तो निरंजनः || ५९ || न विद्धि मार्दंगिकमात्रमेनं विद्याधिकत्वं स्वत एव सिद्धं | ब्रूते श्रुतिश्चापि समस्तविद्याऽधीशं महेशानममुं गुहेशं || ६० || सोऽयं प्रभुः कपटनाटकसूत्रधारः सृष्टिस्थितिप्रलयकृज्जगताममीषां | कोऽयं कुतः क्व च कदा च न केन चेति विज्ञातुमल्लमगुरुर्निगमैरशक्यः || ६१ || यस्य प्राञ्चो न जानन्ति सरूपारूपभावनां | स केन वा प्रकारेण वर्तमानो न लिप्यते || ६२ || आकर्ण्य माया तां प्राह विमले किं त्वयोच्यते | पृ० १५७) मधुकेशालये अल्लममायाविमलानां संगमः | किं वेत्ति भवती वाक्यैरलंस्तावकमात्रकैः || ६३ || परमात्मैव स प्रोक्तः प्रभुरल्लमसंज्ञितः | अयं नटविटैस्तुल्यो मम मार्दंगिकोऽल्लमः || ६४ || तस्य चास्य कियद्दूरं न समीकुरु तेन तं | अंगारेणेव भास्वन्तं ह्रदेनेव महोदधिं || ६५ || इत्थं मायाविमलयोरुक्तिप्रत्युक्तिनालिका | आसीत्तयैव संगत्या मधुकेशालयं गते || ६६ || तत्राभ्यर्च्य महेशानं बहिर्निर्गत्य भामिनी | राजसेन विलासेन रंगमध्यं विवेश सा || ६७ || अल्लमोऽपि स तां दृष्ट्वा नृत्योद्युक्तां शुचिस्मितः | विद्याधिकैर्विस्मयेन तत्रत्यैरभिनंदितः || ६८ || अद्यैव वाद्यविद्याया जेया माया मयेति सः | तस्यां नटंत्यां चातुर्याद्वादयामास मर्दलं || ६९ || तद्दत्तचित्तां नृत्यन्तीं मायां मदनविह्वलां | विमला तां तदालोक्य चिन्तयामास मानसे || ७० || अत्र नृत्यं स्पृहा तत्र वागत्र ममता ततः | रीतयोऽत्रादरस्तत्र दृष्टिरत्र रतिस्ततः || ७१ || पृ० १५८) अहो सुमहदाश्चर्यं माया नाटयतेऽखिलान् | मायां नाटयते सोऽयमल्लमः पल्लवाकृतिः || ७२ || जपाकुसुमसान्निध्याल्लोहितस्फटिको यथा | तथैव मायासान्निध्यात्प्रभुर्दृष्टो गुणान्वितः || ७३ || स्फटिकः कुसुमापाये यथा शुद्धोऽभिलक्ष्यते | विसृज्य मायामगुणो निर्मलः सर्वदैव सः || ७४ || इति निध्याय विमला मायामन्वीक्ष्य सा पुनः | दर्शयित्वाऽल्लमं दृष्ट्या स्वमात्मानं प्रदर्श्य च || ७५ || अभिनीयोभयोरैक्यं स्वयोस्तस्य पृथक्स्थितं | प्रणामकरणं तस्मै सूचयन्ती दृशैव सा || ७६ || पृथिवीं गगनं चापि क्रमात्संभाव्य भामिनी | संज्ञयैवाब्रवीत्तस्यै स्वकर्तव्यं तदास्तिकाः || ७७ || तूष्णीं तिष्ठति यत्रायं निधाय भुवि मर्दलं | पादोपसंग्रहव्याजात्तदाऽऽवाभ्यां प्रगृह्यतां || ७८ || पृ० १५९) प्रभोः पुरतः मयानृत्यनैपुण्यवर्णनम् | नायं प्रभुरिति ज्ञेयो ग्रहीतुं शक्यते यदि | ग्रहीतो व्योमवच्छून्यो यदि स्यात्प्रभुरित्ययं || ७९ || इत्थं विमलयाऽऽदिष्टा माया नयनभाषया | स्वयं तथाऽस्त्विति तथैवासूचयदिमां पुनः || ८० || अहो दृष्ट्यैव पुरुषानार्द्रयन्ति किलांगनाः | दृष्ट्या माधुर्यकलया नम्रीकुर्वन्ति तान्पुनः || ८१ || दृष्ट्यैवानंदधुरया क्षणाद्गृह्णन्ति तद्धनं | दृष्ट्यैव विरहाग्नीनामाचरंति समिंधनं || ८२ || अहो चपलचित्तानां स्त्रियः पुंसां हि वागुराः | दृग्बाण एव नारीणां साधनं पुंपराभवे || ८३ || दृशो मूलधनं स्त्रीणामवलंबनमप्यहो | इति तत्रत्यरसिकाश्चेष्टां दृष्ट्वा मिथोऽब्रुवन् || ८४ || मायानट्याः प्रभौ दत्तचित्ताया विरहाग्निना | तप्तायाः सकलांगानि विकलान्यभवन् द्विजाः || ८५ || पृ० १६०) अवधानं जहौ चेतश्चचाल मतिरप्यहो | तालमानं विहायैषा ननाट विषमक्रमं || ८६ || मेलसंघट्टनं चास्या अत्यरिच्यत नर्तने | गीतं विजातीयगिरा स्पृष्टं विषमता गतं || ८७ || तदानीमल्लमः सर्वं तस्या विज्ञाय चेष्टितम् | वृथानटनमेतन्मे किमनेनेत्यमन्यत || ८८ || रंगमध्ये विहायोच्चैर्मर्दलं महदद्भुतं | निष्क्रम्य नगरात्तूर्णं ययौ स्वच्छन्दमीश्वरः || ८९ || मायाऽथ दशमावस्था प्राप्तेव बहु दुःखिता | विनष्टधैर्यहृदया पपात भवि मूर्च्छिता || ९० || कथंचिदथ विज्ञाय हा हाल्लम बतात्र मां | विहाय क्व गतोऽसीति तताप मुहुरात्मनि || ९१ || न बबन्ध गलन्मौलिं पिदधे न च कंचुकं | सख्य एवोत्तरीयादि सज्जीचक्रुः समभ्रुवः || ९२ || तदानीं विमला मायामभ्येत्यासांत्वयद्द्विजाः | क्लिश्नासि किं वृथा बाले निर्बन्धः कस्तवाऽधुना || ९३ || येनाल्लमप्रभुर्यातस्तेन मार्गेण सत्वरं | पृ० १६१) प्रभुमन्वेष्टुं विमलादिभिः सह मायायाः पुराद्बहिर्गमनम् | सखीभिः सह सर्वाभिरावाभ्यामनुगम्यतां || ९४ || यथा सूचीमनुगतं सूत्रं तद्वत्प्रसर्पति | तथानुऽसृत्य तन्मार्गं यास्यामस्तद्वदंगने || ९५ || द्यावापृथिव्यावन्विष्य यत्र तिष्ठति सोऽल्लमः | गृहीत्वा तत्र तं भद्रे वशयिष्यामहे ध्रुवं || ९६ || गमिष्यामस्त्यजालस्यं यावद्द्रक्ष्यामहे प्रभुं | तावन्मनोजवं माये गृहीत्वोत्तिष्ठ सांप्रतं || ९७ || चिंतां त्यज गृहाणाशु धैर्यमित्युदितार्यया | बाढमित्युररीचक्रे सा मायोत्कंठिता भृशं || ९८ || ततो विमलयाऽन्याभिः सखीभिः सह भामिनी | पिधाय पौरचित्तानि गन्तुं समुपचक्रमे || ९९ || अहो मनुजनाथस्य पुत्री मर्दलवादकं | अनुसृत्य गतेत्येवं बभूवाऽथ जनश्रुतिः || १०० || इत्थं मिथो भाषमाणा न निवारयितुं क्षमाः | स्थाणुभूताः स्थिताः सर्वे माया श्रुत्वैव सा ययौ || १०१ || पृ० १६२) कदा द्रक्ष्येऽल्लममिति चिन्तयन्ती पदे पदे | त्यक्त्वा मंदगतिं माया शीघ्रेणाधावदास्तिकाः || १०२ || तीव्रगत्या प्रधावंत्यास्तस्याः पादौ व्रणोल्बणौ | शुष्कीभूताऽऽतपेनाश्हु लतेव तनुरुज्ज्वला || १०३ || क्वचिद्विपथगा माया लतावलयवेष्टिता | पादांगुल्योऽश्मभिश्छिन्नाः सुस्रुवुर्लोहितं बहु || १०४ || भूमावातपतप्तायां ददाहांगारवद्रजः | तृष्णया कण्ठनालोऽस्याः शुशोषास्तिमितो द्विजाः || १०५ || गच्छन्त्यां संभ्रमेणास्यां मोहिन्यां सकलात्मनां | तत्राश्ह्रमस्था मुनयः केचिद्दृष्ट्वा चकंपिरे || १०६ || सौंदर्यसारसर्वस्वामालोक्येंदुमुखीं द्विजाः | दृष्ट्वा मृगयुमायान्तं मृगा इव यतव्रताः || १०७ || कामः कवलयत्येव का वा गतिरिहेति ते | विचाल्य शंकितस्वान्ता दिशो दश पलायिताः || १०८ || पृ० १६३) वने मायासखीकृताल्लमगर्हणम् | योगदण्डान् योगपट्टान् लिंगसम्पुटिकास्तथा | काषायाम्बरवैययाघ्रचर्मभस्मफलानि च || १०९ || रुद्राक्षमालाजालानि पुस्तकानि कमण्डलून् | कराभ्यां कवलीकृत्य भीत्याऽनार्दोष्ठसंपुटान् || ११० || पलायमानांस्तान्दृष्ट्वा प्रभुः सर्वेश्वरोऽल्लमः | कारुण्यायत्तचित्तोऽथ स्त्रीभ्यः संरक्षितुं मुनीन् || १११ || स्थिरीकृत्य मनांस्येषां मुनिवेषधरो गुरुः | प्रत्यक्षीभूय तान्सर्वांश्चक्रे निश्चलमानसान् || ११२ || भूयो मायानटो भूत्वा योगीशो विटवेषधृत् | पूर्ववद्वंचितुं मायामाजगामान्तिकं स्त्रियाः || ११३ || तं दृष्ट्वा वनितास्सर्वा निधिं लब्ध्वेव दुर्विधाः | सन्तुष्टचित्ताः प्रणयाद्रोषावेशाद्बभाषिरे || ११४ || अहो धूर्ताल्लम विभो मायामस्मत्सखीं प्रियां | क्लेशयित्वा त्वदायत्तां किं फलं लब्धवानसि || ११५ || राजपुत्रीमिमां बालां जातीमिव मृदुत्वचं | हसंतिकायां संताप्य सारस्यं हतवानसि || ११६ || भो हंसतूलिकातल्पनिद्रार्हायाः कथं शठ | पृ० १६४) शर्कराऽर्हति यानाय पद्भ्यां शरफलोपमा || ११७ || सिंहासने वयस्याभिः सेवनीया कथं सखी | कुशविष्टरमारोढुं वनेऽर्हति वरानना || ११८ || हेमपल्यंकिकारूढा वीज्यमाना सखीजनैः | व्यजनैर्याति या तस्या अटव्यामटनं कथं || ११९ || नवरत्नमये गेहे क्रीडन्ती लीलया कथं | स्थातुं कुंजकुटीरेषु सार्वभौमसुताऽर्हति || १२० || वयमेवापराधिन्यो नापराधस्तवाऽत्र भो | यतोऽविज्ञाय ते स्वान्तमदाम हृदयं तव || १२१ || अविचार्य कृतं कार्यमपहासाय कल्पते | रूपं न कारणं पुंसां श्रुतिं विश्वस्य वंचिताः || १२२ || हृदयालुरिवैतावत्कालं बालां विमोहयन् | तिरोधायात्मकौटिल्यं रतिमुत्पाद्य लीलया || १२३ || कंसरीत्या विभेद्याद्य हार्दं घोराटवीं कथं | कृतज्ञत्वं परित्यज्य कितवत्वं समागतः || १२४ || पृ० १६५) मायासखीभ्योऽल्लमवचननिरूपणम् | पुंमक्षिकार्भकस्यापि प्रवेष्टुं तावदक्षमम् | प्रेम्णा प्रविशितोऽसित्वं तरुणीमणिमंदिरम् || १२५ || समर्पितात्मसर्वस्वः सख्याऽस्माकं गृहाधिपः | भूत्वाऽन्ते क्लेशयस्येनामहो कीर्तिः कियत्यसौ || १२६ || अपख्यातिरियं भाव त्वया संपादिता ननु | त्वद्वियोगे कुतोऽस्याः स्यान्मनः कंसोपमस्थिरं || १२७ || इत्युपालम्भवाक्यानि श्रुत्वाऽल्लमविभुः स्मयन् | मायावयस्याः संप्रेक्ष्य वचनं चेदमब्रवीत् || १२८ || वृथा निष्ठुरभाषाभिरलं गच्छथ बालिशाः | किं वा प्राऽऽन्मायया साकं संबन्धोऽभिमतो मम || १२९ || किं वा साप्तपदीनेन मायां संगतवानहं | किं वाऽद्य कलहं कृत्वा निष्क्रान्तोऽहं त्वदाश्रमात् || १३० || मामुदासीनभावेन स्थितं दृष्ट्वा शिवालये | स्वयं कामयमानेयं भ्रान्ता मदनविह्वला || १३१ || त्यक्ताभिलाषे च मयि तदा भावमजानती | किमर्थं प्रकटीचक्रे सखीनां पुरतो रतिं || १३२ || स्वयमेव वृथा रत्या जारभावेन भामिनी | पृ० १६६) लोकापवादमतनोदहो मयि विरागिणि || १३३ || विकारयतु मां कामं कामुकी न हि विक्रिये | तयाऽहं न हि कीटेन तृट्यते दीप्तमुल्मुकं || १३४ || स्त्रियो धूर्ता इति धिया तूष्णींभावेन संस्थितिः | अपराध इव ज्यायानहो दुःसंगसंकटं || १३५ || नार्यः किमेतत्कापेयमपराधं भवत्कृतं | मययारोप्य वृथा मोहादटवीमागता हठात् || १३६ || भो भो नारीसमूहा इह सकलमहीमण्डले चण्डभानुः स्फूर्त्या रीत्या कया वा विहितपरिकरश्चारुश्रृंगारवेषः | काषायालंबनो वा कनकमणिगणालंकृतो वाऽनपेक्षो रुद्राक्षालंकृतो वा विषयविरहितः स्वैरमेकश्चरामि || १३७ || सर्वं मययेव जातं मयि सकलमिदं वर्तते लोकजातं लीनं मययेव पश्चादहमखिलगतः सूत्रवन्मौक्तिकेषु || न स्पृष्टो येन केनाप्यहमभिसरता गन्धलेशेन पाश- च्छेदार्थं भक्तिभाजां सगुण इव जनैर्लक्षितः संचरामि || १३८ || पृ० १६७) वने मायाकृताल्लमावहेलनम् | योगित्वं प्राप्य लोके प्रकटयितुमहं पारहंस्यानुभावं शैवे सर्वोत्तमत्वं श्रुतिभिरभिनुतं शाम्भवीं चापि दीक्षां || धृत्वा वेषं तदीयं जगद्वनकृतौ वर्तमानः स्वतन्त्रः सोऽहं मायाविधेयो विषमविषयभुक् कूटकारी कथं स्यां || १३९ || इत्थं प्रभौ वदति सा परिमुह्य माया त्यक्त्वा ह्रियं स्मरवशादविबुद्धतत्वा | भूयोऽपि तं त्रिभुवनैकगुरुं जगाद कामातुरस्य हि विवेककथा न जन्तोः || १४० || भो धूर्त कामुकतया हृदयं प्रविश्य पूर्वं ममाश्रुतरतिः कृतहार्दभावः || उत्पाद्य वश्य इति विश्वसनं न लीनं किं वाऽपदिष्यसि निरस्य वचोऽधुना त्वं || १४१ || उन्मत्तता न हि ममाद्य न वंचनीया त्वां नोत्सृजामि शपथं कलये त्वदंघ्र्योः | वाग्ब्रह्मवादमपसार्य विचार्य पूर्वं मामल्लम प्रतिगृहाण तवैकजायां || १४२ || पृ० १६८) कापट्यशाबरजपानृतवेषभाषा योषावशीकरणनर्तनगीतवादाः | तारुण्यरोधकुहनौषधकूटकृत्यसोल्लुण्ठनभ्रमणकौत्सितकौचमाराः || द्यूतेन्द्रजालमथमायिकतापहासकौटिल्यलौल्यकरलाघववंचनानि | पुंसां प्रसिद्धिमुपयान्त्यथ योषितां वा धर्मा इति त्रिभुवनेऽपि विदन्ति सर्वे || १४४ || इत्युक्तवत्यां भुवनैकरत्यां प्रभुः प्रतिद्वंद्वितया किमस्याः | वादान् ममेति प्रहसन्विरेमे सैव च्छलादल्लममाह माया || १४५ || अहो मया लौकिकतामुपेत्य समर्पिते स्वात्मनि मामुपेक्ष्य | भवानुपन्यस्यति केवलत्वं निजं तथा चेच्छृणु मत्प्रभावं || १४६ || अहं हरिब्रह्महरादिदेवान् महाप्रभावान् विदधाम्यधीरान् | महर्षिवर्यान् स्खलदूर्ध्ववीर्यान् कुर्वैऽगनालिंगनसंगतांगान् || १४७ || उरोहमाक्रम्य हरेर्वसामि हरस्य वामार्धतनुं हरामि | पृ० १६९) वने स्वोत्कर्षन्तीं मायां प्रति प्रभुदेवस्योक्तिः | करोमि वाग्बंन्धनमब्जसूतेः परे कियन्तो मम वासवाद्याः || १४८ || आदित्यदैत्योरगसिद्धसाध्यान् गन्धर्वविद्याधरकिन्नराद्यान् | भृत्यान्विधाय प्रविचालयामि भवान्कियानल्लम मां विरोद्धुं || १४९ || अतस्त्वयैषाल्लम धूर्तचर्या विशेषतोऽस्मत्पुरतो न कार्या | मर्यादया मद्वचनं विधेहीत्युक्तः प्रभुः साग्रह एवमूचे || १५० || अरे जरद्वारविलासिनीव पुराकथानां कथनैर्वृथा किं | करोषि वाचालतया विवादं परापवादान्न विभेषि मूर्खे || १५१ || यदि स्वसामर्थ्यमथापि माये सदात्मतत्वानुभवार्थवादैः | मदीयविद्यां चिदचिद्विवेकास्पदोक्तियुक्त्या विजयस्व तावत् || १४२ || अखण्डपाण्डित्यबलेन युक्तीर्विखण्ड्य मां स्वीकुरु तावकीनं | सुखार्थिनी मौर्ख्यबलेन चेन्मे नखाग्रमात्रं च न चालयस्याः || १५३ || हराच्युतब्रह्ममुखांश्च लेखान् पराभवं प्रापयितुं क्षमेति | दुराग्रहोक्तं वचनं न लक्षीकरोमि यत्साहसिका वधूट्यः || १५४ || पृ० १७०) त्वया विबुद्धस्त्वयि सन्निविष्टः स्वयं सदा प्रेरयते क्रियासु | य ईश्वरस्तत्करुणा यदि स्याज्जयेस्तदा मान्यतया भवारिं || १५५ || इत्यल्लमोक्तं वचनं निशम्य प्रत्युत्तरं दातुमसावशक्ता | अत्यन्तखिन्नात्मनि किंचिदोह्य सत्यात्मकं स्वामिनमाह माया || १५६ || केनाविबुद्धः क्व नु सन्निविष्टः को वा स्वयं प्रेरयते क्रियासु | क ईश्वरस्तत्करुणा कुतः स्यात् कथं जये मान्यतया न वेद्मि || १५७ || त्वदीयसूक्ते प्रतिवक्तुमेषा कथं विभो निष्ठुरतां प्रयातु | मयोच्यते चेदरुचिर्हृदि स्यान्मनोरथो मेऽस्तु यथा कथंचित् || १५८ || पुरोन्नमादौ परिवेष्य कंसे क्षुधातुरस्यापहृतिः किमर्हा | कियत्यहं भाषितुमग्रतस्ते गृहाण मामल्लम पल्लवोष्ठीं || १५९ || इतीरितां वाचमनादरेण निरस्य हस्ताभिनयेन तस्याः | पृ० १७१) वने स्वोत्कर्षन्तीं मायां प्रति प्रभोरुक्तिः | हुंकारपूर्वं पुनराह मायां मायातिगो देशिकचक्रवर्ती || १६० || माये किमित्थं गदितुं तवार्हं श्रुत्वापि मां कामलतालवित्रं | भ्रान्तेर्गतोक्तौ मुसलेन शीर्षं संवेष्टयेत्युक्तिसमं भजेति || १६१ || आपाततः स्युर्मधुरा हि कामाः स्रक्चंदनादौ विषये विषाभे | स्वीकृत्य तान्मूढजना इवाहो कथं विनंक्ष्यन्ति शिवैकतानाः || १६२ || ये दीक्षिताः के च न योगतंत्रे त्यक्तुं दुरन्तान्विषयानसक्ताः | वदन्ति जयया अनुभूतिपूर्वमित्येवमेते नहि संमता मे || १६३ || अग्नौ हुते प्रज्वलिते यथाज्ये न शाम्यति प्रज्वलति द्विरुच्चैः | तथानुभूते विषये न शाम्येद्विवर्धते यद्द्विगुणं तदाशा || १६४ || जग्ध्वा सर्षपसस्यानि वृषो न त्यजति क्षुधां | किं तु तस्योदरं शुष्येदुष्णिम्नाऽग्निप्रकोपतः || १६५ || अतो विषयसंगत्या सुखलेशो न विद्यते | जन्तोर्विवेकहीनस्य कथंचिदपि बालिशे || १६६ || पृ० १७२) उल्लासेन गृहं दग्ध्वा कुत्र तिष्ठेन्मदोद्धतः | हत्वा विवेकं कामेन कथं मायां तरेज्जडः || १६७ || इत्यल्लमप्रभोरुक्तीरनादृत्याविवेकतः | माया दुराग्रहावेशाद्वक्तुं समुपचक्रमे || १६८ || प्रसार्य वाग्मितां धूर्त ममाग्रे किं प्रभाषते | बहिर्विरागमात्रेण कृतकृत्यो भवानिव || १६९ || वाचः परा च पश्यन्ती मध्यमा वैखरीति याः | ताः सर्वा मत्पदाम्भोजघट्टनेनोदयं गताः || १७० || वामपादादधः सर्वे वाग्विलासा मम स्थिताः | त्यक्त्वा मायिक वाग्जालं भुंक्ष्व भोगान्मया सह || १७१ || अल्लमोप्याह भो माये किं न श्रुतमिदं त्वया | पूर्णिमा यावदेतस्यास्तावद्भोग इतीरितं || १७२ || वृथा किं जल्पसि भ्रान्ते हित्वा लज्जां ममांतिके | दुराशापाशमुत्सृज्य गृहं याहि सखीयुता || १७३ || आकर्ण्य वाक्यमथ सा वनिताल्लमस्य निश्चित्य भावमहहेति रुदत्यभीक्ष्णं | भूयोऽपि धैर्यमवलंब्य कथंचिदीशं निंदंत्युवाच वचनं पुरतोऽल्लमस्य || १७४ || पृ० १७३) वने मायां प्रति प्रभोरुक्तिः | येनापि केन विधिना परमेश्वरस्य पूजा फलिष्यति कृताखिलकामितार्थान् | इत्यादिसूक्तिरनृताऽभवद्य नूनं येनाहमर्चितवती शिवमेव मासं || १७५ || भक्त्या समर्प्य सकलं मधुकेश्वरस्य संप्रार्थ्य पूजितवती तव भावबन्धं | नित्यं स दैवतगुरुर्हृदयेऽनुकम्पामुत्सृज्य खेदयति मामहहा कथं स्यात् || १७६ || श्रुत्वैतदल्लमविभुः प्रहसन् बभाषे किं निंदयाऽद्रिधनुषः फणिभूषणस्य | ये पूजयन्ति नियमेन जितारिवर्गास्तेषां ददाति गिरिशः परिपूर्णसौख्यं || १७७ || ये तामसेन हृदयेन निजेच्छयैव शास्त्रोपदेशरहिताः शिवमर्चयन्ति | तेनांगहीनभजनेन न लब्धकामा निंदंति दैवतगुरुं भुवि पामरास्ते || १७८ || सौवर्णमेतदपमुद्रितमित्यभिज्ञेनोक्ते वृथा कलहकृत्किमु साधयेत्तत् | माये तथा त्वमपि मामथ वा महेशं निंद त्वया किमिह साध्यमबुद्धतत्वे || १७९ || पृ० १७४) का त्वं कुतर्कजटिले मम संगतिस्ते वैराग्यभाग्यपरमार्थनिधेः क्व योग्या | गच्छ त्वमात्मनगरीमटवीं क्व वाऽथ कोऽयं सुनिश्चितमतेरभिमान एषः || १८० || श्रुत्वा तदुक्तमथ सा मनसाऽतिखिन्ना कामातुरा सबलमात्मभुवं विनिंद्य | निःश्वस्य शश्वदुरगीव निरुद्धवीर्या पर्याकुला निजसखीहृदये पपात || १८१ || तप्तामिवार्ककिरणैः कुमुदश्रियं तां दृष्ट्वा सखीं स्मरशरज्वरतापखिन्नां | वाचा सुधामधुरया विमला रसज्ञा प्राहाल्लमप्रभुमणिं प्रणतार्तिनाशं || १८२ || आधार सर्वजगतां भजतां शरण्य सर्वज्ञ सद्गुण षडूर्मिकथातिदूर | सत्यात्मक त्रिमलसंक्षय सर्वसाक्षिन् विज्ञापयामि कृपया मयि पालयेमां || १८३ || माया पुरा करुणया परिपाल्य पश्चात्त्यक्ताधुना कथय जीवति सा कथं नु | ग्रामोऽथ वा भवतु ते निलयोऽटवी वा तत्रैव तावकपदं श्रयतामियन्नः || १८४ || पृ० १७५) वने विमलां प्रति प्रभुराजस्योक्तिः | यद्वा कृपां समवलंब्य महानुभाव मायां पुनर्बनवसीं नगरी समेत्य | आच्छाद्य सर्वमनुगृह्य दिनानि कानि यात्रां करोतु भगवानथ को नु दोषः || १८५ || इत्थं कृतांजलिपुटा विनयेन नम्रा विज्ञापनां विनुतिपूर्वकमाचचार | तामल्लमोऽपि विमलां निजतत्त्ववेत्रीं प्राह स्मिताधरपुटः प्रभुसार्वभौमः || १८६ || सत्यापयेत्यभिहिते भुवि कूटवादान् शक्नोति को नु जगति व्यवहर्तुमेतैः | मायां भजेति कथिते शिवयोगिनस्तामस्मादृशास्तदहिताः कथमाश्रयन्ते || १८७ || आतंचनेन दधितां पय एव याति नो जातु याति हि पयः कपटोक्तिजालैः | चापल्यमेति विषयेष्वबुधो न विद्वान् सम्यग्विचार्य विरमस्व तमःप्रबोधात् || १८८ || इत्यल्लमस्य वचनं विमला निशम्य भूयस्तमाह भवता कृपया गृहीता | प्रागेव तेन सुकृतेन तवैव योग्या यत्स्पर्शवेधिखचितं कनकायतेऽयः || १८९ || पृ० १७६) तामल्लमोऽथ वचनं जगृहे त्वदुक्तं सत्यं तथापि न हि लोष्टमहो सुवर्णं | मानुष्यमेत्य परमार्थपदं न किंचिद्या वेत्ति सैव खलु लोष्टसमांतरं न || १९० || इत्यल्लमे हृदि निरस्य वदत्यथैषा निश्चित्य तस्य परमार्थविरागभावं | भूयस्तमाह विमला विनयेन सख्या दुर्मानभंगभयमात्मनि सूचयन्ती || १९१ || निर्दोष सन्मुनिमनोहर भक्तपोष विज्ञानसागर कृपानिलयाऽल्लमार्य | मायां मम प्रियसखीं यदि न त्यजेथाः वाग्वैखरी न हि रुचिष्यति हैमवत्याः || १९२ || हेमादिशून्य भवतः किमियं जुगुप्सा देवः शिवोऽपि शिवया सुखकेलिमेतु | दोषो न चायमकलंकशशांककीर्तेस्संतोषणं हि शिवयोस्तव मुख्यकृत्यं || १९३ || स्त्रीपुंसयोर्यदि जयापजये प्रतिज्ञा तत्र स्त्रियं विजयमाकलयन् हि धुर्यः | शंभोर्न हैन्यमपि किंचिदनेन विद्वन्नालोच्य पश्य मनसेत्यथ तां स ऊचे || १९४ || पृ० १७७) वने विमलां प्रति प्रभूक्तमायागुणदूषणम् | ज्ञातं मयाऽद्य विमले हृदये त्वदुक्तं स्याद्वा तथा हृदि विरागघने पूराऽस्याः | मायारतिं हि चकमे विषयाभिलाषान्नो नित्यसौख्यपदवीमविवेकनिम्ना || १९५ || माया तमःपरिणता किल तामसीयं बीजं यदीयमवनौ निहितं स वृक्षः | स्वप्नेऽपि सा विषयवासनयैव भुंक्ते स्वात्मोचितं तनुसुखं परमार्थ एषः || १९६ || सत्यं ब्रवीमि जलधौ सकलांबु सौधं मेरोः शिखाः क्षितितलं परितो लताभाः || सर्वे द्रुमा यदि च कल्पमहीरुहाः स्युर्माया तथाऽपि न लभेत निजात्मबोधं || १९७ || साऽऽहाल्लमोक्तममृतं श्रवणेन पीत्वा देवस्य चित्तमथ भाग्यबलं वधूट्याः | को वेत्ति मादृशजनाः किमु भाजनानि युष्मान्पुनः पुनरनात्तभयाः प्रवक्तुं || १९८ || इत्यंघ्रिपद्मयुगले निटिलं निधाय भक्त्या प्रणम्य विरतां विमलां प्रसाद्य | मायां विलोक्य हृदयं तदनादरेण कर्तुं निरीहमिदमाह विभुश्चिदात्मा || १९९ || पृ० १७८) क्वांधं तमः क्व च रविः क्व च कामदर्पः क्वात्मा परोक्षजनिका परतत्वचिंता | क्वाधः स्थितं क्षितितलं क्व च नाकपृष्ठं क्व त्वं क्व निर्मलशिवाद्वयबोधवृत्तिः || २०० || तत्प्राप्तये समुचितं पदमाशु याहीत्युक्ताल्लमेन सुदती हृदि दह्यमाना | आहो मयाखिलजगद्विदितं मिलित्वा बह्व्यो निशाः क्व न गमिष्यसि चेत्युवाच || २०१ || स्वप्ने मयाऽपि बहुशो रतिकेलिकासु संक्रीडितोऽसि हृदयं तव संश्रिताऽस्मि | त्यक्त्वाऽद्य मां तव गतस्य व्यथा कथंचिद्भ्रांतिर्न यास्यति सदेत्युदितो जगाद || २०२ || स्वप्ने त्वमाहितविषाहिरदालिदष्टा खेदेन तत्र रुदती प्रतिबुध्य पश्चात् | भूयोऽपि रोदिषि यदि त्वदवाप्तकामो भ्रान्त्या चलामि न हि चेन्मम नापवादः || २०३ || त्वं मोहपाशविवशा सुरतभ्रमेण कष्टं गता किल वृथैव विनावलंबं | पृ० १७९) वने हठाद् भाषन्तीं मायां प्रति प्रभोरुक्तिः | निःसंगनिस्पृहतया मयि निर्विकारे किं नावबुध्यसि तदा मदनाकुलत्वं || २०४ || तस्मात्कुचेष्टितवचोभिरलं तवेति प्रोक्ताऽल्लमेन तरुणी तमुपेत्य माया | आहेदमद्भुतपदैः कृतकायमानस्त्वं यातु काम इव भासि कुतोऽपि कामं || २०५ || त्वां नोत्सृजामि शपथं कलये बलाद्वा संगृह्य यामि नगरं मृतिरंततो वा | प्रख्यातिरस्तु भुवि शैलसुताप्रतिज्ञा निर्वाहमेतु न हि चेदहमंगना न || २०६ || इत्थं विकत्थनवचः प्रभुराकलयय प्रोचे प्रहस्य नयनेन भवद्गृहे प्राक् | आलिंगनाय मदनातुरया त्वया मे गात्रं गृहीतमगृहीतमहो न वेत्सि || २०७ || अंगांगसंगतिमपेक्ष्य चिरं गलंत्या कामांधया कलितमप्यणु वा मदंगं | हस्तांघ्रिलिंगमथवाऽधरवत्सकंठं नास्पृष्टमित्यह ह वेत्सि कुतो भ्रमोऽयं || २०८ || गच्छाश्हु गेहमिति तद्वचनं निशम्य मायाऽक्षिसंज्ञितसखीनिवहैः सहैनं | मौर्ख्यादियेष निखिलात्मगतं गृहीतुं श्रीमानदृश्यपदवीं प्रययौ स देवः || २०९ || पृ० १८०) इति सकलमुनींद्राः श्रावितं वः समस्तं प्रभुचरितमविद्याकर्मनिर्मूलनाढ्यं | पठति परमभक्त्या यः पुमान् दोषदूरः स भजति परतत्वं सर्वसाम्राज्यसौख्यं || २१० || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां विमलागमनतत्कृतप्रभुमहिमानुवर्णनतदीयलीलावतारकथनमायापराज् अयप्रतिपादनगतिर्नाम सप्तमोऽध्यायः || पृ० १८१) वने विलपन्त्याः सुताया अन्तिकं पित्रोरागमनम् | || श्रीनंदिकेश्वराय नमः || अष्टमोऽध्यायः || सूत उवाच- सिद्धवीरगुरुभक्तिरसार्द्रा अल्लमप्रभुकृपाजितमायाः | आदरेण मुनयः प्रभुलीला श्रूयतां प्रमथसंततिगुप्ता || १ || अल्लमेऽन्तर्हिते माया शोकाब्धौ प्रविमज्जती | आलोक्य विमलां प्राह खिन्ना गद्गदितं वचः || २ || कथं यास्यामि विमले पार्वत्या अहमंतिकं | सा मामन्वीक्ष्य विफलां कथं यातु शिवान्तिकं || ३ || अहो कष्टमहो कष्टं प्रतिज्ञातं वृथा गतं | हसिष्यंति सभां मध्ये सर्वे सामाजिकाश्च मां || ४ || इत्युक्त्वाऽऽत्मनि खेदेन विलपन्ती सखीजनैः | मुहुर्मुहुर्निःश्वसन्ती पपात भुवि मूर्च्छिता || ५ || अथ राजा सुतां द्रष्टुं ममकारो बलैः सह | आगत्य वनमन्विष्य कुत्रचित्तां ददर्श ह || ६ || सखीभिः सह तां क्लान्तां चिंताक्रान्तां सुतां तदा | दृष्ट्वा तत्पितरौ खिन्नौ समीपं प्रापतुर्द्विजाः || ७ || पृ० १८२) हस्ताभ्यां तां समालिंग्य प्राहतुर्मोहिनीनृपौ | चिंतां त्यज सरोजाक्षि चित्तविभ्रमणं कुतः || ८ || मंडलाधिपतेः पुत्रे त्वामद्योद्वोढुमीच्छति | अनुसृत्याटवीं प्राप्ता कथं मार्दलिकं सुते || ९ || अहो कुमुदपत्राक्षि दुरवस्थामिमां कथं | अनुभावयते सोऽयं शिवस्त्वां बत निर्घृणः || १० || अर्धरात्रे समागत्य माता तव मनस्विनी | बोधयामास तन्वंगि कथं न श्रुतवत्यसि || ११ || अन्यमूर्धाभिषिक्तानामहं भर्तेति विश्रुतः | तादृशं मामनादृत्य कथं वैयात्यमागता || १२ || सांप्रदायिकमर्यादां कथं वा त्यक्तुमुद्यता | कथं साहसिका पित्रोराज्ञामुल्लंघितुं क्षमा || १३ || किमनेन स्थितस्यैव चिंतनीया गतिः किल | गताम्बुसेतुबन्धोक्तन्यायेन किमतः परं || १४ || पृ० १८३) वने मोहिनीराज्ञोः समक्षं विमलामाययोर्भूमेस्स्वर्गगमनम् | मयैष क्षमितो मन्तुः शीघ्रमुत्तिष्ठ बालिके | पल्यंकिकां समारुह्य गम्यतां मंदिरं प्रति || १५ || इत्युक्तवन्तं राजानमवलोक्य शुभानना | विमला प्रौढया वाचा विस्पष्टमिदमब्रवीत् || १६ || त्यज राजन् सुताभ्रान्तिं मायैषा दुहितुर्गिरेः | सन्निधौ देवदेवस्य प्रतिज्ञामतनोत्किल || १७ || मदीयहावभावाद्यैरल्लमप्रभुवल्लभं | वशयित्वा हरिष्यामीत्यद्रींद्रसुतया समं || १८ || बहुधा वंचितोऽप्येष प्रभुः सर्वजगन्मयः | निर्जित्य गतवान् मायां प्रतिज्ञाऽस्या हताऽमुना || १९ || कैलासमावां गच्छावः कार्यं नास्ति महीतले | राजन्विषादं संत्यज्य नगरीं गच्छ मा चिरं || २० || इति नृपमथ पत्नीमीरितैः सांत्वयित्वा निजनियममहिम्ना निर्गते भूमिमार्गात् | सुरपथि विमलेयं सुंदरी साऽपि माया क्षणमुपरि मिलित्वा जग्मतुः शंभुशैलं || २१ || राजाऽथ पत्नीसहितो महार्त्या क्लिश्नन्वदन्हा बत हा बतेति | पृ० १८४) भूमौ पतन्मूर्ध्नि रजो निषिंचन् लुठन्रुदन् पुत्रि कुतो गतेति || २२ || क्रुशंस्तपन्नाः किमिति प्रशुष्यन् भुग्नोभवन्नात्मनि वेपमानः | स्खलञ्छ्वसन् स्थातुमशक्नुवानश्चिखेद पुत्रीवीरहेण विप्राः || २३ || तच्चारुता तत्पटुता विलासास्ते वा कथं स्युर्भुवि गोचरा नः | कथं नु विस्मर्तुमिमान्क्षमाः स्मः स्त्रिया सहेत्थं विललाप राजा || २४ || तदा गुरुस्तस्य समेत्य तूर्णं श्रीमानहंकार इति प्रसिद्धः | विवेकबोधं कृतवानहो किं वृथाऽऽत्मखेदेन गतां प्रतीति || २५ || आज्ञां शिवस्याखिलवल्लभस्य विलंघितुं कः प्रभुरत्र जन्तुः | मायाऽस्मदीये सदने ह्युषित्वा भूयो गता केन च कारणेन || २६ || जन्मादि तस्याश्चरितं विचित्रं प्रत्यक्षमस्माकममानुषं तत् | एतावदेवर्तमियं न पुत्री श्रुत्वाऽप्यबुद्धो विमलोदितं किं || २७ || पृ० १८५) वने ममकाराय अहंकारगुरूक्तराजनीतिः | अतो न दुःखं भज राजमौले त्वया हि नीतिर्न विचालितासीत् | अन्वेषणार्थं वनमद्य यातं यतो न चेद्भ्रश्यतु नीतिमार्गः || २८ || प्रभोस्तिरोधानमवेक्ष्य माया स्वयं शरीरेण सहैव यायात् | जगत्स्विदं संशयकारणं स्याद्विटेन नीता नृपपुत्रिकेति || २९ || इतोऽपि नीतिर्नविचालनीया त्वया प्रवेश्या ननु राजधानी | पुनश्च नो यास्यसि ता यदि त्वं मनस्सु नृर्णां किल संशयः स्यात् || ३० || राजा हि सर्वत्र पिता च माता राजा गुरुर्बंधुजनः प्रजानां | दुष्टान्सदा दंडयितुं च शिष्टान् जागर्ति यः पालयितुं स राजा || ३१ || यो वा निरर्थं व्यसनाभिषंगी धर्म्यात्प्रजाः पालयितुं न शक्तः | संत्यज्य तं सर्वजनाः प्रयांति धर्मार्थयुक्तान्यनृपालराज्यं || ३२ || अतोऽस्मदीया भवता वियुक्ताः पुरोहितामात्यपुरोगमाश्च | सर्वेऽपि यास्यंति नृपालमन्यं राज्यं च नश्येत्त्वयि संकटस्थे || ३३ || पृ० १८६) इति चित्तं समाधाय नृपस्याहंक्रियाह्वयः | पुरं प्रापयय मोहिन्या निजास्थाने न्यवेशयत् || ३४ || ममकारोऽपि भूपालो मोहिन्या सह लीलया | पालयन्नखिलं राज्यं सुखेनोवास भूसुराः || ३५ || तत्र सा विमला गत्वा माया च भुवनेश्वरीं | तत्पादांबुरुहद्वंद्वे शिरः सांजलि चक्रतुः || ३६ || अथ मायां गिरिसुता लिखन्तीमवनौ शिरः | अधःकृत्य स्थितां दृष्ट्वा मेने व्यर्थीकृतक्रियां || ३७ || मत्वाऽल्लमं जेतुमशक्यमंबाप्युल्लासहीना हृदि निःश्वसन्ती | पत्युः सभां गन्तुमवाप्तलज्जा सेहे न गेहेऽपि तिरोहितेव || ३८ || श्रुत्वा वृत्तान्तमेतत्पुररिपुरपि तत्पार्वतीमंदिरान्तः- शालामभ्येत्य लीलावपुरथ कृपया प्रीणयन्सान्त्ववादैः | भूयोऽप्यस्यास्त्वहंतामपि शिथिलयितुं ख्यापयन्नल्लमस्य प्रज्ञामज्ञानहर्तुः सकलसुरगुरोरित्थमार्यां बभाषे || ३९ || पृ० १८७) अंतःपुरे गौरीशंकरयोरुक्तिप्रत्युक्तिः | अशनिशतमपि स्याच्छक्यमुद्भिद्य पक्तुं गरलभृदपि घोरः शक्यते वा गृहीतुं | अयि सुनिशितदंष्ट्रोद्घाट्यते वापि मृत्योर्विकलयितुमशक्यं गौरि चेतोऽल्लमस्य || ४० || क्व माया क्व प्रभोर्धैर्यमविमृश्य कृतं त्वया | तथापि मानसे चिन्तां परित्यज धरात्मजे || ४१ || श्रुत्वा पत्युर्वचः प्रोचे किंचिल्लज्जानतानना | स्त्रीस्वभावाच्छलोक्त्येव गौरी गिरिवरात्मजा || ४२ || प्रेषितां यन्मया मायां मन्मयीमवनीतलं | त्वमल्लमतया स्थित्वा जितवानसि भो विभो || ४३ || प्रतिज्ञातं निरूढं ते निर्जिताऽस्मि त्वयाप्यहं | इति ब्रुवाणां तामीशोऽप्यभिमानितयाऽब्रवीत् || ४४ || त्वदीयं तामसगुणं स्त्रियं कृत्वा महीं प्रति | प्रेषयंत्या त्वयैव त्वं निर्जिताऽसि वृथा श्रमात् || ४५ || सहजानंदसौंदर्यसर्वस्वनिधिमल्लमं | मनुष्यमात्रं विज्ञाय मायां प्रेषितवत्यहो || ४६ || पृ० १८८) प्रभोर्निरंजनस्याग्रे स्थातुं वा शक्नुयात्कथं | मायेयं मनुजस्येव किंचिज्ज्ञस्य जडात्मिका || ४७ || नास्य कायगुणाः सन्ति सर्वज्ञस्य महात्मनः | न चेंद्रियार्थसंबंधो न संकल्पादिकाः क्रियाः || ४८ || अविज्ञाय चिदात्मानमल्लमं सर्वसाक्षिणं | कृतो किंचित्करो मोहाज्जेष्यामीति दुराग्रहः || ४९ || एवं ब्रुवति देवेशे भूयो भूयो जुगुप्सिता | देवी विभुमुवाचेत्थं किं ताडयसि वाक्शरैः || ५० || छित्वा नासां तदुपरि दातव्यं किं नु दर्पणं | अलं मदपराधानां गणनेन कियत्यहं || ५१ || कारुण्यांभोनिधे शंभो क्षांत्या मां परिपालय | इति विज्ञापितो देवो जगादांबां शुचिस्मितः || ५२ || सुस्थिरा भव कल्याणि चिन्तां नैतावता कुरु | पृ० १८९) शिवोक्त्या पार्वतीप्रेषितसात्विककलावतारः | यथा कथं चित् त्वद्दैन्यं निवारयतु स प्रभुः || ५३ || तच्छ्रुत्वा पार्वती देवी दंडवत् प्रणिपत्य सा | कथं निवृत्तदैन्या स्यामिति संप्रार्थितोऽब्रवीत् || ५४ || सात्विकी निर्मला देवी मदभिन्ना चिदात्मिका | ध्येया योगिहृदब्जेषु या कला त्वयि वर्तते || ५५ || तां कर्मरहितां कृत्वा भक्तिवैराग्यनिर्भरां | स्त्रीरूपां प्रेषय भुवं तस्या वश्यो भवेत्प्रभुः || ५६ || यत्र भक्तिः प्रभुस्तत्र भक्तिः सत्वे च निर्मले | अतस्त्वत्सात्त्विककलामनुगृह्णाति स प्रभुः || ५७ || निजस्वरूपं कृपया दर्शयित्वा महान्प्रभुः | आह्लादयिष्यति चिरं भवत्याः सात्विकीं कलां || ५८ || इत्युक्ता सा महादेवी प्रसादोऽयं महानिति | प्रेषयामास धरणीं स्वकीयां सात्विकीं कलां || ५९ || तदानंदभरादम्बा पुषोषांगानि निर्भरं | तां दृष्ट्वा वृषभेशान ईशानं तावदब्रवीत् || ६० || एतावत्किमियं गौरी खिन्नांगेषु कृशाऽभवत् | अधुना किं प्रहृष्टात्मा पुपोषांगानि सर्वतः || ६१ || पृ० १९०) वृषभेंद्रवचः श्रुत्वा तात्पर्यं चावगाह्य सः | महात्माऽयमिति ज्ञात्वा सर्वेषां पुरतोऽब्रवीत् || ६२ || महात्मन् वृषभश्रेष्ठ कल्याणगुणभाजन | त्वयाऽस्ति समता कस्य यतस्त्वं समताश्रयः || ६३ || समर्थस्त्वं जगद्भर्तुं भर्तुं मामधिको यतः | इति पाठकवद्देवस्तुष्टाव वृषभेश्वरं || ६४ || श्रुत्वा सामाजिकाः केचिन्निनिंदुस्तमसूयया | श्रुत्वोपालंभवाक्यानि ताटस्थ्यं जगृहे वृषः || ६५ || ततोऽप्यतीव हृष्टात्मा स्मरारिः सद्गुणप्रियः | बहुमान्यावलोक्याऽथ निंदकांस्तानुवाच ह || ६६ || युष्माभिरीर्ष्याविवशैः कृतानि श्रुत्वाप्यसौ दूषणभाषणानि | मुक्ताफलं छन्नमिवाध्युदास्ते मानेन किं वा न वदत्यहो वः || ६७ || महामुनीनामपि शान्तिरेषा न विद्यते तावदयं हि धन्यः | पृ० १९१) भूमाववताराय नंदिने शंकर वचनम् | इतीश्वरस्तानुपदिश्य धर्मस्वरूपमाहूय वृषेन्द्रमाह || ६८ || नंदिन्महानंदकरस्त्वमेषां वृंदारकाणामपि वंदनीयः | मंदाधिकारेण कलौ मनुष्या वंदारुतां मत्पदयोस्त्यजन्ति || ६९ || मानुष्यमुद्धर्तुमतो महीयान् मन्मूलमूर्तिः परशंभुरेव | सुज्ञानदेव्यां निरहंक्रियस्य पुत्रो बभूवाल्लम इत्यमेयः || ७० || त्वं सत्वशुद्धोन्नतपुण्यराशिर्भक्तान्वये भूमितलेऽवतीर्य | वर्तस्व तत्रानुभवैकगोष्ठ्या द्राक् सावधानोऽप्यनवद्यभक्त्या || ७१ || तत्राल्लमस्त्वन्निकटं समेत्य तुभ्यं स्वयं भक्त्यवधानमार्गं | रहस्यविज्ञानमपि प्रसाद्य चित्तं समाधास्यति तावकीनं || ७२ || तवात्मनश्चाथ निवार्य भेदं कृतार्थयिष्यत्यचिरात्प्रभुस्त्वां | भवान् कृतार्थोऽपि जगत्समग्रं कृतार्थयेति स्वयमादिदेश || ७३ || शिवाज्ञयोमित्यृषभेश्वरेऽस्मिन्नंतर्हितेऽथात्मगणान्समीक्ष्य | उवाच शंभुः प्रभुनंदिनोर्या भविष्यति स्वानुभवैकगोष्ठी || ७४ || पृ० १९२) तां यूयमप्याश्ववधार्य मत्या चित्तेषु ये संशयशंकवस्तान् | उन्मूल्य विज्ञानसुनिश्चितार्था भक्तिं विधत्त प्रथितां पृथिव्यां || ७५ || इति किल गणनाथानीश्वरस्तत्र मुख्यान्सकरुणमुपदिश्यान्तःपुरं प्राप गौर्याः | प्रमथकुलपतीनां सप्ततिः सप्तशत्या सह धरणिमथागादीश्वराज्ञा ह्यलंघ्या || ७६ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां मायानिर्याणशिवकृतगौरीसमाधानचित्कलावतारलीलाप्रेरणवृषभेश्व् अरमहिमानुवर्णनतदवतारप्रारंभसूचनप्रमथगणभूलोकसमागमनप्र् अतिपादनगतिर्नामाष्टमोऽध्यायः || इति प्रथमभागः समाप्तः || ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ७ वा (भविष्यत्पुराणांतर्गत) प्रभुलिंगलीला भाग २ रा हा (महाराष्ट्रतात्पर्यासह) वेदमूर्ति मणूरमठाध्यक्ष मल्लिकार्जुनशास्त्री यांनीं पुणे येथें रावजी श्रीधर गोंधलेकर यांचे जगद्धितेच्छु छापखान्यांत छापवून सोलापूर येथें प्रसिद्ध केला | शके १८२५, सन १९०३ पृ० १) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायां द्वितीयभागप्रारंभः | अथ नवमोऽध्यायः | सूत उवाच वीरेश्वरांघ्रिभजनाभिरता मुनींद्रास्सारं कथासमुदये प्रमथावतारं || व्यासोपदिष्टमधिकृत्य वदामि यूयं श्रुण्वंतु भक्तरसिकाः प्रभुलिंगलीलां || १ || आज्ञयाथ गिरिजाधिपतेस्ते प्रज्ञया परमया प्रमथेंद्राः || वीरशैवविमलात्मसु जातास्तत्र तत्र पृथिवीमधिरूढाः || २ || विजयते वसुधारमणीशिरोमणिवदुज्वलसालसमुन्नता || उडुतटीनगरी नगरीतिभिः कनकसौधगृहैरुपशोभिता || ३ || तस्यामगण्यगुणसन्मणिरोहणाद्रिर्नाम्ना बभूव विमलो विमलस्वभावः || भार्या च तस्य सुमतिः पतिदेवतानामग्रेगणेयमहिमा बहुमाननीया || ४ || सा सात्विकी गिरिजया प्रहिता कलेमामात्मोदयोचितशुभाचरितां विचार्य || पृ० २) तद्गर्भशौक्तिकपुटे पिहिताथ जज्ञे मुक्तेव मुक्तिदमहेश्वरभक्तिसांद्रा || ५ || तां चित्कलामिव विलोक्य विलोकनीयां तद्बंधुवृंदमहहा गिरिजैव साक्षात् || सत्वं शरीरमनुगृह्य धरातलेऽस्मिऋन्नाविर्बभूव शिशुरित्यभितो ननंद || ६ || दीक्षाभिषेकसमयोचितपट्टिकावत्फाले पिता विरचयन् सितभूतिरेखां | तस्या बबंध गलपीठतटेऽथ लिंगं हस्ते शिरस्यपि समर्प्य समर्चनीयं || ७ || सुज्ञानभक्तिपरिपूर्णमना भव त्वमित्याशिषा सह रहस्युपदिश्य कर्णे || पंचाक्षरं परमपावनमादरेण माहेश्वरानुपचचार महानुभावः || ८ || कला महेशभामिन्यास्सात्विकीयमिति स्वयं || महादेवीति नामास्या विदधे विबुधोत्तमः || ९ || नामोचितार्यता हृद्या विद्येव विनयान्विता || आरूढभक्तिः शुशुभे सारूढा संप्रदायिनां || १० || अन्ये प्रमथनाथास्ते तत्र तत्र स्थले स्थले || पृ० ३) श्रीसिद्धराममाचार्ययोरवतारकथनम् | भक्तान्वयेषु संजाता भक्तिनिष्ठामधिष्ठिताः || ११ || नीरागा निर्मलाचारा निर्भया निरुपद्रवाः || न्यायसंपादितानर्थान् जंगमेभ्यः समर्पयन् || १२ || वर्णनीया धरास्थल्यां स्वर्णलाख्या महापुरी || स्वर्णगर्यधिका भाति पूर्णा सर्वसमृद्धिभिः || १३ || मुग्धाख्यो मुग्धभक्तोऽभूत्तत्रैको मुग्धया स्त्रिया || लिंगजंगमयोः कुर्वन्नाराधनमतंद्रितः || १४ || तस्यात्मजोऽभूत्प्रमथः प्रबुद्धः श्रीसिद्धरामाभिधया प्रसिद्धः || वृद्धोऽभवन्भक्तिविरक्तिबोधैः श्रद्धालुरुद्यच्छिवयोगतंत्रे || १५ || परिमलिकाह्वयनगरे हरभक्तकुलाग्रणीर्महाविद्वान् || मणिवालमाचय इति प्रथितः प्रमथः परापराभिज्ञः || १६ || परवादिमत्तदन्तिप्रकरमहासिंहबिरुदविख्यातः || वरमाहेश्वरपट्टाधीश्वर इत्येष विश्रुतो जयति || १७ || भविनामपि शिवभक्तिं सुविमलदृष्ट्या ददाति यः पुंसां || संशोध्य भक्तहृदयान्यवतीत्येतत्किमद्भुतं जगति || १८ || पृ० ४) शिवभक्तगणैः सततं शिवशास्त्रविचारमेव कुर्वाणः || शिवयोगी स विरेजे भुवि माचय एव माचयो विदुषां || १९ || कर्नाटदेशे नगरी मतल्लीवल्लीव गोशाखिनि भागवाटी || तस्यां प्रसिद्धो वसुधामरेंद्रो भक्ताग्रणीर्मादनमंत्रिनामा || २० || तस्योत्तमाचारवती वधूटी मादांबिका नाम पतिव्रताशीत् || तयोः समाराधयतोः सुतार्थं नंदीश्वरोऽभूत्तनयः प्रसन्नः || २१ || वर्षत्रयं गर्भगतस्स तस्यास्समाधिमास्थाय शिशुः ककुद्मान् || जज्ञेऽथ लोकत्रयरक्षणाय स्वर्भेरिकानिःस्वनपुष्पवर्षैः || २२ || उन्मील्य चक्षुर्मुकुलीकृतांगः शिशुर्न चांचल्यमवाप किंचित् || यदा तदाऽभ्येत्य तु संगमेशो दधौ तदंगे सहजेष्टलिंगं || २३ || स्वभक्तिसाम्राज्यमहाधिपत्ये पट्टाभिषेकं हृदयेन कुर्वन् || धृत्वा ललाटे भसितं सुदीप्तं नाम्नाथ चक्रे बसवं तमीशः || २४ || तन्मस्तके हस्ततलं निधाय मायां निरस्योपदिदेश कर्णे || पृ० ५) श्रीबसवराजस्य संगमेशकृतलिंगधारणदीक्षाकथनम् पंचाक्षरं सप्रणवं सतत्वं सकीलकं सार्थमथो महेशः || २५ || अंतर्धिमाप स्मरशासनोऽथ स्वान्तानि तत्रत्यवधूजनानां || उन्मीलितानीव निमीलितानि स्थित्वापि भूत्वाऽथ सुविस्मितानि || २६ || दयानिधिः शंकर एव साक्षादागत्य पुत्रस्य महाद्भुतस्य || संजातमात्रस्य दधार लिंगं कंठे तदा क्वापि न दृष्टपूर्वं || २७ || अन्योन्यमेवं ब्रुवतीषु तासु स्त्रीषु क्षणेनैष शिशुः ककुद्मान् || विचालयामास करांघ्रिमुख्यान्यंगान्यथोन्मीलितचक्षुरासीत् || २८ || पितापि संस्कृत्य सुतेष्टिनाम निष्क्रान्तिभक्ताशनजालकैस्तं || तत्तत्क्रियोक्तोचितकाल एव पुत्रायितं नंदिनमेव मेने || २९ || महेशदत्तं बसवाभिधानमाकर्ण्य पित्रापि तथैव चक्रे || दिने दिने सोपि कुमारचंद्रश्चंद्रः कलावानिव वृद्धिमाप || ३० || अध्यापकाध्येतृसमाजमेत्य सकृत्तदीयश्रवणेन बालः || समस्तवेदागमशास्त्रजालं गृहीतवान् सार्थपदं सलीलं || ३१ || पृ० ६) शास्त्रागमानामथ वेदाराशेर्वेदांतराशेरपि निश्चयेन || तात्पर्यतः सार बभुत्सुतायां भक्तिर्महेशे परमेति दध्यौ || ३२ || अथ गर्भाष्टमे काले दंपती हृष्टमानसौ || बसवस्योपनयनं कर्तुकामौ बभूवतुः || ३३ || तद्विज्ञायाऽथ बसवः पित्रा संवाद्य निस्पृहः || नागाम्बिकां स्वभगिनीं प्राह स्म स्वानुरागिणीं || ३४ || उपाध्यायो गुरुः स्वामी ममाचार्यश्च देशिकः || अल्लमप्रभुरेवैकः स हि मामुपनेष्यति || ३५ || ममोपनेता नास्त्यन्यः प्रभुं सर्वेश्वरं विना || गृहान्निष्क्रमणं योग्यमक्कास्माकं शिवात्मनां || ३६ || इत्युक्त्वाऽथ तया साकं बसवः स शिवोपमः || निष्क्रम्य मंदिरात्तूर्णं ययौ कर्पटिसंगमं || ३७ || तत्र श्रीसंगमेशस्य समाराधनतत्परः || भक्तैः कतिपयैः साकं न्यवसत्कान्यहान्ययं || ३८ || वृषभेंद्रं महेशाने प्रेषयत्यवनीं प्रति || ये वैरस्येन तत्रोचुर्विश्वासरहितं वचः || ३९ || तदा तत्प्रांतदेशेषु ते सर्वे परवादिनः || जाता बौद्धादिवंशेषु तत्रापि कलहोद्यताः || ४० || तेषु मुख्यतमो धूर्तो बीजलो नाम भूपतिः || पृ० ७) कल्याणपुरीम्प्रति बसवराजागमनकथनम् शशास कल्याणपुरं सर्वकल्याणकारणं || ४१ || तत्रालये महेशस्य शिलाशासनमुन्नतं || स्थापितं येन केनापि लिपिर्न ज्ञायतेऽद्भुता || ४२ || बीजलस्तां लिपिं दृष्ट्वा विभेदयितुमक्षमः || लिपिज्ञान् भूतले सर्वान्समाहूयाप्यदर्शयत् || ४३ || तैरप्यबुद्धस्तल्लिप्यां शिलायांबीजलो नृपः || भूयः प्रतिज्ञामकरोद्भेरीवादनपूर्वकं || ४४ || यो वा को वाऽद्भुतामेतां लिपिं वाचयति क्षितौ || स्वराज्याधिपतिर्भूयात्सप्रधानाग्रणीरिति || ४५ || बलदेवोऽथ तन्मंत्री वीरशैवान्वयोत्तमः || बसवस्याधिकां प्रज्ञां श्रुतवानतिथिव्रजैः || ४६ || राज्ञे विज्ञाप्य मंत्रींद्रो गत्वा कर्पटिसंगमं | बहुधा तं समाधाय ह्यानिनाय पुरं प्रति || ४७ || गीतवादित्रनृत्यादिवैभवैरागतं नृपः || प्रत्युज्जगाम बसवं माहेश्वरगणावृतं || ४८ || प्रापयय नगरीं स्वीयां राजा देवालये स्थितं || शासनं दर्शयित्वाऽस्मै वाचयेति व्यजिज्ञपत् || ४९ || पृ० ८) पपाठाऽभ्यस्तवत्तूर्णं बसवो दिव्यशासनं || अवगाह्यास्य तात्पर्यं राजा लेभे महानिधिं || ५० || धनानां दशकोटीनां लाभात्संतोष्य पार्थिवः || संप्रार्थ्य बसवं चक्रे मंत्रिपट्टाधिनायकं || ५१ || दंडनाथोऽस्य संप्रीतो बलदेवो नृपाज्ञया || गंगाम्बिकां सुतां तस्मै ददौ प्रार्थनपूर्वकं || ५२ || उद्वाह्य वीरशैवोक्तमार्गेण बसवेश्वरः || राज्ञः प्रार्थनया सर्वां वसुधां पालयन् स्थितः || ५३ || दृऽऽन्मात्रेण जगत्सर्वं सृजत्यवति हन्ति च || वोढुस्तस्य कियान्भारो भूखण्डवहने द्विजाः || ५४ || बाह्याभ्यन्तरतौल्येन समाधिं सर्वदा भजन् || कटाक्षानुगृहीतैः स्वैः पालयामास मेदिनीं || ५५ || माहेश्वरैरसंख्यातैर्नित्यं कृतशिवार्चनः || प्रसादान्नानि भुंजानो वीरशैवं व्यवर्धयत् || ५६ || भगिनी तस्य नागाम्बा बसवस्योत्तमाशया || तेनोपदिष्टमार्गेण शैवं धर्ममपालयत् || ५७ || पृ० ९) श्रीचन्नबसवाभ्युदयकथनम् | ब्रह्मचर्यव्रतपरा परवैराग्यनिर्भरा || परापरविभागज्ञा परमं शैवमाश्रयत् || ५८ || कदाचिद्बसवः श्रीमान् जंगमप्रवरैः सह || आराध्य बुभुजे भक्त्या प्रसादान्नं महेशितुः || ५९ || तद्भुक्तिकाले बसवस्य वक्त्रात्प्रसादशिक्थानि तु पंचषाणि || दैवात्पृथिव्यां चलितानि दृष्ट्वा नागाम्बिका निश्चलभक्तिनिष्ठा || ६० || स्वयं समुद्गृह्य शिवेच्छयैव संस्पर्शयंत्यंजलिनेक्षणे द्वे || भक्त्याऽवधानेन समाहितात्मा प्रसादबुद्धया बुभुजे कृशांगी || ६१ || तेनैव पुण्येन गृहीतगर्भा साक्षात्कृतेनाथ शिवेन तन्वी || निवृत्तसंदेहपदा यथार्हं च्छन्नाभिधं सा सुषुवे तनूजं || ६२ || स बालेवेश्वरचिह्नितानि वहन् शरीरे जगदद्भुतात्मा || तिरोदधे लौकिकरक्षणाय भूयस्ततछन्न इति प्रसिद्धः || ६३ || बसवोपमसौशील्यभक्तिज्ञानगुणोदयैः || स च्छन्नबसवो नाम्ना ख्यातो माहेश्वरोत्तमः || ६४ || अधीत्य सर्वशास्त्राणि सर्वान्वेदागमानपि || बसवादेव तच्छिष्यश्छन्नोऽभूद्दंडनायकः || ६५ || पृ० १०) षट्स्थलक्रमविज्ञानी समर्पणविधानवित् || सावधानलसद्भक्तिस्सर्वमंत्ररहस्यवित् || ६६ || अशेषशैवतंत्रार्थसिद्धान्तज्ञानपारगः || वेदांतशास्त्रं व्याचष्ट स्पष्टं शिष्टैरभिष्टुतः || ६७ || अधीत्य बुध्वाऽनुष्ठाय भक्तेभ्यः शास्त्रविस्तरं || संक्षिप्योपदिदेशैष सारमुद्धृत्य सर्वतः || ६८ || प्रतिभूर्भक्तरक्षार्थं भक्तो बसवयोगिनः || स च्छन्नबसवो रेजे प्रच्छन्न इह षण्मुखः || ६९ || प्रादुर्बभूव बसवस्य कुमाररत्नं रत्नाद्रिचापवरभक्तकिरीटरत्नं || तं संगमेश्वर इति प्रथितं पुपोष गंगांबिका शुभगुणा गुहमंबिकेव || ७० || लोके प्रसिद्धिमगमद्बसवो महेशः पाषाणपादपपशुत्वनिवृत्तयेऽस्य || चिंतामणिं मनसि कल्पतरुं कराब्जे गेहांगणे समवयत्सुरभिं तथेति || ७१ || पृ० ११) बसवशब्दनिर्वचनपूर्वकं तस्यवितरणवैचित्र्यकथनं | वस्वाख्ययाऽष्टवसवोऽष्टविभूतिनाथाः स्वर्णानि दिव्यमणयश्च भुवि प्रसिद्धाः || तान्वाति गंधयति गच्छति चेति नाम्नाप्यन्वर्थकेन वसुवो वबयोरभेदात् || ७२ || तस्माद्वसूनि सुबहूनि च यस्य सन्ति संकल्पमात्रबशगा मणयश्च सर्वे || भृत्या इवाष्टबसवो निधिदर्शने स्युस्तस्यार्थ्यभीष्टफलनाय कियान् हि भारः || ७३ || शंभुः समस्तजगदुद्धरणाय तस्मै संप्रेषणावसर एव धरां प्रति स्वं || ऐश्वर्यवीर्यनिजबोधविरागकीर्तिश्रीषट्कमेव भगवान्प्रददौ समग्रं || ७४ || राज्यं च बीजलनृपालमणेः समग्रं स्वायत्तमेव स तु भृत्यसमो बभूव || तस्मान्निरंतरमसावखिलार्थिदाता भक्त्या चकार गुरुजंगमलिंगपूजां || ७५ || विद्वत्कविद्विजभटावलियाचकानां यद्यत्सुवर्णमणिवस्त्रगजाश्ववृंदं || गोभूमिधान्यशयनासनगेहकन्यापल्यंकिकाप्रभृति तत्तदभीष्टमादात् || ७६ || नित्यं चरार्चनपरो निजयोगनिष्ठो निर्वाणमार्गनिरतो नियमव्रतस्थः || पृ० १२) निःसंगभक्तिभरितो निगमांतवेत्ता निर्मायिकान्तरसवो बसवो रराज || ७७ || भक्तौ विरक्तौ बसवः स एकः प्रसिद्ध इत्यम्बुधिवेष्टितोर्व्यां || श्रुत्वास्य कीर्तिं शिवयोगिवर्यास्संद्रष्टुकामाः समुपाययुस्तं || ७८ || बहिर्जनकरस्पृष्टभांडेष्वग्राह्यताधिया || विशेषनियमैर्युक्ता व्रतस्थाः केचिदागताः || ७९ || अदीक्षितगृहद्रव्यपाके विमुखतां गताः || मुख्यव्रतसमाचाराः केचिदाजग्मुरास्तिकाः || ८० || हस्तेन परपाकान्नमस्पृशन्तो दृढव्रताः || स्वहस्तपाकनिरतास्समाजग्मुः समेत्य तं || ८१ || भरितार्पणनिष्ठा ये भव्यशीला महोन्नताः || भक्त्या बसवमंत्रींद्रं द्रष्टुकामाः समाययुः || ८२ || आगलाच्छादनरताः सर्वांगाच्छादकाः परे || पादुकव्रतनिष्ठा ये घ्राणाच्छादनिकव्रताः || ८३ || दर्शनस्पर्शनालापैर्बहिर्जनपराऽऽन्मुखाः || सूर्यांशुदूषितांभोभिरनर्चनपराः परे || ८४ || पृ० १३) कल्याणंप्रत्यनेकदेशवास्तव्यवीरमाहेश्वरागमनकथनं | अकृष्टपच्यान्नरताः कृष्टपच्यपराऽऽन्मुखाः || स्वयमानीतपुष्पाद्यैः शिवार्चनरताः परे || ८५ || कृतकद्रुमसंजातपत्रपुष्पपराऽऽन्मुखाः || विना जंगमलिंगस्य पूजामनशनव्रताः || ८६ || एवभुक्तोपवासादिचांद्रायणपरायणाः || क्षीराहारा मिताहारा अष्टग्रासाशनाः परे || ८७ || अधः शयननिष्ठाश्च ब्रह्मचर्यव्रताः परे || अर्चनावधिजिह्वांबुगिलने विमुखाः परे || ८८ || विनार्चनांगमन्यत्र पानीयविमुखाः परे || तांबूलचंदनालेपस्रगादिविमुखाः परे || ८९ || शिखासूत्रादिरहिता लिंगैकनियताः परे || कालत्रयार्चकाः केचिच्चतुष्कालार्चकाः परे || ९० || षाट्कालिकार्चनरताः स्थिरार्चाविमुखाः परे || सर्वांगोद्धूलितसदाभसितव्रतवर्तिनः || ९१ || पृ० १४) केचित्सर्वस्वसमयसदाचारसमन्विताः || इष्टलिंगमनोनिष्ठा द्विस्त्रिरष्टविधार्चकाः || ९२ || अन्ये च शिवशास्त्रोक्तमहाव्रतपरायणाः || ते सर्वे बसवेशस्य मंदिरं द्रष्टुमागताः || ९३ || तांस्तान्समीक्ष्य संतुष्टो बसवो वसुवासवः || तत्तदर्हक्रमैर्न्यायादर्चयामास सादरं || ९४ || तत्कारितात्मसेवाभिर्हृष्टचित्ताः परस्परं || स्तुवन्तो बसवाधीशमाशीर्वचनपूर्वकं || ९५ || नीत्वा दिनानि कतिचिच्छास्त्रश्रवणतत्पराः || शिवानंदामृताम्भोधिमग्नास्तत्रैव संस्थिताः || ९६ || स्वस्वकार्याणि विज्ञाप्य केचिद्याचनतत्पराः || तद्दत्तममितद्रव्यमादाय स्वदिशं गताः || ९७ || निर्लज्जा निर्भया धूर्तास्तत्र ये विटजंगमाः || बहुद्रव्याणि याचन्ते तेषां संख्या न विद्यते || ९८ || वादार्थं तत्र ये याता बहवः परवादिनः || तान्सर्वानन्नपानाद्यैर्निवेश्य भवनेषु सः || ९९ || प्रत्यहं वादशालायामाह्वयन्नुचितासने || पृ० १५) बसवेशकृतपरवादिनिरसनकथनम् | बहूकृत्य स्वकीयैस्तान् वादयामास पंडितैः || १०० || स्वयं माध्यस्थ्यमास्थाय तत्परान् वा पृथऽऽन्नयान् || युक्तिमेव बहूचक्रे न तु वाग्जालमास्तिकाः || १०१ || वैदिकैरथ संवादे प्राप्ते समयमर्मवित् || कदाचित् स्वयमेवायं चक्रे वादमहोत्सवं || १०२ || मुखभंगं विधायान्ते न्यायेन परवादिनां || अद्यास्तु श्वः परश्वो वा विचार्योत्तरमीर्यतां || १०३ || इत्युक्त्वा तावदेतेषामन्नपानादि दापयन् || जितास्मो दीक्षयेत्यस्मानुक्तो भक्तांश्चकार तान् || १०४ || पंडितानामभीष्टार्थान् दत्वा शिवरतात्मनां || गजाश्वांदोलिकाछत्रचामरैः पर्यपूजयत् || १०५ || भक्तानाराध्य बसवो विनयेन विचक्षणः || ब्रुवंस्त्वदीयोऽहमिति स्वात्मार्पणपरोऽभवत् || १०६ || हृद्यहंकाररहितो मूर्तः शांतरसो यथा || शिवभक्तिमयं चक्रे जगत्स्थावरजंगमं || १०७ || तत्काले मनुजाः शिवैकनिरताः सर्वेऽपि मोक्षार्थिनः पृ० १६) कल्याणे तरवो यथा सुरभिलाः श्रीचंदनोन्मिश्रिताः || अन्ये चंदनतां भजन्ति वयमप्येवं प्रभोः संगते- र्मुक्तास्तत्कृपया भवेम कथमित्यन्तः सदा मेनिरे || १०८ | कदा वा कल्याणे कनकमणिसौधेऽल्लमविभुं वयं दृष्ट्वा सद्यः परमशिवसायुज्यपदवीं || भजेमेति स्वातीजलधरपयः शुक्तय इव प्रसादं वांच्छन्तः सकलशिवभक्तास्तदुषिताः || १०९ || इति सकलमुनींद्राः शौनकाद्या धरण्यां प्रमथजनिचरित्रं यन्मया सम्यगुक्तं || तदपगतरजस्का ये पठन्ति प्रभाते त इह जननमृत्यू नैव गच्छन्ति धन्याः || ११० || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां बसवादिप्रमथावतारवर्णनगतिर्नाम नवमोऽध्यायः || पृ० १७) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ दशमोऽध्यायः सूत उवाच- सिद्धवीरेश्वरस्वामिपादभक्तिपरायणाः || श्रुण्वन्तु मुनयः सर्वे प्रभुलीलां शुभावहां || १ || अथ तस्या महादेव्या अक्काया अखिलात्मनां || अंगानि बाल्यमुत्सृज्य क्रमाद्यौवनमाश्रयन् || २ || कोमले वयसि हेमलतांग्याः कामजिच्चरणभक्तिरिवासीत् || रामणीयकविनीलकचालिर्व्याममानमतिरिच्य सुदीर्घा || ३ || ईक्षितुं हरमिवाधिकहर्षादीक्षणे च सकलाननपूर्णे || अर्चितुं प्रमथनाथमिवास्तां तत्करौ विकसितोल्ललिताब्जे || ४ || युग्मसाम्यमिव बोधविरागौ जग्मतुः सपदि तत्कुचकुंभौ || ज्ञप्तिवृत्तिरिव साक्षिणि लक्ष्ये सौक्ष्म्यमाप युवतेरवलग्नं || ५ || पृ० १८) वर्धमानमभवद्गुरुभक्त्या सार्धमेव वनितोरुनितंबं || चित्तवृत्तिरिव चालनमस्याः शीघ्रतां पदगतिर्विससर्ज || ६ || यौवनेन पितरौ जितरंभांतामवेक्ष्य तनयां पतिरस्याः || रूपशीलसुगुणैरनुरूपं को नु वेति हृदि चिन्तयतः स्म || ७ || एकदा विजितकौशिकसंपत्कौशिकस्तदनुराडुडुतट्याः || आययौ मदगजोपरि राजा राजवीथिषु विहारपरः सन् || ८ || हेमवेत्रधरमागधवृंदैर्दण्डकोरुबिरुदावलिगद्यैः || स्तूयमानमभितः प्रभुमीक्षांचक्रिरे पुरजनाः परितस्तं || ९ || यावदेव विमलस्य सुताक्कां तं विलोकितुमिवेषददृश्या || वीथिमागतवती किल दैवात्तावदेव सुदतीं स ददर्श || १० || मन्मथोऽपि परमर्मविभेदी कौसुमेषुमधिपे समयुंक्त || भामिनीदृगिषुभिन्नशरीरे रन्ध्रमेव मृगयन्ति हि दुष्टाः || ११ || मूर्च्छितोऽथ नृपतिर्हृदये तां भावयन्मुहुरपि प्रतिबुद्धः || बाह्यमार्गमपसृज्य निवृत्तः स्वं गृहं प्रतिययौ स्मरवश्यः || १२ || तत्र कस्य दुहिता मम दृष्टा कामिनी मदनकल्पलतेव || पृ० १९) महादेवीमुद्वोढुमनःकौशिकस्य तद्विषयाप्तैस्सह जिज्ञासा | तां विचार्य कथयेति रहस्ये चारमाह नृपतिर्हृदयज्ञं || १३ || सोऽपि तत्र सुविचार्य नगर्यां भूय एव नृपतिं समुपेत्य || देव सा हरधरान्वयभर्तुर्नंदिनीति विमलस्य जगाद || १४ || अथ राजा विचार्यान्तः कथं साधयितुं क्षमा || सैषेत्याप्ततमैः साकं मंत्रयामास मंत्रिभिः || १५ || तैर्यद्यदुक्तं तत्सर्वं विचार्य प्रियवादिभिः || स्वयं सिद्धान्तयामास नीतिज्ञ इव भूपतिः || १६ || आनीयेत बलात्सा चेद्दृऽऽन्मनःप्रीतिपूर्वकं || न संगमिष्यते मां तद्रसभंगो भविष्यति || १७ || प्रजाश्च क्षोभमेष्यंति मर्यादां त्यक्तवान्नृपः || इत्यपख्यातिरपि मे वज्रलेपायते ध्रुवं || १८ || तस्मात्तत्पितरावर्थैरसंख्यातैरभीप्सितैः || प्रीणयित्वा यथान्यायं संग्राह्या कन्यकामणिः || १९ || इति निश्चित्य राजन्यैरप्युपश्लोक्य भूषितः || पृ० २०) असिक्नीराह्वयित्वाह सादरं समयोचितं || २० || हरधृद्विमलार्यस्य कन्यां कमललोचनां || मदीयां न्यायतः कर्तुं भारो हि भवतीर्गतः || २१ || साम्ना दानेन भेदेन चातुर्येणैव केवलं || स्त्रियो वशयितुं शक्या न दण्डेन कदाचन || २२ || इत्याज्ञप्य रसावेशात्तासां तद्गमनोचितं || ताम्बूलाम्बरभूषादि दापयामास भूपतिः || २३ || राजन्महाप्रसादोऽयमिति ता मुदिताननाः || जग्मुर्विलासवैखर्या हरधृद्विमलालयं || २४ || विमलेनाऽऽदृताः सत्यो यथोचितमथांगनाः || इष्टगोष्टीप्रसंगेन प्रीणयित्वा तमब्रुवन् || २५ || राजाऽस्माकं तव सुतां महादेवीसमाह्वयां || राज्यलक्ष्मीसमां कर्तुमस्मान्प्रेषयति स्म वः || २६ || रत्नहेमाम्बरग्रामगजाश्वादीनि भूरिशः || अभीष्टवस्तुजातानि युष्माकं दास्यति प्रभुः || २७ || यावत्पर्याप्तमतुलं यौतकं प्रार्थ्यते त्वया || ददाति तत्तदखिलमुदर्कश्च भविष्यति || २८ || पृ० २१) विमलस्य सन्निधावन्तःपुरचारिणीनांसंदेशनिरूपणम् | कृताभिषेकां त्वत्पुत्रीं सर्वालंकारशोभितां || सर्वस्वकर्त्रीं कृत्वांऽके स्थापयिष्यत्यसंशयः || २९ || सर्वराज्याधिपत्येऽस्य प्राधान्यं भज सांप्रतं || मण्डलाधीश्वरायाऽद्य दत्वा पुत्रीं महामते || ३० || इत्युक्तो विमलस्ताभिर्हसित्वा पुनरब्रवीत् || अलं राज्ञे सुतां दत्वा कुलं त्यक्तुमनुत्तमं || ३१ || कथमाजन्मशुद्धानां प्रमथानां कुलोद्भवः || बहिर्जनवदर्थार्थी राज्ञे दास्यामि नंदिनीं || ३२ || विक्रीय जननीं दासीं क्रीणन्निव कथं कुलं || विहत्य धनमाशासे विद्वानपि दुराशयः || ३३ || विक्रीयेत प्रभोश्चित्तं यदि त्यक्षामि नीवृतं || विपुला पृथिवी देशो विशालोऽस्ति शिवात्मनां || ३४ || विमलस्य वचः श्रुत्वा विहस्य सुदतीजनाः || सुमतीं तत्प्रियां दृष्ट्वा वचनं चेदमब्रुवन् || ३५ || आर्ये नृपालतिलकाय सुतां समर्प्य संप्राप्तभाग्यविभवो विहरन् सुखेन || पृ० २२) स्थातुं न वांच्छति विसृज्य समृद्धिमेतां कुत्राप्यसौ जिगमिषत्यथ को विवेकः || ३६ || राजा रिरंसत इहैव बलाद्यदीमां को निग्रहीतुमिममार्यतमं समर्थः || ज्ञात्वेति संमततया स्वयमेव तस्मै नो दातुमिच्छति पतिस्तव को विवेकः || ३७ || इति प्रकारैर्बहुभिः प्रजल्पिता वधूरिमौ वीक्ष्य शिवः सतां गुरुः || स सर्वसाक्षीति तदा तदुत्तरं प्रदाय किं वा कुरुतामिति स्थितौ || ३८ || अथ स्त्रियस्ताः पुनराहुरात्मजां समाह्वय स्वां यदि साऽस्मदुक्तिभिः || समाहिता चेदनुमन्यतां त्वया न चेद्गमिष्याम इमा यथागतं || ३९ || निशम्य वाचं विमलस्तथेति तास्सुतामनःप्रीतिकरो यतःस्वयं || तदंतिकं प्रेषयति स्म सांत्वयन्निदं रहस्येव विचार्यतामिति || ४० || अथ किमिति ततस्तास्तद्गृहं प्राप्य देवीं मृदुलमथुरवाचा प्रोचुरक्कां रहस्ये || नरपतिहृदि वांच्छां तस्य सौंदर्यरेखां सरससुगुणसंपत्साधुतां प्रौढतां च || ४१ || पृ० २३) महादेवीं प्रति दूतीकृतकौशिकगुणवर्णनम् | अयि मगधकलिंगावन्तिवंगांगचोलप्रमुखनृपतिकन्या भूपतेरस्य देव्यः || तदधिकगुणमान्या त्वं महच्छब्दपूर्वा भव भवनपतित्वं प्राप्य देवीति धन्या || ४२ || अपि च तव समंताद्बांधवास्सर्वसंपद्विजितदिविजनाथा भोगभाजो भवन्तु || त्वमपरिमितभाग्या वर्णितुं केन शक्या शपथमिह वदामः पादयोः पार्थिवस्य || ४३ || इदमपि च रहस्यं ते वदामः क्षितींद्रो मदगजमधिरुह्योद्गृह्य बाह्यालिमार्गं || त्वयि गतनृपवीथ्यां त्वां तदाऽऽलोक्य सद्यः स्मरशरदलितात्मा स्वं च किंचिन्न वेत्ति || ४४ || त्वयि सुतनु नृपोऽयं दत्तचित्तो न जातु स्मरति विहितकार्यं किंचिदप्यप्रमादात् || न कलयति कथं वा भोजनादौ प्रसक्तिं परिजनविदितोऽपि प्रेक्षते निर्निमेषं || ४५ || स्मरति किमपि हस्तेनादधानः कपोलं हितजनपरिपृष्टो नैव किंचिद्ब्रवीति || पृ० २४) ह्रियमनुसरतीव त्वत्कथां वक्तुमन्तः समय इह भवत्यास्तं वशीकर्तुमार्ये || ४६ || अलमिह बहुवाग्भिस्त्वं महादेवि चित्ते स्वहितमनुसरैतद्यद्वयं चोपदिष्टाः || कलमधुरनिनादान् को वदेत्कोकिलानां पदगमनविलासान् वक्ति को हंसिकानां || ४७ || इह सकलजनानां बंधुरात्मात्मनो हि त्वमपि कुरु यथेष्टं सम्यगालोच्य बाले || इति युवतिजनैः सा लालिता नैव तूष्णीं भवितुमिह ममार्हो यत्प्रमादः स्वकानां || ४८ || इति किल सकलज्ञा चिंतयन्ती तदाक्वा हृदि किमपि निधाय प्राह ता राजदूतीः || मम हितमिदमार्यास्तद्वचस्तावदेनं नरपतिमिह किंचित् प्रष्टुकामाऽहमस्मि || ४९ || तदधिपमतिशीघ्रं यूयमत्रानयध्वं मम वचनममुष्मै रोचते चेत्तदूर्ध्वं || भवतु च भवितव्यं तद्भवेद्यत्तु भावीत्यविदितकृतिवाचः किं भवत्यो महत्यः || ५० || वचनमथ सुदत्या राजदूत्यो निशम्य प्रतिवचनमनुक्त्वा च्छोटिकामात्रकालात् || नरपतिमुपनीय स्थापयन्ति स्म तस्यास्सविधमधिपतिस्तां प्राह मंदस्मितास्यः || ५१ || पृ० २५) महादेवीकौशिकराजयोरुक्तिप्रत्युक्तिकथनम् | सुमुखि तव यदिष्टं तत्करिष्यामि नूनं तव वचनमकृत्वा दुष्कृतं प्राप्नुवानि || शपथमिह वदामि त्वत्पदांभोजयोरित्युदितमथ निशम्य प्राह बाला नृपालं || ५२ || विनयवचनजालैः किं वृथा राजमौले मम हि वचनमेकं यत्त्वयाऽवश्यकार्यं || यदि तु तदभिमत्या सप्रतिज्ञं विदध्यास्त्वमखिलमपिकार्यं नः प्रतिज्ञातमेव || ५३ || यदि विमतमतिः स्यान्मद्वचस्यास्तदानीं नृपतिलक भवन्तं रंतुकामं विसृज्य || विहतविषयरागाऽहं गमिष्यामि वेगात्क्वनु मुनिहितवेषेत्युक्त ऊचे पुनस्तां || ५४ || संदेहं त्यज मानिनि स्वहृदये यद्वाक्यमूरीकृतं तन्निर्वर्त्य यथार्थमेव सदये चित्तं समाधाय ते || पश्चात्त्वद्रतिकेलिकासुखमहं लप्स्ये बलाच्चेद्यदि प्रायश्चित्तशतैर्ममास्ति वनिते पापस्य नो निष्कृतिः || ५५ || अनृतं मद्यपानं च मातापित्रोर्विरोधनं || वृथा सर्वप्राणिहिंसा स्त्रीणां बंदीनिवेशनं || ५६ || पृ० २६) परबाधा परस्त्रीणां रिरंसा गुरुदूषणं || स्वार्थं परार्थहननं गोप्यापहरणं तथा || ५७ || पत्योः पैशुन्यकरणं विशिष्टद्रोहवर्तनं || उपकर्तर्यपकृतिस्तथा प्रत्यनुपक्रिया || ५८ || दत्तस्य पुनरादानं दाने प्रत्यूहचिंतनं || बहिष्कर्तव्यताहेतुकृतघ्नत्वमिति प्रिये || ५९ || निषिद्धा चरणान्येतत्कर्तृर्णां या गतिर्नृणां || सैव भूयान्मम तव प्रतिज्ञातार्थभंजने || ६० || सत्यं पश्य महादेवि न कार्या कालयापना || अन्तःपुरं ममाऽद्यैव गन्तव्यं शुभचिंतया || ६१ || इति संप्रार्थिता राज्ञा देवी वचनमब्रवीत् || गम्यतां भवता राजन् आगमिष्याम्यतः परं || ६२ || पितरौ संमतौ कृत्वा सुतरामितरानपि || चतुरत्वेन यास्यामि न तु रोधो भवेद्ध्रुवं || ६३ || इति राजानमाजानपरिशुद्धा निवर्त्य तं || आराध्य भक्त्या देवेशं स्वात्मार्पणमथाकरोत् || ६४ || शिवनिष्ठागरिष्टां तां सकलज्ञां निजात्मजां || पृ० २७) महादेव्याः कौशिकगृहगमनकथनम् | विज्ञाय पितरौ तूष्णीं बभूवतुरनिंदितां || ६५ || अथ राजा गृहं गत्वा भूषणानि महान्ति सः || दिव्याम्बराणि चानिन्ये सौवर्णानि निजांतिकं || ६६ || पल्यंकिकां रत्नमयीं रम्यां ताम्बूलपेटिकां || पतद्ग्रहं च भृंगारं शृंगाररसपूरितं || ६७ || चामरं व्यजनादर्शछत्रचित्रकपात्रिकाः || किंकरीस्तानि बिभ्राणाः सज्जीचक्रे महीपतिः || ६८ || अन्तःपुरे मणिमये सौधे केलिकथोचितं || प्रसूनमंडपं दिव्यं कारयामास शिल्पिभिः || ६९ || गुरुणा कुसुमास्त्रेण धृतप्रतिसरो नृपः || प्रेषयामास तन्वंगीमानेतुं सर्ववैभवैः || ७० || आहूता ताभिरब्जाक्षी प्रतिश्रुत्य तथेति सा || अलंकृतांगी प्रययौ भूषांबरविशेषकैः || ७१ || दिव्यमाल्यानुलेपाढ्या सर्ववैभवसंयुता || पल्यंकिकां समारुह्य राज्ञोऽन्तःपुरमाविशत् || ७२ || अवलोक्य स्त्रियः सर्वा दृष्ट्वा श्रियमिवागतां || पृ० २८) मंगलारार्तिकाद्यैस्तामुपचारैः समर्चयन् || ७३ || राजा विनयसम्पन्नो भर्महर्म्यं प्रवेश्य तां || तत्र गारुत्मतमये पीठे समुपवेशयत् || ७४ || रंभामिवोरुविजितरंभां कुंभस्तनोन्नतां || पश्यन्मदविकारेण नृपतिस्तामथाब्रवीत् || ७५ || महादेवि समागच्छ मम शययां विभूषय || सोढुं कथमहं शक्नोम्येवं तिष्ठसि चेत्पृथक् || ७६ || इति ब्रुवन् यदा राजा ग्रहीतुं तावदुद्यतः || तदैव देवी सा राजंस्तिष्ठ तिष्ठेति चाब्रवीत् || ७७ || विस्मृतं वा त्वया पूर्वमुक्तं मद्वचनं मम || प्रदाय त्वत्प्रतिज्ञातं ततो मां स्प्रष्टुमर्हसि || ७८ || निवार्यमाणो भूपालो ग्रहीतुं तावदक्षमः || हृदिस्थं वद मे देवि करोमीति तथाऽब्रवीत् || ७९ || प्रजानाथं महादेवी प्राह पार्थिववल्लभ || मत्समः शिवभक्त्या चेत्तदा मां स्प्रष्टुमर्हसि || ८० || श्रुत्वैतत्प्राह तां राजा सा मे मास्तु कदाचन || मदनस्यैव भक्तोऽहं न भक्तस्तद्रिपोः क्वचित् || ८१ || इति ब्रुवन्तं निध्याय ध्यायन्ती हृदि शंकरं || पृ० २९) शैवदीक्षाविमुखं कौशिकं प्रति महादेवीकृतगर्हणकथनम् | लक्ष्यीकृत्य तृणं मध्ये महादेवी तमब्रवीत् || ८२ || अहो मूढजनो लोके शिवभक्तिविवर्जितः || जिह्वया नैव गृह्णाति भोज्यमन्नं रसाप्लुतं || ८३ || स्नानानुलिप्तोऽपि पुमान्भूषांबरविभूषितः || शिवभक्तिविहीनश्चेद्दारुप्रतिकृतिर्हि सः || ८४ || अतस्त्वं पृथिवीपाल शिवदीक्षाविवर्जितः || लिंगांगसंगहीनश्चेत्कथमंगीकरोम्यहं || ८५ || त्वययेव त्वद्वचो लीनं मयि मद्वचनं स्थितं || अहं शिवार्पितस्वान्ता गमिष्यामि यथासुखं || ८६ || इत्युक्तवत्यां श्रीमत्यां सुदत्यां स महीश्वरः || चकमे रतिमेवान्तः केवलं न रतिं शिवे || ८७ || यथाऽर्कतेजो घूकस्य मूकस्य वचनामृतं || मक्षिकायाश्च सौरभ्यं शान्तिः कोपाकुलात्मनः || ८८ || नारिकेलमलर्कस्य च्छिन्ननासस्य दर्पणं || औषधं रोगदुष्टस्य न रुच्युत्पादकं भवेत् || ८९ || तथैव नरनाथस्य विषयासक्तचेतसः || शिवभक्तिर्मुक्तिहेतुः सती नाभिमताऽभवत् || ९० || अत एव महादेवीमहीपालकयोस्तयोः || संप्राप्तकेलिग्रहयोस्संबंधः समभज्यत || ९१ || पृ० ३०) अथ देवी शिवावेशान्निःसंग इव संयमी || जांबूनदांबराण्यंगे धृतानि प्रत्यमोचयत् || ९२ || दृष्ट्वा तदद्भुतं राजा भूताविष्टा किमंगना || भ्रान्ता पैत्याधिका चित्तविकला वेत्यचिंतयत् || ९३ || अथोचे भामिनि भ्रान्ते निरस्य श्रियमंघ्रिणा || कुत्र वा गन्तुमुद्युक्ता लोके दृष्टचरी नृणां || ९४ || इत्युक्तवन्तं राजानमनन्वीक्ष्य महामनाः || देव्यपस्मारिणी वाद्धा स्वैरं त्यक्तत्रपाऽभवत् || ९५ || हस्तेन लिंगं सुदृढं गृहीत्वा सर्वांगमुद्धूल्य विभूतिपुंजैः || आपार्ष्णिदीर्घाधिककेशपाशीराच्छादयद्दिव्यशरीरमक्वा || ९६ || स्वर्भानुवक्त्रादिव राजबिंबं निष्क्रम्य गेहादथ गन्तुकामां || रामां समुद्वीक्ष्य नृपस्य कामः कामोऽपि कामं हृदयाच्चचाल || ९७ || व्यामोहमुत्सृज्य विवेकिरीत्या भाषां स्वकीयां हृदि चिंतयानः || तूष्णीं बभूवेव महाप्रभावात्तस्याश्चिरं भीतमना नृपालः || ९८ || देवी विनिष्क्रम्य गृहान्नृपस्य वीथिं गता तत्र च बंधुवर्गैः || पृ० ३१) महादेव्यास्तत्पित्रोरुक्तिप्रत्युक्तिकथनम् | मातापितृभ्यां च समागताभ्यां संप्रार्थिता स्वात्मगृहं प्रवेष्टुं || ९९ || उद्वाहसम्पत्कलया समेतां त्वां द्रष्टुमस्माकमहो न भाग्यं || वैराग्यवेषेण मुनिव्रता वा गेहेऽस्मदीये सुखमास्व बाले || १०० || घोराटवीशैलगुहाः प्रवेष्टुं कथं नु शक्नोषि महानुभावे || अंतःशिवध्यानरता गृहे वा वर्तस्व नः पालय तावकीनान् || १०१ || इत्थं वदत्सु निजबंधुषु सा हसन्ती प्राहोपतापकथया किमु मुग्धमिश्राः || साऽहं भवत्तनुभवा न भवामि यूयं चैषाऽस्मदीयशिशुरित्यमतिं त्यजध्वं || १०२ || देहं मदीयमिदमर्पितमीश्वराय नाथो गुरुः प्रभुरिति प्रथितस्त्रिलोक्यां || अन्वेषणार्थमिह याम्यहमस्य साक्षात्कृत्यैव तत्करुणया शिवतामुपैमि || १०३ || श्रुत्वैतदद्भुतवचः पितरौ प्रहृष्टौ संस्तुत्य साधु तनये सरसीरुहाक्षि || वैराग्यसंपदधिकाऽवहिता न किंचित्कन्यात्वतोऽसि विहता यशसावृतेति || १०४ || अस्मद्गृहे हरधरान्वयसंप्रदाये जाता शिवं धवयतीति मदीयभाग्यं || गच्छ त्वदीयमहिमोचितदेशिकेंद्रमाविश्य चेति गृहमापतुराप्तवर्गैः || १०५ || पृ० ३२) इत्थं पितृप्रमुखबंधुजनांच्छिवात्मा तत्वोपदेशवचनैर्हृदि तोषयित्वा || अक्वाऽथ तेन वपुषा शिवसामरस्यप्राप्त्यै ययो मृगयितुं गुरुवर्यमार्या || १०६ || गत्वाऽटवीषु कुलपर्वतगह्वरेषु पुण्यस्थलीषु कमलाकरमंडलेषु || भक्ताश्रमेष्वथ नदीनदसैकतेषु देवालयेषु च विभुं मृगयांबभूव || १०७ || कुत्रापि वारिनिधिवेष्टितभूतलेऽस्मिन्नन्वेषयंत्यखिललोकगुरुं मृगाक्षी || वाताशनैव विचचार जनैः समस्तैस्संस्तूयमानविभवा विमलार्यपुत्री || १०८ || इति कथितमशेषज्ञानविद्यानिधानं दुरिततरुलवित्रं चित्कलायाश्चरित्रं || पठति परमभक्त्या पाठकाद्वा शृणोति श्रियमयमिह भुक्त्वा मुक्तिमाप्नोति चान्त्ये || १०९ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां महादेवीलीलावतारप्रशंसनतदीयवैराग्यमहिमानुवर्णनगतिर्नामदश मोऽध्यायः || पृ० ३३) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ एकादशोऽध्यायः | सूत उवाच || श्रीसिद्धेश्वरवीरदेशिकवरश्रीपादुकासंश्रिता भक्त्या दुर्विषयेंद्रियारिजयिनः पापौघदूरस्थिताः || कालातीतमहाप्रभावविदिताः कालांतकार्चोदिताः मौनींद्राः श्रुणुताल्लमप्रभुमुनेर्लीलां सुशीलादृतां || १ || अथाल्लमो भक्तजनालिमानसेष्वबोधगाढांधतमिस्रमामृजन || प्रकृष्टविद्योपदिदिक्षुरादरात्तनुं निजानंदमयीं दधौ गुरुः || २ || चिदंबरात्माऽपि निजेच्छया तनुं जगद्धितार्थं परिगृह्य सोऽल्लमः || जगाम कल्याणपुरं शिवार्थिभिः प्रपूरितं तद्बसवेन पालितं || ३ || विलोकयामास पथि प्रभुः स्वयं सरोवरं फुल्लसरोजमंडितं || दिवानिशायां कुमुदैर्विकस्वरं क्रमेण सूर्यैंदुकरोपलालितं || ४ || निपीय भृंगाः कमलासवं सदा मदाद्भुजंगा इव वार्क्षमासवं || पृ० ३४) अशक्नुवन्तो गमनाय कुत्र वा भ्रमन्ति तत्र भ्रमरा यतोऽभवन् || ५ || स्वभावसिद्धा ननु संगतिर्द्वयोर्निबद्धपद्मासनहंसयोः सदा || इति प्रकाशीकृतये सदाशते तदीयपद्माशिषु हंसपंक्तयः|| ६ || त्रिलोककान्ताकुचवर्तुलाकृतेर्जयाय तत्रैव रथांगपंक्तयः || तपः समाधाय दिवातपाहतास्समाश्रिताश्चक्रसमाह्वयं भुवि || ७ || तदीयकल्लोलविशालडोलिकास्वितस्ततः क्रीडनतत्पराः सदा || निजार्थकप्रत्यायिनो हि सारसा भजन्ति सत्यां सरसाभिधानतां || ८ || तदीयरम्योभयपार्श्वविस्तृतं वनं मनोहारि विराजते परं || लवंगमालूररसालचंदनैरशोकभूर्जासनकैतकीवटैः || ९ || तथाऽतिमुक्तक्रमुकार्जुनागरुद्रुमैश्च जंबूपनसेक्षुचंपकैः || कपित्थखर्जूरकदल्युदुंबरैरथद्रुपुन्नागमुखैश्च शोभितं || १० || तदन्यशाखिप्रकरैश्च वल्लिभिर्विशालशाखोल्ललितोरुपल्लवैः || पृ० ३५) वने कृषिपरं गोगार्यं दृष्ट्वा प्रभुकृततदीयकर्मनिरसनम् | प्रसूनसौगंध्यनिरांध्यवैभवैः फलोज्वलैः कोरकितैश्च शोभितं || ११ || शुकैः पिकैः केकिगणैरलिव्रजैर्ध्वनद्भिरत्यन्तमनोहरस्वरैः || सुखश्रुतिक्ष्मारुहभूरिसंकुलं विराजते दोहदधूपधूपितं || १२ || वनस्य संरक्षयिताऽस्य सज्जनो बभूव गोगाह्वयभक्तपुंगवः || निजेष्टलिंगार्पितसर्वसत्क्रियो विनिष्ठितो जंगमलिंगपूजने || १३ || तदैव गोगः कदलीः सरस्तटे वने प्रतिष्ठापयितुं ससाधनः || भुवं समुत्क्रष्टुमुपक्रमक्रमात्समुद्यतस्तं प्रददर्श सोऽल्लमः || १४ || विचिंतयामास हृदि प्रभुर्जना अहो प्रखिद्यन्ति वृथा क्रियापराः || श्रमस्तु तेषां ग्रहणार्थमुंदुरोर्महागिरेः खात इव भ्रमोदितः || १५ || श्रमेण कर्माणि करोति मानवस्ततश्च लोकान्तरभोगलंपटः || पुनस्तदन्ते जनिमाप्य कर्मठः प्रपद्य मृत्युं पुनरेति जन्म सः || १६ || बिभेति नो जातु जनो यदेतयोः परंपराया अपि दुःखभाजनः || पृ० ३६) इति स्मरन् गोगमवाप रक्षितुं प्रदिश्य तस्मै शिवभक्तिगोपितं || १७ || समीपगस्तच्छरणार्थितां ब्रुवन्पुनस्तथोक्तः शरणेन तेन सः || शरण्य कुत्राऽगमनं कुतो गतिस्तवेति पृष्टः पुनराह तं प्रभुः || १८ || श्रयन्ति यन्निश्चलभक्तिनिष्ठिताः शिवैकतानाः स्थलमत्र ते वयं || समेत्य भिक्षां शिवभक्तिलक्षणां सदाऽर्थयन्तो विचराम विष्टपे || १९ || अहं हि नाम्नाऽभवमल्लमप्रभुर्न यत्र कुत्रापि कुटीरमस्ति मे || न च क्रिया वा न तपो न साधनं न संस्थितिश्चेत्युदितोऽवदत्स तं || २० || प्रभो महात्मन् नटलिंगविग्रह त्वमेव भावज्ञ इति प्रसिद्धिमान् || भवादृशां पर्यटनं किमीदृशं प्ररोचते पैत्यविकारिणामिव || २१ || सुभक्तदत्तोचितकांचनादिभिस्समर्च्य भक्त्या गुरुलिंगजंगमान् || ततः प्रसादान्नभुजां किमासनं न युज्यते भक्तकथाप्रसंजनैः || २२ || सदा धरापर्यटनैः किमार्जितं पुनः किमार्जिष्यत इत्युदीरितः || प्रभुर्विहस्याह च को भवानहो यथार्थवादीति पुनस्तमाह सः || २३ || पृ० ३७) गोगार्यं प्रति प्रभुकृतकृषिकर्मनिरसननिरूपणम् | प्रभो दयालो श्रुणु वर्तनं मम स्वकायिकप्राप्तधनैः समाचरन् || यथोचितं जंगमलिंगपूजनं भजे तदीयामृतशिक्थमादरात् || २४ || करोमि नित्यं चरलिंगभाषितं तदीयधर्मं शिरसा वहन्नहं || जनैः श्रुतो गोग इति प्रसीद मे त्वदीयभृत्योऽस्मि कृतस्वयंकृषिः || २५ || प्रकृष्टविज्ञाननिधिर्भवान्गुरुः समस्तलोकस्य चराचरात्मनः || प्रदिश्य मेऽज्ञस्य रहस्यमैश्वरं दयाम्बुधे रक्ष भयाद्भवोदितात् || २६ || तमेनमव्याजकृपानिधिः प्रभुः शशास गोगं व्यवसायतत्परं || शिवार्थिनां नार्हमिलाप्रकर्षणं खनित्रकुत्कीललवित्रधारणं || २७ || कृषिक्रियाया ननु जीवहिंसनं शिवो नु गृह्णाति न जीवहिंसकं || अनुग्रहं तस्य विना न मोक्षणं भजेत पाशात्पशुतां प्रयाति सः || २८ || बहिर्जनानामिव भक्तिशालिनां न युक्तमेतद्व्यवसायवर्तनं || परं सदुद्योगवतां यथार्थतः प्रवर्तनेनैव धनार्जनं शुभं || २९ || यथोक्तलाभेन समार्जिताद्धनाद्विधाय नित्यं गुरुजंगमार्चनं || पृ० ३८) फलं परित्यज्य धिया शिवार्पणात्समेति कैलासमतोऽपुनर्भवं || ३० || फलाभिलाषी गुरुलिंगजंगमान् समर्च्य सालोक्यमपि प्रपद्य सः || पुनः पुनर्जन्ममृती समश्नुते ततो रहस्यं कथयामि केवलं || ३१ || श्रुणुष्व गोगार्य सुनिश्चलात्मना यथैति कैवल्यपदं निरामयं || अकर्मभक्त्या शरणः परायणं सकीलकं तत्वरहस्यमंजसा || ३२ || नरो निहंत्येव निजात्मघातुकं हरींद्रमुख्याश्च सुरास्तथाविधाः || निहत्य तैः कांश्चिदपि स्वयं हता न घातुकं यो हतवान् न वेद्मि तं || ३३ || निहन्ति यः प्राणिगणानघातुकांत्स्वघातुकानामपि तं महेश्वरः || स एव शिक्षत्यखिलात्मनां गुरुस्ततो न हिंस्याद्भुवि यं च कं च न || ३४ || मनोवचःकायकृतस्य कर्मणः शुभाशुभस्यानुभवाय कल्पते || शरीरिणोऽवश्यतया फलद्वयं हरस्य गर्भेऽपिहितस्य वा श्रुतेः || ३५ || ततो नराः कर्मरताः पुनः पुनः फलानुभूत्यै जनिमृत्युसंततिं || पृ० ३९) गोगार्यानुग्रहाय प्रभुदर्शितसमाधिस्थलनिरूपणम् | समाश्रयन्ते सति तद्विनाशने किमीशभक्त्या कृपयाऽथवा गुरोः || ३६ || न नश्यति द्राग्यदि भोगवासना चरप्रसादानुभवेन किं फलं || विरक्तिशून्यो यदि भक्ततां व्रजेन्न तं विमूढं शरणा हसन्ति किं || ३७ || कुतो भजन्तो गुरुलिंगजंगमानुपाधिशून्यैकसपर्यया जनाः || अवाप्य भक्तिं परमां स्थिरीकृतां भजन्ति निर्वाणपदं न बालिशाः || ३८ || इति प्रभौ गोगमकारणप्रिये परापदेशेन हितोपदेष्टरि || उवाच गोगः प्रभूमीश मादृशां कथं कथाऽयश्चणकोपमेदृशी || ३९ || अथाल्लमस्तं कृपयाभिरक्षितुं विचिंत्य दृष्टान्तपुरःसरं चिरं || अतींद्रियज्ञाननिधिः समाधिना ददर्श तत्रैव रहस्यमद्भुतं || ४० || इदं प्रदर्श्याद्य समाधिनिष्ठितं विधाय च प्राणसमाख्यलिंगके || प्रयासकृत्यानि निरस्य पालयाम्यथेति संकल्प्य पुरोऽस्य तस्थिवान् || ४१ || निधेहि गोगार्य खनित्रमत्र ते विलोक्यतेऽधः शिखरं हिरण्मयं || विचित्रमत्रास्ति दृढं निखन्यतामिति प्रभूक्त्या स ददर्श तत्तथा || ४२ || ससंभ्रमं चख्नतुरत्र तावुभौ क्रमात्समीक्ष्याथ समाधिमंडपं || पृ० ४०) मनोहरं दीप्तिभिरंतरं ततः प्रविश्य तत्रत्यमवेक्ष्य विस्मितौ || ४३ || बहिः सुविस्मृत्य समौनमुद्रया दृशा निदिध्यासनयाऽनिमेषया || विरागसुज्ञानशमादिसंपदा समाहितं पूरुषरत्नमुत्तमं || ४४ || तदंतरंगं सुपरीक्ष्य वीक्षितुं प्रविश्य चांतर्गृहमादरादुभौ || विलोकयामासतुरंगलिंगयोश्चिदैक्यभावेन गुणातिगं गुरुं || ४५ || तथा महालिंगमयासुलीनसन्मनोंऽगमप्यंगगुणैरसंगतं || मनुष्यपांचालिकया समाकृतिं प्रभुः स मेनेऽनिमिषार्यदेशिकं || ४६ || स गोगमाहाल्लमदेवसत्प्रभुस्सुभक्तिनैश्चल्यनिदर्शनं त्विदं || शिवो न संतुष्यति पामरार्चनैर्विनैकधा निश्चलभक्तिमीदृशीं || ४७ || न शक्यते कर्तुमियं निराकुला जनैः परैर्नैष्ठिकभक्तिरुज्वला || कथंविधाऽहो स्थिरता कथंविधा सुभक्तिनिष्ठाऽस्य कथंविधा धृतिः || ४८ || कथंविधाऽस्याद्भुतशक्तिरुत्तमा कथं हि गांभीर्यमहो कथं स्थितिः || कथं हि लिंगैक्यसुखानुभावनं कथं शिवाद्वैतरहस्यमद्भुतं || ४९ || पृ० ४१) गोगार्याय प्रभुप्रदर्शितसन्मार्गनिरूपणम् | इति प्रभोस्तन्महिमानुभावनं निशम्य गोगः परिपूर्णमानसः || अनेन रूपेण समेत्य भृंगिराट् स एव साक्षात्कृत इत्यमन्यत || ५० || नमः समस्तप्रमथान्वयेंदवे समाधिसाक्षात्कृतचंद्रमौलये || तिरस्कृताशेषजगद्विभूतये नमो नमस्तेऽनिमिषाय भृंगिणे || ५१ || इति स्तुवन्तं प्रभुराह गोगमप्यहो नु सद्भक्तिपथं किलेदृशं || सदेष्टलिंगैक्यपदप्रदायकं सुगोप्यमस्माकमिदं निदर्शनं || ५२ || इदं हि लोकद्वयसौख्यदामलप्रकृष्टविज्ञाननिदानकीलकं || इदं हि गोगार्य दुरिंद्रियेभहृन्मदस्य निर्वापणहेतुरंकुशं || ५३ || अनेन मार्गेण यतव्रता जना भवन्ति नित्यानुभवामृताप्लुताः || अमुं परित्यज्य भजन्ति भो जना जनिं मृति दुर्व्यवसायवर्तिनः || ५४ || न वेषमात्रान्निजभक्तिवर्जिता भजन्ति लिंगैक्यपदं क्रियापराः || यदिक्षुसाम्यात्प्रचरन्न वेणुकं निवारयेत्कुक्षिगतां क्षुदुष्णतां || ५५ || पृ० ४२) अहो नु भाग्यं मम दुर्विधो निधिं यथाक्षदृक्पंगुरिवांघ्रिमप्यहं || भजामि लब्ध्वाऽनिमिषार्यदर्शनं कृतार्थतां गोग भवत्समागमात् || ५६ || यथा समन्वेष्य लताऽध्वनि स्थिता हठात्पदेऽन्वेषयितुः सुवेष्टिता || तथाऽद्य भूमौ चरतः शिवात्मनां दिदृक्षया मेऽनिमिषोऽवलोकितः || ५७ || इति स्वसामर्थ्यमचिंत्यवैभवः पिधाय संभाव्य नटन्मनुष्यवत् || गुरुर्गुरूणां गुरुशिष्यवर्तनं प्रकाशयंच्छिष्यवदेष तुष्टुवे || ५८ || जगद्गुरो मद्गुरुनाथ सन्मुने कृपानिधे भक्तनिधे शमांबुधे || महानुभावानुगृहाण तावकस्वरूपदृष्ट्याऽनिमिषार्य मां शिशुं || ५९ || कृतार्थयैनं घनलिंगनिष्टयेत्यसौ गुरुः शिष्य इवेममर्थयन् || दिदेश गोगाय गुरौ स्थिरां रतिं जना हि शिष्टाचरणानुवर्तिनः || ६० || अथाल्लमस्यानिमिषार्यसद्गुरोः करात्समुत्प्लुत्य समीपवर्तिनः || लगत्ययस्कान्तशिलेव सूचिकां समुज्वलं हस्ततलं प्रसर्पणं || ६१ || पृ० ४३) गोगार्यकृताल्लमसंयमिसंस्तवनिरूपणम् | प्रभोश्चिदानंदखनेः कलैव यद्बभूव मूर्त्याऽनिमिषस्य तत्पुनः || तदिष्टलिंगेन सहैव दृग्गताप्यवाप तत्प्राणकलैक्यमल्लमे || ६२ || विलोक्य गोगोऽनिमिषाल्लमावुभौ सुविस्मितोऽचिंतयदात्मनि स्वयं || अहो महत्वं सुविचित्रमेतयोरिमौ सुधींद्रौ विदतुर्नचापरः || ६३ || हरोऽथवायं प्रभुरल्लमः स्वयं नरो न येनानिमिषेष्टलिंगकं || प्रभौ महेशे परिपूर्णचिद्घने ययौ किलैक्यं किमहो बहूक्तिभिः || ६४ || इति स्तुवन्नल्लममेत्य दण्डवत्प्रणम्य गोगः परिपूर्णभक्तिमान् || व्यजिज्ञपत्सद्गुरुनाथ तावकस्वरूपवेत्ता न जगत्त्रयोदरे || ६५ || त्वमेव निःसंगनिरंजनोऽद्वयो यदैक्यमंगेऽनिमिषस्य लिंगकं || तवाप तस्मान्निजरूपमव्ययं भवानहो वेत्ति न चान्यगोचरः || ६६ || अनुग्रहाद्देव तवाद्य दृष्टवान् महानुभावानिमिषार्यदेशिकं || यदीक्षणादीश्वरभक्तिरुज्वला ह्युदेति साक्षात्करणैकसाधनं || ६७ || इदं सुनिष्पन्नममेयमंगलं ममाविरासीत्सुकृतं पुरातनं || त्वदात्मनां मूर्तममूर्तमादरादमुं शिशुं रक्षितवान् प्रभो भवान् || ६८ || पृ० ४४) कदापि नो विस्मरणीय एष मे महोपकारो विहितस्त्वया मुने || क्षितौ सदीक्षं खलु भक्तरक्षणे भवादृशामागमनं महात्मनां || ६९ || इति स्तुतः प्रीतमनाः प्रभुः स्वयं सकीलकं तस्य च लिंगसंगतिं || प्रबोध्य चांचल्यमुदस्य चेतसः शिशु कृपापात्रममन्यतात्मनः || ७० || वरं वृणीष्वेति वदत्ययं प्रभौ प्रणम्य गोगः पुनराह सांजलिः || गुरोऽस्मि गर्भीकृतसर्वकल्पनं प्रदिश्य लिंगांगसुखं कृतार्थितः || ७१ || इतः परो नास्ति वरो ममेप्सितस्तथापि याचे गुरुनाथ सांप्रतं || गृहाण वेषं गुरुजंगमोचितं सुभक्तरक्षार्थमितःपरं क्षितौ || ७२ || ममाभिलाषोऽयमिहांगलिंगयोः पृथक्त्वमैक्यं च यथार्थतः स्फुटं || स्ववाक्यमात्रेण निबोद्धुमक्षमं प्रदर्श्य साक्षादुपदिश्य रक्ष नः || ७३ || महाजनाचारपरंपरागतं शिवेन सिद्धान्तितमागमादिषु || स्वयं सदाचार्यसमाचरन्विधिं निदर्शनेनैव जगद्धितं कुरु || ७४ || पृ० ४५) प्रभुकृतगोगार्यप्रशंसाकथनम् | इदं नु मत्प्रार्थनमित्युदीरितः प्रभुर्मुदा गोगमवेक्ष्य सस्मितः || उवाच साधो विषयान्परित्यजन् कृतार्थतामेषि परार्थसाधनः || ७५ || त्वमेव निष्कामतया महान्गुरुर्यदद्य भक्तावनमात्रतत्परः || वरं वरं याचितवान्नचावरं परोऽसि भक्तेषु हरस्य सन्मते || ७६ || क्षितौ दरिद्रा धनमाप्य सादरं किमु प्रयच्छन्ति दरिद्रकोटये || परं तु कुत्रापि निधाय गोपितं स्वयं च भोक्तुं न हि शक्नुवन्ति ते || ७७ || भवांस्तु निष्ठां शिवभक्तिलक्षणामवाप्य तृप्तोऽनुभवामृताप्लवैः || समस्तभक्तावलिरक्षणोद्यतो वरं वरेण्यं वृतवानहो महान् || ७८ || यतो नु गोगार्य विरागसंपदो गुणाधिको लोकहितप्रवर्तनः || गुरोर्गुरूणामपि मे गुरुर्भवानिति स्म दत्तात्मवरोऽसि निश्चितं || ७९ || इति ब्रुवन्नल्लमदेवदेशिको दधौ महिम्ना शरणोचितं वपुः || समस्तभक्तावलिरक्षणोद्यतं शिवार्थिनां प्रत्ययकारणं परं || ८० || बभौ करे लिंगमथांगसंगतं सितत्रिपुण्ड्रस्मितभस्मलेपनं || पृ० ४६) कटीतटीसूत्रकषायरंजितप्रफुल्लकौपीनकमल्लमप्रभोः || ८१ || निजेष्टलिंगाहितदृष्टिरान्तरे निमेषशून्या दृशि सन्मनःस्थितिः || मनःस्थितौ कीलितसन्मरुद्गतिर्निरंजनस्यास्य रराज सद्गुरोः || ८२ || विनिद्ररुद्राक्षसुकंठमालया दधन्महाजंगमदेशिकाकृतिं || जगाम भक्तावनदीक्षयाऽनिशं प्रभुः शिवध्यानसुखानुभावनः || ८३ || अथ गुरुशरणोक्त्या त्याजितायासकृत्यो दृढतरशिवभक्त्या मंदिरं प्राप्य गोगः || समुचितशुभवृत्याऽऽराधयन्भक्तलोकानभजत निजलिंगे पूर्णदृष्ट्या समाधिं || ८४ || इति शिवशरणानामिष्टनिष्ठैकसारं चरितमघविदूरं गोगभक्तान्वयेन्दोः || पठति मनति चित्ते यः शृणोति प्रपत्या प्रभुरिह परसौख्यं प्राज्यमस्मै ददाति || ८५ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां गोगदेवोपदिष्ठलिंगैक्यरहस्यमहिमानुवर्णनगतिर्नामैकादशोऽध्यायः || पृ० ४७) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ द्वादशोऽध्यायः श्रीवीरेश्वरसिद्धदेशिकमणिश्रीपादपद्मार्चना- सक्त्यान्तर्दृढबोधसम्पदुदितास्संत्यक्तबाह्योत्सवाः || च्छिन्नानित्यशरीरमोहलतिका धैर्येण मृत्युंजया भक्ता मुक्तिवधूमनोहरकलाः शृण्वन्तु लीलां प्रभोः || १ || अथाल्लमप्रभुर्भक्तान्भवाब्धेः प्रापयंस्तटं || वारयन् विषयास्वादविषपानाच्चचार सः || २ || अभ्यासयंच्छिवज्ञानशर्करास्वादमन्वहं || पूर्णविज्ञानभरितांश्चकार शरणान् क्रमात् || ३ || योऽभूत्प्रमथसंतानकलशांऽभोधिचंद्रमाः || ब्रह्मणोऽपि गणेयत्वादजगण्य इति श्रुतः || ४ || केन चित्कारणेनासौ भूमौ मानुष्यमाश्रितः || एकान्तभक्तिनिरतः कंचित्कालं निनाय सः || ५ || धन्यानामन्वये जातो विहृत्यान्ते स्वलीलाया || लिंगसंगविलीनांगो बभूव प्रमथाग्रणीः || ६ || पृ० ४८) तस्याग्रजाऽथ मुक्तायी शिवाचारसमन्विता || अनुजादर्शनक्लेशाद्विललापातिदुःखिता || ७ || तद्विज्ञाय प्रभुः सोऽयं प्रत्यग्दृष्ट्या कृपानिधिः || मुक्तायीमात्मशरणां भक्तां सान्त्वयितुं ययौ || ८ || तया विनम्रशिरसा क्लिश्यंत्या प्रणतः प्रभुः || तामुवाचाल्लमः स्वामी किं दुःखस्येति कारणं || ९ || मुक्तायी तमुवाचेत्थं प्रभोऽल्लम निबोध मे || वृत्तान्तं नगरेऽन्यत्र मातुलो मेऽस्ति दूरतः || १० || तस्यास्ति पुत्रिका काचिन्नवयौवनशालिनी || शिवभक्तं विना नान्यं भजे पतिमिति स्थिता || ११ || विचार्य तत्पिताऽऽगत्य मद्गृहं भ्रातरं मम || अजगण्यं समालोक्य प्रार्थयामास मातुलः || १२ || भागिनेय मदीयेन भाग्येनागत्य मद्गृहं || ऊढ्वा मत्तनयां साध्वीं गार्हस्थ्यं परिपालय || १३ || ममापि पुत्रो नान्यस्ते शिवैक्यं पितरौ गतौ || अतो निवस मद्गेहे मदीयं स्वं तवैव तत् || १४ || भगिनी तव मुक्तायी भक्तिव्रतपरायणा || गेहे तिष्ठतु भक्तानामाराधनपरान्वहं || १५ || पृ० ४९) अल्लमं प्रति मुक्तायीकृतस्वानुजवृत्तांतकथनम् | श्रुत्वैतन्मातुलवचो वक्तुमुत्तरमक्षमः || मुखमालोकयामास मम भ्राता सहोदरः || १६ || अहं विभिन्नहृदया तमवोचं कथं सहे || वियोगं तव सोदर्य स्थातुं वा कथमुत्सहे || १७ || अन्योन्यं शक्यते ज्ञातुं कथं वृत्तान्तमावयोः || हानिवृद्ध्यादिकं सर्वमित्युक्तः प्राह मां प्रभो || १८ || अग्रजे किमु ते भ्रान्तं चित्तं विस्मृतमेव वा || मयोपदिष्टं विज्ञानं स्त्रीस्वभावादुताऽधुना || १९ || नापेक्ष्यं शिवभक्तानां संयोगजनितं सुखं || वियोगजनितं वापि दुःखं क्व च न विद्यते || २० || अपेक्षणीयं भक्तानां सर्वदा सर्वथाऽपि नः || ज्योतिर्मये महालिंगे शिवजीवैक्यमंजसा || २१ || तादृग्विधैक्ये संप्राप्ते क्व वा मम हठाद्भुवि || अक्क मुक्तायि ते वच्मि प्रज्ञानं किंचिदात्मनः || २२ || विशीर्णं त्वयि मध्नंत्यां दधिभांडं भविष्यति || यदा तदैव मे विद्धि शिवैक्यमिति निश्चितं || २३ || इति चित्तं समाधाय मम गत्वा स मातुलः || उद्वाह्य तत्सुतां तस्थावजगण्यस्तदालये || २४ || पृ० ५०) गुप्तभक्तिपरो विद्वान् केनाप्यविदितक्रियः || मनःपूर्णशिवानंदोऽप्यसौ लौकिकवत्स्थितः || २५ || अहो मम कथं भर्ता शिवभक्तो न रोचते || भग्नप्रतिज्ञा जातेति तद्भार्या चिंतिताऽभवत् || २६ || एवं स्थितायां भार्यायां चिंतयंत्यामहर्निशं || दैवात्कदाचिद्द्वारेऽस्य ललाटं दारुणा हतं || २७ || तदा नमः शिवायेति तन्मुखोदीरितं वचः || निशम्य सुदती भर्तुर्गुप्तभक्तिं बुबोध सा || २८ || अथाजगण्यो मद्भक्तिर्मानुष्ये प्रकटीकृता || न मया स्थेयमत इत्यदृश्यत्व ययौ किल || २९ || तदैव दधिभांडं मे व्यशीर्यत यदृच्छया || श्रुतं च पथिकैरित्थं कथं जीवितुमुत्सहे || ३० || मत्प्राणपदमुत्कृष्टं मत्सप्तपुरुषाश्रयः || मद्भ्रातृरत्नं मद्ज्ञानप्रदायकमहो गतं || ३१ || उपदेक्ष्यति मे को वा सविशेषचरार्चनं || शिवभक्तिरहस्यं वा शीलव्रतपरंपरां || ३२ || को वा करुणया नित्यं कारयिष्यति सत्क्रियाः || पृ० ५१) मुक्तायीं प्रति प्रभुकृततत्वोपदेशः | गुरुः स्वामी मम गतो रक्षको मां विहाय सः || ३३ || इति तस्याः सकरुणं वचः श्रुत्वा दयानिधिः || परितापं परिहरन् बोधयामास तां प्रभुः || ३४ || अलं मुक्तायि हृदये परितापेन मानिनि || बोधयामि यथाशास्त्रं तत्त्वं दुःखापहं श्रुणु || ३५ || केन चित्कारणेनोर्व्यामवतीर्य गणाधिपाः || स्वस्य कार्याणि निर्वर्त्य कैलासं यान्ति ते पुनः || ३६ || न ते भवन्ति कस्यापि भ्रातरोऽवरजास्सुताः || लीलामानुष्यमास्थाय भ्रामयन्त्यबुधान्जनान् || ३७ || अस्तु तावदिमे सर्वे जन्तवोऽपि जगत्त्रये || मितान्यहानि विधिना स्थित्वोर्ध्वं यान्ति तत्क्षणात् || ३८ || महेश्वराज्ञया सर्वे चलन्ति प्रपतन्ति च || तदाज्ञां न विना किंचिज्जगत्स्थावरजंगमं || ३९ || प्रायेणावसरे प्राप्ते जंतूनां न हि शक्यते || निमिषं निमिषार्धं वा स्थातुं विश्वंभरास्थले || ४० || हरिब्रह्मादयो देवा अपि स्वस्वमितायुषः || न प्राप्तकालाः स्थास्यन्ति घटिकार्धमथापि वा || ४१ || पृ० ५२) यावदायुर्ललाटेऽस्य पूर्वकर्मानुसारतः || लिखितं तावदेतेन स्थीयते न ततःपरं || ४२ || येन केन निमित्तेन युद्धरोगव्रतादिना || मृत्युर्यस्य विनिर्दिष्टः स तेन म्रीयते ध्रुवं || ४३ || सृष्टिस्थितिप्रलयकृत्स एव परमेश्वरः || नान्योऽस्ति कस्य चित्कश्चिद्व्याजोऽन्यश्च तदिच्छया || ४४ || अतोऽलं चिंतया प्राज्ञे किं वृथा तां परित्यज || इत्युक्ता प्राह मुक्तायी मुक्तायनमथाल्लमं || ४५ || अस्मद्वंशेऽवतीर्णोऽयमजगण्यो ममानुजः || अस्मान् संरक्ष्य बहुधा नास्मदीयः कथं भवेत् || ४६ || त्वदुक्तवाक्यतात्पर्यं त्वयैव ज्ञायते प्रभो || न किंचिदपि मे ज्ञातमित्युक्तः प्रभुरब्रवीत् || ४७ || श्रुणु मुक्तायि तत्सर्वं विवृणोमि तवाऽधुना || क्व वंशः क्व च संबन्धो यातायातं प्रपद्यतः || ४८ || जन्तोरनेकवंशेषु तत्तत्कर्मानुसारतः || कस्य वा सुखदुःखादि कोऽन्योऽनुभवितुं क्षमः || ४९ || म्रीयते केन वा सार्धं कोऽन्यो भ्राताऽथ वा सुतः || इहान्यत्रापि सर्वत्र स्वात्मैव सवात्मनो हितः || ५० || पृ० ५३) अन्यस्मिन्नन्वये जातो दीयतेऽन्यस्य कस्य चित् || जन्मवंशं परित्यज्य वंशोऽन्यस्तेन गृह्यते || ५१ || इहैव सर्वथा स्त्रीणां सर्वत्राप्यन्वयच्युतिः || वंशांतरगृहीतिश्च दृश्यते सर्वसंमतं || ५२ || संयोगश्च वियोगश्च कर्मायत्तावुभौ नृणां || दम्पत्योः सुतपित्रोर्वा भ्रात्रोश्च मरणावधि || ५३ || पोष्यपोषकभावश्च बाध्यबाधकता तथा || कर्मणैव भवेन्नृर्णां तस्मात्कर्म परित्यजेत् || ५४ || कर्मणा कर्मणां नाशो न हि ज्ञानं विना क्व चित् || शिवैकतानता नृर्णां ज्ञानं कर्मौघनाशनं || ५५ || अतः साधनसम्पत्या शिवज्ञानं समाश्रयेत् || साधनानि च चत्वारि शास्त्रेषु विहितानि हि || ५६ || नित्यानित्यविवेकः स्यादिहामुत्र फलारतिः || शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति श्रुतेः || ५७ || शमो दमः फलत्यागस्तितिक्षाश्तिक्यमेव च || ततश्चित्तसमाधानमिति षट्कं प्रकीर्तितं || ५८ || नित्यमात्मसुखं सर्वमनित्यं स्वर्गमानुषं || नित्यानित्यविवेकाख्यं प्रथमं साधनं त्विदं || ५९ || अतेव स्वर्गमर्त्यसुखवैराग्यमीर्यते || पृ० ५४) द्वितीयं शांतिदांत्यादि तृतीयं तेन जायते || ६० || ततो मुमुक्षुता तुर्यं शिवैक्योत्कृष्टता मतिः || एवं साधनसम्पन्नो ज्ञानं माहेश्वरं श्रयेत् || ६१ || एक एव महेशोऽयं मायाविद्याद्युपाधितः || ईश्वरत्वं च जीवत्वं स्वयमेवाप्तवान्प्रभुः || ६२ || अनादिसिद्धा मायेयं बहुरूपा प्रवर्तते || रजस्तमःसत्वगुणा सैवाविद्या प्रशस्यते || ६३ || गुणांशभेदाद्भिन्नेयं नानारूपा भवेद्ध्रुवं || समष्टिव्यष्टिरूपेण तत्रेशः प्रतिबिंबितः || ६४ || स्थूलं सूक्ष्मं कारणं च देहत्रयमुदाहृतं || जीवस्य चेश्वरस्यापि व्यष्ट्या चैव समष्टितः || ६५ || पंचीकृतमहाभूतसंभवं स्थूलमीर्यते || अपंचीकृतभूतोत्थं सूक्ष्मं मायाऽत्र कारणं || ६६ || विराट् समष्टिस्थूलात्मा व्यष्ट्यात्मा विश्व उच्यते || हिरण्यगर्भः सूक्ष्मात्मा व्यष्टिस्तैजस उच्यते || ६७ || ईश्वरः कारणात्मा स्याद्व्यष्टिः प्राज्ञ इति स्मृतः || देहत्रये विलीने स्यादैक्यं जीवेशयोर्ध्रुवं || ६८ || ततः पाशुपतं ज्ञानं देहबंधविमोचकं || दीक्षया गुरुणा सम्यक् बोधितः शिवतामियात् || ६९ || पृ० ५५) अनाद्यविद्यया बद्धो जीवः संसारितां व्रजन् || अन्तःकरणसंबंधात्तत्खेदात्खिद्यति स्वयं || ७० || घटसंवृतमाकाशं नीयमाने घटे यथा || दृश्यते नीयत इव तद्वज्जीवो नभोपमः || ७१ || अन्तःकरणसंबंधात्कर्मणां तारतम्यतः || जरायुजांडजोद्भिज्यस्वेदजत्वं प्रपद्यते || ७२ || यथाऽर्करश्मयो भेदात्प्रसरंतीह सर्वतः || तथा शिवोऽपि सर्वत्र हेयोपादेयवर्जितः || ७३ || जीवः शिवः शिवो जिवः इति निघ्यायतां सदा || प्रयच्छति महेशानः शिवत्वमिति हि श्रुतिः || ७४ || शिवो ब्रह्मादिदेहेषु सर्वज्ञ इति भासते || देवतिर्यऽऽन्मनुष्येषु किंचिद्ज्ञस्तारतम्यतः || ७५ || किंचिद्ज्ञत्वं च सार्वज्ञमुपाधिपरिकल्पितं || उपाधिविलये साक्षी चिन्मात्रोऽयं सदाशिवः || ७६ || देही नित्यः शिवानन्यो जरामरणवर्जितः || पृ० ५६) अध्रुवं देहमित्येतल्लोकसाधारणं मतं || ७७ || आस्तां तावच्छास्त्रचर्चा रहस्यं श्रुणु शांभवं || माहात्म्यं शिवभक्तानां शक्यते केन वर्णितुं || ७८ || येषामाशौचगन्धोऽपि नास्ति जातमृतागतः || तेषां जन्ममृतिप्राप्तं सुखदुःखं कथं भवेत् || ७९ || लिंगैक्यप्राप्तिरेवैषां मंगलानां च मंगलं || न प्राकृतवदेतेषां रोदनादि कथं च न || ८० || हृद्यवादित्रताम्बूलनृत्यगीतादिभिः सह || समाधियात्रा कर्तव्या माहेश्वरकुलोद्भवैः || ८१ || विशेषतोऽजगण्योऽयं प्रमथानां कुलाग्रणीः || न जातो वा पुरा शून्यो न मृतोऽन्ते तनुं त्यजन् || ८२ || चिन्मयो गगनाकारः सदाऽस्त्येव निरामयः || त्यक्तलौकिकसख्योऽयमैक्यमाप गुहेश्वरे || ८३ || न चिंतनीयो मुग्धांब सोऽजगण्यः शिवैक्यभाक् || निराकारोऽन्तरात्माश्ते त्वयि मययखिलात्मसु || ८४ || अजगण्ये विभुत्वेन स्थिते सर्वत्र मानिनि || पृ० ५७) केयं वियोगचिन्तेति प्रोक्ताऽल्लममथाब्रवीत् || ८५ || भवन्तोऽपि महान्तोऽत्र ते च सन्तो निरंतराः || एकरूपास्ततो यूयं वित्त सूक्ष्मां भवद्गतिं || ८६ || विदन्तु सर्पाः सर्पाणां गतिमन्ये विदन्ति किं || महान्तो महतां तद्वदात्माऽस्माकं न तुष्यति || ८७ || अथाजगण्ये सर्वज्ञे कृतार्थत्वं गते प्रभो || गतमोहगतिः का वा ममेत्युक्तोऽब्रवीत्प्रभुः || ८८ || उडुपेनेव पुरुषो नदीं भक्तो महेशितुः || तीर्त्वा कर्मांबुधिं धैर्याद्ज्ञानतीरं प्रयाति सः || ८९ || श्रुत्वैतदथ मुक्तायी प्रभुमल्लममब्रवीत् || शंकोदेति मम स्वान्ते च्छित्वा तामनुशाधि मां || ९० || कथमुत्पत्तिशिष्टानि शक्यन्ते त्यक्तुमल्लम || बाह्यानि जडकर्माणीत्युक्तस्तां पुनरब्रवीत् || ९१ || अक्क मुक्तायि श्रुणु मे वचनं सांप्रदायिकं || स्तन्यमेव हि बालानां जीवनं जन्मनोदितं || ९२ || तान्पुनः क्षीरपानेन वशयित्वा शनैः शनैः || विस्मारयन्ति तत्स्तन्यं जनन्यः पुत्रवत्सलाः || ९३ || ततः क्रमाद्गुडक्षीरपाचितं मृदुलं हविः || पृ० ५८) अभ्यासयित्वा क्षीराणि विस्मारयति मातृका || ९४ || ततः शनैः शनैरन्नं यथाऽभ्यासयते शिशून् || तथैव श्रीगुरुकृपा भक्तं पालयते क्रमात् || ९५ || चित्तं निधापयित्वाऽऽदौ शिवकर्मसु संततं || बाह्यानि जडकर्माणि त्याजयंतीह देशिकाः || ९६ || त्यक्तसंसारकर्माऽसौ भक्त्या कर्माणि सूक्ष्मयन् || ज्ञानेन सर्वकर्माणि नाशयित्वैक्यमाप्नुयात् || ९७ || इत्यल्लमोक्तमाकर्ण्य मुक्तायी भक्तवल्लभम् || प्रणम्य विनयेनेत्थं पप्रच्छ स्मितपूर्वकं || ९८ || ग्रन्थानधीत्य विद्वांसो देहभाजोऽस्मदादिवत् || विचार्य युक्त्या तात्पर्यं प्रौढिम्नोपदिशन्ति ते || ९९ || श्रोत्रं प्रसार्य वाग्जालं तेषां श्रुत्वाऽन्यदेहिनः || हा हेति परितुष्यन्ति किं ते लिंगांगिनो नराः || १०० || अल्लमः प्राह तां साध्वि शिवैक्यप्राप्तिसाधनं || बोधोपदेशं श्रुणु मे सावधानेन चेतसा || १०१ || ऐक्यं मुक्तिः सामरस्यं कैवल्यं ब्रह्मभूयकं || सायुज्यमिति पर्याया मोक्षस्य श्रुतिसंमताः || १०२ || जीवद्विदेहभेदेन मुक्तिः सा द्विविधा मता || जीवंस्तनुगुणत्यागाज्जीवन्मुक्तिरितीर्यते || १०३ || पृ० ५९) तनुत्रयं परित्यज्य शिवैक्यं प्राप्य निर्गुणः || विदेहमुक्त इत्युक्तः प्रारब्धान्ते न संशयः || १०४ || ज्ञानेन निश्चलीभूता भक्तिर्ध्यानेन निर्मला || क्षयित्वा वासनाः सर्वाः प्रयच्छत्युन्मनीं शुभां || १०५ || तत्रैकं कीलकं वच्मि श्रुणु मुक्तायि सांप्रतं || रहस्यं योगशास्त्रे च सूत्रितं परमार्थतः || १०६ || अस्मादृशांस्त्यक्तगुणान्गुरून्भावय निर्मलान् || सदाऽऽत्मनि दृढं भक्त्या चित्तं भवति निर्मलं || १०७ || सद्भावभावनावेशात्सदा भ्रमरकीटवत् || त्यक्वा तनुगुणान्साध्वि निर्मलज्ञानमाप्नुहि || १०८ || मुक्तायी प्राह सर्वात्मन्नल्लमप्रभुवल्लभ || कथं तनुगुणांस्त्यक्त्वा तन्वा जीवन्प्रवर्तते || १०९ || प्रभुराह यथा भ्रष्टबीजं दग्धपटं तथा || त्यक्तकायगुणः काये वर्तते मुक्त एव सः || ११० || यथा संभ्रष्टबीजानि न सस्योत्पत्तये भुवि || न रुच्युत्पादकान्नाय न बंधायागुणा तनुः || १११ || पृ० ६०) यथा दग्धपटस्यापि नामरूपं च दृश्यते || सम्यग्विचार्यते कस्याप्यर्थस्य न भवेत्क्षमं || ११२ || तथा शिवज्ञानवह्निदग्धकर्मपरंपराः || तनुत्रयविनिर्मुक्ताः प्राप्नुवन्ति परं पदं || ११३ || प्रभुं पप्रच्छ मुक्तायी यूयं निर्देहिनः कथं || यतस्ताल्वोष्ठसंधानाद्वक्त्रान्निःसरति ध्वनिः || ११४ || प्रभुराह पुनः स्नेहादहं सगुणनिर्गुणः || यतो वदन्नप्यवदन्न लिप्ये तद्गुणागुणैः || ११५ || आहतोऽनाहतश्चेति द्विविधः शब्द ईर्यते || आहतो भूतगगनेऽनाहतः स्याच्चिदंबरे || ११६ || चिदंबरमयांगानां जीवन्मुक्तशरीरिणां || न च केनापि संबन्धो निर्मलत्वाददेहिनां || ११७ || यदि देहगुणः शब्द इति चेत्पृथिवी तनुः || तदन्यस्मिन्नपि कथं गगने गर्जितध्वनिः || ११८ || आकाशस्य गुणः शब्द इति चेत्तच्छरीरि किं || नीलं नभ इति भ्रांत्या रोचते तच्छरीरिवत् || ११९ || पृ० ६१) अतो न शंकितुं शक्यं मादृशेषु चिदात्मसु || सर्वसाधारणं वक्ष्ये रहस्यं विद्धि तत्तथा || १२० || मायामेघो जगन्नीरं वर्षत्वेष यथा तथा || चिदाकाशस्य नो हानिर्न वा लाभ इति स्थितिः || १२१ || इति वेदान्तसिद्धान्तरहस्यं प्रभुणोदितं || अवधार्य मनस्यार्या प्रणम्योत्थाय तुष्टुवे || १२२ || नमोऽल्लमाय प्रणतार्तिहारिणे नमोऽस्तु भक्तालिमनोविहारिणे || मदन्तरंगावनभव्यकीर्तये नमोऽस्तु साक्षात्कृतलिंगमूर्तये || १२३ || भवद्गुणान्वर्णयितुं कियत्यहं यदादिमध्यान्तपरीक्षणक्षमाः || भवन्ति वेदागमशास्त्रकोटयो भयाकुलाः कंपनकर्षणादिभिः || १२४ || ममाजगण्यस्य वियोगजं प्रभो विहाय दुःखं निजसौख्यवारिधौ || विहर्तुमात्मैक्यविनिश्चलस्थितिं कृपानिधे मामुपदिश्य पालय || १२५ || इति प्रपन्नां शरणं प्रभुः स्वयं प्रसन्नचेताः करुणारसान्वितः || पृ० ६२) अथानुजग्राह स वेधदीक्षया शिरःस्पृशन्दिव्यकटाक्षवीक्षया || १२६ || दिदेश वाचाऽपि न चालय क्व वा सुशान्तिदान्तिभ्रमसंततिं त्यज || अहंममत्वेन कदापि संस्पृश स्थिरत्वसाम्येन वियोजय क्व चित् || १२७ || न जातु कामाद्यरिषट्कमात्मना परामृशोन्मूलय सर्वथाऽपि तत् || विवर्धयैतां निजभक्तिमेव सा ददाति मुक्तिं परमंब नास्त्यतः || १२८ || इति तनुगुणजालं सर्वमुन्मूल्य सम्यऽऽन्निरुपमनिजबोधानंदतत्त्वोपदेशात् || निजचरणसरोजध्यानदत्तावधानामतनुत शिवचिन्तामार्यमुक्तायिकां तां || १२९ || अथ कचमुपगृह्येवारुरुक्षुर्महीध्रं प्रभूगुरुकृपयैव ब्रह्मरन्ध्रात्क्षणेन || बहिरमितचिदभ्रं प्राग्विनिर्गत्य गत्या तदभजत शिवैक्यं तत्र मुक्तायिकान्ता || १३० || सुखममितमवाच्यं तत्र सा याममात्रं स्वविदितमनुभूय श्रीगुरोराज्ञयैव || पुनरपि बहिरन्तर्मध्यमध्यास्त तन्वी करधृतनिजलिंगे दृक्कलामुद्गिरंती || १३१ || अथ सकलममुष्यै बाह्यमन्तश्च लक्ष्यान्न हि परमिति बुद्धिं रोचयामास देवः || पृ० ६३) प्रभुकृततत्वोपदेशेन मुक्तायया ज्ञानप्राप्तिः | अमनुत कृतकृत्यामात्मनाऽऽत्मानमेषा प्रभुचरणमहिम्नाश्वादितैक्यानुभावा || १३२ || इत्थं प्रभौ पदनखांशुकणैरमुष्या हार्दं तमोऽपहरति क्षितिमण्डले सा || भक्तव्रजैरभिनुताऽखिलपावनीति लीलेव तस्य जयति स्म गुरोः सुशीला || १३३ || इति मुनिहितमुक्ताययंबिकायाश्चरित्रं कथितमखिलशास्त्रप्रक्रियासारचित्रं || पठत मुदितचित्ताः शौनकाद्या मुनींद्राः सकलसुजनचित्तानंदसंधानपात्रं || १३४ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां मुक्ताययात्मविद्योपदेशवर्णनगतिर्नाम द्वादशोऽध्यायः || पृ० ६४ खाली है| पृ० ६५) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ त्रयोदशोऽध्यायः | सूत उवाच- मुनीश्वराः सिद्धगुरुप्रसादतः समाहिताखंडितखंडसंविदः || अखंडविज्ञानपदप्रतिष्ठितास्सुखेन लीलां श्रुणुताल्लमप्रभोः || १ || तदनु सोऽल्लमदेशिकसत्तमः क्षितितले शिवभक्तगणान्बहून् || परमशांभवबोधसुधाप्लुतान्विरचयन्विचचार निजेच्छया || २ || प्रभुरयं स्वयमद्वय एव सन्गुरुमहेश्वरजंगमरूपधृत् || सगुणनिर्गुणभावमगोचरः प्रकटयन्विजहार महीतले || ३ || या स्वर्णला नाम पुरी धरण्यां तस्यां प्रसिद्धः खलु सिद्धरामः || आराध्य भक्त्या गिरिजाधिनाथं स्वराज्यसाम्राज्यसुखं प्रपेदे || ४ || किंचालिके नेत्रमभेद्यगात्रं निध्यादिसिद्धिं जगति प्रसिद्धिं || अभीप्सितार्थानखिलागमार्थाऽनन्ते च कैलासमनंतसौख्यं || ५ || स कृत्तिवासोवरदानगर्वितो भटाश्वमुख्यैर्बहुभिर्बलैर्वृतः || पृ० ६६) धनव्ययायैव शिवालयान्मठान् बहुप्रकारैर्भुवि चित्रयन् स्थितः || ६ || सखंडसंविद्वशगः समीहितः स्वपिण्डविज्ञानकलैकमात्रतः || अखण्डबोधामलभक्तिवर्जितः कृतार्थतामेत्य बहुक्रियापरः || ७ || न वेदशास्त्रागमचिन्तयाऽथ वा न योगसांख्योचितसाधुनिष्ठया || निनाय कालं क्व चिदप्यसौ महान्प्रयासशिल्पक्रिययैव केवलं || ८ || प्रभुर्दयालुस्तदयोग्यवर्तनं समाधिनाऽऽलोक्य शिवैक्यचिन्तया || समुद्धरिष्यामि तमेनमित्यसौ ययौ क्षणार्धेन सुवर्णलापुरीं || ९ || पुरोपकण्ठं समुपेत्य तद्गणैरपारसंभारततिं सुसंभृतां || ददर्श सेतुं लवणार्णवे पुरा निबद्धुकामैरिव रामकिंकरैः || १० || मृच्चूर्णदारूपलशर्कराणां तथेष्टकानां सिकताततीनां || राशीन्समालोक्य गुरुस्तदीयैः संपादितान्कंपितमौलिरूचे || ११ || प्राप्तं क्व कर्मेदृगमुष्य सूरेर्द्वासप्ततिस्यूतसहस्रनाडीः || संशोध्य तन्मारुतपूरणोत्थं कफादिदूरीकरणं किमेतत् || १२ || पृ० ६७) प्रभुकृतसिद्धरामकर्मावहेलनम् | यद्वा नियम्यासुगतिं विभिद्य ग्रंथित्रयं बन्धसमीकृतिः किं || किं निर्मलाखंडितपूर्णदृष्ट्या खंडोपलब्ध्यैक्यविभावनं वा || १३ || वोढुः परादिक्रिययैष राशीन् कृत्वा मृदाद्यैर्भुवि कीर्तिकामः || जाड्येन बद्धः स्वविचारशून्यो व्यर्थं कदध्वोपगतः स रामः || १४ || सिद्धोऽहमित्येष कलत्रमात्रं त्यक्त्वाधिकां संसृतिमाप चित्रां || उत्सृज्य कार्पासजसूत्रबन्धं हैमीं दृढां शृंखलिकामिवाहो || १५ || अत्यल्पसंसारमसौ विसृज्य बाह्यक्रियालंपटतामवाप || तं सिद्धरामाभिधया प्रसिद्धमाकर्ण्य सिद्धा न हि लज्जिताः किं || १६ || आश्रित्य संसारभयान्महेशं हा कष्टसंसारमवाप रामः || भीतो यथा माहिषपादघातात्प्राप्तोऽपसृत्येव गजांघ्रिदेशं || १७ || निंदन्तमित्थं स्वगुरुं कटूक्त्या तं देशिकेंद्रं चरलिंगमूर्तिं || पृ० ६८) दृष्ट्वा तदीयाः परिचारिवर्गा निवारयामासुरतीव रोषात् || १८ || निवारितस्तैरपि सोऽल्लमप्रभुः पुनः पुनस्तन्निकटे निनिंद तं || तदीयभृत्याः परिवृत्य सत्वरं प्रभुं गृहीतुं परितः समुद्यताः || १९ || अहो किमेष प्रलपत्यमंगलं निगृह्यतामद्य निबध्य शिक्ष्यतां || शिलाभिरुद्यल्लगुडैश्च ताड्यतां स्थिते तु तूष्णीमधिकं प्रजल्पते || २० || पितामहश्रीपतिवासवादयोऽप्यशक्नुवाना भृशमीक्षितुं दृशा || महोन्नतं मद्गुरुनाथमेष किं प्रदूषयत्यागतभिक्षुजंगमः || २१ || वृथोपहासोक्तिचणः कुचेष्टितैरयं गुरुस्वामिसमो भवेत्कथं || शशी कलंकीति हसन् बकः क्व वा जगत्त्रयानंदकरो भविष्यति || २२ || इति प्रगल्भोक्तिभिरात्मनिग्रहे समुद्यतानुग्रभयंकरान्प्रभुः || समीक्ष्य तद्रक्षणतत्परो मुहुर्विहस्य मर्मस्पृशमादधे गिरं || २३ || भवद्गुरोर्ज्ञानमहो वृथा गतं शिलामृदायत्तमयं प्रमोषकः || पृ० ६९) सिद्धरामान्तेवासिनां पुरतः प्रभुकृततत्कर्मावहेलनम् | स्वयं विनष्टः परनाशको हठात्क्रियोपदेशाद्भवतोऽप्यवंचयत् || २४ || अंधेन नीताः पतिता यथान्धाः कूपे तथैवास्य च शिष्यवर्गाः || यूयं क्रियाम्भोधिजले निमग्नाः प्रबोधहीनाः पतिता ह्यधोऽधः || २५ || प्रत्यग्ज्योतिर्मयमनुपमं सच्चिदानंदलिंगं साक्षात्कृत्य प्रशमितभिदास्तन्मयावस्थयाऽन्तः || जीवन्मुक्त्या सुखितुमकलाः प्राप्य तादात्म्यसिद्धिं भ्रान्ता व्यर्थं ग्रथितमतयो बाह्यकर्मण्यजस्रं || २६ || ज्योतिर्मयं द्युमणिभास्वरमात्मलिंगं मृद्दारुलोहसिकताश्मसु सन्निधाप्य || प्रासादकुंडगृहगोपुरमंडपादिनिर्मित्सया फलमहो शिवयोगिनां किं || २७ || युष्माकमीदृगवबोधकथा कथं स्याद्युष्मद्गुरुं सपदि गच्छत सिद्धरामं || आहूय तं मम पुरः प्रणिधत्त तूर्णं पाण्डित्यमस्य यदि तर्हि भवेत्प्रसंगः || २८ || यद्युत्तरं किमपि दातुमशक्नुवानः कोपेन शेषमथ पूरयितुं यतेत || किं नो वदेम वयमुत्परराम इत्यास्तावद्गुरुस्तु भवतां भवताद्गिरिर्वा || २९ || पृ० ७०) इत्युक्तवत्युदितरोषकषायितास्तच्छिष्याः कटीतटनिबद्धपटीदृढांगाः || देवं गृहीतुमुपचक्रमुरल्लमेंद्रं पादैः पदौ करतलैश्च करौ निपीड्य || ३० || आहाल्लमो गगनवत्क्व च तैरगृह्यो हा सिद्धरामगुरुशिष्यगणा भवन्तः || युष्माकमौपयिकमेव हि युद्धतत्त्वं सस्यादिनीं न खलु गां विसृजन्ति वत्साः || ३१ || युष्मद्गुरोरपि कथा कलहैकनिष्ठा तद्वन्मयेह कलहाय पदं भवन्तः || कर्षन्ति सत्फलमहो गुरुसेवयाऽऽप्तं युष्माभिरित्यभिहिता जगदुः पृनस्ते || ३२ || आहो भवान् परिहृतोऽपि पलायनार्थं किं भिक्षुकाधम पलायति नोच्चनीचैः || त्यक्त्वा पुनः पुनरपि प्रतिवादिरीत्या मन्नाथमेव बत दूषयतीव भाति || ३३ || गच्छाशु तुच्छवचनानि विसृज्य तूर्णं नो गच्छसीह यदि मूर्खतयैव भिक्षो || व्यर्थं व्यथामनुभविष्यसि कोपशीलैरस्माभिरित्यभिहितः प्रभुरब्रवीत्तान् || ३४ || युष्माभिरर्भकतमैर्न हि साहशिक्यं शक्येत कर्तुमिह वः पृथुवोद्रुरामः || पृ० ७१) अल्लमं निर्बन्धितुं सिद्धरामशिष्याणामनेकप्रयत्नप्रसक्तिः | आहूयतां बलवता कलहोऽपि योग्यः शीघ्रं प्रयात तमिति प्रभुणोदितास्ते || ३५ || अत्याग्रहेण दृढमल्लमनिग्रहाय सज्जीकृता जगृहुरेनमिवातियत्नात् || स्वामी बभूव गगनायितमूर्तिरार्ता व्यर्थप्रयासमभजन्किल रामशिष्याः || ३६ || ते विस्मिताः पुनरपि ग्रहणाय सर्वे संभूय चक्रुरतियत्नमथाल्लमस्तैः || दृष्टो गृहीत इव दूरगतो जहास भूयोऽपि रूपमुपदर्श्य समीपमागात् || ३७ || तैर्व्यामसंयमपरैरवलंबितांगाः पार्श्वस्थितस्तदनु तैः परिवर्त्यमानैः || दृष्टो हसन्सविधगैः पुनरप्यदृष्टो दूरेऽवतिष्ठति ततोऽन्यत एव भूयः || ३८ || इत्थं बहुप्रसरणैर्वलयावधानैः स्वामी चकार हतशक्तितयाऽलसांस्तान् || तैः सिद्धरामगुरुशिष्यगणैर्गृहीतुं शक्यः क्व चापि न बभूव बहुप्रकारैः || ३९ || अथ कुपितमनस्का रामशिष्याः समेताः प्रलयसमयधाराघोरपाषाणवर्षैः || पृ० ७२) इममिह गुरुनिंदादूषितास्यं निहत्य श्रवणजनितदोषं वारयामेति मत्वा || ४० || प्रभुतिलकमवर्षन् बालिशाः शैलवृष्टिं दिशि दिशि परिवार्य प्राकृता दुर्मदान्धाः || क्षितितलमगमत्सा नाल्लमं प्राप किंचिद्गगनमिव समन्ताद्व्यापकं निर्विकारं || ४१ || अथ पुनरपि रोषात्कुंतबाणासिशूलक्षुरपरिघमुखातिक्रूरघोरायुधानि || नरपशुभिरमुष्मिन्सच्चिदानंदमूर्तौ प्रणिहितपतितानि प्राप्नुवन् व्यर्थभावं || ४२ || यत्पांचभौक्तिकतनुर्न गुरुर्गुरूणां चिन्मात्रमूर्तिरतेव न लोभजालैः || पाषाणवृष्टिभिरशक्यतया प्रहर्तुं व्यर्थीचकार हतविक्रमरामशिष्यान् || ४३ || दुष्टानपि प्रभुरसावथ तानवेक्ष्य शांतिं चकार हृदये न तु कोपलेशं || निर्वैरघातसमघातनिहंत्रघाता यन्नीचमध्यममहोत्तमलोकधर्माः || ४४ || यद्यप्यधीशितुरिहेदृशदुर्मदान्धा दण्ड्यास्तथाऽपि यदि कोपकृशानुलेशः || पृ० ७३) सिद्धरामस्य सेनाभिस्सह प्रभोर्युद्धवैचित्र्यकथनम् | जायेत तेन भवनत्रयमेकधैव दह्येत मूषकरुषा गृहदाहवत्तत् || ४५ || इत्थं विचार्य जगतां गुरुरल्लमेंद्रस्तूष्णीं बभूव पुनरप्यथ रामशिष्याः || गत्वा निवेद्य कलहोन्मुखमाशु चक्रुस्सैन्याधिपं शतसहस्रमहाबलाढ्यं || ४६ || तस्याज्ञयैव चतुरंगबलान्यसंख्यान्युत्पातवच्चरणधूतधरापरागैः || आच्छाद्य बिंबमरविंदसखस्य तूर्णं पूर्णं विनिर्ययुरमुं प्रति राजधान्याः || ४७ || दृष्ट्वा सैन्यशतानि सोऽल्लमविभुः स्वस्मिन्पुरा पातित- प्रोच्चप्रस्तरपर्वतोपरि हसन्नारुह्य पश्यंस्थितः || सेनास्तं परिवव्रुरात्तपरशुप्रासासिकुंतादिकै- स्सन्नद्धास्सकलायुधैरथ गजैरश्वैरसंख्यैर्युताः || ४८ || आलोक्याथ समीपगान् प्रभुमणिस्तांस्तान्महासैनिका- न्नेकोऽपि प्रथितात्मवैभववशात्तत्तत्समानाकृतीन् || बिभ्रत्पूरुषविग्रहांच्छतसहस्नानेकलक्षाधिकां- श्चक्रे तैः सह वीररौद्ररसिकैर्युद्धं विचित्रक्रियः || ४९ || पत्तिं पदातिवदसौ रथिनं रथीव सादीव सादिनमथो गजिनं गजीव || पृ० ७४) एकैकशः पृथगुपेत्य विहाररीत्या चिक्रीड भीकरवपूः सुचिरं रणाग्रे || ५० || तत्तत्प्रयुक्तनिखिलायुधजालमाशु च्छित्वा क्षणेन न हि तान्हतवान्महात्मा || वाग्भर्त्सनेन सकलानजयद्विचित्रं मातेव पुत्रकलहोद्यतपाणिरेषः || ५१ || अन्तर्मदं सकलमप्यपहाय तेषामप्येकमत्र न जघान दयांबुराशिः || हन्याद्धरिः पुरहरोऽपि सुदर्शनेन नायं सुदर्शनगुरुर्हतवान् रिपूंश्च || ५२ || योगीश्वरस्यास्य महामहत्वं नो भूतभाव्येष रणे सपत्नान् || अहिंसयन्नेव जिगाय चित्रं कुत्रापि नास्तीति ननंदुरार्याः || ५३ || तच्छिष्यवर्गास्त्वसहिष्णवस्तत्सामर्थ्यमन्वीक्षितुमप्यनीहाः || विज्ञाप्य रामाय सुशिक्षणीयो भिक्षुर्हठादित्यनुजग्मुरेनं || ५४ || ते दण्डवत्तं प्रणिपत्य भूमौ व्यजिज्ञपन् प्राजंलयोऽथ रामं || यः कश्चिदस्मन्निकटं समेत्य त्वां जंगमोऽदूषयदेकवीरः || ५५ || पृ० ७५) युद्धोद्धतप्रभोःपुरतः सिद्धरामस्य स्वोत्कर्षोक्तिकथनम् | तेनाथ नाथाः कलहाय गत्वा रोषाद्वयं भग्नमनोरथाः स्मः || वक्तुं न युक्तं तदवाप्तदैन्यं जानातु युष्मच्चरणारविंदं || ५६ || त्वां वोढृरामाभिध इत्यनर्हं यज्जंगमोऽत्रापजहास गर्वात् || तदेव नः खेदयति प्रभोऽस्मान् यन्निंदयामास ततो न खेदः || ५७ || श्रुत्वा तदीयं वचनं स रामो विहस्य को वा मयि हास्यकारः || ब्रह्मा हरिर्वा बलभेदनो वा किं वालिकाक्षो न हि जंगमोऽयं || ५८ || भिक्षाटने पर्यटतः कुतो वा किं जंगमस्यास्त्यपहासचेष्टा || इत्थं ब्रुवंच्छीघ्रगतिः स रामस्तस्थौ समागत्य पुरोऽल्लमस्य || ५९ || क्रोधारुणाक्षोऽल्लममाह रामः को वा भवान् दैवहतः कुभिक्षो || विनिंद्य मां लोकगुरुं कथं वा विच्छिन्नजिह्वोऽनुचरैर्न भूयाः || ६० || अहो कथं जंगम इत्युपेक्ष्य स्थिते मदीयैः किल तान् प्रताड्य || मामप्यनादृत्य करोषि धौर्त्ये ह्युन्मूलये सावटुनाडिजिह्वां || ६१ || पृ० ७६) इति ब्रुवन्तं स्वनिपातनाय रुषा समुद्यन्तममुं समीक्ष्य || प्रभुः स्मयन्सर्वजनाभिनंद्यः समत्वसौंदर्यखनिस्तमाह || ६२ || सिद्धान्वयोद्धारक साधु साधु स्वरूपमेतद्धि भवादृशानां || तपस्वियोग्यं सहनं विसृज्य किं साहसं कर्तुमुपक्रमेथाः || ६३ || पिपीलिकादिक्रिमिकीटहिंसाभयात्पदं वर्त्मनि दृष्टिपूतं || न्यस्यन्ति रागादिभयात्सदैव चित्तं निरुंधन्ति शिवैकतानाः || ६४ || इत्यल्लमे वक्तरि साधुवाचां रोषादश्रुण्वन्निदमाह रामः || अविद्यमाने मयि साहसिक्यं सैन्ये मदीये कृतमास्त्वयाऽहो || ६५ || साधारणानां यमिनां पुरस्ताद्वक्तव्यमेतत्कपटोक्तिजालं || न शक्यते मन्निकटेऽभिधातुं दह्येत लोको दलितेऽलिकेक्ष्णि || ६६ || रामोक्तिमाकर्ण्य विभुस्तमूचे विहस्य साधूक्तमहो त्वया प्राक् || नेत्राग्निकीलैः कति वाऽत्र दग्धाः किमाततायित्वमिदं बुधार्हं || ६७ || भो सिद्धरामार्य तव प्रसिद्ध हिंसैव सिद्धा ननु संप्रदाये || पृ० ७७) प्रभुकृतसिद्धरामपराभवपरिपाठी | अहो न दृष्टाश्रुतपूर्वचर्या युष्मादृशाः कुत्र च योगिवर्याः || ६८ || पापौघराशिर्भवता गृहीता कोपो धनत्वेन न योगिनस्ते || अर्हन्ति गोष्ठीं भवपाशबद्धान् विहाय राशीकृतपापकोपान् || ६९ || श्रुत्वाऽल्लमोक्तं हृदि सिद्धरामः कोऽसावविज्ञातमदीयशक्तिः || ब्रूते छलोक्तीरिति फालनेत्रं चित्रं नटद्भ्रूकुटिरुन्मिमेष || ७० || जाज्वल्यमानो निटिलात्तदाऽग्निर्निर्गत्य गन्वाऽल्लमपादमूलं || स्प्रष्टुं न शक्तः परिवृत्य सर्वान् ददाह तत्रत्यजनांच्छिखाभिः || ७१ || कोलाहलस्तत्र बभूव सर्वे रुदन्त इत्थं जगदुस्तदोच्चैः || हा हाऽयमज्ञातपरात्मशक्तिः प्रभुं द्विषन् दाहयति स्म सर्वं || ७२ || निजोष्ठनाशाय दरिद्रकोपो भवेदिति प्राकृतसिद्धमेतत् || आलातमादाय निजोत्तमांगं कण्डूयते को नु जगत्यभिज्ञः || ७३ || कोपोल्बणं सोढुमशक्नुवानो नीव्रे निधायोल्मुकमुज्वलं तं || पृ० ७८) गेहं दहंतं परितः कृशानुं को वा पुनस्तं शमयेद्विमूढः || ७४ || नेत्रं पुरा दर्शयितुर्ललाटे पादे पुनर्दर्शयिताऽधिकोऽस्ति || दंदह्यमानां चटुलाग्निकीलैः सुवर्णलां यः शमयेत् स योगी || ७५ || इत्थं प्रजाऽऽक्रोशवचांसि श्रुत्वा तूष्णीमशक्त्यैव बभूव रामः || आकर्ण्य संरक्षितुमल्लमेंद्रो दयार्द्रचित्तः प्रशमोन्मुखोऽभूत् || ७६ || अंभोनिधेस्तन्मथनात्समुत्थं लोकत्रयीदाहककालकूटं || उग्रो यथैवाशमयत्प्रभुस्तं सुवर्णलादाहकमाशुवह्निं || ७७ || तदद्भुतं वीक्ष्य स सिद्धरामः श्रीसिद्धवीरेश्वर एव साक्षात् || समागतो रक्षितुमस्मदादीनित्यागतोऽभूद्विनयात्समीपं || ७८ || मां बुद्धिहीनं शरणं प्रपन्नं पाहीति भक्त्या पदयोः पपात || न ह्युत्थितोऽभूत्सदयो गुरुस्तं हस्तेन धृत्वोत्थितमाशु चक्रे || ७९ || तमाह किं राम शिवव्रतानामस्मादृशामीदृगकार्यमर्हं || पृ० ७९) श्रीसिद्धरामकृताल्लमस्तुतिकथनम् | पूजायशोलाभनिमित्तमाहो किमात्मलाभस्मरणं प्रशस्यं || ८० || इति ब्रुवन्तं परिपूर्णभावं प्रणम्य भक्त्या च भयेन रामः || तुष्टाव दुष्टावनमिष्टदं तं शिष्टाग्रगण्यं बहुधा विनीतः || ८१ || स्मरारिरिति भावना न हि तवोचिता सद्गुरो यदर्धकृतदेहया गिरिजयाऽसि नालिंगितः || मुरांतक इतीरणा न तव युज्यते मायिक- स्तमःप्रचुरनिद्रया स्वपिति सो हि शययां गतः || ८२ || स्वरूपमुपमीयते जगति केन वा तावकं निरंजनमनामयं निरुपमाद्वयं निर्गुणं || अमेयमहिमोदयं प्रशमविक्रमोपाश्रयं भवन्तमिह भावये कपिलसिद्धयोगीश्वरं || ८३ || सदैव निजपोषकं यदनुयाति मेषोऽप्यहो भवन्तमखिलात्मनां गुरुमहं क्रियानिष्ठुरः || उपेक्ष्य गतवानहं विबुधनिंदितां द्रोहितां कृपानिलय मां प्रभो कृपणमीदृशं पालय || ८४ || पृ० ८०) ददौ मम महेश्वरो विधिवशाल्ललाटे दृशं तया खलु खलात्मतामनुभवन्भृशं गर्वितः || प्रबोधविधुरो धुरा दुरितमाचरन् दुष्करं तदद्य विनिवर्त्य मामुपदिशाऽऽत्मबोधं गुरो || ८५|| स्तुवन्निति स पादयोः प्रभुमणेः पपातांचित- स्तनौ पुलकराजिभिर्नयनयोश्च बाष्पांबुभिः || तदंतरमथाल्लमः समधिगम्य तापात्पुनः सुनिर्मलमिति स्मयन्नभिदधे स तं रक्षितुं || ८६ || अहो तव मुखोदितैः कटुवचोभिरुच्छ्रुंखलैर्न किंचिदपि मे मनः सुविमलं शिशो कुप्यति || कृपैव मम जायते यदबुधेषु तिष्ठेदिति प्रसह्य निजपाणिना प्रणतमभ्युदस्थापयत् || ८७ || अथोत्थिततनुर्ह्रिया स्वयमधो मुखः स्वामिना किमार्य हृदि चिंतया तव हितोपदेशाय मां || समागतमवेहि मा मुखमधः कुरु श्रावये रहस्यमिति भावितः क्षणमथोन्मुखस्तुष्टुवे || ८८ || समस्तजगतां पते सकलकारण श्रीगुरो भवान्प्रभुरपि स्वयं सपदि जंगमाकारभृत् || समागतितीदृशी कथमुदेति बुद्धिर्मम प्रतारितमतेस्तया त्रिगुणमायया सर्वतः || ८९ || पृ० ८१) सिद्धरामं प्रति प्रभूक्तसल्लक्षणनिरूपणम् | प्रभुः पुनरुवाच तं बहुविधैरहो भूतले चरन्ति विबुधोत्तमाः कृतकवेषभाषादिभिः || न तेषु हृदि शक्यते रचितुमुच्चनीचात्मकं विकल्पनमणु क्वचिच्छरणसेवकानां नृणां || ९० || क्षितावपि च केवलं हृदि विभावयेज्जंगमा- कृतिं स्ववयवोज्वलां सगुणलिंगमूर्तिं परां || समुन्नतसुवेषभृज्जगति वंचको वर्तते न वेषपरिपूर्णता भवति पूर्णविज्ञानिनः || ९१ || ततोऽत्र न हि कारणं महति वेषभाषादिकं प्रबोधकलनैव सा हृदयसंधिलग्ना परा || अतींद्रियतयान्यहृन्न खलु शक्यते बोद्धुमि- त्यतः कमपि दूषयेन्न हि तदेव दोषार्जनं || ९२ || एकं प्रदूष्य पुनरेकतरं प्रभूष्य वैषम्यवर्तनमिदं शरणस्य नार्हं || किं त्वीषितैककलया सकलं सदैव व्याप्नोति सर्वसमदृष्टिरतो हि योग्या || ९३ || गोब्राह्मणप्रततये शुभमस्तु नित्यं लोकास्तथैव सुखिनः सततं भवन्तु || इत्याशिषं हि सुजनाः प्रवदन्ति सर्वे नाकर्णितं नु भवता ननु सिद्धराम || ९४ || पृ० ८२) श्रुत्वाल्लमस्य वचनं विनयेन रामः प्रोवाच देव बत मे गतवासरेषु || नो मध्यमाधममहाजनभेदचिंताजीर्णा कदापि तत एव न बोधदृष्टिः || ९५ || युष्मत्पदाम्बुरुहदर्शनपुण्यलब्धा प्रज्ञा ममापि कलयत्यखिलात्मसाम्यं || नातः परं प्रविचलामि मतेरमुष्यास्सोऽहं यथेत्थमनुशाधि कृपांबुराशे || ९६ || विज्ञापयन्तमिति तं प्रभुराह रामं वैराग्यभाग्यमवलंब्य दिने दिनेंऽग || अभ्यासदार्ढ्यमवधारयतः क्रमेण चित्तं स्थिरं भवति सात्विकसेवनेन || ९७ || चित्ते स्थिरे भवति शान्तिरपारसौख्यसंपादिका शमवतो न हि भेदबुद्धिः || भेदभ्रमेऽथ शिथिले निखिलांतरस्थं ज्योतिः परं स्वयमुदेति समं समन्तात् || ९८ || तस्यैकरूप्यमरिमित्रजनावियातां योषिच्छिले गृहवने स्वपरौ स्वलोष्टू || हीनाधिके च हठराजपदैकनिष्ठो यः शान्तिमाप हृदये निजसौख्यहेतुम् || ९९ || तावत्त्यजेन्न हि पुमान् हठराजयोगं नापि त्वरेत सहसाऽऽत्मनि योगसिद्धौ || व्यग्रोऽलसोऽपि न भवेत्परिवर्द्धयेच्च मर्यादयैव समतां न भजेत यावत् || १०० || पृ० ८३) स्वोद्धारार्थं सिद्धरामकृतप्रभुमहिमानुवर्णनम् | इत्थं प्रयासमपहाय विरागहीनो यो योगसिद्धिमभिवांछति शीघ्रगत्या || भ्रष्टोविनष्टधिषणः स भवेत्ततोऽस्य श्रीमद्गुरूपसदनेन कृतार्थता स्यात || १०१ || गुरूपदेशेन विना न योगो न बोधवैराग्यतपोबलानि || गुरूपदेशेन विना न किंचिच्छ्रयेत्ततः श्रीगुरुनाथमादौ || १०२ || प्रभोर्निशम्य श्रुतसारवाक्यं प्रणम्य तं प्रांजलिराह रामः || गुरुर्गुरूणां परमो दयालो त्वमेव मां श्रीगुरुनाथ शाधि || १०३ || त्वत्तोऽधिको वा न गुरुः समो वा योगीन्द्र विद्याविभवेन लोके || लिंगावधानं सुलभोपदेशात्त्वमेव संभावयिता न चान्यः || १०४ || गुरो भवद्दर्शनमेव मे भवंत्यमोघदिव्याखिलयोगसिद्धयः || भवत्पदस्पर्शनमेव सांप्रतं समत्वमित्याशु गृहाण मां प्रभो || १०५ || मुक्तिस्तवैव करुणार्द्रकटाक्षदृष्टिः स्वामिन् कृतार्थयितुमेहि मठं मदीयं || मल्लेश्वरं करुणयैव विलोक्य लिंगं मामुद्धराशु गुरुमण्डलसार्वभौम || १०६ || पृ० ८४) श्रुत्वैतदल्लमविभुः पुनराह रामं योगीश्वरस्य न हि सर्वगतस्य भेदः || ग्रामे वने वरगृहे गिरिगह्वरे वा चक्रांगतूलशयनेऽथ शिलातले वा || १०७ || सद्बोधकानि निखिलानि वचांसि तस्य तद्वर्तनं च सकलं शिवभक्तिमार्गः || स्थैर्यं सुनिर्मलतपश्चरणं तदीयं तच्चिंतनं च परतत्वकलानुभूतिः || १०८ || रामो व्यजिज्ञिपदमुं विनयाभिरामः स्वामिन् कियांस्तव पुरः प्रतिवक्तुमेषः || यत्रैव तत्र भवतः प्रसरेन्निजेच्छा तद्वेद्मि दिव्यपटमूलसभानिकायं || १०९ || श्रीमत्पदाम्बुजपरागकणः क्षणं वा यत्र स्थिरो लगति सैव भवेत्सुधर्मा || स्थित्वा मनीषितनिजाश्रयपुण्यदेशे शिष्यस्तवास्म्यनुगृहाण दयाम्बुधे मां || ११० || त्वत्सेवकं करुणया जनमेनमेनो निर्द्धूय सद्गुरुविभो कुरु दीनबंधो || पादाम्बुजप्रसरदेकरजःकणेन देहीश सद्गतिमनुग्रहदृक्कणेन || १११ || दुष्टोऽप्ययं तव कटाक्षवशादिदानीं शिष्टो भवत्वखिललोकगुरो गृहाण || पृ० ८५) प्रभुसिद्धरामयोरुक्तिप्रत्युक्तिः | लोहं रसेंद्रकणवेधवशात्क्षणेन प्रत्यक्षतः किमिह तत्कनकायते न || ११२ || इत्थं वदन्तमभितः शरणागतं तं बोधाधिकारिणमथ प्रतिपद्य चित्ते || स्वामी तथापि गुरुशिष्यपथप्रचारं लोके प्रकाशयितुमाह स सिद्धरामं || ११३ || अन्तर्मुखं स्थिरतया सह योजयित्वा चित्तं प्रमत्तकरणानि विधेयभावं || नीत्वोत्तमाचरणवच्छरणेषु संविद्बीजं वपेन्न हि बहिर्जनतोषरोर्व्यां || ११४ || बीजं प्रधानमपि धीनिधिना समुप्तं सुक्षेत्र एव फलतीह न चेतरत्र || यद्याशया वपति दुष्टतले तदेव नश्येदिति स्म गदितः पुनराह रामः || ११५ || भो आदिनाथ न बहिष्कुरु मामनाथं नाथो भवाह्नि जगतां भवदंघ्रिसेवा || जन्मान्तरार्जितमदुत्कटपुण्यलब्धा किं वा विधूय दुरितं चरितं न दध्यात् || ११६ || भो श्रीगुरुस्वामिपदाभिषिक्त त्वत्पादसेवोदितदिव्यधाम्ने || न खण्डसंविन्न च कर्मकांडः प्ररोचतेऽतः परमीश मह्यं || ११७ || अतःपरं मे परमार्थबन्धो गतिस्तवैवांघ्रिसरोजयुग्मं || पृ० ८६) श्रुतिस्मृतिश्चापि न वाक्यतस्ते गतः प्रपत्तिं त्वयि रक्ष रक्ष || ११८ || इति ब्रुवन्नश्रुपरीतनेत्रो रोमांचितैः कंचुकिताखिलांगः || पपात रामो भुवि दण्डवत्तत्पादाम्बुजाश्लिष्टकराब्जयुग्मः || ११९ || अथाल्लमगुरुः कृपाभरितदिव्यचित्तान्तरो निधाय करपंकजं शिरसि तं समुत्थापयन् || समीपमुपनीय सन्मधुरवाक् पितेवात्मजं जगाद परिलालयन् निजकृपांबुधौ लोलयन् || १२० || ये संत्यहो चतुरशीतिगणेयलक्षसंख्यातभेदघटिता भुवि जंतुवर्गाः || तेषां स एव शिवयोगिवरो मुमुक्षुर्यत्त्विंद्रियाणि परिशिक्षयितुं समर्थः || १२१ || रामः कृतांजलिरुवाच तुरींद्रियाणि रूपाधिरूढविषयाननुसृत्य यांति || श्वानः शशानिव तदीयजयः कथं स्यात् स्वामिन्कृपानिलय मामनुशाधि सम्यक् || १२२ || आहाल्लमः श्रुणु मनः सकलेंद्रियाणां राजा तदीयविषयोन्मुखतानिरोधे || पृ० ८७) आत्मोन्मुखं ह्यनुसरन्ति तदिंद्रियाणि श्रेष्ठं यथा मधुकरं सरधास्तथैव || १२३ || रामः श्रीगुरुमाह देव यदि तच्चित्तं निजव्यापृते- र्व्यावृत्तं न भवेत्तदा धनचयं संपाद्य दारान्सुतान् || पुष्णन्नर्थिजनेष्टदः क्रतुतपोदानादिधर्मांश्चरन् देवागारवनीतटाककृतिभिः पुण्यैर्न किं श्रेयसे || १२४ || श्रुत्वाऽऽहाल्लम एष लौकिकनृणां पंथा हि साधारणो नो लिंगैक्यसुसावधानमनसां कैवल्यसिद्धिप्रदः || किंतु क्लेशकरः कृषीवलसमास्ते कर्मठाः कर्मणां बीजावापसधर्मणां फलमहो सस्योपमं भुंजते || १२५ || लिंगानुसंधानसमाधिभाजां नो जातु धर्मैकरतिः प्रशस्ता || देवालयारामतटाकमुख्या ध्यानस्य सर्वाः कृतयोंऽतरायाः || १२६ || न नित्यसौख्यानुभवस्य हेतुः क्रिया यशोलाभनिमित्तभूता || पूजादिकामैः कृतकर्मदंभा नार्हंति तद्ध्यानकलैकमात्रं || १२७ || मांसाशयाऽयःकृतयंत्रशंकुं मीनो ग्रसित्वा मृतिमेति मूढः || पृ० ८८) ब्रह्मादिजीवो विषयाभिलाषात्प्राप्नोति तद्वज्जनिमृत्युदुःखं || १२८ || अतः परित्यज्य समस्तकर्माण्यखण्डचिज्ज्योतिषि लीनचित्तः || शिवानुसंधानसमाधिशाली समाप्नुयान्निर्विषयैकसौख्यं || १२९ || ध्यानावधानी यदि बाह्यकर्मा स्मरेन्मनाग्वा तदवाप्य वृद्धिं || आच्छादयेद्ध्येयकलां यथैव धान्यौषधीं दुष्टतृणं विवृद्धं || १३० || चिल्लिंगमूर्तेरवलोकनं यः प्रत्यक्षतः स्वानुभवैकसिद्धं || उत्सृज्य कर्माऽऽचरते फलार्थी पिधाय नेत्रे निपतेत्स कूपे || १३१ || ध्याताऽपि कर्माचरणे प्रवृत्तो ध्यानं न सिध्येद्दृढमत्यभावात् || मध्ये यदा मृत्युहतः स योगी भ्रष्टः कथं वा भविता न जाने || १३२ || श्रुत्वाथ रामो गुरुनाथ विद्वन् लोके यथा मृत्युमतीत्य मर्त्यः || जीवेत केनापि पथा स सूक्ष्मो यद्यस्ति तं ब्रूहि ममेत्युवाच || १३३ || स्वाम्याह चार्द्रावसरे सुकृष्टे क्षेत्रे तृणानामिव बीजवापं || चित्ते स्थिरे कर्मरतिं विहाय तत्वैकदृष्टिर्विधिनाप्यवध्यः || १३४ || ब्रह्मावलोकनपरं परिहृत्य कर्म सर्वान्तरायजयसाधनयोगनिष्ठं || पृ० ८९) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः | ब्रह्मादयोऽपि न विचालयितुं समर्थाः काले कदाऽपि दिविजास्सुविनिश्चितोऽयं || १३५ || किं चेषदंगविकलं भुवि कर्मतंत्रं नो किंचिदस्य फलतीति हि शास्त्रनिष्ठा || मूर्तिश्च भोगरहिता विहितप्रतिष्ठा न्यूनातिरेकवशतः खलु देवतायाः || १३६ || विज्ञाय चैवमिह सज्जति कर्मकाण्डे को वाऽवबुद्धगुणदोषकथो मुमुक्षुः || वेदाभिमानजटिलो यदि कर्मनिष्ठस्तस्य क्व चापि न भवेत्परतत्वलाभः || १३७ || अस्त्यंतरं बहिरिति द्वयमस्य जन्तोस्सर्वस्य चांतरखिलानुभवैकवेद्या || विज्ञानदीपकलिका विलसत्यमोघा संदृश्यते बहिरशेषमृषाप्रपंचः || १३८ || तस्माद्बहिः प्रवहणं हृदयस्य भंक्त्वा विज्ञानदीपकलिकोन्मुखमेव चित्तं || अंतःपथाकलितवृत्तिपरः सदैव कुर्वीत धीनिधिरहो श्रुणु सिद्धराम || १३९ || भो सिद्धराम बहिरंतरपि द्विरूपा हृन्मारुतस्य गतिरत्र तु रेचकाख्या || पृ० ९०) बाह्यान्तरंगविषया ननु पूरकाख्या ते द्वे हृदब्जनिलये विदधीत लीने || १४० || अभ्यासरुद्धपवनद्वयमध्यनाडीमार्गेण मेरुशिखरं प्रतिपद्य योगी || ज्योतिः परं य इह पश्यति दिव्यलिंगं साक्षात्स एव कृतकृत्यतमो महेशः || १४१ || लिप्तो विषेण बहिरप्यनवाप्तमृत्युस्तद्वद्बहिर्विषयसंगतिरागसेन || पीत्वा विषं तु न हि जांगलिकेन रक्ष्यो न ब्रह्मणोऽपि विषयानुभवी तथैव || १४२ || रामेह के च न गता ननु साधकत्वं मोहाद्दुरन्तविषयानपरित्यजन्तः || संपाद्य दोषमिव योगमणिप्रभाया भ्रष्टा भवंत्युभयतः पतिता दुरीहाः || १४३ || ये घोरसंसारदवाग्निमध्ये पापच्यमानाः शरणं प्रपन्नाः || श्रेयःपदं योगमहो न तेषामर्हः पुनर्दुर्विषयाभिलाषः || १४४ || कुक्षिंभराः के च न योगिवेषं संधाय काषायकमंडलाद्यं || मंत्रौषधाद्यैः किल वंचयंति संभाषणं वाऽप्युचितं न तेषां || १४५ || विषयेंद्रियाणि विषमाण्यपरित्याज्यान्यपि स्वयं त्यक्त्वा || शिवयोगिनः कृतार्था निजसुखनिरता न यांति वैकल्यं || १४६ || पृ० ९१) श्रीसिद्धरामायाल्लमकृततत्वोपदेशः | पतितः पंके करिराडवलंब्य बलं स्वकीयमेव दृढं || स्वयमुत्थितः श्रयेत्तटमितरः कः शक्नुयात्तमुद्धर्तुं || १४७ || त्वं राम शैवदीक्षाप्रक्षीणरजस्तमोविमोहोऽपि || त्यक्तान्तर्निजमार्गः कर्मपथे बहिरहो प्रवृत्तोऽसि || १४८ || निगमागमान्तनिष्ठस्त्वमिह परित्यज्य कर्मतंत्राणि || परिभवहेत्वरिजयतस्सद्यो मुक्तिं भजस्व रामार्य || १४९ || ज्ञानाज्ञाने द्वे इह हेतू मोक्षस्य बंधनस्यापि || भक्तिर्ज्ञानं कर्माज्ञानमकर्मैव मुक्तिरित्युक्ता || १५० || ज्ञानेन कर्मनाशे मुक्तिः फलितैव सहजसिद्धा सा || कण्ठे चामीकरमिव नास्मिन्नर्थेऽस्तु संशयः कश्चित् || १५१ || ज्ञानी कर्मासक्तो यदि भवति शुने ददत्स पक्वान्नं || पूतिश्रोणापानं कुरुते मूढो विवेकराहित्यात् || १५२ || लिंगानने सकलवस्तुचयं समर्प्य भुंजन् रसार्पणपरो हृदि तत्प्रसादं || पृ० ९२) निष्कर्मतां समुपयाति स एव मायाभर्तेति राम विदितो बहुना किमत्र || १५३ || सर्वेंद्रियाणि बलवंति यदा तदैव मृत्योर्जये मतिमुपेत्य निरस्तमोहः || ध्यानावधाननिरतः परिहृत्य बाह्यं सच्चित्सुखात्मपरिणाममुपैति राम || १५४ || भ्रान्तिं विसृज्य विभवेषु निरस्तकर्मा निर्मायिको निरतधारणयात्मनिष्ठः || ऐक्यं विभाव्य शिवजीवकलाद्वयस्य निर्लेपरूपपरमो भव सिद्धराम || १५५ || चित्तं वृत्तिसहस्त्रसंकुलमिदं कृत्वैकवृत्याश्रयं संस्थाप्येष्टपरे दृढं सुविमलं तत्प्राणलिंगे पुनः|| संबध्य स्थितधीर्दृशं सुनिपुणां संधाय लक्ष्यात्मिकां तृप्तिं प्राप्नुहि भावलिंगकलनात्संगं समस्तं त्यजन् || १५६ || लिंगांगसंबंधपदार्थबोधाल्लिंगांगसंबंधपदैक्ययोगात् || लिंगं त्वमेवासि न चास्ति भेदः सत्यं सदा साधय सिद्धराम || १५७ || लोके कशाताडनपार्ष्णिघातघेंकारशब्दाः खलु दुष्कुलस्य || पृ० ९३) श्रीसिद्धरामायाल्लमकृतवीरशैवदीक्षादिनिरूपणम् | कुलीनवाजी मुखरज्जुकृष्ट्या चित्तानुवृत्या प्लवतेऽधिपस्य || १५८ || श्रीवीरशैवागमदीक्षितः सन्ब्रह्मानुसंधानपरो भवेद्यः || स एव योगी न गुरुर्गुरूणां सुनिश्चितोऽयं सकलागमार्थः || १५९ || सिद्धराम निगमागमशास्त्रप्रक्रियापटलवक्रतयाऽलं || श्रीगुरूक्तशिवतत्वसमुद्यद्योगमार्गनिपुणो भव नित्यः || १६० || इत्युदीर्य कृपया गुरुवर्यस्तत्र चिद्यवनिकां परिकल्प्य || आसने समुपवेश्य रहस्ये दीक्षया तमकरोत्कृतकृत्यं || १६१ || फालपट्टलिखितं परिमृज्य स्वांघ्रिणाऽथ भसितैः कृतरेखः || मस्तकोपरि निधाय च हस्तं दृष्टिपूतमकरोद्वपुरस्य || १६२ || श्रीशांभवीं समुपदिश्य च दिव्यमुद्रां वेधेन चिन्मयतनुं विरचयय रामं || देहेंद्रियादिरहितं सहितं विबोध्य लिंगे निमग्नहृदयं सदयं चकार || १६३ || इत्थं स जीवपरमैक्यहितोपदेशं तस्मै ददौ प्रभुरमुष्य हृदि क्षणेन || अर्चांचितेव सुदृढं स्थिरतामवाप ज्योतिःकलैव निजनिर्मलबोधरूपा || १६४ || तस्याथ मानससरो विललास तूर्णं हंसोऽपि तत्र विहरन् परितृप्तिमाप || पृ० ९४) सौषुम्नसीम्नि विकसन्नवचक्रवीथीमुल्लंघ्य चिद्गगनसौख्यमवाप रामः || १६५ || अन्तः समाधिमधिगत्य शिवैक्यनिष्ठामास्वाद्य हृद्यनुपमामथ सिद्धरामः || विस्मृत्य बाह्यमखिलं विनिनाय कं चित्कालं प्रभोः करुणया परमामृताब्धौ || १६६ || भूयो बहिः करतलस्थनिजेष्टलिंगे सद्भावलिंगनिलयादसुलिंगमेत्य || दृष्टिं स्थितानुभवसौख्यमसौ विभाव्य हर्षात्पपात पदयोः प्रभुलिंगमूर्तेः || १६७ || हर्षाश्रुपूर्णनयनः पुलकांकितांगस्सर्वं शिवात्मकमिदं जगदेव पश्यन् || भक्त्या प्रणम्य रभसादथ कंपमानः प्राह प्रभुं प्रतिकृतांजलिरेष रामः || १६८ || भावत्कपादसरसीरुहसन्मरंदसेवावशादवगता शिवयोगसिद्धिः || अज्ञानगाढतिमिरं सकलं विनष्टं विज्ञानदीपकलिकेह चकास्ति चित्ते || १६९ || पूतोऽस्मि सत्करुणया तव देशिकेंद्र जाता प्रभोऽद्य हि ममाभिमतार्थसिद्धिः || नीतो वशं तव जगत्त्रितयैकबंधो बंधो न मे निजकलानवबोधहेतुः || १७० || पृ० ९५) श्रीसिद्धरामायाल्लमकृतमंगलाशीर्वचनम् | प्रभुसिद्धरामयमिनोस्संवादं द्रष्टुमागतास्सिद्धाः || अन्तर्धाय तदानीमित्थममन्यंत चेतसा सर्वे || १७१ || क्व गतं नु सिद्धराम स्वान्ते जटिलं समग्रमौद्धत्यं || निर्यातः केन पथा गर्वस्सर्वंकषस्तथाऽखर्वः || १७२ || कर्माकांक्षा क्व नु वा संक्षिप्ता कीर्तिकामना तद्वत् || लीना कुत्राऽसहनं कुत्र च शिथिलं क्षणादहो चित्रं || १७३ || अथ वा सज्जनसंगतिमहिमाखिलसिद्धिकारणं पुंसां || संगौषधं हि सन्तः कृतकृत्योऽयं प्रभोर्यतः संगात् || १७४ || अथ विनयेन कृतांजलिमेनं प्रभुरादरात्समालिंग्य || स्वयमनुजग्राह वरान् वचसा मधुरेण चेतसा सदयं || १७५ || चेतःशुद्धिः शंकरे भक्तिनिष्ठा ज्ञानस्थैर्यं योगसिद्धिः समग्रा || वांच्छासिद्धिः कायसिद्धिर्गुरूणां कारुण्याप्तिः सन्तु ते सिद्धराम || १७६ || इत्यल्लमप्रभुवरे कृपयेष्टसिद्धीराज्ञापयत्यवनमयय शिरोऽथ रामः || बाढं कृतार्थ इति सौख्यसुधांबुराशौ मन्नो बभूव परिपूर्णशिवैक्यभावः || १७७ || इति सकलमुनींद्राः सिद्धरामस्य चित्रं चरितमभिहितं वः श्रोत्रभीष्टार्थदायि || पृ० ९६) इह मुदितमनस्का ये पठन्त्यामनन्ति प्रभुरधिकमभीष्टं सिद्धिसौख्यं ददाति || १७८ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां सिद्धरामोपदेशगतिर्नाम त्रयोदशोऽध्यायः || पृ० ९७) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ चतुर्दशोऽध्यायः श्रीवीरेश्वरसिद्धदेशिकमहासम्राड्पदांभोरुह- ध्यानासक्तहृदंबुजाश्चरगुरुश्रीलिंगपूजारताः || संदष्टेंद्रियदुर्विकाररहितास्सद्भोगमोक्षार्थिनः पुण्या भक्तगणाः प्रमादरहिताः शृण्वन्तु लीलां प्रभोः || १ || सद्भक्तिं बसवाधिपस्य बहुशः श्रुत्वा सुधीभ्यः प्रभु- स्संतुष्यान्तरचिंत्यवैभवघनस्तं द्रष्टुमुत्कंठितः || निर्यन् स्वर्णलिकापुरान्निजपदश्रद्धान्वितेनान्वितो रामेणाथ ययौ तदीयनगरं कल्याणनाम्ना श्रुतं || २ || मध्येमार्गमनर्गलार्ककिरणैरप्राप्यगर्भस्थला- नारामान्पनसाम्रपूगकदलीजम्बीरजंबूवटैः || तालाशोककपित्थपाटलमुखैरन्यैरनन्योपमान् वापीकूपसरांसि च प्रतिपदं कुल्याश्च पश्यन्ययौ || ३ || पृ० ९८) क्रीडोद्यानतटाकपुष्करनदीशालीक्षुरंभावली- र्जाजीकुंदकुरंटकादिसुमनोवाटीः पृथक्कल्पिताः || रुदाक्षागरुनारिकेलबदरीखर्जूरवाटीः पुनः पश्यंच्छीतलचंदनाद्रिमरुतां व्रातैर्ययौ सेवितः || ४ || मार्गे मार्गे पुष्पवाटीषु वाताः पांथश्रान्ति वारयन्तः समंतात् || सेवन्ते स्म स्वामिनं श्रीगुरूणां मंदं मंदं स्वागताश्चंदनाद्रेः || ५ || कस्तूरीभिर्लिप्तवेदिस्थलानि स्वादूशीरैः कल्पितैः कायमानैः || रम्याणि स्युस्तत्र चित्राणि मार्गे पांथस्वान्तानंदसंधायकानि || ६ || मध्ये मध्ये धर्मशाला विशाला मार्गस्थानां सन्निवेशाः प्रदेशाः || स्थातुं योग्याः षड्रसान्नादिपूर्णा रेजुश्चित्रं सत्रशालाः प्रपाश्च || ७ || बालानां नवनीतदुग्धकलशैर्डोलाशतैः पालिका याश्शालाः शिशुकान्प्रपोष्य सुखितान्कृत्वाऽथ तत्र स्वयं || भुक्त्वाऽभीष्टरसायनान्नममलं पानीयमास्वाद्य तत्पर्यंकेषु महाटवीषु च सुखं संविश्य पान्थाः स्थिताः || ८ || प्रातः संगवमध्यसायसमयेष्वन्तस्तथा रात्रिषु प्रीत्याह्वानरवास्सदाऽतिथिगणानव्याजमैत्रीजुषां || पृ० ९९) प्रभुकृतबसवेशपालितदेशवर्णनम् | अश्रूयन्त वने वने प्रतिपदं भुक्त्यर्थमिष्टाशनै- स्सन्तुष्टानुपचारवाऽऽन्मधुरिमा नो शक्यते भाषितुं || ९ || आहो श्रीबसवेशभाग्यमहिमाधर्मस्वरूपः स्वयं भूत्वा भूमितले कलिं परिहरन् कृत्वाऽदिमं सद्युगं || पुण्यात्मा निजपादपद्मभजनान्निर्धूतदोषात्मनां सर्वेषामुभयत्र सौख्यकलनां सद्यः स्वयं यच्छति || १० || इत्यागन्तुकवाग्धुनीमनुपमां शृण्वन्प्रभुः सर्वगः पश्यंस्तद्बसवेशधर्मविभवं नेत्रोत्सवं भावयन् || वाण्यानंदसमग्रया शुभगुणांस्तस्याधिकं वर्णयन् हा हा श्रीबसवेशदिव्यमहिमेत्यत्यादरं तुष्टुवे || ११ || आनंदात्प्रभुरस्य कीर्तिमतुलां गायंच्छिरःकंपनै- रालप्यानुभवादिवाथ रचयन्नाट्यं समन्तात्स्तुवन् || रामं प्रत्युपपादयन्ननुपदं मत्तोऽधिको भक्त इत्याहो श्रीबसवेशभक्ततिलकेत्यन्तः परं तुष्टुवे || १२ || भक्तानां महिमा पितामहमुखैर्नो वर्णितुं शक्यते किंचिन्नांतरमस्ति भक्तशिवयोर्भक्तोऽधिको वा शिवात् || पृ० १००) भक्तानामपि मुक्तिदः स्वयमयं सच्चित्सुखात्मा यतो धर्मः श्रीबसवेश्वरोऽखिलगुरुर्वेदान्तकल्पद्रुमः || १३ || स्वाम्येवं बसवेशभक्तिमतुलां रामाय संबोधयन् कल्याणालयमाजगाम नगरं कल्याणनाम्ना श्रुतं || तत्प्राकारबहिःप्रदेशनिकटे क्रोशद्वयीमात्रतः सांद्रास्तत्र ददर्श रम्यसुमनोवाटीः समन्तात्प्रभुः || १४ || तद्गारुत्मतरत्नकुट्टिमतलान्याकीर्णमुक्तामणि- श्रेणीतुल्यमशोकपादपगलत्पुष्पोज्वलानि प्रभुः || किंचानंगनिषंगरंगदतुलस्निग्धाम्रमालूरस- न्मंदारप्रमुखानुदारविटपिस्तोमान्ददर्शाल्लमः || १५ || चित्रं तत्र जगाम स त्रिभुवनश्रीदेशिकेंद्रः स्फुटं कल्याणोपवने द्विजैः शुकमुखैस्सर्वागमान्तःस्थितैः || नादब्रह्मपरं गृणद्भिरुदितान्याकर्णयन्नीश्वर श्रीशंभो शिव शंकरेति सततं प्रोच्चस्वरैः सर्वतः || १६ || गन्धाकर्षणचातुरी न भवतां किं गंधवाहत्वमि- त्याक्रोशत्स्विव झंकृतैरलिगणेष्वानंदसंधायिनः || आकृष्टाखिलपुष्पसौरभघनाः कर्पूररंभावटा- पृ० १०१) कल्याणनगरवर्णनम् | स्तत्राध्वश्रमपश्यतोहृतिचणाश्चेरुर्मरुड्डिंभकाः || १७ || पदे पदे योगमठा हठार्थिनां मठे मठे शिष्यगणा गुणाधिकाः || गुणे गुणे शांभवशास्त्रचिंतना प्रभोरतन्वन्नधिकं मुदं हृदः || १८ || समस्तकल्याणनिधानमीदृशं दृशाऽनुजग्राह जगद्गुरुः स्वयं || प्रभुः स कल्याणपुरं पुरंदरत्रपाकरं प्रोन्नतहेमगोपुरं || १९ || विशालशालोन्नतिमस्य भानुमद्रथाश्वमुख्याः प्रविदन्ति नेतरे || द्विषन्मृगस्तोमभयंकरायते यदुज्वलद्व्याघ्रमुखाख्यगोपुरं || २० || हरस्य वास्तव्यगृहायते पुरं यतः सुराद्रिः शिवदर्शनोत्सुकः || समागतस्तिष्ठति हाटकोज्वलत्कवाटसौधोन्नततोरणच्छलात् || २१ || प्रविश्य तद्द्वारमतीत्य तद्गणं सुवक्रधारावलयैर्विशंकते || जनः पुनर्निष्क्रमणाय शीलितोऽप्यहो नवीनः किमु तत्प्रवेशने || २२ || पृ० १०२) न पण्यवीथीगणभाग्यवैभवं बृहस्पतिर्वर्णयितुं क्षमो भवेत् || यदुद्यदभ्रंकषरत्नराशयो हसन्ति मेरुं गिरिशेन कुंचितं || २३ || युगः कलिर्येन कृतः कृताह्वयः पुरं चिरं तद्बसवेन पालितं || न वर्णितुं शक्यमहो महीशितुः सुभक्तिनिष्ठेव तदाकृतिः स्फुटं || २४ || न हि प्रवेष्टुं परवादिभिः क्षमं परैश्च यत्तत्परिखा दुरत्यया || महोत्पलं तत्र च पंकजायितं रसातलस्त्रीकुचयक्षकर्दमैः || २५ || राजन्ते बसवेंद्रचातकमुखे सौख्याप्तये वर्षितुं सत्कारुण्यरसं प्रभुर्घनतरः सोऽयं समायास्यति || द्रष्टुं तत्र विमानपंक्तिरमरैस्संप्रेषितेतीव त- त्पुर्यट्टालकपर्वतेषु परितश्चैत्यानि हैमान्यहो || २६ || वादार्थागतबादरायणमधः कुर्वन्ति तत्र द्विजा राजानो न हि रूढितो रिपुजयं युद्धेष्वकृत्वा पुनः || वैश्यास्तु व्यवहारभारसमयेऽप्यव्याकुला धर्मत- स्सर्वेऽन्येऽपि च शूद्रकादिनिवहा न्याये स्वके निष्ठिताः || २७ || पृ० १०३) बसवालयं प्रति प्रभोरागमनम् | मातंगाश्वजवः पुरे गणयितुं न ब्रह्मणा शक्यते कामो वेत्ति पटुस्तनोन्नतिमतीं बिंबाधरीणां द्युतिं || सर्वत्र व्रतनिष्ठया नियमिनां सज्जंगमानां गृहाण्यावासाशनदाननिर्जितमहामेरूणि चारूण्यभुः || २८ || तत्पत्तनं निजपदांबुजघट्टनेन चित्रं पवित्रितजगत्त्रितयो विवेश || स्वाम्यल्लमस्तत इतश्चरणांगुलीषु विन्यस्तमस्तकसमस्तजनः कृपावान् || २९ || घंटापथे परमजंगमलिंगमूर्ते रामस्य हस्तमवलंब्य महानुभावः || आगत्य तद्बसवगेहसमीपशालामभ्याययौ सविनयं भजमानभक्तः || ३० || तद्द्वारमण्डपगतौ प्रभुसिद्धरामावालोक्य तावमनुताखिलयोगिवर्गः || नत्वा शिवः सगुणनिर्गुणरूपधारीत्यत्रागतः प्रथयितुं बसवेंद्रभक्तिं || ३१ || अत्रांतरे हठपदार्पणनामधेयो भक्ताग्रणीः प्रभुमवंक्ष्य तदंघ्रिमौलिः || गत्वा व्यजिज्ञिपदमुं बसवेश्वराय लिंगार्चनैकरतये गणसंघमध्ये || ३२ || पृ० १०४) श्रुत्वाऽल्लमं स्वगृहमागतमार्यमिश्रो ब्रह्मावलोकनसुधांबुनिधौ निमग्नः || साक्षादमन्यत शिवं करपीठपूजासंतुष्टमागतममुं चरलिंगमूर्त्या || ३३ || प्रोवाच तं बसवमंत्रिवरोऽर्पणार्य साक्षात्सदाशिवगुरुः प्रभुलिंगमूर्तिः || अत्राऽऽगतः करुणयैव वयं कृतार्थाः शीघ्रं प्रयाहि तमिहानय देशिकेंद्रं || ३४ || श्रुत्वा वचो हठपदार्पणभक्तमौलिस्तस्यागतः प्रभुमणिं रचितप्रणामः || भक्त्या व्यजिज्ञिपदमुं शरणार्थितोक्त्या स्वामिन् विशांतरिति तं पुनराह देवः || ३५ || क्वान्तः क्व वा बहिरहो सकलात्मभावसंतुष्टनिर्मलधियां शरणोत्तमानां || नास्माकमागमनमौपयिकं प्रभूणां लोकाभिमानबहुता महतां गृहाणि || ३६ || आकूतगर्भितमिदं वचनं निशम्य च्छेकोर्पणः सविनयं भयभक्तिनम्रः || स्थित्वा स्वयं सविध एव गुरूत्तमस्य संप्रेष्य तत्स बसवं त्वरितं चकार || ३७ || लिंगार्चनं लघुतया सुसमाप्य विद्वानुत्थाय तत्र बसवो भयकंपितांगः || पृ० १०५) प्रभावपराधिनो बसवस्य माचयस्य चोक्तिप्रत्युक्तिः | चिंतां चकार हृदि हा विधिदुर्विपाकाद्गर्वांधतामनुगतोऽस्मि कृतापराधः || ३८ || यद्वा पुनः किमपि वक्तुमनास्तदन्यद्वक्ताऽस्मि किं विकलितो गुरुभक्तियुक्त्या || हा हाऽल्लमप्रभुवरो मम देशिकेन्द्रो नांगीकरोति सदनं सदयं प्रवेष्टुं || ३९ || भक्तिर्गता क्व नु ममाऽद्य जगद्गुरूणां जाता मनस्यरुचिरित्थमहो मयीति || चिंताविलं बसवमंत्रिवरं समीक्ष्य जानश्नुवाच हृदयं मणिवालभक्तः || ४० || अत्रागतः करुणयाऽल्लमदेशिकेन्द्रो भक्तावनैकचतुरः स्वयमेव साक्षात् || विज्ञाय चैवमधुना बसवार्य तूर्णं प्रत्युद्गमं न कृतवान्यदयुक्तमेतत् || ४१ || तं प्राह सोऽथ बसवो मणिवालसूरे भो माचयार्य वचनं तव सत्यमेतत् || मद्रीतिरब्धितरणोद्यतसाहसिक्ये विस्मृत्य देहमविचालितपाणिकल्पा || ४२ || नष्टं विवेकनयनं दुरदृष्टतम्या प्रत्युद्गमं न कृतवानविलंबितं यत् || क्रुद्धे शिवे गुरुरवत्यभवो न रक्षेत्क्रुद्धे गुरौ तु शिव एव गुरुस्तु सोऽयं || ४३ || इत्थं ब्रुवन्सभयसंभ्रमवेपमानस्सर्वैर्गणैः प्रभुसमीपमुपेत्य साकं || स्वामिन् क्षमस्व करुणांबुनिधेऽल्लमेंद्र श्रीमद्गुरो प्रभुवरेति पदोः पपात || ४४ || पृ० १०६) सर्वापराधकृतमेनमनाथबन्धो नाघ्रातशास्त्रनिगमागमगंधलेशं || दीनं भवत्पदयुगं शरणं प्रपन्नं मां पाहि पाहि दयया जगदेकवंद्य || ४५ || अज्ञानसागरगतोऽयमहं विशुद्धविज्ञानरत्ननिधिरेष भवान्महात्मा || विश्वस्य रंजकतयाऽहमिह प्रवृत्तस्त्वं निर्मलात्मघन एष निरंजनोऽसि || ४६ || सोऽहं पशुः पशुपते भवपाशबद्धः पत्युर्हि निघ्नमवनं त्रिजगत्पशूनां || आलोकितुं मम गुणानलमार्तबन्धो रक्ष त्वदीयगुणमद्य गुरो वितीर्य || ४७ || इत्थं स्तुवन्स बसवोऽल्लमपादपद्मद्वंद्वे पतन्निजगणैस्सह नोदतिष्ठत् || स च्छन्नवीरबसवः समये विधिज्ञो विज्ञापनां समतनोत्प्रभवे प्रभूणां || ४८ || पुत्रेषु कुत्र जननीजनकौ जगत्यामागस्विषु प्रतिपदं त्यजतः कृपां तां || माता पिता गुरुरधीश्वर इष्टबन्धुर्दाता त्वमेव बसवस्य सदाऽल्लमेंद्र || ४९ || तस्मादमुष्य जगदेकगुरोऽपराधान्सर्वान्क्षमस्व कृपयेति स भक्तिनम्रः || पृ० १०७) प्रभोः पुरतः माचयार्यकिन्नरार्ययोः प्रार्थना | पादाभिषेचनविधिं प्रमदांबुपूरैरोमांचकंचुकितसर्वतनुश्चकार || ५० || अत्रान्तरे स मणिवालकमाचयार्यो दंडप्रणामशतकैः प्रभूमर्चयित्वा || भक्त्या व्यजिज्ञिपदमुं बहुयुक्तियुक्तं मौलौ कृतांजलिपुटो महनीयवाचा || ५१ || युद्धे परित्यजति चेत्करलाघवं तद्दोषाय साधनचणः सुगुरोः पुरस्तात् || अभ्यासदार्ढ्यसमये खुरलीगृहान्तर्भ्रंशे तु बोधनममुष्य गुरोर्हि युक्तं || ५२ || बालो हि देव बसवः किल भक्तिमार्गे युष्मद्बलं समवलंब्य पटुः प्रवृत्तौ || ज्ञानक्रियाविमलभक्तिपथान्प्रबोध्य भक्तावमुं स्थिरयितुं भवतां हि भारः || ५३ || इत्थं प्रवक्तरि गुरोर्धुरि माचयार्ये तत्रान्तरे सकलभक्तगणाभिनंद्यः || विज्ञप्तिमाचरदमुं प्रति किन्नरार्यः सर्वेश्वरं प्रभुमथाल्लमदेवदेवं || ५४ || यन्निश्चयो निजतनुस्तनुरित्यजस्रं लिंगस्य तद्वदपि जंगम एव जीवः || स्वस्येति तस्य बसवस्य भवत्पदाब्जद्वंद्वस्य न क्वचन भेदकथा प्रभो स्यात् || ५५ || स्वामिंस्तथापि यदि तत्र भवान्यतेथाः भक्तिं परीक्षितुममुष्य दृढां त्वमित्थं || पृ० १०८) तत्कारणं भवदमोघकृपार्द्रदृष्टेर्हैन्यं न जातु बसवस्य जगद्धितार्थिन् || ५६ || बालस्य देव जननी हनुताडनेन भूयोऽपि पाययति किं न पयस्तदस्य || संरक्षणाय न भवेत्किमु तद्वदेषा शिक्षाऽपि रक्षितुममुं निजभक्तिदार्ढ्यात् || ५७ || विज्ञापयत्यथ गुरुं प्रति किन्नरार्ये सर्वे गणास्तमनुसृत्य कृतप्रणामाः || विन्यस्तमस्तकनिजांजलयो विशुद्धाः प्रस्तावयोग्यवचनं बभणुस्तमीशं || ५८ || आम्नायशास्त्रनिगमागमसंहिताद्या विद्या भवत्पदयुगं न विदन्ति साक्षात् || ज्ञातुं तथा न मुनयो मनवो महत्वं कारुण्यलेशमपहाय गुरोः समर्थाः || ५९ || ये तर्ककर्कशविवादचणा भवन्तं ते शक्नुवन्ति न करस्थमपि गृहीतुं || यत्रास्ति भक्तिरमला परमेश्वरस्य तत्रैव तिष्ठति भवानतिगोप्यरीत्या || ६० || सांख्याः प्रधानमिति योगचणाः पुमानित्याम्नायिनो नियतिरित्यथ पांचरात्राः || वैकुण्ठ इत्यभिदधत्यखिलागमान्तसिद्धान्तसारहृदयास्तु शिवं भवन्तं || ६१ || पृ० १०९) प्रभोः पुरतः सिद्धरामस्य प्रार्थना | तादृग्विधः सकलकारणमीशिता त्वं यन्निर्गुणोऽपि गुणवानिव शुद्धसत्वः || भूमाववातर इदं बसवार्यमौलेस्संरक्षणाय खलु लोकगुरो महात्मन् || ६२ || स्तुत्वैवमीश्वरगणेषु नतोत्तमांगेष्वंगानुषंगिपुलकांकितकंचुकेषु || रामः प्रणम्य वचनं विनयाभिरामः प्राहाल्लमप्रभुवरं प्रकृतोपयुक्तं || ६३ || लोके समस्तनिजभक्तगणावनाय धृत्वा स्वयं सुलभजंगमलिंगलीलां || आगत्य राजसपराजिततेजसामप्यस्मादृशां विमलबोधपदप्रदोऽसि || ६४ || युष्मत्पदैकशरणांच्छरणानमूंस्त्वं संरक्षितुं किल समागतवान् दयालो || भूयस्तवास्य बसवेश्वरभक्तिनिष्ठा न्यूनातिरेकगुणदोषकथा कथं स्यात् || ६५ || मानावमानसुखदुःखगुणागुणाद्यं यन्नास्ति देव तव सर्वविकल्पजालं || तस्मादनेन नटनेन किमेनमेनः संक्षाल्य देव बसवं परिपाहि भक्तं || ६६ || नाहं ब्रवीमि बसवादितरत्र किंचित्क्षन्तव्यमाग इति तत्पदयोः पपात || उत्थाप्य पाणिकमलेन स सिद्धरामं प्राहाल्लमप्रभुवरः पशुपाशहन्ता || ६७ || पृ० ११०) राम त्वया न विदितं जगतीह भक्तैर्विक्रीयतेऽन्यदपरं ग्रथितं हि कक्षे || वाचा वदन्ति परमार्थपदानि किंचिन्नैवाचरन्ति वचनार्थसमं स्वयं तु || ६८ || आर्याः किमप्युपदिशन्ति गृहं प्रयाते यज्जंगमे सविनयं तमनर्चयन्तः || यत्नेन केवलकरस्थितलिंगपूजां भक्तिच्छलेन कुरुतेति विरुद्धबोधान् || ६९ || वाचं निशम्य बसवो जगदेकबंधोर्भक्त्या गृहीतचरणः शरणं भवेति || प्रोवाच देव भवतामवतारलीला भक्तावनाय खलु संप्रति बद्धदीक्षा || ७० || मायां विधूय भवता परिपालितोऽभूद्गोगः कृषीवलतया किल गां गतो यः || आयासकृत्यमपहाय बभूव गोगो लक्ष्यं गतः शिवपुरात्पृथिवीं गतोऽपि || ७१ || मुक्ताययपाकृतजगद्विषयात्मबोधान्मुक्ताऽभवत्किल भवत्कृपयैव देव || एषोऽपि रामशरणः समताप्तजीवन्मुक्तिः समाहितमतिः समभूत्त्वयैव || ७२ || इत्थं त्वन्महिमानुभावमतुलं श्रुत्वाहमुत्कंठितो भक्तेभ्यः क्व नु वागमिष्यति गुरुर्मुक्तोऽखिलैः संशयैः || जीवामि क्व नु तत्कृपामृतरसैरित्यंबुदं चातकः पृ० १११) प्रभुं प्रति श्रीबसवेशप्रार्थना | पक्षीव स्पृहया स्थितोऽद्य भवतः पादाम्बुजं दृष्टवान् || ७३ || कारुण्येन समेत्य मामिह यदि श्रीमान्परित्यक्ष्यसे का वा मेऽत्र गतिर्विचित्रमहिमन् किं स्पर्शवेधीरसः || संपश्यत्ययसो गुणं मम तनुः सर्वापि राशीकृता दोषैः किं शितिमास्ति वा मृगयितुं पिण्याकशाके प्रभो || ७४ || मा निंदन्त्वथ ताडयन्तु बहुलं कुप्यंतु वा संप्रति श्रीमत्पादयुगं त्यजामि न कदेत्यानन्दबाष्पोद्गमैः || च्छन्नश्रीबसवेन वीरबसवं पादौ गृहीत्वा दृढं भक्तैरप्यखिलैः स्तुवन्तम धिकं प्रोवाच देवोऽल्लमः || ७५ || वाक्येषु स्फुटमीक्षितेऽत्र भवतां भक्तिर्न वृत्तौ क्वचि- त्तत्साम्यं न हि यत्र वर्तनवचः सद्भावनासु स्थिरं || तत्र क्वापि च न प्रसीदति शिवो युष्मादृशां भक्तित- स्साक्षी सर्वजगद्गुरुस्सहि सदा सर्वान्तरंगस्थितः || ७६ || इत्युक्त्वोपरतं प्रभुं स बसवो भक्ताश्च संतुष्टुवुः स्वामिन् सत्करुणारसार्द्र भगवन्भक्तिं स्थिरां देहि नः || संप्राप्तुं गुरुलिंगजंगमकृपां तत्कीलकानुग्रहा- दस्मानद्य कृतार्थयोपदिश नः शैवं रहस्यं गुरो || ७७ || पृ० ११२) प्रभुरिति बसवेशप्रार्थनां निश्चितार्थां सकलजनहितार्थं स्वात्मनीनां निशम्य || सदयमथ तदीयस्वस्तिकान्तः प्रवेष्टुं सकरुणमुपदेष्टुं स्वान्तरंगीचकार || ७८ || इति कथितमृषीन्द्रास्साधुकल्याणपुर्यां प्रभुचरितममोघं सर्वकल्याणहेतुं || पठति परमभक्त्या यः शृणोति प्रभाते प्रभुरधिकममुष्मै भोगमोक्षौ ददाति || ७९ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां प्रभुकल्याणागमनबसवसंदर्शनतदनुग्रहौन्मुख्यप्रतिपादनगतिर्नामच तुर्दशोऽध्यायः || पृ० ११३) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ पंचदशोऽध्यायः | सूत उवाच- श्रीसिद्धेश्वरपादसेवनरता लिंगैक्यनिष्ठापरा बाह्यान्तःकरणप्रचाररहिताश्शेषप्रसादार्थिनः || मौनींन्द्राः प्रभुलिंगमूर्तिमुरलीश्रीशंकरब्रह्मणो- स्संवादामृतदिव्यशांभवकला लीला प्रभोः श्रूयतां || १ || स्थित्वाप्यस्थिरतां गतं स्थिरंहृदं भूत्वा भवं कारणं गत्वा चाप्यगतं पवित्रचरितं व्याप्यं पुनर्व्यापकं || भक्तानां सुलभं तथाप्यसुलभं तं देशिकेंद्रं प्रभुं स्तुत्वाऽन्तर्गृहमल्लमं स बसवः प्रावेशयद्भक्तितः || २ || भक्तिं भावयतां मनस्सु बसवस्यानादिसिद्धां स्थिरां भक्तानां प्रगुणैर्गणैः परिवृतः कक्षान्तरं प्राविशन् || तत्रापश्यदसौ प्रसादविलसत्कुंडाख्यवाप्यास्तटे तिष्ठन्तं मुरलीरवश्रुतिकलासंधायिनं शंकरं || ३ || सारे प्रसादकुण्डस्य तीरे परमपावने || पृ० ११४) दूरे दुरितगन्धस्य य आस्ते भवनाशने || ४ || तं दिव्यमूर्तिं दलिताखिलार्तिं महाप्रभावं परमैक्यभावं || प्रभुश्चिरं शंकरसिद्धवर्यं मुमोद पश्यन्मुरलीविधिज्ञं || ५ || सर्वं जगन्मरुसमं हृदि लाति योऽयं तद्वन्मृषामरुमरीचिवदार्यवर्यः || के चित्ततो मरुलशंकरदेवनामेत्याचक्षते तमथ लोकगुरुर्ददर्श || ६ || तं दिव्यपुरुषरत्नं यत्नात्प्रभुरीक्ष्य हर्षभरितोऽभूत् || सोऽपि माहत्मा चाल्लममवलोक्य पदाम्बुजं हृदा दध्यौ || ७ || उत्थाय योगपीठाद्भयभक्तिभ्यां समीपमागत्य || दण्डप्रणाममकरोत्प्रभुपदयोर्मरुलशंकरो योगी || ८ || स्तुत्वाऽथ सिद्धरामं प्रति शरणार्थ्यहमिति ब्रुवन्विनयात् || शृण्वत्सु निखिलभक्तेष्विदमूचे प्रभुमुदारधीर्मरुलः || ९ || अद्य श्रीगुरुमूर्तिमाहतरजःस्फूर्तिं श्रुतिख्यातस- त्कीर्तिं निर्गतजूर्तिमाश्रितमनःपूर्तिं समस्तार्तिहं || अस्मत्कल्पतरुं जगत्त्रयगुरुं श्रीमत्प्रभुं दृष्टवा- नाहो निर्गलितापवर्गसरणौ भ्रान्तिर्ममात्यन्तिकी || १० || पृ० ११५) श्रीसिद्धरामं प्रति प्रभुकृतमुरलीशंकरमाहात्म्यम् | इत्युक्तं प्रभुराकलयय वचनं प्रोचे पुनः शंकरं त्यक्त्वा ब्रह्मकपालमैंदवकलां वैयाघ्रचर्मांबरं || भोगीन्द्राभरणं मृगं डमरुगं साक्षात्कृतं शंकरं वेद्मि श्रीमरुलाभिधानपिहितं त्वामेव सच्चिद्धनं || ११ || रामं प्राह तदाऽल्लमः शृणु सखे साक्षादयं शंकरो नैनं वेद महान्तमेष बसवो नित्यं स्वगेहे स्थितं || भक्तिज्ञानविरागपूर्णकलशस्सोऽयं प्रसादाव- धान्येषः श्रीगुरुरीश्वरो विजयते गूढः क्षितौ पर्यटन् || १२ || रूपं शब्दरसौ च गन्धमतुलं स्पर्शं च तैरिंद्रियैः पंचैताननुभूयमानविषयानिच्छानुभूतिं विना || एष स्वानुभवैकनिश्चलधिया लिंगार्पितान्भावय- न्पूर्णात्मा कुरुते प्रसादभजनं नित्यावधानो गुरुः || १३ || बाह्याचारपरैरगम्यमहिमा क्षीरेषु सर्पिर्यथा सोऽयं भाति तिलेषु तैलवदहो लोको न जानात्यमुं || यो वा कोऽपि जनो विनैव मथनं भक्ता हि नैतादृशा पृ० ११६) ज्ञायन्ते परितश्चरंति धरणावुन्मत्तवन्मूकवत् || १४ || सन्त्येके बहवः स्वभूषणपरा ये वेषभाषान्विता लोके स्वोदरपूरणैकनिरताः कापट्यधौर्त्योदिताः || प्रायस्तानधुनाऽर्चयंति न मुनीन् विज्ञानिनो दांभिकाः पूजाडंबरता हि तामसधियां नान्तर्विशुद्धिर्नृणां || १५ || केनेशानमुपास्यतामिह पथा वर्तेत मुक्तिः करे संपद्येत कथं नु साधकतमा सा सावधानस्थितिः || इत्थं हृद्यविचार्य भक्तिसरणिं सर्वाधिकां प्रेप्सतां रीतिः सागरशैवलोपरि पदं न्यस्येव पारं गतिः || १६ || रजस्तमोवृत्तिसरूपभाजश्चरभ्रुवास्तीर्णभवाः कथं स्युः || कथं गुणान्वाऽथ तनोस्त्यजन्ते न नाममात्राच्छरणः शरण्यः || १७ || इति ब्रुवन्तं प्रभुदेवदेवं स सिद्धरामो विनयादुवाच || प्रभो समाराधयितुं विदित्वा वयं विमूढाः कथमीश्महे त्वां || १८ || पशून् भवन्तं कारणं प्रपन्नाननुग्रहीतुं बिरुदस्त्वदीयः || पृ० ११७) मुरलीशंकरविषये प्रभुसिद्धरामयोस्संलापः | तमेव गर्भाकृतसर्वमन्तोर्विचार्य नः पालयितुं तवार्थः || १९ || भवत्कृपालाभकथैव निष्ठा भवेद्गरिष्ठा नियमव्रतानां || त्वदीयकारुण्यविहीनजन्तोस्समस्तपुण्यानि च नो फलंति || २० || स्वयं निजानंदरसैकपूर्णं हृदन्तरस्थाननटन्महेशं || बहिः सदोन्मादिवदेव लक्ष्यं कथं वयं स्मो मरुलं प्रबोद्धुं || २१ || मरुलब्रह्ममहत्वं परिशीलयितुं क ईशते मनुजाः || हरिदश्वकिरणसरणिं कथमिव घूका निरीक्षितुं शक्ताः || २२ || अथ सिद्धरामवचनं प्रभुराकलयन्पुनः स्मयन्नूचे || रामार्य साधु सूक्तं भवता भवतापहारिणा भजतां || २३ || आगत्य सहाऽस्माभिर्लब्ध्वाप्यस्मच्छिवैक्यविज्ञानं || त्यक्त्वाऽस्मद्वाग्रीतिं दृढसमरसभक्तिमेव बध्नासि || २४ || दृढभक्तिबंधनिपुणो मामनुकूलयसि युक्तियुक्तपदैः || समता समाधिसरणिस्फुरणं तव जातमेतदेव वरं || २५ || ग्राह्यं हि युक्तियुक्तं वचनं बालेन भाषितं वाऽपि || पृ० ११८) त्वमधीतसकलतंत्रो मम हि स्पृहणीयवाक्यसारोऽसि || २६ || रामः प्रभोरुदारामर्थगभीरां गिरं समाकर्ण्य || तच्चरणनिहितनिटिलो भयविनयाभ्यां व्यजिज्ञपद्देवं || २७ || प्रभुसार्वभौम मामिह गौरवसारेण पातयन्नित्यं || किमिति प्रभूषयस्यलमाश्रितमेनं कृपानिधे पाहि || २८ || महिमाऽस्य मरु?शंकरयतिराजन्यस्य देवमान्यस्य || श्रवणामृतायमानो भवता गुरुनाथ वर्ण्यतां तावत् || २९ || इति विनयावनतं तं पतिरिदमूचे जगद्धितं वचनं || शृणु सावधानहृदयो मरु?आर्यस्यास्य दिव्यमहिमानं || ३० || जानामीति ज्ञानमुत्सार्य बाह्यं ज्ञानान्तस्थं ज्ञानमेनं निबोध || प्रत्यग्दृष्टिः प्रत्ययौघे विलीने यस्य स्थैर्यं यात्यहो नित्यलिंगे || ३१ || ऐक्यं यो यातीष्टलिंगेन साकं दृष्ट्या स्थैर्ये ज्ञानमयया य ईष्टे || जन्मस्थानं शांतिदांत्योस्तमेनं विद्धि भ्रान्त्युच्चाटने धीरचित्तं || ३२ || क्रीडोद्यानं शैवधर्मोत्कराणां स्वांगैः श्रीलिंगप्रसादावधानी || हिंसाभीत्या कुक्षिपूर्त्युद्यमांस्तांत्सर्वांस्त्यक्त्वा मौनमुद्रां दधाति || ३३ || पृ० ११९) मरु?शंकरविषये प्रभवे बसवेशवचनम् | गत्वा नित्यं जंगमाराधकानां लिंगश्रीगुर्वर्चकानां गृहाणि || भुक्त्वा तेषामेष शेषप्रसादं धत्ते देहं तुल्यधीर्लोष्टहेम्नोः || ३४ || हैन्यं दैन्यं क्वापि वा नास्त्यमुष्मिन् कामक्रोधौ स्थातुमारादशक्तौ || धत्ते सोऽयं प्रातिशौक्र्यं मदास्थाव्यामोहानां लोभमात्सर्ययोश्च || ३५ || कौत्सित्योद्यद्वृत्तिसन्तानपालेर्मूर्धांगोद्यत्प्रोच्यपाषाणपातः || सिद्धोऽयं सर्वांगलिंगप्रसादी नैनं किंचिद्वेंद्रियार्थाः स्पृशन्ति || ३६ || इत्थं प्रभौ सपदि वक्तरि सिद्धरामं श्रुत्वा सुविस्मितमना बसवाधिनाथः || निध्याय तं मरु?शंकरमल्लमेंद्रं प्रत्याह तत्र भगवान्परमार्थदृष्टिः || ३७ || यद्वद्विवस्वदुदये कमनीयरत्नच्छाया दृशोऽपि सविशेषतया प्रसर्पेत् || तद्वद्भवच्चरणदर्शनलब्धपुण्याद्देदीप्यमानतनुमेनमपश्यमार्यं || ३८ || पश्यामि शंकरमुनिं त्रिविधप्रसाददीक्षाधुरंधरममुं करुणापयोधिं || पृ० १२०) यद्येव देव भवदीयकटाक्षदृष्ट्या सोऽहं कृतार्थतम एव महानभूवं || ३९ || इत्युक्तवन्तमथ तं बसवं जगाद देवोऽल्लमः श्रुणु सखे बसवार्य विद्वन् || भक्तो भवादृगिह कुत्र च नास्ति लोके मत्तोऽधिकस्त्वमसि भाग्यनिधे महात्मन् || ४० || चित्तं परीक्षितुमियत्समयं मया त्वं नानाप्रकारवचनैरवमानितोऽसि || आहो तथाऽपि न चलत्यणु वा त्वदीयं चेतो मरुत्प्रसरणैर्मणिदीपिकेव || ४१ || उच्छ्रुंखलानि वचनानि मयैव तावत्त्वामीरितानि न भवान् प्रतिवक्ति किं चित् || दान्तिक्षमाधृतिदयाशमसौमनस्यविज्ञानभक्तिभयकल्पतरुस्त्वमेव || ४२ || इत्थं वदन्तमवदद्बसवोऽल्लमेंद्रं श्रीमत्प्रभो न भवतः स्तुतिपात्रमेषः || अत्युन्नतोपरि निवेशनमल्पजन्तोर्जायेत केवलमधः पतनाय नूनं || ४३ || त्वं यंत्रधार इह लोकगुरोऽहमेकं यंत्रं भवत्करधृतेषु बहुष्वधीश || यंत्रक्रिया हि सकला भुवि यंत्रिनिघ्ना स्तोत्रं तवार्हति जडो न चिदात्मनोऽयं || ४४ || पृ० १२१) प्रभवे सिद्धरामोक्तबसवेशवर्णनम् | तं प्रत्युवाच सगुरुर्बसवार्य नूनं च्छायाश्रयो हि तव भक्तितरोरमीषां || दीक्षावतां यदविमुक्तगयाप्रयागकेदारपुष्करघनं भवनं तवेदं || ४५ || वाक्यं प्रभोस्तदवधार्य स सिद्धरामः प्राहाल्लमं जगदधीश्वर सत्यमेतत् || उक्तं त्वयैष बसवो गुणरत्नराशिर्नैतस्य कोऽपि सदृशोऽस्ति जगत्त्रयेऽपि || ४६ || स्वामिंस्तवाद्य कृपया पुनरेष धन्यः सामोदहेमसदृशः प्रतिभाति मान्यः || लीलावतारफलमस्य सुसिद्धमासीत्काले भवंति खलु भाग्यवतां शुभानि || ४७ || श्रीमन्महेश्वरपदांबुजभक्तिभाजामाद्यो यदेष बसवः प्रमथव्रजानां || तत्स्मो वयं च कृतिनः स्मितपुष्पमालासंदर्भतः शिरसि धार्यत एव मुस्ता || ४८ || अद्यप्रभृत्यखिललोकपवित्रचर्या धुर्या भवेत्प्रमथसंततिरस्मदीया || यच्छंभुभक्तिपरिपूर्णमहासमुद्रो भद्रो विभाति बसवो भवतः कटाक्षात् || ४९ || इत्थं स्तुवत्यनुपमात्मनि सिद्धरामे प्राह प्रभुः श्रुणु सखे बसवेश्वरस्य || पृ० १२२) स्तोतुं गुणानसमदृऽऽन्न समर्थभावं प्राप्नोति के वयममी जगदेकदेशाः || ५० || तावत्सखे मरुलशंकरयोगिमौलेर्लिंगैक्यनैष्ठिकधृतिं कथयामि किंचित् || आकर्णयावहितमानसपद्मसद्मा यच्छृण्वतां हृदि पदं निदधाति शंभुः || ५१ || आमद्यैंद्रियजालमाशु विषयानाच्छिद्य सद्यः परं जित्वान्तःकरणं क्षणेन सकलां चिन्ताशतानां ततिं || उन्मूल्योर्ध्वचिदभ्रलिंगममलं धृत्वान्तरंगे पुन- श्च्छित्वा भ्रान्तिपरंपरां विजयते श्रीमानयं शंकरः || ५२ || यो निद्रामपसार्य कुण्डलमयीं देवीं परां चित्कला- मुत्थाप्यानृजुतां विहाप्य विलसच्चिद्बिंदुना स्वोन्मुखीं || कृत्वा ग्रंथिविभेदनेन कमलान्युत्क्रम्य घण्टारवं शृण्वन्योजयते चिदभ्रकमले श्रीलिंगमूर्त्यैव तां || ५३ || एकीकृत्य दुरत्ययांस्तनुमनःप्राणानतीतांहसो लिंगे संगरसः पुमानविकलं स्वात्म्यैक्यमुद्भावयन् || पंचब्रह्मकलामयं प्रणवमप्यान्तं विलीनं स्मरन् पृ० १२३) श्रीबसवादिप्रमथकृतप्रभुस्तवनम् | शान्तान्ते चिरमुन्मनीसुखमयं प्राप्तो गुहेशप्रियः || ५४ || इत्थं श्रीमरुलाख्यशंकरयतेर्लिंगैक्यनिष्ठां परां शृण्वन्तो बसवादिभक्तनिवहास्संजातकौतूहलाः || आश्चर्येण पुनःपुनः प्रभुवचश्चित्तेऽनुसन्धाय तं प्रोचुः प्रांजलयो विनम्रशिरसो गीर्भिस्तुवन्तो गुरुं || ५५ || भो श्रीमत्प्रभुसार्वभौम भवतो लीलां जगत्पावनीं के वा वर्णयितुं क्षमास्त्वमधुना सर्वेश्वरोऽप्यादरात् || कांश्चिल्लालनया वचोभिरमृतैराप्लाव्य कांश्चित्तथा कांश्चिद्भावनया बलेन कतिचिद्गृह्णासि कांश्चाशिषा || ५६ || अस्मान्भक्तजनाननुग्रहदृशा संभाव्य निर्धूय तां मायां संप्रति सावधानहृदयान् कर्तुं चिदात्मा भवान् || लीलाविग्रहमावहन्विजयते को वा परिच्छेत्तुम- त्रेष्टे तावकशक्तिमद्भुतकथामिच्छां स्वतंत्रां विभो || ५७ || एवं स्तुवत्यखिलभक्तगणे तदीयसौगुण्यवर्णनमिषेण महाप्रभुस्तं || प्राग्जन्मकोटिजनिताखिलपुण्यलभ्यलिंगांगसंगविदुषं मरुलं चकार || ५८ || भाग्येन सत्प्रभुकृपामवलंब्य निष्ठो लिंगांगसंगपदतत्वमवाप्य चित्ते || नैर्मल्यमाप निगमान्तपदार्थबोधाच्छ्रीमानसौ मरुलशंकरमौनिचंद्रः || ५९ || पृ० १२४) इति मरुलयतीन्द्रानुग्रहोद्योगरम्यं प्रभुचरितमिदानीं श्रावितं यन्मयैतत् || पठति लिखति चित्ते भावयत्याश्रुणोति प्रभुरखिलममुष्मै वांच्छितार्थं ददाति || ६० || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां मरुलशंकरमहिमानुवर्णनगतिर्नाम पंचदशोऽध्यायः || पृ० १२५) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ षोडशोऽध्यायः सूत उवाच- श्रीमद्वीरेशसिद्धान्वयगुरुचरणाम्भोजसेवाधुरीणाः स्वेष्टप्राणैक्यभावान्वितहृदयगुहापूर्णभक्तिप्रवीणाः || कर्मभ्रान्तिं विसृज्य स्फुटतरविमलज्ञाननिष्ठा गरिष्ठा भक्ताः श्रुण्वन्तु लीलां प्रभुगुरुमहिमानंदसंधानशीलां || १ || इत्थं स्तुवन्मरुलशंकरदेवचर्यामार्यः प्रभुस्सकलभक्तमनांसि कुर्वन् || संविस्मितानि बसवेंद्रगृहं प्रविश्य स स्पर्शवेधिमयवेदिमथारुरोह || २ || भक्त्या सहैव बसवस्य विनूत्नरत्नसिंहासने समुपविश्य तदीयपूजां || पाद्यार्घ्यमाल्यमधुपर्कमुहुःप्रणामस्तोत्रोपचारसहितां जगृहे कृपावान् || ३ || तं भक्तिनम्रशिरसा मनसा प्रसन्नं देवं प्रणम्य बसवेश्वरदण्डनाथः || सन्तुष्टुवे सकलशिष्टजनान्तरंगसन्तुष्टिहेतुमधुरार्थपदैर्वचोभिः || ४ || त्वां नित्यनिर्मलनिरंजननिर्विकल्पनिर्वाणनिर्गुणपदैरुदितं स्वभावात् || पृ० १२६) भक्तावनाय सगुणाश्रयमाश्रयामि सर्वार्तिहं भुवनपावनदिव्यमूर्तिं || ५ || स्वामी गुरुः प्रभुरभीष्टकरः शरण्यः प्राणेश्वरः प्रमथराट् परमार्थदाता || त्राता सखाप्तवचनः सविता सवित्री बंधुस्त्वमेव सकलं मम देवदेव || ६ || स्तोतुं कियानहमहो भगवन्तमाद्यं वेदैरवेद्यविभवं मनसाऽप्यगम्यं || स्वेच्छाविलासपरिकल्पितनामरूपचित्रप्रपंचकलनं शिवमद्वितीयं || ७ || इत्थं स्तुवन्प्रभुकटाक्षनिरीक्षणेन मत्वा कृतार्थतममेष महानुभावः || स्वात्मानमाह परमार्थपदाप्तशंकाप्रोन्मूलनाय गुरुमाहितभक्तियुक्तिः || ८ || जात्यंधहस्तविलसन्मुकुरेण मूकस्वप्नानुभूतकुशलेन च साम्यमेति || युक्तिप्रबोधरहिते मयि वर्तमाना भक्तिः शिवेऽपि भगवन्ननुशाधि मां त्वं || ९ || श्रीमद्गुरुप्रभुवरेण्य कटाक्षदृष्ट्या वृष्ट्येव मामनुगृहाण परामृतस्य || पृ० १२७) विज्ञापयते श्रीबसवाय प्रभोरादरोक्तिः || सेयं क्रियेयमिह भक्तिरयं प्रबोध इत्यादरादुपदिश त्रितयं विविच्य || १० || विज्ञापयंतमथ तं बसवं प्रपन्नं स्वामी प्रसन्नहृदयोऽल्लम इत्युवाच || वेदागमस्मृतिपुराणकलारहस्यः प्रश्नः कृतो हि भवता प्रमथाग्रगण्य || ११ || चिन्मूर्तिरप्यहह कारणपूरुषस्त्वं दिव्यां तनुं निजविलासवशाद्बिभर्षि || मां प्रष्टुकाम इव लोकहितार्थमासीस्त्वययेव नित्यसुखबोधतनौ समस्तं || १२ || अज्ञातांशोऽस्ति किं ते त्रिभुवनभवने वाऽऽन्मये वा प्रपंचे विद्यास्थाने समस्ते त्रिपुटितकलया रोरवीषि त्वमेव || धर्मः श्रुत्यैव साक्षाद्वृषभ इति परं स्तूयसे सर्वसाक्षिन् पृच्छामच्छामकार्षीस्त्वमिह शुभमते मां बहूकर्तुमेतां || १३ || अप्यग्नेः क्षुन्निवृत्यै किमिह मम सखे पाकयत्नेन भाव्यं किं वा द्रष्टुं विभाव्यं दिनमणिमधिकस्फूर्तिमद्दीपदीप्त्या || दिव्यज्ञानैकराशेर्बसवबुधमणेर्भक्तिमर्मातिरिक्त- न्यूनत्वे शोधनीये किमिह ननु मया शक्यते वा कथं तत् || १४ || पृ० १२८) इत्युक्तो बसवस्तमाह स गुरुं स्वामिन्बहूकृत्य मा- मित्थं किं त्यजसि त्वया परिहृतो यास्यामि वा क्व न्वहं || दासोऽहं तव दासदासपदयुग्दासानुदासात्मनां कारुण्याम्बुनिधे त्वमेव भगवन्मां पाहि पाहि प्रभो || १५ || आर्द्रायां भुवि बीजावापसमये बीजानि तत्रोचिता- न्युप्त्वा प्रावरणं विधाय परितः संरक्ष्य पश्वौघतः || सस्यांकूरचयं समृद्धमचिरादुत्खाय संपश्यतः किंचिद्वास्ति कृषीवलस्य फलितं किं मंदबुद्धेः प्रभो || १६ || तस्मादस्मदबोधगाढतिमिरं दूरेऽवसार्य प्रभो विज्ञानांकुरमुत्थितं करुणया देवस्य संरक्षितुं || स त्वं तत्वपदालवालवलये बोधोपदेशामृतं संसिंचन्ननुभूतिसत्फलभुजं कृत्वानुगृह्णीष्व मां || १७ || इति विज्ञापयन्तं तं बसवं प्रभुरात्मना || अनुगृह्य कृपादृष्ट्या वक्तुं समुपचक्रमे || १८ || यथामृतात्परं नास्ति भोग्यवस्तु महत्तरं || तथा सहजलिंगैक्यादन्यो मोक्षपथो न हि || १९ || भवाम्बुधौ निमग्नानां शोकमोहहतात्मनां || अपारजन्ममृत्यूनां जन्तूनां गणनैव का || २० || पृ० १२९) श्रीबसवराजाय प्रभुकृततत्वोपदेशः | चतुःसंख्याधिकाशीतिलक्षभिन्नशरीरिणां || सर्वेषां पुण्यपापे द्वे मर्त्यानामेव केवलं || २१ || लब्ध्वा मनुष्यतां यावन्नांगवैकल्यमाश्रयेत् || दुर्वासनाः परित्यज्य शिष्टवर्त्म विवेकतः || २२ || प्रबोध्य झडिति स्वप्नादज्ञानाख्यादहो बत || वृथा जन्मेदृशं जातं विरज्येत ममेत्ययं || २३ || साधये साधुसंगेन संवित्पदमिति स्थिरां || धृतिं यः साधयेन्नित्यं स भवेत्साधकोत्तमः || २४ || संपद्दशायां संपाद्यौ त्यागभोगौ विवेकिना || मरुत्प्रसारसमये विवेच्या धान्यतस्तुषाः || २५ || तद्वत्करांघ्रिमुख्यांगदार्ढ्यकाले मनीषिणा || यत्नः कालजयोपाये कर्तव्यो गतिमिच्छता || २६ || निगमागमशास्त्रार्थं तस्माद्विज्ञाय तत्पथं || अचालयित्वाऽनुष्ठाय भूयाद्गुरुकृपास्पदं || २७ || स्वकीयतां तनुमनोधनेषु प्रथमं त्यजेत् || च्छिंद्यान्मदं यथा भूयो न प्ररोहेत्कथंचन || २८ || संप्राप्तः सदसद्विवेककलनां दृष्टेष्टलिंगं पुर- श्चेतोलिंगतया दृशा परमया पश्येत्प्रतीच्या यतः || पृ० १३०) तद्विज्ञाय गुरुप्रसादघटितश्रीमुद्रया मर्मभृ- द्बाह्यान्तर्द्युतिरैक्यमेव कलयेत्प्राणेष्टयोः पूर्णदृक् || २९ || लिंगं हस्ततले यदैव घटितं तस्मिन्क्षणे तत्तनुं लिंगेऽस्मिन्विदधीत नैव मृगयेद्वस्त्रं बहिच्छादने || चित्पुष्पार्चनमेव तस्य कलयेन्नो बाह्यपुष्पार्चनं यो वा वस्त्रयते तनुत्रयमिदं लिंगस्य स स्याद्गुरुः || ३० || श्रुणु बसवार्य लिंगवसनत्वमुपैति तनु- त्रितयमिदं यदि स्फुरितलिंगनिमग्नमनाः || स भवति विस्मृतात्मतनुरात्मरतिः सततं परसुखपारवश्यपरमार्थपदात्तगतिः || ३१ || सहजसमाधिसौख्यमनुभूय निरस्तजग- द्व्यवहृतिरैक्यभावपरिभूतपरात्मभिदः || यदि न समर्थतां स्थिरयितुं हृदयं लभते बसव समाचरेत्स शिवलिंगसदापचितिं || ३२ || सविशेषलिंगपूजामवधारय भावनात्मिकां दिव्यां || अवधानेन हृदब्जे भवपाशच्छेदनार्थिभिर्वेद्यां || ३३ || पृ० १३१) सकलचराचरविततेः क्वचिदपि हिंसा यथा न संभवति || कृपया तथैव वर्तनमभयदमभवस्य मज्जनं भवति || ३४ || एतेऽन्येऽमी स्वीया इति भेदभ्रान्तिवर्जनाच्चित्ते || वहनं हि परमशान्तेर्महतो देवस्य चंदनालेपः || ३५ || कर्मफलसंगवर्जनमर्म ज्ञात्वा सुनिर्मले शैवे || कर्मण्यशुक्लकृष्णे निर्ममतावृत्तिरक्षताश्शम्भोः || ३६ || अश्रान्तवृत्तिसंततिमालिन्यविशोधनेन चित्तस्य || नैर्मल्यादवधानं समुचितपुष्पोपहार ईशस्य || ३७ || देहत्रयदुष्टगुणान् ज्ञानाग्नौ प्रक्षिपन्परामृश्य || दग्ध्वा तद्गतधूपैः सद्वासनयैव धूपयेल्लिंगं || ३८ || तापत्रयवर्तियुतं तनुपात्रे तामसाख्यतैलाक्तं || दीपं महेश्वराय ह्रीश्रीपतये समर्पयेद्विबुधः || ३९ || स्वात्मानं सुखदुःखवर्जितमुमाधीशस्य नैवेद्यमि- त्यार्याः साधु वदन्ति के चिदथ वा मत्या स्थिरीभूतया || भक्त्या कल्पितरत्नपात्रनिहितस्वाद्वन्नपानादिभि- र्देवस्यानुपमैः पदार्थरचनैर्नित्योपहारं जगुः || ४० || पृ० १३२) आनन्दबाष्पैः परिकल्प्य शम्भोर्हस्तोदकं सत्वरजस्तमांसि || अस्पृश्य वृत्तिस्त्रिगुणान्सदैव ताम्बूलमित्याहुरधीश्वरस्य || ४१ || इत्थं मुख्यार्पणं नित्यं कुर्वतां शिवयोगिनां || प्राणलिंगांगसंबंधानुभवः सुलभो भवेत् || ४२ || श्रुण्वैतद्बसवार्य निश्चलधिया यत्प्राणलिंगं सदा धार्यं तद्वसनायितत्रितनुभिः प्रावेष्ट्य धृत्वा दृढं || संवित्सूत्रनिबद्धमेतदनिशं निर्वाणसिद्धस्थले धृत्वा भक्तिविरक्तिपूर्णहृदयो जागर्ति धन्यो जनः || ४३ || तनुत्रयं तच्छिवसूत्रबंधाद्यथा न विश्लेषमुपैति नित्यं || तथेष्टलिंगं स्थिरयत्यजस्रं स एव शिष्टः शिवयोगिवर्यः || ४४ || संवेष्ट्येष्टप्राणभावाख्यलिंगान्यंगेषु त्रिष्वंशुकीभावितेषु || स्थूले सूक्ष्मे कारणे च क्रमेण ह्येकैकस्मिन्भावयेद्ग्रंथियुग्मं || ४५ || इत्थं षड्भिर्ग्रंथिभिः सांद्रबंधं नो चांचल्यं याति लिंगत्रयं च || बाह्ये स्थूले ग्रंथियुग्मं दृढं चेच्चत्वार्यन्तःस्थानि तानि स्थिराणि || ४६ || वस्त्राण्यंगान्यंग तद्ग्रंथयोऽपि प्रोक्तान्यार्यैः षट् स्थलान्यात्मविद्भिः || पृ० १३३) ग्रंथौ ग्रंथौ भावशुध्या स्थिरात्मा पूर्वं जित्वा तत्परं याति धन्यः || ४७ || भक्तमाहेश्वरौ तद्वत्प्रसादिप्राणलिंगिनौ || शरणैक्यगतौ चेति स्थलषट्कं जगुर्बुधाः || ४८ || स्थूलांगग्रथितेष्टलिंगकलितौ तौ भक्तमाहेश्वरौ सूक्ष्मप्राणगतं प्रसादिसहितं तत्प्राणलिंगिस्थलं || संप्राप्तं शरणैक्यसुस्थलयुगं भावाह्वयं कारणे तद्द्वंद्वं बसवार्य यः स्थिरतया प्राप्तः स भक्ताग्रणीः || ४९ || बसव तनुत्रयांशुकदृढग्रथितस्थलषट्कबंधुर- स्थिरतरलिंगसूत्रपरिशीलितचित्कलयाऽवधानतः || सततसमाहितोऽर्चयति यः शिवमद्वयमात्मसात्कृतं स हि शिवयोगिराट् सकललोकगुरुः परिपूर्णभावनः || ५० || मोक्षार्थितामुपगतः शिवलिंगमेव प्राणो ममेति यदि शास्त्ररहस्यवित्स्यात् || मांगल्यसूत्रघटितां शिवलिंगमूर्तिं नांगे कदापि विरहेत्बसवार्य सोऽयं || ५१ || पूजाक्रियासु बसवार्य निजेष्टलिंगे रूपं पदार्थनिचयस्य समर्प्य पश्चात् || तत्प्राणलिंगभरितां रुचिमस्य कृत्वा तृप्त्यर्पणं च कलयेदथ भावलिंगे || ५२ || यो नित्यमंग गुरुलिंगचरप्रसादपादोदकैः परमपावनतां प्रयाति || पृ० १३४) सोऽयं विशुद्धशिवभक्तिरसाधिकारी ब्रह्माच्युताद्यसुलभं लभते शिवैक्यं || ५३ || इष्टलिंगाय हृदयं स्वेष्टश्रीगुरवे तनुं || इष्टाय जंगमायार्थमर्पयेद्भक्तिमांश्छिवे || ५४ || दृढयित्वा स्थिरां वृत्तिं श्रद्धया जंगमार्चकः || निरुद्धचित्तवृत्तिर्यस्स ज्ञानी शुद्धभक्तिमान् || ५५ || समस्तसत्क्रियास्वेष्टलिंगे धीरः समर्पयन् || मायां विलासान्ममताहंतादीन्परिमार्जयेत् || ५६ || यद्येवं प्राणलिंगस्य ध्यानधारणयोः क्षमः || नो चेदनीशस्तद्धर्तुं विद्वानपि हृदंबुजे || ५७ || आराधयेद्बहिस्तस्मादिष्टलिंगं सदा बुधः || सर्वसिद्धिकरं यस्मात्प्राणलिंगं स्थिरं भवेत् || ५८ || मोक्षार्थी बसव स्वेष्टलिंगाराधनमुत्सृजन् || प्राणलिंगं यदि ध्यायेदामकुंभजलं हि तत् || ५९ || केवलप्राणलिंगार्चा न निश्चलति मानसे || वाऽऽन्मात्रेण वृथा ध्यायी नश्येद्बसव तद्ध्रुवं || ६० || अतः प्राणलिंगं दृढीकृत्य सत्यप्रबोधप्रमोदप्रपूर्णांबुराशौ || स्वयं क्रीडितुं यस्सदेच्छत्यसौ तत्समाराधयेज्ञ्ज्ञानवानिष्टलिंगं || ६१ || पृ० १३५) इदं साधनं मुख्यमेकं प्रशस्तं सदा ज्ञानिनामप्यभीष्टार्थदायी || परं मंगलं मंगलानां यदेतत्करे स्वेष्टलिंगार्चनं शुद्धभक्त्या || ६२ || ततः सावधानेन तत्प्राणलिंगे समीकृत्य कृत्यानि विस्मृत्य मत्या || महायोगसाम्राज्यपट्टाभिषिक्तो भजेदात्मनो लिंगतादात्म्यसिद्धिं || ६३ || अविज्ञाय यो लिंगतादात्म्यमेवं बहिः पूजनैर्भिन्नभावं त्यजेन्न || स केन प्रकारेण वाराध्य देवं न सद्भक्तिसन्मार्गसौख्यं लभेत || ६४ || स चानादिसंसारमोहांबुराशिं न तर्तुं क्षमेत क्रियामात्रतृप्तः || अतः सामरस्यानुभूत्यै रहस्यं विजानीत सद्भक्तगोष्ठिप्रसंगात् || ६५ || कुर्याद्गुरूपसदनं शिवभक्तितत्वं विज्ञातुमेव शिवभक्तगणान्भजेत || भुंजीत भक्तिभरितः शिवभक्तशेषं तद्दास्यमेव कलयेद्बसवार्य नित्यं || ६६ || यस्यैव भक्तचरणोदकतत्प्रसादतद्वंदनार्चनतदीयपथप्रचारान् || नित्यं न संश्रयति संसृतिपाशबंधान्मुक्तिं न याति बसवार्य स दंभभक्तः || ६७ || पृ० १३६) विश्वासमुत्सृजति जंगमपादतीर्थशेषप्रसादभजने यदि वर्जनीयान् || कांश्चिद्विवर्ज्य न हि वर्जयतीह कांश्चिद्दंभक्रियः स न शिवे दृढभक्तिमेति || ६८ || सत्यं च शौचमथ शान्तिदमावहिंसां नित्यव्रतस्थिरधिया न दृढीकरोति || यो न त्यजेत मदमत्सरलोभमोहक्रोधादिकं स बसवार्य न शीलवान् स्यात् || ६९ || नोत्सृज्य जन्ममरणाध्वगतिप्रसक्तकर्माटवीपटलपर्यटनं न जित्वा || मायां च निर्मलचिदंकुरितांगलिंगसंबंधतत्वरहितो बसवार्य बाह्यः || ७० || कुक्षिंभरेर्बसव शीलवतां च मध्ये तद्वेषधारणचणस्य मदाविलस्य || वाग्ब्रह्मवादचतुरस्य दुराग्रहस्य भक्तिः शिवे दृढतरं घटिता कथं स्यात् ? || ७१ || यस्येष्टलिंगभजनारतिरस्ति नित्यं रीत्या कयाऽस्य सुमतेरथ भावशुद्धौ || चित्प्राणलिंगचरणस्फुरणं स्वतः स्याद्यत्पूर्वभूमिविजयेन जिता परा स्यात् || ७२ || पृ० १३७) तदिष्टलिंगार्चनमंजनं स्यादन्तर्महालिंगनिधेः प्रकाशे || इति ब्रुवन्तं बसवः प्रभुं तं विलोक्य पप्रच्छ विनीतभावः || ७३ || श्रीमद्गुरोऽनेकविधप्रचारस्त्वया य आचार्यविधिर्ममोक्तः || असौ न पर्याप्ततमः क्वचिद्वा कृतः प्रबोद्धः परमार्थतः किं || ७४ || सदा क्रियासक्तमतेः कदा स्यात् प्रबोधचिंता भुवि साधनेन || सदा खुरल्यां रटतः कदा वा भवेत्स वीरप्रथनप्रसंगः || ७५ || निशम्य वाचं बसवस्य देवः प्रसाददृष्ट्या प्रभुरेवमूचे || यैः कैश्चिदुक्ता बहुभिः क्रियास्ताः श्रुताश्च नाभ्यासमृते फलन्ति || ७६ || क्रियाफलं भक्तिरियं विशुद्धा ज्ञानं भवेच्छांभवमद्वितीयं || ज्ञात्वाप्यनुष्ठानविवर्जितश्चेन्न साधवस्तं बहुमानयन्ति || ७७ || आलस्यमुत्सृज्य सदार्चयेत्तं महेश्वरं सत्क्रिययैव भक्तः || निर्विघ्नमीशप्रणिधानमेव प्रोन्मूलयिष्यत्यरिवर्गमन्तः || ७८ || आशां तनौ शान्तमतिर्विहाय धृतिं समास्थाय सदेष्टलिंगे || निष्ठां दृढीकर्तुमशक्नुवानो यदि त्यजेत्तं विरसेन भक्तिः || ७९ || पृ० १३८) भक्तिं स्थिरीकर्तुमना यदि स्यात्कुर्वीत सर्वा अपि सत्क्रियास्ताः || धनानि सर्वाणि समर्प्य देवे तद्भक्तिवृन्देऽनुचरेत्स भक्तः || ८० || कामेन लोभस्तत एव जातः क्रोधस्ततस्तान्परिवृत्य धीरः || सर्वार्पणं सत्क्रिययैव कृत्वा वैराग्यभाग्येन भजेत भक्तिं || ८१ || श्रुत्वैतदूचे बसवोऽल्लमेंद्रं स्वामिंस्तथा चेदवधारणीयं || मद्वर्तनं वाक्यगतापराधं सर्वं क्षमित्वा जगदेकबन्धो || ८२ || सुवर्णसंघे कणसंमितं वा सुवस्त्रवृन्दे गुणसंमितं वा || सुधान्यराशावणुसंमितं वा न वंचितं स्यान्मम सद्गणेषु || ८३ || यदि गुरुषु मदीयो वंचितश्चेद्धनांशश्चरणकमलयोस्ते दूरतामेष यातु || इति बसवमुखोत्थं धीरमाकर्ण्य वाक्यं सशपथमिदमूचे तं पुनस्सोऽल्लमेन्द्रः || ८४ || रजतगिरिसुमेरूभूतयोऽष्टौ सुरद्रुस्सुरभिरमररत्नं दुग्धसिन्धुश्च सर्वं || शिवशिवगणनिघ्नं वस्तुजातं त्वदुक्तं बसव न खलु युक्तं दीयते यन्मयेति || ८५ || पुनरपि बसवस्तं सद्गुरुं प्राह युक्तं गुरुवर भवदुक्तं वस्तुतोऽहं तथापि || पृ० १३९) श्रीबसवराजाल्लमार्ययोरुक्तिप्रत्युक्तिपरिपाटी | व्यवहृतिमवलंब्य स्वामिनोऽग्रे वदामि स्वमतिनिहितमर्थं सर्वथा निश्चयेन || ८६ || केनापि रूपेण समेत्य देवो गणोऽथ वा याचितुमुत्सहेत || किं वा ददाम्येव तनुं मनोऽर्थं नो चेदहं स्यान्न भवत्कृपार्हः || ८७ || श्रुत्वाह भूयः स्मयमानवक्त्रः प्रभुः किमेतद्बसव ब्रवीषि || भ्रमादुताहंक्रिययाऽपनीत्या तनुं मनोऽर्थं प्रददामि चेति || ८८ || कुतस्तवैते तनुमानसार्थाः महेश्वरावास्यमिदं हि सर्वं || अहो विवेकं परिहृत्य भक्तेर्विरुद्धमेतद्बसव ब्रवीषि || ८९ || तस्मादहंकारगुणं विसृज्य निर्मायिको निर्मलभक्तिमार्गं || यदि स्थिरीकर्तुमनास्तदादौ विधेहि लक्ष्यं बहिरिष्टलिंगं || ९० || सदाभिमुख्येन निजेष्टलिंगे निधाय दृष्टिं बहिरंतरस्थं || भजैकधैवाष्टविधार्चनेन प्रवेष्टसिद्ध्यष्टकमाशु भूयात् || ९१ || निशम्य वाचं बसवोऽब्रवीत्तं प्रभो त्वयोदीरितमिष्टलिंगं || समर्च्य सद्भक्तिमवाप्नुहीति प्रागत्र तस्याष्टविधत्वमुक्तं || ९२ || न कर्मजाड्येऽभिरतिर्ममास्ति न शुष्कतर्कोऽस्ति परंपरायां || अतः प्रभो भक्तिरहस्यमेव प्रसीद तत्साधनमर्चनं मे || ९३ || पृ० १४०) यदिष्टलिंगार्चनयैव देव प्रपद्यते भक्तिरहस्यमन्तः || ततः शिवज्ञानितया कथं स्याच्छिवः स्वयं वानुगृहाण तन्मे || ९४ || प्रभुस्तमूचे बसवार्य वक्तुं न शक्यते कौसुमसौरभं तत् || द्विरेफवद्भावनयाऽनुभाव्य भजेत्स्वयं भक्तिरसं रसज्ञः || ९५ || अन्तर्बहिर्मध्यगतत्रिलक्ष्यभावेष्टसत्प्राणकलैक्यभावः || निरंतरं भक्तिरसैकमग्नो भजेष्टलिंगं परमार्थमेकं || ९६ || पूर्वार्जिता चेद्दृढमेव भूमिः प्रकाशते चोत्तरभूमिका सा || व्युत्पन्नसद्भक्तिसमग्रभावः स्वयं शिवः स्यात्परमः पुमान्यः || ९७ || श्रुणुष्व सम्यग्बसवार्य पूर्वं दण्डेन संसाध्य चिरं खुरल्यां || ततः प्रविष्टः समरं तरस्वी जयेद्रिपून्प्रासगदासिमुख्यैः || ९८ || तथेष्टलिंगांगसदानुषंगाद्विज्ञाय तत्कीलकमादधीत || भक्तिं स्थितां ज्ञानपथानुषक्तामहो गरीयान्बसवैष पन्थाः || ९९ || अहो न सामान्यमिदं त्रिलोक्यां महेशसाक्षात्करणं हि साध्यं || तदर्थमाचारविधिं विधेहि ब्रुवन्तमित्थं बसवोऽब्रवीत्तं || १०० || गुरो समास्वाद्य सुधां रसज्ञा रसान्तरास्वादकथां न हीच्छेत् || पृ० १४१) तथैव युष्मत्करुणारसाब्धौ मज्जन्नहं नास्मि जडक्रियार्हः || १०१ || वृथा कालक्षेपं न कुरु गुरुभूमण्डलपते कृपापात्रं कृत्वा कलय निजलिंग्यैक्यशरणं || अमुं युष्मत्पादांबुजसमरसानंदमिति तद्वचः श्रुत्वा देवः स्मितवदनपूर्णेन्दुरवदत् || १०२ || मनोवृत्तिं तावत्तव बसव विज्ञातुमियता प्रबन्धेनावोचं न खलु मणिदीपो मरुदरैः || चलत्यंग त्वंगत्त्वदुरुतरलिंगैक्यकलने समस्त्रैलोक्ये वा न भवति महात्मन्ननु सखे || १०३ || कलामिंदोर्धर्तुं शिरसि शिव एवार्हति परं परो नार्हस्तद्वत्त्वमपि निजलिंगैक्यकलनात् || महाकैवल्याख्यामृतरसपरानंदभरितस्त्वदन्यो यः को वा न हि बसवयोगिंस्त्रिभुवने || १०४ || भवन्नामैवैतद्बसव इति वर्णत्रययुत्तं त्रिवृत्कृत्या युक्तं त्रिपुटमिदमाह त्रिभुवनं || त्वदैश्वर्योद्भूतं प्रकटयदशेषाश्रय विभो बलित्वात्सुज्ञानाद्वरवितरणात्त्वं हि बसवः || १०५ || भवन्नाम स्तुत्वा भवदुरुगुणाकर्णनचणो भवन्मन्त्राभ्यासे भवदमलसंकीर्तनपरः || भवद्रूपं ध्यात्वा भवदभवभक्तिं विशदयन्भवाम्भोधिं तीर्त्वा बसव शिवसायुज्यमयते || १०६ || पृ० १४२) करेण भूताडनवच्छरेण गिरौ शरव्येऽभ्यसनक्रियावत् || हरे परे ब्रह्मणि दिव्यदृष्टेश्चिरं प्रसारस्तव नेंगतेऽयं || १०७ || यदा शिवो मामवनीप्रदेशं प्रति प्रयातुं हृदयेऽर्थयत्सः || तदैव लोकोद्धरणाय नंदिंस्त्वां प्रेषयामास महीं महेशः || १०८ || वस्वष्टकं सकलरत्नचयं धनानि सर्वाणि कान्तिनिवहं त्वयि सन्निवेश्य || नंदिन् भवन्तमवतारयदीश्वरस्तत्त्वन्नामधेयमभवद्बसवस्त्रिलोक्यां || १०९ || त्वययागते क्षितितलं बसवार्यमौले माया तदैव चलिता भयकंपितांगी || आहो गता भगवता विजितं शिवेन देवी च सात्विकगुणा शुभतां प्रयातु || ११० || प्रभुरिति बसवेंद्रं भावयित्वा वचोभिस्सकलगणसमूहान्भावयामास धन्यान् || श्रुतमिह मुनिवर्याः स्वेष्टलिंगैक्यसारं कलिकलुषशतघ्नं भावयन्तां भवन्तः || १११ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां इष्टलिंगावधानगतिर्नाम षोडशोऽध्यायः || पृ० १४३) श्रीनंदिकेश्वराय नमः श्रीभविष्यत्पुराणे प्रभुलिंगलीलायाम् अथ सप्तदशोऽध्यायः | सूत उवाच- श्रीसिद्धेश्वरदेशिकेन्द्रपदपद्माराधनादिष्टलिं- गार्चाधीनविशिष्टशीलसहिता प्राणं त्वपाने स्थिरं || संयम्यास्तसमस्तवृत्तिनिवहाश्चित्प्राणलिंगांगिनो भक्ता मुक्त्यभिलाषिणो गतभवाः श्रुण्वन्तु लीलां प्रभोः || १ || अथाक्वा सा देवी प्रभुगुरुमशेषावनितले विचिन्वत्येकाकी न्यखिलमुनिपुण्याश्रमकुले || बिलेष्वद्रींद्राणां विपिननिवहे योगमठिका- स्वपश्यन्ती भूयोप्यहह मृगयामास बहुधा || २ || तनौ कार्श्यं पीडां चरणतलयोरस्मृतवती क्षणं वा कुत्रापि स्थितिमलभमाना निरशना || अहोरात्रं वृष्ट्यातपहिमविभागं न दधती गलन्निद्रालस्या प्रतिनगरमागान्मृगयितुं || ३ || ततो दैवान्मार्गे बसवनगरायातशरणैः प्रभोर्वृत्तं श्रुत्वा हृषिततनुरेषा धृतिमती || हृदब्जान्तर्ज्योतिर्बहिरपि च साक्षाद्भवति मे कृतार्थास्मीत्यस्मादविशदथ कल्याणनगरं || ४ || पृ० १४४) महादेवी दीव्यद्बसवभवनं प्राप्य सहसा सभायां चिन्तामण्यभिरचितसिंहासनगतं || गुरुस्वामीश्रीमच्छरणचरणांभोजयुगलं विलोक्यानंदाश्रुस्फुरितनयनाऽभूत्पुलकिता || ५ || अहो चित्रं तत्र भ्रमर इव चांपेयकुसुमं महामोदस्फूर्त्या निरुपममसाधारणरसं || महादेवीचेतः प्रभुपदयुगं प्राप्य सहसा समाक्रष्टुं शक्यं न तदभवदत्रैव खचितं || ६ || तदा देवी चित्ते क्षुधितमनुजस्यामृतनदी यथा लब्ध्वांऽधस्येक्षणततिरभूद्रोमविततिः || तथैवान्तस्तापप्रशमकरदिव्यौषधमिदं पदद्वंद्वं साक्षादभवदिति भाग्यादमनुत || ७ || अथ ब्रह्मावेशादखिलपुरुषार्थैकभरणं शरण्यं लोकानां शरणजनचित्तैकशरणं || स्वयं दृष्ट्वा दृष्ट्या गुरुमपि गुरूणां प्रभुगुरुं पपाताक्वा भूमौ चरणनिकटे दण्डवदियं || ८ || प्रणम्य देवी चरणांबुजाधः क्षणं समास्थाय समाहितात्मा || पृ० १४५) महादेवीकृतप्रभुस्तुतिपरिपाटी | पुनस्समुत्थाय गुरुं विलोक्य विलोक्य पश्चात्प्रणनाम भूयः || ९ || उत्थायोत्थाय भूयः प्रभुवदनसुधाधामपीयूषधारां पायं पायं प्रणामप्रचरणनिपुणा श्रीगुरोर्दिव्यमूर्तिं || ध्यायं ध्यायं हृदब्जे समुदितपरमानंदसंदोहमग्ना दिष्ट्या दृष्टो गुरुर्मे प्रभुरिति सुदती तुष्टुवे हृष्टचित्ता || १० || प्रभवे विभवे मनोभुवे ते करवै श्रीगुरवे नमो नमोऽस्मै || शरणं करुणानिधे भवास्याः परिपूर्णोऽसि परायणः परात्मन् || ११ || निगमागमशास्त्रवाग्विलासा महिमानं न हि शक्नुवन्ति यस्य || कथितुं तमगम्यदिव्यरूपं कलये संप्रति भाग्यगौरवेण || १२ || प्रभुः परायणं परं प्रभुः परायणं परं प्रभुः परायणं परं पुनः पुनर्वदाम्यहं || १३ || प्रभुरेव समस्तजगज्जनिता प्रभुरेव जगत्परिपालयिता || प्रभुरेव जगत्परिमार्जयिता प्रभुरेव तुरीयपरात्मगुरुः || १४ || प्रभुरेव गुरुः प्रभुरेव शिवः प्रभुरेव निरंजननित्यगुरुः || प्रभुरेव विधिः प्रभुरेव हरिः प्रभुरेव शिवः प्रभुरेव परः || १५ || पृ० १४६) प्रभुता भरिता भुवनत्रितये प्रभुता शिवता शिवता प्रभुता || प्रभुता शिवता गुरुतैकरता प्रभुरेव शिवः शिव एव गुरुः || इति स्तुवन्ती परितश्चरन्ती पुनर्नटन्ती शरणान्नमन्ती || शरण्य पाहीति मुहुर्वदन्ती तदन्तिके सा प्रणनाम भूयः || १७ || अथाल्लमस्तामबलायमानां विशुद्धभक्तिं कृपया विलोक्य || अनुग्रहेणात्मनि संविभाव्य प्रभुस्तमूचे बसवेंद्रमार्यं || १८ || इयं महादेव्यवधारयैनां प्रमाणतः सप्तवितस्तिकायां || विशुद्धभक्तिस्फुरणं त्वपारं विजृम्भतेऽहो बसवार्य पश्य || १९ || लज्जाभिमानौ परिहृत्य धीरा हृन्मोहपाशच्छिदियं विमुच्य || बंधानशेषानरिजैत्रशीला दिगंबरी भाति विरागपूर्णा || २० || इत्थं प्रभुस्तं बसवं प्रबोध्य स्वयं ततश्चेतसि सन्निधिस्थां || संभाषणीयेयमिति प्रसादादाह स्म देवीमखिलैकनाथः || २१ || तारुण्यलावण्यसुरूपरेखा विराजते तन्वि तवांगयष्ट्याम् || पृ० १४७) अल्लममहादेव्योस्संवादः | अनंगलीलाधनुरुज्वलायां तथापि धैर्यं तव किं विरागे || २२ || स्त्रीणामपूर्वं हि दिगंबरीत्वं विवस्त्रभावाद्भुवि वर्तनं यत् || विलोक्य लोका भवतीं हसन्ति किमर्थमित्थं सद आगतासि || २३ || आकर्ण्य वाक्यं जगदेकबन्धोरक्वा महादेव्यवदद्गुहेशं || संपूर्णभावस्य परात्मनोऽहं सती किमर्थं मम वस्त्रबंधात् || २४ || संबंधो मम किं मनस्तनुधनासंगक्रियाया ह्रिया का मे कामकथा त्रिनेत्रचरणांभोजद्विरेफात्मनः || दुरापास्तसमस्तचित्तविकृतेर्वेषेण वा किं मम स्वामिन्वेत्यखिलं भवानिति तया प्रोक्तोऽब्रवीदल्लमः || २५ || दृश्या त्वं न हि दृश्यते पशुपतिर्दृग्रूप एवेष्यते दृश्यादृश्यतया विरुद्धपथयोस्तेजस्तमस्तुल्ययोः || संबद्धः कथमज्ञता यदि भुवि स्त्रीणां तथा त्वं न हि प्रायो लोकविरुद्धभावकलिता वाग्ब्रह्मवादिन्यसि || २६ || देवी प्राह गुरो विमर्श्य कलया साकारया संवृतो पृ० १४८) नीरूपोऽपि परप्रकाशचरणस्साकारवद्भाति यत् || तत्साकारनिराकृतिद्वयमिदं संवित्स्वरूपं महः संविज्ञाय शिवैकरस्यकलया वृत्तास्मि मूर्त्ताप्यहं || २७ || निराकारं यद्वत्सततमपि साकारघटितं तथा साकारं तन्निरवयवचैतन्यघटितं || विचाराद्ब्रह्मान्यन्न खलु सकलं कीलकमिदं विशेषेण ज्ञात्वा तदुभयगताहं समरसात् || २८ || श्रुत्वा तद्वचनं प्रभुः पुनरपि प्रोवाच बाले वृथा क्षीरे सर्पिरिव प्रकाशचरणं मययेव भातीति यत् || उक्तं तन्न हि संगतं समरसश्रीभक्तिनिष्ठां विना निर्लज्यं कुतले दिगंबरतया संचारमात्रेण किं || २९ || आकर्ण्य प्रभुणोदितं तमवदद्देवी प्रणम्यादात्स्वा- मिन्नल्लमसार्वभौम हतदुर्मायांधकारावृते || युष्मद्दिव्यपदाब्जदर्शनवशात्सान्निध्य एवास्ति तज्ज्योतिर्लिंगपरात्ममूर्तिरमलेत्येषा मनीषा मम || ३० || इत्थं नित्यमनन्यभावहृदयां त्वामेव सर्वेश्वरं ध्यायन्तीं भवदीयदिव्यचरणश्रीपादुकासंश्रितां || पार्थक्येन विलोक्य वाक्यशठनैर्भीतिं समुत्पादयन् पृ० १४९) तत्वविषयेऽल्लममहादेव्योस्संवादः | किं वा त्यक्ष्यसि दूर एव कियता कालेन वेत्सीति तत् || ३१ || दूरेस्त्येव समीपतो न हि शिवः कालेन तद्भूयसा ज्ञातव्यः परमप्रयासविधिनेत्येवं प्रकारान्तरात् || मामुच्चाटयसि प्रभो कथमहं कं वा गुरुं प्राप्य तज्जाने ब्रह्म परात्परं परशिवं त्वत्पादपद्मादृते || ३२ || इत्यालपन्तीं कृपया गुहेशस्तां वीक्ष्य देवीं पुनरप्युवाच || यस्यामतं तस्य मतं न वेद प्रतीपमेतद्भुवि वेत्ति योऽसौ || ३३ || अतः शिवे भक्तिरतीव दूरेत्युक्तेव सत्याशु समीप एव || समीपगा भक्तिरितीरणे स्यादत्यन्तदूरे बसवो हि तज्ञ्ज्ञः || ३४ || लोके प्रसिद्धः कृतकृत्यभावादेषोऽधिकःस्याद्बसवो महात्मा || तस्मात्त्वमेतन्मुखतस्तमर्थं जानीहि देवीत्युदिताऽब्रवीत् सा || ३५ || देवाधिदेव बसवो मम सद्विवेकश्छन्नाह्वयस्तु बसवो गुरुरिष्टलिंगं || स्वामिंस्त्वमेव मम जंगम एव रामः श्रीमान्मदंगमभवन्मणिवालनाथः || ३६ || तस्मादनन्यसुलभं मम सौख्यमेतल्लोकेऽल्लमप्रभुगुरो तव दासदासाः || पृ० १५०) एतत्पदांबुरुहसेवकदासदास्याः कैवल्यसिद्धिरमला करसंस्थिता मे || ३७ || संदर्शनेन शरणांघ्रिसरोरुहाणामुत्सारिताः करणदुष्टगुणा मदीयाः || श्रीमच्छरण्य शरणार्थितया निरस्ता माया पुनर्जननमृत्युकरी विहेया || ३८ || नित्यं महेशशरणांच्छरणं भजामि नातः परं हृदि बिभेम्यरिवर्गतोऽहं || इत्थं निरस्तममता निरहंक्रिया सा नैर्मल्यभक्तिपरिपाकवती बभूव || ३९ || दुर्भ्रान्तिसन्ततिमधः पदयोर्निपात्य शुद्धान्तरंगभरितां विमलार्यपुत्रीं || देवीं विलोक्य हरभक्तगणास्समस्ताः स्वान्ते परामिव कलां बहु मानयन्तः || ४० || स्त्रीजन्म बोधरहितं खलु तत्प्रपद्य त्यक्त्वा विकारमखिलं मदनं समूलं || उन्मूल्य निश्चलतया समचित्तवृत्तिस्सौंदर्यसारखनिरप्यहहा विरक्ता || ४१ || तारुण्यपूर्णवयसा विलसत्स्वरूपा लज्जाकरे सविधवेश्मगतौ च काले || इत्थं मनस्तनुधनेष्वभिलाषशून्या मान्या विराजति सुविस्मृतलोकभावा || ४२ || पृ० १५१) महादेव्यै प्रभूक्ततत्वोपदेशः | जीर्णांगसंगिपलितैः परिवेपमानशीर्ष्णा च नास्ति हि नृणां भुवि वृद्धभावः || नैश्चल्यचित्तपरिपाकबलप्रयुक्तं वृद्धत्वमाकृतिशिशोरपि शास्त्रसिद्धं || ४३ || कालं कियन्तमपि जीवनमज्ञभावाद्व्यर्थं पशोरिव जनस्य विमूढसाम्यात् || तस्मादनश्वरमहेश्वरसामरस्या देवीति तुष्टुवुरलं बसवादयस्तां || ४४ || ज्ञात्वाऽल्लमो हृदि मुदैव तदीयचित्तविश्रान्तिमद्भुततमां मयि भक्तिनिष्ठां || तत्तत्वनिर्णयबुभुत्सुतयागतेमां संबोधयामि तमिति प्रभुराह देवीं || ४५ || ज्ञानं तवाद्य वरवर्णिनि पूर्णमासीन्माहेश्वरं शरणपुंगवदर्शनेन || आयत्तमात्रसुगुणात्मबला यदैव स्वायत्ततां गुरुकृपाऽपि तदैव याति || ४६ || एतद्द्वयीमपि सुसाधयितुं क्रमेण घोराटवीपटलपर्यटनं गतासि || इत्थं विरागभरिता भुवनेऽखिलेऽस्मिंश्छक्नोति को नु भवतीव तपो विधातुं || ४७ || आर्ये किमत्र बहुना वचनेन सम्यक् क्षीरं श्रुतं ननु विधाय सुकौशलेन || आतंचनेन दधितां यदि भावयेत तस्माद्धृतं न पयसो भुवि केवलात्तत् || ४८ || पृ० १५२) तद्वद्विवेकसरणेः क्रमशो विरागस्वभ्यासतोऽवगमयन्परिपाकमन्तः || दीक्षावशादयमहं त्वमिति भ्रमोत्थं भेदं व्यपोह्य कलयेच्छिवतत्वबोधं || ४९ || तत्सावधानसमनिश्चलयोगदृष्ट्या ज्योतिः परं हृदि विभाव्य निरंतरायं || निध्यायतः स्फुरति तत्परमप्रकाशलिंगं स्वतोऽधिगतनिर्मलधर्ममेघं || ५० || देवि त्वमद्य तव निर्मलभावभूमौ बीजं समुप्य शिवतत्वमयं निषिच्य || तद्धर्ममेघसलिलैः प्रणवांकुराग्रज्योतिः सुमाहितशिवैक्यफलं गृहाण || ५१ || अंगान्तरस्थितसुलिंगमखंडभासा बाह्यान्तरस्थमखिलं ग्रसति प्रपंचं || तद्देवि विस्मृतनिजांगकथा तदैव चिद्दिव्यलिंगसहजैक्यमवाप्नुहि त्वं || ५२ || इत्यल्लमप्रभुगुरुस्तनुचित्तवायून्देव्याश्चिदग्निवलये हृदि हावयित्वा || सर्वातिशायि निजनिर्गुणनित्यतत्वे लीनं चकार शिवजीवविकल्पमाशु || ५३ || इति निरुपमलीलानित्यनिर्वाणनिष्ठा धृतिपरमुपदेशं देशिकेन्द्रात्प्रपद्य || अय इव कनकत्वं स्पर्शवेधिप्रभावाद्भवलवमपहाय प्राप तेजोविभूतिं || ५४ || पृ० १५३) प्रभूपदिष्टाया महादेव्याः श्रीगिरिं प्रति गमनम् | शरणजननमस्यां भावयन्ती नमन्ती पुनरपि पदपद्मं श्रीगुरोस्संस्मरन्ती || पुलकितमृदुगात्री नेत्रयोर्बाष्पपूर्णा प्रभुतिलकमथाक्वा भक्तिनम्रा ववन्दे || ५५ || तदनुमतिमवाप्य श्रीमती निर्ययौ सा तदनु बसवगेहाद्भक्तचित्तैः सहैव || रहसि कृतसमाधिर्नाशये दुष्टमायामिति हितमतिरागाच्छ्रीगिरिं योगनिष्ठा || ५६ || अथ गिरिशिखरेन्द्रे सिद्धपीठे विशुद्धे स्थिरमतिरधिरुह्य श्रीगुरुं सर्वपूर्णं || हृदयकमलमध्ये भावयन्ती समन्ताद्दृढतरशिवयोगादंगलिंगैक्यमाप || ५७ || इति सकलमुनीन्द्राः श्रीमहाक्वांबिकायाः प्रभुपरिचितजीवन्मुक्तिनिष्ठा कथेयं || श्रवणपुटनिपीता भक्तियोगं प्रसूते सुरतरुलतिकेवाभीष्टमप्यातनोति || ५८ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां महादेव्यागमनतदनुग्रहवर्णनगतिर्नाम सप्तदशोऽध्यायः || ओं वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला | ग्रंथ ८ वा. (श्रीव्यासकृतभविष्यत्पुराणांतर्गत) प्रभुलिंगलीला भाग ३ रा. हा (महाराष्ट्र तात्पर्यासह) वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री यांनीं मुंबी येथील शके १८२६, सन १९०४ पृ० १) || भविष्यत्पुराणे प्रभुलिंगलीलायां || तृतीयभागप्रारंभः | || श्रीनंदिकेश्वराय नमः || अष्टादशोऽध्यायः || सूत उवाच- श्रीसिद्धवीरेशपदाम्बुजेहा भक्त्या महेशस्य विनष्टमोहाः | त्यक्ताशयाः श्रीगुरुसत्कृपायाः शृण्वन्तु धीराः प्रभुलिंगलीलां || १ || अक्कामहादेव्यमलान्तरंगं देवः समाधाय शिवात्मबोधात् | भक्तिस्थलं ज्ञानपथोपदेशात्कर्तुं स्थिरं हृद्बसवस्य मेने || २ || अथाल्लमस्तं बसवं विलोक्य प्रसाददृष्ट्या परतत्वनिष्ठां | उपादिदृक्षुः स्वयमेव साक्षाद्गुरुः परात्मा वचनं बभाषे || ३ || सदेष्टलिंगं भजतः सुनिष्ठया दृढा हि भक्तिर्गुरुलिंगजंगमे | त्रिलिंगभक्तेर्दृढभावतः स्थिरा मनोगतिः प्राणसुलिंगसंगता || ४ || चित्प्राणलिंगार्पितचित्तवृत्तिं शक्नोति न स्प्रष्टुमियं हि माया | अत्येति मायां तु यदा तदैव निर्वाणमार्गो बसवार्य भाति || ५ || पृ० २) श्रुत्वा गुरूक्तं बसवस्तमूचे प्रभो महात्मन् परिहाप्य मायां || चित्प्राणलिंगांगविवेकतो मे कैवल्यमोक्षक्रममादिशेति || ६ || दीक्षागुरुस्तं प्रभुराह भूयो लीक्षा वसन्तूधसि दीर्घकालं | ताः क्षीरलेशं न पिबन्ति तद्वद्दाक्षायणीशं बहिरर्चयन्तः || ७ || अन्तः परं ज्योतिरमेयलिंगं सन्तः शिवं संततमर्चयन्ति | लिंगावधानाय सदान्तरंगे भक्तिर्मृषा सैव न या क्षमेत || ८ || द्रुमेषु पुष्पाणि सरस्सु वारि शैलेषु पत्राण्यटवीषु गन्धाः | धान्यानि नैवेद्यकृते वसन्ति सस्येषु बाह्यार्चनतत्पराणां || ९ || एतानि संपादितुमर्चनायै यद्यापयेत्केवलमेव कालं | तत्सर्वधा भेदधियोऽस्य जन्तोरैक्याय जायेत न भक्तिदार्ढ्यात् || १० || स्वायत्तमेतत्खलु सर्वजन्तोर्यत्केवलं साधनसंविधानं | गुरोः कृपायत्तमथान्तरंगे लिंगार्चनं तन्नहि दंभभक्त्या || ११ || पृ० ३) बसवस्योपदिशन्तमल्लमं प्रति सिद्धरामस्य वचनम् | न दांभिकानां बहु मानयेऽहं भक्तिं प्रवातस्थितदीपकल्पां | पारं न यात्येव तदीयभक्तिर्वैराग्यहीनस्य यतेः कथेव || १२ || रुध्वा केवलकुंभकेन मरुतः कायं वशीकृत्य यः क्षुत्तृष्णादिरिपून्निहत्य सहसा जित्वेंद्रियाणां गणं | चित्तं वृत्तिविवर्जितं पय इव क्षीरे समारोपयेल्लिंगे स्वात्मनि सिद्धरामवदसौ ज्ञानं लभेच्छांभवं || १३ || श्रुत्वा तद्वचनं प्रभोर्विनयतस्तं सिद्धरामोऽब्रवीद्देव श्रीगुरुसार्वभौम कथमित्याज्ञापयेस्त्वद्भटं | उर्व्यां त्वत्पदकिंकरेषु समतां नो शक्नुयां केन वा प्राप्तुं मेरुतृणे तृणामरगिरी त्वन्निग्रहानुग्रहात् || १४ || स्वामिन्मे बसवार्य एव परमाचार्यो गुरुः स्यान्मम च्छन्नाख्यो मणिवालमाचयघनो मज्जंगमोऽहं शिशुः | भक्तानां परमेश्वरस्य विमलज्ञानैकसंधायिनां तस्मादत्र कियानहं भगवतो देवस्य वाग्गारैवे || १५ || पृ० ४) इत्युक्तः प्रभुरभ्यधात्प्रगुणयंस्तं साधु साध्वित्ययं बुद्धं संप्रति सिद्धराम भवतो वात्सल्यमत्यद्भुतं | भक्तेष्वित्थमुमाधवस्य महिमा शक्येत केनोदितुं वेदाद्यैश्च न वेद्य एव बसवाद्यासंख्यभक्तावलेः || १६ || यस्य श्रीपदपद्मवर्णनचणा वेदादयो वाग्गणा जाने स प्रमथाग्रणीर्बसव इत्याख्यां जगत्पावनीं | नंदीशः स्वयमुद्वहन्क्षितितले भक्तिं शिवे निर्मला ख्यातां कर्तुमवातरत्कलिजनैराच्छादितां तुच्छकैः || १७ || इति प्रभुस्तद्बसवेंद्रसद्गुणानभिष्टुवन्राममुखान्गणान्प्रति | पुनस्तमूचे प्रणतं कृतांजलिं तदाभिमुख्याद्विकसन्मुखांबुजः || १८ || वदामि युक्तिं बसवावधारय प्रवृष्टसद्भक्तिपथानुभावने | मनुष्व लिंगांगमिदं स्वमंगकं तदुज्वलल्लिंगमभेदतोऽर्चय || १९ || लिंगोपभोगभरितः परमप्रसादी संसाधयाशु निरुपाधिकचित्समाधिं | पृ० ५) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः | तत्साधनत्रितयमात्मनि बोधबीजं ध्यानं तदादि मननं श्रवणं तदादि || २० || वाक्यार्थबोध इति हि श्रवणं तदर्थयुक्तिप्रसाधनमिदं मननं वदन्ति | यत्प्राणलिंगविषयं सगुणप्रधानं तद्ध्यानमित्यभिहितं निरवद्यकीर्ते || २१ || एष प्रपंचविषयः खलु पूर्वयोगस्तत्ते ब्रवीमि परमुत्तरयोगतंत्रं | तत्साधनं श्रुतिमिमां बसवार्य तुर्यावस्थां वदन्ति मननं शृणु मौनमुद्रां || २२ || ध्यानं तु निर्गुणनिरंजननिर्विकारवृत्तिः सदैव फलितं परमात्मलिंगे || संधिः स्थिरा मतिरहो जपयज्ञ इष्टस्सोऽहं तमेव भज पूर्णसमाधिमेकं || २३ || वाक्कायहृत्त्रयमिदं स्ववधानमत्या कृत्वैकगत्यविकलं घनलिंगमूर्तेः | ध्यानालयी भवनगोप्यमिदं विदित्वा यो भक्तिमान्विजयते स परं स्वतंत्रः || २४ || तस्यात्मलिंगनिरतार्चनतत्परस्य तत्वत्रयं गुरुचरेष्टपदं निजान्तः | दीव्यत्प्रसादचरणाम्बुविधानशीलान्यत्रैव संति सकलानि च साधनानि || २५ || पृ० ६) चिद्रूपसाधनचयैः परमात्मलिंगं संपूज्य यः समरसस्त्रिपुटीं निरस्य | लिंगांगसंगपरमार्थशिवैक्यभावादानंदमेव भजतः किमु बाह्यतन्त्रैः || २६ || अन्तस्थचिन्मयपरात्परदिव्यलिंगं यो वा न वेद बसवार्य स मां न वेत्ति | तद्बाह्यकर्म परमात्मनि सन्निवेश्य निष्कामतोऽन्तरमलं मृगयेत लिंगं || २७ || श्रीलिंगजंगमगुरूत्तमतत्प्रसादपादोदकानि परिपूर्णतयाऽन्तरंगे | यावन्न भांति करसंगिनिजेष्टलिंगं तावद्भजेत परमार्थपदाभिलाषी || २८ || तत्साधुबोधितपदार्थगतिर्निरस्तव्याध्यादिरात्मनि समः स्तुतिनिंदयोश्च | दुःखे सुखेऽप्यविकृतिः समतां दधानो भक्तो भजेद्बसव तद्भवबंधमोक्षं || २९ || पंचेंद्रियाणि विषयेषु मनो विहारद्वाराणि तान्यथ विरागबलान्निरुध्य | तेभ्यो निवर्त्य हृदयं परमात्मलिंगे संधाय निश्चलसमाधिरयं हि भक्तः || ३० || यावन्मनः प्रचलनं न जहाति तावन्नात्मानुभावमवगच्छति तेन भक्तिं | पृ० ७) श्रीबसवाय प्रभुकृतप्राणलिंगतत्वोपदेशः | नो याति भक्तिरहितो गिरिशं न पश्येत्तद्दर्शनोत्सुकमृते न हि मुक्तिमेति || ३१ || वल्गानिरोधनवशात्तुरगः स्थिरत्वं वायोर्निरोधनवशान्मनसः स्थिरत्वं | तद्वायुरोधनवशेन निरुद्धचित्तो देहस्थकारणमियाद्भुवि वीरशैवः || ३२ || माया नाम मनो मनःपरिणतिर्वायुः स वायुः परं कायोभून्मनसः स एव सततं कायं स्वयं पीडयन् | भक्त्यंकूरसमुद्गमं न सहते कुत्रापि वा तत्क्रमा- ज्जेता तस्य भवेद्यदीह बसवः क्षोण्यां स भक्ताग्रणीः || ३३ || चेतश्चित्रपतत्रिणो निजदृशौ पादाविडापिंगला- नाडीसंस्थितमारुतद्वयमिदं पक्षत्रयं प्रोच्यते | प्राणापानसमाह्वयं नयनयोर्दृष्टिद्वये स्थापिते नैश्चल्येन मरुन्न याति चलनं चित्तं स्थिरं स्यात्ततः || ३४ || चित्ते निश्चलतां गते निरुपमं चिद्बिंदुरत्नं स्फुर- त्यस्मिन्सुस्थिरतां गते विजयते तत्कालकर्मादिकं | कार्यं तस्य च मूलकारणमियं माया समुन्मूलिता नश्येद्विश्वसनीयमार्य बसव स्थैर्यं भजात्मन्यलं || ३५ || उप्त्वा लिंगनिमित्तमन्नविलसद्बीजं सदंगस्थले पृ० ८) संसिच्योदकपानतः सह सदा तद्धातुभिः सप्तभिः | संवर्ध्योर्जितबीजभूरुहफलं बिंद्वात्मनावस्थितं यो दत्वांगगुणाय लिंगमनयल्लिंगावधान्येव सः || ३६ || भित्त्वाऽऽधारप्रमुखविलसच्चक्रषट्कं क्रमेण ज्ञात्वा तत्र स्फुरितमनसा षट्स्थलान्यात्मयोगी | क्षित्यम्ब्वग्नीन् पवनगगने चित्तमत्र प्रयोगा- न्षड्विज्ञायाप्यविकृतमना भक्तिमान्यस्तटस्थः || ३७ || चेतःषष्ठानि भूतान्यथ बसवमुने दैवतानां च षट्कं षड्वर्णानक्षराण्यप्यमलशिवमहामंत्रगोप्यानि तेषु | षट्चक्रेषु प्रबुध्वा तदुपरि गमने यस्समर्थः कृतार्थः सोऽयं पारं गतः स्यात्परशिवविमलज्ञाननिर्वाणभक्तेः || ३८ || वदामि तत्वं गुरुलिंगसंगतस्थलानि विद्वन्गुदगुह्यनाभयः | तदूर्ध्वनाभिर्हृदयं गलाम्बुजं त्रयं तदेतच्चरलिंगमंदिरं || ३९ || भ्रुवोः सुमध्यं ह्यविमुक्तसंज्ञितं ततः परं ब्रह्मबिलं च तद्द्वयं | महेशलिंगस्थलमित्यवेत्य तत्प्रसादवान्स्याद्बसवार्य भक्तिमान् || ४० || पृ० ९) श्रीबसवायाल्लमकृतप्राणलिंगतत्वोपदेशः | सुवस्तु तद्बिंदुमयं गुरूल्लसन्मुखानले पक्वमथार्य पूरयन् | तदात्मविज्जंगमलिंगसंमुखे महेशलिंगाय समर्पयेत्ततः || ४१ || तदीयशेषामृतमात्मसात्कृतं स्वयं समास्वाद्य बहीरसांस्त्यजन् | चिरं निजानंदनिमग्नमानसः समाधिरूढो बसवार्य भक्तिमान् || ४२ || भूम्यम्ब्वग्निसमन्वितो गुरुसुतो विद्युन्मरुद्व्योमगः श्रीमज्जंगमसंविधानभरितश्चित्तात्मसंधानवान् | श्रीलिंगैक्यसुभक्तिमांन् स्थितिमिमां जानाति यः पुण्यवा- नेष श्रीबसवाग्रणीस्त्रिविधसद्भक्तो भवेत्सांप्रतं || ४३ || भूम्यम्बुस्थलवांस्तु कर्मभरितो भक्तोऽग्निवायुस्थल- स्थायी तद्गगनस्थलान्वितमनास्सुज्ञानवानित्यलं | ज्ञात्वा भक्तमहेश्वरादिपदवीमारुह्य तीर्त्वा परं यः प्राप्नोति निरंजनं स बसव ज्ञेयो गुरूणां गुरुः || ४४ || शक्तिस्थानमपानगुह्ययुगलं भक्तिस्थलं नाभिहृ- द्द्वंद्वं मुक्तिकलास्थलं किल गलभ्रूमध्ययुग्मं ततः | ज्ञात्वेत्थं परिहृत्य शक्तिगुणमप्यालिंग्य भक्तिं दृढां भावज्ञो बसवार्य मुक्तिमतुलां गच्छेत्तदूर्ध्वं स्वयं || ४५ || पृ० १०) आत्मानं स्वयमात्मनैव यदि वेत्त्यात्मस्थिता शक्तिर- प्यात्मन्येव च भक्तिरात्मनि दृढा मुक्तिश्च तत्कारणं | ज्ञप्तिश्चात्मनि तस्य भाति तदयं यः स्वात्मनैवात्मवि- न्मान्यः स्याद्बसवार्य चेतसि मया भक्ताग्रणीर्लिंगवान् || ४६ || इत्यल्लमप्रभुगुरुर्बसवाधिपस्य तत्पूर्वपश्चिमविधानरहस्यसिद्धं | योगोपदेशमतुलासनलक्ष्यमुद्राभ्यासोचितं समनुगृह्य जगाद भूयः || ४७ || भक्तिं संततमात्मनैव खचितां कृत्वा वियुक्तां न कु- र्वात्मज्ञैः सह युक्तिमद्भिरतुलां गोष्ठीमजस्रं भज | नाधःस्रोतसि धेहि वृत्तिकलनं चेतस्तदूर्ध्वाध्वना संगृह्याशु निरंजनस्थलमिदं स्थैर्येण संप्रापय || ४८ || चिन्तां संत्यज दिव्यलिंगभरितां दृष्टिं स्थिरीभावय स्वात्मन्येव परामृतैक्यलहरीसाम्राज्यलक्ष्मीं भज | अस्मद्वागुपदिष्टतत्वमधुना मा विस्मरारूढवा- नूर्ध्वं तस्य वदामि सारमतुलं लिंगैक्यतत्वं महत् || ४९ || पृ० ११) यत्रेशांघ्रिसरोजभक्तिभरितास्तत्पारकांक्षान्विता- स्तिष्ठंत्यप्रतिमानुभावकलनागोष्ठीप्रसंगात्सदा | गत्वा तत्र तदीयभक्तिसरणेर्मर्मोपदेशाद्भवं निर्माष्टुं बसवार्य मुक्तिगतये यास्याम्यहं लीलया || ५० || इति सकलगणानां शृण्वतामल्लमेन्द्रस्सदसि बसवनाथं प्राह कारुण्यसांद्रः | भजत मुनिवरेण्याः प्राणलिंगांगयोगं प्रभुचरणसरोजध्याननिष्ठाश्च यूयं || ५१ || पठति परमभक्त्या प्राणलिंगांगयोगप्रकटनपटुसारं सच्चरित्रं प्रभोर्यः | श्रुतमपि बुधवक्त्राद्धारयेद्वा स्थिरात्मा सुलभतरममुष्य प्राणलिंगैक्यसौख्यं || ५२ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां प्राणलिंगानुसंधानगतिर्नामाष्टादशोऽध्यायः || पृ० १२) || श्रीनंदिकेश्वराय नमः || एकोनविंशतितमोऽध्यायः || सूत उवाच- सिद्धश्रीगुरुवीरनाथपदपद्माराधका निस्पृहाः सिद्धा वृद्धितधातुबद्धकुतनोर्दोषैर्निषिद्धात्मनः | रुद्धानर्थरजस्तमोगुणभरा बुद्धात्मतत्वाः कृत- श्रद्धा मुक्तिकथासु भक्तिरसिकाः शृण्वन्तु लीलां प्रभोः || १ || प्रभुरप्यथ भक्तसन्ततिं बसवेंद्रं च कृपाविलोकनैः | अनुगृह्य स गन्तुमिच्छया वचनं प्राह हितं मिताक्षरं || २ || बसवप्रमुखा गणाधिपा गमनेच्छा मम जायते भुवं | अथ यूयमपि स्थिरां मतिं कुरुतास्मत्कथितात्मभावने || ३ || गुरुलिंगचरार्चनक्रमैस्सततं साधुसमागमोत्सवैः | परमार्थपदानुभावनैर्हृदि कालं नयतात्मवित्तमाः || ४ || इति वाक्यसुधापयोनिधिप्रसरैस्ताननुभावयन्प्रभुः | प्रमदाम्बुविलोचनैर्गणैः प्रणतोऽभूत्पुलकांकुरांकितैः || ५ || पृ० १३) गमनसमयेऽल्लमस्य बसवादिभ्य आशीर्वचनम् | विनयान्वितसिद्धरामसन्मुनिमादिश्य सुवर्णलापुरीं | गमनं कुरु साधकोत्तमेत्यमनस्काधिपतिर्ययौ क्षणात् || ६ || अनुसृत्य सहागतान्पुनर्गमनेच्छारहितान्गणान्प्रभुः | अवलोक्य पथि स्थितश्चिरं कृपया प्राह निजांघ्रिसंश्रितान् || ७ || भुवि भक्तगणानशेषतः समयानुग्रहणेन रक्षितुं | अवतीर्य वयं क्व च स्थले न वसामो दिवसाधिपो यथा || ८ || अभवस्य निरंजनस्य मे भवतामेष कृते तनूद्यमः | अनुसंधिविधौ हि चेतसो न बहिर्योगवियोगसंभ्रमः || ९ || अहमेव हि जंगमाकृतिर्न भिदा जंगमलिंगयोस्ततः | मम रूपमवेश्य जंगमं भजताश्वेव भवेन्ममागमः || १० || इति भक्तमनांसि भावयन्प्रभुदेवः सुसमाहितान्यलं | भवतां भवभक्तिरूर्जिता भवतादाशिषमित्यमन्यत || ११ || समुपेत्य च नित्यसत्यतां सततं जंगमलिंगभृत्यतां | पृ० १४) कृतकृत्यतमा भवन्त्विति प्रभुराशीर्वचनं जगाद सः || १२ || विनिवर्त्य गणाधिपान्पुरं बसवादीनसमानवैभवः | प्रययौ जयवानुदग्दिशास्थितभक्तावनतत्परो गुरुः || १३ || बसवादिगणाश्च सद्गुरुस्मृतिनिर्धूतरजोगुणा गृहान् | प्रतिपद्य पुनः पुराधिकं चरलिंगार्चनतत्परा बभुः || १४ || पुनरागमनप्रतीक्षणे प्रभुदेवस्य सदा समाहिताः | दिवसानि नयन्त ईश्वरे परमोत्कंठितया गणा स्थिताः || १५ || तदनु प्रभुराट् पथि व्रजन्सुदृशा यानवलोकयेद्गिरीन् | त इमे कनकाचलायितास्सुरकल्पद्रुलताद्रुवीरुधः || १६ || अमृतांबुधयः सरोवरप्रकराः स्पर्शसुवेधिनो धराः | खनयो मणिसूनवः स्वयं बभुरुत्कृष्टगुणाद्भुतं जगत् || १७ || अथ देशगतास्तमागतं प्रभुमाकर्ण्य सुभक्तिसंयुताः | सह वाद्यरवेण भस्मसत्फलतांबूलभृतः समाययुः || १८ || पृ० १५) श्रीशैलवर्णनम् | पदयोः प्रणतान्कृपानिधिर्हृदि लिंगैक्यमथानुभावयन् | अनुगृह्य च तैस्समं ययौ शिवगोष्ठीकथनैर्यथातथं || १९ || पथि यत्र निषेदिवान्प्रभुः शिवभक्तैः सह तत्र तत्र सः | दिवि दुंदुभिनिःस्वनैस्समं सुमवृष्ट्या भरितोऽभवद्भृशं || २० || अमृतोपमसारवन्त्यलं तदुपस्पृष्टसरोजलान्यभुः | दिनमेकमथोषितं परं प्रयतः क्षेत्रमभूद्धरास्थलं || २१ || सदुघेध्वनिरध्वनि व्रजन् प्रभुदेवः परमेश्वरालयं | स ददर्श समस्तसिद्धिदं प्रथितं श्रीगिरिराजमंजसा || २२ || यदमेयगुणान्प्रशंसितुं न हि शक्नोति फणाधरेश्वरः | तपसा किल पर्वतेश्वरः स्वयमैश्वर्यविजृंभितो बभौ || २३ || रसवादवयोनिरोधने जगदाकर्षणमंजनौषधे | यददर्शनवश्यतादिकं सकलं सिध्यति तत्र मंत्रिणां || २४ || जगदद्भुतमूलिका क्रियाऽमृतसंजीवनिकाद्यमौषधं | पृ० १६) सकलार्थसुसिद्धयस्सुधारसकुण्डानि च तत्र संति हि || २५ || सुरधेनुनिधानकल्पकद्रुमचिंतामणिमुख्यसिद्धिदः | असमानतया शिवागमे जयति श्रीगिरिरेव भूतले || २६ || महिमा खलु पर्वतेशितुर्लतिका यत्र नटंति भूरुहः | प्रहसन्ति शिला वदन्त्यहो तरवः पुष्टतराः फलंत्यरं || २७ || गिरिशृंगगता महाह्रदाः प्रददत्यम्बुनिषेवणान्नृणां | तनुसिद्धिमथाभिषेचनाद्भुवि जातिस्मरतां विशेषतः || २८ || इतरेतरवैरमुत्सृजन् सततं चित्रमृगव्रजोद्भुतः | विचलत्यचलेंद्रमौलिषु प्रमदं द्रष्ट्टदृशां विभावयन् || २९ || अपि सन्ति विचित्रमद्रिराट्शिखराण्यश्वधियाऽऽरुरोह यः | गमयन्ति तमाशु यानि तन्मनसा चिन्तितमुज्ज्वलं स्थलं || ३० || गिरिराजि लसन्ति सर्वतः प्रविशज्जन्तुततेर्निमेषतः | अतलादिपथप्रदर्शकान्यहहा दिव्यबिलान्यसंख्यतः || ३१ || पृ० १७) अल्लमप्रभुगोरक्षयोः समागमः कुशलप्रश्नं च | बहुना किमु साधकोत्तमाः किमु वा साधितुमुद्यता भुवि | गिरिराजमुपेत्य निष्ठया प्रतपंतीप्सितमाप्नुवन्ति ते || ३२ || अथ तत्र गिरौ समस्तसिद्धीरहमाप्तोऽखिलयोगवान्किलेति | वसति स्म समाययौ प्रभुस्तं हृदि गोरक्षमुनिं परामृशन् सन् || ३३ || रोगार्तसन्निधिमिवामृतमादिनाथस्संजीवनीव लतिका व्यसुसन्निधानं || गोरक्षनाथनिकटं प्रभुराप शीघ्रं सुज्ञानसंपदुदयोर्जितपुण्यराशिः || ३४ || तं देवमागतमवेक्ष्य ससंभ्रमोऽयं गोरक्षनाथमुनिरात्महितं विचिंत्य | उत्थाय सांजलिपुटः प्रणतोर्घ्यपाद्याद्यभ्यर्चनं समतनोद्विनयोक्तिसारैः || ३५ || बृश्यासने समुपवेश्य सुभक्तिनम्रः पप्रच्छ देव कुत आगमनं कुतो वा | गन्तव्यमद्य भवदागमनस्य किं वा स्यात्कारणं मम कृपानिलयाभिधेहि || ३६ || युष्माकमागमनमद्य मदीयभाग्यादित्यौचितीपरिचितं वचनं निशम्य | मायां निरस्य तरसाऽनुजुघृक्षुरेनं प्राचुर्यधुर्यवचसा प्रभुराह देवः || ३७ || पृ० १८) गोरक्ष भो वयममी भुवि जन्ममृत्युत्रस्तान्सुसाधकतमान् घनचिन्मयांगान् | लिंगैक्यबोधकथया सुधया विधातुं वेदागमोक्तविधयाऽविरतं चरामः || ३८ || इत्याकलयय वचनं प्रभुलिंगमूर्तेर्यल्लौकिकोक्तिभिरयं परमार्थमाह | मां ज्ञातवानिव पुरेत्यथवा गुरुः स्याद्गोरक्षनाथ इति चिंतितवान् हृदन्ते || ३९ || पप्रच्छ च प्रभुमसावनघ त्वदीयं दृष्टं पुरेव न हि सम्यगवैमि रूपं | भात्यन्यवन्नहि पुरातनवेषभाषा नैसर्गिकीं तव न वेद्मि विशिष्य वृत्तिं || ४० || आस्तां हृदन्तरविवेककथा कथंचिद्विज्ञाय बाह्यमथ पूजयितुं हि योग्यः | लोके जनोऽल्लम इतीरितमस्य बुद्ध्वा गोरक्षमाह सहसा प्रहसन्मुखाब्जः || ४१ || स्वात्मानमेव न हि वेत्ति तमोभरेण योऽसौ परस्य हृदयं कथमत्र विद्यात् | क्षुद्बाधया प्रतिगृहं भुवि पर्यटेद्यः क्षुण्णाशनौषधमयं कथमेव दद्यात् || ४२ || पृ० १९) गोरक्षं प्रति प्रभोः सांकेतिकवचनम् | अन्धस्य हस्तभरिते मुकुरेऽपि किं स्यात्साध्यं तथैव बहिरक्षियुगे स्थितेऽपि | विज्ञाननेत्ररहितस्य फलं किमस्ति साधारणं विषयवर्तनमाः पशूनां || ४३ || वाक्चातुरीप्रकटनैकपरा हि धूर्तास्तेषां प्रबोधगरिमा कथमभ्युदेति | देहात्मवाद इव भाति शरीरमेव संसाधनीयमिति मूढमतिः पशूनां || ४४ || काये स्थिरे सति हि साध्यतमा विमुक्तिः काये कदाऽपि शिथिले नहि मुक्त्युपायः | तत्कायसिद्धिरधिकेति तदर्थचिन्ता कापालिकं मतमिति प्रवदन्ति तज्ज्ञाः || ४५ || त्वऽऽन्मांसमज्जरुधिरास्थिशिरालिमेदोबीभत्सदुर्भरमिदं मलमूत्रसिक्तं | देहं मदीयमिति तत्र कृताभिमानः कापालिकस्य निजभक्तिरसः कथं स्यात् || ४६ || श्रुत्वाऽल्लमोदीरितमत्युदारं गोरक्षनाथः पुनराह देवं | शृणुष्व सिद्धांतविधिं महात्मन्यत्साधकाः सिद्धिसुखं प्रयान्ति || ४७ || पृ० २०) अभ्याससंपत्तिवशेन कायो यस्य स्थिरः स्यात्तमुदारशक्तिं | माया न संस्प्रष्टुमपि क्षमेत मृत्युः पुरःस्थातुममुष्य भीतः || ४८ || प्राप्नोति कायोऽक्षरतां निकामं वयं तु वाग्जालकथां न विद्मः | तत्कायसिद्धिं तव दर्शयामः पश्येति चोक्तः प्रभुराह भूयः || ४९ || गोरक्ष किं वक्षि तनोः स्थिरत्वे किं नित्यता स्यादवशिष्टशक्तिः | माया कथं वा विजिता भवेत्सा मोक्षः कथं वाऽस्तु मृतेरभावः || ५० || क्षरं समस्तं किल भूतजातं कूटस्थ एवाक्षर इत्युदीर्य | क्षराक्षरेशो हरशब्दवाच्यस्तद्भक्तिमानेष्यति मोक्षलक्ष्मीं || ५१ || तस्मात्तनोरक्षयतां न विद्धि भ्रांत्या तनुर्नंक्ष्यति तावकीना | इत्युक्तवन्तं प्रसमीक्ष्य देवं गोरक्षनाथः सहसाऽब्रवीत्तं || ५२ || कथां परित्यज्य बहुप्रकारां गृहाण तूर्णं निशितं कृपाणं | निधेह्यवष्टभ्य बलं त्वदीयं मदीयकायेऽत्र तदीयधारां || ५३ || पृ० २१) योगसिद्धिपरीक्षायां प्रभुगोरक्षयोः संवादः | मदीयकाये यदि रोममात्रं त्रुट्येत चेत्तर्हि न कायसिद्धिः | अहं च लोके न भवामि सिद्धस्सत्यं ब्रुवे प्रत्ययमाशु पश्य || ५४ || गोरक्षमालोक्य वदन्तमित्थं प्राह प्रभुश्छेदनभेदनाद्यैः | परीक्षणं ह्यासुरमामनन्ति मतं न चास्मद्गुरुसंमतं तत् || ५५ || छिद्येत चेत्तावकमंगमेतत्तदा कथं स्याद्भुवि सिद्धिमान्कः | एवंविधोक्तिः सुविवेकजा किं सद्धर्ममार्गः किमु मृत्यभावः || ५६ || अस्मादृशानां पुरतो न चेत्थं वक्तव्यमात्मा मरणादिधर्मैः | न स्पृश्यते संगतयेति चोक्तो गोरक्षनाथः प्रभुमाह भूयः || ५७ || संदेहवार्तो परिमुच्य सद्यस्संताडयैनं मम वज्रकायं | खड्गेन मे नास्ति विनाशलेशः सिद्धिं प्रकाशीकुरु मामकीनां || ५८ || ममाभिलाषं परिपूरयैनं न खड्गधाराहतिमंतरेण | चेतो नु तुष्येदिति मामकीनं निर्बध्यमानो हठयोगिनाऽभूत् || ५९ || एतस्य चित्तं विकलं न भूयात्खड्गं शरीरे निदधामि बाढं | पृ० २२) मृतो यदि स्यादसिना विभिन्नः स्रक्ष्यामि गोरक्षयमीन्द्रमन्यं || ६० || इति प्रभुस्तत्करदत्तखड्गं स्वीकृत्य दृष्ट्वा निशितं विधाय | मुष्ट्यात्सरौ तस्य दृढं गृहीत्वा धारां विधून्वन् निदधौ तदंगे || ६१ || तदाहतिस्फूर्जितघोरशब्दाच्चचाल भूरद्रिगणश्चकम्पे | नाच्छिद्यतांगे क्व नु लोममात्रं रराण वज्राहतशैलवत्तत् || ६२ || नाथो जगाद यमिनं न हि सिद्धिरेषा माया प्रपंचजटिलीकरणं तनोस्ते || संपादितं खलु वृथा यदयं रराणशब्दोऽस्ति यत्र मृतिरत्र यथार्थमेतत् || ६३ || किं वाक्सहस्रकथनैः प्रलयं विजित्य कायस्य सिद्धिरिति या स मृषा प्रवादः | इत्यल्लमः करतलस्थितखड्गमुष्टिं त्यक्त्वा न्यपातयदमुं प्रहसन्पृथिव्यां || ६४ || हा सिद्धयः कथमिमाः प्रलयार्त्युदर्कास्तत्तत्प्रमाणविधयास्त्यखिलस्य कालः | यत्कायसिद्धिपदशब्दितमस्ति वस्तु तत्तद्ब्रवीमि शृणु वेदशिखारहस्यं || ६५ || पृ० २३) अल्लमोपरि गोरक्षस्य खड्गप्रहारकथनम् | वातातपाग्न्यशनिवृष्टिहिमैरपीड्यो यो रुग्जरामरणवर्जितदिव्यदेहः | संबंधवर्जनधियात्मन ईश्वरस्य पूर्णं समाधिमधिरुह्य स एव योगी || ६६ || भूतानि तद्गतगुणांश्च विजित्य बाह्यस्पर्शेष्वसक्तहृदयः समहेमलोष्टः | दृष्टोऽपि दैहिकगुणैर्ह्रिदि तैरजुष्टो यः कायसिद्धिभरितोऽस्ति स एव योगी || ६७ || इत्थं वदन्तमवलोक्य गुरुं गुरूणां गोरक्षनाथमुनिरस्य वचःप्रणाली | काचित्तदद्य धृतिदार्ढ्यमहं परीक्ष्य संभावयामि महनीयतयेति मेने || ६८ || संगृह्य तं सुनिशितं करवालमुद्यद्धाराविधूननचणः करलाघवेन | सव्यापसव्यविधयाशु बिभेद मूर्तिं सर्वत्र चित्रगतिरेष विभोर्नभोवत् || ६९ || तेनाहतं गगनवत्प्रभुदेहमासीदीषत्क्षतेरपि तदा विषयं सुरूपं | निःशब्दमप्रतिमकान्तिविकारशून्यं दृष्ट्वा यमी स बहुधा विचचार भूयः || ७० || पृ० २४) उत्प्लुत्य मूर्धनि निपत्य पदद्वयेऽपि पार्श्वस्थितो भुजकटीयुगलेक्ष्णयापि | सर्वत्र चित्रगतिरात्तविधूतखड्गो रोम्णां च संधिषु चकार करप्रसारं || ७१ || पक्षीव निश्चलतया गगनप्रदेशे स्थातुं पुरा बहुलकंपितपक्ष्मयुग्मः | उत्प्लुत्य खे पुनरपि प्रणिपत्य भूयश्चोत्प्लुत्य पार्श्वचलितः स्थिरतां प्रपेदे || ७२ || आश्चर्यमेतदिति तस्य महामहत्वं विज्ञाय संयमिवरो भयभक्तिनम्रः | नत्वाल्लमेंद्रमपसृज्य करस्थ खड्गं संताडयन्निजकपोलयुगं बभाषे || ७३ || गुरुस्वाम्यस्माकं भवसि न हि चेत् सिद्धिरतुला तनोरित्थंरूपा भवति भुवने कस्य यमिनः | न चैतावन्मात्रो भजति जगदाश्चर्यकृदिदं महत्वं वेदान्तप्रथितपरमाद्वैतफलितं || ७४ || मद्देहमेतदसिखंडितमाशु चक्रे निर्घोषणं खणिति निर्दलिताण्डभित्ति | पृ० २५) अल्लमं प्रति गोरक्षस्य पुनरुक्तिः | देव त्वदंगमिदमंबरवद्विभाति निःशब्दमेव कथमद्य ममाभिधेहि || ७५ || गोरक्षमाह गुरुराट् शृणु सावधानः काये घनीभवति सापि घनैव माया | एतद्द्वयेपि सुघने भवति प्रपंचच्छाया स्थिरा क्व नु तदा तनुसिद्धिरेषा || ७६ || तस्मान्निरस्यति यदा हृदि कायमायेच्छाया विनश्यति तदा खलु सिद्धिरेषा | कैवल्यलक्षणवती भवति प्रसिद्धेत्युक्तः प्रणम्य पुनरल्लममाह योगी || ७७ || भो आदिनाथ मम कारणदेशिकेंद्र दातुं ममाप्रतिमसिद्धिरहस्यमेतत् | अत्यादरादनुगृहीतविलासभाषावेषस्त्वमागत इति स्म न वेद्मि किंचित् || ७८ || देव क्षमस्व कृपयाऽद्य ममापराधं दासोऽस्मि तेऽहमिति तत्पदयोः पपात | उत्थाप्य तं प्रभुरनुत्थितमस्य चित्तं कृत्वा शिवानुभवपूर्णमथाब्रवीच्च || ७९ || लोहं यथैव पुटपाकवशाद्विभाति तद्वद्विरागपरिपाकवशात्फलाप्तिः | गोरक्षनाथमिति सत्कृपयाल्लमेंद्रे पश्यत्यनुग्रहदृशा विचचाल रागः || ८० || पृ० २६) तेनैव सार्धमभिदुद्रुवुरस्य तावन्मात्सर्यदंभमदमुख्यमहोपसर्गाः | संभाषणादपगतौ तदबोधगर्वौ तद्धस्तमस्तकतयाऽपससार माया || ८१ || संप्रार्थयत्प्रभुमपारकृपाम्बुराशिं गोरक्षसंयमिवरो जगदेकबन्धो | धन्योऽस्मि तावकपदाब्जपरागलेशसंस्पर्शनादधिकमप्यहमद्य याचे || ८२ || आज्ञापयोत्तमगतिं मम भक्तबन्धो बन्धो हि सिद्धपदवीरितकायसिद्धिः | इत्यर्थयन्तमनुगृह्य परार्थवेषस्तोषं पुपोष वचनामृतधारयास्य || ८३ || गोरक्ष साधु शृणु किं बहुनोदितेन यावन्न संत्यजति मायिककायसंगं | आत्मा न तावदुदयात्तनुसिद्धिरेका बोधस्य केवलमसाधनमेव जन्तोः || ८४ || यद्युत्सहेत हृदयं तनुसिद्धिमोक्षं सत्साधनद्वयमिदं सममेव लब्धुं | पृ० २७) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः | तर्हि द्वयोरपि गती परिहृत्य भक्त्या श्रीमद्गुहेश्वरपदाम्बुरुहे भजस्व || ८५ || शीतापनोदमिव पाककथाप्रवृत्तो भक्तो गुहेशपदयोस्तु समस्तसिद्धिं | आप्नोषि तं परिचरेति गुरूपदिष्टो निष्ठामवाप्य हृदये गुरुमाह योगी || ८६ || स्वामिन् गुहेश इति कोऽयमपूर्व उक्तस्सोऽयं क्व वा वसति खेलति किंप्रकारः | तं केन वात्र विधिना यमहं भजेयं ब्रूहीति तेन विनयादुदितोऽब्रवीत्तम् || ८७ || गोरक्ष संशृणु गुहेश्वरशब्दवाच्यो नान्यो मदस्ति भुवनत्रितयेऽपि नूनं | निःसंशयो भव मनस्यकलंकवर्त्मा मामेव भावय सदाऽऽत्मसमाहितोऽसि || ८८ || नाम्ना गुहेति परमात्मनिवासभूमिस्तस्यां सदा पतिरहं निवसामि नूनं | तन्नाम मामकमिदं कुहनानृमूर्त्या सर्वत्र साधु विहरामि बुधावनाय || ८९ || तस्मादहं सकलभूतहृदंतराले तिष्ठामि वल्लभतयेति भजन्ति ये मां | तेषां च निर्मलधियां मम नास्ति भेदस्सोऽहं तथैव सततं हृदि भावयस्व || ९० || पृ० २८) मायाप्रपंचकलनं सकलं त्विदंता तत्संगतोपहितजीवचितिस्त्वहन्ता | सोऽहंतया द्वयमिदं प्रविलाप्य पूर्णाहंतामये शिवपदे स्थितिरित्युपास्तिः || ९१ || इत्थं निरंतरमुपास्तिरता हि जीवन्मुक्तिं भजन्ति भुवि केवलभक्तिनिष्ठाः | तस्माद्गुहेश्वरमुपास्व निजात्मबुद्ध्या कैवल्यमाप्नुहि बुधेत्युदितोऽब्रवीत्सः || ९२ || अध्यात्मशास्त्रकृतवासनयाऽलमार्य त्वं चेद्गुहेश्वर इदं किमु लिंगमंगे | चिज्ज्योतिषस्तव निरंजननिर्गुणस्य भेदोऽस्ति किं भ्रमकृतो निकृतोपयुक्तः || ९३ || गोरक्षमाह गुरुरस्म्यहमद्वितीयो भक्तेष्वनुग्रहदृशा धृतविग्रहः सन् | चित्प्राणलिंगमपि हस्ततले बिभर्मि श्रेष्ठैरनुष्ठितमिहान्यजनोऽनुतिष्ठेत् || ९४ || लोकोपकारकृतये बहिरिष्टलिंगं धृत्वा चरामि न भिदा मम तावता स्यात् | पृ० २९) योगसिद्धिपरीक्षायां प्रभुगोरक्षकयोः संवादः | अन्तर्बहिःस्फुरितदिव्यपरप्रकाशलिंगैक्यसंगतिमुदा हरतः स्ववेषात् || ९५ || विज्ञानभक्तिसुविरक्तिमतां मतानि विच्छेदकान्यखिलसंशयबन्धनानां | सोऽहं पुरा रचितवान्यदसीति कोटिसंख्यायुतानि वचनानि जगद्धितार्थं || ९६ || तानि श्रुतिस्मृतिपुराणशुभागमार्थतात्पर्यसंग्रहतया सुविभावितानि | शृण्वंति ये त इह साधनतारतम्यान्मुक्तिं प्रयान्ति हतकिल्बिषचेतनास्ते || ९७ || धात्र्यां खुरल्युदितसाधनसाधकार्थो नानाविधायुधधरो हि परोपकृत्यै | तद्वन्ममापि समयोचितवेषभाषानैश्चल्यभंजनकृते न भवन्ति योगिन् || ९८ || येषां यथा हृदयवृत्तिरहं तथैव तेषां विमुक्तिपथमाशु समादिशामि | तद्वन्ममापि समयोचितवेषभाषास्संतीव वस्तुत इमा न निरंजनस्य || ९९ || धात्र्यामहं सकलभक्तविरक्तचित्तक्षेत्रेषु भक्तिशिवबोधसुबीजराजिं | पृ० ३०) वप्तुं दधामि शरणोचितयोगमुद्रां गोरक्ष तेन मम भेदकथा कुतः स्यात् || १०० || के वागताः क्व नु कथं किमिति स्वचित्ते स्याच्चेद्विकल्पकलनं कथमस्य भक्तिः | सर्वं मयीति शिवसौख्यसुधाब्धिमग्नो भक्तिं भजेत परमां गुणगंधशून्यां || १०१ || सोऽहं तदेतदिति तद्वदहं ममेति नोदेति यद्वदभिमानलवस्तथैव | वर्ते जलान्तरसरोरुहपत्ररीत्या निर्लेपतामनुभवामि सदैव योगिन् || १०२ || ये त्वंगलिंगयुगसंगतिबोधनिष्ठास्तेषां हि षट्स्थलविवेकितया मतोऽस्मि | संगं विसृज्य परिपूर्णशिवैक्यभावा ये चिन्मयाश्चिदहमेव भवामि तेषां || १०३ || ज्ञेयो मदीयमहिमैष न संशयोऽत्र स्याच्चेत्तवाद्य स परीक्ष्य समाधिमेहि | उक्त्वेति नीलजलदान्तरविद्युदुद्यल्लिंगे विलीनहृदयोऽथ समाहितोऽभूत् || १०४ || गोरक्षयोगिनि तदा प्रभुहस्तलिंगं स्वीकर्तुमिच्छति करेण बलाद्गृहीत्वा | पृ० ३१) गोरक्षं प्रत्यल्लमकृततत्वोपदेशः | स्पृश्यं न दृश्यमपि तद्गगनायमानमासीत् सविस्मितमनाः प्रभुमाह भीतः || १०५ || युष्माकमीश महिमा निगमैरवेद्यः कोवाल्पधीरयमहं परिशीलनेऽस्य | साम्यं भजेत गजदन्तपरीक्षयेदं तन्नाथ मामनुग्रहाण हितोपदेशात् || १०६ || शिष्यो हि सद्गुरुवरेण परीक्षणीयो नो जातु शिष्यबटुकेन गुरुः परीक्ष्यः | तद्रक्ष मां प्रभुगुरो शिवदीक्षयेति गोरक्षनाथविनुतोभवदक्षरेशः || १०७ || दीक्षाममुष्य कृपयान्तरनुग्रहीतुं शिक्षाक्रमैस्तमथ लक्षविधैः परीक्ष्य | प्रक्षीणसिद्धिजडिमग्रथनाय तस्मै मोक्षप्रदं समदिशद्गुणशून्यतत्वं || १०८ || गोरक्षकः प्रभुगुरोरुपदेशमात्रात्सामोदहेमसदृशो विरराज विप्राः | किंचाल्लमांबुधिकृपामृतपानतृप्तः सिद्धीस्तदैव सकलाः शिथिलीचकार || १०९ || मायां निहत्य निजकायगुणान् विजित्य स्थूलं च सूक्ष्ममुभयं क्रमशो ग्रसित्वा | पृ० ३२) स्थित्वाथ कारणतनौ विससर्ज वज्रकायभ्रमं चिदमलाभ्रतनुः स योगी || ११० || गोरक्षको भ्रमरकीटनयेन सद्यः कारुण्यतः प्रभुगुरोरुपलब्धविद्यः | मुक्तो बभौ परशिवाद्वयबोधसिद्ध्या जीवन्नपि प्रतिनिवृत्तमृषाप्रपंचः || १११ || संगं विसृज्य भविभिर्भवबंधमुक्तश्चिह्नानि शैवविहितानि तनौ गृहीत्वा | अद्यापि तिष्ठति रसातलमाश्रितोऽयं गोरक्षसंयमिवरः शिवभक्तियुक्तः || ११२ || इति भृगुसुतमुख्याः सुव्रताः श्रीगिरींद्रे प्रभुकृतशिवदीक्षादक्षगोरक्षचर्या | श्रवणपुटनिपीता भुक्तिमुक्ती प्रसूते तदधिकरुचि यूयं धारयध्वं शृणुध्वं || ११३ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां गोरक्षानुग्रहवर्णनगतिर्नामैकोनविंशोऽध्यायः || पृ० ३३) श्रीनंदिकेश्वराय नमः || अथ विंशोऽध्यायः || सूत उवाच- श्रीसिद्धवीरशरणा लिंगजंगमदेहिनः | मुमुक्षवो मुनिगणा लीलां शृण्वन्तु सत्प्रभोः || १ || इत्थं गोरक्षनाथस्य सारविद्योपदेशनात् | संपाद्य कृतकृत्यत्वं सिद्धनाथपदं ददौ || २ || तेन श्रद्धान्वितेनाथ सत्कारैः परिपूजितः | तदाश्रमाद्विनिष्क्रम्य ययावन्यत्र भूसुराः || ३ || लोकैकपावनीं लोलतरंगां मंगलप्रदां | पातालगंगामुत्संगे ददर्श श्रीगिरेः प्रभुः || ४ || तस्यास्तटभुवि प्रोद्यत्पर्णशालाविराजितं | मुन्याश्रमं ददर्शाग्रे धन्यैर्मान्यतमं महत् || ५ || रसालसालपनसखर्जूरार्जुनकेसरैः | किंशुकप्रमुखैर्नानाद्रुमैरत्यन्तशोभितं || ६ || पुण्ये तत्राश्रमे व्याघ्राः क्रीडन्ति हरिणैः समं | चुंबन्ति बभ्रुवदनं मूषकास्तैश्च चुंबिताः || ७ || करिणस्तत्र पंचास्यैस्सख्यं कुर्वन्ति संततं | पृ० ३४) मार्जारैः कीरशिशवो हास्यलीलां वितन्वते || ८ || सहैव निवसन्त्यत्र मयूराश्च भुजंगमाः | अन्ये प्रतीपजातीयास्सजातीया इवासते || ९ || समागतं प्रभुं दृष्ट्वा तेन मार्गेण भूसुराः | प्रत्युद्गम्य कृतार्थाः स्म इति चित्तेषु मेनिरे || १० || मुनयोऽल्लममर्घ्याद्यैः पूजयित्वोन्नतासने | उपवेश्य स्तुतिशतैः स्तुत्वा स्तुत्यं तमूचिरे || ११ || प्रभो सर्वज्ञ भाग्येन जातं त्वद्दर्शनं हि नः | रक्षणीया वयं सर्वे त्वया सद्गतिदर्शिना || १२ || परीक्ष्य गोरक्षयतिं दीक्षां दत्वा सुरक्षितं | कृतवानिति विज्ञाय त्वां द्रष्टुं तावदुत्सुकाः || १३ || प्रतीक्षमाणास्सततं भवदागमनं वयं | तदाद्युत्कंठितस्वान्ता निवसामोऽत्र सद्गुरो || १४ || अनुग्रहोऽयं भवतां यदत्रागमनं शुभं | फलितं हि तपोऽस्माकमद्यैवानुगृहाण नः || १५ || स त्वं तत्वरहस्यार्थमुपदिश्य कृपाम्बुधे | शिष्यत्वेनानुगृह्णीष्व मुनीनस्मान्भवार्दितान् || १६ || पृ० ३५) अल्लमस्य सर्वैऋषिभिस्साकं संभाषणम् | इति संप्रार्थितः सर्वैर्मुनिभिर्जातकौतुकः | प्रभुः प्रसन्नहृदयो बभूवानुग्रहेच्छया || १७ || तेषां प्रार्थयतां प्रभुर्यमवतां कायाम्बुधौ संस्थितं चेतोदिव्यमणिं तदूर्ध्वपदवीमानीय लिंगाह्वये | शाणे साधु निघृष्य तत्र जनयन् ज्ञानप्रकाशं परं सन्निष्ठाह्वयवज्रसूचिभिदया चक्रे बिलं तस्य सः || १८ || संधायात्र च बुद्धिसूत्रममलं तल्लोलतां वारय- न्भेदं चाहमिदं त्वमित्यनुसृतं प्रोल्लंघ्य तं प्रापयन् | पश्चात्पश्चिमवाहिनीं स्थलकुलेष्वाज्ञातमास्थापय- न्मौनींद्रान्प्रणवानुसंधिसुखितान्कृत्वाऽब्रवीदल्लमः || १९ || इमामशुक्लकृष्णाख्यामविज्ञाय क्रियां हृदि | कृपां न लभते शंभोश्चिदम्बरनटेशितुः || २० || विना महेश्वरकृपामन्तरंगं न शुध्यति | अन्तः शुद्धिमृते भ्रान्तिर्न नश्यति मुनीश्वराः || २१ || अनुत्सृज्य मनोभ्रान्तिं न शिवज्ञानमर्हति | तद्विना नहि मोक्षोऽस्ति श्रुतियुक्त्यनुभूतिभिः || २२ || पृ० ३६) तच्छ्रुत्वा मुनिवर्यैस्तैः प्रार्थितः शिवदीक्षया | कृतार्थीकृत्य तान्सर्वान्पुनर्वचनमब्रवीत् || २३ || कैवल्यमुक्तेर्मौनींद्राः कीलकं साधकोचितं | सदैव हृदि लिंगैक्यसावधानतया स्थितिः || २४ || इत्थमाज्ञाप्य तैर्भक्त्या पूजितो गुरुरल्लमः | ददर्श पुरतो गच्छन्महाविपिनमग्रतः || २५ || भानुमद्दीप्तिलेशस्याप्यप्रवेश्यं यदंतरं | लतापटलसंस्यूतनीरन्ध्रतरुमण्डलं || २६ || तत्कुंजाः कुंजरौघानां विहारावासतां गताः | चरन्ति यत्र सिंहाश्च व्याघ्रखड्गादयो मृगाः || २७ || तिर्यग्भिरपि तैर्देवः सेव्यमानो व्रजन्पथि | अग्रे ददर्श मृगयुं क्रूरमाकारनिष्ठुरं || २८ || दारुकोटरयंत्राणि वैययाघ्रशकटानि च | ग्रंथिकीलितसूत्राणि श्येनबभ्रुशुनां गणान् || २९ || तथा शशकजालानि शिक्यानि यवनीपटान् | पृ० ३७) व्याधं प्रति अल्लमस्य हितोपदेशः | मृगयासाधनान्यन्यान्यानयन्तं महावलं || ३० || नेत्रपात्रोरुगात्राणां मृगाणां चित्रवर्त्मनां | गणानाशु जघानैष पत्रिणैकेन लुब्धकः || ३१ || करिणः सिंहवत्सिंहांस्तथा शरभवच्छरैः | मारयामास बहुधा मृगानिव मृगादनः || ३२ || अन्यानि जन्तुसन्तानान्येकैकेन शरेण सः | जघान लीलयाऽटव्यां किरातः कालमृत्युवत् || ३३ || तं वीक्ष्य राक्षसाकारमल्लमो हृद्यमन्यत | अनेन जन्तुविततिर्हतासावन्तकातिथिः || ३४ || वीक्ष्योपेक्ष्य कथं यास्यामेतत्कार्यं कथंचन | निवार्यमनुगृह्यैव क्रौर्यमस्येत्यथाब्रवीत् || ३५ || अहो किमिदमुत्सृज्य मृगयासौख्यमान्तरं | वृथा क्लिश्नासि बहुधा बहिर्मृगयुतां गतः || ३६ || प्रभोर्वाक्श्रवणेनैव तद्दर्शनहतैनसः | तस्याभून्मतिरुत्कृष्टा महत्संगो हि तादृशः || ३७ || उवाच स प्रभुं हर्षात्प्रणम्य पदपद्मयोः | पृ० ३८) भक्त्या परमया युक्तस्त्यक्तशस्त्रः कृतांजलिः || ३८ || मामन्तर्मृगयासौख्यमुपदिश्य कृपानिधे | कृतार्थयेति विज्ञप्तः प्रभुः प्राह कृतानतिं || ३९ || कायः काननमत्र तिष्ठति मृगोऽहंकारनामा शुन- स्तद्ग्रासैकचणान्मनो निगलतो बध्वेंद्रियाण्यत्यजन् | नीत्वा वायुनिरोधजालवलयं सुज्ञानदृक् तं मृगं धृत्वा धैर्यधनुर्विवेकमृगयुस्तद्वेधदक्षो भवेत् || ४० || सोऽहंभावशरं शरासनगुणे संधाय तं पातयं- स्तेन ज्ञानधनंजये सुरुचिरं पक्त्वा शिवस्यार्पयन् | भक्षेदित्युपदिश्य सद्गुरुवरस्तेनापि तत्कारय- न्नानंदामृतसिंधुमग्नहृदयं चक्रे किरातं क्षणात् || ४१ || इत्थं किरातमनुगृह्य ततोऽवरुह्य श्रीपर्वतादथ तदुत्तरदेशमार्गे | गच्छन्प्रभुर्निजपदांबुजदर्शनेन संक्षीणपूर्वकलुषान् व्यतनोदशेषान् || ४२ || ये मानिनीस्तनभराहितदृग्विलासाः कामस्य किंकरजना रतिसौख्यलुब्धाः | ते चापि तं प्रभुमवेक्ष्य विवेकनिम्नाः सन्मानतः सुगतिमेव ययाचिरेऽद्धा || ४३ || पृ० ३९) नानाजनपदगतजनानामल्लमकृतनानाविधोपदेशः | तानल्लमोऽप्यतनुतान्तरकुण्डलिन्याः शक्तेः प्रबोधनवशाद्युवतेः शुभांग्याः | गोष्ठ्या विरक्तिभरितान् विकसद्विहारानानन्दमग्नहृदयानवनौ विचित्रं || ४४ || अन्यांस्तथानुसरतो रससिद्धिकामानात्मीयबिंदुमयदिव्यरसं निरुध्य | अन्तर्दृढं भजत सिद्धिसुखं तदीयमित्यादिदेश भगवानखिलांतरात्मा || ४५ || संप्रार्थितो रसघुटीपटुसिद्धिमन्यैः प्राह प्रभुः स्मितमुखो रस एव बिंदुः | निष्पंदवायुरतुलौषधमात्मचित्तं मूषाऽग्निरेव मणिपूरपदं विदन्तु || ४६ || धृत्यैव तस्य परिपाकवशेन जाता सैवोन्मनी रसघुटी स्फुटमात्मसिद्धा | लब्ध्वैव तां हरमहेशसदाशिवोर्ध्वस्थानाप्तिरेव निजसिद्धिरियं हि नित्या || ४७ || इत्यल्लमः क्षितिजनानुपदिश्य सारं संरक्ष्य तानथ गतः पुरतो ददर्श | अन्यत्र वन्यफलपुष्पसमग्रमग्र्यं मुन्याश्रमं श्रमनिवारकमाश्रितानां || ४८ || पृ० ४०) माकंदचंदनकपित्थरसालसालमालूरचंपकमुखाखिलशाखिसांद्रं | सत्यव्रतैः समयिभिः कृतनित्यकृत्यनैमित्तिकादिनियमैः परितः परीतं || ४९ || यत्राह्वयन्ति विरुतैरतिथीनिवासन्माकंदशाखिषु पिका मधुरैः समंतात् | आगच्छतात्त पिबताध्वमखण्डसौख्यास्सत्कंदमूलफलसाररसान्मदीयान् || ५० || तृष्णां निवारयत निर्मलवारिपूरैरागच्छतेति सरसीषु समाह्वयन्तः | आभान्ति हंसकलहंसरथांगरंगत्क्रौंचादिपक्षिनिवहा ललितैर्निनादैः || ५१ || वृद्धेषु तापसवरेषु गृहीतकीशहस्तावलंबनपरेषु नदीनदादीन् | गच्छत्सु तत्र तदुपर्यनुयान्ति कीराश्छायार्थमेव विकसन्निजपत्रसांद्राः || ५२ || यस्मिंस्तपःकृशमुनींद्रजटाभरैस्तैः संताडितोच्छ्वसितभोगिगणश्रमाम्भः | प्रोत्सादयन्ति मदहस्तिघटाः स्वकीयश्रोत्रछलव्यजनवीजनतः समन्तात् || ५३ || पृ० ४१) वनपशुकृतमुनिसेवनवर्णनम् | मासोपवासमुखघोरतरव्रतस्थान् यत्रासनस्थिरतया रहितान् विलोक्य | तिष्ठंति पृष्ठत उपेत्य बलार्थमेषां व्याघ्राः स्वपृष्ठभृततत्तनवो महान्तः || ५४ || पंचाग्निमध्यतपसा परितप्यमानान् दृष्ट्वा मुनीनिभगणः करपूरिताम्भः | आनीय तत्सविधदेशमहो समन्तात्संसेचयत्यनुदिनं विनयेन नम्रः || ५५ || वाचंयमेषु जरठेष्वथ यत्र मौंजीनिर्मित्सयोद्यतकरेषु गृहीतदर्भाः | आगत्य तांस्तदुपयुक्ततया विदार्य यच्छंति तत्करतले स्वयमच्छभल्लाः || ५६ || हंसाश्च यत्र बिसकाण्डचयं विभज्य चंचूभिरंचदतिसूक्ष्मतदीयतंतून् | आकृष्य ऋष्यधिपभावितयज्ञसूत्रकृत्यै ददत्युदितभक्तिरसास्तदानीं || ५७ || छात्रेषु यत्र समिदाहरणालसेषु नश्येद्बताग्निरिति वृद्धकपिव्रजोऽपि | आनीय तत्र समिधः स्वयमादधाति बर्ही स्वबर्हविसरैर्ज्वलितं करोति || ५८ || यत्रावधाननिपुणाः शिवयोगनिद्रां संप्राप्नुवन्ति मुनयो हतकर्मपाशाः | पृ० ४२) तत्पर्णवेश्मनिकटे सततं मृगेंद्रा रक्षार्थमेव निवसन्ति हि जागरूकाः || ५९ || वेदत्रयं पठति यत्र तदर्थबोधमभ्यस्यति स्फुटमुपन्यसनं च वाग्भिः | तर्कादिशास्त्रसमितेर्विदुषां समूहे कुर्वत्यनूच्चरति कीरगणस्समन्तात् || ६० || मंत्रागमार्थरसिकोदितसामगानैः श्रौषड्वषट्प्रमुखतांत्रिकघोषणैस्तत् | आलिंपताचरत रंगलतां विधत्तेत्यर्घ्यादिशोधनमुदाररवैश्च रेजे || ६१ || किंचातिथीन् कुतपकालसमागतांस्तानभ्यर्च्य मृष्टमशनं प्रयता ददध्वं | इष्टं व्रतिभ्य इति चार्चयतेति भिक्षूनश्रूयतात्र बटुकान् प्रतिगौरवी वाक् || ६२ || रुद्राक्षभस्मविलसद्वपुषां मुनीनामत्यद्भुतांतरतपस्सु समाहितानां | कर्षन्ति तानवयवान्हरिणा निजांगैर्हर्षेक्षणाम्बु च पिबन्ति शुकीशुकाद्याः || ६३ || पृ० ४३) मुनीन् दृष्ट्वाऽल्लमस्य स्वमनसि विचारः | एवंविधं मुनिवनं रुचिरं विलोक्य हृद्यल्लमोऽमनुत तेषु कृतानुकम्पः | आहो प्रयासबहुलाल्पफलं हि कर्म कुर्वन्त्ययोमयविभूषणवद्वृथाऽमी || ६४ || ग्रामान्गृहाणि च विसृज्य महाटवीषु स्थित्वाप्यथेश्वरपदाम्बुजयोरकृत्वा | ध्यानं प्रबोधरहितास्तृणपर्णभाजो यज्ञादि कर्म बहुलं पटतां प्रयान्ति || ६५ || आहो न सन्ति शयनासनभोजनादौ घोराटवीषु रमणीयगृहाण्यमीषां | नाच्छादनाय कमनीयदुकूलशाट्यो वल्कानि कर्कशतराणि तु कष्टमेतत् || ६६ || धर्तुं न रत्नखचितोज्ज्वलभूषणानि रुद्राक्षतामरसबीजसरान् विना स्युः | नित्याग्निहोत्रकृतभूतिमृतेन चैषां श्रीचंदनागरुमृगीमदमुख्यगन्धाः || ६७ || क्षुत्तृष्णयोः प्रशमनाय तरुहदादीनाश्रित्य घोरतपसा किमु साध्यमेषां | स्वर्लोकसौख्यमनुभूय तु भूय एव क्षोणीं गताः किमु पुनर्न पतंति मायां || ६८ || पृ० ४४) मायाऽऽत्मतत्वविदुषा प्रथमं हि जेया तत्साधनौपयिकदिव्यकलामबुध्वा | एतद्भयानकजडाधिककर्मपाशैर्बंधं स्वयं द्रढयितुं प्रमदः किमेषां || ६९ || स्नानं यदि त्रिषवणं भुवि मुक्तिहेतुर्मीनादयो जलचराः किमु मुक्तिभाजः | नश्येद्भवः स्वयमधःकरणेन शीर्ष्णस्तर्हीदृशी हि जतुका किमु बंधमुक्ता || ७० || किं मौनमात्रविजिता भवतीह माया मीनग्रहाय न बकः किमु मौनमास्ते | शास्त्राण्यधीत्य सकलानि किमार्जितव्यं कीराः पठन्ति न किमप्युदितानुसारात् || ७१ || किं वायुभक्षणपरो भुवि मोक्षमेति व्याला ग्रसन्ति पवनं न किमास्तथा चेत् | तत्कर्मजाड्यभरितादपसर्पतीयं माया कदापि नहि तेन विना न बोधः || ७२ || ज्ञानं विना न खलु कर्मशतैश्च मोक्षो मायापसारणमृते नहि बोधलेशः | माया क्रिया हि तदिदं रभसादबुध्वा भ्रान्त्या क्रियामनुसरन्त्यविवेकनिम्नाः || ७३ || पृ० ४५) मुनीन् प्रत्यल्लमस्य तत्वोपदेशः | वापीतटस्थितशिशुर्हि कृपान्वितेन ग्राह्यस्तथैव मुनयोऽपि मुमुक्षवोऽमी | तत्वोपदेशविधिनैव नयान्मयानुग्राह्या इति प्रभुरवोचत तान् विलोक्य || ७४ || किं संकटेन भवतामृषयः क्रियाया नानंत्यमस्ति फलितस्य बहुप्रयासात् | मोक्षाप्तये सुलभमेव वदाम्युपायं श्रद्धान्विताः शृणुत भाग्यवशान्मदुक्तं || ७५ || श्रुत्वा प्रभोर्वचनमुत्कलिकाधिरूढैस्संप्रार्थितोऽथ मुनिभिश्शुभकांक्षिभिस्तैः | आज्ञापयात्महितमार्य वयं हि शिष्या मोक्षैकसाधनमिति प्रभुराह भूयः || ७६ || येनापि केन विधिना भजतामहिंसामुख्यं विमुक्तिगतिसाधनमामनंति | तत्कर्मयोगघटिता भवतां हि हिंसा त्याज्या सदैव खलु सा शिवयोगिवर्यैः || ७७ || हिंसंति ये जगति संप्रति जन्तुवर्गांस्तानंतकस्तदनु सत्यमिदं हिनस्ति | तत्कर्मजाड्यमिदमुत्सृजतान्तरंगे विज्ञानकर्मकृतिमर्म वदाम्यमोघं || ७८ || पृ० ४६) अन्तर्यागविधीरितः पशुरहंकारो मरुत्पूरणं रज्जुर्यूप इतीर्यते मन इदं विज्ञानमग्निः सुधा | चांद्री सोमलतारसो ग्रहगणाः सौषुम्नचक्राण्यमू- न्यात्मासौ यजमान ईप्सितफलं मोक्षैकसिद्धिर्भवेत् || ७९ || इत्यन्तर्मखतत्वबोधघटिताः कर्माणि निर्मूल्य ते भूयो निर्मलशैवयोगभरितज्ञानाख्ययज्ञे दृढं | दीक्षां प्राप्य गुरुप्रभोः करुणया निर्धूतहृत्संशया मायापाशमतीत्य नित्यपरमानंदाम्बुधौ रेमिरे || ८० || संध्याजपश्रवणशास्त्रविचारयोगनिष्ठाग्निहोत्रनिगमाध्ययनार्यपूजा ः | सर्वाः क्रियाः परशिवे परिपूर्य पूर्णास्तेऽन्तर्विचारपरमा मुनयो बभूवुः || ८१ || प्रभुगुरुकरुणापांगेक्षणैरीक्षितास्ते सपदि विगतबन्धास्संप्रदायैकनिष्ठाः | परशिव इति देवं पंडितास्ते विदित्वा पुनरपि कृतपूजाः प्राहुरेनं मुनींद्राः || ८२ || गुरुवर भुवि मायोत्पत्तिकाले मुनीनां सकलनिगमकृत्येष्वाहतेषु त्वमेव | पृ० ४७) मुनिकृतप्रभुस्तुतिवर्णनम् | हृदयकुहरवासी तावदस्मानरक्षीरिदमपि विदितं नः साधु दुर्वासैव || ८३ || परमपुरुष युष्मत्सेवयाऽद्वैतमुक्तिः करतलकलिता न कारणं भाग्यमत्र | इति मुनिभिरधीशः स्तूयमानः समन्तादनुमतिमथ दत्वा स्वान्तरन्तर्हितोऽभूत् || ८४ || अथ पुनरपि भक्तान्रक्षितुं तत्र तत्र स्वयमपि परिदृश्यस्साधुचित्तैक्यवश्यः | चरगुरुशिवलिंगाराधनं साधकानां प्रतिपदमुपदिश्य श्रीगुरुः संचचार || ८५ || त्रिपुरभिदनुमत्या ये गणा भूमिभागे विदितसकलवृत्ताः पूर्वविज्ञानयुक्ताः | इह जनिमलभन्त ब्राह्मणाद्यन्ववायेष्वधिकृतशिवदीक्षास्ते प्रभुं प्राप्य हृष्टाः || ८६ || प्रमथकुलमिदं नः पावनं लोकरक्षाकरधृतशिवदीक्षं नास्ति भेदोस्य किंचित् | अकुलमपि कुलानामग्रतः पूजनीयं भवतु मधुवशादित्यब्रवीद्देवदेवः || ८७ || अधिगतशिवदीक्षा अन्यकर्मस्वसक्ता जगदवनधुरीणाश्चारुगार्हस्थ्यधर्माः | पृ० ४८) दृढपरमविरागा ये निराभारदीक्षा यतिमुनिमतरीत्या ते भवन्तीत्युवाच || ८८ || चरगुरुशिवलिंगाराधनार्थं स तेषां प्रतिदिनमखिलार्थानार्जितुं कायिकानि | तदनुगुणविधानि स्वैरमाज्ञाप्य देवो भुवनमखिलमेतद्वीरशैवं चकार || ८९ || व्यवहृतिमवलंब्याप्येष भक्तान्ववायो मम चरणसरोजध्याननिर्धूतदोषः | भवतु हृदयनिष्ठां तामसीं तां च जित्वा चरगुरुशिवलिंगाराधने जागरूकः || ९० || इति गुरुरुपदिश्य स्वात्मतत्वोपदेशं शिवमतहितरीत्या स्वान्तरन्वग्रहीत्तान् | तदनु तदनुमत्या ते परं शीलवन्तस्सततमभवभक्त्या वर्द्धमाना बभूवुः || ९१ || कथितमखिलमेतत्साधकानुग्रहार्थं प्रभुगुरुचरितं वः शौनकाद्या मुनींद्राः | पठति परमभक्त्या यः शिवाराधनान्ते प्रभुरधिकममुष्मै वांच्छितार्थं ददाति || ९२ || इत्यार्षे श्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां साधकानुग्रहवर्णनगतिर्नाम विंशोऽध्यायः | पृ० ४९) नंदिकेश्वराय नमः || अथ एकविंशोऽध्यायः || श्रीसिद्धेश्वरवीरदेशिकपदाम्भोजार्चनातत्पराः श्रुत्वा भक्तिरहस्यमेव गुरुणा तेनोपदिष्टं महत् || नंदीशो बसवाह्वयः समतनोद्यच्छून्यसिंहासनं तच्छ्रोतुं रसिकाः प्रभोश्चिदमला लीलाऽनुसंधीयतां || १ || अथात्र कल्याणपुरेऽल्लमप्रभोर्महोपदेशात्प्रतिभासमृद्धिमान् || प्रवृत्तिमार्गं बसवः परित्यजन्निवृत्तिमार्गैकरसो बभूव सः || २ || ततोऽस्य कामाद्यरिनाट्यवैभवं विभग्नमासीद्गलिता गुणोद्धतिः || दृगिंद्रियाणां प्रमदो लयं गतो मदास्तथाष्टौ दलिताः पलायिताः || ३ || षडूर्मयः स्थातुमितो भयान्वितास्तथैव कर्मेंद्रियधैर्यमाहतं || गतोऽस्य षड्भावविकारसंभ्रमो मनस्तु तस्य स्तुतिनिंदयोः समं || ४ || तदंतरंगं शिवयोगसत्क्रियासदासमभ्यासधुरीणतां ययौ || जितोपसर्गस्य गुरोरनुग्रहाद्बभूव संतोषसमृद्धिरात्मनः || ५ || पृ० ५०) स्वयं ततोऽन्तर्मुखमार्गमाश्रितः प्रबोध्यतां कुण्डलिनीं क्रमादयं || क्षणादृजूकृत्य तदीयवक्रतां ययौ तदाधारमहागृहांगणं || ६ || ततोऽस्य तद्द्वारकवाटबाह्यतो निहत्य कामं जितकालतां गतः | प्रविश्य तत्रोपरि हृत्सरोरुहे भवभ्रमोच्चाटनतत्परोऽभवत् || ७ || तदूर्ध्वगो भ्रूयुगमध्यमण्डले सुबिंदुरत्नं स्थिरतामवापयन् | निजानुभूत्या बसवोऽन्वभूच्चिरं प्रबोधसाम्राज्यसुखं हृदन्तरे || ८ || अथैष योगः सगुणो वशंगतः कथं पुनर्निर्गुणयोगसाधनं | गुरुः कदाऽऽगत्य ममोपदेशनं करिष्यतीत्यंतरचिंतयच्चिरं || ९ || कदाऽल्लमोऽमेयमहाप्रभाववान् गृहं समायास्यति भाग्यतो मम | कदा मदीयान्तरसंशयच्छिदा प्रभूपदेशादचिराद्भविष्यति || १० || मदन्तरंगस्थितमीदृशं सुखं कदा भवेद्वा सहजं कृपावशात् | पृ० ५१) शून्यसिंहासननिर्माणोपक्रमः | चिदंबरेशस्य महानटात्मनः कथं निरालंबतया प्रवर्तनं || ११ || स केन वेषेण कयाऽपि भाषया क्व केन रूपेण गुरूद्वहः स्वयं | समागमिष्यत्यथ तद्विभावने ममास्ति किं वा सदुपायचिन्तनं || १२ || मयाऽप्रमत्तेन सदाऽवधार्यमित्ययं कृतोहः प्रभुणा पुरात्मनः || अनुग्रहोक्तं गुणयोगमाश्रयन्नुपासनामेव दृढीचकार सः || १३ || स इत्थमात्मन्यवलोक्य शांभवीप्रपंचमभ्यंचितभद्रपीठवत् | विभाव्य तत्राल्लमसद्गुरूत्तमं निवेश्य सद्भक्तिरसादपूजयत् || १४ || हृदन्तरस्थं सुदृढं विभाव्य तद्बहिश्च पूजार्थममुष्य सद्गुरोः | स शून्यसिंहासनमेकमद्भुतं सुशिल्पिना कारयितुं समुद्यतः || १५ || स तप्तजांबूनदराशिमुज्ज्वलं महार्घरत्नौघचयं समानयन् | क्षितौ क्रियाकौशलवत्सुशिल्पिनस्समाह्वयामास विचार्य पंडितैः || १६ || तदाज्ञया निर्ममिरे सुशिल्पिनः सुधांशुकान्तोपलकुट्टिमं पुरः | तथास्य सोपानततीर्हरिन्मणीसुहीरगोमेधिकवालवायजैः || १७ || पृ० ५२) क्रमेण तस्योपरि यत्ननिर्मिता सुवर्णरत्नालिभिरुन्नतोन्नताः | पृथग्यथान्यायमवेक्ष्य शिल्पिभिः प्रदीप्तसप्तावरणोरुभित्तयः || १८ || तदन्तरालेषु धगद्धगायिताः प्रकीलिताः स्युर्नवरत्नपंक्तयः | अनन्यसामान्यमशोभताद्भुतं चिदभ्रपीठं बसवेन निर्मितं || १९ || बहिर्नवद्वारसुशोभितं पुरं तदन्तरे द्वारचतुष्टयोज्ज्वलं | तदुन्नतद्वारयुगान्तरालयं रराज तद्द्वारमथोर्ध्वमेककं || २० || तदन्तराधारसुलिंगनाभिहृद्विशुद्धिसद्भ्रूयुगमध्यचित्रितं | क्रमेण षट्चक्रपथं निधाप्य तच्छिरस्यधुर्ब्रह्मबिलाख्यचक्रकं || २१ || धराम्बुबर्हिर्मरुदभ्रमण्डलान्युपर्यधो जीवपरौ न्यधापयन् | सुभक्तमाहेश्वरमुख्यषट्स्थलान्यनुक्रमात्पीठवरे न्ययोजयन् || २२ || क्षितौ तु काठिन्यमथाम्बुनि द्रवं सदौष्ण्यमग्नौ चलनं प्रभंजने | पृ० ५३) शून्यसिंहासनरचनावर्णनम् | तथावकाशं गगने च शून्यतां विचित्रमात्मन्यपि स न्यधापयन् || २३ || इडोत्तरे दक्षिणतश्च पिंगला सुषुम्नया मध्यगया प्रकल्पिते | तयोर्द्वयोश्चंद्रदिवाकरावुभौ यथा स्वयं संचरतस्तथाहि तौ || २४ || रराज वीधीपुरि तालुमूलसत्पदोत्तरद्वादशिकान्तभूमिगा | चिदंबरं तच्छिखरोपरि स्फुरन्महार्हसिंहासनमुन्नतं बभो || २५ || सुशून्यसिंहासनमध्यमे महान्सदाशिवाख्यस्तरुरस्ति निस्तुलः | यदस्य मूलं प्रणवः परः स्वयं लतास्तु पंचाक्षरदिव्यचित्कलाः || २६ || सुमानि वर्णानि पदानि सत्फलान्यमुष्य नादो हि विमुक्तिदो रसः | स्वरः प्रकाण्डस्सकलार्थदायको महाद्रुमो रत्नमयो विराजते || २७ || महाद्रुमस्यास्य लतेव संगता फणींद्रमूर्धन्यमणिद्युतिर्यथा | बभौ स्वयं ज्योतिरमेयचित्कलाशिखेव दीव्यच्छिवतत्वभूरुहः || २८ || अहो समस्तानि च साधनान्ययं स्वयं प्रपेदे बसवो विमुक्तये | पृ० ५४) स पंचभूतोर्ध्वमहाचिदंबरे चतुर्दशामूनि जगन्त्यवासयत् || २९ || समस्ततत्वोपरि शून्यपीठिकां जगन्नुतां कारयति स्म सोद्भुतां | अहो विचित्रं सकलाश्च देवता यथातथं स्थापयति स्म तत्पुरे || ३० || यदत्र नाडीस्सकलाश्च तद्गता मरुन्मयी कुण्डलिनीः सशक्तिकाः | निधापयामास सुभक्तिसत्कलास्तथा क्रियाज्ञानकलाश्च मर्मवित् || ३१ || सबीजनिर्बीजसमाधियोगयोर्महारहस्योचितकोणनिर्मितिं | स्वयं यथादृष्टमकारयन्महानसौ शरण्यो बसवो जगत्त्रये || ३२ || भिदा न पिण्डाण्डयुगस्य केवलं विमृश्यतां साधुभिरित्ययं बुधः | विकासयामास बहिर्निजान्तरं ययेत्थमस्तूयत सोऽखिलैर्जनैः || ३३ || चिदभ्रसिंहासनमीदृशं महत् गुहेश्वराराधनदिव्यसाधनं | निजात्मरूढं बसवो विनिर्मितं विभाव्य संतुष्टमना बभूव सः || ३४ || पृ० ५५) शून्यसिंहासनं दृष्ट्वा बसवेश्वरस्य विचारः | यदत्र चित्रं सकलं हृदि स्थितं नयेन विज्ञाय धियाऽधिरोहणे | समर्थ एकः प्रभुरेव नान्य इत्यमन्यतानंदनिमग्नमानसः || ३५ || य एव धीरः स्वयमेत्य मद्गृहं महत्वमस्य प्रतिबुध्य निर्भयः | समाधिरोक्ष्यत्ययमेव मे प्रभुः स्वरूपबोधेऽयमुपाय एव नः || ३६ || इति प्रतिज्ञाय मतौ व्रती भृशं बुधैकगोष्ठ्या समयं नयन्नयम् | समागतानां विदुषां प्रदर्शयंश्चिदभ्रपीठं बसवाधिपः स्थितः || ३७ || गतिर्हि लिंगं भुवि मानसौकसः स्वरो हि लिंगं मधुरो पिकस्य सः | शुकस्य वाग्लिंगमनूदिताक्षरा प्रभोस्तु लिंगं यदिहाधिरोहणं || ३८ || विना न सूर्यद्युतिमक्षिगं तमो विनश्यति क्षोणितले यथा तथा | विना प्रभोर्दर्शनमीश्वरस्य मे न जातु माया कुटिला विनश्यति || ३९ || पृ० ५६) इति स्वयं चेतसि निश्चयं गतः प्रतीक्षमाणः स्वगुरोः समागमं | पुरेव भक्त्या चरलिंगपूजनं समाचरन्नास्त स दण्डनायकः || ४० || तत्काले बसवाधिपस्य भवनं भुक्त्यर्थमेके गता केचिद्वेषधराश्च याचनपराः केचित्तु वेश्यारताः | तद्योग्यांबरभूषणादि बसवादाकृष्टुमप्यागता ये तेषां गणनैव नास्ति नियता लक्षोपलक्षाधिकाः || ४१ || तेष्वेकोऽपि न दिव्यपीठममलं द्रष्टुं न शक्नोति त- त्पृष्टस्तत्र स येन केन बसवो वेत्तीति वक्ति स्फुटं | तेनैतत्कथमद्भुतं नियमितं ज्ञातुं कथं शक्यते लोके दृष्टचरं जनैरनुभवज्ञानं विनेति ब्रुवन् || ४२ || आहो चिद्गगनासनं निरुपमं ब्रह्मादिभिर्वा कथं ज्ञातुं चेतसि वा निमज्य बहुधा शक्येत लोकोत्तरं | एको वेत्ति बुधाग्रणीस्स बसवो यद्वाऽल्लमो देशिक- स्सर्पा एव विदंतु तद्गतिमिति प्रोचुश्च सर्वे चराः || ४३ || मंत्रे नादलये हठे परिचितास्सद्यंत्रतंत्रोर्जिता वेदान्तेष्वधिकास्तथैव कुशलाः षड्दर्शनज्ञानिनः || पृ० ५७) बसवस्य प्रभोरागमनविषयकोत्कण्ठावर्णनम् | ये दृष्ट्वांऽबरपीठमद्भुततमं दूरान्नमस्कृत्य ते दुर्ज्ञेयो बसवेश्वरस्य महिमेत्यूचुः शिरःकंपनैः || ४४ || क्व नु गृहमधिगत्य श्रीगुरुर्मे दयालुर्ललितगगनपीठं तावदारोक्ष्यतीति | तदमलनिजमूर्त्तिध्याननिष्ठागरिष्ठो बसवविबुधमौलिः स्वान्तरुत्कंठितोऽभूत् || ४५ || इति कथितममोघं शून्यपीठीमहत्वं पठति परमभक्त्या यस्सदा सन्मुनीन्द्राः | प्रभुगुरुकृपयैव प्राप्तसर्वार्थसिद्धिस्स महितशिवभक्तिः स्थैर्यमायाति धन्यः || ४६ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रभुलिंगलीलायां शून्यसिंहासनमहिमाऽनुवर्णनगतिर्नाम एकविंशोऽध्यायः || पृ० ५८) श्रीनंदिकेश्वराय नमः || अथ द्वाविंशतितमोऽध्यायः || सूत उवाच || श्रीसिद्धवीरेश्वरदेशिकेंद्रश्रीपादुकाभक्तिरता मुनींद्राः | निर्देहतत्वस्य यतींद्रमौलेः प्रभोरमेयस्य कथां शृणुध्वं || १ || प्राणेश्वरे दूरगते सुसाध्वी यथा सपुष्पा फलकांक्षिणी स्त्री | रत्युल्बणं सोढुमशक्नुवाना चिंतां तदीयागमने करोति || २ || तथा प्रभोरागमनेऽनुभूतिस्सुखाभिलाषी बसवाधिनाथः | सबीजयोगोदितभक्तिपूर्णश्चिंतां दुरन्तां हृदये ततान || ३ || अहो तदारोहणयोग्यमुद्यच्चिदभ्रपीठं रचितं मयैतत् || गतास्ततो द्वादशवत्सराश्च प्रभुर्महात्मा न समागतोऽभूत् || ४ || प्राणेश्वरेऽस्मिन्ममता मदीया नो याति पारं कथमप्युदीर्णा | आगत्य वैकल्यमदो निरस्य चित्तस्य देवः क्व दयां करोति || ५ || अर्चावदीशश्शिवयोगमर्म स्वान्ते मदीयेऽधिगमयय सम्यक् | पृ० ५९) बसवेशस्य प्रभोरागमनविषयकचिंतावर्णनम् | अनुग्रहिष्यत्यखिलान्तरात्मा कदा नु संधास्यति वा मुदं हृत् || ६ || प्रज्ञाबलान्मत्कृतदिव्यपीठं राज्ञा यथाज्ञातसुभृत्य कृत्यं | तथाऽल्लमेन्द्रानधिरोहणेन वृथा कथं स्यादथवेश्वराज्ञा || ७ || इत्थं हृदन्तर्बसवो विचिंत्य स्वयं बहिःस्थातुमनौचितीति | एकान्तमासाद्य यथोपदेशं प्राणान् रुरोधासनबन्धधीरः || ८ || अर्थेभ्य आहृत्य दशेंद्रियाणि तानि क्रमात्स्थूलतनोर्वियोज्य | लिंगानुसंधैक्यपदे सुसूक्ष्मे संस्थापयामास समाधिनिष्ठः || ९ || जिता यतः पूर्वसबीजभूमिः प्रभोः कृपायास्तत एव धीरः | अवाप्तनिर्बीजसमाधिभूमिश्चिरं निजानंदमयो बभूव || १० || समाधिसौख्यानुभवेन नित्यं व्युत्थानकालेऽपि जगत्समस्तं | लिंगात्मकं नान्यदिति स्थिरात्मा पुनःपुनश्चापि समाहितोऽभूत् || ११ || कदाचिदागत्य समाधिकाले सुनिर्मलेऽन्तर्मुखदर्पणेऽस्य | प्रभुः स्फुरन्प्रीतमना विभूतिं दधौ स्वयं निर्मलतत्वरूपां || १२ || पृ० ६०) महाप्रसादोऽयमिति प्रभोस्तद्विभूतिमादाय स दण्डनाथः | आनंदबाष्पांचितनेत्रपद्मो बभूव भक्त्या पुलकांकितांगः || १३ || अन्तर्हितोऽभूत्प्रभुरल्लमोऽथ व्युत्थाय सद्ध्यानसमाधियोगात् | विस्फूर्जदत्यूर्जितदक्षनेत्रभुजांगयष्टिर्बसवो बभूव || १४ || स भागिनेयं सुगुणाभिधेयं छन्नाह्वयं सज्जनताविधेयं | स्वयं समाहूय समाधिदृष्टं विस्पष्टमस्मै कथयांबभूव || १५ || यो वेदशास्त्रादिभिरप्यवेद्यस्सोऽयं परं ज्योतिरनादिराद्यः | परः शिवोऽस्मत्प्रभुरागतोऽस्मान्नानंदयिष्यत्यचिरेण देवः || १६ || इत्थं तदाज्ञापितमात्मनीनं छन्नाभिधोऽयं बसवो निशम्य | आनंदलीलामृतपारवश्यात्प्रत्युद्गमोद्युक्तमना बभूव || १७ || उत्कण्ठितस्तत्क्षण एव सोऽयमाहूय तान्कर्मकरानशेषान् | प्रसाधनायास्य पुरस्य शीघ्रमाज्ञापयामास विभुः समन्तात् || १८ || पुरीमलंचक्रुरिमे समन्तात्संमार्ज्य धूलीः परवीथिकासु | पृ० ६१) कल्याणनगरस्वच्छताकरणम् | सत्कृत्य गन्धोदकसेचनेन पुष्पाणि सर्वत्र तथोपजह्रुः || १९ || प्रासादसौधोपरि गोपुरेषु सालेष्वथाट्टालकतोरणेषु | सुवर्णकुंभोपरि दर्पणोद्यद्ध्वजावलीसन्नहनं प्रचक्रुः || २० || तदुत्सवं पौरजनाः समन्तादाकर्ण्य तत्तद्भवनांगणेषु | कस्तूरिकाम्भोभिरथानुलिप्य व्यचित्रयन्मौक्तिकरंगवल्लीः || २१ || भित्तीरलंकृत्य विचित्रजालैस्सर्वत्र रत्नोज्ज्वलहेमदण्डान् | संस्थाप्य तत्रोपरि दीप्यमाना वितानपंक्तेः परितो बबन्धुः || २२ || मुक्तावलिस्वच्छगुलुच्छरेखाः सन्नह्य तद्वन्मणिमालिकाश्च || मध्ये कनद्वर्तुलदर्पणालीर्वितानगर्भेषु विनिन्युराढ्याः || २३ || रंभोज्ज्वलस्तंभविराजितानि द्वाराणि जांबूनदवस्त्रकूर्चैः | सपल्लवैस्सन्मणितोरणैश्च विभूषयामासुरभूतपूर्वं || २४ || गृहे गृहे प्रोन्नतकेतनानि प्रबध्य वीथीषु च वाद्यघोषैः | यथेनरश्मिः प्रसरेन्न किंचित्तथा बबन्धुर्मणितोरणानि || २५ || पृ० ६२) घुमंघुमामोदलसत्प्रसूनप्रवालरत्नावलिभिः समन्तात् || धूपैश्च कस्तूरिसुगंधिलेपैरलंप्रचक्रुः पुरि पण्यवीथीः || २६ || कल्याणमेतन्नगराधिराजं समस्तकल्याणगुणाभिरामम् | लक्ष्मीसरस्वत्युपलाल्यमानं लक्ष्यं बभूवामरपुंगवानां || २७ || महोत्सवस्तद्बसवाधिपस्य गृहे सुधर्माधिपतेरिवासीत् | उघे हरेति ध्वनिभिर्गणानां लघूकृतोऽभून्मथितांबुराशिः || २८ || तदाऽल्लमो मे प्रभुरागमिष्यत्यहो कदा कैस्सह किं प्रकारः | न बुध्यते संप्रति कुत्रवीथ्यामिति स्म दध्यौ बसवो हृदब्जे || २९ || स्थातुं न युक्तं सदने विधेयः प्रत्युद्गमो द्रागिति भक्तसंधैः | स दण्डनाथः सकलैः सभायां विनिर्ययावल्लमदत्तचित्तः || ३० || प्रत्युज्जगाम बसवो मणिवालनाथश्रीमाचयार्यवरकिन्नरसंयमिभ्यां | सच्छन्नवीरबसवः प्रभुलिंगमूर्तेरासेवितो हठपदार्पणसूरिणा सः || ३१ || पृ० ६३) बसवस्य प्रभोः प्रत्युद्गमनवर्णनम् | अन्यैरनन्यहृदयैरभितो गजाश्वारूढैर्गणैः परिवृतो गणनातिगैस्तैः | भण्डारिवीरबसवः प्रययौ नृपालवृन्दैरमंदविभवैरपि पृष्ठभागे || ३२ || संसेवितो नवभिरात्मसमप्रधानैरन्यैर्भटप्रकरमागधबंदिवृन्दैः | संस्तूयमानबिरुदावलिगद्यपद्यो हृद्यल्लमांघ्रियुगुलं कलयन्ययौ सः || ३३ || तत्रोन्नताकृतिभिरुज्वलवेत्रहस्तैर्विज्ञाततत्तदवनीधवतारतम्यैः | आहो प्रयात धुरि तिष्ठत सावधानं दूरे तथाऽपसरतेति वचोऽभ्यधायि || ३४ || संबाधवारणपरैः परिसेव्यमानः संचाल्यमानरणदंदुककुन्तहस्तैः || उत्पत्य तानुपनिगृह्य कृताट्टहासैरुक्त्वा स्वनाम पटुवीरभटैर्ययौ सः || ३५ || खेटैः ससंभ्रमतया धृतखड्गखेटैर्भूयः कृतांजलिपुटैश्च निजाभिमुख्यात् | दूरस्थितैः सविधगैश्च विनम्रकायैः पृष्टैर्नटद्गतिगतैश्च भटैर्ययौ सः || ३६ || पृ० ६४) अर्काश्वसंयमपरैर्जवनैर्महाश्वैरैरावणस्फुरणवारणवारणौघै. ह् | संख्यातिगैरतुलपुष्परथैरनेकैस्साकं ययौ बसवमंत्रिवरो मनस्वी || ३७ || चित्रांबराणि रमणीय तराणि धृत्वा भक्तस्त्रियः कलशदर्पणपाणिपद्माः | सद्भूषणा निटिलभास्वरभूतिरेखा जग्मुः पुरो बसवमंत्रिवरस्य बह्व्यः || ३८ || भावप्रबोधनिपुणाः कवयस्तथैव तत्राशु कल्पितगुणाद्भुतकाव्यपाठैः | अप्रीणयन् हृदयमस्य तथा रसज्ञा नाट्यक्रमैर्भरतशास्त्रकलाप्रवीणाः || ३९ || छत्रैर्विचित्रकलशैः सितचामरौघैर्देदीप्यमानवलयैर्व्यजनालवट्टैः || वर्णानुरंजितमुहुर्मुहुरास्तृतां च संवीज्यमानपटकूर्चशतैर्ययौ सः || ४० || रामाः पुरंदरवधूविजयाभिरामसद्रामणीयकनिजावयवाभिरामाः | पृ० ६५) बसवस्य प्रभुं प्रति प्रत्युद्गमनवर्णनम् | नीराजनोद्यतकराहितहेमपात्राश्चित्रं विचेरुरुभयत्र पुरोऽस्य मार्गे || ४१ || पादौ सरोरुहजितौ पदकंकणान्तर्मुष्टेरपूर्णमवलग्नमभूच्च यासां || ता निर्भरोरुजघनस्तनभारधुर्या धैर्याद्ययुर्विधृतसाधनपाणिपद्माः || ४२ || चंचन्मदालसदपांगदृशः स्मितास्याश्चेष्टाविलासभरिताः सरसोक्तिसाराः || मिथ्यावचःकपटसत्यमृषाप्रमोहा वाराऽऽन्गनाश्च बसवं पुरतोऽनुजग्मुः || ४३ || इत्थं महाविभवनिर्जितराजराजे प्रत्युद्गमोद्यतगतौ बसवाधिराजे | ये तत्र संति कतिचित्परवादिबौद्धास्ते तद्विभूत्यसहनादभजन्जुगुप्सां || ४४ || गत्वाऽथ बीजलनृपं परवादिनस्ते कानि प्रकल्प्य वचनानि मृषैव धूर्ताः | ज्ञातप्रभूद्गमनवार्ततया तदीयमुन्मादिवर्तनसमं कथयांबभूवुः || ४५ || स्वप्ने विलोक्य परिपक्वफलानि वृक्षे तस्मात्प्रबुध्य पुनरत्तुमिहेच्छतीव | पृ० ६६) दृष्ट्वा हठेन शुभसूचनमात्रमेष भ्रान्त्या तनोति जगदद्भुतदांभिकत्वं || ४६ || राजा निशम्य वचनं स्वमताभिमानात्किंचित्प्रकुप्य हृदये पुनरप्युवाच | आहो मदीयनगरे मयि वर्तमाने त्यक्त्वा ममानुमतिमेष कथं विधत्ते || ४७ || स्वप्ने तु किंचिदिह भस्मनि दीयमाने भ्रान्तिं धराधरसमां बसवः प्रपेदे | भक्तोऽथवा भजतु लोकविरुद्धमर्थं सत्यं स एव भवतां किमु तेन हानिः || ४८ || वेत्ति स्वमेव महिमानमसौ स्वकीयं नो जात्वलौकिकमिदं वयमत्र विद्मः || विज्ञायते च सकलैः पुनरेतदन्ते दृष्ट्वैव तावदधुना ननु भिद्यतां सः || ४९ || उक्त्वेत्थमेव नृपतिः पिशुनान्स्वकीयांस्तूष्णीं बभूव मनसाऽऽहितरोषपूरः || विज्ञाय तन्नृपतिचित्तमसौ महात्मा चिन्तां चकार महतीं बसवाधिनाथः || ५० || पृ० ६७) कुत्सितरूपेण प्रभोः कल्याणनगरं प्रत्यागमनम् | नायाति किं मम गुरुः प्रभुरल्लमेन्द्रो लोकेऽपहास्यचरितोऽस्म्यथवा महेशः || सर्वत्र चास्ति मयि किं निगमागमानां कर्ता स एव भगवान्परवादिजेता || ५१ || इत्थं विचिंतयति भक्तकुलावतंसे हंसोल्लमोन्तरमवेत्य तदा तदीयं || शीघ्रं न यामि यदि भूमिविभुर्जनाश्च भक्तं हसन्ति न तथास्त्विति साधु मेने || ५२ || मत्वेति चिन्मयवपुः स्वयमप्यधीशः प्रोन्मत्तवेषभृदयं गुरुमण्डलेन्द्रः || साक्षाद्बभूव बसवादिगणाधिनाथैर्ज्ञेयो न पामरजनैर्विषयैकलुब्धैः || ५३ || ह्रस्वांगसंगततनुः कुटिलांघ्रिरीषच्छ्मश्रूः कषायितकचो गडुवक्रकण्ठः || क्षुभ्यत्कटिर्बहुलरोमततिः कुदृष्टिराक्रोशवाक्चलगतिर्विकृताट्टहासः || ५४ || नीलापसारविकसद्व्रणराजिरन्तर्ध्यायन्रुदन्परिहसन्कृशलंबकर्णः || लालाक्षरन्मुखबिलः प्रभुराजगाम भुंगीश्वरः स्वयमिवाश्रितवत्सलोऽसौ || ५५ || पृ० ६८) इत्थं प्रभुर्नगरमेत्य विनिंदतोऽपि कांश्चिज्जनान्प्रतिवदन्स्वयमाशिषैव || कांश्चित्प्रताडनपरान् स्तुतिमेव चक्रे गायज्जनान्प्रति जगौ नटतो ननाट || ५६ || कांश्चिच्च भूषणपरान्प्रतिभूष्य तत्र कांश्चिन्नियुद्धचतुरान्प्रतियुध्य धीरः || कांश्चिन्नमस्कृतिपरान्प्रति नम्रमूर्धा कांश्चिद्विकारवदनान्विकृतिं चकार || ५७ || बालान्विलोक्य पुरि बालवदेव देवश्चिक्रीड कुत्र च पपात धरातलेऽसौ || उत्थाय शीघ्रमभवोऽर्भकवच्च केषां केषां च वृद्धवदभूत्परिदृश्यमानः || ५८ || दृष्टः कदा रसिकवत्क्व च मूढतुल्यो दृश्यः कदा गगनवत्क्व च निर्विकारः || दूरे क्वचित्क्व च समीपगतः कदाचित्सर्वत्र सर्वग इति प्रथयन्स्वशक्तिं || ५९ || इत्थं प्रभोर्विहरतो महिमावबोधः कस्यापि नाभवदथो बसवेश्वरस्तं || पृ० ६९) अल्लमप्रभोर्दर्शनोत्सववर्णनम् | गूढं निधिं भुवि यथांजनसिद्धयोगी तद्वत्सुनिर्मलधियाऽल्लममेव मेने || ६० || उत्कण्ठितः स हृदये पुलकांकितांगः स्वानंदबाष्पलहरीपरिपूर्णनेत्रः || भक्तैः समं सविधमेत्य निधाय भस्मताम्बूलमाल्यनिचयं पदयोर्ननाम || ६१ || भक्तांगना विनयभक्तियुतास्समेत्य दीव्यन्निजाभरणदीप्तिभिरुल्ललत्सु || दन्ताक्षिहस्तरुहरश्मिषु चारुगीतैर्नीराजनानि विदधुः प्रभुलिंगमूर्तेः || ६२ || वाद्यध्वनिस्फुरणमत्यधिकं बभूव चाटुप्रबंधमपठद्भटबंदिवृंदं || पौरास्समेत्य विनयेन ववंदिरेऽमुं भंगं मुखेषु परवादिगणाः प्रपेदुः || ६३ || कल्याणपट्टणमिति प्रथितं पृथिव्यां यद्द्वादशप्रथितयोजनविस्तृतं तत् || सर्वं प्रभूत्तमसमागमने बभूव कल्याणदीपकरपौरसतीसमेतं || ६४ || भक्तव्रजे प्रमुदिते शरणार्थितोक्त्या भक्त्या कृतांजलिपुटे परितः स्तुवत्सु || पृ० ७०) पौरव्रजेषु धृतचामरसत्पताकाचित्रातपत्रवलयैः प्रभुराजगाम || ६५ || प्रत्युन्नतांसपरिवर्तनचातुरीषु नारीषु संभृतविलोकनसंभ्रमासु || संवर्धितत्रिभुवनाद्भुतवैभवं तद्गेहं विवेश बसवस्य गुहाधिनाथः || ६६ || गंगांबिकाप्रभृतितद्रमणीमणीषु भक्त्या प्रणम्य जयमंगलशब्दपूर्वं || आरार्तिका विदधतीषु गृहं प्रविश्य देवश्चिदभ्रमणिपीठसमीपमागात् || ६७ || दृष्ट्वा प्रहृष्य गुरुरात्मनि शून्यपीठं सर्वान्निवर्त्य च समागतपौरसंघान् || शिष्यप्रभावमधिगम्य गणेषु पश्यत्स्वारोहणाय विदधे मतिमल्लमेंद्रः || ६८ || सर्वात्मनः सगुणनिर्गुणयोगसंविद्रूपस्य तस्य भुवनत्रयसंविधातुः || चित्रं किमल्लमगुरोरिति भक्तसंघेष्वन्तः स्तुवत्सु गुरुरासनमारुरोह || ६९ || द्वासप्ततिप्रथितनाडिसहस्रबद्धं बुध्वा नरांगमिह कीलितपुत्रिकावत् || यो नाटयेत्किमिदमस्य तथापि लोके प्रख्यापनाय बसवाधिपदिव्यकीर्तेः || ७० || पृ० ७१) प्रभोः शून्यसिंहासनोपर्यधिरोहणोपक्रमः | आधारभूतमिदमेव हि षट्स्थलानामित्यभ्रपीठमुपदर्श्य गुरुस्तदीयं || सत्कीलकं समुपदिश्य गणाधिपेभ्यस्तन्मूलपीठमवलंब्य समारुरोह || ७१ || तत्रस्थगोप्यमुपदिश्य ततः परस्तादेकैकभूमिमधिरुह्य गुरुः क्रमेण || तत्तद्रहस्यमपि ताननुभाव्य दीव्यत्सिंहासनाग्रमभवः स्वयमाविवेश || ७२ || षड्भूतषट्कमलषट्स्थलषड्विधांगषड्भक्तिषट्चरणषड्विधव र्णमालाः || षट्छक्तिषड्द्युतिषडंबरषट्प्रयोगान्सम्यग्दिदेश शिवभक्तगणानधीशः || ७३ || तत्तन्निवेशनविधानचमत्क्रियायां भक्ताग्रगण्यबसवस्य निवेदितायां || देवेन ते शिवगणाश्चलदुत्तमांगा नासाग्रदत्तनिभृतांगुलयो बभूवुः || ७४ || शक्त्याऽन्वितानि परिहृत्य स कुण्डलिन्याश्चण्डांशुपावकसुधाकरमण्डलानि || आसेदिवानकुलचक्रघने सुषुम्नाद्वाराग्रजाग्रदतुलांबरपीठशृंगे || ७५ || तत्रागमान्तचरणे प्रणवोपधाने वाक्यैश्चतुर्भिरपि निर्मितपट्टबन्धे || पृ० ७२) सद्ब्रह्मपंचकसकंचुकहंसतूले पंचार्णमंचफलके प्रभुराविवेश || ७६ || श्रीमत्प्रभोः समुपवेशनतस्तदैव सर्वाः क्रमेण निहिता बसवेन पूर्वं || तास्ताः सचेतनतयाऽखिलशक्तयोऽत्र स्वांगैश्चलद्भिरभजन्जगदीशमेनं || ७७ || अत्यद्भुतं तदवलोक्य भयेन केचिद्दूरं गताः कतिचनात्मविदो विधिज्ञाः || साक्षाच्छिवोऽल्लम इति प्रणता बभूवुः स्वात्मन्यवाप बसवः परमं प्रमोदं || ७८ || भूयः प्रणम्य बसवो निगमान्तवाक्यैस्तुष्टाव भक्तिभरितो गुरुसार्वभौमं || सच्छन्नवीरबसवः परमावधानी स्वात्मार्पणं समतनोत्प्रभवे प्रभूणां || ७९ || अत्रान्तरे हठपदार्पणमाचयार्यौ भूमौ प्रणेमतुरमुं प्रतिपारवश्यात् || अन्ये च किन्नरमुखा भयभक्तिनम्रा दण्डप्रणामशतकैश्शरणं प्रपन्नाः || ८० || पृ० ७३) अल्लमप्रभोः शून्यसिंहासनोपर्यधिरोहणम् | येऽन्ये प्रभोर्विरचितं बसवेन पीठं द्रष्टुं पुरीमधिगताः शिवभक्तसंघाः || कल्याणपट्टणनिवासिगणाश्च सर्वे तत्रागतास्सपदि जंगमलिंगवर्याः || ८१ || संचार्य भूमिमखिलां समुपागता ये ते दण्डनाथबसवेन कृतोपचाराः || नित्यं वसन्ति रमणीयमठेषु वृद्धाः श्रद्धान्विताः प्रभुमुपाययुरुत्सवेन || ८२ || सर्वे च ते कृतनमस्कृतयः पुरोऽस्य स्थित्वा प्रभोः स्तुतिशतान्यभितो वितेनुः || हर्षेण केचिदथ गीतपदैरगायन् नाट्यं प्रचक्रुरपरे कृतहस्ततालाः || ८३ || विद्याः श्रुतिस्मृतिपुराणमुखास्समस्ता यस्यादिमध्यचरमान्न विदन्त्यतीतः || यो नादबिंदुकलिकास्तमधीशमेनमारोहयद्गगनपीठमसौ महात्मा || ८४ || को वेत्ति दिव्यमहिमानममुष्य लोके सर्वोत्तमस्य बसवस्य जगद्धितस्य || इत्यन्तरंगपरिपूर्णपरप्रमोदास्सर्वे प्रतुष्टुवुरुघे जयशब्दपूर्वं || ८५ || स्वामी तदाऽल्लमगुरुर्बसवाधिनाथं संवीक्ष्य निश्चलदृशो भयसामरस्यात् || पृ० ७४) अन्तस्तरंगितसुखानुभवानुरागादाह स्म भक्तनिवहेषु मिषत्सु सत्सु || ८६ || लिंगार्चनप्रतिभया विमलान्तरंगध्यानावधानपरिशीलननिष्ठया च || सज्जंगमार्चनविधानसदैकरीत्या लोकोत्तरो बसब एव घनो न चान्यः || ८७ || आहो जयिन् बसव भक्तितनो महात्मन्नाहो फलिन् बसव भक्तमनःप्रसन्न || आहो महिन् बसव सद्गुणरत्नधामनाहो वशिन् बसव भाग्यवतां वरेण्य || ८८ || इत्यल्लमे स्तुवति सद्गुरुसार्वभौमे भक्त्या ह्रिया च बसवः प्रणतोत्तमांगः || साष्टांगदण्डनतिभिः स्तुतिभिः प्रभुं तं स्तुत्यं विचित्रपदवाक्फणितिर्नुनाव || ८९ || भक्तेषु चित्रलिखितेष्विव विस्मितेषु तत्पारवश्यकलया बसवे स्थितेऽस्मिन् || स्थानान्यतीत्य सकलानि गुरुर्गुरूणां संविन्मयो गगनपीठगतो बभूव || ९० || इति सकलमुनीन्द्राः शून्यसिंहासनोद्यच्चरितमखिलमेतच्छ्रावितं शास्त्रासारं || पृ० ७५) कथानकश्रवणपठनफलम् | पठति परमभक्त्या नित्यमेकान्तनिष्ठः श्रवणपथगतं वा भावयेद्यः स धन्यः || ९१ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां प्रभुसमागमनतदीयशून्यसिंहासनाधिरोहणवर्णनगतिर्नाम द्वाविंशोऽध्यायः || पृ० ७६) श्रीनंदिकेश्वराय नमः || त्रयोविंशोऽध्यायः || सूत उवाच || श्रीसिद्धिवीरगुरुमण्डलचक्रवर्तिपादाम्बुजातभजनाभिरता मुनीन्द्राः || नित्यव्रताचरणनिर्मलशीलवन्तः शृण्वन्तु भक्तिभरिताः प्रभुलिंगलीलाम् || १ || गगनपीठशिखाग्रचिदम्बरस्थगितयंत्रलसद्दहरान्तरे || अधिवसन्तमनंतगुणाश्रयं प्रभुमगाद्बसवो भयभक्तिमान् || २ || सविधमेत्य तमर्चितुमुद्यतो विविधसाधनसंभृतितत्परैः || निजगणैर्भजमानहृदंबुजैः प्रभुमपूजयतागममार्गतः || ३ || अपचितिं बसवे प्रभुमूर्तये सपदि कुर्वति तद्भगिनीसुतः || बसवतुल्यगुणः शिवयोगिराडतनुताखिलसाधनसंभृतिं || ४ || हठपदार्पणकिन्नरमाचयास्सुजनमौलिगमारघनादयः || अपि च भाचरसाधुमुखा गणा विनयभक्तियुताः परिवव्रिरे || ५ || क्षितितलस्थितभक्तगणेऽखिले दधति विस्मयमर्चनगौरवात् || पृ० ७७) सर्वेषामल्लमचरणांतिके सन्निवेशनम् | विभवनिर्जितवासववैभवः स बसवः प्रभुमूर्तिमपूजयत् || ६ || अथ तदीयमहार्चनवैभवं पुरि विलोकितुमुत्सुकतां गताः || अनुययुर्बसवाधिपमंदिरं शिवगणाः प्रगुणा गणनातिगाः || ७ || य इह वेश्मनि तस्य दिने दिने घनरसायनभोजनतत्पराः || बहुलजंगमलिंगगणाश्च ते समधिगम्य गुरून्समलोकयन् || ८ || भसितभूषितसल्ललितांगसंगतहराक्षसरा मननव्रताः || कपिलवर्णजटाभरबंधुरा धृतसितातपवारणपाणयः || ९ || विमलशीलयुताश्च विलंबितश्रुतिपुटाः पटुदीप्तितनूभृतः || करकमण्डलुजाप्यमणिस्रजश्चरगणा धृतकंबलकंधराः || १० || निरुपमानहरप्रतिविग्रहास्समुपगत्य चिदंबरविष्टरे || स्थितगुरोश्चरणासनसन्निधौ विनयतोऽन्यवसन्बसवाग्रतः || ११ || बसवदण्डपतौ प्रभुगोष्ठिभिश्चरगणार्चनभोजनसत्क्रियाः || सपदि विस्मरति क्षुधिताश्च ते विकलिताः स्वयमात्मसु मेनिरे || १२ || पृ० ७८) अहह धीरमतिर्बसवः कथं गतविवेकतयाऽस्मदुपेक्षणं || वितनुते बत भक्तिरियत्यभूत्स्थितमतिक्षतिवत् पठनोद्यमे || १३ || उदितचित्तविकारवदैंद्रजालिकममुं विकटासनसंस्थितं || भ्रमवशादवलोक्य वशं गतो वसतु तेन सहायमिदं कियत् || १४ || इति विशंक्य मनःसु चरव्रजे झडिति तत्रगते बसवेश्वरः || हृदि विचार्य चिरं स्फुरदुल्मुकन्यसनवानिव तापमुपाययौ || १५ || क्व नु गता मतिरद्य ममापि वाक्च्युतिरभूदबुधोऽस्म्युदरे मदात् || विघसकामनयाऽऽगतजंगमाः प्रतिगताः कथमेष समाह्वये || १६ || अहह किं नु निधाय मुखं पुनः प्रतिसमाह्वयितुं प्रयतेय तान् || मम महानपराध इयान् कियानिति कथं कथितुं बत शक्यते || १७ || इयदनेहसि मद्रचितं वृथाजनि चरामरपूजनमन्ततः || व्रतशतं सुकृतं ननु भज्यते क्वचिदपि व्यभिचारवशाद्यथा || १८ || भ्रमणमुल्बणमाप मदंतरं किमिति जीवनमेतदपार्थकं || पृ० ७९) जंगमागतैति चिंतितबसवेश्वराय प्रभुकृतसमाश्वासनम् | इति विचिंत्य गुरोः पुरतश्चिरं सभयगद्गदमाह सभांगणे || १९ || महित षण्णवतीष्टसहस्रभूर्यधिकलक्षगणार्हमिदं कृतं || सकलरस्यपदार्थकदंबकं पुरभिदेऽर्पयितुं क्व गणान् ह्वये || २० || इति वचो बसवस्य मिताक्षरं स्मितमुखः प्रभुरेव निशम्य तं || प्रतिजगाद शिशो हृदि चिन्तया किमुदितं तव साधु समर्थये || २१ || अहमपूर्णसहस्रचतुष्टयद्विगुणलक्षगणाधिकतृप्तये || अलमहो क्षुधितोऽस्मि नियच्छ मे कवलमद्मि ततो विजयी भवान् || २२ || इति निपीय गुरोर्वचनामृतं स बसवो भयसंभ्रमसंभृतः || वनितया बलदेवतनूजया सह यथोचितमर्चितवान् प्रभुं || २३ || स्वरमणीरमणीयकरद्वयीघटितहेमघटात्तहिमांबुभिः || प्रभुगुरोः पदयोरभिषेचनं प्रविदधे बसवो वसुवासवः || २४ || विमलमर्घ्यजलं करपद्मयोः प्रतिनिधाय तथाऽऽचमनं मुखे || सुरभिचंदनसत्कुसुमाक्षतैः श्रुतिपदैः सममर्चितवान् प्रभुं || २५ || पृ० ८०) घुमघुमायितधूपमथार्पयन् कपिलधेनुघृताक्तसुवर्तिभिः || धगधगायितकांचनपात्रकैरभिदधे धुरि दीपसहस्रकं || २६ || तदनु दीव्यदमूल्यमणिस्फुरच्चरणवर्तुलकांचनविष्टरे || उपदधे पुटपाकसमुल्लसत्कनकनिर्मितभोजनभाजनं || २७ || कनकरत्नविनूत्नधगद्धगच्चषकपंक्तिमुपास्य समन्ततः || वनितया परिवेषमकारयत्प्रभुगुरोर्बसवो लसदाननः || २८ || तनुतरोज्ज्वलशालिसुतण्डुलान्परिविमृश्य दृगुत्सवकारिणः || अमिलितप्रतिशिक्थमनुष्णिकं परिणतं मृदुलान्नमसौ न्यधात् || २९ || अनतिशीतलषड्रसपूरितं ललितशाकचयं प्रियया समं || स परिवेषयति स्म सपायसं सकलभक्ष्यगणैः सह चोष्यकैः || ३० || तदनु हस्तजलं स्वयमाज्ञया ददति तद्बसवे प्रभुवल्लभः || गुरुतरान् कवलानगिलत्क्षणात्स परिगृह्य न किंचिदशेषयत् || ३१ || स च विलोक्य तदा बसवो मुदा परिकरैः सह संभृतमोदनं || पृ० ८१) अल्लमस्याद्भुतभोजनप्रकारवर्णनम् | दयितया परिगृह्य रयादयं परिविवेष पुनः पुनरश्नतः || ३२ || अथ विबुध्य हृदा बसवेश्वरः पृथुलकांचनपात्रचतुष्टयं || धुरि निधाप्य बहूनि महौदनान्यविकलं प्रणिनाय स तान्यलं || ३३ || स चतुरः करलाघववज्जनान्प्रतिनियम्य ततः परिवेषणे || सपदि मध्यगतः स्वयमाहृतान्युपनिनीय मुहुस्तमभोजयत् || ३४ || समधिकं त्वरया परिभुंजति प्रभुगुरावथ दण्डपतिः स्वयं || विपुलधौतपटोपरि संदधे बहुलसत्कदलीदलविस्तृतिं || ३५ || कति च नात्र महौदनसंहतेः प्रतिसमाहरणे परिवेषणे || कति च नोज्ज्वलशाकसमुन्नये कति नियोजयति स्म गणान्स्वकान् || ३६ || कति च नोद्यदपूपनिधापने कति च सूपरसाद्यधिरोपणे || कति च फाणिततेमनमर्जिकारससमानयने विनियुक्तवान् || ३७ || फलरसाज्यपयोमधुदध्युरुस्फुटघटानयने कति चार्पणे || परिनियम्य तदा हृततद्गणं प्रभुमभोजयदात्मनि भक्तिमान् || ३८ || श्रमजलाप्लुतधावनतत्परैर्गणशतैरुपनीतमयं प्रभुः || पृ० ८२) सकलभोज्यपदार्थगणं क्षणात् प्रबुभुजे जगदद्भुतवर्तनः || ३९ || अपि च माषवटान् घृतपाचितानतिरसान्सरसान्यवपिष्टकान् || तिलगुडात्तघुटीवटुकान्बहून्हृदयमोदकमोदकमंटपान् || ४० || मृदुलवर्तुलसूपसुपूपकान् जलघटोपरि पक्वघुटीगणान् || मधुरसार्कशलाटुसमाह्वयान्सुखिवटून् घृतभावितपिष्टकान् || ४१ || सुगुणभूरिगणान्सरसक्तुकान्रुचिरचक्रिलपैठरफेनिकान् || गरगरध्वनिकान्वरकार्पणान्घृतपयःक्वथनात्तघुटीव्रजान् || ४२ || अपि च भक्ष्यगणान्बहुचित्रितान् पृथुलवैणवपात्रशताहृतान् || पृथगुपाहितपर्वतसन्निभान् स बुभुजे क्षणमात्रत ईश्वरः || ४३ || वसुकटाहशतैरथ राजतैर्धगधगायितदीप्तिसमुज्ज्वलैः || बहुभिराहृतगोघृतपायसान्युपनिगृह्य करेण पपौ प्रभुः || ४४ || कटुरसाम्लघटान्मधुदुग्धदध्यमितसत्कलशांश्च निपीय सः || पृ० ८३) बहुलचित्रविधान्नरसायनानयमभुंक्त विभुर्निमिषार्धतः || ४५ || लवणशाकशलाटुसुलेह्यसल्ललितचोष्यपदार्थकदंबकं || सकलमाशु विघस्यबुभुक्षया पुनरपि प्रभुरेनमलोकयत् || ४६ || मनसि विस्मयसंभ्रमसंभृतस्स बसवश्चलनं किल नाप्तवान् || अथ जगाद महानसनायकान् सकलवस्तु समानयतेत्ययं || ४७ || हृदयमस्य विबुध्य च पाचका बहुचमत्क्रिययाच्छुटिकार्धतः || सकलभोज्यततिं परिपाच्य तत्प्रभुगुरोः परिवेषणमाचरन् || ४८ || गिरिसमानपदार्थचयं पुनः परिसमाप्य पलाशमरिक्तयत् || प्रभुरसौ बसवस्तु समादिशद्विपणिवीथिचयं परिचारकान् || ४९ || अनुगतास्त इमाः कदलीफलान्यतुलचूतफलानि बहूनि च || पनसलांगलिकर्कटिगोस्तनीप्रमुखसत्फलसंततिमानयन् || ५० || अपि च खण्डशितामधुशर्कराद्यखिलभोज्यपदार्थचयं क्रमात् || निजपुरापणिसंस्थितमाहृतं प्रभुरथाहृतवान्क्षणमात्रतः || ५१ || पृ० ८४) तदनु हस्तविलेहनतत्परं गुरुवरं प्रसमीक्ष्य भयाकुले || बसवमंत्रिवरे गणपुंगवास्त्वरितमात्मगृहान्प्रतिपेदिरे || ५२ || बसवकार्यसमर्थनतत्परास्सपदि भक्तगणाः स्वगृहस्थितान् || सकलभोज्यपदार्थगणान्बहून्गुरुवरान्तिकमाशु विनिन्यिरे || ५३ || कवलमात्रमभूत्प्रभुभोजने[जेमने] सकलभक्तकुलाहृततत्कुलं || सदसि वीक्ष्य जना हृदि विस्मिताः कलकलध्वनिभिः स्वयमूचिरे || ५४ || गगनचुंबिमहोन्नतजिह्विकाप्रसरणेन गुरुः किल विश्वभुक् || हरिविधींद्रमुखैरपि शक्यते किमशनं कृततृप्तिनिवेदितुं || ५५ || बसवनाथ इदं किमकारयद्भ्रमवशादिव हात्र कथं भवेत् || इति वदत्सु जनेषु निशम्य तत्सदसि दण्डपतिः पुनरुद्यतः || ५६ || नरपतेः प्रभुतैव निजा यतस्तदखिलानपि कर्मकरान् ह्वयन् || नगरधान्यचयं समुपानयत्सकलमप्यनिवर्तितवर्तनः || ५७ || पृ० ८५) सुमनषष्टिकशालियवाश्वणुप्रथिततोक्यसुतंडुलपर्वतान् || अपि च कोद्रवकंगुधराधरांश्चणकमाषमसूरकलार्यकान् || ५८ || तिलमयष्टकयावकमुद्गकान् वरकबर्बरखल्वगवेधुकान् || अपि च साम्यकुलुत्थकयावनालकगणानलसंदमुखान् बहून् || ५९ || त्वरितपाककृतौ विनियोजयन्नयुतलक्षगुणाधिकपाचकान् || अपि सुपक्कमपक्वमधाशयत्प्रभुवरं बहुलौदनपर्वतं || ६० || सकलवस्तुचये समुपाहृते प्रभुवरेण तदा बसवेश्वरः || परवशो बहुधान्यसमृद्धिमन्नृपतिकोशचयं च समर्पयत् || ६१ || अहह चित्रमभून्मनसार्पितान्यगणितान्यपि सर्वगतः प्रभुः || पुरि महान् बुभुजे तुषवर्जितं स्वयमुपाश्रित एव चिदंबरं || ६२ || रसफलौदनधान्यविवर्जितं पुरमभूत्सकलं निमिषार्धतः || अथ विलोक्य गणा बभणुः प्रभुं क्षुदनिवृत्तिविदीर्णनिजाननं || ६३ || पृ० ८६) अहह यः क्षुधितः प्रलये पुमान् न परितृप्तिमवापमहाप्रभुः || कमलजाण्डशतैरपि सांप्रतं स कथमेष्यति तृप्तिमियत्त्वदैः || ६४ || सकलपूर्णपरात्परसद्धनप्रमदनित्यनिरंजनसंविदः || प्रभुगुरोः क्षुधितस्य कियत्पुरं परिमितं प्रभवेत्परितृप्तये || ६५ || भवति वाडववह्निसमिंधने जगति वापि जलैः शमयेत्कथं || किमथ वा करकांबुकदंबकैः प्रभुगुरोः क्षुदपीह तथौदनैः || ६६ || श्रुतिशतैः स्तुत एष हि विश्वतोमुखतया ननु विश्वत ईक्षणः || अपि च विश्वकरः किल विश्वतः पदतलोऽखिलविश्वभुगीश्वरः || ६७ || कथममुष्य भवेज्जगदीशितुर्जगति वस्तुचयैः परितर्पणं || इति गणेषु वदत्सु भिया ह्रिया स बसवोऽभवदानतमस्तकः || ६८ || बहुविचारभराविलमानसे बसवमंत्रिवरे समये तदा || पृ० ८७) बसवकृतमाचयसमयज्ञताकथनम् | तमवदन्मणिवालकमाचयस्सदसि तद्भगिनीसुतसंमतः || ६९ || असदृशं समरांगणमागतो भटवरः किमु गच्छति पृष्ठतः || तनुमनोधनसाधुसमर्पणात्त्वमपि तर्पय तद्वदमुं गुरुं || ७० || हुसुहुसूरिति किं परितप्यसे हृदि शुचा क्व गता प्रतिभा तव || इति स माचयदेववचोबलाद्बसवराट् बुबुधे समयोचितं || ७१ || विदितकृत्यतयोल्लसदाननस्त्रिकरणैक्यसमाहितमानसः || स बसवो मणिवालघनं स्तुवन् समपदद्धितवागुपदेशकं || ७२ || अयि जयिन् मणिवाल दयानिधे जय जयामलभक्तिसुधांबुधे || अघनिवारणकारण यद्भवान् मम हितार्थमिलां त्रिदिवाद्गतः || ७३ || उपगतोऽस्यथ वैव शिवाज्ञया प्रमथनाथ पुरात्परमेशितुः || हितवचः समये मम संकटे त्वमुपदेष्टुमकारणवत्सलः || ७४ || पृ० ८८) त्वमथवा मयि रक्षकतां गतो मम भरस्त्वदधीनतया स्थितः || त्रिसमयेषु च जन्मनि जन्मनि प्रमथनाथ भजामि कृतार्थतां || ७५ || इति वदन्निजदेहमधीशितुर्निरुपमित्युपहारवदास्तिकाः || अमनुतात्मनि कल्पयितुं तथा स च युवा बसवस्तदनुव्रतः || ७६ || सितमुभौ भसितं दधतौ मुदा धृतहराक्षमणिस्रगलंक्रियौ || असदृशींद्रियसंयमतत्परौ रुरुधतुर्दशवायुगती क्षणात् || ७७ || तनुगुणान्परिहृत्य शिवात्मताकलिततत्वसुवासनयान्वितौ || दलितवृत्तिसुचित्तमथान्तरस्फुरितमार्गनिरर्गलमापतुः || ७८ || बसवदण्डपतिस्तदनु प्रभोस्सविधदेशमुपेत्य कृतांजलिः || उपनिषद्वचनैरुपबृंहणैस्सह नुतिं विदधे परमास्तिकः || ७९ || त्वयि समस्तमिदं जगदत्र च त्वमखिले परिपूर्णतया स्थितः || पदमिदं तव सर्वपदादधस्तव शिरस्तु तथोच्छ्रितमुच्छ्रितात् || ८० || पृ० ८९) बसवकृतप्रभुस्तवनम् | तव न चादिरधीश न मध्यमं न चरमं निगमागमसंहतिः || परिविमृग्य न वेत्ति भवत्पदं न मनसापि विचिंतयितुं क्षमं || ८१ || दिश इमा दश दीर्घभुजास्तव द्युमणिवह्निसुधाद्युतयो दृशः || मरुत उच्छ्वसितान्युदरं नभः पदयुगं पृथिवीति निगद्यते || ८२ || अहमहं क्रिययाद्य भुजिक्रिया घटिततृप्तिकृते तव चागुरुं || अकरवं कथितुं नहि शक्यते मम महानपराध इयानिति || ८३ || कमलजाण्डशतानि तवोदरे कमलकेसरसन्निभतां ययुः || क्षुदपनोदनमोदनपूरणात्कथमहं करवै परमेशितुः || ८४ || यदशनं निदधामि तवेति तद्वचनमल्पमधीश सहस्व मे || करुणया तव भैक्ष्यतयाऽद्य नौ परिग्रहाण तनुद्वयमल्लम || ८५ || यदि भवेदशनीयमिहावयोस्तनुयुगं ननु तर्हि भवेव तौ || करणदोषनिराकरणात्पुनर्मरणजन्मजितौ सुखनिर्वृतौ || ८६ || इति वदत्ययमल्लमवल्लभो बसवमंत्रिवरे पुनराह तं || पृ० ९०) स्मितमुखो नहि वाच्यमिदं त्वया श्रुतिविदा मयि पूर्णनिरंजने || ८७ || क्षुदसुधर्मतया तृडपि स्फुटा नहि चिदात्मन ईशितुरस्ति मे || अथ कुतो व्यसनानि निराशिषः किमुत कामकथा स्मरवैरिणः || ८८ || बसवनाथ जगद्विदितां भवच्छरणदासतया स्थितिमूर्जितां || इह निशम्य भवन्तमवेक्षितुं ननु समागत इत्यवगच्छ मां || ८९ || न किमपि त्वयि दातरि याचितुं गृहमवाप्नुवमद्य महामते || अनितरोपमभक्तिविजृंभणं तव निरीक्षितुमागतवानहं || ९० || स्वमुखमेव सुनिर्मलदर्पणे बसवनाथ यथा पृथगीक्षते || मयि च तद्वदपेक्षितमीक्षते तव हृदा शरणाञ्छरणार्थिना || ९१ || इति निशम्य गुरोर्वचनं पुनर्बसवराडिदमाह महाप्रभो || क्व जडबुद्धिरहं क्वनुचित्तयस्त्वमखिलात्मसु जीवनतां गतः || ९२ || चरणभक्तिरतेषु जगद्गुरो तव कियानहमल्पविहायितः || पृ० ९१) अल्लमकृतबसवप्रशंसनम् | पदपरागतया स्थितिरेव मे भुवि कटाक्षवशादनुगृह्यतां || ९३ || मयि दया यदि देव समर्पितां तनुमवापय भोज्यपदार्थतां || यदि न तादृशभाग्यममुष्य चेत्किमपि तंत्रमिहास्ति न मे स्वतः || ९४ || इति वदन्तमवेक्ष्य गुरुश्चिरं स्थिरहृदं बसवं स्मयदाननः || अभिदधे गुरुपुत्र महामते न भवतास्ति समो भुवनत्रये || ९५ || तनुमनोधनमामकतां त्यजन्गुरुचरेशपदार्चनतत्परः || निरुपमामलभक्तिरसाप्लुतस्त्वदितरो न भवेद्भुवनत्रये || ९६ || परिहृताष्टमदः क्रिययेष्टहृद्विमललिंगरतोंऽगगुणांस्त्यजन् || गतभवो विषयेंद्रियनिर्जयी त्वमभजो ममभोज्यपदार्थतां || ९७ || अहह साधुहृदार्पणमात्रतः सपदि तृप्तिरभून्मम सन्मते || न कुरु संशयमत्र निधीयतां बसवहस्तजलं त्वरया त्वया || ९८ || पृ० ९२) इति गुरोर्वदतः स्वयमुत्तरं सदसि वक्तुमयं भयसंयुतः || कलशमानयतात्मसतीयुतः परिमलोदकपूर्णहिरण्मयं || ९९ || अथ वितीर्य जलं प्रभुमूर्तये मुखकरांघ्रिविशोधनपूर्वकं || सुरभिवीटिकया मुखवासनामरचयद्बसवो भयभक्तिमान् || १०० || स्रगनुलेपसुधूपनिरूपणैर्जयजयध्वनिवाद्यरवैः समं || रचितमंगलदीपशतैः प्रभुं स्तुतिनमस्कृतिभिर्बसवोऽर्चयत् || १०१ || हृदि मुदा तदनु प्रभुरब्रवीद्बसवनाथ भवद्भवनान्तरे || प्रतिदिनं विघसार्हगणाः परं क्षुधमवापुरमूंस्तरसाऽऽह्वय || १०२ || सुपरिपक्वमथान्नमवारितं बसव भोजय तान्स्वयमश्नुहि || परिजनैः श्रम आशु निवार्यतामिति नतोऽभिहितो विनयान्वितः || १०३ || अथ गतो बसवो गणसन्निधिं प्रणिपतञ्छरणार्थितया पुरः || उपनिधाप्य विभूतिसुवीटिका विनयपूर्वमभाषत भूसुराः || १०४ || पृ० ९३) चरगणैः साकं बसवस्योत्तरप्रत्युत्तरं च | शिवगणाः क्षुधिताः स्थ यतः परं मम महानपराध इहागतः || अवत मामनुगृह्य गृहागतास्सकरुणं कृतनित्यशिवार्चनाः || १०५ || अभिहिता बसवेन चराः पुनर्जगदुरार्य सषड्रसमोदनं || उदरपूर्णमपूर्वमिवासिताः परमसौख्यमवाप्नुम सांप्रतं || १०६ || बसव नाद्यवदन्यदिने क्व वाप्यधिकतृप्तिरियत्यनुभाविता || अयमहो महिमैव तवाथवा प्रभुगुरोर्महिमा नहि गोचरः || १०७ || गलमरुत्किल जीर्णकृदद्य नः सुरभिगन्धयुतः प्रसरत्ययं || तदपि पूर्णतया परितृप्तितः क्षुदपनोदकृतं मुदमाप्नुमः || १०८ || अथ घुमंघुमिताल्लममूर्तिसल्ललितगन्धसुवासितदिक्तटाः || चरतनोरधिगम्य विजृंभिताः स बसवो हृदि विस्मयमाप्तवान् || १०९ || विदिततद्गणतृप्तिरपि स्वयं सविनयं बसवः पुनरब्रवीत् || पृ० ९४) चरगणा गृहमेत्य कृपान्विता भजत भोजनमाशु यथा पुरा || ११० || इति वदन्तमवेक्ष्य कृतांजलिं चरगणा बभणुर्बसवाग्रणीं || क्षुधमपोह्य भवन्महिमैव नः किमु करोति विलज्जितमानसान् || १११ || भवतु वा महिमा जगदद्भुतः प्रभुगुरोर्भुवि साधनतैव नः || चरगणेषु य एव महोन्नतो महिमवान्स गुरुर्भुवनत्रये || ११२ || तमखिलेश्वरमेकगुरुं प्रभुं यदभजस्त्वमिदं भजनं हि नः || स जठरे जननीव सुतं जगत्त्रयमिदं परिरक्षति पूर्णदृक् || ११३ || तदनुभूतपदार्थरसार्पणादुदरगा वयमस्य च तर्पिताः || तदिह तस्य विभोरशनार्पणं भवति सर्वचरार्पणमीदृशं || ११४ || यदिह तृप्तिरभूत्प्रभुसद्गुरोस्सकलजंगमतृप्तिरियं हि सा || न हि कथानुभवोऽयमहो महान् करधृतस्य मणेर्मुकुरेण किं || ११५ || प्रथममानमिहेंद्रियकं स्फुटं तदनुमानमुखं ह्यनुजीवति || पृ० ९५) चरगणात्प्रत्यागतस्य बसवस्य प्रभोरुपदेशेनाद्वयसुखानंदः | वचनमात्रमिदं बसवेंद्र नो विदितसारघनो हि भवान्बुधः || ११६ || इति निशम्य चरोक्तिमयं पुनः प्रभुसमीपमुपेत्य कृतानतिः || तदुदितं विनयात्तमजिज्ञिपन्मुहुरपि प्रकृतौपयिकं जगौ || ११७ || घनदयांबुनिधे चरदेशिकैस्तव न भेदकथा कियति प्रभो || मयि तु निष्ठुरतोभयमध्यगे भवतु वा चरणं शरणं व्रजे || ११८ || इति निशम्य गुरुर्बसवोदितं पुनरुवाच यथार्थमिदं शृणु || न हि भिदाऽस्ति मम क्व च जंगमैः सममतौ त्वहमेव भवान् सखे || ११९ || मतिभिदैव भिदां परिकल्पयत्यमलचित्तु कदापि न भिद्यते || तदिह नौ नहि भेदकथा क्वचित्सुखमुपास्व चिदैक्यमखंडितं || १२० || इति तदाल्लमदेशिकसत्तमे समुपदेष्टति मंत्रिकुलोत्तमः || मुकुलिताक्षियुगोऽद्वयभावनासुखमुपास्त चिरं पुरतः प्रभोः || १२१ || प्रभुमथ बसवेन्द्रं प्रेक्ष्य भक्ताः समन्तात्समुदितशिवभावास्साधु साध्वित्यवोचन् || पृ० ९६) महति महसि तस्मिन्भेरिभांकारघोषैर्जयजयनिनदोऽभूद्भो उघे इत्यपूर्वः || १२२ || इति कथितमृषींद्राः श्रीगुरोर्यन्महत्वं सकलनिगमसारं रक्षकस्येश्वरस्य | पठति परमभक्त्या यः शृणोति स्थिरात्मा प्रभुरधिकममुष्मै वाञ्छितार्थं ददाति || १२३ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां बसवेश्वरकृतप्रभुसमाराधनतदीयभोजनमहिमानुवर्णनगतिर्नाम त्रयोविंशोऽध्यायः || पृ० ९७) अथ चतुर्विंशोऽध्यायः || || श्रीनंदिकेश्वराय नमः || सूत उवाच || सिद्धश्रीवीरनाथेश्वरचरणयुगध्याननिर्धूतदोषा भाषावेषाद्यनीहा गुरुचरपुरभिल्लिंगशृंगार्चनांगाः | मुक्त्यर्थाः शुद्धभावाः स्वतनुधनमनोरागशून्या विरक्ता भक्ताः शृण्वन्तु लीलां प्रभुशरणगुरोः सत्कथाभिर्विशालां || १ || ततः सकलशांभवप्रकरमंघ्रिपीठांतिक- स्थितं समवलोक्य तं शिवरहस्यबोधाप्तये | जगद्गुरुवाच भोः शृणुत शास्त्रसारं परं मनोविलयनं विना नहि शिवैक्यसिद्धिर्नृणां || २ || मनः सृजति सर्वमप्यथ च वर्द्धयत्येव तद्घनीभवदहंक्रियामुकुरबिंबितं मूर्तिमत् | तदेव ननु कारणं जगति बंधमोक्षद्वये दृढं च शिथिलं क्रमात्तदिह नाशयेत्सर्वथा || ३ || मनोविलयनं विना नहि शिवात्मबोधोदयः शिवानुभवमन्तरा नहि भजेत माया क्षयं | पृ० ९८) शिवाद्वयसुखं तमस्ततिसमूलघातं विना न सिध्यति विबुध्यतां शिवगणैरिदं शांभवं || ४ || निशम्य गुरुणोदितं बसवमंत्रिराडब्रवी- त्प्रभोऽल्लम समस्तसंशयनिवृत्तयेऽमी गणाः | भवच्चरणसेवया शिवरहस्यतत्वं परं प्रबोद्धुमभितो वसन्त्युपदिशानुगृह्णीष्व नः || ५ || वचो बसवसूरिणः प्रभुगुरुर्निशम्यादरा- द्रदद्युतिदरस्मितच्छुरितदिक्तटः सोऽब्रवीत् | तनुः परमपावनी प्रभवतीष्टलिंगार्चना- न्मनः सुविमलं सदासुमयलिंगसंधानतः || ६ || गणेंद्र भवतां महाव्रतमिदं सुशीलादृतं विमुक्तिकरमस्ति किं परमिहोपदेश्यं मया | यदिष्टमिह दृष्टमात्मनि तथा स्मृतं वाखिलं शुभं भवतु सर्वदा शिवकृपावशादेव वः || ७ || इति प्रभुगुरुर्गणप्रततये कृताशीर्वचा विहृत्य समटाट्यया पुनरथागमिष्याम्यहं | ब्रुवन्निति गतोद्यतोऽभवदुपेत्य वेगात्ततः स दण्डपतिरग्रहीत्प्रभुपदाब्जयुग्मं दृढं || ८ || पृ० ९९) बसवेशप्रार्थनां श्रुत्वा प्रभोः प्रीतिपूर्वं गणानुद्दिश्य भाषणम् | जगाद भयभक्तिमान्गुरुकृपांबुधेऽस्मन्मनः- प्रबोधपदसंशयानिह निवार्य संरक्षितुं | दुरन्तभववारिधेर्गमयितुं च पारं भर- स्तवैव तदमी वयं शरणमागताः श्रीगुरुं || ९ || विमुक्तिपथमादरादनुगृहाण नान्यद्गुरो श्रियैव सह वर्द्धते हतधियां हि माया भृशं | क्रियाऽपि खलु यावती फलमभीप्सता दीयते जनेन ननु भुज्यते जडधियैव तावच्चिरं || १० || अतो विभवसंपदा फलदकर्मणा वाप्यलं चिदंग शिवलिंगनिर्मलनिरंतरध्यानतः || निधाप्य पथि पश्चिमे पदमचंचलं सद्गुरो गमागमकृतां व्यथां धुरि निवार्य संरक्ष नः || ११ || प्रार्थयति बसवनाथे प्रभुरथ कृपया गणान्समन्वीक्ष्य | अधिकारिण इति मत्वा तत्वज्ञानोपदेशने प्राह || १२ || यूयं भक्तिक्रिययोः पारं गत्वा कृतार्थतां याताः | नैष्कर्म्यसिद्धिमतुलां प्रार्थितवन्तः परं पदं प्राप्तुं || १३ || पृ० १००) भवतामधिकारवतां शिवतत्वरहस्यमेव वक्ष्यामि | शृणुतावहितस्वान्ता इति संबोध्याशु वक्तुमारेभे || १४ || प्रभुरुवाच- मृषा दृश्यं विश्वं यदि हृदि मृषैवेति कलये- च्छ्रुतेर्माया नश्येत्तदनु स भवेदिंद्रियजयी || व्यथायां नष्टायां करणजनितायां विषयदु- र्व्यतीहारो नश्येद्गतविषयगंधो जितरिपुः || १५ || तुषाद्युत्सादान्ते पुनरपि विवेकेन नु शिला- निरासे संशिष्येत्स्वयमिह यथा तण्डुलचयः | तथा दुःसंकल्पप्रकटितमनोवृत्त्यपचये ततो वृद्धिं यायाद्विमलतरसुज्ञानविभवः || १६ || प्रबोधे संपूर्णे हतविषयगंधस्य महतो भिदा नश्येद्ध्येयं त्विदमिदमुपादेयमिति सा | विकल्पानां हेतुः किल मन इदं तस्य विजये प्रपंचो मिथ्या स्यादयममृतसाम्राज्यमयते || १७ || अवस्थास्तिस्रस्तास्तिसृषु तनुषु त्रीनपि गुणा- नजस्रं जीवांस्त्रीनधिगमयदावर्तयति यत् | पृ० १०१) गणान् प्रति प्रभुकृतशिवतत्वरहस्योपदेशः | महासंसारे स्वर्नरकसुखदुःखादिबहुले मनस्तज्जेता स्यात्त्रयमिदमतीतः परशिवः || १८ || मनो यावद्बाह्यप्रसरणचणं तावदखिलः प्रपंचः सत्योऽयं भवति नहि मुक्तेः क्व च कथा | सुरत्वं मर्त्यत्वं सृजति ननु तिर्यक्त्वमपि त- त्कदा वा निश्चेष्टं न भवति जये तद्बसवराट् || १९ || बहिर्द्वास्संचारं त्यजदखिलमन्तर्हृदतया मनः प्रत्यक्तत्वे यदि भवति लीनं स्थिरपदं | जगन्मिथ्याभूतं भवति हि तदानंदभरितः स्वयं सुज्ञानी स्याद्बसव स गुरूणामपि गुरुः || २० || प्रतीयेत स्वान्ते स्मृतमिदमशेषं यदि जग- द्बहिर्दृश्याकारं भवति मन एवानृतपदं | तदन्तस्थं कर्तुं यदि परमशक्तस्तदनुगो भवेत्स्वेच्छाचारी बसव नृपशुं विद्धि तमिमं || २१ || अहो मायापाशो भवति यदि हाशा यदि तया मनश्चेत्संबद्धं भवति सकलः क्लेशनिचयः | पृ० १०२) भवोऽयं तद्बद्धो भयमधिकमाप्नोति विजयी य आशायास्सोऽयं बसव गतदोषो हतभवः || २२ || इदं मे स्यान्मा स्यादिदमिति विकल्पोपकलितं स्वसंकल्पं जीवस्त्यजति न हि यावत्पशुतया | न तावच्छुऽऽन्मोहाद्यरिनिकरपीडाक्षयमिया- त्ततस्तत्त्यागे स्याद्बसव स हि नित्यः पशुपतिः || २३ || क्षणार्धं कुत्रापि स्थितिमलभमानं मन इदं सदा सर्वार्थान्संस्मरति न हि पर्यायगणना | स्वभावोऽयं तस्य प्रभवति हि तेनैव सकल- प्रपंचव्यासंगप्रतिफलितगंधव्यतिकरः || २४ || यद्वासनाभिरभिवृद्धिमवाप्य कामं संचालितो भ्रममुपैत्ययमन्तरात्मा | तन्मानसं ग्रसति यः स्थिरधीर्निगृह्य धन्योऽयमेव बसवेत्युदितोऽब्रवीत्सः || २५ || बसव उवाच- मनो ग्रसेदित्युदितं भवद्भिः कथं मनोग्रासचणं मनः स्यात् | गुरो यदि स्यात्परिहृत्य लौल्यं तन्निश्चलत्वं ग्रसनं तथास्तु || २६ || पृ० १०३) बसवेश्वराय प्रभोः प्रत्युत्तरं | यद्यन्य एव ग्रसतीति चेतः स्वामिंस्तथा चेत्स किमेष जीवः | किमन्तरात्मा किमु वा परात्मा ममादिशेत्युक्त इदं स ऊचे || २७ || प्रभुरुवाच- आत्मान्तरात्मेति तथा परात्मेत्येको महेशः कथितो न चान्यः | आत्मा त्रयोऽन्तःकरणानुकारी स्वाध्यस्त तद्धर्मतया स जीवः || २८ || स एव निष्कृष्टतयान्तरात्मा शुद्धो मनोग्रासचणो यदा स्यात् | तदा परात्म्यैक्यमवाप्य पूर्णः स्वयं शिवानंदघनो विभाति || २९ || मनो न यावद्वशमेति तावद्यत्नेन तन्निग्रहणाय भाव्यं | मनो ग्रसामीति मनः प्रयत्नात्स्वयं ग्रसेत्तद्बसवार्य नूनं || ३० || मायामयैर्वृत्तिशतैर्मिलित्वा तत्साधकान्खेदयति ह्यवश्यं | अतस्तदाहत्य वितुष्य धैर्याद्भ्रमान्निवृत्तिर्ग्रसनं हि तस्य || ३१ || मनो ग्रसेद्यो महितप्रभावो विकारदूरः स हि साधुरूपः | वक्तुं न शक्योऽयमिति प्रभूक्तिं श्रुत्वाऽब्रवीच्छन्नमनीषिवर्यः || ३२ || पृ० १०४) छन्नबसव उवाच- गुरो मनो नाशयितुं तदेतल्लक्ष्येण भाव्यं ननु साधकस्य | तादृग्विधं लक्ष्यमिहोपदिश्य कृतार्थयास्मान् प्रभुचक्रवर्तिन् || ३३ || प्रभुरुवाच- छन्नोक्तिमाकर्ण्य गुरुस्तमूचे प्रश्नस्त्वदीयो न हि सारभूतः | तथापि शाखाग्रशशीव लक्ष्यो बालप्रबोधार्थमुपाय एषः || ३४ || लक्ष्यप्रभेदा बहुधोपदिष्टाश्शास्त्रेषु योगागमशांभवेषु | यल्लक्ष्यतेऽन्तर्बहिरन्तरेषु तत्स्यात्प्रतीच्छायतयैव गौणं || ३५ || लक्ष्योक्तिभिर्लक्ष्यमिदं न लक्ष्यं लक्ष्यं हि निर्लक्ष्यतयैव लक्ष्यं || सच्चित्सुखानंदघनैकलक्ष्यं मायां निरस्यात्मतयैव लक्ष्यं || ३६ || कटाक्षदृष्ट्याऽमृतसूक्तिसारैरन्वग्रहीच्छन्नघनं गुहेशः || आरादयस्कान्तमणेरिवासौ सूचीपरत्या बसवो युवाशीत् || ३७ || अत्रान्तरे माचयदेवनाथः श्रीनाथपादाब्जयुगं प्रणम्य || पृ० १०५) माचयाय प्रभोः प्रत्युत्तरम् | भक्त्या नतांगः सुविनीतवेषः प्रश्नं प्रचक्रे प्रतिबुद्धतत्वः || ३८ || मणिवालमाचयदेव उवाच- यत्तत्वं श्रुतिवागगोचरतमं यद्भावनादुर्लभं यद्ध्यानाविषयं यदंगरहितं यत्स्याददृश्यं दृशां || तच्छून्यं परतत्वमीश्वर कथं बुध्वा महाभक्तितो नित्यत्वं लभते वदेत्यभिहितः प्रोचे गुरुर्माचयं || ३९ || प्रभुरुवाच- सत्यज्ञानसुखस्वरूपममलं पूर्णं परं ब्रह्म तत्सर्वत्रास्ति तथापि बाह्यकरणैर्बोद्धुं न शक्यं क्वचित् || मायाजाड्यभरोऽस्ति यावदखिलो देहाभिमानो महांस्तावन्नास्ति कथैव वस्तुविषये दृश्यं हि नश्यं जगत् || ४० || जाग्रत्स्वप्नसुषुप्तयस्त्रितनुषु प्रोतास्त्यवस्थास्सदा स्वात्मज्ञानविवर्जितं विदधते संभ्राम्य जीवं मुहुः || दुःसंकल्पविकल्पजालविवशः संसारनिद्रां गतो नश्येत्सोऽयमतो जयेन्नियमवान्नादाववस्थात्रयं || ४१ || पृ० १०६) तुर्याह्वयेन सहजेन सदाधिरूढो यो नाशयेत्त्रयमिदं पशुतानिदानं || सोऽयं महेश्वरतयात्मनि बोधपूर्णस्तत्वं प्रयाति परमात्मसुखानुभूत्या || ४२ || देहत्रयं स्वयमिति भ्रममुज्जिहानश्चिन्मात्र एव परिशिष्यति यः शिवार्थी || वेदान्ततत्वमतिसूक्ष्मतमं विदित्वा नित्यत्वमेति स पुमानहमेव विद्वन् || ४३ || श्रुत्वा गुरूक्तमथ माचयदेवचित्तं तत्रैव कीलितमभूत्परमार्थतत्वे || तद्वासनास्ति सकलाः परिहृत्य सत्यज्ञानात्मसौख्यमनुभूय समाहितं सत् || ४४ || चंद्राशुसंघटितचांद्रशिलेव सांद्रस्वानंदसारसुखितं मणिवालचेतः || विज्ञाय तत्र बसवादिगणास्समस्ता निःसंशयार्थमवदन्गुरुसार्वभौमं || ४५ || बसवादिप्रमथगणा ऊचुः- स्वामिन्मृषा तनुमनःकरणादि सर्वं यद्यात्मनो नहि घटादिव देव बाह्यं || तर्ह्यस्य को नु परिहारविधौ प्रयत्नो व्यर्थो विदेहनिजमुक्तिकथाप्रसंगः || ४६ || पृ० १०७) बसवादिगणेभ्यो प्रभुदत्तप्रत्युत्तरम् | यन्नास्ति बाह्यकरणादिकमेव सर्वं बध्येत तर्हि किमनेन पुमानसंगः || बन्धो न चेत्कथममुष्य मुमुक्षुता स्याद्ब्रूहीति तैरभिहितः प्रभुराह भूयः || ४७ || प्रभुरुवाच- शृण्वन्तु भक्तनिवहा न हि युक्तिसाध्या माया दुरन्तपिशुना सदसद्विलक्षा || सा कल्पयन्त्यविरतं ह्यसतोऽपि भावान्निःसंगमेव पुरुषं स्ववशं करोति || ४८ || तत्कार्यभूतमखिलं किल दृश्यजातं स्वापप्रपंचसदृशं नहि वस्तुतोऽस्ति || यावत्प्रबोधमिदमस्तिवदेव भाति शुक्तौ यथैव रजतं तदिदं मृषात्वं || ४९ || तस्मादनादिजटिलभ्रमवारणाय भक्तिं महेश्वरपदांबुरुहे भजेत || सोऽयं त्रिपात्प्रणवशृंगगतः परात्मा पादोऽस्य विश्वभुवनोदरभूतजातं || ५० || पृ० १०८) आहो वसंतमिव चंदनमंदवाताः सर्वे गणा बसवमंत्रिणमाश्रयन्तः || सुज्ञानयोगवशगाः स्वयमर्थयन्ते लिंगैक्यमेव न पदांतरमंतरंगे || ५१ || वाग्ब्रह्मवादचतुरान्न जहाति माया नाद्वैतसिद्धिरभवस्य कृपां विनास्ति || भक्तिं विना परशिवो न दयां करोति चित्तस्य निश्चलतया न विनास्ति भक्तिः || ५२ || तस्मात्प्रसह्य सहसा विजयेत रागद्वेषौ स्थिरा भवति धीस्तत एव भक्तिः || तां सुस्थिरां कलयितुं न भजेद्विकल्पसंकल्पजालमणिवास्थितधीर्मुनींद्राः || ५३ || नान्तर्भावं नामरूपक्रियाणां लिंपेल्लुंपेत्तामहंतां दुरन्तां || इत्थं देहप्राणचित्तादिधर्मांस्त्यक्त्वा मोहांभोधिमत्येति विद्वान् || ५४ || आस्तां तावद्बसव भवता लोकरक्षार्थमेव प्रश्नव्याजात्प्रकटितमभूद्वेदसिद्धान्ततत्वं || त्वं सर्वज्ञस्त्रिभुवनगुरुस्त्वत्समो नास्ति लोके लिंगैक्यश्रीसमरसकलानिष्ठया विश्वबंधो || ५५ || पृ० १०९) प्रभुकृत बसवेशप्रशंसा बसवप्रत्युत्तरंच | बसव भवदीयपरमार्थशिवनिष्ठामसदृशतया क इह वर्णयितुमीष्टे || वसति सकलं त्वयि चिदात्मनि महात्मन् लससि गुणवानिव गुणैरनभिभूतः || ५६ || इत्यल्लमप्रभुगुरोर्वचनं निशम्य तत्पादपद्मयुगुलं शिरसा प्रणम्य || भक्त्या कृतांजलिपुटः पुनराह देवं किंचिद्विनम्रवदनो बसवाधिनाथः || ५७ || किंचिज्ज्ञेऽस्मिन्नवगुणगणे श्रैष्ठ्यमारोप्य किंवा संसाराब्धौ पुनरपि महामोहगर्ते निपात्य || यातायातं परिकलयितुं श्रीगुरो नैव युक्तं सम्यग्दृष्ट्या समरसय मां साधु तत्वोपदेशात् || ५८ || यन्नारिकेलमिह खण्डितुमप्यशक्यं दन्तैस्तदेव गिलितुं द्विरदेन जीर्णं || तद्वत्त्वमेव कवलीकृतसर्वतत्वो देहीव सन्नपि विदेहतया विभासि || ५९ || सर्वे वयं हि पशवस्तव पाशबद्धा देवो भवान्पशुपतिः पुरुषः पुराणः || जीवो भवत्करुणयैव महेश्वरत्वं प्राप्नोति सद्गुरुवरेत्युदितोऽब्रवीत्सः || ६० || पृ० ११०) प्रभुरुवाच- अध्यात्मविद्यामूर्तिस्त्वमधिकारीव वर्तसे || संप्रदायप्रकाशार्थं लोके श्रीगुरुशिष्ययोः || ६१ || विधिवत्कथिता विद्या हृद्या वेदान्तसम्मता || खचितास्तु सदा स्वान्ते शान्ते बसव तावके || ६२ || तुष्यत्यात्मा ममात्यन्तं तवांतिकगतो यतः || न स्तोत्रपरिपाटीयं मर्म जानामि यत्तव || ६३ || पंचाक्षरीमनननिर्जितपंचभूततत्तद्गुणप्रकरसंचितपंचकोशाः || त्वामाश्रयन्ति सततं शरणाः शरण्यं मौलिर्भवाह्नि शशिमौलिमहागणानां || ६४ || त्वद्भावनैव बसवार्य गुरुं करोति लिंगं करोति च तथा तव भावनैव || सा जंगमं च कुरुते शपथं करोमि त्वययेव नूनमभवस्य भवान् हि मूर्तिः || ६५ || अक्वैव सा तव मनःस्मृतिरात्मनीना सच्छन्नवीरबसवो मणिवालनाथः || ज्ञप्तिः स भाचरसुधीः प्रथितो विवेकः शीलं तथार्पणमुनिस्तव किन्नरोंगं || ६६ || पृ० १११) बसवेशाल्लमयोः परस्परप्रार्थनाश्ह्वासनं च | मूर्तिः समस्तशिवभक्तगणात्मनिष्ठा चैतन्यमेव हि भवान्बसवार्य नूनं | शक्नोति को नु भवदीयमहाप्रभावं स्तोतुं भुवीत्यभिहितो बसवोऽब्रवीत्तं || ६७ || बसव उवाच- प्रभोऽल्लम भवत्पदांबुरुहसेवनामात्रतो भवत्करुणयैव संप्रति कृतार्थतामाश्रये || वृथा भवति किं भवद्वचनमागमान्ताधिकं परंतु शरणार्थ्यहं कमपि देव याचे वरं || ६८ || जगत्यखिलभक्तसंततिमिमां कटाक्षश्रिया- ऽनुगृह्य शुभदीक्षया परमशंभुजीवैक्यतः || जनुर्मृतिपरंपरां परमपोद्य रक्ष प्रभो प्रसीद परमेश्वरेत्यभिहितोऽभ्यधात्तं गुरुः || ६९ || प्रभुरुवाच- बसव तथास्तु तावक महाप्रतिभाविभवै- र्विहितशुभोदयाञ्छिवगणान्सुगुणानुगुणान् || विमलशिवैक्यतत्वमुपदिश्य कृतार्थयतो मम हि भवेत्प्रयत्न इव हेमसुगंधिकृतः || ७० || पृ० ११२) स्वप्ने दुःखानुभूत्या विकलितमनसः सौख्यदायी प्रबोधो यद्वत्तद्वत्पंचप्रकटितजडधीवासनासंवृतानां || बोधान्निर्वाणमार्गो भवतु करुणयेत्यादिशंस्तांश्च सर्वां- श्चक्रेऽन्तेवासिनः श्रीगुरुरथ बसवप्रार्थितोनुग्रहार्थं || ७१ || यस्य यस्य हृदये यथा यथा रोचते तदनुसारतः क्रमात् || साधु तत्तदधिकारमामृशन् बोधयन्नुपदिदेश सद्गुरुः || ७२ || देहचित्तधनमोहसंगतिं त्याजयन्विमलभक्तिबोधयोः || स्थापयन्नतनुतांगलिंगयोः सद्विवेकपरमोपदेशनं || ७३ || लिंगैक्यलीनहृदयान्सदयं चकार भक्तव्रजांस्त्वमहमित्यपसार्य भेदं || ब्रह्माद्वयं श्रुतिशतैरनुभावयित्वा साक्षाच्चकार हृदि वेधवशात्परोक्षं || ७४ || ज्ञानादिरूपघटितत्रिपुटीनिरासे द्रष्टुं च वक्तुमवलोकितुमप्यशक्यं || यत्पूर्णनिर्मलनिरन्तरनित्यसत्यं तद्ब्रह्मतत्वमनुभावयति स्म तांस्तान् || ७५ || निर्मायिके निरुपमे परमे पदेऽस्मिन्स्वामी न्यधापयदमुं बसवाधिनाथं || पृ० ११३) शिवगणानां लिंगैक्यसौख्यवर्णनम् | तस्मिन्क्षणे शिवगणाः सहजानुभूत्या लिंगैक्यसौख्यमभजन् प्रभुसत्कटाक्षात् || ७६ || वृक्षस्य मूलजलसेचनतो विवृद्धिं शाखाः प्रयान्ति हि यथा बसवेंद्रमूलात् || तद्वद्गणाः प्रभुकृपामवलंब्य तूर्णं पूर्णं समाधिमभजन्परतत्वनिष्ठाः || ७७ || नानाविधा बहुलवर्णभृतोऽन्तरिक्षे नीरंध्रमेघनिवहाः पवमानवेगात् || यद्वत्प्रयान्ति हृदयेषु तथैव माया देवोपदेशविभवाद्विलयं प्रयाता || ७८ || भंडारिवीरबसवाधिपमाचयार्यनागाम्बिकाहठपदार्पणकिन्नरार्याः || छन्नादयः शिवगणास्समवाप्य जीवन्मुक्तिं प्रभोः करुणया न्यवसन्सुखेन || ७९ || इति सकलमुनीन्द्रा मोक्षलक्ष्मीविलासप्रकरणमुदितं वः श्रीगुरोः सच्चरित्रं || पृ० ११४) पठति परमभक्त्या शुद्धचित्तः पुमान्यः प्रभुरधिकममुष्मै वांछितार्थान् ददाति || ८० || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां प्रमथगणवचनानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां मनोलयोपदेशगतिर्नाम चतुर्विंशोऽध्यायः || पृ० ११५) अथ पंचविंशोऽध्यायः || श्रीनंदिकेश्वराय नमः || सूत उवाच || श्रीसिद्धवीरेश्वरपादसेवानिष्ठाः शिवज्ञानरता मुनीन्द्राः || अज्ञानदूरा हरभक्तिसान्द्राः शृण्वन्तु लीलां प्रभुलिंगमूर्तेः || १ || इत्थं भक्तगणान्सर्वान्प्रभुर्लिंगैक्यनिष्ठया || कृतार्थीकृत्य तैस्साकं कंचित्कालं निनाय सः || २ || ततः कल्याणनगराद्विनिष्क्रम्य महागुरुः || भक्तानुग्रहणार्थाय चचार पृथिवीमिमां || ३ || सर्वेभ्यो भक्तसंघेभ्यो लिंगैक्यानुग्रहात्प्रभुः || निवर्त्य मायां दुर्ज्ञेयां ददौ मोक्षं कटाक्षतः || ४ || सद्भक्तमानसोदंचत्कमलाकरसंततौ || हंसो बभूव भगवान्नल्लमप्रभुवल्लभः || ५ || तत्र कैलासशैलेंद्रे श्रीमानिंदुकलाधरः || वृत्तान्तमखिलं तस्यै महादेव्यै न्यवेदयत् || ६ || श्रुत्वा प्रभुकथावृत्तमशेषं शेषभूषणात् || देवी प्रमुदितस्वान्ता तमेनं पर्यपृच्छत || ७ || पृ० ११६) प्राणनाथ तवादेशात्सा कला सात्विकी मम || तावकं शुद्धचैतन्यमनुसंप्रेषिता मया || ८ || तद्वृत्तं मम न ज्ञातं सम्यगाज्ञापय प्रभो || इति संप्रार्थितस्तस्यै कथयामास शंकरः || ९ || आकर्णय सरोजाक्षि तावकी सात्विकी कला || अक्वा महादेव्यभवत्प्रभावर्पितमानसा || १० || प्रभुस्तु शुद्धचैतन्यं ममात्मा मूलकारणं || समभूल्लोकरक्षार्थमल्लमो नाम योगिराट् || ११ || तदनुग्रहसंप्राप्तलिंगैक्यज्ञाननिर्वृता || अक्वा महादेव्यगमच्छ्रीगिरिं योगिसंश्रितं || १२ || येंऽशाः प्रमथनाथानां ते च्छन्नबसवादयः || अवतीर्णाः प्रभौ दत्तचित्तास्ते पृथिवीतले || १३ || तत्तद्वंशेषु संभूतास्ते ते प्रमथनायकाः || प्रभूपदिष्टलिंगैक्या बभूवुर्मोक्षकांक्षिणः || १४ || तत्तत्कायिकसंप्राप्तधनैर्गुरुचरेश्वरान् || समर्चयन्तः सततं जीवन्मुक्तिमवाप्नुवन् || १५ || द्वितीयशंभुः सर्वज्ञः श्रीनंदीशोऽस्मदाज्ञया || मह्यां मद्भक्तिमुद्धर्तुं मादाम्बानंदनोऽभवत् || १६ || पृ० ११७) शिवकथितबसवेशचरितम् | मादनाराध्यपुत्रोऽसौ बसवाख्यो महामतिः || कल्याणनगराधीशमंत्रिसाम्राज्यमाप्तवान् || १७ || स्पर्शवेधिकरस्सोऽयं परवादिमतापहः || वीरशैवान्वयोद्धर्ता बभूव परमास्तिकः || १८ || मद्भक्तनायकमणिस्सोऽर्थ्यभीष्टार्थदायकः || भक्ताधीनानि कृतवान्मनस्तनुधनान्यलं || १९ || असंख्यातैश्शिवगणैस्सुखगोष्ठीप्रसंगतः || कालं नयन्नयं धीरस्तस्थौ कल्याणपट्ट(त्त)ने || २० || आगंतुकैर्यतिवरैः प्रभोर्माहात्म्यमद्भुतं || श्रुत्वा तद्दत्तहृदयो बभूव बसवाधिपः || २१ || कदा यास्यति मद्गेहमल्लमप्रभुवल्लभः || कदा हृत्संशयाः सर्वे च्छेत्स्यन्ते तत्प्रसादतः || २२ || कदा गुरुचरेशार्चारहस्यक्रममुत्तमं || प्राणलिंगांगसंबंधं चोपदेक्ष्यति सद्गुरुः || २३ || इति भक्तगणैस्साकं बसवेशो विधूदयं || चकोर इव सोत्कण्ठं चकमे प्रभुदर्शनं || २४ || पृ० ११८) अथाल्लमेशो वात्सल्याद्गौर्वत्समिव तं हृदि || संस्मृत्य कल्याणपुरीमाजगाम जगद्गुरुः || २५ || बसवप्रमुखैर्भक्तैः कृतपूजाविधिः स्वयं || अनुजग्राह भगवानात्मज्ञानमचंचलं || २६ || अनिर्वाच्यं परं तत्वमनुभाव्य गणान्गुरुः || चिल्लिंगलीनसद्भावांश्चक्रे सम्यक्प्रबोधनात् || २७ || वीरशैवोल्लमविभुर्लिंगे सर्वं प्रदर्शयन् || सारं समनुजग्राह बसवादिगणेश्वरान् || २८ || इत्युक्तवति देवेशे गिरिराजन्यकन्यका || पप्रच्छ जनिताशंका शंकरं लोकशंकरं || २९ || देवाल्लमः सर्वमयो नामरूपादिवर्जितः || मतानि षट् सामान्यस्य वीरशैवे कथं रतिः || ३० || शिवः प्राह महादेवीं शृणु मत्प्राणवल्लभे || जानीहि परमाद्वैतं वीरशैवस्य वैभवं || ३१ || रौद्रवैष्णवदौर्गार्कस्कांदगाणेश्वरात्मकं || मतषट्कं पृथग्भिन्नं तांत्रिकैरुपपादितं || ३२ || पृ० ११९) मतषट्के वीरशैवमतस्य प्राधान्यम् | द्वैतप्रधानं वेदान्तविरुद्धमसमंजसं || धर्मार्थकामफलदं तत्तल्लोकैकसाधनं || ३३ || पुनरावृत्तिहेतुत्वान्न मुक्तिः सा कथंचन || परंतु बंधहेतुः स्यात्तत्तल्लोकगतिर्नृणां || ३४ || न कर्मफलमुत्सार्य निर्मलामृतसाधनं || मतषट्कं भवेद्देवि भेदज्ञानप्रधानकं || ३५ || मीमांसकमतं यत्तु कर्मकाण्डमनिंदिते || हिंसाप्रधानं तत्स्वर्गनरकादिफलप्रदं || ३६ || दुर्मदान्धाः प्रकुर्वन्ति हिंसां स्वर्गार्थिनो नराः || न जीवहिंसकान्मूढाननुगृह्णाति शंकरः || ३७ || अनुग्रहं विना शंभोः कृपा न प्रसरेत्प्रिये || विना शिवकृपां मुक्तिर्दूरापास्ता न संशयः || ३८ || अतो नैष्कर्म्यसिद्ध्यैव वीरशैवे रतिर्भवेत् || वीरशैवं हि वेदान्तसिद्धं मोक्षैकसाधनं || ३९ || पृ० १२०) यावद्भेदमतिस्तावत्संसारो नैव नश्यति || भेदबाधकमद्द्वैतं वीरशैवाख्यमद्रिजे || ४० || अंगलिंगैक्यसंबंधाद्वीरशैवो भवेन्नरः || जीवोंऽगलिंगमीशः स्यात्तयोरैक्यं हि संगतिः || ४१ || शिवजीवैक्यविज्ञानमज्ञातार्थो हि लौकिकैः || अज्ञातार्थे फलवति श्रुतेस्तात्पर्यमीर्यते || ४२ || श्रुत्येकगम्यमद्वैतं वीरशैवाख्यमंगने || भेदस्त्वाबालगोपालविदितो लौकिको मतः || ४३ || तस्माद्वेदान्तविज्ञानसुनिश्चितधियां नृणां || महात्मनां विरक्तानां वीरशैवे मतिर्भवेत् || ४४ || वीरशैवोदिताद्धर्माल्लिंगैक्यज्ञानमाश्रिताः || मोक्षं प्रयांति परमं पुनरावृत्तिवर्जितं || ४५ || इत्युक्तवन्तं प्राणेशमवलोक्य गिरींद्रजा || स्नेहात्कृतांजलिपुटा नमस्कृत्येदमब्रवीत् || ४६ || अद्वैतिनो वीरशैवास्त्वहंब्रह्मेति निश्चिताः || आराधयन्ति वा ते त्वां तूष्णीं तिष्ठन्ति वा विभो || ४७ || पृ० १२१) वीरशैववर्तनक्रमस्वरूपवर्णनम् | यथा निःसंशयं चेतस्तथा कुरु ममेश्वर || इति पृष्टो महादेवो जगाद वरवर्णिनीं || ४८ || वीरशैवक्रमं धर्म्यं शृणु कल्याणि सांप्रतं || येन विज्ञातमात्रेण शिवजीवैक्यमाप्नुयात् || ४९ || भावाद्वैतं क्रियाद्वैतं वीरशैवे प्रशस्यते || अद्वैतं भावयेच्चित्ते क्रियायां द्वैतमाश्रयेत् || ५० || बाह्यकर्माणि संत्यज्य ममार्चनविधीरिताः || सत्क्रियास्सकला नित्यं वीरशैवः करोत्यलं || ५१ || मययेव सकलं कर्म समर्प्य दृढभावनः || नाकांक्षति फलं किंचिद्वीरशैवो विरागवान् || ५२ || मनस्तनुधनाकांक्षां त्यजन्नात्मसतीसुतान् || समर्पयति यो मह्यं वीरशैवस्स उच्यते || ५३ || यस्तु पंचेंद्रियभ्रान्तिं त्यक्त्वान्तकमलक्षयन् || न शिवान्यदिति ज्ञानी स वीरः शैव उच्यते || ५४ || एकमेव परं ब्रह्मेत्यन्यदेवाननर्चयन् || पृ० १२२) लिंगैक्यमेव यः पश्येद्वीरमाहेश्वरः स वै || ५५ || मतोद्धरणवेलायां दृष्टप्रत्ययपूर्वकं || यः सिद्धान्तयते तत्वं स वीरः शांभवः स्मृतः || ५६ || भक्त्या मां पूजयत्येव न वांच्छति फलं क्वचित् || मद्दत्तमपि नादत्ते वीरशैवः स योगिराट् || ५७ || गृहीतं न त्यजत्यार्ये व्रतं प्राणात्ययेऽपि च || लिंगैक्यज्ञानसंपन्नः स भवेद्वीरशाम्भवः || ५८ || सदांगे कीलयेल्लिंगं संगदोषविवर्जितः || इष्टप्राणैक्यभावेनस योगी वीरशैवराट् || ५९ || जातकं मृतकं वापि सूतकं यस्य नोभवेत् || सदाशिवसमावेशात्स योगी वीरशाम्भवः || ६० || शिवोद्देशकृतं पाकं भविनां नैव दर्शयेत् || बहिर्जनेभ्यो नो दद्याद्वीरशैवो महेश्वरि || ६१ || आचारो वीरशैवस्य वर्णितुं केन शक्यते || गिरा गीष्पतिना वापि ब्रह्मणा विष्णुनाऽथवा || ६२ || पृ० १२३) वीरशैवस्य माहात्म्यवर्णनम् | इत्युक्त्वोपरते कान्ते शांकरी विस्मयान्विता || पुलकांकितगात्री तं पुनः प्रोवाच शंकरं || ६३ || मन्नाथ वीरशैवास्ते सततं लिंगधारिणः || सालम्बा इव भासन्ते निरालम्बाः कथं वद || ६४ || कथं तनुमनोर्थेषु ममता नास्ति तादृशां || आज्ञापयेत्यभिहितो गिरिजां गिरिशोऽब्रवीत् || ६५ || माहात्म्यं वीरशैवस्य शृणुष्वावहिता सती || तनुत्रितयसंसक्तां मनोवृत्तिपरंपरां || ६६ || दीक्षात्रयेण संत्यज्य त्रिलिंगानां त्रिभिः क्रमात् || अंगैरैक्यं पुनश्चैक्यं तेषां संभाव्य धीरधीः || ६७ || भक्तमाहेश्वरादीनां सोपानानां परंपरां || समारुह्यांगलिंगास्यहस्तज्ञानपुरस्सरं || ६८ || सर्वाश्शक्तीः समीकृत्य लिंगैक्यसरणीं भजन् || अब्धौ पतत्करकवद्व्योमव्याप्तसमीरवत् || ६९ || वह्नौ मिलच्चंद्रकवत्स्वात्मलीनतनुत्रयः || पृ० १२४) तादात्म्यसिद्धिं लभते गुरोः करुणया बुधः || ७० || वस्तुज्ञानात्तस्य नास्ति संगो देहेंद्रियादिभिः || पार्श्वर्स्थैर्दृश्यमानोऽपि जीवन्मुक्तस्य योगिनः || ७१ || इति शम्भोर्वचः श्रुत्वा नत्वा गिरिवरात्मजा || ज्ञात्वा भावरहस्यं तत्कृतार्थाऽस्मीत्यमन्यत || ७२ || दण्डवत्प्रणमन्तीं तां खण्डेंदुधर ईश्वरः || बाहुभ्यां सम्परिष्वज्य प्रीणयामास भामिनीं || ७३ || मायाजयकृतामीर्ष्यां परित्यज्याल्लमप्रभौ || जगद्गुरुरयं साक्षादित्यमन्यत पार्वती || ७४ || अस्मद्भक्तगणान्सर्वानरक्षीदल्लमप्रभुः || मोक्षं दत्वेत्युमाशंभू हृदये मुदमापतुः || ७५ || गौरीमहेश्वरौ रम्ये कैलासशिखरीश्वरे || अल्लमानन्दभरितौ सुखगोष्ठ्या स्थितौ द्विजाः || ७६ || अत्राल्लमस्तरुणवृद्धजनान्नृपालान्बालान्दरिद्रनिवहान्धनिकान्सुशीलान् || गोब्राह्मणानखिलजंतुगणानशेषश्रेणीरनुग्रहवशात्सततं पुपोष || ७७ || पृ० १२५) सूतं प्रति मुनीनां रहस्यतत्वविषयकप्रश्नः | जगदखिलमधीशः शांभवानंदपूर्णं सकलफलसमृद्ध्या सौख्यसंपत्समेतं || सकरुणमनुगृह्य श्रीगुरुः स्वेच्छयैव प्रकटितगुणमूर्तिः पावयामास भूमिं || ७८ || इयमखिलमुनीन्द्राः श्रीगुरोर्दिव्यलीला गणचरितविशाला व्यासमौनिप्रसादात् || हृदयकमलवासिश्रीमहेशाज्ञयोक्ता प्रभवतु पठितृर्णां भोगमोक्षानुकूला || ७९ || सूतोक्तं प्रभुलिंगमूर्तिचरितं श्रुत्वा मुनीन्द्राः परं ब्रह्मानंदसुधांबुधौ चिरतरं संपाद्य डोलायिताः || सानंदैकरसास्तमेनमभितः स्तुत्वा प्रणम्यादरात् जीवन्मुक्तिमवाप्नुवन् परशिवे सर्वं समर्प्यांजसा || ८० || श्रुत्वा चित्रं चरित्रं पुनरपि मुनयः सूतपुत्रं विलोक्य स्वामिन् विस्पष्टमस्मन्मतिखचितमिदं प्रष्टुकामा रहस्यं || वक्तव्यं तत्त्वयाऽपि प्रकटितकृपया लोकसंरक्षणार्थं शास्त्रार्थं स्वात्मनीनं सकलमपि मनस्याकलययेत्यपृच्छन् || ८१ || पृ० १२६) चतुर्मुखः सर्वमिमं प्रपंचं ससर्ज सर्वेशितुराज्ञयेति || त्वयोक्तमादौ श्रुतिभिश्च सूक्तं पुरेव धातासृजतात्मनेति || ८२ || तदीयसृष्ट्यां सुरमानुषाद्याः समस्तजीवास्सुखमोक्षकामाः || श्रयन्ति सर्वेश्वरमेव सर्वे किमर्थमन्येऽधिपतिं महात्मन् || ८३ || पुराणभागेषु भवन्मुखेन श्रुतेषु सर्वेषु च तत्र तत्र || विधींद्रविष्ण्वादिसुराश्रितानां पृथऽऽन्नयानां कथिताः कथास्ताः || ८४ || तथा द्विजक्षत्रियवैश्यशूद्राः सलोमजाताः प्रतिलोमजाश्च || श्रुतास्तथैवाश्रमिणश्च तेषां विभिन्नधर्माः पृथगर्थभाजः || ८५ || शिवैकतानाः शरणाः प्रसिद्धाः श्रुतास्तथा तेषु महानुभावाः || गृहीतवर्णाश्रमधर्मनिष्ठास्तथा निराभारपदाभिषिक्ताः || ८६ || प्रभुस्तु सर्वं जगदेतदीशश्चकार साक्षादिह वीरशैवं || श्रुतिर्हि सर्वत्र गतौ प्रमाणं तदेकरूप्यं कथमीश भाव्यं || ८७ || इदं हि सर्वं परिमृश्य विद्वन्समस्तशास्त्रेष्वविरुद्धतत्वं || पृ० १२७) शिवकृत सृष्टिविषयकवर्णनम् | त्वयोपदेश्यं करुणांबुराशे मनस्समाधातुमिहास्मदीयं || ८८ || मुनीनिति प्रार्थयतो विलोक्य प्रसाददृष्ट्या शिवयोगिवर्यः || समस्तशास्त्रार्थरहस्यतत्वं प्रकाशयन्नाह गुरूपदिष्टं || ८९ || अहो मुनीद्राः परतत्वनिष्ठाः शृणुध्वमात्मन्यवधानयुक्ताः || भवत्कृतं प्रश्नमिमं भवान्या समाददे * * * * [टीप- ताडपत्री पुस्तकांत तीं अक्षरें फाटून गेलीं होतीं सबब न समजल्यामुलें तेथें फुल्या घातल्या आहेत |] क्तं || ९० || कालो ह्यनादिः शिवसृष्टमेतत्प्रपंचजातं सकलं हृदैव || तदाज्ञयावान्तरसृष्टयस्ताः कृताः क्वचिद्विष्णुविधातृमुख्यैः || ९१ || अनंतवेदेष्वपि तत्र तत्र पुराणभागेषु तथागमेषु || निरूप्य तत्तत्कृतसृष्टिभेदान् प्रधानतः शांभवसृष्टिरुक्ता || ९२ || महेश्वराज्ञामवलंब्य सर्वे सृजन्तु धात्रादय ईश्वरस्तान् || शिवोऽनुगृह्णाति ततो महेशं स्वकारणं तेऽपि समाश्रयन्ते || ९३ || विश्वाधिको रुद्र इति श्रुतिश्च ब्रूते प्रभुं स्वात्मनि विश्वसेव्यं || करोति तस्मै श्रुतिरेव साक्षात्सदा नमस्कारसहस्रजातं || ९४ || पृ० १२८) अतः शिवे भक्तिरचंचलैव समस्तलोकस्य विमुक्तिहेतुः || मायाविमुक्तिः खलु मुक्तिरुक्ता प्रभुं विना तां विजयेत को वा || ९५ || उपास्य सर्वे प्रभुमेव देवाः प्रकृष्टलिंगैक्यपदं प्रपन्नाः || अनुग्रहाद्विष्णुमुखाश्च देवास्समाश्रिताः कैश्चिदमुष्य शंभोः || ९६ || पदं प्रयच्छन्ति पदार्चकेभ्यः स्वकीयमेवाब्जभवाच्युताद्याः || न तत्र लिंगैक्यसुखे ततोऽमी पुनः प्रयात्येव जनिं मृतिं च || ९७ || य ईश्वरांशत्वधिया श्रयन्ते स्वकर्मशक्तेरिह विष्णुमुख्यान् || प्रपद्य ते तद्भवनं तदुक्तेर्महेश्वरोपास्तिरता भवन्ति || ९८ || सदाशिवैक्यानुभवैकगोष्ठ्या तदीश्वरेणैव समाहितास्ते || प्रपद्य दीक्षां प्रलये प्रसक्ते भजन्ति तेनैव सहेश्वरत्वं || ९९ || ये तु स्वतंत्रानिह मुक्तिहेतूनाश्रित्य तान्विष्णुमुखान्भजन्ति || गत्वापि ते तत्पदमाशु नष्टाः पुनः प्रयांत्येव भवांबुराशिम् || १०० || जितेंद्रियास्ते यदि सात्विकेन हृदाभजन् विष्णुमुखानबुद्ध्वा || पृ० १२९) शिवमहत्ववर्णनम् | आवृत्य तत्तत्पदतोऽपि तेऽमी बुध्यन्ति संस्कारवशान्महेशं || १०१ || ते जन्मजन्मन्यथ शैवनिष्ठाः क्रमाद्भविष्यन्ति हि वीरशैवाः || पदं प्रयास्यन्ति शिवैक्यमन्ते समस्तवेदान्तनिगूढमेतत् || १०२ || ये निंदकाः शांभवशंभुभक्तेर्दुराग्रहाद्विष्णुमुखान्भजन्ते || त्यक्ताश्च ते तैः प्रविशन्ति सत्यं तमोऽन्धमेवात्र न संशयः स्यात् || १०३ || पुराणभागेषु तु विष्णुमुख्याः प्रकाशिताश्शंभुपदाब्जभक्त्या || महानुभावाः खलु तेऽपि धन्याः प्रसीदतीशः खलु भक्तभक्त्या || १०४ || क्वचिद्यदा भागवतादिभागे न्यूनत्वमुक्तं हरिपद्मजाभ्यां || रुद्रस्य तज्ज्ञेयमसंख्यरुद्रेष्वेकस्य कस्याऽपि गुरुप्रसादात् || १०५ || तमोगुणाधिक्यवशेन विष्णुब्रह्मादिदेवा अपि शंभुमीशं || क्वचिद्विरुध्येशहतास्तदेषां न दूषणं यद्गुणमाश्रयन्ति || १०६ || पृ० १३०) प्रभोस्तु तस्याखिलकारणस्य प्रमत्ततत्तन्निजभृत्यसंघान् || विशिष्य संशिक्ष्य विवेकदानं कर्तव्यमेवार्तिहरस्य तेषां || १०७ || अतो महान्तो बहुजन्मपुण्यप्रभावलब्धाधिकभाग्ययोग्याः || महेश्वरं कारणकारणं तं समाश्रयन्त्येव सदाशिवाख्यं || १०८ || तदीयभक्तत्वधिया हरींद्रविधातृमुख्यानपि भावयन्ति || महेश्वरे सर्वमखण्डदृष्ट्या लीनं प्रकुर्वन्ति समाधिनिष्ठाः || १०९ || महात्मनां शंकरभक्तिनिष्ठा तदंशसाम्याद्भुवि मध्यमानाम् || अथाधमानामितरत्र भक्तिर्भवेन्नृणां कर्मवशान्मुनीन्द्राः || ११० || वर्णाश्रमाश्चापि शिवाज्ञयैव श्रुत्योदितास्सर्वजगत्प्रसिद्धाः | देहस्य धर्माः खलु सर्व एते न ह्यात्मनः सर्वगताद्वयस्य || १११ || आज्ञा श्रुतिस्तस्य महेश्वरस्य स्वयं विधत्तेऽखिलकर्मजालं | पृ० १३१) जनानविद्यादिमतोऽधिकृत्य शुक्लं निषेधत्यपि कृष्णकर्म || ११२ || भक्तिं विरक्तिं तदशुक्लकृष्णं दीक्षां विधत्ते च मुमुक्षुसंघान् | विरक्तिदार्ढ्ये सकलं विहाय शिवैक्यनिष्ठां परमां विधत्ते || ११३ || यथाधिकारं प्रसमीक्ष्य विद्वान् गुरूपदिष्टः श्रुतिसिद्धमर्थं | समाश्रयेत्सत्क्रियया विशुद्धौ चित्तस्य विज्ञानपथं प्रयायात् || ११४ || आज्ञापि नोल्लंघयितुं हि शक्या कर्मत्यजेदित्यपि सैव सिद्धा | अतो विरक्तः शिवदीक्षितोऽसौ प्रसाध्य भक्तिं विसृजेत कर्म || ११५ || यद्ब्राह्मणो मुख्यतया प्रसिद्धः सर्वेषु वर्णेषु शिवस्तथैव | सर्वोत्तमो ब्राह्मण इत्युपास्यस्तद्ब्राह्मणैर्ब्राह्मण एव सोऽयं || ११६ || जात्या प्रकृत्या द्विविधः स वेद्यो यो ब्राह्मणो ब्राह्मणभक्तियुक्तः | तद्भक्तिशून्यो न हि जातिमात्रात्स ब्राह्मणो ब्राह्मणमत्र मानं || ११७ || यो ब्राह्मणः स्याद्विमलः प्रकृत्या स एव शास्त्रेष्विह जंगमः स्यात् | पृ० १३२) द्विजस्तु जात्या शिवतत्वहीनो न संमतो ब्राह्मण इत्ययं नः || ११८ || यथोक्तकर्माचरणैकमात्राद्द्विजः स पित्रादिगतिं प्रयाति | अकर्मशैवोऽन्यसुरेषु भक्तस्तल्लोकगामी पुनरेति मृत्युं || ११९ || यो ब्रह्मवेत्ता शिवमार्गनिष्ठस्स ब्राह्मणो मुक्तिमुपैति धन्यः | अन्योऽपि जात्या शिवभक्तिपूर्णः स ब्राह्मणत्वं प्रतिपद्य मुक्तः || १२० || न शूद्रता स्याद्भगवत्यधीशे भक्तस्य दीक्षाविधिमाश्रितस्य | अदीक्षितः शांभवभक्तिमार्गे शिवापराधाच्छ्वपचत्वमेति || १२१ || शिवः स्वयं ब्राह्मणदैवतं स्याज्जनार्दनः क्षत्रियवंश्यसेव्यः | चतुर्मुखो वैश्यकुलैरुपास्यो गणेश्वरोपास्तिपरो हि शूद्रः || १२२ || इति स्मृतिः प्राह मनोस्तदस्य वाक्यस्य तात्पर्यमिदं हि बोध्यं | भजेत यो योऽधिपमेव यं यं स एव तत्तत्प्रकृतिः किलेति || १२३ || अतः शिवं पुण्यवशादुपास्ते समस्तजातीयनरो विशेषात् | पृ० १३३) कुलाकुल वीरशैवभेदनिरूपणम् | स इष्यते ब्राह्मणवद्गुणाढ्यो विशेषदीक्षावशतश्चरोऽसौ || १२४ || शिवैकतानाः खलु सर्व एते भवन्ति सामान्यवशेन शैवाः || विशेषदीक्षावशतस्त एते भवन्ति वर्णा भुवि वीरशैवाः || १२५ || ततो निराभारपदैकदीक्षाश्चराग्रगण्यास्तु शिवावधूताः | विरागपूर्णा यतयो मुनींद्रास्समस्तलोकं ननु पावयन्ति || १२६ || कुलाकुलत्वेन हि वीरशैवं द्विधा विभिन्नं कुलमार्गनिष्ठैः | यदेव लिंगांगिभिराश्रितं स्याच्छिवोक्तरीत्या कुलवीरशैवं || १२७ || तथाऽकुलं नाम कुलं विखण्ड्य प्रसादसंकेतरहस्यनिष्ठैः | तदेकदीक्षैश्च गृहीतदारैश्शिवार्चकैश्शीलयुतैरुपास्यं || १२८ || अनादिसिद्धं ननु वीरशैवं शिवोपदिष्टं प्रमथान्वयेऽस्मिन् | प्रसिद्धिमेति द्विविधं च लोके विमुक्तिहेतुर्गुणतारतम्यात् || १२९ || पृ० १३४) श्रुतिश्चयो वक्ति शिवेति नाम स्फुटं सदीक्षः श्वपचोऽपि सोऽयं | गुणाधिकस्तेन सहैव भुंज्याद्वदेच्चरेत्सन्निवसेत्तथेति || १३० || अतः कुलत्यागवशान्न दोषः शिवात्मनां शीलवतां नराणां | तदीयरक्षार्थमिमं ससर्ज स्वयं शिवो जंगमलिंगवंशं || १३१ || अनादिसिद्धस्तु चरान्वयोऽयं शिवेन मूर्ध्ना स्वयमेव सृष्टः | अतः प्रभुर्जंगमलिंगलीलामवाप्य भक्तानवनावरक्षत् || १३२ || पुनः कलौ दुष्कुलबौद्धसंघैर्विनष्टशैवोद्धरणाय देवः || प्रभुः स एवावतरिष्यतीमे वृषेश्वराद्याश्च यथा पुरैव || १३३ || तथैव सा चित्कलिकावतीर्य प्रभौ समायास्यति सामरस्यं | स षण्मुखश्छन्नघनो भविष्यत्ययं च वीरो मणिवालनाथः || १३४ || तथा पुरावृत्तमिदं च तिष्ये भविष्यतीहैव भविष्यतीत्थं | श्रुतं प्रभोस्सच्चरितं मुनींद्रास्सदानुभाव्यं हृदये भवद्भिः || १३५ || पृ० १३५) कथोपसंहृतिः | सर्वोत्तमा वैदिकमार्गनिष्ठाः श्रेष्ठास्तु तेभ्यो ननु योगनिष्ठाः | तेभ्योऽधिकाः शैवरता महान्तः श्रीवीरशैवास्तु ततोऽधिकास्ते || १३६ || दीक्षैकनिष्ठास्त्वकुला महान्तः श्रीवीरशैवेऽपि ततोऽधिकास्ते | श्रीमन्निराभारविरागनिष्ठाः श्रुत्यातिवर्णाश्रमिणः प्रसिद्धाः || १३७ || ततो महान्तः कुलवीरशैवं क्षितौ प्रतिष्ठापयितुं गणास्ते | तदीयवंशेष्ववतीर्य तत्वं प्रकाशयंति प्रतिभाविशेषात् || १३८ || कलौ भविष्यन्ति महानुभावाश्शैवान्वये तत्र च वीरशैवे | संरक्षितुं शांभवमद्वितीयं दधीचिशप्तान्वयसंभवेभ्यः || १३९ || सूतोक्तमल्लमगुरोश्चरितं निशम्य ते शांभवाः प्रमुदिताः परमानुभावाः | रुद्राक्षभस्मफलवल्कलवीटिकाद्यैर्हृद्यैरुपायनशतैः प्रणतिं प्रचक्रुः || १४० || सकृदपि गुरुलीलां धारयन्तः श्रुतान्ता भवजलनिधितीर्णाः पूर्णकामा बभूवुः | पृ० १३६) भृगुतनयमुखास्ते वीरशैवं स्तुवन्तस्सततमचलितेष्टप्राणभावैक्यभावाः || १४१ || इत्यार्षश्रीभविष्यत्पुराणकथाविशालायां श्रीवीरमाहेश्वरामृतानंदसूक्तिसूत्रग्रथितपंचविंशतितत्वमौक्तिकम् अहनीयमालायां प्रमथगणवचनपरंपरानुकूलायां कलिकल्मषनिमग्नजनसमुद्धरणशीलायां प्रभुलिंगलीलायां परमेश्वरप्रसादसंप्राप्तमहेश्वरीमनःसमाधानवीरशैवमहिमानुसं धानप्रस्तुतकथोपसंहृतिकथनगतिर्नाम पंचविंशोऽध्यायः | श्रीपरमेश्वरार्पणमस्तु | श्रीनंदिकेश्वराय नमः || || श्रीः || श्रीः || ########### END OF FILE #######