#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00065 Uniform title: pratiṣṭhālakṣaṇasārasamuccaya Main title: pratiṣṭhālakṣaṇasārasamuccayaḥ Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 16, 2009 Publisher : Publication year : Pre-1900 Publication city : Publication country : India #################################################### श्रीः नेपालराजकीय- पुस्तकालयस्थहस्तलिखितप्राचीनपुस्तकानाम् अन्यतमः प्रतिष्ठालक्षणसारसमुच्चयः तस्यायम् एकादशाध्यायपर्यन्तः प्रथमो भागः पण्डितबुद्धिसागरशर्मणोऽध्यक्षतायां वेदाचार्यदामोदरशर्मणा संपादितः संपादकेन वेदान्तशास्त्रि पं बाबुकृष्णशर्मणा च संशोधितः नेपालराजकीयपुस्तकालयतः प्रकाशितः श्रीः अथ प्रतिष्ठालक्षणसारसमुच्चयः प्रारभ्यते ओं नमस्तस्यै [ख्: ओं नमःशिवायेति नास्ति] तत्त्वत्रयत्रिदहनत्रिगुणत्रिलिङ्ग [ग्: तनुत्रयेति] कालत्रयत्रिभुवनत्रिसुरीशरीरम् | नेत्रत्रयत्रिपथगाहिपवित्रगोत्र पुत्रीत्रिशूलभृतमीशमहं प्रणम्य || १ || आगमेभ्यः समाकृष्य कुर्यां लक्षणसङ्ग्रहम् | ऋजुसक्षेपसंपूर्णं सर्वस्थापनसङ्कुलम् [ग्: सद्गुणमिति] || २ || असंदिग्धं स्फुटार्थं च धर्मकामार्थमोक्षदम् | हिताय मन्दबुद्धीनां स्मरणाय मनीषिणाम् || ३ || किञ्चित् क्वचित् स्फुटं चाङ्गं नैकस्मिन् सर्वमङ्गकम् [ख्: सर्वगात्रकम्] | बहुतन्त्राण्यतो वीक्ष्य क्रमेणैकत्र लिख्यते || ४ || प्. २) सिद्धिलिङ्गाश्रितेवं शिवप्रोक्तं शिवागमे | तदा [मु. अ, क्: तन्त्रा] गमानुसारेण लिङ्गं वक्ष्यामि सांप्रतम् || ५ || यतो जातमिदं सर्वं त्रैलोक्यं सचराचरम् | लीयते प्रलये यत्र तदिदं लिङ्गमुच्यते || ६ || अरूपमप्रमाणं यत्तत्त्रिधा रूपमानतः | हीनादि [ख्: हीमादि] सिद्धयस्तस्माच्छिवपूजोपचारतः || ७ || द्रव्यानुकल्पन त्यक्त्वा [क्, ख्, ग्: न्यस्त्वा] भक्त्या वाराध्य तत्सदा | सर्वज्ञं सर्वदं शुद्धं शिवतत्त्वं च मोक्षदम् || ८ || मन्त्रैः शिवोदितैः सिद्धा मुख्या ब्रह्मादिलोकपाः | ऋषयो वसवो रुद्रा गणा यक्षा ग्रहोरगाः || दैत्या रक्षांसि सिद्धाद्याः परैश्वर्यपदं गताः | अतो नरादिभिस्तत्तु लिङ्गरूपमुपास्यते || १० || लिङ्गस्य दर्शनं पुण्यं स्पर्शनं पापनाशनम् | महाराज्यप्रदा पूजा ध्यानं मोक्षप्रदायकम् || ११ || शतायुताश्वमेधानां यज्वनां यत्फलं [मु. अ, क्, ग्, घ्: यत्फलं लाभतो] भवेत् | तत्फलं द्विगुणं सम्यग् लिङ्गैकस्थापनापनाद्ध्रुवम् || १२ || प्रासादे हेमरत्नाद्यैर्यत्पुण्यं [ख्: हेमरत्नाढ्ये प्रस्थितं] नृपतेर्भवेत् | तदेव तृणकुड्याद्यैर्दरिद्राणामशाठ्यतः || १३ || प्. ३) देवासुरोरगैः स्थाप्ये नरूपं नैवलक्षणम् | लक्षणं लिङ्गधामादौ नरेभ्यो वक्ष्यतेऽधुना [ख्: सदा] || १४ || तत्स्यात्त्रिधा यथासङ्ख्यमव्यक्तं व्यक्तमिश्रकम् | लिङ्गं च [घ्, ङ्: लिङ्गार्चा; ख्: लिङ्गस्य] मुखलिङ्गं च पुंस्त्रियौ च नपुंसकम् || १५ || विपद्गृह [मू. अ, क्: विपट्टस्त; घ्, ङ्: वियट्वृत्त] हरो व्यापी सदा वह्निरिवेन्धनम् | सूर्याष्टाष्टास्रके [मू. अ: पुर्यष्टाष्टा; ग्: सूर्यच्छाया] विष्णुर्ब्रह्मा वेदास्रके विभुः || १६ || एषामैक्यं त्रिभिर्योगाल्लिङ्गमव्यक्तकं भवेत् | (व्यक्तं [ख्: अयं चापचिन्हान्तर्गतः पाठः नाश्ति] मूर्धादिसंयुक्तं व्यक्ताव्यक्तं द्विरूपकम् || १७ || पञ्चधा व्यक्तमावेद्यं व्यक्ताख्यं सप्तधा तथा | द्व्यात्मकं दशधा प्रोक्तं सर्वं द्वेधा चलाचलम् || १८ ||) अव्यक्तं मोक्षदं नूनं व्यक्तं भुक्तिप्रदायकम् | भुक्तिमुक्तिप्रदं मिश्रमित्येतद्रूपतो भवेत् || १९ || लिङ्गं यदात्मकं कार्यं तन्मानं चैव याद्दशम् | शीघ्रं सिद्धिकरं यच्च काम्याकाम्याय यद्भवेत् || २० || तद्द्रव्याणां परीक्षा च आचार्यस्य च लक्षणम् | कारुका मूर्तिपाश्चैव वनयात्रादिकं यथा || २१ || नगा नगाधिपा ये च नद्यो या ये द्रुमादयः | पुण्यस्थानविभागश्च वास्तुग्रहणमर्चनम् || २२ || प्. ४) यथा पुरस्तथाद्वारयोगाहृ [ग्: द्वारे येनोक्त] त्कलशोऽध्वरः | शिवो लिङ्गविधिर्यागो ध्वजपर्यन्तकं तथा || २३ || पञ्चस्थापनसंयुक्तः प्रासादश्चैव तादृशः | यतीनामाश्रयो यादृक् प्रतिष्ठा पञ्चधा च या || २४ || ऋतुनक्षत्रयोगश्च [मू. अ: योश्वैव] वारलग्नाधिवासनम् | स्थापने यश्च संभार इत्याद्यखिलमुच्यते || २५ || कुर्याल्लिङ्गान्ययोरत्नमृत्काष्ठोपलचित्रकैः [मू. अ, क्: -सिद्धा-] | क्षुद्रकामाय लोहोत्थं रत्नजं बहुसिद्धिदम् || २६ || मृन्मयं सर्वकामार्थं दारुजं त्वाशुसिद्धिदम् [मू, अ, क्: वा सुसिद्धिदम्] | खाधारेण व्यवस्थाप्यं नश्वरं धातुदारुजम् [मू. अ, क्, ङ्: नश्वरत्वात्तु दारुजम्] || २७ || भोगमोक्षप्रदं शैलं तच्च वेश्मनि रोगदम् | लिङ्गं च द्विविधं ज्ञेयं [मू. अ, क्: प्रोक्तं] चलं चैवाचलं तथा || २८ || चलं वैरत्नजं प्रोक्तं धातुजं च चलाचलम् | स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् || २९ || प्रजावृद्धिकरं ताम्रं वाङ्गमायुः प्रवर्धनम् [ख्, ग्: राङ्गमायुष्य वर्धनम्] | विद्वेषकारकं कांस्यं रीतिजं शत्रुवालनम् || ३० || रोगदं सैसकं शत्रोरायसं रिपुनाशनम् | अष्टलोहमयं लिङ्गं कुष्ठरोगक्षयावहम् || ३१ || प्. ५) त्रिलोहसम्भवं लिङ्गमन्तर्धानप्रसिद्धिदम् | सिक्थं कृत्वा मृदा लिप्त्वा तप्त्वोद्वास्य च कारुकः || ३२ || विकारार्कदिशा रन्ध्रवृद्ध्या सिक्थान्प्रपूरयेत् | हेमाहिभ्यां क्रमातारताम्रवङ्गारघोषकैः || ३३ || धूस्तूरस्य [मू, अ, क्: धूत्यूरस्य; ग्: धूत्तूरस्य] रसैर्घृष्ट्व रसं हेम तदङ्घ्रिमत् | काष्ठं क्षिप्त्वा दृढं तत्तु शिलाघृष्टं सवालुकम् || ३४ || जम्बीररससामुद्रपिष्टं तत्पिष्टकं भवेत् | तया लवणपूराम्बु [मू. तयालबाल पूराढ्यं] युक्तया लेपयेद्बुधः || ३५ || कराङ्गुष्ठेन संप्रेर्याकोट्य कोष्ठिकया ततः [ङ्: कट्येकोष्ठिकयोस्तयोः] | बालकुञ्चिकया [मू. -काल] साम्यं नयेत्तत्क्रमशः शनैः || ३६ || भूयो भूयोऽग्निसन्तापात्त्रिधालिङ्गं रसोज्झितम् | ततोऽनुमा [ख्: ततोऽन्तर्मा] र्जयेद्यत्नान्मणिना [घ्: ये द्रूक्षा] मदनाम्बुभिः || ३७ || पुनर्वह्निस्थमाकृष्य लिङ्गं त्रिविधरूपकम् | रसये [मू.: वासयेत्] त्ताम्रजं शिल्पी हाटकेन सुचारूणा || ३८ || दाहे [ख्: बाह्ये] रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् | गुरु स्निग्धं मृदुस्पर्शे [ङ्: मृदुं पक्वे] षड्विधं हेमशोभनम् || ३९ || प्. ६) लोहजं पार्थिवं चैव कुर्यान्मन्त्रैर्विधानतः | धातूद्भवं समाख्यातं रत्नजादि [मू. अ, क्: रत्नजापि] वदाम्यतः || ४० || आयुष्यं हीरजं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् [ख्: मौक्तिकं भवेत् ] | सुखकृत्पुष्परागोत्थं वैदूर्यं शत्रुदर्पहृत् || ४१ || पद्मरागं च लक्ष्मीदमैन्द्र नीलं यशः प्रदम् | लिङ्गं मारकतं पुष्ट्यै स्फटिकं सर्वकामदम् || ४२ || महारत्नोत्थलिङ्गानि क्षुद्ररत्नोद्भवान्यतः | वैद्रुमं वश्यकमार्थं [ग्: वध्यकर्मार्थं] कार्केतनममित्रहृत् || ४३ || पुलकोत्थं तु विद्याकृद्राजावर्तमरातिहृत् | बलदं जीवजातीजं टैट्टिभं शत्रुमर्दनम् || ४४ || विद्वेषकारकं शौक्तं [घ्: तौत्थं] शाङ्खं सौख्यप्रदायकम् | इति प्रस्थानलिङ्गानि शुद्धिमानान्यतः परम् || ४५ || द्विविधं रत्नजं लिङ्गं निर्मितं चाप्यनिर्मितम् | कारुकै [ख्: कारुभिः; मू. अ, क्: दारुभि] र्घटितं यच्च तल्लिङ्गं निर्मितं स्मृतम् || ४६ || स्वभावोत्थं विशुद्धं यद्रत्नजं चाप्यनिर्मितम् | तत्पूज्यं राजभिर्यत्नाद्भुक्तिमुक्त्यर्थिभिः सदा || ४७ || त्यजेद्बिन्द्वन्वितं रौद्रं शूलाग्रं [मू.: शूलाभ्रं] चिपिटं कृशम् | ऊर्ध्वाधोवदनं दीर्घमधः स्थूलं च निष्प्रभम् || ४८ || प्. ७) मिश्रवर्णं तथाव्यङ्गं खण्डं देवोपभुक्तकम् | छिद्रं [ग्: स्थिरं] च स्फुटितं त्रस्तं [मू. अ, क्, ख्: भ्रस्तं] शल्यान्वितं [ग्, ङ्: शूलान्वितं] सुरोज्झितम् || ४९ || तिर्यक् चाधःकृतं यत्तु हीनं मध्ये विवर्जयेत् | राष्ट्रगोत्रजनग्राम [ङ्: कुलग्राम] धनमित्रसुतानपि [मू, अ, ग्: युतानपि] || ५० || शस्य यानाबलाबन्धुभृत्यान्निघ्नन्ति तानि च | रोगं पराजयोद्वेगं [ङ्: पराक्रमोद्वेगं] जनद्वेषं कलिं तथा || ५१ || प्रवासं दुःख दारिद्र्यं मृत्युं दद्यात्क्रमाद्भृशम् | तत्स्याद्दोषैर्विनिर्मुक्तं दृढं स्निग्धं प्रभान्वितम् || ५२ || अङ्गाद्यङ्गुल [घ्: मुद्गाद्यङ्गुल; मू, अ, क्: मुङ्गामुङ्गल; ङ्: मुद्राद्यङ्गुल] पर्यन्तं शास्त्रज्ञैः सुपरी क्षतम् | महारत्नं महामूल्यं गुणयुक्तं यजेत्सदा || ५३ || तस्थार्चनाज्जयः शान्तिरारोग्यं विपुलाः श्रियः | सुप्रतापो [ख्: संप्रतापो] यशश्चायुर्भवेयुर्नृपतेश्चिरम् || ५४ || महारत्नान्महासिद्धिः क्षुद्रात्क्षुद्रा प्रजायते | नीलं पीतं सितं चापि शस्तं रत्नमनिर्मितम् || ५५ || जलेशवातविष्ण्विन्द्राग्न्यन्तका वज्रदेवताः | शङ्खस्फटिकसंकाशं जवारम्भादलद्युति || ५६ || हरिद्रारसतुल्यं च शशबभ्ब्र?क्षिसन्निभम् | धौतास्याभो द्विजातीनां नृपार्हौ [नृपादौ, लि. पु. पा] पीतरक्तकौ || ५७ || प्. ८) वैश्ये हरितपीतौ च धूसरं तु चतुर्थके | शूलं चाधोर्ध्वतो यस्य वज्रं स्यात्तच्छिवात्मकम् | तल्लिङ्गमायुषो वृद्धयै सर्वरोगविनाशकम् || ५८ || सितं रक्तं क्रमात्पीतं कृष्णं च स्फटिकं शुभम् | शक्राग्नि(ग्नी) चसमित्रोये [घ्: शक्राग्निचलमित्रोत्थ; ङ्: शक्राग्नीन्द्रसमित्राये] चतुर्धा तत्क्वचिन्मतम् || ५९ || निस्तरङ्गं गुणोपेतं तेजोवत्पाण्डुनिर्मलम् | शरदम्बुनिभं स्वच्छं स्निग्धं च स्फाटिकं हितम् || ६० || चित्रं बिन्द्वन्वितं रूक्षं स्फुटितं भिन्नवर्णकम् | सगर्भमूर्मिसंयुक्तं ज्योतिर्मुक्तघनं [मुक्तं पुनः, इति पाठान्तर] त्यजेत् || ६१ || सव्रणं कीलकोपेत शूलाग्रं चक्रवर्जितम् [मू, अ, क्: वक्त्रवर्जितम्] | स्थूलं दीर्घ कुशं ह्रस्वं मध्याद्यन्तेषु वा कृशम् [मू.: चाकृशम्] || ६२ || तुषाराकृतिबिन्द्वाढ्यं कलिकाभिः [ख्: कणिकाभिः; ग्: कर्णिकाभिः] सुपूरितम् | अन्यजातिविलग्नं च विद्धं भीतिकरं त्यजेत् || ६३ || सुषमं मानसंयुक्तं शास्त्रलक्षणलक्षितम् | स्फाटिकं लिङ्गमिष्टार्थं मृत्युजित्कामदं यजेत् || ६४ || सर्वलक्षणसंयुक्तं स्वल्पदोषं क्वचित्स्मृतम् [ङ्: क्वचिन्मतम्] | लिङ्गं सदाग्निहोत्राभं पूज्य नो दोषकृन्नृणाम् || ६५ || प्. ९) चारुच्छत्रे भवेद्राज्यं मृदुलं [ख्: मृत्युत्वं; ग्: मृदुत्वं ; घ्: पृथुत्वं; ङ्: मृद्बद्धं] मूर्ध्नि [ग्: मूर्तिः] वै मनाक् | सदा निम्नेन सिद्धिः स्यादुच्चे तूच्चा समे समा || ६६ || तत्र [मू. अ, क्, ङ्: भद्र] सर्वसमं श्रेष्ठं यवमध्यं वरप्रदम् | रत्नलिङ्गं द्विधाख्यातं स्वपीठं धातुपीठजम् [मू, अ: सूपीठं धातुपीठकम्] || ६७ || धातुजं तु स्वयोनिस्थं [ग्: तत्त्वयोनित्थं] सिद्धिमुक्तिप्रदायकम् | चललिङ्गं द्विधाकार्यं धातुरत्नमयं शुभम् || ६८ || हेमादिचललिङ्गं स्यादङ्गुलादित्रिपञ्चकम् | क्षुद्ररत्नोत्थमप्येवं स्वमाना [ग्: प्रमाणा] द्वररत्नजम् || ६९ || तिथ्यन्तमग्रजातीनां नृपाणां यावदिन्द्रकम् | वैश्यानां मन्मथान्तं स्याच्छूद्राणां द्वादशावधिः [ख्: खगगावपि; घ्: शाङ्कगजावधि] || ७० || यक्षादीनां क्वचिल्लिङ्गं विकारादेकविंशतिः | चलं तदूर्ध्वं देवानां त्रयोविंशतिकाङ्गुलम् || ७१ || वेश्मस्थ पूजयेदतत्संसूच्यने स्थिराण्यतः | अचलं खद्रूभस्थायि करादनवसामकम् [मू, अ, क्, ख्: सीसकम्] || ७२ || अव्यक्तं नवहस्तान्तं व्यक्तं पञ्चगुणं तथा | सड्ढतं मिश्रकं लिङ्गं नोर्ध्वं च स्थिरमिष्यते || ७३ || नवहस्तं भवेच्छैलं त्रिहस्तं लोहजं क्वचित् | षड्ढस्तान्नाधिकं वार्क्षं पार्थिवं शैलवत्सदा || ७४ || प्. १०) आहस्तान्नवहस्तं स्यादेतल्लिङ्गं तु मानुषम् | यक्षरक्षोऽसुरव्याल गन्धर्वाप्सरसां क्वचित् || ७५ || किन्नराणां च सिद्धानां हस्तात्पञ्चदशैव तु | परिणाहोच्छ्रयाभ्यां च देवानामेकविंशतिः || ७६ || ऐहिकं त्र्यङ्गुलं यावन्नोर्ध्वं गन्धभवादिकम् | पञ्चाङ्गुलंतु पैष्ट्याद्यं फलजं स्वप्रमाणतः || ७७ || गान्ध सौभाग्यदं लिङ्गं पैष्ट भुक्तिप्रदायकम् | स्थण्डिले मण्डले पूज्य स्याद्दीक्षास्थापनादिके [ख्: -नान्हिके; घ्: -नान्तिके] || ७८ || एकाब्दा [मू, अ.: एकाङ्गा] न्यैहिकान्यत्र प्रोच्यन्ते सिद्धिमिच्छताम् | प्रभुमानप्रदं शाङ्खं [ख्: शार्ङ्गं] सैन्यच्छिन्नागदन्तजम् || ७९ || कूर्मकसिक [ग्: कूर्मकामीक] संजातं नृणां [घ्: नूनं] पातालसिद्धिदम् | अणिमादिनृकुल्योत्थमन्योन्यब्दार्धतः [मू: न्यच्छर्द्धतः] सदा || ८० || पैष्टान्यष्टप्रकाराणि सङ्ग्रीकृष्णक [ख्: सद्ध्रिकृष्टक; ग्, ङ्: संबद्धकृष्टक] जानि तु | शालिपिष्टोद्भवं पुष्ट्यै षाष्टिकं पुष्टिवर्धनम् [मू,: बुद्धिवर्धनम्] || ८१ || गौधूमं वातरोगघ्नं यवजं बलसौख्यदम् | रिपुभेदकरं मौद्गं स्त्रीदं श्यामाकसम्भवम् || ८२ || तिलपिष्टं धरादायी नीवारं [मू, अ, क्, ग्: सैद्धार्थ] भयनाशनम् | सुखकृन्नावनीतं तु गोमयं रोगनाशनम् || ८३ || प्. ११) आन्नमायुःप्रदं ज्ञेयं गौडं प्रीतिप्रवर्धनम् | नानाफलोद्भवं [ख्: लोहभवं] लिङ्गं नानाकामप्रदायकम् || ८४ || गुणदं सैकतं भूरि स्यात्सौभाग्याय लावणम् | उच्चाटने तु पांशव्यं मौलं [ङ्: मार्षं] शत्रुक्षयावहम् || ८५ || वंशाङ्कुरसमुद्भूतं वंशवृद्धिकरं भवेत् | पुरक्षोभकरं पौरं [मू, अ, क्, ख्, ग्: घोरं] रामठं चौग्र्यकारकम् || ८६ || शत्रुमृत्युप्रदं सार्जं सैक्थ [ख्: सित्थं; ग्: सन्ध्यं] माकर्षणे मतम् | मृद्बिम्बोद्भवमिष्टार्थं लेपात्स्युः सर्वसंपदः || ८७ || गन्धादिबिम्बजान्तानि न स्थिराणि चलानि नो | तावत्काल तु [ग्: तारकोऽनन्त] संपूय विसृज्य तानि [ख्: विसर्ज्यैतानि] के क्षिपेत् || ८८ || पिष्टां गोशर्करां सूक्ष्मां [घ्: शुक्लां] पक्वचिञ्चास्थियोजिताम् | निष्क्वाथ्य [मू: निष्काठ्य; घ्: निष्कास्य; ङ्: निष्काम] पटमालेप्य संशोष्य [ग्: संसोध्य] पारिमार्ज्य च || ८९ || खटिकालक्तकाकुष्टनीलीदरदकज्जलैः | धातुबिल्वरसैर्लेख्यं त्रिधा लिङ्गं पटादिके || ९० || मधुरा [ख्: मयूरा] चित्रलेखा च कार्या वै समसन्धिका | बलसंवर्तनीच्छाया दृष्टि [क्, ग्, ङ्: सृष्टि] भावाश्रिता सदा || ९१ || प्. १२) शृङ्गारवीरबीभत्सरौद्रहास्यभयानकाः | करुणाद्भुतशान्ताश्च नवभावात्मिकाः क्वचित् || ९२ || पटजा वित्रजा रक्ता [क्, ग्, घ्, ङ्; तज्ञा] सम्यङ्मन्त्रविधानतः | स्वेच्छया पूजयेदेतन्मृन्मयान्युच्यते [मू, अ: द्युच्यते; ख्: मयो ह्युच्यते] ऽधुना || ९३ || अपक्वं पक्वजं [क्, ङ्: अपङ्कं पङ्कजं] कार्यं मुख्यामुख्यव्यवस्थया | सद्योमन्त्रेण चापक्वं [ङ्: चापङ्कं] क्रमान्नवकरादिकम् || ९४ || पक्वं [ङ्: पङ्कं; ख्: पक्षं] त्रिहस्तकं कुर्यात् घोरमन्त्रान्वितं [ख्: -र्चितं] वरम् | द्विजादिजातिभिर्मृद्भिरव्यक्तादि च कामतः || ९५ || पद्मिनीषु नदीतीरे वृक्षमूले च मृत्तिकाः | वापीकूपतडागेषु दीर्घिकायाः समाहरेत् || ९६ || सुमर्दितमृदा कार्यं पक्वं मृत्संभवं सदा | पुष्ट्यै त्रिलोहगर्भं च धनकोषविवृद्धये || ९७ || शुच्युपलांश्च [मू: शुच्युत्पलां; ख्: भुव्युत्पलां] संगृह्य सद्योजातेन मन्त्रवित् | वामाख्येन चितां कृत्वा [ङ्: धृत्वा] घोरेण परिदाह्य च || ९८ || लिङ्गं शिवाग्निनामृज्य [मू., अ: मृद्य] पुरुषेणावलोक्य च | ईशानेन गृहीत्वा तु ततः संस्कृत्य पूजयेत् || ९९ || प्. १३) पञ्चत्वङ्निम्ब [मू: त्वग्नींश्च] पानीयं बिल्वमज्जा [मू, अ: सर्ज] फलत्रयम् | सर्जहिङ्गुपुरंबोल [पुरः - गुग्गुलुः | पुरो गुग्गुलुराख्यातो इति धरणि | बोलः - गन्धरसः, बोलगन्धरसप्राणः; इत्यमरः] मतसीतैलमेव च || १०० || सन [सनः = घण्टापारुलिवृक्षे | हस्किर्णेति बृहद्वाचस्पत्यम्] श्रीबालगोधूमयवमाषातसीरजः | मृदि क्षिप्त्वा व्यवस्थाप्य मासं तां परिमृद्य च || १०१ || अस्थिबन्धं [मू., अ, क्, ख्, घ्: अस्थिरत्व] दृढं चादौ दृढलोहेन दारुणा | शणतत्वन्वितं [क्: तत्सूत्रितं] कत्वा मृन्मयं घटयेच्छुभम् || १०२ || क्षिप्त्वा धात्वौषधीरत्नलोहब्रीहीन् यथाक्रमम् | इत्येतेषामभावे तु रसेन्द्रं वज्रसंयुतम् || १०३ || सुपुष्टैः [ङ्: अधुष्टैः] कर्करैः क्षीरदधिबालगुडान्वितैः | गव्यसर्जयुतैश्चैव लेप्यं वर्णकपुष्टये || १०४ || वनानु [क्: वनान्ध] काननं गच्छेद्दारूपलगहीतये | सद्वारर्क्षर्तुयुक्तेन्हि चारुलग्नसमन्विते || १०५ || तदा गमनकाले तु शकुना [ख्: कुशला] न्यथ लक्षयेत् | दिव्यान्तरिक्षभौमानि शुभाशुभफलाप्तये || १०६ || सुप्रसन्नमरुवर्त्मसादित्याम्भक्षणप्रभम् | इत्यादि शुभकृद्दिव्यमतोऽशुभकरं त्विदम् || १०७ || उल्कापातोऽशनिस्तारापतनं केतुसम्भवः | दिग्दाहस्तीव्रवातश्च चन्द्रसूर्योपमर्दनम् [मू, अ, ख: पसर्जनम्] || १०८ || प्. १४) अकस्माद्गगने शब्दः प्रच्युतिः फलपुष्पयोः | वासवृक्षाग्रसंस्थायि [ङ्: श्रमस्थायि] बलिभुङ्मधुरारुतिः || १०९ || पक्षिमण्डलिको तददान्तरिक्षमिदं शुभम् | पांश्वसृग्वर्षणं घोरमान्तरिक्षमशोभनम् || ११० || पार्थिवान्यधुना वक्ष्ये निमित्तानि शुभानि तु | दध्यक्षतयवा [मू, अ: दध्युद्धृतधरा] दूर्वा दीपो गोरोचना ध्वजः || १११ || शङ्खश्छत्रं फलं पुष्पं हेमधान्याब्जसारसाः | गोवृषश्च खरो वाजी भस्माक्षो भूपतिर्द्विपः || ११२ || पण्यस्त्रीमत्स्यमांसादि दर्शनादेव शोभनम् | शिवः शिवोदकुंभस्थः कौशिको वामतः शुभः || ११३ || सव्यत [मू. अ, घ्: सव्यतः = दक्षिणतः सव्यं तु दक्षिणे इति हैमः | सव्यं वामे च दक्षिणे इत्यजयः | सवतः] स्त्वशुभं विद्धि रिक्तकुंभादिदर्शनम् | मुक्तकेशः पराक्षेपः क्षारोऽङ्गारश्च दारु च || ११४ || स्नेहाभ्यक्तो नरः सर्पः क्षपणः [घ्: पक्वणः] शाक्यदण्डिनौ [ग्: कृपणः शाठ्यदम्भिनौ] | छिन्नाङ्गोऽलोचनो रोगी कपाली भूप्रकम्पनः || ११५ || तुषगोमयकर्पासतैलतक्रतृणानि च | क्षुत्क्षामोन्मत्तकौ तन्तुश्चौषधीषणसञ्चयः [ग्: पञ्चमः] || ११६ || शुभैर्गमनमिच्छन्ति त्वशुभैश्च निवर्तनम् | पक्षार्धार्धं तु संत्यज्य प्रस्थानं क्रियते शुभे || ११७ || प्. १५) कृत्तिकादिभरण्यन्तं प्राच्यादौ सप्तसप्तकम् | वेदसे स्याद्विते [घ्: युगास्रौ स्याद्धितैः] याता त्वग्निदण्डानतिक्रमात् || ११८ || शङ्खभेरीरवैस्तूर्यैर्माङ्गल्यैर्वैदिकैः स्वनैः | इष्टादौ [ख्: इन्द्रादौ] शङ्करं शस्तं प्रागीशेन्दुवनं [मू, अ, क्,: शेन्द्रवनं] व्रजेत् || ११९ || माघादिमासषट्के च न रिक्तायां तिथौ सिते | बुधार्केन्दुसिते जीवे वार्क्षे प्रागुत्तरस्थिते [घ्: स्थिरे] || १२० || योगेषु शुभसंज्ञषु करणे विष्टिवर्जिते | एकान्तरासु [क्: एकाकरासु] तारासु शेषे चानिष्टकर्मणि || १२१ || मेरुच मन्दरः श्वेतो हिमाख्यो हेमकूटकः | निषधो नीलगन्धाख्यः शङ्गीकेतुर्नगाधिपाः || १२२ || महेन्द्रः पारियात्रश्च हरिश्चन्द्रोऽथ शुक्तिमान् | नन्दाख्यो मलयो विन्ध्य उज्जयन्तोऽथ [क्: उर्जयन्त] ऋक्षकः [ग्: ऋष्यकः] || १२३ || श्रीशैलाख्यस्तथा सह्यो विख्याताः कुलभूधराः | योजनानि दशैतेषां गिरीणां निकटे वनम् || १२४ || तत्प्रसूत [ग्: तत्वमूल] नदीतीरे भवेदुपवनं सदा | एतत्क्षेत्रोत्थिता ये तु पाषाणास्तरवः शुभाः || १२५ || स्वयमेव व्रजेत्कर्ता तद्धितोऽन्योऽपि वा जनः | साचार्यः साधकः शिल्पिजनैः परिवतः शुभैः || १२६ || प्. १६) चरुं भुक्त्वा दधिप्राश्य नत्वा पूर्णघटं तथा | ध्यात्वाधः प्राकृतं तत्त्वं शिवतत्त्वमयीं महीम् || १२७ || विद्याराज्ञीं ततो ध्यायेदग्रतोऽर्घकरां स्थिताम् | दिशो विरेच्य चास्त्रेण विघ्ननाशाय दैशिकः || १२८ || सम्यग्विहितसम्भारो ध्यायमानस्त्रिलोचनम् | मन्त्ररक्षाविधि कृत्वा संजप [ख्: संयजन्] न्निष्टदेवताम् || १२९ || इति लक्षणसमुच्चये लिङ्गद्रव्यनिर्णयवनप्रवेशो नाम प्रथमोविधिः || १ || अथ द्वितीयः कर्तुश्च देशिकस्यापि शिल्पिनां मूर्तिधारिणाम् | स्वरूपं कथ्यते सम्यगिष्टानिष्ट च कर्मणि || १ || ऋजुराढ्यः सुभक्तश्च शान्तात्मादृष्टभीरुकः | धीरः शास्त्रार्थकारी च कर्ता यः सात्विको वरः || २ || दीनः [क्: पीनः; ख्: वन] शठः कुधर्मश्च व्यसनी राजसो मतः | नास्तिकस्तार्किकः क्रूरः कर्ता यस्तामसोऽधमः || ३ || ईशसंचोदिताबुद्धिः शिवसंस्थापने भवेत् | तस्मात्ते गुरवोऽन्वेष्या ये तच्छास्त्रेषु भाषिताः [ग्: प्रेषिताः] || ४ || औज्जन्या माध्यदेशाश्च कौरूषकाश्च [घ्: कौरुक्षेत्राश्च] लाटजाः | अन्तर्वेदीप्रतिष्ठानश्रावस्त्या [मू, अ: चारप्त्या; ग्: चारक्ष्या; क्: चावन्त्या] गुरवो वराः || ५ || राढा वारेन्द्रकास्तैरा गौजरा मागधास्तथा | आङ्गा जाटोद्भवाश्चेति [ख्: आर्यजातो] सप्तैते मध्यमाः स्मृताः || ६ || प्. १८) आन्ध्राः कालिङ्गकार्णाटा माहाराष्ट्राश्च ढक्कजाः | वीरजा द्राविडापौण्ड्रास्त्वष्टैतेगुरवोऽधमाः [घ्: -त्वष्टौ ते-] || ७ || कामरूपाश्च चम्पाका [क्: चाम्पाका; ख्: लंपाका; ग्: पन्याका] नेपालोत्थाश्च सैन्धवाः | वाङ्गगान्धारपौलिङ्गा एते सप्तान्त्यजा मताः || ८ || काञ्चिकाः [ग्: काथिकाः; घ्: कारका] कौसलाः काच्छाः कावेराःकौङ्कणोड्रजाः | सौराष्ट्रा देवराष्ट्राश्च अष्टैते [क्, ख्, ग्, घ्: अष्टौ] निन्दिता भृशम् || ९ || अशेषकामदाः श्रेष्ठा मध्यमा भूतिदायिनः | अधमाद्याः शुभे नेष्टा आर्यावर्ते हि [ख्: न] दोषदाः || १० || सिन्धोश्च करतोयाया हिमवद्विन्ध्ययोरपि | यो देशो मध्यभागः स्यादार्यावर्तः स कीर्तितः || ११ || चतुष्पदास्त्रिबोधाश्च षट्पदाध्वविभूषिताः | गोत्रगोचरसंयुक्ताः समयाद्युक्तलक्षणाः || १२ || चत्वारो गोत्राः गायत्री सावित्री सरस्वती मनोन्मनीति | चत्वारो गोचराः शिवः; शिखः विमलज्योतिः; सावित्रश्चेति [सावित्राश्चेति चत्वारो गोचराः; इति लिखितपुस्तकेषु पाठः] || ऋचीकात्रेयदौर्वासगौतमा इति अन्तरे [ख्: चत्वार] | दीक्षागुणेनसंपूर्णां [मू, अ, क्, ङ्: दीक्षास्थापनसंयुक्तां] ये जानन्त्यथ संहिताम् || १३ || प्. १९) आचार्यास्ते तु विज्ञेया अन्यथा लोकदाम्भिकाः | भार्यावर्तोद्भवाः शैवाः सर्वलक्षणलक्षिताः || १४ || विनीता भक्तियुक्ताश्च लिङ्गज्ञाः शास्त्रवेदकाः | पीठधामादिकुण्डज्ञाः प्रतिष्ठास्थानवेदकाः || १५ || वारतारादिकालज्ञा अधिदेवप्रवेदकाः | लोभमोहपरित्यक्ताः शान्ता दान्ता विमत्सराः || १६ || नियमव्रतसंपन्ना दयादाक्षिण्यसंयुताः | सात्विका निपुणा दक्षाः पञ्चश्रौतार्थवेदकाः [क्: -तत्त्वार्थ-] || १७ || तत्त्वस्थाश्छिन्नसंदेहाः समयाचारपालकाः | दृढव्रताजनद्रोहिसत्यवाग्भूतवत्सलाः [ग्: वाग्घतवासनाः] || १८ || आज्ञाभिषेकसंपन्नाः षट्सु कर्मसु तत्पराः | दीक्षिताः शिवशास्त्रे स्मिंश्चत्वारो ब्राह्मणादयः ||१९ || सर्वानुग्रहकृत्यर्थमाचार्यत्वेन सम्मताः | योजितः शिवतत्त्वे यः शिवरूपमवाप्तवान् || २० || जातिनाशो भवेत्तस्य शिवधर्मोपजीविनः | भूदार्वयो श्मरत्नानां जातिसंपादनं यथा | शूद्रादीनां तथा मन्त्रैर्युक्तानां श्रेष्ठता [मू, अ, ग्, ङ्: हीनानां श्रेष्ठतो] भवेत् || २१ || ताम्रादि स्याद्यथा हेम सिद्धं पारदयोगतः | तथैव मन्त्रसंयोगाच्चातुर्वर्णः शिवी भवेत् || २२ || प्. २०) नगरीनिर्झराद्यम्भो गङ्गां प्राप्यैकतां यथा | दीक्षायोगात्तथेशस्य शूद्रादिः शिवतां व्रजेत् || २३ || दीक्षातो मुच्यते देही तिष्ठन्मुक्तोऽपि विग्रहे [ग्: पवित्रता] | यथा कुलालचक्रस्थोऽविच्छिन्नं भ्रमते घटः || २४ || स्वकर्मबन्धनैर्बद्धः [ग्: वश्य] पशुरात्मा मलाश्रितः [मू, अ: पशुरात्मा मनोयुतः; क्, ग्: प्रभुरात्मा मनोद्यत] | मलं विषमदं यद्वद्धन्ति वै मन्त्रतेजसा || २५ || पङ्कैः कलुषितं तोयं घटस्थं निर्मलं यथा [ख्: यद्वद्घटस्थनिर्मलम्] | स्यात्कतकफलैर्योगात्तद्वन्मन्त्रैस्तु मानवः || २६ || कर्षकः कर्षयेद् [घ्: कट्टकः कट्टयेद्] यद्वद् भ्रामको भ्रामयेद्यथा [ख्: भ्रामयेद्भ्रामको यथा] | तथैव मन्त्रसामर्थ्यान्मलं हत्वा शिवी भवेत् || २७ || यथार्ककरसंयोगाद्वह्निरुत्पद्यते मणेः | तथेशमन्त्रसंपर्का [मू, अ, क्, ग्: संयोगा] च्छिवत्वं जायते पशोः || २८ || शिवशक्त्यात्मका मन्त्राः शिवशक्तिभिरन्विताः | शैवाचार्याः प्रयच्छन्ति शिवत्वं स चराचरे || २९ || यथा मृद्रत्नलोहानि [घ्: लोहैश्च] मन्त्रैर्गच्छन्ति देवताम् | आचार्योऽपि [ख्: मन्त्र तन्त्र] तथैवात्र शिवत्वं याति मन्त्रवित् || ३० || प्. २१) मन्त्रतत्त्वे स्थिता देवा मन्त्रः साक्षान्महेश्वरः | संस्क्रियन्ते हि मन्त्रैश्च देवाचार्यतपस्विनः || ३१ || दार्वश्मलोहमृद्रत्नजातं लिङ्गं प्रतिष्ठितम् | यथापूज्यवेद [घ्: -पूजम-] ज्ञस्तथा शुद्रोऽपि दैशिकः || ३२ || मृदादिद्रव्यजातीनां [मू, अ, क्, ग्, ङ्: जातानां] शिवत्वं यः प्रयच्छति [घ्: प्रदीपयेत्] | स शिवः स्वयमेव स्यान्नान्यरूपः कदाचन || ३३ || सर्पदष्टा यथा सुप्ताश्चाण्डालान्ता द्विजादयः | मन्त्रयोगाद्विबुध्यन्ते नष्टानिष्टं तथा शिवे || ३४ || कर्णधारो यथा पारं द्विजादीन्नयति [क्, ख्, ग्: नौकया याति तत्] क्षणात् | शैवाचार्यः [मू, अ, क्: शैवाचार्याः] परं स्थानं तद्वत्ता [ख्: तत्त्वतो] न्मन्त्रनौकया || ३५ || (कर्णधारो [कोष्ठान्तर्गतोऽयं पाठः घ्, संज्ञकताडपत्रपुस्तके वर्तते, अन्येषु पुस्तकेषु नास्ति] यथापारं नौकया याति तत्क्षणात् | तथाचार्यः परं स्थानं याति वै मन्त्रनौकया || ३६ ||) चतुर्दिव्याब्दसाहस्रैः कृत [मू, अ, क्: कृते] सन्धिः शतं यथा | शेषे त्वेकैकहानिः स्यात्सहस्रे च शतक्रमात् [मू, अ, क्: द्वेशते क्रमात्] || ३७ || चतुर्युगसहस्रान्ते दिनमेकं प्रजापतेः | पितामहशतं यावद्विष्णोर्मानं विधीयते || ३८ || प्. २२) रुद्रस्य [ग्: चन्द्रस्य] निमिषार्धेन सहस्राणि चतुर्दश | विनश्यन्ति तथोपेन्द्रा असंख्याताः पितामहाः || ३९ || ईशस्य वासरैकेन क्षीयन्ते बहवो हराः | सादाख्यनिमिषेणेशो लयं याति न संशयः || ४० || स्वेच्छया परत्रुट्या [क्, ग्: परक्रुध्या] तु सादाख्यस्तत्र लीयते | शिवात्परतरं नास्ति इति शास्त्रेषु निश्चयः || ४१ || एवं मानविशेषैस्तु मन्त्रवीर्यं तु तादृशम् | तस्माच्छिवदितो मन्त्रः सिद्धिमुक्तिफलप्रदः || ४२ || वागीशी जननी यस्य व्योमव्यापी पिता शिवः | मन्त्रैः शिवाध्वरे [क्: शिवपुरे; ख्, ग्: शिवापुरे] जातः स शूद्रः स्यात्कथं पुनः || ४३ || मृद्भवानां घटादीनां संस्कारान्नमृदा यथा [अस्य समनन्तरः पाठोऽयं क पुस्तके प्रक्षिप्तो यथाः- ये विप्रादिकमद्वारमभिषिक्ताश्चरन्ति ते | वेदेन हत्वा दीक्षान्या पतिता रौरवे स्फुटम् | तथैव दीक्षामन्त्राणां तत्प्रकृत्या समागताः | इति] | तथैव पापहानं च प्राकृतास्तु प्रजायते [क्: प्राकृतं तु न जायते; ख्: न प्रकृत्यास्तु जातः] || ४४ || हत्वा दीक्षाभिषेकादींश्चण्डेन पातितास्तु ते | लक्ष्या [मू, अ, क्, ख्: लोके] विप्रादिकाचारान्नारकीणो न तारकाः [ख्: कारकाः] || ४५ || प्. २३) नराणां शिवसंस्काराच्छिवत्वं न भवेद्यदि | न भवेयुस्तदा नूनं द्विजा देवादिदैशिकाः || ४६ || तस्मान्मन्त्रप्रधानत्वं निग्रहानुग्रहं प्रति | विषभूतग्रहाद्याश्च निगृह्यन्ते हि मन्त्रतः || ४७ || मन्त्रसंस्कारदीक्षाभिः संस्कृतं गुरुणा यदा | चराचरं प्रपद्येत शिवत्वं तत्क्षणाद्ध्रुवम् || ४८ || चातुर्वर्ण्यमनुग्राह्यं चातुर्वर्ण्यान्नभोजनम् | एतत्सिद्धं सदा शैवं गुरुरूपमजन्मकम् [ख्: गुरुरूपमयात्मकम्] || ४९ || कौपीनमेखलायुक्ता जटायज्ञोपवीतिनः | शिवान्तनामकाः सर्वे भस्माङ्गा [मू, अ, ख्, घ्, ङ्: भस्माक्षा] ब्रह्मचारिणः || ५० || दीक्षया हन्यते दीक्षा पूर्वदीक्षा हि नश्यति | विशेषयातु सामान्या गुरुरप्येवमेव तु || ५१ || नगनान्तास्तु [मू, अ, क्, ग्: नगणान्तास्तु; ख्: नराणां] वैशेषाः शैवाः शिवान्तसंज्ञकाः | अम्भोजं पङ्कजं यद्वत्तद्वच्छैवा न चेतरे || ५२ || हस्तोऽस्यास्तीति हस्ती स्याद्रूढितो नेतरो [मू, अ, क्, ख्: नेतरे] यथा | तथैव शिवलिङ्गानां शैवाः पाशुपतादयः || ५३ || तपस्व्याचार्यदेवान् यः [मू, अ: देवानां] पूर्वरूपेण मन्यते | लिङ्गभेदफलैर्युक्तो यात्यसौ रौरवं ध्रुवम् || ५४ || प्. २४) दृष्टादृष्टविरोधेन नेतरेषां तथा विधिः | अन्यथा पापकारी स्यादित्याज्ञा पारमेश्वरी || ५५ || गुरून्निरूपयेत्तस्माद् द्विविधं शैवमुत्तमम् | ब्रह्मचारीगृहस्थत्वभेदभिन्नं द्विधा स्थितम् || ५६ || अकामिकामिभेदेन वक्ष्यमाणगुणान्वितम् | काम्यकामिक्रियां वच्मि साम्प्रतं संप्रभेदतः || ५७ || तपस्व्य [ग्: तपस्या; घ्: तपस्य] कामिनामेव प्रतिष्ठादिक्रियोच्यते | भुक्तिमुक्तीच्छुकः कामी कुर्याद्दीक्षादिमाज्ञया || ५८ || गृहस्थस्तु द्विधा प्रोक्तः सान्तानिको व्रतार्पकः | प्रतिष्ठादिक्रियाशेषा तत्कृता संप्रशस्यते || ५९ || योषिद्युक्तः सकेशश्च जटादिपरिवर्जितः | शिवाधिकारवृत्तिर्यः स सान्तानिक उच्यते || ६० || व्रती व्रतासमर्थो यो विधिना व्रतमर्पयेत् | पश्चात्कुर्याद्विवाहं च गृहस्थः स वतार्पकः || ६१ || ब्रह्मचर्यं चरेन्नित्यं जटाभस्मसमन्वितः | भैक्ष्याशी संयतात्मा च व्रती स परिकीर्तितः || ६२ || गोत्रगोचरस तावसङ्केतैः [क्: सङ्गतैः; ख्: सङ्कीर्तः] क्रमशो गुरुः | पुष्पपाताभिधानं तु मठी [मू, ग्: मथी; क्: सची] मुद्राभिरिष्यते || ६३ || प्. २५) स्त्रीस्रग्गन्धार्थशययासियानताम्बूलभूषणम् | सद्वस्त्रमञ्जनं तैलं नयते रमते हि तम् [मू, अ, क्: रमतेर्हितः; ख्: रमतोर्ध्वतः; घ्: रयतेर्हितम्] || ६४ || भुक्त्यै [मू, अ: भुज्ञं; ग्: भुञ्जे] सान्तानिकं नित्यं भुक्तिमुक्त्योर्व्रनापकम् [मू, अ, ग्: भुक्तिमुक्तिव्रतार्पितम्; क्: भुक्तिमुक्तिप्रदार्पितम्] | माक्षाय व्रतिनं चैव वरयेन्मतिमान्नरः || ६५ || पुत्रौ द्वौ तु गृहस्थस्य पारलौकिकलौकिकौ | लौकिको द्रव्यभागी स्याद्विद्याभाक् पारलौकिकः || ६६ || व्रतिशिष्यस्य यच्छास्त्रमृणं चाथं च तद्गुरोः | भ्रातृणं गुर्वभावे स्याद्गृहस्थानां स्वपुत्रकम् [मू, अ, क्: स्वपुत्रगम्; ख्: सुपुत्रकः] || ६७ || यति [मू, अ, क्, ख्: यदि] पुत्रः प्रपौत्रो वा तत्सन्तानोद्वास्तथा | अयोग्याः शिवकार्येषु घण्टासम्बन्धिनो हरेत् [ग्: घण्टामयुक्तिलोहवत्] || ६८ || व्रतिनः शिष्यपुत्रः स्याद्योग्यः सर्वेषु कर्मसु | ऋणे द्रव्ये च पिण्डे च स एवैकः प्रशस्यते || ६९ || शिष्याम्नायेन सम्भूत आचार्यः शुभशान्तिकृत् | चतुर्गोचरमध्ये च शैवो ज्येष्ठायते [मू, अ, क्, ग्: ज्येष्ठोयतेः] परम् || ७० || सर्वानुग्रहकृद्यस्मादाद्यः सर्वगतः शिवः | शैवाचार्यस्ततः श्रेष्ठः स्थापयेत्सर्वदेवताः [सह देवता, इति पाठान्तरम्] || ७१ || प्. २६) दक्षिणार्होत्तमं पात्रं दर्शनानां [ग्: त्तमः पात्रमर्हतानां] शिवः प्रभुः | भुक्तिमुक्तिप्रदाता च नान्यो वै विश्वकृद्गुरुः || ७२ || सर्वेषामेव देवानां शैवः स्थापक इष्यते | तदभावे [घ्: वददावे] तु कर्तव्याः स्वदेवव्रतचारिणः [ख्: व्रतधारिणः] || ७३ || जन्मना जायते शूद्रः क्रियया द्विज उच्यते | श्रुतेन श्रोत्रियश्चैव ब्राह्मणो ब्रह्मचर्यतः || ७४ || स्वमन्त्रसंस्कृतो विप्रः स्वकर्मव्रतपालकः | मनुष्यजातिसामान्ये को विद्वेषः शिवद्विजे || ७५ || स्त्रीपुंनपुंसकानां च यथाभेदास्त्रिलिङ्गतः | न तथा ब्राह्मणादीनां तस्माज्जातिर्नकारणम् [ग्: प्रकारणम्] || ७६ || पञ्च [ख्: यश्च] तत्त्वविशुद्ध्यर्थं पञ्च [ख्: यश्च] ब्रह्मविनिर्मितम् | उपवीतं सदा धार्यं शैवाचार्यैर्न चेतरैः || ७७ || शिवो विप्रः शिखा [ख्: शिवो] राजा ज्योतिर्विच्छूद्रजातिकः | सावित्र इत्थमी पर्णा प्रोक्ता नाना शिवागमे || ७८ || गुरुः शिवः शिखादीनां [ख्: शिवादीनां] त्रयाणां शिखसंज्ञकः | द्वयोः स्याज्ज्यातिरित्युक्तः सावित्रस्तु स्वगोचरः || ७९ || काहलातूर्यढक्काश्रीघटिकाशङ्खसुस्वनैः [मू, अ, क्, ख्, ग्, ङ्: सुस्वरैः] | ध्वजैश्छत्रैर्युताः सर्वे शैवाचार्या नृपा इव || ८० || प्. २७) गुरुः श्रेष्ठः प्रतिष्ठेत यत्र राष्ट्रे च तत्र च [क्: राष्ट्रेऽद्भुत च] | स्याद्वृद्धिर्विजयः [घ्: स्थापितेर्देवैस्तत्कर्ता च] शान्तिरारोग्यं धर्मवर्धनम् || ८१ || एभिश्च स्थापिते देवे कर्ता जन धनान्वितः | आयुषा यशसा लक्ष्म्या [घ्: लक्ष्मी] पुत्रपौत्रैर्विवर्धते [घ्: प्रवर्धते] || ८२ || पितरस्तस्य नन्दन्ति यावत्तिष्ठन्ति देवताः | तावद्य गसहस्राणि रुद्रलोके महीयते || ८३ || स्थानस्य देवतायाश्च चिरवृद्धिः प्रजायते [घ्: वृद्धिश्च] | नाकाले म्रियते कर्ता परतः शिवतां व्रजेत् || ८४ || यावत्तत्कीर्तिविख्यातिस्तावत्तस्य महाफलम् | पदं संप्राप्य रुद्रस्य सुखमक्षयमश्नुते || ८५ || अथाधमादिदेशोत्था ये चान्यत्रातिनिन्दिताः [मू, अ, क्, ख्, ग्, ङ्: न्यत्र विनिन्दिताः] | [क्: तावद्युगसहस्राणि रुद्रलोके महीयते पाठोऽयं घ् पुस्तकेऽधिकः, अप्रासङ्गिकश्च] तांस्तु सर्वान् प्रयुञ्जीत क्रूरकर्मसु सर्वदा || ८६ || हीनव्यङ्गाधिकाङ्गाश्च कुब्जवामनखञ्जकाः | विकृताः शवला [ख्: सचरा] रौद्राः शठाः क्रूराः [मू: सेवा] कुवृत्तिकाः || ८७ || पापिव्याधितकिञ्चिञ्ज्ञा देवच्छायोपजीविनः | वाक्कण्ठा बघिरः स्थूलाः कुनखाश्च कुमूर्धजाः || ८८ || प्. २८) सूचकास्तार्किका वैद्याः सेवकाः कर्षकास्तथा | पुरोधाः पण्यजीवी [घ्: श्चान्यजीवी] च वणिजो धातुवादिनः || ८९ || लिङ्गधारी [घ्: चारी] कुशीलाश्च [घ्: कुशीलात्मा] द्यूतकारकलम्पटाः | वक्रनासाङ्गलम्बोष्ठा मूर्खाः स्पन्दनगात्रकाः || ९० || कुसङ्गाकुलजा बालाः काकस्वरानुनासिकाः | ग्रन्थविप्लाका [ख्: विप्रोचका] वृद्धा व्यसनी समयच्युतः || ९१ || दन्तुराः श्लीपदाः स्तब्धा अर्बुदी [क्, ग्: अर्भदी] गलगण्डकाः | एतैस्तु स्थापिता देवा धनायुः पुत्रनाशकाः || ९२ || अन्याश्रमिमगामोत्थाः [ख्, घ्: मगान्मोत्थ] पुनर्भूः कुण्डगोलकाः | कत्थकाः [ख्, ग्, घ्: कण्ठका] कौशिका [क्, ग्: कौलिका] स्तज्जास्त्रिकर्णाद्याश्च वर्जिताः || ९३ || चार्वाकाश्चार्हता बौद्धाः साङ्ख्यदर्शनिनो द्विजाः | सन्यासव्रतिनश्चान्ये स्थापने नाधिकारिणः || ९४ || शाकद्वीपात्पुरानीता मगा गोमांसभक्षकाः [ख्: -खादकाः] | निर्माल्यभक्ष्यणार्थं तु शाम्बेनाच्युतसूनुना || ९५ || शैवीं दीक्षां विना यस्तु शास्त्रमात्रप्रपाठकः | शिवादीन् स्थापयेन्नित्यं स्वयम्भूः स नराधमः || ९६ || प्राप्त (क्त) नं लिङ्गमुत्सृज्य यः शैवं व्रतमाचरेत् [मू, अ, क्: तु तमाश्रयेत्] | स पुनर्भूः परिज्ञेयो वर्जनीयः शिवागमे || ९७ || स्वधवे विद्यमाने तु जायते जारतो हि यः | कुण्डः क्रूरस्वभावःस्यान्मृते पत्यौ तु गोलकः || ९८ || प्. २९) आचार्यधर्मपत्नीषु यो जातः सगुरोः सुत | प्राव्राज्यान्नश्यते [मू, अ, ख्: दुष्यते] पूर्वं स्त्रीयोगादपरं तथा || ९९ || उभाभ्यां यः प्रनष्टः स्यात्तस्यापत्यस्तु कत्थकः | त्रिकर्णोत्थास्त्रिकर्णाश्च त्रिकपानात्म [मू, अ: त्रिकर्णस्तु त्रि] कर्णका || १०० || नित्यनैनित्तिकागन्तुगुरुदेवाग्न्यपूजनात् | भस्माङ्कुरस्तु [ग्: गुरुस्तु] कत्थोस्थस्तत्सुताः कौशिकादयः || १०१ || भोजका व्रतिपुत्राश्च कौशिकान्याश्च [मू, अ: कौशिकाद्याश्च] कुत्सिताः | राष्ट्रक्षयकरा ह्येते ये च पषाण्डिनो नराः || १०२ || समयादिं विना मूढः स्थापनं कुरते तु यः | शास्त्रावलोकनादेव चण्डेशस्तस्य शासकः || १०३ || योऽशैवः स्थापयेदीशं लोभव्यामूढमानसः | स याति नरकं सद्यो याज्ञिकैः सह दैशिकः || १०४ || पञ्चस्रोतः सु ये पञ्चसमयाः शंभुनोदिताः | तेषामाचरणान्नित्यमाचार्य इति कीर्त्यते || १०५ || आचार्यः शिवरूपेण लोकानुग्रहकारकः | तस्मान्न मानवीं बुद्धिं कारयेद्दैशिकं प्रति || १०६ || ईशं वक्त्रं तथाघोरं गुह्यं चाजातसंज्ञकम् [मू, अ, क्: च जात-] | पञ्चवक्त्राणि देवस्य पञ्चागमविवृद्धये || १०७ || प्. ३०) कामिकं योगजं मान्त्रीं [मू, अ: चिन्त्यं; क्, ग्: चान्त्यं; ख्: मित्र्यं] कारणं चाजितं तथा | दीप्तं सूक्ष्मं च साहस्रमंशुम [ख्: असुमत्] त्सुप्रभं दश || १०८ || शिवभेदाः समाख्याता रुद्रभेदानतः (?) परम् | विजयं पारमैश्वर्यं निश्वासोद्गीतसंज्ञकम् || १०९ || प्रोद्गीतं मुखबिम्बंतु सिद्धं सन्तानमेव च | नरसिंहं चन्द्रहासं वीरं स्वायम्भुरौरवम् [ख्: रोचनम्] || ११० || माकुटं किरणं चैव ललितं विरसं [ग्: विवरं] परम् [मू, अ, क्: स्मरम्] | ([चापचिन्हान्तर्गतोऽयं पाठः क पुस्तके नास्ति] रुद्रभेदाः समाख्याता दशाष्टादश चोर्ध्वगाः || १११ || हरं हुङ्कारकं चैव बिन्दुसारं कला [ख्: करा] मृतम् | दवत्रासं च सुत्रास सावरं कालसावरम् || ११२ ||) पक्षिराजं शिखायोगं शिखासारं शिखामृतम् | पञ्चभूत [मू, अ: पञ्चामृत] विभागं च शून्यभेद [ख्: -मद] विनिर्णयम् || ११३ || कालकाण्ठं [ख्: मणिकण्ठं] च कालाङ्गं कालकूटं पटद्रुमम् | कम्बोजं कम्बलं कङ्कं कालकुण्डं कटाहकम् || ११४ || सुवर्णरेख [क्: सुवर्णवण्यं] सुग्रीवं तोत्तल तोत्तलोत्तरम् [मू: तोतलं तोतलोक्तम्; ख्: तोत्तरतोत्तरोत्तरम्] | गारुडस्य त्विमे भेदा अष्टाविंशतिरीरिताः || ११५ || प्. ३१) स्वच्छन्दभैरवं चण्डं क्रोधमुन्मत्तभैरवम् | असिताङ्गं रुरुं चैव कपालीशं समुच्चयम् || ११६ || अघोरं घोषणं [ख्: घोरसं] घोरं निशासञ्चारदुर्मुखम् | भीमाङ्गं डामरारावं [ख्: -रागं] भीमं वेतालमर्दकम् || ११७ || उच्छुष्मं वाम [घ्: उच्छुष्मवाहि] कापालं शेखरं पुष्पमद्वयम् | त्रिशिरं चैकपादं तु सिद्धयोगेश्वरीमतम् || ११८ || पञ्चामृतं प्रपञ्चं च [घ्: प्रपञ्चाहि] योगिनी जाल [घ्: जल] सम्बरम् | विश्वरिकण्ठ सङ्कोचं [मू: विकण्ठ; ख्: झङ्कार] तिलकोद्यानभैरवम् || ११९ || एवं द्वात्रिंशतन्त्राणि सोत्तराणि च तद्द्वयम् | चतुः षष्टिप्रमाणानि दक्षिणास्याद्भवानि च || १२० || नयं नयोत्तर मूकं मोहनं मोहनामृतम् | करपूजाविधानं तु वीणातन्त्रं तदुत्तरम् || १२१ || जयं च विजयं चैव अजितं चापराजितम् | सिद्धनित्योदयं ज्येष्ठं चिन्तामणिमहोदयम् || १२२ || वाग्भवं कुहकं चित्रं कामधेनुकदम्बकम् | आनन्दरुद्रभद्राख्यं [ख्: भद्राक्षे] किङ्करं किङ्करानुगम् || १२३ || अनन्तविजयं शौक्रं दौर्वासं बीजभेदकम् | वामदं वामदेवोक्तं [मू, अ, क्: देवोत्थं] चतुर्विंशतिभेदगम् [क्: भेदजम्] || १२४ || प्. ३२) हलाहलं हयग्रीवं करकोटं कटङ्कटम् | करोटं [मू, अ, ग्: कवाटं; क्: कल्फोटं] मुण्डमालं च कङ्कोटं खड्गरावणम् [मू, अ: वारणम्] || १२५ || चण्डासिधारं हुङ्कारं हाहाकारं शिवारवम् | घोराट्टहासमुच्छिष्टं घुर्घुरं दुष्टत्रासकम् [मू, अ: दुष्कृतासनम्] || १२६ || विमलं विकटं चैव सुधारणं [मू: स्वधावणं] महोत्कटम् | यमघण्टं च भूताह्वं [मू: भूताङ्गं; ख्: भूताज्यं] विषभेदमजातजम् || १२७ || इत्येवं शैवतन्त्राणि [ख्: सूत्राणां; घ्: सूत्राणि] चतुःषष्ट्युत्तरं शतम् | पुनर्लक्षविभेदन ग्रभिन्नः शास्त्रसङ्ग्रहः || १२८ || शिवो रुद्रस्ततो देवा देवेभ्य ऋषयस्तथा [मू, अ, क्: -सदा] | ऋषिभ्यो मानुषाः शिष्याः सर्वशास्त्रावतारकाः || १२९ || सिद्धान्तो गारुडं चैवं भैरवं वामभौतिकम् | इति सामयिकं प्रोक्तं शम्भुनागमपञ्चकम् || १३० || सिद्धान्ते चतुर्वर्णान्नभोजनं गारुडे विषम् | एकत्रभोजनं घोरे वामे वामामृतं तथा || १३१ || भूततन्त्रे शवस्पर्शः पञ्चस्रोतःस्वयं विधिः | आचरेत् समयान् पञ्च यः स आचार्य उच्यते || १३२ || आचारमाचरेच्छैवं [मू: चैवं] शास्त्रोक्तं गुरुभाषितम् | तदवश्यं हि कर्तव्यमन्यथा पतनं भवेत् || १३३ || प्. ३३) पूजा होमो बलिर्भिक्षा चरुश्चातिथिपूजनम् | षट्कर्माणि तु कार्याणि शिवाचार्येण नो परैः || १३४ || व्याख्यानं श्रवणं चैव प्रदानं च प्रतिग्रहः | दीक्षां च स्थापनं चेति [मू: चैव] षट्कर्माणि सदा गुरोः || १३५ || न दीक्षां स्थापनं कुर्याच्छिष्य आचार्यसन्निधौ | क्रोशान् पञ्च परित्यज्य गुर्वादेशात्तदाचरेत् || १३६ || समयी समयस्थः स्यात्पुत्रकश्चागम [अ, क्, ख्, ग्, ङ्: पुत्रकः स्वागम] श्रुतिः | साधकः साधयेत्सिद्धिराचार्यो दीक्षयेत्पशून् || १३७ || समयादिक्रमेणैव योऽभिषिक्तः स दैशिकः | प्रतिष्ठादिक्रिया तस्य न पाठादग्र [मू, अ: पाठान्नैवाग्र; ख्: नयावदग्र; ग्: यावन्त विप्र] जन्मनः || १३८ || शिवादिस्थापने सम्यङ् न्यायमार्गेण धीमताम् | युक्तिः संसूच्यते काचिद्या चोक्ता पारमेश्वरे || १३९ || पाठादेव द्विजो यत्र शिवं लोभात्प्रतिष्ठयेत् | नाश्मादौ शिवता तत्र ह्यांशवे दूरतः शिवः || १४० || प्रतिष्ठयेद् द्विजो यस्तु प्रमदाद्देवताः क्वचित् | चाण्डालोऽसावभोज्यान्नः पातकी नात्र संशयः [ख्, घ्: नारकी भवेत्] || १४१ || शिवसंस्थापनाद्विप्रः श्वयोन्यां जायते ध्रुवम् | अन्यगोत्रे [मू, अ: श्रोत्रे; क्: त्याश्रे] कुशा [ख्: त्रेऽङ्कुशा] पातान्नारकी स्याद् द्विजाधमः || १४२ || पठन्त्यादेशतो वेदानादेशेन यजन्ति ये | प्. ३४) लिङ्गादिस्थापका ये च ते चाण्डालसमा द्विजाः || १४३ || शूद्रे चैवं भवेद्वृत्तं ब्राह्मणे न च विद्यते | मन्तव्यो विप्रवच्छूद्रः शूद्रात्पापतरस्तु सः || १४४ || विश्वामित्रो द्विजीभूतः क्षत्रियो द्विजवृत्ततः | वृत्तात्सिद्धा वसिष्ठाद्या व्यासेनोक्तं च भारते || १४५ || अग्निष्टोमादिकान्यज्ञान् विहाय स्थापयेच्छिवम् | नरके पतति क्षिप्रं कर्ता स्वपितृभिः सह || १४६ || प्रतिष्ठार्थे नवर्तन्ते द्विजत्वे न च ये स्थिताः | स्वब्राह्मण्यं गतं तेषां ब्रह्महत्यां [ब्रह्महत्वं, लि, पु] च संस्थितम् || १४७ || ब्राह्मण्यहार कैर्विप्रैः स्थापिता ये शिवादयः | ते क्रूरा ध्वंसका ज्ञेया यजमानक्षयावहाः || १४८ || शिवादिस्थापनाद्विप्र उभाभ्यां भ्रश्यति क्षणात् [घ्: द्विजः] | दानार्चनाद्यनर्हः स्याद्विनष्टा ब्राह्मणी [मू, अ, क्, ख्, ग्, ङ्: नष्टो ब्राह्मणो] यथा || १४९ || दुष्टपात्रस्थितं क्षौद्रं यद्वदम्लं तु दोषदम् | तद्वद्वेदाः कुविप्रस्थाः कर्तुः स्युरशुभप्रदाः || १५० || शिवः शिरस्तथा ज्योतिः सावित्रश्च चतुर्थकः | एते शैवाः समाख्याता न त्वेते ब्राह्मणाः क्वचित् || १५१ || ब्रह्मक्षत्रियवैश्यानां शूद्राणां च शिवाध्वरे | संस्कृतानां यतस्तेषां नश्यन्ते पूर्वजातयः || १५२ || ये ब्रह्मणा न ते शैवा ये च शैवा न ते द्विजाः | प्. ३५) पृथङ्मन्त्रागमावेषां [मू, अ, क्, ख्: -श्चैषां] व्रतानि क्रतवः पृथक् || १५३ || लुब्धा द्विजाधमा मूर्खाः स्वब्रह्मघ्ना [मू, अ, क्, ख्, ग्, ङ्: ब्रह्मघ्ना] विकर्मगाः | मुग्धाः कुर्वन्ति ये विप्राः शिवादिस्थापनं कलौ || १५४ || द्विजबौद्धादियागेषु मन्त्राः शैवादयस्तथा [मू, अ, क्, ख्: शैवा यथेह न] | तथैव शिवयागेषु न मन्त्रा वैदिकादयः || १५५ || न वेदे त्रिविधं लिङ्गं न च [घ्: नैव] प्रासादलक्षणम् | न द्वारं मण्डपादिश्च स्थापनं न शिवादिके || १५६ || शिवसिद्धान्त एवोक्तं लक्षणं शाङ्करादिकम् | तस्माच्छैवेन मन्त्रेण प्रतिष्ठेत [मू, अ: प्रतिष्ठेयं] शिवादिकम् || १५७ || चलाचल [चराचर, लि पु पा] प्रभेदेन द्विधा लिङ्गं शिवस्य यत् | शिवमन्त्रैस्तयोः सम्यक् शिवत्वं नान्यमन्त्रतः || १५८ || न वेदैः पञ्चरात्रैस्तु ऋष्युक्तैर्नापि चागमैः | नान्यदर्शनमन्त्रैर्वा प्रतिष्ठा स्याच्छिवस्य तु || १५९ || न वेदे शैवसंस्कारो नापि वेदे शिवव्रतम् | न च शैवीक्रिया वेदे न च खड्गदिसिद्धयः || १६० || गर्भाधानादिसंस्कारा [क्: संस्कारान्; ख्, घ्: संस्कारैः] स्त्रिभिस्त्रैवर्णिकं व्रतम् | अग्निष्टोमादयो यज्ञा वेदोक्ता ईश्वरेण तु || १६१ || चातुर्वर्ण्यव्रतं शैवं चतुरर्थप्रसाधनम् | सिद्धान्तस्थापनं दीक्षां नोक्तं वेदेषु शंभुना || १६२ || प्. ३६) स्वल्प [ग्: अल्प] बीजो वटो (?) [ख्: टटा] यद्वच्छिष्योऽप्येवं स्वबीजतः | स्वमन्त्रबीजजा देवा न बव्हक्षरडम्बरात् [मू, अ, क्, ग्: न च हृत्कण्ठडम्बरैः] || १६३ || वन्दि [क्: वह्नि] द्विजजनाश्छात्राः प्रकटाः [ग्: श्रुकटाः] पाठजीविनः | नैते शिवाध्वतत्त्वज्ञाः स्तावका जनरञ्जकाः || १६४ || वेदादिशब्द [क्: शन्त; ख्: सर्व; ग्: शठ] शास्त्रैस्तु कैः स्तुतो न शिवः प्रभुः | स्तुत्यैव स्थापनं न स्याच्छिवलिङ्गे चलाचले [चराचरे, लि. पु. पा.] || १६५ || प्रतिष्ठा पञ्चधा या च शिवेनोक्ता शिवागमे | शैवाचार्यैस्तु सा कार्या रुद्रब्रह्मार्कचक्रिणाम् || १६६ || स्थाप्याःसुरा [ख्: तारा] ग्रहाः सर्वे लोकपालास्तथोरगाः [मू, अ, क्, ग्: सहोरगाः] | यक्षराक्षसयोगिन्यो गणा गौर्यस्तथापराः || १६७ || स्थित्युत्पत्तिविपत्तीनां कारणं सुखदुःखयोः | स्वसंवेद्ये [ख्: सुखं वेदे] ऽपि रागान्धा द्विजा ईश्वरनिन्दकाः || १६८ || शैवान्तः पातिनो ये ऽपि पञ्चार्थाः [ख्: यश्चार्थाः] कारकादयः | तेऽपि त्याज्याः प्रतिष्ठादौ दूराद्बौद्धद्विजादयः || १६९ || तस्माच्छिवात्मकेनैव शिवाचार्येण धीमता | शिवादिस्थापनं कार्यं नान्यैस्तु ब्राह्मणादिभिः || १७० || स्वदर्शनस्थिता नित्यमाचार्याश्चैव षड्विधाः | प्. ३७) स्वकर्माभिरता विप्राः शैवाद्याः कापिलान्तकाः || १७१ || श्रुतिस्मृत्यर्थविद्विप्रः स्वशास्त्रव्रतपालकः | स्वषट्कर्मान्वितो नित्यं नान्यकर्मा द्विजो भवेत् || १७२ || दानं प्रतिग्रहः पाठो यजनं याजनं तथा | अध्यापनमिति स्युश्च षट्कर्माणि सदा द्विजे || १७३ || ऋतुसेवातपो दानश्राद्धवैश्वानरार्चनैः [मू: लेखानरार्चनैः] | तृणादिमूल्यभिक्षान्नवृत्तिः स्याब्राह्मणो वरः || १७४ || खड्गजीवो मषीजीवी [मू, अ, क्, ग्: मखाजीवी] द्वारपालो पुरोहितः | आदेशी वेदविक्रेता षडेते शूद्रवद्द्विजाः || १७५ || श्रुतिर्वेदाः समाख्याताः स्मृतयस्तूनविंशतिः | मनुर्दक्षो वसिष्ठोऽत्रिः कात्यायनोऽथ गौतमः || १७६ || याज्ञवल्क्यश्च सवर्तो व्यासो विष्णुर्यमोऽङ्गिराः | शङ्खलिखितहारीतशातातपपराशराः || १७७ || आपस्तम्बोशनोजीवाः स्मृतयस्तु तदुक्तयः | न शैवादितिप्रष्ठायामेते निप्रा नियामकाः || १७८ || प्रतिष्ठाकल्पकौमारं किरणं [ग्: केरणं म. पा. | केवलं] पिङ्गलामतम् | देव्या मतं मयं नन्दिं प्रतिष्ठा पारमेश्वरम् || १७९ || भास्करं लिङ्गकल्पं च विद्यापुराणवाठुलम् | शकाख्यं वामदेवं च द्विधा पैतामहं तथा || १८० || बाणगर्गमतं याम्यं हंसाख्यं वैश्वकर्मकम् [मू, अ, ग्: वैश्वसर्गकम्] | प्रतिष्ठातन्त्राण्येतानि शिवोक्तान्येकविंशतिः || १८१ || प्. ३८) एतेभ्यः सारमादाय नारदात्पौष्करात्तथा | पद्मोत्थमार्कण्डेयाभ्यां रम्भा [ख्: गौरी] सिद्धादि रम्भतः [मू, अ, क्, ग्: सौर्यतः] || १८२ || रत्नप्रयोजनाच्चाहितिलकेभ्यस्तथापरान् | मार्तण्डाह्रयतो [ख्, ग्: मार्कण्डा-] लक्ष्यं सर्वमेतत्समुच्चयम् [ग्: सर्वतत्व-] || १८३ || बहुधा गुह्यतन्त्राणि नैतानि ब्राह्मणस्य तु | शिवाश्रमस्थितैः शैवैः प्रतिष्ठा नान्यदर्शनैः || १८४ || अशैवैः स्थापित लिङ्गमितरैर्यद्द्विजातिभिः | शैवास्तन्न नमस्यन्ति स्थापितं चान्यदर्शनैः || १८५ || ब्रह्मव्रतेस्थितो [ख्: ब्रह्माव्रते-] नित्यं शैवादिव्रतमाचरेत् [क्, ख्, ग्: -वृत्ति-] | शैवसंस्कारहीनस्तु उमाभ्यां पतति द्विजः || १८६ || पतिते तद्गतं यच्च गृहीता या च दक्षिणा | कृतं यद्व्रतबन्धादि तत्सर्वं निष्फलं भवेन् || १८७ || स्वयमन्यस्वरूपेणे कर्माणि क्रियते तु यत् [मू, अ, ग्: नान्यकर्म तु] | न भवेदीप्सितं तत्र वृथैवासौ फरिश्रमः || १८८ || सर्वार्थग्रहणे मुक्तिः [मू, अ: नुग्रहणे युक्तिः] सिद्धयश्च शिवागमैः | शिवोक्तैश्च विना मन्त्रैस्तदेतत्प्राप्यते कथम् || १८९ || यदि वेदैर्भवेल्लिङ्गं शूद्राद्याराधनं कथम् | मिश्रैर्वाप्यथ दोषाद्य [क्, ग्: दोषाढ्यं] त्कुमारद्युक्तशास्त्रतः || १९० || अन्यद् देवश्च मन्त्रश्च विधिश्चान्यं करोति यः | प्. ३९) कर्मचण्डं भवेत्तस्य कर्म चण्डालकश्च सः || १९१ || न स्वदर्शन उक्तत्वान्नापि रागाद् [मू, अ: नविरागाद्; क्, ख्: भक्ष्याद्यानापिरागाद्] द्विजादिषु | मुक्तिसिद्धं [मू, अ, ख्: युक्तिसिद्धं] हितं लोके स्कन्दोक्तं चात्र लिख्यते || १९२ || सनकात्रेयव्यासाद्यैरृषिभिर्या प्रचोदिता | क्रिया सा न भवेत्साध्वी मन्त्रसंकरदूषिता || १९३ || क्षया विषयदोषाद्या वेदविद्या [मू: देवविद्या] प्रचोदिताः | अग्निष्टोमादयो यद्वत्प्रतिष्ठापीष्यते तथा || १९४ || द्रव्याभिजनमन्त्राद्यैः शौचशुद्धयै प्रसारिता [क्: प्रसाधिता] | स्वर्गलोकफला साध्वी विज्ञेया वैदिकीक्रिया || १९५ || स्वर्गलोकात्परिभ्रष्टाः सोमादादित्यमागताः | वानस्पत्यं समासाद्य संसरन्तीह याज्ञिकाः || १९६ || इष्ट्वा क्रतुशतं शक्रः स्वर्गलोकमवाप्तवान् | पुनः पुण्यक्रियाक्षीणः स्थावरादिषु जायते || १९७ || सत्यलोकोत्परं नास्ति ज्ञानस्यापि फलं महत् | तस्मात्ते मुनयः सर्व शैवार्थे न विशारदाः || १९८ || सर्वेषामेव वर्णानां क्रिया शैवी फलप्रदा | त्रयाणां ब्रह्मणादीनां वेदविद्याप्रचोदिता || १९९ || स्वर्गाख्यफलकामाय अग्निष्टोमादिके सदा | यज्ञे चरूपुरोडाशपञ्चगव्यादिभिः सह || २०० || शूद्रादेर्नाधिकारोऽत्र वेदे च प्रतिषिध्यते [मू, अ, क्, ख्, ग्, ङ्: न प्रतिशिष्यते] | प्. ४०) शूद्रादीनां च यो दद्याद्वेदविद्याप्रसाधितम् || २०१ || हविष्यं स गुरुर्यायात्तैः सार्धं नरकं ध्रुवम् | तस्माच्छैवो विधिः प्राज्ञैः शैवैर्मन्त्रैःप्रसाधितः || २०२ || शिवादिस्थापने यागे दीक्षायां च विशेषतः | सर्वेषामपि वर्णानामनु ग्रहकरः परः || २०३ || लक्षकोटि सहस्राणि विंशतिरर्बुदानि च | कोटिखर्वाव्ज वृन्दं च मन्त्रास्त्वीशाद्विनिर्गताः || २०४ || द्वासप्ततिसहस्राणि कोटि लक्षं तथार्बुदम् | अयुतानि च पञ्चाशन्मन्त्रा वक्त्रा [ग्: रुद्रा] द्विनिःसृताः || २०५ || त्रिंशत्कोटिसहस्राणि [घ्: विंशत्-] सप्ताष्टकशतानि च | नियुतानि च षट्त्रिशन्मन्त्रा रुद्राद्विनिर्गताः || २०६ || नवकोटिसहस्राणि पञ्चाशीत्ययुतानि च | कोटिशतानि पञ्चाशन्मन्त्रा वामाद्विनिःसृताः || २०७ || सप्तकोटिसहस्राणि सप्तत्रिंशच्छतानि च | शतं सहसलक्षं च सद्योजाताद्विनिर्गताः || २०८ || पञ्चवक्त्रोद्भवैर्मन्त्रैः शिवोक्तैः सिद्धिमुक्तिदैः | तैस्तु लिङ्गादि संस्थाप्यं नान्यैर्वेदादिचोदितैः || २०९ || अकारादिक्षकारान्ताः सदाशिवाङ्गनिर्गताः [मू, अ, क्, ख्, ग्: शिवाद्विनिर्गताः] | तैः कृतं पञ्चधा शास्त्रं शैवाख्यं सिद्धिमुक्तिदम् || २१० || अणिमादिमहासिद्ध्यै सिद्ध्यन्ति खेचरादयः | लिङ्गाश्रयाद्यथासिद्धाः प्रागुक्ता वेधसादयः | प्. ४१) तथा व्याडीन्द्रदन्ताद्याः कम्बला भास्करा [ख्: लाभास्थिरा] दयः | निमत्सरा वदन्त्याशु [ख्: द्रव] सिद्धाः [ख्: शिवाः] शवोक्तमन्त्रतः || २१२ || नासत्यमैश्वरं वाक्यं के न सिद्धा युगे युगे | सम्यग्विधानत्त्वज्ञैर्दीक्षितो मुच्यते पशुः || २१३ || सबीजाः सस्फुराः [ख्: सफलाः] शैवाः सचेतोऽग्निशिवान्तगाः [मू, ख्: सर्वतो - -न्तकाः] | सर्वानुग्राहका मन्त्राश्चतुर्वर्ग [क्, ग्: चतुर्दश] प्रसाधकाः || २१४ || ऋगथर्वतथा सामवजुश्चेति क्रमेण च | प्राग्याम्येन्दुजलाशास्यैर्लक्षग्रन्थैः कृता श्रुतिः || २१५ || न विग्रहात्मका [ग्: नवग्रहान्महा] देवा वेदेषु स्तुतिपूर्वकाः | सिद्धिमुक्ती विना सर्वं शब्दमात्रपरा मताः || २१६ || त्रयीनिबन्धहेत्वर्थं त्रयाणां च व्रतेऽध्वरे | ईशानोक्ता श्रुतिः पश्चात् स्वर्गाख्यफलसाधने || २१७ || शैवागमपुराणेषु तथा शास्त्रान्तरेषु च | अवधूतोक्तितोऽज्ञत्वं ब्रह्मविष्णोर्नमद्वरः [ख्: रसङ्गतम्] || २१८ || आस्तां तवान्यदपि तावदतुल्यकक्ष- मैश्वर्यमीश्वरपदस्य निमित्तभूतम् | त्वच्चेह सोऽपि भगवन्नगतोऽवसानं विष्णुः पितामहयुतः किमतापरस्य || २१९ || अवैर्ब्रमादिभिर्वेदा कृताश्चेद्दोषकारिणः | प्. ४२) गोनराश्वादिकं हत्वा यज्वनां नरको भवेत् || २२० || सूर्यशतां [मू, अ, ख्, ङ्: श्लोकस्यास्य प्रथमान्तः पाठः पुस्तकेषु] तृप्तिमनादिबोधं स्वतन्त्रतां नित्यमलुप्तशक्तिम् | अनन्तशक्ति च विभोर्विदित्वा [मू, अ, क्, ख्, ग्, ङ्: विधिज्ञा] प्राहुःषडङ्गानि महेश्वरस्य || २२१ || वेदाः प्रमाणामशोक्ताः स्वर्गं [मू, अ: वेदप्रामाण्यमीशात्तया स्वर्गः] सर्वज्ञकारणम् | ईश्वरं कारण न्यायाद्वदन्ति तर्कवादिनः || २२२ || भेदः साङ्ख्या [क्, ग्: सान्ध्या] यनश्चैक आश्लायको [मू, अ, क्, ख्, ग्: आश्नीयको] द्वितीयकः | शतानिंदश मन्त्राणां ब्राह्मणो द्विसहस्रकः || २२३ || ऋग्वदो हि प्रमाणेन स्मृती द्वैपायनादिभिः | एकोनेद्वे सहस्रे च मन्त्राणां यजुषस्तथा || २२४ || शता ने दश विप्राणां षडशीतिश्च शाखिकाः | काण्व [क्, ख्, घ्: कार्ण] मध्यन्दिनासंज्ञा कठी प्राच्यकठी तथा || २२५ || मैवायणीयसंज्ञा च तैत्तिरीयाभिधानिकाः | वैजवाप नेकेत्याद्याः शाखा यजुषि संस्थिताः || २२६ || सान कौथूम [घ्: कौस्तुम] संज्ञैका द्वितीया च चरायणी [मू: धरायणी] | गानान्यपि च चत्वारि वेद आरण्यकस्तथा || २२७ || ऊह [क्, ख्, घ्: ऊहं] उख [क्: ऊप्यं] चतुर्थ च मन्त्रा नवसहस्रकाः | प्. ४३) सन्तुः शतकाश्चै ब्रह्मप्रभवकाः [घ्: हटकाः] स्मृताः || २२८ || प~चविंशतिरेवात्र साम्नो मानं प्रकीर्तितम् | सुमन्तुर्जाजलिश्चैव श्लोकायनिस्तथापरः [घ्: श्लोकाध्याय-] | शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे || २२९ || ऋषिभिर्बहुभिस्तज्ज्ञैः प्रोक्तोऽथर्वसमुच्चयः | मन्त्राणा युतं साष्टशंतं चोपरि षट्शतम् [घ्: चोपनिषच्छतम] || २३० || तस्मात्स्वदशनाचार्यैर्मन्त्रः कार्यस्तथाध्वरः [क्: ध्वजः] | शिवादीनां प्रयत्नेन ह्यन्यथा दोषदायकाः || २३१ || सौगतार्हतवेदादिमन्त्रर्वा स्थापिते शिवे | राष्ट्रराज्ञोभवेद्दोषः [घ्: राष्ट्र राज्ञो भवे-] कर्तु कारयितुस्तथा || २३२ || द्विजराजन्यविटशूद्राः शैवसंस्कारवर्जिताः | नारकास्ते[ख्: नो रक्षिणः; घ्: नारकिनः] समाख्याताः कर्तुः कुलान्वकारकाः || २३३ || पुस्तकाध्ययनादेव लिङ्गादीन् स्थापयेद्द्विजः | संकीर्णवृत्तिर्विज्ञेयस्त्वभोज्यः सर्वदा बुधैः || २३४ || उपरोधात्प्रमादाद्वा भुक्त्वा तत्र शतं जपेत् | बहुरूपस्य मन्त्रस्य निर्दोषो वै भवेत्ततः || २३५ || सबलोद्येष [मू, अ, क्: सचलो ह्येव] विख्यातो नाममात्रेण स द्विजः | आचार्यो गीयते लोके न ह्यसौ पारमार्थिकः || २३६ || दीक्षा [ख्, घ्: व्याख्या] स्थापनमन्त्राद्यैर्वर्तितस्तु पितामहे | प्. ४४) दैशिकास्त्रिविधा ग्राह्योःप्रागुक्ता ये गुरुक्रमात् || २३७ || देव [घ्: देवे] कर्तरि नाशो [मू, अ: विनाशो] वाभोगो वा यत्प्रतिष्ठिते | शिवतुल्योऽपि स त्याज्योदग्धहस्तो [मू: ग्राह्यो-] गुरुःस हि || २३८ || शैवसंस्कारसंपन्नाःशास्त्रज्ञाः साधकोत्तमाः | प्रतिष्ठेयुः सुरान्सर्वानभावे दैशिकस्य तु || २३९ || विनीतो धर्मवान्दक्षो निरालस्यो विमत्सरः | ऋजुर्लज्जान्वितः साधुर्जितक्रोधो जितेन्द्रियः || २४० || लक्ष्यलक्षणमानज्ञो वास्तुकालादि वेदकः | सुदृष्टिः [क्, ग्: अतृष्णिः] कुलजो धीमान्नोद्वेगी सूक्त [घ्: सूत्र] तत्परः || २४१ || पत्रं चतुष्पदं लिङ्गस्तम्भं पिण्डिं च रूपकम् | प्रासादं मण्डपं द्वारं विद्याद्यो [विन्द्याद्यो, लिं पु. पा.] हि स [ग्: हेम] कारुकः || २४२ || सर्वावयवसंपूर्णाः शिवसंस्कारसंयुताः | शिवधर्म [घ्: कर्म] विधानज्ञा मूर्तिपा दैशिकादयः || २४३ || सहायाः कुलजा धीराः समर्था भक्तितत्पराः | विनीता निपुणा दक्षा गुरोरादेशवर्तिनः [क्, ख्: राज्ञानुवर्तिनः] || २४४ || इति लक्षणसारसमुच्चये कर्तुराचार्यादिपरीक्षा नाम द्वितीयो विधिः || २ || अथ तृतीयः दैशिकैः शिल्पिभिः सार्धं ग्राह्या ये तरवः शुभाः | शिला वा जाति [मू, अ, क्, ग्: राजाभि] भेदेन अधुनैव निरूप्यते [ख्: निरूप्यन्तेऽधुनोच्यते] || १ || वनपुष्पाकुला भूर्या वारुणी सा बहूदका | काश्मीरी प्राचि याम्ये वा खदिरो ब्रह्मवृक्षकः || २ || यस्यामलिकपोताहिशिखिगृध्रामिषाशिनः | अन्तर्गत जलस्तोकं साग्नेयी रूपतो धरा [ख्: परा] || ३ || ब्रीहिक्षेत्रं च याम्ये स्यात्क्षीरवृक्षश्च पश्चिमे | सौम्ये तोयं च माहेन्द्री पीलूद्दालस्नुहीयुता [ग्: द्वालस्तु संयुता] || ४ || शर्करार्कद्रुमाकीर्णा मृगतृष्णान्विता च या | अतृणाम्बुशगालाढ्या वायवी सा मही स्मृता || ५ || आसु भूषु [क्, ग्: आग्ववृक्ष] क्रमाज्जाताः शिला वृक्षास्तदात्मकाः | माहेन्द्रीवारुणीजाताः शस्त्राश्चान्ये च गर्हिताः || ६ || स्पन्दनो मधुकः शिप्रो [क्, ख्, घ्: सिप्रो] रुद्राक्षो धवचन्दने [क्: नागकेशरः] | शमीद्राक्षा सुराह्वश्च नवैते विप्रशान्तिदाः || ७ || श्रीवृक्षारग्वधारिष्टशिरीषारुणचन्दनम् | प्. ४६) कदरा [कदरः=श्वेतखदिरः, इति वाचस्पत्यम्] शोकशाकं च शृङ्गी [ग्: वृक्षी] च नृपभूतिदा || ८ || श्यामाबकुलकाश्मीरीजम्बुचम्पकशिंशपाः | सरलः पनसो बीज इत्येते वैश्यवृद्धिदाः || ९ || कर्णिकारोऽर्जुनो निम्बः [क्, ख्, घ्: हेम] सप्तसारोऽथै [घ्: सारश्च] तिन्दुकः | काञ्चनासन [ख्: मर] लोध्राश्च साल शूद्रस्यपुष्टिदाः || १० || ग्राह्याः स्निग्धा महाकायास्त्वग्राह्याः पत्रसङ्कुलाः | सुभूस्थाः [ग्: अस्वस्थाः] शोभना हृद्या, आरोग्या यौवनोद्वहाः || ११ || अन्येऽपि शोभना [ख्: सानमा] वृक्षा घनाः क्षीरसमन्विताः | सारमध्या द्रढीयांसो नान्यकार्येषु योजिताः || १२ || संश्लिष्टान्स्फुटितान् वक्रान् कृम्याद्यान् कोटरान्वितान् | ग्रन्थितुल्यशिरायुक्तान् बृद्धबालातुरांस्तरून् || १३ || शुष्कान् वज्राग्निदग्धांश्च खगभूतादिसेवितान् | वल्मिकोत्थाञ्श्मशानोत्थान् फलाम्भः सेवितांस्त्यजेत् || १४ || मध्यावासान्स्वयं पातान्नदीम [मू, अ: नदीद्रु] मरुताहतान् | खरित्सङ्गमदेवोत्थांस्तापसाश्रमजांस्त्यजेत् [मू, अ, क्: श्रयजां-] || १५ || अवलांश्चालयेद्यस्तु प्रासादान् ब्रा हाणान्द्रुमान् [मू, अ, क्: क्वचित्] | अचिरेणैव कालेन चालको न भवेदसौ || १६ || विधिमन्त्रोपचारेण तेषां छेदनश्चालने [मू, अ: भेदन-] | प्. ४७) देवकार्ये न दोषः स्यादित्युक्तं पारमेश्वरे || १७ || दृष्ट्वा कुलक्षणं वृद्धि [क्, ख्, घ्, म्: वृक्ष] कुर्यात्तस्याधिवासनम् | शोधयेद्भूमिभागं तु चतुर्दिक्षु समन्ततः || १८ || दक्षिणाभर्गुरुः [ग्: भव] पूज्यो वस्त्रैः स्वर्णविभूषणैः | ततः शिल्पिप्रधानाश्च सहायाःकुसुमादिभिः || १९ || यदैवामन्त्रितो वृक्षः कम्पते मानवीं वदेत् | विपरीत तदा मन्त्री दूरतस्तं विवर्जयेत् || २० || क्षालयेद्वारिणा वृक्ष शिलां वाथ मनोरमाम् | गोमयेन ततो भूमि लेपयित्वा गुरुस्तदा || २१ || कृताह्निक शुविस्तत्र ब्रह्माङ्गकृतविग्रहः | ध्यात्वा देवं च विज्ञाप्य कृत्वाचार्घ्यं विचक्षणः [क्: कृत्वाचायं विचक्षणम्] || २२ || आत्मपूजां पुरा कृत्वा कुर्याद्दिगवलोकनम् | अस्त्रं ध्यात्वा यजेन्मन्त्री [ख्: जपेन्-] वर्मणा [मू: चर्मणा] परिवेष्टयेत् || २३ || भूमिशुद्धिं ततः कृत्वा दक्षिणे स्थण्डिले यजेत् | शिव संपूज्य वह्निस्थ नवद्यं ढौकयेच्चरुम् || २४ || मन्त्रसन्तर्पणं कृत्वा पूर्णां दद्याच्छिवेन तु | विज्ञाप्य कर्मशस्त्राणि पूजयेत्तर्पयेदपि [ख्: दर्पये] || २५ || दिशमाश्रित्य कौवेरी वायवीं वा समाहितः | ततो विज्ञाप्य देवेश कुर्यादालंभनं पुनः [घ्: कृत्वाचालंभनं पुरा] || २६ || तज्जातीशेन कुम्भैश्च चतुर्भिः स्नापयेदपि | प्. ४८) ताडनं भस्मनास्त्रेण प्रोक्षणं शिववारिणा || २७ || लेखनं चास्त्रदर्भेण वर्मणा [मू, अ: चर्मणा] परिरक्षणम् | वस्त्रं त्रिसूत्रं वृक्षस्य शिलायाश्च कुशान्वितम् || २८ || ज्ञात्वा शुभनिमित्तानि [क्, ग्: शुभानि सिद्धानि] यजेताथ गुरुस्तरुम् | संहितोक्तेन मन्त्रेणस्नानवस्त्रादिकं भवेत् || २९ || गन्धेन पुष्पधूपाभ्यां नैवेद्यैः पूजयेद्द्रुमम् | दद्याद् बलिं च माषान्नैरामिषासवसंयुतैः || ३० || ऐन्द्रागारेऽथ होतव्य रुद्रस्याद्रष्टोत्तरं [वृक्षस्या-] शतम् | अर्घं दत्वा च वृक्षस्य [मू, अ: रुद्रस्य] मन्त्र संश्राव्यकं वदेत् || ३१ || ओं [प्रणवोतु यं, मूल, अ, ख् पुस्तकेषु नास्ति] श्रीनिकेत नमस्तुभ्यं देवजुष्टवनस्पते | सङ्क्रमान्यदितः स्थानाद्गुणवद्यन्मनोहरम् || ३२ || ओं श्री/ ह्री वौषट् || इति संश्राव्यमन्त्रः || पूर्णाहुतिं शिवेनैव ततो दद्याद्बहिर्बलिम् | यो यस्मिन् [मू, अ, क्, ग्: यत्र] विहितो मन्त्रः शास्त्रे स्याद्बलिकर्मणि || ३३ || स एव बलिमन्त्रः स्यात् [मू, अ, क्, ग्: विहितो मन्त्रः] स्वनामप्रणवोऽथवा | स्थानेऽस्मिन् यानि भूतानि पिशाचा राक्षसाश्च ये || ३४ || सिद्धाविद्याधरा नागा देवाश्चैव सदानवाः | तांस्तु संपूज्य विधिवत्प्रियवाक्यैः प्रतोषयेत् || ३५ || शिवलिङ्गार्थमस्माकं यात्रा चैषा [अ: यैषा] शिवाज्ञया | प्. ४९) शिवार्थं यद्भवेत्कार्यं युष्माकमपि तद्भवेत् || ३६ || अनेन बलिदानेन प्रीता भवत सर्वदा | सुखेन गच्छतान्यत्र मुक्त्वा स्थानमिदं द्रुमम् || ३७ || ततश्चाचम्य विधिवत्सकली [ख्: सफली] कृतविग्रहः | शिवं संपूज्य विधिवत्स्वप्नमाणवकं [मू, अ, क्, ख्, ग्: विज्ञाप्य-] जपेत् || ३८ || चरुं प्राश्य स्वपेत्तत्र कुशतल्पेषुयाज्ञिकः [घ्: तल्पे तु याज्ञिके] | स्वप्नमाणवकं रात्रौ शतमष्टोत्तरं जपेत् || ३९ || ओं नमो जय त्रिनेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय १ स्वप्नाधिपतये नमः || ४० || स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः | क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर || ४१ || ओं हिलि २ मातङ्गिन् महेश्वर [महेश्वर इति पाठः ख्, घ् पुस्तकयोर्नास्ति] शूलपाणे दुःस्वप्नं हन २ शुभं दर्शय २ हु/ फट् स्वाहा || इति स्वप्नमाणवकमन्त्रः | निर्धूमं ज्वलितं [क्: फलितं] वक्षं पुष्पितं फलितं [क्: ज्वलितं; ख्: हरितं] श्रिया | रुद्रेण चान्वितं स्वप्ने दृष्ट्वा वाच्यं शुभं सदा || ४२ || सिच्यमानं तु रक्तेन रक्षोभूतयुतं तथा | कप्युष्ट्रैर्भक्षमाणं वा तं त्यजेदशुभ [क्: जेच्चाशुभ] प्रदम् || ४३ || प्. ५०) न शक्यते यदा त्यक्तुं लक्षणाढ्यं सुशोभनम् | जुहुयाच्च तदा स्नात्वाघोरं दोषनिवृत्तये || ४४ || ऊर्ध्वं वनस्पतेर्मूर्धा स्यादधः पादकल्पना | ऐन्द्रे सौम्ये तथेशाने अव्यक्तादिमुखं क्रमात् || ४५ || ईशाशायां द्रुमं हन्यात् सिद्धाद्यैस्तज्जपक्रिया [मू: जयक्रियः] | क्षौद्राज्याभ्यक्तशस्त्रेण घोरास्त्रेणाभिमन्त्र्य च || ४६ || आत्मानं शिववद्ध्यात्वा शस्त्रं चैवास्त्ररूपिणम् | आचार्यः प्रथमं हन्याच्छिवास्त्रं संजपंस्ततः || ४७ || पश्चात् सुनिपुणः [मू: निपुणं] शिल्पी कर्म कुर्याद्यथोदितम् | वार्क्ष [ग्: कर्क] मन्त्रान्तदिक्कं (?) [ग्: दिदं] वै घटयेल्लिङ्गमादरात् [क्, ग्: तदनुक्रमात्] || ४८ || इन्द्रेशानशशाङ्काशा भूतिदाः पततस्तरोः | संछिन्द्यात्पतितं [मू, अ: संचिन्त्यात्-] वृक्षमजातेनैव [क्, च्: जातेनैव; ग्: मथतेनैव] भक्तिमान् || ४९ || रक्तकृष्णं वरं [ख्: कृष्णांबरं] सारं मध्यमं पीतरक्तकम् [ग्: वत्तरुम्] | गृह्णीयाद्दारु लिङ्गार्थं त्यजेदापाण्डरं लघु || ५० || यद्यथा वृक्षपार्श्वं [क्, ग्: पार्श्ववृक्षं] तु तत्तथैव प्रतिष्ठयेत् | स्थापितं विपरीतं तु राष्ट्रविभ्रममादिशेत् || ५१ || वक्षस्योर्ध्वं शिरो ज्ञेयमधोमूलं सुखावहम् | अधः शिरो यदा लिङ्गं तदा गोत्रक्षयो भवेत् || ५२ || प्. ५१) प्रपातोऽन्यदिशोभागे वृक्षस्य न सुखावहः | ततो दिग्देवताशान्तिं कुर्याद्दोषविमुक्तये || ५३ || पाशुपतेन शास्त्रेण हुत्वा चाष्टोत्तरं शतम् | अन्यदिक्पातदोषेण मुच्यते शान्तिमाप्नुयात् || ५४ || इत्थं दिक्शोधनं कृत्वा शिवं संपूज्य तर्पयेत् | दद्यात्पूर्णाहुतिं चापि ततः कामानवाप्नुयात् || ५५ || प्रमादाद्यदि वृक्षस्य छेदने रुधिरं स्रवेत् | पतने मध्यभङ्गः स्यात्तदा होमो विधीयते || ५६ || आज्याहुतिसहस्रं वै बहुरूपेण होमयेत् | दद्यात्पूर्णाहुतिं चापि शिवेनाशिवहारिणा || ५७ || जुहुयाद्दुर्निमित्ते तु घोरमन्त्रं शतं [मू, अ, क्, ख्, ग्, ङ्: च घोरमन्त्रेण तं] शुभम् | शिलादाने तथा पूजा दार्वादाने यथोदिता || ५८ || शिलाः सम्प्रत्यहं वच्मि युवादिस्त्र्यादितस्त्रिधा | द्विजादिवर्णभेदेन रूपभेदेन च स्थिताः || ५९ || द्वात्रिंशल्लक्षणा ह्यष्टा [ख्: ज्येष्ठा] शीतिदोषविवर्जिताः | युवती सा शिला ग्राह्या त्रिषु लिङ्गेषु नेतराः || ६० || धर्मायुर्धनभूनाथप्रजाराष्ट्र [ख्: प्रजानां स्व] कुलस्य च | वृद्धिं दद्याच्छिला नूनं तरुणी लक्षणान्विता || ६१ || आकरौ द्वौ तु विज्ञेयौ वनोपवनसंज्ञकौ | त्रयोऽङ्कुरा दिशस्तिस्रो गन्धास्वादौ [मू: गन्धस्वादौ] चतुर्विर्धा || ६२ || प्. ५२) रेख नव त्रयः [मू, अ: नवास्त्रय; क्, ख्: नवाध्वयं] शब्दाश्चतस्रो जातयस्तथा | तारुणमेकमित्येवं द्वात्रिंशल्लक्षणानि तु || ६३ || विस्तीर्णा महती स्थूला समादीर्घैकवर्णिनी | स्निग्धानिम्ना शिला धन्या सिक्ता पुण्यनदीजलैः || ६४ || कुलाद्रिजा च भूगुप्ता भृशं गम्भीरशब्दकृत् | सुगन्धी निविडाङ्गी च द्रमच्छायास्थिता सदा || ६५ || अरोगा गर्भहीना च रेखा कीलकवर्जिता | दृढा मनोरमा गुर्वी मधुरध्वनिभूषिता || ६६ || गुडाभयाम्रनिम्बानामास्वादेन द्विजादितः | क्रमेणाब्जाज्यगोवर्वो [मू, अ, घ्: गोचर्वी] मूत्रगन्धाः शुभाःशिलाः || ६७ || मेघवीणारवा घण्टाशङ्खशब्दाः शिला वराः | शान्तिं जयं धनं चायुश्चातुर्वर्ण्ये प्रयच्छति || ६८ || पुण्यतीर्थाश्रिता साध्वी सुनिषेच्या [क्, ख्, ग्, घ्: सेव्या] सुशीतला | सुतेजा रूपसंपन्ना धनदेशेन्द्र [ख्: शेन्द्रु] दिक् स्थिता || ६९ || पाण्डराब्जोपमा श्वेता कुमुदाभा शिला द्विजा | नक्षत्रं च मृगं तस्यास्तद्देवः शशलाञ्छनः || ७० || कुलत्थाभारुणाश्यामा ह्युत्पला [अ, क्, ख्: या स्यादुत्पला] भा च सा नृपा | अस्या ऋक्षं भवेज्ज्येष्ठा देवता च शतक्रतु || ७१ || हरित्पीता कपोताभा गुडाभा कपिला च वित् | प्. ५३) नक्षत्रं फल्गुनी चास्या देवश्च [मू: देवता] भगसंज्ञकः || ७२ || माषपारावताभा या कृष्णा शूद्रेति सा स्मृता | नक्षत्रमश्विनौ [मू, अ: मश्विनी] चास्या देवौ चैवाश्विनौ [घ्: द्वौ चाश्विनौ] मतौ [मू: स्मृतौ] || ७३ || घना च सुस्वना [मू, अ, क्: सुस्वरा] स्निग्धा विशाला बहलच्छविः | शीतला च सुखस्पर्शा निविडाङ्गी मनोरमा || ७४ || कदलीदलतुल्या स्त्रीशिला स्त्रीणां सुखार्थदा | एकवर्णःस्थिरःस्निग्धो गजकण्ठो [ख्: घण्टो] पमस्वनः || ७५ || वहलो वृत्तदीर्घश्च वटपत्रनिभच्छविः | पाषाणोऽय गुरु पुमान् पुरुषाणांविभूतिदः || ७६ || नपुंसकं द्विरूपं स्यान्नपुंसकविवृद्धिकृत् | स्त्रिया स्त्रीप्रतिमा कार्या षण्ढं षण्ढेन ना नृभिः || ७७ || भग्नकांस्यस्वरं रूक्षं गैरिकाखटिकोपमम् | शिराढ्यं कर्कशं त्व र्जु [क्: वर्ज; ख्: वक्ष्य; ग्: त्वज्जा] इदमश्म नपुंसकम् || ७८ || पुंलिङ्गलक्षणोपेतः पाषाणःशिवकर्मसु | शेषाणां स्त्रीशिलाः प्रोक्ताः पीठिकाद्याश्च [ग्: याश्च] शूलिनः || ७९ || कृष्णे सिताङ्कराः श्रीदाः पीताश्मनि च लोहिताः | सर्ववर्णात्मके श्वेताःशेषाश्च शुभदाः [मू, अ, क्, ख्, ग्, ङ्: स्त्वशुभदा] स्मृताः || ८० || श्वेताः पद्मोपमा रेखा द्विजातीनां विवृद्धिदाः [मू: -द्धिकृत्] | प्. ५४) रक्ता पीता च भूपस्य विशः श्यामकुलत्थभाः || ८१ || शूद्राणां हरिताःकृष्णाः स्ववर्णा [मू, अ, क्: सुवर्ण] दधिकाश्च याः | इन्द्रचापोपमारेखाः सर्वाश्रीवसुभूतिदाः || ८२ || हीनरेखोत्तमा हीना हीनरेखोत्तमा शुभा | लक्षणाढ्याल्पदोषा या ग्राह्या सा होमशोधिता [ख्: शोभिता] || ८३ || हृन्मन्त्रेणाङ्कयेद्दिक्षु सद्योमन्त्रेण चोद्धरेत् | इन्द्रेशानेन्दुकाष्ठासु तस्या मस्तकमिष्यते || ८४ || तदूर्ध्वाधो यथा सङ्ख्यं पृष्ठं वक्त्रं च लक्षयेत् | त्रिविधेष्वपि लिङ्गेषु शिलायां नापरो विधिः || ८५ || दिगादिजातिपर्यन्तं द्वात्रिंशल्लक्षणाः शिलाः | दोषान् वृद्धादिकान् ब्रूमश्चाष्टाशीतिप्रभेदतः || ८६ || वृद्धबालकबिम्बानि छिद्रकीलकसन्धयः | शूषिरं स्फोटकं [ख्, घ्: स्फाटिकं] व्योमं गारा [ख्: गला] पटलजालकम् || ८७ || द्वादशैते महादोषाः सर्वस्थानेषु वर्जिताः | लक्षणं कथयाम्येषां संक्षेपेण प्रभेदतः || ८८ || या सर्पभेकमीनाङ्कैश्चित्रता [मू, अ, ग्: मीनाङ्गै-] चातिकर्कशा | निष्ठुरा चातिरूक्षा च वृद्धा कार्यविनाशिनी || ८९ || तन्वी मृद्वी च बाला स्यादीषद्दग्धेष्टकोपमा | टङ्कघातासहिष्णुञ्च न तां देवाय योजयेत् || ९० || मण्डलाज्जायते गर्भो गर्भाद्दोषोऽवगम्यते | तस्माद्बिम्बात्मकं चाश्म संछिन्द्याद्दारु वै तथा || ९१ || प्. ५५) सान्द्राणि सर्वदृश्यानि दशाष्टौ मण्डलानि च | सप्तान्यानि च चित्राणि चतुर्धा लेपनं तथा || ९२ || पाण्डरं गुडखण्डाभं माञ्जिष्ठं रक्तपीतकम् | कापिलं हरितालाभं कापोतमलिवर्णकम् [ख्, घ्: मल्लिकाधौतवर्णकम्] || ९३ || कृष्णं नीलं च मध्वाभं चाषाभं [मू, अ, क्: वासाभं] भस्मरूपकम् | किंशुकाभं कुसुम्भाभमतसीपुष्पसन्निभम् || ९४ || शुद्धाष्टादशबिम्बानि सप्तचित्राण्यथो ब्रुवे | चम्पकाभं च नीलाभं मिश्रलोहितपीतकम् || ९५ || कृष्णं [ख्: कृत्स्नं] नानाविधं चित्रं या [मू, अ: चान्यदा] स्पदं शीमिका [मू: शीविका] तथा | रक्तं [ख्: रूक्षं] च पाण्डरं चैव गर्भदोषान् वदाम्यत [ख्: म्यहम्] || ९६ || मत्स्यः पाण्डरके बिम्बे म्रियन्तेऽजाविकास्ततः | गुडवर्णे शिलान्या स्यात्तेनावृष्टिर्भवेच्चिरम् || ९७ || खड्गाभे [मू: खण्डाभे] स्फाटिके वापि [घ्: वायो] गर्भहृत्स्वामिहृच्च तत् | मञ्जिष्ठाभे भवेद्भेकः शस्यनाशो जलाद्भयम् || ९८ || लोहिते कृकलासः स्यात् सकुष्ठधनहानिकृत् | पीते गोधा नृपं हन्याङ्टवां पीडाकरी च सा || ९९ || आखुःकपिले शोथ [ख्: सोऽथ] श्वासतस्करभीतिकृत् [घ्: भीतिदः] | तालाभे कर्कटःपित्तरोगदर्भिक्षकृच्च सः || १०० || प्. ५६) भृङ्गाभे च विषं तच्च विषकोऽपि न वृष्टिकृत् | ज्येष्ठा कपोतकण्ठाभे व्याधिदारिद्र्यभीतिदा || १०१ || कृष्णेऽहिः स प्रजा हन्ति कर्तुश्च कुलनाशकृत् [मू, अ, क्, ग्, ङ्: नाशनः] | नीलके मक्षिका सा च हन्याद्भार्यां सपुत्रकाम् [ख्: सपुत्रिकाम्] || १०२ || खद्योतः क्षौद्रवर्णे स्यात् स दारिद्र्याग्निभीतिदः | नृपक्षी चाषवर्णे स्यात्तेन कर्तुःप्रजाक्षयः || १०३ || भस्माभे वालुकाः खं वा नैःस्वं चौरभयं ततः | किंशुके शक्रगोपः स्यात्तेन राज्ञो धनक्षयः || १०४ || शतपादी कुसुम्भाभे भवेत्तेनामयो महान् | अतसीपुष्पसंकाशे गर्भे विद्यात् पिपीलिका || १०५ || तया चिन्ता भय शोकः शत्रुवृद्धिश्च जायते | इत्यष्टादश बिम्बानि कथितान्यत्र संख्यया || १०६ || गुडवर्णात्मके बिम्बे चित्रिते चम्पकाभया | भवेयुः कृमयो गर्भे नाशो देहार्थयोस्ततः || १०७ || नीलचित्रे भवेत्काको गृध्रो [क्: मृगो] वाथ कपोतकः | तेन राजा च मन्त्री च कारको म्रियते क्रमात् || १०८ || मध्वाभे शवले चित्री तया शस्यधनक्षयः | रक्तचित्रे च शृङ्गी स्यात्तया शोकभयं मुहुः [घ्: शोककरं बहु] || १०९ || पीतचित्रे पतङ्गः स्यात् स वै [घ्: सर्व] स्वस्थानहानिदः | कृष्णचित्रे च गोनाशः सोऽनेकव्याधिकारक || ११० || प्. ५७) वृश्चिको बहुचित्रेस्याच्छूलरुग्विषभींतिदः [ग्: -स्याद्गल-; घ्: -सच्छूल-] | सप्तैतानि तु चित्राणि ज्ञेयानि बाह्यलक्षणैः || १११ || बाह्याद्यद्युप[मू: द्यनुप; ग्: द्यस्त्युप] लब्धिर्नो तदा भ्रान्तः प्रलेपयेत् | चतुर्विकारभेदेन गर्भं विद्यात्प्रलेपतः || ११२ || ब्रह्माणं करवीरं च ऋद्धिवृद्धिसमन्वितम् | सौराष्ट्री तालसंयुक्तं [ख्: कलसंयुक्तैः] सौवीरेण [मू, अ: सौरीरेण] च पेषयेत् [घ्: पावयेत्] || ११३ || तेन लिप्ता स्थिता [मू: सिता] रात्रौ वाष्पस्वेदादिसंयुताः | भृङ्गाही कृष्णमत्स्यं वा ज्ञात्वा ता दोषदास्त्यजेत् || ११४ || त्रिफलाश्वघ्नमांसी च मेघकुष्ठ [क्: मुरत] समन्विताः | पिष्टवैवं समभागं तु नारी क्षीरेण लेपयेत् || ११५ || लेपाच्छिमिशिमां ज्ञात्वा [मू: शिलां ज्ञात्वा; ख्: च्छिमां जप्त्वा] गर्भे विद्यान्महाविषम् | तेन कर्तुर्भवेन्मृत्युस्तस्मात्तां सलिले क्षिपेत् || ११६ || क्षीरपिष्टैः प्रलिप्याश्म कारीषविषगैरिकैः | अहोरात्रोषिते रक्तं त्याज्यमूर्मान्वितं च यत् [ख्: कुर्मान्वितं यतः] || ११७ || पिशाचाश्वघ्नवज्राणि अभया वैष्णवाङ्किताः | तीक्ष्णं रुद्रजटायुक्तमविक्षीरैः प्रपेष्य च || ११८ || लिप्ता शिलोषिता पश्चात्पाण्डरादि प्रदर्शयेत् | द्वयोर्द्विरूपकं गर्भे ज्ञात्वा प्राग्दोषदांस्त्यजेत् || ११९ || प्. ५८) छिद्रं चोभयश्छिद्रं [घ्: श्छिद्रैः] रन्ध्राकारं बहिर्गतम् | कर्तुस्तत्कुलहृन्नूनं गुरोर्दद्यात्क्षयामयम् || १२० || कीलकं कीलकाकारं कारोः कर्तुश्च नाशकृत् | टङ्काघाताद्भिदाकारी [ख्: ताद्भया; मू: ताभिधा] सन्धिः कर्तृविनाशकः [मू, अ: कर्तुर्विनाशकृत्] || १२१ || शुषिरं शुषिराकारं कर्तुस्तद्वंशनाशकम् [मू: कृत्] | स्फोटं [घ्: स्फाटं] स्फुटितकं विद्याच्छस्त्रघातान्तदायकम् || १२२ || सूक्ष्मगर्भै [मू: गर्ते] रसङ्ख्यातैः परितःपरिवेष्टितः | व्योमाकारो भवेद्व्योम सोऽचिरात्कर्तृनाशकः || १२३ || [चापान्तर्गतोऽयं पाठो मूलपुस्तके नास्ति] स्फटिकाभा भवेद्गारा [क्, ख्: द्दारा] तङ्कभङ्गकरी च सा | तया कर्तृप्रजानाशः शीघ्रमेव न संशयः || १२४ || भूर्जत्बगुपमोऽश्मा [मू, अ, ग्: मोष्मा] यःपटलीति स कीर्तितः | तेन कुर्यान्न लिङ्गानि कृते च द्वौ विनश्यतः || १२५ || जालकं षट्प्रकारं स्यान्मधुकोषपुटोमम् | पीतं सितं तथा कृष्णं रक्तं नीलं च मिश्रकम् || १२६ || नाशैनो बन्धदश्चैव भार्यापुत्रार्थहृत्क्रमात् | नवत्यर्धं महादोषा भेदभिन्नो इति स्मृताः || १२७ || मध्यदोषान् प्रवक्ष्यामि नाम्ना षोडशधा स्थितान् | प्. ५९) ब्रह्मोपेन्द्रविभागस्थांस्त्रिधा लिङ्गेष्वदोषदान् [मू: लिङ्गेषु दोषदान्] || १२८ || रुद्रभागाश्रितान् दुष्टांस्त्यजेत्तानशुभप्रदान् | शिरा [शिराशब्दोऽयं तालव्यो दन्त्यश्चेत्यूष्मभेदे] ग्रन्थितुषारैश्च विमलं ददु बिन्दुभिः || १२९ || छिन्नरेखा कुरेखा च मक्षिकावर्त [घ्: वर्ति] हीरकौ [क्, ख्: हीरकैः; घ्: हीनकैः] | विडालाश्वोष्ट्रगोमायुकाकपादाङ्कितांस्त्यजेत् || १३० || या विवर्णलताकारा सा शिला बहुदोषदा | ग्रन्थिरूपोन्नतग्रन्थिर्जठरामयदायक || १३१ || पद्मपत्रस्थपानीयकणिकासदृशं तु यत् | तुषारं तद्विजानीया पुत्रशोकार्तिदायकम् [ख्, घ्: कारकम्] || १३२ || चतुर्धा वै मलंरूप मीनगन्धोपलक्षितम् | हेमघोषामयं ताम्र तद्दुष्टं पिङ्गलामते || १३३ || दुर्भिक्षावृष्टिदं हैमं घोषं कर्तृविनाशकम् [ख्, घ्: शदम्] | जनं हन्त्यायसाक्रान्ता शिला तामी च [घ्: ताम्राच्च] शिल्पिनम् || १३४ || मृदी वृत्ता च धूम्राभा दद्रुः स्यादतिरोगदा | कृष्णः पीतोऽरुणो बिन्दुः स शोकभयरोगदः || १३५ || मूर्ध्नि बिन्दौ सिते मृत्यूरक्ते पाप भवेद्ध्रुवम् | पीते धनक्षयः कर्तुः कृष्णे बन्धो द्वयोर्द्विधा || १३६ || स्थूलातिदुर्बला रूक्षा रेखाहिकुटिला च या | रेखा रेखानुबिद्धा वा [मू, अ, क्: च] पार्थिवं सा विनाशयेत् || १३७ || प्. ६०) भार्याघ्नी छिन्नरेखा स्याद् द्वित्रिच्छिन्ना सुतार्थहृत् | स्वामिध्नी च चतुश्छिन्ना बहुच्छिन्ना कुलान्तकृत् || १३८ || धूम्रां नीलासिता रेखा दुःखदुर्भिक्षरोगकृत् | मक्षिका मक्षिकाकारा तया कुष्ठं सुदारुणम् || १३९ || आवर्तं इव चावर्तो रुद्रदेशे तु [ख्: रंशेषु] चेत्स्थितः [मू, अ: चोत्थित] | तदा नाना गदान् कुर्यात् कर्तुश्चैव न संशयः || १४० || नाना स्थानेषु वामाङ्ग आवर्तो यदि दृश्यते | त्याज्यं तदा त्रिधा लिङ्गं नृपराष्ट्रप्रजार्थिना || १४१ || लक्षणस्य तु मध्यस्थ आवर्तो यदि दृश्यते [ख्, घ्: जायते] | वामपार्श्वाश्रितः किंचिद्धन्याद्राष्ट्रं सराजकम् || १४२ || रक्ताङ्गी पीतहीरा [घ्: हीना] या सा दुर्भिक्षगदप्रदा [घ्: भयप्रदा] | सर्ववर्णा भृशं [ख्, घ्: दश] नूनं प्राणहृत्कृष्णहीरिका || १४३ || चतुर्भिः सन्धिभिर्युक्ता [मू: पञ्चभि-; घ्: -मुक्ता] नखैः पञ्चभिरग्रतः | उन्नतो लक्ष्यते यश्च [मू: यत्र] विडालाङ्घ्रिः स दोषभाक् [ख्: कृत्] || १४४ || हयोष्ट्रजम्बुकध्वाङ्क्षपदकाक्रान्तपङ्कवत् | शिलाया रूपमालक्ष्य त्यजेत्तामशुभप्रदाम् || १४५ || मध्यदोषास्त्रयोविंशद्भेदैरुक्ता इमे मया | स्वल्पदोषान् प्रक्ष्यामि यथा शास्त्रेषु भाषितान् || १४६ || त्याज्या शिलान्यसंश्लिष्टा श्लिष्टा या पादपाङ्घ्रिणा | वल्मीकोषरचित्युत्था कोष्णा क्षाराम्बुमध्यगा || १४७ || प्. ६१) अपुण्यक्षेत्रसंजाता भिल्लादिजनसेविता | कुदिक्स्था सूर्यसन्तप्ता कदुत्थामेथ्यदूषिता [क्, ग्: भूषिता] || १४८ || कुगन्धा कुरसा चैव तथा वज्राग्निदूषिता | दुष्टजीवस्वरा या च योजिता नान्यकर्मणि || १४९ || चाण्डाली चान्त्यजा चैव आसां लक्षणमुच्यते | या योपलानुलग्ना सा स्नेहविच्छित्तिकारिकाः [मू, अ: कारणम्] || १५० || अध्वदा तरुमूलस्था वल्मीकस्था रणप्रदा | ऊषरस्थार्थहृज्ज्ञेया चितिस्था दुःखदायिनी || १५१ || कोष्णा विद्वेषकृत्क्षार [क्, ग्: वोर] वारिस्था दर्भगत्वदा [क्, ग्: दुर्भगं ददा] | पाषदापुण्यदेशस्था वधकृद्भिल्ल [ख्: लिङ्ग] सेविता || १५२ || हुताशयमरक्षोऽम्बुमरुद्दिक्स्था यथाक्रमम् | दाहं हानिं च शोकं च नैःस्वं रोगं तथावहेत् || १५३ || तेजोहृत्सूयतप्ता स्यादपुत्राधर्मकृत्सदा [घ्: पुत्राद्धूताहृत्सदा] | सुरापक्षिवसागन्धा उद्वेगजननी शिला || १५४ || लवणा कटुका या च सा क्षधातृप्तिकारिणी | वज्रदग्धाग्निदग्धा च राज्ञोऽनलभयप्रदा || १५५ || भिन्नभाण्डोष्ट्र [क्: भाण्डज] काकह्व [मू: काकाङ्ग] कङ्कपादातिरोगदा [घ्: कङ्कणा-] | अन्यकर्मार्थमानीतोन्मादानिष्पत्तिकारिणी || १५६ || निस्तेजा बहु [ग: बक] बणा या लघुरव्यक्तवर्णिनी | प्. ६२) अन्त्यजा सा शिला ज्ञेया द्विजादीनां विगर्हिता [घ्: तु गर्हिता] || १५७ || धूम्रा [ख्: पूज्या] नीला च रक्षा या स्थूलरोमा मनोरमा | नान वर्णा च चाण्डली सा कर्तुः [ख्: मान] कुलनाशिनी || १५८ || लघुदोषान्विता ग्राह्या मन्त्रसंस्कारसस्कृता | प्राकृतानां हितार्थाय कामं मुक्त्यर्थिनां नृणाम् || १५९ || अन्त्यजा चान्त्यजानां तु चाण्डालानां हितावहा [मू, अ, घ्: स्वका] | स्वल्पदोषा इमे ख्याता विंशतिर्लक्षभेदतः || १६० || वर्णजातिवयो रेखा लाञ्छनानि च मण्डलम् | ([चोपान्तर्गतोऽयं, क्, ख्, ग् पुस्तकेषु नास्ति] ज्ञय सद्भूमिभूतस्य पाषाणस्य द्रुमस्य च || १६१ || अल्पवर्णा शिला या स्यादन्यवर्णस्य कल्प्यते |) तज्ज तीशेन मन्त्रेण तज्जातिजननं भवेत् || १६२ || यथाभिमतमानेन लिङ्गाद्यर्थं शिलां द्रुमम् | लाञ्छ यत्वा यथान्यायं कर्तयेच्छोधयेदपि || १६३ || यद्वर्णं यन्मयं लिङ्गं तन्मयं पीठमिष्यते | पिण्डिकासहितं तच्च विष्णुभागान्तमुन्नतम् || १६४ || लिङ्गायामेन विस्तीर्णं वर्तुलाभि [मू, अ, क्, ङ्: वर्तनाभि] रलङ्कृतम् | एकखण्डैव कर्तव्या पिण्डिका वै शिवस्य तु || १६५ || प्. ६३) ब्रह्मपीठं बहुदलं [क्, ग्: च सदलं] कार्यमेकदलं तथा | प्रणालमैन्द्रसौम्ये वा जलाधारमधस्तथा || १६६ || लाञ्छयित्वा शिलामादौ पिण्डिकार्थं समाहरेत् | अन्यक्षेत्रादपि ग्राह्या पिण्डिका लिङ्गवर्णिका | न तु ब्रह्मशिला प्राज्ञैरिति शास्त्रेषु [क्, ग्: तन्त्रेषु] भाषितम् || १६७ || लिङ्गमूलावशिष्टा तु ग्राह्या ब्रह्मशिला शुभा | लिङ्गछेदोर्ध्वभागस्था तथाधो [मू, अ, क्: तदधो] भागगापि वा || १६८ || लिङ्गस्य सा त्रिभागेन चतुर्थांशेन वा भवेत् | उच्छ्रायेन तु लिङ्गानामेकखण्डो विधीयते || १६९ || हस्तमात्रस्य लिङ्गस्य निःसारा द्व्यङ्गुलाधिका | अन्येषामपि लिङ्गानां क्रमेणैकाङ्गुलाधिला [घ्: -णैव-] || १७० || यद्वा कर्णायतं सूत्रं ब्रह्मभागस्य मध्यतः | तच्चतुर्थेन भागेन लिङ्गविस्तरतोऽधिका | अथवा सा रासांशेन ब्रह्मांशो [मू, अ, क्, ग्: च सांशेन ब्रह्मणो] ऽधिकविस्तरा | ([चापान्तर्गतोयं पाठः क्, ग् पुस्तकयोर्नास्ति] स्वमानान्मेखला तस्याः खातं वा तत्प्रमाणतः || १७१ || पदभागोऽपि तुल्यश्च स्वतलश्च प्रशस्यते | ब्रह्मांशादधिकः [घ्: ब्रह्माङ्गा-] खातो यवै षड्भिः प्रविस्तरः || १७३ || ज्येष्ठोऽर्धार्धयवैर्न्यूनास्तदन्येषां क्रमेण तु | रत्नाधाराणि तन्मध्ये वृत्तानि नव [मू: न च] कल्पयेत् || १७४ || प्. ६४) कार्या कूर्मशिला चापि [मू: वापि] शुद्धा ब्रह्मशिलापि वा [घ्: -धिका] |) स्वमानविस्तरार्धेन बाहुल्येन समन्विता || १७५ || अपि मानाधिका कार्या न मानाद्ध्रासयेदबुधः | वार्क्षी ब्रह्मशिला वार्क्षे लिङ्गे स्यात्पिण्डिका तथा || १७६ || चतुरस्रां शिलां कृत्वा चन्दनेन विलेप्य च | अर्चयेदस्त्र [घ्: च्छत्र] पुष्पाद्यैरानेतुं मन्त्रवित्तमः || १७७ || पूजयेच्च शिवं साङ्गं तर्पयेच्च प्रयत्नतः | तापसाञ्छिवभक्तांश्च तर्पयित्वानयेद्रथम् || १७८ || तं रथं महिषाञ्ज्येष्ठान् योजयित्वा च दैशिकः | रथे कृत्वा च देवेशं पूजयित्वा तमानयेत् || १७९ || शान्तिर्दिनेदिने कार्या यावत्प्राप्तं गृहं भवेत् | यदा रथे रथाङ्गानां [मू: रथरथाङ्गानां] प्रमादात्स्खलितं भवेत् || १८० || शिवाग्निं जनयित्वा तु तर्पयेद्बहुरूपिणम् | शतमष्टोत्तरं हुत्वा मुच्यते सर्वदुष्कृतैः || १८१ || शिवं ध्यात्वा स्मरेदस्त्रमर्धं लिङ्गे समुत्क्षिपेत् | रथं मार्गगतं कृत्वा शनैः स्वपुरमानयेत् || १८२ || समीपं यजमानस्तु प्रत्युद्गम्य [क्, ख्: प्रत्यङ्गस्य] समर्चयेत् | शोभां ध्वजपताकाद्यैः स्त्रीभिर्मङ्गलगीतकैः || १८३ || कारयित्वा द्विजान् स्वस्तिवाचयित्वा तमानयेत् | प्. ६५) प्रासादस्योत्तरे पार्श्वे कर्मकुर्यान्निवेदयेत् || १८४ || प्रासादोत्तरदिग्भागे कन्यसादिविभागतः | पञ्चसप्तैकादशभिः करैः कर्मकुटी मता || १८५ || अन्यदिक्संस्थिता भद्रा गृहीता विधिना शिला | प्रासादोत्तरदिग्गर्ते क्षिप्त्वा तां पूरयेन्मृदा || १८६ || तस्योपरि शिवं चेष्ट्वा वारुण्यां दिशि संस्थितः | तर्पयेदस्त्रराजं च महापाशुपतं च यत् || १८७ || शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं पुनः | एवं सन्तर्पिते ह्यस्त्रे [क्, ग्: ज्येष्ठे] दिग्दोषैर्मुच्यते शिला || १८८ || आकृष्टस्यापि [मू, अ: आकृष्णां-] यस्यार्थं ज्ञायते न शिरोमुखम् | तस्य लिङ्गस्य सद्विप्रः कन्या शिल्पी च पूजिता || १८९ || एकोऽपि यद्विशेदङ्गं [मू: यद्दिशे-] स्पृष्ट्वा तच्च शिरोमुखम् | ध्रुवं कर्तव्यमित्याह भगवान् परमेश्वरः || १९० || अन्यकर्मोपयुक्ता च संस्कृता येन केनचित् | शिलां तां वर्जयेद्यत्नान्नशस्ता लिङ्गकर्मणि || १९१ || पिण्डिकादिदलं सर्व वृषभं च यथाविधि | एवं दारुमयं चापि [मू, अ, क्, ख्: वापि] लिङ्गादिद्रव्यमानयेत् || १९२ || लक्षणाढ्याल्पदोषायाः संस्कारे कथ्यते विधिः | प्रागुक्तरेशकाष्ठासु शिलां न्यस्य क्वचिन्मते || १९३ || प्. ६६) घोरमन्त्रशतं [मू, अ, ख्, ङ्: मन्त्रेण] हुत्वा षडङ्गान्तं यजेद्धरम् | अथवा मृत्युजेतारं विद्याङ्गैः [ग्: विद्याह्वैः] षड्भिरन्वितम् || १९४ || इत्थं मुञ्चन्त्यमी दोषाः शिरोवक्त्रादिमौढ्यजाः | इत्यनेन विधानेन गृहीत्वा दारु वाश्म [क्, ख्: रश्म] वा || १९५ || शोभने दिवसे सम्यङ्मङ्गले सकले कृते | लिङ्गं गुर्वाज्ञ्या कुर्यात्त्रिधा मानोपलक्षितम् || १९६ || इति लक्षणसमुच्चये दारुशिलाग्रहणं नाम तृतीयो विधिः || ३ || अथ चतुर्थः लिङ्गमानं प्रवक्ष्यामि चतुर्भेदात्मकं भवेत् | चतुरङ्गुलमानेन [मू, अ, ख्, ग्, घ्, ङ्: चलमङ्गुल-] द्वारगर्भकरैः स्थितम् || १ || भानूस्रैर्जालगैरष्ट [मू, अ, क्, ख्: भानूस्रे जालगेऽष्टाभी] रेणुभिः स्यादणुर्भृशम् | केशाग्रलिक्षायूकाभ्यां [मू: यूकानां] क्रमादष्टाष्टभिर्यवः || २ || तुषहीनैर्यवैः श्रेष्ठैर्मृदि सिक्थेऽथवा स्थितैः | प्. ६७) तिर्यक् समोदरैः प्रोक्तं मानार्थं पारमेश्वरे || ३ || यवैरष्टर्षिषट्संख्यैर्ज्येष्टादि त्र्यङ्गुलं भवेत् | कलागोलकनेत्राङ्क [घ्: नेत्राह्व] मात्राभिर्द्व्यङ्गलं स्मृतम् || ४ || चतुरङ्गुलकं धर्मः शक्त्याख्यं च षडङ्गुलम् | अर्धहस्तं वितस्तिं च तालं च द्वादशाङ्गुलम् || ५ || द्वितालकं करं विद्यात्करेण स्वेच्छया क्रिया | लिङ्गधामासनादीनां सर्वकर्मविधौ मता || ६ || अङ्गुलाद्गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् | द्वारमानात्त्रिसंख्याकं नवधा गर्भमानतः || ७ || नवधा करमानेन लिङ्ग धाग्नि प्रपूजयेत् | एवं लिङ्गानि षट्त्रिंशज्ज्ञेयानि ज्येष्ठमानतः || ८ || मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च | एषामैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् || ९ || एषां प्रमाणभेदेन सामान्येन त्रिरूपिणाम् | यानि यानि च नामानि तानि तानि पृथग्ब्रुवे [ख्: भवेत्] || १० || भूम्यम्ब्वग्न्यनिलाकाशं दिगम्बरसरूपकम् [क्: स्वरूपकम्] | स्पर्शशब्देश्वरो नासा जिह्वाक्षित्वक्श्रुतीश्वराः || ११ || उत्तमाङ्गुल [ङ्गुलि लिपु.] लिङ्गानां विद्यात्पञ्चदशैव तु | वचनग्रहणोत्सर्गानन्दप्रगमनेश्वराः || १२ || वाक्पाणिपायुगुह्याङ्घ्रिमनोऽध्यहङ्कृतीश्वरान् | प्. ६८) प्रकृतीशः पुमांश्चैव मध्यानां दश पञ्च च || १३ || ईश्वरोऽनन्तरुद्रौ च श्रीकण्ठस्त्रिशिखस्त्रिदृक् | विद्येश्वरः पतिः स्रष्टा गरुत्मान सकलोऽकलः || १४ || मायायोगेश्वरौ शर्वौ [सर्वा लि. पु] दशपञ्चाधमेषु तु | शान्तश्चाजो [मू: तेजो] महातेजा द्वार्मानादुत्तमं त्रयम् || १५ || सुधामा त्र्यम्बकः [ख्: श्चादौ] शुद्धो मध्यमं द्वारतस्त्रिकम् | स्कन्दः सूक्ष्मोऽ [मू: स्कन्धः सूर्यो] म्बिकानाथस्त्रयं द्वारात्तथाधमम् || १६ || चण्डेशोऽथ [मू, ग्: चण्डीशो] कपालीशः खड्गी पाशी ध्वजी गदी | भुजङ्गी वृषभी सिंही उत्तमा नव गर्भजाः || १७ || ([चापचिन्तान्हर्गतोऽयं श्लोकः मूलपुस्तके नास्ति] बली शक्ती हरी रणी श्मशानी भैरवी तथा | पिङ्गी क्रोधी च मायी च मध्यमा नव गर्भजाः || १८ ||) अग्रश्चाग्रः पिनाकी च चक्री नादी महाब्रती | व्यापी शूली विशाली [ग्: किराती] चेत्थधमा नव गर्भजाः [घ्: गर्भिकाः] || १९ || अव्यक्तः पुंश्चलीशश्च नियामकोऽथ कालजित् | सर्वज्ञोऽथ वृषध्वजो नियामः पापहा [घ्: निर्यामः पाशहा] ध्रुवः || २० || हस्तेषूत्त्ममानेन नवलिङ्गेषु देवताः | शम्भुः स्थाणुर्हरो डिण्डी हर्ता कर्ता शिवोऽव्ययः || २१ || प्. ६९) नवमश्च सुरेशाख्यो मध्यमा हरतमानतः | भद्रोऽथ विमलो ज्येष्ठो गाण्डीवः पुष्टिवर्धनः || २२ || स्वयंभूर्भुवनेशश्च श्रेष्ठः पालयिता तथा | नवैते हस्तमानेन त्वधमाः परिकीर्तिताः || २३ || एकाङ्गुलादिपञ्चान्तमधमं [घ्: न्तं कन्यसं] चलमुच्यते | षडादिदशपर्यन्तं चललिङ्गं च मध्यमम् || २४ || एकादशाङ्गुलादि स्यात् क्रमात्पञ्चदशान्तिकम् | श्रेष्ठलिङ्गप्रमाणं तज्ज्येष्ठाद्यङ्गुलिलक्षितम् || २५ || षडङगुलं महारत्नैरन्यरत्नैर्नवाङ्गलम् | रविभिर्हेमतारोत्थं लिङ्गं शेषै [मू, अ, क्: शेषैरन्यै] स्त्रिपञ्चभिः || २६ || इच्छासिद्धिः सुतो धर्मः सौभाग्यं च रिपुक्षयः | आरोग्यं राज्यसौख्यं च नृपश्रीजयलोककृत् || २७ || धैर्यं तु स्त्रीधनायुश्च लिङ्गादेकाङ्गुलादितः | चललिङ्गाद्भवेत्कार्यं साधकानां क्वचिन्मते [ख्: त्समा] || २८ || षोडशांशश्च वेदास्त्रे युगं लुप्त्वोर्ध्वदेशतः | द्वात्रिंशत्षोडशांशाश्च कोणयोस्तु विलोपयेत् || २९ || चतुदिवेशनात्कण्ठो विंशतित्रियुगैस्तथा | पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् [मू, अ: द्ध्रु वम्] || ३० || धाम्नो युगर्तुनागांशैर्द्वारं हीनादितः क्रमात् | प्. ७०) लिङ्गं द्वारोच्छ्रयादर्धाद्भवेत्पादोनतः क्रमात् [मू, अ, क्, ग्, ङ्: समात्] || ३१ || गर्भार्धेनाधमं लिङ्गं भूतांशैः स्यात्त्रिभिर्वरम् | तयोर्मध्ये च सूत्राणि सप्त संपादयेत्समम् || ३२ || एवं स्युनवसूत्राणि भूतसूत्रैस्तु मध्यमम् | द्व्यन्तरे रामरामं च लिङ्गानां दीर्घता नव || ३३ || हस्ताद्विवधंते हस्तो यावत्स्युर्नवपाणयः | स्त्रीय?मध्योत्तमं लिङ्गं त्रिविधं [क्, ख्: त्रिधैव] त्रिविधात्मकम् || ३४ || एकैकलिङ्गमध्ये च त्रीणि च [मू, अ, क्: तु सूत्राणि त्रीणि] पादशः | लिङ्गानि घटयेद्धीमान् षट्सु वाष्टान्तरेषु वा || ३५ || स्थिरदीर्घप्रमैषा [मू: स्थिरा दैर्घ्यप्रमेया] तु द्वारगर्भकरात्मिका | तदेकं स्थापयेल्लिङ्गं हस्तात्पादजमेव वा || ३६ || शान्तिर्जीवितमानं च द्वार्मानात्क्रमतः फलम् | गभाद्यशोऽर्थपुत्रस्त्रीभूर्जयोऽर्थो घृषायुषी || ३७ || मुक्तिः पुष्टी रिपोर्नाश आयुर्ज्ञानं यशो धनम् | सिद्धी राज्यं करैः कार्या लिङ्गादन्तजात्तथा || ३८ || ([ख्. पुस्तके नस्त्ययं, ३९ श्लोकतः ५० श्लोकं यावत् चापचिन्हान्वर्गतः पाठः] लिङ्गानामीप्सितं दैर्घ्यं तेन कृत्वाङ्गुलानि वै | ध्वजाद्या यैः स्वरैर्भूतैः शिखिभिर्वा हरेत्कृती || ३९ || तान्यङ्गुलानि यच्छेष लक्षयेच्च शुभाशुभम् | प्. ७१) ध्वजादिषु ध्वजं सिंहं वृषाख्यं च गजं शुभम् || ४० || अशुभान् वर्जयेद्धीमान् धूमश्व [मू: गजाश्व] खरवायसान् | ध्वजे राज्यं जयं सिंहे वृषे लाभं श्रियं गजे || ४१ || धूमे दोषाः [घ्: दाद्य] शुना मृत्युः खरेणोच्चाटनं सदा | ध्वाङ्क्षेण सर्वनाशः स्यात्तस्मात्तान् परिवर्जयेत् || ४२ || स्वरेषु षड्जगान्धारपञ्चमाः शुभदायकाः | लक्ष्मीप्रदो भवेत् षड्जो गान्धारो जनवृद्धिकृत् || ४३ || पञ्चमः श्रीप्रदो नित्यं भूमिलाभकरो नृणाम् | ऋषभेणारिवृद्धिः स्यान्मध्यमः सुतनाशकृत् [मू, अ, क्, ग्, ङ्: शुभनाशनः] || ४४ || धैवतेन क्षयः कर्तुर्निषादः सर्वनाशकः | भूतेषु क्ष्माचराश्चान्ये तोयाद्याश्चाशुभा [घ्: तोयाढ्या] भृशम् || ४५ || पृथ्वी सर्वप्रदा पुंसामापो भार्याक्षयङ्कराः | सज्वरो [क्, ग्: सद्धीरो] दाहकृत्तेजो वायुस्तु कुलनाशकृत् || ४६ || भ्रातृपुत्रकलत्रार्णनभो नृपतिनाशकृत् | शस्तोऽग्निश्चाहवनीयो द्वावग्नी चाशुभौ मतौ || ४७ || आद्योऽग्निः सर्वदः पुंसां द्वितीयः सुतनाशकृत् [मू, अ, क्: शुभ-] | कर्तुर्मृत्युप्रदो ह्यग्निस्तृतीयो नृपभीतिदः || ४८ || आयशून्येषु हस्तेषु हस्तादेकाङ्गुलं क्षिपेत् | षड्वा तदायभागं तु कृत्वैकं संक्षिपेद्वरम् || ४९ || प्. ७२) द्विभागं मध्यमेनाह त्रीणि भागानि कन्यसे | भागेश चाप्यनीशं च देवेज्यं तुल्यसंज्ञकम् || ५० || चत्वारि लिङ्गरूपाणि विष्कम्भेन तु लक्षपेत् | दैर्घ्यं मायान्वितं कृत्वा लिङ्गं कुर्यात्त्रिरूपकम् || ५१ || चतुरष्टास्र [मू, अ: चतुरस्रास्र; क्, ख्: चतुरस्राष्ट] वृतं च तत्त्वत्रयगुणात्मकम् | उक्तायामस्य चार्धांशे [मू: चायांशे] नागांशै [क्, ख्: भागार्धैः] र्भांजिते क्रमात् || ५२ || रसभूताम्बु [मू: बूतांशु] षष्ठांशत्र्यंशाधिकशतैर्भवेत् | आद्यानाद्यसुरेज्याह्व [मू: -ज्याङ्क] तुल्यानां चतुरस्रता || ५३ || पञ्चकत्रयमानाख्यं व्यासानाहान् प्रवृद्धितः [मू: व्यसानाहत्य] | द्विधा भेदाद्बहून्यत्र वक्ष्यन्ते [क्, ग्: लक्ष्यन्ते] विश्वकमतः || ५४ || आद्यादीनां त्रिधा स्थौल्याद्यववृद्ध्या तदष्टधा | त्रिधा हस्ताज्जिवाख्यं च युक्तं सर्वसमेन च || ५५ || पञ्चविंशतिभेदान्यनाद्ये [मू: लिङ्गानि न द्य] देवार्चिते तथा | पञ्च [मू: यश्च] सप्ततिरेकत्वाज्जिनैभक्तंभवन्ति हि || ५६ || चतुर्दशसहस्राणि चतुः शतयुतानि [मू, अ, ग्: शतायुतानि] च | एवमङ्गुलवृद्ध्या च नवैककरगर्भतः || ५७ || प्. ७३) तेषां कर्णार्धकोणस्थैश्छिन्द्यात्कोणानि सूत्रकैः | विस्तारं सप्तधा कृत्वा स्थाप्यं वा मध्यतस्त्रयम् || ५८ || द्विभागादूर्ध्वमष्टांशो द्व्यष्टांशैः [मू: मष्टांशो द्व्यष्टांशैः] स्याच्छिवांशकः [क्: च्छिरांशकः] | एकैकांशं चतुर्भागं कोणह्रासं द्विभागतः || ५९ || तत्तीर्यक्सूत्रसंपाताद्दशनासं भवेत्पुनः | तदेकैकं युगं कृत्वा एकैकांशं समाहरेत् || ६० || द्वयन्तयोस्तु क्रमात्सूत्रैर्दशनास्रं पुनर्द्विधा | क्वचित्कणंप्रवेशेन लाञ्छयित्वासिशातनम् || ६१ || षोडशास्रं भवेत्तद्वत्तद्वदेव द्विषोडश | तन्मध्ये सूत्रसम्भ्रान्ते रुद्रो भवति वर्तुलः || ६२ || शुभार्थमायैः [मू, अ, ग्: रमायैः] संहृत्य बाणाग्निनगभागिभिः | क्षिपेद्वा शून्यदोषघ्नं हस्तादेकाङ्गुलं क्रमात् || ६३ || षोढा ब्रह्मादिभिर्योज्या तत्त्वपक्ष [क्, ख्: तनुपक्ष] गुणैः क्रमात् | षोडशांश क्षिपेदाद्ये [ख्, ग्, घ्: न्नाद्ये] वेदांशममरोर्चिते [ख्: समाख्यत्रिसमैः सुराः] || ६४ || देयं हेयं [मू, अ, क्, ख्, ग्, ङ्: देयं] च वस्वशमाद्ये सर्वसमेन तु | पिङ्गलाया मते प्रोक्तमाद्यामरार्चितेन तु || ६५ || स्वायामाज्जिनभागास्र [मू, अ, क्, ख्, ग्, ङ्: भागाग्र] मङ्गुलात्कररन्ध्रतः [क्, ग्: वक्त्रतः] | प्. ७४) भवेयुर्वर्धमानानि वसुद्विषट् [घ्: वस्वत्विषट्] शतानि च || ६६ || अथाद्यादित्रिलिङ्गानां छायादोषविमुक्तये | विश्वकर्ममतं [घ्: मते] दृष्ट्वा वक्तव्यं पीठवर्तनम् [घ्: पीठवर्तने] || ६७ || अधो मध्योर्ध्वदेशे च भागत्रयसमन्वितम् | तच्च सवसमं लिङ्गं प्रासादे वा गृहे हितम् || ६८ || एवं सवसमं कार्यं सर्वकामफलप्रदम् | द्वौ पादौ जानुपर्यन्तं चतुरस्रेपितामहः || ६९ || तदूर्ध्वं नाभिपर्यन्त विष्णुरष्टास्रके स्थितः | आमूर्धं नाभितश्चोर्ध्वं वृत्तभागे हरः स्वयम् || ७० || यथाव्यक्ते तथार्चायां मुखलिङ्गे स्थितः क्रमात् | पञ्चधाव्यक्तलिङ्गानि समपीठानि तानि च || ७१ || तुल्याख्यं समुखं [घ्: सुमुखं] कुर्यादीशानं वा सुरार्चितम् | एवं लिङ्गानि कार्याणि दोषाय स्युरतोऽन्यथा | पञ्चलिङ्गव्यवस्थेयं शिरोवर्तिन्यथोच्यते [मू, अ: वर्तनमुच्यते; क्, ख्: वर्तन्यथोच्यतेः] || ७२ || छत्राभं कुक्कुटाण्डाभं बालेन्दुत्रपुषाकृति | एकैकस्य चतुर्भेदैः काम्यरूपात्फल वदेत् || ७३ || वस्वंशैश्चरमेऽर्थांशैः [मू: मेथांशैः] पुण्डरीकं तपक्षयात् | यशस्तेन भवेत्कर्तुर्विशालं द्विक्षयाच्छ्रिये | श्रीवत्सं त्रिक्षयात् प्रीत्यै [घ्: प्रीतिः] दिङ्मर्दनं चतुःक्षयात् | प्. ७५) चिरराज्यप्रद ख्यातं छत्रभेदाश्चतुर्विधाः || ७५ || युगांशे चरमेऽष्टाभिर्विमलं तत्त्व [क्, ख्, ग्, घ्: तनु] शातनात् | मानद [मू: मानाङ्ग] पक्ष [क्, ख्, ग्: पद्म] लोपाच्च विपुलं ख्यातिदं भवेत् || ७६ || वर्धमानं त्रिन शाच्च [मू, क्, ख्, घ्: त्रिभागाच्च] धनदं [क्: पददं; ग्: वनदं] वेदलोपनात् | श्रीवासं पुत्रदं कुर्तुर्दक्षाण्डं स्याच्चतुर्विधम् || ७७ || त्र्यंशात्प्राप्तैर्युगांशैश्च एकहान्यामृताह्वयम् [घ्: -ह्वकम्] | पुष्टिदं द्विक्षयात्पूर्णं महाह्लादकरसदा [ख्: तथा] || ७८ || त्र्यंशत्यागाद्बल ख्यातं सौभाग्यं च [ख्: सौभाग्यदं] युगक्षयात् | आयुदं कुमुदं ज्ञेयं चन्दं चतुर्विधं मतम् [मू: ज्ञेयं चन्द्रं चतुर्विधम्] || ७९ || ऋत्वशैश्चरमे वेदैर्विजयं भवनाशनम् | सर्वकामप्रदं प्रोक्तं विनाशं द्विक्षयाच्छ्रिये || ८० || त्रित्यागाज्जयदं भीमं चित्राकं [ख्: विदाव्हं; क्, ग्: चित्राङ्कं] वेदशातनात् | बल्लभत्वप्रद तच्च चतुर्धा त्रपुषं भवेत् || ८१ || त्रपुषं छत्र चन्द्राभं कृकवाक्वण्डकं [मू: क्वण्डवत्] क्रमात् | कुर्याद्विप्रादिकार्यार्थमेकं वा कुक्कुटाण्डकम् [ख्: टाण्डभं] || ८२ || त्रपुषादिष्टसंसिद्धी राज्यं स्यादातपत्रतः | दीर्घायुष्ट्वमथ चेन्दोः [मू, अ, क्, ख्, ग्, ङ्: मथार्धेन्दोः] कृकवाक्वण्डतः प्रज्ञाः || ८३ || प्. ७६) लिङ्गनाहविकारांशं कृत्वा तु गुणयेत्ततः | जिनविंशतिशार्दूलैराद्ये ब्रह्मादिवेष्टनम् || ८४ || नखात् षष्टि [क्, ख्: दृष्टि] विकारांशैरनाद्ये च [मू: वै] तथा भवेत् | विकारेण स्मरेणांशतृतीयांशयुतेन च || ८५ || भागस्यार्धविभागेन युक्तांशेन [क्, ख्: युक्तार्केण] सुरार्चिते | भागतृतीयभागेन नखचन्द्रान्वितेन च || ८६ || अंशतृतीयभागेन चात्यष्टांशयुतेन च | ससप्तदशभिश्चांशैः परिधिः स्यात्समांशके [मू: समाह्वके] || ८७ || चतुर्दोंर्भिरजोवेष्टं [मू, क्, ख्, घ्: रजोवेष्टयै] कृत्वा सप्तांशकं भुजम् | सार्धद्वित्रिभुजैर्विष्णुः साङ्घ्र्येकत्रिभुजैर्हरः || ८८ || मूर्धोन्नते [क्, ख्: मूर्ध्न्युन्नते] महाभोगः पृष्ठे गोलाभ एव च | यवगर्भे भवेत्पुष्टिः पानान्नं जठरोन्नते || ८९ || सर्वाङ्गवर्तुले सौख्यं प्रजालक्ष्मीविवर्धनम् | समकुक्षौ भयं हन्यात् स्थूलमूले त्वरोगता [मू: ह्यरोगता] || ९० || शूलाभे विकले मूर्ध्नि प्रजा हन्ति सकर्तृकाः | निम्ने च लुञ्चिते कुर्याद्धनधान्यविनाशनम् || ९१ || क्षतं च मूर्ध्नि यल्लिङ्गं तद्धन्यात्कतृभूभुजौ | छिद्रान्वितं च सद्भाया [मू, अ, क्: तथा भार्या] ललाटे निम्नक सुतम् || ९२ || मूर्ध्नि स्थूलं च कर्तृघ्नं चक्रं चवार्थशिल्पिहृत् | प्. ७७) मध्ये कृशं च शोकाय दुभिक्षदमधः कृशम् || ९३ || हीनाङ्गे चिपिटाङ्ग च भयं पीडा च जायते | व्रणितामयवृद्धिश्च दुर्भिक्षं चातिकोटरे || ९४ || हन्याद्दीर्घकृशे राष्ट्रं ह्रस्वे व्याधिः प्रकुप्यति | धनघ्नं पृष्ठनिम्नं स्याद्रोगं पार्श्वे तथोदरे || ९५ || सुनिष्पन्नं यदा लिङ्गं घृष्ट्वा शाणादिभिर्बुधः | सम्यक् सुनिर्व्रणं धौतं तदा चिन्हानि लक्षयेत् || ९६ || स्वस्तिका [क्, ग्: मुष्टिका] व्जाङ्कुशच्छत्रचक्रासिध्वजकम्बु च [घ्: कम्बुभिः] | मकरादर्शचापोभिस्रक्कमण्डलुतोरणाः || ९७ || मत्स्यकूर्माद्रिभान्विन्दुयव [मू: घृष] सिंहाक्षसूत्रकाः | श्रीवत्सनन्दिकावर्तरथहारेभभूषणैः || ९८ || नेत्रकुंभजटालिङ्गास्त्रीताराशूलचामराः | मयूरवाजिवासोभिस्तरुवज्रपवित्रकाः || ९९ || प्रासादकरवह्न्यर्चिर्भगाकारा [मू, अ, ग्: भवाकारा] च रेखिकाः | लिङ्गाङ्गे यत्र तत्र [घ्: यत्र यत्र] स्यान्नृपराष्ट्रविवृद्धिदाः || १०० || कबन्धकपिमार्जारव्याघ्रभल्लूकपेवकैः | करङ्ककङ्कगृध्राहिश्येनकाकखराखुभिः || १०१ || बलाकानिगडोलूकपाशसंदंशकीटकैः | पतङ्गमुण्डमालोष्ट्र वृकाकारश्वरूपकैः | यजमानप्रजाराज्ञां लिङ्गं भीश कदायकम् [मू: स्त्रीशोक] || १०२ || प्. ७८) ([अत्र पार्थिवादितत्त्वानां वर्णविभाजने वर्णोल्लेखने च भिन्नक्रमः | आकाशतत्त्वं च नैव वर्णितम् | ग्रन्थान्तरेषु तु पञ्चैव तत्त्वानामुल्लेखः समुपलभ्यते | पाठोऽयमशुद्धः अपूर्ण इव च प्रतिभाति | शैवागमविद एवात्रप्रमाणम् | तत्त्ववर्णविभाजनक्रमस्तु पुरश्चर्यार्णवस्य प्रथमतरङ्गस्य दीक्षाप्रकरणे कुलाकुल चक्रे प्रकारान्तरेण कृतः | स च यथा- वायवग्निभूजलाकाशाः इति | अ आ ए क च टतपयषा मारुताः इ ई ऐ ख छ ठ थ फ र क्षा आग्नेयाः | ऋ ॠ औ घ झ ढ ध भवसा जलीयाः | ऌ ॡ अं ङ ञ ण न मशहा नाभसाः इति |] इ ई छ ल द्वयं [घ्: ऌ ऌ] चैव तथा पञ्चानुनासिकाः | एते च पार्थिवा वर्णा लिङ्गचिन्हानि भूतये [क्: भूतले] || १०३ || ऊ अं अ च ड टा [क्, ख्, घ्: फटा] क्षाधःकसहाजावसा [मू: कहाजव ऋसा] शिति | एते च [घ्: तु] वारुणा वर्णा प्रजायुर्धनलाभदाः || १०४ || ऋ-ॠ-आयर औघा ओ विसर्गश्च दखाः पृथक् | आग्नेया अग्निसन्त्रासदुर्भिक्षव्याधिवर्धनाः || १०५ || ए ओ ए उपगाभाथठढकारावर्षाविति | वायव्या वायुसन्त्रासकलहाद्वेगकारकाः || १०६ || मिश्रास्त्वेते फलं दद्युर्हीनाधिकसमं ततः | साधने चास्त्रिलिङ्गं च दिग्लिङ्गं चैव वक्ष्यते [ख्: लक्ष्यते] || १०७ || एकास्रं शत्रुनाशाय द्व्यस्रं पुत्रविवृद्धिदम् | त्र्यस्रं चाशेषसिद्ध्यर्थं वेदास्रं चेप्सितप्रदम् || १०८ || प्. ७९) पञ्चास्रं शत्रुनाशाय षडस्रं भोगदायकम् | सप्तास्रं द्वेषकृत्ख्यातमष्टास्रं कीर्तिवर्धनम् || १०९ || उच्चाटने नवास्रं स्याद्दशास्त्रं रोगनाशने | रुद्रास्रं रोगवृद्ध्यर्थं भयघ्नं द्वादशास्रकम् || ११० || कामास्रं शत्रुनाशाय स्तंभने भुवनाश्रकम् | तिथ्यस्रं पुण्यकृल्लिङ्गं विकारास्रं सुखप्रदम् || १११ || पूर्ववत्कल्पनैतेषां मानमस्तकरूपतः [क्, ख्, घ्: रूपकम्] | नवावधिकरान्तस्य शून्यदोषो न कस्यचित् || ११२ || वसुकृते दिशालिङ्गे अङ्गुलं वा करक्रमात् | त्रिधा मानेन चैकेन [घ्: चैक्येन] षोडशास्रं शतद्वयम् || ११३ || तद्दैर्घ्यैः सूर्यवत्कार्यो बिष्कम्भो वेदभागतः | चतुरष्टषडस्रं तु इन्द्राङ्कं [ख्: चन्द्राह्वं] वज्ररूपकम् || ११४ || अष्टास्रं पूर्ववत्कार्यं त्र्यस्रांश [क्, ख्: त्रिस्त्र्यस्र] मिन्दुयाम्ययोः | बिन्दुसंपात्संयोगात्तिर्यक्सूत्रैर्विवर्तयेत् || ११५ || नाहार्धं रुद्रभागं च [मू: रुद्रभागेन] बाणाश [क्: बाणांशे] श्चतुरस्रकम् | वस्वस्रोर्ध्वं तु [मू: वस्वस्रोर्धे तु] सप्तास्रं शक्त्याग्नेय च दाहकृत् || ११६ || किन्तुस्वांशा [मू: स्वसां] विना शत्रोयाम्यं चिपिटकं ततः | नाहार्धं नवधा कृत्वा शरैर्हृत्पृष्ठकोटिभिः || ११७ || प्. ८०) पार्श्वाद् [मू: पार्श्वे] द्व्यस्रैर्ग्रहैःषड्भिः कोणेष्वम्बुविनाशनात् [मू, अ, ङ्: कोणेषु स्वविनाशकृत्] | एवं चाष्टास्रवृतं स्याद्याम्यदण्डं [मू, अ, क्, ग्, ङ्: यामदण्डं] रुजप्रदम् || ११८ || दैर्घ्यार्धं [घ्: दैघ्यैवं] रुद्रवत्कृत्वा भूतांशैश्चतुरस्रकम् | अष्टास्रोऽर्ध [मू: -ऽर्धं] दशास्त्रं स्यात्खड्गाभं राक्षसं भयम् [क्, ख्: क्षये] || ११९ || नाहार्धं मुनिवत्कार्यं विष्कंभं युगभागतः | चतुरष्टास्रवृत्तं स्यात्पाशवद्वारुणं शुभम् || १२० || दर्घ्यार्धं रविभागेन वेदास्रं [ख्: चन्द्रास्रं] मुनिभागतः | कृशं प्राग्रूपकं दीर्घं चलमुच्चाटकृद्ध्वजम् || १२१ || कुर्यात्सर्वसमं लिङ्गं स्थूलोदरविनिर्मितम् | याक्षं [क्: पाक्षं; ग्: माक्षं] गदाग्रमूर्धानं बलवृद्धिकरं [घ्: धन-] शिवम् || १२२ || नाहार्धं रुद्रभागेन विष्कंभं षड्विभागतः [मू: विभागजम्] | चतुःपञ्चास्रकं [मू: चतुरस्रास्रकं] त्र्यस्रं शूलं रौद्रं तु मुक्तिदम् || १२३ || रसभाग [क्, ख्, ग्: रसभागे] कृतं नाहं [घ्: नाहात्] पक्षांशे [ख्: पक्षांशैः] चतुरस्रकम् | अष्टास्रोऽ [ग्: अष्टांशो] र्धं च वेदास्रं ब्राह्मं स्वर्गाय पद्मवत् || १२४ || प्. ८१) वाहार्धं नगभागेन विष्कंभं तुर्यभागतः | चतुरष्टास्रवृत्तं स्याद्वैष्णवं शङ्खव [मू, अ: शक्तिवत्] च्छुभम् || १२५ || ऋतूदये द्विभागार्धत्यागाद्वज्रशिरो भवेत् | रुद्रात्त्रिहानितः शुक्तिर्दण्डो दिग्भ्यस्त्रिहानितः || १२६ || त्रिभिर्हृतै [मू, अ, क्, ख्, ग्, ङ्: -र्हतैः] रंसिः शैलाद्बालेन्दुर्वारुणे शिरः | कुक्कुटाण्डं च वायव्ये भूतांशाद्धि यते गदा || १२७ || ग्रहांशात्त्रिविनाशात्स्यात्त्र्युन्नत शूलसंज्ञकम् | दक्षाण्डभज वैष्णोश्च इत्थ रेखा मणेरपि || १२८ || ह्रस्वं दीर्घं कृशं स्थूलं कुब्जं खञ्जं [घ्: खञ्जकुब्जं] च चामनम् | स्फुटितं गर्भवद्दष्टं स्थापयेदाभिवारिके || १२९ || एवमव्यक्तलिङ्गानि कीर्तितानि शुभाशुभम् | व्यक्तलिङ्गानि चान्यानि नाना रूपाणि वच्म्यतः || १३० || इति [इति प्रतिष्ठातन्त्रे, लिखितपुस्तकेषु पाठः] लक्षणसमुच्चयेऽव्यक्तलिङ्गलक्षणं नाम [लिङ्गवर्तनाविधिः, इति लिखित पुस्तकेषु पाठः |] चतुर्थो विधिः || ४ || अथ पञ्चमः व्यक्तार्चालक्षणं सम्यग्रुदानीनां प्रवक्ष्यते | पूर्वाङ्गुलप्रमाणेन दशपञ्चाङ्गुलाङ्गुलात् || १ || गृहेषु प्रतिमा पूज्या नाधिका हि प्रशस्यते | क्वचिद्धस्तप्रमाणा सा क्वचिच्च त्रिंशदङ्गुला || २ || अधिकांस्थापयेद्धाम्नि द्वारहस्तप्रमाणिकाम् | प्. ८२) द्वारोच्छ्रयं विभज्यादावष्टधौकं [मू, अ, क्: वष्टधैकं] विधाय च || ३ || पुनस्त्रिधा विभज्याथ भागेनैकेन पिण्डिका | विधातव्या द्विभागेन कन्यसी प्रतिमा च सा || ४ || द्वार्दैर्घ्यं नवधा कृत्वा त्यक्त्वैकांशं त्रिधा परम् | मध्यमा स्याद्द्विभागेन [घ्: मध्यमार्चा विभागेन] कार्यैकांशेन पीठिका || ५ || द्वारनाहं त्रिधा कृत्वा भागेनैकेन पिण्डिका | कर्तव्या तद्द्विभागेन प्रतिमा सोत्तमा मता || ६ || करमाने करादेः स्यादेकैकस्योत्तरोत्तरम् | नवान्तं त्रित्रिकान्तेषु कन्यसाद्याः प्रकीर्तिताः || ७ || गर्भकर्णविभागेन प्रतिमालिङ्गगोच्छ्रयम् | पीठ [घ्: पीठं] द्वारप्रविस्तारं मयश्चक्रेस्वके मते || ८ || बाह्ये तु प्रतिमा कार्या महती करमानतः | तिथिमासनवत्यर्धैहीनमध्योत्तमास्त्रिधा || ९ || सालङ्कारास्त्रिधा भूता [मू, अ, : स्त्रियो भूत्वा] वेतालाः स्थूल [ग्: स्थल] वामनाः | पङ्गुरूपाश्च [घ्: पङ्गुरूपाः स] कूष्माण्डाः सप्तधार्चाश्च [मू: धार्वाश्च]वर्तयेत् || १० || निर्दोषोच्छ्रायसंयुक्तां चतुरस्रायतां शिलाम् | विभज्य शक्तिसूत्रेण ऋक्षादिभ्यः [मू, अ, क्, ख्: ऋक्ष्यादित्यः] शुभे दिने || ११ || संपूज्यादौ गुरुं कारुं कृत्वा स्वस्त्ययनादिकम् | पीठात्माश्रयजीवांश्च प्रभादींश्च प्रकल्पयेत् || १२ || प्. ८३) विस्तारव्दिगुणं [मू, अ, ङ्: विस्ताराद्द्विगुणं] क्षेत्रं पञ्चधा प्रविभज्य च | कृत्वाधोंशगतः [मू: चाधोगतः] पीठं त्रिभागे जीवकल्पना || १३ || भूतांशेन प्रभाश्चैव अन्तं विद्याधरादिकम् | सात्माश्रयां सदूतीं [मू: सभूतां] च प्रतिमां वर्तयेत्ततः || १४ || सूत्राणि सप्तत्रिंशत्स्युस्तिर्यक्लाङ्घ्रिशतं तथा | भागैकमङ्गुल कृत्वा महार्चां वतयेद्बुधः || १५ || दैर्घ्यं च नवधा कृत्वा तत्रैकं सूर्यसम्मितम् | एक भागेऽङ्गुलं तस्या [घ्: तस्यां] स्तेनाङ्गं परिकल्पयेत् || १६ || मौलिललाटनासाभ्रूनाभिमेढ्राङ्घ्रिकेषु [क्, ख्: मेढ्रादिकेषु] च | मये सूत्रं समं न्यस्य ऋज्वर्चां कारयेच्छुभाम् || १७ || पादाङ्गुष्ठाल्ललाटान्तमष्टोत्तरशताङ्गुलम् | जीवस्याद्दैर्घ्यमानेन प्रत्यङ्गान्यधुना व्रुवे || १८ || तालेन मुकुटोच्छ्रायस्तद्विस्तारो दशाङ्गुलम् | मात्राभिस्तिथिसंख्याभिर्मुकुट [मू, अ, क्, ख्: मुकुटे] वेष्टनं भवेत् || १९ || तालैकं मूर्ध्नि विस्तार उच्छ्रायो गोलकद्वयम् | तालमानं भवेद्वक्रं ग्रीवा च चतुरङ्गुला || २० || कण्ठकूप दधश्चूचूनाभिगुग्रं यथाक्रमम् [मू, अ, ग्: पराक्रमम्] | तालैकैकप्रमाणं स्यादूरू तालविनिर्गमौ || २१ || द्विकले जानुनी तस्या जङ्घे चैव द्वितालके | प्. ८४) ज्ञेयौ गुल्फौ द्विनेत्रौ च पार्ष्णीद्व्यङ्गुलके मते [क्: क्रमात्] || २२ || वृत्ते च त्र्यङ्गुलोच्छ्राये पादौ सप्ताङ्गुलायतौ | मध्ये कलाद्वयोच्छ्रायोवग्रेसार्धार्ध [ख्: सा चार्ध] मात्रकौ || २३ || तद्विस्तारौ (त्रि) द्विनेत्रौ च अङ्गुष्ठत्र्यङ्गुलस्तयो [ग्: द्वयोः] | पञ्चाङ्गुलौ वेष्टनेन सार्धाङ्गलद्विपर्वणी || २४ || प्रदेशिनी च दैर्घ्येण सा च त्र्यङ्गुलका मता | त्र्यङ्गुला परिणाहेन कथ्यन्ते त्वधुनापराः || २५ || अन्यादैर्घ्यविकारांशहीनावेष्टेन चाष्टभिः | पादाङ्गुल्यस्त्रिपर्वाणः पर्वार्धनखशोभिताः || २६ || पादाङ्गुष्ठनखौ निम्नावग्रे [मू, अ, क्, ख्, ङ्: वत्र] कार्यौ यवोन्नतौ | काराङ्घ्रि [मू, अ, क्, ख्: नखाङ्घ्रि] तलकं रक्तं नखाः सवोन्नतारुणाः || २७ || वक्षो द्वितालविस्तारं बाहुमूले षडङ्गुले | उपबाहू दशाष्टांशौ षोडशाङ्गुलकौ भुजौ || २८ || सप्ताङ्गुलकर यामः पञ्चाङ्गुलप्रविस्तरः | भूताङ्गुला भवेन्मध्या अर्धहीना त्वनामिका || २९ || तत्समा तर्जनी धर्माङ्गुलाङ्गष्टकनिष्ठिके | मध्यमाद्यास्त्रिपर्वाणो द्विपर्वाङ्गुष्ठको मतः || ३० || मध्य [मू: मध्या] ग्र [मू: यामात्व] कलायामस्त्व न्थिङ्गुलार्ध विनाग्रतः | तर्जन्यनामिकापर्व सपादयववर्जितम् || ३१ || प्. ८५) सा च द्वियवहीना स्यात्प्रतिपवकनिष्ठिका | द्व्यङ्गुलोऽङ्गुष्ठकग्रन्थिरासां पर्वार्धगा नखाः || ३२ || अथ त्र्यंशविभक्तास्यं ललाटं नासिकामुखम् | नासोत्सेधः सविस्तारोद्व्यङ्गुलो द्विपुटः [मू, अ: द्विकुटः] शुभः || ३३ || अर्धाङ्गुलसमे वृत्ते नासाया विवरे शुभे | द्व्यर्धं यवं पुटे स्थूले मध्ये वश [क्, ख्: विंशः] स्त्रिभिर्यवः || ३४ || ([कोष्ठान्तर्गतोऽयं पाठः ख्. पुस्तके नास्ति] नासाधोऽर्धाङ्गुलं गोजी गोज्या वाधो [मू: चाधो] ङ्गुलोऽधरः | अधेऽपरोऽङ्गुलकं तु [क्, ग्: ङ् गुलकर्ण] द्व्यङ्गुले चिबुकस्थितिः || ३५ || वेदाङ्गुलं मुख खातं [मू: ख्यातं] यवमानं तु सृक्कणी |) नासिकामूलपार्श्वे तु लोचने द्व्यङ्गुलायते [ग्: लोचनमङ्गुलायते] || ३६ || मीनोदरा च चापाभा [घ्: चवाभा] नरदृक् [मू: नवदृक्] कुमुदाकृतिः | इन्दीवराब्जपत्राभा पटोलफलवत्स्त्रियाः || ३७ || तद्विस्तारोऽङ्गुलं चैकं तारा स्यात्तत्त्रिभागिका | पञ्चमांशं भवेज्ज्योतिः सृक्कणीसूत्रतुल्यतः || ३८ || रुचिरौ यवमानौ च घ्रापुटौ [मू: द्वौ पुटौ; ग्: नासापुटौ] समसूत्रकौ | अर्धाङ्गुलसमा द्रोणी सार्धद्व्यङ्गुलदीर्घता || ३९ || नेत्रार्धे द्व्यङ्गुलायामे भ्रुवौ द्वियवविस्तरौ | प्. ८६) तयोर तरमात्रार्धं स्त्रियां यवार्धविस्तृते [घ्: यथाम्बुविस्तृते] || ४० || कार्मकाभे समे शस्ते भूसमा कर्णयो ७ स्थितिः | कर्णौ नेत्रदयायामौ तदर्धाद्विस्तरस्तयोः || ४१ || यवद्वयोन्मिति [घ्: द्वयमिति] वती शष्कुली तत्समा भवेत् | कलार्धं (तदुकौ [मू,अ: तुढुकौ; क्, ग्: तुटुकौ; ख्: तुपुकौ] खल्वौ ?) पाशौ कुर्याद्यथेप्सितौ || ४२ || सार्धतलं भवेन्मूर्ध्नि कर्णयोरूर्ध्वदेशतः | इन्द्रसङ्ख्याङ्गुलं पश्चात्कर्णयोरन्तरं विदुः || ४३ || सार्धं यवं तु कर्णं तु दलं कुर्यान्न चाधिकम् [ख्: नराधिकम्] | ललाटोऽष्टाङ्गुलायामस्त्र्यङ्गुलः शङ्ख उच्यते || ४४ || तदूर्ध्वे द्व्यङ्गुले शुक्ती [ख्: शक्तिः] त्रिताल [क्: त्रिकाल] वेष्टनं शिरः [ग्: शिवः] | सप्ताङ्गुलौ कपोलौ तु साङ्गुलौ सयवोच्छ्रयौ || ४५ || द्विकलार्धाक्षिसृक्का [मू, अ, ग्: सूक्ता] तु त्वपाङ्गौ सायकाङ्गुलौ | हनू कला त्रदीर्घौ व्दिकलश्चिबुकोद्गमः || ४६ || ग्रीवाष्टाङ्गुलविस्तारा वेष्टनेन द्वितालका [ख्, घ्: तालिका] | स्कन्धोऽष्टाङ्गुलविस्तारस्तदायामश्चतुष्कला || ४७ || त्रिगोलावशकौ ख्यातौ षडङ्गुलपृथू भुजौ | विस्तारः कूर्परस्तस्माद्भूताङ्गुलैर्यवैस्तथा || ४८ || पञ्चाङ्गुलोपबाहू च तन्मध्यं च [घ्: तन्मध्ये तु] कलाद्वयम् | प्. ८७) चतुरङ्गुलविस्तारो मणिबन्धः प्रकीर्तितः || ४९ || क्रमात्त्रिगुणकं बाह्वोः परिवेष्टनमेतयोः | स्तनयोरन्तरं तालं तयोः प्रान्तौ द्विनेत्रकौ || ५० || चूचुकं यवमात्रं [घ्: चूचूकौ यवमात्रौ] तु द्वियवं स्तनमण्डलम् | नाभिः प्रदक्षिणावर्ता निम्नतोऽर्धाङ्गुलोदिता || ५१ || विस्तारेणाङ्गुलं विद्यान्नाभ्यधो द्विकलोदरम् | हृद्विंशत्यङ्गुलं प्रोक्तं नाभिदेशश्चतुर्दश || ५२ || अष्टादशाङ्गुला श्रेणी विस्तारेण प्रचोदिता | पञ्चादशाङ्गुलं [मू, अ, क्, ग्: पञ्चाशदङ्गुलं] वक्षो हृद्देशः पञ्चभिर्विना || ५३ || वेष्टनेन ततो नाभिर्द्विचत्वारिशदङ्गुलम् | कटिः संवेष्टनेनोक्ता शताच्च [क्, ख्: स तावत्] द्व्यधिकाङ्गुला || ५४ || स्फिचौ पीनौ सुवृत्तौ च समौ च द्विकलोन्नतौ | चतुर्नेत्रप्रविस्तारौ गजकुम्भोपमौ शुभौ || ५५ || वृषणौ द्व्यङ्गुलायामौ तन्मध्ये मेहनस्थितिः | मेहनस्त्र्यङ्गुलो दैर्घ्यात्यरिणाहे [मू: परिणाहात्] षडङ्गुलः || ५६ || तत्कोशाग्रं द्विनेत्रं च परिणाहेन कीर्तितम् | पायोश्चवृषणस्यान्तविस्तारेण द्विगोलकम् || ५७ || ऊरुमूले च तन्मध्ये जानू द्वे जानुदेशतः | तदधः पिण्डिकायां च जङ्घायां घण्टिकोर्ध्वतः || ५८ || एकैकं क्षीयते तालो [घ्: तालाद्] यावत्पञ्चाङ्गुल [घ्: पश्चाङ्गल] स्थितिः | प्. ८८) एवं विस्तार एतेषां वेष्टनं त्रिगुणाधिकम् || ५९ || यवगर्भे कृशे लिङ्गे कराङ्गुल्यग्रके तथा | भुजजङ्घाग्रके चैव स्वविस्तारात्त्रिवेष्टनम् || ६० || एतदुक्तं च सामान्यं स्त्रियाः पुंसश्च लक्षणम् [मू: वेष्टनम्] | नार्यष्टांशा च तन्वङ्गी [मू, अ, ख्: तत्त्वङ्गी] चक्षुः श्रोणी स्तनाधिका || ६१ || गण्डास्थिसूत्ररामेण (?) त्र्यस्रं कूर्मोन्नतं भगम् | तन्मध्यतस्त्वधोभागे रन्ध्रं स्यात् कुञ्जरोष्ठवत् || ६२ || दक्षाण्डाभं तिलाकारं देवदेव्योर्मुखं वरम् | वृत्तं वेदास्रकं चास्यं कुर्यात्प्रेतादिरक्षसाम् || ६३ || नवांशैरितरे ख्याताः प्रधाना दशभागिकाः | ब्रह्मविष्णुहरादीनां संक्षेपाल्लक्ष्म चोच्यते || ६४ || मुकुटाद्यङ्गुलैकैकं [घ्: मुकुटाद्द्वङ्गु-] प्रक्षिपेच्चरणान्तिके | वक्षोबाहूरुजङ्घानां [घ्: जङ्घायां] करादीनां क्रमेण तु || ६५ || तालैकादशभि कुर्याद्भूतवेतालरक्षसाम् | द्वे द्वे चैवाङ्गुले देये वक्त्रादिषु यथाक्रमम् || ६६ || किङ्कराः स्थूलरूपाश्च सप्ततालोछ्रया मताः | वामनः पञ्चतालश्च भूतांशैः पङ्गुकुब्जकौ || ६७ || कूष्माण्डकश्चतुस्तालैरुन्मानेन प्रकल्पयेत् | बुद्ध्वा बुद्ध्वा तु यत्नेन सूक्ष्मदृष्ट्या विचक्षणः || ६८ || पोषणं हरणं कुर्यात्सर्वस्मिन्नेव रूपके | प्. ८९) अचतन्मानतः कार्याः सर्वावयवभूषिता || ६९ || सर्वशान्तिकरी धन्या न हीना नाधिकाङ्गिका | स्थानकैः करणैर्युक्ता प्रतिमैषा फलप्रदा || ७० || विक्षिप्ताधोमुखी स्तब्धा हीना शुष्का कुनेत्रिका | वक्राङ्गी [मू, अ, क्, ख्, ङ्: चक्राङ्गी] चिपिटा दीना कृश [ख्: भूष] गात्री च रौद्रिका || ७१ || विक्षिप्ताङ्गी क्षयं कुर्यात् पापदाधोमुखी मता | सङ्कोचकारिका स्तब्धा हीनवक्त्रा च रोगदा || ७२ || यानघ्नी [क्, ख्: दानघ्नी] कटिहीना स्याज्जनहृत्पाणिपादतः [ख्: पादपाणितः] | हीनजङ्घारिसौख्याथं शुष्का स्यान्नृपनाशिनी || ७३ || शुष्क [ग्: गुह्य] पाण्यङ्घ्रिकद्या स्यादाचार्यं शुष्कजङ्घिका | उद्वेगजननी सा तु भ्रामणी च सदा भवेत् || ७४ || कुनेत्रा नेत्रहृत्ख्याता वक्रघ्राणा तु दुःखःकृत् | वक्राङ्ग्यर्थाङ्गनाशाय चिपिटा दुःखदायिनी || ७५ || दीनार्चा [मू: नीचार्चा] शिल्पिनं हन्याद्रौद्री कर्तृविनाशिनी | धनघ्नी च [मू: तु] कृशाङ्गी स्याच्छस्यघ्नी तु कृशोदरी || ७६ || गण्डोत्तमाङ्गहृद्वक्ष आदौ निम्ना ध्रुवं हरेत् | सुहृद्धनसुतांस्तस्मात्कार्या सल्लक्षणाः सदा || ७७ || ऋजु [क्: ऋज्वा; ख्: ऋद्वा; ग्: ऋद्व] चक्षुगतं साची कृतकं गण्डभीतिदम् [घ्: भीतिकम्] (?) | प्. ९०) छायागतं च सर्वाङ्ग [घ्: सर्वाङ्क] भित्तिकं क्षिप्तकं तथा || ७८ || परावृत्तभीतिमानि नवस्थानानि रूपके | करणानि शतं चाष्टौ व्यन्तरा [क्, ख्: प्यन्तरा] श्चातिविस्तराः (?) || ७९ || इति लक्षणसमुच्चये व्यक्तलिङ्गलक्षणं नाम पञ्चमो विधिः || ५ || अथ षष्ठः नवशक्तयः [अस्य ग्रन्थस्य पूर्वभागात्मके देवता चित्रसंग्रहे पुस्तके मुद्रितानां चित्राणां नामानि क्रमसंख्या चात्र तत्तत्स्थाने दक्तानि अत्रोक्तलक्षणानामुदाहरणानि तत्रैव द्रष्टव्यानि | यथा- (नवशक्तयः) ईत्यस्योदाहरणे १ संख्याकं चित्रं द्रष्टव्यम् | एवं सर्वत्र ज्ञेयम् |] - वृत्तस्था जटिलास्त्र्यक्षा अग्निज्वालासमप्रभाः | कपालाभयहस्तोग्रा वामाद्या नवशक्तयः || १ || शिवः [अस्य २ सं० चि० द्र०]- चतुर्भुजोऽरविन्दस्थः शिवः कुन्देन्दुनिर्मलः | द्वीपिचर्माहिभृच्छान्तस्त्र्यक्षो जटेन्दुभूषितः || २ || कपालशूलपाणिश्च पुरोत्तानकरद्वयः | अङ्गषट्कसमायुक्तः शीघ्रं स्यात्सिद्धिदायकः || ३ || प्. ९१) शिवभेदः [अस्य ३ सं० चि० द्र०] - स एवाब्जस्थितो देवो दिग्वाहुर्दृक्त्रिपञ्चकः | [अत्र क. पुस्तकस्या टिप्पणी-युव= ईशः, यौवनः=पुरुषः, वृद्धः=अघोर, स्त्री=वामदेवः, बालः=सद्योजातः, इति |] युवयौवनवृद्धस्त्रीबालाभः पञ्चवक्त्रभृत् || ४ || सव्ये कर्तरिकादर्शकुण्डीवरदशूलभृत् | वामेना [ख्: दक्षेण; अत्रैव क्. पुस्तकस्य टिप्पण्यां अक्षमाला इति शब्दश्व प्रक्षिप्तः] भयमन्त्राङ्क [घ्: मन्त्राह्व] कपालोत्पलपूर [अत्रापि क्. पुस्तकस्य टिप्पण्यां बीजपुर इति प्रक्षिप्तः] भृत् || ५ || हृत्सितं कपिलं मुण्डं पीता शिखा सितच्छदम् | दृग्रक्तासिहुताशाभाः सर्वे त्र्यक्षा जटान्विताः || ६ || द्विभुजाश्चकवक्त्राश्च कपालशूलपाणयः | बभ्रुभ्रूश्मश्रुद्दा?भीममस्त्रं पीतं स्वशस्त्र [क्, ख्, ग्: सुशस्त्र] भृत् || ७ || शिवभेदः [अस्य ४ सं० चि. द्र०]- कुण्डी पाशाङ्कुशं घण्टा शूलं च वामहस्तके | शक्ति [पा: शान्ति] वज्राक्षमालासिचक्राणि दक्षिणे क्वचित् || ८ || द्वीपिचर्मवरोऽब्जस्थो नागयज्ञोपवीतवान् | एकास्यः पञ्चवक्त्रो वा त्र्यक्षो जटेन्दुभृच्छिवः || ९ || अनन्ताद्याश्चतुर्दिक्षु रक्तनीलसितारुणाः | प्. ९२) कोणेषु चैक [मू: चैव] रुद्राद्याः सितासङ्नीललोहिताः || १० || सर्वे चाष्टभुजाः सौम्याश्चतुरास्या जटान्विताः | शिवायुधधरास्त्र्यक्षाः सृण्यसिभ्यां विना क्वचित् || ११ || दिग्वर्णा [मू, अ: दिग्दण्डा] जटिलास्त्र्यक्षाः स्थूलत्रि [मू, अ, ख्: स्तूरत्री; घ्: स्तूरस्त्री] शलधारिणः | पुटाञ्जलिकराः सर्वे विद्येशाश्चैकवक्त्रकाः || १२ || सोमेश्वरः [अस्य ५ सं० चि० द्र०]- (प्रथम) सितश्चतुर्भुजस्त्र्यक्षः कजस्थो भूषणान्वितः | वराभयकपालाब्जजटेन्द्वजिननागभृत् || १३ || सोमेश्वरः [अस्य ६ सं० चि० द्र०]- (द्वितीयः) कार्यः सोमेश्वरो रक्तश्चतुरास्योऽष्टबाहुकः | दक्षिणे शूलनिस्त्रिशकुठाराभयधारकः || १४ || घण्टाकपालखट्वाङ्गपाशहस्तस्तु वामके | मुण्डमाली शवारूढो द्वैताद्वैते क्रमान्मतः || १५ || नाट्येश्वरः [ अस्य. ७ सं. चि. द्र०]- पीनाङ्गं यौवनोद्भिन्नं दशबाहुं [ग्: दश धाङ्ग] त्रिलोचनम् | सौम्यं प्रहसितास्यं च चन्द्रमौलिं जटाधरम् || १६ || व्याघ्रचर्मांशुकं शान्तं व्यालयज्ञोपवीतिनम् | नागेन्द्रमेखलायुक्तं सर्वाभरणभूषितम् [ख्: मण्डितम्] || १७ || प्. ९३) ऊर्ध्वमेढ्रं महादीप्तं वैशाखकरणे स्थितम् | नृत्यन्तं महाहृष्टमायुधाकुल [मू, अ: मायुधोज्ज्वल] पाणिनम् || १८ || दण्डासिशक्तिशूलानि बिभ्राणं दक्षिणे करे | बलनाकारकं बाहुमेकं कृत्वा हृदि स्थितम् || १९ || कपालं चैव खट्वाङ्गं खेटकं नागनायकम् | वामे प्रतानितभुजं सम्यक् कृत्वा सुशोभनम् || २० || कपालमालिनं दिव्यं सुप्रसन्नं सुभूतिदम् | ([कोष्ठान्तर्गतोऽयं पाठः क्. पुस्तके नास्ति] सर्वशान्तिकरं कुर्यादित्येवं सौम्यरूपकम् || २१ || वृषस्थितं हरं कुर्याद्देवासुरसमावृतम् | स्कन्दनन्दिमहाकालगणेशगणसंयुतम् || २२ || कूष्माण्डाद्यप्सरोभिश्च वृतं विद्याधरादिभिः | सानन्दै रूपसम्पन्नैर्वीक्ष्यमाणं महेश्वरम् [ख्, घ्: वीक्षमाणैर्महेश्वर] || २३ || दिव्याम्बरपरीधानैः सर्वाभरणभूषितैः | तदग्रे च प्रनृत्यंश्च भृङ्गीकार्यं कृशो भृशः || २४ || पुरः प्राङ्मध्यतोऽन्ते च दीप्तोग्राः कामरूपिकाः [मू, अ, क्, ख्: दीप्ताङ्गाः सौम्यरूपिकाः] | विकृतास्तीक्ष्णनासाश्चचौराग्न्यादिप्रदाः [ख्: प्रपदाः] क्रमात् || २५ || यथार्कस्य भवेद्रूपमादिमध्यान्तसंस्थितम् | हरस्यैवं भवेदर्चा स्थाने स्थाने फलप्रदा || २६ || प्. ९४) चण्डभैरवः [अस्य ८ सं० चि० द्र०] वृतनेत्रं च पीताङ्गं पिङ्गभ्रूश्मश्रुमूर्धजम् | भ्रुकुटीभीषणं कृष्णं लेलिहानं च द्रंष्ट्रिणम् || २७ || मुण्डमालाकुलं दिव्यं कपालाभरणोज्ज्वलम् | नागोपवीतिनं दीप्तं नागाभरणभूषितम् || २८ || वीरासनं शवस्थं च गजचर्मोत्तरीयकम् | चतुर्दशकरैकास्यं सौम्यं व्याघ्राजिनाम्बरम् || २९ || शूलासिशक्तिबाणांश्च शान्तिकं दक्षिणे करे | खट्वाङ्गं खेटकं पाशं चापाभयकपालकम् || ३० || बिभ्राणं वामहस्तेन [घ्: हस्ते च] द्वयोश्च गजचर्म तु | मातृभूतान्वितं कुर्याद्भैरवं शान्तिकारकम् || ३१ || अघोरघण्टेशभैरवः [अस्य ९ सं० चि० द्र०]- एतत्सर्वसमायुक्तं कुलिसमुद्गराधिकम् | कुर्यादघोरघण्टेशं द्विरष्टभुजमण्डितम् || ३२ || ([कोष्ठान्तर्गतोऽयं पाठः घ्. पुस्तके वर्तते, अन्येषु नास्ति] अष्टवक्त्रं महारूपं दिग्वर्णं जिनलोचनम् | उपविष्टं सदा कृष्णं सर्वकामप्रदायकम् || ३३ || अन्धकान्तकभैरवः [अस्य १० सं० चि. द्र०]- उच्चालीढं [मू, अ, क्, ख्, ग्, ङ्: ऊर्ध्वालीढ] स्थितं क्रुद्धं प्राग्रूपं पञ्चवक्त्रकम् | प्. ९५) अष्टादशभुजं कुर्याद्वरदाभय [ग्: भवदाभय] वर्जितम् || ३४ || पाणिद्वयस्थसच्छूलसंभिन्नान्धकदानवम् | घ्ण्टां डमरुकं चैव कुठारं मुद्गरं [क्, ग्: मुद्गलं] तथा || ३५ || धारयन्तं स्फुरद्दंष्ट्रं भैरवं त्वन्धकान्तकम् | सर्वशत्रुहरं नित्यं मातृभिः परिवारितम् || ३६ || वैद्यनाथः [अस्य ११ सं० चि० द्र०]- षड्भुजं जटिलं श्वेतं त्रिनेत्रं चन्द्रभूषितम् [ख्: चन्द्रमौलिनम्] | व्याघ्राजिनांशुक सौम्यं नागयज्ञोपवीतिनम् || ३७ || त्रिशूलं चाक्षसूत्रं च [घ्: तु] कपालं कुण्डिकां क्रमात् | याम्ये सौम्ये च बिभ्राण द्वाभ्यां व्याख्यानकं तथा || ३८ || पद्मासनस्थितं कुर्याद्वैद्यनाथं हरं प्रभुम् [ख्: विभुम्] | गौरं सिताम्बरं शान्तं कमण्डलुसमन्वितम् || ३९ || धन्वन्तरि सुषेणं तु वानरास्यं नराङ्गकम् | अमृतागमहस्तं च कुर्यात्तत्पार्श्वयोः सदा || ४० || सदाशिव [अस्य १२ सं० चि० द्र०]- सदाशिवं तदाकारं [ख्: तथा कालं] कुण्डिकाद्यविवर्जितम् | अर्धचन्द्रासनासीनं श्वेतराजीवमध्यगम् || ४१ || दलाष्टके च विद्येशैरनन्ताद्यैश्च दिक्षु च | विदिक्षु चैक [मू, अ: चैव] रुद्राद्यैस्तथा गौर्यादिभिर्गणैः | प्. ९६) दिव्यसिंहासनासीनं ब्रह्माद्यैः परिवारितम् || ४२ || मृत्युञ्जयः [अस्य १३ सं० चि० द्र०]- त्रिनेत्रं षड्भुजं [ख्, घ्: षट्करं] शान्तं जटाखण्डेन्दुमण्डितम् | कपालमालिनं श्वेतं योगासनं कजस्थितम् || ४३ || व्याघ्रचर्माम्बरं रुद्रं नागेन्द्रोरसि भूषितम् | त्रिशूलं चाक्षसूत्रं च [ख्, घ्: तु] बिभ्राणं दक्षिणे करे || ४४ || कपालं कुण्डिकां सव्ये योगमुद्रां करद्वये | कुर्यान्मृत्युञ्जयं देवं मृत्युरोगविनाशकम् [मू, अ, ग्: -शनम्] || ४५ || अर्धनारीश्वरः [अस्य १४ सं० चि० द्र०]- ऊर्ध्वस्थो द्विभुजः कार्यस्त्वर्धनारीश्वरो हरः | वामाङ्गे ललना कार्या योषिदाभरणान्विता || ४६ || दक्षिणे पुरुषस्त्र्यक्षो जटानागेन्द्रसंयुतः | ईशे शूलं कपालं च वामे जाप्यमथोत्पलम् || ४७ || उमेश्वरः [अस्य १५ सं० चि० द्र०]- अर्धचन्द्रासनाब्जस्थो जटाखण्डेन्दुमण्डितः | कुण्डलालङ्कृतः सौम्यो द्विभुजो द्विपिचर्मभृत् || ४८ || वामोरुस्थसुरूपोमा वामपाणिर्निगूढकः | मिथः संवीक्ष्यमाणास्यो याम्यहस्तस्थितोत्पलः || ४९ || देवीयाम्यकराश्लिष्टः स्कन्धार्को दर्पणेऽपरे (?) | प्. ९७) विधेयः शास्त्रविद्वद्भिरूर्ध्वलिङ्ग उमेश्वरः || ५० || रुद्राः [अस्य १६, १७ सं० चि० द्र०]- अजैकपादहिर्बुध्न्यो विरूपाक्षो विरोचनः | हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः || ५१ || जयन्तो दशमो रुद्रः शुकप्रभोऽपराजितः | सद्यः प्रभृतिजौ द्वौ द्वौ तद्वत्कुड्यब्जसंयुताः || ५२ || ([चापचिह्नान्तर्गतोऽयंपाठः ख्. पुस्तके नास्ति] एकादश क्वचिद्रुद्रा हिमकुन्देन्दुसन्निभाः | जटेन्दुमण्डिताः सौम्यास्त्र्यक्षाः सर्पोपवीतिनः | वृषस्था वरदाः कुण्डीशूलपङ्कजपाणयः || ५३ || विष्णुः [चतुर्भुज, द्विभुज, अष्टभुज, नारायणस्य क्रमेण १८, १९, २०. सं. चि. द्र.]- चतुर्द्व्यष्टभुजं चारु कुर्याद्वा विष्णुरूपकम् | शङ्खचक्रभृतं वामे शेषे शान्तिगदाभृतम् [घ्: करम्] || ५४ || पीतकौशेयवस्त्राढ्यमिन्दीवरसमप्रभम् | श्रीवत्सकौस्तुभोरस्कं पीनाङ्गं पृथुवक्षसम् || ५५ || किरीटकुण्डलोपेतं वनमालोपशोभितम् | प्रसन्नवदनं सौम्यं सर्वाभरणभूषितम् || ५६ || ऊर्ध्वं वाब्जस्थितैकास्यं तार्क्ष्यस्थं वा चतुष्करम् | शङ्खचक्रधरे कार्ये [घ्: धरौ कार्यौ] तत्सौम्याग्नेयपार्श्वतः || ५७ || सरस्वतीश्रियौ तद्वद्वीणापद्म [मू, अ, ग्: धर्म] करे क्रमात् | प्. ९८) वामेऽभयप्रदं शेषे शङ्खहस्तं द्विभाहुकम् || ५८ || सौम्यरूपं गृहे कुर्याल्लम्बपाणिं शुभप्रदम् [मू, अ, क्, ग्, घ्, ङ्: शुकप्रभम्] | क्रुद्ध उद्यतहस्तश्च प्रासादस्थः सदा मतः || ५९ || नीलवर्णश्चतुर्वक्त्रो भृशं चैवारुणेक्षणः | सन्दष्टौष्ठपुटः क्रुद्धो विष्णुरष्टभुजो मतः || ६० || गदाखड्गेषुशान्तिश्च बिभ्राणो दक्षिणे करे | चक्रं चापं च खेतं च शङ्खं वामकरे तथा || ६१ || विष्णुश्चतुर्भुजो माली शङ्खचक्रगदाब्जभृत् | एकास्यश्चतुरास्यश्च त्रिमुखो वा मये मते || ६२ || मत्स्यः [अस्य २१ सं० चि० द्र०]- दैर्घ्यं कृत्वाष्टधा द्रव्यमूर्ध्वाधोमुखपुच्छकम् | तत्त्र्यंशविस्तरं चैव पुच्छोऽधं सप्तभागशः || ६३ || सूत्रस्य भ्रमणात्पृष्ठं [क्, ख्: भ्रमणं दृष्टं] तद्वज्जठरवर्तनम् | हस्तौ क्रोडसमीपस्थौ पादौ जठरपार्श्वतः || ६४ || हस्ताङ्घ्री द्वित्रिभागाभ्यामर्धांशेनास्यकल्पनम् | अर्धाङ्गुलं तु तन्नेत्रं द्विसार्धैकार्धभागतः || ६५ || मस्तकाद्द्विदलं तस्य क्रमेण प्रविभज्य च [मू, अ, क्: तु] | शेषं रोहितवत्कुर्यान्मत्स्यरूपधरे विभौ [क्, ख्, ग्, घ्, ङ्: हरेर्विधौ] || ६६ || कूर्मः [अस्य २२ सं० चि० द्र०]- वेदास्रकोणसूत्रार्धं तद्वेदांशैः प्रकल्प्य च | प्. ९९) तद्द्व्यंशमध्यतो वृत्तं कलाहीनं तु पार्श्वयोः || ६७ || ऊर्ध्वाधयोः शिरोग्रीवा पुच्छं शेषे कराङ्घ्रिके | द्विगुणं पादतो दैर्घ्याद्ग्रीवां मस्तकसंयुताम् || ६८ || पृष्ठं समुन्नतं चारु पृथुवेदांशतोदरम् [मू, अ, क्, ग्, घ्, ङ्: दलम्] | नासाक्षिनखकर्णादि ज्ञात्वा कूर्मं विवर्तयेत् || ६९ || वराहः [अस्य २३ सं० चि० द्र०]- कन्धराष्टाङ्गुलायामा वदनं गोलकाष्टकम् | हनू तद्वक्त्रभागे च दैर्घ्यात्सप्ताङ्गुलौ मतौ || ७० || सप्ताङ्गुलास्यनिष्क्रान्तं मात्रैका नासिकाबिलम् | दंष्ट्रे च त्र्यङ्गुले वक्त्रे सितर्षिकलिकोपमे || ७१ || कर्णोच्छ्रायौ द्विनेत्रं च तन्मध्ये षोडशाङ्गुलम् | प्राङ्मानाद्यवहीनं तु चक्रगारुणलोचनम् [घ्: लोचने] || ७२ || आपादकण्ठपर्यन्तं नररूपं चतुर्भुजम् | गदाचक्राब्जशङ्खाढ्यमालीढकरणे स्थितम् || ७३ || श्रीर्वाम [मू, अ, ग्: ग्रीवां स] कुर्परस्था तु क्ष्मानन्तौ चरणानुगौ | एवं वराहरूपं स्याद्वनमालाविभूषितम् || ७४ || नृसिंह [अस्य २४ सं० चि० द्र०]- पूर्वरूपं घनं श्वेतमुच्चस्कन्धं सकेसरम् | नराङ्गं [घ्: वराङ्गं] सिंहवक्त्रं च वृत्ताक्षं भ्रुकुटीयुतम् [मू, अ, क्, ग्, घ्, ङ्: मुखम्] || ७५ || प्. १००) विवृतास्योग्रदंष्ट्रं च वामोरुकृतदानवम् | तद्वक्षो दारयन्तं च स्फुरच्चक्रगदाधरम् || ७६ || ग्रसन्तमिव लोकांस्त्रीन् दुः सहं दीप्ततेजसम् [ख्: लोचनम्] | वनमालान्वितं कुर्यान्नरसिंहं जगत्प्रभुम् || ७७ || वामनः [अस्य २५ सं० चि० द्र०]- प्राङ्मानं वामनं कुर्याद् द्विभुजं छत्रधारिणम् | जटिलं कुण्डिकायुक्तं गौरं श्यामारुणेक्षणम् || ७८ || त्रिविक्रमः [अस्य २६ सं० चि० द्र०]- चतुर्भुजं गदापाणिं शङ्खचक्रधरं विभुम् | वामाङ्घ्र्याक्रान्तविश्वं च तद्भेदं तु [मू, अ, क्: च] त्रिविक्रमम् || ७९ || परशुरामः [अस्य २७ सं० चि० द्र० | अत्र वामनत्रिविक्रमः इति पाठो वर्तते घ्. पुस्तके]- द्विबाहुं जटिलं तूणीकुठारेषु धनुर्युतः | श्यामवर्णो बृहद्वक्षो रामः क्षत्रान्तकारकः || ८० || रामभद्रः [अस्य २८ सं० चि० द्र०]- सौम्यरूपो विशालाक्षः किञ्चित्पीनो द्विबाहुकः | जटी चापेषुहस्तश्च रामः कार्यो दशास्यहृत् || ८१ || वलभद्रः [अस्य २९ सं० चि० द्र०]- नीलोत्पलदलश्यामो द्विभुजः पीतवस्त्रकम् | गदालाङ्गलधारी च रामः कंसान्तकारकः || ८२ || प्. १०१) बुद्धः [अस्य ३० सं० चि० द्र०]- शान्तात्मा लम्बकर्णश्च गौराङ्गश्चीवरावृतः | ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयकारकः || ८३ || कल्की [अस्य ३१ सं० चि० द्र०]- धनुस्तूणान्वितः [ख्: तालान्वितः; घ्: स्कोलान्वितः] कल्की म्लेच्छोत्सादकरो द्विजः | गौरो वाजिस्थितः खड्गी क्वचित्पिङ्गललोचनः || ८४ || दशधाहरिः- मत्स्यकूर्मो वराहश्च नरसिंहोऽथ वामनः | रामो रामश्च रामश्च बुद्धः कल्की च ते दश || ८५ || केशवः [अस्य ३२ सं० चि० द्र०]- ओतप्रोतास्त्रयोगेन [अनुलोमविलोमेनेत्यर्थः] मूर्तिभेदो निगद्यते | ऊर्ध्वाधः करयोः शङ्खपद्मे दक्षिणतो मते [क्, ख्: दक्षिणभागतः] || ८६ || गदाचक्रे त्वधश्चोर्ध्वं वामपाण्योर्यथाक्रमम् | ज्वलदग्निसमाकारं कुर्यात्केशवरूपकम् || ८७ || नारायणः [अस्य ३३ सं० चि० द्र०]- ऊर्ध्वाधः पद्मशङ्खौ च करयोर्दक्षयोस्तथा | वामयोश्च गदाचक्रे नीलं नारायणं वपुः || ८८ || प्. १०२) माधवः [अस्य ३४ सं० चि० द्र०]- सुदर्शनगदे चोर्ध्वमधश्चैवापसव्ययोः | सव्ययोः कम्बुपद्मे च माधवे रुक्मसन्निभे || ८९ || गोविन्दः [अस्य ३५ सं० चि० द्र०]- चक्रं गदा त्वधश्चोर्ध्वं वामयोः करयोः क्रमात् | ऊर्ध्वाधोब्जं च शङ्खं च गोविन्दे पिङ्गलात्मके [ख्: पिङ्गलाङ्गके] || ९० || विष्णुः [अस्य ३६ सं० चि० द्र०]- शङ्खमूर्ध्वमधश्चक्रं गदा चोर्ध्वमधोऽम्बुजम् | वामदक्षिणयोः कुर्यात्सिते विष्णौ क्वचिन्मते || ९१ || मधुसूदनः [अस्य ३७ सं० चि० द्र०]- उर्ध्वाधश्चक्रशङ्खौ च क्रमाद्दक्षिणहस्तयोः | वामयोश्च गदापद्मे चन्द्राभे मधुसूदने || ९२ || त्रिविक्रमः [अस्य ३८ सं० चि० द्र०]- दक्षिणोपरि हस्ते च गदा देयाम्बुजं त्वधः | चक्रमूर्ध्वमधः शङ्खं गौरे पूर्वत्रिविक्रमे || ९३ || वामनः [अस्य ३९ सं० चि० द्र०]- उपर्यधश्च चक्रं च शङ्खं दक्षिणहस्तयोः | गदाब्जे शेषयोः पीते वामने पूर्वरूपके || ९४ || श्रीधरः [अस्य ४० सं० चि० द्र०]- दक्षिणोर्ध्वकरे चक्रं कुर्यादब्जमधः करे | प्. १०३) गदाशङ्खं तथा वामे श्रीधरे विद्रुमोपमे || ९५ || हृषीकेशः [अस्य ४१ सं० चि० द्र०]- शङ्खपद्ममधस्तूर्ध्वं गदाचक्रं यथाक्रमम् | सुवर्णाभे हृषीकेशे पाण्योः सव्यापसव्ययोः || ९६ || पद्मनाभः [अस्य ४२ सं० चि० द्र०]- दक्षिणोर्ध्वकरे पद्मं शङ्खं चाधस्तथापरे | गदाधश्चक्रमूर्ध्वं च पद्मनाभे सितप्रभे || ९७ || दामोदरः [अस्य ४३ सं० चि० द्र०]- ऊर्ध्वं शङ्खमधः पद्मं चक्रं चाधो गदोर्ध्वतः | दक्षिणे चोत्तरे हस्ते देवे दामोदरेऽरुणे || ९८ || द्वादशधाहरिः- वासुदेवात्त्रयो जातास्त्रयः संकर्षणात्क्रमात् | प्रद्युम्नाच्चानिरुद्धाच्च विज्ञातव्यास्त्रयस्त्रयः || ९९ || पीताम्बरधराः सर्वे वनमालोपशोभिताः | मार्गादिकार्तिकान्तं च प्रोक्ता द्वादशमूर्तयः || १०० || वासुदेवः [अस्य ४४ सं० चि० द्र०]- शान्तं सितं कजारूढं वासुदेवं चतुर्भुजम् | योगमुद्रां च शङ्खं च गदाचक्रधरं द्वयम् || १०१ || वाममुष्ट्यर्धमङ्गुष्ठे दक्षिणोऽङ्गुष्ठवेष्टनम् | मुद्रां कुर्याद्धृदिस्थां च अशेषाघप्रणाशिनीम् || १०२ || प्. १०४) (संकर्षणः, प्रद्युम्नः, अनिरुद्धः, [एषां ४५, ४६, ४७ सं. चि. द्र.) चतुर्दोश्चारुहेमाभं कुर्यात्संकर्षणं विभुम् | पात्रशान्तिधरं याम्ये वामके पद्मसीरिणौ || १०३ || स्मरं चापेषुभृद्रक्तं मेघाभमनिरुद्धकम् | कौमोद्या हेतिराजेन पाञ्चजन्याम्बुजेन च || १०४ || वामदक्षिणयोर्युक्तं कुर्यान्मूलचतुष्ककम् | नारायणादिपञ्चान्यत्पूर्वोक्तकरशस्त्रभृत् || १०५ || तद्वद्ब्रह्मा च विष्णुश्च नरसिंहश्च सूकरः | एभिर्युक्तं नवव्यूहं ज्ञातव्यं दैशिकोत्तमैः || १०६ || दत्तात्रेयः [अस्य ४८ सं० चि० द्र०]- दत्तात्रेयं विभुं [ख्, घ्: हरिं] कुर्याद्द्विभुजं यौवनान्वितम् | वामोत्सङ्गधृतश्रीकमर्धचन्द्रासने स्थितम् || १०७ || वामपाणिधृताम्भोजां सुरूपा [ख्: सुभ्रु वा] मायतेक्षणाम् | तद्दक्षिणं करं स्कन्धे देवदेवस्य दक्षिणे || १०८ || सव्याश्लिष्टप्रियः कार्यो दक्षिणे मद्यपात्रकम् | पद्मस्थो घूर्णिताक्षश्च गातृनर्तनकैर्वृतः || १०९ || दत्तात्रेयस्त्वयं [क्: दत्तात्रेयः स्वयं] वीरो भुक्तिमुक्तिप्रदायकः | अद्वैतेन विधानेन पूजनीयो विपश्चिता || ११० || जलशायी [अस्य ४९ सं० चि० द्र०]- पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः | प्. १०५) योगनिद्रापरावस्थः [ख्: धरावस्थः] सुप्तोऽनन्ततनूपरि || १११ || फणासप्तान्वितोऽनन्तः कार्यो मस्तोपरि प्रभोः | पादलग्ना धरादेवी जलशायी ग्रहावृतः || ११२ || पद्मनाभः [अस्य ५० सं० चि० द्र०]- पद्मनाभः श्रियायुक्तो भोगितल्पगतोऽपि वा | आभ्युत्थपङ्कजारूढः पितामहसमन्वितः || ११३ || कामः [अस्य ५१ सं० चि० द्र०]- कामो [घ्: कार्यो] गौरो युवा कान्तो रतिप्रीत्योस्तु मध्यतः | सा लीढो नन्दने रागी सदा चापेषुभृच्छुभः [घ्: भृत्सुतः] || ११४ || गरुडः [अस्य ५२ सं० चि० द्र०]- उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः | तुङ्गघ्राणो [क्, ख्: तुङ्गघोणा] नराङ्घिर्वा पक्षिजङ्घो नराङ्गकः || ११५ || कृष्णासग्घेमचन्द्राभो मूर्धादौ फणिभूषितः | वामजानुगतो भूमौ तार्क्ष्यः पक्षसमन्वितः || ११६ || विश्वक्सेनः [अस्य ५३ सं० चि० द्र०]- इन्दीवरनिभश्चक्री पीतवासो गदान्वितः | हलशङ्खवरो माली विश्वक्सेनो हरेर्गणः || ११७ || बलदेवः [अस्य ५४ सं० चि० द्र०]- ऊर्ध्वं श्वेतं चतुर्बाहुं सहाभोगं हलायुधम् | पद्मसीरधरं वामे शेषे मुशलगोद्वहम् [क्, ख्: खाद्ययुगोद्वहम्] || ११८ || प्. १०६) हरहरी [हरिहरौ, इत्यपि पाथः | अस्य० ५५ सं. चि. द्र.] जटार्धमुकुटार्धे च नोर्धलिङ्गेन [घ्: नोर्ध्व] चान्वितम् (?) | अर्धेऽर्धे भूषणैः स्वैः स्वैर्युक्तमूर्ध्वं कजस्थितम् || ११९ || चतुर्भुजं महात्मानं जटार्धार्धेन्दुभूषितम् | अक्षमालां त्रिशूलं च शङ्खं च कौमुदीं क्रमात् || १२० || दक्षिणोत्तरपाणिभ्यां बिभ्राणमध ऊर्ध्वतः | पुंस्त्रीस्वरूपकं कुर्याच्छिवनारायणात्मकम् || १२१ || ब्रह्मवर्गः [अस्य ५६ सं० चि० द्र० | अत्र तु एकस्यैव ब्रह्मणश्चित्रं वर्तते न ब्रह्मवर्गस्य]- चतुर्मुखं चतुर्बाहुं लम्बकूर्चं महोदरम् | ब्रह्माणं व्रतिनं कुर्याज्जटामुकुटभूषितम् [ख्: भूषणम्] || १२२ || पिङ्गाक्षं सौम्यरूपं च सोत्तरीयोपवीतिकम् | कृष्णाजिनं च तत्स्कन्धे वस्त्रं चाजिनवाससम् || १२३ || अक्षमालां श्रुवं तस्य दण्डं वा दक्षिणे करे | स्रुवं [घ्: स्रुचं] कमण्डलुं वामे सकुशाज्यघटं तथा || १२४ || हंसारूढं कजस्थं वा योगपट्टासना [मू: योगपद्मासना] न्वितम् | गायत्रीं चैव सावित्रीमृषींस्तत्पार्श्वयोस्तथा || १२५ || जटिलांल्लम्बकूर्चांश्च वृद्धरूपांश्च लोमशान् | रिक्तवक्षोऽक्षिकुक्षींश्च साक्षमालाकमण्डलून् || १२६ || प्. १०७) चण्डी [अस्य ५७ सं० चि० द्र०]- हेमाभां रूपिणीं कुर्यात्त्रिनेत्रां यौवनस्थिताम् | क्रुद्धामूर्ध्वस्थितां चारु कुर्याद्विंशतिबाहुकाम् || १२७ || शूलासिशक्तिचक्राणीषुशङ्खेन्द्रायुधाभयाः | डमरुं शस्त्रिकां याम्ये हस्ते स बिभ्रतीं सदा || १२८ || नागपाशं च खेटं च कुठाराङ्कुशकार्मुकम् | घण्टाध्वजगदादर्शमुद्गरान् वामहस्तकैः || १२९ || शङ्खादिपञ्चकं त्यक्त्वा तथा घण्टादिपञ्चकम् | कार्या दशभुजा चापि सैव देवी क्वचिन्मते || १३० || तदधो महिषश्छिन्नमूर्धा पतितमस्तकः | शस्त्रोद्यतकरः क्रुद्धस्तद् पीवासम्भवः पुमान् || १३१ || शूलभिन्नो वमद्रक्तो रक्तभ्रूमूधजेक्षणः | सिंहेन खाद्यमानश्च पाशबद्धो गले भृशम् || १३२ || याम्याङ्घ्र्याक्रान्तसिंहा च सव्याङ्घ्र्यालीढगासुरे | चण्डिकोद्यतशस्त्रेयमशेषरिपुनाशनी || १३३ || नवदुर्गाः [अस्य चित्रसंग्रहपुस्तके दुर्गा नाम्ना नवदुर्गा नाम्ना च चित्रद्वयं वर्तते, ५९, ६० स. चि. द्र०]- नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्तितः | आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् || १३४ || अष्टादशभुजैः कान्तपीनवक्षः स्तनोरुका | प्. १०८) मूर्धजं खेटकं घण्टामादर्शं तर्जनीं धनुः || १३५ || ध्वजं डमरुकं पाशं बिभ्रती वामकेऽन्यतः | शक्तिमुद्गरशूलं च वज्रं खड्गमथाङ्कुशम् || १३६ || शरं चक्रं शलाकां च एतैरेवायुधैर्युता | शेषाः षोडशहस्ताश्च अञ्जनी [मू: अञ्जली] डमरुं विना || १३७ || रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डा चण्डवती चैव चण्डरूपातिचण्डिका || १३८ || नवमीचण्डिका चोग्रा [घ्: नवमी चण्डचोग्रा] मध्यस्थाग्निप्रमोदिता | रोचनाभारुणा कृष्णा नीला शुक्ला च धूम्रिका [ख्: सूक्ष्मा च धूमिका] || १३९ || पीता च पान्डुरा [घ्: पाण्डरा] ज्ञेया आलीढस्था हरिस्थिता | महिषोत्थः पुमाञ्शस्त्री तत्कचग्रहमुष्टिकाः || १४० || स्थाप्या वृत्तेन पङ्क्त्या वा इत्युक्ताः स्कन्दयामले | नवदुर्गाः प्रतिष्ठाप्य पुत्रार्थायुरवाप्नुयात् || १४१ || उमा [चित्रसंग्रहे पुस्तके उमाया गौरी नाम्ना चित्रं वर्तते | अत्रैव ललितासर्वमङ्गलाकैटभ्यादीनां चान्तर्हितत्वात् तत्तन्नाम्ना ६१, ६२, ६३, ६४, सं. चि. द्र० |]- पञ्चाग्निग्रहसंयुक्ता चतुर्बाहुस्तपः स्थिता | बिभ्रती दण्डिकाकुण्ड्यावक्षसूत्रं वरं क्रमात् || १४२ || वामदक्षिणयोः पाण्योस्तपो गौरी महात्मिका | सैव रम्भावने सिद्धाग्निहीना ललितान्यथा || १४३ || स्कन्धमूर्ध्वकरा [क्, ग्: सूत्रकरा] वामे द्वितीये धृतदर्पणा | याम्ये फलाञ्जनीहस्ता सौभाग्या तत्र चोर्ध्विका [मू, अ: चोर्धिका] || १४४ || प्. १०९) अर्धचन्द्रासनाब्जस्था स्तनाढ्या षट्चतुर्भुजा | त्रिनेत्रा जटिला सौम्या नानाभरणभूषिता || १४५ || शान्त्यक्षसूत्रं पद्मं च बिभ्राणा दक्षिणे करे | अभयं कुण्डिकां शूलं स्थितं वामकरे सदा || १४६ || याम्याङ्घ्रिसिंहपृष्ठस्था चतुर्बाहुः क्वचिन्मते | विनावरा भयाभ्यां तु कर्तव्या सवमङ्गला || १४७ || द्विभुजा कैटभी काया गौरवर्णा सुरूपिणी | शययारूढा प्रसुप्ता च योगनिद्रा समाश्रिता || १४८ || कालरात्री [अस्य ६५ सं० चि० द्र०]- एकवेणी जवा [घ्: षवा] कर्णपूरा नाना खरस्थिता | वंशोत्थकर्णिकाकर्णा तैलाभ्यक्तशरीरिणी || १४९ || वामपादे च सल्लोहकृतखडकभूषणा | नवत्यूर्ध्व [मू, अ, क्, ख्: वर्धन्यूर्ध्व] वजा कृष्णा कालरात्री भयङ्करी || १५० || महाश्रीः [अस्य ६६ सं० चि० द्र०]- वर्तुलास्या विशालाक्षी मध्यक्षामा सुयौवना | हेमवर्णाब्जसंस्था च पीनोन्नतपयोधरा || १५१ || चारुसर्वाङ्गसंपूर्णा सर्वाभरणमण्डिता [ख्: सयुता] | सदा याम्यकराम्भोजा वामे श्रीः श्रीफलान्विता || १५२ || वालव्यजनधारिण्यौ कार्ये तत्पार्श्वयोः स्त्रियौ | गजौ भृङ्गारहस्तौ च स्नापयन्तौ च [घ्: यन्त्यौ तु] पार्श्वतः || १५३ || प्. ११०) सरस्वती [अस्य ६७ सं० चि० द्र०]- श्वेताब्जस्था सुरूपा च श्वेताभरणभूषिता | पुस्ता [ख्: सुप्ता] क्षमालिकाहस्ता वीणाभृद्वा सरस्वती || १५४ || गङ्गा [अस्य ६८ सं० चि० द्र०]- श्वेता मकरसंस्था [ख्: कमलसंस्था] च ऊर्ध्वकाया सुशोभना | कुम्भेन्दीवरहस्ता च द्वारस्था जन्हुपुत्रिका || १५५ || यमुना [अस्य ६९ सं० चि० द्र०]- कूर्मारूढाब्जहस्ता च द्वारस्था कलशान्विता | इन्दीवरदलश्यामा सुरूपा यमुना तथा || १५६ || तुम्बुरुः [अस्य ७० सं० चि० द्र०]- सितं सौम्यं वृषारूढं जटाहीन्दुत्रिदृग्युतम् | द्वीपिचर्मधरं कुर्याद्वीणाहस्तं च तुम्बुरुम् || १५७ || मातृणामादितो नित्यं शूलहस्तमथापि वा | अनन्तरं तु मातृश्च ब्रह्माण्याद्यास्तु सप्त च || १५८ || ब्रह्माणी [अस्य ७१ सं० चि० द्र०]- गौरीं चतुर्मुखीं पीनामक्षमालास्रुवान्विताम् | कुण्ड्याज्यपात्रिणीं वामे ब्रह्माणीं हंससंस्थितम् || १५९ || रुद्राणी [अस्य ७२ सं० चि० द्र०]- त्रिनेत्रां शूलहस्तां च जटाखण्डेन्दुमण्डिताम् | कपालमालिनीं शुक्लां रुद्राणीं वृषसंस्थिताम् [क्, ख्, ग्: वृषभस्थिताम्] || १६० || प्. १११) कौमारी [अस्य ७३ सं० चि० द्र०]- रक्तां शशिधरां देवीं रक्तमाल्याम्बरान्विताम् | शिखिपृष्ठसमारूढां कौमारीं स्कन्दरूपिणीम् || १६१ || वैष्णवी [अस्य ७४ सं० चि० द्र०]- चक्रशङ्खगदापद्मचतुर्हस्तां [मू, अ, ग्, घ्: चक्रखड्ग] च तार्क्ष्यगाम् | श्यामां सुरूपिणीं कुर्याद्वैष्णवीं वनमालिनीम् || १६२ || वाराही [अस्य ७५ सं० चि० द्र०]- कृष्णां पीनोदरां क्रूरां शूकरास्यां नकायिकाम् | सुवस्त्रां यौवनोद्भिन्नां नार्याभरणभूषिताम् || १६३ || वाराहीं महिषस्थां तु मदिरादण्डधारिणीम् | खड्गखेटकसंयुक्तामथवापि चतुर्भुजाम् || १६४ || इन्द्राणी [अस्य ७६ सं० चि० द्र०]- सहस्राक्षां गजारूढां हेमाभां वज्रधारिणीम् | इन्द्राणीं सर्वसिद्ध्यर्थं वस्त्रालङ्कारसंयुताम् || १६५ || चामुण्डा [अस्य ७७ सं० चि० द्र०]- गर्ताक्षीं क्षीणदेहां तु क्षामकुक्षीं भयङ्करीम् | विवतास्यां तु दंष्ट्रोग्रां शवे वा कौशिके स्थिताम् || १६६ || ([चापान्तर्गतोऽयं श्लोकः मूल पुस्तके नास्ति] लेलिहानां सुरक्ताङ्गी [ख्, ग्: सुरक्ताक्षीं] ज्वलत्वेशाभिमण्डिताम् | प्. ११२) द्वीपेवर्माम्बरा क्रुद्धां चामुण्डां मुण्डमालिनीम् || १६७ ||) मातृरूपाणि [एषामुदाहरणानि ७८ तः ८६ पर्यन्तानि चित्राणि द्रष्टव्यानि]- जटिलां वर्तुलत्र्यक्षां चतुर्बाहुं च बिभ्रतीम् | कपालं कतरीं याम्ये पाशं शूलं च वामके || १६८ || कपालकतरीयुक्तां द्विभुजां वापि पिङ्गलाम् | मातृस्थानेऽथवैकां वा तदन्ते च गणेश्वरः || १६९ || कपालकर्तरीशूलपाश भृद्याम्यसौम्ययोः | गजचर्मभृदूर्ध्वाभ्यां षड्दोः स्याद्रुद्रचर्चिका [चित्रपुस्तके महालक्ष्मी विद्यते रुद्रचर्चिकैव समुचित इव पाठः | ७८ चित्रं द्रष्टव्यम् |] || १७० || सैव चाष्टभुजा देवी शिरोडमरुकान्विता | तेन सा रुद्रचामुण्डा [रुद्रचामुण्डायाः ७९ सं० चित्रं द्र० |] नाट्ये [नाट्येश्वर्याः ८० सं चि० द्र० |]श्वर्यथ नृत्यती || १७१ || इयमेव महालक्ष्मी [महालक्ष्म्याः ८१ सं० चि० द्र० |] रूपाविष्टा चतुर्मुखी | नृपाजिमहिषेभांश्च खादन्ती चेत् करे स्थितान् || १७२ || नरमुण्डकरान्यत्र शेषदोः सु च पूर्ववत् | एकास्या श्वेतवर्ण च श्वेताभरणभूषिता || १७३ || पूर्वरूपकसंपन्ना नृत्यन्ती नातिरौद्रिका | दशबाहु [ख्: शताबाहु] स्त्रिनेत्रा च शस्त्रासिं डमरुं नृकम् || १७४ || प्. ११३) बिभ्रतो [अस्याः ८२ सं० चि० द्र०] दक्षिणे हस्ते वामे घण्टां च खेटकम् | खट्वाङ्गं च त्रिशूलं च सिद्धचामुण्डिकाह्वया || १७५ || सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका | एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा || १७६ || भैरव्या [अस्याः ८३ सं० चि० द्र० |] ख्योपविष्टा तु भुजद्वादशभूषिता | वेतालशाकिनीगृध्रकाकोलूकशिवाकुला || १७७ || एताः सर्वा श्मशानस्था महामांसाग्रभोजनाः | आद्याष्टकमिदं ख्यातं शेषभेदस्तु विस्तरः || १७८ || क्षामा शिवावृता वृद्वा द्विभुजा विवृतानना | दन्तुराक्षेमकरी स्याद्भूमौ जानुकरास्थिता || १७९ || यक्षिण्यस्तु [अस्याः ८४ सं० चि० द्र० |] प्रदीर्घाक्ष्यः शाकिन्यो [अस्याः ८५ सं० चि० द्र० |] चक्रदृष्टयः | एङ्गा (?) हास्या महोदर्यो रूपिण्योऽप्सरसः [अत्रैव क्वचिच्चण्डः इत्यापि पाठः चित्रपुस्तके] सदा || १८० || अथरुद्रगणाः तत्रादौ योगेश्वरः [योगेश्वरवीरेश्वर चण्डेश्वराणां चित्राणि वर्तन्ते क्रमशः ८७, ८८, ८९, सं० चि० द्र० |]- नासादृङ्मुण्डितश्मश्रुः प्रशान्तो योगपट्टवान् | योगेश्वरोरथ वीरश्च अर्धचन्द्रासने स्थितः || १८१ || सव्याङ्गुलिवृताङ्गुष्ठं वाममाकुञ्चिताङ्गुलिम् | बध्द्वा विन्यस्य हृदयेऽथवोत्तानकरद्वयम् || १८२ || प्. ११४) श्वेतस्त्र्यक्षो द्विबाहुश्च जटी टङ्काक्षमालिकः | प्रचण्डो दण्डधारी च कार्यश्चण्डेश्वरो महान् || १८३ || गणे [अस्य ९० सं० चि० द्र० |]- गणेशः पुरुषाकारो गजकर्णो गजाननः | महोदरो वृहद्देह एकदन्तस्त्रिलोचनः || १८४ || घनकायो बृहच्छुण्डो गाढजङ्द्योरुजानुकः | दिव्याम्बरधरः कार्यो नागयज्ञोपवीतवान् || १८५ || चतुर्दशाङ्गुलं तस्य विस्तारेणाननं शुभम् | षोडशाङ्गुलकं दैर्घ्याच्छुण्डं षड्त्रिंशदङ्गुलम् || १८६ || अर्काङ्गुल [मू: अर्धाङ्गुल] पृथुग्रीवा त्र्यङ्गुला चोच्छ्रयेण तु | पीनः समुन्नतोरस्कः कर्तव्यो गणनायकः || १८७ || सगर्ता [ख्: अगर्ता] द्यङ्गुला कार्या नाभिर्विस्तरतो बुधैः | कण्ठगुहयान्तरं कार्यं समं द्वात्रिंशदङ्गुलम् || १८८ || ऊरुजङ्घे च कर्तव्ये पादौ च द्वादशाङ्गुलौ | मस्तकं निविडं व्यस्तं वाम [मू, अ: वात] कुम्भसमुन्नतम् || १८९ || कर्णौ दृगन्तविस्तारौ बाहुल्येनाङ्गुलौ मतौ | रन्ध्रं रन्ध्राङ्गुलौ कुम्भौ तन्मध्ये सूत्रमानतः || १९० || दन्तकोशे [क्, ग्: दन्तकोणे] भवेत्तस्य शुण्डामूलं दशाङ्गुलम् | एकैकं ह्रासयोगेन यावद्वेदाङ्गुलस्थितिः || १९१ || छिद्रं सार्धाङ्गुलं चाघ्रं [मू: चापं] पुष्करेणा समाङ्गुलम् | प्. ११५) पञ्चतालप्रदैर्घ्यं च [क्, ख्: प्रदैर्घ्याङ्ग] चतुस्तालविवेशनम् || १९२ || ताले ताले नेत्राह्वं [मू: नेत्राङ्कं] क्षिप्त्वा स्थौल्येन वर्तयेत् | स्वदन्तं [ग्: सुदण्डं] दक्षिणे पाणौ वामहस्ते च लड्डुकम् || १९३ || परशुं दक्षिणे दद्यादुत्पलं च तथेतरे [घ्: ततोत्तरे] | एतन्मानसमायुक्तं सर्वलोकहितावहम् | गणेशलक्षणं प्रोक्तं चतुर्हस्तं तु नान्यथा [क्, ख्: स्त्वतोऽन्यथा; घ्: तथान्यथा] || १९४ || हेरम्ब [अस्य ९१ सं० चि० द्र० |]- नागपाशधरं वामे दक्षिणे साक्षमालिकम् [क्, ख्, घ्: मालिनम्] | भुजाभ्यामधिकं कुर्यात्षड्भुजं पूर्ववच्च तम् [ग्: द्वृतम्] || १९५ || एभिर्युक्तं द्विहस्ताढ्यं दक्षिणैकं प्रसारितम् | वामं चाभयदं हस्तं शुभं चाष्टभुजान्वितम् || १९६ || वैशाखकरणैर्युक्तं नानाभरणभूषितम् [मू: मण्डितम्] | पद्माधस्तात्तु कर्तव्यो महाखु [मू, अ, ग्, घ्: महोक्ष] श्चारुरूपवान् || १९७ || सितपद्मोपविष्टं तु पूर्वरूपं चतुर्भुजम् | षड्भुजश्चाष्टबाहुश्च प्रहृष्टस्ताण्डवाकुलः || १९८ || गणेशस्य त्रिधा रूपं विघ्नघ्नं सर्वसिद्धिदम् | आद्यं सितं गृहेऽभीष्टं त्रिविधं सुरमन्दिरे || १९९ || प्. ११६) स्कन्धः [अस्य ९२ स० चि० द्र० | अत्रैव एकवक्त्रकुमारस्य पृथक् चित्र द्वयं च वर्तते ९३, ९४, सं० चि० द्र० |]- पत्तने नगरे कार्यः पुरे वांथ षडाननः | भुजैर्द्वादशभिर्युक्तः स्कन्दो मुख्यः सुरूपकः || २०० || शक्तिषुपाशनिस्त्रिंशतच्छेष [मू: ततदो] स्तर्जनीयुतः | शान्त्या च दक्षिणे हस्ते षड्भिर्वामकरे तथा || २०१ || शिखिपिच्छधनुः खेटपताकाभयकुक्कुटैः | गौणः क्षेत्रेऽथवा षड्दोरेकवक्त्रः प्रशस्यते || २०२ || बिभ्रक्छत्त्यसिवज्राणि दक्षे घण्टां च खेटकम् | यथाक्रमं सदा षड्भिर्दक्षिणोत्तरपाणिभिः || २०३ || ग्रामे वा यदि वारण्ये द्विभुजं चैकवस्त्रकम् | बिभ्रछक्तिं करे याम्ये ताम्रचूडं तथेतरे || २०४ || रक्ताङ्गो रक्तवक्त्रश्च [क्, ख्: वस्त्रश्च] बालरूपोऽथ मांसलः | शिख्यारूढस्तु शार्वोऽयं सर्वालङ्कारभषितः || २०५ || वृषभ [अस्य ९५ स० चि० द्र० |]- पिङ्गलाख्य [मू, अ, ख्, ग्, घ्: पिङ्गलाक्ष] मतादुक्तं लिङ्गदैर्घ्यं [घ्: लिङ्गदैर्घ्यात् | अत्र क पुस्तकस्थाटिप्पणी-लिङ्गदैर्घ्यं, दीर्घवृषं तदत्मकमिति, यद्रव्यमयं लिङ्गं तन्मयं वृषं कुर्यादित्यर्थः |] तदात्मकम् | शिलाहेमादिलोहैर्वा वृषं कुर्याद्यथेप्सितम् || २०६ || न चैव शङ्करार्चायां पुरो मतमतादिह | साधारणेषु लिङ्गेषु प्रस्तावाद्विहितो वृषः || २०७ || प्. ११७) कर्मैतदेव तत्रापि क्रिया प्रान्ताध्वयोगिनी | लिङ्गत्र्यंशोझितः कार्यस्तद्द्विरायतिविग्रहः || २०८ || पीठपृष्ठसमो लक्ष्मद [क्, ग्: लक्षाद्र] लोपाहितलोचनः | शुभोन्मोलितदृग्लक्ष्म लिङ्गमस्तकमस्तकः || २०९ || प्रसिद्धमन्यक्तद्रूपं तथाप्युद्देश उच्यते | दैर्घ्याच्चतुरशोत्यशास्चाङ्गुलं तेन कल्पनम् || २१० || मानानां गोलकादीनां तैरङ्गोपाङ्गसंहतिः | अष्टनेत्रपृथुत्वं स्याप्रोच्चैस्तद्वक्त्रदीर्घता || २११ || नेत्रे नेत्र [मू: नेत्रे नेत्रे] समे दैर्घ्यात्तदर्धं विस्तरेण तु | तन्त्रिभागं तु तारा स्याज्ज्योतिस्तत्पञ्चमांशतः || २१२ || नेत्रार्धं तु [मू, अ, क्: नेत्रद्विकं] भ्रुवोः स्थौल्यं दैर्घ्यं ताभ्यां द्विनेत्रकम् | नासाङ्गुलप्रमावृत्ता [मू: प्रमोद्वृत्ता; क्, ख्: भ्रमाद्वृत्ता] द्विनेत्रं शुषिरान्तरम् [मू: स्वशिरान्तरम्] || २१३ || षड्नेत्रविस्तरं तत्र मूले तस्योर्ध्वतः [मू, क्, ग्: तस्यार्धतः] पुनः | पञ्चनेत्रं तु विस्तारं तदूर्ध्व तु विवर्धते [मू: विवर्जयेत्] || २१४ || नेत्रान्तरं द्विनेत्रं स्यान्त्रिनेत्रौ तु कपोलकौ | चतुर्नेत्रोभयोः [मू, अ, क्, ग्: नेत्रे तयोः] पार्श्वे वक्त्रमानं तु सन्धितः || २१५ || कर्णमूलात्तु वक्त्रान्तं पञ्चनेत्रं प्रकीर्तितम् | तन्मूले सप्तविस्तारं कर्णमूलसमन्वितम् || २१६ || प्. ११८) कर्णमूलं कलादैर्घ्यं चतुर्नेत्रं कृशाग्रतः | अङ्गुलार्धसमं यावन्मूलं पञ्चकवर्तुलम् [मू: वर्तनम्] || २१७ || तन्मध्ये शुषिरं तद्वदृजुरेखा तु शष्कुली | कर्णमूलात्तु नासार्धं सूत्रहासान्नयेत्समम् || २१८ || किञ्चिल्लम्बोर्ध्वकायः [मू, अ, क्, ख्, ग्, ङ्: भागः] स्याद्भनुभ्यां शोभनं तथा [मू: यथा] | शङ्खमूल द्विनेत्रं स्याद्यथाग्रे नेत्रपादकम् || २१९ || तद्वश्मन्तसमं [क्, ख्: तद्धासान्तु] ताभ्यामन्तरं तु द्विनेत्रकम् | पार्श्वपिण्डी द्विनेत्रार्धं षड्नेत्राग्रावटुः [ग्: श्रावदुः] स्मृतः || २२० || अष्टनेत्रा स्मृता ग्रीवा ककुदं च त्रिनेत्रकम् [ख्: द्विनेत्रकम्] | द्विनेत्रोच्छ्रयतोर्ध्वं [मू: ऊर्धं] स्याद्वृत्तमूर्ध्वं [क्, ग्: लजूं] यथा भवेत् || २२१ || ककुदाधोऽष्टनेण [मू: धोर्ध-] पञ्चजङ्घा कला मता | सन्धिर्नेत्राधिकः [मू: सद्विनेत्रार्धिक] प्रोक्तश्चतुर्नेत्रोपजङ्घिका || २२२ || द्व्यर्धनेत्रौ [क्: द्यर्धनेत्रे] तु तस्याधो गुल्फौ नेत्रद्वयं खुरौ | गुल्फार्धं खुरिकानेत्रं पादस्यात्परिमाणतः || २२३ || दशसप्तदिभिर्हीने न्यूने [क्, ग्: स्थूल] जङ्या तु नाहतः | चतुर्दशादि तद्वच त्रिहीने चोपजङ्घ्रिका || २२४ || नेत्राष्टादशकं पृष्ठं त्रिनेत्रं त्रिकटं पुनः | षड्नेत्रान्तस्तथाज्ञेया तस्मात्स्यात्पुच्छसन्ततिः || २२५ || प्. ११९) द्विनेत्रा पुच्छमूने स्यादग्रेऽङ्गुलसमा [घ्: -दङ्गे-] यथा | तालत्रयं प्रदीर्घं स्यात्तालार्धं केशसंहतिः || २२६ || दशनेत्रपृथु पृष्ठं सन्धौ मध्ये द्विभिर्विना [मू: त्रिभिर्विना] | त्रिभिर्विना तथाग्रे स्याद्द्विनेत्रं कम्बलस्त्वधः || २२७ || कुक्षिदेशे समाख्यातो नाहः स्यात्तु चतुर्गुणः | त्रिगुणास्तु स्मृतोऽन्यत्र नाभिर्नेत्रद्वयं भवेत् || २२८ || द्विनेत्रं वृषणं तद्वद्विस्तारात्पञ्चनेत्रकाः | जङ्घा नेत्रं स्मृत, सन्धिः षड्नेत्रा चोपजङ्घिका || २२९ || द्विनेत्रौ गुल्फकौ विद्धि सुरः सार्धाङ्गुलाधिकः | खुरिकेऽङ्गुलिमानेतु पञ्चनेत्रत्रयं विना || २३० || तालनाहं त्रिभिर्हासात्प्रदेशौः परिकल्पयेत् | पृष्ठगता च विज्ञेया द्यङ्गुलाधाङ्गुलं यथा || २३१ || पृथुत्वेनाङ्गुलात्पादाद्यथाग्रे तु गभीरता | त्रिमुखा त्रिकलाहासः पृष्ठतश्चोपजङ्घिका || २३२ || यद्यथा लभते शोभां यत्तथाङ्गानि कारयेत् | विश्वकर्मात्पुनश्चान्यं वृषं वक्ष्यामि लाघवात् || २३३ || जीवदैर्घ्य समनाहं तदर्धं तस्य विस्तरम् | क्षेत्रं वेदास्रकं कृत्वा नवभागान्प्रकल्पयेत् || २३४ || नवांशैस्तु [ख्: नवाङ्गैस्तु] भवेत्पीठं त्रिचतुर्भिस्तु जङ्घिका | त्रिभागैरग्रतो [मू: रुर्ध्वतो] जङ्घा भागैकं तूर्ध्वतो हरेत् || २३५ || अधोऽधंशाशं [ग्: मुखोऽर्धाशं; घ्: अर्धाशं च] ततो हृत्वा सार्धाशेनस्य नासिका | प्. १२०) हृत्वा [मू: कृत्वा] भागद्वयं चोर्ध्वं कार्यं नासाललाटकम् || २३६ || कोणमूत्रहृतार्धांशौं [ख्: कृतार्धाङ्गो] शेषार्धे शृङ्गमादिशेत् | तदधोंशात्तथा लुप्त्वा कर्शों कृत्वा तु शृङ्गवत् || २३७ || ऋतुसार्धेषु [मू: सार्धे तु] सार्धाग्निभागांस्तु क्रमशो हरेत् | कर्णाधः कोणसूत्रं तु दन्तोर्ध्वार्धहरेद्ध्रुवम् || २३८ || द्व्यर्धाभ्या चैवभागेन चूडं कुर्या द्विचक्षणः | सार्धभागद्वयेनैव पृष्ठस्य परिकल्पनम् [क्: परिकल्पना] || २३९ || कर्णसूत्रार्ध भागेन श्रोणी पुच्छोपरिस्थिता | भागोंऽशं गृह्न्य चाधोंशे त्यक्त्वार्ध कोणासूत्रतः || २४० || तथैव कोणसूत्रार्धभागं टङ्कं प्रकल्प्य च | स्फिचं पुच्छं सकेशं च वर्तयेन्मतिमान्नरः || २४१ || क्रोडं सार्धांशतः [मू: क्रोडसार्धाशतः] कुक्षिं खुर [घ् पुस्तके- खुरशब्दस्यस्थाने क्षुरशब्दो वतते सर्वत्र] योरन्तरे खुरम् | जानुरन्ध्रं तथा सक्थिसन्धिं जङ्गा खुरं बुधः || २४२ || त्रिनेत्रं कम्बलोपेतं घण्टाचामरभूषितम् | ज्ञात्वा लक्ष्मं प्रकुर्वीत वृषंवृष भरुपकम् || २४३ || नन्दी [अस्य ९६ सं० च० द्र० |]- युवा त्र्यक्षो जटाचीर [क्, ख्: जठाधारी] (रो?) रक्तकायो द्विबाहुकः | साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः || २४४ || प्. १२१) महाकालः [अस्य ९७ सं० च० द्र० |]- चतुर्बाहुर्विशालास्यः [घ्: विशालाक्षः] पीनाङ्गश्च मनोहरः | कूर्चवान् पिङ्गकेशश्च मुण्डमाली त्रिलोचनः || २४५ || तत्करेऽसिं नृक याम्ये शूलं खेटं च वामके | कृष्णगात्रो महाकालो द्वारे वै वामतः स्थितः || २४६ || भृङ्गिः [अस्य ९८ सं० च० द्र० |]- कृशः शिरावनद्वाङ्गस्त्वस्थिचर्मावगुण्डितः | वृद्धरूपः शिखी हृष्टः क्षामकुक्षिः सुपाण्डुरः || २४७ || त्रिनेत्रः शूलपाणिश्च कौपीनी घृष्टकूर्चकः | भृङ्गिरीटीगणाश्चैव नृत्यन्नित्यं शिवाग्रतः || २४८ || कूष्माण्डः [अस्य ९९ सं० च० द्र० |]- त्र्यक्षः श्वेतोऽतिखर्वश्च स्थूलमूर्धाङ्गकुक्षिकः | दण्डी करण्डकोपेतः कूष्माण्डःपूर्वमानतः || २४९ || गणमूर्तिः [गणस्य चित्रं नास्ति |]- नानारूपधराश्चान्ये वीरभद्रादयो गणाः | कार्यास्ते गजगोकर्णा नानावक्त्रा महोदराः || २५० || घण्टेशः [अस्य १०० सं० च० द्र० |]- उग्रतेजा सितो रौद्रः करालो रक्तदृक्त्रयः | लेलिहानः सुसंक्रुद्धो जटाखण्डेन्दुमण्डितः || २५१ || प्. १२२) दंष्ट्राकरालः पीनाङ्गो बृहन्नाद्योच्चसंस्थितः [क्, ख्: द्योर्ध्वसंस्थितः] | अष्टादश भुजो भीमो ज्वलदायुधपाणिकः || २५२ || वज्रासिदण्डचक्रेषु मुसलाङ्कुशमुद्ररैः | निन्घन्दक्षिणाहस्तैश्च पापरोगमधः स्थितम् || २५३ || तर्जनीं खेटकं शक्तिं कपालं पाशकार्मुकम् | घण्टाकुठारकं वामैः विभृद्द्वाभ्यां त्रिशूलकम् || २५४ || घण्टाकर्णो विधातव्यो घण्टाभरणभूषितः | घण्टामालाकुलो देवः पुण्डरीकाजिनाम्बरः || २५५ || आदित्यः [अस्य १०१ सं० च० द्र० |]- एकचक्रो रथो दिव्यस्तार्क्ष्याग्रज[मू, अ, क्, ख्: नुज]सुसारथिः | तुरगैः सप्तभिर्युक्त ऊर्ध्वं तत्रास्थितो रविः || २५६ || लम्पाकश्च विपाकश्च श्वेतश्च शङ्खनन्दनः | कपिलो हेमभद्रश्च भवसेनो हयाः क्वचित् || २५७ || गायत्री बृहती चोष्णिग् जगती त्रिष्टुवेव च | अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः || २५८ || बृहद्वक्षः सुरक्तश्च खेलावान् वा मुकुट्यथ | सहस्रांशुर्महातेजा मणिकुण्डलमण्डितः || २५९ || कूपुसाङ्घ्रिः [मू: ककुपाङ्घ्रिः; क्, ख्: कुपुपाङ्घिर] समीपासिः कवचच्छन्नविग्रहः | (१) सनालपत्रे राजीवे बिभ्रत्स्कन्धे करे क्रमात् || २६० || दण्डी तद्दक्षिणे गौरः स्थूलतुन्दिलकूर्चवान् | मसीभाजनलेखन्यौ धारयन्हस्तयोर्द्वयोः || २६१ || प्. १२३) पिङ्गलो वामपार्श्वेतु प्रतिहारश्च दण्डत् | बालव्यजनधारिण्यौ राज्ञीछाये [संज्ञाछाये, इति साधु पाठो भवेत् |] तु पार्श्वयोः [मू, अ, ग्: पार्श्चतः] || २६२ || आलीढकरणस्थातु सन्ध्या चापकरान्विता | आकृष्टकणबाणाच पार्श्चे दक्षिणके स्थिता || २६३ || वामे चैव तथा विद्या मध्यतः सर्वतोमुखी | अथवाश्वसमारूढः कार्य एकस्तु भास्करः || २६४ || द्वादशधादित्यः [एषां चित्राणि न सन्ति, केवलं द्वादशकोष्ठेषु द्वादशादित्यनामन्येव निर्ष्टिनि |]- अग्रे ध्यानरस्कन्धोऽर्धाब्जभृच्छान्तिदोऽभयी | मध्ये कुण्डयक्षमालावान् पूर्वार्धे[क्, ख्, घ्: मूर्ध्न्यर्ध]वेदिकाकरः || २६५ || तर्जन्यसिसपुस्तः स्यादादित्योऽथ महारुचिः | अन्ये यमादिवन्यह्यन्ता[क्, ख्, ग्, घ्: रक्षान्ता]श्चतुर्हस्ता द्विषड्दले || २६६ || वरदाद्यब्जिन [मू, अ, क्, ग्: ध्यक्षिनः] सर्चे दिक्पालास्त्रकराः क्रमात् | मुद्गरसृणिचक्रस्रुग्भुंतो[मू: स्रुग्वन्तो]ऽग्न्यादिविदिक्स्थिताः || २६७ || वरुणः सूर्यंनामा च सहस्रांशुस्तथापरः || २६८ || रविंश्चै[ग्: हविः]वाथ पर्जन्यः स्रष्टा मित्रोऽथ जिष्णुकः | एतेर्ऽका द्वादश ज्ञेया मेषादि [घ्: झषानि]राशिसंस्थिताः || २६९ || प्. १२४) कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डुरकः सितः | कपिलः पीतवर्णश्च शुकाभो धवलस्तथा || २७० || धूम्रो नील इति ज्ञेया वर्णा एषां यथाक्रमम् | इडा सुषुम्ना विश्वार्चिर्बिन्दु संज्ञा प्रमर्दिनी || २७१ || प्रहर्षिणी महाकाली कल्पिका च प्रबोधिनी | नीलाम्बरा धनान्तः स्था अमृताह्वा च शक्तयः || २७२ || वरुणादिक्रमा ज्ञेयाः शक्तयो द्वायशैव तु | स्वदेवरुपवर्णांस्ताः केसराग्रेषु विन्यसेत् || २७३ || द्विधा मार्तिण्डः [अस्य १०३, १०४ सं० चि० द्र०]- मार्तण्डः पूर्ववत्कार्य [ख्: वज्ज्ञेयः] श्चतुर्बाहुर्विशेषतः | दक्षिणो शूलधारी च वामहस्ते कपालभृत् || २७४ || शूल[क्, ग्: हल]ङ्कासिभृत्सव्ये हलपाशकपालकम् | धारयन्नितरे हस्ते द्वाभ्यामब्जौ करानकैः || २७५ || व्योमः [अस्य० १०५ सं० चि० द्र०]- व्योमं सूर्याग्रतः [ख्: सूर्याश्रितः] कुर्याच्छृङ्गैर्द्वाशभिर्युतम् | चतुर्भिरष्टभिर्वापि मध्येऽब्जेऽष्टद[सोऽष्ट]लान्वितम् || २७६ || जीवतुल्यपृथुच्छ्रायं कृतास्रं षोडशांशकम् | प्. १२५) वेदांशपातनात्कोण मर्टाशैरथ कम्बलम् [ख्: कन्धरम्] || २७७ || द्विद्वयेक[मू, अ: सिद्धयेक]द्वयेद्येकपक्षद्वि[ख्: पक्षार्ध; घ्: पक्षादि]युगांशौः [ख्: यतीशैः] षोडशोच्छ्रितैः | त्र्यंशप्रवेशनात्कण्ठादेकैकनिर्गमं खुरम् || २७८ || कुम्भं क्रमात्पटीं चैव गलकं कण्ठपट्टिकाम् | घण्टां च मेखलां चैव कुर्याछृङ्गाणि कोणतः || २७९ || रेवन्तः [अस्य० १०६ सं० चि० द्र०]- अश्वारूढो युवा कार्यो [घ्: युवाकारो] द्विकरश्चारूगात्रकः | कुपुसीमालकाच्छन्नो [मू, अ, ग्: गोलकाच्छन्नो] (?) रक्ताङ्गो भूषणान्वितः | वामे लस्वनपाणिः [क्: वलनयाणिः]स्या द्दक्षिणे मद्यपात्रधृक् [मू: पात्रकम्] | प्रालम्ब्यासक्त [मू: पालम्ब्यायय] रेवन्त [घ्: रेवन्तु]श्छत्रधारादिभिर्युतः || २८० || रविपरिवारः [अस्य चित्रोदाहरणं नास्ति]- रक्तकाया महातेजा द्विभुजः खड्गपद्मधृक् | नानारत्नसुवेशाढ्या [घ्: सुखेस्याढ्या]श्चण्डतेजाः स्वभावजाः || २८१ || नवग्रहभूर्तयः [एषां चित्रोदाहरणानि चित्र संख्या १०७ तः]- प्राग्रूपं [क्: प्राङ्मूखं] केवलं कुर्याद्ग्रहाणामग्रतो रविम् | प्. १२६) सोमं सौम्यं तथा श्वेतं कुण्डिकाजाप्यमालिनम् || २८२ || पिङ्गाक्षं भान्वितं रक्तं कुजं शक्त्यक्षमालिनम् | बुधं श्यामं युवानं च रूपिणं चापपाणिनम् || २८३ || वृद्धं गौरं गुरुं पीनं [मू, अ, ख्, ग्, ङ्: पीतं] साक्षमालं सकुण्डिकम् | याम्येकाक्षं सितं शुक्रं कुण्डिकामन्त्रमालिकम् || २८४ || कृष्णं पङ्गुमधोदृष्टिं खिङ्खिरीजाप्यमालिनम् [लि. पु.: शङ्खिजी; घ्: खिङ्खिरीतु] | व्यावृत्तास्यं सहास्यं च पिङ्गभ्रूश्मश्रुलोचनम् || २८५ || अर्धचन्द्रकरं राहुमर्धदेहं सुरक्तकम् [क्, ग्: सुवक्त्रकम्] | त्रिफणं [मू, अ, क्, ख्: त्रिफलं] धूम्रवर्णाभं नरनागार्धरूपिणम् [घ्: नरं] || २८६ || दीप्तखड्गधरं [क्: दीपखद्ग; ख्: खद्गं दीप] केतुमथवापि कृताञ्जलिम् | एतांस्तु द्विभुजान्सर्वान्भूषणाम्बरसंयुतान् || २८७ || हयं ग्राहं मयूरं च श्वहंसौ भेकरासभौ | शकटं मेधमेतेषामधो यानं क्रमात्सदा || २८८ || अष्टनागमूर्तयः [एषां चित्रोदाहरणानि चित्रसंख्या ११६ तः १२३ पर्यन्तानि क्रमेण इष्टव्यानि |]- अनन्तो रक्तकायश्च शिरः पङ्कजमौलिकः | सितः सहस्रभोगो हीश्वरः [मू, अ: ही शिरः] कुवलयान्वितः || २८९ || रक्ताङ्गः [घ्: रक्ताह्वः] स्वस्तिकोपेतः सुतेजास्तक्षको महान् | कृष्णः कर्कोटकः कण्ठे शुल्करेखात्रयान्वितः || २९० || प्. १२७) रक्तपद्मनिभःपद्मशिरः शुक्लः सुबिन्दुमान् | शङ्खवर्णो महापद्मो मस्तके कृष्णशूलधृक् [क्: शूलकम्] || २९१ || हेमाभः शङ्खापालः स्यात्सितरेखाधरो गले | कुलिको रक्तदेहस्तु चन्द्रार्ध [ग्: चन्द्रार्क] कृतमस्तकः || २९२ || एङ्गा [घ्: ब्रह्मा] (?) द्विबाहतः सप्तफणा मणिसमन्विताः | अक्षसूत्रधराः सर्वे कुण्डिकापुच्छसंयुताः || २९३ || पञ्च भोगास्त्रि भोगा [क्: भोगफणागा] वा तेषां जायासुतादयः | भृत्याश्चैकफणाः कार्यास्तद्रूपा मणिवर्जिताः || २९४ || मनसा [अस्य० १२४ सं० चि० द्र०]- सप्तभोगासिता सौम्या द्विभुजा सर्पधारिणी | हारकुण्डलकेयूरैः सदाभर[क्: सर्वाभरण]णभूषिता || २९५ || घटपद्मोपविष्टा वा वरदो ध्यानतत्परा | ईदृशी मनसा कार्या श्रीकण्ठमनसम्भवा || २९६ || जरत्कारुः [अस्य० १२५ सं० चि० द्र०]- द्विबाहुलम्बकर्णश्च जरत्कारुः कृशोदरः | योगपट्टावृतोऽब्जस्थः कुण्डिका चाक्षसूत्रभृत् [मू, अ, क्: धृक्] || २९७ || मनसापरिवारः [अस्य० १२६ सं० चि० द्र०]- फणैकचारुरक्ताङ्गा द्विभुजाः शिशुरूपिणः | नानालङ्कारसंयुक्तावुत्पलमणि भृत्करौ || २९८ || प्. १२८) स्वङ्गदेवी [अस्य० १२७ सं० चि० द्र०]- श्यामलाङ्गी घनोरस्का [घ्: धनोरुष्का] सप्तभोगा चतुर्भुजा | सुदृष्टा [ग्: सुकृष्णा] जल्पमाना च स्वोत्सङ्गे पुत्रधारिणी || २९९ || पर्णवल्लि [घ्: पर्णिवेल्लि] धरा पाणौ नानालङ्कारभूषिता | पद्मा [घ्: पर्णा] नन्दनपद्मस्थ स्वाङ्गादेवी [घ्: सुङ्गादेवी] प्रकीर्तिता || ३०० || नक्षत्राणि [एषां चित्रोदाहरणानि चित्रसंख्या १२८ तः १५४ पर्यन्तानि क्रमेणाश्विन्यादिनक्षत्राणां चित्राणां द्रष्ट्रव्यानि तानि चप्रायेण लक्षणे न सम्मिलितानि |]- हयेभक्षागतागाश्व श्वशूकरसमाननाः | बसुकोककपिद्विक्ष [घ्: द्विक्क] व्याघ्रव्याघ्रास्यकं क्रमात् || ३०१ || लुलाययुग्महर्यंक्षसिंहमार्जारवक्त्रकम् | रक्षोद्वितयकुम्भीर [कुम्भीरः नक्राभिधोजलवरः | किन्त्वस्य चित्रोदाहरणे शुकाभिधः; पक्षिवेशेषो वर्तते | श्लोकानुसारेण नक्राभिधो जलचर विशेष एव भवितुमर्हति |] सर्पचक्रास्यकं [क्, ख्: नक्रास्यकं] च भम् || ३०२ || मृगॠक्षखरोष्ट्रास्यमश्विन्यादि द्विदोऽनृजु | अश्विनौ च यमो वह्निः प्रजेन्द्रेन्दुहरोऽदितिः || ३०३ || गुरुः सर्पः पितायोनिरर्यमा सविता क्रमात् | प्. १२९) त्वष्टा वायुः सुरेन्द्रोऽग्निर्मित्रेन्द्रौ यावत्पाम्पतिः [मू: यातुधाम्पतिः] || ३०५ || विष्णुर्वसुरजैकादिपादहिर्बुध्न [घ्: रजैकाद्यहिर्बुध्न] पूषकाः || ३०६ || राशयः [एषां चित्रोदाहरणानि चित्रसंख्या १५५ तः १६६ पर्यन्तानि द्रष्टव्यानि |]- मत्स्यौ द्वौ च भवेन्मीनो रिक्तकुम्भो नरो घटः | पुमान् गदी सवीणा च योषित्त [क्, ख्, घ्: योषिच्च] न्मिथुनं धनुः || ३०७ || अश्वजङ्घो नरश्चापी मृगवक्त्रो नरो ऋषः [ख्: दवः; घ्: झषे] (१) | स्त्री नौस्थोल्कासिभृत्कन्या तुलाधारो नरस्तुला || ३०८ || मेषाद्याः पञ्च चैवान्ये [घ्: एवाद्ये] स्वनामतुल्यरूपकाः || ३०९ || इन्द्रः [अस्य० १६७ सं० चि० द्र०]- सहस्राक्षो गजारूढो वज्रहस्तो च्च [ख्: हस्तोध्व] बाहुकः | हेमाभः सकिरीटश्च देवराजः सुरावृतः || ३१० || अग्निः [अस्य० १६८ सं० चि० द्र०]- पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः | छागस्थः [अस्य स्थाने मृगो वर्तते चित्रपुस्तके] साक्षसूत्रोग्रः सप्तार्चिः शक्तिधारकः || ३११ || यमः [अस्य० १६९ सं० चि० द्र०]- ईषत्पीतो [घ्: षद्दीनो] यमः कार्यो दण्डहस्तो भयङ्करः | रक्तहृक्पाशभृत्कृष्णो महिषस्थोग्रदूतवान् || ३१२ || प्. १३०) निऋतिः [अस्य० १७० सं० चि० द्र०]- दंष्ट्रावान् रक्तदृक्क्रुद्धो निरृतिर्बिकृताननः | पुंस्थित खड्गहस्तश्च नीलाभो राक्षसावृतः || ३१३ || वरूणः [अस्य० १७१ सं० चि० द्र०]- मकरस्थः सितः सौम्यः पाशहस्तो महोदरः | सर्वाभरणसंयुक्तो वरूणः पीतवस्त्रभृत् || ३१४ || वायुः [अस्य० १७२ सं० चि० द्र०]- पीनो [घ्: पीतो] गौरोऽथवा श्यामः कुञ्चितभ्रूश्चलात्मकः | रक्तक्षो [घ्: रक्तास्यो] रक्तवासश्च मृगस्थश्चङ्कुशी ध्वजी || ३१५ || कुबेरः [लि. पु.: वैश्रवणाः]- मेषस्थितो घनः सौम्य पीतो यक्षावृतो गदी | धनेशो वरदः कार्यो नानाभरणमण्डितः || ३१६ || ईशनः [अस्य० १७३ सं० चि० द्र०]- त्र्यक्षः सितो जटी शुली वृषस्थोऽस्थिविभूषितः | ईशानोऽहीन्दुभृच्चैते लोकपाला द्विबाहवः || ३१७ || विश्वकर्मा [लि. पु.: लोकपालमूर्तयः| अस्य० १७४ सं० चि० द्र० | अस्य० १७५ सं० चि० द्र०]-] द्विभुजः पीतदेहस्तु [अस्य० १७५ सं० चि० द्र०] जटाधारी कजासनः | विश्वकर्मा सदा गौरो ज्ञानमुद्राक्षसूत्रभृत् || ३१८ || प्. १३१) हनुमान् [अस्य० १७६ सं० चि० द्र०]- विवृतारूणवक्त्रश्च ऊर्ध्वपुच्छोर्ध्वमूर्धजम् | आलीढकरणासक्तं महाकायं सुभीषणम् || ३१९ || दीर्घदंष्ट्रानखैर्युक्तं पिङ्गाक्षं [घ्: पिङ्गाङ्गं] भूषणान्वितम् | पीतध्वजधरं वामे तर्जनीं वा हृदग्रतः || ३२० || प्रसारितभुजं कुर्यादद्रिहस्तं तु दक्षिणे | संपीड्य राकसान् पद्भ्यां मुञ्चन्नादं[मू, अ, ख्, ग्: पद्भ्यामुच्चपादं]मरुत्सुतम् || ३२१ || किन्नरः [बहुवचनान्तोऽयं शब्दः लिखित प्रस्तकेषु | अस्य० १७७ सं० चि० द्र०]- एङ्ग्रा (?) यक्षाङ्घ्रिकाः कार्या वीणाहस्ताश्च किन्नरा | स्कन्धयक्षान्विता नित्यं कर्तव्या योषिदन्विताः || ३२२ || विद्याधरः [अस्य० १७८ सं० चि० द्र०]- यक्षान्वितान्तरिक्षस्थाः खड्गहस्ताः सुरूपिणः | मालाभृतोऽथवा हृष्टाः खस्था विद्याधराः सदा || ३२३ || प्रेतवेतालः [लि. पु: प्रेतवेतालौ | अस्य० १७९ सं० चि० द्र०]- दीर्घाः खड्गधराः कृष्णाः पिशाचा दुर्बलाङ्गकाः | पिङ्गवर्वर[मू: चर्चर]केशाश्व वेताला विकृताननाः [ग्: विबृताननाः] || ३२४ || क्षेत्रपालः [लि. पु: क्षेत्रपालाः | अस्य० १८० सं० चि० द्र०]- बभ्रु केशोग्रदंष्ट्रास्याः कृष्णवर्णा भयङ्कराः | प्. १३२) कपालमालिनः शूलधारीणः क्षेत्रपालकाः || ३२५ || किन्नराद्याः [एषां (किन्नरगणानां) चित्रोदाहरणानि चित्रसंख्या १८१ तः १८९ पर्यन्तानि प्रायेण द्रष्टव्यानि |]- गोधाजगृघ्रवक्त्राश्च शिवासूचीमुखास्तथा | कृशा महोदराः प्रेता खल्व[ग्: खलु]गल्लाश्च लोमशाः || ३२६ || योगिन्यः [पाठोऽयं लिखितपुस्तकेषु नास्ति | अत्रोक्तचतुः षष्टियोगिनीषु इला, लीला, लया, लोला, लङ्काः लङ्केशी, लालसा, विमला, एतासां चित्रोदाहरणानि न दृश्यन्ते गणनायामपि चतुः षष्टिसंख्यातः अधिकं वर्तते |]- योगिन्यष्टष्टाकं वक्ष्ये ऐन्द्र्यादीशान्तचक्रवृत् [मू, अ, ग्: चक्रवत्] | स्वाङ्गवर्णधराः सर्वा यथोक्तं ब्रह्मयामले || ३२७ || अक्षोभ्या ॠक्षकर्णीच राक्षसी क्षणपा क्षया | पिङ्गाक्षी चाक्षयाक्षपा [घ्: क्षेय] इला लीला लया तथा || ३२८ || लोला लङ्काथ [ग्: सक्षाथ] लङ्केशी लालसा बिमला पुनः | हुताशा च विशालाक्षी हुङ्कारा वडवामुखी || ३२९ || हाहारवा महाक्रूरा क्रोधना तु भयानना | सर्बज्ञा तरला तारा ऋग्वेदा तु हयानना || ३३० || साराख्या रससङ्ग्राही सरवा [घ्: सबरा] तालजङ्घिका | रक्ताक्षी सुप्रसिद्धा तु विद्मुज्जिह्वा करङ्किणी || ३३१ || मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा | प्. १३३) चन्द्रा चन्द्रवली चैव प्रपञ्चा प्रलयान्तिका || ३३२ || विचुवक्त्रा पिशाची च पिशिताशा च लोलुपा [क्: चलालया] | यमनी तपनी चैव वामनी विकृतानना || ३३३ || वायुवेगा बृहत्कुक्षी विकृता विश्वरूपिका | यमजिह्वा जयन्ती च दुर्जया च यमान्तिका || ३३४ || विडाली रेवती चैव प्रेतना विजयान्तिका | चतुः षष्टिरियं देव्या मूर्तिभेदा निगद्यते || ३३५ || पूर्वाष्टका [आसां १९० तः १९७ सं० चि० क्रमेण द्रष्ट०]- वज्रास्यभयभृद्यास्ये कंखेटफलभृत्ततः | हेमाभा भूषणाढ्या स्यादक्षोभ्या करिसंस्थिता || ३३६ || ऋक्षकण्यतिगौरा [ख्: दक्षकर्णाति] च कम्बुबाणाभयावहा | धनुः कपाभृत्सौम्ये ॠक्षस्था तर्जनीयुता || ३३७ || कराभ्यां मस्तकस्योर्ध्वं प्रेतभृद्धस्तपादयोः | प्रेतस्था राघसी गौरी कार्धकतरिकान्विता || ३३८ || क्षपणा चम्पकाभा च दक्षिणे मुद्गराङ्कुशम् | कपालं च फलं सौम्ये धत्ते कुब्जनृसंस्थिता || ३३९ || क्षया कूर्मस्थिता गौरी त्वक्षसूत्रघटान्विता | वामे कपालपिच्छी [क्, ख्: पिण्डी] भृत्सर्वालङ्कारमण्डिता || ३४० || पिङ्गाक्षी पिङ्गकेशी स्याद्वभ्रुवर्णा हयस्थिता | कौशेयपाशभृद्याम्ये वामे चाङ्कुशखेटिनी || ३४१ || प्. १३४) वृकारूढा ल-वर्णा [र-वर्णा, रक्तवर्णेत्यर्थः |] च चारूर्गात्राक्षया भवेत् | कुठाराशनिभृद्याम्ये सौम्ये पाशाङ्कुशान्विता || ३४२ || शवस्था नृत्यती पीता शक्तीभकधनुष्करा | याम्ये डमरुशूलेषुमस्तहस्ताक्षपा मता || ३४३ || आग्नेयाष्टका [आसां चित्रोदाहरणानि १९८ तः २०५ सं० चि० द्र० |]- शक्तिखद्गधरा त्र्यक्षा वामे खेटकपालिनी | रक्ता बहिर्स्थिता त्वीला क्रीडन्ती दहनैः सह || ३४४ || लीलावती च दक्षस्था [मू: यक्षस्था | ॠक्षस्था, इति साधुः पाठः, चित्रेऽयि भल्लुकासने स्थिता |] लीला रक्तजटान्विता | बिभ्राणा पट्टिशं पाशं वामे मस्तार्धमम्बुजम् || ३४५ || मूषारूढा लया रक्ता याम्ये दण्डासिधारिणी | कर्तरीकार्धभृद्वामे तर्जन्याकृष्टसृक्किका || ३४६ || कतरीं मार्जनीं सूर्यं सौम्ये पिच्छं नृकं करे | शूलं रुरुयुतं द्वाभ्यां धत्ते लोला सूसारसे (?) || ३४७ || वामे लुलायमुण्डं च तत्पश्यन्त्यसृग्रक्तकम् | लङ्केशोरुस्थिता लङ्का चर्वन्तीं [मू: वर्षन्ती] पिशितं घनम् || ३४८ || सफणा [मू, अ, ग्: त्रिफला]सकखेटेन्द्रो मोदकांसि च दक्षिणे | शोणा लङ्केश्वरी कुण्डे ऊर्ध्वबालां च [मू: ऊर्वालाचरणे] बिभ्रती || ३४९ || दक्षिणे वरदश्चक्रं वामे कं कम्बुजं [मू, अ, क्, ग्, घ्, ङ्: कम्बुकं] करे | बिभ्राणा कोलगा रक्ता लालासृग्लालासा मता || ३५० || प्. १३५) द्विपस्था विमला रक्ता त्र्यक्षालङ्कारभूषिता | कर्तरीकुम्भभृद्यामे सौम्ये पाशकपालिनी [ख्: कधारिणी] || ३५१ || याम्याष्टका [आसां० २०६ तः २१३ सं० चि० द्र० |]- कृष्णा हुताशनाजस्था ज्वालिनी दक्षिणे स्रुवा | वामे चाभयहस्ता स्याद्विष्टराज्यघटान्विता || ३५२ || शूकरास्या विशालाक्षी योषित्स्कन्धस्थिता सिता | कर्तर्यभयभृद्याम्ये वामे कण्टाकपालिनी || ३५३ || मीनास्या मीनसंस्था च हुङ्कारा साक्षमालिका | मुसलं बिभ्रती याम्ये सोम्ये च फलपल्लवौ || ३५४ || पर्यङ्का वडवास्या स्यादङ्काभ्यां बिभ्रती शिश | समत्स्य [घ्: समत्से]कार्धभृद्वामे मत्स्यमन्यत्र वासिता || ३५५ || तर्जन्यभयभृत्सौम्ये [क्, ग्: सौम्ये च] याम्ये दण्डकपालिनी [ख्: कधारिणी] | हाहारवा सिता क्रूरा रासभास्या खरासना [मू, अ, ग्, घ्: खरानना] || ३५६ || लुलायास्या लुलायस्था महाक्रूरा सिता भवेत् | वामे मसीघटीं पाशं लेखनीदण्डभृत्ततः || ३५७ || मांसखण्डं करे याम्ये खादन्ती क्रोधना सिता | वामे समदिरं पात्रं [ग्: शूलं] बिभ्रती जम्बुके स्थिता || ३५८ || कृष्णा भयानना गृघ्रे दंष्टोग्रास्थिविभूषिता | याम्येऽस्याः खिङ्खिरीं (?) शूलं खर्परं लेलिहान्यतः || ३५९ || प्. १३६) नॠत्याष्टका [आसां० २१४ तः २२१ सं० चि० द्र० |]- कंशूलपुस्तभृद्वामे मुण्डं डमरुकं शबम् | बिभ्राणोभाजिन [इभ अर्जिनम् इति च्छेदः |] द्वाभ्यां सर्वज्ञा प्रेतगासिता || ३६० || जानुक्षिप्तौ करौ न्यस्य उद्यन्ती तरलायता [क्: उ/द्मती तरणायता] (?) | शलडमरुहस्ता च गोधागा तरलासिता || ३६१ || तारागणैर्वृता तारा कृष्णोलूक स्थिता नृकम् | शवार्धं बिभ्रती सौम्ये शूलं मुग्दरमन्यतः || ३६२ || ॠग्वेदाब्जस्थिता कृष्णा ज्ञानमुद्रांच बिभ्रती | दक्षिणो जाप्ययामालां च वामे पुस्त कमण्डलुम् || ३६३ || कबन्धस्थासिता रौद्रा तुरगास्या हयानना [क्: हयासना] | शूर्पमुण्डकरा याम्येऽन्यत्र शेफालिकाकभृत् || ३६४ || छिन्नहस्तशवे कृष्णा सारा स्थूलजटाधरा | खद्वाङ्गं रुरुकं सौम्ये शूलोल्के बिभ्रती ततः || ३६५ || शवस्था रससङ्ग्राही [क्: वरसङ्ग्राही] नृत्यन्ती जटिलासिता | कशूलान्धककङ्कालभृदद्वयो श्चमवासिनी || ३६६ || शवे तदृग्द्विजे पृष्ठे कनिष्ठा सरवासिता ?[मू: भवना; ख्, घ्: शवरा] | वामे करोघधापाशं[क्, ख्, ग्: द्यथानासं; घ्: पवानासं]घण्टेशूल्कधरान्यथः || ३६७ || वारुणाष्टका [आसां० २२२ तः २२९ सं० चि० द्र० |]- तार्क्ष्यस्था तालजङ्घाख्या सुकान्ता स्फटिकप्रभा | प्. १३७) शङ्खखेटकहस्तोग्रा याम्ये स्वस्तिकखड्गभृत् || ३६८ || गण्डारुढाच रक्ताक्षी रक्तापाना शशिप्रभा | गदाध्वजधरा याम्ये वामे पाशकपालभृत् || ३६९ || विद्युज्जिह्वा सिता क्रूरा सव्ये सीरकपालभृत् [मू: कपालिनी] | चक्रस्था चक्रकट्टारीधारीणी [ख्: चक्रवाकश्च चक्रस्था] दक्षिणे करे || ३७० || ग्राहस्था चामरच्छत्रभृद्दूतीयुगसंयुता | कुम्भपाशधराश्वेता क्रोडपुत्रा करङ्किणी || ३७१ || चन्द्राभा मेघनादा स्याद्खड्गखेटकधारिणी | जलैर्वृता घनारूढा तडिन्मण्डलमण्डिता || ३७२ || नक्रस्था स्यात्प्रचण्डोग्रा याम्ये स्यात्कर्तरीफलम् | कपालं मुण्डमन्यत्र शत्रुघ्नाः स्फटिकत्विषः || ३७३ || शुक्ला झषासना रौद्रा बिभ्रत्पद्माक्षसूत्रकम् | कालकर्णी जगत्ख्याता कर्णे कालविभूषणा || ३७४ || वृषदंशस्थिता श्वेता वरदा रुपुनाशिनी | कर्तर्यभयभ्रद्याम्ये शूल [घ्: पूर] पाशधरान्यतः || ३७५ || वायव्याष्टका [आसां० २३० तः २३७ सं० चि० द्र०]- चन्द्रा हंसस्थिता गौरी वेदास्येन्द्वर्कयोः क्रमात् | कमण्डलुकुशव्यग्रा चात्रसूत्रस्रुवान्विता || ३७६ || याम्येऽभयाक्षमालाभृच्छेषेऽब्जध्वजधारिणी | चन्द्रावली च हेमाभा कृष्णसारमृगासना || ३७७ || फलस्रगन्विता याम्ये कम्बुकुण्डीधरान्यतः | गजयाना प्रपञ्चाख्या गौरी विश्वप्रपञ्चिका || ३७८ || कपिस्था सान्द्रशाखाभृत्खाम्बरा प्रलयान्तिका | प्. १३८) खादन्त्याम्रफलं नित्यं कप्यास्या गौर वर्णिनी || ३७९ || पिचुवक्त्रा मृगव्यालपिङ्गला याम्यसौम्ययोः | भिन्दिपालकखेटाभ्यां प्रासासिभ्यां च संयुता [घ्: संयुगे] || ३८० || काकास्या श्येनगा गौरी पिशाची रक्तमण्डिता [क्, ग्: वक्त्रमण्डिता] | कं फलं कर्तरीं खड्गं बिभ्रती सौम्ययाम्ययोः || ३८१ || फलतूलधरा वामे याम्ये शस्त्रासिधारिणी | खरस्था बभ्रुवर्ण स्यात्पिशिताशातिदुर्बला || ३८२ || नृत्यन्ती लोलुपा पीता रथस्था याम्यसौम्ययोः | ध्वन इडमरु[घ्: ध्वजं डमरु]कर्तर्यौ पाशं पिच्छं च बिभ्रती || ३८३ || उत्तराष्टका [आसां० २३८ तः २४५ सं० चि० द्र०]- गदापट्टिशभृत्सौम्ये शूलतोमरिणी ततः | वमनी [ग्: रमणी] पुष्पकस्था स्याद्गौरी यक्षगणान्विता || ३८४ || सर्पास्या सर्पगा स्वङ्गी [घ्: वङ्गा] गौत्युग्रा तपनी वरा | स्वफणा[क्, ग्: सुफणा]यान भाजे [क्: नुभोगा; ख्: धारभागे] च न्यस्तहस्ता भवेदियम् || ३८५ || पीता गेहाखुगे भास्या वामनी बिभ्रती करे | कुठारं लड्डुकं वामेऽक्षमाली पनसं ततः || ३८६ || शूलभिन्नलुलायस्य सिंहाकृष्टशरीरिणाः | जिह्वाभृद्वज्रिणी पीता चतुर्दोर्विकृतानना || ३८७ || शङ्खपूरणिका द्वाभ्यां नृकाभयकराद्वयोः | द्विहंसवद्रथस्था स्यात्तालाभा वायुवेगिका || ३८८ || प्. १३९) भासस्था स्याद्वृहत्कुक्षिः सौम्ये मुण्डकपालभृत् | महाकाया च गौर्यङ्क[मू: गौर्यर्क]कर्तरी भृन्नृकादनी || ३८९ || उष्ट्रस्था बिकृता गौरी भयकृद्विकृतानना | तूरं डमरुं याम्येऽस्याः शेषे खट्वाङ्गमस्तकम् || ३९० || खेटशङ्खाब्जभृद्वामे गदाचक्रासिभृत्ततः | वीन्द्रस्था [वीन्द्रपक्षिराजः] विश्वरूपा स्याद्धेमाभा वनमालिनी || ३९१ || ऐशान्यष्टका [आसां० २४३ तः २५३ सं० चि० द्र०]- मुसलं मुग्दरं याम्ये परशुं बन्धनं ततः | बिभ्रती यमजिह्वाख्या कराला महिषस्धिता || ३९२ || नृत्यन्ती वृषगा श्चेता याम्ये डमरूतूलभृत् [घ्: तूर भृत्] | सदैत्यमुण्डशूलोग्रा [लि. पु: सदैत्यशूलमुण्डोग्रा] जयन्ती वामहस्तयोः || २९३ || खड्गकुन्तयुता [घ्: कुम्भीद्यता; मू: कुण्डयुता] रौद्राश्चारुढा दुर्जया मता | नानाभूतावृता श्वेता दुर्गकाननसंस्थिता || २९४ || शूलबाणधरा याम्ये धनुः शक्तिधरा [क्, ख्: करा] ततः | शकटस्थातिधोरास्या क्षीरवर्णा यमान्तिका [मू, अ: यवान्तिका] || ३९५ || मार्जारस्था विडाली च विडालाक्षी [ख्, घ्: विशालाक्षी] भवेत्सिता | वामे करं [क्, ख्, ग्, घ्: तूरं] च खट्वाङ्गं शूलं टङ्कं [घ्: घण्टं] च बिभ्रती || २९६ || कृशा पिशाचवक्रत्रोग्रा प्रेतस्था रेवती [घ्: पोतस्था रैवती] मता | त्रिशूलयष्टि [क्, ख्, ग्, घ्, ङ्: कं शलयष्टि]भृद्याम्ये भिन्दिपालगदासिभृत् || ३९७ || प्. १४०) कुन्दाभा प्रेतना त्र्यक्षा विकृतास्था सवस्थिता | कर्तरीशूलभृत्सूर्ये (सौम्ये) वामे मुण्डकपालभृत् || ३९८ || श्चेतवर्णा बृषस्था च विजया विजयप्रदा | शूलं डमरुं याम्येऽस्याः कार्धखट्वाङ्गधृक् ततः || ३९९ || दिव्याम्बरधराः सर्वाः सर्वाभरणभूषिताः | कर्तव्याः शिल्पिभिर्नित्यं योगिन्योऽशेषसिद्धिदाः || ४०० || भैरवः [अस्य० २५४ सं० चि० द्र०]- भैरवश्चार्कहस्तः स्याच्चतुरास्यो जटेन्दुभृत् | खड्गाङ्कुशकुठारेषु विश्वाभयकृदर्कतः [घ्: दक्षतः] || ४०१ || चापत्रिशूलखट्वाङ्गपाशकार्धकरोऽन्यतः | गजचर्मधरो द्वाभ्यां कृत्तिवासोऽहिभूषितः || ४०२ || त्र्यक्षो दंष्ट्राकरालोग्रः प्रचण्डाट्टाट्टहासवान् | प्रलयाम्बुदवर्णाभो मुण्डकापालमालिनः (कः) || ४०३ || कूर्मधराम्बुपोताब्ज[ग्: पात्राब्ज]प्रेतहृदासनास्थितः [मू: सनस्थितः] | चण्डाख्यो मातृमध्ये तु संस्थितः पीतकूर्चभृत् [घ्: पीनकूर्खधृक्] || ४०४ || खविलोमाग्निपर्यन्तं दैर्घ्यात् खेकैकभेदतः [क्: दैर्घ्याष्टैकैकभेदतः; घ्: दीर्घाषैकैकभेदितः] | तत्षडङ्गानि [ग्: तंत्सुत] जात्यनतैः खान्वितं च क्रमाद्यजेत् || ४०५ || मन्दिराङ्गिबलारूढं स्ववर्णानुग्रहान्वितम् | नादबिन्द्विन्दुसंयुक्तं [क्, ग्: बिन्दुसंयुक्तं] मातृनाथान्त [ख्: नाथाङ्ग]दीपितम् || ४०६ || प्. १४१) संक्षेपाद्देवतामूर्तिः कथिता वर्तनी मया | गुह्यदेवान्यरूपाणां स्वे स्वे शास्त्रे विनिश्चयः || ४०७ || ऊर्ध्वासीनाय यानस्थाः सुप्ता चैवान्तरिक्षगाः | पञ्चधा प्रतिमाः ख्याता मानतः सप्तधा तथा || ४०८ || एकस्मिन्नेव देहे स्युर्यथाङ्गानि पृथक् पृथक् | तथेश्वरात्सुरा सर्वे कार्यकारणभेदतः || ४०९ || इति लक्षणसमुच्चये रुद्रादि व्यक्तलिङ्ग वर्तनं नाम षष्टो विधिः || ६ || अथ सप्तमः व्यक्ताव्यक्तं प्रवक्ष्यामि दशभेदैर्व्यवस्थितम् | पञ्चास्यादि यथालिङ्गं भवेत्सुव्यक्तपञ्चकम् [मू, अ: लक्षणम्] || १ || पञ्चास्यं चतुरास्यं च त्रिद्वोकास्यं भवेत्क्रमात् | पञ्चवक्त्रमनिष्टेषु चतुर्वक्त्रं सुखावहम् || २ || त्रिवक्त्रं शान्तिदं नित्यं द्विवक्त्रं चाभिचारिकम् | एकवक्त्रं स्याद्रोगघ्नं नाधिकाम्यं चलाचलम् || ३ || एकद्वित्रिमुखं वापि प्रासादे पूर्ववक्त्रकम् | चतुर्मुखं तु खाधारे [घ्: मुखे सुखाधारे; क्: तु प्रसादे] पञ्चास्यं वा चतुर्मुखम् || ४ || सितोत्तानं त्रिनेत्रं च मौलिकुण्डल[मू: कुन्तल]शोभितम् | लिङ्गमूर्ध्निस्थित वक्त्रमैशानं त्वीशमीक्षकम् [मू: वीक्षकम्] || ५ || रक्तवर्णं सुतेजस्कं त्र्यम्बकं मौलिमण्डितम् | सिंहास्यं [घ्: सिंहाघ्रं] श्मश्रुकेशाढ्यं मैन्द्रं तत्पुरूषाननम् || ६ || कृष्णंयाम्यमघोरास्यं [मू, अ, क्, ग्: कृष्णवर्णमघोराख्यं] पिङ्गकूर्च सुभासुरम् [मू, अ, क्, ग्: शुभां शुभम्] | दंष्ट्राकरालं वृत्ताक्षं ज्वलत्केशादिभूषितम् || ७ || प्. १४२) वामवक्त्रं भवेत्पीतं सौम्यं धनददिक्स्थितम् | कान्तालङ्कारकेशादि [क्, ख्: केशांढ्य; ग्: केशाश्च] तिलकोलकमण्डितम् || ८ || वारूणास्यं सितं सद्यश्चन्द्र मौलिजटाधरम् | त्र्यक्षं पीनं युवाकारं सुप्रसन्नं सुशोभमम् || ९ || विनेशानं चतुर्वक्त्रं त्रिमुखं त्वजवर्जितम् | सद्यः पुंभ्यां द्विवक्त्रं स्यात्पुरुषेणैकवक्त्रकम् || १० || तुल्यविष्कम्भतः सिद्धे पूजा भागोर्ध्व विस्तृते [ख्: भागोर्ऽधविस्तरः; ग्: भागेऽर्धविस्तृते] | तत्वैर्लिङ्गं ग्रहैर्भक्ते हृत्वाम्भोंशो विदिक्षु च || ११ || मध्यसूत्रोद्भमा [मू: सूत्रभ्रमा] लिङ्गं तालपञ्चकवेष्टितम् | दिग्विभागेन तद्वक्त्रं [मू: तद्वक्तं] भूतवेदाननं सदा || १२ || अजात [मू: सुजात] वदनद्रव्यं त्रिगोलकं त्रिषु क्षिपेत् | तद्वद्द्यास्ये द्विमात्राख्यमेकास्ये त्रित्रिकाङ्गुलान् || १३ || त्र्यास्यमष्टादशांशैश्च [मू: सप्तदशास्रैश्च] लिङ्गं स्याद्रविभागतः | हृत्वा कोणेषु रन्ध्रांशैर्लिङ्गं षट्तालवेष्टितम् || १४ || धृत्यंशेन द्विवक्त्रं स्यान्मध्ये [घ्: तु मध्ये] लिङ्गमथैन्द्रकम् | ([चापचिन्हान्तर्गतोऽयं पाठो ग्. पुस्तके नास्ति]द्वाभ्यां द्वाभ्यां च तत्रास्यं लिङ्गं सप्तास्यवेष्टितम् || १५ || त्रिंशदङ्गुलविस्तारं तालमानास्य निर्गमम् |) नवत्यङ्गुलकं [घ्: त्र्यङ्गुलकं] वृत्तादेकास्यं पूर्ववक्त्रकम् || १६ || पूजांशे नवधाभक्ते लिङ्गमुच्चे [मू, अ, क्, ख्, ग्, ङ्: मूर्ध्वे] त्रिभागतः | प्. १४३) तदधःषड्विभागेन शिववक्त्राणि वर्तयेत् || १७ || तद्वक्त्रं [ख्: तद्वक्षः] स्कन्धयोर्मूलं भागैकेन गलं तथा | चिबुकोष्ठौ विभागेन [मू, अ, क्, ख्: च भागेन] नासाललाटस्तकम् || १८ || क्रमतो गुणभागेन चारूमौलिं तदूर्ध्वतः | लिङ्गपार्श्चे द्विभागेन भागं त्यक्त्वा तदूर्ध्वतः || १९ || जूटादींश्च प्रयत्नेन पूर्वोक्ता प्रतिमा यथा | पञ्त्रास्याद्येकवक्त्रान्तमयमेव विधिः पुनः || २० || वृत्ताकारं ततः शेषं शिरश्द्वात्रादिकं क्रमात् | पञ्चाननादिकं प्रोक्तं सुव्यक्तमधुदनोच्यते || २१ || प्रागुक्तपञ्चवक्त्राणि सर्वैंरङ्गैर्युतानि च | द्विबाहून्यूर्ध्वदेहानि विष्णवन्तचरणानि च || २२ || कुर्यांच्च स्वदिगीशानं साक्षमालात्रिशूलिनम् [घ्: शानमक्षमाला त्रिशूलकम्] | पूर्वकाये पुमांसं तु मातुलुङ्गाक्षशलिनम् [क्, ख्: सूत्रितम्] || २३ || याम्येऽघोरमनाक्षीनं घण्टाशूलधरं सदा | स्त्र्याकारमुक्तरे गुह्यं दर्पणोत्पलसंयुतम् || २४ || पश्चिमेऽजातक रूप वरदाभयपाणिकम् | सुव्यक्त पञ्चधाह्येवमास्योवताबिधिसंस्थितम् [मू: संयुतम्] || २५ || पञ्चद्वित्रियमैकेन [घ्: पञ्चाचित्रयमेकेन्द] सम्पूर्णङ्ग न तत्क्रमात् | एवं निष्पाद्य लिङ्गानि पिण्डिकां वर्तयेत्ततः || २६ || इति लक्षणसमुच्चये व्यक्ताव्यक्तलिङ्गानां दशधा वर्तनं नाम सप्तमो विधिः अथोष्टम || ७ || अथ अष्टमः पिण्डिका साम्प्रतं वक्ष्ये अथाष्टमः च त्रिविधे शुभोम् | महत्याः प्रातमायाश्च दिग्लिङ्गादेश्च साधने || १ || प्. १४४) पिण्डिका स्यादुमादेवी लिङ्गं च परमेश्वरः | नवज्ञां कारयेत्तस्मात्कदाचिदुभयोरपि || २ || लिङ्गनाहप्रविस्तीर्णा उच्छ्रये विष्णुसम्मिता | पिण्डिका तु समाख्याता न हीना नाधिका शुभा || ३ || स्वतानषष्ठभागेन [क्, ख्: स्वताल] बाहुल्येन [घ्: बाहल्येन]समन्विता | मेखला तत्त्रिभागेन खातं तत्त्र्यंशहीनकम् || ४ || स्वमानपादहीनं वा त्रिविधं समुदाहृतम् [मू: तदुदाहृतम्] | मध्ये वृत्तं समालिख्य वर्तयेत्खातमादरात् || ५ || ([चन्हान्तर्गतोऽयं पाठो ग पुस्तके नास्ति]बहिस्थं मव्यगं चैव बाहुल्यं [घ्: बाहल्यं] सदृशं यथा | वृत्तसूत्रात्समारभ्य खातं वै ह्रासयेत्क्रमाम् || ६ ||) तावद्यावच्छनैर्ध्या मेखलाखातमाप्नुयात् | अर्वाग् दैर्घ्यत्रिभागेन मेखलावर्तनं बहिः || ७ || प्रणालं पीठमध्यस्थं दैर्घ्ये [मू: दैर्घ्य] मूलत्रिभागकम् | मुखे तदर्धविस्तारं तन्त्रिभागेऽम्बुनिर्गमः || ८ || स्थौल्यं चापि प्रणालस्य जलभृद्दलसंथितम् | कण्ठादूर्ध्वं सदा ह्येवमन्यथा दोषदायकम् || ९ || गुह्यवक्त्रस्थितं नित्यं प्रणालं चोत्तरप्लवम् | षष्ठांशवेशनात्कण्ठश्चलानां पञ्चमेन वा || १० || न वेदास्राष्टकं सर्वं पीठं श्वभ्रसमान्यथा [मू: चत्रं च ना; ग्: पीतं पुत्रं च ना; ख्: सूत्रसमा] | अव्यक्ते मिश्रके स्वांशे [मू: भ्यांशे; ग्: द्यांशे] ब्रह्मविष्णु[ख्, घ्: विष्णो]स्वरूपतः || ११ || प्. १४५) पीठिकाविस्तरत्र्यंशे खातं तन्मध्यतो भवेत् | लिङ्गस्थौल्यप्रमाणेन समास्रं दिग्विदिक्स्थितम् || १२ || चतुरस्रमथाष्टास्रं ब्रह्मविष्णुविभागतः | समन्ताज्ज्येष्ठलिङ्गस्य यवैः षड्भिर्विवर्धितम् || १३ || अर्धार्धन्यूनमन्येषां कन्यसे [कनीयसे, इत्यर्थः] द्वियवः सदा | लिङ्गवन्निर्मला शुद्धा कर्तव्या पिण्डिका बुधैः || १४ || अष्टास्रं ज्येष्ठलिङ्गस्य दृश्यं पञ्चयवाधिकम् | शेषाणां लिङ्गानामर्धार्ध ह्रासयेद्यवम् || १५ || प्रवेशः षड्विधः प्रोक्तो ब्रह्मभागस्य भूतले | कामानां वसुतस्तस्य भेदान् ब्रूमः समासतः || १६ || विभक्ते त्वष्टधा ब्राह्मे त्रिधार्धोभाग एव वा | चतुर्भागः समस्तो वा प्रशस्यते च पञ्चधा || १७ || (क) ब्रह्मभागप्रवेशं च ज्ञात्वा पीठं प्रकल्पयेत् | पीठिकायाः समुच्छ्रायं विकारांशेन भाजयेत् || १८ || एकेनाङ्घ्रिर्धरासीनो जङ्घा तुर्यांशके भवेत् | गुणाभागे तथा कुम्भः कुम्भपट्टि तु भागतः || १९ || रामभागेन कण्ठश्च तन्वंशै[क्, ख्: तत्वंशैः; ग्: तथांशैः]र्गलपट्टिका | पक्षभागे [क्, ख्: पक्षाभागे] जलाधार एकांशे शेषपट्टिका || २० || प्रवेशनिर्गमौ चैव भागैकैकेन [मू: भागेनैकेन] कण्ठतः | बाणमतानुसारेण कन्यसी [कनीयसीत्यर्थः]त्थं पयोधरा || २१ || समासात्प्नोच्यते चान्या पूर्णकुम्भा हरप्रिया [ख्: कुम्भोदरप्रिया] | प्. १४६) ([(क) अतः परं क्, ख्. पुस्तकयोरधिकोऽयं पाठः- पीठिकायाश्च बाहुल्यं त्वागमेऽष्टास्रकस्य वै १ चिन्हान्तर्गतः पाठो घ्. पुस्तके नास्ति |] द्यंशं निवेशयेद्भूमौ त्रिभागैः पदपट्टिका || २२ ||) द्वाभ्यां पट्टोप[मू, अ, ग्: पट्टोऽथ || इति ||] पट्टी स्याद्धसाख्यात् [क्, ख्, ग्: तु] त्रिभिर्मता | पट्टोपपट्टिका कण्ठो गलपट्टट्दयुपपट्टिका || २३ || एकैकेनार्थिभिः (?) कुम्भो घटोऽर्धांदेवमेवः तु | मेखला पट्टिका किन्तु भागकेन तदूर्ध्वतः || २४ || मध्योत्थं (त्था) पूर्णंकुम्भाख्या द्वात्रिंशत्रिंशद्भागनिर्मिता [ख्: पीठिका] | उच्छ्रायार्ध तु पीठ्याः (ठी) स्याद्रुद्रभागे द्विधा कृते || २५ || गुणांशैः खुरपट्टीतु द्वाभ्यां पट्टोपपट्टिका | त्रिभिरल्जं द्विपट्टौ (हि) तु द्वाभ्यां द्वाभ्या तथाम्बुजम् || २६ || हीनोपहीनिक कण्ठः पट्ट[मू: षङ्क]श्चैवोपपट्टिका | द्वाभ्यां द्वाभ्यां क्रमा[मू, अ, क्: तथा]त्पद्यं सार्धाशे गलनिर्गमः || २७ || इत्थमेवं गलादूर्ध्वमेकांशेनोर्ध्वपट्टिका | कण्ठद्वयेन [मू: कथद्वयेन] संयुक्ता षड्भिः पद्मैर्विभूषिता || २८ || पद्माकुलाभिधानेयनुत्तमानां सदैव तु | सम्वर्ताख्या जलाधारा विष्णुभागान्तमुच्छ्रिता || २९ || पूर्वोक्तनालखातादियुक्ता वृत्ता प्रकीर्तिता | लिङ्गनाहत्रिवेष्टेन वृत्ताव्यक्तस्य पिण्डिका || ३० || प्. १४७) व्यक्तस्य तु भवेद्वापी तन्नाहसमदीर्घता | तद्दीर्घत्वार्धविस्तारात्तदर्धान्नालकोच्छ्रयौ || ३१ || प्रणालमानवच्छुभ्रं परिधी त्र्यंशमध्यतः | उच्छ्रये दशधाभक्ते पदं कुम्भं तथा गलम् || ३२ || वृत्त जलाश्रयं लघ्न्या (?) द्द्यंशं द्यंशेन कल्ययेत् | खुरं जङ्या च कूर्णौं च कण्ठं चैवोपकण्ठिकाम् [क्, ख्: पकर्णिकाम्] || ३३ || वृतं तत्पट्टिकां चैव जलाधरं तथैव [घ्: धारान्तमेव] च | एकयुग्मैकपक्षैकयुग्मैकगलांशकैः || ३४ || मध्यार्धानां [घ्: मध्यर्चानां] भवेत्पिण्डी सुभक्ता द्वादशांशकैः | षोडशांशकृतोच्छाये ज्येष्ठानामासने सदा || ३५ || पक्षेन्दुयुग्मचन्द्राग्नितनुद्येकद्विसोमकैः | चरणपट्टिकाकुम्भ पट्टिका गलपट्टिका || ३६ || वृत्तं तत्पट्टिकाधारं मेखलापट्टिका भवेत् | अष्टदिग्रविहस्तैश्च हीनमध्योत्तमास्त्रिभिः || ३७ || पिण्डिका स्यान्महार्चानां द्विखण्डाम्बुधरेव वा | प्रवेशोग्दमबाहुल्याच्छू भ्रनालादि [ख्: मानादि] पूर्ववत् || ३८ || अभूषणा प्रभाहीना प्रतिमैकार्धसंस्थिता | तत्त्र्यंशात्पीठविस्तारस्तत्पादोनसमुच्छ्रयः || ३९ || पृथूच्छयौ कलार्कांशौ ह्येकतत्वैक[क्: तस्त्वेक]चन्द्रतः | सह कुम्भो गलो वृत्तो वेदास्रा पट्टिका क्रमात् || ४० || प्रवेशवृत्तशेषाख्या त्वर्धैंकार्धैस्त्रिभिः कजम् | ([चापान्तर्गतोऽयं पाठः ख्. पुस्तके नास्ति] अन्यत्र त्वेवमेवं स्यात्संवृत्तात्कर्ण[घ्: संवृत्ताह्वंतु]पीटकम् || ४१ || प्. १४८) मुखलिङ्गेऽधिका कार्या चतुरस्रा द्विखण्डिका | सुश्लक्ष्णाश्लिष्टसन्धिश्च रुपेणाम्बुधरादिवत् || ४२ || ताम्रै रूप्यैश्च हैमै र्वा पादशोंऽशै[क्, घ्: पादपांशैः]र्निबन्धिता | सहस्राह्वे [मू: सहस्रग्ङ्के] शताख्ये च बेद्रास्रा चैकखण्डिका | केषांचित्तु मते व्यक्तलिङ्गे तु छत्रमस्तके || ४३ || लिङ्गहीने भवेन्भृत्युरधिके व्याघयो भृशम् | तस्माल्लिङ्गानुगं पीठं कर्तव्यं कर्तृजीवने || ४४ || लिङ्गेन पीठिकाक्रान्ता पीठं वा [मू, अ, ग्: पीठस्था] लिङ्गतोऽधिकम् | यदि स्यात् पीड्यते रोगैः कर्ता राष्ट्रं गुरूस्तथा [घ्: स्तदा] || ४५ || तस्मान्न्यूनाधिकौ कार्यौ हरि[क्: हर]ब्रह्मांशकावुभौ | उच्छ्रयेण त्रिलिङ्गानां न न्यूनो नाधिको हरेः || ४६ || स्वायामं त्वजिनं [क्, ख्: स्वयामान्तजितं] कृत्वा सार्धाष्टांशैः कजासनम् | मुनिसार्धाधिकैः शम्भुं कुर्यादाढ्यं [क्: दाद्यं; घ्: दार्ढ्यं] वसोर्हरिम् || ४७ || सपादाष्टांशकैस्त्र्यक्षं चक्रिण मङ्गलांशतः [मू: मङ्गलांशकः] | पादोनाष्टांशतो ब्रह्मा कार्यं चानाढ्यकं क्वचित् || ४८ || एकांशेन हरोच्छ्रायं विष्णुमष्टांशकैस्तदा | एकं सुरार्चिते लिङ्गे ब्रह्मा सप्तांशके ध्रुवम् || ४९ || प्रसिद्धमाकरश्चान्यद्ग्राह्या वर्णसमाशिला | सितादिवर्णावर्णानां [क्, ग्: पीतादिवर्ण] पीठाद्या न विवर्णजाः || ५० || स्वांश [घ्: स्वाङ्ग]पिण्डिस्थितं लिङ्गं शैलधात्वादिजं शुभम् | रत्नजा वाथ लोहैर्वा विशेषात्कीर्तयेऽधुना || ५१ || प्. १४९) मौक्तिके स्फटिके तारी [ग्: तायी] (?) पौष्परागे तु ताम्रजा | वैडूर्याद्युत्तमे नित्यं हेमजा पिण्डिका वरा || ५२ || पञ्चधा वा त्रिधा वापि रत्नजं विभजेत्पुनः [घ्: पुरा] | भागद्रयमथिकं वा विन्यसेत् पिण्डिकावटौ || ५३ || भागत्रयेण वा द्वाभ्यां पूजाभागं प्रकल्पयेम् | मेखलादिविभागोऽस्याः पूर्ववत्समुदाहृतः || ५४ || लिङ्गप्रवेशनिम्नं तु लिङ्गसंस्थानविस्तरम् | न न्यूनं नाधिकं मानात्शोभनं [मू, अ, ख्: स्बतलं; घ्: सुतलं] श्वभ्रमिष्यते || ५५ || सब्रणे चान्यजे (?) मृत्युर्वक्त्रे च धनसंक्षयः | पीठदोषात्क्षयो नार्याः कारो कर्तुंश्च सर्वदा || ५६ || वृत्ता चापि च [मू: यापी च; क्, ख्: पीठ] वेदास्रा अव्यक्तादौ भवेत्क्रमात् | भुक्तिमुक्त्युभयप्राप्त्यै अन्यः [मू, अ, ग्: प्राप्तौ अन्यः] काम्यस्य हेतवे || ५७ || धरा भद्रा च यक्षी च वज्रीत्र्यस्राछ मण्डला [मू, अ, ग्: वज्राभा श्रान्तमण्डला] | पद्मार्धेन्दुगणाख्या च कामदा शुभमस्तके || ५८ || वेदास्रा समकोष्ठा च धरास्याद्धरणीप्रदा | द्विमेखला च वेदास्रा भद्रा योगर्द्धिदायिनी || ५९ || यक्षी त्रिमेखला वृत्ता महिषी गोप्रदायिनी [घ्: प्रदायिक] | षडस्रायुः प्रदा वज्री मेखलात्रितयान्विता || ६० || त्र्यस्रा त्रिमेखला[क्, ग्, घ्: द्विमेखला]युक्ता शत्रुशङ्कोचदायिका [घ्: कारिका] | मण्डला पूर्णचन्द्राभा त्वर्थदा पञ्चमेखला || ६१ || प्. १५०) खुराब्ज [ग्: कराब्ज] कर्णिकाकण्ठकर्णिकाब्जदलश्रयैः [मू, अ, क्, ख्, ङ्: जलाश्रयैः] | चन्द्राम्बुरुपरामै [क्: के धरा वामे] काग्निद्यंशैस्तिथि भाजितैः || ६२ || कर्णिकातु प्रवेशार्धषोडार्ध सकेसरा | वृत्ता पद्मपुटाकारा कर्णिको भयचुम्बिता || ६३ || पुत्रायुः श्रीप्रदा पद्मा त्वर्धेन्द्राभा च शान्तिदा | अष्टकोणा गणाख्याता [मू: ख्या तु] मुक्तिदा [घ्: भुक्तिदा] स्याद्द्विमेखला || ६४ || लिङ्गदैर्घ्यप्रविस्तारा विष्णुं यावत्समुन्नता | पूर्वोक्तमेखलागर्तनालकादिसमन्विता || ६५ || लिङ्गास्त्रीणां प्रसङ्ख्यानैस्तस्य पीठेऽस्रयो मताः | विस्तरोक्छ्रयनालादि सर्बं पूर्वोंदितं क्रमात् || ६६ || दशदिगीशलिङ्गानां स्वायाम्युगसूत्रकैः | संवेष्ट्य वर्तयेत्पिण्डीं कर्तुः कामप्रसाधिकम् || ६७ || ऐन्द्रीं बैश्चानरीं याम्यां नैॠतीं वारुणीं तथा | मारूतीं धानदीं रौद्रीं वैष्णावीं ब्रह्मजां सदा || ६८ || ऐन्घ्रां सूत्रं पूरो दत्वा पार्श्चयोर्मत्स्ययुग्मकम् | सूत्रमध्येऽर्धसूत्रेण मत्स्यान् कोणेषु सर्वतः || ६९ || चतुः सुत्रीं पुनर्दत्वा साधयेच्चतुरस्रिकाम् | वेदास्रं पिण्डिकाक्षेत्रं कुण्डानामपि सर्वदा || ७० || तुर्यांशे कर्णसूत्रार्ध गृहीत्वा भ्राम्य यत्नतः | मध्यान्मध्यगतं सूत्रं [क्, ख्: सूत्रैः] कोणं संवेष्द्य चापरम् || ७१ || क्षेत्रं कृत्वा शरांशं तु कृत्वा चोत्तरतोंऽशकम् | प्. १५१) तत्सूत्रद्वयसंयोगात्साधयेद्वा त्रिपर्णिकाम् [मू, अ: बोधिपर्णिकाम्] || ७२ || क्षेत्रं चतुधा [ख्: तु नवधा] कृत्वा तु द्यंशौ च पार्श्वतः | संभ्राम्य मध्यतः सूत्रं साधयेदर्धचन्द्रिकाम् || ७३ || विभज्य पञ्चधा क्षेत्रं भागैकैकं प्रदाय च | रक्षोऽग्निसौम्यकाष्ठासु त त्रिसूत्र्य[क्, ख्: त्रिसत्र्या]त्रिकोणिकाम् || ७४ || सप्तभागीकृते झेत्रे (न्य[चिन्हान्तर्गतोऽयं पाठो मू. अ. ग्. पुस्तकेषु नास्ति]स्त्भैकांशं बहिस्ततः [घ्: बहिस्थितिः] | मध्याधसूत्रसंभ्रान्तैः पिण्डिका वर्तुला [घ्: वर्तनाद्] भवेत् || ७५ || मध्यात्कोणे विकारांशं त्यक्त्वा वृत्ते कृते सति | तुर्यास्रवृत्तयोर्मध्ये यमन्द्वोः सूत्रपातनम् || ७६ || तत्सूत्रा[घ्: तत्सूत्रं]ब्द्रह्सूत्रान्तं [घ्: सूत्रार्धं] तिर्यवकोणेषु सूत्रकैः | भवेत्षडस्रिकापिण्डी शेषरेखाविथोपनात् [ख्, घ्: लेखाविलोपनात्] || ७७ || नग भागी कृते क्षेत्रे) भागैक एरितो न्यसेत् | सूत्रमध्यार्ध सबृत्तादब्जा स्यात् [ग्: दब्जाभा] पूर्वचोदिता || ७८ || नवधा भाजिते क्षेत्रे तथांशं [ख्: तयांशं] बाह्यतः क्षिपेत् | मध्यसूत्रार्ध भागेन [ख्, घ्: द्विभागेन] कोणानि ह्रासयेदथ || ७९ || जिनांशे बहिरेकांशं हृत्वा [मू, अ, ख्, ग्: कृत्वा] कोणार्धलाञ्छनैः | कोणैः [घ्: कोणा] सूत्रपरिच्छिन्नैः कुर्यादष्टास्रिकां सदा || ८० || प्. १५२) अष्टांशे बहिरेकांशं न्यस्त्वा कोणाधसूत्रकैः | संछिद्यास्रींश्च संछिद्य कृत्वा तु दशमास्त्रिकम् [क्, घ्: दशभांशिकीम्] || ८१ || कोणान्तौ द्वौ च हृत्वांशौ [मू, अ: पूर्वाशैः] सूत्रं सपात्य कोणतः | कर्तव्या षोडकांशैस्तु [घ्: शैवं] पिण्डिका केशवाश्रया [घ्: श्चये] || ८२ || षोढा विभज्य च क्षेत्रं कृत्वैकांशं तु वाह्यतः | पूर्ववत्योडशंशैस्तु कुर्याद् द्वात्रिंशदस्रिकाम् || ८३ || चतुरास्रा भवेदैन्द्री सा सैन्यस्तम्भने मता | आग्नेयी बोधिपत्राभा पिन्तरोगाग्निदाहकृत् || ८४ || अर्धंचन्द्राकृतिर्याम्या शत्रूणां क्षयकारिका | त्रिकोणा राक्षसाजां तु देशो[क्: द्वेषो; घ्: दोषो] च्छदकरी सदा [घ्: तुसा] || ८५ || वारूणी [घ्: वारूणा] मण्डलाकारा स चाप्यायनकारिणी | वायव्या च षडस्रोक्ता शत्रूच्चाटनकारिका || ८६ || पद्माकारा परा सौम्या धनपुष्टिप्रदा सदा | रौद्री त्वष्टास्रिका [ग्: रष्टाश्रिका] ज्ञेया मुक्तिदा सारिनाशिनी || ८७ || वैष्णवी षोडशास्रा तु रिपुमर्दनकारिका | द्वात्रिंशदस्रिका वाह्नी स्वर्गाख्याफलदायिनी || ८८ || रक्षो वीन्देस्वरान्तस्था ग्रोमेषु केशवाजयोः | अर्धचन्द्रोपमा नीलं शेषः कोदण्डवद्भवेत् || ८९ || स्वायुधैर्लाञ्छिताः सर्वाः सेन्दुनालाः स्वदिकस्थिताः | पिण्डीमामस्तकादीनां करोत्येवं विधं फलम् || ९० || प्. १५३) भगमध्ये स्थितं लिङ्गं लिङ्गाधो भगसंस्थितिः | भगलिङ्गाङ्कित सर्वं त्रैलोक्यं सचराचरम् || ९१ || शक्त्यथो [घ्: शक्त्यन्ता] (था) थारशक्तिश्च उमा स्यात्पीठरुपिण [घ्: रूपिका] | शिवलिङ्गं परं तच्चं तयोर्योगा[घ्: तयोर्यागात्]न्महत्फलम् || ९२ || विष्णुभागान्तविस्तीर्णा तदधं दल[घ्: तदर्धदल]निर्मीता | दलाङ्घ्रिगर्तिका कूर्मों [मू, घ्: कूर्म] वेदास्रा वलिङ्गर्तिनी || ९३ || ब्रह्माधोच्छ्रय वेदास्र त त्रिधा विस्तरेकजम [घ्: वेदास्रा तन्त्रिधा विस्तरैकजा] | चतुरस्रं त[घ्: रस्रयंशतं]द्गर्तं स्याद् ब्रह्मांश[घ्: ब्रह्याङ्गं]तु प्रकल्पितम् || ९४ || क्वचित्लिङ्गार्धबिस्तारा तदर्धे च[क्, ख्, घ्: तदर्थोच्चा]युगास्रिका | तद्पादश्वभ्रिका साव्जा ग्रहगर्ता शिला भवेत् || ९५ || कृत्वा साष्ट [क्: थाष्ट] दलाम्भोजं मध्ये पत्रेषु(सु) खातकम् | कार्या ब्रह्मशिलान्यार्थि[घ्: न्योऽर्थो]बृत्ता त्र्यस्रा तु[घ्: त्र्यस्रान्त] साधने || ९६ || देवपीठं तथेशानो वृषो ब्रह्मशिलापि च | एकजं चैक वर्णं वा शुभमेतदतोऽशुभम् || ९७ || सुनिष्पन्नेषु लिङ्गेषु मानल [ख्: नाल] क्षणवत्सु च | प्. १५४) मूल्यं समवधार्यादौ वणिजो दैशिकोत्तमः || ९८ || स्वप्रजानृपवृद्ध्यर्थं प्रागाचार्यं तु लक्षयेत् | पश्चादिजाद्विपाषण्डां स्ततो मूल्यं प्रकाशयेत् || ९९ || वीरक्रमा[घ्: वीरक्रया]द्गृहीतं सद्वर्षा[मू: सदद्धा]पर्युषितं यदा | तदार्धेनाध्वरं कृत्वा लिङ्गं स्थाप्यं सुवासरे [मू, अ, ग्: सुरासुरे] || १०० || इति लक्षणसमुच्चये पीठवर्तनं नामाष्टमो विधिः || ८ || अथ नवमः त्रिशूलम् दिक्पतीनां हरादीनां शूलाद्यस्त्राणि च ब्रुवे | वेदास्रे ग्रहभक्ते [क्, ख्, घ्: वेदास्रं ग्रहभक्तं] स्यान्मध्ये शूलं तु रन्ध्रतः || १ || अर्धार्धांशैस्तु पक्षाभ्यामुत्पलं [घ्: मुत्पल] मुकुलाकृतिः | त्यक्त्वा [घ्: त्याज्या] सार्धौ द्विविस्तारौ षड्भिर्दिर्धौ भ्रमान्मतौ || २ || शङ्गे द्वे शूलपार्श्वे च [घ्: तु] त्वगस्थिकलि[क्, ख्: काल]कोपमे | तद्घृत्तौ द्व्यर्धदीर्धौ च कर्तव्यौ च सुशोभनौ || ३ || मध्ये मूला[मू, अ, घ्: शूला]र्धदैर्घ्येण त्वधो वेद्यब्जमण्डिता | वेद्यधस्तात्त्रिधा दैर्घ्याद्दण्डः कार्यस्त्रिविस्तर || ४ || प्. १५५) लुप्त्वा रेखां सीतैः शूलं रक्ते दण्डे कुशेशयम् | सिते रेखा भवेद्दण्ड ऐश्यामेव त्रिशूलकम् || ५ || वज्रम्- कृत्वा दण्डं त्रिशूलाधो वज्रं पीतं सिताम्बुजम् | मध्ये शृङ्गं तु पीतं वा हरिते पक्षशङ्गके || ६ || पक्षशृङ्गं यदा पीत तदान्तर्हरितं भवेत् | एवं संक्षेपतो वज्रं ख्यातमिन्द्रस्य पूर्वतः || ७ || शक्तिः- दण्डाद्यं प्राक् त्रिशूलं च पक्षशृङ्गे यदा कृते [घ्: ह्रते] | लोहितं मध्यमं शृङ्गं [क्, ख्: शूलं] वह्नेः शक्तिस्तदा दिशि || ८ || दण्डः- दैर्घ्यांशं जिनवत्कृत्वा वेदाद्युग्मात्प्रविस्तरः | मूले चाग्रे च दण्डस्य कार्यो वृत्ताग्रमूलतः || ९ || मुष्टिग्राहे सितत्र्यंशाद्दण्डमध्ये सिताम्बुजम् | वेदाद्वहिःसिता रेखा[मू, अ: वेधा]कृष्णा याम्ये यमस्य तु || १० || खड्गः- सप्ताङ्गं चतुरस्रं स्यान्मध्याधोंशेन गञ्जकम् | बृत्ताग्रं पादसंवेशात्कोणमूलं [ख्, घ्: काममूलं] सुशोभनम् || ११ || तदूर्ध्वे सार्धभागेन त्र्यंशदैर्घ्याद्भ्रमात्सदा | वल्कलम् खण्डचन्द्राभं तन्मध्योर्ध्वद्विसार्धत [मू, अ, क्, ख्: मध्येऽर्ध] || १२ || प्. १५६) अन्तर्दण्डांशतः [घ्: दण्द्यं शतः] कार्या मध्यस्थूलं द्वयोः [ख्: त्वधः] कृशा | तत्समेऽप्युन्नतं मध्ये मुखं तन्मूलपक्षयोः || १३ || अर्धांशपृथुलौ गुच्छौ त्र्यंशाद्दार्घौ कलेन्दुवत् | मुष्टिं संवर्तयेदेवं पीतं वा सितरूपकम् || १४ || तन्मुखं पार्श्वयोः कुर्याद्भागार्धोऽर्धप्रविस्तृतम् (?) | मुष्द्युच्छ्रयाच्चतुर्धातो दीर्घः खड्गाग्रबर्तुलः || १५ || धूम्राभा स्यात्सिता धारा भागार्धविस्तरं जलम् | भृङ्गाभं त्र्यंशसन्त्यागात्खड्गो नैरृतराक्षसे || १६ || पट्टिशः- पट्टिशं खड्गसंकाशं चतुर्धारा[मू: चतुर्धा वा]समन्वितम् | प्रसङ्गाद्गदितं शस्त्रमक्षोभ्य योगिनीप्रियम् || १७ || पाशः- जिनभागीकृते नाहे पृथुत्वं तत्त्रिभागतः | मुखपुच्छार्धमाद्यन्ते दिग्देशैर्युगमध्यतः || १८ || मध्ये रेखाद्विभागान्ते वृत्तवद्वामदक्षयोः | भ्राम्य द्वौ द्वौ द्विभागाभ्यां मध्यकोष्ठद्वये बुधः || १९ || (कोणसूत्रं [चिन्हान्तर्गतोऽयं पाठ घ्. पुस्तके नास्ति] भवेत्तत्र मध्यरेखाप्रलोपयोः | ग्रन्थिरूपं यथा सम्यक् तथा तत्परिलोपयेत् || २० || अग्रे मध्यांशके वक्त्रं बद्धं [मू: वज्रं बद्धं] बकुलसन्निभम् | तदधोंशेन [ख्: ऽङ्गेन] वक्त्रं स्यान्नासाक्षिरसनान्वितम् || २१ || प्. १५७) तदधोभागमध्यस्थाद्भ्रामयेदर्धचन्द्रवत् | तदधः पार्श्वयोर्द्यंशे कर्णसूत्रं द्वयोः समम् || २२ || फणसोऽश्वत्थ[क्: फणसष्वब्ज; ख्: फणसाष्टक]पत्राभो मध्ये पङ्कजलाञ्छितः | त्र्यंशाधो ह्रासयेत्पुच्छं स्वांशं [घ्: स्वांश] त्र्यंशेन वाणतः || २३ || शेषरेखाविलोपेन [घ्: लेपेन] रेखाभिर्मध्यशोभितः | सितोऽहिः कृष्णजिह्वास्यो रक्ताक्षश्च सुशोभनः || २४ || सम्मुखः सितकालश्च [घ्: कोलश्च] क्वचिच्छ्यामो भयङ्करः | वारूण्यां वारूणः पाशः कर्तव्यो दिशि दैशिकः || २५ || ध्वजः- षोडशांशं तु विष्कम्भं लुप्त्वा रामं तु कोणतः | वायुकोणेऽम्बुतः प्रोक्तं[क्, ख्: कोणाम्बुतत्प्रोक्तं]त्र्यंशेन तु च दर्पणम् [मू: तदर्पणम्] || २६ || तन्मूर्निमध्यतो द्यशाच्चन्द्रार्ध बाणतो भ्रमात् | चन्द्रार्धात्कोणतो द्यंशं लोपयेज्जलत[मू: द्यन्ततः]स्ततः || २७ || रन्ध्राधो गुग्मतस्त्यक्त्वा तत्कोणान्नवभागगान् | अधो भूतेन विस्तारात्तिर्यक्सूत्राद्द्विरूर्ध्वतः || २८ || क्वचिद्रम्भादलाभासा कदलीपत्रविस्तरा | तद्द्यंशेन ॠजुं कुर्याद् ध्वजं वा कुटिलाहिवत् || २९ || रोहितमत्स्यपुच्छाभं द्यंशसंवेशनात्सदा | नैरॄत्यात्पञ्चवेशेन सूत्रं विन्यस्य कोणतः || ३० || प्. १५८) भ्रामयेत्षट्पदोऽर्धेन तदधो द्यंशतः पुनः | ईशानात्सप्तपूर्वेण सप्तवेशाद्भ्रमात्पुनः || ३१ || (तदधो [चिन्हान्तर्गतः पाठो मूलपुस्तके नासि] द्यंशतः पार्श्वात्सूत्रं संभ्रामयेत्ततः | दर्पणात्प्राग्जलशांच्च ब्रह्मसूत्राहिभागतः || ३२ ||) दण्डः क्षेत्रसमः कार्यो द्यंशेन विस्तरो रूणः | शेषरेखा [मू, अ, क्, ख्, ग्, ङ्: शेषवेशा] विनाशेन वायोर्ध्वजश्च मारुते || ३३ || शिरो[ङ्: शितो; क्, ख्: पद्मं]दर्पणखण्डेन्दुर्ध्वजः पीतोऽथवा हरित् || ३४ || गदाः- नाहमेकं [घ्: र्नाहमर्कं] द्विधा कृत्वा विस्तरं तद्भूतांशतः | आद्यन्ते सम्बिका द्वाभ्यां वृत्तमेकेन पार्श्वयोः || ३५ || भागैकं पार्श्वयोर्लुप्त्वा मध्ये पीतं [घ्: पद्मं] सितं जलैः (ले) | पीता गदारुणै रेखा मध्यरेखा शुकप्रभा || ३६ || आद्यन्ते शृङ्खला कार्या मध्यरेखा[ग्, घ्: मध्यभागा]वलम्बिनी | कटिकाङ्घ्रिसमा वृत्ता चतस्रो रेखिकास्तथा || ३७ || पीतवर्णेन ताः [क्, ख्: सा; ग्: ततः] कार्या हरितेन क्वचित्सिता | कुवेरास्त्रं भवेदेवं सोमकाष्ठास्थितं सदा || ३८ || प्. १५९) पद्मम्- ब्रह्मास्त्रं [घ्: ब्रह्माण्डं] वर्तयेत्पद्मं सारकेसरकर्णिकम् | सुश्वेतं रक्तनेम्याढ्यमीशेन्द्रान्तरसंस्थितम् || ३९ || सुदर्शनचक्रम्- वेदास्रं रविभिर्भक्तं मध्यादंशाद्भ्रमाद्भवेत् | नाभिमध्यान्ततोऽशेन [घ्: मध्यात्तु तांशेन] मेखला भ्रमतो भवेत् || ४० || नाभिमध्यात्पुनर्भ्रान्त्वा मेखलाबहिरग्नितः | तद्वत्तत्परतोंऽशेन भ्रमाच्चक्रं तु वर्तुलम् || ४१ || नाभिमध्यान्तरे रेखां बिलुप्य परिवर्तपेत् | अष्टदिक्ष्वारकास्त्वष्टौ क्कचिद्वा षोडशारकाः || ४२ || इन्दीवरदलाभा च[ख्: भासो]चक्रयुग्मासु पुष्यवत् | चक्राधः प्रान्ततत्त्र्यं[क्, ख्: मध्यतो द्यंशा]शाद्विविस्ताराद्रसभागिकम् [ख्: मसूरी चासतोन्नता] || ४३ || तदधो वेदविस्तारा वृत्ताख्या तु तथोंच्छ्रयात् | एकेनोच्चा प्रविस्तारा पट्टिका चतुरस्रिका || ४४ || रस भागेन [ग्: वसुभागेन] सा कार्या पार्श्वतो ॠजु वा क्रमात् [ख्: ऋतुवर्जनात्; क्, ग्, घ्: ऋतुवत्क्रमात्] | चक्रस्यासनमेवं तु रश्मयः परितस्ततः || ४५ || मूर्ध्नि त्र्यंशात्समुच्छ्रायः पार्श्वयोरर्धभागतः | भ्रमादब्जकली[ख्: करी]प्रख्या चक्रमध्ये व्यवस्थिता || ४६ || प्. १६०) शेषाद्वा [ख्: शेषाब्धिं; घ्: शेषाद्वीं] सिद्धिदीर्घाणि पृथुत्वांशांशवर्तनात् | अष्टौ संख्याः प्रकर्तव्याः पार्श्वे चैवापरे तथा || ४७ || रश्मयोऽसृक्सितं पीठं शेषेरेखा विनाशनम् | कृपाणपाशयोरन्तः सुदर्शनं हरेर्लिखेत् || ४८ || त्रिशूलादीनि शस्त्राणि सौम्यमूर्ध्नि शुभानि तु | प्राक्शिरस्कौ [मू, अ, ग्: शिरस्थौ] गदादण्डौ स्वभागैरंशसाधनम् || ४९ || ईशादिविष्णुपर्यन्तं लोकेशानां स्वकायुधम् | ज्ञेयं शूलादिचक्रान्तं तद्दिक्कान्तिबलात्मकम् || ५० || करणेऽन्य [क्, ख्, घ्: किनणेऽन्यत्] प्रकारेण त्रिकाख्यः [घ्: त्रिकाख्ये] पुनरन्यथा | उक्तान्यस्त्राणि बाणाख्या (द्या) घण्टेभाद्यथ वक्ष्यते || ५१ || घण्टा- अष्टधा भाजिते क्षेत्रे मध्ये पार्श्वाद्[घ्: पार्श्वौ]द्विरूर्ध्वतः | भागार्धेन दलं कुर्याद्वृत्तास्रं बृत्तपट्टिके [क्, ख्: पक्षपट्टिके] || ५२ || भागार्धेन शिरः स्थूलं पक्षयोरर्धनिर्गमम् | ग्रीवाद्वा विस्तरार्धाद्वा स्कन्धार्धांशविनिर्गमौ (मः) [मू: स्कन्धाद्द्यंशविनिर्गमैः] || ५३ || वृत्ताकारेण पक्षाभ्यां सार्धवेदावतारणम् | चतुर्भागप्रविस्तारौ (रो) भागार्धपक्षयोर्युतः || ५४ || प्. १६१) कर्णसूत्रेण तत्कार्यं [घ्: कार्यौ] तदधोऽर्धार्धनिष्क्रमात् [घ्: तदधोऽर्धविनिष्क्रमात्] | उच्छ्रायार्धं तु विस्तारा पट्टिकात्रितयान्विता || ५५ || शेषभागविनाशेन [मू, अ, क्, ख्, ग्, ङ्: विशेषेण] घण्टा ह्येवं सुरप्रिया | पद्मस्कन्धाद्द्विभागेन कर्तव्या लक्षणान्विता || ५६ || हारधारावलीयुक्ता पाशलालू[क्: लोलूक]कमण्डिता | सुस्वरा [घ्: सुस्वना] कांस्यजा श्रेष्ठा स्वदेवायुधमरतका [मू: वाद्यधरान्तरा] || ५७ || वाहनाः- वेदास्रमष्टधा कृत्वा संलक्ष्य वर्तयेत्क्रमात् | गजाश्वोऽश्वतरोष्ट्रांश्च तदारोहांस्तु त्र्यंशतः || ५८ || एकांशेन [घ्: एकांशोना] तदूर्ध्वे च गोगवयलुलायकाः | भवेयुः पशवोऽप्यन्ये मृगगर्दभगण्डकाः || ५९ || व्युलघ्य [घ्: व्युलंध] गाव्यजश्वानस्तेनाक्षालक्षमाहिकाः [घ्: स्तुनाक्षो लक्षसाहिका] (?) | जलोना व्याघ्रकप्युष्ट्रा लक्षादार्जनकस्तथा (?) || ६० || पञ्चाशोनास्तथा कार्या बभ्रुशशकमूषकाः [मू: मशक] | षडूनाद् [घ्: षडूना ग्राह] ग्राहगोधा स्यान्नक्रमत्स्यावधौ [मू: मत्स्यावरौ; ग्: मत्स्यावकै] सदा || ६१ || इति लक्षणसमुच्चये वाहनायुधवर्तनं नाम नवमो विधिः || ९ || अथ दशमः अत ऊर्ध्वं प्रवक्ष्यामि काललग्नादिनिश्चयम् | द्वित्रुटिभ्यां लवः प्रोक्तो निषेषो द्विलवात्मकः || १ || दशपञ्चनिमेषैस्तु काष्ठोक्ता कालवेदिभिः | त्रिंशत्काष्ठाः कालं विद्यात्क्षणं त्रिंशत्कलां बुधः || २ || क्षणैर्द्वादशभिर्ज्ञेयो मुहूर्तस्तत्त्ववेदिभिः | ताभ्यां नाड्यथ नाडीभ्यां क्षीणाभ्यां [ख्: हीनाभ्यां] षोडशांशकैः || ३ || घटी चतसृभिस्ताभिः प्रहरः परिकीर्तितः | तैरष्टभिरहोरात्रं पक्षस्तैर्दशपञ्चभिः || ४ || ताभ्यां मासस्तु मासाभ्यामृतुस्तैरयनं त्रिभिः | ताभ्यां संवत्सरः प्रोक्तस्तैः शतैः पुरुषायुषः || ५ || नक्षत्रे यत्र तत्रापि सर्वकालं द्विपक्षयोः | मुमुक्षोः स्थापनं शस्तं यतेः कामार्थिनो ब्रुवे [मू, अ, ग्: ध्रुवम्] || ६ || प्राबृषि स्थापनं सिद्धयै भवेच्छरदि योगदम् | हेमन्ते ज्ञानदं लिङ्गं शिशिरे सर्वभूतिदम् || ७ || लक्ष्मीप्रदं वसन्ते च ग्रीष्मे च जयशान्तिदम् | यतीनां सर्वकालेषु लिङ्गस्यारोपणं मतम् || ८ || उत्तराशां गते भानौ लिङ्गस्थापनमुत्तमम् | दक्षिणेत्वयने[मू, अ, ग्: दक्षिणाशायने]ऽपूज्यं त्रिवर्षोर्ध्वं भयावहम् || ९ || प्. १६३) क्ष्मादिग्रहणविन्यासौ पदषट्कं ध्वजान्तिकम् [मू: ध्वजादिकम्] | क्षयाय बृद्धये स्याच्च याम्ये सौम्येऽपरे रवौ || १० || कर्तृनृपप्रजाराष्ट्रस्थाननाममरस्य [क्, ख्: मचरस्य] च | षट्षण्मासोत्तरांस्त्र्यब्दान्मयमतात्फलं क्रमात् || ११ || सङ्ग्रहे स्थापनं नेष्टं तथा वै दक्षिणेऽयने | अभिचारो भवेत्तत्र स्थापिते दक्षिणेऽयने || १२ || सङ्ग्रहे स्थापिते लिङ्गे व्याधिभिः पीड्यते प्रजा | कुमाराः संप्रपीड्यन्ते कन्यानाशश्च जायते || १३ || सुमहाञ्शस्त्रकोपश्च तदाराज्ञां प्रजायते | कर्तुः क्षयः सदाशोको गृहे भवति दारुणः || १४ || तस्मान्न स्थापयेद्देवं सङ्ग्रहे दक्षिणायने | शुभार्थी न प्रवर्तेत देव्या मन्त्रादिशास्त्रतः [क्, ख्: मतादि] || १५ || पार्थिवः पालयेद्धर्मं स्वराष्ट्रशुभकाङ्क्षकः | तस्मात्स्थानं गुरुं [मू: स्थानगुरू] प्राप्य रक्षये [ख्: रक्षार्थं]दाभिचारिकम् || १६ || पक्षार्धेनं ग्रहस्थानां [मू, अ, क्, घ्: गृहे स्थाप्यं] यावद्दिनकृदुत्तरे | स्थापनं तु प्रकर्तव्यं शिशिरादावृतुत्रये || १७ || स दिने सितपक्षे च स बारर्क्षबिभूषिते | प्. १६४) सचन्द्रतारकायोगे [मू: व्यचन्द्रतारकायोगे; क्: चन्द्रतारकयोगे तु] सुलग्नकरणान्वितते || १८ || द्वैतदेवे [मू: द्वैते देवे] प्रतिष्ठा स्यान्मित्रे च सितपक्षके | अद्वैते चैव कृस्णेऽपि मन्त्रमूर्ति प्रभेदतः || १९ || द्वैतासिद्धान्तकी रौद्री शतवर्षाणि तिष्ठति [क्: वर्षाभितिष्ठति] | पाञ्चरात्रार्हरेत् मिश्रा [मू: पञ्चारात्रीहरेर्मिश्रा] पञ्चाशद्वर्षसंस्थितिः || २० || अद्वैता औरवी सातु वामदक्षिणमन्त्रजा [ख्: मन्त्रिता] | शाताब्दोर्व्बं तु सा तिष्ठेद्वाणलिङ्गं स्वयम्भुबत् [मू: लिङ्गाश्रयं भवेत्] || २१ || प्रतिष्ठाशब्दसंसिद्धि प्रतिपूर्वा त्तु [मू: पूर्वाच्च] तिष्ठतेः | बह्वर्थत्वानिपातानां संस्कारादौ प्रतिष्ठितिः [घ्: प्रतिः स्थितः] || २२ || अर्थस्तदयमेतस्य गीयते शाव्दिकैजनैः | संस्कृता द्रव्यसन्मन्त्रसंस्कृतिर्या सुरग्य च || २३ || आसीना चै सुप्ता च यानस्थोर्ध्वान्तरिक्षगा | प्रतिमां पञ्चभेदैस्तु प्रतिष्ठा पञ्चधोदिता [ख्, घ्: चोदिता] || २४ || तास्तु पक्षेसिते कार्याद्वितीयादौ तिथिष्वथ | द्वितीयायुमति [घ्: मविः] दद्यात्तृतीया पुत्रसंपदः || २५ || पञ्चमी च श्रिय नित्यं सप्तमी रोगनाशनम् | दशमी भूमिलाभं [क्, ख्: भूमिवृद्विं] च सौभाग्यं च त्रयोदशी || २६ || प्. १६५) नानाविधं धनं धान्यं [मू: धनं नूनं; ख्: धिय परं] पोर्णमासीतिथिः सदा | एकर्तुशङ्करैर्नन्दा भद्रा पक्षर्षिभानुभिः || २७ || जया रामाहिकामैः स्याद्रिक्ता वेदग्रहेन्द्रकैः | बाणदिक्तिथिभिः पूर्णा हीनतुल्याहिताः क्रमात् || २८ || एताः शुक्लेऽनुलोमाः स्युर्बहुले च विलोमतः | वृहस्पतिर्द्विपञ्चायुर्बुद्यो जयधनानि च || २९ || सम्पदर्कः शुभं शुक्रश्चन्द्र शान्तिप्ररोहणे | कर्क [घ्: कर्कि] वृषतुलाचापस्त्रीसिंहग्राहयुग्मके || ३० || मत्स्यघटालिमेषेषु दिनेशानां प्रधानता | षडष्टचतुरोयामाच्चतू राशिक्रमेण तु || ३१ || पुष्य[ग्: यस्य]रोहिणिकाहस्तात्प्रागाषाढोत्तरा द्विजे | पुनर्वस्वनुराधा च चित्रा ज्येष्ठा महीभुजि || ३२ || धनिष्ठाश्रवणा (णौ) वैश्ये युग्मभाद्रपदास्तथा | अश्विनी रेवती शूद्रे स्वातीफल्गुनिकाद्वयम् || ३३ || चतुर्वर्ण्ये मघा श्रीदा मूलार्द्राभरणीमृगाः | एते प्रवीण[मू, अ, घ्: प्रवणि]लोकानां (?) चत्वार्येवान्त्यजे तथा || ३४ || जयारोग्यकरस्तिष्यो रोहिणी धनवृद्धिदा | हस्ता सिद्धिप्रदा लिङ्गे आयुर्दाषाढयुग्मकम् || ३५ || पुनर्वसुः सुखं दद्यादनुराधा तु सम्पदम् | चित्रात्वर्थसुखं [ख्: त्वर्थं सुख] नित्यं ज्येष्ठा रोगविनाशकृत् || ३६ || प्. १६६) धनिष्ठारिक्षयं दद्याज्ज्ञानर्द्धीः श्रवणः सदा | युग्मभाद्रप्रदा वृद्धिं बहुमित्राणि चाश्विनी || ३७ || रेवती पुष्टिदा नित्यं स्वाती कुर्याद्धनं बहु | फल्गुनीद्वितयं वृद्धिं भरणी रिपुभेददा [क्, ख्, घ्: रिपुभेदम्] || ३८ || आर्द्रा सौभाग्यसंपत्तिं मूला (लं) च नृपसत्क्रियाम् | मृग शान्तिप्रदो नित्यं धन्या शतभिषान्त्यजे || ३९ || अश्लेषा कृत्तिका चैव विशाखा च शुभप्रदा | शस्तो जीवो नवर्द्धीषु सप्तस्थानेषु सर्वदा || ४० || बुधः षडद्वय[मू: षडष्ट]ष्टतुर्येषु दिक्सप्तभू (षड्)विना शिर(सि)तः | सप्तर्तुत्रिशादिस्थः शशाङ्को बलदस्तथा || ४१ || रविर्दंशत्रिट्सस्थो राहुस्त्रिदशषड्गतः | षट्त्रिस्थानगतः शस्ता[मू, अ, क्, ग्, ङ्: श्रेष्ठा]मन्दाङ्गारककेतवः || ४२ || शुभाः क्रूरास्व पापाश्च सर्व एकादशस्थिताः | एषां दृष्टिर्मुनौं पूर्णा त्वार्द्धिकी ग्रहभूतयोः || ४३ || पादिकी रामदिक्स्थाने [मू: स्थान्ये] वस्वर्द्धौ [क्, ग्: वस्वष्टौ] पादवर्जिता | द्वितीया संपदाख्या तु चतुर्थी क्षेमसंज्ञिता [घ्: संज्ञिका] || ४४ || षष्ठी च साधिका तारा त्वष्टमी मित्रनामिका | नवमी चातिमित्रा स्यादेताः पञ्च बलप्रदाः || ४५ || प्रीतिः सौभाग्यमायुष्मान्सुकर्माशोभनो धृतिः | वृद्धिः सिद्धिर्ध्रवः साध्यो वरीयाञ्छि[मू, अ, ग्: ञ्छुभ]वशुल्ककौ || ४६ || प्. १६७) ब्रह्मेन्द्रौच शुभश्चेति योगाः सत्संज्ञकाः शुभाः | चव च बालवं चव कौलवं तैतिलं तथा || ४७ || गरं च वणिजं चैव शकुनिं च चतुष्यदम् | नागं किंस्तुघ्नमर्थाय विष्टिहीनं तु पक्षयोः || ४८ || पादन्यून (ना) चतुर्नाडी [क्: पादन्यूनश्चतुर्मात्रो] भोगः स्यान्मीनमेषयोः [घ्: मेषमीनयोः] | वृषकुम्भौ तु भुञ्जाते चतस्रः पादवर्जिताः || ४९ || मकरो मिथुनं पञ्च चापालिहरिकर्कटाः | पादोनाः षट् तुलाकन्ये घटिकाः सार्धपञ्च तु || ५० || केसरी च वृषः कुम्भः स्थिराः स्युः सिद्धिदायकाः | चरं धनुस्तुलामेषाः प्राग्युग्मं मीनकन्यके || ५१ || कर्कटो मकरौऽलिश्च प्रवज्याकार्यंनाशकाः | स्थिरः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः || ५२ || गुरुशुक्रबुधर्युक्तो लग्नो दद्यद्धानायुषा | राज्य सौख्य धनं [ख्, घ्: बलं] पुत्रान् यशा धर्मादिकं बहु || ५३ || प्रथमः [मू, ग्: प्रबलः] सप्तमस्तुर्यो दशमः केन्द्र उच्यते | गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः || ५४ || त्र्येकादशचतुर्थस्था [ख्: एकादश] लग्नात्पापग्रहाः शुभाः | अतोऽन्येऽनिष्टकार्यार्थे [मू, अ, ग्, घ्: अतोऽनिष्टककर्मार्थे] योज्यास्तिथ्यादयो बुधैः || ५५ || प्. १६८) सुयोगे शाश्वतोधर्मस्तारायां पुष्टिजीवितम् | सुलग्ने च महाभोगो विषुवे चेप्सितं फलम् || ५६ || षडशीतिमुखे पुण्ये त्वयने च महातिथौ [घ्: महत्तिथौ] | ॠद्धिरारोग्यमैश्वर्यं देवस्थापनतो भवेत् || ५७ || सन्ध्यागते कुलग्ने च प्रत्यस्तमितसुग्रहे [मू, अ, क्, घ्: सङ्ग्रहे] | दुरॄक्षे दुर्ग्रहे [घ्: कुग्रहे] विष्टौ नक्षत्रे चैव सङ्ग्रहे || ५८ || दुर्निमित्ते तथोत्पाते चन्द्रसूर्योपमर्दने | एतेषु स्थापिता देवाः क्षयदुर्भिक्षरोगदा || ५९ || तस्माद्दिनं परीक्ष्यादौ यज्ञोपस्करमाहरेत् | त्रिष्वेकमेव [घ्: तिष्टेक] निष्पन्नं लिङ्गं तिष्ठति यच्चिअरम् | भवेद्दोषकरं तस्मात्प्रा [घ्: द्रीक]वस्थापितं वरप्रदम् || ६० || इति लक्षणसमुच्चये ऋत्वादिदिनपरीक्षणं नाम दशमो विधिः || १० || अथैकादशः ज्येष्ठलिङ्गक्रमेणैव मण्डपं कारयेत्त्रिधा | त्रिंशद्धस्तादिभिश्चान्यो दशहान्या क्वचिन्मते || १ || हस्तैर्द्वादशभिश्चान्यो द्विगुणैर्मध्यमो मतः | त्रिगुणैर्ज्येष्ठ इत्येवं [घ्: ज्येष्टमित्येवं] कारयेदन्यथापि वा || २ || हस्तांस्तु द्वादशारभ्य क्रमाद् द्वौद्वौ प्रवर्ध्य च | अष्टाविंशतिपर्यन्तं विदध्यान्मण्डपान्नव || ३ || घनो घोषो विराजश्च काञ्चनः कामरामकौ | सुवेशो घर्घरा दक्षो मण्डपा नामतो [घ्: नाम्मता] नव [मू: दश] || ४ || धाम[क्: धाम्नः सकाशाद्धामप्रमाणं सूत्रान्तरं त्यक्त्वेत्यर्थः]सूत्रान्तरं कृत्वा कुर्याद्यागस्य मण्डपम् | प्रासादस्याग्रदेशे च नासन्नेन च दूरतः || ५ || वास्त्वधिदेवतामिष्ट्वा कुर्याद्धीनादिमण्डपान् | जानुमात्रोद्धृते शल्ये प्रागीशेन्दुप्लवे कृते || ६ || क्षेत्रं त्रिधोभयोः कृत्वा स्तम्भान्कोणेषु योजयेत् | वेदास्रान् वर्तुलान् वापि अवक्रान् याज्ञिकान् दृढान् || ७ || द्वादशैव ततो बाह्ये मध्ये [मू: बाह्यमध्ये] स्तम्भचतुष्टयम् | तच्चूडाशल्यबन्धेन योजयेद् द्वारकद्वयम् || ८ || प्. १७०) शिखाङ्घ्रिकं त्रिभिः काष्ठैर्वलिकां तस्य चोपरि | षड्भिस्तु पटलैश्छन्नं घनादि मण्डपत्रयम् || ९ || काञ्चनादिकमप्येवं त्रितयं किन्तु कण्ठयुक् | अष्टभिर्मर्कटैर्युक्तं द्वारकैश्च त्रिभिर्युतम् || १० || ऊर्ध्वंशं [घ्: ऊर्ध्वङ्ग] बन्धनैर्बद्धं सल्लोहैः शस्तदारुभिः | अष्टभिश्छदनैश्छन्नं सुवेशादित्रयं भवेत् || ११ || पक्षो[ग्: अक्षो]न्नतिः पृथत्र्यंशो द्विगुणा तच्छिखोन्नतिः | उपजंघाष्टकी चैषां विस्तराकीदृशमुन्नताम् || १२ || विस्तरार्कांशमानेन भूमौ स्तम्भान्निवेशयेत् | तेन मानेन कण्ठः स्यान्मण्डपान्तरमुच्यते || १३ || द्वारोच्छ्रयान्तरं त्यक्त्वा गृहलिङ्गे गृहाग्रतः | जयाख्यो दशहस्तश्च विधातव्यो घनाकृतिः || १४ || महार्चायास्तुविन्यासे भवेयुर्मण्डपास्त्रयः | सुवेशसदृशाः किन्तु स्तम्भविंशतिवर्त्तिताः [ख्, ग्, घ्: वर्धिता] || १५ || कण्ठद्वयसमायुक्ता [ख्: सभोक्ता वा] धारकैः पञ्चभिर्युताः | लोहकण्टकसम्बद्धकपिभिर्जिनसयुताः || १६ || सुवद्धाश्च दढाश्चैव द्वादशच्छदनान्विताः [मू: द्वादशाब्जदलान्विताः] | शतार्धहस्तो विपुलः पञ्चोने विभ्रमो [ख्: विपुरो] भवेत् || १७ || प्. १७१) चत्वरिंशत्करो भूतिः क्षेत्रे तत्वपदे कृते | संयोज्याः कर्णगांस्तम्भानित्येवं मण्डपत्र्यम् || १८ || चतुरस्राञ्चतुर्द्वाराश्चतुस्तोरणभूषिताः | कर्तव्या मण्डयाः सर्वे मध्ये पीठसमन्विताः || १९ || एकहस्तं समारभ्य यावदष्टकरं क्रमात् | सामान्यात्सर्वपीठानि क्वचिदन्यमतेऽन्यथा || २० || मण्डपस्य त्रिभागेन पीठं स्याच्चतुरस्रकम् | कूर्मं पृष्ठोन्नतं मध्ये द्वादशांशसमुच्छ्रितम् || २१ || त्रिचतुव्यञ्चहारं वा सप्तहारमथापि वा | ऐष्टकं सर्वसिध्यर्थ द्वचिदुक्तं मतान्तरे || २२ || त्रिहारंदुर्जय चैव चतुर्हार सुभीषणम् | पञ्चहारं विशालाक्षं सप्तहारं सुतारकम् || २३ || अवक्रं शल्यहीनं च मनोज्ञं लक्षणान्वितम् | सिद्धान्ते बालुकापूर्ण पीठशययान्वितं [घ्: सव्यान्वितं] शुभम् || २४ || कुण्डाष्टकसमायुक्तं तान्त्रमण्डलभूषितम् | वस्त्रैर्नानाविधैश्छन्नं मण्डपं स्तम्मसंयुतम् || २५ || पीठोर्ध्व च वित्तान तु कदलीबृन्द [घ्: विन्दु] शोभितम् | लम्बपुष्पस्रजं कुर्यात्सघण्टाचामराम्वरम् || २६ || वरगन्घान्वितं चारु दिग्ब्रजं [मू, अ, क्, ख्, ग्, ङ्: दिग्ध्वजं] कलशाकुलम् | पीतं रक्तं तथा कृष्णं घूम्रं श्वेत शुकप्रभम् || २७ || हेमाभं स्फाटिकं पीतं पुष्ठयं चेन्द्रादिकान् ध्वजान् | नवैतान्धवला [मू: ञ्छछलान्]ञ्छान्तौ रौद्रे कृष्णान्प्रयोजयेत् || २८ || प्. १७२) पञ्चहस्ता ध्वजाः कार्या वैपुल्येन द्विहस्काः | सप्तहस्ताः पताकास्तु विंशत्यङ्गुलविस्तराः || २९ || दण्डहस्तप्रविष्टास्तु ध्वजानां पञ्चहस्तकाः | दशहस्ताः पताकानां पञ्चमांश [मू: पञ्चहस्त] प्रवेशिताः || ३० || क्वचिदन्यप्रकारेण ध्वजानां मानमिन्यते | सप्तभिर्दशभिः कार्या विंशा याश्चकरैर्ध्वजाः || ३१ || कन्यसे मध्यमे ज्येष्ठे वैपुल्यात्तु द्विहस्तकाः | द्वचिदष्टकरायामा विस्तारेण द्विहस्तकाः || ३२ || मध्यमास्तु तदर्धेन हीना मध्यार्धतो [घ्: मध्योर्ध्वतो] ध्वजाः | वस्त्रैर्दृढैर्नबैर्नित्यं देवकार्येषु पूजिताः || ३३ || ध्वजैरथपताकाभिर्भूषयेन्मण्डपान्वहिः | ताम्रा लौहाश्च रौप्याश्च हैमाः प्रागादितोरणाः [मू, अ, ख्, ग्: प्रसादतोरणाः] || ३४ || कुचन्दनं लघुं श्वेतं चन्दनामरदारुजाः | पूर्वादिदिक्षु विन्यस्यास्तोरणा भूतये क्रमात् || ३५ || मधुकचूतकाश्मीरी पलाशाश्चार्थशान्तिदाः [मू, क्: चाथद्धिसदाः] | वैकङ्कतशमीबिल्वखादिराः शत्रुनाशनाः [ख्: नाशकाः; घ्: वास्ये] || ३६ || न्यग्रोधश्च पलाशश्च उदुम्बरोऽथ सिध्रकः | अश्वत्थश्चापि माधूक प्लक्षो बिल्वाष्टमः क्वचित् || ३७ || एतेषां तोरणान्यष्टौ पूर्वाद्यष्टास्यमण्डपे | प्रागीशवह्निकोणिषु पूर्वास्यं त्रितयं भवेत् || ३८ || प्. १७३) वायव्ये नैरृते वापि [घ्: वास्ये] पश्चिमास्यं तु मण्डपे | सौम्ये सौम्यननं कार्यं याम्ये याम्याननं मतम् || ३९ || शालकोटज [मू: शालकौ ध्वज] शाकोत्थाः सारलाः पुष्टि भूतिदाः | न्यग्रोघोदुम्बराश्वत्थल्पक्षवृक्षोद्भवाः शुभाः || ४० || यथेष्टमेतदप्राप्तौ कार्याः प्रागादितोरणाः | चतुरस्रास्त्वथाष्टास्रा वृत्ता वा चक्रनिर्ब्रणाः || ४१ || तज्जङ्घे पञ्चहस्ते च तदर्धातु ललाटकम् | जङ्घायाश्च ललाटस्य चैकहस्तप्रवेष्टनम् [ख्: हस्तं प्रवेष्टितम्] || ४२ || तदूर्ध्वतस्त्रिशूलं च त्रिंशत्यङ्गलमुच्छ्रितम् | घण्टाचामरसद्वस्त्र पुष्पस्नग्रान्ध धूपनैः || ४३ || संपूज्यतोरणान् वक्त्रमन्त्रेण [मू, अ, ख्: तोरणायुक्तमन्त्रेण] स्वासु दिक्षु च | जङ्घादौ देवता न्यस्त्वा (स्य) भूमौ हस्तौ प्ररोपयेत् || ४४ || जङ्घासु वसवो ह्यस्या [ख्: न्यस्य] ललाटे च युगाधिपाः | शृङ्गे द्वादशराशिस्थाः स्वे स्वे रूद्रार्कचक्रिणः || ४५ || आपो धरो ध्रुवञ्चेति सोमश्चैवानिलोऽनलः | प्रत्यूषश्च प्रभासश्च एतेऽष्टौ वसवः स्मृताः || ४६ || कृते श्रीकण्ठनामेशौ द्वापरे शङ्करः प्रभुः | त्रैतायुगे त्वनत्ताख्यः कलौ स्वामी सदाशिवः || ४७ || इन्द्रान्तकजलेन्दूर्नां दिक्षु स्वासु निवेशयेत् | मीनादीनां च राशीनां त्रितयं त्रितयं क्रमात् || ४८ || प्. १७४) स्थाणुं शिवं पशोर्नाथमुग्रं शर्व त्रिलोचनम् | ईश्वराव्यं च रुद्रं शङ्करं शम्भुज्ञकम् || ४९ || महेश्वरं महादेवं मीनादित्रितये [ख्: त्रितयं] क्रमात् | विष्ण्वर्कयोः प्रथिष्ठाने विष्ण्विन्द्रदीन्प्रकल्पयेत् || ५० || विश्वायनमहा मूर्तिर्विकाशाख्यमहाबलाः | पूर्वादितोरणा ध्यक्षश्चत्वारोमीऽप्रकीर्तिताः || ५१ || जातबीजसरावैश्च वर्धमानैः ससर्षपैः | बहिरेवमलङ्कृत्य ततश्चाभ्यन्तरे पुनः || ५२ || अष्टौ घटकपाटाश्च द्वारस्थाः पल्लवान्विताः | सुरत्नौ [मू, अ, ख्: सरत्नौ] षघिगर्भाश्च संपूर्णा गन्धवारिणाः || ५३ || चन्दनैश्चर्चिता, स्थाप्याः कण्ठे वस्त्रैर्विभूषिताः | दीपाक्षतफलैर्युक्ता द्वाः पालाष्टकमन्त्रिताः [ख्: ष्टसमन्विताः] || ५४ || शान्तशिशिरपर्जन्या विशोकाप्यायकामृताः | रूद्रोवीर [क्: वीत] इति ज्ञेया अष्टौ कलशदेवताः || ५५ || कुमुदः कुमुदाक्षश्च [मू, अ, क्, ग्, घ्: रव्यश्च] पुण्डरीकोऽथ वामनः | पञ्चमः शङ्कु[क्, ग्: शम्भु]कर्णाख्यः सर्वनेत्रस्तथापरः || ५६ || सुमुखाह्न [क्, ग्: सुमुखाङ्कः] प्रसिद्धश्च तथा वै सुप्रतिष्ठितः [मू: वैद्यप्रतिष्ठितः] | एकैकभूतकोटीभिरावृता ध्वजदेवताः || ५७ || प्. १७५) नन्दीशश्च महाकालो दक्षो भृङ्गी चतुर्मुखः [घ्: च दुर्मुखः] | दारः सितासितश्चेति विज्ञेया द्वारपालकाः || ५८ || मण्डपस्य बहिश्चूतमालापरिवृतं मतम् | रम्भाष्टकसमायुक्त क्षेत्रपालाष्टकन्वितम् || ५९ || हेतुकस्त्रिपुरघ्नश्च अग्न्याख्यश्चाग्निजिह्वकः | कालः करालिकैकाङ्घ्रिर्भीमोऽष्टौ क्षेत्रपालकाः || ६० || किरातादिकथाचित्रैश्छन्नकाष्टपटैः कटैः | बद्धद्वारत्रये तस्मिन् बाहयेत्पश्चिमाननम् || ६१ || अन्त्यजश्चपचादींश्च तथान्याश्रमदीक्षितान् | प्रवेशयेन्न [मू: त्तु] तत्रैव कुर्याद्यागस्य रक्षणम् [ख्: मण्डपम्] || ६२ || लक्ष्य[मू, अ, क्, ग्, घ्, ङ्: लक्ष्म]स्नानादिकार्यार्थ विमलं मण्डपोत्तरे | प्रासादस्य प्रमामेन सपीठं द्विच्छदान्वितम् [क्: द्विकरान्वितम्] || ६३ || प्रासादोत्तरतोर्रौद्यां दिशि वा चारुरूपिणम् | चतुश्छदं चतुष्कोणं वीरं विमलमानतः || ६४ || स्नानाख्यमण्डपं रम्यं स्नानोपस्कर भूषितम् | कोणे ध्वजवितानाड्यं कदलीचूतमण्डितम् || ६५ || एकतोरणमेकास्यं तन्मध्ये वेदिकां शुभाम् | मण्डपार्धप्रताणेन चतुर्यांशसमुच्छ्रिताम् [ख्, घ्: स्वचतुर्थांशमुच्छ्रितम्] || ६६ || प्. १७६) ऐष्टिकीं बालुकायुक्तां सौम्यनालां द्विमेखलाम् | कुर्वीत वाथ सामान्यं मण्डपे वेदिकाद्वयम् || ६७ || एकस्यां लक्षणोद्धारमन्यस्यां मज्जनक्रिया [घ्: मार्जनक्रियाम्] | कुर्यात्तन्तध्यतः पीठं भद्राख्यं क्षीरवृक्षजम् || ६८ || षोडशाङ्गुसभुच्छ्रायं द्विगुणं विस्तृतं दृढम् | विस्तारद्विगुणं दैर्घ्यं कन्यसानां सदैव तु || ६९ || चतुरङ्गुलवृद्धिः स्यादन्येषां तु क्रमात्क्रमात् [क्: क्रमो मतात्] | पीठमानमिति प्रोक्तं कुटीमानमतो ब्रुवे || ७० || मण्डपार्धापरे भागो प्रागास्योपस्कराय च | प्रच्छन्ना द्विच्छदा कार्या कुटिका परिरक्षिता || ७१ || इति लक्षणसमुच्चये मण्डपविधानं नामैकादशो विधिः || ११ || राष्ट्रियाभिलेखालयस्थहस्तलिखितपुस्तकानाम अन्यतमः वैरोचनीयः प्रतिष्ठालक्षणसारसमुच्चयः तस्यायम् द्वादशाध्यायतो द्वात्रिंशाध्यायपर्यन्तः द्वितीयो भागः पण्डितबुद्धिसागरशर्मणोऽध्यक्षतायां वेदाचार्यपं. दामोदरशर्मणा संपादितः वेदान्तशास्त्रियपं. बाबुकृष्णशर्मणा संशोधितः राष्ट्रियाभिलेखालयतः प्राकशितः प्रथमसंस्करणम् अथ द्वादशः मुष्टिमानं शतार्धे च शते वारत्निमात्रकम् | सहस्रे त्वथ होतव्ये कुर्यात्कुण्डं करात्मकम् || १ || द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम् | अष्टहस्तात्मकं कुण्डं कोटिहोमेषु [मू: क्वचिद्धोमेषु] नाधिकम् || २ || पीठवद्वर्तयेत्कुण्डं स्वप्रमाणात्मगर्तकम् | सोष्ठं समेखलं तच्च यथा [ख्: तथा] योनिविभूषितम् || ३ || क्षेत्रार्कांशेन तस्योष्ठं स्यात्तद्वेदर्तु भागतः | मेखलापृथुतोच्छ्राया कुण्डाकारा तु मेखला || ४ || कुण्डत्र्यंशप्रविस्तारा योनिरुच्छ्रायतस्तथा | कुण्डार्धेन तु दीर्घा स्यात्कण्ठोष्ठौ [मू, अ, घ्: कण्ठोष्ठी] बोधिपत्रवत् || ५ || मुष्ट्यादिकरपर्यन्तं कुण्डानां योनिमेखले | प्रोक्ते चाथ ततोऽन्येषां वृद्धिर्द्व्यङ्गुलिकाक्रमात् || ६ || सर्वेषां तु प्रकर्तव्या मेखलैका च लाघवात् [ख्: मेघवत्] | अथ त्रिमेखलाः कार्या युगानलयवाङ्गुलाः [क्, ख्, घ्: पराङ्गुलाः] || ७ || उपर्युपरिविस्तारा द्यवङ्गुलै [क्: त्र्यङ्गुलै] काङ्गुलोन्नताः | षड्बाणम्बुत्रिप [क्, ग्: द्वित्रि] क्षैस्तु विस्तारादङ्गुलैः क्रमात् || ८ || प्. २) द्विरामार्ण (ब्धी) षुषड्भिश्च बाहुल्यात्पञ्चमेखलाः | हस्तमात्रे विधिः शेषे द्यवङ्गुलाङ्गुलवर्धनात् || ९ || मध्यसूत्राच्च संभ्राम्य वृत्तं द्यङ्गुलके द्विधा | पुरो वेदाङ्गुलं तत्र पक्षसूत्रद्वयं पुनः || १० || ओष्ठश्चाङ्गुलतो नाभिः कण्ठश्चोष्ठसमः क्वचित् [मू: समोन्नतिः] | अव्यक्तस्थापने कुण्डं वृत्तं सर्वासु दिक्षु च || ११ || भुक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे विशेषतः [मू: तथैव च] | सदा होमे तथा शान्तौ ऐद्र [मू: एवं; क्: एकं] वारुणदिग्गतम् [ख्: लक्षणदिग्भवम्] || १२ || व्यक्तप्ररोपणे त्वैन्द्रं दिक्ष्वष्टासु युगास्रकम् | एवं स्वदिक्षु दीक्षायां भुक्तिमुत्त्यर्थसाधने || १३ || व्यक्ताव्यक्तप्रतिष्ठायां वृत्तं वेदास्रकुण्डकम् | दिग्विदिक्षु प्रयोक्तव्ये भोगमोक्षफलाप्तये || १४ || शत्रुदाहकरं कुण्डमाग्नेययां बोधिपत्रवत् | शान्तौ द्वेषे [क्: शान्तोद्वेगे] क्वचिद्याम्यां खण्डचन्द्रोपमं मतम् || १५ || क्षयाय राक्षसं त्र्यस्रं षडस्रं वायवं गतौ | पद्माभं पुष्टिकृद्याक्ष्यं क्वचिदप्यर्थसाधने [क्, ख्, ग्, घ्: नाशने] || १६ || अष्टास्रं भयकृद्रौद्रं ज्ञानमुक्तिप्रदं क्वचित् | एवं यथेच्छया कुर्यात्कुण्डानष्टौ स्ववित्ततः || १७ || प्. ३) ऐशानादि[ख्: ऐशानाच्च; घ्: शेषानादि]चतुर्दिक्षु पञ्चकुण्डानि वक्त्रतः | त्रोणि पूर्वापरेशाने कुण्डकं वायुदिक्स्थितम् [घ्: स्वदिक्स्थितम्] || १८ || वेदिकातः परित्यज्य त्रिंशदङ्गुलमन्तरम् | मध्यमज्येष्ठयोरेतत्सप्तसप्ताङ्गुलाधिकम् || १९ || पालाशीं परिधिं दिक्षु न्यसेत्प्रागुत्तरास्रिकाम् | विष्टरान् कुण्डपार्श्वे तु षट्त्रिशद्दर्भजांस्तथा || २० || वृत्तान्वेणीनिभा[क्, ग्: करीनिभान्]न्वापि स्रुग्वृद्ध्यै पञ्चमेषगम् [घ्: मेखलान्] | षोडशाङ्गुलदैर्ध्यं तु षडेकनवदर्भजम् || २१ || यज्ञदारूद्भवो वह्निः सूर्यकान्तमणेस्तु यः | द्वावेतौ भुक्तिमुक्त्यर्थौ विप्रादिगृहतोऽथवा || २२ || उत्कृत्य कुट्टनं कुर्याद्वज्ररेखां तथासनम् | वागीश्वर्यार्चनं कुर्याद्वीजप्रक्षेपणादिकम् || २३ || संहितोक्ताग्निसंस्कारो [मू: ह्यग्निसंस्कारैः]गर्भाधानादिकं च यत् | प्रोक्षणार्चनहोमश्च घृतशुद्ध्यादिपूर्ववत् || २४ || प्रणीतं च हृदा पूज्यं[मू: पृष्ठ]गन्धपुष्पादिभिः क्रमात् | देवीं विसर्ज्य दिक्ष्वास्यान्विदिक्ष्वङ्गानि होमयेत् || २५ || स्वाहाकारं तु होमे तु पूर्णायां वौषडेव हि [मू: तु] | सुवौषट् शान्तिके कुर्याद्वषडाप्यायने हितम् || २६ || प्. ४) स्वधा पितृक्रियायां तु फट्कारं क्षयकर्मणि [ग्: जयकर्मणि] | विद्वेषे हू/ वशे ह्री/ [घ्: ही/] च जपार्चायां[ख्: र्चादौ]नमस्तथा || २७ || तेषां नामादिगा वर्णा मात्रा द्वादशभेदिताः | मात्राभिर्भेदितो[मू: श्छेदितो]ह्येको वर्णो द्वादशधा स्थितः || २८ || ब्रह्मणां वाचका ह्रस्वा दीर्घाः स्युरङ्गवाचकाः | सानुस्वरो भवेन्नेत्रमस्त्रं[ख्: मन्त्रं]विसर्गभेदितम् || २९ || बिन्दुना भेदिताः सर्वे दीपकेन समन्विताः | अन्ते[ख्: अन्य]जातिसमायुक्ताः प्रयोक्तव्याश्च मन्त्रिणा || ३० || एवं ज्ञात्वा क्रियां कुर्याद्वर्णरूपं तदात्मकम् | घृतं तिलान् यवान् क्षीरं व्रीहीन् भक्ष्याणि दध्यपि || ३१ || समिधः पायसं पुष्पं कन्दं मूलं फलं मधु | सक्तुपिष्याकतक्रान्नं जुहुयान्नित्यकर्मणि || ३२ || घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा | शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य तु [घ्: च] || भक्ष्याणामक्षमात्रा स्याल्लाजानां मुष्टिसंमितम् | मालूरं रोगनाशाय लक्ष्म्यर्थं च कुशेशयम् || ३४ || खण्डत्रयं च मूलानां फलानां स्वप्रमाणतः | पंचफलानि[मू: पलानि]सूक्ष्माणि अन्नानां ग्रासखण्डतः || ३५ || प्. ५) प्रादेशाः समिधः सर्वाः समच्छेदास्त्वगन्विताः | अग्रन्थ्यस्फुटितावक्राः प्लक्षवृक्षसमुद्भवाः || ३६ || श्रीवृक्षः खदिरः पर्णी पलाशशम्युदुम्बराः | वैकङ्कतो ह्यपामार्गः पिप्पलः शान्तिपुष्टिदः || ३७ || आकृष्टौ खदिरः शस्तः सौभाग्ये मदनाह्वयः [ख्: दमनाह्वयः] | अनिष्टे जन्तुरोमाणि द्वेषे श्लेष्मान्तशिग्रुकौ || ३८ || प्रोच्चाटने यकारौ [घ्: पकारौ]च सविसर्गौ च होमयेत् | तद्धूल्या काकपक्षं च निधने निम्बशोणितम् || ३९ || अर्कः पलाशगायत्रीमार्गाश्वत्थमुदुम्बराः | शमी दूर्वा कुशा हव्या अर्कादिग्रहशान्तये || ४० || अग्नेः शुभाशुभं विद्याद्वर्णगन्धस्वभावतः | पद्मरागेन्द्रनीलार्कशुद्धस्फटिकहेमवत् || ४१ || शुभो हरितपाण्डुस्तु वर्जनीयोऽशुभोऽनलः [घ्: नलो शुभः] | स्निग्धः प्रदक्षिणावर्तः (शीखी सन्तर्पितः [मू: संपिण्डितः] शुभः || ४२ || मध्वाज्यक्षीरबिल्वार्कपुरग्न्धश्च शोभनः | निर्गन्धः पाण्डरो रूक्षःकृष्णाङ्गारनिभश्च यः || ४३ || तथोन्मार्गप्रवृत्तश्च [घ्: तस्थो-] सधूमो वानलोऽशुभः | एवं ज्ञात्वाप्रकर्तव्यो [घ्: यागे-] होमस्तेनाथवा न वा || ४४ || अग्निकार्यविधिः प्रोक्तः सर्वकामार्थसाधकः | प्. ६) अधिवासनदीक्षायामभिषेके तथैव च || ४५ || खादिरं तु स्रुबं [ख्, घ्: स्रुक्स्रुर्व] कुर्यात्स्थूलं चाङ्गुलमानतः | गोपुच्छसदृशं चारु हस्तदघ्नाव्रणं दृढम् || ४६ || अग्रे तु त्र्यङ्गुलं वृत्तं कर्षाज्यपूर्णपुष्करम् | तत्खातं त्र्यङ्गुलं [क्: द्व्यङ्गुलं] मध्ये सेतुर्द्वियवविस्तरः || ४७ || चन्दनद्वयकाश्मीरीदारूदुम्बरबोधिजाः | आम्रीवैकङ्कती बैजी स्रुक्पालाश्यथ शैंशपी || ४८ || षड्त्रिंशदङ्गुला दैर्घ्यात् [मू, अ, क्, ख्, ग्: दीर्घा] तद्दण्डो र्विशदङ्गुलः | षडङ्गुलपरीणाहो वेद्यष्टोन्नतिविस्तरा [क्, ग्: द्वेद्व्यष्टो-] || ४९ || तन्मध्ये त्र्यङ्गुलं खातं वृत्तं वेदास्रमेव वा | मेखलाब्जाष्टपत्राढ्यं सर्पिः [क्: सन्धिः] कुडवसम्मितम् || ५० || चतुरङ्गुलकं पश्चात्संस्थाप्य द्व्यङ्गुलं हरेत् | वेद्यग्रकोणयोः [घ्: वेदग्रहणयोः] कण्ठस्त्वङ्गुलैकं ततस्तयोः || ५१ || वेदिकातुल्यकं मूले दैर्ध्यात्सप्ताङ्गुलाननम् | द्व्यङ्गुलाग्रप्रमाणं च गजोष्ठसदृशं भवेत् || ५२ || वेद्यास्यमध्यगं[घ्: वेद्या मध्यमगं]रन्ध्रं पुष्करास्यं नयेत्समम् | कनिष्ठाङ्गुलिवत्स्थूलं सर्पिनिर्गमनाय च || ५३ || युगाङ्गुलो घटःकार्यो [क्: लोद्यतः-] दण्डमूलसुशोभनः | प्. ७) अङ्गुलैश्च चतुर्भिश्च दण्डाग्रे चोपवेदिका || ५४ || द्वयमेव सुनिष्पन्नं प्रक्षाल्योष्णाम्बुना ततः | तौ सन्ताप्य कुशैः स्पृष्दवा मूलमध्याग्रतः क्रमात् || ५५ || हृदयेन समभ्यर्च्य गन्धपुष्पादिभिस्ततः | समुन्नततनुर्दद्यात्पूर्णां वै [क्, ग्: पूर्णायां] नाभिगे घटे || ५६ || एकैकतत्त्वहोमान्ते कार्या पूर्णावसानके | तस्मिन्काले प्रदानं च गुरवे देयमादरात् || ५७ || इति लक्षणसमुच्चये कुण्डस्रुक्स्रुवलक्षणं नाम [वर्तनाविधिः वि० पु०] द्वादशो विधिः || २ || अथ त्रयोदशः यजमानानुकूलेऽह्नि सम्भारे सकले कृते | पूर्णकुम्भादिमाङ्गल्ये निमित्ते पूर्वचोचिते [चोदिते भू] || १ || वन्दिनो गायका [गायनाः लि० पु० पा०] विप्राः शङ्खवादित्रवादकाः | मङ्गलार्थं प्रयोक्तव्याः शोभार्थं च तथा स्त्रियः || २ || विभवे [मू: विस्तरे] सति शैवाख्या ब्राह्मणास्तु प्रकीर्तिताः | न चायं नियमो ह्यत्र ब्राह्मणानां परिग्रहे || ३ || न वेदोच्चारमात्रेण किञ्चिदत्र प्रसाध्यते | उत्सवे मङ्गलार्थे तु सम्यग्वेदस्वनः स्मृतः || ४ || ज्योतिर्ज्ञानं प्रधानं स्यात्प्रतिष्ठायाः शिवागमे | सर्वारम्भेषु तत्पूज्यं न वेदस्तत्र कारणम् || ५ || शूद्रो वाप्यथ वैश्यो वा ब्राह्मणो वाथ क्षत्रियः | ज्योतिर्ज्ञानार्थतत्त्वज्ञो दैवज्ञो जायते यतः || ६ || न जातिः पूज्यते ह्यत्र शैवज्ञाने यथा गुरुः | ज्ञानं संपूज्यते नित्यं न जातिस्तत्र कारणम् || ७ || स्वशास्त्रलक्षणोपेतं ज्योतिर्ज्ञानविशारदम् | निपुणं सुप्रणीतं च प्रत्ययानेकदर्शकम् || ८ || हिताहितोपदेशज्ञमेकचित्तं जितेन्द्रियम् | प्. ९) स्रऽवस्त्रगन्धधूपाद्यैर्दैवज्ञं संप्रपूजयेत् || ९ || ततः संपूजितो विद्वान्दैवज्ञो लग्नतत्परः | घटिकाशङ्कुयोगेन प्रतिष्ठालग्नमादिशेत् || १० || शिवज्ञानात्परं ज्ञानं न भूतं न भविष्यति | सर्वोपायान्वितं पुण्यं धर्मकामार्थमोक्षदम् || ११ || यन्नसाध्यं शिवज्ञाने तद्वेदेषु नसिद्ध्यति [मू: न तद्वेदेषु] | यन्नसाध्यं तु वेदेंषु तत्सुसाध्यं शिवागमे || १२ || यन्नदृष्टं शिवज्ञाने न तद्वेदेषु दृष्यते | लोकोपचारमात्रं स्यादुत्सवोविभवे [मू: -दुत्सवे] सति | नचैतत्कारणं [घ्: चैतैः-] वेदैः प्रतिष्ठायाः शिवागमे || १३ || अज्ञानिनां प्रवोधाय श्रेयोऽर्थं[मू: ज्ञेयोज्थ/]मङ्गलाय च | देव्यामतात्समाकृष्य लिखितं लेशतो मया || १४ || मृदाधैर्गोमयेनाथ भस्मनास्त्राम्बुभिः क्रमात् | शोधयित्वा ततो लिङ्गं रथे त्वारोप्य यत्नतः || १५ || लक्षधारालयं [क्, घ्: लक्ष्म-] रम्यं नयेल्लिङ्गं शनैः शनैः | आकर्षयेच्च नागाश्वैर्महिषैर्वा बृषै रथम् || १६ || अनिष्टोरथभङ्गादो [मू: अनिष्टे-] हब्यं घोरशतं [मू: -गतं] शुभम् | अवतार्यागतं लिङ्गं स्यन्दनस्थं प्रयत्नतः || १७ || प्. १०) शेषे स्थानस्थिते देवे शङ्खवादित्र निस्वनैः | अष्टाङ्गसंस्कृतं चार्घं दत्त्वा लिङ्गं प्रवेशयेत् || १८ || रक्षोघ्नं तिलदर्भाम्बुदध्यक्षतपयोयवैः | हेमपात्रादिगैरेतैरर्घं दद्या दथाष्टभिः || १९ || कर्ता दद्यात्ततस्त्वर्घमाचार्यादिभ्य एव तु | पादशौचं तत कृत्वा पादुके स्थापयेत्पुनः || २० || दद्यात्स चतुरं पीठं तत्रस्थं शिववङ्गुरुम् | कुङ्कुमागुरुकर्पूरैर्लिम्पेत समचन्दनैः || २१ || सुस्रग्दामसुधूपं च चारुवस्त्रद्वयं सितम् | मुकुटं कुण्डलं चैव हारकेयूरकङ्कणौ || २२ || सरत्नां मुद्रिकां दद्याद्रत्नाढ्यं कटिसूत्रकम् | संपूज्य गुरुवे दद्यात्पञ्चधेनूश्च [क्, ख्: -धुनूः स्व] वित्ततः || २३ || यतीनामध्वरे दर्भेःस्रग्दाम्ना वा विभूषयेत् | गृहस्थानां विधौ सम्यग्वित्तशाठ्यं न कारयेत् || २४ || अपि मूर्तिधरान्पश्चाघनेग्दोवस्त्रभूषणैः | प्रधानशिल्पिनं तद्वग्दन्धपुष्पैस्तथेतरान् || २५ || सकर्पूरं च ताम्बूलं दत्वा विज्ञापयेग्दु [मू, घ्: दद्याद्विज्ञापमे] रुम् | भवत्पादप्रसादान्मे कृत्स्नं यागफलं भवेत् || २६ || धर्मवृद्धिर्ध्रुवा लोके आचन्द्रार्कवसुन्धरम् | पादलग्नो वदेत्कर्ता कुरु [घ्: कुयुः] (र्वे) कर्मत्वदाज्ञया || २७ || प्. ११) पुनराचम्य मन्त्रज्ञो [घ्: मन्त्रेण] वस्त्रपूतेन वारिणा | प्रक्षाल्य पाणिपादं च त्रिः पिबेदम्बु वीत्रितम् || २८ || संवृत्याङ्गुष्ठामूलेन [ङ्: संभृत्या] त्रिः प्रमृज्या [घ्: द्विः प्रसृज्य] त्ततो मुखम् | संहिताभिस्त्रिभिः पूर्वमास्यमेवमुपस्पृशेत् || २९ || अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् | अङ्गूष्ठानामिकाभ्यां तु चक्षुःश्रोत्रे पुनः पुनः || ३० || कनिष्ठाङ्गुष्ठाभ्यां नाभिं हृदयं तु तलेन वै | सर्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् || ३१ || प्रागस्त्रेण त्रितालेन पुष्पं प्रक्षेपयेद् गुरुः | यागालयं प्रविश्याथ खड्गबीजैः सुरेचितैः || ३२ || दिक्शुद्धिं विदधीताशु ततो मुञ्चन्ति गुह्यकाः | भूतशुद्धिं ततः कुर्यान्मूर्त्यादिसकलीकृतम् || ३३ || न्यासान्ते करणेज्याश्चयथोक्तं [क्, ख्, ग्: करणाज्ञाश्च-] संहितान्तरे (?) | द्वादशाङ्गुलमुत्सिक्तं सितोष्णीषविधारकः || ३४ || भावनाभिर्जटाभिश्च सितभस्मविधूलितः | भवेद्यज्ञे सदाचार्यः श्रीकण्ठरूपधारकः || ३५ || शिवमन्त्रात्मको व्यापी शिवश्चाहं स्वयं प्रभुः | इत्येवं निर्विकल्पेन चेतसा चिन्तयेत्सदा || ३६ || शिवसंस्थापने ह्येवं भैरवे भैरवात्मकम् | प्. १२) यद्यद्रूपो भवेद्देवस्तत्तद्रूपस्तुदैशिकः [क्, ग्: -रूपोऽस्तु-] || ३७ || आत्मस्थं पूजयेदीशं पश्चादर्घेषु मन्त्रवित् | तेनार्धवारिणा प्रोक्ष्य सर्वं पुष्पफलादिकम् || ३८ || अस्त्रेण विकिरेब्द्रीहीन्स्थल्यादि [ञ्छल्यादि लि० पु० पा०] विध्नशान्तये | वर्मणा सङ्गहेत्पश्चाच्चामरैर्वाथ पिच्छकैः [घ्: पिञ्जकैः] || ३९ || शिवकुंभं ततो न्यस्य शिवमन्त्राङ्ग [मू: मन्त्राङ्क] संयुतम् | गन्धाम्बुफलरत्नाढ्यमोषधीवस्त्रसंयुतम् [घ्: मण्डितम्] || ४० || चूतपत्राक्षतास्यं च गन्धमाल्यादिपूजितम् | ऐश्यां दिश्यस्त्रसंयुक्तं स्थापयेदम्बरोपरि || ४१ || धारां दद्यादविच्छिन्नामीशादीशान्तवेष्टनाम् | विन्यस्य [घ्: न्यस्त्वा] कलशांस्तत्र तांश्च दक्षिणतोऽर्चयेत् || ४२ || सुवर्णरूप्यताम्रोत्थैर्मृन्मयैर्वा नृपक्रमात् | शिवादिकलशाः कार्या द्वरस्थाः [घ्: द्वास्थार्चा] स्नापयेत्तथा || ४३ || तानि न्यसेत्करीराणि पूर्वोक्तानि च सांप्रतम् | वितानं मञ्चमांशेन [घ्: मास्येन] प्रागुक्तैर्ध्वजतोरणान् || ४४ || एवं कृत्वा तु संरक्ष्य लिङ्गस्थानं ततो[क्, ग्: लिङ्गं स्थण्डिलतो]व्रजेत् | तत्र [मू: ततः] पूर्वं क्षिपेत्पुष्पं खड्गेन तत्र [मू: तत्त्व] संस्थितम् || ४५ || प्. १३) अस्त्रेण विकिरं कुर्यात्तोरणं [क्, ख्: सुवर्ण] पश्चिमाननैः | इन्द्रेन्द्विशाग्रदर्भाश्व स्तृणीयादक्षतां शुचीन् || ४६ || सद्योजातेन मन्त्रेण दद्यात्पट्टं सतूलिकम् | अर्घं दत्वा तु वक्त्रेण धूपं वै मध्यगेन तु || ४७ || हृदा प्रोत्थापयेद्देवं गुह्येन स्थापयेच्छिवम् | अव्यक्तादीनि लिङ्गानि प्रागिन्द्वीशशिरांसि च || ४८ || क्रमशः श्वापये [मू: शाययेत्; ख्: साधयेत्] त्तानि तूलिकायां सदा गुरूः | मन्त्रन्यासं तु तत्कुर्यात्सामान्यं [ख्: व्रतं कुर्यात्] सर्वतन्त्रगम् || ४९ || ओं नमो भगवते रुद्राय हिरण्यनेत्राय [घ्: रेतसे] महात्मने शिवाय | शिवरूपाय हा/ हौ/ [मू: हा/ हा/] नमो नमश्चेति मन्त्रयेत् | हिरण्यरेतोमन्त्रस्थितये [ख्, घ्: मन्त्रत्रितय] लिङ्गानाम् | सहस्रांके शतांके [घ्: सहस्राह्वं शताख्ये] च रेखा उत्कीरयेत्ततः | मणिरेखां क्रमाद्यस्य यस्य [मू: तस्य] तां तां वदाम्यहम् || ५० || एकाधिकनवत्यंशमूर्ध्वतिर्यक् खगांशकैः | त्यक्त्वैकं स्यात्सहस्रांशं [घ्: सहस्रास्रं] लिङ्गं विषमसूत्रकैः || ५१ || वृत्ते पञ्चाशदंशस्तु तिर्यग्द्वाविंशतिः क्वचित् | ऊर्ध्वाधोंशपरित्यागात्पुनर्वृत्तिं द्विधांशतः || ५२ || प्. १४) मूर्ध्नि संवर्तयेत्तेषु सूत्राभ्यां छत्ररेखया | अन्तर्लुप्त्वा सहस्राणि भवत्यन्तरितैः सदा || ५३ || उमेन्दुपिण्डिका नित्यं लिङ्गमीशा दिवाकरः | सहस्राशावृतो [घ्: सहस्रास्र युतो] भानुस्तस्माद्दशशतावृतः || ५४ || सौरं सहस्रे चैवं [मू, अ, ग्: साहस्रिकारं; घ्: सैवैकं] स्याद्व्राह्मं लिङ्गशतावृतम् | कपालाद्यैर्युतैर्भिन्ने पुण्यकृत्स महाघहृत् [क्, ग्: सुहृत्] || ५५ || पञ्चभागोदयं कृत्वा त्यक्त्वैकं [घ्: ऋक्षैकं] भागमूर्ध्वतः | तत्त्वभागोऽर्धवंपाताद्भवेल्लिङ्गं शताधिकम् || ५६ || प्रतिधामसहस्राणि शतानि बास्थिरे [क्: चास्थिरे] तथाः | चललिङ्घं गृहेऽप्येवं लिङ्गभेदादि वा पुनः [क्, ग्, घ्: पापनुत्] || ५७ || मदेन्दु [ख्: महेन्दु] कुङ्कुमाक्तैस्तु सूत्रकैर्मानहेतवे | रेखामुत्किरयेल्लिङ्गे उत्तमे च यवाष्टकम् || ५८ || नवमांशहृदन्येषां कुर्याद्यावत्करान्तिकम् | तेष्वन्त्तरेऽन्तरोक्तं वानिष्ट [घ्: त्वरिष्ट] कृद्धस्तहीनके [क्, ख्, ग्: वस्त्रहीनके] || ५९ || रेखान्यासः समाख्यात [घ्: व्यासाः समाख्याताः] तदर्धादवटं शुभम् | समं समतलं तच्च मनोज्ञं लक्षणान्वितम् || ६० || प्. १५) एवं तु या भवेद्रेखा तां प्रोत्कीर्य [क्, ख्, घ्: तामुत्कीयं] सुखावहाम् | मध्यसूत्रं समं [मू: सूत्रसमं] कृत्वा ललाटादवतारयेत् || ६१ || त्रयंशोऽर्धे वाथवा पादे लक्षणं कण्ठतस्त्वधः | ग्रीवास्याग्राल्ललाटा [घ्: स्याघ्रा-] च्च नैवोर्ध्वक्रमणाच्छुभम् || ६२ || अलक्ष्यं लक्ष्यकार्याय ज्योतिर्लक्षणकर्म तत् [क्, ख्, ग्: लक्षणकं मतम्] | सर्वालक्षणनाशाय रेखालक्षणमुच्यते || ६३ || सूत्राभ्यामन्तरं कुर्याज्येष्ठस्य तु ग्रहाङ्गुलैः | अन्येषामङ्गुलैकैकं हृत्वैनं [ख्, घ्: हृत्वैकं] स्थापयेत्क्रमात् || ६४ || चेता दीप्ता प्रमोपा च धात्री माया मती शिवा | चण्डा लक्ष्मी सुमेधा च मणिरेखा दशोदिताः || ६५ || वसुभागीकृते रुद्रे त्यक्त्वांशत्रयमूर्ध्वतः | पञ्चांशे लत्रणं [घ्: पञ्चासल्लक्षणं] ज्ञेयं भागैकं तस्य चान्तरम् [ख्: चोत्तरम्] || ६६ || ऊर्ध्वं सूत्रद्वयं त्यक्त्वा प्राङ्मानं पक्षसूत्रयोः | तिर्यङ्मध्यस्थितात्सूत्रात्पक्षसूत्रावतारणम् || ६७ || भागद्वयान्तिकं यावत्त्यक्त्वाधोभागसङ्गमम् | सध्यान्तरार्धकं प्रान्ते त्वन्तरं [ख्: प्रान्तं वर्तुलं] तस्य कारयेत् || ६८ || लिङ्गस्य याद्दशो मूर्धा लक्षणस्यापि तादृशः | मामान्यान्तर [ख्: सामान्योत्तर] लिङ्गानां चेता स्यात्प्रथमोदिता || ६९ || प्. १६) कार्या चेताथवा दीप्ता रेखा हस्तप्रमाणके | त्रिभक्तेंऽशैक [क्, ख्, ग्: ऽस्रैक; घ्: -ऽग्रैक] संत्यक्ते द्व्यंशं रन्ध्रः षडस्रके [मू, अ, क्, घ्: रन्ध्रैः षडस्रकैः] || ७० || रामैर्द्वाभ्यां यवास्याभा पक्षसूत्रं तृतीयके | दीप्राख्या लक्ष्य [घ्: लक्ष्म] रेखा च गदिता भोगमोक्षदा || ७१ || द्विहस्तके प्रमोदाख्या तिथिभागकृतोदये | नवांशोऽर्धपरित्यक्ते षष्ठे भागे त्रिधा कृते || ७२ || मध्यसूत्रस्य मध्यं तु भ्रमणादुभयोरपि | यवाकारेभनेत्राभा पक्षसूत्रं विना भवेत् || ७३ || धात्री त्रिहस्तके लिङ्गे विभक्ते [क्, ख्, घ्: त्रिभक्ते] रुद्रसंज्ञके | त्यक्त्त्वाधो द्व्येकभागं तु द्वौ चैवाधोऽष्टधा पुनः || ७४ || तदूर्ध्वेकेन मूर्धा स्याद्रुणं त्यक्त्वा गुणान्तिकम् | त्यक्त्वैकं भ्रामयेत्सूत्रं यावत्पृष्ठान्तमाश्रिते || ७५ || चतुष्करे भवेन्माया विकारहरभाजिते | ऊर्ध्वं षट्क [क्: ऊर्ध्वषट्क] परित्यागाद्दिग्भागलक्षणं तथा || ७६ || ऊर्ध्वं वेदांशकं [मू: वेदाङ्गकं] त्यक्त्त्वा लघुभूत्रं [क्, ख्: लम्बसूत्रं] ततो भवेत् | अधो भागद्वयं मुक्त्वा सङ्गमः पृष्ठतस्तयोः || ७७ || मती [ख्: सती] पञ्चकरे लिङ्गे शिवांशे तिथिभाजिते | अग्रे मुनिपरित्यक्ते लक्षणं स्यात्फणिस्थिते || ७८ || प्. १७) तत्त्र्यंशे चोर्ध्वतस्त्यक्ते लम्बनं त्र्यंशतो भवेत् | त्र्यंशयो [क्, ग्: द्व्यशयोः] स्त्यक्तयोश्चाधः पृष्ठतः सूत्रसङ्गतिः || ७९ || एड्ढस्तके शिवा तत्र षोडशांशं भवेद्धरः | षडंशादूर्ध्वतस्त्यक्त्त्वा ककुद्भागे च लक्षणम् || ८० || त्रिभागात्पञ्चभागान्तं भामयेत्पक्षसूत्रके | आघो विहाय [मू: विधाय] भागौ द्वौ मेलकं स्यात्तयोः सदा || ८१ || सप्तहस्तात्मके लिङ्गे चण्डाख्या लक्षणं भवेत् | पूजाभागे विकारांशे रेखाधः सप्तवर्जिते || ८२ || तुर्यांशा [ख्: तुल्यांशा] लम्बनं चाधो द्व्यंशो वाधः परित्यजेत् | यस्योत्तरे [क्, ग्: यस्यान्तरे] ऽब्जिकाकारा सङ्गति पृष्ठमध्यतः || ८३ || कराष्टदघ्नके लिङ्गे पूर्ववद्भागकल्पिते | लक्ष्मीसंज्ञा मता रेखा लम्बनं [क्: लक्षणं] गुणभागतः || ८४ || एदमेव सुमेधाख्या लक्षणं नवहस्तके | द्विभागे लम्बनं [मू, अ, ग्: लक्षणं] तस्य सङ्गस्त्वेकांशवर्जनात् || ८५ || न योज्या लम्बरेखार्धे विष्ण्वंशे कस्यचिन्मतम् | पक्षसूत्रे परं कार्यं तदधो लम्बनं हरेत् || ८६ || क्वचिज्ज्ञानक्रियाशक्ती व्यापिन्यौ सकलाकलौ | तस्मात्स्याद्विष्णुसम्पर्कः पक्षसूत्रेऽव [ख्: सूत्रे च] लम्बने || ८७ || प्. १८) एतासामिष्यते मूर्धा छत्रशीर्षगजेक्षणम् | छत्राभं कुक्कुटाण्डे तु बालेन्द्वाभे यवोपमम् || ८८ || दक्षाण्डं त्रपुषाभे तु त्रपुषं चन्द्रमस्तके | यशो राज्यं धनं पुत्रं सौभाग्यं जीवितं क्रमात् || ८९ || दद्युर्गजेक्षणादीनि षडेतानि शिरांस्यथ | एतद्वाणमतं प्रोक्तं लक्षणं सार्वलिङ्गिकम् || ९० || क्वचिद्रुद्ररतिर्भङ्क्त्त्वा भान्वंशाल्लक्षणं [घ्: साधांशा] भवेत् | नव वैकैक [मू, अ, ग्: न चैवैकैक] सन्त्यागादर्धात्पादोर्ध्वलम्बनम् || ९१ || अश्वत्थपत्रवद्रूपं वर्तयेग्दुह्यलक्षणम् | प्रणालस्यार्धविस्तारात्पीठावटकलेन्दु वा || ९२ || द्वे यूके पञ्चलिक्षाश्च रेखयोरन्तरं भवेत् | रेखापृथुत्वं साङ्घ्री तु द्वे लिक्षे मूर्धजे तथा || ९३ || एकाङ्गुलादिलिङ्गानां लोहजानां क्वचिन्मते | वृद्धिरेखा तथा स्थानं मर्मकं चादिवर्जितम् || ९४ || स्थानवृद्ध्या भवेत्तेषां लक्षणं पूर्ववद्यथा | सूक्ष्माणामपि लिङ्गानां त्रिराशिकृतलक्षणम् || ९५ || शुभकृन्मर्मसन्त्यागादन्यथा कृतदोषदम् | दिगीशानांतु लिङ्गानां स्वकामफलसाधने || ९६ || निजायुधसमाकारां मणिरेखां विलेखयेत् | शूलं वज्रं च शक्तिं च तिक्ष्णाग्रं कम्बुकं तथा || ९७ || प्. १९) दण्डाब्जासिसुसंज्ञाभं [मू: स्वसंज्ञातं; ग्: स्वय ज्ञातं] वृत्तं पाशं ध्वजं गदाम् [मू, अ, घ्: तथा] | लिङ्घवद्वर्तयेद्रेखां हेमसूच्या त्वनन्तरम् || ९८ || उत्तराभिमुखो भूत्वा ज्येष्ठस्यैव त्रिमाषया | द्विमाषया ततोऽन्यस्य कन्यसस्यैकमाषया || ९९ || उत्कीरयेयुरस्त्रेण शिल्पिजो गुर्वनुज्ञया | स्निग्धा समा च गम्भीरा ऋज्वी सर्वार्थदा भवेत् || १०० || स्थूला वक्रा कृशा भिन्ना रूक्षायुरर्थनाशनी | शस्त्रमामन्त्र्य शस्त्रेण विलिखेद्दक्षिणेन तु || १०१ || पूरयेन्मधुसर्पिभ्यां स्वनेत्रेण विचक्षणः | अव्यक्तानां स्थिराणां च ब्रह्मरेखाविधिस्त्वयम् [घ्: विधिः स्वयम्] || १०२ || ऐशाने [नेशाने लि० पु० पा०] बाणलिङ्गे च रत्नजानां चलात्मके | सर्वमेव शिरस्थत्वमीशानस्य हि लक्षणम् || १०३ || पूर्वमन्त्रेण [ख्: मण्डल] संसिद्धं बाणलिङ्गस्य लक्षणम् | स्वकान्तिमणिरत्नोत्थलक्ष्म वा धातुजे [क्, ख्: लक्ष्मे वा पात्रजे] क्वचित् || १०४ || चलानां च स्थिराणां च व्यक्तानां नेत्रसंस्कृतिः [मू: मन्त्रसंस्कृति] | अङ्गुलाद्येकैकशः [क्, ख्, घ्: द्येककेशः] स्याद्यूका हस्तवृद्धितः || १०५ || रेखापृष्ठार्धगर्तेऽर्चाद्वौ [ग्: गर्तांद्वा] नेत्रोन्मीलनं क्वचित् | प्. २०) सौम्याभया प्रदात्री च वीरा हृष्टा प्रबोधिका || १०६ || हास्या कारुणिका काम योगस्था दिव्यदृष्टयः | क्रूरा क्रुद्धा कराला च भीषणा विकृताद्भुता || १०७ || ऊर्ध्वाधोग्रसिनी भीता घोरादीनां तु दृष्टयः | नेत्रत्रिभागमध्ये तु तारकाख्यं प्रकीर्तितम् || १०८ || तारातृतीयभागेन ज्योतिरासां प्रकल्पयेत् | नोर्ध्वं नाधो नतिर्यग्वा न न्युनाधिकविभ्रमा || १०९ || न बिन्दुशकला [घ्: कलशाः] रूक्षा दृष्टिस्याच्छुभदायिति | सौम्या द्वादश [ख्: ष्टादश] वृद्ध्यर्थं स्निग्धरेखासुदृष्टयः || ११० || वृत्ताक्षा राक्षसाद्याश्च तेषां क्रूरादिदृष्टयः | लक्षणोद्घरणे दद्याद्घेनुं च गुरवे सदा | ज्ञात्वैवं [ख्: कृत्वैवं] विधिना सम्यक् ततस्तान्यधिवासयेत् [क्, ग्, घ्: स्नानाधिवासनम्] || १११ || वसतेरधिपूर्वस्य भावे ल्युट् [घ्: घ्ञ्] प्रत्यये कृते | अधिवासन इत्येष [क्, ग्: इत्येवं; घ्: वासधिघोह्येष] प्रयोगः सिद्धिमेति च || ११२ || गूर्वादिसहितो वासो रात्रौ नियमपूर्वकः | एतस्यार्थौ [घ्: एतस्यार्थो] निपातानामनेकार्थतया मतः || ११३ || अस्त्रेणाभ्यक्षणं कृत्वा तृतीयेनाभिमन्त्रयेत् | नरेणार्घं [नवेनार्वं] प्रदद्याच्च पाद्यं चाजातकेन तु || ११४ || प्. २१) वासो लिङ्गाय गुह्येन अजातेन विलेपनम् | पञ्चमेन स्रजं दद्याद्धूपं वै दक्षिणेन तु || ११५ || पुरूकुन्दुरूलोहैश्च सर्जचन्दनवानरैः | श्रीवाससरलाभ्यां च खण्डधूपैश्च धूपयेत् || ११६ || हृदा देयं पवित्रं तु प्रदीपं मध्यमेन तु | नैवेद्यानि तृतीयेन अनुक्तं हृदयेन तु || ११७ || छादयेद्वस्त्रयुग्मेन गुह्यमन्त्रेण दैशिकः | मूर्ध्नि निद्राघटः स्थाप्यो रुद्रजप्तः सुपूजितः || ११८ || कपिला बन्धयेत्पञ्च अरोगाःसुपयस्विनीः | चतुर्द्वारेषु चेशाने तत्क्षीरेण चरुं श्रपेत् || ११९ || चरुं प्राश्य स्वपेत्तत्र विहिते दन्तधावने | गुरूमूर्तिधरैःकर्तासहितः कुशसंस्तरे || १२० || सुस्वप्ने सिद्धिरन्यत्र जुहुयान्मध्यगं गुरुः | द्वितीयेऽह्नि कृतस्नानः कर्या पत्न्यन्वितो व्रती || १२१ || गुरुः समूर्तिपैः स्नातो वस्त्राभरणभूषितः | कृतमङ्गलनिर्घोषैर्देवस्नानादिकं चरेत् || १२२ || इति लक्षणसमुच्चये लक्षणोद्धारविधिकथनं नाम त्रयोदशो विधिः || १३ || अथ चतुर्दशः शिवः सर्वगतः सूक्ष्मः स्वयमुत्कर्षतेऽखिलम् | स्फुटमाचार्यरूपेण मन्त्रशत्त्या [ग्: मन्त्रेण स] चराचरम् || १ || सर्वेषामपि वर्णनामवतीर्णः कलेश्वरात् [क्, ग्: वरात्] | अनुग्रहाय लोकानां गुरुत्वं स्याच्छिवेच्छया || २ || अयुतैर्द्विजवेदशैः समयी तत्समो भवेत् [ख्: माचरेत्] | तदयुतैञ्च पुत्राह्व [ख्: पत्राङ्क] स्तैस्तावद्भिञ्च साधकः || ३ || दशभिस्तु सहस्रैस्तैराचार्यः शिवशासने | तेभ्यो दानार्चनैर्भक्त्या [घ्: भूकत्वा] फलं स्याद्वासुकेर्म [क्, ग्: वाद्यकर्म; ख्: वास्तुकर्म] तात् || ४ || सकलीकरणां कृत्वा देवे [मू: वेदे; क्, ख्: देहे] ह्यर्घादिकं च यत् | ततञ्चाभ्युक्षणं लिङ्गे अर्घपूष्पाकिधूपनैः || ५ || तैलेनाभ्यङ्गयेल्लिङ्गं दूर्वाकाण्डशतेन च | गुह्मेन [ख्: शुद्धेन] स्वयमाचार्यः पञ्चात्कर्ता कुलैः सह [घ्: कुलेन च] || ६ || तत्कालमङ्गलं गीतं गायन्त्यो ऽविधवाः शुभाः | दद्यात्तासां गुडं धान्यं पर्यटं [घ्: पर्व्पटं] लवणं क्वचित् || ७ || ततस्त्वविधवा चाष्टौ सर्बलक्षणसंयुताः | सव्यापसव्यसूत्रेण संस्पृशेयुः कुशेन वा || ८ || प्. २३) स्वपयन्ति [क्, घ्: स्नपयन्ति] पुनस्तास्तु निर्मत्स्यन्ति पुनः पुनः | विधिना स्नपनं [ग्: अपयन्ति] पञ्चादाचरेद्दैशिकः स्वयम् || ९ || मृत्सागोमयगोमुत्रभस्मदुग्धैर्यथाक्रमम् | पञ्चगव्येन दघ्ना वा मधुना पञ्चवल्कलैः || १० || अष्टसप्तार्कनागांशैर [ख्: नागाङ्कैः] ग्निसप्तविकारकैः | नखाग्नि [ख्: नवाग्नि] पञ्चभिः स्नानं पलाशै [ख्: पलार्धे] रेकहस्तके || ११ || नानाफलैरथाष्टाभिः पुष्पाणां च शतेन च | स्नापयेद्गुह्यमन्त्रेण रुद्रैर्वा हृदयेन वा || १२ || यवगोधूमजैञ्चूर्णैर्बिल्वचूर्णैस्तथापरैः | उद्वर्त्य स्नापयेत्पञ्चात्स्वच्छेन गन्धवारिणा || १३ || सर्वौषधिपलेनापि रत्नतोयेन शक्तितः | तथा काञ्चनतोयेन गोशृङ्गसलिलेन च || १४ || धान्योदकेन चेच्छातस्ततो गन्धोदकेन च | सितवस्त्रेण देवेशं परिमृज्य [मू, अ: परित्यज्य] सुगन्धिना || १५ || एतल्लिङ्गेऽन्यदर्चासु स्नानं स्याद्भास्करे मते | स्वैः स्वैर्मन्त्रैर्हरादीनां मिश्राणमपि सर्वदा || १६ || जलेन पञ्चगव्येन पञ्चभिर्मधुरैस्तथा | मृत्कषायौषधीभिश्च धाग्र्या तीर्थधुनीजलैः || १७ || प्. २४) सागरोदकरत्नाम्बुगन्धपुष्पफलोदकैः | महास्नानेन दिक्स्नानैः स्नाप्यं षोडशभिः क्रमात् || १८ || अस्त्राद्भिर्धूलिर्सशुद्द्यै प्रथमं स्नापयेच्छिवम् | क्षीरं गोस्ताम्रवर्णाया ईशेन भागपञ्चकम् || १९ || शुक्लाया दधि च ग्राह्यं चतुर्भागं नरेण च | कपिलाया घृतं गोश्च अघोरेणाग्निभागिकम् || २० || गोमूत्रं नीलवर्णया गुह्येन द्वयभागकम् | कृष्णया गोमयं खस्थमजेन सर्वदा [मू: सम्पदा] शुचि || २१ || मध्येन्द्रयमयक्षाम्बुदिक्स्थे ताम्रादिपात्रगे [मू: पात्रतः] | शिवेनैकत्त्वमालोड्य पञ्चभिर्वाथ कापिलम् || २२ || कुशाम्बुनार्धभागं च सादाख्येनाभिमन्त्रितम् | एभिस्तु पंचभिर्युक्तैः स्नानमर्चादिशोधनम् || २३ || पयोदधिघृतं क्षौद्रं खण्डैः स्यात्पञ्च माधुरम् | ईशानवक्त्रघोराह्वगुह्याजाताख्यमन्त्रितैः [घ्: -कैः] || २४ || वल्मीकगिरिगङ्गादितीरजेभह्रदोद्धृताः | वृषशृङ्गसमुत्खाताः पवकाश्रयसम्भवाः || २५ || नृपद्वाराचतुर्मार्गमृत्साभिश्च विशुद्द्यति | अजेन क्षालनात्पृथ्वीक्रमतस्तु कलावता || २६ || बकुलोदुम्बराशोकवटबोधित्वचां जलैः | कवोष्णैस्तु तृतीयेन स्नानं टङ्कक्षतापहम् || २७ || प्. २५) ऋद्धिवृद्धिसहा [महा भू० पा०] सिंहीकन्याच्छिन्ना बहुप्रजा | निदिग्धिका बलामूलैः स्नानं गुह्येन दोषहृत् || २८ || त्वक्पत्रमुस्तनागाह्वतोयग्रन्थ्यादिभिः [-प्रज्ञादिभिः] सह | धात्र्या स्नानान्महीत्यक्ते [घ्: व्यक्ते] सद्योजातेन शुद्ध्यति || २९ || सुगन्धिशालिपिष्टेन गायत्र्या मन्त्रितेन च | समुद्वर्त्य महादेवं तीर्थोत्थैः स्नापयेज्जलैः || ३० || अजागन्धिप्रयागश्च [ख्: प्रयोगाच्च] केदारं भैरवं तथा | पुष्करं नैमिषारण्यं तीर्थं च वरूणं तथा || ३१ || एतत्तीर्थाम्बुसुस्नानान्नरेण त्वग्वि [ग्: देशत्वयि] शुद्ध्यति | जाह्नवी यमुना कौशी सरयू शोणनर्मदा || ३२ || कावेरी गण्डकी सिन्धु [मू: चैव] स्त्रिस्रोता चन्द्रभागिका | सप्तगोदावरीत्येताः पुण्यनद्यो महाजलैः || ३३ || स्नानात्पुनन्ति चर्चानां विश्वेशं [घ्: विष्णवंशं] गुह्यमन्त्रतः | क्षारक्षीरदधिस्नेहेक्षुरसोदसुरोदकाः || ३४ || स्वादुगर्भोदकाश्चेति ज्ञेयास्त्वष्टौ च सागराः | एतेषामम्बुभिः स्नाययं स्पर्शशुद्ध्यै [मू: स्नानात्स्पर्शशुद्धो] नरेण तु || ३५ || पुष्परागं च वैदूर्यं वज्रं चैव समौक्तिकम् | स्फाटिकं पद्यरागं च राजावर्तःसुविद्रुमम् || ३६ || प्. २६) निलं मरकतं चैव कर्केतनं सुटिट्टिभम् [घ्: टिटिभम्] | एतद्रत्नोदकैः स्नानं महाभूतिकरं परम् || ३७ || अघोरमन्त्रपूतैस्तु लिङ्गरुपविशोधकम् | कर्पूरागुरुकस्तूरीकाश्मरीचन्दनादिकैः || ३८ || जातीलवङ्गकर्कोलै श्चतुर्जातसुगन्धिकैः | स्नापयेद्गन्धतोयेन अजातेनाभिमन्त्रितम् || ३९ || गन्धदोषविनाशाय धरा [ख्: परा] ब्रम्हविशुद्धये | पुण्डरीकाब्जमालूरनीलरक्तोत्पलार्कजम् [घ्: -कम्] || ४० || मालतीतगराशोकहेमचच्पकमल्लिकाः | सहकाराश्वमारं च पुन्नागबकुलानि च || ४१ || कर्णिकारोड्रकह्लारं कुन्दं कुमुदयूथिका | पाटलाद्रोणनेपाली [क्, ख्: रेमाली] कुशकिंशुकसिंहिकाः || ४२ || कदम्बं चातिमुक्तं च कुटजं नागपुष्पकम् | मृदुकुन्दाब्जपत्री [क्, ख्: मुचुकुन्दा-] च वृषर्षिबुकपुष्पकम् || ४३ || एभिरन्यैः पवित्रैश्च स्नानं शब्दविशुद्धिकृत् | बिलाम्रमोचनारङ्ग पनसं नालिकेरकम् || ४४ || कक्को (ङ्को) लामलकं द्राक्षा जातीफलपरुपकम् | दाडिमोदुम्बरं जम्बू कर्जू/रं [घ्: वेक्षुरं] तालबिम्बकम् [मू: बिल्वकम्] || ४५ || प्. २७) प्राचीनामलकं पीलु कपित्थं बकुलं तथा | वदरीबीजपूरं च कव [क्, घ्: कर] मर्दं सतिन्दुकम् || ४६ || पूगादिकं यथालाभमीशानाघोरमन्त्रितम् | फलस्नानमिदं पुप्यं कर्तुरिच्छाफलप्रदम् || ४७ || तोयेक्ष्वाम्ररसैर्वापि ब्रीह्याद्यैः पञ्चभिः सह | तिलगोधुमसुग्दादि यवधान्यप्रियङ्गुभिः || ४८ || पूर्वोक्तमृत्तिकागन्धं कुसुमौषधिसंयुतम् | पञ्चब्रह्मोद्भवैर्मन्त्रैर्महास्नानं शुभप्रदम् || ४९ || कदम्बपल्लवास्येन कुम्भेनेन्द्रं नरान्वितम् | सशाल्मलेन चाग्नेयं हृन्मन्त्रै स्नानमुत्तमन् || ५० || जम्बूपत्रवटा याम्यं स्नानं चाघोरमन्त्रतः | साशोकेन तु रक्षोजं शिखमन्त्रान्वितं वरम् || ५१ || आप्यं [मू: स्नाप्य] बोधिदलास्येन स्नानं चाजातमन्त्रितम् | चूतास्येन तु वायव्यं स्नानं वर्मसमन्वितम् || ५२ || सौम्यं वटच्छदास्येन स्नानं वामाभिमन्त्रितम् | सभस्मबिल्वपत्रास्यस्नानमैशं शिरोऽन्वितन् || ५३ || नागपत्राननस्नानमा [घ्: स्नानं सा] नन्तं नेत्रमण्डितम् | ब्रह्मपत्रवता ब्राह्मं सकुशेन समन्वितम् || ५४ || भेरीशङ्खरवैस्तूर्यैः काहलाध्वनिभिः कलैः | वरस्त्रीमङ्गलोद्गीतैः स्नापयेद्वृषभध्वजम् || ५५ || प्. २८) ततो निर्मत्स्य (२) चास्त्रेण हृदा वाच [क्: त्वाच] मयेच्छिवम् | अर्घं दत्त्वा तु वक्त्रेण वस्त्रेणाकर्षयेज्जलम् || ५६ || यथा शिवे तथैवार्के विष्ण्वादौ च समाचरेत् | स्नानादि स्वैस्वकैर्मन्त्रैञ्चतुर्मृत्स्नास्प्विहाधिकाः || ५७ || कुशमूलोद्भवक्रोडपद्यगोष्ठमृदस्त्विमाः | नाने पूर्वोक्तमृत्स्नाञ्च शस्ता द्वादशविष्णुभिः || ५८ || द्वात्रिंशत्षोडशाष्टभिः कृम्भै स्नात्यं नवादिभिः [क्: नरादिभिः] | चलार्चासु प्रयत्नेन स्थावरे द्वीगुणं क्रमात् || ५९ || नैवेद्यं तैलपात्रं च स्नानवस्त्रं शलाकिकम् | दत्त्वा तु शिल्पिनामर्चाभिमन्त्र्य ततोऽर्चयेत् || ६० || एवं पक्वमृदादीनां लिङ्गानां द्रव्यपञ्चकम् | चित्रादिलेप्य [क्: -लेख्य] पुस्तानां दर्पणस्नानमिष्यते || ६१ || इति लक्षणसमुच्चये त्रिधालिङ्गम्नानं नाम चतुर्दशोविधिः || १४ || अथ पञ्चदशः लोहादिधातु [मू, ग्, घ्: ऋतु] लिङ्गानि प्रत्येकं भौतिकानि तु | शब्दात्स्पर्शाच्च रूपाच्च रसाद्गन्धाच्च वै क्रमात् || १ || स्वबीजोद्भावनोद्घातैरेकादि क्रमपञ्चकैः | विशोध्य खादिभूतानि ततो मूर्तिं तु कारयेत् || २ || न्यसेद्वर्णात्मकान्नुद्रान्नव्यक्तादि [ग्: -क्तानि] त्रिरूपके | पञ्चब्रह्म ततोऽङ्गानि कलाः सर्वाः शिवस्य च || ३ || ततो वस्त्रं च गन्धं च पुष्पं धूपं च दीपकम् | नैवेद्यं पूर्ववद्दद्याद्रोचनां मूर्धमन्त्रिताम् || ४ || अञ्जनं नैत्रमन्त्रेण दर्पणं पुरुषेण तु | छत्रमीशानदेवेन चामरं नरमन्त्रतः [घ्: मन्त्रितम्] || ५ || एवमिष्ट्वा महादेवं मण्डपं संप्रविश्य च | बालुका विकिरेत्पीठे तृणकेशादिवर्जिताः || ६ || अनन्त पूजयेत्पीठे हृदा च ध्यानपूर्वकम् | प्रागग्रांस्तृणुयाद्दर्भानजातेनोत्तराग्रकान् || ७ || तदूर्ध्वं विन्यसेन्खद्वां हेमरत्नविभूषिताम् | धर्मादिचरणाञ्छम्भोश्तथाधर्मादिगात्रकान् || ८ || प्. ३०) तच्छादने तु तूल्यब्जं चिन्त्यं [ख्: शिल्प] वामादिकेसरम् | विद्येश्वरदलं तत्र मण्डल [ख्: मण्डपं] त्रयकर्णिकम् || ९ || इडायां जलसंस्थायामुत्थाप्येशं रथं नयेत् | सुनिमित्तैः शुभैर्वाद्यैर्मङ्गलैः स्तुतिवाचकैः || १० || वितानचामरच्छत्रैर्विधृतैः शोभनैर्ध्वजैः | अग्रे भृङ्गारधाराश्च मुच्छद्भिर्गुरुभिश्तथा || ११ || आप्यद्वारप्रवेशश्च यागस्थानं महेश्वरम् | तल्पे प्राक्शिरसं निद्राकुम्भं तच्छीर्षके न्यसेत् || १२ || शतजप्तमधोरेण ततो देवं प्रपूजयेत् | थाणुश्च नीलकण्ठश्च महादेवः शिवस्तथा || १३ || रुद्रश्च शङ्करश्चैव नीललोहितसंज्ञकः | ईशानो धनदो भीमस्त्र्यम्बकः पार्वतीपतिः || १४ || द्वादशैतेऽत्र [मू, अ, क्, ग्: तु] संपूज्य मार्गादौ योगनायकाः | दीपैर्गन्धैश्च पुष्पैश्च धूपैश्चैव यथाक्रमम् || १५ || नैवेद्यैर्विविधैः पुण्यैः [घ्: पुष्पैः] पायसाद्यैस्तु खाघकैः | लोपिका [क्: कायिका] न्पूरिकान्पूपा [घ्: पूपै] न्मण्डलकान्मोदकान्दधि || १६ || लड्डूकान्बटकान्फेनान् गुडक्षीरं गुडौदनम् | पर्पटं [मू: पर्यटं] घृतपूरं च खण्डवर्तिसितौदनम् || १७ || प्. ३१) नानाभक्ष्याणि दिव्यानि फलानि विविधानि च | खड्गोत्तमस्तथा मन्त्री [घ्: शस्त्री] वागु [ग्: बाण] ल्योपस्करं शुभम् (?) || १८ || ताम्बूलं च सकर्पूरं सहकारसमन्वितम् | सहरुं [ख्: सफलं] स्थितिपात्रं च मधुपात्रं पतद्ग्रहम् [क्: तद्गुहम्; ग्: द्रहम्] || १९ || शङ्खमुण्डि [क्: वशु; ख्, घ्: वुण्डं] स्तथा शुक्तिं मञ्चिकोपरिसंस्थितम् | यदनुक्तमिहद्रव्यं पेषण्यादि [ख्: प्रवेश्यादि; घ्: पेशिन्यादि] च यद्गृहे || २० || तत्प्रदद्यादशाठ्येत घोरमन्त्रेण यत्नतः | ततः शीर्षोन्नते पुण्ये गेड्डुके [क्: गण्डुके] च सुशोभने || २१ || शयिर्तु स्था [ख्: स्वा] पयेल्लिङ्गं पिण्डिकासहितं प्रभुम् | अभ्यज्य मधुसर्पिभ्यां दद्यात्सिद्धार्थकान्बहून् || २२ || दक्षिणां मूर्तिमाश्रित्य विन्यसेन्मन्त्रनायकम् | दुकूलै रक्तवस्त्रैर्वा देवं संछाद्य रक्षयेत् || २३ || महापाशुपतास्त्रेण ततो मूर्तिधरान्यजेत् | द्वात्रिंशत्षोडशाष्टौ च नृपादीनां यथाक्रमम् || २४ || साधकास्तु विनाचार्यै पुत्रकाः साधकैर्विना | समयी पुत्रकाभावे सर्वाभावे स्वंयं गुरुः || २५ || विद्येश्वररान् गनेशांश्चर्लकेशान् भैरवेश्वरान् | विद्येशान् मुक्तिकामान् भूक्त्यर्थं च गणेश्वरान् || २६ || प् ३२) साधनार्थे तु लोकेशानद्वैते भैरवेश्वरान् | मूर्तिशत्त्यन्विताश्चैस्त्वेता मूर्त्यधिदेवता षजेत् || २७ || क्ष्मावह्नियजमानार्कयविन्दवोऽथखम् | मूर्तयस्तु समाख्याता मूर्तिशानवच्मि सांप्रतम् || २८ || शर्वः पशुपतिश्चोग्रो रुद्रो भवस्तथैवच | ईशानो देवदेवश्च [मू: स्तु] भीमो मूर्त्यधिदेवताः || २९ || धारीका दीप्तिरत्युग्रा [मू: मत्युग्रा] ज्योत्स्ना चेता बलोत्कटा | धात्री विभ्वी च विख्याताः समासान्मूर्तिशक्तयः || ३० || अनन्तीशश्च सूक्ष्मश्च शिवोत्तमैकलोचनः | एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च [मू, अ, ग्: श्रीखण्दश्च] शिखण्डकः || ३१ || उमा चण्डी गणाध्यक्षो महाकालोऽथ नन्दिकः | भृङ्गीशश्च वृषश्चैव सण्मुखान्ता गणेश्वराः || ३२ || असिताङ्ग रूरुश्चण्डः क्रोघ उन्मत्तकस्मतथा | कपाली भीषणश्चेव संहारो भैरवेश्वराः || ३३ || इतरेषां क्वचिच्छस्त्रे चतुर्द्वैकक्रमान्मताः | चत्वारोऽजातकाद्याख्या विष्णरुद्रौ तथेश्वरः || ३४ || विमलोऽथ विशालश्च सारस्वतो महामुखः | लेलिवासुर [क्: हाम्बर] शास्ता च फण्याशी [मू, अ, ग्: फययाशी] कुण्डदेवताः || ३५ || ब्राह्म्याद्या मातरो लोके इन्द्राद्या लोकपालकाः | प्. ३३) प्रसिद्धाः सर्वशास्त्रेषु शास्त्रेऽस्मिन्पूर्वचोदिताः [घ्: चिताः] || ३६ || दैवज्ञं ब्राह्मणं चेष्ट्वा प्रविशेद्यागमण्डपम् | आहृत्य सर्वसम्भारमाचार्यो मन्त्रविग्रहः || ३७ || शिवं प्रणम्य विज्ञाप्य ब्रह्माङ्गकृतविग्रहः | दिक्षु विदिक्षु संस्थाप्य मूर्तिमान्सुजितेन्द्रियान् || ३८ || प्राङ्मुखोदङ्मुखान्सम्यक्कुण्डस्थानेषु वै ततः | प्रागाद्यनुक्रमेणैव मन्त्रमेतान्प्रवाचयेत् || ३९ || पलैः षष्ट्युत्तमे लिङ्गे मध्याद्यर्धार्धवर्जनात् | होमपात्रं तथा ह्यर्घं दशन्यूनं नृपक्रमात् || ४० || सौवर्णं राजतं वापि ताम्रजं वाप्यसंभवात् | आज्यपूर्णं तथा पात्रमैकैकस्य प्रदापयेत् || ४१ || विष्टराण्यर्घपात्राणि समिद्दर्भेन्धनानि [घ्: नादि] च | गन्धपुष्पोपहारांश्व स्रुक्स्रुवौ लक्षणान्वितौ || ४२ || पृथङ्निवेदयेत्तेषां मूर्तिपानां विचक्षणः | सिताम्बरधराः सर्वे सितचन्दनचर्चिताः || ४३ || सितमाल्यान्विता [ख्: चिता] हृष्टाः स्वमूर्तिगतमानसाः | तानिष्ट्वा स्वर्णवस्त्राद्यैस्ततस्तांस्तु समादिशेत् || ४४ || जपेत्पाशुपतं प्राग्वै अघोरास्त्रं च दक्षिणे | खादकं पश्चिमे चैव खुरि [घ्: खरि] कास्त्रं तथोत्तरे || ४५ || प्. ३४) स्वासनस्था जितद्वन्द्वाः सर्वसंभारसंयुताः | शास्त्रसद्भावकर्मज्ञाः कुण्डसंस्कारपूर्वकम् || ४६ || एकतन्त्रोद्भवैर्मन्त्रैर्जनयेयुः [मू, अ, क्: -मन्त्रो-] शिवानलम् | एवं तु मूर्तिपाः सर्वे कृत्वा स्थण्डिलतर्पणम् || ४७ || दद्युः पूर्णाहुतिः पञ्चात्स्थापकेन समन्विताः | स्थापकश्च शिरोदेशे पूर्वसम्भारसंभृतः || ४८ || सितोष्णीष धरो मौनी सितवस्त्रानुलेपनः | एकचित्तो जितक्रोधः श्रद्दधानो जितेन्द्रियः || ४९ || कुण्डसंस्कारपूर्वं तु [क्, ग्: संपूर्णं] शिवाग्निं जनयेत्सुधीः | जनिते तर्पिते वह्नौ दद्यात्पूर्णाहुतिं ततः || ५० || सन्तर्प्यासनवक्त्राङ्गं [ख्: वज्राङ्गं] मन्त्रग्रामशेषतः | तिर्यगूर्ध्वागमोत्थैर्वा प्रागुक्तविधिमन्त्रतः || ५१ || सिद्धिमुक्तिप्रदा मन्त्रा गुप्त्युक्ताः सर्वकर्मणि | धातुः शब्दनिषेधार्थं स्यान्मत्रिगुप्तभाषणे || ५२ || मौनयुक्तः सदा मन्त्रं जपेत्तद्ध्यानसंयुतः | न्यासने होमकार्ये तु उपांश्चादि च दैशिकः || ५३ || मूर्तिपैरस्त्रजापैश्च विना [मू, ग्: सदा] संस्थापिते हरे | सविघ्नो जायते यागस्तस्मान्मूर्तिधरान्यजेत् [घ्: न्यसेत्] || ५४ || त्रयोरक्षणहेत्वर्थं रञ्जनार्थमधीमताम् | प्. ३५) क्रूरशब्दनिषेधार्थं मङ्गलार्थं सदैव तु || ५५ || वेदशास्त्रार्थतत्वज्ञान्मृदुपाठाञ्जितेन्द्रियान् | स्वशास्त्रलक्षणोपेतान्ब्राह्मणान्सुसमाहितान् || ५६ || संपूज्य गन्धपुष्पाद्यैः कुर्यात्तान्स्वस्तिवाचकान् | चतुर्दिक्षुबहिः पश्चादाचार्यस्तान्निवेशयेत् [सन्नि-] || ५७ || बह्वचान्प्राग्दिशि स्थाप्य याम्ये चाथर्वणांस्तथा | पश्चिमे वाजसनेयांश्छन्दोगानुत्तरेण तु || ५८ || स्वदिक्षु स्थापयित्वा तान्देव्या मतानुसारतः | समादिश्य ततो विप्रान्नद्युक्तान्द्वा प्रदर्शनात् || ५९ || श्रीसूक्तं पावमानीं च नासदाशीं च वाजिकम् [क्: नम्] | वृषाकपिं च मैत्रं च बह्वृचः पश्चिमे जपेत् || ६० || देवब्रतं च पुंसाम ज्येष्टसाम रथन्तरम् | भारुण्डानि च सामानि वामदेवं तथैव च || ६१ || उत्तरां दिशमास्थाय छन्दोगस्तु जपेत्सदा | रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् || ६२ || ब्राह्मणान्मित्रमैत्रं च अध्युर्युः पूर्वतो जपेत् | अथर्वाङ्गिरसं [घ्: ग्रथर्वशिरसं] चैव स्कन्द [मू: स्कन्ध] सूक्तं तथैव च || ६३ || क्षुरिकं [क्, ख्: खुरिकं] नीलरुद्रं च गर्भोपनिषदादिकम् | प्. ३६) कालीं करालिकं रुद्रं याम्ये चाथर्वणो जपेत् [नायमस्काकं द्वारपालनिवेशनक्रमः सूक्तपाठक्रमश्च क्रमोऽयं मतान्तरविषयकमिति] || ६४ || लिङ्गोद्भवं तदङ्गानि पवित्रं गणपाठकम् | स्तोत्रमन्त्रविदश्चान्ये जपेयु[ख्, घ्: पठेयु]र्दक्षिणे सदा || ६५ || ततश्चार्घं तु दत्वा वै आलभेत गुरूः शिवम् | पदाख्यं ब्रह्मणा चापि [मू: णो वापि] स्वकलाद्यक्षरान्वितैः [क्, ख्, घ्: पिण्डैर्वा स्वकलान्वितैः] || ६६ || न्यस्य [न्यास्त्वा, लि० पु० पा०] ध्यायेत्ततो मन्त्री [ख्: मन्त्रं] जीवभूतं नवात्मकम् | ज्वलदग्निसमाकारं विस्फुरन्तं समन्ततः || ६७ || पुर्यष्टकसमायुक्तं सदैव मन्त्रनायकम् | सर्वं शुद्ध्यति तेनैव जगस्थावरजङ्गमम् || ६८ || अधः शक्तिरनन्ताख्य कालाग्निर्नरकास्ततः [मू: नवकाः-] | अविची रौरवश्चैव महारौरव एव च || ६९ || रसातलं च पातालं महातलं गभस्तिकम् | नितलाह्वं वराह्वं च आभासाख्यं च सप्तमम् || ७० || भूर्लोकश्च भुवः स्वश्च महर्लोको जनस्तपः | सत्यमूर्ध्वक्रमा ह्येते [ख्, घ्: देते] ब्रह्मा विष्णुस्ततो [घ्: तथा] हरः || ७१ || द्विसप्तभुवनान्यन्तर्दिग्रुद्रशतसंयुतम् | ब्रह्माण्डं [ग्: ब्रह्मान्तं] चण्डरूपं स्याच्चतुरास्योऽधिदैवतम् || ७२ || प्. ३७) शतकोट्युछ्रयं मानात्तत्सर्म योजनैः पृथु | उर्वितत्त्वं समाख्यातं जलादिद्विगुणं [ख्: दिग्गुणं] क्रमात् || ७३ || क्ष्माम्बुतेजोमरुत्खानि गन्धश्च रसरूपकौ | स्पर्शःशब्दश्च पञ्चैव तन्मात्राणि यथाक्रमम् || ७४ || नासाजिह्वाक्षिचर्माणि श्रोत्रबुद्धीन्द्रियाणि च | गुदं गुह्यं कराङ्घी च सवाक्क [मू, अ, घ्: सर्वान्] र्मेन्द्रियाणि च || ७५ || मनोबुद्धिरहङ्कारः सत्वादि च गुणत्रयम् | पुमान् रागश्च विद्या च नियतिश्च कुलान्तकः [मू: कलान्तकः] || ७६ || माया चैव तथाविद्याधीश्वराख्यः सदाशिवः [क्: स्तथा शिवः] | शक्तिश्चेभ्यः परस्ताच्च शिवाख्यः परमोऽव्ययः || ७७ || शिक्तिस्थो विश्वबन्धुश्च [घ्: बन्धश्च] मन्त्रैः शुद्धः [मू: सिद्धः] शिवं व्रजेत् | पञ्चभूतं च तन्मात्रं बुद्धिः कर्मेन्द्रियणि च || ७८ || मनोबुद्धिरहङ्कारः प्रकृतिर्गुणसंयुता | चतुर्विंशतितत्त्वानि प्रकृतिर्वामकर्णगाः || ७९ || त्वक्संस्थः पुरुषः प्रोक्तो रागाख्यः स्नायुजालके | ([असौ चापचिह्नान्तर्गतः पाठः ख. पुस्तके नास्ति] मांसेऽविद्या समाख्याता नियतिर्हृदये स्थिता || ८० || कलाकोषेऽस्रके [घ्: कोपे-] कालो माया प्राणेष्ववस्थिता | विद्या चोष्ठस्थिता [घ्: गता] नित्यमीश्वरो बिन्दुसंस्थितः || ८१ ||) प्. ३८) नादे सदाशिवो ज्ञेयः शक्तिस्था इन्धिकादयः | पञ्चविंशच्च तत्त्वानि पिण्डीकायां स्थितानि तु || ८२ || विद्याराजेन शुद्ध्यन्ति तदूर्ध्वे निष्कलः शिवः | मन्त्रभूतं शिवं तत्र विन्यसेत्सिद्धिमुक्तये || ८३ || त्रितत्त्वमात्मतत्त्वाद्यं वेदास्राद्यमजादिके | न्यस्य तु भावयेद्व्याप्तिं शिवरूपं च यत्परम् || ८४ || धरादिपुरुषं यावद्विद्यान्तां च धरादिकम् [मू: वनादिकम्; ख्, घ्: रागाविकम्; क्: धनादिकम्] | ईश्वरादिशिवान्तं च त्रितयं [ख्: त्रितत्वं] होमयेत्क्वचित् || ८५ || हुतेऽघोरे सहस्रे वा ब्रह्मांशं च सेवयेद्गुरुः | शिवकुम्भाम्बुना तद्वत्तदूर्ध्वे च हरेस्तनुम् || ८६ || तदूर्ध्वे च हुनेद्रुद्रं सिक्त्वा दर्भैः स्पृशेत्क्रमात् | पञ्चब्रह्म च दिग्धव्य[दिग्वाच्य, मू० पा०]मेकादिशतपञ्चकम् || ८७ || अङ्गानि दशमांशेन होमयेत्तत्कलाः क्रमात् | वर्णरुद्रादिविद्येशांल्लोकेशान् गणनायकान् || ८८ || हेमेनाप्यायनं कृत्वा श्रपयेत्पूर्ववच्चरुम् | ([चापचिह्नान्तर्गतोऽयं पाठः मू, ग्, घ्, पुस्तकेषु नास्ति] सुस्विन्नं नापि दग्धं च शैवैर्मन्त्रैः प्रसाधितम् || ८९ || शिवकुम्भे तथा देवे दत्त्वाथ जुहुयाच्चरुम् | पूर्णाहुतिं शिवेनातो यागस्य परिपूर्तये || ९० || प्. ३९) कर्तृगृहीतजप्याच्च पूर्णां दद्यात्तु दैशिकः | तस्मिन्काले गुरौ दानं दद्याद्वित्तानुसारतः [घ्: नुरूपतः] || ९१ || गोर्हेमखुरशृङ्गिण्याः शतं वार्धं तदर्धकम् | दक्षिणार्धेन [घ्: णेन्द्रेण] हस्तेन पुनर्होमं प्रदापयेत् || ९२ || ततः संपूर्णतां याति बहुरूपशते हुते | प्रायश्चित्ते तथा विघ्ने महास्त्रं होमयेत्ततः || ९३ || इति कृत्वा विधिं सम्यक्ततो देवं प्रबोधयेत् | रात्रौ महोत्सवः कार्यः शङ्खभेर्यादिनिस्वनैः || ९४ || गायनैर्नर्तकैः शिष्टैर्नन्दिधोषैः सुमङ्गलैः | नयेत्तां शर्वरीं सर्वां यतिस्तोत्ररवैः शुभैः || ९५ || एक [ख्: एवं] त्रिपञ्चरात्रं वा सप्ताहं वाधिवासनम् [ख्: वापि वासरम्] | सुशोभितं रथं कृत्वा वस्त्रध्वजवितानकैः || ९६ || चामरैर्हेमदण्डैश्च छत्रै रौक्माब्जदण्डिभिः [मू: दण्डभिः] | अन्नाद्यैः पूरितं सर्वै रथमारोपयेच्छिवम् || ९७ || यजेत्तूर्यनिनादेन दीपदर्पणसंयुतैः | पद्माङ्कैः [घ्: पद्माकैः] कलशैः शुभ्रैर्गीतैः पाठैरनेकशः || ९८ || वेष्टयेन्नगरं वापि पुरं वा धाम वा शनैः | रथं स्थाप्य वलिं दद्याद् गुह्यकेभ्यो मुहुर्मुहुः || ९९ || प्. ४०) गच्छेल्लिङ्गपुरः कर्ता सगोत्रो दैशिकाग्रतः | प्रसादाग्रे च संस्थाप्य लिङ्गस्यार्थं प्रदापयेत् || १०० || होमयेद्वास्तुनाथांश्च तत्त्व [मू: तद्वत्] संस्थितमानसः | प्रागुक्तलक्षणं तत्र पश्चात्कूर्मशिलां न्यसेत् || १०१ || इति लक्षणसमुच्चयेऽधिवासनं नाम पञ्चदशो विधिः || १५ || अथ षोडशः प्रासादं प्रोक्षयेत्सर्वमस्त्रजप्तेन वारिणा | तद्गर्भं सूत्रयेत्पश्चान्मध्यस्थान यथाप्नुयात् || १ || गर्भकर्णायतं सूत्रं कृत्वा भागचतुष्टयम् | तदेकांशप्रमाणेन मध्ये कूर्मशिलास्थितिः || २ || न मध्ये स्थापयेल्लिङ्गं नैव मध्यं परित्यजेत् | मध्यस्थं हन्ति कर्तारं ब्रह्मवेधा नसंशयः || ३ || तस्मादोशं समाश्रित्य तत्थितिः सूत्रमानतः | द्वारंतु सप्तधा कृत्वा मध्येकांशं रथं [क्, ख्: रसं] पुनः || ४ || सौम्ये द्वौ दक्षिणे द्व्यशं [ग्: त्वंशं] त्यक्त्वा तत्सूत्रमानतः [ख्: न्तसूत्रसंस्थितिः] | प्रत्यक्षं मन्त्रसान्निध्यमाचन्द्रार्कं प्रपूज्य च [ख्, घ्: ते] || ५ || सुभिक्षं क्षेममारोग्यं विजयं राष्ट्रवर्धनम् | सर्वसत्व [ख्: सन्धि] शुभं कुर्यादीशदिक्संस्थितः शिवः || ६ || नृपाणां तु हितं प्राच्यामाग्नेययामग्निजीविनाम् | ध्वजानां ? राक्षसाशायां वायव्यां नृत्यगीतिनाम् || ७ || कौवेर्यां गोद्विजादीनां कारुकाणां विदिक्षु च | ऐशानीमाश्रितं सौख्यं यजमानः कुलैः सह || ८ || प्. ४२) मध्ये तु म्रियते कर्ता न च मध्यात्प्रचालयेत् | मध्यात्प्रचालितं लिङ्गं भवेद्दोषावहं यतः [पहं] || ९ || कौवेर्यामाश्रिते लिङ्गे कर्तृदुःखं द्विजव्यथा | ऐन्द्र्यां तु म्रियते राजा क्षत्रियाणां व्यथा भवेत् || १० || याम्यायां च विशां पीडा वारुण्यां शुद्रजन्मनाम् | तपस्विनामथैशान्यां नैर्-ऋत्यां राष्ट्रविभ्रमः || ११ || आग्नेययामग्नितः पीडा वायव्यां तस्कराद्भयम् | यथा प्रवेशयेल्लिङ्गं तत्फलं यत्तदुच्यते || १२ || प्रविष्टे चाष्टमे भागे ब्रह्मभागस्य भूतले | शान्तिश्रेयस्करं लिङ्गं कर्तृस्थापकशिल्पिनाम् || १३ || लिङ्गस्य निश्चिता पूजा तथा पादप्रवेशने | त्रिभागस्य प्रवेशे तु मोदन्ते सर्वदेहिनः || १४ || पञ्चभागप्रवेशे तु कर्तृस्थापकशिल्पिनाम् | प्रजा चार्धप्रवेशे तु वर्धन्ते सचतुष्पदाः || १५ || समस्तब्रह्मभागस्य प्रवेशे स्थापकादयः | कर्ता च बन्धुभिः सार्धं प्राप्नुवन्ति महत्सुखम् || १६ || ततो [मू: तथा] निवेशयेल्लिङ्गं सुनिर्विघ्नं [ख्: सनीविष्टं] यथा भवेत् | चालिते तु महद्दुःखं खं स्फुटिते द्रव्यसंक्षयः || १७ || वक्रे तु हीयते पूजा भ्रान्ते तु कलहो रुजा (?) | सशब्दे राष्ट्रभङ्गः स्यात्प्रणते व्याधिसम्भवः || १८ || प्. ४३) विशीर्णे सर्वनाशः स्यात्कम्पिते राष्ट्रविभ्रमः | एषां तु सम्भवं ज्ञात्वा दोषाणां [मू, अ, क्, ख्, ग्: शेषाणां] मूर्तिपैः सह || १९ || विज्ञाप्येशं तु सन्तर्प्थ स्थण्डिले दैशिकोत्तमः | शतमष्टोत्तरं हुत्वा एकैकस्य तु सम्भवे || २० || अघोरेण शिवेनान्ते पूर्णां दत्वा ततः शुभम् | स्थाप्यमानं यदा लिङ्गं स्थितं वा मध्यतः शुभम् || २१ || द्वारं [मू: द्वाः] समं त्रिभागोनं [क्, ख्: त्रिभागेन] मध्यतो लिङ्गमुच्छ्रयम् | ज्येष्ठादीनां तु वेश्मानां देहलीसमसूत्रतः || २२ || ज्ञात्वैवमाद्यशक्त्या तु कूर्माख्या पूर्वनिर्मिता | रसकूर्मान्विता योज्या तदूर्ध्वे चापराशिला || २३ || ब्रह्मशिलाप्रमाणेन खातकं पूर्वशोधितम् | इष्ट्वा राजशिलां तत्र शक्तिमन्त्रेण विन्यसेत् || २४ || अनन्ताख्यापराशक्तिर्विज्ञाप्यसनधारिणी | शिवाज्ञया त्वया देवि स्थातव्यमिहसर्वदा || २५ || व्याप्तिर्ध्यानाश्रयो भूत्वा समत्वं सर्वगं परम् | सावष्टम्भं स्थिराध्वानं [मू: ध्यानं] लिङ्गं सञ्चिन्त्य विन्यसेत् || २६ || ओं व्यापिनि नमोऽनन्ते शाश्वते सुस्थिरे ध्रुवे | अमले [ख्: अचरे; घ्: अमरे] सकलाधारे ह्री/ ल/ ह्री/ तिष्ठ चाम्ब हे [मू: चासुरे] || २७ || इति [इत्ययं पाठः लिखितपुस्तकेषु नास्ति] ब्रह्मशिलारोपणमन्त्रः | प्. ४४) उदङ्मुखोऽस्रमन्त्रेण प्रोक्षयेच्छिववारिणा | श्वभ्रप्रच्छादनं वस्रं कृत्वा [क्, ख्: हृत्वा] श्वभ्रं विशोधयेत् || २८ || दर्भैरूल्लिख्य संप्रोक्ष्य शिवेन शिववारिणा | विलिप्य चन्दनेनादौ धूपयित्वा शिलातलम् || २९ || सहिरण्येन हस्तेन न्यसेद्रत्नान्यथेच्छया | स्वदिगीशेन मन्त्रेण हृदा वा प्रणवेन वा || ३० || पञ्चवक्त्रेण वा न्यस्य विद्येश्वरेण वा क्वचित् | गव्यपायससंमिश्रगुग्गुलुद्रव [घ्: द्रव्य] लेपिताः || ३१ || रत्नाधाराः पुरा कार्या रत्नादिस्थापनं ततः | मते मतेऽन्यथा ज्ञात्वा स्वेक्छया वा न्यसेद्गुरुः || ३२ || वज्रमौक्तिकवैदूर्यशङ्खस्फटिकपुष्पकम् | इन्द्रनीलंच सुनीलं पूर्वादिक्रमतो न्यसेत् || ३३ || विद्रुमं मौक्तिकालाभे राजावर्तं च विन्यसेत् | वैदूर्यस्याप्यलाभे तु नीलं वा पद्मरागकम् || ३४ || वज्रं सूर्याङ्ककं नीलं महानीलं सुमौक्तिकम् | पुष्पकं पद्मरागं च वैदूर्यं प्राग्दिशादितः || ३५ || सुनीलस्य यदालाभस्तदा मरकर्त न्यसेत् | अप्राप्तौ पद्मरागस्य [क्, ख्, घ्: पुष्परागस्य] सौगन्धिकं मतान्तरान् || ३६ || हेमताम्रमयोरङ्ग [घ्: वङ्ग] तातारं घोषसीसकम् | निरुप्यैतानि विन्यसे [घ्: सन्न्यसे] दिन्द्रादीशान्तगोचरात् || ३७ || प्. ४५) हरितालं शिलां चैव अञ्जनं [घ्: अञ्चनं] चाभ्रकं तथा | काशीवमथ सिन्दूरं माक्षिकं गैरिकं न्यसेत् || ३८ || गन्धकं चाञ्जनाभावे सिन्दूरस्यथा [क्, ख्: स्य च] पारदम् | सौराष्ट्री माथिकालाभे गैरिकस्य तु रोचनाम् || ३९ || तालं शिलां च कासीसं माक्षिकं सूत्रकं न्यसेत् | सौवर्णं गैरिकं गन्धं भृङ्गं [मू: भृङ्ग अभ्रकमित्यर्थः] पूर्वादिकं क्वचित् || ४० || ब्रीहिगोधूमहव्यांश्च माषमूद्गयवांस्तथा | नीवाराश्चापि श्यामाकान्पूर्णद्यांश्च निवेशयेत् || ४१ || गोधूमाश्च यवाश्चैव तिलमुद्गौलिकाः क्रमात् | स्यामाकान्सर्षपां [मू: माषकां] श्चैव ब्रीहींश्चापि तथा [मू: ततो] न्यसेत् || ४२ || माषान् ब्रीयेरभावेन मुद्गस्य चणकान्न्यसेत् | सिधार्थं च विना कर्ङ्गुश्यामाका भावतः कपिम् [कपि स्तृणधान्यविशेषः] || ४३ || चन्दनं चन्दनं रक्तं लधूक [लघुकं = अगुरुः] चाञ्जनं न्यसेत् | उशीरं विष्णुसंज्ञं च सहां च लक्षणं क्वचित् || ४४ || सहां च विष्णुनामां च लोहितं चन्दनं लधु | चन्दनं सारि वाकुण्ठ [मू: कुम्भ] मुशीरं शङ्खपुष्पिकाम् || ४५ || सद्योजातादिभिर्मन्त्रैः रत्नलोहानि धातुकान् | बीजानि चौषधीरष्टौ कुम्भयित्वा न्यसेन्क्रमात् || ४६ || प्. ४६) रसेन्द्रो मध्यतो देयः सर्वैरेतैः समन्वितः | द्रव्याधिके महादोषो गुञ्जामाधैः करक्रमात् || ४७ || रत्नादी [ग्: वसादी] नांमसंपूर्णा ? ससूत्रं चादिपञ्चकम् | न्यसेद्वज्रं तथा [घ्: तदा] हेम तालं तवान् सहां क्रमात् || ४८ || दरदं पारदाभावे वज्राभावे तु काञ्चनम् | हेमाभावे न्यसेत्तारं गैरिर्क तालकं विना || ४९ || यवाभावे तिलान्दद्या [ख्: श्रेष्ठा] ल्लाज्जकं सहां विना | न्यसेत्सर्वं गुरुस्वेकं रसेन्द्रं वाप्यसम्भवे || ५० || कूर्मक्ष्मां मेरुमुक्षाणं पद्मं वा लक्षणान्वितम् | एषामेकतमं मध्ये न्यसेन्ब्रह्मशिलावटे || ५१ || शिलाश्चभ्रचतुः षष्ठिभागात् कर्णावटं पृथु | निम्नव्यासार्धतस्तस्य दलेष्वष्टसु [मू: दलावेष्टं स्व] मध्यतः || ५२ || हेमं ताम्रं च तारं च कूर्मं प्राग्लक्षणान्वितम् | हैमीं वा रुप्यजी पृथ्वी मेरुं सौरर्णजं सदा || ५३ || वृषभं तारजं हैमं ताम्रं वा लक्षणैर्युतम् | पद्ममष्टायसं न्यस्य हैमं तारजमेव वा || ५४ || हस्तमात्रस्य लिङ्गस्य कूर्माद्यमंश [क्: माष] मानकम् | शेषाणां क्रमवृद्धीनां बाणमतान्नवान्तिकम् [ख्: -न्यवा-] || ५५ || प्. ४७) मृत्तिकां पर्वताग्रोत्थां सरितो वा तटोद्भवाम् | रजतं च यवांश्चैव कूर्मेण सह विन्यसेत् || ५६ || समं द्वारेक्षणं शस्तं [घ्: शास्त्रं] राष्ट्रे राज्यजया [ख्: भया] वहम् | तत्र संस्थापिते लिङ्गे यजमानः प्रवर्धते || ५७ || काञ्चनं सर्वबीजानि पृथिव्या सह विन्यसेत् | तस्यां व्यवस्थिते रुद्रे प्रजा नित्यं प्रमोदते || ५८ || मधुकं चाक्षतं चैव त्वञ्जनं [मू, अ, ग्: पुञ्चनं] मेरुणा सह | श्रीकामस्तु न्यसेन्मध्ये देव [ख्: देश] वृद्ध्यर्थमेव वा || ५९ || गोधूमकं चणं [ख्: गोधूमं काञ्चनं] सर्पिर्द्वूर्वां गोरोचनां तथा | गोशृङ्गमृत्तिकां चैव वृषेण सह विन्यसेत् || ६० || महोक्षं विन्यसेन्मध्ये द्वारादिक्संमुखं समम् | तत्र प्ररोपिते [मू, अ, ग्, ङ्: प्रबोधिते] देवे चातुर्वर्ण्यं च वर्धते [ख्: नन्दते] || ६१ || हाटकं कृशरांश्चापि पद्मेन सह विन्यसेत् | तस्मिन्व्यवस्थिते नाथे श्रीवृद्धिश्चैव सम्पदः [ख्: ञ्चिरसंपदः] || ६२ || अथवा पद्मरागं तु काञ्चनं पारदान्वितम् | द्रव्याणामप्यलाभे तु तेषामेकतमं न्यसेत् || ६३ || रत्नन्यासो मयाख्यातः संप्राप्यः प्राप्तितो यथा | एवं द्रव्याणि सर्वाणि विविधं [मू: निविडं] सन्निवेश्य च || ६४ || प्. ४८) रसेन गुग्गुलोः पञ्चात्संस्कृतेन विलेययेय | शिलासमानि रन्ध्राणि कृत्वा नेत्रं तथोपरि || ६५ || वर्मणास्त्रेण संरक्ष्य दिगीशेभ्यो बलिं क्षिपेत् | समाचम्य कृतन्यासो जुहुयादसिना शतम् || ६६ || शिलासूत्रच्युतिश्छिद्रे निषेधाय शिवेन वा | वास्तोस्पतिं ततो हुत्वा पीठं श्वभ्रं निरूपयेत् || ६७ || क्षीरदारुकृतं लिङ्गं पीठश्वभ्रे नियोजयेत् | निः सन्धिः सुडृढं तच्च विदधीत प्रयत्नतः || ६८ || पश्चादर्घं च धूपं च दद्याल्लिङ्गेषु भावितः [घ्: भाविकाः] | ततः सुयन्त्रितं दण्डे बध्नीयाद्वालतन्तुना || ६९ || तूर्यमङ्गलनिर्घोषैर्यत्नादुत्थापयोच्छिवम् | वन्दिवृन्दरवैः स्तोत्रैः शोभनैः शकुनैर्भृशम् [मू: शङ्कलैः-] || ७० || यजमानो व्रजेत्तत्र वृतः सर्वे स्वकैर्जनैः | मूर्तिपैः शिल्पिभिः सार्धमनुलग्नैः शिवे तदा || ७१ || तदग्रतो गुरुर्गच्छेत्सुगृहीतार्घभाजनः | द्वारदेशागते लिङ्गे अर्धं दत्वा प्रवेशयेत् || ७२ || द्वारबन्धं विना द्वारादस्पृशन् तं प्रवेशयेत् | द्वारबन्धान्विते धाम्नि नभसेव तदूर्ध्वतः || ७३ || यत्नात्प्रवेशयेद्गर्भं [ग्: ल्लिङ्गं] यथा कुड्यं न संस्पृशेत् | दिग्व्योमस्पर्शनात्कुर्यात्तद्दिश्युक्तां च दक्षिणाम् || ७४ || प्. ४९) हेम ताम्रं लुलायं च खड्गं मुक्तां सुवस्त्रकम् | शङ्खं धेनु/ गुरोर्दद्यादिन्द्रादिस्पृष्टिदोषहृत् || ७५ || भद्रपीठे ततः स्थाप्यो द्वारगर्भान्तरे प्रभुः | अर्धं दत्वा हृदास्थाप्य [मू: हृदोत्थाप्य] मुहूर्ते सद्गुणे गुरुः || ७६ || लिङ्गं पीठं तथा कण्ठं जलाधारं यथाक्रमम् | विन्यसेत्तूर्यशब्देन निमित्ते विषुवे स्थिते || ७७ || अङ्गुष्ठमुच्छ्रितं [घ्: मुत्सृतं] कृत्वा मुष्टिं बध्वा तु दक्षिणाम् | पिण्डिकायां न्यसेल्लिङ्गमङ्गुष्ठेन स्पृशेद्गुरुः || ७८ || उमामहेशमन्त्राभ्यां सन्धानं मोक्षकाङ्क्षिणाम् | शिवोमामन्त्रयोगेन सन्धानं भूतिकाङ्क्षिणाम् || ७९ || आसनं च पुनर्देयमभिसन्धानकारणम् | मूर्त्याद्यङ्कावसानं तु पुनरेवं तु विन्यसेत् || ८० || स्वतन्त्रविहितैर्मन्त्रैरासनं तत्र विन्यसेत् | मूर्ति शंभुं [क्, ख्, ग्: मूर्तीशं तु] तथाङ्गानि परमीकरणं ततः || ८१ || निरो [मू: निबो] धनाज्ञ (ख्य) या मुद्रा संहितोक्तविधानतः | रुद्रादीनां तु सर्वेषां स्थापनं तथ्वतः [क्: च ततः] क्रमात् || ८२ || आसनं मूर्तिः शम्भुश्च पक्षांस्त्रींश्च त्रितत्त्वतः | आत्मविद्याः शिवं चैव भावयेदनुपूर्वतः || ८३ || प्. ५०) अनन्ताद्याः शिखण्डान्ता आसनस्थाश्च ये स्मृताः | विद्याङ्गै [मू, ख्: विद्याङ्कै] श्चैव संयुक्ता आत्मतत्त्वे व्यवस्थिताः || ८४ || शक्तयञ्च स्मृतास्तिस्रः पञ्चब्रह्मसमन्विताः | विद्यातत्त्वे स्थिता ह्येते साधिकारे विदुर्बुधाः || ८५ || शक्तिद्वयं शिवाङ्गश्च शिवतत्त्वं समाश्रिताः | त्रितत्त्वव्याप्तिराख्याता पन्थानः [ग्: अध्वानः] षड्विधास्त्विह || ८६ || शतैककोटिविस्तारं नोजनैस्तत्समोच्छ्रयम् | ब्रह्माअन्तं [ख्: ब्रह्माण्डं] पार्थिवं तत्त्वं जलादिद्विगुणं क्रमात् || ८७ || शक्त्यादिशक्तिपर्यन्तं पञ्चदैवाधिदैवतम् | त्रिंशत्पञ्चाधिकं तत्त्वं सन्मार्गं पीठमैश्वरम् || ८८ || ध्यात्वा लिङ्गे परं [मू: लिङ्गधरं] शम्भुं पञ्चबक्त्रं त्रिलोचनम् | भुजैस्तु दशभिर्युक्तं जटामुकुटमण्डितम् [ख्, घ्: धारिणम्] || ८९ || चन्द्रार्धकृतमूर्धानं नागयज्ञोपवीतिनम् | गणैर्देवैस्तथा सिद्धैः स्तूयमानैः समायुतम् || ९० || ततः परमसद्भावमीशानं बिन्दुरूपिणम् [मू: रूपकम्] | सद्योलातेन संचिन्त्य वामदेवेन विन्यसेत् || ९१ || देही देहे यथा योगं द्रव्यं भोगीव [मू: च] सङ्गतम् | बोधक्रियानिविष्टं तु ज्ञेयं ज्ञानाश्रितं स्मरेत् || ९२ || प्. ५१) नादमध्ये स्थितो बिन्दुर्बिन्दुमध्ये स्थितो ध्वनिः | ध्वनिमध्यगता तारा तारामध्यगतेः शशी || ९३ || शशीमध्यगतं सूक्ष्मं सूक्ष्ममध्यगतो रविः | रविमध्यगतः शान्तः शान्तमध्यगतः शिवः || ९४ || सूर्येन्दुबिम्बयोर्यद्वद्देकी [मू: देवी] भूतामृता कला [ख्: मतीकला] | अत्रापि च तथा स्मृत्वा दृक्क्रियां स [क्, ख्: क्रियांशं] न्निवेशयेत् || ९५ || प्रगुणे क्रियमाणे तु दिक्प्रान्ते [घ्: दिग्भ्रान्ते] चलनं यदि | तदा दिग्देवताहोमः कार्या शान्तिश्च दोषहृत् || ९६ || यस्यां दिशि चलेल्लिङ्गं तस्यां शान्तिं च कारयेत् | अन्यथा तु भवेद्घोरं कर्तृराष्ट्रविरूपकम् || ९७ || तस्मात्तद्वाहर्न दद्यादिन्द्रादीनां यथास्थितम् | गजं छागं लुलायं च दासीं मत्स्यं मृगाविकम् || ९८ || वृथं प्रत्यग्रतः सम्यक्तन्मूल्यं [मू: सूत्रं] वाथ शान्तये | पक्षसूत्रं ततो दद्यादृज्वर्थं लम्बसूत्रकम् || ९९ || पुनर्नचालयेल्लिङ्गं यदीच्छेछ्रेय आत्मनः | चलिले शब्दिते भ्रान्ते प्रणते स्वस्थिते क्रमात् || १०० || ग्रामहृद्राष्ट्रहृच्चैव रोगदो भ्रंशवृद्धिकृत् | श्वभ्ररन्ध्रं च [ख्, घ्: सन्धिं च] सम्पूर्य [ख्: सम्पूज्य] क्षीरलोहमलैः [मू: ले---त्मलैः] शुभैः || १०१ || प्. ५२) सिकतापङ्कबालैश्च [घ्: पत्करालैः] शङ्खचूर्ण [ख्: शङ्खमूल] समन्वितैः | ततः शान्तिघटाम्मोभिः स्नानं मूर्तिधराः स्वकम् || १०२ || प्रकुर्वन्ति ततः पश्चादाचार्यः स्नापयेच्छिवम् | तोयक्षीरदधिक्षौद्रघृततोयान्तरात्मकैः || १०३ || अम्भश्चतुष्पलैः पूर्णं गड्डूकं [गड्डूकं=भृङ्गारे जलपात्रभेदे इति शब्दरत्नावल्याम्] हेमजादिकम् | मुग्दा [क्, ख्: मुङ्गा] द्यङ्गुलमात्रस्य चलस्य स्थापने हितम् || १०४ || शेषाणां चाङ्गुलं वृद्या वृद्धिस्त्रिपलि [मू, अ: पल] काम्बुभिः | हस्तमात्रे स्थिरे लिङ्गे गड्डूकं प्रस्थसम्मितम् || १०५ || अन्येषां करवृद्ध्या स्याद्वृद्धिरष्टपलैः क्रमात् | अभ्यङ्गस्नापनं च स्यान्महास्नानं च शङ्करे || १०६ || पञ्चविंशतिभिश्चैव शतार्धद्विसहस्रकैः | पलैः क्रमाच्च [मू: क्रमाणि] लिङ्गानां चलस्थिरद्विरू [घ्: त्रिरू] पिणाम् || १०७ || क्ष्मादिशक्त्यन्ततत्त्वेषु तत्त्वतत्त्वेषु ये स्थिताः | सुरादयोऽपि ये चान्ये [ख्: चास्य] समानदेशगास्तथा || १०८ || अधिकारपाद [ख्, घ्: पदे] शुद्धिः परमीकरणे लयः | स्थानभाग [घ्: भोग] स्थितां तेषामधश्चोपरि मध्यतः || १०९ || स्थानं [ख्, ग्: स्नानं] कृत्वा न्यसेन्मन्त्रान् यथात्मनि समीहितम् | आसनाद्यं यथाशास्त्रं वक्त्रं कं [ख्, घ्: वक्त्राङ्गं] च कलावृतम् || ११० || प्. ५३) इच्छाशक्तिं न्यशेद्वृत्ते मूर्तिं विद्याङ्गर्सयुताम् | क्रियाह्वां पीठमध्यस्थां ज्ञानाह्वां [घ्: ज्ञानाख्यां] तदधः पुनः || १११ || स्नानं विधिवद्देवानां [घ्: विधि च देवानां] सान्निध्यस्य तु कारणम् | सर्वमन्त्रादिसंयुक्तो लोकानुग्रहकाम्यया || ११२ || अत्र लिङ्गे महादेव भव सन्निधिमान्सदा | सूर्याचन्द्रमसौयावद्यावत्तिष्ठति मेदिनी || ११३ || तावत्त्वयात्र देवेश स्थातव्यं स्वेच्छया प्रभो | एवमुक्त्वा शिवाज्ञां तु मन्त्रमूर्तौ महेश्वरे || ११४ || प्राणदर्पाग्निसंहारकृद्भू [घ्: हृभ्दू] म्यम्बुचलात्मकम् | रूद्रेन्दुबिन्दुनादाख्यं जीवभूतं शिवं न्यसेत् || ११५ || (लि [अयं चापचिह्नान्तर्गतः पाठ ख पुस्तकेनास्ति] ङ्गमूर्ध्नि करं न्यस्य शिवमष्टशतं जपेत् | तेन सान्नैध्यमायान्ति वक्त्राङ्गानि पुनर्न्यसेत् || ११६ || दिक्षु चोर्ध्वादिवक्त्राणि शक्तीः पीठे तु विन्यसेत् |) अघोरं हृदयं ध्यात्वा विन्यसेद्धृदयं ततः || ११७ || पुरुषं तु शिवं तस्य [घ्: शिरस्यस्य] शिरः स्थाने विचिन्तयेत् | शिखा ईशानदेवेन शिखाभूतं विचिन्तयेत् || ११८ || ([चापान्तर्गतोऽयं पाठः घ् पुस्तके नास्ति] कवचं वामदेवं तु ध्यायेद्गुह्यादि सर्वतः |) सद्योजापं न्यसेदस्त्रं हस्ते शूलादिकं पुनः || ११९ || प्. ५४) द्वैताद्वैतास्तु ये मन्त्रा वाग्युक्ता ता [क्: शक्त्यान्तान्] (स्ता) न्निरोधयेत् [मू: निबोधयेत्] | मुद्रा शक्तीश्वरी या तु पारंपर्यक्रमागता || १२० || तां प्रदर्श्यात्मभावेन प्रयोगस्तु गुरौ स्थितः | ताभ्यां स्ववस्थिता [घ्: स्याच्च स्थिता] मन्त्रा आचन्द्रार्कं शिवाज्ञया || १२१ || द्वैते निरोधनं कुर्यान्मृत्यञ्जयेन वर्मणा | अद्वैतेऽघोरमन्त्रेण स्वहृदयेन वा भवेत् || १२२ || अजाताद्यास्तु या मुद्राः पञ्चानुक्रमतः स्थिताः | ताभिरेव स्पृशेल्लिङ्गं पिण्डिका सहितं गुरुः || १२३ || आह्वानास्थापना शम्भो निरोधा निष्कुरा [ख्, घ्: निष्ठुरा] तथा | प्रणामा पञ्चामीमुद्रास्यानां पञ्चमुखी क्रमात् [मू: मुखक्रमात्] || १२४ || पिण्डिका तु जगन्माता लिङ्गं तातश्चलाचले [घ्: लिङ्गान्तान्तश्चराचरे] | संयोगः शिवगौर्योर्यः प्रतिष्ठा साभिधीयते [घ्: प्रगीयते] || १२५ || धर्मार्धकाममोक्षार्थं पुरुषार्थचतुष्टयम् | स्थापनेज्याजपध्यानैः शिवाद्वै लभते सदा || १२६ || प्राक्कर्ताख्येश्वरान्तं [मू: श्वराक्ष्यं] च लिङ्गं तत्प्रतिमापि वा | दुर्गायामीश्वरी भानावादित्यो माधवो हरौ || १२७ || प्. ५५) प्रतिष्ठितं यदा लिङ्गं तदीशाशास्थितौ गुरुः [क्, ग्: स्थापित शिवदैशिकैः] | जपेत्पाशुपतं दिव्यं सर्वसंपूर्ति [घ्: संपूर्ण] कारकम् || १२८ || गुरोरस्त्राम्बुना [ख्: म्भसा] स्नानं कर्तुः सिवघटाम्बुना | भूषणादीन् गुरोर्दत्वा कर्ताद्याच्चरुकं ततः || १२९ || एवं प्रतिष्ठितं लिङ्गं वसुधान्यधनावहम् | राष्ट्रे सुभिक्षमारोग्यं कुर्याच्चौरादि [ख्: चौरारि] नाशनन् || १३० || राजा विजयमाप्योति स्वसमी (सुमन्त्री) स्वप्रजाबलम् ? [घ्: सुसत्री सुप्रजाबला] | स्थापकस्य सदा वृद्धिर्ये च तत्रोपजीविनः [ख्, घ्: योगिनः] || १३१ || ओषध्यो धेनवो वृक्ष्यस्तद्युक्ता माहिषा वृषाः | शिल्पिनः कर्मकर्तारः सर्वे यान्ति शिवालयम् || १३२ || शिवमन्त्रात्मकं लिङ्गं स्थापितं शिवदैशिकैः | भुक्तिमुक्तिप्रदं ज्ञेयमन्यथा तु विपर्ययः || १३३ || दद्याद्वस्त्रं स्रगं गन्धं धूपं नैवेद्यदीपकौ | देवाय लेपनं भूषां भोज्यं दानं च सम्मतम् [घ्: सन्ततम्] || १३४ || तुर्येऽह्नी शिवयोगिभ्यो द्विजादिभ्यश्च यत्नतः | ततश्चण्डेश्वरं देवं स्थापयेद्विधिना गुरुः || १३५ || पापघ्नो मधुना लेपो रजन्या पित्तरोगनुत् | रोचनयाक्षिरोगघ्नः फलिज्यां [मू: कलिन्या] च प्रियङ्करः || १३६ || प्. ५६) तिलानां च पितृप्रीत्यै रिपुघ्नः पद्मकेसरः | नागपुष्पं सुभिक्षाय सप्ताहं च फलं क्रमात् || १३७ || अर्घं स्नानं तथा पूजा अष्टमेऽहनि शङ्करे | चन्दनागुरुकपूरकुङ्कुमाद्यैश्च लेपनम् || १३८ || बहुरूपेण मन्त्रेण वस्त्रं धूपं [ख्: पुष्पं] पवित्रकम् | अजेन [क्, ख्: अञ्जनं] रोचनां चैव दर्पणं पुरुषेण तु || १३९ || ईशानेन तु पुष्पाणि मुकुटं कुण्डलं तथा | कटकं कटिसूत्रं च पट्टबन्धं च यद्भवेत् || १४० || छत्र [मू, अ, ग्: सूत्र] ध्वजवितानानि चामरं पुष्पदामकम् [क्: दर्पणादिकम्] | क्वचित्तेनैव गुह्यैर्वा सर्वाण्येतानि दाययेत् || १४१ || एवं सपूजितं कृत्वा देवदेवं तदेश्वरम् [ग्: महेश्वरम्] | प्रणम्य दण्डवद्भमौ शनैर्गच्छेत्प्रदक्षिणम् || १४२ || पुरतः पुनरागत्य विज्ञाप्यो भगवान्हरः | सुकृतं दुष्कृतं वापि अज्ञानाज्ज्ञानतः कृतम् || १४३ || तत्सर्वमात्मना सार्धं मया तुभ्यं निवेदितम् | तस्मिन्काले प्रदातव्या दक्षिणा शिवयोगिने || १४४ || आचार्यायोत्तमा देया साधकायाङ्घ्रिवर्जिता | पुत्रकायार्धतो देया समयिभ्यश्च पादिका || १४५ || प्. ५७) अथेतरव्रतिभ्यश्च पादिकैव हि दक्षिणा | यथाशक्ति द्विजातिभ्यो दद्याद्दानं यथाविधि || १४६ || स्थपतिं कारुकांश्चैव दीनान्धकृपणादिकान् | तौर्यिकान्गायकान्नर्तृन्नाद्येन तु तोषयेत् [ख्, घ्: तर्पयेत्] || १४७ || रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यादिनिस्वनैः | एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा || १४८ || दशाहं च प्रकुर्वीत महान्तं च परिच्छदम् | शासनाद्यं यतीशाभ्यां दद्याद्वित्तानुसारतः [ख्, घ्: रूपतः] || १४९ || सर्वसमं सहस्राह्वं [मू, क्, ग्: स्राङ्कं] द्विधा दत्वाध्वपङ्क्तिगम् [मू: स्वपङ्क्ति; ख्: ष्टपङ्क्ति] | पुमादिभ्यो दिवाशुद्धिं विद्यादि तच्छतावृतम् || १५० || सहस्राह्वे शताह्वे च लिङ्गे भिन्नाध्वकं [मू: ष्ककं; ग्: ष्टकं] पुरा | चेतसः [क्, ख्: चेतः सं] स्थापनं कुर्यात्प्रतिष्ठा पूर्ववत्स्थिरा [मू: स्थिरा] || १५१ || दशमांशे कृते क्षेत्रे तन्मध्येऽशचतुष्टयम् | युगभागाश्चतुर्दिक्षु लुप्त्वैकैकं तु कोणतः || १५२ || एवं सहस्रकोणानि [ख्, घ्: कोष्ठानि] कुर्यादेकाधिकानि तु | स्थाप्यानि तेषु लिङ्गानि तत्सङ्गयाभिर्विधानतः || १५३ || पूर्ववत्तेषु यागः स्याल्लिङ्गेषु त्रिविधात्मसु | हीनानां तु विधिश्वायं ज्येष्ठानां स्थितिपूर्वकम् || १५४ || प्. ५८) लक्षणोद्धरणं कृत्वा रत्नादिकं [ग्: रत्नोदकं] न्यसेत्ततः | तत्रानयेन्महालिङ्गं यन्त्रयोगेन बुद्धिमान् || १५५ || अष्टास्रं मध्यतः कृत्वा द्वयोरन्ते च वर्तुलम् | मध्ये चाष्टारसंयुक्तं दृढकाष्ठेन मण्डितम् || १५६ || संस्थाप्य मुसलीप्रान्तौ स्तम्भस्थं रन्ध्रयोर्द्वयोः | लिङ्गादीनि दृढैर्वध्वा चर्मजैदृढतन्तुभिः || १५७ || ततश्चा [क्: ततस्तं; ख्, घ्: पश्चात्तत्] कर्षयेच्छीघ्रमारकान् [मू: माकराद्] बहुभिर्जनैः | खरमेतत्समाख्यातं यन्त्रमुत्थापनाय च || १५८ || सुवृत्त [मू: स्ववृत्त] स्थूलकाष्ठांशमुसलीद्वितयं तु वा | मुसल्यन्तादुरः [ख्: पुरः] काष्ठवेधेषु विनियोजयेत् || १५९ || धूः [ख्: त्रिः] पृष्ठे काष्ठपट्टं तु योजयेल्लोहकण्टकैः | स्यात्पट्टशकटं त्वेवं बृहल्लिङ्गादिकर्षणे || १६० || धूर्नासारन्ध्रयोश्चर्मरज्जुभ्यामामयेद्वृषम् | धवमालूरबिल्वाद्यैरन्यैर्वा दृढदारूभिः || १६१ || शिविकाख्ये चतुष्काष्ठे यन्त्रे द्वे घटयेद् दृढे | ब्रह्मस्थाने [घ्: विष्णुस्थाने] द्रुतं लिङ्गं कीलकैस्ताडितं [मू: स्थोलितं] दृढैः || १६२ || तन्मन्त्रभ्यां समुत्थाप्य शिलापार्श्वेऽथ विन्यसेत् | रत्नाधारोर्ध्वतो [मू: धारार्धतो] न्यस्य काष्ठपट्टं समं हृढम् || १६३ || प्. ५९) तत्र विश्रामयेल्लिङ्गं ततः श्वभ्रे क्षिपेच्छनैः | सौम्याष्टकं विभिद्यार्घैर्दिग्विदिग्योजितैस्ततः || १६४ || वस्त्रैरावेष्टितं श्लक्ष्णैरिष्टकावेष्टितं बहिः | बालुकापूरितं कृत्वा जलाधारं न्यसेत्ततः || १६५ || तत्सिकतेष्टकां कृत्वा [ग्: धृत्वा] स्नाप्य मन्त्रान्न्यसेत्ततः | पूजां होमं च जाप्यं च कुर्याद्बल्यादि पूर्ववत् || १६६ || चललिङ्गं द्विधा कार्यं पृथक्पीठैकपीठकम् | चान्द्रं विभिन्नपीठं तु सौर्यं चाभिन्नपीठकम् || १६७ || स्वे स्वे क्षेत्रे महीवायबोर्मन्त्रन्यासं तु लिङ्गयोः | रसैर्वज्रौषधीभिश्च पृथक्पीठं तु योजयेत् || १६८ || ध्यात्वा ज्ञानक्रियाशक्तिं लिङ्गपीठै यथाक्रमम् | इत्थं स्थिरं चलं लिङ्गं संस्थाप्यं यागपूर्वकम् || १६९ || व्यक्ताह्वस्थापनं वक्ष्ये पञ्चभेदं मतान्तरे | ऊर्ध्वासीना च सुप्ता च यानस्था चान्तरिक्षगा || १७० || आसां नेत्रक्रियापूर्वं स्नानाधिवासनं ततः | होमं च रथयात्रदि स्वमन्त्रैः पीठपूर्वकम् || १७१ || सप्तभागीकृते गर्भे ब्रह्मस्थानं तु मध्यतः | रक्षः सुर [रक्षोऽसुर लि० पु० पा०] मनुष्याणां मध्यतोंऽशैः क्रमात्त्रिभिः || १७२ || मनुष्यसुरयोर्मध्ये त्वर्चाङ्घ्री स्थापयेत्सदा | रक्षोंऽशे स्थापनं नेष्टं धनायुर्धान्यनाशनात् || १७३ || प्. ६०) कुड्यलग्ना न कर्तव्या स्वस्थानस्या तु भूतिदा | कुड्येन सह संयुक्ता यजमानं विनाशयेत् || १७४ || तत्र ब्रह्मशिलां न्यस्य पीठपृष्ठार्ध [ख्: पृथ्वर्ध] विस्तराम् | सदर्धमुच्छृयं तस्या नवगर्भाब्जसंयुताम् || १७५ || पूर्ववद्रत्नविन्यासो दिङ्मन्त्रेणेतरेण तु | ऊर्ध्वार्चा तेजसा योज्या आसीना वरुणेन तु || १७६ || शयिता पार्थिवेनैव यानस्था चान्तरिक्षगा | वायुना स्थापयेत्प्राग्वैद् द्वैतेऽद्वैते निरोधनम् || १७७ || परिवारान्विता देवा धराद्यान्व्याप्य संस्थिताः | क्ष्मादिपुमावधौ ब्रह्मा कादिमायान्तकेऽच्युतः || १७८ || विद्यान्ताग्न्यादिके रूद्रश्चेशो चला [बला] दिबिन्दुके | सादाख्यः खादिनादान्तः शक्तीत्यादिपराविधिः [घ्: न्व्यादिपरावधि] || १७९ || अप्सरो यक्षरक्षांसि विद्याधृदहिकिन्नराः | भूतवेतालशाकिन्यो ग्रहनक्षत्रराशयः || १८० || समुद्राः क्षेत्रपा नद्य [ख्: पलाद्या] ऋषिर्ब्रह्मा दिगादयः | उर्वीतत्त्वे स्थिताः शोध्या [ख्: साध्या] जरायुजोद्भिजाण्डजाः || १८१ || क्षोणी कालः सदा ज्ञेयो वारी सङ्कणोत्तमः | प्रद्युम्नो वह्वितत्त्वस्थास्त्वनिरुद्धः समीरणे || १८२ || प्. ६१) ब्रह्मा व्योम समाख्यातो मनो नारायरणः स्मृतः | धीर्विष्णुः कसरी गर्सो वासुदेवः पुमान्मतः || १८३ || मत्स्यः कूर्मो वहाहश्च नरसिंहोऽथ वामनः | रामो रामश्च रामश्च बुद्धः कल्की धरादितः || १८४ || क्वचिद्भूः केशवः प्रोक्तो नारायणो जलाधिपः | माधवो वह्नितत्त्वे तु गोविन्दो मरुतात्मकः || १८५ || विष्णुर्वियत्समाख्यातो मनो वै मधुसूदनः | बुद्धिस्त्रिविक्रमो ज्ञेयो गर्वो च वामनः सदा || १८६ || अव्यक्तः [घ्: अव्यक्ते] श्रीधरः ख्यातो हृषीकेशः पुमान्मतः | पद्मनाभः सदाशक्तिर्दामोदरः सदेश्वरः [ख्: महेश्वरः] || १८७ || क्ष्माम्बुबह्निमरुत्खानि मनोबुद्धिरहङ्कृतिः | अव्यक्तः पुरुषः शक्तिः परोर्का द्वादश क्रमात् || १८८ || मित्रश्चैव तथा विष्णुर्वरुणः [घ्: जिष्णु] सूर्य एव च [ख्: सूर्यसंज्ञकः] | सहस्रांशुश्च धाता च तपनः सविता तथा || १८९ || गभस्तिरविपर्जन्यस्रष्टान्तास्तत्त्वनायकाः | एतत्तत्त्वे [ख्: एतेत्तत्त्व] स्थिता रुद्रा मार्गादिकार्तिकान्तगाः || १९० || त्र्यक्षश्चोमापतिः स्थाणुर्नीलकण्ठश्चतुर्थकः | महादेवः शिवो रुद्रः शङ्करो नीललोहितः || १९१ || प्. ६२) ईशानो धनदो भीमो द्वादशैते तु विश्वपाः | तथोक्ता नवदुर्गाश्च अम्बिकादिगणाश्च ये || १९२ || हरिहरार्धनारीशा ये चान्ये रुद्रमूर्तयः | योगिन्यो विविधाकारास्तथान्ये पूर्वचोदिताः || १९३ || उपर्युपरि ते सर्वे स्थितास्तत्त्वाध्वगाः सुराः | परिवारान्विताः शोध्या माया [घ्: मया] तत्त्वावधौ मता || १९४ || धरातत्त्वादिविद्यान्ता द्वात्रिंशदात्मतत्त्वजाः | विद्याङ्गानि च विद्येशाः संस्थाप्याश्चात्मतत्त्वतः || १९५ || तिस्रः शक्तय ईशश्च पञ्चब्रह्माणि [घ्: ब्रह्माणि; मू: तु] तत्र च | स्थापयेज्ज्ञानतत्त्वेषु [क्, घ्: शक्तिद्वयं] शिवतत्त्वे शिवात्मकाः || १९६ || शिवतत्त्वे [घ्: सयोजनं] शिवाङ्गानि सदाख्यं शिवतत्त्वगम् | प्रतितत्त्वं सुराणां तु स्थापनाङ्गनि लक्षयेत् || १९७ || मूर्तिर्नाम च मन्त्रश्च सोपचारश्च शोधनम् | तत्त्वसंशोधनं [मू, अ: बोधनं] चैव स्थापनं रोधनं [ख्: बोधने] क्रमात् || १९८ || भोगावाह्यधिकारौ च लयश्च परमीक्रिया | दैत्यादीनामथान्येषां द्वादशाङ्गानि रोपणे || १९९ || सदागमार्थतत्त्वज्ञः शान्तो लब्धोपदेशकः | सर्वलक्षणहीनोऽपि ज्ञानवांस्तारको गुरुः || २०० || प्. ६३) संसारसागरे घोरे प्रतिष्ठावर्त्मनौकया [मू: धर्मनौकया] | तारयित्वा नयेत्कर्तृनिष्टदेवस्य यत्पुरम् [क्, ख्: सत्पुरम्] || २०१ || अध्वानं यो नजानाति नासौ जानाति दीक्षितुम् | प्रतिष्ठां न च देवानां तस्मात्स्यादध्बविद्गुरुः || २०२ || वीरभद्रमतं दृष्टा लिखितं हितकाम्यया | द्विशक्तिगर्भगानां तु स्थापनायाखिलं गुरोः || २०३ || मूर्तिभेदात्क्रियामन्त्रफलानां भेद इष्यते | द्वैताद्वैतं तथा मिश्रमज्ञानाच्च विपर्ययः || २०४ || व्यक्ताव्यप्रतिष्ठायां दृगुन्मीलनपूर्विका | कार्या सा पूर्ववत्कृत्स्ना अव्यक्तकेऽप्ययं विधिः || २०५ || ब्रह्मवस्वर्तुभक्तं वा अर्धद्धित्रीशभागिकम् | वेशनं चैकवक्त्रे तु अर्धं सर्वं त्रिवक्त्रके || २०६ || द्वयं सर्वं चतुरास्ये [घ्: चतुरस्रं] षट् पञ्च वा त्रिवक्त्रके | चतुः सहासमस्तं वा पञ्चानने क्वचिन्मतम् || २०७ || तत्पार्श्वे योजयेत्पिण्डीं चतुरस्रां द्विखडिनीम् | अव्यक्ताख्ये [घ्: सुव्यक्ताख्ये] तथा कार्या त्र्यंशाधिकजलाश्रवा || २०८ || लिङ्गं प्रसेशयेत्पीठे पीठं वा [क्, ख्: पीठेऽर्चा] लिङ्गपार्श्वयोः | स्थाप्य संस्थाप्य सुस्थाप्य प्रतिष्ठोक्ता त्रिधा [ख्: क्रिया] क्रमात् || २०९ || प्. ६४) विधिनिष्पादितं सम्यङ्मित्रवत्सौख्यदं भवेत् | दुष्प्रयुक्तं पुनस्तत्तु शत्रुवद्भयकृद्भवेत् || २१० || तस्मात्सम्यक्प्रविज्ञाय स्थापनं सुखकृन्मतम् | अन्यथा कर्मवैगुण्यादुभयोरशुभप्रदम् || २११ || द्विजैर्बौंद्धैर्मगैर्नग्नैःकौलैर्लाकुल [मू: लोकुल] कारकैः | लिङ्गं वा शिल्पिभिर्न्यस्तं पुनः संस्कारमर्हति || २१२ || मुखलिङ्गे सहस्राह्वे शताह्वे व्यक्तसंज्ञके [घ्: शताख्येऽव्यक्तके] | अव्यक्ताख्ये [घ्: सुव्यक्ताख्ये] स्थिरार्चायां चण्डकॢप्तिश्च वक्ष्यते || २१३ || इति लक्षणसमुच्चये त्रिधा लिङ्गरोपणंनाम [शब्दोऽयं लिखितपुस्तकेषु नास्ति] षोडशो विधिः || १६ || अथ सप्तदशः चतुर्थेऽह्नि कृतस्नानो यजमानो यजेत्सदा | गुरूर्मूर्तिधरान् सर्वान्गन्धादिकनकाम्बरैः || १ || ततः शिवतनुर्भूत्वा अर्धकुम्भास्त्ररक्षणम् | कृत्वा प्राग्वद्गुरुः सर्वं लिप्तपीठे पुरं न्यसेत् || २ || प्रार्धचन्द्रवत्कृत्वा जलद्वारेक [ख्: धारैक] शोभितम् | सिताजाष्टदलोपेतं मध्ये कर्णिकयान्वितम् || ३ || द्विहस्तं कन्यसे लिङ्गे हस्तदघ्नाम्बुभागिके | कर्णिकां केसरान्सन्धिं दलाग्रान्मध्वतः क्रमात् || ४ || पीतेन कर्णिका कार्या हरितं पञ्चपुष्करम् | सितलोहितपीतानि केसराणि क्रमाज्जिनैः || ५ || श्वेतपत्राणि रेखा च रक्तकृष्णान्तराणि च | सिते तु मेखलाद्वारे अन्येषां करवृद्धितः [अस्य श्लोकार्धस्य ख् पुस्तके भिन्नः पाठो वर्ततेसिते तु श्वेतपत्राणि रक्तकृष्णोत्तराणि च इति |] || ६ || ततो निर्माल्यमाकृष्य चतुर्थेऽह्नि कृतं [ख्: स्थित] च यत् | ऐशान्यां तद्व्यवस्थाप्य [क्: तदव-] नैवेद्यं च विसर्जयेत् [घ्: विसर्ज्य च] || ७ || पञ्चस्वादुभिरास्नाप्य गन्धाद्यैः पूजयेच्छिवम् | तोषितो [घ्: योजितो] ऽविधवोद्गीतै [मू: धवागीतै] र्मङ्गलैस्तूर्यनिस्वनैः || ८ || प्. ६६) यजेयुररूणैः सूत्रैर्वेष्टितैः [घ्: वेष्ठिते] सम्मतादिभिः | ततो विज्ञापयेदीशं चण्डेशेष्ट्यै गुरूस्तदा || ९ || तत्र चण्डेश्वरं ध्यात्वा स्ववक्त्राङ्गप्रदीपितम् | यजेद्गन्धादिभिर्होमस्तत्कुण्डे स्याच्छतं शतम् || १० || देवी ह्यागर्भपुंस्त्वानि [मू.: ह्यागच्छ पुंस्त्वापि] सीमन्तं जातनाम च | निष्क्रान्त्यन्नशिखाकर्मव्रतोद्वाहमुखाङ्ककैः [मू.: सुखांशकै] || ११ || वागीश्वरीं च विद्येशं हुत्वा संश्रषयेच्चरुम् | पञ्चभिर्ब्रह्माभिः साङ्गैश्चण्डादीन् जुहुयात्ततः || १२ || प्रसादगर्भमानेन कृत्वादौ [ख्: द्वौ] चण्डवेश्म च | चण्डेश्वरं व्यवस्थाप्व ऐशान्यां जगतीबहिः || १३ || शिवतेजः समुद्भूतं रौद्रं क्रूरं भयावहम् | शासनं मूर्तिवक्त्राङ्गं यजेच्चण्डं विधानतः [घ्: विधानवत्] || १४ || ज्ञानशक्तिपदैर्मन्त्रैर्हुं फट्कारसमन्वितैः | चण्डोपपदसंयुक्तैः प्राग्वच्चण्डेश्वरं यजेत् || १५ || ध्यायेन्न वाम्बुदाभासं चतुर्वक्त्रं चतुर्भुजम् | त्र्यक्षं चन्द्रजटाजूटं दीप्तास्यं फणिकङ्कणम् || १६ || शूलटङ्कोद्यतं हस्तं कमण्डल्वक्षमालिकम् | महोरगोपवीतं च प्रपन्नार्तिविनाशनम् || १७ || प्. ६७) कृत्वा प्राणैर्यथात्मस्थं चण्डं [ख्: स्वस्थं] तत्र निवेशयेत् | आधारशक्तिपद्मे तु समयादिनियामकम् || १८ || शिवार्चाचरू नैवेद्यभक्षणं लङ्घनं [मू: लक्षणं] स्रजाम् | प्रदानं दीक्षितस्यापि शिवाज्ञया निवारितम् || १९ || अद्यारभ्य त्वया चण्ड स्थेयं यावद्धरस्त्विह | ज्ञानतोऽज्ञानतो वापि न्यूनाधिकं क्षमस्व मे || २० || त्वमेतत्सन्निधौ [ख्: त्वमेव-] तिष्ठ शिवार्थपरिरक्षया | निर्माल्यवर्तनं तुभ्यं प्रदत्तं हि शिवाज्ञया || २१ || लेह्यचोष्यान्नपानादिताम्बूलंस्रग्विलेपनम् | धूपं दीपं च निर्माल्यं त्यक्त्वा वस्त्रार्थभूषणम् || २२ || दिशां बलिं ततो दद्यादाचार्याय च [मू: यैव] दक्षिणाम् | धेनुमेकां [मू: धेन्वात्मकं] वृषश्चैकं खुरशृङ्गसमन्वितम् || २३ || पुरूषः सिद्धियुक्तोऽपि दानलङ्घनभक्षणात् | निर्माल्यस्य पतेत् क्षिप्रं द्वैतलिङ्गे विधिस्त्वयम् || २४ || स्नानं पूजा तथा होमो भास्करेऽह्नि चतुर्थके | तेजश्चण्डस्य यागश्च सर्वः स्यात्पूर्ववद्विधिः || २५ || द्वैतात्मके चले लिङ्गे विना चण्डं तु पूर्ववत् | तन्निर्माल्यं क्षिपेदप्सु गर्भे चाग्नौ विसर्जनम् [घ्: विवर्जनम्] || २६ || द्व्यास्यं च पञ्चवक्त्रं च तद्वत्सुव्यक्तकं च यत् | प्. ६८) राष्ट्रोपद्रवसिद्ध्यर्थं तत्स्थाप्यं गुह्यदेशतः || २७ || श्मशाने वृक्षमूले वा अटव्यां ह्रदसन्निधौ | अभ्रावकाशे नगाग्रे [ख्: भ्राचकासे नगाग्रेषु] स्वाशायां फलदायकम् || २८ || दिग्लिङ्गं चाहितास्रं [मू: ताम्रं] च गुहायामैहिकार्थकृत् | स्वार्थमन्त्रस्थितिस्तेन चण्डेशो न स्थिरेष्वपि || २९ || विष्णोश्चतुर्थिका स्नानं पूजा चैव विशेषिका | (वि [चार्पा चिह्नान्तर्गतोऽयं पाठः ख पुस्तके नास्ति] ष्वक्सेनं यजेदब्जे होमदानादिपूर्ववत् || ३० || पटपुस्तकवह्नीनां नागयक्षेन्द्रयोगिनाम् | गणवर्गाम्बिकानां च ननिर्माल्यं शिवे यथा ) || ३१ || विद्यान्तमैहिके [क्, ख्, घ्: बिम्बा-] लिङ्गे निर्माल्यं चण्डवर्जिते | पुरी सागरदैत्याद्या ऋषिदिग्देवताग्रहाः || ३२ || अप्येते द्वैतधर्मस्था न निर्माल्यः शुभप्रदाः | दीक्षास्थापनयागोत्थं [मू: यागाथं] निर्माल्यं नैव दोषकृत् || ३३ || स्वयंभूर्बाणलिङ्गं च महद्भिः स्थापितं च यत् | द्वैताद्वैतानी तान्यत्र सामान्यनि च सिद्धये || ३४ || क्षेत्रपालोऽष्टलिङ्गं च दत्तात्रेयश्च भैरवः | मार्तण्डश्चेत्यथाद्वैते निर्माल्यं चण्डवर्जितम् || ३५ || स्वेष्टलिङ्गगतं पूतं पुष्पादिसिद्धिदं हि तत् | स्वेष्टं न दर्शयेल्लोके अद्वैते विधिकल्पितम् || ३६ || प्. ६९) अहैतास्ते तु विज्ञेया वामदक्षिणमन्त्रजाः | दिव्यतोयादिकं तेषां स्नानेऽर्घे तर्पणे हितम् || ३७ || तस्मै स्वेष्टाय यद्दत्तं चरुवत्तन्नसंशयः | नैवेद्यं भ्रातृपुत्राणां भगिनीनां च दापयेत् || ३८ || प्राशितेन च तेन स्यात्पापनाशोऽणिमादिकाः | सिद्धिर्लभेत नो चित्रं लिङ्गसन्निहितं यदा [घ्: सदा] || ३९ || अनेन विधिना सिद्धा ब्रह्मोपेन्द्रादयः सुराः | जयद्रथादयोऽप्यन्य इत्याह भगवाञ्छिवः || ४० || इति लक्षणसमुच्चये चण्डेश्वरस्थापनं नाम सप्तदशो विधिः || १७ || अथष्टादशः स्थापयेन्नाम [घ्: त्तां स] मन्त्रैः स्वैरण्डजोद्भिज्जरायुजान् | नयनोन्मीलनाद्येषां पूर्ववत्सकलं भवेत् || १ || त्यजन्त्यपूजितं मन्त्रा (न्त्रं) [मू: मन्त्रै] रात्नं लौहं च शैलजम् | दारुमृज्जं क्रमान्मासं पञ्चमं [मू: मासात्पञ्चपं] चाहवर्जनात् || २ || लेप्यचित्रागमानां च धारणाभिर्विशोधनम् | स्नानादि मानसं कार्यं तथा रत्नशिलादिकम् || ३ || नेत्रोन्मीलनमित्यादि पूर्ववच्चासनादिकम् | निम्रबुकुसुमैः पूजा यया चित्रं न नश्यति || ४ || तोरणं रूपकाक्षीणि [ख्: कार्काणि] स्थानं पूजाहुतिं [मू: ह्नुतिं] बलिम् | कृत्वेष्ट्वा वास्तुनश्चादौ [घ्: नृंश्चादौ] रत्नानि विनिवेश्य [मू, ख्: रत्नादिनि निवेश्य] च || ५ || दिङ्मात्रेण ग्रमात्पञ्चात्तोरणं परिरोप्य च | वसूं [मू: वस्त्रं सु] ञ्च स्तम्भयोर्न्यस्य दिनेशांस्त [मू: र्न्यसेद्दिशां तद्व] दुदुम्बरे || ६ || शैलालीनामथान्येषां स्तम्भादीनामयं विधिः | शुलेऽप्यवं यजन्त्यङ्गं युक्ता दण्डे च दीपनी ? || ७ || प्. ७१) अष्टपत्रे सिते पद्मे कार्णिकाकेसरोज्वले | एकद्वित्रिकरे पूज्यः शिववद्भगवान्गुरुः || ८ || मूर्तिवक्त्राङसंयुक्तस्ततः शिवशतं जपेत् | अघोरं पश्चिमास्यं वा होतव्यं जपसंङ्ख्यया || ९ || सौम्याशायां न्यसेन्मुक्तौ पूर्वतो भूक्तिहेतवे | वेष्टितं वस्त्रयुग्मेन योगमीठं दृढं वरम् || १० || तत्रानन्तमथेष्ट्वादौ ततोऽन्यं वा [क्, ख्, घ्: न्यस्य] गुरुं स्वकन् | तन्मन्त्रतत्त्व [क्, ख्: तनु] मावाह्य अनन्येशं गुरुं [मू: स्वकं] यजेत् || ११ || ग्राह्यावङ्घ्री अजातेन न्यसेत्पीठें (ठं) सगुह्यकम् | तत्सान्निध्यं त्वघोरेण देयश्चार्घो नरेण तु || १२ || ईशानेन स्रजा [ख्: सम] भ्यर्च्य हृल्लिङ्गं मुद्रयान्वितः | पटावृतकरस्तिष्ठेच्छिववत् स गुरुः [मू: स्वगुरुः] स्वयम् || १३ || नानालङ्कारवस्त्राद्यैः कर्ता तं पूजयेद्गुरुम् | मुकुटैः कुण्डलैर्हारैः केयूरैः कटकै [ख्, घ्: कङ्कणैः] स्तथा || १४ || मेखलाब्रह्मसूत्रैश्च नूपुरैश्चांगुलीयकैः | नानाप्रकारवासोभिरिष्ट्वा दद्याच्च दक्षिणाम् || १५ || राजानो मण्डलश्रेष्ठं [ग्: ज्येष्ठं] विषयं मण्डलाधिपः | विषयाधिपतिर्ग्रामं क्षेत्रं ग्रामाधिपस्तथा || १६ || प्. ७२) मत्तेभयुगलं तस्मै सत्सु वर्णविभूषितम् | अष्टौ हयान्महावेगान्नुक्माभरणभूषितान् [ख्, घ्: माण्डतान्] || १७ || गोसहस्रं पयोयुक्तं हेमभारं सुशोभनम् | दासान् दासीः सुभक्ष्यांश्च शयनं चाम्बरं वरम् || १८ || छत्रचामरभृङ्गारं व्यजनं पादुकां तथा | गृहोपस्करणं सर्वं भक्तिपूर्वं निवेदयेत् || १९ || नृपादीनामिदं दानं तदर्धार्धं क्रमेण तु | वित्तानुरोधतोऽन्येषामष्टांशेन [घ्: मंशाष्टेन] गुरुं प्रति || २० || भ्रातृपुत्रकलत्रैश्च बन्धुभृत्यजनैः सह | निवेदयेत्तथात्मानं ततो विज्ञापयेद्गुरुम् || २१ || भगवन्सर्वधर्मज्ञ सर्वधर्मपरायण | अद्य मे सफलं जन्म यत्संसारमहार्णवात् || २२ || उद्धृतोऽहं त्वया नाथ क्लेशितस्त्वं क्षमस्वं मे | ततस्तु स्थापको हृस्टो यजमानेन पूजितः || २३ || प्रतिष्ठायाः फलं कर्त्रे ददाति सकलं ततः | दीक्षस्थापनयागान्ते पर्वण्यभ्यागते तथा || २४ || मन्त्रलाभे च सिद्धौ च विशुद्धा स्यात्शुभे क्षणे | असंपूज्य गुरुं मोहान्मूर्तिपानथ जापिनः || २५ || नैव तत्फलमाप्नोति स्थापकस्य हि तद्भवेत् | सर्वं सदुष्करं [क्, ख्: सुपुष्कलं] कार्यं महापुण्यजिगीषया || २६ || प्. ७३) अन्यथा न भवेत्पुण्यं दोष एव तु जायते | निर्द्रव्ये हन्ति कर्तारं मन्त्रहीने तु दैशिकम् || २७ || दानहीने तु तद्धर्मं तद्राष्ट्रं चान्नहीनके | धेनुहीने तथैवायुः प्रजा वै पुष्पहीनके || २८ || ब्रीहिहीने तथा शस्यं होमहीने तु वर्षणम् | पुत्रं यागे च निर्वस्त्रे प्रमदा धूपहीनके || २९ || गन्धहीने भवेद्रोगस्तेजोहृद्दीपहीनके | निष्पताके प्रजा हन्ति बलिहीने तथा कुलम् || ३० || दारिद्र्यं हेमहीने स्यात्तस्मात्पूर्णविधौ फलम् | प्रतिष्ठार्थं प्रकल्प्यादौ द्रव्यं यच्छुचि शाश्वतम् || ३१ || तद्युगांशं विभज्याथ कृत्वार्धं लिङ्गसद्मनि [घ्: धर्मलिङ्गसन्मनी] | त्र्यंशेन स्थापनं तत्र चतुर्थांशं पुनस्त्रिधा || ३२ || स्थापकाय तु तत्रैकं दानार्थं तु द्वितीयकम् | तृतीयं भोजनाद्यर्थं कर्ता धर्माय कल्पयेत् || ३३ || अन्यायार्थैर्बलैर्वापि संप्रतार्यापि कारयेत् | यागकालेषु दत्वा च अर्थे नाप्रतिपादनम् || ३४ || सूच्यास्ये नरके तिष्ठेत्कर्ता ह्याचन्द्रतारकम् | यागस्योपस्करः पूतो गुरोर्ग्राह्यः स मण्डपः || ३५ || स्नानाख्यः शिल्पिनस्तद्वदुपस्करसमन्वितः | यद्द्रव्यं लिङ्ग [घ्: यल्लिङ्गगर्भ] भोग्यं च धामगर्भे निवेशितम् || ३६ || प्. ७४) तच्चण्डेशाय दातव्यमर्थंकोषं [क्, ख्: कामं] च पालयेत् | गुरुयागविधिः प्रोक्तः सिद्धलिङ्गविधिः स्थितः || ३७ || इति लक्षणसमुच्चये तोरणास्तम्भग्रहपूजा [घ्: गुरुपूजा] जरायुजादि भूतादि [क्, ख्: शब्दो] स्थापनं नाम अष्टादशो विधिः || १८ || अथैकोनविंशः ये रुद्रा लिङ्गरूपेण स्थितास्ते सर्वसिद्धिदाः | लोकानुग्रहहेत्वर्थं स्वयं भावात्स्वयंभुवः || १ || स्वयंभूलिङ्गवद्बाणलिङ्गं भुक्त्यै च मुक्तये | सहस्रफलमन्यस्माद्दद्यात्स्थापनपूजनात् || २ || श्रीशैले कालिकागर्ते लिङ्गाद्रौ कन्यकाश्रमे | कन्यातीर्थे च नेपाले महेन्द्रे चामरेश्वरे || ३ || स्थितानि बाण [मू: चाथ] लिङ्गानि शिवतत्त्वकृतानि च | सरित्प्रवाहसंस्थानं बाणलिङ्गसमाकृतिः || ४ || यदन्यदपि बोद्धव्यं लिङ्गं सर्वसुखावहम् | यात्रावन्त्यथ भोग्यानी [घ्: गानि] मन्त्रवन्ति स्फुरन्ति च || ५ || तानि मन्त्रबलाल्लक्ष्मीः स्वयमेवोपभुञ्जते | तथान्यैः स्थापितान्यत्र ऋषिदेवैः सुरोरगैः [ख्: गणैः] || ६ || सिद्धिदानि स्वतन्त्राणि भोगाद्यानि स्रयन्ति [ख्, घ्: ढ्यानि] च | स्फुटितादिनि वक्त्रा (क्रा) णि न दुष्टान्यर्थसिद्धये || ७ || ग्रहणं बाणलिङ्गस्य स्थापनं चोच्यतेऽधुना | स्नातैरुपोषितैर्भक्तैः शिवयागकृतै [घ्: यागे कृते] र्भृशम् || ८ || प्. ७६) विज्ञापयेत्ततो देवं ममानुग्रहहेतवे | स्वेच्छयागच्छ बाणेश यत्र स्थानं [घ्: स्थाने] मयेप्सितम् || ९ || तत्रानीयाधिवासं च कुर्यात्स्नानादि पूर्ववत् | जुहुयाद्दक्षिणं वक्त्रं व्याहृतिं वा शिवस्य तु || १० || स्वेच्छया वा [मू: ध्वा] विभूत्यर्थं शोध्यो नो [ख्: स्वध्यानो] वा विमुक्तये | मूर्तिलक्षणसूत्राणां पूर्वाद्या [ख्, घ्: प्रवाद्यो] भ्रमणादिकः || ११ || विधिनोक्तस्तथाप्यत्रः सान्निध्यं नित्यमेव हि | नित्योदयानि लिङ्गानि शुद्धाशुद्धोदयानि च || १२ || आसने संस्थितं नो वा शक्तिस्थं मूर्तिसंस्थितम् [मू: युतम्] | चलं स्थिरं विभूत्यर्थं स्थाप्यं चित्सन्निधानतः || १३ || चतुर्थीहोम चण्डेशो [ख्: चन्द्रेणो] विशेषोऽध्वा न विद्यते | मन्त्रसाधनयोगेषु साधकैः सु [ख्, घ्: सं] प्रतिष्ठिते || १४ || विधिः स्यात्पूर्वजो यद्वत्तद्वदन्यत्र [मू: प्यत्र] वा भवेत् | प्राक्संस्कृतेऽथवा बाणे [मू: त्याथ बाणेन] पुनरेव विधिः स्वकः || १५ || मन्त्रन्यस्तेऽथवा द्वैतेऽद्वैते वा स्यान्नसङ्करः | तत्र न्यासो ही यो लिङ्गे तेन तत्सन्निधानवत् || १६ || लिङ्गारोहे कृते चेत्थं युक्तेऽन्यस्मिन्स पूर्ववत् | तथापि तत्र सान्निध्यं कर्तव्यं दैशिकैः सदा || १७ || प्. ७७) हुत्वाघोरसहस्रं च मधुनाक्तैरुदुम्बरैः | ततस्तु दैशिकान् पञ्च भोजयेत्सिद्धिकाम्यया || १८ || ताडनामसिनाकृष्टिमिडया मुष्टिना ग्रहम् | द्वैतेऽत्र विधिना [ग्: मन्त्र बिना] कृत्वाद्वैते मन्त्रं प्ररोपयेत् || १९ || अद्वैतद्वैतसंरोहे स्वमन्त्रान्न परित्यजेत् | अभ्यागतस्तथा [घ्: गतो यथा] पूज्यः स्वांशस्थः सिद्धिकृद्भवेत् || २० || धामगर्भं तु सूत्रं तु त्यक्त्वा भूम्यग्रतः पूरा | वृषस्य मण्डपी कार्या [मण्डपः कार्यः इति साधु पाठः] प्रासादगर्भमानतः || २१ || तत्रारोप्य वृषो यत्नात्सम्भारे सकले कृते | उत्कीर्याज्याधिवास्याथ [मू: वासार्थं] स्नानं पूजापिपूर्ववत् || २२ || त्रितत्त्वं जुहुयाद्ब्रह्मवृक्षोत्थसमिधः क्रमात् | सेच्यः संपा [घ्: सपा] ततोयेन न्यसेद्रत्नादिकं ततः || २३ || ततो वृषं न्यसेत्पीठे तत्त्वे स्थिरचले स्थिते | वृषभध्वजमन्त्रेण मूर्त्यङ्गानि परं तथा || २४ || नाकालमृत्युर्नो व्याधिर्नोपसर्गभयं जने [जनैः लि० पु० पा०] | राजा च विजयी तत्र यत्र सम्यग् [मू: शस्य] वृषस्थितः || २५ || वृषो धर्मस्तु देवस्य गुणो ज्ञानक्रियात्भकः | धत्ते च सम्विदं यस्मा [मू: सश्रिदं यस्मा; ख्: संविधेः स्या] द्धर्मस्तेनोच्यते बुधैः || २६ || प्. ७८) कृताधिवासनं वस्त्रप्रावृतं माल्यभूषितम् | मुहूर्ते मङ्गले स्थाप्य द्विगुणं फलमश्नुते [मू: संयुतम्] || २७ || शृङ्गार्क [मू: शृङ्गार्ग] संयुतं प्राग्वद् व्योमादित्याग्रतो भवेत् | तार्क्ष्योऽप्येवं स्वमन्त्रेण वाहनान्यपराण्यपि || २८ || इति देवानां वाहनस्थापनम् यजमानानुकूलेऽह्नि सम्भारे विहितेऽखिले | यजेद्गुर्वादिकं कर्ता स्थाण्डिलं च ततो गुरुः || २९ || नन्द्यादिदृक्क्रिया स्नानं पूजा होमं च पूर्ववत् | भागस्पर्शं च शुद्धिं च विदधीताखिलं क्रमात् || ३० || द्वारदेशात्ततश्चाध इष्ट्वा वास्तुनरं सुधीः | रत्नादि पूर्ववन्न्यस्य [न्न्यस्त्वा लि० पु० पा०] रुद्रं हुत्वा च शान्तये || ३१ || सुवस्त्रावेष्टितद्वारं शिवास्त्रदिग्घटैर्वृतम् [मू: र्युतम्] | तन्मध्यान्मध्यमुन्मुच्य किञ्चिदुत्तरतो न्यसेत् || ३२ || यवरक्षोघ्नबिल्वानि [मू: चिह्नाह्वा; ग्: चिह्नाङ्का] फलिनी गदतन्त्रिका | तिलाब्रीहिश्च [मू: होमं च] रोगघ्नं रोचनां च सहां तथा || ३३ || गोशृङ्गेभर (ह्र) दोत्खातमृत्स्ना दूर्वा दधीनि च | वरवस्त्रोदरे बध्द्वा रक्षणार्थमुदुम्बरे || ३४ || प्. ७९) देहल्यां शाखयोर्मूघ्नि [घ्: र्व्योम्नि] आत्मविद्या शिवं न्यसेत् | सप्तसप्ताहुतिस्तत्र तत्त्वे तत्त्वे तु [ख्: त्रि] होमयेत् || ३५ || स्थिरं चैवाप्रमेयं च बोधाख्यं नित्यसंज्ञकम् | व्यापिनं चाविनासं च तृप्ताह्वं जुहुयात्क्रमात् || ३६ || नन्द्यादिप्रतिहारौ च अन्यांश्चात्र विनिर्मितान् | स्वनामभिः प्रतिष्ठाप्य पूर्णं दत्वा दिशां बलिम् || ३७ || गुरुं मूर्तिधरं [घ्: भृतः] कारून् पूजयेच्च स्वशक्तितः | कर्ता तु द्वारिवक्त्रे स्याद्दिग्व्योमे [क्: दिग्घामे] च भवेच्छुभम् || ३८ || इति द्वारस्थापनम् | अथेष्ट्वादौ [मू: न्द्रादौ] जपे [ख्: यजे] द्रुद्रं हुत्वा चाष्टोत्तरं शतम् [क्, ग्: शुभम्] | गुर्वादौ दक्षिणां दत्वा इन्द्रादीनां बलिं तथा || ३९ || धातुरत्नौषधीबीजैर्लोहैः सर्वैः पुरोदितैः | वस्त्रबद्धैर्युतं कृत्वा सुदिने तत्त्वसंस्थितः || ४० || दधिसर्पिष्पयः क्षौद्रपायसैः परिपूर्य च | धामगर्भेंशुकाघ्राते न्यसेद्धृत्पद्मवद् घटम् || ४१ || प्रणवाधारशक्त्यब्जमूर्तिभूतं घटं न्यसेत् | सौवर्णं राजतं वापि ताम्रं वा भूत्यपेक्षया || ४२ || गन्धाक्तं गन्धवत्पुष्पमालालङ्कृतकण्ठकम् | चूताशोकवटाश्वत्थदलभूषितवक्त्रकम् [ख्: चक्रकम्] || ४३ || प्. ८०) कृतरक्षं [क्: रक्तं] विधायाणुं [मू: यास्र; क्, ख्: याण्डं] तत्त्वमाहृत्य योजयेत् | यद्विधानमुपादानं व्यक्तिस्थानं परापरम् [ मू: स्थानमवापतुम्] || ४४ || सर्वात्मना [मू: गुर्वात्मान] मभिन्नं तत्सन्धायाणुं विदंशकात् [मू: त्वद्मि दंशकान्] | गृण्हीयात्प्राणशक्त्यैव शिवाज्ञां संप्रबोधयेत् || ४५ || संहृत्य कुम्भकं कृत्वा स्थित्वा किञ्चिदचिन्तकः | उत्कील्य [मू: उन्मील्य] हु/फडावस्थं स्फुरन्नारातनूपमम् || ४६ || द्वादशान्तात्समादाय रेचकेन घटे न्यसेत् | तत्राभि [घ्: तत्राह] वादकं देहं न्यसेत्तसद्गुण [घ्: तगुण] बोधकम् [क्, ग्: रोधकम्] || ४७ || कलादिधारणीप्रान्तं स्वेश्वरं [ख्: शेखरं; ग्: मेखलं] स्वपदाणुभिः | ओं कलायै [ग्: तुङ्गलायै] नमस्कृत्य तथैव च कलाभृते || ४८ || दिशा न योज्य शेषाध्व [मू: शेषार्थं] प्रयोगस्तत्त्वदर्शिना | दशनाडी दशप्राणाः करणानि तदीश्वरान् || ४९ || न्यसेद्विशेषतस्तेषां नामानि तान्यतः क्रमात् | इडा च पिङ्गला चैव सुषुम्ना च तथा भवेत् || ५० || गान्धारी हस्तिजिह्वा च पूषा चैव यशा [मू, अ, क्, ख्, ग्, घ्: यथा] तथा | अलम्बुषा कुहुश्चैव शङ्खिनी दशमी स्मृता || ५१ || प्. ८१) दशप्राणवहा ह्येता नाडयः परिकीर्तिताः | प्राणोऽपानः समानश्च उदानो व्यान एव च || ५२ || नागः कूर्मः कृकाख्यश्च देवदत्तो धनञ्जयः | वाक्पाणिपादशिश्नानि सपायूनि क्रियागणाः || ५३ || श्रोत्रं त्वक्चक्षुषीजिह्वा नासा चित्तं च तीव्रजाः | अग्नीन्द्रोपेन्द्रतुर्यास्यविभ्रान्ताः पतयः क्रमात् || ५४ || खदिग्वायवर्कवारीन्द्राश्विनिनिशाकरास्तथा | पतयो धी [घ्: ही] न्द्रियाणां तु योज्याः पूजा [मू: पूज्या] विशेषतः || ५५ || विकारपूरकत्वेन मायाकालनियामिके | स्व [मू: सु] साध्यसाधकत्वेन प्रेरकत्वेन मन्त्रयोः || ५६ || योज्यः सहाणुभिर्देवो [ख्: सदा नृ-] व्यापकत्वेन धीमता | तदङ्गानि ततः सर्वं निरुन्ध्याद्रोधमुद्रया || ५७ || हुत्वा सान्निध्यमेतेषां विधिच्छिद्रं निवर्तयेत् | ततश्च वेदिकाबन्धः कण्ठमामलसारकः [मू: सामलसावकाः] || ५८ || वेदिकाचतुरस्रे तु [मू: रस्रेण] विद्येशान्मूर्ध्नि चेश्वरः | कुम्भे सदाशिवं न्यस्य शक्तिं च ग्रहचूलके || ५९ || सर्वतत्त्वात्मकं धाम तत्तत्त्वं प्रोच्यते क्रमात् | धराम्भोऽग्निमरुद्व्योम भूतानां [ख्: चूडानां] क्रमतः स्थितिः || ६० || प्. ८२) धारणैः सङ्ग्रहे पाके व्यूहे स्वास्थे [मू: हास्ये] च धाम्नि तु | धूपपुष्पस्थितो गन्धो रसो नैवेद्यतस्तथा || ६१ || रथकार्ये [घ्: रक्षाकाद्ये] स्थितं रूपं स्पर्शो मसृणकर्कशे | शब्दस्तौर्यादिकस्तत्र शुकाघ्रा नासिका सदा || ६२ || पिण्डिका रसना तस्य मञ्जरीवेदिके दृशौ | त्वक्सुधाजालकं श्रोत्रे चाग्नी तस्या [ख्: वाग्नी तं पक्ष] क्षनासिका || ६३ || करौ मूले स्थितः पादः पायुस्तत्र रसाननः [मू: दशानन] | चण्डद्रव्यसमो वच्च [घ्: गव्यागमो] उपस्थः पीठनालकः || ६४ || स्थापनाम्बुपरि [मू: द्युपरि] स्रावो मनः सूत्रप्रकल्पने | निश्चयः स्यादहङ्कारो बुद्धिस्तद्व्यवसायके || ६५ || ([चापचिह्नान्तर्गतोऽयं पाठः मूल, ग पुस्तकयोर्नास्ति] वर्णके च गुणा ज्ञेयाः प्रकृतिश्च गुणाकृतिः [ख्, घ्: तदाकृतिः] | कारणं पुरुषो हृत्स्थो रागस्तत्रादिशक्तिगः || ६६ || विद्या विवेचने ह्यत्र नियतिर्नियमे स्मृता | प्रेरणे [क्, ख्: पूरणे] च कला तत्र कालसङ्ख्या वयस्थिता || ६७ || मायातत्त्वा [घ्: तत्रा] त्मनैकत्वे विद्या प्रासादगोचरे | शिवायतनविज्ञानविवेको विद्ययेश्वरः || ६८ || प्. ८३) अधिष्ठानेऽधिदैवत्ये समाप्तौ च सदाशिवः | सामर्थ्ये धारणाशक्तिर्बहिरध्यात्मिकेऽध्वनि || ६९ || व्यापकत्वाच्छिवो ह्येवं प्रोक्तः [ख्: प्राप्त] प्रासादरूपकः | पिण्डिका जगतीख्याता प्रासादो लिङ्गमिष्यते || ७० || तयोः कार्या प्रतिष्ठेति शम्भुना भाषितं क्वचित् | त्रीन् देवांश्च क्रमान्न्यस्य ब्रह्मविष्णुमहेश्वरान् || ७१ || जङ्घा स्कन्धा तु मूर्ध्न्यन्ते विदेहं च तदूर्ध्वतः | स्थिराख्यं भवसंज्ञं च दारवं जुहुयात्पुनः || ७२ || इति लक्षणसमुच्चये बाणलिङ्गादि यानद्वारहृत्संस्थापनं नामैकोनविंशो विधिः || १९ || अथ विंशतिः ईशानं ग्रहचूलं वा कलशं वाथ मूर्धनि | स्थापयेद्विधिना सम्यक् ध्वजल्कृप्तिमतो ब्रुवे || १ || नानाप्रकारमीशानं मते मते च तद्यथा | चूल्यं (लं) कुम्भं ध्वजं चात्र लक्षणानि वदेत्तथा || २ || ([पापान्तर्गतोऽयं पाठः क पुस्तके नास्ति] मूललिङ्गसमं कुर्यादीशानं तन्मया [मू: तदन्ता समया] कृति | शैलोत्थं शैलजे धाम्नि देवेह्येवा [घ्: ह्यं वा] क्वचिन्मते || ३ || अमलासारविस्तारात् षट्त्रिंशत्तिथिभागतः | त्र्यंशान्त्र्यंशा [घ्: त्र्यंशाशा सा] त्त्रिभागोनादीशस्यानाहविस्तरौ || ४ || लिङ्गात्रिभागहीनं स्यादीशानं वा सुरार्चितम् | मेर्वादीनां [ख्: सर्वादीनां] प्रधानानामन्येषां [मू: मन्यथा] लिङ्गवद्यथा || ५ || दारूत्थे [ख्: दारुके] दारुजं विद्धि त्विष्टिकासम्भवे तथा | ग्रहचूलं [क्, ग्: चूड] तु शैलं वा वेष्टितं कलशेन वा || ६ || तत्स्थौल्यं दशमांशेन धाममस्तकविस्तरात् | चतुरस्राष्टकं वृत्तं त्रिसमं लिङ्गदैर्घ्यवत् || ७ || ग्रीवाव्यासार्धदैर्घ्यं वा स्थौल्यं नाहाङ्घ्रिभागतः | लिङ्गवच्चाखिलं कुर्याद्बाह्ये वा घटवेष्टितम् || ८ || प्. ८५) कण्ठव्यसार्धविस्तीर्णं देव्या मतेऽथ भास्करे | धामैष्वांशाच्च [मू: धामेऽष्टांशा; ख्: ध्वंशाच्च] बाणाख्ये सप्तांशाद् द्व्यंशतोऽण्डकात् || ९ || पार्श्वे धामषडंशाच्च व्यासं व्यासाद्द्विधोच्छ्रयम् | ऋत्वर्क भाजितं कृत्वा कलशं वर्तयेद्बुधः || १० || पादोनांशादधः पट्टी षडंशेन तु विस्तरा | भागैकेन च कुम्भोऽस्य कुम्भपट्टी तु पादतः || ११ || सचूला [ख्, ग्, घ्: चचूलि] त्र्यंशविस्तारा त्वर्धांशेन समुच्छ्रिता | मध्यद्व्यंशाच्च [घ्: स्व] कोणं च अध्यष्टांशोच्छ्रयास्थितौ || १२ || याम्यकोणाद् द्विभागे तु याम्ये स्कन्दो भवेत्क्रमात् | अन्यकोणाद्युगांशस्थे याम्याधो वृत्तमाभ्रमात् || १३ || तथैव भ्रामयेत्सूत्रं कलशस्योत्तरांशतः | ततश्चोर्ध्वैकभागेन ग्रीवा द्विभागविस्तरा || १४ || कपोलौ युगविस्तारौ भागार्धांशोच्छ्रयोभवेत् | तदूर्ध्वोऽर्धांशतः कालःपद्मं द्विविस्तरोच्छ्रयम् || १५ || घटपार्श्वे मुरा [घ्: षुरा] मांशैर्लोहनिम्नायताश्चलाः | सचूल्यादूर्ध्वतः पद्मो घटास्यं चाम्रपल्लवि || १६ || यागालयादिसम्भारस्नाने या गुरुदक्षिणा | रत्नन्यासादि होमश्च मन्त्रन्यासादि पूर्ववत् || १७ || प्. ८६) ब्रह्मरेखां विनेशादि तदाधारशिलोपरि | ब्रह्माज्यार्धान्त [मू: षुद्धान्त; क्, ख्: र्धाजानु] विष्णूर्ध्वं स्थापयेन्मन्त्र [मू, अ: मत] भेदतः || १८ || ईशानं संप्रवेशं च ब्रह्मांशं वेदवत्कृते | द्व्यंशं त्र्यंशं समस्तं च ज्येष्ठादिक्रमतः क्वचित् || १९ || रत्नजं वाथ धातूत्थं सूक्ष्मलिङ्गं यथेच्छया | प्रक्षिप्य कलशाः कार्याः क्वचिदीशादि यत्नतः || २० || त्रिनेत्रचण्डिका [क्, ख्: चन्द्रिका] धाम्नोः शूलेन परिरक्षितः | विष्णुधाम्नि च चक्रेण अन्येषां स्वायुघैरपि || २१ || लिङ्गोन्मन्याथ शूलं च घटाब्जो [मू, अ: श्वेताब्जो] परि विन्यसेत् | वामा ज्येष्ठाह्वया रौद्री स्वशक्तित्रयकल्पिता || २२ || द्वात्रिंशदङ्गुलं ज्येष्ठे मध्ये हीनेऽष्टहानितः [मू, अ: हीनके] | हैमं रौप्यमयोजम्वा प्राग्वत्संस्थाप्य [क्, घ्: संस्नाप्य] मन्त्रतः || २३ || ज्ञानाख्येच्छाक्रियाह्वाभिः शक्तिभिः कल्पितं क्वचित् | करीरषष्ठभागेन चक्रं स्यात्सम [ख्: स च] वर्तुलम् || २४ || जीवदैर्घ्यसमो दण्डस्तत्थौल्यं तज्जिनांशतः | चूलिकेतरदेवानां स्थापनीयाः प्रमाणतः || २५ || देवनाहाद्भवेद्दैर्घ्यं स्थौर्ल्यं तदष्टमांशतः | इन्दीवरदलाभा सा स्वबीजैश्चूलिका सदा || २६ || प्. ८७) इतीशानकलशग्रहचूलीयूप [क्, ग्, घ्: युध] स्थापनम् || ध्वजं विनात्र या कीर्तिः सा रक्षोभिर्ग्रहादिभिः | गृह्यते सकला नित्यं दानहोमादिभिः सह || २७ || यथा सुफलितो [ङ्: युः फलितो; स्वः फलितो इत्यादि पाठः] वृक्षो रक्ष्यते हि फलार्थिभिः | तथा धर्मफलार्थाय धामवृक्षध्वजेन तु || २८ || तस्मात्तत्र ध्वजः स्थाप्यो विधिना मानसंयुतः | नानागमानुसारेण लेशतस्तं वदाम्यतः || २९ || प्रासादपादविस्तारस्तदर्धार्धांशतः [ख्: ङ्गतः] क्वचित् | धाम्नो द्विगुणदैर्घ्यः स्यात्सार्धार्धात्तत्समो ध्वजः || ३० || द्विहस्तविस्तरो वाथ भूमिं पार्ष्णिमथापि वा | क्वचिन्मते तदर्धान्यथा प्राप्स्यत्वधोदितः [मू: प्राप्त्याथ चोदितः] || ३१ || स्वदैर्घ्यषोडशांशेन क्वचिदुक्तश्च विस्तरात् | सर्वार्थशान्तये शुक्लः कामार्थे दिक्पतिप्रभः || ३२ || स्ववाहनाङ्कित [मू, अ: न्वितं] श्चोर्ध्वं किङ्किणीचामरैर्युतः | स्वदेवरूपकैश्चित्रः स्वशक्त्या शोभितः क्वचित् || ३३ || मञ्जर्यास्त्र्यंशतो दण्डस्तत्पादोनार्धतः क्वचित् | इत्थं ग्रहर्तु [ख्, घ्: इन्द्रग्रहे तु] हस्तो वा क्रमाज्ज्येष्ठादिको भवेत् || ३४ || प्. ८८) वंशवृद्धिकरो वंशो धर्मार्थौ [क्, ख्, ङ्: धर्मार्थे] शालसैन्दुरौ | उक्ताङ्घ्रि पञ्च तत्कार्यं त्वशुभौ शेलुशिग्रुकौ [मू, अ, ङ्: शिर्भ्कौ] || ३५ || भङ्गे चारोप्यमाणे तु कर्तुर्मृत्युर्भवेद्ध्रुवम् | शान्तिहोमे कृते सौख्यं दक्षिणास्येन [मू: द्येन] नान्यथा || ३६ || प्रासादपृष्ठदेशे च ऊचुः कैश्चिद्ध्वजाश्रयम् [मू: उचुर्ध्वजाश्रयं क्वचित्; ख्: उच्चच्छविध्वजाश्रयः] | ऐशाने वा प्रदेशे च मारुते वान्यथापरे || ३७ || शिखरस्य शरांशेन चतुर्थेन गुणेन वा | उत्त [मू: उक्त] मादिध्वजाधारं मस्तकार्धेन वा क्वचित् || ३८ || पूर्ववन्मण्डपादि स्यात्स्नानेनज्या [मू, क्, घ्: स्नानेषु] ध्वजयष्टिषु | हेमादि [मू अ, ख्, ग्, घ्, ङ्: होमादि] रत्नविन्यास आसनं प्राक्क्रमेण तु || ३९ || मूर्तिभूर्तं न्यसेद्दण्डं सकलीकरणं ततः | ध्वजे तु निष्कलं तद्वत्तथै [घ्: तत्रै] वाङ्गानि यत्पुनः [घ्: षट्सु च] || ४० || आत्मविद्यां न्यसेद्दण्डे शिवतत्त्वं ध्वजे तथा | भुवनेशान्पुनस्तत्र विघ्ननाशाय सिद्धये || ४१ || आत्मवान् शांभवान् शान्तान् [घ्: शाक्तान्] स्वायुधोद्यतविग्रहान् | सम्याग्ध्यात्वा [ख्: ज्ञात्वा] तु तान्सर्वांस्ततस्त्वारोपयेद्गुरुः || ४२ || प्. ८९) ध्वजमन्त्रास्त्रमन्त्रेण योजयित्वा न्यसेत्क्वचित् | अघोरमथ शैवं वा यद्वा पाशुपतं महत् || ४३ || प्रख्यातमैश्वरे शास्त्रे विघ्नसंघात [ख्: संपात] नाशनम् | गन्धादि ब्रह्ममुण्डेन दद्याद्विद्याधिपेन वा || ४४ || पुरुष्टुतेन [मू, ङ्: ष्णुतेन] नैवेद्यं बलिकर्म हृदैव तु | ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् || ४५ || प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् | त्र्यक्षं तडिल्लातजिह्वं दीप्तभ्रूश्श्रुमूर्धजम् || ४६ || सर्पोपवीतशूलासिशक्तिमुद्गरधारिणम् | चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् [ख्, ङ्: दिगम्बरम्] || ४७ || देवदानवरक्षोग्रदर्पितानां विमर्दनम् | ध्वजस्यारोहणं कुर्यादुपचारं च दैशिकः || ४८ || मन्त्रैः फडन्तगैः सर्वैर्हृदयादिविभागशः | ध्वजाग्रे तु गुरुर्लग्न इष्टमन्त्रं जपंस्तदा [मू: जपेत्तदा] || ४९ || प्रदक्षिणात्रयं कृत्वा कर्तारं सन्नियोजयेत् | यजमानस्ततो लग्नो भार्यापुत्रकुलैः सह || ५० || परिवेष्ट्य त्रिधा धाम प्रणम्य च पुनः पुनः | यथा विधूयते वातैर्ध्वजः प्रासादमस्तके || ५१ || प्. ९०) तथा कर्ता त्यजेत्पापं सप्तजन्मार्जितं क्षणात् | राष्ट्रे शान्तिर्जयी राजा सुखिन्यः स्युः प्रजास्तथा || ५२ || सुसूतयस्त्रियो धर्मः सुभिक्षारोग्यमेव च | हेमलक्षप्रदानाच्च पुण्यं कोटिगुणं ध्वजात् | जीर्णोद्धारे कृते कर्तुर्ध्वजान्ते मौलिकं फलम् || ५३ || इति लक्षणसमुच्चये ईशानादिध्वजनिवेशानाख्यानं नाम विंशोविधि || २० || अथैकाविंशः अथ जीर्णांश्च दुष्टांश्च लिङ्गादींश्च [ग्: दीनां] सुरोज्झितान् | आश्रयन्तीह सत्वानि भूतवेतालराक्षसाः || १ || महाभयकरा नित्यं सुभृशं क्रूररूपिणः | कुर्वन्ति दोषसङ्घ्यातं यत्र राष्ट्रेषु ते [ग्: पुरे] स्थिताः || २ || महोत्पातं धरानाशं चमूभङ्गं पराभवम् | दुर्भिक्षं दारुणं रोगं प्रजानाशं दरिद्रताम् || ३ || उद्वेगं च विवादं [ग्: विषादं] च विताशं चात्मजार्थयोः | पीडा गोब्राह्मणादीनां राज्ञो दुःखं कुशीलताम् || ४ || प्रतापसत्वहानिं च लोभमोहादियुक्तताम् | शत्रुव्यसनपीडा च चिन्ता च महती भवेत् || ५ || दुष्टलिङ्गे स्थिते राष्ट्रे प्रजा प्राज्ञो न शोभनन् | तस्मादुद्धरणं कार्यं विधिना मन्त्रपूर्वकम् || ६ || विधिं विनोद्धृतं लिङ्गं मन्त्रहीनैस्त्वदैशिकैः | राष्ट्रं पित्तेन संपीड्य भूपमुच्छादये [क्: मुत्सादये; ख्: मुन्मादये] द्ध्रुवम् || ७ || तस्माद्राजा स्वराष्ट्रेषु लिङ्गाद्युद्धारयेद्द्रुतम् | गोब्राह्मणप्रजानां च स्वराष्ट्रस्य च वृद्धये || ८ || प्. ९२) जीर्णोद्धारं प्रवक्ष्यामि यथा शास्त्रेषु भाषितम् | सुनक्षत्रे दिने योगे सद्वारे कर्तृशोभने || ९ || याम्यायामथवैशान्यां कुर्यात्प्रागुक्तमण्डपम् [ख्: मण्डलम्] | प्रच्छन्नं संस्कृतं रम्यं जलद्वारैक [ख्: धारैक] तोरणम् || १० || रम्भाचन्दन [घ्: बन्धन] माल्याढ्यं वितान [ख्: विमान] ध्वजसङ्कुलम् | पूर्ववद्वेदिकां रम्यां शिवकुम्भास्त्ररक्षिताम् || ११ || गुरुमूर्तिधरान्सम्यगिष्ट्वादौ कनकाम्बरैः [मू, अ: न्द्रादौ कलशाम्बरैः] | बालुकापूरिते पीठे स्थण्डिले पूजयेद्धरम् || १२ || शिवलिङ्गधरान्पञ्च भोजयेद् घृतपायसै || १३ || अर्कोपेन्द्रादिके विप्रानष्टौ सन्तर्पयेद्भृशम् | दक्षिणां वित्ततो दद्याद् ब्रूयुः शं राष्ट्रभूपयोः || १४ || सहस्रं जुहुयाद् घोरं महास्त्रं वाथ दैशिकः | त्रिस्वादूक्तैस्तु [ङ्: द्विक्षेस्तु] यज्ञाङ्गै [घ्: यज्ञाङ्गो] दूर्वां कुण्डे तु वर्तुले || १५ || गुरुः पूर्णाहुतिं दद्यात्तस्मै कर्ता च [ख्: कर्तार्थ] धेनुकाम् | मूर्तिभृद्भ्यस्ततो दानं भूतदिग्देवताबलिम् || १६ || रौद्रीं शान्तिं ततः कृत्वा विज्ञाप्य च महेश्वरम् | लब्धानुज्ञो [ख्: नत्वानुज्ञो] महादेवात्कुर्याल्लिङ्गादिकोद्धृतिम् || १७ || प्. ९३) तत्पुष्पास्त्रेण संताड्य वदेश (द) स्त्रं [क्, ख्: तत्स्थं] शिवाज्ञया | यदत्र संस्थितं सत्वं त्यक्त्वा चान्यत्र यातु तत् [क्: यान्त्वतः] || १८ || शिवाज्ञैवं प्रदत्तातो [मू: त्ता ते] त्यजेत्तत्वं महास्त्रतः | ततोऽभिषिच्य लिङ्गाद्यमस्त्रजप्तेन [मू: मन्त्रणजप्तेन] वारिणा || १९ || स्थापको यजमालस्य हेमजं कङ्कणं करे | उत्थापने प्रबध्नीयादित्युक्तं शम्भुना क्वचित् || २० || बद्ध्वा स्वर्णाख्य [घ्: वर्णाक्ष] पाशेन लिङ्गं पाशुपतेन च | वृषयोः ककुदे (दि) बद्ध्वा वर्मणा बालतन्तुना || २१ || हेमकर्षजसीरेण [घ्: सारेण] मध्वक्तेनोत्तरामुखः | ईशाशादीः क्रमात्सर्वाः खादकेन गुरुः खनेत् || २२ || तारसारोत्तमे भावादन्यस्मिन् माषवर्जनात् | पाशसीरयुगं [ख्: सारयुत] कुर्याद्बलवन्तौ तथा वृषौ || २३ || वृषौ च खुरिकैः प्रेष्य नन्दी शङ्खरवेण तु (?) | जर्जरं चलितं भग्नं [ख्: रुग्णं] स्फुटितं वज्रदूषितम् [मूउ, अ ग्: ध्वजदूषितम्] || २४ || महादोषान्वितं दग्धं विकलाङ्गं कृशं च यत् | स्थूलं वा दुर्निविष्टं च यच्च पीडाकरं भुवि || २५ || प्. ९४) स्थापितं विकलैर्द्रव्यै स्तथोन्मानादिवर्जितम् | एषां कुर्याच्चिकित्सां च व्याघितस्येव भेषजम् || २६ || तेषां लेख्ये च भेदे च छेदे चोद्धरणे [ख्: छेदनोद्धरणं] तथा | क्रियमाणे न दोषोऽस्ति मन्त्रवर्जितया [तता] यतः || २७ || लिङ्गं पीठं शिलामर्चां व्योमतार्क्ष्यादिकं वृषम् | पक्वमृच्छैलरत्नोत्थं क्षिपेद्वामेन नित्यके || २८ || दारूद्भवमघोरेण दहेच्छिवाग्निना घृतैः | लोहं सर्वं विनिष्पाट्य पुनस्तत्रैव विन्यसेत् || २९ || दग्धं मणिमयं भ्रष्टं तेजसाश्मवदुत्सृजेत् | लेप्यं चित्रं पटं पुस्तं संस्कृत्य चाग्निना [मू, ख्: धाम्नि वा] क्षिपेत् || ३० || पतितोत्पाटितं वक्रं सरिद्भीतान्यमन्त्रजम् | अदुष्टं विधिनोद्धृत्य स्थापयेद्यागपूर्वकम् || ३१ || यथा न स्पृशति द्वारं तथा लिङ्गं प्रवेशयत् | ब्रह्मशिलादिकं सर्वं स्थापयेत्पूर्ववत्क्रमात् || ३२ || प्राक्प्रमाणं तदाकारं प्राग्द्रव्येण विनिर्मितम् | लिङ्गादि चापरं स्थाप्यमधिके वा फलं बहु || ३३ || लिङ्गपीठालयार्चानां क्षितौं यावत्स्थितिर्भवेत् | तावत्कल्पसहस्राणि तत्कर्ता तत्पुरे वसेत् || ३४ || प्. ९५) पार्थिवानां फलं चेदं [ख्: चैवं] दारवाणां ततोऽधिकम् | ([चापचिह्नान्तर्गतोऽयं पाठः मूल ग घ पुस्तकेषु नास्ति] द्विगुणं चाश्मजानां च सीसकानां ततोऽधिकम् || ३५ || द्विगुणं त्रपुजानां च घोषजानां ततोऽधिकम् | द्विगुणं रीतिजानां च सुल्वजानां ततोऽधिकम् || ३६ ||) द्विगुणं तारजानां [घ्: चश्मजानां] च हेमजानां ततोऽधिकम् | द्विगुणं रत्नजानां तु रत्नाधिक्येऽधिकं फलम् || ३७ || स्थापयेच्च [घ्: स्थापयेदङ्ग] शतं हुत्वा [ङ्: गत्वा] चालयेच्च सहस्रतः | घोरेण वा महास्त्रेण द्विगुणं धामचालने || ३८ || सुखदुःखस्थितानां तु लिङ्गादिचालनाद्ध्रुवम् | त्वरितं म्रियते जन्तू रौरवं च मृतो व्रजेत् || ३९ || ईशानं वा घटं चूलं द्वारं हृदङ्घ्रिकादिकम् | जीर्णाधाम्नि [ख्: जीर्णोद्धार] क्रमात्सर्वं पूर्वोक्तविधिना हरेत् || ४० || प्रासादमन्त्रदेहं तु खड्गे न्यस्त्र प्रपूजयेत् | दारुपट्टावृतं लिङ्गं कृत्वा तु घटयेद्गृहम् || ४१ || पूर्ववत्पदमारोप्व द्वारादिं च ध्वजान्तकम् | सिद्धे धाम्न्यङ्गसंयोगं कुर्यादाकृष्य खड्गतः || ४२ || जीर्णमुद्धृतमारोप्य प्रायश्चित्ताय होमयेत् | अच्छिद्रपूर्णता येन स्यादघोरशतेन तु || ४३ || प्. ९६) क्षमयेच्च प्रणम्येशं त्वदाज्ञया मयोद्धृतम् | लिङ्गादि स्थापितं [स्थापकं] यच्च तत्क्षमस्व ममोपरि || ४४ || राज्ञः कर्तुः प्रजानां च शान्तिर्भवतु सर्वदा | अस्माकं शिल्पिनां चापि सुप्रीतो भव हे भव [घ्: तव] || ४५ || ततः कर्ता प्रणम्यादौ दण्डवद्भूतले गुरुम् | तं खड्गं कङ्कणं धेनुं दद्यात्सोपस्करौ वृषौ || ४६ || इति लक्षणसमुच्चयें जीर्णोद्धारविधिकथनं नामैकविंशो विधिः || २१ || अथ द्वाविंशः अद्वैत [मू, ङ्: अद्वैते] देवताभ्यस्तु कार्यं मण्डलतर्पणम् | एकहस्तं समारभ्य अष्टहस्तावधिक्रमात् || १ || वीथिकाद्वारकोणाढ्यमेकाब्जं द्वारकैर्युतम् [ख्: मेकाक्षं गात्रकै] | लोकपालायुधोपेतं मण्डलं सार्वदैविकम् || २ || देवमुद्रान्वितं दिव्यं ख्यातं मुद्रालयाह्वयम् | यच्चतुष्कोणगाः शङ्खाः श्रीवत्साख्यं हेरेस्तु तत् || ३ || पूर्वोक्तपङ्गजैर्युक्तं कर्णिका पृथुगात्रकम् | पद्मार्घपृथुवीथीकं वीथ्यर्धं कण्ठकादिमत् [ख्, घ्: कण्ट-] || ४ || पद्मसूत्रसमं द्वारं गुणरेखाबहिर्मतम् | अथान्यन्नवदुर्गादि नवनाभं तदुच्यते || ५ || द्वात्रिंशदच्छके [ख्, घ्: दंशके] क्षेत्रे मध्येऽब्जं षोडशांशकैः | गात्रकं [क्, ख्: गात्रंकं] वीथिकाद्वाभ्यां दिक्षु पद्माष्टकं तथा || ६ || मेखलैकांशतो बाह्ये द्वाभ्यां कण्ठकपोलकौ | पद्ममानं [मू: मालं] भवेद्द्वारमेकेन प्रतिवारणा || ७ || प्. ९८) वैष्णवे भैरवे यागे योगिनी स्थापने तथा | मण्डलं नवनाभाख्यं [मू, अ: भागाख्य] पुत्रायुर्धनवृद्धिदम् [ख्: वर्धनम्] || ८ || शालिचन्दनगोधूमयवैर्वा चूर्णितैः सितैः | गैरिकेङ्गुदसिन्दूरै रक्तमिष्ट [ख्: सिक्थ] कयाथवा || ९ || पीतं तालेम वा शालिहरिद्राचूर्णैकैर्भवेत् | मर्मुरै [ख्: सुमुरै] रर्चिरङ्गारैस्तुषैर्वा दग्धकैः शितिम् [मू: शितैः || १० || कृष्णैकांशेन पीताभ्यां हरिद्राबिल्वपत्रकै | सिताभ्यामसितांशेन ऐक्यं स्याद्धूम्र [घ्: धूम] वर्णकम् || ११ || पूरयेन्मण्डलं वर्णैरेतैः संशोभते यथा | न हीना नाधिकावक्रा कार्या रेखा सुशोभना || १२ || हिनायां पुत्रनाशः स्यादधिकायां महागदः | वक्रायामर्थनाशः स्याद् व्यस्तस्थे वर्णके रिपुः || १३ || मुमुक्षोः स्थापनेऽद्वैते दीक्षायां मण्डलं मतम् | अशेषगुणदं तस्मात्स्थणॢइं वालुकामयम् || १४ || अथ [ग्: अष्ट] तापसवेश्मार्थं प्रासादकरणाय च | तयोः स्थानानि पुण्यानि कथयामि महीतले || १५ || नगेन्द्रे कुलशैले च क्षेत्रोपक्षेत्रके तथा | सन्दोहे निम्नगाकूले सिद्धक्षेत्रेषु [घ्: स्थानेषु] सर्वतः || १६ || प्. ९९) हिमबद्धेमकूटाद्री निषधो गन्धमादनः | माल्यवाञ्शृङ्गिनीलौ च ऋक्षश्चेमेऽद्रिनायकाः || १७ || मलयो विजयः सह्यः पारियात्रोऽर्बुदस्तथा | श्रीशैलश्चैव विन्ध्यश्च महेन्द्रश्च कुलाचलाः || १८ || प्रयागः काशिकाकोला चाट्टहासा जयन्त्यपि | चरित्रैकाम्रकं देवीकोट्टं क्षेत्राण्यथाष्ट च [क्, ग्: ण्यथाचरः] || १९ || काश्मीरमरुपाटल्यस्तुमुलैला [मू, क्, ख्, ग्, ङ्: तद्यमैला] पुस्तथा | विरजश्चैरुडः [मू: रुतः] पुण्ड्र श्चोपक्षेत्राण्यमूनि च || २० || कुब्जिकोज्जयिनीपृष्टापरस्तीरा [मू, ख्, ङ्: परस्त्री रं] ङ्कु शाद्रिकौ | मायापुर्यथ जालाख्यमेते सन्दोहसंज्ञकाः || २१ || नर्मदा यमुना गङ्गा गोदावरी पुनः पुना | पञ्चनद्यथ सिन्धुश्च सरस्वत्यष्टनिम्नगा || २२ || श्रावस्ती कीकटो लाटः कुरुक्षेत्रोज्जिहानकाः | अन्तर्वेदी प्रतिष्ठानं याज्ञिको देश इष्यते || २३ || दारुवनं श्मशानं च पुष्करं नैमिषं तथा | करवीरो महाकालः सौगन्ध्युपवनं [ख्: परणं] वनम् || २४ || वटैकलिङ्गादित्यादि स्थापितानां च सन्निधिः [घ्: सन्निधेः] | बाणस्वयंभुलिङ्गानां पद्मखण्डतडागयोः || २५ || प्. १००) वदर्याश्रमतीर्थानि धुनीनां सङ्गमस्तथा | सिद्धदेवालयो ग्राम नगरं खेटकं पुरम् || २६ || पत्तनं रतिकृद्देशः सामान्यगिरिनिम्नगा | पुण्यस्थानमथान्यच्च सिद्धस्थानान्यमूनि च || २७ || देशेष्वेतेषु कुर्वीत यति [घ्: यदि] देवादिकाश्रमम् | गृह्णीयाद्भूमिमादौ तु शासनेन क्रयेण वा || २८ || नोपरोधद्बलाद्वापि न चैव प्राक्सरिद्वहा | आदौ कुर्माद्यतेः स्थानमीशादीनां ततो यतः || २९ || न तापसाः सुरेशस्था वसेयुश्चेन्मठाधिपाः | मठमाश्रित्य ये लिङ्गमर्चयन्ति कुबुद्धयः || ३० || लोलुपास्ते समाख्याता न मोक्षं प्राप्नुवन्ति ते | यदीच्छेन्नरकं गन्तुं पुत्रपौत्रादिभिः सह || ३१ || तदेकाहं प्रफुर्वीत मठापत्यं [ख्: मानयन्ति] शिवालये | ईदृग्ज्ञात्वा [मू: ईदृङ्मत्वा] यथाकामं स्थापयेत्सचराचरम् || ३२ || अथ भूमिपरीक्षार्थं ग्राह्याग्राह्यं वदाम्यहम् | इन्द्राग्नियमरक्षोऽम्बुवायवीन्द्वीश [क्, ख्, घ्: वायवर्थीश] प्लवा मही || ३३ || क्रमात्कुर्याच्छ्रियं [ग्: च्छिवं] दाहं मृत्युं रोगं दरिद्रताम् | रिपुर्मानं सुखं च स्यान्मध्यमा सर्वतः प्लवा || ३४ || प्. १०१) देवस्य विपुलो भोगो नेज्या नाशश्च [ख्: न ज्ञा नाशश्च] वज्रभीः | भङ्गः पीतोऽर्थ इज्या [मू: इष्ट] स्यात्पूर्वादेर्वसुधाप्लवात् || ३५ || मध्यप्लवा कुलं हन्यादित्युक्ता भूः शुभाशुभा | क्रमादग्निरिपोर्भीतिः कलिरर्भक [मू: वच्छक] संक्षयः [घ्: सज्ञकः] || ३६ || स्त्रीचला स्त्रक्षयो वृद्धिः शान्तिः प्रागादिकूपतः | नदीप्रवेशिता [ख्: ष्टिता] शस्ता पूर्वादि पश्चिमेऽपि वा || ३७ || याम्ये वा नोत्तरस्यां च न चैवोदक [क्, घ्: चैकोदक] संयुता | न दक्षिणस्थौ वनाद्री च पश्चिमे वा वन [मू: वाचनं] शुभम् || ३८ || धामवाप्यौ च सौम्ये च ऐशान्यां च सरोवरः | वटः प्राच्यां यमाशायां यज्ञाङ्गो बोधिरब्दिशि || ३९ || प्लक्षश्चोत्तरतः शस्तः समस्ता व्यस्तका अमी | जयन्तीदाडिमीश्यामापुन्नागारिष्टपादपा || ४० || यत्रतत्रस्थभागाङ्गे [मू: शुभाशार्गो] गृहभुव्यपरे शुभाः | बहुदर्भवती विप्रा क्षत्रिया च शराकुला || ४१ || स्निग्धदूर्वान्विता वैश्या शुद्रासोशीरकाशिका | फलपुष्पवतीस्निग्धा स्निग्धगुल्मोषधीद्रुमाः || ४२ || प् १०२) गावोऽथ मानुषाश्वा वा रमन्ते यत्र नित्यशः | एकवर्णा घना तुल्या यमाम्बुदिशि चोन्नता || ४३ || विस्तीर्णा सादृढा शस्ता शुभगन्धात्मगन्धिका | चन्दनागुरुकाश्मीरचन्द्राब्जोत्पलचम्पकाः || ४४ || पाटलानागजात्यश्च मल्लिकामदिरासवाः | शालीभमददध्याज्यदुग्धान्येतत्सुगन्धिनी || ४६ || पृथग्धा मिश्रगन्धाभूश्चातुर्यर्ण्येषु भूतिदा | ग्रीष्मकाले च या शीता उष्मणा शिशिरेऽन्विया || ४७ || प्रावृष्युभयसंस्पर्शा सा द्विजादि [क्, ख्: द्विजाति] सुखावहा | मृदङ्गवेणुवीणा च [घ्: वीणाब्द] दुन्दुभ्यादिशुभस्वना [मू: शुभात्मना] || ४८ || विभूतिकारिणी क्षोणी [क्: या तु] चातुर्वर्ण्यस्य सर्वदा | श्वेताप्रजा [क्, घ्: ग्रजा] ह्यगन्धा च रक्ता राज्याशिषोद्वहा [मू: मिषो वृषा] || ४९ || पीता वैश्या तथा क्षारा शूद्रा कृष्णा मलोद्वहा | गुडा [मू: शुभा] भयानम्रनिम्बानां स्वादाद्विप्रादिजामही [ख्: सा मही] || ५० || शान्तिर्जयं धनं चायुः क्रमाद्दद्याद्द्विजादितः [ख्: तितः] | आषाढा कृत्तिका ज्येष्ठा तथा शतभिषा च भम् || ५१ || प्. १०३) वरुणाग्नीन्द्रवाताश्च क्रमात्तु देवताः [मू: त्तद्देवता] स्मृताः | स्वजाति ब्राह्मणी वापि यथालाभं च गृह्यते [मू: पूज्यते] || ५१ || वर्जनीया वसातैलवर्तिगन्धा [ङ्: युज्यते] च या क्षितिः | रक्ताङ्गारशिलायुक्ता [क्: रन्ध्रा-] कृमिकीटवती च या || ५२ || निम्ना गर्तान्विता रूक्षा सोषरच्छिद्रकर्दमा | सेष्टकाचितिकेशास्थिभस्मवल्मीकशर्करा [क्, ख्: जर्जरा] || ५३ || वामावर्तजलादिक्स्था सङ्कीर्ण न प्रशस्यते | बह्वापद्बहुवर्णा च वज्राग्निह्यरिचौरदा [मू, ङ्: षैरदा] || ५४ || न तस्यां वसती शर्म न धर्मो नात्मजो धनम् | योषिद्दुश्चारिणी तत्र रुजो राजभयं भवेत् || ५५ || शिवखराश्वनादाढ्या भिन्नभाण्डनिभस्वना | काककङ्गोष्ट्रशब्दा वा सर्वैषामसुरवावहा || ५६ || सदैवोष्णा सदा शीता कर्कशा वाष्पशङ्कुला | द्रागम्भ [मू, क्, ङ्: प्रागम्भः] शोषिका नेष्टा धनायुघ्नी सशिल्पिका [ख्: समल्पिका] || ५७ || खाते च करमात्रे च पांशुभिः परिपूरिते | न्यूना समाधिका ज्ञेया हीनमध्योत्तमा क्षितिः || ५८ || आपूर्य गर्तमम्भोभिर्गते पदशते ततः | स्युस्त्रि [मू, अ, क्, ङ्: मुष्टि] द्व्येकाङ्गुलह्रासाद्धीनमध्योत्तमा भुवः || ५९ || प्. १०४) गर्तस्थानान्निसिश्वेतरक्तपीतासितत्विषाम् | पुष्पाणां म्लायते यत्ना [घ्: यत्नो] त्तस्य सा भूर्द्विजादितः [ख्: तितः] || ६० || आमकुम्भास्यगन्धाज्यपूरितेषु [मू, क्: तेख्व] शरावके | द्विजादीनां सिताद्याश्च ज्वलितावर्तयो निशि || ६१ || प्रागादिवक्त्रमन्त्रैस्था (स्ता) इष्टस्थाने समावृते | निर्वाप्यः [मू: निर्वान्त्यः] प्रज्वलन्त्यश्च स्वजातिसुखदुःखदा || ६२ || प्रोक्तलक्ष्मक्रमाभावे यथाप्राप्तिपरिग्रहः | वर्णसंपादनं कृत्वा स्वैः स्वैर्जातीसमस्वरैः [मू, घ्: तीशशम्बरै] || ६३ || परीक्ष्यैवं भुवं यत्नाद् वाहयित्वा वपेद् यवान् | सप्त पञ्च त्रिरात्रे स्याद्धीनादि [क्, ख्: द्विशादि] रोहणात्रिधा || ६४ || हिता द्विजाय वेदास्रा राज्ञोऽष्टास्रायता [मू, घ्, ङ्: ष्टांशायता] मही | वैश्याय च षडंशास्रा शूद्राय ह्यायता शुभा || ६५ || पृथुद्विगुणदीर्घा च छिन्नकर्णाद्विकोणिका | वक्रा [मू, घ्, ङ्: वज्रा] र्धेन्दुद्विको [क्, ङ्: त्रिको] णाभा वृत्ता षट्कोणिका च या || ६६ || यानक्षयं भयं विप्रे स्त्रीपुत्रधननाशनम् | मृत्युर्व्याधिस्तथा पापं क्रमाद्दद्यात्पलं मही || ६७ || प्. १०५) गोसूर्यास्यात्त्रिशूलाभा सूर्याकाराहि वज्रिका [ख्, घ्: वर्जिका; ग्: पृष्ठाभा] | शकटा द्विप [घ्: द्विज] पृष्ठाभा दिङ्मूढा च करोति वै || ६८ || प्रजानाशं प्रियास्वास्थ्यं [मू, घ्, ङ्: स्वाम्य] रोगं नैःस्वं शिरोरुजम् | शोकं च सर्वनाशं च सर्वलोकक्षयं क्रमात् || ६९ || पञ्चास्रा बोधिपत्राभा गृध्रगोधोष्ट्र [क्, ख्: गावोष्ट्र] सन्निभा | यवपिपीलिकामध्या दुन्दुभीपटहोदरी || ७० || मीनभूदारपृष्ठाभा करिकोष्ठसमा च या | नानादोषकरा ह्येताः सर्वेषामेव वर्जिताः || ७१ || धन्या त्वन्या कुमारी च पूर्वलक्षणलक्षिता | प्राग्विधानेन सा ग्राह्या यदि नोपहता भवेत् || ७२ || श्वपचान्त्यजनीचैर्वा क्रव्याद्भिः पशुपक्षिभिः | या सेविता सदा पृथ्वी कोष्णा [क्: कोषो] सृग्वज्रदूषिता || ७३ || भस्मेष्टकास्थिपाषाणशर्करापांशुसंयुता | अपि ग्राह्या [क्: ग्राह्य] गुणाढ्या सा गृहधाम्नोः सुशोधिता || ७४ || शतधा वाहयित्वा तु हेमफालैर्हलैर्महीम् | शुद्ध्यर्थं स्थापयेत्तत्र मासान् पञ्च च [क्, ङ्: पञ्चैव] गोकुलम् || ७५ || ततः प्रवापयेद्ब्रीहीन् याज्ञिया/श्च तिलादिकान् [ख्: ढकान्] | पक्वशस्येन संस्कृत्य घटयेद्धाम [ख्: वास] वेश्मनी || ७६ || प्. १०६) एवं विशोधितां भूमिं समीकृत्योपलेपयेत् | ततः प्रसाधयेत्काष्ठां गृहादीनां तदुच्यते || ७७ || तिष्यवेधेन तु प्राचीं चित्रास्वात्यन्तरेण वा | मीनयोगेन कौबेरीं ध्रुवयोगेन चानयेत् || ७८ || विषुवे निर्मलाकाशे तद्भूमौ मण्डले कृते | न्यसेत्तन्मध्यतः शङ्कुं खादिरं द्वादशोच्छ्रयम् || ७९ || षडङ्गुलपरिणाहं परितो रुद्ररेखितम् | तच्छायायाः प्रवेशेन पश्चिमां दिशमङ्कयेत् || ८० || प्राचीं च निर्गमे तस्यास्तत्र सूत्रं च विन्यसेत् | मीनयोग्यां तथा याम्यां सौम्याशां च प्रसाधयेत् || ८१ || चतुष्कोणानि दिङ्मध्यात् क्षेत्रस्यैवार्धसूत्रतः | वेदास्रं च चतुःसूत्रं पाततस्तत्र सिद्ध्यति || ८२ || प्रागास्यां दशधा नाड्यो [मू: नान्यो] भूत्वा (?) नामानि च ब्रुवे | शान्ता यशोवती कान्ता विशाला [ख्: विलासा] प्राणवाहिनी || ८३ || मती वसुमती [मू, ङ्: सती वर्गसती; क्, ग्: मती बहुमती] नन्दा सुभद्रा च मनोरमा | उत्तरास्यां दशान्या च एकाशीत्यङ्घ्रिकारिका || ८४ || हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला श्रिया | जया ज्वाला विशोका च स्मृतैता सूत्रपाततः || ८५ || प्. १०७) ईशाद्यष्टाष्टकं दिक्षु यजेदीशं चयं जयम् | शक्रमर्कं तथा सत्यं भृशं व्योमं च पूर्वतः || ८६ || हव्यवाहं [मातरिश्च इति पाठे साधु.ः] च पूषाणं वितथं सौम्यमेव च | कृतान्तमथ गान्धर्वं भृङ्गं मृगं च दक्षिणे || ८७ || पितरं द्वारपालं च सुग्रीवं पुष्पदन्तकम् | वरुणं दैत्यशोषौ च यक्ष्माणं पश्चिमे सदा || ८८ || रोगाहि [घ्: वेगाहि] मुख्यभल्लाटं सोमदिश्य [सोमाहिर इति पाठे साधुः] दितिं दितिम् | नवान्तपदगो ब्रह्मा पूज्योऽन्ये द्विपदङ्घ्रिकाः || ८९ || ब्रह्मेशान्तरकोष्ठस्थमापाख्यं तु पदद्वये | तथाधश्चापवत्साख्यः केन्द्रान्तरे तु षट्पदे || ९० || मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः | सावित्री तदधो द्व्यङ्घ्रे विवस्वान् षट्पदे त्वधः || ९१ || पितृब्रह्मान्तरे द्विस्थमिन्द्रं मित्रं त्वधो जयम् | वरुणब्रह्मणोर्मध्ये मित्राख्यं षट्पदे यजेत् || ९२ || रोग [घ्: वेग] ब्रह्मान्तरे नित्यं द्विस्थं च रुद्रदासकम् | तदधो द्व्यङ्घ्रिकं [क्, ख्: ङ्घ्रिगं] यक्ष्मां षड्सु [क्, ख्, घ्: षड्स्थं] सौम्ये धराधरम् || ९३ || चरकी स्कन्दवैदार्यौ कन्दर्पः पूतना तथा | जम्भपापपिलीपिच्छान् यजे [क्, ग्: न्यसे] दीशादिबाह्यतः || ९४ || प्. १०८) एकाशीतिपदं वेश्म मण्डपश्च शताङ्घ्रिकः | पूर्ववद्देवताः पूज्या ब्रह्मान्ताः षोडशांशके [ख्, ङ्: शात्मके] || ९५ || मरीचिश्च विवस्वांश्च मित्रः पृथ्वीधरस्तथा | दशकोष्ठस्थिता दिक्षु त्वन्ये चेशादिकोणगाः || ९६ || दैत्यमाताहरौ खाग्नी मृगाख्यापितरौ तथा | पापसंज्ञानिलौ देवा सार्धसार्धाङ्घ्रिसंस्थिताः || ९७ || प्रत्येकं बलिमन्त्राश्च मर्मवेधादिवञ्चनम् | देववास्तुविधौ सर्वं वक्ष्ये शल्योद्धृति क्रमात् || ९८ || नगराट्टालहर्म्यादि तोरणग्रामयोश्चितिः [क्, ख्: स्थितिः] | स्तम्भपूजादि [मू: पूरादि] वास्तूक्तं भिन्नं क्वचिच्च कूपवत् [मू, ङ्: रूपवत्] || ९९ || यत्याङ्घ्रिकं प्रवक्ष्यामि संक्षेपेण यथाक्रमम् | सदिग्विंशत्करो दैर्घ्यात्सप्तविंशतिविस्तृतः || १०० || शिवाश्रमः शिखाख्यस्य [ङ्: शिवाख्यस्य] चतुर्हीनः सदोभयोः | रुद्रद्विगुणितं नाहात्पृथुज्योतिर्विना त्रिभिः || १०१ || स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथयश्चैव विस्तरात् | सावित्रस्यालयं कुर्याद्येषां पृथु दिगंशतः [ख्, ङ्: दिगन्तरम्] || १०२ || कुजः [घ्: कुड्यं] पृथूपजङ्घोच्चा कुड्यं तत्त्रिगुणो [ख्: द्व्गुणो] च्छ्रयम् | कुड्यसूत्रसमा वीथी वीथीभेदादनेकधा || १०३ || प्. १०९) कुवेन्द्रं [क्, ख्, ङ्: तदेन्द्रं] पञ्चवीथीभिर्वीरां वीथीं विनाग्रतः | श्रीजय [ख्, ङ्: श्रीकुश] स्पृष्ठतो हीनो भद्रोग्रं [क्, ख्, ङ्: रुद्रोग्रं] पार्श्वयोर्विना || १०४ || गर्भपृथुसमा वीथी तदर्धार्धेन वा क्वचित् | वीथ्यर्धेनोपवीथ्याढ्य [मू: थ्याद्य] मेकद्वित्रिपुरान्वितम् || १०५ || यतीनां गृहमेतद्धि ख्यातं गोचरभेदतः | सामान्यान्यं गृहं [घ्: न्यद्गृहं] वच्मि सर्वेषां सर्वकामदम् || १०६ || एकद्वित्रिचतुःशालमष्टशालं यथाक्रमम् | एकं याम्यं च सौम्यास्यं द्वे चेत्पश्चात्पुरोमुखम् || १०७ || चतुःशालं तु संमुख्यात्तयोरिन्द्रेन्दुयुक्तयोः | सिद्धार्थमम्बुयाम्ये च इन्द्राप्ये [ख्: इन्द्राख्य] यमसूर्यकम् || १०८ || प्राक्सौम्यस्थे च दण्डाख्यं [ख्: छविदण्डाख्यं] प्राग्याम्ये वातसंज्ञकम् | आप्येन्दौ गृहचूल्याख्यं काचाह्वं याम्यसौम्ययोः || १०९ || सिद्धार्थे धनसंप्राप्तिर्मृत्युः स्याद्यमसूर्यके | दण्डाख्ये राजतो दण्डो वाताख्ये कलहः सदा || ११० || गृहचल्यां धनं नश्येत्काचे ज्ञातिविरुद्धयः | विना सौम्यं हिरण्याख्यं त्रिशालं तद्धनर्द्धिकृत् [मू, अ, ङ्: हृत्; ख्: तद्बहिः कृतः] || १११ || प्. ११०) पूर्वशालाविहीनं स्यात्सुक्षेत्रवृद्धिदायकम् | याम्ये हीने भवेच्चूली [मू: च्छूला] त्रिशालं वित्तहृत्परम् || ११२ || पक्षघ्नं [क्: यक्षमघ्नं] जलहीनोकः सुतघ्नं बहुशत्रुकृत् | इन्द्रादिक्रमतो वच्मि [मू: वह्नि] ध्वजाद्यष्टौ गृहाण्यहम् || ११३ || प्राच्यां व्यामिश्रमावास [मू: श्रुसावास] मग्नौ भस्ममहानसम् | याम्ये रसक्रियाशयया वर्म [वर्चः] शस्त्राणि रक्षसि || ११४ || धनभुक्त्वम्बुवेश्माप्ये शस्यगन्धौ च मारुते | सौम्ये धनं पशून् कुर्यादीशे दीक्षासुरालयम् || ११५ || स्वामिहस्तमितं वेश्म विस्तरायामपिण्डकम् | द्विगुणं हस्तसंयुक्तं कृत्वाष्टांशैर्हृतं तथा || ११६ || तच्छेषो यः स्थितस्तेन वायसान्तं [ङ्: वाव्यान्तं] ध्वजादिकम् | तपः पक्षाग्निवेदेषु रसाद्यम्बरतो भवेत् || ११७ || सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितम् | तस्माच्च [मू, घ्: तत्स्याच्च] नवमे भागे शुभकृन्निलयो मतः || ११८ || तन्मध्ये मण्डपः शस्तः समो वा द्विगुणायतः | प्रागाप्ये चेन्दुयाम्ये वा हट्ट [क्: हस्ते] एवं गृहावली || ११९ || एकैकभवनास्यानि दिक्ष्वष्टाष्टकसङ्ख्यया | ईशादिदितिकान्तानि फलान्येषां यथाक्रमम् || १२० || प्. १११) भयं नारीचलत्वं च जयो वृद्धिः प्रतापकः [ख्: प्रभावकः] | धर्मः कलिश्च नैःस्वं च प्राग्द्वारेषु यथाक्रमम् [क्, घ्: ष्वष्टकं ध्रुवम्] || १२१ || दाहः सुखं सुहृन्नाशो धननाशो मृतिर्धनम् | शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम् || १२२ || आयुः प्राग्राज्य [क्, ख्, घ्: प्राब्राज्य] शस्यानि धनशान्त्यर्थसंक्षयः | शोथरोगश्च [मू, क्, घ्: शोषं रोगं च] पापं च जलद्वारात्फलानि च || १२३ || रोगो [क्, ख्: रोगा] मदार्तिमुख्यत्वं चार्थायुः कृशतामतिः | मानश्च द्वारतः प्रोक्तमुत्तरस्यां दिशि क्रमात् || १२४ || दार्विष्टकाश्ममृज्जं वा जालालकविभूषितम् | चार्वीभिस्तभ्ममालाभिः कपाटैः सार्गलैर्युतम् || १२५ || कृत्वैवं तापसं स्थानं वास्तुदेवांश्च पूजयेत् | होमेन [ङ्: दोष च] तर्पयेत्सर्वान् मण्डपे पुरतो गुरुः || १२६ || ततश्चार्घाम्बुनासिच्य [ख्: सेच्यं] सद्वाराभ्यन्तरं गृहम् | वेश्मसंस्थापने काले गुरुं सन्तोष्य भक्तितः || १२७ || दिशां बलिं बहिर्दत्वा यतीनां भोजनं ततः | गृहोपस्करणं सर्वं दत्त्वा शययासनादिकम् || १२८ || प्. ११२) यतिं संस्थापयेत्त्रिद्व्येकवर्षं वार्धकं ततः [ङ्: तदर्धं वा तदर्धकम्] | स्वेष्टदेवालयं कुर्यात्तल्लक्षणमथोच्यते || १२९ || इति लक्षणसमुच्चये मण्डपयत्यादिगृहस्थापने द्वाविंशो विधिः || २२ || अथ त्रयोविंशः प्राच्यादाप्यान्त [क्, ख्, घ्: द्यापन्त] मावासासुरच्छाया भवेद्यदि | भयं दाहं रुजं [मू: भव] मृत्युर्नैःस्वं कुर्यात्क्रमात्सदा || १ || द्व्युच्छ्राय [ग्, घ्: ध्रुव] द्विगुणं सूत्रं त्यक्त्वा कुर्यात्तु सौम्यतः | जगत्येकं पृथुर्वापि [ख्: पृथ्ग्वापि] केचित्प्राहुः सुरालयम् || २ || यवमानात्प्रधानादौ प्रागुक्तस्त्रिविधः करः | तेषां मध्ये भवेदेकः कर्तुरिच्छावशेन तु || ३ || चतुर्विंशतिभिश्चान्यः प्रकृतोऽङ्गुष्ठकैर्मतः | पञ्चहस्तोऽथवा कार्यः षट्चतुरङ्गुलः स्मृतः || ४ || सर्वाण्येतानि [घ्: व हि] वास्तूनि समहस्तैः प्रमापयेत् | विषमैस्तु न [मू: मस्तेन] माध्यानि माघ्यदोषो महान्भवेत् || ५ || अङ्गुल सार्धमर्धं वा पादोनं सत्रिभागिकम् | आय [ख्: आप] दोषविशुद्ध्यर्थं दापयेत्तत्र बुद्धिमान् || ६ || सारवन्निर्व्रणं शस्तमृजुं चाङ्गुल [मू: चैवाति] वर्तुलम् | त्र्यङ्गुलं परिणाहेन जिनसङ्ख्याङ्गुलायतम् || ७ || प्. ११४) मूलरेखात्रयोपेतमग्रेरेखाद्वयान्वितम् | हस्तदारुसमासेन व्याख्यातं वास्तुसाधनम् || ८ || चतुर्हस्तप्रमाणोक्तो धनुर्हस्तोर्ध्व [क्, ङ्: दण्डोथ; घ्: दण्डोर्ध्व] साधने | सहस्रं धनुषां क्रोशो गव्यूतिर्द्विगुणं स्मृतम् || ९ || गव्यूतिद्विगुणं ज्ञेयं योजनं परिसङ्ख्यया | एकं दशशतं ज्ञेयं सहस्रमयुतं पुनः || १० || नियुत प्रयुतं विद्यादर्बुदं न्यर्बुदं तथा | वृन्दं खर्वं निखर्वं च शङ्खं वै पद्मसंज्ञकम् || ११ || समुद्रो मध्यमन्ताख्यं पराख्यं परमं तथा | परार्धं सर्व [ख्, घ्: मेव] माख्यातं दशवृद्ध्युत्तरोत्तरम् || १२ || एवमेतानि चोक्तानि सङ्ख्यास्थानानि सूरिभिः | पुरस्य सर्वतो दिक्षु सबाह्याभ्यन्तरेषु च || १३ || द्वारे द्वारे चतुर्दिक्षु श्रियं वैश्रवणं तथा | कुर्यादभिमुखावैतौ ग्रामस्न नगरस्य च || १४ || प्राकार [क्: प्रासाद] परिखाबाह्ये कार्याः प्रासादकल्पनाः | धनुः [ख्: पुनः] शतेऽथवा कार्यं [क्, घ्: सार्धे] तथा धनुः शतद्वये || १५ || सर्वत्राभिमुखाः शस्ता न प्रशस्ताः पराङ्मुखाः | प्राक्प्रतीच्यागतो मध्ये वंशो दक्षिणसोमतः || १६ || प्. ११५) उभयोः पार्श्वतः कार्याः प्रासादा वंशवर्जिताः | पश्चिमे प्राङ्मुखाः शस्ता ऐन्द्र्यां [घ्: ऐन्द्राः] पश्चिमसंमुखा || १७ || उदग्दक्षिणगाश्चान्ये प्राङ्मुखाः पश्चिमाननाः | नोत्तराभिमुखाः शस्ताः कदाचिद्दक्षिणामुखाः || १८ || किन्तु दैत्य [क्, ख्: चैत्य] सभामुक्त्या [मू: युक्ता] मातृपक्षविनायकान् | दृष्ट्वा देव्यामतं ह्येत [मू, क्, घ्: मताद्ध्येत] दाकृष्य परिलेखितम् || १९ || प्रागुक्तस्थानके दिव्ये यत्र यस्य सुरस्थितिः | तदादौ कीर्त्यते स्थित्यै कुर्तुः कीर्तिशुभेच्छया || २० || विव्ण्विन्द्र [क्, ङ्: विष्ट्विन्द्र] भानवश्चैन्द्रे आग्नेयांशेऽग्नि [ख्: यामाग्नि] भास्करौ | हनूमद्भूतवेतालमातृकालास्तु दक्षिणे || २१ || पितरो भद्रकाली च दैत्यरक्षांसि राक्षसे | समुद्रा वरुणो नद्यो विश्वामित्रोऽप्सरो [क्, ग्, घ्: श्मरो] जले || २२ || वायुः कात्यायनी नागाः सती [ङ्: गासती] भास्यश्च मारुते | सौम्ये स्कन्दो विशाखश्च स्थाप्या यक्षा ग्रहास्तथा || २३ || ईशाने भैरवा रुद्रा मध्ये ब्रह्मा चतुर्मुखः | पुराद्यभिमुखा देवाः शुभाः स्वस्थानसंस्थिता || २४ || पराङ्मुखो विना स्थानान्नदीदेवाश्रयेण वा | कृते देवं लिखेत्सौम्यं तत्कुड्र्ये पुरसम्मुखम् || २५ || प्. ११६) यथा पुरे तथा ग्रामे पत्तने नगरे सदा | स्थाप्या धामजगत्यां तु प्रासादाङ्गेषु देवताः [मू, ङ्: स्वदेवताः] || २६ || शम्य [घ्, ङ्: शस्या] शोकाम्रमालूराः शुभाः स्युश्चोत्तरस्थिताः | कटुकण्टकिनस्तिक्ताः पिशाचाख्यादिपादपाः || २७ || अक्षीरिणश्च ये चान्ये शास्त्रदुष्टाश्च भूरुहाः | प्रासादस्य समीपस्थाः सर्वदोषावहा नृणम् || २८ || रक्षोभूतैः समाक्रान्ता दुष्टपक्षिसमाश्रिताः | अशक्त [घ्: असक्] च्छेदने तेषां रोपयेत्क्षीरिणोऽन्तरे || २९ || नागकेसरपुन्नागजम्बीरारिष्टदाडिमाः | नारङ्गनारिकेलौ च पनसाश्च सचम्पकाः || ३० || जयन्ती केतकी कुब्जबीजकौ [घ्: कुन्दबीजको] मातुलुङ्गकः | सरलोनन्दिकावर्ततालागस्त्यतिमुक्तकाः || ३१ || क्रमुकः करवीरश्च पारावतादिजातयः | एभिरन्तरिताः क्रूरा भूरुहाः स्युः सुखप्रदाः || ३२ || दिक्स्थाननियमः प्रोक्तः सुराणां सविशेषतः | शिवस्य नियमो नास्ति प्रासादकरणं प्रति || ३३ || अनादिः सर्वगः पूज्यो दिक्षु सर्वासु भक्तितः | मुमुक्षोर्यत्र तत्रेशो दद्यान्मुक्तिं तु हेलया || ३४ || प्. ११७) दिग्भेदान्कामिनामिष्टमैशादि फलमुच्यते | पातालखेचरीसिद्धिः शत्रुदाहश्च शान्तयः || ३५ || रिपूच्छाद [त्साद इति पाठान्तरम्] श्चिरायुष्ट्वं कोषः पुष्टिप्रदं क्रमात् | ग्रामादीशेन्द्रवह्निस्थाः पश्चिमास्याः सुराः शुभाः || ३६ || दक्षिणाद्युत्तरान्ताशा [मू: राशासु] संस्थिताः प्राङ्मुखा हिताः | अधिकं वा समं हिनं पूर्वायामादिबाधकम् || ३७ || प्रासादादि न कर्तव्यं कुर्याच्चेन्मृत्युमाप्नुयात् | उभयोद्विगुणोच्छ्राया कुर्यात्त्यक्त्वाग्रतः क्षितौ || ३८ || पृष्ठतच्चोभयोर्नाहं तत्पादाग्रं च पार्श्वयोः | भिन्ननाभौ विधिश्चायं न दोषोऽभिन्ननाभिके || ३९ || कोणादि धाम्न्य [ख्, ग्: धान्य] दोषाय नायकस्याङ्गभूततः | एवं बाणमताज्ज्ञात्वा हरिसूर्यादि रोपयेत् || ४० || स्वयम्भूर्बाणलिङ्गान्तां रुद्रकाधा [मू: न्तरुद्रबाधा] नचापरैः | स्वयम्भूते सहस्रैकं महद्भिः शतपञ्चकम् || ४१ || क्षेत्रं शतैकहस्तं स्याल्लिङ्गे नरप्रतिष्ठिते | स्थावरे क्षेत्रमित्येवं जगत्यन्तं यतेर्भुवि | तत्रोत्पन्नं हि निर्माल्यं मृते जन्तौ विमोचनम् || ४२ || यजमानानुकूलेऽह्नि सुनिमित्ते समाहितः | प्रविश्य भूमिं तां धीमानुदगीशानगोचरे || ४३ || प्. ११८) पटावृते सुगुप्ते तु परीक्षयेच्च यत्नतः | धान्यकम्बुफलैर्युक्तं चन्दोनेन सुचर्चितम् || ४४ || वस्त्रकण्ठं दृर्ढ शस्तं रत्नौषध्यम्बुपूरितम् | न्यसेत्तत्र घटं दिव्यं तूर्यमङ्गलनिस्वनैः || ४५ || अर्घ्यादि [क्, ग्: अव्याधि] विधिना तस्मिन् विश्वकर्ममतेऽर्चयेत् [क्, ख्: कर्माणमर्चयेत्] | परशुं मुष्टिलां सूत्रं कीलकांश्च तदुत्तरे || ४६ || स्थापयित्वा तु संस्नाप्य पूजयेच्च यथाक्रमम् | पुन्नागशस्तवृक्षोत्थाः कीलकाः एकजातयः || ४७ || सुदृढा याज्ञिकोद्भूता वृत्ता वा चतुरस्रकाः | अष्टाङ्गुलप्रवेष्टेन शङ्कवः [मू, अ, ङ्: शङ्करः] करदीर्धकाः || ४८ || वेदास्रं साधयेत्तत्र सूत्रपातेन पूर्ववत् | शङ्कुं निवेशयेत्तस्मिन्नाज [ख्: न्नज] गत्याः क्रमेण तु || ४९ || मधुसर्पिदधिक्षीदैर्लिप्तमूलाः सचन्दनाः | सुवस्त्रैर्वेष्टिताः सर्वे सुधूपेनैव धूपिताः || ५० || सालक्तकत्रिसूत्राश्च सितैः पुष्पैश्च पूजिताः | अधोमूलोर्ध्वगाग्राश्च ऋजुरूपाः सुशोभना || ५१ || अनलादिषु कोणेषु ताडयेल्लोहमुद्गरैः | कीलकान् ग्राहयित्वा [मू, ङ्: प्राहयित्वा] वै गच्छेदग्निदिशं प्रति || ५२ || प्. ११९) शुक्लाम्बरधरो धीमानाचार्यः प्राङ्मुखः स्थितः | दक्षिणेन समुत्थाप्य वामहस्तेन मुष्टिना || ५३ || गृहीत्वा कीलकं भूमाववक्रं धारयेदृजुम् | ताडयंश्च जपेन्मन्त्रं प्राङ्निमित्तानि लक्षयेत् || ५४ || ओं विशन्तु भूतले नागा लोकपालाश्च कामदाः | अस्मिन् गृहे तु तिष्ठन्तु आयुर्बलकराः सदा || ५५ || ओं स्क्री/ क्री/ ह्री/ हू/ स्वाहा [मन्त्रोऽयं मूलपुस्तके नास्ति | ओं मं वं ह्री/ हू/ स्वाहा ख ङ | ओं क्री/ ह्री/ फट् स्वाहा क पा० |] | इति बाणमते कीलकारोपणमन्त्रः || घाताष्टकं स्वयं दद्याद्दैशिको मन्त्रविग्रहः [क्, ग्: वित्तमः] | ततः प्रधानकारूकस्ताडयेच्च विशेद्यथा || ५६ || हतं तन्न [क्, ग्: हततत्त्वा; ख्: तदन्तं] विशेद्भूमौ तदा तन्निष्पत्तिरिष्यते | प्रविशेच्चेद्द्रुतं सर्वं कर्तुस्तत्राशुभं तदा || ५७ || भिन्ने हन्यात्सुतं [ख्: त्मज] भार्यां कर्तुर्नाशश्च भङ्गतः | शनैः शनैरधो गच्छेत्कार्यसिद्धिं विनिर्दिशेत् || ५८ || ऐन्द्र्यांदिप्रणते शङ्कौ भयं [ख्, घ्: धनं] दाहो दरिद्रता | भयमर्थक्षतीरोगः सुखं मानं क्रमाद्भवेत् || ५९ || प्. १२०) कीलकः कुञ्चितो मूर्ध्नि प्रहारेण भवेद्यदि | आयुः पुत्रार्थवृद्धिः स्याच्च्युते हस्ताद्भयं महत् || ६० || कौशं वा वाल्वजं मौञ्जं शाणं चार्धाङ्गुलं शुभम् | सूत्रं निवेशयच्छङ्कौ यथा तन्न विमुञ्चति || ६१ || मुक्ते च म्रियते पुत्रश्छिन्ने कर्ता विनश्यति | तस्मात्सुग्रन्थितं कृत्वा दक्षिणेन तु वेष्टयेत् || ६२ || चतुरस्रीकृते क्षेत्रे बलिं कीलेषु दापयेत् | आग्नेययां तन्मुखो भूत्वा मन्त्रमुच्चारयेदिमम् || ६३ || ओं अग्निभ्योऽथसर्वेभ्यो ये चान्ये तस्माश्रिताः | बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुत्तमम् [मू, ङ्: सर्वे गृह्णन्तु मन्त्रिताः] || ६४ || ([चापान्तर्गतोऽयं पाठः मू, अ, क्, ख्, पुस्तकेषु नास्ति] नैर्- ऋत्याधिपतिश्चैव नैर्-ऋत्यां ये च राक्षसाः | बलिं तेभ्यः प्रयच्छामि सर्वे गृह्णन्तु मन्त्रिताः || ६५ || ओं नमो वायुराजेभ्यो ये चान्ये तत्समाश्रिताः | बलिं तेभ्यः प्रयच्छामि पुण्यमोदनमुक्तमम् [मू, अ, ङ्: गृह्णन्तु पुण्यमोदनम्] || ६६ || ओं रुद्रेभ्यश्च सर्वेभ्यो ये चान्ये तत्समाश्रिताः | बलिं तेभ्यः प्रयच्छामि गृह्णन्तु सुमनोत्सुकाः || ६७ || सर्वे गृह्णन्तु वै हृष्टा स्वाहाकारान्तयोजिताः | ध्रुवादि दीपिता मन्त्राः कुम्भयित्वा निवेदयेत् || ६८ || प्. १२१) एवमग्न्यादयो देवाः क्रमेणानेन पूजिताः | तर्पितास्तुष्टमनसो भवन्ति कर्मसिद्धिदाः || ६९ || इति देव मतात् कीलकारोपणमन्त्राः | स्नायूत्थं चर्मजं वापि सूत्रं कैटमथाशुभे | कटुकण्टकिशाखोटकलिकाख्याश्च [कोत्थाश्च अयं पाठः साधुः] शङ्कवः || ७० || ततश्चानन्तरे वास्तुं समावक्रं [मू, अ, क्, ख्, ङ्: वास्तुसमाचक्रं] यजेत्ततः | नाधिकं सुखदं कर्तुर्दोषा एते सदाधिके || ७१ || वैरंमारी [मू: नारी] विनाशश्च मृत्युरोगोऽर्थनाशनम् | प्रवास्तस्तस्कराद्भीतिः प्रागाद्याधिकसूत्रतः || ७२ || एवं ज्ञात्वा तु सूत्राणि हेम्ना रत्नेन वा लिखेत् | रौप्येण वा निरर्थानामर्थ [ख्: माष] वृद्धयै द्विजातितः || ७३ || शस्त्रायोऽस्थिरदाङ्गारशृङ्ग [क्, ङ्: गृहे] दार्विष्टकाश्मभिः | तृणैर्वा [मू: तूणैर्वा] लिखिते वास्तौ दोषा एते भवन्ति च || ७४ || मृत्युश्च बन्धनं दण्डो दाहः क्षयोऽर्थनाशनम् | चौराद्भयमथोच्छाद [ख्: त्साद; घ्: मलाच्छाद] इष्टहानिर्गदः क्रमात् || ७५ || पादेनोच्चाटनं लेखा [मू: शेषा] दपस्मारं नखेन च | अजिनेन भवेद्व्याधिस्तस्माद्धेम्ना लिखेत्सदा || ७६ || प्. १२२) तच्च स्रग [क्, ख्: तत्र गत्वा] क्षतैर्वास्तुमिष्ट्वा धामन्तु सूत्रयेत् | तत्काले लक्षयेच्छल्यं विशेषेण तदुच्यते || ७७ | इति लक्षणसमुच्चये स्थानदेशयाग [घ्: वेदस्थानवेगयाग] लक्षणनिर्णये त्रयोविंशो विधिः || २३ || अथ चतुर्विंशः शल्योद्धारं प्रवक्ष्यामि साम्प्रतं धामसद्मनोः | लिप्ते सुसंस्कृते स्थाने तन्यमाने [ग्: तत्प्रमाणे] च सूत्रके || १ || तन्मध्येऽन्ते समीपे वा सत्वानां दर्सनं यदि | कीर्तनं [घ्: कीर्तितं] वा ध्वनिर्वा स्याद्यदि वा सूत्रलङ्घनम् [मू, अ: लक्षणम्] || २ || तदा वै तत्र शल्यं तु विद्याद्यत्र गृही स्थितः | महामर्मास्थिशल्येन भयं कर्तुर्महद्भवेत् || ३ || अस्थिस्थं भिद्यते [मू: विद्यते] कुड्यंमशुभं कुरूते सदा | तस्मादाकर्षयेच्छल्यं तद्भवं तत्प्रमाणतः || ४ || मार्जारसूत्रलक्ष्यादि [क्, ख्: लङ्घादि] तदस्थि रासभस्य वा | खरेण खरजं नाभ्यामुच्चाटः स्यात्प्रभोर्भयम् || ५ || श्वास्थिशल्यं शुनो नित्यमुद्वेगस्तेन जायते | अजाविभ्यां गवास्थि स्यात्तयोर्वास्थि सुनिश्चितम् || ६ || गवास्थ्ना चातिदारिद्र्यं गोपीडा छागलास्थितः | आविकाद्बद्धिनाशः [ख्: बुद्धिनाशः] स्यादश्वजं भेकजं गवा || ७ || वाजिजाच्च गवां नाशो धर्मार्थौ भेकजात्सुतः [क्, ग्, घ्: न्मुदः] | अश्वेन माहिषं विद्या [मू, घ्: विन्द्या] द्गजेनोष्ट्रोद्भवं तथा || ८ || प्. १२४) तज्जामश्वतरेणास्थ्ना त्रिभिर्दुः शीलता भवम् | जम्बुकास्थि लुलायेन मृगर्क्षाभ्यां [क्, ख्: गाजाभ्यां] तदङ्गजम् || ९ || त्रिभिः परोपजीवित्वं वाराहं शिवया रुजे | व्याघ्रास्थि शूकरेण स्यात्तेन दष्टे [क्, ख्: दंष्ट्रे] रिपोर्भयम् || १० || व्याघ्रेण हस्तिजं शल्यं दौर्भाग्योद्वेगकृच्च तत् | मुर्मुरं [ख्: मुत्सरं] करभेणाथ पाण्डराङ्गसपांशुकौ [ ख्: पाण्डुरोग सपाण्डुकैः] || ११ || नरौ [मू, ङ्: नवौ] दृष्ट्वा तुषाङ्गारभस्मपांशूंश्च लक्षयेत् | भस्माङ्गारेण दाहः स्यात्प्रवासः पांशुना द्रुतम् || १२ || तुषेण धान्यनाशः स्याद्यज [घ्: शश्च यज] मानगृहे सदा | सूत्रे सन्तान्य [ख्, घ्: ताड्य] माने तु व्योम्नो विष्ठाप्रपाततः || १३ || गृहस्याधो [स्थाधो लि० पु० पा०] निधानं स्याद्वास्त्वङ्गे तत्प्रमाणतः | वृषभेण निधानं च गोमूत्राद्रजतं विदुः || १४ || सुवर्णं तत्पुरीषेण धनपुत्रंविवृद्धिदम् | शिशुना हसिते धान्यं गृहस्याधः [स्थाधः लि० पु० पा०] सुखावहम् || १५ || तन्मूत्रेण तु कूपः स्यान्मरणं तेन जायते | श्वमूत्रेण च रीतिः स्याद्वङ्गं [मू, घ्, ङ्: वंशं] तद्विष्ठया सदा || १६ || प्. १२५) अजाविकामलात्ताम्रं रीतिकात्यर्थ [मू: द्यर्थ; ख्, घ्: न्यर्थ] नाशकृत् | वृषदंशमलाद्वङ्गं हस्तस्थधन [क्: स्त्रिधन; ख्: स्त्रीदश] हानिदम् ||१७ || शुक्तिसङ्कीर्तनाच्छुक्तिः सुखशान्तिप्रदायिका | शान्तदिग्गजर्जाच्च कर्तुश्चाधो निधिः स्थितः || १८ || यत्ककुप्संस्थितः सूर्यस्तिस्रो दुष्टास्तदादिकाः | शान्तास्तु फलदाशेषा द्रेक्काणोच्चग्रहोदयात् || १९ || पक्षीणां शान्तदिक्स्थानां निधिर्मधुरवासितात् | क्रव्यान्मृगविहङ्गानां कीर्तनात्स्यात्तदस्थि च || २० || एतेषामस्थितो मृत्युर्यदि नोद्ध्रियते तु तत् | मूषिकेणाखुजो मूर्धा सपुत्रधननाशकृत् || २१ || तद्भवं बभ्रुगोधाभ्यां ते च बन्धुविपत्तिदे | सर्पास्थि सर्पतो ज्ञेयं तल्लक्ष्मीधननाशदम् [ख्: बलनाशनम्] || २२ || कूर्मेण कूर्मजं शल्यं विद्याद्यागप्रवृद्धिकृत् | शङ्खाच्छङ्खास्थि कामार्थं कुर्याद्विषाणजं विदुः || २३ || गोशृङ्गेण धनं धान्यं मृत्युः स्यान्माहिषेण तु | ऐणेनाक्षिगदान्मृत्युरायसाल्लोहजं सदा || २४ || वृषदंशस्य मूत्राच्च तेन बन्धश्च निः स्वता | केशेष्टकाश्मनां शब्दाद्दर्शनात्तद्भवं मतम् || २५ || प्. १२६) भयं स्यादिष्टकाश्मभ्यां तच्चूर्णाभ्यामनिर्वृतिः | केशेन दुःखजीवित्वं तृणात्पर्णाच्च तद्भवम् [ख्: तद्भयम्; क्, ग्: तद्वृतम्] || २६ || व्याघिस्तार्णेन बालानां पर्णात्परोपजीविता | नृशल्यात् स्त्रीचलत्वं स्याद्ब्रह्महत्या न संशयः || २७ || षट्पञ्चाशत्तु शल्यानि सत्त्वानामिङ्गितेन च | तन्मध्ये द्वादशेष्टानि शेषाण्यनिष्टकृन्ति च || २८ || आरम्भे शकुनात्प्रश्नाच्छब्दात्कण्डूयनादपि | शिल्पिनो यजमानस्य त्वन्येषां तन्नियोगिनाम् || २९ || विज्ञेयं लिङ्गतः [मू, ङ्: दधतः] शल्यं [ग्: पुण्यं] यास्तुदेहे न संशयः | यन्नाम यस्य शब्दश्च [क्, ख्: शल्यश्च] शृणुयात्तत्तदात्मकम् || ३० || निर्विकारो यदा पृच्छेच्छब्दादिरहितोऽथवा | निः शल्या तु तदा भूमिः कथितव्या च दैशिकैः || ३१ || वास्त्वङ्गे संस्थिते शल्ये भवेत्कर्तुरशोभनम् | तस्मात्तदुद्धरेच्छल्यं तच्च तस्मिंस्तदुच्यते || ३२ || शिरः कण्डूयने शल्यं मूर्धोंत्थं स्तनमात्रतः | पुत्राणां मरणं तेन बन्धुभिः स्याद्वियोगिता || ३३ || भ्रूपृष्ठे हेम वा काचं [ख्: कामं] शुभाशुभकरं भवेत् [ख्: करत्रयात्] | नेत्रकण्डूयनान्मुक्ता श्रादा तदङ्गमानतः || ३४ || प्. १२७) मुखसंस्पर्शनात्काष्ठं मूर्धोंद्भवमथापि वा | ताभ्यां हस्तद्वयेन स्याद्दारिद्र्यं मरणं क्रमात् || ३५ || दन्ताद्दन्तं त्रिभिर्हस्तैस्तेन स्यात्फलसंक्षयः [घ्: वाहनक्षय] | विद्रुमं हेम तारं वा कर्णकण्डूयने भवेत् || ३६ || तन्मानात्संस्थितं शल्यमारोग्यशुभशान्तिकृत् | ग्रीवायां स्पर्शने ग्रैवं शृङ्खला वाथ लोहजा || ३७ || वृषदंशकरङ्कं वा तदुद्धरेत्करद्वये [घ्: त्रये] | भवं [क्, ख्: ग्रैवं] मृत्युप्रदं शल्यं भार्याघ्नी शृङ्खला तथा || ३८ || मार्जारपञ्जरेण स्याद्विनाशः पुत्रभार्ययोः | अङ्गस्फर्शाद्भवेदाङ्गं तन्मानाद्बहुरोगदम् || ३९ || फलके फलकं [ख्: हस्तलक्षणजं] विद्यात्तन्मानादर्थनाशकृत् | कक्षाभ्यां कृष्णलोहं तु तन्मानाद्दुःखदं भृशम् || ४० || बाहौ तज्जं परां भूतिकारकः कण्ठमात्रतः | दक्षिणे च करे पृष्ठे कपालं वाथ मृन्मयम् || ४१ || कटिमात्रेण कर्तुन्नस्तन [घ्: कर्तेस्तुतेन] पुत्रस्य च क्रमात् (?) | वामहस्ते च संस्पृष्टे खट्वापादस्तदङ्गतः || ४२ || जानुमात्रादधोऽवश्यं [ग्: ऽरण्यं] धनस्त्रीनाशकारकम् | पार्श्वकण्डूयने विद्यान्नरार्धेन तु पांशुलीम् || ४३ || प्. १२८) नेत्ररोगो भवेत्तस्य उद्वेगश्च मुहुर्मुहुः | उदरे पशुशल्यं स्यात्कटिमात्रेऽतिशोकदम् || ४४ || हृदये हृद्भवं चाधः क्षुत्तृड्दं तत्प्रमाणतः | पृष्ठेन पृष्ठजं शल्यं शौकरं वाथ कूर्परम् || ४५ || तन्मानाद्द्वेषकृल्लोके शौकरादामयो महान् | कटिष्पृष्टेनायः कण्ठो द्विकराधोऽर्थनाशदः || ४६ || स्फिचोस्त्रपु च तन्माना [क्, ख्, ग्, घ्: मात्रा] त्कटिरोगप्रदं तु तत् | शेफ [क्: मेह] स्पर्शाव्रिलोहोत्थं कराधः प्रमदापहम् || ४७ || ऊर्ध्वोरूरूद्भवं वाथ दारूजं सर्धहस्ततः | स्त्रीदुःशीलोरुजाच्छल्याद्दारुशल्याद्धनापहम् || ४८ || जानुनोर्जङ्घयोःस्थूणा भण्डिकां [मू: भानुका] नापितस्य [घ्: वापि तस्य] वा | हस्तमात्रादधः स्यात्तु मृत्युर्जङ्घाश्च बन्धुनाम् [ख्: बन्धमान्] || ४९ || नापितोपस्करा [मू, ङ्: पक्षवा] द्दुःखं दारिद्र्यं परजीवनम् | जङ्घास्पर्शात्तदस्थि स्यादधश्चैकादशाङ्गुलात् || ५० || ([चापचिह्नान्तर्गतोऽयं पाठः मू, अ पुस्तकयोर्नास्ति] तेन च स्याद्वधः कर्तुर्मृत्युः पश्चान्नसंकयः | गुल्फाभ्यामश्चपादः स्यादधस्त्वष्टादशाङ्गुलात् || ५१ || तेनार्थपशुनाशश्च प्रवासो दुःखजीवितम् | पादस्पर्शाद्गजास्थि स्यात्कण्ठशाल्मलमेव च || ५२ || प्. १२९) द्वादशाङ्गुलमानात्तत्प्रवासमृतिदं क्रमात् | रीती [मू: स्थिति] चित्रमयोऽङ्गुष्ठान्मृदा [ख्, घ्: खटी] वा बर्हि [मू, ख्: बहि] चित्रिता || ५३ || षोडशाङ्गुलतोऽधस्तात्क्रमाच्छोकेष्टनाशनम् | त्र्यङ्गुलीभिर्हयास्थि स्याद्गोमृतिः सार्धतालतः || ५४ || कांस्यं कनिष्ठयार्थघ्नं ज्ञेयमष्टाङ्गुलादधः | चर्म पादतलाद्रुक्मं भवेदष्टाङ्गुलैः सदा || ५५ || पार्ष्णिकण्डूयने तालात्कपालाभ्रे च दुःखदे | गात्राणां स्पर्शनाद्विद्यान्नानाशल्यानि बुद्धिमान् || ५६ || ([चापचिह्नान्तर्गतोऽयं पाठ, मूलपुस्तके नास्ति] सिकताभस्मलोहास्थिमणिमुक्तादि वास्तुगम् | बह्वङ्गस्पर्शनान्नित्यं शल्यानि विविधानि च || ५७ || तानि तल्लिङ्गमानेन तत्फलानि च [घ्: ततः फलानि] पूर्ववत् |) शाल्यानिविकृतः कर्तुश्चत्वारिंशच्च सप्त च || ५८ || तेषु पञ्च शुभान्यूचुर्द्विचत्वारिंशदन्यथा | खन्यमाने भुवो गर्ते लभ्यन्ते वास्तुनो यदि || ५९ || हेमविद्रुमताराणि रत्नानि विविधानि च | मणिमुक्ताथ [मू: मुक्ताश्च] गोशृङ्गं शङ्खशुक्ती सदैव तु || ६० || सजीवावथ निर्जीवौ भेककूर्मौ शुभप्रदौ | तदा सर्वार्थसिद्ध्यर्थं स्थापयेच्छूभ्र [ङ्: च्छत्र] मध्यतः || ६१ || प्. १३०) उत्खाते नरमात्रे तु गृहे शल्यं न दोषकृत् | तोयान्तिकं स्थितं शल्यं प्रासादे दोषदं नृणाम् || ६२ || तस्मात्खाधारिकीं भूमीं खनेत्तोयान्तिकं बुधः | क्वचिद्रुद्रसहस्रे तु हुते दोषो न जायते || ६३ || सुरधामसमे गर्ते बाणलिङ्गालये शते | हुते शल्यैर्न दोषः स्याज्जान्वधो [घ्: द्यात्वधो] यागमण्डपे || ६४ || वास्तोः परिग्रहे चादौ पदसंस्थापने तथा | भित्तिन्यासे विशेषेण यजेद्वास्तुं त्रिकालिकम् || ६५ || सद्वारे शोभने लग्ने सदृक्षेन्दुबले शुभे | गर्त [मू, घ्ऽऽ गर्भ] प्रमाणतः सम्यग्लिप्तेनाद्यान्विते समे || ६६ || इति लक्षणसमुच्चये शल्योद्धारनिर्णये चतुर्विंशो विधिः || २४ || अथ पञ्चविंशः यजमानः शुचिर्धीरः सितवस्त्रविलेपनः | आचार्यः स्थपतिश्चैव दैवज्ञोऽपि गुणान्वितः || १ || सर्वान् सिताम्बरानेतान् यजमानस्तु पूजयेत् | स्थपतिर्विश्वकर्मा तु दैवज्ञो नन्दिकेश्वरः || २ || स एव भूतले विद्वान् श्रीकण्ठः स्थापकः स्वयम् | पूजयित्वा तु तान्सर्वांस्तोषयित्वा क्षमापयेत् || ३ || परिकर्मकरा येऽपि तेऽपि पूज्याः स्वशक्तितः | हिरण्यवस्त्रदानेन वाग्भिर्वा तांस्तु तोषयेत् || ४ || ततश्चाचम्य विधिवदाचार्यः शिल्पिभिः [घ्, ङ्: शिल्पिना] सह | यज्ञद्रव्याणि संहृत्य विशेद्भूमिं समाहितः || ५ || उत्तराभिमुखो भूत्वा सकलीकृतविग्रहः | आत्मपूजामर्घपात्रं कृत्वा द्रव्याणि शोधयेत् || ६ || अस्त्रजप्तैः कुशैर्विद्वानस्त्रेणोल्लिख्य सर्वतः | सिञ्चयेदम्भसा भूमिं तथा गन्धो [ख्; गङ्गो] दकेन च || ७ || गन्धतोयाक्षतैर्मध्ये कृत्वा वेदास्रमण्डलम् | सुरूपां प्रमदारूपां शुद्धालङ्कारभूषिताम् || ८ || प्. १३२) तन्मयां तां त्रिधावस्थां ध्यात्वा संपूजयेन्महीम् | सर्वदेवमयं वास्तुपुरुषं तत्र पूजयेत् || ९ || ततो विलिप्य तत्क्षेत्रं चतुरस्रं समन्ततः | घटिकाशङ्कुयोगेन नक्षत्रदर्शनेन वा || १० || यत्नान्निरूप्य दैवज्ञो विशुद्धं लग्नमादिशेत् | लग्नवेलाविरोधेन सूत्रं भूमौ प्रपातयेत् || ११ || श्रिया यशोवती कान्ता सुप्रिया विमला शिवा [मू, अ, ख्, ङ्: श्रियः] | सुशोभा भानुकी चेताः प्राङ्मुख्यो नवनाडिकाः || १२ || धना धान्या [घ्: धन्या] विशाला च स्थिरा द्रुतासवा निशा | विद्रुमा विभवेत्येता उत्तरास्या नवोदिताः || १३ || अष्टाष्टकपदं क्षेत्रं कर्णसूत्रद्वयानितम् | कृत्वा यजेद्धरादीनां नव [मू, अ: भव] त्यर्धं दिवौकसाम् || १४ || पदार्धे त्वीश्वरे चैश्यां यजेद्घृत्प्लुताक्षतैः | तोयोत्पलैश्च पर्जन्यं जयं पिष्ट [घ्: यजेद्दिष्टं] पताकया || १५ || रत्नैरिन्द्रं रविं धूम्रैर्वितानेन यजेद्गुरुम् | गोधूमाद्यैर्द्वयोः सत्यं भृशं माषो [घ्: मांसो] दनैस्तथा || १६ || व्योमाख्यं पक्षिमांसैश्च एवं प्राग्दिशि देवताः | अग्न्यधः कोष्ठके वह्निं [मू, ग्: बाहुं] पैष्टकोत्थ श्रुवेण वा || १७ || प्. १३३) पूषाणां च यजेन्नित्यं हेम्ना च वितथं द्वयोः | क्षौद्रं गृहक्षतायाथ चणकान्नं यमाय च || १८ || गन्धर्वाय द्वयोर्गन्धान् भृङ्गाय खगजिह्विकम् | कोष्ठका [घ्: कोष्ठार्धे] द्दक्षिणे दद्यान्नीलं यवं मृगाय च || १९ || दद्यात्पित्रे तिलान्नं च नन्दिने दन्तधावनम् | सुग्रीवाय द्वयोर्यावी पुष्पदन्ताय दर्भकम् || २० || पद्मं प्रचेतसे दद्यादसुराय सुरां द्वयोः | घृताम्बु केतवे धानाः पङ्कवेर्द्धे तु [ख्, घ्: वेत्र] पश्चिमे || २१ || मण्डाज्यं वायवे त्वर्धं नागाय नागकेसरम् | द्वयोः खाद्यानि मुख्याय मुद्गान्नं यक्षपाय [मू: अपूपान्नं क्षयाय] च || २२ || सोमाय पायसक्षौद्रे शालकं लिङ्ग [मू: मालूकविग] योर्द्वयोः | दित्यै लोपीमदित्यै च पूपा [ख्, ङ्: सूपा] नर्धेऽथ सौम्यतः || २३ || आपाय च पयः कोष्ठ ईशाधस्त्वीशकोणतः | तदधः कोष्ठके दद्यादापवत्साय वै दधि || २४ || मरीचये बलिर्देया चतुष्पादेषु लड्डुकैः | अग्न्यधः कोष्ठके नित्यं सावित्र्यै [ख्, ग्: सवित्रे] च कुशाम्भसा || २५ || तदधो गुडपूपादि [ख्, घ्: पूपानि] सावित्रेऽथ प्रदापयेत् | विवस्वतेऽरुणां दद्याच्चन्दनं चतुरङ्घ्रिषु || २६ || प्. १३४) रक्षोऽधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम् | इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके || २७ || चतुष्पदे प्र [ख्, घ्: ष्पदेषु] दातव्यं मित्राय गुडपायसम् | वाट्वधः कोणदेशे तु रुद्राय पक्षिमांसकम् || २८ || तदधः कोणकोष्ठे तु यक्षायार्द्रं पलं तथा | महीधरायमाषान्नं समांसं चतुरङ्घ्रिषु || २९ || मध्ये चतुष्पदस्थाय ब्रह्मणे तिलतण्डुलाः | एतान्वस्त्रादिभिश्चेष्ट्वा ततो रक्षोऽष्टकं क्रमात् || ३० || गर्ताद्बहिरथेशादौ यजेद्रक्षोऽष्टकं बुधः | चरकीं मांससर्पिभ्यां स्कन्दं कृसरपायसम् [मू, घ्: यासृजा] || ३१ || रक्तपद्मैर्विदारीं [घ्: विडालीं] च कन्दर्पं च पलोदनैः | पूतनां पलपित्ताभ्यां मांसासृग्भ्यां च जम्भकम् || ३२ || पित्तासृगस्थिभिः पापं पिलिपिच्छं स्रजासृजा [ख्, ङ्: सृजासृजा] | रक्षोमातृगणेशेभ्यः पिशाचादि एव च || ३३ || पितृभ्यः क्षेत्रपालेभ्यो बलिं दद्यात्प्रकामतः | अभावाद्भक्तमांसेन [ख्, ङ्: भक्षमाषेण] एतानाज्याक्षतेन वा || ३४ || लाजैरशाठ्यतो [ख्: साध्यतो] वापि कुशपुष्पेण वा यजेत् | असन्तर्प्याप्यनिष्ट्वैतान् प्रासादादीन्नकारयेत् || ३५ || प्. १३५) अनिष्पत्तिविनाशाभ्यामुभयोर्धर्मधर्मिणोः | पुरोत्पन्नो महावीर्यः सर्वभूतभयावहः || ३६ || देवैर्यो निहितो [ग्, घ्: निहते] भूमौ स वास्तुपुरुषो मतः | यावदूर्वीस्थिरा लोके तावद्वास्तुनरः स्थितः || ३७ || संहारे तु लयं याति देवैर्ग्रहादिभिः सह | सर्वेषु वास्तुकार्येषु पूजयेद्वास्तुनायकम् || ३८ || तेनासौ वर्तते नित्यं तदुपायः शिवाज्ञया | विस्तारोऽस्य समन्ताच्च शतकोटिस्तु योजनैः || ३९ || स्थितः क्ष्मामखिलां व्याप्य यजेत्सङ्कल्प्य तत्तनुम् | ईशकोणे शिरस्तस्य अंशो बाहुश्च पूर्वतः || ४० || कूर्परो जानुमाग्नेये याम्ये जङ्घाङ्घ्रिराक्षसे | उपबाहूरुहस्तश्च पार्श्वश्चैवाग्निदेशतः || ४१ || एवमेवापसव्ये स्यात्सोमानिलाम्बुनैर्-ऋते | चतुरस्रस्थिस्त्वेवं वास्तुनाथो महीतले || ४२ || यदाकारं भवेत्क्षेत्रमुत्तानं स तदाकृतिः | कुड्यादिरोहणे काले मूर्धादीनि न पीडयेत् || ४३ || ईशरक्षः स्थितं सूत्रं मूर्धानं तस्य लक्षयेत् | जलादिन्द्रो गणा [ख्, ग्: गला] दर्कः सुग्रीवात्सत्यगो मतः || ४४ || भौमात्सोमो यमाद्भल्लो गन्धर्वाच्च बृहस्पतिः | एतद्वंश [मू, अ: त्त्वंश] गता नाड्य उपवंशगतास्विमाः || ४५ || प्. १३६) गृहक्षताज्जलाध्यक्षो गणोत्तमान्निशाकरः | भल्लाटाद्भास्करं यावन्महेन्द्राद्यमदेवता || ४६ || उपवंशगता नाड्यो देवस्थितिरथोच्यते | मूर्ध्नि चेशादिती नित्यमापोदित्यौ च नेत्रयोः || ४७ || आपाख्यो वक्त्रदेशस्थस्त्वापवत्सो गले तथा | जयो गिरिस्तर्दशस्यौ सोमाद्याः पञ्च बाहुगाः || ४८ || वामे चेन्द्रादयः पञ्च रुद्रो यक्षोपबाहुगौ | सावित्री सविता तद्वदुपबाहौ करौ हृदि || ४९ || धराधरो मरीचिश्च स्तनयोरुभयोरपि | नाभौ ब्रह्मा स्थितो नित्यं पार्श्वयोर्जठरेषु [मू, अ, ङ्: जठरस्य] च || ५० || स्थितौ मित्रविवस्वन्तौ वास्तोरिन्द्रजयो गुदे | शेफसीन्द्रसुहृत्ख्यातः पापाद्याः सप्त पङ्क्तिगाः [मू, अ: पञ्जिकाः] || ५१ || जान्वादिजङ्घयोः सर्वे ब्रह्माद्याः सप्त दक्षिणाः | पितुमृशौ (मृगौ) च [मू: पिव्यमृषिश्च] पादस्थौ इत्युक्ता [मू: इत्येता] वास्तुदेवता || ५२ || कथ्यन्ते त्वधुना वास्तोर्मर्मोपमर्मसन्धयः | मूर्धास्यहृत्स्तनौनाभिर्महामर्माणि पञ्च च || ५३ || पादमध्योपमर्माणि शेषरेखास्तु सन्धयः | वंशोपवंशरेखाः स्युः शूलषट्कमथाशनिः || ५४ || प्. १३७) चतुकं च चतुष्कोणे लङ्गूलं च पदोर्ध्वतः | ईशाग्निपितरो वायुः सदा शूलेष्ववस्थिताः || ५५ || आपवत्सोऽथ सावित्री जयदासश्चतुष्कगाः [घ्: चतुष्टगा] | बिद्धे मर्मणि मृत्युः स्यात्पुत्राणामुपमर्मणि || ५६ || सन्धौ मित्रार्थ [ख्: मित्राणि] हानिश्च वंशे वंशक्षयस्तथा | उपवंशे भवेत्पीडा गर्भनाशस्त्रिशूलके || ५७ || षट्के च बहुवैरित्वं चतुष्के वाहनक्षयः | लाङ्गूले च शिरोरोगं देववेधेषु पीडनम् || ५८ || मूर्ध्नि कर्तुर्विनाशः स्यात्तस्मादेतान् विवर्तयेत् | पदात्षोडशभागेन शिरोमानमिहोदितम् || ५९ || अर्कदिग्वसुभागैश्च वंशादीनां भवेत्क्रमात् | स्थूलमानमिदं प्रोक्तं सूक्ष्ममानमिहोच्यते || ६० || एकाङ्गुलं समारभ्य त्वेकैकयवहानितः | सोमतः पूर्वतो वापि सूत्रसञ्चालनात्कमात् || ६१ || कुड्यस्तम्भादिविन्यासे वेधदोषो न जायते | ज्ञानतोऽज्ञानतो वापि मर्मवेधो यदा भवेत् || ६२ || अघोरशतहोमेन तदा शान्तिः प्रजायते | इत्युक्ता वास्तुपूजात्र गृहप्रासादयोः सदा || ६३ || ईशश्चेशानरुद्रोऽसौ पर्जन्यो मेघनायकः | त्वष्टुः सुतो जयन्ताख्यो महेन्द्रो देवनायकः || ६४ || प्. १३८) सूर्यश्चादितिपुत्रश्च सत्यो धर्माधिपो महान् | वृषः स्कन्दो [ख्; नृपस्कन्धो; ग्: भृश. स्कन्दो] नभो व्योम वह्नि [घ्, ङ्: त्वग्नि] र्वैश्वानरो मतः || ६५ || पूषा [मू, अ, घ्: पूर्वा; ख्: प्रथा] तु पृषदेवस्तु दधीचिर्वितथस्तथा | गृहक्षतः कुजः [ग्: कजः] ख्यातो यमः कालश्च रोचनः [घ्: श्चराचरे] || ६६ || विश्वावसुश्च गन्धर्वो भृङ्गीशो दुर्बलो गणः | मृगः [मू, अ, ग्, घ्: यमः] स्वसा मृषा तृष्णा पिता स्याद्राक्षसाधिपः || ६७ || दौवारिकः स्मृतो नन्दी सुग्रीवश्चण्डभैरवः | पुष्पदन्तो गणश्रेष्ठो वरुणश्च जलाधिपः || ६८ || दैत्यामात्यो भवेच्छुक्रः शोषः केतुरुदाहृतः | पापो मन्द इति ख्यातो वेगो वापुश्च कीर्तितः || ६९ || नागश्च वासुकिः प्रोक्तो मुख्यनामा बृहस्पतिः | भल्लाटो यक्षराजासौ सोमश्चन्द्रोऽमृतात्मकः || ७० || समाख्य [ख्, घ्: ऋगाख्यः] श्वरको वैद्यः सुरमाता [घ्: सुराम्बा चा] दितिर्भवेत् | दैत्यमाता दितिश्चोक्ता आपश्चैव हिमाचलः || ७१ || आपवत्स उमादेवी मरीची ब्रह्मजोत्तमः | सविता चापरो ह्यर्कः सावित्री ब्रह्मपत्निका || ७२ || प्. १३९) विवस्वानर्यमा ख्यात इन्द्रसुहृदुपेन्द्रकः | इन्द्रजिद्रक्षसः [मू: इन्द्रदासः] पुत्रो मित्रो भानुस्तृतीयकः || ७३ || रुद्रदासः प्रचाण्डाख्यो यक्ष्माख्यः सोमरुद्रकः | धराधरो ह्यनन्तः स्याद्ब्रह्मा चतुर्मुखो मतः || ७४ || पर्यायोऽयं मुराणां तु यः प्रोक्तः पारमेश्वरे | सोऽत्रोक्तो न [घ्, ङ्: सोत्रोक्तेन] च रक्षाद्याः पूर्वोक्तास्ते हि [ख्, ङ्: तेऽपि] राक्षसा || ७५ || कादिहान्तैर्ध [घ्: न्तोर्ध्व] रारूढैर्बिन्दुयुक्तैर्हरादिशान् | आपादील्लोकमात्रस्तैर्यजेद्ब्रह्मध्रुवेण [घ्: स्थैर्जये-] च || ७६ || दीर्घाष्टकैक [घ्, ङ्: कैक्ष्लां] बिन्द्वाढ्यैश्चरक्याद्यांश्च राक्षसान् | प्रणवादिनमोऽन्तैस्तान्स्वाहान्तान्बलिकर्मणि || ७७ || पादोने [ख्, ङ्: पादेन] पूरिते खाते पदमादौ न्यसेत्क्वचित् | न केवलेष्टकाश्माद्यै केवलैश्चलनं यतः || ७८ || भूकम्पान्मारुताद्वथ वातशङ्काभयं भवेत् | मृद्वालुके [मू: द्दरुके] ष्टकाश्माभि प्राक्तस्मात्पूरयेच्च तत् || ७९ || मृदाष्टाङ्गुलयापूर्य हस्तान् पूराश्मभिस्ततः | अम्भसाप्लाव्य वाकोच्य [घ्: कोट्य; ख्, ग्, ङ्: वाकोप्य] हस्तिपादैस्तु याज्ञिकैः || ८० || प्. १४०) दैर्घ्यात्त्रिवेदवस्वंशैर्व्यास [मू: व्योम] दलावटं क्रमात् | कपूर्णशकटान्कुर्यात्समोर्वी [ङ्: समौष्वी] सूत्रकाष्ठकैः || ८१ || नीत्वा पादोन्नता तच्च [मू: न्नतात्वं] ततो वास्तुं यजेत्पुनः | समोपलिप्तके श्वभ्रे तद्द्वाराग्रे च मण्डपे || ८२ || कदलीचूतमालाढ्ये तोरणध्वजशोभिते | विधिना हेमवस्त्राद्यैर्गुर्वादीन्सुदिने यजेत् || ८३ || शिवकुम्भास्त्र [मू, ङ्: म्भास्तु] दिक्कुम्भांस्तन्मध्ये स्थाण्डिलं तथा | शिवमिष्ट्वा ततो हव्यमिष्टकुण्डे [घ्: मुक्तकुण्डे] यथाविधिः || ८४ || वास्तुदेवांस्तथाघोरं पाशुपतं च होमयेत् | सद्रात्नोषधयो धातुब्रीहिपारदसंयुतान् || ८५ || वस्त्रकण्ठान्वितान् कुम्भान्न्यसेद्धेमादिकान् क्रमात् | ([चापचिह्नान्तर्गतोऽयं पाठः मू, अ, ग्, घ् पुस्तकेषु नास्ति] अनन्तं मध्यतो न्यस्य निधींश्चाष्टौ ततः क्रमात्) || ८६ || चतुरोऽग्न्यादिकोणेषु ऐन्द्रादौ [मू: ऐन्द्र्यादौ] चतुरोऽपरान् | पद्मं चैव महापद्मं मकरं कच्छपं तथा || ८७ || मुकुन्दनन्दनोलांश्च शङ्खं चेत्यष्ट वै निधिन् | ओं काराद्यान्नमोऽन्तांश्च मध्यश्चान्तान् यथाक्रमान् || ८८ || न्यसेद्गुरुर्निधीनेतान् पुनस्तांश्चलयेन्न तु | न्यस्य [न्यस्त्वा लि० पु० पा०] शिलाष्टके देवान् क्वचिदष्ट [मू: दिष्ट] तनुं शिवम् || ८९ || प्. १४१) कुम्भाष्टके निधीशांश्च सन्निरुध्य [ख्: रुद्ध] पदं न्यसेत् | नवेष्टका [मू: न चेष्टका] शिला वापि कोणेष्वग्न्यादिषु क्रमात् || ९० || सिंहाङ्किताश्चतस्रश्च धर्माद्यङ्घ्र्यादिकान्न्यसेत् | तत्रान्याः पञ्च पद्माङ्कास्तास्वेका [मू: द्येका] मध्यदेशतः || ९१ || आधारशक्तिसंज्ञाश्च धर्माद्यान्प्राग्दिशादितः | शर्वाद्या भीमपर्यन्ताः शिलाष्टकेषु देवता || ९२ || स्वनामाद्यर्ण [मू, ङ्: वर्ण] मन्त्रैश्च स्नानपूजादिपूर्वकान् | पीतत्वान्ताङ्घ्रिरूपांश्च धर्माद्यांश्च [घ्: र्मादिस्या] वृषादिकान् || ९३ || स्थिरमासनमध्वानं [घ्: मद्बाणं] ध्यात्वा स्रग्भिः प्रकल्पयेत् | अन्यत्रोक्ताः क्वचित्कुम्भाः शिलाश्चाप्यथ पञ्च च || ९४ || न्यसेत् प्राङ्मध्यतोऽश्मानं [ख्: मनात्] ततश्चाग्न्यादि कोणतः | पद्मं चैव महापद्मं मकरं कच्छपं तथा || ९५ || शङ्खं च पञ्चमं चेह [ख्, ङ्: चैव] स्वसंज्ञाभिर्निधीन्न्यसेत् | प्रासादं सूत्रयित्वा तु कुंड्यविस्तरमध्यतः || ९६ || कर्णसूत्रसमे स्थाने शिलान्यासविधिर्मतः | चतुरस्राः शिलाः कार्याः समन्तात्करसम्मिताः || ९७ || विस्तरस्य [ख्: रस्तु] त्रिभागेन बाहुल्येन समुच्छ्रिताः [ख्: समुच्छ्रिता] | ऐष्टकास्त्वैष्टके कार्याः शैले शैलाः शिलाः शुभाः || ९८ || प्. १४२) नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता | अक्षतैर्वेदिकां कृत्वा [मू, अ, ख्: वेदिका कार्या] तस्योर्ध्वे विनिवेशिताः || ९९ || आग्नेप्यादिषु कोणेषु नन्दाद्या अवतारयेत् [ख्: तानयेत्] | तूर्यमङ्गलनिर्घोषैर्निमित्तैः शोभनैः शुभैः || १०० || प्रथमं स्थापयेन्नन्दां शरीरविषुवेण तु | अन्याः क्रमेण न्यस्तव्याः स्वदिक्स्था मन्त्रिणा ततः || १०१ || समकर्णाः स्थिराः कृत्वा स्नाप्याः पूज्याः क्रमेण तु | अस्त्रतोयेन प्रथमं मृत्तिकाद्यैः पुनस्तु तैः || १०२ || स्नापयित्वा शिलास्तास्तु हेमवर्णाः शुशोभनाः | विद्यारूपास्तु ता ध्यात्वा परितुष्टाः स्मिताननाः || १०३ || आवाह्य स्थापयेन्मन्त्री विधिना मन्त्रवारिणा | सुदृढै [ग्: सुवृतैः] मृन्मयैःकुम्भैर्वित्ताढ्यैर्हेमनिर्मितैः || १०४ || वस्त्रेण तोयमुद्धृत्य चन्दनेन विलेपयेत् | वस्त्राद्यैः [मू, अ, ख्, ग्, ङ्: वस्त्रादि] पूजनं कृत्वा नैवेद्यं सन्निवेदयेत् | कृत्वैतन्नाममन्त्रेण शिलां मन्त्री [घ्: मन्त्रैः] प्रसाधयेत् || १०५ || ओं नन्दे नन्दिनी पुसां त्वामत्र स्थापयाम्यहम् | अत्र त्वं तिष्ठ संहृष्टा यावदाचन्द्रतारकम् || १०६ || आयुः कामं श्रियं नन्दे देहि त्वं सर्वदा नृणाम् | अस्मिन् रक्षा सदा कार्या प्रासादे यत्नतस्त्वया || १०७ || प्. १४३) ओं भद्रे सर्वदा भद्रं पुंसां हितावहा सदा | आयुर्दा कामदा देवि श्रीप्रदा सर्वदा [ख्: स्वामिनः श्रीपदा] भव || १०८ || ओं जये सर्वदा ह्यत्र तिष्ठ त्वं स्थापिता मया | नित्यं जयावहा देवि स्वामिनि श्रीप्रदा भव || १०९ || ओं रिक्ते रिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे | सर्वदा सर्वदोषघ्ने तिष्ठत्वमीशरूपके || ११० || ओं पूर्णे त्वं महाविद्ये सर्वसन्दोहलक्षणे | सर्वं संपूर्णमेवात्र प्रासादे कुरु सर्वदा || १११ || तेषामुपरि विन्यस्याः शिलाः पञ्च क्रमेण तु | शिवाज्ञया निरोप्यास्तु [मू, अ, ग्, ङ्: नोबोध्यास्तु] नन्दाद्या लिङ्गवत्सदा || ११२ || एवं प्रसाद्य नन्दाद्या मध्ये कूर्मं यजेत्सुधीः | कार्योंऽस्मिन् कुम्भविन्यासे शिवविन्यासवद्विधिः || ११३ || रत्नलोहस्तथा धातुबीजौषधिसपारदैः | क्षिप्त्वैवं कुम्भगर्भेष्वष्टौ वा पञ्च [घ्: कुम्भ] निधीन्न्यसेत् || ११४ || न्यस्तव्याधारशक्तिश्च शिलासूपरि [ख्, ङ्: मुपरि] पूर्ववत् | साधिदेवाश्च [ख्: सोऽपि देवोऽपि] बुद्ध्यन्तं पीठबन्धा [मू: वस्म] वसानतः (?) || ११५ || कृत्वा महोत्सवं रात्रौ दत्वा दिग्रक्षसां बलिम् | गुर्वादिभ्योऽशनं दानं दत्वा कार्योपजङ्घिका || ११६ || प्. १४४) शिखरार्धात्पृथुस्त्र्यंशाच्चोपजङ्घोंत्तमोच्छ्रयः | मध्यमोऽङ्घ्रिविहीनस्तु ज्येष्ठार्धेनाधमो मतः [ख्: नार्धमानतः] || ११७ || ब्रह्मोपेन्द्रार्कदेवानां भवेज्ज्येष्ठोपजङ्घिका | अघमा चेतरेषां तु शिवस्य तु यथेच्छया || ११८ || मध्ये श्वभ्रं परित्यज्य लिङ्गार्धं विष्णुविस्तरम् | शिला कूर्मादिकार्याय परितः संप्रपूरयेत् || ११९ || पीठमध्ये सिते पद्मेऽर्कसुरा [घ्: स्वरा] द्यर्णभेदितैः | मूर्तिमूलाङ्गभूते च ध्यात्वा वास्तुं यजेत्पुनः || १२० || समोपजङ्घिकां कृत्वा जगतीयावदेव हि | तूर्यमङ्गलशब्देन प्रासादं तत्र सूत्रयेत् || १२१ || इति लक्षणसमुच्चये वास्तुपूजापदसंस्थापनं नाम पञ्चविंशो विधिः || २५ || अथ षड्विंशः त्रिद्व्यष्टर्तु [मू, अ, ङ्: त्र्येद्धेतुं; ख्: त्र्यवीवृत्त; घ्: त्र्यर्थतु] गुणः स्युश्च प्रासादा लिङ्ग [ख्, ङ्: दाल्लिङ्ग] मानतः | अर्धेन लिङ्गदैर्घ्येण भित्तयो विस्तृताः क्रमात् || १ || षोडशाङ्घ्रौ [घ्: शांशी] कृते क्षेत्रे वेदांशैर्गर्भमध्यतः | तदंशतुल्यवीथ्यस्तु स्युरर्कांशैस्तु भित्तयः || २ || पञ्चविंशतिकाङ्घ्रौ वा मध्यैकांशेन पिण्डिका | तद्गर्भोऽष्टाभिरंशैः स्याद्विकारांशैस्तु भित्तयः || ३ || मिश्रार्चाव्यक्तलिङ्गानां त्रिद्विसार्धद्वि [ख्: सार्धाङ्घ्रि] भागिकैः | कनिष्ठादिक्रमाद्गर्भः क्वचिद्भित्तेस्तु वर्धनम् || ४ || षड्विंश [ख्, घ्: त्रिंश] त्पदविष्कम्भो विंशत्यंशैस्तु भित्तयः | गर्भव्योमस्य चार्केण पीठी मध्ये युगांशतः || ५ || भित्तिविस्तरमानेन लिङ्गं दैर्घ्यें [ख्, ग्: : लिङ्गदैर्घ्यं] भवेत्क्वचित् | द्विगुणं तत् क्वचित्प्रोक्तं प्रासादे रसभाजिते || ६ || धामतुल्याथ पादोना चार्धेन जगती त्रिधा | ज्येष्ठाद्या निर्गमा ज्ञेया नेमी तत्पादवर्जिता || ७ || प्. १४६) स जगत्या परं [ख्, घ्: त्यात्परं] छन्दं क्रमः [घ्: ब्रूमः] षट्त्रिंश [ख्, घ्, ङ्: विंश] दंशकैः | युगाङ्घ्रेर्मध्यतो गर्भः स्यात्तदेकेन पिण्डिका || ८ || रविभागेन कुड्यानि भ्रमाणात्तु नखांशकैः | अष्टाविंशतिभिर्भित्तिः सा स्यात् स्तम्भकुमारिका || ९ || दृढासारैश्चतुर्दिक्षु मण्डपस्त्रिंशदंशकैः | चतुः स्ताम्भाश्च तन्मध्ये द्वादश स्युः कुमारिकाः || १० || तिस्रस्तिस्रस्तु कोणेषु स्तम्भौ चाग्रे कुमारिके | पार्श्वयो रग्रता वापि कुर्यादासारसंयुते || ११ || सभित्तिः कोणभित्तिर्वा त्वभित्तिरपि चापरः | सकोणस्तम्भसंयुक्तो मण्डपश्च त्रिधा मतः || १२ || तद्वच्चतुष्किकाः [तुष्टिका लि० पु० पा०] कार्याः पार्श्वयोः पृष्ठतस्त्रिधा | द्वादलांशैस्तु तान् सर्वान् प्रासादे चोत्तमोदिके || १३ || षड्भागौ रथकं मध्यं त्रिभिश्चोपरथौ तथा | वेदैरनु [घ्: स्तनु] रथौ कुर्याद्भूतैकेन [ख्: भूतकोणैः] तथान्यतः || १४ || मध्यादेकद्विरामांशैः प्रवेलात्परितः क्रमात् | जगतीमंशतो धृत्वावेष्टनांशं तु लोपयेत् || १५ || रसांशैर्बलभी स्थाप्या चतुर्दिक्षु च मध्यतः | विदिक्षु कोणधामानि वस्वंशैर्मण्डपैः सह || १६ || प्. १४७) भागैकंबाह्यतो दत्वा [ग्: दद्यात्] शेषमध्यांशकान् भवेत् [ख्, ग्: हरेत्] | समसूत्राङ्कके छेदे समभागाद्विवर्तयेत् || १७ || जगत्या भ्रमणायाश्च मण्डपस्य च भित्तिषु | चारु सुरालयस्तम्भबलभीशिखराणि च || १८ || कुड्यं [ख्: कुटाश्च] च पुष्करं चैव रूपकं पत्रवल्लिकाम् | तद्देवस्य कुथं [मू, अ, ग्, घ्: कथां] वापि घटयेयुः शुशिल्पिनः || १९ || ज्ञात्वा ज्ञात्वा च तद्भगानमुक्तान् वृद्धिभित्तिभिः | वास्तुमानमिति ख्यातं लिङ्गमानमथोच्यते || २० || लिङ्गद्विगुणितो गर्भस्तदर्धान्मध्य आसनम् | पीठार्धांश [मू: र्धाच्च] तदंशाभ्यां द्वाभित्त्योश्च विस्तरः || २१ || भित्तेर्यों विस्तरो बाह्यजङ्घातन्तुसमुच्छ्रिता | मञ्जरी तु द्विभागाभ्यां मञ्जर्यर्धेन नासिका || २२ || नासिकार्धं [घ्: कोर्ध्वं] तु यच्चार्धं तेन स्कन्धो भवेत्सदा | पञ्चांशैस्तत्पृथुत्वं च तथोर्ध्वस्त्र्यंशकैर्गलः || २३ || कपोलामलसारौ च भागार्धार्धविनिर्गमौ | त्र्यंश [घ्: द्व्यंशा] र्धांशद्विभागार्धैः क्रमाद्ग्रीवादिकोच्छ्रयः || २४ || कपोलं वेदिकातुल्यमीशानो लिङ्गमानतः | धामार्धात्भ्रमण कार्या तदर्धेन च भित्तयः || २५ || प्. १४८) प्रदक्षिणाग्रतो धाम्नो द्विगुणो मण्डपः सदा | मण्डपार्धप्रमाणेन पुरतो मुखमण्डपः || २६ || मुखाख्यमण्डपार्धेन करणीया चतुष्किका | चतुष्किकाग्रतो नित्यं जगती धाममानतः || २७ || जगत्यर्धप्रमाणेन कोणधामानि [घ्: धामादि] वर्तयेत् | तत्समा बलभी दिक्स्थाः स्वमानमण्डपान्विताः || २८ || तत्रोपजङ्घिकार्धे [ख्, घ्: कोर्ध्वे] तु पदपीठं विवर्तयेत् | प्रासादतुर्यभागेन त्र्यंशैर्वा तत्समुच्छ्रयम् || २९ || षडङ्गा [घ्: षडंशा] धिकधाम्नस्तु विस्तारस्तस्य कथ्यते | तदुच्छ्रयं हरं कृत्वा साधांशे खुर [घ्: क्षुर] पट्टिका || ३० || साङ्घ्रिद्वाभ्यां भवेत्कुम्भः पादेन कुम्भपट्टिका | द्विभागाभ्यां भवे [घ्: तथा] त्कण्ठस्तदग्रें [घ्: षड्] ऽशंगुणं भवेत् || ३१ || एकेन गलपट्टी स्याद् द्वितीये वलिताङ्किका [ख्, घ्: ङ्किता] | तृतीयेनोपपट्टी तु तपांशा [ख्: तथाङ्गा] च्चतुरस्रिका || ३२ || पादोनांशेन हंसाख्या तत्पादेनार्ध [घ्: नोर्ध्व] पट्टिका | तद्ध्यंशमष्टधा कृत्वा तैश्च पद्मं विवर्तयेत् || ३३ || एकांशेन प्रवेशः स्यात् षडंशे [घ्: षडङ्गे] नारविन्दकम् | कर्णिका शशिभागेन विस्ताराच्चाधुनोच्यते || ३४ || प्. १४९) जिनीकृते तु पीठार्धे मध्थे रथकमष्टभिः | तन्मध्ये तु द्विभागाभ्यां प्रवेशो गृह [ग्: ग्रह] हेतवे || ३५ || प्रवेशः पुनरंशे च मध्यस्थे रथके सदा | एवमेव तु जङ्घायामञ्जर्या वेदिकावधिः || ३६ || जङ्घिकामूलमध्ये तु [ख्: मध्येषु] बलभीं वर्तयेच्छुभाम् | प्रासादशिखरं वापि ब्रूयामुपरथादिकान् || ३७ || नगैरुपरथं कुर्यान्नवांशैः कोणबन्धनम् | पीठाद्यब्जान्तमुच्छ्राये प्रवेशश्च निगद्यते || ३८ || खुरप्रवेशमर्धेन कुम्भमेकांशतस्तथा | अर्धेन पट्टिकां कुर्याद्द्वाभ्यां कण्ठप्रवेशकम् || ३९ || कण्ठप्रवेश [ख्, ङ्: पट्टार्ध] शनिष्कासा तथा बलितपट्टिका | अर्धांशेन तदूर्ध्वे तु कार्या चैवोपपट्टिका || ४० || तत्समा निर्गमेनापि पट्टिका चतुरस्रिका | त्र्याङ्घ्रिप्रवेशो हंस [घ्: द्व्यंश] स्तत्पट्ट्यर्धप्रवेशतः || ४१ || निर्गमांशेन [ख्: माङ्गेन] पद्मस्य प्राक्सार्धांशप्रवेशनम् | सन्धिपत्रान्वितं [ख्: ङ्कित] पद्मं विदधीत सुशोभनम् || ४२ || अर्धांशवेशनाद्धाम कर्णिकोपरिसस्थितम् | शिलोत्थं पदपीठं स्यादेवं दार्विष्टकामये || ४३ || प्. १५०) पृष्ठार्धद्विगुणा जङ्घा जङ्घाद्विगुणमञ्जरी | तदुच्छ्रयं ग्रहं कृत्वा जङ्घा तन्मध्यतो गुणैः || ४४ || रसांशर्मञ्जरी कार्या तदर्धाच्छुकनासिका | वेदिबन्धवरण्डा [मू, अ: ववण्डा] दिन्निगदाम्यनुपूर्वशः || ४५ || जङ्घिकार्धपृथौ सार्धजिनांशैर्धांशकैर्बहिः | उच्छ्रये धामतुर्यांशात्तस्मिन्निद्रांशकेकृते || ४६ || तद्द्व्यं [मू, अ: तर्ध्ये] शाभ्यां च कुर्वीत पट्टिकां चतुरस्रिकाम् | सार्धत्रयेण कुम्भः स्यात्तदर्धे कुम्भपट्टिका || ४७ || ऋतुभागात्मकं चैतत्कथितं खुरसंज्ञकम् [घ्: संज्ञितम्] | भागार्धेन तु कण्ठः स्यात्कलशश्च गुणांशतः || ४८ || तत्पट्टिकार्धभागेन वेदांशः [घ्: वेदांशैः] कलशो वरः | प्रवेशाच्चैकतः कण्ठाश्चार्धे [मू: सार्धे] निर्गमपट्टिका || ४९ || चतुरस्रांशतः पट्टी कुम्भस्य पादचेन्द्रतः [ख्: चन्द्रतः] | कुम्भपट्टी तु पादेन कुपाल्या द्यंशतः स्थिता || ५० || एवं विवर्तयेयुश्च शिल्पिनः शास्त्रवित्तमाः | त्रिभिः खुरादिभिर्युक्तं वेदीबन्धाभिधानकम् || ५१ || वेदीबन्धचतुर्थांशाद्बदुर्मिः (?) [ग्: दुद्वर्तिः] स्यात्तदूर्ध्नतः | कृतेषु त्रिषु भागेषु पादोनांशात्प्रवेशिकान् || ५२ || प्. १५१) पादान्निर्गमपट्टी च कुम्भनिर्गमभागतः | भागेन चतुरस्राख्या पट्टिका सार्धतः स्थिता || ५३ || एंको द्वाभ्यां सपट्टिः स्याद्बाह्यत्र्यंशप्रवेशतः | खुंरकुम्भवती जङ्घा ज्येष्ठानां पादमानतः || ५४ || धामार्कांशाच्च जङ्घोर्ध्वे [ख्: जङ्घार्धं] कर्तव्या लम्बिनी बुधैः | यावच्चिन्नवकां वापि पत्रवल्याथवा वरा || ५५ || तिलकान्तरशोभाढ्या मुक्ताहारावलीयुता | चतुर्थांशश्च जङ्घोर्ध्वे विभज्य वसुभागतः || ५६ || धृत्वैकं सदधः पश्चन्नवघा तत्तु कारयेत् | तत्रार्धेन प्रवेशाख्यं पट्टिकां तु वि [ख्: भुवि] वर्तयेत् || ५७ || तथा निष्काशिकार्धेन भागेन चतुरस्त्रिका | पादोनांशेन हंसाख्या [ख्; हस्ताख्या] पट्टी तत्पदतो भवेत् || ५८ || त्रिभिर्भागैर्वरण्डाख्या कण्ठपट्टीतु भागतः | तत्पट्टी पादतः कार्या पादोनांशेन निर्गमा || ५९ || तत्र त्रिकटपट्टी स्यात् त्र्यंशैर्वेदास्रिकांशतः | भागमेकं त्रिधा कृत्वा प्रवेशश्चैक भागतः || ६० || कण्ठसूत्रः समःकार्यो द्वितीये निर्गमा तथा | पट्टिका तु प्रकर्तव्या द्वितीयेनोपनिर्गमा || ६१ || प्. १५२) बलितं द्व्यंशपादोनात्पादात्तत्पट्टिका भवेत् | बलिताह्वं त्रिभि [ख्: ङ्कास्त्रिभि] र्भागैर्ग्रहांशैस्तु कटिर्भवेत् || ६२ || एको भागो रसांशैस्तु तत्रकण्ठो द्विभागतः | कण्ठसूत्राद्विशेत्कठो भागात्तत्पट्टिकोर्ध्वः [मू: कार्धतः] || ६३ || भागेन हंसनिष्काशो द्विभागे चतुरस्रिका | भूमेर्जङ्घानितम्बौ च कीर्तितौ त्वष्ट्ट शास्त्रतः || ६४ || वसुभागाग्रपादं तु वेद्यर्धांशं [ग्: र्धं स] प्रकल्पयेत् | तदधः सार्धपक्षांशं विस्तारेण तु कारयेत् || ६५ || तत्र सार्धांशतः स्कन्ध तच्छेषं षोडशांशकम् [ख्: शात्मकम्] | वेद्याः कट्याश्च मध्यांशा [ख्: ध्याङ्गा] च्चतुरः पादवर्जितान् || ६६ || कृत्वा [मू: हत्वा] विकारभागांश्च कट्यूर्ध्वं स्कन्धकावधिः | एकैकेन तु भागेग विशेत्कण्ठक [ख्, ङ्: कं कण्ठ] सूत्रतः || ६७ || कोणपिण्ड्यादि [मू, घ्: पिण्ड्यहि] विस्तारान्नवमेनोदकान्तरम् | भवेदनुरथः षद्भिः सप्तमेनोदकान्तरम् || ६८ || मध्यरथोर्ध्वमष्टांशैरेवं विद्याज्जिनांशकैः | भूः [मू, ङ्: भूः] कटिस्कन्धयोर्मध्ये पञ्चात्रिंशद्भिराभजेत् || ६९ || नवांशैश्चोच्छ्रिता प्राग्भूः शेषास्त्वेकैकहानितः | कोणानुरथकादीनां वृत्तप्रवेश उच्यते || ७० || प्. १५३) प्रत्येकं [मू, घ्: पत्रैकं] भूमिकावेशो बाह्यार्धेन भवेत्सदा | तद्वच्चतुर्थभागेन प्रवेशोऽनुरथस्य च || ७१ || एवं सङ्कोचयेत् [ग्: ङ्कारये] प्राज्ञो मध्यस्थं रथकं सदा | लुप्त्वा भागान् भुवां स्वां स्वां सर्वासां च यथाक्रमम् || ७२ || कृत्वेन्द्रांशात्ततो भूमिं प्रथमां वर्तयेद्बुधः | पादोनद्व्यंशतः कुम्भस्तत्पट्टी पादतो भवेत् || ७३ || कण्ठार्धेन तथा पट्टी पार्श्वयोरुभयोरपि | पादोनद्यंशतो मध्ये पुटाख्यं वृत्तगर्भकम् [ख्, ङ्: गर्तकम्] || ७४ || तद्गर्भपार्श्वयोस्त्र्यंशादन्तहयौ च कीर्तिते [ख्, घ्, ङ्: किर्त्यते] | कुम्भोपमे च ते कार्ये छुरिकापक्षयोस्तथा || ७५ || वेदास्रा पट्टिका कार्या पादहीना तु कुम्भिका | पादेन कुम्भपट्टी तु चार्धेन गलपट्टिका || ७६ || कण्ठपद्मार्धतो ज्ञेया भागेन चतुरस्रिका [मू: रष्टिका] | कुम्भार्धेन तथा पट्टी कण्ठस्तत्पट्टीकार्धतः || ७७ || षड्भागेष्वेवमेवं तु वर्तयेत्कोणयोः सुधीः | पादोनद्व्यंशतो मध्ये पुटश्वभ्रं विवर्तयेत् [मू, ङ्: वर्जयेत् ] || ७८ || पार्श्वयोर्मेखले वृत्ते त्र्यंशैः [ग्: द्व्यंशै] पूर्णेन्दुशालिकाम् | त्रिकण्ठकोच्छ्रयं द्वाभ्यां पक्षयोस्तत्र वर्तयेत् || ७९ || प्. १५४) चन्द्रशालायमध्योर्ध्वें त्र्यंशैः शिखरिका तथा | अङ्घ्री तद् [मू: अङ्घ्रीन; घ्: अद्यूभ] द्व्यंशतो मध्यं [घ्: मस्तं] लवलीफलवद्भवेत् || ८० || तन्मूर्ध्नि चाङ्घ्रिणा पट्टी प्रवेशः पट्टिकार्धतः | निर्गमाख्या परांशेन [घ्: परार्धेन] चतुरस्रांशतो भवेत् || ८१ || कुम्भपट्टीं च भागार्धाद्भागार्धार्धेन [मू: र्धे प्र] साधयेत् | तन्मध्ये तिलकं कार्यमेवं त्र्यंशैर्वरण्डिका || ८२ || एवं मन्वंशतः प्राग्भूश्चतस्रोऽन्यास्तिथिक्रमात् | रूपं कोणरथस्यैवं वक्ष्ये चोपरथं त्वतः || ८३ || षष्टिभागोच्छ्रयं कृत्वा तत्रांशाश्चतुरस्रिका | कुम्भैकेनार्धतः पट्टी कण्ठश्चार्धांशतस्तथा || ८४ || भागमेकं त्रिधा कृत्वा कण्ठपट्ट्यंशतो भवेत् | वृत्तपट्टी च निष्क्रान्ता भागभागेन कल्पयेत् || ८५ || तद्वत्पार्श्वे च निष्पाद्यं शिखरीमध्यदेशतः | अंशे गर्तालकं तज्ञ तत्पार्श्वयोर्गुणांशतः || ८६ || विज्ञेया तुहरी प्राज्ञैर्भागोच्छ्रया शिखर्यथ | ऊर्ध्वाधस्तिलकाक्रान्ता मध्यस्थानोर्ध्वतः स्थिता || ८७ || पार्श्वयोश्च तुहर्यास्तु कर्तव्ये वेदिकारिके | चतुर्भागैश्चतुर्भागैः शेषान्याश्चन्द्रशालिका || ८८ || प्. १५५) तिसृभि [ख्, ङ्: त्रिंशति] स्तिसृभिः कार्योः समुच्छ्रायो महीक्रमात् | एवं पञ्चदशाख्याताः पञ्चभूमीन्दुशालिकाः || ८९ || मध्यरथक [ख्: मध्ये रथस्य] विस्तारं सार्धरमांशकैर्भजेत् | सार्धेन मध्यतस्तत्र रथकार्धं समुद्गतस् || ९० || रथार्धभागवेशेन द्व्यंशतः पार्श्वतस्तथा [मू: सदा] | षष्टिभागसमुच्छायं कुर्यादर्धेन्दुशालिकाम् || ९१ || तत्रैकांशेन वेदास्रा कुम्भाख्याश्चैकभागतः | कुम्भपट्टीं तथा कण्ठमर्धेन परिकल्पयेत् || ९२ || द्विधा विभज्य भागैकं कण्ठपट्ट्यथ कुम्भिका [घ्: वृत्तिका] | ([चापचिह्नान्तर्गतोऽयं पाठः मू, अ, ख् पुस्तकेषु नास्तु] चतुरस्रा तथा कार्या भागभागेन निर्मिता || ९३ || तत्र मध्ये पुटार्धं स्यात्पादोन द्व्यंशमुच्छ्रितम् | खनेश्च तिलकोपेतं तद्बाह्येऽर्धेन्दुशालिका || ९४ || वृत्तरूपा तु सा कार्या सार्धद्वाभ्यां समुच्छ्रिता |) तन्मध्ये शिखरी द्व्यंशा उच्छ्रितातिमनोरमा || ९५ || पार्श्वे त्रिकण्ठकं रम्यं द्व्यंशतस्तत्समुन्नतम् | तत्पार्श्वार्धारथेऽप्येवं कर्तव्यार्धेन्दशालिका || ९६ || तद्वद्वरण्डकादन्यद्वर्तयेद्वेदभागतः | उपर्युपरि च त्रीणि एकं [मू, अ, ख्, ग्, ङ्: एवं] भूसूत्रतुल्यतः || ९७ || प्. १५६) पञ्चभूवेदिकान्ता च [मू: कां तावत्] कार्या चन्द्रार्धशालिका | मध्यरथस्य कर्मेदं वेदिकाद्यमथोच्यते || ९८ || प्रागुक्तवेदिकोच्छ्रायं सार्धद्व्यंशं तु कारयेत् | पादात्प्रवेशपट्टी स्यान्निर्गमा पट्टिकाङ्घ्रितः || ९९ || हंसपट्टी तु भागेन पादोना च कपोतिका | पादेन चतुरस्रास्यात्सा गर्भार्धप्रविस्तरा || १०० || वेद्याश्चोपरिभागस्तु विस्तात्त्र्यंशको मतः | हंसाख्यान्तार्धसूत्राच्च षड्विभागस्तदुच्छ्रयः || १०१ || तत्रांशाद्गलविस्तारः कपोलनिर्गमांशतः | कपोलादंशनिष्काशादमलासारविस्तरः || १०२ || पक्षीशोच्चा भवेद्ग्रीवा तदस्रैकं गुणं भजेत् | अर्धेन गलपट्टी च उपपट्ट्यपरार्धतः || १०३ || वृत्ताख्या तत्त्व [ख्, घ्: तनु] भागेन तत्पार्श्वा [ग्: तत्पश्चा] च्चतुरस्रिका | द्वाभ्यां चामलसाराख्यं परितो वृत्तमुच्छ्रितम् || १०४ || विकारदलसंयुक्तं तदूर्ध्वैकं गुणं [ख्, घ्: युगं] भजेत् | एकेन चतुरस्रा स्याद् द्वाभ्यां हंसकपोतिका || १०५ || प्. १५७) कपोल [घ्: कपाट] घटनांशेन भवेदेवं तु मस्तकम् | अन्यार्थे [ख्: कन्यार्धे] ऽप्येवमेवं तु प्रासादं घटयेद् दृढम् || १०६ || प्रासादपृथुपञ्चांशादमलाख्यं त्रिभागतः | सभूतांशैस्त्रिभिः कार्यो घटस्तद्द्विगुणोच्छ्रयः || १०७ || अघोरो दक्षिणे स्थाप्यश्चोत्तरे वामसंज्ञकः | पूर्वतोनाञ्जले [घ्: ञ्जलै] र्वाजो जङ्घाङ्गद्वास्तथैव [मू: त्वात्तथैव] च (?) || १०८ || शिखरार्धेऽप्यवस्थाप्याः सुराश्च रथमध्यतः | क्वचिद्भैरवनाट्येशगौर्यर्को दक्षिणादितः || १०९ || शिखरं भूषतेदेतैरिन्द्राद्यैर्वा स्वदिक्स्थितैः | पूर्वोक्तोद्गमपृष्ठाघ्रा [ख्: पृथ्वास्रा] तज्जङ्घामध्यतो मुखम् || ११० || भवेज्ज्येष्ठादिकं तच्च तदूर्ध्वें पूर्ववत्कटिः | तत्कट्यर्धसमुच्छ्रायं प्रविभज्याष्टभागतः || १११ || तत्त्र्यंशैर्वर्तयेत्प्राग्वद्रथकानेकभूमिकान् | त्र्यंशकैश्चन्द्रशालां द्वयंशतो मध्यतः पुरम् || ११२ || तत्रस्थं जीवरूपं च घटयेत्सुन्दरं बुधः | पार्श्वयोश्चन्द्रशालायास्त्रिकण्ठं [मू: कण्ठ] द्व्यंशतो भवेत् || ११३ || पृष्ठतश्चन्द्रशालाया भेर्येकेन तु वर्तुला | मध्यार्धे [घ्, ङ्: मध्योर्ध्वे] चन्द्रशालायास्त्वंशाश्चिन्नरकं मतम् || ११४ || प्. १५८) एकेन शिखरं चोर्ध्वें तिलकाकारकं च तत् | एवं तत्पार्श्वतः कार्याश्चार्धेन्दुशालिकादयः || ११५ || वास्तुभूषणमश्मोत्थमुक्तमन्यानि च ब्रुवे || ११६ || इति लक्षणसमुच्चये तलच्छन्दवास्तुभूषणाख्य सामान्यपञ्चरथकप्रासादवर्तना नाम [नामेति पाठः लिखितपुस्तकेषु नास्ति] षड्विंशो विधिः || २६ || अथ सप्तविंशः अथान्यथा सुरावासाञ्ज्येष्ठादींस्त्रीन् यथाक्रमम् | रथकेर्नवसप्तेषुसङ्ख्यैरर्कमताद् ब्रुवे || १ || मञ्जर्या मूलविस्तारैर्भवेन्नवतिभागिके | रन्ध्रादि वसुसप्तांशैर्मध्यार्धरथको ग्रहैः || २ || सपादैकैकभागेन जलमार्गो विशेत्समम् | रथकाः सार्धचत्वारश्चत्वारश्च छलागमाः || ३ || नव त्र्यंशो [ख्: नवत्यंशो] च्छ्रयात्तस्या मञ्जर्या मनुभि [ख्: मणुभि] र्मही | ततश्चैकैकसन्त्यागात् षडण्डं नव [ग्, घ्: न्नन्नव] भूमिकाः || ४ || वेदिकां बाह्यतः कृत्वा चन्द्रशालादि भूषिताः | विद्याधरामरैर्युक्तं स्यादेवं ज्येष्ठखद्रुमः || ५ || विस्तारे षष्टिभागाढ्ये मनिभिः कोणबन्धनम् | उपाख्यः साङ्ग्रिबाणेन मुनिभि [घ्: सप्तभिः] श्चाणुकं भवेत् || ६ || मुनिभीरथकार्धं स्यात् सपादांशैः क्रमाद्विशेत् | जलान्तरं त्रिभिरेवं जलार्धं त्वेकमेव [ख्: त्वेवमेव] तु || ७ || रथाः सप्त भुवः सप्त सप्त त्र्यंशो [ख्: त्यंशो] च्छ्रये कृते | कामांशैः प्रथमाभूमिरेकैकह्रासयोगतः || ८ || प्. १६०) आसप्तभागतः कार्या मह्यः [ग्: सप्त] सप्त सुशोभनाः | चन्द्रशालादि प्रत्राढ्या पूर्ववद्वेदिका बहिः || ९ || एकोनदशमांशास्तु कृत्वा विस्तरतो बुधः | भूतांशेन तु कोणः स्याद्वेदेनोपरथस्तथा || १० || मध्ये चाणु [ग्: चारु; घ्: चाथ] रथो बाणैः पादोनांशांशकैर्बहिः | एवं शेषार्धकं कार्यं पञ्चभूरथकान्वितम् || ११ || शतार्धांशोच्छ्रयं कृत्वा रविभिः प्राक्तनी [ख्: प्रोक्षणी] मही | रूपनाशात्क्रमादन्या वस्वन्ताः पञ्चभूमयः || १२ || वेदास्रवृत्तयोर्मध्ये तत्क्षेत्रं युगभागिकम् | कृत्वैकेनतु संवेशमाद्यः कोणरथो भवेत् || १३ || मध्यार्धरथको द्व्यंशः प्रवेशात्प्रतिषिध्यति | पञ्चमी रथकैर्धाम तथान्यद्भूत भागतः [घ्: गशः || १४ || भवेत्सप्तरथान्यस्यस्तु [मू, घ्: ढ्यस्तु] तथैव रसभागिकैः | एकैकेन प्रवेशस्तु द्वाभ्यां मध्यर्धगो रथः || १५ || एवं नवरथो ज्येष्ठः प्रासादः शङ्करोदितः | विस्तरो वेद्यधोः यः स्यात्तथा मञ्जरिकोच्छ्रितिः || १६ || एतौ तिथ्यंशतो भक्तौ ज्येष्ठा मध्या हरादितः [ख्, घ्: रांशतः] | अधमो नवभागैः स्यात्स्थूलामध्यकृशास्त्रिधा || १७ || प्. १६१) विस्तारार्धोन्नता जङ्घा मध्यमे पादवर्जिता | ततुल्या कन्यसे धाम्नि शिखरं द्विगुणं त्रिषु || १८ || अर्कपुष्पा यवाकारा तथा दीपशिखोपमा | सार्धद्विगुणपादोना त्रिगुणा मञ्जरी त्रिधा || १९ || जङ्घाविस्तरसार्धत्रिसूत्रकैर्भ्रमणाद्भ (भ) वेत् | जङ्घार्धार्धस्थिते [ग्: सार्धस्तते] सूत्रे वृत्तं कङ्कटनाच्छुभम् || २० || हीनाः स्युर्लक्षणैर्हीनास्त्रिरथास्त्रिवराः क्वचित् | तेषां कोणद्वयं बाणैरेकैकेन जलच्युतिः || २१ || सा विस्तारसमश्वभ्रा धामभिः परिमण्डितम् | मध्यरथो (ऽ) हि भागेन कार्यो विंशतिभागिकः || २२ || त्रिंशद्भागसमुच्छ्राये रुद्रांशैः प्रथमा मही | अन्या दिग्ग्रहभागैः स्याद्भूमिका पूर्ववद्वरा || २३ || प्रासादो लिङ्गतः स्वांशो ब्रह्माद्यास्तेऽत्र च त्रयः | चतुरष्टास्रवृत्ताश्च तद्भेदाश्चापरे त्रयः || २४ || वेदास्रदीर्घकाच्चास्रादष्टास्रा [घ्: ऽष्टास्रो] त्षोडशास्रकः | वृत्तावृत्तायतः [ख्, ङ्: द्वृत्तादयः] षट्स्युस्तन्नामानि वदाम्यतः || २५ || विराजाह्वो [मू, अ, ङ्: जाङ्को] युगास्रश्च दीर्घः स एव पुष्पकः | अष्टास्रः स्यात्त्रिपिष्टाख्यः [ख्, ङ्: विष्टाख्यः] षोडशास्रो हिमांशुकः || २६ || प्. १६२) वृत्तोऽर्कः सतु [मू: सप्त; ख्: स्यतु] दीर्घः स्यान्मणिकाख्यश्च पश्चिमे | एतेभ्योऽष्टादशान्ये स्युरुत्तमाद्यास्तु [घ्: द्यांश्च] वच्मि तान् || २७ || कालिङ्गा नागरा लाटा वराटा द्राविडास्तथा | गौडा इति च षोढैते प्रासादाश्च सरेखकाः || २८ || लतिनः कुट्टिनश्चैव शेखरी [ख्: खेचरी] चक्रिणस्तथा | गान्धारो भौमजश्चापि प्रासादाः षट् स्मृतास्त्विमे || २९ || धामना बलभी स्त्री च स्थितिकृच्च नपुंसकम् | अव्यक्तव्यक्तमिश्राणां लिङ्गाणां स्यात्क्रमाद्गृहम् || ३० || ज्येष्ठं सार्ध [घ्: ष्ठाशार्ध] द्वयोच्छ्रायं मध्यमं चाङ्घ्रिवर्धितम् | त्रिगुणां चाधमं चैतत् [घ्: चैव] सपादं सवितानिकम् [घ्ऽऽ मानिकम्] || ३१ || षड्ढं च द्विगुणोच्छ्रायं बाणशास्त्रे प्रकीर्तितम् | उत्तमादिकरैश्च स्यादेकैकस्य त्रिधा गतिः || ३२ || हैमं रौप्यं महार्चा च लिङ्गं गान्धारगं शुभम् | हीनप्रव्यात्मकं नेष्टं क्रूरं मानाधिके स्थितम् || ३३ || तस्मान्मानाङ्घ्रिछन्दास्यं नाथारथकभूमिका | वृत्तशृङ्गेन्दुशालाख्यं लक्षणं दशधोच्यते || ३४ || शतार्धात्पञ्चहान्या स्युर्दशहस्तात्ततो [घ्: हस्तोन्नता] नव | गान्धारशुद्धधामानि लिङ्गमेतत्प्रमाणतः || ३५ || प्. १६३) षट्त्रिंशांश [घ्: शत] श्चतुस्त्यागाच्चतुर्हस्तावधिक्रमात् | एते नवति [मू: नवनि] वन्धाराः प्रसादा लिङ्गमानतः || ३६ || मेरुमन्दरकैलासविमानो भद्रको [ख्, ङ्: रुद्रको] भवेत् | श्रीवत्सोकप [मू: स्त्रोवत्सो रूप] नन्दाख्यास्त्वेते वैराजजा नव || ३७ || बलभी वज्रपद्मश्च वलयाङ्को हरिस्तथा | वृषेभहसतार्क्ष्यान्ताः क्रमात्स्युर्नवभेदतः [ख्: भवेदतः] || ३८ || बलभीच्छन्दकं धाम ज्येष्ठं पुष्पकसम्भवम् | वज्रस्त्रिपिष्टपश्चन्द्रात्पद्मऽर्का [घ्: पद्मार्कौ] द्वलयो हरिः || ३९ || मणिका [मू: मणिकाद्] वृषभो नागो हंसतार्क्ष्यौं नवैव तु | अष्टादश प्रधानाच्च प्रासादास्तूभयात्मकाः || ४० || एतदंशोद्भवाश्चान्ये वक्ष्यन्ते भेदतः क्रमात् | माल्यावान्मलयश्चैव सुपार्श्वो मेरुरम्भवाः || ४१ || मेरुमन्दरभिन्नः स्याद्धिमवांश्चारुमूर्तिकः | विमानमन्दराभ्यां [ग्: ण्डलाभ्यां] च भिन्नः श्रीपर्वतो भवेत् || ४२ || समुद्गकः [ख्, ग्: मुङ्गकः] समाख्यातः केलासो मन्दरा [ग्: मण्डला] न्वितः | लता घण्टा [मू: लतायाश्च] विभानौ च विमानाद्भवतः [ख्: विद्या] सदा || ४३ || प्. १६४) भद्राद्भवेन्महाभद्रो नलिनः सर्वभद्रकः [मू: ता मुखं] | श्रीवत्साद्वर्धमानाख्यो माला श्रीवत्ससंज्ञकः || ४४ || नन्दिर्वृद्धिश्च खाधारस्तृतीयः परिकीर्तितः | शालागृहं विशालं च ब्रह्ममन्दिरमन्दिरे [ख्: मण्डले] || ४५ || भुवजं शिखिका [मू: शिविका] वेश्मप्रभवो वलभीभवाः | अर्धगृहं कुटीराख्यं स्थितिकृच्च गृहाधिपात् || ४६ || श्रीकण्ठः स्वस्तिकः खड्गः कुलिशः स्वस्तिको गदा | चक्रं स्वस्तिकसंज्ञाच्च विजयः सप्त [ख्, ङ्, घ्: सस्त] वज्रजाः || ४७ || पद्मान्महारविन्दं स्यात्कुमुदोत्पलकौ त्रयः | दुन्दुभी मुकुली चक्रमुष्णीषी शङ्खसंज्ञकः || ४८ || द्रुमवृक्षोघटश्चेति सप्तैते वलयानुजाः | ऋक्षको भूषणश्चैव भूधरः श्रीजयस्तथा || ४९ || पृथ्वीधरो वृषोत्थाच्च चतुषष्टिप्रभेदतः | प्रासादा बाणशास्त्रोक्तास्त्वेतद्भेदोऽतिविस्तरः || ५० || द्वात्रिशच्च सहस्राणि चतुः शतयुतानि च | उक्तानि भेदभिन्नानि धाम्नां वै पारमेश्वरे || ५१ || चतुर्वक्त्रस्य लिङ्गस्य चतुरस्रश्चतुर्मुखः | प्रासादो ब्रह्मणोऽप्युक्तो नत्वन्येषां कदाचन || ५२ || सर्वेर्षा विबुधानां च लिङ्गस्य [ग्: विधस्य] त्रिमुखस्य च | एकद्वारो युगास्रश्च प्रासादः परिकीर्तितः || ५३ || प्. १६५) एकवक्त्रस्य लिङ्गस्य प्रतिमा या भवस्य च | वृत्तो महेश्वरस्योक्तः प्रासादोऽयं न कस्यचित् || ५४ || चतुर्मुखस्य लिङ्गस्य चतुर्द्वारस्तथा परः | प्रासादो वर्तुलः प्रोक्तः ईश्वरस्य न कस्यचित् || ५५ || एकवक्त्रस्तथाष्टास्रो विष्णोश्चैव भवस्य च | चतुर्द्वारः पुनरयं भवस्य ब्रह्मणस्तथा || ५६ || चतुरस्रायता ये च तथा वृत्तायताः परे | एकद्वाराः स्मृताः सर्वे प्रसादा लक्षणान्विताः || ५७ || मुक्ता लिङ्गं महेशस्य तथा च कमलासनम् (?) | सर्वासां प्रतिमानां तु प्रासादाः समुदाहृताः || ५८ || उच्यन्ते पदसंस्थाश्च श्रेष्ठाष्टादश वामगाः [ख्: धामगा] | करसङ्ख्यां द्विधा भत्त्ङ्का मेर्वादीनां च कारयेत् (?) || ५९ | हरांशैश्च बहिर्भित्तिर्दशाङ्गै [ख्, ग्: दशांशै] रन्ध्रकारिकाम् | रुद्रांशैश्च क्रौडभित्तिं ग्रहा/शैः सुशिरं तथा || ६० || नवभागैश्च पीठार्धं शेषांशाञ्चैवमेव हि | इत्थं मेरुः शतांशः स्यान्मन्दरा [ग्: मण्डला] दिश्च कथ्यते || ६१ || बाह्यपीठं [ख्, घ्: बाह्यकुश्वं] तमोभित्तिर्गर्भपीठार्धमेव च | भागैकैकं क्रमात्त्यक्त्वा एवमानन्दनाद्भवेत् || ६२ || अथाहिभाजिते क्षेत्रे शफयुग्मनखांशकैः [ख्, घ्: त्मकैः] | युगैर्भित्तिश्चरवंकुड्यं [ङ्: संकुड्यं] गर्भपीठं तपेन तु || ६३ || प्. १६६) कुड्यमन्धारिकाभित्तिर्भ्रमः पीठं भवेत्क्रमात् | द्वार्त्रिंशज्जिनभूपाष्टचन्द्राशैश्च नवांशके || ६४ || चतुः षष्टिपदे क्षेत्रे मध्ये पीटं युगांशकैः | सुशिरश्चार्कभागैश्च विंशदृक्षैश्च भित्तयः || ६५ || दन्तजिनविकारांशाद्बाह्यच्छन्दोद्गमः [ख्: भ्रमः] क्रमात् | परितो घटनात्तत्र न कार्या कुड्य पीडना || ६६ || सार्क [ख्: अर्कै] शतांशकं क्षेत्रं कृत्वा तिर्यग्गुणांशकम् | कर्णसूत्राणि कोणेषु कोणाद्रामांशकं [घ्: मार्धकं] हरेत् || ६७ || भूतांशैः पिण्डिका कार्या ग्रहभूताग्निलोपनात् | रन्ध्राद्धि रामभागैः स्याद्रथंकाणां व्यवस्थितिः || ६८ || मध्ये कामर्तुभागैश्च निर्गमस्तस्य तत्र च | परितश्च चतुर्दिक्षु कर्माद्या रथका नव || ६९ || सार्धद्विगुण आपा [ख्: स्त्वापा] दादुच्छ्रयस्तस्य तु क्वचित् | नितम्बस्कन्धयोर्मध्ये द्विशताभ्यां विभज्य च || ७० || कार्याद्याभूर्नखांशैश्च त्यजेच्चैकैकमन्यतः | चन्द्रशालान्विताप्येवं यावत्षोडशभूमयः || ७१ || क्वचिद्विषमभूरुक्ता [मू: रूक्षा] रथका विषमा यथा | चतुः शृङ्गान्विता [ख्, घ्: ङ्किता] नासाश्चतस्रः शिखरार्धगाः || ७२ || वेदिकाभूः कटिः कण्ठः कपोलामलसारकः | पूर्ववत्सशलं मेरोर्वेदास्यशतशृङ्गिणः || ७३ || प्. १६७) याम्येन्द्रेन्दुशुकाङ्घ्र्येषु [ख्: ग्रषु] हेरम्बादित्यमङ्गलाः | तद्द्वारमानतोऽन्यस्य लिङ्गं नवकरं तथा || ७४ || शुकनासाग्रतश्चोर्ध्वं सिंहः स्याद्विकृता [ख्: विवृता] ननः | प्राग्ग्रीवनिर्गमार्धेन दैर्घ्यं सिंहस्य कीर्तितम् || ७५ || तत्त्रिभागोच्छ्रितं तस्य तत्तुल्यं विस्तरं स्मृतम् | विस्तरोच्छ्रायमानेन कर्तव्यो मस्तकोच्छ्रयः || ७६ || तत्त्रिभागोच्छ्रिता [घ्: त्थिता] ग्रीवा शुकनासार्ध [घ्: सोर्ध्व] मध्यतः | प्राग्ग्रीवनिर्गमेनैव नासाग्रं तस्य निर्गतम् [मू: निर्गमः] || ७७ || सिंहः पिपीलिकामध्यस्त्वपाङ्गकृतपुच्छकः | बृहत्कटिर्भहोरस्कः कर्तव्यः केसरान्वितः [अत्र केशरान्वितः इति लिखितपुस्तकेषु तालव्यः पाठःतस्य के शीर्यते इति विग्रहे साधुः |] || ७८ || लेलिहानोर्ध्वकण्ठस्तु स्वपीठोपरि संस्थितः | ग्रीवाधारा भवेद्वेदी प्रासादार्धप्रविस्तरात् || ७९ || वेदिकोपरि कर्णेषु सिंहाः स्युर्विकृताननाः | स्वमानविस्तारायामा मस्तकन्यस्तपुच्छका || ८० || वेदिव्याम [ख्, घ्: व्यास] त्रिभागेन दैर्ध्यं तेषां प्रकीर्तितम् | सिंहाः स्वलक्षणेपेताः कर्तव्याः केसराविन्ताः || ८१ || वेद्युपरि तथा दिक्षु चत्वारो नररूपिणाः | लम्बनेन समायुक्ताश्चन्द्रशालासमास्रकाः || ८२ || प्. १६८) दिग्वेदैरटसरोगात्रिविद्याभृद्ग्रह [ख्: भूगृह] किन्नरः | मातृभिर्गणविद्येशैर्भुषयेन्नवर्भूमिकाः || ८३ || गर्भाश्ममञ्जरीजं यत्तेन पातभयं भवेत् | तस्मात्कुर्यादपां मार्गे द्वे द्वे रन्ध्रै महीक्रमात् || ८४ || मेरुः | कृत्वा चतुरशीत्यंशं कोणात्सार्धद्वयं त्यजेत् | रामांशैस्तत्र पिण्डी स्यादृतुवेदयमांशकैः || ८५ || प्रवेशनिर्गमौ तत्र मध्ये भूपेन्द्रभानुभिः | निष्क्रान्तिर्दिशदिश्यैव नवैव रथका मताः || ८६ || कटिवेद्यन्तरस्थाने द्व्येकषष्टियुतं शतम् | कृत्वाष्टादशभिर्भूः स्यादन्यैकैकं विना क्रमात् || ८७ || भुवश्चतुर्दशैवं स्युः पुष्करापाश्रयान्विताः | चतुर्द्वारं चतुर्नासं विचित्रकुहरैर्युतम् || ८८ || प्रागुक्तवेदिकाकण्ठमस्तकैःसंयुतं शुभम् | दशोनशतशृङ्गं च विदध्यान्मन्दरं सुधीः || ८९ || मन्दरः | षट्त्रिंशदंशके क्षेत्रे चतुरंशास्तु [ख्, ङ्: स्शांश] कोणतः | गुणं रूपं तदग्रे च [ख्, ङ्: भूः] तिर्यग्वह्निं विनाशयेत् || ९० || वेदेनोपरथं स्थाप्यं गुणचन्द्रानलांशकम् | तद्वल्लुप्त्वा [ख्: ल्लब्ध्वा] न्तरे मध्यार्धरथं स्थापयेज्जलैः || ९१ || प्. १६९) कोणादारभ्य शेषार्धमेवमेवं तु वर्तयेत् | शिखरं द्व्युच्छ्रयं सार्धं कृत्वा कट्यूर्ध्व [मू: कट्यर्थ] मादिवत् || ९२ || कृत्वा सा [घ्: कृतांशा] ङ्घ्रिशतं सैकं प्रथमाभूर्नृपांशतः | शेषैकैकपरित्यागादर्कभूमीसमुच्छ्रयम् || ९३ || चतुर्नासिकवक्त्रं च चन्द्रशालामरान्विताः [मू, ङ्: परान्वितम्] | अशीतिशृङ्गसयुक्तं कैलासं घटयेद्वरम् || ९४ || कैलासः | मनु [ख्: मन्त्र] द्विधाकृते क्षेत्रे रुद्रहृद्विंशदाश्रुतिः | त्रिक्षयाद्वामतः कोणस्तयोस्तम्भस्तनुक्षयात् || ९५ || उपरथं जलांशेन रथ त्र्यंशेन मध्यतः | इत्थमेवापरार्धं स्याच्चतु [मू: च चतु] र्दिक्षु समन्ततः || ९६ || शृङ्गस्तम्भानुगैर्मध्ये शिखरैः सेन्दुसालकैः | सकपाटार्गलैर्वेदघटैर्नाग [मू: घटनाङ्ग] गवाक्षकैः || ९७ || कृत्वा पञ्चनवत्यंशं [मू, अ: त्यूर्ध्वं] प्राग्भूः कट्यूर्ध्वमिन्द्रतः | तदूर्ध्वैकैकसंह्रासात्कर्तव्या भूमयो दश || ९८ || भूमं धामा रथाः पञ्च वलभीलाञ्छितौ रथौ | कुहराणि सुरैर्मध्ये रथके स्युर्विमानकौ || ९९ || अर्धो घटकपाटैस्तु परस्परसमीक्षकैः | द्वारैकाष्ट [घ्: काङ्घ्रि] समाद्येशः (?) सप्ततिभिर्विषाणकैः || १०० || प्. १७०) विमानम् | शक्रद्विगुणिते क्षेत्रे षड्भिस्तन्मध्यतो रथः | भागैकैकेन संवेशात्त्र्यंशैश्चोपरधौ मतौ || १०१ || द्वाभ्यामनुरथः कार्यः कोणबन्धो गुणात्मकैः [ख्: णांशकैः] | सान्धारश्चतुरास्यश्च वेदाऽऽघ्रो भ्रमणान्वितः || १०२ || सकूटशृङ्ग सप्तार्चिश्चन्द्रशालान्वितै रथैः | विद्याधाराकुलै रम्यैर्भद्रः स्यात् षष्टिशृङ्गवान् || १०३ || भद्रः | भूमौ भूमौ कुटी द्वौ द्वौ तत्र काष्ठाधिपा दश | भद्रभागैर्महाभद्रः प्रोक्तः सोपानशोभितः || १०४ || महाभद्रः | भद्रवत्तल [मू, अ, ख्, ङ्ऽऽ वर्तल] च्छन्देन समोऽधस्ताद्विवर्तितः | उपरिष्टाद्विमानांशः [मू, अ, ङ्: नात्म] क्रमतो मेरुमन्दरौ || १०५ || कैलासो नन्दनोयुक्तः श्रीवत्सो भद्रसंज्ञकः | सर्वात्मा शिखरैः कार्यः सर्वतोभद्रको यतः || १०६ || सप्तभूरथकैयुक्तो वेदाङ्घ्र्यास्यैर्भ्रमान्वितः | सपुष्ककरश्चतुर्दिक्षु चारु चतुष्किकान्वितः | चतुर्घटसमोपेतः सोपानवलभीयुतः [ख्, घ्: मुखः || १०७ || सर्वतोभद्रः | प्. १७१) षट्त्रिंशदंशके क्षेत्रे त्रित्यागा [ख्, ङ्: त्रिवृत्या; ग्: त्रिभागा] त्कोणवर्तनम् [मू, अ, ग्, ङ्: वर्तुलम्] | तद्वत्पिण्ह्यम्बु [मू, अङ्: पिण्डाम्बु] नोपाख्यः शरेणानुरथः सदा || १०८ || मध्यार्धेऽग्निभिरन्यत्र त्वेवं सप्तरथोऽधिकः [ख्: र्चिकः; घ्: र्विकः; ङ्: र्धिकः] | कूटान्वितेन्दुशाला स्याद दिग्द्वाराङ्घ्र्यास्यको रुचः || १०९ || रुचकः | दशांशेतु [मू: अनु] कृते क्षेत्रे मध्ये च रथकस्त्रिभिः | सार्धेनानुरथौ कार्यौ कोणश्चैव द्विभागतः [घ्: रथो कोणं कोणं चैव विभागतः] || ११० || रथाः पञ्चभुवश्चैकाङ्घ्र्या चतुः शिखराणि च | रथो धामाङ्कितो भूश्च कुहरीमध्यगो रथः [घ्: रवे] || १११ || कुहरेषु नरा नार्य सिंहव्याघ्रेभपक्षिणः | भृगादयः सहे [ख्: सदे] त्येवं श्रीवत्सः स्याद्धरेः प्रियः || ११२ || श्रीवत्सः | चतुरस्रश्च सान्धारो भद्र [ख्: रुद्र] गतिस्त्रिभूमिकः | सिंहस्कन्धोऽमलासारैर्युक्तः कार्यो गृहाधिपः || ११३ || गृहराजः | इन्द्रां [ख्: निद्रं] शके कृते धाम्नि कोणाः स्याज्जलहानितः | द्वाभ्यां चानुरथौ कार्यौ वेदांशैर्मध्यमो रथः [घ्: गो रवेः] || ११४ || प्. १७२) एकाङ्घ्रिः सप्तभूमिश्च पञ्चरेखेन्दुशालिकः [घ्: रथेन्दुशालिकम्] | नानासुराकुलो रम्नो [मू, अ, ङ्: वर्म्यो] नन्दनः सुरनन्दनः || ११५ || नन्दनः | इति लक्षणसमुच्चये सान्धारनवप्रासादवर्तना नाम [नामेति पाठः लिखितपुस्तकेषु नास्ति] सप्तविंशो विधिः | अथाष्टाविंशः वेदांशे साङ्घ्रि [ख्, घ्: स्रश्चाङ्घ्रि] दीर्घे च नखांशैः शैषगर्भिणि | पार्श्वयोः पञ्चभिर्भितिः पृष्ठेऽग्रे स्याच्च सर्वतः [ख्: सार्धतः] || १ || दशभागी [ख्, घ्: मांशी] कृते क्षेत्रे मध्ये चार्ध [घ्: चोर्ध्व] रथो मतः | उपाख्योऽनुरथः कोणश्चतुरर्धांशतः [ख्, ङ्: र्धांशततः] क्रमात् || २ || तनुपक्षाग्निसंवेशाच्छेष एवं पुरोऽपरे [घ्: पुरे पुरे] | पार्श्वार्धे रुद्रभागे स्यान्मध्यात्त्र्यंशै [ख्: ग्रंशैः] र्युगैर्जलैः || ३ || रथातिरथ [घ्: नुरथ] कोणानि त्वेकैकेनोदकान्तरम् | वलभीचन्द्रशालास्या चतु [घ्: वद्या चतु] र्नासास्यसंयुता || ४ || ग्रहोच्छ्रिता [घ्: त्थिता] गुणैर्जङ्घा त्र्यंशस्थाः सप्तभूमयः | भेरीन्दुशालिका द्वाभ्यां मेरुणा [घ्: मेकेन] शिखरोन्नतिः || ५ || दैर्घ्ये कृत्वा विकारांशं विस्तारे रवि [ख्: च त्रि] भागिकम् | कङ्कटांशं तु सङ्कोच्य शिखरं दक्षभागतः || ६ || प्. १७४) ऊर्ध्वसूत्रप्रसपातात्स्त्रीधामा श्रीपुटोपमा | मेर्वाद्याभाः क्वचित्कार्याः षट्सिंहाः कुम्भमस्तका || ७ || वेदास्रादष्टधा भक्त्या [भक्त्वा इति पाठः साधुः] दद्यादाकृष्य षोडश | द्विषट्कपार्श्वयोर्योज्यं द्वौ द्वौ प्राणार्थमग्रतः || ८ || गर्भमर्कैर्मयः प्राह तथान्ये जिननाशनात् | वेदार्थै [घ्: गर्भार्कै] र्नासिका कल्प्या वेदास्र्या [घ्: दास्या] घ्राचलस्यके [ख्, च्: वलभ्य] || ९ || वलभी | बाह्ये चाष्टास्रके वज्र [मू, घ्: वक्त्र] स्त्वेकाङ्घ्र्यास्येषु भूमिकः | गर्भवृत्तोऽर्थवेदास्रो अष्टांशो वा सुराधिपे || १० || वज्रः | दशनास्रो [घ्: नास्यो] भवेत्पद्मं षोडशास्र क्वचिन्मते | वृत्तो वाब्जेन संयुक्तः षोडशार्ध [घ्: शोर्ध्व] दलेन च || ११ || तद्वत्सन्धिदलोपेतो गर्भवृत्तः सुशोभनः | एकद्वारैकनासश्च पद्मनामा सुरालयः || १२ || पद्मम् | वेदास्रकोणसूत्रार्धादष्टमांशोन्नतो भ्रमात् | वृत्तः सन् वलयाह्वः स्यात्परितो वलयान्वितः || १३ || प्. १७५) वलयान्तरपत्राणि कङ्कटानां तु गर्भवत् | वेदीगलामलासारं [मू, ख्, ङ्: सार्धं] पूर्ववन्नासिकां विना || १४ || वलयः | युगास्रे घ्रासमे क्षेत्रे न्यासाद्धृ [घ्: सार्धं] त्तस्य बाह्यतः | मध्ये वृत्तोन्नतोऽग्रास्यं [घ्: तोग्राघ्रं] सिंहैरष्टभिरन्वितः || १५ || कर्ण [ख्, घ्: स्कन्ध] कोणे युगाङ्घ्र्यास्यैः [घ्: स्थः] करिकुम्भविदारिभिः | प्रासादः सिंहसंज्ञोऽयं नरसिंहामरप्रियः [घ्: होमऽमरप्रियः] || १६ || सिंहः | साङ्ग्रि [मू, अ: स्वाङ्घ्रि] वृत्तायते क्षेत्रे जङ्घा स्तम्भान्वितो भवेत् | नासागर्भश्च वेदास्रौ पञ्चभूम्युच्छ्रयो वृषः || १७ || वेदास्रात्कोणमृत्राच्च करीष्वंशे मतो भ्रमात् | पृष्ठे वृत्तोऽर्धकोणास्र [ख्, घ्: द्विकोणाग्रो] गर्भवत्तुङ्गनासिकः || १८ || गजः | षोडशाङ्घ्रौ कृते क्षेत्रे वृत्तगर्भे शुकाघ्रया [ख्, ङ्: घ्रयोः] | जङ्गया च विमानस्य कट्या भद्राह्वयस्य च || १९ || श्रीवत्सस्य च मञ्चर्या हंसो भवती लाञ्छितः | तत्तुल्यकटिधामभ्यां पार्श्वयोः सततोर्ध्वयोः [ख्, ङ्: ततद्वयोः] || २० || प्. १७६) ब्रह्माणं स्थापयेद् द्व्यंशे [ख्, घ्: द्वंशेद्व्यन्त] द्व्यंशायोर्हरिशङ्करौ | कर्तु [घ्: कान्ता] रिच्छा वशादन्यो न्यस्तव्यो वा शुभप्रदः || २१ || हंसः | युगास्रेष्वष्ट [ख्, घ्: पृष्ठ] पादास्रे नसापक्षौ च [मू: पञ्चैव] गर्भवत् | जङ्घा स्तम्भवती कार्या तुङ्गाघ्रा [मू, अ: तुङ्गाग्रा] पक्षसंयुता || २२ || गर्भः षडस्रकस्तार्क्ष्यः सकुटाः [मू: शक्तयः] पञ्चाभूमयः | ससर्यं कटिकण्ठास्यं विष्टिष्टे [घ्: ष्ण्विष्टे] त्विष्टकामये || २३ || भ्रमणा कण्ठपाशाख्ये [ख्, ङ्: मण्डपस्याख्य; घ्: सस्याख्ये] चतुष्के कोणधामभिः | दिक्षु सर्वे बलभ्याद्याः सोपानजगतीयुताः || २४ || तार्क्ष्यः | विस्तारद्विगुणोच्छ्रायो जङ्घैकांशे नपुंसकम् | ऊर्ध्वे चार्धेन हंसः स्याद्गर्भतुल्या तु वेदिका || २५ || शिखरैर्दिक्षु संयुक्त गलकामलसारकम् | शेषार्धेन घटोपेतः [ख्: घण्टान्तेन] षण्ढस्य गृहकृत्यवत् [ख्, घ्: कृत्यथ] || २६ || स्थितिकृता (त्) | नागयक्षासुरादिनां त्रियुग्मैककरा मताः | कक्षपुटोपमास्रे तु ग्रीवामस्तकभूषितः || २७ || प्. १७७) इतरा हीनाहीनलक्षणः | मेर्वादि [ख्, ङ्: सर्वादि] गरुडान्तेषु नागरीवर्तनोदिता | नागरीसदृशी लाटी किन्तु सा दारुनिर्मिता || २८ || अधिकैः कर्मभिर्जङ्घाचन्द्रशालाधरासु च | प्रमाणान्नागरीं कृत्वा [ग्: धृत्वा] वाराटीं कीर्तिता बुधैः || २९ || सपत्रवर्णिकास्तम्भपट्टिभृ [घ्: पङ्क्तिधृ] द्यत्र जङ्घिका | मेखलान्तरपत्राणि द्राविडी सा निगद्यते || ३० || सपादत्रिगुणोच्छ्रायैर्विमानीकटिमेखलाः | प्रासादपादनिष्काशास्यपट्टवकुलीयुता [मू: मता] || ३१ || कालिन्दी गौडिकातुल्या पञ्चिका [ख्, घ्, ङ्: मेञ्चिका] पादचन्द्रिका | इत्युक्ता किञ्चिदुद्देशात्स्थूलरूपेण शास्त्रतः || ३२ || नागरीमध्यदेशे तु सौख्यदावर्तिनी मता | वाराट्याद्याः स्वदेशे [ख्: वास्तुदेशे] तु अन्येष्वन्या च दुःखदा || ३३ || मिश्रका बहुसङ्कीर्णा नैव कार्या सुभार्थिना | शुद्धा [ख्: शुभा] एव तु कर्तव्याः प्रयत्नेन मतान्तरे || ३४ || ज्ञात्वा ज्ञात्वा विधास्यन्ति [मू: विधातव्याः] कारुकाः सूक्ष्मकर्मभिः | प्रासादलक्षणं प्रोक्तं नासाद्वारमथोच्यते || ३५ || इति लक्षणसमुच्चये लिङ्गमानप्रासादलक्षणं नामाष्टाविंशो विधिः || २८ || अथैकोनविंशः वेदाङ्घ्रेकाङ्ध्र्य [घ्: कार्य] हीनाङ्घ्या प्रासादास्त्रिविधा मताः | गर्भानुगर्भसूत्रार्धा [घ्: त्राद्वा] नासाविस्तरचोदिताः || १ || पञ्चधा निर्गमस्तस्या उत्त [मू, अ, ङ्: दुत्त] मादिप्रभेदतः | युगर्तुवसुकाष्ठांशैर्गर्भस्यार्धेन मानतः || २ || रथैःसप्तेषु वामाद्या [मू, ङ्: वामाज्या; ख्, घ्: रामाद्या] भूमिका विषमैर्युताः | तोयान्तरसमोपेता भागैः प्रासादवत्त्रिधा || ३ || शिखारार्धोच्छ्रयाः कार्याश्चन्द्रशाला विभूषिताः | पत्राङ्कुरादि [मू: ङ्गुलादि] शृङ्गाद्या भेरीचिच्छुरका [घ्: च्छिवुका] न्विताः || ४ || तच्चूडा तिलकोपेतास्तदूर्ध्वे हरिभूषिताः | संस्कृत्य स्थापनायेद्देवांश्चन्द्रगर्भे तु पूर्ववत् || ५ || नवांशान्मध्यतोऽग्निः स्याद्भ्रमाद्भेरी गुणक्षयात् | अष्टादशांश [मू, ङ्: दशास्र] सन्त्यागत्परिधौ शुकनासिका || ६ || अर्थधामाग्रतो द्वार मध्यतः समदिक्स्थितम् | सर्वकामप्रसिध्द्यर्थं पूर्वमेव तु कारयेत् || ७ || प्. १७९) पश्चिमं [मू, ङ्: पार्श्वर्शा] सिद्धिमूत्त्यर्थं सौम्यं शान्त्यर्थपुष्टिदम् | क्रूरकर्मणि याम्ये च तथा कुर्याद्विदक्षु तत् [ग्: च] || ८ || एकद्वित्रिमुख लिङ्ग प्रागेव द्वारमिष्येते | प्राग्भ्रामा [मू, अ: ग्ग्रामा] द्यादि सौम्यस्तु स [घ्: म्यन्त त्व] व्यक्ताव्यक्तयोरपि || ९ || सुरादग्नान्द्रसर्वार्थे लिङ्गार्चाया [घ्: न्ते लिङ्गार्च्ययो] स्तु वारुणे | चामुण्डा भैरवे याम्य [ख्, ग्: भास्यं] द्वारं याम्येन्दुदिक्षु वा || १० || चण्ड्यश्च भद्रकाल्याश्च सौम्ये चैन्द्रेऽथ वारुणे | कुर्याद् द्वारं चतुर्दिक्षु ब्राह्मवेदास्यलिङ्गयोः || ११ || दिग्विदिक्संस्थिताः सर्वे पूर्वापराननाः शुभाः | दिग्वलभीन्दुयाम्यास्यात्कोणधामाच्च संउखाः || १२ || धाममानात्रिधा द्वारं जङ्घां विस्तरभागतः | तुर्यरसाहि [मू: रसादि] भागेन ज्येष्ठमध्याधमं क्रमात् || १३ || रुद्रान्ताद्विष्णुपर्यन्तात्केशवान्ताच्च [मू, घ्: वार्धाच्च] तत्पृथु | एकद्वित्रिकरादीनां द्वारं स्याल्लिङ्गमानतः || १४ || कन्यसं चोत्तमे धाम्नि मध्यमं मध्यमे सदा | उत्तमं कन्यसे द्वारं गर्भमानादथोच्यते || १५ || त्रिचतुर्भूतभागेन ज्येष्ठमध्यमकन्यसम् | हीनादीनां भवेद् द्वारं गर्भकण्ठ [ख्, घ्: कर्ण] विभाजिते || १६ || प्. १८०) पिण्डिकाकोणविस्तारं क्षुद्रे धाम्नि क्वचिन्मतम् | उच्छ्रयो द्विगुणो द्वारादन्यथावासं उच्यते || १७ || अङ्गुलैः शतषष्ट्याद्यैर्दशहानिक्रमेण तु | द्वाराणि दश सिद्धानि चत्वार्यग्राणि [मू, अ, ग्: भ्राणि] तेषु च || १८ || त्रीण्यत्र [ख्: ण्भ्र] मध्यमानि स्युस्त्रीण्येव कन्यसानि तु | उच्छ्रयार्धेन विस्तार उच्छ्रयो वा त्रिधाधिकः || १९ || दिङ्नागाद्यङ्गुलैर्वापि द्वारं शुभकरं क्रमात् | उच्छ्रयार्धेन विस्तीर्णा शाखा विषमसङ्ख्यया || २० || तत्समो द्विगुणोऽष्टोनः प्रथमोदुम्बरस्य च | शाखापृथुत्वमङ्न्यूनं दलं बाहुकयोर्मतम् || २१ || त्रीष्वद्रिग्रहसङ्ख्याभिः शाखाभिर्द्वारमिष्टदम् | महार्चाधाम्नि केषाञ्चिद्रुद्रशाखान्वितं मतम् || २२ || विस्तारं नखवत्कृत्वा बाहल्यं तिथिभाजितम् | दण्डशाखा रसांशेन तमाख्याश्रम [घ्: त्रय] भागिका || २३ || भूतभागेन रूपाख्या त्वन्ध [मू, अ, घ्, ङ्: त्वनु] कारी तनुः स्थिता | मरीची युग्मतः कार्या मूलाख्या विषपेण तु || २४ || दण्डद्विशतिमा [ख्, घ्, ङ्: ति सा] द्वौ द्वौ सार्धमेवं [ख्: मेके] च सायकैः | सर्वान्ध [मू, ङ्: नु] कारिकावेशो मूलशाखासमो भवेत् || २५ || प्. १८१) त्रिशाखद्वारम् | त्रिंशदंशस्य विस्तार [ख्, घ्: प्रविस्तारो] द्वृद्धिभागाद्दलं तयोः | विभज्य द्वारबाह्या च भूता स्याद्दण्डशाखिका || २६ || पृथुत्वेनान्धकारीन्दोः प्रविष्टा [मू: प्रतिष्ठा] न्तरसांशतः | खल्व [मू: खलु] शाखाश्चतुर्वेशा [मू: र्वेदात्] त्सार्धाम्बुविस्तरेण तु || २७ || पादोनविस्तरा कार्या चान्धकार्यान्तवेशनात् | द्विप्रवेशात्पृथुत्वेशो स्तम्भशाखाभवेदियम् || २८ || षड्वेशा [मू, अ, ङ्: खर्वेशा] दन्धकारी च पादोनांशप्रविस्तरात् | अंसाद्भी [घ्: अंखसो] रूपशाखाद्याः [घ्: खायाः] पृथुता विषषेण तु (?) || २९ || पादोनांशेन विस्तारा ध्वान्ताख्यं [मू: क्रान्ताख्यं] तु प्रवेशतः | सपादद्व्यंशविस्तारा मरीचीषुप्रवेशतः || ३० || पत्रशाखासु [मू: खेषु] विस्तारा बाहल्येनार्कभागतः | शोभानुरूपतः कार्याः पट्टिकाद्यास्तु शिल्पिभिः || ३१ || पञ्चशाखाद्वारम् | अशीत्यर्धांशविस्तारा भवेद्दक्षं तथा दले | दण्डान्धकारिकानाम [घ्, ङ्: नाग] शान्ताख्या रूपशाखिका || ३२ || प्. १८२) अन्धारी पत्रशाखा स्याद् ध्वान्ताख्यास्तम्भशाखिका [घ्, ङ्: नामिका] | अन्धकारी तु रूपाख्या चान्धकारी मरीचिका || ३३ || नामाशा [ख्, घ्: नासास्रां] मूलशाखान्तं क्रमाद्भागान्नधो मतः [मू: न्निबोधत] | सार्धभूतांशसार्धैकयुगैकसार्धवारिभिः || ३४ || तया [ख्: तपो] म्बुभवसार्धद्वितनुपक्षैकतुर्यकैः [ख्, घ्: तूर्यैकपक्षकैः] | बाणांशान्मूलशाखा च दण्डाद्दतुप्रवेशनम् || ३५ || गुणर्तुयुगबाणाख्यैः क्रमात्सप्तनवांशकैः | शाखाङ्गे [मू: शाखांश] पट्टिका कार्या शोभार्थे च विचक्षणौः || ३६ || सप्तशाखाद्वारं | दलाग्न्यंशातु रुद्रांशात्पाशः [ख्, घ्: व्यासः] कार्यःशतार्धतः | दण्डानुकारिका नाम [ख्, घ्: नाग] ध्वान्ताख्यास्तम्भशाखिका || ३७ || अन्धकारी मृणालाख्या त्वन्ध [ख्, घ्: स्यादन्ध] कारी वरुथिका [ख्, घ्, ङ्: च रूपिका] | ध्वान्ताख्या पत्रशाखा च तथान्धकारिका पुनः || ३८ || स्तम्भान्धाख्या च रूपाह्वा [मू, ङ्: पाङ्का] त्वन्धकारी मरीचिका | पत्रशाखा क्रमात्कार्या सार्धेषुसार्धचन्द्रवत् || ३९ || युगैकपञ्चरूपाणि वेदैकयुगसंज्ञकैः | तनुतुर्यशशाङ्काख्यबाणैकजलसङ्ख्यया || ४० || प्. १८३) भवाश्विनौ च वेदैस्तु दण्डार्द्विशतिषड्द्विकैः [मू: पट्टिकैः] | सार्ध [मू, ङ्: सार्क] पञ्चाम्बु [मू: ञ्चाङ्ग] सप्तेषुमुनिरन्ध्राणि रुद्रकैः || ४१ || मूलशाखासमावेशात्सर्वान्धकारिकासु च | शाखां संक्षेपयित्वा तु ज्ञेया राची [ख्, ग्, घ्, ङ्: चारी] तु पट्टिका || ४२ || नवशाखाद्वारम् | विभज्य पृथुबाहुल्ये षष्ट्यंशैर्मुनिषड्गुणैः | दण्डान्धकारिकानागतमस्तम्भान्धकारिका || ४३ || पत्रनामान्धकारी च रूपाख्या ध्वान्त [मू: द्वार] नामिका | नागान्धकारीकाह्वं च स्तम्भान्धकारिका पुनः || ४४ || पत्रतमाङ्किका रूपा त्वन्धकारी मृनालिका | अन्धाख्या तु मरीच्यङ्का मूलशाखेति कीर्तिता || ४५ || सार्धभूतैस्तु सार्धैकयुगैकपक्ष [ख्, घ्, ङ्: पञ्च] चन्द्रकैः | वेदैकसार्धैर्वेदैस्तु भवाम्बुरूप [ख्, घ्: तप] तुर्यकैः || ४६ || चन्द्रवारितपाम्भोभिरेकान्वितनुयुग्मकैः | सार्धाम्बुना स्थितिर्ज्ञेया शाखाद्वारिकयोः क्रमात् || ४७ || भूतपक्षर्तुतुर्यांशैः सप्तेषुवसुषट्करैः | अर्केन्द्राभ्यां प्रवेशः स्याद्गान्धारीणां तु पूर्ववत् [ख्: मूलवत्] || ४८ || शाखैकादशद्वाम् | प्. १८४) शाखोच्छ्रयचतुर्थांशे प्रतीहारौ त्वधः स्थितौ | जाह्रवीयमुने चापि तत्पार्श्वे भारवाहिका || ४९ || चार्वीभिः पत्रवल्लीभिर्मिथुनैः किन्नरादिभिः | विद्याधरैश्च शोभाढ्यैः सघटैर्नाग [मू, ख्, ङ्: पाटलाङ्ग] युग्मकैः || ५० || शेषं स्वस्तिकमालाभिः श्रीवत्साब्जोपलान्तजैः [ख्, घ्: ण्डजैः] | शोभयद्यत्नतः शाखास्तधनयैश्च सुशोभनैः || ५१ || श्रीर्यक्षेशो गणेशो वा व्याख्यारुद्रोऽथ मृत्युजित् | प्रथमोदुम्बरे (?) स्थाप्याः सर्वावयवशोभिताः || ५२ || ब्रह्मविष्णे (ष्ण्व) तरे रुद्रो द्वयन्तश्वेभाननो गुहः | ग्रहाश्च मातारो वेव्यो नाद्यव्यापारसंस्थिताः || ५३ || तस्योपरि व्यवस्थाययाः शिल्पिनोदुम्बरे (?) क्रमात् | ललाटं शोभनं चोर्ध्वं नागदन्तान्वितं दृढम् || ५४ || शाखापृथुसमौ कृत्वा तदुच्छ्रयसमौ [घ्: पृथ्र] मुनी | द्वारोच्छ्रयार्धपादेन करपादद्वयेन वा || ५५ || हीनापञ्जी भवेनोर्ध्वमु [घ्: भरणोर्ध्व] ज्यते नागभागथ | शतार्धांशा [ख्: र्धाङ्गा] धिकं कृत्वा पर्वणी रामभागतः || ५६ || खुरका यम [ख्: पद्म] भागेन स्तम्भीचैव द्विभागतः | त्रिभिर्गुणगिरित्र्यंशैर्द्वि द्विभागे खुरद्वयम् || ५७ || प्. १८५) अन्धारी तनुभागेन षड्भागे खुरजङ्घिका | पञ्चांशेन [मू: ङ्गेन] गुणाधानं विकारांशैश्च मुण्डकम् [घ्: अण्डजम्] || ५८ || स्कन्धमालाख्यवेदांशैश्चूलिकं युगलांशतः | कार्यश्चतुर्यमांशैश्च देहली व्याघ्रपट्टिका || ५९ || द्वारं सुनिर्मितं [ख्: मुनिमितं] कृत्वा प्रासादं कुड्यमध्यतः | सर्व [मू: स च] वेधविनाशाय किञ्चिदुत्तरतो न्यसेत् || ६० || दोषाः क्षयादयः स्युश्च द्वारे वेधा [मू, अ, ग्, घ्, ङ्: वेदा] न्विते सदा | तस्मात्तद्वर्जनानार्थाय गुरोर्ज्ञात्वं [ख्: राज्ञा] तदुच्यते || ६१ || गृहविद्धे सदा रागो धीनाशश्चत्वरेण तु | रथ्या [मू, घ्: रथ] विद्धे प्रवासः स्याच्चतुष्पथेन रूक्षता || ६२ || त्रिवर्त्मना [ख्: चर्मणा] शिरः शूलं शृङ्गाटेन [घ्: टे च] महद्भयम् | वृक्षेण वित्तनाशश्च [घ्: स्तु] स्तम्भेन परभृत्यता || ६३ || तोरणेन भवेद्द्वेषो भोगपट्ट्या त्वहेर्भयम् | कोणेन राजदण्डः स्याद् विभ्रमो द्वारशाखया || ६४ || ध्वजेन धननाशः स्यात् खनीगर्तेन शून्नता | शत्रोर्भयं च कूपेन देवबिद्धेब बन्धनम् || ६५ || वापीबिद्धे त्वपस्मारः पङ्केनेष्टविनाशनम् [मू: दम्] | भस्मना पशुनाशः स्याद्वर्धमानेन गोव्यधा || ६६ || प्. १८६) सुतनाशस्त्वपाकेन चुह्लीबिद्धेन निः स्वता | वक्त्रेण च सुहृ [घ्: चक्रेन वसु] दोगस्त्वालिन्दश्रवणेन भीः || ६७ || सभाबिद्धेन दारिद्र्यमुदकेन धनक्षयः | रथबिद्धे भयं क्षौद्रं [घ्: क्षुद्रं (क्षुद्राभिर्मक्षिकाभिः कृतमित्यर्थः)] श्वभ्रेणाथ सुतक्षयः || ६८ || छायाबिद्धेन दारिद्र्यं तोयभाण्डेन दुर्मतिः | कण्डन्या [कुण्डल्या] धननाशः स्याच्छिलाबिद्धे रुजा तथा || ६९ || तस्माद्वेधपरित्यागं कुर्यात्कर्तुः शुभेच्छया | उच्चप्राकारदानेन तच्छेदोद्धरणेन वा || ७० || तद्भूमिद्विगुणत्यागाद्वेधदोषो न जायते | शल्यस्था वाथवात्युच्चा कर्तारं हन्ति देहली || ७१ || नीचा चयोत्थिता [ख्: योषितं; ङ्: योस्थितं] नूनं धन [घ्: धनं] विस्तरहीनिका | लिङ्गार्धोच्छयनी कार्या सार्चायां पीठिकोच्छ्रया || ७२ || लोभः कोपो भवेच्छोको द्वारे मानविवर्जिते | अधश्च विस्तृते द्वारे रुक् स्यात् स्त्रीवाथ चञ्चला || ७३ || दद्याद्रूक्षा [ख्: कुक्ष्या] मर्य मध्ये स्त्रीस्वाम्यं वा पृथूर्ध्वतः [ग्: पूर्ववत्] | क्षयं पिपीलिकामध्यं कुलघ्नं शङ्खकण्ठकम् || ७४ || वक्त्रं गोमहिषीणां च भृत्यानां च क्षयप्रदम् | भिन्न शाखे क्षयोद्वारे दिग्भ्रान्ते स्थानविभ्रमः || ७५ || प्. १८७) पुराणनव [ग्: वन] संयुक्ते दारिद्यं बहुभर्तुता | जर्जरे विपरीते वा धननाशः सदा नरे || ७६ || व्याधिच्छिद्रान्विते कुब्जे कलिः स्यात् पुंसशब्दके | स्वयमुद्वाटिते तद्वत् पीडिताहितता [ग्: द्वितता] ननात् || ७७ || उन्मादः कुलहृन्मृत्युर्मूलद्वारात्फफं क्रमात् | द्वार [ख्: वाम] बिद्धं त्यजेद्वेश्म कुलक्षयभयात्सदा || ७८ || सामान्यवेध इत्युक्तो गृहप्रासादयोर्मया | बेध्यबेधकयोर्वास्त्वोस्त्यक्त्वा द्विगुणमन्तरम् || ७९ || यथेष्टं सकलं [घ्: कलश] कार्यं कृतं यच्छुभशान्तिकृत् | सर्वेषां शुभदा याश्च द्वारादीनां च ता ब्रुवे || ८० || द्वार्दैर्ध्यविस्तरौ यौ च साङ्गलौ करसङ्ख्यया | तावेकीकृत्य संछिन्द्यात्त्रीष्वद्र्यष्टाभिरेव वा || ८१ || ज्ञानं वासो क्षयश्चार्ग्नेर्भूतायान [घ्: योना/] गुणाञ्शृणु | स्थैर्यमाप्यायनं दीप्तिर्गमो माध्यस्थ् [घ्: मध्यस्थ] यमेव च || ८२ || सुहृद्धनं पशुचयः प्राग्राज्यं [घ्: प्राव्राज्यं] कामिकाच्युतिः | विषादश्चेति चाद्र्यंशे फलं सप्तसु [घ्: सप्तेषु] देहिनाम् || ८३ || तच्छेषो यस्तु तेऽर्चायास्तदाद्यष्टान्तकाः सदा | विषमाः शुभदास्तत्र समाश्चानिष्टकर्मसु || ८४ || प्. १८८) ध्वजसिंहवृषेभाख्या दिक्षु प्राच्यादिषु स्थिताः | धूमःश्चा च खरो ध्वाङ्क्षः समा एते विदिक् स्थिताः || ८५ || धामश्चार्धास [घ्: त्र्यर्धांश] नादीनां ध्वजाद्या ये [ग्: न्याय] गुणास्त्विमे | स्त्री [ख्, घ्: श्रीः] सौभाग्यसुतायुर्दो धर्मवृद्धिकरो [ख्, घ्, ङ्: प्रदो] ध्वजः || ८६ || जयारोग्यार्थमित्रादि सर्वसिद्धिकरो हरीः | स्त्रीपुत्रार्थान् वृषो दद्यादशेषसुखदः [घ्, ङ्: शुभदः] करी || ८७ || रोगतापाग्निदो नित्यं धूमः सर्वार्थनाशनः [ घ्: शकः] | व्याधिमृत्युप्रदातोक्तः सारमेयोऽर्थगोत्रहृत् || ८८ || शेषोच्चाटनविद्वेषवियोगवधदण्डदः | कृशतारौक्ष्यदारिद्र्यं सर्वानिष्टकरः खरः || ८९ || पत्नोसुतचमू [ख्: शुभ दसु] द्रव्यसंपदायुः क्षयप्रदः | शोकमोहकलिव्याधिबन्धादिकृच्च वायसः || ९० || यवौ द्वौ चतुरो वापि यवानङ्गुलमेव वा | आयांश्च योजयेज्ज्ञात्वा स्यादायश्चोत्तमो यथा || ९१ || कृत्वैवं स्थापयेद् द्वारं प्रागुक्तविधिपूर्वकम् || ९२ || इति लक्षणसमुच्चये देवद्वारस्थापनलक्षणं नामैकोनत्रिंशो विधिः | अथ त्रिंशः वास्तुयागं पुरा कृत्वा मण्डपस्य पुरोदितम् | पदपीठोर्ध्व [ख्, ग्: ठार्धतः] तः कार्यं वेदीबन्धादि धामवत् || १ || प्रासादवलभीस्तम्भैर्भूषयेद्बाह्यभित्तिषु | इतरेषां च कर्माद्यैर्नोत्तमानां समण्डपैः || २ || तद्वत्सार्धश्च पादोनाद् [मू: पादानां] द्विगुणो वाथ मण्डपः | स्तम्भाद्धिनादयश्च स्युः सप्त [सप्ता लि० पू०] विंशतिरेवहि || ३ || षट्स्तम्भास्तत्र च श्रेष्ठाः कथ्यन्ते नामरूपतः | रुचकाख्यश्च वेदास्रस्त्वष्टास्रो वज्रसंज्ञकः || ४ || षोडशास्रोऽतिवज्राख्यो दशनास्रः प्रलीनकः | मन्थानो [मू, अ, ङ्: सन्तानो] वेदषष्ट्यास्रो वृत्तो मन्मथनामकः || ५ || द्वादशाङ्गुलविस्तारो द्वारोच्छ्रायसमुच्छ्रयः | सामान्यःस्थम्भ इत्येष [ख्: त्येवं] योजनीयस्तु कन्यसे || ६ || चतुरङ्गुलवृद्ध्या स्याद् वर्धन्ते विस्तरेण च | प्रासादमानपादोनात् स्तम्भोच्छ्रायः क्वचिन्मतः || ७ || प्. १९०) पद्माङ्किता [ग्: षड्वेङ्किता; ग्: षड्द्व्यङ्किता] म्बुपत्रास्यकुम्भैर्भारधरैस्त्वधः | मध्ये हारावलीभिः स्युरुपर्यमलसारकैः || ८ || स्तम्भात्स्त्रि [मू: म्भास्त्रि] कटिपत्रैश्च महासारैस्त्वलिङ्गकैः [ख्: लिन्दुकैः] | जङ्घालंबन्यधोभागादुच्छ्रयान्मण्डपो भवेत् || ९ || चतुरष्टयुतैस्तम्भैरितरेषां तु मण्डपः | सामान्यात्सर्वशास्त्रेषु ये प्रोक्तास्तान् वदाम्यतः || १० || सुसूत्रश्चापभद्रश्च सिंहो द्विपदसंज्ञकः | कर्णिकारश्च हर्यक्षः [ख्: हन्याख्यः] सुग्रीवो मणि [ख्, घ्: मान] भद्रकः || ११ || मानवो नन्दनश्चैव तापश्च शत्रु [मू, ङ्: शत्र्यु] नन्दनः | शुशीलश्च विशालश्च यज्ञभद्रः श्रुतीश्वरः [घ्: धरः || १२ || वास्तुसङ्कीर्णको नाम्नाअ विषमाख्यस्तथापरः | श्रीवत्सश्च जयश्चैव जयभद्रोऽथ बुद्धिभृत् || १३ || कौशल्यः पुष्पनन्दाख्यः सुव्रतः पुष्पभद्रकः | पुष्पकान्त इति ख्याताः सप्त [सप्ता लि० पु० पा०] विंशतिमण्डपाः || १४ || द्वादशादिद्विवृद्ध्या स्युश्चतुः षष्ट्यवसानतः | स्तम्भक्रमात् कनिष्ठाद्या उक्ताः शास्त्रानुसारतः || १५ || प्. १९१) सुदृढैः शोभनैः स्थाप्याः शिलाकाष्ठादिभिर्वरैः | तन्मध्ये चोर्ध्वतस्तद्वदेकद्वित्रिविमानकाः || १६ || कार्या ग्रीवामलासारकलशैश्च समन्विताः [ख्, ङ्: ङ्किताः] | त्र्यस्रवृत्तार्धचन्द्राभवस्वस्रषोडशास्रकः || १७ || राज्यसिद्धिरिपूच्छादसुतद्रव्यप्रदः क्रमात् | सर्वाण्येतानि दद्याच्च फलानि चतुरस्रकः || १८ || मण्डपलक्षणम् | पूर्वतश्च वृषो नामाग्नेययां च [मू, ग्: नामा च] नायकेसरी | वलभीछन्दको याम्ये नैर्-ऋत्यां गरुडः स्मृतः || १९ || श्रीवृक्षकस्तथाप्यां स्याद्वा [ङ्: पास्ये वा] यव्ये षोडशास्रकः | पुरागजस्तु सौम्यायां तथैश्यां सर्वभद्रकः || २० || मण्डपास्तु [घ्: पाश्च] स्मृता मिश्रा एते योज्यास्तु साधने | चतुरस्रादिके भेदे कुण्डवृत्ते विवर्तितः || २१ || तद्दिशाभागविक्षिप्तास्तत्कार्यकरणे हिताः | सार्धैताः साधने योज्या लिङ्गानि नान्यथा क्वचित् || २२ || चतुरस्रं [मू, ङ्: तिथिहस्तं] समं कृत्वा तिथिहस्तं जघन्यके | मध्यमाद्या द्विवृद्ध्या च विभजेत्कामभागतः || २३ || प्. १९२) परितो भित्तयोंऽशेन त्रिभिरंशैश्च वीथिका | स्तम्भान्विताः पुरः पृष्ठे त्र्यंशैस्त्र्यंशैश्च गर्भकाः || २४ || द्वेगृहे मध्यतः कार्ये बाह्य [ङ्: वाद्य] सोपानहेतवे | तयोर्भित्ती तथांशेन त्र्यंशैर्दारं च मध्यतः || २५ || तदूर्ध्वं भुवि कर्तव्यं मध्ये स्तम्भ [मू, ग्: द्वार] चतुष्टतम् | सतु लोपकुलं कुर्याच्चतुर् [ग्: द्वृत्त] भित्तीश्च कोणगाः || २६ || चतुर्भित्ति [घ्: र्वीथि] श्चतुर्द्वारि परितस्तम्भमालिका | मत्तवारणसंयुक्तमूर्ध्वं मूर्ध्वमुच्छदनान्वितम् || २७ || मध्ये विमानिकायुक्तं सुग्रीवामलसारकाम् | सपद्मकलशं कुर्याच्चित्राख्यं नृत्यमन्दिरम् || २८ || नाट्यशालालक्षणम् | स्थूलचूलेष्टकाकूटं स्निग्धमृत्पङ्कसेवितम् [ख्: शोभितम्] | खलीचूर्णैश्च संशुध्य [ख्, घ्: संगुण्ड्य] चूर्णैर्माषोद्भवैस्तथा || २९ || आम्रातकोदकैः सिच्य क्रमात् त्र्यहं तु छादयेत् | आगुण्ड्य [मू, अ, ङ्: शुण्ठ्य; ग्: गल्य] सार्षपैश्चूर्णैः पश्चादास्तृणुयात् सुधीः || ३० || आम्रातकाम्बुना भूयः पश्चादाकोट्य मुद्गरैः | यावद्दर्पणसंकाशं शैवालैश्छादयेत्ततः || ३१ || प्. १९३) व्यहा [ङ्: अहा] दाकृष्य शैवालाल्लिम्पेत् [घ्: ल्लिप्येत] पिण्याककल्कलैः | विश्राम्यैकां ततो [ग्: म्य कारुतां] रात्रिं गोमयेन विलेपयेत् || ३२ || क्षोदलक्षणम् | दग्ध्वा गोशर्करास्तूपं ततोऽभिषिच्य यत्नतः | शणफल्याङ्घिकाषायै [ग्: साद्यै] स्तोपलतारसेन वा || ३३ || आंम्रातकाङ्घ्रितोयेन त्रिफलाक्वाथकारिते [ख्: वारिणा] | उत्स्विन्न [मू: उत्स्विन्य] माषतोयेन स्विन्नबिल्वाम्बुनापि वा || ३४ || कोलाविमांशुतोयैर्वा तक्रनद्य [ख्: तक्रनव्या; घ्: वक्रक्रव्या; ङ्: तक्रकंव्यौ] म्बुनापि वा | ततश्चोलूखलाद्यैस्तु स्थूलचूर्णानि कारयेत् || ३५ || सूर्यैः [ग्: पुष्पैः] प्रस्फोट्य संगृह्य तच्चूर्णानि निचक्षणः | स्थाल्यागर्भे तु संस्थाप्य ततो द्रयाणि निःक्षिपेत् || ३६ || सार्द्रं [ख्: सान्द्रं] लुलायचर्माथ शणतन्तूंश्च कुट्टितान् | सिक्रात [मू, घ्, ङ्: सिकता] गव्यदुग्धानि सर्जतैलातसीरजः || ३७ || दध्युमातैलतोयेन संस्थाप्य नखवासरम् | आम्रातकाम्बुभिः पिष्टं स्थूलास्या दुग्धि [ग्: वारु] काह्वया || ३८ || एतैर्द्रव्यैर्युता चान्या श्लक्ष्णपिष्टैर्वरा सुधा | सम्मर्द्य गुडदध्ना तान् संल्लिम्पे [घ्, ङ्: तपलिप्ये] द्दुग्धिकोपरि || ३९ || प्. १९४) सुधालक्षणम् | लिङ्खादिसन्धिदार्ढ्यार्थं वज्रलेपमिहोच्यते | श्लक्ष्ण [मू, ग्, ङ्: लक्ष] पाषाणचूर्णं तु मेषशृङ्ग/ सुचूर्णितम् || ४० || कारयेद्वालुकामिश्रमुमातैलेन मर्दयेत् | क्वाथेन मेषशृङ्गस्य अतसीचूर्णमिश्रितम् || ४१ || सम्मर्द्य संपचेत्तावद्यावत्तत्समतां गतः | वज्रलेपः समख्यातस्तथा सर्जसमन्वितः || ४२ || अथ निष्ठुरबन्धेन प्रोच्यते सविशेषतः [मू, ङ्: सावशेषतः] | मधूच्छिष्टेन कल्कैश्च शाणजैः सुदृढैर्नवैः || ४३ || गुग्गुलं वालुकामिश्रं चूर्णं पाषाणसस्भवम् [ख्: संयुतम्] | अतसीतैलसम्मिश्रं मर्दयित्वा सुपाचितम् || ४४ || वज्रलेपः संमाख्यातः भूमिबन्धस्त्वतः [ख्, ङ्: वज्रबन्धस्ततः] परम् | सुरवेश्मगृहादीनां भूमिबन्धो निगद्यते || ४६ || वज्रलेपलक्षणम् | मृत्तिकेष्टकचूर्णैस्तु पिण्याकेनान्वितैस्तथा | स्थिरतोयोपमा कार्या भूमिस्तु सुतला समा || ४७ || एवं भूमिं समां कृत्वा पश्चाद् भूबन्धमारभेत् [ख्: चरेत्] | गृहीत्वा वालुवाः श्रेष्ठाः स्निग्धाश्चाखण्डिता बुधः [ख्: स्तथा] || ४८ || प्. १९५) गृहीत्वाम्र [ङ्: त्वार्द्र] त्वचं वृक्षात् पिष्ट्वा कल्कं तु कारयेत् | तत्कल्कं कारयेत् पिण्डं विशोष्यं पिण्डमातपे || ४८ || एवं संशोध्य [घ्: शोष्य] तत्कल्कं सप्तवारान् पुनः पुनः | ततो मण्डेन संमर्द्य भूमिबन्धं तु कारयेत् || ४९ || अथवान्येन योगेन भूमिबन्धो विधीयते | कुर्याद् भूमिं समं रम्यं सुस्थितं जलपूरितम् || ५० || पूर्वोक्तश्चैव यः कल्को निर्यासं तस्य दापयेंत् | द्रव्यं कालानुरूपेण योजयेद्भागसम्मितम् || ५१ || यथाकालानुरूपेण भागसङ्ख्या तु कथ्यते | ग्रीयमे नु पञ्चभागाः स्युः शीतकाले तथा त्रयः || ५२ || त्र्यर्धं शरदि दातव्यं द्व्यंशो वर्षासमागमे | एवं दत्त्वा तु यः पूर्वं बन्धोऽत्र कथितः क्षितेः || ५३ || ततो विलिप्य कूर्चेंन शुष्के शुष्के क्रमेण तु | तोयेन हतकूर्चं तु दापयेत्तद्विचक्षणः || ५४ || कषायं पिच्छिलं चैव निर्यासो वल्कलं तथा | शाल्मलीतिन्दुकादीनां भूमिबन्धे प्रशस्यते || ५५ || इष्टकादार्वयोऽश्मादि यत्संख्यं देववेश्मनि [घ्: सद्मनि] | तावद्वर्षसहस्राणि कर्ता नन्दति तत्पुरे [घ्: त्पुरम्] || ५६ || भूबन्धलक्षणम् | प्. १९६) पञ्चस्थाः पञ्चहेरम्बा विघ्नरूपाः शिवाज्ञया | आरम्भे कटिनासासु [ख्, ग्: रास्नायु] स्कन्धे मूर्ध्नि यथाक्रमम् || ५७ || आलस्यो मोहनश्चापि विभ्रमः शासकस्तथा | पञ्चमः कालदण्डाख्यः सान्वयाः फलदायकाः || ५८ || आलस्यं चालसः कुर्यान्मोहं कुर्याच्च मोहनः | विभ्रान्तिं विभ्रमः कुर्याच्छासकः शासयेत्सदा || ५९ || कालदण्डो महारौद्रः कुर्याद् दण्डभयं [ख्: म्भमयं] महत् | एते सुरगृहे विघ्ना यावत्ते तु न पूजिताः || ६० || स्थण्डिले वा पुरे चेष्ट्वा सिताद्याश्चोक्तरूपतः | षडङ्गैरावृताः सर्वे विघ्नघ्ना बलिहोमकैः || ६१ || गुर्वज्ञाता अनिष्टाश्च दोषान्कुर्वन्त्यनेकधा | तस्मादादौ च सन्तर्प्याः श्राद्धे नान्वीमुखास्तथा || ६२ || बिघ्ननाशाय गणेशपूजा | यत्र [ख्: यन्त्र ग्: पत्र] रूपं द्विधा विद्यात् स्थलजं जलजं तधा | स्थलजं गोत्रसम्भूतं शिलाभेदसमं धनम् || ६३ || स्थलजं विपुलाख्यं स्यात् पतितं चोर्ध्वगं द्विधा [ग्: तथा] | जलजमब्जकन्दोत्थं तिलकाङ्कं त्रि [मू: क.ं कर्णि; ख्: काह्वां त्रि; ङ्: काकान्ति] भेदकम् || ६४ || घनग्रन्थिविशालाङ्कं विटिकाङ्करशोभितम् | विपुलं बहुशाखाङ्गं [ख्: लाख्यं] लक्षं कोमलमद्रिजम् || ६५ || प्. १९७) पट्टिका [ग्: विटिका] टिलकं चैकं त्रिभंगं [घ्: त्रिभगं] च द्वितीयकम् | तृतीयं पद्ममर्धजं [मू: वर्धज] लक्ष्मैतत्तिलकस्य च || ६६ || अग्रे भवेत् सरोजाङ्गं क्वचिद्भिन्नं सुकोमलम् | स्फारं कुटिलसं [ङ्: लजं] सर्पि प्रोन्नतं विततं स्फुटम् || ६७ || कन्दो [घ्: कुन्दो] द्भवमिदं वक्त्रं शोभनं वारिसम्भवम् | पञ्चधा दशरेखाभिः षष्ठं सकल [ख्, घ्: सबल] रूपकम् || ६८ || स्थलजं जलजं चैव ज्ञेयं द्वादशभेदकम् | कलिन्द [घ्: कालिङ्ग] कोलदष्ट्रार्द्रं कण्टकैः परितैर्युतम् || ६९ || नीलं सुकोमलं वेणु/ [ख्: मेरु] बिन्दुरेखखाद्यभङ्गुरम् | कण्टकैर्मेषशृङ्गाभैः पत्रं बालाभजं भवेत् || ७० || धनं हव्याकुलं [ख्: ददाकुल; ग्: फटाकुलं] पीतं निविडाङ्गं विसर्पि च | अगस्तिमुकुलाकारं कनकं [ख्: कण्ठकं] पावनाह्वकम् [ख्: कण्ठकं] || ७१ || भास्करं विततं कुर्याद्धरितं सुचया [ख्: तांशुकया] कुलम् | श्वपुच्छवच्च वृत्ताग्रं मार्जारमुख [ख्: नख] भङ्गुरम् || ७२ || शुकास्यैः कण्ठकैर्वासृङ् नागरं पत्रमुच्यते | और्वारु [ख्, घ्: ऐर्वारु] तन्तुवृत्ताग्रं कण्ठकं सर्पसर्पणम् || ७३ || प्. १९८) परस्परेण संपृक्तं [मू, ङ्: संवृक्तं] बहुपर्यस्ति [ख्, घ्, ङ्: बद्धपर्यास्ति] पत्रकम् | विस्तृतं कुञ्चिताग्रं च श्वेतं रक्तास्यशोभितम् || ७४ || तरुणं पिञ्जरागं च कर्कशं चातिकर्कशम् | ग्रन्थिपत्राङ्कुरैर्युक्तं विपर्यस्तैःसदोर्ध्वगम् || ७५ || लीलालोलविकाशाङ्गं पल्लवैः सुसमाकुलम् | क्वचिच्छिनं क्वचिद्भिन्नं क्वचित् पत्रार्धवेष्टितम् || ७६ || पलालधूमसङ्काशं द्राविडं पत्रमीदृशम् | पूर्वोक्तवल्लिचित्राढ्यं हृद्यं चारु सुरेखितम् || ७७ || सर्वाकारैर्विमिश्रं च पत्रं तद्वेशरं [ख्: द्वै खर] स्मृतम् | मूलेमध्य तथाग्रे च वृद्धं तरुणशाखिकम् || ७८ || लिखेत् त्रिकण्ठकं [घ्: कण्टकं] सर्वं पत्रैकं पत्रलक्ष्मवत् [ङ्: यत्] | शिल्पिभिर्गुणितं कृत्वा पश्चात् पत्राणि संलिखेत् || ७९ || स्तम्भकुम्भानने द्वारे रथे चोपरथे तथा | निर्गतं राजहंसस्य पुच्छात् कक्षाच्च [मू: कन्दाच्च] किं नृणाम् || ८० || इति लक्षणसमुच्चये मण्डपादिवर्तिनीलक्षणं नाम [शब्दोऽयं लि० पु० नास्ति] त्रिंशो विधिः || ३० || अथैकत्रिंशः त्रितये पुष्करिण्यादौ भूगृहस्थापने सदा | यजेत्तद्वास्तु [मू, घ्: दर्धस्तु] देवांश्च वेदास्रे रुद्रभाकिके || १ || त्रिषु त्रिषु च कोष्ठेषु [मू, ख्, घ्, ङ्: कोष्ठेषु] यजेदत्र हरादिकान् | दिक्पदेषु मरीच्याद्या मध्ये तत्त्वेषु वेधसस् || २ || अष्टापदींश्च [ङ्: पदांश्च] कोणास्थान् द्विद्बयाङ्घ्रिषु मध्यतः | ब्रह्मस्थाने सिते पद्मे [मू, ङ्: पक्षे] कालाग्निं पूजयेत्ततः || ३ || मूर्त्यङ्ग [मू, ङ्: मूर्ध्न्यङ्ग] षट्कसंयुक्तं स्वनामाद्यक्षरेण च | हाटकेशं बलेशं [ङ्: चलेशं] च पुनश्चातिबलं तथा || ४ || महोदरं महाब्धिं च [ख्, ङ्: महाविश्व] कुम्भार्णवं तथा पुनः | सप्तमं च विरूपाक्षं भ्रुकुटीशं दलेषु च || ५ || प्रागादीशान्तगन्धाद्यैस्तथानन्त्तदि [ख्, ङ्: नन्दादि] गात्रके | कर्कोटान्तं स्वमन्त्रेण पूजयेज्जलदिग्गृहे || ६ || बाह्येषु च चरक्यादीन् बलिहोमेन तर्पयेत् | तथा ग्रहादिलोकेशान्न्रौप्या [मू, ख्, ग्, ङ्: नोप्या] न्नागाष्टकांस्ततः [ख्: तथा] || ७ || प्. २००) अनन्त्ताद्यं महापद्मं तक्षकं कुलिकं तथा | शङ्खं वासुकिं चैव पद्मं कर्कोटकान्तकम् || ८ || स्नानेज्यान् (?) [मू, अ, ङ्: स्थानज्ञान्] पूर्वतः कृत्वा सुनिमित्ते सुवासरे | पूर्वादीशान्तगान्न्यस्य मध्ये चोषधिका [मू, ङ्: रोषापहा] धिकान् || ९ || फलिन्युशीरयष्ट्याह्वसहाहिलोचनां ह्रिकम् | वंसकूर्चार्थ [घ्: रसकूम्रेषु] रत्नाब्जगङ्गाम्बु [ख्: गन्धाम्बु] पञ्चगव्यकम् || १० || अथोदकं [ख्, ग्, घ्, ङ्: अर्घोदक] क्षिपेद्वाप्यां तन्मध्ये त्वहिपष्टि [ख्, ङ्: षष्टि] कान् | विन्यसेद् द्विगुणं श्वभ्रात्पादोनां वा वसाधिकाम् [मू, ग्: वाधिसार्धकाम्] || ८ || सालसुन्दरिकादीनां दृढां दृङ्मानपूर्विकाम् [ग्: संयुतान्] | सुस्नाप्य गन्धवस्त्राद्यैः संपूज्यानन्तमन्त्रतः || १२ || तेनैवारोपयेन्मध्ये रक्षायै भोगियष्टिकाम् | वेदतूर्यनिनादेन [ख्: तूर्येन वादेन] ध्वजवत्सकले कृते [मू, ङ्: विंश; ग्, घ्: वंश] || १३ || सप्तभोगसुकूटाय विश्वा [मू, अ, घ्: दिक्स्था] धारस्थिताय च | हू/ हू/ अनन्ताय [ख्: अनन्तनागाय] नागाधिपतये नमः || १४ || अनन्तमन्त्रः | प्. २०१) अस्त्रोदकेन चाभ्युक्ष्य पाशुपतेन पाशयेत् | खुरिकेनावधार्येष [मू, अ, ङ्: ज्येष्ठ] गुह्येनाम्भसि वा क्षिपेत् || १५ || नाना [मू, अ, ङ्: तार] पाशकरः कर्ता जपन् पाशुपतं गुरुः | कपिलापुच्छ [ख्, ग्: वामदेवं] लग्नोऽत्र सन्तरेद्यजमानकः || १६ || तत्र तीर्णो भवेत्कर्ता घोरां वैतरणीं नदीम् | ततश्चाष्टशतं होमं बहुरूपेण होमयेत् || १७ || तर्पयेद्वरुणं देवं सोमदेवं [ख्: दत्त्वा सन्तोषयेत्] च वा क्वचित् | चरुं संशाधयेत्तेन शान्तिं तेनैव कारयेत् || १८ || पूर्णां दद्याद् गुरुर्हृष्टः शिवेनाशिवहरिणा | तां च गां गुरवे दद्यात् तोषयेच्च [घ्: खाग्न्येन] स्ववित्ततः || १९ || कूपेऽप्येवं कृतेऽर्कांशे सार्धद्व्याङ्घ्रिस्थास्थमीश्वरम् | खाग्नीन [ख्: गोग्र्यूण] पितृरुग्वा [मू: युग्वा] युदितीशान्पूजयेत्तथा || २० || अष्टौ त्वापादिकांश्चैव पदैकैकेषु कोणतः | दिक्ष्वर्केषु मरीच्याद्यान् मध्येषट्पदकेष्वजम् [घ्: ध्वजः] || २१ || कूपाङ्घ्रीशे [घ्: न्पीठा] परे भागे तारनागाष्टकावृतम् | तन्मध्ये कालरुद्रेशं पूज्य गन्धादिपूर्ववत् || २२ || हुत्वा दद्याद् बलिं तेभ्यो गुरवे गां ततो गुरुः | पञ्चगव्यं क्षिपेत्कूपे गङ्गामन्त्राम्बुना सह || २३ || प्. २०२) कर्तारं प्रोक्षयेत्पश्चाद्गुरुः शान्त्यम्बुना भृशम् | शक्त्त्या कर्ताशयेद्विप्रान् प्रार्थयित्वाशिषोऽर्थिवत् [ख्, घ्: र्मिथः] || २४ || ऐष्टके वाश्मजे कूपे धीरज्जुदृढमालिकाम् | करान्तरस्थदार्वीभिर्धटीभिर्दारुचक्रकम् || २५ || युक्तं तद्ग्रह [ख्: द्भम्] णात्तोयं नालाभ्यां कर्षयेन्नरः | नालार्धे [ख्, घ्: नालौ द्वे] स्थापयेत्तत्र [ख्, घ्: द्विष्णु; ग्: विप्र] प्रसुप्तं यागपूर्वकम् || २६ || पुष्करिण्यादिषट्केषु शिलेष्टकाकृतेषु वा | जलतल्पो हरिःस्थाप्यो गङ्गानागाह्वयोऽथवा [मू, ङ्: नागार्द्धयो] || २७ || यतेः स्यानाय वाप्यादीन् कुर्यात् प्रागीशसौम्यतः | उद्यानेषु सुराग्रे वा [ख्, ङ्: ग्रेषु] दिक्षु कूपं च पूर्ववत् || २८ || कूपवत्सर्वखातेषु विधानं चाखिलं तु तत् | क्षेपणं वपनं यच्च सव्यासव्येन कारयेत् || २९ || बिल्ववृक्षादिवृक्षाणां न्यासादि मज्ज [ग्: मार्ज] नार्चनम् | स्वैस्तारकैः प्रकुर्याच्च तिलैर्होमं च मध्यगैः || ३० || आरामोद्यानकेऽप्येवमैशान्यां वृक्षमाश्रितम् | पूर्वागारेऽथ होतव्यं वृक्षाणां वृक्षदैवतम् || ३१ || प्. २०३) न्यासार्चनादिकं कृत्स्नं स्वैर्मन्त्रैर्यतिभोजनम् | बाणमतात्समादाय लिखितं च तदक्षरैः || ३२ || इति लक्षणसमुच्चये पुष्करिणीकूपवृक्षोद्यानारामस्थापनं नामै [नामेति शब्दो लि० पु० नास्ति] कत्रिंशो विधिः || ३१ || अथ द्वात्रिंशः सांवत्सरिकपूजादौ न्यूनसंपूरणाय वै [ख्, ग्: च] | पवित्रारोहणं [मू: रोपणं] कार्यं चातुर्मास्यं व्रतं चरन् || १ || आषाढे श्रावणे वापि नभस्ये वा ततो न तु | पक्षयोश्चेष्ट [ख्, ग्: स्वेष्ट] देवानां वह्निप्रतिपदादिषु [ख्: दितः] || २ || ज्वलनब्रह्मगौरीणां हेरम्बस्य च भोगिनाम् | रुद्रार्क [ख्: रुद्राणं] शङ्कराणां च चण्डीयमविडौजसाम || ३ || विष्णुमन्मथशम्भूनां पौर्णमास्यां तथा पुनः | सर्वेश्वर [ख्: ष्वेव] पितृणां च पवित्रारोहणं मतम् || ४ || निरूप्य स्थानकं चादौ गृहीत्वा दन्तधावनम् [ग्: दण्डधारणम्; (क्) २४ अध्यायस्य ४९ श्लोकादारभ्यैतावत्पर्यन्तो भाग क पुतके खण्डितः] | मृद्भस्मवस्त्रपत्रादि तथा सूत्रं च सप्तधा || ५ || क्षौमं मौञ्जं च शाणं वा कौशं पट्टजमेव वा | पाद्म कार्पासजं सूत्रं द्विजकन्यादिनिर्मितम् || ६ || त्रिगुणं त्रिगुणीकृत्य ज्येष्ठादिलिङ्गमानतः |) (क) दशाङ्गुलान्तराग्रन्थिश्चैकैकाङ्गुलिहानितः || ७ || प्. २०५) द्व्यङ्गुलान्तं भवेच्छेषौ हस्तान्ते च नवादिके | सूत्रैः साष्टशतैर्ज्येष्ठो चान्यद [मूङ्: यन्मित्रा; क्, घ्: चान्यत्रा] ष्टाष्टहानितः || ८ || ग्रन्थयस्तन्तुसंख्याता विषमग्रन्थयः क्वचित् | रोचनाकुङ्कुमाक्तैश्च मदचन्द्रैस्तु शक्तितः || ९ || रजन्या धातुभिर्वापि ग्रन्थींस्तांस्तु सुशोभयेत् | त्रितत्त्वे त्रीणि कार्याणि चतुर्थं चावलंबजम् || १० || सुधौतानि पवित्राणि पीठे लिङ्गेच मूर्धनि | सर्वार्थपूरणं दद्यात् पृष्ठपीठे चतुर्थकम् || ११ || आपादाच्च ललाटान्तं हृत्कण्ठान्तं स्वदेहतः | साष्टशताङ्घ्रि [ख्: ताङ्कि] वर्णाख्यैः स्युस्तन्तुग्रन्थयः क्रमात् || १२ || स्वबाहुकरतालान्तैः पदवर्णं सुतत्त्वगैः | स्थण्डिले हरिशम्भोस्तु दले केसरकोणके || १३ || ब्रह्मविष्णुहरादीनां द्वात्रिंशद्भिर्विवृद्धितः [ख्: र्दिवृद्धितः] | सूत्रैश्च ग्रन्थयोऽन्येषां तथा दशैक [ग्: दलैक] हानितः || १४ || मूर्धावलंबिजान्वन्तं प्रतिमानां पवित्रकम् | वृषस्य शृङ्गपादान्तं पवित्रं लिङ्गवन्मतम् || १५ || प्रासादमठ [मू, ङ्: मथ] वेश्मानि सूत्रेणैकेय वेष्टयेत् | इतरेषां तु देवानां पवित्रं स्यात् त्रिसूत्रकम् [घ्: त्रकैः] || १६ || प्. २०६) चललिङ्गस्य दैर्घ्येण स्थण्डिले ग्रन्थयः समाः | क्वचिद्वितस्तिमात्रं च शतार्धार्धार्धसूत्रकम् [ख्, घ्: त्रकैः] || १७ || पदवर्णकलाभिः स्युस्तत्त्वेन्द्ररुद्रतन्तवः | द्विजार्कजिनसंख्याभिः स्थिरस्थण्डिलगेहिनाम् || १८ || पटचित्रागमानां च भवेद्ग्रन्थिस्त्रिसूत्रकम् | गुर्वर्थात्मार्थयोः सूत्रैस्तकर्मै [ख्, घ्: त्कामै] कादश क्रमात् || १९ || षट्त्रिंशत्तत्त्वसंख्यानैर्ग्रन्थयो नब पञ्चधा | कनिष्ठामूलकक्षान्तं स्कन्धनाभ्यूर्ध्वमानकम् || २० || स्नानं पूजा जपं होमं ध्यानं विज्ञप्तिमेव च | पवित्रारोहणं कुर्यादिष्टमन्त्रैस्त्रितत्त्वतः || २१ || प्राग्याम्येन्दुप्रतीचीषु क्रमात्स्थितैर्द्विजातिभिः [ख्: द्विभिः] | दद्यात् पवित्रकं तद्वद्वह्न्यादिदिक्षु चेतरैः || २२ || शुचिः स्नाहोऽह्निकीं पूजां कृत्वा वै शेषिकां क्वचित् | त्रिपञ्चसूत्रकैर्वापि हृदा चामन्त्रर्ण विभोः [क्, ख्, ङ्: प्रभोः] || २३ || आमन्त्रितोऽसि देवेश पूजामुपहृता मया | गृहाणेमां महादेव समस्तविधिकारण || २४ || मृदं सामलगन्धाम्बुसुभस्मदन्तधावनम् | पञ्चगव्यं कमात्तेषु तालचन्द्रनलोहकम् || २५ || प्. २०७) शिलां वा रोचनां चैव स्वमन्त्रेणोपयोजयेत् | होमद्रव्याणि सर्वाणि सकुशान्यपरापरानने || २६ || कज्जलं कुङ्कुमं तैलं शलाका केशशोधनम् | ताम्बूलं गुह्यके दद्यात् साज्यं चरु नरे पुनः || २७ || यष्ट्यक्षसूत्रकौपीनभिक्षापात्राणि दक्षिणो | ऐशान्यामासनं छत्रं पादुके योगपट्टकम् || २८ || यत्न [ख्: पद] संपन्नमेतेषां मनसा तत्प्रकल्पयेत् | पात्रं कृत्वा पवित्राणि प्रोक्षितानि शिवाम्भसा || २९ || कृष्णाजिनादिच्छाद्य मन्त्रसंहितयालभेत् | गन्धं पुष्पं च धूपाद्यं साक्षतं च पवित्रकम् || ३० || पठेन्मन्त्रोत्तमं विद्वानामन्त्रेण पदात्मकम् | शिवं निवेदयेन्मूर्ध्नि रेचकेनामृतीकृतम् || ३१ || ओं नमो व्रतेश्वरा पूरय पूरय स्वाहा | सोपवासो वदेद्रात्रौ नक्तं नक्षत्रमेव वा | प्रातः स्नातः शुचिः शुद्धः पूजां कुर्यात्स्ववित्ततः || ३२ || वस्त्रपूतेन तोयैन पञ्चगव्येन भक्तितः | पञ्चभिर्मधुरैः स्नानं जलान्तरैर्विरुक्षणम् || ३३ || गन्धतोयादिभिः स्नानं तोयमाकृष्य वाससा | अष्टाङ्गोऽर्घं प्रदायाथ समालभ्य प्रपूजयेत् || ३४ || प्. २०८) शिवकुम्भास्त्ररक्षा च मण्डलं शास्त्रचोदितम् | वस्त्रैः संछादितं वेश्म घटाचामरभूषणैः || ३५ || पुष्पमालां प्रलम्बर्न्ती वस्त्रैर्नानाविधैर्वरैः | कदलीचूतमालाभिर्जातबीजसरोचकैः [क्, ख्, ग्, घ्, ङ्: सरावकैः] || ३६ || पताकाध्वजदीपाद्यैर्नैवेद्यैः शोभयेद्गृहम् | नृत्यगीतैः कलैर्वाद्यैर्नयेद्रात्रिं महोत्सवैः || ३७ || दैशिकाञ्छिवयोगीन्द्रांल्लिङ्गिनश्च स्ववित्ततः | भक्त्त्या सन्तोषयेत् सर्वान् वस्त्रदानादिभोजनैः || ३८ || एवं कृत्वा यथोक्तं तु पवित्रारोहणं शुभम् | सर्वपापविनिर्मुक्तो रुद्रलोके महीयते || ३९ || एकरात्रं त्रिरात्रं वा पवित्रं धारयेद्गृही | खट्वाशयनमिथ्योक्ति [ख्, घ्, ङ्: थ्यावान्] स्त्रीयात्रामिषवर्जकः || ४० || चातुर्मास्यमसामर्थ्या [मू: समासेव्या] द्यतीनां रुग्भयादितः [ङ्: र्दितः] | पूजां कृत्वा शिवं नत्वा पवित्रं च विसर्जयेत् || ४१ || कार्तिक्यां महतीं पूजां पूर्ववन्मण्डलादिकम् | कृत्वा क्षिपेत्पवित्राणि शिवाग्नौ वा सदाम्भसि || ४२ || दीक्षितो यो न कुर्याद्वै पवित्रारोहणं विभोः | स्यात्प्रायश्चित्यधोगामी कृतो रुद्रोऽब्द [मू, ङ्: द्राक्त] कोटिशः || ४३ || पवित्रारोहणविधिः | २०९) हेमलिङ्गाद्धनाध्यक्षो [क्, ख्: र्चनात्र्यक्षो] विश्वेदेवाश्च तारजात् | ताम्रलिङ्गार्चनादर्कः पिशाचो वंशसम्भवात् || ४४ || संसिद्धा वसवो घोषाद्रीतिजान्मरुतोऽर्चनात् | सीसजा [मू: सीसका] द्गुह्यकाः सर्वे लोहाद्रक्षोऽसुरान्तकाः || ४५ || त्रिलोहान्मातरः सर्वा मार्तण्डस्त्वष्टलोहजात् | वज्रात् सुरेन्द्रमार्कण्डौ [मू: मार्तण्डौ] मौक्तिकाच्छर्वरीप्रभुः || ४६ || पौष्परागाच्छुयाचार्यो वैदूर्याद्राघवो नृपः | पद्मरागाद्धुताशश्च इन्द्रनीलार्चनाद्धरिः || ४७ || बाणो मारकताल्लिङ्गत्स्फाटिकोत्थाज्जलाधिपः | वैद्रुमास्यार्चनान्नागाः शुक्रः कार्केतनात्सदा || ४८ || पलकोत्थात्त वागीशो राजावर्ताच्छनैश्चर [क्: द्धनेश्वरः] | पौलस्त्यो जीवजातिभ्यष्टै [क्, ख्: तीजार्है] ट्टिभात्सिद्धकिन्नराः || ४९ || तुत्थजाच्च बलिः सिद्धः प्रशान्तवान् | अश्विनौ पक्वमृद्भूताद्गन्धर्वा दारसम्भवात् || ५० || ब्रह्मा शैलोद्भवात्सिद्धो मुनयः पटचित्रजात् | गन्धोद्भवाच्च [घ्: द्भूताच्च] कन्दर्पः पौष्पलिङ्गाद्दिगम्बरः || ५१ || शार्ङ्ग [मू, ग्: शार्ग] संसेवनाद्दक्षो गजदन्ताच्च मारुति | कूर्मकौशि (कसि) कसभूताद्वासुकिनयिनायकः || ५२ || प्. २१०) नकुला [ख्: लास्थ्य] (च्चा) र्चनात्सिद्धो हरिश्चन्द्रो नराधिपः | अम्बरीषश्च संसिद्धो [घ्, ङ्: एव सुरादयः सिद्धा] लिङ्गसंस्थापनार्चनात् || ५३ || अष्टपिष्टाङ्गजा [ख्: अब्जपिष्टोद्भवा] ल्लिङ्गादष्टौ सिद्धा गणेश्वराः | नावनीतात्तु संसिद्धो [मू, ङ्: तात्कुजः] धन्वन्तरिश्च [ग्: स्तु] सोमपाः || ५४ || औदनस्यार्चनात्तार्क्ष्यो गौडलिङ्गाद्बुधस्तथा | नानाफलोत्थलिङ्गानि विधिना सेवितानि च || ५५ || तेन ते मुनयः सिद्धा बालखिल्या महोदयाः | सैकताद्विश्वकर्मा च शचीशो लवणो [मू: श्चलनो] द्भवात् || ५६ || विभीषणश्च पांशूत्थान् मूलोत्थाच्चरकोऽर्चनात् | वंशाङ्कुरोत्थलिङ्गाच्च सगरो नाम पार्थिवः || ५७ || पौराज्जयद्रथो राजा राहू रामठजार्चनात् [मू: सम्भवात्] | सर्जलिङ्गाच्च [घ्, ङ्: मयाच्च; घ्: बिम्बात्] सौमित्रो योगिन्यः सिक्थसम्भवात् || ५८ || लेपजात्पद्मजा देवी मृल्लिङ्गा [मू, अ: अर्धान्तःकर्म] त्पञ्चपाण्डवाः | ऐहिकस्याश्रयात्सिद्धा लिखिता बहुशास्त्रतः || ५९ || ऐहिकानि यजेत्तस्मात्प्रतिष्ठारहितान्यपि | स्वैर्मन्त्रैः काम [घ्: स्वैर्धान्तैः काम] दानि स्युः सिद्धिदानीशवाक्यतः || ६० || प्. २११) सर्वदेवमयं लिङ्गं लिङ्गं सर्वेषु संस्थितम् | स्थापितं विधि [ख्: शिव] मन्त्रैस्तु धर्मकामार्थमोक्षदम् || ६१ || एकस्मिंस्थापिते लिङ्ग इष्टे वाखिलदेवताः | पूजिताः स्थापिताश्च स्युः पूज्यं स्थाप्यं च तत्त्वतः || ६२ || सर्वयज्ञतपोदानतीर्थदेवेषु [घ्: वेदेषु] यत्फलम् | तत्फलं कोटिगुणितं स्थाप्य लिङ्गं लभेत्फलम् || ६३ || यो लिङ्गं स्थापयेदेकं [मू: देवं] विधिपूर्वं सदक्षिणम् | सर्वागमोदितं पुण्यं [मू: सर्वं] कोटिकोटिगुणं भवेत् [ख्, घ्: लभेत्] || ६४ || हस्तस्थकङ्गणं स्पष्टं दर्पणेनेक्षते पशुः | लिङ्गाङ्कितं जगत्कृत्स्नं भगाङ्कं नापि पश्यति || ६५ || सिद्धिमुक्तिसुसि [ख्, घ्, ङ्: प्रसि] द्ध्यर्थं भक्तानां [मू: भत्त्या स] हितकाम्यया | गृहीत्वागमतः सर्वं लिखतं शिखभाषितम् || ६६ || संक्षेपैकागभं दृष्ट्वा न सस्यक् सर्वनिश्चयः | विस्तराद्भीश्च मोहः स्यात्तमान्मध्यतरं कृतम् || ६७ || सुन्दराद्यैः प्रतिष्ठोक्ता मयाप्युक्ताल्पशक्तिना | यदि व्रजति वै तार्क्ष्यः किं न यान्तीह षट्पदाः || ६८ || बहुशास्त्रार्थवस्त्राद्या [मू: स्त्रार्था] ग्रन्थसूत्रैः सुसूत्रिताः | अज्ञानशीतनाशाय कण्ठाचार्यै [ख्, ग्, ङ्: वाच्यत्यु] दीरिताः || ६९ || प्. २१२) शब्दाक्षरान्यनो योगात्संज्ञालिङ्गप्रगोपनैः | अनुक्तः [मू, अ: आनन्दः] सुधियां मध्ये कश्चित्तेनो [घ्: विस्तेनु] पलक्ष्यते || ७० || आसीद्गोपालभूपः सकलवसुमतीभूषणे दोषहीनस्तस्याङ्गाशो [घ्: स्यांशाह्वो] महात्मा कृतनृपतियतिर्धीरनाथः पृथुश्रीः | तत्पुत्रः [मू, अ, ग्: तत्तस्मात्] प्राप्तकीर्तिर्वचनचतुरिमा विश्रुतो भूमिचक्रे [ख्, घ्: रधीनाख्यलोकानुकम्पः] चक्रे सोऽयं [ख्, घ्: शास्त्रं] प्रतिष्ठाविधिमतिललितं पञ्चवक्त्रोपगीतम् || ७१ || श्रीमन्मत्तमयूरजो हरसमः शैवोऽर्जुन [क्, ख्: वे कुले] द्योतकः प्रख्यातो विमलादिकः शिवपरश्चाचार्यवर्योंऽभवत् | पूज्यो निर्भयभूमिपस्य च गुरुस्तेनाभिषिक्तः स्वयं ज्ञानीशानशिवस्तदङ्घ्रिजनितो वैरोचनो दैशिकः || ७२ || मायाकर्मादिजातत्रिविधमलहरो ज्ञानदेहावतीर्णः शम्भोश्चाभेदरूपो मुनिजनविदितश्चोर्ध्ववक्त्राभिधानः | आचार्येन्द्रः प्रसिद्धः सकलजनहितः शुद्धशैवाश्रमस्थो- यस्ततस्याहं नमामि क्षितिनिहितशिराः पादपद्मं गुरोर्मे || ७३ || सिद्धान्तद्वयटङ्कशाकतक [ख्, घ्: दृक्च गारुड] (ट) बृहत्तीक्ष्णोग्रदंष्ट्रश्च योजिह्वा यस्य सकेसराणि च तथा [मू, अ, ग्, ङ्: सिरतया] सव्यापसव्यागमौ | विस्तीर्णाखिलभूततन्त्रनखरो वैरोचनः केसरी | सोऽयं मत्तमृगेभदर्पदलनो भूकानेन भ्राम्यति || ७४ || प्. २१३) स्वतन्त्राध्ययनं वादः परतन्त्रावलोकनम् | तद्विद्याचार्यशैवाय बुद्धिमेधाकरो गुणः || ७५ || वसन्ततिलकं त्वादौ दीप्यन्ते स्रग्धरास्तथा | शेषाश्चानुष्टुभो मध्ये गुणसाहस्रिकं कृतम् || ७६ || हिताय दैशिकानां यदुक्तं स्वल्पधियामया | दुरुक्तं [क्, ग्: वत्न टङ्कः पाषाणदारण इत्यमरः | शाकटो भार आचित इत्यमरः | ] सूक्तमाज्ञाय तत्करिष्यन्ति पण्डिताः || ७७ || नान्यदर्शयिने देयमेतच्छास्त्रं मगाय च | शैवेभ्य एतद्दातव्यमर्थतः शास्त्रतःसदा || ७८ || परोपं [ग्, घ्, ङ्: पराय] याचनाच्चौरात् [मू, अ, ङ्: द्दोषः] स्नेहात् शिथिसबन्धनात् | कण्टका [क्, ख्, घ्, ङ्: वल्मीका] खुजलाग्निभ्यो मा रक्षेत्याह पुस्तकम् || ७९ || धत्तेऽनन्ताख्यरुद्रो भुवमुपरिगतो यद्व [क्, ख्: याव] दाधारशक्ते- र्जम्बुद्वीपस्य मध्ये शिखरिवरवृतो यावदास्ते [ख्: भृतो यावदास्ते] सुमेरुः | यावच्चन्द्रार्कतारामयरुचिरुचिरं प्रस्फुरत्यन्तरिक्षं [ख्, घ्: पुष्करं राजतीयं] | तावद्वैरोचनस्य प्रविचरतु गुरोः पुस्तरुपात्र कीर्तिः || ८० || यावच्छ्रीमाननन्तो धरति वसुमतीमूर्ध्वमाधारशक्ते [ख्: मघादियुक्तां ; घ्: त्तार शक्त्या] | प्. ११४) र्यावत्सप्तोत्तरी [मू, अ, ङ्: प्तार्णवी] यार्णववृतपृथिवीमध्यगो [ख्, घ्: मध्यतो] मेरुरस्ति | यावच्चन्द्रार्कतारागणमणिभि [क्, ख्: घृणिभि] रिदं भ्राजते शुभ्रमभ्र [मू, घ्, ङ्: मम्भः] तावद्वैरोचनीया जगति चिरमियं पुस्तरुपास्तु कीर्तिः || ८१ || इति श्री (प्रतिष्ठातन्त्रे) प्रतिष्ठालक्षणसारसमुच्चये पवित्रारोहणं नाम द्वात्रिंशो विधिः || ३२ || || समाप्तोऽयं ग्रन्थः || || शिवम् || ########### END OF FILE #######