#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00256 Uniform title: prodgītāgama Main title: prodgītāgamaḥ vivāhavidhimātram Manuscript : IFP/EFEO transcript T0201 Description: Transcribed from IFP transcript T0201 which is copied from a ms. belonging to Swaminatha Gurukkal, Tiruvavadudurai See Muktabodha IFP/EFEO on-line catalog for bibliographic details at www.muktabodha.org . Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: April 4, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || शिवाभ्यां नमः || || प्रोद्गीते विवाहविधिः || श्रीकण्ठरुद्रमीशानं पञ्चकृत्वपरायणम् | पप्रच्छ परया भक्त्या विष्णुरत्यन्तहर्षितः || १ || भगवन् सर्वलोकेश लोकरक्षाधुरंधर | सतीवियोगजे काले लोकानां वर्द्धिरादितः || २ || नाभवत्किल विश्वात्मन् तदा लोकाः कथं स्थिताः | उत्पत्तिः कथमेतेषामविच्छिन्ना वभूव च || ३ || तद्रहस्यन्न जानामि वद मे करुणानिधे | इति पृष्टो महादेवो विष्णुना प्रभविष्णुना || ४ || उवाच पार्वतीनाथस्तं वृत्तमवतारयत् | दक्षं निरीश्वरं यागं प्रावर्तत पुरा किल || ५ || तत्त्वया विदितं सर्वमथापि त्वद्विक्षया | वक्ष्यामि सर्वमेतत् कथां विस्तरतश्शृणु || ६ || सती यदा स्वकं देहं प्रमुमोच समाधिना | तदा निरुत्सवो लोकः प्रजावृद्धिविवर्जितः || ७ || अनावृष्टि परिप्लुष्टः क्षयमाप दिने दिने | तदा ब्रह्मादयो देवास्समेत्य मम सन्निधौ || ८ || प्रणिपत्य परिप्लोषं जगतस्ते व्यजिज्ञिपत् | तदा लोकहितार्थाय संबोधयदच्युत || ९ || प्. २) इन्द्रादीनां दिक्पतीनां सन्ततिः प्रभविष्यति | सा तत्राप्यगजा गौरी भविष्यति धरापते || १० || ताङ्कन्यां वामदेवाय शिवाय ददतस्स्वयम् | तदा प्रभृति लोकोऽयं वर्द्धते पूर्ववत्किल || ११ || इत्याज्ञप्ताश्च ते देवास्तयोर्वैवाहिकीङ्क्रियाम् | अकुर्वन् तत्प्रवक्ष्यामि शृणुष्वादरपूर्वकम् || १२ || तदा चतुर्मुखो ब्रह्मा वसिष्ठाद्या मुनीश्वराः | प्रादुरासीत्सपत्नीकाः महेशप्रियकाम्यया || १३ || लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः | सप्तर्षीन् प्रेषयामासुः कन्यानिश्चय हेतवे || १४ || सपत्नीकास्समाजग्मुर्नगेन्द्र गृहमुत्तमम् | सनारिकेलकदलीपूगीफल समन्वितम् || १५ || वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् | नगेन्द्राङ्के सन्निषण्णां वव्रिरे कन्यकां मुदा || १६ || पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् | सुस्मितापाङ्ग संरूदमकरध्वज शालिनीम् || १७ || उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम् | अरूंधती तदा कन्यां गन्धपुष्पोपहारकैः || १८ || अलञ्चकार सुप्रीतामुमां तां समलङ्कृताम् | तदा हिमाद्रिमेनाकीमुखमैक्षत विस्मितः || १९ || प्. ३) साऽनुमेने तदा गीरीं प्रदातुं शम्भुरूपिणे | महेशाय तदा देवी सहितस्तु महीपतिः || २० || दास्यामीति तदा वाचमुवाच स नगाधिपः | अथोषधीनामधिपे वृद्धिं प्राप्ते सुपुष्कले || २१ || जामित्रे च तिथौ मैत्रे मुहूर्तेश्शशलाञ्च्छने | उत्तराफल्गुनीयुक्ते मुहूर्तं समयोजयन् || २२ || एवं शास्त्रोक्तमार्गेणं विवाहङ्कारयेति च | ब्रह्माणं प्रेषयामास स पिनाकी महेश्वरः || २३ || तथैव कारयामास ब्रह्मा लोकपितामहः | अनेनैव विधानेन पार्वतीञ्च ददौ गिरिः || २४ || एतेन कारणे नैव देवानां सन्ततिर्बभौ | इन्द्रस्यापि जयन्तोऽभून्नलकूवर एव च || २५ || कुबेरस्य स देवानां सन्ततिश्चाभवत्किल | अनङ्गोऽपि तदा साङ्गः रतिप्रीतिकरः प्रभुः || २६ || इति प्रोद्गीते विवाहविधिर्नाम पञ्चविंशति पटलः || २५ || अथ विष्णुर्महादेवं पप्रच्छ परया मुदा | प्रलयो मानुषे लोके प्रजानाशः पदे पदे || १ || दारिद्र्यं प्राणिविद्वेषः कथन्नस्यात् प्रभो वद | अथोवाच महादेवः गौरीवैवाहिकं विधिम् || २ || आलये च प्रतिष्ठायामुत्सवादौ विशेषतः | कर्तव्यं विधिपूर्वन्तु वेदागमविधानतः || ३ || तद्वक्ष्ये शृणु विष्णो त्वं सङ्ग्रहेण जनार्दन | एतदा युष्यमारोग्यं पुत्रपौत्रविवर्द्धनम् || ४ || धान्यं यशस्करञ्चैवापमृत्यु निवारकम् | सौमङ्ग्ल्यं सदा सौख्यं वर्धनञ्च विशेषतः || ५ || फाल्गुने चैत्रवैशाखे तिष्ये वापि विशेषतः | ऋक्षे चोत्तरफल्गुन्यां मैत्रेऽन्यच्छुभ-ऋक्षके || ६ || सुमुहूर्ते * * * * * * * * भृगोर्दिने | वैवाहिकविधिं कुर्यात् साधकस्सर्वतन्त्रवित् || ७ || शिवद्विज * * * * * * * * भिषेचनः | शिवशास्त्रविचारज्ञः शिवागमविशारदः || ८ || दुकूलवसनो * * * * * * त्तरीयकः | भस्मरुद्राक्षमालाभिरलङ्कृत कलेवरः || ९ || हेमयज्ञोप * * * * * * * * * ण्डितः | शुक्लचन्दनलिप्ताङ्गश्शुक्लमालैरलङ्कृतः || १० || एवं लक्षणयु * * * * * * * व्रतम् | प्रार्थयेद्देवदेवस्य कल्याणं कुरु भो गुरौ || ११ || प्. ५) इति प्रार्थ्य नमस्कृत्य * * * * * * * * | इति संप्रार्थ्य शार्गिन्यजमानेन देशिकः || १२ || आस्थानमण्टपे रम्ये शतस्तम्भ समन्विते | * * * * * * * * रङ्गवल्यादिशोभिते || १३ || कदलीस्तम्भखर्जूरी वितानद्ध्वजतोरणैः | पता * * * * * * * * धूपैश्च शोभिते || १४ || पणवैर्मद्दलैश्चैव नानावादित्रनिस्वने | * * * * * * क्तैश्च गौरीकल्याण वैभवैः || १५ || भूषिते मण्टपे शुभ्रे ब्राह्म * * * * * * | * * * * विधिज्ञैश्च वेदवेदाङ्गनिष्ठितैः || १६ || राजभिस्सचिवैश्चैव भटैर्योधै * * * * * | * * * * * नैरन्यैर्नरनारी सहस्रकैः || १७ || शोभिते सदने मध्ये * * मण्टपमादरात् | तन्मध्ये पद्मवेदीञ्च तत्पूर्वे पद्मकुण्डकम् || १८ || स्वस्तिकं मण्डलं कुर्यात् आगमोक्तविधानतः | पश्चिमे भद्रपीठे च स्वस्तिकाख्ये महेश्वरम् || १९ || संस्थाप्य दक्षिणे भागे गौरीं कल्याणरूपिणीम् | देव्या दक्षिणदिग्भागे हिमवन्तं समेनकम् || २० || विष्णुं श्रीभूमिसहितं कलशेषु समर्चयेत् | अग्नेर्दक्षिणदिग्भागे वाग्देवीञ्चतुराननम् || २१ || प्. ६) सनकादींश्च योगीन्द्रान् ब्रह्मणः पुरतो यजेत् | देवस्य वामभागे तु यजेद्दुर्गादि योगिनीम् || २२ || देवस्येशानदिग्भागे रूद्रान् प्रमथनायकान् | सप्तर्षींश्च पत्त्नींश्च सर्वदेवर्षिमण्डलम् || २३ || यजेत्तु पुरतो भागे शचीमिन्द्रं वसूंस्तथा | पश्चिमे मेनकादींश्च यजेदप्सरसां गणान् || २४ || विष्ण्वादि देवबृन्दांश्च कलशेषु यथाक्रमम् | मिश्रतन्त्रविधानेन प्रतिमासु प्रपूजयेत् || २५ || आचार्यो मूर्तिपैस्सार्धं देवदेवस्य सन्निधौ | अनुज्ञां विधिवत्कुर्यात् ब्राह्मणानां समाजगे || २६ || देव देव जगन्नाथ जगदानन्दकारण | कल्याणार्थं प्रवर्तोऽहं लोकसङ्ग्रहणाय च || २७ || लोकानामिष्टकाम्यार्थं तवाज्ञां कुरु मे प्रभो | ततो देव्यालयं गत्वा प्रार्थयेदिष्टसिद्धये || २८ || अम्बिके देवि कल्याणि कारुण्याकरचन्द्रिके | जगदार्तिविनाशाय शम्भुपत्नी भविष्यसि || २९ || इत्युक्त्वा तां महादेवीं प्रणिपत्य गुरूत्तमः | वैवाह्य मूर्तिं संप्राप्य प्रार्थयेदिष्टसिद्धये || ३० || सोमास्कन्दादिदेवेषु पञ्चविंशतिकेषु च | ये ये शक्तियुता देवास्तेष्वेकस्य विधानतः || ३१ || प्. ७) वर्षे वर्षे प्रकुर्वीत वैवाहिकमनुत्तमम् | उद्वाहभावनार्थाय देवदेवौ प्रपूजयेत् || ३२ || शक्तिविघ्नेशमभ्यर्च्य ग्रहप्रीतिपुरस्सरम् | सङ्कल्पञ्च ततः कुर्यान् मृत्सङ्ग्रहणमङ्कुरम् || ३३ || कृत्वा प्रतिसरं बद्धा देव्या देवस्य चैव हि | परेद्युः प्रातरुत्थाय संभारान् संभ्रियात्ततः || ३४ || ततो देव्यालयं गत्वा वाङ्निश्चयविधिञ्चरेत् | ततो ब्रह्मादयो देवा वसिष्ठाद्या मुनीश्वराः || ३५ || प्रादुरासन् स पत्नीकाः महेशप्रियकाम्यया | लोकसङ्ग्रहणार्थाय लौकिकीं वृत्तिमाश्रिताः || ३६ || सतानभ्यर्च्य देवादीन् गन्धपुष्पाक्षतादिभिः | सनालिकेरकदली पूगीफलसमन्वितम् || ३७ || वस्त्रयुग्मं समादाय कञ्चुकं कनकाञ्चितम् | उदुत्तरेति मन्त्रेण ब्रह्मघोषपुरस्सरम् || ३८ || सम्प्रार्थ्य देवीमभ्यर्च्य वस्त्रपुष्पोपहारकैः | उद्वाहार्थं पराशक्तिं प्रपूज्याऽथ विशेषतः || ३९ || उक्तद्रव्ययुतैस्तोयैः पाद्यमाचमनार्घ्यकम् | पर्यूषितार्चनं कृत्वा स्नानशालाप्रवेशनम् || ४० || सिह्मासने तु संस्थाप्य नृत्तगीतपुरस्सरम् | सुगन्धतैलाभ्यङ्गं स्नानीयोद्वर्तनं तथा || ४१ || प्. ८) उष्णोदकस्नापनञ्च सर्वद्रव्याभिषेचनम् | ततः कुर्याद्विशेषेण धौतवस्त्रप्रमार्जनम् || ४२ || दुकूलपरिधानञ्च उत्तरीयसमन्वितम् | चन्दनागरुकस्तूरी कुङ्कुमादि विलेपनम् || ४३ || केशानामगरो धूपं यथा विधि विधाय च | मल्लिकामालती जाति चम्पकाद्यर्पणं तथा || ४४ || नवरत्नकिरीटञ्च चन्द्ररेखावतंसकम् | सीमन्तदेशे सिन्दूरं ललाटे तिलकं तथा || ४५ || कालाञ्जनमधो कृत्वा पालीयुगलमेव च | मणिकुण्डलयुग्मञ्च नासाभरणमप्यथ || ४६ || अधरे यावकञ्चैव ततः प्रथमभूषणम् | चिन्ताकं पतकञ्चैव महापतकमेव च || ४७ || मुक्तावलीमेक मुक्तावलीमपि विनिर्दिशेत् | वैकक्ष्यहारं केयूरचतुष्टयमथापि वा || ४८ || वलयानामावलीश्च ऊर्मिकावलिमेव च | काञ्चीदाम समारोप्य कटिसूत्रमथोपरि || ४९ || सौभाग्याभरणञ्चैव सर्वरत्नविभूषितम् | पादयोः कटकञ्चैव रत्ननूपुरमेव च || ५० || पादाङ्गुलीयकञ्चैव समारोप्य विशेषतः | आयुधानि करे कृत्वा तत्तत्कालविशेषतः || ५१ || प्. ९) पादुकारोहणं कार्यं महामङ्गलसंयुतम् | धूपदीपं तथा कृत्वा पञ्चान्नादीन्निवेदयेत् || ५२ || षोडशैरूपचारैश्च ताम्बूलं मन्त्रपुष्पकम् | तत्तन्मन्त्रैश्च सम्पूज्य गौरीं कल्याण रूपिणीम् || ५३ || अथारोप्य गजे देवीं सिह्मे वा समलङ्कृताम् | आदिशक्तिसपर्यार्थं नदीतीरे प्रपादिषु || ५४ || समावेश्य तदा देवीं नानावादित्र निस्वनैः | कुम्भं संस्थाप्य विधिवत् पूजयित्वोपचारकैः || ५५ || कस्तूरिकुङ्कुमालेप कज्जलादिभिरादरात् | कबोराक्षिदर्पणादि सम्भारैरतिशोभनैः || ५६ || बीजमुद्गानि नैवेद्य पूर्णकर्म समाचरेत् | स्तुवीत ब्राह्मणैस्सार्धं प्राङ्मुखैर्ब्रह्मवादिभिः || ५७ || आदिमध्यान्तरहितां अम्बाममितविग्रहाम् | प्रणमामि महादेवीं महात्त्रिपुर भैरवीम् || ५८ || मदिष्टदेवते देवि मम प्रीतिविवर्धनम् | भर्तारं वरये देवि शिवमत्यन्तसुन्दरम् || ५९ || घटयस्व जगन्मातर्दीर्घमाङ्गल्य वृद्धये | इति प्रार्थ्य परां देवीं पूजयित्वा ततः परम् || ६० || आदिशक्तिममेयां तां ध्यात्वा निश्चलतां ययौ | तत्रैव जातकर्मादि कुर्याद्देव्याः प्रयत्नतः || ६१ || प्. १०) आचार्यस्सर्व सम्भारान् वाद्यघोषपुरस्सरम् | गृहीत्वा देवदेवस्य कल्याणादिषु मूर्तिषु || ६२ || यस्य कस्यापि पुरतः गत्वा प्रार्थ्य पुर स्थितः | देव देव जगन्नाथ जगदार्तिहर प्रभो || ६३ || अनुज्ञां देहि मे स्वामिन् कल्याणार्थन्तु वाऽधुना | इति सम्प्रार्थ्य देवेशं धूपदीपौ निवेद्य च || ६४ || अभिषेकं ततः कृत्वा स्नानीयैस्स्नपनोदकैः | रुद्राध्यायमनुं जप्त्वा सर्ववाद्यपुरस्सरम् || ६५ || * * * * * * * * नियोज्या भरणानि च | मकुटाङ्गदकेयूरहारनूपुरकङ्कणीम् | कटिसूत्रं यज्ञसूत्र * * * * * * बलिः || ६६ || एवमादिभिरन्यैश्च पादुकादिभिरेव च | जाजीचम्पक पुन्नाग कह्लारकम * * * * || ६७ || * * * * * द्यैश्च पूजयित्वा महेश्वरम् | कारयेद्देवदेवस्य शिवस्य परमात्मनः || ६८ || व्रतादिकमथो * * * * * * * मङ्गलम् | सर्वोपचारैस्संपूज्य वृषमारोहयेच्छिवम् || ६९ || सर्ववाद्यसमायुक्तं नानाबि * * * * * * | * * * * * * तो गच्छेत् स्वस्तिमङ्गलपूर्वकम् || ७० || प्. ११) तत्र गत्वा तया सार्द्धं पाद्यार्घ्याचमनादिभिः | उपचार्य ततः * * * * * चतुर्विधम् || ७१ || निवेदद्धूपदीपैश्च्छत्रैश्चामर वीजनैः | उपचार्य यथा शास्त्रं नीराजनमथ * * || ७२ || * * * * म्य तौ देवौ वृषसिह्मासनस्थितौ | उत्थाप्य मण्टपाग्रे तु स्थापयेत् पूर्वपश्चिमम् || ७३ || मालाविनिमय * * * * * * णमेव च | वाद्यैः प्रदक्षिणी कृत्य दासीदीपसमन्वितैः || ७४ || कल्याणमण्टपे रम्ये स्वस्तिमण्टप * * * | समावेश्य पूर्वाभिमुखमास्थितौ || ७५ || ततो यक्षबलिङ्कुर्यात् आचार्यस्साधकैस्सह | पुण्या * * * * * * * * * कदलीफलम् || ७६ || रक्तपुष्पसमोपेतं बलिं दद्याद्विचक्षणः | कृत्वा विवाहसङ्कल्पं वरप्रेषण * * * || ७७ || * * के मण्डले सम्यगादि कर्तारमर्चयेत् | हरिब्रह्मादि देवनामर्चनङ्कलशेषु च || ७८ || सम्पूज्य विधिव * * * * * * * धिना यजेत् | प्रसुग्मन्तेति मन्त्रेण वरप्रेषणमाचरेत् || ७९ || आप * * * * ति मन्त्रेण पा * * * * * | यन्मधुनो मधव्येति मधुपर्कं समर्चयेत् || ८० || प्. १२) कन्यकादान सङ्कल्पं कृत्वा तत्र विधानतः | गृहीत्वा * * * * * * * माप्य शिवस्य हि || ८१ || गृभ्णामीति च मन्त्रेण पाणिग्रहणमाचरेत् | अथ प्रच्छन्नवस्त्रेण प्रा * * * * * * * || ८२ || * * * ष्टकमारभ्य वाचयेत्सस्वरं क्रमात् | वस्त्रयुग्मं तदादाय तस्योपरि यथा विधि || ८३ || मं * * * * * * * * प्रानुग्रहमाचरेत् | बद्ध्वा माङ्गल्यसूत्रञ्च गौरीबीजेन देशिकः || ८४ || पादुकां पार्वतीं * * * * * * * कोत्तमः | एकमिषेति मन्त्रेण सप्तवारं व्रजेत्क्रमात् || ८५ || शिवाग्निं स्थापयित्वा तु परिस्तरणपूर्वकम् | * * * प्रोक्षणीञ्चैव लाजानाज्यञ्च साधयेत् || ८६ || मूलेनाष्टोत्तरं हुत्वा सोमायेति च मन्त्रतः | लाजहोम * * * * प्रदक्षिणपुरस्सरम् || ८७ || त्रिः कृत्वा च समिद्धेऽग्नौ शेषा आज्याहुतीर्हुनेत् | चित्तञ्चेत्यादि मन्त्रैश्च जयाद * * * * * || ८८ || नालिकेरकपित्थादि फलवर्गैस्समन्विताम् | द्राक्षा खर्जूरनारङ्ग खण्डशर्करयान्विताम् || ८९ || इक्षुखण्ड * * * * * * * * पशोभिताम् | पूर्णाहुतिमथो हुत्वा सप्तेति च मन्त्रतः || ९० || प्. १३) उपस्थानमथो कृत्वा प्रणमे * * * * * | * * * प्राङ्मुखो भूत्वा प्रार्थयेद्ब्राह्मणानथ || ९१ || आर्द्राक्षतान् समारोप्य स्वस्तिवाचन | * * * * * रञ्चैव पूजयेद्विधिपूर्वकम् || ९२ || धूपदीपादिनैवेद्यताम्बुलाद्युपचारकैः | पूर्व * * * * * * निवेद्यापूपमोदकान् || ९३ || ताम्बूलादीन् ततो दत्वा गन्धपुष्पादि * * * | * * * * * * * * भक्ष्य भोज्यफलादिकैः || ९४ || वीथी प्रदक्षिणं कुर्यात् सर्वानुग्रह वे * * | * * * * * * * * स विधोद्वाहमेव च || ९५ || स दीर्घायुरवाप्नोति पुत्रान् पौत्रांश्च विन्दति | * * * * * * * * * * * * ह मोदते || ९६ || इति प्रोद्गीते विवाहविधिर्नाम षड्विंशति पटलः || २६ || ########### END OF FILE #######