#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00076 Uniform title: sāmbapañcāśikā Main title: sāmbapañcāśikā with the commentary of kṣemarāja Commentator : kṣemarāja Description: This e-text was transcribed from Trivandrum Sanskrit Series, volume 104 Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski . Revision 0: Nov. 29, 2005 Publisher : Trivandrum Sanskrit Series Publication year : 1930 Publication city : Trivandrum Publication country : India #################################################### साम्बपञ्चाशिका राजानकश्रीक्षेमराजकृतया टीकया समेता पुष्णन् देवानमृतविसरैरिन्दुमास्राव्य सम्यग् भाभिः स्वाभी रसयति रसं यः परं नित्यमेव | क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीदृग् दोलालीलोल्लसितहृदयं नौमि चिद्भानुमेकम् || एतदावेशवैवश्यप्रोन्मिषद्धिषणा वयम् | विमृशामो मनाक्छ्रीमत्साम्बपञ्चाशिकास्तुतिम् || सोऽयं परामृतरसो रसज्ञैरिह रस्यताम् | आयुष्याज्यामृतस्पर्शः शतपद्या हि शान्तये || समस्तागममहाम्नायरहस्यविन्महायोगीगिसहस्रसंप्रदाय- संपूर्णः श्रीवासुदेवस्य भगवतः पुत्रः श्रीसाम्बः स्वात्मविवस्वत्स्तुतिं जगतोऽनुग्रहाय वक्तुमुपक्रमते - शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते- रुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमण्डलम् | भाव्यद्वर्णपदक्रमेरिततमःसप्तस्वराश्वैर्विय- द्विद्यास्यन्दनमुन्नयन्निव नमस्तस्मै परब्रह्मणे || १ || तस्मै परस्मै सर्वोत्कृष्टाय विश्वपूर्णादिकर्त्रे च | अत एव चाभावशान्तब्रह्मचित्रब्रह्मादिसर्वब्रह्मक्रोडीकर्त्रे ब्रह्मणे बृहते व्यापकाय बृहणाय च विश्वकर्त्रे चिदात्मने नमः | देहादिप्रमातृताप्रशमनेन तदेवाविशामीत्यर्थः | यस्य ब्रह्मणः सम्बन्धि ऊर्ध्वमशेषविश्वाभेदात्मतया उत्कृष्टतया गीयते विमृश्यत इत्युद्रीथः प्रथमोन्मेषात्मशब्दब्रह्मरूपः प्रणवो ध्वनिः | देवतास्तुतिकर्मप्रधानसामर्ग्यजुर्वेदाख्या त्रययेव शाखा प्रपञ्चक्रोडीकृतसमस्ताम्नायवाक्यैकवाक्यताव्याप्त्या मण्डलम् | अतश्चैतत्सर्वासां विद्यानां मन्त्रशास्त्रविज्ञानानां स्यन्दनमास्पदं प्रसवकारणं च कर्मभूतं च वियत्पराकाशमुन्नयन्नुल्लासयंस्तन्मयत्वमापादयन्निव पुरः प्रथममरुणतयाऽतिदीप्तत्वेनोदितः स्वयमुन्मिषितः | वियन्मयस्याप्यस्य दीप्तस्योन्मेषावष्टम्भपुरःसरं तथा स्फुरणादुन्नयन्निवेत्युक्तम् | एतच्च त्रयीमण्डलं भास्वद्भिः प्रोद्गीथारुणिम्ना स्फुरितैर्वर्णपदक्रमैरक्षरवाचकतदानुपूर्वीभिरीरितं ध्वस्तं तमोऽज्ञानं येन तादृक् | उच्चारणपदार्थवाक्यार्थप्रतिपत्तिषु परमचिदभेदविश्रान्तिदमित्यर्थः | केन वियदुन्नयन् | सप्त ये स्वराः स्वयं राजमाना विश्वाक्षेपिणो वर्णाः पश्यन्त्यादिप्रवर्तनप्राणितकल्पाः षड्जादिध्वनिविमर्शास्त एव सर्वत्राशुसंचारित्वादश्वास्तैः | यस्य ब्रह्मणः कीदृशस्य | गोपतेः परादिवाक्प्रभोर्मरीचिचक्रेश्वरस्य च | अत एव शब्दार्थत्वेन नानालौकिकेतरशब्दतदर्थतत्संबन्धैर्विचित्रतया वर्तमानं स्वातन्त्र्यादेतद्वैचित्र्याभासात्म यत्परं ज्योतिः शाक्तं वीर्यं तेन च रुग्दीप्तिर्यस्य | बाह्यस्यापि सूर्यस्य ज्ञानशक्तिः परा ह्येषा तपत्यादित्यविग्रहा इत्याम्नायनीत्या परब्रह्मप्रतिबिम्बकल्पस्य प्रणवव्याप्तिकोऽरुणः पूर्वमुदितः | त्रयीव्याप्तिकं मण्डलमितरविद्याव्याप्तिकं स्यन्दनं च कर्मभास्वद्वर्णैः पदक्रमैर्देदीप्यमानचरणविन्यासैरीरिततमसो ये सप्तस्वरव्याप्तिका अश्वास्तैर्वियदुत्क्षिपति | अथ च विचित्रवाच्यवाचकात्मजगद्वृत्तेश्चिच्चक्रेश्वरस्योद्गीथः शक्त्यङ्कुरोन्मेषो दीप्तो ब्रह्मविष्णुरुद्रजाग्रत्स्वप्नसुषुप्तिब्रह्ममूलमायाण्डादित्रयी- मण्डलम् | वियद्व्यापकम् | वेदनानादिधर्मस्य परमात्मत्वबोधना इत्याद्याम्नायनिरुक्तोन्मनाशक्त्याख्या विद्यास्यन्दनं स्वरैर्विचित्रैर्मन्त्रैर्ध्वनिभिरुन्नयन्निव प्रथममुदितः | किं कृत्वा ? भास्वतां वर्णानामाकारादिमात्राणां पदानां बिन्द्वादिविश्रान्तीनां क्रमेण परिपाट्या ईरितं तमः समनान्तं पाशजालं यत्र || १ || एवं सामान्यव्याप्त्या परमार्कं स्तुत्वा देहस्थमध्यनाडीव्याप्त्या स्तौति - ओमित्यन्तनदति नियतं यः प्रतिप्राणि शब्दो वाणी यस्मात् प्रसरति परा शब्दतन्मात्रगर्भा | प्राणापानौ वहति च समौ यो मिथो ग्राससक्तौ देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये || २ || तं परमादित्यं परब्रह्मस्वरूपमेव देहस्थितं मध्यनाडीगतप्राणब्रह्मनिविष्टम् आद्यं विश्वचित्रभित्तिभूतं सपदि प्रपद्ये अभिसन्ध्यवधानेन समाविशामि | कं तमित्याह - य ओमितिशब्दः क्रोडीकृताशेषशब्दनात्मनादरूपो महाप्रणवः प्रतिप्राणि सर्वभूतेषु नियतमविच्छिन्नप्रवाहेणान्तर्नदति परावागात्मस्वरूपं विमृशन् स्थितः | यस्माच्च शब्दतन्मात्रगर्भा आसूत्रितक्रमा आदिक्षान्तशब्दसामान्यमात्राऽविभागज्योतिर्मयी पराद्वितीया वाणी पश्यन्ती प्रसरत्युन्मिषति | यश्च मिथो ग्राससक्तावन्योन्यकवलनपरौ समौ समानभूमिकारूढौ प्राणापानौ वहति | उदानवह्न्यात्मनिजमहाज्योतिर्मयौ करोति || २ || एवं महाव्याप्त्या सूक्ष्मव्याप्त्या चानवच्छिन्नं मध्यधामस्थं च चिदर्कं नुत्वा प्रपञ्चव्याप्त्यापि स्तौति - यस्त्वक्चक्षुःश्रवणरसनाघ्राणपाण्यङ्घ्रिवाणी- पायुपस्थस्थितिरपि मनोबुद्ध्यहङ्कारमूर्तिः | तिष्ठत्यन्तर्बहिरपि जगद्भासयन् द्वादशात्मा मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये || ३ || मृतानां वेद्यैकरूपतया शवप्रायाणामण्डानां देहप्राणादिपिण्डानामयमनुप्राणको मार्तण्डश्चिद्भानुस्तमेकमद्वितीयमपि प्रपञ्चव्याप्त्या सकलानां प्रमातॄणां सकलानि करणानि च त्रयोदशकरणानि च तेषामाधारमनुप्राणकमविभिन्नमाश्रयं प्रपद्ये | यस्त्वगाद्यहङ्कारान्तस्वीकृतत्रयोदशेन्द्रियमूर्तिः | अतश्चान्तरहङ्कारात्मा वेदग्राहकरूपः बहिश्चाध्यवसायादि व्यापारबुद्ध्यादिकरणद्वादशात्मा ग्राह्यरूपं जगद्भासयंस्तिष्ठतीति स्थूलदृशार्थः | रहस्यदृशा तु गृहीतसर्वेन्द्रियमूर्तिरपि यः सृष्ट्यादिमरीचिचक्रचित्रसंचारचातुर्याद्द्वादशात्मा एक एव चिदर्कोऽन्तर्बहिश्च जगत्कालानलादि व्योमकलान्तं विश्वं भासयंस्तुर्यधामात्मनिजभासा चक्रमयत्वमापादयन् सर्वकरणान्याधारतया निजौजोज्वलनज्वलितान्याश्रित्य स्थितस्तं प्रकर्षेण प्रपद्ये | निजव्युत्थानं साक्षात्कुर्वन् स्थितोऽस्मीत्यर्थः || ३ || प्रपञ्चव्याप्त्याखिलेन्द्रियाधारे स्तुतेऽपि भगवति प्रकाशविमर्शपरमार्थे तद्विमर्शप्रसरसरणिं वाणीं स्तौति - या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं वर्णानत्र प्रकटकरणैः प्राणसङ्गात् प्रसूतान् | तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये || ४ || अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा | स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी || इत्यादिना लक्षितां प्रथममादाबुदितामुन्मिषितां तां स्वरूपज्योतीरूपां पश्यन्त्याख्यां तदनु तामेव बुद्धिसंस्थां बुद्ध्यभ्यासं प्राप्ताम् | केवलं बुद्ध्युपादानात् क्रमरूपानुपातिनी प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते || इत्यादिलक्षिताम् | मध्ये भवत्वान्मध्यमां मध्येऽन्तःकरणे वर्तमानाम् | तदनु वक्त्रे वदने करणेषु जिह्वामूलजिह्वामध्यमादिषु विशदां निर्मलाम् | स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा | वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना || इत्यादिना लक्षिताम् | विखरे शरीरे भवत्वात्तदाख्यां वाचं प्रपन्नोऽस्मि | कां तामित्याह - या सा मित्रावरुणसदनादग्नीषोममयात्मनः परावाक्प्रधानान्मध्यधाम्नोऽकरादींस्त्रिषष्टिं वर्णानुच्चरन्ती आसूत्रितक्रमतया भेदाभेदाभ्यां भेदेन च विमृशन्ती | केनोच्चरन्ती ? प्रकटैरन्तर्मुखीभावेनाभिन्नस्फुटप्रकाशैकमध्यमाप्तैः करणैः सर्वेन्द्रियैः | कीदृशान् वर्णान् ? प्राणसङ्गात् प्रसूतानुद्भूतान् | तत्र चिज्ज्योतिषि गुणीभूतसूक्ष्मप्राणसङ्गात् पश्यन्त्यां गुणीभूतचित्सूक्ष्मप्राणसङ्गान्मध्यमायां स्थूलप्राणसङ्गाद्वैखर्यां वर्णा जायन्ते | ते च त्रिषष्टिः | तद्यथा - अ- इ- उ -ऋ - वर्णाश्चत्वारो ह्रस्वदीर्घप्लुतभेदा द्वादश ऌकारस्य दीर्घो नास्तीति ह्रस्वप्लुतभेदाद् द्विविधः | संध्यक्षराणां ह्रस्वा न सन्तीति दीर्घप्लुतभेदादष्टविधाः | एवं स्वरा द्वाविंशतिः | कादयो मान्ताः पञ्चविंशतिः स्पर्शाः | अन्तस्थाश्चत्वारः | ऊष्माणश्चत्वारः | कुं खुं गुं धुं इति यमाश्चत्वारः | अनुस्वारविसर्गजिह्वामूलीयोपध्मानीया अं अः / क / प इति चत्वारः | यथोक्तम् - स्वरा द्वाविंशतिश्चैव स्पर्शानां पञ्चविंशतिः | यादयः शादयश्चाष्टौ चत्वारश्च यमाः स्मृताः || अनुस्वारो विसर्गश्च / क / प इति पराश्रयौ | त एते गदिता वर्णास्त्रिषष्टिरिह सूरिभिः || इति | मित्रः सूर्योऽन्तरशेषद्वैतप्लोषकारित्वादग्निः | वरुणो ह्लादाप्यायकारित्वात् सोमः | वर्णानन्तः प्रकटकरणैः प्राणसङ्गात् प्रसूते इति पाठान्तरे या परावाक्शक्तिर्मित्रावरुणसदनादुच्चरन्ती प्रमाणप्रमेयात्मकसूर्यचन्द्राश्रयेणात्माकाशादूर्ध्वं सरन्ती सर्वोत्तीर्णं निजं धाम प्रमातृरूपं स्रवन्ती अस्ति | सैवान्तः प्रकटैरन्तरेव स्फुटैरिन्द्रियैः कृत्वा त्रिषष्टिं वर्णान् प्राणसङ्गाद्धेतोः प्रसूते जनयतीत्यन्वयः | इन्द्रियाणां रूपाद्युपलब्ध्यानुमेयत्वाद् बहिः स्फुटत्वाभावेनान्तः प्रकटीभावः | एतदभिधेयपक्षे उच्चारणप्रसूत्योः क्रमेणानुवाद्यविधेयभावः || ४ || एवं वाक्प्रसरान्तं भगवन्तं स्तुत्वा मध्यमधामसाफल्यमर्थयते - ऊर्ध्वाधःस्थान्यतनुभुवनान्यन्तरा संनिविष्टा नानानाडिप्रसवगहना सर्वभूतान्तरस्था | प्राणापानग्रसननिरतैः प्राप्यते ब्रह्मनाडी सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना || ५ || परमादित्यस्य चिद्भानोर्ब्रह्मनाडीरूपा या सेति दिव्या मूर्तिः समुच्छ्रिताकृतिर्नोऽस्माकं प्रसन्ना प्रशस्ता प्रशमितप्राणादिकालुष्या अत एव श्वेता चिदानन्दघनतया स्फुरन्ती अस्तु | कीदृशी सा ? या ऊर्ध्वमधश्च स्थितानि अतनून्यनल्पानि अनाश्रितादिकालाग्न्यन्तभुवनेशनानाभुवनानि देहे बहिश्चान्तरा मध्ये संनिविष्टा व्याप्यावस्थिता | तथा नानानाडीनां चक्षुरादिरोमरन्ध्रान्तानां सुषिराणां प्रसवेन स्फारेण गहना सर्वैर्दुष्प्रापा | सर्वेषां स्थावरादिदेवयोनिभेदान्तानां भूतानामन्तरस्था देहमध्ये वर्तमाना | यतश्चोक्तयुक्त्या गहना अत एव कैश्चिदेव प्राणापानयोः सर्ववाहप्रसवप्रवेशयोर्ग्रसननिरतैर्भक्षणप्रगल्भैः प्राप्यते समाविश्यते || ५ || किञ्च - न ब्रह्माण्डव्यवहितपथा नातिशीतोष्णरूपा नो वा नक्तंदिवगममितातापनीयापराहुः | वैकुण्ठीया तनुरिव रवे राजते मण्डलस्था सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना || ६ || ब्रह्मणो ब्रह्मबिलावरणनिविष्टस्याण्डं गर्भीकृतभूमूलमायाण्डप्रपञ्चशक्त्यण्डं तेन न व्यवहिता अपि तु समन्ततः क्रोडीकारी पन्थाः प्रसरमार्गो यस्याः, तथा अतिशीतः सोमः, अत्युष्णो वह्निः, इयं तु द्वैतदाहादद्वैतानन्दस्यन्दित्वाच्च नैवंरूपा | अपि तु समरसीभूताग्नीषोमात्मा | तथा नक्तंदिनं रात्रिदिनं यो गमो भ्रमणं तेन नो इता प्रमेयभावं न प्राप्ता तद्वती | तथा अतापनीया परमाह्लादप्रदा | तथा अपगतो राहुराच्छादनप्रधानः शून्यप्रमाता यस्याः सा | किञ्च, रवेश्चिद्भानोर्मण्डले रश्मिपरिवेषे राजते दीप्यते | बाह्यार्कमूर्तिस्तु ब्रह्माण्डव्यवहिता स्वर्लोकान्तमात्रावभासिका शिशिरग्रीष्मादावतिशीतोष्णरूपा अहर्निशं भ्रमन्ती सन्तापिका राह्वभिभूता चेति व्यतिरेकध्वनिः | वैकुण्ठस्य विष्णोर्मूर्तिरिवेत्युपमा | सापि च बलिवञ्चनावसरे ब्रह्माण्डे ब्रह्माण्डान्तर्निरुद्धमार्गा न केनचित् | अत एव नातिशीतोष्णरूपा | प्रकाशाह्लाददा भक्तानामित्यर्थः | नक्तंदिवगमेनाहोरात्रपरिभ्रमणेन न मिता | देवादिभिर्नेयत्तया परिच्छिन्नेत्यर्थः | तापनीया महाप्रतापवती | अपगतराहुरपक्रान्तरविमण्डला चेति श्लेषः | एवमयमत्रोपमाश्लेषो व्यतिरेकध्वनिना संसृष्टः || ६ || अथ युगपदन्तर्बहिश्चार्कमूर्तिं स्तौति - यत्रारूढं त्रिगुणवपुषि ब्रह्म तद्बिन्दुरूपं योगीन्द्राणां यदपि परमं भाति निर्वाणमार्गः | त्रययाधारः प्रणव इति यन्मण्डलं चण्डरश्मे- रन्तःसूक्ष्मं बहिरपि बृहन्मुक्तयेऽहं प्रपन्नः || ७ || तच्चण्डरश्मेश्चिद्दीप्तांशोर्मण्डलं मुक्तये समावेशात्मजीवन्मुक्त्यर्थं प्रपन्नोऽस्मि | कीदृशम् ? अन्तश्चिद्भुवि सूक्ष्ममाद्योन्मेषात्म | योगीन्द्रैरेव लभ्यम् | बहिरपि बृहन्महापरिमाणम् | यत्र सृष्टिस्थितिसंहारकारिरजःसत्त्वतमोनिविष्टब्रह्मविष्णुरुद्राभिधाययकारो- कारमकाराख्यह्रस्वदीर्घप्लुतवर्णत्रयात्मत्रिगुणवपुषि प्रणवे विश्ववेद्याविभागवेदनात्मा बिन्दुरिति तदुपलक्षितोन्मनान्ताप्रमेयपरिपाटीरूपं यस्य तादृग् ब्रह्म बृहद् बृंहकं च शाक्ततेज आरूढमत्युत्कृष्टतया व्यवस्थितम् | यच्च परममसामान्यम् | योगीन्द्राणां मितयोग्यतिशायिपरतत्त्वैकभाजां निर्वाणमार्गो जीवन्मुक्त्युपायो भाति स्वप्रकाशतया स्फुरति | त्रययाः प्राङ्निर्णीताया आधार आश्रयः | प्रकर्षेण नूयते उत्कृष्टतया विमृश्यते परं पारमेश्वरं स्वरूपं येनेति कृत्वा प्रणव इत्येतन्नाम यत् | बाह्येऽप्यर्कमण्डले नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम् | त्रिगुणम् इति स्वच्छन्दादिष्टनीत्या यत्र बिन्दुरूपमिति सितवर्तुलाकारं ब्रह्ममयं तदसामान्यं बिम्बमारूढम् | तच्च योगिनां निर्वाणमार्गः, तेषां हि सूर्यमण्डलभेदनस्य श्रवणात् | तथा वक्ष्यमाणदृशा सामर्ग्यजुर्मयधाममण्डलाकृतित्वात् त्रययाधारः | प्रकर्षेण नूयमानत्वात्प्रणवो विश्व शरीत्वाच्च प्रणवः || ७ || यस्मिन् सोमः सुरपितृनरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः | यस्मिन् वेदा मधुनि सरघाकारवद्भान्ति चाग्रे तच्चण्डांशोरमितममृतं मण्डलस्थं प्रपद्ये || ८ || चिद्भानोर्मण्डलस्थं मध्यधामनिविष्टं तत्परमानन्दरूपममितमनल्पममृतं प्रपद्ये समाश्रये | यत्रामृते सोमः सर्वो मेयवर्गः सुरादिभिः सर्वैः प्रमातृभिः प्रतिदिनं कलाग्रासयुक्त्या पीयमानत्वात् क्षीणः क्षीणः सन् पुनः पुनः प्रविशति हृद्विश्रान्त्यनन्तरं निमज्जति | यत एव मण्डलाद् भूयोऽपि वर्धतेऽभिव्यज्यते मेयरूपश्चन्द्रः | यस्मिंश्च वेदाः सर्वशास्त्राणि मधुनि माक्षिके सरघाणां मधुकरीणामाकार इवाग्रे भान्ति पुरः स्फुरन्ति | यथा सरघा माक्षिकं संचित्य परिवृत्त्य सोल्लासमासते, तथा सर्वे वेदा वाक्यैकवाक्यतया पराद्वयममृतमामृश्य भ्राजन्ते | बाह्योऽपि सोमः कृष्णपक्षेषु पितृदेवनरग्रस्तकलापञ्चदशकोऽमावास्यायां सूर्यमण्डलं प्रविश्य वर्धते | वेदाश्चार्कज्योतिर्लग्ना आसते || ८ || ऐन्द्रीमाशां पृथुकवपुषा पूरयित्वा क्रमेण क्रान्ताः सप्त प्रकटहरिणा येन पादेन लोकाः | कृत्वा ध्वान्तं विगलितबलिव्यक्तिपाताललीनं विश्वालोकः स जयति रविः सत्त्वमेवोर्ध्वरश्मिः || ९ || यो हि यस्माद् गुणोत्कृष्टः स तस्मादूर्ध्वमिष्यते इति स्थित्या ऊर्ध्वा विश्वोत्कृष्टा रश्मयो यस्य | अत एव सतां विद्यमानानामशेषाणां भावः सत्त्वं महाप्रकाशात्मरूपम् | तदेव तत्परमार्थः | ततश्च प्रकाशमानतया प्रकाशात्मन्येव विश्वस्य मग्नत्वात् प्रकाशो विश्वालोकः स एव रविश्चिद्भानुर्जयति सर्वोत्कर्षेण वर्तते | येनैन्द्रीमाशां प्राच्योन्मेषदशां पृथुकवपुषा योगिगम्यसूक्ष्मशाक्तस्पन्दात्मना पूरयित्वा उन्मिषितप्राणादिसंकोचचित्प्राधान्योच्छलितां कृत्वा शिवादिसकलात्मान्ताः शक्तिमन्तः प्रकीर्तिताः इति श्रीपूर्वादिष्टनीत्या शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रविज्ञानाकलप्रलयाकलसकलाख्याः क्रमात्क्रमं प्राणीयतुटिस्था निजशक्तिसहिताः सप्तलोकाः पादोऽस्य विश्वा भूतानि इति स्थित्या पादेन निजांशमात्रेणाक्रान्ताः क्रोडीकृत्य स्वज्योतिर्मयीकृताः | कीदृशेन ? प्रकटाः स्वात्माभासा रूपादिविश्वहरणाद्धरयश्चक्षुरादिशक्तयो यस्य | तदुक्तं श्रुतौ - युक्ता ह्यस्य हरयः शता दश इति | निःसंख्यशक्तिरात्मेति ह्यस्यार्थः | कथं क्रान्ताः ? ध्वान्तमात्मन्यनात्मप्रतीत्यात्माज्ञानं विगलिता बलिरनात्मन्यात्माभिधायिनी व्यक्तिर्यस्य तादृक् पाताललीनं निःशेषप्रशमितं कृत्वा | बाह्येनाप्यर्केण सप्ताश्वारूढेनैन्द्रीं दिशं सूक्ष्मरूपेणापूर्य भूरादिलोकाः पादेन मरीचिभिर्ध्वान्तं ध्वंसयित्वा क्रमेण क्रान्ताः | प्रकटहरिणा च नारायणेन विगलिता बल्याख्यस्य दानवेन्द्रस्य व्यक्तिर्यत्र तद्ध्वान्तं दानवकुलं पाताललीनं कृत्वा भूरादिलोकाश्चरणविन्यासक्रमेणाक्रान्ताः | किं कृत्वा ? पृथुकवपुषा बालवामनशरीरेण इन्द्रादिदिगापूरणं कृत्वा | सोऽपि विश्वालोकः सत्त्वप्रधानश्चेत्यत्र श्लेषालङ्कारः | श्लेषोपमाध्वनिसंसृष्टिरियम् || ९ || ध्यात्वा ब्रह्म प्रथममतनु प्राणमूले नदन्तं दृष्ट्वा चान्तः प्रणवमुखरं व्याहृतीः सम्यगुक्त्वा | यत्तद्वेदे तदिति सवितुर्ब्रह्मणोक्तं वरेण्यं तद्भर्गाख्यं किमपि परमं धामगर्भं प्रपद्ये || १० || ब्रह्मणा प्रजापतिना वेदेषु प्रणवमुखरमोङ्कारोच्चारणपूर्व तदित्यादि गायत्र्याः सवितुर्विश्वप्रसूतिहेतोश्चिदादित्यस्य यत्तत्किमपीत्यसामान्यं भर्ग इत्याख्या यस्य तत्परमं सर्वोत्कृष्टं धाम परिस्फुरत्तात्म शाक्तं तेजो बाह्यसूर्यसोमवह्न्यादिधामक्रोडीकारित्वाद्धामगर्भं वरेण्यमनुग्रहकारि उक्त तत्प्रपद्ये समाविशामि | किं कृत्वा ब्रह्मणोक्तम् ? किं कृत्वा च प्रपद्ये ? प्रथममादावतनु अशरीरं श्रीभर्गशिखादिष्टनीत्या अकारपरामर्शात्म वीरेश्वराख्यं च ब्रह्म बृहद् बृंहकं च परं शाक्तं धाम प्राणमूले अप्राणाद्यस्फुरत्ताधाम्नि ध्यात्वा विचिन्त्यानन्तरं नदन्तमिति नादाख्यं परविमर्शात्मानमन्तरित्युक्तशाक्तरूपप्राणितकल्पतया स्थितं दृष्ट्वा स्वात्मतया साक्षात्कृत्य तन्नादविमर्शानुप्रवेशावष्टम्भबलोन्मिषत्प्रणवोच्चारणपूर्वम् | तथा भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भुर्भूवः स्वः स्वाहा इति च मन्त्ररूपा समग्रमेयमानप्रमातॄणां ससंस्काराणां परब्रह्ममयत्वामर्शिनीर्व्याहृतीश्चतस्रः सम्यगित्यन्तरामर्शावष्टम्भाशैथिल्येनोक्त्वा उच्चार्य | अथ च सर्वव्यवहारानेकरूपाः कथा जपः इति शिवसूत्रादिष्टनीत्या तदभेदामर्शप्रधानतया परशाक्तरसप्लावितान् संपाद्य | शाक्तधामैकाग्र्यवशासादितशाम्भवधामावष्टम्भबलेन व्युत्थानदशामपि तदभेदरसप्रोक्षितां विधायेत्यर्थः | धामगर्भमित्यत्र धामशब्दस्तन्त्रेण द्विरुक्तः | तथा प्रणवमुखरमिति || १० || त्वां स्तोष्यामि स्तुतिभिरिति मे यस्तु भेदग्रहोऽयं सैवाविद्या तदपि सुतरां तद्विनाशाय युक्तः | स्तौम्येवाहं त्रिविधमुदितं स्थूलसूक्ष्मं परं वा विद्योपायः पर इति बुधैर्गीयते खल्वविद्या || ११ || हे भगवन्, त्वां स्तुतिभिः स्तोष्यामीति स्तोतृस्तुत्यस्तुतिकल्पनात्मा यो मे भेदग्रह एषैव चिदद्वयाप्रथनात्माविद्या, तथापि तस्या अविद्यायाः सुतरामतिशयेन विनाशाय निःशेषोन्मूलनाय युक्तो नित्यसंबद्धस्त्वां स्तौम्येव देहादिप्रमातृतानिमज्जनेन सर्वोत्कृष्टतया सततं परामृशामि, न तु क्षणमप्युदासीन आसे | त्वामेव चिदर्कं स्तौमि न तु परिमितां काञ्चन देवताम् | कीदृशं त्वाम् ? स्थूलं बाह्यप्राणार्करूपम् | सूक्ष्मं मध्यनाडीगतं प्राणब्रह्मरूपम् | परं चानवच्छिन्नं विश्वात्मचिदानन्दघनम् | तदिति प्राक्तनवाक्यव्यावर्णितमेकमेव | नित्योदितं च | वाशब्दश्चार्थे | युक्तं चैतत् | यतो बुधैस्तत्त्वज्ञैरविद्यैव विद्योपायः पर इत्युक्तः | स्तोत्रस्तुत्यादिविभागकल्पनात्माविद्यया समस्ताविद्याबीजदेहादिप्रमातृत्वाभिमानप्रशमनेन चिदानन्दघनपरमात्मोत्कर्षपरामर्शात्मा स्तुतिः परमसमावेशप्रदेत्यर्थः || ११ || स्तौम्येवेत्युक्तिं प्रपञ्चयति - योऽनाद्यन्तोऽप्यतनुरगुणोऽणोरणीयान् महीयान् विश्वाकारः सगुण इति वा कल्पनाकल्पिताङ्गः | नानाभूतप्रकृतिविकृतीर्दर्शयन् भाति यो वा तस्मै तस्मै भवतु परमादित्य नित्यं नमस्ते || १२ || हे परमादित्य चिदर्क, तस्मै तस्मै इति परसूक्ष्मस्थूलरूपाय विश्वात्मने तुभ्यं नित्यं नमः | सर्वकालं देहादिप्रह्वतया परामृशंस्त्वामेव समाविशामीत्यर्थः | कीदृशाय तस्मै ? यो अनाद्यन्तो देशकालाद्यनवच्छिन्नः | अतनुराकारानियन्त्रितः | अतश्च सार्वज्ञादिगुणास्पृष्टः | अणोरत्यन्तसूक्ष्मरूपतया योगिदृश्यात् परमाणोरप्यणीयानतिसूक्ष्मः न कस्यापि वेद्यः | अपि तु स्वप्रकाशचिदेकरूपः न तु देशतः संकुचितः | परमाणोः सूक्ष्मस्य वेद्यत्वाद् दृश्यत्वाच्च | महीयान् व्यापकः | अतश्च विश्वक्रोडीकारित्वाद्विश्वाकारः | सार्वज्ञादिगुणयोगात् सगुणः | इत्येवं प्रकारया कल्पनया कल्पितानि पृथक्पृथगुल्लिखितान्यङ्गानि तत्तद्धर्मरूपा अवयवभागा यस्य तादृग् वेत्यनयोक्त्याऽवच्छिन्नवस्तुविषयशब्दविकल्पासंस्पृष्टं परमेकं स्वरूपमनवच्छिन्नमिति ध्वनयति | नानाभूतानि विचित्राः स्थावरादिब्रह्माण्डान्ताः प्राणिनस्तेषां प्रकृतीर्मायाप्रकृतिशुक्रशोणितादिकारणानि, विकृतीः कलाबुद्धिदेहादिकान् दर्शयन् य आभाति | संकुचितसर्वाभासोल्लासकतया वा यः स्फुरतीत्यर्थः || १२ || तत्त्वाख्याने त्वयि मुनिजना नेति नेति ब्रुवन्तः श्रान्ताः सम्यक् त्वमिति न च तैरीदृशो वेति चोक्तः | तस्मात्तुभ्यं नम इति वचोमात्रमेवास्मि वच्मि प्रायो यस्मात्प्रसरतितरां भारती ज्ञानगर्भा || १३ || यस्मात्त्वत्तो भारती पश्यन्त्यादिवाक् ज्ञानगर्भा स्वावभाससंवित्प्रधाना प्रसरति तस्मै तुभ्यं नम इति वचोमात्रमेव, न त्वतिरिक्तं स्तुतिवाक्यादि वच्मि | ज्ञानस्य सर्ववाक्प्रसरहेतोरनवच्छिन्नस्य विभिन्नस्तुतिवाग्भिः स्तोतुमशक्यत्वात् | नमःशब्देन तु देहादिप्रह्वतां तुरीयकस्वचित्प्रकर्षपरामर्शनस्य कर्तुं शक्यत्वात् | युक्तं चैतत् | यस्मान्मुनयोऽपि त्वयि त्वद्विषये तत्त्वाख्याने अणुर्न महान् न ह्रस्वं दीर्घं नेत्यादि ब्रुवन्तः श्रान्ताः क्लिष्टाः | न च तैस्त्वमित्येवंविधोऽसीति एतादृशो वेति एतत्तुल्यो वेति सम्यगुक्तः | वागगोचरत्वादेवेत्यर्थः || १३ || सर्वाङ्गीणः सकलवपुषामन्तरे योऽन्तरात्मा तिष्ठन् काष्ठे दहन इव नो दृश्यसे युक्तिशून्यैः | यश्च प्राणारणिषु नियतैर्मथ्यमानासु सद्भि- र्दृश्यं ज्योतिर्भवसि परमादित्य तस्मै नमस्ते || १४ || हे परमादित्य चिदर्क, तस्मै निर्विशेषाय ते तुभ्यं नमः | यस्त्वं स्थावरादिदेवयोन्यन्तानां रुद्रक्षेत्रज्ञानां च सर्वेषां सर्वाङ्गेषु भवो व्यापकः सकलवपुषामन्तरे मितग्राहकात्मनि स्वरूपे योऽन्तरात्मा परमानन्दत्वात् आत्मा चैवान्तरात्मा च इति श्रीस्वच्छन्दादिष्टपुर्यष्टकप्रमाता तिष्ठन्नवस्थास्नुरपि युक्त्या योगेन शून्यैरपि न दृश्यसे | यथा काष्ठेऽग्निस्तिष्ठन्नपि युक्तिशून्यैररणिमथनानभिज्ञैर्न दृश्यते तत्काष्ठकवलीकारिज्वलद्रूपतया नोपलभ्यते | यश्च त्वं प्राणारणिषु सर्ववाहमार्गोदय विश्रान्तिपदेषु सद्भिर्योगिभिर्नियतैरभियुक्तैर्मथ्यमानासु - ऊर्ध्वशक्तिनिपाताच्च अधःशक्तिनिकुञ्चनात् | रुद्रशक्तिसमावेशं यो जानाति स पण्डितः || इत्याम्नायादिष्टयुक्त्याऽनवरतान्दोलनतः प्रशमितमरुद्व्यापिकासु दृश्यं ज्योतिर्भवसि स्वप्रकाशचिद्रूपः स्फुरसि | अत्र पर्यायेण प्राणापानावुर्ध्वाधरारणिरूपौ | योगिप्रयत्नो मथनकाष्ठम् || १४ || स्तोता स्तुत्यः स्तुतिरिति भवान् कर्तृकर्मक्रियात्मा क्रीडत्येकस्तव नुतिविधावस्वतन्त्रस्ततोऽहम् | यद्वा वच्मि प्रणयसुभगं गोपते तच्च तथ्यं त्वत्तो ह्यन्यत्किमिव जगतां विद्यते तन्मृषा स्यात् || १५ || हे गोपते चिन्मरीचिचक्रेश्वर, भवानेकोऽद्वितीयः स्तोत्रादिरूपतया क्रीडति स्वस्वातन्त्र्यात्तत्तद्रूपतया स्फुरति | यदुक्तं मयैव भैरवानुकरणस्तोत्रे - स्तोता स्तुत्यः स्तुतिरिति यदपि विभिन्नं न किञ्चिदस्तीह | मृशसि यथा यद्रूपं चिद्रूपतया भवस्येतत् || इति | यतोऽहमिति भवत्कल्पितमेव | ततोऽहमिति संकोचप्रधानो मायाप्रमाता त्वत्स्तोत्रकरणेऽस्वतन्त्रस्त्वामेव चिदात्मानं स्तौमि | न त्वहं नामान्यः कश्चिदित्यर्थः | यच्च किञ्चित्त्वदात्मैवाहं प्रणयसुभगं प्रार्थनासुन्दरं वच्मि तत्सर्वं तथ्यं त्वत्परमार्थमेव | यतस्त्वत्तश्चिदात्मनो व्यतिरिक्तं जगतां किमिव विद्यते ? न किञ्चिदस्ति | यदि वा तथापि किञ्चित्संकल्प्यते तन्मृषा स्यात् | नैव भवेत् | चिदात्मतां विना कस्यचिदपि चेतना चेति तस्य संकल्पविकल्पविषयत्वस्याप्ययोगेन गगनकुसुमतोऽपि निकृष्टत्वात् | इत्थं युक्तितस्त्वदभेदसारैव स्तुतिः || १५ || प्रातीतिकक्रमेण तु यद्यपि भेदस्तथापीत्थं त्वमाराध्योऽस्माकमित्याह - ज्ञानं नान्तःकरणरहितं विद्यतेऽस्माद्विधानां त्वं चात्यन्तं सकलकरणागोचरत्वादचिन्त्यः | ध्यानातीतस्त्वमिति न विना भक्तियोगेन लभ्य- स्तस्माद्भक्तिं शरणममृतप्राप्तयेऽहं प्रपन्नः || १६ || ऐन्द्रियकज्ञानवतां मायाप्रमातॄणामस्माकमिन्द्रियागोचरो भवानचिन्त्यत्वाद्ध्यानविषयो न भवतीति देहादिमितप्रमातृतामज्जनोन्मज्जनचिदर्कभजनात्मकभक्तियोग- संपादनीयत्वाद्भगवतो भक्तिमेव शाक्तस्फारावेशमयामृतप्राप्तयेऽस्म्याश्रितः | उक्तं च विज्ञानभैरवे - भक्त्युद्रेकाद्विरक्तस्य यादृशी जायते दशा | सा शक्तिः शाङ्करी नित्यं भावयेत्तां ततः शिवः || इति || १६ || हार्दं हन्ति प्रथममुदिता या तमःसंश्रितानां सत्त्वोद्रेकात्तदनु च रजः कर्मयोगक्रमेण | स्वभ्यस्ता च प्रथयतितरां सत्त्वमेव प्रपन्ना निर्वाणाय व्रजति शमिनां तेऽर्क भक्तित्रयीव || १७ || हे अर्क, तव भक्तिः प्रपन्ना समाश्रिता सती शमिनां शान्तरागादिकलङ्कानां निर्वाणाय मोक्षाय व्रजति जीवच्छिवत्वाभिव्यक्तये घटते | त्रयी यथा | सापि हि काम्यकर्म परिहृत्यानुष्ठीयमाना त्रययन्तविदामपवर्गहेतुः | तथा चैषा प्रथममुदिता समुन्मिषितमात्रा हार्दं प्रकाशानन्दात्महृद्भवं तमस्त्वभेदाख्यातिरूपमाणवं मलं संश्रितानां भक्तिभाजां हन्ति नाशयति | तदनु सत्त्वस्य प्रकाशस्योद्रेकात्प्रकर्षात्कर्मयोगक्रमेण स्वात्मदेवताविश्रान्तिफलशारीरकर्मानुष्ठानेन कार्ममलरूपं रजो हन्ति | तथा सुष्ठु अभ्यस्ता परिशीलनेन स्वीकृता सतो भावः सत्त्वं प्रकाशैकघनत्वमेव प्रकाशमाने सर्वत्र प्रथयतितराम् | न तु पशुवन्मायीयमलात्मभिन्नवेद्यप्रथाकृत् | त्रययपि त्रययन्तविदां तन्निष्ठानां सत्त्वं प्रथयति || १७ || तामासाद्य श्रियमिव गृहे कामधेनुं प्रवासे ध्वान्ते भातिं धृतिमिव वने योजने ब्रह्मनाडिम् | नावं चास्मिन् विषमविषयग्राहसंसारसिन्धौ गच्छेयं ते परमममृतं यन्न शीतं न चोष्णम् || १८ || तां भक्तिमाश्रित्य चिदर्कस्य ते सम्बन्धि परमममृतं परं शाक्तं धाम गच्छेयं समाविशेयम् | यच्छैशिरग्रैष्मबाह्यार्कधामवैलक्षण्याच्छीतमुष्णं च न भवति | अपि तु मोहदाहप्रकाशाह्लादकृदग्निषोमात्म | कीदृशीं ताम् ? गृहे शून्ये वेश्मनि श्रियमिव | सम्पूर्णभोगप्रदत्वात् | प्रवासे रिक्तबन्धुदेशे कामधेनुमिव चिन्तितमात्राभीष्टफलप्रदत्वात् | ध्वान्ते गाढतमसि भातिमिव | पूर्णप्रथाहेतुत्वात् | वने गहनपर्वतादौ धृतिमिव | विश्रान्तिहेतुत्वात् | योजने परशिवात्मैक्यावेशे ब्रह्मनाडिं सुषुम्णाम् | परमोपायत्वात् | विषमविषया एव ग्राहा भीषणा जलचरा यत्र तादृशे संसारसमुद्रे नावमिव | उत्तारकत्वात् || १८ || अग्नीषोमावखिलजगतः कारणं तौ मयुखैः सर्गादाने सृजसि भगवन् ह्रासवृद्धिक्रमेण | तावेवान्तर्विषुवति समौ जुह्वतामात्मवह्नौ द्वावप्यस्तं नयसि युगपन्मुक्तये भक्तिभाजाम् || १९ || हे भगवन्, अखिलस्य बाह्यस्य नीलसुखादेर्ग्राह्यरूपस्यान्तरस्य च ग्राहकरूपस्य देहादेर्जगतो यावग्नीषोमौ सर्ववाहवाही प्राणोऽपानश्च प्रकाशनावस्थानहेतुत्वात्कारणम् | तौ प्रसिसृक्षाप्रविविक्षात्मसर्गादानसमये वस्त्वाभासनविमर्शात्मसृष्ट्यादौ तन्निमित्तं च ह्रासवृद्धिक्रमेण द्वादशषोडशकलाकलनपर्यायतो मयुखैः सृष्ट्यादि देव्यात्मनिजमरीचिभिः सृजसि मुहुर्मुहुर्निर्मिमीषे | तावेव च भक्तिभाजामन्तर्विषुवति सम्यङ्नयनात्मसमानमरुत्प्रधाने कुम्भके समौ सोमसूर्यकलान्योन्यसंघर्षमिश्रितौ सन्तावात्मवह्नावुदानवह्नौ जुह्वतां मुक्तये शिवात्मभेदप्रथारूपाणवादिमलत्रयप्लुष्टोपलक्षितशिवाद्वैतप्राप्तये द्वावपि युगपत्क्रमं मयूखैरेवास्तं नयसि विश्वात्मकव्यानव्याप्तिमाविश्य ज्ञानक्रियात्मपराग्नीषोमरूपस्वात्ममयौ संपादयसि || १९ || स्थूलत्वं ते प्रकृतिगहनं नैव लक्ष्यं ह्यनन्तं सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिन्त्यम् | ध्यायामीत्थं कथमविदितं त्वामनाद्यन्तमन्त- स्तस्मादर्क प्रणियिनि मयि स्वात्मनैव प्रसीद || २० || हे अर्क, ते तव स्थूलत्वं विश्वव्यापकत्वं प्रकृत्या गहनत्वान्नैव लक्षयितुं शक्यम् | यस्मादनन्तं दिक्कालाकारैरनवच्छिन्नम् | सूक्ष्मत्वमपि वा अणोरणीयान् इत्येतद्व्याख्यानावसरव्याकृतयुक्त्या परप्रमात्रात्म यत्तदपि सदसद्व्यक्त्यभावाद्भावाभावरूपत्वेनाप्रतीतेरचिन्त्यम् | तदित्थमनाद्यन्तत्वादविदितं त्वां कथमन्तः स्वान्ते चिन्तयामि न कथञ्चित् | तस्मान्मयि प्रणयिनि त्वत्प्रार्थनावहिते स्वयमेव प्रसीद प्रशमितदेहादिप्रमातृताभिमानकालुष्यः प्रस्फुर || २० || यत्तद्वेद्यं किमपि परमं शब्दतत्त्वं त्वमन्त- स्तत्सद्व्यक्तिं जिगमिषु शनैर्लाति मात्राकलाः खे | अव्यक्तेन प्रणववपुषा बिन्दुनादोदितं स- च्छब्दब्रह्मोच्चरितकरणव्यञ्जितं वाचकं ते || २१ || यत्किमप्यसामान्यं त्वं तदन्तरित्यन्तर्मुखानवच्छिन्नप्रकाशात्मनि पदे | शब्दतत्त्वमिति शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीर्तितः इति श्रीस्वच्छन्दादिष्टानाहतभट्टारकरूपम् | परममिति परमोत्कृष्टम् | यदुक्तं श्रीकालोत्तरे - नादाख्यं यत्परं बीजं इति | वेद्यमिति सुप्रकटसुस्फुरत्तात्मकत्वादनपह्नवनीयम् | न तु विदिक्रियाकर्मात्मकम् | यदुक्तं श्रीस्वच्छन्दे - यस्य रूपं शरीरं वा नास्ति वर्णः क्रिया तथा | स कथं गृह्यते सूक्ष्मो ह्यग्राह्यो नित्यमव्ययः || इति | श्रीभर्गशिखायामपि - नैष वर्णो न वा शब्दो न चैवायं कलात्मकः | केवलः परमानन्दो वीरो नित्योदितो रविः || नास्तमेति न चोदेति न शान्तो न विकारवान् | सर्वभूतान्तरचरो भानुर्भर्ग इति स्मृतः || इति | तदेतत्परब्रह्मात्मशक्तिमद्रूपम् | सद्व्यक्तिं जिगमिष्विति | ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः इति स्थित्या शक्त्यात्मब्रह्मरूपतां जिघृक्षु खे सुषुम्णाधाम्नि अकारोकारमकारादिमात्रारूपाः कला विमर्शशक्तीः शनैः शनैः क्रमेण लाति गृह्णाति | इत्थं शक्तिमच्चिदर्कावभासितशब्दब्रह्मभित्तौ प्रणववपुषा ओंकारात्मना अव्यक्तेन पश्यन्तीवाक्प्रधानेन रूपेण न तु व्यक्तेन मध्यमादिवाग्भूमिकास्पृशा | प्रणवः सर्ववेदेषु इति स्थित्या क्रोडीकृताशेषवाच्यवाचकस्फारं शब्दब्रह्मोच्चरति स्वयं प्रवर्तते | न तूच्चार्यते | कीदृक् ? बिन्दुनादाभ्यां समस्तवेद्याभेदिवेदनसमस्तवाचकाभेदिपरामर्शरूपाभ्यामुदितम् | सर्वोत्कृष्टगगनारूढं सत्कथं समुच्चरति अत्रागमिकीं युक्तिं स्मारयति - करणेन दिव्यकरणबन्धेन न तु जिह्वामूलमध्यादिना व्यञ्जितं प्रकटीकृतम् | यदुक्तं श्रीस्वच्छन्दे - दिव्यं तु करणं कृत्वा तत्त्वस्योच्चारणं कुरु इत्यादि | यच्चैतच्छब्दब्रह्मतत्त्वशक्तिस्वरूपामर्शनमुखेनैव ते वाचकं तत्स्वरूपामर्शकम् || २१ || प्रातः सन्ध्यारुणकिरणभागृङ्मयं राजसं यन्मध्ये चापि ज्वलदिव यजुः शुक्लभाः सात्त्विकं वा | सायं सामास्तमितकिरणं यत्तमोल्लासिरूपं साह्नः सर्गस्थितिलयविधावाकृतिस्ते त्रयीव || २२ || हे भगवंश्चिदर्क अह्नः सार्वजनीनस्य प्राणदिनस्य सर्गस्थितिलयविधौ ते सम्बन्धिनी सा कृतिः क्रोडीकृताशेषसृष्ट्यादिस्तुर्याख्या शक्तिर्विजृम्भत इत्यर्थः | का सा इत्याह - प्रातः हृदुन्मेषात्मनि प्रभाते गुणीभूतप्राणापानवृत्तीः शिवशक्तिसंघट्टात्मा या सन्ध्या तत्र येऽरुणकिरणा अनुन्मिषितवैचित्र्याद्दिप्ताः शरीरादयश्चक्षुरादिप्रकाशास्तान् भजते यदत एव राजसं विश्वराजानं विश्वप्रसरासूत्रणं च ऋङ्मयम् | यच्च परधामामर्शनात्मा स्तुतिकृच्च मध्ये मध्यधाम्नि यजुश्चिद्देवतापूजात्मक्रियाशक्तिप्रधानम् | द्वैतेन्धनप्लोषादिव ज्वलत् | ह्लादात्मसोमव्याप्त्युन्मज्जनाच्छुक्लभाः अमलमात्मभाःस्वरूपम् | सात्त्विकं च सतां भावः सत्त्वं प्रकाशमानत्वं तस्येदं सम्पादकम् | स्वप्रकाशावेशेन विश्वप्रकाशकमित्यर्थः | सायमूर्ध्वतुट्यर्धेऽस्तमितकिरणं गलितप्राणादिसंस्कारक्षयात् प्रशान्तसितोज्ज्वलितमरीचिनिचयम् | अतश्च निःसंस्कारद्वैताद्वैतकवलनात्तदपेक्षयैव तमोवस्तुविश्रान्त्यैकरसत्वात् साम | एतत्त्रिविधं स्थूलसूक्ष्मपरस्वरूपं यल्लासि गृह्णासि सा तवाकृतिस्त्रयीव ऋग्यजुःसामानीव | तथाहि - प्रातरर्कदेवतास्तुतिप्रधाना ऋग्वेदव्याप्तिः | मध्ये कर्मानुष्ठानात्मा यजुर्वेदोदयः | सायं विश्रान्तिहेतुगीतप्रधाना सामवेदप्रधानतेति प्रतिदिनं स्थितिः || २२ || ये पातालोदधिमुनिनगद्वीपलोकाधिबीज- च्छन्दोभूतस्वरमुखनदत्सप्तसप्तिः प्रपन्नाः | ये चैकाश्वं निरवयववाग्भावमात्राधिरूढं ते त्वामेव स्वरगुणकलावर्जितं यान्त्यनश्वम् || २३ || अतलादीनि सप्त पातालानि | क्षीराद्याः सप्तोदधयः | अत्र्याद्याः सप्त मुनयः | महेन्द्राद्याः सप्त पर्वताः | जम्ब्वादीनि सप्त द्वीपानि | भूराद्याः सप्त लोकाः | मोहो मदश्च गर्वश्च विषादः क्रोध एव च | भयं च हर्षणं चैव देहे सप्ताधयः स्मृताः || इत्युक्ता मोहाद्याः सप्ताधयः | यवादीनि सप्तबीजानि | गायत्र्यादीनि सप्तच्छन्दांसि | भूताः प्राप्ताः | एतदामाशत्वात् | ईदृग्विश्वप्रपञ्चरूपा ये षड्जाद्याः सप्त स्वरास्ते मुखेषु येषां ते तन्मुखास्तानेवार्थान्नदन्तो ध्वनन्तः सप्त सप्तयो मनोबुद्धीन्द्रियात्मानोऽश्वा यस्य तादृशं त्वां प्रपन्नाः | ये च निरवयवा वाक् पश्यन्ती तस्या भावः सत्ता तन्मात्राधिरूढं मध्यधामोन्मिषत्पश्यन्त्यामर्शपरिमर्शितम् | अतश्चैकाश्वं च त्वां बुद्ध्वा ये प्रपन्नाः, उभयेऽपि ते त्वामेवानश्वं चिदर्कं परं ब्रह्म यान्तित्वदेकतामाप्नुवन्ति | कीदृशम् ? स्वरैः षड्जादिभिः गुणैः सत्त्वादिभिः कलाभिरकारादिभिर्वर्जितं निरुपाधिप्रकाशानन्दघनम् | साश्वोपासनानश्वप्राप्तिहेतुरिति विरोधाभासः || २३ || दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी- मेकीभूतं पुनरपि च तत्सारमादाय गोभिः | अन्तर्लीनो विशसि वसुधां तद्गतः सूयसेऽन्नं तच्च प्राणास्त्वमिति जगतां प्राणभृत् सूर्य आत्मा || २४ || हे भगवन्, त्वं ज्योतिःसलिलपवनैश्चित्प्रकाशकरन्ध्र- प्रविशच्छाक्तामृतप्राणमरुद्भिस्त्रिलोकीं जागरस्वप्नसुषुप्तित्रयीं पूरयित्वा तस्यामेव त्रिलोक्यामेकीभूतं सामरस्यं प्राप्तं दिव्यं सारं तुर्यानन्दघनं गोभिरनुत्तरैर्मरीचिभिः पुनरिति पुनः पुनरादाय चमत्कृत्य अन्तरिति अन्तर्मुखे पदे लीनो वसुधां परां भूमिं विशसि तन्मयतया स्फुरसि तद्गतश्चान्नमदनविषयं वेद्यजातं सूयसे आश्यानीभूय तद्रूपतया स्फुरसि | तच्चान्नं प्राणापानावस्थितिहेतुस्त्वमेव न त्वन्यत् किञ्चिदिति | अनया युक्त्या सूर्यः प्राणभृदात्मा च कथ्यसे | यदाह श्रुतिः - अहमन्नमहमन्नदोऽहमन्नादश्च इति | बाह्योऽपि सूर्यो भूर्भुवःस्वस्त्रयीं ज्योतिःसलिलपवनैस्तत्र तत्र समय आपूर्य समरसीभूतं दिव्यं त्रिलोक्यां रसरूपं सारं रश्मिभिर्ग्रीष्मादावादाय पुनरपि भूमिमन्तस्तापनयुक्त्या लीनः सन् विशति | तद्गतश्चान्नमोषध्याख्यं प्राणावस्थितिहेतुं जनयति | ततः स एवान्नमन्नदोऽन्नादश्च || २४ || अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यौ प्राणापानावपि दिननिशे ये च सत्यानृते द्वे | धर्माधर्मौ सदसदुभयं योऽन्तरावेश्य योगी वर्तेतात्मन्युपरतमतिर्निर्गुणं त्वां विशेत् सः || २५ || यो योगी नित्यौ सततवाहिनौ प्राणापानावेव कवलनाप्यायनहेतुत्वादग्नीषोमौ ज्ञानक्रियाशक्तिप्राधान्यात् प्रकृतिपुरुषौ वेदनविमर्शत्वाद् बिन्दुनादौ प्रसरविश्रान्तिपदत्वाद् दिननिशे विकाससंकोचनिमित्तत्वात् सत्यानृते ऊर्ध्वाधोगतिकारणत्वाद् धर्माधर्मौ बाह्यानां सत्तासत्तयोर्ज्ञापकत्वात् सदसदुभयमन्तरुदानधाम्नि आवेश्य विलाप्यात्मनि चिद्धाम्नि वर्तेतावतिष्ठेत स त्वां निर्गुणं सत्त्वादिगुणातीतं परमादित्यं विशत्येव || २५ || गर्भाधानप्रसवविधये सुप्तयोरिन्दुभासा सापत्न्येनाभिमुखमिव खे कान्तयोर्मध्यसंस्थः | द्यावापृथ्व्योर्वदनकमले गोमुखैर्बोधयित्वा पर्यायेणापिबसि भगवन् षड्रसास्वादलोलः || २६ || हे भगवंश्चिद्भानो ! द्यावापृथ्व्योः सर्वद्वादशान्तात्मान्तरिक्षदेहभूम्योः कान्तयोर्निजविज्ञानेनैव रमणीयतां प्रापितयोर्वदनकमले शक्तिनलिने गोमुखैरनुत्तरैर्मरीचिभिर्बोधयित्वा विकास्य असामान्यशाक्तानन्दास्वादनलम्पटः सन् पर्यायेण विचित्रोन्मेषनिमेषक्रमैरापिबसि चमत्कुरुषे | कीदृशः ? मध्यसंस्थोऽग्नीषोमाधिरूढः | किमर्थम् ? गर्भे स्वान्तर्यदाधानं प्रक्षेपोऽर्थाद्विश्वस्य प्रसवस्तदौचित्येन भासनं तद्विधानार्थम् | कीदृश्योर्द्यावापृथिव्योः ? खे शून्यप्रमातरि सुप्तयोः कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् | अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् || इति नीत्या शून्यप्रधानताश्रयेण निमज्जितपारमार्थिकस्वरूपयोरभिमुखावस्थितयोः | कथं सुप्तयोः ? सापत्न्येन परस्परप्रतियोगितयैवाभिमुखं कृत्वा | उभयानुकूलत्वादाभिमुख्यमाश्रित्येत्यर्थः | बाह्योऽप्यर्को द्यावापृथिव्यो रात्राबिन्दुभासा सुप्तयोर्मीलितस्वरूपयोरभिमुखावस्थितयोर्मध्य गोभिर्वदननलिने विकास्य तदीयविचित्ररसास्वादलोल आपिबति भौमान्तरिक्षान् रसान् | गर्भाधानाय ग्रीष्मादौ कर्षण्यादिनिजरश्म्यन्तर्निवेशनाय | प्रावृडादौ च प्रसवाय वर्षण्यादिमरीचिविसर्गतो नानौषध्युप्तये | अथ च सापत्न्येनाभिमुखयोः सुप्तयोरिन्दुभासोपलक्षितयोः कर्पूराछ्हुरितयोः कान्तयोर्मध्यसंस्थो नायको वैदग्ध्याद् गोमुखैर्वक्त्रपद्मे पर्यायेण युगपद् बोधयित्वा लोचनपरिचुम्बनपुरःसरमुन्निद्रे विधाय वक्त्रासवामृतलम्पटो गर्भस्याधानप्रसवनिमित्तमापिबति रतयेऽत्यर्थं परिचुम्बतीति श्लेषाऽऽङ्कारः श्लेषध्वनिसंसृष्टश्च || २६ || सोमं पूर्णामृतमिव चरुं तेजसा साधयित्वा कृत्वा तेनानलमुखजगत्तर्पणं वैश्वदेवम् | आमावस्यं विघसमिव खे तत्कलाशेषमश्नन् ब्रह्माण्डान्तर्गृहपतिरिव स्वात्मयागं करोषि || २७ || हे चिदर्क ! ब्रह्मरन्ध्रावस्थितशाक्तब्रह्मोपलक्षितस्याण्डस्य अन्तरिति धरामूलमायाशक्त्यण्डचतुष्टयस्य मध्ये गृहे स्वात्मयागं करोषि | किं कृत्वा ? सोमं रूपादिपञ्चदशात्मकमेवं तेजसा निजमरीचिविस्फुरणेन पूर्णामृतं चरुरिव साधयित्वा एकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता इति कृत्वा विश्वात्मनिजशाक्तामृताभासमयं स्वसंनिविष्टं विधाय | अनल उदानवह्निर्मुखं प्राप्त्युपायो यस्य ब्रह्माद्यनाश्रितान्तकारणाधिष्ठितधरादिशिवतत्त्वान्ताध्व- विस्फारमयस्य जगतस्तस्य तर्पणं यत्तदेव वैश्वदेवं यागं तेन सोमेन चरुणा विधाय तस्य सोमस्य कलाशेषं जगत्तर्पणोपयुक्तकलापञ्चदशावशिष्टमूर्ध्वतुट्यार्धाख्यामावस्या- सम्बन्धि अमाख्यकलारूपं विघसमिव कवलिताशेषसंस्कारकल्पमिवाश्नन् | अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः | पिबन्ति च सुराः सर्वे दश पञ्च पराः कलाः || अमाशेषगुहान्तःस्थामावस्या विश्वतर्पिणी || इति श्रीकालिकाक्रमादिष्टनीत्या विश्वदेवता परमार्थे स्वात्मनि चमत्कुर्वन् | कीदृक् त्वम् ? गृहपतिरिव | सोऽपि हि पूर्णामृतकल्पमामावस्यं चरुं प्रसाध्य तेनाग्निप्रमुखसर्वजगत्तर्पणं वैश्वदेवं च कृत्वा तच्छेषमश्नन् स्वात्मदेवतायागं करोति | बाह्योऽपि सूर्यः स्वरश्मितापप्रद्रावितसोमकलापञ्चदशकेन देवर्षिनरात्मजगत्तर्पणं विधायामाख्यकलाचमत्करणात्मश्वात्मयागं ब्रह्माण्डस्यान्तर्विधत्ते || २७ || कृत्वा नक्तं दिनमिव जगद्बीजमाव्यक्तिकं यत् तत्रैवान्तर्दिनकर तथा ब्राह्ममन्यत्ततोऽल्पम् | दैवं पित्र्यं क्रमपरिगतं मानुषं चाल्पमल्पं कुर्वन् कुर्वन् कलयसि जगत् पञ्चधावर्तनाभिः || २८ || हे दिनकर विश्वोदयकारिदिवससंपादक चिद्भानो, जगतः सदाशिवान्तस्य विश्वस्य यद् बीजमारम्भावसानयोरुदयापवर्गकारणं श्रीस्वच्छन्दादिष्टविततपरार्धात्मकालरूपमहोरात्रं तत्कृत्वाभास्य तत्रैवान्तर्जगतः कलादिक्षित्यन्तस्याशुद्धाध्वरूपस्य बीजं मायेयमहोरात्रं तदन्तरप्याव्यक्तिकं प्राकृतं तदन्तरपि ब्राह्मं तत्रापि दैवं तत्रापि पित्र्यं पितृसम्बन्धि तत्रापि मानुषं क्रमेणाल्पमल्पं कुर्वन् कुर्वन्निव वैचित्र्यसहस्रैराभासयन्निव जगद्विश्वं पञ्चधावर्तनाभिर्विचित्रजागरादिदशापञ्चकपरावर्तनैः कलयसि अन्तरवस्थितं बहिः क्षिपसि | निर्मिमीषे निर्मितं च कलयसि | इदमित्थमिदमिदमिति संख्यानेन स्थापयसि | स्थापितमपि कलयसि अन्तःसंहरसि | संहृतमपि कलयसि संस्कारगालनेन विमृशसि | विमृष्टमपि कलयसि स्वात्माभेदेन जानीषे स्वप्रकाशैकात्म्यमापादयसि | तथा पुनरपि स्वरूपात् कलयसि नवं नवमुल्लासयसि | इत्येवं सर्गस्थितिसंहृतिविलापनस्वात्मैक्याभासनपरस्परान्दोलनलीलाक्रान्तं करोषि | अत्र जगद्बीजमावर्त्य द्विर्योज्यम् | अल्पमल्पमिति वीप्सायाम् | अयमाशयः - यद्यस्य यावदहोरात्रं तत्तदीये प्राणचारे तदंशांशकास्वपि वा श्रीस्वच्छन्दादिष्टमासोदयादिषष्ट्यब्दोदयान्तप्रक्रियया योगिज्ञानापेक्षयातिपरिमितमाभासयति भगवान्, तत्राप्यन्तर्विश्वैकात्म्यप्रथनात् सादाशिवान्तकालकलनामशेषामाभासयतीत्याभासमानोऽयं कालो न त्वस्य वास्तवं किञ्चित्तत्त्वमस्ति | अत एव कुर्वन्निवेतीवशब्देनायमेवार्थः स्पष्टः | वस्तुतो ह्येतावद्विश्वोदयावस्थानविलापनाद्यात्मा परमेश्वर एवेति स्फुरति | न तु चिदेकवपुषस्ततोऽतिरिक्तं किमप्यस्ति | अत्र च मानुषाद्यहोरात्रप्रमाणं श्रीस्वच्छन्दे चोक्तम् | तद्यथा - मुहूर्तास्तु तथा त्रिंशदहोरात्रस्तु मानुषः | दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् || पितॄणां तदहोरात्रमनेनाब्दं तु पूर्ववत् | एवं देवैस्त्वहोरात्रः ........................................... || इति | यत्त्विह दैवं पित्र्यं पृथगुक्तं तत्पितृसम्बन्ध्यहोरात्रो ज्ञेयः | तेषां शुक्लकृष्णरूपो हि सः | किञ्च - कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् | षट्त्रिंशत्तु सहस्राणि ब्रह्मणः प्रलयोद्भवः || अव्यक्तस्थेषु रुद्रेषु दिनरात्रिश्च तावती | प्राधानिकपरार्धेन दशधा गुणितेन तु | माया संहरते सर्वं पुनश्चैव सृजेज्जगत् || इति | तथा - शक्तिर्कालपरार्धस्य कोटिधा गुणितस्य च | अनाश्रितस्य देवस्य दिनमेतत् प्रकीर्तितम् || इत्येवमादि | तथैकत्र प्राणचारे घटिकोदयात् प्रभृति षष्ट्यब्दोदयान्तं विततं तत्रादिष्टं ग्रन्थगौरवभयान्न दर्शितम् | एवमहोरात्रकृत्त्वेन जगद्विपरिवर्तकत्वं भगवत उक्तम् || २८ || ये त्वहोरात्रप्रशमे रूढास्ते लोकोत्तरा एवेत्याह - तत्त्वालोके तपन सुदिने ये परं संप्रबुद्धा ये वा चित्तोपशमरजनीयोगनिद्रामुपेताः | तेऽहोरात्रोपरमपरमानन्दसंध्यासु सौरं भित्त्वा ज्योतिः परमपरमं यान्ति निर्वाणसंज्ञम् || २९ || हे तपन महाप्रकाशरूप, ये योगिनस्तत्त्वालोकात्मनि शोभनेऽनिशोदितेऽनस्तमिते दिने पारमार्थिके सर्वदशानुस्यूते सर्वतोमुखे चित्प्रकाशे सम्यक् प्राणायामाद्यायासं विना विमर्शयुक्त्या प्रबुद्धा गलिताख्यातितामिस्राः | ये चान्ये चित्तोपशम एव सर्वबाह्याभ्यासनिवृत्तिहेतुत्वाद् रजनी, तस्यां योगनिद्रामुपेताः | प्रशमितविकल्पसविकल्पप्रकाशैक्यमापन्नाः | उभयेऽपि ते प्राग्वर्णितसमस्ताहोरात्रोपरम एव परमानन्दरूपाः सन्ध्या निमज्जत्प्राणापानव्याप्तिशिवसामरस्यभुवः सर्वतोदिक्कमुदितास्तासु सौरमिति प्राणीयमपरममिति स्थूलं ज्योतिः संकुचितं प्रकाशं भित्त्वा निःसंस्कारं विलाप्य परं निर्वाणमार्गं यान्ति सदा परं शाक्तं धामाश्लिष्यन्ते || २९ || न केवलां चित्रां कालकलनामकालकलितस्वरूपसमापत्तिं च दर्शयसि, यावज्जगदुदयापायावपीत्याह - आ ब्रह्मेदं नवमिव जगज्जङ्गमस्थावरान्तं सर्गे सर्गे विसृजसि रवे गोभिरुद्रिक्तसोमैः | दीप्तैः प्रत्याहरसि च लये तद्यथायोनि भूयः सर्गान्तादौ प्रकटविभवां दर्शयन् रश्मिलीलाम् || ३० || आब्रह्मणः शाक्ताद्रूपादाब्रह्म निजं परं शाक्तं रूपं वर्जयित्वा इदं सर्वं सादाशिवादिक्षित्यन्तं जङ्गमस्थावरे अन्तौ भागौ यस्य तादृग् जगत्सर्गे सर्गे प्रथमेच्छोन्मेषात्मन्यादिसर्गे भूयो भूय उद्रिक्तसोमैः स्फीतशाक्तामृतैर्गोभिर्मरीचिभिर्विसृजसि आश्यानीभूतं निजरश्मिरूपं प्रकटयसि | भूयो दीप्तैरग्निप्रधानिर्गोभिस्तज्जगद्यथायोनि प्रत्याहरसि स्वस्वातन्त्र्यावभासिततत्तत्कारणनिवेशपुरःसरं लये स्वचिदैक्याभासनात्मनि संहारे प्रतीपमाहरसि चिदेकमयमेव करोषि | किं कुर्वन् ? सर्गस्य सृष्टेरादौ अन्ते प्रकटविभवां स्फुटमाहात्म्यां रश्मिलीलां प्रकटयन्निजमरीचिविलासमाभासयन् || ३० || श्रित्वा नित्योपचितमुचितं ब्रह्मतेजःप्रकाशं रूपं सर्गस्थितिलयमुचा सर्वभूतेषु मध्ये | अन्तेवासिष्विव सुगुरुणा यः परोक्षः प्रकृत्या प्रत्यक्षोऽसौ जगति भवता दर्शितः स्वात्मनात्मा || ३१ || हे भगवन्, यः प्रकृत्या स्वभावेन परोक्षोऽक्षागोचर आत्मा असौ जगति सर्वभूतेषु मध्ये भवताऽन्तेवासिषु अनुग्राह्येषु आत्मनैव प्रत्यक्षो दर्शितः स्वप्रकाशतया प्रकटीकृतः | किं कृत्वा ? नित्योपचितं सदा परिपूर्णमुचितं चिदानन्दघनं रूपं श्रित्वा देहादिनिमज्जनेनोन्मग्नं विधाय | कीदृग् रूपम् ? ब्रह्मतेजःप्रकाशं बृहत्त्वाद् बृंहकत्वाच्च ब्रह्म द्वैतदाहित्वात्तेजो यस्य तादृशः प्रकाशः प्रथा यस्य | कीदृशेन भवता ? सर्गस्थितिलयमुचा जननादिशून्येन यथान्तेवासिषु शिष्येषु शोभनेन दृष्टतत्त्वेन गुरुणा आत्मा दर्श्यते चिन्मयी सत्ता प्रकटीक्रियते, तथा त्वयान्तः परमात्मतया बहिश्च तेजो विश्वरूपतया स्वयमात्मा प्रकटीक्रियते || ३१ || लोकाः सर्वे वपुषि नियतं ते स्थितास्त्वं च तेषा- मेकैकस्मिन् युगपदगुणो विश्वहेतोर्गुणीव | इत्थंभूते भवति भगवन्न त्वदन्योऽस्मि सत्यं किन्तु ज्ञस्त्वं परमपुरुषोऽहं प्रकृत्यैव चाज्ञः || ३२ || हे भगवन् परानन्दात्मक स्वातन्त्र्यशक्तिस्वरूपपरावागालिङ्गितमूर्ते, ते तव विश्वहेतोरशेषकारणस्य वपुषि प्रकाशानन्दघने स्वरूपे सर्वे लोका लोक्यमानाः पदार्थाः, लोकयितारश्च रुद्रक्षेत्रज्ञरूपाः प्रमातारः स्थिताः | त्वच्चिदात्मिकां सत्तां विना हि कथमेते त्वत्तो विश्वहेतोरुदियुः | तेषां च लोकानां संबन्धिन्येकैकस्मिन् वपुषि त्वं युगपदक्रमेणैव स्थितः | अन्यथा ते त्वत्प्रकाशतां विना हि कथं प्रकाशेरन् | अतश्च त्वं सत्त्वादिगुणहीनोऽपि विश्वात्मताभासगुणाद् गुणीवाभासि | इत्थमुपवर्णिते विश्वात्मनि भवति सति सत्यमस्मि नान्यः | किन्तु त्वमेवंभूतः परमः पुरुषो ज्ञः परिपूर्णः सार्वज्ञ्यादिधर्मः | अहमिति त्वयैव देहादिषु ग्राहितप्रमातृभावः प्रकृत्या त्वन्मायामाहात्म्यादज्ञः | अतश्च देहादिप्रमातृतानिमज्जनेनाज्ञतां प्रशमयय नित्यं स्वात्मसमावेशेन ज्ञतां ममोन्मज्जयेत्यर्थादुक्तं भवति || ३२ || संकल्पेच्छाद्यखिलकरणप्राणवाण्यो वरेण्याः संपन्ना मे त्वदभिनवनाज्जन्म चेदं शरण्यम् | मन्ये चास्तं जिगमिषु शनैः पुण्यपापद्वयं तद् भक्तिश्रद्धे तव चरणयोरन्यथा नो भवेताम् || ३३ || इत्थमज्ञस्यापि मे त्वदभिनवनाच्चिदात्मत्वदाभिमुख्यप्रवृत्तत्वत्परामर्शात्मस्तुतिवशात् | संकल्पः स्थूलेच्छा | इच्छा सङ्कल्पकारणभूता सूक्ष्मविकल्पपरामर्शात्मा | आदिशब्दात् प्रयत्नस्तदनन्तरमालोचनादानादिप्रवृत्तानि वाग्वर्जान्यखिलानि करणानि सत्सहवृत्तिः प्राणः, सर्वत्रात्र सूक्ष्मपरामर्शरूपतया व्यापकत्वेन स्थिता वाणी चेत्येते मम वरणे परानुग्रहे साधवो वरेण्या जाताः, तथेदमिति पश्चिमजन्म शरण्यं शरणे साधु अनुग्राह्यानुग्रहैकपरं सम्पन्नम् | अहं हि सर्वदशासु चिदर्कपरामर्शपरः परानप्यनुगृह्णन् स्थितः | किञ्च, मन्ये स्वानुभवेनैवैतच्चेतये यत्पुण्यपापद्वयं सुकृतासुकृतजातं सर्वं तदित्यनन्तजन्मार्जितं शनैरस्तं जिगमिषु हिमविलायं विलीयमानं स्थितम् | प्राक्संचितसर्वकर्मणां हि ध्वंसेऽपि देहारम्भककर्मणां ध्वंसोन्मुखत्वाज्जिगमिष्वित्युक्तम् | अन्यथेति | यदि नैवं स्यात्तत्कथं भवच्चरणयोर्भक्तिश्रद्धे भवेताम् | नैव स्याताम् | यदुक्तं नन्दिशिखायाम् - यदा शिवेऽभिलाषो वै जायते च नृणां सदा | तदा शिवाभिमानास्ते जायन्ते परमाणवः || मुक्तास्तदैव ते दीक्षां प्राप्नुवन्ति गुरोस्ततः || इति || ३३ || सत्यं भूयो जननमरणे त्वत्प्रपन्नेषु न स्त- स्तत्राप्येकं तव नुतिफलं जन्म याचे तदित्थम् | त्रैलोक्येशः शम इव परः पुण्यकायोऽप्ययोनिः संसाराब्धौ प्लव इव जगत्तारणाय स्थिरः स्याम् || ३४ || हे देव, यद्यपि त्वत्प्रपन्नेषु त्वत्समाविष्टेषु संसारहेतुसर्ववासनादाहाद् भूयो जननमरणे न स्तः, तथापि त्वन्नुतिस्त्वत्स्तुतिरेव फलं यस्य तादृगिदमेकं पश्चिमजन्म याचे | यथा भवदवमर्शात्मचमत्काराधायि एतन्मागात् | तदित्थमनेनैव त्वन्नुतिरसाविष्टेन प्रकारेणास्मिन्नेव देहे परः शम इव शाम्यत्यस्मिन् विश्वमिति व्युत्पत्त्या परः शङ्करात्मस्वभाव इव जाग्रत्स्वप्नसुषुप्तात्मनि त्रैलोक्ये ईशः प्रभुः | न तु परतन्त्रः | अत एव पुण्यो दर्शनस्पर्शनादिना परानुग्राही कायो यस्य तादृक् | अयोनिरिति नित्योदितचिदानन्दैकघनः सन् जगतो विश्वस्य तारणाय संसाराब्धिमध्ये प्लव इव पोत इव स्थिरः स्यां चिरकालं भूयासम् || ३४ || सौषुम्णेन त्वममृतपथेनैत्य शीतांशुभावं पुष्णास्यग्रे सुरनरपितॄन् शान्तभाभिः कलाभिः | पश्चादम्भो विशसि विविधाश्चौषधीस्तद्गतोऽपि प्रीणास्येवं त्रिभुवनमतस्ते जगन्मित्रतार्क || ३५ || हे अर्क ! अतो हेतोस्ते जगतो मित्रता यौगिकमित्रशब्दाभिधेयत्वम्, यतस्त्वं सौषुम्णेन मध्यमेनामृतपथेनाप्यायिना मार्गेण शीतांशुभावमपानचन्द्रत्वमेत्यागत्याग्रे प्रथमं सुरादीन् सर्वान् प्रमातॄन् पुष्णासि लब्धावस्थितीन् करोषि | केन शान्तमाभिरन्तर्मुखीभावेनोपसंहृतबाह्यप्रथाभिः कलाभिरादिविसर्गान्तस्वाभाविमर्शशक्तिभिः | पश्चादनन्तरमम्भ इति बहिः प्रसरप्रवृत्तान् सर्ववाहान् विशसि स्वामृताच्छुरितान् करोषि | विविधाश्चौषधीर्विशसि स्थावरादिसर्वबाह्याभासान् स्वप्रकाशापूरितान् विधत्से | तद्गतो मेयप्रपञ्चात्मतया स्फुरितोऽपि त्रिभुवनं विश्वमेवमिति तदाभासनविमर्शनयुक्त्यैव चन्द्रत्वमेत्य पूर्वोक्तनीत्या सुरादीन् प्रीणासि तर्पयसि | बाह्योऽप्यर्कः सुषुम्णामार्गेणामृतसंक्रमणयुक्त्या चन्द्रत्वमेत्य पूर्वोक्तनीत्या सुरादीन् पुष्णाति | शान्तभाभिर्निवृत्तदीप्तिभिः कलाभिः शक्तिभिरम्भो विशति दक्षिणायने आसाररूपतां स्वीकरोति | ओषधीश्च विशति सरसाः करोति | तद्गतश्च वैश्वदेवयागानुयागक्रमेण त्रिभुवनं पुष्णन् जगन्मित्रत्वमेव दर्शयति || ३५ || मन्दाक्रान्ते तमसि भवता नाथ दोषावसाने नान्तर्लीना मम मतिरियं गाढनिद्रां जहाति | तस्मादस्तंगमिततमसा पद्मिनीवात्मभासा सौरीत्येषा दिनकर परं नीयतामाशु बोधम् || ३६ || हे नाथ दिनकर स्वामिन् चिदर्क, त्वया तमस्यज्ञाने मन्दाक्रान्ते निर्मूलनायाघ्राते सति इयं मदीया मतिर्धी रागद्वेषाणामवसाने जातेऽपि अन्तर्लीनान्तर्मुखीभूतापि गाढनिद्रां त्वदभेदाख्यातिं न जहाति | तस्मादेषा त्वया अस्तंगमितं तमो यया तादृश्यात्मभासा स्वदीप्त्या कारणभूतया आश्वविलम्बितमेव परं बोधं प्रशान्ताख्यातिनिजज्योतिरात्मतां नीयतां प्राप्यताम् | सूर्यो देवता यस्याः सा सौरीति कृत्वा पद्मिनीव नलिनीव | सापि त्वया दोषावसाने प्रभाते तमसि मन्दाक्रान्तेऽन्तर्लीना कर्णिकासंश्लिष्टदला गाढनिद्रां न जहातीत्यस्तंगमिततमसा स्वात्मभासा गाढीभूतज्योतिषा प्रबोध्यते त्वया || ३६ || येन ग्रासीकृतमिव जगत्सर्वमासीत्तदस्तं ध्वान्तं नीत्वा पुनरपि विभो तद्दयाघ्रातचित्तः | धत्से नक्तंदिनमपि गती शुक्लकृष्णे विभज्य त्राता तस्माद्भवपरिभवे दुष्कृते मेऽपि भानो || ३७ || हे विभो भानो चिन्मरीचिमालिन्, येन तमसाऽज्ञानेन जगदिदं ग्रासीकृतमासीत्, तदनुगृहीतान् प्रत्यस्तं नीत्वा विनाश्य तद्दयाघ्रातचित्त इव तदनुकम्पयैव शुक्लकृष्णगती विभज्य व्युत्थानावसरे प्राणापानभूमिकामवरुह्य तद् ध्वान्तं पुनरपि धत्से पुष्णासि | निर्व्युत्थनं समाधिं झगिति न वितरसीत्यर्थः | यथा बाह्यो भानुर्ग्रासीकृतजगत्तिमिरं विनाश्य पुनर्दययेव नक्तंदिनं निशादिने विभज्य धत्ते पुष्णातीति श्लेषोपमा | यत एवं दुरात्मनि तमस्यपि त्वमनुकम्पावानिव ततो मे मम परिभवे व्युत्थानात्मनि क्लेशेऽपि त्राता रक्षिता भव | कीदृशे परिभवे ? दुष्कृते दुष्टं कृतं करणं विषयहानादानादिपरिभवो यत्र | निर्व्युत्थानसमावेशरसास्वादिनं मां कुर्वित्यर्थः || ३७ || व्युत्थितः समावेशमप्राप्नुवन् व्युत्थानदशानिर्भर्त्सनपरः समावेशपरं भगवन्तं प्रार्थयितुमाह - आसंसारोपचितसदसत्कर्मबन्धाश्रिताना- माधिव्याधिप्रजनमरणक्षुत्पिपासार्दितानाम् | मिथ्याज्ञानप्रबलतमसा नाथ चान्धीकृतानां त्वं नस्त्राता भव करुणया यत्रतत्रस्थितानाम् || ३८ || सत्पुण्यम् | असत्पापम् | यत्रतत्रस्थितानामिति देशे कालेऽवस्थावैचित्र्ये च त्राता समावेशप्रथनेन रक्षकः | शिष्टं स्पष्टम् || ३८ || सत्यासत्यस्खलितवचसां शौचलज्जोज्झिताना- मज्ञानानामफलसफलप्रार्थनाकातराणाम् | सर्वावस्थास्वखिलविषयाभ्यस्तकौतूहलानां त्वं नस्त्राता भव पितृतया भोगलोलार्भकाणाम् || ३९ || भोगेषु विषयसुखेषु लम्पटानामस्माकमर्भकाणां बालानामिव त्वं पितृतया जनकत्वेन त्राता भवेति प्राग्वत् | त्वं ह्यस्माकं तत्त्वदृष्ट्या जनकः | सत्यासत्येत्युभयत्र समम् | स्खलितं प्रमादि एकत्र, अन्यत्राऽस्पष्टवर्णत्वम् | एवं शौचं चैत्तं शारीरं च | अफला सफला च या प्रार्थना तया कातराणामधीराणाम् | यत्तत्प्रार्थयमानानामिति | सुबोधमन्यत् || ३९ || यावद्देहं जरयति जरा नान्तकादेत्य दूती नो वा भीमस्त्रिफणभुजगाकारदुर्वारपाशः | गाढं कण्ठे लगति सहसा जीवितं लेलिहान- स्तावद्भक्ताभयद सदयं श्रेयसे नः प्रसीद || ४० || हे भक्ताभयद, यावद्व्युत्थितामरणावसानां दुर्दशां नाप्नुमस्तावन्नोऽस्माकं प्रसीद देहादिसंस्कारकालुष्यप्रशमनेन निर्मलीभव | निर्व्युत्थानप्रकाशानन्दघनपरमसमावेशा- मृतरसास्वादसुखितानस्मान् संपादयेत्यर्थः | स्पष्टमन्यत् || ४० || विश्वप्राणग्रसनरसनाटोपकोपप्रगल्भं मृत्योर्वक्त्रं दहननयनोद्दामदंष्ट्राकरालम् | यावद् दृष्ट्वा व्रजति न भिया पञ्चतामेष काय- स्तावन्नित्यामृतमय रवे पाहि नः कांदिशीकान् || ४१ || मृत्योरन्तकस्य वक्त्रं दृष्ट्वा यावदेष काय इति सपुर्यष्टको देहो भिया भीत्या पञ्चतां मृत्युं न व्रजति तावदेव रवे चिदर्क नित्यामृतमय अनस्तमितपरमानन्दैकघनस्वभाव नोऽस्मान् कांदिशीकान् व्युत्थाने त्वत्समावेशप्राप्तिं विना कां दिशं कायतः का दिक्का दिगस्माकमिति क्रन्दतः पाहि निर्व्युत्थनसमावेशान् संपादय | कीदृङ् मृत्योर्वक्त्रम् ? विश्वेषां प्राणग्रसनो जीवितभक्षको रसनाटोपो लोलरसनाव्यापारो यस्य तादृशि कोपे प्रगल्भं प्रौढम् | तथा दहनानि प्लोषकाणि नयनानि यस्य तादृक् | तथा उद्दामाभिरूर्जिताभिर्दंष्ट्राभिः करालम् || ४१ || शब्दाकारं वियदिव वपुस्ते यजुःसामधाम्नः सप्तच्छन्दांस्यपि च तुरगा ऋङ्मयं मण्डलं च | एवं सर्वश्रुतिमयतया मद्दयानुग्रहाद्वा क्षिप्रं मत्तः कृपणकरुणाक्रन्दमाकर्णयेमम् || ४२ || हे भगवन्, ते तव निर्णीतदृशा सामवेदात्मकं धाम तेजो यस्य तादृशः | यजुर्वेदात्मकं शब्दाकारं वपुः शरीरं वियदिव व्यापकम् | तदपि शब्दाकारमिति शब्दानाकरोति समस्तशब्दाश्रयः | अपि च गायत्र्यादि सप्तच्छन्दांसि ते तुरगाः | मण्डलं प्रभा परिवेषोऽपि ऋग्वेदमय इत्येवं सर्वश्रुतिमयत्वात् | यद्वा अनुकम्पाप्रधानादनुग्रहान्मत्तो मत्सकाशादुक्तवक्ष्यमाणप्रार्थनापरत्वात् कृपणं विरसं संसारविभावकत्वाच्च करुणं करुणरसप्रधानमिममाक्रन्दं त्वत्प्रसादप्रार्थनापरं प्रलपितं क्षिप्रमुदीरणानन्तरमेवाकर्णय करुणयाऽस्मदनुजिघृक्षयाऽवधारय || ४२ || नाशं नास्मच्चरणशरणा यान्त्यपि ग्रस्यमाना देवैरित्थं सितमिव यशो दर्शयन् स्वं त्रिलोक्याम् | मन्ये सोमं क्षततनुममागर्भवृद्ध्या विवस्वन् शुक्लच्छायां नयसि शनकैः स्वां सुषुम्णांशुभासा || ४३ || हे भगवन् विवस्वन् चिद्भानो अस्मच्चरणशरणा देवैरपि ग्रस्यमाना नाशं न यान्ति इत्येवं सितं शुभ्रं यशस्त्रिलोक्यां दर्शयन्निव सोमं क्षततनुं देवैरपि ग्रस्तसमस्तकलं सुषुम्णाख्यमध्यनाड्या अंशवो मरीचयस्तद्भासा दीप्त्या हेतुभूतया अमाख्यकलया गर्भेऽन्तर्या वृद्धिस्तया स्वां शुक्लां छायां संपूर्णसितां कान्तिं नयसि प्रापयसीति मन्ये जानामि | अत्र रहस्यदृशा देवा इन्द्रियाणि सोमोऽपानयुक्त्यान्तःप्रविष्टः षोडशकलारूपात्मा मेयवर्गः सर्ववाहोल्लासयुक्त्या कलाग्रासेन क्षीणकलः सन् सुषुम्णांशुभासा मध्यधामस्फारेणोन्मिषच्छुभाख्यतुर्यप्रकाशदीप्त्या अमाया अन्ततुट्यर्धस्फुरच्छक्तेर्गर्भेऽन्तर्या वृद्धिः प्राणादिप्राधान्यनिमेषोन्मिषच्छाक्तवीर्यभाभिः स्फुरिता, तया शुक्लां चिदेकघनां नयसि प्रापयसीत्यर्थः | बाह्यस्तु स्पष्टः || ४३ || आस्तां जन्मप्रभृति भवतः सेवनं तद्धि लोके वाच्यं केनापरिमितफलं भुक्तिमुक्तिप्रकारम् | ज्योतिर्मात्रं स्मृतिपथमितो जीवितान्तेऽपि भास्वन् निर्वाणाय प्रभवसि सतां तेन ते कः समोऽन्यः || ४४ || हे भास्वन्, जन्मप्रभृति यत्त्वत्सेवनं तदपरिमितफलं केन वाच्यं केन वक्तुं शक्यम्, इयत्तया परिच्छेद्यत्वाभावात् | तद्यस्माद् भुक्तिमुक्तिप्रकारं भुक्तिर्विषयभोग एव स्वात्मानन्दविश्रान्तिदत्वेन जीवच्छिवत्वाभिव्यक्तात्मा मुक्तिरेव च चिच्चमत्कारावेशरूपा भुक्तिः, न तु विषयासक्तिरूपा | तां भुक्तिं मुक्तिं प्रकाशयति सेवकांस्तन्मयान् संपादयति जीवितान्ते निर्वाणावसरेऽपि ज्योतिर्मात्रात्मा त्वं सतां स्मृतिपथं प्राप्तो निर्वाणाय मुक्तये प्रभवसि | अतस्ते समः कोऽन्यः | असामान्यमहिमाऽसीत्यर्थः || ४४ || अप्रत्यक्षत्रिदशभजनाद्यत्परोक्षं फलं तत् पुंसां युक्तं भवति हि समं कारणेनैव कार्यम् | प्रत्यक्षस्त्वं सकलजगतां यत्समक्षं फलं मे युष्मद्भक्तेः समुचितमतस्तत्तु याचे यथा त्वाम् || ४५ || अप्रत्यक्षेन्द्र चन्द्रादिदेवताराधनादाराधकानां यत्स्वर्गप्राप्त्यादि परोक्षं कालान्तरे भावि फलं तद्युक्तम् | यतो मृद इव मृण्मयो घटः कारणोचितमेव सर्वत्र कार्यं भवति | त्वं तु चिदर्कः सर्वेषां प्रत्यक्षः स्वप्रकाशः, चिदर्कस्वप्रकाशात्मतां विना कस्याप्यप्रकाशादिति | त्वद्भक्तेर्हेतोर्मम नित्योदितत्वत्समावेशात्मफलं समुचितम् | अतो हेतोस्तत्फलं याचे प्रार्थये | यथा कृतिमतीषु देवतासु सतीषु त्वामेव याचे तथा निर्व्युत्थानसमावेशात्मैव फलं याचे | न तु मितं किञ्चित् || ४५ || ये चारोग्यं दिशति भगवान् सेवितोऽप्येवमाहु- स्ते तत्त्वज्ञा जगति सुभगा भोगयोगप्रधानाः | भुक्तेर्मुक्तेरपि च जगतां यच्च पूर्णं सुखानां तस्यान्योर्कादमृतवपुषः को हि नामास्तु दाता || ४६ || येऽपि च केचिदविमृष्टसमावेशात्ममुख्यफला भगवान्सेवित आरोग्यं दिशतीत्याहुस्तेऽपि जगति तत्त्वज्ञाश्च सुभगाश्च | यतो भोगयोगप्रधाना भोगाय योगाय चारोग्यं वाञ्चन्ति | युक्तं चैतत् | यतोऽमृतवपुषः परानन्दप्रकाशघनाच्चिदर्कादन्यः को नाम भोगमोषयोस्तदाश्रयस्य पूर्णसुखात्मन आरोग्यस्य च दाता | न कश्चित् | पूरणगुणसुहितार्थ इति तृप्त्यर्थैः सह षष्ठीसमासनिषेधाज्ज्ञापकात् सुखानां पूर्णमित्यत्र षष्ठी || ४६ || हित्वा हित्वा गुरुचपलतामप्यनेकान्निजार्था- न्यैरेकार्थीकृतमिव भवत्सेवनं मत्प्रियार्थम् | तेषामिच्छाम्युपकृतिमहं स्वेन्द्रियाणां प्रियाणा- मादौ तस्मान्मम दिनपते देहि तेभ्यः प्रसादम् || ४७ || हे दिनपते चिद्भानो, यैरिन्द्रियैरन्तर्बहिःकरणैर्गुर्वीं चपलतां महतीमनवस्थितिं पुनः पुनः प्रवृत्तामपि तथाऽनेकान्निजार्थान् विषयविश्रान्त्यात्मकानि नानास्वप्रयोजनानि हित्वा त्यक्त्वा भवत्सेवनमन्तर्मुखीभावयुक्त्या त्वत्परिशीलनं मम प्रियार्थमेवैकार्थीकृतमभिनिवेशेनाश्रितम् | तेषां प्रियाणां स्वेन्द्रियाणामहमुपकारमिच्छामि | तस्मान्ममादौ तेभ्यः प्रसादं देहि मायीयदेहपरिहारेण निजमरीचिचक्रात्मतां प्रकटयेत्यर्थः || ४७ || किं तन्नामोच्चरति वचनं यस्य नोच्चारकस्त्वं किं तद्वाच्यं सकलवचसां विश्वमूर्ते न यत् त्वम् | तस्मादुक्तं यदपि तदपि त्वन्नुतौ भक्तियोगा- दस्माभिस्तद्भवतु भगवंस्त्वत्प्रसादेन धन्यम् || ४८ || हे विश्वमूर्ते अनवच्छिन्न, त्वन्नुतिविषये इदन्तावच्छेदप्रधानतया असमञ्जसप्रायं किमप्यस्माभिस्त्वद्भक्तित उक्तं तद्विश्वस्य वाच्यवाचकात्मनस्तव प्रसादादन्तर्नैर्मल्यप्राप्तेर्धन्यमस्तु त्वद्रूपतयैव स्फुरतु || ४८ || या पन्थानं दिशति शिशिराद्युत्तरं देवयानं या वा कृष्णं पितृपथमथो दक्षिणं प्रावृडाद्यम् | ताभ्यामन्या विषुवदभिजिन्मध्यमा कृत्यशून्या धन्या काचित्प्रकृतिपुरुषावन्तरा मेऽस्तु वृत्तिः || ४९ || प्रकृतिपुरुषौ वामदक्षिणबाहौ अन्तरा तन्मध्ये काचिदसामान्या धन्या संपन्मयी मे वृत्तिः स्थितिरस्तु | कीदृशी ? विषुं व्याप्तिमर्हतीति विषुवत् | अभिजयति द्वैतप्रशमनात् सर्वोत्कर्षेण वर्तत इत्यभिजित् | सर्वमध्यवर्तित्वान्मध्यमा | स्वानन्दविश्रान्तिसारत्वात् कृत्यैः सौम्यक्रूरादिभिः कार्यैः शून्या | तथा देवप्रीतिकारित्वाद्देवयानं हृदो द्वादशान्तं यावत् प्रसरणरूपं शिशिरवसन्तग्रीष्मस्वभावमुत्तरपन्थानमुत्तरायणं या प्राणाख्या वृत्तिर्दिशति प्रथयति, या वा अपानाख्या वृत्तिर्द्वादशान्ताद्धृत्प्रवेशरूपा प्रावृट्शरद्धेमन्तरूपं दक्षिणं पन्थानं दक्षिणायनं भोगप्रदत्वात् कृष्णं पितृप्रीतिहेतुत्वात्पितृपथं दिशति ताभ्यामन्या व्यतिरिक्ता जीवन्मुक्तिप्रदा | उन्मनाख्येत्यर्थः | षट्त्रिंशदङ्गुलेऽङ्गुलषट्के हृदःप्रभृति मकरादिराश्युदय इत्यर्थः श्रीस्वच्छन्दादि शास्त्रेष्वस्ति || ४९ || स्थित्वा किञ्चिन्मन इव पिबन् सेतुबन्धस्य मध्ये प्राप्योपेयं ध्रुवपदमथो व्यक्तमुद्दाल्य तालु | सत्यादूर्ध्वं किमपि परमं व्योम सोमाग्निशून्यं गच्छेयं त्वां सुरपितृगती चान्तरा ब्रह्मभूतः || ५० || सुरपितृगती अन्तरा ऊर्ध्वाधःप्रवेशात्मनिर्णीतदेवपितृमार्गयोर्मध्ये चकारात् सर्ववाहानामप्यन्तर्ब्रह्मभूतोऽनवच्छिन्नतां प्राप्तस्त्वां गच्छेयं परतत्त्वात्मचिदर्करूपः स्याम् | कीदृशं त्वाम् ? सत्याद्विश्वसत्ताप्रदात् सामरस्याद्धाम्न ऊर्ध्वमुत्कृष्टं प्रकाशानन्दैकघनं किमपि परमं व्योमेत्यनुत्तरचिदाकाशरूपं सोमाग्निशून्यं प्रशान्तप्राणापानसंस्कारम् | किं कृत्वा ? तालुलम्बिकाख्यरौद्रग्रन्थिधामव्यक्तिं कृत्वा | दिव्यकरणबन्धाश्रयत उद्दाल्य निर्भिद्य | अथो अनन्तरं ध्रुवपदं प्राप्य समस्तवेद्याविभागप्रकाशात्मबिन्दुस्थानमासाद्य | सेतुबन्धस्य मध्य इति निरोधकोर्ध्वशक्त्या तटद्वयान्तर्वाहिप्राणापानाद्युत्तरणोपायनादनादात्मसृष्टिनिरुद्ध- समस्तकरन्ध्रमार्गे स्थित्वाऽधिरुह्य किञ्चिन्मनः पिबन्निव समनान्तसविकल्पकमनःसंस्कारं प्रशमयन् || ५० || सर्वात्मत्वं सवितुरिति यो वाङ्मनःकायबुद्ध्या रागद्वेषोपशमसमतायोगमेवारुरुक्षुः | धर्माधर्मग्रसनरशनामुक्तये युक्तियुक्तां स श्रीसाम्बः स्तुतिमिति रवेः स्वप्रशान्तां चकार || ५१ || श्रयन्त्येतां योगिन इति श्रीस्तया मोक्षलक्ष्म्या सहितः साम्बो भगवद्वासुदेवसुत इत्येवंरूपां रवेश्चिदर्कस्य स्तुतिं स्वप्रशान्तामात्मविश्रान्तिपरामकरोत् | सुप्रतिष्ठाम् इति वा पाठः | कीदृशीं स्तुतिम् ? युक्त्या परस्वरूपविश्रान्त्यात्मना योगेन युक्ताम् | तत्ख्यापयित्रीमित्यर्थः | स इत्यस्य विषयं दर्शयति - याः सवितुर्विश्वकारणस्य चिद्भानोः सर्वात्मत्वं वैश्वरूप्यमेव योगमेकत्वमिच्छति | वस्तुनोऽन्येन वस्तुना इत्याम्नायदृशा योगं परैक्यमित्युक्तदृशारोढुमिच्छुः स्वीचिकीर्षुः | न त्वन्यत्किञ्चित् | कीदृशं योगम् ? सर्वदोषमूर्धन्ययो रागद्वेषयोरुपशमे सति या समता साम्यं तद्रूपम् | केन ? वाङ्मनः - कायसहितया बुद्ध्या | वाचा स्तुतिभिः, मनसाऽनुसंधानतः, कायेन कायप्राध्यान्येन निमज्जनात्मकप्रणामेन, बुद्ध्याऽध्यवसायेन | किमर्थमिमां स्तुतिमकरोदित्याह - धर्माधर्माभ्यां यद्ग्रसनमर्थादबुद्धस्य जगतस्तदेव रशना बन्धनरज्जुस्तस्या मुक्तये | एतत्स्तोत्रपाठावमर्शाभ्यां जना जीवन्मुक्तिमायान्त्वित्याशयादित्यर्थः || ५१ || भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं श्रीसाम्बेन प्रकटगहनं स्तोत्रमध्यात्मगर्भम् | यः सावित्रं पठति नियतं स्वात्मवत् सर्वलोकान् पश्यन् सोऽन्ते व्रजति शुकवन्मण्डलं चण्डरश्मेः || ५२ || इदमध्यात्मगर्भं क्रोडीकृतरहस्यम्, प्रकटं बाह्यार्थदृशा, गहनं चाध्यात्मकार्थयोगात्, सावित्रं चिद्भानुसम्बन्धि स्तोत्रं श्रीसाम्बेनोक्तं यः कश्चित् स्वात्मानमिव सर्वलोकान् पश्यंश्चिदभेदात्मविश्वं स्तोत्रार्थं भावयन्नियतं निश्चयेन पठति अनवरतं विमृशति, सोऽन्ते चण्डरश्मेर्द्वैतग्रासिनश्चिदर्कस्य मण्डलं लीढविश्वसमरसीभूतमरीचिचक्रमेति | तन्मयो जायते | शुकवद् भगवद्व्याससुतवत् | कीदृशेन साम्बेन ? भक्तिश्रद्धे आदी यासां तत्त्वार्थचिन्तादीनां ता एवाखिलास्तरुण्यो नवनवाः सुन्दर्यस्तासां वल्लभेन क्षणमपि परिहर्तुमशक्येन प्रेयसा | न तु रूपलावण्यातिशयमात्रात् समस्तबाह्यरमणीस्पृहणीयेन | इत्यनेन व्यतिरेकलभ्येनार्थेन भगवद्वासुदेवसुतत्वमात्मनः प्रकटयति || ५२ || उपसंहारभङ्ग्या जनाननुजिघृक्षुराशास्ते - इति परमरहस्यश्लोकपञ्चाशदेषा तपननवनपुण्या सागमब्रह्मचर्चा | हरतु दुरितमस्मद्वर्णिताकर्णिता वो दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजाम् || ५३ || इत्युक्तक्रमान्महारहस्यार्थयुक्ता स्थित्वा किञ्चिन्मन इव पिबन् इत्यन्तश्लोकानां पञ्चाशदेषा तपनस्य विश्वविचित्राखण्डितप्रतापस्य भगवतश्चिदर्कस्य नवनेन स्तुत्या पुण्या पवित्रा | तथा सागमा विश्वोपनिषद्रूपमाहेश्वरशास्त्रार्थसतत्त्वगर्भा ब्रह्मचर्चा पराद्वयविमर्शो यस्यां तादृशी अस्मद्वर्णिता सती आकर्णिता वो युष्माकं सर्वेषां दुरितं हरतु किल्विषं दुरध्यवसायं च नाशयतु | भक्तिभाजां च शुभसिद्धिं दिशतु अभीष्टां भोगमोक्षलक्ष्मीं घटयतामिति शिवम् || ५३ || कश्चिच्छैवः परशिवसमावेशगाढानुरागो- द्रेकस्फूर्जन्नभिनवदशावेशवैवश्यशाली | सत्स्तोत्रेऽस्मिन् विवृतिरचनां क्षेमराजो न्ययुङ्क्ते- त्येतन्नैवं झटिति घटितं दर्शनीयं हि सद्भिः || इति महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्तपादपद्मोपजीविराजानक श्रीक्षेमराजप्रणीतविवृतिसमेता श्रीसाम्बपञ्चाशिका समाप्ता | || समाप्तोऽयं ग्रन्थः || ########### END OF FILE #######