#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00329 Uniform title: sūkṣmāgama Manuscript : IFP/EFEO transcript T01003 copied from RE10779 of I.F.I. Description: IFP/EFEO transcript T01003 copied from RE100779 of IFI Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 29, 2015 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### सुक्ष्मागम त्१०१३ प्. १) श्री || शुभमस्तु || अविघ्नमस्तु गुरवे नमः | गंनपते नमः | इष्टदेवताय नमः || सूक्ष्मागम - आर्चनविधिः | आसुवाहमखिलस्य नायकं कारणात्कलभवक्त्रसंस्थितम् | प्रातरेव सततं नमाम्यहं पारिजातमिव पार्वतीसुतम् || अथातः संप्रवक्ष्यामि शिवपूजाविधिक्रमम् | आत्मार्थं च परार्थं च द्विविधं यजनं मतम् || १ || शिवव्रत द्विजातीनामात्मार्थं तु प्र * यते | दीपान्तं च हविष्यान्तं द्विविधो विधिरुच्यते || २ || आर्यदेशोद्भवस्योक्तं शिवद्विजपरार्थकम् | प्रधानं सर्वदीक्षासु शिवदीक्षा विशिष्यते || ३ || तस्माच्छिव द्विजाश्चास्मिन् सर्वान् देवान् प्रपूजयेत् | चतुर्विधं समाख्यतं दीपान्तं हविरन्तकम् || ४ || बलयन्तमथ नृत्तान्तं यथाविभवविस्तरम् | शौचमाचमनं स्नानं भस्मस्नानं च तर्पणम् || ५ || कवाटोद्घाटनं पश्चाद् रेचकादि त्रयं तथा | अङ्गन्यासकरन्यासं महातत्त्वादिलक्षणं || ६ || तेषां तु मण्डलं वर्णं धि देवोच्चारणाक्षरम् | ग्रन्थिनश्छेदनं पश्चाद् भूतशुद्धौ तु संभवम् || ७ || प्. २) आत्मशुद्धिं कलान्यासं पुष्पभेदं शुभाशुभम् | द्वारपूजां तथा पश्चात् स्थान शुद्धिमतः परम् || ८ || द्रव्याणां पात्रशुद्धिं च अभिषेकस्य लक्षणं | पाद्यमाचमनं चार्घ्यं गन्धद्रव्यस्य लक्षणं || ९ || Vईशीतारिं चार्घ्य कालं च त्रिगन्धं चाष्टपुष्पकम् | सप्तवायुर्पाचारयत् महाघण्टाप्रताडनम् || १० || प्रच्छन्नपटकालं यल्लिङ्गशुद्धिमतः परम् | मुखं पादं च पृष्ठं च पीठशुद्धिमतः परम् || ११ || आसनं तस्य कालं च मुद्रा कालमतः परम् | पञ्चावरणपूजां च तेषां वर्णाकृतिं ततः || १२ || पीथपूजां तदन्ते तु जाति भेदेन संयुताम् | कवाटो दुम्बर विधिं धूपधीपविधिं ततः || १३ || नीराजन विधिं चैव नैवेद्यं चाग्नि कार्यकम् | परिवारार्चनं चैव सर्वदेवार्चनं ततः || १४ || तेषां तु लक्षणं वर्णा भक्तपूजां च लक्षणं | नित्योत्सवं ततः पश्चात् पादुकाभ्यर्चनं तथा || १५ || घटिकालक्षणं चैव पूजाफलमतः परम् | इत्येवमादिकाः सर्वा यो विन्दति स पूजकः || १६ || शिवं स्मरन्नुषः काले दण्डपाणिः शिवाग्रजः | गत्वाग्रामाद्बहिः पश्चात् विण्मूत्रादि विसर्जयेत् || १७ || प्. ३) कर्णमूले करे वाथ उपवीतं न्यसेद् बुधः | रविं दक्षणतः कृत्वा दक्षिणाभिमुखो निशि || १८ || भूतले तृणमादाय ऋजुकायो न वाचयन् | प्रत्यादित्यजलाग्नीनां चन्द्र गो ब्राह्मणान् प्रति || १९ || देवालय समीपे च कूपे कोष्ठे च भस्मनि | क्षेत्रेषु वृक्षच्छायायां नद्यामन्तः सरस्सु च || २० || चैत्ये वृक्षसमीपे वा वेलायां वा महोदधः | नक्षत्रे चन्द्रमये चैव न कुर्यादुभयं नरः || २१ || मृत्पिण्डं दक्षिणे हस्ते गृहीत्वा शिश्नमध्यतः | जलतीरे समागम्य शौचं पश्चात् समाचरेत् || २२ || अक्षमात्र मृदाशिश्नं पश्चाधा गुदशोधनम् | पञ्चधापादहस्तौ च त्रिधा चैव प्रशोधयेत् || २३ || विसर्ज्य तीरमन्यत्र चरेदाचमनं बुधः | सपवित्रकरः कुर्यात् त्रिभिर्दर्भैस्तु पञ्चभिः || २४ || दक्षिणवर्तग्रथितं पवित्रं चतुरङ्गुलम् | स्थले तु दक्षिणं पादं कृत्वा वामां जले स्थितम् || २५ || गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् | यथा त्रिवारं पीत्वा तु ऋग्यजुःसाममन्त्रकैः || २६ || अङ्गुष्ठेन स्पृशेदास्यं मुखं हस्तेन संस्पृशेत् | श्रोत्रेङ्गुष्ठे कनिष्ठाभ्यां बाह्याङ्गुष्ठेन संस्पृशेत् || २७ || प्. ४) स्पृष्ट्वा नाभिं कनिष्ठेन चाङ्गुष्ठेन स्पृशेद्धृदि | मूर्ध्नि सर्वाङ्गुलिभिस्तु पञ्चप्रह्यषडङ्गकैः || २८ || शौचमाचमनं प्रोक्तं पश्चात् स्नानं समाचरेत् | स्नानाद्धि मृदमादाय विन्यसे दक्षिणाधिकम् || २९ || अस्त्रेण प्रोक्षयेत् पश्चात् त्रिधा कृत्वाभिमन्त्रयेत् | कवचेन ब्रह्म तीर्थाभि मन्त्र क्रमेण तु || ३० || उत्तरेण मृदा पूर्वमष्टदिक्षु क्रमेण तु | दक्षिणेन मृदा चास्सु शिवतीर्थं प्रकल्पयेत् || ३१ || मूध्नादि वक्त्रपादान्तं संस्पृशेन्मध्यमं हृदा | पश्चात् स्नानं प्रकुर्वीत चरेदाचमनं बुधः || ३२ || कलशमुद्रां बध्वा तु स्नापयेन् मन्त्रसंहितैः | माषमग्नं तु यद्वारि तत् तन् मन्त्रैः पिबेद् बुधः || ३३ || दधिक्रामन्त्रमनुस्मृत्य प्रोक्षयेच्छिरसि क्रमात् | द्विजानां दक्षिणे हस्ते पञ्चतीर्थं प्रचोदितम् || ३४ || सूर्यस्य चोदकं दद्यात् प्राणायामं तु धारयेत् | सावित्र्याष्टशतं जप्त्वा उपस्थानं समाचरेत् || ३५ || देव ऋषि पितॄणां च पश्चतर्पणमाचरेत् | कनिष्ठमध्यरेखाभिः तर्पयेत् सुरतृप्तये || ३६ || अङ्गुल्यग्रे ऋषीणां च तत् तन् मन्त्रमनुस्मरन् | अङ्गुष्ठतर्जनीमध्ये पितृतर्पण माचरेत् || ३७ || प्. ५) ब्राह्ममङ्गुष्ठमूले तु अग्नितीर्थं तथा तले | पाद प्रक्षालनं कृत्वा पश्चादाचमनं चरेत् || ३८ || पालाशपद्मपत्रे वा गोशालां संप्रविश्य च | सद्येन गोमयं ग्राह्यं पिण्डं वामेन कारयेत् || ३९ || अघोरेण दहेत् सर्वं वक्त्रमन्त्रेण सङ्ग्रहेत् | भस्मं तु ब्रह्मविद्याङ्गैः पत्रामत्रैश्च विन्यसेत् || ४० || मन्त्रैश्च संस्कृतं भस्म श्रोत्र्याङ्गाराजतं तु या | प्रविशेदालयं पश्चादाचार्यस्तु समाहितः || ४१ || कवाटे मृदमभ्यर्च्य तन्मध्ये च स्वनामतः | अघोरास्त्रं समुच्चार्य कवाटोद् घाटनं क्रियात् || ४२ || पूजान्ते रुद्रमभ्यर्च्य कवचेन तु बन्धयेत् | उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः || ४३ || भस्म स्ववामपाणौ तु निक्षिप्यास्त्रेण शोधयेत् | शिवमन्त्रशतं जप्त्वा भस्मना स्नानमाचरेत् || ४४ || भस्मेति कीर्तितं नॄणां पापसंभाषणात् सदा | दशदिग्बन्धनं कृत्वा अस्त्रेणैव तु देशिकः || ४५ || करपूजा प्रकर्तव्या गन्धपुष्पादिना पुरा | पूरकं कुम्भकं चैव रेचकं पूर्वमभ्यसेत् || ४६ || औदर्यं वायुमङ्गुल्या नासिकां पीड्य रेचयेत् | द्रुतिवत् पूरयेत् संम्यक् जठरं बाह्यवायुना || ४७ || प्. ६) पूरकं तु समाख्यातं पश्चात् कुम्भकमभ्यसेत् | अन्तर्बहिस्थितं वायुं न गृह्णानि न मुञ्चति || ४८ || पूर्णकुम्भमयं यस्मात् तस्मात् कुम्भकमुच्यते | द्वादशेन तु मात्रेण रेचकादीन् तथाभ्यसेत् || ४९ || अङ्गन्यासं करन्यासं त्रिविधं समुदाहृतम् | ब्रह्मचारि गृहस्थानां सृष्टिश्च स्थितिरेव च || ५० || वानप्रस्थ यतिनां च संहारं तत्प्रशस्यते | दक्षिणादि कनिष्ठान्तमङ्गुष्ठान्तं तु वामतः || ५१ || दशबीजं न्यसेत् सृष्टि स्थिति न्यासं समाचरेत् | दक्षिणाङ्गुष्ठमादि स्यात् कनिष्ठादि तथोतरे || ५२ || पञ्चब्रह्मं न्यसेत् पश्चात् संहारन्यासमाचरेत् | वामाङ्गुष्ठमथादि स्याद् दक्षिणाङ्गुष्ठमन्ततः || ५३ || शिवाङ्गं विन्यसेत् पश्चादस्त्रं हस्ततले न्यसेत् | करन्यासमिदं प्रोक्तमङ्गन्यासं ततः परम् || ५४ || मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासमुदाहृदम् | मूर्ध्नि वक्त्रे च हृदये गुह्ये पादे यथाक्रमम् || ५५ || ईशानादिनि सद्यान्तं पादादि संहृदि भवेत् | पादे गुह्ये च हृदये वक्त्रे मुर्ध्नि च विन्यसेत् || ५६ || सद्यादीशानपर्यन्तं हृदयादि स्थितिर्भवेत् | हृदये हृदयं न्यासं शिरः शिरसि विन्यसेत् || ५७ || प्. ७) शिखायां तु शिखां न्यस्य कवचं स्तनमध्यतः | अस्त्रं हस्त प्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् || ५८ || स्थितिन्यासमिदं प्रोक्तं पृथिव्यादि न्यसेद् बुधः | पृथिव्यादि महातत्वे स्थितं तत्त्वं समासतः || ५९ || पृथिव्याय मण्डलं पण्यं धिदेवोच्चारणाक्षरम् | वक्ष्ये पृथक् पृथक् न्यासं अङ्गुष्ठादि यथाक्रमम् || ६० || चतुरश्रमण्डलं हेमं पृथ्वि ब्रह्माधिदेवतम् | अङ्गुष्ठादि च जान्वन्तं पञ्चोच्चार्यं तु ह्यान्यसेत् || ६१ || धनराकृत् सितं वण्यं विष्णुश्चाधिपतिः स्मृतः | जान्वादिनाभिपर्यन्तं ह्विं चेति चतुरस्ततः || ६२ || त्रिकोणं सप्तशिख्युक्तं रक्तं रुद्राधिदेवतम् | नाभ्यादि चैव कण्ठान्तं हौं चेति त्रिसमुच्चरेत् || षट्कोणवायुदैवत्यं कृष्णमीश्वरकारणम् | वायुमण्डलमेवोक्तं ह्यैं चेति द्विसमुच्चरेत् || ६४ || कण्ठादि च ललाटान्तं विन्यसेत् तु विशेषतः | धूम्रं वृत्तं तथाकाशं मण्डलं तु सदाशिवम् || ६५ || ललाटादि शिखाग्रान्तमेकोच्चार्यं शिवोत्तरम् | पृथिव्या लक्षणं प्रोक्तं पञ्चग्रन्थिस्तु छेदयेत् || ६६ || मेढ्रग्रन्थिस्तु पूर्वं स्यात् नाभिग्रन्थि द्वितीयकम् | त्रितीयम् उदरग्रन्थि गलग्रन्थि चतुर्थकम् || ६७ || प्. ८) पञ्चमं तु शिरोग्रन्थि शिवास्त्रेणैव छेदयेत् | ग्रन्थिच्छेदमिदं प्रोक्तमात्मशुद्धिं तु कारयेत् || ६८ || योजयेत् पूर्वमात्मानं हंसेन हृदयेन च | शिखाग्रे द्वादशाङ्गुल्या शुद्धस्फटिकसन्निभे || ६९ || संहारमुद्रया पश्चाद् ध्यात्वा तच्छुष्कदारुवत् | अग्निमण्डलसंयुक्तं अग्निबीजेन दाहयेत् || ७० || पादाङ्गुष्ठादिकान्तं च ज्वलादि परिवेष्टितम् | भस्माकारमिदं ध्यात्वा अमृते प्लावयेत् ततः || ७१ || चन्द्रमूध्निह्यधस्तात्तु प्रणवाब्जमधोमुखम् | अमृतं चिन्तयेद् भिन्ने सौषुम्ने मस्तके शुभे || ७२ || आत्मानमानयेत् तत्र हंसे नैव तु मन्त्रयेत् | सर्वज्ञानमयं देवं सर्वदेवमयं शुभम् || ७३ || एवं संयोज्य विधिवत् सर्वमृत्युविनाशनम् | अङ्गन्यासं ततः कुर्यात् मूर्ध्नादीशानपूर्वकम् || ७४ || अष्टत्रिंशत्कलान्यासं मूर्ध्नादि परिकल्पयेत् | ईशानं पञ्चमूर्ध्नि स्यात् पुरुषं वदनेषु च || ७५ || प्रणवञ्चोर्ध्व वक्त्रे तु न्यसेत् पूर्वादितः क्रमात् | हृग्रीवयोस्तथाचासे जठरे नाभिपृष्ठयोः || ७६ || उरसि स्यादघोरेण पश्चाद्गुदे तथैव च | लिङ्गे चोर्वोस्तथा जान्वोः जङ्घयोः स्फिक्प्रदेशतः || ७७ || प्. ९) कटिपार्श्वेष्वथ न्यासं वामदेवेन वै बुधः | पादौ पाण्यौस्तथा घ्राणे शिरो बाहू तु सद्यतः || ७८ || शिवोऽहमिति संभाव्यमन्तर्यागं ततः शृणु | हृदयाब्जे न्यसेद् देवं प्रणवाकारमीश्वरम् || ७९ || अर्चयेत् तु विधानेन अष्टत्रिंशत् कलैर्युतम् | अङ्गुष्ठमात्रमचलं शिवविद्याङ्गसंयुतम् || ८० || नाभौ होमं प्रकुर्वीत ललाटे सर्वतोमुखम् | ध्यायेत् तत्रेश्वरं सम्यगन्तर्यागमिदं क्रमात् || ८१ || पञ्चावरणकं वापि त्रिकमेकमथापि वा | श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् || ८२ || द्रोणमन्दारपुन्नागा श्वेतार्कश्वेतपत्रकम् | नन्द्यावर्त्तं श्रियावर्तं महाद्रोणं च सात्विकम् || ८३ || करवीरं रक्तपद्मं पाटली बृहती तथा | रक्तोत्पलानि पुष्पाणि राजसानि विनिर्दिशेत् || ८४ || चम्पकारग्वधे चैव कर्णिकाद् धूधूमेव च | मिश्रकानि समाख्यातं विष्णुक्रान्त्युपलानि च || ८५ || तामसानि समाख्यातं वकुलं शीर्षकेतकी | करं च बन्धूकः करमुदः डाडिमी किंशुकादयः || ८६ || लाङ्गली चैव बृहती जपापुष्पाणि वर्जयेत् | अपक्वादीनि मुकुलं लूतसूत्रवृतानि च || ८७ || प्. १०) स्वयं पतितपुष्पाणि सञ्चितान्यपि वस्त्रके | एकाहोषितपुष्पाणि वर्जयेत् तु प्रयत्नतः || ८८ || पुष्पशुद्धिः समाख्याता द्वारपूजां समारभेत् | वृषभगायत्रिमन्त्रेण शिवाग्रे वृषभं यजेत् || ८९ || द्वारोर्ध्वे दक्षिणे भागे गणेशं संप्रपूजयेत् | द्वारोर्ध्वे वामपार्श्वे तु सरस्वतीं प्रपूजयेत् || ९० || द्वारोर्ध्वे मध्यमे चैव श्रीदेवीं संप्रपूजयेत् | द्वारस्य दक्षिणे पार्श्वे गङ्गानन्दिनमर्चयेत् || ९१ || द्वारस्य वामे यमुनां महाकालं प्रपूजयेत् | तत्तत् स्वनाममन्त्रेण गन्धपुष्पादिभिर्यजेत् || ९२ || स्थानशुद्धिं ततः कुर्याद् गोमयेनानुलेपयेत् | चतुरश्रमण्डलं कृत्वा त्रितलं च हृदा बुधः || ९३ || क्षितिं पूज्य विधानेन दिग्बन्धं चास्त्रमन्त्रतः | स्थानशुद्धिरिति ख्यातः पाद्याचमनपात्रकम् || ९४ || अर्घ्यपात्रं शरावं च शङ्खभाण्डं विशोधयेत् | कलशं हृदये नैव कवचेनावकुण्ठयेत् || ९५ || वस्त्रपूतेन तोयेन वर्धनीं च प्रपूरयेत् | पञ्चब्रह्मषडङ्गैश्च पात्रे मन्त्रैश्च तज्जलैः || ९६ || सुरभिमुद्रां बध्वा तु शिवाम्भश्चेति भावयेत् | अष्टद्रोणजलैश्चापि तदर्धार्धजलै क्रमात् || ९७ || प्. ११) सर्वगन्धसमायुक्तमभिषेकं समाचरेत् | प्रोक्षयेत् सर्वपात्राणि हृन्मन्त्रेण शिवाम्भसा || ९८ || पाद्यादिसर्वपात्राणि साधयेत् तु विशेषतः | यवसिद्धार्थदूर्वाश्च चन्दनोशीरसंयुताः || ९९ || पाद्यद्रव्यं भवेदेतन्निम्बुजातिफलैर्युतम् | एलालवङ्गकर्पूरं षङ्गाचमनं भवेत् || १०० || तिलैः पुष्पकुशाग्रैश्च अद्भिः क्षीरयवैस्तथा | तण्डुलैः सर्षपोपेतमर्घ्यमेतत् प्रकीर्तितम् || १०१ || मयेयरूपसन्त्यागादाक्तशक्तिस्वरूपतः | शिवयोग्यं भवेद् द्रव्यं सा क्रिया द्रव्यशोधिनी || १०२ || कुङ्कुमं चन्दनं कुष्ठं कर्पूरागरुमिश्रितम् | गन्धद्रव्यमिदं प्रोक्तं शीतारि चाधुनोच्यते || १०३ || त्रिगुणं चन्दनं प्रोक्तं निर्यासं द्विगुणं भवेत् | अगुरुं चैकभागं स्यात् किञ्चित् कर्पूरमिश्रितम् || १०४ || शीतारिद्रव्यमेवोक्तमधुना प्लावितं तु वै | आवाहने च पूजान्ते विसर्जनान्ते योजयेत् || १०५ || अर्घ्ये विलेपने स्नाने त्रिषु गन्धं सुयोजयेत् | आवाहने तथा चार्घ्येन स्नाने धूपे विलेपने || १०६ || निवेदने विसर्जे च पुष्पमष्टसुयोजयेत् | आवाहने तथा चार्घ्ये पाद्ये स्नाने तथैव च || १०७ || प्. १२) आचमने च नैवेद्ये विसर्जे सप्तवारि च | आवाहनं पुराप्रोक्तं स्थापनार्घ्ये तथैव च || १०८ || गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च | विसर्गाचमीये च उपचारा दश स्मृताः || १०९ || गन्धपुष्पेण संयोज्य पुष्पं गन्धेन योजयेत् | धूपदीपेन संयोज्य दीपं धूपेन योजयेत् || ११० || द्रव्यशुद्धिः समाख्याता मन्त्रशुद्धिरतः परम् | नमः स्वाहा वषड्वौषट् स्वाहान्तं प्रणवादिकम् || १११ || उपांशूच्चार्य चाभ्यर्च्येत् वाचकीं होमकर्मणि | मनसान्तरजप्ये तु सर्वमन्त्रमुदाहृतम् || ११२ || मन्त्रशुद्धिः समाख्यातो लिङ्गशुद्धिरतः परम् | अभिषेके च धूपे च नैवेद्ये लिङ्गकर्मणि || ११३ || विसर्जने समाप्तौ तु महाघण्ठां प्रताडयेत् | पापिष्ठकुष्ठरोगार्तनास्तिकनामदर्शयेत् || ११४ || तत्काले तु प्रयोक्तव्यं प्रच्छन्नपटमुत्तमम् | पूजापर्युषितं पुष्पं हृदयेन विसर्जयेत् || ११५ || तत्पुष्पं संगृहीत्वा तु चण्डेशं चार्चयेद् बुधः | लिङ्गपीठस्थलं सर्वं शुद्धं कृत्वा शिवाम्भसा || ११६ || अस्त्रेण शोधयेत् सर्वं मूर्ध्निपुष्पं सदा भवेत् | गन्धपुष्पादिना पूज्य लिङ्गे सर्वाङ्गमुद्धरेत् || ११७ || प्. १३) सूत्राग्रे मुखमेवं स्याद्वक्त्रमन्त्रेण संस्पृशेत् | सूत्रपार्श्वे तु पार्श्वं स्यादघोरेण तु संस्पृशेत् || ११८ || संस्पृशेल्लिङ्गमानर्च्य लिङ्गशुद्धिर्यथा क्रमम् | महापट्टिद्विपादान्तं देव्यङ्गानि तु संस्पृशेत् || ११९ || पीठशुद्धिरियं प्रोक्ता कल्पयेदासनत्रयम् | आग्नेयादिषु कोणेषु धर्मज्ञानानि विन्यसेत् || १२० || स्वनामाद्यक्षरेणैव सिंहरूपं त्रिणेत्रकम् | शुक्लं रक्तं तथा पीतं कृष्णं सिंहस्य रूपकम् || १२१ || अधर्मादि चतुर्दिक्षु विन्यसेत् तु विशेषतः | तन्मध्ये चन्द्रमाच्छाद्य समगात्रैरुपस्थितम् || १२२ || एवं सिंहासनं कल्प्य स्वनामन्त्रेण पूजयेत् | अव्यक्तो नियतः कालः कलाश्चेति चतुष्टयम् || १२३ || चतुष्कोणेषु सर्वेषु विन्यसेद् वृत्तयेद् बुधः | एवं योगासनं कल्प्य पद्मासनमतः परम् || १२४ || मूलं नालाष्टपत्रं च कर्णिका केसरान्वितम् | पार्थिवं तस्य मूलं स्याद्विष्णुबीजं स्वनालकम् || १२५ || नवशक्त्याष्टकदलं कर्णिकासूर्यमण्डलम् | बीजं शंखनिभं नालं वैडूर्यं मणिसन्निभम् || १२६ || दलानि सर्वरत्नानि शातकुम्भं तु कर्णिका | तत् तद् बीजेन संयोज्य पद्मासनमिदं क्रमात् || १२७ || प्. १४) स्नाने चावाहने काले कल्पयेत् सिंहमासनम् | नैवेद्यार्चनकाले तु कल्पयेत् पद्ममासनम् || १२८ || पश्चाद्योगासनं कल्प्य विसर्जन विशेषतः | काष्ठादिचयने वह्नि तथावाहनमुच्यते || १२९ || विमुखीकरणं तस्य ततोद्वासनमुच्यते | आवाहनोद्वासने च शिवलिङ्गे न कारयेत् || १३० || आवाहनाख्यमुद्रेण शान्तमुद्रेण विन्यसेत् | सान्निध्यं ध्वजमुद्रेण पञ्चमुद्रां प्रकल्पयेत् || १३१ || पूजयेल्लिङ्गमुद्रेण निष्ठुरेण निरोधयेत् | सद्येनावाह्य वामेन स्थापयेत् तु निरोधनम् || १३२ || अघोरेण तु सान्निध्यं पुरुषेण विचक्षणम् | एवं सङ्कल्प्य विधिना पूजयेत् परमेश्वरम् || १३३ || अक्षपञ्चदशोपेतं पञ्चवक्त्रं सदाशिवम् | दशबाहुधरं दिव्यं दशायुधधरं शुभम् || १३४ || शुद्धचन्द्रनिभं देवं सर्वाभरणभूषितम् | दिव्याम्बरधरं सौम्यं दिव्यगन्धानुलेपनम् || १३५ || उमया सहितं देवं सर्वावयवसुन्दरम् | शूलं वज्रं च खड्गं च शक्त्याभीती च दक्षिणे || १३६ || पाशाङ्कुशौ च नागं च घण्टां वह्निं च वामके | एवं ध्यात्वा तु मनसा पादयोः पाद्यमादिशेत् || १३७ || प्. १५) मुखेष्वाचमनं दद्याच्छिरस्यार्घ्यं निवेदयेत् | पूर्वमीशानमूर्तिः स्यात् ऐश्वरी दक्षिणे तथा || १३८ || ब्रह्ममूर्तिस्तु वारुण्यां शिवमूर्तिस्तथोत्तरे | सदाशिवा तदूर्ध्वे तु पञ्चमूर्तिरिति स्मृता || १३९ || पूर्वोक्तशिवतोयैश्च स्नापयेत् परमेश्वरम् | ईशानेन तु मन्त्रेण त्रियम्बकेनाभिषेचनम् || १४० || अभिषेकान्तरे कुर्यात् पञ्चगव्यं तु देशिकः | कुडुबाज्य दधिप्रोक्तं द्विगुणं त्रिगुणं पयः || १४१ || चतुर्गुणं गोमयं च गोमूत्रं षड्गुणं भवेत् | प्रत्येकमाढकं वाथ पाद्यादि स्नपयेत् क्रमात् || १४२ || गन्धपुष्पहिरण्यादि दद्याद्रत्नोदकं तथा | वस्त्रोत्तरीयोपवीतानि गन्धं पुष्पं सुधूपकम् || १४३ || दीपनैवेद्यताम्बूले सक्षीरेणैव दापयेत् | मकुटं कुण्डलं हारं केयुरं कटिसूत्रकम् || १४४ || सर्वमाभरणं चैव दर्पणं च हृदा बुधः | एवं पूज्यविधानेन पश्चादावरणे यजेत् || १४५ || गर्भवरणयज्~आन्ते विद्येशावरणं यजेत् | आसनावरणं स्थायि विधिना चैव पूजयेत् || १४६ || कर्णिकायाश्च मूले तु गर्भावरणमर्चयेत् | कुङ्कुमद्युति संङ्काशं वक्त्रमन्त्रेण पूजयेत् || १४७ || प्. १६) हृदयं शङ्खनिभं विद्यादञ्जनाभमघोरकम् | श्यामवर्णशिखां पश्चात् सद्यं श्वेताकृतिं ततः || १४८ || क्षृणाभं कवचं विद्यात् रक्ताभं वाममेव च | धूम्रभासं शिरोविद्याद् इशानेनैव पूजयेत् || १४९ || शुद्धस्फटिक संकाशम् इशानं कर्णिके तथा | इशाने पूजयेन्नेत्रं तरुणादित्य सन्निभम् || १५० || दिक्षु संपूजयेदस्त्रं विद्युत्सदृशविग्रहम् | त्रिणेत्राश्चतुर्भुजा सर्वे षडङ्गं पञ्चमूर्तयः || १५१ || जटामकुटसंयुक्तसर्वाभरण भूषिताः | तत्तद्वर्णनिभैर्वस्त्रैस्त्रिशूलपरशूज्वलाः || १५२ || एवमेव क्रमेणैव भावयित्वा प्रपूजयेत् | माहेशं स्ताशिवं मध्ये हृदयेन तु कर्णिकाम् || १५३ || मध्यमे शिवतत्त्वं तु आत्मतत्त्वं तु दक्षिणे | इष्टोत्तरे तथा विद्याद्धृदयेन तु मन्त्रवित् || १५४ || गर्भावरणमेवोक्तं विद्येशावरणं यजेत् | जपापुष्पनिभोऽनन्तः पूजयेद्गन्धपुष्पकैः || १५५ || त्रिमूर्तिं रक्तशोभं च सूक्ष्मं वै ह्यरुणप्रभम् | श्रीकण्ठमुत्पलाभासं शिवोक्तं चैन्दुसन्निभम् || १५६ || शिखण्डिपुष्परागं स्यादेकनेत्रारुणप्रभम् | कुन्दपुष्पनिभाकारम् एकरुद्रं यथाक्रमम् || १५७ || प्. १७) एवं विद्येश्वराः सर्वे त्रिणेत्राश्च चतुर्भुजाः | सर्वाभरणसंयुक्ता जटामकुटभूषिताः || १५८ || परश्शूलधराः सर्वे तत् तन् मन्त्रेण पूजयेत् | नन्दिनं त्वञ्जनाभासं दण्डहस्तं त्रिलोचनम् || १५९ || चतुर्भुजधरं पश्चान्महाकालं रक्तवर्णकम् | त्रिणेत्रं चतुर्भुजं चैव शूलहस्तं महाबलम् || १६० || वृषभं नीलवर्णं च विघ्नेशं धूम्रवर्णकम् | त्रिणेत्रं चतुर्भुजं शूलं दन्तपाशाङ्कुशैर्युतम् || १६१ || भृङ्गीशं कुन्दवर्णाभं चतुर्बाहुं त्रिलोचनम् | रक्तवर्णं कुमारं स्याच्छक्तिहस्तं तु षण्मुखम् || १६२ || द्वादशाक्षं चतुर्बाहुं सर्वाभरणसुन्दरम् | उमा जाम्बूनदाभासा हस्ते कुसुमधारिणि || १६३ || द्विनेत्रा सुन्दराकारा पीनोन्नत पयोधराम् | वैडूर्यद्युति संकाशं चण्डेशं शूलहस्तकम् || १६४ || एवं ध्यात्वा विधानेन गणेशांश्चैव पूजयेत् | श्यामं तु पिङ्गलं धूम्रं कृष्णं श्वेतं च पीतकम् || १६५ || श्वेतं चैवे दृकोपं स्यात् पावकं कृष्णसन्निभम् | ब्रह्माणं मूध्यतः पश्चात् म्यरितिर्वारुणाध्यमे || १६६ || इन्द्रेशानकयोर्मध्ये विष्णुं चैव प्रपूजयेत् | चतुर्भुजं त्रिणेत्रं च ईशानं च प्रकीर्तितम् || १६७ || प्. १८) सप्तहस्तं त्रिणेत्रं च द्विमुखं चाग्निमेव च | चतुर्वक्त्रोऽष्टनेत्रं च ब्रह्मा चैव चतुर्भुजः || १६८ || विष्णुश्चतुर्भुजः साक्षाद् द्विलोचनसमन्वितम् | एवमेतत् क्रमेणैव भावयित्वाथ पूजयेत् || १६९ || नानावर्णमहाविद्युन्नील जीमूतसन्निभम् | नीलाग्निपद्मरागं च तुषारं चैन्द्रनीलकम् || १७० || शाबलं रक्तवर्णं स्यादस्त्राणां वर्ण मुच्यते | पद्ममिष्ट्वाथ पार्श्वे तु विष्णोश्चक्रं तु पार्श्वतः || १७१ || जायां शक्तिगदा विद्यात् पाशपद्मे नपुंसके | शेषाः पुमांसो विख्याता दशायुध त्रिधोच्यते || १७२ || तत् तन् मन्त्रैः समभ्यर्च्य प्रणवादि नमोन्तकम् | एवमावरणं पूज्य क्षेत्रपालं तु शाङ्करे || १७३ || गन्धपुष्पादिभिः पूज्य पीठपूजां समारभेत् | फलकं चतुरश्रं तु पीठोत्सेधं तु मानतः || १७४ || आर्द्रोन्मेषं च श्रीकण्ठं बीजं वा सप्तमृत्तु वा | चतुर्भुजां त्रिभेदैश्च पृथक् प्राच्छेदनां प्रति || १७५ || फलकं सममारोप्य यावद्विभवविस्तरम् | नन्दी चानी च बल्लि च प्रकुणीं च प्रणालके || १७६ || गौरिमन्त्रादि देवत्यं प्रोक्षयेत् तु कुशाम्भसा | गौरिगायत्र्या संपूज्य वटोदुम्बरमाचरेत् || १७७ || प्. ११९) सौवर्णं रजतं ताम्रं काम्स्यं वा पात्रमुच्यते | अलाभे कांस्यपात्रे तु पिष्टं भस्म तु कौसुमम् || १७८ || तत्पिष्टं पञ्चधा दीपपिष्टेनैव तु योजयेत् | प्रदोषे प्रतिदिनं कुर्यात् स्वस्तिमङ्गलवाचकैः || १७९ || आचार्यस्तु स्वहस्ताभ्यां त्रिभिः परिवृतो नयेत् | पश्चाल्लिङ्गं तु पुष्पेण त्रिभिः परिवृतो नयेत् || १८० || तत्पुष्पाणि क्षिपेञ्चाप्सु चास्त्रमन्त्रेण देशिकः | गन्धमेकावृतं नीत्वा दीपपात्रे हृदा बुधः || १८१ || तद्भस्मना च वक्त्रे तु वक्त्रमन्त्रेण संस्पृशेत् | मूर्ध्निपुष्पं न्यसित्वा तु सर्वत्र हृदयेन वै || १८२ || पात्रमुद्धृत्य बाह्ये तु पीठे चैव विसर्जयेत् | पश्चादाचमनं कुर्यान्नैवेद्यं तु प्रदापयेत् || १८३ || अभिन्नतण्डुलं शुद्धं शालितण्डुलमुत्तमम् | तण्डुलं वेणुनीवारं मध्यमं समुदाहृतम् || १८४ || कृष्णाश्च प्रहयस्मिन्ध अधमं तण्डुलं भवेत् | उत्तमं तु शतद्रोणं तदर्धं मध्यमं भवेत् || १८५ || अधमं तु तदर्धार्धं तदर्धमधमाधमम् | द्वादशद्रोणमेवं वा चाष्टद्रोणमथापि वा || १८६ || चतुर्द्रोणमथा चैव उत्तमोत्तममुत्तमम् | एवं नैमित्तिकं कुर्यात् तदर्धं नित्यमेव च || १८७ || प्. २०) नैवेद्यं दापयेद् विद्वान् खारिं वा द्रोणमेव वा | द्रोणार्धं वा तदर्धं वा तथान्यत् परिवर्जयेत् || १८८ || पञ्चवर्णं हविर्दद्यात् गुलखण्डफलैर्युतम् | नानाविधोपदंशैश्च कपिलाज्यदधि प्लुतम् || १८९ || अथवा कृष्णगोसर्पिदधि चैव प्रचोदितम् | निर्माल्यं च निवेद्यं च लङ्घने दानकर्मणि || १९० || चान्द्रायणं चरेत् तत्र गोनागानाह विक्षिपेत् | नित्याग्निकार्यं कुर्वीत पचनालयात् पावके || १९१ || चतुरश्रकुण्डमित्युक्तं मेखलाद्युपशोभितम् | अरत्निमात्रविस्तारं बिलं तन्मानमुच्यते || १९२ || स्थापयेत् स्थापको वाग्निमविच्छिन्नं तु रक्षयेत् | यावन्मूलोपचारेण तावदग्निं सुपूजयेत् || १९३ || अघोरास्त्रेण संशोध्य पूजयेद् गन्धपुष्पकैः | परितो दर्भैराच्छाद्य स्थापयेत् परिषेचनम् || १९४ || आज्यसंस्कारमेवं स्यात्पश्चादाधारमेव हि | आज्याहु दृक्षमन्त्रेण हविं हुत्वा विशेषतः || १९५ || इद्ध हुत्वा स्वाहेति षोडशं विधिपूर्वकम् | प्रणवं हुं पुरोद्धे तु हुत्वा चान्नं हुनेत् क्रमात् || १९६ || व्याहृतिभिर्हुनेत् पश्चाद् ब्रह्माङ्गानि ततो हुनेत् | कूश्माण्डं च हुनेत् पश्चात् स्विष्टमग्नौ समाचरेत् || १९७ || प्. २१) चरुहोमं पुरुषेण कारयेत् तु सदा बुधः | एकभागं तु नैवेद्यं एकभागं हुतं भवेत् || १९८ || एकभागं बलिं कुर्यात् शेषमाचार्य भोजनम् | प्रमादाभिन्नकाले तु अघोरेण शताहुतिः || १९९ || पश्चान्मूलोपचारेण कुर्याद् वै देशिकोत्तमः | परिवाराष्टकमभ्यर्च्य पुरुषादीशमाश्रितम् || २०० || वृषभं पावकं चैव सप्तमातृगणास्तथा | विघ्नं गुहं च ज्येष्ठां च दुर्गां सूर्यमिति क्रमात् || २०१ || प्रतिमायां तु पीठे वा चैष्ट वा च प्रपूजयेत् | मूर्ध्नि चाभ्यर्च्य पीठं चेन्मध्यमेखलमध्यमे || २०२ || कुक्कुटाण्डप्रमाणेन स्वाहान्तं बलिमाक्षिपेत् | लिङ्गार्चनं पुरा प्रोक्तं सकलाद्यर्चनं क्रमात् || २०३ || तदहं संप्रवक्ष्यामि पूर्वोक्तविधिनाचरेत् | सुखासनं तथा नन्दिवाहनं पुरशासनम् || २०४ || नृत्तरूपं तथा चैव चन्द्रार्धकृतशेखरम् | अर्धनारीश्वरं चैव शङ्करार्धं हरिं तथा || २०५ || चण्डेश्वरप्रसादं च कामनाशनमेव च | कालनाशं तथा चैव लिङ्गद्वादशमेव च || २०६ || कल्याणसुन्दरं चैव पुराणे संप्रकीर्तितम् | हयर्धनारीशं श्यामम् अन्येषां रक्तवर्णकम् || २०७ || प्. २२) नृत्तरूपं तु कङ्कालं दक्षिणामूर्तिमेव च | विद्यादेवमिमे सर्वे श्वेतवर्णाः प्रकीर्तिताः || २०८ || क्षेत्रपालं तथा धूम्रं चतुर्भुजत्रियक्षकम् | त्रिणेत्राश्चतुर्भुजाः सर्वे सर्वाभरणभूषिताः || २०९ || एवं ध्यात्वा तु मनसा पूजयित्वा शिवद्विजः | पञ्चशुद्धिं ततः कृत्वा पश्चाद्यजनमारभेत् || २१० || मृन्मयं लोहजा सर्वे कुर्यान्नार्द्र कृतार्चनम् | शिवाम्भः प्रोक्षयेन्मन्त्री ईशानेन कुशैस्तथा || २११ || पाद्यं दद्यात् तु सद्येन वामेनाचमनं तथा | अघोरेणार्घ्यमुद्दिष्टं गन्धं पुरुषमन्त्रतः || २१२ || पुष्पमीशानमन्त्रेण धूपदीपं तु वक्त्रतः | नैवेद्यं चैव ताम्बूलं हृन्मन्त्रेण प्रदापयेत् || २१३ || वक्त्रं तु शिरसा दद्यात् उपवित्कवचेन तु | मकुटं कुण्डलं चैव हारं केयूरमेव च || २१४ || इत्येवमादयाः सर्वे हृन्मन्त्रेण प्रदापयेत् | तस्मादावाहनं पूर्वं तथैवोद् वासनं सदा || २१५ || आसनावरणं नास्ति चण्डेशस्य निवेदनम् | सूर्यकामोथ नागेन्द्रो गुहो लक्ष्मीश्च रक्तकाः || २१६ || द्विभुजाश्च द्विनेत्राश्च चतुर्भुजगुहस्तथा | शास्तादुर्गामहामोटी ज्येष्ठाकालिसुराधिपाः || २१७ || एतेः श्यामप्रभा प्रोक्ताः द्विभूजाश्च द्विलोचनाः | एवमेव समाख्यातं भावयित्वाथ पूजयेत् || २१८ || तत् तद् बीजैः प्रकूर्वीत प्रोक्षयेच्चाभिषेचनम् | तत्त स्वनाम मन्त्रेषु शोधनदेकपञ्चकम् || २१९ || प्. २३) प्रणवादिनमोन्ताश्च पूजाकाले तु योजयेत् | दद्यात्सद्येन पाद्यं तु वामेनाचमनं तथा || २२० || अघोरेणार्घ्यमाख्यातं पुष्पमीशेन मन्त्रतः | पुरुषेण तथा धूपं दीपान्ते नैव पूजयेत् || २२१ || नैवेद्यं हृदयेनैव ताम्बूलं शिरसा ददेत् | वस्त्राभरणाञ्जनानि कवचेनात्रदापयेत् || २२२ || पीठे वा हृदये वापि जले वा भित्तिचित्रके | मृन्मये लोहजे वाथ शैलजैश्चैव पूजयेत् || २२३ || मृन्मये भित्तिचित्रे वा पादपीठं प्रपूजयेत् | अष्टादशगणानां तु स्वनामाद्यक्षरैर्यजेत् || २२४ || शिवप्रसादयुक्तानां शिवसायुज्यदेहिनाम् | स्त्रीणां चैव नरेन्द्राणां शिवभक्त स्वनामतः || २२५ || पूजाश्चैव प्रतिष्ठा च भक्त्या होमेन योजयेत् | नित्योत्सवं प्रकुर्वीत शास्त्र दृष्टेन कर्मणा || २२६ || सौवर्णं रजतं ताम्रं कांस्यं वा पात्रमुच्यते | तस्य मध्ये त्रिभागैकं कर्णिकामाचरेद् बुधः || २२७ || शिवाग्रे मण्डलं कृत्वा तत्र दत्वा हृदां बुधः | नमः शक्तिः समोपेतं पद्मगन्धादिभिर्यजेत् || २२८ || तन्मध्ये विन्यसेत् पात्रं बलिलिङ्गं तु कारयेत् | सायं प्रातः प्रकुर्वीत पुष्पलिङ्गं प्रपूजयेत् || २२९ || प्. २४) मध्याह्ने चान्नलिङ्गं तु द्वादशाङ्गुलमायतम् | प्रस्थं वा द्विगुणं मूमग्रेकाङ्गुलनाहकम् || २३० || चतुर्भुजक्षत्रवं रौद्रं वरदाभयहस्तकम् | शिखाकोटिप्रतीकाशं शूलदण्डधरं सदा || २३१ || अस्त्ररारानमेवं च ध्यात्वा चावाहयेद्धृदा | ईशानाद्यैः सुगन्धाद्यैरर्चनं क्रमशः पुनः || २३२ || विद्येशान् परितोभ्यर्च्य कौतुकं पादुकं यजेत् | गन्धपुष्पैरलङ्कृत्य सोष्णीषं सोत्तसायकम् || २३३ || धारयेच्छिरसा धीमान् सर्वदेवमनुस्मरन् | प्रदक्षिणत्रयं कृत्वा तत्र गेहं समाविशेत् || २३४ || पादप्रक्षालनं कृत्वा शिवाग्रेऽभिमुखं स्थितः | दक्षिणे चास्त्रराजानमुत्तरे चन्द्रशेखरम् || २३५ || पादुकाराधनं कुर्यात् सद्यमन्त्रमनुस्मरन् | लोकपालान् समभ्यर्च्य पादुकावृतमेव हि || २३६ || अर्घ्यं शिरसि विन्यस्य मुखेष्वाचमनं तथा | गन्धपुष्पादिना पूज्य पश्चाद्गर्भगृहं विशेत् || २३७ || विसर्जेदस्त्रराजानं हृन्मन्त्रेणैव देशिकः | बलिवाद्यध्वनी कृत्वा पिशाचाराक्षसासुराः || २३८ || ग्रामबाह्यं ततो क्षिप्रं गच्छन्ति च यथा बुधः | एवं नित्योत्सवं कुर्यादिष्टसंपत्करं नृणाम् || २३९ || प्. २५) तत्काले दीपविच्छेदे दीपद्वयं समाचरेत् | घडिके द्वे भवे स्नानं घटिकैकार्चनं भवेत् || २४० || त्रिपादं तु निवेद्यं स्यात् त्रिपादं चाग्निकार्यकम् | घटिका घटिकार्धं यत् नित्योत्सवमुदाहृतम् || २४१ || घटिकाशेषनृत्तं स्यात् सन्ध्याकाले दिने दिने | स्वगुरुं पूजयेत् पूर्वं गणेशे संप्रपूजयेत् || २४२ || स्वात्मानं पादमूले तु तर्पयेच्चुलुकोदकेः | पादप्रक्षालनं कृत्वा आचम्य विधिना बुधः || २४३ || धीमान् प्रदक्षिणं कृत्वा स्वगृहं तु निवेशयेत् | एवं यः कुरुते मर्धः आत्मार्थेव परार्थके || २४४ || परार्धं कृत्विमानीयात् एव नित्यावुभौ भुवि | रुद्रलोकात् परिभ्रष्टा नररूपेण भूगता || २४५ || पाश्चारुद्रुद्रपदं प्रप्य मोदते सहरुद्रवत् | एकलक्षं भवं भक्त्या यो दद्यात् परमेश्वरे || २४६ || तत्फलं कोटिगुणितं भक्त्यारागगुणार्चनात् | ग्रहणे विषुसंक्रान्तौ यः शिवं पूजयेत् सकृत् || २४७ || लभते षण्मासि पुण्यं पृथक् प्राक्शिवमादरात् | पूर्णमास्याममवास्यामर्चयेत् पूजयेच्छिवम् || २४८ || चतुर्मास्यकृतं पुण्यं लभते नात्र संशयः | न किंच नत्वमषका मनोवाक्कायकर्मभिः || २४९ || प्. २६) पापपाशे बद्ध्वा तु सो क्षयं नरकं व्रजेत् | तस्मात् सर्वप्रयत्नेन शिवं भक्त्या प्रपूजयेत् || २५० || इति सूक्ष्मतन्त्रे शास्त्रे प्रतिष्ठातन्त्रे अर्चनविधिपटलः || सुब्रह्मण्याय नमः | शिवाय नमः || परमगुरुवे नमः | माघमासे तु कर्तव्यं घृतकम्बलमेव च | घृतकम्बलमित्युक्तं विष्णुप्रीतिकरं भवेत् || १ || संवत्सरादिपूजायां सर्व पूजाफलप्रदम् | दिनं प्रति विशेषेण पूजाहीनं तथैव च || २ || शिवरात्रिपूज्यात् तस्मिन् सर्वपूजाफलप्रदम् | फाल्गुने दधिसंपूज्य धनपुत्रविवर्धनम् || ३ || दधि संपूजयेद् वह्नि पुरुहृत् प्रीतिरुच्यते | विषुवं प्रोक्तमेवं हि मध्याह्ने पूजयेत् तथा || ४ || चैत्रे दमनकं प्रोक्तम् ऋषिणां प्रीतिरुच्यते | वैशाखे त्रिफलं पूज्य विघ्नेशं प्रीतिरुच्यते || ५ || प्. २७) ज्येष्ठमासे तु कर्तव्यमं क्षीराभिषेचनं तथा | क्षीराभिषेकमित्युक्तं वत्सगोवर्धनं भवेत् || ६ || सायाह्नपूजनं तस्मादयनेषु विधीयते | आषाढे भस्म सम्पूज्य रुद्रप्रीतिकरं भवेत् || ७ || शर्करा श्रवणे पूज्य चन्द्रमाप्रीतिरुच्यते | प्रोष्ठे अपूपैः संपूज्य स्कन्दप्रीतिकरं भवेत् || ८ || विषु संप्रोक्तमेवं हि अर्धयामे तु पूजयेत् | आश्विनि चान्नसंपूज्य ब्रह्मणः प्रीतिरुच्यते || ९ || शिवशक्तिसमुत्पन्नं लोकस्योत्पत्तिकारणम् | ओषधिनां विपद्यर्थं बीजदानमिहोच्यते || १० || आत्मसृष्टिकरं प्रोक्तं सौख्यं लवणदापनम् | कन्यानां वस्त्रदानं स्यात् स्वर्णदानं तु कन्यकाम् || ११ || सुवर्णं लोकरक्षार्थं वस्त्रपुत्रविवर्धनम् | गौरियानं भवेत् तस्मात् सर्वप्राणिहितावहम् || १२ || कृत्तिकामासमेवोक्तं दीपपूजनमेव च | भूसुरे तु प्रसादं हि महाज्वालाधरं हरम् || १३ || लाजोपचारमेवोक्तं कृत्तिकादीपमेव च | घृतस्नानं भवेत् तस्मान्मार्ग मासे तु कथ्यते || १४ || घृतस्नानमिदं प्रोक्तं सर्वपापनिकृन्तनम् | डोलारोहणमेवोक्तं गौरीलीलाविधिक्रमम् || १५ || प्. २८) शिवशक्तिसमोपेतं डोलारोहणमेव च | पुष्यमासादि पूजा या माघमासान्तमेव च || १६ || इति सूक्ष्मतन्त्रे नैमित्तिकाण्डे घृतकम्बक पूजाविधिपटलः || अथातः संप्रवक्ष्यामि निशिपूजाविधिं शृणु | संध्यादौ कृतनृत्तं स्यात् संध्यानृत्तमथारभेत् || १ || दारुजं पृथिवी जातं शङ्खचारुछजमुच्यते | आग्नेयं लोहजं प्रोक्तं वायव्यं वंशजं भवेत् || २ || गेयं गगनजातं स्यात् तस्माद् भूतात्मिकं मतम् | एतानि पञ्चशब्दानि घोषयेत् प्रथमं ततः || ३ || लिङ्गोद्भवादिमूर्तिनां सायरक्षाविधिं शृणु | सायरक्षविहीनं च बालानां नाशनं भवेत् || ४ || राजा दुर्जयमाप्नोति शान्तिहोमं ततः कुरु | सायं काले प्रयोक्तव्यं नटेशं पूजयेत् ततः || ५ || मूलबेरविधिस्नात्वा प्र * * ह * षं ददेत् | श्वेतपुष्पैरलङ्कृत्य श्वेतचन्दनलेपितम् || ६ || श्वेतवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् | एतत्कालं समभ्यर्च्य पूर्वोक्तविधिना सह || ७ || प्. २९) नित्योत्सवविधिं कुर्याद् अर्धयामे तु पूजनम् | दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषणम् || ८ || चित्रवस्त्रैरलङ्कृत्य सर्वाभरणभूषितम् | पूजयेत् चिरशक्तिं स्यात् अर्चनोक्तपदं चरेत् || ९ || पादुकां प्रतिमां वापि पुजयेत् तु विशेषतः | पूजयेत् शक्तिमन्त्रेण शिबिकां रोचयेत् ततः || १० || शिबिकान्ते ततः कुर्यात् प्राकारे तु प्रदक्षिणम् | नृत्तं च रत्नसंख्या तु नवतालं समाचरेत् || ११ || इन्द्रादीशानपर्यन्तं शुद्धनृत्तं तु मध्यमे | इन्द्रादीशानरागं स्यद्रत्नाक नृत्तमेव च || १२ || लिङ्गस्योत्तरभागे तु पद्मपीठे तु विन्यसेत् | धूपदीपं हृदा दत्वा आचमनं ददेद् बुधः || १३ || अपूपमुद्गपिण्डं च पायसं गुलखण्डकम् | नालिकेरादि क्षीरं च कदलीपनसं क्रमात् || १४ || मुद्गान्नं च गुलान्नं च शुद्धान्नं पायसान्नकम् | कृसरान्ननिवेद्यं स्यादेतैः पञ्चान्नमेव च || १५ || गन्धमिश्रेण पानीयं हस्तोद्वर्त्तनमेव च | कर्पूरमुखवासं च ताम्बूलं च निवेदयेत् || १६ || धूपदीपादिकं सर्वम् आरात्रिभस्ममेव च | द्वारशुद्धिं ततः कृत्वा महालिङ्गं प्रपूजयेत् || १७ || प्. ३०) द्वारमध्ये तु संपूज्य प्रासादेन तु मन्त्रतः | दूर्वाक्षत पवित्रेण दर्पणच्छत्रचामरैः || १८ || यथाशक्ति जपं कुर्याद्धस्तं प्रक्षालयेत् सदा | भस्मानि दापयेत् शंभो नृपभक्तजनाय च || १९ || चण्डेशं क्षेत्रपालं च पूजयेत् तु विशेषतः | पश्चिमे सोमदिग्भागे शययास्थानं प्रकल्पयेत् || २० || शयनयन्त्रं समारोप्य शिवं शक्तिं प्रपूजयेत् | पादुका प्रतिमा वापि शयनोपरि विन्यसेत् || २१ || सोमेशमूर्तिं संपूज्य सन्निधौ पादुकद्वयम् | त्रिणेत्रं एकवक्त्रं च मृगिपरशुधारणम् || २२ || वामदक्षिणहस्तौ च अभयं वरदं न्यसेत् | व्याघ्रचर्माम्बरधरं सर्वाभरणभूषितम् || २३ || स्फटिकं शुद्धतञ्चैव श्वेतपद्मासनस्थितम् | गौरीं संपूज्य विधिवत् ताम्बूलं तु निवेदयेत् || २४ || राजवदुपचारं हि पुत्रवत्स्नेहमेव च | गुरुवद्भक्तिमेवोक्तं सर्पवद्भीतिरुच्यते || २५ || एवं नित्यक्रमेणैव रुद्रनाट्यसपादके | एवं नित्य क्रमेणैव स्वगुरुं पूजयेत् ततः || २६ || स्वात्मानं पादमूले तु तर्पयेञ्चुलुकोदकैः | विजयं ललितं सूक्ष्मं शिवोत्सवविधि शृणु || २७ || इति सूक्ष्मतन्त्रे निशिपूजाविधिपटलः || प्. ३१) अतः परं प्रवक्ष्यामि शिवोत्सवविधिक्रमम् | सूचनं सर्वलोकानां शिववक्त्राद्विनिर्गतम् || १ || संवत्सरोत्सवं पूर्वं द्वितीयं मासि चोत्सवम् | मार्गशीर्षमासादि षाण्मासं सप्तरात्रिकम् || २ || शेषमासे तु ज्येष्ठादावुत्सवञ्चेत् त्रिरात्रकम् | सर्वभूतहितं शान्तं सर्वदोषनिवारणम् || ३ || स्थापने प्रोक्षणे यागे दीक्षान्ते च विशेषतः | अयनाद्यस्तु सङ्क्रान्त्यो व्यतिपातेषु जन्मनि || ४ || अतिवृष्टिरानवृष्टौ राष्ट्रक्षोभं तथैव च | राजाभिषेके ऋक्षान्ते उत्सवं कारयेद् बुधः || ५ || सवो दुखस्समाख्यातं उत्सवस्य निवारणम् | उद्गतस्तु सवो यस्मात् तस्मादुत्सवमुच्यते || ६ || मार्गशीर्षमासे तु शिवान्तस्यात् शिवोत्सवः | पुष्यमासे तु पुष्यान्तं माघमासे मघान्तकम् || ७ || पितॄन्नुद्दिश्य कुर्वन्ति सर्वे गच्छन्ति चोद्धृताः | फल्गुने चोत्तरान्तं तु भवाद्भोगार्थमुच्यते || ८ || चैत्रे शत्रुक्षयं कुर्याद् वैशाखेऽपि तथैव च | अन्येषु सर्वमासेषु तत् तन् नक्षत्रके बुधः || ९ || शैवं गौणं प्रभूतं च भावनं दैविकं तथा | पैतृकं चैव कौमारं सावित्र्यमिति चाष्टकम् || १० || प्. ३२) एकाहं शैवनामं स्याद्गौणं त्रियाहमुच्यते | पञ्चाहं भावनं प्रोक्तं सप्ताहं च प्रभृतिकम् || ११ || नवाहं दैविकं प्रोक्तं सावित्र्यं पक्षकं विदुः | मासोत्सवं भवेन्नाम पैतृकं तत्प्रकीर्त्तितम् || १२ || षाण्मासेन तु कर्तव्यं कौमारमिति कथ्यते | उत्सवानां प्रभेदं च नामानि कथितानि वै || १३ || किञ्चिद्विशेषं वक्ष्यामि तीर्थकालं विशेषतः | उत्सवं चैव वाद्यं स्यात्प्रमादात्सङ्गतिर्यदि || १४ || दिनमेकं प्रवृद्धं च हीनं चैव न कारयेत् | रात्राधिवासनं तीर्थं सामान्यमिति विद्यते || १५ || चूर्णोत्सवादितीर्थान्तं प्रधानं सम्यगीरितम् | तस्मिन्काले तु तीर्थर्क्षे युक्तं चैव विशेषतः || १६ || तेन तीर्थं शुभं विद्यात्सर्वेषां च शिवं भवेत् | रात्राधिवासनातीर्थे तीर्थर्क्षेचन संभवेत् || १७ || तेन तीर्थेषु दोषाय महातीर्थं न दोषकम् | तस्मात् सर्वप्रयत्नेन महातीर्थं विशेषतः || १८ || तीर्थसङ्ग्रहणे काले नक्षत्रेऽपि च संभवेत् | तस्मिन्काले तु तीर्थं स्यात् सर्वसंपत् समृद्धये || १९ || महातीर्थे तु काले तु तीर्थर्क्षन्न भवेद् यदि | तस्मिन् पर्वणि संबन्धे तीर्थं कुर्याद् विशेषतः || २० || प्. ३३) पर्वसामर्थ्यं रूपेण सर्वदोषविनाशनम् | पर्वण्यसंभवे तीर्थं पूर्वेद्युः कारयेद् बुधः || २१ || उत्सवं कृत्तिकादीपं मार्गमासेन कारयेत् | तीर्थान्तान्यस्तमे चात्र वनयात्रां समाचरेत् || २२ || बलिहोमौ विना तस्मिन् अन्यत्सर्वं तु पूर्वकम् | ध्वजादि तीर्थपर्यन्तम् एकमासे तु मध्यमे || २३ || केतोरारोहणं पूर्वं तस्या नैवोत्सवं यदा | अधमन्तं च विख्याति तस्मिन् तीर्थमेव च || २४ || उत्सवस्य च मासे तु तस्मिन्मासे तु तीर्थकम् | एवं विधाने कर्तव्यं कारयेद् देशिकोत्तमः || २५ || तदनं त्रिगुणान्ये च द्विगुणान्ये तदाद्यके | ध्वजमारोपयेत् पूर्वं उत्तमं मध्यमाधमम् || २६ || ध्वजोत्थापनपूर्वे तु सप्तमे नवमे निशि | अङ्कुरानर्पयेद् विद्वान् शास्त्रदृष्टेन कर्मणा || २७ || अष्टाविंशद् दिने चैव अष्टादशस्य चोत्तरे | तद्दिनं च समारम्भे दशमे दिवसे भवेत् || २८ || दैविके चोत्सवे काले विंशदेकोन्नके दिने | अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः || २९ || एतद् दिशदिने काले अङ्कुरानर्पयेद् बुधः | भौतिके चोत्सवे काले दशपञ्चाहके दिने || ३० || प्. ३४) अङ्कुरानर्पयेद् विद्वान् द्विगुणे चाष्टमे दिने | तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् || ३१ || अन्येषु चोत्सवारम्भे कारयेद् देशिकोत्तमः | तस्मिन् मासे तु यदृक्षं उत्सवं कारयेद् यति || ३२ || तस्मिन् मासे तु तदृक्षे उत्सवं कारयेत् सदा | अन्यथा कारयेद् यस्तु राजाराष्ट्रं विनश्यति || ३३ || तस्मात् सर्वप्रयत्नेन पूर्वारम्भे तु कारयेत् | ध्वजाङ्कुरं बलिं चैव भोजनञ्चाधिवासनम् || ३४ || तीर्थस्नपनचण्डेशयागं चाष्टाङ्गमुत्सवम् | भरवञ्चैपताका वा अङ्कुरं बलिरेव च || ३५ || अधिवासनचूर्णादितीर्थस्नपनमुत्तमम् | प्रथमं रोपयेत् केतुं द्वितीयं चाङ्कुरार्पणं || ३६ || यागमण्डपसंस्कारं चतुर्थं वेदिकाणिया | पञ्चमं कुण्डसंस्कारं षष्ठं चास्त्रपरिग्रहम् || ३७ || सप्तमं चास्त्रयागं तु अष्टमं चाधिवासनम् | चूर्णोत्सवं तु नवमं दशमं चाभिषेचनम् || ३८ || एकादशं स्यात्स्नपनं द्वादशं मूर्तिपूजनम् | त्रयोदशं गणयागं चण्डयागं चतुर्दशम् || ३९ || आरोहणं पञ्चदशत्तो यागं परिकीर्तितम् | भक्तोत्सवमथ पश्चात् पुष्पयागमतः परम् || ४० || इति सूक्ष्मतन्त्रे उत्सवसूचनपटलः || प्. ३५) अतः परं प्रवक्ष्यामि तीर्थकालस्य लक्षणम् | सर्वलोकहितार्थाय सर्वभूतहिताय च || १ || अनावृष्टि विनाशाय सस्यानमपि वृद्धये | मसूरिकाविनाशाय राजाराष्ट्र सुखाय च || २ || तस्मिन् सर्वप्रयत्नेन उत्सवं कारयेद् बुधः | नृपस्य जन्मनक्षत्रे राष्ट्रजन्मर्क्षकेऽपि च || ३ || ग्रामे तु ग्रामजन्मर्क्षे नगरादौ च जन्मभे | यजमानस्य जन्मर्क्षे तेषामन्तेऽपि वा पुनः || ४ || ग्रहणे चैव सङ्क्रान्त्यावथचेनार्चयेत् ततः | अथवा मासनक्षत्रे उत्सवं कारयेद् बुधः || ५ || कार्त्तिक्यां कृत्तिकायां तु सर्वसिद्धिप्रदायकम् | मार्गशीर्षमासे तु रुद्रान्तं हि धनप्रदम् || ६ || पुष्यमासे तु पुष्यान्तं पुत्रपौत्रविवर्धनम् | माघमासे तु माघान्तं पितॄन्स्वर्गं नयेत् सदा || ७ || फाल्गुने चोत्तरायां तु विजयाद्धिदि विशेषतः | चैत्रमासे तु चित्रान्तं रिपोनोशनकारणम् || ८ || वैशाखे तु विशाखान्तं कुलत्रयविवर्धनम् | ज्येष्ठमासे तु मूलानां राज्ञां कामं दिने दिने || ९ || आषाढमासे वैश्वान्तं भोगाद्धि विजयं भवेत् | श्रावणेषु श्रविष्ठान्तं ब्रह्मणः पदमाप्नुयात् || १० || प्. ३६) प्रोष्ठान्तं भाद्रमासि स्याद् भोगजातिविवर्धनम् | अश्विन्यान्तं हि याश्वैजा सर्वरोग विनाशकृत् || ११ || सर्वमासेषु कर्तव्यं आद्रान्तं व शिवोत्सवम् | यस्मिन् संवत्सरे मासि तस्मिन् रक्षे तु कारयेत् || १२ || किञ्चिद्विशेषं वक्ष्यामि तीर्थकालविशेषतः | चित्रास्वाति च मेषे तु विशाखामैत्रभं वृषे || १३ || ऐन्द्रमूलर्क्षकन्दे च आषाढे व्याप्यवैष्णवौ | श्रावणे विष्णुवस्वर्क्षे भाद्रमासेत्वजैकपात् || १४ || तुलायां भास्करे याते चाश्विन्यां याम्यमेव च | कृत्तिका रोहणी चैव कृर्त्तिक्यां तु विशेषतः || १५ || सौम्यं चैव तथा दृचामार्गशीर्षमासके | आदित्यपूषौ पुष्ये च सर्पपित्रे च माघके || १६ || फल्गुने चोत्तराहस्ते तीर्थं कुर्यात् तु तेषु वै | पौर्णमासि कुहूश्चैव त्रयोदशिचतुर्दशी || १७ || उक्तश्च त्रिथवश्चैव तीर्थभेन युता यदि | यस्मिन् काले तु सबन्धे कुर्याद् वै देशिकोत्तमः || १८ || पूर्ववत्सरतीर्थर्क्षं तस्मिन् न हनि तीर्थकम् | विनाशेदवभृतं कुर्याश्चेदन्य ऋक्षक || १९ || रात्रौ पर्वर्क्षकं कुर्याद् दिवा ऋक्षं न दोषभाक् | योगयुक्ते तथैव स्याद् उपरागं तथैव च || २० || यस्मिन् दिनावा रात्रौ तु अमृत्यद्या भवन्ति चेत् | दिवा योगयुते यद्यात् तीर्थं कुर्यात् तु तीर्थभे || २१ || प्. ३७) न दिवा योगयुक्तोऽपि रात्रौ योगयुतेऽपि वा | यस्मिन्नाहनि तीर्थं तु कुर्यादस्तमयात्पुनः || २२ || अपरे भिन्नयोगा स्यात् तीर्थर्क्षेण युतं यदि | तस्मिन् दिने ह्यवभृतं कारयेन् न तु बुद्धिमान् || २३ || योगसामर्थ्यरूपेण पूर्वसामर्थ्यकेन वा | पूर्वेद्युरेव कर्तव्यं कर्तव्यं चैव योगतः || २४ || एवमेव प्रकारेण योगकाले तु कारयेत् | पूर्वोक्ततिथिनक्षत्रे स्वस्वयागा भवन्ति हि || २५ || तेषु कालेषु तीर्थं हि कुर्वैश्च देशिकोत्तमाः | तेषु चैकोपि हीनं चेत् तीर्थं चैव न कारयेत् || २६ || उत्सवं च तथा योगं प्रकारेणसमानतः | योगयुक्ते दिने काले तीर्थं कुर्याच्छिवोत्सवम् || २७ || अमृते वा सिद्धयोगेष्वेकर्क्षोऽपि गतं यदि | अन्येषूत्पातकालेषु कारयेद् देशिकोत्तमः || २८ || कारणं किं विशेषोऽस्ति योगसामर्थ्यस्पतः | मधुवा घृतसंयुक्तं यथा विषममाप्नुयात् || २९ || तदेवाह्यमृते नैव योगयुक्तेन निर्मलम् | भवन्तीति न सन्देहमिति शास्त्रस्य निश्चयः || ३० || एवमेव विधानेन पूर्वमेव तु लक्षयेत् | यस्मात्तज्जन्मनक्षत्रं योगेन सहितं यदि || ३१ || प्. ३८) तेन तीर्थं महाभद्रमनन्तं फलमश्नुते | नाशयोगादिभिर्युक्ते पूर्वारम्भदिने यदि || ३२ || तस्मिन् दिने न कर्तव्यं कर्तव्यं चेतु निष्फलम् | पूर्वेणारम्भतीर्थर्क्षे कारयेत् तीर्थमुत्तमम् || ३३ || एवं परीक्ष्य बहुधा कारयेद् देशिकोत्तमः | सुमुहूर्ते सुलग्ने तु स्थिराख्ये शुभविक्ष्यते (ऋक्षके) || ३४ || प्रथमारम्भकाले तु एवमेव तु लक्षयेत् | उत्तमं देवताभिश्च सहैवाप्यवगाहनम् || ३५ || मध्यमं तद्धृदाद्भिश्च संमार्जनमथापरम् | तस्मिन् काले जले ग्राह्य गजाश्वादिषु सेचयेत् || ३६ || ध्वजाङ्कुरकृतात्कालादातीर्थान्तं हि बुद्धिमान् | तयोरन्तर ऋक्षेषु नृकल्याणं न कारयेत् || ३७ || तेषु यात्रा न कर्तव्या कर्तॄणां क्लेशकृद् भवेत् | अवश्यं भवति चेद्यात्रा तीर्थस्याभ्यन्तरे विशेत् || ३८ || विशेषेण प्रवक्ष्यामि ब्राह्मणादेस्तु तीर्थकम् | माघफाल्गुनचैत्रेषु वैशाखे ब्राह्मणस्य तु || ३९ || आषाढे श्रावणे चैव तथा वै ज्येष्ठमासिके | पुष्यमासे नृपस्यैव ब्राह्मणस्य च तेऽपि च || ४० || आश्वयुक् कृत्तिकामासेर्वैश्यजातेर्विधीयते | मार्गश्रीर्षे च हैमन्ते शूद्रस्यैव विधीयते || ४१ || प्. ३९) एवमुक्तप्रकारेण कारयेद् देशिकोत्तमः | माघे चोत्तरनक्षत्रे प्रोष्ठे चैन्द्राग्निकेऽपि च || ४२ || ब्राह्मणस्य प्रकर्तव्यं त्रिष्यश्रवणकेऽपि च | मूलपुष्यनृपस्योक्तकार्तिकामश्विनि परे || ४३ || आर्द्रायां पूर्वभाद्रर्क्षे शूद्रस्य च विधीयते | सर्वेषामेव जातीनामार्द्रान्तं स्याच्छिवोत्सवम् || ४४ || वैष्णवे च पुनर्वस्वो हस्तेऽपि च तथैव च | सप्तम्यां च त्रयोदश्यां द्वादश्यां ब्राह्मणस्य च || ४५ || बुधवारे गुरोर्वारे ब्राह्मणस्य विधीयते | अङ्गारके नृपस्योक्तं भास्करे सितवारके || ४६ || वैश्यश्चैव प्रकर्तव्यं शूद्रस्यैव तथापरे | पौर्णमास्याममावास्यामष्टम्यां पर्वजातिषु || ४७ || एवमेव विधानेन कारयेत् प्रथमेऽपि च | एतेषूक्तेषु कालेषु युगयुक्ते विशेषतः || ४८ || एवमेव विधानेन कारयेदवभृतं पुनः | अवभृतस्य तु काले तु राष्ट्रक्षोभादि संभवेत् || ४९ || अति वृष्ट्यादिभिवृष्टे तीर्थयात्रा न विद्यते | तस्मिन् स्थाने जलं ग्राह्यं महाकुम्भेषु पूरयेत् || ५० || स्नपनोक्त विधानेन तीर्थं कुर्याद् विधानतः | होमं बलिं विना कुर्याद् ध्वजारोहणकालके || ५१ || प्. ४०) तीर्थर्क्षौ द्वौ तु संप्राप्ते एकमासे परं वरम् | तीर्थर्क्षे द्वे च वारे स्याद् दैविके चैवार्षके तथा || ५२ || ब्राह्मिकं तु तथेव स्यादुक्तमेवं विधिं मतम् | अष्टाविंशद् दिनेनैव अष्टादशस्य चोत्तरे || ५३ || तस्मिन्नेव समारम्भे दशमे दिवसे भवेत् | प्रोक्ते तु चोत्सवे काले विंशदेकोनके दिने || ५४ || अङ्कुरार्पणकं कुर्यात् तीर्थस्य तु विशेषतः | दैवे दशदिने काले अङ्कुरानर्पयेद् बुधः || ५५ || आर्षे चोत्सवे काले दशपञ्चाहके दिने | अङ्कुरानर्पयेद् धीमान् द्विगुणे चाष्टमे दिने || ५६ || तद्दिने च समारम्भे अङ्कुरस्यापि चाङ्कुरम् | पूर्वोक्तेन तु कालेन अङ्कुरान् सद्यरोपयेत् || ५७ || ब्रह्मिके तु तथैवं स्यादन्यत् सर्वं तथैव च | तद्दिनं त्रिगुणं चैव उत्तमं तु प्रकीर्तितम् || ५८ || द्विगुणं मध्यमं चैव तद्दिनं चाधमं भवेत् | शान्तिकं त्रिगुणे काले पौष्टिके द्विगुणे दिने || ५९ || तद्दिने कामदं चैव त्रिविधं भेदमुच्यते | तद्दिने त्रिगुणे काले अष्टादशदिने तथा || ६० || चतुर्दशदिनै चैव दशमे दिवसे तथा | मध्यमस्य तु काले तु दशमे चाष्टमे र * || ६१ || प्. ४१) तद्दिने च समारम्भे ध्वजाङ्कुरं तु वर्द्धितम् | एवमेव प्रकारेण कारयेद् देशिकोत्तमः || ६२ || शैवे शैवं प्रकर्तव्यमन्यत् सर्वं न कारयेत् || ६२ || इति सूक्ष्मतन्त्रे तीर्थकालनिर्णयपटलः || दीपावलिं प्रवक्ष्यामि यथाविधि पुरःसरम् | कृत्तिकामासि कर्तव्यं तथा पर्वदिनं शुभम् || १ || सर्वशान्तिकरं पुण्यं मासपूजाविधिं तथा | पर्वयुक्तमयुक्तं वा दिनयुक्तमथापि वा || २ || दिनं च पर्वयुक्तं तु उत्तमं तु प्रशस्यते | पर्वं प्रधानमेवोक्तं उत्तमोत्तममुच्यते || ३ || कृत्तिका भरणी मिश्रं तद्दिनं तु चतुर्दशी | अल्पवृष्टिं च रोगं च राष्ट्रक्षोभं भविष्यति || ४ || तद्दिनस्य पुरा रात्रौ अधिवासनमारभेत् | मण्डपस्यैशदिग्भागे पावके वा विशेषतः || ५ || तन्मध्ये स्थण्डिलं कृत्वा हस्तमात्रेण देशिकः | स्थलिकां तण्डुलैः पूर्य तन्मध्ये नलिनं लिखेत् || ६ || तन्मध्ये त्रिपदीं कृत्वा दीपाधरं ततः कुरु | सकलीकरणं कृत्वा पुण्याहं तत्र वाचयेत् || ७ || प्. ४२) कुण्डं वा स्थण्डिलं वापि वह्निकार्यं तदुच्यते | अग्न्याधानादिकं सर्वं यथाविधि पुरःसरम् || ८ || महेशं तु विशेषेण रक्षाबन्धं तु कर्मसु | सर्वालङ्कारसंयुक्तं सर्वमङ्गलशोभितम् || ९ || शङ्खदुन्दुभिनिर्घोषैस्ततो मङ्गलवाचकैः | अग्नेरुपसमाधाय पूर्णाहुत्यन्तमाचरेत् || १० || रुद्रसङ्ख्या नवसंख्या पञ्चविंशतिसङ्ख्यया | षट्त्रिंश तत्त्व सङ्ख्या व अष्टोत्तरशत सङ्ख्यया || ११ || पञ्चावरणकं वापि यथाविभवविस्तरैः | पोट्टलीं बन्धयेत् तत्र पात्रं प्रति नियोजयेत् || १२ || शिवाग्निं च प्रकर्तव्यं दीपमारोपयेत् ततः | धूपदीपं हृदा दत्त्वा अविच्छिन्नं तु रक्षयेत् || १३ || रात्रौ सायमिति प्रोक्तं दिवा प्रात इति स्मृतम् | मध्याह्नान्तं समारभ्य यावत् तु दशनाडिका || १४ || विशेषस्नपनं कृत्वा मूलबिम्बाग्रकैस्ततः | पञ्चगव्यं ततः कृत्वा पश्चाद्यजनमारभेत् || १५ || वस्त्रोपवीते माला च मकुटं कुण्डलं तथा | सर्वगन्धानुलिप्ताङ्गैः सर्वमाल्योपशोभितैः || १६ || पञ्चावरणमार्गेण पूजयित्वा विशेषतः | धूपदीपं हृदा दत्वा पश्चाद्धोमं समाचरेत् || १७ || प्. ४३) पूर्णाहुतिं तथा कृत्वा पश्चाद् दीपं प्रपूजयेत् | अस्तमान्तं समारभ्य दीपमादापयेत् ततः || १८ || परिचारान् समाहूय सुस्नातान् शुक्लवस्त्रकान् | सोष्णीषमुत्तरीयं च पवित्रं पणयः शुचिः || १९ || तन्मूर्ध्नि विन्यसेद् दीपं प्रासादं तु प्रदक्षिणं | स्तोत्रध्वनिसमायुक्तं शङ्खघोषसमन्वितम् || २० || प्रविशेदालयं पश्चान्मूलबिंबाग्रके ततः | देवदेवं नमस्कृत्वा अष्टपुष्पं सुयोजयेत् || २१ || धूपदीपं हृदा दत्वा देवदेवं नियोजयेत् | गर्भावरणक्रमं ह्येवं मन्त्रदीपं निवेदयेत् || २२ || शेषदीपं समादाय दण्डमूलं प्रवेशयेत् | दण्डशुद्धिं ततः कृत्वा पुण्याहं तत्र वाचयेत् || २३ || निरीक्षणं महेशान दीपमारोपयेत् ततः | उपानात् स्वपि(?) पर्यन्तं दीपमारोपयेत् पुनः || २४ || शक्तिदीपानि सर्वाणि पचनालयदापयेत् | प्राकारे गोपुरे चैव मण्डपं तु नयेत्पुनः || २५ || ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति | धूपदीपं हृदा दत्वा भस्मानि तु प्रदापयेत् || २६ || इक्षुखण्डसमायुक्तं मरिचूर्णं तु मिश्रकम् | लाजापूपफलं चैव देवदेवस्य दापयेत् || २७ || प्. ४४) प्रभूतहविषं दत्वा ताम्बूलं तु निवेदयेत् | आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः || २८ || एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् || २८ || इति सूक्ष्मतन्त्रे दीपावलिपटलः || देवदेवजगन्नाथमुमाय परमेश्वरम् | द्वारं तु पश्चिमं श्रेष्ठं इन्द्रं वचनमब्रवीत् || १ || ईश्वर उवाच | अथ संक्षेपतो वक्ष्ये अर्चनविधिमुत्तमम् | विजयं सूक्ष्मतन्त्रं च किरणं परमेश्वरम् || २ || रौरवं कामिकं चैव पश्चिमाभिमुखोद्भवम् | तस्मात्संहिता तन्त्रज्ञः सर्वकर्माणि कारयेत् || ३ || अन्येषां संहिता मिश्रं देवान् प्रति न गच्छति | पश्चिमद्वारसर्वेषां सृष्टिपूजा इहोच्यते || ४ || द्वाराधिदेवतं ब्रह्मा पूजयेत् परमेश्वरं | दक्षिणतः शास्त्रकुशलः शुचिर्मात्रस्तु पूजयेत् || ५ || देवेशं पूजयेन्नित्यं पञ्चाचार्यसमन्वितं | पूजयेत् सकलानां तु पञ्चकालकृतस्तथा || ६ || तदाचरमिदं प्रोक्तं पञ्चाचार्या प्रकीर्तिताः | पूजकं पूजयेन् नित्यं साधकं द्रव्यसाधकम् || ७ || प्. ४५) स्थलशुद्धिरलङ्कारं सर्वालङ्कारसंयुतम् | पात्रशुद्धिस्तु सर्वेषां पञ्चशोधनमाचरेत् || ८ || आचार्यः कृत्यनैमित्यपरार्थकर्म कारयेत् | अर्चनादिषु मेधा च पश्चिमद्वारसाधकः || ९ || देहशुद्धिं पुराकृत्वा द्वितीयं स्थलशुद्धिकम् | तृतीयं पात्रशुद्धिस्तु चतुर्थं लिङ्गशुद्धिकम् || १० || पञ्चमं मन्त्रशुद्धिं स्यात् पञ्चशुद्धिः प्रकीर्तिता | पूजकः पूर्वरात्रौ तु ब्रह्मचर्य समन्वितः || ११ || ब्राह्मे मुहूर्ते संप्राप्ते मन्त्रध्यानपरायणः | शिवपञ्चाक्षरं मन्त्रं सर्वपापप्रणाशनम् || १२ || ग्रामान्ते तु बहिर्गत्वा शौचं कृत्वा यथाविधि | आचम्य विधिवत् स्नात्वा देहन्यासं तु कारयेत् || १३ || प्रदक्षिणत्रयं कृत्वा शिवालयप्रवेशनम् | प्रणम्य दण्डवद्भूमौ प्रार्थयेन्मनसा शिवम् || १४ || ध्यात्वा दृष्टिस्तु नासाग्रे निर्मले द्वादशाङ्गुले | आणावादीन् शरीरेण दहेद्यावच्छिरोन्तकम् || १५ || हृत्कमलं शिवं प्राप्य दक्षिणे पुनरर्चितम् | वामनास्ये तदुद्वास्य तथा भूतं दहेत् पुनः || १६ || कलेवरं दहेद् विद्वान् भस्मकूटव्यवस्थितः | चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् || १७ || प्. ४६) अमृताप्लावनं देहे कुर्याद्वामपुटे स्थितम् | दक्षिणे रेचकं कार्यात् शरीरोत्पत्तिकारणम् || १८ || सदाशिव तनुं सत्य प्राणस्थापनमेव च | आत्मानं योजयेद् विद्वान् कुम्भकं तत्र पिण्डितः || १९ || मलपिण्डं परित्यज्य मन्त्रपिण्डं यथाक्रमम् | ततोपरिस्थितं न्यासं मन्त्रपिण्डं यथाक्रमम् || २० || स्थितिन्यासं पुरा कृत्वा सृष्टिन्यासमतः परम् | संहारं तु परित्यज्य स पूजां कर्तुमर्हसि || २१ || करन्यासं पुरा कृत्वा अङ्गन्यासमतः परम् | शिवाङ्गं दक्षिणे हस्ते विद्याङ्गं वामहस्तके || २२ || मणिबन्धे द्वयं वापि शिवे तु ब्रह्मदेवता | श्रीर्या सरस्वति चैव तलमध्ये प्रकीर्तिताः || २३ || उमादुर्गां तले बाहौ दक्षिणाङ्गुष्ठमिन्दवत् | वामाङ्गुष्ठं तु विन्यस्य संपिता च महोच्यते || २४ || इन्द्रादिब्रह्मपर्यन्तं करन्यासं प्रकीर्तितम् | नाभ्यादिपादपर्यन्तं विद्याङ्गं विन्यसेत् क्रमात् || २५ || प्रणवादिप्रणातं च अकारादिक्षकान्तकम् | अक्षरन्यासमित्याहुः सृष्टिन्यासमिहोच्यते || २६ || कलाभेदेन संयुक्तं ईशानादीनि विन्यसेत् | षडङ्गं विन्यसेत् पश्चाद् देहशुद्धिं तु कारयेत् || २७ || प्. ४७) देहं तु शोधयेत् पश्चात् स्थलशुद्धिं प्रकल्पयेत् | एतेषां परितः क्षाल्य गोमयेनानुलेपयेत् || २८ || प्रोक्षयेन्मन्त्रतोयेन स्थलशुद्धिं प्रकल्पयेत् | षडङ्गानि शरावाणि घटानि विविधानि च || २९ || अन्यानि जलभाण्डानि सौवर्णानि विशेषतः | अस्त्रेण क्षालयेद् धीमान् हुङ्कारेण तु मन्त्रतः || ३० || पात्रशुद्धिरिदं प्रोक्तं द्रव्यशुद्धिं ततः शृणु | पाद्यमाचमनं चार्घ्यं गन्धपुष्पं तथैव च || ३१ || नैवेद्यं धूपदीपादि जलद्रव्याणि शोधयेत् | पूजको देहशुद्धिं तु लिङ्गशुद्धिं च कारयेत् || ३२ || प्रविशे गर्भदेशे तु द्वारपालान् समर्चयेत् | दण्डिनं मुण्डिनं चैव स्वनामाद्यश्च पूजयेत् || ३३ || प्रविश्याभ्यन्तरं पश्चाल्लिङ्गशुद्धिर्भवेदिह | विसर्ज्येत् सर्वपुष्पाणि चण्डेशाय प्रकल्पयेत् || ३४ || प्रक्षाल्य शिवलिङ्गं तु मन्त्रपूतेन वारिण | अष्टमृत्पूरयेल्लिङ्गं सादित्वा दर्भरज्जुना || ३५ || क्षालयेत् पञ्चगव्येन लिङ्गशुद्धिर्भवेदिह | आसनं कल्पयेद् विद्वान् उत्तराभिमुखस्थितः || ३६ || योगं च विमलं चैव पद्मम् अनन्तमेव च | सिंहासनमिदं प्रोक्तं चतुरश्रं च भावयेत् || ३७ || प्. ४८) बाह्ये द्वादशसूत्रं तु पार्श्वे पार्श्वे तु तद् द्वयम् | कोणमेकैकसूत्रं तु पञ्चचन्द्रं वेष्टयेत् || ३८ || तद् बाह्ये पद्ममालोक्यं योगं चन्द्रस्य शोभितम् | कुर्यादवन्दितो रम्यं कारयेद् देशिकोत्तमः || ३९ || परार्थं पूजयेन्नित्यं उत्तराभिमुखस्थितः | तद् बाह्येन तु पद्मं स्याद् द्वादशायुधं विन्यसेत् || ४० || वज्रं शक्तिं च दण्डं च खड्गं पाशं तथैव च | अङ्कुशं च गदाश्रं च पद्मचक्रं तथैव च || ४१ || सुवज्रं हंसमूली च अण्डतुण्डस्तथैव च | पश्चिमादिषु रत्नान्तं सर्वदावरणान् न्यसेत् || ४२ || पृथिव्या सप्तधा तेजो वायुराकाशमेव च | लवणक्षीर घृतं चैव दधि च मधु एव च || ४३ || इक्षुस्वादूदकं चैव पश्चिमादि प्रदक्षिणं | भूतमावरणं कृत्वा स्वनामाद्येन पूजयेत् || ४४ || सोमाङ्गारबुधं चैव राहुकेतुस्तथैव च | आदित्यशनिशुक्रश्च मेरुसन्यो बृहस्पतिः || ४५ || एवमावरणं चैव पश्चिमादिषु पूजयेत् | मेषादिमीनपर्यन्तं कलावण्यमिहोच्यते || ४६ || द्वित्रिवेदभिद्विद्वौ तु पञ्चपञ्चक वेदकान् | षष्ठं भगणमेधावि पूर्वादारभ्य पूजयेत् || ४७ || प्. ४९) दक्षिणाश्रयवामे तु व्योकारं तत्र विन्यसेत् | मकारं च कनिस्थाने व्योकारं पश्चिमेन तु || ४८ || विकारं पश्चिमाश्रित्य नेकारं वायुगोचरे | शिकारं सोमविन्यस्य वाकारं तस्य पार्श्ववत् || ४९ || लकारे चं मीशाने न कारं पूर्वविन्यसेत् | माकारं इन्द्रमाश्रित्य प्रणवाग्नि दिशिस्तथा || ५० || दक्षिणे पद्मपुष्पं च आश्रयादि प्रदक्षिणं | व्योमावरणमित्येषां सिंहावारणकं शृणु || ५१ || धर्मज्ञानं च वैराग्यमैश्वर्यं च तथैलिका | सिंहावरणमित्येषां * * मानथ पूजयेत् || ५२ || अनन्तं पूर्वतः स्थाप्य त्रिमूर्तिमग्निमेव च | दक्षिणे सूक्ष्मं विन्यस्य श्रीकण्ठं निर्-ऋतौ तथा || ५३ || शिवोत्तमं पश्चिमे न्यस्य शिखण्डीं वायुगोचरे | एकनेत्रं तथा सोमे ईशाने एकरुद्रकम् || ५४ || अनन्तवरणं त्येषां पूर्वादीनि प्रदक्षिणम् | वामां पश्चिमतो न्यस्य ज्येष्ठे चैव तु चोत्तरे || ५५ || रौद्रीं च दक्षिणे भागे कलिं चेन्द्रदिशि न्यसेत् | कलविकरणं विन्यस्य आग्नेर्ययां दिक्षु गोचरे || ५६ || बलविकरणं नैर्-ऋत्यां बलप्रमथं वायवे | सर्वभूतमनि चैव ऐशान्यां दिशि विन्यसेत् || ५७ || प्. ५०) मध्ये मनोन्मनी देवी पद्मासनमिहोच्यते | प्रणवं पूर्वतः स्थाप्य आकारं वह्निगोचरे || ५८ || ईशाने दक्षिणे भागे ऊकारं राक्षसे दिशि | व्योकारं पश्चिमाश्रित्य षकारं वायुगोचरे || ५९ || व्योकारं सोमदिग्भागे विकारं शाङ्करे दिशि | तन्मध्ये चैव नेकारं योगासनमिहोच्यते || ६० || * * * * * * * * हरस्थानमध शृणु | पश्चिमद्वारहर्म्ये तु किङ्चिद्वारं शिवार्चनम् || ६१ || पश्चिमद्वारलिङ्गं तु दक्षिणादिश्च भारत | सर्वपापहरं पुण्यं सर्वारिष्टविनाशनम् || ६२ || सर्वसौभाग्यसंपत्तिः सर्वलोकप्रियार्थकम् | वामहस्तेन गौर्यास्तु पुत्रपौत्रविवर्धनम् || ६३ || कुलालचक्रमृद्भिस्तु नानारूपेण दृश्यते | यत्र रूपेण सङ्कल्प्य आचार्यमनसा तथा || ६४ || शिवं दक्षिणहस्ते तु गौरि दक्षिण हस्तकम् | देवेशं वाम हस्ते तु शिवद्विजस्य स्थानकम् || ६५ || आचार्यहस्तदेशं तु दक्षिणाङ्गुलि पृष्ठतः | सर्वप्रियाय हस्तं च दक्षिणे हस्तपृष्ठतः || ६६ || शिवप्रसन्नमित्युक्तम् आचार्यमनसा तथा | गौरिस्थानमिदं प्रोक्तं नैवेद्यं च शृणुष्वह || ६७ || कपित्थस्य फलं चैव यथा कुञ्जरभक्षणम् | अन्तःसारं तु सङ्ग्राह्य ग्राहते परमेश्वरः || ६८ || प्. ५१) अविदद्याविशेषेणन्तदन्ते भूतसंबलिः | इन्द्रादिबाह्यपीठान्त दिग्बलिं तत्र कारयेत् || ६९ || असुराराक्षसाश्चैव पिशाचा ब्रह्मराक्षसाः | उच्छिष्ठान्नं तथा चैव बलिं दद्याद्धविस्तथा || ७० || पूर्वादीशानपर्यन्तं महापीठे बलिं क्षिपेत् | गन्धपुष्पं च धूपं च नैवेद्यं च बलिं क्षिपेत् || ७१ || गन्धं च घोरमन्त्रेण पुष्पमीशेन दापयेत् | धूपं च अस्त्रमन्त्रेण दीपं नेत्रेण दापयेत् || ७२ || पुरुषेण हविर्दद्यात्पाद्यं सद्येन मन्त्रतः | अर्घ्यं पुरुषमन्त्रेण वामेनाचमनं भवेत् || ७३ || सर्वामन्त्राभिधानेन हृदयेनैव मन्त्रतः | पश्चिमार्चनमेतेषामुत्तरद्वारमाशृणु || ७४ || इति सूक्ष्मशास्त्रे पश्चिमद्वारार्चनं नाम नवमपटलः || ९ || करकृतमपराधः क्षतुमर्हन्ति सन्तः || अतः परं प्रवक्ष्यामि अङ्कुरार्पणमुत्तमम् | उत्सवे स्नपने चैव स्थापने प्रोक्षणे तथा || १ || सर्वमङ्गलकार्यादौ अङ्कुरानर्पयेत् क्रमात् | प्रथमम् अङ्कुरं चैव द्वितीयं चोत्सवाङ्कुरम् || २ || तीर्थाङ्कुरं तृतीयं तु तुरीयं चोत्सवाङ्कुरे | मानुषादिपिशाचान्तं मन्यानं तु प्रकीर्तितम् || ३ || प्. ५२) नवाहे प्रथमं कुर्यात् सप्ताहे च द्वितीयकम् | तद्दिने च तृतीयं स्याद्वापयेदङ्कुरं बुधः || ४ || प्रथमं च द्वितीयं च मङ्गलाङ्कुरमुच्यते | तृतीयमुत्सवाङ्गं स्यादुत्सवेषु च योग्यकम् || ५ || उत्सवादिषु कार्येषु प्रथमाङ्कुरमारभेत् | तस्मात्सर्वप्रयत्नेन तीर्थाङ्कुरमथारभेत् || ६ || सप्ताहे चैव पञ्चाहे त्रियाहे सद्य एव च | मङ्गलाङ्कुरकं कुर्यात् सर्वकार्येषु योग्यकम् || ७ || अस्त्रं च सोमकुम्भं च प्रदक्षिणविशेषतः | मङ्गलाङ्कुरकं कुर्यात् तीर्थाङ्कुरं तु वापयेत् || ८ || पालिका घटिका चैव शरावं च त्रिभेदकम् | पालिका रत्नमात्रोच्चां मात्राङ्गुलेन कारयेत् || ९ || पालिका मुखविस्तारं मायार्थं न प्रकल्पयेत् | तत् तत्रिगुणतन्नाहं पालिकापादमानकम् || १० || घटिकाघटविस्तारं षडङ्गुलमुदाहृतम् | शरावमुखविस्तारं द्वादशाङ्गुलमुच्यते || ११ || कालं भिन्नं च सुषिरं भेदं चलनभिञ्चकम् | वर्जयेत् तु प्रयत्नेन साधयेल्लक्षणान्वितम् || १२ || प्. ५३) सौवर्णे रजते ताम्रे कांस्ये वा मृन्मये तु वा | यथालाभप्रमाणेन कारयेद् देशिकोत्तमः || १३ || दर्भार्ग्रैवा कुशाग्रैर्वा निच्छिद्रं सुषिरं नयेत् | वालुकैर्गोमयेर्मृद्भिः पालिकादि प्रपूजयेत् || १४ || प्रासादस्याग्रतः कुर्यात् स्थण्डिलं चतुरश्रकम् | गन्धपुष्पादिभिः पूज्य तिलैर्दर्भ परिस्तरैः || १५ || पालिकां विन्यसेत् तत्र हृन्मन्त्रेणैव देशिकः | अश्वत्थ पत्र दर्भास्तु पालिका पादके न्यसेत् || १६ || तिलमुद्गं च माषं च कुलत्थाप्यंगुमेव च | पयसा क्षालयित्वा तु वापयेद् दशबीजकैः || १७ || पायसान्नं ददेत् पश्चात् सोमबीजेन बुद्धिमान् | ताम्बूलं दापयेत् तत्र स्वनुगुप्ते निधापयेत् || १८ || अहन्यहनि संपूज्य प्रासादेनैव मन्त्रतः | पश्चाच्छुभाशुभं वीक्ष्य शुभं सङ्गृह्य बुद्धिमान् || १९ || अशुभानि भवेत् तत्र प्रायश्चित्तादि कारयेत् || १९ || इति सूक्ष्मशास्त्रे क्रियापादे महोत्सवे अङ्कुरार्पणं नाम दशमः पटलः || प्. ५४) अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् | आचार्यो यजमानश्च चिन्तयेद् दिनसङ्ख्यया || १ || पश्चाद्ध्वजं समुत्थाअप्य त्रिगुणं द्विगुणं तु वा | तद्दिने वापि कर्तव्यमुत्तमं मध्यामाधमम् || २ || पूर्वाह्ने रोपयेत् केतुं ब्राह्मणानां हिताय वै | क्षत्रियस्य तु मध्याह्ने वैश्यानामपराह्नके || ३ || अर्द्धरात्रे तु शूद्राणां सायं शूद्रस्तु वा भवेत् | ध्वजारोहणपूर्वं तु ब्राह्मणानां हिताय वै || ४ || भेरीताडनपूर्वं तु क्षत्रियाणां प्रवृद्धये | अङ्कुरार्पणपूर्वं तु नगरे पुण्यदेशके || ५ || * * * * * * * * वैश्यशूद्रप्रवृद्धये | भेरीताडनपूर्वं तु कुर्याद् ग्रामं विशेषतः || ६ || ध्वजारोहणपूर्वं तु नगरे पुण्यदेशके | अङ्कुरार्पणपूर्वं तु भक्तानां दिक्षु कारयेत् || ७ || यः क्रियामारभेत् पूर्वं पूर्वं तां च कुर्यात् सदा बुधः | अन्यथा कारयेद् यस्तु क्रियासङ्करमुच्यते || ८ || तस्मात्सर्वप्रयत्नेन प्रथमारम्भणं शुभम् | सरलं चन्दनं चैव धातकी चम्पकं तथा || ९ || क्रमुकं नालिकेरं च बिल्वं वैणवमुच्यते | उत्तमं शतहस्तं स्यान्मध्यमं तु तदर्धकम् || १० || प्. ५५) पञ्चविंशति हस्तेन अधमं कारयेद् बुधः | अथवाष्टदशं हस्तं द्वादशाङ्गुलविस्तरम् || ११ || अथ प्रासादमानेन कारयेद्ध्वजताण्डकम् | अवक्रं निर्वृणं चैव कृमिकोटरवर्जितम् || १२ || यथामनोरमं कुर्याद्ध्वजदण्डं हि देशिकाः | षोडशाङ्गुलनाहं स्याद्दण्डाग्रे चतुरङ्गुलम् || १३ || पञ्चषट्सप्तपर्वाणि दशपर्वाणि वा पुनः | आधारफलकास्तिस्रो हस्तमात्रप्रमाणतः || १४ || वेतालसदृशाकारा अथवा योनिमार्गतः | एवमेव विधानेन कारयेद् देशिकोत्तमः || १५ || बाह्यपीठस्य चाग्रे वा गोपुरस्याग्रतोऽपि वा | व्रषालयाग्रे पृष्ठे वा शूलस्याग्रे च वा पुनः || १६ || प्रासादपुरतो वापि ऐशान्यां वाथ कारयेत् | ब्रह्मणस्य ध्वजं श्वेतं क्षत्रियस्य तु रक्तकम् || १७ || वैश्यस्य पीतवर्णं तु शूद्राणां श्याममेव च | दुकूलं पट्टवस्त्रं वा पटं कार्पासमेव च || १८ || द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् | पञ्चभागैकविस्तारं षड्भागैकमथापि वा || १९ || त्रिंशदङ्गुलमानं वा कारयेद्ध्वजतारकम् | विस्तारस्य समं पुच्छं तस्यार्धं शिखरं भवेत् || २० || प्. ५६) अथवा पुच्छतुल्यं वा पार्श्वयोरङ्गुलीकृतम् | अच्छिन्नमुत्तमं प्रोक्तं सच्छिन्नं लक्षणान्वितम् || २१ || महाध्वजं शतं हस्तं तदर्धार्धं तु षोडशम् | द्वादशं वा प्रकूर्वीत अष्टहस्तायतं शुभम् || २२ || यथालाभं गृहीत्वा तु देशकालानुरूपतः | उत्सवार्थं तु सङ्गृह्य तन्मध्ये वृषभं लिखेत् || २३ || उत्सवस्य त्रिरात्रौ तु बलिभूतं व्रजेन्नरः | पश्चाद्यागेशशलायां पूजयेत् तु शिवद्विजः || २४ || ध्वजं पटस्त्रिभागं स्यात् तन्मध्ये वृषभं लिखेत् | दर्पणं पूर्णकुम्भं च चामरं वा द्वयोर्न्यसेत् || २५ || दीपं च मङ्गलं चैव कारयेल्लक्षणान्वितम् | एवमेव विधानेन कारयेद् देशिकोत्तमः || २६ || ध्वजं पटस्य शुध्यर्थं * * मानेन प्रोक्षयेत् | पश्चाद्ध्वजं पञ्चगव्ये प्रोक्षयेच्छिवमन्त्रतः || २७ || वृषगायत्रिमन्त्रेण कुशाद्भिः प्रोक्षयेद् बुधः | दण्डं च पूर्वरत्रौ तु स्थापयेत् तु शिवद्विजः || २८ || बाहुमात्रं खनित्वा तु श्वभ्रं प्रोक्ष्य कुशाम्भसा | वृषभं कूर्मकं वापि हैमं श्वभ्रं विनिक्षिपेत् || २९ || दण्डमुत्थापयेत् पश्चाच्छिवमन्त्रेण देशिकः | सकूर्चदर्भमालं च वेष्टयेद् ध्वजदण्डके || ३० || प्. ५७) सप्तषट्पञ्चतालैर्वापि चतुस्तालैश्च वेदिकाः | ब्राह्मणादि क्रमेणैव कारयेत् तु विशेषतः || ३१ || विस्तारद्विगुणोत्सेधं पादोनं वा तदर्धकम् | इष्टिकाभिश्च मृद्भिर्वा सुधया वाथ कारयेत् || ३२ || चतुरश्रमथाष्टाश्रं वृत्तं वा कारयेद् बुधः | तदूर्ध्वे पद्ममालिख्य दलाष्टकसमन्वितम् || ३३ || त्रिमेखलानि वा कुर्यात् पादवर्गे सुशोभितम् | यथा मनोरमं कुर्यादथवा देशिकोत्तमः || ३४ || गन्धपुष्पादिना पूज्य वृषमन्त्रेण देशिकः | अस्त्रं चैव पटं चैव बिम्बाग्रे वा शिवाग्रके || ३५ || अर्चयेन्नवमन्त्रेण हविस्तत्र निवेदयेत् | त्रिशूलं च पटं चैव बिम्बं चैव विशेषतः || ३६ || ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् | होमं कृत्वा तदाग्रामे नगरादिषु कारयेत् || ३७ || पश्चात्प्रासादमावेश्य जलेन प्रोक्षयेत् पटम् | गन्धपुष्पादिभिः पूज्या पुष्पं गायत्रिमन्त्रतः || ३८ || विमानप्रदक्षिणं कृत्वा यन्त्ररूपेण रोपयेत् | अथवा बन्धमार्गेण सर्वालङ्कारसंयुतम् || ३९ || ध्वजमारोपयेद् विद्वान् उत्सवार्थं विशेषतः | स्नपनं कारयेत् तत्र पुण्याहं वाचयेद् बुधः || ४० || प्. ५८) पञ्चवर्णं हविर्दद्यात् ताम्बूलं दापयेद् बुधः | ब्राह्मणान् भोजयेत् पश्चादाचार्यं पूजयेत् सदा || ४१ || इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकादशपटलः || अतः परं प्रवक्ष्यामि भेरीताडनमुत्तमम् | ध्वजारोहणपूर्वेयु रात्रौ भेर्यास्तु ताडनम् || १ || नैवेद्यद्रव्यसर्वाणि देशिकाय प्रदापयेत् | तण्डुलस्याष्टभागं च व्यजनं षोडशांशकम् || २ || अपूपाष्टांशमित्युक्तं ताम्बूलं च तथैव च | फलादि भक्षणद्रव्यैर्दशांशं दापयेत् क्रमात् || ३ || इत्थं नैमित्तिके नित्ये काम्ये चैव प्रदापयेत् | इति सूक्ष्मतन्त्रे शिवागमे एकादशपटलः || भेरीताडनपूर्वं तु दिवारात्रौ च ताडयेत् | अङ्कुरार्पणपूर्वे तु रात्रावेव प्रताडयेत् || १ || भेरीलक्षणमार्गेण भेरिकां कारयेद् बुधः | प्रोक्षयेत् पञ्चगव्येन नन्दिगायत्रिमन्त्रतः || २ || प्. ५९) स्नपनं कारयेत् तत्र पञ्चविंशतिसङ्ख्यया | मण्डपस्य तु मध्ये तु परिवेषस्य मध्यमे || ३ || गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम् | आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् तु कुशाम्भसा || ४ || स्थण्डिलं तत्र कुर्वीत द्विहस्तेन विशेषतः | त्रिहस्तं चैव विस्तारं शालिभिश्चतुरङ्गुलम् || ५ || मध्येचाष्टदलोपेतं तिलदण्डुलसम्मितम् | धर्मेण संस्मरेद्धीमान् गन्धपुष्पादिनार्चयेत् || ६ || वामादिशक्तिविन्यस्य पूर्वरात्रेण विन्यसेत् | कर्णिकायां न्यसेत् शूलं भेरिं चान्ये तु कारयेत् || ७ || स्थण्डिलं पूर्ववत् कृत्वा मध्ये भेरिं तु विन्यसेत् | वस्त्रयुग्मपरिच्छिन्नं कुशदर्भेन वेष्टितम् || ८ || गन्धपुष्पादिना धीमान् शूलादीनि प्रपूजयेत् | क्रमेणाराध्ययत्नेन हविस्तत्र प्रदापयेत् || ९ || आचार्य ताडयेद् भेरिं वाद्यकस्ततनन्तरं | तस्मिन्देशे बलिं दद्यान्नन्दिगायत्रि मन्त्रतः || १० || ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् | त्रिशूलेन समायुक्तं सन्ध्यां सन्ध्या हि ताडयेत् || ११ || तदन्ते देवता ह्वानं कारयेत् तु विशेषतः | रात्र्यमेवं प्रकर्तव्यं नवरात्रं विशेषतः || १२ || प्. ६०) दिवा रात्रं विशेषतः | इति सूक्ष्मतन्त्रे भेरीताडनं नाम् द्वादशः पटलः || अतः परं प्रवक्ष्यामि यागमण्डपलक्षणं | गेहस्य पुरतः कुर्यादीशान्ये पावकेऽथवा || १ || दक्षिणे पश्चिमे वापि उत्तरे वापि कारयेत् | भूमिशुद्धिं पुराकृत्वा प्रोक्षयेत् पञ्चगव्यकैः || २ || उत्तमं षोडशैर्हस्तैर्मध्यमं द्वादशैस्तथा | अधमं दशहस्तैश्च नव हस्तं च सप्तकैः || ३ || ब्राह्मणादि क्रमेणैव सर्वेषां सप्तहस्तकैः | चतुरङ्गुलमुत्सेधं निम्नोनतविवर्जितम् || ४ || युग्मस्तम्भसमायुक्तं याज्ञिकैस्तरुभि शुभैः | कूटं वा मण्डपं वापि कारयेल्लक्षणान्वितम् || ५ || चतुर्द्वारविमानेन चतुर्द्वारं प्रकल्पयेत् | रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् || ६ || सप्तषट्पञ्चतालैर्वा चतुस्तालैः क्रमेण तु | ब्राह्मणाद्यैश्च कर्तव्यमुत्सेधं षोडशाङ्गुलम् || ७ || एवं हि कल्पयेद्धीमान् पञ्चचूर्णैरलङ्कृतम् | वेदिबाह्ये तु परितो नवकुण्डानि कारयेत् || ८ || प्. ६१) कुण्डवृत्तनमार्गेण तत्तद्भागेषु कारयेत् | अथवा हस्तमात्रेण कुण्डं विस्तारखातकम् || ९ || त्रिमेखलैरलङ्कृत्य चतुस्त्रिद्व्यङ्गुलायतैः | दिक्षु वै चतुराश्राणि वृत्तानि च विदिक्षु वै || १० || इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुधः | नवहोमक्रमं प्रोक्तं पञ्चहोमक्रमं शृणु || ११ || इन्द्रादि किं चतुर्दिक्षु वृत्तं कुण्डं प्रकल्पयेत् | इन्द्रेशानकयोर्मध्ये अष्टाश्रं कल्पयेद् बुदः || १२ || पूर्वे वा पश्चिमे चैव ऐशान्यादि प्रकल्पयेत् | वृत्तं वा चतुरश्रं वा कल्पयेद्देशिकोत्तमः || १३ || ऐशान्यां दिशि सङ्कल्प्य एकहोमं विशेषतः | वृत्तं वा चतुरश्रं वा लक्षणोक्तेन कारयेत् || १४ || किञ्चिद्विशेषं वक्ष्यामि होमं चैव शिवोत्सवे | नवाहे नवहोमं स्यात् सप्ताहे सप्तहोमकम् || १५ || पञ्चहोमं तु पञ्चाहे त्रियाहे त्रियहोमकम् | एकाहे चैकहोमं स्याद्धोमं कृत्वा विचक्षणः || १६ || परितो ऋत्विजानां च प्रधाने देशिकं हुनेत् | अथवा चैकहोमेन कारयेद्देशिको बुधः || १७ || गोमयालेपनं कृत्वा मण्डपं च विशेषतः | चतुस्तोरणसंयुक्तमष्टमङ्गलभूषणम् || १८ || प्. ६२) द्वारकुम्भादि संकल्प्य वितानध्वजशोभितम् | लाजैश्च विविधैः पुष्पैमण्डपं पूजयेद् बुधः || १९ || पुण्याहं वाचयेत् पश्चाच्छिल्पकर्मावसानके || १९ || इति सूक्ष्मशास्त्रे शिवागमे प्रतिष्ठातन्त्रे क्रियापादे यागमण्डपलक्षणं नाम त्रयोदशपटलः || अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् | उत्सवारम्भपूर्वे तु रथादीन् कारयेत् क्रमात् || १ || देवालयमलङ्कृत्य प्राकारं परिवारकम् | नानाध्वजादि पिंच्छानि नानाचामरकानि च || २ || तानि सर्वाणि सङ्कल्प्य प्रोक्षयेच्छिववारिणां | उत्सवस्यादिरात्रौ तु अङ्कुरार्पणमारभेत् || ३ || प्रासादस्याग्रतो वापि प्रतिमा च ततोऽपि वा | अस्तमादपरे काले पञ्चनाड्यां सुलग्नके || ४० || अथवा सप्तनाड्यां वा कारयेदङ्कुरार्पणं | लिङ्गं च कौतुकं चैव त्रिशूलं च विशेषतः || ५ || कौतुकं बन्धयेद्रात्रौ शास्त्रदृष्टेन कर्मणा | मण्डपं मार्जयित्वा तु गोमयेनानुलेपयेत् || ६ || प्. ६३) आचार्यश्च शुचिर्भूत्वा शिष्यश्चैव तथैव च | स्नानं कृत्वा यथान्यासं विधिदृष्टेन कर्मणा || ७ || ततो यागं गृहं गत्वा पादौ हस्तौ च क्षालयेत् | नासमार्ग क्रमं कुर्यात् स्थितिन्यासं विशेषतः || ८ || नववस्त्रेण उष्णीष हेमाङ्गुलिविभूषणः | सर्वाभरणसंपूर्णः सर्वलक्षणसंयुतः || ९ || अस्त्रराजेति मन्त्रेण जपेदष्टशतं क्रमात् | स्थण्डिलं कारयेद् वेद्यामष्टो द्रोणेन शालिना || १० || स्थण्डिलं तत्र कुर्वीत कर्णिकाकेसरैर्युतम् | तिलतण्डुलमिश्रं तु केसराग्रेण विन्यसेत् || ११ || दर्भैपरिस्तरं कुर्याद् गन्धपुष्पादिनार्चयेत् | कुट्टिमस्येशदिग्भागे शालिभिश्चतुरश्रकम् || १२ || त्रितालविस्तृतं कुर्यात् देष्टपत्रं सकर्णिकम् | धर्मज्ञानादि विन्यस्य आसनार्चनकर्मणि || १३ || राजतं हेमताम्रं वा मृण्मयं वापि कारयेत् | कुम्भं च वर्धनीं चैव कलशं च विचक्षणः || १४ || अधिवास्य च रात्रौ तु यागं कुर्याद्विशेषतः | वस्त्रपूतेन तोयेन पूर्णं कुर्याद् यथेप्सितम् || १५ || गन्धचन्दनतोयेन गन्धद्रव्यं विनिक्षिपेत् | कूर्चादि निक्षिपेत् तत्र पञ्चरत्नादि निक्षिपेत् || १६ || वस्त्रयुग्मेन संवेष्ट्य पट्टिकोपरि शोभितम् | तथा देव्या सहासीनं यागेशं चार्चयेत् क्रमात् || १७ || त्रिणेत्रं च चतुर्बाहुं सर्वाभरणभूषितम् | एवं ध्यात्वा तु मनसा कल्पयेदीशगोचरे || १८ || प्. ६४) स्थण्डिलोपरि विन्यस्य पुष्पमाल्योपशोभितम् | वद्धनीं हेमसंयुक्तां कलशेषुत्तरे क्रमात् प्रभोः || १९ || शिवाङ्गानि न्यसेत् तत्र उमायां विन्यसेत् ततः | गन्धैः पुष्पैश्च धूपैश्च दीपैरारात्रिकैस्ततः || २० || वेदिकोपरिमध्ये तु अथवा पूर्वपश्चिमे | सर्वालङ्कारसंयुक्तं स्तोत्रमङ्गलवाचकैः || २१ || घण्टानादसमायुक्तं शूलं कृत्वा प्रदक्षिणम् | यागमण्डपमध्ये वा स्थापयेत्पूर्वदेशके || २२ || अर्चयेद् गन्धपुष्पाद्यैर्नववस्त्रेण वेष्टयेत् | अस्त्रं तत्रैव संस्थाप्य कौतुकं बन्धयेद्धृदा || २३ || अष्टौ कुम्भानि संस्थाप्य पूर्वादीनि प्रदक्षिणम् | पृथग्वस्त्रेण संवेष्ट्य प्रधं हेमं निक्षिपेत् || २४ || अनन्तादींश्च देवांश्च तेषु कुम्भेषु पूजयेत् | दशायुधानि परितः कल्पयेद्देशिकोत्तमः || २५ || मङ्गलानि च संपूज्य स्वैस्वैर्मन्त्रैश्च पूजयेत् | द्वारादि देवताभ्यर्च्य सर्वान् देवान् प्रपूजयेत् || २६ || पुण्याहं वाचयेत् तत्र पवमानेन प्रोक्षयेत् | होमस्य दक्षिणे भागे यागेशं पूजयेद् बुधः || २७ || कुम्भं च स्थपयेत् तत्र वस्त्रकूर्चसमन्वितम् | समिधाज्य चरून् लाजान् तिलसर्षपमुद्गकैः || २८ || प्. ६५) अपूपेनाक्षतगुलैः क्षीरनिष्पावसक्तुकैः | पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि दशाक्षरैः || २९ || क्षुरिकाबीजमुख्यैश्च प्रासादेन विशेषतः | यथाक्रमेण होतव्यमष्टाविंशतिरेव च || ३० || जयादिकाभ्यातानैश्च खिष्टान्तं होममाचरेत् | शिवाग्नेरग्निं संग्राह्य सर्वकुण्डेषु निक्षिपेत् || ३१ || होमादौ तु बलिं दद्याद् ग्रामादिषु विशेषतः | होमान्ते वाथ कर्तव्यम् अथवा मध्यमेऽपि वा || ३२ || ब्रह्मादीशानपर्यन्तं इन्द्रादीशानमेव च | शुद्धान्नं दधिसंयुक्तं बलिं दद्याच्छिवद्विजः || ३३ || प्रथमं गणरात्रं तु द्वितीयं भूतरात्रकम् | ब्रह्मरात्रं तृतीयं स्याद्गान्धर्वं तु चतुर्थकम् || ३४ || पञ्चमम् इन्द्ररात्रं स्यात् षष्ठं तु ऋषिरात्रकम् | सप्तमं वैष्णवं प्रोक्तमष्टमं राक्षसं तथा || ३५ || नवमं शैवमित्युक्तं रात्रिदेवाः प्रकीर्तिताः | सप्ताहे ब्रह्मरात्रादि इन्द्ररात्रादि पञ्चमे || ३६ || त्रियाहे वैष्णवादि स्यादेकाहे शैवरात्रकम् | पक्षोत्सवे तु तिथयः रात्रिदेवाः प्रकीर्तिताः || ३७ || द्वात्रिंशद्देवतामासे षण्मासे पूर्ववत् पृथक् | आप्तोत्सवे तु तत्स्याद् देवं वै रात्रिदेवताः || ३८ || प्. ६६) शुद्धान्नं दधिसंयुक्तं प्रथमेऽहनि दापयेत् | पद्मपुष्पं सरजनी लाजसक्तुसमन्वितम् || ३९ || द्वितीये च प्रदातव्यं तृतीये पायसं ददेत् | हरिद्रान्नं ससर्पि च नालिकेरफलैर्युतम् || ४० || चतुर्थेऽहनि दातव्यं पञ्चमे घृतमिश्रकम् | गुलोदनं घृतं मिश्रं कदलीफलसंयुतम् || ४१ || षष्ठेऽहनि प्रदातव्यं सप्तमे तु रसान्नकम् | माषान्नं घृतसंयुक्तम् अष्टमेहऽनि दापयेत् || ४२ || शुद्धान्नं दधिसंयुक्तं नवमेहऽनि दापयेत् | स्वस्वैर्नामादिभिर्मन्त्रैर्ध्वजादिषु बलिं ददेत् || ४३ || शूलासनादिबिम्बेषु स्वस्वैः सङ्ग्राह्य बुद्धिमान् | संहारेषु न कर्तव्यं कर्तव्यं चेन्महद्भयम् || ४४ || यज्ञार्थं दीक्षितं बिम्बमासमुद्रान्तकारयेत् | अन्यबिम्बेन कर्तव्यं कर्तव्यं चेन्महद्भयम् || ४५ || शैवोत्सवेषु कालेषु अन्यदेवोत्सवं न च | कारयेद् यदिं मोहेन राजराष्ट्रं विनश्यति || ४६ || तस्मात् सर्वप्रयत्नेन शैवे शैवं तु कारयेत् | वैष्णवे वैष्णवं कुर्याद् बौद्धादिषु तथैव च || ४७ || एकस्मिन्नगरेऽनेकस्थानानि च भवन्ति चेत् | तेषां हि चोत्सवे स * त्गे कर्क्षे संभवेद्यदि || ४८ || प्. ६७) तेषां हि चोत्सवं कुर्यात् प्रथग् वीथीषु बुद्धिमान् | चतुष्पथे त्रिपाथे च ब्रह्मस्थानं प्रकल्पयेत् || ४९ || तस्योपपरितो वीथ्यां बलिं कुर्यात् तु देशिकः | तस्मिन् वीथ्यां प्रकर्तव्यमुत्सवं विधिपूर्वकम् || ५० || कारयेद् यदि मोहेन नान्यवीथीषु चोत्सवम् | तस्य देशाधिपत्यस्य भूनाशं तु न संशयः || ५१ || तस्मात्सर्वप्रयत्नेन बलिर्वीथ्यां तु कारयेत् | उत्सवस्य तु काले तु अतिवृष्टिस्तु संभवेत् || ५२ || पूर्वे तु कारयेद्धोमं प्रभाते च बलिं ददेत् | तस्मिञ्चैवोत्सवं कुर्यात्सर्वालङ्कारसंयुतम् || ५३ || त्रिशूलं बलिलिङ्गेन उत्तमं कारयेद्बलिम् | शूलाभावे तु बिम्बं स्यात् तदभावे तु गोलका || ५४ || तेषां च संभवं काले ह्यञ्जलिङ्गेषु कारयेत् | बलिं कुर्याद् द्विकाले तु उत्सवान्त हि दैविकम् || ४५ || अथवा चैककाले तु बलिहोमौ तथोत्सवम् | तस्मात्सर्वप्रयत्नेन कारयेद्बलिमुत्तमम् || ५६ || अन्नलिङ्गं प्रकर्तव्यं पूर्ववत् कारयेद्बुधः | बल्यर्थं स्थलिकायां तु विन्यसेद्धृदयेन तु || ५७ || चतुर्भुजं त्रिणेत्रं च दक्षिणे शूलदृग्भवेत् | पाशं वामकरे चैवमभयं दक्षिणे तथा || ५८ || प्. ६८) वरदं वामहस्तेन रौद्रदृष्टिसमन्वितम् | एवं पाशुपतं ध्यात्वा बलिलिङ्गे तु पूजयेत् || ५९ || बलिपात्रे न्यसेदन्नं सर्वद्रव्यसमन्वितम् | प्रथमे तु पताकाश्च द्वितीये वाद्यकस्तथा || ६० || तदन्ये देशिको गच्छेच्चतुर्थे शूलमुच्यते | पञ्चमे चान्नलिङ्गं तु षष्ठके कौतुकं व्रजेत् || ६१ || सर्वालङ्कारसंयुक्तमायुधं चाष्टमङ्गलम् | सभास्थाने राजगृहे देशिकस्यालये तथा || ६२ || अन्येषु शुभदेशेषु बलिं दद्याद् विशेषतः | प्रणवादि नमोन्तं तु स्वनामपदमध्यगम् || ६३ || बलिं दद्याद् विशेषेण सर्वलोकशुभावहम् | एवं बलिभ्रमं कुर्याद् बलिपीठे बलिं क्षिपेत् || ६४ || बलिपीठे बलिं सम्यग् विसर्जेद्धृदयेन तु || ६४ || इति सूक्ष्मशास्त्रे अधिवासनविधिर्नाम चतुर्दशपटलः || अतः परं प्रवक्ष्यामि कौतुकस्योत्सवं क्रमात् | कौतुकं बलिदानान्ते कुर्याद् ग्रामप्रदक्षिणं || १ || प्. ६९) रथे वा शिबिकायां वा सुखासीनादि विन्यसेत् | यन्त्ररङ्गैः समायुक्तं नानाभिन्नैरनेकशः || २ || नानाजनपदैर्युक्तं नानाध्वजसमायुतम् | नानाविधसमायुक्तं नानापिञ्छैः समायुतम् || ३ || नानाखड्गसमायुक्तं नानाश्वेतपताकया | एकं वापि त्रयं वापि चतुर्थं पञ्चधा पुरा || ४ || अग्रतो यजमानश्च आचार्यस्तदनु व्रजेत् | नानागेयसमायुक्तं नानानृत्तसमायुतम् || ५ || नास्तोत्रसमायुक्तं नानामङ्गलवाचकैः | एवमेव प्रकारेण कारयेत् उत्सवं शुभम् || ६ || ग्रामान्तरं न कर्तव्यं बिम्बं चैव तु बुद्धिमान् | ग्रामैके चैव कर्तव्यं उत्सवार्थं हि वर्त्मनि || ७ || आस्थानमण्डपे चैव देवतां स्थपयेत् क्रमात् | यथावाचकबिम्बेन कारयेदुत्सवं बुधः || ८ || देवस्य पादशुध्यर्थं पादौ पाद्यं प्रदापयेत् | रक्षादीपं शिवं दद्याद् बलिपीठे विसर्जयेत् || ९ || दृरवास्ते विमाने तु दिवा वास्तुप्रदक्षिणं | यज्ञादि दीक्षितं बिम्बं अङ्कुरस्यादि रात्रकैः || १० || ग्रामे मनोरमे देशे तीर्थान्तं स्थापयेद् बुधः | नवयात्रा परे चाह्नि आलये संप्रवेशयेत् || ११ || प्. ७०) एवमेव विधानेन कारयेद् देशिकोत्तमः | अवभृतस्य पूर्वेद्युः नृत्तबिम्बं समाचरेत् || १२ || कौतुकं पूर्वरात्रौ तु बन्धयेद् देशिकोत्तमः | ग्रामप्रदक्षिणं कुर्यात् कौतुकं मन्दिरेऽपि वा || १३ || देवं देवीं स्वमन्त्रेण दक्षिणे चापरे करे || पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः || १४ || रक्षाबन्धविधानेन कारयेद् देशिकोत्तमः | देवस्य दक्षिणे हस्ते कुर्यात् सूत्रादिभिर्बुधः || १५ || आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः | प्रातःकाले समभ्यर्च्य आनीया मण्डपे शुभे || १६ || यथाशक्ति विधानेन स्नपनं कारयेद्बुधः | त्रियम्बकेन मन्त्रेण अर्चयेन्नृत्तबिम्बकम् || १७ || सौवर्णं च घृतं चैव दृष्ट्या चैव महेश्वरम् | पश्चाद् देव्यास्तथा दृष्ट्या आचार्याय प्रदापयेत् || १८ || पश्चाद्दानादि सर्वाणि कारयेच्छक्तितः क्रमात् | पुण्याहं वाचयेत् तत्र ब्राह्मणान् भोजयेत् ततः || १९ || पञ्चवर्णं हविर्दद्यात् प्रासादेनैव मन्त्रतः | गन्धयुक्तिविधानेन कारयेद्गन्धमुत्तमम् || २० || अथवा शुद्धदेशे तु गन्धं सङ्ग्राह्य बुद्धिमान् | हृदयेनैव मन्त्रेण प्रोक्षयेद् गन्धवारिणा || २१ || प्. ७१) पश्चाद् देवं तथा देवीं तत् तन् मूलेन लेपयेत् | अस्त्रस्य दीक्षितस्यैव मूललिङ्गस्य दापयेत् || २२ || पश्चाच्चण्डेश्वरस्यैव भक्तानां चैव दापयेत् | सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् || २३ || नानागेयसमायुक्तं नानानृत्तसमन्वितम् | शनैः प्रदक्षिणं कुर्यान्नदूरं न समीपतः || २४ || ग्रामस्याभिमुखं चैव तेनैव च निवर्तनम् | संहिते संहितं कुर्याद् भिन्ने भिन्नं समाचरेत् || २५ || मध्याह्नात् पुरतो नास्ति अथवा विंशते क्रमात् | पश्चाद्धोमं बलिं कुर्यादुत्सवं तदनु व्रजेत् || २६ || यज्ञार्थदीक्षितं बिम्बं दिवाकाले तथा भवेत् | रात्रावेवं प्रकर्तव्यमुदयादपरेन हि || २७ || पश्चाद् भक्तजनैः सार्धमभिषेकोदकं नयेत् | देवस्य विसृजेदृक्षां गन्धं चैव तु वर्जयेत् || २८ || स्नपयेद् देवदेवेशं महाव्योमेति मन्त्रतः | देव्यां च कारयेत् तद्वच्छक्तिमन्त्रेण बुद्धिमान् || २९ || पावमानेन संप्रोक्ष्य गन्धपुष्पादिभिर्यजेत् | पश्चान्निरञ्जनं कुर्याच्छास्त्रदृष्टेन कर्मणा || ३० || अपूपादि तदा दद्याद्यथाविभवविस्तरैः | प्रभूतं च हविर्दद्यात् सहसर्वोपदंशकैः || ३१ || प्. ७२) नृत्तं हि कारयेत् पश्चात् सर्वालङ्कारसंयुतम् | परिवेषक्रमं कुर्यात् साये चैव विशेषतः || ३२ || यागेशं पूर्वतो गत्वा पश्चान्नृत्तेशकं व्रजेत् | पश्चाच्छण्डेशकं कुर्यात् सर्वालङ्कारसंयुतम् || ३३ || ग्रामप्रदक्षिणं कुर्यात् सन्ध्यां सन्ध्यां हि नृत्तकः | आलयं प्रविशेद्धीमान् ब्राह्मै चैव मुहूर्तके || ३४ || परिवेष्मण्डपे स्थाप्य पादौ पाद्यं हि कारयेत् | पश्चाद्विसृज्य निर्माल्यम् अभिषेकं हि कारयेत् || ३५ || गन्धपुष्पादिभिः पूज्य देवं देवं विशेषतः | पश्चानिरञ्जनं कुर्यात् प्रभूतं हविषन्ददेत् || ३६ || पश्चाद्भक्तजनानां तु भोजयेद् देशिकोत्तमः | एवमेव विधानेन कारयेद् देशिकोत्तमः || ३७ || सर्वालङ्कारसंयुक्तं प्रासादे स्थापयेद् बुधः | मूलबिम्बं विशेषेण पूजयेत् पूर्वमार्गतः || ३८ || आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः || ३८ || इति सूक्ष्मशास्त्रे कौतुकोत्सवं नाम पञ्चदशः पटलः || अतः परं प्रवक्ष्यामि तीर्थारम्भाधिवासनम् | तीर्थादि पूर्वरात्रौ तु कौतुकं बन्धयेद्धृदा || १४ || प्. ७३) विसृज्य कौतुकं पूर्वं कौतुकं च विशेषतः | हैमैर्वा रजतैर्वापि क्षौमकार्पासकेन वा || २ || आलयस्याग्रतः कुर्याद्गोमयेनानुलेपयेत् | स्थण्डिलं कारयेत् तत्र शालिभिश्चतुरङ्गुलम् || ३ || तण्डुलैः पूरयेत् पात्रं तन्मध्ये कौतुकं न्यसेत् | विमानप्रदक्षिणं कृत्वा पुण्याहं वाचयेद् बुधः || ४ || शिवगायत्रिमन्त्रेण अस्त्रबिम्बं च बन्धयेत् | आधिवासनं ततः कुर्याद् ब्राह्मी चैव विशेषतः || ५ || मण्डपं मार्जयित्वा तु गोमयालेपनं कुरु | वितानोपरि संपाद्य मुक्तादामैरलङ्कृतम् || ६ || अङ्कुरैः धूपदीपैश्च अष्टमङ्गलकैर्युतम् | तण्डुलैस्तिलदर्भैश्च सम्यगष्टदलं लिखेत् || ७ || तन्मध्ये विन्यसेत् कुम्भं शूलं तत्रैव विन्यसेत् | अष्टौ घटानि परितः स्थापयेदष्टमूर्तिकान् || ८ || गन्धपुष्पादिभिः पूज्य वस्त्रगन्धसमायुतम् | पश्चाद्बिम्बं तु संस्थाप्य मूलबिम्बं विशेषतः || ९ || त्रिशूलेन समायुक्तं नद्यां वापि तटाकके | गच्छेत् समतले सम्यक् स्थण्डिलं कारयेद्बुधः || १० || अस्त्रं चैव तु संपूज्य तस्याग्रे कलशं न्यसेत् | अस्त्रगन्धसमायुक्तान् सकूर्चान् सपिधानकान् || ११ || प्. ७४) सप्तगङ्गादिकान् पूज्य अस्त्रप्रतिममानयेत् | गन्धपुष्पादिभिः पूज्य शूलगायत्रिमन्त्रतः || १२ || सर्वालङ्कारसंयुक्तं शूलं यागे तु वेशयेत् || १२ || इति सूक्ष्मतन्त्रे तीर्थसङ्ग्रहं नाम षोडशः पटलः || अतः परं प्रवक्ष्यामि चूर्णोत्सवविधिक्रमम् | पूर्वोक्तेन विधानेन होमं बिम्बं च कारयेत् || १ || पश्चाच्छिवोत्सवं कुर्यात् सर्वालङ्कारसंयुतम् | रजनीचूर्णस्यारम्भमुत्सवान्ते विशेषतः || २ || प्रासादस्याग्रतो वापि कौतुकस्याग्रतोऽपि वा | स्थण्डिलं चतुरश्रं तु अष्टद्रोणेन शालिना || ३ || तिलदर्भैस्समाकीर्य स्थण्डिलं त्रीणि विन्यसेत् | एकस्मिन्नस्त्रसंस्थाप्य मध्ये तालं च विन्यसेत् || ४ || अपरे रजनिं स्थाप्य तस्मिन् च मुसलूखले | अर्चयेत् तु क्रमेणैव तत् तन् मन्त्रेण देशिकः || ५ || अस्त्रेण वेष्टयित्वा तु लूखलं मुसलं तथा | अर्चयेद्गन्धपुष्पाद्यै बिम्बं चास्रं विशेषतः || ६ || घृतं शिरोर्पणं कुर्यात् कौतुकानां विशेषतः | हृदा निक्षिप्य रजनिं चूर्णयेद्धृदयेन तु || ७ || प्. ७५) त्रिद्वित्रियं मुसलादाया गणिकाभिश्च चूर्णयेत् | पशाद्भक्तजनैश्चैव कारयेत् सुमुहुर्मुहुः || ८ || पुनश्चूर्णं समादाय त्रिषु पात्रेषु निक्षिपेत् | गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः || ९ || पश्चाल्लिङ्गे प्रदातव्यं तदेकं प्रतिमादिषु | यागमूर्तेस्तथा चैव चूर्णं तैलं च दापयेत् || १० || परिवारेषु कुर्यात् तु तत् तन्नामादिभिर्बुधः | पश्चाद् भक्तजनानां तु चूर्णं तैलं च दापयेत् || ११ || ग्रामप्रदक्षिणं शीघ्रं त्रिशूलेन समायुतम् | बलिमादिक्रमेणैव चूर्णं तैलं च दापयेत् || १२ || पश्चात्प्रासादमावेश्य गन्धपुष्पादिभिर्यजेत् || १२ || इति सूक्ष्मतन्त्रे चूर्णोत्सवं नामा सप्तदशपटलः || अतः परं प्रवक्ष्यामि समुद्रस्नानमुत्तमम् | सर्वपापहरं चैव सर्वतीर्थफलप्रदम् || १ || नवकुम्भान् समादाय सूत्रेण परिवेष्टयेत् | पूरयेद्गन्धतोयेन कूर्चं तत्र विनिक्षिपेत् || २ || सर्वेषु कलशेष्वेवं चूतपल्लवशोभितम् | वज्रादीनायुधान् ग्राह्य कलशानभिगद्यते || ३ || प्. ७६) ततः शङ्खादिनादैश्च गीतनृत्तसमाकुरु | भेरिमर्दलपटहं तालघोषसमायुतम् || ४ || ग्रामप्रदक्षिणं कुर्याच्छूलबिम्बं विशेषतः | समुद्रेऽपि च नद्यां वा तटाके वा नयेद्बुधः || ५ || जलतीरे समागम्य प्रपां कुर्याद् विशेषतः | पूर्वाभिमुखमास्थाप्य कौतुकं च विशेषतः || ६ || त्रिशूलं तस्य पुतः स्तथाग्रे कलशान् न्यसेत् | स्थण्डिलं कारयेत् तत्र तिलदर्भैस्समन्वितम् || ७ || कलशान् स्थापयेत् तस्मिन् आयुधानि च विन्यसेत् | अर्चये गन्धपुष्पाद्यै कलशादीन् पृथक् पृथक् || ८ || पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् | आहूय देवतां सर्वां सभृया च समाप्यध || ९ || मनसा पूजयेत् सर्वान् हृदयेन तु देशिकः | घटाभिषेकं कुर्वीत बिम्बं शूलं विशेषतः || १० || पश्चाज्जलान्ते शूलं तु आचार्येण सहैव तु | स्नानं लोकहितार्थाय तीर्थे संस्थाप्य शूलिनम् || ११ || रात्राधिवासितान् कुम्भान् त्रिशूले स्थापयेद् बुधः | चक्रवत्युपचारेण कौतुकं स्नापयेद् बुधः || १२ || आयुधानि जले क्षिप्त्वा अष्टमङ्गलमेव च | पश्चात् संपूज्य देवेशं मन्त्रं चैव विशेषतः || १३ || प्. ७७) दूकूलपट्टदेवाङ्गैः वेष्टयेद्वस्त्रमुत्तमम् | त्रिशूलस्य तथैव स्यादाचार्यस्य तथैव च || १४ || आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः | ब्रह्मघोषसमायुक्तं सर्वालङ्कारसंयुतम् || १५ || ग्रामप्रदक्षिणे नैव यागस्थान निवेशयेत् | परिवेष्मण्डपे चैव यागार्थं कौतुकं न्यसेत् || १६ || स्विष्टान्तं होमयेद्यागे स्वस्वमन्त्रैश्च देशिकः | प्रभूतं च हविर्दद्या यागादीनां विशेषतः || १७ || पश्चाच्छूलं च कुम्भानि सर्वालङ्कारसंयुतम् | विमानप्रदक्षिणं कृत्वा लिङ्गाग्रे स्थापयेद्बुधः || १८ || शिवमाराध्य यत्नेन कारयेदेशिकोत्तमः | अपरे दिवसे चैव * व यात्रां समारभेत् || १९ || तीर्थार्थं कौतुकं मक्त्यवनयात्रार्थ कौतुकम् | कारये तु विशेषेण कौतुकं बन्धयेद्धृदा || २० || पूर्वं दिव चतुर्दिक्षु गन्तव्यं वनयत्रकम् | स्थानान् स्थानान्तरं वापि अन्यथा च मनोरमम् || २१ || पूर्वेद्युर्वा प्रकर्तव्यं वनयात्रां च देशिकः | यागार्थदिक्षितं बिम्बं पूर्वस्मिन् दिवसेन च || २२ || अदिक्षितानां बिम्बानां कारये तीर्थपूर्वके | यज्ञार्थदीक्षितं बिम्बं ग्रामबाह्ये निवेशयेत् || २३ || प्. ७८) वेशयेद् यदि मोहेन राक्षसाद्या विशन्ति हि | तस्मात्सर्वप्रयत्नेन यागबिम्बं च पूर्वकम् || २४ || युद्धारम्भप्रभावेन सर्वायुधवराञ्जनान् | देवदेवं विशेषेण दिव्यगन्धेन लेपयेत् || २५ || नानावद्यसमायुक्तं नानागेयसमन्वितम् | नानामृदङ्गसंयुक्तं नानावाहनसंयुतम् || २६ || एवं प्रदक्षिणं देवं कुर्याद् ग्रामादिकं ततः | जलाक्रिय वने कुर्यान् मृगकुम्भमलिलया || २७ || एवमेव विधानेन कारये तु वने बुधः | यात्रामण्डपमध्ये तु यात्राहोमं प्रतापयेत् || २८ | समिदाज्यचरुन्लाजान् होमयेद्राक्षद्राक्ष सप्रयम् | राक्षसायेति मन्त्रेण अष्टाविंशति सङ्ख्यया || २९ || सकलानि च मांषानि वने चैव बलिं क्षिपेत् | पश्चाद् देवेशसंपूज्य प्रभूतं च हविर्ददेत् || ३० || ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः | ततो भक्तजनान् सर्वान् भोजयेद्भक्तिमान्नरः || ३१ || पश्चाद् देवं च देवीं च भूषयन्तु विशेषतः | अश्वत्पृष्ठसमास्थाय यन्त्ररूपेण निर्मितम् || ३२ || ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् | प्रासादस्य समीपे तु शम्भुशक्त्या निवारितः || ३३ || प्. ७९) पश्चात् तु देव्यारूपेण प्रासादं संप्रवेशयेत् | विना ग्रामबलिं तस्मिन् होमं चैव न कारयेत् || ३४ || विधिं विसर्जयेत् तत्र मूलस्थाने निवेशयेत् || ३४ || इति सूक्ष्मशास्त्रे समुद्रस्नानं नाम अष्टादशपटलः || अवभृतानन्त्रियेषु पञ्चमे सप्तमेऽपि वा | ध्वजावारोहणं कुर्याच्चण्डयागसमन्वितम् || १ || वनयात्रा परं चैव स्नपनं तत्र कारयेत् | चण्डयागस्य पूर्वेद्युः कारयेन्मण्डपं शुभम् || २ || नवाष्टसप्तहस्ते च कारयेत् तु विशेषतः | तन्मध्ये कुट्टिमं कुर्यात् पञ्चतालप्रमाणतः || ३ || षोडशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् | चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् || ४ || अलङ्कारादिभिर्भूष्य शालिपिष्टैर्विचित्रयेत् | स्थण्डिलं कारयेत् तत्र तिलदर्भै परिस्तरैः || ५ || स्थापयेत् कलशान् मन्त्रि चण्डमन्त्रमनुस्मरन् | कूर्चानिक्षिपेत् तत्र वस्त्रैराच्छादयेद् बुधः || ६ || गन्धपुष्पादिभिः पूज्य अष्टविद्येश्वरैर्युतम् | चण्डेशं स्थापयेत् तत्र चण्डमन्त्रमनुस्मरन् || ७ || प्. ८०) अविर्निवेदयेत् पश्चात् ताम्बूलं तत्र दापयेत् | ब्रह्मचारि शुचिर्भूत्वा चण्डवत्साधको चरेत् || ८ || ग्रामप्रदक्षिणं कृत्वा बलिं दत्व विशेषतः | देवतोद्वासं कुर्याद् ध्वजं तत्र विसर्जयेत् || ९ || रज्जुध्वजपटं चैव देशिकायां प्रदापयेत् | टङ्केन छेदयेद् दण्डं चतुर्दिक्षु विशेषतः || १० || अन्त * * * दण्डं च गृहीयाद् देशिकोत्तमः | पञ्चगव्येन संप्रोक्ष्य पश्चात् तेनैव रोपयेत् || ११ || एकाहे वापि कुर्याश्चे ग्रामे बलिंस्तु कारयेत् | पश्चाद्ध्वजं विसृज्याथ चण्डेशं पूजयेत् ततः || १२ || आचार्यं पूजयेत् पुर्वं पश्चाद् यागं विसर्जयेत् | यागोपकरणं सर्वम् आचार्याय प्रदापयेत् || १३ || इति सूक्ष्मतन्त्रे ध्वजारोहणं नाम एकोनविंशतिपटलः || अतः परं प्रवक्ष्यामि भक्तोत्सवविधिं शुभम् | ध्वजारोहणं ते तु त्रिदिने पञ्चमे दिने || १ || पञ्चमे दशमे चैव द्वादशे पञ्चत् शह्निके | उत्सवार्थं च बिम्बं च त्रिशूलं च विशेषतः || २ || प्. ८१) तद्दिष दिवसात्पूर्वे रक्षाबन्धं तु कारयेत् | प्रातःकालं तु संस्थाप्य स्नपनं पञ्चविंशति || ३ || स्नपनाभावे तु संप्रोक्ष्य बिम्बशूलं विशेषतः | हविर्णिवेदयेत् तत्र प्रासादेन तु मन्त्रतः || ४ || मूलबिम्बे तथैवं स्यात् प्रासादेन दशाष्टकम् | समिदाज्यचरूलाजान् प्रत्येकं च विशेषतः || ५ || तस्यान्तेव बलिं दद्यात् द्विमाने वापि कारयेत् | तस्यान्ते चेत्सवं कुर्यात् सर्वालङ्कारसंयुतम् || ६ || भक्तानां परिचाराणां भोजयेद्भक्तिमार्गतः | सायंकालेऽपि कर्तव्यं प्रातःकालेऽथवा भवेत् || ७ || प्रासादं संप्रविश्याध उक्तमार्गेण चार्चयेत् | पश्चात् तु कारयेन्नक्तं सर्वालङ्कारसंयुतम् || ८ || होमं बलिं विना वाथ सामान्येनापि कारयेत् | एवमेव विधानेन कारयेदुत्सवान्तके || ९ || एवं यत् कुरुते मर्त्यः अनन्तफलमश्नुते | हिहैव धनवान् श्रीमान् शिवलोके महीयते || १० || इति सूक्ष्मतन्त्रे भक्तोत्सवं नाम विंशतिपटलः || प्. ८२) पुष्पचूर्णविधि | अतः परं प्रवक्ष्यामि पुष्पचूर्णविधिक्रमम् | भक्तोत्सवान्तकर्तव्यं मादावपि च कारयेत् || १ || प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् | यागमण्डपमार्गेण कारयेत् पूर्वमार्गतः || २ || मध्यमे वेदिकां कुर्यात् पञ्चतालप्रमाणतः | द्वादशाङ्गुलमुत्सेधं दर्पणोदरसन्निभम् || ३ || तत्पूर्वे चतुरश्रं तु कुण्डं तत्रैव कारयेत् | अस्त्रं च कौतुकं चैव पश्चिमे स्थापयेद् बुधः || ४ || श्वेतपुष्पाणि सर्वाणि स्थापयेद् देशिकोत्तमः | पञ्चगव्येन संप्रोक्ष्य पावमानेन प्रोक्षयेत् || ५ || पश्चात् पुष्पाणि संग्राह्य नवपात्रे विशेषतः | स्थण्डिलं कारयेद् वेद्यां नवकुम्भानि स्थापयेत् || ६ || सकूर्चान् सवस्त्रसंयुक्तान् सहैमान् वारिपूरितान् | गन्धपुष्पादिना पूज्य दशायुधानि विन्यसेत् || ७ || तोरणानि च संकल्प्य द्वारकुम्भैरलङ्कृतम् | एवमेव विधानेन कारयेद् देशिकोत्तमः || ८ || पश्चाद्धोमं प्रकर्तव्यं उत्सवस्यैकहोमतः | रात्रौ हेवं प्रकर्तव्यं प्रातःकाले शिवं यजेत् || ९ || पश्चात् पुष्पाणि संपूज्य शिवस्योपरिविन्यसेत् | अस्त्रं च कौतुकं चैव यथालाभं प्रमाणतः || १० || प्. ८३) पुष्पाणि दापयेद् विद्वान् प्रासादेन तु मन्त्रतः | प्रभूतहविषं दद्याद् भक्तानां दापयेत् क्रमात् || ११ || अपरे दिवसे प्राप्ते पुष्पाणि च विसर्जयेत् | सध्यालोपं न कर्तव्यं पुष्पाह्योपरि पूजयेत् || १२ || पश्चात् कुम्भानि संस्थाप्य मूलं कौतुकमेव वा | पूर्णाहुतिं ततो दद्यात् प्रासादेन तु मन्त्रतः || १३ || भूपतं च हविर्दद्यात् प्रसादेन तु मन्त्रतः | नवाहे चैव सप्ताहे पञ्चाहे त्रियहेऽध वा || १४ || एकाहे कारयेद्धीमान् पुष्पचूर्णं सलक्षणं || १४ || इति सूक्ष्मतन्त्रे पुष्पचूर्णविधिं नाम एकविंशतिपटलः || प्रायश्चित्तम् | अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् | प्रायप्रहिणमित्युक्तं चित्तं मुद्भवमुच्यते || १ || प्रहीणस्य तु सन्धानात् प्रायश्चित्तमिति स्मृतम् | आचार्यादि चतुर्णां तु प्रायश्चित्तं विधीयते || २ || नित्यस्नानादि हीने तु कुण्डे वा स्थण्डिले बुधः | आघोरास्त्रेण मन्त्रेण त्रिंशत्याहुतिर्भवेत् || ३ || प्. ८४) सन्ध्यावन्दनहीने तु सूर्यमन्त्रं शतं जपेत् | ब्रह्मणान् भोजयेत् तत्र ततः कर्म समारभेत् || ४ || अग्निकार्यविहीने तु शिवमन्त्रशतं जपेत् | देशिकः शिवमन्त्रेण अष्टोत्तरशताहुतिः || ५ || पश्चादग्निसमभ्यर्च्य नित्यकर्मसमाचरेत् | निर्माल्यं लङ्घने दाने पतिते दूषिते स्वयम् || ६ || महाव्योमेन मन्त्रेण सहस्रवरणं जपेत् | निर्माल्यभक्षणं चे तु हृदयेन् शताहुतिः || ७ || पश्चात् संपूजयेत् सन्ध्यां प्रासादेन शतं जपेत् | पर्युषितैश्च पुष्पैश्च प्रासादात्पूजयेद्धरम् || ८ || तत्पुष्पं वर्जयेद्धीमान् षडङ्गैश्च विशेषतः | नवकुम्भानि संस्थाप्य पुनः पूजां समारभेत् || ९ || बीजमुख्येन मन्त्रेण अष्टोत्तरशताहुतिः | हीनाङ्गं चाधिकां च वर्जये देशिकं सदा || १० || अङ्गहीनो दुराचारो दीक्षाहीनो मदान्धकः | वृषलीदोषभाग् विप्रो स्पर्शनं त्वध वर्जयेत् || ११ || आत्मार्थं पूजयेत् तेन परार्थं न कदाचन | प्रमादाद्यज्ञकाले तु अङ्गहीना भवेद् यदि || १२ || स्नानं तत्र प्रकुर्यात् तु सहस्रकलशै क्रमात् | महाव्योमेन मन्त्रेण अङ्गस्य तु सर्वधा च न कारयेत् || १३ || प्. ८५) अधिकायाङ्गहीने तु पुनर्योज्यं विशेषतः | अङ्गदोषो न दोषाया आत्मदोषं च वर्जयेत् || १४ || एकपादेन सदा | प्रमादाद्यज्ञकाले तु सुरापानं तु संभवेत् | मरणान्ताद्विशेषेण कृच्छ्रचान्द्रायणं चरेत् || १५ || प्रमादाद्वृषलीयोगादेकरात्रं विशेषतः | पञ्चगव्यं पिबेत् तत्र ब्रह्मकूर्चं विशेषतः || १६ || * * * * * * * ने तत्क्षणात् पतितो भवेत् | पश्चाच्छूद्रत्वमायाति प्रयश्चित्तं न विद्यते || १७ || सकामाद्विषलियोगादेकरात्रं विशेषतः | अघोरेणैव मन्त्रेण जपेत् कोष्ठे सदा व्रजेत् || १८ || एवं विधिप्रकारेण कारयेद् वत्सरत्रयात् | कृच्छ्रचान्द्रायणं कृत्वा पश्चाव्योमेन मन्त्रतः || १९ || तिलाक्षं तु भवेत् तत्र व्योमेन चरुणा सह | ब्राह्मणान् भोजयेत् तत्र पश्चादन्नम् च निष्ककम् || २० || एवं कुर्याद्विशेषेण ब्रह्मघ्नं चैव तत्समम् | महात्राह पितृहा चैव तद्वद् देवस्वहारिणम् || २१ || त्रिगुणं द्विगुणं दत्वा हरणद्रव्यमुत्तमम् | शिवदानं ततः कृत्वा देवदेवं क्षमापयेत् || २२ || गरुद्रव्यस्य हरणे त्रिगुणं तु ददेत् गुरौः | गुरोः पितृकरं कुर्यात् गुरौ नामं सदा जपेत् || २३ || प्. ८६) आचार्ययाचनाद्धेतो अघोरेणैव मन्त्रतः | घृतेन हविषा चैव सहस्रं च हुनेत् क्रमात् || २४ || पश्चाज्जपं प्रकुर्वीत ब्रह्मकूर्चेन शुध्यति | तस्करैम्मृयते याने स्वशस्त्रेण मृदं यदि || २५ || परस्परविरोधेन उभयोर्त्मरणं यदि | गोभिर्वा मरणं यस्यात् प्रमादेनैव संभवेत् || २६ || गोदानं भूमिदानं वा अथवा स्वर्णदानकम् | निष्करूपेण तं कृत्वा शिवाय विनिवेदयेत् || २७ || महाव्योमेन मन्त्रेण दशवारम् क्रमाद्धुनेत् | समिधाचरुण तद्वद्धोमं चैव प्रकारयेत् || २८ || अष्टोत्तरशतैः कुम्भैः स्नपनं कारयेच्छिवम् | पश्चाद् दहन् क्रिया कुर्याच्छिवशास्त्रोक्तमानयेत् || २९ || मोहद्वा दहनं येन द्विगुणं कारयेत् ततः | तेषां पृष्ठे यथा गच्छेद् देशिकोऽपि विशेषतः || ३० || सचेलस्नानं कृत्वा तु त्रिरात्रं ह्युपवासयेत् | पञ्चगव्यं पिबेत् पश्चात् प्रासादेनैव मन्त्रतः || ३१ || महाव्योमेन मन्त्रेण अष्टोत्तरशतं हुनेत् | ब्रह्मणान् भोजयेत् पश्चाद् अष्टोत्तरशतं क्रमात् || ३२ || तस्य द्विगुणमार्गेण भारकादेवधीर्यते | गोब्राह्मणनृपस्थाय मरणं संभवेद्यदि || ३३ || प्. ८७) तस्य पूर्वोक्त कृत्यायां कारयेद् देशिकोत्तमः | कामाद्वै * * * * प * * श्चात् प्रेतक्रियां कुरु || ३४ || दृष्टोप्येव समाख्यातं अदृष्टे कुशया कृतम् | नारायणबलिं कृत्वा प्रतिरूपं हि कारयेत् || ३५ || दर्शनोक्तेन मार्गेण कारये ज्ञातिभिः क्रमात् | पाषाणे नैव पाशेन कोपाद् भीत्या मृतियति || ३६ || ते * * पातकं विद्यात् त्रिष्णीं बाह्ये तु खानयेत् | नारायणबलिं कृत्वा वत्सरं चाक्रयां चरेत् || ३७ || मोहेन दहनं कुर्यात् प्रायश्चित्तं च कारयेत् | सशीघ्रं वपनं कृत्वा कृच्छ्रं चान्द्रायणं चरेत् || ३८ || अघोरास्त्रेण मन्त्रेण दशसाहस्रकं जपेत् | पश्चाच्छुद्धित्वमाये च देशिकः कर्मकारयेत् || ३९ || अनुगमृन्तयोस्सोऽपि प्रमादात् स गतितं यदि | सचेलस्नानकं कृत्वा गोष्ठे त्रिरात्रकं वसेत् || ४० || पश्चाच्चान्द्रायणं कुर्यात् अघोरास्त्रेण मन्त्रतः | दशसाहस्रकं जप्त्वा सकामाद्विगुणं चरेत् || ४१ || भारकादेस्तदर्थं स्याद्रोदनस्यार्थमार्गतः | यस्मिन् कर्मणि संयुक्ते स्नेहलोपात् समन्वितम् || ४२ || तेनैव तु न कर्तव्यं कर्तव्यं चेन्महद्भयम् | तच्चेष सहगोत्रेण कारयेत् सहजां क्रियाम् || ४३ || प्. ८८) पृथक् द्वे तमानायां तस्मिन्कालेऽन्यदेशिकः | करणि येन मन्त्रेण कारयेदवसानकात् || ४४ || अर्द्धोत्तरक्रियाकाले प्रमादासङ्गतं यदि | कयिकैबहुलैरर्थैः पुत्रभातृसबान्धवः || ४५ || तस्मिन्नाहनि कुर्याञ्चेत् तेन शेषं समारेत् | पापामरणसंबन्धमोहात् कर्मकरोति चेत् || ४६ || स्थान नाशनमाप्नोति ग्रामादिनां च नाशनम् | तद्दोषगमनार्थाय महाव्योमेन मन्त्रतः || ४७ || शतपस्थघृतेनैव अभिषेक हि कारयेत् | सहस्रकलशैस्नानः कुर्याद्वे परमेश्वरे || ४८ || शान्तिहोमं ततः कृत्वा पुनः कर्म समाचरेत् | एवमेव विधानेन कारयेद् बुद्धिपूर्वके || ४९ || अज्ञानविषये शान्तिं कारयेद् देशिकोत्तमः | अगम्यगमने काले वपनं हि विशेषतः || ५० || चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् | अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् || ५१ || निर्माल्य भक्षणं यात्तु ज्ञानतोऽज्ञानतोऽपि वा | सशिखं वपनं कृत्वा मांसगोष्ठे वसे निशि || ५२ || दिवानुगमनं गोष्ठ आमीषं च गवां ददेत् | पश्चाच्चान्द्रायणं कृत्वा महाव्योमेति मन्त्रतः || ५३ || प्. ८९) हविषा च घृते चैव होमं कुर्यात् सहस्रकम् | चण्डेश्वरस्य यागान्तु कुर्यात् तस्य विशुध्यति || ५४ || अकालभक्षणं यस्यात् स्नपनं वै शङ्करस्य तु | व्योमेन घोरमन्त्रेण दशसाहस्रकं जपेत् || ५५ || होमं तत्र प्रकुर्यात् तु पक्षं गव्येन भक्षयेत् | पश्चात् शुचित् द्वमायाति देशिकः कर्ममाचरेत् || ५६ || श्वनशूतकमार्जालै कुक्कुटो गृद्ध्र एव वा | प्रमादाद्वायसं प्राप्ते त्रिरात्रमुपवासयेत् || ५७ || पञ्चगव्यं पिबेत् तत्र ब्राह्मणान् भोजयेच्छुचिः | व्यधवा गमने चैव समानेप्यसमानके || ५८ || तत्पातकं तु कृच्छ्रादि कृच्छ्रचान्द्रायणं चरेत् | अघोरास्त्रेण मन्त्रेण विंशत्सहस्रकं जपेत् || ५९ || होमं तत्र प्रकुर्यात् तु ब्राह्मणान् भोजयेत् शुचि | असमे द्विगुणं कुर्यात् शिवदानं तु कारयेत् || ६० || कन्यकागमने तस्मात् तदर्धं चैव कारयेत् | एकगोत्रे च संयोगे प्रायश्चित्तं न विद्यते || ६१ || प्रमादात् सम्भवे काले स्नानं कुर्यात्रिकालके | चान्द्रायणं चरित्वा तु कृच्छ्रसन्तापनं चरेत् || ६२ || लक्षं प्रसादमन्त्रेण होमं जपं च कारयेत् | आदिशैवादि पञ्चानां एवं कुर्याद् विशेषतः || ६३ || प्. ९०) न भेदो नरनार्याणां समानं दोषयुक् तदा | एवमेव प्रकारेण कारयेद् देशिकोत्तमः || ६४ || इति सूक्ष्मशास्त्रे देशिकप्रायश्चित्तं नाम द्वाविंशतिपटलः || देशिकप्रायश्चित्तम् | प्रायश्चित्तं प्रवक्ष्यामि देशिकस्य विशेषतः | प्रायप्रविणमित्युक्तं चित्तं मुद्भवमुच्यते || १ || प्रविणस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् | पापशुद्धिर्यादा सम्यक् ज्ञानमुत्पद्यते यदा || २ || पापशुद्धिं न चेत् पुंसः क्रियास्सर्वा च निष्फला | तस्मात्सर्वप्रयत्नेन कर्तव्यं पापशोधनम् || ३ || आत्मार्थयजने हीने द्विगुणं चान्यहीनके | प्रासादेनैव मन्त्रेण द्विगुणं तु यजेद् बुधः || ४ || रोगे पुष्पाञ्जलीं कुर्यात् प्रासादेन तु मन्त्रतः | अवगाहनहीने तु घटस्नानं हि कारयेत् || ५ || घटस्नानमशक्तश्चेद्भस्मस्नानं तु कारयेत् | आद्रवस्त्रेण हृदिना मार्जनं तदभावतः || ६ || तेषामभावतो मन्त्रि भस्मस्नानं तु कारयेत् | तेष्वशक्तश्च रोगोऽपि तूष्णी पुष्पाञ्जलिं ददेत् || ७ || प्. ९१) तस्याभावे तु तं दृष्ट्वा अथवा गुन्मदर्शनम् | रोगमुक्तस्य काले तु स्नपनं कारये महत् || ८ || अयुतं तु भवेन्मूलं होमं तु तद्वदेव हि | एवमेव विधानेन कारयेद् देशिकोत्तमः || ९ || शिवदीक्षनियुक्ता ये ते सर्वे तेन मार्गतः | कारयेत् तु चतुर्वर्णप्रतिलोमस्तधाचरेत् || १० || स्वजात्यदूषितं स्पृष्ट्वा भस्मस्नानं तु कारयेत् | पश्चाद्वै मूलमन्त्रेण पञ्चाशत्तु जपेच्छुचि || ११ || स्वजात्यदीक्षितानां तु भूत्वा कामेन वै बुधः | दशाक्षरेण मन्त्रेण पञ्चाशत्तु जपेच्छुचि || १२ || शूद्रान्नं भुञ्जते कामान् कृच्छ्रचान्द्रायणं चरेत् | तेषां कामे विशुध्यन्तु पूर्वोक्तस्य विधानतः || १३ || प्रतिलोमानुकं भुक्त्वा कामाद्राकमतोऽपि वा | उपवासं चरेद्विद्वान् महान् व्योमन् जपेच्छतम् || १४ || पञ्चाङ्गैश्च षडङ्गैश्च सहस्रं कामतो जपेत् | निर्माल्यलशुनं मांसं मत्स्यं चैव विसर्जयेत् || १५ || अकामान् भक्षयित्वा तु ईशानेन शतं जपेत् | स्नेहेन यदि भुञ्जीत कृछ्रं सन्तापनं चरेत् || १६ || निर्माल्यं लङ्घने दाने स्नानद्वयं तु कारयेत् | चण्डालस्पर्शने काले शिवमन्त्रशतं जपेत् || १७ || प्. ९२) प्रमादास्पर्शने काले सचेलस्नानमाचरेत् | महाव्योमेन मन्त्रेण पञ्चगव्यं पिबेच्छुचि || १८ || शिवाग्निगुरुनिन्द्यानां यदि निन्द्या शृणोति यः | हृदिना कर्णमाबध्य सचेल स्नानमाचरेत् || १९ || उपवासं चरेत् तत्र प्रासादेन शतं जपेत् | कृच्छ्रं सन्तापनं कुर्याद् द्विगुणं पूजयेत् तदा || २० || स्वजात्यदीक्षितशवं स्पृष्ट्वा कामदकामदः | सचेलस्नानकं कुर्याद् घृतं प्राश्य हृदा ततः || २१ || अघोरेण शिखा चैव सहस्रं तु जपेच्छुचि | स्नानद्वयं प्रकुर्यात् तु शिवमन्त्रशतं जपेत् || २२ || अकामादेव * * * त् त्रिंशत्साहस्रकं हृदा | अदीक्षितस्य विप्रस्य शवं स्पृष्ट्वा प्रमादतः || २३ || स्नानं तन्त्र प्रकुर्यात् तु प्रासादेन शतं जपेत् | स्नानं तु पूर्ववत् कृत्वा कामात् सहस्रकं जपेत् || २४ || दर्शनाद्भस्मना शुद्धिं कामात् सद्यशतं जपेत् | अदीक्षिताश्शवाद्धेतो अनुगमनं यदा भवेत् || २५ || स्नानं पूर्वोक्तवत् कृत्वा व्योमव्यापिशतं जपेत् | अकामाच्छिवमन्त्रेण सहस्रं तु जपेच्छुचि || २६ || तयोरर्धविधानेन दीक्षितस्य शवं प्रति | दीक्षितस्य शवं स्पृष्ट्वा भस्मस्नानेन शुध्यति || २७ || प्. ९३) दीक्षितस्य नृपस्यैव शवं स्पृष्ट्वा प्रमादतः | समुद्रस्नानकं कृत्वा एकरात्रोपवासयेत् || २८ || प्रातर्गव्यं पिबेमन्त्रि प्रासादेन सहस्रकम् | अघोरास्त्रेण मन्त्रेण त्रिस्सहस्रं जपेच्छुचि || २९ || क्रमात् स्नानद्वयं कुर्याद् अघोरेण सहस्रकम् | गोत्रासं तु ददेन्मन्त्रि सामान्यादि गुणं चरेत् || ३० || अनुगमनं तयोर्यद्यत् सचेलस्नानमाचरेत् | गोमयालेपनं कृत्वा जपं पूर्वोक्तमार्गतः || ३१ || कामान् स्नानं चरित्वा तु त्रिरात्रमुपवासयेत् | प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि || ३२ || तयोदर्शनमस्ति स्यात् स्नानं पूर्ववदाचरेत् | हृदयेन तु मन्त्रेण द्विगुणं त्रिगुणं चरेत् || ३३ || अदीक्षितनृपस्याध शवं स्पृष्ट्वा प्रमादतः | स्नानं च पूर्ववत् कृत्वा त्रिरात्रं चोपवासयेत् || ३४ || पञ्चगव्य पिबेन् मन्त्रि प्रासादेन शतं जपेत् | अकामद्विगुणं कृत्वा गोग्रासं च ददेच्छुचि || ३५ || अकामात् कामतो वापि अनुगमनं तु संभवेत् | स्नानद्वयं प्रकुर्वित घृतं प्राश्यं हृदां बुधः || ३६ || अघोरास्त्रेण मन्त्रेण अयुतं तु जपेच्छुचि | स्नानं तु पूर्ववत् कृत्वा गोमयेन तु लिप्य च || ३७ || प्. ९४) पुनः स्नानं प्रकुर्यात् तु सहस्रं तु जपेच्छुचि | अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामदः || ३८ || समुद्रस्नानकं कुर्याद् गोमयलेपनं हृदा | अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि || ३९ || अदीक्षितस्य वैश्यस्य क्रमादेवं विधीयते | दीक्षितस्य च वैश्यस्य शवानुगमनं यदि || ४० || स्नानं तु पूर्ववत् कृत्वा त्रिगुणं तु जपेच्छुचि | प्रमादादर्शनं कृत्वा स्नानद्वयं च कारयेत् || ४१ || अदीक्षितस्य वैश्यस्य शवं स्पृष्ट्वा तु कामतः | स्नानं कुर्याद् विशेषेण घृतं वै प्रशयेच्छुचि || ४२ || एकरात्रोपवासस्य गव्यं वै प्राशयेद्धृदा | तप्तकृच्छ्रं चरित्वा तु सावित्रं तु जपेत् सदा || ४३ || अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि | ब्राह्मणान् भोजयेत् तत्र स्नपनं कारयेच्छिवम् || ४४ || पश्चाद् वै देहशुद्धिं स्यानियमं कारयेत् तदा | अन्तराणां च शैवानां शवं स्पृष्ट्वा तु कामतः || ४५ || समुद्रस्नानकं कुर्याद् घृतं प्राश्य हृदा पुनः | गोमयेन तु सर्वाङ्गं मूलमन्त्रेण लेपयेत् || ४६ || पश्चात् स्नानं प्रकुर्यात् तु ईशानेन जपेच्छतम् | अघोरास्त्रेण मन्त्रेण शतं सम्यग् जपेच्छुचि || ४७ || प्. ९५) अदीक्षितस्य शूद्रस्य शवं स्पृष्ट्वा प्रमादतः | स्नानद्वयं प्रकुर्यात् तु घृतं प्राश्य हृदा पुनः || ४८ || एकाहमुपवासस्यात् गव्यं वै प्राशयेद्धृदा | सद्योजातेन मन्त्रेण सहसं तु जपेच्छुचि || ४९ || अदीक्षितस्य शवं स्पृष्ट्वा प्रमादास्नानकद्वयम् | गोग्रासं तु ददेत् पश्चाद् ग्रामान्तर चसेतच्छुचि || ५० || अनूगमनं तयो स्याच्चेत् क्रमाद् वै देशिकोत्तमः | स्नानं तु पूर्ववत् कृत्वा कृच्छ्रं सन्तापनं चरेत् || ५१ || ब्राह्मणान् भोजयेत् तत्र यथाविभवविस्तरैः | अघोरेण शिवास्त्रेण प्रत्येकं तु जपेच्छतम् || ५२ || कामादेव समाख्यातम् अकामात् कृच्छ्रकापिना | अदीक्षितप्रकारोऽयं तयोरर्धप्रकारतः || ५३ || अकामात् कमतो दृष्ट्वा दीक्षितस्य शवं यदि | स्नानं तत्र प्रकुर्यात् तु मूलमन्त्रं जपेच्छुचि || ५४ || कामा स्नानद्वयं कुर्यात् प्रासादे शतमन्त्रतः | दीक्षितस्य शवं स्पृष्ट्वा तयो द्विगुणमाचरेत् || ५५ || शिवदीक्षाभियुक्तं तु शूद्रः शूद्रशवं स्पृशेत् | सचेलस्नानकं कुर्यात् प्रासादेन शतं जपेत् || ५६ || अनुगमनं तथा कुर्याद् द्विगुणं तु जपेच्छुचि | प्रतिलोमं शवं स्पृष्ट्वा कामाद्वाकामतोपि वा || ५७ || प्. ९६) स्नानद्वयं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः | घृतं प्राश्य हृदा कुर्यात् कृच्छ्रचान्द्रायणं चरेत् || ५८ || ब्राह्मणान् भोजयेद् विद्वान् यथाविभवविस्तरैः | अरोणे च मन्त्रेण अयुतं तु जपेच्छुचि || ५९ || अनुगमनं द्यथा तेषाम् अधिकस्नपनं शिवे | कामदेवं समाख्यातं अकाम स्नानकद्वयम् || ६० || कुर्याद् वै हृदयेनैव तप्तकृच्छ्रं चरेच्छुचि | अनुगमनं तथा तेषां अधिकं स्नपं शिवे || ६१ || कामदेवं समाख्यातं कामान् सन्तापनं चरेत् | वामदेवेन मन्त्रेण त्रिसहस्रं जपेच्छुचि || ६२ || तेषां तु दीक्षितानां तु शवं स्पृष्ट्वा तु कामतः | स्नपनं पूर्ववत् कृत्वा गव्यं वै प्राशयेद्ध्रुवम् || ६३ || एकरात्रमुपोषित्वा प्रभाते स्नानमाचरेत् | अघोरास्त्रेण मन्त्रेण त्रिसहस्रं जपेच्छुचि || ६४ || अनुगमनं तदेवं स्यात् अधिकं जपमाचरेत् | प्रमादगमनं यद्यात् स्नानं पूर्वोक्तवच्चरेत् || ६५ || प्रासादेन तु मन्त्रेण विंशत् सहस्रकं जपेत् | प्रतिलोमे नराणां च शवं स्पृष्ट्वा प्रमादतः || ६६ || पूर्वोक्तेन विधानेन द्विगुणं कारयेच्छुचि | कामानुपूर्ववत् ख्यातम् अनुगच्छन्ति योर्यदा || ६७ || प्. ९७) स्नानं तु पूर्ववत् कृत्वा द्विगुणत्रिगुणं चरेत् | सपुत्रस्य शवं स्पृष्ट्वा शिवमन्त्रशतं जपेत् || ६८ || पश्चात् स्नानं प्रकुर्यात् तु घृतं प्राश्या विशुध्यति | दीक्षापुत्रं शवं स्पृष्ट्वा सचेलस्नानमाचरेत् || ६९ || प्राणायमं शतं जप्त्वा प्रासादेन तु तं जपेत् | शिव संन्धीनं पश्चाद् ये पुत्रा संभवन्ति हि || ७० || तेषां शवादिकं सर्वं चीतावत् संस्थिता भवेत् | शिवसंस्कार तत्पूर्वं यो जातावंशवच्चरेत् || ७१ || नैष्टिकाचारयुक्तस्तु सद्यः शौचं समाचरेत् | स्नानं तु पूर्ववत् कृत्वा प्रासादेन शतं जपेत् || ७२ || आदिशैवो महाशैवस्त्रियाहं शौचमाचरेत् | अनुशैवस्तथा षट् च अपरक्षैव रन्ध्रकः || ७३ || भानवो चान्तरं शैवं इतरे चञ्चत्शन्द्रिका | एवमेव क्रमेणैव कारयेद् देशिकोत्तमः || ७४ || सूतकेषु तथा कुर्याद् गृहस्था एव कारयेत् | तेषु काले शिवं दृष्ट्वा गुणां पूजयेच्छिवम् || ७५ || अन्यथा यदि भुञ्जीता महादोषमवाप्नुयात् | तस्मात् सर्वप्रयत्नेन शिवदृष्ट्वा तु भोजयेत् || ७६ || देशिकाचारयुक्तस्तु नित्यपूजासमन्वितम् | सोऽपि पूर्वोक्त नक्षत्रे सूतकं प्रेतकं चरेत् || ७७ || प्. ९८) अनाचर्यकुले जाता शिवशास्त्र न बोधकः | नित्यपूजाविहीनञ्च दशाहं संम्यगाचरेत् || ७८ || शैवसम्बन्धहीना ये ते सर्वे चोत्तरान्निके | दशाहे पश्चत् शाहे विंशत् त्रिंशदिनेऽपि च || ७९ || एतेषु दिवसेष्वेव ब्राह्मणाद्या क्रमाचरेत् | प्रेतयुक्तगृहे वास प्रातस्नानं समाचरेत् || ८० || पञ्चगव्य पिबेन्मन्त्रि प्रासादेन तु मन्त्रतः | नृपवैश्य च शूद्रे च प्रेतयुक्तो गृहो वसेत् || ८१ || स्नानं तु पूर्ववत् कृत्वा व्योमव्यापि शतं जपेत् | द्वयोर्वै तेन मन्त्रेण द्विगुणं त्रिगुणं चरेत् || ८२ || सूतकं च यदा स्पृष्ट्वा विप्रस्य स्नानमाचरेत् | नृपस्य सूतकं स्पृष्ट्वा स्नानाद्वै च समाचरेत् || ८३ || महाव्योमेन मन्त्रेण वैश्यस्य सूतकं स्पृशेत् | शूद्रस्य सूतकं स्पृष्ट्वा द्विगुणं तेन मन्त्रतः || ८४ || शूद्रेतराणामाशौचं स्पृष्ट्वा स्नानं तु पूर्ववत् | कुर्याद् वै तेन मन्त्रेण द्विगुणं तु जपेच्छुचि || ८५ || रजस्वलां च या नारीं देशिको संस्पृशेद् यदि | सद्यस्नानं प्रकुर्यात् तु अघोरेण शतं जपेत् || ८६ || रजस्वला द्वितीयां च तृतीयां च चतुर्थका | स्पृशेद्वै देशिको धीमान् स्नानं गव्यं च कारयेत् || ८७ || प्. ९९) क्रमा च द्विगुणं जप्त्वा तु अघोरास्त्रेण मन्त्रतः | देशिको भोजने काले आर्तवान् सम्यग् दर्शयेत् || ८८ || भुक्तशेषं त्यजित्वा तु स्नानं पूर्वोक्तवच्चरेत् | उपवासं चरेदेकं प्रतगव्यं पिबेद्धृदा || ८९ || अघोरास्त्रेण मन्त्रेण सहस्रं तु जपेच्छुचि | तस्य भोजनकाले तु तासां वसं शृणोति चेत् || ९० || अन्नशेषं त्यजेन्मन्त्रि भस्मस्नानं समाचरेत् | प्रासादेनैव मन्त्रेण शतं चैव जपेच्छुचि || ९१ || द्विगुणस्य तु जातेस्तु प्रासादेन जपेद् बुधः | लोषाद्यां संभवे ह्यन्ते भुक्तशेषं त्यजेद्बुधः || ९२ || आचमनं ततः कुर्याद् घृतं प्रश्य हृदां बुधः | पश्चात् तु भोजनं कुर्यात् दिच्छ चे देशिकोत्तमः || ९३ || भाजनस्य तु काले तु सूतका दर्शयेद् यदि | अन्नशेषं त्यजित्वा तु स्नानं कुर्यात् तु देशिकः || ९४ || प्रासादेन तु मन्त्रेण शतं चैव जपेच्छुचि | प्रातःकाले तया कुर्यात् तयोर्वाक्यं शृणोति यः || ९५ || स्नानं तु पूर्ववत् कृत्वा गव्यं वै प्राशयेच्छुचि | चण्डाले भेरिका शाब्दं य शृणोति च भोजयेत् || ९६ || अन्नशेषं त्यजित्वा तु भस्मस्नानं तु कारयेत् | अथवा कर्णमाबध्वा शब्दान्ते भोजयेद् बुधः || ९७ || प्. १००) प्रमादभोजनस्याचेदघोरास्त्रं शतं जपेत् | आशौचद्रव्यसंबन्धौ यो देवान् अर्चयेत् तदा || ९८ || भक्त्या तु पूजयेत् सोऽपि दहनाप्लावनादिभिः | पूजान्ते शुद्धिमाप्नोति निसंपर्के यदा शुचि || ९९ || द्रव्याणारेण भोक्तव्यं तस्मिन् काले विशेषतः | अन्यथा कारयेद् दोषं न दैवस्तत्र तिष्ठति || १०० || जज्ञानां दोषदस्तस्मान्महादेवार्चनाय च | तस्मात् सर्व प्रयत्नेन नि * हा * न्न कारयेत् || १०१ || नित्यार्चनाभियुक्तानामेवमेवं हि कारयेत् | खद्योदस्तु यथा भान्वोस्तथा पाल्पस्य दोषभाक् || १०२ || शवयुक्तस्य पुरुषः द्रव्याणि न च सेचयेत् | प्रमादात् सेचन्न यद्यत् स्नानद्वयं समाचरेत् || १०३ || प्रणायामसहस्रं तु अघोरास्त्रं तदेव तु | येवमेव विधानेन कारयेद् देशिकोत्तमः || १०४ || आत्मार्थयजने काले भृत्यर्थं देशिकस्य तु | शावन्ध्या संभवे काले उत्तर्क्षं वर्जयेत् क्रमात् || १०५ || देशिकान्तरमार्गेण नित्यपूजां करोति हि | प्रायश्चितं विधिं प्रोक्तं स्नपनस्य विधि शृणु || १०६ || इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे देशिकप्रायश्चितं नाम त्रयोविंशति पटलः || प्. १०१) सकलस्नानम् | स्नानं सकललिङ्गस्य प्रवक्ष्यामि समासतः | सर्वपापहरं चैव सर्वदोषहराणि च || १ || सर्वदानफलं चैव मलशुध्यर्थमेव च | उत्सवे च प्रतिष्ठायां ग्रहणे सङ्क्रमेऽपि च || २ || नृपजन्मर्क्षभे युक्ते अभिषेकदिनेऽपि च | अन्यत्पुण्यदिने कुर्याद् दोषयुक्ते विशेषतः || ३ || शैलजानां तु सर्वेषां तैलेनाभ्यञ्जने कुरु | तिलतैलं तु कर्तव्यं मन्यतैलं तु वर्जयेत् || ४ || अभ्यञ्जनात्ये मलकंमगोपाङ्गानि लेपयेत् | मद्देयेदृक्तचूर्णैस्तु स्नापयेत् शुद्धवारिणा || ५ || तदन्तकृष्णचूर्णैस्तु लेपयेत् तु विशेषतः | पुनर्गन्धोदकेनैव स्नापये तु महेश्वरम् || ६ || वस्त्रेण मार्जनं कुर्यात् शनैः शनैः विशेषतः | ततो वस्त्रादिभिर्भूष्या सर्वालङ्कारसंयुतम् || ७ || सौवर्णादेसमाख्यातं मृण्मयस्य विधि शृणु | अभिषेकं न कर्तव्यं प्रोक्षणं चैव तद्धृदा || ८ || अभिचित्रे पटे चैव प्रोक्षणं तु समाचरेत् | स्थापयेद्युक्तमार्गेण सर्वसंपत्कराय च || ९ || प्. १०२) अन्यथा स्थापयेत् तत्र अभिचाराय चैव हि | स्नानान्ते चार्चनं कुर्याद् गन्धपुष्पादिभिः क्रमात् || १० || हविर्निवेदयेत् पश्चात् द्यथ विभवविस्तरैः || १० || इति सूक्ष्मशास्त्रे सकलस्नानं नाम चतुर्विंशतिपटलः || लिङ्गस्थापनम् | अतः परं प्रवक्ष्यामि लिङ्गस्थापनमुत्तमम् | नगरादिविमानेषु किञ्चिदीशानमाश्रितम् || १ || तन्मध्ये स्थापयेत् स्थाणुनैवर्गस्यत् प्रचारयेत् | मध्याप्रचलितं लिङ्गं सर्वत्र चलितं नयेत् || २ || गर्भं तु नवधा कृत्वा एकैकस्य विधानतः | द्वारमानेन वा कुर्याद्धस्तमानेन वा पुनः || ३ || अस्तमानेन वा कुर्यान्नवहस्तान्तमेव च | त्रयत्रिंशाङ्गुलदैर्घ्यं मुत्तमं मानमुच्यते || ४ || एकैकत्र्यङ्गुलं हीनं मध्यमं चाधमं भवेत् | एकैकत्र्यङ्गुलं हीनं नवधा मानमिष्यते || ५ || नाहस्य त्र्यङ्गुलं हीनं कर्णमानेन वा पुनः | आयव्ययसमायुक्तं सर्वं कुर्याद् विशेषतः || ६ || प्. १०३) व्ययहीनाधिकं चैव आयाधिक्यं विशेषतः | शिल्पशास्त्रेण संयुक्तामाचर्यस्य विशेषतः || ७ || यवहीनाधिकं चैव यजमानाय नाशकृत् | तस्मात् सर्वप्रयत्नेन हीनाधिक्यं न कारयेत् || ८ || उत्तरायणकाले तु देवानां तु दिवास्मृताः | आषाढादि च षाण्मासं देवानां निचि चोच्यते || ९ || दिवाकाले प्रकर्तव्यं लिङ्गस्थापनकर्मणि | पुष्ये च माघमासे च लिङ्गस्थापनमुत्तमम् || १० || फाल्गुने चैत्रमासे च मध्यमं कालमिष्यते | वैशाखे च तथा ज्येष्ठे अधमं कालमिष्यते || ११ || ब्राह्मणाना तु पुष्यर्थं पुष्यमासे कृतं भवेत् | नृपाणामभिवृद्ध्यर्थं माघमासे तु कारयेत् || १२ || फाल्गुने वैश्यजातीनां शूद्राणां चैत्रमासके | वैशाखे पशुजातीनां अन्येषां ज्येष्ठमासके || १३ || एवं मासफलं प्रोक्तं लिङ्गस्थापनकर्मणि | दिवाकाले तु संप्राप्ते तदा काले तु स्थापयेत् || १४ || अकाले तु यदा सम्यक् दृश्यते गरुभार्गवौ | मघस्वाति च सौमे दृश्रवणे अश्वयुग्भवेत् || १५ || पुनर्वसूश्च तिष्यश्च उत्तरत्रिणिरेव च | मैत्रे च रोहिणी चैव एषु ऋक्षेषु स्थापयेत् || १६ || प्. १०४) जीवशुक्रबुधसोम अर्कवाराः शुभास्मृताः | पूर्वपक्षे तृतीये च द्वितीये पञ्चमि तथा || १७ || षष्ठा च सप्तमि चैव दशम्येकादशि तथा | त्रयोदशि तथा चैव उभयोः पक्षयोरपि || १८ || कृष्णपक्षे तृतीये च प्रतिपत् पञ्चमि तथा | षष्टि चा सप्तमि चैव दशमी च विशेषतः || १९ || अमृतयोगे सिद्धियोगे परयोगे विशेषतः | वृषभे मिथुने चैव मीने सिंहे तथैव च || २० || वृश्चिके च घटे चैव कन्याराशि तथैव च | प्रतिष्ठारम्भविधिना यजमानानुकूलकम् || २१ || चतुर्थे सप्तमे चैव पञ्चमे च तृतीयके | एषु स्थानेषु चन्द्रं स्यात् जीवशुक्रबुधोदये || २२ || द्वादशे च तृतीये च दशम्येकादशि तथा | एषु स्थानेषु शास्त्रं हि बुधस्यानुविशेषतः || २३ || द्वितीये पञ्चमे चैव दशमे सप्तमे तथा | एषु स्थानेषु शास्त्रं हि बृहस्पतिः स्थिते सति || २४ || षट्सप्तदशमस्थेयं भार्गवो वुभयोऽब्रवीत् | त्रिषडायगताः पापाः सर्वान् एकादशेऽपि च || २५ || सर्वे ग्रहाष्टमस्थैश्चेत् कर्तॄणां तु स्थितिं कुरु | तस्मात् सर्वप्रयत्नेनाशुभं चैव तु वर्जयेत् || २६ || प्. १०५) स्वात्रिरोहणि संयुक्ते तृतीये शनिवारके | बुधद्वियुक्तो द्वितीये च अनुराध तथा युता || २७ || पूष्णे तु पञ्चमियुक्तगुरुवारे विशेषतः | एवमादिषु योगेषु अन्येषु शुभयोगकृत् || २८ || याथा योगेषु संप्राप्तेः सर्वदोषा विनिश्यति | एवं परिक्ष्य यत्नेन प्रतिष्ठां गुरुरारभेत् || २९ || लिङ्गस्थापनकाले तु कालाति क्रमणं न च | एकाहं पूजयेत् तत्र सर्वदोषहरं नृणाम् || ३० || तस्मात् सर्वप्रयत्नेन लिङ्गस्थाप्य विशेषतः | जङ्गमादीनि लिङ्गानां कालकालपरिक्षयेत् || ३१ || प्रासादमण्डपं चैव प्राकारं गोपुरं तथा | अन्येषां देवकार्येषु यजमानेच्छया सहा || ३२ || नवाहे चैव सप्ताहे पञ्चाहे वा कुरार्पणम् | अकुरानर्पयित्वा तु प्रतिष्ठां सम्यगाचरेत् || ३३ || अङ्कुरार्पणप्रथमं द्वितीयं लिङ्गशोधनम् | तृतीयं ब्रह्मसूत्रं तु चातुत् ग्रामप्रदक्षिणम् || ३४ || पञ्चमं जलमध्ये तु जलकृत्या विधानतः | षष्ठे मण्डपसंस्कारं सप्तमे शयनक्रय || ३५ || अष्टमे कुम्भसंस्कारं नवमे होमकर्मणि | दशमे दक्षिणाप्रोक्ता मत्रन्यासमतः परम् || ३६ || प्. १०६) द्वादशं चार्चनं प्रोक्तं स्नपनं तु त्रयोदश | एषां क्रमेण वक्ष्यामि यथा वा मुनिपुङ्गवाः || ३७ || इति सूक्ष्मशास्त्रे लिङ्गस्थापनं नाम पञ्चविंशति पटलः || अथातः संप्रवक्ष्यामि नित्यबलिविधिक्रमम् | यस्मिन् ग्रामे बलिः शब्दस्तस्मिन् स्त्राराक्षसादयः || १ || श्रुत्वा गमन्ति सहसा ग्रामं वृद्धिकरं भवेत् | तस्मात्सर्वप्रयत्नेन कुर्यान्नित्यबलिं क्रमम् || २ || शिवस्य भोजनान्ते तु अन्तै नित्याग्निकर्मणि | नित्यं बलिं क्रमं कुर्याद्राजाविजयमिछति || ३ || उत्तमं मणिलिङ्गं स्यान्मध्यमं प्रतिमा भवेत् | अधमं गोलकं ज्ञेयम् अथवा पुष्पान्नतण्डुलैः || ४ || प्रतिमा भावयेल्लिङ्गं तस्याभावे तु गोलकम् | तेषामभावे मन्नादीन् कुर्यासम्यक् सदा बुधः || ५ || पूर्वान्ने पुष्पलिङ्गेन प्रतिमा ब्राह्मणप्रियम् | मध्यान्ने चान्नलिङ्गेन मणिलिङ्गशिवप्रयम् || ६ || साये तण्डुललिङ्गेन गोलका केशवप्रयम् | सौवर्णं रजतं ताम्रं कांस्यपात्रचतुर्विधम् || ७ || प्. १०७) अष्टाङ्गुलं तु विस्तारं चतुरङ्गुलमुच्छ्रयम् | पात्रस्य मध्यमे पद्मं कल्पयेत् तु दलाष्टकम् || ८ || मण्डपं दक्षिणे भागे मण्डलं चतुरश्रकम् | गोमयेनोपलिप्याथ पात्रं संस्थाप्य तत्र तु || ९ || शिवमन्त्रं समुच्चार्य शिवस्तं शिवमावहेत् | ईशानमन्त्रमुच्चार्य बलिलिङ्गे शिवं न्यसेत् || १० || सर्वगन्धैस्तथा पुष्पै धूपैर्दीपैस्तथार्घ्यकैः | हृदयाद्यस्त्रपर्यन्तैः मन्त्रैरभ्यर्चयेत् क्रमात् || ११ || ब्रह्मचारिगृहस्थो वा भस्मोद्धुलितविग्रहः | सहोष्णीषोत्तरीयेण लिङ्गं शिरसि धारयेत् || १२ || सद्योजातं समुच्चार्य प्रतिमाद्यैः सह व्रजेत् | पाशुपदास्त्रमूत्तिर्वा चन्द्रशेखरमेव च || १३ || सर्वेषां पुरतो गच्छेन्मणिभिः स्तदनुव्रजेत् | पुष्पान्नं तण्डुलं लिङ्गं तस्य लिङ्गं तनुव्रजेत् || १४ || वितानध्वजसंयुक्तं च्छत्रचामरसंयुतम् | वाद्यध्वनिसमायुक्तं गणिकाद्यैरलङ्कृतम् || १५ || प्रथमप्रदक्षिणं कुर्यात् प्रासादपीठिका सहा | गोपुरात्पुरतो गच्छेच्छङ्खध्वनिसमन्वितम् || १६ || चितीर्या द्वारपाश्वाभ्यां पादुकास्थानमिष्यते | तस्य पश्चिमभागे तु प्रतिमास्थानमुच्यते || १७ || प्. १०८) पश्चिमे प्रतिमायास्तु मग्रेण स्थानमुच्यते | मणिलिङ्गस्य पश्चाभ्यां गोलकास्थानमिष्यते || १८ || त्रयाणां पृष्ठभागे तु अन्तादे स्थानमिष्यते | प्रदक्षिणक्रमेणैव प्रतिमादीनि स्थापयेत् || १९ || प्रतिष्ठा प्रतिमादीनां बलिलिङ्गं तु स्थापयेत् | प्रतिमाद्य इति प्रोक्ता प्रति च मणिगोलका || २० || पुष्पान्नत्तण्डुलं लिङ्गं बलिलिङ्गमिति स्मृतम् | पूर्वाभिमुखमास्थाप्य प्रतिमाग्रस्य पादुकम् || २१ || स्थलिकोपरि संस्थाप्य पादुकद्वयमर्चयेत् | पात्रगन्धैः स्तथा पुष्पैः धूपदीपैरधोर्घ्यकै || २२ || षडङ्गैः क्रमशोऽभ्यर्च्य अर्घ्यं दत्वा यथाक्रमम् | चतुर्णप्रथमादीनांमर्घ्यं शिरसि विन्यसेत् || २३ || पादप्रक्षालनं कृत्वा प्रासादं संप्रवेशयेत् | स्वस्थाने स्थाप्य वाराद्यै पूजयेद्ब्रह्मपञ्चभिः || २४ || पूर्वस्मिन् मण्डले स्थाप्य बलिलिङ्गं तु देशिकः | द्वारादिभिसमभ्यर्च्य पञ्चभिः ब्रह्मभि क्रमात् || २५ || शिवमन्त्रसमुच्चार्य बलिलिङ्गस्थमीश्वरम् | मूललिङ्गे तु संस्थाप्य शिमन्त्रे समुच्चरेत् || २६ || बलिलिङ्गादिकान् सर्वान् गर्भगेहे तु स्थापयेत् | बलिलिङ्गविसृज्याथ पादुकानर्चयेद्बुधः || २७ || प्. १०९) पादप्रक्षालनं कृत्वा प्रासादाभ्यन्तरं विशेत् | पूर्वोक्तविधिना सर्वं कारयेद्देशिकोत्तमः || २८ || संस्थानं च पाशुपदं मूर्तिर्वा चन्द्रशेखरम् | योरभावे मणिशिवं गोलकां हि विशेषतः || २९ || तेषां वा चान्नलिङ्गं तु पुष्पमर्घ्यं हि वा पुनः | तस्मात्सर्वप्रयत्नेन नित्यं कुर्यात् फलेच्छुता || ३० || षडङ्गमूर्तिमभ्यर्च्य षड्भिर्वादिभिं क्रमात् | एवमभ्यर्च्य विधिना स्वस्थाने च प्रवेशयेत् || ३१ || हृदयेन चरुं दद्यात् ताम्बूलं दापयेत् ततः | पश्चान्नीराजनं कुर्यात् प्रासादेन तु मन्त्रतः || ३२ || प्रभूतहविष दद्यात् भक्तान् सर्वान् प्रपूजयेत् | द्रोणहीनं न कर्तव्यं कर्तव्यं मन्दिरे क्रमात् || ३३ || नित्यहोमवसाने तु बल्यर्थं होमयेद्धृदा | पञ्चाशत् पञ्चविंशद्भिः घृताक्ते नवकं हुनेत् || ३४ || एवं स्याद् बुधवारे तु मन्दवारे तथैव च | तैलाभ्यङ्गं हृदा कुर्यात् च्छेषं पूर्ववदाचरेत् || ३५ || पूर्वरात्राधिवासञ्च गन्धतैल विशेषतः | प्रातःकाले च मभ्यङ्गं मूलं च बलि बिम्बके || ३६ || स्नात्वा राजोपचारेण सुगन्धामलकादिभिः | पश्चात् चरुं प्रदद्यात् तु प्रत्येकं हृदिना बुधः || ३७ || प्. ११०) पश्चाद्वारोत्सं कुर्यात् सर्वालङ्कारशोभितम् | अन्यथा कारयेद् यस्तु तत्कलं न्निष्फलं भवेत् || ३८ || वारोत्सवमिदं प्रोक्त तस्मिन् मन्त्रे विशेषतः || ३८ || इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे वारोत्सवं नामा षड्विंशतिपटलः || आचार्यलक्षणम् | अतः परं प्रवक्ष्यामि आचार्यो लक्षणं परम् | गोचर सत्यवादि च पूर्वाचारप्रयोगवित् || १ || शास्त्रज्ञः शिवमन्त्रज्ञः शिवदीक्षाभिषेचकः | मन्त्रज्ञः शब्दभेदज्ञः गुरुदेवाग्निपूजकः || २ || सिद्धान्ति निपुणो दक्षः श्रीमान् भक्तजनप्रियः | नक्तभोजि जितेन्द्रज्ञश्च व्यक्ताचार प्रियंवदः || ३ || नहीनगोहिशुद्धात्मदीक्षतः प्रतिपातकः | पञ्चयज्ञपरो नित्यं शूद्रान्नं परिवर्जयेत् || ४ || ऋग्यजुस्सामथर्वज्ञ शिवशास्त्रज्ञ सूक्ष्मवान् | निष्कलात्सकलो जात तद्वदाचार्यपुत्रकः || ५ || आचार्यपुत्रो पौत्रो वा दौहित्रो वा विशेषतः | तेषामभावेणाचार्यपुत्रेणैव कृतं यदि || ६ || प्. १११) पुष्पे नष्टे फलं नास्ति उषरे सस्यवत्फलम् | परद्रव्यं न गृह्नीयात् भक्तानुग्राहकारणः || ७ || परशास्त्रमविज्ञेयं परदीक्षाविवर्जयेत् | चातुर्णामपि वर्णानां ब्राह्मणेभ्यो विशिष्यते || ८ || ब्राह्मणानामलाभे तु क्षत्रियाणां विशेषतः | ब्रह्मणक्षत्र्यकन्यायाः जातो वै क्षत्रियोत्तराः || ९ || ब्रह्मणात् किञ्चिदूनश्च क्षत्रियान्किञ्चिदुत्तमम् | ब्राह्मणान् क्षत्रियाणामलाभे तु वैश्यानां तु विशेषतः || १० || एवमेव क्रमं प्रोक्तं शैवार्चस्य व्यवस्थिति | आनुलोमस्तथाचार्य प्रतिलोमस्तु वर्जिता || ११ || वैश्यकान्यायां जातो वै वैश्यशूद्रस्तथोत्तमः | क्षत्रियस्य प्रसूतोऽपि वैश्यात्किञ्चिदिवोत्तमः || १२ || प्रतिष्ठाशिवदीक्षायां सर्वलक्षणलक्षितः | क्षत्र्यासु वैश्यकन्यायां जातो वैश्योत्तमो भवेत् || १३ || वैश्यस्तु शूद्रकन्यायां जातः शूद्रस्य चोत्तमः | सर्वलक्षणसंपन्ना दीक्षितः शिवगोचरः || १४ || एवमेव गुणेनैव शैवसन्तानमुख्यवान् | शैवं पाशुपतं सोमं त्रयस्सिद्धान्तभेदिने || १५ || केवलं शैवसिद्धान्तं शिवलीलात् प्रसङ्गगात् | अष्टप्रदानामुख्येत अष्टसंदर्शनप्रिये || १६ || प्. ११२) मुख्यवान् परवीरज्ञः सर्वशास्त्रस्य पाठकः | स्मिंग्धाङ्गो ललिताङ्गश्च सर्वावयवशोभितः || १७ || शिखि वा बन्धसंयुक्तो भस्मरुद्राक्षधारकः | सूत्रत्यागि शिखात्यागि मन्त्रसाध्यादिभिः शुभः || १८ || सर्वागमेषु निपुणः सर्वसङ्गविवर्जितः | सोऽपि वै नैष्टिको नाम आचार्य श्रेष्ठ उच्यते || १९ || तस्य पुत्रेण शास्त्रज्ञः सोऽपि कर्मार्हको भवेत् | इत्येवाकृतिसंयुतो वस्त्राभरणशोभितः || २० || शुद्धरूपमिदं शैवं आचार्यस्य विधीयते | दीर्घाङ्गि चैव ह्रस्वाङ्गि शठो दधि गुणं सरम् || २१ || विमलं कृपणश्चैव अहनाकुलोद्भवः | विटपद्वैव धूर्तश्च दृतोमत्तप्रमत्तवान् || २२ || गुल्मश्च रोगिकुष्टश्च शिपिविष्टश्च मुष्टिवान् | अन्धकं तनुकाश्चैव अङ्गहीनोऽपि कोपवान् || २३ || मुचकि वेदविक्रितो मुस्थितोन्मुञ्चभस्मया | अष्टाशौचो व्रतहीनो नामधारक विप्रकः || २८ || परप्रेष्यरभोनित्यं देवाग्निगुरुनिन्दकः | अनाचार्यस्य पुत्रो वा मुग्धस्य हृदहार्यते || २५ || धातुक्षयविकाराङ्गि सत्वनष्टो ह्यबुद्धिमान् | व्यपारि देवविक्रीत विद्यानष्टश्च नष्टवान् || २६ || प्. ११३) दुर्जनो दोषसंयुक्तो मण्डितः पतितस्तथा | स्वकर्मणि फलं तत स्यात् प्रतिष्ठादिषु यस्तु सः || २७ || एवमेव समायुक्त स्थापनाद्यां विसर्जयेत् | आदिशैवेन कर्तव्यं प्रतिष्ठापनादिकम् || २८ || अनुशैवादयः सर्वे आत्मार्थविषयेत् क्रमात् | सकलः सर्वदेशेषु गतागतविनिश्चियः || २९ || आचार्यलक्षणं प्रोक्तं शिष्यादेर्लक्षणं शृणु || २९ || इति सूक्ष्मतन्त्रे आचार्यलक्षणं नाम सप्तविंशतिपटलः || शिष्यादेर्लक्षणम् | अतः परं प्रवक्ष्यामि शिष्यादे लक्षणं शृणु | स्वमूर्तिमूर्तिधारश्च पर्यष्टिपरिचारकः || १ || होदको बोधकश्चैव होताचाध्वर्युरेव च | आदिशैवकुलोत्पन्नो शिवदीक्षाभिषिक्तकः || २ || सर्वलक्षणसंपन्नो शिवभक्तो महायशः | शैवागमेषु संपन्नो सर्वशास्त्रार्थ तत्वगः || ३ || वेदवेदाङ्गपठज्ञो सर्वकर्मसुयोग्यता | महाशैवस्तु विख्यातास्तदाभावे नृपस्तथा || ४ || प्. ११४) तेषामभावे वैश्यस्तु क्रमाद्वै चाहिकस्तथा | समयि पुत्रकश्चैव साधको मूर्तिधारकः || ५ || गुरोराज्ञावशं कुर्याद् देशान्तरस्थितो यदि | एवमेव विधानेना प्रतिष्ठादीन्न्तु कारयेत् || ६ || प्रथमं येननिर्वाह तेनैव सकलं नयेत् | कर्षणादिप्रतिष्ठान्तमेकसन्तानमार्गतः || ७ || भिन्नाभिन्नं क्रियायां च एवमेव विधीयते | प्रासादकरणं यस्यात् तथा लिङ्गदयस्तथा || ८ || जीर्णोद्धारविहीनं यद् वास्तुकर्मादयस्तथा | अन्यं वा चिरकालं तु प्रतिसंवत्सरोत्सवम् || ९ || येतानि सर्वकर्माणि भिन्नं सम्यक् प्रकीर्तितम् | अर्चनं चाग्निकार्यं च स्नपनं वास्तुकर्मकम् || १० || दीक्षाविधानमार्गं च शीतकुम्भादयस्तथा | दिनसङ्ख्याविधानं यदभिन्नमिति कीर्तितम् || ११ || सर्वं भिन्नक्रियाकाले न यावान्देशिके * हि | अवश्यगन्तुमिच्छाचेतन्नरात्रवसते धृवम् || १२ || दिनक्रियावसाने तु देशिकं सर्वतो व्रजेत् | अभिन्नकविधानेन सङ्ख्यादि विधे पुरा || १३ || बहिर्गतं न कर्तव्यं कर्तव्यं चेत्तु दोषकम् | आचार्यादिचतुर्णां तु एवमेव विधीयते || १४ || प्. ११५) सायम्भुवादि लिङ्गानांन्धामानि सकलानि च | परिवाराणि चान्या च यः करोति पुरो ततः || १५ || तेषां जीर्णेषु कालेषु तस्य सन्तानमार्गतः | कुर्यादिहि विशेषोऽस्ति रूपान्तरकृतं यदि || १६ || गोत्रान्तरेण वा कुर्यात् पूर्वसन्तान हेतु वा | कारणं किं विशेषोऽस्ति मन्त्रसंबन्धकारणात् || १७ || तस्मात्सर्वप्रयत्नेन पुरातनकृताज्ञया | कुर्यां तु स्थापनादीनां येवमेव विधीयते || १८ || अनभिज्ञतगोत्रस्तु सदाख्यं वस्त्रके लिखेत् | तस्यै चानुग्रहेणैव कुर्यागोत्रान्तरेण वा || १९ || यद्या शिरोऽपि तन्मन्त्रै कुर्यात् द्वा पूर्वमार्गतः | पितॄस्य करणं सस्यात् तस्य पुत्रेण तत्कृतम् || २० || पुत्राभावे तु दौहित्रः स्तदाभावे तु मातुलः | तस्य भावे तु तत्पुत्रो कुर्याद् भिन्नक्रियाश्छिरोत् || २१ || स्पष्टकाले च एवं स्यात् विस्पष्टे देवताज्ञया | एवमेव प्रकारेण सर्वं वै चार्य कारयेत् || २२ || अन्यथा कारणियं चेत् राजाराष्ट्रं विनाशनम् | ग्रामादीनां विनाशाय शत्रुनाशं न संशयः || २३ || शिष्यादे लक्षणं प्रोक्तं गर्भन्यासंविधि शृणु || २३ || इति सूक्ष्मशास्त्रे शिष्यादेर्लक्षणं नाम अष्टाविंशतिपटलः || प्. ११६) प्रतिमालक्षणम् | अतः परं प्रवक्ष्यामि प्रत्रिमालक्षणं * * | सर्वलोकहितार्थाय सर्वशान्तिकराय च || १ || देवतानां पृथग्रूपं तस्मात् प्रतिममुच्यते | सकलं निष्कलं चैव द्विविधं प्रतिमुच्यते || २ || निष्कलं तु निराकारं सकलं तु स्वरूपकम् | द्वात्रिंशदङ्गसंपूर्णं सकलं तु प्रभेदतः || ३ || प्रतिमा कारये पश्चाद् यथाविभवविस्तरैः | सौवर्णं राज्यकामीनां राजितं वैश्यवृद्धिदम् || ४ || त्राम्रं विप्रसमृध्यर्थं शूद्राणां विभवं भवेत् | यथा न * * द्रव्येण प्रतिमा कारयेद् बुधः || ५ || उत्तमं मध्यमं चैव अधमं त्रिविधं भवेत् | एकैकं त्रित्रिभेदुनि नवदा भेदमुच्यते || ६ || उत्सवं प्रतिमां चैव उमास्कन्दमहेश्वरः | एकविंशत्प्रभेदं तु षोडशैव प्रभेदतः || ७ || द्वादशैव प्रभेदं तु त्रिविधं भेदमुच्यते | ईशमानं प्रकर्तव्यं उत्तमोत्तममुच्यते || ८ || गर्भगृहं तदेव स्यात् स्तम्भमानं तमेव च | रशितिरङ्गुलं मानं उत्तमं तु विधीयते || ९ || तन्मानं नवधा कृत्वा एकैकं तु प्रभेदतः | एवं मानप्रभेदं तु शिल्पिशास्त्रोक्तमाचरेत् || १० || प्. ११७) प्रथमं सुखासनं प्रोक्तं वैवाह्यं तु द्वितीयकम् | तृतीयं मुमययुक्तं वृषारूढं चतुर्थकम् || ११ || पञ्चमं त्रिपुरान्तं तु नृत्तरूपं तु षष्ठकम् | चन्द्रशेखरमेवोक्तं सप्तमं तु विशेषतः || १२ || अष्टमं चार्धनारिशं नवमं हरिरर्धकम् | चण्डेश्वरप्रसादं तु दशमं परिकीर्तितम् || १३ || कामार्येकादशं प्रोक्तं द्वादशं कालनाशनम् | त्रयोदशं दक्षाणमूर्तिं भिक्षाटनमतः परम् || ११४ || सदाशिवं पञ्चदशं लिङ्गोत्पत्तिस्तु षोडशा | एवं षोडशमूर्तिनां भेदं वैवक्ष्यतेऽधुना || १५ || सुखासनं महाशान्तं कल्याणं सोमधारिणम् | गङ्गाधरं च पञ्चैते सृष्टिमूर्तिरिहोच्यते || १६ || अर्धनारि त्रिरात्रं च विरेशं वृषवाहनम् | भिक्षाटनं च पञ्चैते स्थितिमूर्तिरुदाहृदम् || १७ || कालहाकामदाहश्च महात्रिपुरनाशनम् | गजोद्भवं मन्वहारि जलन्धरवधस्तथा || १८ || चण्डेशं चैव चाष्टौ तु संहारमूर्तिरुच्यते | त्रिणेत्राश्च चतुर्बाहुं बालेन्दुकृतशेखरः || १९ || व्याघ्रचर्माम्बरश्चैव हारकेयूरभूषिताः | यज्ञोपवीतसंयुक्ता कुण्डलाभ्यमलङ्कृतम् || २० || प्. ११८) जटामकुटसंयुक्ता सर्वपुष्पैरलङ्कृताः | वरदाभयहस्ताभ्यां कृष्णापरशुधारिणः || २१ || एवं षोडशमूर्तिनां सामान्यमिदमीरितम् | विशेषं तु प्रवक्ष्यामि उमास्कन्दमहेश्वरे || २२ || सौम्यं रौद्रं तथा मिश्रं त्रिविधं भेदमुच्यते | पूर्वोक्तेन प्रमाणेन पञ्चासन समायुतम् || २३ || आयव्ययर्क्षवारांश योनिनां तु विशेषतः | शुभाशुभं निरीक्षन्तु सम्यक्कृत्वं तु बुद्धिमान् || २४ || ईशस्य बाहमानेन मुमायमानमुच्यते | मुमाय बाहुमानेन स्कन्दमानं प्रचक्षते || २५ || उमाशङ्करयोर्मध्ये स्कन्द वै बालरूपिणम् | देवस्याद्यप्रमाणेन आसनं तु विशेषतः || २६ || पञ्चभागं त्रिभागं तु मध्यक्षं चैव कारयेत् | त्रिभागेरधमं विद्यात् त्रिविधमासनस्मृतम् || २७ || एकासनसमायुक्तं पूर्वोक्तेन प्रमाणतः | मुखभागं विनिश्चित्य चतुर्विंशच्छताङ्गुलैः || २८ || मध्यमं दशतालेन देवीरूपं तु कारयेत् | नुवाद्धकालमानेन स्कन्दरूपं तु कारयेत् || २९ || देवीनां तु तथैवं स्यात् दसने सह योजयेत् | एकवक्त्रं महाबाहु निलशिव महद्युतिः || ३० || प्. ११९) जटामकुटसंयुक्तं पाश्वेन्दकृतसंयुतम् | त्रियक्षं चतुर्भुजं सौम्यं व्याघ्रचर्म ---- बरप्रभुम् || ३१ || वरदाभयहस्तं च कृष्णं परशुधारिणम् | दक्षिणे लम्बितं पदं वामपादं समासनम् || ३२ || सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् | सपुष्पवरदं हस्तं गौरिसम्यग्विशेषतः || ३३ || स्कन्ददेवनमेवोक्तम् एवमेवं विशेषतः | इदं सौम्यप्रकारेण सर्वसिद्धिकरं शुभम् || ३४ || कृष्णापरशुसंयुक्तंमभयं कटकं भवेत् | नानालङ्कारसंयुक्तं नानाभरणभूषितम् || ३५ || रौद्रं कटकहस्तं स्यात् स्कन्दं वा पुष्पहस्तकम् | रौद्रमेवासमाख्यातं पाशुपतादिमूर्तिना || ३६ || मिश्रं तु कटकं हीनं वामपाद प्रलम्बितम् | दक्षिणं पादमासिनं मुमादेवीं तथैव च || ३७ || षण्मुखं पर्वमेवोक्तं वरदाभयहस्तकम् | एवमिश्रं समाख्यातं लाकुले नैव कारयेत् || ३८ || सौम्यं तु शूलशैवं स्यादष्टाविंशत् त्रिभेदतः | ततः शास्त्रोक्तमार्गेण पशुपदादि कारयेत् || ३९ || एकैकसङ्करं कुर्यात् कर्ताभर्ता विनश्यति | तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् || ४० || प्. १२०) एवं त्रिविधभेदं तु तत्र मार्गेण कारयेत् | प्रतिमालक्षणं प्रोक्तं मनोन्मनि विधि शृणु || ४१ || इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे प्रतिमालक्षणं नाम एकोन्नत्रिंशत् पटलः || अतः परं प्रवक्ष्यामि सालानां लक्षणं परम् | प्रथमं भूतसाला च द्वितीयं मूर्तिसालकम् || १ || तृतीयं गणसाला च चतुर्थं लोकपालकम् | पञ्चमं शास्त्रसाला च षष्ठं पन्नकसालका || २ || सप्तगङ्गा सप्तस्तालनो मधिदेवताः | तासां हि पूजनार्थाय प्राकारं कल्पयेद् बुधः || ३ || प्रासादरक्षणार्थाय मङ्गलार्थाय बुद्धिमान् | प्रासादस्य तु विस्तारं चतुरंशैर्विभावयेत् || ४ || एकांशैनैव परितः प्रथमं सालकान्वितम् | तद्व्यंशेन समस्तेन कारये द्वे पृथक् पृथक् || ५ || एवं तु त्रप्रकारेण का कारयेत् प्रथमं बुधः | सार्धद्वित्रिक्रमेणैव कारयेत्रिविधं परम् || ६ || सार्धद्वित्रिगुणेनैव चतुर्गुणेन वा पुनः | दिग्भाघा च गुणेनैव चतुर्गुणं त्रिगुणितेन वा || ७ || प्. १२१) पञ्चभिर्गुणितेनैव कारयेद्गणिकाक्रमात् | * * * * * * * * * * * * * तात्परम् || ८ || * * * * * * * * * * तानि त बोधना | अर्चारोमण्डपं शुद्धं दिव्यपञ्चवसन्तकम् || ९ || महेन्द्रं स्वस्तिवृत्तं च मायं बाहु विकारकम् | उत्पलं पङ्कलग्नं च श्रीस्वस्ति च निवेशनम् || १० || वापिब्रह्मसभा चैव तथैवोत्पलपत्रकम् | महापद्मं महाच्छन्दं देववृत्तं तथैव च || ११ || चन्द्रेणैतद्विमानानि निमित्तानि सुखार्तिना | सोमच्छन्दं सोमवृत्तं बहुपत्रं सुवेष्टिकम् || १२ || श्रीवत्साकृतिकं घोणच्छन्दवृत्तं च वेदिकम् | सिद्धयोगं चतुर्वृत्तं कूटाकारं विलोकनम् || १३ || कूटाकारं च गान्धारं स्वस्तिकं तिलकं तथा | शशिवृत्तिं विशालं च तथा कुलेन्दुकं पुनः || १४ || एतान्यपि विमानानि शशिना निर्मितानि वै | वेदिकं वेदिवृत्तं च सोमवेणुं चतुर्मुखम् || १५ || आहिकं कीञ्चिकं यान अग्निच्छन्दोरक यथा | हस्तिपृष्ठं च नेवृत्तं प्रमदालत्रिबेकं त्रिवित् || १६ || वृषभं माधूवृत्तं च त्रिकूटं शिल्पवृत्तकम् | गोयागमण्डुकं चापि परिप्रादकमुत्तमम् || १७ || प्. १२२) पाशिकं पङ्कलग्नं च तथैवा गगनेश्वरम् | शाभिकारसवृत्तं च निवुषं परिब्रह्मकम् || १८ || मस्यकं गगनं चैव परिच्छन्दनान्तकम् | चण्डेशस्य विमानं तु भूताकारसमन्वितम् || १९ || एतानि कनकाद्यैश्च मुनिभि निर्मितानि वै | षण्णवातिविमानानि कथितानि पुरातनैः || २० || वह्नीपत्रंन्तथा चूर्णं चूलिकाञ्चेति तानि च | नवभेदानि सर्वाणि विमानानि पृथक् पृथक् || २१ || आयव्ययसमायुक्तं प्राकारं कारयेद् बुधः | लिङ्गादिरूपप्रसारे आयादींश्च न कारयेत् || २२ || स्वायम्भुवादि लिङ्गानां कर्णमानं तु वक्ष्यते | यस्य लिङ्गस्य पूजाशं अष्टाशं भजयेत् समम् || २३ || तेषु भागेषु लिङ्गस्य शिरसादीनि बुद्धिमान् | चतुर्विंशत्च्छताङ्गुल्यैरथवा कारयेद् बुधः || २४ || तस्माद्भागे मुखादीनि कारयेद्देशिकोत्तमः || २४ || इति सूक्ष्मशास्त्रे षण्णवति प्रासादं नाम त्रिंशत् पटलः || प्. १२३) अथातं संप्रवक्ष्यामि घृतकम्बललक्षणम् | सर्वलोकहितार्थाय सर्वभूतहिताय च || १ || गोब्राह्मणनृपादीनां शिताकुर्वन्ति घर्मके | माघमासे मघर्क्षे तु पौर्णमास्यां विशेषतः || २ || घृतकम्बलकं कुर्यादर्के वा चान्द्रमासके | दिवा पर्वणि संबन्धे रात्रौ नक्षत्रसंयुते || ३ || तस्मिन्दिवैव कर्तव्यं पर्वसंबन्धकारणात् | सर्वपापक्षयं पुंसां सर्वकार्मार्थसाधनम् || ४ || स्नेहद्रव्यादि पोषार्थं माघामासे यजेत् क्रमात् | शिवप्रतीकरं साक्षादपमृत्युविनाशनम् || ५ || पादादिमूर्ध्निपर्यन्तं लेपयेद्गोघृतेन तु | श्वेतादीनां गवांश्चैव घृतं सङ्गृह्य बुद्धिमान् || ६ || लिङ्गे द्वे कम्बलं न्यस्य गन्धपुष्पादिभिर्यजेत् | आत्मार्थेषु परार्थेषु गोलकन्यस्य विन्यसेत् || ७ || निरोपाग्नियुतं शुद्धं कृमिकोटरवर्जितम् | ब्रह्मचारि चतुवण्यां गोक्षीरा हि च सङ्ग्रहेत् || ८ || सौवर्णादिषु पात्रेषु वस्त्रपूतेन बुद्धिमान् | हृदयेनैव मन्त्रेण अग्निकर्मादि कारयेत् || ९ || आर्द्रेणैव समायुक्तं यावद्वै घनतां व्रजेत् | तावत् पात्रेषु संपूज्य प्रासादेनैव मन्त्रतः || १० || प्. १२४) पचनालयदेशे तु अन्यस्मिन् वा मनोरमे | आत्मार्थे चैशदिग्भागे पूजास्थानं तु पूर्वके || ११ || मण्डलं कारयेत् तत्र वृत्तं वा चतुरश्रकम् | तस्य मध्ये न्यसेत् पात्रं हृदयेनैव मन्त्रतः || १२ || तस्मादन्येषु पात्रेषु दधिसङ्ग्राह्य देशिकः | हृदयेन तु मन्त्रेण शिवाम्भसा तु पूरयेत् || १३ || वस्त्रेणैव तु हस्ताभ्यां मर्दयेत् पुरुषेण तु | यावद्वै भिन्नतां याति तावद्वै मथनक्रिया || १४ || अन्यपात्रेषु मतिमान् आनीयय नवनीतकम् | पचनालयदेशे तु अग्निमन्त्रेण कारयेत् || १५ || शुद्धपात्रे तु मतिमान् सङ्ग्रहेद्धृदयेन तु | सहस्रप्रस्थकं मुख्यं शतप्रस्थान्तकं क्रमात् || १६ || प्रत्येकं नवधा मानं कारयेद् विभवानुगम् | अथवा हीनमानं तु दशप्रस्थान्तकं क्रमात् || १७ || तदा भावे दशप्रस्थं प्रस्थान्त व क्रमेण तु | एवं बहुप्रकारेण आत्मार्थे वा परार्थके || १८ || आत्मार्थेषु दृमार्गं स्यात् प्रभूतं स्थापने बुधः | गन्धपुष्पादिभिः पूज्य प्रासादेन पृथक् पृथक् || १९ || सर्वालङ्कारसंयुक्तं शङ्खध्वनिसमन्वितम् | नानावाद्यसमायुक्तं नानागेयसमन्वितम् || २० || प्. १२५) ग्रामप्रदक्षिणं वापि प्रासादं वा प्रदक्षिणम् | सुगुप्ते मण्डपे स्थाप्य प्रासादेन तु मन्त्रतः || २१ || प्रासादस्याग्रतः कुर्यान्मण्डपं चतुरश्रकम् | द्वादशहस्तं वा नवहस्ताषहस्तकम् || २२ || ब्राह्मणादिक्रमेणैव प्रपां वा कारयेद् बुधः | चतुद्वारसमायुक्तं चतुस्तोरणभूषितम् || २३ || दर्भमालाभिरावेष्ट्य वितानध्वजशोभितम् | मण्डपस्य त्रिभागेकं मध्ये वेदिं प्रकल्पयेत् || २४ || उत्सेथं रत्निमात्रं स्यात् तालमात्रमथापि वा | वेदिकापूर्वदिग्भागे होमकुण्डं हि कारयेत् || २५ || वृत्तं वा चतुरश्रं वा त्रिमेखलारलङ्कृतम् | स्थावरे तु चतुर्दिक्षु होमं कुर्यात् तु देशिकः || २६ || आत्मार्थे चैकहोमं स्याद् ब्रह्मणादि क्रमेण तु | पुण्याहं वाचयेत् तत्र पावमानेन प्रोक्षयेत् || २७ || घृतकम्बलकात्पूर्वे नवके सप्तपञ्चमे | अङ्कुरानर्पयेद्विद्वान् शास्त्रदृष्टेनकर्मणा || २८ || अङ्कुरस्यार्पणं पूर्वे घृतं सङ्ग्राह्य देशिकः | अधिवासनरात्रौ तु पात्राणि पूरयेज्जलैः || २९ || सर्वगन्धसमायुक्तं पञ्चब्रह्मषडङ्गकैः | अथवा च जलद्रोणाघटे वा पूरयेत् क्रमात् || ३० || प्. १२६) दशपात्रं पञ्चपात्रं त्रीणिपात्रमथापि वा | एकपात्रं हि चाल्पे तु आत्मार्थे त्रीणि चैकतः || ३१ || दशपात्रे दशं मूर्तिं पञ्चमूर्तिश्च पञ्चमे | त्रिमूर्तिश्च त्रिपात्रेषु एकपात्रे शिवस्तथा || ३२ || तन्तुकूर्चसमायुक्तान् सवस्त्रान्नेयसंयुतान् | एवमेव क्रमेणैव स्थापयेद्वेदिकाबहि || ३३ || नववस्त्रेण संवेष्ट्य पात्राणमस्य देशिके | तं जले शिववत् कृत्वा तज्जले तु घृतं क्षिपेत् || ३४ || कुङ्कुमागरुकर्पूरैः अरिदै चूर्णसंयुतम् | कर्षयेदीशमन्त्रेण देशिको तत्र बुद्धिमान् || ३५ || पश्चात् पिर्णत्वमायादि प्रासादेनोद्धृतः क्रमात् | सौवर्णेषु च पात्रेषु प्रत्येकं सङ्ग्रहेद् बुधः || ३६ || स्थण्डिलक्रममार्गेण वेदिकां कारयेद् बुधः | दशायुधानि परितः अष्टमङ्गलसंयुतम् || ३७ || पूर्ववत् संस्कृतान् कुम्भान्वेदिकोपरिविन्यसेत् | अष्टलोकाधिपान् कुम्भान् कुम्भेषु चार्चयेत् क्रमात् || ३८ || तेषां मध्यमदेश तु घृतपिण्डानि विन्यसेत् | नववस्त्रेणसंवेष्ट्या प्रासादेनर्चयेद्बुधः || ३९ || पुण्याहं वाचयेत् तत्र ब्रह्मघोषसमन्वितम् | होमं कृत्वा तदन्ते तु पञ्चब्रह्मषडङ्गकैः || ४० || प्. १२७) समिधाज्यचरुलाजान् गुलक्षीरदधिर्यवम् | सर्षपं मुद्गमाषौ च होमद्रव्यं क्रमेण तु || ४१ || प्रभूतैः कबलेयद्यत्स्थावरेषु चतुष्वपि | देशिकस्यानुसारेण प्रत्येकं होममाचरेत् || ४२ || एभि होमेरशक्तश्चेद्देक एव विधियते | आत्मार्थे तद्वदेवोक्तं शूद्राणमेकहोमकम् || ४३ || एवं विधिप्रकारेण अच्चितेनैव कारयेत् | बलिं तत्र तु कुर्यात् तु वेदिबाह्ये बलिं क्षिपेत् || ४४ || पाश्चाद्देवं च देवीं च अर्चनोक्तं क्रमाद्यजेत् | घृतं शिरोर्पणं कुर्यात् प्रासादेन तु मन्त्रतः || ४५ || हविर्न्निवेदयेत् तत्र उपदंशैस्समन्वितम् | ताम्बूलं दापयेत् तत्र ब्राह्मणान्भोजयेत् ततः || ४६ || रात्रावधिवसेत् तत्र पञ्चगव्यामृतेस्सह | प्रभाते देशिकं स्नात्वा पश्चाद्यजनमारभेत् || ४७ || अलङ्कृत्यार्चयित्वा तु व्योमव्यापि दशाक्षरैः | एवं विधिप्रकारेण कारयेद्देशिकोत्तमः || ४८ || हृदयेन तु मन्त्रेण घृतकम्बलकं यजेत् | लोकपालान् समभ्यर्च्य स्वस्वैर्न्नामैविशेषतः || ४९ || होमकर्मविधिं कुर्यात् पूर्वोक्तविधिना सहा | अन्ते पूर्णाहुतिं दद्यात् प्रासादेन तु मन्त्रतः || ५० || प्. १२८) आचार्य पूजयेत् तत्र मूर्त्तिधाराश्च पूजयेत् | ग्रामप्रदक्षिणं कृत्वा घृतकम्बलकं बुधः || ५१ || सर्वालङ्कारसंयुक्तं नृत्तगेयसमन्वितम् | लिङ्गमूर्तिं न्यसेत् पश्चाद्घृतकम्बलकं हृदा || ५२ || मूर्ध्नादिपादपर्यन्तं कम्बलं विन्यसेत् क्रमात् | सकलानि च सर्वाणि स्थापने विन्यसेत् क्रमात् || ५३ || परिवाराणि सर्वाणि स्थावरे चैव विन्यसेत् | महाव्योमेन मन्त्रेण कम्बलं सर्वथा न्यसेत् || ५४ || गन्धपुष्पादिभिः पूज्य प्रासादेन तु मन्त्रतः | प्रभूतहविषं दद्याद् हृदयेन तु मन्त्रतः || ५५ || नित्यान्ते तु प्रकर्तव्यं संध्यायां तु विशेषतः | दिवसं दिवसार्थं च यामं यामार्थमेव च || ५६ || पातकश्चात् बकङ्कृत्वा पूर्ववस्नपनं तथा | महाव्योमेन मन्त्रेण दशाक्षरं तथैव च || ५७ || अर्चयेत् शास्त्रमार्गेण गन्धपुष्पादिभिः बुधः | परिवाराणि सर्वाणि स्नपनं कारयेत् क्रमात् || ५८ || तेषां हविष्यं दद्यात् तु तन्त्रमन्त्रेण दापयेत् | कम्बलं देवदेवस्य चण्डेशाय प्रदापयेत् || ५१ || चण्डमन्त्रमनुस्मृत्य कम्बलपरित्यजेत् | घृतकम्बलकं सर्वं गोषु चाप्सु विनिक्षिपेत् || ६० || प्. १२९) अग्निना दाहयेत् तत्र चण्डमन्त्रमनुस्मरन् | यस्मिन् कर्मणि यन्मत्रं तस्मिन् हृदयमन्त्रतः || ६१ || कारयेत् तु विशेषेण मन्त्रेणैव विशेषतः | घृतकम्बलमात्रे तु एकरात्राद्धृतं यदि || ६२ || प्रत्येकं संस्कृतं गव्यं घमषा त्रीणि सप्त च | अतः परं न कर्तव्यं आत्मार्थे तु परार्थके || ६३ || आत्मार्थे स्पटिकाद्येषु स्थण्डिले मण्डलादिके | घृतकम्बलकं न्यस्य भित्तिचित्रे तु दर्पणे || ६४ || पठेऽपि तत् तद्वत् कर्तव्यं अग्नौ होमं च कम्बलम् | सूर्यमण्डलकाद्योमकम्बलं शोधयेद् बुधः || ६५ || जलदेशे जले न्यस्य स्वैस्वै मूलैश्च बुद्धिमान् | यावत् कम्बलकं यस्य तावद्बीजं न चालयेत् || ६६ || एवमात्मार्थकं कुर्यात् परार्थं नैव तत्क्रिया | एवमेव विधानेन कारयेदुक्तमार्गतः || ६७ || आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः | घृतकम्बलकं प्रोक्तं दमनारोपणं शृणु || ६८ || इति सूक्ष्मशास्त्रे घृतकम्बलं नाम एकत्रिंशत्पटलः || प्. १३०) शैवाचारं प्रवक्ष्यामि सामान्यर्चां विशेषतः | उत्तरायणगे सूर्ये क्षुरकर्मसमारभेत् || १ || गर्भाष्टमे द्विजनं हि वेदाभ्यासं समारभेत् | पञ्चादशवर्षादूर्ध्वं विवाहविषयं कुरु || २ || शुद्ध्यर्थं स्नपनं कुर्याद्विधि दृष्टेन कर्मणा | * * * * * * * * * विरञ्च प्रणम्य च || ३ || पश्चात् पूजासमारभ्य भस्मरुद्राक्षधारकः | तस्य सन्निधिकाले तु शिवागमविचारयेत् || ४ || पश्चान्निर्वाणसंबन्धं कुर्याद्वाग्रविचारतः | पञ्चगोचर शुद्धात्म शिवेन परिभाषतः || ५ || पश्चादापाद्य कर्माणि कुर्याद् वै दीक्षिको बुधः | अन्यस्मिन् यदि वा कुर्या स्थानजस्यानुसारतः || ६ || सोऽपि मैत्रविधानाञ्च अन्यथां च न कारयेत् | अनादिविषयार्द्धेतो पूर्वसन्तानको गुरुः || ७ || ग्रामादीनादिकं कुर्याद् आदिशैवोदिको गुरुः | पित्रा तु यत्कृतं पूर्वं तस्य पुत्रेण तत्कृतम् || ८ || तस्य सन्निधिकाले तु तस्य सकलं नयेत् | अन्यथा करणीयञ्चेत् स्थाननाशं न संशयः || ९ || तयोरभावयेस्सम्यक् सन्तानश्च सगोत्रजैः | तेष्वसिद्धे तु कुर्यात् तु तस्य मित्रादिभिर्बुधः || १० || तस्य वक्त्रस्य तन्त्रेभ्यः कुर्यादिह विशेषतः | अन्येनाप्यनवक्त्रेण कुर्याश्चेद्दोषदम्महत् || ११ || प्. १३१) कारणं किं विशेषोऽस्ति मन्त्रसंबन्धकारणात् | तयोरमावयोस्सम्यक्सन्तानश्च सगोत्रभिः || १२ || क्रिया गर्भस्य भेन्तद्वत् गर्भात्मतं द्विचर्थकम् | आत्मार्थयजनं कुर्यात् परार्थं तु कदाचनात् || १३ || तस्मात्सर्वप्रयत्नेन तत्सर्वं मुक्तकालके | अन्यस्मिन् मासि कुर्याच्चेत्तत्फलं निष्फलं भवेत् || १४ || लिङ्गे च प्रतिमायां वा भित्तिचित्रे पटेऽपि वा | स्थण्डिले मण्डले चाग्नौ जले वा सूर्यमण्डले || १५ || नवेष्वेतेषु स्थानेषु आत्मार्थं कारयेत् सुधीः | लिङ्गबेरे तथा भित्तौ पटे वापि विशेषतः || १६ || चातुर्थेषु च स्थानेषु परार्थं कारयेद्बुधः | आरोहणादिनात्पूर्वे नवमे सप्तमे दिशि || १७ || सुमूहुर्त्ते सुलग्ने तु अङ्कुरानर्पयेद् बुधः | प्रासादस्याग्रतः कुर्यान्मण्डं शांकरे दिशि || १८ || षोडशं दशहस्तं वा नवहस्ताष्टहस्तकम् | षोडशस्तम्भसंयुक्तं चतुद्वारसमन्वितम् || १९ || नवभागैकभागे तु मध्यवेदीं प्रकल्पयेत् | अथवा पञ्चषट् सप्तताले विस्तरकं कुरु || २० || द्वितालेनोच्छ्रयं कुर्याद् दर्पणोदरसन्निभम् | पञ्चचूर्णैरलङ्कृत्य वितानध्वजशोभितम् || २१ || प्. १३२) दर्भमालासमायुक्तं तोरणैश्च विभूषितम् | अष्टमङ्गलसंयुक्तं दशायुधानि विन्यसेत् || २२ || पुण्याहं वाचयेत् तत्र प्रोक्षयेन्मन्त्रवारिणा | षड्द्रोणै पञ्चभिद्रोणै वेदिमध्ये समर्चयेत् || २३ || तदर्थं तण्डुलैर्युक्तं तण्डुलार्द्धतिलैरपि | तन्मध्ये पद्ममालिख्य अष्टपत्रं सकर्णिकम् || २४ || पूर्वादीनि चतुर्दिक्षु कारयेदग्निकुण्डकम् | अथवा त्रीणि कुण्डं वा एकाग्निमधवापि वा || २५ || मण्डपस्यानुरूपेण अथवा अस्त्रमात्रकम् | त्रिमेखलैरलङ्कृत्य एकमेखलमेव वा || २६ || एवमेव क्रमेणैव कारयेन्मण्डपक्रियाम् | अधिवासं तु पूर्वेद्युर्दमनस्य हृदा बुधः || २७ || नवपात्रेषु संगृह्य स्वनुगुप्ते निधापयेत् | देशिको मूर्त्तिपश्चैव स्नानं कुर्यास्सशिकान् || २८ || पञ्चाङ्गभूषणै भूष्य दिव्यगन्धानुलेपनम् | स्थापयेद् वेदिकामध्ये शिवकुम्भं च वर्धनि || २९ || अभितः कलशानष्टौ वारिपूर्णान् सहैमकान् | चतुर्दश्यादि षष्ठ्यन्तं पञ्चदश्यादिके परम् || ३० || प्रतिपद्यादि चाष्टम्यामेव मेषाधिवासयेत् | प्रत्येकं वस्त्रमावेष्ट्य अर्चयेद्गन्धपुष्पकैः || ३१ || प्. १३३) दमनं च पृथक् शोध्य प्रोक्षयेत् तु कुशाम्भसा | पञ्चधाविभजेत् पुष्पं प्रत्येकं पात्रकं न्यसेत् || ३२ || पञ्चब्रह्म षडङ्गैश्च गन्धपुष्पादिभिर्यजेत् | शिवकुम्भस्य परितः स्थापयेद्धृदयेन तु || ३३ || समिधाज्य चरूलाजान् सर्षपाश्च यवातिलान् | पञ्चब्रह्मशिवाङ्गैश्च दशाक्षरेण मन्त्रतः || ३४ || कूर्मेण जुहुयाद् विद्वान् प्रत्येकं पञ्चविंशति | कुण्डं प्रति विशेषेण कुर्याद्वै देशिकज्ञया || ३५ || द्रव्यान्ते द्व्याहृतीं हुत्वा प्रासादेन स्पृशे बुधः | * * * * * * * * * * वरुलिकेन तु || ३६ || कुण्डं प्रतिविधानेना कुर्याद्वा शंकरेपि वा | एवमेव विधानेन कारयद् देशिकोत्तमः || ३७ || स्पर्शयेद्दमनान् पात्रान् चतुर्दश्यादिकानपि | इन्द्र ईशानयोर्मध्ये कारकुम्भं तु विन्यसेत् || ३८ || रतिकुम्भं तु तत्पार्श्वे प्रत्येकं वस्त्रवेष्टितम् | गन्धपुष्पादिभिः पूज्या स्वनाम हृदयेन तु || ३९ || सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् | गन्धदामनक दद्यात् देवदेवस्य मूर्द्धनि || ४० || सर्वेषां सकलादीनां स्वनामैश्चैव पूजयेत् | भक्तनां परिचाराणां यथा लाभेन दापयेत् || ४१ || प्. १३४) हविर्निवेदये पश्चात् प्रासादेन तु मन्त्रतः | एवं रात्रौ प्रकुर्यात् तु प्रभाते स्नानमाचरेत् || ४२ || सकलीकरणं कृत्वा देशिकस्य विशेषतः | पावमानेन संप्रोक्ष्य महाव्योमेन मन्त्रतः || ४३ || शङ्खदुंदुभिनिर्घोषैर्गीतवाद्यैरवैर्युतम् | कामकुम्भं ततोद्धृत्य रतिकुम्भं विशेषतः || ४४ || ग्राम प्रदक्षिणं कृत्वा द्वारपार्श्वे तु विन्यसेत् | नन्दिं चैव महाकालमभिषेकं क्रमेण तु || ४५ || गन्धपुष्पादिभिः पूज्य स्वनामसहितेन तु | पश्चाद् गर्भान्तिकं गत्वा निर्माल्यं तु विसर्जयेत् || ४६ || शिवकुम्भादिकान्कुम्भान् लिङ्गाग्रे स्थापयेद् बुधः | गन्धपुष्पादिभिः पूज्य पावमाने प्रोक्षयेत् || ४७ || महाव्योमेन मन्त्रेण अभिषेकं क्रमेण तु | शुद्धस्नानं प्रकुर्यात् तु प्रासादेन तु मन्त्रतः || ४८ || दामनकान् ततोद्धृत्य प्रासा * * प्रदक्षिणम् | कृत्वा चैव विशेषेण द्विपात्रं तु पृथन् न्यसेत् || ४९ || महाव्योमेन मन्त्रेण देवदेव * * र्धनि | निक्षिपे पिण्डिकायां च परं चैव विशेषतः || ५० || गौरिगायत्रि मन्त्रेण गन्धपुष्पादिभिर्यजेत् | शेषाशं सकलादीनां स्वनामैश्चैव पूजयेत् || ५१ || प्. १३५) भक्तानां परिवाराणां यदा लाभेन दापयेत् | हविन्निवेदयेत् पश्चाच्छिवभक्ताश्च भोजयेत् || ५२ || देशिकं पूजयेत् पश्चात् मूर्तिपान् पूजयेत् ततः | आत्मार्थं पूजये काले भागं तु पूर्ववत् कुरु || ५३ || एकांश भास्करस्योक्तं विघ्नेशस्य ततः परम् | तृतीयांशं शिवस्योक्तं पिण्डिकायाश्चतुर्थकम् || ५४ || शेषांशं पञ्चभागं तु सम्यक् कुर्याद्विचणम् | एकांशं च गुरोदद्यात् दपपरं चार्चकस्य तु || ५५ || अग्ने तृतीयकं दद्यात् भक्तानं तु चतुर्थकम् | पञ्चाशं पैतृकादीनाम् एवमेव क्रमाद् ददेत् || ५६ || आत्मार्थे चैव होमं तु परार्थे शक्तितो भवेत् | विप्रक्षत्रियवैश्यनामात्मार्थे स्थापनोक्तवत् || ५७ || अथवा एकहोमं च यथावित्तानुसारतः | त्रिरात्रं च द्विरात्रं च अथवा एकरात्रकम् || ५८ || दिवसं दिवसार्थं च मध्यान्नात् प्राक्समारभेत् | प्रथमारम्भदिवसे अधिवासनमुच्यते || ५९ || अवरोहण कालस्तु तिथिकालं तु लक्षयेत् | तिथिप्रधानमारोहे ह्यवरोहे न दोषभाक् || ६० || नवपात्रेषु निक्षिप्य पञ्चगव्येन प्रोक्षयेत् | महाव्योमेन मन्त्रेण शिवाम्भसा तु प्रोक्षयेत् || ६१ || प्. १३६) नित्यं सन्ध्यावसाने तु महाव्योमेन मन्त्रतः | दमानारोहणं कुर्याद् यथा शेषतः || ६२ || निर्माल्यं न भवेत् तत्र इति शास्त्रस्य निश्चयः | मन्त्रे विसर्जनीयं चेत् निर्माल्यं तत्र निश्चयः || ६३ || एवं हि चिरकाले तु कुर्याद् वै स्थापरे बुधः | आत्मार्थमेकरात्रं तु कुर्याद् वै सर्जयेद्बुधः || ६४ || अघोरास्त्रेण मन्त्रेण संख्याते वर्जयेद् बुधः | चण्डेश्वरस्य दातव्यं चण्डमन्त्रमनुस्मरन् || ६५ || स्नपनं कारयेद्धीमान् प्रासादेन तु मन्त्रतः | पञ्चगव्याभिषेकं तु शुद्धस्नाने कारयेत् || ६६ || अर्चयेद् गन्धपुष्पाद्यैः महाव्योमेन मन्त्रतः | यवादीनाविसर्ज्याथात वदग्निं * * * रेत् || ६७ || महाव्योमेन मन्त्रेण अष्टोत्तरशताहुतिः | घृतेन चरुणा चैव होमं कुर्याद् दिनं प्रति || ६८ || अवरोहणकाले तु पूर्णाहुति शिवेन तु | प्रभूतं हविर्दद्याद् देवदेवस्य बुद्धिमान् || ६९ || सकलानि तथान्येषां प्रभातं तु हविर्ददेत् | भक्तानां परिवाराणां यथाविभव मार्गतः || ७० || आचार्यपूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः | भित्तिचित्रैः पटे वापि दर्पणे परिलिङ्गकम् || ७१ || प्. १३७) हस्तमात्रप्रमाणेन मूलधामानुरूपतः | कारयेत् तु विशेषेण कुर्यदमनकं बुधः || ७२ || क्रिया परिसमाप्तौ तु दर्पणं दर्शयेत् च्छिवे | एवं विधिप्रकारेण कुर्याद् वै चित्रके बुधः || ७३ || स्थण्डिले मण्डले कुर्यात् द्यन्त्र मार्गेण देशिकम् | अग्नौ दमनकं कृत्वा जले तत्र विनिक्षिपेत् || ७४ || सूर्यमण्डलव्योमेन ददेद् दमनकं सुधिः | आत्मार्थे च परार्थे च एवमेवं हि कारयेत् || ७५ || अनुक्तं यदि कुर्याच्छेत् कर्तृनाशं न संशयः | तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् || ७६ || आत्मार्थविषये काले भक्तिमार्गेण वा कुरु | मासं पक्षं तिथिं कुम्भं भागञ्चैवा समासतः || ७७ || न होमकाले भेदस्यादात्मार्थे हीनजातिषु | अन्यसर्वसमानंस्य ब्रह्मक्षत्र्यविशां क्रमात् || ७८ || अन्ते महोत्सवं कुर्यात् परार्थे तु विशेषतः | अनुक्तं यद् भवे किञ्चित् पवित्रवत् समाचरेत् || ७९ || दमं च पवित्रं च पुक्रणं च तथोत्सवम् | शिवकुम्भं तथा शान्ति घृतस्नानं तु कम्बलम् || ८० || चिरकालकृतं च यत्समानं तेषु सर्वतः | अर्चको देशिकश्चैव ब्रह्मचारित्वमाचरेत् || ८१ || प्. १३८) अक्षरालवणा शिष्याद्यावत्कालं व्रतं चरेत् | ग्रामान्तरं न गन्तव्यं गन्तव्यं दिशि न स्वपेत् || ८२ || अन्यस्मिन् सर्वकाले तु गतागतं तु दोषभाक् | अङ्कुरानर्पयेत् पूर्वं व्रतस्थ देशिकोत्तमः || ८३ || आत्मार्थ विषये काले अर्चकस्य गरुस्तथा | एवमेव क्रमेणैव कुर्यादारम्भके बुतिधः || ८४ || प्रमदादृतहीनस्सो होमं चान्नार्च कुर्यादिति | महाव्योति मन्त्रेण दशसाहश्रकं जपेत् || ८५ || दशाक्षरेण वा कुर्यात् प्रासादेनथवा पुनः | एवमेव प्रकारेण कुर्यादारम्भके विथेः || ८६ || अन्यधा यदि कुर्याच्चेत् राजारष्ट्रविनाशनम् | आत्मार्थेभ्यर्च्य कर्मश्च विनाशं भवनिश्चयः || ८७ || दमनारोपणं प्रोक्तं शैवाचारं शृणुष्वथ || ८७ || इति सूक्ष्मशास्त्रे दमनारोपणं नाम चतुस्त्रिंशत्पटलः || आत्मार्थयजनं वक्ष्ये शृणुध्वं तत्प्रभञ्जना | आरोग्यमायुकीर्तिश्च विजयश्च फलप्रदम् || १ || प्. १३९) ब्रह्महत्ति विनाशार्थं वीरहतिविनाशनम् | गोपहत्ति विनाशार्थं प्रजावृद्धिकरं परम् || २ || सर्वकामप्रसिद्ध्यर्थं सर्वयज्ञफलप्रदम् | आत्मार्थयजानात् सम्यङ् न भूतो न भविष्यति || ३ || शुद्धकेवलसंमिश्रमात्मार्थं त्रिविधं स्मृतम् | शुद्धं वा शक्तिरहितं केवलं सक्तिसंयुतम् || ४ || सौरादिचण्डपर्यन्तं मिश्रं चैव प्रकीर्तितम् | प्रातरुत्थाय मनसा ललाटे भस्म लेपयेत् || ५ || शिवध्यान पुराणं च चिन्तयेच्छिवभाषणम् | तद्ग्रामं तु बहिर्गत्वा विण्मूत्रं च विसर्जयेत् || ६ || शौचमाचमनं दन्ततालु शोधनकः कुरु | स्नानं च दर्पणं कृत्वा प्राङ्मुखो वेदिकं चरेत् || ७ || आद्रवस्त्रं परित्यज्य धौतवस्त्रेण वेष्टयेत् | उत्तराभिमुखो भूत्वा शैवसन्धिक्रमं चरेत् || ८ || दक्षहस्ते जलं धार्य सेचयेदक्षरं लिखेत् | वस्त्रशुद्धिं तः कृत्वा एकाक्षरीति मन्त्रतः || ९ || आपोशनार्घ्यमन्त्रेण तत्वमन्त्रं त्रयेण च | विभूतिं वामहस्तेन सव्यहस्तेऽभिमन्त्रयेत् || १० || असुरा त्यजेद्धीमान् द्वात्रिंशैकांशराक्षसम् | दिग्बन्धनं ततः कृत्वा अस्त्रमन्त्र मनुस्मरन् || ११ || प्. १४०) सव्यहस्ते जलं नीत्वा मर्दयेदङ्गुलिन्न्यसेत् | मूर्द्धि चैव ललाटे च कर्णे कर्णे तथैव च || १२ || हृदये चैव बाह्वोश्च नाभौ कर्णौ च मूर्ध्नि च | निष्कनिष्कार्थकं चैव निष्कद्वयद्वयार्धकम् || १३ || विप्रादिनां च वर्णानां भस्मस्नानं समाचरेत् | रुद्रसंध्यासु सन्ध्येषु ब्रह्माङ्गानि प्रकल्पयेत् || १४ || प्राणायामत्रयं कृत्वा दिग्बन्धं चास्त्रमन्त्रतः | पूर्वमेवाङ्गुलिन्यास अङ्गन्यासं च कल्पयेत् || १५ || सव्यहस्ते जलं धार्य वामहस्तस्थितं तु वा | आपोशनार्घ्यमन्त्रेण पूर्वमन्त्रत्रयान्न्यसेत् || १६ || द्विहस्तन्य जलं धार्य ऊर्ध्वन्ताराघ्यमन्त्रतः | सव्यहस्ते जलं ग्राह्य अस्त्रमन्त्रप्रदक्षिणम् || तर्पणं रुद्रसंख्यात ब्रह्माङ्गैनै मन्त्रतः || १७ || आचमनं ततः कृत्वा वैदिकं शैवमेव च | पादप्रक्षालनं कृत्वा ग्रहारामे शिवालये || १८ || नदीतीरे तटाके वा पर्वते राजथानिके | नवहस्तं सप्तहस्तं पञ्चहस्त त्रहस्तकम् || १९ || चतुरश्रायतं वृत्तं यथेष्टं मण्डपं न्यसेत् | मार्जनं प्रोक्षणं चैव गोमयेनानुलेपयेत् || २० || आधारशक्तिमभ्यर्च्य तन्मध्ये खेटकं न्यसेत् | तदूर्ध्वे निर्मिकां चाद्य ऊर्ध्व पीठे तु पश्चिमे || २१ || तदूर्ध्वे पद्मपीठस्यात् प्रभामण्डलसंयुतम् | वस्त्रधारं च वस्त्रं च पुष्पाधारसमन्वितम् || २२ || प्. १४१) लोहजं रजतं चैव काञ्चनं रत्नसंयुतम् | रुद्राक्षं च प्रवालं च मुक्तामालासमन्वितम् || २३ || नवरत्नविचित्रेण माल्याभरणशोभितम् | छिद्रवस्त्रसमायुक्तं च्छित्राभरणशोभितम् || २४ || खण्डवस्त्रसमायुक्तं लिङ्गशोधनसंयुतम् | गन्धपात्रसमायुक्तं पुष्पपात्रसमन्वितम् || २५ || शङ्खधारं च शङ्खं च पात्राधारं च पात्रकम् | स्थलिका स्थलिकाधरं पानियाधारपात्रकम् || २६ || जलद्रोणसमायुक्तं जलोद्धारणपात्रकम् | गन्धं च धूपदीपं च आरात्रिकमधः परम् || २७ || स्नानवेदीं च पादं च स्थितदीपसमन्वितम् | तीर्थपात्रसमायुक्तं माज्यस्थालीं च सृक् सृवम् || २८ || पचान् पात्रसमायुक्तं व्यञ्जने पात्रसंयुतम् | व्रिहि चर्मं च दर्वीं च काष्ठा त्रिपादसंयुतम् || २९ || नालिकेरसमायुक्तं व्यजनं चिन्नशस्त्रकम् | पात्रं संपाद्यमेवोक्तं द्रव्यसंपाद्यमुच्यते || ३० || चन्दनागरुकर्पूरं कुङ्कुमं रक्तचन्दनम् | हीमतोयं कृष्णगन्धं गोरचनमथ द्वयम् || ३१ || कुसुमं पञ्चपुष्पं च अष्टपुष्पं च पात्रकम् | कङ्कणं लम्बमाला च बिल्वदूर्वाक्षतं तथा || ३२ || प्. १४२) जलपूरितमेवं तु जलद्रव्यसमन्वितम् | पाद्यद्रव्यादिसंयुक्तं धूपद्रव्यादिसंयुतम् || ३३ || कपिलाज्यं शुद्धतैलं शिर्षपिष्टचूर्णकम् | पञ्चगव्यामृतं चैव नालिकेरं प्रयत्नतः || ३४ || कदलीफलंसंयुक्तं स्नानद्रव्यसमन्वितम् | वस्त्रचिन्नानि विविधं वस्त्रन्तु प्रयत्नतः || ३५ || पञ्चत्रिरेकवृत्तं वा तन्तुरुद्रा च सङ्ख्यया | आवृतं सप्तनालिं वा पञ्चनालैकनालकम् || ३६ || दीपज्वालसमायुक्तं गोघृतं वसुतैलकम् | येधेष्टं गोघृते चैव वृक्षबीजमतैलकम् || ३७ || द्विप्रस्तादि चतुद्रोणं शुद्धतण्डुलसंयुतम् | लवणक्रमवत्वं च व्यञ्जनैरुपदंशकः || ३८ || मरीचि लवणं चैव जीरकं सर्षपं तथा | क्रमुकस्य फलं चैव पत्रं च श्वेतचूर्णकम् || ३९ || भस्मं च दर्पणच्छत्रं चामरं तालवृन्दकम् | आसनं दर्भदारुं च सारङ्गैश्चर्ममेव च || ४० || व्याघ्रचर्मं च रोमं च रत्नकम्बलवाससम् | आसनं कल्पयेद्धीमान् अर्चनाक्रममुच्यते || ४१ || उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितम् | भस्मस्नानं ततः कृत्वा पूर्वोक्तविधिना सहा || ४२ || प्. १४३) शिरस्ताटनमेवोक्तं दिग्बन्धनमतः कुरु | प्राणायामत्रयं कृत्वा भूतशुद्धिक्रमं चरेत् || ४३ || पञ्चग्रन्थिस्तु विच्छेदि शिरः पादान्तिकं चरेत् | अमृताप्लावनं कृत्वा करन्यासांगुलिं न्यसेत् || ४४ || अङ्गन्यासाष्टत्रिंशेन श्रीकण्ठाद्यक्षरं न्यसेत् | शिवहस्तं तु संकल्प्य हृत्पद्मेऽर्चयेच्छिवम् || ४५ || नाभौ होमं च कर्तव्यं हृन्मध्ये ध्याययेच्छिवम् | आत्मशुद्धिरिति प्रोक्तं सौरादिपूजकं शृणु || ४६ || खेटके भूतले वापि सौरपूजा यथाक्रमम् | पूर्वाशाभिमुखं प्राप्य लेखयेद्रविमण्डलं || ४७ || बेरे तु चक्रलिख्ये ते यथेष्टमण्डले स्थिते | उदित्यं जातमन्त्रेण पात्रे तु जलपूरिते || ४८ || रक्तचन्दनपुष्पाद्यैरर्चयेद्धृदयेन तु | दक्षपाणि तलेथार्य दर्शनार्घ्यं तु सेचयेत् || ४९ || दण्डिनि पिङ्गले चैव गणेशं गुरुमेव च | प्रभूतासन सङ्कल्प्य विमलौ सौरमेव च || ५० || आराध्य परमं चैव मध्ये पद्मं च विन्यसेत् | दीप्ताति सर्वतोमुख्या अर्कासन खषोल्कक || ५१ || नादवन्निसमायुक्तं द्वितिर्ययं रससंयुतम् | बिन्दुनादसमायुक्तम् अनन्तं रुद्र संयुतम् || ५२ || प्. १४४) तृतीययस्वरसंयुक्तं न्नादाद्यं शिवसंयुतम् | नमोत्तं सूर्यमुच्चार्य सौरसंपूजनं कुरु || ५३ || सूर्यं कुंकुमसङ्काशं सर्वाभरणभूषितम् | द्विनेत्रं चारुवदनं रक्तमालानुलेपनम् || ५४ || चतुर्भुजसमोपेतं पद्महस्ताबुजद्वयम् | अभयं वरदोपेतं प्रभामण्डलमण्डितम् || ५५ || मुपवितसमायुक्तमुषाप्रत्युष संयुतम् | पद्मस्थं वा रथारोहमरुणेन समन्वितम् || ५६ || ध्यात्वाभ्यर्च्य षडङ्गेन परिवारसमन्वितम् | सोमाङ्गारकसौम्याश्च गुरुशुक्रशनैश्चरान् || ५७ || राहुकेतुग्रहानष्टौ पूर्वादीशान्तके यजेत् | क्षीरान्न दापयेत् पश्चाद् धूपदीपादिकं ददेत् || ५८ || तेजश्चण्डेश्वरं पूज्य प्रणिपत्य क्षमापयेत् | पादप्रक्षालनं कृत्वा देवाग्रे मण्डलं कुरु || ५९ || सामान्यर्घ्यं च सङ्कल्प्य तेनैव प्रोक्ष्य भूतले | षोडशाङ्गुलमायामं चतुरश्रसमन्वितम् || ६० || वामदेवेन समृज्य सव्यहस्ते तलेन तु | स्थानशुद्धिं च कर्तव्यं भूमिर्भूम्नेति मन्त्रतः || ६१ || पञ्चगव्यामृतैः सार्घ्यस्नानद्रव्याणि विन्यसेत् | देवस्य दक्षिणे पार्श्वे यथेष्टं मानसं न्यसेत् || ६२ || प्. १४५) उत्तराभिमुखोभूत्वा रुचिरासनं संस्थितम् | भस्मन्यासं करन्यासं अङ्गन्यासं तु कारयेत् || ६३ || पाद्यादिद्रव्यसंयुक्तं पात्रं संपूजयेत् ततः | अथवा पात्रमेकं तु पाद्यमाचमनार्घ्यकम् || ६४ || पात्र प्रक्षाल्य शस्त्रेण हृदयेन निरीक्षयेत् | त्रिपादूर्ध्वे स्थितं शङ्खमवकुण्डनमाचरेत् || ६५ || जलेन पूरयेत्पात्रं ब्रह्माङ्गमनुसंस्मरन् | सव्यहस्ताभिमन्त्रेण शिवगायत्रिकं जपेत् || ६६ || सुरभिमुद्रां संस्पृश्य प्रोक्षयेत् पात्रतो विधि | शङ्खमूलं द्द्धरादेवि म्रक्षाणां विष्णुदेवतम् || ६७ || धारयेद् घोरदेवं तु वलयं सूर्यदेवतम् | मुखे च सप्ततीर्थानि प्रवेशेच्चन्द्रदेवता || ६८ || त्रिपाद्यमधिदैवत्यं ब्रह्माविष्णुमहेश्वराः | वृत्तमाधारशक्तिश्च इत्येते अधिदेवता || ६९ || पीठशुद्धिं ततः कृत्वा प्रोक्षयेदस्त्रवारिणा | वृषेश्वरं तथा पूर्वे वृषवामे तु भास्करे || ७० || महेशमग्निदेशे तु दक्षिणामूर्ति दक्षिणे | गणेशे नै-ऋते देशे तद्वामे कमलोद्भवे || ७१ || षण्मुखं वायुदेशे तु विद्यापीठं तु दक्षिणे | सौम्ये तु नृत्तमूर्तिं च ईशाने क्षेत्रपालकम् || ७२ || प्. १४६) कुबेरानिलयोर्मध्ये लिङ्गोद्भवं तु विन्यसेत् | सोमशङ्करयोर्मध्ये भक्तादीन्विन्यसेत् क्रमात् || ७३ || भक्तानां वामपार्श्वे तु एकाक्षरी तु विन्यसेत् | एकाक्षर्या च वामे तु लकुलीशं तु विन्यसेत् || ७४ || पुष्पमूर्ध्नि तु विन्यस्य पश्चाद्वारं प्रपूजयेत् | पश्चिमद्वारमस्त्रेण प्रोक्षये तु शिवाम्भसा || ७५ || गणेशं दक्षिणेऽभ्यर्च्य वाग्देवी वामपार्श्वके | मध्यमे तु महालक्ष्मीं नन्दिगङ्गनं च दक्षिणे || ७६ || महाकालं च यमुनां वामपार्श्वे विशेषतः | ऊर्ध्वाध संप्रपूज्याथ शिवास्त्रं सुप्रपूजयेत् || ७७ || गणेशान् क्षेत्रपालान्तं अर्चये स्वस्वमन्त्रतः | द्वारपश्चिममेवं तु नैवेद्यं पूर्ववक्त्रके || ७८ || लिङ्गं सङ्गृह्य हस्तेन स्नानवेद्युपरि न्यसेत् | अर्घ्योदकेन संप्रोक्ष्य वक्त्रन्न्यासं समाचरेत् || ७९ || अङ्गुष्ठादि कनिष्ठान्तं पञ्चब्रह्ममनु न्यसेत् | कनिष्ठानामिकामध्ये नवपुष्पं तु संग्रहेत् || ८० || अङ्गुष्ठतर्जनीभ्यां च निर्माल्यं च विसर्जयेत् | विसर्जनस्य तत्काले पुष्प मूर्ध्नि च विन्यसेत् || ८१ || निर्माल्यं च विसज्यैशे चण्डेशाय प्रकल्पयेत् | शुद्धतोयाभिषेकं च अस्त्रं पाशुपतं जपेत् || ८२ || प्. १४७) मूलाधारात् समादाय ब्रह्मरन्ध्रे तु विन्यसेत् | गुरूपदेशं विज्ञेयं मन्त्रशुद्धिरुदाहृतम् || ८३ || चलासनं तु सङ्कल्प्य पुष्पमूर्ध्नि च विन्यसेत् | अभ्यङ्गं तु ततः कृत्वा शुद्धतोयाभिषेचनम् || ८४ || शरीरं पिष्ठचूर्णेन लिङ्गपीठं च मर्दयेत् | शुद्धतोयाभिषेकं च पुष्पं मूर्ध्नि च विन्यसेत् || ८५ || पञ्चगव्यामृते स्नाप्य जलैनैवाभिषेचयेत् | अस्त्रमन्त्रमनुस्मृत्य पुष्पमूर्द्ध्नि तु विन्यसेत् || ८६ || क्षीरं दधि घृतं क्षौद्रं न्नालिकेरजलं तथा | इक्षुसारं तु शुद्धोदं गन्धतोयाभिषेचनम् || ८७ || मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् | शुक्लवस्त्रेण संमृज्य पुष्पमूर्ध्नि तु विन्यसेत् || ८८ || पद्मपीठे तु संस्थाप्य शिवमन्त्रमनुस्मरन् | पञ्चासनं समभ्यर्च्य उपर्युपरि विन्यसेत् || ८९ || कमलासनं समभ्यर्च्य दलेभ्यो केसरोपि वा | कर्णिकायै नमश्चेति बिजेभ्यो सन् इत्यपि || ९० || शक्त्यादिशक्तिपर्यन्तमर्चयेत् तु दलाग्रके | पीठे मनोन्मनि न्यस्त्वा शुद्धस्फटिकसन्निभम् || ९१ || तन्मध्ये शिवमावाह्य पञ्चावरणमर्चयेत् | सद्योजातवाममघोराश्च पुरुषेशानमेव च || ९२ || प्. १४८) अम्बिगणाम्बिका चैव भागिगौरि उमास्तथा | पश्चिमे चोत्तरे याम्ये पूर्व ईशान एव च || ९३ || हृच्छिरश्च शिखावर्मा नेत्रमस्त्रं तथैव च | वामीनीली च पाशाङ्गी खड्गिनीर्जम्बीनी तथा || ९४ || अग्नियादीयमस्ति रोगजावरणमर्चयेत् | अनन्तेशश्च सूक्ष्मश्च शिवोत्तंश्चैकनेत्रकम् || ९५ || एकरुद्र त्रिमूर्तिस्तु श्रीकण्थश्च शिखण्डिना | भूमिस्वाहा स्वधाकान्तपुष्टि कीर्तिमेयवि || ९६ || विद्येशावरणं प्रोक्तं इन्द्रादीशान्तमर्चयेत् | वृषनन्दिगणेशाश्च महाकालगुहौ तथा || ९७ || भृङ्गिणं गौरि चण्डेशं इन्द्रादीशान्तमर्चयेत् | भद्रा च कुन्दलि चैव भृङ्गिणि पतिनि तथा || ९८ || देवयानिं च चस्तादी रूपिणिं चण्डिकिशके | गणेशावरणं प्रोक्तं स्वनाम्नैरर्चयेत् क्रमात् || ९९ || इन्द्राश्चाग्नियमश्चैव निरुतिवरुन्वायवा | कुबेर ईशविष्णु च पितामह्येशमेव च || १०० || स्वाहाशान्त्या च देहि च कालकर्णि च देहिनि | भोगिनि घोशशक्तैश्च गम्भिणी हर्षणि तथा || १०१ || लक्ष्मी वा * * रि चैव दिक्पालवरणं क्रमात् | वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा || १०२ || प्. १४९) गदा त्रिशूलं चक्रं च पद्मं चेतिर्दशायुधः | प्रसन्नात्मा च कोप * गुणात्मिकोमलात्मिनि || १०३ || वृषात्मिव्रकतात्मि च महात्मि मङ्गलात्मिनी | अस्त्रेशावरणं प्रोक्तं प्रक्रमेणैवमर्चयेत् || १०४ || वस्त्रेण गलभूषं च घृतवारिसमन्वितम् | गन्धपुष्पं च मकुटं कङ्कणलम्बमाल्यकम् || १०५ || रुद्राक्षमुपवीतं च प्रवालं मौक्तिकं स्रजम् | स्वर्णरत्न विचित्रेण स्वर्णमालविभूषणम् || १०६ || ऐन्द्रे देशे च मव्यक्तं याम्ये नियति गोचरे | वरुणे चैव कालाख्यं उत्तरे तु कलाख्यकम् || १०७ || ऊर्ध्वश्च इमधश्चन्द्रमध्यमेमाधवन्यसेत् | योगासनं ततः प्रोक्तं तन्मध्ये चार्चयेच्छिवम् || १०८ || धूपं च ध्वजदीपं च निवेद्यं चोप * * * | गोमयालेपनं कृत्वा देवाग्रे मण्डलं न्यसेत् || १०९ || अतिपक्वमपक्वं च कृशिरं पविवर्जयेत् | स्थालिकाभालनं कृत्वा नैवेद्यं च प्रपूरयेत् || ११० || व्यजनैरावृतं चैव लवणं पक्वदंशकैः | फलादिगुलसंयुक्तं क्षीरं दधि च मध्यमे || १११ || आज्यव्रतसमायुक्तं अभिधानां तु वाससम् | नैवेद्योत्थापने मार्गे मार्जनं प्रोक्षणं कुरु || ११२ || प्. १५०) पाद्युर्ध्वे विन्यसेञ्चैव बेराणां च पृथक् पृथक् | प्रोक्षणं चास्त्रमन्त्रेण तालत्रयमथो * * || ११३ || दिग्बन्धनं ततः कृत्वा धेनुमुद्रां प्रदर्शयेत् | आपोशनार्घ्यकं दत्वा हस्तप्रक्षालनं कुरु || ११४ || नवपुष्पं गृहीत्वा तु गणेशस्य निवेदयेत् | तत्पुष्पं तु विसृज्याथ हस्तयोक्षालनादिकम् || ११५ || प्रभूत हविषं दत्वा पानियं तु निवेदयेत् | महेशप्रतिमादीनां नैवेद्यं हृदयेन तु || ११६ || सदाशिवस्य निर्माल्यं चण्डेशस्य समीपके | शेषनिर्माल्य सर्वाश्च ऐशान्ये तु विसर्जयेत् || ११७ || लिङ्गशुद्धिं ततः कृत्वा पुनरर्घ्यं प्रदापयेत् | करोद्वर्तनमेवोक्तं मुखवासं तु विन्यसेत् || ११८ || ताम्बूलं विन्यसेत् पश्चाद् दत्वा नित्य पवित्रकम् | नित्याग्नि यजनं कृत्वा अन्तर्बलिसमाचरेत् || ११९ || धूपदीपादिकं दत्वा आरात्रिकमतः परम् | भस्म दर्पणकच्छत्रं चामरं तालवृन्तकम् || १२० || वेदस्तोत्रसमायुक्तं नृत्तगीतं सवाद्यकम् | कनिष्ठानामिकामध्ये पुष्पं सङ्गृह्य बुद्धिमान् || १२१ || जपमाला तु नक्षत्रनायकस्तु शशिर्भवेत् | प्रच्छिन्नपटमुच्छाद्य मूलमन्त्रमनुस्मरन् || १२२ || प्. १५१) जपान्तेनैव तत्काले पुष्पमूर्ध्नि च विन्यसेत् | विद्यापीठं समभ्यर्च्य प्रदक्षिण नमस्कृतम् || १२३ || पूजासमाप्तं विज्ञाप्य चार्चयेत् संहृदाणभिः | चुलुकोदकं ततः कृत्वा अर्घ्यं वैसर्जयेद् गुरुः || १२४ || उद्वासनं तु देवाश्च सर्वमात्मनि योजयेत् | पूर्ववत्सदनं कृत्वा मूललिङ्गादि सङ्ग्रहेत् || १२५ || स पुष्पं वस्त्रमाच्छाद्य बेराणां तु पृथक् पृथक् | पूजापर्युषितद्रव्यैः चण्डेशं च समर्चयेत् || १२६ || ध्वनिचण्डेश्वरायेति हुं फटन्तास्त्रमन्त्रतः | धूपदीपादिकं दत्वा अर्घ विसर्जयेद्गुरुः || १२७ || शिरः कण्ठे च वक्षौ च कोर्परौ हस्तयोच्छिवः | एवं दिने दिने पूज्य अर्चयेत् पूर्ववत् क्रमात् || १२८ || इति सूक्ष्मतन्त्रे आत्मार्थपूजाविधिर्नाम पञ्चत्रिंशत्पटलः || गौर्यास्थापनं वक्ष्ये योगं भिन्नं द्विधा शृणु | संयुतं चोमया देवमेकासनगतं चरेत् || १ || देव्यार्थ योगरूपं तु अर्द्धनारीश्वरं तुयम् | पृथग्वे स्थापितो देवो मां च स्थापितं पृथक् || २ || प्. १५२) विष्णुं नोदकदत्तेन युक्तं कल्याणमार्गतः | एकपीठस्थिता वापि पीठादन्यस्थिता तु नाम् || ३ || कृतयोगद्विधा ख्यातं वृषारूढस्य दक्षिणे | अन्येषां चैव मूर्तिनां वामपार्श्वे तु कल्पिताम् || ४ || प्रधाने निष्कले तुङ्गे पूजांशं दशधा भवेत् | देवस्य बाहुमात्रेण देवि युक्त्या तु कल्पिताम् || ५ || एवं चैकादशें मानं देव्यास्तुङ्गविधिर्यते | मूलं तु निष्कलादेवमावाह्य क्षणिकेतनः || ६ || देवीं तद्विष्णुनादान्तां कल्याणं च कृते सति | मूलदेशे तु संयोज्य देवि स्नानान्तरं विशेत् || ७ || अन्तप्रकारकान्ते तु बाह्ये वा मन्दिरे कृते | गर्भे तु स्थापिता देवी पर्यङ्कद्यैश्च स्थापिते || ८ || गन्धाद्यैर्हविभिर्भुक्ष्यै ताम्बूलश्च प्रदापयेत् | अनेनात्रोपचारेण रात्रौ पूजावसानके || ९ || यामप्रदक्षिणं कृत्वा शिवस्यैवा विशेषतः | सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् || १० || नानाभक्तसमायुक्तं जयमङ्गलसंयुतम् | देवीं देवगृहद्वारे गन्धपुष्पादिभिर्यजेत् || ११ || नीराजनं ततः कृत्वा प्रविश्याभ्यन्तरगृहम् | देवस्य दक्षिणे पार्श्वे देव्यासनं प्रकल्पयेत् || १२ || प्. १५३) पूजयेद् गन्धपुष्पाद्यै पायसान्नं हृदा ददेत् | पश्चानिराजनं कृत्वा सर्वालङ्कारसंयुतम् || १३ || पश्चात् तु यजनं सम्यक् नात्रयेवं च प्रकल्पयेत् | अरुणोदयवेलायां देव्यास्थानं समाचरेत् || १४ || सर्वालङ्कारसंयुक्तं जयशब्दादिसंयुतम् | यप्रधानत्वमार्गेण प्रतिष्ठां कुरु मन्दिरे || १५ || केवलं तां पृथक्तेन देवं देवं विना यजेत् | एवं मार्गविधा प्रोक्तं तस्यास्तु बहुधा शृणु || १६ || विशं क्रमं तथा योगं सङ्करं रौद्रमेव च | एवं तु पञ्चधा ज्ञेया कारयेल्लक्षणान्वितम् || १७ || मन्दिरे मण्डपे वापि मालिकाकारमेव वा | लक्षणोक्त क्रमेणैव त्रिकरादि विशेषतः || १८ || स्थूपि यत्र समायुक्तं पञ्चधा वापि कारयेत् | प्रासादस्यैशदिग्भागे पावके वारुणे तथा || १९ || मनोरमे यथा चान्ये प्रकाराभ्यन्तरे दिशि | पञ्चप्राकारमार्गेण मूलार्थं च न कारयेत् || २० || स्वयम्भुवस्य लिङ्गस्य विंसंयक्प्रकल्पितम् | दैविके चार्षके चैव क्रमं सम्यग्विधीयते || २१ || मानुषे बाणलिङ्गे च योगं चैव विधीरयते | ग्रामादीनां तु बाह्ये तु कुर्यात्सङ्करमिश्रकम् || २२ || शयनादि कृयात् सर्वे वीरे सम्यक् प्रपूजयेत् | मूललिङ्गप्रमाणेन वीरं कुर्याद् विशेषतः || २३ || प्. १५४) मूलपीठप्रमाणेन क्रमं कुर्याद् विशेषतः | लिङ्गस्य नाहमानेन योगं सम्यग् विधियते || २४ || वीरस्य कण्ठमानेन मिश्रशक्तिर्विधीयते | अथवा गर्भमानेन मूलधामादि मानकैः || २५ || कुर्याद् विरादिका वापि अङ्गुलेनैव वा पुनः | नवाङ्गुलात् समारभ्य द्वित्र्यङ्गुलविवर्द्धनात् || २६ || पञ्चविंशतिमात्रान्तं नवधा देवि तुङ्गकम् | तस्माद्व्यङ्गुलाधिक्यं नवधा तुङ्गमुच्यते || २७ || चत्वारि शत्त्रिपादूर्द्धं द्विंत्र्यंशुविवर्द्धनम् | एवं तु नवधा तुङ्गं उत्तमादिनि भेदतः || २८ || द्विहस्तां चारुवदनां पुष्पहस्तां विशेषतः | पीनोन्नत शनां चैव कंबूग्रीवां सुलोचनाम् || २९ || दुकालवसनां चैव पद्मासनोपरि स्थिताम् | सिंहासनस्थितां वापि सर्वाभरणभूषिताम् || ३० || उत्तराननसंयुक्तां पश्चिमाननमेव वा | यादृशं मूलबिम्बं च तादृशं वक्त्रमुच्यते || ३१ || मध्यमं दशतालेन कुर्याद् देवीं विशेषतः | सुखासनादि बिम्बानां तस्य तस्य प्रमाणतः || ३२ || प्. १५५) नासिकान्तमधान्बान्तं कर्णमानेन वा बुधः | मात्रोङ्गुलेन वा कुर्यात् पूर्वोक्तेनैव सङ्ख्यया || ३३ || एवमेव प्रकारेणा कुर्यान्मूलादिनां बुधः | सङ्करं रौद्रकं वक्ष्ये स्वतन्त्रं च विशेषतः || ३४ || धामस्य पूर्वदेशे तु पावके दक्षिणेऽपि वा | अन्ये मनोरमे देशे तटाकादिस्तु पार्श्वके || ३५ || धामं वा मण्डपं वापि कुर्यात् प्राकारकैस्सह | त्रिहस्ताद्यैर्विशेषेण एकभूम्यादिकादिषु || ३६ || ब्राह्मिके देविके वापि मानुषे च पिशाचके | स्थापयेत् सङ्करं रौद्रं द्विभुजं वा चतुर्भुजम् || ३७ || पूर्वाभिमुखमास्थाप्य उत्तराननमेव वा | पश्चिमाभिमुखं वापि दक्षिनाभिमुखं विना || ३८ || आसनं सुस्थितं वापि शूलकर्मयुतं यदि | शैलं च लोहचित्रां च कुर्यात् तां च विशेषतः || ३९ || प्रधानं शक्तिबिम्बं तु कुर्याच्छम्भु विशेषतः | तस्यास्तु दक्षिणे भागे शम्भुं कुर्याद् विचक्षणः || ४० || द्विभुजं वा चतुर्भुजं देव्यारूपानुरूपकम् | देव्यास्तु पावके वापि पुरस्ताद् दक्षिणेऽपि वा || ४१ || तस्यैव पुरतस्थाप्यमुक्षं चैव विशेषतः | पश्चिमाननकं चोक्षं पूर्वाननं तथोत्तरम् || ४२ || प्. १५६) स्थितं वा शयनं वापि गमनोन्मुखमेव च | शङ्करस्य प्रतिष्ठो या पार्श्वयोर्वा स्थितं भवेत् || ४३ || शङ्करस्य तु पूर्वे तु विघ्नेशं स्थापयेद्यति | स्थानकं चासनं वापि मूषिकोपरि चाथवा || ४४ || देव्यास्तस्योत्तरे वापि ऐशदेशे तथाथ वा | देव्यास्तु शङ्करे देशे पूर्वे वा चोत्तरेऽपि वा || ४५ || दुर्गायास्थापने प्रोक्तं न दूरं न समीपतः | तस्य प्रकारकान्ते तु पूर्वे वा चैशकेऽपि वा || ४६ || शास्तोश्च स्थापनं कुर्यात् स्थितं वा चासनं तु वा | स्थापन क्षेत्रपालं वा बाह्ये चाभ्यन्तरेऽपि वा || ४७ || प्रकारोऽभ्यन्तरे देशे बलिपीठं प्रकल्पयेत् | शिववत् परिवाराणां प्रासदस्याग्रतोऽपि वा || ४८ || परिवारैर्विना वापि यथाविभवविस्तरैः | सुखासनादि बिम्बेषु बाह्ये चाभ्यन्तरेऽपि वा || ४९ || एकं वापि द्विकं वापि त्रिकं सर्वत्र एव वा | लोहजाद्यैर्विशेषेण कुर्याद्वा चित्रकादिभिः || ५० || एवं सङ्करमाख्यातं रौद्रकं त्वधुनोच्यते | ग्रामादि स्थापनं वापि पर्वते च वनेऽपि वा || ५१ || नन्द्यस्तिरे च वृक्षे वा ग्रामात् क्रोशान्तरेऽपि वा | ग्रामदस्याननश्चाथ यथा पृष्ठं तथा कुरु || ५२ || प्. १५७) नगराभिमुखं वापि कुर्याद्रौदं विशेषतः | यजमानानुरूपेण कुर्यात् सर्वं विशेषतः || ५३ || मन्दिरे मण्डपे मध्ये मन्दिरस्य तु मण्डपे | मन्दिरे स्थापनं शंभुं सकलं मिश्र * * लम् || ५४ || पुरस्ताल्लिङ्गसंस्थाप्य चामुण्डिं तस्य दक्षिणे | चतुर्भुजं षड्भुजं वा अष्टौदशभुजं तु वा || ५५ || द्वादशं षोडशं वापि बाहुमेवं प्रकल्पयेत् | विनायकं तथा दुर्गां शङ्करं सवृषं यदि || ५६ || महाशास्ताथवा स्कन्दं तस्मिन्स्थाने प्रतिष्ठिता | अथवान्यप्रकारेण वक्ष्यते गौरि भेदकम् || ५७ || मध्यमे वा परे वापि द्विभुजं शक्तिरूपकम् | ऊर्ध्वजानुस्थिते गुल्फे हस्तौ जश्चस्थितोपरि || ५८ || तस्यस्तु पुरतो भागे दक्षिणे वाथ शाङ्करम् | वृषभं च समीपे तु स्थितं वा शयनं तु वा || ५९ || विघ्नेशं तु कुमारं वा शङ्करस्य च प्राग्दिशि | तयोस्तु पुरतः सम्यक् दुर्गां वाथ सरस्वतिम् || ६० || महामोटिकया वाथ महाशस्त परे कृतम् | समीबाह्य समीपे वा बाह्ये वा क्षेत्रपालकम् || ६१ || बलिपीठं विशेषेण कुर्याद् देव्यस्तु पूर्वके | उत्सवप्रतिमं कुर्याद्विभुजां च स्वरूपकम् || ६२ || प्. १५८) शैव चिह्ना समायुक्तं मन्दिरे मण्डपे शुभे | * * * * * * * * रौद्रमेवं विधिययते || ६३ || पूर्वाननं सुसंस्थाप्य द्विभुजां च चतुर्भुजाम् | उद्गतो जानुसंयुक्तो पादौ पृष्ठं स भूमिके || ६४ || ब्राह्मिकादभरेभागे पैशाचे ब्राह्मिकेऽथवा | कृत्तिका स्थापयेत् सम्यग् अम्बिकानाम भावयेत् || ६५ || तस्यास्तु वामते पूर्वे दक्षिणे वा ततोऽपि च | पश्चिमेवापि कर्तव्यं कल्पयेत् सकलं विदुः || ६६ || द्विभुजं युग्भुजं वापि पृष्ठे गमन भावकम् | बिम्बानापरितश्चैव कीर्तितास्थनकस्य तु || ६७ || तस्यो पा पुरतो दुर्गा न दूरं न समीपतः | देव्यास्तथैव दिग्भागे विघ्नेशं यदि संभवेत् || ६८ || पञ्चमूर्तिरितिख्यातं सूत्रैक्येवाथ बाह्यके | देव्यास्तु पुरतो भागे उभयोर्वा विशेषतः || ६९ || शङ्करं चैव विघ्नेशं शास्ताभगवति तथा | अन्येषां च निरिक्ष्यन्ते तिर्यगमनमेव वा || ७० || त्रिदण्डाभ्यन्तरे देशे पञ्चदण्डान्तरेऽथवा | क्षेत्रेशं च महापीठं परितो परिवारकम् || ७१ || आसना मससा शक्ति शक्तेरङ्गं शिवादिकम् | एवमेव प्रकारेण कुर्याद् बहुविधानतः || ७२ || प्. १५९) शूलमूलसमायुक्तं पार्थिवं तु विशेषतः | रत्नन्यासं तदादौ तु प्रत्येकं मूलदेशके || ७३ || शैलजस्थापनाकाले रत्नं पूर्वे तु स्थापयेत् | लोजहजादिषु बिम्बेषु नेत्रोत्मीलनपूर्वकम् || ७४ || चित्रभाव विधाने तु भूक्तोपादस्य मूलके | अथवा भूप्रदेशे तु नवरत्नादि क्षिपेत् || ७५ || दुर्गास्थापनमार्गेण प्रतिष्ठाकारयेद्बुधः | शास्तु स्थापनमार्गेण शास्तोश्च स्थापनं कुरु || ७६ || विघ्नेशस्थापने चैव विघ्नेशं स्थापयेत् क्रमात् | मिश्रलिङ्गविधानेन मिश्रेशं स्थापयेत् क्रमात् || ७७ || मूलधामादिभिर्मानेस्तेषारूपं पृथक् पृथक् | कुर्यादिह विशेषेण क्षेत्रेशं तस्य मार्गतः || ७८ || परिवाराणि सर्वाणि कुर्यात् तत्र विधानतः | पूर्वोक्तेन विधानेन कुर्यात् संकर रौद्रयोः || ७९ || एवमेव प्रकारेण कुर्याच्छिल्प विधानतः | उत्तरायणकाले तु शुक्लपक्षे शुभे दिने || ८० || स्थिरे वा मृतयोगेषु अन्यस्मिस्तु शुभे तथा | शुभवारे स्थिरे लग्ने शुभांशे सुमुहूर्तके || ८१ || यजमानानुकूलर्क्षे शक्त्येस्तु स्थापनं शुभम् | प्रासादाद्यस्य रूपेण मानं कुर्यात् तु शक्तिकम् || ८२ || प्. १६०) शक्त्यास्तु विधिमानेन कुर्यस्तु शन्करादिकान् | वाहनानि च चिन्नानि आसनादि तथा बुधान् || ८३ || तत्तन्मार्गविधानेन कुर्यादायव्ययादिकान् | प्रासादस्याग्रतः कुर्यान्मण्डपं चतुश्रकम् || ८४ || पञ्चहस्तसमायुक्तं षोडशं द्वादशं तु वा | षट्सप्त वसु हस्ता वा रन्ध्रहस्तमथापि वा || ८५ || दशहस्तान्तरं वापि चतुर्द्वारसमन्वितम् | नवभागैक भागे तु मध्ये वेदी प्रकल्पयेत् || ८६ || वेदिकायास्तु परितः नवकुण्डानि कल्पयेत् | गोमये लेपनं कृत्वा स्तण्डिलोद्धे परिन्न्यसेत् || ८७ || चतुस्तोरण संयुक्तदर्भमालां निरावृतम् | शक्त्यास्तु वेदिकाबाह्ये स्थापनं स्थानवेदिका || ८८ || त्रिहस्तं पञ्चहस्तं च विस्तृतन्नव वेदिका | अस्तमात्र समुत्सेथो स्तस्यास्तस्य चतुर्दशि || ८९ || वृत्तं वा चतुरश्रं वा कुण्डानि परितक्षिपेत् | प्रधानशक्तिदुर्गायां योन्याकाराणि कारयेत् || ९० || अचलस्थापने काले कूर्चाभिदर्पणैस्सहा | जलाधिवासनं कुर्यात् दक्षि मोक्षवसानके || ९१ || प्. १६१) नद्यां वापि तटाके वा जलमध्ये प्रपां कुरु | दर्भमालाभिरावेष्ट्य वामादि शक्तिकान्न्यसेत् || ९२ || प्रतिमाशुद्धिं कुर्विता प्रत्येकं तु विशेषतः | सर्वालङ्कारसंयुक्तं वाहनादिषु बुद्धिमान् || ९३ || प्रत्येकं वस्त्रमावेष्ट्य बिम्बानि च विशेषतः | कूर्चयुक्तं विशेषेण जलमध्ये निवेशयेत् || ९४ || पञ्चरात्रं त्रिरात्रं वा व्योमरात्रिमथापि वा | दिवसार्द्धं न्तर्द्धं वा तदर्द्धर्धमथापि वा || ९५ || प्रत्येकं तु न्यसेत् पश्च जलादुत्तिर्य वेदिकाम् | पञ्चगव्येन संस्नाप्य प्रत्येकं तु विशेषतः || ९६ || शयनादीनि सर्वाणि प्रत्येकं विधिना बुधः | मध्यादीशानपर्यन्तं वर्द्धनीश्च न्यसेद्बुधः || ९७ || वस्त्रादिभिस्समायुक्तं गन्धपुष्पादिभिर्यजेत् | आर्यादिशक्तयस्सर्वे वर्द्धनीषु न्यसेत् क्रमात् || ९८ || महाबेरविधाने तु दर्पणे तु कृते पृथक् | याज्ञिकैस्तरुभिः कुर्यात्सर्वः सुच विशेषतः || ९९ || समिच्चरुघृतक्षीरमाषमुद्गप्रयङ्गवः | तिलसर्षपनीष्पावगुलमेकादशं तथा || १०० || तत्तद् ब्रह्माङ्गकैः मन्त्रैहोमं कुर्यात् पृथक् पृथक् | द्रव्यान्ते व्यहृतीं हुत्वाबिम्ब कूर्चेन संस्पृशेत् || १०१ || देशिकश्च पृथग्भूत्वा सुमुहूर्तेन बुद्धिमान् | शक्तिक्तैश्च देशिकानुज्ञां कुर्यात्सर्वे च देशिकाः || १०२ || प्. १६२) दिशास्वध्यायनं कुर्यात् प्रत्येकं सर्वतो दिशि | आद्यावन्ते च सर्वत्र पुण्याहं वाचयेद्बुधः || १०३ || पवमानेन संप्रोक्ष्य ब्रह्मघोषसमन्वितम् | एवं जागरणं रत्रौ प्रभाते स्नानमाचरेत् || १०४ || आचार्याय शुचिभूत्वा प्रत्येकं च विशेषतः | शयनाद्बिम्बमुद्धृत्य बिम्बादन्यत् समर्पणम् || १०५ || गन्धादिभि समभ्यर्च्य मन्त्रन्यासं तदादितः | घृतशिरोर्पणं कुर्यात् प्रत्येकं च विशेषतः || १०६ || मध्यमादिनि कुम्भानि अभिषेकं समाचरेत् | आर्यादि भगवत्यन्तं तस्यां वै विन्यसेद् बुधः || १०७ || तस्यास्तु मध्यदेशेन मनोन्मनीन्मूलमन्त्रतः | एवमेव प्रकारेण कुर्याद् वै शङ्करादिषु || १०८ || प्रोक्ष्याभषेचनं कृत्वा महाबेर विशेषतः | दर्पणेष्वभिषेकं स्यात् तत् तन्मूले महाम्बिके || १०९ || आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः | गोभूमिकां च नाद्यैश्च पूजयेत् तु पृथक् पृथक् || ११० || होतारं च हविर्दद्यात्ताम्बूलं च विशेषतः | अन्ते महोत्सवं कुर्यात् चलं चैव विशेषतः || १११ || अचल स्थापने काले दर्पणे च विशेषतः | अनुक्तानि च सर्वाणि कुर्यात् तत् तद्विधानतः || ११२ || प्. १६३) सर्वेषां समयानां तु शैवमेव प्रधानकम् | ब्रह्माविष्णुश्च रुद्रश्च त्रिमूर्त्तिरिति कथ्यते || ११३ || तस्यादिन्द्रश्च विघ्नेश पञ्चमूर्तिरिति स्मृतम् | तस्मास्कन्दं तथा दुर्गासप्तमुर्तिरिति स्मृतम् || ११४ || असनस्था च या गौरिमिश्रे सकल शङ्करा | विघ्नेशं च तथा चार्याशास्तुश्चैव विशेषतः || ११५ || मिश्रशक्तिरिति ज्ञेया सर्वसिद्धिकराय च | पञ्चमूर्तिरिति ज्ञेया सदाविजय वद्धनम् || ११६ || ब्रह्मा विष्णुश्च रुद्रश्च ज्येष्ठां गौरिं सरस्वतिम् | एकमूर्तिस्थिता सर्वे षण्मूर्तिरिति चोच्यते || ११७ || तेषां पुरस्तात् क्षेत्रेशं नागं वा यदि संभवम् | तन्तु सङ्कर संज्ञेयं सर्वप्राणिहितं भवेत् || ११८ || ऐतेष्वेतेषु भेदेषु शवमार्गेण कारयेत् | अन्यथा यदि कुर्याच्चेद् ग्रामादेन्न शतधृवम् || ११९ || तस्मात् सर्वप्रयत्नेन कुर्याद् वै कामिकादिभिः | तेषु तेषु च भेदेषु हरिर्वा यदि संभवेत् || १२० || तं तु शैवमितिख्यातं शैवतन्त्रेण कारयेत् | बौद्धादिषु च भेदेषु शेषु आस्नादेश्चैव मूर्त्तयः || १२१ || एकस्मिन्सम्भवे देशे तं तु शैवमिति स्मृतम् | पश्चिमानन विष्णोस्तु शक्त्यादीनां तु देशिकः || १२२ || प्. १६४) सा शक्तिपश्चिमा वक्त्रं तदा वैष्णवमुच्यते | वैघानसे पाञ्चरात्रेः कुर्यादस्मिन्विशेषतः || १२३ || वृषभं यत्प्रदेशे तु सर्वथा संभवं यदि | शैवभेदमिति प्रोक्तं शुद्धशैवस्तु ताण्डवः || १२४ || एवं बहुप्रकारेण लक्षयेत् लक्षवित्तमः | शैवादन्यात् समायाति कुर्यदज्ञान पूजिता || १२५ || पश्चाञ्चैवप्रतिष्ठाया सर्वदोषहरं नृणाम् | अर्चनायागहीने तु चिरकालं विशेषतः || १२६ || अन्यमार्गप्रकारेण मोहेन तु विशेषतः | ग्रामानिष्टभयं चैव सर्वसत्रविवर्द्धनं || १२७ || तस्मात्सर्वप्रयत्नेन शैवमार्गप्रतिष्ठितम् | दशसंवत्सरादूर्ध्वं पूजाहीनं हि संभवेत् || १२८ || पुनरावाहनं कुर्यात् प्रोक्षणं वा समारभेत् | स्थापनोक्तक्रमेणाथ प्रतिष्ठां सम्यगारभेत् || १२९ || प्रायश्चित्तोक्तमार्गेण एकवान् परितो भवेत् | स्फोटकं त्वथ जीर्णं वा एकाङ्गं सकलाङ्गकम् || १३० || सर्वाङ्गानां क्षयं दृष्ट्वा कुर्यात् पूर्वोक्तमार्गतः | प्रासादं तच्छरीरं स्यात् तस्मास्थाणुं न तिष्ठति || १३१ || पुनस्थापनमार्गेण कुर्यादि हि विशेषतः | गौरिप्रधानं वा कश्चिद् विघ्नेशस्य प्रधानकै || १३२ || प्. १६५) भगवत्य प्रधानं तु शङ्करस्य प्रधानकः | शस्तु प्रधानतः कश्चित् कश्चित् ज्योति प्रधानके || १३३ || कश्चित् स्कन्दप्रधानं तु कश्चित्कालि प्रधानके | कश्चिद् विष्णुप्रधानं तु शङ्करस्य प्रधानकम् || १३४ || द्विमूर्ति त्रित्रिमूर्तिश्च पञ्चमूर्तिरतः परम् | सप्तमूर्ति सप्तधा चाष्टं नवमूर्तिर्दूशैव च || १३५ || गौरार्यादि भास्करं ताञ्च प्रधानं वाहनानि च | प्रधानं पास्समीपे तु पूर्वोक्तानि च देवता || १३६ || स्थापनं यदि लोकेषु कुर्याञ्चैव तु तदृशम् | एतानि सर्वभेदानि कुर्यादस्मित् विशेषतः || १३७ || गौर्यास्तु स्थापनं प्रोक्तं शैवभेदं शृणुष्वधा || १३७ || इति सूक्ष्मशास्त्रे गौरिस्थापनं नाम षट्त्रिंशपटलः || अतः परं प्रवक्ष्यामि पार्वतीलक्षणं परम् | सर्वलोकहितार्थाय सर्वोपद्रविनाशनम् || १ || अङ्गनानां हितार्थाय सर्वमङ्गलहेतवे | मूललिङ्गस्य शोभार्थं लीलार्थं वा विशेषतः || २ || प्. १६६) शयनाङ्गाना यथा मस्तु मूलधामस्य शाङ्करे | पावके नै-ऋते चैव वेसरं कल्पयेद् बुधः || ३ || अन्तर्मण्डलबाह्ये तु अन्तर्हारा सुपाश्वके | मध्यमस्य तु हाराया मन्तो बाह्यं न कारयेत् || ४ || प्रासादमण्डपं वापि गोपुराकारमेव हि | मालिकाकारमेवं स्याद् ब्राह्मणादि क्रमेण तु || ५ || सर्वेषामेव जातीनां द्राविडं धाममुच्यते | प्रकारभित्तिबाह्ये वा भ्यन्तरे वा विशेषतः || ६ || मूलप्रासादबाह्ये तु प्रासादाभ्यन्तरेथवा | सूत्रबन्धौ तु कर्तव्यं शत्रुनाशनम् || ७ || प्राकारचलनं नेष्टं इष्टं चैत् सर्वदोषदम् | यजमानाय तदेदाषं सर्वथा तु न कारयेत् || ८ || इषुहस्तप्रमाणेन प्रासादादीन् प्रकल्पयेत् | नवहस्तात्समारभ्य विंशद्धस्तं तमेव च || ९ || ब्राह्मणादि क्रमेणैव वर्द्धयेत् तु त्रयं त्रयम् | पञ्चहस्तात् समारभ्य पञ्चदशकरान्तकम् || १० || अन्तराणां तु जातिनां उक्तंमेन्द्रकनियसम् | त्रिहस्तं तु समारभ्य रुद्रहस्तान्तमेव च || ११ || सर्वेषां जातियुक्तश्चेन्मानं चैव प्रकिर्तितम् | विस्तारद्विगुणोत्सेधं पादो न तु तदर्थकम् || १२ || प्. १६७) अग्रतो मण्डपं कुर्यात् प्रासादार्थप्रमाणतः | प्रासादपरितः कुर्यात् समीपे तथैव च || १३ || सालकर्मं न कर्तव्यं न समीपे बुधोनरः | अग्रमण्डपबाह्ये तु नृत्तमण्डपमुच्यते || १४ || तस्याग्रे बलिपीठं तु पञ्चाङ्गसहितं ततः | शिल्पशास्त्रोक्तमार्गेण पीठं कुर्यात् सलक्षणं || १५ || वीरे सम्यक् समाख्यातं योगे क्रमेण कल्पयेत् | स्वयमुद्भूतलिङ्गस्य दैविकार्षयकोरपि || १६ || असुरस्य तु बाणस्य प्रासादाः शेनधामकम् | पौरुषस्य तु लिङ्गस्य धामं गर्तेन कारयेत् || १७ || प्रासादस्य समं तारं पादोनं वार्धमेव वा | पादं वापि प्रकर्तव्यं मुत्सेधं पूर्ववद्भवेत् || १८ || एवमेव विधानेन कुर्याद् देवालयं बुधः | पौरुषस्य तु लिङ्गस्य धामङ्गत्तेन कारयेत् || १९ || प्रासादस्य समं तारं आलयं दक्षिणे दिशि | स्वयमुद्भूतलिङ्गस्य आलयञ्चाष्टदिक्ष्वपि || २० || कारयेत् तु विशेषेण कुर्यादि सहितं बुधः | सौवर्णाद्यैर्विशेषेण कारयेत् च्छयनाङ्गनाम् || २१ || तेषामभावे शुद्धेन नाश्मना दारुणाथवा | तेषामभावे भित्तौ तु निद्राशक्तिं च कारयेत् || २२ || प्. १६८) पटे वा फलकायां वा पार्वति कारयेद्बुधः | तस्मात् सर्वप्रयत्नेन शयनार्थं मनोन्मनि || २३ || कारयेत् सूत्रलिङ्गस्य मानं मानाङ्गुलेन तु | पञ्चाशद् द्व्यङ्गुणेनैव कारयेदुत्तमं बुधः || २४ || तस्मात् पञ्चाङ्गुलं हिना नवप्रत्येकदानकम् | एकत्रंशाङ्गुलारभ्य अश्वन्यगुल हीनकम् || २५ || प्रत्येकं नवमानं स्याद् दशपञ्चान्तकं क्रमात् | मात्राङ्गुलेन वा कुर्याद् यजमानाङ्गुलेन वा || २६ || एवमङ्गुलमानेन नवमानां दशाधिकम् | मूललिङ्गसमं दैर्घ्यं मुत्तमामानमिष्यते || २७ || तदर्थं कन्न्यसं प्रोक्तं तयोर्मद्येष्टभाजिते | प्रत्येकं नवमानं स्याद् उत्तमादि त्रयत्रयम् || २८ || यस्य लिङ्गस्य चायामं नवांशं भजेयेत्समम् | प्रत्येकं नवमानं स्यात् पूजांशं सदृशं कुरु || २९ || उत्तमाननमेवं स्यात् पूजाशार्थं हि कन्यसम् | तयोर्मध्येऽष्टभागे तु प्रत्येकं नवमानकम् || ३० || पीठोत्सेधं समं दीर्घं द्विगुणत्रिगुणं तु वा | उत्तमं मध्यमं चैव अधमञ्चेति कथ्यते || ३१ || पीठविस्तारमानं तु पञ्चांशं भाजयेत् ततः | एकाशाधिकमानेन उत्तमं दीर्घमुच्यते || ३२ || प्. १६९) पञ्चांशकन्यसं विद्यात् तयोर्मध्येऽष्टभाजिते | प्रत्येकं नर्ममानस्यात् कर्णमानं तथैव च || ३३ || एवं पौरुषलिङ्गस्य आयामं देवि तुगकम् | लिङ्गमानादिभिर्मानैर्मानैः कुर्यात् तु तां प्रति || ३४ || प्रासादस्य तु विस्तारं नवाशं भजयेत् ततः | उत्तमं मध्यमं चैव अधमं तु त्रिधा पुनः || ३५ || प्रासादस्य तु विस्तारं सप्तभागैर्विभाजयेत् | पञ्चांशमुत्तमं विद्यात्रियंशं कन्न्यसं भवेत् || ३६ || श्रेष्ठं कन्न्यसयोध्ये उत्तमं भाजयेत् समम् | प्रत्येकं नवमानं स्याद्वारस्तम्भो विशेषतः || ३७ || यस्य गर्भगृहं तारं नावाशं भजयेत्समम् | एकैक तुङ्गमानं स्यान्नवधा भेदमुच्यते || ३८ || गर्भार्द्धं कन्यसं विद्यात् पञ्चांशं तुर्यथांशकम् | उत्तमं मानमाख्यातं तयोर्मध्येऽष्ट भाजिते || ३९ || तानि प्रत्येकमानस्यात् कर्णमानं तथैव च | स्वायम्भुवादिलिङ्गानां पूजांशं द्विगुणोच्छ्रयम् || ४० || पूजांशं त्रिशमाधिक्यं उत्तमं मानमुच्यते | मध्यमं द्विगुणं दैर्घ्यं तत्समं दैर्घ्यमुच्यते || ४१ || मध्यमं चोत्तमं चैव अधमं चेति कत्थ्यते | पूजांशं नवधा भज्य एकैकं मानमुच्यते || ४२ || प्. १७०) यस्य लिङ्गस्य पूजांशं दशांशं भजयेत्समम् | तस्मात् त्रियंशमधित्यमुत्तमोत्तममुच्यते || ४३ || मध्यमं द्वादशांशं तु तस्मादेकांशहीनकम् | अधमं मानमेवोक्तं क्षुद्रलिङ्गस्य चोच्यते || ४४ || यस्य लिङ्गस्य चायामे षोडशांशं विभाजिते | तेषु मुख्या नवांशस्याच्छेषांशं कन्यसत्रयम् || ४५ || लिङ्गस्य परिणाहं स्यात् समं स्याद् देवि तुङ्गकम् | द्विगुणं मध्यमं चैव त्रिगुणं चोत्तमं स्मृतम् || ४६ || अंशं तु विभजेत् तेषु पूर्ववत् कारयेत् क्रमाद् बुधः | विष्कभं त्रिगुणं तुङ्गं द्विगुणं तत्समं तु वा || ४७ || उत्तमं मध्यमं चैव अधमं च त्रिधा भवेत् | लिङ्गस्य कर्णमानेन पूर्ववत् प्रारभेत्सुधिः || ४८ || पौरुषस्य तु लिङ्गस्य सूत्रमानेन कारयेत् | आयव्यय क्षवाराष्टौ योन्यंशकशुभं नयेत् || ४९ || यजमानानुकूलेन नक्षत्रेण समन्वितम् | सशक्त्यैस्सर्व संपत्यै राजाराष्ट्राभिवर्धये || ५० || तस्मात् सर्वप्रयत्नेन आयादिसहितं कुरु | निश्चित्य पार्वतितुङ्गं मानां शूलेन भजयेत् || ५१ || वसुनंदगुणैर्वृद्धि कुर्यात् मानाङ्गुलाद् बुधः | भानुनाडि हृदे सम्यक् शेषमायादिकं भवेत् || ५२ || प्. १७१) तेन पीठं पीथं प्रविस्तारं पूर्वत् कारयेत् सुधिः || अष्टाभिवृद्धिते तच्च सप्तविंशतिभूषिते || ५३ || शेषं नक्षत्रमेवं स्याल्लोकसन्तान कारणे | नवभिवृद्धितं चैव सप्तभिर्भाजयेद् बुधः || ५४ || शेषं वारमिति प्रोक्तं नक्षत्रं च चतुर्गुणम् | नवभिस्तु हदे तत्र शेषमंशकमादिशेत् || ५५ || सूर्यभौमार्किकाकृष्टशेषा वै शोभनास्मृता | आयाधिक्यं शुभं विद्याद् व्ययाधिक्यमशोभनम् || ५६ || धूमश्वान खरौ काकनग्राह्यच्छभमिच्छताम् | एवं प्रकारमार्गेण पीठोत्सधं तु दक्षिणे || ५७ || पीठक्ष शक्तिरक्षं तु परस्परशुभं भवेत् | प्रतिकुलं न कर्तव्यं अनुकूलाच्छुशुभं भवेत् || ५८ || एवमेव प्रकारेण प्रतिमारम्भकालके | लक्षयेत् षट्शुभं सम्यग् यथा तत्र न कारयेत् || ५९ || रक्षगणं च महेन्द्रं योनिस्त्रिराक्षमेव तु | वेधं रज्जुं च राशीं च वश्यं राश्याधिपं तथा || ६० || तेषां शुभाशुभं विद्याद्बिम्बक्षेण परिक्षयेत् | यजमानस्य रक्षेण शुभाशुभं परिक्षयेत् || ६१ || शुभाधिक्या व्ययाहिनं सा शक्तिः सर्वसंपदा | शुभहिनं व्ययधित्यं सा गौरि सर्वदोषदा || ६२ || एवमेव प्रकारेण कारयेद् देशिकोत्तमः | अन्यथा कारयेद् बिम्बं राजा राष्ट्रं विनिश्यति || ६३ || प्. १७२) देवतार्चनसान्निध्यं तस्मात् तान् लक्षयेत् सदा | इदमन्यप्रकारेण विशेषं चोच्यते मया || ६४ || पार्वत्युत्सवमानं तु एकत्रिंशति भाजयेत् | तानि भागानि संगण्य द्वादशेन तु दण्डयेत् || ६५ || अष्टभिर्जायते शेषमायं तत्र विधीयते | षोडशैर्गुणितं कृत्वा तानि भागानि पूर्ववत् || ६६ || आधिक्ये तुङ्गमानं स्याच्छुभं तत्र विधीयते | प्राप्तोत्सेधस्य मानं तु एकोनत्रिंशदङ्गुलम् || ६७ || कृत्वासम्यग् विशेषेण गणये दशवायुना | तानि सर्वाणि संहृत्य सप्तभिः शेषकं व्ययम् || ६८ || नवभिर्गुणितं तानि षड्भिस्सम्यक् हृदे पुनः | शेषो व्यय इति ख्यातो व्ययहीनं शुभं भवेत् || ६९ || प्रकृतस्सप्तविशद्भिगुणितं वा विशेषतः | तानि भागानि गणयेद्वारेण मतिमान्नरः || ७० || सप्तविंशतिभिर्भृत्वा शेषं नक्षत्रमादीशेत् | गणयेद्दशभिस्तानि सप्तविंशतिभिर्हृदे || ७१ || शेषनक्षत्रकं विद्यात् पूर्वलक्षण लक्षयेत् | उत्सेधं भूमिभिर्गण्यं तानि चाष्टानि वर्धयेत् || ७२ || मुनिभिर्भाजयेच्छेषं वारं तत्र विधीयते | भानितानि च सङ्गण्य द्वादशेन विशेषतः || ७३ || प्. १७३) सप्तभि भोजयेत् च्छेषं सूर्यादेर्वारमुच्यते | आवर्त्तो सेत्थमानं तु तुर्भिगुणयेत् क्रमात् || ७४ || अष्टाभिर्हासकं कुर्यात् शेषं योनिरिति स्मृतम् | आस्तोत् सेधस्य भागानि गुणेन गुणितं यथा || ७५ || अष्टभिर्भाजयेत् च्छेषं योनिरत्र विधीयते | पूर्वोक्तविधिमार्गेण शुभाशुभं हि लक्षयेत् || ७६ || एवमेव प्रकारेण कारयेद् देशिकोत्तमः | आयाधिक्ये व्ययाहीने मानं तत्समपात्पदम् || ७७ || आयं हीनं व्ययं मुख्यं मानं तत्सर्वदोषदम् | तस्मात् सर्वप्रयत्नेन आयाधिख्येन योजयेत् || ७८ || तेषां नक्षत्रकं मुख्यं सर्वहितावहम् * * | नक्षत्राधिपति चन्द्रः तस्मात् प्राधान्यकं शुभम् || ७९ || अंशवारौ तथैव स्याद् देवतामय तत्फलम् | एवं बहुप्रकारेण कारयेद् देशिकोत्तमः || ८० || येनमानेन निर्माण तेन मानेन कारयेत् | प्रधामारम्भकाले तु शुभाशुभं विचारयेत् || ८१ || यस्य संस्थापितं गर्भं तस्य मेवं तु कारयेत् | गृहितोत्सेथमानं तु पञ्चांशं भाजयेत् ततः || ८२ || एकांशं पीठककोत्सेधं चतुर्भागैक भागिकम् | त्रियंशे कांशमुत्सेथं षडिधं पीठिकोच्छ्रयम् || ८३ || प्. १७४) उत्सेथं त्रिगुणोन्तारं द्विगुणंतरमेव वा | चतुर्गुण नवा कुर्यात् पञ्चाङ्गं सहितं पुनः || ८४ || मङ्गलाप्रतिमारम्भे शुभाशुभानि लक्षयेत् | तेन रूपेण मार्गेण न्यस्त्वा सङ्ग्राह्ययेद्बुधः || ८५ || तरूपं लोपयेत् तत्र मनोशुद्धि मा विच्छरेत् | सुमुहूर्त्ते सुलग्ने तु प्रतिमारम्भयेत् सुधि || ८६ || मन्त्रेण स्थापितं गर्भं ब्रह्मसूत्रसमन्वितम् | येन द्रव्येण निर्माणं तेन द्रव्येण कारयेत् || ८७ || लोहादिभिः कृतं बिम्बं लक्षणेन विना कृतम् | स्तत्बिम्ब स्थापयेन्मोहात् पूजानाशमवाप्नुयात् || ८८ || प्रतिष्ठार्चन कर्तव्यं स्थानन्तरनिवेशयेत् | स्थानान्तरविधानेन क्षेपयेत् प्रतिमं बुधः || ८९ || प्रतिष्ठां तत्र कर्तव्यं भक्त्या तत्रैव पूजयेत् | देवानां तु कृता लोहं साङ्गोपाङ्गं विशेषतः || ९० || किञ्चिल्लक्षणसंयुक्तं त्वमेवस्थापयेद् बुधः | द्रव्यनामं न कुर्यात् तु द्रव्यनामं न लेपयेत् || ९१ || तस्मात् सर्वप्रयत्नेन लब्वादौ तु प्रकल्पयेत् | एवं वै दानवादीनां च्छत्रादीनां तथैव च || ९२ || लोपक्रिय न कर्तव्यं कर्तव्यं चेन्महद्भयम् | लोके तु कलहं रूपं संभ्रान्तं सकृतं यदि || ९३ || प्. १७५) तेन कारणमार्गेण रूपं सर्वत्र हानि च | लोके मानुषरूपं स्यात् र्त्याम्या यदि बन्धवाः || ९४ || किमिदं देवरूपं तु ह्रासकार्यं न सर्वथा | पुराणान्निजबिम्बं च पुनं सन्धानमाचरेत् || ९५ || ब्रह्मकायादि नक्त्यानि कारयेद् विधिना बुधः | शिलारूपं न कर्तव्यं कर्तव्यं दोषदं भवेत् || ९६ || एवं परीक्ष्य विधिना कारयेद् देशिकोत्तमः | मध्यमं दशतालेन निन्द्रारूपं हि कारयेत् || ९७ || उष्णिषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते | त्रयोदशाङ्गुलं वक्त्रं अर्द्धाङ्गुलगलस्मृतम् || ९८ || तस्मात् त्र्यङ्गुलार्द्धं तु हि काकमेढ्रन्तमेव च | मुखद्वयमिति प्रोक्तं ऊरुमान मुखद्वयम् || ९९ || द्विकोलजानुमानं तु जङ्घा द्विमुखमुच्यते | भागं पादतलं प्रोक्तं पूर्वोक्तेन तु विस्तरम् || १०० || उष्णीवात्भ्रूध्वये मध्ये नास्योष्णीष हनुमध्यमे | अङ्गुले नाभिवामे तु गुल्पवामे द्वयङ्गुलम् || १०१ || नेत्रान्तं तु तथैवं स्यात् पञ्चमायात्रितिभृवा | तन्मध्ये द्विविधं प्रोक्तंमग्रमर्द्धयवं स्मृतम् || १०२ || यवद्वयमयं चास्यात् उत्तराधरचर्मणा | यवं किनीनिकायामं विस्तारं च तथैव च || १०३ || प्.१७६) येन यामत्रिभागं स्यान्मध्यमं कृष्णमण्डलम् | कर्णयोर्मध्यमे पृष्ठे द्वादशाङ्गुलविस्मृताम् || १०४ || तुण्डाग्राच्छिखिपालयन्तं चतुर्यवं च पाकृतिः | केशान्तं चर्भपश्चान्तं द्वयङ्गुलं द्वयवाधिकम् || १०५ || दृष्टियूनं समानं स्यात् तथैव मुनिनामकम् | कृष्णानि पक्ष्मरोमाणि प्राहुन्नवति सङ्ख्यया || १०६ || धनुरुत्पलमत्स्याभं लोचनादूरमुच्यते | द्वयवं तु भ्रुवोर्मध्ये पदमें मुनिपुङ्गवा || १०७ || गोजिमूलादिनासाग्रं भागषड्यवमुच्यते | त्रियङ्गुलं तु विस्तारं भ्रूवोच्छ्रायोर्यवद्वयम् || १०८ || पदपञ्चपटोज्ञेया षड्यवं पुष्करोच्छ्रयम् | एवमेवोच्छ्रयं कुर्याद्विस्तारस्य तथैव च || १०९ || पुनयोरुच्छयोर्मात्रषड्यवं स्यात् स उच्यते | तिलप्रसूनमानं स्यात् दर्द्धैकद्वयहत्रिकम् || ११० || यवलम्बं तु नासाग्रं क्रमेण परिकल्पयेत् | आधारान्तं पुटं सूत्रं यवोपेतद्विमात्रकम् || १११ || चतुर्मात्रयेवोपेतामस्यायामं प्रवक्ष्यते | विस्तारं चोत्तरोष्ठस्याः यवत्रितियमिष्यते || ११२ || पालिका यवामेस्यात् त्रिवक्त्रं तथैव इष्यते | यवार्धं गोजिनिम्बं स्यादुत्सेधं तु चतुर्थवम् || ११३ || प्. १७७) यवद्वयं तदर्धं वा गोजिमूलस्य विस्तरा | विस्तारमधरोष्टस्या विद्युमात्रयवाधिकम् || ११४ || प्रवातस्य तु विस्तारं यवसप्तकमिष्यते | अर्धाधिकं यवं प्रोक्तं मधरस्य तु पालिका || ११५ || अङ्कुरद्वियवायामं पक्वं बिम्बफलोत्तमम् | हरेस्तस्योन्नति विद्यात् षडव्यं दर्शना न तु || ११६ || द्वात्रिंशत् त्रियवं तेषां मुच्छ्रायोगेन ता परम् | अधो दन्तस्तधाष्टांशं हि न मूर्धे तु षोडशा || ११७ || जिह्वा षड्यवविस्तारं तथा यामं गुलोच्छ्रयम् | त्रिमात्रं ह्यनुक्रमं कुर्याद् द्वियवत्रयमुन्नति || ११८ || यवनिम्नान्तदूर्ध्वं स्यात् त्रिमात्रं निर्गतिर्गति | भव्यसोहनुव्र * स्यादेकमात्रं द्वियंतिति || ११९ || एकाकारं ततज्ञेयो पूर्णेन्दु सदृशें मुखम् | ऊर्ध्वं पद्मभ्रुवोर्मध्ये यवाधिकयवत्रयम् || १२० || कर्णस्य सुषिरं मात्रं विस्तारं तु चतुर्यवम् | द्वियवं कर्णपाल्यं तत्समं कर्णस्य पट्टिका || १२१ || कर्णपालार्धमात्रं स्यात् कर्णनालं तु मात्रकम् | लकार सदृशं कर्णं पूर्वाचार्येण भाषितम् || १२२ || अर्धमात्रिक्तारोच्चं पिच्छिष्टि चतुरङ्गुलम् | पूर्वौ परौ तु नालौ तु स्वयमेव विलम्बनौ || १२३ || प्. १७८) अङ्गुलेन बिलम्बित्वं भवेत् कर्णविलम्बिना | अपाङ्गात्कर्णमूलान्तं सप्तमात्रयवत्रयम् || १२४ || ललाटस्य तु तारं स्यान्नवमात्रार्धमीरितम् | पूर्वकेशान्तमुष्णीषात्प्रभृत्याष्टाङ्गुलं भवेत् || १२५ || दन्तादिपाश्वकेशान्तं त्रयोदश्याङ्गुलंष्यते | त्रयोदशार्धमेवं स्यात् पृष्ठकेशायवस्मृतः || १२६ || भ्रुवपृष्ठे चतुर्मात्रं शूर्पाकारं तदिष्यते | कुकुटा कटिसन्धिं स्यात् सप्तविंशतिमात्रकम् || १२७ || मध्ये पक्षांशमित्याहुयोनिमध्ये यवान्ततः | समण्डलस्य विस्तारमुपस्थं तु दशाङ्गुलम् || १२८ || त्रयोदशार्धमात्र स्यात् कटिपृष्ठान्तमध्यमम् | नवमात्रार्धविस्तारं चतुरङ्गुलमुद्गमम् || १२९ || पृष्ठमण्डलमध्यस्तं वै मारुतं तदर्धकम् | भ्रुवमूलाग्रविस्तारं रेखात्रयसमन्वितम् || १३० || षोडशाङ्गुलविस्तारमुपबाह्याङ्गुलं भवेत् | हिक्का सूत्रादि कक्षान्तं दशमात्रार्धमिष्यते || १३१ || चतुर्मात्र द्विमात्रं च क्रमादेकार्धमात्रकम् | हिक्कसूत्रोपरि स्कन्धग्रीवमूलाद् भुजो विधि || १३२ || सप्तविंशति मात्रं स्यात् हिका सूत्रात् प्रभृत्यथा | भुजयामा तथा मात्रं कोर्परस्य त्रमात्रकम् || १३३ || प्. १७९) प्रकोष्ठमेकविम्शद्विश्छतलस्यात् सप्तमात्रकम् | अर्धार्धमर्धमात्रार्धं मध्यमाङ्गुलमिष्यते || १३४ || षट्सूत्रा तर्जनिप्राहुयवाधिकमनामिकम् | अर्धाधिक चतुर्मात्रात् कनिष्ठाङ्गुष्ठयोर्विद || १३५ || नवमात्रं भवेद् भाहुं ऊरूनागस्य विस्तरम् | विस्तारं बाहुमात्रं स्यात् तथा वै कारयेद् बुधः || १३६ || कोर्परस्य तु विस्तारं अष्टमात्रं विदुर्बुधः | प्रकोष्ठस्य तु मूलं स्यादर्धमात्रं यवाधिकम् || १३७ || तन्मध्ये मध्यविस्तारं षड्यवं पञ्चषट् ङ्गुलम् | विस्तारे मणिबन्धस्य चतुर्मात्रं तु षड्यवम् || १३८ || तस्य नाहस्य विस्तारं त्रिगुणं पञ्चभागिकम् | अध्यर्धमधिकं कृत्वा परिणाहं विदुर्बुधः || १३९ || तलं तस्य तु विस्तारं अग्रमध्यर्धसन्निभम् | अनामिकाग्र संविद्यात् कनिष्ठामूलविस्तरम् || १४० || अग्रं तस्यष्ट भागेन अङ्गुष्ठादिक पर्वत | अग्रपर्वार्धमायामं विस्तारं नवमिष्यते || १४१ || तलमूलाग्रमध्यानि त्रिमात्रं तु द्विमात्रकम् | तलरेखातयोगेन मध्ये वै पद्मशङ्खकम् || १४२ || उक्तं वक्ष्यंतरं द्वाभ्यांमर्धविंशतिमात्रकम् | स्थनं हिककान्तरं सार्धत्रयोदशाङ्गुलन्निभम् || १४३ || प्. १८०) स्तनं तदा द्वियवाभ्यां द्विसप्ताङ्गुलमिष्यते | स्तनमण्डलविस्तारं नवमात्रं प्रकीर्तितम् || १४४ || तदर्धं तु स्तनोत्सेधं सुवृत्तं रमणीयकम् | चूचुकं द्वियवर्धोच्चं व्यालं कोलकमण्डलम् || १४५ || मध्योदरविशालं स्यादेकादश्याङ्गुलं तथा | पञ्चार्धद्वियवैसार्धं निम्नभागै प्रकीर्तितम् || १४६ || नाभिः प्रदक्षिणावृत्यो तिर्यग्रेखसमन्वितम् | श्रोणिप्रदेशविपुलं सप्तदश्याङ्गुलं भवेत् || १४७ || कटिप्रदेशविस्तारं विंशमात्रमिति स्मृतम् | योनिमूलस्यविस्तारं पञ्चाङ्गुलमिति स्मृतम् || १४८ || अश्वत्थ पत्र सदृशं अनुपूर्वात् कृशं तथा | स्थानक्षप्रभृतैः पृष्ठं कक्षात्पञ्चदशाङ्गुलम् || १४९ || कुक्षिमध्यस्य विस्तारं महासप्तदशाङ्गुलम् | अष्टादशाहमात्रं स्यात् श्रोणिदेशस्य विस्तरम् || १५० || एकविंशतिमात्रं स्याद् ऊरुमध्यस्य विस्तरम् | दशमात्रार्धमात्रस्याज्जानुमध्ययवाधिकम् || १५१ || जङ्घमूलस्य विस्तारं दशमात्रं तु विस्तरम् | नवमाकं भवेदग्राण्मात्रं त्रिवयवाधिकम् || १५२ || नालकं तु चतुर्मात्रं षड्यवाधिकमिष्यते | पाष्णीविस्तारकोत् सेधम् उदयं तत्समं विदुः || १५३ || प्. १८१) गुल्फाणां विस्तरौ ज्ञेयौ सप्त पञ्च यवा क्रमात् | अनुक्तं यद्भवेत् किञ्चित् शिल्पिशास्त्रोक्तमार्गतः || १५४ || लोहेन कल्पयेद् देविं शैल लिङ्गस्य बुद्धिमान् | लोहशैलं न कर्तव्यं लोहे लोहसमं तथा || १५५ || दारुवादिषु लिङ्गेषु सौवर्णादिनि योजयेत् | मिण्मये भित्तिचित्रे तु सौवर्णाद्यैश्च कारयेत् || १५६ || द्विबाहुकद्विनेत्रा च श्यामाभां कमलेक्षणाः | दक्षिणेनोत्पलं हस्तं वामहस्तं प्रलम्बितम् || १५७ || सर्वालङ्कारसंयुक्तां सर्वाभरणभूषिताम् | उत्तमं चतुरङ्गुल्यं दीर्घमष्टाङ्गुलं भवेत् || १५८ || सुस्तनां चारुवदनां पादौ नूपुरसंयुताम् | पद्मासनस्थितां देवीं बालचन्द्र प्रभूषिताम् || १५९ || किञ्चित्रिभङ्गिकां सम्यगुक्षारूढमथापि वा | एवमेव विधानेन कारयेच्छयनाम्बिकाम् || १६० || उमा च चण्डिका मौक्तितन्मानेन मुखद्वयम् | पञ्चमानसमायुक्तं कारयेत् पार्वति शुभाम् || १६१ || द्व्यङ्गुलं द्वियवं चैव हीनाधिक्यं तु दोषदम् | अधिकं चैव हीनं च वर्जयेत् तु प्रयत्नतः ||१६२ || मूलबेरप्रमाणेन उमाचै कारयेद् यदि | आयादि षट्शुभं सम्यक् कुर्याद् देविममानखे || १६३ || प्. १८२) अन्येषामपि मनानामायादीन् लक्षयेत् सदा | अदूषाद्यस्तु लिङ्गादे लिङ्गानां सर्वलक्षणम् || १६४ || अनश्चकरणार्धेतोस्तेषामानक्रियां स्तिचेत् | तेषामारब्धकाले तु नक्षत्रादीनि लक्षयेत् || १६५ || पौषारम्भकाले तु षट्शुभं तु परिक्षयेत् | एवमेव विधानेन सर्वमानेष्ठकल्पयेत् || १६६ || ऐन्द्रे तु पार्वति स्थाप्य सर्वसम्पत्करं नृणाम् | आग्नेर्यां पुत्रदं कुर्याद्याम्य सौभाग्य सिद्धिदम् || १६७ || निनृतौ जयकं कुर्याद् वारुणं शत्रुनाशनम् | वायव्यां धनदं कुर्यात् सोमे सूनुविवर्धनम् || १६८ || ऐशान्यां धनवृद्ध्यर्थं प्रत्येकं फलमुच्यते | पश्चिमद्वारहम्ये तु आग्नेर्यां वा सशङ्करे || १६९ || अथवा वायवे चैव स्थापयेच्छयनाङ्गताम् | प्राक्द्वारस्य तु लिङ्गस्य तस्य दक्षिण भागिके || १७० || शयनाङ्गना प्रकल्पैव आरुषे चाष्टदिक्षु च | मूलप्रासादवद्वारमथवा चोत्तराननम् || १७१ || शक्त्यालयस्य मूलस्य अन्तरे भवनेऽपि च | देवतास्थापनं चैव इषश्चेत् सूनुनालयम् || १७२ || मूललिङ्गप्रमाणेन पुष्यद्रं कारयेद्रमाम् | प्रासादस्य प्रमाणेन प्रजावृध्यर्थ कारणम् || १७३ || प्. १८३) गर्भगृहप्रमाणेन आयुष्यं तु बलार्थकम् | मूलबिम्बप्रमाणेन नारिणामभिवृद्धयेत् || १७४ || मूलसूत्रप्रमाणेन गोगजादिविवर्धनम् | मात्राङ्गुलविधानेन नृपराष्ट्राभिवृद्धयेत् || १७५ || एवं परिक्ष्य विधिना कारयेदुत्तमं बुधः | एवमुक्तप्रकारेण अन्येषामपि कारयेत् || १७६ || एन द्रव्येण आरम्भं नेत्रद्रव्येण कारयेत् | परिसमाप्तौ वस्येततस्य समक्क्रतेन तु || १७७ || एवं प्रकारं कर्तव्यं लोहादिषु विशेषतः | शिलादिषु यथेष्टं स्यादङ्गलेपं न कारयेत् || १७८ || शिल्पकर्मवसाने तु देशिकस्थापतिस्सहा | शुभौ प संलक्ष्य पश्चाद्बिम्ब पश्चात् प्रतिष्ठयेत् || १७९ || एवमेव प्रकारेण कारयेद् देशिकोत्तमः | एवं विधप्रकारेण बहुमार्गेण कारयेत् || १८० || इति सूक्ष्मशास्त्रे देव्यालक्षणं नाम सप्तत्रिंशः पटलः || अतः परं प्रवक्ष्यामि अभिषेकार्चनं परम् | धर्मार्थं काममोक्षार्थं शान्तिकं पौष्टिकं तथा || १ || प्. १८४) आयुः श्रीमृत्युविजयं व्याधिनाशं रिपुक्षयम् | ग्रामवृद्धिकरं प्रोक्तं सर्वोपहति नश्यति || २ || अङ्कुरार्पणपूर्वं तु सप्ताहं चैव पञ्चधा | त्रियहं भौवनं प्रोक्तं आदिशैव प्रशस्यते || ३ || रोहिण्यानि च सुयुक्तं पुष्ये वैष्णवमुच्यते | आदित्यहस्तमित्युक्तमष्टम्यं तु चतुर्दशि || ४ || दर्शयी पौर्णमास्यायां मासान्तेन विशेषतः | नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं भवेत् || ५ || पञ्चाहं शान्तिकं प्रोक्तं त्रियाहं तु शिव प्रियम् | एकाहं रोगनाशार्थं एवं ज्ञात्वा तु बुद्धिमान् || ६ || पूर्वरात्रौ तु कर्तव्यं निर्वाणं दीपमाचरेत् | क्षीराभिषेकं कृत्वा तु तस्मात् कौतुक बन्धनम् || ७ || पयप्रस्तं तु नैवेद्यं पायसं तु प्रशस्यते | प्रातस्नात्वा शुचिर्भूत्वा देशिकं शिष्यमेव च || ८ || गोमयालेपनं कृत्वा पुण्याहं प्रोक्षणं तथा | जलभाण्डवर्धनीकुम्भान् कलशं पुष्पपात्रकम् || ९ || पाद्याचमन पात्रं च अभिषेक घटानपि | पाटालिसदृशाकारं सर्वलक्षणसंयुतम् || १० || सर्वपात्रं ततः कृत्वा क्षालयेदस्त्रमन्त्रतः | दर्भासनोपरि स्थित्वा कवचेनावकुण्ठयेत् || ११ || प्. १८५) निरीक्ष हृदयेनैव प्रोक्षयेत् पुरुषेण तु | ताडनं हुं फट्डतेन स्पट्नं सद्यमन्त्रकैः || १२ || उन्मिलनं नेत्रमन्त्रे मण्डपस्योत्तरस्थितम् | वस्त्रपूतेन तोयेन जलभाण्डेषु सङ्ग्रहेत् || १३ || उदयादेव कर्तव्यं रात्रान्तेव जलं ग्रहेत् | एलालवुङ्गकर्पूरं गन्धं पुष्पं जलं ग्रहेत् || १४ || पञ्चाङ्गभूषणोपेतो देशिको मूर्तिपैस्सह | अङ्गन्यासकरन्यासन्तर्यागं समाचरेत् || १५ || प्राणप्रकृष्टे योगेन ज्ञात्वा सर्वं समाचरेत् | कुम्भाश्च वर्धनीं चैव तन्तुनावेषयेत् ततः || १६ || यन्त्रयो यद्वमन्त्रेण तत् तन् मन्त्रेण देशिकः | रत्नजं हस्तिमांस च रोमनाडि च तन्तुना || १७ || स्नपनं पञ्चगव्येन पञ्चामृतं तु स्थापयेत् | स्नपनमण्डपे मध्ये शालिभिस्तण्डिलं कुरु || १८ || प्राक्सूत्रं वसुसूत्रं स्यादुदक् सूत्रं तथैव च | सूत्रात् सूत्रन्तरं तालं मध्ये नवपदं गृहेत् || १९ || अभितस्तस्य बाह्ये तु पादमेकं परित्यजेत् | वसुद्वारसमायुक्तं त्यजेद् गोमयवारिणा || २० || द्विभारं चैकभारं वा शालिभिस्तण्डिलं कुरु | शाल्यार्थतण्डुलं प्रोक्तं तस्यार्थं तु तिलं तथा || २१ || प्. १८६) युगद्रोणशालभिर्वा तिलतण्डुलशालिभिः | सूत्रतारे तु कर्तव्यं दर्भे पुष्पै परिस्तरेत् || २२ || नवाष्टभूतवेदाग्नि शक्तिदर्भै प्रशस्यते | पूर्वाग्रं चोत्तराग्रं च पदं प्रतिपदं प्रति || २३ || मध्यमे शिवकुम्भं तु विधिमध्ये तु वर्द्धनी | पाद्यमाचमनं चार्घ्यं कस्तुरिगन्धतैलकम् || २४ || निवारं कुङ्कुमं चैव तिलमाजिमुरं तथा | प्रथमावरणे चैव कलशं चाष्टदिक्षु च || २५ || द्वितीयावरणे चैव घटान्षोडश कल्पयेत् | मधुकां क्षमांगुलं चैव उशिरं चन्दनं तथा || २६ || तक्कोलं सर्वगन्धं च जातिचम्पकमेव च | कल्हारशतपत्रं च मालतिद्रोणमेव च || २७ || लाजं च त्रिफलं चैव नालिकेरं तथैव च | कदलि पनसं चैव वैरवं सर्षपं तथा || २८ || गोरचन्दनबिल्वं च पञ्चविंशतिसंख्यया | ब्रह्माविष्णुहरं चैव हृषिकेशस्तथैव च || २९ || सूर्यसोममहासेन शर्वरद्रो ज्वरेश्वरः | प्रथमावरणे चैव देवपाणिस्थलं न्यसेत् || ३० || द्वितीयवर्णदेवस्य कृत्वा देवं पितामहम् | इन्द्रादिलोकपालंश्च सोमाङ्गारबृहस्पति || ३१ || प्. १८७) पीठलं मनुजश्चैव ब्रह्माविष्णुरिषिस्तथा | वसिष्ठं काश्यपं चैव मुनिभि षोडशो भवेत् || ३२ || सप्तपाणितले न्यस्य स्नपनं कल्पयेद् बुधः | दर्भैरेकादशैश्चैव देशिके हस्तकूर्चकम् || ३३ || अवेदाङ्गुलं चैव ग्रन्धि व्योमाङ्गुलं भवेत् | वर्धनीं च नवग्रन्धिं विस्तारं तालमात्रकैः || ३४ || भूताग्रद्वादशाङ्गुल्यां सर्वैश्च कलशेरः * | पुष्पगन्धै समभ्यर्च्य स्वस्वमन्त्राभिधानकम् || ३५ || प्रत्येकं नववस्त्रेण स्नपनं कारयेत् ततः | तस्य पश्चिमदिग्भागे पञ्चगव्यं तु विन्यसेत् || ३६ || स्थण्डिलं शालिभिः कुर्यान्नवकोष्ठानि विन्यसेत् | त्रिपादि पञ्चकोष्ठानि मध्ये पूर्वेध दक्षिणे || ३७ || वामपश्चिमके चैव परिस्तरणपूर्वकम् | लाजपुष्पतिलैश्चैव रन्ध्रसूत्रेषु योजयेत् || ३८ || कलशं क्षालयित्वा तु त्रिपाद्युध्वे विशेषतः | क्षरं तु मध्यमस्थाप्य गोमूत्रं पूर्वदेशके || ३९ || गोमयं दक्षिणस्थाप्य पश्चिमे दधिरुच्यते | उत्तरे तु घृतं स्थाप्य वनौ च मधुसंस्थितम् || ४० || नैर्-ऋते फलसारं च वायव्ये गुलसारकम् | ऐशान्ये नालिकेरं च नवद्रव्यं विधीयते || ४१ || प्. १८८) क्षिरं तत्प्रस्थमित्युक्तं गोमूत्रं कुडुपद्वयम् | गोमयं कुडुपं चैव दधिर्वै कुडुपत्रयम् || ४२ || आज्यं गुडुममित्युक्तं द्विप्रस्तं गुडुपत्रयम् | गुडुपं तु मधुश्चैव फलोदकुडुपद्वयम् || ४३ || गुलसारं ततः प्रस्थं चतुर्थनालिकेरकम् | नवद्रव्येणसङ्ख्यायमधिदेवं ततः शृणु || ४४ || अगस्त्यं च पुलस्त्यं च विश्वामित्रं च काश्यपम् | भार्गवं तु मरञ्चैव भारद्वाजेन मुद्गलः || ४५ || ऋषिब्रह्मपदश्चैवं कलशं पाणिसंस्थितम् | पुष्पकूर्चं समभ्यर्च्य स्वस्व मन्त्रेण देशिकः || ४६ || धूपदीपादिभिः कृत्वा लिङ्गं सुरभिमुद्रया | तत् तन् मन्त्रेण संपूज्य दशमुद्रां प्रदर्शयेत् || ४७ || प्रधानकलशं मध्ये सर्वत्र स्थापयेद् बुधः | सापिधानं च सर्वत्र अस्त्रमन्त्रेण बुद्धिमान् || ४८ || द्वार अस्त्राबुना प्रोक्ष्य द्वारपालान् प्रपूजयेत् | गर्भगेहं प्रविशित्वा देशिकश्चोत्तराननः || ४९ || प्राणप्रकृति योगेन ज्ञात्वा कर्मसमाचरेत् | संपूज्ये मूललिङ्गं तु लिङ्गशुद्धि शिवास्त्रकैः || ५० || तुलसी बिल्वपत्रैश्च लिङ्गं पीठं च घर्षयेत् | पिष्टामलकडारिद्रं प्रत्येकं लेपयेद्बुधः || ५१ || प्. १८९) स्नापयेन् मूलमन्त्रेण प्राणयोगं समाचरेत् | अष्टत्रिंशत् कलान्यासं मकुटादि क्रमान्यसेत् || ५२ || सदाशिवं तु लिङ्गस्थं कुम्भस्थं तु महेश्वरम् | प्राकृतं भावमुत्सृज्य एकचित्तेन पूजयेत् || ५३ || स्नपनं पञ्चगव्येन अर्चनोक्तं समर्चयेत् | मूलब्रह्मषडङ्गैश्च गन्धतोयैः प्रपूजयेत् || ५४ || चन्द्रात्नाशेव जलं सर्वपूजार्हकं विदुः | वेदाध्यायनं विप्राणाम् अर्धमण्डपमध्यमे || ५५ || चमकं नमकं चैव पुरुषसूक्तं तथैव च | विप्रादीनां चतुर्वेदिमहाशैवास्सदीक्षिता || ५६ || अदितोभक्तिहिनोपि मन्त्रहीनो न संस्पृशेत् | लिङ्गायामपि तत् तुल्यमाचार्यास्तु समाचरेत् || ५७ || वेदाध्ययनसंयुक्तो गन्धवारिं प्रपूजयेत् | गव्यं पञ्चामृतं चैव व्योमव्यापिं समुच्चरेत् || ५८ || दशाक्षरेण मन्त्रेण पूजयेत् तु महेश्वरम् | लम्बकूर्चसमायुक्तं मूलब्रह्मषडङ्गकैः || ५९ || कर्पूरागरुसंयुक्तं गन्धतोयेन पूरितम् | अष्टपुष्पं तिसृगन्धिं सप्तसङ्ख्या निवेदयेत् || ६० || नृत्तगीतसमायुक्तं स्तोत्रमङ्गलवाचकैः | कलशै पञ्चविंशत्या अभिषेकं च कारयेत् || ६१ || प्. १९०) नानावस्त्रेरलङ्कृत्या नानागन्धसमन्वितम् | नानापुष्पेरलङ्कृत्य अर्चनोक्तं समर्चयेत् || ६२ || मुद्गान्नं पायसान्नं च गुलान्नं कृसरान्नकम् | शुद्धान्नं चैव इत्येते पञ्चान्नं तु प्रशस्यते || ६३ || नैवेद्यं दापयेच्छंभो पुनराचमनीयकम् | ताम्बूलं दर्पणं छत्रं मुखवासं च दर्शयेत् || ६४ || मन्त्रपुण्दतैद्विप्रेर्वेदघोषेण कारयेत् | शैवाग्निं च प्रवक्ष्यामि अग्निकार्योक्तमार्गतः || ६५ || ब्रह्मवृक्षसमद्भिस्तु समिधाज्यचरूहुनेत् | होमद्रव्याणि सर्वाणि सद्योजातेन होमयेत् || ६६ || जयादि स्विष्टकृत्यन्तं पूर्णाहुति समाचरेत् | सर्वरोगनिवृत्यर्थं सर्वकामफलप्रदम् || ६७ || आचार्य पूजयित्वा तु दैवज्ञं पूजयेद् बुधः | एवं यः पूजयेद् धीमान् सर्वकामफलं भवेत् || ६८ || इति सूक्ष्मशास्त्रे महाभिषेकविधिं नाम अष्टत्रिंशत् पटलः || वक्ष्ये तु प्रतिमानं जलसंप्रोक्षणं विधि | शैलेमृद्दारु लोहानां प्रतिमानां विशेषतः || १ || प्. १९१) पटे वा भित्तिचित्रे वा प्रोक्षयेद् देशिकोत्तमः | नित्यार्चनविहीने तु द्विगुणं चान्यसन्धिके || २ || एकाहमर्चनाहीने स्नपनं तु विधीयते | अ मासे ततः कुर्यात् स्नपनाद्धोमकर्मणि || ३ || एकमासविहीने तु शान्तिहोमं तु कारयेत् | षाण्मासे च विहीने च स्नपनं च शताष्टकम् || ४ || वास्तुहोमं ततः कृत्वा स्नपनान्मूर्तिहोमकम् | संवत्सरविहीने च प्रोक्षणं हि समाचरेत् || ५ || संवत्सराधिके हीने पुनस्थापनमारभेत् | स्थापयित्वा विधानेना पूर्वोक्तेन क्रमेण तु || ६ || स्नापयेद् देवदेवेशं शताषकलशैः क्रमात् | ब्राह्मणात् भोजयेत् तत्र सहस्राष्टकसंयुतम् || ७ || नैवेद्य स्नपनं चैव कुर्याद् ब्राह्मण भोजनम् | हीने संवत्सरोध्वे तु दानवस्थानमुच्यते || ८ || द्वयब्दे क्ष वासस्तु त्रियब्दे भूतवासकम् | चतुरब्दे पिशाचानां पञ्चब्दे राक्षसाश्रयम् || ९ || पञ्चवर्षोध्वतो हीने ब्रह्मराक्षसवासकम् | त्रयत्रिंशति वर्षान्तं तदूर्ध्वे लोहवत् क्रमात् || १० || शैलजे शैलवत् कृत्वा मृदा दारु तथैव च | स्थापनादि क्रमेणैव रत्नादि शरक्रियाः || ११ || प्. १९२) पञ्चवर्षोध्व हीने तु जलसंप्रोक्षणं विधिम् | एते द्वादश प्रतिमा जलसंप्रोक्षणा विधिम् || १२ || अधुना संप्रवक्ष्यामि सर्वशान्तिकरं शुभम् | सर्वारिष्टविनाशाय पुत्रपौत्रविवर्द्धनम् || १३ || राजाराष्ट्रविवन्ते धनधान्यसुखावहम् | उत्तरायणके भानौ माघमासे विवर्जयेत् || १४ || दक्षिणायनके भानौ वर्जयेत् पूर्वमासकौ | शेषमासं समारभ्य आयुश्रीकीर्तिवर्धनम् || १५ || शुक्लपक्षे शुभप्रोक्तो कृष्णे वात्युन्तिकं विना | त्रीण्युत्तराणि पुष्यं च ब्राह्मणानां हिताय वै || १६ || मैत्रादित्यमघास्वाति क्षत्रियं वा विधीयते | रोहिण्यादित्यपौष्णं च वैश्यस्य प्रविधीयते || १७ || अस्तश्रवणरुद्रं तु शूद्रस्यैव प्रकीर्तिता | त्रितीया पञ्चमी चैव सप्तमी दशमी तथा || १८ || द्वितीययेकादशि चैव त्रयोदट्प्रतिपत् तथा | राशयश्च रवज्यास्तु उभयं मध्यमी भवेत् || १९ || स्थितं चोत्तमलग्ने तु अस्थिते कालवर्जयेत् | शुक्लस्सौम्य गुरोरिन्दुवाराश्रेष्ठविधीयते || २० || कुजार्किरविवारं च मध्यमं च प्रवक्ष्यते | शुभग्रहं द्रककाणं विशेषेण दधीयते || २१ || प्. १९३) प्रासादस्याग्रतः कुर्याद् दैशोन्यं पावके तथा वा | दिग्द्वादशहस्तं वा नवहस्ताष्टहस्तकम् || २२ || षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम् | दशतालाष्टतालेन स्तम्भोत्सेधं विधीयते || २३ || अश्वद्धोदुम्बरप्लक्षवटशक्रादि क्रमात् | पञ्चहस्तं त्रिहस्तं तु तोरणस्योच्छ्रयं भवेत् || २४ || उत्सेधार्थं तु विस्तारं त्रिशूलेन समायुतम् | दशाष्टाङ्गुले मानेन त्रिशूलस्यौच्छ्रयं भवेत् || २५ || मण्डपस्य तु तन्मध्ये नवभागैकभागतः | वेदीं कुर्याद् विशेषेण द्वित्रितालोच्छ्रयं भवेत् || २६ || पृथग्वेदी समारभ्यमेकवेदीमथापि वा | यथामनोरमं कुर्यादर्पणोदरसन्निभम् || २७ || वेदिकायास्तु परितः नवपञ्चाग्निमेव च | अथवा एकमेवं तु यथाविभवविस्तरम् || २८ || उत्तमादि क्रमेणैव कुण्डं कुर्याद् विधानतः | पृथक् प्राक्कुण्डमारभ्य पृथक् होमसमारभेत् || २९ || वृत्तं वा चतुरश्रं वा रत्निमात्रप्रमाणतः | त्रिमेखलैरलङ्कृत्य चतुस्त्रिद्वयंङ्गुलयतम् || ३० || नाभियोनि समायुक्तं विस्तारं तावदेव तु | अश्वद्ध पत्रवद्योनीं भूतवेदगुणांङ्गुलम् || ३१ || प्. १९४) विस्तारं तेन मानेन नालं पक्षाङ्गुलं भवेत् | कुण्डमध्ये गुणाङ्गुल्यं केसरैरष्टदलैर्युतम् || ३२ || नवकुण्डविधानं तु इन्द्राद्यैशानमन्तकम् | इन्द्रादीशानयोर्मध्ये वृत्तं प्रधनकं कुरु || ३३ || पञ्चकुण्डविधानेन चतुर्दिक्षु प्रकल्पयेत् | चक्र ईशानयोर्मध्ये वृत्तं कुण्डं विशेषतः || ३४ || गुणाग्नौ तु प्रकर्तव्यं पूर्वं पश्चिममैशके | नवकुण्डविधानं तु अश्राद्यष्टाश्रमन्तकम् || ३५ || पञ्चकुण्डविधानां तु अश्रं दीक्षु विधीयते | गुणकुण्डविधानं तु चतुरश्रं विधीयते || ३६ || प्रधानकुण्डेत्वाचार्य सर्वं वृत्तमथापि वा | एककुण्डविधाने तु शक्रे वा शङ्करेऽपि वा || ३७ || पूर्वपश्चिमकुण्डं तु उत्तराभिमुखो हुनेत् | अन्येषु प्राङ्मुखो भूत्वा होमम्कुर्याद्विशेषणः || ३८ || एवमग्निं प्रतिष्ठाप्य कुण्डे वा स्थण्डिलेपि वा | गोमयालेपनं कृत्वा पञ्चचूर्णैरलङ्कृतम् || ३९ || दशायुधसमायुक्तमष्टमं ग संयुतम् | रत्निमात्रसमुत्सेधमयुधानि प्रकल्पयेत् || ४० || षोडशाङ्गुलमानेन उत्सेधं चाष्टमङ्गलम् | उत्सेथस्यार्थ विस्तारमथवा चतुरङ्गुलम् || ४१ || प्. १९५) दर्पणादिनि सर्वाणि तेषां मध्ये विशेषतः | गैरिकेरलिकेद् विद्वान् पत्मकं चक्रलक्षणं || ४२ || प दि त्नि पर्यन्तं कुर्यात् ततद्विधानतः | एवं विधिप्रकारेण कारयेद् देशिकोत्तमः || ४३ || प्रोक्षणाद् दिनपूर्वे तु कारयेदङ्कुरार्पणम् | नवाहे चैव सप्ताहे पञ्चाहे त्रियहेऽपि वा || ४४ || अङ्कुरार्पणमार्गेण तु कारयेद् देशिकोत्तमः | मण्डपे मध्यमे चैव स्थण्डिलं कारयेत् ततः || ४५ || वेदाग्नि पक्षद्रोणं च तदर्थं तण्डुलं तिलम् | दर्भै पुष्पै परिस्तीर्य देवं तथैव विन्यसेत् || ४६ || पुण्याहं वचयेत् तत्र स्वस्तिमङ्गलवाचकैः | सर्वालङ्कारसंयुक्तं सर्वतोद्यसमन्वितम् || ४७ || नानाभक्तजनैः सार्धं कुर्याग्रमप्रदक्षिणं | ततो जलाशयं प्राप्य जलमध्ये प्रपाङ्कुरु || ४८ || वितानध्वजसंयुक्तं दर्भमालाभिरावृतम् | वस्त्रेण वेष्टयेद् देवं लम्बकूर्चेनसंयुतम् || ४९ || शाययेद् देवदेवेशं प्राक्च्छिर ध्ववक्त्रकम् | अभित कलशानष्टौ अष्टविद्यैश्वरावृतम् || ५० || पूजयेत् तु विशेषेण गन्धपुष्पादिभिः बुधः | एकरात्र द्विरात्रं वा त्रिरात्रं वा जलोषितम् || ५१ || प्. १९६) अथ वाद्य प्रकारेण यामं वा दशनाडिकम् | चतुर्दशं तु नाडी वा जलोषितं तु कारयेत् || ५२ || जलाधिवासनान्तेषु जलतीरे नयेद् बुधः | जलेन स्थापितान् कुम्भान् अभिषेकं तु कारयेत् || ५३ || अर्चयेद् गन्ध पुष्पाद्यैः प्रासादेन तु मन्त्रतः | सर्वालङ्कारसंयुक्तं आनीयाद्यायागमण्डपे || ५४ || मण्डपस्योत्तरे पार्श्वे देवदेवं च स्थापयेत् | पुण्याहं वाचयेत् तत्र पावमा मुदिरयन् || ५५ || पृथक् कौतुक संपूज्य पृथक् वस्त्रेण वेष्टयेत् | कौतुकं बन्धयेद् धीमान् पूर्वोक्तविधिना सहा || ५६ || वेदिकोपरि संशुद्धो अष्टद्रोणेन शालिना | तदर्धैस्तण्डुलश्चैव तदर्धैश्च तिलैरपि || ५७ || स्थण्डिलं कारयेत् तत्र कुशदर्भै परिस्तरेत् | प्रथयै शयनं कल्प्या अण्डजाद्यैरनुक्रमात् || ५८ || अण्डजैमुण्डजैश्चैव रोमजैर्मुण्डजैरपि | उपस्थरणसंयुक्तं शयनं पञ्च कल्पयेत् || ५९ || वामदेवेन मन्त्रेण नृत्तमूर्तिशयेद् बुधः | सकूर्चं वस्त्रसंवेष्ट्य प्राक्च्छिरश्चोर्द्ध्ववक्त्रकम् || ६० || तदूर्ध्वे रक्तवस्त्रेण वेष्टयेद् देशिकोत्तमः | गन्धादिभिः समभ्यर्च्य हृदयेन तु मन्त्रतः || ६१ || प्. १९७) प्रधानकुम्भं तस्यैव शिरोभागं तु विन्यसेत् | तस्यै चोत्तरदिग्भागे वर्धनीं चैव विन्यसेत् || ६२ || तत् तन् मूर्त्तिसमादाय तत्तत्कुम्भेषु विन्यसेत् | तत्तच्छक्तिसमादाय तत्तद् देवीं समाचरेत् || ६३ || सकूर्चं सापिधानं च सवस्त्रं हेमरत्नकम् | फलपल्लवसंयुक्तं सर्वगन्धसमायुतम् || ६४ || कुम्भमध्ये न्यसेद् बीजं तन्तमत्रसमं कुरु | त्रिणेत्रं च चतुर्बाहुं बालेन्दुमकुटोज्वलम् || ६५ || वरदाभयहस्तं च कृष्णं परशुसंयुतम् | सर्वाभरणसंयुक्तं बद्ध पद्मासनस्थितम् || ६६ || एवं रूपं स्मरेन्मध्ये शिवमन्त्रमनुस्मरन् | वर्द्धन्यां वर्द्धनी बीजं ध्यात्वा चैव मनोन्मनीम् || ६७ || द्विभुजां चारुवदनां पिनोन्नतपयोधराम् | सर्वाभरणसंयुक्तां द्वौ हस्तौ पद्मसंयुताम् || ६८ || एवं मनोन्मनीं देवीं वर्धन्यां विन्यसेद् बुधः | व्यक्ताव्यक्तमहाबाहुं नीलग्रीव महाद्युतिः || ६९ || जटामकुटमाणिक्कबालेन्दुकृत भूषणम् | त्रयक्षं चतुर्भुजं चैव व्याघ्रचर्माम्बरप्रभुम् || ७० || वरदाभयहस्तं च कृष्णं परशुधारिणम् | सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् || ७१ || प्. १९८) इन्द्रशङ्करद्देवं मुमासृष्टिश्च कारणम् | दिव्याम्बरधरं देवीं द्विनेत्रा द्विभुजोज्वलाम् || ७२ || ललाटतिलकोपेतं पिनोन्नतपयोधाराम् | मध्यक्षामविलासां च रक्तोत्फलकरा शुभाम् || ७३ || सर्वरत्नसमोपेत मकुटेन विभूषिताम् | ग्रिवे मङ्गलसूत्रेण सर्वभूषणभूषिताम् || ७४ || शकटद्वामपार्श्वे तु देवीं लक्षणसंयुताम् | कुमारं मनोन्मा कुर्यात् सर्वलक्षणसंयुतम् || ७५ || ईश्वराभिमुखोलिल उमया सह लि * * कम् | एकासनसमासीनं द्विभुजा लोचनद्वयम् || ७६ || बालरूपं तु कर्तव्यं मौसलं प्रियदर्शनम् | कुमारं रमणैर्युक्तं देवसेनापतिं तथा || ७७ || ध्यात्वा चण्डेश्वरं देवं द्विभुजं शान्तरूपिणं | टङ्कहस्तसमायुक्तं न्यसेत् कुम्भस्य मध्यमे || ७८ || कुण्डोदरं बृहत्कायं रक्तमाल्याधरं वरम् | नीलजीमूतसंकाशं दण्डहस्तं त्रिलोचनम् || ७९ || गजवक्त्रं त्रिणेत्रं तु कारयेद् विघ्ननायकम् | तत् तद् बीजेन मन्त्रेण तत् तद् बीजं सुपूजयेत् || ८० || अभितः कलशानं वौ अष्टविद्येश्वरैर्युतम् | द्रोणार्थतोयसंपूर्णान् सहैमान् वस्त्रसंयुतान् || ८१ || प्. १९९) सकूर्चान् सापिधानाम्श्च फलपल्लवसंयुतान् | तत् तन् * म * कै बिबै पूजयेत् परमेश्वरम् || ८२ || नैवेद्यं दापयेत् पश्चात् ताम्बूलं दापयेत् ततः | वेदिबाह्ये तु परितः अष्टमङ्गलि विन्यसेत् || ८३ || इन्द्रादीशानपर्यन्तं दर्पणादीनि पूजयेत् | दशायुधानि पर्यन्तं स्वे स्वे स्थानेषु विन्यसेत् || ८४ || पूर्वादीशानपर्यन्तं वज्रादीनान्तमर्चयेत् | पूर्वादि सोमपर्यन्तं तोरणादीनि पूजयेत् || ८५ || अष्टकुम्भानि संस्थाप्य सवस्त्रं हैमसंयुतम् | नन्दिश्चैव महाकालो दण्डिमुण्डितथैव च || ८६ || वैजयन्ति च भृङ्गी च किरीटं चैव दीशोपदि | पूर्वादीनां चतुर्दिक्षु द्वारकुम्भेषु विन्यसेत् || ८७ || * त्तत्तत् स्वनामन्त्रेण गन्धपुष्पादि नार्चयेत् | पालिकादिनपर्यन्तं मलङ्कृत्यं विशेषतः || ८८ || सृक्सृवा कारयेद् धीमान् रत्निमात्रप्रमाणतः | पश्चात् शिवाग्निं संस्थाप्य आदिशैव शिवद्विजः || ८९ || अनुशैव स्थिताविप्रः आदिशैव शिवद्विजः | उत्सवं च प्रतिष्ठां च आदीशैवेन कारयेत् || ९० || गर्भादानादिकं सर्वं पञ्चब्रह्म षडङ्गकैः | नवसंस्कारमाद्येन प्रत्येकं पञ्चविंशति || ९१ || प्. २००) जुहुयात् तु क्रमेणैव पश्चाद् होमं समाचरेत् | समिधाज्य चरूलाजान् सर्षपाश्च यवातिलान् || ९२ || मुद्गमाषगुलस्तत्र दशद्रव्यमिहोच्यते | अश्वद्धोदुम्बरप्लक्षो वटपूर्वादिदिक्षु च || ९३ || पलाशं तु प्रधानस्य सर्वेषामि मुच्यते | भूताग्निं वा गुणाग्निं वा पलाशेनैव होमयेत् || ९४ || पञ्चब्रह्मषडङ्गैश्च क्रमेणैव तु होमयेत् | अस्त्रमन्त्र विशेषेण पूर्णाहुतिमथाचरेत् || ९५ || अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशति | प्रत्येकं जुहुयाद् धीमान् दीप्यं तेषु च संस्पृशेत् || ९६ || प्रधानहोमं शिवाग्निं कारयेद् देशिकोत्तमः | तस्मात् कुण्डेषु सर्वत्र निक्षिपेद्धृदयेन तु || ९७ || पूर्वोक्त मन्त्रैः समिधैः कुर्याद् वै मूर्तिधारकः | सद्यादि पञ्चमूर्तिनां पञ्चकुण्डेषु होमयेत् || ९८ || ईशानश्च भवश्चैव शिव सर्वो विदुक्ष च | सद्यादीशानपर्यन्तं पञ्चाग्नौ पञ्चमूर्तयः || ९९ || भवश्चैव शिवश्चिव सर्वश्चैव गुणाग्निषु | अधिदेवासमभ्यर्च्य स्वस्वमन्त्रेर्विशेषतः || १०० || देशिकास्त्रेण मन्त्रेण सर्वे पूर्णाहुतिं हुनेत् | रात्रावेवं प्रकर्तव्यं मुहूर्ते स्नानमाचरेत् || १०१ || प्. २०१) आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः | पटे वा भित्तिचित्रे वा एकहोमसमाचरेत् || १०२ || एकाचार्यसमायुक्तं कारयेद् बुद्धिमान्नरः | बिम्बानां बहुरूपाणां आचार्य बहुरूपकः || १०३ || प्रत्येकं पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः | उत्तमं शतनिष्कं स्यान्मध्यमं तु तदर्थकम् || १०४ || पञ्चविंशति निष्कं तु अधमं त्वथिकथ्यते | विंशन्निष्कं समारभ्य दशनिष्कवसानकम् || १०५ || मध्यमत्रयमेवोक्तं मधमं च तत शृणु | नवनिष्कात् समारभ्य गुणनिष्कवसानकम् || १०६ || अधमत्रयमेवोक्तं देशिकस्य तु दक्षिणा | आचार्यादर्धरात्रं तु साधकस्य तु दक्षिणा || १०७ || साधकस्यर्थमात्रं तु मूर्तिपानां तु दक्षिणा | तदर्द्ध मन्त्र पक्तॄणां तस्यार्द्धं परिचारकेत् || १०८ || आचार्यो सकलिकृत्य कृत्वा शेषं विशेषतः | ग्रामप्रदक्षिणं कृत्वा कुम्भानि च विशेषतः || १०९ || अथवा प्रदक्षिणं धामं सर्वालङ्कारसंयुतम् | स्नानश्वभ्रस्य पूर्वे तु स्थापन क्रमतो न्यसेत् || ११० || गन्धपुष्पादिसंयुक्तं आचार्योद्देशिकोत्तमः | सुमुहूर्ते सुलग्ने तु मन्त्रन्यासेन बुद्धिमान् || १११ || प्. २०२) अभिषेकं ततः कृत्वा शास्त्रदृष्टेन कर्मणा | प्रभूतहविषं दत्वा ताम्बूलं च हृदा ददेत् || ११२ || ग्रामप्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतम् || ११२ || इति सूक्ष्मशास्त्रे प्रतिष्ठातन्त्रे सकलप्रोक्षणं नाम एकोनचत्वारिंशत् पटलः || वक्ष्ये नक्षत्रयजनं शृणुध्वं तत्प्रभञ्जना | महाभूतप्रशमनं परसेन पलायनम् || १ || सर्वशत्रुक्षयकरं सकालभिष्टसिद्धिदम् | अकालमृत्युशमनं नवग्रहविनाशनम् || २ || राजाभिषेकसमये तस्य जन्मदिनेऽपि च | चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि || ३ || * णारम्भावसाने तु योगयुक्तदिनेऽथवा | नक्षत्रयजनं कुर्यात् सकलाभिष्टसिद्धये || ४ || शिवाग्रे मण्डपं कुर्यात् सर्वालङ्कारसंयुतम् | तन्मध्ये वेदिकां कुर्याद् गुणभागैकभागतः || ५ || विस्तारार्द्धसमुत्सेधं दर्पणोदरसन्निभम् | निशिभद्रसमायुक्तं निम्नोन्नतविवर्जितम् || ६ || द्वादशस्तम्भसंयुक्तं प्रासादवदलङ्कृतम् | तुरगं वाथ वृषभं कल्पयेदग्रपार्श्वयोः || ७ || प्. २०३) अलङ्कृत्य विशेषेण वस्त्रपुष्पसृगादिभिः | कैलासं कल्पयेन्मध्ये शालिपिष्टमयेन तु || ८ || उपवेदिं ततः कृत्वा तद्विस्तारार्धमानतः | चतुरङ्गुलमुत्सेधं निम्नोन्नतविवर्जितम् || ९ || राशिमण्डलकं कल्प्य मध्ये पद्मसमालिखेत् | भानुसङ्ख्या महाब्जं च लिङ्गषण्णवति विदुः || १० || कुङ्कुमं कृष्णवर्णं च रक्तं गोक्षिरवर्णकम् | शुक्लवर्णक्रमेणैव कल्पयेत् पूर्ववर्त्मना || ११ || यागार्थ मण्डपं कुर्यात् पूर्वोक्त विधिना ततः | निश्चित्य दिवसात्पूर्वे नवमे सप्तमेऽथवा || १२ || पञ्चमेवपि शेषेणा बिल्ववृक्षं समाश्रयेत् | तत्पूर्वादिनि परितः स्त्रणादिनि व्यपोह्य च || १३ || पुण्याहं वाचयेद् विद्वान् प्रोक्षयेत् च्छिवमन्त्रतः | अस्तमात्रेण तन्मूले परितः श्चतुरश्रकम् || १४ || खानयेदस्त्रमन्त्रेण पञ्चगव्येन पूरयेत् | गन्धादिभिसमभ्यर्च्य मूलमन्त्रेण सुव्रत || १५ || त्रयम्बकेन मन्त्रेण * * प्रतिसरक्रिया | दद्ध्योदन बलिं दत्वा वनदेवाय तृप्तये || १६ || यावदा शोषितं गव्यं जप्त्वा रुद्राधिदेवता | जपान्ते सङ्ग्रहेद् विद्वान् बिल्ववृक्षं समूलकम् || १७ || प्. २०४) पञ्चाङ्गप्रणवेनैव विभजेत् तत् पृथक् पृथक् | सद्योजातेन संयोज्य मूलमूर्तिक्रियान्वितम् || १८ || तरुं वामेन सङ्ग्राह्य पात्रं हृदयमन्त्रतः | फलं वक्त्रेण सङ्ग्राह्या ईशाने कुसुमं गृहेत् || १९ || शुद्धवस्त्रेण संवेष्ट्य शिरसा वाहयेत् ततः | सर्वालङ्कारसंयुक्तं स्वस्तिसूक्तसमन्वितम् || २० || धामप्रदक्षिणं कृत्वा शिवाग्रे वाधमण्डपे | गोमयालेपनं कृत्वा पिष्टचूर्णेर्विचित्रयेत् || २१ || स्थण्डिलं कारयेद् विद्वान् शालिभिर्विमलेः शुभैः | विन्यसेद् बिल्वपत्रं च तत् तन् मन्त्रेण तु (क्र)मेण तु || २२ || तत्पूर्वे पश्चिमे वापि उत्तरे वा विशेषतः | अष्टाङ्गुलप्रमाणेन च्छित्त्वा परशुना त्रयम् || २६ || बिल्वकाष्ठं च मूलं च शुद्धतोयेन वेषयेत् | रोचनं कुङ्कुमं कोष्ठं चन्दनं हरिचन्दनम् || २४ || उशिरमेव कर्पूरं भस्मं चागरुमिश्रकम् | हिरिबेरसमायुक्तं हिमतोयेन मर्दयेत् || २५ || छायाशुष्कपदं कृत्वा पुत्रं पुष्पादिना फलम् | गृहीत्वा नवभाण्डे तु मुखं वस्त्रेण बन्धयेत् || २६ || ध्यात्वाभ्यर्च्य षडङ्गेन त्वमृद्धिकरणं कुरु | जप्त्वाष्टोत्तरसहस्रं पापभक्षणमन्त्रतः || २७ || प्. २०५) तद्दिने वाथ पूर्वेद्युरधिवासनमारभेत् | ततो मण्डपमासाद्य सकलिकृत विग्रहः || २८ || विघ्नेश्वरसमभ्यर्च्य पुण्याहं वाचयेद् गुरु | मण्डपं पूजयेद् विद्वान् पूर्वोक्तविधिना सदा || २९ || स्थण्डिलं वेदिकमध्ये अष्टद्रोणेन शालिना | तण्डुलैः तिललाजैश्च दर्भैश्चैव परिस्तरेत् || ३० || बहुरूपेण संप्रोक्ष्य पूजयेद् वृषभासनम् | मण्डपस्योत्तरे पूर्वे पश्चिमे वा विशेषतः || ३१ || अष्टद्रोणेन दुग्धेन स्नपनं परिकल्पयेत् | अर्घ्यसंपादयेद् विद्वान् पात्रशुद्धिसमाचरेत् || ३२ || विभजेद् बिल्वपञ्चाङ्गमष्टधा देशिकोत्तमः | द्विभागं शिवरूपं स्यात् एकभागेन पार्वति || ३३ || नक्षत्रात् पञ्चभागेन कल्पयेत् यथाक्रमम् | गन्धपुष्पादिना स्पृष्ट्वा जप्त्वा पूर्वोक्तमन्त्रतः || ३४ || प्रणवेनैव सङ्ग्राह्य विन्यसेद् वेदिकोपरि | पूजयेत् कर्णिकामध्ये पार्वति परमेश्वरौ || ३५ || चतुर्दिक्षु न्यसेद् विद्वान् नक्षत्राणि यथाक्रमम् | अश्विन्याश्लेषपर्यन्तं सप्तकान्विन्द्रदेशके || ३६ || अनुराधादि विष्ण्वन्त सप्तकं पश्चिमे दिशि | माघादि सूर्पपर्यन्तं सप्तकं याम्यदेशके || ३७ || प्. २०६) श्रविष्ठा च भरण्यन्तं सप्तकसौम्य देशके | सङ्कल्प्याभ्यर्च्य गन्धाद्यैस्तत् तत् स्वनाममन्त्रतः || ३८ || ततो गर्भगृहं गत्वा लिङ्गशुद्धि समाचरेत् | निवेदयन्तु मुद्गान्नं लेपयेच्चन्दनेन तु || ३९ || धूपदीपै समभ्यर्च्य अभीष्ट प्रार्थयेद् गुरुः | ततो मण्डपमासाद्य मण्डपाधिपतिन्यजेत् || ४० || अग्न्यायतनमासाद्य शिवाग्निं विधिना नयेत् | मधुरत्रयसंयुक्तं पूर्वाग्रं कदलि फलम् || ४१ || नालिकेरफलं दुग्धं ओदनेनसमन्वितम् | शतमर्धं तदर्धं वा मूलेनैव हुतं चरेत् || ४२ || पूर्णाहुतिं ततो हुत्वा शिवाग्निं तु विसर्जयेत् | ततः संपूज्य देवेशमुमादेविसमन्वितम् || ४३ || हविं निवेदयित्वा तु ताम्बूलं दापयेत् ततः | परिचारकमाहूय सोष्णीषं सोत्तरियकम् || ४४ || कुम्भानुद्धृत्य शिरसा कृत्वा धामप्रदक्षिणम् | प्रविश्य गर्भगेहं तु स्नापये स्नपनार्हके || ४५ || हविर्णिवेदयित्वा तु गन्धपुष्पादिभिर्यजेत् | ततो मण्डपमासाद्य सर्वालङ्कारसंयुतम् || ४६ || प्रणवेनैव सङ्ग्राह्य पञ्चचूर्णस्सलड्डुकम् | शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् || ४७ || प्. २०७) विन्यस्त्व मण्डपस्याग्रे पुण्याहं वाचयेत् ततः | कैलासगिरिमभ्यर्च्य पूजयेद् वृसदैवतम् || ४८ || तस्योर्द्धे विन्यसेद् बिल्वं पञ्चाङ्गं सधिदैवतम् | नक्षत्रात्परितस्ताप्य पूर्ववत् पूजयेत् क्रमात् || ४९ || पट्टिकापटलिव्याघ्रि रक्तागस्त्यं च धातकि | लक्ष्मी च रक्तपद्मं च सप्तमं कृत्तिकादिषु || ५० || वकुलद्रोणपुष्पं च धूद्धूरकरवीरकम् | प्रदोषं पृथिवि पद्मं भूपाटलं च दक्षिणे || ५१ || तुलसिजातिपुन्नागं श्वेतार्कं बिल्वपत्रकम् | रुद्रपर्णि च दूर्वा च अनूराधादि सप्तके || ५२ || श्रीयावर्त्तं च मन्दारं रक्तार्कं चतुरङ्गुलम् | विष्णुक्रान्ति सहस्राभत् श्रविष्ठादिषु सप्तके || ५३ || मुद्गान्नं कृत्तिकादौ स्यात् कृसरान्नं मघादिषु | पायसान्न प्रदातव्यमनूराधादि सप्तके || ५४ || श्रविष्ठादिषु ते माषं गुलान्नमिश्वरस्य तु | भक्त्या सर्वोपचारेण पूजयेदिष्ट सिद्धये || ५५ || एवं यः कुरुते मर्त्यः सर्वलोके जनिष्यते | आचार्य पूजयेत् तत्र वस्त्रहेमाङ्गुलियकैः || ५६ || भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणा | द्विजादीनां च भक्तानामन्नपानादिकां ददेत् || ५७ || प्. २०८) सन्ध्यान्तरे परे वाथ पुष्पाञ्जलिकरो गुरुः | मूलेन शिवमादाय योजयेत् स्वयमात्मनि || ५८ || पञ्चचूर्णसमादाय शुद्धपात्रे गृहेद्गुरुः | तच्चूर्णं यजमानाय दापयेत् तद्विधानतः || ५९ || पञ्चचूर्णसमादाय चन्दनेनैव संयुतम् | भस्मना वाथ संयोज्य सन्ततं धारयेन्नरः || ६० || सर्वपापविनिर्मुक्त सर्वत्र विजयी भवेत् | नक्षत्रयजनं प्रोक्तं पुष्पपूजाविधि शृणु || ६१ || इति सूक्ष्मशास्त्रे नक्षत्रयजनं नाम चत्वारिंशत् पटलः || महाशान्तिमहं वक्ष्ये शृणुध्वं तत्प्रभञ्जन | शिवलोकप्रदं नित्यं शिवप्रीतिकरं शुभम् || १ || सर्वशत्रुक्षयकरं सर्वपातकनाशनम् | प्रजावृद्धिकरं पुण्यं भोगमोक्षप्रदायकम् || २ || श्रावणे श्रोणनक्षत्रे प्राष्ठे तु पूर्वभाद्रके | आश्विने मासि चाश्वर्क्षे कार्तिके मास कार्त्तिके || ३ || आद्रक्षे आद्रमासे तु पुष्ये पुष्यप्रशस्यते | माघमासे मघर्क्षे तु फाल्गुने मासिचोत्तरे || ४ || प्. २०९) चित्तमासे तु चैत्रेर्क्ष वैशाखे मासि सूर्पभे | मूलर्क्षे ज्येष्ठमासे तु आषाढे चोत्तराढके || ५ || अथवा पूर्वपञ्चम्यां मासे मासे व्रतं चरेत् | नद्यब्धिवापि कुले वा नगाग्रे वा महावने || ६ || ग्राममध्ये सभास्थाने देवागारसमीपके | भूमि संशोध्य विधिवत् प्रपां कृत्वा तु सुन्दरम् || ७ || शिवलिङ्गसमिपाद्य सहस्रं वा तदर्थकम् | तदर्धं वा शतं वापि तदर्धार्धमथापि वा || ८ || मृतदारुशैललोहैर्वधातुजै क्षणिकैस्तु वा | रत्नजैश्च विशेषेण पूजार्थं संप्रकल्पयेत् || ९ || यवत्रयं समारभ्य यवैकेन विवर्द्धनात् | यवाद्विशतसङ्ख्यान्तं मृल्लिङ्गेस्योदयं भवेत् || १० || क्षणिकलिङ्गम् | एकाङ्गुलसमारभ्य अर्द्धार्धंगुल्विवर्द्धनात् | चतुर्विंशाङ्गुलं यावद् दारुलीङ्गप्रकल्पयेत् || ११ || यथालाभप्रमाणेन रत्नलिङ्गं प्रकीर्तितम् | माषत्रयं समारभ्य माषैकेन विवर्द्धनात् || १२ || यावदष्टसहस्रान्तं शैललिङ्गोदयं भवेत् | कल्पयेत् क्षणिकं लिङ्गं यथाकामं प्रमाणकम् || १३ || मृन्दारुशैललोहानां विशेषं किञ्चिदस्ति हि | लिङ्गयामे तु वेदांशे एकाङ्गं लिङ्गविस्तृतम् || १४ || प्. २१०) अथवा गुणभागैकं पञ्चांशे द्व्यंशविस्तृतम् | लिङ्गयामे गुणांशेंशं तन्मूले चतुरश्रकम् ||१५ || अर्चभागमिदं वृद्धि शेषं सुवृत्तरूप वा सर्वं सुवृत्तमेव वा | सूत्रोपेतविहीनं वा छत्रकारशिरोन्वितम् || १६ || एवं लक्षणसंयुक्तं प्रत्येकं लिङ्गमाहरेत् | एकलिङ्गेऽधवा कुर्यात् सर्वलिङ्गविशेषतः || १७ || लिङ्गयामत्रथा कृत्वा व्योमांश भूगतं भवेत् | एकांशं पीठबन्धं स्यादेकांशमर्चनार्हकम् || १८ || अथवा पञ्चभागे तु द्व्यंशं पीठे निवेशयेत् | पूजाभागं त्रिभागं स्यात् सप्तभागे त्रिकोलकम् || १९ || अर्चभागमिदं वृद्धिशेषं पिण्डप्रवेशनम् | पूजांशोदयतुङ्गं तु पञ्चविंशतिभातिजे || २० || एकैकं विभजेद्धीमान् चत्वारिशति सङ्ख्यकम् | सहस्रलिङ्गमेवं हि अयुतस्य विधि शृणु || २१ || लिङ्गोदये तु पञ्चाशद्भगं कृत्वा विचक्षण | चत्वारिंशेंश पञ्चांशं कृत्वा लिङ्गयुतं भवेत् || २२ || पूजांशोदयं तुङ्गं तु दशभागविभाजिते | एकपञ्चादशेन लिङ्गपञ्चशतं भवेत् || २३ || शिवोदयेत् तु वेदांशे त्वेकनक्षत्र भावये | अष्टोत्तरशतं लिङ्गं परितः संप्रकल्पयेत् || २४ || प्. २११) शिवोदये तु पूजांशे त्वेके पञ्चविभाजिते | पञ्चविंशति लिङ्गस्यात्पञ्चाशद्विभजे सति || २५ || लिङ्गद्विजशतपञ्चांशं लिङ्गस्य परिकल्पितः | अल्पलिङ्गस्य तारार्धं पादं वाष्टांशमेव वा || २६ || महालिङ्गस्य विस्तारं दूर्ध्वे संयोज्य पार्श्वयोः | तन्मानमल्पलिङ्गस्य महालिङ्गाद्विनिर्गतः || २७ || लिङ्गोपरि भवेल्लिङ्गं न कर्तव्यं कदाचन | अन्तराल भवेल्लिङ्गं मध्य सङ्कल्पयेत् क्रमात् || २८ || शिरोवर्त्तनयुक्तं वा हीनं वा कल्पयेद् बुधः | महालिङ्गशिरोमानं मध सङ्कल्पयेत् क्रमात् || २९ || रत्नलिङ्गशिरोमानमध सङ्कल्पयेत् क्रमात् | लिङ्गानामपि सर्वेषां सूत्रहीनं प्रकल्पयेत् || ३० || नन्द्यावर्तशिलापीठं शिवलिङ्गं विधानवत् | एवं लक्षणसंयुक्तं लिङ्गं सङ्ग्राहयेद् बुधः || ३१ || एवं संस्थाप्य पूर्वेद्युर्नवमे सप्तमेऽपि वा | निश्चित्य दिवसात्पूर्व सायान्न समयेद् बुधः || ३२ || स्नानं कृत्वा विधानेन यजमानसमन्वितम् | प्रपामण्डपमाविश्या भूतशुद्धिसमाचरेत् || ३३ || सकलिकरणं कृत्वा प्रदक्षिणमथाचरेत् | लिङ्गसङ्ख्य जपेन्मूलं यजमानसमन्वितम् || ३४ || प्. २१२) जपान्ते प्रङ्मुखो भूत्वा क्षीरं भुक्व जितेन्द्रिय | मण्डपस्योत्तरे पार्श्वे शाययेत् सैकतोपरि || ३५ || ब्राह्मि मुहूर्ते उद्धाया पादप्रक्षालनं कुरु | मुखं शुद्धिं ततः कृत्वा आचम्ये देशिकोत्तमः || ३६ || भस्मना तिलकं दत्वा मूलमन्त्र जपेत् ततः | यजमानसमोपेतो स्नानं कृत्वा यथाविधिः || ३७ || सन्ध्यादि वन्दनं कृत्वा नित्यकर्म समाप्य च | प्रपामण्डपमाविश्य सकलिकृतविग्रहः || ३८ || मण्डपं पूजयेद् विद्वान् मण्डपे कल्पयेत् तु वा | चतुर्द्वारसमभ्यर्च्य पूर्वेण विधिना सह || ३९ || पूजयेदथ रक्षार्थं मन्त्रराजं सशक्तिकम् | प्रपामण्डपमध्ये वा पश्चिमे वापिचक्षण || ४० || विन्यसेत् तु महा * * मन्तैर्दारुमयैस्तु वा | उपर्यस्तरणं कल्प्य शुद्धवस्त्रादिकैर्यथा || ४१ || शिवसनं च तस्योर्द्धे लिङ्गसङ्ख्या प्रकल्पयेत् | पुण्याहं वचयेत् तत्र पञ्चगव्यमृतं तथा || ४२ || सङ्कल्पलिङ्गात् सङ्गृह्य स्नानवेद्युपरि न्यसेत् | प्रक्षाल्य चास्त्रमन्त्रेण पञ्चगव्यमृतादिकैः || ४३ || लिङ्गमन्त्रेण संस्नाप्य स्थापयेच्च शिवासने | तत् तन् मन्त्रेण चाभ्यर्च्य गन्धपुष्पं सुधूपकम् || ४४ || प्. २१३) दीपं नैवेद्यताम्बूलं दापयेत् तदनन्तरम् | नीलोत्पलैर्वा कल्हारै पत्रैर्वा श्वेतपङ्कजैः || ४५ || अर्कैरारग्वधैर्वाथ चम्पकैर्वा विचक्षणः | रत्नैर्वा कनकैर्वाथ कल्पुरशकलेन वा || ४६ || अथवा बिल्वपत्रेण पूजयेल्लिङ्गमन्त्रतः | पूजार्थमाहृतं पुष्पं सङ्गृह्य शुद्धपात्रके || ४७ || निरीक्षणादिभिः शोद्ध्य धूपदीपं प्रदापयेत् | यजमानमधाभूय संप्रोक्ष्याध्यजलेन च || ४८ || भस्मना तिलकं कल्प्य शिवमन्त्रेण देशिकः | शिवहस्तं च सङ्कल्प्य यजमानस्य मूर्धनी || ४९ || त संस्थाप्य जले पद्ममूलमष्टोत्तरं शतम् | पूजार्थमाहृतं पुष्पं शङ्खध्वनिसमन्वितम् || ५० || यजमानकरे दद्यादर्चयित्वा विचक्षणः | अङ्गं प्रतिददेत्पुष्पं तत्तन्मत्र समुच्चरन् || ५१ || एकलिङ्गविशेषोऽस्ति परितो पीठबाह्यके | त्रिहस्तं वा तदर्थं वा स्थलमानं व्यपोह्य च || ५२ || पूजांशोदयमानं तत् तन्मानं व्याप्यमण्डलम् | तद्बाह्ये वेदिकामानं सप्ततालसमुन्नतम् || ५३ || उत्सेधसमविस्तार तदर्द्धार्द्धमथापि वा | त्रिमेखलयुतं वापि द्विमेखलयुतं तु वा || ५४ || प्. २१४) चतुरश्रं सुवृत्तं वा परितः कल्पयेत् क्रमात् | सुधायासिकतैस्तत्र पूरये शुद्धवारिणा || ५५ || तद्वारिमण्डले दृष्ट्वा लिङ्गं सहस्रकं बुधः | पूर्ववत्पूजयेद् विद्वान् लिङ्गस्य परितः क्रमात् || ५६ || अग्रादि मूलपर्यन्तं भक्तिमुक्तिप्रदायकम् | मूलादि चाग्रपर्यन्तं पूजामुक्तिफलप्रदम् || ५७ || लिङ्गं च वरणं यत् तत् क्रमेण वारिमण्डले | यजमानेन चाभ्यर्च्य पूर्ववद् देशिकोत्तमः || ५८ || लिङ्गं प्रत्याढकार्द्धेन नैवेद्यं परिकल्पयेत् | धूपदीपं ततो दत्वा लिङ्गवरणमार्गतः || ५९ || नृत्तान्तां पूजयेद् विद्वान् लिङ्गस्य वरणं प्रति | गीतनृत्यादिकं सर्वं लिङ्गस्य परितः क्रमात् || ६० || संकल्प्य लिङ्गपूजान्ते शिवमन्त्रं शतं जपेत् | इष्टबन्धुजने सार्धं यजमानसमन्वितम् || ६१ || तद्वारिमण्डले स्नात्वा यद्देवदेवमन्त्रतः | अनेन विधिमार्गेण स्नात्वा तद्वारिमण्डले || ६२ || सोऽपि पापैर्विनिर्मुक्तः शिवसायुज्यमाप्नुयात् | महाशान्तिव्रत दृष्ट्वा नत्वा लिङ्गसहस्रकम् || ६३ || यः कुर्वच्छिवलोकेऽपि शिवेन सह मोदते | आचार्य पूजयेत् तत्र गोभूमिकाञ्चनादिकैः || ६४ || प्. २१५) अस्य व्रतोपकाराणां नववस्त्रं प्रदापयेत् | महाशान्तिव्रतं प्रोक्तं गौरिव्रतमथ शृणु || ६५ || इति सूक्ष्मशास्त्रे क्रियापादे महाशान्तिव्रतं नाम एकचत्वारिंशत्पटलः || गौरि संकोचनं वक्ष्ये शृणुत्वं तत्प्रभञ्जना | आयुरारोग्यजयदं पुत्रपौत्रसमृद्धिदम् || १ || आद्यं द्वितीयमेवं तु द्विविधं तरुणालयम् | कर्षणाद्यर्चनान्तं तु तरुणालसंग्रहेत् || २ || प्रासादे पतिते भिन्ने लिङ्गं च चलिते तथा | अन्यानि सर्व कर्माणि भाषितानि समानि च || ३ || मूलस्थाने विनिश्चित्य बालस्थानं तु कारयेत् | तदूर्ध्वे बालबाल्यत्वं तस्मान् मूले प्रवेशयेत् || ४ || प्रासादाग्रे तु कर्तव्यं दक्षिणे चोत्तरेऽपि वा | विंशद्धस्त प्रविस्तारमुत्तमं मण्डपं भवेत् || ५ || मध्यमं रविहस्तं स्याद् दशहस्तं तु कन्न्यसम् | षत्त्रिंशद्ग्रात्रसंयुक्तमुत्तमं मण्डपं स्मृतम् || ६ || षोडशस्तम्भसंयुक्तं मध्यमं मण्डपाधमम् | दिशिश्च विदिशिश्चैव निच्छिद्रं व्योमसंभवम् || ७ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | वितानध्वजसंयुक्तं दर्भमालासमावृतम् || ८ || प्. २१६) दीपैः पुष्पैः फलैः सार्धं माषमङ्गल पूजितम् | स्तम्भानि वेष्टयेत् तत्र प्रत्येकं वस्त्रवेष्टितम् || ९ || मण्डपं तु त्रिधा कृत्वा मध्यभागे तु वेदिका | रत्निमात्रमुत्सेधं दर्पणोदरसन्निभं || १० || वेद्या मूले तु परितः उपवेदी प्रकल्पयेत् | युगाङ्गुलसमुत्सेधं द्विगुणं नीवृमुच्यते || ११ || कुण्डानि परितः कुर्यात् किञ्चिद्भेदं विशेषतः | नवाग्निवाथ पञ्चाग्निं एकाग्निं समुदाचरेत् || १२ || योनिकुण्डानि सर्वाणि योनौ योनिं न कारयेत् | श्रोत्रार्धां शोच्चमानेन क्षेत्रं पञ्चैकभागिकम् || १३ || तत्पुस्ताबहिणिस्त्वाद् भवेत् पिप्पल पत्रवत् | योनिकुण्डं ततः कृत्वा लक्षणं सम्यगाचरेत् || १४ || उद्वास्य लिल्पिनं पश्चाद् गोमयेनानुलेपयेत् | पुण्याहं वाचयेत् तत्र ब्रह्मणान् भोजयेत् ततः || १५ || पश्चादुद्वास्य दुच्छिष्टं पुनः पुण्याहमाचरेत् | समर्यवदे सम्यग्वास्तु होमं तु कारयेत् || १६ || पर्यग्निकरणं कुर्यात् पुनः पुण्याहमाचरेत् | कृत्वा तु विधिना स्नात्वनं शुक्लचन्दनलेपितं || १७ || शुक्लवस्त्रधरोष्णीषं शुक्लमाल्येरलंकृतम् | अङ्कुरानर्पयेद् धीमान् स्थानशुद्धि समाचरेत् || १८ || प्. २१७) उत्तराभिमुखो भूत्वा सकलिकरणं कुरु | गर्भगेहं प्रविश्याथ स्थानशुद्धिं ततः कुरु || १९ || गौरिशुद्धिं ततः कृत्वा स्नापयेद्रजनोदकैः | पुण्याहं तु ततः कृत्वा शुद्धोदैरभिषेचयेत् || २० || पञ्चगव्येन संस्नाप्य बिल्वपत्रेण घर्षयेत् | दर्भमूले तु वल्मिकं क्षेत्रे मृद्गृह्य लेपयेत् || २१ || गन्धोदकेन संस्नाप्य पूजयेद् धृदयेन तु | चन्दनागरुकोष्ठं च कुङ्कुमो शिरकेसरैः || २२ || कृगेलपत्रकर्पूरैः लाल्योढ्यं गौरि लेपयेत् | पिण्डिकाब्ज समालिप्य प्रोक्षयेच्छक्तिबीजकम् || २३ || शिरसा वामहस्तं तु हेमसूत्रं तु कौतुकम् | अष्टपुष्पैः समभ्यर्च्य समान्यं पुष्पपूरितम् || २४ || नववस्त्रेण संवेष्ट्य गौरिपीठक्रमेण तु | ततो बालगृहं पश्चात् पूजयेद् गौरि संयुतम् || २५ || यात्रा होमं तु कर्तव्यं तदग्रे होममाचरेत् | स्थण्डिलं हस्तमात्रेण निर्दोषैस्सिकतैरपि || २६ || अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् | समिधा सद्यमन्त्रेण ईशानेन घृतं हुनेत् || २७ || अघोरेण चरु हुत्वा प्रत्येकं पञ्चविंशतिः | प्रासादं शक्तिबीजैश्च व्योमव्यापि दशाक्षरैः || २८ || प्. २१८) शक्त्याद्यैश्चैव वामाद्यै प्रत्येकं षोडशं हुनेत् | स्पृष्ट्वा तु जुहुयाद्धोमं गौरिबीजमनुस्मरन् || २९ || तस्याग्रे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः | कुम्भं वा करकं वापि स्थण्डिलोपरि विन्यसेत् || ३० || ससूत्रं सापिधानं च हेमपल्लवसंयुतम् | नालिकेरफलैर्युक्तान् लम्बकूर्चसमन्वितान् || ३१ || गौरिस्थं कुम्भमावाह्य कुम्भमध्ये तु विन्यसेत् | स्थापयेद् वाम मन्त्रेण अघोरेणावकुण्ठयेत् || ३२ || सान्निध्यं शक्तिमन्त्रेण पञ्चमेनार्चयेत् क्रमात् | दर्शये शक्तिमुद्रां च मुकलिं पद्ममुद्रिका || ३३ || नमस्काराख्यमुद्रां च बन्ध्वास्त्रं दिक्षु योजयेत् | सूत्रादिभिः समोपेता अभितोऽष्ट घटान्न्यसेत् || ३४ || वामादिशक्तयश्चाष्टौ इन्द्रादीशानमन्तकम् | कुम्भमध्ये समावाह्य तत् तद् बीजमनुस्मरन् || ३५ || पूजयेद् गौरिमन्त्रेण गन्धपुष्पादिभिः क्रमात् | नैवेद्यं धूपदीपं च ताम्बूलं च निवेदयेत् || ३६ || जयादिरभ्याधानां च राष्ट्रभृच्च क्रमाद्धुनेत् | पूर्णाहुतिं च शिरसा घटमुद्धारयेत् ततः || ३७ || अस्त्रेण छादयेद् बिम्बं तटाके चैव निक्षिपेत् | पञ्चगव्येन संप्रोक्ष्य प्रविशेद्यागमण्डपे || ३८ || प्. २१९) स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैश्च शालिभिः | तण्डुलैश्च तिलैश्चैव लाजैः पुष्पैश्च दर्भकैः || ३९ || तन्मध्ये नलिनं लिख्या अष्टपत्र सकर्णिकम् | शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् || ४० || सर्वातोद्यं समायुक्तं ब्रह्मघोषसमन्वितम् | शनैः प्रदक्षिणं कुर्यादुमासूक्तजपं क्रमात् || ४१ || मण्डपं तु प्रविश्याथ वेदिकोर्ध्वे तु विन्यसेत् | गौरिबीजमनुस्मृत्य कुम्भं तत्रैव पूजयेत् || ४२ || अभितस्थापत्कुम्भान् वामादि शक्तयः क्रमात् | स्वनाममन्त्रेरभ्यर्च्य गन्धपुष्पादिभिर्यजेत् || ४३ || तत्तन्मूर्त्या कृतं ध्यात्वा स्वस्वबीजेन कुम्भकैः | गन्धपुष्पादिभिश्चैव पूजयेत् तु निवेद्यकम् || ४४ || ऋगाध्यायनं कृत्वा उमासूक्तं जपेत् क्रमात् | श्रीसूक्तं रुद्रसूक्तं च पुरुषसूक्तत्रयम्बकम् || ४५ || शान्तिद्वयं जपेद्धिमान् दक्षिणे तु विशेषतः | आचार्यो मूर्तिपैस्सार्धं ततो होमसमाचरेत् || ४६ || अग्न्यादानादिकं सर्वं अग्निकार्योक्तमार्गतः | समिधाज्य चरून् लाजान् सर्षपाश्च यवान् तिलान् || ४७ || होमद्रव्याणि सप्तैते जुहुयाद्वै क्रमेण तु | पलाशोदुम्बरश्वत्थो बिल्वं च खादिरं तथा || ४८ || प्. २२०) मूलेन जुहुयादाज्यमघोरेण चरूं हुनेत् | लाजं वामेन मन्त्रेण सर्षपं कवचेन तु || ४९ || यव हुत्वा तु शिखया तिलमस्त्रेण होमयेत् | शतस्यत्रतयं वापि तस्यार्धं वार्धमेव वा || ५० || प्रत्येकं जुहुयाद्धीमान् द्रव्यान्ते व्याहृतिं हुनेत् | सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् || ५१ || एवं जागरणौ रात्रौ प्रभाते प्रोक्षणं कुरु | आचार्यो मूर्तिपैस्सार्थं विधिना स्नानमाचरेत् || ५२ || पूर्णाहुतिं च शिरसा हुत्वाग्निं च विसर्जयेत् | शक्तिकुम्भं समुद्धृत्य कृत्वा हर्म्या प्रदक्षिणम् || ५३ || सर्वतोद्यसमायुक्तं सर्वालङ्कारसंयुतम् | पुत्रभृत्र कलत्रैश्च सर्वसंपत् सुखावहम् || ५४ || गर्भगेहं प्रविश्याथ स्थापयेत् स्थण्डिलोपरि | सुमुहूर्ते निरिक्ष्याथ देवाज्ञो सन्निवेशयेत् || ५५ || तत्रैव विन्यसेद् गौरि अष्टत्रिंशत् कलान्यसेत् | मन्त्रपुष्पा ततो दत्वा मन्त्रान्नं च निवेदयेत् || ५६ || नववस्त्रेण संवेष्ट्य गन्धपुष्पस्रगादिभिः | प्रभात हविषं दत्वा ताम्बूलं च निवेदयेत् || ५७ || मुखवासं ददेद्धीमान् चुलुकोदकसंयुतम् | नृगाध्यायनं कुर्यात् स्तोत्रनृत्तं च वाद्यकम् || ५८ || प्. २२१) प्रोक्षणान्ते विशेषेण स्नपनैरभिषेचयेत् | प्रोक्षणान्ते विशेषेण उत्सव्यं सम्यगाचरेत् || ५९ || इति सूक्ष्मशास्त्रे गौरिसंकोचविधिं नाम द्विचत्वारिंशत्पटलः || अथ वक्ष्योद्भुतं शान्तिं राजाराष्ट्रहिताय च | उत्पात द्विविधं प्रोक्तं सामान्यं च महाद्भुतम् || १ || सामान्यदीर्घफलदं सद्य एव महत्फुतम् | तत्तत्प्रतिक्रिया सम्यक् कर्तव्या दोषनाशनि || २ || अकर्तव्ये तु सासन्या सर्वदोषावहन्नृणाम् | ब्राह्मणानां नृपाणां च विशेषाद् दोषदं महत् || ३ || तस्मात् प्रतिक्रिया सद्योन्नृपेणैवं विलम्बिनि | भास्करस्योदये रात्राममावस्योन्दुदर्शने || ४ || भूमिकम्पे नदिक्षोभे कूपक्षोभे तटाकके | प्रतिमारोदने चैव ततश्शोणितवर्षके || ५ || पाषाणपांशुवर्षे च तथैव मधुवर्षके | वर्षे तु क्षीरसृग्भ्यां च वृक्षाच्छ्रोणितकस्रवे || ६ || शिखादि पादुकान्तयद् देवालयमकारणात् | पतिते चैव तद्धामस्थानास्थानान्तराप्तिके || ७ || वृक्षे स्थानान्तरं प्राप्ते वृक्षेवान्यफलोद्भवे | तदन्य पुष्प संभूते गन्धानन्य तु संभवे || ८ || प्. २२२) लिङ्गं चैवोष्णसंभूते प्रतिमायां तथैव च | अण्डजा स्वेदजाश्चैव चतुष्पाञ्च तथा नरा || ९ || स्वजात्यन्य प्रसूते च प्रासाद भ्रमणे तथा | श्वेतवायससंभूते पर्वतद्वन्दयुद्धके || १० || आद्रवृक्ष स्वयं दग्धे प्रतिमाकम्पने तथा | भिन्ने च शिववर्द्धन्यौ लिङ्गप्रतिमयोस्तु वा || ११ || प्रतिमास्पोटने चैव लिङ्गस्पोटनके तथा | प्रतिमानिलिदृष्टेन करिणिमदसंयुते || १२ || अनग्नि चोत्थिते धूमे लिङ्गं वर्ण्यान्तरे सति | अङ्गाधिकसमुत्पन्ने चतुष्पात् तु तथैव च || १३ || भेरि घोषे स्वयाह्येवं प्रोक्तास्वेते महाद्भुतः | दर्शने प्रतिसूर्यस्य प्रतिचन्द्रस्य दर्शने || १४ || रात्राविन्द्रधनुर्दृष्टे त्वन्नि नक्षत्र दर्शने | गृहनक्षत्रपाते च सप्ताहे शनिसंकुले || १५ || नैरन्तर्येण सप्ताहं परिवेषेन्दुसूर्ययोः | महामातप्रकोपे च दिशां दाहसमुद्भवे || १६ || लिऽऽगं तु पूजितं पुष्पं प्राप्ते वर्णान्तरं सति | अकस्मात् पतिते पुष्पे सितपुष्पे सिते तथा || १७ || अतिवाशलभोत्पन्ने उन्मत्ते वाहिने तथा | शुकाश्च मूषिकोत्पन्ना विषसर्पादिको भवेत् || १८ || प्. २२३) प्रासादे च सभास्थाने गोपुरे मण्डपे तथा | परिवारालये चैव मधु नीड समुद्भवे || १९ || अतिवृष्टौ प्यानवृष्टौ युद्धोद्योगे नृपस्य तु | पतति कारणार्धामे वृषे चैव विशेषतः || २० || राज्ञा प्रधानमहिषि प्रधानश्च गजे मृते | रक्तस्त्रिवायसोलूकजम्बुगृद्ध्राश्च पिङ्गला || २१ || नृपवेश्मप्रविष्टे च स्पृष्टे चैव सुरालये | देवालयोपरिष्टात् तु नृपस्य भवनोपरि || २२ || श्वारोहे रुदिते तत्र तत् तज्जाति क्रियास्तथा | लिङ्गं च प्रतिमायां वा खद्योतरोहिणे सति || २३ || केचित् द्व्योमे तु केतुभ्यो नानारूपेण देशिकः | लिङ्गं मूले च बिम्बे च जत्वारोहणके सति || २४ || व्यतिरिक्तक्रियाकार्यो सामान्ये स्त्वद्भुता स्मृताः | तेषां दोषनिवृत्यर्थं प्रवक्ष्यामि प्रतिक्रियाम् || २५ || रात्रौ भानुप्रविषे च प्राणिनाशं नृपद्भयम् | दिशाहोमं ततः कृत्वा महास्नपनमुत्तमम् || २६ || कृत्वा संपूज्य देवेशं प्रभूत हविषं ददेत् | ब्राह्मणान्भोजयेत् तत्र व्रतिं तत्र तु भोजयेत् || २७ || एवमेवं तु सप्ताहं दिनं प्रतिदिनं प्रति | चन्द्रोदये त्वमावास्यां गोनाशं सस्यनाशनम् || २८ || प्. २२४) पूर्ववत् कारयेत् सर्वं तद्दोषशमनाय च | संभवेद्भूमिकम्पे च राजाराष्ट्रस्य दोषकृत् || २९ || क्षिरप्रस्थ सहस्रैश्च मधुसर्पि सहस्रकैः | संस्नाप्य शिवसंयङ्महाव्योमेति मन्त्रतः || ३० || पलाशशमिधा चैव शतहोमं तु कारयेत् | ब्रह्मणान्भोजयेन्नित्यं एकविंशद् दिनान्तकम् || ३१ || नदिक्षोभे तथा कुपतटाकक्षोभयोस्तथा | दुर्भिक्षं जायते लोके महामारि भवेत् ततः || ३२ || तत् तिरे मण्टपं कृत्वा नवहस्तप्रमाणतः | मण्टपे मण्डलं सम्यक् तन्मध्ये स्थण्डिलं कुरु || ३३ || पञ्चाग्निकारयेत् तत्र अग्निकार्योक्तमार्गतः | व्याघातसमिधः कृत्वा अस्त्रमन्त्रेण देशिकः || ३४ || हृदयेन घृतं हुत्वा चरुं पाशुपतेन च | शतमर्थं तदर्धं वा प्रत्येकं जुहुयात् क्रमात् || ३५ || मिन्दाहुतिं च कुर्वित व्याहृतिं च हुने क्रमात् | जयादिरभ्याधानं च राष्ट्रभृश्च क्रमाधुनेत् || ३६ || शिवं संपूज्य विधिवद् ब्राह्मणान्भोजयेत् ततः | एवं क्यरुआत् तु पञ्चाहम् अन्ते चोत्स्स्वमाचरेत् || ३७ || प्रतिमारोदने चैव गोनाशं धान्यनाशनम् | तन्मण्डलाधिपो राजा ग्रामं राष्ट्रं विनिश्यति || ३८ || प्. २२५) कृत्वा तु प्रतिमाशुध्दिं संप्रोक्षणमथाचरेत् | पक्षं पक्षद्वयं वाधाशमिथैशान्तिहोमकैः || ३९ || स्नपनं कारयेन्नित्यं दिशाहोमसमन्वितम् | ब्राह्मणान्भोजयेन्नित्यं पतिनां चैव भोजयेत् || ४० || ततःश्शोणित वर्षेक्षु प्राणिनां नाशनं भवेत् | प्रासादमण्डपादीनि तोयेन क्षालयेत् ततः || ४१ || आलयं तु समन्तात् तु गोमयेनानुलेपयेत् | पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत् || ४२ || क्षीरं प्रस्थ सहस्रैश्च मधुसर्पि सहस्रकैः | संस्नाप्य विधिवन्मत्रि महाव्योमिति मन्त्रतः || ४३ || पलाश समिधा चैव शान्तिहोमं च कारयेत् | एवं कुर्यात् तु सप्ताहं मन्ते चोत्सवमाचरेत् || ४४ || मधुवर्षे क्षीरवर्षे विप्रक्ष त्रियदोषकृत् | तत् तत् प्रस्थहस्रैश्च स्नापयेद् देशिकोत्तमः || ४५ || पूजयेत् तु विशेषेण प्रभूतहविषं ददेत् | अशोकसमिधा चैव शान्तिहोमं तु कारयेत् || ४६ || एवं कुर्यात् तु सप्ताहं पश्चाद् ब्राह्मणभोजनम् | वृक्षाच्छ्रोणितसंभूते परचक्राद् भयं भवेत् || ४७ || वृक्षमूले दिशाहोमं कारयेद् दिशिकोत्तमः | ब्राह्मणान् भोजयेत् तत्र वास्तु देवान् प्रपूजयेत् || ४८ || प्. २२६) पूजयेत् तु शिवं पश्चात् कुर्या च स्नपनं महत् | पूजयेत् तु विशेषेण प्रभूत हविष ददेत् || ४९ || पतिते पादुकान्तयद् देवालयमकारणात् | स्त्रीणां चैव तु बालानां क्षेत्राणां चैव नाशनम् || ५० || प्रासादं पूर्ववत् कृत्वा जीर्णं चैव समुद्धरेत् | पुनः बिम्बं समापाद्य पूर्ववत् स्थापयेद् गुरुः || ५१ || विशेषपूजनं कृत्वा अन्ते चोत्सवमाचरेत् | स्थानान्तरं च प्राप्तिश्चेत् स्थानभ्रंशं नृपस्य तु || ५२ || तस्थानं पूर्ववत् कृत्वा निर्माणं सम्यगाचरेत् | देवस्य स्थापनं प्रग्वत्पूजयेत् तु विशेषतः || ५३ || गव्याभिषेचनं कृत्वा ब्राह्मणान् भोजयेत् ततः | वर्धनी शिवकुम्भौ च च्छिन्ने भिन्ने तदन्तिके || ५४ || तद्राष्टौ दैवतानां च स्नपनं चाभिषेचयेत् | कारयेद्विधिवद्राजा भक्त्या तटे षशान्तये || ५५ || ब्रह्मस्थानान्तर प्राप्ते वक्षे चान्यफलोद्भवेत् | तदन्यकुसुमोत्पन्ने रसगन्धान्यसंभवेत् || ५६ || मर्त्यानां चैव सर्वेषां दुःखं तद्राष्ट्रवासिनाम् | तज्जातिवृक्षं संसर्वं पूर्वस्थाने विशेषतः || ५७ || शान्तिहोमं ततः कुर्यान् मयूरसमिधं तत | शिवसंपूज्य विधिवत् सप्ताहं स्नपनं कुरु || ५८ || प्. २२७) क्षिराभिषेचनं कृत्वा वास्तुदेवान् प्रपूजयेत् | ततः फलानि सर्वाणि पुष्पैस्सर्वेययजेच्छिवम् || ५९ || सर्वगन्धसमायुक्तं पूजयेत् तु विशेषतः | उष्णं तु प्रतिपन्ने च लिङ्गासु प्रतिमासु च || ६० | मर्त्यानां चैव सर्वेषां नानारोग प्रजायते | गोनाशं चैव दुर्भिक्षं तद्राष्ट्रौ जायते ध्रुवम् || ६१ || क्षीरप्रस्थ सहस्रैश्च मथुसर्पि सहस्रकैः | नालिकेरोदकेनापि स्नापयेत् तु शिवं बुधः || ६२ || स्नपनं तत्र कर्तव्यं महाव्योमेति मन्त्रतः | पूजयेत् तु विशेषेण कुङ्कुमो शिरचन्दने || ६३ || कृष्ठेनागरुकर्पूरैरालोढ्यं लेपयेच्छिवम् | महाहवि प्रदातव्यं दिशाहोमं तु कारयेत् || ६४ || एवं कुर्यात् तु सप्ताहं शीतकुम्भं तदन्तके | अण्डजास्वेदजाश्चैव चतुष्पादा नरास्तथा || ६५ || स्वजात्यन्य प्रसूतिश्चेद् भूपतेर्मरणं धृवम् | गोभूमिकाञ्चनादिनि दानं कुर्या प्रयत्नतः || ६६ || स्नपनं कारयेदेक समिधा शान्तिहोमकम् | एवं कुर्यात् तु सप्ताहं अन्ते चोत्सवमाचरेत् || ६७ || प्रासादभ्रमणोत्पन्ने राष्ट्रं स्यापद्रवो भवेत् | प्रत्येकं प्रस्थसाहस्रैर्गव्यैः प्रासादमेव च || ६८ || प्. २२८) पञ्चब्रह्मषडङ्गैश्च स्नापयेत् परमेश्वरम् | प्रासादं प्रोक्षयेद् धीमान् पूर्वोक्त विधिना सह || ६९ || स्नपनं तत्र कुर्वीत ब्राह्मणान् भोजयेत् सुधिः | सित्तोत्र सुममुत्पन्ने राष्ट्रक्षोभं भवेत् सदा || ७० || स्नपनं तत्र कुर्वीत पूजयेत् तु विशेषतः | वैकङ्कतेन समिधा शान्तिहोमं तु कारयेत् || ७१ || प्रोक्षयेत् पञ्चगव्येन प्रासादेन तु पर्वतम् | तत्पर्वत समीपे तु लिङ्गं संस्थाप्य पूजयेत् || ७२ || तद्राष्ट्रदेवतानां च स्नपनं हविषं ददेत् | विशेषपूजनं कुर्यात् तदन्ते चोत्सवं चरेत् || ७३ || आद्रवृक्षे स्वयं दग्धे बालानां नाशनं भवेत् | अग्निक्षोभं च तद्राष्ट्रे सद्य एव भवेद् ध्रुवम् || ७४ || ग्रामस्यैव चतुर्भिक्षो होम कुर्याद् विशेषतः | समिधाज्य चरूलाजान् सर्षपान् होममाचरेत् || ७५ || तद् वृक्ष समिधा चैव पञ्चब्रह्म क्रमाद्धुनेत् | शतमर्धं तदर्धं वा प्रत्येकं जुहुयात् क्रमात् || ७६ || पञ्चब्रह्म षडङ्गैश्च प्रासादेन तु मन्त्रतः | प्रत्येकं तु सहस्रं वा तदर्धं जुहुयात् क्रमात् || ७७ || मिन्दाहुतिं ततो हुत्वा जयाद्या जुहुयात् ततः | कृत्वा तु स्नपनं पश्चाद् विशेषेणैव पूजयेत् || ७८ || प्. २२९) औदुम्बरेण समिधा शान्तिहोमं तु कारयेत् | प्रतिमा कम्पनोत्पन्ने राजामरणमाप्नुयात् || ७९ || कृत्वात् तु प्रतिमां शुद्धिं गव्येनैवाभिषेचयेत् | दिशाहोमं ततः कृत्वा पुण्याहं वाचयेत् ततः || ८० || एवं कुर्यात् तु सप्ताहं तदन्ते चोत्सवं कुरु | भिन्ने च शिववर्धन्यौ लिङ्गं प्रतिमयं तथा || ८१ || परचक्राद्भयं भूमौ महामारि प्रवर्त्तते | बालस्तानं ततः कृत्वा प्रासादं पूर्ववत् कुरु || ८२ || प्रासादं प्रोक्षणं कृत्वा पूर्वोक्त विधिना सह | तेनैव भिन्नलिङ्गं चेदुद्धृत्य स्थापयेन्नवम् || ८३ || अन्येनापि प्रमाणेन कारयेद् देशिकोत्तमः | प्रतिष्ठाकारयेद् धीमान् पूर्वोक्त विधिना सह || ८४ || प्रत्यङ्गोपङ्गहीने च वस्त्राभरणहीनके | पुनः सन्धानकं कृत्वा संप्रोक्षणमथाचरेत् || ८५ || दिशाहोमं ततः कृत्वा महास्नपनमाचरेत् | पञ्चगव्यामृतैश्चैव अभिषेकं च कारयेत् || ८६ || क्षिरप्रस्थ सहस्रैश्च मधुप्रस्थ सहस्रकैः | स्नापयेत् परमेशानं महाव्योमेति मन्त्रतः || ८७ || स्नपनं कारयित्वा तु ब्राह्मणान् भोजयेत् ततः | समिधा खादिरेणैव शान्तिहोमं तु कारयेत् || ८८ || प्. २३०) एवं कृत्वा तु सप्ताहमन्ते चोत्सवमाचरेत् | प्रतिमोन्मिलनं कृत्वा (यत्र) राष्ट्रग्रामस्य नाशनम् || ८९ || पक्षं पक्षद्वयं वाक्समिधा शान्तिहोमकम् | स्नपनं कारयेन्नित्यं दिशाहोमं तु कारयेत् || ९० || ब्राह्मणान्भोजयेन्नित्यं दीनान्धानां च भोजयेत् | करिणिमदसंयुक्ते महावातप्रकोपने || ९१ || वाहनानां क्षयं चैव स्त्रिजनानां क्षयं भवेत् || शिवसंपूज्य विधिवत् स्नपनं कुरु नित्यशा || ९२ || शिवागैश्चैव विद्याङ्गै शिवमन्त्रैश्च होमयेत् | एवं सप्तदिनं नीत्वा महाहविं निवेदयेत् || ९३ || अनग्नौ चोद्धिते धूमे वाहनानां क्षयं भवेत् | परचक्राद्भयं तत्र भूमौ संभवति ध्रुवम् || ९४ || तत्प्रदेशञ्च खात्वा तु पञ्चमृद्भिश्च पूरयेत् | व्याख्यात समिधा चैव शान्तिहोमं तु कारयेत् || ९५ || ब्राह्मणान् भोजयेत् तत्र दीनानां चैव भोजयेत् | क्षिरप्रस्थसहस्रैश्च स्नापयेत् परमेश्वरम् || ९६ || तदन्ते स्नपनं कुर्याच्छितकुम्भं तदन्तके | लिङ्गं वर्णान्तरे प्राप्ते जातिदूषणमालभेत् || ९७ || एलालवङ्गकर्पूर जातिजम्बूफलं मुरै | पेषयित्वा यथा मन्त्रि लिङ्गमालेपयेत् ततः || ९८ || प्. २३१) स्नपनं कारयेदन्ते सप्ताहं शान्तिहोमकम् | अशोकसमिधा हुत्वा त्र्यम्बकेनैव देशिका || ९९ || विशेषपूजनं कृत्वा तदन्ते विप्र प्रभोजने | भेरिघोस स्वयं जाते महामारि प्रवर्त्तते || १०० || स्नपनं कारये बिल्वसमिधा शान्तिहोमकम् | पक्षं पक्षद्वयं वापि एवमेवं समाचरेत् || १०१ || एवं महद्भुतं प्रोक्तं शृणु सामान्यमद्भुतम् | आदित्योदयकाले तु प्रतिसूर्यस्य दर्शने || १०२ || परचक्राद्भयं भूमौ ज्वरग्रस्तानरस्तथा | अश्वद्धसमिधा चैव शान्तिहोमं तु कारयेत् || १०३ || तदन्ते स्नपनं कुर्यात् पूजयेत् तु विशेषतः | प्रभूत हविषा दत्त्वा एवं सप्ताहमाचरेत् || १०४ || यथा चन्द्रोदये काले प्रतिचन्द्रस्य दर्शने | दुर्भिक्षं जायते लोके महामारि प्रवर्तते || १०५ || प्रत्यग्दर्शनस्योक्तं मार्गेणैव समाचरेत् | रालाविद्रधरुदृष्टौ वह्निनक्षत्रदर्शने || १०६ || ग्रहनक्षत्रपाते च अनावृष्टिं न संशयः | ज्वरग्रस्ता नरास्सर्वे वाहनानां क्षयं भवेत् || १०७ || पूजयित्वा शिवं तत्र महास्नपनमाचरेत् | शान्तिहोमं ततः कृत्वा अश्वद्ध समिधा ततः || १०८ || प्. २३२) एवं कृत्वा तु सप्ताहं तदन्ते चोत्सवं कुरु | नैरन्तर्येण सप्ताहं मनिशं पतिते सति || १०९ || अतिवृष्टिन्नराणां च रोगं संभवति ध्रुवम् | अवसाने घृतक्षीरप्रस्तनां तु सहस्रकैः || ११० || स्नापयेत् परमेशानं पूजयेत् तु विशेषतः | तदन्ते स्नपनं कुर्यात् प्रभूत हविषं ददेत् || १११ || भास्करं वा तथा सोमं सप्ताहं परिवेष्टितम् | तन्मण्डलाधिपो राजा युद्धे मरणमाप्नुयात् || ११२ || भूदानं तिलगोदानं हेमदानं तथैव च | कृत्वा प्रस्तसहस्रै च क्षिरेणैव महेश्वरम् || ११३ || स्नापये तु विशेषेण तदन्ते स्नपनं कुरु | दिशाहोमं ततः कृत्वा एवं सप्ताहमाचरेत् || ११४ || लिङ्गं तु पूजिते पुष्पे प्राप्ते वार्णान्तरे सति | वस्त्रानुलेपनं तद्वद्गामदूषणमादिशेत् || ११५ || शिव संपूज्य विधिवत् प्रभूत हविषं ददेत् | अतिव शलभोत्पन्ने उन्मत्ते वाहने तथा || ११६ || शुकाश्च मूषिकानां च विषसर्पाधिको भवेत् | प्राणिनां नशनं चैव अनावृष्टिं न संशयः || ११७ || प्रासादस्याग्रतः कुर्या मण्डपं चतुरश्रकम् | दशद्वादशहस्तं वा दर्पणोदरसन्निभम् || ११८ || प्. २३३) स्तम्भै षोडशभिर्युक्तं सर्वालङ्कारसंयुतम् | हस्तद्वयप्रमाणेन वृत्तकुण्डं तु मध्यमे || ११९ || मेघलात्रियसंयुक्तमेकैकं तु षडङ्गुलम् | नाभियोनिसमायुक्तं कारयेद् देशिकोत्तमः || १२० || दिशासु चतुरश्राणि कोणेषु च कुशेशयम् | शिवाग्निं कल्पयित्वा तु अग्निकार्योक्तवन्मना || १२१ || समिधाश्च चरुं लाजान् सर्षपं लवणं तथा | कार्पासस्य तु बीजं च होमयेद् देशिकोत्तमः || १२२ || पलाश खादिराश्वद्धावट पूर्वादिषु क्रमात् | शमिबिल्वमशोकं च मयूरं च विदिक्षु च || १२३ || पलाशं तु प्रधानं स्यात् सद्यमन्त्रेण होमयेत् | पञ्चब्रह्मषडङ्गैश्च विद्याङ्गैर्मूलमन्त्रतः || १२४ || पाशुपतेन चास्त्रेण अघोरास्त्रेण बुद्धिमान् | सहस्रं वा तदर्धं वा प्रत्येकं जुहुयात् क्रमात् || १२५ || जयादिरभ्याधानाश्च राष्ट्रभृश्च क्रमाद्धुनेत् | तदन्ते स्नपनं कुर्याद् विशेषेणैव पूजयेत् || १२६ || महाहविः प्रदातव्यं ब्राह्मणान् भोजयेत् ततः | एवमेवं तु मध्याह्ने जप्त्वेवं कारयेद् बुधः || १२७ || प्रासादे च सभास्थाने गोपुरे मण्डपे तथा | परिवारालये चैव मधु निडसमुद्भवे || १२८ || प्. २३४) ग्रामस्य नाशनं चैव नृपते मरणं ध्रुवम् | प्रपोह्य मधुनिड तत्प्रोक्षयेच्छुद्धवारिणा || १२९ || शिवसंपूज्य विधिवद् दिशाहोमं तु कारयेत् | मध्वाज पयसाधीमान् स्नापयेत् परमेश्वरम् || १३० || समिद्भिन्नीडसंभूतैः शान्तिहोमं तु कारयेत् | तदन्ते स्नपनं कुर्याद् देवं सप्ताहमाचरेत् || १३१ || उत्सवं कारयेदन्ते सप्ताहं च त्रिहं तु वा | अनावृष्टि समुत्पन्ने गोनाशं सस्यनाशनम् || १३२ || समिधा खादिरेणैव शान्तिहोमं तु कारयेत् | क्षीराभिषेचनं कृत्वा तदन्ते स्नपनं कुरु || १३३ || कुर्याद् देवं तु सप्ताहं शितकुम्भं ततः कुरु | अतिवृष्टिसमुद्भूते दुर्भिक्षं भवति ध्रुवम् || १३४ || मधुप्रस्तसहस्रैश्च घृतप्रस्थसहस्रकैः | स्नापयेत् परमेशानं तदन्ते स्नपनं कुरु || १३५ || आलोढ्य रजनी पश्चात् कर्पूरेण विमिश्रतम् | षडङ्गुलप्रमाणेन वेष्टयेल्लिङ्गपीठिका || १३६ || कनिष्ठागुल्परिणाहं कर्पूरेण तु वर्जितम् | गोघृतेनसमायुक्तं वेदतालप्रमाणतः || १३७ || सहस्रं वा तदर्धं वा दीपानारोपयेत् क्रमात् | मुद्गभिन्नसमायुक्तं प्रभूतहविषं ददेत् || १३८ || प्. २३५) शान्तिहोमन्ततः कृत्वा पालाशसमिधं तथा | प्रधानपङ्कजं वापि मरणं तु भवेद् यति || १३९ || विशेषपूजनं कुर्यात् त्रियां तु समाचरेत् | युद्धेद्योगे नृपस्यैव विना पातद्रमस्य तु || १४० || पतिते कारणाद्भूमौ प्रधानमहिषि तथा | प्रधानाश्च गजं वापि मरणं तु भवेद्यति || १४१ || भूपते मरणं चात्र सद्ययेव भवेद्ध्रुवम् | महादानं प्रकुर्वित ब्राह्मणानां विशेषतः || १४२ || पूजयित्वा महेशानां महास्नपनमारभेत् | महाहविस्ततो दत्वा वास्तुदेवान् प्रपूजयेत् || १४३ || देवानामालयेवाथ नृपस्यैव गृहेऽथवा | विद्यापियागशालायां सभास्थाने च चत्वरे || १४४ || मठे तटाकतीरे वा तथा कूपस्यतिरके | प्रतिक्रिया च कर्तव्या रक्तस्त्रि जायते यदि || १४५ || तदा मुञ्चति तद्ग्रामं आलयेऽपि तथैव च | सभास्थाने समुत्पन्ने ग्रामनाशं भवेत् तदा || १४६ || चत्वारे च समुत्पन्ने प्राणिनाशं तु जायते | मठे चैव समुत्पन्ने ग्रामदूषणमादिशेत् || १४६ || तटाकातीरे संजाते तदाभुञ्जञ्चै पद्मजा | रध्या समुत्थिते स्त्रीणां बालानां नाशनं भवेत् || १४८ || प्. २३६) कूपतीरे च सङ्जाते दुःखं तद्ग्रामवासिनाम् | तत्प्रदेशं तथा खात्वा पूरयेद्वा युगादिभिः || १४९ || पुण्याहं वाचयित्वा तु ब्राह्मणान् भोजयेत् ततः | पञ्चगव्येन संप्रोक्ष्य पवमानमुदिरयन् || १५० || शान्तिहोमं ततः कृत्वा पलाशसमिधा तथा | तदन्ते स्नपनं कृत्वा शान्तिहोमं समाचरेत् || १५१ || गोमयि पिङ्गलि गृद्ध्रलूकाश्चैवाथ वायसा | आलयान्तं प्रविष्टे च नृपं वेश्मान्तरेऽथवा || १५२ || बालानां स्त्रीगणानां च नाशानां च समादिशेत् | शीतकुम्भं ततः कृत्वा शान्तिहोम समाचरेत् || १५३ || ब्राह्मणान् भोजयित्वा तु तदन्ते स्नपनं कुरु | देवालयोपरिष्टान्तं नृपस्य भवनोपरि || १५४ || श्वारोहे रुदिते तत्र राजा मरणमाप्नुयात् | तदं हत्वा त्र्यजं त्यक्त्वा पुण्याहवाचयेत् ततः || १५५ || अश्वद्ध समिधा चैव शान्तिहोमं तु कारयेत् | ब्राह्मणान् भोजयेत् पश्चात् कुर्या चा स्नपनं महत् || १५६ || तदन्ते चोत्सवं कुर्याद् वास्तु देवान् समर्चयेत् | लिङ्गं च प्रतिमा चैव जन्त्वारोहणके सति || १५७ || नृपाणां चैव सर्वेषां रोगवृद्धित्वमावहेत् | तं हत्वा चाध सद्योत्र तद् देवान् स्नापयेत् ततः || १५८ || प्. २३७) पूर्वार्ध समिधा चैव शान्तिहोमं तु कारयेत् | स्नपनं तु ततः कृत्वा महाहविं निवेदयेत् || १५९ || आकाशे धूमकेतुं स्यान्नानारूपसमन्वितम् | दृश्यते तत्र निश्चित्य प्रायश्चित्त समाचरेत् || १६० || लिङ्गमूले तु निश्चित्या जन्त्वारोहणके सति | राष्ट्रक्षोभं च दुर्भिक्षं जायते नात्र संशयः || १६१ || पूजयेद् देवदेवेशं अष्टबन्धं तु कारयेत् | शान्तिहोमं ततः कृत्वा समिधा खादिरेण तु || १६२ || शीतकुम्भं ततः कृत्वा महाहविं निवेदयेत् | व्यतिरिक्त क्रियाकार्यो शान्तिहोमेन शाम्यति || १६३ || कुर्या प्रतिक्रिया तत्र गुरुणा दृष्टकर्मणा | मासं मासे नयेत् कृत्वा निष्फलत्वं प्रजायते || १६४ || आचार्य पूजयेत् तत्र प्रतिक्रिया विधेस्तथा | वस्त्राङ्गुलियकैश्चैव गोभूमिधनधान्यकैः || १६५ || अधम्मदनिष्कं स्याद्विगुणं मध्यमं स्मृतम् | त्रिगुणं चोत्तमं विद्या देशिकस्य तु दक्षिणा || १६६ || यागोपयोग द्रव्याणि देशिकाय प्रदापयेत् || १६६ || इति सूक्ष्मशास्त्रे उत्पातशान्तिं नाम चत्वारिंसत्पटलः || प्. २३८) ग्रामशान्तिविधिं वक्ष्ये शृणु तत्तत्प्रभञ्जना | ग्रामे वा नगरे वापि पट्टणे राजधानिके || १ || कुब्जके खेटके चैव बहुरूपं च वासिना | एवं स्थानविशून्यश्चेत् पूर्वे वा दक्षिणेऽपि वा || २|| पश्चिमे चोत्तरे वापि विदिशास्वन्तरालके | ग्राममानं चतुर्भागं वसुभागमथापि वा || ३ || कलांशं च दशां तु तेष्वेकं कल्पवास्तुना | एवं निश्चित्य विधिस्याद् बाह्ये वाभ्यन्तरेऽपि वा || ४ || प्रासादपरितो वापि वास्तुविद्यां प्रकल्पयेत् | ब्रह्मादीशानपर्यन्तं इन्द्रादीशान्तकं क्रमात् || ५ || ग्राममाश्रित्य देवानां ग्राममध्ये बलिं क्षिपेत् | आद्यन्तं बलियुक्तं तु अयुक्तं तु दिनं प्रति || ६ || ब्रह्मराक्षसपैशाच भूताश्चैव निशाचरः | एताश्च देवतास्सर्वे शून्यग्रामं तु वासिना || ७ || गतागतं च कृत्वा तु पूर्वापर सुवास्तुषु | तद्ग्रामवासिनास्सर्वे रोगशोकभयं भवेत् || ८ || तद्ग्रामे चोत्सं कुर्यात् तद्राष्ट्रस्य विनिश्यति | तद् दोषशमनार्थाय राक्षसादि बलिं ददेत् || ९ || ग्रामाभिमुखसंस्थानं निर्गत्वा द्वारदेशिके | राक्षसाद्याश्च ये देवाः द्वारदेशा समाश्रयेत् || १० || प्. २३९) एतस्थानाश्रितो देवा प्रित्यर्थं बलिमाचरेत् | बलिद्रव्यं तु संपाद्य देशिकं स्नानमाचरेत् || ११ || सुशुद्धवस्त्रसंवेष्ट्य आर्द्रवस्त्रं परित्यजेत् | सकलिकरणं कृत्वा समान्यार्घ्यं च कल्पयेत् || १२ || पञ्चगव्यं तु संसाध्य विघ्नेशं पूजयेत् पुरा | नालिकेरफलं दत्वा द्विखण्डं सर्वसिद्धिदम् || १३ || शैथिल्यं कर्मशैथिल्यं तस्माद् दोषं परित्यजेत् | विघ्नराज नमस्तुभ्यं विज्ञाप्य परमेश्वरम् || १४ || देवदेवजगन्नाथ जगतामूर्त्तिनाशनम् | शिवाध्वरप्रवर्त्तोय तवाज्ञा कुरु मे सदा || १५ || यत् कृतं तेन भगवन्मया च मखमन्दिरे | भूताश्च बलिकर्माणि त्वत्प्रसादात् करोम्यहम् || १६ || क्रमुकं नालिकेरस्य पुष्पं प्रत्येकमेव हि | नालिकेरफलं मासं सङ्ख्याया प्रतिगृह्यताम् || १७ || तदर्थ तण्डुलद्रोणं पुष्पं तस्य चतुर्गुणम् | पीतरत्ननिभं पुष्पं पद्मपुष्पसमृद्धिदम् || १८ || देवस्य मुक्तपुष्पं तु जातिकल्हारकेतुषु | अन्यत् सुगन्ध पुष्पं च पुष्पपात्रे निधापयेत् || १९ || कार्पासवर्तिमेकेन महावर्त्तिस्तु पञ्चकम् | गजमृगमदं कृष्णं गन्धकर्पूरसंयुतम् || २० || प्. २४०) कुन्दुरुष्कगरुद्धूपं रक्तवस्त्रं च पञ्चकम् | पञ्चकं दारुपीठं तु चतुर्थं वा समन्वितम् || २१ || खड्गशूलधनुबाणक्षुरिक पिण्डिफलकम् | नालिकेरं च तैलं च समृद्धकदलिफलम् || २२ || पञ्चचूर्णगुलं क्षीरं कदलिदलसंयुतम् | क्रमुकं तैलसंयुक्तं ताम्बूलं च समृद्धिदम् || २३ || शुद्धोदनं पचेद्धीमान् आढकद्वयतण्डुलैः | पायसं चाढकेनैव तत्सख्यैश्च सिताक्षतैः || २४ || आद्रेक्षिकमिश्रेण शुद्धपात्रे निधापयेत् | एवं द्रव्यं तु संपाद्य अस्त्रेश्वरमथार्चयेत् || २५ || शिवखड्गं तु सङ्ग्राह्य विन्यसेच्छिवसन्निधौ | विज्ञाप्य परमेशानं बलिद्रव्यन्तु सङ्ग्रहेत् || २६ || अस्त्रेशं शिवखड्गं तु शिष्य सङ्ग्राह्य पाणिना | शङ्खभेर्याश्च घोषैश्च डमरू पटमर्दलै || २७ || एतेरन्यैश्च घोषैश्च स्त्रीणां कुरूप संयुतम् | सदाखण्डं खोपेतं दीपज्वालसमन्वितम् || २८ || छत्रचामरसंयुक्तं द्वारदेशं समाश्रयेत् | द्वारपालान् समभ्यर्च्य स्नानं नैवेद्यकान्तकम् || २९ || बाह्ये बाह्यान्तर वापि वरकं संप्रपूजयेत् | द्वारप्रक्षाल्य तोयेन नन्दिकालौ बलिं ददेत् || ३० || प्. २४१) वृषभं पूजयेन्मध्ये महाखण्टां तु ताडयेत् | पश्चाद्वारं बहिः कृत्वा पञ्चहस्तप्रमाणतः || ३१ || तृणमूलादिभिस्त्याज्य तत्समं चतुरश्रकम् | तन्मध्ये वेदिकां कुर्याद् गोमया लेपनं कुरु || ३२ || प्रोक्षयेत् पञ्चगव्येन बलिद्रव्यं च सङ्ग्रहेत् | अस्त्रेशं वेदिकोर्ध्वे तु शिवखड्गं तु विन्यसेत् || ३३ || मध्ये पूर्वे च याम्ये च पश्चिमे चोत्तरे दिशि | मध्ये पात्राष्टपन्मं च ऐन्द्रे तु वसुकोणकम् || ३४ || याम्ये तु नवयोनिं स्यात् षट्कोणं पश्चिमे दिशि | उत्तरे चाष्टशूलम् च रक्तवर्णेन संलिखेत् || ३५ || तद्बाह्ये सितवर्णेना चतुरश्रं प्रकल्पयेत् | अश्रस्याभ्यन्तरं कोणं पञ्चवर्णैरलङ्कृतम् || ३६ || मण्डलस्यात्पदे बाह्ये न्यसेत् पीठचतुष्टयम् | पीठं विन्यस्य मध्ये तु मध्ये मण्डलपश्चिमे || ३७ || पीठोर्द्ध्वे वस्त्रमास्तिर्य रक्तपन्मेन संवृतम् | वृत्तं कुड्डुपमाधिक्यं तण्डुलं पीठिकोपरि || ३८ || तस्योर्ध्वे नालिकेरं स्यात् स्थापयेत् तु चतुर्दशि | खड्गपूर्वे तु विन्यस्य धनुर्बाणं च दक्षिणे || ३९ || क्षुरिकां पश्चिमे स्थाप्य पिण्डिपालमथोत्तरे | शूलंश्च मध्यमं स्थाप्य ओदने पश्चभिः शरम् || ४० || प्. २४२) प्रस्थं कुन्दुपसंयुक्तं तण्डुलं तु निधापयेत् | कांस्यपात्रे तु तण्डुल्यं कारयेत् तस्य मूर्द्धनि || ४१ || नालिकेरस्योदकं च घृतेन परिपूरितम् | तन्मध्ये तु महावत्तिं विधयुक्तं च विन्यसेत् || ४२ || स्वस्तिकं वायुदेशे तु पञ्चचूर्णैरलङ्कृतम् | तस्योर्ध्वे वाथ शुद्धं च नालिकेरसमाशृतम् || ४३ || तस्याग्रे कदलिपत्रं मामूलाग्रसमन्वितम् | सिताक्षते न्यसेदूर्ध्व कदलिफलसंयुतम् || ४४ || शास्तुश्च चण्डिकायांश्च अघोरं भैरवं तथा | तन्मध्ये भूतनाथेशं पूर्वादिषु समर्चयेत् || ४५ || आग्नेयेमण्डपे पश्चात् पञ्चचूर्णैरलङ्कृतम् | मूर्त्तिमानाब्जपूर्वे तु विन्यस्याष्ट दिशासु वा || ४६ || विन्यसेत् कदलीपत्रे कपित्तफलमाघृते | पिण्डिमेकं प्रदातव्यं वत्तिदीपसमन्वितम् || ४७ || अनन्तादि बलिं दद्याज्जलेन परिषेचनम् | नैर्-ऋते चैव षट्कोणं पञ्चचूर्णैविलिख्य च || ४८ || महाभूतेन षट्कं च बलिं * * यथाक्रमम् | ऐशान्यां मण्डलं कल्प्य चतुष्कोणसमन्वितम् || ४९ || सूत्रषट्कसमायुक्तं पञ्चचूर्णैरलङ्कृतम् | नालिकेरोदकेनैव लम्बयेत् तु पदार्थकम् || ५० || प्. २४३) क्रमुकं नालिकेरस्य पुष्पैश्चैव प्रलम्बयेत् | चतुष्पथे पिशाचाश्च त्रिप राक्षसां बलिम् || ५१ || कूश्माण्डं त्रिपथे पूज्य नागाश्च त्रिपथे यजेत् | त्रिपथे भैरवं पूज्य द्विपथे असुरार्चनम् || ५२ || एतन्नन्दबलिं दत्वा पात्तदीपसमाचरेत् | एवं क्रमेण संपूज्य पुष्पं ग्राह्य विकीर्य च || ५३ || सिता क्षतं विकीर्याथ द्विष्टो वासनं कुरु | शिवखड्गेन संशोध्य रक्ततोयं विसज्य च || ५४ || ऐशान्यामन्यलाग्रे तु अजं शास्त्रे संहरेत् | नमस्ते भूतनाथेशं प्रीत्यर्थं बलिगृह्यताम् || ५५ || मया प्रवर्त्तितो याग सर्वाभिष्ट प्रदायकः | ततः प्रतिमना भूत्वा गच्छध्वं सि यथा सुखम् || ५६ || शून्यवास्तुषु मध्ये तु पश्चाच्छान्तिं बलिं क्षिपेत् | तद् ग्रामे भद्रकाल्याश्च तृप्यर्थं बलिमाचरेत् || ५७ || अन्नैश्च सर्वदेवाश्च तृप्तिमाप्नोति दापयेत् | पादप्रक्षालनं कृत्वा पश्चाद् वास्तु प्रवेशयेत् || ५८ || ब्रह्मस्थाने तु संकल्प्य देवाग्रे विधिमध्यमे | भूतपीठे द्रमध्ये वा वास्तुमध्ये प्रकल्पयेत् || ५९ || पूर्वाग्निश्च मयमश्चैव निरुतवणवायुषु | कुबेर ईश संयुक्ते यथा देवबलिं क्षिपेत् || ६० || प्. २४४) बलिस्थाने मया तस्य अन्यस्थानेषु वर्जयेत् | मृगयात्रादि तीर्थाश्च वास्तु बाह्येषु यानकम् || ६१ || मध्याह्ने वाथ सायह्ने अर्थरात्रिबलिं ददेत् | ग्रामशान्तिबलिं कुर्यात् सर्वाभिष्टफलप्रदम् || ६२ || तद्ग्रामवासिनस्सर्वे बलदं बलिरुच्यते | ग्रामशान्तिबले हीने तद्राष्ट्रे वास्तुनाशनम् || ६३ || परचक्रभयं राज्यं राजा निर्जयमाप्नुयात् | तदृष्ठवासिनस्सर्वे ज्वरमर्यादि पिडिता || ६४ || तस्मात् सर्वप्रयत्नेन ग्रामशान्ति बलिं ददेत् | तदन्तो चोत्सवं कुर्यात् सर्वकामफलप्रदम् || ६५ || एवं यः कुरुते मर्त्यः स पुण्यागतिमाप्नुयात् || ६५ || इति सूक्ष्मशास्त्रे ग्रामप्रायश्चित्तविधिं नाम चतुचत्वारिंशत्पटलः || मत्स्यलिलविधिं वक्ष्ये शृणुत्वं तत्प्रभञ्जना | प्रणिनां भोगमेवं स्याद् भवतीनां सुखं भवेत् || १ || मिनादिकन्यपर्यन्तं मत्स्यलीला प्रशस्यते | एवं त्रिविधमाख्यातं उत्तमायथमध्यमे || २ || समुद्रे वापि नद्यां वा तटाके कूपकेऽपि वा | अब्धिश्रेयान् समस्य स्यानदिमध्यं च मध्यमे || ३ || प्. २४५) तटाके वापि मत्स्यं च अधमं तु प्रकीर्तितम् | अभिषेक कृतं बेरं उत्तमन्तु प्रशस्यते || ४ || पौराण्यायतनं बेरं मध्यमं तु प्रकीर्तितम् | सद्यनिष्कृतिबेरं तु अधमं चोच्यते मया || ५ || उत्तमं बेरमेवं तु समुद्रादर्शनं मतम् | मध्यमबेरमेवं तु नद्यादीन् दर्शनं मतम् || ६ || अथमे बेरमेवं स्यात् तटाकं वापिमेव च | शतकोशविधिर्यावदुत्तमे दर्शनं मतम् || ७ || पञ्चाशत्कोशमेवं तु मध्यमे दर्शनं मतम् | द्वादशं कोशमेवं तु अधमे दर्शनं मतम् || ८ || एवं कृतयुगं प्रोक्तं मन्यत् सर्वप्रयत्नतः | देवदांशांश विहीनं स्यात्क्रमेण परिकल्पयेत् || ९ || अन्य सदिनमेव स्यान्मध्यमं त्रिदिनं भवेत् | शसुख्यचोत्तमञ्चैव दिन सङ्ख्य क्रमेण तु || १० || ग्रामादि स्थानसंयुक्तं एतत्सर्वं समाचरेत् | तल्लिला द्विगुणविधं प्रोक्तं वा सायनं च कथ्यते || ११ || यानञ्चेदालयं कार्यनयेदास्थानमण्डपे | सर्वालङ्कारसंयुक्ते मण्डपं प्रति भूषयेत् || १२ || सुवारे सुदिने चैव रात्रौ पूजावसानके | देवदेव जगन्नाथ जगदार्त्ति विनामुना || १३ || प्. २४६) देवं ननु गृहीतोस्त्री इति विज्ञापनं क्रमात् | स्वर्णादि सूत्र संगृह्य रक्षाबन्धं पूरोक्तवत् || १४ || अपरेद्युर्दिवाकाले नयेदास्थानमण्डपे | प्रातस्सन्ध्यावसाने तु सुरिवृन्दैश्च सेवितम् || १५ || राजोपचारैस्सर्वैश्च तोषयेत् परमेश्वरम् | मद्ध्याह्ने पूजये नान्ते तु सर्वालङ्कारसंयुतम् || १६ || सर्ववाद्यैरलङ्कृत्य सर्वघोषैरलङ्कृतम् | मस्त्यस्थानं समुद्दिश्य यानं पूर्ववदाचरेत् || १७ || तत्काले तु विशेषेण भूपतिर्देशिकै सहा | कर्पूररजनी चूर्णं रागवल्लिदलैरपि || १८ || विकरै सर्ववर्णैश्च तत् स्थाने प्रविश्य च | उत्तरे पश्चिमे वापि पूर्वो वा दक्षिणेऽपि वा || १९ || तत्र स्थाने प्रपां कृत्वा वितानाद्यैरलङ्कृतम् | देवं मध्ये तु विन्यस्य तदग्रे मत्स्य पूजनम् || २० || ओदनादिनि विन्यस्य ओदनस्येति पूजयेत् | तण्डुलैः तिललाजैश्च मत्स्यं सम्यक् समर्चयेत् || २१ || मलिकाय महामत्स्यो दीपरुपोहहोदरे | एवं मन्त्रसमुच्चार्य मत्स्यानं भोजनं नयेत् || २२ || मत्स्यलीला समालोक्य सयान्नपूर्वमाचरेत् | तदन्ते यानकार्ये तु लिम्लागनं च गाधकम् || २३ || प्. २४७) विनोदवाद्य संयु पूर्वस्थाने प्रवेशयेत् | स्नपनं शान्तिहोमं च स्नापयेत् परमेश्वरम् || २४ || तदन्ते सायरक्षा तु पूर्वाद्दर्चनं प्रति | पूर्ववन्नित्यपूजां च विशेषोत् पूजदन्तके || २५ || तदन्ते स्नपनं कृत्वा रक्षाबन्धनं विसृ च | आलयस्य समीपं चेध्यानमेवं विधीयते || २६ || एवं यानं समाख्यात वासं चैव ततः शृणु | रात्रौ पूजावसाने तु कर्तदेशिकसंयुतम् || २७ || महेशाग्रे तु कर्तव्यं प्राथयित्वा विचक्षणः | एकमूर्त्ति स्वरूपं तु पञ्चधा परिकल्पयेत् || २८ || लोकरक्षार्थमेवं हि श्रूयता तत् प्रभञ्जना | अम्बिकासहितो देवो जगदुत्पत्तिकारणात् || २९ || मत्स्यलीलसमुद्दिश्य गम्यतामिति शंकरा | एवं प्रार्त्थतु तत्काले भगवानुज्ञया सहा || ३० || पूर्ववत् प्रतिसरं बद्ध्वा वाहनं प्रति सन्नयेत् | ततः प्राभाते कर्तव्यं सर्वालङ्कारशोभितम् || ३१ || सर्ववाद्यैरलङ्कृत्य जयघोषसमन्वितम् | राजोपचारसहितं यानं बन्धः शनैशनैः || ३२ || कर्पूर रजनी लाजं विकीरेत् समलङ्कृतम् | मनोरम्येऽन्यदेशेव भक्ष्यादिनि निवेदयेत् || ३३ || प्. २४८) ताम्बूलानि विचित्राणि दापयेच्छिव सन्निधौ | दिनं प्रति विशेषेणं स्नपनं शान्तिहोमकम् || ३४ || नित्यपूजाविधानेन नित्यमेवं समाचरेत् | उद्दिश्य स्थानदेशे तु प्रपां कृत्वा सलक्षणाम् || ३५ || मध्ये वेदिकया युक्ता ऊर्ध्वे सिंह्मासनं नयेत् | महेशं तत्र विन्यस्य लीलागानमध शृणु || ३६ || वसन्तलीलां कृत्वा तु या सूरि बृन्दैश्च सेवितम् | मत्स्यभोजनमग्रे तु तण्डुलादि पृथक् पृथक् || ३७ || ओंदनस्योति मन्त्रेण ओदनादिनि विन्यसेत् | मत्स्यलीला समालोक्य मत्स्यानां भोजनं क्षिपेत् || ३८ || एवं प्रतिदिनं कुर्यान्निश्चित्य दिवसान्तकम् | नित्यपूजाविहीनं चेत् प्रायश्चित्तं तथा चरेत् || ३९ || अज्ञात होमतो वापि प्रायश्चित्तविहिनकम् | प्रायश्चित्तविहिनं चेद्राजाराष्ट्रस्य दोषकृत् || ४० || तस्मात्सर्वप्रयत्नेन नित्यपूजां समाचरेत् | लीलावसाने कर्तव्यं विमुखं यानमुच्यते || ४१ || राजा सत्कारमार्गेण पूर्वस्थाने निवेशयेत् | स्नपनं शान्तिहोमं च प्रभूत हविषं ददेत् || ४२ || राजा च राजपत्नि च देशिकेन सहैव तु | मेलां मन्त्र समुच्चार्या पुष्पमूर्ध्नि निदापयेत् || ४३ || प्. २४९) मनसा चिन्त्य यत् कार्यं प्रार्थयित्वापि विचक्षणः | एवमेव प्रकारेण मत्स्यलीला समाचरेत् || ४४ || मत्स्यलीला विधि प्रोक्तं मौक्तिकग्रहणं शृणु || ४४ || इति सूक्ष्मशास्त्रे मत्स्यलीलाविधिं नाम पञ्चचत्वारिंशत्पटलः || मौक्तिकग्रहणं वक्ष्ये श्रूयतां तत्प्रभञ्जना | फल्गुने चैत्रमासे वा कृत्तिकेव परेऽपि च || १ || पूर्वपक्षे प्रशस्तं हि अपरे वा प्रकीर्तिअम् | पूर्वपक्षे गृहीतं चेदष्टमिनवमि तथा || २ || द्वितिया च तृतिया च चतुर्थि पर्वमेव वा | वर्जयेत् तु प्रयत्नेन शेषं संगृह्य बुद्धिमान् || कृष्णपक्षे गृहितं चे चतुर्थिपञ्चमि तथा || ३ || अष्टमि नवमि चैव त्रयोदशि दशमेव वा वर्जयेत् तु प्रयत्नेन अन्याश्च तिथयो भवेत् || ४ || अथवान्य प्रकारेण ऋक्षेण ग्रहणं मतम् | अश्वयुक् रोहिणी चैव पुष्या च मद्य एव च || ५ || आढकादि त्रये चैव हस्तश्रवण एव च | एतदृक्षं गृहित्वा तु अन्यदृक्षं तु कन्यसम् || ६ || शुक्रवारं च मन्दं च आदित्य वर्जयेत् क्रमात् | वज्रे वज्रं च सिद्धिं च परिघः शिवयेव च || ७ || सिद्धसाध्य शुभश्चैव ब्राह्म महेन्द्रमेव च | प्रतिरायुष्ममेवं च सौभाग्यं शोभनं तथा || ८ || प्. २५०) धृतिशूलं च कर्तव्यं गण्डे वृद्धिरिहोच्यते | एताश्च शुभदा प्रोक्ता अन्ययोगानि वर्जयेत् || ९ || मेषाश्च कटकश्चैव सिंहवृश्चिक एव च | कुम्भश्चैव शुभा ज्ञेया अन्यराशिविवर्जयेत् || १० || एवं कालविधानज्ञे तत्काल इदमारभेत् | निश्चित्य दिवसात्पूर्वे प्रातसन्ध्यावसानके || ११ || कृताभिशेकबेराग्रे स्थण्डिलं कल्पयेत् सुधिः | राजा चिह्ननि सर्वाणि तदूर्ध्वे स्थापयेत् क्रमात् || १२ || देवदेवनमस्कृत्वा विज्ञापनमथाचरेत् | मौक्तिकग्रहणार्थाय रत्नं संग्राह्य सन्मतम् || १३ || तस्मात्सर्वप्रयत्नेन तत्तदङ्गजनै सहा | द्ध्वजादिछत्रपर्यन्तं डिण्डिवाद्यसमन्वितम् || १४ || अशनिवाद्यसंयुक्तं क्रोशवाद्यसमन्वितम् | एतत्सर्वगृहित्वा तु यानं पूर्ववदुच्यते || १५ || अब्दितीरे विशेषेण कूटं वापि प्रपां कुरु | तन्मध्ये वेदिकायुक्तं सर्वलक्षणसंयुतम् || १६ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | पताकादि वितानैश्च पूगाद्यैश्चैव शोभयेत् || १७ || एवं मण्डपमावेश्य सिंहासनोपरिस्थितः | नित्यपूजां प्रयत्नेन नित्यवत्पूजनं कुरु || १८ || प्. २५१) तद्दिनस्य दिवे काले समुदेवान् समर्चयेत् | अम्बुरा नमस्त्यं मौक्तिक ग्रहणाय च || १९ || क्षीराण्यव नमस्कृत्यं मौक्तिक ग्रहणाय च | दद्धयाब्धे त नमस्तुभ्यं मौक्तिकग्रहणाय च || २० || क्षारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च | मब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च || २१ || इक्ष्मब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च | सारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च || २२ || क्षारब्धे तु नमस्तुभ्यं मौक्तिकग्रहणाय च | एवमेव प्रकारेण अर्चयेद् देशिकोत्तमः || २३ || उडुपादिसमानीय सर्वालङ्कारशोभितम् | देवं सम्यक्समारोप्य पटमारोपयेद् ध्वजम् || २४ || देवंन्देक्षिणवामे तु मालिनि देशिकस्थितिः | देवाग्रे सर्ववाद्यैश्च लीलागानं च वदयेत् || २५ || राजोपचारवत्सर्वं मौक्तिकस्थानमाविशेत् | सर्ववाद्यैन्त्रमार्गेण मौक्तिकं ग्रहणं मतम् || २६ || स धान्यादि समापूर्य पूर्वस्थान निवेशयेत् | पश्चिमे नि-ऋते वापि ऐशान्ये चोत्तरेऽपि चा || २७ || मुक्ताग्रहणशालायां कल्पयेद् देशिकोत्तमः | तच्छालां रत्नमावेश्य साधाहन्तं मसा विधि || २८ || प्. २५२) सायाह्ने समये काले स्नपनं शान्तिहोमकम् | नित्यपूजा प्रयत्नेन नित्यवत्सम्यगाचरेत् || २९ || एवं प्रतिदिनं कार्यं तद्दिने यजनं कुरु | एवमेव क्रमेणैव पक्षाहान्तसमाचरेत् || ३० || द्रव्यजालसमानिय पुनर्गत्वा गृहं प्रति | आस्थानमण्डपे प्राप्य सूरिवृन्दैश्च सेवितम् || ३१ || स्नपनं शान्तिहोमं च ततो नैमित्तिकार्चनम् | मूलालये प्रकर्तव्यं पूर्ववत् पूजनं नयेत् || ३२ || नित्यकर्मणि हिनं चेद्राजाराष्ट्रस्य नाशनम् | तस्मात् सर्वप्रयत्नेन नित्यपूजा पुरोक्तवत् || ३३ || महाहविं निवेद्याथ तोषयेत् परमेश्वरम् | महेशाग्रे विशेषेण गोमयालेपनं कुरु || ३४ || पिष्टचूर्णैरलङ्कृत्या सर्वत्र ज्वलदीपकैः | देवाग्र विन्यसेद्रत्न तद्रव्यमष्टधा भवेत् || ३५ || एकांशं देशिकस्यैव अशं भूपतिरेव च | आदिथ्यमंशकश्चैव सुरिणामंशकं तथा || ३६ || चक्रे पूजोक्त मर्त्याश्च त्वेकांशं च प्रदापयेत् | षोडशं देवभागं स्याद् देवभागं क्रमेण तु || ३७ || एवमेव क्रमेणैव मौक्तिकग्रहणं नयेत् | सर्वलोकहितं पुण्यं सर्वदेव प्रयार्थकम् || ३८ || प्. २५३) मौक्तिकग्रहणं प्रोक्तं मृगाणां ग्रहणं शृणु | इति सूक्ष्मशास्त्रे मौक्तिकग्रहणं नाम षट्पञ्चत्वारिंशत्पटलः || पूजाचक्रं प्रवक्ष्यामि शृणुत्वं तत्प्रभञ्जना | स्थानाचार्यो फणिकर्मि समयि समायधिपः || १ || देशाधिपः स्वदेशि च सप्तैताश्चक्रनायकः | भङ्गराजपदेस्त्वग्रमण्डपे देशिकस्य च || ३ || फणि त्रित्रिपदस्थो देवस्यैशानमण्डपे | नैर्-ऋते त्विशदेशे वा सौम्ये वा समयाधिपः || ४ || देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे | नै-ऋते त्विशदेशे वा कर्मस्था मणिमण्डपे || ५ || देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे | स्थानाख्य मण्डपद्वारे समियि स्थानमुच्यते || ६ || सोपाने त्विशदेशे वो सौम्ये वा समयाधिपाः | देशाधिपस्तु सुग्रिवो धर्मश्रवणमण्डपे || मद्वध्यं हम्रद्वारपार्श्वे स्वदेशिस्थानमुच्यते || ७ || स्थानमेवं समाख्यातमाचारशृणु सुव्रत | चक्रचिह्नप्रदानां च क्रियानि योगमेव च || ८ || द्रव्यसङ्ग्रहणं चैव तद्रव्याणां प्रपालनम् | द्रव्यं पुष्पकृतं चैव चक्रभागस्य साधनम् || ९ || द्रव्योत्पत्ति प्रवृत्ति च स्थानाचार्यादि सत्कृति | आचारमेवमाख्यातं चक्ररूपं ततः शृणु || १० || प्. २५४) वृषभं फणिनिमुद्रा यन्त्रिका चण्डमुद्रिका | परशुं हेममुद्रा च क्ष्वणिकं फिण्डिफालकम् || ११ || फणि च धर्ममुद्रार्हकं मिच यन्त्रिकार्हकम् | समिचण्डं च मुद्रार्हपरशुं समयाधिपः || १२ || फिण्डिफालार्हको राजा स्वदेशि हेमवेत्रधृक् | आचार्यो धर्ममुद्रादिन् फणिभ्यादि कर ददेत् || १३ || चक्रचिह्नं समाख्यातं सपर्या प्रेरकं शृणु | पूजोपकरणद्रव्यं तत्तद्रव्याधिपात्र्यधा || १४ || मद्ध्यहारे समाहृत्या विज्ञाप्य शिवसन्निधौ | स्वदेशिकृत्यमेवोक्तं समयि चरितं शृणु || १५ || तत्तः द्रव्याधिपा द्रव्यान्यावत् पूजावसानकम् | तत्काले समि वियोग्यं प्रेरयित्वा न संकरम् || १६ || समयि चरितं प्रोक्तं समायाधिपते शृणु | यागोपकरणद्रव्यं तत् तत्कारणभारकान् || १७ || सर्वाण्याहूय पूजान्ते कारणाधिपतिं न्यसेत् | समयिकृत्यमेवोक्तं समयाशाधिपते शृणु || १८ || शिवाज्ञ चक्र संयोगाद्विभ्रष्ट करणाधिपान् | पुनश्चक्रे समायोज्य यथाशक्त्या प्रशंसितान् || १९ || स्वदेशाधिपकृत्यं हि कर्मकोश ग्रहाधिपा | कर्मिकृत्यमिति प्रोक्तं * * * * रितं शृणु || २० || प्. २५५) क्रियापञ्चकसंयुक्ता स्वानुभूतिकसप्तवान् | तत्तत्कर्मवसाने तु त्यजेत् पञ्चाधिकारकान् | स्थानाचार्येण संयुक्तं विज्~आप्य स्वानुभूतिकम् || २१ || पूजासमर्पणस्यान्ते क्रिया चाह्नेनि चाहरेत् | स्थानाचार्य करे दद्यात् तत् तन् मन्त्रसमुच्चरन् || २२ || फणि कृत्यमेवं स्यात् स्थानाचार्य कृतिं शृणु | समयारम्भपूर्वे तु चक्रचिन्नानि पूजयेत् || २३ || दूर्वाक्षतै समभ्यर्च्य चक्राचक्रमनुज्ञपेत् | पञ्चाधिकार नामय चक्रचिन्नानि दापयेत् || २४ || स्थानाचार्यकृतं प्रोक्तं चक्राधिशगणाः शृणु | वाचकश्चार्चकस्सन्ध्या विष्वगं चाप्यलङ्कृत || २५ || साधकश्च षडेतानि स्थानाचार्योनुवर्तिना | भस्मदायि धूपदायि दीपदर्पणधारकः || २६ || पानियधूप संग्राहि चत्रचामरधारकः | तरितन्तुण्डधारि च तालवृन्दं च भाजिनि || २७ || ताम्बूलं दापये स्वस्ति फणिति कृत्यनायकः | नित्यदीपजले क्षाली धाम्नि शोधननायकः || २८ || निर्माल्यशोधनीकाकेशि अब्धिदुग्धस्य पाचकः | अमुशोजलथिक्षालि गन्धलेपे पदंशकम् || २९ || प्. २५६) बभवो विविधास्त्वेते कर्मणः कृत्यनायकः | शोधकि लेपकि पात्रक्षालकि हस्तदीपका || ३० || कन्तुकि कर्मणि शालिकुट्टिनि वंशवादिनि | विनोदि नटिनि वीणापादिनि रागिनि तथा || ३१ || एता चान्याश्च बाह्याश्च समयि कृत्य नायक | कर्मणाश्चरितं प्रोक्तं समयि कृत्य रचते || ३२ || दामिनं दामिनि पुष्पग्राहि मुकुल बन्धनि | समिन्त्रण कुशोद्धारि स्तोत्र द्राविडगायिनि || ३३ || भस्म व्रविमलोद्धारि सैकति जलसेचनि | ज्ञानवैराग्य सन्तोषि समयाधिप कृत्यके || ३४ || ग्रामवासि नमथिति बन्धनि राजनि वनि | शिष्रूषकजनन्वेषि स्वदेशिकृत्य नायका || ३५ || देवचिककालविद्विद्वान्धमिष्ठान्यायपालकान् | कथवाक्य प्रशंशि च स्वदेशाधिप कृत्यके || ३६ || अर्चको वा शुवासिनो जलग्राहि च शोधकि | मृष्टग्रासि च सिश्रूसि स्तोत्र द्राविडगानवित् || ३७ || दामविद्वाद्यकश्चैव प्रेष्यकै लेख कन्धन | प्रोक्तं द्वादशभेदेन शिवाज्ञा चक्र पूर्विका || ३८ || चक्रराजक्रमं प्रोक्तं भोग्याभोगक्रमं शृणु | विभजेत् काम्य निर्माल्यं मष्टां म्यांश यथा समम् || ३९ || प्. २५७) अर्चकस्याष्टभागं हि कलाशं परियष्टिनाम् | रसांशं वाद्यकस्यैव लेख्यकस्य युगाशकम् || ४० || द्राविट्गानस्य षड्भागं द्विभागं दाम भोगके | द्विभागं काष्ठभागस्य वेदांशं प्रेक्ष्यकस्य च || ४१ || शोधकि भागमक्ष्यंशं शुश्रूषस्य द्वियंशकम् | पात्रशोधि द्विफागं च स्थानाचार्यैक भागकम् || ४२ || फणि चभागमेकांशं कर्मिभागं तथैव च | समयि भागमेकांशं समयाधिपतेस्तथा || ४३ || देशाधिपस्य भागैकं देश्यंशं तत्तदेव हि | शेषमातिथ्यभागार्थं कल्पयेदब्धि पाचकि || ४४ || एवमेव क्रमेणैव काम्यभोगं यथा समम् | एवं भागक्रमं प्रोक्तं शृणु निर्माल्य कल्पनम् || ४५ || इति सूक्ष्मशास्त्रे पूजाचक्रविधिर्न्नाम षट्चत्वारिंशत्पटलः || ४७ || शक्त्योत्सवमथो वक्ष्ये श्रूयतां तत्प्रभञ्जना | उत्सवं पञ्चधा ज्ञेयं तद्भेदमिह कथ्यते || १ || नवाहं श्रियदं प्रोक्तं सप्ताहं राजसं भवेत् | पञ्चाहं सात्विकं प्रोक्तं त्रियाहं गौणमुच्यते || २ || एकाहं तामसं प्रोक्तं पञ्चधा परिकीर्तितम् | आद्रमासादि मासान्तमुत्सवं विधिनोच्यते || ३ || प्. २५८) आद्रमासे तु कर्तव्यमाद्रान्तमुत्सवं परम् | अवभृदान्ते व्रतं कुर्यादवरोहणमन्तके || ४ || पुष्यमासे तु कर्तव्या भूताष्टम्यां तथैव च | माघे चाश्लेषकर्तव्यां दर्शद्वयं च संमतम् || ५ || उत्तरन्तं तु वा कुर्याद् फाल्गुने दर्शमेव च | चैत्रमासे तु कर्तव्यं चित्रान्तं च द्वितीयकम् || ६ || वैशाखे सितपक्षे तु विशाखे चोत्तरान्तकम् | ज्येष्ठा चैव प्रकर्तव्यं चतुर्दशमूलसंयुतम् || ७ || उत्तरषाढमाषाढमासत्रयोदशि भवेत् | श्रावणे श्रावणे वापि द्वादशि चा विशेषतः || ८ || भद्रे तन्मास-ऋक्षं स्यादेकादशि च संमतम् | अश्वेत्वश्वसमां युक्तं कार्त्तिके कृत्तिकं मतम् || ९ || प्रतिप्रधानकं द्वे तु सिते वासितपक्षयो | अथवान्य प्रकारेण तत्तद्बेरादिनं मतम् || १० || सामदायिक ऋक्षं वा उत्सवे दशिदिनं तु वा | यजमानवशात् तत्र त्रिदिनं तीर्थमाचरेत् || ११ || एवं निश्चित्य तीर्थं तु अधिवासनमारभेत् | नवाहे चैव सप्ताहे ध्वजारोहणमाचरेत् || १२ || भेरिताटनतीर्थान्तमन्यत् सर्वसमाचरेत् | त्रिचतुर्हस्तमारभ्य द्विगुणान्तं क्रमेण तु || १३ || प्. २५९) तदर्थं वा त्रिपादं वा पटविस्तार उच्यते | पुच्छिद्वयसमायुक्तं वेत्रद्वयसमन्वितम् || १४ || तत्पतं चाष्टाभज्य शिरं विद्व्यंशकं मतम् | पुच्छद्वयंशकप्रोक्तं मंशन्तु पद्मपीठकम् || १५ || द्व्ययांशे वाहनं लिख्य एकांशं छत्रसंयुतम् | पीठपार्श्वे तु कर्तव्यमष्टमङ्गलमं लिखेत् || १६ || वाहनद्वयपार्श्वे तु दीपस्वयसमन्वितम् | छत्रपार्श्वे तु कर्तव्यं चामरद्वयमेव च || १७ || एतत्सर्वसमालिख्य आयादि शुभदमतम् | पञ्चवर्णसमायुक्तं मुक्तस्थाने प्रकल्पयेत् || १८ || तन्मध्ये वृषभं लिख्य सिंहं वापि प्रकल्पयेत् | स्तितं वा शयनं वापि यानं वापि समालिखेत् || १९ || अर्धचित्र कृतचैव आभासं नाम उच्यते | सुषिरं यन्त्रसंयुक्तं यत्र रज्जु सुबन्धयेत् || २० || एवं पटं समापाद्य ध्वजदण्डमिहोच्यते | यथाश्मलो वृक्षे वा ध्वत्सारक्रमुकादया || २१ || नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् | सप्तविंशति हस्तान्तं नवधा हस्तमानकम् || २२ || एवं त्रिविधमाख्यातं त्रिविलान्तं पुरोक्तवत् | एवमाधममाख्यातं मन्यत् सर्वं पुरोक्तवत् || २३ || प्. २६०) ध्वजादि सर्व संपाद्य अधिवासनमारभेत् | अर्धयामवसाने तु विघ्नेशं पूजयेद् बुधः || २४ || देव्याग्रे मण्डपे वापि चतुर्था स्थण्डिलं नयेत् | पश्चिमे तु पटं न्यस्य तत्पूर्वे नवकं न्यसेत् || २५ || तत्पूर्वे चास्त्रमूर्त्ति च तत्पूर्वे होममेव च | नेत्रोन्मीलनं कुर्यान्तु नेत्रमन्त्रेण देशिकः || २६ || वृषशुद्धिः ततः कुर्यात् सकलिकरणं कुरु | प्राणप्रतिष्ठा कर्तव्यं रक्षाबन्धं पुरोक्तवत् || २७ || मन्त्रतर्पणमेवोक्तं दण्डभङ्गिक्रमं न्यसेत् | शक्त्यादि शक्तिपर्यन्तं द्ध्यायेत् तु गुरूत्तमम् || २८ || मध्य कुम्भे वृषे पूज्य लोकपान् परितो यजेत् | पश्चिमास्यो वृषं पूज्य वरुणाद्यष्टदिक्षु च || २९ || स्वस्वमन्त्र्यै समभ्यर्च्य वृषं विद्येश्वरान्यसेत् | एवं कुम्भान्समभ्यर्च्य नैवेद्यधूपदीपकम् || ३० || अस्त्रं संपूज्य विधिवत् ततो हेम समारभेत् | अग्निकार्योक्तमार्गेण अग्निकार्यं समाचरेत् || ३१ || वृषादि परिवारेण तत्तद्विजेने होमयेत् | पूर्णाहुति प्रकर्तव्यं प्रायश्चित्त समाचरेत् || ३२ | वह्नाद्विजसमादाय तत्तत्कुम्भेसु योजयेत् | ध्वजस्तानं पुरा प्रोक्तं तस्धानं लेपयेत् ततः || ३३ || प्. २६१) पिष्टचूर्णेरलङ्कृत्य सर्ववाद्यसमन्वितम् | ग्रामप्रदक्षिणे वापि वाहनं तत्र विन्यसेत् || ३४ || अस्त्रं पश्चिमतो न्यस्य उत्सवेशिं च विन्यसेत् | तत्कुम्भमुत्तरे स्थाप्य ततो विघ्नेशमर्चयेत् || ३५ || संकल्पं च यथापूर्वं बृहस्पति यजेत् ततः | वृषगायत्रिमन्त्रेण ध्वजमारोपयेद्गुरुः || ३६ || एवं वृषञ्चेत् कर्तव्यं सिंहं वापि विशेषतः | सिंहस्य मूलमन्त्रेण अतिवासं तिरोपयेत् || ३७ || श्वेतं स्वर्णं बृहद्दन्तमुग्रवृष्टिनखान्वितम् | वक्त्रावक्त्रसमाकायमूर्धपुच्छं च वक्रकम् || ३८ || पूर्ववल्लक्षणं प्रोक्तं सिंहरूपं प्रकल्पयेत् | हृदयं चशिरःश्चैव शिखा कवचमेव च || पश्चिमादि महाशासु कल्पयेत् तु विचक्षणः || ३९ || एवं क्रमेण संस्थाप्य स्वस्वनामेव पूजयेत् | इतराण्यपि सर्वाणि कारयेद् वृषभोक्तवत् || ४० || एवं क्रमेण कर्तव्यं विधिशोधनमुच्यते | शुनिर्माल्य धारिणि देविमलङ्कृत्या विशेषतः || ४१ || सधान्नसमये काले विधिशोधन नायक | विधिशोधनमेवोक्तं भेरिताटनमुच्यते || ४२ || भेरिसन्ताडनं रात्रौ पूर्वोक्तविधिवन्नयेत् | अहूयाष्टगणां चैव देशिकः शिष्य एव च || ४३ || एवं देवान्समावाह्य पूजयेद् गन्धपुष्पकम् | भेरिं संपूज्य विधिवदेकद्वित्रि च ताडयेत् || ४४ || प्. २६२) पञ्चत्पारशिवश्चैव सर्वतालेन ताडयेत् | आवाहनबलिं दद्याच्छुद्धान्नं वा गुलान्नकम् || ४५ || ब्रह्माद्यैशानपर्यन्तं इन्द्राद्यैशानमेव च | ध्वजो ध्वजादि बल्यन्तं दिनं देवकलिं विना || ४६ || ततोत्सवं समारभ्य मङ्गलाङ्कुरपूर्वकम् | विघ्नराजं च गौरिं च रक्षासूत्रं च बन्धयेत् || ४७ || यागार्थं यागशालां च शुद्धि कृत्वा विचक्षणः | वेदिमध्ये विशेषेण स्थण्डिलादिरलङ्कृतम् || ४८ || कुम्भं वा करकं वापि मध्यकुम्भे मनोन्मनि | वामादि शक्तयश्चाष्टौ पूर्वादि स्थापयेद् गुरुः || ४९ || निष्कमर्धं तदर्धं वा पञ्चाशांशं च निक्षिपेत् | उत्तमादिषु वस्त्राढ्यं शेषं पूर्ववदुच्यते || ५० || तत्तद्ध्यानमनुस्मृत्य तत्तत्कुम्भेषु पूजयेत् | नवाग्नि वाथ पञ्चाग्निं मेकाग्निमथवा चरेत् || ५१ || वामादि शक्तयश्चापि पञ्चमूर्तिं मनोन्मनिम् | एवं संकल्प्य विधिवत् स्वस्वमन्त्रेश्च पूजयेत् || ५२ || कुण्डसंस्कारमारभ्य पूर्णान्तं पूर्ववद्भवेत् | नित्याग्नि होमकार्यं तु नित्यं वा होममाचरेत् || ५३ || भेरिं संताड्य विधिवद्बलिदानमुपक्रमात् | द्वारादि बलिपीठान्तं गुलान्न वा बलि ददेत् | दिन देवादि तत्सर्वं शिववत् कारयेत् क्रमात् || ५४ || प्. २६३) बलिदानवासाने तु यानं सम्यक् समाचरेत् | वीथि सम्मार्जनं पूर्वं प्रोक्षणं च द्वितीयकम् || ५५ || पताकाद्यैस्त्रितीयं तु यन्त्राद्यैश्च चतुर्थकम् | उत्सवेशिमलङ्कृत्य वाद्यघोषसमन्वितम् || ५६ || शनैः प्रदक्षिणं कृत्वा नानालीलासमन्वितम् | सर्वत्र ज्वलदीपाश्च नानाजाति समाकुलम् || ५७ || या नान्ते परिवेषाश्च अरिबृन्दैश्च सेवितम् | यत्रार्थ * * * * * * * * * * * * * || ५८ || उत्तुङ्गलक्षणाद्यादि पूर्ववत्परिकीर्तितम् | तत् तदन्तरमानं तु एकाङ्गुलवशात् स्मृतम् || ५९ || भद्रपीठ विधि प्रोक्तं परिचारविधौ पुरा | एतत् सर्वं समापाद्य प्रतिष्ठाविधिमाचरेत् || ६० || द्वारे पीठे प्रतिष्ठा च प्रथमे च द्वितीयके | भद्रपीठप्रतिष्ठा च समतन्त्रेण कारयेत् || ६१ || पृथक् तन्त्रेण वा कुर्याच्चतुरङ्गं विधानतः | एकाचार्येण कर्तव्यं नेकस्मिन्नेककालके || ६२ || अङ्कुरं वास्तुयागादि समतन्त्रैकमाचरेत् | प्रासादपूर्वदिग्भगे मण्डपं विधिना चरेत् || ६३ || तन्मध्ये वेदिकां कृत्वा हस्तमात्रप्रमाणतः | रुद्रवेदिति संप्रोक्ता तत्ताराग्रेकतुङ्गकम् || ६४ || प्. २६४) तत्पूर्वादि चतुर्दिक्षु विधि वेदिं प्रकल्पयेत् | अनेन वासकं कुर्यात् तद्विधान प्रकारक || ६५ || एवमेव प्रकारेण मण्डपं सम्यगाचरेत् | नवाहे वाथ पञ्चाहे त्रियाहेऽङ्कुरमाचरेत् || ६६ || जीर्णपीठं त्यजित्वा या कृत्वा संस्थापयेन्नवम् | तर्जन्यं तु त्रिधा प्रोक्तं स्फटिकं छिन्नभिन्नकम् || ६७ || भद्रपीठं विशेषेण महाङ्गोपाङ्गसंयुतम् | उपान जगतिच्छादकुमुदं कर्णपट्टिकम् || ६८ || पद्मं च कणिका चाथ महाङ्गमिति कीर्तितम् | दलोपदलनास्यादि उपाङ्गमिति कीर्तितम् || ६९ || वर्जयेत् तु महाङ्गेषु स्फुटितेच्छिन्नभञ्जना | क्षुद्रपीठादि सर्वेषु विभिनेताश्च वर्जयेत् || ७० || सस्योद्धारक्रमं वक्ष्ये पीठं दक्षिणमण्डले | सङ्कल्प्यासनमावाह्य पूजामन्त्रं समाचरेत् || ७१ || तत्सर्वे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः | तन्मध्ये पद्ममालिख्य साष्टपत्र सकर्णिकम् || ७२ || द्रोणामम्बुरितघटान्तन्मध्ये विन्यसेद् बुधः | आवाह्य पीठद् देवांश्च कुम्भमध्ये तु विन्यसेत् || ७३ || निवेद्यादीन्समाप्यध चाधिकाख्य च मार्गतः | आधानादि विवाहान्तं कृत्वा मधुघृतैरपि || ७४ || प्. २६५) दूर्वाभिस्तण्डुलैस्तत् तद्देवतामन्त्रमुच्चरन् | शतमर्धं तदर्धं वा होमयेत् तु पृथक् पृथक् || ७५ || क्षुरिका बीजमुख्येन पूर्णाहुतिमथाचरेत् | जयादिरभ्याधानाञ्च क्रमाद्राष्ट्राहुतिं हुनेत् || ७६ || अग्निस्थं मण्डलस्थं च कुम्भमध्येवमावहेत् | भूतले निखिनेतांश्च समुद्रेष्वधवा नयेत् || ७७ || जीर्णपीठादि संभूतं मस्तिचेदिदमाचरेत् | पीठशुद्धिं ततः कृत्वा पञ्चमृद्गव्यबिल्वकैः || ७८ || भद्रपीठे विशेषोऽस्ति तदग्रस्तितदर्पणे | धाराभिषेचनं कुर्याच्छुद्धैरुद्धेति मन्त्रतः || ७९ || वास्तुहोमं बलिं चाथ मण्डपा पुरा चरेत् | रक्षाबन्धं ततः कृत्वा भद्रपीठोध्वकर्णिके || ८० || अन्येषामेव पीठानां कृतं वा तद्विनाचरेत् | वेद्यासु स्थण्डिलं कुर्यादष्टद्रोणेन शालिना || ८१ || तदर्द्धैस्तण्डुलैर्युक्तं तदद्धैन्तिलसंयुतैः | लाजैः पुष्पैस्तिलैः ष्टर्भै विकिर्णै समलङ्कृतम् || ८२ || तत्पूर्वे वेदिकुम्भेषु दक्षिणोत्तरमध्यतः | नन्दिनं च महाकालं वृषभं पूजयेत् क्रमात् || ८३ || ततो दक्षिणसंभूते वेदिकुम्भेषु सर्वतः | दुर्गामात्रंश्च विघ्नेशं वरस्कन्दौ च माधवम् || ८४ || प्. २६६) शण्डेशमाग्न्यादि शान्तंमग्रे भूतेशमध्ये च | प्रदिचि वेदिकुम्भेषु सिंहं च भुजगेश्वरम् || ८५ || धर्ममेववमावे च वाममध्येष्वनुक्रमात् | उदिचि वेदिकुम्भेषु इन्द्रावैश्वानरं यमम् || ८६ || नि-ऋतिं पाशिवाद्ध्विंन्दु वटुकाख्यं महेश्वरम् | विष्णुपीतामहञ्चापि पूर्वादारभ्य पूजयेत् || ८७ || तन्मध्ये वेदिकुम्भेषु आमोदं च प्रमोदकम् | सुमुखं दुर्मुख्ं चाथ अविघ्नं विघ्ननायकम् || ८८ || पूर्वदक्षिणपाशीन्दु रुद्रदिक्कर्णिकोध्वतः | आसनो मूलत्तिमूलाद्यै संयुतं तान्समर्चयेत् || ८९ || तत् तद् वेद्युत्तरे देशे क्षुद्रपीठादि वासनम् | भद्रपीठो विशेषोऽस्तितस्थाने चाधिवासयेत् || ९० || वेदपारायणं कुर्यात् कुम्भस्थानपूर्वकम् | अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् || ९१ || समिधाज्य चरूलाजान् सर्षपं च यवंतिलम् | तं तन्मूल षडङ्गैश्च पावमानैस्त्रियम्बकैः || ९२ || स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् तत् तन्मूलमनुस्मरन् | एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् || ९३ || तोरणादि घटान् सर्वानर्चयेद् गन्धपुष्पकैः | क्षुद्रपीठप्रतिष्ठाया स्थानं वक्ष्यामि तच्छृणु || ९४ || प्. २६७) प्रासादमध्यमाशृत्य चान्तर्मण्डलमध्यतः | दुर्गादि चण्डपीठान्तम् अन्यदिशान्तमर्चयेत् || ९५ || अग्रे वृषस्थलं यत्र तत्र तत्पीठदेशकम् | तत्पृष्ठे भूतनाथस्य पीठदण्डप्रमाणतः || ९६ || द्वारं प्रति विशेषेण द्वारेशं पीठदेशकम् | अन्तर्मण्डलमास्यद्धमेशस्य वृषाग्रतः || ९७ || इन्द्रपीठेषु खायामे पद्रपीठाग्रमानतः | तस्थानसीमा संबन्धमर्न्तर्मण्डलमानतः || ९८ || अग्न्यादि स्थापयेत् सप्तदिक्षु सोमेशमध्यतः | नैर्-ऋते दण्डमानेन विष्णुपीठं प्रतिष्ठयेत् || ९९ || ऐशान्यां हस्तमानेन ब्रह्मपीठप्रतिष्ठयेत् | द्वितीर्यवरणे पीठे स्त्वेवमेव प्रकल्पयेत् || १०० || भद्रपीठप्रतिष्ठा तु प्रोक्त प्राकारलक्षणे | आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलियकैः || १०१ || अध्यात्म परिवाराश्च यथा वित्तानुसारतः | पर्यष्टिनोत्तरियाद्यैरुष्णिषैमण्डितेन च || १०२ || पूर्वे तु स्थापित घटान् सर्वतोद्यसमन्वितम् | शिरसा वाहयित्वा तु कृत्वा धामप्रदक्षिणम् || १०३ || तत् तन् मूले समुच्चार्य तत्तत्पीठेऽभिषच्य च | भद्रपीठे विशेषोऽस्ति मन्त्रन्याससमुद्धरेत् || १०४ || प्. २६८) अथातः संप्रवक्ष्यामि गौरिणामर्चनं तथा | गौरि चैव मनोन्मन्या भवानि त्रिविधं भवेत् || १०५ || श्याम द्विनेत्रां द्विभूजां त्रिभङ्गि सव्यापसव्यस्थिति कुञ्चिताङ्घ्रि | सव्योत्पला सत्कटकास्तनो च हस्तावलम्बा परमेश्वरिं स्यात् || १०६ || शम्भुशक्ति समभङ्गमुच्यते द्विनेत्र प्रकृतिं च सुस्थितम् | लम्बमेककर दक्षिणेत्पलं या भमनुसारवक्त्रकम् || १०७ || कल्याणदायि भवतोस्तु पिनाकपाणि पाणिग्रहे भुजकङ्कण भाषिताङ्गम् | सभान्तदृष्टिसहसैव * * नयत्यद्धोक्त सुमुखमम्बिकायाम् || १०८ || द्विनेत्र द्विभुजाः श्यामा गौरि दक्षकरोत्पल | करण्डमकुटोपेता सर्वलक्षणसंयुता || १०९ || गौरिलक्षणमेवोक्तं मनोन्मन्या स्वरूपकम् | श्यामभव वेदकरवन्निनयनं स्यात् पद्मवराभय जपाक्षवलयोक्तकम् | पीतवरसाञ्चित जटामकुटयुक्तं रक्तकमलासनमनोन्मनिस्वरूपम् || ११० || इन्दुनिभवेदकरवह्निनयनं स्यात् पङ्कजपताकवरदोत्पलचतुष्कम् | अङ्गहिमभूषणविचित्रवदनं स्यात् तुङ्गकुटोज्वलमनोन्मनि स्वरूपम् || १११ || प्. २६९) अभयवरदहस्तं चाक्षमालाब्जकं स्या अपरकर्णि तु देव्यमाम क्रमेण | जटधरशशिसर्पं चाकधूर्धूरचूडा सकल * * पि कृतं स्यात् श्यामवर्णञ्च गौरिम् || ११२ || पद्माक्षमालाभय दूरुहस्तां श्यामाङ्गनेत्रत्रयसुन्दराड्यम् | किरिटवक्त्रेन्दुजटावचूडां श्रिकामकोटिं शिवशक्ति रूपाम् || ११३ || शङ्खनिभमङ्गमरुणं वृषमधास्यात् पङ्कजप्रसार्यकरतुङ्गभुजगहस्तम् | अघ्रितलकृष्णवति नेत्रमतिधूम्रं * * * * नि पररूपधररूपम् || ११४ || वेदस्य वामभागेव सव्यभासव्य भागके | प्रकाराभ्यन्तरे वापि ऐशान्ये वा विशिष्यते || ११५ || स्वतन्त्रालय संकल्प्य वायुसोमे च ईशके | अथवान्यप्रकारेण दक्षनै-ऋतपावके || ११६ || प्रासादे चैव कर्तव्यं शक्ति संस्थापयेत् सुधिः | स्वतन्त्राल संकल्प्य नचित्तेस्तु प्रतिष्ठयेत् || ११७ || पूर्वस्याभिमुखे गौरि शान्तिकं तु समर्चयेत् | दक्षिणाभिमुखं कृत्वा सर्वसंपत्करं तथा || ११८ || पश्चिमाभिमुखं देवि धनधान्यसमृद्धिदम् | उत्तराभिमुखं देवि सौख्यकं च ततः परम् || ११९ || वृत्तपीठस्थितं गौरिभद्रपीठ स्थितं तु वा | प्. २७०) शयनं पद्मपीठं स्यात्पीठशक्तिरिहोच्यते | यद्वक्त्रं द्वारं संकल्प्य प्राकारादिनि कल्पयेत् || १२० || योगं भोगं च वीरं च शक्तिरेवा त्रिधा भवेत् | योगे लिङ्ग समायुक्तं भोगं वामे समन्वितम् || १२१ || वीरं स्वतन्त्रमित्युक्तं शक्तिरेवं त्रिधा भवेत् | उत्तरे तु यजेद् गौरीं वायुदेशे मनोन्मनी || १२२ || भवानिमीशदिग्भागे स्थापयेत् तु विधानतः | गौरि दक्षिणदिग्भागे पावके तु मनोन्मनी || १२३ || भवानि नै-ऋते देशे अथवा कल्पयेद् बुधः | स्थानं संयुक्तदस्थाने शक्तिनां जीर्णनष्टके || १२४ || आलयं तु विसृज्याथ लक्षणोक्त निकेतनम् | भक्तांश्च परिवारांश्च कर्तभक्त्यानुकूलके || १२५ || जनानुग्रहसंयुक्तं तच्छिघ्रं सुकृतं तु वा | न्युनाधिक्यं न कर्तव्यं पूर्ववत् परिकल्पयेत् || १२६ || पुनस्थापन शक्त्यानां ग्रामशान्तिकरं शुभम् | स्वतन्त्रालसंकल्प्य स्थापयेत् पूजयेत् ततः || १२७ || शक्तिनां कल्पयेद् धीमान् भूमदेविं तदग्रतः | द्विभुजां च द्विनेत्रां च पीतवस्त्रां सुयौवनाम् || १२८ || एकवक्त्रसमायुक्तां कृताञ्जलिपुटान्विताम् | करण्डमकुटोपेतां भूमदेविं सलक्षणाम् || १२९ || प्. २७१) द्वाराग्रं तु तथा पूज्य द्वारपूजां विधिर्यते | द्वारदक्षिणपार्श्वे तु गङ्गायमर्चयेत् ततः || १३० || योगिनीं तस्य वामे तु अर्चयित्वा विधीयते | द्वारस्य वामपार्श्वे तु यमुनामर्चयेत् तथा || १३१ || डाकिनिं सव्यतः पूज्य अर्चयित्व क्रमेण तु | ऊर्ध्वे पतङ्गमध्ये तु महालक्ष्मी प्रपूजयेत् || १३२ || तस्य दक्षिण पार्श्वे तु नर्मदामर्चयेत् तथा | वामपार्श्वे सरस्वत्यां पतङ्गोपरिपूजयेत् || १३३ || पतङ्गं च भुवङ्गं च ऊर्ध्वतः परिपूजयेत् | विमलं च सुबाहुं च पूजयेत् तु कवाटयोः || १३४ || तस्याग्रे वृषभं पूज्य अस्त्रदेवं समर्चयेत् | द्वारपूजा विधिप्रोक्ता गौर्यार्चनं विशेषतः || १३५ || गर्भगृहं प्रविश्याथ गौरिं चैव समर्चयेत् | निर्माल्यं च विसृज्याथ चण्डेश्वर समर्चयेत् || १३६ || देशिकशक्तिरूपत्व देशिकान्मशिवस्य तु | शिवशक्तिस्वरूपत्वाच्छिवशक्तिं प्रपूजयेत् || १३७ || शैवेष प्रथिविजाता पार्वति परमेश्वरः | * * * * प संबन्धं तसच्छेलजलोहजम् || १३८ || निष्कलं शैलजाकत्तुं सकलं भार्यरूपकम् | भावरूपं तु संबन्धं लोहजानि शिलान्वितम् || १३९ || प्. २७२) गौरिस्नानं च कृत्वा तु सवगन्धोक्तमाचरेत् | साङ्गोपाङ्गं च प्रत्यङ्गं पूजयेत् त्रिविधं स्मृतम् || १४० || स्नानतोयं च पाद्यं च तथा च मिनीयकम् | वस्त्रमाभरणं चैव सुगन्धालेपनं तथा || १४१ || अर्घ्यं च मन्त्रपुष्पं च साङ्गं च त्रिप्रकीर्तिता | उपाङ्गं धूपदीपं स्यात् सायं रक्षा तु भस्मना || १४२ || छत्र चामरकं चैव दर्पणदर्शनं तथा | नृत्तगेयसमायुक्तं उपाङ्गं चेति कीर्तितम् || १४३ || नैवेद्यं बलिदानं च होमं कृत्वा समाचरेत् | नित्योत्सव चुलुकोदं च प्रत्यङ्गं चेति कीर्तितम् || १४४ || वामायां पूर्वदिग्भागे ज्येष्ठायां पावके यजेत् | रौद्रिणवन् दक्षिणे देशे कलिन्या नै-ऋते तथा || १४५ || कलवकरणि प्रतिच्यां बलविकरणिति वामके | बलप्रमथनि सौम्ये सर्वभूतदमनिशके || १४६ || मनोन्ममध्यमे पूज्य ओकारादि नमोन्तकम् | तत् तत्स्वनाममन्त्रेण तत् तत्स्थानेषु पूजयेत् || १४७ || प्रथमावरणं प्रोक्तं द्वितिर्यवरणं शृणु | ब्राह्मी पूर्वे तु संपूज्य महेशिमग्निगोचरे || १४८ || कौमारि दक्षिणेभ्यर्च्य राक्षसि वैष्णवि तथा | वाराहि पश्चिमे पूज्य इन्द्राणि वायुगोचरे || १४९ || प्. २७३) चामुण्डि चोत्तरे पूज्य दुर्गायामीशगोचरे | वीरभद्रं च विघ्नेशं ऐशान्यां नैर्-ऋते यजेत् || १५० || द्वितीयावरणे प्रोक्तं तृतिर्यवरणं शृणु | वृषभं पूर्वतः पूज्य गणेशं चाग्निगोचरे || १५१ || स्कन्दं च दक्षिणे पूज्य महाशस्तं च नै-ऋते | शनैश्वरं पश्चिमे तु वायव्यां वीरमेव च || १५२ || क्षेत्रपालं तु सौम्ये तु ऐशान्या भास्करं यजेत् | तृतिर्यवरणे प्रोक्तं चतुर्थावरणं शृणु || १५३ || जम्भिनि पूर्वदिग्भागे स्थम्भिनिमग्निगोचरे | शान्तिमोह राक्षाण्ये भेदिनि नै-ऋते तथा || १५४ || रमणिं वारुणे पार्श्वे भद्रकामिनि वायुके | दुर्गायां सौम्यदिग्भागे चण्डिशिमिश गोचरे || १५५ || बलिपीठे तथाग्रे तु सर्वशक्तिमयि तथा | बलिपीठे तु पूर्वायामाकाशमातरि तथा || १५६ || भूतमातर दक्षिण्यो लोकमातरि पश्चिमे | देवमातरि सौम्येयां मतुमातमूर्ध्यतः || १५७ || सर्वशक्तिमयं पीठं बलदेव्यः प्रकीर्तिता | वृषादिबलिपीठान्तं कुङ्कुटाण्ड प्रमाणतः || १५८ || प्रातर्मध्यान्नसमयेषु बलितन्त्र विनिक्षिपेत् | सर्वभूतविहीने तु बलिनां तत्र त्रप्तये || १५९ || प्. २७४) बलिहिनं समभ्यर्च्य पूजायां निष्फलं भवेत् | तत्स्मात् सर्वप्रयत्नेन बलिदानं समाचरेत् || १६० || आयुश्रीयङ्गलब्धामामैश्वर्यारोग्यवर्धनम् || १६० || इति सूक्ष्मशास्त्रे गौरिनित्यार्चनविधिं नाम अष्टचत्वारिंशत्पटलः || ४८ || अथातः संप्रवक्ष्य * प्रोक्षणविधिरुत्तमम् | द्वितियं प्रोक्षणं प्रोक्तं भद्रयोगं तथैव च || १ || प्रासादकरणे चैव पीठबन्धविधौ तथा | बालस्थानं तथा कृत्वा प्रोक्षणं भद्रमुच्यते || २ || पतिते दृष्टि ते लिङ्गे चण्ड लः शिल्पिभिस्तथा | श्वानादि कुकुटे चैव वानरैः प्रविशेद्यदि || ३ || पूजाहीने तथा मासे प्रोक्षणं योगमुच्यते | प्रासदस्याग्रतः कुर्या ण्डपं चतुरश्रकम् || ४ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | वितानैदर्भमालाभिमुक्तादामरलङ्कृतम् || ५ || अष्टमङ्गलसंयुक्तं मङ्गलाङ्कुरशोभितम् | कृत्वा नवपदं मध्ये पदमेकं तु वेदिका || ६ || अरत्रिमात्रमुत्सेधं मुष्टिमात्रं तथापि वा | कुर्यात् कुण्डानि परितः दिशासु विदिशासु च || ७ || प्. २७५) दशासु चतुरश्राणि वृत्तानि विदिशासु वै | इन्द्र इशानयोर्मध्ये प्रधानं तत्र कल्पयेत् || ८ || पुण्याहं वाचयित्वा तु पर्यग्नि करणं तथा | चन्दनागरुकर्पूरा कुष्ठे चक्रकेसरैः || ९ || लिङ्गमालिप्य वस्त्रेण पीठाद्याश्चाद्य योत्तमम् | पञ्चगव्येन संप्रोक्ष्य पावमानमुदिरयन् || १० || लिङ्गं दर्भार्भिरावेष्ट्य हृदयेन विचक्षणः | हैम कौतुकसूत्रं तु बन्धयेच्छिरसा शिवम् || ११ || बालस्थानं ततो गत्वा पूजयित्वा विशेषतः | यात्राहोमं प्रकर्तव्यं बालस्थानस्य चाग्रतः || १२ || तस्थण्डिलं तत्र कर्तव्यं निर्दोषैः सिकतै शुभैः | अग्न्यादानादिकं कृत्वा शिवाग्निं कल्पयेत् ततः || १३ || अथ ब्रह्म षडङ्गैश्च प्रत्येकं तु शताहुति | स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् सार्धसार्धमथापि वा || १४ || ईशानेन चरू हुत्वा स्पृष्ट्वा लिङ्गं समस्तकम् | तस्याग्रे शिवकुम्भन्तु संस्थाप्य स्थण्डिलोपरि || १५ || पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रसंयुतम् | ध्यात्वा सदाशिवं तस्मिन् सद्येनावाहयेत् ततः || १६ || बीजमुद्रां ततो बध्वा मुकुल पद्ममुद्रिकाम् | गणाम्बिक्ये तु मन्त्रेण स्नापयेत् पूजयेत् ततः || १७ || प्. २७६) पञ्चगव्येनसंप्रोक्ष्य वेदिकां हृदयेन तु | तस्योत्तरे न्यसेन् मन्त्रिवर्धनी सहिरण्यकाम् || १८ || परितः कलशानाष्टौ न्यसेद् विद्वेश्वरं नले | निशास्वध्यायनं कृत्वा द्विधिवद्वैदपालगैः || १९ || पटेण महतवेष्य ततो होमसमारभेत् | समिधाज्यचरूर्लाजान्सर्षपाश्च यवां तिलान् || २० || होमद्रव्याणि सप्तैते कल्प्यं ते विधिपूर्वकम् | पालाशोदुम्बरश्च ध्वप्लक्षश्चेव दिशासु वा || २१ || शमिखादिरविल्वाद्विदुक्षु क्रमशस्तथा | सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा || २२ || शतमष्टोत्तरं चैव प्रत्येकं जुहुयात् क्रमात् | घृतमीशानमन्त्रेण पुरुषेण चरुस्तथा || २३ || लाजं च घोरमन्त्रेण सद्येन सर्षपं तथा | तिलान्पाशुपतास्त्रेण कवचेन यवांस्तथा || २४ || द्रव्यान्ते व्याहृदि हुत्वा स्पृशेल्लिङ्गं स्वमन्त्रतः | प्रतिद्रव्यं स्वमन्त्रेण सूचा पूर्णाहुतिर्भवेत् || २५ || प्रभाते पूजनं कृत्वा सूत्रबन्धान् व्यपोह्य च | सद्यादि पञ्चगव्येन पञ्चगव्याभिषेचनं || २६ || कृत्वा शुद्धिमद्याद्भिस्तु लिङ्गपीठस्थलं क्रमात् | हैमपुष्पं च संयुक्तं पुष्पं शिरसि धारयेत् || २७ || प्. २७७) आचार्य पूजयेत् पूर्वं वस्त्रहेमाङ्गुलियकैः | कटकं कुण्डलं चैव यज्ञसूत्रं तु हैमकम् || २८ || यदा शक्त्या तु दातव्यं ग्रामभूमि धनिस्सहा | सुमुहूर्ते ततो ध्यात्वा देवदेवं त्रियम्बकम् || २९ || आत्मानमर्चगन्धाद्यै सकलिकृत विग्रहः | लिङ्गं च मूर्ध्नि संयुक्ते कलांम्श्चागानि विन्यसेत् || ३० || शिवकुम्भं ततो नित्वा विधानं तु व्यपोह्य च | तदभि स्नपयेत् लिङ्गप्रासादं तु मनुस्मरेत् || ३१ || सदाशिव त ध्यात्वा सागं ब्रह्माणि कल्पयेत् | शिवकुम्भजले देवं वर्धन्यां पिण्डिकामपि || ३२ || स्वस्वैन्मन्त्रेश्च कलशानभिषिच्य यथाविधिः | गन्धाद्यैरर्चयेद् देवं पञ्चावरणपूर्वकम् || ३३ || नैवेद्यं बलिदानं च नृत्तगेयसमाकुलम् | संतोषयेत् च्छिवं साक्षाद् भद्रमेवं प्रकीर्तितम् || ३४ || सन्तोषयेत् च्छिवं साक्षाद्भद्रमेवं प्रकीर्तितम् || ३४ || इति सूक्ष्मशास्त्रे संप्रोक्षणविधिं नाम एकोन पञ्चाशत्पटलः || ४९ || वक्ष्ये नित्यार्चनहिने प्रायश्चित्तविधिक्रमम् | प्रायोविनाशमित्युक्तं चित्तं सन्धानमुच्यते || १ || विरशस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् | आदौ तु निश्चयद्रव्यं हि न वा दोषकारकम् || २ || प्. २७८) तद् दोषशमनार्थाय प्रायश्चित्तं तु कारयेत् | अकल्पितं तु यद् द्रव्यं हीने दोषं न विद्यते || ३ || मार्जनप्रोक्षणाहिने नारं कर्मकरस्तथा | सौरपूजाविहीने च पुण्यहं गव्यहीनके || ४ || लम्बोदरार्चने हीने रन्ध्रार्चन विहीनके | पाद्यमाचमानार्घ्यं हि हीने स्नानविहीनके || ५ || वस्त्रमाभरणहीनं गन्धपुष्पविहीनके | नैवेद्यं चोपदंशं च हीने पानिय हीनके || मुखवासं च हीनक्वे न च भूतबल्युत्सवेऽपि च || ६ || धूपदीपविहीने च आरात्रिकविहीनके | भस्मताम्बूलहीने च दर्पणश्चत्रहीनके || ७ || चामरं खड्गहीने च वेदस्तोत्र विहीनके | पुराणश्रवणे हीने पञ्चाङ्गश्रवणेऽपि च || ८ || नृत्तगानं च वाद्यं च चण्डार्चनविहीनके | एवमादिसमुत्पन्ने निष्कृतिं च वदाम्यहम् || ९ || मार्जनं प्रोक्षणाहीने गोगौरान्विनाशनम् | मार्जनप्रोक्षणं कुर्याद् गव्येन प्रोक्ष्य भूतले || १० || कालाति क्रमणार्थाय शान्तिकुम्भाभिषेचयेत् | तद्दोषशमनार्थाय व्योमव्यापि शतं जपेत् || ११ || * ने कर्मकालस्थानं दुर्भिक्षं जायते भुवि | सयेव स्पृशितद्रव्यं वर्जयेत् तत्प्रयत्नतः || १२ || अथवा लिङ्गबिम्बस्य स्पर्शतं चेद् विशेषतः | मृद्भाण्डानि विसृज्याथ स्नपनैरभिषेचयेत् || १३ || प्. २७९) सौरपूजाविहीने च भूपते रोगसंभवम् | शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् || १४ || जप्त्वा दिनकरं मन्त्रं सहस्रं वा तदर्धकम् | नित्यपुण्याहहीने च तद्राष्ट्रौ नश्यते श्रियम् || १५ || तद् दोषशमनार्थाय पञ्चगव्याभिषेचयेत् | पञ्चगव्य विहीने च महामारि प्रवर्तते || १६ || घृतेन स्नपयेच्छम्भो ब्रह्ममन्त्रं शतं जपेत् | विघ्नेश्वरार्चने हीने जीवावारण नाशनम् || १७ || स्नपनं शान्तिहोमं च कारयेत् तु गणेश्वरम् | भक्ष्यापुपादिकं दत्वा विघ्नमन्त्रशतं जपेत् || १८ || रन्ध्रार्चन विहीने च दुर्भिक्षं जायते भुवि | शान्तिकुम्भस्थितो येन देवेशामभिषेचयेत् || १९ || द्वारस्था देवतानां च तत्तन्मन्त्रशतं जपेत् | पाद्यद्रव्यसदा चैव हीने राष्ट्रस्य नाशनम् || २० || तद्रव्यं द्विगुणदद्यात् अन्यसन्ध्यासु दापयेत् | मूर्तिकुम्भस्थितो येन स्नापयेत् परमेश्वरम् || २१ || आचम्यार्घ्य विहीने चा पादद्रव्यं विधानयेत् | स्नानद्रव्यविहीने च तद्राष्ट्रं जलवर्जितम् || २२ || तद्रव्यं द्वित्रिगुणं दद्यात् पञ्चाशत् कलशोदकैः | स्नापयेत् परमेशानं व्योमव्यापि समुच्चरन् || २३ || प्. २८०) वस्त्रदानविहीने च महाव्याधि समुद्भवः | त्वक्काषायोदकेनैव स्नपयेत् परमेश्वरम् || २४ || वस्त्रयुग्मं ददेच्छम्भोः युवं वस्त्रेति मन्त्रतः | अष्टोत्तरशतं जप्त्वा अन्यसन्ध्यासु दापयेत् || २५ || भूषणं चोपवितं च हीने दारिद्रसंभवम् | शान्तिकुम्भोदके स्नाप्य अघोरेण शतं जपेत् || २६ || गन्धद्रव्यविहीने च तद्राष्ट्रं भयमावहेत् | अस्त्रोदकेन संस्नाप्य तद्रव्यं द्विगुणं भवेत् || २७ || पुष्पपत्रविहीने च अनावृष्टिर्भविष्यति | दिशाकुम्भोदके स्नाप्य सद्यमन्त्रशतं जपेत् || २८ || नैवेद्यं चोपदंशं च हीने दुर्भिक्षसंभवम् | तद् दोषशमनार्थाय स्नापयेद्वल्कलोदकैः || २९ || अङ्गमन्त्रशतं जप्त्वा तद्रव्यं द्विगुणं ददेत् | पानियमुखवासं च हीने तु जलवर्जितम् || ३० || स्नापयेत् परमेशानं पञ्चाशत् कलशोदकै | तद्रव्यद्विगुणं दद्यान्मूलमन्त्रशतं जपेत् || ३१ || नित्यहोमविहीने च भूपतेस्तु विनाशनम् | शान्तिहोमं ततः कृत्वा षोडशस्नपनं कुरु || ३२ || पश्चान्नित्याग्निकं कुर्यात् अघोरेण शतं हुनेत् | प्रकारबलिहीने च तद्राष्ट्रं बलवर्जितम् || ३३ || प्. २८१) शान्तिहोमं ततः कृत्वा स्नापयेन् माजनोदकैः | दशबीजशतं जप्त्वा पश्चाद् बलिसमाचरेत् || ३४ || नित्योत्सवविहीने च परचक्रभयं भवेत् | शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् || ३५ || त्रयम्बकमनुजप्त्वा पश्चान्मत्रशतं जपेत् | नित्योत्सवं ततः कृत्वा पुनः किञ्चिद् वदाम्यहम् || ३६ || श्वानकाकादि संस्पृष्ट्वा प्रतिलोमादिभिस्तथा | * * देशे तु संस्थाप्य पूर्ववत् शान्तिमाचरेत् || ३७ || तत्स्थानादि बलिं दत्वा अस्त्रमन्त्रशतं जपेत् | बलिदीपविहीने च यत्र देशे तु संस्थितम् || ३८ || पुनर्द्दीपसमारोप्य बलिशेषं समापयेत् | भस्मताम्बूलहीने च माहामारि प्रवर्तते || ३९ || शान्तिहोमं ततः कृत्वा स्नापयेदाद्यतोयकैः | आरात्रिकविहीने च नृत्तघ्नश्छदनेऽपि च || ४० || शान्तिकुम्भोदकैस्नाप्य बलिशेषं समापयेत् | शान्तिकुम्भोदकैस्नाप्य बहुरूपशतं जपेत् || ४१ || भस्मताम्बूलहीने च राजादुर्जयमाप्नुयात् | अस्त्रमन्त्रशतं जप्त्वा परिमार्जनतोयकैः || ४२ || स्नापयेत् परमेशानं तद्रव्य द्विगुणं ददेत् | दर्पणश्छत्र हीने च चामरं खड्गहीनके || ४३ || प्. २८२) परचक्राद् पयं भूमौ राजा दुर्जयमाप्नुयात् | शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् || ४४ || जप्त्वा तु क्षुरिकामन्त्रं सहस्रं वा तदर्धकम् | ऋगाध्यध्यायनं हीने भक्तादि स्तोत्रहीनके || ४५ || शान्तिकुम्भोदकेस्नाप्य बीजमुख्यं शतं जपेत् | वेदागश्रवणे हीने पुराण श्रवणे तथा || ४६ || जायानां नाशनं चैव बालानां नाशनं भवेत् | मान्योदकेन संस्नाप्य दशबीजशतं जपेत् || ४७ || नृत्तगानं च वाद्यं च हीने तद्राष्ट्रनाशनम् | शान्तिहोमं ततः कृत्वा मूर्त्तिकुम्भाभिषेचयेत् || ४८ || नन्दिमन्त्रशतं जप्त्वा पश्चान्नृतादिक कुरु | चण्डार्चनविहीने च राजासेनविनाशनम् || ४९ || मूर्तिहोमं ततः कृत्वा गन्धोदैरभिषेचयेत् | चण्डमन्त्रशतं जप्त्वा पश्चाच्चण्डसमर्चयेत् || ५० || सायं सन्ध्याविहीने च द्विगुणं चान्यसन्धिके | यत्र देवाय तृप्यर्थं कुर्यान्निष्कृति पूर्ववत् || ५१ || सन्धिद्वयविहीने च संप्रोक्षणमथाचरेत् | एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् || ५२ || इति सूक्ष्मशास्त्रे नित्यविधिप्रायश्चित्तं नाम पञ्चाशत्पटलः || ५० || प्. २८३) अतः परं प्रवक्ष्यामि पञ्चगव्यविधिक्रमम् | सर्वपापविनाशार्थं सर्वशान्त्यर्थमुच्यते || १ || उत्तमादि क्रमेणान्तु मध्यमं तु तदर्थकम् | तदर्थमधमं ज्ञेयं त्रिविधं परिकल्पयेत् || २ || घृतं वै प्रस्तमेवं तु दधि द्विप्रस्तमेव च | क्षीरं त्रिप्रस्तमित्युक्तं चतुप्रस्तं तु गोमयम् || ३ || त्रिप्रस्थं चैव गोमूत्रं मध्यमं तु प्रशस्यते | कुडुपं तु घृतं चैव दधि स्यात् कुडुपद्वयम् || क्षीरं कुडुपत्रयं चैव प्रस्तं गोमयमुच्यते || ४ || प्रस्तार्धं चैव गोमूत्रं पञ्चगव्य विधीयते | कपिला गोघृतं चैव सिताङ्गोदधिरुच्यते || ५ || क्षीरं तु पीतवर्णं स्याद्रक्तवर्णं तु गोमयम् | कृष्णवर्णं तु गोमूत्रं सङ्ग्रहे तु विचक्षणः || ६ || घृतं वै रुद्रदेवत्यं दधि वै सोमदेवतम् | क्षीरं तु शुक्रदैवत्यं गोमयं चार्कदेवतम् || ७ || गोमूत्रमग्निदैवत्यं पञ्चगव्याधिदेवता | काश्यपक्रघृतमेवं तु कौशिकं दधिरुच्यते || ८ || क्षीरं स्याच्च भरद्वाजं गौतमं गोमयं तथा | आत्रयं चैव गोमूत्रं ऋषियाच प्रकीर्तितः || ९ || प्. २८४) क्षीरं तु सद्यमन्त्रं स्याद्वामदेवदधिं तथा | गोमूत्रं बहुरूपं तु पुरुषेण तु गोमय || १० || * * मीशानमन्त्रेण पूजयेत् तु विचक्षणः | व्योमव्यापिमहामन्त्रेरभिषेकं समाचरेत् || ११ || घृतानमग्नि देवत्यं गङ्गायां नालिकेरकम् | शालिपिष्टमुषादेवि रजनीं च * * * * || १२ || आमलकं च लक्ष्मी च कशोदकमनोन्मनी | पदं वै पञ्चकोषिनि चतुसूत्रं तु विनयसेत् || १३ || ईशानादि न्यसेद्धीमान् कोष्ठेनैव तु पूजयेत् | गायत्रियादयगे मूत्रं गन्धद्वारेति गोमयम् || १४ || आप्यायस्वेति च क्षीरं दधिक्रावण्णेति वै दधि | शुक्रमज्योतिरित्याज्यं देवस्य त्वा कुशोदकम् || १५ || प्रातःकालेभिषेकात् तु सर्वपापविनाशनम् | मध्यान्नकालभिषेकां तु सर्वथात्यर्थमुच्यते || १६ || सायंकालाभिषेकात् तु सर्वरोगविनाशनम् | प्रसादादि मुखो भूत्वा मण्डपस्य तु मध्यमे || १७ || तण्डुलः शालिभिः कुर्यान्मध्येस्ताप्य घृतं तथा | गोमयं पूर्वके स्थाप्य गोमूत्रं चैव दक्षिणे || १८ || पश्चिमे तु दधि स्थाप्य उत्तरे क्षीरमेव च | आग्नेर्यमधु संस्थाप्य नै-ऋत्यां नालिकेरकम् || १९ || Pअगे णो. २८५ इस् णोत् आवैलब्ले प्. २८६) शूर्पक्षे श्रोणनक्षत्रे हस्ते * ना * रिक्षके | तत् तदृक्ष चतुर्थांशे कुमुदेशप्रदेशके || २० || दृष्ट्वा कर्कटलग्नं स्याच्चोदयं शिवमन्त्रवित् | मृदं संग्राह्य यत्नेन काम्यराष्ट्रेशमन्दिरे || २१ || मध्ये च ग्राममध्ये च प्रधानतुरगालये | प्रधान गजवासे च श्रींगस्पृग् वाससंयुतम् || २२ || चतुष्पथे ष्वोपणेध्येकोशमन्दिरपार्श्वके | ग्रामदेवालये क्षेत्रे तटाकं जलनिर्गमे || २३ || बहुयत्नेन संग्राह्य दशस्थानेषु मृत्तिका | पृथक् पात्रे समाकृष्य स्वदेशे देवमन्दिरे || २४ || शुद्धवस्त्रेण सच्छाद्य विन्यसेच्छालिमध्यमे | तस्मिन्मासार्धमासे वा पूर्ववत्कर्कटोदयम् || २५ || निच्छित्य दिवसात्पूर्वे दशाहे वा नवाहके | प्रातत्काले समुत्थाय स्नानं कृत्वा विधानतः || २६ || सन्तर्प्य शिवमन्त्रेण चाष्टोत्तरसहस्रकम् | ततो देवगृहं गत्वा महादेवं प्रणम्य च || २७ || दशकुम्भान्समादाय तन्तुना परिवेष्टयेत् | प्रणवेनैव संक्षाल्य सधूप्य शिवबीजतः || २८ || शिवमन्त्रं शतं जप्त्वा प्रत्येकं मृदमाहरेत् | दशकुम्भेषु संस्थाप्य मुखं वस्त्रेण वेष्टयेत् || २९ || प्. २८७) देवालयाग्रे सौम्ये वा ईशाने पावके तथा | स्थण्डिलं कारयेद् विद्वान्नाढकद्वयशालिना || ३० || हृदयेनैव संप्रोक्ष्य कुम्भान् तस्योपरिन्न्यसेत् | पिधाय शुद्धवस्त्रेण धाराबीजेन चार्चयेत् || ३१ || संरक्ष्य चास्त्रमन्त्रेण धेनुमुद्रां प्रदर्शयेत् | पूर्वास्यामुत्तरास्यं वा रुचिरासनसंस्थितम् || ३२ || स्पृष्ट्वा कुम्भं कुशाग्रेण जप्त्वा पञ्चाक्षरं मनु | दशसहस्रकं जप्त्वा जपान्ते होममाचरेत् || ३३ || कुम्भं पूर्वेऽथवा सौम्ये होमं कुर्याद् विचक्षणः | अन्यथा नादिकं सर्वं पूर्वोक्तविधिना नयेत् || ३४ || नालिकेरफलं मुद्गं शर्करामधुसंयुतम् | कदलिपनसोपेतं सहस्राहुतिमाचरेत् || ३५ || ब्राह्मणान्भोजयेत् तत्र नवपञ्चैकमेव वा | दिनं प्रति विशेषेण एवमेव समाचरेत् || ३६ || निश्चित्यदिवसात्पूर्वे जपहोमवसानके | शिवाग्रे मण्डपं कल्प्य षोडशस्तम्भसंयुतम् || ३७ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | दर्भमालासमायुक्तं वितानाद्यैरलङ्कृतम् || ३८ || तन्मध्ये वेदिकां कुर्यान्न्वभागेक भागता | वेदिवस्त्रेणसंवेष्ट्य स्थण्डिलं रक्तशालिना || ३९ || प्. २८८) तण्डुलैः तिललाजैश्च दर्भैश्चैव परिस्तरेत् | स्नानं कृत्वा विधानेन सन्तर्प्या तदनन्तरम् || ४० || जपहोमावसानं ते प्रविशे मण्डपं बुधः | संकल्परजितेनैव शिवलिङ्गं विचक्षणः || ४१ || पञ्चगव्यमृते स्नाप्य वेद्युर्ध्वे चासनोपरि | संस्थाप्य च महादेवं द्रोणपुष्पै समर्चयेत् || ४२ || सहस्रं शिवमन्त्रेण पूर्वमन्त्रेण चा बुधः | द्रोणपुष्पसमभ्यर्च्य धूपदीपं प्रदापयेत् || ४३ || संग्राह्य दशमृत्कुम्भान् संशोध्य वीक्षणादिभिः | शिवबीजेन वादाय तन्मृदालेपयेद् विभुम् || ४४ || सहस्रं जातिकुसुमै पञ्चाक्षरमनुस्मरन् | सृष्टिमार्गेण चाभ्यर्च्य सन्निवेद्यगुलोदनम् || ४५ || सर्वोपचारैः संपूज्य ततः सायकमानयेत् | द्रोणैश्च जातिकुसुमैः रर्चयित्वा गुरूत्तमः || ४६ || अयुतं वा तदर्धं वा तदर्धार्धमथापि वा | साधकेनैव चाभ्यर्च्य शिवहस्तं प्रकल्पयेत् || ४७ || कीलमन्त्रं जपेद् भक्त्या करं साधक मूर्धनि | संस्ताप्या च महामन्त्रं मचक्रान्तेति मन्त्रवित् || ४८ || अनेन विधिना पूर्वं रात्रौ जागरमाचरेत् | संकल्पदिवसे प्राप्ते प्रतिनियममानसा || ४९ || प्. २८९) ब्राह्मणान् शिवभक्तांश्च भोजनं दापयेद् बुधः | दीनान्धकृपुणादीनां अन्नपानं प्रदापयेत् || ५० || पूर्वोक्तकालसंप्राप्ते गणेशं पूजयेद्बुधः | दैवज्ञेय यथाकाले यजमानाय बोधयेत् || ५१ || न्मङ्गमन्त्रप्रभावेन यजमान प्रसन्निधिः | गुरूपतिष्ठमार्गेण वेषयेन्नवसंख्यया || ५२ || अनेन विधिना शाले यस्मिन् दृष्टमहीं बुधः | त्रिवारं प्राशयेत् तेन तद्राज्यं लभते ध्रुवम् || ५३ || मृल्लिङ्गस्यार्चनेनैव चतुसागरमध्यगाम् | मेदिनी लभते राजासन्त्यसत्यं प्रभञ्जना | मृल्लिङ्गस्यार्चनप्रोक्तं मुखलिङ्गविधि शृणु | इति सूक्ष्मशास्त्रे मृल्लिङ्गार्चनविधिं नाम त्रिपञ्चाशत्पटलः || ५३ || पादुकाराधनं वक्ष्ये शृणुध्वं तत्प्रभञ्जना | अर्धयामस्य पूजान्ते पूजयेत् पादुकावुभौ || १ || स्थलिकोर्ध्वे तु विन्यस्य तन्मध्ये वृषभं लिखेत् | तस्योर्ध्वे शिवमावाह्य गन्धपुष्पैसृगादिभिः || २ || शिबिकोर्ध्वे समारोप्य शङ्खघोषसमन्वितम् | सर्वालङ्कारसंयुक्तं सर्ववाद्यसमन्वितम् || ३ || प्. २९०) स्तोत्रगीतसमायुक्तं शक्तिस्थाने समाविशेत् | पादप्रक्षालनं कृत्वा पाद्याचमनं ददेत् || ४ || हस्तवारि गृहित्वा तु विकिरे शयनोपरि | देविरभ्यर्च्यविधिवद् अस्त्रेणावाह्य देशिकः || ५ || शयनोपरिविन्यस्य तस्योर्ध्वे शिवमर्चयेत् | पाद्यमाचमनं दत्वा भक्ष्या प्रपादिकं ददेत् || ६ || धूपदीपादिकं दत्त्वा ताम्बूलं दापयेद् धृदा | दशास्त्रं परितोभ्यर्च्य पादुकौ विन्यसेत् स्थले || ७ || वस्त्रेणैव विधानं च कुर्यात् कवाटबन्धनम् | शण्डेश्वरं समभ्यर्च्य स्वगृहं प्रविशेद्गुरुः || ८ || एवं यत्कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् | इति सूक्ष्मशास्त्रे पादुकाराधनं नाम चतुःपञ्चाशत्पटलः || ५४ || अथातः संप्रवक्ष्यामि राजरक्षविधिं परम् | विवृतं संवृतं चैव द्विविधं तत् प्रकीर्तितम् || १ || विवृतं भस्मसंयुक्तं संवृतं रोचनादिकम् | मासक्षे जन्मनक्षेत्रे षडाशितिमुखेऽपि च || २ || अयने चन्द्रसूर्यस्य ग्रहणे कुलकालके | षष्टाष्टद्वादशे मासि शूलनक्षत्रकेऽपि च || ३ || प्. २९१) युद्धारम्भवसाने च भूतरोगाद्यसम्भवे | पूजयेन्नृपरक्षार्थंमनेन विधिना बुधः || ४ || कर्मारम्भदिनात्पूर्वे नवमे सप्तमेऽध वा | शिवरामाध्यविधिवद्दर्चयेत् कृष्णचगाम् || ५ || गोमयं सद्यमन्त्रेण भमावपतितं ग्रहेत् | स देवि शिखा बिल्वि पञ्चाङ्गेन समन्वितम् || ६ || वामदेवेनमन्त्रेण पिण्डं कृत्वा विचक्षणः | शोषणं बहुरूपेण पुरुषेणैव पाचनम् || ७ || ईशानं ग्राहयेद्धीमान् कलार्णैरभिमन्त्रयेत् | मृत्पात्रे ताम्रपात्रे वा निक्षिपेद् धृदयेन तु || ८ || मुखं वस्त्रेण संवेष्ट्य गन्धपुष्पसमन्वितम् | ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् || ९ || शिखाग्रे स्थापयेद् विद्वान्नधिवासनपूर्वकम् | पूजयेद् गन्धपुष्पाद्यै मूलेनैवा विचक्षणः || १० || ततो मण्डपमासाद्य वितानाद्यैर्विचित्रितम् | विसृतं नन्दधा भज्य मध्ये व्योमपदं गृहेत् || ११ || पदेकेन चतुर्दिक्षु शिवभद्रसमन्वितम् | मुष्टिमात्रसमुत्सेधं दर्पणोदरसन्निभम् || १२ || दिशिभद्रोन्नतं विधि तच्चतुर्भागहीनकम् | उपवेदिप्रकर्तव्यं तच्चतुर्भागभागया || १३ || प्. २९२) नवाग्नि वाथ पञ्चाग्निमेकाग्नि वाथ कारयेत् | कुण्डानि कल्पयेत् तत्र पूर्वोक्त विधिना बुधः || १४ || गोमयालेपनं कृत्वा शालिभिश्च विचित्रयेत् | पुण्याहं वाचयेत् द्धीमान् पञ्चगव्यसमन्वितम् || १५ || प्रोक्षयेत् पुरुषेणैव पावमानमुदिरयत् | शालिभिश्च वसुद्रोणैः स्थलिकं कारयेद्बुधः || १६ || तदर्द्धैस्तण्डुलैभुक्ष्य तदर्धैश्च तिलैरपि | लाजैः पुष्पै परिस्तिर्य पञ्चवर्णेन पूरयेत् || १७ || वस्त्रैरावेष्ट्य तद्वेदि नानालंकारसंयुतम् | तन्मध्येऽब्ज प्रकर्तव्यं दलाष्टकसमन्वितम् || १८ || नवकुम्भान् समादाय क्षालयेदस्त्रमन्त्रतः | तन्तुना वेषये सर्वागवंक्ष सदृशान्नरम् || १९ || मण्डपस्यैशदिग्भागे सपायेत् तन्नधोमुखान् | तोरणकलशानस्त्रान् दिक्पतीश्च यथाक्रमम् || २० || पूजयेद् गन्धपुष्पाद्यै तत् तन् मन्त्रेण देशिकः | ततः संपूज्य गन्धाद्यैः र्वेदिकोर्ध्वे शिवासनम् || २१ || भृंशे सत्येन्तरिक्षे वा समर्यकपदेपि वा | द्वादशाङ्गुलमानेन मण्डलं स्वस्तिकान्वितम् || २२ || सितरक्तयुधं वाथ पीतरक्तयुतं तु वा | युगलिङ्गसमायुक्तं स्वस्तिकसंप्रकलपयेत् || २३ || प्. २९३) अस्त्रमन्त्रसमुच्चार्य प्रोक्षयेदस्त्रवारिणा | स्तण्डिलं तत्र कर्तव्यं विमलैः शालितण्डुलैः || २४ || सौवर्णं रजितं वापि ताम्रं वा कास्यमेव च | स्थलिकायान्यसेत् तत्र शालिपिष्टैः विचक्षणः || २५ || द्वादशाङ्गुलमानेन वृषभं शयनान्वितम् | सर्वावयवसंपूर्णं कल्पयेत् कल्पवित्तमः || २६ || पञ्चवर्णेरलङ्कृत्य सर्वाभरणभूषितम् | खरश्रीङ्गास्य कर्णौ च वृषणं द्वातिरिक्तकम् || २७ || श्रिङ्गाग्र वाल पादान्तं पीतवर्णेन भूषितम् | भ्रुवौ तन्मान रेखाणां कृष्णवर्णेमिति स्मृतम् || २८ || श्यामैश्च्छिवासनं कल्प्य शेषाङ्गशुक्लवर्णकम् | सर्वपुष्पैरलङ्कृत्य धूपदीपसमन्वितम् || २९ || दत्वा पाद्यादिकादीश्च तन्मूलेन विचक्षणः | आचार्यादाय वृषभं शङ्खध्वनिसमन्वितम् || ३० || पूर्वास्यमुत्तरास्यं वा स्थापयेद् वेदिमध्यमे | दूर्वाग्रमष्टसाहस्राधवलाक्षतसंयुतम् || ३१ || वृषभेन समभ्यर्च्य पापभक्षणमन्त्रतः | हविं निवेदयित्वाथ मुद्गभिन्नसमन्वितम् || ३२ || पानियाचमनं दत्वा दूपदीपं ददेद्बुधः | ततो देवालयं दत्वा गीतवाद्यसमन्वितम् || ३३ || प्. २९४) भस्मकुम्भसमादाय पूर्वभद्रे तु विन्यसेत् | नवकदक्षिणे भद्रे स्थापयेत् पूर्ववन्मन || ३४ || पश्चिमे दशपुष्पं च निराञ्जनमधोत्तरे | विन्यसेद् गन्धपुष्पाद्यैः हृदयेन विचक्षणः || ३५ || जप्त्वा राक्षोघ्नकं मन्त्रं कृणुस्वादि जपं कुरु | धूपदीपैः समभ्यर्च्य शुद्धान्नं च निवेदयेत् || ३६ || कुण्डान्तिकं ततो गत्वा ततः संस्कारमारभेत् | आयनादि विवाहान्तं पूर्वोक्तविधिना कुरु || ३७ || तन्मध्ये देवदेवेशं पञ्चवक्रसमन्वितम् | डाडिमिपुष्पसंकाशं दशदोभिस्समन्वितम् || ३८ || पीतवस्त्रपरिधानं पीतमाल्यानुलेपनम् | वज्रादिशूलटङ्कं च अभयं दक्षिणे धृतम् || ३९ || फणिन्द्रवरदापाशन्यङ्कुशं वामभागके | मनोन्मन्यासमायुक्तं पञ्चावरणसंयुतम् || ४० || पूजयेद् गन्धपुष्पाद्यैः तत् तन्मन्त्रेण देशिकः | इन्धनादाज्यसमिधं सूपं दधि यवं मधु || ४१ || तिललाजगुलं मुद्गं सत्तुं सिद्धाद्धकं फलम् | सिताम्रपञ्चदूर्वाग्रं होमद्रव्यं दशाष्टधम् || ४२ || मृत्युञ्जयार्धमन्त्रेण सर्वद्रव्यं क्रमाधुनेत् | प्रत्येकं शतमर्धं वा तदर्धं वा हुतं चरेत् || ४३ || प्. २९५) द्रव्यान्ते व्याहृतिं हुत्वा भस्मकुम्भं स्पृशेत् तथा | गन्धपुष्पैसमभ्यर्च्य धूपदीपं ददेद् गुरु || ४४ || एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् | वितानवन्निमभ्यर्च्य सर्वद्रव्यै हुतं चरेत् || ४५ || ततः स्विष्टाहुतिं हुत्वा पूर्णाहुतिमथाचरेत् | गन्धपुष्पैः समभ्यर्च्य विसृजैदग्निदैवतम् || ४६ || भस्मकुम्भं समादाया सर्वलङ्कारसंयुतम् | वेदध्वनिसमायुक्तं स्तोत्रध्वनि समन्वितम् || ४७ || गीतवाद्यसमायुक्तं कृत्वा धामप्रदक्षिणं | शिवाग्रे मण्डलं कृत्वा सर्वालङ्कारसंयुतम् || ४८ || सकलं मद्धमे स्थाप्य भस्मपूर्वे तु विन्यसेत् | नवकं दक्षिणे स्थाप्य नीराजनमथोत्तरे || ४९ || पश्चिमे दशपुष्पाणि विन्यसेद् देशिकोत्तमः | गणेशं पूजयेत् पाश्चाद् द्वारदेवान् समर्चयेत् || ५० || लिङ्गशुद्धि ततः कृत्वा पञ्चगव्यामृतैरपि | अर्चयेदीपदानान्तं तन्मत्रेण विचक्षणः || ५१ || नवके स्नापयेद् देवं मूलमन्त्रमनुस्मरन् | मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् || ५२ || वस्त्राभरणमालाद्यैरर्चयेत् परमेश्वरम् | कुम्भान्भस्मसमादाय लिङ्गमूर्धनि दापयेत् || ५३ || प्. २९६) बृहत् सामेति मन्त्रेण लिङ्गमालिप्य सर्वशः | पञ्चवर्णहविर्दत्वा पानियाचमनं ददेत् || ५४ || ततो मण्डपमासाद्य वृषभाय हविर्ददेत् | धूपदीपैः समभ्यर्च्य वृषमूलेन देशिकः || ५५ || स्तोत्रसङ्गीतनृत्ताद्यैः स्तोषयेद् वृषभेश्वरम् | ततः सायान्नसमये धूपदीपावसानके || ५६ || नीराजनसमादाय शिवाग्रे स्थापयेद् बुधः | निवृत्यादि कलामन्त्रेरर्चयेद् गन्धपुष्पकैः || ५७ || पद्मं च शूलमुद्रां च दर्शयेद् दीपसन्निधौ | सगुल्मलुघृतैर्युक्तं धूपामोदसमन्वितम् || ५८ || वेदाग्रे दर्शयेद्विद्वान् लिङ्गमूर्धोपरित्रिधा | भूमयो मूलमन्त्रेण अवतियय शनैशनैः || ५९ || एकवारं द्विवारं वा त्रिवारं वा विचक्षणः | पूर्ववद्भ्रमणं कृत्वा प्रणवेन विसर्जयेत् || ६० || ब्राह्मणैर्वाधनारिभिः वाहयित्वा विचक्षणः | प्रदक्षिणं ततः कुर्या वाद्यध्वनिसमन्वितम् || ६१ || पीठाग्रे गोपुराग्रे वा त्रिपथे वा चतुष्पथे | निराजनं परित्यज्य बहुरूपमनुस्मरन् || ६२ || परितः सेचनं कुर्यात् सामान्यार्घ्यजलेन तु | पादप्रक्षालनं कृत्वा प्रवेशेदालयं गुरु || ६३ || प्. २९७) दशपुष्पैः शिवं यष्ट्वा दशबीजेन देशिकः | पुष्पाञ्जलित्रयं दत्वा अभिष्ठं प्राथयेद् गुरु || ६४ || सन्ध्यान्तरे परित्यज्य वृषभं जलमध्यमे | भस्मं विसृज्य तारेणार्ध पात्रे विनिक्षिपेत् || ६५ || कवचेन तु संरक्ष्य मुखं वस्त्रेण वेष्टयेत् | ततस्साढ्यं समादाय कल्पयेदुचिरासनम् || ६६ || अनुग्रहशिवं ध्यात्वा प्राङ्मुखोदङ्मुखस्वयम् | मूलेन सन्ध्यमालोक्य चूडादिचरणान्तकम् || ६७ || विन्यसेद् दक्षिणे पार्श्वे भस्मकुम्भं विचक्षणः | निष्कमात्रसमादाय साध्यस्य शिरसोपरि || ६८ || प्रणवेन समुद्धूल्य त्रिवारं देशिकोत्तमः | चूडादिपादपर्यन्तं पादाच्चूडावसानकम् || ६९ || त्रिवारं व्यापकं कुर्यात् पापभक्षणमन्त्रतः | षडङ्गानाचरेद्भक्त्यमृत्युञ्जयमनुस्मञ्जपेत् || ७० || प्राणयामत्रयेणैव साध्यं मानं च रक्षयेत् | संसाध्य हृदयं स्पृष्ट्वा मूलमन्त्रं शतं जपेत् || ७१ || शिवाङ्गै ब्रह्ममन्त्रैश्च व्योमव्यापि जपेद् बुधः | एवं यः कुरुते मर्त्य स पुण्याङ्गतिमाप्नुयात् || ७२ || इति सूक्ष्मशास्त्रे राजरक्षविधिं नाम पञ्चपञ्चाशत् पटलः || ५५ || प्. २९८) रक्षादीपं कथं देवं शृणुं तत्व प्रभञ्जन | यत्सर्वं तत्त्वया पृष्ट तत्सर्वं वद मे प्रभो || १ || रक्षादीपं विशेषेण उत्तमामध्यमाधमा | शान्तिकं पौष्टिकं चैव कामदं च त्रिधा मतम् || २ || स्वर्णं वा रजतं वापि लोहं वा कासमेव च | स्थलिका कृतिसंयुक्तं विंशदाङ्गुलिसंयुतम् || ३ || मध्याद्युत्तरपर्यन्तं पञ्चकुम्भानि विन्यसेत् | दशाङ्गुलसमुत्सेधं विस्तृतं च दशाङ्गुलम् || ४ || तदूर्ध्वे दीपविन्यस्य कल्पयेत् कल्पमुत्तमः | पादं चैव शराङ्गुल्यं मुत्सेधं तत्समं भवेत् || ५ || विस्तारं तावदेवं च दीपपात्रं च कल्पयेत् | त्रिपाद्युपरिविन्यस्य रक्षादीपं तु कारयेत् || ६ || एवं शान्तिकमित्युक्तं पौष्टिकस्य विधि शृणु | विंशत्यङ्गुलविस्तारं स्थलिकामानमुच्यते || ७ || शालिपिष्ठमयेनाय दीपाधारं च पञ्चधा | एवत्पौष्टिकमाख्यातं काम्यदं च ततः शृणु || ८ || विस्तारं च चतुर्विंशत्पात्रसुवृत्तमुत्तमम् | पञ्चसप्तनवैकं वा दीपाराधानं प्रयत्नतः || ९ || गोमयं वाथ पिष्टं वा विन्यसेत् सप्तपात्रकैः | नवदीपं विशेषेण स्थण्डिलं प्रस्थपादकम् || १० || प्. २९९) पाचयित्वा क्रमेणैव कुडुपं मध्यपिण्डकम् | अष्टदिक्षु क्रमात्सर्वं सर्वदिक्षुकृतं हवि || ११ || पञ्चवर्णैः समालिप्य अथवा रक्तवर्णकम् | तदूर्ध्वे वर्तितं प्राप्य गोघृतेनैव सेचयेत् || १२ || नयनोच्छिष्टमार्गेण प्रदोषे सम्यगाचरेत् | दिनं प्रति विशेषेण राज्ञां विजयभेतले || १३ || शान्तिकं नित्यवत् कार्यं कुण्डे वा संस्कृतेऽपि च | सायाह्ने शयनं कुर्याद्यक्षेशिं सम्यगर्चयेत् || १४ || * * * * * * * * * * * तु प्रदीपयेत् | तस्य पश्चिमदिग्भागे स्थण्डिलं चतुरश्रकम् || १५ || स्थलिकां विन्यसेत् तत्र नेत्रमन्त्रेणसंयुतम् | तैलं वा गोघृतं वापि वन्तितं चैव सेचयेत् || १६ || कुण्डाग्नौ दीपयेत् पश्चात् प्रमादेन तु मन्त्रतः | अथवा वह्निबीजं वा मध्यदीपं प्ररोपयेत् || १७ || पूर्वाद्युत्तरपर्यन्तं पुरुषोदीषु मन्त्रकैः | व्योमव्यापि समुच्चार्या सर्वदीपं प्रपूजयेत् || १८ || गणिकां वा देवदासि वत्याराथेद् दीपपात्रकम् | वादि त्रिलयसंयुक्तं गणिका नृत्तमाचरेत् || १९ || वेदध्वनि समायुक्तं सर्ववाद्यसमन्वितम् | गच्छेत् प्रदक्षिणं तस्य तत्तवेदपस्य सन्निधौ || २० || प्. ३००) अस्त्रमन्त्रसमुच्चार्य दीपान्संपूजयेद्गुरु | धूपदीपवसाने तु रक्षामन्त्रं समुच्चरन् || २१ || अष्टपुष्पैसमभ्यर्च्य लिङ्गादीन् जयेत् ततः | त्रिन्वन्तरं च वारान्वा भ्रामयेत् तु शनैः शनैः || २२ || पुनश्च गणिकाद्याथ बलिपीठाग्रके क्षिपेत् | एवं शान्तिकमित्युक्तं पौष्टिकं च ततः शृणु || २३ || शिवाग्रे तु विशेषेण मण्डलस्य तु मत्सुधिः | विन्यसेत् स्थलिकोर्ध्वे तु रक्षादेविं च मन्त्रतः || २४ || नेत्रमन्त्रमनुस्मृत्य प्रोक्षयेत् तु शिवाम्भसा | गर्भगेहं ततः प्राप्य अस्त्रमन्त्रेण पूजयेत् || २५ || रक्षादेविमनुस्मृत्य ततो देविमिवादिकम् | एकद्वित्रिक्रमाद्भ्राम्य बेरादीन्भ्रमणं ततः || २६ || सविसर्जन तत्काले भस्मानि दापयेत् ततः | शिवस्य रक्षां कृत्वा तु सर्वप्राणि हितावहम् || २७ || एवं पौष्टिकमेवोक्तस्याद्य दत्वाधुना शृणु | कुण्डे वा स्थण्डिले वापि गर्भगेहेऽथवा पुनः || २८ || सप्तपात्रे तु कर्तव्यं सदीपं च स पूजयेत् | पौष्टिकस्य क्रमेणैव पूजयेद् देवमुत्तमम् || २९ || शिवेन दीपं संयोज्य विसर्जने यथा भवेत् | एवं कामदमित्युक्तं कथयं देव त्वया शृणु || ३० || प्. ३०१) उत्तमं दीपमाख्यातं सप्ताङ्गुलं तदुत्तमम् | शराङ्गुलं तु मध्यं स्याच्छूलाङ्गुलं तु कन्यसाम् || ३१ || गोघृतं चोत्तमं प्रोक्तं जाघ्रतं तु च मध्यमम् | तैलं कन्यसमेवोक्तं गालितेनैव कारयेत् || ३२ || दूर्वाक्तश्च संयोज्य दर्पणं भसितेन च | पाद्यादि दर्शनादूर्ध्वं शिवे दद्यात् क्रमेण तु || ३३ || यक्षेश्वरिं स्वरूपं तु शृणुं तद्वत् प्रभञ्जन | यान्तेनैव समायुक्तं रक्षरस्वरसंयुतम् || ३४ || ओंकारादि नमोत्ताश्च मध्ये रक्षेशिबीजकम् | परात्परमिदं मन्त्रं तव स्तोत्रप्रकाशितम् || ३५ || द्विभुजं चेकवक्त्रं च द्विपादं च द्विनेत्रकम् | करण्डमकुटोपेतं सौम्यरूपस्मिताननम् || ३६ || दीपमध्येन्न्यसेद् देवीमञ्जलिकृतमुद्रया | एवं ध्यात्वा यजेद् देविं रक्षादेवीं च मत्रवित् || ३७ || वामादि शक्तयश्चाष्टौ पूर्वादिक्रमतो यजेत् | सोमाङ्गारादि संपूज्य द्वितिययवरणे न्यसेत् || ३८ || लोकपालादि संपूज्य त्रितिययवरणे न्यसेत् | एवमेव क्रमेणैव रक्षेशिं पूजयेद् बुधः || ३९ || भस्मा पश्चाद्भस्मन्ददेश्छभोस्तश्चेषं तु जनाय च | प्रदोषे शयनं कल्प्य एवं निश्चित्य बुद्धिमान् || ४० || प्. ३०२) सर्वपापहरं पुण्यं सर्वदेवप्रियार्थकम् | एवं क्रमेण संयोज्य रक्षादीपं समाचरेत् || ४१ || इति सूक्ष्मशास्त्रे रक्षादीपविधिं नाम षट्पञ्चाशत् पटलः || ५६ || अथ वक्ष्ये विशेषेण करणानां तु लक्षणं | कार्यं कर्तृना शक्यं स्यात् सर्वाधकरणैर्विन || १ || तस्माल्लक्षणसंयुक्तं कर्तव्यं करणास्तथा | कुण्डानां लक्षणं चैव ततः सृक्सृवयोस्तथा || २ || लक्षणं होमपात्राणां परिधिनां तथैव च | परिस्तरणदर्भानां समिधानां च लक्षणं || ३ || आहुतिनां प्रमाणं च ततः स्नानोदकस्य च | पाद्यमाचमनीयं च अर्घ्यं चापि विशेषतः || ४ || गन्धपुष्पं च धूपं च दीपं चापि यथाविधिः | वितानलक्षणं चैव प्रच्छिन्नपटलक्षणः || ५ || धूपमानमहाघण्ट धूपपात्रस्य लक्षणम् | द्विविधं तु विधानं स्याद् बाह्यमाभ्यन्तरं तथा || ६ || पादप्रमाणं सर्वेषां कलशानां तु लक्षणम् | ध्वजदण्डप्रमाणं च बलिदानस्य लक्षणं || ७ || एतां लक्षणतो वक्ष्य यथाशास्त्र विनिश्चितैः | पूर्वाग्रं मुत्तराग्रं च कुर्यात् सूत्रत्रयं पुनः || ८ || प्. ३०३) चतुरश्रकृते क्षेत्रे कुर्यात् कुण्डानि लक्षणैः | कर्णसूत्रं चतुर्भागं कृत्वैकेन तु वर्तयेत् || ९ || क्षेत्रार्धावाधिकं चावत् पार्श्वयोरुभयोरपि | कर्णसूत्रस्य सप्तांशं पूर्वया दिशि विन्यसेत् || १० || पार्श्वे सूत्रद्वयं न्यासात्कुण्डं योन्याकृतिर्भवेत् | चत्वारिश्रिकृते क्षेत्रे मध्यात् कर्ण विगृह्य च || ११ || ततो विसृज्य क्षेत्रेर्धं शेषं कुर्यात् त्रिभागिकम् | भागेनैकेन संयुक्तं क्षेत्रार्धेन तु योजयेत् || १२ || वर्त्तयेत् तेन सूत्रेण वर्तुलं कुण्डमुच्यते | चतुरश्रं तु कर्णेन कृत्वा तत्रैव पूर्ववत् || १३ || वर्तितं वर्तुलं कुण्डं तत्रार्धं धनुरुच्यते | क्षेत्रस्यार्धार्धमानेन सहैकाशितिभागिकम् || १४ || सूत्रसूत्रमनेनैव त्रिकोणस्यात् त्रिभागिकम् | क्षेत्रं तु सप्तधा कृत्वा भागमेकं बहिर्न्न्यसेत् || १५ || तस्मान् मध्यं गृहित्वा तु भ्राम्य वृत्ते तथैव च | कर्णार्धाष्टांशसंयुक्तं कर्णार्धं यद् भवेदिह || १६ || सूत्रं तत्र भवेदेतत्पञ्चाग्रे तु भुजा भवेत् | प्रागादि पञ्चसूत्रेण पञ्चाश्रं कारयेद् बुधः || १७ || दशभागं तथा क्षेत्रं कृत्वैकं बाह्यतो न्यसेत् | सूत्रेण मध्यमात् तस्माद्वृत्तं कृत्वा ततो बुधः || १८ || प्. ३०४) क्षेत्रे षोडशभागैकं क्षेत्रार्द्धेन तु योजयेत् | एवं सूत्रं ततः कृत्वा सप्ताश्रे तु भुजा भवेत् || १९ || प्रागादि सप्तसूत्रेण सप्ताश्रं भवति स्फुटम् | पद्मपद्मसमं वृत्ते कर्णिकादलसंयुतम् || २० || एवं समासतः प्रोक्तं कुण्डानां लक्षणं परम् | वैकङ्कतमयो वाथ खादिरो वा स्रुक् स्रुवः || २१ || अथवा याज्ञिकैः वृक्षै कर्तव्यो सृक्सृवो बुधः | पालाश खदिराश्वत्थ प्लक्षादुम्बरचन्दनैः || २२ || वैकङ्कतशमि बिल्वा यज्ञवृक्षो इमे नव | द्विधा कृत्वा ततो भागैः सूत्रेण सुमितन्नया || २३ || चतुरश्रं ततः कृत्वा कुर्याल्लक्षण मे बुधः | अरत्निमात्रमायामं तत्पश्वे तु बलिं भवेत् || २४ || षडङ्गुलं परिणाहं दण्डमूले विधिययते | तदर्धं कण्ठनाहं स्यात् पुष्पकरं मूलवद्भवेत् || २५ || गोपालसदृशं गन्धमग्रं नासिकयासमम् | पुटद्वयसमायुक्तं कर्षशेज्यनपूरितम् || २६ || सृवस्य लक्षणं प्रोक्तं स्रुकलक्षणमुच्यते | षट्त्रिंशदङ्गुलायामे मष्टाङ्गुलसुविस्तृतः || २७ || उत्सेधं तु तदर्धं स्यात् सूत्रेण सुमितं ततः | सप्ताङ्गुलभवेदास्यं विस्ताराय मयोपि हि || २८ || प्. ३०५) त्रिभागैकं द्वभागे व्यहस्तारायामधोपि हि | ग्रिभागैकं भवेदग्रं कृत्वा शेषं परित्यजेत् || २९ || कर्णद्वयङ्गुलायामं विस्तारं चतुरङ्गुलम् | वेदिकाष्टाङ्गुलायामा विस्तारं तत्प्रमाणतः || ३० || तस्य मध्ये बलं कुर्याच्चतुरङ्गुलमानतः | बिलं सुवृत्तितं कुर्याद् अष्टपत्रं सकर्णिकम् || ३१ || परितो बलिबाह्ये तु पट्टिकार्धाङ्गुलेन तु | तद्बाह्ये यवनिम्नं तु पद्मपत्रं विचित्रितम् || ३२ || यवद्वयप्रमाणेन तद्बाह्ये पट्टिका भवेत् | वेदिका मध्यतो रन्ध्रं कनिष्टाङ्गुलमानतः || ३३ || खान्तं यव घुखान्तस्याद् बलिमानं तु निम्नकम् | दण्डं षडङ्गुलं नाहं दण्डाग्रे दण्डिकात्रयम् || ३४ || अर्धाङ्गुले विवृध्या तु कर्तव्यं चतुरङ्गुलम् | त्रयोदशाङ्गुलायामं दण्डमूले घटो भवेत् || ३५ || द्व्यङ्गुलं भवेत् कुम्भं नाहं विद्यादशाङ्गुलम् | वेदिमध्ये तया कुम्भे पात्रलक्षणमुच्यते || ३६ || सहस्र साधार विध्यक्ष्ये शृणुध्वं तत्प्रभञ्जन | नित्ये नैमित्यके काम्ये स्नानान्ते तु महेश्वरम् || ३७ || सहस्रधारये स्नानं श्रीसौभाग्यप्रवध्रुवम् | उत्तमोत्तमधारेषा परात्परमशक्ति सा || ३८ || प्. ३०६) सहस्रवदने स्राव्य सञ्चित्य मृतरूपिणि | ततः पात्र समादाय तल्लक्षणमिहोच्यते || ३९ || सप्ताङ्गुलसमारभ्य द्वि द्व्यङ्गुलविवर्ध्यतः | सप्तविंशाङ्गुलं यावत् पास्त्रविस्तारमुच्यते || ४० || त्रियङ्गुलसमं वापि पञ्चाङ्गुलघृतं तु वा | विस्तारपरितो मृत्याः पादाङ्गुलघनं भवेत् || ४१ || चतुर्वलययुक्तं वा द्विपार्श्वं वलयान्वितम् | आयाशृङ्खलयायुक्तं वातरज्जुसमन्वितम् || ४२ || स्वर्णं वा रजतं वाधाताम्रजं च त्रिधा भवेत् | उत्तमादि क्रमेणैव कारयेत् तत् तत्प्रभञ्जन || ४३ || ब्रह्मक्षत्रियवैश्यानां स्वर्णादिषु विधीयते | भूपतिनां विशेषेण स्वर्णं वा रजतं मतम् || ४४ || अशक्तस्ताम्ब्रमेवं तु कल्पयेत् कल्पवित्तमः | तत्पात्रं चतुरश्रं वा सुवृत्तं वा प्रकल्पयेत् || ४५ || त्रयश्रं वा प्रकर्तव्यं पञ्चविंशत् पदं ततः | वृत्तं चेतु विशेषेण सर्वकामार्थ साधनम् || ४६ || आयुष्करं पुष्टिकरं श्रिकरं चतुरश्रकम् | पात्रमध्ये विशेषेण पद्मं साष्टाकसंकर्णिकम् || ४७ || अङ्गुलाङ्गुलवृध्या तु त्रयङ्गुलसमाविधि | पद्मावृतसमायुक्तं रत्नं काञ्चितमाचरेत् || ४८ || प्. ३०७) माणिक्कं मध्यमे न्यस्य परिमुक्तं दृढं मतम् | तद्बाह्ये सुषिरं कल्प्या सूचिमात्रप्रमाणतः || ४९ || यवमात्रप्रमाणं वा मष्टमात्रमथापि वा | त्रयोदशाप्रणार्थाय भ्रामयो मनुसूत्रकम् || ५० || पूर्वभागे तु वज्रं स्यान्माग्नेयां मुक्तकं दृढम् | दक्षिणे पुष्यरागं च निरुतौ चन्द्रनिलकम् || ५१ || वारुणे स्पुटिं चैव वैडुर्यं चैव वाथवे | सौम्ये मस्तकं चैव ऐशान्ये निलमेव च || ५२ || तदायुक्ता सुमुक्तं वा स्वर्णं वा दृढमुत्तमम् | त्रयोदशावरणानि रन्ध्रसङ्ख्यां ततः शृणु || ५३ || प्रथमे चाष्टरन्ध्रानि वसुदैवाधि दैवतम् | द्वितीये च कलारन्ध्रे कलानमधिदेवता || ५४ || तृतीये च चतुर्विंशत् सर्पराजाधिदेवतम् | चतुर्थे द्वात्रिंशरन्ध्रान्महागङ्गाधिदैवतम् || ५५ || पञ्चमावरणे चैव पञ्चाशद्रन्ध्रमाधिकम् | यमुनामाधिदैवत्यं सर्वरन्ध्र पूजयेत् || ५६ || षष्ठमावरणे चैव पञ्चाशच्चतुरंशकम् | गोदावरि सदैवत्यं सर्वरन्ध्रेषु योग्यताः || ५७ || रन्ध्राणामधिदैवत्यं सन्धिरे वा विधीयते | सप्तमावरणे चैव रन्ध्रं षष्टितमं भवेत् || ५८ || प्. ३०८) सरस्वत्याधिदैवत्यं रन्ध्रेषु क्रमतोऽर्चयेत् | अष्टमावरणे चैव युग्माधिकमशितिकम् || ५९ || नामदाधिकदैवत्यं पूजयेत् सुषिरं वृतः | नवमावरणे चैव रन्ध्रं षण्णवति स्मृतम् || ६० || सिद्धिं स्यात्यधिदैवत्यं सर्वरन्ध्रेषु योग्यतः | दशमावरणे चैव शतरन्ध्रसमन्वितम् || ६१ || कावेरित्यधिदैवत्यं सुषिरे योजयेत् क्रमात् | पश्चादावरणं चेत्तु युगाधिकशतं भवेत् || ६२ || पुण्यतीर्थादि दैवत्यं सर्वरध्राणि योजयेत् | सर्वरन्ध्राणि कर्तव्यं विन्यसेत् तु विचक्षणः || ६३ || द्वादशवरणे चैव अष्टोत्तरशतं भवेत् | इच्छाशक्त्याधि दैवत्यं सर्वरन्ध्रं विशेषतः || ६४ || त्रयोदशवृणं प्रोक्तं षष्टाधिकशतद्वयम् | ज्ञानशक्त्याधिदैवत्यं सर्वरन्ध्रसमन्वितम् || ६५ || एवं रन्ध्रसमाख्यातं मत्राङ्गुलवशान्नयेत् | चतुरश्रस्य मध्ये तु सप्तसप्तपदं भवेत् || ६६ || मध्यकोष्ठे तु पद्मं स्यान्माणिक्कं चैव मौक्तिकम् | वैज्रनिलं चैव वैडूर्यं मरतकं पुष्यरागकम् || ६७ || स्फटिकं प्रवालमेव तु मध्यादीशान्तमेव च | सुषिरं पञ्चविंशच्च पदमेकं प्रकल्पयेत् || ६८ || प्. ३०९) एवमेव पदान्तानि पदं पत्रिपदं प्रति | सहस्रधारया युक्ता पराशक्त्याधि दैवतम् || ६९ || चतुश्रीखलयायुक्तं डोलयन्त्रं प्रकल्पयेत् | अथवान्य प्रकारेण शृणुध्वं तत्प्रभञ्जन || ७० || तत्पात्रं त्रिविधं प्रोक्तं मधमादित्रयं तथा | द्वादशाङ्गुलमेवं तु उत्तमं परिकीर्त्तितम् || ७१ || सप्ताङ्गुलसुविस्तारं मध्यमं परिकीर्त्तितम् | त्रियङ्गुलसुविस्तारं मधमं परिकीर्त्तितम् || ७२ || एवं पात्रसुविस्तारं भित्तिरुसेधमुच्यते | एकाङ्गुलसमुत्सेधम् उत्तमं परिकीर्तितम् || ७३ || अर्धाङ्गुलसमुत्सेधं मध्यमं तत्प्रकीर्त्तितम् | पादाङ्गुलसमुत्सेधं मध्यमं त्वधि विद्यते || ७४ || यवद्वयसमुत्सेधं एवमेव क्रमेण तु | यवमात्रघनं प्रोक्तं क्रमेणैव सुबुद्धीमान् || ७५ || पाणिभ्यां पत्रमादाय लिङ्गमूर्ध्याभिषेचयेत् | स्वर्णरजतताम्रे वा चतुरश्रं वा वृत्तकम् || ७६ || चतुरश्रं नवा कोष्ठे मध्ये सुषिरमेवयुक् | आवृत्तं चाष्टसुषिरं पदमेकं प्रयत्नतः || ७७ || पदबाह्ये सूत्रमध्ये महाशासु विशेषतः | सूचिमात्रप्रमाणेन श्रुतिरन्ध्रं प्रकल्पयेत् || ७८ || प्. ३१०) अन्यानि पदमध्येषु द्वादशा सुषिरं कुरु | अष्टोत्तरशतं प्रोक्तं पञ्चाशश्चैक हीनके || ७९ || तत्पात्रे नवकोषं तु मध्यकोष्ठं तु मध्यमम् | अवृतं चाष्टसुषिरं तद्बाह्ये तु विशेषतः || ८० || एकैक पदमध्ये तु शरसङ्ख्या च रन्ध्रकम् | पञ्चाशरन्ध्रमेवोक्तं पञ्चविंशति चोच्यते || ८१ || तत्पत्रं नवकोष्ठेषु मध्ये सुषिरमेवयुक् | अन्यानि पदमध्ये तु ईशदृक्सुषिरं कुरु || ८२ || चतुरश्रमि * प्रोक्तं सुवृत्तमथ चोच्यते | पूर्ववत्पात्रमेवं तु सष्टपत्रसकर्णकम् || ८३ || कर्णिकामध्यमेवं तु पूर्वादिवसुरन्ध्रकम् | तद्बाह्ये दलमध्ये तु * * * * * रं कुरु || ८४ || तद्बाह्ये वृत्तमेवं तु महाशासु युगं भवेत् | एवं सुषिरमाख्यातं अष्टोत्तरशतं क्रमात् || ८५ || पञ्चाशत् पञ्चविंशश्च पूर्ववत्परिकल्पयेत् | क्षुद्रम * मिदं प्रोक्तं मात्मार्थं चे परार्थकम् || ८६ || परार्थे भद्रमेवं तु आत्मार्थं न विचारतः | मोदहदज्ञानतो वापि भद्रपात्रोभिषेचयेत् || ८७ || आयुश्रीकीर्ति * ष्टिञ्च कृष्णपक्षे तु च द्रवित् | तत्पात्रं शङ्खतोयेन पूजयेन्मूलमन्त्रतः || ८८ || प्. ३११) एवमेव क्रमेणैव सहस्रार्धाभिषेचनम् || ८८ || इति सूक्ष्मशास्त्रे सहस्रधारविधिं नाम अष्टपञ्चाशत् पटलः || ५८ || नागस्य लक्षणं वक्ष्ये शृणु तत्वत्प्रभञ्जन | स्वर्णं रजित ताम्रेण शिलयेष्टकये || १ || धघदारुजैर्दशमृर्त्वा भुजङ्गं संप्रकल्पयेत् | एकहस्तसमारभ्य वस्वङ्गुलविवर्धनात् || २ || चतुर्विंशतिहस्तानां नागायामं प्रकल्पयेत् | आयादिशोभनोपेतं शुभमानं परिग्रहेत् || ३ || तन्मानं शतधाभज्य एकांशं द्वङ्गुलं भवेत् | वेदांशमुखमानस्यात् रुद्रांशं मुखविस्तृतम् || ४ || भन्वंशं फणिदीर्घं स्यात् पञ्चाशं फणिविस्तृतम् | नासापुटान्तरं पादं नासितारं शिवांशकम् || ५ || तत्समानासिदीर्घं स्याद्व्योमांशदृष्टिमण्डलम् | तन्मध्ये यवमानेन कृष्णमण्डलमाचरेत् || ६ || तद्विस्तारार्धमानेन ज्योतिर्मलका भवेत् | पक्षदीर्घं द्विभागं स्यात् तद्विस्तारशिवांशकम् || ७ || पक्षोच्चं द्वङ्गुलार्धं तु कर्णपक्षाङ्गुलं भवेत् | वेदांशं कर्णविस्तारं युक्त्या सिंहस्य कर्णवित् || ८ || प्. ३१२) चतुर्दन्तसमायुक्तं दन्तदीर्घं तदङ्गुलम् | दन्तादि त्वङ्गुलार्धं स्याद्धरिदन्त वदाचरेत् || ९ || करण्डमकुटैर्वापि चित्रवस्त्राकृतिं स्तु वा | मध्ये फणार्धमानेन तस्य पार्श्वफणं भवेत् || १० || फणसप्तेषु वा प्रोक्तं त्रिफणं वा समाचरेत् | नाहं वै षोडशाङ्गुल्यं बालान्तद्वङ्गुलं भवेत् || ११ || पद्मपीठोपरिष्टात्तु त्रिफलं मण्डनान्वितम् | नासिमध्यमसूत्रं तु बालाग्रं रुजुसूत्रकम् || १२ || अंशं वा द्वित्रियंशं वा हीनाधिक्यं न दोषभाक् | शोभाबलसमोपेतं युक्त्या सर्वाङ्गमाचरेत् || १३ || नागलक्षणमेवोक्तं शृणु मण्टपमानकम् || १३ || इति सूक्ष्मशास्त्रे नागलक्षणविधिं नाम एकोनषष्ठि पटलः || ५९ || बलिपीठविधिं वक्ष्ये शृणुध्वं तत्प्रभञ्जन | भद्रं क्षुद्रं द्विधा प्रोक्तं क्षुद्रमेवाल्पपीठकम् || १ || भद्रं प्रोक्तं महापीठं लिङ्गं त्रैययेकरूपकम् | एतयोः क्षुद्रपीठानां लक्षणं वक्ष्यतेऽधुना || २ || शिवलिङ्गस्य पीठायस्तुङ्गतारनवांशके | सप्तांशमुत्तमं प्रोक्तं पञ्चांशमध्यमं स्मृतम् || ३ || प्. ३१३) त्रिभागं कन्यसंख्यातं क्षुद्रपीठस्य विस्तरम् | तद्विस्तारचतुर्भागे एकैकं पीठतुङ्गकम् || ४ || मानाङ्गुलवशद्वाधख्यष्टरसमन्त्रकम् | आर्त्तोसेधांशमानेन पञ्चभागे कृते * * || ५ || * * * मक भागेन पद्मतुङ्गं गणांशतः | एकेन कर्णिकां कुर्यात् दधावान्यविधानतः || ६ || अशेषं फल्लपद्माभं कारयेन् मानकोविदः | मात्रपीठ प्रा * * न्तु अयुक्तं वा सयुक्तकम् || ७ || अयुक्तं पूर्ववत्प्रोक्तं सयुक्तं पीठपङ्कजम् | चतुषडङ्गुलं वापि सप्तपीठविशालकम् || ८ || उत्तुङ्गलक्षणाद्यादि पूर्ववत् परिकीर्तितम् | तत्तदन्तरमानं तु एकाङ्गलवशास्मृतम् || ९ || भद्रपीठविधिप्रोक्तं परिवारविधिं पुरा | एतत्सर्वं समापाद्य प्रतिष्ठाविधिमाचरेत् || १० || द्वारे पीठप्रतिष्ठा च प्रथमे च द्वितीयके | भद्रपीठप्रतिष्ठा च समतन्त्रे च कारयेत् || ११ || पृथक्तन्त्रेण वा कुर्याच्चतुरङ्गं विधानतः | एकाचार्येण कर्तव्यमेकस्मिन्नेककालके || १२ || अङ्कुरं वास्तुयागादि समतन्त्रकमाचरेत् | प्रासादपूर्वदिग्भागे मण्डपं विधिनाचरेत् || १३ || प्. ३१४) तन्मध्ये वेदिकां कुर्याद्धस्तमात्रप्रमाणतः | रुद्रवेदिति सा प्रोक्ता तत्तारत्रैकतुङ्गकम् || १४ || तत्पूर्वादि चतुर्दिक्षु विधिवेदी प्रकल्पयेत् | अनेन वा समं कुर्यात् तद्विधानप्रकारतः || १४ || एवमेव प्रकारेण मण्डपं सम्यगाचरेत् | नवाहे वाथ पञ्चाहे त्रियाहेऽङ्कुरमाचरेत् || १६ || जीर्णपीठपरित्यागं कृत्वाथास्थापयेन्नवम् | तज्जिर्णं तु त्रिधा प्रोक्तं स्पुटतश्चिन्नभिन्नकम् || १७ || भद्रपीठं विशेषेण महाङ्गोपाङ्गसंयुतम् | उपानजगति चाथ कुमुदं कण्ठपट्टिका || १८ || पद्मं च कर्णिका चाध महाङ्गमिति कीर्तितम् | दलोपदलनास्यादि उपाङ्गमिति कीर्तितम् || १९ || वर्जयेत् तु महाङ्गेषु न त्याज्यं चेत्प्रभञ्जन | क्षुद्रपीठादि सर्वेषु विहीने ताश्चवर्जयेत् || २० || तस्योद्धारं क्रमं वक्ष्ये पीठदक्षिणमण्डले | संकल्प्यासनमावाह्य पूजामन्त्रं समाचरेत् || २१ || तत्पूर्वे स्थण्डिलं कृत्वा शालिभिः मण्डलैः शुभैः | तन्मध्ये पद्ममालिख्य साष्टपत्रसकर्णिकम् || २२ || द्रोणं पूरितघटान् तन्मध्ये विन्यसेद् बुधः | आवाह्य पीठाद् देवाश्च कुम्भमध्ये तु विन्यसेत् || २३ || प्. ३१५) निवेद्यादि समाप्याथ चाग्निकार्योक्तमार्गतः | आधानादिविवाहान्तं कृत्वा मधुघृतेरपि || २४ || दूर्वाभिः तण्डुलैस्तत् तद् देवतामन्त्रमुच्चरन् | शतमर्धं तदर्धं वा होमयेत् तु पृथक् पृथक् || २५ || क्षुरिका बीजमुख्येन पूर्णाहुति समाचरेत् | जयादिरभ्याधानां च क्रमाद्रष्ट्रभृतं हुनेत् || २६ || अग्निस्थं मण्डलस्थं च कुण्डमध्ये समापयेत् | भूतले निखनेतांश्च समुद्रेष्वथवा नयेत् || २७ || जीर्णपीठादि सभूतम् अस्मि चेति तमाचरेत् | पीठशुद्धिं ततः कृत्वा पञ्चमृद्गव्य बिल्वकैः || २८ || भद्रपीठो विशेषोऽस्तिस्तदग्रे स्थित दर्पणेः | धाराभिषेचनं कुर्याच्छुद्धै रुद्धैति मन्त्रतः || २९ || वास्तुहोमं बलिं चाथ मण्डपार्चां पुरा चरेत् | रक्षाबन्धं ततः कृत्वा भद्रपीठोर्ध्व कर्णिके || ३० || अन्येषामेव पीठानां कृतं वा तद्विना चरेत् | वेद्यास्थ स्थण्डिलं कुर्यादष्टद्रोणेन शालिना || ३१ || तदर्धैस्तण्डुलैर्युक्तं तदर्धं तिलसंयुतम् | लाजैः पुष्पैः तिलैः दर्भैविकीर्णै समलङ्कृतम् || ३२ || तत्पूर्वे वेदिकुम्भेषु दक्षिणोत्तरमध्यतः | नन्दिनं च महाकालं वृषभं पूजयेत् क्रमात् || ३३ || प्. ३१६) ततो दक्षिण संभूते वेदिकुम्भेषु सर्वतः | दुर्गामन्स्त्रश्च विघ्नेशं वरस्कन्दं च वधावम् || ३४ || चण्डेशमऽग्न्यादि शान्तमग्रे भूतेशमध्य च | प्रदिचि वेदिकुम्भेषु धरिषं भुजगेश्वरम् || ३५ || धर्मदेववमामेव चत्वाम्मध्येत्वनुक्रमात् | उदीचिवेदिकुम्भेषु इन्द्रं वैश्वानरं यमम् || ३६ || निरुतिं पाशिपध्विन्दुवटुकाख्यं महेश्वरम् | विष्णुं पीतामहञ्चापि पूर्वदारभ्य पूजयेत् || ३७ || तन्मध्ये वेदिकुम्भेषु आमोदं च प्रमोदकम् | सुमुखं दुर्मुखं चाथ अविघ्नं विघ्ननायकम् || ३८ || पूर्वदक्षिणपाशिन्दु रुद्रदिक्कर्णिकोध्वतः | आसनैः मूर्तिमूलाद्यैः संयुक्तां सम्यगार्चयेत् || ३९ || तत् तद् वेद्युत्तरे देशे क्षुद्रपीठादि वासनम् | भद्रपीठे विशेषोस्ति तस्धाने चाधिवासयेत् || ४० || वेदपारयणं कुर्यात् कुम्भस्थापनपूर्वकम् | अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् || ४१ || समिधाज्यचरूलाजान् सर्षपांश्च यवातिलान् | तत्तमूलषडङ्गैश्च पवमानैः स्त्र्यम्बकैः || ४२ || स्पृष्ट्वा तु जुहुयात् तत्र मूलमन्त्रमनुस्मरन् | एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् || ४३ || प्. ३१७) तोरणादि घटान् सर्वान् अर्चयेद् गन्धपुष्पकैः | क्षुद्रपीठप्रतिष्ठाया स्थानं वक्ष्यामि तच्छृणु || ४४ || प्रासादमध्यमाशृत्य चान्तर्मण्डलमध्यतः | दुर्गादि चण्डपीठान्तमग्न्यादीशान्तमर्चयेत् || ४५ || अग्ने वृषस्थलं यत्र तत्र तत्पीठमाचरेत् | देशकः तत्पृष्ठे भूतनाथस्य पीठं दत्वा प्रमाणतः || ४६ || द्वारं प्रति विशेषेण द्वारेशं पीठदेशकम् | अन्तर्मण्डलमात्रं स्याधर्मेशस्य वृषामृतः || ४७ || इन्द्रपीठं मुखायामे भद्रपीठोभ्रमानतः | तस्धानसीमसम्बन्धम् अन्तर्मण्डलमानतः || ४८ || अग्न्यादि स्थापयेत् सप्तदिक्षु सोमेशमध्यतः | नैरुते दण्डमानेन विष्णुपीठं प्रतिष्ठयेत् || ४९ || ऐशान्यां हस्तमानेन ब्रह्मपीठं प्रतिष्ठयेत् | द्वितिर्यवरणे पीठोस्वेवमेवं प्रकल्पयेत् || ५० || भद्रपीठप्रतिष्ठा तु प्रोक्त प्राकारलक्षणं | आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलियकैः || ५१ || अध्येत्रं परिचारांश्च यथावित्तानुसारतः | पर्यष्टिनोत्तरियाद्यैरुष्णिषैर्मण्डितेन च || ५२ || पूर्वे तु स्थापितघटान्सर्वतोद्य समन्वितम् | शिरसा वाहयित्वाथ कृत्वा धामप्रदषिणं || ५३ || प्. ३१८) तत् तन् मूलसमुच्चार्य तत् तत्पीठेऽभिषिच्य च | भद्रपीठो विशेषोऽस्ति मन्त्रन्यासं समाचरेत् || ५४ || गोपुरस्य विधिं वक्ष्ये शृणुध्वं तत्प्रभञ्जन | अन्तर्मण्डलमारभ्य मर्याद्याद्यान्तसलके || ५५ || शोभार्थ रक्षरार्थं च द्वारशालिदिमं चरेत् | द्वारशाला द्वारशोभा द्वारप्रासादहर्म्यकम् || ५६ || द्वारगोपुरमित्येते पञ्चधा परिकीर्तितम् | द्वादशालादिहर्म्यन्तं शोभार्थरक्षणार्थकम् || ५७ || किञ्चिद् भेदं विशेषेण महागोपुर * * ते | एकादि त्रितलान्तं च स्नानार्थं संप्रकल्पयेत् || ५८ || युगादि सप्तपर्यन्तं वस्त्रमाभरणाय च | अष्टादि पञ्क्तिपर्यन्तं शयनार्थं प्रकल्पयेत् || ५९ || रुद्रादि त्रयोदशान्तं गौसभार्षादि कल्पयेत् | त्रितालादिषु भूम्यान्तं द्वारप्रासादमाचरेत् || ६० || षट् तालदष्टपर्यन्तं द्वारहर्म्यं प्रकल्पयेत् | कलाभूम्यवसानं च महागोपुरमिष्यते || ६१ || अथवा सर्वसालेषु मुनि संख्यतलं भवेत् | सलानमपि सर्वासां मित्येवं परिकल्पयेत् || ६२ || उपपीठसमायुक्तं केवलं वामसूकरम् | उपपीठसमायुक्तं पञ्चांशं तु विभाजिते || ६३ || प्. ३१९) अधिष्ठानं शिवांशं तु द्व्यंशं वा चरणायतम् | एकांशप्रस्तरोत्सेधं अधिष्ठानमुभांशकेत् || ६४ || उपपीठक्रमेणैव कुम्भपीठ प्रकल्पयेत् | अश्रमायाम उत्सेधं विस्तारात् संप्रवक्ष्यते || ६५ || मूलहर्म्यविशालं तु चतुर्गुणमुदाहृदम् | पञ्चषड्भागमानं तु गोपुरं संप्रकल्पयेत् || ६६ || विस्तारमष्टधा कृत्वा द्वादशांशं दशांशकम् | शिवांशं रोपयेद् धीमान्नेकांश रहितं क्रमात् || ६७ || पञ्चषट्सप्तभागस्तु गुणितास्संप्रकीर्तितम् | शालादिगोपुरान्तं च विस्तारमिह कथ्यते || ६८ || प्रासादमानमेवं हि हस्तामानं शृणु क्रमात् | पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् || ६९ || यथा श्रद्धानुसारेण कल्पयेत् तु विचक्षणः | पञ्चधा गोपुरे कार्यं क्रमेण विनिवेशयेत् || ७० || सप्तहस्तसमारभ्य द्वेकहस्तविवर्धनात् | हस्त सप्तति यवच्च यथामानं प्रकल्पयेत् || ७१ || नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् | अशितिद्वयहस्तान्तं पञ्चधा परिकल्पयेत् || ७२ || रुद्रहस्तं समारभ्य त्वशित्यन्तं प्रकल्पयेत् | विस्तारमेवमाख्यातं मायामं मधुना शृणु || ७३ || प्. ३२०) सार्धपादं सपादं वा सत्रिपादमथापि वा | द्विगुणं द्विगुणार्धं च त्वयामं कल्पयेद् बुधः || ७४ || अस्तं त्रिपादमर्धं वा वृद्धिहानिं च कारयेत् | आयादि शोभनार्थं च विस्तारे तु विशेषतः || ७५ || पद्बाह्ये पदमध्ये तु पदाभ्यन्तरमेव वा | आयादि शुभसंयुक्तं तत्र मानं प्रकल्पयेत् || ७६ || विस्तारात् कल्प्यञ्चोत्सेधं विस्तारं रसथा भजेत् | शात्योत्सेधं तु धर्मांशं कल्पयेत् तु विचक्षणः || ७७ || विस्तारे तु नवांशं तु द्वादशांशं तु शोभया | त्रिपादाधिकप्रासादं भज्यं द्विगुणमुत्तमम् || ७८ || द्विगुणं द्विगुणार्धं च गोपुरं तु प्रकल्पयेत् | उत्तरादिशिखान्तं च वा मस्तकादिं त मथापि वा || ७९ || कुटकोष्ठादि निव्रञ्च मानसूत्राद् बहि क्रमात् | प्रासादोक्तपदात् तत्र निवृच्चेशं च कथ्यते || ८० || त्रिभागे द्वयमेवं वा चतुर्भागे द्विभागिकम् | सप्तभागे त्रिभागं च सालनिष्क्रान्तमेव हि || ८१ || त्रिहस्तं तु समारभ्य यवद्दशकरान्तकम् | द्वारविस्तारमेवं तु क्रमेणैव तु कल्पयेत् || ८२ || सार्धपादं सपादं वा त्रिपादसहितं तु वा | द्विगुणं तु तदुत्सेधं द्वारमानं विधीयते || ८३ || प्. ३२१) द्व्यङ्गुलादि च सप्तान्तं मध्यान्निव्रं प्रकल्पयेत् | लिङ्गस्य मध्याद्वामे तु द्वारमध्ये प्रकल्पयेत् || ८४ || द्वादशाङ्गुलमारभ्य पञ्चाशच्च स्मृतं भवेत् | त्रिभगेनैकभागं वा पञ्चभागेकमेव वा || ८५ || स्तम्भनिष्क्रान्तमेवं हि अधोदुम्बरमुन्नतम् | द्वारस्तम्भप्रमाणेन उपनाद्युत्तरान्तकम् || ८६ || द्वारोच्चं वसुभागं तु वेदाङ्गमुपपीठकम् | अधिष्ठानं च द्व्ययंशेन द्व्ययंशतिलपायनम् || ८७ || अष्टनन्दशांशं तु उपपीठं त्रियंशकम् | त्रिभागेनैकभागेन अधिष्ठानोच्छ्रयं भवेत् || ८८ || द्वयंशं तलिपायामं प्रथमं च प्रकल्पयेत् | उपपीठोदयान्तं च स्थानमानं विधीयते || ८९ || पूर्वे परे च बाले च द्वारस्धम्भं प्रकल्पयेत् | पूर्वे कवाटबन्धं स्यादपरे तु विवर्जयेत् || ९० || कवटद्वारयोगं च धामोक्त विधिवत् ततः | पंक्तित्रयं समारभ्य रुद्रपंक्त्यन्तविस्तृतम् || ९१ || पंक्तिद्वयं वा चैकं वा पंक्तिमानं प्रकल्पयेत् | विस्तारे नवभागे तु पञ्चांशं नालगेहकम् || ९२ || शेषं कुड्यविशालं स्यात् तदर्थं वापि कल्पयेत् | शेषं तु भित्तिविस्तारमेकभौम प्रकल्पयेत् || ९३ || प्. ३२२) विस्तारं सप्तभागे तु आयामं च तथा भवेत् | त्रयंशं ग्रभगेहं स्यात्पादं भित्तिविशालकम् || ९४ || कर्णकूटं शिवांशस्याच्छलयामं द्वयंशकम् | हारान्तरद्वयंशेनविस्तारायाममेव च || ९५ || द्वितालं त्विति विख्यातं त्रितालं त्वधुनोच्यते | दशांशं द्विभजेदीर्घं विस्तारं च तथा भवेत् || ९६ || त्रियंशं गर्भगेहं स्याद् देकांशग्रहपिण्डिका | आलिन्द्रं द्वेकभागेन हाराव्यासं शिवांशकम् || ९७ || कर्णकूटं शिवांशेन शालादीर्घं त्रियंशकम् | एकांशं पञ्चरव्यासमर्धांशं हरयोन्नरम् || ९८ || एवमेव क्रमेणैव द्वितालं पूर्ववद् भवेत् | त्रितालं द्वितिविख्यातं चतुर्भुममधशृणु || ९९ || एकादियुगभूम्यन्तं निष्कान्तं भित्तिकं विना | द्वितालादि कलान्तं च सार्धकोटि समन्वितम् || १०० || एकांशमर्धमथवा सार्धकोटिविशालकम् | मध्यकोष्ठांशसंयुक्तं सार्धकोटि सुभद्रकम् || १०१ || विस्तारे रुद्रभागं तु नालागेह त्रियंशकम् | द्वयंशं भित्तिविस्कम्भमंशेना धारिकं भवेत् || १०२ || हाराव्यासमथार्धांशं बाह्ये भित्तिरुदाहृदम् | विस्तारं दशधा कृत्वा कर्णकूटविशांशकम् || १०३ || प्. ३२३) चतुरंशं कोष्ठादिर्घं शेषं हारसपञ्जरम् | कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः || १०४ || षोडशांश विभज्याथ द्वयंशं पार्श्वकोष्ठकम् | शालादीर्घं षडंशं तु अर्धांशेन तु पञ्जरम् || १०५ || शेषं हारान्तरं प्रोक्तं एवमेव क्रमेण तु | त्रियोदशांशं विस्तारे नालं गेहे त्रियंशकम् || १०६ || एकांशे त्रिधपिण्डस्तु अंशेनाण्डानिकं भवेत् | हारदीर्घं च मेकांशं बाह्यभित्तिविशालकम् || १०७ || रसभूम्यादि भूम्यन्तं कल्पयेत् कल्पवित्तमम् | द्वादशाङ्गुलविस्तारमेकांशं कूटविस्मृतम् || १०८ || पञ्चांशं कोष्ठदीर्घं तु शेषं हारा सपञ्जरम् | कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः || १०९ || शालायामं तु सप्तांशं शेषं हारासपञ्जरम् | रसभूमिरिति ख्यातं सप्तभूमिरथोच्यते || ११० || त्रयोदशांशं कृत्वाथ एकांशं कूटविस्तृतम् | शालादीर्घं तु भूतांशं शेषं हारान्तरं भवेत् || १११ || कर्णकूटांशकं त्यक्त्वा आयामे तु विशेषतः | त्रयोविंशांशमायामं रसांशं कोष्ठदीर्घिकम् || ११२ || द्वयंशं पार्श्वकोष्ठं च एकांशं चैव पञ्जरम् | शेषं हारसमायुक्तं सप्तभूमिमिति स्मृतम् || ११३ || प्. ३२४) विस्तारं पूर्ववत् कृत्वा एकांशं कर्णकूटकम् | शालाशं भूतभागं तु शेषं हार सपञ्जरम् || ११४ || आयामे तु विशेषेण कर्णकूटांशकं त्यजेत् | त्रयोविंशतिभागं तु पार्श्वकोष्ठद्वयंशकम् || ११५ || शालायामं तु सप्तांशं सार्धांशपञ्जरं भवेत् | एकांशाधिकं कोष्ठं च शेषं हारा सपञ्जरम् || ११६ || कर्णकूटांशकं त्यक्त्वा दीर्घमेवं विधीयते | एवं रसादीभूम्यन्तं त्रियंशं गर्भगेहकम् || ११७ || शेषं पूर्ववदुद्यष्टं नवभूम्यन्तमुच्यते | * * * * * * * * * * * नैव पञ्जरम् || ११८ || शेषं हारान्तरं प्रोक्तं नवभूमिरिति स्मृतम् | विस्तरे सप्तदाशांशं एकांशं कूटविस्तृतम् || ११९ || सप्तांशं कोष्ठदीर्घं स्याच्छेषं हारा सपञ्जरम् | द्वात्रिंशदीर्घमेवं तु द्वयंशं पार्श्वकोष्ठकम् || १२० || दशांशं कोष्ठमेवं तु अर्धांशेनैव पञ्जरम् | शेषं हारान्तरं प्रोक्तं दशभौमं प्रकल्पयेत् || १२१ || विस्तारे तु चतुर्विंशदेकांशं कर्णकूटकम् | द्वयंशं पार्श्वकोष्ठं च रसांशं कोष्ठदैर्घ्यकम् || १२२ || अर्धांशं पञ्जरं व्यासं शेषहारान्तरमतम् | दीर्घमेवं प्रकर्तव्यं कर्णकूटांशकं विना || १२३ || प्. ३२५) आयामे च द्वयंशं तु अष्टांशं कोष्ठमायतम् | पक्षांशं पार्श्वकोष्ठं च पञ्जरं तु त्रिपादकम् || १२४ || शेषं हारान्तरं प्रोक्तं रुद्रभूमिरिति स्मृतम् | एकमर्धं त्रिपादं वा पञ्जरस्य तु दीर्घकम् || १२५ || शेषं हारान्तरं प्रोक्तं कल्पये तु यथाविधिः | त्रिसप्तति विभागं तु एकांशं कर्णकूटकम् || १२६ || युगांशं पार्श्वकोष्ठं च दशांशं मध्यकोष्ठकम् | अर्धांशं पञ्जरं प्रोक्तं शेषं हारान्तरं स्मृतम् || १२७ || अष्टत्रिंशांशमायामं द्वयंशं पार्श्वकोष्ठकम् | शालायामं तु भान्वाशनन्दाशं पञ्जरं भवेत् || १२८ || शेषहारासमं प्रोक्तं कर्कभूमिरिति स्मृतम् | त्रीं विंशदंशेन विस्तारं एकांशं कूटविस्तरम् || १२९ || द्वयांयाशं पार्श्वकोष्ठं च दशांशांकोष्ठमेव च | एकांशपञ्जरं प्रोक्तं त्रयोदशतलं क्रमात् || १३० || द्वाविंशतिश्च विस्तारं एकांशं कूटविस्तरम् | शालादीर्घं तु रुद्रांशं पार्श्वकोष्ठद्वयंशकम् || १३१ || पञ्चरर्थेन कर्तव्यशेषं हारा समं भवेत् | चत्वार्यंशं विभज्याथ अर्कांशं कोष्ठमेव च || १३२ || द्वयंशं पार्श्वकोष्ठं च अर्धांशेन तु पूजनम् | शेषं हारान्तरं चैव चतुर्दशतलं मतम् || १३३ || प्. ३२६) विस्तारं विशदंशं तु एकांशं कर्णकूटकम् | नन्दांशं कूटमेवं तु पार्श्वकोष्ठद्वयंशकम् || १३४ || अर्धांशं पञ्जरं प्रोक्तं शेषं हारान्तरं तमम् | आयामे तु विशेषेण पञ्चाशद्भागमेवं हि || १३५ || विंशद्भागं च कोष्ठं च द्वयंशं पार्श्वकोष्ठकम् | त्रिपादं पञ्जरं प्रोक्तं शेषं हारान्तरं क्रमात् || १३६ || एकोनत्रिंश विस्तारं एकांशं कूटविस्तरम् | पार्श्वकोष्ठद्वयंशं च दशांशं मध्यकोष्ठकम् || १३७ || एकांशं पञ्जरं प्रोक्तं शेषं हारान्तरस्मृतम् | षष्ठ्यंशं विभजेत् तत्रात्रैदशं मध्यकोष्ठकम् || १३८ || द्वयशं पार्श्वकोष्ठं च एकांशं पञ्जरं भवेत् | शेषं हारान्तरं प्रोक्तं र्दन्तिमानमिदं परम् || १३९ || प्रस्थरे पञ्चभूम्यादि वेशनं च ततः शृणु | सुभद्रं वा विभद्रं वा पस्थरम कल्पयेद् बुधः || १४० || कण्यकूटादिशालानां भद्रमेवं विधीयते | गण्डमानमधोवक्ष्ये शृणुध्वं तत्प्रभञ्जनम् || १४१ || उक्तारादिशिखान्तं च भूमिभागं च कल्पयेत् | सार्धांशं तु कपोतोच्चं मेकांशं गलमेव च || १४२ || पादोनत्रंशशिखरे शिखमानं तु शेषकम् | एवमेव क्रमेणैवा एकभौममिति स्मृतम् || १४३ || प्. ३२७) उत्तरादि शिखान्तं च नन्दभागमिति स्मृतम् | एकांश पञ्चमानं तु सार्धपक्षंशकं घटम् || १४४ || शिखशेषं प्रकर्तव्यं द्वितलं च यथा क्रमम् | उत्तरादि शिखान्तं च त्रयोदशांशमेव च || १४५ || मञ्चं सार्धांशमानं च सार्धद्व्यंशांशमघ्रिकम् | प्रस्तरोच्चं सपादाशं द्वयंशं पादमेव च || १४६ || कपोतोच्चं त्वें कपादं तत्समं गलमेव च | सार्धपक्षं शकं प्रोक्तं शेषं घ्युदयं स्मृतम् || १४७ || उत्तरादि शिखान्तं च रन्द्रभाग विभाजिते | पञ्चमानं सपादांशं द्वयंशं चरणायतम् || १४८ || कपोतोच्चं शिवांशं च सार्धपक्षांशकं शिरः | शेषं स्तूप्यदयं प्रोक्ता द्वितलं ज्वीति विद्यते || १४९ || उत्तरादि शिखान्तं च त्रयोदश विभाजिते | सार्धांश पञ्चमानं स्यात्सार्धद्व्यांशाङ्घ्रि तुङ्गकम् || १५० || कपोतोच्चं सपादांशं पक्षांशं पाददैर्घ्यकम् | मञ्चमानं शिवांशं च शश्यम्भं गलमुच्यते || १५१ || शिखरं सार्धपक्षंशं शेषं स्धुप्युदयं भवेत् | त्रितलं ह्येवमाख्यातं चतुर्भुमिमध शृणु || १५२ || स्थूप्यात्युत्तरसिद्धान्तं मषादिश विभाजिते | मदो न द्वयंशमञ्चोञ्चं पक्षांशं चरणायतम् || १५३ || प्. ३२८) व्योमांशं मञ्चमानं स्याद्गलं तत्सममुच्यते | पादोनत्रिंशशिखरं शेषं स्थूप्यादयं भवेत् || १५४ || चतुर्भुमिरितिप्रोक्तं बाणभूममध शृणु | उत्तरादि शिखान्तं च पञ्चविंशति भागया || १५५ || पक्षांशं मञ्चमानं स्यार्धाग्न्यंशाङ्घ्रितुङ्गकम् | सपादोंशकपोतोच्चं गुणांशं तलिपायतम् || १५६ || सार्धांशं मञ्चमानं स्यात्सार्धपक्षांशमघ्रिकम् | सपादांशकपोतोच्चं पक्षांशं तलिपायतम् || १५७ || कपोतोच्चं सार्धं पादांशगलतत्सममुच्यते | युगांशं शिखरोत् तुङ्गं शेषं स्थूप्यादयं भवेत् || १५८ || पञ्चभूमिमिति प्रोक्तं रसभूममथोच्यते | उत्तरादिशिखान्तं च एकत्रिंशांशकं भवेत् || १५९ || सपादद्व्यमञ्चोच्चं युगांशं शरणायतम् | पक्षांशं मञ्चमानं तु सार्ध ह्यंशं घ्रितुङ्गकम् || १६० || पादोनद्व्यंशमञ्चोच्चं गुणांशं चराणायतम् | सार्थांशमञ्चमानं तु सार्धपक्षांशमघ्रिकम् || १६१ || सपादांशकपोतोच्चं कलांशं चरणायतम् | व्योमाशं मञ्चमानं तु सपादांशं गलोदयम् || १६२ || शिखरं युगभागं तु शेषं स्थूप्यादयं भवेत् | रसभूमिमिति प्रोक्तं सप्तभूमिमध शृणु || १६३ || उत्तरादि शिखान्तं च अष्टत्रिंशति भागया || १६३ || प्. ३२९) सार्थद्वयं मशं चोर्चं सार्धवेदांशमङ्घ्रिकम् | सपादद्वयं शमं चोच्चं युगांशं तलिपायतम् || १६४ || पक्षंशंमंच मां तु चार्धाग्न्यंशांघ्रितुङ्गकम् | सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् || १६५ || पक्षांशप्रस्थरोत्सेधं युगपादादिकं भवेत् | स्थाणु त्रिपादमच्चोर्चं मग्न्यर्धं तलिपातकम् || १६६ || सार्धांशं मञ्चमानं तु त्रिंशं पादाधिकं भवेत् | सपादांश कपोतोच्चं त्रिभागं गलमुच्यते || १६७ || शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् | सप्तभूमिमिति प्रोक्तं वसुभूमिमधशृणु || १६८ || पञ्चांश द्व्येधमाधिक्यं भागं कृत्वा ग्रहोन्ततम् | द्विपादद्वंशमञ्चोर्चं रसार्धं तिलपायतम् || १६९ || सपादद्व्यंशं मञ्चोच्चभूतांशं तलिपायतम् | सपादद्व्यंशं चोर्चं वेदार्धं चरणायतम् || १७० || पक्षांशमञ्चमानं तु युगांशं चाङ्घ्रितुङ्गकम् | पादोन द्व्यंशमञ्चोर्चं गुणार्धं चरणायतम् || १७१ || सार्धंशं मञ्चमानं तु द्विगुणं चाङ्घ्रितुङ्गकम् | सपादंश कपोतोच्चं पक्षार्थं चरणायतम् || १७२ || सपादंश कपोतोर्चं गुणांशं गलमुच्यते | शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् || १७३ || प्. ३३०) वसुभौममिति प्रोक्तं नन्दभौममध शृणु | उत्तरादि शिखान्तं च षड्यंशं विभजेत् ततः || १७४ || द्विपादद्व्यंशमञ्चोच्चं भूतार्धं चरणायतम् | द्विपादद्व्यंशत्कपोतं च पञ्चाशच्चरणोदयम् || १७५ || सपादद्व्यंशमञ्चं तु युगांशं तलिपायतम् | द्व्यशं प्रस्थरं चैवमग्न्यर्थं तालिपायतम् || १७६ || त्रिपादांशं कपोतोच्चं गुणांशं चरणायतम् | सार्धं शमञ्चमानं तु द्व्यशार्थं शरणायतम् || १७७ || सपादंशकपोतोच्चं द्व्यंशं चरणायतम् | अंशप्रस्तरमानं तु त्रियंशं गलमुच्यते || १७८ || शिखरे पञ्चभागे तु शेषं स्थूप्यादयं भवेत् | उत्तरादिशिखान्तं च चतुःषष्ट्यंशकं भवेत् || १७९ || सपादत्रिशमञ्चोच्चं कौशिकार्धाङ्घ्रितुङ्गकम् | गुणांशमञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् || १८० || पादोनद्व्यंशमञ्चोर्चं भूतांशं तलिपायतम् | कपोतं सार्धपक्षांशं सार्धवेदांशमघ्रिकम् || १८१ || सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् | सपादांशं कपोतोच्चं गलं तत्सममुच्यते || १८२ || शिखरे युगभागे तु शेषं स्थूप्यादयं भवेत् | दशभूमिमिति प्रोक्तं रुद्रभूमिमध शृणु || १८३ || प्. ३३१) सप्ततियुगभागं तु उत्तरादिशिखान्तकम् | सर्धाग्न्यंशं कपोतोच्चं तलिपं सार्धषट्ककम् || १८४ || सपादात्रयंशमञ्चोच्चं कौशिकांशाङ्घ्रितुङ्गकम् | कपोतोच्चं गुणांशं तु सार्धभूतांशमङ्घ्रितम् || १८५ || पादोन त्रयंशमञ्चोच्चं भूतांशं चरणायतम् | कपोतं सार्धपक्षांशं सार्थवेदांशमघ्रिकम् || १८६ || सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् | पक्षाशं मञ्चमानं तु सार्धाग्न्य * घ्रितुङ्ग * || १८७ || पादोनद्व्यंशमञ्चोच्चं गुणांशं चरणायतम् | सार्धांशं मञ्चमानं तु सार्धपक्षांशमघ्रिकम् || १८८ || सपादांशं कपोतोच्चं कलांशं चरणायतम् | मञ्चमानं सपादांशं गलं तत्सममुच्यते || १८९ || शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् | रुद्रभूमिमिति प्रोक्तं भानुभूमिमथ शृणु || १९० || पञ्चाधिकमशित्यंशंमुत्तरादिशिखान्तकम् | त्रिपादद्व्यंशमञ्चोच्चं थात्वांशं तलिपायतम् || १९१ || सार्धाग्न्यशं कपोतोच्चं वरणं सार्धषट्ककम् | सपादत्र्यंशमञ्चोच्चं षडंशं तलिपायतम् || १९२ || कपोतोच्चं गुणांशं तु सार्धभूतांशमङ्घ्रिकम् | पादो न त्र्यंशमञ्चोच्चं भूतांशं तलिपायतम् || १९३ || प्. ३३२) सार्धपक्षांशमञ्चोच्चं सार्धवेदांशमघ्रिकम् | सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् || १९४ || पक्षांशं मञ्चमानं तु सार्धाग्न्यंशाङ्घ्रितुङ्गकम् | पादोनद्व्यंशमञ्चोच्चं गुणांशं तलिपायतम् || १९५ || सार्धांशं मञ्चमानं च सार्धपक्षांशमघ्रिकम् | सपादांशं कपोतोच्चं पक्षांशं चरणायतम् || १९६ || मञ्चमानं सपादांशं गलं तत्सममेव च | शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् || १९७ || भानुभूमिमिति प्रोक्तं त्रयोदशतलं शृणु | उत्तरादिशिखान्तं च षण्णवत्यंशकं भवेत् || १९८ || युगांशं मञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् | त्रिपादत्र्यंशमञ्चोच्चं विस्तारं चरणायतम् || १९९ || सार्धाग्न्यंशकपोतोच्चं तलिपं सार्धषट्ककम् | सपादं त्र्यंशमञ्चोच्चं षडंशं तलिपायतम् || २०० || गुणांशं मञ्चमानं तु सार्धबूतांशमङ्घ्रिकम् | पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायतम् || २०१ || कपोतं सार्धपक्षांशं सार्धवेदांशमघ्रिकम् | सपादद्व्यंशमञ्चोच्चं युगांशं चरणायतम् || २०२ || * * * शममानेन सार्धग्न्यंशाघ्रितुङ्गकम् | पादो न द्व्यंशमञ्चोर्चं गुणांशं चरणायतम् || २०३ || प्. ३३३) सार्धांशं मञ्चमानं च सार्धपक्षांशमघ्रिकम् | सपादादंशमञ्चोच्चं पक्षांशं चरणायतम् || २०४ || शिवांशं मञ्चमानं च सपादांशं गलोदयम् | शिखरं युगभागं तु शेषं स्थूप्यादयं भवेत् || २०५ || त्रयोदशतलं प्रोक्तं मनुभूमिमथ शृणु | उत्तरादि शिखान्तं च अष्टाधिकशताधिकम् || २०६ || सपादयुगमञ्चोच्चं वस्वंशं चरणायतम् | वेदांशं मञ्चमानं तु सार्धसप्तांशमङ्घ्रिकम् || २०७ || त्रिपादग्न्यंशमञ्चोच्चं सप्तांशं चरणायतम् | सार्धाग्न्यंशं कपोतोर्च्चं तलिपं सार्धषट्ककम् || २०८ || सपादत्र्यंशमञ्चोच्चं षडंशं तलिपायतम् | गुणांशमञ्चमानं तु सार्धभूतांशमङ्घ्रिकम् || २०९ || पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायतम् | सार्धपक्षांशकर्मं च सार्धपक्षांशमघ्रिकम् || २१० || सपादद्व्यंशमञ्चोच्चं वेदांशं चरणायतम् | * * शम * मानं तु सार्थाग्न्यंशाङ्घ्रितुङ्गकम् || २११ || पादो न द्व्यंशमञ्चाच्चं गुणांशं तलिपायतम् | सार्धांशं मञ्चमानं तु सार्धपक्षांशमघ्रिकम् || २१२ || स * * * * * * * * * शं चरणायतम् | श * शमञ्चमानं तु गलं तत्सममेव च || २१३ || प्. ३३४) शिखरं वेदभागं तु शेषं स्थूप्यादयं भवेत् | मन्मभूमिति प्रोक्तं तिथिभौममध शृणु || २१४ || एकविंश शतान्तं तु * * * * * * * * | पञ्चमानं युगांशं तु सार्धपक्षांशमघ्रिकम् || २१५ || सपादयुगमञ्चोच्चं वस्वंशं तलिपायतम् | युगांशमञ्चमानं तु सार्धसप्तमशङ्घ्रिकम् || २१६ || त्रिपादाग्न्यंशम * * * * * शरणायतम् | सार्धाग्न्यंश कपोतोच्चं तलिपं सार्धषट्ककम् || २१७ || सपादात्रयंशकं चोच्चं षडंशं तिलपायतम् | गुणांशमञ्चमानं तु * * * * * मघ्रिकम् || २१८ || पादोन त्र्यंशमञ्चोच्चं भूतांशं चरणायुतं || २१८ || अपूर्णः ########### END OF FILE #######