#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00564 Uniform title: samayadīkṣādhivāsanavidhi Manuscript : NGMCP 1-1078 Reel no: A 48/23 Description: Ritual manual Notes: Manuscript selected by Dr. Mark S.G. Dyczkowski . Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: Sept. 26, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : United States #################################################### प्. १अ) ओं श्रीगुरवे नमः || श्रीगुरुस्मरन् पूर्व्वक सूर्यायार्घं दत्वा || करं न्यासांगं न्यासं कृत्वा सामान्यार्घपात्रं च साधयित्वा || पूर्व्वद्वारं गत्वा || निरीक्षणादि च तु सुद्धि कृत्वा || पूजयेत् || शान्ति तोरणके पूज्य घटे शान्तिकलातुरे | भूलोकोथ भुवलोक प्रद्युम्नोथ प्रकासकः || स्ववामशाषयो पूज्या शोमांगारौ घटं जयेत् | तद्दक्षनन्दिनं चैव महाकाल घटान्तर || गंगा यमुना च तद्दक्षे ऋगुवेदो कृत जुगस्तथा | प्रशान्त शिशरश्चैव नदी कलसके यजेत् || प्रदक्षिण क्रमे नेते पूज्या बीज स्वनामभिः | गणं सरश्वती लक्ष्मी ऊर्धो दुम्बरके यजेत् || पूषा धाता विधा च त्रिशूल पूजयेत् क्रमात् | प्. १ब्) ईश्वराधिपतिश्चैव तत्पुरुषो अक वर्गकौ | देहल्यां प्रतिपूजेत् | द्वारे पूज्या क्रमेनायं ध्वजाया कुमुदो न्यसेत् || पताकाढ्याण्च वज्रेन हूं फडन्तेन पूजयेत् | हेतुकाय बलिन् दत्वा एते श्रोत्रादिके मते || अथाग्नेय कोनेषु कदल्यां सिद्धिकं यजेत् | ध्वजायां कुमुदाक्षश्च पताकायाण्च शक्तिकं || प्रपूज्यं च बलिदेयं त्रिपुरघ्नाय स्वमंत्रके || अथ दक्षिणद्वारे तु संप्रोक्षास्त्रेन वारिणा | भूतितोरणके पूज्या घटे विद्या कला यजेत् | प्. २अ) स्वर्लोकोय महलोक अजघ्नो जघ्न एव च || स्ववामसाखयो पूज्यो बुधश्चैव बृहस्पति | तस्य पूर्व्व घटे पूज्यो भृङ्गिरीटि विनायकं || तस्य पूर्व्वघटे द्वंदे पूज्यो यमघटान्तरं | महिमा नर्मदा पूज्यो तत्पश्चिम घटे पुनः || यजुर्वेदो युगत्रेता तत्पश्चिम घटे यजेत् | पर्जन्याशोक नामानो नदी कलसके यजेत् || प्. २ब्) गणं शरश्वती लक्ष्मी ऊर्द्धोदुम्बरके यजेत् | भगेंद्र पर्जन्या शूले रुद्राधिपतिरेव च || अघोरो च टवर्गश्च ध्वजायां पुंडरीककं | पताकायाण्च दण्डाय हूं फडन्तेन पू * येत् || अग्नि बेतालाय बलिन्दत्वा प्रपूजयेत् || अथ नै-ऋत्यकोणेषु संप्रोक्षास्तेन वारिण || कदल्यां कीर्त्तिकां यजेत् ध्वजायां वामनाक्षश्च | पताकायाण्च खड्गकं संपूज्य यम जिह्वाय बलिन्दत्वा क्षमापयेत् || अथ पश्चिमके गत्वा द्वारं प्रोक्षशराणुना | वलन्तोरणके पूज्य निवृर्त्तिश्च कलाघटे || प्. ३अ) स्ववामतोथ पूज्यास्यातंजनं लोकस्तपस्तथा | धाता चैव विधाता च द्वारशाखे प्रपूजयेत् || शुक्रशनेश्चरश्चैव तदुत्तर घटं यजेत् | वृषस्कन्दो घटे पूज्यो शिन्धूश्चैव शरश्वती || युगं द्वापरके चैव शामवेदौ घटं यजेत् | भूतसंजीवनाक्षश्च अमृतोघ घटं यजेत् || गणं शरश्वती लक्ष्मी ऊर्द्धोदुम्बरके यजेत् | अर्यमामित्र त्वष्टा च त्रिशूलेषु प्रपूजयेत् || नारायनाधिपत्यश्च सद्योजातं प्रपूजयेत् | तप वर्गस्तथास्त्रं च देहल्यां प्रति पूजयेत् || प्. ३ब्) ध्वजायां शंकु कर्णं च पताकायां च पाशकं | कालाक्षाय बलिं दद्यात् धूप दीपादि तर्प्पनैः || अथ वायव्य कोनेषु कदल्यां धृतिकं यजेत् | सर्व्वनेत्र ध्वजायाण्च पताकायां ध्वजं तथा || करालिने बनिन्दद्यात् धूप दीपादि तर्प्पनैः || अथोत्तरस्य द्वारे तु संप्रोक्षास्त्रेन मन्त्रवित् | आरोग्यं तोरणे पूज्य प्रतिष्ठा च कलाघटे || सत्यलोको ध्रुवश्चैव आवहाविवहास्तथा | शाषयो द्वार देशस्य वामदक्ष क्रमात् स्वतः || राहुके भूघटे पूज्यौदे देवी चण्डौ घटद्वये | प्. ४अ) तापिका च पयोष्णी च घटे पूज्ये स्ववामतः || वेदोथर्व्वा कलिश्चैव तत्पूर्व्वघटके यजेत् | धनद श्रीपदो पूज्यो नदी कलशके क्वचित् || गणं शरश्वती लक्ष्मी ऊर्द्धोदुम्बरके यजेत् | विष्णुश्च सविता चैव अंशुमांश्च त्रिशूलके || ब्रह्माधिपतिश्चैव वामदेवो तथोर्द्धके | यशवर्गेत्तदेहल्यां ध्वजायां सुमुखस्तथा || गदा ये हूं फट् पताकायां बलिमेका हि क्षेत्रयो | दत्वा धूपादिना देवं तर्प्पनं च पुरसरं || अयै?शानेसुमन्त्रेन सप्रोक्षे पुष्टिकं यजेत् | प्. ४ब्) ध्वजायां सुप्रसिद्धाख्यं पताकाया त्रिशूलकं || हूं फडन्तेन सपूज्य भीम दर्प्प बलिं हरेत् | अथ ऊर्द्धपताकायां च क्रमो? प्रपूजयेत् || आग्नेयैशान्त कोनेषु कदली स्तम्भके यजेत् | सिद्धि कीर्त्ति धृति पुष्टि नित्ये तेन प्रपूजयेत् || कम्बीषू पृथिवीतत्वं आर्प्यं तृण च यादिषु | बंध्येषु तेजसं प्रोक्तं दंडके वायवं मतं || स्थुनास? चम्बर? प्रोक्तं सद्योजातादि पण्चकं || अथ पश्चिमद्वारमागत्य सप्रोक्षास्तेन वारिणां | दिव्यदृष्टि निपातेन दिव्यानुपरिवर्त्तिना || ज्वलं नारा च शस्त्रेन पुष्प क्षिप्त्वान्तरिक्षगान् | प्. ५अ) दक्षपादैस्त्रिभिर्घातैर्भूमिस्थां त्रिविधानपि || विघ्नानत्सारयेत् मंत्री याग मंदिर मध्यतः || अपसर्प्पन्तु ये भूता ये भूता भुवि संस्थिता | ये भूता विघ्न कर्त्तारः ते नस्यन्तु शिवाग्यया || देहली लंघयन् किण्चित् वामशाखा समाश्रयन् | प्रविस्य दक्षपादेन विन्यस्यास्त्रमुदुम्बरे || घाटयन सेषद्वाराणि मध्ये वास्तुपति पतिं यजेत् | प्रदक्षिण क्रमागत्य निविष्टो देव दक्षिणे || करं न्यासादिकं कृत्वा भूतसुद्धि समाचरेत् | विरेच्य पिंगला वायुं गृहित्वा तच्च वामया || प्. ५ब्) मध्यया च थिरी कृत्य तद्वायुं मुंनयेत् ततः || ब्रह्मादि कारण त्यागात् द्वादशान्तं लयेत् क्रमात् | पद्मं शिवमयं शुभ्रं श्रवन्तममृतं बहु || ध्यायेत् सदा ललाटस्थं चंद्रकल्पित कर्णिकं | तत्सुधा प्लावितं देहं समुत्पन्नं नवं दृढं || चित्स्वरूपण्च तन्मध्ये जीवं संचिन्तयेन्नतं || शिवात्पराज्ञात मथोन् तस्मात् पिण्डण्च तस्मात् पुनरेव सूक्ष्मं | तस्मात् परं ते च पराद्भवेतामिथः विचिंत्य खलु भूतसुद्धि || अनेन गुरुपदेश क्रमेन भूतसुद्धिं विधाय || देहं न्यासादिकं कृत्वा वक्त्रं न्यासादिकं पुनः || प्. ६अ) एवं च शकलीकृत्य वियहंतर्यागं कुर्यात् || यथा || हृदयकमलकर्णिकोपरि अनन्तादि प्रेतासन गतः सिहासनस्थं भावोपनीतं श्रद्धा कुशुमनिचय फल प्रभृतिभिः स्वचिच्चमत्कारानन्द सन्दोहा भेदभावे शिवत्वाभिव्यक्त भावन भगवन्तं सन्तोष्येदिति अन्तर्याग || ततो अर्घपात्रमादायास्त क्षालितं ललाटकृष्ण पीयुष भावनया नीरे प्रपूरितं || आपः क्षीर कुशग्रानि तण्त्रालासु मनसस्तिला | अघोष्टांग इद प्रोक्ताः यवै सिद्धार्थकैः सह || एतत्समग्रान प्. ६ब्) संपूर्यः षडंगेन मूलेनाभ्यर्च्च्यः चन्दनाक्षतं दत्वा धेनुमुद्रया प्ररोच्य | अस्त्रेन रक्षयित्वा कवचेनावगुन्ठ्य | तेनात्मानं संप्रोक्ष | यागसंभारण्च अस्त्रेन संप्रोक्ष | आत्मासनं आत्ममूर्त्ति संपूज्य | तिलकं कृत्वा मन्त्रशोधन मारभेत् || कंदक्षं उलनी स्थानं ऋतुचक्र क्रमेन तु | उत्थाप्य मध्यमे चाग्निं तत्र चिद्व्यक्ति संश्रयात् || आनन्दमरमन्ध्यात्वा मत्रीमत्र मनुस्मरन् || तदासो जायते सुद्धिर्म्मत्र चक्रस्य मत्रिण | इत्यनेन संसोध्य स्वदक्षहस्ते गन्धचन्दनमण्डलकं कृत्वा | दूर्व्वाक्षतेन शागं साध्य देवं संपूज्यः || स्फुरत्तारका कारं विभाव्य स्वशिरस्यधिरोपयेत् || ततो हमादि सर्व्वज्ञ मम यज्ञ प्रधानता | प्. ७अ) इत्यहंकारी भूय मूलमुच्चार्य स्वेतोष्णीषेन शिरशि वेष्टयेत् | तदनु अलकारं कुर्यान्निजं देहं गन्धै वस्त्रै विभूषणैः | कटकादि हारकेयूरैः नोपुरादि विभूषणः || तत अघोरास्त्रेन विकिराणभिमत्र्यः | ज्ञानखड्गण्च पाशुपतास्त्रेनाभिमत्र्यः || दर्भानातालमानेन कृत्वा षट्त्रिंशतादलैः | सप्तजप्त शिवास्त्रेन वेणी बोधासिमुतमं || एवं ज्ञानखड्गं गृहीत्वा पंचगव्यमुपक्रमेत् || मध्ये पूर्व्वादुदीच्यन्ते न्यसेत् कोष्टक पञ्चकं | शिवं शदाशिवं विद्या कालञ्च पुरुष क्रमात् || सुप्रतिष्ठं सुशान्तञ्च तेजो वद मृतात्मकं | रत्नोदयं च पंचात्र तद्वत्पात्रानि रोपयेत् || गोमय गोजलं सर्प्पि दधिक्षीरं च पञ्चमं | प्. ७ब्) प्रतीच्यामुत्तरे याम्ये पूर्व्वमध्ये क्षिपे क्रमात् || सद्योजातेन वामेन रुपिना पुरुषेन च | ईशेनेति यथासंख्यं गोमयाद्यभिमन्त्रयेत् || पूर्व्वं पूर्व्वं क्षिप्येदग्रे मूलमन्त्रमुदीरयन् | कुशोदकं तु गायत्र्या मूलं साष्टोत्तरं जपेत् || पञ्चगव्यमिति प्रोक्तं महापातकनासनं | गोमयस्यार्द्धमगुष्ठं गोमूत्रं पलसंमितं || पलद्वय घृतं स्योक्तं मानं दध्न पलत्रयं || पलानि पञ्चदुग्यस्य कुशाम्बपलमात्रकं || कृष्णाया गोमयं मूत्रं नीलायाः कपिला घृतं | सुरभे दधिशुक्लायास्ताम्रायाः क्षीरमाहरेत् || अभावे सर्व्ववर्णानां कपिले का प्रसस्यते || स्वर्णरूप्य पलाशानां पात्रताम्रस्य वा शुभं || पञ्चगव्यविधानेन शिव कूर्च्चमिदं स्मृतं | प्. ८अ) मूलस्याष्टशता लब्धं पिवेदेकत्र योजितं || संहारमिव तूलस्य सामद्व इव पावकं || शिव कूर्च्चोदहत्यासु पापानि सुमहान्त्यपि || पञ्चगव्य अर्घाम्बुनामण्डपं संप्रोक्ष || प्रदक्षिन गत्या नै-ऋत्यकोने स्थित्वा || मण्डपसंस्कारमारभेत् || निरीक्ष प्रोक्षण ताडन अभ्युक्षण खनन उद्धरण पूरण समीकरण सेचन कुठन संमार्जन लेपन कला परिकल्पन त्रिसूत्री परिधान प्रोक्षण पूजन रेखा वज्रीकरण चतुष्पथांते सम्भृत्य कलामयमण्डपं भावयेत् || प्. ८ब्) ततो अघोरास्तु जपन् विकिरान विकीर्य || कवचेन कुश कूर्च्चिकयानूतनमार्जिन्या संहृत्यैशानकोने वर्द्धन्यासनायोपकल्पयेत् || नै-ऋत्य वरुणयोर्मध्ये शांगं वास्तु नाथं प्रपूजयेत् || पश्चिमे च महालक्ष्मी सम्पूज्यः || यत्नेन मुख मण्डपं ध्यात्वा | अथ रत्नोषधी तोय पूर्णै चन्दन चर्च्चिते भूत पलव वक्त्रैश्च प्रणवेन चलासनं || ईशान्यादिशि संस्थीतो संपूज्याष्टक पुष्पकैः || कुंभस्य दक्षिणे पार्स्व पश्चिमास्यं सलक्षणं | यजेदस्त्रेन मन्त्रेन आचार्ये मन्त्रको विदैः || शिवास्त्र वर्द्धिन्यो प्. ९अ) स्वस्वमंत्रेन षडगेन संपूज्य || दिगपालान् पूजयेत् || इन्द्राय वज्रहस्ताय सुराधिपतये नमः || ऐरावत गजारूढं स्वर्णवर्ण किरीटिनं | सहश्रनयनं शक्रं वज्रपानिं विभावयेत् || आसन मूर्त्तिमूलेन बलि तस्मै प्रदापयेत् || अग्नये शक्तिहस्ताय तेजाधिपतये नमः || सप्तार्च्चि पञ्चविभ्राणं मुक्तमाला कमण्डलुं || ज्वालामाला कुलरक्तं छागस्थं शक्तिहस्तकं | बलिं तस्मै प्रदातव्यं सर्व्वविघ्नप्रनासनं || यमाय दण्डहस्ताय पितृणां पतये नमः | कृतान्त महिषारूढं दण्ड हस्तं भयानकं | प्. ९ब्) कालपासधरं कालं ध्यायेत् दक्षिण दिग्पतिं || नै-ऋत्या पाशिहस्ताय रक्षाधिपतये नमः || रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभं || कृपानि पानिं मश्रोद्यं पिवतं राक्षसेस्वरः || वरुणाय पाशहस्ताय अपां हि पतये नमः | नागपाशधरं हृष्टं रत्नोद्यद्युतिविग्रहं || शशांकधवलं ध्यायेत् वरुणं मकरासनं || वायवे ध्वजहस्ताय प्राणाधिपतये नमः | आपीतहरितच्छायं विलोल ध्वजधारिणं || प्राणभूतञ्च भूतानां हरिणस्थं समीरणं || प्. १०अ) कुबेराय गदा हस्ताय धनाधिपतये नमः | कुबेर मेषमाशीनं सगर्व्वः खर्व्वविग्रहं || स्वर्णच्छायं गदाहस्तं उत्तराधिपतिं स्मरेत् || ईशानाय त्रिशूलहस्ताय भूताधिपतये नमः | ईशानं वृषभारुढं त्रिशूलव्यालधारिणं || शरचन्द्रावदातंञ्च चन्द्रमूलि त्रिलोचनं || अनंताय चक्रहस्ताय नागधिपतये नमः | अनंतं पुंडरीकाक्षं फनादशपरिते युतं || विद्युदामप्रतीकासं कूर्मारूढं प्रपूजयेत् || ब्रह्मने पद्महस्ताय स्वर्गाधिपतये नमः | पीनं पीतं चतुर्व्वाहुं ब्रह्माणं चतुराननं || प्. १०ब्) हंशयानञ्च विभ्राणं दण्डाक्षश्रुक्कमण्डलुं || वायुकोणे दक्षिणघटे क्षेत्रपालं संपूज्यः || ततो अस्त्र वर्द्धिनी गृहित्वा अविच्छिन्न पयोधारां शिव कुंभानुगामिनीं | शिवाज्ञां लोकपालानां श्रावयन् मूलमुचरन् || प्रदक्षिन क्रमेन भ्रामयेत् || यज्ञसंरक्षणार्थाय विघ्नानाध्वसनाय च | यूयं स्ववाहनास्त्रैश्च संनद्धाय शिवाज्ञया || इति पठन् पूर्व्व शिवकलसं संस्थाप्यः || पश्चात् अस्त्रवर्द्धिनीं स्थापयेत् | शिव कुंभे नित्यवत् परमेश्वरं संपूज्य | प्. ११अ) वर्द्धन्या अस्त्रजातं सागं संपूज्यः || आवाहानादि चन्दनाक्षत पुष्प मालां दत्वा || मूलमुचार्यांगुष्ठेन शिवकुंभं मुष्ट्यावर्द्धनीं स्पृसेत् || भगस्य हृदयं लिंगं लिंगस्य हृदयं भगः | तस्मै तै भगलिंगय उमारुद्रायते नमः || इति भगलिंगीकरणं कृत्वा ग्यानखड्ग समर्प्पयेत् || ओं यज्ञस्यास्य पतिस्त्वं हि मूर्त्तिरेषातवाचलाः | एष ते ग्यानिनस्त्रिंशः तत गृहान स्वमायुधं || हूं फडन्तास्त्रेण ग्यान खड्गं समर्प्य | शिवमन्त्रमष्टोत्तरशतं जप्त्वा समर्प्पयेत् || प्. ११ब्) अंगानाञ्च दशांसेन वर्द्धन्याश्चः || ओं उमायै भगरूपिण्यै लिंगरूपधराय च | शंकराय नमस्तुभ्यं सर्व्वानुग्रहकारिणे || ओं यथैदं कृत यत्नेन भगवन्मख मन्दिरं | रक्षणीयं जगंनाथ सर्व्वाध्वर वरत्वया || इति रक्षाविज्ञापनं कृत्वा || वायुकोने गणपतिं संपूज्य || ईशाने गुरुकलसं संपूज्य || अथ स्थंडिले वा शिवमूतो वा भगवन्तं सांगसमाराध्य || नमस्कृत्य आज्ञाप्राथ्य अग्निकार्य करोमीति || ततो अग्निकार्य कुर्यात् || प्. १२अ) सामान्यार्घपात्रं गृहीत्वा प्रदक्षिण क्रमेन होमस्थानं यायात् || ओं हौं शिवाय नमः | निरीक्षणं || ओं हः अस्त्राय हुं फट् प्रोक्षण ताडनं || ओं हें कवचा वौषट् अभ्युक्षणं || ओं हः तास्त्राय हूं फट् खननमुद्धरणञ्च | ओं हां हृदयाय नमः पूरण समीकरणण्च || ओं हं कवचाय वोषट् सेचनं || ओं हः अस्त्राय हूं फट् कुटनं | ओं हं कवचाय वोषट् समार्जनोपलेपनं | ओं हौं शान्त्यतीताये नमः || मध्ये || ओं हैं शान्त्यै नमः || पूर्व्वे || ओं ह्यं विद्याये नमः || दक्षिणे || ओं ह्वीं प्रतिष्ठाये नमः | उत्तरे | ओं ह्लां निवृत्यै नमः || पश्चिमे || प्. १२ब्) इति कलापरिकल्पनं || ओं हं कवचाय नमः | त्रिसूत्रीवेष्टनं || ओं हां कलामय कुंडाय नमः || ओं हः अस्त्राय नमः || कुशाग्रेणोत्तर गतरेखात्रय पूर्व्वगतैक रेखा चतुष्टय करणं | ओं हः अस्त्राय हूं फट् | कुशत्रयेन वज्राकारं वज्रीकरणं | ओं हां हृदयाय नमः | पूर्व्वोत्तराग्र कुशद्वयेन च पथदानं || मूल हृदस्त्रौं कारेण वाष्टादशसंस्काराः || ओं हं कवचाय नमः | कुण्डकण्ठदिक्षुकुशैः पूर्व्वाग्र द्वयोतुराग्रद्वयोक्षवाटनं || ओं हां वागीश्वरी प्. १३अ) वागीश्वरासनाय नमः || कुण्डमध्ये विष्टरं णास्य || ओं हां वागीश्वर्यै नमः || ओं हां वागीस्वराय नमः || आवाहनादि पुष्प प्रदानान्तं तयोरतशी पुष्पसंकाशस्येः सर्व्वाभरणभूषितयोरनोन्य क्रीडा विभाव्य कुर्यात् || ततो अग्निमानीय सुद्धशरावादिपात्रैः || ओं हः अस्त्राय हूं फट् अंगाखण्डमाकृष्य | क्रव्यादानं परित्यज्य | निनिरीक्षणादिभिः संशोध्य || ओं हां हं हां वह्निमूर्त्तये नमः || इत्युद्गामिताराभं भूताग्निपूरकेनां कुशमुद्रया प्. १३ब्) कृष्य विन्द्वग्निना यतदर्क्काभं कुंभकेन नाभ्यग्निना यतदर्क्काभमुतिष्टं तं विन्दुना सहेकीकृत्य | ओं ह्रूं वग्नि चेतन्याय नमः || रेचकेनोद्भव मुद्रया दक्षणात्र्याभ्रस्यत पूषाभं निस्सार्याग्नि पात्रे निधाय || षडगेनाभिमन्त्र्य | कवचेनावगुण्ठ्य | अस्त्रेण संरक्ष | धेनुमुद्रया सक्त्यामृतीकृत्य | ओं हां अग्नये नमः || इति पूज्यः || भूमिस्थ जानुरग्निपात्रमादाय प्रदक्षिन क्रमेण योनिक्षोभं त्रिभ्रामयित्वा | वागीसो स्यामा वीशानदिक् शिरसौ युवानो वृषभ्यन्ता वा प्. १४अ) संनचर्मधातु संपातौ संचिन्त्य | ओं हां शिवबीजाय नमः || वागीशी योनौ गर्भनाड्यां वागीशेन पत्याबीजामिवक्षिष्यमानं विभाव्यात्मसम्मुखं क्षिपेत् | ओं हां हृदयाय नमः || इति भूटीकरण वस्त्रसंवरणण्च | ओं हां वागीश्वर्यै स्वधा || इति शोउचाचमनं || ओं हं कवचाय नमः || इतीन्वनाच्छादन || ओं हः अस्त्राय नमः | इति प्रज्वालनं | ओं हां गर्भाग्नये नमः | इति पूजनं || ओं हः अस्त्राय नमः | वागीशी हस्तै सप्तास्त्रजप्तकुशकं कनदानं || ओं हूं सद्योजाताय नमः | अग्नि पूजनं || प्. १४ब्) ओं हा हृदयाय स्वाहेति तिलाहुति पञ्चकै गर्भाधानं | ओं हिं वामदेवाय नमः | पूजनं | ओं हीं शिरसे स्वाहेति तिलाहुति पञ्चकं | ओं हं पुं पुर्यष्टक देहाय नमः || कुशेन बीजभूतं जलबिन्दुं दद्यादिति प्रश्रवनं || ओं हूं अघोराय नमः | पूजनं | ओं ह्रैं शिखाये स्वाहा | तिलाहुति पञ्चकं | ओं ह्यं शिखायै स्वाहेति पञ्चदशकेन वक्त्रांगकल्पनं | प्. १५अ) वक्त्रौद्घाटन निस्कृतिञ्च तत्सीमन्तोनयनं || ओं हं तत्पुरुषाय नमः पूजनं | ओं हैं कवचाय स्वाहा | तिलाहुति पंचकदानं | ओं हूं फडन्तास्तेनाग्निज्वालनं || स्नानार्थं जल बिन्दुदानं | हूं फडन्तास्तेन मेखलान्तर्वहिः कुशास्तरणं | हृदयेन तेषु दभविष्टरन्न्यासः | स्वाहान्तास्त्रेण लालापनोदाय पञ्चशमिध होमः || ओं हां ब्रह्मने नमः | पूर्व्वविस्टरोपरि | ओं हां विष्णवे नमः | पश्चिमे | ओं हां शंकराय नमः | दक्षिणे || ओं हां अनन्ताय नमः | उत्तरे || इन्द्राद्यनन्तानलोकपालान् प्. १५ब्) पूर्व्वाद्यार्द्वाधः स्थितानग्निसंकुखान हृदा संपूज्य | भो भो लोकपाला इमं बालकं पालयिषाथ || इत्याजा श्रावयेत् | ततो निरीक्षणादि चतुर्भिः श्रुक्श्रुव शोधनं | हूं फडन्तास्तेन प्रतर्प्य | तेन वास्त्रेण कुशाग्रमध्यमूलैः श्रुक्श्रुवयोरुर्द्धमध्याधो भागेषु संस्पृश्य || एतेषु त्रिस्थानेषु | ओं हूं शिवतत्वाय नमः || ओं हीं विद्यातत्वाय नमः || ओं हां आत्मतत्वाय नमः || इति तत्वत्रयं न्यास || ओं हौ शिवाय नमः || श्रुवे | ओं हां शक्तये नमः || श्रुचि || कवचेन प्. १६अ) त्रिसूत्र्या संवेष्ट्य || ओं हां श्रुकश्रुवाभ्यां नमः || इति संपूज्यः || स्वदक्षिणे कुशोपरिविन्यस्य | निरीक्षणादि चतुशुद्धिभिः शोधितं घृतं कुण्डोग्निकोन परिधृत्वा | ओं हां ब्रह्मने स्वाहेति घृतबिन्दुदानेन तापनं | इशकोने धृत्वा | ओं हीं विष्णवे स्वाहेति घृतबिन्दुदानेनाधिश्रयनं | कुण्ड नाभो धृत्वा | ओं हूं रुद्राय स्वाहा | इति घृतबिन्दुदानोद्वासनं || हूं फडन्तास्त्रेन ब्रह्मग्रन्थि कुशाभ्यां मग्निसंमुखोत्प्लावनेन उत्प्लवनं || हृदयेणात्मसंमुखोत्प्लावनेन संप्लवनं | हृदाअकुशोन्मुखं प्. १६ब्) घृतं स्पृष्टाग्नौ निक्षिपेदिति | पवित्रीकरणं | तथा कवचेन नीरांजनं | हूं फडन्तास्त्रेन दग्धकुशक्षेपेन दीपनं | हृदामध्य कृत ब्रह्मग्रन्थि प्रादेशमात्र कुशद्वयेन घृतमध्ये च न्यासः || तत्र शुक्लकृष्णपक्षौ विभाव्यनाडी त्रयञ्च || घृतपात्रे दक्षिनभागे घृतं गृहीत्वा | ओं हां अग्नये स्वा अग्निदक्षिण नेत्रे || हा घृतदक्षिणभागे || वामभागे घृतं गृहीत्वा | ओं हां सोमाय स्वाऽग्नि वामनेत्रे || हा घृतवामभागे || मध्योपरिघृतं गृहीत्वा | ओं हां अग्नी सोमाभ्या स्वातृतीयनेत्रे | प्. १७अ) हा घृतमध्योपरि | ओं हां अग्नये स्विष्टकृतये त्वा अग्निमुखे | हा घृतभाग त्रयेपि | घृतषडंगेनाभिमन्त्र्य कवचेनावगुण्ठ्य | हूं फडन्तास्त्रेन संरक्ष वोषडन्त शक्त्याधेन मुद्रयामृतीकृत्य | इछं शोधित घृतबिन्दुनान्यदपि घृतंद्यसिंच्य || स्वमुखं निक्षयेत् || ओं हं सद्योजाताय स्वाहा || ओं हिं वामदेवाय स्वाहा || ओं हूं अघोराय स्वाहा || ओं हें तत्पुरुषाहा || ओं हों ईशानाय स्वाहा || अग्ने पश्चिमोत्तर दक्षिणपूर्व्वमध्यवक्त्रेषु एकैकया घृताहुत्या वक्त्राभिघाराः || ओं हं हिं प्. १७ब्) सद्योजात वामदेवाभ्यां स्वाहा || ओं हिं हूं वामदेवा घोराभ्यां स्वाहा || ओं हूं हें अघोर तत्पुरुषाभ्या स्वाहा || ओं हं हों तत्पुरु ईश्वानाभ्या स्वाहा || ओं हों हें हुं हिं हं ईशान तत्पुरुष अघोरवामदेव सद्योजातेभ्यः स्वाहा || इत्यग्निवायुनै-ऋत्यैशानगतया घृतधारया वक्त्रैकी करणमिति || ध्यात्वा वक्त्राणि | पञ्चाग्रे येन यत्कर्म वांच्छितं | तन्मुखं मूर्द्ध्नि कुर्व्वीत तत्स्थाने चोर्द्धगं मुखं || जातकर्म | ओं हां ईशानाय नमः || इत्यग्नि पूजनं || प्. १८अ) ओं हः अस्त्राय स्वाहेति तिलाहुति पञ्चकं || ओं हां शिवाग्निस्त्वं हुतासनेति नामं कृत्वा || ओं हां वागीश्वर्यै नमः || ओं हां वागीश्वराय नमः || इति द्वयोपूजनं || ओं हां वागीश्वर्ये स्वाहा | ओं हां वागिश्वराय स्वाहेति प्रत्येकं तिलाहुति दशकं दत्वा नमोंन्तेनेतौ विसर्ययेत् || ओं हौं शिवाय स्वाहा वौषट् | ततः श्रुवमापुर्यघतेन | श्रुगग्रे पुष्पं दत्वा सनैर्व्वामस्तनान्त हृदन्त मुखांतं वा श्रुगमूलं नीत्वा प्. १८ब्) त्वमपाद वोषडन्तमूलेन मध्यनाअडी संचारेण लयान्तमुच्चार्य | षोडशान्तामृतयुक्तेन सर्व्वकामपूरणीय वा च धारां पूर्णां दत्वा सपूर्ण नामकरणं || चर्वर्थं धूप दीपार्थं कुंडात पृथक् अग्निं नियोजयेत् || ततो चरुसाधनं || मंडपस्याग्नेय कोणे चूलीं पश्चिमाननं कृत्वा || ततो चरुस्थाली संगृह्य | अस्त्रेन प्रक्षाल्य || मूलेन चन्दनादिना विलिप्य || धूपेन धूपयित्वा | वर्म्मना सूत्रेण कण्ठे वेष्टयेत् || अस्त्रेण मण्डलं विधाय कुशासनं दत्वा || प्. १९अ) तन्मण्डले अनन्तादि आसनं संपूज्यः || स्थालीं तत्र संस्थाप्य | सांगेन मूलेन संपूज्यः || पुष्पमपनीय || अस्त्रेण क्षीरं || मूलेन तंण्डुलगुडादिकं निक्षिप्य || चूलीं निरीक्षणादि चतुः शुद्धिं कृत्वा पूजयेत् || ओं धर्माय नमः || ओं अधर्म्माय नमः || तत्र स्थालीं निवेसयेत् || उत्घाटन पिधानं अस्त्रेण || स्विन्ने तप्ताभिघारं तत्रैव || अंगेण वोषडन्तेन | ततो पूर्व्वकृतमण्डले स्थालीमवतार्य || शीताभिघारं कुर्यात् | मूलादि अंगे [एxत्र fओलिओ स्तर्त् fरोम् हेरे] प्.*) न्याशांतरे कुंडाग्निपूजनं || ओं ह्रूं वद्नये नमः || इति पूजा || अनेनैव स्वाहान्तेन षोडस समिध होमः || ओं त्वमग्ने चेश्वरं तेजः पावनं परमं यतः | तस्मात्वदीय हृत्पद्मे संस्थाप्य तर्प्पयामितं || इति प्रार्थ्य | स्वसव्यनासापुट निसृत नाडी वह्नि नासापुट घष्टां ध्यात्वा शिवं सांगं माश्रयो पाधितोऽग्निवर्ण संपूज्यः नैवेद्य पवित्र जपादिं विधाय भगवन् यथासंभवै द्रव्यैस्तर्प्पयामी ह्यध्येष्याग्नेर्ज्जिह्वां सऽऽन्ककेल्या || ओं ह्री-ऊं हिरण्याये स्वाहा || प्.*) नै-ऋत्ये || ओं ल्रां कनकाये स्वाहा || पश्चिम || ओं ह्रीं रक्ताये स्वाहा || वायव्ये || ओं श्रीं कृष्णायै स्वाहा || आग्नेये || ओं ष्रा-ऊं सुप्रभायै स्वाहा || पूर्व्वे | ओं स्रा-ऊं अतिरिक्ताये स्वाहा || ईशान || ओं ह्रूं बहुरूपाये स्वाहा || मध्ये || दक्षिणोत्तर पर्यंतगत घृतधारयेति जिह्वाप्रकल्पनं || क्वाप्याख्यंने पंतसतं ऽऽना || [एxत्र fओलिओ उप्तो हेरे] प्. १९ब्) न | स्वाग्नौहाचरौ || संपाता हुतयो देयं || षडंगेनाअभिमंत्र्य | अस्त्रे संरक्ष कवचेनावगुंण्ठ्य || वर्द्धन्न्याग्रे स्थापयेत् || इति चरुकविधि || ततो न्यासं कृत्वा || हृदंबुजे सांगं सासनं भास्वरं परं | यजेत् पूर्व्ववदा वाह्य प्रार्थ्यागां | तर्प्पयेछिवं || यागाग्नि शिवयो कृत्वा नाडीसन्धानमात्मना | सक्त्यामूलान् ना होमं कुर्यादंगे दशांसतः || मूलेन वोषडन्तेन पूणा दत्वा || पुन तिलाहुतिं कुर्यात् || मूलेन पूर्णां च दत्वा | द्वारादि लोकेशानां प्. २०अ) च दशाशेन दद्यात् || पूर्णांतं चरुकं अस्त्रशतेन च || ततो मन्त्रदीपनं || ओं हः हूं फट् हां हौं शिवाय हः हूं फट् || ओं हः हूं फट् हां हृदयाय हः हूं फट् || ओं हः हूं फत् हीं शिरसे हः हूं फट् || ओं हः हूं फट् हूं शिषाये हः हूं फट् || ओं हः हूं फट् हं कवचाय ह हूं फट् || ओं हः हूं फट् हः अस्त्राय हः हूं फट् || इति मन्त्रदीपनं || प्रत्येकं पंचाहुतिर्व्वा त्रिराहुतिर्व्वा दातव्यं || ततो देशापातन कालोत्पातनं कुर्यात् || ओं हां हौं देशोत्पातनाय स्वाहा || प्. २०ब्) ओं हां हौं कालोत्पातनाय स्वाहा || दुर्न्निमित्तप्रोत्सारणार्थं नवग्रहशान्तिं विधाय || ततो मूलेन संख्याहुति || ब्री?हि होम ब्राह्मनार्चनं || बलि प्रदानं || अन्तर्ब्बलि बहिर्ब्बलि || कुण्डाग्नि मण्डल द्वयं कृत्वा | पश्चिममण्डले || ओं हां रुद्रेभ्य स्वाहा || पूर्व्वे || ओं हां मातृभ्यः स्वाहा || दक्षिणे || ओं हां गणेभ्यः स्वाहा || पश्चिमे || ओं हां यक्षेभ्यः स्वाहा || उत्तरे || ओं हां ग्रहेभ्यः स्वाहा || ईशे || ओं हां अशुरेभ्यः स्वाहा || आग्नेये || ओं हां रक्षोभ्यः स्वाहा || नै-ऋत्ये || प्. २१अ) ओं हां नागेभ्यः स्वाहा || वायव्ये || ओं हां नक्षत्रेभ्यः स्वाहा || मण्डलमध्ये इशाने || ओं हां राशिभ्यः स्वाहा || वह्नौ || ओं हां विस्वेभ्यः स्वाहा || नै-ऋत्ये || ओं हां क्षेत्रपालाय स्वाहा || वरुणानिलयोर्मध्ये || इत्यन्तर्ब्बलिविधानं || अथाग्नेययां द्वितीयमण्डलके || ओं हां इन्द्राय स्वाहा || ओं हां अग्नये स्वाहा || ओं हां यमाय स्वाहा || ओं हां नै-ऋत्याय स्वाह || ओं हां वरुणाय स्वाहा || ओं हां वायवे स्वाहा || ओं हां कुबेराय स्वाहा || ओं ईशानाय स्वाहा || पूर्व्वादीशानान्तं || ओं हां ब्रह्मने स्वाहा || प्. २१ब्) ऊर्द्धभागमुद्विश्यैशाने || ओं हां विष्णवे स्वाहा || अधोभागमुदिस्य नै-ऋत्यांदिशि || ओं हां क्षेत्रपालाय स्वाहा || तयोर्मध्ये || ततो मण्डलाद्वहिः | वायसादिभ्यः समयभेदिभ्यः स्वाहेति बहिर्ब्बलिदानं || इति बलिं दत्वा || संहारमुद्रयात्मनि निवेसयेत् || संकल्प || वार्तिकाहवनं कृत्वा || पुष्करोपर्यधोमुखं श्रुवं निधाय || सव्यवामहस्ताभ्यां तिर्यग्नाभौ धृत्वा वोषडन्त मूलेन पूर्णान्दत्वा || ओं हां आचमनं स्वाहा || ओं हां शिवाय गन्धंन्नमः || पूर्णाग्रे आहुति चतष्टयं दद्यात् || प्. २२अ) ओं हां भू स्वाहा || ओं हां भुव स्वाहा || ओं हां स्वः स्वाहा || ओं हां भूर्भुवः स्वाहा || इति || ततो मण्डलत्रितयं कारयेत् संध्यासमये | प्रथमे पञ्चगव्यं द्वितीये चरुकं हृदयेन दापयेत् | अष्टग्रासं दन्तस्पर्शवर्जितं || तृतीयमण्डलके दन्तधावनं | तस्य पातमुपलक्षयेत् || पूर्व्व पश्चिम उत्तर ईशानेषु सोभनं || अन्यत्र पातेषु असोभनं || अघोरास्त्रेन वा अस्त्रमन्त्रेनाहुतिं दत्वा शान्ति कारयेत् || ततो स्वापयेत् || दर्भो परिकृष्णाजिनं दत्वा भस्मना शरषपेन अस्त्रमंत्रेन प्. २२ब्) रक्षां कृत्वा स्वप्नमानवकं जपेत् || ओं हिलि २ शूलपानये स्वाहा || इति शिष्यदक्षकर्णे कथयेत् || रात्रौ अघोरास्त्रेण बलिन् दत्वा स्वयमपि शयनं कारयेत् || इत्यधिवासनविधि || पुनः प्रभाते प्रातस्नानं कृत्वा गुरो स्वप्नं निवेदयेत् || असुभे अघोरास्त्रेन वा अस्त्रेन वा शान्तिं कारयेत् || आहुतिं दत्वा || ततो दिगद्वारन्देवता कलसस्थण्डिलादीनां आहुतिं दत्वा || शिष्यप्रवेशार्थं शतं मूलेन हुत्वा | पूर्णाञ्च दत्वा प्. २३अ) देशापातन कालापातन दुर्न्निमित्त प्रोच्छारण सुनिमित्ता पादनार्थं | शतं शतं द्वं द्वं वा पूर्णासहितं मूलेन हुत्वा || तदन् | ओं हौं शिवाय स्वाहेत्यादिना मन्त्रतर्प्पनं | ओं हां हौं शिवाय हूं फडित्यादि मन्त्र दीपनं || वारत्रयं || अन्तर्ब्बलि || ततो मण्डपात् बहिमण्डलं कृत्वा पूर्व्वाग्रकुशं धृत्वा | प्रनवासनं संकल्प्य | पूर्वाननं शिष्यमूर्द्धकायं संस्थाप्य || स्वयमुत्तराभिमुखं स्थित्वा || मूलमन्त्र चक्षु विन्यस्य || मस्तकादि पादान्तं शिष्यमवलोक्य || प्. २३ब्) ओं हूं फडंन्तास्त्रेण शिष्यय स्वर्घजलेन संप्रोक्ष || अनेन मन्त्रेन भस्मनाताड्य || अनेनैव मन्त्रेन नाभे रुर्द्धाधः कुशाग्र मूले स्त्रिधोलिक्ष || कवचेनाभ्युक्ष शिष्य हृदि चतुर्म्मण्डल मध्यस्थमात्मानमस्त्रेणा ताड्य || स्फुरत्तारकाकारं विभाव्य || ओं हां हं हां चेतन्याय नमः || चेतन्यं हृदये निष्ठुरया निरुंध्य | अष्टपुष्पिकया शिरसि हृदि वासं पूज्य | निरीक्षणादि शुद्धेन हृदा नेत्रेण वा अभिमन्त्रितेन शदसेन वस्त्रेन नेत्रमन्त्रेन नेत्रमाच्छाद्य || हस्ते पुष्पं दत्वा | प्. २४अ) प्रदक्षिन क्रमेन यज्ञमण्डपं प्रविस्य | देव दक्षिणतः कृत षडुत्थमासने मण्डले निविस्य || भूतसुद्धि क्रमेन शिष्य देहं संसोध्यान्तर्यागादिकं च कृत्वा शिवहस्तं भास्वरं तच्छिरशि विन्यस्य || तत्तेजसा शिष्यदेहं सबाह्याभ्यन्तरं व्याप्तं संचिंत्य | शिवाय पुष्पन्दापयित्वा | नेत्रमुद्घाट्य | शिवात्मनोः प्रणामं कारयित्वा | कुण्डसमीपं नीत्वा स्वदक्षिणभागे षडुत्थासन युक्त मण्डले शिष्यमुपविस्य | समूलाग्र कुशं स्वात्मजंघे मूलं शिष्यकरे अग्रञ्च दत्वा || अग्निस्थ प्. २४ब्) शिवमष्टपुष्पिकया संपूज्य | ओं हां इडायै नमः || ओं हां सुषुम्नायै नमः || इति संपूज्य प्रत्येकं स्वाहान्तेनाहुति पञ्चकं दत्वा | नाडीसन्धानं कृत्वा शिष्यमस्तके संपात्य | शिवहस्तस्थिरत्वार्थं मूलेनाष्टोत्तरसतं हुत्वा | अगानाञ्च दशांसेन हुत्वा | वोषडन्त मूलेन पूर्णान् दत्वा | अर्घजलबिन्दुं शिरशि दत्वा | यज्ञोपवीतं दापयेत् | अस्त्रेण प्रायश्चित्तार्थं शतं हुत्वा प्. २५अ) पूर्णां च दत्वा || समान्यसमय दीक्षामिति || ########### END OF FILE #######