#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00080 Uniform title: sambandhasiddhi Secondary title: siddhitrayī Author : utpaladeva Description: E-text transcribed from volume 34 of the Kashmir Series of Texts and Studies, where it is bundled together with other texts of Utpaladeva: ājaḍapramātṛsiddhi iśvarasiddhi īśvarapratyabhijñākārikāvṛtti The sambandhasiddhi,ājaḍapramātṛsiddhī and iśvarasiddhi are collectively known as the siddhitrayī . Notes: This e-text was transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Nov. 28, 2005 Publisher : Research Department, Jammu and Kashmir State Publication year : 1921 Publication city : Srinagar Publication country : India #################################################### अथ संबन्धसिद्धिः श्रीमदाचार्योत्पलदेवविरचिता | __________ भेदाभेदात्मसंबन्धसहसर्वार्थसाधिता | लोकयात्रा कृतिर्यस्य स्वेच्छया तं स्तुमः शिवम् || १ || भावभेदादिसंबन्धमयेन [ख. भेदात्मेति पाठः |] वपुषोन्मिषन् | जयत्येकोऽपि विश्वात्मा प्रकाशः परमेश्वरः || २ || इह भावानां संबन्धो विचार्यते, - कस्तावत्संबन्धशब्दार्थः संसर्गः संपर्कः संश्लेषः संबन्ध इत्यप्युक्ते न विवृतः संबन्धार्थः प्रतीयते | किं नैरन्तर्यं संश्लेष उतान्यत्किंचित् | नैरन्तर्यं चेत् दूरस्थयोः पितापुत्रयोः स न स्यात्, अयः - शलाकयोः संनिकृष्टयोर्विभुद्रव्ययोरपि च स्यात् | अथ द्विष्ठः (प्. २) पदार्थः कश्चित्संबन्धः | तत्रापि द्विष्ठतैव संबन्धता चेत् तद्द्वित्वद्विपृथक्त्वादेरपि सा स्यात् | न चायमर्थः संबन्धशब्दस्य अवयवार्थानुरोधादुत्तिष्ठति [ख. एतदुत्तिष्ठतीति पाठः |] अपि तु तैलपायिकाशब्दस्येव संकेतमात्रात् | अथ संबन्धशब्दार्थ एव न द्विष्ठता अपि तु सोऽन्य एव केवलं संबद्धयोरेव [ख. पु. सोऽपि द्वयोरिति पाठः |] संभवतीति द्विष्ठ उच्यते, स तर्हि स्वरूपेणैव स्पष्टमुच्यतां संबन्धः संश्लेष इत्यादिपर्यायाणामयमर्थ इति | अपेक्षापारतन्त्र्यादिरपि न चान्यः संबन्धार्थो द्विष्ठत्वन्यायेनैव सोऽर्थाक्षिप्तः स्यात् | न चाप्यर्थाक्षिप्ततास्य, न हि जडयोः संबन्धिनोरपेक्षार्थो घटते पारतन्त्र्यार्थो वा | अथाप्यङ्कुर एव बीजमपेक्षते बीजे वा परतन्त्रो भवति, तदायत्तत्वादेस्तदात्मलाभस्येत्येतदपि न सम्यक्; उपचारो ह्ययमपेक्षत इव परतन्त्र इवेति स्यात्, न तु जडस्य मुख्यैवाकाङ्क्षा प्रार्थना चेच्छैव विशिष्टा अपेक्षा पारतन्त्र्यं वा परप्रवणता परकीयविनियोगाकाङ्क्षा स्वेच्छाचरणनिरोधलक्षणः संकल्पविशेष एव संगच्छते, अलब्धात्मनश्चात्मलाभार्थमपेक्षादि [ख. अर्थलाभेति पाठः |] कथ्यते, न च तदानीमद्विष्ठत्वात्संबन्धार्थोपपत्तिः; तस्मान्मुक्तकण्ठमेव मुख्यः संबन्धोऽभिधातव्य इति | तत्रोच्यते संबन्धः संपर्कः संश्लेष इत्येते पर्यायास्तावद्भवन्ति, स च संश्लेषार्थोऽनेकस्यैकता कथ्यते, न त्वनेकतैव नापि एकतैव अपि तु उभयावस्थापेक्षोऽयमर्थः [ख. पु. पेक्षयेति पाठः |] संबन्धः | अत एव न बहूनामेकः संबन्धः | यदि हि अनेकत्वमात्रमेकत्वमात्रं वा संबन्धः (प्. ३) स्यात्, तद्बहूनामपि एकतापत्तौ एकतानापत्तावपि वा स्यात्, एकमात्रस्यापि च स्यात् | यदा पुनरनेकस्यैकता संबन्ध उभयापेक्षया तदानेकापेक्षणादेकमात्रस्यैव न संबन्धः, एकापेक्षणाच्च नानेकस्यैव पृथक्स्थितस्य | न चापि त्र्यादीनामेकः संबन्धः, त्रयाणां हि भिन्नभेदावधिकृतद्वैराश्याश्रयात्परस्परं भेदात्, तेषां च संबन्धस्वरूपस्थितावपेक्षणात्, एकस्य द्वितीयेन सह यैकता न सा तृतीयेन सह, तयोर्द्वितीयतृतीययोर्भेदादपेक्षणाच्च; ततो बहूनां शतादिसंख्यानामपि प्रतियुगलमेवैकः संबन्ध उद्घोष्यते, - इत्येवं द्वयोरेकात्मेति संबन्धशब्दार्थोऽवयवानुसारेणैव व्यवस्थितः | संशब्देन सहार्थवृत्तिना समानार्थवृत्तिना वा बन्धिना च देशान्तरपरिहारपूर्वकैकदेशावस्थानार्थेन विस्पष्टमुक्तैव स ह्यनेकस्यैकता | केवलमनेकस्य एकता संभवेन्नवेति पर्यालोच्यते, - तत्रायं संबन्धोऽनेकधा प्रतीयते, - पितुः पुत्रः, राज्ञः पुरुषः, वृक्षस्य शाखा, धवश्च खदिरश्च, नीलमुत्पलं, देवदत्तः काष्ठैः स्थाल्यामोदनं पचति, घटस्याभावः, अस्मादिदमन्यत्, - इत्येवमादिना रूपेण | तथा विपर्ययेणापि पुत्रस्य पिता, पुरुषस्य राजेति | तत्र किमिदं प्रतीतिमात्रम् उत वस्त्वेव एवंभूतं प्रतीयते | तत्र यदि प्रतीतिमात्रमेतत् वस्तुस्वरूपं तर्हि वक्तव्यम् | तत्राचक्षते, - वस्तु घटादि स्वात्ममात्रपरिसमाप्तमन्योन्यव्यावृत्तमित्थमेव हि स्वात्मावभासिना प्रत्यक्षेण प्रतीयते कल्पना कल्पितैव सा | ते हि अमिश्राः स्वयं भावास्तान्योजयति कल्पना इत्याहुः, तथा नीलमुत्पलमिति शाब्द्या कल्पनया परं नीलोत्पलयोरेकात्मता प्रतीयते, (प्. ४) न तु वस्त्ववभासिना निरंशोत्पलस्वलक्षणविशेषालम्बनेन [ख. पु. लम्बनप्रत्यक्षेति पाठः |] प्रत्यक्षेण प्रमाणेन | तथा चाहुः संयुज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः | रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः || इत्यादि | नच अनेकस्यानेकतासहभाविनी एकता युज्यते भावाभावरूपत्वेन विरुद्धत्वात् | अनेकस्मादुपादानादेकम् एकस्माद्वा अनेकम् अन्योन्यासंसृष्टमेवात्ममात्रपर्यवसितमुद्भवेत् | यथा विज्ञानसन्ततौ व्यवस्था केषांचित्, तत्र हि शब्दस्पर्शादिज्ञानलक्षणेभ्यः समनन्तरप्रत्ययेभ्य एकमैन्द्रियकं विकल्पज्ञानम् | एकस्माद्वा समनन्तरप्रत्ययात् पञ्चापि शब्दादिविषयाणि जायन्ते | या पुनरेकता अनेकता च समानाश्रया सा प्रमाणबाधिता, भावस्य वाभावता; केवलमित्थंरूपयैव अनया कल्पनाप्रतीत्या सांसारिकव्यवहारनिर्वर्तनार्थमर्थाः परस्परव्यावृत्ता अपि कार्यकारणरूपत्वेन अवास्तवेनैव प्रतिपाद्यन्ते | राजपुरुषयोरन्योन्यं स्वरूपविशेषक्रियैव एवं निरूप्यते [ख. पु. निदृश्यते इति पाठः |] स्थाल्यां काष्ठैरित्यादौ च; अत एव प्रतीतिकाल एव सामान्यस्येव संबन्धस्याभ्युपगमः | वस्तुस्वरूपविपरीतत्वेन च प्रतीतिस्तद्वदेव भ्रान्तिविषयैव, केवलं बाधप्रवृत्तावपि उपकार्योपकारकस्वरूपविशेषावभाससंलग्नत्वादस्य भ्रमस्यावयविभ्रमस्येवानिवृत्तिः सर्पभ्रमवत् | तत एव भ्रान्तेरप्यस्याः संवृतिसंज्ञया व्यपदेश इति | तत्रोच्यते प्रतीतिस्तावदनेकैकरूपतायां संबन्धाभिधानाय भवद्भिरप्यभ्युपगतैव, येनोक्तम् (प्. ५) इत्यमिश्राः स्वयं भावास्तान्योजयति कल्पना | इति | कल्पनारूपत्वं च नास्या दोषः | घटोऽयं पटोऽयमित्यपि विकल्पः कल्पनैव | अथात्र प्रत्यक्षावभासोऽपि [ख. पु. आभास इति पाठः |] तथा घटपटादिरूप एवेति न कल्पनात्वम् | इहापि राज्ञः पुरुषः स्थाल्यामोदन इत्यादावपि प्रत्यक्षावभासो न तथेति कुतोऽवगतम् | अवश्यमेव च प्रत्यक्षावभासोऽप्यत्र तथैवाभ्युपगन्तव्यः, अभ्युपगत एव वा भवद्भिः येनोक्तम्, अर्थाकारप्रतिभाससंलग्नत्वाद्बाधकेनापि दुरुद्धरोऽयं भ्रमः इति | न हि अर्थप्रतिभाससंलग्नत्वाद्बाधकेन अपि त्वर्थप्रतिभाससादृश्यसद्भावमात्रात् | रजतभ्रमेऽपि शुक्तिकासादृश्यसद्भावोऽप्यस्त्येव, सादृश्यविषया [ख. पु. सदृशेति पाठः |] एव हि सर्वा भ्रान्तयः सादृश्यव्यतिरेकेण चान्या अर्थप्रतिभाससंलग्नतयैव युक्ताः, यदर्थप्रतिभासशरीरमेवंभूतमेव एवंरूपेणैव [ख. पु. एकेति पाठः |] व्यवहारयित्रा विकल्पेन व्यवहारयितुमुपपन्नम्, अन्यथाभूतीकृते एव अर्थाभासे परस्परस्वरूपाननुप्रविष्टस्वात्ममात्रपर्यवसितार्थनिष्ठता मापादिते यदि परमयं संबन्धविकल्पः सामान्यादिविकल्पवन्निवर्तेत नान्यथा | न च विकल्पोऽर्थप्रतिभासाद्भिन्नः, निर्विकल्पत्वदूषणादीश्वरप्रत्यभिज्ञायाम् | एवं राज्ञः पुरुष इत्यादाववभास एवानेकस्यैकात्मताप्रथारूपोऽभ्युपगन्तव्यः स्थूलप्रतिभासवत्, स तूपपद्यते न वेत्येतावद्विचार्यते [ख. पु. वेद्यतेति पाठः |], - तत्र चिन्मात्ररूपस्यैव पारमार्थिकस्य वस्तुनो विश्वात्मता | तस्यैव चिन्मात्रस्य मायाशक्तिप्रभावादभेदाख्यात्युत्थापनेन विश्वस्य तत्त्वभूतभुवनाद्यात्मवैचित्र्येणान्योन्यविभक्तता, - (प्. ६) इतीश्वरप्रत्यभिज्ञायां विस्तरेण प्रतिपादितम्, - इति तत एव परीक्ष्यं नेहोपन्यस्यते | अस्मिंश्चार्थे सिद्धे नैकैकतारुअपः संसार एव संबन्धशब्दार्थानुप्रविष्टः, - इति नास्त्येवात्र दीनता, केवलमियद्विमृश्यते - यदेकचिन्मात्ररूपत्वेनानेकात्मनो वस्तुभेदस्यैक एव संबन्धः स्यात् य एव राजपुरुषयोः स एव पितापुत्रयोः स्थाल्यादीनां चेति, अनेकश्चेष्यते | तदत्राप्युच्यते - स्यादेक एव सर्वेषामिति | यद्येकतामात्रमेव संबन्धः स्यात्, यावतानेकतांशादंशेनैकता संबन्धः | ततश्च राजपुरुषोपरक्तैकतान्यः संबन्धः पितापुत्रोपरागोपलक्षणविलक्षण एव; अत एव मायादशायामेवाख्यातिभेदप्रधानायां संबन्धपदार्थसद्भावः, विश्वात्मतायां पुनः पूर्णैकतैव न तु संबन्धार्थः कश्चित् | तत्रापि कदाचित्परापरदशायामपरभागापेक्षणाद्गौणवृत्त्या संबन्धार्थः संभवेत्, उपकार्योपकारकयोरेव च विशिष्टयोः संबन्धः विशिष्टरूपः, स च प्रतिपादनीयोऽवश्यमेव, तदप्रतिपादने तयोरुपकार्योपकारकयोः क्रमिकयोर्गौगपद्येन प्रतीतिर्हानोपादानार्थमन्यथा न घटेत, ततश्च व्यवहारलोपः स्यात् | न चोपकार्योपकारकयोरपि स्वाधीनः कश्चिदुपकारार्थः, - इत्यपीश्वरप्रत्यभिज्ञायामेव विस्तारितम् | ततश्च चिन्मयेश्वरेच्छैव सा तादृशी यया [ख. पु. यथेति पाठः |] पदार्थौ तौ तथोपकार्योपकारकौ भवत इति तल्लग्नयोरेव तयोर्द्वयोर्द्वयोरर्थयोः क्रमिकयोरपि एकबुद्ध्युपारूढयोरेकपरामर्शात् तयोरेवान्यरूपयोर्यौगपद्येन प्रकाशनं व्यवहारसिद्धये तदिच्छयैव विधीयते, - इति न काचित्खण्डना | (प्. ७) स च संबन्धो द्वयोरेव भवति न बहूनां, बहूनां हि किमेकैकस्यान्यैरनेकसंख्यैर्युगपदेव किं वा बहूनां मध्ये एकस्य एकैकेन | तत्र यद्येकैकस्यानेकसंख्यैस्तत्किं तेऽनेकसंख्या एव एकपरामर्शगोचराः अथानेकपरामर्शविषया [क. पु. विषया एकपरामर्शविषया इत्यधिकः |] राज्ञः पुरुषः राज्ञो हस्त्यश्वरथपदातय इति | द्वन्द्वेऽपि हस्त्याद्यनेकत्वेऽपि परामर्शस्यैक्यात् द्वन्द्वाख्यः शब्द एव, हस्त्यादिशब्दा वर्णतुल्याः | एकपरामर्शस्थितो हि शब्द एको भवति | तदेकशब्दाध्यासादर्थोऽप्येक एव | अत एव वस्तुशब्दबुद्धय एता, - इति द्वन्द्वार्थस्यैकस्य स्त्रीलिङ्गत्वात् तद्विशेषो नोपात्त एव | एतच्छब्दः स्त्रीलिङ्ग एव भवति, न तु [ख. पु. नन्विति पाठः |] एता इत्येकशेषनिर्देशोऽयं येन नपुंसकैकशेषः स्यात् | बहुवचनं चात्र दारा इतिवदवयवाद्यपेक्षया, - इत्येवमत्र द्वयोरेव संबन्धः | इह तु राज्ञो हस्ती चाश्वश्च रथश्च पदातिश्च, - इत्यनेकपरामर्शविषयत्वेऽपि यावन्तो हस्त्यादीनां परामर्शास्तावन्त एव राज्ञः, - इति तत्समुच्चयार्था एव चशब्दाः | अन्यथा चशब्दस्याभावे राज्ञ इत्यनुकर्षणं विना हस्तीत्यनेन सहैकपरामर्शनिमञ्जनैकीभूते राज्ञि परतन्त्रे पुनर्विवेकमनापाद्यमाने केन सहाश्वादीनां संबन्धः स्यात् ततश्चोपचारेण हस्त्यादीनां सामानाधिकरण्यं प्रतीयते | अथवा [ख. पु. अथ चासेति पाठः |] सामर्थ्याच्चशब्दाभावेऽपि समुच्चयप्रतीतौ एकैकं स एव संबन्धो हस्त्यादीनामन्योन्यमपि च सत्ताक्रियां प्रति समुच्चीयमानतासंबन्धश्चशब्देनावद्योत्यते | अर्थप्रतिभासोऽपि चायमित्थं स्थितोऽयमन्यथेति (प्. ८) नापरामृष्टो व्यवस्थापयितुं शक्यते परामर्शविरहितस्य प्रतिभासस्यासंभवादेव | न हि मार्गगतिप्रवृत्तस्यापि पार्श्ववर्तितृणादिवस्तुस्पर्शरूपादिप्रतिभासाः परामर्शरहिताः सत्त्वेनाभ्युपगन्तुं पार्यन्ते स्मर्यमाणत्वाभावात् | नापि तेषां तदा चक्षुरादिकारणसामग्रीसद्भावेनानुमानसिद्धा सत्ता युज्यते मनोवधानाभावात् | तद्भावेऽवश्यंभावी तदानीं तृणादिपरामर्श इदानीं च स्मरणं | एतच्च प्रत्यभिज्ञायां निर्णीतम् | एवं च विमर्शमय एवार्थप्रतिभास उपपन्नः | विमर्शश्च यथाग्निर्धूमे इति भवति, तथा संस्कृतस्य प्रमातुरस्य धूमस्याग्निः कारणमस्य धूमः कार्यमित्यपि भवति, - इत्येवमेकात्मतापत्तिपर्यन्तोऽवभासनव्यापारोऽर्थेषु ज्ञानानां, न तु परस्परासंलग्नता प्रकाशमात्रात्परिसमाप्यते | परस्परविशेषणविशेष्यभावपरामर्श एवानेकैकतारूपसंबन्धपरामर्शः | एकपरामर्शव्यापाराविष्ट एव सांसारिकव्यवहारेषु मायीयः प्रमाता न तदानीमेव परामर्शान्तरस्पर्शमप्यर्हति चिदैक्याख्यातिभेदनिबन्धनविकल्पनपरामर्शात्मकत्वान्माया प्रमातॄणामित्येतदपि ईश्वरप्रत्यभिज्ञायामेव प्रपञ्चितम् | व्यवहारे राजा पुरुषो वा प्राधान्येन जिज्ञासितः प्रतिपिपादयिषितश्च भवेदिति स एव विशेष्य उच्यते परश्च विशेषणमित्यत्रापि न काचित्क्षतिः | द्वयोश्चैक्येऽपि विशेषणं विशेष्यीकृतस्वरूपं विशेष्यात्मना चकास्ति स्वरूपेणापि चावभाति राज्ञः पुरुष इति | राजपुरुष इति तु विशेषणभूतो राजा सर्वथा परिहारितस्वरूपो विशेष्यात्मतामेवैकान्तेनापन्नः प्रथते, - (प्. ९) इति न तत्र संबन्धवाचोयुक्तिः | नीलमुत्पलमित्यत्रापि उत्पलान्तःप्रविष्टं नीलमिति नीलवदुत्पलं प्रधानम् | स्थाल्यां काष्ठैरित्यत्रापि कर्त्राश्रितां क्रियामुपलीनाः स्थाल्यादयः प्रकाशन्ते | घटस्याभाव इत्यत्रापि अभावो विकल्पबुद्धावन्तर्नीतघटः प्राधान्येनावभाति | अयमस्मादन्य इत्यन्यार्थोऽन्यत्वापरित्यागेनैवान्तर्नीतापरान्यार्थो विशेष्य इति | एवं सर्वत्रानुमन्तव्यम् | क्रियाकारकसंबन्धे [ख. पु. संभिन्न इति पाठः |] तात्कालिकोपकार्योपकारकभावमयसंबन्धाभासः, शेषसंबन्धे तु स्मर्यमाणोपकारमयः स्मरणावस्थायामपि च पूर्वदृष्टार्थावभास एव परामर्शैक्यादित्युक्तम् | न केवलं च संबन्धमयैकतास्पर्शिपरिमितमायामातृपर्यवसायी वस्तुप्रकाशनव्यापारो, यावदनन्तचिन्मयशिवतावभासविश्रान्तैव प्रतिक्षणं वस्तुसंवित्क्रिया | न च संविदः क्रमोऽस्ति एकैवैकत्रैव क्षणेऽर्थप्रकाशना, सैव संबन्धशिवतामयमेव स्वरूपमाविष्करोति, - इत्युच्यते | तथा चाचार्यधर्मकीर्तिः बहिर्मुखं च तज्ज्ञानं भात्यर्थप्रतिभासवत् [ख. पु. भावार्थेति पाठः |] | बुद्धेश्च ग्राहिका बुद्धिर्नित्यमन्तर्मुखात्मनि || इति | अन्तर्मुखेति, आत्मनीति च स्वसंवेदनमर्थाभासशून्यमपृथग्भूतं चोक्तम् | तथा प्रत्यभिज्ञायामुक्तं या चैषा प्रतिभानन्तपदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः || (ई. प्र. १|७|१) इत्येतत्तत्रैव वितत्य प्रदर्शितम् | यदप्युक्तं प्रतीतिकाल (प्. १०) एव सामान्यस्येव संबन्धस्याभ्युपगम इति, तन्न केवलमस्य यावत्सर्वस्यैवार्थस्य बोधबहिर्भूतस्य कस्यचिदभावात् | सामान्यं चैकमनेकमयं बहिरपि पृथगेव सामान्यनिकुरम्बरूपेभ्यः स्वलक्षणेभ्यः [ख. पु. लक्षणः इति पाठः |] | तच्चैकेनैव शब्देनानियतस्वलक्षणाश्रयत्वेन प्रतिपाद्यते, तच्च कल्पितस्वलक्षणसंबन्धमेकशब्दप्रतिपाद्यमेव गौरिति | अत एव समवायाख्यः संबन्ध उच्यते | सामानाधिकरण्येऽपि द्वयोरेकनिष्ठता | तत्र चैकं तद्वस्तु अस्तिवाक्यप्रतिपाद्यं नीलमुत्पलमिति | संबन्धः पुनर्द्वयोर्विशेष्यैक्यता न त्वेवं वस्त्वन्तरं प्रकाशते, - इत्ययं विशेषः | सामानाधिकरण्येऽपि वा नीलमुत्पलमिति विशेष्योत्पलनिष्ठतैवेति संबन्धतैव | सामान्याद्भान्तिविषयः संबन्धः, - इत्यपि यदुक्तं तदप्यत्यल्पमुक्तम् | विश्वमपीदं चिदभेदाख्यातिमयभ्रान्तिपदमेव | भ्रान्तावपि चास्यां पुनः स्वप्नद्विचन्द्रादिवद्भान्तता नास्ति संवादादिति सर्वमेतन्निर्णीतं टीकायाम् | तदेवं पूर्णचित्स्वरूपपर्यालोचनाक्षमास्तावन्मात्राभिनिवेशेन संबन्धपदार्थप्रत्याख्यानकारिणोऽसंबद्धाभिधायिन इति | (तदाह) अपेक्षा पारतन्त्र्यं च न संबन्धो जडात्मनोः | असंभवादात्मलाभेऽप्युपचारो न लक्षणा || १ || असतामात्मलाभोक्तेर्द्विष्ठतैवं च हीयते | (प्. ११) रूपसंश्लेष एवैवं संबन्धार्थः स्थितः स च || २ || नानन्तर्यमसंबन्धात्तथात्वेऽयःशलाकयोः | तेनानेकस्य रूपस्य श्लेष ऐकात्म्यमेव सः || ३ || नैकस्यैक्येऽप्यनेकस्य बाध आहुर्यथा परे | इत्यमिश्राः स्वयं भावास्तान्योजयति कल्पना || ४ || यतो न कल्पनामात्रं तावदेतदवारणात् | सर्पभ्रान्तेरिवाभासलग्नत्वात्तन्निवारणम् || ५ || यस्मादाभासलग्नत्वं नाभाससदृशार्थता | किं त्वाभासानुसारित्वं भ्रान्त आभास एव तत् || ६ || इत्थमाभास एवास्मिन्ननेकस्यैकतादृशि | वाच्योपपत्तिः साप्युक्ता प्रत्यभिज्ञानये स्फुटम् || ७ || एवं च सति वस्तूनां चिन्मात्रवपुषां सताम् | मायानिर्मितभेदानामप्येकत्वमदुर्घटम् || ८ || तत्रापि यः परामर्शविषयो लौकिकस्य सः | चिदभेदप्रथारूपभेदसारस्य वेदितुः || ९ || व्यापारोऽनेन रुद्धोऽसौ न विकल्पान्तरं स्पृशेत् | विकल्पान्तरसंस्पर्शे मातृभेदप्रसङ्गतः || १० || तदेकामर्शवर्त्येकशब्दाध्यासवशाद्ब्रजेत् | अनेकोऽप्येकतामर्थो यथा घटपटाविति || ११ || (प्. १३) इत्यस्ति तावदन्यश्च विशेषणविशेष्ययोः | संबन्ध उपकारार्थः स ज्ञातुमुपयुज्यते || १२ || बहुत्वेऽपि भवेद्द्वित्वं विशेषणविशेष्ययोः | द्विविमर्शभुवो यद्वद्राज्ञोऽश्वरथपत्तयः || १३ || विमर्शो राज्ञ इत्येकः स्वसामान्योन्मुखः परः | स्वामिसामान्यसंबन्धसहः पुरुष इत्ययम् || १४ || राज्ञः पुरुष इत्येष पश्चात्संबन्धगोचरः | कल्प्योऽनेनाथ वा कल्प्यौ पूर्वौ ते सर्वथा त्रयः || १५ || षष्ठ्यादिवाच्यः संबन्धो विनिविष्टो विशेषणे | विशेष्यैकत्वमापन्ने स्वं च रूपमनुज्झति || १६ || (प्. १४) एकहान्या प्रधानेन शुद्धेनान्यान्ययोगिता | स्याद्गुणस्य यथा राज्ञः पुरुषो ब्राह्मणस्य च || १७ || तथान्येन प्रधानेन यैकतान्यापरेण वा | संबन्धाख्या गुणस्य स्याद्राज्ञोऽश्वः पुरुषो यथा || १८ || इति संबन्धगत्युक्ता मायीयज्ञातृनिष्ठिताः | धियो विभिन्नार्थदृशो व्यवहारप्रवर्तिकाः || १९ || न परं तास्तथा भ्रान्ताः सर्वा अपि प्रतिक्षणात् | स्वसंवित्संज्ञकानन्तचिद्विमर्शप्रतिष्ठिताः || २० || (प्. १५) उक्तः स्वसंवित्सिद्धोऽयं निर्बाध उपयोगवान् | संबन्धः प्रत्यभिज्ञायां पूर्णः परिकरः पुनः || २१ || ___________ इति श्रीमदुदयाकरपुत्रोत्पलदेवाचार्यविरचिता संबन्धसिद्धिः समाप्ता || ___________ श्रीमत्कश्मीरभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येयं प्रकाशिता || ___________ ########### END OF FILE #######