#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00530 Uniform title: sanatkumāratantra Description: Vaiṣṇava tantra. Probably a late work of possibly Bengali origin. Teaches a program of daily worship focusing on the morning rites. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 13, 2021. Publisher : Rasika Monana Caṭṭopādhyāya Publication year : Pre-1900 Publication city : Calcutta Publication country : India #################################################### सनत्कुमारतन्त्रम् प्रथमः पटलः ओं नमो गणेशाय नमः कनक - किञ्जल्क - पीत - निर्मल - वाससे | महाभुज - रिपुस्कन्ध - घृष्टचक्राय चक्रिणे || १ || विविक्ते भुवने रम्ये सिद्धचारणसेविते | सनत्कुमारं नत्वाऽथ पप्रच्छेदं पुलस्त्यकः || २ || कृष्णस्य च महाबाहोर्माहात्म्यं वक्तुमर्हसि | मन्त्रराजं यथान्यायं प्रसादं कुरु सुव्रत || ३ || सनत्कुमार उवाच शृणु रूपं प्रवक्ष्म्यामि कृष्णस्यार्भककर्मणः | यस्याऽहं वशगा नित्यं रविरुद्राः सवासवाः || ४ || किं वा ते महिमा तस्य वक्तव्यो द्विजसत्तमः | दिवि भुव्यन्तरिक्षे च विष्णुरित्यभिधीयते || ५ || विधानं तस्य वक्ष्यामि यथातत्त्वं निशामय | आदौ गुरुमुखाल्लब्ध्वा मन्त्रं भक्तिसमन्वितः || ६ || गुरवे दक्षिणां दत्त्वा पूर्वसेवां समाचरेत् | द्विजसन्तर्पणं कृत्वा प्रहृष्टेनाऽन्तरात्मना || ७ || आदौ नैमित्तिकं कृत्वा सूर्यं सम्पूज्य भक्तितः | देवार्चनं तथा कृत्वा यागं कुर्याद् दयान्वितः || ८ || गिरौ नद्यां वने तीर्थे गोष्ठे देवालये तथा | अश्वत्थे सागरान्ते वा जपेत् प्रतिसहस्रकम् || ९ || शतं चैवाष्टकं कृत्वा भुक्त्वा स्थानेषु बुद्धिमान् | षोडशेनोपचारेण संपूज्य मधुसूदनम् || १० || काले ध्यात्वा यथान्यायं नैवेद्यं च निवेदयेत् | विष्णवे हृदयाह्वानं मन्त्रराजं निशामय || ११ || समाहितः शुचिर्भूत्वा भक्तिमानुद्धरेत् बुधः | ओङ्कारं पूर्वमुद्धृत्य त्रिवारं परमेश्वरम् || १२ || यद् यत् कामो भवेन्मन्त्री मन्त्रस्यादौ निवेदयेत् | पद्मजं तन्मुखोपेतं शक्रस्योपरि संस्थितम् || १३ || सेन्दुबिन्दुशिखोपेतं प्रथमं सर्वकामदम् | तीर्थं वह्निसमारूढं श्रिया मूर्ध्निं व्यवस्थितम् || १४ || शशिबिन्दुशिखाव्याप्तं द्वितीयं श्रीप्रदायकम् | रुद्रं पद्मसमायुक्तं पावकोपरि संस्थितम् || १५ || सेन्दुबिन्दुशिखाक्रान्तं तृतीयं मोक्षदं मतम् | खान्तं नान्तं तथा छान्तं धान्तं लान्तं चलद्वयम् || १६ || वान्तं मान्तं तथा षान्तं लान्तं सान्तान्तकं तथा | एपरम् ऐपरं चैव अपरान्तं परात्रयं || १७ || आद्यं गोपीजनपदं वल्लभाय ततः परम् | स्वाहा शब्दं ततो दद्यात् सम्पूर्णं सिद्धिदायकम् || १८ || || इति सनत्कुमारीये प्रथमः पटलः समाप्तः || १ || अथ द्वितीयः पटलः अथ सम्यक् प्रवक्ष्यामि यजनं ध्यानमेव च | ध्यानं चैव त्रिकालस्य नैवेद्यं च निशामय || १ || ब्राह्मे मुहूर्ते उत्थाय शुचिर्भूत्वा समाहितः | आसने उपविश्याथ गुरुं नत्वा पुटाञ्जलिः || २ || आत्मानं ब्रह्मणो रूपं चिन्तयेच्च मुहुर्मुहुः | जप्त्वामन्त्रं च सर्वेषां वादिनां विजयी भवेत् || ३ || ततः स्नात्वा शुचिर्भूत्वा सन्ध्यादीन् वैदिकांस्तथा | कुर्याद् गुरूपदेशेन लौकिकानपि देशिकः || ४ || श्रीकृष्णं तर्पयामीति मूलमुच्चार्य तर्पयेत् | पूजाद्वारे चोपविश्य पादप्रक्षालनं सुधीः || ५ || शिखाया बन्धनं चैव चास्त्रमन्त्रेण मन्त्रवित् | आचम्य द्वारदेवांस्तु पूजयेत् साधकोत्तमः || ६ || विघ्नानुत्सादयित्वा तु हस्तभूम्योर्विशोधनम् | गुरुं नत्वा गणेशं च वास्तुपूजां समाचरेत् || ७ || ब्रह्माणं पूजयित्वा तु आत्मासनमतः परम् | भूतशुद्धिं विधायाऽथ देवेऽहं चिन्तयेद् बुधः || ८ || ऋष्यादिन्याससर्वांश्च मातृकाणां ततो न्यसेत् | प्राणायामत्रयं कुर्यादङ्गन्यासं च मन्त्रवित् || ९ || आचक्रं च सुचक्रं च विचक्रं च द्विजोत्तमः | त्रैलोक्यरक्षणं चक्रमसुरान्तकमेव च || १० || एकैकं पूर्वतः कृत्वा चक्रशब्दं नियोजयेत् | चतुर्थ्यन्तं तु संसाध्य स्वाहाशब्दमनन्तरम् || ११ || तथा चाङ्गं समुच्चार्य प्रत्येकैकं नियोजयेत् | नमः स्वाहा स्वधा वौषट् वषट्कारं तथास्त्रकम् || १२ || हृदि मूर्ध्नि शिखादेशे तनौ दिक्षु तथाक्रमम् | स्वशक्तिभिः केशवाद्यैर्न्यासं कुर्याद् विचक्षणः || १३ || विभूतिपञ्जरं न्यस्य न्यसेत् तन्मूर्तिपञ्जरम् | तत्त्वन्यासं प्रकुर्वीत करन्यासं तथा बुधः || १४ || मन्त्रन्यासं प्रकुर्वीत व्यापकं च त्रिधा न्यसेत् | विभूतिपञ्जरन्यासं यत्र यत्र दशाक्षरम् || १५ || एवं कल्पोक्तकान् न्यासान् क्रमेण परिकल्पयेत् | शङ्खस्थापनकं चापि कुर्याद् गुरुपदेशतः || १६ || अर्घ्यं चापि तथा कृत्वा द्रव्यमभ्युक्ष्य यत्नतः | पीठं प्रकल्प्य देहे स्वे धर्मादीन वै प्रपूजयेत् || १७ || हृदि चैवमनन्तादीन् पूजयेच्च यथाविधि | बाह्यं मुख्यं गृहस्थस्य वर्णिनोऽन्तःप्रपूजनम् || १८ || यन्त्रं निर्माय ताम्रे तु ह्यनन्तादीन् प्रकल्पयेत् | तस्य कोणेषु धर्मादीन् तत्पार्श्वे पूर्वधर्मकान् || १९ || मध्येऽपि पूजयेन्नित्यमनन्तादि चतुर्दश | केशरेषु च पूजा वै विमलाद्याश्च देवताः || २० || आत्मानं देवतां भाव्य स्वनासापुटकेन तु | निःसार्य पूजयेद् देवं समावाह्य च यत्नतः || २१ || अनन्ताद्यैश्च बीजैश्च प्राणस्थानं समाचरेत् | पाद्यादींश्चैव यत्नेन पूजयेदाकृतीगणान् || २२ || धूपदीपौ समासाद्य नैवेद्यं च निवेदयेत् | जप्त्वा मन्त्रं च तन्त्रोक्तं पूजयेद् देववत् स्वयम् || २३ || श्रीकृष्णं तर्पयामीति मूलमुचार्य यत्नतः | वारत्रिरर्घ्यतोयेन तर्पयेन्मन्त्रमध्यके || २४ || प्राणायामत्रयं कुर्याद् व्यापकं च त्रयं न्यसेत् | तन्त्रोक्तेन विधानेन प्रयोगं कुरुते सुधीः || २५ || || इति सनत्कुमारतन्त्रे पूजासूत्रं नाम द्वितीयः पटलः || २ || अथ तृतीयः पटलः अथ विस्तार्य वक्ष्यामि साधकानां हिताय च | हंसमन्त्रेण जीवं वै सतत्त्वं कुण्डलीयुतम् || १ || योगयुक्तेन विधिना परं ब्रह्मणि योजयेत् | वामनासापुटे धूम्रं वायुबीजं विचिन्तयेत् || २ || तेन संशोधिततनुर्दक्षे वातं विरेचयेत् | दक्षनासापुटे रक्तं वह्निबीजं विचिन्तयेत् || ३ || तेन सञ्जनितो वह्निः शुष्कं देहं च भस्मसात् | कृत्वा तं वामया सेच्यं ठं बीजं शुक्लवर्णकम् || ४ || ललाटे योज्य चन्द्रस्थं तेन वै ताडयेत् ततः | तेन सञ्जनितं देहं पवित्रं सुमनोहरम् || ५ || भावयित्वा विधानेन जीवं स्वस्थानमानयेत् | सोऽहं मन्त्रेण कुण्डल्या तत्त्वैश्च परिवारितम् || ६ || भूतशुद्धिरियं प्रोक्ता सर्वसम्पत्प्रदायिनी | प्राणयाममथो वक्ष्ये यथावदवधारय || ७ || दक्षया रेचयेद् वायुं द्वात्रिंशन्मानमानतः | ईडया कर्षयेद् वायुं मनोः षोडशमात्रया || ८ || सुषुम्नामध्यगं कृत्वा विद्यासङ्ख्येन धारयेत् | येनैव पूरयेद् वायुं तेनैव रेचयेत् पुनः || ९ || येनैव रेचयेत् पूर्वं तेनैव पूरयेत् पुनः | उभयोर्मध्यगं कृत्वा तत्तन्मात्राभिधारणम् || १० || ततः पूर्वोक्तरूपं तत् प्राणायामं व्यवस्थितम् | मातृकान्यासकं वक्ष्ये यथावदवधारय || ११ || ललाटे च मुखे चैव चक्षुषोः कर्णयोस्तथा | नसोश्च गण्डयोश्चैव ओष्ठयोर्दन्तयोस्तथा || १२ || मस्तके च मुखे चैव स्वरान् वै क्रमतो न्यसेत् | हस्तयोः पादयोश्चैव सन्धिष्वग्रे यथाविधि || १३ || पार्श्वयोः पृष्ठतश्चैव नाभौ च उदरे तथा | ककारादीन् मकारान्तान् वर्णान् तत्तद्गतान् न्यसेत् || १४ || हृदये स्कन्धद्वन्द्वे च अंसयोश्च निरामयः | यादयश्चैव चत्वारो न्यसनीयाः प्रयत्नतः || १५ || शादयश्च षडेवैते हृदयादिषु निर्दिर्शत् | हस्तपादयुगे नाभौ वक्त्रौष्ठसुविनिश्चयः || १६ || मातृकान्यासमेतद्धि प्रोक्तं सर्वसमृद्धिदम् | पीठन्यासमथो वक्ष्ये यथावदवधारय || १७ || कल्पयेदात्मनो देहे पाठं धर्मादितः क्रमात् | भास्करं च गणेशानं शिवं दुर्गां प्रपूजयेत् || १८ || अंशोरुयुगयोर्विद्वान् प्रादक्षिण्येन देशिकः | धर्मं ज्ञानं च वैराग्यमैश्वर्यं न्यसतु क्रमात् || १९ || मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् | धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे || २० || अनन्तहृदये पद्ममस्मिन् सूर्येन्दुपावकान् | एषां स्वस्वकला न्यस्याः प्रणवाक्षरपूर्विकाः || २१ || सत्वादींस्त्रीन् गुणान् न्यस्येत् तथैव त्रिगुरूत्तमः | आत्मानमन्तरात्मानं परमात्मानमेव च || २२ || ज्ञानात्मानं न्यसेद् धीमान् मायाबीजपुरःसरम् | नमो भगवते ब्रूयात् विष्णवे च पदं वदेत् || २३ || सर्वात्मसंयोगपदं योगपद्मपदं वदेत् | पीठात्मने हृदन्तोऽयं मनुस्तवादिरीरितः || २४ || विमलोत्कर्षिणी ज्ञाना क्रियायोगा च शक्तयः | ब्रह्मीशयोस्तथेशाना नान्तर्ग्रहा नवमी मता || २५ || यदासनं भवेद् यस्य तस्मिन् देवासने यजेत् | इच्छा ज्ञानं क्रिया चैव कामिनी कामदायिनी || २६ || रती रतिप्रिया चैव मध्ये चैव मनोन्मनी | सोऽहं सदाशिवप्रेतं ङेऽतं देव्या समाश्रयेत् || पीठन्यासं विधायेत्थं चिन्तयेदिष्टदेवताम् || २७ || || इति सनत्कुमारतन्त्रे पीठयजनं नाम तृतीयः पटलः || ३ || अथ चतुर्थः पटलः ध्यात्वा विश्वमयं देवं नवीनजलदप्रभम् | नवनीतं दक्षहस्ते दधानं पीतवाससम् || १ || आवाह्य पूजयेन्मंत्रे शङ्खस्थापनपूर्वकम् | शङ्खमन्त्राम्बुभिः प्रोक्ष्य वामतो वह्निमण्डले || २ || साधारं स्थापयेद् विद्वान् बिन्दुश्रुतसुधामयैः | तोयैः सुगन्धिपुष्पाद्यैः पूजयेत् तं यथाविधि || ३ || आधारं पावकं शङ्खं सूर्यं तोयं सुधाकरम् | स्मरेद् वह्न्यर्कचन्द्राणां कलास्तास्ताष्वनुक्रमात् || ४ || मूलमन्त्रं जपेत् स्पृष्ट्वा न्यसेत् तस्याऽङ्गमन्त्रवित् | हृन्मन्त्रेणाऽभिसम्पूज्य हस्ताभ्यां छादयेत् पुनः || ५ || जपेन्मन्त्रं यथाकालं देशिको देवताधिया | अस्त्रमन्त्रेण संरक्ष्य कवचेनाऽवगुण्ठ्य च || ६ || धेनुमुद्रां समापाद्य बोधयेत् तं स्वमुद्रया | गंगे च यमुने चैव गोदावरि सरस्वति || ७ || नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु | तीर्थावाहनमन्त्रोऽयं प्रोक्तः सर्वसमृद्धिदः || ८ || दक्षिणे प्रोक्षणीपात्रमादायाऽद्भिः प्रपूरितम् | किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् || ९ || अर्घ्यस्योत्तरतः कार्यं पाद्यार्घ्याचमनीयकम् | आत्मानं यागवस्तूनि सर्वत्र प्रोक्षयेद् गुरुः || १० || शङ्खस्थापनकं सम्यक् प्रोक्तं सर्वसमृद्धिदम् | शिवादयश्च सम्पूज्याः केशवेष्वङ्गदेवताः || ११ || आवाह्य प्राणमनुना प्राणस्थापनमाचरेत् | पाशादित्र्यक्षरस्यान्ते हंसोऽमुष्य पदं पुनः || १२ || क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः | अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्यपदं वदेत् || १३ || वाङ्मनोनयनश्रोत्रघ्राणप्राणाः पदान्यथ | पश्चादिहागत्य मुखं चिरं तिष्ठन्तु ठद्वयम् || १४ || अयं प्राणमनुः प्रोक्तः सर्वेषां प्राणदायकः | स्वागतं कुशलप्रश्नं निगदेदग्रतो गुरुः || १५ || पाद्यं पादाम्बुजे दद्याद् देवस्य हृदयात्मना | एतच्छ्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् || १६ || स्वधामन्त्रेण वदने दद्यादाचमनीयकम् | जाती - लवङ्ग - कक्कोलैस्तदुक्तं तन्त्रवेदिभिः || १७ || अर्घ्यं दिशेत् ततो मूर्ध्नि शिरोमन्त्रेण देशिकः | गन्ध - पुष्पाऽक्षत - यव - कुशाम्बु - तिल - सर्षपैः || १८ || दूर्वाभिः सर्व - देवानामेतदर्घ्यमुदीरितम् | स्वधात्मना ततः कुर्यान्मधुपर्कं समाहितः || १९ || आज्यं दधिमधून्मिश्रमेतदुक्तं मनीषिभिः | स्वधात्मना ततः कुर्यादद्भिराचमनीयकम् || २० || गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् | दद्याद् यज्ञोपवीतं च हाराद्याभरणैः सह || २१ || अर्घ्येणाऽभ्युक्ष्य देवेशं गन्धाद्यैः पूजयेत् तदा | गन्ध - चन्दन - कर्पूर - कालागुरुभिरीरितम् || २२ || षोडशैरुपचारैश्च पूजयित्वा प्रत्यत्नतः | आवृतीः पूजयेद् भक्त्या यथावदवधारय || २३ || वासुदेवं देवकीं च नन्दं नन्दप्रियं तथा | कमलां भारतीं चैव रतिं शान्तं च पत्रतः || २४ || शङ्खं चक्रं गदां चैव पद्मंकौस्तुभमेव च | श्रीवत्सं वत्सकं चैव वनमालां समर्चयेत् || २५ || मूलैनैव खगाध्यक्षं पूजयेत् तदनन्तरम् | स्वबीजेन ततो देवं गन्धपुष्पादिभिः क्रमात् || २६ || यथासङ्ख्यं ततो मन्त्रं पद्माक्षेण जपेदथ | समर्चयेत् ततो देवं हृदयादीननन्तरम् || २७ || आत्मदेहमयं कृत्वा प्राणायामं समाचरेत् | अथ देवस्य निर्माल्यैर्विष्वक्सेनं समर्चयेत् || २८ || एवं क्रमेण कर्तव्या कृष्णपूजा समाहितैः | पश्चाद् गोभ्यः समभ्यर्च्यग्रासं कुर्यात् सुशोभनम् || २९ || केयूराङ्गदहारैश्च कुण्डलैः कटिसूत्रकैः | नूपुरैर्वन्यपुष्पैश्च नानारत्नैर्विभूषितम् || ३० || सचन्द्रग्रहनक्षत्रैर्निर्मलं गगनेचरं | अथ रत्नप्रभायुक्तं सर्वालङ्कारभूषितम् || ३१ || सनकाद्यैः स्तूयमानं विमानस्थैर्नभोगतैः | सर्वलक्षणसंयुक्तं प्रातः कृष्णं समर्चयेत् || ३२ || तथा कल्पप्रभायुक्ते वन्ये काञ्चनमण्डपे | रत्नपीठे समासीनं कामिनीशतमध्यगम् || ३३ || चामराद्यैर्वीज्यमानं चन्दनाऽगुरुचर्चितम् | ध्यायेन्मध्यन्दिनं कृष्णं सुन्दरं स्मरवर्धनम् || ३४ || गोपालगणमध्यस्थं सुन्दरीशतमध्यगम् | तत्सर्वं स्ववशं कृत्वा क्रीडयन्तं मुदान्वितम् || ३५ || गन्धचन्दनमालाद्यैर्भूषितं नयनोत्सवम् | यथा मध्ये तथारत्रौ चिन्तयेत् कञ्जलोचनम् || ३६ || काञ्चने राजते पात्रे ताम्रके वाऽप्यभावतः | भक्त्या कृष्णं समभ्यर्च्य नैवेद्यं च निवेदयेत् || ३७ || प्रातर्दध्यौदनं दद्यात् पायसं च तथोत्तरम् | तथा सशर्करं क्षीरं रात्रौ दद्यात् सुशोभनम् || ३८ || एभिरेव विधानैश्च संसेव्यः परमेश्वरः | धर्मार्थकाममोक्षांश्च लभते जपकृन्नरः || ३९ || || इति सनत्कुमारतन्त्रे चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः अथ मन्त्रान्तरं वक्ष्ये यथावदवधारय | मन्त्रदेहं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् || १ || यस्य ग्रहणमात्रेण सर्वज्ञो जायते नरः | अचलां च लभेत् लक्ष्मीं कवित्वं भवसम्मतम् || २ || असाध्यं साधयेन्मन्त्री देवानामपि दुर्लभम् | इदं मे हृदयं गुह्यं यत् प्रष्टव्यं महामुने || ३ || अन्येषु साधिता मन्त्राः सर्वे च फलदायकाः | गृहीतस्य फलं दाता मन्त्रोयद्यप्यसाधितः || ४ || सन्तुष्टो हि गुरुर्यत्र तस्य तुष्टो जगत्पतिः | मन्त्रं न्यस्य गुरोर्वाक्यं न कदाचिद् विकल्पयेत् || ५ || गुरोर्देहं समाश्रित्य मन्त्रदेहोऽवतिष्ठते | ततः सर्वेण भावेन गुरुं मन्त्रेण पूजयेत् || ६ || गन्धमाल्यैर्धूपदीपैः सम्पूज्य गुरुमन्त्रतः | ततो मन्त्रं च गृह्णीयात् वस्त्रेणाऽऽच्छाद्य मस्तकम् || ७ || दक्षिणां गुरवे दद्यात् सुवर्णं धेनुमेव वा | सर्वकर्म प्रकुर्वीत वित्तशाठ्यविवर्जितः || ८ || अदक्षिणं कृतं कर्म वृथा विप्रेन्द्रनिश्चितम् | नारदाय पुरा प्रोक्तं स्वयं विष्णुरतन्द्रितः || ९ || स्वर्णं मे दक्षिणा देहि साक्षसूत्रकमण्डलुम् | ततो मन्त्रं गृहाण त्वं यथाविधि महामुने || १० || विधिहीनं कृतं कर्म सिद्धिं नैव प्रयच्छति | भूमिभागे समे शुद्धे गोमयेनोपलेपिते || ११ || तत्र शङ्खं प्रतिष्ठाप्य मातृकावपुषि न्यसेत् | परं ब्रह्मादितः कृत्वा वर्णसङ्घं समुद्धरेत् || १२ || सान्तं मथान्तं मां वह्निं वामत्रिकबिन्दुसंयुतम् | त्रिभिरेकार्णवीभूतं स्वाहान्तं मन्त्रमुद्धरेत् || १३ || ततो गुरुमुखाल्लब्ध्वा हृदये च निवेशयेत् | अयुतं च जपं कृत्वा हविष्याशी जितेन्द्रियः || १४ || दशांशं जुहुयादग्नौ मधुरत्रयसंयुतम् | सहस्रं वाऽपि पुष्पाणां वैष्णवानां सुसंयतः || १५ || माणिक्यसाधनार्थं च सहस्रमधिकं जपेत् | दशांशं जुहुयात् तस्य जपस्य द्विगुणं स्मृतम् || १६ || तस्य तत्त्वं निबोध त्वं वाह्यमानं महामुने | शंभोर्मूलाक्षरं ह्यस्य त्रिशक्तिश्चाप्यवस्थिता || १७ || शिवोमन्तं तथा ब्रह्मा चेन्दुबिन्दुस्वरूपवान् | एतत् ते कथितं वत्स हृदयं मन्त्रमुत्तमम् || १८ || कस्यचिन्न हि वक्तव्यं त्रिषु लोकेषु दुर्लभम् | एवं संसाधिते मन्त्रे साधितं भुवनत्रयम् || १९ || कामं कृत्वा जपेन्मन्त्रं शुचिर्भूत्वा जितेन्द्रियः | कर्मणा मनसा वाचा कुर्याद् यदभिवाञ्छितम् || २० || तत् तस्य सिद्ध्यति क्षिप्रं यद्यपि स्यात् सुदुष्करम् | विष्णुर्ब्रह्मा च रुद्रश्च दुर्गा च सर्वदेवताः || २१ || अयं मन्त्रो महामन्त्रः सर्वेषां हृदये स्थितः | मन्त्रमेनं समुच्चार्य लभते द्विगुणं फलम् || २२ || पूजनं चास्य मन्त्रस्य यथाकार्यं तथा शृणु | अङ्गन्यासकरन्यासौ मन्त्रस्याऽप्यक्षरेण तु || २३ || कृत्वा चाऽष्टदलं पद्मं देवमावाह्य यत्नतः | स्थण्डिले वा जले वाऽपि गोपालं पूजयेत् तदा || २४ || ध्यानं चैव प्रवक्ष्यामि गोपालस्य जगद्गुरोः | जटिलं द्विभुजं नग्नं नीलोत्पलदलप्रभम् || २५ || बालं षण्मासदेशीयं देवं जानुचलं हरिम् | दाम्ना चैवोदरे बद्धं वृक्षावुदूखलेन च || २६ || लीलया कर्षमाणं च तिर्यक्कृतमुदूखलम् | यमलार्जुनयोर्मध्ये द्रुतमागत्य लीलया || २७ || मन्त्रेणाऽनेन चोत्पाट्य वृक्षौ द्वौ योजनायतौ | दाम्नि वासुकिमारोप्य मन्त्रेणाऽनेन यन्त्रितम् || २८ || उदूखले द्रुतं लग्नं नागराजेन वेष्टितम् | समाकृष्य समुत्पाट्य हसन्तं यमलार्जुनौ || २९ || हाहाकारपरैः सर्वैर्गोपगोपीजनैर्वृतम् | यशोदया कृतं क्रोडे क्रन्दन्त्याऽऽगत्य सत्वरम् || ३० || सर्वतो जगतो रूपं गोपवेशतिरोहितम् | एवं सञ्चिन्त्य गोपालं मायामयमनामयम् || ३१ || पाद्यादिभिः समभ्यर्च्य जपकर्म समापयेत् | एभिरेवाऽथवा पूजा कर्तव्या सुरवैरिणः || धूपं दीपं च नैवेद्यं ताम्बूलादिकमर्पयेत् || ३२ || || इति सनत्कुमारीये पञ्चमः पटलः || ५ || अथ षष्ठः पटलः कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् | गोपीजनपदस्याऽन्ते वल्लभाय द्विठावधिः || १ || कामबीजादिराख्यातो मनुरष्टादशाक्षरः | अष्टादशार्णसंयुक्त उक्तो मन्त्रो यथाविधि || २ || शक्तिश्रीपूर्वकोऽष्टादशार्णो विंशतिवर्णकः | स्मरः कृष्णाय ठद्वन्द्वं षड्वर्णो मनुरीरितः || ३ || प्रणवं हृदयं कृष्णं डेऽन्तमुक्त्वा ततः परम् | तादृशं देवकीपुत्रं हुंफट् - स्वाहासमन्वितम् || ४ || षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः | श्रीमन्मुकुन्दचरणं यदेति शरणं ततः || ५ || अहं प्रसन्न इत्युक्तो मौकुन्दोऽष्टादशाक्षरः | पञ्चान्तको धरासंस्थो मनुर्बिन्दुविभूषितः || ६ || पिण्डबीजमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् | पिण्डं रतिपतेर्बीजं नमो भगवते ततः || ७ || नन्दपुत्राय बालादिवपुषे श्यामलाय च | गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः || ८ || अनुष्टुब् मन्त्र आख्यातो गोपालस्य जगत्पतेः | गोपालायाऽग्निजायान्तः षडक्षर उदाहृतः || ९ || कृष्णगोविन्दकौ डेन्तौ सप्तवर्णो मनुर्मतः | श्रीशक्तिमाराः कृष्णाय मारः सप्ताक्षरः परः || १० || क्लीं ग्लौं श्रीं श्यामलाङ्गाय नतिः स्याद् दशवर्णकः | चक्री वामनसर्गौ च मनुरेकाक्षरः स्मृतः || ११ || काममिन्द्रश्च माया च लवलाञ्छितमस्तकः | एकवर्णो मनुः प्रोक्तः काममन्त्रः पुरोदितः || १२ || एतत् सर्वं हृषीकेशं चतुर्थ्यन्तं नमःपदम् | अष्टवर्णो मनुः प्रोक्तः सर्वेषां हृदयस्थितः || १३ || वाग्भवं कामबीजं च कृष्णाय सुरसुन्दरी | गोविन्दं ङेयुतं चैव रमाबीजमनन्तरम् || १४ || दशाक्षरं ततः पश्चात् स्वबीजं तदनन्तरम् | द्वाविंशत्यक्षरो मन्त्रः सर्वसिद्धिप्रदायकः || १५ || कामं मायां च लक्ष्मीं च दशार्णं च ततः परम् | त्रयोदशार्णमन्त्रोऽयं प्रोक्तः सर्वसमृद्धिदः || १६ || कामं लक्ष्मीं च मायां च जयकृष्णपदद्वयम् | मायां लक्ष्मीं तथा कामं जयं देहि पदद्वयम् || १७ || चतुर्विंशत्यक्षरात्मा स्वाहान्तो मनुरीरितः | कामं पिण्डं तथा लक्ष्मीं गोपालाय ततः परम् || १८ || लक्ष्मीं पिण्डं तथा कामं गोविन्दाय पदं तथा | कामपिण्डं तथा लक्ष्मीं स्वाहान्तः प्रणवादिकः || १९ || || इति सनत्कुमारीये षष्ठः पटलः || ६ || अथ सप्तमः पटलः क्रमात् पूजाविधिं वक्ष्ये यथावदवधारय | नारदोऽस्य ऋषिः प्रोक्तो गायत्रीच्छन्द ईरितम् || १ || देवता कथितः कृष्णः सर्वकामफलप्रदः | चतुष्करणवेदाद्धि नेत्रयुग्माक्षरैः क्रमात् || २ || पञ्चाङ्गानि मनोः कुर्यात् मन्त्रविन्नेत्रवर्जितम् | अन्येषामपि मन्त्राणां ऋष्याद्याः पूर्वदेवताः || ३ || अङ्गानि कामबीजेन सनेत्रं दीर्घयुक्तकैः | दशाक्षरे विराट् छन्द आचक्राद्यैश्च पञ्चकम् || ४ || पूर्वप्रोक्तानि कर्माणि न्यासादीनि विधानतः | कुर्याच्छुद्धमतिर्धीमान् ध्यानमेवं जगत्पतेः || ५ || स्मरेद् वृन्दावने रम्ये मोहयन्तमनारतम् | गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः || ६ || आत्मनो वदनाम्भोजे प्रेरिताक्षिमधुव्रताः | पिडिताः कामबाणेन चिरमाश्लेषणोत्सुकाः || ७ || मुक्ताहारलसत्पीनतुङ्गस्तनभरानताः | स्रस्तधम्मिल्लवसना मदस्खलितभूषणा || ८ || दन्तपङ्क्तिप्रभोद्भासिस्पन्दमालाधराञ्चिताः | विलोकयन्तीर्विविधैर्विभ्रमैर्भावगर्वितैः || ९ || फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् | गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुनादनपरं दिव्याङ्गभूषं भजे || १० || एवं ध्यात्वा जपेल्लक्षं पञ्च चाऽष्टादशाक्षरम् | अन्येषां लक्षमेकं च दशलक्षं दशार्णकम् || ११ || पूर्वसेवां पुरा कुर्यात् पूर्वोक्तविधिना स्मृतः | बालगोपालमन्त्राणां ध्यानं शृणु यथाविधि || १२ || नवीननीरदश्यामं पक्वबिम्बाधरं विभुम् | नवनीतं पायसं च धारयन्तं करद्वये || १३ || होमश्चैव तथा कार्यो जपस्यैव दशांशतः | सर्पिषा नवनीतेन दध्ना वा पायसेन वा || १४ || मल्लिका - मालती - पुष्पैः शुक्लपद्मेन चैव हि | तर्पणं तद्दशांशेन विशुद्धेन जलेन वा || १५ || गन्धपुष्पाक्षतैर्युक्तमभिषेकं च मस्तके | ब्राह्मणान् भोजयेच्चैव दशांशक्रमयोगतः || १६ || यद् यदङ्गं भवेद् भङ्गं तत्सङ्ख्याद्विगुणो जपः | होमाशक्तौ जपः प्रोक्तो होमसङ्ख्याचतुर्गुणः || १७ || विप्राणां क्षत्रियाणां च रससङ्ख्यागुणः स्मृतः | वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः || १८ || यं वर्णमाश्रितः शूद्रः स च तस्य विधिं चरेत् | वैश्याश्रितस्य शूद्रस्य दशसङ्ख्यागुणः स्मृतः || १९ || होमार्थोऽयं विधिः प्रोक्तस्तर्पणेऽपि निबोधत | तर्पणे द्विगुणं प्रोक्तं शक्तौ च सर्वसाधनम् || २० || || इति सनत्कुमारीये जपहोमादिनिर्णयः सप्तमः पटलः || ७ || अथाष्टमः पटलः अथ प्रयोगान् वक्ष्यामि यथावदवधारय | लक्ष्मीप्रसूनैर्जुहुयात् श्रियमिच्छन्ननिन्दिताम् || १ || साज्येनाऽन्नेन जुहुयाद् आज्यान्नस्य समृद्धये | आरण्यैः कुसुमैर्विप्रान् जातिभिः पृथिवीपतीन् || २ || चम्पकैश्च सितोपेतैर्वैश्यांश्च कमलैः शुभैः | शूद्रांश्च वशयेन्मन्त्री त्रिमध्वक्तैर्यथाक्रमात् || ३ || एवं हुत्वा द्विजश्रेष्ठः सर्वान् कामानवाप्नुयात् | ततो भक्त्या श्यामलाङ्गं प्रसन्नं गोकुलश्रियम् || ४ || शिशुवेषधरं देवं किङ्किणीदाममण्डितम् | स्मृत्वा तं तर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः || ५ || धनधान्यांशुकादीनि प्रीतस्तस्मै ददाति सः | मालती कुसुमैर्देवमर्चयित्वा यथाविधि || ६ || आयुरारोग्यमैश्वर्यं मनोऽभीष्टानि विन्दति | काशप्रसूनैर्जुहुयादष्टोत्तरसहस्रकम् || ७ || नाममात्रेण वशगास्तस्य स्युः सकला नृपाः | हुत्वा बिल्वफलैः पक्वैः श्रियमाप्नोत्थनिन्दिताम् || ८ || प्रफुल्लैररुणाम्भोजैस्तामेव लभते पुनः | हुत्वा ज्योतिष्मतीतैलं सहस्रं बहुसङ्ख्यया || ९ || सुभगो जायते सम्यक् सर्वेषां नाऽत्र संशयः | विधानेनाऽमुना मन्त्री महारोगात् प्रमुच्यते || १० || अश्वत्थसमिधैर्होमः पराहृतधनावहः | आज्याक्तदूर्वाहोमेन मुच्यते महतो भयात् || ११ || यस्य नामयुतं पुण्यं जपेदयुतसङ्ख्यया | स भवेद् दासवत् तस्य नात्र कार्या विचारणा || १२ || बहुनाऽत्र किमुक्तेन मनुना साधकोत्तमः | साधयेदखिलान् कामान् साक्षाद् विष्णुरिवाऽपरः || १३ || अपुत्रो द्वादशीं प्राप्य पूजयित्वा जगद्गुरुम् | देवकीसुत गोविन्द वासुदेव जगत्पते || १४ || देहि मे तनयं देव त्वामहं शरणं गतः | इति स्तुत्वा विधानेन पूजयेदावृतिगणान् || १५ || आदावङ्गावृतीः पूज्या दामादि तदनन्तरम् | दिक्षु दामसुदामौ च वसुदामश्च किङ्किणी || १६ || रुक्मिण्याद्यष्टमहिषीर्दलेषु पूजयेत् ततः | दक्षिणकरधृतकमलारसपूरितमुद्रि तान्यकराः || १७ || रुक्मिण्याख्या तथा सत्या नागजित्या सुनन्दा च | मित्तविन्धा सुलक्षणा ऋक्षजा सुशीला तथा || १८ || ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् | नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् || १९ || गोपा गोप्यश्च सम्पूज्याश्चित्रमाल्यानुलेपनाः | यथाविधि इमाः पूज्या ब्रह्माद्यास्तदनन्तरम् || २० || इन्द्राद्याः पूजनीयाश्च वज्राद्यास्तदनन्तरम् | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवीति च || २१ || वराही च तथेन्द्राणी चामुण्डा सप्तमी तथा | अष्टमी स्यान्महालक्ष्मीः प्रोक्ताः स्युर्विश्वमातरः || २२ || इन्द्रादीन् पूजयेद् बाह्ये जातिहेतिसशक्तिकान् | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाऽङ्कुशम् || २३ || गदां शूलं च चक्रं च पद्मं तत्रैव पूजयेत् | नैवेद्यं विधिवद् दत्वा देवं ध्यात्वा जपेत् सुधीः || २४ || स्तुत्वा प्रणम्य शिरसा जलेनाऽऽत्मानमर्पयेत् | इतः पूर्वं पदं दत्त्वा प्राणबुद्धिपदं ततः || २५ || देहधर्माधिकारतो जाग्रत्स्वप्नपदान्यथ | सुषुप्त्यवस्थासु मनसा वाचा कर्मणा तथा || २६ || हस्ताभ्यां च यथा पद्भ्यामुदरेण पदं तथा | शिश्ना च यत् स्मृतं चैव यदुक्तं यत् कृतं तथा || २७ || तत् सर्वं ब्रह्मार्पणमतो भवतु वह्निसुन्दरी | मां मदीयं च सकलं हरये सम्यक् समर्पयेत् || २८ || ओं तत्सदिति च प्रोक्तो मन्त्रः स्वात्मसमर्पणे | प्रत्यहं पूजयेद् देवं षोडशैरुपचारकैः || २९ || तदशक्तौ तु पूजा स्याद् देशोपचारिकी तथा | तदशक्तौ पञ्चभिस्तु पूजा स्यादुपचारकैः || ३० || आसनं स्वागतं चैव पाद्यादिपञ्चकं तथा | स्नानं वासो भूषणं च गन्धपुष्पं च धूपकम् || ३१ || प्रदीपं चैव नैवेद्यं पुष्पाञ्जलिरतः परम् | गन्धादयो नैवेद्यान्ता पूजा पञ्चोपचारिका || ३२ || अर्घ्याद्याः पञ्च पञ्चैव गन्धाद्या इति भेदतः | नमस्कृत्य षडङ्गं च पञ्चाङ्गं च विधानतः || ३३ || देवं विसृज्य हृदये विष्वक्सेनं समर्चयेत् | दण्डवत् प्रणिपत्याऽथ गण्डाभ्यां चिबुकेन च || ३४ || नासया च कपालेन मनसा वचसा तथा | साष्टाङ्गकः प्रणामः स्यात् हरेः प्रीतिप्रदायकः || ३५ || एतत् सर्वं मयाऽऽख्यातं क्रमेण व्युत्क्रमेण च | कथितं यन्न कथितं तत् सर्वं क्रमतः शृणु || ३६ || प्रातः कृत्यमनुप्रदाय विनतिः स्नानं स्वसन्ध्यात्मकं सङ्कल्पान्तकभूतशूधिसकलामालामयं न्यासनम् | अन्तर्यागविधिर्बहिर्यजनकं शङ्खादिसंस्थापनं पिठस्याऽर्चनमङ्गदेवयजनं प्राणप्रतिष्ठा ततः || ३७ || आह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोः पूजनं वृत्याऽऽराधनधूपदीपवरनैवेद्यं जपो गुह्यतः | जापस्याऽर्पणवायुधारणमतः स्वात्मार्पणं संस्तुति- र्लभ्यन्ते च विसर्जनं मुररिपोः पूजाक्रमः कीर्तितः || ३८ || सूत्रं चैतत् प्रकथितमनेनाऽऽराधयेदच्युतम् | इति नारायणेनैव सूत्रं प्रकथितं पुरा || ३९ || ब्रह्मणे ब्रह्मणा पूर्वं मयि स्नेहात् प्रकाशितम् | पुलस्त्यविधिनाऽनेन मया कृष्ण उपासितः || ४० || || इति सनत्कुमारीये पूजाविधानं नामाऽष्टमः पटलः || ८ || अथ नवमः पटलः पुलस्त्य उवाच भगवन् सर्वधर्मज्ञ कवचं यत् प्रकाशितम् | त्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो || १ || सनत्कुमार उवाच शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् | नारायणेन कथितं कृपया ब्रह्मणे पुरा || २ || ब्रह्मणा कथितं मह्यं परं स्नेहाद् वदामि ते | अतिगुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् || ३ || यद् धृत्वा पठनाद् ब्रह्मा सृष्टिं वितनुते ध्रुवम् | यद् धृत्वा पठनात् पाति महालक्ष्मीर्जगत्त्रयम् || ४ || पठनाद् धारणात् शम्भुः संहर्ता सर्वतत्त्ववित् | त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् || ५ || नरदृप्तान् जघानैव पठनाद् धारणाद् यतः | एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः || ६ || शिष्याय विष्णुभक्ताय साधकाय प्रकाशयेत् | शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् || ७ || त्रैलोक्यमङ्गलस्याऽस्य कवचस्य प्रजापतिः | ऋषिः च्छन्दश्च गायत्री देवो नारायणः स्वयम् || ८ || धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः | प्रणवो मे शिरः पातु नमो नारायणाय च || ९ || भालं पायान्नेत्रयुग्ममष्टार्णो भुक्तिमुक्तिदः | क्लीं पायात् श्रौत्रयुग्मं चैकाक्षरः सर्वमोहनः || १० || क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्निकाम् | गोपीजनपदं वल्लभायं स्वाहाङनं मम || ११ || अष्टादशाक्षरो मन्त्रं कण्ठं पातु दशाक्षरः | गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् || १२ || क्लीं ग्लीं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः | क्लीं कृष्ण क्लीं करौ पायात् क्लीं कृष्णाय चाङ्गजोऽवतु || १३ || हृदयं श्रीं क्लीं भुवनेशीं क्लीं कृष्णाय क्लीं स्तनौ मम | गोपालायाऽग्निजायान्तं कुक्षियुग्मं सदाऽवतु || १४ || क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः | कृष्णगोविन्दकौ पातु स्मराद्यौ ङेयुतौ मनुः || १५ || अष्टाक्षरः पातु नाभि कृष्णेति द्व्यक्षरोऽवतु | पृष्ठं क्लीं कृष्ण कङ्कालं क्लीं कृष्णाय द्विठान्तकः || १६ || सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्ण ठद्वयम् | ऊरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु || १७ || श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदं ततः | भायस्वाहेति पायुं वै क्लीं ह्रीं श्रीं दशवर्णकः || १८ || जानुनी च सदा पातु ह्रीं श्रीं क्लीं सदशाक्षरः | त्रयोदशाक्षरः पातु जङ्घे चक्रायुधः स्वयम् || १९ || अष्टादशाक्षरो ह्रीं श्रीं पूर्वको विंशवर्णकः | सर्वाङ्गं मे सदा पातु द्वारकानायको बली || २० || नमो भगवते पश्चाद् वासुदेवाय तत्परम् | ताराद्या द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु || २१ || श्रीं ह्रीं क्लीं दशवर्णं तु क्लीं ह्रीं श्रीं षोडशाक्षरः | गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु || २२ || ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु | तारो नमो भगवते रुक्मिणीवल्लभाय च || २३ || स्वाहेति षोडशार्णोऽयं नैर्-ऋत्यां दिशि रक्षतु | क्लीं हृषीके पदंशाय नमो मां वारुणेऽवतु || २४ || अष्टादशार्णः कामान्तो वायव्ये मां सदाऽवतु | श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः || २५ || द्वादशाक्षरके विष्णुरुत्तरे मां सदाऽवतु | वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् || २६ || श्रीं गोपीजनवल्लभान्ते भायस्वाहेति सौस्ततः | द्वाविंशत्यक्षरो मन्त्रो मामैशान्यां सदाऽवतु || २७ || काली यस्य फणामध्ये दिव्यं नृत्यं करोति यः | नमामि देवकीपुत्रं नृत्यराजानमच्युतम् || २८ || द्वाविंशत्यक्षरो मन्त्रोऽप्यधो मां सर्वतोऽवतु | कामदेवाय विद्महे पुष्पबाणाय धीमहि || २९ || तन्नोऽनङ्गः प्रचोदयादेष मां पातु चोर्द्ध्वतः | इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् || ३० || त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपकम् | ब्रह्नेशप्रमुखाऽधीशनारायणमुखाऽच्युतम् || ३१ || तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्य चित् | गुरुं प्रणम्य विधिवत् कवचं प्रपठेत् ततः || ३२ || सकृद् द्वित्रिर्यथाज्ञानं सोऽपि सर्वतपोमयः | मन्त्रेषु सकलेष्वेव देशिको नाऽत्र संशयः || ३३ || शतमष्टोत्तरं चास्य पुरश्चर्यांविधिः स्मृतः | हवनादीन् दशांशेन कृत्वा तत् साधयेद् ध्रुवम् || ३४ || यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् स्वयम् | मन्त्रसिद्धिर्भवेत् तस्य पुरश्चर्याविधानतः || ३५ || स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत् सदा | पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् || ३६ || दशवर्षसहस्राणां पूजायाः फलमाप्नुयात् | भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि || ३७ || कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः | अश्वमेधसहस्राणि वाजपेयशतानि च || ३८ || महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा | कलां नार्हन्ति तान्येव सकृदुच्चारणात् ततः || ३९ || कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः | त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् || ४० || इदं कवचमज्ञात्वा भजेद् यः पुरुषोत्तमम् | शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः || ४१ || इति सनत्कुमारीये त्रैलोक्यमङ्गल नाम नवमः पटलः || ९ || अथ दशमः पटलः पुलस्त्य उवाच करमालान्तरे माला जपमाला च कथ्यताम् | सनत्कुमार उवाच शृणु वक्ष्यामि विप्रेन्द्र माला पृष्टा त्वया हि या || १ || अनामामध्यमारभ्य कनिष्ठादित एव च | तर्जनीमूलपर्यन्तं दशपर्वसु सञ्जपेत् || २ || तर्जनी मध्यमा चेति कनिष्ठा चापि ताः क्रमात् | तिस्रोऽङ्गुल्यस्त्रिपर्वाः स्युर्मध्यमा चैकपर्विका || ३ || पूर्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् | क्रमोत्क्रमगतैर्माला मातृकार्णैः सबिन्दुकैः || ४ || क्षमेककैः साष्टवर्गैरन्तर्यजनकर्मणि | आदिकचटतपयशला इत्येवं चाष्टवर्गाः || ५ || पद्मबीजादिभिर्माला बहिर्यागे शृणुष्व ताः | रुद्राक्ष - शङ्ख - पद्माक्ष - पुत्र - जीवक - मौक्तिकैः || ६ || स्फाटिकैर्मणिरत्नैश्च सौवर्णैर्विद्रुमैस्तथा | कुशपत्रैर्द्वादश स्युर्गृहस्थस्याऽक्षमालिका || ७ || अङ्गुलीगणनादेकं रेखायाऽष्टगुणं भवेत् | पुत्रजीवैर्दशगुणं शतशङ्खैः सहस्रकम् || ८ || प्रवालैर्मणिरत्नैश्च दशसाहस्रकं स्मृतम् | तदेव स्फटिकं प्रोक्तं मौक्तिकैर्लक्षमुच्यते || ९ || कुशग्रन्थ्या कोटिशतं रुद्राक्षं स्यादनन्तकम् | तुलसीकाष्ठघटितैर्मालाभिर्जपमालिका || १० || सर्वकर्माणि सर्वेषामीप्सितार्थफलप्रदा | अष्टोत्तरशतैर्माला पञ्चाशत्तूत्तराधिकैः || ११ || सप्तविंशतिभिः कार्या सर्वसाधारणे जपे | मोक्षार्थी पञ्चविंशत्या धनार्थी र्त्रिशता जपेत् || १२ || पुष्ट्यर्थी पञ्चविंशत्या पञ्चदश्याभिचारके | मालासङ्ग्रथनं वक्ष्ये यदुक्तं ब्रह्मणा पुरा || १३ || गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् | मुखं मुखेन संयोज्य पुच्छं पुच्छेन योजयेत् || १४ || सूत्रं विप्रेन्द्र कन्याभिः स्त्रीभिर्वाऽपि विनिर्मितम् | त्रिगुणं त्रिगुणीकृत्य तदेव त्रिगुणं तथा || १५ || शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा | शान्तिवश्याभिचारेषु तथैव मारणेऽपि च || १६ || शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् | सर्वेषामेव वर्णानां रक्तं सर्वेप्सितप्रदम् || १७ || आश्रमेषु तथाऽप्येवं रक्तं सर्वेषु सिद्धिदम् | फलोपचारतः कृष्णमिष्ट्वा तन्त्रानुसारतः || १८ || एकैकं मातृकार्णं तु शतारं प्रजपेत् सुधीः | मणिमादाय सूत्रेषु ग्रथनं मध्यमाग्रतः || १९ || मध्यग्रन्थिं विधायेत्थं मेरुं च ग्रन्थियन्त्रितम् | ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् || २० || क्षालयेत् पञ्चगव्यैस्तु सद्योजातेन सज्जलैः | चन्दनागरुगन्धाद्यैर्वामदेवेन घर्षयेत् || २१ || धूपयेत् तामघोरेण प्रीणयेत् पुरुषेण तु | मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु सकृत् स्कृत् || २२ || मेरुं सकृन्मन्त्रयेच्च मनसा च शतं शतम् | येन प्रतिष्ठिता माला तयैव तु मनुं जपेत् || २३ || अन्यमन्त्रं जपेद् विद्वान् न कार्या कार्हिचिद् बुधैः | सद्योजातं प्रपद्यामि सद्योजाताय वै नमः || २४ || भवे भवेऽनादिभवे भजस्व मां भवोद्भवम् | ङेन्तान्तप्रणावाद्येन नमोऽन्तेन क्रमाज्जपेत् || २५ || वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः | कालाय नमः कलविकरणाय नमो बलप्रमथनाय || २६ || अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च | सर्वतः सर्वेभ्यो नमस्ते रुद्ररुपेभ्यः || २७ || तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् || २८ || इशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मणि मे शिवोऽस्तु सदाशिवोऽम् || २९ || प्रणवाद्यो महामन्त्रः सदाशिवमिति क्रमात् | संस्कृत्यैवं बुधो मालां तत्प्राणांस्तत्र योजयेत् || ३० || मूलमन्त्रेण तां मालां पूजयेद् द्विजसत्तमः | गुरुं सम्पूज्य तद्धस्तात् गृह्णीयादक्षमालिकाम् || ३१ || न स्पृशेद् वामहस्तेन करभ्रष्टां न कारयेत् | अङ्गुष्ठं मोक्षदं प्रोक्तं तर्जनी शत्रुनाशिनी || ३२ || मध्यमा घनसिद्धिः स्यात् शान्तिकर्मण्यनामिका | कनिष्ठाऽऽकर्षणे ज्ञेया जपकर्मणि सिद्धिदा || ३३ || अङ्गुष्ठपर्वमध्यस्थं परिवर्त्त समाचरेत् | पुरश्चर्यां ततः कुर्यात् स्वयमेव समाहितः || ३४ || गुरुणा स्वानुगेनैव तद्भ्रातृपुत्रकैस्तथा | सर्वासु दीक्षितेनैव पुरश्चर्यां समाचरेत् || ३५ || पुलस्त्य उवाच सङ्कल्पश्च पुरश्चर्याविधानं तत्र कीदृशम् | तत् सर्वं कृपया नाथ सङ्क्षेपेण प्रकथ्यताम् || ३६ || सनत्कुमार उवाच प्रणवं तत्सदिति च मासपक्षतिथावपि | अमुकोऽमुकगोत्रोऽहं मूलमुच्चार्य तत्परम् || ३७ || सिद्धिकामोऽस्य मन्त्रस्य इयत्सङ्ख्यं जपेत् ततः | दशांशं हवनं कुर्याद् दशांशं तर्पणं ततः || ३८ || दशांशं मार्जनं तस्माद् दशांशं विप्रभोजनम् | पुरश्चरंअमेवं हि करिष्ये प्रागुदङ्मुखः || ३९ || इति सङ्कल्प्य विप्रेन्द्र जपयज्ञादिकं चरेत् | मन्त्रं च प्रातरारम्भ्य जपेन्मध्यन्दिनावधि || ४० || इत्यादि विधिनाऽऽलब्य पुरश्चर्यां समाचरेत् | अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते || ४१ || ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः | नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः || ४२ || ग्रहणान्मोक्षपर्यन्तं जपेन्मन्त्रं समाहितः | दृष्ट्वा स्नात्वा तु सङ्कल्पप्य विमोक्षान्तं जपं चरेत् || ४३ || तावज्जपादिकं कुर्याद् ग्रहणान्ते शुचिः पुमान् | इति जापान्मन्त्रसिद्धिर्भवत्येव न संशयः || ४४ || श्राद्धादेरनुरोधेन यदि जापं त्यजेन्नरः | स भवेद् देवताद्रोही पितॄन् सप्त नयत्यधः || ४५ || मासकृत्यं प्रवक्ष्यामि सावधानोऽवधारय | कृष्णभक्तस्य सुद्ध्यर्थं यदुक्तं ब्रह्मणा पुरा || ४६ || तत्तत् सर्वं समासेन वक्ष्येऽहमञ्जसा शृणु | पूर्णीमाप्रतिपत्सन्धौ फल्गुन्यां फाल्गुने मुने || ४७ || राजोपचारैः सम्पूज्य दोलयेद् यो जनार्दनम् | अश्वमेधसहस्रस्य बाजपेयशतस्य च || ४८ || गोससहस्रप्रदानस्य फलं प्राप्नोति मानवः | दक्षिणाभिमुखं कृष्णं दोलमानञ्च सन्नरः || ४९ || दृष्ट्वाऽपराधनिचयैर्मुक्तास्ते नाऽत्र संशयः | दोलारूढस्य कृष्णस्य येऽग्रे कुर्वन्ति जागरम् || ५० || सर्वपुण्यफलावाप्तिं निमेषाल्लभते नरः | ततो विधिं प्रवक्ष्यामि यत्र यत्तु समाचरेत् || ५१ || पौर्णमास्यां महत्पूजा सङ्घी च दोलयेत् प्रभुः | त्रयोदशाक्षरेणैव अष्टादशाक्षरेण वा || ५२ || फल्गुन्यां च प्रकर्तव्या पूजा पूर्वोक्तवर्त्मना | उत्थाय मन्त्रं जप्तव्यमष्टाधिकसहस्रकम् || ५३ || सूत्रं चैतत् प्रकथितं विस्तरेण शृणुष्व मे | रेवत्यां तु वास्तुबलिं मण्डलं रचयेत् सुधीः || ५४ || दिक्षु ध्वजान् समारोप्य लोकपालसमप्रभान् | गोविन्दं फलकाधस्ताद् दोलारूढं जगत्पतिम् || ५५ || पूजयेद् विधिवद् भक्त्या मण्डले च समाहितः | ऋग्ययुःसामसूक्तैश्च मन्त्रैः पौराणिकस्तथा || ५६ || मन्त्रैरागमिकैश्चैव वैष्णवैः पूजयेद्धरिम् | तद्गुणोत्कीर्तनं चैव दिवारात्रिं नयेद् बुधः || ५७ || केशवाग्रे नृत्यगीतं यः करोति कलौ युगे | अपराधसहस्रैस्तैर्मुक्तः स्यान्नात्र संशयः || ५८ || कर्मान्तरं प्रवक्ष्यामि येन विष्णुः प्रसीदति | ब्रह्मणा कथितं पूर्वं प्रतिष्ठाविधिनिर्णयम् || ५९ || गृहस्य भगवद्विष्णोः सावधानोऽवधारय | तृणैस्तृणध्वजैश्चैव मन्दिरं निर्मितं शुचिः || ६० || विधिनाऽनेन यो दद्याद् विष्णवे मनुजोत्तमः | कोट्यब्दशतसङ्ख्यानि विष्णुलोके भवेद्ध्रुवम् || ६१ || मन्दिरं दारवं चित्रं वासुदेवाय यो ददेत् | युगानामयुतं तत्र निवसेत् सत्यमीरितम् || ६२ || इष्टकैर्विविधैश्चित्रं वासुदेवाय यो जनः | तत्रानुसङ्ख्यकान् कल्पान् विष्णुलोके वसेत् सदा || ६३ || पाषाणैर्मन्दिरं चित्रं वासुदेवाय यो नरः | प्रदद्यात् विधिवद् भक्त्या प्रोक्तं शतगुणं ततः || ६४ || पुलस्त्य उवाच केन वा विधिना नाथ प्रदद्यान्मन्दिरं बुधः मोक्षप्रदाय कृष्णाय क्रमशः कथ्यां प्रभो || ६५ || सनत्कुमार उवाच आदौ वास्तुबलिं दत्त्वा लोकेशाऽनुध्वजेषु च | उक्तवर्णेषु गन्धाद्यैर्मूलपारिषदान्वितान् || ६६ || हेतिजात्यधिपोपेतान् पूर्वादिक्क्रमतो यजेत् | वज्रादीन तन्त्रकुम्भेषु गन्धाद्यैस्तत्क्रमाद् यजेत् || ६७ || तत्तन्मण्डपतः पूर्वे यागमन्दिरमाचरेत् | तत्रिभागमिते क्षेत्रेऽरत्निमात्रसमुन्नताम् || ६८ || वेदिं कृत्वा तु तत्रैव सर्वतोभद्रमालिखेत् | प्रधानमन्दिरे चापि सर्वतोभद्रमण्डलम् || ६९ || विधाय पूजयेत् तत्र तोरणेषु समाहितः | जयं च विजयं चैव विघ्नेशं क्षेत्रनायकम् || ७० || गङ्गा च यमुनां चैव महालक्ष्मीं सरस्वतीम् | पूर्वदिक्क्रमतो युग्मं क्रम्शो गन्धपूर्वकैः || ७१ || सम्पूज्य विधिवद् भक्त्या गन्धपुष्पैश्च धूपकैः | ततो गृहं प्रविश्याऽथ वास्त्वीशमजमर्चयेत् || ७२ || पञ्चगव्याऽर्घ्यतोयाभ्यां प्रोक्षयेन्मण्डलं ततः | निरस्य विघ्नान् तत्रैव बद्धपद्मासनो भवेत् || ७३ || पूर्वोक्तेनैव विधिना भूतशुद्ध्यादिकं चरेत् | अर्घ्यपात्रं ततः कृत्वा मण्डले पीठमर्चयेत् || ७४ || प्रतिमां वासुदेवाख्यां तत्र संस्थापयेद् बुधः | गृत्पद्मे देवमाराध्य गन्धाद्यैर्मानसैर्यजेत् || ७५ || करस्थकुसुमे तेजः समानीय श्वासमार्गतः | मूर्तौ तस्यां ससारोप्य तत् तेजोमूलमन्त्रतः || ७६ || हृदये करमादाय जीवन्यासं समाचरेत् | मायापाशाङ्कुशाद्यन्ता यादीन् सप्तसबिन्दुकान् || ७७ || वियत्सत्येन्दुसंयुक्तं समस्तेऽहं समुच्चरेत् | तस्य प्राणा इह प्राणाः पुनर्जीव इह स्थितः || ७८ || पुनरुच्चार्य तस्यैव सर्वेन्द्रियाणि प्नर्वदेत् | तस्यापि वाङ्मनश्चक्षुःश्रोत्रघ्राणपदान्यथ || ७९ || प्राणा इहाऽऽगत्य सुखं चिरं तिष्ठन्तु ठद्वयम् | इति प्राणान् प्रतिष्ठाप्य देवमावाह्य पूर्वत् | करकच्छपिकां कृत्वा ततो ध्यायेदनन्यधीः || ८० || विष्णुं शारदकोटिचन्द्रसदृशं शङ्खं रथाङ्गं गदा - मम्भोजंधतं सिताब्जनिलयं कान्त्या जगन्मोहनम् | आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् || ८१ || इति ध्यात्वा जपेन्मन्त्रं राजोपचारवत् सुधीः | तारोहृद्भगवान् डेन्तो वासुदेवाय तत्परम् || ८२ || सर्वेषु विष्णुमन्त्रेषु प्रधानमनुरीरितः | मनुनाऽनेन तत्सर्वानासनादीन् प्रदापयेत् || ८३ || आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काऽऽचमनंस्नानं वसनाऽऽभरणानि च || ८४ || गन्धपुष्पधूपदीपनैवेद्याचमनं तथा | प्रदक्षिणं नमस्कारो विसर्गश्चैव षोडश || ८५ || छायामण्डलमागत्य मण्डले पूर्ववद्धरिम् | अभ्यर्च्य जुहुयाद् वन्हौ संस्कृते पूर्ववर्त्मना || ८६ || शतमष्टोत्तरं हुत्वा मनुनाऽनेन वैष्णवः | पुनर्यजेद् देवताग्रे ततः पारिषदान् यजेत् || ८७ || प्रथमाऽऽवृत्तिरङ्गैः स्याद् वासुदेवादिभिः परा | शान्त्यादिशक्तिसहितैः परा द्वादशमूर्तिभिः || ८८ || चतुर्थी सुरनाथाद्यैर्वज्राद्यैः पञ्चमी मता | एवं सम्पूजितो विष्णुः प्रसीदत्येव सत्वरम् || ८९ || तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् | चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् || ९० || समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् | वासुदेवः सङ्कर्षणः प्रद्युम्नश्चाऽनिरुद्धकः || ९१ || शङ्खचक्रगदाम्भोजधरा एते चतुर्भुजाः | ततश्च मन्दिरं दद्यान्मनुनाऽनेन मानवः || ९२ || पुण्यात्मा वैष्णवश्रेष्ठः स देवो न तु मानवः | कृत्वैवं कृतकृत्यः स्यात् सत्यं सत्यं न संशयः || ९३ || ऋग्यजुःसामसूक्तैश्च स्मार्तैः पौराणिकैरपि | मन्त्रैरागमिकैश्चैव वैष्णवैः कीर्तयेद्धाम् || ९४ || दर्पणं चामरं छत्रं व्यञ्जनं च पृथक् पृथक् | दत्त्वा च मनुनाऽनेन प्राणायामं ततश्चरेत् || ९५ || शतमष्टोत्तरं जप्त्वा पूर्णां दद्यात् ततः परम् | गायत्र्या मूलमन्त्रेण स्वाहान्तेन द्विजोत्तमः || ९६ || पूर्णागुतिं ततः कृत्वा विसर्जनमतः परम् | ऋत्विग्भ्यो दक्षिणां दत्त्वा भोजयेच्च द्विजोत्तमान् || ९७ || एवं कृत्वा तु पुण्यात्मा साक्षान्नारायणो भवेत् | गृहादीनां च दानेषु ब्राह्मःअः क्षत्रीयस्तथा | वैश्यश्च पादजश्चैव सर्वेऽप्यत्राऽधिकारिणः || ९८ || || इति सनत्कुमारीये मालानिर्णयो नाम दशमः पटलः || १० || अथैकादश पटलः ततो दीक्षावधिं वक्ष्ये यथावदवधारय | क्रियावती कलावती वर्णात्मा वेदमप्यपि || १ || पञ्चायतनदीक्षायां सर्वदीक्षोत्तमोत्तमा | पितृमातृकृतं नाम त्यक्तायुर्वर्णवर्णकान् || २ || संसृष्तिमन्त्रतो विद्वान् चक्रेषु गणयेत् क्रमात् | आषाढो निन्दितो ज्येष्ठः पौषो भाद्रपदस्तथा || ३ || मासेष्वनिन्दितेष्वेव दीक्षोक्ता ग्रहणे शुभा | पुरुषार्थसमावाप्त्यै स शिष्यो गुरुमाश्रयेत् || ४ || मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः | सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् || ५ || परोपकारनिरतः पूजाजपपरायणः | अमोघवचनः शान्तो वेदवेदाङ्गपारगः || ६ || योगमार्गानुसन्धायी देवताहृदयङ्गमः | इत्यादिगुणसम्पन्नो गुरुर्भवति मानवः || ७ || शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः | अधीतवेदः कुशलो दूरमुक्तमनोभवः || ८ || हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः | स्वधर्मनिरतो नित्यं पितृमातृहिते रतः || ९ || वाङ्मनःकायकृतिभिर्गुरुशुश्रूषणोद्यतः | एभिरेव गुणैर्युक्तः शिष्यो भवति नाऽपरः || १० || द्वादशेषु च मासेषु यान्येव शुभदानि च | दिनानि तानि विप्रेन्द्र सावधानाऽवधारय || ११ || चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता | ज्येष्ठे च दशमी कृष्णा चाऽऽषाढे नागपञ्चमी || १२ || श्रावणे द्वादशी भाद्रे रोहिणीसहिताऽष्टमी | आश्विने च महापुण्या महाष्टम्यपयभीष्टदा || १३ || कार्तिके पूर्णिमा शुक्ला मार्गशीर्षे सिता तथा | षष्ठी चतुर्दशी पौषे माघेऽप्येकादशी सिता || १४ || फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः | प्रशस्तास्तिथयः पुण्याः सिद्धिदाः श्रूयताम् बुधः || १५ || पञ्चमी सप्तमी षष्ठी पूर्णिमा च सिता तथा | त्रयोदशी तु दशमी प्रशस्ता सर्वकर्मणि || १६ || एकादशी सिता कृष्णा प्रशस्ता कीर्तिता बुधैः | अश्विनी श्रवणाऽऽर्द्रा च रेवती चोत्तरात्रयम् || १७ || पुण्या शतभिषा चैव दीक्षादिषु प्रकीर्तिता | अथ योगं प्रवक्ष्यामि साधकानां हिताय च || १८ || ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः | शिवात्मनोरभेदेन प्रतिपत्तिं परे विदुः || १९ || कामक्रोधौ लोभमोहौ तत्परं मदमत्सरौ | वदन्ति विषमानेतान् विषमं दुर्गमात्मनः || २० || इडया कर्षयेद् वायुं बाह्यं षोडशमात्रया | मध्यमा कुम्भयेद् वायुं विद्यया मात्रया शनैः || २१ || नाड्या पिङ्गलया चैनं रेचयेद् योगवित्तमः | प्राणायाममिदं प्राहुर्योगशास्त्रविशारदाः || २२ || भूयो भूयः समाक्रम्य अभ्यासेन समाचरेत् | सनत्कुमारतन्त्रं तत् सम्भूतं मुनिपुङ्गवात् || २३ || सनत्कुमारात् सारं च तन्त्राणां ब्रह्मभावनात् | यः पठेच्छुणुयाद् वाऽपि सोऽपि पुण्यवतां वरः || २४ || पुस्तकं लिखितं यस्य गृहे तिष्ठति नित्यशः | लक्ष्मीस्तस्य गृहं साक्षात् त्रिसन्ध्यं न विमुञ्चति || २५ || || इति सनत्कुमारतन्त्रे सनत्कुमारपुलस्त्यसंवादे श्रीगोपालपूजाप्रयोगविधानं नामैकदशः पटलः || ११ || ########### END OF FILE #######