#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00327 Uniform title: sarvajñānottara Manuscript : IFP/EFEO transcript T00334 from D5550 GOML, Madras Description: Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 29, 2015 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### सर्वज्ञानोत्तरम् त्रन्स्च्रिप्त् त्०३३४ चोपिएद् fरोम् द्. ५५५० ओf गोंंऌ. मद्रस् प्. १) श्रीगुरुभ्यो नमः सर्वज्ञानोत्तरम् | योगपादम् || नमः शिवायशक्त्यै च विन्दवे शाश्वताय च | गुरवे च गणेशाय कार्तिकेयाय धीमते || १ || अतः परं प्रवक्ष्यामि योगमन्त्रकितस्तुतम् | शान्तस्य * * * * * * * * * * * * * || २ || युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु | उक्त स्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख || ३ || योध्यातायश्च तद्ध्यानं तद्वैर्यान्न प्रयोजनम् | सर्वाण्येतानि यो वेत्ति स योगं योक्तु मर्हति || ४ || आत्माध्याता मतोध्यानं ध्येयः सूक्ष्मो महेश्वरः | यत्परा परमैश्वर्यमेतद्ध्यान प्रयोजनम् || ५ || मानामानौ समौ कृत्वा सुखदुःखे समे तथा | हर्षं भयं विषादं च सत्यजन् योगमभ्यसेत् || ६ || शून्यागारे मठे रम्ये देवतायतने शुभे | नदीतीरे विविक्तेन्त गृहे घोरवनेपि वा || ७ || प्रच्छन्ने च विविक्ते च निश्शब्दे जनवर्जिते | योगदोष विनिमुक्ते निर्विकल्पे निरातपे || ८ || स्नात्वा शुचि रूपस्पृश्य प्रणम्य शिरसा शिवम् | योगाचार्यान्नमस्कृत्य योगं युञ्जीत * * * || ९ || पद्मकं स्वास्तिकं नापि उपस्थाप्यां जलिं तथा |? पीठार्धतर्धचन्द्रं वा कर्मतो? भद्रमेव वा || १० || प्. २) आसनं रुचिरं वद्ध्वोर्ध्वकायः समं शिरः | सर्वसंगान् परित्यज्यात्मसस्थं मनोगुह || ११ || न दन्तैः संस्पृशेद् दन्तान् सृक्विण्या च न जिह्वया | किञ्चित् कुञ्चित नेत्रस्तु शिवं सम्यक्तदोच्चरेत् || १२ || *? य स यति तत्वानि तन्मात्राद्यानि देहिनाम् | पुनर्विनंशिकश्चैवास्त्र युक्तष्षडानन || १३ || न पृथक् हृदयं तस्य न शिरो न शिखागुह | वर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते || १४ || प्राणापानौ समौ कृत्वा सुषुम्नान्तर चारिणौ | तयोर्वृत्तिर्निरुध्यात्मा शिवं ध्यायेद् विचक्षणः || १५ || अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् | सुसूक्ष्मं व्यापकं नित्यं निर्विकल्पं सदा बुधः || १६ || उत्तमा मध्यमा मन्दास्संसर्गास्त्रिविधाः स्मृताः | प्राणायामांश्च तान् कुर्यात् पूरकुम्भक रेचकान् || १७ || प्राणायामैर्दहेद्दोषान् धारणाभिदिस्तुतम् | प्राणायामो भवादेय पूरको देहपूरकः || १८ || पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः | संपूर्ण कुम्भवत् तिष्ठेत् प्राणायामस्सकुम्भकः || १९ || ततोर्ध्वं रेचयेद् वायुं मृतु निच्छ्वास संयुतम् | रेचकस्त्वेष विख्यातः प्राणसंशयकारकः || २० || प्. ३) प्रसार्यचाग्रहस्तं तु जानुं कृत्वा प्रदक्षिणम् | च्छोटिका ततो दद्यान्मनन्नैष्टा त्वभिधीयते || २१ || मात्रा द्वादश विज्ञेयाः प्रमाणं तालसंज्ञकम् | तालद्वादशकं ज्ञेयं प्राणायामस्तु आन्यसम् || २२ || मध्यमश्चतर्विंश ज्येष्ठ * * द्विगुणो भवेत् | एकैकां वर्धमात्रां प्रत्यहं योगवित्तमः || २३ || नत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् | प्राणायामोत्तमोयत्त द्विगुणा धारणा मता || २४ || धारणाद्विगुणो योगो योगोपि द्विगुणी कृतः | योगसिद्धिरिति ज्ञेया शिवेन परमात्मना || २५ || तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि | रसं तेजस्परिशंति च शब्दतन्मात्रमेव च || २६ || पश्यते कर्मयोगेन वर्णभावैः पृथग्विधैः | अहंकार मनोबुद्धिं गुणमव्यक्त पौरुषम् || २७ || अभिव्यक्तानि जानीयात् स्वधर्मगुण लक्षणात् | विद्यां कलां ततः कालं मायां विद्यां ततः पराम् || २८ || दृष्ट्वानु क्रमशः सर्वान् पुनरस्त्रेण भेदयेत् | विद्येश्वरं ततस्तत्वं तथा सादाशिवं परम् || २९ || भित्वा तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् | अमृतात्मा शिवः साक्षात् तस्मिन्निष्टस्तु योगवित् || ३० || प्. ४) सर्वज्ञस्सर्वगस्सूक्ष्मस्सर्वेशस्सर्वकृद् भवेत् | सर्वेष्वेव स शास्त्रेषु ज्ञेयं वस्तु चतुष्टयम् || ३१ || पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् | ज्ञात्वा तु तत्व सद्भावं तन्त्रसारं तु दुर्लभम् || ३२ || सर्वथा वर्तमानोपि गृह्णाति न पुनस्तनुम् || ३३ || || इति योगपादः समाप्तः || पशुपाशविधानं हि श्रोतुमिच्छामि तत्वतः | संयोगं च तथा तेषां कथयस्व महेश्वर || १ || आद्याः पाशास्ततस्तेषां जीव आद्यस्तु किन्तु वै | का पाशाः कोमलाः प्रोक्ताः कस्माद्वन्धः पुमानिति || २ || पतिश्च किं विधो ज्ञेयस्साधिकार पदे स्थितः | शिवश्च कीदृशः प्रोक्तो योधिकार विवर्जितः || ३ || ईश्वरः पशुरात्मा स्वतन्त्रश्च चिन्मात्रो मनदूषितः | सममूढो नित्यसंसारी किञ्चिद् ज्ञानीश्वरो क्रितः || ४ || ताम्रस्यैव तु हेमत्वमन्तर्लूनं यथा स्थितम् | अन्तर्लूनं तथा ज्ञेयं शिवत्वं पुद्गलस्य तु || ५ || रससिद्धं यथा ताम्रं हेमत्वं प्रतिपद्यते | तथात्मा ज्ञानसम्बन्धश्शिवत्वं प्रतिपद्यते || ६ || यथा ज्ञात्वा विभागेन पयसि संस्थितम् | तथात्मा पाशसंश्लिष्ट अविभागेन संस्थितः || ७ || प्. ५) विषापहारं कुरुते * * ध्यानबलैर्यथा | कुरुते पाशविश्लेषं तथाचार्यः शिवाध्वरैः || ८ || मन्त्रौषधबलैर्यद्वत्सन्निरोधो विषस्य तु | तथा हि सर्वपाशानां सन्निरोधस्तु दीक्षया || ९ || दह्यते याम्यमानानां धातूनां तु यथामलम् | तथाचार्यो दहेत्पुंसां वायुभूतो मलावुभौ || १० || गुणभूताः स्मृताः पाशाः धर्माधर्मौ मलौ स्मृतौ | सहजौ साधकज्ञानां ताम्रकालिकवात्स्थितौ || ११ || त्रिविधास्ते स्मृताः पाशाः सहजागन्तुकास्तधा | सांसर्गिकास्तथा भूयः शृणु तेषु विनिर्णयम् || १२ || तन्मात्राद्यास्तु ये तत्वास्ससूक्ष्मास्सर्वगा गुह | ते तु पाशाः पराः प्रोक्तास्सहजास्सर्वजन्तुषु || १३ || इन्द्रियाणि च भूतानि यद्वीजं तेषु सम्भवम् | आगन्तुकाः स्मृताः ह्येते तस्मात् सांसर्गिकाः पुनः || १४ || संसर्गाद् यद् भवेत् कर्म शुभं वा यदि वा शुभम् | ते तु सांसर्गिकाः पाशाः सुखदुःखफलः प्रदा || १५ || कर्मणा तु शरीराणि भावात् कर्मोदयो भवेत् | पूर्वोपार्जित कर्माणां भावः संयोग कारकः || १६ || ईश्वरो व्यञ्जकस्तेषां भवेत् कर्मानुरूपतः | कर्मोदयाद् भवेत् सृष्टिरसास्तैः प्रलयं विदुः || १७ || प्. ६) विषयासङ्गदोषेण गुणसंगो शिखिध्वज | वन्धमाप्नोति पुरुषो ह्यकर्तो सर्वगोपि सन् || १८ || पिता पुत्रापराधेन यथैकस्थो निबध्यते | अकर्तापीह पुरुषस्तथा बन्धमवाप्नुयात् || १९ || यथैव साधुसंयोगात् उदासीनोपि मानवः | तथाबन्धमवाप्नोति तथा ज्ञेयस्तु पुद्गलः || २० || अनादि निधनाः पाशा जीवो नाद्यस्तु कीर्तितः | तच्छेदकस्तथानादिः पशुपाशपतिस्तुसः || २१ || पतिस्सदा शिवो ज्ञेयो मन्त्रात्मा मन्त्रविग्रहः | सर्वमन्त्राधिपश्चासौ सृष्टिसंहारकारकः || २२ || पदवर्णादिभिर्युक्तैः पूज्यते सर्वदा तु सः | अशेष भवनाधारो योगपीठासनस्थितः || २३ || पतिरेवं समाख्यातस्सर्वकामफलप्रदः | स्थूलसूक्ष्मोपि मिश्रश्चैवं रूपं तु संस्कृतः || २४ || शिववस्तु परं तस्मान्मन्त्रातीतो निरञ्जनः | निरामयो निराधारो वर्णरूप विवर्जितः || २५ || सर्वज्ञः सर्वगश्शान्तः सर्वात्मा सर्वतो मुखः | अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो ध्रुवः || २६ || स एव भगवान् व्यापिन् अप्रमेयो ह्यनौपमः | बहिरन्तर्विभागेन तिलेतैलमिव स्थितः || २७ || प्. ७) स्वात्मसाक्षात्कारप्रकरणम् || अथान्यं संप्रवक्ष्यामि उपायं तत्वतो गुह | अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् || १ || येन विज्ञायते सम्यक् यं ज्ञात्वा शिवो भवेत् | न कस्य विजायाख्यातं तद्विज्ञानं शृणुष्व मे || २ || गुरुपारम्परायातमदृष्टं सर्वादिभिः | भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् || ३ || यो सौ सर्वगतो देवो सर्वात्मा सर्वतोमुखः | सर्वतत्वमयो चिन्त्यस्सर्वस्योपरि संस्थितः || ४ || सर्वतत्वव्यतीतश्च वाङ्मनो नामवर्जितः | सोहमेवमुपासीत निर्विकल्पेन चेतसा || ५ || यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् | निर्विकल्पमनोद् देश्यं हेतु दृष्टान्तवर्जितम् || ६ || अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् | अविभाष्यमसन्देहं तदहं नात्रसंशयः || ७ || अहमेव परो देवः सर्वमन्त्रमयः शिवः | सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः || ८ || मया व्याप्तमिदं सर्वं दृश्या दृश्यं चराचरम् | अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते || ९ || अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् | शिवाद्यवनि पर्यन्तं तत्सर्वं मयि संस्थितम् || १० || प्. ८) यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा | बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया || ११ || अहमात्मा शिवो ह्यन्यः परमात्मेति यः स्मृतः | एवमुपासयेन्मोहान्न शिवत्वमवाप्नुयात् || १२ || शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् | यः शिवः सोहमेवेति अद्वैतं भावयेत् सदा || १३ || अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः | सर्वगं सर्वदेहस्थं पश्यते नात्रसंशयः || १४ || एवमेकात्मभावेन संस्थितस्य तु योगिनः | सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च || १५ || योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः | अकायो निर्गुणो ह्यात्मा सोऽहमस्मिन्न संशयः || १६ || अविज्ञातः पशुः सो हि सृष्टिधर्म समाश्रितः | विज्ञातशाश्वतश्शुद्धस्स शिवो नात्र संशयः || १७ || तस्मादात्मा सदावेद्यः सुविचार्यः विचक्षणैः | परापरविभागेन स्थूल सूक्ष्मविभागशः || १८ || परः परमनिर्वाण अपसृष्टिभेदतः | स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैक संस्थितः || १९ || अथवा बहुशोनेन किमुक्तेन षडानन | वाग्विकल्प विशेषेण मनः संमोहकारिणी || २० || प्. ९) सर्वेधर्मानस्सन्ति यमेव परिकल्पयेत् | तत्तद्भवत्यसंदेहात् सदा तद्भाव भावतः || २१ || इत्येवमात्मविज्ञानं कथितं तु समासतः | ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासते || २२ || न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः | आत्मविज्ञानमाश्रित्य विमलं सर्वतो मुखम् || २३ || संसारार्णवमग्नानां भूतानां शरणार्थिनाम् | नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् || २४ || आत्मानं परमो भूत्वा यो विजानाति तत्वतः | स मुच्यते त्वयत्नेन सर्वावस्थां गतोपि सन् || २५ || आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते | तथात्मानमुपासीत योयमात्मापरस्तु सः || २६ || न प्राण्यो नैव चापानो विशिष्टकरणस्तथा | सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् || २७ || न चैवाभ्यन्तरे बाह्ये नाति दूरे समीपतः | स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् || २८ || तिर्यगूर्ध्वमधंश्चैव बहिरन्तश्च नित्यशः | सर्वशून्यं तमाभास समात्मानं भावयेत्थ || २९ || नैव शून्यं च चाशून्यमशून्यं शून्यमेव च | पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् || ३० || निरामय निराधारं वर्णरूप विवर्जितम् | प्. १०) निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् || ३१ || निरामय निरालम्बमप्रमेय मनोपमम् | स्वभावविमलं नित्यमात्मानं पर्युपासयेत् || ३२ || सन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः | भावयेदात्मनात्मानं मात्मन्येवात्मनि स्थितम् || ३३ || स देश जाति संबन्धान् वर्णाश्रम समन्वितान् | भावानेतान् परित्यज्य स्वरूपं भावयेद् बुधः || ३४ || मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः | सर्वभावान् परित्यज्यात्माभावं तु भावयेत् || ३५ || अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ३६ || नैव चिन्त्यं न चाचिन्त्यमचित्तं चित्तमेव च | पक्षपात विनिर्मुक्तमात्मानं पर्युपासयेत् || ३७ || अचिन्त्यं चिन्तयेन् नित्यं कृत्वा चित्तं निराश्रयम् | निस्तत्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् || ३८ || निर्विकल्पमचिन्त्यं च हेतु दृष्टान्त वर्जितम् | तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् || ३९ || निरस्य विषयासङ्गं मनोवृत्तिं विवर्जयेत् | यदा यात्युन्मनी भावं तदा तत्परमं सुखम् || ४० || सर्वदिग्देशकालेषु योगाभ्यासोप्यधीयते | सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते || ४१ || प्. ११) गवामनेकवर्णानां क्षीरस्याप्येक वर्णताः | क्षीरवत् पश्यते ज्ञानमङ्गिनस्तु गवांसमाः || ४२ || यस्मात् सर्वगतं ब्रह्म व्यापकं सर्वतो मुखम् | तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् || ४३ || नैव तस्य कृतोर्थेन कार्य न विधिस्मृतः | न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः || ४४ || गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोपि पिवन्नपि | सर्वदा सर्वकालेषु वातशीतातपेषु च || ४५ || भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु | आत्मन्येष स्थितः शान्तः आत्मतृप्तस्तु निष्कलः || ४६ || ना गतोऽहं गतो वापि ना गमिष्ये न गच्छता | न भूतो न भविष्यामि प्रकृत्य स्थिर धर्मणि || ४७ || प्रकृतानि तु कर्माणि प्रकृतिः कर्मसंभवा | नाहं किञ्चित् करोमीति युक्तमन्येत तत्ववित् || ४८ || नैवः प्रकृतिबन्धोस्ति मुक्ति इत्यभिधीयते | न चैव प्राकृतैर्दोषैर्लिप्ये * * कदाचन || ४९ || निर्दश्य तमोरूप दीपो यद्वत् प्रकाशते | आभात्येवं परोह्यात्मात्स्यैक्वैवा(?) ज्ञानजंतपः || ५० || स्नेहक्षमाद्यमादीपो वलान्निर्वाणमिच्छति | तथात्मा भावनायुक्त स्वात्मन्ये वा वलिष्ठते || ५१ || प्. १२) घट संवृतमाकाशं नीयमाने यथा घटे | घटो नियतिनाकाशमाकाशत्वं प्रपद्यते || ५२ || विभिन्ने प्राकृते देहे तथात्मापरमात्मनि | इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा || ५३ || सर्वबन्धाद्विनिर्मुक्तस्सर्वज्ञः सर्वगो भवेत् || ५४ || तदा गमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् | अस्मात्परं नान्यदिहास्ति किञ्चिद् ज्ञात्वैव संत्यज्य मनोविकल्पम् || ५५ || विज्ञानमेवं समुपास्य विद्वान् विशत्यकायं सततं नियुक्तः | सर्वत्रगामी भरतीह मुक्तस्तद्धर्मधर्मी बहिरन्तसंस्थः || ५६ || सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः | अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहस्स शिवत्वमेति || ५७ || न जपो नार्चनं स्नानं न होमो नैव साधनम् | धर्माधर्मफलं नास्ति न पिण्डो नोदक क्रिया || ५८ || नियमानि न तस्यास्ति नोपवासो विधीयते | प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च || ५९ || अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके | शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् || ६० || शिववच्छाश्वतः शुद्धः सृष्टिधर्म विवर्जितः | सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः || ६१ || अतः परतरं नास्ति विज्ञेयं कुत्र चिद्गुह | प्. १३) विमलयति सर्वभावान् विमलात्मा विमलबुद्धिरतशुधीः || ६२ || सर्वं विमलं पश्यति विमलो विमलेन भावेन | जाग्रजाग्रजाग्रस्वप्नं तथा जाग्रसुषुप्तिकम् || ६३ || जाग्रतुर्यं कालपरमतीतं परदर्शनम् | विश्वाग्रस्वोपशान्तश्च शिवदर्शनमेव च || ६४ || सायुज्यमिति भेदेन चोर्ध्वमेकादश स्मृतः || ६५ || विमतीकरणम् परंभूयः प्रवक्ष्यामि विमतीकरणोत्तमम् | यथात्मा जीवसंज्ञितः * * * * * * * * || १ || मन्त्रात्मा परमाख्याश्च तस्मात् परतरं न हि | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || २ || संयोगः सर्वभूतानां भूतात्मा संप्रकीर्तितः | पुरुषाधिष्ठितैर्वीजैस्तन्मात्रैर्वीजसंयुतैः || ३ || संभवन्ति महाभूता मलया तु समन्विताः | सर्वेन्द्रिय समायुक्तं शरीरमिति चोच्यते || ४ || विनाशोत्पत्तिरेवास्य तच्चाहारमयं विदुः | आहारस्य परीणामाद्रसोत्पत्तिर्भविष्यति || रसाच्छोणितम् | शोणितान्मांसं मांसान्मेदो मेदस्वेऽस्थीनि अस्थिभ्यो मज्जामज्जातश्शुक्लंशुक्लशोणितसंयोगे वायुसंयोगाद्गर्भः संभूयते | यथाग्नीषोपीतं? शोभि? प्. १४) तत्र शरीर मध्ये नाभिः | नाभिस्थाने मलः | मलस्थाने यथा तिष्ठति वातपित्तश्लेष्माण इति त्रयो मलसंग्रहात् | ऋतुकाल संयोगात् पुंसोरेत आधिक्यादथ पुरुषो भवति | मातृरक्ताधिक्यात् स्त्री प्रजायते | उभयोस्साम्येनपुंसकम् | अथ काकञ्जकुब्जवामना जायते | परस्परा कुलत्वादन्योन्य वायुपीडिता तं स्त्रीपुंसां संयोगवैषम्याच्छुक्लं तद्विधं भवति | तेन युग्मं प्रजायते | एकरात्रोषितं कललं पञ्चरात्रेण बुद्वुदम् | सप्तरात्रेण मांसपेशी संभवति | द्विसप्तरात्रेण मांसपिण्डाकृतिर्भवति | मासादभ्यन्तरे बाहुरंसो जायते | मासद्वयेन हस्तपादाङ्गुष्ठादयो जायन्ते | त्रिभिर्मासैर्जरायु स्नायुत्वक् चर्मा भवन्ति | चतुर्भिर्मासैर्वंशपृष्ठे उरं कटिश्च भवति | पञ्चभिर्मासैश्शिरो ललाट कर्णनासा भवन्ति | षड्भिर्मासैः च्छिद्राणि भवन्ति | सप्तभिर्मासैश्शरीरस्य व्यक्तिर्भवति | अष्टभिर्मासैः पूर्णाकृतिर्भवति | नवभिर्मासैस्समायुक्त चेतनो भवति | पूर्वजातिं स्मरति | सोऽहमित्यहं चिन्तयति | चेष्टयति | घटात्घट इवाम्बुनोपलभ्यते | सूक्ष्मत्वादाकाशनीलो यथा | तस्मात् पञ्चात्मक समायुक्तं चेतनं | बुद्धिरहंकारो मनः प्रकृतिश्च प्रकृतेः पुरुश्च मनसा संकल्पं करोति | ह्य एव मनसायुक्त इन्द्रियैः सह युज्यते | इन्द्रियज्जी? ततोर्थेषु नित्यमेव प्रवर्तते || प्. १५) इत्येवं प्रकृति स्वभावं शरीरं प्रत्ययैश्चेष्टितव्यम् | असत्वात् सत्वरजस्तम इति पुरुषस्य स्वभावभेदं कुर्वन्ति || १८ || सत्वप्रकाशकं भावं रजो राजात्मकं गुह || १९ || तमो मोहात्मकं भावमुत्पादयति देहिनाम् | सत्वात्संजायते ज्ञानं रजसो लोपमेव च || २० || तमसो सत्यमज्ञानं प्रमादालस्यमेव च | सत्यात्सत्यं दया धैर्यं विनयस्थैर्यमेव च || २१ || रजसः क्रोधसंभावो निर्दयत्वं च जायते | ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः || २२ || जघन्यगुणप्रत्तिस्था अतो गच्छन्ति तामसाः | रजस्तमश्चाभि भूयसत्वं वर्धति षण्मुख || २३ || रजस्सत्वं तमश्चैव तमस्सत्वं रजस्तथा | यमेव स्वेते पुरुषो अतिसंगात्सदा गुणम् || २४ || सोस्याप्याधिको भूत्वा स्वधर्मे विनियोजयेत् | एवमेक कपालस्य षोडश पार्श्वपटलानि भवन्ति || २५ || त्रीण्यस्ति शतानि नवस्नायु शतानि नवद्वाराणि | मज्जापंचप्रस्तामेदः प्रस्थद्वयं त्रिस्तोर्ध्वं रोमकोट्यः || २६ || एकादशोत्तरर्मशित द्रवस्य पलानि अष्टौ सन्धिरस्या एकद्वयम् द्वादश पलार्मित(?) जिह्वा | वृक्षणं सार्धपलपञ्चकम् | शुक्लस्य कुडलत्रयम् | पित्तस्यादकम् | सप्तसिवाशतानि च | प्. १६) अनियत मूत्रपुरीष माहारस्यानित भावाद्विज्ञेयम् | एवं विधोयं भूतात्मा पुरुष इति चोच्यते | योत्तरे वर्तते शब्दस्तस्य वाचा प्रवर्तकः || २९ || प्राणापान समायोगात् सोन्तरात्मा प्रकीर्तितः | तस्माच्च सर्वशास्त्राणि संस्कृत प्राकृतानि च || ३० || देशभाषादिभिर्नित्यं विधिवत्संप्रवर्तते | पश्वश्च मृगाश्चैव पक्षिणश्च सरीसृपाः || ३१ || यावन्तः केचनस्सत्वा उच्चरन्ति सदा दुतम् | सूक्ष्मा वै पञ्चतन्मात्रा मनोऽहंकार एव च || ३२ || बुद्धिरष्टगुणा ज्ञेया गुणाव्यक्तं च पौरुषम् | कलाकालस्तथा माया विद्याविद्येश्वरं च यत् || ३३ || सदाशिवं तथा तत्वं वेदं वंशान्तमेव च | एतेषां चैव संयोगात् तत्वात्मा पुरुषः स्मृतः || ३४ || ततम्मेतैर्जगत्कृत्स्नं पाशाश्चेते मलात्मकः || सुसूक्ष्माः सर्वगानित्यस्सहजा सर्व ऋतुषु || ३५ || प्रकृतिश्चैव बोद्धव्या प्रक्रिया च निगद्यते | न परं प्रक्रिया ज्ञानात् न शिलाद्व्यापकं परम् || ३६ || न योगात्परतरः सिद्धिर्नशमात् परमं सुखम् | उदयो यक्ष्य तत्वस्य देहे भवति षण्मुख || ३७ || तदशात्मकं सदादेही विकार मनुवर्तते | प्. १७) यस्मिंश्चरति भूतात्मा तत्तत्वं वृषसर्पते || ३८ || आभूय सर्वतत्वानि स च तन्मयतां व्रजेत् | मुहुर्मुहु सा देही सर्वतत्वैरनुक्रमात् || ३९ || सञ्चरन्त्यविभत्त्या तु व्यापकत्वं च सर्वदा | तच्च तस्य सदा स्कन्द तत्वभावैः पृथग्विधैः || ४० || लक्ष्यते व्यापकस्यापि उदयास्तमनस्थितिम् | तथा तत्वाधिपान् भावान् प्रगृह्णाति षडानन || ४१ || सर्वधर्म मयो ह्यात्मा यथा कामं प्रकल्पयेत् | यस्मिं स्थिते रतिं याति तमेव परिसेवते || ४२ || तस्मिंस्तत्वे स्थितिं विद्यात् तत्तत्कर्म समाचरेत् || ४३ || तस्मादेवं विदित्वा तु शिवतत्वे निरामये | निर्विकारे निराधारे रतिं कुर्याद् विचक्षणः || न पुनर्मोह मायाति तस्मिंश्चैव षडानन || ४४ || स्थित्वास्मिन्नन्त कालेपि वरं निर्माणमाप्नुयात् | देही सर्वगतः सूक्ष्मः पुराणः शाश्वतो ध्रुवः || ४५ || व्यापकस्सर्व तत्वानां मजोवक्तः सनातनः | अस्वतन्त्रो निबद्धश्च चिन्मात्रो मलदूषितेः || ४६ || संमूढो नित्यसंसारी किञ्चिज्ज्ञो निश्चलो क्रियः | पशुधर्मोस्य संज्ञेयः शिवधर्मस्तनोऽन्यथा || ४७ || पशुधर्मोदयः पुंसो ह्यनेकाकार रूप धृक् | प्. १८) आत्मा जन्तुः पुमान् देही पुरुषः पुद्गली तथा || ४८ || जीवः कपाली क्षेत्रज्ञः पर्गाया एव मादयः | सर्वे धर्मात्मनः सन्ति संयुक्तः सर्वकर्मभिः || ४९ || सर्वान् देहान वाप्नोति याति सर्वासु योनिषु | यावन्नोत्पद्यते ज्ञानं तावद्भमति कर्मणा || ५० || अज्ञाना वृतदेहस्तु दुःखशोक परिप्लुतः | ज्ञानी लब्ध्वा परं शान्तं मचिरेणाधि गच्छति || ५१ || तदास्तु सर्वदुःखानां हानिरस्योपजायते || इति भूतात्मादिप्रकरणं समासम् || अतः परं प्रवक्ष्यामि पुरुषं मन्त्रविग्रहम् | सर्वशोकहरंदीप्तं सर्वपापहरंपरम् || १ || सर्वदेवासुरयक्षाणां किन्नरासुररक्षसाम् | पितृमातृगणानाञ्च सिद्धविद्याधरादिषु || २ || नागगन्धर्वतिर्यक्क्ष पिशाचां च मानुषाम् | शिवादि सर्वतत्वानां मन्त्राविद्यन्ति शाश्वताः || ३ || नास्ति मन्त्रैर्विना किञ्चित् सर्वस्थावरजंगमम् | यावन्तः केचनस्सत्वा मन्त्राधिष्ठित विग्रहाः || ४ || यस्य यस्य हि तत्वस्यादिमं तु यदक्षरम् | षष्ठं त्रयोदशान्तं च तस्मिन् तस्मिन् नियोजयेत् || ५ || तं तु मन्त्रं विजानीया सर्वतत्वात्मकंवरम् | बिन्दुनालंकृतं मूर्ध्न सर्वकामफलप्रदम् || ६ || प्. १९) तेषामङ्गानि युञ्जीत न ब्रह्मास्तेषु कीर्तितः | दीर्घभिन्ना स्मृता ह्यङ्गा नेत्रानुस्वारसंयुतः || ७ || स विसर्गस्मृतो ह्यस्त्रस्सोनुस्वारविवर्जितः | इति तेषां तु बीजानां मूर्ध्नि बिन्दुं प्रदापयेत् || ८ || ओंकार दीपितां मन्त्रां नमस्कारान्तयोजिताः | अर्चने च प्रयोक्तव्या होमे स्वाहान्त योजिताः || ९ || आवाहनास्य पात्रेषु स्थापनाचमनेषु च | स्नपने मन्त्रविन्यासे धारणाध्यानकर्मसु || १० || पूजाबलिविधानेषु जपहोम क्रियासु च | शिवस्य यो विधिः प्रोक्तः सर्वकर्मक्रमेषु च || ११ || सर्वेषांमेव तत्वानां तं विधिं परिकल्पयेत् | अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं हृदयेन तु || १२ || एवं विधिं विधानज्ञो बुध्या कर्मसमारभेत् | परमीकरणं प्रोक्तं सर्वतत्वेषु मन्त्रवित् || १३ || यो यथैव भवेन् मन्त्रो वाच्यवाचकभेदतः | स्थूल सूक्ष्म परस्सोहि मन्त्रात्म पुरुषः स्मृतः || १४ || स्थूलस्तु वाचकं सिद्धं सूक्ष्मे योगं च गच्छति | परः परम निर्वाणं यं प्राप्य न निर्वर्तते || १५ || यथा प्रदीपः प्रतिबुध्यमानो भवत्यनेकः पुनरेक एव | तथाहि मन्त्रः परिकल्प्यमानो भवत्यनेकः पुनरेक एव || १६ || प्. २०) यथाम्भसोनेकविधस्य लोके जात्यन्तरं ह्येकमनेकरूपम् | तथैव मन्त्रस्य च वेदितव्यं जात्यन्तरं ह्येकमेनक रूपम् || १७ || यमेव साधयेन्मन्त्रं ममात्मानं प्रकल्पयेत् | तदात्मक स्मृता ह्यङ्गा बहिराहित द्विभागहाः || १८ || यस्य यादृग्विधं रूपं वृतं तस्यैव तादृशम् | तादृशोप्युपचारस्तु मन्त्रदेवानुरूपतः || १९ || शास्त्रोपदिष्टमार्गेण यथारूपं प्रकल्पयेत् | तथा रूपो भवेन्मन्त्रस्ततः कर्मप्रसाधयेत् || २० || श्रोतुर्भाव विभेदास्तु वर्णरूपं पृथग्विधम् | सर्वोपाश्रय सम्पन्नं स्फटिको कोपलवद्यथा || २१ || इति मात्रात्मकः पुरुषः प्रोक्तस्सर्वार्थसाधकः | सर्वज्ञः सर्वगश्चैव सर्वरूप मयो हि सः || २२ || परात्परतरं वक्ष्ये मन्त्रातीतं निरंजनम् | निरामयं निराधारं वर्णरूप विवर्जितम् || २३ || सर्वज्ञः सर्वगः शान्तस्सर्वात्मा सर्वतो मुखः | अतीन्द्रियो निरालम्बः सुसूक्ष्मः शाश्वतो व्यथः || २४ || सुनिष्कलो निशालम्बो नाख्येयो व्यापको ध्रुवः | निरौपौम्यौ प्रमेयश्च परात्मा प्रकीर्तितः || २५ || यादृशेन तु भावेन पुरुषोपास्यते यदा | एकधा बहुधा चैव तथैव प्रतिपद्यते || २६ || प्. २१) यमेव चिन्तयेद् रूपं सर्वमात्मनि विद्यते | सर्वकामप्रदो ह्यात्मा प्रोक्तष्षड्भेद विस्तरः || २७ || भूतात्मा ह्यन्तरात्मा च तत्वात्मा जीवसंज्ञितः | मन्त्रात्मा परमाख्याश्च एकोपि बहुधा स्थितः || २८ || भूतात्मा भूतसंयोगात् तत्वात्मा तत्वसंस्थितः | मन्त्रात्मा मन्त्रं यो ज्ञेयो ह्यन्तरात्मागिरान्वितः || २९ || भोक्ता तु सुखदुःखाना प्रकृतिस्थो गुणान्वितः | जित्वा स्वभुवनं तेषामेभिर्मुक्तः परस्तुः || ३० || सर्वरूपं यथैश्वर्यं नित्ययुक्तो ह्यवाप्नुयात् | प्राप्तोपि स द्विधा भावि पुनर्भावमवाप्नुयात् || ३१ || प्राग्यत्येन परीक्षेण क्षीयात्पापस्य कर्मणः | तत्वविश्लेष काले चाद्वैतं प्रतिपद्यते || ३२ || एक एव परो ह्यात्मा चित्तभेदात्त्वनेकधा | एकस्य बहुनामानि पृथग्भूतान्य कोटिभिः || ३३ || अनामकस्व कीयंते भ्रान्ति ज्ञानविमोहितैः | यथाभिव्यज्यते ज्ञानं विमलं सर्वतोमुखम् || ३४ || तदात्मीयं परं धर्मविंदते शाश्वतं ध्रुवम् | अहमेव परोह्यात्मा पुरुषः कारणः स्मृतः || ३५ || अहमेव परंब्रह्म अहं ज्ञेय मतपरम् | सर्वे विनाशकाभावां मन एव पृथग्विधाः || ३६ || प्. २२) भावाभावविनिर्मुक्त अहमेव शिवोऽव्ययः | योगसंन्यस्त कर्मायो ज्ञानसंभिन्न संशयः || ३७ || निर्विकल्पस्तदा नित्यमात्मानं पर्युपासयेत् | निरस्य वासनास्सर्वा आत्मतृप्तो निरामयः || अद्वैतभावनायुक्तस्सदात्मा समुपासयेत् | अपाकृतेन नित्येन निर्मलेनाविकारिणा || व्यापकेनाति सूक्ष्मेण परेण योगचक्षुषा | विशुद्धं शाश्वतं नित्यं प्रमेयं नौपमम् || निर्विकल्पमचिन्त्यं च हेतुं दृष्टान्तवर्जितम् | दुत्रप्तं निर्गुणं शान्तं तत्वातीतं निरञ्जनम् || अविभाव्यमसन्देहं पश्यमीशानमात्म * | सर्वगं सर्वदेहस्थं व्यापकं सर्वतोमुखम् | निरामयं निराधारमात्मानं पश्यते शिवम् | विभिन्नं प्रक्रिया मार्गं मन्त्र तन्त्र परावरम् | मूर्तामूर्तं जगत्कृत्स्नं पश्यतात्मन्युपस्थितम् || सर्वज्ञः सर्वदर्शी च परिपूर्णः सुनिर्मलः | विमुक्तः केवलीभूतस्सुखमक्षयमाप्नुयात् || इति सर्वज्ञानोत्तरे ज्ञानपादः समाप्तः || वृक्षाणां सारभूतं पुष्पं पुष्पं समुद्राणां क्षीरसागरम् | तथा च सर्वशास्त्राणां सारभूतं शिवागमम् || प्. २३) पदार्थानेक सम्पूर्ण सर्ववाङ्मय साधनम् ||१ || अल्पग्रन्थमहार्थं च तच्छ्रुणुष्व यथाक्रमम् | योऽसावतीन्द्रियो ग्राह्यस्तत्वातीतो निरंजनः || २ || सर्वज्ञः सर्वगश्शान्तस्सर्वात्मा सर्वतो मुखः | तस्माच्छास्त्रं विनिष्क्रान्तं नादरूपं निरामयम् || ३ || अत्यन्तगगनं सूक्ष्मं परमं सार्वकामिकम् | प्रविश्य वैन्दवं तत्वं बोधयित्वा च तंविलं || पुनः सदा शिवात्प्राप्तं ममेदं सूक्ष्मलक्षणम् | ततः स्वराश्च वर्णाश्च हंसवर्ण समुद्भवा || पुनर्मन्त्राश्च शास्त्राणि छन्दो लक्षणसंयुता | वभूव परमोनादो नादाच्छब्दः प्रजायते || शब्दमात्रा स्मृता मन्त्रा मन्त्रे मन्त्राधिदेवताः | सर्वान् कामान् प्रयच्छन्ति विधिना राधिता यदा || स्वरवर्णसमायोगात् दृश्यादृश्यं चराचरम् | तस्मादिपासयेद्वर्णान् स्वरसंयोगपूर्वकम् || इति श्रीसर्वज्ञानोत्तरे मन्त्रतन्त्रोत्पत्तिप्रकरणम् || वर्णयागविधानं तु स्वरं संयोग पूर्वकम् | परमीकरणं चैव ब्रूहि तत्वेन शङ्कर || १ || शृणुष्वैकमना भूत्वा वर्णयागविधिक्रमम् | ककारादि क्षकारान्तं स्वरसंयोगपूर्वकम् || २ || प्. २४) एकैकमक्षरं भिन्नं स्वरै द्वादशभिस्तथा | ह्रस्वै ब्रह्मसमाख्याता दीर्घैरङ्गानि निर्दिशेत् || ३ || सानुस्वारसमायोगात् त्रयोनेत्राः प्रकीर्तिताः | स विसर्गा स्मृता ह्यस्त्रा अनुस्वारविवर्जिताः || ४ || हृद्वीजा अपञ्चमे बीजो षष्ठं बीजं नियोजयेत् | मात्रात्रयसमायुक्तं मूर्ध्नि बिन्दु प्र * पयेत् || ५ || शिवमेवं विधिं विद्यात् सर्ववर्णेष्वनुक्रमात् | ह्रस्वदीर्घप्लुतानन्तान्य या कामं प्रकल्पयेत् || ६ || ह्रस्वस्याद्यंत युत्तेन फट्कारेण तु मारयेत् | यधि क्रोधेनसंयुक्तो जपेत् संरक्तलोचनः || ७ || ह्रिंकारान्तसंयुक्ता दीर्घस्त्रिच्चाटयेद्ध्रुवम् | महांस्तु साधको भूत्वा साध्यनूनं प्रकल्पयेत् || ८ || निर्गुत्योदितमार्गेण प्रविशेत् तस्य तेन च | तत्रस्य एवाद्वयो भूत्वा तेनेव कर्षयेत् पुनः || ९ || अङ्गान्यङ्गेषु बन्धाय चिन्त चेतसि निक्षिपेत् | पद्मकोशस्थितं तं तु संहरेद्धृदयेन तु || १० || यदेव कुरुते कर्म न देवोपवदं स्मृतम् | जपेत् तद् भावना युक्तो नामं मन्त्रपि दर्हितम् || ११ || बिन्दुयुक्ताः स्मृता मन्त्रा प्रणवादि नियोजिताः | नमस्कारान्तसंयुक्तानार्चने संप्रयोजयेत् || १२ || प्. २५) होमे स्वाहान्तसंयुक्ता शान्तिकाकर्ष पौष्टिके | वश्ये च संप्रयोक्तव्या स्वाहाकारान्तसंयुताम् || १३ || किं वा मन्त्रविधानेनाति विस्तारवेनते | सर्वसाधारणं वत्स शृणु संक्षेपविस्तरम् || १४ || यो विधिर्मन्त्रराजस्य प्रोच्यमानो भविष्यते | तमेव सर्वमात्राणां सततं परिकल्पयेत् || १५ || तथैव सर्वदेवानां यजने संप्रयोजयेत् | इति श्रीसर्वज्ञानोत्तरे क्रियापादे स्थूलवर्णमन्त्रोद्धारप्रकरणम् || मन्त्रोद्धारं प्रवक्ष्यामि तत्वतः शृणु षण्मुख | अतिगुह्यं परं सूक्ष्मं सर्वमन्त्रमयस्य तु || १ || मात्रकादौ स्थिता स्थिता या तु सर्पवद्वध कुण्डला | सा शक्तिः परमासूक्ष्मा विश्वास ददात्मिका || २ || पसरत्यूर्ध्वसंनाना प्रेरितानांतविग्रहा | करिणीय करं यद्वत् संवेष्योरसि संस्थिता || ३ || सुदीर्घा क्रियते यातु संतानेन महौजसा | संप्रदायेन सातूर्णमात्मानं मुञ्चते शुभा || ४ || प्रगुक्ता भवतीया तु करणीय करंयया | प्रकाशयति चात्मानं मोक्षद्वारं परापरम् || ५ || तत्वङ्ग्या सह गन्तव्यं मध्यदेशं विपश्चिता | मध्यदेशमनुप्राप्य त्यजेत् तां चञ्चलां स्त्रियम् || ६ || मूलमत्रां विदित्वा तु शक्तेर्मध्यं सुदुर्जयम् | प्. २६) तन्मूलं जायते येन भोधकस्सोभिधीयते || ७ || संभूतिः सर्वबीजानामुच्चारवशवर्तिनी | दीर्घोसु नाशिको नादो ह्यप्रमेयो ह्यनौपमः || ८ || स्निग्धप्रसन्नगभीरशक्त्युच्चारस्तु संस्मृतः | प्रासादष्षष्ठसंयुक्तः पुनः षष्ठान्त योजितः || ९ || अर्धेन्दुबिन्दुसंयुक्तो मात्रात्रयविभूषितः | स शिवः शाश्वतः प्रोक्तः सर्वज्ञानोत्तरोत्तरः || १० || अष्ठौ संविद्य मन्त्रज्ञैः तस्योच्चारः प्रकीर्तितः | ह्रस्वस्वरसमायोगा पञ्चब्रह्माणि निर्दिशेत् || ११ || दीर्घैः भिन्न स्मृतो ह्यंगः कारणात्मा महाद्युतिः | मूर्ध्नि बिन्दु सुषुम्नास्यां गायत्रीं तां विनिर्दिशेत् || १२ || स्वरादौ त्रीणि दिर्घाणि त्रितत्वं परिकीर्तितम् | नेत्रत्रयं तु तज्ज्ञेयं क्रमशः संप्रयोजयेत् || १३ || दक्षिणे ह्यात्मतत्वं तु विद्या तत्वमयोत्तरे | ललाटे शिवतत्वं तु त्रीणि पञ्चसु विन्यसेत् || १४ || मुखेषु नेत्रवित्प्राज्ञो नेत्रं नेत्र क्रमेण तु | विन्यसेदात्मनः पूर्वं शिवस्य च तथा पुनः || १५ || त्रयोदशान्तसंभिन्नं विद्येशानां प्रकल्पयेत् | गणेशानां तु गायत्रीं तस्मिन् सान्निध्यमागताः || १६ || हृदयं लोकपालानां विज्ञेयं सार्वकामिकम् | अस्त्रपाशुपतं दीप्तस्त्र मन्त्रं प्रकल्पयेत् || १७ || प्. २७) सर्वे बिन्दुसमायुक्ता शुद्धकुन्देन्दु संप्रभाम् | विश्वकीद्विश्ववेत्तारो विश्वकृद्विश्व मूर्तयः || १८ || ओंकारदीपिता मन्त्रा नमस्कारान्तयोजिताः | अर्च्चते संप्रयोक्तव्या होमे स्वाहान्तसंयुताः || १९ || न बिन्दुर्न शिखामात्राप्यस्त्रवशस्य षण्मुख | स विसर्गास्तथा दीप्ता घोरकर्मकरा स्मृताः || २० || एकत्रिंशान्तिकं वर्णं सप्तमस्वरयोजितम् | ककारार्धयुतं कृत्वा क्षरिकास्त्रं प्रकीर्तितम् || २१ || एते मन्त्राश्शिखास्सूक्ष्माः परमाः सर्वकामिकाः | सर्वैरेभिः सदा कुर्याच्छिवीकरणमात्मनः || २२ || यदा यदा समाचामे मन्त्रन्यासं यदा तदा | कुपितकरकायेषु मन्त्रिमन्त्रार्य सिद्धये || २३ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे प्रासादमन्त्रोद्धारप्रकरणम् || अथातः संप्रवक्ष्यामि शिवीकरणमुत्तमम् | यत्कृत्वा तु नरः सम्यक् शिवो भवति नान्यथा || १ || देहं संशोधयेत् पूर्वं धारणाभिस्तु पञ्चभिः | शुद्धदेहस्ततो भूत्वा शिवमन्त्रान् नियोजयेत् || २ || सुषिम्नान्तर्वहिः शक्ति विन्यसेद् व्योमरूपिणीम् | तस्य मध्ये तु हुंकारं ज्वलन्तं पावकप्रभम् || ३ || प्राणापानसमायुक्ते तस्मिन् चित्तं निवेशयेत् | प्. २८) उत्छ्र?टान्तेस्त्र मोक्षस्तु हुंकारेण समन्वितः || ४ || ग्रन्थिभेदं कुरुष्वेवं पुनः साधानमारभेत् | सन्निरुद्धे कृते सम्यक् गूर्ध्वं वायुः प्रवर्तते || ५ || योद्घात इति विख्यातः स्वेच्छया तु कनीयः * | पूरकेणोपसंहृत्य हृदयेन तु मन्त्रवित् || ६ || सान्तबीजमयं जीवं न्यसेधूंकारमूर्धनि | हुंकारस्य शिखान्तस्य पुरुषं बीजविग्रहम् || ७ || ध्यात्वा त्वेकाकिनं सूक्ष्मं बिन्दुभूतं निरामयम् | ततः संयोजयेद् योगी शिवे परमकारणे || ८ || शिवातीते सदाशान्ते शुद्धस्फटिक निर्मले | एकेनोद्घात मात्रेण एकलक्षस्सुमन्त्रितः || ९ || एकीभावसमायुक्तः प्रविशेच्छिवमव्ययम् | बीजवृत्याशिखेलून तत्व वृत्या तु तत्ववित् || १० || * म्यदीनि विजानीयादनिलानि विशोधयेत् | हृदा तु पार्थिवं बीजं वारुणं शिरसा सह || ११ || नियुक्तं शिखयाग्नेयं वायव्यं कवचान्वितम् | होकार मन्त्रसंयुक्तं मण्डलेषु प्रयोजयेत् || १२ || एतास्तु धारणा ज्ञेय ऐंद्राद्या देशिकोत्तमैः | वैन्दवास्तु कलास्ताश्च निवृत्याद्याः प्रकीर्तिताः || १३ || प्रधंदारण भेदेन प्रणवेत्वेकधा स्थिताः | प्. २९) ज्ञानत्वैतास्तु कलासम्यक् स्थूल सूक्ष्मविमिश्रकाः || १४ || ततो ध्यानं प्रकुर्वीत देह संशोधनाय च | चतुरश्रं समंपीतं वज्रांग वज्राङ्गं कठिनं गुरुम् || १५ || लकारासनमारूढं हृद्बीजमध्यतः स्थितम् | उद्घातैः पञ्चभिर्युक्तं वायुभूत विशोधयेत् || १६ || अर्धचन्द्रं द्रवं सौम्यं शुद्धकुन्देन्दु समप्रभम् | वारुणं मंडं ध्यायेत् मध्ये कमलभूषितम् || वकारासन मध्यस्थं शिरोबीजमधोमुखम् | युक्तं चतुर्भिरुद्घातैः वह्निभूतं विशोधयेत् || १८ || विषानल महावेग कालपाशविनाशनम् | वर्षन्तं तमभिध्यायेत् नादमानं सुशीतलम् || १९ || डाडिमी कुसुम प्रख्य मध्यशृंगाटकाङ्कितम् | त्र्ययश्रमर्चस्सुसम्पन्नमाग्नेयं मण्डलं स्मरेत् || २० || रकारासनमारूढं शिखाख्यं बीजमुत्तमम् | उद्घातै स्त्रिभिः संयुक्तं जलभूतं विशोधयेत् || २१ || शोधयन्तं स्वकंदेहं निर्दहन्तमकल्मषम् | सकृष्णं बिन्दुभूतं * * * * * * * * * || २२ || वायव्यमण्डलं ध्यायेत् पादादारभ्य चञ्चलम् | यकारासन् संविष्टं कवचं वायुविग्रहम् || २३ || शोधयेत् पार्थिवं भूतं उद्घात दवय योजितम् | ततः सञ्चिन्तयेद् व्योमं समलं सर्वतोमुखम् || २४ || प्. ३०) नित्यं सर्वगतं शान्तं बिन्दुशक्तिविभूषितम् | ओंकारासंविष्टं हकारं नाहसंविलम् || २५ || कोनोघातमात्रेण शून्यभूतं विशोधयेत् | मण्डलं बीजसंयुक्तं ध्यानेन विविधेन च || २६ || प्राणायामैर्मतं सम्यक् धारणेत्यभिधीयते | यायेव धारणाधार्य जगत्सर्वं हि तन्मयम् || २७ || यदात्मकं च योगीन्द्रास्तत्तत्कर्मजलं ययुः | एवं संशुद्ध देहस्त्वमृतीभूतो विधानवित् || २८ || ततो निरुक्षयेन् मार्गं का नाडी वहते मम | यस्मिन् चरति पुद्गलः * * * * * * * * || २९ || तत्रान्तर्देह विनासमन्तर्य जनमेव च | देहस्तस्य विदेहस्य जाक्षिभूतस्य कर्मसु || ३० || नित्योदितस्य कुर्वीत सदासन्निहितस्य तु | वामनासा पुटे या तु इडासा परिकीर्तिता || ३१ || दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यत स्थिता | यस्मिन्नभ्यधिको वायुस्सानाडी सर्वकामदा || ३२ || इडानाड्यां वहन्त्यां च म दिवस्थान प्रकल्पयेत् | पिङ्गला नाडि पद्मं तु सुषुम्ना मूर्ध्नि योगवित् || ३३ || हृदयेच्चा विधानं तु नाभौ भौमं प्रकल्पयेत् | मूर्ध्नान्ते शिवं ध्यायेत् वरदं सर्वतोमुखम् || ३४ || प्. ३१) रात्रौ संपूजयेद् देवं दिवाहोमं च कारयेत् | सन्ध्यासु च ततो ध्यानं दिवा रात्रौ जप स्मृतम् || ३५ || दिवा तु तामसं कुर्याज्जपो रात्रौ तु राजसम् | सन्ध्यायां सात्विकः प्रोक्तो जपः सर्वार्थसाधकः || ३६ || विस्पष्टस्तामसः प्रोक्तो राजसोपांशुरुच्यते | मनसा सात्विकं विघात् जपं जप्यविदां विदुः || ३७ || तामसं क्रूरकर्माणां वश्यादिषु च राजसम् | सात्विकं दिव्यसिद्धीनां जपं युज्याद्विचक्षणः || ३८ || प्राणपत्ति निरोधेन यो जपः क्रियते सदा | स जपः सात्विकः प्रोक्तो भोग मोक्ष फलप्रदः || ३९ || नं तु द्विविधं कुर्यात् स्थूला सूक्ष्मं सदाबुधः | ध्यानेन हि परां सिद्धिं प्राप्नुवन्ति हि योगिनः || ४० || स्थूल मन्त्रमयं प्रोक्तं सर्वावयवसंयुतम् | द्विमार्गावस्थितं ध्यायेत् पूजाग्नौ होमवित्तमः || ४१ || केवलं शिवबीजं तु सर्वावयववर्जितम् | न जातिरूपं परं शुद्धं तत्सूक्ष्मं परिकीर्तितम् || ४२ || दक्षिणायनमित्युक्तं निशा सोमात्मिका गुह | अहस्तु विमलं प्रोक्तं सौरमेयोत्तरायणम् | सन्ध्या तु विषुवं प्रोक्तं वुत्तरेण * * * * ? || ४३ || उत्तरेण वहन्तस्य दक्षिणायनमादिशेत् | प्. ३२) दक्षिणेनोत्तरं विद्यां मध्ये तु विषुवं भवेत् || ४४ || समीभूते यदा वायुःश्चरते संपुटद्वये | विषुवं तु विजानीयात् पुण्यमन्त्रो भयात्मकम् || ४५ || विषुवं चन्द्रमाहेन्द्रांद्या दक्षिणायनमाश्रिताः | इडाख्यान्तर्गतां ध्यायेत् पितृयाने शिखिद्ध्वज || ४६ || ब्रह्मावह्नी रविर्वायुरुत्तरायणमाश्रिताः | पिंगलान्तर्गतं ध्यायेद् देवयानं तदुच्यते || ४७ || अनन्तेशश्चरुद्रश्च सदाशिव शिवौ तथा | सुषुम्नान्तर्गतं ध्यायेद् विषुवे च विचक्षणः || ४८ || धर्मज्ञानं च वैराग्यमैश्वर्यञ्च चतुष्टयम् | योगपीठं च पद्मं च प्रणवेन तु विन्यसेत् || ४९ || तत्वं विन्यसेत् पूर्वं कर्णिकायां विचक्षणः | व्यापयन्ति मधश्चोर्ध्वं पुनः शक्ति नियोजयेत् || ५० || ततश्चाकर्षयेज्जीवं शिवीभूतं निरामयम् | पूरकेण शिखान्तस्थं शिवबीजमयंपरम् || ५१ || स्थापयेत शिखामध्ये ज्योतीरूपं सुनिर्मलम् | अमृते वा प्लाव्यमानमुपरिष्टात् समं ततः || ५२ || ततोऽस्य मन्त्रविन्यास सूक्ष्मदेहस्य षण्मुख | यथा भवति तत्वेन तच्छृणुष्व यथाक्रमम् || ५३ || शान्तौ करतलौ कृत्वा करशाखासु पञ्चसु | प्. ३३) ईशानादीनि ब्रह्माणि कनिष्ठादिषु योजयेत् || ५४ || ततोङ्गानि नियुंजीत हृदयादि ततो पुनः | प्रासादं विन्यसेत् पञ्चद्व्यापिनं सर्वतोमुखम् || ५५ || ततश्चालभनं कुर्यात् पादादारभ्य मूर्ध * ? | ईशानं पञ्चधा मूर्ध्नि वक्त्रंवक्त्र चतुष्टये || ५६ || दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु | हृदाद्यंगैरघोरं तु गुह्यवामं प्रकल्पयेत् || ५७ || पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् | हृदि श्रीवातदानौ च नाभ्यां च जठरे तथा || ५८ || पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपिणम् | गुह्ये चैव तथालिङ्गे ऊर्वोर्वैजानुनोस्तथा || ५९ || जंघयोश्च स्फिचोत्कट्यां पार्श्वे वामकला न्यसेत् | पादयोर्हस्तयोश्चैव नासायां शिरसा तथा || ६० || बाह्येश्चैव च मन्त्रज्ञ सद्योजात कलान्यसेत् | नेत्रं नेत्रेषु विन्यस्य पुनरंगानि योजयेत् || ६१ || हृदयं हृदयेद् विन्यस्य शिरः शिरसि विन्यसेत् | शिखायां तु शिखाद्या तु कवचं स्तनमध्यतः || ६२ || अस्त्रं हस्तप्रदेशे तु ततोध्यानं समाश्रयेत् | शिवस्य यादृशं रूपं तादृशं चिन्तयात्मनि || ६३ || शिवमन्त्रन्यासमिदमात्मानं तु सदा कुरु | प्. ३४) प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् | यथान्तर्देह विन्यासस्तथा बाह्येपि षण्मुख || ६४ || बाह्ययागं यथा वक्ष्ये सूक्ष्मदेहान्तरे तथा | तथा वै शिष्य देहे तु अग्नौ होमे तथैव च || ६५ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे परमीकरणप्रकरणम् || अतः परं प्रवक्ष्यामि बाह्ययाग विधिक्रमम् | सर्वकामप्रदं गुह्यं सर्वपापहरं परम् || १ || अलंकृत्य स्वकंदेहं शिवमन्त्रैः यथाक्रमम् | शिवीभूतः सुपूतात्मा शिवस्यार्चनमारभेत् || २ || उत्तराभिमुखो भूत्वाऽस्त्रमावर्तयेच्छुचिः | विघ्नानुच्चाटयेत् स्थूलात् तालशब्द त्रयेण तु || ३ || तर्जन्या तर्जयेत् तांस्तु हंसमंत्रान् विन्यसेत् | पुनरावेष्टयेन्मन्त्री तत्स्थानं कवचेन तु || ४ || ततो ह्यस्त्राणि विन्यस्ये दिशासु विदिशासु च | वज्रं शक्तिं च दण्डं च खड्गं पाशं तथांकुशम् || ५ || गदात्रिशूलं चक्रं च पद्मं चेति यथाक्रमम् | ऐन्द्री दिशं समारभ्य यावदीशानगोचरम् || ६ || अधश्चक्रं तु विन्यस्य पद्ममूर्ध्वं नियोजयेत् | गन्धैः पुष्पैस्तथा धूपैः पुनरस्त्राणि पूजयेत् || ७ || ततश्शक्तिमनहृत्य सूक्ष्मामृतरूपिणीम् | प्. ३५) व्यापयन्ति ह्यधश्चोर्ध्वमप्रमेयां मनौपमाम् || ८ || अर्घ्यपात्रं ततोग्राह्यं हुंफट्कारेण क्षालयेत् | स बाह्याभ्यन्तरं पश्चात् कवचेनावकुण्ठयेत् || ९ || बिन्दुस्थानं समाश्रित्य मध्ये पद्मं विचिन्तयेत् | त्रितत्वं विन्यसेत् तस्मिन् पुनः शक्तिं नियोजयेत् || १० || आपूर्य पञ्चभिर्ब्रह्मैः शिवाङ्गैश्च शिवेन च | गन्धपुष्पसमायुक्तं तज्जलं मन्त्रसंस्कृतम् || ११ || आवाहयेत् परं देवं प्रासादं परमामृतम् | अङ्गैरङ्गीकृतं वत्स शुद्धस्फटिकनिर्मलम् || १२ || द्रव्याणि प्रोक्षयेत् तेन यज्ञार्थं कल्पितानि तु | अप्रोक्षितं न ता दिव्यं भविष्यत्वं च वै शिवे || १३ || स्वमन्त्रैरर्चनं कुर्याद् देवता नयथोदितम् | धर्मादि चास्त्रपर्यन्तं शिववर्ज षडानन || १४ || शिवस्य शिवमन्त्रैस्तु होमकाले विधीयते | संपूर्णाहुति दाने च सर्वकर्म समर्पणे || १५ || धर्मज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् | आग्नेयं दिशमाश्रित्य विदिक्षु प्रणवेन तु || १६ || ब्रह्मस्थाने पुराशक्तिं कल्पयित्वा तु विन्यसेत् | योगपीठं ततः पश्चाच्छक्तिनालं च पङ्कजम् || १७ || अष्टपत्रं भवेत् तत् तु चतुर्भागान्तकर्णिकम् | प्. ३६) त्रिभागकेपराकीर्णं शक्तिजालवितानितम् || १८ || वामाज्येष्ठा च रौद्री च कालि कला बला तथा | बलप्रमथनी सर्वभूतदमनी मनोन्मनी || १९ || आर्वपत्रात् समारभ्य यावत् पत्रं तु शांकरम् | हृदयेन तु विन्यस्य केसरेषु दलेषु च || २० || मनोन्मनीं न्यसेन्मध्ये शक्तिं वै कारणात्मिकाम् | ईशानं कर्णिकायां तु शिवव्योम प्रकल्पयेत् || २१ || शिवस्य पुनरीशान्यां मूर्तिमन्त्रं प्रकल्पयेत् | सितवर्णनिभं ध्यात्वा पूर्ववक्त्रे तु पुद्गलम् || २२ || याम्येत्वघोरनामानं वाममुत्तरतो न्यसेत् | सद्यः पश्चिम भागे तु ततोह्यावाहनं भवेत् || २३ || आवाह्य सद्यमन्त्रेण वामदेवेन स्थापयेत् | अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु || २४ || ततस्तु सकलं कुर्यादव्यक्तं व्यक्तलक्षणम् | वर्णरूपक संयुक्तं पुनः पूजां प्रकल्पयेत् || २५ || ईशानं पञ्चधा मूर्ध्नि वक्तं वक्त्रचतुष्टये | दीप्ततेजस्सितोक्तानां पञ्चमं प्रणवेन तु || २६ || हृदयांगैरघोरं तु गुह्यवामं नियोजयेत् | पादादारभ्य सर्वाङ्गैः सद्योजातं तु विन्यसेत् || २७ || हृदि ग्रीवा तथांसौ च नाभौ च जठरं तथा | प्. ३७) पृष्ठे ह्युरसि मन्त्रज्ञो विन्यसेद् बहुरूपकम् || २८ || गुह्ये चैव तथालिङ्गे ऊरुभ्यां जानुनोस्तथा | जंघयोश्च स्फिचौ कट्यां पार्श्वे वामकला न्यसेत् || २९ || पादौ हस्तौ च नासा च शिरश्चैव लजा प्रभौ | सद्योजात कलाह्येवं ततस्सर्वत्र मूर्तिषु || ३० || नेत्रं नेत्रेषु विन्यस्य ततोङ्गानि नियोजयेत् | हृदयं हृदये न्यस्य शिरं शिरसि विन्यसेत् || ३१ || शिखायां तु शिखां विद्यात् कवचं स्तनमध्यतः | अस्त्रं हस्तप्रदेशे तु पुनरङ्गानि नियोजयेत् || ३२ || आग्नेर्यां हृदये न्यस्य ईशान्यां तु शिरो न्यसेत् | नैर्-ऋत्यां तु शिखां दद्यात् वायव्यां कवचं न्यसेत् || ३३ || अस्त्रं दिशासु सर्वासु द्वितीया वरणे स्थितः | पूर्वादारभ्यमन्त्रज्ञो गायत्रीं विदिशासु च || ३४ || विद्येश्वरांस्तृतीये तु पूर्वादारभ्य विन्यसेत् | अनन्तेशं च सूक्ष्मं च शिवं च पुनरुत्तमम् || ३५ || एकनेत्रैकरुद्रौ च त्रिमूर्तिं चामृतद्युतिम् | श्रीकण्ठं च शिखण्डीशं युगान्तादित्यसन्निभाः || ३६ || इच्छारूपधरास्सर्वे इक्षु मूर्ति फलप्रदाः | गणेश्वरांश्चतुर्थे तु कौबेर्याशादिशः क्रमात् || ३७ || दिवं चैव तु चण्डेशं महाकालं च नन्दिनम् | प्. ३८) गणाध्यक्षं च भृङ्गीशं वृषभं स्कन्दमेव च || ३८ || ध्यायेत् सान्निध्यमनुद्विग्नपद्मराग समप्रभात् | पञ्चमे लोकपालास्तु क्रमादावरणे बुधः || ३९ || विन्यसेदस्त्रमार्गेण ध्मातचामीकरप्रभान् | इन्द्रं च पावकं चैव यमं निर्-ऋतिमेव च || ४ || जलं वायु कुबेरेशान् विष्णु ब्रह्माणमेव च | विद्येश्वर गणेशानामाननं प्रणवं विदुः || ४१ || बिन्दुं च लोकपालानां विसर्गं चास्त्रयोनिषु | विन्यस्यैवं विधानेन ततः संपूजयेच्छिवम् || ४२ || शुद्धस्फटिकसंकाशं वरदाभयपाणिनम् | संश्लिष्ट रत्नपादान्तं शङ्खचक्राम्बुजाङ्कितम् || ४३ || समजंघोरुचरणं गूढग्रन्थि सिरोच्छ्रयम् | विस्तीर्ण कट्युरसकं पीनवक्षस्थलांसकम् || ४४ || सुरक्तपाणिशाखान्तं दीर्घबाहुं नखोज्वलम् | स्थूलबाहु शिरोस्कन्धं निम्ननाभिं कृशोदरम् || ४५ || कम्बुग्रीवं विभक्ताङ्गं संपूर्णवदनोज्वलम् | सुभ्रूललाटबिम्बोष्ठ कर्णनासं सुमूर्धजम् || ४६ || विमलं पञ्चवक्त्रं च पञ्चमूर्ध्व विभूषितम् | त्र्यक्षं दशभुजं शान्तं जटामकुटमण्डितम् || ४७ || शशांकार्धधरं देवः पद्मपत्रायतेक्षणम् | प्. ३९) बद्धपद्मासनं सौम्यं किञ्चित् कुञ्चितलोचनम् || ४८ || मन्त्रसिंहासनारूढं बीज्यमानं वराङ्गनैः | दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरमनोहरम् || ४९ || सर्वलक्षणसंपूर्णं सर्वाभरणभूषितम् | ध्यात्वात्वेवं विधं मन्त्री सर्वकामफलप्रदम् || ५० || ततः स्नानादिकं कर्मं मन्त्रयुक्तं समाचरेत् | स्नापयेत् सद्य बीजेन कवचेन विलेपयेत् || ५१ || वस्त्राणि मेखलां चैव वामदेवेन * * * ? | ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च || ५२ || केयूरमुपवीतञ्च कटकं हारमेव च | अघोरेण प्रदातव्यं धूपं तत्पुरुषेण तु || ५३ || नेत्रेण दापयेद् दीपं पुनराव(र)णैः क्रमात् | गन्धपुष्पाणि धूपञ्च दीपं चात्र प्रदापयेत् || ५४ || ततस्त्वर्घ्यं प्रयुञ्जीत पाद्याचमनपूर्वकम् | निवेद्यार्घ्यं तु देवस्य ततो मुद्रां प्रदर्शयेत् || ५५ || नमस्कार ध्वजश्चैव कालकर्णि च सिष्टुरा | चोटिका मुद्राः ततः पद्मः लिङ्गञ्च द्रव्यरूपिणि || ५६ || सिद्धिताः परमाह्येताश्शिवीसान्निध्यकारकाः | गन्धदिग्धौ करौ कृत्वा मुद्रां सम्यक् प्रपूजयेत् || १ || प्. ४०) पद्भ्यां पाद्यं पुरादद्यादागतस्य शिवस्य च | मुखेष्वाचमनीयञ्च शिरस्स्वर्घ्यं निधोजयेत् || २ || प्रथमा वाहनेत्वर्घ्यं पूजान्ते च तथापुरम् | विसर्जने तृतीयन्तु देवस्यार्घ्यं प्रकल्पयेत् || ३ || पूर्वमूर्धसमारभ्य दक्षिणोत्तर पश्चिमे | मध्ये चैव तु मन्त्रज्ञः पञ्चस्वर्घ्यं नियोजयेत् || ४ || सव्यं चैवापसव्यञ्चार्घ्यं दद्यात् पुनः पुनः | ऊर्ध्ववक्त्रे तु दातव्यं समुखं च पराङ्मुखम् || ५ || संस्थितस्य च देवस्य समुखं परिकल्पयेत् | विसर्जने तु गाङ्गेयं देयमर्घ्यं पराङ्मुखम् || ६ || एवमर्घ्यविधानं तु ततो द्रव्यं निबोध मे | भक्ष्या भोज्यान्न पानादि लेह्यशोष्यान्यनेकशः || ७ || सर्वं हृदयमन्त्रेण य * * * धि चोदितम् | पुनरावणैर्दत्त्यात् नैवेद्यं मन्त्रसंस्कृतम् || ८ || अग्निः कार्यं ततः पश्चात् सुसमिद्धे हुताशने | शास्त्रदृष्टेन विधिना कृत्वा भूतबलिं हरेत् || ९ || तोयभक्तसमायुक्तं पुष्पधूपसमन्वितम् | दद्याद्भूतबलिं मन्त्री सर्वपाकविमिश्रितम् || १० || पाणिपादौ ततः क्षाल्या चान्तः पुनराचमेत् | प्रविश्यायतनं पश्चात् जपं कुर्याद् विचक्षणः || ११ || प्रणिपद्य प्रसाद्येशं ध्यानमाश्रित्य मन्त्रवित् | प्राणायामैः शिखांस्थयेकंचित्तः सदा जपेत् || १२ || प्. ४१) बद्धपद्मासनोमौनी अक्षमाला करस्थितः | स्वस्तिकं वासनं बद्ध्वा समकायशिरः स्थितः || १३ || अनन्यमानसो योगी मन्त्री तन्मयतांगतः | अचिरात्सिद्धिमाप्नोति अदैतदैतमाश्रितः || १४ || इति श्रीसर्वमन्त्रानोत्तरे क्रियापादे अर्चनाप्रकरणम् || अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् | आश्रयं सर्वसिद्धीनामिहामुत्रफलप्रदम् || १ || प्रोक्षित्वा पुराप्राज्ञः कुण्डमस्त्रोदकेन तु | ततस्त्वावेष्टयेत् पश्चात् कवचेन यथाक्रमम् || २ || पुनरुल्लेखनं कुर्यादस्त्रबीजेन षण्मुख | पुनरच्युक्षणं पश्चात् कवचेन विधानवित् || ३ || विष्टरं कुण्डमध्ये तु प्रणवेण पुनर्न्यसेत् | ततः शक्तिं न्यसेत् तस्मिन् तटित्सहस्रसन्निभाम् || ४ || ऋतुमतीं विशालाक्षीं सततं योनिमुद्रया | चतुद्ध्वः स्वरसंभिन्नो वह्निबीजोर्ध्वदीपितः || ५ || षोडशान्तहतो हंसश्शक्तिरेषानिगद्यते | गन्धपुष्पार्चितां कृत्वा अर्घ्यधित्व विधानवित् || ६ || शिवसन्तर्पणार्थाय ततो वह्निं प्रकल्पयेत् | चतुर्थेन विनिर्मुक्तो ह्यधष्षष्ठं नियोजितः || ७ || स एव हंस संज्ञस्तु वह्नि सर्वार्थसाधकः | प्. ४२) ताम्रपात्रेशरावे वा वधित्वा हुताशनम् || ८ || अस्त्रेण प्रोक्षयेत् तं तु पुनर्बूज नियोजयेत् | ततस्त्वा वेष्टयेत् पश्चात् कवचेन विधानवित् || ९ || पूजयित्वा त्रिधा कुण्डे योनिमार्गेण निक्षिपेत् | सद्योजातेन मन्त्रेण हृदयं तु पुनर्जपेत् || १० || गङ्गास्तानं भवेदेवं जातवेदसि षण्मुख | शिरसाभ्यर्चयित्वा तु वामदेवं ततो जपेत् || ११ || कृतं पुंसवनं एवं सीमन्तोन्नयनं शृणु | अघोरेणार्चयेद् देवं शिखाबीजं ततो जपेत् || १२ || सीमन्तकरणं वह्नेः कृतं भवति शैवकम् | कवचेन समभ्यर्च्य जपेत् तत्पुरुषं विभुम् || १३ || जातकर्म कृतं ह्येवं ततो नाम विनिर्दिशेत् | ईशानेनार्चयित्वास्त्रं च परिवर्तयेत् || १४ || ततोस्या श्रावयेन्नाम शिवाग्निस्त्वं हुताशनः | जनने पद्ममुद्रास्य लिङ्गमुद्राग्नियोजने || १५ || निरोधे निष्ठुरा प्रोक्ता बीजाभ्या सर्वकर्मसु | एवमग्निं सुसंस्कृत्वा मुद्राः मन्त्रैः यथाक्रमम् || १६ || ततो होमं प्रकुर्वीत शास्त्रदृष्टेन कर्मणा | हृद्वीजेनास्तरेद्दर्भान् परिधयश्च निधापयेत् || १७ || प्रागग्रानुत्तराग्रां च पुनर्देवान् प्रपूजयेत् | प्. ४३) ब्रह्माणं शंखरंविष्णुमनन्तेश समन्वितम् || १८ || पूर्वादारभ्य गायत्र्या विष्टरस्तान् तथाक्रमम् | आग्नेधिंदिशमाश्रित्याज्य भाण्ड्ं तु स्थापयेत् || १९ || अधिश्रयं पुरा कृत्वा पश्चादीन् प्लवनादिकम् | प्रादेशमात्रकान् दर्भान् प्रश्चिन्ना नखेन तु || २० || अंगुष्ठानामिकैर्गृह्य घृतस्याप्लवनं कुरु | ततः संप्लवनं मन्त्री संमुखं घृतमुत्पलवत् || २१ || स्रुवं स्रुचं प्रताप्याग्नौ परिमृज्य समन्ततः | संस्पृशे तु कृशौस्सर्वमग्र मध्यावसानकम् || २२ || स्थापयेद् दक्षिणे भागेर्श्व कृज्यादीनि तथोत्तरे | हृदयेन विधानज्ञः सर्वकर्म समाचरेत् || २३ || ततोभिधारयेद् वक्त्रान् ब्रह्मभिस्त्वनुपूर्वशः | पुनरद्घाटनं कुर्यादस्त्रबीजेन षण्मुख || २४ || निष्कृतिं तु शिवास्त्रेण दत्वा सर्पिन्निरूपयेत् | शिवे सोमे तथा व्यघ्नौतस्त्रिधा परिकल्पयेत् || २५ || तर्पयित्वा ततो वह्निं दत्वा पूर्णाहुतिं क्रमात् | तत त्रासन विन्यासं प्राशुत्तं परिकल्पयेत् || २६ || पूर्वोक्तेन विधानेन गन्धपुष्पैरनुक्रमात् | पूजयित्वा शिवं सम्यक् ततो होमं समारभेत् || २७ || बहुभव्येन्धने शुद्धे सुसमिद्धे हुताशने | प्. ४४) विद्रुमे लेलिहाने च हुनते यस्ससिध्यते || २८ || अर्चिष्मान् पण्डित शिखस्सुगंद्धिल्लघुविक्रमः | स्निंध प्रदक्षिणावर्तो जातवेदस्तु सिध्वितः || २९ || विष्णुलिंगी लिखेद् भूमिं शुक्लः कृष्णः प्रक्षिणैः | दुर्गन्धश्चैव रूक्षश्च तत्र सिद्धिर्न विद्यते || ३० || तत्रैव होमयेत् तावच्छुद्धो हुताशनः | विशुद्धे पावके शुद्धेरन्यथा विफलो भवेत् || ३१ || तस्मादेवं विदित्वा तु विशुद्धो होमयेत् सदा | शिवादि सर्वमन्त्राणामाहुत्या परिसंख्यया || ३२ || दशशतं सहस्रं वा अयुतं लक्षमेव वा | होमं दशगुणं प्रद्ध्या शिवस्य परिकल्पयेत् || ३३ || ब्रह्मशक्ति शिवाङ्गानां विद्येश्वरगणेश्वरान् | लोकपालास्त्रमुख्यानां तस्मादेक गुणः स्मृतः || ३४ || संपूर्णाहुतिदानं तु प्रकुर्वाद्धारणान्वितम् | अमृतं यत्परं वत्स स्रवन्तं मनुस्मरेत् || ३५ || पदमुच्छारयेन्मन्त्रं मन्त्री पूर्णाहुतिप्रतिम् | इदमस्त्वमृतं भूयो वौषडन्तमनुस्मरेत् || ३६ || मन्त्रार्पित मनो भूत्वा मन्त्रालंकृतविग्रहः | होमयेदेक चित्तस्तु मन्त्रतन्मयतांगतः || ३७ || * * व जुहुयान्मन्त्री जपेद् वापि समाहितः | प्. ४५) शब्दे तत्वे परे तेनस्स सिद्धिफलभाग्भवेत् || ३८ || प्रणम्य भक्त्या देवेशं स्तुत्वाचान्ते क्षमापयेत् | संहृत्यैव ततो मन्त्री जपः प्रजान्निवेदयेत् || ३९ || यत्कृतं यच्च कुर्याः तत्सर्वं सुकृतं तव | त्वं गतिर्विश्ववेत्ता च नान्योनाथो हि मे शिवः || ४० || विसर्जयेत् ततो देवं पुनः पूज्या विधानतः | पश्चादग्निं विसर्जेत कृतं कर्म समाहितः || ४१ || विसर्जितस्य देवस्य गन्धपुष्पन्निवेदनम् | निर्माल्यं तद्विजानीयात् वर्ज्यं वस्त्रविभूषणम् || ४२ || अर्चयित्वा कुतं यश्चण्डेशाय निवेदयेत् | निर्माल्यं भक्षणं दानं लंघनं च विवर्जयेत् || ४३ || आचम्योद्धूल्य पूतात्मा भोजनं तु समारभेत् | अथ पात्र विधानेन क्षालयित्वा तु भोजनम् || ४४ || तथैवावेष्टनं कृत्वा ततस्तस्मिन्निवेशयेत् | शिवेन शिवगायत्र्या हृदा चैव विधानवित् || ४५ || हृदयेनाहुतिः पञ्च शेषं कुर्याच्छिवार्पणम् | आचम्य तु शुचिर्भूत्वा शिवं ध्यायेत् पुनर्जपेत् || ४६ || वासिसूज्य जपस्यान्ते सत्यं प्रियहितः कुरु | किञ्चित् संव्यवहारार्थं प्राशुतं पुनराचमेत् || ४७ || अग्निकार्यं जपो यागे योगो दीक्षाः षडानन | प्. ४६) गुह्ये मनोरमे स्थाने सुविशुद्धे महीतले || ४८ || इति सर्वज्ञानोत्तरे क्रियापादे अग्निकार्यप्रकरणम् || अतः परं प्रवक्ष्यामि महीतल विशोधनम् | तस्याः परीक्ष्य विज्ञानं परिग्रहमेव च || १ || सुगन्धास्वादुसंयुक्ता श्वेता रक्ता च पिञ्जरा | पांसुनाप्ययुनाधन्या भ्रमिस्सर्वार्थसाधिका || २ || प्रागुदक् प्लवनां स्निग्धां कृष्णां वा शुभदर्शनाम् | जलतीरसमीपस्थां शुद्धां भूमिं परीक्षयेत् || ३ || यस्य वर्णास्य यो गन्धः शोभनः स तु विद्यते | केशास्थि कंटकैर्हीनां गर्तोषरविवर्जिताम् || ४ || त्रिहस्तोद्घात भूशर्ययां सर्वदोषविवर्जिताम् || ५ || सेचयेद्गन्धतोयेन पञ्चगव्यशिवाम्भसा | धौतवस्त्रैः शुचिस्स्नातैस्ततः संचालयेत् पुनः || ६ || अकालमूलकलशे वस्त्रपूतेन वारिणा | ततः कुटवपधीतै तु पलाशाश्वत्थ मुद्गरैः || ७ || दर्पणोदरसंकाशां कृत्वा भूमिं परिग्रहेत् | पक्वेष्टकामयं वापि शुद्धदारुमयं तथा || ८ || मृण्मयं वा पुनाकृत्वा विशुद्धं यागमण्टपम् | दीर्घं द्विगुणं कृत्वा विस्तारादेकभागिकम् || ९ || प्. ४७) द्वारास्त्रिदीयके भागे सार्धहस्तप्रमाणतः | मण्डलस्य तु द्वौ भागौ भागं कुण्डस्य कल्पयेत् || १० || विदिक्षु क्रूरकर्माणि कुर्यात् कुर्यात् दिक्षु शुभानि च | चतुरश्रं प्रकुर्वीत सुघनं यागमण्टपम् || ११ || विचित्रं चित्रकर्माढ्यं प्राकारपरिवेष्टनम् | चतुरश्रं ततः. कुण्डं कुर्याद् वर्तुलमेव च || १२ || मेखलोपरिमध्यस्थं योनिश्चैव प्रकल्पयेत् | मेखलां तु समां कुर्यात् ततः शास्त्रवित्तमम् || १३ || चतुरङ्गुलमुत्सेधां विज्ञाब्जलांछनं दृढम् | हस्तप्रमाणेन अथो मध्य तथोपर || १४ || त्रिमेखलासमायुक्तं सुसमं चारुदर्शनम् | गजोष्ठवत् प्रकुर्वीत सूचि पुष्करमेव च || १५ || मेखलोपरिमध्यस्तमाज्ज्याधारं मनोहरम् | तस्योपरि पुनश्चोर्ध्वमुझ वा सदारुभिर्दृढम् || १६ || वितानसहितं कुर्याददिश्रं जालकान्वितम् | शोभनं तद्विजानीयात् सर्वकाम फलप्रदम् || १७ || कृत्वा सुनिर्मलं भूमिं परिगृह्य पुनर्यजेत् | वर्धन्यमुंदी पूर्णायामघोरास्त्राभि मन्त्रिताम् || १८ || कृत्वेद किं दधेद्धीरा मत्युच्चिन्नां प्रदक्षिणाम् | तस्या मार्गेण कलशमाचार्येणोद्धतं शनैः || १९ || प्. ४८) सर्वकास्मयेति भ्रूमयित्वा निधापयेत् | ऐशान्यमण्डलां ते तु विघ्नौघशमनं परम् || २० || पूर्वपङ्कजविन्यस्तं सप्तधान्योपरिस्थितम् | क्षालितं चास्त्रबीजेन कवचेनाव कंठितम् || २१ || स्त्रितत्वोपरि विन्यस्त चन्दनागरुधूपितम् | वस्त्रपूताम्बुसंपूर्णं पञ्चरत्न समन्वितम् || २२ || सर्वौषधि समायुक्तं सर्वगन्धोपशोभितम् | हेम्ना कण्ठे तथा बद्धं सूत्रकण्ठमथापि वा || २३ || चूतपल्लवसंयुक्तं सितवस्त्रावकुंठितम् | एवं विधं शिवं रम्यं शिवेनाधिष्ठितं गुह || २४ || यागस्यादौ तु संपूज्य यागान्ते स्नानमाचरेत् | परिग्रहे वास्तु यागं पुनर्यागं गणाधिपे || २५ || कृत्वा शिवासनं कुर्यात् शिवस्य परमात्मनः | संहृत्य होमद्रव्याणि नैवेद्यां निधानि च || २६ || ततोधिवासयेत् तानि ततः शिष्याननुक्रमात् | पञ्चगव्यं चरुं तेषां दन्तकाष्ठं च मन्त्रितम् || २७ || क्षरिका सप्तवाराणि हृदयेन समर्पयेत् | तदा न विद्यते सिद्धिः विधिक्षपन तेन च || २८ || अतोन्यथा शुभा विद्यात् दन्तकाष्ठं षडानन | ईशान्यादिष्टकाष्ठासु मुखमस्य यदा भवेत् || २९ || प्. ४९) धातु सर्वकर्माणि साधयेत् साधकोत्तमः | शोभनंन् तद्विजानीयात् सर्वकाम फलप्रदम् || ३० || इति सर्वज्ञानोत्तरे क्रियापादे भूपरिग्रहप्रकरणम् || अतः परं प्रवक्ष्यामि साधकानां हिताय वैः | पञ्चगव्यविधानं तु तत्वतः शृणु षण्मुख || १ || चरुस्थाल्यां चरोश्चैव प्रवक्ष्याम्यनुपूर्वशः | गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् || २ || पञ्चगव्यमिति प्रोक्तं महापातकनाशनम् | ईशानेन यजेत् सर्पिः क्षीरं तत्पुरुषेण तु || ३ || अघोरेण दधि प्रोक्तं सद्योजातेन गोमयम् | गोमूत्रं वामदेवेन गायत्र्या तु कुशोदकम् || ४ || आलोढ्य हृदिना सर्वं ताम्रभाजनसंस्थितम् | परिकल्प्य त्रयो भागान् देवस्याग्रे तथात्मनः || ५ || उद्धृत्य शिष्यवत्स्याशि शिवजप्तं स्वयं पिबेत् | प्रक्षाल्य पूर्ववत्स्थालीं तथैवावेष्ट्य विन्यसेत् || ६ || सूत्रेण वर्मजप्तेन पुनकण्ठो षडानन | विन्यस्य पञ्चब्रह्माणि पुनः क्षीरेण पूरयेत् || ७ || शिवाग्निनापचेतं तु वर्मणा घटयेच्छनैः | व्रीहि श्यामाकनीवारानथ वा शालिब्रक्षली || ८ || तण्डुलान् प्रक्षाल्य निक्षिपेत् पश्चात् हृदयेन तु चालयेत् | हृदयं च शिरश्चैव शिवां गायत्रमेव च || ९ || प्. ५०) जपंस्तत्साधयेन्मन्त्री चरुकं घृतसंयुतम् | यथास्सन्तं भवेदन्नं तदर्थमयारयेत् || १० || अवतार्य जपे शुद्धं यावन्निर्वाणमिच्छति | भागत्रयं ततः कुर्यात् यथा पूर्वमुदाहृतम् || ११ || आत्मीयं शिष्यसंयुक्तं कृतकर्मा तु भक्षयेत् | दन्तैरस्पृत्य मानं तु पञ्चाङ्गुल्यात्मसंस्थितम् || १२ || दर्भशर्ययां समारूढः सह शिष्यैर्जितेन्द्रियः | जनपद्ध्यानरतो मौनी प्राकारास्त्रे सुगोपितः || १३ || बन्धपाशास्थुते शिष्या दृष्ट्वा स्वप्नांति शाक्षये | कथयन्ति गुरोस्सर्वे शुचिर्भूता समाहितः || १४ || शुभैरभीप्सितां सिद्धिं (अ)शुभैर्दुःखमाप्नुयात् | तस्माद् दुःखप्रदां दृष्ट्वा न सिद्धा संप्रयोजयेत् || १५ || दुःस्वप्नदर्शने मन्त्री हेम्मष्ठक सहस्रकम् | कृत्वा दीक्षां प्रकुर्वीतैहिकी सिद्धिवर्जिताम् || १६ || शुभ्रं नदं नदीं वापि समुदं पङ्कमेव वा | अतिषोर महादुर्गं तरतेयस्ससिद्धति || १७ || व्याधि मृत्युभयं वापि बन्धनं वासनक्षयम् | विदेशगमनं वापि भवेत् तेषां विलोमतः || १८ || गवाश्वभ्रमिनाशं वा वस्त्रालंकार कुञ्जरात् | पश्येद्यश्शयितः स्वप्ने तस्य सिद्धिर्न विद्यते || १९ || प्. ५१) एतेषां तु पुरा लाभा दिष्टान् कामान् वाप्नुयात् | दृष्ट्वा न स्वपते यस्तु यावदभ्युदितो रविः || २० || शुक्लपक्षं चितिं वापि कण्टकाकीर्णमेव वा | या शिरोहत स्वप्नान्ते तस्य सिद्धिर्न विद्यते || २१ || तत्रस्थस्तु विबुध्येत तस्य सिद्धिर्विधीयते | प्रासादं वृषभं नावं पर्यङ्गं कुञ्जरं नगम् || २२ || योधि रोहति स्वप्नान्ते तस्य सिद्धिर्विधीयते | येषामेक तमाद्वापि प्यवनं मृतुलक्षणम् || २३ || अर्थनाशो मनस्तापो ह्यपि वा बन्धनं भवेत् | आसनं शयनं वेश्म वस्त्रं प्रावरणं तथा || २४ || ज्वलन्तं पश्यते स्वप्ने तस्य सिद्धिर्विधीयते | सुर्चार्नानि च भग्नानि ज्वलनास्थमनानि च || २५ || दृष्ट्वा न सिध्यते स्वप्ने हस्ताध्वस्तफलानि च | चिद्रवासोथ कृत्यञ्च स्वकं प्राकरणं तथा || २६ || ज्वलन्तं पाटिकां मलदिग्धं च दृष्ट्वा स्वप्नेन सिध्यते | सुशुक्यानि च वस्त्राणिनिचिद्राणि नवानि च || २७ || सिद्ययाच्चयितः स्वप्ने तस्य सिद्धिर्विधीयते | अग्निप्रवेशं कुरुते स्वप्नांते ऋतुमानवः || २८ || स्मृतिलोपो भवेद् वापि तस्य सिद्धिर्न विद्यते | शुक्लं विलेपनं माल्यमातपत्रासनध्वजम् || २९ || प्. ५२) शंखपद्मनिधिं चैव लब्ध्वा स्वप्ने श्रिदं लभेत् | विपरीतानि चैतानि नाममात्राणि चैव हि || ३० || पश्येद्यः शयितः स्वप्ने तस्यसिद्धिर्न विद्यते | शुक्लोदनं दधी वापि अर्धमांस फलानि च || ३१ || यस्तु भुंक्तेस्तु स्वप्नान्ते तस्य सिद्धिर्न विद्यते | शाकं तैलं फलं कृष्णमद्याद्याशैतोनिशि || ३२ || न स सिद्धिं समाप्नोति न सुखं न च सम्पदः | अप्रजं म मद्या वा समुद्रयगां पयस्विनीम् || ३३ || स्वप्नान्ते च * चेद्योवै तयस सिद्धिर्विधीयते | सर्वाण्येतानि शुष्काणि नाममात्राणि चैव हि || ३४ || यस्तु पश्यतु स्वप्नान्ते तस्य सिद्धिर्न विद्यते | आकाशगमने स्वप्ने अगम्यागमनं तथा || ३५ || विष्टानुलेपनं चैव दृष्ट्वा सिद्धिमवाप्नुयात् | तैलाभ्यङ्गमयोद्वाहं पुत्रलाभः प्रवर्तते || ३६ || गेयं लास्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते | क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् || ३७ || उन्मत्तं भिन्ननासं वा दृष्ट्वा स्वप्नेनु सिध्यते | ऋक्षोष्ट्रं वानरं वापि खरमश्वतरं प्रकिम् || ३८ || योऽधि रोहति स्वप्नान्ते तस्य सिद्धिर्न विद्यते | तैलाभ्यङ्ग मथोद्वाहं पुत्रलाभ प्रवर्तते || ३९ || प्. ५३) गेयं वाद्यं च नृत्तं च दृष्ट्वा स्वप्ने न सिध्यते | क्षपणं चान्त्यजातिं वा व्याधितं रक्तवाससम् || ४० || उन्मत्तं छिन्ननासं वा दृष्ट्वा स्वप्ने न सिध्यते | एकाङ्ग विकलस्वप्ने * पिकारां मलान्वितः || ४१ || यस्याग्रतस्तुतं निष्ठे तस्य सिद्धिर्न विद्यते | क्षुधार्तः तृषितः स्वप्ने स्थानमुच्याट्यते स्वकान् || ४२ || ताट्यते वानरैर्घोरैर्नससिमवाप्नुयात् | वंम्मे मूत्रपुरीषं वा स्वर्णं रजतं तथा || ४३ || दन्तपङ्क्तिः पतेद् वाथ जपेद् वाहुनतेवपि रांदत्रितयेपि वा | हन्ति वाथ जयेद् वापि स्वप्ने सिद्धिमवाप्नुयात् || ४४ || स्वप्ने सोपि न सिध्यति * * * * * * * * | क्व प्रस्थितोसि मूढात्मा नास्ति ते त्वभिवांछितः | एवमुक्तो नरः स्वप्ने प्रत्यक्षं वा न सिध्यति || ४५ || वेश्या कन्याथ वा रात्रि ब्रह्मणि चानुमोदते | राजा विप्रो था दिव्य तस्य सिद्धिर्विधीयते || ४६ || राजानमर्थसम्पन्नं ब्राह्मणा वेदपारगाः | स्त्रियञ्च लक्षणोपेतां दृष्ट्वा स्वप्नः प्रसिध्यति || ४७ || शुक्लांवरधरो भूत्वा शुक्लमाल्यानुलेपना | यं विग्रहंति स्वप्नान्ते तस्य सिद्धिर्न विद्यते || ४८ || रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् | यं विग्रहति स्वप्नान्ते सुप्तेष्वपि न सिध्यति || ४९ || प्. ५४) कुचेला वा मलग्रस्था व्याधिता विकृतानना | ताभिर्ये गृहीतः स्वप्ने सुप्नेष्वपि न सिध्यति || ५० || एवं स्वप्ना मयाख्याता विधिस्यस्य षडानन | कथयन्ति तथात्यन्तध्यं भविष्यं युक्त कर्मणः || ५१ || सूत्रयित्वा पुराभूमिं मण्डपेन्य प्रमाणतः | यागं यथोदितं कृत्वा रजन्यरज्य मण्डलम् || ५२ || शुक्लाम्बरधरो भूत्वा शुक्लमाल्यानुलेपनः | शुक्लयज्ञोपवीती च सूत्रपातं समारभेत् || ५३ || पूर्वापरौदिशौ साद्ध्ये वै शंखोर्धेन भानुना | पुष्यधेयेन वा मंत्र चित्रास्वात्यन्तरेण वा || ५४ || एवं पूर्वापरं कृत्वा तत्र सूत्रं प्रकारयेत् | विकल्य मध्यदेशं तु तत्र शंकुं निधापयेत् || ५५ || शंकोरुभयतः सूत्रं सविकृत्वा प्रसारयेत् | बिन्दुद्वयं समालिख्य मत्स्यमुर्थापयेत् ततः || ५६ || शंकुविर्थं तु तत्सूत्रं मध्ये मत्स्य द्वयस्य तु | खटकाकर्षितं कृत्वा दक्षिणोत्तरतां नयेत् || ५७ || आत्रालयेतस्सूत्रं येवमुत्तरता दक्षिणे | विदिशासु तथा नीत्वा अन्तरेषु तथा नयेत् || ५८ || मध्ये बिन्दु स्थितं सूत्रं भ्रामयेच्चतुरंगुलम् | आलिख्य कर्णिकां तत्र द्वितीये केसरान् लिखेत् || ५९ || प्. ५५) तृतीये दलसदूनि दलाग्राणि चतुर्थके | प्रतिवारण रेखां तु दद्यात् पद्मस्य बाह्यतः || ६० || रेखा रेखोतर ज्ञात्वा दलाग्राणि तु संग्रहेत् | कोणेन वायुधेत् कोणं तमसूत्रेण षण्मुख || ६१ || द्वात्रिंशत् षोडशाष्टौ वा पत्राण्यालिख्य विन्यसेत् | तेभ्यश्चतुर्गुणानेव केसरान् परिकल्पयेत् || ६२ || अष्टपत्रे न्यसेच्छक्तिं यथा पूर्वमुदाहृतः | बहिरंगुलमुत्सृत्य पद्मसूत्रं प्रसारयेत् || ६३ || तस्मात् तु षोडशाष्टौ वा गायत्रीं तत्र वर्जयेत् | अथवा वाहनारूढनस्त्र हस्ता षडानन || ६४ || पृथग्बाह्यास्त्र वर्गस्य यजेत् कृत्वार्थ वा कृतिम् | यवेनान्तरित रेखाशतं स्त्रांगुल सममिताः || ६५ || दद्यांवरणे रम्यो श्वेतपीतरुणासिताः | कर्णिकां पीतवर्णेन चतुरंगु(ल)मुच्छ्रिताम् || ६६ || किंचिद्धारिकं वर्णं दद्यात् केसरसन्धिषु | केसरां मूलसश्शुक्लान् कुर्यान् मध्ये रुणेन तु || ६७ || अग्रं चैव तु शुक्लेन दलान् शुक्लेन छादयेत् | चतुर्विधां ततो रेखामभ्युधिं नाम संहताः || ६८ || विचित्रैर्मिश्रितैर्वर्णै रचनाः परिकल्पयेत् | वाहयेत् पश्चिमद्वारमितराणि निरोधयेत् || ६९ || प्. ५६) पद्ममानं विवेद्वारं विधीनां विस्तरं तथा | शोभाश्चोप शोभाश्च कपोलाश्च कपाटकाः || ७० || तुल्यमाना स्मृता ह्येता पद्मार्धेन तु कारयेत् | पद्मार्धे नाथ वा कुर्याद् द्वारं वीथिं षडानन || ७१ || तदर्तेनतरान् भूयः पृथक्प्रक्रमणेन तु | एवं तं रचितं कृत्वा परमं शिवमण्डलम् || ७२ || इष्ट्वा च विधिवद् दैवं ततो ध्यानं विशोधयेत् | इति सर्वज्ञानोत्तरे क्रियापादे पञ्चगव्यादि दीक्षाङ्गप्रकरणम् || अथाध्यासं प्रवक्ष्यामि संक्षेपान्नतु विस्तरात् | उर्वीतत्वादितः कृत्वा यावत् तत्वं निरामयम् || १ || उर्वीतत्वं तु सौवर्णं सूर्यायुत समप्रभः | कुक्कुटाण्डसमाकारं ब्रह्माण्डमेतमुच्यते || २ || भुवनान्यष्ट षट् चैव तस्यैघाभ्यन्तरे स्थिताः | शतयोजनकोट्यंस्तु प्रमाणं तस्य कित्ततः || ३ || तस्यैवाथ स्थले रुद्रा रुद्रकोटिभिरावृतः | कालाग्निरीति विख्यातो रक्तकृष्णोग्ररूपधृत् || ४ || नोर्ध्वं निरीक्षते देवो माभूद्भस्म विदं जगत् | स एव रुद्रो विज्ञेयस्स शिवस्य च कालधृत् || ५ || तस्योर्ध्वं महानरकाः घोररूपाः सुदारुणाः | जीवैस्तु नारकैः सार्धं छत्यारिंशत्गतं क्रमात् || ६ || प्. ५७) रौरवो महारौरवः कुम्भीपाकस्तथैव च | एते महद्धिकाश्शोधनीधाः प्रयत्नतः || ७ || सर्वे शुद्धा इमैः शुद्धैःर्नरकानात्रसंशयः | कूश्माण्डस्तु पतिस्तेषां न च रुद्रः प्रकीर्तितः || ८ || तस्योर्ध्वं सप्तपातालं क्रमशः संख्यवस्थिताः | स्वरूपैस्त्रिभिः संकीर्णस्थीलुहाटेश्वरः प्रभुः || ९ || तलं च नितलं चैव वितलं च तथा परम् | सुतलं तलातलं चैव पातालं च रसातलम् || १० || नागाश्च गरुडाश्चैव किं पुरुषादनुजास्तथा | अग्निर्वायु कुबेराश्च पतयस्तु पृथग्विधाः || ११ || भूलोकं च तथा विद्यात् सप्तद्वीपार्णवैः सह | सचैलमस्वनोद्यान नदीनदसमाकुलम् || १२ || जम्बूशाककुशक्रौंच शालमलीद्वीप एव च | गोमेद पुष्करं चैव सप्तद्वीपाः प्रकीर्तिताः || १३ || पुष्करद्वीप मध्यस्थं पर्यन्तो मानसो तमाः | लोकपालाः स्थितास्तस्मिन् पृथिवीं पालं नि * ते || १४ || क्षारक्षीर दधिस्सर्पि तथा इक्षुरसोपि च | मदिरोदश्च स्वादूदः समुद्राः सप्तकीर्तिताः || १५ || गर्भोदस्त्वष्टमो ज्ञेयःस्तस्योर्वी द्वीपमुच्यते | आवृतं तेन सर्वं तु सोपि चोर्व्या समावृतः || १६ || प्. ५८) समुद्रैरावृता द्वीपा द्वीपैस्तेपि समावृताः | एवं द्विगुणते वृद्ध्या सोन्यमावृत्यसंस्थिताः || १७ || जम्बूद्वीपं ततो मध्ये समन्ताल्लक्षमायतं | नानाजनसमाकीर्णं नानासत्वसमाकुलम् || १८ || अनेकोषधि सम्पन्नं नानाधातु समन्वितम् | सर्वधर्माश्रय पुण्यमपुण्यमकृतात्मनाम् || १९ || तस्य मध्ये महामेरुः स्थितोस्सौ परिमण्डलम् | प्रविष्ट षोडशाधस्ताच्चतुरश्शीतित्रश्शितः || २० || स तु सर्वत्र सौवर्णः कांचनद्रुमसंकुलः | सिद्धविद्याधराकीर्णः किन्नरासुरसेवितः || २१ || वि * * * * * * भ शैलाश्चत्वारः स्थितस्य चतुर्दिशम् | ष्ठ * * * * * ब्धाः मेधिनीतैस्तु तेषां मूर्ध्नि समो पराः || २२ || * * * * * * रस्तस्य पूर्वेण दक्षिणे गन्धमादनः | * * * * * * * * श्चि मे नैव सुपार्श्वश्च तथोत्तरे || २३ || * * * * * ति फलो जंबु * * * * स्थो पद एव च | * * मूर्ध्नि महप्रक्षाश्चतुर्णां चानु पूर्वशः || २४ || रक्तोदमानसं चैव सितोधेश्च महाह्रदः | तथावान समीपस्था विज्ञेया मंदरादिषु || २५ || सदा पुष्पफलोपेतं पूर्वं चैत्र रथं वनम् | नानासुरभि गन्धाढ्यं नन्दनं गन्धमादने || २६ || प्. ५९) विविधामोद बबुलं वैभ्राजं वैपुले स्थितम् | निर्मितांस्तपुरादेवैः सरांसि च सरोरुहाः || २७ || सर्वगन्ध वहं रम्यं सुपार्श्वे विवनं ततः | तेषु वृक्षं लता गुल्म रूपाद्याये सुगन्धिनः || २८ || निर्मितास्ते पुरादेवैः सरांसि च सरोरुहाः | सदा सन्निहिता तेषु वसन्तकुसुमायुधम् || २९ || कोकिलारावमधुरैष्षट् पदोद्गीतकिन्नरैः | नित्यज्योत्स्नाकरं चन्द्र उच्वातपतिभास्करः || ३० || वर्षन्ति स्वेच्छया मेघा मारुतीश्च या | तेषु देवाः सगन्धर्वकिन्नराप्सरसोगणाः || ३१ || सिद्धविद्याधराश्चैव सदा क्रीडंनिभाविताः | चतुर्दशसहस्राणि योजनानि षडानन || ३२ || मेरोर्मूर्ध्नि अधोभागे लोकपालाष्टकं पुनः | इन्द्रपावकधर्मेशनीरुतीवरुणानिलाः || ३३ || कुबेरश्च तथेशानो लोकपालाष्टकं पुनः | पूर्वेणैन्द्रामरावत्यां तेजोपत्यां हुताशनः || ३४ || वैवस्वत्यां यमो राजा कृष्णवत्यां निशाचरः | शरवत्यां जलाध्यक्षो गन्धवत्यां तु मारुतः || ३५ || यशोवत्यां निधानेश ईशानस्तु महोदयः | अष्टपुष्यास्तु देवानां भोगस्थानानि षण्मुख || ३६ || प्. ६०) प्रज्यं तेषु म * महाभागानधिकारं च बाह्यशः | मेरोर्मूर्ध्नि सभा दिव्या ब्रह्मणश्च तथात्मनः || ३७ || मनोवतीति विख्याता महामहामुंन्निसेवीतर | तत्र गङ्गानदी पुण्या कृत्वा तस्याः प्रदक्षिणम् || ३८ || पतिता हि चतुर्दिक्षु विष्कं गिरि * * मूर्ध्नि | * सावंभो निधिसोमोऽमृतात्मा ज्योतिषांपतिः || ३९ || तस्मादिहागता दिव्याऽनुग्रहार्थं सरिद्वरा | तस्यैशान्यां महाश्रोतं ज्योतिष्कं नाम विश्रुतम् || ४० || तस्य मूर्ध्नि सभादिव्या महादेवस्य धीमतः | रुद्रकन्येस्सलावण्येर्देवदानवदुर्लभैः || ४१ || आवृता सा सभा दिव्या रुद्रैश्यामित विक्रमैः | भुवर्लोकस्तु तस्योर्ध्वं स्वर्लोकस्तस्य मूर्धनि || ४२ || उहजनस्तपस्सत्यमुपर्युपरि संस्थिताः | ब्राह्माण्डभित्तिमासृत्य सत्यलोकस्य मूर्धनि || ४३ || ब्रह्मा विष्णुश्च रुद्रश्च स्थिता लोकाः क्रमेण तु | ऐश्वर्यामृतसंप्राप्ता एकद्वित्रिगुण क्रमात् || ४४ || आत्मतुल्य गुणोपेतैः वृता कन्यैश्च तत्समैः | बाह्यतश्चत रुद्रास्तु स्थिता देश दिशास्वपि || ४५ || ब्रह्माण्डस्य महासेन धारकास्तेत्वनिन्दिताः | दिव्यज्ञानबलोपेत स्वच्छन्दगतिगोचराम् || ४६ || प्. ६१) शशाङ्कांकित मूर्धानो जटामकुटमण्डिताः | * * * * समप्रखैः दिव्ययौवनशोभितैः || ४७ || आवृतास्ते समन्तात् तु रुद्रैश्च बलदर्पितैः | एते प्रमांडा दधो भागे पूवादिदिगसृके || ४८ || अनन्तः पालको वीरो विषाग्निर्विषलोचनः | वृषो वृषधरो वीरो ग्रसनो बंद्धवांमुखः || ४९ || कपालीशो ह्यजो बुद्धो वज्ञदेह प्रमर्दनः | विभूति रघयश्शास्तापिनाकी त्रिदशाधिपः || ५० || अग्निरुद्रो हुताशी च पिङ्गलः * दको हरः | ज्वलनो दहनो बभ्रु भस्मान्तक क्षयान्तकः || ५१ || याम्यो मृत्युहरोधाता विधाता कर्त एव च | कालो रौद्रश्च विख्यातो धर्माधर्म पतिस्तथा || ५२ || नैर्-ऋतो मारणोहन्त क्रूरद्रष्टा भयानकः | ऊर्ध्वशेफो विरूपाक्षो धूम्रलोहित दंष्ट्रवान् || ५३ || लोह्यती बल * शैवपाशहस्तो महाबलः | श्वेतोथ जयभद्रश्च दीर्घबाहुर्बलान्तकः || ५४ || बंदवामुखोथ भीमश्च वरुणो लयवासकाः | कपर्दी मेघसञ्चारी सर्वगः सर्वगन्धवान् || ५५ || वायुः सूक्ष्मश्च तीक्ष्णश्च वेगकान् शोणितद्युतिः | * श्शिखः जटामकुटधारी च नानारत्नविभूषितः || ५६ || प्. ६२) निधीशो रूपवान् धन्यस्सौ देहस्तथैव च | प्रगैक्षणेकाशश्चा प्रकाशश्चललक्ष्मिवान् || ५७ || कामधृक्ल सर्ववद्याधिपस्सर्वज्ञस्सर्वगेश्शिवः | प्रभुः पिङ्गे क्षणे शानौ भूतबालो बलि * धः || ५८ || शंभुर्विभुर्गणाध्यक्षस्त्रक्षः त्रिदशवन्दितः | संवाहश्च विवाहश्च बिन्दुभ्यो मेक्षणश्शुचिः || ५९ || लोकेशबलमाक्रम्य प्रभुश्शक्ति समन्विताः | विचरन्ति महादेवा लोकपालैः प्रपूजिताः || ६० || एते रुद्रासामाख्याताः सूर्यकोटि समप्रभाः | कपालमालाभरणाः लोकपालस्त्रधारिणः || ६१ || एषामूर्ध्वं भवेदापो दशधा वृत्य संस्थिताः | खराखमुखरमावर्तोर्मिसमाकुलः || ६२ || तत्रास्ते भगवान् देवो वरुणो मृतसंभवः | शुद्धस्फटिकसंकाशी आदि गुह्याष्टकावृतः || ६३ || ओंकारस्तस्य पूर्वेण आग्नेययाः शशिभूषणः | देवदेवस्तु याम्यायां भोजगन्धस्तु नैर्-ऋते || ६४ || आषाढमेश्च वारुण्याः वायव्यां डिंडिरेव च | भारभूमिस्तु सौम्यायामैशान्यां लाकुलं विदुः || ६५ || अत ऊर्ध्वं भवेदन्यद् वाग्नेर्यावरणं विदुः | सुभाताय सुसंकाश मेघस्तनित निस्वनः || ६६ || प्. ६३) तत्रास्ते भगवानग्निरिति मह्याष्टका प्रतिः | पद्मराग प्रतीकाशो ज्वलन्तस्तेन तेजसा || ६७ || हरश्च त्रिपुरघ्नश्च त्रिशूलिः सूक्ष्म एव च | महाकालश्च सर्वाश्च ईशानो भरवस्तथा || ६८ || अत ऊर्ध्वं भवेदन्यद्वायव्यावरणं पुनः | नीलजीमूतसंकाशो भिन्नाञ्जन समप्रभः || ६९ || तत्रास्ते भगवान् वायुः कृष्णवर्णाञ्जनोपमः | सुभगः कामरूपी च गुह्याद्गुह्याष्टकावृतः || ७० || पितामहं पितुः स्थानं स्वयंभूरुग्र एव च | विश्वेशश्च महानादो महद्भीमस्तथाष्टमः || ७१ || अतश्चोर्ध्वं भवेद् व्योम भूतस्त्वे संप्रदवितः | अप्रमेयमनिर्देश्य मोक्षस्तानमिवापरः || ७२ || तत्रास्ते भगवान् देवो व्योमरूपी महेश्वरः | सूक्ष्ममूर्ति महाश्चासौ पवित्रेरष्टभिर्वितः || ७३ || भावश्चैव महायोगी त्रिमूर्ती रुद्र एव च | महाबल शिवश्चैव सहस्राक्षः स्थाणुरेव च || ७४ || अतो ह्यूर्ध्वं भवेत् तत्त्वं हंकारस्य षण्मुख | दीप्तपावकवर्णाभं भीमनादं दुरासदम् || ७५ || त्रिविधस्तस्त्र्य विज्ञेयोहंकारो घोररूपधृत् | प्रलयाम्बुधनिर्घोष स्थाण्वष्टक समावृतः || ७६ || प्. ६४) कपर्द ऊर्ध्वरेभाश्च महानुत्कट एव च | श्रीकण्ठो नीलकण्ठश्च महातेजास्तथैव च || ७७ || महालिंगेश्च स्थूलेशः कारणाज्ञानुवर्तिनः | आदिगुह्याष्टका रुद्रा अतिगुह्याष्टकास्तथा || ७८ || गुह्याद्गुह्याष्टकाश्चैव पवित्राष्टक एव च | स्थाण्वष्टकाश्च पश्यैते नियोगाद्भामिवासिनः || ७९ || अनुग्रहायमोकानां लिंगभूताः प्रदष्ठिताः | तेषामेव समीपस्थः यद्यत्तोयं षडानन || ८० || तत्तीर्थं पुनरं पुण्यं तत्र स्नात्वा शिवं व्रजेत् | रुद्राहेते सदा शुद्धाः कामरूपाः बलोत्कटाः || ८१ || कोट्यायुत परीवाराः सुखदुःख फलप्रदाः | प्रमदाभिरनिन्द्याभिर्दिव्य यौवनशालिभिः || ८२ || * * तास्ते समन्तात् तु कामविभ्रमकारिभिः | शुद्धस्फटिकसंकाशैः डाडिमीकुसुमप्रभैः || ८३ || नीलांजन समप्रभैः श्यामवर्णैरनौपमैः | * * ङ्ग रागसंकाशैः कामरूपैर्मनोहरैः || ८४ || (दीप्य)न्ते नित्यमेतैस्ते पञ्चतत्वाधिपाः शिवाः | * * र्ध्वं तु भवेदन्यत् बुद्यावरण संज्ञकम् || ८५ || आदित्योदयसंकाशं सन्ध्यारागसमप्रभम् | तस्य मध्ये स्थिता बुद्धिः व्यापिनी विश्वरूपिणी || ८६ || प्. ६५) अणिमाद्यष्टसंयुक्ता तुषि शक्ति समन्विता | सखीभिस्समतुल्याभिद्विरष्टवयशालिभिः || ८७ || आतासा महाभागा तत्प्रबुद्धैश्च योगिभिः | देवयोन्यष्टकं तत्र परितः सुव्यवस्थितः || ८८ || अप्रबुद्धं च शुद्धं च तथा सृष्टि प्रवर्तिकः | पैशाचं राक्षसं याक्षं गन्धर्वं चन्द्रमेव च || ८९ || सौम्यं चैवाथ प्राजेशं ब्राह्मं चैवाष्टमः स्मृतः | अत्तोर्ध्वं तु भवेदन्यद् गुणावरणसंज्ञकः || ९० || इन्द्रनील महारत्न शुद्धस्फटिकरूपकः | तद्वर्णो भुवनान्तस्था ब्रह्माविष्णुमहेश्वरः || ९१ || तमोरजस्तथा सत्व गुणाविष्ठितविग्रहाः | तथा च वनितास्सर्व पुरुषास्तं निवासिनः || ९२ || अन्योन्यबलमाक्रम्य गुणेश्शासंप्रवर्तकः | अष्टौ योगीश्वरांदस्ति तस्मिन्निरामयाः || ९३ || निर्गुणानिरहंकारा नित्यं योगपरायणाः | अक्तं च कृतश्चैव भैरवं ब्राह्ममेव च || ९४ || अतश्चोर्ध्वं भवेदन्यदव्यक्तं तत्वमुत्तमम् | अप्रतक्लमविज्ञेयं निर्वाणपदपस्थितः || ९५ || अप्रमेयमनिर्देश्यं निर्गुणं गुणमालि च | उत्पत्ति सर्वतत्वानां भूतानां च षडानन || ९६ || प्. ६६) स्थित्वा तु पुरुषः सूक्ष्मो व्यक्ताव्यक्तः सनातनः | उत्पादयति सत्वानि भवभूतानि चैव हि || ९७ || तत्रैव संस्थिता रुद्रा अष्टावेव महाबलाः | तत्तत्व धर्मिणः सर्वे सर्वे चानन्दविग्रहाः || ९८ || क्रोधेश्चांडसंवर्तो ज्योतिपिंगसुरगाः | पञ्चान्तकैकवीरौ च शिवेदसहितैश्वराः || ९९ || नितम्बकटिनिस्तारै पीनोनतपयोधरैः | आक्षाम्मद्ध्यदेशान्ते संपूर्णवदनोज्वलैः || १०० || सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः | सेव्यन्तो नित्यमेते तु स्मरबाणनिपीडितैः || १०१ || शिखे तेन सहिता एते क्रोधेशादय ईश्वरः | अतोर्ध्वं तु भवेदन्यत् रागावरणसंज्ञकम् || १०२ || कुंकुमोदकसंकाशं कुसुंभरजसन्निभम् | तत्रास्ते भगवान् रागो जपाकुसुमसन्निभः || १०३ || * * क सर्वतत्वानां अप्रमेय सुदुर्जयः | * मी पुरुषसंकाशै बन्धूक कुसुम प्रभाः || १०४ || * * नमदसद्भावैः सदामदनविह्वलैः | * * * दि गणांकार विस्रस्त मृगलोचनैः || १०५ || सेव्यते स भगवान् रागश्चानन्द रूपधृत् | तत्रैव पुरुषो ज्ञेयस्तद्धर्मगुणरंजितः || १०६ || प्. ६७) अमृत्तौ व्यापकोचिद्व्यौ ब्रह्माण्डो मूर्तमानसौ | तत्रैव संस्थिता रुद्रा अष्टौ च शिवतुल्यगाः || १०७ || ज्ञानविज्ञानसम्पन्ना वीतरागा निरञ्जनाः | वामदेवो भवश्चैवोद्भवश्च तथा पुनः || १०८ || एकपिङ्गे क्षणे शानौ भुवनेशा पुरस्सराः | अंगुष्ठमात्रसहिता महादेवाष्टकाश्शिवाः || १०९ || निरामय महौजस्कास्तेनुरागनिरोधकाः | अतस्त्रध्वं भवेदन्यद् विद्यावरणसंज्ञकः || ११० || इन्द्रकोपसंकाशं क्वविच्चामीकरप्रभः | तस्य मद्ध्य स्थिता विद्या व्यापिनी विश्वरूपिणी || १११ || विश्वगा विश्ववेत्री सा रहस्य पदगामिनी | मण्डलाधारचित्रांगी ध्यानलोलायतेक्षणा || ११२ || शास्त्रशः भावनिश्वास वोषधीकेशसंचया | भावाभावाविलासाध्यैर्नित्यं प्रमुदितेन्द्रियैः || ११३ || संरम्भजनितारम्भैः खिनमष्ट पद क्रमैः | उत्क * * * निश्वासैः पयो पयो हरालसैः || ११४ || आकीर्णं हि पुरं दिव्यं विद्याविभवरंकितैः | तत्रैव संस्थिता रुद्रास्त्रयोदश * * * * || ११५ || वरेभ्यो परता शुद्धा विद्या विधि प्रकाशिकाः | वामदेवश्च भीमश्च उग्रश्चैव भवस्तथा || ११६ || प्. ६८) सर्वेशा * नेश्वरौ चैवैकवीराप्रचण्डधृक् | ईश्वरोथ उमाकान्तस्त्वजेशोनन्त एव च || ११७ || तत एक शिवश्चैव सर्वेषामुपरि स्थितः | अतोर्ध्वं तु भवेदन्यत् कलावरणसंज्ञकम् || ११८ || श्वेता पीतारूणं कृष्णं क्वचिच्चामीकुंसुमा * | तस्य मध्ये कलाज्ञेया चित्रवर्णानुलेपिनी || ११९ || चित्राभरण रत्नाढ्या चित्रमाल्याभरप्रिया | विज्ञानगमसंपन्नै रूपयौवनगर्वितैः || १२० || सहार्यविकटाक्षेपा तत्कालकरणोचितैः | मनोहारि सुरम्याङ्गै मदलालसजृंभितैः || १२१ || मण्डितं तत्पुरं रम्यं कलाभावानुरंजितैः | तत्र रुद्रो विभुर्व्यापी सर्वज्ञो ज्ञानभासकः || १२२ || नीललोहितवर्णोसौ शीतेन्दु सदृशः क्वचित् | कलाब्रह्माङ्गसंभूतैर्मन्त्रविग्रहधारिभिः || १२३ || आवृतोसौस्मंता तु नेककोट्ययुतैः पुनः | याम्यज्येष्ठश्च रुद्रश्च कालकालविकारणः || १२४ || बलविकरणो देवो बलप्रमथनस्तथा | दमनः सर्वभूतानां मनोन्मन एव च || १२५ || दशैते सृष्टिसंहार स्थित्यनुग्रहकारकाः | अत ऊर्ध्वं भवेदन्यत् कालस्यावरणंगुह || १२६ || प्. ६९) नीलनील समाकारं नीलाञ्जन समप्रभम् | तस्य मध्ये स्थितः कालो रौद्र सर्वांजनान्तकृत् || १२७ || दंष्ट्रा विकटघोरस्य पिङ्गलभ्रूश्मसुतारकः | अतसी पुष्पसंकाशैः कान्तिमत्प्रियदर्शिभिः || १२८ || अशोकपल्लवाकार पाणिपादाम्बुजांकिभिः | अत्यर्थरूपसम्पद्भिः प्रवालालशोभिभिः || १२९ || संसेव्यते सभगवान् कालः कामानुरागिभिः | उच्चुष्माश्शापरश्शंडा मातङ्गा घोररूपिणः || १३० || याम्यो हालाहलश्चैव क्रोधनो बंधवा मुखः | ततस्सूलगणानि * * * षद्रास्तथा परे || १३१ || हुलहुलास्तस्तथा चान्ये कालस्य विषये स्थिताः | अतोर्ध्वं तु भवेदन्यन्मायातत्वं सुदुस्तरम् || १३२ || मण्डवकोशवच्छिद्रं हरिताल समप्रभः | तस्य मध्ये स्थिता देवी माया तु बहुरूपिणी || १३३ || यथा तु मोहितं कृत्स्नं जगत्स्थावरजंगमम् | इन्द्रनीलसमप्रख्य रश्मिजालावकुंठितम् || १३४ || चलद्विन्दु सहस्रैस्तु कोटिभिस्तुमसावृता | वामचारास्त्रयस्तत्र वामगावामलोचनाम् || १३५ || वामकावामकृत्यं चोत्पाद्यन्ते षडानन | डंगविभ्रमकारिण्यो डंगस्नेहानुरंजिताः || १३६ || प्. ७०) डंभहासूत्रपातिन्यो डंभवाक्य मनोहराः | तथा च पुरुषा स्कन्द ज्ञेया माया शुक्लसंभवाः || १३७ || बहुप्रलापिनो मिथ्या मायाचार परायणा | अथवा सर्वतत्वानां निर्गमं सामुदाविकः || १३८ || त्रिमलं व्यापकं क्षिप्रं प्रोच्यमानं निबोध मे | यस्य तत्वस्य यत्तत्वं जन्मन्यभिधिकं भवेत् || १३९ || तत्स्वभावी भवेत् सोपि प्रलयेपि तथा गुह | एवं हि सर्वतत्वानां तत्वभाव प्रधश्चिधा || १४० || कथितास्ते समासेन रुद्रास्तस्मिन्निबोधमे | गगनेशो ह्यसाध्यश्च तथा हरिहरावुभौ || १४१ || दशोनो महावीर्यस्त्रिगलो गोपतिस्तथा | अथ संपुटस्संस्थास्ते मायातत्वस्य षण्मुखा || १४२ || ऊर्द्दोपि संस्थिता ये तु तां प्रवक्ष्याम्यतो शृणु | क्षमुशो ब्रह्मणोहन्त विद्येशानस्तथापरः || १४३ || विद्येशश्च शिवश्चैव अनन्तष्षष्ठ उच्यते | अमाधिनः स्मृतास्सर्वे मोहराग विवर्जिताः || १४४ || मायाबन्धविमोक्तारः पाशजाल विभेदकाः | अथोर्ध्वं तु भवेदन्यत् विद्यातत्वं षडानन || १४५ || डाडिमी पुष्पसंकाशं किञ्चित् पीतं सुनिर्मलम् | तत्र विद्याधिपा ज्ञेयाः पद्मराग समप्रभाः || १४६ || प्. ७१) सुदीप्ता निर्मलास्सूक्ष्मा व्यापिनी सर्वतोमुखी | तस्माद्विनिःसृता मन्त्रा पञ्चाङ्गं कृतलक्षणाः || १४७ || विद्याश्चै तथा ज्ञेया विद्यामन्त्राश्चमिश्रकाः | अचिन्त्या इपिणस्सर्वे सर्वे चानन्दविक्रमाः || १४८ || सर्वत्रगमिनः सर्वे सर्वे सर्वार्थसाधकाः | चतुर्विधामृतास्सर्वे पार्थिवाप्यानलानिला || १४९ || सर्वे समानधर्माणो श्रोतृभेदा पृथक्फलाः | पाणिनाचिन्तभेदात्तु मन्त्रभेदैः परः शिवाः || १५० || संस्थितोऽनुग्रहार्थाय साक्षिभूतस्तु कर्मणाः | स्थानं कर्म च भावञ्च देवता व्याप्तिमेव च || १५१ || वर्तते वीक्ष्य विश्वात्मा फलक्षेत्र विभक्तिषु | एवं हि मन्त्रभेदस्तु मन्त्रीतीतस्य षण्मुख || १५२ || अधुनाभेदभेदन्तु प्रोच्यमानं निबोध मे | यावन्तः केचनसत्वाः सर्वतत्वेषु संस्थिताः || १५३ || तावन्तस्तु स्मृता भेद देहस्यस्य विदेहिनः | यादृग्रूपं भवेत् तेषां नामगोत्रञ्च षण्मुख || १५४ || तादृग्रूपं शिवविद्या तेषु देहे व्यवस्थितः | छायारूपमिव स्थूलैः सूक्ष्मैः सूक्ष्मतरं तु तः || १५५ || निष्कले निष्कलात्यन्त रूपं स्निमु रूपकम् | प्राणी धर्मादि निर्मुक्तस्सुख दुःखफलं गुह || १५६ || प्. ७२) दादात्युपाह्यरूपेण तत्तद्धर्मानुरूपतः | एवं विद्या विचारेऽस्मिन् मन्त्रभेद शिवस्य तु || १५७ || देहभेदांश्च विख्यातस्तत्वभेदस्तथा विदुः | विद्योर्ध्वं तु भवेदन्यद् विद्येशावरणं पुनः || १५८ || दीप्तपावकवर्णाभं किञ्चित् द्रक्तं सुनिर्मलम् | अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन् विभूतितः || १५९ || विष्णुर्लिङ्गाग्निसंकाशो विद्यूमकिरणोज्वलाः | तत्र मध्य महासेन चक्रवत् परिसंस्थिताः || १६० || तेऽधिकारं क्रमात् कुर्युः शक्तिचक्रसमन्विताः | स रहस्य सकल्पानि मन्त्र तन्त्राणि षण्मुख || १६१ || निगमन्ति महात्मानो रुद्राणाममितौजसाः | प्रासादासनपर्यङ्गा प्राकारभूषणायुधाः || १६२ || सर्वे मन्त्रमयास्थेवे यथेष्टा सर्वकामिका | विद्येश्चेश्वर्ये रचिस्सेस्तु दिव्यामृत सुखप्रदैः || १६३ || कुञ्चिताग्र कचोद्गारैर्ललाट मृदुपट्टकैः | पिनाकी धनुराकारै भ्रूभिरुन्नतवक्षभिः || १६४ || आलोकर्ण पर्वतैः स्निग्ध नेत्रोत्पलैः शुभैः | सम्पूर्ण शशिसंकाशवदनाभोग मण्डलैः || १६५ || आताम्रोन्नतविम्वोष्टैस्तुंगनासाग्रशोभिभिः | नात्युन्नतैः समैः स्निग्धैःर्विशुद्धैर्दन्तपङ्क्तिभिः || १६६ || प्. ७३) पद्मरागप्रतीकाशैन्नीलयं नानन्दकारिभिः | गुप्तरध्रैः समैः कर्णैर्विरोमैः स्निग्ध कोमलैः || १६७ || आकंबुकर्णसीमन्तैर्मृणालललितैर्भुजैः | आवृत्त संहतैः पूर्णैः पीनोन्नतपयोधरैः || १६८ || आक्षां मध्यदेशान्तैर्गम्भीरावृत्तनाभिभिः | त्रिवलीतरंग भंगोधैरोमराशिप्रकम्पिभिः || १६९ || पुलकोद्भिन्नरम्यान्तैर्निगूढैरस्थिसंन्धिभिः | अश्वत्रपत्रसदृशैः गुह्य देशैर्मनोरमैः || १७० || कदली गर्भसंस्पर्शैरुरुभिश्शुभलक्षणैः | निगूढजानुगुल्फभिर्नितम्ब विपुलो ज्वलैः || १७१ || प्रस्तजंघैस्समैः पादैः प्रशस्तैर्लक्षणान्वितैः | सुरक्तपाणि पादान्तैश्शंखचक्राम्बुजांकितैः || १७२ || सुक्लिंतैष्ठरङ्गुलि पर्वेस्तनुतुङ्गनखोज्वलैः | स्निग्ध त्वक् स्वधल्परेखाभिस्सर्वलक्षणसंयुतैः || १७३ || सेव्यन्ते तु विद्येशास्सदा कदपपिडिताः | दिव्यगन्धानुलिप्तांगैः दिव्याभरणभूषितैः || १७४ || दिव्याम्बरधरैः सैम्यैः दिव्यमाल्योक्तमांगिभिः | रुद्रैश्च विविधाकारैः कालानलसमप्रभैः || १७५ || दिव्यज्ञानबलोपेतैस्सृष्टिसंहारकारकैः | अथोर्ध्वं तु भवेदन्यत् सर्वैश्वर्य मयं शुभम् || १७६ || सदाशिवं परं तत्वः शुद्धस्फटिक निर्मलः | योगपीठं परंशुद्धं तस्मिन् विद्या महात्मनः || १७७ || प्. ७४) धर्मादि चरणैर्युक्तं मध्ये कमल भूषितम् | चारुकेसरपर्यन्तं सहस्रदलविस्तरम् || १७८ || बहिरष्टभिसंयुक्तं पङ्कजैर्विमलात्मकैः | विशुद्ध शक्तिभिंनं ब्रह्माङ्गैरूपशोभितम् || १७९ || विद्येश्वरैश्च पीठस्थैः सिद्धयोगिभिरावृतम् | तत्रास्ते भगवान् देवो सर्वतत्वेश्वरोहरः || १८० || सदाशिवो विभुर्व्यापी मन्त्रमूर्ति मधः परः | अनन्तकान्ति सम्पन्नः अप्रमेय गुणक्रमः || १८१ || अनन्तशक्ति संभोग अनन्तासनसंस्थितः | विभज्यसस्वकं देहमष्टधा परमेश्वरः || १८२ || अनन्तादि शिखंड्यन्त स्थित शान्तेन चेतसा | अतोर्ध्वं बैन्दवं तत्वं विमलं सर्वतोमुखम् || १८३ || परमं तत्वानामनन्तं ज्योतिरूपिणम् | तत्र विन्दु स्थितं स्कन्द शुद्धस्फटिकनिर्मलः || १८४ || कदम्बगोलकाकारं स्फुरत्किरणमालिनम् | सकलो निष्कलश्चैव तथा सकलनिष्कलः || १८५ || सूक्ष्मो भिन्नकलश्चैव शिवो ज्ञेयस्तु पञ्चधा | कलै शान्त्यादिभिर्युक्त सकलं परिपठ्यते || १८६ || निष्कलः केवलो बिन्दु व्यापी सकलनिष्कलः | ज्वालिन्यादिभिः संयुक्तः सूक्ष्मोसौ परिकीर्तितः || १८७ || प्. ७५) स्वरैः षोडशभिर्भिन्नैर्भिन्नात्मा विन्दुरुच्यते | ततोस्यानन्ततो भेद सर्वशास्त्रेषु षण्मुख || १८७ || मन्त्रेषु मातृकायाञ्च न विना बिन्दुना क्वचित् | निष्कलस्ता पराशक्तिरचिन्त्या सर्वतोमुखी || १८८ || सुसूक्ष्मा निर्मला नित्यानन्तानिर्वाणदायिनी | याविजृम्भति तत्वेषु सर्वतत्वेषु चैव हि || १८९ || तथा भूतं जगत्सर्वमेकयानेकरूपया | अस्या ऊर्ध्वं निरालम्बं निराधारं निरामयम् || १९० || अचलं व्यापकं शान्तं सृष्टिसंहारवर्जितम् | प्रकृतेः पुरुषसंयोगात् विद्यारागस्य चैव हि || १९१ || कलाकालस्य संयोगात् मायातत्वनन्तस्य संगमात् | विद्या सदा शिवश्चैव बिन्दोः शक्तिसमागमात् || १९२ || सृष्टिरुत्पद्यते स्कन्द विन्दुशक्त्यादितः क्रमात् | पृथिवीमादितः कृत्वा यावत्तत्वन्तु वैन्दवम् || १९३ || तत्वात्तत्वं विजानीयात् दद्धा प्रत्य * संस्थितम् | उर्वी तत्वादितः कृत्वा देवताश्च षडानन || १९४ || अन्योन्यान्तरितैश्वर्या प्रभावान्तरितस्तथा | यानि नामानि तत्वानां तानि तत्वाधिपेष्वपि || १९५ || ज्ञात्वैवं योजयेन्मन्त्री यस्मिन् न्यः प्राप्तुमीहते | ब्रह्माण्डादूर्ध्वतो ये तु सर्वतत्वेष्ववस्थिताः || १९६ || जरामृत्युविनिर्मुक्त द्वन्द्वोपद्रववर्जिताः | तेषां हि या तना काचित् न भयं विद्यते क्वचित् || १९७ || प्. ७६) वर्ज्य सृष्टिं तु संहारं स्थितिं सर्वात्मकां गुह | स्थितिकाले प्रभुंजन्ते यत्वैश्वर्यं यथोदितम् || १९८ || संहारे निर्गुणाभूत्वा तत्वैः सार्धं विशंतिते | सृष्टिकाले प्रजायन्ते सर्वतत्वैः स्वकैः क्रमात् || १९९ || पुनरप्येवमेतेषां उदयास्तमनस्थितिः | यो यस्मिन्नाश्रितो नित्यं तत्वतस्तद्विधानवित् || २०० || तत्कालसमयो सोपि भवते तत्परायणः | यथान्तराणि प्रोक्तानि प्रभावैर्य व्याप्तिषु || २०१ || तथान्तराणि वेद्यानि उदयास्तमनादिषु | नोदयास्तमनं स्कन्द भवते शिव वेदिनः || २०२ || यतो हि सर्वतत्वानां विज्ञानादन्ततस्थिताः | तत्वैरेभिर्निबंधात्मा सर्वधर्मश्च संयुतः || २०३ || नान्येन शक्यते माक्तुः वर्ज्यदीक्षाः शिवात्मिकाः || २०४ || || श्री श्री इति श्रीमत्सर्वज्ञानोत्तरे क्रियापादेऽध्वप्रकरणम् || अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः | सर्वतत्व निबन्धस्य सर्वधर्ममयस्य तु || १ || पशुधर्म नियुक्तस्यानादि मलमुषिणः | शृणुवत्सपरां दीक्षां शिवसायुज्यदांशुभाम् || २ || यस्य यस्य हि देवस्यादि मन्तो येक्षरः | अकाराकारसंभिन्नं वह्निबीजमन्वितः || ३ || प्. ७७) वायुबीजसुसंयुक्तं अथ षष्ठं नियोजितः | मूर्ध्नि बिन्दुसमायुक्तः मन्त्री सर्वेषु कीर्तितम् || ४ || तदेकमक्षरं भिन्नं मात्राद्वादशभिः पुनः | ह्रस्वब्रह्म समाख्याता दीर्घैरङ्गानि निर्दिशेत् || ५ || त्रितत्वं बिन्दुसंयुक्तं त्रयो नेत्राः प्रकीर्तिताः | स विसर्जास्स्मृताः ह्यस्त्रा बिन्दुनाद विवर्जिताः || ६ || शिवोक्तेन विधानेन इष्ट्वा देवाननु क्रमात् | तर्पयित्वा यथा भूयस्ततो दीक्षां समारभेत् || ७ || उपोषितां शुचीः स्नातानाचान्तान् धौतवाससः | धौतपादास्तु संसिक्तान् रिष्यामन्त्रि प्रवेशयेत् || ८ || आलभ्यः पञ्चभिः ब्रह्मैः शिवांगैः प्रणवेन च | नेत्रं नेत्रेषु विन्यस्य नेत्रबन्धं तु कारयेत् || ९ || दुकूलपट्टवेदांगैस्तथा कार्पासजेन वा | सतशेन नवेनाथ सितेनश्लष्णवाससा || १० || पुष्पांजलि समायुक्त दक्षिणामूर्तिमानयेत् | गुरोस्संसिक्तमनसा दर्भहस्तः सुमन्त्रितः || ११ || दर्भाग्रेर्दक्षिणाजानुं स्पृशत्वै देशिकस्य तु | ततश्चालंवनं कृत्वा पाशान् संहृत्य होमयेत् || १२ || हृदयेन विधानज्ञस्तथैवास्त्र द्वयेन तु | वर्गातीतं यकारं तं प्रासादं च पुनः क्रमात् || १३ || प्. ७८) पूर्वात् बीजितान् कृत्वा धर्माधर्मेषु योजयेत् | धर्मे तु संस्तीज्योष्ठा वामा धर्मे ततोच्यते || १५ || उभयोः संस्थिता रौद्री तत्रस्थो होमयेदुभौ | त्रितत्वभेदिता वर्णा शक्तित्रयमिहोच्यते || १६ || वर्णातीत धर्मे तु धर्मा मध्यममेव तु | धर्माधर्मौ प्रसादेन व्यामिश्रौ होमयेत् पुनः || १७ || अथवा तावुभौ स्कन्द धर्माधर्मौ विमिश्रितौ | होमयेच्छिवतत्वेन सकलेन विचक्षणः || १८ || अकारौकारसंभिन्नं हंसंवर्गान्तसंस्थितम् | मकारसहितं देवं वह्निवायुसमीरितम् || १९ || मूर्ध्नि बिन्दुसमायुक्तमतष्षष्ठं नियोजितः | सकलां सर्वभूतस्यं शिवतत्व प्रकीर्तितम् || २० || यस्मिन् तत्वे प्रभुर्यस्तु शिवं तत्र प्रकल्पयेत् | तन्मन्त्रैस्सर्व संस्कारस्तस्मिंस्तत्वे समाचरेत् || २१ || पतिधर्मैः समस्तैस्तु पशुधर्मान्निराकुरु | पतिधर्मांश्च वे धर्मे रमस्केनतानि तु || २२ || स्थाने जन्मतथेश्वर्यं तद्भोगापातनं तथा | अधिकारं लयं चैव होमयेत् क्रमशः पुनः || २३ || तत्वं संयोजयेत् पूर्वं कुण्डमध्ये विधानवित् | स्वनाम सर्वतत्वानां मन्त्रो ग्रहणकर्मणि || २४ || प्. ७९) तत्व मध्ये तु गायत्रीं स्वमन्त्र विधिकल्पिताम् | पशुसंगृह्य तत्वज्ञ तस्य गर्भे नियोजयेत् || २५ || नासाग्रं नियतस्थानं पशोर्ग्रहण कर्मणि | ह्रस्व वी * * * * * तेजपिंडा कृतिं स्मरेत् || २६ || ताडयित्वास्त्र बीजेन हृदयेन समुद्रया | गर्भादानं तु सद्येन वासुपुंसवने स्मृतम् || २७ || सुम * * नो संज्ञेन पुरुषं जातकर्मणि | ईशानं योजये नाम्नि हृदयञ्चान्न प्राशने || २८ || शिरसा त्वधिकारञ्च शिखाया भोगमेव च | ऐश्वर्य नेत्रबीजेन कवचेन लयं हुनेत् || २९ || एकैकेन दशाहुत्या पूर्णाहुत्य शिवेन तु | दशभिः स्रोतसं शुद्धिं ब्रह्माङ्गैरनुपूर्वशः || ३० || शिवेन सर्वतत्वेषु तत्वशुद्धिं समाचरेत् | पाशच्छेदं तथा दाहं प्रायश्चित्तं च होमयेत् || ३१ || तत्वं तत्वेषु सन्धाय नरकांश्च विरोधयेत् | * * * * * * * * * * * * हुं फट् कारेत् || ३२ || वियोज्य ज्येष्ठया पश्चाद्रौद्राच्चैव चोद्धरेत् | तत्वे तत्वे त्विदं कर्म विधिनानेन षण्मुख || ३३ || कर्मभूमौ सुविस्तारं भूर्लोके तु समारभेत् | कालाग्नि रुद्रतत्वे तु कालाग्नित्वं विशोधयेत् || ३४ || प्. ८०) नारके नारकान् धर्मान् भुक्त्वा कूश्मांडतां नयेत् | पाताले सप्तमेतं तु न्यासं कृत्वा विमोचयेत् || ३५ || अथोर्ध्वं हाटकं तत्वं भूलोके जनयेत् ततः | स्थावरत्वं तु सद्येन सारिसृप्यमवात्मना || ३६ || पक्षित्वं घोररूपेण मृगत्वं पुरुषेण तु | पशुत्वमीशबीजेन होमयेदनुपूर्वशः || ३७ || एकैदशभिर्मन्त्रीं हुत्वा पूर्णाहुतिं ततः | सद्येन वामदेवेन हृदिना च विधानवित् || ३८ || शूद्रत्वं होमयेद् देही वैश्यादीननुपूर्वशः | गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा || ३९ || उपनिष्क्रमणं नामान्नप्राशनमेव च | हृदिना निष्क्रम कर्म चूडा वै ब्रह्मभिः स्मृता || ४० || अथोपनयनं कार्यं ब्रह्माङ्गैर्दशभिः क्रमात् | मेखलोपवीतं च दण्डं कृष्णाजिनं तपः || ४१ || स्वाध्यायमग्नीकार्यञ्च सन्ध्योपासनमेव च | भिक्षाभिवादनं मौनं ब्रह्मचर्यं शमोदमः || ४२ || गुरुपसदनं जाप्यमनिन्दामस्सुहार्जवः | अहिंसा सत्यमद्रोहस्त्यागः क्षांतिरपैशुनः || ४३ || दयाभूतेषु लोलुत्वं मदिवं ह्रीरचापचलम् | तेजः क्षमाशुचि शौचमद्रो * * * * निता || ४४ || प्. ८१) सर्वाननुक्रमेणैतान् गायत्र्यां दशधा हुनेत् | त्रायुषं चोपाकर्म गोदानं च महाव्रतम् || ४५ || नैष्ठिकं चासिधारं च हुनेत् पाशुपतेन तु | ततस्ता प्लावनेभ्योमश्शिवांगैरभिधीयते || ४६ || पत्नीसंयोजनं कुर्यात् ब्रह्माङ्गैः पुनरेव हि | कृत्वा दर्भमयां पत्नीं मोमित्येव नियोजयेत् || ४७ || एकैकैर्दशभिमन्त्री एकैकेनाहुतीदश | अग्निष्टोमोत्यग्निष्टोमो वाजपेयोक्य षोडशी || ४८ || अतिरात्राप्तोर्यामश्च सोमसंस्था इति स्मृताः | ब्रह्माङ्गैः शिवगायत्र्या महास्त्रेण शिवेनव || ४९ || विंशाहुतीर्दद्यात् एकैकस्य विशुद्धये | पूर्णाहुतिं ततः पश्चात् सर्वसंस्कारकर्मसु || ५० || शिवेन संप्रयुंजीत प्लुतेनामृतवर्षिणा | शिवेन कुरुते होमं यस्मिन् संस्कार कर्मणि || ५१ || वर्जा पूर्णाहुतीमेकां द्विगुणं तत्समाचरेत् | सोमसंस्थावसाने तु सर्वमन्त्रैः सकृत् सकृत् || ५२ || सोमवानाहुतिं दद्याद् दधिक्षीरं घृतं मधु | सहस्रक्रतु मध्ये तु दशदज्ञात् परं हुनेत् || ५३ || त्रिंशत्त्रिंश तिराहुत्या शिवेन च विचक्षणः | अश्वमेधं ततो होमेदाहुत्यं पञ्चविंशतिः || ५४ || प्. ८२) शिवमन्त्रेण मन्त्रज्ञो * * स्था भवति ध्रुवम् | वानप्रस्थ ततो हुत्वा सर्वमन्त्रैश्च पञ्चधा || ५५ || तस्मिन् सर्वपरित्यागं कृत्वा * * * * यते | भिक्षुत्वं होमयेत् तस्य सर्वमन्त्रैः सकृत् सकृत् || ५६ || विशुद्धं कल्मषं भूयो ब्रह्मलोके नियोजयेत् | सन्धानं पूर्ववत् कृत्वा भेदयित्वा ततः पुनः || ५७ || इष्ट्वातु पूर्ववद् देवान् पूर्वोक्त विधिमारभेत् | ब्रह्मत्वं वासु देवत्वं रुद्रत्वं विधानवित् || ५८ || पूर्ववत्कर्मयोगेन होमयेत् सुसमाहितः | कटाहं पूर्ववद्भित्वा दलरुद्रादिगीश्वरान् || ५९ || पूर्वोक्तेन विधानेन यजेद्ब्रह्माणु मूर्धनि | * * * * * * * * मेजेशं पूर्वतो न्यसेत् || ६० || अग्निरुद्रं स्वके देशे कालं याम्ये नियोजयेत् | भयानकं तु नैर्-ऋत्यां वारुणं तु महाबलम् || ६१ || वारुण्यां शोषणन्यस्य कामरूपं ततोत्तरे | सर्वविद्याधिपं रुद्रमैशान्यां तु नियोजयेत् || ६२ || स्वमन्त्रैरर्चयेत्सर्वान् शिववच्छंभुमीश्वरम् | पूर्वोक्तेन विधानेन कृत्वा मण्डल तर्पणम् || ६३ || ततस्तु शंभुरुद्रत्वं जनयित्वा विरोधयेत् | शेषेषु निष्कृतिं दद्यात् विंशविंशाहुति क्रमात् || ६४ || प्. ८३) विशोध्या पार्थिवं तत्वं वरुणेत्वे नियोजयेत् | तेजो निले तथा * त्नि अहं क्रीडिषणे गुणे || ६५ || प्राकृते पौरुषे चैव रागविद्या कले तथा | काले मायां पुनश्चेति विद्यायामीश्वरै तथा || ६६ || सदाशिवे तथा तत्वे तथा सकलनिष्कले | सर्वतत्वाधिपाधर्मान् तत्वधर्मास्तथापरान् || ६७ || विधिनानेन संशोध्य कारणे चोन्मने न्यसेत् | अथासर्वतत्वेषु यजेदेकं परं शिवम् || ६८ || तन्मन्त्रैः सर्वसंस्थारास्तत्वे तत्वे समाचरेत् | तस्यैव दक्षिणामूर्तौ क्रमात् तत्वाधिपान् न्यसेत् || ६९ || तं मध्ये पितु रुद्रास्ताण्ययैव नियोजयेत् | पूर्ववत् सर्वकर्माणि सर्वाध्वानि समाचरेत् || ७० || तथैव चोन्मनीभावमाहुत्यन्ते षडानन | चवारेव विधिः प्रोक्तः शरीरे शृणु सांप्रतम् || ७१ || धेनशुधेन शुद्धस्तु भवतीह न संशयः | पूर्वोक्तेन विधानेन धारणाभिस्तु पञ्चभिः || ७२ || शोधयेत् सर्वतत्वानि देहस्थानि पुनर्णमात् | पशुं संयोजयेत् पूर्वं पूर्वोक्तविधिना शिवे || ७३ || साधिकारे शिवातीते शुद्धस्फटिक निर्मले | कर्मण्येव कृते तस्य शिवाश्शेदो विधीयते || ७४ || प्. ८४) सप्ताभिर्मन्त्रितां कृत्वा क्षुरिकास्त्रेण कर्तरीम् | योजयेहीत शिखास्थाने युक्तां त्रिमधुरेण तु || ७५ || शिवाबीजेन मन्त्रज्ञो वौषडन्तेन निक्षिपेत् | शक्तिसम्पुटमध्यस्थं कारणेन नियोजयेत् || ७६ || अनमस्कं ततः पश्चात् साधिकाराद्विमोचयेत् | यमुद्दिश्यकृतंकर्म मन्त्रदैवतपूर्वकः || ७७ || विधानशास्त्रदृष्टेन तत् तस्य फलदद्धुवम् | यत्कृतः कामचारेण विधिहीनं षडानन || ७८ || न तेन कर्मणा सिद्धिं न सुखं न परां गतिम् || ७९ || || इति सर्वज्ञानोत्तरे क्रियापादे दीक्षाप्रकरणम् || अतस्संक्षेपतो वक्ष्ये दीक्षाविधि विनिश्चयम् | चातुर्वर्णहितार्थाय परमेशेन भाषितः || १ || संहृत्य सर्वतत्वानि पञ्चधा परिवर्तयेत् | देवताश्च ततो भूयस्तेषु मन्त्रान् यथाक्रमम् || २ || पृथिव्यापस्तथा तेजोः वायुराकाशमेव च | एतानि पञ्चतत्वानि सर्वेषां व्यापकानि तु || ३ || न विनापञ्चभिस्तत्वैर्देह बन्धो विधीयते | स्थूलसूक्ष्मविभागेन ज्ञात्वैतानि विशोधयेत् || ४ || सर्वतत्वानि शुद्धानि विशुद्धैः षडानन | देवैश्च देवतास्सर्वे शुद्धा स्मृताः भवन्ति हि || ५ || प्. ८५) ब्रह्माविष्णुश्च रुद्रश्चानन्तेश सदाशिवौ | पृथिव्यादिषु तत्वेषु क्रमात् तत्वाधिपाः स्मृताः || ६ || तेषां मध्यमन्त्रस्तु विभिंता मन्त्र या भवतु | त्रयस्त्रिंशतिमं शम्भोरितरेषास्वनामकम् || ७ || पूर्वविधजनं कृत्वा तथा योनिं प्रकल्पयेत् | ग्रहणं न तथा भूयः पशुसंयोजनं तथा || ८ || निवृत्ति * समन्त्रेण साधयेत् साधकोत्तमः | गुह्यकेन प्रतिष्ठां तु विद्याघोरेण होमयेत् || ९ || शान्तिं तत् पुरुषेणैव शान्त्यतीतां शिवेन तु | एकैकस्य शतं ज्ञेयमाहुतीनां तु साधकैः || १० || हुतैश्चैव तु मुच्यन्ते पशवोजन्मबन्धनात् | गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा || ११ || जन्मनिष्क्रमणं नाम अन्नप्राशनमेव च | अधिकारं तथा भोगं लयं चैव विधानवित् || १२ || ततश्च स्रोतसं शुद्धिं तत्व संशुद्धिमेव च | वियोगञ्च तथोद्धारं तत्वसन्धानमेव च || १३ || छेदं भेदनं दाहमेतान् पूर्ववदाचरेत् | पृथिव्यादिषु तत्वेषु ततः कुर्यान्निरंजनम् || १४ || पूर्ववद् देह संश्लिष्टान् शोध्यतत्वा शिवं नयेत् | पुनरेवं प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् || १५ || प्. ८६) संस्काररहितः कर्मा भित्वा केवल योजनः | इष्ट्वा देवं शिवं शान्तं प्रासादममितौजसः || १६ || सहस्राहुति होमं तु ब्रह्माङ्गैः पुनराचरेत् | भूयोप्यष्ट सहस्रं तु दत्वा देवस्य षण्मुख || १७ || संहृत्य पुद्गलं पश्चात् शिवाग्रेव नियोजयेत् | ततः सन्धाय तत्वानि पुनर्मूलेन भेदयेत् || १८ || ततस्तेनैव मार्गेण बिन्दुतत्वे नियोजयेत् | अमनस्कं यथा पूर्व वासतत्वं षडानन || १९ || कृत्वा तु देहसंश्लिष्टान् पुनस्तत्वं नियोजयेत् | पूर्वोक्तेन विधानेन योजयित्वा पशुं शिवम् || २० || तथा चैव शिवाश्चेदं कृत्वा कुर्यादनामयम् | एवं दीक्षा समाना यागचण्डेश्वरस्य तु || २१ || कृत्वा पूर्वं गुरोर्यागं अपरेऽहनि पुत्रकः || २२ || गुरुरप्यात्मसंशुद्ध्या विद्यादेवं विधानतः | शिवादीयोविदात्मायं गुरुपंति पुनर्व्रजेत् || २३ || शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु | पद्मसंस्थान्यजन्मन्त्री मण्डले हृष्टमानसान् || २४ || सदाशिवमनन्तं च विद्यारुद्रं सहोमया | विष्णुनद्देवेशं ब्रह्माणं स्कन्दमेव च || २५ || समयिकं पुत्रकः पश्चात् पूज्य शंभुं तथा गुरु | प्. ८७) गन्धपुष्प सवित्राध्यैर्वस्त्रालंकार वाहनैः || २६ || पूजयित्वा विधानेन तथात्मानं निवेदयेत् | एवं निवेदितात्मा तु गुरुपाशैर्विमुच्यते || २७ || अध प्रभृति भगवन्यो विदेहो ममात्मकः | युष्मदीयो विकल्पेन शंस्यवाल्यश्च ते सदा || २८ || एवं गुरुवशो भूत्वा सन्तुष्टो यावदायुषः | अनुज्ञातो यदा तेन कुर्यात् कार्याणि सुव्रतः || २९ || अग्निकार्यं जपं पूजा दीक्षाज्ञान व्रतानि च | वृथा तेषां विजानीयात् गुरुर्येषां न देवता || ३० || गुरुः पिता गुरुर्माता गुरुर्देवो गुरुः सुहृत् | गुरोस्तु न परं किञ्चिदित्याह भगवान् शिवः || ३१ || ज्ञानाज्ञानेन दिव्येनाचोद्घाटयति चक्षुषी | अज्ञानतिमिराक्रान्ते तस्माज्ज्ञानमयो हि सः || ३२ || सिद्धविद्याधरान् भोगान् सदेवासुर मानुषान् | प्राप्नुवन्ति समायुक्त गुरुणोक्तेन कर्मणा || ३३ || गुरुपदिष्टमार्गेण प्राप्नुवन्ति परंपदम् | तस्मादादौ गुरुः प्रोक्तः पश्चाद् देवो निरंजनः || ३४ || दीक्षया तु परं ज्ञानं नयते शाश्वतं यतः | तस्मान्नास्तत्र बोद्धव्यः गुरुभ्यः परतो गुह || ३५ || गुरवस्तोषिता येनाहं रुद्रगणैः सह | तोषितो नात्रसन्देहस्तथा देवास्सवासवाः || ३६ || प्. ८८) अवज्ञानेन क्रुद्धेन नरके पतनं ध्रुवम् | तस्मादेवं विदित्वा तु गुरुं नैवावमानयेत् || ३७ || आसनं शयनं यानं नरोहेद्गुरुसन्निधौ || ३८ || (नाध्यापनं प्रकुर्वीत) गुरों निम्नासनो भूत्वा स तिष्ठो तत्परायणः | चित्रां नैवाग्रतो धार्यं नोष्णंषं न च पादुके || ३९ || किरीटाद्युज्वलाज्वलां त्येवं न कुर्याद् गुरुसन्निधौ | नाध्यापनं प्रकुर्वीत व्याख्यानं शिष्यसंग्रहम् || ४० || गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् | न श्रोतव्या गुरोर्निन्दा शास्त्रनिन्दा तथैव च || ४१ || देवस्य देशिकानाञ्च मुनीनाञ्च षडानन | गुरोर्ज्येष्ठं कनिष्ठं वा भ्रातरं न व्यति क्रमेत् || ४२ || तथा चैवात्मनो ज्येष्ठान् सर्वान् पश्येद् गुरुशिव | दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन || ४३ || तपोविद्याधिकस्यापि * तव्यं नाभिपादनम् | सर्वतो गुरवो ज्ञेया ये चान्ये पूर्वदीक्षिताः || ४४ || मान्याः पूज्याश्च ते नित्यं गुरवोन्यत्र षण्मुख || ४५ || इति श्री सर्वज्ञानोत्तरे क्रियापादे कलातत्वपञ्चतत्वदीक्षाप्रकरणम् || न प्राप्तोपि परां दीक्षां गुरुभुक्तोपि यत्नतः | कालेनान्त स्थितो यस्य तस्य मोक्षाः कथं भवेत् || १ || किं प्रदा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः | प्. ८९) किं किंचिद् विद्यते कर्म तस्य धर्मोक्ष साधनम् || २ || गुरुभक्ताय शान्ताय सत्याचाराय सुव्रत | मृतस्यापि वरं स्कन्द दीक्षाकर्म विधीयते || ३ || * * * * * * * * विधिसंक्षेपविस्तरम् | अपि कल्पमति कुर्याद् एकश्चित्त समाहितः || ४ || तत्वानि देवता बीजं कलिकैः करवीरकैः | उच्चार्य विन्यसेन् मन्त्री दर्भै पुत्नीशके कृते || ५ || स्नापयित्वास्त्र बीजेन पञ्चगव्य शिवाम्बुजा | संस्थाप्य दक्षिणे पार्श्वे तस्य नाम हृदि न्यसेत् || ६ || अथवा व्योमसंस्थाने गोमयेन षडानन | सम्मन्त्र्य पञ्चगव्येन कृत्वा तस्मिन् नियोजयेत् || ७ || शक्तित्रयत्येनेत्तासु धर्माधर्म च षण्मुख | तदेवालम्भनं कृत्वा तस्मात् संहृत्य होमयेत् || ८ || ततस्तु मूर्ध्नि आगव्य यावत् पादतलान्तकः | विन्यसेत् सर्वतत्वानि तत्वैर्देवा न तु क्रमात् || ९ || बिन्दु तत्वे न्यसेन् मूर्ध्नि तत्र बिन्दु नियोजयेत् | शान्तीं च निष्कले स्थाने ध्यात्वा सर्वानिधो मुखात् || १० || मूर्ध्निथो खण्डिकोर्ध्वं तु न्यसेद् देवं सदाशिवम् | तत्रास्तथस्य संलीन विन्यसेच्छक्तिमण्डलम् || ११ || जिह्वायां वक्त्र मध्ये तु तत्र विद्यां च योजयेत् | अष्टौ विद्येश्वरान् मन्त्री ग्रीवायां बाहु संधिषु || १२ || प्. ९०) मायां वै यामपार्श्वे तु न्यसेत् कालं तु दक्षिणे | कलामुरसिसंस्थाप्य हृदये नीललोहितम् || १३ || तत्रापरम् पुनर्विद्यां तत्रैव पुरुषः स्मृतः | रागोपि रञ्जकस्तस्य विद्य प्रबोध लक्ष्मणैः || १४ || अव्यक्तमुदरे ध्यात्वा नाभौ सूक्ष्माणि विन्यसेत् | शब्द स्पर्शं च रूपञ्च रसोगन्धश्च पञ्चमः || १५ || पृष्ठवंशे गुणं न्यस्य तत्रैव पुरुषत्रयम् | नाभि मेढ्रान्तरे बुद्धि महङ्कृतिश्च सन्धिषु || १६ || योन्यं व्योमेश्वरं देवं व्योम मध्ये नियोजयेत् | तत्रैव योजयेद् वायुं गुह्याद्गुह्याष्टकावृतम् || १७ || योनभ्यन्तरतः स्कन्द वित्तस्थाने हुताशनम् | तस्याधो वारुणं तत्वं यावधा जानुमण्डलः || १८ || तस्याभ्यन्तरे लोकान् यावदामुश्ल कीलकौ | लोकादौ विन्यसेद् देवान् ब्रह्म विष्णु महेश्वरान् || १९ || गुल्फाय पो * * प्रंते तु किञ्चिदभ्यन्तरे गुह | चिन्तयेत् सप्तपाताल नरकांस्तु तल स्थितौ || २० || पादाङ्गुष्ठे तु देवेशं कालाधिपतिमीश्वरम् | स्थापयित्वा विधानेन पुनरभ्यर्चयेत् क्रमात् || २१ || संचित्य सहिता न्यध्व मूर्ध्नि आरभ्य मन्त्रवित् | पादादारभ्य तान् सर्व अंसौ संस्थाप्य शोधयेत् || २२ || प्. ९१) यागं यथोचितं कृत्वा तत्वे योनि मनु क्रमात् | कल्पयित्वा यथा पूर्वं पशुं संहृत्य योजयेत् || २३ || गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् | तत्वातु सर्वतत्वेषु तथा संयोजयेच्छिवे || २४ || क्षीराज्यदधिसंमिश्राअं सूच्यग्रे संव्यवस्थिताम् | कृत्वाग्नौ होमयेत् पश्चात् तां तु पुत्तलकां बुधः || २५ || अथवा पुनरप्येवं स्थूलसूक्ष्मविभेदतः | व्योमानिलानलाम्भोर्वीः पञ्चतत्वानि योजयेत् || २६ || तेषामन्तर्गतान्यसेत् सर्व तत्वात् षडानन | कलाभिर्व्यापितास्तांश्च शान्ति शृण्यादिभिः क्रमात् || २७ || कलया शृन्यया लौप्तमाकाशं बैन्दवं परम् | व्याप्त सदाशिवं तत्वं शान्तया वायुरूपया || २८ || तस्यायो या पदं व्यक्तं विद्याया तेजरूपया | अव्यक्ताद्यावदंभोंतं व्याप्त चैव प्रतिष्ठया || २९ || स चाह्याभ्यन्तरं पश्चात् ब्रह्माण्डं तु प्रत्तय | व्यापितं सहरुद्रैश्च ध्मातचाकेरा भयम् || ३० || यदेव श्रन्यया व्याप्तं तच्छून्यमिति चोच्यते | वायव्ययागतो वायुस्तेजस्तेज सद्याप्रतः || ३१ || आपो वारुणया प्रोक्तो उर्वी पार्थिवया वृता | यदन्तरं यथा व्याप्तं तस्य नाम्ना तु तत्स्मृतः || ३२ || प्. ९२) बहिरेवं स्थिता व्याप्ति शरीरे श्रासु तत्वतः | शोधनान् क्रमं चैषां पशुमाश्रित्य संस्थितः || ३३ || संचिन्त्य पूर्ववद्रूपं तथा नाडीर्विचिन्तयेत् | शक्तित्रयं न्यसेत् तावद्धर्माधर्मौ च षण्मुख || ३४ || तन्मात्रैः पञ्चभिर्युक्तं गुणैश्च त्रिभिरावृतः | मनोबुद्धिरहंकारैरव्यक्तेन हृदि पुद्गलः || ३५ || भ्रुवो कर्णान्तरादूर्ध्वं श्रत्येश्रन्ये कलान्यसेत् | तस्याधो हृदयादूर्ध्वं मनिले शान्तिमेव च || ३६ || हृदयाद्राव मेढ्रान्तं विद्यां तेजसि योजयेत् | मेढ्राधो यावजान्वन्तं प्रतिष्ठा वरुणा न्यसेत् || ३७ || तस्याधः पार्थिवं तत्वं यावत् पादतलान्तिकम् | निवृत्तिं योजयेत् तत्र ध्यात्वा पूर्ववदर्चयेत् || ३८ || विद्येश्वरं यं बीजं कलाश्रुत्यां प्रकल्पयेत् | कवचादि शिवाअंगानि पुनश्शत्याकाः क्रमात् || ३९ || उर्वीवार्णबीजाभ्यां तेजसा निलखात्मभिः | संयुक्तास्ते स्मृतास्तत्वा योमाध्याक्ष्मावसानिकाः || ४० || ह्रस्वादौ ये स्त्वरापञ्च नपुंसकविवर्जिताः | तन्मात्रस्थे तु विज्ञेया गन्धाद्यादेशिकोत्तमैः || ४१ || अहंकारश्च संज्ञं तु अम्बुधीनीति संज्ञकम् | मकारस्तु मनः प्रोक्तः * तमः परिकीर्तितः || ४२ || प्. ९३) रकारं तु रजो विद्धि संसत्वं तु निगद्यते | यकारं प्रकृतिं स्कन्द परिकल्प्यविशोधयेत् || ४३ || पृथिव्यादीनि तत्वानि निवृत्त्यादि विशोधयेत् | गन्धादि पञ्चसूक्ष्मानि सद्यादिभिरनु क्रमात् || ४४ || त्रितत्वेन तु होतव्यमहंकारादिकं क्रमात् | प्रणवेन विधानज्ञो होमधीत गुणत्रयम् || ४५ || तत्वे तत्वे तु तत्वज्ञः पञ्च सूक्ष्माणि शोधयेत् | गुणत्रयं तथा व्यक्तं मनोबुद्धिमहंकृतः || ४६ || एकैकस्याहुतिशत्तं दद्याच्छुद्धेन सर्पिषा | तिलैर्वाघृतसंमिश्रैस्तण्डुलै राज्य संयुतैः || ४७ || श्रीफलैर्बिल्वपत्रैर्वा पुस्पैर्वाऽर्धाञ्जिकैः शुभैः | होमयेत ततोदिष्टं तैस्तु पूर्णाहुतिं तथा || ४८ || पूर्ववत् स्रोत शुद्धिस्तु तत्व संशुद्धिनैव च | क्रमात् संधाय तत्वानि तया हित्वा शिवं नयेत् || ५१ || एवं दीक्षा मृतस्योक्ता जीवतोपि हि षण्मुख | समयादिभ निर्मुक्ता सुख बन्धाद् विमुच्यते || ५० || सृष्टिसंहारन्यायेन पृथगत ध्वनि कल्पना | दीक्षा संहारतः कार्यारनयोरविसंमता || ५१ || विपन्नस्याखिलं कर्मा हन्येकस्मिन् समाप्यते | आचारोऽयं स्थितं स्कन्द सिध्यर्थम् जीवितस्य तु || ५२ || इति सर्वज्ञानोत्तरे क्रियापादे मृतकदीक्षाप्रकरणम् || अथ परं प्रवक्ष्यामि समयाचार लंघने | यथा विशुद्धयते देही विपन्नोप षडानन || १ || मृदम्भुना तु संशोद्ध्यास्त्र जप्तेन मन्त्रवित् | आलिप्यामलकैः पूतैः स्थापयित्वा शिवांभसा || २ || भस्मस्नानं विलोमेन कृत्वा तु परियापयेत् | गन्धपुष्पैरलंकृत्य उदक पाद निवेशयेत् || ३ || रक्तगन्धैस्तथा पुष्पैरजैवस्त्रोपवीतकैः | सं चाद्यवस्त्रसंयुक्तजस्त्रजापिभिरुत्क्षिपेत् || ४ || नीत्वा तु शांकरि दीक्षां शुचिस्थाने निधापयेत् | नि-ऋति प्लवनं तत्र शिवक्षेत्रं प्रकल्पयेत् || ५ || चतुर्हस्तायतं निम्न द्विहस्त समविस्तरम् | अस्त्र जप्तैस्तु तत्कीलैर्विदिक्षु कीलितो बहिः || ६ || विलोमं रक्तसूत्रेण कवचाख्येन वेष्टयेत् | पीतेन रजसावत्रं तस्य मध्ये समालिखेत् || ७ || त्र्यश्रमञ्च समायुक्तः शृंगाटकं तथोपरि | रक्तेन रजसा तं तु सर्वधान्यमयेन वा || ८ || पूर्वोक्तेन विधानेन तत्र वह्निं प्रकल्पयेत् | अस्त्रेण प्रस्तरां दर्भान् प्युत्क्रमेण तु देवताः || ९ || पर्युक्षणं तथा कुर्यादर्चिनाभ्युक्षणं तथा | स्रुचं स्रुवं च होमान्ते शवस्थोपरिविन्यसेत् || १० || प्. ९५) पूर्ववच्छोदयेदाज्यमभिर्वार्य विलोमतः | तथैवोद्घाटनं कुर्यात् निष्णतिं च षडानन || ११ || तर्पयित्वा तथा वह्निं दत्वा पूर्णाहुतिं ततः | ऐश्वर्यादि विलोमेन मन्त्र सिंहासनं न्यसेत् || १२ || सन्ध्यादि मन्त्र विन्यासं दत्वा देहेष्वके गुह | शिवे शिवासने चैव तथा होमं समाचरेत् || १३ || पूजयित्वाय तथा न्यायं गन्धपुष्पैः पवित्रकैः | अर्घ्यपाद्यादिभिश्चैव यथाशक्त्या विचक्षणैः || १४ || ततः संचिन्तयेन्नाडीः दिव्यरूपा मनोरमाः | ततश्चिति * नेत्तत्र चन्दनागरुदादिभिः || १५ || यथावासं भवेत् तस्य कुचवस्त्रोक्तरं गृह | पुनरभ्युक्ष्य तु प्रेतं मात्र बीजेन षण्मुख || १६ || चिति मध्ये नियुंजीत वस्त्रं चं न घृतप्लुतः | ततः संचिन्तयेन्नाडीं तस्य देहे विचक्षणः || १७ || स्वसंज्ञां हृदि संस्थाप्य तं मध्ये पुद्गलं न्यघे | ततः संधाय तत्वानि पादादारभ्य मन्त्रवित् || १८ || हित्वा तु तां तथा भूधः पशुं संयोजयेच्छिवे | तत्र संदीपयेद् बहिं तमस्ताद प्रदक्षिणः || १९ || अस्त्रबीजेन मन्त्रज्ञ आग्नेयीध्यारणं स्मरेत् | अविच्छिन्नां तथा राम घोयस्त्राभिमन्त्रिताः || २० || प्. ९६) भ्रामयित्वास्त्रबीजेन जलधारां निधापयेत् | ततोजलं प्रजेद् विद्वान् स्नात्वा दत्वोदकं शुचिः || २१ || यागं यथोदितं कृत्वा निवेद्येशं क्षमापयेत् | एवं विमुच्यते देही समयादि विलंघने || २२ || अज्ञानाज्ज्ञानतो वापि कृतौ त्वं तेष्ठि कर्मणि | इति श्रीसर्वज्ञानोत्तरे अन्त्येष्टिप्रकरणम् || एवं दीक्षा त्वया ख्याता मृतानामपि शंकर | तथैवाचार रहितामन्त्येष्टिः पाशशोधिनी || १ || नैष्ठिकानां समाख्याहि ब्रह्मचर्यो जितात्मनाः | ज्ञानचर्यान्वितस्यापि कालाकस्य गतिर्भवेत् || २ || ज्ञानाचर्या द्वितौ बौद्धौ बुद्धि तत्वमवाप्नुयात् | तामसं जिनभक्तानां प्राप्नुवन्ति * * * * || ३ || ये भवन्त्य जितात्मानस्तेषां मुक्तिस्तु दीक्षया | चैवतानि पश्यन्ति मुक्तिस्थानानि षण्मुख || ४ || मुक्तिस्थानं भवेदेकं विमलं सर्वतो मुखम् | अचलं बासकं शान्तं लिङ्गाश्रय विवर्जितः || ५ || तस्मिन् नियोजन्मन्त्री शोध्य तत्व क्रमेण तु | यो चस्मिन्नाश्रितो लिङ्गी तमादौ पूजयेत् ततः || ६ || तर्पयित्वा तथा सम्यक् प्रायश्चित्तं विशोधयेत् | पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन || ७ || पश्चादष्ट सहस्रं तु अस्त्र बीजेन होमयेत् | प्. ९७) भूयोप्यष्टसहस्रं तु मूलमन्त्रेण होमयेत् || ८ || भूत्वा दीक्षापराकार्या संसार्णव तारिणी | नैष्ठिको दीक्षितस्त्वेन नित्यमप्यभिचारतः || ९ || शिवशास्त्रपरोनित्यं शिवहोमरतः शुचिः | शिवार्चन शिवध्यायी शिवजापि सदा भवेत् || १० || अ * ल कांक्षिण स्कन्द नानुग्रहं करिष्यति | द्वावेवाश्रमिणौ शैवे गृहस्थ ब्रह्मचारिणौ || ११ || लोकानुग्रहकर्तारौ परिव्राट् तापसौ न हि | एवं कार्याधिकारोयं यावत् संक्रामतो न्यतः || १२ || संक्रामिताधिकारस्तु कर्मशन्या समाचरेत् | गृहस्थ ब्रह्मचारित्वं संज्ञामात्रं तु केवलम् || १३ || पारमार्थिकमेतेषां नाश्रमो नाश्रमक्रिया | यदर्थं कृत कर्माणो नियुक्तौ परमे पदे || १४ || तदर्थं नाश्रमः प्रोक्तः शिवशास्त्र समाश्रितः | पूर्वसन्ध्या जपं होमं यच्च कर्म क्रमागतः || १५ || स्थित्यर्थमाचरेत् किञ्चित् सततं मन्त्र तत्परः | यस्मिन् वर्णो स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् || १६ || तत्रैव संस्थितो नित्यं शिवधर्मं प्रकल्पयेत् | यदुक्तं शिवशास्त्रेऽस्मिन् न्युक्तं कर्मषडानन || १७ || तदवश्यं तु कर्तव्यं तद्विलंख्य विलंघनम् | प्. ९८) आज्ञेयं कारणा ज्ञेया नोविकल्प्या कदाचन || १८ || सिद्धे यं साधनं नास्ति दूषणं न च विद्यते | न पुं हि य*(?)र्षकं वाक्यं दैविकं रिषिस्तथा || १९ || न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजन्मना | न शैवं विष्णुना वाक्यं बाध्यते तु कदाचन || २० || यो भि बाधति मूढात्मा सं नष्टो मूढचेतनः | उत्तरोत्तर वैशिष्ट्यं सर्वेषां परिकीर्तितम् || २१ || वाक्यानां वाक्यवित् प्राज्ञैस्तथा गुह्यं हितैषिभिः | * * वर्णाश्रमाचार प्रायश्चित्ताश्च लौकिकाः || २२ || सम्बन्धादशधर्माश्च प्रसिद्धां ना विचारयेत् | गर्भाधानादितः कृत्वा यावदुद् बाहमेव वा || २३ || तावं तु वैष्टिकं कर्म पश्चाद् वै वेत्यनन्यभात् | न मुख्य प्रवत्या च स्कन्द लोकं धर्मान् समाचरेत् || २४ || न चान्य शास्त्रेद्दिष्टां न चान्यं देवतां स्मरेत् | विशुद्ध भावना युक्त शिवैक गत मानसः || २५ || विशुद्ध माप्नुयात् स्तानमचिन्त्य सर्वग मृव | शबलं कर्मसन्देह द्यत्कृतं कृतकोद्भवम् || २६ || नेह मन्त्रफलं तस्य नैकान्ते सुखदं भवेत् | यमेवेच्छति संप्राप्त शुद्धकर्म समाश्रयेत् || २७ || तत्कर्म परतां नित्यं सुखी त * दवा स्व्यतः | प्. ९९) शास्त्रस्यैवा विरोधेन शुद्ध कर्माजितेन्द्रियः || २८ || अनेनैव स्वदेहेन सिध्यते नात्र संशयः | ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राशुद्धस्तु साधकाः || २९ || सुवर्णादानु पूर्वेणाचार्याश्च षडानन | श्रद्धधानान सूयाश्च कर्मज्ञाः कर्म तत्पराः || ३० || अनुरक्ताभिषक्ताश्च ते त्वानुग्रहकाः स्मृताः | कृष्णवर्णमृगो यस्मिन् चरते तु षडानन || ३१ || तद्देशं याज्ञिकं विद्यात् यश्च विप्रैरधिष्ठितः | यत्र विप्रास्सदाचारा यतयश्च तपोधनाः || ३२ || संनिदेवास्तथा वेदाः पुण्यदेहां तमादिशेत् | तद्देश कुलसंभूता आचार्याश्शास्त्रसंमिताः || ३३ || शिवशास्त्रं परां नित्यं शिवार्चाग्निपरायणाः | आपादमस्तकं यावत् भस्मस्नानं द्विजस्य तु || ३४ || नाभेरूर्ध्व ह्रपस्योक्तं मारत्नेन तु भस्मना | वैश्यस्य पट्टिका प्रोक्ता शूद्रस्य तु त्रिपुंड्रकः || ३५ || भस्मना ब्रह्म जप्तेन यथास्थानेष्वनुक्रमात् | ब्राह्मणस्य जटाश्लष्णाः कनकाः परिकीर्तिताः || ३६ || स्थूलास्तद्विगुणो ज्ञेया क्षत्रियस्य तु व्यन्तराः | वैश्यस्यैका शिखा स्थाने तथा शूद्रस्य कीर्तिताः || ३७ || ह्रस्व श्लक्ष्णानुसंयुक्तास्संयतस्य जितेन्द्रियः | प्. १००) यज्ञोपवीत सूत्रं तु विप्रे पञ्चसरं मृतम् || ३८ || त्रिसरं क्षत्रियस्योक्तः वैश्यस्य द्विसरं स्मृतः | शूद्रस्यैक सरं ज्ञेयं नित्यमव्यभिचारिणः || ३९ || अर्चायामग्निकार्ये वा सन्ध्या काले च नान्यथा | इति श्रीसर्वज्ञानोत्तरे लिङ्गोद्धारादिप्रकरणम् || अभिषेक विधानं तु संप्रवक्ष्याम्यतः परम् | हिताय देशिकं द्राणाः यथा शम्भु मुखाच्च्युतः || १ || पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपि ते | सर्वशोभाभिरम्ये तु सर्व गन्ध विभूषिते || २ || सुतिथौ वार नक्षत्रे मुहूर्ते करणान्विते | शुभग्रहोदये लग्ने शकुने मंगलैर्युते || ३ || सत्यव्रत चरं दान्तं त्यागयुक्तं दयान्वितम् | प्रसन्नवदनं दक्षं गुरुभक्तं दृढव्रतम् || ४ || शौचाचारसुसंपन्नं योगयुक्तं जितेन्द्रियम् | शिवभक्तं सदाशान्तं शिष्यं तन्त्रस्य पारगः || ५ || यागम्मुत्वा यथोद्दिष्टं दीक्षा निवृत्य मन्त्रवित् | ततोभिषेचयेत् तं तु युक्तायुक्त विचारकः || ६ || वीणावेणु मृदं गाद्यैः काहलैः पटहादिभिः | शंखतूर्यनिनादैश्च नृत्तगेय समन्वितैः || ७ || सर्वमंगलसंयुक्तमभिषेकं समारभेत् | प्. १०१) यागदक्षिणपूर्वेण पश्चिमे वोत्तरेण च || ८ || यतोद्वारं नाभि पश्चात् तण्डुलं परिकल्पयेत् | द्वात्रिंशदांगुल विस्तारमुच्छ्रायं तावदेवभिः || ९ || चतरश्रं समं शुद्धं मध्ये कमल भूषितम् | पूर्ववत् पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत् || १० || शुद्धपद्मासितं स्नातं मन्त्रालंकृत विग्रहम् | ततः कुम्भान्यथा पूर्वं पूर्वादारभ्य कल्पयेत् || ११ || शिवकुम्भविधानेन मन्त्रदेवत संयुतम् | अष्टौ विद्येश्वरान् मन्त्री अष्टभिः संनियोजयेत् || १२ || चतुष्वंगान्यथास्थानं पञ्च ब्रह्माणि पञ्चसु | अस्त्रजप्तं कुरुस्वैकं शिवजप्तं तथा परः || १३ || गायत्र्या चमनार्थं तु वन्यां परि कल्पयेत् | शतमष्टोत्तरं जप्त्वा शिवाख्यमभिमन्त्रयेत् || १४ || प्रथमं चास्त्र बीजेन स्नापयित्वा विधानवित् | विद्येश्वरैस्ततः पश्चादनन्ताद्यैर्यथा क्रमात् || १५ || ब्रह्मभिश्चानुपूर्वेण पुनरङ्गान्यनुक्रमात् | अभिषेकं शिवेनैव पश्चात् कुर्वीत षण्मुखः || ६ || ततो गन्धैश्च पुष्पैश्च वस्त्रालंकारपादुकैः | ब्रह्मसूत्र पवित्राद्यैः र्भूव्य पट्टं निवेदयेत् || १७ || पूजयित्वा विधानेन शिववन्तं तु देशिकः | प्. १०२) शिव समीपं समाश्रित्याधिकारं समर्पयेत् || १८ || गुरुणायोऽधिकारस्तु गमवत्ससमर्पितः | अद्य प्रभृति योगीन्द्र सोधिकारो मया त्वयि || १९ || अनुग्राह्यास्तथा शिष्याश्शास्त्रदृष्टेन कर्मणा | श्रोतव्यं शिवशास्त्रं च श्रावणीयं तदर्थिनाम् || २० || संवत्सरोषिते शिष्ये दीक्षां निर्वर्तयेद्बुधः | सायके मन्त्र दीक्षां तु यस्मिन् तत्वे भिषिच्यते || २१ || इतरेष्वाहुतीं दत्वा शिवहस्तं प्रकल्पयेत् | समया मृपयेत् पश्चात् ब्रह्माङ्गानि तथैव च || २२ || न निंद्या तु कारणं देवं तच्छास्त्रं च शिवोद्भवः | देशिकं पुत्रकं चैव गुरोर्वाक्यं न लंघयेत् || २३ || सुतिकायां न संस्पर्शं छाया चतुरलंघनात् | यत्नेन वर्णयेत् प्राज्ञो देव जग्धं च सौनिकम् || २४ || इत्येता समयास्तन्त्रैः समासात् परिकीर्तिताः | पालानां तु शिवं यान्ति सन्निरोधं ततो न्यथा || २५ || पिण्ड मन्त्रास्थतस्त्राव्यावत्सरात्मा शिवशिवस्तथा | समयज्ञेष्विदं ज्ञानमथ ऊर्ध्वं न दापयेत् || २६ || ब्राह्मणाः क्षत्रिया वैश्याः स्त्री शूद्रादि नपुंसकाः | दीक्षाकाले त्वमीमांस्या ज्ञानदाने विचारयेत् || २७ || त्रिचतुःपञ्चभिः विप्र क्षत्रिये नव सप्तभिः | प्. १०३) अष्टभिर्दशभिर्वैश्ये शूद्रे विंशत्या दापयेत् || २८ || उत्तमं सर्वशास्त्राणां शिवशास्त्रात्मकं गुह | गुह्याद्गुह्यतरं गुह्यं भवितव्यं प्रयत्नतः || २९ || ना शिष्याय प्रदातव्यं नाभक्ताय न नास्तिके | न गुरु द्वेषिणे चैव कन्यशास्त्ररताय च || ३० || यस्य देवे पराभक्तिः नित्यं गुरौ षण्मुख | नान्यशास्त्रे यथा भक्तिर्ज्ञानं तस्मिन्न स योजयेत् || ३१ || न जल्प शिवशास्त्रेण प्रकुर्वीत कदाचन | न वोरणं कुर्यात् दशद् देजनसं * * * * || ३२ || विविक्ते निर्जने रम्ये पूज्यविद्याधिपं गुरुम् | जितेन्द्रियः शुचिः स्नातः शिवज्ञानं तु श्रावयेत् || ३३ || श्रोतव्यं च तथा भूतैस्तच्छक्तैस्ता परायणैः | आदावन्ते च संयोज्य गुरुं संभाव भावितैः || ३४ || पौर्णमास्याममावास्यां चतुर्दश्यष्टमेषु च | नाध्यापयेच्छिवज्ञानं ग्रहणाय न सन्धिषु || ३५ || सविशेष जपं पूजा व्रत होमं समाचरेत् | दानोपवासनियमात् सर्वेष्वे तेषु षण्मुख || ३६ || कृतघ्ना नास्तिकाः क्रूराः निस्सत्याः कलह प्रियाः | मायाशाठ्य समोपेता भूमंते तन्त्र हारिणः || ३७ || पृच्छन्ति मधुरैर्वाक्यै शेषमुत्वाद्य वा पुनः | प्. १०४) तेषां न विश्वसेद्धर्मान् यदीच्छेच्छान्तिमात्मनः || ३८ || एवं कार्यधिकारो हि यावत् संक्रमितोन्यतः | सङ्क्रामिताधिकारस्तु कर्मसन्यासमाचरेत् || ३९ || साधकस्याभिषेकस्तु एवं वत्स विधीयते | आचार्य साधकश्चैव द्वावेतौ तुल्यमङ्गलौ || ४० || समाप्त विद्यो कर्तव्यो गुरुस्साधक एव च | सकाम सायको ज्ञेया निष्ठा मे देशिकः स्मृतः || ४१ || एक एव क्रियाकारो भावभेद प्रधक्तयोः | सोल्पं होमं जपध्यानं कुरुते देशिकस्सदा || ४२ || कर्मनिष्ठा प्रतिष्ठो हि सततं साधकोत्तमः | इति श्रीसर्वज्ञानोत्तरे क्रियापादे अभिषेकप्रकरणम् || अतः परं प्रवक्ष्यामि स्नानं वित्रानुसारतः | पञ्चभिः कलशैर्वापि पूर्वोक्त विधिकल्पितैः || १ || अष्टो विद्येश्वरान् मन्त्री एकस्मिन् विनियोजयेत् | द्वितीये पञ्च ब्रह्माणि तृतीयंग चतुष्टयम् || २ || अस्तु युक्तं चतुर्थं तु शिवकुम्भञ्च च पञ्चकम् | अभिमन्त्र्य यथा न्यासं पूर्ववत् स्नानमाचरेत् || ३ || चतुर्भिर्वायथाकुम्भैरभिषेकं समाचरेत् | विद्येश्वराद्यया पूर्वं ब्रह्माङ्गानि च मन्त्रवित् || ४ || एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकः | प्. १०५) चतुर्थं शिवकुम्भं तु अभिषिञ्चेत पूर्ववत् || ५ || अथवा द्वौ पुनः कुम्भौ अभिषेकाय कल्पयेत् | एकस्मिन् सर्वमन्त्रांश्च शिवकुम्भं तृतीयकः || ६ || ब्रह्मपत्रपुटैर्वापि शंक शुक्त्याथवा पुनः | अभिषेकं प्रकुर्वीत ततोऽनुज्ञापयेत् पुनः || ७ || पुष्पैर्वा मनसा वापि वाचा वापि प्रशस्यथा | अननुज्ञातमन्त्रस्तु न कुर्यान्मात्रिकां विधिम् || ८ || स्तुवं स्रुचाक्षसूत्रञ्च संग्रहेत् तत् ततः क्रमात् | त्रिकालमर्चनं जपं होमं समाचरेत् || ९ || इति सर्वज्ञानोत्तरे क्रियापादे संक्षिप्ताभिषेकप्रकरणम् || स्रुवस्यावक्षसूत्रस्य विधानं शृणु तत्वतः | जपस्य सिद्धि द्रव्याणि प्रवक्ष्याम्यनुपूर्वशः || १ || स्रुवं हस्त प्रमाणं तु आधारोङ्गुष्ठ पर्वतः | बाहु मात्रं स्रुचं ज्ञेया पुष्करं संनि सन्निभः || २ || पालाशाश्वत्थ बिल्वं तु वैकंकतं तु वा पुनः | क्षालयित्वास्त्रबीजेन धारणाभिर्विशोधयेत् || ३ || ततश्च पञ्चगव्येन पुनर्गन्धोदकेन तु | त्रितत्वं शक्तिबीजं तु योजयेदुभयोरपि || ४ || गन्धपुष्पैरलंकृत्य धूपं दद्याद् विधानवित् | सप्तरात्रं स्थितिं कृत्वा पश्चाद्धोमो नियोजयेत् || ५ || प्. १०६) पुत्रदीप फलं वृक्षो मधो गत्वा विशोधयेत् | खसस्यं गोमयं ग्राह्यं पुनस्तत्रो विलेपयेत् || ६ || सिक्त्वातु पूर्ववन्मन्त्री अस्त्रगन्ध शिवांबुना | शिवी कृत्वा तु तं वृक्षं शिववत् प्रति पूजयेत् || ७ || पुरस्तादग्निकार्यं तु शास्त्र दृष्टेन कर्मणा | कृत्वा भूत बलिं दत्वा पश्चादक्षाणि संहरेत् || ८ || मध्ये शाखा समुद्भुतैर्मन्त्रमावर्तयेच्छिवः | पूर्वशाखोद्भवस्कन्द जपे तत्पुरुषं बिलम् || ९ || अघोरवामदेवौ वा सद्योजाताङ्गमेव वा | ये यथावस्थिता मन्त्रास्तैस्तुतान् परिकल्पयेत् || १० || वायव्यानल माहेन्दु वरुणावाथ मिश्रकाः | तेभिस्वस्त्रोतजैरक्षै सर्वे सिध्यन्त्य संशयः || ११ || कंन्याकर्तितु सूत्रेण त्रिगुणं त्रिगुणे न तु | अक्षमाला प्रकुर्वीत शुद्धे नास्त्रोदकेन तु || १२ || शतमष्टोत्तरं वापि चतुःपञ्चाशदेव वा | सप्तविंशति वा मन्त्री अक्षमाला शुभास्मृता || १३ || शक्तिन्यासं पुराकृत्वा तस्मिन् सूत्रे निधापयेत् | वेधयेदस्त्रबीजेन प्रोतयेद्धृदयेन तु || १४ || अन्योन्य संस्थितं कृत्वा मुखं तेषां सुसंहृतान् | निरुजांति प्रणान् शुद्धान् न भिन्नामल वर्जितान् || १५ || प्. १०७) ततः शिवाम्भसा क्षाल्यं पुनर्गन्धैर्विभूषयेत् | स्वस्त्रोते विन्यसेच्छक्तिं वीरपत्रस्तथोपरि || १६ || मूयूरचन्द्रकैश्छाद्य पश्चादक्षाणि योजयेत् | वीरपत्रस्य तथा चैव पश्चादालभनं कुरु || १७ || स्वमन्त्रं पूजयेत् तत्र गन्धपुष्पैरनुक्रमात् | शिवीभूतं तु तत्सूत्रं संपुटित्वा दिने दिने || १८ || ततस्समुद्गके मन्त्री मांत्रालब्धे निधापयेत् | सौवर्णे राजते चैव ताम्रसिद्धोर्थकेपि वा || १९ || ग्रहणं मोक्षणं चैव स्थापनं च विधानवित् | हृदये तु कर्तव्यमर्चनं च विलेपनम् || २० || अतः संक्षेपतो वक्ष्ये भूयोक्षस्य विधिं परम् | आहृत्य निपुणानक्षान् अस्त्रजप्तेन भस्मना || २१ || संशोध्यवारि युक्तेन धारणा निपुणः क्रमात् | ततस्तु पञ्चगव्येन पुनर्गन्धोदकेन तु || २२ || ततः शिवाम्भसा क्षाल्य पुनर्गन्धैर्विभूषयेत् | यागं कृत्वा यथोद्दिष्टं पूर्वोक्त मेखलं यथा || २३ || ततस्तु प्राणसंघातमाकृष्य हृदि मण्डले | त्रितत्वे मध्यगो भूत्वा जपं कुर्यात् समाहितः || २४ || त्रितत्व मध्यगो भूत्वा जपं कुर्यात् समाहितः | त्रिभिस्तु चुलकैर्नित्यं यावत् संख्या प्रपूर्यते || २५ || प्. १०८) तावतत् गन्धतोयेन शिवस्य जपमर्पयेत् | जपं कृत्वोदिसंकृत्वा पुनरीशं प्रसाधयेत् || २६ || तमाकृष्य तथैवैह व्रतमन्त्रैः समाचरेत् || २७ || इति श्रीसर्वज्ञानोत्तरे क्रियापादे जपादिप्रकरणम् || अतः परं प्रवक्ष्यामि व्रतानां व्रतमुत्तमम् | शिवव्रतमितिख्यातं सर्वदा सुरपूजितम् || १ || विशुद्धं पाण्डरं जन्म शुक्लवासोनुलेपनम् | शुक्लयज्ञोपवीती च जटामकुट मण्डितः || १२ || सर्वाभरणसंपन्न शुक्लमाला विभूषितैः | चरुभूत् ब्रह्मचर्यस्य शिवाग्नि गुरुपूजितः || १३ || मन्त्रमूर्ति शिवस्यैव यथापूर्व प्रकीर्तितम् | तथा वै साधकैंद्राणा व्रतज्ञेयं तथात्मकम् || १४ || शुक्लकौपीन वासं वा उष्णीषाक्षक मण्डलुम् | शिवालये वसन्नित्यं भिक्षाभक्षो जितेन्द्रियः || १५ || शिवध्यानरतो मौनी शिवाग्नि गुरुपूजकः | संवत्सरे व्यतिक्रान्ते शिवतुल्यो भवेदिति || १६ || इति सर्वज्ञानोत्तरे क्रियापादे शिवव्रतप्रकरणम् || अतः परं प्रवक्ष्यामि लक्ष्मणं तु शिवालये | स्थापनं चैव लिंगस्य यस्मिन् सर्व प्रतिष्ठितः || १ || ब्रह्माद्या देवतास्सर्वे लिङ्गमाश्रित्य संस्थिताः | प्. १०९) तस्माद् वै स्थापयेल्लिङ्गं शास्त्रदृष्टेन कर्मणा || २ || त्रिण्यां विद्याव्रतो योगी गुरुदेवाग्नि पूजकः | आचार्यस्तत्व विद्धीमान् विशिष्टकुलजः शुचिः || ३ || सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुह | स्थापकस्स परप्रोक्त शिवविच्छास्त्र संमतः || ४ || सर्वलक्षणसंपन्न संम्यत् शास्त्रं न विन्दति | न योगी न व्रतस्नातो ना चावाचार्य उच्यते || ५ || न शठो नास्तिकः क्रूर पिशुनो न च मत्सरी | कुषीकु * सखीं व्यङ्गं क्षयरोगी जलोदरी || ६ || काणः केकरपिङ्गाक्षः कपालकुतशेखरः | सर्वदोषाश्रयं वत्स तार्किकं तु विवर्जयेत् || ७ || भोजका देवजग्धाश्च देवव्रतधरांश्च ये | विनाग्नि नैष्ठिकाश्चैव स्थापनेषु विवर्जयेत् || ८ || स्थान शुद्धात्मशुद्धी च द्रव्यशुद्धिं तथैव च | मन्त्रस्य लिङ्गशुद्धिं च विदित्वा गमकृत् || ९ || शिवा भवास्त्रतोयेन स्थानमभ्युक्षयेत् ततः | माहेन्द्र वारुणं वापि पुनः क्षेत्रं प्रकल्पयेत् || १० || दिशां बन्धं ततः कुर्यात् यथापूर्वमुदाहृतम् | स्थान शुद्धिर्भवेदेवं देहशुद्धिः प्रचोदिता || ११ || मन्त्रशुद्धिर्मनोंथथे मन्त्री मन्त्र विचक्षणः | प्. २१०) मलाध्यैश्वर्य ज्ञालानि मन्त्राणां कीर्तितानि तु || १२ || तेषां प्रबोधिनी शक्ति शिवाज्ञानं न मन्त्रता | मन्त्रशुद्धिर्भवेदेवं समासात् परिकीर्तितः || १३ || द्रव्यशुद्धिस्तु द्रव्याणां प्रोक्षितानां शिवाम्भसा | लिङ्गशुद्धिं पुनर्वक्ष्या विभातां चार्चनस्य च || १४ || लक्षणं चैव लिङ्गस्य येन सान्निध्यतां व्रजेत् | लिङ्गाद्धस्तशतं क्षेत्रमाचार्ये स्थापितस्य तु || १५ || स्वायंभूते सहस्रं स्याद्रिष्ठिभिस्तु सदर्थकम् | भूमि संशोधनं कृत्वा क्षेत्रस्य जननं कुरु || १६ || जनिते तु शिवक्षेत्रे पश्चाद् वै भूपरिग्रहः | शिलान्यासं ततः पश्चात् सूत्रयित्वा विधानवित् || १७ || हेमरत्नादिभिर्बीजैर्भूषयित्वा निधापयेत् | पुण्याह जय शब्दैश्च शंखवाद्यकनिस्वनैः || १८ || बाहुर्मंगल निर्घोषैः पूज्य विष्णुविनायकान् | दिशाबलिं ततो दद्यात् पूजयित्वा दिगीश्वरान् || १९ || आचार्यः शिल्पिभिः सार्धं लिंगं कुर्यात् सलक्षणम् | स्थपतिश्च यथोद्दिष्टं प्रासादं शास्त्रसम्मतम् || २० || प्रासादाद्वा भवेल्लिङ्गं लिङ्गात् प्रासाद एव वा | यदेव सूत्रितं पूर्वं तेन सूत्रेण चोदितम् || २१ || अस्त्रयागं पुनः कृत्वा अस्त्रैरस्त्रं नियोजयेत् | स्नापयित्वास्त्रतोयेन गन्ध पुष्पैर्नियोजयेत् || २२ || प्. १११) धूपं दत्वा विधानेन रात्रिमेकां निधापयेत् | वस्त्रशययां समारूढं कुठारं टङ्कमुद्गरम् || २३ || घृतेन मधुनाभ्यज्य मुखा तेषां पुनः क्रमात् | अस्त्रं तु जपतो ध्याने प्रवेशे हृदयं जपेत् || २४ || संप्राप्योदित शैलं तु तत्र यागं पुनः क्रमात् | कृत्वा भूतबलिं दत्वा हृदयं परिवर्तयेत् || २५ || तस्य पादांश्शिलां गृह्य विवर्तां सौम्यदर्शनम् | विवर्णामनवद्यांस्तु विशुद्धां सुनिदर्शनाम् || २६ || अस्त्राभिमन्त्रितं कृत्वा सद्येना लभनं कुरु | ते नैवाभ्यर्चनं भूयस्तत्र कर्म समाचरेत् || २७ || अथो भागे कुर्वीत * * * * * तात्मकः | पूर्वमूत्तरमीशानं मस्तकं परिकल्पयेत् || २८ || वृक्षस्य पूर्वतं पूर्वं प्रासादे पूर्वते मुखे | यतो वापि भवेद्वारं तत्रवंत्रं तु कल्पयेत् || २९ || स्वस्थानस्यंतु पूर्वेण प्रासादं पश्चिमामुखम् | दक्षिणेन तथा कुर्यात् पश्चिमे पूर्वतो मुखम् || ३० || उत्तरेण तथा भूय पूर्वं पश्चिमे * व वा | द्वारं तु मध्यतः स्थाप्य भूमिभागवशाद् भवेत् || ३१ || नोत्तराभिमुखां देवां न कुर्याद् दक्षिण मुखात् | विदिशासु च वक्त्राणि न कुर्यात् तु कदाचन || ३२ || प्. ११२) अन्यथा स्थाप्यमानानां दैवानां शिखि संभव | दुर्भिक्षं विग्रहो राजा वुपसर्गो भयानि च || ३३ || उच्छ्रायां देन कुर्वीत विस्तारं गुणबहिः | चतुरश्रयावर्तुलां वा प्रदंगो पुरान्वितम् || ३४ || प्राकाराभ्यन्तरेष्टौ तु पार्श्वे विन्यस्य मन्त्ररा * | प्रासादानि मुखान् कुर्यान् न गर्भतैस्तु वेधयेत् || ३५ | इन्द्र पावक धर्मेश निऋ-ऋति वरुणा तिलात् | कुबेरं च तथैशानं स्थापयेत् तेषु देवता || ३६ || द्वारे देशे बहिः स्थाप्यौ दुर्गाविघ्नविनायकौ | स्थाप्यौनन्दिमहाकालौ शिवस्य पुरतस्तथा || ३७ || शिवलिंगं ततो मध्ये ज्येष्ठमध्यमकन्यसम् | संपूर्णोदर पार्श्वं तु पृष्ठमुन्नतमस्तकम् || ३८ || अवक्रापश्रयं हीना श्रमवक्र * * स्थितम् | पद्मार्थचंद्र चक्राक श्रीवत्स स्वस्तिकाङ्कितम् || ३९ || एकहस्तद्विहस्तं वा त्रिहस्तं वापि कन्यसः | चतुर्हस्तं पञ्चहस्तं षड् हस्तं मध्यम * * || ४० || सप्ताष्ट नवहस्तं वा उत्तमं परिकीर्तितम् | श्वेतरक्तं तथा पीतं कृष्ण विप्रादितः क्रमात् || ४१ || गुरु स्निग्धं सुगन्धं च सुस्वरं तेजसान्वितः | व्यामिश्रमपि त गृह्यं चतुर्णाममविशोभतः || ४२ || प्. ११३) सर्वशल्य विनिर्मुक्तं सर्वतोष विवर्जितम् | सर्वलक्षणसंयुक्तं शिवलिङ्गनिधापयेत् || ४३ || अंगुल्य द्वंगुलं वापि कुर्यात् तु चतुरंगुलम् | अष्टाङ्गुल वितस्तिं वा मणिरत्न मयं शुभः || ४४ || सततां रत्न लिङ्गानां प्रासादो न विधीयते | प्रासादे वा गृहे रम्ये यथेष्ठं संप्रपूजयेत् || ४५ || यदात्मकं बलेर्लिङ्गं वेदीकार्या तदात्यका | लिङ्गवेद्यासमुज्ञेयं वेदिलिङ्ग समास्मृतः || ४६ || सौवर्णराजता वापि ताम्रावा विमला भवेत् | अभावे रत्नवेदीनां रत्नलिङ्गेषु कीर्तिता || ४७ || वेद्याः पूर्वापरं ज्ञात्वा तथावोत्तर लक्षणं | मध्ये प्रवेशयेद्यल्लिङ्गं द्वौ भागौ बाह्यतः स्मृतौ || ४८ || भागद्वयं भवेद् दृश्यं तृतीयं संप्रवेशयेत् | विहितं रत्नलिंगानां सुषिरे होम भे * ते || ४९ || तेषा. हि लक्षण मध्ये उत्तरे प्रयत्नतः | भागत्रयं समं कृत्वा तत ऊर्द्ध्वं परित्यजेत् || ५० || तत्र सर्वत्र समं श्रेष्ठ सुप्तक्तोन्नत मस्तकम् | सर्वदोषविनिर्मुक्तं सर्वलक्षणसंयुतम् || ५१ || चतुरश्रमथो भागमष्टाश्रं मध्यत स्थितम् | वृत्तं चैव तमूर्ध्वं तु प्रकूर्वीत षडानन || ५२ || प्. ११४) सुविशुद्धस्य लिङ्गस्य कुक्कुटाण्डमयस्य च | यव मध्यं ततः कुर्याच्चतुरश्रमतः पुनः || ५३ || परिपूर्णातरं मध्ये अत ऊर्ध्वकृतं भवेत् | अष्टाश्रं वा प्रकूर्वीत सुप्तताराकार मध्यकम् || ५४ || समाश्रं निव्रणं शुद्धं तेजस्कं चारुदर्शनः | मृदंग कामतं जेयं मृदंगाकार * स्तिकः || ५५ || स्थापितं च वने वापि स्थितं वा विषमं यदि | मणिरत्नमयं लिङ्गं पुनः संस्थाप्य पूजयेत् || ५६ || ऊत्तरप्लवनां वेदिं दर्पणोदर सन्निभः | मेखलां द्वादशांगेन प्रणालं चार्ध भागिकः || ५७ || प्रमाण लक्षणं चैव मणिरत्नमयेषु च | स्थापनं चार्चनं प्रोक्तमितरेण विधिं शृणु || ५८ || अथ गर्भग्रं पुरस्कन्द लिङ्गस्य त्रिगुणं कुरु | मध्यमांसे शस्य सद्वेदीं भक्तिर्वेदी समास्मृताः || ५९ || तत् प्रमाणं भवेद्वारं विस्तरेण विधानवित् | उच्छ्राय द्विगुणं कुर्या सुसमीकन्यसस्य तु || ६० || षष्ठं भागमथस्त्यज्य द्वारमध्यमकं न्यसेत् | कल्पयीत यथोद्दिष्टं मध्यमस्थाधुना शृणु || ६१ || द्व त्रि भागे तु संत्यज्याधो भागस्य षण्मुख | ऊर्ध्वभागे प्रकुर्वीत द्वारं वै मध्य संमितु || ६२ || प्. ११५) भागमेकं परित्यज्य द्वयोर्भागः प्रकल्पयेत् | तद्भागं पूरयेद्भूमौ शेषं लिङ्ग क्रमेण तु || ६३ || अधो वेदिं स्थिरां कृत्वा निर्वाणां सुसमन्विता | सुश्लिष्टामिष्टकैश्च्छाद्यं यावत् क्षेत्र समा * *|| ६४ || ततसूत्तर वेद्यां च पीठस्य रचनां कुरु | विधिना शास्त्रदृष्टेन सर्वकर्माणि चैवभि || ६५ || लिंगाद्वे तथा गर्भो भक्तिश्चैव षडानन | प्रासादं च तथा तत्तलिङ्गमानेन कारयेत् || ६६ || तल्लिंगं मंजरीययास्त्रि * * * * * * * * | शुकनासा महासेन शिखरं चैव लैंगितम् || ६७ || तल्लैंगिकं पुनः सूत्रं गर्भादुभयतो न्यसेत् | दिगश्रमुश्रयार्धेन शुकनासस्य मण्डपम् || ६८ || गर्भस्यो भयतो लिङ्गमेकैकं संप्रवेशयेत् | द्वौलिङ्गादग्रतः कुर्याच्छुकनासस्य षण्मुख || ६९ || वलभिच्छांदकं वापि गजसिंहाकृतिं तथा | हंसकृत्यातिं वापि शुकनासं समं कुरु || ७० || द्वौ लिंगावर्धलिंगञ्च गर्भं वै मध्यमस्य तु | द्वौ लिङ्गावुत्तमस्योक्तौ त्रीणिलिङ्गानिकं न्यसेत् || ७१ || अथवा सर्वलिंगानां यो भागो द्वारकर्मणि | गृहीत्वा तेन भागेन प्रासादं परिवर्तयेत् || ७२ || प्. ११६) सूत्रेण सुमितं कृत्वा लिङ्गं भागत्रयं कुरु | चतुरश्रमधोभागमष्ठ भूमध्यम स्थितः || ७३ || वृद्धतृतीयकं भागं किञ्चिदुन्नतमस्तकम् | अत ऊर्ध्वं मध्यमञ्च समभागं प्रशस्यते || ७४ || पीठलिङ्गसमाप्रोक्तं पूजाभागद्वयेन वा | अन्यथा रुचिता लिंगात् गर्भान्तं नवधा कुरु || ७५ || मध्यपीठं पदान्यष्टौ स्वांशमात्रादि * * * | सर्वेषामेव भागानां परिणाहस्तु कीर्तितः || ७६ || ब्रह्माद्यस्तु त्रयोभागं वृत्तं षोडशसंयुतम् | एवं कुंडितं क्षेत्रं परिणाहस्तु कीर्तितः || ७७ || मस्तकं यस्य लिंगस्य येनांशेन तु वृत्तयेत् | तत्र भागं पुनस्तस्या यामे परिकल्पयेत् || ७८ || ब्रह्मवेद्यां न्यसेद् भाग द्वितीये पीठिका स्थिताः | अर्चा भागं तृतीयान्तु कर्तव्यं लक्षणान्वितम् || ७९ || ऊर्ध्वं तृतीयके भागं त्यज्य लक्षण मुद्धरेत् | सूत्रयित्वा सुवर्णेन तल्लिङ्गाकृति मुत् जिरेत् || ८० || अष्टाश्राम्मध्यतश्चोर्ध्वं बाहुभिः समलंकृतम् | उत्कीर्य मधुनाज्येन पश्चातमुपलेपयेत् || ८१ || द्विस्त्रे कान्तरिते सूत्रे तस्य मध्ये पुनर्नयेत् | मध्यमांगुलिमानेन तश्शुभं लक्षणं स्मृतः || ८२ || अथ लक्षण यथालिङ्गं हीण लक्षणमेव वा | अति दीर्घ कृशं ह्रस्वं नाथश्रयं त्यत्र देवताः || ८३ || प्. ११७) तस्मात् सर्व प्रयत्नेन प्रोचरे लक्षणं शुभम् | श्लक्ष्णं मेव संचिन्नं सुप्रमाणं सुदर्शनः || ८४ || सर्वदोषविनिर्मुक्ताः वेदिं कुर्यात् स लक्षणः | यथालिंगं तथा चैषा स्थापनीया प्रयत्नतः || ८५ || दीर्घमायुः क्षयात् कुर्याद् वेद्यां ह्रस्वं तथा धनः | तस्माद्ध्रस्व तरं लिङ्गं नाति दीर्घञ्च कारयेत् || ८६ || मद्धया हारेण * * संयतेन जितात्मना | आचार्येण च शान्तेन सततं मन्त्रजापिना || ८७ || लिङ्गं वेदी वृषश्चैव निष्पन्नादी यदा हवेत् | गो युक्तारथमारूढमानयीत तदा शुचिः || ८८ || गन्धपुष्पैरलंकृत्य धूपं दत्वा विधानवित् | पुरःप्रदक्षिणी कृत्य नानाघोषैः प्रवेशयेत् || ८९ || नीत्वा चायतनं दिव्यं ईशानीं दिशमाश्रितः | मृदुशययासनं रूढमेकरात्रं निधापयेत् || ९० || तत्रादि व्यासनं कुर्यादाचार्यः सुसमाहितः | होमं कृत्वा विधानोक्तं जपेद् ब्रह्मादि संहिताः || ९१ || ततो मूर्ति धारानष्टौ सकलीकृत विग्रहान् | जपध्यानरतां छान्तान् अर्धरात्रे प्रवेशयेत् || ९२ || उत्तिष्ठंत्तेति विपेन्द्र कलशान्वारि पूरितान् | मन्त्र द्रव्य समायुक्तान् संपादयथ मे परान् || ९३ || प्. ११८) ततो लिंगं समुत्थाप्यास्त्र जप्तेन वारिणा | स्नापयेद् वस्त्र पूतेन शीतेनाष्टोत्तरेण वा || ९४ || धारणाभिश्च संशोध्य लिंगं वेदिं तथा वृषम् | संस्नाप्य वारुणैर्मन्त्रैर्भूषयित्वा प्रवेशयेत् || ९५ || चतुरश्रराशिलां कृत्वा त्रयंगुलाधार मेखलाः | चतुरश्रेण लिङ्गस्य समसूत्रेण सूत्रिताम् || ९६ || सुदृढां निस्तृणां शुद्धां द्वादशांकुलमुच्छ्रिताम् | सहोमा निहितां श्लिष्टां सुस्थिरां समसूत्रिताम् || ९७ || संप्रोक्ष्या यतनं मन्त्री मन्त्र पूतेन वारिणा | ब्रह्ममध्ये शिलां न्यस्य विधानोक्तं ततः कुरु || ९८ || सौवर्णां तादृशीं कृत्वा कुर्मं पृष्ठे निधापयेत् | या तव सर्व बीजानि रत्नानि च पुनः क्रमात् || ९९ || ततः शिलां प्रतिष्ठाप्य तस्या मध्ये यथा विधि | तत्र शक्तिं न्यसेद् विद्वान् अंकुरांकुरसन्निभाम् || १०० || हरितालं तु पूर्वेणाग्नेययां तु मनःशिलाम् | यान्याधामं जनं दद्यान्नैर्-ऋत्यं हेममाक्षिकम् || १०१ || विमलकं तु वारुण्यां वायव्यां परतं न्यसेत् | कासीसमुत्तरे दद्यादीशान्यां रोचनां न्यसेत् || १०२ || गैरिकावा विधातव्या ब्रह्मस्थाने विचक्षणैः | पवित्रा सर्वमङ्गल्या ज्ञेयाः पुष्ठिकराः स्मृताः || १०३ || प्. ११९) व्रीहींश्च गर्भ षष्ठिंश्चैन्द्रा दिशि नियोजयेत् | माषांश्चैव कुलुत्थांश्चाग्नेययां दिशि योजयेत् || १०४ || मुद्गांश्च चणकांश्चैव याम्यायां तु नियोजयेत् | तिलान् कृष्णातलांश्चैव नैर्-ऋत्यां दिशि योजयेत् || १०५ || गोधूमांश्च यवांश्चैव वारुण्यां दिशि योजयेत् | प्रियंगवश्च श्यामाकान् सौम्यायां दिशि योजयेत् || १०६ || ऐशान्यां सर्वधान्यानि दद्यात् पुष्टिकराणि तु | धातवः सर्वबीजानि ब्रह्मस्थाने नियोजयेत् || १०७ || भूयोपि पूर्वतो व्रीहि निष्पावं दक्षिनेन तु | पश्चिमेन यवान् दद्यात् उत्तरेण प्रियंगवः || १०८ || बीजगाढं न कुर्वीत मंगलार्थं नियोजयेत् | विपरीतानि बीजानि यदालिङ्गस्य पादयेत् || १०९ || ततो दोषा निवर्तन्ते व्याधयश्च भयानि च | ऐन्द्रां तु पादयेद् वज्रं सूर्यकान्तं तु व * तः || ११० || इन्द्रनीलं तु याम्यायां वैडूर्यान्नैर्-ऋते दिशि | शंखश्चैव तु वारुण्यां वायव्यां पुष्परागकम् || १११ || मरतकं तु कौवेर्यांमैन्यो मौक्तिकं न्यसेत् | ब्रह्मस्थाने ब्रह्ममणी वासुकेरमृतं मणिम् || ११२ || लोताक्षोयत साध्यानां विश्वेभ्यः पुलको मणिः | सौम्ये शानयोर्मध्ये चन्द्रकन्तु प्रदापयेत् || ११३ || प्. १२०) अलाभात् सर्व धातूनां हरितालं तु दापयेत् | अलाभात् सर्वबीजानां धवबीजं प्रदापयेत् || ११४ || अलाभात्सर्व रत्नानां वज्रमेकं तु दापयेत् | अलाभात् सर्व लोहानां स्वर्णमेकं तु दापयेत् || ११५ || यथास्थानेषु तैर्वतैर्विधि प्राप्नोति दुष्कलम् | किञ्चिच्च पुष्पधूपाणि यवभूते नियोजयेत् || ११६ || धूपं दत्वा पुनश्चैव पश्चाल्लिंगन्तु स्थापयेत् | मध्यावलंबनं कृत्वा तेन सूत्रेण तत्ववित् || ११७ || निश्शब्द नियतं शान्तं स्थितलिङ्गं स चालयेत् | नमः सर्वात्मकायेति लिखाधः वायसेन तु || ११८ || पीतवर्णामतो भागे चतुरश्रे पितामहम् | अतसी पुष्प संकाशं मध्ये तु पुरुषोत्तमम् || ११९ || वृत्तभागे न्यसेद्रुद्रं शुद्धकुन्देन्दु समप्रभम् | तत्रैव देवतास्सर्वा अर्चा भाग समाश्रिताः || १२० || यदाद्यमैश्वरं तेजः सर्वदेवमयं च तत् | पिण्ड भूतं च तत्वानां ततोज्ञो लिङ्गमुच्यते || १२१ || इमां भूतं विजानीयात् शुद्ध काञ्चन समप्रभम् | गणमातांबिकां पुण्या धात्री योगीश्वरी पुरा || १२२ || धर्मादि चरणं न्यस्य ततः पीठं नियोजयेत् | प्रणवेन विधानज्ञो अर्चान्यत् पूर्व चोदितम् || १२३ || प्. १२१) प्रणवं सर्वदेवत्यं विज्ञेयं परमात्यतः | सञ्चिन्त्य देवता रूपं यद्विकल्पत्ति तद्भवेत् || १२४ || ऐन्द्र वारुण कौबेर्येरास्वन्यस्यां दिशि षण्मुख | स्थापितच्च पते लिङ्गं तच्छान्तिं तत्र कारयेत् || १२५ || सा एव देवता याज्ञ्य पञ्चाङ्गकृत लक्षणाः | होमं कुर्यात् तु तत्रैव दद्याद् गो मिथुनं ततः || १२६ || ततस्तु देवदेवेशं शिवं परमकारणम् | पूर्वोक्तेन विधानेन लिङ्गेग्नौ संप्रपूजयेत् || १२७ || पूजां गृह्णानि लिङ्गस्थो वह्निस्थो वा परा हुतिम् | आचार्य मूर्तिमास्थाय शिवो ज्ञानं प्रयच्छति || १२८ || आचार्यस्यापि मन्त्रस्य शिवज्ञान शिवस्य च | नानात्वं नैव कुर्वीति विद्याविद्येश्वरादयः || १२९ || शिवज्ञान समायुक्त आचार्यो मन्त्र विग्रही | सर्वमूर्ति धरो नित्यं शिवमन्त्रं प्रपूजयेत् || १३० || अस्त्रं चैव तु पीठस्यात् लोकेशासन्मूलमाश्रितान् | गणेशान् लिङ्गमध्यस्यात् पूजयीत यथा क्रमम् || १३१ || विद्येश्वरान्तदूर्ध्वन्तु चक्रवत्परिसंस्थितान् | ऊर्ध्वाधश्शक्ति संलीनात् पूजयित्वा विधानवित् || १३२ || शक्तिस्थं ब्रह्मभिर्युक्तं शिवाङ्गैः परिपारितम् | शिवं विश्वेश्वरं देवं लिङ्गमूर्ध्वं निपूजयेत् || १३३ || लिंगं प्रक्षाल्य शास्त्रेण शिवास्त्रं यत्प्रकीर्तितम् | प्. १२२) रुद्ररुपध विघ्ना तेन प्रोत्सारितास्तुते || १३४ || पीठं प्रक्षाल्य पश्चात् तु वर्धन्यादुदकेन तु | पाशुपतेन चास्त्रेण उषारूपधराहताः || १३५ || एवं प्रोत्सारणं कृत्वा विघ्नानां विविधं बुधः | ततोर्ध्वानं प्रकुर्वीत शिवस्य परमात्मनः || १३६ || अर्चयित्वा विधानेन यथा पूजां विसर्जयेत् | अभ्यर्च्य पञ्चभिर्ब्रह्मैश्चण्डेशाय निवेदयेत् || १३७ || धुनि चण्डेश्वरायेति हुं फट् स्वाहेत्यनुक्रमात् | करेण दक्षिणे नैव निर्माल्यं सततं बुधः || १३८ || वां महास्तेन मन्त्रज्ञ स्रुजं गृह्य विचक्षणः | नश्रन्य मस्तकं लिङ्गं कृत्वा तिष्ठेत् साधकः || १३९ || न चास्य भ्रूम यद्धस्तादुपरिष्ठान् कदाचन | तर्जन्या तर्जयेद् विघ्नान् सान्निध्यं लिङ्गमुद्रया || १४० || निरोधे निष्ठुरा कुर्यात् स्नानकाले विचक्षणः | संप्रक्षाल्य करौ मन्त्री स्पृष्ट्वा लिंगं पुनः पुनः || १४१ || सक्तोथ क्षालयेद्गात्रं स्नानमूर्ध्वं समाचरेत् | इति श्रीसर्वज्ञानोत्तरे प्रतिष्ठाप्रकरणम् || गन्धे क्षीणे यथा लिङ्गे वर्तुमानं तु कारयेत् | चालयित्वा तु तत्स्थानात् पृष्ठदेशे निधापयेत् || १ || शैले निलयेश्छैलं दाखे दाखं तथा | प्. १२३) मृण्मये मृण्मयं चैव रत्ने रत्नं नियोजयेत् || २ || सुवर्णेन तु संधाय घृतेन मधुना सह | पूर्वोक्तेन विधानेन प्रयत्नेन तु स्थापयेत् || ३ || एवं तु तेन धत्तेन विधिज्ञो विधि सत्तमः | रक्षो भूत पीशाचाश्च आश्रयं निविगर्हितम् || ४ || अत्युच्चं वा प्रमाणस्थं विषमस्थां समं कुरु | निमुस्तं बोध्न तं कुर्याद् वारार्थं न व्यतिक्रमेत् || ५ || न चैव वेधनं कुर्यारदेशस्य षण्मुख | याम्यां वा पश्चिमां वापि सूत्रमेकं परित्यजेत् || ६ || अथ बाह्यात् क्रमे सूत्रमीशानं सार्वद्वारिकम् | शास्त्रोक्तं विधिमुत्सृज्य भक्तियुक्तोपि मानवः || ७ || सुस्थितं दुःस्थितं वापि शिवलिङ्गं न चालयेत् | शास्त्रोपदिष्टमार्गेण घृ * नाहुतिभिः क्रमात् || ८ || शतेन स्थापयेल्लिङ्गं सहस्रेण तु चालयेत् | दुद्धरेद्वापि पूर्व * * * सूत्रेण मन्त्रवित् || ८ || अत्राम्बु पञ्चगव्येन धारणाभिर्विशोधयेत् | दधि क्षीर घृतैः स्नाप्य ततोलिंगं विरुक्षयेत् || १० || यवगोधुमजैश्चूर्णैः कषाग्नैर्गन्धयोजितैः | त्वक् भिश्च विविधैर्मद्धैः क्षीरवृक्षसमुद्भवैः || ११ || आभिः क्षीरकुशाग्रैश्च मद्ध्य क्षत तिलेस्सह | यवैः सिद्धार्थकैःर्युक्तं पश्चादर्घ्यं प्रदापयेत् || १२ || ततो गन्धैश्च पुष्पैश्च धूपवस्त्रविभूषणैः | भक्ष्य भोज्यान्न पानादि द्यैश्चिन्तयेद्बिन्दुमीश्वरम् || १३ || प्. १२४) यद्यद् द्रव्यं निषेधं स्यात् तन्मयं तत्र चिन्तयेत् | शक्तियुक्तं परं देव मया भृतं षडानन || १४ || यो द्यो वासौ सदा देव सर्वदः सर्व कामिकः | सर्वज्ञः सर्वगश्शान्तो मूक्तो मूक्तो निरामयः || १५ || युक्तानि शक्तिमन्त्रेण सर्वद्रव्याणि षण्मुख | मेद्ध्यानि तु भंतिहतस्मात् सर्वत्र योजयेत् || १६ || शिरस्थाने तु देवस्याचार्यो होममाचरेत् | शिवस्य शिवमन्त्रेण सहस्र परिसंख्यया || १७ || ब्रह्मभिश्च शिवांगैश्च यथास्थानेष्वनुक्रमात् | तस्यार्थेन बहिः पश्चात् मूर्ति होमं समाचरेत् || १८ || विद्येश्वर गणैर्मन्त्रैर्लोकपालैस्तथैव च | यथास्थानेषु पञ्चाङ्गैः मूर्ति होम परः स्मृतः || १९ || अथवा सर्वमन्त्राणां यथा पूर्वमुदाहृतम् | शिवस्य शिवयागे तु तथाग्नौ तर्पयेत् सदा || २० || पृथक् पृथक् पदा स्कन्द व्या * * * स्य देवताः | तथा पञ्चां संयुक्ताः स्वमन्त्रविधि कल्पिताः || २१ || अथाभ्यर्च महेशानं लिङ्गेग्नौ स्थंडिलेपि वा | तदेक मन्त्रमन्त्रास्तु ध्येया सर्वांग युताः || २२ || एवमिष्ट्वा यथान्यायं ततो दद्याद् दिशा बलिम् | इष्ट्वा चण्डेश्वरं देवा गुरुं च संप्रपूजयेत् || २३ || प्. १२५) गन्ध पुष्प पवित्राद्यैर्वस्त्रालंकार वाहनैः | ग्रामखेट पुरे वापि यथा विभवविस्तरैः || २४ || वित्तशाठ्यं न कुर्वीत महापुण्य जिगीर्षया | सर्वान् कामानवाप्नोति यथोक्तेन तु कर्मणा || २५ || सर्वयज्ञतपोदान सर्वतीर्थेषु यत्फलम् | तत्फलं कोटिगुणितं स्थाप्य लिंगं लभेन्नरः || २६ || यो लिङ्गं स्थापयेदेवं विधि पूर्वं सदक्षिणः | सर्वागमोदितं पुण्यं कोटि कोटि गुणं लभेत् || २७ || पिस्तृजं मातृजं वापि यतवोद्गहते स्त्रिधाम् | कुलैकविंशमुत्तार्य ततो गछतु परां गतिम् || २८ || अज्ञात्वा विधिवच्छास्त्रं कुरुते यस्तु लोभतः | कर्तारञ्च तथात्मानं इहामुत्र विनाशयेत् || २९ || तस्मात् सर्व प्रयत्नेन विधिवत् कारयेद् बुधः | कर्ताकारयिता चैव ततो याति परां गतिम् || ३० || इति श्रीसर्वज्ञानोत्तरे जीर्णोद्धारप्रकरणम् || चालय मानेषु लिङ्गेषु विधिरेषु प्रकीर्तिता | अचलेषु समाख्याहि तत्वतः प्रतिमासु च || १ || अतत्वज्ञे चल लिंगं स्थापितं तु * दा भवेत् | स्थपत्या वा यवान्येन तस्य कालो(?) विधिः स्मृतः || २ || सौवर्णं राजतं ताम्रं कर्तुं वा शैल मृण्मयम् | प्. १२६) स पीठं निर्मितं लिंगं धधन्यदचलं भवेत् || ३ || अस्त्राम्बु पञ्चगव्येन धारणादिभिर्विशोधयेत् | स्थापयेत् सर्व बीजैस्तु प्लुतैर्बिन्दु विभूषणैः || ४ || ध्यानेन देवता पीठं यातु बीजं सरत्नकम् | पूर्वोक्तेन विधानेन प्रणवेन तु सा स्मरेत् || ५ || इन्द्रश्च पावकश्चैव यम नि-ऋ-ऋति एव च | जलवायु कुबेरेश ब्रह्मानन्दाश्च देवताः || ६ || पृथिव्यादीनि गन्धान्तं ब्रह्मवेद्यां प्रकल्पयेत् | धारिका मूर्ध्नि वेद्या तु धर्मादि चरणान्न्यसेत् || ७ || तानि चैव निबंधानि गुणैरन्योन्य वर्तिभिः | चतस्त्रो गात्रकां कृत्वा रागाद्य वरणादिषु || ८ || अथोर्ध्व चन्दने भूयो माया विद्ये प्रकल्पयेत् | वा त्वा लिङ्गं तु तन्मध्ये शिवान्तं वाथ चिन्तयेत् || ९ || विशुद्धि रश्मि निर्भासं सूर्यकोटि समप्रभम् | आधारं सर्वदेवानां भक्तिमुक्ति फलप्रदम् || १० || तस्य मूर्ध्नि सितं पद्मं तल्लिनं चारु कार्णिकम् || ११ || चारुकेसरपर्यन्तं अष्टपत्रं मनोरमम् | लिङ्गमेवं सदा कल्प्य ततः संस्थापयेच्छिवम् || १२ || पूर्वोक्तेन विधानेन पूजयेच्च यथा क्रमम् | स्वाहा स्वधा वषट्कारैः वषट् कारेण चैव हि || १३ || प्. १२७) अभ्यर्च्य संप्रयुंजीत नेत्र वक्त्राणि चैव हि | अभ्यर्च्य संप्रयुंजीत धूपं भक्ष्यादिभिः क्रमात् || १४ || अग्निस्थस्यावि देवस्य गन्धपुष्पपवित्रकैः | वस्त्रेषु चार्घ्य पात्रेषु नमस्कारोपि धीयते || १५ || सर्वलिंगे स्वयं स्कन्द विधिरुक्तः समासतः | प्रयत्नेन तु कर्तव्यः प्रतिमासु निबोधमे || १६ || प्रतिमां लक्षणोपेतां विचित्र लेप्यां तथेतराम् | यादृशं देवतारूपं तादृग्रूपं तु कारयेत् || १७ || अस्त्राम्बु पञ्चगव्याद्यैः स्नानं पूर्ववदाचरेत् | तथा च भूत संशुद्धिं धारणाभिः समाचरेत् || १८ || सौम्येन देवता स्थाप्य प्रथमेन षडानन | ततोङ्गानि नियुंजीत नेत्र वक्त्राणि चैव हि || १९ || संचिन्त्य देवता रूपं शुद्धाव * व लक्षणम् | प्रसन्न वदनं सौम्यं सर्वालंकार भूषितम् || २० || हृदा तु गन्धपुष्पाणि वस्त्राण्याभरणानि च | धूपोपहार द्रव्याणि दीपानि स्वकीयेन नियोजयेत् || २१ || होमे रत्नेषु रप्येषु ताम्रशैलमयेषु च | दाखेषु च सर्वेषु सदा स्नानं विधीयते || २२ || चित्र लेप्येषु वैद्यानां तस्यानन्तेषु कारयेत् | पाद्यमाचमनं चार्घ्यं सर्वज्ञानेन संस्मरेत् || २३ || प्. २२८) केवलं मन्त्र विन्यास मुत्न पुष्पैर्निरंबुभिः | कृत्वा धूपं प्रयुंजीत नैवेद्यं चोप कल्पयेत् || २४ || गन्धपुष्पैस्तथा धूपैस्तद्गृहं परिवासयेत् | वस्त्र शोभां पुना कृत्वा चित्रवर्णैर्वराम्बरैः || २५ || तोरणैश्च ध्वजैश्छत्रैः पताकैश्चारु दक्षणैः | रचनाभिरनेकाभि रचित्वा देवता न्यसेत् || २६ || ततो होमं प्रकूर्वित पुरस्तात् संयतेन्द्रियः | स्थापिता देवता या तु तस्या मन्त्रैस्तु पूर्ववत् || २७ || स्थापने सर्वदेवानां पुरस्ताद्धोममाचरेत् | सततं अग्नि कार्येषु अगारं पृथग् भवेत् || २८ || प्रतिदेवं प्रतिष्ठायां * * * * * * * * | इति सर्वज्ञानोत्तरे प्रतिमादिप्रकरणं || पुनरेवं प्रवक्ष्यामि जपस्य विधिनिर्णयम् | यथा च विन्दते कालमाप्यायन विसर्जनम् || १ || जपाद् दशांशतो होमे जपान्ते दशलाक्षिकः | कोटिः कल्पेदिता वत्स उत्तमा सिद्धि साधने || २ || मध्यस्य तु पञ्चास्यत् कन्यसे पञ्चविंशतिः | सर्वाणि क्षुद्र कर्माणि तस्यार्थेन तु कारयेत् || ३ || दीर्घकंटकिनो वृक्षा निंबतिन्दु विभीतकाः | श्रशक्र श्लेष्मातकाश्चैव विज्ञेया क्रूरकर्मणि || ४ || प्. १२९) द्विविधाग्रा स्फुटिता वक्रा वक्रच्छेदा समिद्धयः | विषा प्रकटिकैर्लाक्षाः प्रयोज्याः क्रूरकर्मणि || ५ || उक्ताभ्यस्त्वन्यथा स्कन्द क्षीरवृक्ष समुद्भवाः | शान्ति कर्मणि विज्ञेयास्त्यक्त्वा वा ब्रह्मवृक्षजा || ६ || लता पल्लवमध्यस्था ग्रन्थि हीनाः समत्वचः | नीरुजा निर्व्रणाश्शान्त क्रूरेष्वेता विलोमिकाः || ७ || विषमाश्रास्सदा कुंड विज्ञेयाः क्रूर कर्मसु | समाश्राः शान्तिके कर्षै पौष्टिके च षडानन || ८ || सा भाग्यमर्थ संसिद्धिं नित्य होमात् प्रवर्तते | जपेन पाप संशुद्धिं ज्ञानध्यानात् प्रमुच्यते || ९ || विशिष्टजन संपादो नरेन्द्रजन वन्दनम् | आत्मोत्कर्षबलं चैव यदि स्यात् सिध्यते ध्रुवम् || १० || दिव्यान्तरिक्ष भौमानि सिद्धि लिंगानि पश्यति | अथवाभ्यन्तरे वाचं श्रुत्वा भूष्याणि संहरेत् || ११ || पुष्पलोहादि लोहानि रसं चोपरसानि च | उपवीतां जनादीनि अरिताल मनःशिलाम् || १२ || अरिवर्गाहतं लोहं घृतमध्वानि वेधयेत् | प्रहिरसे पञ्चगव्येतीतः कुर्याद्वरायुधम् || १३ || रसं चोपरसं चैव पीत सूर्म्येण शोधयेत् | होमान्तरादि शुल्पानां शोधनं पूर्वचोदितम् || १४ || प्. १३०) यद्यस्य शोधनं द्रव्य मूलतन्त्रैः प्रकीर्तितम् | रसतन्त्रे तथा भूयस्तत्तन्नैव विशोधयेत् || १५ || अक्ष सूत्र विधानेन द्रव्यालभन मालभेत् | कथितं तु पुरावत्स स्त्रिविध द्रव्य साधनम् || १६ || उत्तमं मध्यमं चैव कन्यसं च यथा क्रमम् | सात्विकं राजसं चैव तामसं चेति तत्स्मृतम् || १७ || ज्वलन्तं सात्विकं विद्यात् सधूमं राजसं स्मृतम् | सोष्णं वै तामसं विद्यात् * दद्रव्य विचक्षणः || ८ || उत्तिष्ठं ज्वलमानेन सधूमेन सुरांगना | सोष्माणो दृश्यतां याति इति तो त्रिविधा गतिः || १९ || बीजमन्त्रं तदा ध्यानमात्मानञ्च विधानवित् | बिन्दुमध्यगतं कुर्याच्छक्त्याधिष्ठित विग्रहम् || २० || रसो रसायनं रोगो गणिकां जन पादुके | एव मुक्तनिबिध्यन्ते हरिताल मनःशिले || २१ || बिन्दु नाद मयो यो योत्रगीयदा भवति षण्मुख | तदाशु सर्व कार्याणि संसाययति नान्यथा || २२ || सितशान्तितरोज्ञेयः पीतः पौष्टिक कर्मणि | शिख्यवन्मारणे प्रोक्ता व्यायव्योच्चाटने स्मृतः || २३ || ऐंद्रकोपक संकाशो वशीकरण कर्मणि | विद्वेषणे प्रयुंजीत धूमवर्णो निलात्मकः || २४ || प्. १३१) इन्द्रायुध समाकारं तथैवा कर्षणे मनम् | सर्वा वर्णात्मको बिन्दुः सर्व कर्म करः स्मृतः || २५ || भ्रुवोर्मध्यगतं चैव षट्च्छदनेन यो | शुद्धस्फटिक संकाशं पश्यते करणेन तु || २६ || निश्वासो श्वास योगेन देहिनां देह संस्थितः | उदितो भास्करो भूत्वा सोमश्चै * कलात्मकः || २७ || स एव कालो नाद्यन्तो यस्मिन् सर्वं प्रतिष्ठितम् | विशते च पुनस्तस्मिन् तस्माच्चैव प्रवर्तते || २८ || दक्षिणे प्राणवृत्तिस्तु * त्युमाख्याति देहिनाम् | उत्तरेण तथैवेह * य च पुनरीश्वरम् || २९ || त्रैरब्दिक महो * * * भ्यां ज्ञेया द्विराब्दिकम् | अभिरे * तथा * * हे * नाहाय पाडिकम् || ३० || अ * र्ध्व * * * * मौ यदा चरति भास्करः | तदा होरात्रिकं मृत्युं पुनराख्याहि देहिनाम् || ३१ || मृत्युमेवं विधं दृष्ट्वा यदि जीवितु मिच्छति | तदाऽसौ सौम्य नाथस्थं तमेव परिचिन्तयेत् || ३२ || शुद्धकुन्देन्दु वर्णाभां शङ्खगोक्षीर सप्रभम् | अमृतीरूपमात्मानं तन्मध्ये तन्मयं गुह || ३३ || अथ चावर्ण पूर्वं वाऽमृता परिकीर्तिताः | तामेव धारयेन्नित्यं न मृत्यु वशगो भवेत् || ३४ || प्. १३२) दूर्वां त्रिमधुरक्तां वा अमृताद्व्यंगुला तथा | जुहुधा त्रिमधुरक्तां वा प्लुतेन विद्यते || ३५ || अथ निर्वेद मायानि जीविते वस्थिरे चले | कालात्मकं तदा देवं मृत्युरूपं विचिन्तयेत् || ३६ || वह्निना मूर्ति संभिन्नं सुषुम्ना मध्य संस्थितम् | ज्वलज्ज्वलन संकाशं दीप्ततेज शिखार्चितम् || ३७ || उत्कृष्य मूर्ध्नि शब्देन प्राणास्तत्समतां नयेत् | काला जु * समाधाय मनसा निश्चलेन्द्रियः || ३८ || निष्पद्य स्पन्दनौ सम्यक् सर्वद्वाराणि चैव हि | सन्ताड्या वायुवेगेन क्षुरिकास्त्रेण मूर्धनि || ३९ || अ * श भावनायुक्तो बिन्दुनाद मयं स्मरेत् | एवं विमुच्यते प्राणैः तस्मिन्नेव प्रकी * ते || ४० || बिन्दुनादोद्भवं सर्वं स्थूल सूक्ष्म * * * * | तस्माद्बिन्दुमुपासीत शक्तिस्नरस * * * || ४१ || यथा तु चित्त सम्पन्नश्चरुभस्थ तं भवेत् | वित्तहीनं चरेद् भिक्षां कणपत्वां न कीमथ || ४२ || इति सर्वज्ञानोत्तरे सिद्धिसाधकादिप्रकरणम् || अतः परं प्रवक्ष्यामि भिक्षा चर्या विधिक्रमम् | भोजनं शयनं शौचमायामञ्च जपाश्रयम् || १ || हृदिना ग्रहणं कुर्यात् पात्रस्य सततं बुधः | प्. १३३) क्षालयित्वास्त्र बीजेन कवचेन तु वेष्टयेत् || २ || ईशानं चिन्तयन् मध्ये गायत्रास्त्रं च मन्त्रवित् | अस्त्रं तु जपतो नित्यं भिक्षामावयेच्छुचिः || ३ || अस्त्र दण्डे तु विन्यस्य छत्रे गायत्रिमेव तु | ततो भिक्षामटेन्नित्यं पतिता शस्तवर्जिताम् || ४ || आगत्य तत्पुनः पात्रं शुद्धि स्थाने निधापयेत् | संगृह्य मूर्तिकां भूयो जंघा शौचं तु कारयेत् || ५ || आचम्योद्धुल्य पूतात्मा पुनरभ्युक्षयेच्चरुम् | शोधयित्वा विधानेन देवाग्न्यात्मनि कल्पयेत् || ६ || अथ प्राणाहुतिं दत्वा शिवहोमं पुनः क्रमात् | स्निग्धमल्पं च भुञ्जीत भविष्य शीतलं निशि || ५ || आचम्य बहिः निष्क्रान्तो भक्षयेदं तथा वनः | उद्धूल्य पुनराचम्य * यीत विधिना ततः || ८ || त्रिहस्तोत्खात भूशयये शुचि शुद्धे महीतले | सर्वलक्षणसंपूर्णो पुनरा कृत्वा जपालयम् || ९ || वितानध्वज संयुक्तं पताकै रूप शोभितम् | रुद्रावतार क्रिडाद्यैश्चित्र कर्म विभूषितम् || १० || नवैकादश हस्तं वा सप्तहस्तमथापि वा | प्रागुत कल्पकनं कुर्याच्छयनं च सदा बुधः || ११ || पञ्चरंगित सूत्रेण वर्मालब्धो * मन्त्रवित् | द्वार देशादारभ्य वेष्टयेत् त्रिगुणेन तु || १२ || प्. १३४) रत्निमात्रां स्थितः कीला नष्टौ दिग्देवतान्वितान् | अंगान् स्वस्थान् विन्यस्थान् पूजयित्वा यथा क्रमात् || १३ || चतुरः कलशान् पूर्णान् विदिशासु निवेशयेत् | शिवस्थाने यजेद् रुद्रं प * ध्यानेन वा गुह || १४ || दीप्ततेजोनिल प्रख्यं दंष्ट्रोत्कटभयानकम् | शस्त्रोद्यतकरं घोरं सर्वविघ्न विनाशनम् || १५ || ततः शक्तिं न्यसेद् भूमौ विद्यां तत्रोपरिन्यसेत् | स्वरचक्रं ततो दद्याद् वर्णानि च यथाक्रमम् || १६ || पूर्ववन्मन्त्र देहस्तु प्राकारास्त्रैः सुगोपितम् | शयीतमनसा योगी शिवं पश्येत् समं ततः || १७ || तमेव जपतो नित्यं ध्यानमाश्रित्य मन्त्रवित् | अर्धरात्रे तु सवने तथैव समुपासयेत् || १८ || शयनं च तथा भूय प्रबुधस्य तथा जपः | गतिं देवस्य विज्ञाय जपध्यानादिकं क्रमात् || १९ || प्रहरार्धे ततोत्थाय ध्यात्वा देवं पिनाकिनम् | मनसा वर्तयेत् तं तु प्रणवं बिन्दु वर्जितम् || २० || निर्गत्य शयनं स्थानात् आवश्यकरणं कुरु | बहिरंगो पवीती च दृष्टिदूत पदक्रमी || १२ || दिवैवोद मुखस्तिष्थे छात्रो वै दक्षिणमुखः | अर्धरात्रे तु नैर्-ऋत्ये द्वे सन्ध्ये तु यथा दिवा || २२ || प्. १३५) काष्ठितृणोपलं लोष्ठं वांत ध्यानं षडानन | ततो मलं प्रकुर्वीत वस्त्रतश्चावकुंठितः || २३ || न नदीषु कुर्यान्न भस्मनि न गोमये | न गुल्मे शाद्वले प्रश्मेशानोप वनेषु च || २४ || काष्ठेन दावा रामृश्य पायुं लोष्ठेन वा गुह | ग्रहीतशिग्नो भूत्वा तु मृत्तिका हरणं कुरु || २५ || बालुकोषर संवर्ज्य वृक्ष मूल जलाये * | वल्मीक मृत्तिकां चैव तथा वै ग्रामयानिकाम् || २६ || विशुद्धं मृत्तिकां गृह्य जयतीरे निधापयेत् | ततः शौचं प्रकुर्वीत मृत्तिकां गृह्य वारिणाम् || २७ || लिङ्गे त्रीणि गुदे सप्त दशैक करे स्मृतः | उभयोः सप्ततातप्य मृत्तिका शुद्धिमिच्छता || २८ || एकैकमन्तरे त्रीणि एव शौचं कृतं भवेत् | दन्त काष्ठं ततो मन्त्री भक्षयेदभिमन्त्रितम् || २९ || आचम्य विधिनोत्थाय पुनरुद्धुलयेत् क्रमात् | पश्चाद्योजं ध्यानं यावदभ्युदितो रधिः || ३० || ततः स्नानं प्रकुर्वीत सकृत् विततवारिणि | अथोर्ध्वं भस्मना स्नानं सर्वकाम समृद्धये || ३१ || लेप गन्ध विनाशाय वारुणं परिकीर्तितम् | इति श्रीसर्वज्ञानोत्तरे भिक्षाचर्यादिप्रकरणम् || प्. १३६) अथातः संप्रवक्ष्यामि वारुणं स्नानमुत्तमम् | सावनं परमं स्कन्द लेप गन्ध विनाशनम् || १ || पाणिपादौ पुरःक्षाल्य मृत्तिकां गृह्य वारुणी | उपस्पृश्य शुचिर्भूत्वा शिवं ध्यायेत् स निर्मलम् || २ || अस्त्रेण प्रोक्षणं कुर्यात् मृत्तिका हरणं कुरु | मनयितास्त्र बीजेन हृदयेन तु संहरेत् || ३ || जलतीरे निधायै तत् क्षालयित्वा जलाश्रयम् | अस्त्रेण क्षालयेत् पूर्वं स्थापयेद्धृदयेन तु || ४ || ते नैवाभ्युक्षणं भूयस्ततो भागत्रयं पुनः | पूर्वदक्षिणे नैव तथा चैवोत्तरेण तु || ५ || अस्त्र जप्तं भवेत् पूर्वं ब्रह्म जप्तं तु दक्षिणं | उत्तरं शिव जप्तं तु प्रकुर्वीत पृथक् पृथक् || ६ || अस्त्र जप्तं क्षिपेद् दिक्षु दशस्वपि यथाक्रमम् | नाराचास्त्र प्रयोगेण तोय मध्ये पुनः क्षिपेत् || ७ || आग्नेयी धारणा ध्यात्वा पुनरमृतं विचिन्तयेत् | शिवजप्तेन भागेन ततोभ्यावर्तयेज्जले || ८ || शिवतीर्थं भवेदेवं विधिनानेन षण्मुख | अत्र ग्रन्थ पातः || प्. १३७) सर्वज्ञानोत्तरपादम् जंघे पादे तथा हस्ते प्रक्षाल्य तु पुनः पुनः | कंथयित्वा ततः स्नायात् शिवतीर्थस्य मध्यतः || १ || चक्रवत्युपचारेण सुगन्धामलकादिभिः | ब्रह्माङ्गैः शिव गायत्र्या महास्त्रेण शिवेन च || २ || अभिषेकं प्रकुर्वीत सन्ध्योपासनमेव च | संहृत्यसर्वमन्त्राणि निनादेन विधानवित् || ३ || आकृष्योदितमार्गेण स्थापयीत हृदिस्वके | तत आयतनं गच्छेत् पुष्पहस्तो विचक्षणः || ४ || यदा तु रोगादिना वारुण स्नान शक्तस्तदा प्रक्षाल्य | पाणि पादौ तु भस्मस्नानं समाचरेत् || ५ || इति श्रीसर्वज्ञानोत्तरे वारुणस्नानप्रकरणम् || भस्मस्नानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् | सर्वज्ञा * त्तोमं पुण्यं सर्वपापहरं परम् || ६ || ख संस्थं गोमयं गृह्य स्थाने वा पतितं शुभे | अधः परिसन्त्यज्य पञ्चगव्येन मर्दयेत् || ७ || विविक्ते निर्जने रम्ये सर्वोपद्रव वर्जिते | प्रक्षवल्मीक निर्मुक्ते प्रवाते परिशोषयेत् || ८ || शुष्कं संहरेत् प्राज्ञः अस्त्रबीजेन प्रोक्षयेत् | शिवाग्निं जनयित्वा तु निर्दहेत् तेन वह्निना || ९ || अथ संक्षेपतः स्कन्द आरण्य गोमयं पुनः | पञ्चगव्येन संयुक्तं विधानेन तु निर्दहेत् || १० || प्. १३८) तस्याप्य संभवेभस्म लेप गन्ध विवर्जितम् | शुचि स्थानाश्रितं शुद्धं तदप्येवं पुनर्दहेत् || ११ || संहृत्य हृदि मन्त्रेण नवे भाण्डे निधापयेत् | अस्त्रं तु जपतो मन्त्री सर्वविघ्नविनाशनम् || १२ || अस्त्राभिमन्त्रितं कृत्वा मलस्नानं समाचरेत् | विधिस्नानं ततः पश्चात् मूर्ध्न आरभ्य मन्त्रवित् || ३ || ब्रह्मभिस्त्वनुपूर्वेण बहिरंगैरनुक्रमात् | अभिषेकं शिवे नैव पश्चात् कूर्वित षण्मुख || १४ || उद्धूल्य विधिवत् प्राज्ञः कौपीना परिवर्तये * | प्रक्षाल्य तु मृदा पादौ करौ च पुनराचमेत् || १५ || त्रितत्व परिजप्तं तु त्रिः पिबेन् मन्त्रविज्जलम् | परिमृज्यान्मुखं शक्त्या त्रिवारं तु यथाक्रमम् || १६ || प्रणवेन ततो विद्वान् शिखानेत्रादिकं स्पृशेत् | आचम्य विधिना भूयः पितृदेवाश्च तर्पयेत् || १७ || सर्व मन्त्रैः सदा संध्यां वन्दयित्वा विचक्षणः | ततो ध्यानं प्रकुर्वित जपञ्च त्रिविधं पुनः || १८ || जपेत् षट्क त्रयं पुण्यं नित्यं मनोवाक्काय कर्मभिः | काल्ये च मध्यमे चैव प्रासादादि क्रमेण तु || १९ || सर्वेषु वा शिवं ध्यात्वा नित्यं जपध्यानेषु वा स्मरेत् | प्राणवृत्ति निरोधेन नैव पापमवाप्नुयात् || २० || प्. १३९) संहितां वा स्मरेन् नित्यं त्रिषु कालेषु मन्तवित् | शतमष्टोत्तरमक्षैस्सर्व पाप विशुद्धये || २१ || सर्व विघ्न विनाशार्थं पाशजालस्य चैव हि | अस्त्राणि घोरूपाणि सततं परिवर्तयेत् || २२ || एवं मन्त्रमयो भूत्वा सर्व मन्त्रांस्तु योजयेत् | संसाययेद्रुद्रान्मन्त्रान्योगि योगात्मकान् गुणान् || २३ || * * स्नायो यदा मन्त्री मन्त्रसाधनमारभेत् | * * हा यो योगी सिद्धिं कमण्डलु धरस्सदा || २४ || श्रीसर्वज्ञानोत्तरे भस्मस्नानप्रकरणम् || अतः परं प्रवक्ष्यामि कमण्डलुधरस्सदा || २५ || असहायस्य योगीन्द्र सखा ये व कमण्डलुम् | प्रज्वल्यमग्निं घोरेणास्त्रेण च विधानवित् || २६ || प्रातरुत्थाय तं नित्यं देहे देव कमण्डलुम् | ताम्रम्येन संशोध्य तथास्त्रोदक भस्मना || २७ || रौप्य हेमौ तु संशोद्ध्य लेप गन्ध मलान्वितौ | ततस्त्वा पूरयेत् पश्चाद् वस्त्रपूतेन वारिणा || २८ || पाद्यमाचमनं शौचमाचरेत् सततं क्रमात् | न किञ्चित् संस्पृशेत् तावद् यावच्छुष्कौ करावुभौ || २९ || सुशुष्क पाणि पूतात्मा व्यतिकार्यं यथोदितम् | नान्येन सेवितं वस्त्रं न शयया न कमण्डलुम् || ३० || न भस्मना कलावत्यं संसेवेत कदाचन | आत्म शययात्म वस्त्रं च जायापत्यं कमण्डलुम् || ३१ || प्. १४०) आत्मनः शुचिरेतानि परेषामशुचिर्भवेत् | श्रीसर्वज्ञानोत्तरे कमण्डलुप्रकरणं || इति सर्वज्ञानोत्तरपादः समाप्तः || ########### END OF FILE #######