#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00227 Uniform title: sarvajñānottaravṛttiḥ Author : aghoraśivācārya Manuscript : IFP/EFEO transcript T0985 Description: Notes: Copied from IFP/EFEO transcript T00985 by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: revision 0 february 13, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### श्रीः योगप्रकरणम् सर्वज्ञानोत्तरवृत्तिः अतः परं प्रवक्ष्यामि योगं योगस्यारब्दकार्याक्षिप्तमलादिक्षपणोपायत्वात्पदार्थसंबन्धः पतिपदार्थतया पाटलिकः संबन्धः | * द्विहेतुत्वात् शुचिशब्देन सूचितः प्रकरणसंबन्धो योगकाण्डतया सूत्रसंबन्धः समुच्चयपदेनैव वाक्यात्मकोऽपि योगि योगात्मकान् गुणानि * भिर्वाक्यैः | अतश्चर्याकाण्डादनन्तरं योगं संक्षेपतः प्रकर्षाद्वक्ष्यामि | कस्यायं योगसंस्कार अत-आह- एकाकिनस्तु शान्तस्य यतचित्तस्य विरागिणः निस्पृहस्य | उक्ताहारविहारस्य उक्तचेष्टस्य कर्मसु | उक्तस्वप्नोवबोधस्य तत्त्वतः शृणु षण्मुख | पुरुषस्यैवायं संस्कारको न * * तं जलानामिवचित्तस्येत्यर्थः | शिवयोगस्य सर्वज्ञत्वादि प्रकाशकात् | कीदृशस्य एकाकिनः सर्वसङ्गपरित्यागादपरिग्रहस्य संन्यासाश्रमः शान्तस्य हिंसादिरहितस्य यमनियमयुक्तस्येत्यर्थः | चित्तसंयमो हि यमो नियमश्चेंद्रियसंयमः | यदाह पतञ्जलिः - अहिसां सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः यमाः | शौचसंतोषस्वाध्यायेश्वर प्रणिधानानि नियमा इति || अत एव यतचित्तस्य प्राणायामप्रत्याहाराभ्यां वशीकृत * * * पलक्षितसर्वज्ञः यस्य शक्तिपादवशात् विरागिणः प्. २) संसारवैराग्ययुक्तस्य निस्पृहस्य वैहिका भोगविमुखस्य युक्ताहारविहारस्य यदु * मन्मृगेन्द्रेमिलं जीर्णाशनस्वस्थेत्यादि | किं च | सर्वकर्मसु युक्तचेष्टस्य उचितकरण इति यावत् | उक्तस्वप्नावबोधश्चोक्तकालानति * मयस्य? तस्य तं योग ध्येय ध्यातृ संबन्धात्मकस्त्वतः शृणु | न तु पतञ्जलादेरिव समाधिरूपं तस्य योगाङ्गत्वेन श्रुते यदुक्तं श्रीमन्मतङ्गे - प्राणायामस्तथा ध्यानं प्रत्याहारोऽय धारणम् | नर्कश्चैव समाधिश्च षडङ्गो योग उच्यते इति || अत एव युजिन् योग एव इत्यस्माद्धातोर्योगशब्दोन तु युज समाधाविति | एतदेव सूचयन् ज्ञानिन एव योगाधिकार इत्याह योध्यो यच्चत ध्यानं तद्वै ध्यानप्रयोजनम् | सर्वाण्येतानि यो सयोगं योक्तुमर्हति | च शब्दा ध्येयं चेत्यर्थः | यदाह - आत्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः | यत्परं परमैश्वर्यमेतध्यान प्रयोज * ननं मनः | यथावध्येय वस्तुस्वरूपालोचनं चिन्तेत्यर्थः | ततो ध्यानमुच्येते | यच्छ्रूयते तद्रूपचिन्तनं ध्यानमिति ननु मनश्चित्तमिति व्या * यं तस्य योगाङ्गत्वेनाप्रसिद्धेः | उपलक्षणं चैतत् अन्यान्यपि यागाङ्गान्यं गिनं च योगं ज्ञात्वा योगाभ्यासः कार्यः | प्. ३) किं च | मानामानौ समौ कृत्वा सुखदुःखे समे तथा | हर्षं भयं विषादं च संत्यज्य योगमभ्यसेत् || यदाहुः - न हृष्यत्युपकारेण नापकारेण कुप्यति | यः समः सर्वभूतेषु जीवन्मु * * * म इष्यत इति || अथ योगस्थानम्- शून्यागारे मठे रम्ये देवतायतने शुभे | नदीतीरे विविक्ते वा गृहे घोरवनेऽपि वा || प्रच्छन्ने च विविक्ते च निः * तनवर्जिते | योगदोषविनिर्मुक्ते निर्विकल्पे निरातपे || योगदोषा पिपीलिकादयः | निर्विकल्प इति परकीयत्वादि विकल्परहिते || योगाभ्यासोपक्रमः | स्नात्वा शुचिरूपस्पृश्य प्रणम्य शिरसा शिवम् | योगाचार्यं नमस्कृत्य योगं युञ्जीत मानवः || योगासनान्याह - पद्मस्वस्तिकं वापि उपस्थायाञ्जलिं तथा | पीठार्थमर्धचन्द्रं वा सर्वतोभद्रमेव च || आसनं रुचितं बध्वा पद्माद्यासनलक्षणम् | संहितान्तरो देवध * || अथकरणमाह - प्. ४) ऊर्ध्वकायः समशिराः | सर्वसंगान्परित्यज्य आत्मसंस्थमनोगुहः | कुर्यादित्यध्याहारः? | ततश्च सर्वसंगान्परित्यज्य आत्मसंस्थं मनः कुर्यादिति विषयेभ्यः समस्तेन्द्रियाधिष्ठातुर्मनसः प्रत्याहरणं कुर्यादिति यावत् | अनेन प्रत्याहाराख्यं योगाङ्गं संक्षेपात् ज्ञेयम् | किं च तदानीं न दंतैः संस्पर्शेद्दन्तान् सृक्वण्यौ च न जिह्वया, किंचित्कुञ्चितनेत्रस्तु शिवं सम्यक् नदोच्चरेत् | प्रत्याहारकाले विबीजात्मकमूल * * मनसा स्मरेदित्यर्थः | अथतदुच्चारप्रयोजनम् | सोद्गासयति तत्वानि तन्मात्राद्यानि देहिनाम् | अयमभिप्रायः | छांदसो | विसर्जनीयलोपात् * ति शिवमन्त्रो श्वक्ष्यमाणवत् | सगर्भप्राणायामपूर्वं शिवाधिष्ठिततत्वाद्यनेनोच्चार्यमाणः | समाधिलाभक्रमेण तत्त्वानि तावत्प्रकाशयति | मन * त्रानुसंधानेन शिवाधिष्ठिताभिमतत्वयोजना || तत्तत्साक्षात्कारो भवतीति यावत् तन्मात्रा माद्यानि यानि पृथिव्यादीनि भूतानि तन्मा वाद्या एषामिन्द्रियादीनां तानि सर्वाणितत्त्वानि श्रीमन्मतङ्गाद्युक्तवत्प्रकाशयतीति वेदितव्यम् | तानि च तत्त्वानि | तस्यैव च शास्त्रस्यानुसं(धाना)त् बन्धकत्वान्निवर्तत इत्याह- पुनर्विनाशकश्चैव असंयुक्तः षडाननः | तेषामिति शेषः | प्. ५) तदानीं चाङ्गानामपि तदुद्भूतत्वात् पृथगुच्चारणयोगीत्याह | न पृथक् हृदयं तस्य शिरो न शिखा गुह | चर्मास्त्र नेत्रसहितं तस्मादेव प्रवर्तते | अथ प्राणायामस्यापि सगर्भतां प्रय * नु कुंभक प्राणायामपूर्वकं ध्यानं कार्यमित्याह | प्राणापानौ समौ कृत्वा सुषुम्नान्तरचारिणौ | तयोर्वृत्तिं निरुध्यात्मा शिवं ध्यायेद्वि * गः || प्राणायामस्य सगर्भतोक्तां श्रीमन्मृगेन्द्रेऽपि | सोऽपि ध्यानजपोपेतः सगर्भौ न्यस्तदुज्झित इति || अथ ध्यानस्यैव प्रकर्षावस्थात्मकं समा * * * ह अविनाभावसंयुक्तो ज्योतीरूपं सुनिर्मलम् | सुसूक्ष्मव्यापकं नित्यं निर्विकल्पं सदा बुधः || निर्विकल्पमिति ध्येयाकारस्फुटीभावेन ध्यात्रादि * * गेरहितमित्यर्थः | यदाह पतञ्जलिः | प्रत्ययै तानता ध्यानं तदेव स्वरूपशून्यमेव समाधिरिति | इत्थं सगर्भनिगर्भभेदेन प्राणायामानां द्वैविध्ये * न्यथा त्रैविध्यमाह | उत्तमामध्यमामन्दाः सगर्भास्त्रिविधाः स्मृताः | सगर्भा इत्युपलक्षणम् | अगर्भाणामप्युत्तमादि भेदं चानन्तरमेव वक्ष्यति | * * रांतरेणापि त्रैविध्यमाह | प्राणायामांश्च तान् कुर्यात् पूरककुम्भकरेचकान् | सगर्भाणां प्राणायामादीनां समाधिलाभक्रमेण तत्त्वजयस्योक्त * * * प्. ६) अगर्भाणां फलमाह - प्राणायामैर्बहिर्दोषान् धारणाभिस्तु किल्विषम् | प्रत्याहारेण संसृज्य ध्यानेनानश्वरान्गुणान् || यावच्छरीरभावि * * णि मादीन् गुणानित्यर्थः | अनश्वरः अशून्यः शरीरः स्थैर्यमपि जायत इति सिद्धम् | अथ पूरकादिलक्षणमाह - उदरं पूरयित्वा तु वायुना या * * प्सितम् | प्राणायामो भवेदेव पूरको देहपूरकः विधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः | संपूर्णकुम्भवत्तिष्ठेत्प्राणायामः स कुम्भकः | तदो * रेचयेद्वायुं मृदुनिश्वाससंयुतम् | रेचकस्त्वेषविख्यातः प्राणसंशयकारकः | पूरकरेचकौवामदक्षिणनाडीभ्यां कार्यावित्युक्तं प्राणसंशयकारक इत्युत्क्रान्तिदशायां ग्रन्थिछेदपूर्वं रेचकस्य प्राणवियोगहेतुत्वादुच्यते | तेषामेव कालभेदादुत्तमादि भेदमाह | प्रसार्यं चाग्रहस्तं तु जानु कृत्वा प्रदक्षिणम् || छोटिकां तु ततो दद्यान्मात्रैषा त्वभिधीयते | मात्राद्वादशविज्ञेयः प्रमाणं तालसंज्ञकम् | तालद्वादशकं ज्ञेयं प्राणायामस्तु कस्यसः | मध्यमस्तु चतुर्विंशत् ज्येष्ठो द्विगुणो भवेत् || तेषां चानुष्ठानविधिः | प्. ७) एकैकान्वर्धयेन्मात्रां प्रत्यहं योगवित्तमः | सत्वरेण विलम्बेन क्रमेणैव विवर्धयेत् || इदानीं हृदयादिस्थानेषु ध्येयस्वरूपविषये निबद्धस्य मनसो धारणादिकालमाह | प्राणायामोत्तमो यत्तद्विगुणा धारणामता | धारणाद्विगुणो योगो योगोऽपि द्विगुणी कृतः | योगसिद्धिरिति ज्ञेया शिवेन परमात्मना || अत्र योगशब्देन ध्येयस्वरूपचिन्तनमपि | ध्यात्रा सह ध्येयस्थ संबन्ध इति कृत्वाध्यानमुच्यते | योगसिद्धिशब्देन तु समाधि | धारणाध्यानसमाधीनां योगाङ्गानां क्रमेण प्राप्ते श्रवणात् | ननु श्रीमन्मृगेन्द्रे धारणादीनां कालाधिक्यं श्रूयते उक्तं हि तत्र - अयमर्कगुणः कालः कृतचित्तव्यवस्थितिः | प्राप्नोति धारणाशब्दो धारणा सिद्धिदानतः || धारणा द्वादश ध्यान दिव्यालोकप्रवृत्तितः | समाधिमणिमादीनां द्वादशैतानि कारणमिति || सत्यं क्रियाभेदस्य तन्त्रभेदहेतुत्वादविरोधः अङ्गी तु योगो ध्येयवस्तुसाक्षात्कारात्मको विशेषसंबन्ध इत्याह | तदानु पश्यते सूक्ष्मं गन्धतन्मात्रमात्मनि | रसं तेजश्च स्पर्शं च ऽसब्दतन्मात्रमेव च | पश्यते क्रमयोगेन वर्णभावैः पृथग्विधैः || प्. ८) अहंकारं मनोबुद्धिगुणमव्यक्तपूरुषम् | अभिव्यक्तानि जानीयात् स्वधर्मगुणलक्षणम् || विद्यां कलां ततः कालमायां विद्यां ततः परम् | दृष्ट्वानुक्रमशः सर्वान् पुनरस्त्रेण भेदयेत् || विद्येश्वरं ततस्तत्वं ततस्सादाशिवं परम् | हित्वार्कं तु क्षुरिकास्त्रेण ततः सूक्ष्मं शिवं विशेत् || अत्र च भूतानां स्थूलानामस्य प्रत्यक्षेणापि विज्ञातुं शक्यत्वात् केवलयोगसाक्षात्कार्याणि तन्मात्रादीन्युच्यन्ते परमार्थतः पृथिव्यादिस्वरूपमपि सूक्ष्मयोगेन साक्षात्कर्तव्यमित्युक्तं श्रीमन्मतङ्गादौ | ततश्च पृथिव्यादीनि शिवान्तानि तत्त्वान्येवं साक्षात्कृत्य प्रागुक्तवन्मूलयुक्तेन क्षूरिकास्त्रेण भेदयेज्जयेत् | बन्धकत्वान्निवर्तयेदित्यर्थः | उक्तं हि प्राक् सोद्गासयति तत्त्वानि तन्मात्राद्यानि देहिनाम् पुनर्विनाशकश्चैव अस्त्रयुक्तः षडाननेति | एवमेतानि सालम्बनेन योगेन निष्कले शिवे स्वात्मानं युज्यादित्यर्थः | अत्र च तत्वजयोपयोगित्वेन शास्त्रान्तरोक्तं तर्काख्यमपि योगाङ्गमर्थसिद्धिमेव यच्छ्रूयते-ऊहोऽन्तरङ्गो योगस्येति | अथ योगफलं दर्शयति | अमृतात्मा शिवः साक्षात् तस्मिन्विष्ठस्तु योगवित् | सर्वज्ञः सर्वगः सूक्ष्मः सर्वेशः सर्वकृद्भवेत् | ननु | यद्येवं योगेनैव मुक्तिसिद्धेर्दीक्षाया अप्यानर्थक्यप्रसङ्गः | प्.९) तन्न एवं विधस्य शिवयोगस्य दीक्षाया विनानुष्ठानासिद्धेरारब्धकार्यकर्मक्षिप्तमलादिनिवर्तन एव चरितार्थत्वादनधिकारिणां शिवशास्त्रं विना समस्ततत्त्वविषयज्ञानाद्यभावाच्च | अत एव मात्रप्रसङ्गात् ज्ञेयं वस्तुदर्शयति | सर्वेष्वेव शास्त्रेषु ज्ञेयं वस्तुचतुष्टयम् | पशुः पाशः पतिश्चैव शिवश्चेति यथाक्रमम् | पतिरधिकारावस्थं शिव एवातश्च पतिपदार्थः सैव सोपाधिका निरूपाधिकाभ्यां भेदद्वयमुपचारादुच्यत इति वक्ष्यामः | ततश्च ज्ञानस्यापि दीक्षाद्यङ्गत्वान्मोक्षहेतुत्वं परंपरया सिद्धमित्याह | ज्ञात्वा तु तत्त्वसद्भावं तत्रसारं तु दुर्लभम् | सर्वथावर्तमानोऽपि गृह्णाति न पुनस्तनुम् || इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्यविरचितायां शीमत्सर्वज्ञानोत्तरवृत्तौ योगप्रकरणम् || ########### END OF FILE #######