#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00120 Uniform title: sarvollasatantra Author : sarvānanda Alternate name : sarvānandanātha Editor : gopīnātha kavirāja Description: Notes: Transcribed by the staff of Muktabodha under the direction of Mark Dyczkowski. Revision 0: Sept. 16, 2008 Publisher : Publication year : 1941 Publication city : Publication country : India #################################################### स्रीगुरवे नमः | अथ श्रीसर्वानन्दनाथकृत-सर्वोल्लासस्य उल्लासनिर्णयः || प्रकृतेर्लक्षणं शास्त्रर्देवतामूर्तिकल्पनं | उल्लासे प्रथमे वक्ष्ये निगमागमलक्षणम् || १ || वक्ष्येऽहं तन्त्रनामानि द्वितीयोल्लासकेपि च | त्रिचतुःपञ्चमोलासे सृष्ट्युत्पत्तिं वदाम्यहम् || २ || षष्ठे सृष्टिलयं वक्ष्ये सप्तमे भावलक्षणम् | आचारञ्चाष्टमे वक्ष्ये कुमार्या लक्षणं विधिम् || ३ || वक्ष्येऽहं नवमोल्लासे भावादिनामलक्षणम् | दशमे श्रीगुरोर्ध्यानमेकादशेऽपि लक्षणम् || ४ || द्वादशे वैष्णवाचारं ततो भक्तिं त्रयोदशे | वक्ष्ये चतुर्दशोल्लासे बलि-लक्षणमुत्तमम् || ५ || अष्टाङ्गयोगसंसिद्धिं वैष्णवाचारमेव च | वक्ष्ये पञ्चदशोल्लासे शैवाचारं तथैव च || ६ || बिभावौ वीरपशवोर्ल्लक्षणं पञ्चतत्त्वकम् | तत्त्वस्यैवानुकल्पञ्च तिलकञ्चैव षोडशे || ७ || उल्लासे सप्तदशके यन्त्रराजस्य लक्षणम् | शाक्ताचारक्रमं वक्ष्ये वामदक्षिणभेदतः || ८ || निन्दकस्य पशोश्चापि अष्टादशे निरूपितम् | लक्षणं साधकानाञ्च दिव्यचक्रस्य लक्षणम् || ९ || वीरचक्रक्रमं वक्ष्ये उल्लासेऽप्यूनविंशतौ | चक्रस्थानमासनञ्च चक्रमध्ये प्रवेशनम् || १० || वक्ष्येऽहं देवचक्रस्य लक्षणञ्चैव विंशतौ | जात्यभेदं चक्रमध्ये तथा द्रव्यनिरूपणम् || ११ || (ख्) गुरोः कृपाप्रसादेन तं वक्ष्येऽप्येकविंशतौ | द्वाविंशतिकोल्लासे पात्राधारौ च लक्षणौ || १२ || आद्य-तत्त्वस्य-माहात्म्यं वक्ष्येऽहं त्रयोविंशतौ | द्रव्याभेदं शक्तिशुद्धिं चतुर्विंशतिकेऽपि च || १३ || पञ्चविंशतिकोल्लासे चाद्य-तत्त्वस्य शोधनम् | आनन्दभैरवध्यानं तथैवानन्दभैरवीम् || १४ || षड्विंशतौ प्रवक्ष्यामि संक्षेपे द्रव्यशोधनम् | मांसं मत्स्यञ्च मुद्राञ्च लक्षणं शोधनं तथा || १५ || गुरुपादरजो ध्यात्वा वक्ष्येऽहं सप्तविंशतौ | वक्ष्येऽहं लक्षणं शक्तेरष्टाविंशतिकेऽपि च || १६ || ऊनविंशदिकोल्लासे वक्ष्येऽहं शक्तिशोधनम् | विधानं सम्विदा-पानमुल्लासे त्रिंशदिकेऽपि च || १७ || श्रीचक्रस्य च पात्रस्य चाधारस्य च लक्षणम् | एकत्रिंशदिकोलासे वक्ष्ये नानाप्रकारकम् || १८ || साधकस्य च पात्राणि द्वात्रिंशति निरूपणम् | वटुकादिवलिस्त्रित्रिंशदिके परिकीर्तितः || १९ || न्यासं तर्पणकं कर्म चतुस्त्रिंशति लक्षणम् | पञ्चत्रिंशदिके वक्ष्ये प्राथनं पात्रवन्दनम् || २० || षट्त्रिंशति महोल्लासे नियमं पात्रलक्षणम् | सप्तत्रिंशदिकोल्लासे श्रीगुरोर्ध्यानलक्षणम् || २१ || अष्टविंशदिकोल्लासे मधुदान-प्रमाणकम् | ऊनचत्वारिंशदीति पञ्चमस्य विधानकम् || २२ || चत्वारिंशदिकोल्लासे वक्ष्ये क्रीडादिलक्षणम् | एकचत्वारिंशदीति पञ्चमानान्दलक्षणम् || २३ || द्वाचत्वारिंशदीति साधकानन्दलक्षणम् | आनन्दं नवपात्रस्य त्रिचत्वारिंशदीति च || २४ || (ग्) चौचत्वारिंशदुल्लासे पञ्चमस्य च लक्षणम् | पञ्चचत्वारिंशदीति आनन्दस्तोत्रमुत्तमम् || २५ || अभिषेकक्रमं वक्ष्ये षट्चत्वारिंशदीति च | सप्तचत्वारिंशदीति दक्षिणाचारभावकम् || २६ || अष्टचत्वारिंशदीति वामाचारं विशेषकम् | पुष्पप्रमाणं तत्रैव पञ्चधा सप्तधेति च || २७ || ऊनपञ्चाशदुल्लासे विधानं पुष्पशोधनं | वक्ष्ये पञ्चाशदुल्लासे लक्षणं कुलयोषिताम् || २८ || एकपञ्चाशदुल्लासे मैथुनस्य च लक्षणम् | द्वापञ्चाशदिकोल्लासे शक्तिज्ञानं प्रकाशकम् || २९ || त्रिपञ्चाशदिकोल्लासे सिद्धान्ताचारलक्षणम् | चतुःपञ्चाशदुलासे पूर्णानन्दविशेषकम् || ३० || पञ्चपञ्चाशदुल्लसे पूर्णानन्दस्य लक्षणम् | षट्पञ्चाशदिकोलासे शक्त्यानन्दस्य लक्षणम् || ३१ || सप्तपञ्चाशदुल्लासे शक्तिमाहात्म्यमुत्तमम् | अष्टपञ्चाशदुल्लासे हंसबीजस्य लक्षणम् || ३२ || ध्यानत्रस्य माहात्म्यं वक्ष्येऽहमूनषष्टिके | दिव्याचारक्रमं वक्ष्ये षष्टमुल्लासे सुनिश्चितम् || ३३ || कौलाचार एकषष्टौ कथितो ग्रन्थकृद्बुधः | प्रकृतेर्लक्षणं यद् यत् स्वरूपञ्च द्विषष्टिके || ३४ || त्रिषष्टौ ब्रह्मणः ज्ञानं जीवन्मुक्तस्ततः परम् | चतुःषष्टौ समाप्तश्च ग्रन्थोल्लास-यथोदितः || ३३ || इत्युल्लास-निर्णयः समाप्तः | सर्वोल्लासतन्त्रम् | श्रीसर्वानन्दनाथविरचितम् | प्रथमोल्लासः | श्रीगुरवे नमः [ख्: नमः परम देवतायै] | प्रणम्य [ग्, घ्: नमामि] प्रकृतिं नित्यां जगदात्मस्वरूपिणीम् | सर्वोल्लासं महोल्लासं महोल्लासे वदाम्यहम् || १ || निगमादागमाच्छास्त्राद् भावाचारं समुद्धृतम् | श्रीसर्वानन्दनाथोक्तं श्रीदेव्याश्चरणाम्बुजे || २ || गणेशतन्त्रे श्रीशिव उवाच - त्वं देवि परमा नित्या त्रिगुणा त्रिगुणात्मिका | प्रकृतेर्लक्षणं किञ्चित्तव स्थाने वदाम्यहम् || ३ || एकाधिक्ये गुणानाञ्चेद्विकृतिः स्यान्महेश्वरि | त्रिगुणानां समानानां प्रकृतिः सूक्ष्मरूपिणौ || ४ || समेऽपि नित्या या देवी विषमे साध्यनित्यका | नित्यानित्यप्रबोधार्थं हेतुर्ज्ञेयः परस्परम् || ५ || केचित् (?) स्थूलं नित्यरूपं केचित् (?) सूक्ष्मं प्रकल्पयेत् | नित्यानित्यं जगत् सर्वमात्मरूपेण भावितम् || ६ || प्. २) आत्मा च परमेशानि त्रिधारूपं सनातनम् | परमात्मा च वाह्यात्मा जीवात्मेति प्रकीर्तितम् || ७ || जीवात्मा लिङ्गरूपी च शुद्धदीपशिखाकृतिः | तेजोध्यानं महद्रूपं तेजीयः सूक्ष्मरूपकम् || ८ || हेतुना भाषितं यद्यत्तत्तत् स्थूलं महेश्वरि | तेजोध्यानं विना कश्चिद् (?) ध्यानमात्रं नचेच्छिवे || ९ || यथा धृतस्य तक्रस्य हेतुर्दुघं महेश्वरि | स्थूलस्यापि च सूक्ष्मस्य तेजोहेतुर्ध्रुवन्तथा || १० || मनोऽपि तेजः परमे ! स्थूलमिन्द्रियभाषितम् | मनोऽतीतं सूक्ष्ममेकमेकमात्रं निरञ्जनम् || ११ || निरञ्जनं सर्वरूपं सर्वज्ञानस्य कारणम् | साक्षिवद्भाति तद्ब्रह्म प्रकृतिर्विकृतिः शिवे || १२ || अथ निगमलक्षणं यामले - निर्गतः शङ्करीवक्त्राद् गतश्च गिरिशानने | मतः श्रीवासुदेवस्य तस्मान्निगम उच्यते || १३ || अथ निगमाख्याकथनम् | कल्पसारं कल्पतत्त्वं कल्पद्रुममतःपरम् | पुरा प्रोक्ता कल्पलता कल्पानन्दञ्च [घ्: कल्पानन्देति] पञ्चधा || १४ || अथागमलक्षणम् | आगतः शिववक्तेभ्यो गतश्च गिरिजाननम् [ग्: गिरिजानने] | मतः श्रीवासुदेवस्य तस्मादागम उच्यते || १५ || प्. ३) अथागमनिगमप्रकाशकथनम् | वासुदेवोऽपि तच्छ्रुत्वाप्युवाच गणेशं प्रति | नन्दीश्वराय तद्वाक्यं निगमागमसम्मतम् || १६ || गणेशेन प्रवक्तव्यं यामलेषु प्रकाशितम् | एवं परस्परं व्याप्त आगमोनिगमः क्षितौ || १७ || चतुःष्ट्यागमः प्रोक्तः पञ्चधा निगमः शिवे | यामलञ्च चतुर्धोक्तं तस्माच्छास्त्रं प्रकाशितम् || १८ || अथ यामलोत्पत्तिः | सूक्ष्मेऽपि निर्मला या च स्थूले सा यामलः शिवे | यामलोक्तं स्थूलरूपं सर्वशास्त्रस्य बोधनम् || १९ || अथ शास्त्रोत्पत्तिः | चतुःषष्ट्यागमः प्रोक्तः पञ्चधा निगमस्तथा | यामलञ्च चतुर्धोक्तं तस्माच्छास्त्रं प्रकाशितम् || २० || निगमादागमो जात आगमाद् यामलो भवेत् | यामलाद्वेद-संजातं वेदाज्जातं पुराणकम् || २१ || पुराणात् स्मृति-संजातं स्मृतेः शास्त्राणि यानि च | तानि गृह्णाणि यत्नेन चोत्तमं हि क्रमोत्क्रमात् || २२ || अथ युगभेदे शास्त्राचरणम् | सत्ये श्रुत्युक्तकर्माणि त्रेतायां स्मृतिसम्मतम् | द्वापरे च पुराणानि कलावागमसम्मतम् || २३ || आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः | नहि देवाः प्रसीदन्ति कलौ चान्धविधान्तः || २४ || प्. ४) अथ शास्त्रेण देवताया मूर्तिनिरूपणम् | परमात्मागमः प्रोक्तो वेदो जीव उदाहृतः | पुराणान्यङ्गशास्त्राणि चाङ्गं प्रत्यङ्गकं स्मृतिः || २५ || अन्यानि सर्वशास्त्राणि रोमादीनि क्रमेण च | शास्त्रेण ज्ञायते रूपं देवतायाः प्रभेदकम् || २६ || नारायणी तन्त्रे - निगमात्मा महेशानि परमात्मागमो ध्रुवम् | जीवात्मा यामलं प्रोक्तं वाह्यात्मा वेदरूपकम् || २७ || अङ्गानि च पुराणानि अङ्गस्याङ्गं स्मृतिः प्रिये | अन्यानि यानि शास्त्राणि तनूरुहाणि पार्वति || २८ || शास्त्रेण देवतारूपं जायते युगभेदतः || अथ वेदोत्पत्तिकथनम् | ब्रह्मयामसम्भूतं सामवेदमतं शिवे | रुद्र-यामलसंजातम् [घ्, ङ्: सम्भूतम्] ऋग्वेदां परमं महत् || २९ || विष्णु-यामलसम्भूतं यजुर्वेदं कुलेश्वरि | शक्ति-यामलसम्भूतमथर्वं परमं महत् || ३० || सामवेदमतं सत्ये त्रेतायां ऋङ्मतं शिवे | द्वापरेच यजुर्वेदमर्थर्वस्य मतं कलौ || ० || ३१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे - प्रथमोल्लासः || १ || द्वितीयोल्लासः | अथ तन्त्राख्याकथनम् | तोडले श्रीदेव्युवाच - देवेश प्राणनाथेश लोकानां मुक्तिदायक ! अधुना श्रोतुमिच्छामि तन्त्रनामानुकीर्तनम् || १ || श्रीशिव उवाच - शृणु देवि महाभागे दासोऽहं तव कामिनि | तव स्नेहेन वद्धोऽस्मि तन्त्राख्यां कथयाम्यहम् || २ || न वक्तव्यं महाभागे दुष्कर्मे नास्तिके नरे | मम प्राणाधिकं तन्त्रं लोकानां मुक्तिदायकम् || ३ || अनन्तो (?) देवदेवी च अनन्तं तन्त्रमेव च | गदितुं नैव शक्नोमि ब्रह्माण्डान्तेऽपि पार्वति || ४ || तवाज्ञया महेशानि लोकानां त्राणहेतवे | चतुःषष्टीनि [क्, ग्: चतुःषष्ट्यानि] (?) तन्त्राणि मयैवोक्तानि कामिनि || ५ || कालीतन्त्रं मुण्डमाला-तारा-निर्वाणकानि च | शिवसारं वीरतन्त्रं लिङ्गार्चन-लतार्चने || ६ || तोडलं नीलतन्त्रञ्च राधातन्त्रं महेश्वरि | विश्वसारं भैरवाख्यं भैरवीतन्त्रमेव च || ७ || सिद्धेश्वरं मातृभेदं समयातन्त्रकं शिवे | गुप्तसाधनतन्त्रञ्च मातृकातन्त्रमेव च || ८ || प्. ६) मायातन्त्रं महामाया अक्षयातन्त्रकं शिवे कुमार्याख्यामहत्तन्त्रं कुलार्णवमतःपरम् || ९ || कालिकाकुलसर्वस्वं कालिकाकल्पतन्त्रकम् | वाराही योगिनीतन्त्रं योगिनीहृदयं शिवे || १० || सनत्कुमारतन्त्रञ्च त्रिपुरासारतन्त्रकम् | योगिनीविजयं भद्रे मालिनीतन्त्रमेव च || ११ || कुक्कुटाख्यं महत्तन्त्रं श्रीगणेशाख्यतन्त्रकम् | भूततन्त्रं तथोड्डीशं कामधेनु तथोत्तमम् || १२ || वीरभद्रं महत्तन्त्रं वामकेश्वरमेव च | कुलचूडामणितन्त्रं भावचूडामणि प्रिये || १३ || ज्ञानार्णवञ्च वरदातन्त्रचिन्तामणिन्ततः | कालीविलासकं तन्त्रं हंसतन्त्रं महेश्वरि || १४ || चिदाम्बरतटं तन्त्रं विज्ञापनमतःपरम् | फेत्कारिणीञ्च नित्याख्यं तन्त्रमुत्तरसंज्ञकम् || १५ || नारायणीमहत्तन्त्रं ऊर्द्ध्वाम्नायकतन्त्रकम् | ज्ञानद्वीपं गौतमीयं तन्त्रं निरुत्तरं शिवे || १६ || गान्धर्वं कुञ्जिकातन्त्रं तन्त्रमुक्तावलिन्ततः | वृहत् श्रीक्रमतन्त्रञ्च स्वतन्त्रं तन्त्रकं शिवे || १७ || योनितन्त्रञ्च कामाख्यां तन्त्रं प्रोक्तं वरानने | चतुःषष्ट्यानि (?) तन्त्राणि मयैवोक्तानि संप्रति || १८ || प्रतितन्त्रे पटलानि चतुःषष्ट्यानि (?) पार्वति | असंख्यानि च तन्त्राणि भावानि विविधानि च || १९ || सर्वं यामलसंगीतं चतुःषष्टिप्रकारकम् | प्रधानमेतद्विज्ञेयं चतुर्युगमतं ध्रुवम् || ० || २० || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे - द्वितीयोल्लासः || २ || तृतीयोल्लासः | अथ सृष्ट्युत्पत्तिकथनम् [ग्: -प्रकरणम्] | ज्ञानद्वीपे श्रीपार्वत्युवाच - देवेश प्राणनाथेश लोकानां मुक्तिदायक | सृष्टिप्रलयमाहात्म्यं मम स्थाने प्रकाशय || १ || श्रीशिव उवाच - सृष्टिं विना महेशानि प्रलयः को भविष्यति | प्रलयञ्च विना देवि का सृष्टिश्चोपजायते || २ || बीजं विना न वृक्षः स्याद्विनावृक्षं न बीजकम् | तथा सृष्टि-लयं देवि नित्यानित्यं हि कल्पनम् || ३ || कल्पनायां भवेत् सृष्टिः कल्पनायां लयो भवेत् | सृष्टि-प्रलय-माहात्म्यं गदितुं नैव शक्यते || ४ || किञ्चिन्मात्रं प्रवक्तव्यं जलबिम्बं जले यथा | तव स्नेहेन वद्धोऽहं किञ्चिन्मात्रं प्रकाशितम् || ५ || निराकारं महाघोरं प्रकृतिं पुरुषात्मकम् | सृष्टिकालेऽपि तद्ब्रह्म प्रकृति-पुंस्वरूपधृक् [घ्: प्रकृतिः पुरुषरूपधृक] || ६ || क्षणकाकाररूपोऽसौ प्रकृतिश्च पुमान् शिवे | केचिद्वदन्ति प्रकृतिं केचिच्च पुरुषं शिवे || ७ || केचिद्वदन्ति योगीन्द्राः प्रकृतिंपुरुषात्मकम् | तद्ब्रह्मावाच्यं विज्ञेयं वाचातीतं सुनिर्मलम् || ८ || प्. ९) मनोऽतीतं क्रियातीतं वाचातीतं महेश्वरि | ज्ञानार्थं साधकस्यापि वदाम्येकत्वमाश्रितम् || ९ || प्रकृत्या जायते सर्वं पुरुषस्यापि लालसात् | पुरुषाज्जायते सर्वं प्रकृत्या अपि लालसात् || १० || कामोद्भावमदोन्मत्ता पूर्णानन्दसमाश्रिता | पुरुषादपि स्रष्टाहं (?) विपरीता वभूव सा || ११ || महाकाली समाख्याता [क्, ख्: समाख्या सा] महाकालः सदाशिवः | महाकालीप्रलीनोऽत्र महाकालः प्रकीर्तितः || १२ || महाकालप्रलीनात्र महाकाली प्रकीर्तिता | विद्याविद्योभयोरेका भावातीता महेश्वरी || १३ || शक्तिभावं समाश्रित्य चोक्तं सृष्टिप्रकारकम् | सृष्टिरूपं शक्तिमात्रं भावमात्र [क्, ख्: भावमात्रं] प्रबोधकम् || १४ || शक्तिज्ञानं भावमात्रमभावं पुरुषं प्रिये | उभयोरेकभावत्वं प्रकृति-पुरुषात्मकम् || १५ || द्वितीया तारिणी जाता कामार्ता त्राणदायिका | पतिं देहि जगन्मातः कामभावेन काङ्घिता || १६ || इति श्रुत्वा महादेवः स्वदेहात् पुरुषं ददौ | तं प्राप्य सा महाविद्या विपरीता समाश्रिता [घ्, ङ्: विपरीत- समाश्रिता] || १७ || तृतीया षोडशी जाता षोडशी वयसान्विता | राजराजेश्वरी विद्या सर्वदेवप्रपूजिता || १८ || मदिरापूर्णनयना कामभावसदान्विता | पतिं देहि महाकाली-कारणानन्दसंयुतम् || १९ || इति श्रुत्वा महादेवि दक्षिणामूर्तिरव्ययः | दक्षभागं समाश्रित्य सर्वदा परिसंस्थितः || २० || प्. ९) पञ्चभूतात्मकं यद् यद्वामदक्षिणभेदतः | वामे च षोडशी ज्ञेया दक्षिणे पुरुषोऽव्ययः || २१ || नित्यानित्यमयं ब्रह्म सृष्टिरूपं प्रकाशकम् | साधकस्य हितार्थाय स्वानन्दार्थे महेश्वरि || २२ || त्रिपुराद्या महाविद्या चाष्टभागेन संस्थिता | भुवनेशी भैरवी च छिन्नमस्ता महेश्वरि || २३ || धूमावती च बगला मातङ्गी कमला शिवे | इत्यष्टशक्तिसंयुक्तश्चाष्टभागः सदाशिवः || २४ || दक्षिणादिक्रमेणैव चाष्टभागः समावृतः | इति ते कथितं कान्ते सृष्ट्युत्पत्तिप्रकारकम् | यस्य विज्ञानमात्रं हि जीवन्मुक्तस्य कारणम् || २५ || विभिन्ने क्षणकाकारे तारिणी त्राणदायिनी | मदिराघूर्णनयना मदनाकाङ्क्षिता सदा || २६ || कामानन्दो महादेवो नामाक्षोभ्यसमाश्रितः | तस्या योनिं समासाद्य शृङ्गारसृष्टिमान् सदा [ग्: मुदा ] || २७ || भावातीता महाकाली तारिणीभावसंयुता | त्रिपुरा सृष्टिरूपा च त्रिधैकैका [घ्: त्रिधैकात्मा] त्रिधा शिवे || २८ || कालिका बीजरूपा च नीलारूपा च तारिणी | सुन्दरी सृष्टिरूपा च सृष्टिरूपमिदं प्रिये || २९ || राधातन्त्रे सृष्ट्युत्पत्तिकथनम् | पूर्णानन्दे महाघोरे प्रकृतिः पुंसमावृता | क्षणकाकाररूपा सा भावातीता समाश्रिता || ३० || आत्मेन्द्रियसुखं देवि [क्: देवं ] स्वात्ममात्रप्रमाणकम् | उवाच परमा शक्तिः शृङ्गारं कुरु मे प्रिय || २१ || प्. १०) इति श्रुत्वा महादेव उवाच प्रकृतिं प्रति | तस्याकृष्टोऽप्यहं [ख्: तेनाकृष्टोऽप्यहं] देवि शृङ्गारं कुरु मे प्रिये || ३२ || तस्यास्तस्य च वाक्येन वाधितं [क्, ग्: वाधितुं] न परस्परम् | तत्क्षणात् सा महाशक्तिः कृष्णोऽभूत् परमेश्वरी || ३३ || दृष्ट्वा कृणन्तु [घ्: कृष्णस्य] पुंरूपं राधाऽभूत् परमेश्वरः | राधांशेन पुमान् ज्ञेयः कृष्णांशात् शक्तिरूपधृक् [घ्: कृष्णांशे नारी-रूपिणी ] | सृष्टिरूपमिदं ज्ञेयं वैष्णवस्य मतं ध्रुवम् || ३४ || अथ त्रिपुरासारतन्त्रे सृष्ट्युत्पत्तिकथनम् | महाकाली घोररूपा देहचिह्नविवर्जिता | महाकालोऽप्यषष्टश्च (?) सिसृक्षाभावमाश्रितः [क्: शिशुभावसमाश्रिताः; ख्: भावशृङ्गारसमाश्रिताः] || ३५ || महाकाल्या महास्तोत्रं मन्त्रं यन्त्रं क्रियान्वितम् | बलिदानान्वितं देवि पुरश्चरणसंयुतम् || ३६ || अथ महाकालविरचितं श्यामास्तोत्रम् | कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजन्ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति | तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसन्त्येव वाचः स्वच्छन्दं द्वान्तधाराधररुचिरुचिरे सर्वसिद्धिं गतानाम् || ३७ || इत्यादिद्वाविंशतिश्लोकेनोक्तम् | इति श्रुत्वा महाकाली वभूव त्रिपुरेश्वरी | परमाश्चर्य-सत्-शोभा त्रिकुटा त्रिगुणान्विता || ३८ || प्. ११) दृष्ट्वापि सुन्दरीरूपं सुन्दरोऽभूत् सदाशिवः | स्तोत्रं कुर्यात् [ख्, ङ्: कृत्वा] वहुविधं महाभावसमावृतम् || ३९ || अथ सुन्दरीस्तोत्रम् | त्रिगुणात्मा त्रिविधा च त्रिविन्दु त्रित्वमानिनी | त्रिभुषा च त्रिरूपा च त्रिपुरायै नमोनमः || ४० || इत्यादिषट्श्लोकेनोक्तं महाकाल-विरचितं त्रिपुरास्तोत्रम् | स्तोत्रं श्रुत्वा महादेवी पूर्णानन्देन भाषिता | स्वेच्छया सा महाविद्या तेजीयस्त्वा विवर्द्धिनी || ४१ || वीरभावो महादेवो दक्षिणा मूर्तिरव्ययः | यदा दक्षसमासाद्यस्तदा सा दक्षिणा परा || ४२ || तस्या योनिं समासाद्य संहरेदखिलं जगत् | महाकालीमहाकाली योनिमध्ये लयः प्रिये || ४३ || योनिस्थानं हि विज्ञेयं महात्रिपुरसुन्दरीम् | तस्यास्त्रिरेखा विज्ञेया त्रिपुरात्रिपुरात्मिका || ४४ || त्रिपुरे त्रिपुरादेवी त्रिपुरारिसमन्विता | शून्यं चन्द्रं वार्णञ्च त्रिपुरं परिकल्पितम् || ४५ || वाङ्मया या महादेवी कामरूपामयी च सा | शक्तिमात्रस्थिता नित्या त्रिकुटेति महाकला || ४६ || सुन्दरी सुन्दरं व्याप्य सुन्दरः सुन्दरीं यदा | तदा सा तारिणी विद्या महाघोरपरेश्वरी || ४७ || मदिराघूर्णनयना कामार्ता कामदायिनी | द्वितीया सा महाविद्या पूर्णभावेन कामिनी || ४८ || पतिं देहि जगन्मातः पञ्चमानन्दसंयुतम् | इति श्रुत्वा महादेवः संक्षोभ्यञ्च परित्यजेत् || ४९ || परस्परञ्च संव्याप्यमेकदेहं द्विदेहकम् | एकात्माभाङ्महादेवो द्वित्वात्मा तारिणी तदा || ५० || प्. १२) द्वित्वात्माभाङ्महादेव एकात्मा तारिणी तदा | तत्क्षणात् परमेशान एकभावद्विभाकम् | स्तोत्रं कुर्यान्महादेव्यास्तारिण्यास्त्राणदायकम् || ५१ || अथ तारास्तोत्रम् | तारिणी त्राणदात्री स्यात्त्राणात्मा त्राणभाषिणी | त्राणयुक्ता त्राणभुक्ता त्राणभुक्ता पुरातनी || ५२ || इत्यादि | स्तोत्रं श्रुत्वा महादेवी तारा घोरतरा परा | चतुर्भुजा नीलवर्णा त्रिनेत्रा शववाहिनी || ५३ || दृष्ट्वैतत्तारिणीरूपं कालिका घोरदक्षिणा | चतुर्भुजा कृष्णवर्णा त्रिनेत्रा शववाहना || ५४ || पञ्चाशद्वर्णभिर्मालामुण्डमालाक्षमालिका | दृष्ट्वैतत् कालिकां विद्यां श्रीविद्या त्रिपुरात्मिका || ५५ || चतुर्भुजा रक्तवर्णा त्रिनेत्रा पञ्चपूइता | आदान्तमध्यरहिता नित्या सर्वप्रपूजिता || ५६ || सत्यरूपा महाकाली सत्ये पूजा महाफला | त्रितारूपा सुन्दरी स्यात् [ग्: स्युः] त्रेतायां फलदायिनी || ५७ || द्वापरे तारिणी पूज्या द्वापरेति च तारिणी | कलौ च त्रिदेवा [ख्: त्रिदेव] पूज्या कालीति त्रिदेवा [क्, ङ्: त्रिदेवी] परा [घ्: कलौतु त्रिपुरापूज्या कालीति त्रिपुरापरा ] || ५८ || सुन्दरीसंयुता काली कालिका सुन्दरीयुता | उभयोर्मिलिता तारा तारेति चोभयात्मिका || ५९ || नाममात्रं विभेदं हि साधकः सिद्धिहेतवे [घ्: साधकानाञ्च सिद्धये] | एका विद्या त्रिनामाख्या तमः सत्त्वं रजस्तथा || ६० || त्रिदेवेति त्रिधात्मेति द्विदेवेति द्विधात्मिका | एक देवेति चैकात्मा कालीतारेति सुन्दरी || ६१ || प्. १३) त्रिधात्मना भवेत् सर्वं तेजस्तेजीय-निर्मलम् | त्रिधैकात्मा यदा ज्ञात्वा तदा मोक्षं लयं ध्रुवम् || ६२ || क्रियात्मापि चात्मभिन्नं ध्यात्वा सालोक्यभाग्भवेत् | तेजीयश्चैव सारूप्यं सायोज्यम्बा महेश्वरि || ६३ || ध्यात्वा निर्मलवद्भासं [घ्: भावं] सायोज्यम्वापि मौक्तिकम् | एवं चतुर्विधा (?) ध्याअं चतुर्युगमतं ध्रुवम् [क्: चतुयुगमतःपरम्; ख्: चतुर्वर्गमतः परम्] || ६४ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे तृतीयोल्लासः || ० || चतुर्थोल्लासः | अथान्यप्रकारेण सृष्ट्युत्पत्तिकथनम् | ज्ञानार्णवे श्रीपार्वत्युवाच - यदा चन्द्रश्च सूर्यश्च जलं वसुमतीप्रिय ! गङ्गादि नास्ति तीर्थादि विप्रादिर्जातिभेदकः || १ || पश्वाचारश्च शैवश्च वीरश्च दिव्य एव च | सिद्धान्तश्चापि कौलश्च एतद्भावं नचेद् यदा || २ || उत्पत्तिः केन वा कुत्र केन वा कुत्रचिल्लयः | कथय प्राणनाथेश सन्देहो येन नश्यति || ३ || श्रीशङ्कर उवाच - गुदं लिङ्गं हस्तपादौ वाक्यञ्च परमेश्वरि | त्यागं शृङ्गारमाकर्षं गमनं स्तुतिगञ्जनम् || ४ || श्रवणं दर्शनं घ्राणं स्पर्शनं रसवोधनम् | दशेन्द्रियमिति प्रोक्तं मन एकादशं प्रिये || ५ || इदं शरीरं विज्ञेयं वन्धमोक्ष [ग्: मुक्त] प्रबोधकम् | मनोऽपि नैष्ठिकं यत्र तत्रेन्द्रियलयं ध्रुवम् || ६ || यथा वृक्षादिषु छाया लयमाना जलादिषु | जले नष्टे पुनश्छाया वृक्षादिषु प्रलीयते || ७ || तथेन्द्रियक्रियानाशे पुनर्मनसि लीयते | मनस्युत्पद्यते सर्वं भावमिन्दिर्यसंयुतम् || ८ || लयमानं पुनस्तस्मिन् भावमिन्द्रियवर्जितम् | इन्द्रियस्य गतेर्भावादाचारो जायते प्रिये || ९ || प्. १५) आचारश्च क्रिया ज्ञेया क्रियया किं भवेन्नहि | क्रियामात्रं जगत् सर्वं जगत्तस्यापि बीजकम् || १० || श्रीशङ्कर्युवाच - आचारमूला जातिः स्यादाचारः शास्त्रमूलकः | देववाक्यं शास्त्रमूलं देवः साधकमूलकः || ११ || क्रियामूलः साधकश्च क्रियापि फलमूलिका | फलमूलं सुखं देव सुखमानन्दमूलकम् || १२ || आनन्दं ज्ञानमूलञ्च ज्ञानं ज्ञेयस्य मूलकम् | तत्त्वमूलं ज्ञेयमात्रं तत्त्वं हि ब्रह्ममूलकम् || १३ || ब्रह्मज्ञानमैकामूलमैक्यं हि सर्वमूलकम् | ऐक्यं हि परमेशान भावातीतं सुनिश्चितम् || १४ || भावातीतात् कथं सर्वं पकाशं भावमात्रकम् | अङ्कुरः स्याद् यत्र बीजे तस्मावृक्षः प्रफुल्लकः || १५ || विनाङ्कुरेण बीजोऽभूत् विनाकामेन कामुकः | द्वयोर्योगं विना देव किञ्चिन्मात्रं न जायते || १६ || एकमात्रे स्थिते देव द्वितीयादि न जायते | द्वितीयादिस्थिते देव चैकत्वं नैव जायते || १७ || संख्यामात्रं महादेव संख्येयस्य विवक्षितम् | संख्येयस्य महादेव संख्ययस्य विवक्षितम् || १८ || अस्याद्यमन्तं कस्माच्च कथञ्चापि प्रकाशय | अहं त्वं को महादेव कथं कस्माद्वदस्व मे || १९ || श्रीशङ्कर उवाच - भावं हि सृष्टिरूपं स्यादभावं सृष्टिवर्जितम् | भावाभावविनिर्मुक्तमभावं भावमेव च || २० || भावातीतमयं भावं भावं भावातीतं परम् | यथा दर्पणबिम्बेषु प्रतिबिम्बञ्च दर्शनम् || २१ || प्. १६) तथा द्वित्वादिकं सर्वं भावेष्वेकेषु दृश्यते | द्वित्वमेकत्वसंयुक्तमेकत्वं द्वित्वसंयुतम् || २२ || संख्येयञ्च विना संख्या विज्ञातुं नैव शक्यते | द्वित्वभावं विनैकत्वं कथमुत्पद्यते शिवे || २३ || एकभावं विना कस्माद् द्वित्वभावं प्रकाशितम् | परस्परं विना वाक्यं गदितुं नैव शक्यते || २४ || यथा द्रव्यं गुणाक्तञ्च गुणो द्रव्याक्त एव च | परस्परं विना किञ्चिद् ज्ञानमात्रं नचेत् क्वचित् || २५ || जनकञ्च विना जन्यो न जन्यो जनकं विना | फलं विना क्रिया न स्यात् फलं न स्यात् क्रियां विना || २६ || तथा ज्ञानञ्च ज्ञेयञ्च परस्परमपेक्षितम् | ज्ञानं भावं महेशानि ज्ञेयं भावविवर्जितम् || २७ || ज्ञानं ज्ञेयञ्च यस्यैक्यं तस्य मुक्तिरखण्डिता | एकभावं द्विभावाक्तं द्विभावमेकभावकम् || २८ || आत्मभिन्नं हि त्वंमात्रमात्माहं सर्वरूपिणम् | अहं ज्ञानं विना क्वापि त्वं ज्ञानं नैव जायते || त्वं ज्ञानञ्च विना क्वापि अहं ज्ञानं न जायते || २९ || यथाकाशः सर्वरूपः सर्वद्रव्येषु संस्थितः | तथाहं त्वं सर्वरूपः सर्वद्रव्येषु संस्थितः || ३० || त्वं ज्ञानं खण्डमित्युक्तं पूर्णज्ञानमहं ध्रुवम् | यथैतत्तेन खण्डात्मा वर्जिते व्यापितं जगत् || ३१ || आकाशस्य न भेदः स्याद् घटोपलक्षितो यथा | तथाहं त्वं देहलक्षो देहं हि तन्मयं ध्रुवम् || ३२ || घटे नष्टे घटाकाशो यथाकाशे प्रलीयते | देहे नष्टे तथाहं त्वं परमात्मनि लीयते || ३३ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुर्थोल्लसः || ४ || पञ्चमोल्लासः | अथवान्यप्रकारेण सृष्टिनिरूपणम् | निर्वाणतन्त्रे - सत्यलोके निराकारा महाज्योतिः - स्वरूपिणी | माययाछादितात्मानं क्षणकाकाररूपिणी || १ || हस्तपादादिरहिता चन्द्रसूर्याग्निरूपिणी | मायावल्कलसंत्यज्य [मायावल्कलमुत्सृज्य द्विधा भिन्ना जगन्मयीति प्राणतोषणीधृतनिर्वाणतन्त्रीयपाठः] द्विधा भूत्वा यदोन्मुखी || २ || शिवशक्तिविभागेन जायते सृष्टिकल्पना | प्रथमे जायते पुत्त्रो ब्रह्मसंज्ञो हि पार्वति || ३ || श्रीकालिकोवाच - शृणु पुत्त्र महावीर [घ्: महाधीर] विवाहं कुरु यत्नतः | एतच्छ्रुत्वा ततो ब्रह्मा उवाच सादरं प्रिये || ४ || त्वां विना जननी नास्ति शक्तिं मे देहि सुन्दरीम् | तच्छ्रुत्वा जगतां माता स्वदेहान्मोहिनीं ददौ || ५ || द्वितीया सा महाविद्या सावित्री परमा कला | अस्याः सङ्गं समासाद्य वेदविस्तारणं कुरु || ६ || अनायासं सृष्टिकर्ता भवेस्त्वं [भव त्वं (मुद्रितनिर्वाणतन्त्रे)] महीमण्डले | द्वितीये [द्वितीयो (प्राणतोषणीधृतो निर्वाणतन्त्रीयपाठः)] जायते पुत्त्रो विष्णुः सत्त्वगुणाशयः || ७ || प्. १८) श्रीकालिकोवाच - शृणु पुत्त्र महावीर विवाहं कुरु यत्नतः | विष्णुरुवाच - तव दर्शनमात्रेण निष्कामी जायते पुमान् || ८ || कथं करोमि हे मात्र्मोहिनीं देहि मे शिवे | देहाच्छक्तिं विनिःसृत्य [विनिष्कृष्य - (प्राणतोषणीधृतो निर्वाणतन्त्रीयपाठः)|] ददौ तस्मै च कालिका || ९ || वैष्णवीं तां महाविद्यां श्रीविद्यां परम्श्वरीम् | तामाश्रित्य महाविष्णुः पालयत्यखिलं जगत् || १० || तृतीये [तृतीयो -] जायते पुत्त्रो महायोगी सदाशिवः | तं दृष्ट्वा सा महाकाली तुष्टियुक्ता भवेत्तदा || ११ || शृणु पुत्त्र महायोगिन् मद्वाक्यं हृदये कुरु | त्वां विना पुरुषः को वा मां विना कापि कामिनि | अतस्त्वं परमानन्द विवाहं कुरु मे शिव || १२ || श्रीशिव उवाच - यदुक्तं मयि हे मातस्त्वां विना नास्ति मोहिनी | सत्यमेतज्जगन्मातर्मां विना पुरुषो न च || १३ || अस्मिन् - देहे संस्थिते च न करोमि विवाहकम् | कुरु देहान्तरं मातः करुणा यदि वर्तते || १४ || तत्क्षणे सा महाकाली ददौ भुवनसुन्दरीम् | आदिभूता यथा काली तथा भुवनसुन्दरी || १५ || प्. १९) तामाश्रित्य महायोगी संहरत्यखिलं जगत् | शक्तिरष्टविभागेन भागश्चाष्टविधा भवेत् [घ्: शम्भोरष्टविभागाश्च शक्तिश्चाष्टविधा भवेत् - इति मुद्रितनिर्वाणतन्त्रीयपाठः | शक्तिविभागेन शम्भुनाष्टविधोभवेत्] || १६ || कालिकाद्या महाविद्या ह्यनेन परमेश्वरि | इति ते कथितं कान्ते यथासृष्टिनिरूपणम् | गोपनीयं प्रयत्नेन विद्योत्पत्तिर्यथा [क्, ग्, ङ्: विद्युत्पत्तिर्यथा प्रिये] प्रिये || १७ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्चमोल्लासः || षष्ठोल्लासः | अथ लयप्रकरणम् | ज्ञानद्वीपे श्रीदेव्युवाच - केन रुपेण वा स्वामिन् लयोऽभूत् सृष्टिरन्ततः [घ्: कुत्रचित्] | कथयस्व मम स्थाने [घ्: कथय प्राणनाथेश] यदि त मययनुग्रहः || १ || श्रीशिव उवाच | यथा जले जलं देवि क्षीरे क्षीरं घृते घृतम् | अविशेषं तथा ज्ञेयं जीवात्म-परमात्मनोः || २ || क्षीरवर्ण [क्: क्षीरे वर्णे] यथाप्येकं तथैकं परमेश्वरम् | नानारुपवती गौः स्यात्तथा [क्: दुग्धं] नानात्मको लयः || ३ || जीवात्मा पञ्चभूतात्मा बाह्यात्मा तत्समायुतम् | बाह्यात्मा स्थूलरूपञ्च जीवात्मा सूक्ष्मभावकम् | स्थूलसूक्ष्मोभयोर्नाशे तदेव परमात्मकम् || ४ || घटमध्ये घटाकाशं देहेषु देहिनं तथा | यन्त्रमध्ये यथा शब्दं देहेऽहंमात्रशब्दकम् [घ्, ङ्: देहेषु देहिशब्दकम्] || ५ || नष्टे तस्मिन् [घ्: नष्टेप्येते] यथाकाशश्रवणकाकारवच्छिवे | विभागं [घ्: विभावं] सृष्टिमात्रं हि लयमानमभेदकम् || ६ || प्. ५१) श्रीदेव्युवाच - क्षणाकारं हि यत् प्रोक्तमेकेषु द्वित्वलक्षितम् | किमर्थं [क्: किंरूपं] सृष्टिरारम्भं किमर्थं [क्: किं रूपं] नाशकर्तृकम् || ७ || महानिर्वाणतन्त्रे श्रीशिव उवाच - महाकाली परात्मा च क्षणकाकाररूपिणी | माययाच्छादितात्मानं तन्मध्ये समभावतः || ८ || महारुद्रः स एवात्मा महाविष्णुः स एव हि | महाब्रह्मा स एवात्मा नाममात्रविभेदकः || ९ || एकमूर्तिस्त्रिनामानि ब्रह्मविष्णुमहेश्वराः | नानाभावमनो यस्य तस्य मुक्तिर्न विद्यते || १० || ब्रह्माण्डास्तत्र जायन्ते लक्षं लक्षं सुलोचने | तत्र ब्रह्मा तत्र विष्णुस्तत्र रुद्रः प्रविन्यसेत् || ११ || केचिद्वदन्ति स ब्रह्मा केचिद्विष्णुः प्रकथ्यते | केचिद्वदन्ति रुद्रः स एको देवो निरञ्जनः || १२ || आद्याशक्तियुतो देवश्चकाकाररूपकः | आनन्दघनसंयुक्तः [घ्: -सन्दोहः] प्रभुः प्रकृतिरूपधृक् || १३ || निर्गुणस्यालयः साक्षान्महाकाल्यालयः प्रिये | तत्रैव वर्तते नित्यश्चणकाकाररूपकः || १४ || तस्य रूपपरं नित्यं परानन्दपरात्परं | नित्यानन्दकरा देवि कालिका दक्षिणे स्थिता || १५ || आद्याशक्तिर्महामाया देवनिर्माणकारिणी | जायते च क्षितौ वृक्षो यथा पृथ्व्यां प्रलीयते || १६ || तोयात्तु वुद्वुदं जातं यथा तोये प्रलीयते | जलदे तडितुत्पत्तिर्यथा मेघे प्रलीयते || १७ || प्. २२) तथा ब्रह्मादयो देवाः कालिकायां प्रजायते (?) | तथा प्रलयकालेतु पुनस्तस्यां प्रलीयते (?) || १८ || शक्तिज्ञानं विना देवि मुक्तिर्हास्याय कल्प्यते | एकांशेन भवेद्ब्रह्मा एकांशेन जनार्दनः || १९ || एकांशेन भवेच्छम्भुः कालिकायाः सुलोचने | अपरा सा महाकाली नद्यादीनां समुद्रवत् || २० || गोष्पदे च यथा तोयं ब्रह्माद्या देवता स्तया | गोष्पदे किं विजानीयात् समुद्रस्य जलं शिवे || २१ || तेन ब्रह्मा न जानाति विष्णुः किं वेत्ति शङ्करः | सृष्टिकर्त्र्या यदा काल्या पाल्यन्ते च सुरादयः || २२ || तदा प्रलयकालेतु पुनस्तस्यां प्रलीयते | अतो निर्वाणदा काली पुरुषस्य च शर्मदाअ [घ्: सष्वदा] || २३ || क्षणकाकाररूपेण प्रकाशञ्च मनोमयम् | यथा सूर्यो जगद्भाति ज्ञेयञ्च क्षणकं तथा || २४ || एका शक्तिर्द्विधा भूत्वा मध्ये पुरुषभाषितम् | पुनः प्रलीन-कालेऽपि द्विधैकं पुंसगोपितम् || २५ || नित्यानित्य-द्विधैकात्मा [क्: नित्यानित्यंयदकात्मा] द्विधाभावाश्रितः पुमान् | नित्यानित्यं यदैकात्मा तदैकं ब्रह्मविग्रहम् || २६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे षष्ठोल्लासः || ० || सप्तमोल्लासः | अथ भावप्रशंसा - निगम-कल्पानन्दे श्रीशिव उवाच - समुह्याचारसङ्केतं भावसङ्केतमेवहि | सूचितं परमेशानि कथयस्वानुकम्पया || १ || श्रीदेव्युवाच - सर्वतन्त्रेषु विद्यासु भावसङ्केतमेवहि | तथापि शक्तितन्त्रेषु विशेषं सर्वसाधनम् || २ || साधनं भावमात्रं हि भावेन भाव्यवान् भवेत् | आचारेण विना भावं कदाचिन्नैव जायते || ३ || श्रीशिव उवाच - कस्मादुत्पद्यते भावः कस्मिन् [ग्, घ्: कस्माद्] भावः प्रलीयते | भाववान् फलभाक् किम्बा केन वाचारवान् भवेत् || ४ || श्रीदेव्युवाच - भावस्तु मानसो धर्मः शब्दस्य हि कथं भवेत् | किञ्चिद् भावं प्रवक्तव्यं दिङ्मात्रदर्शनं यथा || ५ || यथेक्षुगुडमाधुर्यं रसना ज्ञायते प्रभो | तथा भावं महादेव मनसा परिभाव्यते || ६ || मनस्युत्पद्यते भावो मनसीति प्रलीयते | मनसीति स्थितो भावः पुनर्मनसि लीयते || ७ || प्. २४) यथा वृक्षलताद्याश्च सृष्टिस्थितिलयः क्षितो | तथा भावं महेशान मनस्येव न संशयः || ८ || तोयाज्जातं यथा बिम्बं तोयेषु लीयते प्रिय | मनस्युत्पद्यते भावं लीयमानं मनस्यपि || क्रियाक्त्वद्भवेद्भावः स्वर्णस्य कुण्डलादिवत् || ९ || आगमोक्तभाव प्रशंसा - भावचूडामणौ श्रीदेव्युवाच - देवेश प्राणनाथेश लोकानां भावदायक | केन रूपेण लोकोऽपि फलभाग् जायते नरः || १० || श्रीशिव उवाच - भावं विना वरारोहे नैव शब्दं प्रकाशितम् | शब्दमूलो भवेद्भावो भावं हि सर्वमूलकम् || ११ || भावाज्ञोऽपि वक्षः श्रुत्वा क्रियामीष्मति यो नरः | पुमान् स्त्रीवेशधारी च यथाङ्गं भङ्गवत् शिवे || १२ || तस्माच्च परमेशानि भावं ज्ञात्वा क्रियाञ्चरेत् | भावं विना महेशानि फलभाग् जायते यदि || नपुंसकस्य कान्ता किं पत्यानन्दविवर्द्धिनी || १३ || क्रियामूलो भवेद्भावः क्रियापि भावमूलिका | क्रिया-शक्तो भावयुक्तो फलभाक् परमेश्वरि || १४ || श्रीदेव्युवाच - मम प्राणाधिको देव स्तुतिनिन्दाविवर्जितः | भावमूला क्रिया प्रोक्ता न भावेन क्रिया कथम् || १५ || श्रीशिव उवाच - क्रियायुक्तं भावमूलं क्रियापि भावमूलिका | परस्परं विना न स्यात् ज्ञानं ज्ञेयं यथाप्रिये || १६ || प्. २५) बहुजापात्तथा होमात् कायक्लेशादिविस्तरात् | न भवेन महादेवि क्रियापि न फलप्रदा || १७ || किं वीरसाधनैर्लक्षैः किमाकर्षैः कुलाकुलैः | किं पीठपूजनेनैव किं कन्याभोजनादिभिः || १८ || स्वयोषित्प्रेमदानेन किं परेषां तथैव च | किं जितेन्द्रियभावेन किं कुलाचारकर्मणा | यदि भावविशुद्धिः स्यान्नस्यात् फलपरायणः || १९ || भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् | भावेन गोत्रवृद्धिः स्याद्भावेन कुलशोधनम् || २० || किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः | किं तथा पूजनेनैव यदि भावो न जायते || २१ || केनैव [घ्: केनापि] पूज्यते विद्या न च केन [घ्: न केनापि] प्रपूज्यते | फलाभावाच्च देवेशि भावाभावः प्रजायते || २२ || भावनारसमापन्नो भवेद् योगी महाकविः | जडोऽपि शुद्धतां याति भावनारसतत्परः || २३ || शुद्धाशुद्धं हि देवेशि भावेन लभते ध्रुवम् | बन्धं मुक्तिं तथाभावं भावेन लभतेऽपि च || २४ || पशुं वीरञ्च दिव्यञ्च कौलञ्च परमेश्वरि | भावेन लभते सर्वं पापं पुण्यञ्च निश्चितम् || २५ || मानञ्चैवापमानञ्च सुखं [ग्, घ्: हृष्टं] दुःखं महेश्वरि | जीवात्मानं परात्मानं भावेन लभतेऽपि च || २६ || आनन्दञ्च निरानन्दं पानञ्चैवह्यपानकम् | भुक्तम्बा चोपवासम्बा भावेन लभते ध्रुवम् || २७ || ब्राह्मणं क्षत्रियं वैश्यं शुद्रञ्च परमेश्वरि | भावेन लभतेऽप्येतान् भावेऽप्येतान् विनश्यति || २८ || लघुं गुरुं शिवं शक्तिं पूज्यं पूजाञ्च पूजकम् | भावेन लभतेऽप्येतान् भावेऽप्येतान् विनश्यति || २९ || प्. २६) श्रीदेव्युवाच - भावमात्रं जगत् सर्वं सृष्टिस्थित्यन्तकारकम् | तेषां मध्ये श्रेष्ठभावं ममस्थाने प्रकाशय || ३० || श्रीमहादेव उवाच - चतुर्धा भावमात्रं हि चतुर्धाचारमात्रकम् | प्रकाशमात्रं त्रिविधं भावाचारं महेश्वरि || ३१ || अथ चतुर्धा भावलक्षणम् | अधमा देहान् भावन्ति जीवं भावन्ति मध्यमाः | मोक्षं भावन्त्युत्तमाश्च भावातीतास्तदुत्तमाः || ३२ || अधमाः स्वकुलाचाराः श्रुत्याचारास्तु मध्यमाः | उत्तमा मोक्षदाचाराः स्वेच्छाचारास्तदुत्तमाः || ३३ || अधमा प्रतिमा पूजा जपस्तोत्रादि-मध्यमा | उत्तमा निजपूजा [घ्: मानसी पूजा] च सोऽहं पुजोत्तमोत्तमा || ३४ || अधमा इह पश्यन्ति परकालन्तु मध्यमाः | मोक्षं पश्यन्त्युत्तमाश्च नापश्यन्त्युत्तमोत्तमाः || ३५ || अधमाः कर्मभीताश्च भक्तिभीताश्च मध्यमाः | उत्तमा मोक्षभीताश्च भीतो नास्त्युत्तमोत्तमाः || ३६ || नरजन्माधमा ज्ञेया देवादिजन्म-मध्यमाः | ज्ञानी जन्मोत्तमः मोक्तो जन्म नास्त्युत्तमोत्तमः || ३७ || अधमो जन्मसंख्यातो जन्मजन्म च मध्यमः | उत्तमश्चैकजन्मापि जन्म नास्त्युत्तमोत्तमः || ३८ || अधमं कृत्रिमं यन्त्रं पुष्पादियन्त्रमध्यमम् | उत्तमं योनियन्त्रश्च सर्वयन्तोत्तमोत्तमम् || ३९ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे सप्तमोल्लासः || ० || अष्टमोल्लासः | अथ त्रिविधप्रकारभावाचारलक्षणम् | समयाचारतन्त्रे श्रीशिव उवाच - भावस्तु त्रिविधो देवि दिव्य-वीर-पशु-क्रमात् | आचारस्त्रिविधो देवि क्रमेणोदाहृतो मया || १ || एक एव महान् भावो नानात्वं भजते प्रिये | परादिभावभेदेन भावभेदस्त्रिधापि च | एकभावः परं ब्रह्म सर्वविघ्नप्रणाशकम् || २ || कुमारीतन्त्रे श्रीदेव्युवाच - देव-देव महादेव लोकानां हितकारक | एकभावः कथं देव मम स्थाने प्रकाशय || ३ || श्री शिव उवाच - द्विवर्षादधिकं यावत् यावदष्टाब्दकन्यका | कुमारी तत्र विख्याता यन्त्र-तन्त्रफलप्रदा || ४ || तस्याः षोडशपर्यन्तं युवती च प्रचक्षते | तत्र भावः प्रकाशो यः स भावः परमो मतः || ५ || दशवर्षाधिका नारी षोडशाब्दं महेश्वरि | तावद् युवती विख्याता तस्यां पूजा महाफला || ६ || षोडशाब्दे कलापूर्णा षोडशाब्दे कला स्थिता | तदन्ते षोडशाब्दे च कला साध्यकला शिवे || ७ || प्. २८) श्रीदेव्युवाच - देवेश करुणानाथ मम प्राणाधिक प्रिय | कला का परमेशान मम स्थाने प्रकाशय || ८ || श्रीशिव उवाच - योनिस्थानं कला ज्ञेयं कामवायुयुतं यदि | कामवायुमुज्झितायाः पूजने नास्ति योग्यता || ९ || विभावे पशुभावे च गन्धपुष्पाक्षतादिभिः | कुमारीं पूजयेद्देवि कामभावेन [घ्: वीरभावेन] पूजयेत् || ० || १० || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे अष्टमोल्लासः || ० || नवमोल्लासः | तत्रान्तरे श्रीदेव्युवाच - देवेश [इतः प्रभृति शमुद्रवऽऽ इत्यन्तं श्लोकपञ्चकं ऽऽघऽऽ पुस्तके नास्ति | तत्र पाठोऽयं दृश्यते - नारायणीतन्त्रे श्रीशिव उवाच - त्रिधाचारं त्रिभावञ्च कौलाचारस्य कारणम् | पश्वाचारश्च वीरश्च दिव्यः कौलो न संशयः | सिद्धान्तं वा महेशानि कौलभावं समाश्रितम् || १ || श्रीदेव्युवाच - वैष्णवश्चैव शैवश्च शाक्तश्च परमेश्वर | दिव्यः सिद्धन्तः कौलश्च षट्प्रकारः कथं वद || २ || श्रीशिव उवाच - पश्वाचारं त्रिधा ज्ञेयं वीराचारस्त्रिधा प्रिये | चतुर्धा दिव्यः कौलश्च शक्तेश्च पुरुषस्य च || ३ || वैष्णवः शैवो दिव्यश्च कौलभावयुता पशुः | दक्षिणो वामसिद्धान्तः कौलयुक्तो हि शाक्तकः || ४ || ] प्राणनाथेश पार्वतीप्राणवल्लभ | षडाचारं चतुर्भावं कौल्ज्ञानञ्च किं वद || १ || श्रीशिव उवाच - पश्वाचारस्त्रिधा ज्ञेयो वीराचारस्त्रिधा शिवे | पौरुषस्य [क्: पौरुषस्य - पुंदेवतासाधकस्येत्यर्थः] च शाक्तस्य [क्: शाक्तस्य - शक्तिदेवतासाधकस्येत्यथः] चतुर्धाभावसंयुतात् || २ || प्. ३०) पशुभावयुताः कौला वैद्य-वैष्णव-शैवकाः | वीरभावयुताः कौलाः सिद्धान्तो [ङ्: सिद्धन्तौ] वामदक्षिणौ || ३ || पशुश्च द्विविधो देवि सभावश्च विभावकः | वीरश्च द्विविधो देवि विभावश्च सभावकः || ४ || एवं चतुर्विधा भावाः पञ्चमी दिव्यभावकः | सर्वे कौलपथालम्बा नद्यादीनां समुद्रवत् || ५ || कौलं हि परमेशानि प्रकृति-पुरुषात्मकम् | द्वन्द्वातीतं क्रियातीतं केवलं भाववर्जितम् | कौलार्थं हि क्रियामात्रं कौलेषु मुक्तिभाग् भवेत् || ६ || अथ कौलज्ञानस्यकारणम् | ज्ञान्द्वीपे - सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवोत्तमः | वैष्णवादुत्तमः शैवः शैवाच्च शाक्त उत्तमः || ७ || शाक्तश्च द्विविधो देवि वामदक्षिणभेदतः | दक्षिणादुत्तमो वामो वामात् सिद्धन्त उत्तमः || ८ || सिद्धान्तादुत्तमः कौलः कौलात् परतरो न हि | कौलाचारं सर्वबीजं कौलाचारमयं जगत् | कौलाचारं भावमात्रं कौलं हि भाववर्जितम् || ९ || [ग्, ङ्: सिद्धान्तौ] एतैराचारैर्योगाधिकारी निरूपितो यथा - पिपीलिका क्षुद्रवृहच्च मण्डूकस्तिर्यक् कपिः पक्षि (?) रजागरो यथा | श्रुत्यादि चाचारवशाद्भविष्यति योगाधिकारो क्रमशः प्रतिष्ठः || इति नागभट्टः | अथ पश्वाचारः | समयाचारतन्त्रे श्रीशिव उवाच - वेदोक्तेन यजेद्देवं कामसङ्कल्पपूर्वकम् | य एव वैदिकाचारः [ङ्: वैष्णवाचारः] पश्वाचारः स एव हि || १० || न मत्स्य - भोजनं देवि न स्त्रियं मनसा स्मरेत् | परद्रव्ये न लोभः स्यान्न भोगं मनसा स्मरेत् || ११ || सिन्धुतीरे कानने वा पर्वते वा सुरालये | बिल्वमूले विविक्ते च पुण्यक्षेत्रे सुशोभने || १२ || देवता शुद्धभावेन ध्यातव्या सुसमाहितः [क्: सुसमाहितैः] | न शूद्रदर्शनं कुर्यात् कौटिल्यं दूरतस्त्यजेत् || १३ || त्रिसन्ध्यां पूजयेद्देवं त्रिसन्ध्यां जपमाचरेत् | रात्रौ यन्त्रञ्च मालाञ्च स्पृशेन्नैव कदाचन || १४ || वीरकार्यकथालापं न कुर्याद् गुरुनिन्दनम् | निन्दनं कल्पनं ज्ञेयं गुर्वन्तर-गुरुर्यदि | यथात्मकल्पनं जीवं तत्त्वज्ञानस्य कारणम् || १५ || गुरुतन्त्रे गुरुनिन्दनम् | मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् | ज्ञानलुब्धस्तथा शिष्यो गुरोर्वुर्वन्तरं व्रजेत् || १६ || दीक्षाशिक्षाविभेदेन गुरुः स्याद्विविधः प्रिये | शिक्षागुरुं न कुर्वीत पशुभावयुतो यदि || १७ || पशुभावयुता नारी पतिं पत्युर्न कल्पयेत् | तथा गुरुं पशुर्देवि गुरोरन्ध्रं न कल्पयेत् [घ्: कारयेत्] || १८ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे नवमोल्लासः || ० || दशमोल्लासः | गुरुतन्त्रे गुरुलक्षणम् | श्रीदेव्युवाच - देवेश प्राणनाथेश नमामि चरणाम्बुजे | नानाचारयुतो लोको वद केन भविष्यति || १ || केन रूपेण देवेश पश्वाचारं प्रजायते | वीरं दिव्यञ्च कौलञ्च सिद्धान्तं केन तद्वद || २ || श्रीमहादेव उवाच - गुरुश्च परमेशानि यदाचारी भवेन्मुदा | तदाचारयुतो मन्त्री भविष्यति युगे युगे || ३ || निरुत्तरे - पशु-गुरोर्लब्धमन्त्री [घ्: मन्त्रलब्धः] पशुरेव न संशयः | वीरमुखान्मन्त्रलब्धो वीर एव न संशयः || ४ || सिद्धान्तान्मन्त्रसंलब्धः सिद्धान्तो नात्र संशयः | पश्वाचारं विना देवि पञ्चतत्वं युतं [घ्: पञ्चतत्त्वयुतं] शुभम् || ५ || पश्वाचारस्तु विज्ञेयः पञ्चतत्त्वेषु [घ्: परतत्त्वेषु] निन्दकः | तस्मात् सर्वप्रयत्नेन पशोर्दीक्षां न कल्पयेत् || ६ || पञ्चतत्त्वं विना देवि शक्तिमन्त्रं वृथा भवेत् | अत एव पशोर्दीक्षां वीरभावी न चाचरेत् || ७ || पशूनाञ्चेद् गुरुः शाक्तो वीराणा`न्चेद्गुरुः पशुः | यथा वृद्धस्य तरुणी [घ्: रमणी] वृद्धायाः कैशरः (?) [च्: शैशवः] पतिः || ८ || प्. ३३) निगम कल्पद्रुमे - न रूपमस्यापि न भावभाविनी, रूपस्य भावस्य सदात्मभाविनः | यथा जलं द्रव्यगुणेन शङ्कर ! नानाविवर्णं हि गुरुश्च लक्षणम् || ९ || अथ शाक्तगुरुप्रशंसा | कौलिकान्मन्त्रं संगृह्य जपकर्मचरन् हर | यदि मुक्तिर्न जायेत तदा वाक्यं वृथा मम || १० || पशोर्दीक्षां न कुर्वीत कुलधर्मपरायणः | पशोर्दर्शनमात्रेण कौलिकानां क्रियाक्षयः | तस्मात् सर्वप्रयत्नेन पशोर्दीक्षां विवर्जयेत् || ११ || भैरवतन्त्रे - सभावानां विभावानां पशूनां परमेश्वरि | वीरभावान्वितो मन्त्री पशोर्दीक्षां विवर्जयेत् || १२ || सभावानां विभावानां वीरो दीक्षां करोत्यपि | कुलनाथं समाश्रित्य पुनर्दीक्षां समाचरेत् || १३ || सभावे दीक्षिते मन्त्रे रोगशोकभयानकः | विभावे दीक्षिते मन्त्रे केवलो भयमात्रकः || १४ || कुलाचाररतो विप्रः कुलशास्त्रार्थतत्त्ववित् | तन्मुखात् श्रवणान्मन्त्रः सर्वसिद्धिप्रदो भवेत् | तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् || १५ || अथ गुरुलक्षणमाह - स्थूलस्तेजस्तथा सूक्ष्मस्त्रिधामात्रं गुरुः शिवे | त्रिधैकं चिन्तयेद् यस्तु भावातीतं गुरुं प्रिये || १६ || प्. ३४) कदाचित् स सहस्रारे मन्त्रध्येयो गुरुः सदा | कदाचित् हृदयाम्भोजे [ग्: -म्बुजे] कदाचिद् दृष्टिगोचरे || १७ || सूक्ष्मध्यानं सहस्रारे तेजो ध्यानं हृदि प्रिये | स्थूलध्यानं बाह्यदेशे त्रिविध ध्यानजं फलम् || १८ || अथ श्रीगुरोः सूक्ष्मध्यानम् | गुरुगीतायां - ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् | द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् || १९ || एकं नित्यं विमलमचलं सर्वदा साक्षिभूतम् | भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि || २० || नित्यं शूद्धं निराभासं निर्विकारं निरञ्जनम् | नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् || २१ || अथ श्रीगुरोस्तेजोध्यानम् | हृदम्बुजे [घ्: हृद्यम्बुजे] कर्णिकमधासंस्थं, सिंहासनेसंस्थितदिव्यमूर्तिम् | ध्यायेद् गुरुं चन्द्रकलावतंसं, सच्चित् सुखाभीष्ट वरप्रदानम् || २२ || श्वेताम्बरं श्वेतविलेपयुक्तं मुक्ताकलाभूषितदिव्यमूर्तिम् | वामाङ्ग [ग्: वामाङ्क] पीठेस्थितदिव्यशक्तिं मन्दस्मितं पूर्णकृपानिधानम् || २३ || आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् | योगीन्द्रमीड्यं भवरोग्वैद्यं, श्रीमद्गुरुं नित्यमहं नमामि || २४ || अथ श्रीगुरोः स्थूलध्यानम् | यदाज्ञया स्थूलतेजः सूक्ष्माणि परमेश्वरि | त्रिधा ध्याने ध्याननिष्ठः स गुरुः स्थूलरूपकः || २५ || इति श्रीसर्वानन्दनाथविरचिते सर्वाल्लासे दशमोल्लासः | एकादशोल्लासः | श्रीदेव्युवाच - त्वदीयकृपया देव ध्यानं हि त्रिविधं श्रुतम् | अधुना श्रोतुमिच्छामि सद्गुरोर्लक्षणं प्रिय || १ || अथ सद्गुरुलक्षणम् | श्रीशिव उवाच - त्रिधामात्रं गुरोर्ध्यानं त्रिधापि सन्महेश्वरि | सहस्रारे हृद्म्भोजे बाह्येऽपि परमेश्वरि || २ || स्थूले तेजसि सूक्ष्मेऽपि सत्शब्दं विनियोजितम् | सच्छन्दं च विना भद्रे गुरुशब्दं नचेत् क्वचित् || ३ || सद्गुरुः परमेशानि शुद्धवेशमनोहरः | सर्वलक्षणसम्पूर्णः सर्वावयव-शोभितः || ४ || सर्वागमार्थतत्त्वज्ञः सर्वशास्त्रविशारदः | लोके सम्मोहनकरो देवताभावदर्शकः || ५ || इत्यादि लक्षणोपेतः सद्गुरुः कथितः प्रिये | गुरुश्च परमेशानि केवलः श्रेष्ठबोधकः | श्रेष्ठातिश्रेष्ठं सच्छब्दं सौवर्ण कुण्डलं यथा || ६ || निरुत्तरे - भावस्तु त्रिविधो देवि दिव्य-वीर-पशु-क्रमात् | गुरवश्च त्रिधा प्रोक्तास्तथैव मन्त्रदेवताः || ७ || कुलशास्त्ररता देवि गुरवो वहवः स्मृताः | कुलतत्त्व-विहितज्ञो गुरुरेको हि दुर्लभः || ८ || प्. ३६) वामकेश्वरे - त्रिविधाचारसंयुक्ता गुरवोऽपि ह्यनन्तकाः | भावयुक्तं वरारोहे भाग्येन लभतेऽपि च || ९ || भाग्येन परमेशानि सद्गुरुं लभते यदि | कुलदीक्षां तदा कुर्याद् दृष्ट्वा श्रुत्वा न कारयेत् || १० || कुलार्णवे - पुस्तके लिखितं दृष्ट्वा कुलाचारं करोति यः | नाशयन्ति कुलं तस्य संक्रुद्धा योगिनीगणाः || ११ || गुरुं ज्ञात्वा भावयुक्तश्चरेदाचारसम्मतः | स्वेष्टविद्या भवेत् सिद्धिर्देहस्य [घ्: देहानां] देहिनं यथा || १२ || दृष्ट्वाचारं न भावाक्तो न गुरुञ्च कुलञ्चरेत् | वृथाचारो भवेत्तस्य न वन्धं जलसेचनम् || १३ || गुरुं विना महेशानि फलभाग् जायते यदि | कान्तं विना पुत्त्रवती तदा कान्ता भविष्यति || १४ || अत एव गुरुं कुर्याद् यथाभावविधानतः | तन्मुखात् श्रवणात् कार्ये फलभाग् जायते नरः || १५ || गुरूपदिष्टविधिना कौलाचारपरो नरः | संपूजा परमां देवीं स याति परमां गतिम् || १६ || गुप्तसाधनतन्त्रे - त्रयोदश-गुणोपेतो गुरुरेको हि दुर्लभः | तेषां मध्ये गुणैकाक्तो दुर्लभो गुरुरीश्वरि || १७ || त्रयोदशगुणासक्तो गुरुः साक्षात् सदाशिवः | दर्शनात् मुच्यते पापात् क्रियापि सुफला भवेत् || १८ || प्. ३७) श्रीदेव्युवाच - कुलेश प्राणनाथेश लक्षणं हि त्रयोदशम् | कथयस्व मम स्थाने यदि ते मययनुग्रहः || १९ || श्रीशिव उवाच - शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेशवान् | शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् || २० || आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः | निग्रहानुग्रहे शक्तो गुरुरित्यवधीयते || २१ || अथ शान्तः | येन केनापि सन्तुष्टः क्रियायाञ्च सुदक्षकः | स शान्तो हि हृष्टमनाः सर्वदा देव-तत्परः || २२ || अथ दान्तः | भक्ताभक्ते ज्ञानवाक्यं सानन्देन प्रयच्छति | दयायुक्तो रागमुक्तो दान्तेति गुरुलक्षणम् || २३ || अथ कुलीनः | कुलाचारी कुलज्ञानी कुलतत्त्वप्रदायकः | कुलागारे क्रियायुक्तः [घ्: -शक्तो] कुलीनो गुरुरीश्वरि || २४ || अथ विनीतः | दयावाक्येन देवेशि ज्ञानवाक्यं मुहुर्मुहुः | अभक्तभक्तिजनको विनीतो गुरुलक्षणम् || २५ || प्. ३८) अथ शुद्धवेशः | भूषणं यस्य देवस्य धारयेत्तस्य भूषणम् | तदाचाररतो देवि गुरुः स्यात् शुद्धवेशवान् || २६ || अथ शुद्धाचारः | आचारं यस्य देवस्य तदाचारी भवेद् यदि | स्तुतिनिन्दाविनिर्मुक्तः शुद्धाचारो गुरुः स्वयम् || २७ || अथ सुप्रतिष्ठः | देवता शुद्धभावेन शुद्धज्ञानेन सेविता | सुप्रतिष्ठो गुरुर्देवि सर्वदानन्दपालकः [घ्: सर्वानन्दप्रदायकः] || २८ || अथ शुचिर्दक्षः | अनाचाराचारयुक्तो नास्ति तीर्थेषु वासना | शुचिर्दक्षो गुरुर्देवि सर्वकार्येषु दक्षकः || २९ || अथ सुबुद्धिमान् | जीवात्मा परमेशानि परमात्मनि लीयते | सुबुद्धिमान् गुरुर्देवि सोऽहं ज्ञानं विनश्यति || ३० || अथाश्रमी | पुत्त्रदारादिसम्बन्धं सर्वभिष्टस्वरूपकम् | तस्मिन्नानन्दमाश्रित्य आश्रमी गुरुरीश्वरि || ३१ || अथ ध्याननिष्ठः | त्रिविधं ध्यानमाश्रित्य आत्मानं पूजयेद् यदि | स गुरुः परमेशानि ध्याननिष्ठो भवेद् ध्रुवम् || ३२ || प्. ३९) अथ मन्त्रतन्त्रविशारदः | मानसं त्रायते यस्तु मनः सन्देहनाशकृत् | स गुरुः परमेशानि मन्त्रतन्त्रविशारदः || ३३ || अथ निग्रहानुग्रहे शक्तः | मुक्तस्य बन्धदातृत्वं बन्धस्य मुक्तदायकः | निग्रहानुग्रहे शक्तो गुरुरित्यवधीयते || ३४ || इति श्रीसर्वानन्दनाथ-विरचिते सर्वोल्लासे एकादशोल्लासः || ० || द्वादशोल्लासः | अथ वैष्णवाचारः | सर्वधर्मान् परित्यजा इष्टभक्तिश्च जायते | स एव वैष्णवाचारः कामसङ्कल्पवर्जितः || १ || समयाचारतन्ते - वैष्णवः पशुभावेन पूजयेत् परमेश्वरम् | शक्तितन्त्रे वरारोहे पशुभावो भयङ्करः || २ || पशुभावे यजेद्देवं भक्तिभावयुतः शिवे | यदि स्यात् पूजयेद्देवीं वृथा तस्य परिश्रमः || २ || पशुभावे महेशानि मन्त्रवर्णस्वरूपकम् | वीरभावेऽपि तन्मन्त्रं चतुर्वर्गफलप्रदम् || ४ || पशुभावाश्रितो मन्त्री यदि कालीं प्रपूजयेत् | रौरवं नरकं याति यावदाहूतसंप्लवम् || ५ || अथ पशूनां शक्त्यर्चने निषेधः | कुलार्णवे - मांसं भुक्ता सुरां पीत्वा गत्वा चैव रजस्वलाम् | पूजयेत् कालिकां देवीमन्यथा निष्फला भवेत् || ६ || अभुक्ता न यजेद्देवीं भुक्ता देवीं प्रपूजयेत् | अभुक्तः पूजनेनैव विष्ठायां जायते क्रिमिः || ७ || जितेन्द्रियो हविष्याशी शक्तिपूजां न चाचरेत् | अन्यार्चने महादेवि चेति भावेन पूजयेत् || ८ || प्. ४१) अन्यदेवार्चनश्रद्धामन्यदेवप्रपूजनम् | कुलस्त्रीवीरनिन्दाञ्च परद्रव्यापहारणम् | स्त्रीषु रोषं प्रहारञ्च [क्, ग्: नकर्तव्यं] वर्जयेत् परमेश्वरि || ९ || पिच्छिलायां - गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः | स्वेष्टदेवं स्तुवन् भाव्यमन्यदेवं न पूजयेत् || १० || तीर्थ-पर्यटनं देव-पूजनं तर्पणादिकम् | वर्जयेत् परमेशानि गुरोरन्यं न भावयेत् || ११ || अथ वैष्णवस्य समाधिः | अन्यदेवं स्वेष्टरूपं रूपं ज्ञात्वा क्रियाञ्चरेत् | दर्पणेषु यथा बिम्बं तथान्यदेवरूपकम् || १२ || एकदेवं विना देवि नास्ति देवो महीतले | एकसूर्यं विना सूर्यो नास्तीह जगति यथा || १३ || बहुपात्रे स्थिते तोये बहुसूर्ये यथा प्रिये | बहुभावे तथा देवं बहुरूपेषु दृश्यते || १४ || निगमतत्त्वे - धर्मस्वरूपं जगतां सर्वबीजं पुरातनम् | धर्मं त्यक्त्वा महादेवि किमालम्बितमास्थितः || १५ || श्रीदेव्युवाच - सर्वधर्मान् परित्यज्य एकधर्मं समाश्रयन् धर्मात्मनो देवतात्म-स्वात्मनोः परिचिन्तनम् || १६ || स्वेष्टविद्या धर्मरूपा नित्या स्वात्मप्रकाशिनी | यथा स्तनं बालकस्य पानं धर्मात्मवर्द्धनम् || १७ || इति सर्वानन्दनाथविरचिते सर्वोल्लासे द्वादशोल्लासः || ० || त्रयोदसोल्लासः | अथ इष्टभक्तिः | निगमतत्त्वे श्रीशिव उवाच - त्वं देवि परमा पूर्णा सर्वसम्पत्फलप्रदा | किमिष्टं कापि भक्तिः स्यात् मम स्थाने प्रकाशय || १ || श्रीदेव्युवाच - गुरुवक्त्रे स्थितो देवस्तदेवेष्टस्वरूपकः | क्रियापि तस्य वाक्ये स्यात् क्रियेति भक्तिकल्पना || २ || या क्रिया सापि भक्तिः स्याद् या भक्तिः सा क्रियापि च | भक्तिरूपा स्वेष्टविद्या विना भक्तिं न लभ्यते || ३ || विना भक्तिं न तज्ज्ञानमतो भक्तिरुदाहृता | सा भक्तिस्त्रिविधा देव चोत्तमा मध्यमाधमा || ४ || उत्तमा सात्त्विकी भक्ती राजसी भक्तिर्मध्यमा | तामसी भक्तिरधमा त्रिधा भक्तिर्महेश्वर || ५ || मानसी सात्त्विकी भक्तिर्वाह्यभक्तिश्च राजसी | तामसी दाम्भिकी भक्तिस्तासां भेदं वदम्यहम् [क्, ग्: तेषां भेदमिदं शिव] || ६ || समयाचारतन्त्रे श्रीदेव्युवाच - देवेश प्राणनाथेश लोकानां हितकारक | भावभेदेन कथय साधकस्यापि लक्षणम् || ७ || प्. ४३) श्रीशिव उवाच - साधका स्त्रिविधाः प्रोक्ताः सात्त्विको राजसः प्रिये | तामसश्च महेशानि तेषां वक्ष्यामि लक्षणम् || ८ || अथ सात्त्विक-साधकलक्षणम् | अन्तःशुद्धो वहिःशुद्धः सदेश्वर-परायणः | सर्वेषां प्राणिनां देवि दयायुक्तः स सात्त्विकः | स सात्त्विको महेशानि सर्वदा देवतत्परः || ९ || अथ राजसिक-साधकलक्षणम् | श्रद्धयातिसुवस्त्राद्यैरात्मानं देवतां यजेत् | रागेण सर्वदा तुष्टो राजसः परिकीर्तितः | स राजसो महेशानि रागात्मा रागकाङ्क्षणः || १० || अथ तामस-साधकलक्षणम् | बहुक्रोधी जल्पभाषी परद्वेषी प्रवञ्चकः | अश्रद्धया यजेद्देवं तामसः परिकीर्तितः || ११ || कुवेशं देवतां कृत्वा श्रद्धयाऽश्रद्धया यजेत् | क्रियायां दक्षिणाहीनः सोऽपि तामसलक्षणः || १२ || भावचूडामणौ श्रीदेव्युवाच - केन रूपेण देवेश साधको मुक्तभाग् भवेत् | कथय प्राणनाथेश यदि ते मययनुग्रहः || १३ || श्रीमहादेव उवाच - पूजामूलापि भक्तिः स्याद् विना पूजां न भक्तिभाक् | सा पूजा त्रिविधा प्रोक्ता चोत्तमा मध्यमाधमा || १४ || प्. ४४) सात्त्विकी त्रिविधा पूजा राजसी त्रिविधा शिवे | तामसी त्रिविधा पूजा तासां भेदं वदाम्यहम् || १५ || अथ त्रिविधसात्त्विकीपूजालक्षणम् | अहमेव परा देवी मयि सर्वमिदं जगत् | सा पूजा सात्त्विकी ज्ञेया पूजामध्येषु गोपिता || १६ || देवतनिजरूपं यत् मानसैश्चिन्तयेद् हृदि | सा पूजा सात्त्विकी ज्ञेया मध्यमा प्राणवल्लभे [घ्: कथितं] || १७ || मानसैः पूजयेद्देवीं श्रद्धया चोपचारकैः | सा पूज सात्त्विकी ज्ञेया चाधमा प्राणवल्लभे || १८ || अथ त्रिविधराजसीपूजालक्षणम् | आत्मवत् पूजयेद्देवीं श्रद्धया चोपचारकैः | कामसङ्कल्परहिता पूजा राजसिकोत्तमा || १९ || उपचारैर्यजेद्देवीं केवलं प्रीतिहेतवे | देव्याः सा राजसी पूजा मध्यमा प्राणवल्लभे || २० || आत्मार्थे वा परार्थे वा श्रद्धया पूजयेत् शिवाम् | कामसङ्कल्पसंयुक्ता पूजा राजसिकाधमा || २१ || अथ त्रिविधतामसीपूजालक्षणम् | आत्मनोऽपि परस्यापि दाम्भिकार्थे यजेत् शिवाम् | श्रद्धान्विता कामयुक्ता सा पूजा तामसोत्तमा || २२ || लौकिकार्थे दाम्भिकार्थे सङ्कल्पेन यजेत् शिवाम् | सा पूजा तामसी ज्ञेया मध्यमा प्राणवल्लभे || २३ || प्. ४५) स्वलाभात् परहिंसार्थे श्रद्धया पूजयेत् शिवाम् | सा पूजा तामसी ज्ञेया चाधमा प्राणवल्लभे || २४ || श्रद्धाहीना च या पूजा सा पूजा न फलप्रदा | पूजामूला भवेद्भक्तिर्भक्तिमूलं हि पूजनम् | परस्परं विना न स्यात् ज्ञानं ज्ञेयं यथा प्रिये || २५ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रयोदशोल्लासः || ० || चतुर्दशोल्लासः अथ बलिदानम् | ज्ञानार्णवे श्रीदेव्युवाच देवदेव महादेव लोकानां ज्ञानदायक | भावभेदेन कथय बलिदानस्य लक्षणम् || १ || श्रीशिव उवाच - कलिश्च त्रिविधा देवि सात्विकी राजसी तमी | बलिदानं विना देवि पूजने नास्ति योग्यता || २ || पूजासारं महादेवि बलिदानं यथाविधम् | बलिदानं भवेत् सारं पूजने ज्ञान्वान् यदि || ३ || अत एव महादेवि बलिं दद्यात् प्रयत्नतः | बलिदानं विधानेन किं न सिध्यति भूतले || ४ || अथ सात्विकी बलिः | सात्विकीबलिमाख्यातां मांसरक्तादिवर्जिताम् | यतो ब्रह्ममयं देहं घातयेत् केन कर्मणा || ५ || सत्सत्त्वं सृष्टिमात्रं हि भावमात्रं प्रकाशितम् | सत्त्वेवारम्भकं सृष्टिं बलिदानं लयं शिवे || ६ || अत एव महेशानि सत्त्वेन बलिदानकम् | मांसरक्तादिरहितं बलिदानं फलं शुभम् || ७ || नराश्वमेधं मद्यञ्च कलौ वर्ज्यं द्विजातिभिः [घ्: विचक्षणैः] | प्रानिहिंसा नचेत् सत्ये त्रेतायां द्वापरे शुभम् || ८ || प्. ४७) नराश्वमेधं संवर्ज्यं कलौ न ज्ञानवान यतः | नरानुकल्पं महिषं महिषस्य च छागलम् || ९ || छागस्य कल्पनं मेषं मेषस्य पक्षिणं शिवे | पक्षिणश्चापि [क्, ग्, घ्, ङ्: पक्षिणस्यापि] मत्स्यं हि मत्स्यस्य कीटमात्रकम् || १० || अनुकल्पं कलौ भद्रे द्रव्याभावे परित्यजेत् || ११ || अर्चने महिषदानेऽपि चाश्वमेधफलं लभेत् | फल्भाग् जायते मन्त्री बलिं दद्याद् यथाविधि | बलिदानं विना देवि हिंसा सर्वत्र गर्हिता || १२ || तन्त्रचूडामणौ - एणमप्यविधानेन छेदयेन्न कदाचन | विधिनापि द्विजं गाम्बा हत्वा पापैर्न लिप्यते || १३ || तथापि परमेशानि ज्ञानी नैवापि लुब्धकः | बलिमात्रं द्विधा ज्ञेयं तयोर्भेदं शृणुष्व मे || १४ || बलिः पूजोपहारः स्यात् प्राणिदानं द्वितीयकम् | बलिमाद्यं निवृत्ते तु प्रवृत्तिः स्यात् पशुं प्रिये | बलिहीना च या पूजा सा पूजा न फलप्रदा || १५ || अथ राज्सिकबलिः | राजसं बलिमाख्यातं सुवेशं रागसंयुतम् | मांसरक्तादिसंयुक्तं कृष्णवर्णं विशेषतः || १६ || कृष्णवर्णं नाधिकाङ्गभङ्गहीनमरोगिणम् | एवं दत्वा बलिं पूर्णं फलमाप्नोति साधकः || १७ || शिशुना बलिदानेन हन्ति पुत्रञ्च चण्डिका | वृद्धेनैव गुरुजनं [घ्: गुरुं हन्यात्] कृशेन बान्धवं तथा || १८ || प्. ४८) धनञ्चैवाधिकाङ्गेन हीनाङ्गेन प्रजान्तथा | कामिनीं शृङ्गभङ्गेन काणेन भ्रातरं तथा || १९ || घण्टिकेन भवेन्मृत्युर्विघ्नञ्च [घ्: विघ्नस्यात्] चित्रमस्तके | हतं मित्रं ताम्रपृष्ठे भ्रष्टश्रीः पुच्छहीनतः || २० || मुण्डमालातन्त्रे - मातुर्मायाश्रितो यावत्तवच्छिशुमुदाहृतम् [घ्: शिशुरुदाहृतः] | तस्यापि घातने भद्रे स्वात्मपुत्त्रं विनश्यति || २१ || निर्विकारमयं देहं कदाचिन्नैव घातयेत् | विकारे शुक्र-सम्भूते [सञ्जाते] घातनं विधिबोधितम् [घ्: - बोधनम्] | शुक्रलीने [घ्: हीने]ऽपि वृद्धं हि घातनाद् गुरुघातनम् || २२ || अथ तामसिकबलिः | तामसस्तामसगुणैरालस्यादियुतः प्रिये | न श्रद्धया बलिं दद्यात् पूजादिषु तथा प्रिये || २३ | साधकानां न ते देवि केवलं नाममात्रकम् | बलिदानं वृथा तस्य केवलं प्राणि [घ्: पशु-]घातनम् || २४ || तामसः साधको देवि कदाचिन्नैव नैव च | पूजाहीनस्य भ्रष्टत्वात् नाममात्रस्तु साधकः || २५ || बलिदानं प्रदातव्यं येन तेन कृतेन च [घ्: केन क्रमेण च] | विधानं नैव कर्तव्यं बलिदानं हि मात्रकम् || २६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुर्दशोल्लासः || ० || पञ्चदशोल्लासः | वैष्णवो विष्णुभक्तञ्च विष्ण्वात्मात्मा यदा भवेत् | तदा ध्यानं सदा कार्यं वैष्णवीं परमां शिवाम् || १ || पश्वाचारस्य यत् शेषं शाक्ताचारस्य पूर्वकम् | शैवाचारमिदं प्रोक्तं पश्वाचारेण पूजयेत् || २ || प्रसादं च्यम्बकादिञ्च तान्त्रिकं हि महेश्वरि | वीराचारेण संपूज्यं पञ्चतत्त्वेन शङ्करि || ३ || अथ शैवाचरः | समयाचारतन्त्रे - अष्टाङ्गयोगसंयुक्तो यजेद्देवं विधानतः | यावज्ज्ञानं [घ्: ध्यानं] समाधिः स्यात्तावत् शैवं प्रचक्षते || ४ || अथाष्टाङ्गयोगः | कालिकाकुलसरस्वे - यमनियमासनप्राणायामप्रत्याहारध्यानधारणसमाधि- योगाङ्गाष्टानि पार्वति || ५ || आदौ यमलक्षणम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् | क्षमाधृतिं [घ्: प्रीति] मिताहारं शौचञ्चेति यमा दश | दशधा लक्षणं प्रोक्तं योगाङ्गस्य यमस्य च || ६ || प्. ५०) अथ नियमलक्षणम् | तपः सन्तोषमास्तिक्यं दानं देवस्य पूजनम् | सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपाहुतम् | दशधा नियमं प्रोक्तं योगाङ्गस्य च पार्वति || ७ || अथासनम् | १ | पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा | वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् || ८ || सव्यं पादमुपादाय दक्षोरूपरि विन्यसेत् [घ्: दक्षोपरि- न्यसेत्ततः] | तथैव दक्षिणं सव्ये चोपविष्टं [घ्: चोपविश्यं] विधानतः | पद्मासनमिति प्रोक्तं जपपूजादिषु प्रिये || ९ || २ | जानुभ्यामन्तरे सम्यक् कृत्वा पादतले उभे [घ्: शुभै] | ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्षते || १० || सीमन्याः पार्श्वयोर्न्यस्याद् गुल्पयुग्मं सुनिश्चितम् | वृषणाधः स्थितौ पादौ पाणिभ्यां परिरक्षयेत् | भद्रासनमिदं प्रोक्तं योगिभिः परिकल्पितम् [ग्, घ्: सारकल्पितं] || ११ || उरौ पादौ क्रमे न्यस्य कृत्वा प्रत्यंमुखांगुलीम् | करौ निरुध्या[घ्: निदध्यात्]दाख्यातं वज्रासनमुदीरितम् || १२ || एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् | ऋजुकायो विशेन्मन्त्री वीरासनमुदीरितम् || १३ || अथ प्राणायामः | प्राणायामं विना देवि पूजने नास्ति योग्यता | प्राणायामञ्चासनञ्च सर्वाचारस्य सम्मतम् || १४ || प्. ५१) त्रिपुरासारतन्ते - मूलाधारे कुण्डलिनी स्वयम्भू निद्रिता यदा | तदा कार्यं न कर्तव्यं क्रियामात्रे हि सुन्दरि || १५ || प्राणायामेन सा देवी स देवः परमेश्वरः | निद्रां त्यक्त्वा स्वेष्टरूपं धारयेत् परमेश्वरि || १६ || अथ प्राणायामस्य फलम् | मूलबीजेन बीजेन प्राणायामं समाचरेत् | प्राणायामं हि कथनं देवतायाः स्वरूपकम् || १७ || स्वरूपकथने देव स्वरूपं दर्शनं शिवे | स्वरूपदर्शनात् शीघ्रं स्वरूपञ्च स्वयं भवेत् || १८ || प्रमाणान्तरमाह गुरुगीतायाम् - कीटभृङ्गे वरारोहे यथा भवति पार्वति | गुरुध्यानात्तथा नित्यं देही ब्रह्ममयो भवेत् || १९ || त्रिपुरासारे - प्राणायामपरो ब्रह्मा प्राणायामपरो हरिः | प्राणायामः शङ्करोऽपि सृष्टिस्थितिलयात्मकः || २० || पूरकोऽपि भवेद्ब्रह्मा कुम्भकोऽपि हरिः स्वयम् | रेचकोऽपि स्वयं रुद्रः प्राणायामं गुणत्रयम् || २१ || कनिष्ठानामिकांगुष्ठैर्यन्नासापुटधारणम् | प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना || २२ || पूरकं वामनाड्यापि षोडशेन जपेन तु | कुम्भकं मध्यनाड्यापि चतुःषष्ट्या जपेन तु | रेचनं दक्षनाड्यापि तदर्द्धजपसंख्यया || २३ || प्. ५२) तन्त्रान्तरे - पूरयेत् षोडशैर्वायुं धारयेत्तच्चतुर्गुणैः [ख्: धारयेत्तु चतुगुणैः; घ्: कुम्भयेच्च चतुर्गुणैः] | रेचयेत् कुम्भकार्द्धेन अशक्त्या [घ्: यः शक्त्या] तत्तुरीयकम् || २४ || कुम्भकं पूरकं रेचमेवं (तदशक्तौ तच्चतुश्रमेव (ग, घ)|] प्राणस्य संयमः | इडायां पूरयेद्वायुं धारयेद्दक्षनासिकाम् || २५ || सुषुम्नायां कुम्भयेच्च नासापुटञ्च धारणम् | पिङ्गलायां रेचयेच्च धारणाद् वामनासिकाम् || २६ || निरुत्तरे - प्राणायामं द्विषट्केन प्रत्याहारः प्रकीर्तितः | प्रत्यहारद्विष्ट्केन जानीयाद्धरणं शुभम् || २७ || धारणं द्वादशं प्रोक्तं ध्यानं ध्यानविशारदः | ध्यानैर्द्वादशकैरेव समाधिरभिधीयते | समाधिमथ [घ्: समाधेरथ] कर्माणि करोति न करोति वा || २८ || केवलं कुम्भकाद्देवि [घ्: कुम्भकाद्धऽपि] किं न सिध्यति भूतले | खेचरत्वं समाधित्वं काले मृत्युर्विनश्यति || २९ || त्रिपुरासारे समाधिः | श्रीदेव्युवाच - देवेश प्राणनाथेश सदा तत्त्वप्रदायकः | अधुना श्रोतुमिच्छामि समाधिस्थस्य लक्षणम् || ३० || श्रीशिव उवाच - शैवोऽपि शिवभक्तश्च शिवात्मात्मा यदा भवेत् | तदा ध्यानं सदा कार्यं शिवं शान्तं जगन्मयम् || ३१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्चदशोल्लासः || ० || षोडशोल्लासः | अथ विभावपशुलक्षणम् | अनुकल्पैर्यजेद्देवीं वेदमार्गेण साधकः | पश्वाचारमिदं प्रोक्तं विभावस्य मतं शिवे [घ्: प्रिये] || १ || भावचूडामणौ | अथ मद्यानुकल्पम् | गोक्षीरं वह्निना पाच्यं कर्जुरस्य रसं प्रिये | गुडं तस्य मद्यतुल्यं ताम्बूलं चूर्णसंयुतम् || २ || व्यञ्जनं लवणैर्युक्तं आमान्नं घृतसंयुतम् | खर्जुरस्य रसञ्चैव [ङ्: गुढं] शर्करं गव्यसंयुतम् [घ्, ङ्: परमेश्वरि] | महोषोद्भवं मद्यतुल्यं विभावस्य मतं पशोः [घ्, ङ्: लवणं सैन्धवं विना] || ३ || अथ मांसानुकल्पम् | गोधूमं लोहितं चार्द्रं तिलं श्वेतं महेश्वरि | शरत्प्क्वं व्रीहिणञ्च लोहितं व्रीहिणं शिवे | [घ्: मद्यतुल्यं मांसखण्डं कुष्माण्डं परिकीर्तितम्] कुष्माण्डं मांसवज्ज्ञेयं विभावस्य मतं पशोः [ग्: शिवे] || ४ || अथ मत्स्यानुकल्पम् | नारिकेलं श्रीफलञ्च धात्रीफल-हरीतकीम् | दग्धञ्चेत् परमेशानि पशोर्मत्स्यं हि कल्पनम् || ५ || प्. ५५) मुद्रानुकल्पम् | विना लवणतोयाभ्यां भर्जितं व्रीहिणं शिवे | मुद्रानुकल्पं परमे विभावस्य मतं पशोः || ६ || अथ मैथुनानुकल्पम् | [अत्र (घ) -पुस्तकीयः पाठः, - पशूनां मैथुनं देवि स्वकरे यन्त्रकल्पनम् | तत्त्वमुद्धृत्य यत्नेन विना पर्वादिना शुभम् || भक्षयेत् तत्परं द्रव्यं मूलेन मनुना शिवे | पञ्चतत्त्वं विना देवि देवीमन्त्रं वृथा भवेत् || एतद्द्रव्यं न देवं हि न पेयं हि क्वचित् शिवे | वेदोक्तेन यजेद्देवं विभावस्य मतं पशोः ||] पशूनां मैथुनं नास्ति चिन्तनं परिकल्पितम् | सहस्रारे महापद्मे शिवशक्तिसमन्वितम् || ७ || तेनामृतेन परमे तर्पयेत् परदेवताम् | यत्स्तुष्टा भगवती स्वात्मबिम्बप्रकाशिनी || ८ || पञ्चतत्त्वं विना देवि देवीपूजा वृथा भवेत् | वेदोक्तेन यजेद्देवं विभावस्य मतं पशोः || ९ || अथ विभाववीरलक्षणम् | पिच्छिलायां श्रीदेव्युवाच - महादेव महायोगिन् तत्त्वज्ञानमयं वपुः | वीराचारं विभावस्य मम स्थाने प्रकाशय [ग्, घ्: वद प्रभो] || १० || श्रीशिव उवाच - वीराचारस्य कथने शङ्काभून्मम मानसे | कदाचिन्नैव वक्तव्यं पाषण्डे नास्तिके नरे || ११ || प्. ५६) ममैव प्राणसर्वस्वं वीरभावं कुलेश्वरि [घ्: महेश्वरि] | वीरभावं विना देवि देवीपूजा वृथा भवेत् || १२ || अथ विभाववीरः | न करोति महादेवि प्रकृत्यचारसंशयात् | मानसैकविभावेन पञ्चतत्त्वेन पूजयेत् || १३ || अथवा चानुकल्पैर्वा पूजयेत् परमेश्वरीम् | अनुकल्पैर्यजेद्देवीं तन्त्रमार्गानुसारतः | वीराचारमिदं प्रोक्तं विभावस्य मतं शिवे [ङ्: शाक्तानां सुखमोक्षदम्] || १४ || मानसैः पञ्चतत्त्वैश्च पूजां कुर्याच्च मानसैः | पञ्चतत्त्वस्यानुकल्पैर्वाह्ये देवीं प्रपूजयेत् || १५ || अथ पञ्चतत्त्वप्रमाणम् | वीरतन्त्रे - मद्यं मांस तथा मत्स्यं मुद्रा मैथुनमेव च | पञ्चतत्त्वमिदं प्रोक्तं शाक्तनां सुखमोक्षदम् || १६ || अथ मद्यानुकल्पम् | पिच्छिलायां - नारिकेलोदकं कांस्ये तक्रं गुडसमन्वितम् | आर्द्रकं गुडसंयुक्तं सिद्धान्नं दग्धदुग्धकम् | मद्यानुकल्पं परमे ! चतुर्वर्गफलप्रदम् || १७ || निरुत्तरे - ब्राह्मणो वीरभावेन सुरां पीत्वा जपेन्मनुम् | तदभावेऽपि गो-क्षीरं द्विजो दद्याद् युगे युगे || १८ || प्. ५७) ताम्बूलं ताम्रकूटञ्च त्वरिता ताडिता तथा | अहिफेणः खर्जुरसः धूस्तूरं सम्विदा तथा | एते चाष्टौ सुराः प्रोक्ताः साधकानन्ददायकाः || १९ || अथ मांसानुकल्पम् | लवणार्द्रकपिन्नाकस्तिलगोधूममासकाः | लसूनञ्च महेशानि मांसप्रतिनिधिः स्मृतः || २० || अथ मत्स्यानुकल्पम् | मत्स्याभावे दग्धद्रव्यं चानुकल्प. युगे युगे | मुद्राभावेऽपि क्षणकं भर्जितं परमेश्वरि || २१ || इति मुद्रानुकल्पम् | अथ पञ्चमानुकल्पम् | वृहद्योनितन्त्रे - साधकः कुलनिष्ठश्च यदि योनिं न पूजयेत् | क्रुद्धा भगवती तस्य निष्फलं जपपूजनम् || २२ || योन्यभावे महेशानि योनिरूपापराजिता | पूजयेत् साधकः श्रेष्ठो योनिपूजाफलाप्तये || २३ || श्रीदेव्युवाच - योनिः प्रोक्ताः पुरा देव सर्वस्य सुखमोक्षदा | तस्याभावे कथं देव चानुकल्पापराजिता || २४ || कस्माज् जातमिदं पुष्पं केन वा पूजनं वद | मैथुनं केन देवेश तत्त्वं केन वद प्रभो || २५ || वृहद्योनितन्त्रे श्रीशिव उवाच - शिखिपुच्छान्तरे योनिं संस्थाप्य प्रकृतिर्यदा | कृष्णोऽभूत् परमेशानि तदा जातापराजिता || २६ || प्. ५८) शिखिपुच्छाद् विनिःसृत्य योनिर्जाता महीतले | योनिचिह्नं स्थितं तत्र देवि कामकलात्मिकम् || २७ || विष्णुक्रान्तं समासाद्य लतारूपोऽभवद्धरः | योनिस्वरूपं तत् पुष्पं देव्याः प्रीतिकरं परम् || २८ || तत्पुष्पं परमेशानि रक्तचन्दनचर्चितम् | पूजयेद् वीरभावी च योनिपूजाफलं लभेत् || २९ || हयारिपुष्पगर्भस्थ [घ्: -गर्भमध्यस्थं] शिवलिङ्गेन पार्वति | मैथुनं जायते तेन शक्त्याभावेऽपि सुन्दरि || ३० || परपुष्पे क्षिपेद् गन्धं तत्र पुष्पं क्षिपेत् परम् | तस्मादुद्धृत्य तत्त्वञ्च तर्पयेत् परदेवताम् || ३१ || स्वमूर्द्ध्नि तर्पणं कृत्वा पिबेदानन्दभाग् यदि | अपराइताया माहात्म्यं गदितुं नैव शक्यते | महापीठमयं पुष्पं सर्वदेवस्य दुर्लभम् || ३२ || कुलचूडामणौ - स्वलिङ्गं करवीरेषु संस्थाप्य पुरुषोत्तमः | राधिकाभून्महादेवः शृङ्गारानन्दहेतवे || ३३ || प्रकृतेर्लक्षणं यद्यत् शिखिपुच्छे महेश्वरि | आत्मयोनिमिमां ज्ञात्वा स्वमूर्द्ध्नि धारयेद्धरिः || ३४ || विश्वसारे - शुक्ररक्तानुकल्पम् | शुक्रै रक्तैर्महेशानि पूजयेत् परमेश्वरीम् | तदभावे चानुकल्पैः साधकाभीष्टसिद्धये [घ्: -दायके] || ३५ || रक्ताभावे चानुकल्पं रक्तानुलेपनं प्रिये | शुक्रभावे चानुकल्पं सुगन्धं मलयोद्भवम् || ३६ || प्. ५९) चानुकल्पात् चानुकल्पं चतुर्वर्गफलप्रदम् | द्वयोर्योगान्महेशानि किं न सिध्यति भूतले || ३७ || महापुष्पस्यानुकल्पं कल्पं पुष्पं मनोहरम् | ललाटे धारणाद् भद्रे शिवतुल्यो न संशयः || ३८ || राधातन्त्रे - शैवः शाक्तो गाणपत्यो वैष्णवः परमेश्वरि | पुष्पेण तिलकं भाले सदेव रूपवान् भवेत् || ३९ || प्रत्यक्षैस्तिलकैर्देवि ! शिवसायुज्यमेव च | अनुकल्पैश्च तिलकैः सारूप्यमेति सुन्दरि || ४० || अथ तिलकप्रमाणम् | वामरेखात्मिका ब्रह्मा दक्षरेखा सदाशिवः | मध्यस्थाने वसेद्विष्णुः तत्स्थानं नैव लेपयेत् || ४१ || निर्वाणतन्त्रे - निराकारो महाविष्णुः साकारोऽपि क्षणे क्षणे | यदा साकाररूपोऽसौ द्विभुजो मुरलीधरः || ४२ || राधातन्त्रे - नादरूपा कुण्डलिनी तन्मूले स्थितिः सर्वदा | तदूर्द्धे बिन्दुरूपा च मूला त्रिपुरसुन्दरी || ४३ || केवलं रुधिरेणापि बिन्दुमात्रं नियोजयेत् | कुण्डली मूलभागेऽपि तिलकं त्रिगुणात्मकम् || ४४ || सव्ये वामे तथा मध्ये तिलकस्य महेश्वरि | जाह्नवी यमुनादेवी वाग्देवी सर्वदा स्थिता || ४५ || त्रिपुण्ड्रं धारयेत् शैवः शाक्तश्च वर्तुलं शिवे | ऊर्द्धपुण्ड्रं गाणपत्यः साधकस्यापि लक्षणम् || ४६ || प्. ६०) ज्ञानद्वीपे - प्रथमे चानुकल्पैश्च प्रत्यक्षैश्च द्वितीयके | एवं क्रमेण देवेशि साधकोऽपि क्रियाञ्चरेत् || ४७ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे षोडशोल्लासः || ० || सप्तदशोल्लासः | अथ यन्त्रप्रमाणम् | वरदातन्त्रे श्रीदेव्युवाच - तत्प्रसादान्महादेव विभावस्य मतं श्रुतम् | अधुना श्रोतुमिच्छामि यन्त्रप्रस्तावमुत्तमम् || १ || सभावस्य पशोर्यन्त्रं विभावस्य पशोः प्रिय | वीरस्यापि विभावस्य सभावस्य वद प्रभो || २ || श्रीशिव उवाच - देहाकारं स्थूलरूपं पशोर्यन्त्रं सुरेश्वरि | कृत्रिमं स्वकृतं यन्त्रं विभावस्यानुकल्पनम् || ३ || विभावस्यापि वीरस्य यन्त्रं पुष्पादिकल्पनम् | वीरस्य यन्त्रं विज्ञेयं योनियन्त्रं [ग्, घ्: -रूपं] प्रकाशितम् || ४ || प्. ६१) यन्त्रं विना महेशानि पूजने नास्ति योग्यता | अत एव महेशानि कुर्यात् यन्त्रानुकल्पनम् || ५ || यन्त्रद्वयं न कर्तव्यं तथ मूर्तिद्वयं प्रिये | घटद्वयं न कुर्येयुः साधकाः सिद्धिहेतवे || ६ || तन्त्रान्तरे - एकार्चनेऽप्येकदेवमेकवारं प्रपूजयेत् | एकयन्त्रं कल्पनीयं द्विकल्पे द्वित्वपूजनम् || ७ || मातृकाभेदे - जन्मस्थानं महायन्त्रं यदि कुर्यात्तु साधकः | तत्र मूर्तिं न कुर्यात्तु कदाचिदपि मोहतः [ग्, ङ्: मोहितः | अतः परं ऽऽकऽऽ पुस्तके पाठोऽयमतिरिक्तो दृश्यते - यदि मूरि प्रकुर्यात्तु तन्त्रयन्त्रं न कारयेत् |ऽऽ] || ८ || यदि कुर्यात्तु मोहेन यजेद् वारद्वयं प्रिये | द्विगुणं बलिदानं स्याद् द्विगुणं पूजनं ततः || ९ || द्विगुणञ्च जपेन्मन्त्रं द्विगुणं होममाचरेत् [घ्: होमयेत्ततः] | अन्यथा विफला पूजा विफलं बलिदानकम् | सर्वं हि विफलं यस्माद् यन्त्रं तस्मान्न कारयेत् || १० || श्रीदेव्युवाच - देवेश परमानन्द ज्ञानविज्ञानदायक | अर्चने वन्दने स्तोत्रे यन्त्राख्यां कथय प्रभो || ११ || श्रीशिव उवाच - आब्रह्मस्तम्बपर्यन्तं कल्पनं यन्त्रमात्रकम् | तव स्नेहेन वक्तव्यं विशेषस्य विशेषकम् || १२ || प्. ६२) अथ विशेषयन्त्राख्याकथनम् | शालग्रामे मनो यन्त्रे प्रतिमायां घटे जले | पुस्तिकायाञ्च गङ्गायां शिवलिङ्गे प्रसूनके || १३ || अथ यन्त्रे पूजाफलम् | शालग्रामे शतगुणं मनौ लक्षगुणं लभेत् | यन्त्रे लक्षगुणं पुण्यं मूर्तौ लक्षं सुलोचने || १४ || घटे चैकगुणं पुण्यं जले चैकगुणं प्रिये | पुस्तिकायां सहस्रन्तु गङ्गायां तत्समं फलम् || १५ || शिलिङ्गे ह्यनन्तं हि विना पार्थिवलिङ्गके | पुष्पयन्त्रे महेशानि पूजनात् सर्वसिद्धिभाक् || १६ || शालग्रामे च पूजायां न लिखेद् यन्त्रमुत्तमम् | मनौ स्थिते महेशानि न लिखेद् यन्त्रमुत्तमम् | प्रमायाञ्च पूजायां न लिखेद् यन्त्रमुत्तमम् || १७ || तन्त्रान्तरे - लिख्ययन्त्रे कृते भद्रे चान्ययन्त्रं न कल्पयेत् | यन्त्रे कृते महादेवि लिख्ययन्त्रं न कल्पयेत् || १८ || जन्मस्थानं महायन्त्रं देवतामूर्तिभेदकम् | एकार्चनेऽप्येकयन्त्रं यन्त्रेऽप्येकार्चनं शुभम् || १९ || ज्ञानद्वीपे - श्रीदेव्युवाच - पूजाधारं महायन्त्रं परिवारान् यजेत्ततः | यन्त्राभावे महेशान परिवारान् यजेत् कुतः || २० || प्. ६३) श्रीशिव उवाच - प्रतिमायाञ्च पुरतो घटं संस्थाप्य यत्नतः | परिवारान् यजेत्तत्र घटे तु परमेश्वरि || २१ || यन्त्राधिष्ठातृदेवानां घटवक्त्रे प्रपूजयेत् | समस्तदेवतारूपं घञ्च परिकल्पयेत् | सुरद्रुमस्वरूपोऽयं घटोऽयं परिचिन्तयेत् || २२ || कुलार्णवे - केवलं प्रतिबिम्बेषु घटमात्रं प्रकल्पयेत् | पत्रं पुष्पं फलं दूर्वां तोययुक्तं घटं न्यसेत् || २३ || वरदातन्त्रे - मङ्गलार्थं यदा देवि घटं हि परिकल्पयेत् [ग्: कल्पनञ्चरेत्] | तत्र पूजा न कर्तव्या यन्त्रानुकल्पनं विना || २४ || अथ प्रत्यक्षानुकल्पयोर्लक्षणम् | निगमानन्दे श्रीदेव्युवाच - प्रत्यक्षे संस्थिते यन्त्रे चानुकल्पं न कल्पयेत् [घ्: कारयेत्] | अनुकल्पे स्थिते यन्त्रे प्रत्यक्षञ्चापि कल्पयेत् || २५ || स्वयं यत्र क्रियाशक्तो नास्त्यन्यत्र प्रकल्पनम् | तथा यन्त्रेऽपि प्रत्यक्षे करणीयं परित्यजेत् || २६ || अनुकल्पे स्थिते यन्त्रे चानुकल्पं नचेत् क्वचित् | प्रत्यक्षे संस्थिते यन्त्रे प्रत्यक्षं नैव कल्पयेत् || २७ || प्. ६४) श्रीशिव उवाच - प्रत्यक्षञ्चानुकल्पञ्च कथयस्व महेश्वरि | आद्यबीजमयी नित्या [घ्: विद्या] त्वां विना को वदेत् प्रिये || २८ || श्रीदेव्युवाच - यस्मिन् द्रव्ये महादेव ! भ्रमज्ञानं प्रजायते | तद्द्रव्यं परमं ज्ञात्वा तद्द्रव्यस्यानुकल्पनम् || २९ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे सप्तदशोल्लासः || ० || अष्टादशोल्लासः | अथ शाक्ताचारः | निरुत्तरे - शक्तियुक्तोऽपि शाक्तः स्यात् शक्तिपूजनतत्परः | शक्तिदेवीं विना देवि नान्यदेवं विचिन्तयेत् || १ || पञ्चमेन यजेत् शक्तिं पञ्चतत्त्वेन पूजयेत् | शाक्ताचारमिदं ज्ञेयं [ज्: देव] सर्वाचारस्य सम्मतम् [च्, ज्: च स्मृतः] || २ || शाक्ताचारं विना देवि अन्याचारं शवं यथा | ततश्च परमेशानि शाक्ताचारं हि बीजकम् || ३ || प्. ९५) कामबन्धस्य [घ्, ज्: कर्मबन्धस्य] मुक्तासि मुक्तस्य बन्धदायिनी | ततश्च परमेशानि शाक्ताचारं हि बीजकम् || ४ || शाक्ताचार-निन्दकस्य सङ्गं संत्यज्य यत्नतः | मयोक्तेनैव मार्गेण कुलकार्यं समाचरेत् || ५ || अथ संसर्गत्यागः | चिकित्सकानां विप्राणां स्त्रीणां विच्छेदकारिणाम् | गणकस्य च संसर्गं सर्वदा वर्जयेत् प्रिये || ६ || चुम्बकस्यापि धूर्तस्य संसर्गं परिवर्जयेत् | पशूनाञ्चैव संसर्गं वीराणां भ्रान्तचेतसाम् | कामुकानाञ्च संसर्गं सर्वदा परिवर्जयेत् || ७ || यथेष्टाचारशीलानां निन्दकस्य जनस्य च | गुरुभक्तिविहीनानां शक्तिद्वेषकरस्य च | सत्यं सत्यं पुनः सत्यं तत्संसर्गं परित्यजेत् || ८ || [श्लोकार्द्धोऽयं छ-ज-पुस्तकयोर्दृश्यते, नान्यत्र] [मयोक्तेनैव मार्गेण कुलकार्यं समाचरेत्] पशुसङ्गं परित्यज्य वीरसङ्गं समाचरेत् [ज्: समाश्रयेत्] | शाक्तश्च द्विविधो देवि वामदक्षिणभेदतः || ९ || अथ दक्षिणाचारशाक्तलक्षणम् | समयाचारतन्त्रे - स्वधर्मनिरतो भूत्वा पञ्चतत्त्वैः प्रपूजयेत् | स एव दक्षिणाचारः शिवो भूत्वा यजेत् पराम् || १० || प्. ६६) अथ स्वधर्मलक्षणम् | भैरवतन्त्रे - यस्य यस्य च वर्णस्य यदाचारं महेश्वरि | स्वधर्म तद्विजानीयात् श्रुत्युक्तं परिकीर्तितम् || ११ || निरुत्तरे - द्विजातीनाञ्च सर्वेषां द्विधा विधिरिहोच्यते | दिवा च पाशवं कर्म रात्रौ कर्म च कीलिकम् || १२ || पुरश्चर्यादिकं कर्म द्विविधं भावभेदितः | रात्रौ पूजां सदाकुर्याद् दिवा कुर्याच्च वैदिकीम् | दिवा रात्रौ यजेद् देवीं यथोक्तफलदं भवेत् | पूजनं लक्षगुणितं निशायां निर्जने शिवे || १५ || दिवार्चनं शतगुणं निशायाञ्च सहस्रकम् | निशीथे लक्षगुणितं पूजयेद् गोपनान्वितः || १६ || मुण्डमालातन्त्रे - दिवार्चनं पशूनां हि वीराणाञ्च निशार्चनम् | निशीथे पञ्चमेनापि पञ्चतत्त्वेन वार्चयेत् || १७ || अथ वीरलक्षणम् | मद्यं मांसञ्च मत्स्यञ्च मुद्राञ्च मैथुनं प्रिये [ज्: शिवे] | वीराचारमिदं प्रोक्तं साधकस्यापि बीजकम् || १८ || प्. ६७) पञ्चतत्त्वेन संपूज्य आत्मानं देवतां शिवे | पञ्चमानन्दसंयुक्तः पञ्चतत्त्वेषु लिप्सितः || १९ || पञ्चमीं पञ्चतत्त्वेन पूजयेज्जगदम्बिकाम् | वीराचारमिदं प्रोक्तं साधकस्यापि बीजकम् || २० || अथ वीराचारगोपनम् | भावचूडामणौ - दिवाभागे यजेद्देवीं लोकाचारक्रमेण च | लोकाचारं विना देवि गोपनं नैव जायते | गोपनात् कार्यसिद्धिः स्यात् प्रकाशात् सिद्धिदा भवेत् || २१ || हंसमाहेश्वरे - प्रकाशात् सिद्धिहानिः स्यात् प्रकाशाच्च दरिद्रता | अत एव महेशानि प्रकाशं नैव कारयेत् || २२ || गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति | गोपयेच्च पशोरग्रे वीराग्रे नैव गोपयेत् || २३ || कुलार्णवे - गुप्तं प्रत्यक्षकं कृत्वा [क्, ख्, ग्, घ्, च्: प्रत्येककं कृत्वा] विचरन्ति च साधकाः | प्रकाशात् सिद्धिहानिः स्याद् गुप्तात् सिद्धिर्न संशयः || २४ || निजसाधकमध्ये तु न गोप्तव्यं कदाचन | गुप्तेऽपि सिद्धिहानिः स्यात् प्रकाशात् सिद्धिमान् भवेत् || २५ || निरुत्तरे - दिव्यानाञ्चैव वीराणां फलदं गोपनात् शिवे | वीराग्रे गोपनाद्देवि रौरवं नरकं व्रजेत् || २६ || गोपनाच्च पशोरग्रे सिद्धिभाग् याति साधकः | वीराग्रे गोपनात् सर्वं निष्फलं नात्र संशयः || २७ || न पशोरालये कुर्यान्न पशोर्दृष्टि[घ्: ज्ञान]-गोचरे | न पशोः सन्निधानेऽपि पशोरेव न दर्शयेत् || २८ || पूजाद्रव्यं पानद्रव्यं पशुना वीक्षितं यदि | तद् द्रव्यं जलतः क्षिप्तं [ज्: क्षिप्त्वा] जपेद्देव्या महामनुम् || २९ || ज्ञानार्णवे - पशुना वीक्षितं द्रव्यं न देव्यै विनिवेदयेत् | कुलपूजां कुलद्रव्यं कुलस्त्रीकुलसङ्गमम् | गोपनीयं पशोरग्रे प्रकाशान्मरणं भवेत् || ३० || श्रीदेव्युवाच - गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः | केन रूपेण वा स्वामिन् पशोर्वीरस्य लक्षणम् || ३१ || अनयोर्लक्षणं देव मम स्थाने प्रकाशय | इति ते प्रार्थितं देव यदि ते मययनुग्रहः || ३२ || अथ पशुवीरलक्षणम् | श्रीशिव उवाच - पञ्चधा पशवः प्रोक्ता स्तेषां भेदमिमं शृणु [घ्: प्रिये] | धूर्तं शठं चुम्बकञ्च मुखरं दाम्भिकं शिवे || ३३ || एते च पशवः प्रोक्ता श्चान्याचारं न जायते | अन्याचारकृतो येन तद्वदामि प्रियम्बदे [ज्: वरानने] || ३४ || वैदिकात् तान्त्रिकाद् भ्रष्टो नरके पच्यते ध्रुवम् | प्. ६९) अथवा पानभ्रष्टो यः स एव पशुलक्षणः | एतेषां ज्ञानमात्रेण कौलिकस्य क्रियाक्षयः || ३५ || तन्त्रान्तरे - यः शास्त्रविधिमुल्लङ्घ्य वर्तते कामचारतः | स पशुः परमेशानि पच्यते नरके ध्रुवम् || ३६ || कुमारी तन्त्रे - कुलकर्मप्रसङ्गस्तु पशूनां पुरतः शिवे | कदाच्चिन्नैव कर्तव्यः [ज्: वक्तव्यम्] शूद्रस्य वेदपाठवत् || ३७ || इति श्रीसर्वानन्दनाथ-विरचिते सर्वोल्लासे अष्टादशोल्लसः || ० || ऊनविंशोल्लासः | अथ साधकलक्षणम् | कुलार्णवे श्रीदेव्युवाच- लक्षणं वीरभावस्य किं वाप्याचारकं [छ्, ज: किमप्याचारकं] शिव | ज्ञापितं परमानन्द मम स्थाने प्रकाशय || १ || मद्यपानेन जानीयात् साधकस्यापि लक्षणम् | तत्पानं त्रिविधं प्रोक्तं दिव्य-वीर-पशु-क्रमात् || २ || प्. ७०) दिव्यो देव्युग्रतः पानं वीरो विसर्जनात् परम् [घ्: मुद्रासमन्वितः] | स्वेच्छयापि पशोः पानमिति पानमुदाहृतम् || ३ || भक्ति-मुक्तिप्रदं दिव्यं वीरं भक्ति-समन्वितम् | पशुपानं नरकदमिति पानफलं शृणु || ४ || दिव्योऽपि वीरभावोऽपि प्राणान्तेऽपि कुलेश्वरि | पशुपानमकर्तव्यं शक्तिभक्त्याश्रितः पिवेत् || ५ || श्रीदेव्युवाच - स्वेच्छापानं महादेव मम स्थाने प्रकाशय | केन रूपेण वा देव देव्यग्रे पानभाग् नरः || ६ || श्रीमहादेव उवाच - चक्रभिन्ने चरेत् पानं स्वेच्छापानं प्रकीर्तितम् | सा स्वेच्छा द्विविधा ज्ञेयाऽज्ञानिज्ञानिविभेदतः || ७ || अज्ञानी मादकं पानं स्वानन्दे ज्ञानिनामपि | चक्रं कृत्वा पिवेन्मद्यं चक्रं हि शक्तिसंयुतम् || ८ || अथ चक्रलक्षणम् | श्रीदेव्युवाच - चक्रस्य लक्षणं किञ्चित् ममस्थाने प्रकाशय | फलं किं प्राणनाथेश कथय [घ्: वदय] सिद्धिहेतवे || ९ || श्रीमहादेव उवाच - श्रीचक्रे सेवतो [घ्, छ्, ज्: सेवनात्] मद्यं किं न सिध्यति भूतले | आयुर्वलं [घ्: वित्तं] यशो वृद्धिः षट्कर्मसाधनं प्रिये [ग्, घ्, ज्: षट्कर्मस्य च साधनम्; छ्: षट्कर्मणोऽपि साधनम्] || १० || प्. ७१) मोक्षं वित्तं तथा पुष्टिं श्रीचक्राल्लभतेऽपि च | भोगेन लभते मुक्तिं सिद्धिं श्रीचक्रसेवनात् || ११ || चक्रमध्ये महेशानि मूलमन्त्रं जपेत्तु यः | एकवारजपेनैव लक्षवारफलं लभेत् || १२ || चर्व्यं चोष्यं तथा लेह्यं पेयं भोगं महेश्वरि | चक्रमध्ये प्रकर्तव्यमनन्तफलमीरितम् | चक्रञ्च द्विविधं प्रोक्तं दिव्य-वीर-मतं शिवे || १३ || अथ दिव्यचक्रप्रमाणम् | देव्या युक्तं दिव्यचक्रं भयलज्जाविवर्जितम् | दर्शनात् कामसिद्धिः [घ्: कार्य-] स्याद् वीरो भवति स्पर्शनात् || १४ || सेवनाच्च भवेन्मुक्तिः सिद्धान्ताचारसम्मतः | दिव्यचक्रमिदं प्रोक्तं वीरचक्रं ततः शृणु || १५ || शक्तिदेहे स्थितं चक्रं विनाशक्तिं न चक्रवान् | अत एव महेशानि शक्तियुक्तं [ज्: शक्तियुक्तः] पिवेन्मधु || १६ || निगमकल्पे श्रीमहादेव उवाच - दिव्यचक्रे दिव्यशक्तिं रमणेन प्रपूजयेत् | वीरचक्रं रमेत् [घ्, ज्: यजेत्] शक्तिं गन्धपुष्पादिनापि वा || १७ || रागद्वेषविनिर्मुक्तं केवलं स्वात्महेतवे | दिव्यचक्रमिदं प्रोक्तं वीरचक्रं ततः [छ्, ज्: इदं] शृणु || १८|| स्वेष्टदेवं यजेत्तत्र पञ्चतत्त्वेन पार्वति | पञ्चमीं [छ्, ज्: पञ्चमी] पञ्चतत्त्वेन तच्चक्रं वीरभाषितम् || १९ || प्. ७२) कुलार्णवे - यत्रास्ति भोगो न च तत्र मोक्षो, यत्रास्ति मोक्षो न च त्र भोगः | शिवापदान्भोजयुगार्चकानां, भोगश्च मोक्षश्च करस्थ एव || २० || याष्मद्यपायी स द्विजो न कश्चित्, यो विप्र उक्तः स पिवेच्च मद्यम् | शिवापदाम्भोजयुगार्चकानां भोगेन मद्येन करस्थमुक्तिः || २१ || यो भेदमार्गी न भवेत् स शाक्तो, यः शाक्तको देवि क्वचिन्न भेदः | शिवापदाम्भोजयुगार्चकानां भेदेऽप्यभेदो हि करस्थ एव || २२ || पञ्चयुक्तो भवेत् शाक्तः पञ्चमे ज्ञानवान् यदि | तदा [ग्: यदा] चक्रे महेशानि पिवेन्मद्यं रमेत् स्त्रियम् || २३ || शक्तिज्ञानं महीत्कृष्टं निर्वाणप्रथमांकुरम् | श्रीचक्रेऽपि पिवेन्मद्यं शक्तियुक्तं महेश्वरि || २४ || अथ वीरचक्रलक्षणम् | कुक्कुटतन्त्रे - वीरचक्रं त्रिधा ज्ञेयं चतुर्धा पशुना सह | चोत्तमं मध्यमं ज्ञेयं चाधमञ्चाधमाधमम् || २५ || एका शक्तिर्यत्र देवि एको हि साधको यदि | चक्रोममिदं ज्ञेयं सा काली स च शङ्करः || २६ || प्. ७३) [घ्, ज्: पाठोऽयं पुस्तकयोर्दृश्यतो, नान्यत्र [सिद्धिवर्त्म शृणु प्राज्ञे यत् कृत्वा सिद्धिमाप्नुयात् | एकां शक्तिं समानीय एकैकः साधकः सदा || २७ || पूजयेद् बहुयत्नेन पञ्चतत्त्वेन कौलिकः | एवं कृत्वा लभेत् सिद्धिं नान्यस्य दृष्टिगोचरे || ] २८ || त्रिशक्याक्तो यदा [ज्: यत्र] देवि तिष्ठति [घ्: वर्त्तते] च त्रिसाधकः | मध्यमं चक्रविज्ञेयं [ज्: चक्रमाख्यातं] स वीरः सापि भैरवी || २९ || षट्साधको यत्र चक्रे षट्शक्तिस्तिष्ठति प्रिये | अधमं चक्रविज्ञेयं सा साध्या स च साधकः || ३० || एतद्भिन्नं पशोश्चक्रं निन्दितं शक्तिवर्जितम् | शक्तिहीनञ्च यत्चक्रं केवलं मदकं शिवे || ३१ || कुलचूडामणौ - साधकैर्गणितां शक्तिं महाचक्रे निवेशयेत् | मध्यमे नवशक्तिञ्च हीनेऽपि शक्तिमात्रकम् || ३२ || शक्तिहीनं यदा चक्रं पशुचक्रं महेश्वरि | तस्मिन् चक्रे साधकोऽपि कदाचिन्न प्रवेशयेत् || ३३ || मधु मांसं मौथुनञ्च चक्रं न कारयेत् | श्रीचक्रे मैथुनं भद्रं शिवत्वं याति साधकः || ३४ || चक्रान्तरे च रमणात् साधकोऽभून्महेश्वरि | वीरचक्रमिदं प्रोक्तं देवचक्रं ततः शृणु || ३५ || प्. ७४) अथ देवचक्रलक्षणम् | पेयं मद्यं देहमांसं जलजं मत्स्यकं शिवे | मुद्रापि चान्यद्रव्याणि सङ्गमं पञ्चभौतिकम् | सृष्टिरूपं महाचक्रं श्रीचक्रं परमेश्वरि || २६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे उन्विंशत्युल्लासः || ० || विंशोल्लासः अथ श्रीचक्रस्य स्थाननिरुपणम् | समयाचारतन्त्रे - एकान्ते निर्जने रम्ये देशे वाधा-विवर्जिते | तत्र स्थाने चरेच्चक्रं यत्र स्याद् देवतागृह || १ || अथवा देवतास्थाने तीर्थादिषु महेश्वरि | देवतावृक्षमूलेषु स्थानं कुर्यात् प्रयत्नतः || २ || ज्ञानार्णवे - शक्तिगेहं स्वगेहञ्च वेश्यालयमनामयम् | साधकस्य गृहं भद्रे श्रीचक्रस्थानमुत्तमम् || ३ || गुरोः स्थानं गुरोराज्ञां ज्ञात्वा स्थानं प्रकल्पयेत् | अथवा यस्य यत्स्थानं तस्याज्ञया प्रकल्पयेत् || ४ || यस्याज्ञया चरेत् चक्रं तत्रोद्वेगं भवेद् यदि | तदुद्वेगस्य यत्पापं तत्पापं तत्र गच्छति || ५ || प्. ७५) अथ श्रीचक्रासनप्रमाणम् | ज्ञानार्णवे - शवासनं विना देवि वीरकार्यं न चाचरेत् | शवासनाधिकं ज्ञेयं लतागेहप्रवेशनम् || ६ || शवाभावे महेशानि विष्टरं परिकल्पयेत् | योन्यभावे महेशानि त्रिकोणञ्चासनं शुभम् || ७ || भावचूडामणौ - शवासनं विना देवि वीरकार्यं न चाचरेत् | शवाभावे विष्टरं हि वीरासनमुदीरितम् || ८ || शवासने शक्तिकार्यं शक्तियुक्तो महेश्वरि | शवैकमासनं भद्रे विष्टरं युग्ममासनम् || ९ || शवयुग्मं न कर्तव्यमेकेऽपि [छ्: एकोऽपि; ज्: एको हि] युगलं स्थितम् | अत एव महेशानि विष्टरं युग्मकल्पनम् | अन्यासनं चतुष्कोणं त्रिकोणं परिकल्पितम् || १० || तन्त्रान्तरे - काम्यार्थं कम्बलञ्चैव मोक्षञ्च रक्तकम्बलम् | कृष्णाजिने ज्ञानसिद्धिर्मोक्षञ्च व्याघ्रचर्मणि || ११ || कुशासने मन्त्रसिद्धिर्नात्र कार्यविचारणा | एतद्भिन्नञ्चासनं हि चित्रचित्रादि [ज्: चित्राचित्रादि] संयुतम् || १२ || चित्रासनं हि रक्तेन त्रिकोणं सुमनोहरम् | नानावर्णेन संयुक्तं विचित्रञ्चासनं शुभे | विष्टरं तत्र संस्थाप्य नियतं शक्तिकल्पितम् || १३ || प्. ७६) गुप्तसाधनतन्त्रे - एकान्ते निर्जने रम्ये देशे वाधाविवर्जिते | प्रशस्तेऽप्यासने रक्ते विचित्रे वा मनोहरे || १४ || सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः | तृप्त्यर्थं देवतानाञ्च कूर्याद्वीरासनं शिवे || १५ || वीराणां दक्षिणानाञ्च वीरासनमुदीरितम् | वामसिद्धान्तदिव्यानां स्वेच्छासनमुदीरितम् || १६ || निरुत्तरे - को विधिः को निषेधोऽपि कौलानाञ्चासनं प्रिये | वामसिद्धान्तदिव्यानां नियमं नैव कल्पितम् || १७ || अन्येषाञ्चासनं कुर्यात् शुद्धिं कृत्वोपवेशनम् | एकान्ते निर्जने रम्ये देशे वाधाविवर्जिते || १८ || आसनं तत्र संस्थाप्य साधयेत् मनुना शिवे | रुधिरेण वरारोहे त्रिकोणञ्चासने [ज्: आसने] लिखेत् || १९ || चतुष्कोणञ्चासनं हि त्रिकोणं योनिमण्डलम् | भूचक्रमासनं ज्ञेयं गन्धपुष्पाक्षतादिभिः || २० || यजेदाधारशक्तिञ्च अथवा कमलासनम् | यजेदाधारशक्तिञ्च कमलान्तं त्रिधा शिवे || २१ || निगमकल्पलतायां श्रीशिव उवाच - शुद्धार्थं परमं मन्त्रं बहुधा प्रकटीकृतम् | आजन्म कोट्यां तन्मन्त्रं ज्ञापितुं नैव शक्यते || २२ || प्. ७७) श्रीदेव्युवाच - भावं विना महेशान किञ्चिन्नैव प्रकाशितम् | प्रकाशितेऽपि योनिः स्यात् शुद्धिः स्याद् योनिलेखनात् | नातिनीचं नाति चोच्चं श्रीचक्रे चासनं प्रिय || २३ || अथ चक्रेश्वरनियमः | यामले - पूजाभिषेकसंयुक्तः कुलशास्त्रार्थतत्त्ववित् | देवता-गुरु-भक्तोऽपि शक्तियुक्तः क्रियान्वितः || २४ || ताम्बूलपूरितमुखो धूपामोदसुगन्धितः | रक्तानुलेपैर्गन्धैश्च सुवेशैर्भूषितो गुरुः || २५ || ज्ञानार्णवे - रुद्राक्षमालाधारी च श्वेतगन्धेन लेपितः [ज्: भूषितः] | रक्तचन्दनसंयुक्तो रक्तपुष्पविभूषितः || २६ || ब्राह्मणानामभावोऽपि क्षत्रियोऽपि गुरुर्भवेत् | तदभावेऽपि वैश्यः स्यान्नतु शूद्रः कदाचन || २७ || आचार्योऽपि भवेत् शूद्रोऽप्यभिषेककृतो यदि | अन्येषाञ्चाभिषेकाणां देवतारूपिणः प्रिये [घ्: शिवे] | तेषां करेण पानञ्चेदभिषेको भवेत् प्रिये || २८ || अथ चक्रमध्येप्रवेशलक्षणम् | गौतमीये - चक्रेश्वरो वीरभावो सस्त्रीकः प्रणमेत् भुवि | मद्यभाण्डं करे कृत्वा चासने चोपवेशयेत् || २९ || प्. ७८) कृत्वा वीरासनं मन्त्री पूजाद्रव्यं समानये | नाति नीचं नाति चोच्चं चतुरंगुलिमध्यगम् | तत्रासने वसेन्मन्त्री देवध्यानपरायणः [घ्: देवताध्यानतत्परः] || ३० || उष्णतीक्ष्णगुणोपेतं मद्यं दुर्गन्धवर्जितम् | धृत्वा [ज्: ध्यात्वा] प्रणम्य प्रथमं श्रीचक्रेषु प्रवेशनम् || ३१ || वामकरे च रमणीं दक्षिणे मध्यभाण्डकम् | आत्मपात्रं शक्तिकरे श्रीचक्रेषु प्रवेशनम् || ३२ || चक्रेश्वरोऽपि यद्रूपे चक्रमध्ये प्रवेशयेत् | तद्रूपे [घ्, ज्: तद्रूपः] साधकः सर्वश्चक्रमध्ये प्रवेशयेत् || ३३ || पूजाद्रव्यं पानद्रव्यं करे कृत्वा सुलोचने | शक्तिहस्ते पानपात्रं स्ववामे शक्तिधारणम् || ३४ || निगमतत्त्वे - वीरानन्दयुता शक्तिर्यदि चक्रेश्वरी भवेत् | तच्चक्रं परमेशान देवचक्रं न संशयः || ३५ || करे वामे मद्यभाण्डं दक्षिणे रमणं [ज्: परमं] शिवम् | श्रीचक्रेषु प्रवेश्या सा भय-लज्जा-विवर्जिताः || ३६ || तच्चक्रे परमेशान द्रव्यशुद्धिं न कारयेत् | तस्याः संस्पर्शनादेव [छ्, ज्: तस्याङ्गस्पर्शनादेव] द्रव्यशुद्धिस्तु तत्क्षणात् || ३७ || प्रतिपात्रे महेशान भगे लिङ्गं विचिन्तयेत् | पात्राद्विन्दुं समादाय प्रक्षिपेद् योनिमण्डले || ३८ || चक्रेश्वरी महाहृष्टा यदि योनिं प्रकाशयेत् | गन्धापुष्पैर्धूपदीपैः कारणेन प्रपूजयेत् || ३९ || प्. ७९) रमणञ्च ततः कुर्याद यदि स्याद्रमणान्विता | रमणान्ते महेशान भगवारि पिवेन्मुदा || ४० || तदभावे जलं पेयं कारं विन्दुसंयुतम् | शक्तियन्त्रं जलं ज्ञेयं यतो मायाप्रबोधकम् || ४१ || तत्तोयं रुधिराक्तञ्चेद् रेताक्तञ्चेद् गुणत्रयम् | ब्रह्म ज्ञेयं योनिरक्तं तोयं तस्या जनार्दनम् | शुक्रं तस्या महादेवं तदभावेऽनुकल्पनम् [छ्: तदभावाद्-] || ४२ || कुशिदं भगरक्तञ्च शुक्रञ्च मलयोद्भवम् | भगवारीति तोयञ्च त्रिगुणाक्तं त्रिदेवता || ४३ || भाग्येन लभते देव चक्रे चक्रेश्वरीं यदि | तद्देहं मम देहञ्च पुंदेहञ्च सदाशिवम् || ४४ || तत्र चक्रे स्थिता शक्तिर्मम रूपा महेश्वर | साधकस्तव तुल्योऽपि देवचक्रे मनोहरे || ४५ || अन्यचक्रे महेशान बहुविघ्नं प्रजायते | देवचक्रं देवचक्रं देवचक्रं कलौ युगे || ४६ || देवचक्रस्य माहात्म्यं गदित्ं नैव शक्यते | स्वेच्छया गान-पानञ्च मैथुनञ्च सुखोदितम् || ४७ || स्तोरञ्च जपकार्यञ्च सर्वं स्वेच्छासुखोदितम् | अत एव महेशान देवचक्रं कलौ युगे || ४८ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे विंशत्युल्लासः || ० || एकविंशोल्लासः | अथ श्रीचक्रे जात्यभेदः | तारातन्त्रे - आरम्भे भैरवीचक्रे सर्वे वर्णा द्विजोत्तमाः | निवृत्ते भैरवौचक्रे सर्वे वर्णाः पृथक् पृथक् || १ || जातिभेदं विमूढात्मा श्रीचक्रेऽपि करोति यः | नरके दुष्करे घोरे पतत्येव न संशयः || २ || वामकेश्वरे - चक्रमध्ये विमूढात्मा जातिभेदं करोति यः | चण्डीकोपाद् भवेन्नष्टं कान्तिः पुष्टिर्बलं यशः || ३ || मदिरायां मैथुनेषु जातिभेदं न चाचरेत् | मैथुनस्य महासौख्यं बीजं मद्यञ्च सुन्दरि || ४ || बहुनापि किमुक्तेन चक्रमध्ये महेश्वरि | मद्रूपाः पुरुषाः सर्वे त्वद्रूपा योषितः प्रिये || ५ || भावचूडामणौ - बहुगावोऽपि तिष्ठन्ति यथैकरज्जुवन्धिताः | तथा नराश्च तिष्ठन्ति जातिपाशेन वन्धिताः || ६ || मद्यासिना जातिपाशं संछेद्य शक्तिवाक्यतः | श्रीचक्रेऽपि पिवेन्मद्यं जातिभेदं परित्यजन् || ७ || श्रीदेव्युवाच - जातिमात्रं सूक्ष्मबोधं जातीयं स्थूलबोधकम् | सूक्ष्मस्य केन वा नष्टं चोत्पत्तिः केन वा पुनः || ८ || प्. ८१) श्रीशिव उवाच - श्रीचक्रस्य जगत् सर्वं यस्य चेतसि भासितम् | ह्रासवृद्धी न चेद् जाते रमायां निशिनाथवत् || ९ || मद्यशक्तियुते चक्रे ह्रासवृद्धिः क्षणे क्षणे | चक्रस्य ह्रासवृद्ध्याक्ते जातेर्ह्रासस्य [ग्, ज्: -ह्रासश्च] वृद्धिता || १० || नरस्य जातिपाशस्य परस्त्री मातृवत् शिवे | जातिभ्रष्टस्य कान्तापि मध्यभुक् रमणी शिवे || ११ || मद्यभुक् रमणीं त्यज्यां केवलां जननीं पराम् [ज्: रमणी त्यज्या केवला जननी परा] | पूजयेत्तां महेशानि रमणं नैव कारयेत् || १२ || अन्या या मातृतुल्या सा श्रीचक्रे रमणी परा | पूजयेच्च रमेत् शक्तिं तस्यास्तस्यापि [ग्, घ्: तस्य तस्यापि] हर्षतः || १३ || जातिनष्टे कुत्र कार्ये तस्य दोषो भविष्यति | श्रीचक्रे परमेशानि जातिपाशं परित्यजेत् || १४ || यदि चक्रे महेशानि जातिपाशं समाश्रितः | वृथापानं भवेत्तस्य केवलं जातिनाशकम् || १५ || अथ श्रीचक्रे द्रव्यनिरूपणं | समयाचारतन्त्रे - हेतुं [घ्: हेतुं मांसं पायसञ्च दधि-दुग्ध-घृतं प्रिये] मांसं तथा दुग्धं पयो दधि घृतं प्रिये | नानाव्यञ्जनसंयुक्तमन्नं संस्थाप्य यत्नतः || १६ || पिण्याकं लशुनं भद्रे शर्करा मधु पिष्ठकम् | भक्षणञ्च विशेषञ्च सन्देशं विविधं प्रिये || १७ || प्. ८२) मत्स्यं मांसञ्च मुद्राञ्च वीरद्रव्यं मनोहरं | श्रीचक्रे स्थापयेद्देवि देवतातृप्तिहेतवे || १८ || गुप्तसाधन तन्त्रे - कुङ्कुमं शुद्धसिन्दूरं चन्दनं रोचनागुरुम् | कर्पूरं यावकं भद्रे श्रीचक्रे स्थापयेत् प्रिये [ग्, छ्: प्रियं] || १९ || नाना सुगन्धि-धूपेन चितामोदो यथा भवेत् | ततश्च धूप-पत्राणि श्रीचक्रे विनियोजयेत् || २० || चर्व्यं चोष्यं तथा लेह्यं पेयं कांस्ये सुशोभितं | परमान्नञ्च तक्रञ्च सुवासित-जलं प्रिये || २१ || वीर तन्त्रे- कट्वम्लकं तिक्तरसं वहूनि व्यञ्जनानि च | घृतेन ज्ञावितं मांसं विविधं स्थापयेत् प्रिये || २२ || हंसबीजं तथा क्षीरं लवणञ्च पिण्याककं | लशूनं श्रीचक्रमध्ये स्थापयेदार्द्रकं प्रिये || २३ || कालिकाकुलसर्वस्वे - आर्द्रकं दग्धमीनञ्च चूर्णं त्रिकटुस्य च | लाजांश्चिपिटकञ्चैव श्रीचक्रे विनियोजयेत् || २४ || अथ श्रीचक्रे द्रव्यस्थापनं | पङ्क्त्याकारेण संस्थाप्य द्रव्याणि विविधानि च | शोधितं परमं द्रव्यं कांस्य-पात्रेषु संस्थितं | पङ्क्त्याकारे चक्रमध्ये स्थापयेत् परमेश्वरि || २५ || प्. ८३) कुलतत्त्वसारे - कांस्य पात्रे स्थितं द्रव्यं भोजनीयं महेश्वरि | शोधितं विधिवत् सर्वं पङ्क्त्याकारे नियोजयेत् || २६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकविंशत्युल्लासः || ० || द्वाविंशोल्लासः | अथ श्रीपात्रनियमः | कालीकल्पे - वश्याकर्षणकार्येषु हेमपात्रं सुशोभितम् [ग्, घ्: सुशोभनं] | शान्तिके पुष्टिके [ज्: पौष्टिके] कार्ये राजतं कारयेत् प्रिये || १ || लौह पात्रं विजानीयात् मारणोच्चाटने शिवे | सर्वकार्येषु कर्तव्यं विश्वामित्रं कुलेश्वरि || २ || ताम्र पात्रं कांस्य पात्रं पात्रं पित्तल सम्भवं | विल्व पात्रं महापात्रं सर्वकार्ये प्रशस्तकम् | कार्य भेदे पात्रभेदमभेदे स्थित पात्रकम् [च्, छ्, ज्: अभेदस्थितपात्रकम्] || ३ || अथ श्रीपात्रस्थापन - लक्षणम् | तारा-तन्त्रे - त्रिकोणं मण्डलं भूमौ चतुष्कोणं लिखेत्ततः | तत्राधारन्तु संस्थाप्य श्रीपात्रं स्थापयेत्ततः || ४ || प्. ८४) अथ श्रीपात्राधार लक्षणम् | चतुर्धा धारकं प्रोक्तं त्रिपदम्बा चतुष्पदम् | षट्पदम्बा महेशानि पदञ्चाष्ट प्रकीर्तितम् | पदसंख्याञ्च कोणञ्च मण्डलं कारयेत् प्रिये || ५ || अथ पञ्चतत्त्व कथनम् | निर्वाणतन्त्रं श्रीदेव्युवाच - देव देव [ग्, घ्: नास्ति] महादेव तत्त्वञ्च तत्त्वदायक | इदानीं श्रोतुमिच्छामि तत्त्वज्ञानञ्च तद्वद || ६ || श्रीशिव उवाच - तत्त्वज्ञानानि [छ्, ज्: तत्त्वज्ञानस्य] कथने शङ्का चेन्मम मानसे | येन तत्त्व प्रसादेन विष्णुस्तत्त्वगुणाश्रयः [छ्, ज्: सत्त्वगुणाश्रयाः] || ७ || शृणु देवि प्रवक्ष्यामि ब्रह्माभूच्च पितामहः | तत्त्वज्ञानप्रसादेन शम्भुः संहारकारकः || ८ || अन्ये मुक्ताश्च ये सर्वे तोऽपि तत्त्वप्रसादतः | तत्त्वज्ञानं विना देवि मुक्तिर्हास्याय कल्पते || ९ || तत्त्वज्ञानं विना भद्रे निष्फलं नात्र संशयः | शृणु देवि प्रवक्ष्यामि तत्त्वं परम दुर्लभम् || १० || श्रुत्वा गोपय यत्नेन स्व योनिरिव पार्वति | मद्यं मांसं तथा मत्स्यं मुद्राञ्च मैथुनं शिवे || ११ || पञ्चतत्त्वमिदं प्रोक्तं निर्वाण प्रथमांकुरम् | ऐश्वर्यं परमं हृष्टं मद्य-पानेन शैलजे || १२ || प्. ८५) मांसभक्षणमात्रेण नरो [छ्, ज्: साक्षात्] नारायणो भवेत् | मत्स्यभोजनमात्रेण कालीप्रत्यक्षता भवेत् || १३ || मुद्रासेवनमात्रेण भूपूज्यो विष्णुरूपधृक् | मैथुनेन महायोगी मम तुल्यो न संशयः || १४ || निगमकल्पद्रुमे श्रीदेव्युवाच - केवलेनाद्ययोगेन साधको भैरवो भवेत् | द्वितीयेन च तत्त्वेन महाभैरवतां व्रजेत् || १५ || तृतीयेन च तत्त्वेन साधकः शिवरूपधृक् | चतुर्थेन च तत्त्वेन रुद्ररूपधरः स्वयम् | परेण परतां याति तव [घ्, ज्: मम] तुल्योः न संशयः || १६ || अथ पञ्चतत्त्वस्य फलम् | निर्वाणतन्त्रे श्रीदेव्युवाच - तत्त्वैकं परमेशान पञ्चधा केन तद्वद [क्, ग्, च्, छ्: भूद्वद] | अस्य भावं फलं किञ्च पञ्चधाप्येकधा च किम् || १७ || श्रीशिव उवाच - तत्त्वैकं परमेशानि पञ्च तस्यापि [ज्: तत्त्वस्य] कारणम् | कार्यं नानामतं यस्य नानारूपं हि कारणम् || १८ || कारणञ्च भवेत् कार्यं कार्यं हि कारणं यथा | अस्त्रस्य कारणं लौहं लौहस्यास्त्रं हि कारणम् || १९ || पिपासा कारणं वारि वारिणः स्यात् पिपासकम् | कार्यभेदे कारणस्य देवि भेदं हि कल्पनम् || २० || प्. ८६) एकत्र पञ्चतत्त्वानि यत्रैव मिलनं [ज्: विमलं] भवेत् | तत्रैवाहं प्रगच्छामि ते नराः मत्समाः सदा [च्, ज्: मत्स्यमांससदाः] || २१ || ये नराः साधुभावाश्च तत्त्वज्ञानपरायणाः | जीवन्मुक्ताश्च ते देवि ब्राह्मणाश्च न चान्यथा || २२ || यथा तोयं तोयमध्ये लीयते परमेश्वरि | तथैव तत्त्वसेवायां लीयते परमात्मनि || २३ || इति ते कथितं कान्ते तत्त्वज्ञानं विमोक्षदम् | येन विज्ञानमात्रेण मोक्षसिद्धिर्न संशयः || २४ || क्षितिं विना यथा नास्ति स्थितिरेव महेश्वरि | तोयं विना यथा नास्ति पिपासानाशकारणम् || २५ || तमोहन्ता यथा नास्ति भास्करेण विना प्रिये | विना वह्निप्रयोगेण यथा किञ्चिन्न पच्यते || २६ || विना चन्द्रेण देवेशि सुधावृष्टिर्न जायते | महोद्गर्भं विना कान्ते चोत्पत्तिर्नैव जायते | तत्त्वज्ञानं विना देवि तथा मुक्तिर्न जायते || २७ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे द्वाविंशत्युल्लासः || ० || त्रयोविंशोल्लासः | कुलार्णवे श्रीमहादेव्युवाच - देवेश प्राणनाथेश नमामि चरणाम्बुजे | अधुना श्रोतुमिच्छामि तत्त्वाद्यं लक्षणं महत् || १ || प्. ८७) अथाद्यतत्त्व लक्षणम् | श्रीमहादेव उवाच - तत्वाद्यं परमेशानि सर्वतत्त्वस्य बीजकम् [ज्: कारणं] | बीजं विनान्यतत्त्वं यत् दिङ्मूढस्यापि पूर्ववत् || २ || अत एव सुराः सर्वे हेतुञ्चामृतकल्पिताः [ज्: कल्पितम्] | अमृतं भोगमापन्ने मृतभावं विमुह्यिताः [ज्: विमुह्यति] || ३ || स्वर्गे यदमृतं प्रोक्तं तदेव लौकिकी सुरा | सुराञ्च [ज्: सुरायाः] भोगमापन्ने सुरत्वञ्च भविष्यति || ४ || अत एव द्विजाः सर्वे मद्योसक्ता युगे युगे | मद्यबीजं महेशानि वृक्षानन्दं [घ्, ज्: ब्रह्मानन्दं] प्रकल्पयेत् || ५ || नृत्यगीतात्मिका शाखा वाक्यमात्रं दलं शिवे | महाशक्तिः पुष्परूपा मैथुनं फलरूपकम् || ६ || शुक्रपातं महाबीजं सृष्टिमात्रं हि कारणम् | वृक्षस्वरूपं तद्द्रव्यं [घ्, ज्: तद्रूपं] शक्तियुक्तं भवेद् यदि || ७ || मातृकाभेद तन्त्रे - ब्राह्मणस्य महामोक्षं मद्यपानेन शैलजे | ब्राह्मणः परमेशानि यदि पानादिकञ्चरेत् | तत्क्षणात् शिवरूपोऽसौ सत्यं सत्यं प्रियम्बदे || ८ || मद्यपानं विना देवि तत्त्वज्ञानं न लभ्यते [छ्, ज्: तज्ज्ञानं न हि लभ्यते] | अत एव हि विप्रश्च सुरापानं सदाचरेत् [घ्, ज्: समाचरेत्] || ९ || वेदमाताजपेनैव ब्राह्मणो नहि शैलजे | ब्रह्मज्ञानं यदा देवि तदा ब्राह्मण उच्यते || १० || प्. ८८) तोये तोयं यथालीनं तैजसे तैजसं यथा [ज्: यथा तेजसि तैजसम्] | भग्ने घटे यथाकाशं महाकाशे [क्, घ्: यथाकाशे] प्रलीयते | तथैव सद्यभुग् विप्रो लीयते परमात्मनि || ११ || कुलार्णवे श्रीमहादेव्युवाच - देवेश परमेशान ज्ञानाज्ञान प्रदायक | वेदस्य वर्जितं मद्यं कथमुक्तं सदाशिव || १२ || श्रीमहादेव उवाच - सुरापानान्महापापं वेदादिषु निरूपणम् [ज्: निरूपितं] | अत एव क्रियाशक्तैर्मद्यं त्याज्यं युगे युगे || १३ || आवयोः पिशितं मांसं मद्यञ्चैव महेश्वरि | वर्णाश्रमोचितं धर्मं न विचार्य पिवन्ति ये | भूताः प्रेताः पिशाचाश्च ते नरा ब्रह्मराक्षसाः || १४ || मद्यपाने महादोषं वेदादिषु निरूपणम् | तथापि मुक्तिभाग्विप्रो मद्यपानं [ज्: मद्यपानात्] युगे युगे || १५ || न देयं हि न पेयं हि सत्यं सत्यं युगे युगे | तथापि ब्राह्मणाः सर्वे मद्यपानेषु लालिताः || १६ || अथाद्यतत्त्वस्यदोषोद्धारः | ज्ञानार्णवे श्रीशिव उवाच - वृथापानं यः कुरुते सुरापानं तदुच्यते | स महापातकी चैव वेदादिषु निरूपणम् || १७ || अत एव हि विप्रेन्द्रो वृथापानं नचाचरेत् | वृथापाने महापापं सर्वशास्त्रस्य सम्मतः || १८ || प्. ८९) ज्ञानस्य कारणं मद्यं मद्यं ज्ञानस्य नाशकम् | वायुना ज्वलितोऽग्निश्च वायुना लयवान् यथां || १९ || देवतार्थे पिवेन्मद्यं स्वानन्दार्थे पिवेद् यदि | तत्पानं कारणं पानं तदन्यद् विषभक्षणम् || २० || येनैव विषखण्डेन म्रियन्ते सर्वजन्तवः | तेनैव विषखण्डेन विषं नाशयते भिषक् || २१ || ज्ञानस्य कारणं मस्यं ज्ञानं मुक्तेश्च कारणम् | मुक्त्याकांक्षी पिवेन्मद्यं तदन्यः पातकी भवेत् || २२ || हंसमाहेश्वरे - गङ्गातु कारणं वारि मद्यं परम कारणम् | शोधितञ्चेदशुद्धञ्चेत् स्वर्गं नरकदायकम् || २३ || जन्मादौ परमेशानि बहुपुण्यार्ज्जितेन च | मुक्त्यर्थे कारणं पानं ज्ञानार्थेऽपि महेश्वरि || २४ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रयोविंशत्युल्लासः || ० || चतुर्विंशोल्लासः | कालिकाकल्पे - श्रीचक्रं रमणीयुक्तं हेतुना तत् प्रकाशितम् | हेतोरभावे श्रीचक्रं पूर्णानन्दं नचेत् क्वचित् || १ || रमणीरहितं चक्रं श्रीचक्रं रमणीयुतम् | अन्यद्द्रव्यं हि श्रीचक्रे शक्तिवाक्यानुसारतः || २ || प्. ९०) तन्त्रान्तरे - श्रीचक्रं स्वगृहं ज्ञात्वा [क्, ग्, च्: कृत्वा] स्वयं चक्रेश्वरो भवेत् | चक्रेश्वरीं स्त्रियं कृत्वा कार्यकर्माणि चाचरेत् || ३ || एतज्ज्ञानप्रभावेण किं न सिध्यति पार्वति [ज्: भूतले] | तद्गृहात् कारणेनापि पूजयेत् परमेश्वरीम् | एतद्भिन्नन्तु तद्धेतुं [ज्: यद्धेतुं] शुद्धिं कृत्वा तु पूजयेत् || ४ || अथ द्रव्यभेदकथनम् | समयाचारतन्त्रे - द्रव्यञ्च [घ्: मद्यञ्च] त्रिविधं प्रोक्तं मांसञ्च त्रिविधं शिवे | उत्तमं मध्यमं ज्ञेयं चाधमं परिकीर्तितम् || ५ || स्वमन्दिरोद्भवं द्रव्यं चोत्तमं खलु पार्वति | शण्डिकागारसम्भूतं मध्यमं परिकीर्तितम् | अन्यजात्युद्भवं द्रव्यं [घ्: अन्यजातिसमुद्भूतं] चाधमं परिकीर्तितम् || ६ || श्रीदेव्युवाच - आनन्दार्थे पिवेन्मद्यं आनन्दं मुक्तिदायकम् | तस्योत्तमञ्चाधमञ्च मध्यमं केन तद्वद || ७ || श्रीशिव उवाच - कालस्य दोषो नास्त्येव क्रियामुक्ते न दोषभाक् | तथा दोषो नास्ति हेतोः करणीयस्य दोषजम् || ८ || शुक्राधारं योनि - रन्ध्रं पुरुषस्य सुखोदितम् | शुक्रपाते यथा दोषं कारणस्य तथा शिवे || ९ || प्. ९१) शाक्तस्य कारणं पाने नासि दोषो महेश्वरि | साधकस्य क्रियाभेदात्तावुभौ दोषभागिनौ || १० || सर्वानन्दप्रदं तोयं समानं परमेश्वरि | तथापि रोगिणो देहे तज्जलं दुःखदायकम् || ११ || तथा मद्यं दुःखदेयमज्ञानस्यापि देहिनः | सालोक्यञ्चैव सारूप्यं सायुज्यञ्च महेश्वरि [छ्, ज्: सायुज्यं परमेश्वरि] || १२ || अधमान्मध्यमाद् देवि चोत्तमं सेवनात् फलम् | मद्येषु शक्तौ दोषोऽस्ति केवलाज्ञानिनो वचः || १३ || अतश्च ज्ञानिनः सर्वे पिवेयुः स्वेच्छया मधु | अज्ञानस्य क्रियामूलं क्रियायाः शुद्धमूलकं || १४ || शोधितं रमणीमद्यं त्रिवर्गफलदायकम् | स्वेच्छयापि पिवेन्मद्यं ज्ञानी च मुक्तिभाग् भवेत् | तत्रापि शक्तिसंयुक्तं मद्यं कैवल्यदायकम् || १५ || तारातन्त्रे - शक्तिभाग् मैथुनासक्तो ज्ञानभाग् मुक्तिकांक्षिकः | ज्ञानभाक् कारणासक्तस्तस्मान्मद्यं पिवेन्मुदा || १६ || अशोधितौ योनि मद्यौ महापापकराबुभौ | शोधितौ चेत् योनिमद्व्यौ सर्वपापप्रणाशकौ || १७ || मद्यञ्च कारणं योनेर्योनिर्मद्यस्य कारणम् | चित्तशुद्धे [घ्: शुद्धे शुद्धं महादेवि शुद्धाभावेऽप्युशुद्धकम्] सर्वशुद्धं शुद्धाभावेऽप्यशुद्धकम् || १८ || अशोधितं पिवेन्मद्यं रमणञ्चाप्यशिधितम् | पानेऽपि नरकं याति रमणं मरणं भवेत् || १९ || प्. ९२) त्रिपुरासारे शक्तिशुद्धिः | आदौ कुर्यात् शक्तिशुद्धिं कारणञ्च ततः परम् | शक्तिं विना महेशानि कारणं मरणं समम् | शक्तिज्ञानं कारणेन ततः शक्तिञ्च शोधयेत् || २० || कुलचूडामणौ - आदौ कुर्यात् शक्तिशुद्धिं कारणं तदनन्तरम् [ज्: कारणञ्च ततः परम्] | शक्त्यै दत्वा पिवेन्मद्यं शुद्धिं कुर्यात् क्रमेण च || २१ || शक्तिशुद्धिञ्चरेदादौ पशुसाधकसाधिका | शोधयितापि तां शक्तिं श्रीचक्रेषु प्रवेशयेत् || २२ || अथ पशुशक्तिलक्षणम् | कुलचूडामणौ श्रीदेव्युवाच - देवेश प्राणनाथेश सर्वभूते सनातन | पशुशक्तिञ्च कां प्रोक्तां मम स्थाने प्रकाशय || २३ || श्रीमहादेव उवाच - पुष्पहीना पशोः शक्तिर्वीरस्य पुष्पसंयुता | प्रथमे पुष्पिता नारी उभयोः पूजिता परा || २५ || प्रथमे पुष्पितां नारीं येन भावेन पूजयेत् | तद्भवे भाविता शक्तिः साधकः सिद्धिहेतवे [घ्: साधकस्य च सिद्धये] || २५ || रमणार्थे कृता शक्ती रमणं वीरलक्षणम् | अत एव महादेवि सपुष्पा वीरपूजिता || २६ || अपुष्पायाः पशोः पूज्या पूज्या वीरस्य [ज्: वीरपूज्या तु] पुष्पिता | पुष्पितापि पशोः पूज्या पशुञ्चेद् वाञ्छिता यदि || २७ || प्. ९३) पूजने शुद्धिता [ज्: शोधिता] शक्तिः सर्वाचारस्य [ग्: सर्वशास्त्रस्य] सम्मतम् | शक्तिरूपा महाशक्तौ रमणार्थे गृहे स्थिता || २८ || यदर्चनेन सन्तुष्टा शुद्धिता [ज्: शोधिता] कामिनी तदा | मद्यं शक्तिमशुद्धञ्चेत् शुद्धं कुर्यात्तदर्चने [क्, ग्, च्, छ्: कुर्यार्चने शिवे] || २९ || अथ पशुवीरयोः शक्तिशुद्धिः | अशोधितां शक्तियन्त्रं कदाचिन्नैव लङ्घयेत् | शोधितां योनिमाश्रित्य रमेद् वीरस्तदन्ततः || ३० || पशूनां रमणीशुद्धिं पञ्चगव्येन कारयेत् | वीराणां पञ्चतत्त्वेन रेतसा केवलेन वा || ३१ || निर्वाणतन्त्रे - रेतः पवित्रं परमं शक्तेर्मोक्षस्य कारणम् | पूजाहीना च या नारी जपहीना च या पुनः || ३२ || धृत्वा साधकरेतश्च सा नारी कालिका स्वयम् | भ्रान्तिस्तत्र न कर्तव्या यदि मुक्तिञ्च कांक्षतिः || ३३ || या नारी भक्तिसंयुक्ता सा गा कालिका तनौ | साधकञ्च शिवं कृत्वा [घ्: साधकस्य शिवं ज्ञात्वा] वीपरीतेन तोषणात् || ३४ || निगमानन्दे - दिनत्रयं परित्यज्य दिने षोडश मध्यके | पञ्चगव्येन संशुद्धिं रमणञ्चाचरेत् ततः || ३५ || पुष्पं दृष्ट्वा यदा देव तदा तत्त्वेन पूजयेत् | शुक्राक्तरूधिरेणैव पूजयेदिष्टदेवताम् || ३६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुर्विंशत्युल्लासः || ० || पञ्चविंशोल्लासः अथाशुद्धमद्यस्य दोषकथनम् | गौतमीये - अशोधितं हि यन्द्यं महापापकरं परम् | शोधितं तत्परं मद्यं पापनाशकरं परम् || १ || अविधानेन यत्पानं पशुपानमुदीरितम् | तत्पानं परमेशानि केवलं दुःखदायकम् || २ || कुलार्णवे श्रीदेव्युवाच - मद्यपाने विधानं किं कथय प्राणवल्लभ | श्रीशिव उवाच - तव स्नेहेन वद्धोऽहं विधानं कथयाम्यहम् | शुद्धं कृत्वा पिवेन्मद्यं देवताप्रीतिपूर्वकम् || ३ || अथ मद्यशुद्धिः | कालिकाकुलसर्वस्वे - उपविश्यासने शुद्धे [ज्: मन्त्री] प्राङ्मुखो वाप्युदङ्मुखः | सन्मुखे वामभागे वा मण्डलं चतुरस्रकम् || ४ || तत्र संस्थापयेत् कुम्भं देवताप्रीतिपूर्वकम् | स्वकीयवामभागे तु षट्कोणं विन्दुमध्यगम् || ५ || चतुरस्रं लिखेद् भूमौ गन्धपुष्पेण पूजयेत् | आधारशक्तिं मायाद्यं ङेयुतं परमेश्वरि [घ्, ज्: ङेयुतञ्च नमोऽन्तकम्] || ६ || प्. ९५) मन्त्रस्तु | ह्रीं आधारशक्तये नमः | तत्र कुम्भं हि संस्थाप्य पूजयेन्मनुना शिवे | प्रणवं वह्निबीजञ्च ङेयुतं वह्निमण्डलम् | दशकलेतिपदं दत्त्वा [छ्: कृत्वा] तदन्ते चात्मने नमः || ७ || मन्त्रस्तु | ओं रं [घ्, ज्: मं] वह्निमण्डलाय दशकलात्मने नमः | तत्राधारे स्थितं कुम्भं भूषयेद्रक्तवस्त्रकैः | कलसे पूजयेद्वीरः सकलं सूर्यमण्डलम् || ८ || प्रणवं पूर्वमुच्चार्य अं सूर्यमण्डलाय च | द्वादशेति पदं दत्त्वा नमोऽन्तेऽपि कलात्मने || ९ || मन्त्रस्तु | ओं अं सूर्यमण्डलाय द्वादशकलात्मने नमः | ततस्तु कारणं दिव्यं घटेऽपि स्थापयेत्ततः || १० || वेष्टितं रक्तवस्त्रेण रक्तपुष्पेण भूषितम् | मण्डले कलसे द्रव्ये वह्न्यर्कसोममण्डलम् | विभाव्य मनसा मन्त्री पूजयेद्बहुयत्नतः || ११ || अथ कलसप्रमाणम् | तोडले - योन्याकारं मुखं भद्रे वर्तुलं वा मनोहरम् | खण्डितं स्फुटितं भग्नं कृष्णवर्णं परित्यजेत् || १२ || प्. ९६) नाति ह्रस्वं नाति दीर्घं सौवर्णं राजतं प्रिये [घ्: रजतोद्भवं] | ताम्रं वा भूमयं वापि केवलं लौहवर्जितम् || १३ || मद्येन पूरयेत् कुम्भं मूलमन्त्रं समुच्चरन् | तत्र मध्ये यजेद् वीरः सकलं सोममण्डलम् || १४ || प्रणवं पूर्वमुच्चार्य उं सोममण्डलाय च | षोडशेति पदं दत्त्वा नमोऽन्तेऽपि कलात्मने || १५ || मन्त्रस्तु | ओं उं सोममण्डलाय षोडशकलात्मने नमः | दर्भैः संताड्य तद्द्रव्यं हुङ्कारेणावगुण्ठितम् | प्रदर्शेयेद्धेनुमुद्रां वं वर्णेन च साधकः || १६ || नमो गन्धं समादाय ओंकारेण प्रदापयेत् | ह्सौः ह्क्षौ/ नमो ज्ञात्वा ह्सौः संलिख्य कारणे || १७ || अकथादिक्रमेणैव त्रिरेखां परिकल्पयेत् | हलक्षञ्च लिखेत् कोणे ह्सौः ह्क्षौ/ तस्य [ज्: च] मध्यगे || १८ || अथ ह्सौः मन्त्रलक्षणम् | नारायणीतन्त्रे श्रीदेव्युवाच - व्यञ्जनं पुरुषं देव स्वरञ्च शक्तिमीरितम् | एक - शक्तौ महादेव द्विलिङ्गं केन संयुतम् || १९ || श्रीमहादेव उवाच - एकलिङ्गं महासूक्ष्मं ह-कारं मन्त्रमध्यगम् | स-कारं स्थूललिङ्गश्च हकारस्यापि मध्यगम् || २० || चतुर्दश-स्वरेणापि द्विदेहमेकदेहकम् | स्वरेण षोडशेनापि कला षोडश वर्द्धिता || २१ || प्. ९७) क्षयपूर्णं परित्यज्य [क्, ग्, च्: परित्यज्यं] चतुर्दश विभूषितम् | ह्सौः मन्त्रमिदं प्रोक्तं विसर्गः कर्मभाषितः || २२ || नादस्यार्द्धं [घ्, ज्: नादरूपं] हकारार्द्धं यन्त्रस्थानं प्रकाशितम् | तत्र मध्ये महालिङ्गं हकारस्यापि शेषकम् || २३ || तस्याधः शक्तिसंयुक्तं सकारं पुंस्त्वबोधकम् [ज्: पूर्णबोधकम्] | चतुर्दश स्वरं ज्ञेयमुभयोः करापादकम् || २४ || त्रयोदश करं ज्ञेयं चतुर्दश पदं शिवे | विसर्गः परमेशानि कामात्मानं विचिन्तयेत् || २५ || हकारेण सकाराक्तं सकारेण हकारकम् | अनयोः सूक्ष्मता यत्र प्रणवोऽभूच्चतुर्दशः || २६ || विन्द्वर्द्धं बिन्दुमेकञ्च विन्द्वर्द्धञ्च कला परा | त्रिवर्गस्य द्वितीयार्णं कलानादेन भाषितम् | तत्रमध्ये महाशून्यं प्रणवंवेदभाषितम् || २७ || निगमानन्दे श्रीशिव उवाच - त्वं देवि परमा नित्या भोगमोक्षप्रदायिका [घ्: प्रदायिनी] | अधुना श्रोतुमिच्छामि ह्क्षौ/ मन्त्रस्य लक्षणम् || २८ || श्रीदेव्युवाच - ह-कारं शिवबीजं हि षकारं रजसात्मकम् | क-कारेण षकारं हि क्ष-कारं कामलालितम् [घ्, ज्: कमलान्वितम्] | चतुर्दश-स्वरोपेतं ह्क्षौ/ मन्त्रं प्रकीर्तितम् | शिवशक्तिमयं मन्त्रं रजोभावेन भाषितम् | षकारं रजोभावेन ह-कारं रजोभाषितम् || ३० || प्. ९८) त्रिः श-कारं शक्तिरूपं गुणत्रयविभूषितम् | सत्त्वं रजस्तमो ज्ञेयमेकशक्तेस्त्रिधा परा [ज्: स्त्रिकारणम्] || ३१ || कुलार्णवे - त्रिकोणं तद्वहिर्न्यस्य मन्त्रद्वौ दशधा [छ्, ज्: मन्त्रं द्वादशधा] जपेत् | मन्त्रस्तु | ह्रीं क्लीं परमस्वामिनि परमाकाशशून्यवाहिनि चन्द्रसूर्याग्निभक्षिणि पात्रं विश स्वाहा | ऐ/ ह्रीं श्रीं आनन्देश्वराय विद्महे सुधादेव्यै- धीमहि तन्नोर्द्ध-नारीश्वरः प्रचोदयात् | ततः शापमोचनं कुर्यात् | ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् | कचोद्भवां ब्रह्महत्यां तेन तेनाशयाम्यहम् || ३२ || ओं सूर्यमण्डलसम्भूते वरुणालयसम्भवे | अमावीजमये देवि शुक्रशापाद्विमुच्यताम् || ३३ || ओं वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि | तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु || ३४ || मन्त्रत्रयं घटं धृत्वा पठित्वापि त्रिवारकम् | कृष्णशापं शुक्रशापं ब्रह्मशापं विमोचयेत् || ३५ || श्रीदेव्युवाच - सुरापानेन देवेश देवत्वं हि भविष्यति | ततश्च बीजं मद्यं हि तत्र शापं कथं वद || ३६ || प्. ९९) श्रीमहादेव उवाच - गौतमीये - अमृतं शक्तिसंयुक्तं शक्तिहीनं हि मादकम् | शक्तिहीने मद्यपाने शुक्रो ब्रह्मा जनार्दनः || ३७ || गुणं द्रव्यस्य संभ्राम्य शापं दद्यात् सनातनि | ततश्च परमेशानि शापं त्यज्य पिवेन्मधु || ३८ || प्रत्येकं दशधा मन्त्रं कारणेऽपि जपेत्ततः | शापादिमोचनं द्रव्यं देवानामपि दुर्लभम् || ३९ || अथ शापमोचनम् | ब्रह्मशापं शुक्रशापं कृष्णशापं महेश्वरि | मोचनार्थे त्रिधा मन्त्रं दशधा कारणे जपेत् || ४० || मन्त्रस्तु | ओं वां वीं वूं वैं वौं वः ब्रह्मशापविमोचितायै सुधादेव्यै नमः | इति ब्रह्मशापमोचनम् | ओं शां शीं शूं शैं शौं शः शुक्रशापविमोचितायै सुधादेव्यै नमः | इति शुक्रशापमोचनम् | ओं ह्री/ ऐ/ ह्री/ श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रः सुधे कृष्णशापं मोचय, अमृतं श्रावय श्रावय स्वाहा | [छ्, ज्: क्ला/ क्ली/ क्लू/ क्ल/ क्लौ/ क्लः इति च पाठः] इति कृष्णशापमोचनम् | प्. १००) वीर तन्त्रे - आनन्दभैरवं ध्यात्वा तथैवानन्दभैरवीम् [घ्: तथानन्दाख्यभैरवीं] | द्रव्यमध्ये गन्धपिष्पैर्यजेद् वीरस्त्रिवारकम् || ४१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्चविंशत्युल्लासः || ० || षड्विंशोल्लासः | वीरतन्त्रे तथैवानन्दभैरवी - | ध्यानं मे परमानन्दं कथय प्राणवल्लभ || १ || श्रीशिव उवाच - अथानन्दभैरवध्यानम् | सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् | अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् || २ || अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरिस्थितम् | वृषारुढं नीलकण्ठं सर्वाभरणभूषितम् || ३ || कपालखट्वाङ्गधरं घण्टाडमरुवादिनम् | पाशाङ्कुशधरं देवं गदामुसलधारिणम् || ४ || खड्गखेटकपट्टिशमुद्गरं शूलदण्डकम् | विभ्रतं तोमरं मुण्डं वरदाभयपाणिकम् || ५ || प्. १०१) लोहितं देवदेवेशं भावयेत् साधकोत्तमः | इति ध्यात्वा द्रव्यमध्ये यजेदानन्दभैरवम् || ६ || मन्त्रस्तु | ओं ह स क्ष म ल व र यूं आनन्दभैरवाय वषट् | त्रिवारं पूजयेदादौ भैरवं भैरवीं ततः | भैरवी मद्यसंरुपा भैरवानन्दरुपकः || ७ || अथानन्दभैरवीध्यानम् | भावयेच्च सुरां देवीम् [छ्, ज्: सुधादेवीं] चन्द्रकोट्ययुतप्रभाम् [छ्, ज्: चन्द्रकोटिसमप्रभां] | हिममुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् || ८ || अष्टादशभुजैर्युक्तां सर्वानन्दकरोद्यताम् | ग्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् || ९ || इति ध्यात्वा त्रिवारं पूजयेत् | मन्त्रस्तु | ओं ह स क्ष म ल व र यीं सुधादेव्यै [छ्: आनन्दभैरव्यै] वौषट् | त्रिवारं पूजयेद्देवीं गुणत्रयविभेदतः || १० || भावचूडामणौ - अथवान्यप्रकारेण द्रव्यशुद्धिं वदाम्यहम् | निगमकल्पद्रुमे श्रीशिव उवाच - द्रव्यशुद्धिं बहुविधं नानाभावस्य सम्मतम् | जन्मान्तर शतेनापि ज्ञापितुं नैव शक्यते | तेषां मध्ये साधकोऽपि केन वा साधनञ्चरेत् || ११ || प्. १०२) अथ सक्षेपशोधनम् | श्रीदेव्युवाच - द्रव्यमध्ये मातृकार्णं सविन्दु सुखमोक्षदम् | प्रतिवर्णं विन्दुयुक्तं बिन्दुनाद विभूषितम् || १२ || वामावर्तेऽपि [ग्: वामावर्तेन] तद्वर्णं त्रिकोणेषु महेश्वर | विलिखेत् त्रिकोणाकारमकथादि [ज्: त्रिकोणरुपम्] क्रमेण तु || १३ || वामावर्ते लिखेद्वर्णं पञ्चाशन्मणिमण्डलम् | ह ल क्षं तत्त्रिकोणेषु ब्रह्म विष्णु शिवात्मकम् || १४ || श्रीशिव उवाच - कस्मिन् कोणे वसेद् ब्रह्मा कस्मिन् कोणे जनार्दनः | कस्मिन् कोणे वसेत् शम्भुः कथय प्राणवल्लभे || १५ || श्रीदेव्युवाच - आदिकोणेऽप्यधोभागे ब्रह्मा च सृष्टिरुपकः [छ्: -कारकः] | मध्यकोणे वसेद्विष्णुः पालकोऽपि निरञ्जनः | अन्त्यकोणे महादेवः प्रकृत्याप्येकदेहकः || १६ || अथान्यप्रकारद्रव्यशुद्धिः | विन्दुरुपः शिवो ज्ञेयो नादरुपाच चण्डिका | नादबिन्दुमयं पीठं द्रव्यमध्ये लिखेद्बुधः || १७ || त्रिनादञ्च त्रिशक्त्याक्तं त्रिविन्दु त्रिदेवं परम् [घ्: त्रिदेव-प्रिय; ज्: त्रिशिवं प्रिये] | लिखित्वा चिन्तयेद्द्रव्यं मृतभाव-विवर्जितम् || १८ || अथान्यप्रकारमाह - गुरोः प्रकाशं यन्मन्त्रं नित्यं जपति साधकः | तेनैव मनुना देव द्रव्यं सप्ताभिमन्त्रितम् | सप्तवारजपेनैव द्रव्यशुद्धिस्तु तत्क्षणात् || १९ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षड्विंशत्युल्लासः || ० || सप्तविंशोल्लासः | अथ मांसलक्षणम् | कुलरहस्ये - ऐश्वर्यदायकं मद्यं मैथुनं मुक्तिदायकम् | उभयोः कारणं ज्ञेयं गुणत्रयमहत् [ज्: -मयं] परम् || १ || मांसं मत्स्यं हि मुद्राञ्च त्रिगुणं परिकीर्तितम् | कारणस्य कारणं हि रमणस्य महत् सुखम् [घ्: गुणत्रयमहत् सुखम्] || २ || मांसञ्च त्रिविधं प्रोक्तं जलभूचरखेचरम् | कपोतकस्य छागस्य कूर्मस्य परमेश्वरि || ३ || त्रिविधान्येव मांसानि वियद्भूजलचराणि च | आनीय तानि यत्नेन देव्याः सन्तुष्टहेतवे || ४ || प्. १०४) यामले - त्रिविधान्येव मांसानि वियद्भूजलचराणि च | आनीय तानि यत्नेन देव्यै चोद्दिश्य घातयेत् || ५ || देव्युदेशे घातनाच्च नास्ति पातकमम्बिके [ज्: पातकं नास्ति सुन्दरि] | अन्यथा घातनाद्देवि रौरवं नरकं व्रजेत् || ६ || कुलार्णवे - आत्मार्थे प्राणिनां हिंसा कदाचिन्नोदिता प्रिये | पितृदैवतयज्ञेषु प्राणिहिंसा विधीयते || ७ || अविधानेन यो हन्यात् प्राणिनं [ग्, च्: प्राणिनां] परमेश्वरि | विषमे दुर्गमे घोरे एतत्येव न संशयः || ८ || अनिमित्तं तृणं [क्, ग्, छ्: एणं] वापि छेदयेन्न कदाचन | देवतार्थे द्विजार्थे वा हत्वा पापैर्न लिप्यते || ९ || ज्ञानद्वीपे - तृणंमप्यविधानेन छेदयेन्न कदाचन | देवतार्थे द्विजार्थे वा हत्वा पापैर्नलिप्यते || १० || विधिनापि द्विजं गाम्बा हत्वा पापैर्न लिप्यते | तथापि परमेशानि ज्ञानिनां न शुभप्रदम् | पञ्चतत्त्वस्य माहात्म्यं फलञ्च पञ्चधा यतः || ११ || अथ मांसशुद्धिः | मण्डले स्थापितं मांसं किञ्चिद्द्रव्यं प्रविक्षिपेत् | त्रिवारं पठनात् मन्त्रं मांसशुद्धिस्तु तत्क्षणात् || १२ || प्. १०५) मन्त्रस्तु | ओं प्रतद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || १३ || इति मन्त्रं महेशानि मांसोपरि त्रिधा पठेत् [घ्: जपेत्] | मद्ययुक्तं मांसखण्डं शक्तिवक्त्रे प्रदापयेत् [घ्: निवेदयेत्] || १४ || अथ मत्स्यलक्षणम् | कुलतत्वसारे - इल्लिशं कबजीं शालं वाचां शकुनप्रोष्ठिकाम् | सद्गुरञ्चैव वोदालं रोहितं चोत्तमं प्रिये || १५ || अन्यानि यानि मत्स्यानि स्त्रीणां प्रियकराणि च | शोधितं चेत् प्रदातव्यं शक्तिवक्त्रे महेश्वरि || १६ || मत्स्यं मांसं प्रदातव्यं भर्जितं हि विशेषकम् | तस्मात् प्रशस्तकं ज्ञेयं दग्धं हि वरवर्णिनि || १७ || तन्त्रान्तरे - मांसं मत्स्यं शोधितव्यं स्त्रीणां प्रियकरं यदि [ज: परम्] | शक्तिवक्त्रे प्रदातव्यं कारणेन समन्वितम् || १८ || अथ मीनशुद्धिः | ओं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् | उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् || १९ || मण्डले स्थापयेन्मीनं प्रक्षिपेत् कारणैः [ज्: कारणे] प्रिये | त्रिवारं पठनान्मन्त्रं मीनशुद्धिस्तु तत्क्षणात् || २० || प्. १०६) अथ मुद्रालक्षणम् | ब्रीहिणं भर्जितं [छ्: भुञ्जितं] प्रोक्तं शर्कराद्यैः सुवासितम् | योनिपद्मकदम्बेति लक्षणं परिकीर्तितम् || २१ || अन्यानि द्रव्याणि भर्जिततानि [छ्: भुञ्जितानि] महेश्वरि | इति मुद्रा शोधितं चेत् देव्याः प्रीतिकरा परा || २२ || धान्यं भ्रष्टं वह्नियोगैश्चर्वणीयं महेश्वरि | इति मुद्रा कृता संज्ञा महामोदप्रदायिनी || २३ || अथ मुद्राशुद्धिः | मण्डले स्थापयेन्मुद्रां प्रक्षिपेत् कारणेन तु | मन्त्रद्वयं त्रिधा जप्त्वा मुद्राशुद्धिस्तु तत्क्षणात् || २४ || मन्त्रस्तु | ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुरातम् || १ || ओं तद् विप्रासो विपन्य विपन्यवो जागृवांसः समिन्धते, विष्णोर्यत् परमं पदम् || २ || इति मुद्राशुद्धिः || इति श्रीसर्वानन्दनाथविरचिते सर्व्वोल्लासे सप्तविंशत्युल्लासः || ० || अष्टाविंशोल्लासः | कुलार्णवे - द्रव्यभारसहस्रेण मांसभारशतेन [च्, छ्-शतानि] च | विना शक्तिं न सिद्ध्येत तस्मात् शक्तिं समाश्रयेत् || १ || अथ शक्तिलक्षणम् | यामले - स्वशक्तिं पर [घ्, छ्, ज्: वीर] शक्तिं वा दीक्षितां गुरुसन्निधौ | तत्र स्थिता देवतात्मा सा शक्तिः सर्वपूजिता || २ || शक्तिमानीय यत्नेन सुशीलां प्रियवादिनीम् | गुरीरग्रे स्ववामे वा रक्तवस्त्रेण भूषिताम् | ततश्च साधकः श्रेष्ठो मूषयेद्बहुभूषणैः || ३ || वृहद् योनितन्त्रे - आनीय प्रमदां कान्तां सुशीलां चारुहासिनीम् | गुरुभक्तिरतां देवि कुलसाधनतत्पराम् || ४ || दीक्षितां परकान्तां वा स्वकीयाम्बा महेश्वरि | तत्त्वानन्दयुतां शक्तिं परतत्त्वेषु लालिताम् | आनीय बहुयत्नेन जातिभेदं न चाचरेत् || ५ || विवर्जितघृणालज्जां सर्वदानन्दसंयुताम् | अथवा पानसंहृष्टां चक्रमध्ये समानयेत् || ६ || कालिकाकल्पे - स्वेष्टदेवीं यजेत् चक्रे स्वस्त्रियं स्वेष्टभाविनीम् | अथवा स्त्रीसमीपे वा यन्त्रं कृत्वा प्रपूजयेत् || ७ || प्. १०८) तन्त्रान्तरे - स्त्रियः पूजा प्रकर्तव्या ज्ञात्वा स्वेष्टस्वरूपिणीम् | तत्समीपे कृतं यन्त्रं तदाज्ञाभावमानतः || ८ || ज्ञानार्णवे - स्त्रीसमीपे यदा [घ्: कृता] पूजा जपश्च परमेश्वरि | कामरूपात् शतगुणंः समुदीरितमव्ययम् || ९ || शक्तिदोषं न वक्तव्यं यतो देवस्वरूपिणी | कुलनिष्ठश्च विप्रश्च तस्याः शुद्धिं न चाचरेत् || १० || स्वशक्तिशोधनं नास्ति चैकात्माप्युभयोर्यतः | शोधयेत् परशक्तिञ्च द्वित्वात्मैकत्वहेतवे || ११ || साध्यात्मा [घ्: सा साध्या] साधकात्मा चेद् यदैकात्मा भवेन्मूदा | तदा शुद्धिर्न कर्तव्या गङ्गाघनजलं [घ्, ज्: गङ्गायामनधं] यथा || १२ || प्रायश्चित्तं प्रकर्तव्यं गङ्गा यत्र न तिष्ठति | शक्तिशुद्धिः प्रकर्तव्या यदैकात्मा न चेत् शिवे || १३ || साध्या साधकयोर्देवि यदैकात्मा महेश्वरि | आत्मशुद्धे [ज्: आत्मशुद्धिः] शक्तिशुद्धिस्तस्य सिद्धिदूरतः || १४ || निगमकल्पे श्रीमहादेव उवाच - एकाचारी एकभावी एकानन्देषु मोहितः | शक्तेर्दोषं तदा कुत्र स्वयं तत्रैव संलयः || १५ || अज्ञात्वा कुलतत्त्वञ्च शक्तिशुद्धिं समाचरेत् | यस्य ज्ञानस्य मात्रेण पूर्णानन्दो भवेद्ध्रुवम् | तस्य शुद्धिः कथं भद्रे मनसा चिन्तनं [ग्: चिन्तय] यदि || १६ || प्. १०९) श्रीदेव्युवाच - कुलस्य दक्षिणे वामे मध्ये च परमेश्वर | जाह्नवी यमुना वाणी [ग्: वारि] सदा भातीति ज्ञानतः || १७ || एतैर्विशिष्टा शक्तिः स्यात् शरीरं देवतामयम् | साशुद्धिश्चेद् भवेद्देव तदाशुद्धिश्च देवता || १८ || अज्ञानिनां सदा शुद्धिर्मन्त्रादिना महेश्वर | मनसा चेत् न शुद्धिः स्यान्मन्त्रशुद्धिः सुदूरतः || १९ || कालीतन्त्रे - अदीक्षिता च या शक्तिश्चक्रमध्ये प्रपूजयेत् | पूर्णचक्रं नचेत् तत्र पूर्णानन्दं नचेद् यतः || २० || तस्मात् सुलक्षणां शक्तिं दीक्षिताञ्च प्रपूजयेत् | प्रणम्य देवतावुद्ध्या भोगपात्रं प्रदापयेत् || २१ || भोगपात्रं न दातव्यं विधवायै महेश्वरि | उच्चस्तनीं कामरतां विधवाञ्च प्रपूजयेत् || २२ || यो दद्याद् विधवाहस्ते भोगपात्रं महेश्वरि | तस्या योनिं लङ्घयित्वा तत्त्वं देव्यै निवेदयेत् || २३ || शङ्कया परमेशानि लज्जया नाचरेत् क्रियाम् | उभौ च दुःखौ परमे पशुपाशनियन्त्रितौ || २४ || विधवायोनिरमणं कारयेच्च तदाज्ञया | शुक्रपातं प्रकर्तव्यं तस्या वाक्यानुसारतः || २५ || यावन्न शुक्रपातं हि विधवायोनिमण्डले | तावच्च रमणं कुर्यात् पतनान्ते परित्यजेत् || २६ || प्. ११०) शुक्रपाते यदा शक्तेराज्ञा नैव प्रजायते | निवेद्य कारणाक्तं हि भक्षयेन्मनुना शिवे || २७ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे अष्टाविंशत्युल्लासः || ० || ऊनत्रिंशोल्लासः | श्रीदेव्युवाच - शक्तिं ब्रह्ममयीं साध्वीं निस्पृहां भक्तवत्सलाम् [छ्, ज्: भक्तिवत्सलां] | तस्या दीक्षा कथं प्रोक्ता विधवा वा कथं वद || १ || श्रीशिव उवाच - आनन्दरहिता शक्तिर्विधा चाप्यदीक्षिता | आनन्देन भवेत् पूज्या सानन्दा वीरवन्दिता || २ || तत्र कृत्वा महाचक्रं करेण [घ्: कारणे] मार्जयेद्वपुः | दीक्षिता सधवा ज्ञेया यद्यानन्दसमाश्रिता || ३ || वीरभावयुता शक्तिः शिवपत्नी महेश्वरि | वीरभावयुतः शाक्तः शिव एव न संशयः | शिवोऽहमिति संज्ञात्वा श्रीचक्रेषु रमेत् शिवाम् || ४ || भावचूडामणौ - आत्मानन्दे महादेवि सर्वानन्दमयं जतत् | आत्मशुद्धे जगत् शुद्धमशुद्धे चाप्यशुद्धकम् || ५ || प्. १११) नारायणीतन्त्रे - शक्तिशुद्धिर्न कर्तव्या यतो ब्रह्म [क्, ख्, ग्, च्: देव; ज्: देवी] स्वरूपिणी | आत्माऽशुद्धेऽप्यशुद्धा सा स्फाटिके रञ्जनं यथा || ६ || तथापि शुद्धं कर्तव्यं पशुपाशनियन्त्रितः | शक्तेर्दोषं महादेवि गृह्णाति नैव साधकः || ७ || तव रूपापि शक्तिः स्यात् यतो मुक्तिप्रदायिका | भोगमुक्तान्वितः शाक्तः [घ्, ज्: भोगमुक्तान्विता शक्तिः] शक्तेर्दोषं न चाचरेत् || ८ || श्रीकालीतन्त्रे - [घ्, ज्: पुस्तकयोर्दृश्यते] स्त्रीद्वेषो नैव कर्तव्यो विऽऽशेषात् पूजनं स्त्रियाम् | तासां प्रहारं निन्दाञ्च कौटिल्यमप्रियन्तथा || ९ || सर्वथापि न कर्तव्यमन्यथा सिद्धिरोधकृत् | स्त्रियो देवाः स्त्रियः प्राणा एव विभूषणम् || १० || स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि | तद्धस्तावचितं पुष्पं तद्धस्तावचितं जलम् || ११ || तद्धस्तावचितं द्रव्यं देवताभ्यो निवेदयेत् | महाचीनद्रुमलतावेष्टितः साधकोत्तमः || १२ || रात्रौ यदि जपेन्मन्त्रं दुर्लभं तस्य किं भवेत् | महाचीनद्रुमलतावेष्टनेन च यत्फलम् || १३ || एतस्य षोडशांशेन कलां नार्हन्ति ते शवाः | शवासनाधिकफलं लतागेहे प्रवेशनम् || १४ || प्. ११२) भोगार्थी शोधयेत् शक्तिं भोगानन्देषु मोहितः | आलापाद् गात्रसंस्पर्शात् कामान्देऽपि मोहिता [ज्: कामानन्देषु मोहितः] | कामानन्दं विना देवि भोगमुक्तिर्न जायते || १५ || ज्ञानिनाञ्चेदिमां शुद्धिमज्ञानिनाञ्च मन्त्रजाम् | तथापि ज्ञानिनां मध्ये ज्ञान श्रेष्ठोऽपि यो नरः | शक्तिशुद्धिर्न कर्तव्या यतः स्वेष्टमयी प्रिये || १६ || अथ शक्तिशुद्धिः | प्रक्षाल्य गन्धतोयैश्च धूपयित्वा सुधूपकैः | सिन्दूररञ्जितां कृत्वा मूलमन्त्रं लिखेद् भगे || १७ || अदीक्षिताः स्त्रियः कुर्यात् सद्यसंस्कारमम्बिके | मन्त्रदीक्षः विधानेन शक्तिशुद्धिस्तु तत्क्षणात् || १८ || कुलार्णवे - अदीक्षिता वामकर्णे मायाबीजं समुद्धरेत् | पूजयित्वा महेशानि भोगपात्रं प्रदापयेत् || १९ || यामलोक्तशुद्धिः | शक्तिगात्रे स्वकल्पोक्तन्यासजालं समाचरेत् | रक्तपुष्पेण निर्मञ्ज्य [घ्: निर्मज्य] योनिदेशे नियोजयेत् || २० || ओं नमो वाग्भवं बीजं मायालक्ष्मीं ततः परम् | सम्बोधनान्तं त्रिपुरादेवीति पदमुद्धृतम् [घ्, ज्: -उद्धरेत्] २१ || इमां [छ्: इमां शक्तिं परित्राणं क्रु कुरु मम शक्तिं कुरु कुरु स्वाहा इति दशधा जपेत्] शक्तिं ततः प्रोक्ता पवित्रीकुरु शब्दतः | मम शक्तिं कुरु द्वन्द्वं स्वाहेति दशधा जपेत् || २२ || प्. ११३) * [मन्त्रस्तु - ओं क्रीं ह्रीं श्रीं त्रिपुरादेवि इमां शक्तिं पवित्रीकुरु मम शक्तिं कुरु कुरु स्वाहा] पञ्चतत्त्वेन तां देवीं पूजयेद्विधिना शिवे | भोगपात्रं यदा देयं तदा रमणमाचरेत् || २३ || गुप्तसाधनतन्त्रे श्रीदेव्युवाच - द्रव्यादिशोधनं सर्वं बहुधा प्रकटीकृतम् | लोकोपकारकात् [ज्: -कारकं] शुद्धं संक्षेपेण वद प्रभो || २४ || श्रीशिव उवाच - गुरु [ज्: गुरोः] प्रकाशं यन्मन्त्रं नित्यं जपति वै नरः [घ्, ज्: साधकः] | तेनैव मनुना देवि षडङ्गे [घ्, ज्: षडङ्गं] न्यासमाचरेत् || २५ || न्यासं कृत्वा ततो मन्त्री द्रव्यादीनभिमन्त्रयेत् | सप्ततिर्मन्त्रितं कृत्वा पूतं सर्वं भवेद् ध्रुवम् || २६ || गुरुं शिवं तथा देवीं निवेद्यञ्चैव कारणम् | जुहुयात् कुण्डलीवक्त्रे मूलमन्त्रेण सुन्दरि || २७ || मूलाधारे स्थिता देवि कुण्डली परदेवता | भोगकाले महेशानि आजिह्वान्तं विभावयेत् || २८ || शोधितान् मत्स्यमांसादीन् मुखेनाच्छाद्य यत्नतः | मूलमन्त्रं समुच्चार्य जुहुयात् कुण्डलीमुखे || २९ || प्रतिपात्रे प्रतिग्रासे एवं कुर्याद् विचक्षणः | भोजनेच्छा भवेत्तस्या निर्लिप्तो जीवसंज्ञकः || ३० || प्. ११४) *[कुलपूजाविनाशार्थं यः करोति हि दुर्मतिः | प्रयाति नरकं घोरमेकविंशकुलैः सह || ३१ || देवान् पितॄन् समभ्यर्च्य कुलशास्त्रोक्तवर्त्मना | गुरुं स्मरन् पिवेन्मद्यं खादन् मांसं न दोषभाक् || ३२ || सेवयेत् चेत् सुखार्थाय मद्यादीन् यः स पातकी | प्राशयेद्देवताप्रीत्यै साभिलाषविवर्जितः || ३३ ||] इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे ऊनत्रिंशदुल्लासः || ० || त्रिंशोल्लासः | समयाचारतन्त्रे - सम्बिदाग्रहणं कृत्वा कारणं तदनन्तरम् | कारणस्य कारणं हि सम्बिदेति प्रकल्पितम् || १ || श्रीदेव्युवाच - सम्बिदा का महादेव कारणं किं [ग्, च्: हि] वद प्रभो | कस्मात् पानं कारणं हि सम्बिदानन्दभाक् नरः || २ || अथ सम्बिदाप्रकरणम् | श्रीशिव उवाच - भावशक्तोऽप्यशक्तश्च साधको द्विविधः शिवे | भावाक्तं सम्बिदानन्दं मद्यानन्दमभेदकम् || ३ || प्. ११५) भावेन भाव्यवान् [छ्: भाग्यवान्] भद्रे भावानन्देषु मोहितः | भावानन्देषु देवेशि मुक्तिभाग् जायते नरः || ४ || आद्यन्ते सम्बिदापानं कारणस्य महेश्वरि | तदा कैवल्यमुक्तिः स्यात् सत्यं सत्यं न संशयः || ५ || सालोक्यञ्चैव सारूप्यं सायुज्यं परमेश्वरि | इदं ज्ञानं सम्बिदोत्थं मुक्त्यर्थमुभयान्वितम् || ६ || निगमतत्वे श्रीदेव्युवाच - आनन्दं ब्रह्मणे रूपं यस्य देहे व्यवस्थितम् | तस्य सर्वं महेशान सिद्ध्यानन्द [घ्, च्, ज्: सिद्धानन्द; छ्: सदानन्द] प्रदायकम् || ७ || विनानन्देन [घ्: विनामद्येन] यद्ध्यानं सर्वं भवति निष्फलम् | अत एव महादेव सम्बिदाग्रहणञ्चरेत् || ८ || यतिर्वा भूपतिर्वापि मद्यानन्दं समाश्रयेत् | सर्वदा परमेशान सिद्ध्यानन्दं क्वचित् क्वचित् || ९ || अन्येषां साधकानाञ्च सम्बिदानन्दवर्धिनी [छ्, ज्: सर्वदा] | मद्यानन्दं क्वचिद् देव पर्वणि मधुपानयुक् || १० || कृष्णपक्षे पिवेन्मद्यं शुक्ले सिद्धिं पिवेन्मुदा | शुक्ले यदि पिवेन्मद्यं आद्यन्ते सम्बिदां पिवेत् || ११ || तन्त्रान्तरे - कृष्णे शुक्ले पिवेन्मद्यं सम्बिदासंयुतं शिवे | शुक्ले चाद्यं पिवेत् सिद्धिं कृष्णे चाद्यं पिवेन्मधु || १२ || भावचूडामणौ - सत्त्वोद्भवं सम्बिदाया मद्यस्य राजसोद्भवम् | त्वरितायास्तमोद्भूतमित्यानन्दस्य लक्षणम् || १३ || प्. ११६) भावमात्रं क्रियात्यक्तं [छ्: क्रियेत्युक्तं; ज्: क्रियायुक्तं] सत्त्वेऽपि परमेश्वरि | राजसीति क्रियाशक्तस्तामसीति क्रियाच्युतः || १४ || शक्तिं विना यथानन्दं मद्यस्य परमेश्वरि | तथा सिद्धिं विना देवि मद्यानन्दं हि निश्चितम् || १५ || समयाञ्च पिवेदादौ ततो मद्यं महेश्वरि | ततः शक्तिं यजेच्चक्रे ततः सिद्धिं पिवेन्मुदा || १६ || सिद्धिं विना महेशानि [छ्, ज्: कुलेशानि] कुलकार्ये न योगवान् | अत एव पिवेत् सिद्धिं शक्तियुक्तो महेश्वरि || १७ || शक्तिहीनं हि यत्पानं सम्बिदेति प्रकीर्तितम् | तदन्ते शक्तिसंयुक्ते सम्बिदा समया भवेत् || १८ || रमणं हि यदा देवि तदा सा विजया भवेत् | स्वेच्छाचारेऽपि रमणं निषेधविधिवर्जितम् || १९ || तदा सा सम्बिदा देवी सिद्धिरुपा सनातनी | शिवोद्भवं यदा द्रव्यं शक्तिः संहृह्य यत्नतः || २० || तदा सा सम्बिदा देवी भङ्गरुपा प्रियम्वदा | पञ्चाङ्गसंयुतां देवि सम्बिदां सेवयेत्तु यः [ज्: सेवयेद्] | इहलोके सुखं भुक्त्वा यात्यन्ते परमां गतिम् || २१ || सम्बिदा समया देवि विजया सिद्धिरेव च | भङ्गश्च परमेशानि पञ्चधाख्यानुकीर्तितम् [छ्: पञ्चधान्यानुकीर्तितम्; ज्: पञ्चधान्यानुकल्पितम्] | यः करोति त्रिसन्धायायां मम तुल्यो न संशयः || २२ || भुक्त्वा तु मादकं द्रव्यं भवेत् कुलपरायणः | साधकः क्षोभमापन्ने [छ्, ज्: क्षोभमात्रेण] मम क्षोभं भवेद् ध्रुवम् || २३ || तस्मादादौ प्रकर्तव्यं सम्बिदासेवनं शिवे | सम्बिदासवयोर्मध्ये सम्बिदेव गरीयसी || २४ || प्. ११७) विजया [घ्, ज्: सम्विदा] ग्रहणं कृत्वा ध्यानं यः कुरुते नरः | तदा ध्यानमयी मूर्तिः प्रत्यक्षा भवति ध्रुवम् || २५ || अतश्च सम्बिदां पीत्वा कारणं हि पिवेत्ततः | सम्विदासवयोर्मध्ये सम्विदेव गरीयसी || २६ || ग्रहणात् मुच्यते पाप्तात् ध्यानात् सिद्धिर्भविष्यति | ध्यानेन ध्येयं यद्रूपं सम्विदा नित्य [ज्: मुक्ति] दायिका || २७ || यथा नित्यं गृहानन्दं गृहिणीसंयुतं [ज्: -संयुता] तथा [ज्: यदा] | आनन्दार्थी वरारोहे आनन्दे [ज्: आनन्दे] विजयां पिवेत् | क्रियामार्गी क्रियाशक्तः शुद्धेऽपि विजयां पिवेत् || २८ || अथ सम्विदाशुद्धिः | ओं सम्विदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे | भैरवाणाञ्च तृप्त्यर्थं पवित्रा भव सर्वदा | ओं ब्रह्माण्यै [घ्, ज्: ब्राह्मण्यै] नमः स्वाहा || २९ || ओं सिद्धिमूलाश्रये देवि हीनवोधप्रबोधनि | राजाप्रजावशङ्करि शत्रुकण्ठत्रिशूलिनि | ओं क्षत्रियायै नमः स्वाहा || ३० || ओं अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्नेर्ज्वालरूपिणि | आनन्दस्याहुतिं प्रीतिं सम्यक् ज्ञानं प्रयच्छ मे | ह्री/ वैश्यायै नमः स्वाहा || ३१ || ओं नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि [छ्: प्रदायिनी] | त्रैलोक्यविजये मातः समाधिफलदा भव | क्लीं [छ्: ह्री/] शूद्रायै नमः स्वाहा || ३२ || प्. ११८) आनन्दनन्दिनीनन्दे सदानन्दपदद्वयम् | उल्लासानन्दिनि कन्दे चिदानन्दस्वरूपिणि || ३३ || दिव्या विमर्षिणी सिद्धा सुसिद्धा सिद्धिमूलिका [छ्: सुसिद्धिसर्वमूलिका] | रोगघ्नी पशुपाशघ्नी कालघ्नी बोधरुपिणी | मनोन्मनि मधु द्राक्षा खेचरी विजया जया || ३४ || इति स्तुत्वा - धेनुमुद्रां योनिमुद्रां प्रदर्श्य मनुना शिवे | मूलञ्च दशधा जप्त्वा जुहुयात् कुण्डलीमुखे || ३५ || श्रीनाथाय स्वेष्टदेव्यै साधककाय महेश्वरि | स्वमूर्द्धनि प्रदातव्यं मनुना च पिवेन्मुदा || ३६ || पानमन्त्रस्तु - (अत्र घ्: पुस्तकीयः पाठः :,- ओं भङ्गे भङ्गे महाभङ्गे महाभैरवि मां संभावय संभावय वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव सर्वशत्रुवशङ्करि स्वाहा | अनेन मन्त्रेण कुण्डलीमुखे जुहुयात् |) ओं भङ्गे भङ्गे महाभङ्गे महाभङ्गे भैरवाणां स्तम्भय स्तम्भय वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव सर्वशत्रुवशङ्करि स्वाहा || इति पिवेत् || श्रीदेव्युवाच चतुर्द्धा सम्विदा प्रोक्ता जातिभेदेन भेदतः | सम्विदा परमा विद्या भोगमोक्षप्रदा शिवा || ३७ || तस्या भेदं जातिपाशं कथमुक्तं सदाशिव | तस्याः शुद्धिं कथं [घ्: अस्या अशुद्धं किं] देव कथय प्राणवल्लभ || ३८ || प्. ११९) श्रीमहादेव उवाच - साधकस्य क्रियालोपात् जातिपाशेन बन्धिता | साधकानां साधनार्थे स्वयं जात्यभिसंयुता || ३९ || सुवर्णैः केन देवेशि कुण्डलादिर्यथातथा | ज्ञानिनां ज्ञानभेदेन नानारूपा च सम्विदा || ४० || सम्विदाया नचेत् दोषं गुणो नास्ति महेश्वरि | दूषणं हि फलाक्तस्य गुणं ज्ञेयं हि तस्य तु || ४१ || श्रीदेव्युवाच - ज्ञातव्या सम्विदा देवी चतुर्धा परमेश्वर | लक्षणं हि तथा स्तोत्रं मम स्थाने प्रकाशय || ४२ || श्रीमहादेव उवाच - ब्राह्मणस्य श्वेतपुष्पं पश्वाचारयुतो यदि | अन्यथा सम्विदां विद्यां पिवेदानन्दहेतवे || ४३ || क्षत्रियस्य रक्तपुष्पं पीतं वैश्यस्य पार्वति | कृष्णवर्णं हि शूद्रस्य पुष्पेण जातिमानकम् | पुष्पभेदेन देवेशि जातिभेदं विचिन्तयेत् || ४४ || ज्ञानार्णवे श्रीदेव्युवाच - का जातिर्मम नाथेश यदि ते मययनुग्रहः | कथय कथय देवं [घ्, ज्: कथस्व महादेव] हितार्त्थाय नरस्य च || ४५ || श्रीशिव उवाच - स्व स्व जात्याश्रितं कर्म जातिपाशं प्रकीर्तितम् | कर्मनष्टे जातिनष्टेऽपि मुक्तिभाक् || ४६ || प्. १२०) आनन्दपटले श्रीशिव उवाच - दुग्धाम्बुघृतमाध्वीकसैन्धवैर्लवणेन वा | सितयाथ गुडेनापि पक्वैः कदलिकैरपि || ४७ || अमूल्यं मधुरं द्रव्यं पक्वाम्रं पनसादिकम् | तेन सर्वेण विजयां स्वीकुर्यात् साधकोत्तमः || ४८ || दुग्धयोगेन विजया केवलानन्ददायिनी [ख्: -वर्द्धिनी] | महातेजस्करी चक्षुर्दोषादिकविनाशिनी || ४९ || सा पुनर्जलयोगेन सर्वाजीर्णविनाशिनी | घृतेन मधुना धत्ते वाग्देवीवशकारिणी || ५० || प्रतिभामुत्तमां धत्ते धिषणाञ्चातिनिर्मलाम् | पित्तदोषान् श्लेष्मदोषान् मधुना सह नाशयेत् || ५१ || सैन्धवेन महावह्निप्रदा स्याल्लवणेन च | सितयाथ गुडेनैव शूलघ्नी पित्तनाशिनी || ५२ || अतिसारापशमनी श्वासकाशप्रमर्दिनी | आमवातसमुद्भूतग्रहणीविनिवारिणी || ५३ || सर्वैः सुमधुरैर्युक्ता सर्वामयविनाशिनी | वलपुष्टिप्रदा चैव मधुरस्वरदायिनी || ५४ || ज्ञानविज्ञानदात्री च शीलमार्गप्रदर्शिनी | बहुमूत्रं मूत्रघातं शर्करा च प्रणाशिनी | प्रकाशितं तव स्नेहात् सर्वागमेषु [क्: सवतन्त्रेषु] गोपितम् || ५५ || अथ स्वीकृत्य विजयां सहस्रारे गुरुं यजेत् | गुरुमन्त्रं समुच्चार्य चतुर्थ्यन्तं निवेदयेत् || ५६ || प्रणमेद् दण्डवद्भुमौ जप्त्वा श्रीगुरुपादुकाम् | इष्टदेवस्य तन्मन्त्रं प्रजपन् विहरेत् कृती || ५७ || प्. १२१) एवमभ्यासतो देवि [घ्, ज्: अभ्यासयोगेन] प्रत्यहं वत्सरं ततः | तेजस्वी वलवान् वाग्मी मेधावी प्रियदर्शनः || ५८ || रूप यौवन सम्पूर्ण नानागुण समाश्रयः | भविष्यति न सन्देहो द्रव्यस्यास्य निषेवणात् || ५९ || सम्विदासवयोर्मध्ये सम्विदेव गरीयसी | सम्वित् प्रयोगस्तेनैव कर्तव्यः साधकोत्तमः || ६० || एककालं द्विकालम्बा त्रिकालं पञ्चकालकम् | तोलकम्बा द्वितोलम्बा तोलकत्रयमेव वा || ६१ || अन्यूना नाधिका मात्रा यथा भवति नित्यशः | न्यूनाधिकायां मात्रायां फलं न स्यात् कदाचन | तस्मात् प्रमाणमात्राहि कर्तव्या सिद्धिमिच्छता || ६२ || एतत् ते कथितं सर्वं विजयाकल्पमुत्तमम् | प्रसादादचिरादस्याः सिद्धिर्भवति वाञ्छिता || ६३ || प्रावर्य वेश्म श्मनस्य सलब्धकाम मेतद्रहस्यमुदितं परमं निगूढम् | कुत्रापि नैव कथनीयमिदं कदाचिद्, देवि त्वयापि विधिना प्रविधीयतां तत् || ६४ || श्रीशिव उवाच - त्रैलोक्यविजयापत्रं सबीजं घृतभर्जितम् | त्रिकटु त्रिफला शृङ्गी कृष्ण [घ्, ज्: कुष्ठं] धन्याक सैन्धवम् || ६५ || शठी तालीशपत्रञ्च कक्कोलं नागकेशरम् | यमानीद्वयं [घ्, ज्: यमानीद्वयं - - तत्समम्, अत्र पुस्तकयोः पाठान्तरमेतद् दृश्यते] मेथी च जीरकद्वयमेव च | एतानि समभागानि रौद्रे शुष्काणि चूर्णयेत् || ६६ || प्. १२२) गृहीत्वा चूर्णमेतेषां सम्वित्चूर्णन्तु तत्समम् | उभयोश्च समां दत्वा सितां तन्मिश्रयेद् दृढम् || ६७ || मिश्रयित्वा चतुर्थांशं समं मधुघृतं तथा | पुनः शिलातले पिष्ट्वा त्रिसुगन्धिञ्च मिश्रयेत् || ६८ || स्वर्णादिपात्रे पुरतः स्थापयित्वा ततः क्रमात् | चतुर्भिर्मन्त्रभिस्तासां शोधनं समुपाचरेत् || ६९ || सेवनादस्य देवेशि किं न सिध्यति भूतले | मन्त्रसिद्धिस्तथा पूजाजपसिद्धिर्वरानने || ७० || ज्ञानसिद्धिर्महेशानि सेवनान्मोक्षमाप्नुयात् | सत्यं सत्युं महेशानि सत्यमेव न संशयः || ७१ || अनेन पूर्णहृदयो जपपूजां समाचरेत् | एकोच्चारणमात्रेण तावच्च [घ्: भवेच्च] लक्षकोटयः || ७२ || इति ते कथितं कान्ते सारात्सारं परात्परम् | यस्मै कस्मै न दातव्यं इति सत्यं कुरु प्रिये || ७३ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रिंशदुल्लासः || ० || एकत्रिंशोल्लासः | अथ श्रीचक्रमध्ये साधकस्य पात्राधारलक्षणम् | कुलार्णवे - [पाठोऽयं छ्- पुस्तके अधिको दृश्यते] आधारे स्थापयेत् पात्रं मनुना शिवे | आधारे स्थापयेत् पात्रं मृत्स्थितं मृत्युदायकम् || १ || आधारं त्रिविधं प्रोक्तं षट्पद्म्बा चतुष्पदम् | अथवा वर्तुलाकारं त्रिकोणं त्रिपदान्वितम् || २ || अथ साधकस्य पात्रलक्षणम् | कुलार्णवे - पात्रं काञ्चन - रत्न काच घटितं मुक्ताकपालोद्भवम् | विश्वामित्रमयञ्च कामदमिदं हैमं तथा स्फाटिकम् || ३ || ज्ञानार्णवे - त्रिकोणं मण्डलं वीरश्चतुष्कोणं लिखेद्भुवि | आधारं स्थापयेत्तत्र पात्रं तस्योपरि न्यसेत् || ४ || सौवर्णं राजतं वापि काचं मौक्तिकमेव च | खड्गञ्च नारिकेलञ्च ताम्रं जलजमेव च | पित्तलं कांस्यसम्भूतं मत्स्यञ्चैव च पार्वति || ५ || सर्वकल्याणदं प्रोक्तं सौवर्णं परिकीर्तितम् | राजतञ्च वरारोहे सर्वरोगविनाशनम् || ६ || अभिचारेषु सर्वेषु काचपात्रं विशिष्यते | पुत्रवृद्धिकरं प्रोक्तं मौक्तिकं परमेश्वरि || ७ || प्. १२४) जलजं तु महेशानि भक्ति [ग्: भुक्ति] मुक्ति फलप्रदम् | पित्तलं सर्वदोषघ्नं ताम्रजं कीर्तिवर्द्धनम् || ८ || मृन्मयञ्च महेशानि चासुरेषु प्रदापयेत् | नृकपालं महापालं सर्वकार्ये प्रशस्तकम् || ९ || वाराही तन्त्रे - स्वर्ण राजत ताम्राणि सर्वसिद्धिकराणि च | शान्तिके प्रस्तरं पात्रं स्तम्भने मृन्मयं शिवे || १० || पित्तलं मारणे ज्ञेयं ताम्रमुच्चाटने शिवे | वशीकार्ये कांस्यपात्रं विद्वेषे काचपात्रकम् | विश्वामित्रं महापात्रं सर्वकार्येषु दुर्लभम् || ११ || अक्षया तन्त्रे - स्वर्णरूप्य शिला कूर्म्म कपालं मृन्मयं प्रिये | नादिकेलञ्च शङ्खञ्च पात्रञ्च मत्स्यसम्भवम् [घ्, ज्: मत्स्यञ्च परमेश्वरि] || १२ || विल्ववृक्षसमुद्भूतं पात्रं कुर्याद् विचक्षणः | कार्यभेदे पात्रभेदं कुर्यात् साधक ईश्वरि || १३ || माला [छ्, ज्: माया] पात्रं सर्वकार्ये सत्वरं फलदायकम् | नृ कपालसमुद्भूतं पात्रं शुद्धं प्रकीर्तितम् || १४ || हंसमाहेश्वरे - प्राणिनां मानुषः श्रेष्ठो धर्माधर्मविभेदवान् | तत्कपालकृतं पात्रं सर्वं तस्य वृथा भवेत् || १५ || पात्रं कुर्यान्महेशानि धर्माधर्मेषु मूढकः | तस्य मुण्डं स्वयं छेद्य महापात्रं प्रकल्पयेत् || १६ || जात्याधमो महापापी युवापि व्याधिहीनकः | तस्य मुण्डोद्भवं पात्रं महापात्रं प्रकीर्तितम् || १७ || प्. १२५) महापात्रं महामालामेकभावे प्रकल्पयेत् | महापात्रकृतो राजा यतः शास्ता महेश्वरि || १८ || स्वयं छेद्य कृतं पात्रं अन्यकृत् पातकी भवेत् | योन्याकारं हि यत् पात्रं महापात्रस्वरूपकम् | मम प्रीतिकरं पात्रं साधकप्रीतिदायकम् || १९ || योनिपात्रं वरारोहे महापात्रोत्तमं शिवे | त्वां विना तस्य माहात्म्यं को वेत्ति जगतीतले || २० || योनेर्दोषं हि नास्त्येव तस्याः शुद्धिं न कारयेत् | योनिपात्रं विना पात्रं शुद्धं कृत्वा पिवेन्मधु | अशोधितं हि यत् पात्रं केवलं दुःखदायकम् || २१ || अथ पात्रशुद्धिः | समयाचारतन्त्रे - पात्रमात्रं महेशानि योनिपात्रानुकल्पनम् | योन्यशुद्धे महेशानि पात्रमात्रेऽप्युशुद्धकम् || २२ || दर्शनात् स्पर्शनात् घ्राणात् सेवनान्मधुपानतः | सर्वं शुद्धं भवेद्देवि योनिज्ञानं भवेद् यदि || २३ || मूलेन पात्रं संस्थाप्य मूलेन वीक्षणं शिवे | शक्तिबीजं लिखेत् मध्ये त्रिकोणान्तर्गतं शिवे | पूरयेत् [घ्: पूजयेत्] कारणेनापि मूलेन गुरुवाक्यतः || २४ || अथवा सर्वपात्राणि सामान्यार्घक्रमेण च | पूरितानि महेशानि कारणेन महेश्वरि || २५ || इति पात्रशुद्धिः || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकत्रिंशदुल्लासः || ० || द्वात्रिंशोल्लासः | अथ श्रीचक्रे साधकपात्रस्थापनम् | योगिनीतन्त्रे - श्रीपात्रस्य पश्चिमांशे चक्रदेवस्य [घ्: देवचक्रस्य] समुखे | स्थापयेत् सर्वपात्राणि सामान्यार्घक्रमेण तु || १ || कालिकाकुलसर्वस्वे - घट श्रीपात्रयोर्मध्ये सामान्यार्घक्रमेण तु | स्थापितानि च पात्राणि पूरयेत् कारणेन तु || २ || अथ श्रीपात्रस्थापनस्थ नियमः | श्रीपात्रं स्थापयेद् वीरः सम्मुखे परमेश्वरि | पूर्वाद्यं चोत्तराग्रं वा दिवारात्रौ विभेदतः || ३ || तन्त्रान्तरे - सामान्यार्घक्रमेणैव कारणे पूरितानि च | उत्तरायन्तु संस्थाप्य पश्चिमाग्रं महेश्वरि || ४ || नारायणीतन्त्र् - पूर्वाग्रञ्चोत्तराग्रं वा दिवाचक्रं चरेद् [घ्: यजेद्] यदि | उत्तराग्रं पश्चिमाग्रं निशाचक्रं चरेद् [घ्: यजेद्] यदि || ५ || प्. १२७) अथ पात्रस्य संख्याकथनम् | यामले - नवमं सप्तमं पात्रं अथवा पञ्च पात्रकम् | त्रिपात्रं परमेशानि स्थापयेन्मनुना शिवे || ६ || अथ नवपात्रनामकथनम् | यामले - देवीपात्रं गुरोः पात्रं भोगपात्रं महेश्वरि | योगिनी वलिपात्रञ्च शक्तिपात्रं महेश्वरि || ७ || वीरपात्रं पाद्यपात्रं पात्रमाचमनीयकम् | पात्रं नवममित्युक्तं चतुर्वर्गफलप्रदम् || ८ || अथ सप्तपात्रनामकथनम् | गुरुपात्रं भोगपात्रं शक्तिपात्रं महेश्वरि | योगिनी वीरपात्रञ्च वलिपाद्यं हि सप्तमम् || ९ || अथ पञ्चपात्रनामकथनम् | देवीपात्रं गुरोः पात्रं भोगपात्रं त्रयं शिवे | योगिनी - वलिपात्रञ्च पञ्चपात्रं महेश्वरि || १० || अथ त्रिपात्रम् | देवीपात्रं भोगपात्रं गुरोः पात्रं महेश्वरि | त्रिपात्राणि च कर्तव्यमेकपात्रं न कारयेत् || ११ || एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः | मन्त्रस्तस्य वृथा ज्ञेयः शक्तिकार्यं वृथा यतः || १२ || एकपात्रं हि कर्तव्यं स्वदेहं शक्तिभावितम् | निषेधञ्च विधिञ्चैव वामायां नास्ति चेद् यतः || १३ || प्. १२८) तथापि परमेशानि ज्ञानी ध्यानी न कारयेत् | ध्याननिष्ठस्य देवेशि गुरोर्ध्यानं हि बीजकम् | गुरूपात्रोद्भवं मद्यमेकपात्रं पिवेन्मुदा || १४ || कुब्जिकातन्त्रे - एकपात्रं समादाय यावदानन्दभाग् भवेत् | तावन्मद्यं पिवेद् भक्तो यावत् पानं क्रमात् क्र्मात् || १५ || अथ कुब्जिकातन्त्रोक्तपात्रनामकथनम् | देव्याः पात्रं गुरोः भोगपात्रं त्रयं मतम् | योगिनी बलिपात्रञ्च [पूजापात्रञ्चात्मपात्रं] पञ्चपात्रमिदं मतम् || १६ || शक्तिपात्रं वीरपात्रं सप्तपात्रं महेश्वरि | पाद्यमाचमनीयञ्च नवमं परिकीर्तितम् || १७ || अथ पात्रदानक्रमः | देवीपात्रं ददेद् देव्यै गुरवे गुरुपात्रकम् | शक्तये भोगपात्रञ्च पूजापात्राद् यजेत् शिवाम् || १८ || कुलकुण्डलिनीवक्त्रे चात्मपात्रं नियोजयेत् [घ्, ज्: निवेदयेत्] | शक्तिमात्रे शक्तिपात्रं वीराय वीरपात्रकम् || १९ || श्रीपदे पाद्यपात्रञ्च मुखे आचमनीयकम् | श्रीपात्रादमृतेननापि यजेदर्घादिना प्रिये || २० || यामले - देव्याः पात्रं ददेद् देव्यै गुरवे गुरुपात्रकम् | भोगार्थं भोगपात्रञ्च शक्तये च प्रदापयेत् || २१ || योगिन्यै योगिनीपात्रं दद्याच्च कुलनायिके | वटुकक्षेत्रपालेभ्यो वलिपात्रं निवेदयेत् || २२ || प्. १२९) शक्तये शक्तिपात्रञ्च वीराय वीरपात्रकम् | पाद्यपात्रं पदे [घ्: ददेत्] देव्या मुखे आचमनीयकम् || २३ || अन्यत् सर्वं वरारोहे श्रीपात्रादमृतं ददेत् | चरणामृतपानार्थं चरणे कारणं ददेत् | कारणं हि भवेत् कार्यं श्रीदेव्याश्चरणाम्बुजे || २४ || विष्णुयामले - कारणं हि यदा देवि श्रीदेव्याः पदसंयुतम् | मृतभावं परित्यज्याप्यमरः साधको भवेत् || २५ || शक्त्युच्छिष्टं पिवेच्चक्रे वीरोच्छिष्टं हि चर्वणम् | अतश्च साधकाः सर्वे ददेयुः कारणं मुखे || २६ || ज्ञानार्णवे - चक्रान्ते परमेशानि ददेदाचमनीयकम् | तदन्ते साधको देवि [ज्: परमेशानि] पिवेदोष्ठाधरं मधु || २७ || निगमकल्पलतायाम् - यत्र स्थानेऽपि श्रीचक्रं तत्र गच्छामि शङ्कर | नारीदेहसंश्रिताहममृतपानमाश्रिता || २८ || तस्या दुःखेऽप्यहं दुःखी सुखेऽहं सुखभागिनी | यथा देहस्य दुःखेऽपि देही भवति दुःखभाक् || २९ || एकापि सुन्दरी देवी श्रीचक्रेषु त्रिधा परा | साधकस्यापि मुक्त्यर्थं पानाक्ता कामुकान्विता || ३० || सुन्दरी रमणीरूपा राजराजेश्वरी परा | परा श्रीकालिकारूपा [ज्: स्त्री-] श्रीचक्रपालने वरा || ३१ || प्. १३०) खड्गहस्ता ललजिह्वा मुक्तकेशी चतुर्भुजा | वराभयकरा घोरारावयुक्ता विभूषणा || ३२ || स्वनाथस्य करं धृत्वा भ्रमन्ती चक्रपालिका | नग्ना मत्ता महादेवी सिंहपृष्ठे शवासना || ३३ || योगिनी योगसंयुक्ता खड्गहस्ता दिगम्बरी | लक्ष लक्ष समायुक्ता श्रीचक्रं पालयेत् सदा || ३४ || परा श्रीतारिणी विद्या श्रीचक्रे द्रव्यसंश्रिता [घ्: संस्थिता] | दर्शने घ्राणसंस्पर्शे पानानन्दप्रदायिका || ३५ || संगृह्य पूर्णचषकं स्थापयेत् स्थण्डिलोपरि | पूजान्ते शक्तये दद्यात् पात्रं ग्राह्यं कृपान्वितम् [गृह्य कृपान्विता] || ३६ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वात्रिंशदुल्लासः || ० || त्रयस्त्रिंशोल्लासः | अथ वटुकवलिः | कुलार्णवे - यावन्न दद्यात् पात्रं हि वटुकाय कुलेश्वरि | सर्वदेवा न तृप्यन्ति स्मरणात् पूजनात् शिवे || १ || वटुकादीन् यजेच्चक्रे गन्धपुष्पादिभिः क्रमात् | सर्वद्रव्यसमायुक्तं मनुना पात्रकं ददेत् || २ || प्. १३१) [अत्र ध छ ज पुस्तकेषु पाठोऽयं दृश्यते : - अथ वटुकामन्त्रः | ओं ओं ओं देवीपुत्र वटुकनाथ कपिलजटाभार भास्वर पिङ्गलत्रिनेत्र ज्वालामुख इमं वलिं गृह्ण गृह्ण स्वाहा | बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धिदः | शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ||] अथ वटुकमन्त्रोद्धारः | ज्ञानार्णवे - एह्येहि देवीपुत्रान्ते वटुकान्ते च नाथ च | कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च || ३ || ज्वालामुखञ्च सर्वान्ते विघ्नान्नाशय नाशय | सर्वोपचारसहितवलिं हृह्ण द्विधापदम् | वह्निजायान्वितो मन्त्रो वटुकस्य उदाहृतः || ४ || मन्त्रस्तु | ओं एह्येहि देवीपुत्र वटुकनाथ कपिलजटाभार भासुरत्रिनेत्र ज्वालामुख विघ्नान्नाशय नाशय सर्वोपचारसहितवलिं गृह्ण गृह्ण स्वाहा || बलिदानेन सन्तुष्टो वटुकः सर्वसिद्धीदः | शान्तिं करोतु मे नित्यं भूतवेतालसेवितः || ५ || [अत्र घ् छ् ज पुस्तकेषु पाठोऽयं दृश्यते - ओं ओं ओं सर्वयोगिनीभ्यः सर्वभूतेभ्यो डाकिनीभ्यः शाकिनीभ्यः त्रैलोक्यवासिनीभ्य इमां पूजावलिं गृह्ण गृह्ण स्वाहा |] अथ योगिनीबलिः | ऊर्द्धे ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वा, पाताले वा अनले वा सलिलिपवनयोर्यत्र कुत्र स्थिते वा, प्. १३२) क्षेत्रे पीठोपपीठादिषु कृतपदा धूपदीपादिकेन, प्रीता देव्यः सदा नः शुभवलिविधिना पान्तु देवेन्द्रवन्द्याः || ६ || ओं सर्वयोगिनीभ्यः सर्वभूतेभ्यो डाकिनीभ्यः | त्रैलोक्यवासिनीभ्य इमां पूजावलिं गृह्ण गृह्ण स्वाहा || ओं यां योगिनीभ्य हु/ फट् स्वाहा || अस्योद्धारः | एतदन्ते महेशानि यां बीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् || ७ || कवचं चास्तमालिख्य वह्निजायां पुनर्लिखेत् | अनेन मनुना देवि योगिनीनां बलिर्भवेत् || ८ || ओं ये केचिद् योगिनी रुद्रा सौम्या घोरतरा परा | खेचरीषु भूचरीषु सा मे प्रीतास्तु सर्वदा || ९ || [अत्र घ् छ् ज् पुस्तकेषु पाठान्तरोऽयं दृश्यते - ओं ओं ओं देव देव देवीपुत्र वटुकनाथ उच्छिष्टहारिणी मुहुर्मुहुः क्षं क्षं क्षेत्रपाल सर्वविघ्नान्नाशय नाशय सर्वोपचारसहितमिमां पूजावलिं गृह्ण गृह्ण स्वाहा ||] अथ क्षेत्रपालवलिः | षड्दीर्घं स्वरसं भिन्नं क्ष कारं विलिखेत् प्रिये | स्थानक्षेत्रपदं पानधूपदीपादि चालिखेत् || १० || सहितं वलिमालिख्य गृह्ण गृह्ण ततो वदेत् | वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि || ११ || प्. १३३) मन्त्रस्तु | ओं क्षां क्षीं क्षूं क्षैं क्षौं क्षः एह्येहि क्षेत्रपाल धूपदीपादिसहितवलिं गृह्ण गृह्ण स्वाहा | यस्मिन् [ज्: योऽस्मिन्] क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः | प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे || १२ || [पाठोऽयं घ् छ् ज् पुस्तकेषु न दृश्यते |] अथ गणेशवलिः | गां गीं गूं त्रयमालिख्य ङेन्तं गणपतिं ततः | वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् || १३ || मे वशं चालय प्रोच्य वलिं गृह्ण द्विधापदम् | वह्निजायान्वितो मन्त्रो गणेशस्य वलिं हरेत् || १४ || [पाठोऽयं घ् छ् ज् पुस्तकेषु न दृश्यते |] मन्त्रस्तु | गां गीं गूं गणपतये वरवरद सर्वजन मे वशं चालय वलिं गृह्ण गृह्ण स्वाहा || अथ सर्वभूतेभ्यो वलिः | ओं ओं ओं सर्वभूतेभ्यः सर्वभूतादिपतिभ्यो नमः | भूता ये विविधाकारा दिक्षु भुमान्तरीक्षगाः | पातालतलसंस्थाश्च शिवयोगेन भाषिताः || १५ || ध्रुवाद्याः सत्य [ज्: सर्व] गन्धर्वा ऐन्द्राद्याः सर्वदेवताः | तृप्यन्तु प्रीतिमनसो भूता गृह्णन्त्विमां बलिम् || १६ || प्. १३४) अथ सामान्यवलिः | राजराजेश्वरवलिं सर्वदेवस्य सम्मतम् | यस्य नाम प्रदातव्यं तद्देवो वलिमिच्छति || १७ || तारत्रयं वदेत् पश्चात् अमुकं क्षेत्रपालकम् | राजराजेश्वर इमां पूजावलिं ततः परम् | गृह्ण युग्मं द्विधान्तोयं मनुः सर्वफलप्रदम् || १८ || मन्त्रस्तु | ओं ओं ओं अमुक क्षेत्रपाल राजराजेश्वर इमां पूजावलिं गृह्ण गृह्ण स्वाहा | अनेन वलिदानेन वटुवर्गसमन्विताः | राजराजेश्वरो देवो मे प्रसीदतु सर्वदा || १९ || [२०-२३ संख्यकाः श्लोका घ् छ् ज् पुस्तकेषु न विद्यन्ते |] वामांगुष्ठानामिकाभ्यां वटुकस्य वलिर्भवेत् | दक्षांगुष्ठानामिकाभ्यां योगिनीनान्तु कथ्यते || २० || दक्षिणामूर्तिसंहितायाम् - वाममुष्टिं विधायादौ तर्जनीं शरणां कुरु | अनया मुद्रया देवि क्षेत्रपालवलिर्भवेत् || २१ || तथा मुष्टेसु मध्यस्थामंगुलीं दण्डवत् कुरु | गजतुण्डाख्यमहामुद्रा गाणपस्य [च्: गणेशस्य] वलिर्भवेत् || २२ || अनेन वलिदानेन वटुवर्गसमन्विताः | राजराजेश्वरी देवो मे प्रसीदतु सर्वदा || २३ || प्. १३५) कुमारी तन्त्रे - अथ कुलदीप दर्शनम् | कुलकार्ये महेशानि कुलदीपं प्रदापयेत् | कुलदीपं विना भद्रे ज्ञानदीपं नचेत् क्वचित् || २४ || श्रीदेव्युवाच - कुलदीपं हि किं रूपं केन द्रव्येण वा कृतम् | निवेद्यं केन रूपेण कथय प्राणवल्लभ || २५ || श्रीशिव उवाच - ईषद्रक्तपिष्टकेन त्रिकोणगर्त [क्: गर्थ] मानतान् | दीपान् डमरुकाराञ्च बृद्धस्य नखमानतः || २६ || आकर्षाह्ययुतान् [घ्: आकर्षाष्टयुतान्; ज्: आकर्षोह्ययुतान्] दीपान् नवसप्तत्रिपञ्चमः | शतान्यूने महेशानि युग्मान्यं दीप कल्पनम् || २७ || शताधिक्यं युग्मदीपं सहस्रं परमेश्वरि | दीपसंख्यां परिभ्राम्य स्वतेजस्तेजसि लयम् || २८ || ज्ञानार्णवे - रात्रौ कुलक्रियायाञ्च कुलदीपसहस्रकम् | शतं देयं दिवा कार्ये कुलनिष्ठश्च साधकः || २९ || अन्तस्तेजो वहिस्तेजोऽप्येकं कृत्वा महेश्वरि | त्रिधा देव्यग्रे संभ्राम्य कुलदीपं निवेदयेत् || ३० || मन्त्रस्तु | समस्तचक्रचक्रेशीयुतं देवि ममात्मकम् | आरक्तकामदं दीपं गृहाण मम सिद्धये || ३१ || प्. १३६) त्रिवारं दर्शयेद्दीपं चरणाच्छिरमानतः | पञ्चमं सप्तमं वापि नवमं वा विशेषकम् || ३२ || कालीविलासतन्त्रे - अथ पात्रस्वीकारः | आदौ यजेत् स्वेष्टदेवीं पाद्याद्यै [छ्: पाद्यार्घैः] रूपचारकैः | ततः शक्तिं यजेत् चक्रे यया शक्त्यायुतः शिवे [घ्: प्रिये] || ३३ || स्व स्व विद्योक्तमन्त्रेण विधानेन यजेत् शिवाम् | स्वशक्तिं परशक्तिं वा दीक्षिताञ्चेद् यजेत् शिवाम् || ३४ || अभ्यर्च्य देवताबुद्ध्या [घ्: ध्यात्वा] भोगपात्रं निवेदयेत् | सा तु पात्रं [छ्, ज्: साऽत्मपात्रं] नमस्कृत्य करसंपुटमुद्रया | त्रिशूलमुद्रया गृह्य पिवेदाचार्यवाक्यतः || ३५ || अन्याभ्यश्च प्रदायेच्च [छ्, ज्: प्रदाव्यं] शक्तिभ्यश्च महेश्वरि | पृथक् पात्रं प्रदातव्यं मधुना सह भैरवि || ३६ || पात्रं संगृह्य सा देवी प्रसादं पात्रशेषकम् | भैरवाय प्रदातव्यं भक्ताय सेवकाय च || ३७ || गृहित्वा प्रथमं पात्रं स्थापितं मधुना सह | स्वष्टेदेवीं पूजयित्वा मूलमन्त्रं जपेत् प्रिये | मुद्रामांसैर्महेशानि [घ्: महादेवि] सुरादेवीं प्रपूजयेत् || ३८ || अङ्गन्यासञ्च स्वीकृत्य कराङ्गन्यासमेव च | प्राणायामं ततः कृत्वा गृह्णीयात् पात्रमुत्तमम् || ३९ || कुब्जिकातन्त्रे - अङ्गन्यासं करन्यासं वर्णन्यासं महेश्वरि | स्वविद्योक्त ऋषिन्यासं व्यापकन्यासमेव च || ४० || पञ्चधा न्यासमाश्रित्य प्राणायामञ्चरेन्मुदा | ततः पात्रं नमस्कृत्य जुहुयात् कुण्डलीमुखे || ४१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रित्रिंशदुल्लासः || ० || चतुस्त्रिंशोल्लासः || श्रीदेव्युवाच - फलं किं न्यासजालस्य कथय प्राणवल्लभ | अतिसूक्ष्मतमनाम्नः प्राणायामस्य किं फलम् || १ || अथाङ्गन्यासादिफलम् | श्रीशिव उवाच - अङ्गन्यासं करन्यासं मूलेन प्रणवेन वा | पञ्चाशन्मनुना देवि वर्णन्यासं समाचरेत् || २ || अङ्गन्यासे षडङ्गानि देवाङ्गानि विचिन्तयेत् | करन्यासे करं ज्ञेयं देवस्य करमात्रकम् || ३ || पञ्चाशन्मातृकारूपी कोटी कोटी च देवता | वर्णन्यासे महेशानि देहो देवमयो भवेत् || ४ || ऋषिन्यासे स्वदेहं हि देवदेहं विचिन्तयेत् | सोऽहं ज्ञानेन देवेशि ऋष्यहं परिचिन्तयेत् || ५ || तन्त्रान्तरे - गृहीत्वा देवतामन्त्रं साक्षाच्चेद् यदि देवता | तद्देहं देवतारूपं सोऽहं ज्ञानं सदा यदा || ६ || प्. १३८) कुब्जिकातन्त्रे - क्षितिर्जलं तेजो वायुर्व्योम देही तथा मनः [घ्, छ्, ज्: मनः शिवे] | सप्तधा न्यासजालेन सप्तैते देवरूपिणः || ७ || आपादशिरः पर्यन्तं मूलमन्त्रेण भाविनि | सप्तधा मन्त्रयेन्मन्त्री क्यापकन्यासकं शिवे || ८ || अथ प्राणायामफलम् | प्राणायामेन देवेशि निद्रां त्यक्त्वापि कुण्डली | भक्त्यापि यद्दीयमानं तद् गृह्णाति कुलेश्वरि || ९ || कारणपूरितं पात्रं गृह्णीयान्मनुना शिवे | आधारे मनुना स्थाप्य तर्पयेत् तदनन्तरम् || १० || तर्पयेद् गुरुणा सार्द्धं स्व - स्व पात्राच्च कारणैः | गुरुशक्तिं तर्पयित्वा स्वेष्टदेवीञ्च तर्पयेत् || ११ || निगमतत्त्वे - स्वेष्टदेवीं यदा देव स्वशक्तिं चिन्तयेत् परम् [ज्: स्वशक्तिचिन्तनात् परम्] | शक्तयेऽपि [ज्: शक्तिमेति] तदा देव्याः पात्रं न संशयः | गुरोराज्ञानुसारेण तच्छक्तिरमणञ्चरेत् || १२ || यदा स्वेष्टस्य वामस्थां रक्तवर्णां विचिन्तयेत् | स्वशक्तिं परमेशान स्वेष्टदेवीञ्च चिन्तयेत् | गुरोराज्ञानुसारेण पात्रं दत्त्वा क्रियाञ्चरेत् || १३ || स्त्रीमात्रे हरपत्नी स्यात् पुमान् मात्रे च शङ्करः | विवाहं बन्धनं ज्ञेयं वर्तिस्थो वह्निवत् प्रिये || १४ || शिव - देवो गुरुः साक्षाद् गुरुदेवः सदाशिवः | तस्य वामे नारीमात्रं रमणञ्च तदाज्ञया || १५ || प्. १३९) नारायणीतन्त्र - यदाज्ञया महेशानि वीरकर्माणि साधयेत् | तदाज्ञया रमेत् शक्तिं मातृभावं परित्यजेत् || १६ || अथ तर्पणक्रमः | मांसेन कारणं मिश्रं पाणिभ्यां तत्त्वमुद्रया | विन्दुमात्रं क्षिपेन्मूर्ध्नि पादुकामन्त्रमुच्चरन् | श्रीगुरोश्चरणं ध्यायन् स्वमूर्ध्नि गुरुपादुकाम् || १७ || गुरुशक्तिं तर्पयित्वा तथैवानन्दभैरवीम् | आनन्दभैरवं देवं स्वेष्टविद्यां हि तर्पयेत् || १८ || त्रिवारं तर्पयेन्मूर्ध्नि हृदयेऽपि त्रिवारकम् | सहस्रारे स्वेष्टविद्यासहितं तर्पयेद् गुरुम् || १९ || हृदये तर्पयेद् रम्यं देवतायाः प्रभेदके | अभेदे तर्पयेद् भद्रे [छ्, ज्: भद्रं] सहस्रारे महापुरे || २० || तर्पणेन भवेत् शान्तिर्देवता स्थिरता भवेत् | अतश्च तर्पयेद्देवान् तान्त्रिके वैदिकेषु च || २१ || मन्त्रस्तु | तारत्रयं समुच्चार्य श्रीगुरोर्नामपूर्वकम् | श्रीपादुकां तर्पयामि पूजयामीति वा प्रिये || २२ || अथ गुरुपंक्ति तर्पणम् | गुरुं परगुरुञ्चैव परापरगुरुन्ततः | परमेष्ठिगुरुं देवि तर्पयेत् त्रित्रिवारकम् || २३ || प्. १४०) भावचूडामणौ श्रीपार्वत्युवाच - को गुरुः परमेशान कोऽपि स्यात् परमो गुरुः | परापरगुरुः को वा परमेष्ठिगुरुश्च कः || २४ || श्रीशिव उवाच - स्थूलसूक्ष्मोभयोरैक्यं गुरुर्ज्ञानस्य कारणम् | नानारूपं स्थूलमात्रं यथाग्निः काष्ठसंयुतः || २५ || सूक्ष्मस्य बोधं विज्ञेयं स्थूलबोधस्य बीजकम् | स्थूलस्य बोधं विज्ञेयं सूक्ष्मबोधस्य बीजकम् | ऐक्यं कृत्वा स्थूलसूक्ष्मं सर्वमेतत् प्रकाशितम् || २६ || मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः | परापरगुरुस्त्वं हि परमेष्ठिगुरुर्ह्यहम् || २७ || अथ स्वेष्टविद्या तर्पणम् | हंसमाहेश्वरे - आदौ मूलं समुच्चार्य सायुधां परिवारकम् | सवाहनां स्वेष्टदेवीं तर्पयामि द्विधाअन्तकः || २८ || ऐक्यज्ञानस्य बीजं हि निषेधविधिवर्जितम् | तर्पयेच्चेत् क्रियासङ्गाद् गुरुणा सह भाविनीम् || २९ || सत्त्वे श्वेतं गुरुं ध्यायेत् शक्त्या सह दयान्वितम् | श्वेतवर्णा द्विभुजाक्ता द्विनेत्रा तत्समायुतम् || ३० || रजे रक्ता तमे कृष्णा चतुर्वाह त्रिलोचना | तत्संयुक्तं गुरुं ध्यायेत् तर्पणादिकमाचरेत् || ३१ || प्. १४१) ततः क्रमः | ज्ञानार्णवे - अंगुष्ठानामिकायोगाद् वामहस्तेन तर्पयेत् | अंगुष्ठतर्जनीयोगाद् दक्षिणे [ज्: दक्षेण] पुष्पपातनम् || ३२ || अंगुष्ठो भैरवो देवोऽप्यनामिका च चण्डिका | उभयोर्योग [घ्: तयोः संयोग-] मात्रेण द्रव्यं स्यादमृतोपमम् || ३३ || वृद्धांगुष्ठो भैरवोऽपि तर्जनी चण्डिका परा | अनयोर्योगमात्रेण द्रव्यं पुष्पं मनोहरम् || ३४ || तर्जनी चण्डिकारूपा दक्षहस्तस्य शङ्करि | अंगुष्ठयोगात् सा देवी पुष्पिता कामविह्वला || ३५ || दक्षिणे गृह्य पात्रेण वामेऽपि तत्त्वमुद्रया | मांसमात्रं कारणेन मूलेन तर्पणञ्चरेत् | तर्पयेद् योनिमध्ये तु योनिं संगृह्य तत्परम् || २६ || दक्षिणेन करेणापि योनौ पुष्प प्रपातनम् | बिन्दुमात्रेण द्रव्येण तुष्टा भवति कामिनी || ३७ || निजशक्तेरभावेऽपि जले योनिं विचिन्तयेत् | तर्पणादि प्रकर्तव्यं जलमाया सनातनी || ३८ || यथा वेश्या सर्वपूज्या सर्वस्य बन्धमुक्तिदा | तथा तोयं सर्वपूज्यं सर्वस्य बन्धमुक्तिदम् || ३९ || ज्ञानार्णवे - स्वदेहे तर्पणं भद्रं स्वदेहं देवदेहकम् | तर्पयेद् ज्ञानवान् देवि स्वमूर्ध्नि हृदये च वा || ४० || प्. १४२) त्रिवारं तर्पणं देवि त्रिवारं पुष्प पातनम् | गुणत्रयस्य चैकत्वे तर्पणं चैकवारकम् || ४१ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे चतुस्त्रिंशदुल्लासः || ० || पञ्चत्रिशोल्लासः | अथ पात्रस्वीकारः | ततः पात्रं [छ्, ज्: तत्पात्रञ्च] नमस्कृत्य करसंपुटमुद्रया | त्रिशूलमुद्रया गृह्य प्रतिपात्रेषु वन्दनम् || १ || ज्ञानद्वीपे - शक्तिपात्रं नमेत् शक्तिर्बीरश्च वीरपात्रकम् | प्रतिपात्रं शुद्धियुक्तं सुरादेवीं विचिन्तयेत् || २ || आधारे स्थापितं [घ्: स्थापयेत्] पात्रं संगृह्य दक्षिणे करे | परे वामे करे स्थाप्य सुरादेवीञ्च प्रार्थयेत् || ३ || अथ प्रार्थना | समुद्रे मध्यमाने तु क्षीराब्धौ सागरोत्तमे | तत्रोत्पन्नां सुरादेवीं कलौ कारणरूपिणीम् | अमृतं सत्यलोकेषु स्वर्गलोकेषु कारणम् || ४ || सुरासेवात् सुरत्वं हि देहि मे कामविह्वले | स्पर्शनात् कामदागृत्वं दर्शनात् पापहारिणी | आनन्दत्वं सेवनाच्च मुक्तित्वं रमणीयुतात् || ५ || प्. १४३) त्रिपात्रं पञ्चपात्रं वा सप्तपात्रं महेश्वरि | पात्रञ्च नवमं देवि वन्दनीयं पिवेन्मधु || ६ || एकपात्रं युग्मपात्रं चक्रान्ते नैव कारयेत् | संख्याविरहितं पात्रं केवलं मृत्युदायकम् || ७ || तन्त्रान्तरे - एकपात्रं न कर्तव्यं यदि साक्षान्महेश्वरः | तस्य मन्त्रो वृथा देवि पानं नरकदायकम् || ८ || कुलार्णवे - त्रिपात्रं पञ्चपात्रान्तं नियमेन पिवेन्मधु | अत ऊर्द्धं महेशानि नियमः कः क्षमो भवेत् || ९ || सप्तमं नवमं यावद् यदि स्यान्नियमो भवेत् | सप्तमं नवमं यावद् यदि स्यान्नियमो भवेत् [छ्: तस्मान्न नियमञ्चरेत्; ज्: तावन्न नियमञ्चरेत्] || १० || तस्यार्थं वन्दनं मन्त्रं वक्ष्यामि शृणु पार्वति | पञ्चपात्रं वन्दनीयं नवमञ्च महेश्वरि | वन्दनीयं क्रमात् [छ्, ज्: क्रमे] कुर्यान्नियमेन पिवेन्मधु || ११ || अथ पञ्चपात्रवन्दनम् | श्रीमद्भैरवशेखरप्रविलसत्चन्द्रामृतप्लावितं, क्षेत्राधीश्वरयोगिनीकुलगणैः सिद्धैः समाराधितम् | आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं, वन्दे श्रीप्रथमं कराम्बु जगतं पात्रं विशुद्धिप्रदम् || १२ || जुहोमि कुण्डलीवक्त्रे जुह्स्वेति वदेद् गुरुः | आजिह्वान्तं कुण्डलिनीं ध्यात्वा पानं चरेन्मधु || १३ || प्. १४४) तन्त्रचिन्तामणौ - वामहस्तेऽइ चषकं दक्षहस्तेन पार्वति | शुद्धिं कृत्वा [ग्, घ्, च्: धृत्वा] महेशानि चषके विनियोजयेत् || १४ || मूलेन पात्रं दातव्यं गृह्नीयान्मनुना [च्: मधुना] शिवे | कुलकुण्डलिनी-वक्त्रे दत्त्वा ध्यायेद् गुरुं स्वयम् [ज्: शिवे] || १५ || पुनः पात्रं मांसयुक्तं गृहीत्वा कुलनायिके [घ्: ब्रह्मचिन्तनम्] | मूलेन कुण्डली वक्त्रे दत्त्वा ब्रह्म निरूपणम् || १६ || द्वितीयपात्रवन्दनम् | द्वितीयपात्रवन्दनम् | (२) ओं हैमं मीनरसावहं दयितया दत्तञ्च पेयादिभिः, किञ्चिच्चञ्चलरक्तपङ्जदृशा तस्यै समावेदितम् | वामे स्वादु [ज्: साधु] विशुद्धिकरणं पानं निधायात्मकं, [घ्, छ्: विधायात्मकं; ज्: विधेयात्मकं] वन्दे पात्रमहं द्वितीयमधुनानन्दैकसम्वर्द्धनम् || १७ || तृतीयपात्रवन्दनम् | (३) सर्वाम्नाय कलाकलापकलितं [क्: -ललितं] कौतूहलद्योतकं [घ् छ्: द्योतनम्; ज्: द्योतितम्] चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् | ध्यातं देवगणैः परं मुनिगणैर्ब्रह्मादिभिः [घ्, ज्: मोक्षर्थिभिः] सर्वदा, वन्दे पात्रमहं [ज्: पापहरं] तृतीयमधुना चात्मावबोधक्षमम् || १८ || प्. १४५) प्राणायामात् चरेत् पानं [घ्: पात्रं] प्राणायामं तदन्तरम् | तदन्ते रमणं कुर्यान्मूलमन्त्रजपान्वितम् || १९ || त्रिपात्रसंयुतं चक्रमिदमुक्तं महेश्वरि | पञ्चपात्रयुतं चक्रं वन्दनं शृणु पार्वति || २० || चतुर्थापात्रवन्दनम् | (४) ओं मद्यं मीनरसावहं हरिहरब्रह्मादिभिः सेवितं, मुद्रामैथुनधर्मकर्मनिरतं क्षाराम्लतिक्ताश्रयम् | आचार्याष्टकसिद्धि [घ्: सिद्ध] भैरवकलामांसेनसंशोधितं, पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः || २१ || पञ्चमपात्रवन्दनम् | (५) आधारे भुजगाधिराजवलये पात्रं महीमण्डलं, मद्यं सप्तसमुद्रवारिपिशितञ्चाष्टौ च दिग्दन्तिनः | सोऽहं भैरवमर्चयन् प्रतिदिनं तारागणै रक्षितैः, रादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः किङ्करैः || २२ || अथ नवपात्रवन्दनम् | रुद्रयामले - पात्रवन्दनमित्युक्तं नवमं सप्तमं प्रिये | यत्कृत्वा [घ्: कृते] साधकश्रेष्ठः शिवतुल्यो न संशयः || २३ || (१) श्रीमद्भैरवशेखरप्रविलसत् चन्द्रामृतप्लावितं, क्षेत्राधीश्वरयोगिनीगणमहासिद्धैः समावेदितम् | प्. १४६) आनन्दार्णवकं नवात्मकमिदं [घ्: महात्मकम्] साक्षात्त्रिखण्डामृतं, तत्पात्रं प्रथमं समस्तजगतां सौख्याय वन्दे सदा || २४ || (२) सर्वाम्नायमिलत् कलाकुलकलाकौतूहलद्योतक, इन्द्रो [घ्: चन्द्रो] पेन्द्रमहेन्द्रचन्द्रकिरणैर्ब्रह्मादिभिः [घ्: शम्भुवरुणं-] सेवितम् | ध्यानादेव परिश्रुतं विलयमुत्पादाय यत् सर्वदा, लोकानां शुभवृद्धिदायकमिदं पात्रं द्वितीयं नमः || २५ || (३) मद्यं मांसरसावहं हरिहरब्रह्मादिभिः सेवितं, मुद्रामैथुनधर्मकर्मसुभगं क्षाराम्लातिक्ताश्रयम् | आचार्यष्टकसिद्धि [घ्: -सिद्ध्] भैरवकलामांसेन संशोधितं, पायात् पञ्चमकारतत्त्वसहितं पात्रं तृतीयं नमः || २६ || (४) विष्णुर्भूतसगोलसर्वसुखदं ब्रह्मादिसंचर्चितं, सेव्यन्ते शिवशक्तिसंयुतमिदं पञ्चोपचारैः सदा | सत्स्यं छागकपोतमुत्तमरसं पात्रञ्च सर्वेश्वरम्, तत्पात्रञ्च समस्तपुण्यसुखदं पात्रं चतुर्थं नमः || २७ || (५) सर्वाम्न्यायकुलाकलागमपकं देव्यैर्मुखैर्भाषितं, योगं योग [घ्, ज्: भोग] कुलाङ्गशास्त्रसततं गुप्तं रहस्यान्वितम् | आनन्दोद्भव नादविन्दुकलया योगेन तैर्भैरवै, पीतब्रह्मरसं सदोद्यतकरं पात्रं भजे पञ्चकम् || २८ || (६) छत्रं चामरशक्तिपीठसदृशं संपूज्य शक्तिं सदा, वामे वेश्यमनोहरां [घ्: वामावश्यमनोहरं] सुखकरां [घ्: सुखकरं] कौतूहलं कौतुकम् | नाना भोगविलाससौख्यरमणं कामाङ्गनासेवितं, श्रीमत् सुन्दरी तर्पणं द्रवरसं पात्रञ्च षष्ठं भजे || २९ || (७) जाग्रत् - स्वप्न सुषुप्ति चिन्तनपरं, चैतन्यसाक्षिप्रदं विद्युद्भास्करवल्लिसन्निभद्युति [छ्: विद्युद्भास्करवल्लिभिद्युतिकरं] ज्योत्स्नाकलाव्यापितम् | इडापिङ्गलमध्यगा त्रिवलया स्यात् कुण्डलीमध्यगा, पात्रं सप्तमपूरणे भवभयानन्दोऽधिकः पातु माम् || ३० || (८) खड्गं पादुकमञ्चजनैक [ज्: मञ्जुलैकं] पुटिका [घ्: गुटिकां] सारस्वतं सम्प्रदं [सम्प्रदं], मृत्युर्वञ्जनमुग्रमार्तिहरहं रम्यं जगद्भाषितं, पात्रञ्चाष्टममष्टसिद्धिकरणं प्रौढ प्रसन्नं सदा || ३१ || (९) आनन्दैकरसं सदाशिवपरं नन्दैकमुद्दीपनं साम्राम्बा सुखदं मनोरथकरमज्ञानविध्वंसनम् | आयुःकान्ति यशोविवर्द्धनकरं संसारमोहाच्छदं [घ्: मोहोच्छेदं; छ्: मोहच्छेदं], पात्रं यन्नवनाथशक्तिसहितं सर्वार्थसिद्धिप्रदम् || ३२ || इति श्रीसर्वानन्दनाथविरचिते सर्व्वोल्लासेपञ्चत्रिंशदुल्लासः || ० || षट्त्रिंशोल्लासः | गुप्तसाधनतन्त्रे - संगृह्य दिव्यचषकं स्थिरचित्तं समाहितः | विकल्पो नात्र कर्तव्यः कृते च मरणं भवेत् || १ || अथ पाननियमः | कुलतत्त्वसारे - आदौ देयं शक्तिपात्रं मूलेन मनुनाथवा | दीयमानं महामन्त्रं कथयामि शृणु प्रिये || २ || मन्त्रस्तु | अलिपात्रं मया तुभ्यं दीयते पिशितान्वितम् | स्वीकृत्य सुभगे देवि जयं देहि पुनः पुनः || ३ || शक्तिप्रसादमानीय यत्नेन परमेश्वरि | स्वपात्रे कारणे मिश्रं पिवेदानन्दहेतवे || ४ || शक्त्युच्छिष्टान्वितं पात्रं केवलानन्ददायकम् | शक्तिरूपा महादेवी केवलानन्दवर्द्धिनी || ५ || शक्ति देहं स्थूलरूपं केवलं मोक्षभाक् शिवे | साधकस्य क्रियानन्दे तेजीयो रूपधारिणी || ६ || यथाकाशं महेशानि सर्वरूपस्य रूपकम् | तथा नारी नरस्यापि सर्वकार्यप्रकाशिका [छ्, ज्: प्रकाशिनी] || ७ || प्. १४९) निर्वाणतन्त्रे - पानं पञ्चविधं प्रोक्तं गुरुध्यानादिसंयुतम् | स्वीकृत्य कारणं देवि पश्चात् कार्याणि साधयेत् || ८ || प्रथमे च [घ्, ज्: श्री] गुरुध्यानं ततो ब्रह्म निरूपणम् | प्राणायामं गृतीये च चतुर्थे जपमाहरेत् || ९ || पञ्चमे पञ्चमं कृत्वा षष्ठेऽप्यानन्दमाचरेत् | पञ्चमं पात्रसहितं चक्रस्य लक्षणं शिवे || १० || अथ नवमपात्रस्य लक्षणम् | गुरुध्यानं [ज्: गुरोर्ध्यानं] हि प्राणायामं जपम् मनुम् प्रदक्षिणं नमस्कारं स्तोत्रं गानञ्च नृत्यनम् | मैथुनं परमेशानि दशमानन्दमाचरेत् || ११ || अथ श्रीगुरुध्यानम् | विश्वसारे - सहस्रारे स्थितं ब्रह्म हंसहंसीसमन्वितम् | नादबिन्दुमयं पीठं हंसयुग्मं प्रकाशितम् || १२ || त्वदीय प्रतिबिम्बं यत् शुद्धदीपप्रकाशकम् | हृदये चिन्तयेद्देवं द्विभुजं शक्तिसंयुतम् || १३ || प्रमाणं गुरुगीतायां - गृद्यम्बुजे कर्णिकमध्यसंस्थं सिंहासने संस्थितदिव्यमूर्तितम् | ध्यायेद् गुरुं चन्द्रकलावतंसं, सच्चित् सुखाभीष्टवराप्रदानम् || १४ || प्. १५०) श्वेताम्बरं श्वेतविलेपयुक्तं मुक्ताफलाफलभूषितदिव्यमूर्तिम् | वामाङ्कपीठेस्थितदिव्यशक्तिं मन्दस्मितं पूर्णकृपानिधानम् || १५ || आनन्दमानन्दकरं प्रसन्नं, ज्ञानस्वरूपं निजबोधयुक्तम् | गीन्द्रमीड्यं भवरोगवैद्यं, श्रीद्गुरुं नित्यमहं नमामि || १६ || गुरुतन्त्रे - सहस्रारे स्थितं ब्रह्म तदेव गुरुरुच्यते | ध्यानपूजादिकं सर्वं सहस्रारे प्रकल्पयेत् || १७ || कदाचित् स्व सहस्रारे मन्त्रध्येयो गुरुः सदा | ददाचित् हृदयाम्भोजे कदाचिद् दृष्टिगोचरे || १८ || दृष्टेऽपि गुरुरूपञ्च सहस्रारे न चिन्तयेत् | हृदये चिन्तनं नास्ति प्रतिविम्बेषु चिन्तयेत् | त्वदीय प्रतिविम्बेषु तज्ज्ञानं परिचिन्तनम् || १९ || हंसमाहेश्वरे - सहस्रारे परं ब्रह्म हृदये प्रतिबिम्बकम् | प्रतिबिम्बस्य बिम्बं हि नरदेहप्रकाशकम् || २० || तेजोविम्बं यथा देवि तेजीयः स्थूलमात्रकम् [ग्: स्थूलरूपकः] | स्थूलस्य विम्बं परमं तेजसि भाति सर्वदा || २१ || तन्त्रान्तरे - गुरौ मनुष्यबुद्धिन्तु [घ्: बुद्धिस्तु] मन्त्रे चाक्षरभावनम् [घ्: भावना] | प्रतिमासु [घ्: प्रतिमायां] शिलाज्ञानं कुर्वाणो नरकं व्रजेत् || २२ || प्. १५१) अथ ब्रह्मनिरूपणम् | भावचूडामणौ - पञ्चनादं षष्ठविन्दु षुषुम्णामध्यसंस्थितम् [ज्: मध्यगं] | षट्पङ्कजमिदं प्रोक्तं सहस्रारं शिवस्थलम् [छ्, ज्: शिवंपुरं] २३ || पञ्चचक्रं पञ्चतत्त्वं षष्ठं तत्वविवर्जितम् (घ्, ज्: व्योमातीतं शिवे] | तन्मनः परमेशानि मनोऽतीतं निरञ्जनम् || २४ || निरञ्जनं निराकारमवाङ्मनसो गोचरम् | वाचातीतं वचोज्ञेयप्रकाशं [ज्: वाचा-] प्रकाशकम् || २५ || चन्द्रसूर्याग्निभिर्यत्र प्रकाशञ्च न विद्यते | तत्प्रकाशे जगद्भाति नाभाति चाप्रकाशके || २६ || सहस्रारमिदं प्रोक्तं स्फाटिके रञ्जनं यथा | शिव शक्तिमयं बिन्दु सहस्रारं मनोहरम् || २७ || सहस्रारे प्रतिदले नादबिन्दुसहस्रकम् | प्रतिबिन्दु नादयुग्मं नादञ्च बिन्दुयुग्मकम् || २८ || नादं भावं महेशानि बिन्दुं भावविवर्जितम् | नादबिन्दुमयं सर्वं ब्रह्मज्ञानेन भाषितम् || २९ || ज्ञानस्य कारणं नादं बिन्दु ज्ञानस्य नाशकम् | नादाक्तबिन्दु ज्ञेयञ्च ब्रह्मज्ञानमिति प्रिये || ३० || अथ प्राणायामः | मूलाधारे कुण्डलिनी स्वयम्भू लिङ्ग वेष्टिता | महाशृङ्गारसंयुक्ता जीवात्म मोक्षदायिका || ३१ || प्राणायामेन तां नीत्वा स्वाधिष्ठानेषु स्नापयेत् | मणिपुरेषु तां देवीं [ग्: नीत्वा] चिन्तामणि विभूषयेत् || ३२ || प्. १५२) अनाहते महापद्मे नीत्वा तां जगदम्बिकाम् | पूजयेद् वहुयत्नेन कारणादिप्रभेदकैः || ३३ || अथ जपः | विभावे शक्तिमन्त्रञ्च सभावे शिवमन्त्रकम् | विशुद्धाख्ये जपेन्मन्त्रमाज्ञायां तत्समापनम् || ३४ || तन्त्रान्तरे [छ्, ज्: इति मन्त्रान्तरे भावः | तदाज्ञायां जपकर्माणि साधयेत्] अनाहते महाशक्तिर्जीवात्म दीपवत्प्रभा | विशुद्धेऽपि शिवे मत्ता रमणाज्ञासमावृता [ज्: समाश्रिता] || ३५ || पञ्चमे पञ्चमे तत्त्वे सहस्रारे महापुरे | शिवशक्तिमयं बिन्दुमेकदेहं विचिन्तयेत् || ३६ || ततः पुनः प्रतिस्थाने प्रतिपद्मे दले दले | शिवशक्तिमयं देवि शक्त्या शिवमयं वपुः || ३७ || ध्यात्वापि कारणं पात्रं जुहुयादिष्टसिद्धये | मूलाधारे त्रिकोणाक्ते भगक्षालितवारिणा || ३८ || पूरयेत् कुण्डलीगर्तं मूलेन मनुना शिवे | कामरागेण [ज्: वाणेन] सन्तप्ता कामवारिपिपासिका || ३९ || विसतन्तुसमाकारा [ज्: शिव] कारण्यवारिमज्जिता | एकास्यं लिङ्गरन्ध्रेऽपि परास्येन महेश्वरि | श्वासोच्छ्वासेन [क्, ग्: श्वासाश्वासेन्] देवानि स्थापितानि क्रमाणि च || ४० || इति ते कथितं कान्ते [घ्: देवि] मधुपानस्य लक्षणम् | गोपनीयं गोपनीयं गोपनीयं पुनः पुनः || ४१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे षट्त्रिंशोल्लासः || ० || सप्तत्रिंशोल्लासः | नारायणीतन्त्रे श्रीदेव्युवाच - अन्तःपूजा श्रुता नाथ वाह्यपूजाञ्च किं वद [घ्: कीदृशम्] | अन्तःपूजा मनो हृष्टं [ज्: हृद्यं] यदि स्यात्तु भविष्यति | तदन्ते साधको देव वाह्यपूजाञ्च काक्षति || १ || अन्तःपूजा तदा पूर्णा यदान्ते [ज्: यदन्ते] देवदर्शनम् | वाह्यार्चनं तदा कार्यमन्यथाभूद् वृथेन्द्रियम् | अत एव महादेव श्रोतुमिच्छामि लक्षणम् || २ || श्रीशिव उवाच - यदुक्तं परमानन्दे लोकानां सिद्धिहेतवे | शृणुष्व जगतां मातः शृणुष्व प्राणवल्लभे || ३ || प्रथमे श्रीगुरुध्यानम् | यदाज्ञया महेशानि यत्कार्यं परिसाधयेत् | तत्कार्यफललाभार्थे तं गुरुं परिकल्पयेत् [क्, च्: परिकल्पितं; परिचिन्तयेत्] | द्वितीये रूपचिन्तनम् | कारणानन्दरूपा हि आनन्दं कारणं शिवे | द्वितीयसहितं मद्यं द्वितीये रूपचिन्तनम् || ५ || प्. १५४) तृतीये प्राणायामः | [शैवाचारे बहुधाप्रोक्तं प्राणायामफलम्] अङ्गन्यासेऽप्यङ्गशुद्धं [घ्: अङ्गशुद्धिं] करन्यासे करं शिवे | अङ्गुल्यङ्गुलिपर्वान्तात् [क्: -पर्वन्तन्] सार्द्धं सन्धिं करस्य च || ६ || चतुर्थे जपः | हृदये हस्तमारोप्य तिर्यक् कृत्वा कराङ्गुलीम् | आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् || ७ || श्रीदेव्युवाच - देवेश प्राणनाथेश नमामि चरणाम्बुजे | गोपनीयं कथं प्रोक्तं फलं किञ्च वद [घ्: किन्तद्वद] प्रभो || ८ || श्रीशिव उवाच - मन्त्रं हि गोपनं भद्रं तथा जापकरं [क्, ख्, च्: जपं करं] शिवे | कारणं हि तथा गोप्यं गोपनीयञ्च मैथुनम् || ९ || कुसङ्गात् [छ्, ज्: कुसङ्गे] फलहानिः स्यात् सुसङ्गे फलभाग्भवेत् | मुक्त्याकाङ्क्षी महेशानि सङ्गं त्यक्त्वा क्रियाञ्चरेत् || १० || पञ्चमे मैथुनन् | उरुद्वन्द्वे पदद्वन्द्वं शिवागारे शिवं न्यसेत् | शुक्रपातं योनिरन्ध्रे [-मार्गे] मुक्तिस्तस्य करे स्थिता || ११ || प्. १५५) षष्ठे प्रदक्षिणम् | यामले - चण्ड्यामेकं रवौ सप्त त्रीणि कुर्याद्विनायके | चत्वारि केशवे कुर्याद शिवे चार्द्धप्रदक्षिणम् || १२ || शक्तिप्रदक्षिणक्रमः | दक्षिणाद्वायवीं गत्वा गतस्तस्याश्च शाम्भवीम् | तस्याश्च दक्षिणे गत्वा नमस्कारं त्रिकोणवत् || १३ || शिवप्रदक्षिणम् | वृषं चण्डं वृषञ्चैव सोमसूत्रं [ज्: -शुक्रं] तथा वृषम् | चण्डञ्च [ज्: वृषञ्च] सोमसूत्रञ्च [ज्: -शुक्रञ्च] पुनश्चण्डं पुनर्वृषम् || १४ || पृष्ठे दक्षे [घ्: पृष्ठदेशे] तथा वामे वृषं चण्डञ्च सोमकम् | सव्यासव्यक्रमेणैव सोमसूत्रं [ज्: -शुक्रं] न लङ्घयेत् || १५ || यत्प्रकारं यथासंख्यं पीठं यस्य महेश्वरि | तत्प्रकारं हि तत्संख्यं प्रादक्षिण्यं [घ्: प्रदक्षिणं] समाचरेत् || १६ || अस्य फलम् | प्रदक्षिणेन देवेशि देवतापीठरोपणम् | यः कुर्याद्भक्तिभावेन देवे सोऽपि लयो भवेत् || १७ || सप्तमे नमस्कारः | यद्भागेऽपि नमस्कारं तद्भागे लयवान्भवेत् [क्: -भाग्] | अतस्त्वं [क्, ग्, घ्: त्वां] परमेशानि सर्वलोकस्य वन्दिता [क्, ग्, घ्: वन्दितां] || १८ || प्. १५६) नारायणीतन्त्रे - स्ववामे प्रणमेद्विष्णुं दक्षिणे गौरोशङ्करम् | गुरुं नमेत् सम्मुखतो नान्यथा निष्फलं भवेत् || १९ || अष्टाङ्गेन नमेद्देवं पञ्चाङ्गेन महेश्वरि | हस्तेन शिरसा वापि शिरसा केवलेन च [छ्, ज्: वा] || २० || अथाष्टाङ्ग नमस्कारः | पद्भ्यां कराभ्यां जानुभ्यां उरसा शिरसा दृशा | वचसा मनसा चैव प्रणामोऽष्टाष्ट ईरितः || २१ || उरसा शिरसा देवि वचसा मनसा दृशा | पञ्चाङ्गेन नमेद्देवं देवता लयभाग्भवेत् || २२ || सहस्रारे महापद्मे सर्वदेवालये शिवे | तत्तत् स्वरूपं संचिन्त्य सर्वानिष्टान्नमेद् यजेत् [ज्: जयेत्] || २३ || दुकूलं नादमाकारं गले दत्त्वा महेश्वरि | नमस्कारं तथा स्तोत्रं भक्तिमान् साधकश्चरेत् || २४ || अष्टमे स्तोत्रम् | तन्त्रान्तरे - मनसापि पठेत् स्तोत्रं वाचा वापि जपेन्मनुम् | उभयोर्निष्फलं [ग्: विफलं] विद्यात् [क्, ग्, च्: देवि] भग्न [क्, ग्, च्: भीन्न] भाण्डोदकं यथा || २५ || वीरतन्त्रे श्रीदेव्युवाच - स्वेष्टदेवार्चने स्वेष्ट सर्वकार्याणि साधयेत् | तदन्यं पूजनं स्तोत्रं कथमन्यस्य कारयेत् [ज्: कारणम्] || २६ || प्. १५७) श्रीशिव उवाच - अनन्ताशयजीवोऽपि [घ्: अनन्तस्याशयजरो; च्: अनन्ताशयवीजो] क्रियानन्तेषु लुब्धकः | अनन्तश्च फलाकाङ्क्षी अतो देवार्चनान्तकम् [ज्: देवोह्यनन्तकः] || २७ || एकध्यानमेकरूपमेकात्मात्मानमिच्छति [ज्: एकत्वात्मानम्] | स्तोत्रेणान्यं हि यद्देवं स्वेष्टदेवमयो भवेत् | अतश्च साधको देवि स्वेष्टान्यं स्तोत्रमाचरेत् || २८ || नवमे गायनम् | नवमे गायनं नृत्यं भगलिङ्गामृतं शिवे | नृत्यं शृङ्गारभावेन देवता प्रीतिभाग्भवेत् || २९ || देवतागुणकाक्यं वा गायनं भक्तिदायकम् | चक्र मध्ये [घ्, छ्, ज्: भिन्ने] चरेद्गानं भैरवो गाननायकः [छ्, ज्: -नाशकः] || ३० || केवलं [ज्: केवले] गायनेनापि नवमं पात्रभक्षणम् [क्, च्, छ्: - रक्षणम्] | ततश्च देही परमे दशमेऽपि लयो भवेत् || ३१ || ज्ञानार्णवे - प्रथमे भक्तिमात्रं हि द्वितीये रूप चिन्तनम् | तृतीये रोमहर्षञ्च चतुर्थेऽश्रुप्रपातनम् || ३२ || पञ्चमे गद्गदं वाक्यं षष्ठे गानादिसङ्कुलम् | सप्तमे पतितो भूमौ ज्ञानाज्ञानोऽपि चाष्टमे || ३३ || नवमे ज्ञानरहितो देहाज्जीवं विमुञ्चति [छ्: न-] दशमे परमेशानि गाने पाने च जायते || ३४ || प्. १५८) निगमतत्त्वे श्रीदेव्युवाच - गायनं भगलिङ्गस्य नृत्यं शृङ्गारभावकम् | देवतावेशसंग्राह्यनृत्यं वाद्यञ्च गायनम् || ३५ || गाने नृत्ये यदानन्दं शक्त्याश्चापि [क्, च्: शक्त्या सापि; घ्: शक्तिश्चापि] शिवस्य च | तदानन्दो यदा शक्तेः स शिवः सापि शङ्करी [ज्: शक्तिः सापि च शङ्करी] || २६ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सप्तत्रिंशदुल्लासः || ० || अषृत्रिंशोल्लासः | अथ पात्रे मधुदानप्रमाणम् | विश्वसारतन्त्रे - प्रथमे तोलकं पञ्च द्वितीयेऽपि चतुर्थकम् | तृतीयेऽपि त्रितोलं स्याच्चतुर्थेऽपि द्वितोलकम् | पञ्चमेऽप्ये कतोलं स्यात् ततः पूर्णं पिवेन्मधु || १ || अथ नवमपात्रे मधुदानप्रमाणम् | पञ्चमं सप्तमं पात्रं नवमं वा महेश्वरि | तदूर्द्धं मधुपानेषु नियमः कः क्षमो भवेत् || २ || यस्मित् चक्रे महेशानि यत्संख्यपात्रकल्पितम् | विपरीत क्रमे माने [घ्: क्रमेणैव] तोलकं प्रथमावधि || ३ || प्. १५९) चक्रान्तेऽप्येकतोलं हि तदन्ते पूर्णपात्रकम् | तदन्ते मैथुनं कुर्याद् भगवारि पिवेन्मुदा || ४ || प्रथमे लवणं [छ्, ज्: केवलं] मद्यं द्वितीये मांससंयुतम् | मुद्रायुक्तं तृतीयेऽपि चतुर्थे मीनसंयुतम् || ५ || पञ्चमे सर्वसंयुक्तं नियमेन पिवेन्मधु | अथवा लवणे [नवमे] नापि सर्वपात्राणि कारयेत् || ६ || चर्व्यं चोष्यं लेह्यपेयं शक्तिवाक्यानुसारतः | ज्ञानी च परमेशानि स्वेच्छयापि पिवेन्मधु | चर्यंचोष्यं [घ्: चर्व्यं चोष्यं लेह्यं पेयं स्वेच्छया हि महेश्वरि] तथा लेह्यं पेयं हि स्वेच्छया शिवे || ७ || चर्वणेन विना देवि केवलम् विषभक्षणम् | येन तेन प्रकारेण चर्वणं परिकल्पयेत् [छ्, ज्: परिकल्पनम्] || ८ || श्यामारहस्ये - शक्तिं विना यथा मद्यं तथा मुद्रां विना शिवे | रेतो विना यथा क्रीडा विना क्रीडाञ्च रेतकम् || [ज्: रेतनम्] | सर्वञ्च विफलं याति यथा वायुश्च यथा वायुश्च भक्षणम् || ९ || इति श्रीसर्वानन्दनाथविरचिते सर्वाल्लासे अष्टत्रिंशदुल्लासः || ० || ऊनचत्वारिंशोल्लासः | श्रीदेव्युवाच - क्रीडा का परमेशान रेतः किं वद शङ्कर | क्रीडया च किमद्भुतं कथय प्राणवल्लभ || १ || श्रीशिव उवाच - क्रीडापि शक्तिभिः सार्द्धं रेतः शृङ्गारसम्भवम् | फलमानन्दविज्ञेयं कारणोभयमीलितम् || २ || अथ क्रीडा | भावचूडामणौ - गुरोराज्ञां समादाय क्रियामात्रं समाचरेत् | अन्यथा या क्रिया प्रोक्ता व्यञ्जने लवणं [क्, ग्, च्: अलवणं] यथा || २ || तथा च विश्वसारे - गुरुं विना पिवेन्मद्यं विना शक्तिञ्च मैथुनम् | तद्द्रव्यं नैव गृह्णाति कुण्डलीपरदेवता || ४ || गुरोरभावे तच्छक्तौ पात्रं दत्त्वा पिवेन्मधु | अथवा तत्सुते दत्त्वा पानं तत् [क्, ख्, च्: यत्] फलदायकम् || ५ || गुरोः कृपां विना देवि सर्वं हि विफलं भवेत् | तैलं विना यथा दीपे वर्त्तिदानं तथा ध्रुवम् || ६ || गुरोराज्ञां समादाय क्रीडया शक्तिभिः सह | मधुपानेन संमतो घातयेद् योनिमण्डले || ७ || प्. १६१) अथ क्रीडा लक्षणम् | निरुत्तरे - आनीय सुन्दरीं कान्तां कुलभक्तां कुलार्च्चने | शक्तिचक्रं त्रिधा कृत्वा शक्ति भाले लिखेत् ततः || ८ || पिच्छिलायाम् - श्वेतं रक्तञ्च मिश्रञ्च शक्तिचक्रेषु शोभनम् | त्रिधा कृत्वा लिखेद्भाले मध्ये मिश्रंनियोजयेत् || ९ || श्वेतसत्त्वं [ज्: श्वेतं-] रजोरक्तं तमोमिश्रं महेश्वरि | कृष्णोद्भूतं [च्: कृष्णोद्भवं] सर्ववर्णं लिखेच्चक्रस्य मध्यवत् || १० || ब्रह्मकोणं विष्णुकोणं सव्यासव्ये मेह्श्वरि | शिवकोणं मध्यदेशे त्रिविन्दु त्रित्वभाषितम् || ११ || विन्दुमात्रं कृष्णवर्णं मध्यवर्णं प्रकाशितम् | ऊर्द्धे रक्तम् अधः श्वेतं मिश्रं मध्ये नियोजयेत् || १२ || तत्र काम कलाबिन्दुं शिव कोणे प्रकाशितम् | शक्तावावाहनं नास्ति यतो देवी स्वरूपिणी || १३ || स्वेष्ट विद्यां स्वरूपां तां चिन्तयेत् कुल साधकः | पूजयित्वा रमेत् शक्तिं वीर्य पाते विसर्जनम् || १४ || श्री चक्रे देवताग्रे च पूजयेद् रमणे शिवां | सम्भोगे [घ्: देव्यग्रे सम्भोगेचैव; च्: शम्भोरग्रे च; ज्: देवताग्रे तु सम्भोगे] चैव देव्यग्रे देवता प्रीतिभाग्भवेत् || १५ || हंसमाहेश्वरे - मुहुर्मुहुः विवेद्द्रव्यं [ज्: मद्यं] पीत्वा पीत्वा जपेन्मनुम् | ध्यात्वा ध्यात्वार्च्चनं शक्तिं ज्ञात्वा ज्ञात्वा व्रजेत् स्त्रियम् || १६ || प्. १६२) चक्रमध्ये साधकाग्रे [ज्: महेशानि] साध्यां शक्तिं रमेद्यदि | पूर्णानन्दो भवेत् सोऽपि सम्भोगं मम सम्मतम् || १७ || सम कार्यं कृतं तेन [घ्: येन] सत्यं सत्यं न संशयः | यदा रमेच्चक्रभिन्ने गुरोराज्ञानुसारतः || १८ || यदि भाग्येन देवेशि गुरूरमणमाचरेत् | सा नारी कालिकारूपा शुक्र पातं भगे [ज्: भवेद्] यदि || १९ || या [श्लोकोऽयं छ्: पुस्तके नास्ति] नारी परमेशानि गुरवे भक्तिसंयुता | तदाज्ञयापि तद्योनौ गुरुश्च रमणञ्चरेत् || २० || अन्यथापि न कर्त्तव्यं कृते सिद्धिर्न संशयः | यदि कुर्ययात् तु मोहेन शृङ्गारं शक्तिसंयुतम् | गुरुत्वं हि लयं यस्मात् पुनश्चक्रं नियोजये || २१ || नारायणीतन्त्रे - अनिच्छया साधकस्य साध्यायाः परमेश्वरि | रमणं नैव कर्त्तव्यं कृतेऽपि पतितो भवेत् || २२ || मैथुनं मद्यसारं हि शुक्रं मैथुन सारकम् | शुक्र पातं विना कार्यं मद्यं मैथुन - वर्जितम् | सर्वं हि निष्फलं प्रोक्तं [घ्: कार्ययं] मृत पुत्रेण पुत्रिणी || २३ || ज्ञानार्णवे - धृत्वा साधक रेतश्च सा नारी कालिका स्वयम् | अत एव महेशानि वेश्याशक्तिप्रफुल्लिका [घ्, च्: शक्तिः-] || २४ || साधको दर्शने यन्त्रं पापमुक्तो भविष्यति | स्पर्शनात् पुण्यभाग्लोको [घ्, च्: -लोके] घातनाच्च क्रियान्वितः || २५ || प्. १६३) शुक्रपाते शिवोऽभूच्च नारी काली परा तदा | यद्योनिं [ज्: तद्-] भक्ति भावेन रमणञ्च करोति यः | पूतात्मा पुण्यभागीच क्रियाशक्तः शिवोभवेत् || २६ || पूजात् पुण्यं महेशानि पुण्यात् कार्येषु योग्यता | योग्यात् शिवत्वं सायुज्यं शक्रे निर्वाण भाग्भवेत् || २७ || गुप्तसाधनतन्त्रे - शुभलग्ने शुभदिने शुभकार्ये शुभस्थले | मथुनं कारयेद् धीरस्तद्भिन्ने [ज्: वीर-] नरकं व्रजेत् || २८ || अविधानेन देवेशि मैथुनं नरकदायकम् | विधानेने वरारोहे किं न सिध्यति भूतले || २९ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे ऊनचत्वारिंशदुल्लासः || ० || चत्वारिंशोल्लासः | अथ मैथुन विधानम् | ज्ञानार्णवे - श्रीदेव्युवाच - देवेश प्राणनाथेश लोकानां ज्ञानदायक [ज्: त्राण-] ! मथुनं श्रोतुमिच्छामि यथाविधि विधानकम् || १ || प्. १६४) श्रीशिव उवाच - पीत्वातु मादकं द्रव्यं मैथुनं यद्विधानकम् | मैथुनेन विना देवि सर्वकार्यं वृथा भवेत् || २ || (श्लोकोऽयं छ्: पुस्तके दृश्यते, नान्यत्र) तान्त्रिकेऽपि स्वयं वैदिके प्रतिकल्पनम् | अन्यथापि कृतं कार्ययं स चुम्बको न संशयः || ३ || ये वदन्ति महेशानि मैथुनं नरक दायकम् | तदर्थे मैथुनं देवि प्रोक्तं हि विधिबोधितम् || ४ || तेषां सङ्गकृतं देवि चुम्बकं नात्र संशयः | तं दृष्ट्वा साधको देवि योन्या घ्राणं समाचरेत् || ५ || तस्याङ्गस्पर्शनाद्देवि वीक्षयेद्योनिमण्डलम् | शक्तेराज्ञां विना देवि वलेन मैथुनं चरेत् || ६ || स धूर्त्तः परमेशानि असुरस्य मतान्वितः | शक्तेर्दुःखं महेशानि मैथुनेन ददेद् यदि | स शठः सापि शक्तिश्च तत्क्षणात्तं परित्यजेत् || ७ || वृथा वाक्येन देवेशि शक्तिचित्त प्रकाशकः | मुखरं [घ्, ज्: मूर्खञ्च] तं विजानीयात् तत्सङ्गं परिवर्जयेत् || ८ || दम्भेन परमेशानि शक्तिमानीय यत्नतः | दाम्भिकं तं विजानीयात् तस्या [ज्: तथा] लापं परित्यजेत् || ९ || अयत्नेन यदा शक्तिं दम्भेनाप्यानयेत् शिवे | तस्य [ज्: अस्य] सङ्गं [ज्: अङ्गं] तस्य वाक्यं साधकस्यापि नाशकम् || १० || चुम्बकस्यापि धूर्त्तस्य शठस्यापि महेश्वरि | मुखरस्य [घ्, ज्: मूर्खस्य] दाम्भिकस्य [घ्, ज्: दाम्भिकस्यापि] कामुकस्य मतं विना | रमणं हि प्रकर्त्तव्यं सुरभावेन [च्: सुरा-] भावितः || ११ || प्. १६५) वरदातन्त्रे - ब्रह्म विष्णु शिवादीनां मैथुनस्य प्रसादतः | तत्र स्नेहेन वद्धोऽहं गोपनीयं मनः स्थिरम् | प्रकाशञ्च करोम्यद्य न प्रकाश्यं कदाचन || १२ || मैथुनार्थे.प्यहं देविपुं देहेषु सदा स्थितः | मैथुनार्थेऽपि त्वं देवि नारीदेहे सदा स्थिता || १३ || बहुनापि किमुक्तेन [ज्: नियुक्तेन] मैथुनस्य प्रसादतः | अहं ज्ञानं समाश्रित्य देहेषु दिहिनामधृक् || १४ || मैथुनं परमं ज्ञानं क्रियामात्रं जगन्मयम् | स्थूले सूक्ष्मे क्रियाशक्त स्तेजसि खलु पार्वति [घ्: शङ्करि] || १५ || निगमकल्पद्रुमे | श्रीदेव्युवाच - क्रियया परमेशान मैथुनं तत् प्रकीर्त्तितं | मैथुनं पुण्यजनितं क्रियाक्तो ज्ञानवान् यदि || १६ || आविर्भावं तिरोभावं क्रियामात्रं सुनिश्चितम् | तेषां मध्ये चाद्यबीजं मैथुनाक्तं क्रियेति च || १७ || सूक्ष्मेऽपि या क्रिया प्रोक्ता मुखेन भाव वर्जिता | भावार्थेऽपि महादेव स्थूलदेहे क्रिया युता || १८ || अनन्त वचसा देव स्थिरबुद्धिर्विनश्यति | अत एव महादेव [घ्: महेशान] शक्ति [घ्: नारी] देहेषु मैथुनम् || १९ || कान्तायां मैथुनं देव पुंदेहेषु सुखोदितम् | पुरुषस्य सुखं देव नारीदेहेषु मैथुनम् || २० || प्. १६६) बहुधा वचसा किम्बा कथयामि महेश्वर | स्त्री पुंरूपमहं त्वञ्च रमणार्थे प्रकाशितं || २१ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चत्वारिंशदुल्लासः || ० || एकचत्वारिंशोल्लासः | अथ पञ्चमानन्द कथनम् | निगम कल्पद्रुमे - श्रीशिव उवाच - पञ्चतत्त्वं वरारोहे केवलानन्ददायकम् | रतेस्तुल्यं महानन्दं तेषां मध्ये न विद्यते || १ || रतिमाहाम्त्य कथने यदानन्दं भवेद्ध्रुवम् | तदानन्दं कथं भद्रे चान्यतत्त्वेषु विद्यते || २ || श्रीदेव्युवाच - रतिप्रसादाद्देवेश तुष्टाहं सर्वदा त्वयि | शक्तिरूपाह्यहं तेन तिष्ठामि च गृहे गृहे || ३ || निर्विकारं निरालम्बं भावातीतं परं महत् | रति सन्तोष भोगार्थं [ज्: सम्भोगतोषार्थं] शिवस्त्वञ्च शिवाप्यहम् || ४ || नारायणीतन्त्रे - द्वयोर्ययोगाच्च सुभगे मैथुनं जायते ध्रुवम् | अहं त्वं स्त्री पुमान् रूपो [घ्: रूपे] तिष्ठामि भावहेतवे || ५ || प्. १६७) स्वीरूपा ब्रह्मरूपाच पुंरूपो ब्रह्मविग्रहः | कीटादिषु वरारोहे मैथुनार्थे सदा स्थितः || ६ || येन येन प्रकारेण सानन्दं जायते ध्रुवम् | तेन तेन प्रकारेण विचरत्यपि भूतले || ७ || अन्यानन्दे वरारोहे स्थिरज्ञानं न जायते | स्थिरानन्दं पञ्चमेषु पञ्चमं मुक्तिदायकम् || ८ || आनन्दे मैथुने देवि सृष्टि स्थिति लयः क्षितौ | आनन्देन विना देही क्षणमात्रं न तिष्ठति || ९ || अतश्चानन्दकं ब्रह्म मैथुनं हि परात् परम् | यतश्च [घ्, छ्: अतश्च] मैथुनानदं प्रकृति पुरुषात्मकम् || १० || ललिताख्यतन्त्रे - वेदमाताजपेनैव ब्राह्मणे नहि शौलजे | ब्रह्म ज्ञानं यदा देवि तदा ब्राह्मण उच्यते || ११ || अत एव द्विजाः सर्वे मद्य मैथुन लालिताः | मद्यपाने भवेज्ज्ञानी मैथुने तत्तववान् भवेत् || १२ || ज्ञानार्णवे श्रीदेव्युवाच - देवेश प्राणनाथेश [छ्, ज्: परमानन्द] परतत्त्वेषु मोहितः | भावभेदेन कथय साधकानन्द - लक्षणम् || १३ || श्रीमहादेव उवाच - आनन्दार्थी क्रियामार्गी साधको द्विविधः स्मृतः [छ्: शिवे] | क्रियात्मनो लक्षणं हि बहुधा प्रकटीकृतम् || १४ || संक्षेपेऽप्यधुना प्रोक्तं क्रिया शक्तस्य लक्षणम् | येन मार्गेण देवेशि फलभाग् जायते नरः || १५ || प्. १६८) अथ क्रियामार्गि साधक लक्षणम् | विना शक्तिं पिवेन्मद्यं विना मद्येन मैथुनम् | विना मुद्रां पिवेन्मद्यं निष्फलं नात्र संशयः || १६ || विना मीनं यजेत् शक्तिं विना मांसेन तर्पणम् | चर्व्वणेन विना मद्यं निष्फलं नात्र संशयः || १७ || अतिपानं न कर्त्तव्यं भावातीतं भवेद् यतः | भावातीते क्रिया नष्टा विद्या नष्टा कुलेश्वरि || १८ || ज्ञानार्णवे - अतिपाने भवेद्दु.खं लोके [च्: लोक] निन्दा प्रवर्तते | अत एव क्रियामार्गी अतिपानं नचाचरेत् || १९ || अतिपाने महेशानि जप पूजादि निष्फलम् | अत एव क्रियामार्गी [ज्: महेशानि] ह्यतिपानं नचाचरेत् || २० || आनन्द कारणं मद्यं आनन्दं मुक्ति दायकम् [घ्, छ्, ज्: कारणम्] | आनन्देनैव ज्ञातव्यं साधकस्यापि लक्षणम् || २१ || खण्डानन्दं विना देवि पूर्णानन्दं न जायते | खण्ड ज्ञानं विना देवि पूर्णज्ञानं [छ्: पूर्णानन्दम्] न जायते || २२ || उत्तमं सर्वदानन्दं हेतुना मध्यमं शिवे | मैथुनं रक्तरहितम् अधमानन्दकं शिवे || २३ || उत्तमस्यैक पात्रेऽपि मध्यमःस्यात् [ज्: मध्यमस्य] त्रिपात्रकम् | बहुपात्रे चाधमस्य क्वचिदानन्द मीरितम् || २४ || इति सर्वानन्दनाथविरचिते सर्वोल्लासे एकचत्वारिंशदुल्लासः || ० || द्वाचत्वारिंशोल्लासः | अथानन्दार्थि साधक लक्षणम् | ज्ञानार्णवे श्रीदेव्युवाच - क्रिया मार्गि साधकस्य लक्षणं बहुधा श्रुतम् | अधुना श्रोतुमिच्छामि साधकानन्द लक्षणम् || १ || श्रीशिव उवाच - क्रिमार्गी क्रियाशक्तः पञ्चतत्त्वेषु लुब्धकः | ज्ञानमार्गी त्रितत्वाक्तः [घ्, ज्: क्रियात्यक्तः] केवलानन्द लुब्धकः || २ || भावतीतो ज्ञान मार्गी भावातीतं हि मैथुनम् | भावातीतं पिवेन्मद्यं सर्व प्राणि हिते रतः || ३ || नारायणीतन्त्रे - स्वेष्टविद्या सर्वरूपा स्वात्म ज्ञानेन भाषिता | प्राणि नष्टे चात्मनष्टं त्रितत्त्वं ज्ञानि सेवितम् || ४ || पञ्च तत्त्वस्य देवेशि फलं पञ्चविधं यतः [ज्: मतम्] | अत एव पङ्क तत्त्वं प्रत्येकं ज्ञान दायकम् || ५ || मद्यं मुद्रां मैथुनं हि त्रितत्त्वं त्रिगुणान्वितम् | सेवनात् प्रसभं [घ्, छ्: प्रसवं] सिद्धिः काली तारा च सुन्दरी || ६ || कालिका कल्पे - वीरभावं द्विधा ज्ञेयं दैवमासुरमेव च | देवे त्रितत्त्वं परमं [ज्: परमे] पञ्चतत्त्वासुरे शिवे || ७ || प्. १७०) आसुरेषु भवेन्मुक्तिर्दैवेषु मुक्ति भाग् नरः | अनयोश्च यथा भेदं तत् शृणुष्व महेश्वरि || ८ || पश्वाचारश्च शैवश्च वीरश्च दिव्यं एव च | सिद्धान्तश्च भवेद्भावः कौलश्च भाव वर्जितः || ९ || भावातीते भवेन्मुक्तिर्भावैर्वद्धो भवेन्नरः | कौलाचारस्य बीजं हि दिव्यः सिद्धान्त एव च || १० || आसुरे दिव्य भावं हि दैवे सिद्धान्त एव च | दिव्यो देव स्वरूपश्च सिद्धान्तो देव एव च || ११ || निगमानन्दे श्रीदेव्युवाच - दिव्य सिद्धान्तयोर्बीजं दक्ष वामीति शङ्कर | इमौ द्वौ सेवनीयौ चेत् कौल [छ्: कौलस्य] ज्ञानस्य हेतवे [छ्: ज्ञानहेतवे] || १२ || इति श्रीसर्वानन्द नाथ विरचिते सर्वोल्लासे द्वाचत्वारिंशदुल्लासः || ० || त्रिचत्वारिंशोल्लासः | अथ दैवानन्द लक्षणम् | यामले श्रीदेव्युवाच - कीदृशः प्रथमोल्लासो द्वितीयश्च तृतीयकः | चतुर्थः पञ्चमः षष्ठः सप्ताष्ट नवमो दश [घ्, ज्: सप्तमश्चाष्टम शिव] | आनन्दं प्रतिपात्रस्य मम स्थाने क्रमाद्वद || १ || प्. १७१) श्रीशिव उवाच - इन्द्रियाकलितं सर्वं तत्तद्भाव विवर्जितम् | तन्मयं निश्चलं शान्तं उल्लासादिमुदीरितम् || २ || १ उल्लासे प्रथमे प्राप्ते तन्मयञ्च जपेधृदि | नकुर्ययादधिकं हेतुं मुद्राचर्व्वणकानि च || ३ || २ समदृष्टं समैकत्वं मनो बुद्धि विवर्जितम् | लक्षमलक्षमन्यञ्च तन्मयञ्चद्वितीयकम् || ४ || प्राप्त्यानन्दमये कुर्वन् प्रत्येक कारणानि च | क्वचिद्ध्यानं जपादिञ्च क्वचिच्चर्वण माचरेत् || ५ || ३ देहाभिमान गलित मुपलब्धि विवर्जितम् | विश्रान्ति वासना यत्राप्युल्लासं तत् तृतीयकम् || ६ || तृतीयोल्लासके [ग्, घ्, छ्: तृतीयोल्लासकं] प्राप्ते कुर्ययाद्धेतुं यथार्पितम् | चर्वन्नपि तथैवान्यं विचरेत् शासने [क्, ख्, ग्: स्वासने] स्थितः || ७ || ४ अन्तर्लक्ष वहिर्दृष्टिर्निमेषोन्मेष वर्जितः | तन्मयञ्च तदाकारं चतुर्थानन्दमीरितम् || ८ || तूर्यानन्दमयं यत्र हेतुं शक्त्या पिवेत् सह | शक्ति वीरार्पितं यद्यत्तत्तद् ग्राह्याणि चर्वणम् || ९ || ५ जीवन्मुक्तं मनोऽतीतं विश्रान्तिर्गुरु मण्डले | लक्षणञ्च वरारोहे पञ्चमं परिकीर्तितम् || १० || नहि पात्रे विविक्तानि [घ्, ज्: विरिक्तानि] वीरश्चैवार्पितानि च | अन्यार्पितं हि यच्छेषं कारणं हि मुखं [च्, ज्: सुखं] विना | प्. १७२) ६ वासना विलयं यत्र भावा भाव विवर्जितम् | लयेऽपि स्वाक्षरं मन्त्रं [घ्, ज्: मात्रं] देवात्माहं विचिन्तनम् [ज्: विचिन्तयेत्] || १२ || षष्ठोल्लासेतु देवेशि तन्मयं हि जगत्त्रयम् | तदा तान्त्रिकता चक्रे मादनन्तु [च्: मोदन-] यथा सुखम् || १३ || ७ स्ववाह्याभ्यन्तरं सर्वं आत्मरुपं विचिन्तनम् [छ्, ज्: विचिन्तयेत्] | अद्वैतं परमानन्दं चिन्तनं सप्तमं प्रिये | सप्तमे समता [ज्: लयता] चक्रे तन्त्रे मिलनता भवेत् || १४ || ८ पीतात् शेषं पुनर्ग्राह्यं योगिन्यै देयमुत्तमम् | न किञ्चिदृष्टमानन्दं कार्य कारणमेव च || १५ || एक एव हि निर्द्वन्द्वं चिन्मयञ्च चिदात्मकम् | पात्रं वा मुखपात्रं वा केवलास्येन [छ्, ज्: अन्येन] सेवितम् | नृत्य गीत सदोल्लासं कुर्याद्वीराङ्गना सह || १६ || ९ उल्लासे नवमे प्राप्ते अनिर्वाद्यं तु यत् सुखम् | क्रियातीतं कलातीतं मनोऽतीतं सुनिर्मलम् || १७ || शिव शक्त्यात्मकं द्वन्द्वं नहि वर्ण विवेकता | प्राप्तिं वा मुख योन्यादीन् तत्र कुर्याद्यथार्पितम् | विश्राममुपविष्टा वा नोपविष्टं यथार्पितम् || १८ || १० न जानामि वरारोहे दशमानन्दजं सुखम् | कलातीतं मनोऽतीतं क्रियातीतं [छ्: भावातीतं] परात्मकम् || १९ || तिष्ठन् गच्छन् स्वप्न् जाग्रत् क्रीडन् मीलन् मुहुर्मुहुः | स्वेच्छाचारं क्रियामात्रं केवलात्म सुखोदितम् || २० || पीत्वा पीत्वा पुनः पीत्वा स्वेच्छया मैथुनोदितम् | उत्थाय पुनः पीत्वा, पीत्वा पीत्वापि मैथुनम् || २१ || अत एव महेशानि मैथुनं न परित्यजेत् | उत्पत्तेः कारणं बीजं मैथुनं परमेश्वरि | विनाश कारणं ज्ञेयं स्थितेः कारणमेव च || २२ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे त्रिचत्वारिंशदुल्लासः || ० || चतुश्चत्वारिंशोल्लासः | अथ मैथुनम् | वीरतन्त्रे श्रीदेव्युवाच - कुलेश प्राण नाथेश जगदानन्द रूपक | इदानीं श्रोतुमिच्छामि मैथुनस्य च लक्षणम् || १ || श्रीशिव उवाच - ब्रह्म विष्णु शिवादीनां मैथुनस्य प्रसादतः | तव स्नेहेन वद्धोऽहं गोपनीयं मनःस्थिरम् || २ || प्रकाशञ्च करोम्यद्य न प्रकाश्यं कदाचन | चित्रासने नातिनीचे नातिचोच्चे महेश्वरि || ३ || आनीय सुन्दरीं कान्तां निर्लज्जां चारुहासिनीम् | मद्यं मांसञ्च मत्स्यञ्च मुद्राञ्च मैथुन [क्, ख्, च्: मैथुनं] प्रियाम् || ४ || स्ववामे वाप्युरुस्थाने स्थापयेन्मनुना शिवे | कारणं पूरितं पात्रं मूले दत्त्वा मुखे मुहुः || ५ || प्. १७४) पश्चात् स्वयं पिवेद् द्रव्यं [घ्: मद्यं] मांसं मत्स्यादिना प्रिये | सर्वं दत्त्वा मुखे देव्यां पश्चादात्मनि योजयेत् || ६ || महाचक्रमिति प्रोक्तं मैथुनं संयुतं यदि | तच्चक्रस्य च माहात्म्यं वर्णितं नैव शक्यते || ७ || कुलचूडामणौ - मूले वस्त्रं परित्यज्य मूलेन भग वीक्षणम् | मूलेन स्पर्शनं कृत्वा मूलेन लिङ्गवेशनम् || ८ || गण्ड द्वयं चुम्बनञ्च स्तन द्वन्द्वञ्च मर्दनम् | रसना चोषणं देवि मैथुनं तदनन्तरम् || ९ || मूलेन सर्वं कर्त्तर्व्यं शुक्रे शुक्र प्रपातनम् | गुरुं ध्यात्वा रमेत् शक्तिं पतनान्ते [घ्: पातनान्ते; ज्: घातनान्ते] मनुंस्मरेत् || १० || एवं दश शतं वापि सहस्रं [घ्, ज्: चायुतं] वा मनुं स्मरेत् | गुरवे दक्षिणार्थाय चाष्टवारं जपेन्मनुम् || ११ || शुक्र पातं ततः कुर्ययात् तदन्ते प्रपठेत् स्तुतिम् | आद्यन्ते प्रपठेत् स्तोत्रं शक्ति विद्यां विचिन्तयेत् | शिवोऽहमिति मत्वा च रमणं मम सम्मतम् || १२ || निगम कल्पद्रुमे - योनिस्तोत्रं विना देव योनि ज्ञानं न जायते | योनि ज्ञानं विना देव मैथुनं न शुभ प्रदम् || १३ || कुल सम्भव पूजायामाद्यन्ते प्रपठेत् स्तुतिम् | मध्ये देवीं यजेद् गानं पानं नृत्यं जपञ्चरेत् || १४ || प्. १७५) शृणु देवि सुर श्रेष्ठे सुरासुरनमस्कृते | इदानीं श्रोतुमिच्छामि स्तोत्रं हि सर्वदुर्लभम् | यस्यावबोधनाद्देहे देही ब्रह्म मयो भवेत् || १५ || श्रीपार्वत्युवाच - शृणु देव सुरश्रेष्ठ सर्व बीजस्य [घ्, छ्, ज्: जीवस्य] सम्मतम् | न वक्तव्यं कदाचित्तु पाषण्डे नास्तिके नरे || १ || ममैव प्राण सर्वस्वं लतास्तोत्रं दिगम्बर ! | अस्य प्रपठनाद्देव जीवन्मुक्तोऽपि जायते || १७ || १ ओं भग रूपा जगन्माता सृष्टिस्थितिलयान्विता | दशविद्यास्वरूपात्मा योनिर्मां पातु सर्वदा || १८ || २ कोण त्रय युता देवि स्तुति निन्दा विवर्जिता | जगदानन्द संभूता योनिर्मां पातु सर्वदा || १९ || ३ रक्त रूपा जगन्माता योनिमध्ये सदा स्थिरा | ब्रह्म विष्णु शिव प्राणा योनिर्मां पातु सर्वदा || २० || ४ कार्त्तिकी कुन्तलं रूपं योन्युपरि सुशोभितम् | भुक्ति मुक्ति प्रदा योनिर्योनिर्मां पातु सर्वदा || २१ || ५ वीरय रूपा शैलपुत्री मध्यस्थाने विराजिता | ब्रह्म विष्णु शिव श्रेष्ठा [ग्, छ्, ज्: -प्राणा] योनिर्मां पातु सर्वदा || २२ || ६ योनिमध्ये महाकाली छिद्ररूपा सुशोभना | सुखदा मदनागारा योनिर्मां पातु सर्वदा || २३ || ७ काल्यादि योगिनी देवी योनिकोणेषु संस्थिता [घ्, ज्: सदा स्थिता] | मनोहरा दुःख लभा योनिर्मां पातु सर्वदा || २४ || प्. १७६) ८ सदा शिवो मेरु रूपो योनिमध्ये वसेत् सदा | कैवल्यदा कामयुक्ता [घ्, ज्: रता] योनिर्मां पातु सर्वदा || २५ || ९ सर्व देव स्तुता [घ्, ज्: युता] योनिः सर्व देव प्रपूजिता | सर्व प्रसवकर्त्री त्वं योनिर्मां पातु सर्वदा || २६ || १० सर्व तीर्थ मयी योनिः सर्व पाप प्रणाशिनी | सर्व गेहे [घ्, ज्: देहे] स्थिता योनिर्योनिर्मां पातु सर्वदा || २७ || ११ मुक्तिदा [ज्: भुक्तिदा] धनदा सुखदा कीर्त्तिदा तथा | आरोग्यदा वीर रता पञ्च तत्व युता सदा [घ्, ज्: युता] || २८ || १२ योनिस्तोत्रमिदं प्रोक्तं यः पठेत् योनि सन्निधौ | शक्तिरूपा महादेवी तस्य गेहे सदा स्थिरा || २९ || १३ तीर्थ पर्यटनं नास्ति नास्ति पूजादि तर्पणम् | पुरश्चरणं [घ्, ज्: पुरश्चर्यापि] नास्त्येव तस्य मुक्तिरखण्डिता || ३० || केवलं मैथुनेनैव शिव तुल्यो न संशयः | सत्यं सत्यं पुनः सत्यं ममवाक्यं वृथा नहि || ३१ || यदि मिथ्या मया प्रोक्ता तव हत्या सुपातकी | कृताञ्जलि पुटोभूत्वा पठेत् स्तोत्रं दिगम्बर ! || ३२ || सर्वतीर्थेषु यत् पुण्यं लभते च स साधकः | काल्यादि दश विद्याश्च गङ्गादि तीर्थ कोटयः | योनि [छ्, ज्: योनेः] दर्शन मात्रेण सर्वाः साक्षान्न संशयः [छ्, ज्: चान्यथा] || ३३ || कुल सम्भव पूजायामादौ चान्ते पठेदिदम् | अन्यथा पूजनाद्देव रमणं मरणं भवेत् || ३४ || एकसन्ध्यां त्रिसन्ध्यां वा पठेत् स्तोत्रमनन्यधीः | निशायां सम्मुखे शक्त्याः स शिवो नात्र संशयः || ३५ || प्. १७७) इति योनि स्तोत्रम् | स्तोत्रान्ते परमेशान कारणं पानि पूरितम् | वामहस्ते प्रदातव्यं गुह्या दि मन्त्र पूर्वकम् || ३६ || अथ श्रीचक्र पादोदक माहात्म्यम् | (श्लोकोऽयं घ्, छ्, ज् - पुष्तके नास्ति) गङ्गा पुष्कर नर्मदासु यमुना गोदावरी गौतमी - गङ्गा द्वार गया प्रयाग वदरी वाराणसी सिन्धुषु | रिवा सेतु सरस्वती प्रभृतिषु ब्रह्माण्ड भाण्डोदरे तीर्थ स्नान सहस्र कोटि फलदं श्रीचक्र पादोदकम् || ३७ || ततः - भग क्षालित तोयेन पात्र क्षालित वारिणा | लिङ्ग क्षालित तोयेन प्रक्षिपेद् विन्दु बिन्दुभिः || ३८ || योनौ हस्तं मुखे स्तोत्रं शक्ति हस्तेऽपि पात्रकम् | सुगन्धं शीतलं तोयं प्रक्षिपेत् तत्त्व मुद्रया || ३९ || तन्त्रान्तरे - पात्रं सुशीतलं कुर्ययात् श्रीपात्रादिक्रमेण च | गुरोः पात्राद् देव पात्रादात्म पात्रान्महेश्वरि || ४० || साधकस्यापि पात्राच्च तोयं क्षिप्तं महीतले | तत्तोयैः कर्दमं कृत्वा ललाटे तिलकं न्यसेत् || ४१ || विभिन्न शक्ति पात्रञ्चेद् गुरु पात्रान्महेश्वरि | शक्ति पात्रात् पात्रमात्रात् तोयं क्षिप्तं महीतले || ४२ || प्. १७८) कुल तत्त्वसारे - भगाल्लिङ्गात्तथा पात्रात् श्रीपात्रे शीतलं स्थितम् | तोयं क्षिपेत् स्वमूर्द्धादि बिन्दुञ्च तत्त्व मुद्रया || ४३ || यं यं स्पृशामि पादेन यं यं पश्यामि चक्षुषा | स एव दासतां याति यदि शक्र समो भवेत् || ४४ || इति मन्त्रेण देवेशि मूल मन्त्रेण वा पुनः | अवशिष्ट जलैर्देवि कर्दमे तिलकं न्यसेत् || ४५ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे चतुश्चत्वारिंशदुल्लासः || ० || पञ्चचत्वारिंशोल्लासः | चक्रान्ते परमेशानि शान्ति स्तोत्रं पठेन्मुदा || १ || अथानन्द स्तोत्रम् | कुलार्णवे - १ [क्, ख्, ग्, च्: मनोभुवो मङ्गल मङ्गलात्मा सौन्दर्यलक्ष्मी भुवि वैजयन्तीम्] नमो गुरो मङ्गल मूल मुद्रां, सौन्दर्य लक्ष्मीं भुवि वैजयन्तीम् | श्रीसुन्दरीमिन्दु कलावतं सां, सानन्दमानन्दमयीं स्मराइ [क् ख्, ग्, घ्, च्: भजामि] || २ || प्. १७९) २ श्रीसुन्दरी पूजन तत्पुराणां, हालाभिरालोहित लोचनानाम् | अस्माकमानन्दित मानसानां, माहेश्वराणां [घ्, च्: म-] दिवसाः प्रयान्तु || ३ || ३ विधाय धारां वदने सुधायाः, श्रीचक्रमभ्यर्च्य कुल क्रमेण | आस्वादयन्तः पिशितं मृगाक्षी- मालिङ्ग्य मोक्षं सुधियः प्रयान्ति [घ्, छ्, ज्: सुधियोलभन्ते] || ४ || ४ दिने दिने सिद्धि [क्, ग्, च्: शुद्धि] घटस्तु पूर्णो, दिने दिने तर्पणमस्तु देव्याः | दिने दिने संघटतां द्वितीया, दिने दिने साधक सङ्गमस्तु [ज्: सङ्गमोऽस्तु] || ५ || ५ (श्लोकोऽयं ज पुस्तके दृश्यते नान्यत्र) आस्वादयन्तः पिशितस्य खण्ड माकण्ठपूर्णं मदिरां पिवामः | वामेक्षणासङ्गममादधाना भुक्तिञ्च मुक्तिञ्च परां व्रजामः || ६ || ६ (श्लोकोऽयं घ्, ज्: पुस्तकोयोर्दृश्यते) न स्वादु लाभः पिशितस्य यस्मिन्, पञ्चाक्षरी पूर्ण रतिर्न यत्र | न यत्र सङ्गो मृग लोचनाया- स्तत्तद्दिनं दुर्दिनमेव मन्ये || ७ || ७ प्रवर्त्तकानां सहस्राथ [क्, ग्, च्: सहसातु] लक्ष्मीः प्रयाति गेहं वि पद [ज्: सुपद] क्रमेण | श्रीसुन्दरी साधक निन्दकाना- [ज्: प्राणा धनानीह लयं प्रयान्ति] मायुः क्षयं गच्छति तत्क्षणेन || ८ || प्. १८०) ८ अङ्गेषु कुष्ठादि गृहेष्वलक्ष्मी र्मूकत्वमास्ये भवनं श्मशानम् | श्रीसुन्दरी साधक निन्दकानाम् प्राणा [ज्: आयुःक्षयं गच्छति तत्क्षणेन] यतस्ते प्रलयं प्रयान्ति || ९ || ९ श्रीसुन्दरी साधक पुङ्गवानाम् यथा यथा निन्दनमातनोति | जनः समः पुत्र कलत्र मित्रै - स्तथा नाशमुपैति शीघ्रम् || १० || १० हालां पिवन् [क्, ग्, च्: पिवन् दीक्षित मन्दिरेषु, स्वपन्निशायां गणिका गृहेषु | गृहे गृहे भोजनमेव कुर्वन्, वंभ्रम्यते कौलिक [ज्: साधक] चक्रवर्त्ति || ११ || ११ अनन्तरं काल वशाच्च मोहम्, सोऽहं भविष्यामि न मे विषादः | [क्, ख्, ग्: श्रीसुन्दरी जन्मनि जन्मलीलाम्] जन्मनि जन्मनि त्वाम्, यद्भैरवोऽहं जननीं स्मरामि [क्, ख्, ग्, च्: समोहे] || १२ || १२ विकल्प वाटी तट सन्निकृष्टे, प्रवर्त्तमानाः पशवो वराकाः | प्रविश्य मोहाम्बुनिधावगगाधे, भ्रमन्त्यनास्वादित [छ्, ज्: अनासादित] कौल मार्गाः || १३ || प्. १८१) १३ उन्मूलनं पातक भूरुहाणा- मुन्मीलनं चित्त कुतूहलानाम् | आकर्षणं पङ्करुहेक्षणानां, मैरेय [ख्, च्: नैवेद्य] पानं वयमाचरामः || १४ || १४ वाराणसि जह्नु सुता प्रयाग [ज्: गोदावरी केदारतीर्थानि विलोकितानि] गोदावरीतीर्थ विलोकनानि | तैनैव मन्ये जगतः कृतानि, श्रीसुन्दरी चिन्तनमेव यस्य || १५ || १५ आयातयातेन भवाम्बुराशौ, जातो महानेष मम प्रयासः | मोक्षाय नाथस्य पद प्रसादा - दङ्गीकृतः सम्प्रति कौलमार्गः || १६ || १६ नान्यं विलोके न च वान्यमीहे, नान्यं स्मरन्नापरमाश्रयामि | कदापि नाहं परमात्म रूपां, श्रीसुन्दरीं चेतसि विस्मरामि || १७ || १७ विलोक्य [क्, ख्, ग्, च्: विलिख्य] सिन्दूर मयं सुधाभिः, श्रीचक्रराजं निशि कॢप्तवन्तः [क्, ख्, ग्, च्: तर्पयन्तः] | श्रीसुन्दरीं चेतसि चिन्तयन्तो, [क्, ख्, ग्, च्: हाला विलोलैर्विषयन्ति लोकान्] हेलाविलोकैर्वशयन्ति लोकान् || १८ || १८ यत्रास्ति भोगो न च तत्र मोक्षो, यत्रास्ति मोक्षो नच तत्र भोगः | [घ्: शिवापदाम्भोज युगार्चकानाम्] श्रीसुन्दरी पूजन तत्पराणां, भोगश्च मोक्षश्च करस्थ एव || १९ || १९ वामे वाला [घ्, ज्: रामा] रमण कुशला दक्षिणे पान पात्रम्, अग्रे न्यस्तं मरिचसहितं शूकरस्योष्ण मांसम् | स्कन्धे वीणा ललित सुभगा सत्कथा सद्गुरुणाम् [घ्, छ्, ज्: सद्गुरूणां प्रवृत्तिः], कौल धर्म्मः परम गहनो योगिनामप्यगम्यः || २० || २० वामे चन्द्रमुखी मुखे च मधुरं पात्रं कराम्भोरुहे, मूर्ध्नि श्रीगुरु चिन्तनं भगवती ध्यानास्पदं मानसे | जिह्वाह्यां जप साधनं परिणतिः कौल क्रमाभ्यासतो, [ज्: कौलाङ्गनाध्यासने], यः शान्तो नियतं [ज्: यत्पात्रं] पिवेत्तदमृतं भुक्तिञ्च [छ्: भक्तिञ्च] भुक्तिं व्रजेत् || २१ || २१ एकेन शुष्क चणकेन घटं पिवामि, वापीं पिवामि सहसा लवणार्द्रकेण | आस्वादयामि यदि शोधित मांस खण्डम्, गङ्गां पिवामि यमुनां सह सागरेण || २२ || २२ करे पात्रं मुखे स्तोत्रमानन्दं हृदयाम्बुजे- मूर्ध्नि श्रीनाथ पादाब्जं स्मरणं किमतः परम् || २३ || २३ अलि पिशित पुरन्ध्री योग [घ्, च्, छ्: भोग] पूजा परोऽहम्, वहुविध जन भावारम्भ [ज्: कुलमार्गारम्भ] सम्भावितोऽहम् | गुरु चरण रजोऽहं [घ् ज्: रतो] भैरवीमाश्रितोऽहम्, पशुजन विमुखोऽहं [घ्, ज्: विरतो] भैरवोऽहं शिवोऽहम् || २४ || प्. १८३) इति कुलार्णवोक्तानन्द स्तोत्रम् | [श्लोकोऽयं ज्: पुस्तके दृश्यते नान्यत्र] पीत्वा मद्यं पठेत् स्तोत्रं साधकः कुलभैरवः | कुल स्त्री सङ्ग निरतः कुलकार्यं समाचरेत् || २५ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे पञ्च चत्वारिंशदुल्लासः || ० || षट्चत्वारिंशोल्लासः | अथाभिषेकः | ऊत्तरतन्त्रे श्रीमहादेव उवाच - अभिषेकं विना देवि कुल कार्यं न चाचरेत् | पानञ्च विष पानं स्यात् मैथुनं पापदायकम् || १ || अभिषेकं [घ्, ज्: अभिषेके] विना भूते आचार्यत्वं करोति यः | चत्वारि [क्, ख् ग्: चत्वारः] तस्य नश्यन्ति आयुर्विद्या यशो वलम् || २ || गुप्तञ्च सर्वतन्त्रेषु तव स्नेहेन शङ्करि | अभिषेकं प्रवक्ष्यामि सर्वसिद्धि प्रदायकम् || ३ || धनं यशो वलायुष्यं महापातक नाशनम् | सर्वाशा पूरकं सर्व मन्त्र दोष विनाशनम् || ४ || सर्वार्थ साधनं देवि सर्वतीर्थ फलप्रदम् | अभिचार हरं सर्वं ग्रहदोष विनाशनम् || ५ || प्. १८४) तेजो वृद्धि करं देवि वल वृद्धि करं परम् | तक्षकेणापि दष्टस्य विषपीडा विनाशनम् || ६ || तेजो ह्रासे वल ह्रासे बुद्धि ह्रासे धन क्षये | स्त्रीकृतेष्वपि दोषेषु शरीरे मानसे तथा || ७ || विकारे देशिकः [ज्: मानसे] कुर्यादभिषेकं विचक्षणः | असौभाग्ये च नारीणामभिषेकः प्रवर्त्तते || ८ || सर्व दोष हरो धर्मः सत्यं सत्यं हि शङ्करि [ज्: पार्वति] | नदी तीरे देव भूमौ तरु मूले चतुष्पथे || ९ || देवतायतने वापि स्थापयेद् घटमुत्तममम् [ज्: अव्रणम्] | नातिह्रस्वं नातिदीर्घं मृण्मयं स्वर्ण [घ्, च्, ज्: मृत्ताम्र स्वर्ण] निर्मितम् || १० || कामबीजेन (क्लीं) संप्रोक्ष्य वाग्भवेनैव (ऐ/) शोधयेत् | शक्त्या (ह्री/) कलसमारोप्य मायया (ह्री/) पूरयेज्जलैः | मन्त्रेणानेन देवेशि तीर्थान्यावाहयेत्ततः || ११ || ओं गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च | सर्वे समुद्राः सरितः सरांसि जलदा ह्रदाः [ घ्, ज्: नदाः] || १२ || सर्वे प्रस्रवणाः पुण्याः स्वर्ग पाताल भूगताः | सर्वेतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् || १३ || रमाबीजेन (श्रीं) जप्तेन पल्लवैः प्रतिपादयेत् | कूर्चेन (ह्रूं) फलदानं स्यात् वधृबीजैः [ज्: स्त्रीबीजेन] (स्त्री) स्थिराकृतिः || १४ || [ज्: सिन्दूरं वह्निबीजेन पुष्पं दद्याच्च वायुना] स्त्रीबीजेन (स्त्रीं) च सिन्दूरं पुष्पं दत्त्वा तथा प्रिये [घ्: दद्यात् स्वरेण च (फट्)] | मूलेन दूर्वां प्रणवैः कुर्यादभ्युक्षणं ततः || १५ || प्. १८५) हु/ फट्स्वाहेति मन्त्रेण कुर्याद्दर्भैश्च [क्: कुम्भस्य] ताडनम् | [पाठोऽयं ज्: पुस्तके दृश्यते नान्यत्र] विचिन्त्य देवी पीठन्तु तत्रावाह्य प्रपूजयेत् || १६ || स्वतन्त्रोक्त विधानेन मन्त्रस्योच्चारणेन तु [छ्: मन्त्रस्योद्धारणेन तु; ज्: स्वमन्त्रोद्धारणैः सह] | घटं संस्थापयेन्मन्त्री [घ्, ज्: पूजयेत्तद् घटं मन्त्री] मन्त्रेणानेन देशिकः || १७ || ओं उत्तिष्ठ ब्रह्म कलस ! देवताभीष्ट सिद्धिद | सर्वतीर्थाम्बु सम्पूर्ण पूरयस्व [ज्: पूरयास्मत्] मनोरथम् || १८ || ईशानेन्दु स्वर क्षौणी [घ्, ज्: मन्त्रस्तु हसकल ह्री/] तदन्ते भुवनेश्वरीइ | मन्त्रेणानेन वादित्र निर्घोषैश्चालयेद्घटम् [क्, ख्, ग्, च्: वामुत्रनिर्घोषः] || १९ || अभिषिञ्चेद् गुरुः शिष्यं यद्वा देशिक नायकः | ज्वरे गात्रे ग्रहेऽश्वत्थपल्लवैर्भूत [क्, ख्, ग्, च्, छ्: गृहे] सङ्गमे || २० || सिञ्चेदौडुम्बरैर्मन्त्र दोषे च करवीरजैः | यशो धनायुस्तेजःसु श्रीफलस्यापि पल्लवैः || २१ || [पाठोऽयं ज्: पुस्तके दृश्यते] तुलसी मञ्जरीभिश्च सर्व पाप क्षयार्थिभिः | सर्व तीर्थ फल प्राप्त्यै शाक्तानां विल्व सम्भवैः (इतः परम् - ज्: पुस्तके - अभिचारे नारसिंहैरभिषेकः प्रचक्षते | इत्यादि पाठो दृश्यते || २२ || [ज्: कुर्याद्दर्भैश्च दोषेषु स्त्रीकृतेष्वखिलेषु च] कुर्याद् दर्भैरदर्भेषु स्त्रीदिषेषु कृतेषु च | असौभाग्ये च नारीणां दूर्वाभिरभिषेचनम् || २३ || अथवा सर्व कार्येषु विदध्यादाम्र पल्लवैः || २४ || दक्षिणा मूर्तिः ऋषिरनुष्टुप्छन्दः शक्तिर्देवता सर्वसङ्कल्पसिद्ध्यर्थे विनियोगः | प्. १८६) १ ओं राजराजेश्वरी शक्तिर्भैरवी रुद्रभैरवी | श्मशान भैरवी देवी त्रिपुरानन्द भैरवी || २५ || त्रिकूटा त्रिपुटा [क्, ख्, च्, छ्: त्रिपुरा] देवी तथा त्रिपुरसुन्दरी | त्रिपुरेशी महादेवी तथा त्रिपुरमालिका || २६ || त्रिपुरानन्दिनी देवी तथैव त्रिपुरातनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २७ || २ छिन्नमस्ता महादेवी तथैवैकजटेश्वरी | तारापराजिता दुर्गा [ज्: तारा च जयदुर्गा च] शूलिनी भुवनेश्वरी || २८ || त्वरिताख्या महादेवी तथा वश्या [क्, ख्, ग्: तथैवेश्य] त्रिकण्ठकी | नित्या च नित्यरूपा च वज्रप्रस्तारिणी तथा | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || २९ || ३ अश्वारूढा महेशानी [ज्: महादेवी] तथा महिष मर्द्दिनी | दुर्गा च नवदुर्गा [घ्, ज्: रणदुर्गा] च श्रीदुर्गा भगमालिनी || ३० || तथा भगन्दरी देवी भगक्लिन्ना तथा परा | सर्वचक्रेश्वरी देवी तथा नीलसरस्वती || ३१ || सर्वसिद्धिकरी देवी सिद्ध गन्धर्व सेविता | उग्रतारा महादेवी तथा दक्षिण कालिका | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ३२ || ४ उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका | चण्डी चण्डवती चैव चण्डरूपाति चण्डिका | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ३३ || ५ उग्रदंष्ट्रा महादंष्ट्रा शुभदंष्ट्रा कपालिनी | भीमनेत्रा विशालाक्षी मङ्गला विजया जया | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ३४ || प्. १८७) ६ मङ्गला नन्दिनी भद्रा लक्ष्मीः कीर्तिर्यशश्विनी | पुष्टिर्मेधा शिवा साध्वी यशः शोभा जया धृतिः || ३५ || सुनिन्दा [ज्: श्रीनन्दा] च सुनन्दा च नन्दिनी नन्दपूजिता | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ३६ || ७ विजया मङ्गला भद्रा [ज्: धन्या] धृतिः शान्तिः शिवा क्षमा | सिद्धिस्तुष्टिः रमा पुष्टिः श्रीर्-ऋद्धिश्च [ज्: भ्रान्तिः] रतिस्तथा || ३७ || दीप्ता कान्तिर्यशो लक्ष्मीरीश्वरी बुद्धिरेव च | चक्री जयावती ब्राह्मी जयन्ती चापराजिता || ३८ || अजिता मानवी श्वेता दितिश्चादितिरेव च | मायाचैव महामाया मोहिनी क्षोभिणी तथा || ३९ || अरुणा विमलाचैव शरण्या रतिरेव च | दुर्गा क्रियारून्धती च घण्टाकर्णा कपालिनी || ४० || रौद्री काली च कौमारी [ज्: मायूरी] त्रिनेत्रा चापराजिता | सुरूपा वृद्वरूपा च तथैव विग्रहात्मिका || ४१ || चण्डी कामपरा [ज्: चर्चिका चापरा] ज्ञेया तथैव सुरपूजिता | वैवस्वती च कौमारी तथा माहेश्वरी परा || ४२ || वैष्णवी च महालक्ष्मीः कार्त्तिकी कौषिकी तथा | शिवदूती च चामुण्डा मुण्डमालाविभूषिता | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ४३ || (श्लोकोऽयं ज्: पुस्तके अस्तीति) ८ वाग्वादिनी कामाख्या च कमला बहुरूपिणी | प्रत्यङ्गिरा भवानी च वाला धूमावती तथा || ४४ || षट्कुटा भैरवी वाला तथा त्रिपुरभैरवी | चैतन्यभैरवी रुद्रभैरवी पुरभैरवी || ४५ || प्. १८८) भुवनेशो भैरवी च तथान्नपूर्णभैरवी | विमला वरदा वाणी वृन्दा दिक्करवासिनी | एतास्त्वामभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ४६ || ९ इन्द्रोऽग्निश्च यमश्चैव वरुणो नैर्-ऋतिस्तथा | पवनो धनदेशानौ ब्रह्मानन्तौ दिगीश्वराः | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ४७ || १० सम्वत्सरश्चायनश्च मास पक्ष दिनानि च | तिथयश्चाभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ४८ || ११ रविः सोमः कुजः सौम्यो गुरु शुक्र शनैश्चराः | राहुः केतुश्च सततमभिषिञ्चन्तु ते ग्रहाः || ४९ || १२ नक्षत्रं करणं योगोऽमृतं सिद्धिस्ततः परम् | दग्धं पापं तथा भद्रा योगो वाराः क्षणास्तथा || ५० || वारवेला कालवेला दण्ड वृद्धादयस्तथा | अभिषिञ्चन्तु सततं मन्त्र पूतेन वारिणा || ५१ || १३ डाकिनी पुत्रकाश्चैव राकिणी पुत्रकास्तथा | लाकिनी पुत्रकाश्चान्ये काकिनी पुत्रकाऽपरे || ५२ || शाकिनी पुत्रका भूयो हाकिनी पुत्रकास्तथा | ततश्च डाकिनी पुत्रा देवी पुत्रास्ततः परम् || ५३ || मातॄणाञ्च तथा पुत्रा ऊर्द्ध मुख्याः सुताश्च ये | (श्लोकार्द्धोऽयं ज्: पुस्तके अधिको दृश्यते) अधोमुख्याः सुताश्चान्ये लोपमुख्याः सुताश्च ये | अभिषिञ्चन्तु ते सर्वे मन्त्र पुतेन वारिणा || ५४ || १४ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ५५ || १५ असिताङ्गो रुरुश्चण्डो क्रोधश्चोन्मत्त भैरवः | कपाली भीषणाख्यश्च संहारश्चाष्टभैरवाः | अभिषिञ्चिन्तु सततं मन्त्र पूतेन वारिणा || ५६ || प्. १८९) १६ पुरुषः प्रकृतिश्चैव विकाराश्चैव षोडश | आत्मनश्च गुणाश्चैव स्थूल सूक्ष्माश्च ये परे [क्, ग्, च्: स्थूलसूक्ष्मौ ये पराः | एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ५७ || १७ (श्लोकार्द्धोऽयं ज्: पुस्तके अधिकोऽस्ति) वेदादिबीजं (ओं) कूर्चबीजं (हु/) बीजं तन्मीनकेतनम् (क्ली/) | [ज्: शक्तिबीजं रमाबीजं मायाबीजं गुणाकरम्] देवबीजं रमाबीजं (श्री/) शक्तिबीजं (ह्री/) गुणाक्षरम् || ५८ || चिन्तारत्नं (गं) महाबीजं नारसिंहञ्च (क्ष्रौ/) शाङ्करम् (हौ/) | मार्त्तण्ड भैरवं (ओं ह्री/ हंसः) दौग (दू/) बीजं श्रीपुरुषोत्तमम् (क्री/) || ५९ || गाणापत्यञ्च (ग्लौ/) वाराहं (व्लुं) कालीबीजं (क्री/) भयापहम् | एतानि त्वभिषिञ्चन्तु मन्त्रपूतेन वारिणा || ६० || १८ गङ्गा गोदावरी रेवा यमुना च सरस्वती | आत्रेयी भारती चैव सरयूर्गण्डकी तथा || ६१ || करतोया चन्द्रभागा श्वेत गङ्गा च कौषिकी | भोगवती च पाताले स्वर्गे मन्दाकिनी तथा | एतास्त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ६२ || १९ भैरवो भीमरूपश्च शोषो घर्घर एव च | सिन्धुश्चैव ह्रदः पातु पाताल सम्भवस्तथा | एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ६३ || २० यानि कानि च तीर्थानि पुण्यानि पुण्यान्यायतनानि च | एतानि त्वा [ग्, घ्: तानि त्वाम्] भिषिञ्चन्तु मन्त्र पूतेन वारिणा || ६४ || २१ जम्बुद्वीपादयो द्वीपाः सागरा लवणादयः | अन्तन्ताद्यास्तथा नागाः सर्पा ये तक्षकादयः | एते त्वामभिषिञ्चन्तु मन्त्र पूतेन वारिणा || ६५ || प्. १९०) २२ नभश्च [क्: नतिश्च] वल्लभा (स्वाहा) वह्नेर्वषट् कूर्च (हु/) मतः प्रम् | वौषट्कारस्तु फट्कारोऽभिषिञ्चन्तु सर्वदा || ६६ || २३ नश्यन्तु प्रेतकुष्माण्डा राक्षसा दानवाश्च ये | पिशाचा गुह्यका भूता अभिषेकेण ताडिताः || ६७ || २४ अलक्ष्मीः कालकर्णी [क्, ग्, च्: काकाली] च पापानि सुमहान्ति च | नश्यन्तु चाभिषेकेण तारावीजेन (स्त्री/) ताडिताः || ६८ || (चिह्निताः श्लोकाः ज्: पुस्तके दृश्यते) २५ रोगाः शोकाश्च दारिद्र्यं दौर्वल्यं चित्तविक्रिया | नश्यन्तु चाभिषेकेण वाग्बीजेनैव (ऐ/) ताडिताः || ६९ || (चिह्निताः श्लोकाः ज्: पुस्तके दृश्यन्ते) २६ लोकानुराग त्यागश्च दौर्भाग्यमपि दुर्यशः | नश्यन्तु चाभिषेकेण मन्मथेनैव (क्ली/) ताडिताः || ७० || २७ तेजो ह्रासे बुद्धिह्रासे शक्तिह्रासे तथैव च | नश्यन्तु चाभिषेकेण शक्तिबीजेन (ह्री/) ताडिताः || ७१ || (चिह्निताः श्लोकाः ज्: पुस्तके दृश्यन्ते) २८ विषाविष्टमहारोगा डाकिन्यभिभवस्तथा | घोराभिचाराः क्रूराश्च ग्रहा रागास्तथैव च | नश्यन्तु चाभिषेकेण कालीबीजेन (क्री/) ताडिताः || ७२ || २९ नश्यन्तु विपदः सर्वाः सम्पदः सन्तु सुस्थिराः | अभिषेकेण शाक्तेन पूर्णाः सन्तु मनोरथाः || ७३ || इत्युत्तरतन्त्रे अभिषेकः || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षट्चत्वारिंशदुल्लासः || ० || सप्तचत्वारिंशोल्लासः | अथ दक्षिणाचार वीरस्य भावः | स्वधर्म - निरतो वीरः शिवो भूत्वा यजेत् पराम् | स एव दक्षिणाचारः सर्वतन्त्रेषु गोपितः || १ || मुण्डमाला तन्त्रे - मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | पञ्च तत्त्व युतो वीरः शिवः साक्षान्न संशयः || २ || शङ्करोऽहमिति ज्ञात्वा कला माहात्म्यसंयुतः | कलां कालीं चिन्तयित्वा पूजयेद्रमणेन तु || ३ || साधकः शङ्करः साक्षान्नास्ति भेदो महेश्वरि [घ्: कियानपि] | मोहात् यः कुरुते भेदं रौरवं नरकं व्रजेत् || ४ || नाहं वसामि कैलासे न मेरौ न च भूतले | कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भाविनी || ५ || मत्स्यमांसासवासक्तो [छ्, ज्: -मांससुरासक्तो] लोलुपः स्त्रीषु सर्वदा | शिवोऽहमिति संज्ञाय विहरेत् शक्ति सङ्कटे || ६ || सर्व जात्यधमो देवि श्वपचो नात्र संशयः | श्वपचोऽग्रि कुल ज्ञानी द्विजस्याप्यधिकं [ज्: द्विजादप्यधिकं] शिवे || इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे सप्तचत्वारिंशदुल्लासः || ० || अष्टचत्वारिंशोल्लासः | अथ वामाचारः | समयाचार तन्त्रे - स्वपुष्पैः पञ्च तत्त्वैश्च पूजयेत् कुलयोषिताम् | वामा चारः स विज्ञेयो वामा भूत्वा यजेत् पराम् [ज्: शिवाम्] || १ || स्वपुष्पस्य प्रमाणमाह | निगम कल्पद्रुमे श्रीदेव्युवाच - पञ्चपुष्पेण वा सप्त पुष्पेण पूजयेत् शिवाम् | पूजयित्वा निशीथे तु रमणं शक्तिमाश्रितम् [ज्: शक्तिभिः सह] || २ || स्वपुष्पञ्च स्वयम्भुञ्च वज्रं कुण्डोद्भवं शिव | गोलकं पञ्चधा पुष्पैः पूजयेत् परमेश्वरीम् || ३ || गोपी चन्दन पुष्पेण वीर पुष्पेण शङ्कर [ज्: मरणेनाच्च येच्छिवाम्] | सप्तपुष्पेण संपूज्य निशीथे रमणेन तु || ४ || उद्धृतेनैव पुष्पेण यन्त्रं कृत्वार्च्चयेत् शिवाम् | अनुद्धृतेन पुष्पेण रमणेनार्च्चयेत् शिवाम् || ५ || उद्धृत्य पुष्पं संशुद्धं कृत्वा देवीं यजेत् पराम् [घ्: प्रपूजयेत्] | अनुद्धृतं स्वयं [ज्: अनुद्धृत धियं ] शुद्धं समुद्रस्य जलं यथा || ६ || पुण्येन लभते पुष्पं शत जन्मार्जितेन च | स्वयम्भूकुसुमादिञ्च देवानामपि दुर्लभम् || ७ || प्. १९३) अथ स्वयम्भू स्वपुष्प प्रभृति कुसुमानां विधान निरूपणम् | निगम कल्पद्रुमे - विवाहितायाः कन्यायाः प्रथमे ऋतु सम्भवे | तच्छोणितं महेशान स्वपुष्पं परिकीर्तितम् || ८ || अविवाहितायाः कन्याया लिङ्गस्पर्शाद्रजस्वला | तद् द्रव्यञ्च महादेव स्वयम्भु कुसुमं प्रभो || ९ || विवाहितायाः कन्यायाः पुरुषस्य च ताडनात् | यदि पुष्पं समुद्भूतं वज्रं तत् परिकल्पितम् [घ्, ज्: परिकीर्तितम्] || १० || भर्त्तृयुक्ता च या [ज्: ऋतुयुक्ता यदा] नारी पुरुषान्यस्य योगतः | रक्तं समुत्क्षरेद् योन्या अथवा गर्भसंकटात् | कुण्डोद्भवं स विज्ञेयं शृणु गोलोद्भवं [ज्: पूर्णकालोद्भवं] प्रिय || ११ || स्वामि शून्या च या नारी जार योगाद्रजस्वला [ग्, घ्, ज्: रजोयुता] | तद्रक्तं गोलकं ज्ञेयं सर्वकालोद्भवं शृणु || १२ || मासि मासि च यद्रक्तं क्षरते योनि मण्डलात् | तद्रक्तं परमेशान सर्व कालोद्भवं प्रिय || १३ || पुरुषे मैथुने युक्ते यद्रक्तं शुक्र मिश्रितम् | क्षरते च भगाद्रक्तं तद्द्रव्यं [घ्, ज्: रक्तं] गोपी चन्दनम् || १४ || स्व स्त्रीषु मैथुने देव यत् पुष्पं समुपस्थितम् | तत् पुष्पं वीर पुष्पञ्च स्वयम्भू कुसुमं शृणु || १५ || प्. १९४) मासि मासि च [घ्, ज्: सर्वासामपि] नारीणां स्वयम्भू कुसुमादिकम् | विशेषं गणिकायास्तु चाण्डाल्यास्तु विशेषकम् [घ्, ज्: चाण्डाल्याः कुहुसम्भवं] || १६ || अथ स्वपुष्पादि शुद्धिः [ख-] | मातृकाभेदतन्त्रे - अशौचितात्मा यस्यापि सर्वं तस्याप्यशौचितम् | पूतात्मनश्च पूतात्मा सर्वं पूतं महेश्वरि || १७ || अशौचितं त्रिधा ज्ञेयं शौचं शौचं ज्ञेयं त्रिधा प्रिये | कुलाचारात् कौलिकाद्वा [क्, ग्, च्: लौकिकाद्वा] मोह शास्त्रात् कुलेश्वरि | सर्वं पूतञ्चाशुचितं स्वकार्ये नाधिकारिता || १८ || तन्त्रान्तरे - सर्वकार्येषु सर्वत्र वैदिक नान्त्रिकेषु च | अनास्थैव महेशानि सर्व कर्म विनश्यति || १९ || कौलाद्वा कौलिकाद्वापि [क्, ग्, च्: लौकिकाद्वापि] ज्ञान शास्त्रान्महेश्वरि | सर्व पूतं हि विज्ञेयं सर्व कार्येऽधिकारिता || २० || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे अष्टचत्वारिंशदुल्लासः || ० || ऊनपञ्चाशत्तमोल्लासः | अथ स्वपुष्पादि स्वयम्भवादि पुष्प शोधन मन्त्रः | निगम कल्पद्रुमे - मायाबीजं समुद्धृत्य वह्नि बीजं समुद्धरेत् | चतुर्द्दश स्वरोपेतं नादविन्दु विभूषितम् || १ || क्षकारं वह्निसंयुक्तं वामनेत्र विभूषितम् | शोधयेद्दशधा जप्त्वा स्वयम्भू कुसुमं प्रिय || २ || मन्त्रस्तु ह्री/ रौ/ क्ष्री/ | वाग्भवं बीजमुच्चार्य कामबीजं ततः परम् | तदन्ते वह्निबीजन्तु शुद्धं कुण्डोद्भवं प्रिय || ३ || मन्त्रसु ऐ/ क्ली/ र/ | मायाबीजत्रयञ्चोक्त्वा शोधयेत् गोलकं प्रिय || ४ || मन्त्रस्तु ह्री/ ह्री/ ह्री/ | कामबीजत्रयं मायां समुच्चार्य महेश्वर | सर्वकालोद्भवं द्रव्यं शोधयेत् बहुयत्नतः || ५ || मन्त्रस्तु क्ली/ क्ली/ क्ली/ ह्री/ | वधूबीजं कामबीजं समुच्चार्य द्वयं द्वयम् | गोपीचन्दनमीशान शोधयेत् बहुयत्नतः || ६ || मन्त्रस्तु स्त्री/ स्त्री/ क्ली/ क्ली/ | मूलेन शोधयेद्देव ! स्वपुष्पं वज्रपुष्पकम् | पूजयेत्तु कुलेशानीं कुलाचारेण साधकः || ७ || अन्यत् सर्व शक्तिजातं मूलेन मनुना प्रिय [घ्, ज्: शिव] | शोधयेत् पूजयेद्देवीं यत्र तत्रैव कल्पनम् [ख्: सिद्धये] || ८ || प्. १९६) भग क्षालित तोयेन लिङ्ग क्षालित वारिणा | मूत्रोदकेन शुक्रेण यजेदावरणं यतः || ९ || भग लिङ्ग क्षालितञ्च शोधयेत् कार्यय सिद्धये | काम [क्, ग्, च्: रमा] बीजं वधूबीजं शब्दबीजं तथाहि फट् || १० || मन्त्रस्तु क्ली/ स्त्री/ हु/ फट् | मूत्रस्य शोधनं मन्त्रं शृणुष्व प्राण वल्लभ ! | शब्द बीजं फडन्तञ्च वह्नि जाया ततः परम् | नमोऽन्तोयं महादेव मूत्र शुद्धिर्विधीयते || ११ || मन्त्रस्तु हु/ फट् स्वाहा नमः | शुक्रस्य शोधन देव इष्ट मन्त्रेण [घ्, ज्: वौषडन्तेन] मायया || १२ || मन्त्रस्तु इष्टमन्त्रः ह्री/ च | (इति घ्: पुस्तके अधिकः पाठः) शुक्रद्वयं शोधितं स्यात् मायया पुटितं वषट् | शब्द बीजन्तु तस्यान्ते फडन्त मन्त्रमीरितम् || १३ || मन्त्रस्तु - ह्री/ वषट् ह्री/ हु/ फट् | एवं क्रमे महादेव शुद्धं कुर्यात् पृथक् पृथक् | भूमौ त्रिकोणमालिख्य वामेनैवार्घ्य वारिणा [घ्, ज्: बिन्दुना] || १४ || शुद्ध तोयेन संप्रोक्ष्य कारणेनाथवा सकृत् | मूलमन्त्रं समुच्चार्य पञ्च मुद्रां प्रदर्शयेत् | सामान्य शुद्धं तद्द्रव्यं विशेषं मन्त्र भाषितम् || १५ || अथ पञ्च मुद्रा प्रमाणम् | कुब्जिका तन्त्रे - धेनुमुद्रा तत्स्यमुद्रा भूतिन्याकर्षिणी तथा | योनिमुद्रेति परमा पञ्च मुद्राः प्रकीर्तिताः || १६ || प्. १९७) धेनुमुद्रामृतं द्रव्यं मत्स्येन वारिपूरितम् | भूतिनी पञ्चभूतञ्च मिलनाकर्षमुद्रया | योनिमुद्रा सृष्टि बीजं ज्ञात्वा [ज्: जप्त्वा] द्रव्यं हि शोधयेत् || १७ || अथ पञ्च तत्त्वेन पूजयेत् | पञ्चतत्व प्रकारं दक्षिणाचारे प्रोक्तम् || इदानीं संक्षेपेणोक्तम्,- हंसमाहेश्वरे - मांसं मत्स्यं तथा मुद्रा मद्यं मैथुनकं शिवे | पञ्चतत्त्वमिदं प्रोक्तं पञ्चतत्त्वोद्भवं ध्रुवम् || १८ || पञ्चतत्त्वोद्भवं तत्त्वम् [घ्: द्रव्यम्] एकदा मिलन यदा | तदा तत्त्वं भवेत् सिद्धिः पुनस्तत्त्वस्य तत्त्वकम् [ग्: पञ्चतत्त्वमयं शुभम्] || १९ || क्षित्यंशेन भवेन्मांसं तोयांशेनापि मीनकम् | तेजोऽंशेन भवेन्मुद्रा वायवंशेनापि कारणम् || २० || शून्यांशे मैथुनं प्रोक्तं पञ्चतत्त्वमयं शुभम् | क्षित्यंशं शुष्करूपं हि तोयांशेनापि चार्द्रयेत् || २१ || पुनश्च शोषयेद्देवि [घ्: शोधयेत्] मुद्रांशेनापि तज्जलम् | वायवंशेनापि तन्मुद्रां नानारूपधरां पराम् || २२ || मैथुनांशेन देवेशि सर्वमात्रं प्रकाशितम् | अथवा पञ्चतत्वेन पञ्चमेन यजेत् शिवाम् || २३ || केवलं पञ्चमेनापि वीरभावेन पूजयेत् | शक्त्याज्ञयापि शाक्तः स्यात् शक्ति ज्ञानेन कुत्रचित् || २४ || प्. १९८) पञ्चतत्वे पञ्चमे वा चार्च्चनं हि तदाज्ञया | स्वदेहे चिन्तयेत् शक्तिं स्वदेहे रमणं शिवे | पञ्चतत्त्वेन संपूज्य स्वदेहं शक्तिसंयुतम् || २५ || इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे ऊनपञ्चाशदुल्लासः || ० || पञ्चाशत्तमोल्लासः | अथ पूजयेत् कुलयोषिताम् | अथ कुलयोषितां लक्षणम् | कुलार्णवे श्रीदेव्युवाच - देवेश प्राण नाथेश पञ्चतत्त्व प्रदायक | श्रोतुमिच्छामि प्राणेश लक्षणं कुलयोषिताम् || १ || श्रीशिव उवाच - मद्य पान रता या स्त्री कुलस्त्री सैव शङ्करि | मद्यपानेऽप्यशक्ता या कुलभ्रष्टा सनातनि || २ || कुल स्थानं पालयित्वा केवलं निर्जने ददेत् | विपरीतं [घ्, ज्: -त] कुलद्रव्ये विज्ञेया कुलयोषिताम् || ३ || मद्यादि भोजनं कृत्वा कुलं ज्ञात्वा कुलं न्यसेत् | सा नारी परमेशानि विज्ञेया कुलयोषिता || ४ | प्. १९९) कुलद्रव्ये कुलं दत्त्वा कुलञ्च सेवयेत्तु या | सा नारी परमेशानि विज्ञेया कुलयोषिता || ५ || कुलद्रव्यं समानीय सेवयेत्तु कुले यदि | सा नारी परमेशानि विज्ञेया कुल योषिता || ६ || स्वकुलीनस्य सेवार्थं परकीयं यजेद् यदि | सा नारी परमेशानि विज्ञेया कुलयोषिता || ७ || तन्त्रान्तरे - स्वकुलञ्च विना देवि स्वकुलं न प्रकाशितम् | विभिन्ने [च्: विस्तीर्णे] कुल दातव्यं स्वकुलानन्द हेतवे || ८ || सा नारी परमेशानि विज्ञेया कुलयोषिता | नारीमात्रेषु विज्ञेया देवेषु कुलयोषिता || ९ || तासां मध्ये विशिष्टा या तव स्थाने प्रकाशिता | तस्यार्च्चने महानन्दं जीवनं तस्य दुर्ल्लभम् | अत एव महावीरस्तदन्यां नैव लङ्घयेत् || १० || निगमतत्वे कुल लक्षणम् | श्रीशिव उवाच - मातर्दुर्गे महाभागे नमामि चरणाम्बुजे | कुलं किञ्च महादेवि मम स्थाने प्रकाशय || ११ || श्रीमहादेव्युवाच - कुलस्त्री परमेशान कुलानन्देषु मोहिता | कुलागारे कुलद्रव्यं दातव्यं काङ्क्षिता सदा [ज्: कुलयोषिताम्] || १२ || प्. २००) रागयुक्ता कामयुक्ता कामार्ता कामदायिका | परपुष्पाकृति स्थानं कुलागारं [ज्: -रे] प्रकाशितम् || १३ || कुलञ्च वारुणं बीजं कुण्डं चान्द्रं [घ्, ज्: चन्द्रं] महेश्वर | तत्रैशानं नीयमानं [ख्, ज्: लीयमानं] सर्वं हि पश्चिमाननम् || १४ || समयाचार तन्त्रे - वारुणं चान्द्रमध्यस्थं सर्वदेवालयं शिवे | रन्ध्रं शिवं लौलितं [च्: लौहितं] मुक्तिं तद्ध्यान संयुतम् || १५ || कुल स्थानमिदं ज्ञेयं सृष्टि स्थित्यन्त कारकम् [घ्, ज्: -णं] | यथा क्रिया तथा ज्ञानं [क्, ग्, घ्, च्: ज्ञेयो] यथा ज्ञानमिदं तथा [ज्: यथा ज्ञानं ज्ञेयं तथा] || १६ || समयाचारतन्त्रे - योनिमध्ये स्थितं शून्यं शून्यमध्ये निरञ्जनम् | कुलस्थानमिदं ज्ञेयं सर्वबीजस्य बीजकम् || १७ || श्रीदेव्युवाच - कुलस्थानं वारुणञ्च त्वयोक्तं परमेश्वर | शम्भु मध्यं चन्द्रबीजं नारीदेहस्य बीजकम् | तद्बीजं किं महेशानि तद्भिन्नं नारी वा कथम् || १८ || श्रीशिव उवाच - वारुणं चन्द्रबीजान्तं परस्पर युतं [ज्: परपुष्प-] शिवे | कुलस्थानं विना शक्तिज्ञानमात्रं न जायते || १९ || प्. २०१) पान युक्ता काम मत्ता सर्वदानन्द संयुता | नितम्ब जघन स्फीता परपुष्प भग प्रभा || २० || कुलस्त्री [च्: अपुष्पा] चोत्तमा ज्ञेया मध्यमा पुष्पदर्शिता | हीनाऽपि परमेशानि पुष्पं मध्येषु गोपितम् [ग्: मध्येषु गोपिता; ग्: मध्ये सुगोपितम्] || २१ || उत्तमे पूजिते यन्त्रे मुक्तिभाग् जायते नरः | मध्यमे पूजिते भक्तिर्हीनेऽपि कार्य साधनम् || २२ || पुष्प ज्ञानं विना देवि शक्ति ज्ञानं न जायते | पराजिता पुष्प रूपा कुलागारञ्च मध्यगम् [ज्: मध्यमम्] || २३ || शक्ति ज्ञानं सर्वबीजं तस्य बीजं न विद्यते | अण्ड जातं स्वेदजातं बीज जातं त्रिधा शिवे || २४ || शुक्र शोणित सम्भूतं मानुषं परिकीर्तितम् | लिङ्गमध्ये स्थितं शुक्रं योनिमध्ये च शोणितम् || २५ || सृष्टि बीजमिदं ज्ञेयं तस्येदं बीज मात्रकम् [ज्: अनयोश्च परस्परम्] | तस्य बीजं न विद्येत गदितुं नैव शक्यते || २६ || वायवाधिक्ये डिम्बजातं तोयाधिक्येऽपि स्वेदजम् | तेजाधिक्ये बीज जातं क्षित्याधिक्येऽपि मानुषम् || २७ || शुक्र शोणित सम्भूतं देहमात्रं महेश्वरि | नरान्य सूक्ष्म भागाक्तं अण्डजादि [घ्, ज्: अण्डजाति-] प्रभेदकम् || २८ || कुल स्थानस्य माहात्म्यं गदितुं नैव शक्यते | योन्यारूढान्महेशानि किं न सिध्यति भूतले | क्रियायोगो ध्यान योगो भक्ति योगो भविष्यति || २९ || प्. २०२) वृहद्योनितन्त्रे - अथ कुलस्य देवमय कथनम् | त्रिकोणे च [घ्, ज्: त्रिकोणेषु] महेश्वराः | त्रिकोणाकार रूपा सा सर्वदेवालया प्रिये [घ्: शिवे] || ३० || पार्श्वयोः कालिका तारा चोर्द्धे भुवनसुन्दरी | त्रिपुरेशी योनिमध्ये मूले वसति भैरवी || ३१ || छिन्नमस्ता योनिगर्ते धूमा प्रान्ते विनिर्गता | रोम कूपे महाकाली मातङ्गी मेखलासु च || ३२ || योनिक्षेत्रे च कमला कामाख्या योनिदेवता | बिन्दुपुष्पतरोर्मूले कुण्डली ब्रह्मविग्रहा || ३३ || बिन्दु पुष्पं स्वयं रुद्रः प्रकृतिः पुष्परूपिणी | पीठं काम स्वरूपञ्च द्विविधं परमेश्वरि || ३४ || व्यक्ताव्यक्त स्वरूपं हि व्यक्ताद्गुह्यं महाफलम् | प्रणवाकार रूपेण योन्याकारं विचिन्तयेत् || ३५ || नारायणीतन्त्रे | श्रीदेव्युवाच - व्यक्तायाश्चैव गुप्ताया लक्षणं किं प्रकाशय || ३६ || श्रीशिव उवाच - नारीदेहे स्थिता व्यक्ता पुंदेहे [घ्, ज्: स्व-] सूक्ष्मसंस्थिता | व्यक्तस्य पूजनाद्देवि लक्ष पीठ फलं लभेत् | गुप्तार्च्चनेऽपि मुक्तिः स्याद् भक्ति भाव युतो यदि || ३७ || प्. २०३) वृहद्योनि तन्त्रे - एतत् प्रपूजनाद्देवि लक्ष पीठ फलं लभेत् | दर्शनात् लक्ष पीठानां फलं यद्वरवर्णिनि || ३८ || तत् फलं लभते भक्त्या योनि पीठस्य दर्शनात् | स्पर्शनात् सर्व पीठानां फलमाप्नोति साधकः || ३९ || यानि यानि च तीर्थानि त्रिषु लोकेषु सुन्दरि | तिष्ठन्ति तानि तीर्थानि योनि पीठेषु सुन्दरि || ४० || योनि दक्षिण पार्श्वेषु यमुना प्रवहेत् सदा | सरस्वती मध्यभागे वामेषु जाह्नवी परा || ४१ || पुष्प स्थाने बिन्दुरूपं तीर्थं गर्तेषु पुष्करम् | क्षेत्रे तीर्थानि तिष्ठन्ति सर्वाणि [ज्: चान्यानि] परमेश्वरि || ४२ || समयाचारतन्त्रे | श्रीदेव्युवाच - तत् प्रसादान्महादेव ज्ञातव्या कुलयोषिता | अधुना श्रोतुमिच्छामि लक्षणं कुल योषिताम् || ४३ || श्रीशिव उवाच - यल्लक्षणान्विता ज्ञेया नारी च [ज्: या नारी] कुल योषिता | तल्लक्षणान्वितो ज्ञेयः साधकः कुल योषितः || ४४ || नारीदेहे स्थूल रूपं पुंदेहे सूक्ष्म रूपकम् | ज्ञानिनां ज्ञानरूपेदं कुलस्य लक्षणं शिवे || ४५ || तन्त्रान्तरे - पुंकुलं नारीदेहेषु नीर्यापि पुरुषे कुलम् | स्थूलरूपं सूक्ष्मरूपमन्यान्यं ज्ञापितं प्रिये [घ्: शिवे] || ४६ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे पञ्चाशदुल्लासः || ० || एकपञ्चाशत्तमोल्लासः | अथ मैथुन लक्षणम् | निगम कल्पद्रुमे श्रीमहादेव उवाच - रतिः केन प्रकर्तव्या [घ्: केनैव कर्तव्या] रतिर्वा कीदृशी शुभा | तव प्रीतिकरी देवि चोच्यतां भव बन्धनात् || १ || देवि सर्व जगन्मातः कौलिकानां परायणि | योनि तत्त्वं विना नैव कुल धर्म [क्: धन] परायणः || २ || मया यद् यत् कृतं कर्म तव योनि प्रसादतः | (ज्: पुस्तके अधिक पाठो दृश्यते नान्यत्र) तदेव च महादेवि विस्मृतं साधनं महत् | विस्मृतं पुनरुच्येत शपथं मे पुनः पुनः || ३ || श्रीदेव्युवाच - उन्मत्तं [ज्: उत्तमं] दुष्ट चित्तात्मा विस्मृतं साधनं महत् | न वक्तव्यं पुनर्ह्येतत् शपथं मे पुनः पुनः || ४ || गोपनीयं गोपनीयं गोपनीयं पुनः पुनः | रति सन्तोष तुष्ट्यर्थं [क्, ग्: तुष्टार्थं] पुनर्ह्येतत् प्रकाशितम् || ५ || योन्यन्तरे त्रिधा नाडी वारुणी रक्तिका तथा | शुक्रिया [च्: शुचिका] चेति कल्याणि सर्व देश रमोज्ज्वला [घ्: रजोज्ज्वला; ज्: रजस्वला] || ६ || प्. २०५) वारुण्याः [घ्: वारुणी] क्षरते तोयं रक्तिका रुधिरं तथा | शुक्रिका शुक्र [ज्: रेत] जननी तस्यां पूजा महाफला || ७ || मध्यभागे शुक्रिणी स्यात् दक्षे सव्ये रजोज्ज्वलाम् [ज्: वामे रजस्वला] | ध्यात्वा कुर्यात् सदा सङ्गं शुक्रे बीज प्रपातनम् || ८ || तद्द्रव्यं कुंकुमैर्युक्तं [घ्, ज्: चन्दनै] सिन्दूरेणाथवा पुनः | केवलं वापि पुष्पेण शोधितं तन्निवेदयेत् || ९ || तन्त्रान्तरे - रक्तेन सहितं शुक्रं यदि स्यात् परमेश्वरि | तदा शुक्रेण दातव्यं चानुकल्पं कुलेश्वरि || १० || अथानुकल्पं रक्तस्य शृणुष्व प्राणवल्लभे | प्रत्यक्षस्यापि योग्यत्वं चानुकल्पेषु संस्थितम् || ११ || गौतमीये - रक्तानुकल्पं रक्ताक्तं श्वेतं शुक्रानुकल्पनम् [क्, ग्: कल्पकम्] | स्वस्ववर्णयुतं द्रव्यं तद् द्रव्यस्यानुकल्पनम् || १२ || पुष्पोद्भवेषु पुष्पेषु पुष्पात् पुष्पं नियोजयेत् | देवतार्थेऽपि वीरस्य आत्मार्थेऽज्ञानिनः [घ्: ज्ञानिनः] क्वचित् || १३ || गङ्गा च यमुनाचैव मध्यभागे सरस्वती | ध्यात्वा यजेन्महेशानि मध्ये [ज्: सव्ये] शुक्र प्रपातनम् || १४ || प्. २०६) अथास्य भावः | वामा भूत्वा यजेत् पराम् | स्वदेहे वामाज्ञानम् | गुप्तसाधन तन्त्रे - देवी बुद्धमिदं [ज्: बुध्या] सर्वं सर्व देहस्य बीजकम् | वृक्षस्यापि यथा भूमेर्वलं [क्: -वनं] देवि [क्: देवी; ज्: शक्तिः] तथा प्रिये || १५ || शक्तियुक्तो भवेत् सृष्टिः शक्तिः स्यात् सृष्टिसंयुता | परस्परं भवेद्बीजं वायुराकाशयोर्यथा || १६ || सृष्टिरूपं महादेवं बीजं शक्ति स्वरूपकम् | बीजरूपं महादेवं सृष्टिशक्ति [क्, ग्: सृष्टिं-] स्वरूपकम् || १७ || बीजरूपा महादेवी सृष्टिरूपो महेश्वरः | प्रादुर्भावं तिरोभावं परस्पर विवक्षितम् || १८ || पञ्चभूतमये देहे स्थूलरूपे महेश्वरे | शक्तिस्तत्र महादेवि सूक्ष्मरूपेण भाषिता || १९ || पञ्चभूतमयं देहं केवलं शक्तिरूपकम् | पञ्चधाप्येकधा [क्, ग्: एकदा] यत्र नानारूपवती शिवा || २० || कुब्जिका तन्त्रे - नानारूपवती शक्तिः पुरुषस्येक रूपकः | यथा नानापि मुकुरे नानात्वं [ज्: मुकुले दर्शने] प्रतिबिम्बकम् || २१ || शिवोऽपि शक्तिरूपश्चेत् [क्: शक्तियुक्तः स्यात्] शक्तिः स्यात् शिवयोगतः | अविनाभाव सम्बन्धं द्वयोरेव परस्परम् || २२ || प्. २०७) शिव शक्तिद्वयं तत्त्वं तत्त्वं ज्ञानस्य कारणम् | शिवेन शक्तिर्विज्ञेया [क्: शक्तिं विज्ञेयां] ज्ञेयं शक्त्याक्तशङ्करम् [ज्: शक्त्यातु शङ्करः] || २३ || पुरुषः प्रकृतौ [क्: प्रकृति] युक्तः सर्व कार्य प्रकाशवान् | शक्तिश्च पुरुषेष्वाक्ता [ज्: पुरुषेण] यदा सर्व प्रकाशिनी || २४ || शक्ति ज्ञानं विना देवि शिवज्ञानं न चेत् क्वचित् | शिव ज्ञानं विना किञ्चित् [क्: कश्चित्] शक्तिज्ञानं न जायते || २५ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे एकपञ्चाशदुल्लासः || ० || द्वापञ्चाशत्तमोल्लासः | अथ शक्ति ज्ञानम् | कुलचूडामणौ - स्थूलज्ञानं विना देवि सूक्ष्म ज्ञानं न चेत् क्वचित् [ज्: न जायते] | अतश्च बहुजन्मान्ते शक्ति ज्ञानं प्रजायते || १ || शक्तिज्ञानं विना देवि मुक्तिर्हास्याय कल्पते [क्: कल्प्यते] | सा शक्तिर्वामा विज्ञेया पुरुषस्यापि मुक्तिदा || २ || शक्ति ज्ञानं द्विधारूपं गुप्ता व्यक्ता कुलेश्वरि | गुप्ताशक्तिस्तु देहस्था [ज्: शक्तिः स्वदेहस्था] व्यक्ता रमण दायिनी || ३ || प्. २०८) व्यक्ता ज्ञानं विना भद्रे गुप्ता ज्ञानं न जायते | व्यक्ता रमण तुष्टा चेत् गुप्ता रमण तुष्टिता || ४ || अथ गुप्ताशक्ति लक्षणम् | शाक्तक्रम चन्द्रिकायाम् [घ्, ज्: -चन्द्रिकायाम्] - शक्तिर्ब्रह्मा [क्, ख्, घ्, च्: ब्रह्म] शिवः शक्तिः शक्तिर्विष्णुश्च वासवः | अन्येच वहवो देवाः शक्ति मूलाः प्रकीर्तिताः | अतस्तेभ्यः प्रधानं हि शक्तिं विद्धि महामते || ५ || ज्ञानद्वीपे - यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता | सैव सर्वेश्वरी देवि [क्: देवी] स च सर्वो महेश्वरः || ६ || भाव चूडामणौ - स्थूलेन्द्रिय महादेव [क्, ख्, च्: -देवं] स्तस्याधिष्ठात्री चण्डिका | कार्याकार्यं महेशानि तस्या एव न संशयः || ७ || शरीरमिन्द्रियार्थं [ज्: इन्द्रियाक्तं] हि चेन्द्रियं शक्ति संयुतम् | कार्याकार्यं भवेत् शक्तेर्निर्लिप्तः [ज्: यस्या-] पुरुषः शिवे || ८ || इच्छाशक्तेर्भवेदिच्छा ज्ञान शक्तेस्तु ज्ञानवान् | क्रिया शक्तेर्भवेत् कार्यं प्राणिनां सर्वसाधने || ९ || रमणं शक्तिसंयुक्तं जडं ज्ञेयं सदाशिवम् | अथवापि शिवं ज्ञेयं देहिनं शक्ति बीजकम् || १० || देहं शरीरं विज्ञेयं देहीति शिव कीर्तितम् | वामाज्ञानं महेशानि स्थूल सूक्ष्म प्रमाणकम् || ११ || प्. २०९) अथ व्यक्ताशक्ति लक्षणम् | निगमकल्पद्रुमे श्रीदेव्युवाच - स्त्रियो देवाः स्त्रियः प्राणाः स्त्रियश्चैव विभूषणाः [ज्: -णम्] | स्त्रीसङ्गिना सदा भाव्याम [ज्: भाव्यम] भावे स्वस्त्रियामपि || १२ || श्रीमहादेव उवाच - स्त्रीरूपं ब्रह्मरूपञ्च त्वयोक्तं वरवर्णिनि | अभावे स्वस्त्रियं देवि कथमुक्तं सदाशिवे || १३ || श्रीदेव्युच - ब्रह्म दत्ता रुद्र दत्ता द्विविधा स्त्रीर्महेश्वर | ब्रह्म दत्ताग्निना हुत्वा शिव दत्ता तु कामतः || १४ || शिव कार्ये शिवा योज्या परा योज्यान्यकर्मणि | सन्देहो नैव कर्तव्यो मम वाक्यानुसारतः || १५ || निगमानन्दे - वामाभावे महेशानि [घ्: -न] स्ववामां तोषयेन्मुदा | स्ववामा तोषणार्थेऽपि पर वामाञ्च तोषयेत् || १६ || परवामात्मनः तुल्यं स्वात्मानं चिन्तयेन्मुदा [ज्: चिन्तनं-] | तोषयेद् रमयेत् शक्ति [ज्: शाक्तः] तस्या वाक्येन [घ्, ज्: वाक्यानु] मानतः | तोषयेत् परमेशानि [घ्: -न] वीरभाव समाश्रितः || १८ || प्. २१०) अथ वामा पूजा लक्षणम् | गुप्तसाधन तन्त्रे - स्वदेहं नारी देहञ्च स्वकार्यं रमणीयुतम् | रमणं शक्तिसंयुक्तं स्वदेहेषु विशेषकम् || १९ || रमणेन महेशानि वामापूजां प्रकल्पयेत् | स्वशक्ति रमणार्थेऽपि परशक्तिं रमेत् शिवे || २० || रमणं शक्तिभिः सार्द्धं स्वदेहे परदेहके | स्वशक्तिं परशक्तिं वा चैकां ज्ञात्वा रमेत् शिवाम् || २१ || ज्ञानार्णवे - रमणेन वरारोहे यादृक् मुखं भवेद् ध्रुवम् | तादृक् सुखं शरीरस्य कदाचिन्नैव जायते || २२ || रमणेन वरारोहे रमादेवीं प्रपूजयेत् | रमा पूजनमात्रेण रमा तस्य करे स्थिता || २३ || रमणेन भवेत् स्वर्गो दुःख मुक्तिर्महेश्वरि | अत एव कुलाचारी मुखेन भक्तिभाग् भवेत् || २४ || निषेधश्च विधिश्चैव वामाचारे [ज्: स्वेच्छाचारे] न चेत् क्वचित् | स्वेच्छाचारे योनि गर्ते लिङ्गं दद्यात् तदाज्ञया || २५ || निषेधश्च विधिश्चैव स्वेच्छाचारे न पार्वति | मैथुनं चेत् शक्ति युक्तं केवलं शक्तेराज्ञया || २६ || पुरुषस्यैव नियमो [ज्: पुरुषो नियमश्चैव] न योषित्सु कथञ्चन | अभिषेकस्य [क्, ग्: अभिषेकाद्य] भावेन चाधिकारी न संशयः || २७ || प्. २११) स्वदेहे रमयेत् शक्तिं नान्यथा च कथञ्चन | स्वगेहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः || २८ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वापञ्चाशदुल्लासः || ० || त्रिपञ्चाशत्तमोल्लासः | अथ सिद्धान्ताचारः | समयाचारतन्त्रे - आत्मानं देवतां मत्वा [घ्: ध्यात्वा] यजेद्देवं विधानतः | सदानन्दः सदा शान्तः सिद्धान्ताचार उच्यते || १ || (अत्र आत्मानं देवतां मत्वेति श्लोकस्य व्याख्यानं बोध्यम्) (आत्मान्तं देवतां मत्वा ज्ञात्वा, एवं विधानतो यो यजेत्, स सिद्धान्त चारः, पुनः कथम्भूतः, सदानन्दः सदा शान्तः |) अथास्य [क्: अथ सिद्धान्ताचारस्य] सिद्धान्ताचारस्य भावः | शाक्तक्रम - चन्द्रिकायाम् [तन्द्रि-] - मन्यन्ते ये स्वात्मानं [क्, ग्: जनात्मानं] विभिन्नं [च्: विभिन्ने] परमेश्वरात् | न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः || २ || प्. २१२) गौतमीये - आत्मानं देवतां मत्वाप्यात्मानं तोषयेद्यदि | सिद्धान्ताचारो [क्: -चारविज्ञेयं] विज्ञेयस्तस्य जीवः शिवो भवेत् || ३ || तथा च कुलार्णवे - घृणा लज्जा भयं शोकं जुगुप्सा चेति पञ्चमी [च्: -मम्] | कुलं शीलं तथा जातिश्चाष्टौ पाशाः प्रकीर्तिताः || ४ || पाशवद्धः सदा जीवः पाशमुक्तः सदाशिवः | एवं ज्ञात्वा महेशानि चात्मानं तोषयेद् यदि | स जीवः परमेशानि शिव एव न संशयः || ५ || गुप्तसाधन - तन्त्रे - आत्मानं तोषयेद्देवीं [क्, ख्, ग्, घ्: आत्मातोषणमात्रेण] तुष्यन्ति सर्वदेवताः | अत एव कुलाचारी आत्मानं तोषयेन्मुदा || ६ || कुलार्णवे - यत्रास्ति भोगो न च तत्र मोक्षो, यत्रास्ति मोक्षो न च तत्र भोगः | शिवा पदाम्भोज युगार्च्चकानाम्, भोगश्च मोक्षश्च करस्थ एव || ७ || वैष्णवानाञ्च शाक्तानां शैवादीनां महेश्वरि | आत्मानं देवतां मत्वा तोषयेद्रमणादिना || ८ || आत्मस्थां [ज्: आत्मानं] देवतां त्यक्त्वा वहिर्देवं विचिन्तयेत् | करस्थं कौस्तुभं त्यक्त्वा भ्रमते काच तृष्णया || ९ || प्. २१३) पञ्चतत्वेन देवेशि स्वेच्छाचारेण वा पुनः | जीवं देव [घ्, ज्: ब्रह्म] मयं ज्ञात्वा तोषयेद् भोजनादिषु || १० || हंसमाहेश्वरे - यानि यानि च तीर्थानि ये ये देवा महेश्वरि | शरीरं ज्ञापितं सर्वं जीवरूपं सनातनि [क्, ख्, ग्, च्: -नम्] || ११ || भावचूडामणौ - शरीर [क्: -रं] व्यापितं रक्तं जीवो [क्: जीव ज्ञेयं] ज्ञेयो महेश्वरि | मृतदेहे वरारोहे रुधिरं नैव तिष्ठति | सुखदुःखादयः सर्वे जीवस्यापि महेश्वरि || १२ || ज्ञानद्वीपे - एकैव हि महामाया नाम भेदेन संस्थिता | विमोहनाय लोकानां तस्मात् सम मना भवेत् || १३ || देवी विष्णु शिवादीनामेकत्वं परिचिन्तयेत् | भेद भाव [क्: -भावो] मनो यस्य तस्य मोक्षो न जायते || १४ || कुलरहस्ये - अथा दुर्गा तथाविष्णुर्यथा विष्णुस्तथा शिवः | नानाभाव मनो यस्य तस्य मोक्षो न जायते | सर्वं देहमयं [ज्: देव] ज्ञात्वा देहं [ज्: अयं] शिवे || १५ || प्. २१४) देह ज्ञानं विना देवि जीव ज्ञानं न चेत् क्वचित् | जीव ज्ञानं विना देवि शिव ज्ञानं न चेत् क्वचित् || १६ || शिव ज्ञानं विना जीवः शिवोऽभूच्च न चेत् क्वचित् | आत्मब्रह्मेति संज्ञात्वा देवब्रह्मेति भावयेत् || १७ || देवतात्माऽभिन्नो यस्तस्य जीवः शिवो भवेत् | शरीरं व्यापितं यद्यत् जीवं [ज्: शिवं] ज्ञेयं कुलेश्वरि || १८ || इति स्थिरतरं यस्य तस्य जीवः शिवो भवेत् | आदौ देहं ततो जीवं ततो देवं [क्: देहं] विचिन्तयेत् | ततो देवमयं जीवं देहं जीवमयं स्मरेत् || १९ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे त्रिपञ्चाशदुल्लासः || ० || चतुःपञ्चाशत्तमोल्लासः | अथ मैथुनानन्द लक्षणम् | निगम तत्त्वसारे श्रीशिव उवाच - मद्यानन्दं महादेवि बहुधापि प्रकाशितम् | इदानीं श्रोतुमिच्छामि मैथुनानन्द लक्षणम् || १ || श्रीदेव्युवाच - मैथुनानन्द कथने शङ्काऽभूत् मम मानसे | नियोज्य नन्दिनं द्वारे निर्गच्छ [क्: निर्गत्य] रति मन्दिरम् || २ || प्. २१५) तव स्नेहात् प्रवक्तव्यं साधनं परमं महत् | यत् कृत्वा साधक श्रेष्ठः शिवोऽभूत् परमेश्वर || ३ || मैथुनेन विना देव मद्यपानं हि दुःखदम् | मद्यपानं विना देव मैथुनं पापदायकम् || ४ || पानान्ते मैथुनं भद्रं मैथुनान्तेऽपि कारणम् [क्: पानकम्] | पानं मैथुन संयुक्तं जीवस्य मुक्ति दायकम् || ५ || पूर्णानन्दे महादेव मैथुनं नैव जायते | इन्द्रियाकलितं सर्वं रूप मानादिवर्जितम् || ६ || अत एव कुलज्ञानी मद्य पानं यथासुखम् | आनन्दं द्विविधं प्रोक्तं खण्डं पूर्णं कुलेश्वर || ७ || खण्डानन्दि [क्: -नन्दी] क्रियामार्गी योनि लिङ्गस्य दर्शनात् [क्: घर्षणात्] | अतिपानं न कर्त्तव्यमतिपात्रं न दापयेत् || ८ || ज्ञानार्णवे - आनन्दे जनिते देवि बहु पात्रं ददेद्यदि | दीयमाने क्रिया लुप्ते क्रुद्धा भवति कामिनी || ९ || निगम तत्त्वे - शक्तिरूपा महामाया सर्व गेहेषु संस्थिता | यदानन्दयुता नारी तदा मच्छरीरं शिव || १० || देहं जीवं तथा प्राणं मनो बुद्धिञ्च भोजनम् | करोम्यहं गानपानं स्वयं देवीस्वरूपिणी || ११ || सानन्द ज्ञान मात्रेण हृत्पद्मेऽहं प्रकाशिता | प्रकाशेऽपि स्वयं देवी साक्षाद्भवति साधकः || १२ || प्. २१६) साधकस्त्वं महादेव साध्याहं नात्र संशयः | आनन्दं [ज्: आनन्दे] साधकं दृष्ट्वा तथा साध्याञ्च शङ्करीम् || १३ || दर्शनाच्च भवेन्मुक्तिः सालोक्यं परमेश्वर | स्वकान्तां परकान्तां वा सालोक्यं दर्शने शिवे || १४ || सालोक्यं चैव सारूप्यं सायुज्यं परमेश्वरि | निर्वाणञ्च यदानन्दं [ज्: दया-] मम स्थाने प्रकाशय || १५ || अथ चतुर्विध मुक्त्यानन्द कथनम् | श्रीदेव्युवाच - कान्तायाः षोडशे वर्षे दर्शनात् [क्: दर्शने] यत् सुखं प्रिय | तत् सुखं सर्वदा देव सालोक्ये [ज्: सालोक्यं] नात्र संशयः || १६ || कान्तायाः षोडशे वर्षे स्पर्शने यत् सुखं प्रिय | तत्सुखं सर्वदा देव सारूप्ये नात्र संशयः || १७ || कान्तायाः षोडशे वर्षे सङ्गमे यत् सुख प्रिय | तत्सुखं सर्वदा देव सायुज्ये [ज्: सायुज्य] नात्र संशयः || १८ || शुक्रोत्सारण काले तु यत्सुखं प्रिय तत्सुखम् | जायते सर्वदा देव निर्वाणे नात्र संशयः || १९ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे चतुःपञ्चाशदुल्लासः || ० || पञ्चपञ्चाशत्तमोल्लासः | अथ पूर्णानन्दस्य माहात्म्यम् | निगमतत्त्वसारे श्रीशिव उवाच - मातर्दुर्गे महाभागे ममैव प्राण वल्लभे | पूर्णानन्दस्य माहात्म्यं मम स्थाने प्रकाशय || १ || श्रीदेव्युवाच - देही ब्रह्ममयं ज्ञात्वा [क्, ग्, च्: ब्रह्मेति संज्ञात्वा] सर्वं ब्रह्मेति भावयेत् | जन्ममृत्युमयं [क्, ग्, च्: -भयं] घोरं कदाचिन्नैव पश्यति || २ || देही देहे स्थिते देव पूर्णानन्द न जायते | भावातीतं यदा ज्ञानं पूर्णानन्दं तदा भवेत् || ३ || भावातीतमयं भावं भावं भावातीतमयम् [च्: भावातीतमय शिव] | पूर्णानन्दं तदा ज्ञेयं गान पानेषु [क्, ग्, च्: गाने पानेषु] जायते || ४ || गानेन [क्, ग्, घ्, च्: ज्ञानेन] जायते पानं पानाच्च गायनं शिव | आनन्दस्य क्रमं कुत्र निश्चितं केन वर्त्मना || ५ || किं वा कार्यमकार्यं किं वर्णितुं नैव शक्यते | भावातीतमयं वाक्यं भावातीतमयं स्तवम् || ६ || भावातीतमयं ज्ञानं भावातीतं हि मैथुनम् | भावातीतमयं पानं भावातीतं हि गायनम् | भावातीतमयं ध्यानं भावातीतमयी [क्, ग्, घ्, च्: भावातीतमया] क्रिया || ७ || प्. २१८) गुप्तसाधन तन्त्रे श्रीशिव उवाच - क्वचित् पानं क्वचिद्गानं क्वचिच्चर्वणमाचरेत् | क्वचिद् ध्यानं जपादिञ्च क्वचिन्मैथुनमाचरेत् || ८ || पानान्ते चर्वणं देवि चर्वणान्ते पिवेन्मधु | मांसं मुद्रां मीनयुक्तं [ज्: -युक्तां] पानमानन्द सम्मतम् [ज्: संयुताम्] || ९ || चर्व्यं चोष्यं तथा लेह्यं पेयञ्च परमेश्वरि | मुखे यद् यत् प्रदातव्यं भोजनानन्द सम्मतम् || १० || निगम तत्वे श्रीदेव्युवाच - पूर्णानन्दे महादेव मैथुनं नैव जायते | इन्द्रियाकलितं सर्वं प्रकाशक विवर्जितम् || ११ || यदि दैवात् साधकेन्द्रः क्रियाकाङ्क्षी भवेत् शिव | सर्वत्र योनिं ज्ञात्वाऽपि घातं कृत्वा मुहुर्मुहुः || १२ || क्वचिद् योनौ क्वचित् पार्श्वे क्वचित् पृष्ठे महेश्वर | क्वचिदास्ये क्वचित् कर्णे मूर्ध्नि देशे क्वचित् क्वचित् || १३ || भावातीतक्रमेणैव घातं कुर्यानुमुहुर्मुहुः | क्वचिल्लिङ्गेन हस्तेन क्वचिदंगुलिना शिव || १४ || क्वचिन्नासा पुटेनैव क्वचिन्नेत्रेण घातनम् | क्वचित् पादेनांगुलिना मूर्ध्नापि जिह्वया क्वचित् | दन्तघातं सर्वगात्रं चोष्यमाणं मुहुर्मुहुः || १५ || इति श्रीसर्वानन्दनाथ विरचिते सर्वाल्लासे पञ्चपञ्चाशदुल्लासः || ० || षट्पञ्चाशत्तमोल्लासः | श्रीशिव उवाच - कुलेशि श्रोतुमिच्छामि शक्त्यानन्दस्य लक्षणम् || १ || श्रीदेव्युवाच - शक्त्यानन्दं महादेव बहुभाग्ये प्रकाशितम् | प्रकाशिते प्रेमानन्दे [ज्: महेशान] सर्वानन्दस्य तुल्यता || २ || भावातीतो यथा शाक्तस्तथा शक्तिर्महेश्वर | आनन्दस्यापि तुल्यत्वं पानं रमण तादृशम् || ३ || शक्तिर्वा पुरुषो [क्, ग्, च्: साधको] वापि पतितो यदि भूतले | (चिह्नित सार्द्ध श्लोक द्वयं ज्: पुस्तके अधिकं विद्यते) तत्क्षणाद्रमणं कुर्यात् घृणा लज्जा विवर्जिता || ४ || साधकः पतितो भूमौ साध्या रमणमाचरेत् | साध्यापि पतिता भूमौ साधको रमणञ्चरेत् || ५ || अनिच्छायां न कर्त्तव्यं कर्तव्यमाज्ञयापि च | अन्यथापि न कर्त्तव्यं उभौ [घ्: कर्तव्यावुभौ] नरकगामिनौ || ६ || शक्त्यानन्दे यजेत् शाक्तः शिवानन्दे यजेत् शिवाम् | आनन्देन युतो देव कुक्कुरोऽपि शिवो भवेत् || ७ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे षट्पञ्चाशदुल्लासः || ० || सप्तपञ्चाशत्तमोल्लासः | अथ शक्ति माहात्म्यम् | तोडलतन्त्रे - आत्म शक्तिर्वरारोहे देहोऽयं (?) जडिता स्थिता | वशीकर्त्तुं न शक्नोति वाह्य शक्तेस्तु का कथा || १ || वाह्य शक्तिर्वरारोहे स्व शक्तिर्ज्ञायते यदि | तोषयेद् बहु यत्नेन राग द्वेष विमुक्तकः [ख्, च्: विमोहकः] || २ || शाक्तक्रमचन्द्रिकायाम् [घ्, ज्: -तन्द्रिकायाम्] - विवाहितायाः कन्याया [ज्: कान्तायाः] यद्यन्यो रमणं चरेत् | तासां प्रहारं निन्दाञ्च कौटिल्यं नैव कारयेत् || ३ || शक्तिरूपं क्रियार्थं हि विवाहं परिभाषिकम् | स्त्रीमात्रे हर पत्नी च पुमान्मात्रे च शङ्करः || ४ || शङ्करोऽहं वरारोहे शक्तेर्ज्ञानं न संशयः | इच्छा शक्तेर्भवेदिच्छा क्रिया शक्तेः क्रिया भवेत् || ५ || ज्ञान शक्तेर्भवेज्ज्ञानं भवेल्लज्जापि लज्जया | बन्धं मोक्षं वरारोहे इच्छा शक्तेर्न संशयः || ६ || अत एव महादेवि [क्, ग्, च्: महादेव] देह [ग्: सर्वां] शक्तिं प्रकीर्तितम् | योऽन्येभ्यो दर्शनेभ्यश्च भुक्तिं [घ्, च्: भक्तिं] मुक्तिञ्च कांस्क्षति | स्वप्न लब्ध धनेनैव धनवान् स भवेद्यदि || ७ || प्. २२१) उपास्या बहवो देवा यदुक्तास्तव सुव्रते [क्, ग्, च्: -ताः] | पूज्या [घ्, ज्: पूजा] प्रधाना तत्रैव शक्तिरादौ दृढ [क्, च्: दृढः] व्रतः || ८ || शक्तिर्ब्रह्मा शिवः शक्तिः शक्तिर्विष्णुश्च वासवः | अन्ये च बहवो देवाः शक्ति मूलाः प्रकीर्तिताः || ९ || शक्तिं विना यतो ह्येषामसमर्थं प्रकीर्तितम् | अतस्तेभ्यः प्रधानं हि शक्तिं विद्धि महामते || १० || शुक्तौ रजतवद्भ्रान्तिर्यथा [घ्: -भातिर्यथा] जायेत पार्वति | तथान्य [क्, ग्, च्: अथान्य; घ्: अन्यथा] दर्शनेभ्यश्च भुक्तिं मुक्तिञ्च कांक्षति || ११ || (श्लोकोऽयं घ्, ज्: पुस्तकयोरधिको दृश्यते) मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् | न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः || १२ || सर्व देवमयीइं देवीं सर्व देवमयीं पराम् | आत्मानं चिन्तयेद्देवीं परमात्म स्वरूपिणीम् || १३ || निर्वाण तन्त्रे - देव्यात्मानं स्वमात्मानं भावयेद् यतमानसः | ऐक्यं संभावयेन्नित्यं स्वगुरूं देवतात्मकम् || १४ || आत्मानं चिन्तयेद्देवीं शक्तिमात्र स्वरूपिणीम् | आत्माभेदेन यश्चिन्त्यो [ज्: आत्माभेदे लयश्चिन्त्यो] याति तन्मयतां नरः || १५ || सोऽहमित्यस्य सततं चिन्तनात् तन्मयो भवेत् | अहं देवो न चान्योऽस्मि मुक्तोऽहमिति भावयेत् || १६ || रुद्रस्य चिन्तनाद्रुद्रो विष्णुः स्याद्विष्णुः स्याद्विष्णु चिन्तनात् | दुर्गायाश्चिन्तनाद् दुर्गा भवत्येव न संशयः || १७ || प्. २२२) एवमभ्यासयोगस्तु अहन्यहनि [क्, ग्: एवमभ्यासमानन्त्वप्यहन्यहनि] पार्वति | जरा मरण कुःखाद्यैर्मुच्यते भव बन्धनात् || १८ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सप्तपञ्चाशदुल्लासः || ० || अष्टपञ्चाशत्तमोल्लासः | हंस बीजस्य माहात्म्यम् | महानिर्वाण तन्त्रे श्रीदेव्युवाच - देवेश प्राण नाथेश [ग्, ज्: परमेशान] त्रिगुणे त्रिगुणात्मक | अधुना हंस बीजस्य माहात्म्यं कथय प्रिय || १ || श्रीशिव उवाच - हंस बीजस्य माहात्म्यं गदितुं नैव शक्यते | तव स्नेहेन बद्धोऽहं किञ्चिद्भावं प्रकाशितम् || २ || देवालयं भवेद्देहं हंसेन मनुना शिवे | हंस बीजं समाश्रित्य देही देहे सदा स्थितः || ३ || हकारः शङ्करश्चैव सकारः शक्तिरीरितः | शिव शक्त्यात्मकं मन्त्रमजपेति प्रकीर्तितम् || ४ || षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः | अजपा नाम गायत्रीं जीवो जपति सर्वदा || ५ || प्. २२३) श्रीपार्वत्युवाच - शिव शक्त्यात्मकं मन्त्रं जीवो जपति सर्वदा | प्रजपेत् केन मूलञ्च सोऽहं केन विचिन्तयेत् || ६ || श्रीशिव उवाच - कुम्भकं स्याद् हं कारेण सः कारेणापि रेचनम् | कुम्भकेषु [ज्: कुम्भकेऽपि] जपेन्मन्त्रं प्रत्येके प्रत्येकाक्षरम् || ७ || तन्त्रान्तरे - हकारं शिव बीजं स्यात् शक्तिबीजं सकारकम् | जीवात्मानं नादरूपं बिन्दुञ्च परमात्मकम् || ८ || विसर्गः कर्म्म सङ्गः स्यात् हंस बीजं प्रकीर्तितम् | विन्दु द्वयं विसर्गः स्यात् सृष्टिः स्थितिर्महेश्वरि || ९ || एक बिन्दुं लये देवि द्विविन्दुं सृष्टिरूपकम् | त्रिविन्दुं स्थिति रूपञ्च बिन्दुमेकं लये पुनः || १० || शैव शक्तिमयं देहं जिवात्मा कर्म्म रूपकम् | परमात्मा बिन्दुरूपं हंस बीजेन भाषितम् || ११ || सृष्टि स्थिति लयं ज्ञेयं हंस बीजं सुलोचने | हंस ज्ञाने भवेत् सृष्टिः सोऽहं ज्ञाने स्थितिः प्रिये | नाहं ज्ञाने लयं देवि भावा भाव प्रबोधकम् || १२ || नारायणी तन्त्रे - स्वभावे हंस बीजेन देह भेदेन चिन्तनम् | सोऽहं भावेन परमेऽप्येकदेहं विचिन्तयेत् || १३ || हकारेण सकारञ्च सकारेण हकारकम् | पूजनं सर्वदा कुर्यात् वाम दक्ष विभेदतः || १४ || प्. २२४) नारायणी तन्त्रे - शिव बीजं हकारञ्च पुंदेह शिव रूपकम् | (पाठोऽयं ग्: पुस्तके अधिको दृश्यते) शक्तिबीजं सकारं हि पुंदेहं शिव रूपकम् || १५ || शक्ति बीजं सकारं हि शक्तिदेहः प्रकाशितः | सोऽहं शक्तिमयं ध्यानात् [क्, ग्, च्: भावात्] ज्योतिर्ध्यानं प्रकाशितम् || १६ || सूक्ष्म ध्यानमहं ब्रह्म सर्व व्यपि निरञ्जनम् | (पाठो ग पुस्तके अधिको दृश्यते) स्थूल ध्यानं हंस बीजं भेद ज्ञानाच्च लभ्यते | सोऽहं ज्ञानाद् भवेल्लभ्यं ज्योतिर्ध्यानं सुनिर्मलम् || १८ || नाहंज्ञानाल्लभ्यते च वाचातीतं निरञ्जनम् | स्थूलं तेजस्तथा सूक्ष्मं ध्यानं त्रिविध लक्षणम् || १९ || स्थूलमिन्द्रियसंयुक्तं योनि लिङ्गादिसंयुतम् | ज्योतिर्ध्यानमभेदं हि सोऽहंज्ञानयुतो यदि | सूक्ष्मं नित्य निराकारं गगनादपि निर्मलम् || २० || इति सर्वानन्दनाथविरचिते सर्वोल्ल्लासे अष्ट पञ्चाशदुल्लासः || ० || ऊनपष्टितमोल्लासः | श्रीपार्वत्युवाच - ध्यानत्रयस्य मध्येषु सोःअं केन प्रजायते || १ || श्रीशिव उवाच - स्थूल ध्यानं हंस बीजं सेव्य सेवक भेदकम् | तेजः सूक्ष्मभेदं हि सेव्य सेवक वर्जितम् || २ || भावातीतं हि यद्ध्यानं सोऽहं ज्ञानात् परं शिवे | यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता [ख्, ग्, ज्: उदाहृता] | सैव सर्वेश्वरी देवी स च सर्वो महेश्वरः || ३ || महानिर्वाण तन्त्रे - स्वदेहे पूजयेद्देवं नान्य देहे कदाचन | स्वगेहे पायसं त्यक्त्वा भिक्षामटति दुर्मतिः || ४ || स्थूलध्यानान्महादेव [क्, ग्, च्: महादेव !] स्तेजोध्यानाद्धि [ज्: ध्यानादि] शङ्करी [ज्: शङ्करि !] | सूक्ष्म ध्यानाद् भवेन्मुक्तिरोङ्कारं तत्र सम्भवम् [घ्: कुम्भकम्] || ५ || भिन्न देहं शिवं शक्ति तेजोध्यानमभेदकम् | शिव शक्त्यात्मकं सूक्ष्मं ओं तत्सद् व्यापितं जगत् || ६ || विन्दु त्रयं नाद युग्मं बिन्दु युग्मञ्च नादकम् | बिन्दुमेकं नाद युग्मं ओंकारं ब्रह्म बोधकम् || ७ || कुण्डलिन्यङ्कुशाकारा बिन्दुरूपः सदाशिवः | अङ्कमात्रं महादेवि शिव शक्ति प्रबोधकम् || ८ || प्. २२६) बिन्दु द्वयं विना देवि किञ्चिन्मात्रं न जायते | वामे च परमा शक्तिर्दक्षिणे परमः शिवः || ९ || शिव शक्त्यात्मकं ब्रह्म वाचातीतं सुनिर्मलम् | तकारं शङ्करं ज्ञेयं तकारं पुंस्त्व विग्रहम् || १० || ब्रह्म बोधमयं देवि तत् शब्दं [ज्: सर्वं] शक्ति गोपितम् | बिन्दुयुग्मं नादमेकं तकारं ब्रह्म बोधकम् || ११ || तत् शब्दं परमेशानि ओंकारस्यापि बोधकम् | विना स्वरेण देवेशि व्यञ्जनं नैव तिष्ठति || १२ || तद्वर्णं सकलं बोधं भाव रूपं प्रकाशितम् | सकारः शङ्करी ज्ञेया तकारो नाद रूपकः || १३ || शक्तिब्रह्ममयं ज्ञानं सत् [ज्: तत्] शब्दं भाव बोधकम् | व्यञ्जनं पुरुषं ज्ञेयं स्वरं ज्ञेयञ्च शङ्करीम् [ज्: शङ्करी] || १४ || शिव शक्त्यात्मकं ब्रह्म सत् शब्देनापि भाष्टितम् [ज्: बोधितम्] | सकारञ्च तकारञ्च पुरुषं परमेश्वरि || १५ || शक्ति ज्ञानं मध्य [क्, ग्, च्: मध्ये] लुप्तं अकारं शब्द [ज्: सर्व] बोधकम् | पञ्चनादं सप्तबिन्दुमेकाङ्गं परमेश्वरि || १६ || एतैर्युक्तं सकारं हि त्रि वकारं प्रकाशितम् | सत्वं रजस्तमश्चैव त्रि वकारेण भाषितम् || १७ || पञ्चनादं पञ्चतत्त्वं बिन्दु स्वर्ग बिभूषितम् | त्रिगुणाक्तं त्रिकोणञ्च प्रतिकोणं त्रयान्वितम् [क्, ग्, घ्: त्रियान्वितं; ख्, च्: क्रियान्वितम्] || १८ || कोण मात्रे बिन्दुमात्रं मध्ये नादं महेश्वरि | सर्व वर्ण क्रममिदमङ्गं ज्ञेयं शिवोपरि || १९ || बिन्दु द्वयं विना भद्रे अङ्कमात्र न जायते | नाद विन्द्वङ्क युङ्वर्ण [घ्, च्: नादबिन्दुयुतं] ब्रह्म ज्ञानस्य कारणम् || २० || प्. २२७) तत्शब्दं ज्ञेय सत्शब्दं सर्वभाव प्रकाशितम् | तत्सत् ज्ञेयं ब्रह्म बीजं ओंकारेऽभूत् प्रकाशितम् || २१ || ओंकाराद् जायते सर्वं ओंकारे च प्रलीयते | सृष्टि बीजं हि ओंकारं लय बीजं त्रिलोचने || २२ || हंस बीजात् [क्, ग्, च्: मन्त्रात्] समुद्भूतं भावं भावातीतं ध्रुवम् | दक्षिणानाञ्च वामानां सिद्धान्तानां महेश्वरि || २३ || हंसः सोऽहञ्च नाहञ्च भेदाभेदात्मनात्मकम् | कौलानाञ्चैव दिव्यानां भावातीतं हि केवलम् || २४ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे ऊनषष्ट्युल्लासः || ० || षष्टितमोल्लासः | श्रीपार्वत्युवाच - केन [ज्: येन] मार्गेण वा स्वामिन् भावातीतं प्रकाशितम् | प्रकाशितेऽपि कौलानां दिव्यानां भेदकं वद || १ || श्रीशिव उवाच - यन्मार्गिणा भवेत् कौलो दिव्योऽभूत् तेन मार्गिणा | उभयोरेक भावेन भावातीतमयो भवेत् || २ || दिव्यानाञ्च जगद्दिव्यं कौलानां दिव्य [ग्: भाव] वर्जितम् | दिव्यस्तु देववत् प्रायो वीरश्चोद्धत मानसः | दिव्य वीरे च यो भेदः स भेदः परिकथ्यते || ३ || प्. २२८) निगम तत्वे - कौलानां नियमो नास्ति निषेधयस् विधेः शिवे [घ्: निषेधञ्च विधिः शिवः] | दिव्यानाञ्च तथा ज्ञेयं मुक्तिमात्रं विभेदकम् [ग्: - मात्रभेदकम्] || ४ || दिव्यानां तेजसि भावे भावातीतं प्रकाशितम् | तेजः स्यात् परमाणुश्च सर्व व्यापिनिरञ्जनम् || ५ || कौलानाञ्च तथैवोक्तमभावे भाव वर्जितं | प्रसङ्गात् कथयाम्यद्य दिव्यस्यापि च लक्षणम् || ६ || तथा च समयाचारतन्त्रे - यद्वर्णा देवता [क्, ग्, च्: देवताः] यस्य [क्, ग्, च्: सर्वं] तत्तेजः पुञ्ज पूरितम् | तेजोमयं जगत् सर्वं विभाव्य मूर्त्ति कल्पनम् [ज्: कल्पितम्] || ७ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे सिद्धान्ताचार कथने षष्ट्युल्लासः || ० || एकषष्टितमोल्लासः | अथ कौलाचारः | निर्द्वन्द्व मानसो भूत्वा ज्ञात्वा काम कला तनुम् | इदं वीर कुलं देवि ज्ञेयं रम्यं मनोहरम् || १ || [निर्द्वन्द्वमानसो भूत्वा अस्यभावः (च्: अस्यभावः प्रकाशितः) यामले] द्वन्द्वातीतो भवेदेक एको भावातीतः शिवे | प्रकाश वाक्यं निर्द्वन्द्वमेकं ह्रस्वं हि दीर्घकम् || २ || प्. २२९) ह्रस्व दीर्घ क्रमेणैव जगत् स्थावर जङ्गमम् | गुरुं लघुं दीर्घं वाचातीतं वचः शिवे || ३ || भावातीतं जगत् सर्वं ज्ञानं ज्ञेयमयं शिवं | (श्लोकार्द्धोऽयं क्, च्: पुस्तकयोर्विद्यते) ज्ञानमेतत् जगत् सर्वं ज्ञानं ज्ञेयमयं शिवे || ४ || ज्ञानमेतत् जगत् सर्वं मनोज्ञेयं महेश्वरि | ज्ञानज्ञेयं मनो देवि भावातीतं सुनिर्मलम् || ५ || ज्ञानार्णवे - स्थूल सूक्ष्म मनश्चापि भावाद् भावातीतं शिवे | भावातिताद् भवेद्भावो बीज वृक्षेव पार्वति || ६ || आब्रह्मस्तम्ब पर्यन्तं प्रभाति मानसे [क्, ग्, च्: मानसी; ज्: मनसि] सदा [ज्: शिवे] | अत एव महेशानि मनोऽतीतं निरञ्जनम् || ७ || ज्ञात्वा काम कला तनु मस्य भावः | कुलार्णवे - कामेन कामनासिद्धिर्निष्कामी मोक्षतां [ज्: क्षेमताम्] व्रजेत् | अत एव जगत् सर्वं कामभावं सुलोचने | सदा कामेन सा भाति कलारूपा सनातनी || ८ || अथ कला प्रमाणमाह | नीलतन्त्रे - कुलाकुलं श्मशानञ्च लता वेश्यञ्च वारुणम् | पीठं निगूढा प्रकृतिं योनिं चाख्यानुकीर्त्तितम् [क्, च्: चाख्यानकीर्त्तनं] || ९ || प्. २३०) निरुत्तरे - कला चानुकलापञ्च कलामात्र प्रकीर्तिता | कला च द्विविधा प्रोक्ता गुप्ता व्यक्ता महेश्वरि || १० || गुप्ता च प्रकृतिरूपा व्यक्ता रमणदायिनी | श्मशान वासिनो वीराः कलां पूजन्ति सर्वदा || ११ || श्मशान वासिनो वीराः गुप्तायोनिं प्रपूजयेत् | व्यक्तायोनिं [व्यक्तायोनिं यजेद्वीरोऽश्मशाने गोपने शिवे | इति क्, ग्: पुस्तकीयपाठः | व्यक्तायोनिं महेशानि श्मशाने गोपने शिवे | इति च्: पुस्तकीयपाठः |] यजेद्वीरः श्मशाने गोपने शिवे || १२ || कलाञ्च पूजयेद्गुप्तां मानसी (?) परमेश्वरि | व्यक्तापि (?) पूजयेद्वीरो वाह्येऽपि निर्जने प्रिये || १३ || व्यक्तायोनिं महेशानि द्विविधां मुक्तिदायिनीम् | उदासिनां श्मशानञ्च गृहिणामर्च्चयेद्भगम् || १४ || श्मशान पूजनाद्वीरो भग पूजाधिकारकः | शवारूढात् तथा देवि भगारूढाधिकारकः || १५ || भेदज्ञानात् यथा देवि एकज्ञानाधिकारकः | श्मशान द्विविधं देवि चितायोनिः प्रकीर्तिता | चिता व्यक्तापि देवेशि गुप्तयोनीति कीर्तिता || १६ || निर्वाणतन्त्रे - ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च परमेश्वरि | कलावासव योगेन कला पूजां प्रकल्पयेत् || १७ || कुलार्णवे - आसवेन विना देवि मैथुनं नैव कारयेत् | मैथुनेन विना देवि मद्यपानं न चाचरेत् || १८ || प्. २३१) अत एव महेशानि गृह धर्म्म प्रशस्तकः | शवासनमुदासिनां गृहिणामासवासनम् | गतासूनशवः प्रोक्तो मद्य पानासवः प्रिये || १९ || तन्त्रान्तरे - शवे वाप्यासवे वापि कार्य सिद्धिर्न संशयः | शवासने भेदकार्यमभेदमासवासने || २० || शक्ति देहे महेशानि न कुर्याच्च शवासनम् | शक्तिदर्शनमात्रेणाप्युदासिनां क्रिया क्षयः || २१ || आसवस्यासनं देवि पुंदेहं [ग्: -देहे] शक्ति देहकम् | पुरुषस्यासनं शक्तिः शक्तेः पुरुष देहकम् || २२ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे एकषष्ट्युल्लासः || ० || द्वाषष्टितमोल्लासः | अथ प्रकृति स्वरूप लक्षणम् | वृहद्योनि तन्त्रे - प्रकृतिं व्यर्थतां ज्ञात्वा यच्च कालीं प्रपूजयेत् | वृथा पूजा भवेत्तस्य न बीजं जल सेचनम् || १ || अज्ञात्वा प्रकृतिं देवि [ज्: देवीं] ब्रह्मज्ञानं करोति यः | वृथा ज्ञानं भवेत्तस्य क्लीवमालिङ्गनं यथा [क्, च्: शक्तिषु शक्तिसङ्गमम्] || २ || प्. २३२) (श्लोकोऽयं ग्, घ्, ज्: पुस्तकेष्वधिको दृश्यते) प्रकृतिज्ञानमालभ्य ब्रह्मज्ञानं करोति यः | वृथा ज्ञानं भवेत्तस्य शक्तिषु शक्तिसङ्गमम् || ३ || केचिद्ध्यायन्ति प्रकृतिं केचिच्च पुरुषं शिवे [ज्: प्रिये] | ते ब्रह्मज्ञानिनः सन्तः प्रकृतिं पुरुषात्मकम् || ४ || विना न प्रकृतिं ब्रह्म विना ब्रह्म न तत् शिवाम् | उभयोर्ज्ञानयोगेन ब्रह्मजानीति निश्चितम् || ५ || सिद्धलाहरीतन्त्रे - केचिद् वदन्ति प्रकृतिं केचित् पुरुष कीर्त्तनम् | उभयोरेकभावेन ब्रह्मज्ञानीति निश्चितम् || ६ || पार्वत्युवाच - वाचातीतं क्रियातीतं मनोऽतीतं सनातनम् | ब्रह्मज्ञानमिदं देव प्रकृतिः का वदस्व मे [ज्: प्रकृतिं कां वद प्रभो] || ७ || वृहद्योनितन्त्रे | श्रीशिव उवाच - या प्रोक्ता प्रकृतिर्नित्या जगदम्बे सनातनि [घ्, ज्: सनातनी] | सैव योनि स्वरूपा च [घ्: सा] जगदुत्पत्ति कारिणी || ८ || सिद्धलाहरीतन्त्रे - सत्त्वादयो गुणा देवि जायन्ते प्रकृतेर्ध्रुवम् | ब्रह्म विष्णु शिवादीनां मूलाः सत्त्वादयो गुणाः || ९ || कोणत्रयेषु देवेशि गुणत्रयं सुतिष्ठति | स्थूल सूक्ष्ममयं ज्योतिर्व्यापिता प्रकृतिः स्थिता || १० || प्. २३३) सत्त्वादयो गुणास्तस्याः सापि सत्त्वादयो गुणाः | गुणातीता भवेत् सापि वाचातीता हि वाचिका [ग्, घ्: वाचका; ज्: वाचकम्] || ११ || ब्रह्म विष्णु शिवादिश्च भवेद् यस्या [घ्, ज्: तस्या] निजेच्छया | पुनः प्रलीयते यस्या [घ्, ज्: तस्यां] तस्याश्च जायते पुनः || १२ || प्रकृतिर्विकृतिमापन्ने सर्वं पश्यति पार्वति | विकृतिः प्रकृतिमापन्ने ततः किञ्चिन्न पश्यति || १३ || तन्त्रान्तरे - या प्रोक्ता प्रकृतिर्नित्या विकृतिः सा महेश्वरि [ज्: स्यान्महेश्वरि] | सत्वं रजस्तमो देवि केचिद्भिन्नं वदन्ति च | गुण बद्धाश्च ते जीवा मोक्षस्य नाधिकारिता [क्, ग्, च्: नाधिकारिताः; ज्: नाधिकारिणः] || १४ || श्रीपार्वत्युवाच - त्रिगुणेन [ग्: त्रिकोणेन] महादेव त्रिविधा चेत् क्रियास्थिता | त्रिगुणेऽप्येकभावोऽपि गुणश्च केन जायते || १५ || श्रीमहादेव उवाच - गुणत्रय विभेदेन [क्, ग्, च्: विभागेन] विकृतिः स्यात् प्रियम्वदे | एकभावेन प्रकृतिश्चणकाकार रूपकः || १६ || तन्त्रान्तरे - या प्रोक्ता प्रकृतिर्नित्या चणकाकार [क्, ग्, च्: चणकाकृति] रूपिणी | विभिन्ने शिव शक्तिः स्यादभिन्ने चणकः शिवे || १७ || प्. २३४) त्रिगुणाक्तं [ज्: त्रिगुणानां] त्रिकोणञ्च चणकं त्रिगुणात्मकम् | ग्रिगुणः परमेशानि भूर्जलं [घ्: क्षितिर्भूः; च्: उज्ज्वलं; ज्: क्षितिःकं] पावको ध्रुवम् || १८ || तमः सत्वं रजश्चैव [ग्, घ्, ज्: तमोरजश्च सत्त्वञ्च] त्रिकोणेषु [घ्, ज्: त्रिगुणेषु] सदा स्थितः | त्रिगुण [ज्: त्रिकोण] व्यापितं सर्वं जगत् स्थावरे जङ्गमम् || १९ || आद्याशक्तियुतो देवश्चणकाकार रूपकः | निर्गुणस्यालयः साक्षान्महाकाल्यालयः प्रिये || २० || आनन्दस्याहुतिं यत्र [क्, ग्, च्: तत्र] स एवानन्द रूपकः | तदाकृतिः [ज्: प्रकृतिः] स्थूलभूता [घ्: -भूत्वा] नारीदेह [ज्: - देहे] प्रकाशिता | सूक्ष्मदेह [ज्: देहे] समुद्भूता पुंदेहेषु प्रकाशिता || २१ || निगमकल्पद्रुमे - लिङ्गं कृच्छ्रं भगं कृच्छ्रं वेष्टितं भुवन त्रयम् | लिङ्गमध्ये स्थिता योनिर्योनिमध्ये च लिङ्गकम् | उभावुभौ च संत्यक्त्वा क्षणमात्र न तिष्ठति || २२ || समयाचार तन्त्रे - निर्गुणं यत् परं ब्रह्म शरीरादिषु वर्जितम् | साकारं यद्भवेद्देवि केवलं बोध हेतवे || २३ || यथा सूर्यस्य बिम्बञ्च बहुधा दर्पणादिषु | दृश्यते परमेशानि तथा सर्वमिदं जगत् || २४ || एक एव परं ब्रह्म ज्योतीरूपं निरञ्जनम् | साकारं यदि जायेत स्वेच्छयापि तदा प्रिये || २५ || प्. २३५) ज्योती रूपा महायोनिः स्थूल सूक्ष्म प्रबोधिनी | साकारं स्वेच्छया तस्या निराकारञ्च स्वेच्छया || २६ || यदा साऽप्येक रूपा च तदा सूक्ष्मा सनातनी | यदा चेद् बहुधा भूता [ज्: भूत्वा] तदा ज्योतीति कीर्तिता || २७ || शरीरादियुता चेत् स्यात् साकारं परमेश्वरि | बहुना [घ्, ज्: बहुधा] रमणेनापि चाभावे भाबबोधकम् || २८ || अभावाज् जायते सर्वं जगत् स्थावर जङ्गमम् | रूपत्रयं भावबोधं सृष्टि स्थिति लयः प्रिये || २९ || प्रकृतिश्च पुमांश्चैव तयोर्वीजं हि भौतिकम् | भौतिकां प्रकृतिं ज्ञेयां [ज्: भौतिका प्रकृतिर्ज्ञेया] भौतिकं पुरुषं शिवे || ३० || वदामि भौतिकं ब्रह्म प्रकृति पुरुषात्मकम् | भगञ्च प्रकृतिं ज्ञेयं पुमान् ब्रह्मेति पार्वति || ३१ || प्रकृत्याञ्च [क्, ग्, च्: प्रकृत्यायाः; घ्: प्रकृत्या] पुमान् [घ्: पुरुष] ब्रह्म पुंसि प्रकृतिरीश्वरी | सर्वदा वायुना देवि तत्र शृङ्गारकावुभौ || ३२ || वायुराकाश संयुक्तो वायवाक्तः सर्वभूतकः [ग्: सर्वभौतिकः; घ्: पञ्चभूतकः] | यथाङ्गाङ्गी ममाहञ्च [ज्: मदङ्गञ्च] तथापि पाञ्चभौतिकः [घ्, च्: -भौतिकम्] || ३३ || अनित्यं पञ्चधा ज्ञेयं पञ्चैक्यं नित्यकल्पनम् | कल्पनायां भवेत् सृष्टिः कल्पनायां लयो भवेत् | कौल ज्ञानमिदं देवि कल्पातीतं निरञ्जनम् || ३४ || इति श्रीसर्वानन्दनाथविरचिते सर्वोल्लासे द्वाषष्ठ्युल्लासः || ० || त्रिषष्टितमोल्लासः | तन्त्रान्तरे | श्रीपार्वत्युवाच - रूपत्रयञ्च किं देव ब्रह्मज्ञानञ्च किं प्रभो | कैवल्यं कीदृशं ज्ञानं कथय प्राण वल्लभ || १ || श्रीशिव उवाच - स्थूलरूपं ज्योतीरूपं सूक्ष्मरूपं सुलोचने [ज्: त्रिलोचने] | रूपत्रयमिदं ज्ञेय.ं [ग्: प्रोक्तं] ब्रह्म ज्ञानस्य कारणम् || २ || अथ ब्रह्मज्ञानम् | श्रीशिव उवाच - आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः | रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही || ३ || पञ्चभूतात्मकं यद्यत् स्थूलरूपं महेश्वरि | अण्डजः स्वेदजश्चैव उद्भिज्जश्च जरायुजः || ४ || अण्डजाः पक्षि सप्राद्याः स्वेदजा मशकादयः | वृक्ष गुल्मादयो देवि उद्भिज्जाहि हि विचेतनाः || ५ || जरायुजा महादेवि [घ्, ज्: महेशानि] मनुजाः पशवस्तथा | तेषां मध्ये मनुष्येषु ब्रह्मज्ञानञ्च जायते || ६ || चतुर्विंशति तत्त्वञ्च ज्योतीरूपं प्रकाशितम् | तन्नाशे परमेशानि सूक्ष्मदेही प्रकाशितः || ७ || चतुर्विंशतितत्त्वानि शृणुष्व प्राण वल्लभे | क्षितिर्जलं तथा तेजो वायुराकाश एव च || ८ || प्. २३७) प्राणापानसमानश्च व्यानोदानौ [क्, च्: श्चोदानव्यानौ] च वायवः | श्रवणं दर्शनं घ्राणं स्पर्शनं रस बोधनम् || ९ || गुदं लिङ्गं हस्तपादौ वाक्यञ्च परमेश्वरि | (पाठोऽयं घ्, ज्: पुस्तकयोर्नास्ति) त्यागं शृङ्गारश्चित्तेन्द्रिय चतुष्टयम् | चतुर्विंशति तत्त्वानि शक्तिरत्र पृथक् पृथक् || ११ || श्रीपार्वत्युवाच - चतुर्विंशति तत्त्वानि कथितानि त्वया प्रभो | अधुना श्रोतुमिच्छामि तत्तत् शक्त्यनुकीर्त्तनम् || १२ || श्रीम्हादेव उवाच - अनन्ताः शक्तयो देवि देहमध्ये प्रकाशिताः | गदितुं नैव शक्नोमि ब्रह्माण्डान्तेऽपि पार्वति || १३ || तासां मध्ये श्रेष्ठं [ज्: सृष्टि] रूपा चतुर्विंशति रूपिका | तासां मध्ये श्रेष्ठ [ज्: सृष्टि] रूपा चतुर्द्दश परात्मिका || १४ || तासां मध्ये चतुर्द्धा च शक्तिरात्मा [क्, ख्: शक्तिरुक्ता; च्: शक्तिरूपा च] महेश्वरि | (पाठोऽयं ज्: पुस्तके अधिको विद्यते) त्रिधैकात्मा चतुर्धा च शक्तिरुक्ता महेश्वरि || १५ || सुन्दरी बुद्धिरूपा च मनोरूपा च कालिका | चित्तरूपा च तारा [घ्: तारिणी चित्तरूपा च] स्यात् [ज्: स्युः] त्रिधैकोक्ता [घ्: त्रिधैकात्मा] क्रियात्मिका || १६ || शङ्करोऽभून्महादेवोऽप्यहङ्कार स्वरूपकः | विनाहङ्कारमात्रेण किञ्चिन्मात्रं न जायते || १७ || प्. २३८) आत्मनोऽपि निर्विकल्पादहङ्कारः प्रजायते | अहङ्कारस्य निर्लेपादहं ब्रह्मेति भाष्यते || १८ || मृत्तिकायां घटो देवि हाटके कटकं यथा | शुक्तौ रजतवत्तोये तरङ्ग बुद्बुदौ [क्, ग्: तरङ्गं बुद्बुदं] यथा || १९ || रज्जौ भुजङ्गवद्देवि स्फाटिके रञ्जनं यथा | तथा देहो महेशानि देहिमध्ये प्रकाशितः || २० || घटे नाशे मृत्तिका स्यात् कटके हाटकं तथा [घ्: यथा] | तरङ्ग बुद्बुदौ नाशे तोयमात्रं न संशयः || २१ || भुजङ्ग नाशे रज्जुः स्यात् रञ्जने स्फाटिकं तथा [घ्: यथा] | देहनाशे तथा देहो केवलोऽहं निरञ्जनः [ज्: निरंजनम्] || २२ || स्वरूपं शून्यं यद्ध्यानं तत् समाधिर्न संशयः | अद्वैतं [ज्: अर्थैतत्] परमं ब्रह्म केवलोऽहं निरञ्जनः [ख्, ग्, च्, ज्: -नम्] || २३ || सर्वातीतं परं शान्तं स्वात्म ज्ञान प्रबोधकम् | प्रबोधे तु परे तत्त्वे केवलोऽहं निरञ्जनः [ग्, ज्: -नम्] || २४ || निरञ्जनमिदं ज्ञेयमवाङ्मनस गोचरम् | गदिते [ज्: -तुं] तत् परं ब्रह्म सर्वं व्याप्यैक [ज्: व्याप्यैव] संस्थितम् || २५ || तस्मिन् [ज्: तस्मात्] जातं जगत् सर्वं तस्मिन्नेव स्थितं सदा | प्रलीनं हि पुनस्तस्मिन् क्षितौ वृक्षेव [ज्: ब्रह्मैव] पार्वति || २६ || उत्पत्ते [क्, ख्, च्: उत्पत्ति] र्व्युत्क्रमेणैव सृष्टिर्व्रह्मणि [ज्: ब्रह्मव] लीयते | सृज्यते च पुनस्तस्मात् [घ्: तस्मिन्] स्वेच्छया निज मायया || २७ || प्. २३९) ब्रह्मखेला जगत् सर्वं ब्रह्म रूपमिदं जगत् | सर्वं हि खल्विदं ब्रह्म तदन्यन्नास्ति किञ्चन || २८ || विश्वसारे - आब्रह्म स्तम्ब पर्यन्तं परं ब्रह्मस्वरूपकम् | स्थावरं जङ्गमं व्याप्तं प्रणमामि जगन्मयम् || २९ || तन्त्रान्तरे - भावातीतं परं भावं ध्यानातीतं हि ध्यानकम् | क्रियातीतं क्रियायुक्तं सर्वं व्याप्यैक संस्थितम् || ३० || सर्वातीतं सर्व रूपं निर्विकल्पञ्च कल्पितम् | निर्विकारं विकाराक्तं सर्वं व्याप्यैक संस्थितम् || ३१ || यल्लाभान्नापरं लाभं यत् सुखान्नापरं सुखम् | यजज्ञानान्नापरं ज्ञानं तद्ब्रह्मे त्यवधारयेत् || ३२ || तन्त्रान्तरे - मही विलीयते तोये तोयं विलीयते रवौ | रविर्विलीयते वायौ वायुर्विलीयते च खे || ३३ || व्योम विलीयते सत्ये सत्यं विलीयते शिवे | शिवो विलीयते शक्तौ ततो ब्रह्म निरूपणम् || ३४ || निगमतत्त्वसारे - ब्रह्मानन्दमयं सर्वं यदि जानाति तत्त्वतः | तदा मुक्तिमवाप्नो यदा [घ्, ज्: यथा] ब्रह्मप्रविन्दति || ३५ || वामे प्रकृति रूपा च दक्षिणे पुरुषाकृतिः | तयोः सङ्गम [घ्, ज्: संयोग] मात्रेण शरीरं जायते ध्रुवम् || ३६ || प्. २४०) तदिच्छया भोजनादि सर्वमेतत् तदीच्छया | सुखेच्छापि च दुःखेच्छा परं ब्रह्म प्रकारकम् [ख्: प्रकारणम्; घ्: प्रकाशकम्] || ३७ || ब्रह्म खेला [ज्: ब्रह्मत्वेन जगत् सर्वं दोषादोषं न चाचरेत् | दोषोऽपि ब्रह्मणः सर्वं गुणमेव च तस्य तु [ज्: हास्यकौतूहलादिकम्] || ३८ || नृत्य गानादिकं [क्, ज्: गीता] सर्वं ऐन्द्रजालिकवत् प्रिये | लीलया ब्रह्मणः सर्वं हास्य कौतूहलादिकम् || ३९ || खेलार्थञ्च [घ्: खेलार्थं; ज्: खेलार्थ हि] परं [घ्: परमं] ब्रह्म साकारोऽस्ति क्षणे क्षणे [घ्: साकारश्च युगेयुगे; ज्: साकारोहि युगेयुगे] | दिव्ये शरीरे सोऽप्यस्ति तथा कीटादिकेषु च || ४० || सर्वं ब्रह्ममयं ज्ञात्वा सर्वकर्माणि साधयेत् | पीत्वा तु मोहमदिरां [घ्, ज्: पीत्वा मोहमदिराञ्च] उन्मत्तेव स्वयं विभुः || ४१ || मानुषी तनुमाश्रित्य सुखं मोक्षञ्च काङ्क्षति | भूत प्रकृतिमाश्रित्य देहिनां देहनाशकृत् || ४२ || धानिनां धन नाशाय दस्युरूपधरोऽव्ययः | निर्ममो [ज्: निर्मलो] निरहङ्कारः सदा ज्योतिर्मयः स्मृतः || ४३ || क्वचित् शोकादि व्याक्रान्तः क्वचित् सौख्यादि संकुलः | क्वचिद्धास्यादि संयुक्तो धनवानति [क्, ग्, च्: धन नारीति] कश्चन || ४४ || कामिनी रूपमाश्रित्य कामिनीनां कलेवरे | कामोन्मत्ता काममयी [घ्: कामोन्मत्तः कामयते] परं ब्रह्मैव सर्वथा | मदनं रूपमाश्रित्य पुरुषो विह्वलायते || ४५ || गुरुरूपं समाश्रित्य लोकः मन्त्रायते भवात् | आत्मेच्छया कृतं कर्म दोषादोषं न चाचरेत् || ४६ || प्. २४१) ब्रह्मरूपमिदं सर्वं ब्रह्मरूपं जगन्मयं | ऊर्द्धशून्ये गतिस्तस्य मध्यशून्ये व्यवस्थितः || ४७ || अधः शून्ये च गमनं को वा जानाति तत्त्वतः | ऊर्द्ध शून्ये स्वप्न भावं ब्रह्म रन्ध्रं प्रकीर्तितम् || ४८ || मध्यशून्यं [ज्: -शून्ये] भ्रुवोर्मध्ये तस्मिन् ज्ञानादि चिन्तनम् | मूलाधारे अधः शून्यं तत्र कामादि चिन्तनम् || ४९ || शून्यान्ते क्रीडति ब्रह्म अज्ञोऽपि [च्, ज्: आज्ञा] नहि लभ्यते | स तिष्ठति परं ब्रह्म स्वेच्छया लीलयापि च || ५० || ज्ञानात् सिद्धिमवाप्नोति न ज्ञानान्न च सिद्धिभाक् | ब्रह्मज्ञानमिदं वत्स यो न जानाति तत्त्वतः | ध्यान पूजादिकं सर्वं तस्य सिद्धिर्न जायते || ५१ || ब्रह्मज्ञानं विना सर्वमसिद्धिकारणं स्मृतम् | अत एव महेशान कलौ सिद्धिर्न जायते || ५२ || सिद्धेर्हि कारणं ब्रह्म सर्वथैव कुलेश्वर | यो विजानाति तत्त्वेन देहान्ते ब्रह्मभाग् भवेत् || ५३ || इति श्रीसर्वानन्दनाथ विरचिते सर्वोल्लासे त्रिषष्ट्युल्लासः || ० || * एतावानेव ग्रन्थ उपलब्धः * ########### END OF FILE #######