#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00328 Uniform title: siddhāntārthasamuccaya Manuscript : IFP/EFEO transcript T00206 Description: IFP/EFEO transcript T00206 Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: January 29, 2015 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### सिद्धान्तार्थसमुच्चयः प्. ५७) श्रीमत्पद्मरसाराध्यपदाभ्यां नमः | सिद्धान्तार्थसमुच्चयः | येनानादि मलादि पाश निवर्द्ध्वंसायबद्धात्मनां सर्वज्ञेन सदोदितेन कृपया ज्ञानं समाविष्कृतम् | नत्वा तं परमं शिवं परगुरुन् सर्वान् गुरुंश्चापरान् सिद्धान्तार्थसमुच्चयो गुरुमुखात्प्राप्तः स्फुटं लिख्यते || प्रमाणश्चना तत्र क्रियते बहुधा यतः | सर्वेषु शिवशास्त्रेषु व्याख्यानेषु च दृश्यते || तस्मादागमयुक्तिभ्यां यथा योऽर्थो गुरुत्तमैः | निर्णीतः स तथास्माभिः संक्षेपेण प्रदश्यते || तत्र तावत् पारमेश्वरं ज्ञानं द्विरूपमवबोधरूपं शब्दरूपं च | तत्रावबोधरूपममलमनादिनिधनं सर्वार्थप्रकाशकं सर्वानुग्राहकं शिवज्ञानात्मकं च | शब्दरूपं तु शास्त्रात्मकमेव | अवबोधरूपं पुनः शब्दरूपारूढं परमकारुणिकः परमेश्वरः प्रतिसर्गं सृष्टिकाले सर्वानुजिघृक्षया गुरुपरम्परया योग्येषु प्रवर्तयति | यदुक्तं श्रिमत्स्वायम्भुवे - अथात्ममलमायाख्य कर्मबन्धविमुक्तये | व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते || मोक्षकारिकासु च - अनादिकालसंसिद्धं तद्गुणत्वेऽपि शंकरे | प्. ५८) तच्च सम्यक् परिच्छेदि शांकरं ज्ञानमीरितम् इति || गुरुपरम्पराक्रमश्च द्विविधः महौघक्रमलक्षणः प्रतिसंहितगुरुक्रमलक्षणश्च | तत्र महौघक्रमलक्षणः प्रदर्श्यते | तत्र परमेश्वरः प्रथमं विद्येशांननुगृह्य तेभ्योऽष्टाविंशति संहिताः प्रकाशयति | ते च पुनः श्रीकण्ठादि क्रमेण मुनिमनुष्यान्तं सर्व संहिता अवतारयन्ति | सोयं महौघलक्षणः शास्त्रावतारः | तदुक्तं श्रीमन्मालिनीविजये - सिसृक्षुर्जगतः सृष्टेरादावेव निजेच्छया | विज्ञानकेवलानष्टौ बोधया मास पुद्गलानिति || एष च गुरुक्रमः श्रीमद्रौरवादौ श्रूयते - जगतः कारणं देवमनलेशं परं गुरुम् | तेनोक्तं परमेशेन श्रीकण्ठाय महात्मने || इति | शिवोद्गीणमिदं ज्ञानं मन्त्र मन्त्रेश्वरेश्वरैः | कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् || तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीर्ढस्मरद्रुमः | ददावुमापतिर्मह्यं सहस्रैर्भव संमितैरिति | प्रतिसंहित गुरुक्रमः प्रदर्श्यते | यतुक्तं श्रीमत्किरणे - सृष्ट्यनन्तरमेवेशः शिवान् सृष्ट्वा दशात्मजान् | ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् || कामिकं प्रणवाख्यस्य सुधाख्यस्य च योगजम् | प्. ५९) दीप्ताख्यस्याप्यचिन्त्यं तु कारणाख्यस्य कारणम् | अजितं सुशिवाख्यस्य ईशस्यापि सुदीप्तकम् || सूक्ष्मं तु सूक्ष्मसंज्ञस्य कालस्यापि सहस्रकम् | सुप्रभदं गणेशस्य अंशुसंज्ञस्य चांशुमत् || एवं प्राथमिकं प्रोक्तं पुनरन्यो गुरुक्रमः | प्रणवात्रिकलः प्राप्तः कामिकं त्रिकलाद्धरः || सुधाख्याद्योगजं तन्त्रं भस्मसंज्ञस्ततः प्रभुः | दीप्तसंज्ञादचिन्त्यं तु गोपतिश्च ततोऽम्बिका || कारणं कारणाच्छर्वस्ततः प्राप्तः प्रजापतिः | अजितं सुशिवात्प्राप्तो ह्युमेशो ह्यच्युतस्ततः || ईशाद् दीप्तं त्रिमूर्तिस्तु ततः प्राप्तो हुताशनः | सूक्ष्मं सूक्ष्माद्भवः प्राप्तस्तस्मात्प्राप्तः प्रभञ्जनः || काल संज्ञात् सहस्राख्यं भीमो धर्मस्ततः खग | गणेशात् सुप्रभेदं तु विग्रहेशस्ततः शशी || अंशुमच्चांशु संज्ञात् तु प्राप्तोह्युग्रस्ततो रविः | एवमेते समाख्याताः शिवभेदादशाद्यते || दशाष्टसंख्ययाप्यन्यो रुद्रभेदोऽपरो मतः | दशाष्टसंख्यया रुद्रान् सृष्ट्वा पूर्वमुखाद्यतः || शिवस्तत् संख्ययैवे च पुनस्तान् बोधयेत् खग | रुद्रस्यानादि संज्ञस्य विजयं तेन भाषितमित्यादिना प्. ६०) फलभेदो न कल्प्योऽत्र ज्ञानभेदः प्रकल्प्यते इत्यन्तेन | अत्रायमर्थः - तन्त्राणां शिवभेदरुद्रभेदत्व भेदेन तावद् द्वैविध्यं तत्र शिवभेदः प्रणवादीननुगृह्य सदाशिवतत्त्व वासिनः कृत्वा तेषामेकमेवावबोधरूपं ज्ञानं यथाधिकारं शब्दरचना सृष्टिपुरःसरं क्रियादि भेदेन दशधा विभिद्योपदिष्टः | रुद्रभेदस्तनादि प्रभृभृतीनष्टादशरुद्रान् ज्ञानयुक्तानेवानुगृह्य शब्दरचनां कृत्वा तथैव विजयादिरष्टादशभेदतन्त्रैः प्रकाशितः | ते च रुद्राः सदाशिवतत्त्वाधो वर्तिनः | अत एव शिवभेदरुद्रभेदयोः परापरत्वमुक्तं च श्रीमत्स्वतन्त्रे - सकलस्तु वृतो देवैरोंकारद्यैरनुक्रमात् | रुद्राष्टादशकं ब्राह्म इति | तयोरपि पुनरध्ये तृप्रवक्तृभेदोऽप्युक्तः | एतेष्वपि भेदेषु अध्येतृभेदात् वक्तृभेदात् भेदोवक्तुमशक्य | अत एवास्य शिवज्ञानस्यावतारभेदात् क्रियाभेदाच्च भेदो न त्वर्थव्यवस्था भेदाद्वा फलभेदाद्वा | तदुक्तं श्रीमत्स्वायम्भुवे - एकमेव शिवज्ञानं विभिन्नं दशधा पुनः | तथाष्टादशधा भूयो भेदान्तरविसर्पितम् इति || एकमेव शिवज्ञानं विभिन्नं बहुधा पुनः | उपभेदोपभेदानामस्य संख्या न विद्यते || भेदान्तराणि सर्वाणि महान्ति न महान्त्यपि | दीक्षा संप्रत्ययार्थानि सिद्धिमुक्ति फलानि चेति || प्. ६१) अन्येप्याहु - सर्वशाखाप्रत्ययमेकं कर्मेति | एषां च तन्त्र भेदानां गुरुपूर्वक संबन्धः क्वचित् पञ्चप्रकारः क्वचित् षट्प्रकारः | श्रीमतङ्गोक्तवत्पञ्चप्रकारः | तथा हि - शिवानन्तयोः परः सम्बन्धः | अनन्त श्रीकण्ठयोः महान् | श्रीकण्ठमतङ्गयोर्दिव्यो मतङ्गमुनिना मनुष्याणां दिव्यादिव्यो मनुष्यैश्च मनुष्याणामदिव्यात्मकः | श्रीमन्मृगेन्द्रे तु षट्प्रकारः यथा - शिवानन्तयोः परः सम्बन्धः अनन्तश्रीकण्ठयोः महान् श्रीकण्ठशक्रयोरन्तराधः शक्रभरद्वाजयोद्धिव्यो भरद्वाज हारीतयोर्दिव्यादिव्यो हारीतेन तच्छिष्याणामदिव्य इत्येव मन्येष्वपि यथायोगं द्रष्टव्यम् | एवमापरमेश्वरादविच्छिन्न गुरु संप्रदायस्मरणात् तत्कृतत्वेनस्य शास्त्रस्य प्रामाण्यं सिद्धम् | तदुक्तं श्रीमन्मतङ्गे - प्रमाणमेकं तद्वाक्यं तत्त्वमीश्वर भाषितम् इति | ननु नित्यत्वेनागमस्य प्रामाण्यमिति केचित् | तदयुक्तम् अस्य कृतक आगमः संभवति रचनावत्वादभिनव विरचितवाक्यवत् | रचना च सेत्वादिवत् | तस्या कर्तारं न व्यभिचरति | तस्मादाप्त प्रणीतत्वेनैवागमस्य प्रामाण्यम् | परमेश्वरश्च परमाप्तः | नित्यनिर्मलनिरतिशय सर्वार्थ ज्ञानक्रिया युक्तत्वाद्रागद्वेषा भावेन विप्रलम्भासंभवात् सर्वानुग्राहकत्वाच्च | तदुक्तं श्रीमन्मोहशूरोत्तरे - यद्यथावस्थितं वस्तु सर्वज्ञस्तत् तथा वदेदिति | ईश्वरश्च योगि प्रत्यक्षादनुमानाच्च सिद्धः | प्. ६२) तथा हि श्रीमन्मतङ्गे - शक्तिसिद्धिपूर्वमीश्वरसिद्धिमुक्त्वा योगि प्रत्यक्षगम्यत्वमुक्तम् | शक्तश्च शक्तिमान् सिद्धोप्यथवा मुनिपुङ्गव | अक्षाणि प्रतिप्रत्यक्षं मनश्चाक्षमनुत्तमम् || संकल्पविषयं सिद्धं संकल्पादेव केवलात् | प्रपत्तव्यं मुनिव्याघ्र किमन्यत् परिपृच्छसि || इति न च योगिनोऽसिद्धा इति वाच्यम् | यच्छ्रुयते - आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् | ज्ञाननिर्मथनाभ्यासाद् देवं पश्येन् निगूढवदिति || अनुमानसिद्धत्वमप्युक्तं श्रीमन्मृगेन्द्रादौ - अथोपलभ्य देहादि वस्तु कार्यत्वधर्मकम् | कर्तारमस्य जानीमो विशिष्टमनुमानतः || वैशिष्ट्यं कार्यवैशिष्ट्याद् दृष्टं लोकस्थितावपीति | आगमसीद्धत्वमप्युक्तं श्रीमन्मतङ्गे - पञ्चमन्त्रतनुः श्रीमान् सकलः परिपठ्यते | सुप्रसन्नेन्द्रियग्रामः सर्वज्ञः सर्वगोचरः || योगयोगेश्वरः स्वामी स्वतन्त्रः पशुपाशहा | तस्योक्तिः पौरुषैः स्थूलैः प्रमाणैर्न च बाध्यते || इति | एषाचेश्वरसिद्धिः सर्वासु संहितासु न्यासादिषु च विस्तरेण साधितत्वान्नात्र लिख्यते | न चेश्वर कृतादागमादीश्वरसिद्धा - प्. ६३) वितरेतराश्रयदोषः आशङ्कनीयः द्वयोरपि विसदृशक्रियत्वात् | ईश्वरोह्यागमस्य कर्ता आगमस्तु तं ज्ञापयतीति | किं च तदुक्तेषु च दृष्टार्थेषु फलवत्त्वमुपलभ्यादृष्टार्थस्यापि तच्छास्त्रस्यावितथत्वं मनुमीयते | तदुक्तं श्रीमन्मतङ्गेपि - विशेषस्यानुमानस्य त्रिविधस्यापि निश्चयात् | आगमादाप्तवक्त्रोत्थान्नान्यथा मुनिपुङ्गव || आप्तश्चैवागमात् सिद्धः सचेदानीं विचार्यते | आयुर्वेदात् सगणितान् मन्त्र वादाच्च सस्फुटात् || रसोपनिषदाटोपादाप्तः संपरिगृह्यते इति | ननु देवतैव तावन्न सिद्धा | तत्संभवे हि तद्विशेषस्येश्वरस्य सिद्धिः | सा तु शब्दमात्रैव | तथाहि - कर्मानुष्ठानादेव फलं न देवतायाः तद्बाधकत्वेनाभिमतरुद्रेन्द्रादिशब्दभेदेन प्रमाणान्तरैरसिद्धेः | अत एव तेन सह संबन्धग्रहणा संभवादागमेनाप्य सिद्धिः | तत एव च संबन्धग्रहणेति तरेतराश्रयतोऽसिद्दिरेव | ततश्च रौद्रं चरुं निवर्पेत्स्वर्गकाम इत्यादाबुद्देश्यकारकतया विशिष्टकर्माङ्गत्वेन स एव देवताशब्दः प्रतीयत इति क्रियात एव फलं युक्तं न देवतात इति जैमिनीयाः | अत्रोच्यते | एवं हि देवतायाः शब्दमात्रत्वे फलमपि प्. ६४) शब्दमात्रमेव स्याद्यतो ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ स्वर्गाद्यात्मकं फलमपि तद्वदेव प्रमाणान्तरसिद्धम् | अथ यदि शब्दादि योगं विनापि नार्थरहित परः शब्दः संभवतीति पुराणेतिहासांदिप्रसिद्धं विशिष्टमेवात्र स्वर्गशब्दः फलत्वेनाभिदधातित्युच्यते तदिहापि समानमिति न शब्द एव देवतापि तु तद्वाच्योऽर्थविशेष एव स्ववाचकाद्भिन्ना देवदत्रादि शब्दवाच्यात्मवदिति सैव फलदान तु कर्ममात्रं तस्य कृष्यादि कर्मवत् फलजननमात्र एव सामर्थ्यादचेतनत्वेनेदं फलमस्मै दास्यामीति विवेकाभावात् | शब्दो हि विदितपदपदार्थ प्रत्यायकत्वेन भवतोपि सिद्ध इति इन्द्रादि शब्दानामपि शब्दत्वेनैवार्थ प्रत्यायकत्व सिद्धेस्तत्प्रत्येयो देवता लक्षणोऽर्थः स्वर्गलक्षण फलवत् सिद्ध एवमनुमानादि सिद्धत्वमपीश्वरलक्षण देवतायाः प्रागेवोक्तमिति न प्रमाणान्तरासिद्धं नापीतेस्तराश्रय दोषः | यदाहुः - श्रुतिसिद्ध्यर्थं श्रुतोपलब्धो यत्नवता भवितव्यम् न श्रुतिसिद्धौ यत्न विशेषशैथिल्यमाचरणीयमिति | ततश्च सोमपाःशतक्रतुरित्यादि श्रुतिसिद्धस्य देवता विशेषस्य कर्मणोनिरूपस्य च वज्रहस्तं सहस्राक्षमिन्द्रमीडे चतुर्भुजमित्यादि श्रुतिसिद्धस्य शब्दमात्रस्यासंभवात् तत् तद् विशेषेण विशिष्टा देवता सिद्धैव | श्रुतिरपि ताविशेषया देवमैत्रः प्. ६५) दृश्यते यथा - इन्द्रो दिव इन्द्र-ईशे पृथिव्या इत्यादि | न च देवताया मूर्तत्वात् अस्मदादि वदनेक देशयागसन्निधिरनुपपन्नेति वाच्यम् | अस्या अणिमाद्यैश्वर्य योगेन वासुदेव सौभार्यादिवत् प्राकाम्यशक्त्या युगपदमेक देशसन्निधिर्युज्यत एव यतः | तदुक्तं श्रीमत्पराख्ये - शब्दमात्रस्थिते मन्त्रे शब्दमात्रं फलं तथा | न चार्थरहितः शब्दः पदवाक्य गतक्रमः || वाच्यश्च वाचकाद् भिन्नो देवदत्तादि शब्दवत् | प्रत्यायकश्च ते शब्दपत्ययेर्थ विवर्जितः || तेन सा वाचकाद् भिन्ना वाच्या सा देवता ध्रुवम् | विशेषणं यतस्तस्यां कर्मरूपाभिधायकम् || प्रतिपन्नं विशेषेण वेदवाक्यैस्तथाविधैः | स्तुतापि देवता यस्मात् स्तुत्या साभिमुखी भवेत् || अथार्थवादतस्तस्या देवताया विशेषणम् | यदि तत्परमार्थेन विरोधः कतमो भवेदिति || देवता श्रूयते शास्त्रे तत एव फलं महत् | महावीर्योपपन्नत्वात् तया स्थास्यति स कृतौ || वेदान्त वादिनां यद्वदनन्तत्वं त्वनुग्रहः | इति च कः प्रत्येत्यर्थ वर्जितः | अर्थ विवर्जितः शब्दा इति को वेत्ति इत्थं श्रीमन्मृगेन्द्रे च - न जातु देवतामूर्तिरस्मदादिशरीरवत् | प्. ६६) विशिष्टैश्वर्य संपन्ना सातो नैतन्निदर्शनम् | इत्यादि | यद्येवमीश्वरस्यापि शरीरित्वादस्मदादिवदसर्वज्ञत्वमसर्वकर्तृकत्वं च स्यात् | ततश्च परमाप्तत्वानुपपपत्तिः | अशरीरश्चेत् कर्तृत्वनुपपत्तिः | यदाहुः - कार्यं शरीरयुक्तेन कर्त्रा व्याप्तं सदैव यत् | कार्यत्वात् तेन जगतः कर्ता देही प्रसज्यते || इति | अशरीरो ह्यधिष्ठाता नात्मा मुक्तात्मवद्भवेदिति च | ततश्चेश्वरस्यापि सावयवत्वेना नित्यत्वात् तस्यान्येन कर्त्रा भवितव्यम् | तस्यापि शरीरित्वेन कर्त्रन्तरापेक्षाया मनवस्था | तन्न आत्मनः स्वदेहस्पन्दादौ शरीरान्तरानपेक्षया इच्छामात्रेण कर्तृत्वदर्शनात् | नन्विच्छामात्रेण कर्तृत्वं स्वाधिष्टितशरीरस्यन्दादौ दृष्टम् | न तु बाह्ये मृदादिजन्ये घटादौ | सत्यम् | अत-एव सदाधिष्ठायकत्वेन विश्वमीश्वरस्य शरीरमिवानुमीयते | तस्मादिच्छामात्रेणेश्वरः सृष्टादि तनोति | आत्मनां हि मलादियोगादेव ज्ञान क्रिययोः शरीरेन्द्रियापेक्षा | ईश्वरस्य तु नित्य निर्मलत्त्वातदपेक्षा नास्त्येव | यतुक्तं श्रीमत्किरणे - यथा कालो ह्यमूर्तोपि दृश्यते फलसाधकः | एवं शिवो ह्यमूर्तोपि कुरुते कार्यमिच्छयेति || मोहकारिकासु च - अजात मलसंबन्धः सर्वज्ञः सर्वकृद्विभुः | प्. ६७) सकलो निष्कलोऽनन्तः स्वेच्छानन्तरकार्य कृदिति | शक्तिस्तु शरीरेन्द्रियादि कार्यं कुर्वाणा भगवतः शरीरतया करण तयोच्यते | तदुक्तं श्रीमन्मृगेन्द्रादौ - मूलाद्यसंभवाच्छाक्तं वपुर्नो तादृशं विभोः | तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः || ईश तत्पुरुषाघोरवामाजैर्मस्तकादिकमित्युक्ता | इत्थं शक्तिः कुर्वती देहकृत्यं देहाभावादुच्यते देहशब्दैः | तस्या भेदायेपि वामादयः स्युः तेपि प्रोक्ता कृत्यभेदेन सद्भिः || इति | करणं च न शक्त्यन्याच्छक्तिर्ना चेतनाचित इत्यादिना च | श्रुतावपि तस्य * * करणं च दृश्यते न च तत्संश्चाप्यधिकश्च दृश्यते | परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति | अत एव ज्ञानस्याप्यस्य न शरीरेन्द्रिया पेक्षा | यदुक्तं श्रीमन्मृगेन्द्रे - सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह | यो यज्जानाति कुरुते स तदेवेति सुस्थितम् || तच्चस्या वृत्ति शून्यत्वान्न व्यञ्जकमपेक्षते | तन्न सांशयिकं तस्माद् विपरीतं न जानुचित् || यानिव्यञ्जकमीहन्ते वृतत्वान् मलशक्तिभिः | व्यञ्जकस्यानुरोधेन तानि स्युर्व्याहतान्यपि || नाध्यक्षं नापि तल्लैङ्गं न शब्दमपि शांकरम् | ज्ञानमाभाति विमलं सर्वदा सर्ववस्तुष्विति || प्. ६८) कथं तर्हि पञ्चवक्त्रस्त्रिपञ्चदृगित्यादिभिरीश्वरस्य शरीरमागमेषु स्तूयते ध्यानार्थमेव | तन्न | ध्यानाकारे ध्यानपूजाद्युपपद्यते | यदुक्तं श्रीमत्पौष्करादौ - साधकस्य तु लक्ष्यार्थं तस्य रूपमिदं स्मृतम् | सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् || इत्यादिना अन्यैरप्युक्तं - आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैनिबुद्धिः | इति कथं तस्य शास्त्रोपदेशकत्वम् | इच्छामात्रेण विद्येश्वरादीनां शास्त्रावबोधकत्वमेवात्रोपदेशकत्वं न तु वागिन्द्रियव्यापारः | यदुक्तं श्रीमत्पराख्ये - सन्निधाने यतस्तस्मिन् सर्वकार्यस्य संभवः | अक्षहीनेपि सामर्थ्यं दृष्टं तत्कर्षकात्मनि || सामर्थ्यं तद्वदीशस्य सर्वकृत्ये निसर्गजम् | इति | अन्येप्याहुः - सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव | निस्सरन्ति यथाकामं कुड्यादिभ्यो निदेशनाः || इति | तस्मादीश्वर प्रणीतत्वेनास्य शैवागमस्य प्रामाण्यम् | ननु दर्शनान्तरेष्वपि हिरण्यगर्भादय ईश्वराः श्रूयन्ते | तेभ्योस्य को विशेषः | अत्रोच्यते | तेषां पशुपाशरूपत्वेनेश्वरान्तर पूर्वकत्वान्न सर्वेश्वरत्वं संभवति | तथा हि प्रकृतिरेव परत्र शब्दवाच्यो नारायणः प्. ६९) यो वा ईश्वरः कैश्चिदध्यात्मविद्भिः पाञ्चरात्रिकैश्चेष्यते तस्योपादान कारणत्वादितत्यारप्रकृतेदि * * * पिहिरण्यगर्भ समवर्तताग्रे भूतस्य जातः पतिरेक आसीदित्यादि श्रुत्यर्थतया हिरण्यगर्भाख्येश्वरस्तस्याः प्रकृतेर्विकारे ध्यात्मविद्भेदैरीश्वरः प्रोक्तः पाञ्चरात्रिक भेदैर्वा चातुरात्मलक्षणः | यतुक्तं - ईशास्तु ते समभवन् प्रकृतेः पदस्याः कृष्णानिरुद्धमकरध्वजरौहिणेयाः इति तस्याप्युत्पत्त्यपवर्गयोगित्वाद् ब्रह्मेन्द्रादेदिव धात्रन्तरेण भवितव्यम् | यश्चापि बुद्धिसंयोगादीश्वरः पातञ्जलैरुक्तः तनः संयोगान्नैयायिक वैशेषिकैस्तस्यापीश्वरत्वोपायभूतासौ संयोगः संयोगत्वादेव घटपटादि संओगवदनित्योऽव्यापकश्चेति न सर्वत्र सर्वदा चेश्वरत्वम् | अतो भुवनेश्वराणामपि दात्तन्तरेण भवितव्यम् | यश्चैवं सर्वेषामेव दाता स एवास्माभिर्महेश्वरत्वेनाभ्युपगतस्तस्यैवं दातृपूर्वकत्वेनासिद्धे | ननु दर्शनान्तर सिद्धाना विशेश्वराणां लोकवेदसिद्धत्वात्कथं महेश्वरत्वं प्रतिक्षिप्यत इति चेत् | तन्न | वेदादिशास्त्रतो लोकप्रसिद्धाचारस्यैव महेश्वरत्व प्रदर्शनात् | तथा च श्रुतिः - एक एव रुद्रो न द्वितीयायतस्व इति अत्र अवधारणेन द्वितीय निषेधेन च रुद्रस्यैव महेश्वरत्वं स्थाप्यते | रुद्रेष्वपि महेश्वराय शितिकण्ठाय त्र्यम्बकाय न च नमो नम इति पुराणेष्वपि- नौषधीभिर्महेशानमन्त्रैर्न च रसायनैः | प्राप्यते कुशलं तादृग्यादृक्त्वं नाम कीर्तनादिति | भारतादावपि वासुदेवार्जुनादिकृतेषु सप्तशतरुद्रादि प्. ७०) स्तोत्रेषु तस्यैव महेश्वरत्वेन प्रसिद्धिः | अत एव - भगवद्गीतासु दशमेऽध्याये- ये मामजमनादि च वेत्ति लोकमहेश्वरमित्यात्मनो नारायण भट्टारक परिमिततरामेव भूरादिद्विसप्तलोकविषय महेश्वरत्वमाह | न तु सर्वभुवनादि विषयमिति | कथं तर्हि शेरते न दौवं केशवात्परं इत्युक्तम् | अत एव भौतिक सर्गविषयात्पिशाचादि पितामहान्तादष्टविधाद् देवयोनिवर्गादसौ परः प्रोक्तः न तु महेश्वर इति को विरोधः | यदुक्तम् - अष्टविकल्पो दैवस्तिर्यग्योनिश्च पञ्चधा भवति | मानुष्यश्चैकविधः समासतो भौतिकः सर्गः | इति | एवमेव चन्द्रब्रह्मादावप्यवसेयम् | यदुक्तम् - अग्निर्वै देवानामवमोऽपचर इति | लोकेऽपि ब्रह्म विष्ण्वादीनां चक्रस्वामि मधुरास्वाम्यादिपदैः स्वामित्वेन प्रसिद्धिः | भगवत एव प्रयागादिषु स्वस्वभूक्षेत्रेषु महेश्वरस्थानेश्वर भूतेश्वरादि पदैः प्रतिष्ठास्थानेष्वपि ब्रह्मेश्वरसोमेश्वरादिभिः प्रसिद्धिः | अतश्च यद्यपि स * * र्यं पठ्यते तथाप्यन्यथैव तत्साम्यं पदं प्राप्तबलादावपि धनादिके दृश्यते | अन्यच्चेश्वरत्वं प्रभुरूपं यत्प्रचण्डतरनृपत्यादौ सिद्धमपि लोकप्रसिद्ध्यापि स एव महेश्वरः सिद्धः | उक्तश्च श्रीमत्पराख्ये - ईश्वरो रूढितो गम्य इति | न च प्रमाणसिद्धः यदाहुः - द्रव्यजाति क्रियाशब्दो गुणशब्दस्तथापरः | यौगिको योगरूढश्च प्रसिद्ध्यैव व्यवस्थितः || प्. ७१) सूर्यो गौश्चलनं शुक्लं पङ्कजं पङ्कजं यथा | तत्तदर्थाभिधायित्वाच्छब्दः प्रोक्तस्तु तद्विधेति || ननूक्तं प्रसिद्धिः वटयक्षवदप्रमाणमिति तदप्ययुक्तम् | यतः प्रसिद्धिनिबन्धनो हि सर्वः पदार्थसंबन्ध इत्युक्तम् | तस्याश्चाप्रामाण्ये वेदार्थस्या प्रतिष्ठेति सर्वमसमञ्जसमिति शास्त्रतो लोकतश्चात एव महेश्वरः सिद्ध इति उक्तं चास्माभिः पाषण्डपराजये - श्रुतिभिः स्मृतिभिः पुराणवाक्यैः मुनिमुख्यैरपरैश्च पूज्यमानाम् | प्रभुतामवधार्य चन्द्रमौलेः कथमेवं मनुजाः पुनर्विमूढाः || परमेष्ठिमुखैः पिपीलिकान्तैः भुवनेऽस्मिन्निखिलैश्च जन्तुवर्गैः | गिरिशः परिपूजीताङ्घ्रिपद्मो न तु कश्चिद्गिरिशेन पूजनीयः || इति | तस्मात् सर्वज्ञेन सर्वकर्त्रा परमाप्तेन परमेश्वरेण प्रतीतत्वाछैवागमाख्यं प्रमाणं सर्वोत्कृष्टतयाज्ञेयम् | अत एव वर्णाश्रमाचारव्यवस्थापकवेद विरुद्धबौद्धादिशास्त्रवन्नास्यानुपादेयत्वप्रसङ्गः | वर्णाश्रमस्थानामेवात्राधिकारश्रुतेर्वेदाविरोधाद्वेदवित्परिग्रहाच्च | यदुक्तं श्रीमत्पराख्ये - कार्या दीक्षापि सर्वेषां तच्छक्तिविधियोगिनाम् | प्. ७२) त्रयाणामपि वर्णानां न तु शूद्रान्त्यजादिषु | अमद्यपास्तु ये शूद्राः शैवाचार क्रियादशः || शिवभक्ताश्च तेषां सा दीक्षा कार्यान्यथा नहि इति | श्रीमत्सर्वज्ञानोत्तरेपि - यस्मिन्वर्णे स्थितो दीक्षां प्राप्तो देही शिवात्मिकाम् | तत्रैव संस्थितो नित्यं शिवधर्मं च पालयेदिति || उक्तं च श्रीमन्मतङ्गेन्द्रादौ - स्नानमाशिरसः कृत्वा समाचम्योदगाननः | प्राङ्मुखो वा भजेत् संध्यां वेदसिद्धां द्विराश्रमीति || धर्माधर्मसाधनसंसिद्धिराम्नायादेव ज्ञायते | तन्मूलत्वात् स्मृतेश्चापि श्चामेवापरस्य त्विति | तथाचम्य पुरा ब्राह्मीं भजेत् सन्ध्यां द्विराश्रमीति तथा इति वर्णाश्रमाचारान्मनसापि न लक्षयेत् | यो यस्मिन्नाश्रमे तिष्ठन् प्राप्तो दीक्षां शिवात्मिकाम् | स तस्मिन् नेव सन्तिष्ठंश्छिवधर्मं च पालयेदिनि पुराणेतिहासादौ श्वेतोपमन्युप्रभृतीनां महर्षीणामत्रानुष्ठानं श्रूयते | भारते च नरनारायणयोरश्वत्थाम्रञ्च आभ्यां लिङ्गेऽर्चितो देवस्तस्यार्चायां युगे युगे | इति स्वर्णाक्षे च भगवतो वासुदेवस्य परमेश्वराराधनसिद्धिः | रामायणेपि कार्तवीर्यादि स्तुतिषु च प्रतिष्ठापूर्वको धर्मः श्रूयते | पक्वेष्टकथितं सम्यग् यः करोति शिवालयम् इत्यादि - प्. ७३) सूत्रे मोक्षं विनिर्दिशेदिति च उपनिषत्सु श्वेताश्वतरादिष्वथर्वशिरः प्रभृतिषु च शिवस्याराध्यत्वं श्रूयते | सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् | शिवस्य चैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तमत्यन्तमेतीत्यादि शिव एकोध्येयः शिवंकरः सर्वमन्यत् परित्यज्येत्यादि च ततोऽस्य न विगानता वापि च्छिन्नमूलता न कैश्चिदेव परिग्रहः | तस्माद्वेदविद्भिरन्यैश्च तत्प्रमाणतयाग्राह्यम् | तदुक्तं मोक्षकारिकासु ##- न चान्येन प्रमाणेन संरुद्धस्तस्य गोचरः | श्रोत्रियैरप्यतो ग्राह्यं तत्फलाधिकसाधनम् || इति | तस्मात् परमेश्वर एव परमाप्तः | कपिलादयस्तु परस्परविरुद्धार्थाभिधायित्वात् न परमाप्ताः | यदाहुः - सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा | अथो भावपि सर्वज्ञौ मतिभेदस्तयोः कथमिति || ततश्च सर्वाविरोधेन सर्वान्यागमप्राप्य स्थान प्रदर्शनपूर्वकं तदनधिगतार्थ प्रदर्शकत्वाद्यथाधिकारं वेदादि सामान्यशास्त्रोक्त फलसाधकत्वात् तदविषयस्यापि विशिष्टस्य भोगमोक्षात्मनः फलसाधनत्वाच्च शिवागमाख्यं प्रमाणमव्याहतम् | यदाहुः - अनधिगतार्थगन्तृ प्रमाणम् इति | अत एवोक्तं सिद्धगुरुभिः | अशेषफलसाधकमिति | यदुक्तमा(गम?)शास्त्रेषु - प्. ७४) विद्यते यच्छिवागमे | न दृष्टं यच्छिवज्ञाने तदन्यत्र न विद्यते | इति | तस्मादेतद्विरोधे तानि बाध्यन्ते | तद्विनाश्य(स्य?)बाधा यदुक्तं सर्वज्ञानोत्तरे - न पुंभिरार्षकं वाक्यं दैविकं मुनिभिस्तदा | न देवैर्ब्रह्मणो वाक्यं वैष्णवं पद्मजन्मना || न शैवं वैष्णवाअद्वाक्याद्बाध्यते न कदाचने ति | श्रीमन्मोहशूरोत्तरेपि - पुराणं बाध्यते वेदैरागमैश्च तदुक्तयः | सामान्यं च विशेषं च शैवं वैशिष्टिकं वचः इति || मोक्षकारिकासु स ताभिरभिभाव्याभिः सामान्याभिश्च बाध्यते | ताभ्यो विलक्षणत्वात् तु तथा चाविषयत्वतः इति | यद्येवमन्यानि शास्त्राणि न प्रमाणानि भवेयुः | मैवम् | नान्यपि स्वविषये प्रमाणान्येव तत्तत्प्रणेनॄणां सर्वज्ञत्वाभावेऽपि स्वविषये ज्ञानादियोगात् | अत एव तैरसर्वार्थ दशिभिः स्वशास्त्रादन्यदप्रमाणमित्युक्तम् | सर्वार्थ दर्शितानातु शिवेन सर्वेषां स्वस्वविषये प्रामाण्यमुक्तं श्रीमत्सर्वज्ञानोत्तरादौ ज्ञानचर्यान्वितो बौद्धौ बुद्धितत्त्वमवाप्नुयादित्यादि | ते च तत्त्वप्राप्तिमेव परं मोक्षम् मन्यन्ते | तदयुक्तम् | तदूर्ध्व भुवन भोग्यानां कर्मणां युक्त्यागमसिद्धानां मलादिपाशानां चापरिक्षयान् परमप्राप्तिहेतुभूतशिवादिवस्त्वपरिज्ञानाच्च | प्. ७५) तदुक्तं श्रीमन्मृगेन्द्रे - यत्कैवल्यं पुंप्रकृत्योर्विवेकात् यो वा सर्वं ब्रह्म मत्वा विरामः | या वा काश्चिन् मुक्तयः पाशजन्या स्तास्ता सर्वा भेदमायान्ति सृष्टौ || इति | श्रीमदवधूतगुरुणापि - त्वन्मते भवविज्ञाननिष्पन्ना अपि मुक्तयः | भजन्ते नाविसंवादमाम्भसा इव वृष्टयः || इति | कानि पुनर्दर्शनान्तरैस्तत्रच्छास्त्रसिद्धानां प्राप्यानि स्थानानि? अत्रोच्यते - लोकायतस्त्वात् - पृथिव्यापस्तेजोवायुरिति चत्वारितत्वादि चैतन्यविशिष्टः कायः पुरुषः मदशक्तिवद्विज्ञानं प्रत्यक्षमेव प्रमाणमित्यादिद्यभ्युपगमात् प्रत्यक्षपरिदृश्यमानब्रह्माण्डोदरगतपृथिव्यादिभूतव्यतिरिक्त##- चैहिकमेव सुखं मोक्ष इति मन्यते | यदाहुः - यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः | भस्मीभूतस्य देहस्य पुनरागमनं कुतः || इत्यादि | ते च भूतचैतनिकाः कथ्यन्ते | एषां चतुर्भूतविषयं ज्ञानं प्रमाणमेव | इतरवस्तु कथनं भ्रान्तिरेवमन्येषामपि वादिनां स्वस्वविषयवस्तु कथने प्रामाण्यम् | स्वविषय स्वभावकथन मां - प्. ७६) तदि स्वरूपान्यथा भाव कथनं च भ्रान्तिरेव | केचित् पुनरात्मवादिनोऽनादिरेव पुरुषः कार्यकरणैः प्रवाहतः संसारबन्ध तस्थानादेः शरीरेन्द्रिययोगस्य विनाशाभावात् केवलं परिदृश्यमानानि दुःखशरीरनिवृत्यावशिष्टकर्मतः प्रकृष्टतरशरीरयोगेन नक्षत्र मार्गेऽवस्थानं मोक्षमाहुः | अन्ये त्वाग्नेय सौरवैष्णवादयोग्न्यादि देवतासाम्यं मोक्षः | ततः परं न प्राप्यस्थानमस्तीत्याहुः | तेषामपि ब्रह्माण्डान्तर्गततत्तद्भुवनदेवताप्राप्तिरेव स्यात् | ततस्तेपि भूतसिद्धा एव | अपरे तु हिंसामैथुनादिकमेव पुरुषार्थोपायं मन्यमानाः कौलाः घटपटन्यायेन भौतिकशरीरविनाशात् विशिष्टपदप्राप्तिमेव मोक्षं मन्यन्ते | तेपि वस्तुतः पिशाचादि पदावस्थितत्वात् भूतसिद्धाः | एवं कर्ममीमांसकाः जैमिनीयाः पुनर्न कदाचिदनीदृशं जगन्नास्य कर्ता कश्चिदस्ति आत्मानस्तु नित्यास्ते च स्वानुष्ठितैः कर्मभिरेव स्वर्गनरकादि फलभोक्तारः | एषां च श्रुतिस्मृति विहितनित्यनैमित्तिकानुष्ठानात्परगतिप्राप्तिरित्याहुः | नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया | मोक्षार्थि न प्रवर्तेत तत्र काम्यनिषिद्धयोः || इति | मन्वादयोऽपि भूताण्डकारणं यत्तदेवं परं ब्रह्म ज्ञानात्प्राप्यं च | नान्यतः संभवादित्याहुः | ततः स्वयंभूर्भगवान् व्यक्तो व्यञ्जयन्निदम् | प्. ७७) महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदे | इत्यादि | एते च सत्त्वादीनामपि ब्रह्माण्डमध्यजन्यत्वेनाभ्युपगमान् प्रकृतिजन्यानि गुणादीनि तत्त्वानि नैव सन्ति | ते सर्वे वस्तुतस्तन्मात्रासिद्धा इत्यत्रोच्यन्ते | इन्द्रियचैतनिकास्तु शरीरव्यतिरिक्तानीन्द्रियाण्येवात्मशब्दवाच्यानि नान्यदित्याहुस्तेचेन्द्रियसिद्धाः कथ्यन्ते | तत्त्वेपि पुनरिन्द्रियाणां प्रवृत्तिकारणम् मन एवात्मा तदेव परमं ब्रह्म तस्माज्जगत्सर्वं प्रवर्तते | तदेव ज्ञानात् प्राप्यमित्याहुः | यदुक्तं तैः - चित्तमेव हि संसारो रागादिक्लेशदुषितम् | तदेव तद्विनिर्मुक्तो मोक्ष इत्यभिधीयत || इति | तेप्यन्तः करण चैतनिकेषु मनश्चैतनिकाः | ये पुनर्निरूपाख्यमहं प्रत्ययस्वरूपमेव ज्ञानात्प्राप्यमित्युपगछन्ति तेप्यहं कारचैतनिकाः | ये त्वहंकारवृत्तिरूपं प्राणाख्य वायुमेवात्मानं मन्यन्ते तेप्यहंकारचैतनिकाः तेप्यहंकारसिद्धाः एव | बौद्धास्तावन्नैरात्म्यवादिनश्चतुर्विधाः | तत्र वैभाषिक सौत्रान्तिकौ बाह्यार्थसद्भाववादिनौ सर्वेवस्तूनां क्षणिकत्वमभ्युपगम्य बुद्धिवृत्त्यात्मिकामध्यवसायरूपां ज्ञानसन्ततिमेवात्मानं मन्यन्ते | माहायनिकमाध्यमिकौ तु बाह्यार्थशून्याज्ञानसन्ततिरेव परमार्थभूत | सैव च क्लेशादि वासनायोगात् संसारहेतुर्न तु ततोऽन्यदात्मादिकं वस्त्वस्तीत्याहुः | एतेषु मध्यात् केचिज्ज्ञानचर्याभ्यां शुद्धचित्संतति प्. ७८) समुत्सादो मोक्ष इत्याहुः | प्रदीपनिर्वाण वादिनस्तु तस्याप्युपशमं मोक्षं मन्यन्ते | ते बुद्धिचैतनिकाः प्रोक्ताः | नैयायिकवैशेषिकास्तु जगतः कर्ता परमेश्वरस्तस्योपादानं परमाणवः ते च नित्याः | अत्मानस्तुनित्याव्यापकाश्चं | तेसां च कर्मभोगार्थं मनः संयोगादेव ज्ञानमुत्पद्यते इत्याहुः | तत्र नैयायिकाः षोडशपदार्थज्ञानादात्मगुणविशेषेण बुद्ध्यादि विरहमेव मोक्षमाहुः | वैशेषिकास्तु पदपदार्थज्ञानादिति भेदः | यदाहुः - प्रमाणप्रमेय संशयप्रयोजन दृष्टान्त सिद्धन्तावयव तर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसावाप्तिरिति | द्रव्यगुणकर्मसामान्य विशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यज्ञानं निःश्रेयसहेतुरिति च | बुद्धि सुखदुःखेच्छा प्रयत्न धर्माधर्मसंस्काराणां नवानामात्मगुणानां अत्यन्ताभावो मोक्ष इति च परमार्थस्तेप्यात्मनां नित्यत्वाभ्युपगमेपि जडत्वाभ्युपगमात् धर्माद्यष्टगुणानां बुद्धिमेवात्मत्वेममन्यमाना बुद्धिसिद्धा एव | आर्हतास्तु अनेकान्तवादमभ्युपगम्य चलं गुणवृत्तमिति पातञ्जलोक्तन्यायेन गुणतत्त्वमेव तादृग्रूपमव्यापकमव्यापकशरीरपरिमितं परिणामिनं चात्मानं नित्यं मन्यमानास्तस्यानादि मोहादि संक्षयादिति ततस्ते गुणसिद्धा कथ्यन्ते | अन्ये तु पुरुषाणामनादिरेव प्रकृतिः | प्रकृतिसंबन्धो भोक्तृत्वं च | न चानादेर्नित्यस्य स्वभावस्य प्. ७९) विनाशोयुक्तस्तस्मान्मुक्तावपि भोक्तृभोग्य संबन्धः पुंप्रकृत्योरेष्टव्यः | केवलं चानादिकर्मक्षयान्मुक्तौ शुद्धनिरन्तरानतिशयानवछिन्नसदात्म सुखरूपा सा भोग्या भवतीत्याहुः | ते च सत्व भुजः कथ्यन्ते | तेषां च गुण भुवने स्थितिः सांख्याः पुनः पुरुषाः प्रतिशरीरं भिन्नाः नित्याः निर्विकाराः निर्गुणा निर्मलाश्चित्स्वरूपा व्यापका उदासीना अनाद्य विद्यादि क्लेशयुक्ताश्च प्रकृतिरप्येका सत्वरजस्तमोरूपा नित्या चैतन्यरहिता व्यापिका समस्तजगदुपादानभूता च | सा च महदादि पृथिव्यन्त तत्त्व तात्त्विक कॢप्तिरूपेण परिणता स्वात्मानं भोग्यतया पुरुषेभ्यो दर्शयतीति स एव तेषां संसारः | तेषां मध्ये यदा तु व्यक्ताव्यक्तात्मविषयेण ज्ञानेन प्रकृतिपुरुष विवेकपुरःसरं सत्त्वान्यथाख्यातिर्भवति तदा सातं प्रत्युपरताधिकारा तस्मान्निवर्तते | तदापदृष्टस्वरूपाद्यवस्थात्मकं कैवल्यं भवतीत्याहु | यदुक्तं तैः - वत्सविवृद्धि निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य | पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्ये ति || रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् | प्. ८०) पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिरिति च | तदेकदेशास्तु पातऽऽञ्जलाः प्रागुक्तमभ्युपगम्य पुरुषेषु मध्यात् कस्यचित् क्लेशादिवर्णितत्वं शास्त्रोपदेशकत्वं चोक्त्वा ज्ञानयोगाभासान्मोक्षमिच्छन्ति | यदाहुः - अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः | क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष इश्वरः | स पूर्वेषामपि गुरुः | इत्यादि | तेषां ज्ञानादिना गुणतत्वान्तभोग्यकर्मक्षयात् तदूर्ध्वबुवनप्राप्तिरेव मोक्षः | ततुक्तम् परमोक्षनिरासकारिकासु - गुणतत्त्वोध्वभोग्यस्य कर्मणोनुपलब्धितः | कैवल्यमपि सांख्यानां नैव युक्तमसंक्षयात् || इति | पाञ्चरात्राच्च गुणव्यतिरिक्ताया नारायणाख्यायाः परस्थाः प्रकृतेश्चिदचितोः वस्तूनां सर्वेषां साक्षात्परम्परयाचोत्पत्तिस्तेषां च जीवानां विद्या न कर्मानुबन्धेन संसारोज्ञानादिना तत्क्षयतः समुपशान्तकार्यभेदरूपे तस्मिन् परमात्मनि कारणलयः परश्रेय इति वदन्ति | यदाहुः - भगवान् वासुदेवोसौ गुणेभ्यः प्रकृतिः परा | अव्यक्तं व्यक्तमाहुस्तं परमस्मान्न विद्यते || इति | ईशांस्तु ते समभवन् प्रकृतेः परस्याः कृष्णानिरुद्ध मकरध्वजरौहिणेयाः | इत्याति च | तेत्राव्यक्त सिद्धाः कथ्यन्ते | तद्विकार भूतानां कृष्णादीनां तत्साधकानां प्. ८१) च गुणतत्त्वस्थे विष्णुभुवने वस्थितिः | तदुक्तं श्रीमत्पौष्करे - अकृतं च कृतं चैव रैभवं ब्राह्मंमेव च | वैष्णवं वाथ कौमारमौमं श्रैकण्ठमेव च || भुवनानि गुणेष्वष्टाविति | एते च सांख्यादयो माया महामाययोरपरिज्ञानात् सविषयामेव प्रकृतिं परप्रकृतितया परव्योमतया च मन्यन्ते | तदेकदेशास्तु प्रकृति मेव परब्रह्मत्वेनाभ्युपगम्य तद्विवर्तं जगदित्याहुः परिणामं वेदान्तिनः परमात्मलषणायाः पर प्रकृतेर्जीवात्मनां प्रपञ्चस्य चोत्पत्तिमुक्त्वा तेषां जीवात्मनामात्मज्ञानादिना परमात्मनिलयो मोक्ष इत्याहुः | मायावादिनस्तु सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादि श्रुतिसिद्धस्य ब्रह्मण एव सत्यतया तदन्येषां च भेदरूपाणामविद्यानिर्माणैकसारत्वेनासत्यत्वाज्जीवात्मनामपि प्रमाणसिद्धप्रोक्तसत्यभूतपरमात्मासारत्वेनप्यविद्याकलुषितत्वेन भ्रान्तत्वात् स्वप्नानुभवसंसाराभिधानो भेदप्रपञ्चस्वरू * * * * विदं प्रथमस्यात् कदाचिदात्मा ज्ञातव्य इत्याद्युक्तक्रमेण सम्यग् ज्ञानोदयात्तत्प्रतिपक्षभूत भ्रान्तिकारणप्रोन्मूलनेन तिरस्कृताखिलभ्रान्तिः परमात्मबोधः सुप्तप्रबुद्धस्य स्वरूपमात्रप्रतिष्ठो जीवात्मनः पूर्वप्रवाह विलयो भवति | सैव परामुक्तिरित्याहुः | तस्मात् ते पुरुषतत्त्व एवावस्थिताः | यच्छ्रूयते - प्. ८२) बुद्धितत्त्वे स्थिता बौद्धा गुणेषु त्वार्हताः स्थिताः | स्थिता वेदविदः पुंसि अव्यक्ते पाञ्चरात्रिकाः || इत्यादि | शब्दब्रह्मवादिनस्तु त आत्मनः क्रियाशक्तिमेव परं ब्रह्म परव्योमादिशब्दवाच्यामभिधाय तत एव शब्दार्थरूपस्य प्रपञ्चस्योत्पत्तिः | तत्परिज्ञानाल्लय एवापवर्ग इत्यहुः | तेपि परमार्थतः पुरुषतत्त्व एवावस्थिताः पौराणिकास्तु सांख्योक्तवत्प्रकृत्यादि तत्त्वजातं प्रकृतिपुरुषाधिष्ठातारं षड्विंशतिकमीश्वरं चाभ्युपगम्य तत्सालोक्यादि रूपां तद्गणेश्वर प्राप्तिं चैव परां मुक्तिमाहुः | तेषां वस्तुतः प्रेर्यत्वात् तदूर्ध्ववस्त्वपरिज्ञानाच्च न परा मुक्तिः | यदुक्तम् परमोक्षनिरासकारिकासु - गणेन्द्राग्निसमो प्रेर्यावसंपूर्ण मनोरथावित्यादि | एवं परमादित्यादि साम्यमोक्षवादिनोपि तत्तद्भुवनेषु तत्तत्सालोक्यादिरूपां मुक्तिं व्रजन्तीत्यर्थतः सिद्धमेव | पाशुपताः पुनः मायाव्यतिरिक्त मलमनभ्युपगच्छन्तो दीक्षाज्ञानादिना सर्वबन्धक्षये सति परमेश्वारात् सिद्धे सर्वज्ञत्वादि गुणसंक्रान्तिस्तत्साम्यं मुक्तिरित्याहुः | तेषां तु परमार्थतो मलापरिज्ञानात्तद्विनाशाभावेन मायातत्त्व एवावस्थितिः | यच्छ्रूयते - पाशुपतास्तु मायायां विद्यायां तु महाव्रताः इति | एवं तद्विशेषाणां शैवपुराणाद्युपन्यस्तानां वैदिकयाशुपतावामप्यत्रैवावस्थितिः | केचिदुत्पत्त्या साम्यमोक्षवादिनः शिवप्रसादा सिद्धे सर्वज्ञत्वाद्युत्पद्यत इत्याहुः | अपरे परमेश्वरावेशात् सिद्धे सर्वज्ञत्वादि प्. ८३) स्यादित्याहुः | तेषामपि समलत्वेन पारमार्थिकस्वगुणव्यक्त्य भावात् तत्रैवावस्थितिः स्यात् | महाव्रताश्च सांख्यपक्षवद्बद्धदशायामप्यात्मना न कर्तृत्वं मुक्तौ च सिद्धानां सर्वज्ञत्वमेवासर्वकर्तृत्वं तु परमेश्वरस्यैवेत्यभ्युपगछन्ति | यदुक्तं पदयक्षिण्याम् - परमशिवसिद्धात् प्रत्युपरनाधिकारोप्यन्येष्वनुपरताधिकारः सिद्धः पुनरेकान्ते न सर्वत एवोपरताधिकार इति भेद इति | एवं भूते च विद्यातत्वान्त एवाध्वनि तत्वान्तराप्त * * * रतन संज्ञाया कथयन्ति परमार्थतस्तत् तत् तत्त्ववासिनामिव | सर्वकर्तृत्वानभ्युपगमात् ते विद्यायामेवावस्थिताः इत्युक्तम् - विद्यायां तु महाव्रताः | अन्ये पुनः सिद्धस्य सर्वज्ञत्वमभ्युपगम्य परमेश्वरप्रेर्यत्वमिच्छन्ति | परे तु प्रवाहनित्येश्वरवादिनः सिद्ध एव सर्वकर्तृत्वमीश्वरेप्यन्यस्मिन्नेत्याहुः | तेषामीश्वरप्रेर्यत्व सिद्धेर्वस्तुत ईश्वरतत्त्वेऽवक्ष्यानम् | शक्त्यद्वैतवादिनः केचिच्छक्तिमेव परमकारणत्वेनाभ्युपगम्य तत्परिणामं जगदिच्छन्ति | ते च वेदान्तवादिवज्ज्ञानादिना तल्लयमेव मोक्षं मन्यन्ते | ते परमार्थतः शक्तेरूपादानत्वाभ्युपगमात्कुण्डलिनीय शक्तितत्वेऽवस्थिताः कौलादीनां तु कैश्चित् पुरुषार्थसाधनत्वेन स्वीकृतानन्दतन्त्राणां मत्स्यादिभिः सर्वैः स्वमनिषया प्रणीतत्वेना फलत्वान्नात्र शैवे स्वीकारः | एवमुक्तेन प्रकारेणान्येपरमपिवामदक्षिण प्. ८४) गारुड भूततन्त्राख्यस्रोतोन्तराणामपि स्वस्वविषये प्रामाण्यमस्त्येव | एवं सर्वागमानां स्वस्वविषये प्रामाण्यमभ्युपगम्य तदविषयाणि शिवादि वस्तूनि प्रदृश्य तछास्त्रोपदिष्टमोक्षेभ्यः प्रकृष्टतरस्यापुनरावृत्तेः परमशिव साम्यरूपस्य स्वरूपव्यक्तिलाभात्मनः परस्य मोक्षस्य प्रदर्शना तदेव प्रमाणमित्युक्तम् | एतत्सर्वागमप्रामाण्यं तत्र भवता रामकण्ठेन श्रीमद्रौरववृत्तिविवेके प्रोक्तम् | यदुक्तं - परस्पर विरोधेन प्राप्यबाधामनानताम् | सर्वागमानामाहुर्ये तत्प्रतिक्षेप उच्यते || शक्तितत्त्वे तदद्वैतामुक्तिमिच्छन्ति ये स्थिताः | विद्येशतत्त्वे पूर्वे तत्प्रेर्यमीश्वरमेव ये || मन्त्रेशशुद्धविद्यायां ये सर्वज्ञं मुनीश्वरम् | मायायां ये स्वचिद्धीनं संक्रान्तगुणमीश्वरम् || ते स्थिता मुक्ति भेदोयं शुद्धोयं पशुदृक्कृतः | पशौ ब्रह्मत्वमाहुर्ये चिद्विवर्तादनिर्मलात् || तत्रैव च- ये प्राक् प्रपञ्चां क्रियाशक्तेः पराहि वाक् | अव्यक्ते येऽप्युपादानं गुणानां ब्रह्म चात्मनाम् || अत्रैव करणं तेषां ये तु नारायाणाभिधम् | गुणपृष्ठे गुणेभ्यो ये विवेकोक्तबलान्नरम् || गुणेषु येप्यनेकान्तं स्याद्वादचलवृत्तिषु | प्. ८५) बुद्धौ भ्रान्ताः पुमांस्ते ये ज्ञानादि गुणशान्तितः | बुद्धिवृत्तौ क्षणध्वंसि ज्ञानमात्रं तु ये भ्रमात् || अहंकृतौ तु तद्वर्त्ति प्राणमात्रं भ्रमेण ये | मनसीन्द्रियवृत्तौ यो हेतुमात्रं भ्रमान्तरम् || इन्द्रियेष्विन्द्रियाण्येव ज्ञात्वा ह्यात्मेति ये विदुः | तन्मात्रेष्वाप्य माहुर्ये ब्रह्मभूताण्डकारणम् || हिंसामैथुनतः सिद्धाः पिशाचादिपदे स्थिताः | भूतेषु येपि चैतन्यं प्राप्यं भूतात्मकं विदुः || तेपि मुक्तौ स्थिता स्वेच्छा मन्ये ये परदर्शनात् | मुक्तिमिच्छन्ति तज्ज्ञेयास्तत्तत्तत्त्व युजो बुधैः || यच्चित्तस्तत्र योपेतो भवतीत्युच्यते बुधैः | शश्वत्प्राप्य चितश्चैतं व्याप्नुवन्त्येव ते स्वतः || तत्त्वेभ्यो दक्षिणेभ्योन्यत्तैः प्राप्यं यद्यपीष्यते | तथापि च तदेवोक्तं कार्यैकाध्यवसायतः || परोक्षस्यार्थतो भेदो भेदोयं कारणस्य वा | कार्याद्भिन्नादभिनाच्च सिद्धवत्सिद्धिमेतियत् || कार्यैरेभिस्थितैर्यस्मात्तानि ज्ञानि तैः परैः | तान्येव नामभिस्तत्त्वैर्न च नामार्थ भेदकम् || तत्रापि तेषामंशेन भ्रान्तिर्यद्यपि विद्यते | सत्यकार्यानुमानैस्तैस्तथाप्य भ्रान्तबुद्धयः || प्. ८६) भ्रान्तिरर्थान्तरारोपान् सत्यधर्मावलम्बिनि | कार्यापैतीति सर्वस्य न विहन्तुं क्षमायतः || काचोग्निहेतुरिति यैः सूर्यकान्तः प्रतीयते | काच भ्रान्त्यापि किं तत्र ते भ्रान्ताः परमार्थतः || अतः स्वसंकल्पनाभिस्तैः कल्पितं वस्तु यद्यपि | तथाप्यन्ते विसंवादात्तद्रूपत्वं विशन्ति ते || तेषां भ्रान्तिस्तु सा प्रोक्ता तत्प्राप्तौ यानि वर्जिता | तत्सचित्र विपक्षत्वात् प्राप्तेरपि विरोधिनी || षट्त्रिंशत् तत्त्वरूपस्य आत्मनोस्य क्रमस्थितेः | तदेकदेशतत्त्वाप्तिर्न सत्त्वा न च निष्फला || इत्थं प्रत्यागमं येन भिन्नं प्राप्यमवस्थितम् | सर्वागमानां तेनोक्तं प्रामाण्यमविरोधतः || प्रामाण्यमित्थं सकलागमानामीशेन गीतं क्वचिदेवयञ्च | एतद् गुरुणामुपदेशसिद्धं युक्त्योक्तवांस्तद्वतरामकण्ठः || इति | सर्वं च शास्त्रजातं लोकिकादि भेदात् पञ्चधा भिन्नं तत्र लौकिकं शास्त्रमायुर्वेददण्डनीत्यादि दृष्टफलम् | वैदिकं तु मीमांसादि दृष्टादृष्टफलम् | आध्यात्मिकं तु वेदान्तसांख्याद्यात्मज्ञानफलम् | अतिमार्गं पुनः पाशुपतादि मायादि तत्त्वप्राप्ति फलं च | मान्त्रं तु शैवाख्यं परापरभोगमोक्षफलम् | ततुपायोपदेशकं च तस्मादन्येषु शास्त्रेषु शिवादिपरिज्ञानं भोगमोक्षं स्वरूपं तदुपाय कथनं च चास्फुटं प्. ८७) यदुक्तं श्रीमन्मृगेन्द्रे - प्रणेत्र सर्वदर्शित्वान्न स्फुटो वस्तुसंग्रहः | उपायाः सफलास्तद्वच्छैवे सर्वमिदं परमिति || ननु स्रोतोऽन्तराणां वामदक्षिण गारुडभूत तन्त्राणामपि शैवत्वेन प्रसिद्धेः कथं तेषु वस्तुसंग्रस्य भेदः | उच्यते | तेषां परस्पर विरुद्धार्थ प्रतिपादकत्वेन सांख्यादिवदेककर्तृत्वा संभवात् सर्वज्ञस्य सर्वानुग्राहकस्य रागद्वेषादि रहितस्य शिवस्य विरुद्धार्थाभिधायित्वा योगात् परमेश्वरात्कामिकादि ज्ञानावतारकत्वेन प्रसिद्धानां प्रणवादीनामिव स्रोतोऽन्तराणामपि परमशिवादवतारकत्वेन कस्य चिदस्मिन् शास्त्रोक्त वचनादर्शनाच्च न तानि परमशिवकृतानि किंतु तत्पुरुषशिवशक्त्यधिष्ठितैर्मलपरिणति तारतम्याधिकारमनुगृतीतैर्वामादिवच्छिवशब्दवाच्यैरागमानन्तरैः प्रणीतमित्यविरोधः | तानि च स्वविषये प्रमाणान्येव | तदुक्तं रत्नत्रये - सिद्धान्त एव सिद्धान्तः पूर्वपक्षास्ततः परे | आगमाः शिव एवैकः शिवोऽन्येत्व शिवा मताः || इति | श्रीमन्मृगेन्द्रेपि - स्रोतांसि कामिकायुर्ध्वमसिताङ्गादि दक्षिणम् | संमोहाद्युत्तरं प्राच्यां तन्त्रं तालादिविस्तरम् | आद्यं चण्डासि धारादि चण्डनाथ परिग्रहम् || इति कथं पुनस्तत्रैव - सृष्टिकाले महेशानः पुरुषार्थप्रसिद्धये | विधत्ते विमलं ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तम् || प्. ८८) अत एव विमलमित्युपदेशातपञ्चमन्त्र परिग्रहत्वात्पञ्चकृत्य प्रतिपादकत्वात् मञ्चमन्त्रात्मक शिवदेहाभिव्यक्तत्वाच्च सिद्धान्तरूपमेव ज्ञानं पञ्चस्रोतोभिलक्षितमित्युक्तं | अत एव स्रोतोऽन्तरस्थानां सर्वत्र शैवत्वेन प्रसिद्धिः | तदुक्तं श्रीमत्ष्ट्सहस्रिकालोत्तरे - शान्त्यतीते कामिकाख्यं शान्तेर्वै योगजं विभोः | अचिन्त्यं विद्धि विद्यातः प्रतिष्ठा कारणात्मिका || निवृत्तेरजितं नाम शिवस्य वदनानि तु | दीप्तं शिवस्य हृदयं सूक्ष्माख्यं तु शिरस्तथा || सहस्रं तु शिखा शम्भोरंशुमत्स्यात् तनुत्रम् | सुप्रभं लोचनं ज्ञेयं सोमसूर्याग्निसन्निभमिति || मूर्धतो विजयं जातं ललाटात् पारमेश्वरम् | नेत्रेभ्यश्चैव निश्वासं त्रिखण्डं निर्गतं पुरा || श्रवणाभ्यामयोद्गीतं द्विखण्डं भुक्तिमुक्तये | त्रिंशत्प्रकारं विज्ञेयं मुखाच्च मुखबिम्बकम् || त्रिशतं तु तथा सैद्धं ग्रीवां साभ्यां समुत्थितम् | द्विकाण्डं चैव संतानं तालु देशाद्विनिर्गतम् || एकभेदं नारसिंहं वक्षोदेशाद् विनिर्गतम् | स्तनाभ्यां चन्द्रहासाख्यं तद्विभेदाद् विनिर्गतम् || प्. ८९) हृद्ग्रीवाद्वीरभद्राख्यं तद्विभेदादिविनिर्गतम् | आग्नेयं वातुलाज्ज्ञेयं जठरादेकभेदकम् || स्वायंभुव नाभिदेशात् भेदेनैकेन सर्पितम् | विसरं पार्श्वयोर्जातं द्विभेदं शिवकायतः || रौरवं ब्रह्मदेशात्तु भेदैकेन व्यवस्थितम् | प्राकुटं कटितो जातं त्रिभेदं तच्च शाङ्करि || एकभेदं तु किरणं प्रजननाद् विनिर्गतम् | ऊरुयुग्मानु ललितं सिद्धान्तं तद्विभेदजम् || द्विभेदं सौरभेयं च जानुभ्या परमेष्ठिनः || इति | तस्मात् सिद्धान्ताख्यं शास्त्रं सर्वोत्कृष्टमित्यनेन च सर्वाणि ज्ञेयानि वस्तूनि प्रतिपाद्यन्ते | अत्र हि पशुपति पाशाख्यं पदार्थत्रयं मुख्यतया ज्ञेयत्वेनोच्यते | एतेष्वेवान्येषामप्यन्तर्भावात् | यदुक्तं श्रीमन्मृगेन्द्रे - त्रिपदार्थं चतुःपादं महातन्त्रं जगत्पतिः | सूत्रेणैकेन संगृह्य प्राह विस्तरशः पुनः || इति | तत्र मन्त्र मन्त्रेश्वर मन्त्र महेश्वर मुक्तात्मशक्ति शिवानां क्रियादिपादवाच्यस्य दीक्षादेर्भोगमोक्षसाधनकलापस्य च पतिपदार्थे संग्रहः | पशुपदार्थे च विज्ञानाकल प्रलयाकल सकलान | तद्भेदानां संग्रहः | पशुपदार्थे तु मलतिरोधानशक्तिकर्ममायामहामायारूपाः पाशाः संगृह्यन्ते | अत्रापि च श्रीमन्मतङ्गादौ प्. ९०) पदार्थानां संज्ञाभेदाः संख्याभेदाश्च श्रूयन्ते | तत्राप्येतानि वस्तूनि प्रकाशन्तरेणोच्यन्त इत्यविरोधः | पशुपतिपाशलक्षणं चोक्तं श्रीमत्पराख्यादौ - सर्वकर्ता महान् छक्तः सर्ववेत्ता महेश्वरः | मन्त्राङ्गोऽनुग्रहोत्साहः शान्तो विद्येश बोधकः इत्यादि || देहान्यो नश्वरोव्यापी विभिन्नः समलो जड | स्वकर्मफलभुक्कर्ता किञ्चिज्ज्ञः सेश्वरः पशुरित्यादि | तथा प्रावृतीशबले कर्ममाया कार्यं चतुर्विधम् | पाशजालं समासेन धर्मानाम्नैव कीर्तिता | इत्यादि च | पशवस्त्रिविधाः तत्र मलमात्रयुतो विज्ञानाकलः मलकर्मयुतः प्रलयाकलः मलमायाकर्मयुतः सकलः मलश्चैकोनात्मविद्या विद्यावारकोनेकशक्तियुक्तो नित्यो व्यापकश्च | कर्मापि प्रतिपुरुषभिन्नं प्रवाहानाद्यात्मकर्तृकं सुखदुःखादिप्रदं च | माया शुद्धाशुद्धा च | तत्राशुद्धा च तत्राशुद्धा कलादिक्षित्यन्तत्रिंशत्तत्व तद्गतभुवनभुवनभूतभावानां परमकारणभूता नित्या स्वकार्यव्यापिका शुद्धविद्यादि शक्तितत्त्वान्त तत्त्वतात्विक भुवनादि परमकारण रूपा शब्दोपादान भूता च रोधशक्तिस्तु मलपाकात्पूर्वं तत्पाकार्यं पशूनां तिरोधानभावनां कुर्वाणोपचारेण पाश इत्युच्यते | किं च महामाया भुवनप्राप्तेरपरमुक्तित्वेपि तत्प्राप्तानां परमुक्त्यपेक्षया पारतन्त्र्यादि योगात्रयाणां पाशत्वमुच्यते | एतच्च प्. ९१) सर्वं शास्त्रेषु विस्तरेण साधितत्वान्नात्र प्रपञ्चते | ननु नित्य एव शब्दः | कथं तदुपादानतयात्र सिद्धा महामायोच्यते | अत्रोच्यते वर्णानामाचैतन्ये सत्यनेकत्वेन तत्कारणतया विद्याख्या महामाया सिद्धा | तदुक्तं श्रीमत्पराख्यादौ - उपादानमतो बिन्दुर्यस्माद्वर्णा न तद्विना | बहुसंख्याः स्मृता यस्मात् कृतास्ते चेतनायतः || निमित्तमीश्वरस्तेषामुपादानं स बिन्दुरा || इति || अमेनाक्षरबिन्दोः परमकारणस्य परबिन्दोर्विशेषमाह | ततश्च परमेश्वरो बिन्द्वाख्यात्परमकारणान्नादादि क्रमेण समस्तपदादिरूप- शब्दकारणत्वान्मातृकाशब्दवाच्यान्वर्णानुत्पादयति | तदुक्तं श्रीमन्मृगेन्द्रे - शक्तेर्नादो भवद्बिन्दुरक्षरं मातृका तत इति | ननूच्चरिते ध्वंसिनां वर्णानां ताल्वोष्ठपुटसंयोगादुत्पत्तिर्दृश्यते | उक्तं च - आकाशवायुप्रभवः शरीरात्समुच्चरन्वक्रमुपैति नादः | स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागछति यः स शब्दः || इति | तत्कथं महामायाजन्या मातृकोच्यते | अत्र ब्रूमः | परमेश्वरः सर्गादौ नादादिक्रमेण मातृकामन्त्रं मन्त्रात्मकं च सिद्धान्तशास्त्रमुत्पादयामास | स च शुद्धशब्द उच्यते | तदुक्तं श्रीमत्पराख्यादौ - बिन्दुः शुद्धस्तदिच्छातः शब्दराशिरभूत्तदेत्यादि | तदुत्पन्नाश्च नादास्तत्वान्तरवत्प्रतिपुरुषमर्थप्रत्यायकत्वेन शिवेच्छया संयुज्यन्ते | नादसिद्धिश्च नादकारिकासु द्रष्टव्या | तदुक्तं श्रीमत्कालोत्तरे - प्. ९२) नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् इति | ते च नादा विद्येश्वरादिषु वर्तमानाः शुद्धबैन्दवशरीरादिसहकारेण शुद्धशब्दोच्चारहेतवो भवन्ति | सकलेषु तु बद्धात्मसु वर्तमाना मायीय कार्यकरण सहकारेणं परमाक्षरबिन्द्वादि क्रमेण शब्दोच्चारभेदेनार्थ प्रतिपत्तिहेतवश्च भवन्ति तदुच्चरितशब्दो मायीयाकाशादिजन्यत्वादशुद्ध उच्यते | ततश्चास्मदाद्युच्चरितेषु शुद्धवर्ण सदृशेष्वङ्गारस्थानीयेषु वर्णेषु परमेश्वराद्यवधानादिना तद्द्धिच्छया नादद्वारेणाभिव्यक्ता अग्निस्थानीयाः शुद्धवर्णाः फलहेतवो भवन्ति | अत एव घटादिशब्देभ्यो मन्त्र राजस्य विशेष | उक्तं च श्रीमन्मतङ्गे - वाच्यवाचकभेदे यः सुप्रसिद्धौ महामुने | तेषां व * * संनियुक्तानां वाच्यानां कारणेच्छया | नियुक्ता वाचकत्वेन वर्णाः शास्त्रे शिवोदये | अस्वतन्त्रं जगद्यस्मात् स्वतन्त्रः परमेश्वरः | ददीरिताः साधकानां नित्यं संनिहिता गिरः | पुरुषाणामचैतन्याद्वर्णानामप्यमूर्तता || मन्ये च परतन्त्रत्वात् साधकस्यापि शासने | शक्त्यावेशात् ततः सिद्धा वाच सांनिध्यता मनोरिति || तस्माच्छब्दार्थ संघस्य नित्यत्वाच्छब्दोपि नित्य इत्ययमपि पक्षो निरस्तः | वाच्यवाचकसंबधस्य परमेश्वरसंकेतकृतत्वान्त च संकेतः सर्वशब्दानामेकेन कर्तुमशक्यमिति वाच्यामपरिमित शक्तित्वेन प्. ९३) परमेश्वरस्योक्तत्वात् | तदुक्तं श्रीपराख्ये - तगदेतद्यथा सृष्टमिच्छया क्रमवर्जितम् || संकेतोपि तया सृष्टो जनैर्ज्ञातस्तदिच्छया | अस्वतन्त्रं जगद्यस्मात्कर्मपाशतमोवृतम् || या काचित् तद्गताचेष्टा सा सर्वा तत्कृता यतः | तेन संकेतकृत्सर्वो कुलहेतुर्यतः स्थितः || मन्त्राणामपि संकेतास्तेनैव परिकल्पिताः | बहवस्तत्र ये सिद्धा मातृकापदलक्षिताः || इति | तथा मन्त्रवार्तिके च - विद्याविद्येशानां सामान्यविशेषविच्छम्भु | मन्त्रानकरोद्यस्मादर्य विदभिधान कृद्दृष्टः || इति | तस्मादितरशब्दरचनाया मायीयकार्यकरणे पशुकृतत्वात् स्रोतोन्तराणामप्यात्मान्तर प्रणीतत्वाच्च सिद्धान्ताख्यमेव शास्त्रं सर्वोत्कृष्टमिति स्थितम् | तत्प्रणेतुः परमेश्वरस्य कृत्यानि पञ्च सूक्ष्मादीनि | यदुक्तं श्रीमन्मृगेन्द्रे - जगज्जन्मास्थितिध्वंसतिरोधान विमुक्तयः कृत्यं सकारक फलं ज्ञेयमस्यैतदेव हीति | तत्र शिवस्य साक्सात् सृष्टिः विन्द्वाख्यादुपादानाच्छुद्धतत्व भुवनाद्युत्सादनपूर्वं विद्याविद्येश्वरादीनां बैन्दवशरीरादि योगजननादि क्रमेण शब्दोत्पादनं च अनन्तादि द्वारात् मायाख्यादुपादानादशुद्धतत्त्वभुवनाद्युत्पादन पूर्वमपद मन्त्रेश्वराणां सकलानां च मायीय कार्य करणादि संयोजनम् | तदुक्तं श्रीमत्किरणे - प्. ९४) शुद्धे ध्वनि शिवः कर्ता प्रोक्तोऽनन्तोसिते प्रभुः | इति | स्थितिः स्वेच्छया निरुद्धस्य सर्वस्य जगतः स्वेषु कार्येषु नियमेनावस्थापनम् | संहारः पुनः शुद्धाशुद्धयोः सृष्टिप्रातिलोम्येन माया महामाययोरूपसंहारः | तिरोभावेप्यात्मनां यथानुगुणभोगभोजनं | अनुग्रहस्तु पाशच्छेदः शिवत्वाभिव्यक्तिश्च ततश्च परमेश्वरः सृष्ट्यादिभिरात्मनां मलं परिपाच्यानुग्रहेण मोक्षं करोति | तदुक्तं श्रीमत्स्वायम्भुवे - अथात्मबन्धसंतान पशुत्व विनिवृत्तये | व्यक्तये च शिवत्वस्य षड्विधोध्वेह कीर्त्यते || तत्त्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः | मन्त्राध्वा च कलाध्वा च विशत्येकं शिवं पदमिति || ते च प्रत्येकं क्रमेण शिवपदप्राप्ति हेतुत्वात् अध्वानः कथ्यन्ते | तत्र कलाध्वा शान्त्यतिता शान्तिविद्याप्रतिष्ठा निवृत्त्यात्मक पञ्चकलात्मा | वर्णाध्वाप्यकारादि क्षकारान्तपञ्चाशद्वर्णमातृकात्मा | पदाध्वा पुनर्व्योम व्यापिपदरूपस्तत्पदानि च क्वचिदेकाशीतिसंख्यानि क्वचित् षण्णषतिसंख्यानि | मन्त्राध्वा तु क्वचिन्नेत्र वर्जिताङ्ग ब्रह्मशिवमन्त्रात्मा क्वचिन्नवव्यूह मन्त्ररूपः शिवादि मन्त्राश्च प्रतितन्त्रं भिद्यन्ते | तेन च मन्त्रभेदः क्रियाभेदश्च तन्त्रविरोधस्य हेतुः | क * * * त्र भेदस्यैव बोधायनादिसूत्रेषु यथा | यदुक्तं - क्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः | प्. ९५) तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः | शब्दसामर्थ्यलभ्यं यदर्थसामर्थ्यतोऽपि वा || वस्तुशक्त्या यथाप्राप्तं तद्वाक्यं संहितान्तरात् || इति | याज्ञसूत्रेऽपि - यः स्वसूत्रमतिक्रम्य परं सूत्रेण वर्तते | अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते || इति | भुवनानि शुद्धाशुद्धानि भोगस्थानानि | सवप्रतितन्त्रं संख्याभेदेन श्रूयते | तत्र केषुचिद्भुवनेषु केषां चिदन्तर्भावाभ्युपगमादविरोधः | तत्त्वाध्वा तु पूर्वोक्तमुक्तिस्थानतारतम्य प्रदर्शनार्थं विस्तरेण लिख्यते | स च द्विविधोऽशुद्धः शुद्धश्च | तत्राशुद्धाध्वसृष्टिः साधारणासाधारणोभयरूपेण त्रिधा | तत्रासाधारणसृष्टिः प्रतिपुरुषनियता सूक्ष्मदेहात्मिका | साधारणानु भुवनाद्यात्मिका | उभयरूपा तु भुवनजशरीरात्मिका | तत्र मायातत्वमशुद्धाध्व परमकारणमित्युक्तम् | तस्मात् कलादिक्षित्यन्तानि | तस्मात् कालकलेरागविद्याद् व्यक्तं गुणाद्धियं | बुद्धितत्त्वादहंकारः तन्मात्राणीन्द्रियाणि च | तन्मात्रेभ्यश्च भूतानि सर्वं च क्रमशोऽसृजदिति | तत्र कलाशब्देन तन्त्रेण न्यायेन नियतिरपि संगृहीतेति वृत्तिकारेणोक्तम् | ग्नियतेरपि सर्वत्र तद्वत्तेन श्रवणात् | उक्तं च तत्रैवाध्वनि मायाधः कलातत्त्वं तु संस्थितम् | तत्पदद्वये नियतिश्च परेऽन्यस्मिन् कालविद्या ततः पुनरिति तत्र संहारक्रमेण पृथिव्यादीनि महाभूतानि पञ्च | तदुक्तं सृष्टिक्रमेण श्रीमन्मृगोन्दे - प्. ९६) व्योमप्रभञ्जनाग्न्यम्बु भूमयो भूतपञ्चकम् | शब्दाह्येकोत्तरगुणमवकाशादि वृत्तिमदिति || तदुपादानानि पञ्चतन्मात्राणि | तदुक्तं श्रीमन्मृगेन्द्रे - शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चकम् | गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोगिता इति | तत्त्वसंग्रहे च - तद्भूतसमानगुणं कारणमापूरकं च तस्यैव | तन्मात्रं भूतस्य ह्ययं विशेषो विशेषरहितं तदिति एतानि स्थूलसूक्ष्मरूपेणेन्द्रियाधाराणि स्थितानि | तदुक्तं श्रीमन्मृगेन्द्रे - तन्मात्राणीह कट्वन्महाभूतानि लेपवदिति | तत्त्वसंग्रहेपि - एतत् कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् | अविभुत्वात्करणानि तु कार्यमधिष्ठाय चेष्टन्ते || इति | तानि च करणानि कर्मेन्द्रिय बुद्धिन्द्रियान्तः करण भेदानिधा | तत्र कर्मेन्द्रियाणि श्रीमन्मतङ्गोतवत्संहार क्रमेणानन्दादि क्रियाकरणत्वेन सिद्धान्युपस्थपायुपादपाणि वागाख्यानि पञ्च | उक्तं च श्रीमन्मृगेन्द्रे - वाणी पाणी भगः पायुः पादौ चेति रजोभवाः | इति | वचनादान संवाद विसर्गविहृति क्रिया | इति च | बुद्धिन्द्रियाणि गन्धादि ग्रहणान्यथानुपपत्ति सिद्धानि | तदुक्तं तत्त्वसंग्रहे - श्रोत्रस्पर्शनदर्शनजिह्वा घ्राणानि बुद्धिकरणानि | प्रत्येकं शब्दादिष्वेषामालोचनं वृत्तिरिति || प्. ९७) दशधा करणं बहिरिच्छासंरम्भ बोध वृत्त्यन्यत् | अन्तःकरणं त्रिविधं चित्ताहंकारबुद्धिनिर्वाच्यमिति || अतश्चान्तः करणत्रयं मनोहंकारबुद्ध्याख्यं तत्र मनोऽवधानवृत्ति सिद्धं | उक्तं च श्रीमन्मृगेन्द्रे - देवप्रवर्तकं शीघ्रचारि संकल्प धर्मि च | मनः शब्दादि विषयग्राहकाः श्रवणादयः || इति | अहंकारस्तु संरम्भवृत्त्यहं प्रत्ययहेतुः | तदुक्तं भोगकारिकासु - संरम्भोहं कृतेर्वृत्तिः इति | श्रीमन्मृगेन्द्रेपि - अथ व्यक्तान्तराद्बुद्धेर्गर्वोभूत्करणाञ्चितः | व्यापाराद्यस्य चेष्टन्ते शारीराः पञ्च वायवः || इति | अहं प्रत्ययहेतुत्वं च श्रीमन्मतङ्गे विस्तरेण साधितम् | स चाहंकारः सत्त्वादिगुणाधिक्यात्तैजसवैकारिकभूतादि संज्ञया त्रिधा भिद्यते | तत्र सात्त्विकात्तैजसात्प्रकाशकानां बुद्धीन्द्रियाणां मनसश्चोत्पत्तिः | वैकारिकाद्राजसात् प्रवृत्ति हेतूनां कर्मेन्द्रियाणां तामसात्तु भूतादेस्तन्मात्राणामिति ज्ञेयम् | तदुक्तं भोगकारिकासु - स मनोबुद्धि देवानां गणो यस्मात् प्रकाशकः | तस्मात् स सात्त्विकाज्जातः स्वानुरूपादहंकृतेः || राजसाद्वैकृताद्वर्गः कर्माक्षाणां तु कर्मकृत् | जातः कार्यस्य येनेह काराणानु विधायिता || मात्रा संघोप्यहंकाराद्वर्गद्वय विलक्षणं | प्. ९८) प्रकाश्यस्तामसस्तस्माज्जातीभूतादि संज्ञकात् | इति | तदुपादानतया बार्ह्यार्थाध्यवसायहेतुत्वेन च बुद्धिः सिद्धा | सा च गुणतत्त्वादुत्पना | तदुक्तं श्रीमन्मतङ्गे - क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा | बुद्धिरध्यवसायेन भावानां जननी शुभेति || सा च धर्मादीनामात्मसंस्कारकत्वेन तद्गुणत्वादभ्युपगन्तव्यं विकारित्व प्रसङ्गात् | कृष्यादि कर्मणां च प्रकृतिसंस्कारकत्वेनैव दर्शनाद्बुद्धिरेव धर्माद्यष्टगुणोपेतात्र कथ्यते | तदुक्तं श्रीमन्मृगेन्द्रे - भावाबुद्धि गुणाधर्म ज्ञानवैराग्य भूतयः | सात्विका व्यत्ययेनैते रागमुत्सृज्य तामसाः || इति | भोगकारिकासु च - अधर्मादित्रयं रागो धर्मादि च चतुष्टयम् | तमोरजःसत्त्वमयं रूपं तत्कर्मजन्मनामिति || गुणतत्त्वं सत्त्वरजस्तमोरूपैस्त्रिभिः प्रकाशप्रवृत्ति नियमाख्यैः धमैः सिद्ध्यति | तदुक्तं श्रीमन्मृगेन्द्रे - ततो बुद्ध्याद्युपादानं गौणं सत्त्वं रजस्तमः | तद्वृत्तयः प्रकाशाद्याः प्रसिद्धा एव भूयसा || त्रयोगौणास्तथाप्येकं तत्त्वं तदवियोगतः | एकैकश्रुतिरेतेषां वृत्त्याधिक्य निबन्धनेति || प्. ९९) ततश्च गुणानामाचैतन्ये सत्यनेकत्वात्तत्कारणतया गुणमस्तकस्य क्रोधेशादिभुवनोपादनत्वेन चाव्यक्ता एषा प्रकृतिः सिद्धा | तदुक्तं श्रीपराख्ये - प्रकृतेर्गुणहेतुत्वाद्गुणानां कार्यता ध्रुवमिति | तेषां येनात्मकार्याणि पृथक् सिद्धानि कार्यतः || इति | अत्र कलादिपञ्चकञ्चुकयुक्तस्य पुंसो भाक्तत्वेन पुंस्त्वमलयोगाद्दिक्षायां तच्छुद्ध्यर्थं शोध्यः पुरुषः सर्वाध्वोत्तीर्ण शोधकशिववच्छास्त्रेषु पठ्यते | तस्य तु चेततत्वात् व्यापकत्वादविकारित्वेन तत्त्वान्तरोपादानत्वायोगात् भुवनाधारत्वाभावाच्च नाध्वरूपत्वम् | ततः पञ्चकञ्चुकसंबन्धयोजनं भोगाधिकारात्मकं पुंस्तत्त्वं मायाजन्यत्वेनात्रोच्यते | तदुक्तं श्रीमन्मतङ्गे - अथ पुंस्तत्त्वनिर्देशं स्वाधिष्ठानोपसर्पतः | न च तत्त्वं मुनिव्याघ्र द्वितीयं पुरुषाह्वयम् || कञ्चुकत्रितयाविद्धं कालेन कलितं शनैः | निपत्यालिङ्गितं यान्ति पुंभावेनात्मवर्तिनेति || तथा तस्यात्मनः तत्वविभागस्थो यया सहोक्तेति समर्थितात्मा सेयं मया ते कथिता यथावत् भोग्यसनं जगच्च विभौ विधास्येति | ननु पुरुषतत्त्वेपि केषुचिच्छास्त्रेषु भुवनानि श्रूयन्ते | सत्यम् | तदधिपतीनां रुद्राणामाश्रयत्वेन भुवनानि श्रूयन्ते एव | तानि तु पुरुषस्य चेतनत्वेन भुवनाधारत्वायोगात् पुंस्त्वमलसंबन्ध प्. १००) समानदेशरागतत्व एवावस्थितानि | अत एव श्रीमन्मृगेन्द्रे पुंस्तत्त्वं तत एवाभुत्पुंप्रत्ययनिबन्धनम् आपूरकं प्रधानादेर्भौवने रुद्रसंश्रयमित्युक्तम् | श्रीमत्किरणे - रागतत्त्वे स्थिता एते रुद्रास्तीव्रबलोत्कटाः | तत्रैव पुरुषोज्ञेयः प्रधानगृहपालकः || इति | कला विद्याभ्यां समर्थितज्ञानक्रियस्यात्मनोभिलाष जनको रागः सिद्धः | तदुक्तं श्रीमन्मृगेन्द्रे - तदभिव्यक्तदृक्छक्तिर्दृष्टार्थोप्यनुपासितः | नैति तज्जनकं रागं तस्मादेवासृजत्प्रभुरिति | भोगकारिकासु च - भोग्यानुभवमासाद्य भोगे सक्तिः प्रवर्तते | तत्सिद्ध्यर्थमतस्तस्य रागो भोगानुरञ्जकः || इति | अथा अन्तःकरण बहिःकरणानां संनिहिता संनिहिते विषयोपस्थापकत्वेनोपयोगादध्यवसितविषयाया बुद्धेः साक्षाद्भोग्यत्वाच्च तद्ग्रहणे पुरुषस्य करणत्वेन विद्या वेदितव्या | तदुक्तं श्रीमन्मृगेन्द्रे - एवं व्यक्तक्रियाशक्तिद्दिदृक्षुर्गोचरं दृशः | भवत्यनुग्रहापेक्षां स्वयं द्रष्टुमशक्नुवन् || तदर्थं क्षोभयित्वेशः कलामेव जनिक्षमाम् | तत्त्वं विद्याख्यमसृजत्करणं परमात्मनः || तेन प्रकाशरूपेण ज्ञानशक्तिप्ररोचिना | प्. १०१) सर्वकारक निष्पाद्यमवैति विषयं परम | इति | तत्त्वसंग्रहेपि - बुद्धिर्विषयाकारा सुखादिरूपासमासतो भोग्या | रविवत्प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् || कारणान्तरसापेक्षः शक्तो ग्राहयितुमात्मानम् || इति | एतच्चाव्यक्तरागविद्याख्यतत्त्वत्रयं कलातत्त्वादजनि | यदुकं श्रीमद्रौरवे - कलातत्त्वाद्रागविद्ये द्वे तत्वे संवभूवतुः | अव्यक्तं चेति तथा प्रलकेवलावस्थायां पुंसो मलावृतत्वेन किञ्चिज्ज्ञत्वस्याप्यसंभवात्तदेकदेशमलप्रोत्सारणाय मायातत्त्वादुत्पन्ना कला बोद्धव्या | यदुक्तं श्रीमन्मृगेन्द्रे - कर्तृशक्तिरणोर्नित्या विभ्वी चेश्वरशक्तिवत् | नमश्छन्नतयार्थेषु नाभानि निरनुग्रहा || तदनुग्राहकं तत्त्वं कलाख्यं तैजसं हरः | मायां विक्षोभ्य कुरुते प्रवृत्त्यङ्गं परं हि तत् || तेन प्रदीपकल्पेन तथा स्वच्छचितेरणोः | प्रकाशय ह्येकदेशे विदार्य तिमिरं घनम् || इति | श्रीमन्मतङ्गेपि - सुसूक्ष्मा विमला सा या सा ज्ञानक्रियात्मिका | समर्थीकृत्यकलया भोगेषु विनिपात्यते || इति | अपि च व्यापकत्वेनात्मनं सर्वत्र सन्निहितत्वात्सर्वेषां सर्वकर्मफलयोगप्रसंगात् स्वकर्मफलभोगनियामकत्वेन नियतिः सिद्ध्यति | प्रवृत्तभोगस्याप्यवध्यपेक्षत्वात्तत्परिच्छेदक चिरक्षिप्रादि प्. १०२) प्रत्ययलिङ्गश्च कालः सिद्धः | तौ च मायातः सहैवोत्पन्नावित्युक्तं श्रीमन्मृगेन्द्रे - तृप्त्यादि प्रत्ययस्यार्थः कालो माया समुद्भवः | कलयन्नासमुत्थानान्नियत्यानियतं पशुम् || इति | श्रीमन्मतङ्गेपि - अथ कालः क्रमात् प्राप्तः कञ्चकत्रयदर्शनात् | येनासौ कल्प्यते सूक्ष्मः शिवसामर्थ्ययोगतः || इति || तथा शक्तिर्नियामिका पुंसः सहतत्त्वेन सर्पितेत्यादि च | अत्र कालनियत्योः श्रीमन्मृगेन्द्रादौ प्रवृत्तिक्रमेण रागतत्त्वादधः पाठस्तु सिद्धिश्च श्रूयते श्रीमत्स्वायम्भुवादौ तूत्पत्तिक्रमेणेत्यविरोधः | एषकलादिक्षित्यन्तत्रिंशत्तत्त्वात्मकः सूक्ष्मदेहः प्रतिपुरुषनियतो साधारणः सर्ग इत्युक्तम् | उक्तं च श्रीमन्मृगेन्द्रे - प्रयोक्त्र्यादिं महीप्रान्तमेतदष्वर्थसाधकम् | प्रत्यात्मनियतं भोगभेदतोप्यवसीयते || इति | तत्त्वसंग्रहेऽपि - वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयं पर्यटनि कर्मवशतो भुवनजदेहेष्वयं च सर्वेष्विति | अत्र केचित् सांख्यवत्प्रकृति गुणयोरेकत्वमभ्युपगम्य पुरुषं तत्त्वमध्ये पठित्वा त्रिंशकसंख्यां कथयन्ति | तदयुक्तम् | प्रोक्तमूलश्रुतिविरोधात् एवं च समस्ताशूधतत्त्वपरमकारण मत एव नित्यं स्वकार्यव्यापकमचेतनं मायातत्त्वं श्रूयते यदुक्तं श्रीमन्मृगेन्द्रे - तदेकमशिवं बीजं जगतश्चित्त्रशक्तिमन् | प्. १०३) सहकार्यधिकारान्तसंरोधि व्याप्य नश्वरम् | कर्तानुमीयते येन जगद्धर्मेण हेतुना || तेनोपादानमप्यस्ति न परस्तन्तुभिर्विनेति | अत्र च मायाया नित्यत्वेन भुवनाद्याधारत्वायोगात् तद्भुवनानि कलामस्तक एव स्थितानि | तदुक्तं श्रीमन्मृगेन्द्रे - मायायामपि पठ्यन्ते गहनेशादयोधिपाः | तत्त्वशुद्धिश्च दीक्षायां सर्वं तत्कृतिमस्तके || इति | अत्र च कलादिक्षित्यन्तस्य सूक्ष्मदेहस्य दीक्षायां प्रकृतितत्त्वान्त भोगप्रदत्वमात्रं विच्छिद्य कलातत्त्वादूर्ध्वं वर्तमानशरीरभोगप्रदत्वमात्रमवस्थाप्य सर्वथाविच्छेदः कार्यः सद्योनिर्वाण इत्युच्यते | तदधिष्ठाय शिवोपि शिव एव च निर्वाण दीक्षायां तु तदविच्छेदः कर्तव्यः माया तत्त्वादूर्ध्वं मलस्यापि तथा विच्छेदः कार्यः | एवमनेकानि मायातत्त्वस्त्रोतांसि | यदुक्तं बृहस्पतिपादैः अपि सर्वसिद्धिवाचः क्षीयेरन् दीर्घकालमुद्गीर्णः मायायामानन्त्यान्नोच्येत स्रोतसां संख्येति | उक्तं च श्रीमन्मतङ्गे - मधुकोशपुटाकारा निचिना परमाणुभिदिति | शुद्धाध्वात्वेक रूप एव | एवमशुद्धाध्वा प्रदर्शितः | शुद्धाध्वा प्रदर्श्यते | तत्र यस्मिंस्तत्त्वे सप्तकोटिसंख्यातानां मन्त्राणामवस्थितिः तद्विद्यातत्त्वं तदूर्ध्वं यस्मिन्ननन्तादयो विद्येश्वरास्थितास्तदीश्वरतत्त्वं तदुक्तं श्रीमत्सर्वज्ञानोत्तरे - प्. १०४) तदूर्ध्वं तु भवेदन्यद्विद्यातत्वं षडाननेत्यादिनाविद्यातत्वमुक्त्वा - विद्योर्ध्वात्तु भवेदन्यद्विश्वेशावरणं पुनः | दीप्तपावकवर्णाभं किञ्चिद् वृत्तं सुनिर्मलम् | अष्टौ विद्येश्वराः स्कन्द स्थितास्तस्मिन्विभूतिदाः इति || श्रीपराख्येपि - शम्बरः सर्वविद्यायामनन्ताख्यस्तथेश्वर || इति | तस्मादूर्ध्वं सदाशिवतत्त्वमधिकारावस्थेन प्रवृत्तशिवेनाधिष्ठितं सदाशिवभुवनाधारः | तदुक्तं श्रीमत्सर्वज्ञानोत्तरे - अथोर्ध्वं तु भवेदन्यत्सर्वैश्वर्यमयं शुभम् | सदाशिवं परं तत्त्वं शुद्धस्फटिकनिर्मलेमित्युपक्रम्य || तत्रास्ते भगवान् देवः सर्वतत्त्वेश्वरो हरः | सदाशिवो विभुर्व्यापी मन्त्रमूर्तिमयः परः || इति | तस्मादप्यूर्ध्वं भोगावस्थेनानेन कार्यमुक्तेन शिवेनाधिष्ठितो निवृत्त्यादिबिन्दुकलाभुवनचतुष्टयाधारो बिन्दुपरिणतिविशेषः शक्तितत्त्वमुच्यते | यदुक्तं श्रीमन्मृगेन्द्रे - सदाशिवे पवित्राङ्गः सकलादिपरिच्छिदः | देवः सदाशिवो बिन्दौ निवृत्यादिकलेश्वरः इति | अत्र च निवृत्यादि कलेश्वरकेवलसद्योजाताद्याकारेण भोगावस्थेन शिवेनाधिष्ठितत्त्वाद् बिन्दुशब्देन बिन्दुकलाभुवनाधारः शक्तितत्त्वमुच्यते | उक्तं च सर्वज्ञानोत्तरे - अथोर्ध्वं बैन्दवं तत्त्वं विमलं सर्वतो मुखमिति | प्. १०५) श्रीमन्मतङ्गे च - चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् | तस्मिन् भोगः समुद्दिष्टः पत्युर्विश्वस्य सर्वदेति || तदूर्ध्वं शुद्धाध्वपरमकारणरूपो बिन्दुर्नयावस्थस्य परमशिवस्य नित्याधिष्ठेयत्वात् परिग्रह शक्तित्वाच्च शुद्धाध्वपरशोध्य इत्युच्यते | तदधिष्ठाय शिवोपि शिव एव शिवतत्त्वमिति व्युत्पत्त्या शिवं शिवत्वमित्युच्यते | स बिन्दुः शान्त्यतीतकला महामाया कुण्डलिनीत्यादि शब्देनाप्युचते | तदुक्तं श्रीमन्मतङ्गे- शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकमिति | नादकारिकासु च - सिद्धो नादः परमः सुमङ्गला मालिनी महामाया समनानाहतबिन्दुरघोषावाग्छद्म कुण्डली तत्त्वं विद्याख्यं चेत्युक्तं तैस्तैः शब्दैस्तदागमेष्वित्थमिति | तत्कार्यभूतं केवलेशानाकारशिवाधिष्ठेयं शान्त्यतीतभुवनं तदूर्ध्वस्थंधिकादिनादकलाभुवनवृन्दं च भोगावस्थ शिवाधिष्ठितशक्तितत्त्वमस्तकस्थमेव | यदुक्तं श्रीमन्मृगेन्द्रे - शुद्धाध्वनापि मायायाः परस्याः हि * * * तौ | ये तस्यामपि पठ्यन्ते ते पि तत्कृतिमस्तक इति | नादकलाभुवनाधिष्ठितः शिवो नादपतिरित्युच्यते | तदुक्तं श्रीमन्मृगेन्द्रे- नादेध्वनि पतिःशक्तौ सर्वशक्तिमतांवरः इति | प्. १०६) एतच्च शक्तिशिवाख्यं तत्त्वद्वयं कलाध्वनि शान्त्यतीतकलाव्याप्त्या शोध्यमित्याचार्याः | यदुक्तं सोमशम्भुपद्धत्याम् शान्त्यतीतकलाव्याप्तौ उभे शक्तिशिवतत्त्वे भुवनाष्टकमण्डिते इत्यादि | रत्नत्रयेऽपि पञ्चमी तु कला पराशिवतत्त्वात्मकं तत्र पुराणि दश पञ्चचेति | एवं चाधिष्ठेयस्य चेतनस्य शोध्यस्य बिन्दुतत्परिणामविशेषान्मनस्तत्त्वत्रयस्य भेदे | वास्तव एव अधिष्ठातुस्तस्य शिवस्यात्रौपचादिको भेदः | यदुक्तं श्रीमन्मृगेन्द्रादौ - किं तु यः पतिभेदेस्मिन् सशास्त्रे शिक्तिभेदवत् | कृत्यभेदोपचारेण तद्भेदस्थानभेदज इत्यादि || अधिकारि स भोगी च लयी स्यादुपचारत इति | ईशः सदाशिवः शान्तः कृत्यमेदाद्विभिद्यते | इति च | तद्भेदः कृत्यभेदेन न भेदः परमार्थतः || इति | एवं च बद्धात्मनः शोध्यान्यशुद्धानि तत्त्वानि मायया सहैकत्रिंशत् | शुद्धानि तु महामायया सह पञ्च | ततश्च दीक्षायां मायातत्त्वादूर्ध्वं मलविच्छेदान्तं पाशच्छेदं कृत्वा शुद्धविद्यादिषु पञ्चसु तत्त्वेषु क्रमात् क्रियाशक्त्युत्कर्षक्रमेण शिवतत्त्वाभिव्यक्तिः कार्या | पश्चात् तु शिखाछेदेन पाशानुग्राहिकायास्तिरोधानशक्तेः प्रेर्यत्वम् | निवर्त्यशिवसाध्या पादनाय निरुपाधिशक्तियुक्ते निष्कले परमशिवे * * * * * * शिवे प्. १०७) कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता | उपादनत्वतो हेतोः कुलाले मृत्तिका यथेति || समवेतशक्तेस्तु तस्या एकत्वात् ज्ञेयकार्यादि भेदादौपचारिको भेदः शास्त्रेषु श्रूयते | यदुक्तं सर्वज्ञानोत्तरे - निष्कलस्था पराशक्तिरचिन्त्या सर्वतो मुखी | सुसूक्ष्मा निर्मला नित्यानन्ता निर्वाणदायिनी || या विजृम्भति तत्त्वेषु सर्वतत्त्वेषु चैव हि | तया धृतं जगत्सर्वमेकयानेक रूपये ति || उक्तं च मोक्षकारिकादौ - सर्वज्ञानक्रियारूपा शक्तिरेकैव शूलिनः | इति | एकैवानेकतां याति शिवशक्तिरूपाधित इति | अत्र च श्रीमत्सर्वज्ञानोत्तरादौ बैन्दवविद्यात्मनोः शक्तिशिवतत्त्वयोः तत्त्वदीक्षायामेकोद्यमेन शुद्ध्यर्थमेकत्वमुक्त्वा परमशिवे संयोजनमुक्तम् | श्रीमत्स्वायम्भुवे - न शोध्यं शिवतत्त्वादि तत्त्वत्रयं तदर्थमेव शिवसंबन्धित्वाद्यतिरिक्ताधिष्ठात्तन्तराभावाच्च सदाशिवतत्त्वेनोक्त्वा बिन्द्वधिष्ठायकशोधकं परमशिवं शिवतत्त्वेन प्रतिपाद्य तत्त्व संयोजन मुक्तम् | यतुक्तं तत्र - अप्रमेयमनिर्देश्य मनौपम्य मनामयम् | सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् || अप्रमेयमन्तन्तत्वादनिर्देश्यमलक्ष्यतः | प्. १०८) अनौपम्यमसादृश्याद्विमलत्वादनामयम् | सूक्ष्मं चानुपलक्ष्यत्वाद्व्यापकत्वाच्च सर्वगम् || नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रुवम् | अव्ययं परिपूर्णत्वात् स्वामिभावात्तथेश्वरम् || शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरिसंस्थितम् | इति | ततः सदाशिवं तत्त्वं स्थितं पदचतुष्टयम् || इति | एतदभिप्रायेणैव श्रीमन्मृगेन्द्रे भुवनाध्वनिभेदे नैवोक्त्वा तत्त्वाध्वनि सदाशिवादि तत्त्वस्य त्रयस्य सदाशिवसंज्ञोक्ता | यदुक्तं तत्रैव - ईशानतीत्य शान्तान्तं तत्त्वं सादाशिवं स्मृतं | भुवनान्यपि नादादि कलानान्यः पतिः शिवात् || इति | तत्रैव संहारक घने विद्यामत्ति सदातत्त्वं तद्बिन्दुर्बैन्दवं ध्वनिः | नादमत्ति पराशक्तिः शक्तिमीष्टे स्वयं हर इति | श्रीमन्मतङ्गादौ तु शिवस्याधिष्ठातुर्लयाद्यवस्था भेदमेव तत्त्वत्रयेणोक्त्वा शोध्ययोः शक्तिशिवयोः भोगतत्त्वे सदाशिवतत्त्वेश्वरतत्त्वयोर्विचारतत्त्वे चान्तर्भावमुक्त्व तद्भुद्ध्यालयावस्थानात्मनि परमशिवे संयोजनमुक्तम् | एवमन्येष्वपि तन्त्रेषु यथायथं कस्यचिदन्तर्भावो बोद्धव्यः | एवं च संहितानामविरोधः सर्ववचनानां च प्रामाण्यं स्थितम् | तेनैक्यं च सिद्ध्यति | अन्यथा एकतन्त्रोक्तार्थाभ्युपगमेनान्यतन्त्रोक्तार्थाभावकथने प्. १०९) पररूपख्याहते सर्वसंहितायां न प्रामाण्यं भवेत् | एवं स्थितेनैक्येपि तत्तत्संहितानुसारिभिस्तत् तत् संहितोक्तेनैव क्रमेण नित्यादिकर्मवद्दिक्षायां शुद्ध्यादिकं कार्यम् | पूर्वमेव क्रियादिभेदेन तन्त्रभेदो यतः स्मृतः | तस्मात् तत्र यथैवोक्तं कर्तव्यं नान्यतन्त्रतः | समस्तपाशविच्छित्तिः सर्वविषयशिवत्वाभिव्यक्ति कारिण्या मलपरिपाकशक्तिपातपूर्विकया दीक्षयैव परमेश्वरसाम्यरूपः परमोक्षः सिद्ध्यति | यदुक्तं श्रीमत्स्वांभुवादौ - शिवेच्छया पुरानन्ता शैवी शैवार्थदायिनी | सा शक्तिरायतत्याद्या पुंसो जन्मन्य पश्चिमे || तन्निपातात् क्षरत्यस्य मलं संसारकारणं | क्षीणे तस्मिन्नियासास्यात्परं निःश्रेयसंप्रति || स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः | प्रयाति शिवसायुज्यं निर्मलो निरूपप्लवः || अनेन क्रमयोगेन परां केवलतां गतः | अनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् || इति | दिक्षिताः परमं शान्तं प्रदिशन्ति तनुक्षयादिति च | ननु सदाशिव पदं योगाच्चर्याभोगद्य दीक्षया प्राप्यते | चित्तभेदेन मोक्षो वाथ चतुष्टयादिति श्रीमन्मतङ्गश्रुतेर्दीक्षा ज्ञानचर्या योगाख्यानि चत्वार्यपि समविकल्पानि प्. ११०) भोगमोक्षसाधनानि प्रतीयन्ते | नैवं वाक्यार्थानभिज्ञानत् | एवं हि तत्र वाक्यार्थः | सदाशिवपदस्य तत्रोपलक्षणत्वात्तत्तद्भुवनेश्वर साक्षात्कार फलाद्योगात् तत् तदाराधनात्मिकया वा चर्यया तत्तद्भुवन योजनात्मिकया वा दीक्षया तत् तद्भुवनेश्वररूप निष्ठेन वा चित्तभेदेन ज्ञानेन तत्तद्भुवन प्राप्तिर्भवत्येव न तु समविकल्पतया वक्ष्यमाणवज्ज्ञानादिष्वपि दीक्षया विनानधिकारात्तस्या एव प्राधान्यं यतः | ततश्च मोक्षो वाथ चतुष्टयादिति मोक्ष चतुष्टयादस्मात् समुच्चितादेकैका * * भोगो न वेति वा शब्दार्थः | तथा हि चर्यायोगयोस्तावत् ज्ञानं विनानुष्ठानमेव नोपपद्यते | न ह्यज्ञानेर्थे योगः समाधिश्चर्यावानित्याका संभवति | ज्ञानमपि द्रव्यत्वान्मलादिबन्धानां चक्षुःपटलानामिव चक्षुर्वैद्यव्यापादं विना न तेभ्यः पुंसां मोक्षं कर्तुं क्षममित्युक्तमतो दीक्षैव मोक्षहेतुरिति | उक्तं च तत्रैव प्रकरणान्तरे - तस्मान्मन्त्रक्रियामुख्यासेश्वरी भुक्तिम्क्तिदेति | श्रीमत्स्वायम्भुवेपि - दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्पीति | श्रीमत्षट्सहस्रिकालोत्तरे - दीक्षैव मोक्षदा पुषां चिदभिव्यक्तिकारणं || इति | ज्ञानादीनां चाचार्य संस्कारद्वारेण दीक्षायां विनियोगदर्शनाच्च | यदुक्तं तत्रैव श्रीमन्मतङ्गे - विद्यापादार्घ्य कुशलः क्रियापादगतक्रमः | योगपादकृताभ्यासः चर्यापादानुवर्तकः || प्. १११) गुरुदीक्षां प्रकुर्वीतेति | केवलं सद्यो निर्वाण दीक्षयारब्धकार्याणामनपेक्षया भोगोपरोधेन मलमायीययोर्वासयोर्थ इति सकलागमसारसंग्रहे सिद्धान्तसारसमुच्चये (अत्र ग्रन्थः समाप्तिमगमत् | न ज्ञायते संपूर्णो वासम्पूर्णोवेति | आदौ ग्रन्थ नाम सिद्धान्तार्थसमुच्चय इति दत्तम् | चरमपङ्क्तिदर्शनात् सिद्धान्तसारसमुच्चय इति सकलागमसारसंग्रह इति वा भवेदिति सन्दिह्यते | ) ########### END OF FILE #######