#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00572 Uniform title: siddhilakṣmīvidhāna Manuscript : NGMCP manuscript: 4/304 Reel no: A 59/14 Description: Ritual manual Notes: Manuscript selected by Dr. Mark S.G. Dyczkowski . Data-entered by the staff of Muktabodha under the supervision of Dr. Anirban Dash. Revision 0: October 3, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : United States #################################################### प्. १) १ ओं नमो भगवति गंगि | कालि कालि महाकालि ह्रीं स्वाहा | जाप्य १२ मण्डुकवसो | जलूका | वदिरमूलं | हस्ते पादे लेपयेत् | ओं स्तम्भनी २ अग्नि २ हूं २ महास्तम्भनी २ अग्नि स्तंभनी २ हूं फट् ३ | हनूमन्तकरो आज्ञा हूं फट् २ | अग्निस्तम्भनमन्त्रः || अति गोप प्रयोगः || प्. १अ) १ श्रीदेव्युवाच || श्रुतं मया महेशान मन्त्र तन्त्रादि विस्तरं | त्वत्प्रसादात् सुरेशान सर्वं तदवधारितं || इदानीं श्रोतुमिच्छामि त्रैलोक्यविजयं गता? || यथा जानामि वीरेश निस्संदिग्धं यथा भवेत् || साधकानां हितार्थाय समासेन वद प्रभो | सर्वसिद्धिप्रदा देवी सुरासुर नमस्कृता || थ || श्रीभैरव उवाच || चण्डाञ्चण्डादुहासाघनरसितरपां दंष्ट्रिणीं भीमवक्त्रां निर्मासां रक्त नेत्रां भृकुटित भ्रुकुटीं रक्त मेदावलिप्तां || निर्मांसाघोघ घण्ठां रणरुणिततरां नीलजीमूतवर्णां हूं हूं हूंकार नादाति भुवनविजयां क्रोधरूपां नमामि || शृणु देव्यवधानेन निस्संदिग्धं वदामिते | त्रैलोक्य विजया देवी शत्रुपक्ष क्षयऽऽन्करी || दुष्टखाखोददमनी भयदारिद्रनाशिनी | सर्वालक्ष्मी प्रशमनी कुहकादि विनाशिनी || चिन्तामणी च साज्ञेया सुखसौभाग्यदायिका | प्. १ब्) भुक्तिमुक्ति प्रदा देवी प्रस्तारेणोद्वरामिते || सुसुमे भूप्रदेशे तु कुलद्रव्यै प्रपुरिते | तत्रैकां पूजयेत् कन्यां सुशीला शुभलक्षणां || आज्ञां प्रार्थ्यविधानज्ञश्चुम्बकस्सुसमाहितः | पूर्वोक्त खड्गप्रस्तारान्प्रोद्धरेद्विधिना प्रिये || प्रस्तारेनाधृता मन्त्रा सुशुद्धं जायते नघे | तस्मात् प्रस्तार मध्या तु प्रोद्धरिष्यामि साम्प्रतं || तारकं पूर्वमुद्धृत्य वाग्भवं तदनन्तरं | यक्षिणी रौद्रि मारूढं माहेश्वर्या समंन्वितं || इन्दुबिन्दु कलाक्रान्तं त्रितीयं बीजमुधृतं | कुब्जिकामित्र ओड्याणं षष्ठं चैव पुलिन्दिका || डाकिनी यक्षिणी चैव वह्नि कौमारि संयुतं | कलाशेखरसंभिन्नं सप्ताक्षरमुदीरितं || मातऽऽन्गी केवलं वामा भीषणेन समायुतं | कुब्जिका पूर्णपीठन्तु साकिनी च समुद्धरेत् | मित्रीश रुरुणा क्रान्तं षष्ठीशं बिन्दुसंयुतं | लाकिनी खिंखिनी रौद्री कू *? स्थं? रुरुभेदितं || भेदयेत् परमेशानि रुरुणा रत्नसुन्दरी | कुब्जि माहेश्वरी युक्तं वामा साकिनिकं पृथक् || प्. २अ) ओड्याणं (ओडीशं) मित्रनाथञ्च रौद्री कपालिना युतं | वामा च यक्षिणी चैव द्वितीया ओसमायुतं || रौद्री संस्थं पूर्णपीठं रौद्री (रुरु) कौमारि संयुतं | कपालिश समाक्रान्तं पुलिन्दीश समुद्धरेत् || अम्बिका रूढयक्षी तु रुरुभेदित सद्विधा | कथितं देवदेवेशि ततो रौद्री तु केवलं || हान्त णान्त समारूढं पादि एकारभेदितं | यान्तस्थणान्त मे भिन्नं रेफान्तस्थन्तु हान्तगं || रुरुणा भेदयेच्छुभ्रु द्विधीभूतं समुद्धरेत् | हान्त वान्तन्तु पाशेन भेदित निस्वनेति च || मावस्थहान्त चण्डस्थं द्विरभ्यासंन्तु सुव्रते | विद्यु जिह्वेति च पदं षाधमाधस्थ चण्डगं || ऊनपंचाशवर्णन्तु प्रोधृतं वीरमातरि | द्विधा भूतन्तु तं कृत्वा प्रथमं कथितं प्रिये || पादि रुरुयुतं कुर्या हाधगं भाध आयुतं | संहारमूर्च्छितं कृत्वा प्रोद्धरेद्वर्णमुत्तमं || कोर्द्धकपालिना क्रान्त साधजाध द्विधा कुरु | गोणसा भरणे चेति गाधमाधस्थगं रुरुः || द्विरभ्यास कृताटोपं प्रोद्धरेत् सुरशाअयिके || प्. २ब्) सवमलाधारिणि पदं णाधरे हरा स्वरः | संहारमूर्च्छितं कुर्या विना विदुं तदेव हि | केवलं हादि रादिञ्च त्र्यक्षरन्तु द्विरुच्चरेत् || महारौद्री पदं चैव सार्द्रेति च पदं लिखेत् | गजवर्मं कृतश्चैव छदेति च पदोद्धरेत् || विजृंभेति द्विरभ्यासं प्रोद्धरेद् वीरवन्दिते | नृत्य नृत्या शिलता च धारिणीति पद कुरु || ऊनषष्ठिस्तु वर्णाविद्विखण्डं समुदाहृतं | भृकुटित तटाटोप पदं? विषमकृताननेति च ||? महारक्तवसामेदो पदं विलिप्तगात्र च | कहयुग्मं हसयुग्मं क्रुद्धयुग्मं समुद्धरेत् || नीलजीमूतवर्णे च नरमाला कृता पुनः | भरणे विस्फुर द्विधा तथा घंटारवा पदं || कीर्णदेहेति च पदं वसामांस प्रियेति च | चाध रुरु युतं वामा तदधस्थञ्च एयुतं || द्विधाभूतं वरारोहे ऊनानीत्यक्षर प्रिये | त्रितीय खण्डमाख्यातं चतुष्कं? शृणु सांप्रतं || साधठाधतदूर्द्धञ्च दोर्द्धञ्च केवलोद्धरेत् | इयुक्त नागलोकं च भान्तमम्बिकसंस्थितं || एकारमूर्च्छितं कृत्वा रौद्र रूपेति चोद्धरेत् | प्. ३अ) कहवर्णसमुधृत्य पार्थिवासनसंस्थितं || छरुमप्यधसंभिंनं सुसंहारं द्विरक्षरं | नादं बिन्दुं मृगाऽऽन्कञ्च सूर्यसोमाग्निर् आयुतं || ब्राह्मीबिन्दुसमायुक्तं औरकं इरहं लिखेत् | कृन्तकृन्तेति च पदं आकर्षयद्विरुद्धरेत् || धुनेति च द्विरभ्यासं सून्ययुग्मं समुद्धरेत् | पूर्वमेकारसंयुक्तं खरमध्यस्थपानुजं || ऐन्द्री बीजेन चाक्रान्तं बिन्दुयुक्तं सुरार्चितं | विजृम्भणि पदं दत्वा चत्वारिंसो नमक्षरं || खण्डं चतुर्थमाख्यातं हरद्रुमं पुनर्ल्लिखेत् || वामारूढन्तु खड्गाग्रं द्विधाभूतं समुद्धरेत् || कौमारी बिन्दुयुक्तं प्राक् द्वितीयं शृष्टिसंयुतं | क्रोधरूपेति च पदं प्रज्वलेति द्विरुद्धरेत् || भीम भीषणि चैवान्यद्भिन्द भिन्द पदं पुनः | महामाये छिन्द छिन्द करालिनि किटि द्वयं || महाभूतपदम्भद्रे मातेति च पुनर्ल्लिखेत् | खर्वदुष्टपदञ्चान्यत् निवारिणि पदं तथा || द्वेपंचासाक्षरमिदं खण्डम्पञ्च समुधृतं | जयेति च द्विरभ्यासं विजये चेति द्वौद्धरेत् || प्. ३ब्) ऊहमंचापि कूटस्थ फेत्कारी सोमदेवता | द्विरभ्यास पदं भद्रे देवानामपि दुर्लभं || वान्त कौमारि संयुक्तं कलासेखरभूषितं | त्रिरुच्चार्या प्रयत्नेन नागभूतविसापहं || सर्वखार्खो ददहनं सर्वदुष्टनिवारणं | सर्वज्वर हर देवि दुरितारिक्षयावहं || शवरीशन्ततोधृत्य खिऽऽन्खिनी चार्द्धमात्रिका | त्रिगुणी कृत्य देवेशि वह्नि भार्या समायुतं || द्वाविंशत्यक्षरं देवि षष्ठखण्डमुदाहृतं | रसखण्डेन देवेशि वर्णसख्या शतत्रयं || नाख्येयं यस्य कस्यापि यदिछेत्सिद्धिरुत्तमा | अपरीक्षन दातव्यं दन्ते भवति निस्फलं || स्वयं ग्राहान सिद्धिस्या विघ्नं चास्य पदे पदे | विज्ञाप्य गुरु पादन्तु पूजयित्वा प्रयत्नतः || प्रणम्य च प्रसंनात्मा गृह्नीयात् नान्यथा प्रिये | पठनात् सिद्धिदं भद्रे सकृदुच्चारणादपि || सर्वतीर्थेषु संस्नात सर्वयज्ञेषु दीक्षितः | सकृदा वर्तनाद्देवि सत्यं सत्यं लभेत् वरः || प्. ४अ) हर्यक्षस्था महारौद्रा नीलनारदसंनिभा | दंष्ट्रा करालिनी भीमा पिऽऽन्गस्त्रा पिऽऽन्गमूर्द्ध्वजा || ललजिह्वा लेलिहाना घनान्तस्था यथा तडित् | मेघगम्भीरनिर्घोषा षट्वक्त्रा विकृतानना || अष्टादशदृशा रक्ता निमग्नास्तपनोपमा | शिराजालावृतान्ती वा निर्मांसा भृकुटीमुखा || गोणसा करणाद्रक्षा मर्त्यमाला विभूषिता | ज्वालामाला कुलालोला सुदुस्प्रेक्षा सुरासुरैः || अष्टादशभुजा देवी द्वीपि चर्मपरिछदा | द्विपचर्मं मण्डलाग्रं शरं रथाऽऽन्गमुद्गरं || त्रिशूलंम्चरु खट्वाऽऽन्गं कर्तरी दक्षिणे करे | करिचर्मञ्च चर्मञ्च शरासन गदांकुशं || पाशं घण्ठा तर्जनी च मुण्डम्वामकरे क्रमात् | महास्वना घण्ठमाला कांची स्थाने निवेशिता || हस्ते पादे च विवृती कन्धरे च महास्वना | महारक्तवसामेदो विलेपित कडे परा || इत्थ ध्यायेत् महादेवी त्रैलोक्य विजया शिवा | भुक्तिदा मुक्तिदा विद्या जयदा मुख सिद्धिदा || नानया सदृशी विद्या त्रिषुलोकेषु विद्यते | प्. ४ब्) तं नास्ति यं न कुरुते त्रैलोक्ये स चराचरे || एषा दीप्ततरा घोरा नास्ति यद्यत्न साधयेत् | प्रत्यऽऽन्गिरा महाकाली स्मरनात् साधकस्य तु || न कालवेला नियमो न च ध्यान जपादिकं | न व्रतन्न तपश्चास्य विद्यते कुलिशोदरि || सकृदावर्तनोद्देवि लभते चेप्सितं फलं | सर्वपापप्रशमनी सर्वसंपद्गुणावहा || सर्वानर्थप्रसमनी सर्वदुष्टविमर्दनी | सर्वशऽऽन्करदोषघ्नी सर्वदारिद्रमर्दनी || सर्वव्याधि प्रशमनी सर्वोपद्रवभेदिनी | सर्वसौभाग्यजननी महाभाग्यावरोहिनी || यतः प्रभृति कर्णस्था विद्येयं शुभदायिका | ततः प्रभृति सर्वत्र भैरवे च विराजते || लिंगोत्पाटादि पापाणि लीलया नाशयेत्पलं | मन्त्रसिद्धिर्भवेत् तस्य यस्यैयं हृदिसंस्थिता || यदा निष्ठन्तु देवेशि यः समारभते नरः | ल *? कोटिगुणं सम्यक् कस्यैव प्रतिबोधयेत् || केवल स्मरणाद्देवि सर्वकार्यार्थसाधिनी | छिद्यते नैवकेरासि दुष्टयंत्रार्गलान्दितः || प्. ५अ) स्मरणादेवसुश्रोणि द्रावयेत् सचराचरं | विह्वलो मदनार्तश्य साधका लिंगनात्सुका | भवत्येवं वरारोहा सर्वयंत्रारणी * *? || इयं कामारणी विद्या ख्याता भव विनाशनी | हृच्चक्र पद्म कुहरे सततं प्रविराजते || स्पन्दास्पन्द कृतग्रासी तदा चण्डेश्वरी स्मृता | विच्चिन्त धाम्नि धुर्या सा धीर्यस्य प्रविकासिनी || स्मरणादेवनियतं पाशजालतिरोहिका | सप्तकोट्यस्तु मंत्राणां मस्यादेहाद्विनिर्गता || प्रतिमन्त्रा कोटि कोटि सप्तकोटेश्वरीति सा || अस्या प्रभावो वीर्यञ्च व्यक्ताव्यक्त पराक्रमा || वक्तु न शकृते देवि सत्यं सत्यं महाम्बिके | लेसमात्रेण कथितं भूयकर्मं वदामिते || ध्यात्वा सद्रक्त वर्णञ्च चेद्रुमञ्चाक्षमालिका | वस्ये चाकर्षणे देवि रक्तचन्दनजेनवा || संपूर्णचन्द्रमध्ये तु श्रवन्तममृत प्रिये | चिन्तयित्वा जपेद् देवि मौक्तिकं चाक्षमालिका || आप्यायनकरं देवि मृत्युञ्जयति नान्यथा | ध्यातव्यं कृष्णवर्णञ्च अरिष्टेनाक्षमालिका | प्. ५ब्) जप्तेन नाशयेत् क्षिप्रं रक्षितं त्रिदशेरपि || धूम्रवर्णं विचिंत्येत जप्तेनागाऽऽन्कमालिका | उच्चाटनं करोत्येवं पूर्वबीजेन संयुतं || ध्यातव्यं शुक्लवर्णञ्च स्फाटिकञ्चाक्षमालिका | शान्तिकं पौष्टिकं चैव जपाच्च कुरुते ध्रुवं || ध्यातव्यं पीतवर्णञ्च पुष्परागाक्षमालिक | बीजयुक्तं जपेद् देवि स्तंभयन्ति न संशयः || चिन्तयित्वा लयस्थाने जपेद्रुद्राक्षमालिका | कुर्वंति शिवसा योज्यं सत्यं सत्यं वराणने || सर्वतीर्थफलं देवि सप्तजप्तैर्न संशयः | सकृतोच्चार मात्रेण महापापं व्यपोहति || सर्वयज्ञफलं चेष्टे सर्वदीक्षाफलं लभेत् | समयाचार लुप्तस्य शतजप्तेन शुध्यति | अहो मन्त्रस्य माहात्म्यं जपमानस्य नित्यसः || विनापि लययोगेन योगीन्द्राणां समो भवेत् || थ || इदानीं पुन *? वाहं नवबीजविधानतः | कथयामि वरारोहे कर्मकोषं सुनिश्चितं || शिवतत्वाग्रदंडा ऐं चण्डिका ह्रीं सदाशिवः | प्. ६अ) इश्वर चण्ड रूपा भ्रूविद्या चण्डवती च त्रूं | मायातत्वाधिपा क्रूं च चण्डा सा कुलनायिका || ततो द्रूंकारगा देवी कलायां चण्डनायिनायिका | चण्डोग्रा प्रूं नियत्याख्ये प्रचण्डा पुरुषे च क्ष्रूं || प्रकृतौ रुद्रचण्डा ह्रूं मध्यादीशान्तकोष्टके | रक्तगौरा रुणाकृष्णा उत्पला शुक्ल धूम्र च | प्रीता जपाण्डरावर्णा सुशिरादीशवर्णका || सहरक्षमलवयू शिखाशेखरभूषिता | नवाक्षरमिदं प्रोक्तं श्रीजयद्रथयामले || अत्रैवं कथितम्भद्रे वाग्भवाच्चण्डिकान्तकं | पूर्वापरगतारेखा चतुरः चतुरोपरि | दक्षिणादुत्तरं कृत्वा नवकोष्टं भवेत् स्फुटं || मध्यादीशान्तकोष्ठेषु नवतत्वाक्षरं लिखेत् | उग्रदण्डादितो न्यस्त्वा पूज्यकर्मारिहो भवेत् || प्रकृति सादाखेश्वरश्च वश्ये व्युत्क्रम द्वेषणे | इशविद्या च माया च तथा चण्डादि वरणे || चण्डाच्चण्डोग्रके लक्षे विपरीतेन वारणे | नियति पुंसप्रकृति भूता वेशे न्यथा पुनः || प्रकृती विद्दिहोपवर्णिता || प्. ६ब्) या वीर्य भावविलयोदयेश्वरी | षट्कमेतदुपवर्णितं मया कालि संज्ञा कमलं सुरेश्वरि || विंशति त्रिदशभागविचित्रितं भूरिकन्यशतवस्तुराजितं | शतार्द्धयुक्तमक्षरं सुरेश्वरी न कथनीयमिदं यत्र कुत्रचित् || थ || भैरव श्रोतसि विद्यापीठे शिरच्छेदे जयद्रथयामले महातन्त्रे चतुर्विंशति साहस्रे द्वितीयषट्के सिद्धलक्ष्मीविधानं षट्त्रिंशतिमपटलः || थ || सं ३९ पौशशु ५ || मंगल महाश्री || थ || ########### END OF FILE #######