#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00532 Uniform title: spandapradīpikā Author : bhagavatutpala Editor : Mark S. G. Dyczkowski Description: The Spandapradīpikā by the Vaiṣṇ ava Bhagavatutpala. A commentary on the Spandakārikā. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 13, 2021. Publisher : SUNY Press Publication year : 1992 Publication city : Albany Publication country : United States #################################################### प्. १] स्पन्दप्रदीपिका: उत्पलाचार्यविरचिता यत् परापरभूस्पर्शि यत्सङ्कल्पाल्लयोदयौ | स्पन्दसंज्ञं ज्ञरूपं तच्छक्तीशं स्वबलं नुमः || नत्वा विकल्पविलसत्सत्स्वभावगुरुं गुरुम् | भुक्तिमुक्त्यै युक्तियुक्तं किञ्चिद्वच्म्यर्थितोऽर्थिभिः || ज्ञानान्तराणि सन्त्याशु नात्यन्तसुखदानि तु | मुक्तात्मज्ञानममृतं सुरसेष्विव मृत्युजित् || चिन्तामणिस्त्वेक एव सगुणेषुमणिष्विव | तेजस्विषु यथैकोऽर्को निःशेषध्वान्तहा तथा || नारायणस्थानसंस्थद्विजवर्यत्रिविक्रमात् | जातो जनानुग्रहार्थ व्याख्याति स्पन्दमुत्पलः || मायाश्यामतमश्छन्न आत्मचिन्तामणिर्यतः | न दृश्यतेऽतस्तत्प्राप्त्यै ग्राह्या स्पन्दप्रदीपिका || अयमत्र किलाम्नायः सिद्धमुखेनागतं रहस्यं यत् | तद् भट्टकल्लटेन्दुर्वसुगुप्तगुरोरवाप्य शिष्याणाम् || अवबोधार्थमनुष्टुप्पञ्चाशिकयाऽत्र सड्ग्रहं कृतवान् | यदपि तदर्थो व्याख्याज्योत्स्नाप्रकटीकृतोऽस्ति तेनेषत् || मोहनिशामध्यगता मन्ददृशस्तदपि नार्थमीक्षन्ते | सूक्ष्मं दीपिकयाऽन्ते स्वतस्तदुद्दीपनार्थमहमद्य || प्. २] स्वोद्यन्तृतः स्वरूपस्पन्दोल्लासेन चोदितश्च यदा | परवश इव प्रवृत्तस्तदा न गर्वान्मयेयमारब्धा || (कलापकोऽयम्) अत्रादौ तावत्सम्बन्धाभिधानाभिधेयविषयप्रयोजनप्रयोजन - प्रयोजनानीति षडुच्यन्ते | यतस्तैर्विना श्रोतॄणां शास्त्रं प्रत्यनादर एव स्यादप्रयत्नश्च | इहैवोक्तं हि - प्रयत्नेन परीक्ष्यं तत्त्वमादरादिति शास्त्रमन्तरेण च हेयोपादेयविचारमात्रमपि न भवेत् किं पुनस्तत्त्वपरीक्षणम् | तथा चोक्तमागमरहस्यस्तोत्रे - साक्षाद्भवान् यदि विधाय न मूर्तिमाद्यां तत्त्वं निजं तदवदिष्यदतोऽतिगुह्यम् | नाज्ञास्यत त्रिभुवनम् ध्रुवमन्धमूक - कल्पं समस्तमसमञ्जसतामयास्यत् || षाड्गुण्यविवेकेऽपि - साक्षात् त्वमेव वा शास्त्रं त्वदीयैव हि सा मतिः | शब्दद्वारेण सङ्क्रम्य संस्करोत्यधिकारिणः || पञ्चरात्रश्रुतावपि - यद्वत् सोपानेन प्रासादमारुहेत् प्लवेन वा नदीं तरेत् तद्वच्छास्त्रेणैव हि भगवाञ्छास्ताऽवगन्तव्य इति | तत्रामीषां शास्त्राणां सम्बन्धस्तावत् पञ्चविधः | परो महान् दिव्यो दिव्येतर इतरेतरश्चेति | तत्रेह सिद्धपुरुषयोः प्रायेण दिव्येतरः | अथ वाच्यवाचकलक्षणः | वाच्योर्थः | वाचकं शास्त्रम् | स्पन्दाभिधोऽर्थोऽत्र वाच्यः | तद्वाचकत्वा - दुपचाराच्छास्त्रस्याप्येतत्संज्ञा | स्पन्दशब्दस्यार्थो यद्यप्याद्यश्लोके युक्त्यैवोक्तस्तथापि धात्वर्थेन सहोच्यते | स्पदि किञ्चिच्चलने इति | प्. ३] स्पन्दनात् स्पन्दः | स्पन्दनं निस्तरङ्गस्यास्य तावत् परमात्मनो युगपन्निर्विकल्पा या सर्वत्रौन्मुख्यवृत्तिता | तस्मात् - शान्तषाड्गुण्यरूपस्य यः स्फुरन् प्रतिभोदयः | स चाऽऽत्मबलशक्तीशश्चिद्रूपः स्पन्दसंज्ञकः || अतश्चाऽस्मत्पितुर्मातामहाचार्येण महाबलेन - यथार्थनाम्ना क्रोधे इत्यादिनाक्तो विभवोदयो रहस्यस्तोत्रे | उक्तं चेश्वरप्रत्यभिज्ञायाम् - या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः || व्यापकत्वात्स सामान्यः सर्वसाधारणादपि | अस्य च - स्पन्दः सामान्यपूर्वंश्च शुद्धात्मा शङ्करः शिवः | भावः स्वभावस्तत्त्वं च ज्ञातेत्याद्यभिधाः स्मृताः || अन्यच्च, चित् संविज्ज्ञानं बोधश्चेति पर्यायाः | एष एव निरावरणचित्स्वरूपत्वाद् दिक्कालाद्यनवच्छिन्नप्रसरोऽद्वितीयः स्वानुभवैकप्रमाणः शक्तिचक्रेश्वर आत्मचिन्तामणिरुपेयतयाऽ -भिधेयः | कुतोऽस्य चिन्तामणित्वमिति चेत् | शास्त्रात् | श्रीपौष्करायां ह्युक्तम् - चिन्तामणो स्वरूपेण न किञ्चिदुपलभ्यते | अथ चाभिमतं सूते ब्रह्मैवं सर्वशक्तिकम् || परमार्थसारे च - सर्वाकारो भगवानुपास्यते येन येन भावेन | तं तं भावं भूत्वा चिन्तामणिरिव समभ्येति || ज्ञानसम्बोधेऽपि - स्वभावादेकरूपापि नानात्वं प्रतिपद्यते | ज्ञानस्य शक्तिः सङ्कल्पैर्लक्ष्मीश्चिन्तामणेरिव || प्. ४] अस्य च शास्त्रकारेणान्वर्थसंज्ञयाऽऽत्यन्तिकश्रेयस्करत् - वाच्छिवशङ्करशब्दाभ्यां निर्देशः कृतः | वस्तुवस्तु निर्नामक एव | प्रोक्तं च सिद्धनाथेनाभेदार्थकारिकास्विदम् - वस्तुनो भावशून्यस्य त्वग्राह्यस्य निराकृतेः | कल्पनामात्रमेवैतत् यच्छिवव्यपदेशनम् || नेत्थं विभोर्विवर्तोऽस्ति परिणामश्च न क्वचित् | अथवा द्वयमप्यस्तु तथाप्यस्य न खण्डना || संवित्प्रकाशेऽपि - इति निर्मलबोधैकरूपे देहपरिग्रहः | विवर्तपरिणामाभ्यां द्वाभ्यामप्युपपद्यते || विवर्तेऽप्यतथारूपस्तथा भासि त्वमच्युत | परिणामे स एव त्वं सुवर्णमिव कुण्डले || ननु कथमस्य निरावरणत्वं यतः सुखदुःखमोहात्मक -गुणादिस्पन्दनिष्यन्दैरावृतमेव पश्यामः | अत्रोच्यते | एते हि ज्ञेयत्वात् स्वयं निःसत्ताकाः | ज्ञातृसंश्रयात्तु लब्धप्रतिष्ठा इवाप्रबुद्धबुद्धीनां स्वं शुद्धबुद्धस्वरूपं विहायाहम् -प्रत्ययेन कामकामात्तादात्म्यं प्रतिपन्नानां निजधर्मैरधि - वास्य सङ्कोचरूपतामापादयन्त्यविद्यारूपत्वात् | न पुनः स्वस्वरूपस्थितानाम् | उक्तं चेहाग्रे - गुणादिस्पन्द इत्यादि | धातुसमीक्षायां च - अविद्याशबलस्यास्य स्थितं मेयत्वमात्मनः | गृहीतं न निजं रूपं शबलेन तदात्मना || सा चाऽनृतात्मिकाऽविद्या नानृतस्य हि वस्तुता | नावस्तु वस्तुनो नाशं विकारं वा करोत्यतः || प्. ५] नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया | नाशो वा क्रियते यद्वत् तद्वन्नाऽविद्ययाऽऽत्मनः || नाऽतः स्वतो न परतो बन्धोऽस्य परमात्मनः | बद्धोऽथाऽविद्यया जीवो मुक्तिस्तस्य हि तत्क्षये || तत्वयुक्तौ च - येन येन हि बद्ध्यन्ते जन्तवो रौद्रकर्मणा | सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् || कुलयुक्तौ च - प्राणिनां पतनं येन तेनैवोत्पतनं स्मृतम् | अज्ञत्वा बध्यते येन ज्ञात्वा तेनैव मुच्यते || तथा मयाऽपि - सीदति येनैव जडः प्राज्ञस्तेनैव सन्तरति दुःखात् | पिण्डितमयोऽप्सु मज्जति तदेव पात्रीकृतं प्लवते || गीतासु चेदृगेवाऽत्र युक्त्योपायः प्रदर्शितः - आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || तथा - रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || अन्यच्च - असंत्यक्तात्मभावानां विषयाननुगृह्णताम् | विज्ञातपरमार्थानां जीवतामेव मुक्तता || ते चैवास्यात्मनः स्पन्दो नटस्येवान्यरूपता | उक्तं च योगिनाथेन ह्येतच्चिच्छक्तिसंस्तुतौ - प्. ६] तदेवं त्वत्प्रवृत्त्या त्वन्निवृत्त्या चोदयेतरे | जुषन्ते येन तत्त्वानि तान्यतः स्पन्द एव ते || वैसादृश्येऽपि कार्यस्यास्यात्र दृष्टान्तमाह यत् | ज्वलनाद् धूमोद्गतिरिव विविधाकृतिरम्बरे गता भाति | तद्वद्विष्णोः सृष्टिः स्वभावजा द्वैतरूपेयम् || प्राश्यानश्चिद्रसस्यौधः साकारत्वमुपागतः | अवश्यायः प्रबोधार्के तूदिते स्वस्वभावभाक् || इत्यलमतिविस्तरेण, ग्रन्थगौरवभयात् | इह चैतदेवाशमा -प्तेर्विचार्यते | उपायोपेयप्रतिपादनमेव शास्त्रस्य प्रयोजनम् | या तदवबोधादुपेयस्वरूपापत्तिः स्थिरा तदेव प्रयोजनप्रयोजनमिति | अस्य चेदं दर्शनं स्वतन्त्रम् | प्रागुक्तोपपत्त्या सर्वशास्त्रसमुद् -भूतं चाद्वैतप्रतिपादकत्वं निर्बाधमेव | यतो विमर्शात्म - स्पन्दभूम्युपारोहात् पश्यन्त्यादिक्रमेण वाक्प्रसवलाभः | उक्तं च संवित्प्रकाशे - संविन्मूलाद् वर्णपर्णाज्ज्ञानस्तम्भात् सरस्वती | प्रागघोषा सनादाऽनु पुण्यतीर्था प्रवर्तते || त्वत्प्रवृत्ता प्राणयति शक्तिः सा विश्वमोजसा | प्रतियान्ती पुनस्त्वां सा संकोचयति संभवम् || कार्याऽनुरूपं सा रूपं तथा नामापि बिभ्रती | निर्वाहयति विश्वस्मिंश्चित्रां यात्रां चराचराम् || तद्विना च सर्ववादिनां सत्तैव नास्त्यतस्ते निरस्ता एव स्थिताः | अत एवेश्वरप्रत्यभिज्ञायामादिसिद्धरित्युक्तम् - प्. ७] कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे | अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः || इति | तदप्यत्र ये मोहाद्विप्रतिपद्यन्ते तेष्विदमापतितम् | यथा कश्चिन्माण्डलिको राजा चक्रवर्तिनः सकाशात् किञ्चिच्चतुरङ्गादि -साधनं प्रार्थ्यानन्तरं साम्राज्यजिगीषया तेनैव सह युद्धं कर्तुमिच्छति, तदात्मविनाशायैव तस्य स्यात् | एवं तेषामपि तत् | इत्थमप्यस्याजययत्वं सिद्धमेवेति | अथ संग्रहग्रन्थकृता समग्रमग्र्यग्रन्थार्थ गर्भीकृत्य ग्रन्थनिष्पत्त्यर्थमभिमतदेवतां स्तोतुं यः श्लोक उपन्यस्तस्तस् -यार्थः प्राक् श्लोके ध्वनितोऽपि वितत्योच्यते - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः || १ || तं भगवन्तं शङ्करं स्तुमो नुमः | भोगापवर्गाख्यं शं श्रेयः सुखं वा करोतीति शङ्करः | अमलः स्वस्वभावो य प्रागभिधेयतयोपात्तः | इह हि जीवन्मुक्ततैव मोक्षः | उक्तं चेहाग्रे - इति वा यस्य संवित्तिरित्यादि | तस्याश्चैतद् द्वयमप्यन्तःस्थम् | यतः सा ज्ञत्वकर्तृत्वभोक् -तृत्वेश्वरतारूपा उक्तं चेह - तदास्याकृत्रिमो धर्म इत्यादि तथा - यदा त्वेकत्रेत्यादि | सर्वज्ञभैरवे च - नान्यत्र गमनं स्थानं मोक्षोऽस्ति सुरसुन्दरि | अज्ञानग्रन्थिभेदो यः स मोक्ष इति कथ्यते || मोक्षधर्मेषु - प्. ८] चित्तमेव हि संसारो रागादिक्लेशदूषितम् | तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते || बौद्धे च - रागादिमलिनं चित्तं संसारस्तद्विमुक्तता | संक्षेपात् कथितो मोक्षः प्रहीणावरणैर्जिनैः || नारदसंग्रहे च - सर्वो विकल्पः संसारो नान्यो बन्धो विकल्पतः | ग्रन्थकर्तुश्च स्वस्वभावसम्बोधने - बन्धनं बन्धकृद् बध्यस्त्रिष्वप्येको न भिद्यते | स्वविकल्पकृतैर्बन्धैर्बद्ध्यते त्वनिशं जगत् || आत्मसप्ततौ च - वस्तुस्थित्या न बन्धोऽस्ति तदभावान्न मुक्तता | विकल्पघटितावेतावुभावपि न किञ्चिन || पञ्चरात्रेऽपि - त्रिविधो दोषः - स्वभावजस्तामसो विकल्पजो राजस इत्यादि यावत् -तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिरित्यादि | अत एवाऽत्र भगवच्छव्दः प्रयुक्तः | यतः - ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः | वैराग्यस्य च मोक्षस्य षण्णां भग इति स्मृतः || भगवद्व्यतिरेकेण न च स्तुत्योऽस्ति मानिनाम् | तत्स्वरूपानुप्रवेश एव स्तुतिरत्र त्वभिन्नत्वमेवाभिमतम् | अन्यथा कः स्तोता कः स्तुत्यः का वा स्तुतिर्यस्मात् - प्. ९] विरुद्धमेतदद्वैतात् स्वच्छायोल्लङ्घनं यथा | उक्तं च - वेद्यं स्वरूपतां नीत्वा यदा जानाति वेदनम् | तदानीं वेद्यता का स्यात् का वा वेदनता परा || केवलं त्वत्र शब्दकृतो भेदः | सोऽपि विकल्पमूलत्वात्तेषाम् | उक्तं च - विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः | यथा राहोः शिर इति धारा वा सर्पिषो यथा || अन्यच्च - यदभिन्नं स्वसंवित्तौ तत् परस्य यदोच्यते | तद्भिन्नमिवाभाति शाब्दीं भूमिमुपागतम् || तैश्च विना व्यवहारोऽपि न निर्वहति | उक्तं संवित्प्रकाशे - वागेवास्याः कारणं विश्ववृत्तेर् - न्याययं चैतन्नागमः केवलोऽयम् | नासङ्कल्पं किञ्चिदस्तीह कार्यं वाचं विना न विकल्पोऽस्ति कश्चित् || एषाऽपि बोधमूलेति प्रागेवोक्तम् | अन्यच्च जयाख्यसंहितायाम् - निष्कम्पबोधसामान्यरूपो भूत्वा पुरा स्वयम् | ये शब्दजनिता भावाः सूक्ष्मसूक्ष्मतराऽखिलाः || सामान्यबोधशब्दस्य पश्यतस्त्वेकतां गताः | यदाऽभिमुखमायान्ति सङ्कल्पाद्युत्थितस्य च || शब्दरूपपदार्थस्य शब्दः स परमः स्मृतः | सङ्कल्पपदवीरूढः स्फुरत्यन्तः स्थितः स्फुटम् || पदार्थोपरि यः शब्दो मध्यमं विद्धि तं मुने | चिद्वायुकरणोत्थासु प्रयत्नपदवीषु च || प्. १०] वाच्यवाचकभावेनाऽभिव्यक्तः स्थूल उच्यते | दृश्यादृश्येषु भावेषु योऽभिव्यक्तिं प्रयाति च || स तु स्थूलतरश्चैव व्यवहारेऽखिले स्थितः | अन्यत्रापि - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः | व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः || इत्युपपन्नमेतत् | तं स्तुम इत्युक्तम् | तं कम्? यदुन्मेषादौन् -मुख्याज्जगतो विश्वस्योदयः प्रभवः सन्ततिरिति यावत् | निमेषाद् -विश्रामात् प्रलयोऽप्ययः | न ह्येतद्व्यतिरिक्तस्य जगतोऽस्त्युदयोऽप्ययो वा | किन्त्वीशशक्तिप्रसरविरामौ प्रभवाऽप्ययौ | सिद्धोक्तं च - समुदेति जगदशेषं तवोदयविमलसंविदाकारे | अस्तं याति समस्तं पुनरपि निजरूपरूढायाः || इति | ग्रन्थकृताप्युक्तं तत्त्वविचारे - शक्तिप्रसरसङ्कोचनिबद्धावुदयव्ययौ | यस्यात्मा स शिवो ज्ञेयः सर्वभावप्रवर्तकः || कक्ष्यास्तोत्रेऽपि - त्वदाशयोन्मेषनिमेषमात्रमयौ जगत्सर्गलयावितीदृक् | स्फुटे स्फुटं त्वन्महिमाऽवभाति विचित्रनिर्माणनिदर्शनेन || ज्ञानक्रियादिगर्भेच्छाशक्तिर्यः प्रसरात्मकः | सङ्कल्पोक्तः स उन्मेषः प्रोक्तो ह्येतत् स्वतन्त्रके || यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते | क्रियाकरणसंयोगात् पदार्थस्योदयो भवेत् || तद्विरतिश्च निमेषः | उदयप्रलयाविति वक्तव्ये प्रलयोदयाविति यदुक्तं तद्वृत्तभङ्गभयात् | विपर्ययेण चोन्मेषशब्दस्य मङ्गलार्थत्वादादिप्रयोगः सृष्टेश्चाद्यत्वात् | प्. ११] यस्माद्वस्त्वभिधेयं नातः शब्दक्रमेऽत्र भवबन्धः | तत्पक्षो नीचः स्याद्ये तु ब्रुवते यथासंख्यम् || आभ्यामस्य जगत्सृष्टिसंहारयोः कारणभावः प्रोक्तो भुक्तिमुक्ती च | तत्रोन्मेषाद्भोगो नानाविधः | निमेषान्मोक्षो निस्तरङ्गरूपता | अन्यच्च | तं किंभूतम् शक्तिचक्रविभवप्रभव -मिति | इच्छाख्यैका विभोः शक्तिः प्राग्द्विधा ज्ञक्रियाभिदा || इति | तन्नानात्वं चक्रशब्देनोक्तम् | तदुक्तं मालिनीविजये - या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते || सैकाऽपि सत्यनेकत्वं यथा गच्छति तच्छृणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् || ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते | एवं भवत्विदं सर्वमिति कार्योन्मुखी यदा || जाता तदैव सा तत्तद्वत्कुर्वत्यत्र क्रियोच्यते | एवमेषा द्विरूपाऽपि पुनर्भेदैरनेकताम् || अर्थोपाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र मातृत्वमापन्ना पञ्चाशद्वर्णमालिनी || इति | शक्तीनां चक्रं शक्तिचक्रं मातृवर्गस्तच्च मुख्यं चतुर्विधम् | उक्तं च - खेचरी गोचरी चाऽथ दिक्चरी भूचरी भिदा | परादिभारतीसंस्थं शक्तिचक्रं चतुर्विधं || तथा - आनन्देच्छा ज्ञ -क्रियाख्यं खेचर्याद्यं चतुष्टयम् || इति | तस्य यो विभवो विभूतिर्विस्तरो वा तस्याऽपि प्रभवम् | प्रभवत् -यस्मादिति प्रभव उत्पत्तिस्थानम् | प्. १२] यतः सर्वासां शक्तीनां सस्फारचिच्छक्त्यवगमनाच्छक्ति -त्वम् | सा च तदभिन्नैव | प्रोक्तं हि श्रीजयायाम् - तत्त्वनिर्मुक्तदेहस्य केवलस्य चिदात्मनः | य उदेति महानन्दः सा शक्तिर्वैष्णवी परा || इति | विष्णुयामले च - पाहि पाहीति वचनात्तत्त्राणात्तस्वविग्रहाः | परापरबलस्पर्शात् स्वस्वरूपसमाश्रयात् || निहता दानववराः परं वीर्य प्रकाशितम् | तेन ता मातरः प्रोक्ता विश्वसम्भवकारणात् || इति | अत एव ग्रन्थकारेणासां विज्ञानदेहात्मकत्वमुक्तम् | अथवालमत्र | किमनेनासां रहस्यस्वरूपातिप्रकाशनेन योगिनी -नां मुखगतेन | शक्तयश्च खेचर्याद्या वेच्छाद्या वा पराद्या वा अघोराद्या वा वामाद्या वा ब्राह्म्याद्या वा अन्या वैष्णव -शैव -सौरबौद्धाद्युक्ता वा | अथवा शब्दराशिसमुत्थस्येत्यादिना | वक्ष्यमाणा अकाराद्यक्षररूपा करणरूपा वा भवन्तु | एतावत् प्रयोजनमत्राभिर्यदासां सर्वासां स्पन्दरूपो भगवानेव प्रभव इति प्रतिपादनम् | तथा च मायांवामनसंहितायाम् - विष्णु -शिव -सूर्य -बुद्धादि रूपतया तत्तच्छक्तिचक्रपरिवारयुतस्तत् -कारणं भगवानेक एव ध्यानभेदेनोपास्यत्वेनाभिहितः | उक्तं च कुलयुक्तौ - वेदान्ते वैष्णवे शैवे सौरे बौद्धेऽन्यतोऽपि च | एक एव परो ह्यात्मा ज्ञाता ज्ञेयं महेश्वरि || अन्यच्च - यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं स्तुमः इत्येतावता सर्वमुक्तं स्याज्जगत्यन्तस्फुरणाच्छक्तिचक्रस्य | उक्तं हि रहस्यशास्त्रेषु - शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | प्. १३] शक्तयश्च जगत् सर्वं शक्तिमांस्तु महेश्वरः || इति | यत्तु शक्तिचक्रविभवप्रभवमिति पदमुपन्यस्तं तदुद्देशार्थम् | साभिप्रायत्वान्महाकवेः | उक्तं च ध्वनौ - प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् | यत्तत् प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु || तेनैतदेव शक्तीनां यतोऽन्तःप्रसरोदयौ | तद्बलालम्भनात्तासां प्रभुत्वं प्राप्यतेऽचिरात् || उक्तं चेह - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् | इति | यदिदं पदमग्रेऽस्ति परीक्ष्यं तत्त्वमादरात् | इतः प्रभृति सर्वत्रेहानुयोज्यं तु तद्बुधैः || इति || १ || ननु संसार्यवस्थायां कथं शङ्करताऽऽत्मनि | इत्याशङ्कोत्थदुर्दोषपरिहाराय तूच्यते || - यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् | तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् || २ || यत्र यस्मिन् स्पन्दतत्त्वे इदं सर्वं जगल्लक्षणं कार्यं ज्ञानरूपतया शक्त्यात्मना स्थितं निमेषावस्थायां सत्कार्य -त्वात् | यस्माच्च निर्गतमभिव्यक्तिं गतमुन्मेषावस्थायां तस्या - नावृतरूपत्वाद् बोधरूपतयाऽनाच्छादितस्वभाव त्वाद्धेतोर्न कुत्रचिन्निरो धोऽस्ति | यतो बोध्यस्य स्वयं सत्तैव नास्त्यतो बोधृरूपमनावृतमेवावस्थाद्वयेऽपि | उक्तं च - यथा हेम्नो रूपकेषु वैचित्र्यं स्वापरिच्युतेः | प्. १४] अथ नित्यस्वरूपस्य तथा ते विश्वरूपता || यथा गलितरूपस्य हेम्नः पिण्डात्मना स्थितिः | तथा गलितवेद्यस्य तव शुद्धचिदात्मता || ज्ञानसम्बोधेऽपि - विश्वस्याश्रय आकाशं न विश्वं नभसो भवेत् | ज्ञानं नभ इवानन्तं ज्ञेयं विश्ववदल्पकम् || आकाशस्य यथान्येन प्रतिबन्धो न केनचित् | व्यापित्वात् तद्वदस्याऽपि ज्ञानस्याऽप्रतिबन्धता || इति || २ || सर्ववृत्त्युपसंहारे निरोधो मास्तु तस्य तु | जाग्रदाद्यास्ववस्थासु कुतः स्यादनिरुद्धता || जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपलब्धृतः || ३ || जाग्रदादिविभेदे प्रसर्पति प्रसरत्यपि सति तत् स्पन्दतत्त्वं निजादात्मीयात् स्वभावादुपलब्धृरूपात् स्वसंवित्स्वरूपान्नैव निवर्तते | कुतः उपलब्धृतो हेतोर्वा | यस्मादुपलब्धृरूपत्वं तिसृष्वप्यवस्थासु साधारणम् | उक्तं च - अवस्थास्वेव भेदोऽयं नावस्थातुः कदाचन | यथा विषस्याङ्कुरादौ तच्छक्तेर्न तु भिन्नता || इति | जाग्रत्स्वप्नयोस्तावत्संवेदनं सर्वेषां प्रसिद्धमेव सुषुप्तेऽप्युत्तरकालं सुखमहमस्वाप्समित्याद्यज्ञस्याऽपि संवेदनात् सवेत्ता निर्नष्ट एव | उक्तं च - वेल्लत्सु प्रतिबिम्बेषु जलस्पन्दानुवर्तिषु | यंथेन्दोर्न क्रियावेशस्तथाऽत्र परमात्मनः || अन्यच्च, कीदृशे विभेदे विशेषेण भेदो विभेदस्तस्मिन् | किंभूते तदभिन्ने | तस्यैव ताद्रूप्येणावस्थानात् | तथा च - प्. १५] अक्षैर्योऽर्थग्रहो द्रष्टुस्तज्जाग्रदिति कथ्यते | यत्तैर्विनार्थस्मरणं मनसा स्वप्नसंज्ञितम् || यत्रार्थस्मरणं नास्ति तत् सौषुप्तमुदाहृतम् | शुद्धबोधैकरूपो योऽवस्थाता सैव तुर्यता || || ३ || अवस्था एव विश्वान्तर्नावस्थातेति ये जगुः | प्रत्यभिज्ञादियुक्त्येयं तन्निरासाय कारिका || - अहं सुखी च दुःखी च रक्तश्चेत्यादिसंविदः | सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्रताः स्फुटम् || ४ || अहं सुखीत्यादि याः संविदः संवेदनान्यवस्थाः | ताः संविद्भ्योऽन्यत्र संवेत्तर्यवस्थातरि सुखाद्युपलब्धरि उपराग -तया स्फुटं कृत्वा वर्तन्तेऽवतिष्ठन्ते | संवेत्तारं विना संवेदनस्याऽभावात् | नद्योऽब्धाविव तादात्म्यं तत्प्रविष्टाः प्रयान्ति वा | क्षणिकज्ञानानां ह्येव न तु ता एव केवलाः || यस्मात् - कार्यकारणभावो हि बाध्यबाधकताऽपि च | पूर्वापरैकमातारमन्तरेण न सिध्यतः || इति | तत्र हि - प्रमाण्यं क्षणिकत्वेन प्रत्यक्षेणोपपद्यते | प्राग्भाव्युत्तरज्ञानदार्ढ्यात् प्रामाण्यसिद्धितः || प्रतिक्षणमथान्यत्वात् सामान्यस्याग्रहे सति | विलक्षणाः क्षणाः सर्वे प्रामाण्यं किं निबन्धनम् || प्. १६] सम्बन्धस्याग्रहश्चापि तेन मानस्य का गतिः | मिथ्याज्ञानस्य मिथ्यात्वं ब्रूहि वा किं निबन्धनम् || क्षणान्तरे शुक्तिकायां रजतं केन वार्यते | भिन्नज्ञानस्य कर्तृत्वे सर्व प्रामाण्यमाप्नुयात् || अन्यस्वरूपसंसिद्धावन्यसिद्धिर्भवेद्यदि | घटस्वरूपसंसिद्धौ पटस्यावगमो भवेत् || योऽयं स एवायमिति प्रत्ययः स्थिरकालजः | कर्तुं शक्यो न तद्बाधप्रामाण्यात् क्षणिकैस्ततः || प्राग्विज्ञानस्मृतिं प्रत्यभिज्ञा नित्यं प्रतिष्ठिता | अतो नित्यस्वभावस्यैवात्मनः कर्तृतोदिता || इति | किं वा बहूक्त्या - एकप्रमात्रभावात् स्यात् क्षणिकत्वादनिश्चयात् | प्रमाणमप्यप्रमाणं बौद्धानां हि निराश्रयम् || इति | उक्तं च बौद्धायनसंहितायाम् - कार्यकारणभावस्तु नास्ति ज्ञाने क्षणक्षयः | क्षणं द्वितीयं नास्तिचेत् स्मृतिबीजं कथं भवेत् || जनकं तत् कथं नष्टमनष्टं वार्धनष्टकम् | नष्टस्य जनकत्वं चेदभावाद्भावसन्ततिः || जनकत्वे त्वनष्टस्य क्षणभङ्गः प्रहीयते | द्वितीयं यत्क्षणं तिष्ठेत्तदास्ते शतमप्यथ || जनकत्वेऽर्धनष्टस्यार्धे नाऽभावमेति तत् | तस्माद्भावाः स्थिराः सर्वे न च्यवन्ते स्वरूपतः || आत्मावबोधविषये सुस्थिराः क्षणिका न ते | प्. १७] बाध्यबाधकभावोऽपि न स्यान्निश्चायकं विना || शुक्तौ हि रजतज्ञानभ्रान्तिभङ्गोऽस्ति नान्यथा | तस्माज्ज्ञानं नित्यमेकं क्षणिकानि बहूनि नो || इति | सत्कार्यसिद्धौ च - न हि स्वनिष्ठैर्विज्ञानैरितरेतरवेदनम् | तस्मात् पूर्वापरावस्था परिग्रहणपण्डितः || एकः प्रमाता चित्राभिर्वृत्तिभिर्व्यवहारभाक् | प्रत्यभिज्ञायां च - एवमन्योन्यभिन्नानाम परस्परवेदिनाम् | ज्ञानानामनुसन्धानजन्मा नश्येज्जनस्थितिः || न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः | स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् || गीतास्वपि - मत्तः स्मृतिर्ज्ञानमपोहनं च इत्यलं कुतर्काश्मनां चर्वणेन | अन्यच्च, किंभूते संवेत्तरि ? सुखाद्यवस्थासु बोद्धृरूपतयाऽनुस्यूतेङुविद्धे | मणिषु सूत्रमिव सदानुस्यूते एव सर्वास्ववस्थासु | यस्माद्य एवाहं प्राक्सुखी स एवाद्य दुःखी | आदिग्रहणाद्रक्तोऽहं विरक्तोऽहं मूढोऽहं प्रबुद्धोऽहं धनादिमानहमिति स्मृतिप्रत्यभिज्ञानुसन्धानात् | नन्वेवमसौ सावरणः | नैतत्सत्यम् | विकल्परूपतया तासामनित्यत्वात् | तद्व्यतिरिक्तत्वाच्च संवेत्तुः तास्त्वविद्यावशादुपरागमात्रमस्य | उक्तं च भर्तृहरिणा - नाच्छादितस्य तमसा रज्जुखण्डस्य विक्रिया | नाशो वा क्रियते यद्वत्तद्वन्नाविद्ययाऽऽत्मनः || संवित्प्रकाशे च - अत्यन्ताच्छस्वभावत्वात् स्फटिकस्य यथा स्वकम् | रूपं परोपरक्तस्य नित्यमेवोपलभ्यते || प्. १८] तथा भावसमासक्तं भगवंस्तावकं वपुः | अत्यन्तनिर्मलतया पृथक् तैर्नोपलभ्यते || नैतावताऽसौ स्फटिकः पृथङ्नास्त्येव रञ्जकात् | भावरूपपरित्यक्ता तव वा निर्मला तनुः || इति | तथा - उपरागेऽपि शुद्धत्वं न त्यक्तमनया प्रभो | परित्यज्य निजं रूपं संविदाख्या कुतः श्रयेत् || अथाऽप्राप्यैव तद्रूपं भवेद्रूपान्तरानुगा | तद्रूपापि हि दृश्येत कारणस्याऽपि सम्भवात् || तथाऽत्रैव - सदैव शुद्धोऽनुभवोऽयं प्रत्याकारकर्बुरः | आकारान्तरसञ्चारकाले तस्यापि निर्मलः || यथा जात्या सितं वस्त्रं रक्तं रागेण केनचित् | तत्पदं प्राप्तशुक्लत्वं पुना रागान्तरं श्रयेत् || एवं शुद्धा चितिर्जात्या यदाकारोपरागिणी | तत्त्यागापरसञ्चारमध्ये शुद्धैव तिष्ठति || तथा - नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम् | विशिनष्टि विकल्पस्तच्चित्रयोपाधिसम्पदा || || ४ || तद्व्यतिरिक्तस्य च रूपमाह - न दुःखं न सुखं यत्र न ग्राह्यो ग्राहको न च | न चास्ति मूढभावोऽपि तदस्ति परमार्थतः || ५ || प्. १९] तत् स्पन्दतत्त्वं परमार्थतोऽस्ति नित्यत्वात्तस्य | यत्र न दुःख -माध्यात्मिकादि | न सुखं वैषयिकम् | न ग्राह्यं घटपटादि न ग्राहकमहमिदं गृह्णामीति प्राकृतं सविकल्पाहङ्काररूपत्व - मविद्यात्मकत्वादहङ्कारस्य | न त्वनेनाधिष्ठातृरूपस्य ग्राहकस्याभाव उक्तः | उपेयत्वात्तस्य | उक्तं च तत्त्वगर्भ - परमार्थेन न ग्राह्यं ग्राहकं वा न किञ्चन | यस्मादृते तत् स्वाभासमस्वाभासमिवेक्ष्यते || इति | एवं तर्हि तत् पाषाणप्रख्यं मूढत्वमेव शून्यं वा | अत्रोच्यते - न चास्ति मुढभावोऽपीति | कुतश्चिद्रूपत्वात् | उक्तं च मुनिना - यथा शीतोष्णयोर्मध्ये काले नोष्णो न शीतलः | एवं हि सुखदुःखाभ्यां हीनमस्ति पदं विभोः || स्तुतौ च - समुदेति यथा भावान् विना भानुर्नभस्तले | वेद्यं विनैव भगवान् भवार्केण स्वतोदयः || तथा - यथोद्धृतविशेषस्य सामान्यस्य निजा स्थितिः | पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता || यथोद्धृता कुण्डलादेः केन कस्य निजा स्थितिः | पृथङ् न शक्या निर्देष्टुं न च तत्रास्ति तावता || एवं नित्या निजा शुद्धा सुखदुःखाविशेषिता | स्वसंवेदनसंवेद्या तव संविन्मयी स्थितिः || नागार्जुनेनाऽप्युक्तम् - सर्वालम्बनधर्मैश्च सर्वतत्त्वैरशेषतः | सर्वक्लेशाशयैः शून्यं न शून्यं परमार्थतः || इति | प्. २०] आलोकमालायां च - विरुद्धत्वात्तमोवृत्तेर्नावकाशं ददाति या | साऽवस्था काऽप्यविज्ञेया मादशां शून्यतोच्यते || न पुनर्लोकरूढ्यैव नास्तिक्यार्थानुपातिनी | इति || ५ || अत्रास्याऽमूढत्वाऽस्तित्वयोः सन्दानितकेनोपपत्तिमाह - यतः करणवर्गोऽयं विमूढोऽमूढवत् स्वयम् | सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतीः || ६ || लभते, तत् प्रयत्नेन परीक्ष्यं तत्त्वमादरात् | यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा || ७ || यतो यस्मात् स्पन्दतत्त्वादयं बाह्यः करणवर्गो बुद्धिकर्मेन्द्रियाख्योऽन्त - करणचक्रेण सह विशेषेण मूढ -चेतनोऽविचेतनवत् स्वयं प्रवृत्तिस्थितिसंहृतीर्लभते | एषोपपत्तिहेतुस्तु दृष्टान्तो भ्रामको मणिः | यथा वाताग्निसंपर्कादयः पिण्डोऽग्निवद्भवेत् || दाहपाकप्रकाशादौ शक्तस्तद्वदयं गणः | इति | एवं योऽन्येषां चैतन्यापादने समर्थः स कथं निःस्वभावः | उक्तं षाड्गुण्यविवेके - स्वदेहसाक्षिकं चैतत् सर्वस्य ज्ञानचेष्टितम् | ज्ञानानधिष्ठितः कायो लुठत्येव यतोऽधृतः || अत एव जडानामप्यधिष्ठातृकृता धृतिः | गम्यते गगने ग्रावा न धार्येताऽन्यथा कथम् || इति | तस्मात्तत् तत्त्वं प्रयत्नेनादरात्परीक्ष्यम् | प्रयत्न उद्योगरूप उत्साहः | आदरः श्रद्धा | अत्र च परीक्षणमुद्योग -बलानुप्रवेशेन स्वीकरणम् | उक्तं चेह - अतः सततमुद्युक्त इत्यादि | प्. २१] सिद्धोक्तं च - अदृश्यं नेत्रवद् ब्रह्म द्रष्टृत्वं चास्ति नेत्रवत् | स्वात्मन्येवोपलम्भोऽस्य दर्शनं घटवन्न तु || इति | यतो यस्मात्तस्येयमकृत्रिमा निजैव स्वतन्त्रता सर्वत्र | तेनैतदुक्तम् - यथास्य करणादिषु चैतन्यापादने स्वातन्त्र्यं तथा परपुरादिष्वपि सम्भाव्यतेऽभ्यासात् || ७ || तदिच्छयास्तु सामर्थ्यं करणानां स्वतन्त्रता | सर्वत्रोक्ताऽस्य या सा तु भुक्तियुक्तिरतस्त्वियम् || न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते | अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् || ८ || अयं पुरुषो जीवात्मा नेच्छानोदनस्य नेच्छाप्रेषणस्य करणचक्रचोदकस्यैव केवलं प्रेरकभावेन वर्तते | हिशब्द एवशब्दार्थेऽत्र केवलशब्दार्थे वा | अपित्विति निपातः प्रतिषेधनिवृत्तौ स्वरूपद्योतकः | आत्मनो बलमात्मबलं निरावरणचिद्रूपं ज्ञत्वकर्तृत्वलक्षणम् | तत्स्पर्शात्तदवष्टम् -भात् तत्समो भवेत् | सर्वज्ञः सर्वकर्ता स्यादित्यर्थः || ८ || अनेन सर्वस्वातन्त्र्यमुक्तमस्य च तद्भवेत् | अभिमानात्मकक्षोभक्षयेन त्वन्यदाह च || - निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् || ९ || निजा सहजानादिर्याऽशुद्धिरविद्याऽविवेकमूला भोगाभि -लाषमलरूपतयाऽसमर्थस्य सङ्कुचितशक्तेः | अत एव च कर्तव्येषु कार्येष्वभिलाषिणः साभिलाषस्य सतो न कार्यमिच्छतोऽपि भवति | तथा च श्रीसात्वता - अज्ञानव्यापकत्वं च सुखदुःखादिवेदनम् | सर्वज्ञस्यात्मतत्त्वस्य कर्मचक्रावलम्बनात् || प्. २२] गीतास्वेषा प्रकृत्याख्याशुद्धिः प्राक्कर्मवासना | मायाऽविद्या भ्रमो मोहोऽज्ञानं मलमिति क्वचित् || गीतं च - प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् || इति | अनादित्वे समानेऽस्या विशेषोऽयं विचारतः | लयो यन्मायारूपत्वात् | तदुक्तं संवित्प्रकाशे - मायात्वमेतदेवास्या यन्नाशस्तत्त्वदर्शनात् | नहि विज्ञातरज्ज्वात्मा सर्पादीन्मन्यते पुनः || इति | अन्यत्र च - त्वत्तो द्वितीयमिह वस्तु यदस्ति किञ्चित्तत्तद्विचारपदवीमवतारितं चेत् | गन्धर्वपत्तनमिवोपलयं प्रयाति त्वं शिष्यसे ध्रुवमतस्तव शेषसंज्ञा || इति | विद्याधिपतेश्च - भक्षणप्रकृतिना समाधिना युक्तितो विषयधाम्नि भक्षिते | सर्वभक्षपदवीमुपेयुपः शिष्यते परमभक्षितो भवान् || सा चेन्द्रजालिनो मायेवाऽ स्थिता बाधकात्मनि | यथाऽग्नेर्धूमबिम्ब मलवद्दर्पणस्य वा || बुद्बुदाः सलिलस्येव तच्छान्तौ निर्विकारिता | यदा तु क्षोभो विकारोऽशुद्धिजनितो देहाहम्प्रत्ययरूपो विवेकेनात्मबलस्पर्शात् प्रलीयते प्रलयं याति तदा स्यात् परमं पदं स्वस्वरूपे स्थितिर्भवेदित्यर्थः | उक्तं षडधातुसमीक्षायाम् - कर्माणि मोहमूलानि संसृतेः कारणं यतः | तत्क्षयात् कर्मनिर्मुक्तः स्वस्थः शान्ततमस्ततः || प्. २३] नारदसंग्रहेऽपि - यथा सुभर्जितं बीजं नेह भूयः प्ररोहति | विकल्पक्षीणचित्तस्य तथा भूयो न संसृतिः || स च क्षोभक्षयः शनैः शनैरभ्यासाद्भवेत् | उक्तं ह्यात्मसंबोधे - यथाग्निपोत्रं ज्वलनोद्धृतं सच्छैत्यं प्रयायाच्छनकैर्न सद्यः | अज्ञानपङ्केऽपि तथा निरस्ते कालेन कैवल्यमुपैति देही || षाङ्गुण्यविवेकेऽप्यात्मपरमात्मनोरेतावान् भेदोऽभिहितः - अविद्याकृतसङ्कोचगृहीताहंयुतास्य या | तया भिन्नोऽप्यभिन्नोऽयं तत्त्वतः स्वप्नभीतवत् || अभीत एव यः स्वप्ने बिभ्यदभ्येति सम्भ्रमम् | तस्य स्वप्नादभिन्नस्य को भेदः पारमार्थिकः || तथा हि मिथ्यैव भयं ममेति यदि बुद्ध्यते | स्वप्नतत्त्वं परामृश्य भीतिभिन्नैन बाध्यते || एवं त्वन्मय एवाऽहमिति भावनया त्वयि | प्रलीनाऽहङ्कृतिग्रन्थिः पश्यत्येव त्वदात्मताम् || इति | संवित्प्रकाशे च - कर्मेदं त्वत्कृतमपि त्वन्मयं येन माधव | विहीनाऽहङ्कृतिस्ततस्त्वमेव परिशिष्यसे || एतावतैव भेदोऽस्य यदहम्मानिताऽऽत्मनि | सा चेद्विलीना त्वद्भक्त्या नप्टो भेदः स्थितैकता || || ९ || स्वरूपस्थस्य गुणानाह - तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणः | यतस्तदीप्सितं सर्वं जानाति च करोति च || १० || तदा तस्मिन् प्रलीनक्षोभात्मके कालेऽस्यात्मनः स्वरूपस्थत् -वादकृत्रिमः सहजो धर्मः स्वभावो भवतीति वाक्यशेषः | प्. २४] किंभूतः जानातीति ज्ञः | तस्य भावो ज्ञत्वं | करोतीति कर्ता | कर्तुर्भावः कर्तृत्वं | आभ्यां यो लक्ष्यते, एते वा लक्षणरूपं चिह्न यस्य धर्मस्य स ज्ञत्वकर्तृत्वलक्षणः | यतो यस्माद्धर्माद् -धेतोर्वा यज्ज्ञातुमीप्सितमभिमतं तज्जानाति यत् कर्तुमिष्टं तत् करोति स्वात्मनो वा परस्य वा | पञ्चरात्रे चैष एव धर्मो विवेकजज्ञानशब्देनोक्तः - तस्य च प्रादुर्भवतः किं पूर्वरूपं यत् सर्वज्ञो भवति संवदर्शी सर्वेश्वरः सर्वशक्तिरिति | स चाऽस्य करणैर्विनाऽपि स्यात् | तत्रैवोक्तं हि - तद्यथा अग्निर्नाम कस्मिंश्चिद्दह्ये नान्यत्किञ्चिदुपादत्ते तेन घक्ष्यामीति स्वयमेव दहति | एवमयमात्माऽनुपादाय ज्ञाताऽनुपादायकारी स्वात्मनैव सर्वकरः | कुतो बोधरूपत्वात् | षाङ्गुण्यविवेके उक्तम् - नहि बोधो विचित्रार्थनिर्माणेऽन्यमपेक्षते | सङ्कल्पादेव यो रूपसहस्राणि सृजत्यजः || ये त्वस्य ज्ञत्वकर्तृत्वादीन्यन्यतो वदन्ति तेषामनीशतैव स्यात् | उक्तं ह्यागमरहस्ये - येऽपीश्वरं व्यपदिशन्ति निमित्तहेतुं तैरर्पितस्तिल जलाञ्जलिरोशितायै | अन्याङ्गनोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी बत सङ्गिरन्ते || इति || तस्माद्युक्तमुक्तम् || १० || अस्याऽकृत्रिमधर्मस्य स्थैर्यायोपाय उच्यते - तमधिष्ठातृभावेन स्वभावमवलोकयन् | स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः || ११ || तं शुद्धमात्मस्वभावमधिष्ठातृभावेन चिद्रूपतया सर्वव्यापकत्वेनावलोकयन् पश्यन् प्रतिजानन् स्मयमान इव विस्मयाविष्ट इव विकसन्निवास्ते यस्तिष्ठति तस्याविद्याविलयादियं कुतः कुसृतिः कुत्सितसंसरणं न कुतश्चिद् भवतीति वाक्यशेषः | प्. २५] उक्तं च शिवसूत्रेषु - विस्मयो योगभूमिका | अस्य चैतदवलोकनं यद् द्रष्टृरूपतयाऽनुभवनम् | उक्तं हीष्टोपदेशे - यदिदं दृश्यते दृष्ट्या गृहं पुत्राऽत्र सन्त्यज | येन पश्यसि तं पश्य यं दृष्ट्वा पश्यसेऽखिलम् || कर्त्रा चोक्तम् - यो जगु पश्चि एषु किनु वीक्षोमा -इत्थ करो | विषयालविलुद्दि एसे पत्तापत्त रावीक्षो अपल -इयद अस्त्युबुद्दि || तथाऽस्यान्यतः कुतः साभिलाषतया विकल्पशिल्पादिकुमार्गा -नुसरणमपि त्वेवं सदैव स्वस्वरूपे स्थितिर्भवेत् | तत्स्थत्वाच्चेश्व -रवत् सत्यसङ्कल्पः स्यादित्यतोऽस्मिन्नेवासति | यतोऽभ्यास विना ज्ञातमपि स्वोकर्तुं न शक्यते | तदन्तरेण च कुतः सिद्धिः ? | उक्तं मुनिना - यदि वाचनिकाज्ज्ञानान्मुक्तिः स्याद्भावनां विना | शारीरमानसैर्दुःखैर्मुच्येरन् सर्वजन्तवः || तथा च युक्तौ - रसायनं विनास्वादात् सूचितं ह्यप्यसिद्धिदम् | इति | अन्यच्चोक्तम् - आगोपबालवनितं भगवंस्त्वमित्थं ज्ञातोऽप्युपायविरहान्न तु मोक्षदोऽसि | नान्तः स्थितं भवति धेनुषु तृड्विहर्तृ क्षीरं तदेव पुनरभ्यवहारतः स्यात् || || ११ || तान् ध्वंसयितुमाहेदं ये त्वाहुः शून्यवादिनः | अभावं भावयेत्तावद्यावत्तन्मयतां व्रजेत् || इति | नाभावो भाव्यतामेति न च तत्रास्त्यमूढता | यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः || १२ || अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा | न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते || १३ || प्. २६] नाऽभावः शशविषाणसदृशो भाव्यतामनुभवविषयता -मेति प्राप्नोत्यवस्तुत्वात् | न च तत्राऽभावेऽमूढतास्त्यपि तु मूढावस्थैव सा | यतोऽभियोगसंस्पर्शादभिलाषसंयोगात् - तदभावभावनमासीदभूदतीतमिति निश्चयः | यस्मात् स मम शून्यावस्थातीतेति स्मर्यते | तदुक्तम् - अभावो येन भावेन बोध्यतेऽस्ति न नास्ति सः | तस्य भावस्य सद्भावो वद केन निवार्यते || सोऽस्त्यतश्चिन्मयो भावो येन सर्व विभाव्यते | इति | अतो हेतोस्तदभावभावनं कृत्रिममनित्यं सदा ज्ञेयम् | किमित्र सौषुप्तपदवत् सुषुप्तावस्थेव | न त्वेवं मूढावस्थावत् तदात्मतत्त्वं स्मर्यमाणत्वं स्मर्तव्यतां प्रतिपद्यते गच्छति, स्मर्तृत्वाच्चिद्रूपस्य, नित्योदितत्वाच्च | तस्मात्तत्तत्त्वं गुरूपदेशे -नादरात् परीक्ष्यमिति || १२ -१३ || एवम् - अवस्थाद्वयमत्राऽस्ति स्मर्तृस्मर्तव्यभेदतः | यत्तस्य नित्यानित्यत्वविचारायेदमुच्यते || - अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् | कार्यताक्षयिणी तत्र कर्तृत्वं पुनरक्षयम् || १४ || अत्रास्मिन् पूर्वोक्ते स्पन्दतत्त्वेऽवस्थायुगलं दशाद्वयं यदस्ति कार्यकर्तृत्वशब्दितं कार्यकारणसंज्ञितं भोग्यभोक् - तृभेदभिन्नदृश्यद्रष्टृभिदा वेद्यवेदकरूपम् | तत्र तयोर्मध्याद्या कार्यता सा क्षयिणी उत्पत्तिविनाशयुक्ता | यत्पुनः कर्तृत्वं तदक्षयिनिर्बाधं चित्स्वरूपत्वात् || १४ || अत एव - कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते | तस्मिंल्लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते || १५ || प्. २७] अत्रास्मिन् कार्ये बाह्येऽर्थे क्षयिणि सति कार्योन्मुखः कार्यसंपादनाभिमुखो यः प्रयत्नो बाह्यकरणव्यापाररूपः स केवलं लुप्यते न लक्ष्यते न्यग्भूयैव स्वात्मन्यास्ते, स्थगितेन्द्रि -यस्य वा व्यापारासामर्थ्यात् | तस्मिन् प्रयत्ने लुप्ते सति अस्मि अहं विलुप्तो नष्ट इत्यबुधोऽज्ञः प्रतिपद्यते जानाति | न तु चिद्रूपस्य विनाशोऽस्ति | उक्तं च - विज्ञप्तेर्न विनाशोऽस्ति विनष्टेऽपि शरीरके | अभावे सूर्यकान्तस्य नैवास्ति सवितुः क्षतिः || इति || १५ || कस्माच्चेत्याह - न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् | तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् || १६ || देशकालादिविच्छिन्नस्य कार्यस्यैव लोपो निवृत्तिर्न तु योऽन्तर्मु -खो भावो बहिरप्रसुतेः स्वस्वरूपस्थः स्वस्वभावः सर्वज्ञतादी -नां गुणानामास्पदमाश्रयस्तस्य भावस्य लोपः कदाचित्स्याद् - भवेद् उपपद्यते | कुतो न स्यात् | चिद्रूपं मुक्त्वाऽन्यस्य द्वितीय -स्यानुपलम्भनादनुपलब्धेः | तस्यैव हि सर्वत्र सर्वदोपलब्धिः | एतदुक्तम् - देशकालक्रियाकारैरवच्छिन्नेषु वस्तुषु | अनवच्छिन्नरूपस्त्वं भासि तस्य बहिः स्थितेः || इति | अत्र च - भेदः सर्वज्ञतादीनां ज्ञानादीनां च नास्त्यमी | ज्ञानस्यैव धर्मतया चिद्रूपस्य स्थितिर्यतः || इति | उक्तं च षाड्गुण्यविवेके - गुणेषु ज्ञानमाद्यन्ते तेन तत्त्वेऽवधारिते | धर्मत्वेनेशिताशक्तिबलवीर्यौजसां स्थितेः || इति | कक्ष्यास्तोत्रे च - ज्ञानं प्रशान्तं तव बोधवृत्ति - रैश्वर्यमुद्यत्प्रसरा परेषाम् | प्रकाशनं प्रत्यपि योग्यरूपा शक्तिर्बहिःस्थैर्यवती बलं सा || प्. २८] उत्पन्नबाह्यप्रसरा तु वीर्य तेजश्च बाह्यानवभासयन्ती | षोढेत्थमेकैव तव स्वशक्तिर् - बाह्यावमर्शात्तु भवेदविद्या || तत्र सर्वज्ञता ज्ञानं सर्व हि जायते ततः | बलस्य तृप्तिमूलत्वात् क्षम्यस्य तदभावतः | अनादिबोधस्तेजोऽत्र बोधमूलं हि तत्सदा || तदुक्तम् - प्रभावलक्षणं यच्च तेजः प्रह्वयते परान् | बोधत्वादेव तद्वेद्यं बोधः प्रह्वयते जगत् || स्वतन्त्रताऽत्र चैस्?वर्यं स्वातन्त्र्यादीश्वरस्य तु | इति | तदुक्तम् - स्वतन्त्रः सर्वकृत्येषु न नियोज्यो न विघ्नवान् | प्रवृत्तोऽप्यप्रवृत्तो वा यतस्तेन त्वमीश्वरः || वीर्यं सदाऽलुप्तशक्तिर्नाशाभावश्च तद्वतः | तदुक्तम् - आत्मसत्त्वापरिभ्रंशलक्षणाद्वैर्यमासते | वीर्यादेतच्च ते कार्येऽप्यन्वयः स्वर्णवच्च यः | अनन्तशक्तिः शक्तिः सा सामर्थ्यात् सर्वतः सदा || || १६ || तस्य तु क्व कस्योपलब्धिरित्याह - तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु || १७ || तस्य चिद्रूपस्यात्मनो योगिनः सततमुपलब्धिरनुभवो भवेत् | कीदृशस्य योगिनः नित्यं सदैव सुप्रबुद्धस्य | कीदृश्युपलब्धिः | त्रिपदाव्यभिचारिणी त्रिष्वपि जाग्रदादिषु पदेष्ववस्थासु या न व्यभिचरति न निवर्तते सा तथोक्ता | तुर्ये तु निर्भ्रान्तैव | प्. २९] उक्तं च - काप्यवस्था न ते साऽस्ति यस्यां संविन्न वर्तते | तेन चिद्धनमेव त्वां योगिनः पर्युपासते || अपरस्य पुनरीषत्प्रबुद्धस्य प्रबुद्धस्य च | तदाद्यन्ते तदिति पदत्रयस्य परामर्शः | एतदुक्तम् - तदादौ प्रागवस्थायां (तदन्तेऽपि) च तन्मयम् | पदं प्रत्ययस्याद्यन्ते जाग्रत्तुर्याव वागमात् || इति | अथवा तदादौ तदन्ते च तन्मध्ये जाग्रत्स्वप्नयोरित्यर्थः | यतः प्रबुद्धस्यैतयोरेव स्फुटोपलब्धिः संवेदनम् || १७ || स च तस्य क्व कथमिति स्फुटीकर्तुमाह - ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः | पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः || १८ || विभुर्व्यापकः चिन्मयश्चिद्रूपः परमात्मा परमया शक्त्याऽत्युत्कृष्टेन सामर्थ्येन युक्तः | पदद्वये जाग्रत्स्वप्नात् -मके *?ति दीप्यते प्रकाशते | कीदृश्या शक्त्या ? ज्ञानज्ञेयभेदेन द्विरूपया | द्वैरूप्यात्त्वस्याः पारम्यम् | अत एवास्मिन्नवस्थाद्वये द्विविधोपलब्धिः | तदन्यत्र पुनस्तस्मात्पदद्वयादन्यस्मिन् पदद्वये सुषुप्ततुर्याख्ये चिन्मयश्चिन्मात्र एव | ज्ञेयाभावाज् - ज्ञानस्वरूप एवेत्यर्थः || १८ || तस्योपलब्धिर्योक्ता सा गुणस्पन्दादिभिः स्थितैः | कुतस्त्या चेति सा शङ्का ये तान् प्रत्युच्यते त्विदम् || - गुणादिस्पन्दनिःष्पन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततम् स्युर्ज्ञस्यापरिपन्थिनः || १९ || गुणाः सत्त्वरजस्तमांसि | आदिग्रहणान्महदहङ्कारतन्मा -त्रेन्द्रियभूतानि च | गुडादिश्चासौ स्पन्दः गुणादिस्पन्दः | तस्य ये निष्यन्दाः प्रवाहाः सुखदुःखमोहोर्मिज्ञानविशेषास्ते प्रागुक्तलक्षणस्य सामान्यस्पन्दस्यान्तर्लीनाऽनन्तविशेषस्य संश्रयादालम्बनाद्धेतोर्लब्धात्मलाभाः प्राप्तसत्ताकाः | अत एव ज्ञस्य विदितवेद्यस्य योगिनः स्वरूपाव्यवधानादसम्पर्कात् सततं नित्यमपरिपन्थिनः स्युः | प्. ३०] स्वभावाच्छादका न भवन्तीत्यर्थः | सिद्धोक्तं च - यद्वत्प्रकाशकस्य प्रकाश्यविषये न दृश्यते मानः | सम्पर्कात्तव तद्वत् संविद्वेद्ये न भाव्यते जातु || ते चास्यैव स्पन्द इति प्रागेवोक्तम् | मतङ्गपारमेश्वरेऽपि - शिवाद्यवनिपर्यन्तो योऽयमध्वाऽतिविस्तरः | स समस्तश्चितौ ज्ञेयस्तया संवेद्यते यतः || गीतासु च - दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामतितरन्ति ते || || १९ || अज्ञस्य तु - अप्रबुद्धधियस्त्वेते स्वस्थितिस्थगनोद्यताः | पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि || २० || अप्रबुद्धा सम्मूढा धीर्बुद्धिर्यस्य पुंसस्तस्य पुनरेते गुणादिस्पन्दनिष्यन्दाः स्वस्थितेश्चिद्रूपाया अवस्थायाः स्थगनेऽवच्छादने प्रोद्यताः | यतोऽसौ तदात्मकमेव नित्यमात्मानं पश्यति, न शुद्धबुद्धरूपतया | उक्तं च - यथादर्श शिशुः स्वच्छं निःश्वासैः स्वैर्मलीमसम् | करोति तद्वद्विज्ञानं स्वविकल्पैर्जडाशयः || इति | अत एव संसारवर्त्मनि पातयन्ति जननमरणप्रवाहमार्गे प्रेरयन्ति | कीदृशे ? दुरुत्तारे दुःखेनोत्तरणं निस्तारो यत्रात एव घोरे क्लेशप्रदे | तदुक्तं ज्ञानसम्बोधे - यद्यपि स्वात्मशक्त्यैव गतिः साक्षान्धयोर्द्वयोः | तथाप्येकः स्वयं याति द्वितीयोऽन्येन नीयते || साक्षवत् स्फीतबोधानां स्वातन्त्र्यं विषमेष्वपि | अन्धवन्मन्दबुद्धीनां पारतन्त्र्यं समेष्वपि || इति || २० || प्. ३१] अथात्राऽज्ञस्याप्युत्तरणोपायमाह - अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये | जाग्रदेव निजं भावं न चिरेणाधिगच्छति || २१ || यतस्ते पातनशीलाः | अतोऽस्मात् कारणाद्यः सततं सर्वकाल -मुद्युक्तो विकस्वरस्वभावतया कृतोद्योगः | किमर्थम् स्पन्दतत्त्वस्य विविक्तये विवेचनाय स्वरूपाभिव्यक्त्यर्थम् | यदुद्योक्तृरूपं तत् | उक्तञ्च शिवसूत्रेषु - उद्योगः शिव इति | अतः प्रजाग्रदेव जाग्रदवस्थायामेव व्युत्थानेऽपि निजमात् -मीयं स्वभावमचिरेण शीघ्रमधिगच्छति प्राप्नोति | अस्य चैतद् -विवेचनम् | यदहं शुद्धबोधैकरूपो जगच्चेदं मत्स्फार एव | उक्तं च - सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || पञ्चरात्रेऽपि यदात्मनि सर्वभूतानि पश्यत्यात्मानं च तेषु पृथक्च तेभ्यस्तदा मृत्योर्मुच्यते जन्मनश्च | अन्यत्र च - निर्मला नन्तबोधैकरूपस्त्वं भव्यबुद्धिभिः | वेद्याद्वा वेदकाद्वापि लभ्यसेऽवहितात्मभिः || तत्त्वार्थचिन्तामणौ च - इत्थं तत्तदनल्पमोहदलनप्राप्तस्वरूपोदयो योगो नित्यमनात्मभावविरहात् स्वात्मस्थितो निर्वृतः | दृश्यद्रष्टृविवेकविद्भवपदव्यापी विमुक्तामयो व्युत्थानेऽपि समाधिभाग्भवति सन्मोक्षश्रियः कारणम् || इति || २१ || प्. ३२] जाग्रदेव स्वभावोक्तिर्योक्ता साऽज्ञैर्न लक्ष्यते | अतः स्पन्दोदयपदान्युच्यन्ते येषु लक्ष्यते || अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् | धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः || २२ || द्विषोद्दीपितामर्षोऽतिक्रुद्धः सन् प्राग् यत्पदं गच्छेत् यं स्फारमालम्बते यामौन्मुख्यवृतिं स्पृशेत् | अथवा सुचिरागत -प्रियदर्शनादिना प्रहृष्टः प्रहर्षितो यत्पदं गच्छेत् परानन्द -रूपं गृह्णीयात् | तथा अनेककार्यकल्लोलाकुलतया किं करोमि ? इदं करोमि, अथवेदं करोमीति मृशन् परामृशंश्चिन्ताविष्टो यत्पदं गच्छेन्निश्चयकारिणीं दशामाश्रयेत्, तथा कान्ताहृतचित्ततया सम्भ्रमाद्वा धावन् धावमानो यत्पदं गच्छेद्यामवस्था -मारोहति, तत्र तस्मिन् पदे स्पन्दः प्रागुक्त आत्मस्वभावः प्रतिष्ठितः स्फुटोपलभ्यतया स्थितः | एतदुक्तं भवति - यत्र यत्र यदा येन सर्वशक्तिलयो भवेत् | स्फुटः स्यात् स्पन्दतत्त्वस्य तत्र तत्र तदोदयः || इति | यतः - क्रोधाद् दुःखभुवः सर्वा हर्षात् सुखभुवः स्मृताः | किं करोमीति मोहोत्था धावन्तीन्द्रियवृत्तयः || इति | उक्तं च विज्ञानभैरवे - क्रोधाद्यन्ते भये शोके गह्वरे वारणे रणे | कुतूहले क्षुधाद्यन्ते ब्रह्मसत्ता समीपगा || इति | रहस्यस्तोत्रे च - क्रोधहर्षविवशः परां दंशामाश्रितोऽथ विमृशश्च यः क्रियाम् | यत्स्पृशत्यनियतक्रियास्पदं स्पन्दमात्मबलदं वदन्ति ते || एषोऽन्यत्र तुटेः पातः प्रोक्तः सर्वज्ञतादिभाक् || इति | तुटिपाते सर्वज्ञत्वसर्वकर्तृत्वसर्वेशितादयः | एष च गुरुपदेशेनादरात् परीक्ष्यः || २२ || प्. ३३] अस्यैवोदयायोपायान्तरं विशेषकेणाह - यामवस्थां समालम्ब्य यदयं मम वक्ष्यति | तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति || २३ || तामाश्रित्योर्ध्वमार्गेण सोमसूर्यावुभावपि | सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम् || २४ || तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे | सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः || २५ || अयमेष देवदत्तो ज्ञाता अद्भुतसद्वस्त्वभिधाययनुल्लङ् -ध्याज्ञो यत्किञ्चिन्मम वक्ष्यति वदिष्यति तदवश्यमहं करिष्ये -ऽनुष्ठाष्यामि करिष्यामीति सङ्कल्प्य यामवस्थामौन्मुख्य -रूपां वृत्तिं समालम्ब्य गृहीत्वा यस्तिष्ठति तस्य पुंसस्ताम -वस्थामांश्रित्योर्ध्वमार्गेण विषुवत्प्रवाहेण सोमसूर्यावु -भावपि द्वावप्यपानप्राणौ मनःप्राणौ वा | सौषुम्णेऽध्वनि मध्यमनाड्यां परशक्तिमार्गे स्वयमस्तमितो लयं गच्छतः | किमस्य हृद्गतं स्यादिति कुतूहलात् | कि कृत्वा भवतः ? ब्रह्माण्ड - गोचरं हित्वा शरीरविषयं विहाय, देहाहंभावं त्यक्त्वेत्यर्थः | उक्तं च - जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकत्वे निर्मले बोधसिन्धौ | अव्यावर्त्यैवेन्द्रियग्राममन्तर् - विश्वात्मा त्वं नित्यमेकोऽवभासि || इति | तदा तस्मिन् काले तस्मिन् महाव्योम्नि च परचिदाकाशे प्रत्यस्त -मितशशिभास्करे प्रशान्तज्ञानक्रिये मूढोऽनभिव्यक्तस्वस्व -भावः स्वप्नादिना मुह्यमानोऽप्रबुद्धो निरुद्धः स्यात् सौषुप्तपदवत् | यथा सुषुप्तपदे तथा प्रबुद्धस्त्वनावृत एव भवेत् | उक्तं च रहस्यस्तोत्रे - स्वात्मनि स्तिमितसोमभास्करं व्योममार्गमतिवृत्य तस्थुषः | भावनाञ्जितदृशोऽपि खेचराः केचिदेव तव धामदर्शिनः || इति | प्राणापानप्रशान्तिरेव चान्यत्र निरञ्जनतत्त्वोदये युक्तिः प्रोक्ता | मायाप्युक्तं भोगमोक्षप्रदीपिकायाम् - प्. ३४] कामाख्ये विषतत्त्वे निरञ्जनाह्वे क्रमाच्च सिद्धिः स्यात् | सूर्ये सोमे हृदयात्तयोः शमाच्चेति शास्त्रसर्वस्वम् || इति | एवं स्पन्दतत्त्वस्योदयः प्रोक्तः | तदाऽस्मादेव च सहजो मन्त्रोदयः | उक्तं च बौद्धायनसंहितायाम् - शान्ते चन्द्रे त्वमान्ताख्ये यावन्नोच्चरते रविः | उदयः सर्वमन्त्राणां विलयश्च दिवौकसाम् || इति | मालिनीविजयेऽपि - यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति | तत् स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते || तथा - धर्माधर्मान्तरे चित्तं रुद्धं यस्य तदा तु सः | यद्वक्ति स भवेन्मन्त्रः किं पुनर्मातृकोत्थितः || इति || २३ - २४ - २५ || अत एव तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || २६ || तद्बलं निरावरणचिदुल्लासरूपं परशक्त्याख्यमाक्रम्या -धिष्ठाय मन्त्राः बीज - पिण्ड - पद - नामरूपा मननत्राणधर् -मिणः सहजनादशक्त्युद्बोधदीप्तत्वात् सर्वज्ञत्वादिना बलेन श्लाघायुक्ता मन्त्रिप्रयुक्ता अधिकारायानुग्रहादौ प्रवर्तन्ते | किमिव यथा शरीरिणः करचरणादीनि करणानि | अनेन मन्त्रिणः परतत्त्वावबोधान्मन्त्रेष्विच्छामात्रेण यथेष्टविनियोज्यत्वमुक्तम् | तदुक्तं त्रिकसारे - विदिते तु परे तत्त्वे वर्णातीते ह्यविग्रहे | किङ्करत्वं तु गच्छन्ति मन्त्रा मन्त्राधिपैः सह || अन्यथा तु प्रयत्नप्रयुक्ता अपि ये पूर्वोक्तसङ्कल्पत्वाद्यास्प -दचिच्छक्तिबलास्पर्शात् केवलवर्णरूपत्वान्मन्त्राः पुत्रिकाकरण -वन्निष्फलचेष्टा भवन्ति | प्. ३५] उक्तं च हंसपारमेश्वरे - पशुभावे स्थिता मन्त्राः केवला वर्णरूपिणः | सौषुम्णेऽध्वन्युच्चरिताः पतित्वं प्राप्नुवन्ति ते || यत एष शाक्तो मार्गोऽत्र च मन्त्राणां साफल्यम् | तदुक्तं तत्त्वरक्षाविधाने - अशक्तत्वान्निष्क्रियत्वान्न पुंसि न परे पदे | शक्तौ नियोजयेन्मन्त्रं जपस्तु सफलो भवेत् || इति | श्रीवैहायस्यां च - विषुवत्स्थं जपं कुर्यान्नादोर्ध्वध्वनिबोधितम् | मन्त्राक्षराणि मणिवच्छक्तौ प्रोतानि भावयेत् || तामेव च परे व्योम्नि परमामृतबृंहिताम् | दर्शयत्यात्मसद्भावमेवं मन्त्रो हुति विना || इति | श्रीकालपरायाम् - शब्दो नादात्मकस्तस्मात् प्रत्ययेनोपबृंहितः | मन्त्रबोधस्वरूपस्थमभिन्नो बोधयत्यपि || इति | अन्यच्च सङ्कर्षणसूत्रेषु - स्वात्मैकनिष्ठं चिद्रूपं भावाभावपरिष्कृतम् | स्वसंवेदनसंवेद्यं प्रकृत्यातीतगोचरम् || इयं योनिः स्मृता विप्र मन्त्राणां प्रत्ययात्मिका | ते मन्त्रा वर्णरूपेण सबाह्याभ्यन्तरोदिताः || नैष्कालिकपदावस्थाः करणानीव देहिनाम् | प्रयुक्ताः सर्वकालेषु सिद्ध्यन्ते वीर्ययोगतः || एवं शुद्धबोधात्मकत्वेनान्तर्बाह्योदयादेकोऽपि जपो लक्षसङ्ख्याकः | तदुक्तं जयायाम् - एकस्य मन्त्रनाथस्याप्यन्तर्बाह्योदितस्य च | यदैक्यं तं जपं विद्धि लक्षसंख्याभिधं मुने || इति | || २६ || प्. ३६] अनया युक्त्या मन्त्रवीर्यमुक्तम्, प्राक्चोदयोऽधुनास्तमय -माह - तत्रैव संप्रलीयन्ते शान्तरूपा निरञ्जनाः | सहाराधकचित्तेन तेन ते शिवधर्मिणः || २७ || तत्रैव स्वस्वभावे शक्तिमत्येते मन्त्राः साधकचित्तेन तत् -प्रवृत्तिनिमित्तेन तदाधारभूतयेच्छया सह सम्यक् प्रलीयन्ते अस्तं गच्छन्ति | यतस्ते तदनुगास्तच्छक्तिरूपाश्च | उक्तं च कालपरायाम् - पराक्षरतरोर्धातुर्नानाशक्तेर्विवर्तगाः | शक्तयो वर्णदेहेषु वक्त्राद्वर्णत्वमागताः || इति | किंभूताः कृतकृत्यत्वाच्छान्तरूपाः | अत एव निरञ्जनाः महाकालुष्यरहिताः | निरञ्जनतत्त्वानुप्राणनाद्वा | अनेनैव च हेतुना शिवधर्मिणः शिवस्येव धर्मा गुणा येषाम् | सर्वज्ञाः सर्वकर्तार इत्यर्थः | एवमेष एव मन्त्रात्मा | तेषां चात एव शिवधर्मित्वं सिद्धमिति || २७ || सह साधकचित्तेन लीयन्ते तत्र यत् स्मृतम् | शिवतात्मनि सर्वात्म्याच्चाहैतत्सोपपत्तिकम् || यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः || २८ || तेन शब्दार्थचिन्तासु न सावस्था न यः शिवः | भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः || २९ || यस्माज्जीव आत्मैव सर्वमयः सर्वात्मको विश्वरूपो बोद्धृरूपत्वात् | उक्तं च - यदैव विदितं विश्वं तदानीमेव चिन्मयम् | यन्नास्ति भागो वेद्योऽसौ नाथ यो वेदकाद्बहिः || प्. ३७] वेद्यो वेदकतामाप्तो वेदकः संविदात्मताम् | संवित् त्वदात्मा चेत् सत्यं तदिदं त्वन्मयं जगत् || इति | श्रुतिश्च - आत्मैवेदं जगत् सर्व नेह नानास्ति किञ्चन | अन्यच्च | सर्वभावसमुद्भव इति विशेषणं हेतुगर्भम् | हेतुर्वाऽयं समुद्भवादिति सर्वेषां भावानां समुद्भवो यस्मात् | परादिवाग्रूपतया संविद्युपारोहेण हि तेषामुदयः सत्ता च | तदुक्तम् - त्वत्कारणत्वं सर्वस्मिन्नपि ज्ञातं त्वदन्वयात् | संवित्समन्विते विश्वे नाऽसंवित् कारणं भवेत् || संविदायतनं ज्ञातं तत् सदाख्यां प्रपद्यते | तावतैव न लभ्या स्यादनुपासितसंविदा || इति | अन्यच्च - त्वदात्मकत्वं भावानां विवदन्ते न केचन | यत्प्रकाश्यदशां यातो नाऽप्रकाशः प्रकाशते || इति | तथा - सृजन् वदन् ज्ञापयंश्च त्रिधैकस्त्वं प्रकाशकः | व्यतिरिक्तः प्रकाशेभ्यो न यथाऽन्यप्रकाशकाः || न प्रकाशाः प्रकाशन्ते त्वत्प्रकाशोदयं विना | इति | पञ्चरात्रेऽपि - न तत्रादित्यो भातीत्यादि | यावत् - तस्य भासा सर्वमिदं विभातीति | सर्वमयत्वेऽस्य हेत्वन्तरमाह - तत्संवेदन इत्यादि | तदिति भावानां संवेद्यानां परामर्शः तेषां संवेदनरूपे -णानुभवद्वारेण यतस्तादात्म्यप्रतिपत्तिर्भावरूपतासम्प्राप्ति - स्तदभेदसंवित्तिस्ततो हेतोः | उक्तं हि स्वात्मसप्ततौ - प्. ३८] यद्वद् वस्तु स्वभावेन ज्ञानेन विषयीकृतम् | तद्वत्तादात्म्यमायाति जीवः सर्वमयो ह्यतः || इति | अन्यत् संवित्प्रकरणे - यथाऽग्निना समाविष्टं सर्व तद्रूपमीक्ष्यते | तथा ज्ञानसमाविष्टं सर्व तद्रूपमीक्ष्यताम् || इति | तथाऽऽगमरहस्ये - आकारवर्ग उपरि प्रतिभासतेऽस्य ज्ञानस्य सापि तव विश्वमयी विभूतिः | विश्वात्मकस्त्वमिति नाऽऽगमसिद्धमेतत् किन्तु स्वसंविदितरूपतयापि सिद्धम् || इति | एवं संविदेव प्राणद्वारेण वाग्रूपतां धत्ते | तदुक्तम् - स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा | वैखरी वाक् प्रायोक्तॄणां प्राणवृत्तिनिबन्धना || केवलं बुद्ध्युपादानात् क्रमरूपानुपातिनी | प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते || अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा | स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी || इति | तथा - स्वयं रौति य एषोऽन्तर्निर्विशेषरवात्मकः | स परः परमः स्थायी नित्योदितनिजाकृतिः || चिदिच्छाशक्तिसम्बुद्धः स्पन्द आत्मबलेरितः | सवितेव स तेजांसि विचिन्वन् हृदि राजते || इति | प्रत्यभिज्ञायां च - चितिः प्रत्यवमर्शात्मा परावाक् स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्य परमात्मनः || सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः || इति | प्. ३९] तस्यां चान्तःसंजल्परूपायां द्वावपि शब्दार्थौ समं स्फुरतः | अत एव तयोरभेद एव विख्यातः | उक्तं चेह - यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः | वाक् च संविन्मूलेति प्रागेवोक्तम् - संविन्मूलादित्यादि | तथाजातीयैः श्लोकैरन्यच्चोक्तम् - यथा त्वया जगद्विद्धं सर्वमेव निजात्मना | तथा त्वयाऽनुविद्धेयं सर्वतो भाति भारती || योगिनाथेन चोक्तम् - तस्मात् सर्वस्य सिद्ध्यर्थं भारती कारणं परे | परेष्टव्या तदारोपारूषणेनार्थनिश्चयात् || तस्या औन्मुख्यवृत्त्यैव सद्भावपरिकल्पना | नहि तामन्तरेणैषा लभेताऽऽत्मानमम्बिके || सा च तस्यामवस्थायां स्वरूपज्योतिरिष्यते | निर्विभागक्रमापेक्षा योगिगम्यानुरूपिणी || तत औन्मुख्यतश्चिन्तामयी भवति वाक् शिवे | विशिष्टशब्दविषयविवक्षास्फुरणात्मिका || ततः शब्दात्मकत्वेन विवृत्तार्थमयी भवेत् | तदात्मतामन्तरेण यस्मान्नार्थावधारणम् || एवं संवित्स्वरूपस्य सर्वप्रकाशकस्य प्रभैव प्रकाशन -शक्तिर्या वागन्तःसञ्जल्परूपा वर्ण -पद - वाक्य -जीवितभूता सैव पदार्थरूपतया बहिर्भवतीति स्वानुभवप्रसिद्धमेव प्रबुद्धानाम् | उक्तं च - चिदात्मैव हि देवोऽन्तःस्थितमिच्छावशाद् बहिः | योगीव निरूपादानमर्थजातं प्रकाशयेत् || स्वमिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते || प्. ४०] अन्यच्चोक्तम् - यत्किञ्चिदाभाति बहिस्तदीश नूनं तवास्त्येव समस्तमन्तः | निमीलिताक्षा हृदि लक्षयेयुस्तथैव सर्व कथमन्यथा तत् || इत्थं स्वभाव एव यतः सर्वात्मस्थेन तथाविधेन सर्वात्म -केन स्वभावेन हतुना शब्दार्थयोश्चिन्तासु मध्याद्विषये वा न सा काचिदवस्यास्ति या न शिवस्वबावमभिव्यञ्जयति, या न चित्स्वरूपेत्यर्थः | संवित्स्वीकरणैक्यात् यतः सर्वस्यास्तित्वम् | तदुक्तम् - येन येन विभिद्यन्ते हेतुना भावनिम्नगाः | तेन तेनैक्यमायान्ति बोधोदधिसमागताः || प्रागुक्तं च - शरीरजो वा शाब्दो वा मानसो वा समुद्गतः | व्यवहारोऽप्यसौ नास्ति यत्र त्वं नाथ नाग्रगः || इति | अतश्च भोक्तैवानुभवितैव भोग्यभावेनानुभाव्यतया सदा सर्वत्र संस्थितो न त्वन्यद्भोग्यमस्ति | तथा च श्रुतिः - अहमन्नमहमन्नमहमन्नम् | अहमन्नादोऽहमन्नादोऽहमन्नादः || ग्रन्थकृता तत्त्वविचारेऽप्युक्तम् - स्वस्वभावस्थिता भावाः संबध्यन्ते परस्परम् | भोग्यभोक्तृत्वभावेन न कदाचित् स्वभावतः || द्रष्टाऽनुभविता स्मर्ता ग्राहको भोक्तृवेदकः | कर्तोपलब्धा संवेत्ता ज्ञातेति ज्ञानसंज्ञकाः || इति | तेन ज्ञानमेव ज्ञेयरूपतया प्रथते इत्यर्थः | उक्तं च - भोक्तुर्विभोर्ये भवतो विभिन्नः स दृश्यते मुग्धतया स्व आत्मा | ते भोग्यभूताः पशुवत् परेषां भोगाय भूयोऽत्र भवे भ्रमन्ति || भवं भवद्वै भवभूतमेव विभावयन्तो भगवन् भवेयुः | भवद्वदेव प्रभुभावभाजो विश्वं वशे वर्तयितुं समर्थाः || इति | ज्ञानसम्बोधेऽपि - ज्ञाता ज्ञेयं ज्ञानमिति ज्ञानस्यैव त्रिधा स्थितिः | प्. ४१] ब्रह्मार्पणं ब्रह्महविरित्यत्रोक्तं तदेव यत् || मयैव चोक्तं क्वाऽपि - द्रष्टैवाऽस्ति न दृश्यमेतद्बुधैरध्यात्मना ज्ञायते आदर्शप्रतिबिम्बवज्जगदिदं भिन्नं द्विधा भाति यत् | सत्तां यान्ति घटादयो बहिरमी बोधानुवेधात् सदा ज्ञानाद्वैतमतः स्वतोऽस्ति न पुनर्ज्ञेयस्य सत्ता क्वचित् || इति | तथात्मसप्ततौ - यदिदं दृश्यते किञ्चिद्दर्शनात्तन्न भिद्यते | दर्शनं द्रष्टृतो नान्यद् द्रष्टैव हि ततो जगत् || इति | सङ्कर्षणसूत्रेष्वपि - येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यः सदा | दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते || इति | जाबालिसूत्रेष्वपि - द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धाऽपरि -लुप्तचैतन्यस्वभावो जगदुत्पत्ति -स्थिति - लयैकहेतुर्भगवान् वासुदेव आत्मेति | पञ्चरात्रोपनिषदि च - ज्ञाता च ज्ञेयं च वक्ता च वाच्यं च भोक्ता च भोग्यं च | इत्यादि | तथाऽत्रैव - ऽसर्वान्तरं सर्वबाह्य स्वयंज्योतिः स्वयंसम् -बोध्यं स्वयंभूरिति चऽ इति | श्रुतिरपि - स एव ज्ञाता तज्ज्ञानमिति | २८ -२९ || अत्रैव प्रशंसाद्वारेण स्वीकरणोपायं प्राह - इति वा यस्य संवित्तिः क्रिडात्वेनाखिलं जगत् | स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः || ३० || प्. ४२] वाशब्दः स्वार्थेऽत्र | किं बहुना, इत्येवं चोक्तप्रकाररूपा यस्य संवित्तिः संवेदनं ज्ञानं यथा मन्मयमेव सर्व सोऽखिलं समग्रं जगत् क्रीडारामतया पश्यन् विभावयन्नित्य -युक्तत्वाच्च बन्धकारणस्याज्ञानस्य क्षयात् प्रबोधाप्तौ जीवन्ने -वेश्वरवन्मुक्तो नाऽत्र संशयः | उपपत्त्युपलब्धिभ्यां सिद्धत्वाद् भ्रान्तिरत्र नो | उक्तं च - सम्यक् स्वबोधविश्रान्तौ योऽलुप्तानुभवः स्थितः | विषयानपि सोऽश्नन् स्याज्जीवन्मुक्तस्तु तत्त्ववित् || इति | ये त्वाहुः - विनोत्क्रान्तिं कुतो मोक्षः | तन्निरासायाह - विना स्वभावानुभवेन पुंसः कैवल्यमुत्क्रान्तिबलाद्यदि स्यात् | अत्राऽपि पक्षे ननु मोक्षभागुद्बन्धनं यः कुरुते प्रमूढः || तथा - विदेहा अपि बद्ध्यन्ते प्रलये गुणवासिताः | शरीरिणोऽपि मुच्यन्ते विशुद्धज्ञानसंश्रयात् || इति || ज्ञानगर्भेऽपि - मयि स्थितमिदं जगत् सकलमेव सर्वत्र वा स्थितोऽहमिति धारणाद्वितयभावनावेशतः | जगत्त्रितयनाथ तैर्नातिचिरेण सम्प्राप्यते नृभिस्तव सपर्यया दलितकिल्बिषोपप्लवैः || गीतास्वपि - यो मां पश्यति सर्वत्र सर्व च मयि पश्यति | तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति || पञ्चरात्रेऽपि - प्. ४३] प्रज्ञाप्रासादमारुह्य अशोच्योऽशोचतो जनान् | भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति || अत्र च नित्योद्युक्तरूपत्वमेवोपायो युक्त्या ध्वनितः | प्राक् चोक्तं हि - अतः सततमुद्युक्त इत्यादि || ३० || अथ प्रागुक्तस्य मन्त्रात्मनो युक्त्यन्तरोदयवर्णनद्वारेण निगमनं करोति - अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || ३१ || अयमेव तस्य पूर्वोक्तस्य ध्येयस्य मन्त्रात्मनो ध्यायिचेतस् -युदयः समापत्तिमेकीभावं मन्त्रात्मतापत्तिमिच्छतो गृह्णतः साधकस्य ध्यायिनो या तदात्मता ध्येयस्वरूपापत्तिरित्यर्थः | उक्तं हि विश्वसंहितायाम् - ध्येये चित्तं यदा लीनं तदा ध्यानमुदाहृतम् | ध्येयः प्रत्यक्षतां याति ध्याता तन्मयतां व्रजेत् || ऋच्छतस्त्विति पाठाद्वा ध्येयं चिन्तयतोऽत्र या | तदात्मतासमापत्तिरैक्यं तस्योदयः स तु || ग्रन्थकृतस्तु द्वयमप्याशयः सहते | यतो मन्त्रोच्चारणेच्छ -या मन्त्रदेवतया सह यत्तादात्म्यं योऽन्तःसंवेदनद्वारेण तदत्मग्रहो मन्त्रन्यासात्मकः स एवास्यो दय आविर्भाव इति || ३१ || अस्यैव व्याप्तिफलमाह - इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदिक्षा च शिवसद्भावदायिनी || ३२ || येयं स्वरूपसंवित्तिः साऽमृताप्तिरिहात्मनः | जरामरणविच्छेदाद् पुनर्भवता न तु || प्. ४४] दुग्धाब्ध्युद्गतस्यायमेव चात्मनोऽनुग्रहः स्वतः | निर्वाणदीक्षा तच्चेयं परमात्मनियोजिका || इति | उक्तं च मोक्षधर्मेषु - हित्वा तु सर्वसङ्कल्पान् सत्त्वे चित्तं निवेशयेत् | सत्त्वे चित्तं यदा लीनं ततः कालञ्जयो भवेत् || इति | आत्मसम्बोधे च - भवेद्भवानामभवाय नूनं स्वभावसंविद्विदितैव पुंसाम् | आमर्त्यतां मर्त्यजने करोति सकृत्सुधाप्राशनमात्रमेव || इति | दीक्षार्थोऽयम् - ददाति ज्ञानसद्भावं क्षपयत्यखिलं मलम् | बोधानुवेधाद्दीक्षोक्ता दानक्षपणधर्मिणी || इति || ३२ || स्पन्दतत्त्वोदयं प्रोच्याकृत्रिमं तत्र एव च | मन्त्रोदयं च तद्वीर्य तद्विभूतीरथाऽऽह तु || यथोक्तस्य जाग्रत्येव निजभावाप्त्या स्वातन्त्र्यं तथा स्वप्नेऽप्यस्तीति वक्तुमाह - यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदिस्थितान् | सोमसूर्योदयं कृत्वा संपादयति देहिनः || ३३ || तथा स्वप्नेऽप्यभीष्टार्थान्प्रणयस्यानतिक्रमात् | नित्यं स्फुटतरं मध्ये स्थितोऽवंश्यं प्रकाशयेत् || ३४ || यथा जाग्रति जाग्रदवस्थायां धाता स्रष्टाऽऽत्मस्वभाव इच्छया दिदृक्षात्मिकया ऽभ्यर्थितो याचितः सन् देहिनः पुंसो हृदि स्थितानभिनतानर्थान् पदार्थान् सम्पादयति प्रकाशयति | स्वबला -वष्टम्भात् | किं कृत्वा सोमसूर्ययोरपानप्राणयोश्चक्षुषोश्चो -दयं कृत्वा चक्षुरादिष्व वधानेनेत्यर्थः | प्. ४५] एतदुक्तं भवति - अनेकार्थसन्निधानेऽपि गणिकानटमल्ल -प्रेक्षकादिषु मध्याद्यदेव वस्त्वभिमतं तदेव यथा पश्यति | स्वरूपानुप्रवेशात् | तथा स्वप्नेऽप्यभीष्टानेवार्थान् मध्ये हृदि स्वस्वभावे स्थितः सन् स्फुटतरं कृत्वा नित्यं सदैव प्रकाशयेद् दर्शयति | कुतः प्रणयस्येच्छाभ्यर्थनाया अनतिक्रमात् त्यागात् | मुक्त्वा दृढामभीष्टेच्छां नाऽन्यवृत्तिर्यदा भवेदिति | एतदुक्तम् - यदीच्छा तदनुगैव भवेन्न स्वातन्त्र्येण प्रभवति तदैतत्स्यात् तां चासौ नाप्यतिक्रामति | उक्तं च रहस्यस्तोत्रे - विस्मृतार्थमभियुज्यधीर्यथा त्वामशेषविदमाशु शंसति | यद्यदित्थमनयाऽर्थ्यते रसात् स्वप्नगोऽपि न विलङ्घयिष्यसि || इति | सिद्धोक्तं च - चिद्व्योम्निस्थोऽनुसन्धत्ते यत्तत्पश्यत्यखण्डितमिति | ज्योतिःशास्त्रेऽपि - येन येनेन्द्रियार्थेन विद्धः स्वपिति मानवः | तस्य तस्येन्द्रियार्थस्य सुप्तः कर्माणि पश्यति || इति || ३३ - ३४ || एवं स्वप्नस्वातन्त्र्यवर्णनद्वारेण युक्त्या सौषुप्ततमोव -रणनिर्भेद उक्तः | इत्थं स्वरूपस्थस्यैव जाग्रत्स्वप्नादौ स्वातत्र्यं न त्वन्यथेत्यभिधातुमाह - अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः | सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये || ३५ || अन्यथा पुनः स्वरूपस्थित्याभावे चित्तस्य चञ्चलत्वात् स्वप्ना -दौ सृष्टिरिच्छारूपा स्वतन्त्रा स्यात् | स्वप्नादिप्रसरोऽसमञ्जसरूपो भवेदित्यर्थः | कुतस्तद्धर्मकत्वात् सृष्टिस्वभावत्वात् | यतस्तत्तत्त्व - मिच्छाख्यप्रसवधर्मि नित्यम् | कस्येव | यथा लौकिकस्याप्रबुद्ध -मतेर्जाग्रत्स्वप्नपदद्वये सततं सर्वकालं सृष्टिरिच्छैव स्वतन्त्रा | प्. ४६] न त्वसौ ह्यप्रबुद्धतया | साऽस्य सहस्रशः सम्बद्धाऽसम् -बद्धविकल्परूपैव भवेदवस्थाद्वितयेऽपीति यावत् || ३५ || एवमात्मनो विभूतिषु स्वातन्त्र्याख्यां युक्तिमुक्त्वाथेदा -नीं ज्ञत्वकार्यसामर्थ्याख्या या तां तत्र कथयति | सूक्ष्मव्य -वहितादौ ज्ञत्वोपायं तावत्कारिकाद्वयेन प्राह - यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः || ३६ || यथा दूरस्थितः कश्चिदर्थ पदार्थो घटपटादिवस्तु विशेषो -ऽस्फुटः संदिग्धो दृष्टः सावधानेऽप्यन्यव्यावृत्तेऽप्येकाग्रेऽ -पि चेतसि सति हि यस्मात् स एवार्थो भूयः पुनः स्वबलोद्योगेनात्मब - प्रयत्नविशेषेण भावितो विचारिता सन्स्फुटतरो भाति निःसन्दिग्धः प्रकाशतेऽवभासते | तस्मात्तथा यद्वस्तु येन रूपेण यत्र यस्मिन् काले स्थितं तद्वस्तु तथा तेनैव प्रकारेण प्रयत्नविशेषेण स्वबलं स्वस्वरू -पं विकस्वरमाक्रम्याश्ह्रित्याऽवष्टभ्याभ्यासान्नचिरात् त्वरितं सम्प्रर्तते सम्यक प्रतिभाति निरावरणस्वरूपत्वात् | प्रागुक्तं हि - अपि त्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् | तत्त्वयुक्तौ च - विषयाधिपतिर्यो हि येन जानाति पार्वति | तस्य यो वेत्ति तत्त्वेन तेन ज्ञातं चराचरम् || तेनाऽतीताऽनागतज्ञानं परिमितविषयं न किञ्चिदाश्चर्यम् || ३६ - ३७ || एवं ज्ञत्वमुक्त्वाऽधुना कार्यकर्तृत्वसामर्थ्ये क्षुज्जयाय चोपायान्तरमाह - दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः || ३८ || प्. ४७] दुर्बलः क्षीणधातुरशक्तः कृशोऽपि तद् बलमुत्साहलक्षण -मुद्योगरूपमाक्रम्याऽधिष्ठाय स्वीकृत्य यतः कार्ये प्रवर्तते यस्माद् व्यापारं सम्पादयति | अतिकृशस्याप्युद्योगबलावलम्बनात् समरादौ शक्तिदर्शनात् | एतदुक्तं भवति - यथा कश्चिदसमर्थोऽपि व्यायामाभ्यासान्महतीं शक्तिं प्राप्नोत्युद्योगबलेन तथा योऽतिबुभुक्षितः क्षुधार्तः सोऽपि तेनैव स्वस्वभावानुशीलनेन बुभुक्षां भोक्तुमिच्छामप्याच्छादयेत् क्षुधं शमयति | प्रोक्तं च पतंञ्जलिना - कण्ठकूपे क्षुत्पिपासानिवृत्तिः | तथा - बलेषु हस्तिबलादीनि | बुभुक्षाशब्दोऽत्रोपलक्षणार्थम् | तेन क्षुत्तृषौ शोकमोहौ जरामृत्यू चेति षडूर्मयोऽपि नश्यन्तीत्यर्थः || ३८ || एवं न केवलमस्मिन्नेव शरीरे तस्य सर्वज्ञतादयः सन्ति, यावत्सर्वत्रापीत्युपायद्वारेणाऽऽह - अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः | तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति || ३९ || अनेन प्रागुक्तेनात्मस्वभावेनाऽस्मिन् देहेऽधिष्ठिते व्याप्ते -ऽन्वीक्षिते सति यथा सर्वज्ञतादयो गुणा विद्यन्ते | यस्मादत्र स्वल्पयूकादिभक्षणाद्यपि क्षिप्रमेव जानाति | उक्तं च ज्ञानसम्बोधे - सर्वः स एव व्यापित्वाद् ज्ञः स एव स्वभावतः | सर्वज्ञश्चेति सर्वज्ञः पुमानेव निरुच्यते || अन्यच्च - सर्वज्ञः सर्वदैव त्वं सर्वस्य हृदये न चेत् | केनाऽन्यथाऽस्य सम्भाव्या नष्टार्थविषया स्मृतिः || प्. ४८] तदहर्जातबालैश्च स्तनपानं क्व शिक्षितम् | प्राणिभिर्वाप्सु तरणमेतत् सर्वज्ञचेष्टितम् || अन्यच्च - भक्ष्यं स्यात्किमभक्ष्यं वा स्वाद्वस्वाद्विति निश्चये | मक्षिकाणां कुतः संवित् क्षौद्रसंचितिकर्मणि || सर्वज्ञस्याप्यधिष्ठातुस्तद्विजृम्भितमन्यथा | कृमिमात्राल्पकायानां सम्भृतिर्विस्मयास्पदम् || कतकस्य फलं वारिप्रसादनविधित्सया | द्विपः क्षिपति तस्यैषा प्रज्ञा ह्यज्ञस्य किं पशोः || गीताकर्णनवैदग्ध्यं मुग्धबुद्धेर्मृगस्य किम् | सम्भाव्यते हि येनाऽस्य रोमन्थविरता स्थितिः || भक्षयिष्यति मामित्थमाखोर्विवरवर्तिनः | मार्जारं प्रति का शङ्का सर्वज्ञज्ञापनं विना || भयात् कूर्मः स वार्यन्तः सर्वाण्यङ्गानि गूहते | दुर्भेदबुद्धिस्तत्रास्य विवेकविकलस्य किम् | वीक्ष्यान्यक्षीणपक्षाणां वैलक्षण्यमचेतनः || नृत्तमारभते बर्ही स्फुरितं तज्जगद्गुरोः || अगाधजलमध्यस्थमत्स्यभक्षणलक्षणम् | केनोपदष्टिं तन्मद्गोरनुमानं विना कृतम् || अशक्यशक्तिः कस्येयं सलिलात् पिबतः पयः | हंसस्य न पुनस्तस्य हृदयान्तरवर्तिनः || प्रतिभातप्रभातस्य मन्दिरान्तरवर्तिनः | कृक्रवाकोर्गिरः कस्मात् क्षेत्रज्ञप्यापिनं विना || यासामाकलनोद्युक्ता कालवित्कलना ततः | प्रवर्तते दिनारम्भे निर्भ्रान्तकृतसंविधिः || शृङ्गदन्तनखादीनि प्राणिनामायुधानि यत् | परप्रहरणोद्रेके केनाऽऽख्यातान्यसंविदाम् || प्. ४९] बलं तेजः करो सिंहो जानाति निजमूर्जितम् | को हेतुर्यावदन्तस्थप्रतिपत्तिर्न सस्फुरा || अतिवृष्टेरनावृष्टेर्व्यञ्जकं चिह्नमिङ्गितैः | सूचयन्ति न तच्चित्रं पशवः पक्षिणोऽपि यत् || कृतान्तकल्पैः सिंहाद्यैः प्रीतिः प्राणभृतां कुतः | विनैकस्य हृदिस्थस्य संवित्संवादसुस्थितिम् || इति | तेषां च प्रागुक्तयुक्त्या विशेषाभिव्यक्तिः | तथा स्वात्मन्य -धिष्ठानात् स्वरूपाच्यवनादेवं सर्वत्र सर्वज्ञतादयो भविष्यन्त्यभिव्यक्तिं यान्तीत्यर्थः | उक्तं च - एको भावः सर्वभावस्वभावः सर्वे भावा ह्येकभावस्वभावाः | एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः || रहस्ययुक्तिरत्रेयं शरीरे यत्र यत्र च | संविदो दार्ढ्यलाभः स्यात्तत्र तत्र गुणोदयः || इति || ३९ || अथैषां गुणानामाच्छादकमूलविच्छेदार्थमाह - ग्लानिर्हर्षक्षतिरनुत्साहरूपा देहे किल विलुम्पिका विनाशिनी | तस्याश्च ग्लानेरज्ञानतः सृतिः सरणमुत्पत्तिः | तच्चाऽज्ञानमुन् -मेषेण वक्ष्यमाणलक्षणेनाऽऽत्मस्वभावेन यदा विलुप्तं निर्णोदितं नाशितं तदा कुतः सा ग्लानिरेव का स्यात्कारण रहिता भवेदित्यर्थः | अत एव च योगिनां जरारोगाद्यभावः शरीरदार् -ढ्यं च भवेत् || ४० || अथोन्मेषस्य स्वरूपमाह - एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् || ४१ || प्. ५०] एकस्यां चिन्तायां प्रसक्तस्यैकत्र विषये क्वचिद् व्यापृतचित् -तस्य सतो यतो यस्मात् स्वस्वभावादपरस्याश्चिन्ताया उदयोऽभिव्य -क्तिर्भवेत् | झटिति यतोऽन्या चिन्तोत्पद्यते विस्मृतस्मरणादिका स चिन्तायाः कारणमुन्मेषो विज्ञेयः | तं च पुनरुन्मेषं स्वयमात्मनोपलक्षयेद्विजानीयात् | चिन्ताद्वयमध्ये व्यापकत्वेना -ऽनुभूयमानतया स्वसंवेद्यत्वाद् बृहत्कुमारीसुखवदनुपदे -श्य इत्यर्थः || ४१ || अस्य चानुशील्यमानस्य प्रत्ययानाह - अतो बिन्दुरतो नादो रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || ४२ || अतोऽस्मादुन्मेषादनुशील्यमानादचिरेणैव कालेन देहिनः पुंसि बिन्द्वादयः प्रवर्तन्ते उत्पद्यन्ते | बिन्दुस्तेजोरूपो भ्रूमध् -यादौ | नादोऽकृत्रिमोऽनाहतात्मकः शब्दब्रह्माख्यो दूराच्छ्र - वणं च | रूपमन्धकारे दर्शनं देवतानां च सूक्ष्मादिप्र -दर्शनं च | रसो मुखेऽमृताश्वादः षड्रसानां च | कथमेते प्रवर्तन्ते क्षोभकत्वेन उत्कृष्टसिद्धिविघ्नकारित्वेन | तथा च पतञ्जलिः - ततः प्रातिभश्रावणवेदनाऽदर्शनाश्वादवार्ता जायन्ते | ते समाधावुपसर्गा व्युत्थाने सिद्धयः इति | अन्यच्च अनेन युक्त्या सृष्ट्यादिक्रमो ध्वनितः | यतः प्रागुन्मे -षात् सृष्टिरुक्ता | सा च कथम् ? अतोऽस्मदादौ विन्दुरिच्छादृग्शक्तिप्र -सररूपः | ततो नादः शब्दात्मको वागाख्यः क्रियाशक्तिरूपः | ततो रूपं पदार्थदर्शनविचारस्वरूपम् | ततस्तत्रैव रसोऽभिलाष उपभोगरूपश्चेति | एष एवातिरहस्यक्रमार्थविदामुद्योगावभास - चर्वणविलापनरूपः क्रमचतुष्कक्रमोऽत्रैव युक्त्यैवोक्तः - न बाधते विशेषो हि प्रकृतं परिभाषया इति | तद्यदुक्तं स्वयं तमुपलक्षयेदिति || ४२ || तत्कथमित्यत्रोपायमाह - दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || ४३ || प्. ५१] द्रष्टुमिच्छा दिदृक्षा तदवस्थास्थ इव सर्वार्थान् सर्वभा -वान् व्याप्याधिष्ठाय यदाऽवतिष्ठते वर्तते तदा किं बहु -नोक्तेनाधिककथनेन | स्वयमेवात्मनैव तत्तत्स्वभावमवभोत् -स्यतेऽवगम्यते ज्ञास्यतीत्यर्थः | अयमत्रोपदेशाशयः - यथा कुतूहलदिदृक्षुर्विकासवृत्त्यास्ते एवं यः सर्वभावौन्मुख्य -रूपोद्यन्तृतास्वरूपे तिष्ठति स स्वभावं सर्वज्ञतादिगुणास् -पदं स्वयमाप्नोति | यतः प्रागुक्तम् - अतः सततमुद्युक्त इत्यादि | या चैषा स्थितिः सैव तत्त्वार्थचिन्तामणौ रहस्यमुद्रेत्युक्ता | मयोक्तं भोगमोक्षप्रदीपिकायाम् - उद्यन्तृताबलेन तु विकासवृत्त्या स्वरूपगस्तिष्ठेत् | स्वयमुपसृतेन्द्रियार्थानश्नन्नानन्दभूमिगो योगी || एषोच्छृङ्खलरूपा विकस्वरतरा प्रबुद्धबुद्धीनाम् | सिद्धाः स्थिता सदाऽस्यां ह्यानन्दरताः परा च मुद्रैषा || अन्यत्रोक्तं च - सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्वे स्वे वेद्ये यौगपद्येन विष्वक् | क्षिप्त्वा मध्ये हाटकस्तम्भभूत - स्तिष्ठन्विश्वाधार एकोऽवभासि || तथा - स्वच्छन्दं वा यत्र तत्र व्रजन्तीर्वेश्या - स्त्रीवच्चञ्चला या दृगाद्याः | शक्तीः पश्यन् केवलं नानुगच्छेद्विश्वं बिभ्रद्भासि तस्य त्वमन्तः || इति || ४३ || अस्यामेव स्थितौ युक्तिमाह - प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोच्य गोचरम् | एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते || ४४ || प्. ५२] प्रबुद्धोऽसंकुचितशक्तिनिर्विकल्प उद्योक्तृरूपतया सर्वकालं तिष्ठेद् वर्तेत | ज्ञानगोचरं विषयमालोक्य परिच्छिद्य संविद्दीप्त्या ज्ञेयं विलाप्याऽविभागं नीत्वेत्यर्थः | मयैव चोक्तं भोगमोक्षप्रदीपिकायाम् - अथवाविभागबोधज्वलनेन विलाप्य वेद्यपीयूषम् | पीत्वा तृप्तो विचरन्नीरोगो योऽचिरात् सदैकाकी || एतत्क्रमार्थसारं परधाराभूमिका च शक्तीनाम् | तदनुज्ञयाऽत्र कथितं सच्छिष्यविबोधनाय मया || अतः सा निर्विभागा चित् | उक्तं हि - देशकालक्रियाकाराः प्रसिद्धा भागहेतवः | तेन सन्ति पुनर्यस्य विभागस्तस्य किंकृतः || अन्यच्च - मनः सविषयं दाह्यं ज्ञानाग्निर्दर्शनैर्दहेत् | अन्तर्बहिर्मुखश्चैवं समाधिरूपपद्यते || तथा - विज्ञानवाडवो दीप्तः स्वशक्त्या ज्ञेयतोयधीन् | अजस्रं ग्रसते नान्यस्तद्ग्रासे शक्तिमान् भवेत् || नाऽप्राप्त्या पयसां तृष्णा प्राप्त्या वा भूयसामपि | यस्यास्ति कृतकृत्यत्वं कोऽप्यसौ वडवामुखम् || इति | प्राक्चैतत्सोपपत्तिकं वितत्योक्तम् | यस्मात् सर्वमयो जीव इत्यादि | एवमेकत्र तत्त्वस्वभावे विद्यात्मके ज्ञानरूपे सर्वमारोपयेदै -क्यं नयेत् | अत एव ततोऽन्येन वक्ष्यमाणेन कलासमूहेन शक्त्यात्मकेन विकल्परूपेण न पीड्यते न बाध्यते न स्वरूपात् प्रच्याव्यत इत्यर्थः | उक्तं च - एकं व्यापि व्योम कुड्यादियोगात् तस्मिन् बाह्याऽभ्यन्तरत्वं तथा त्वाम् | पश्यत्येकं ग्राहकग्राह्यरूपं व्याक्षिप्ताक्षेप्यक्षतस्त्वत् समाधिः || इति || ४४ || एवं यः प्रबुद्धः पतिः सोऽन्येन न पीड्यते | अर्थाद्योऽप्र -बुद्धः पशुः स हन्यते | प्. ५३] स च कथं किंलक्षणश्चेत्युच्यते - शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन्स पशुः स्मृतः || ४५ || शब्दानां राशिः शब्दराशिः वर्णसमूहो मातृका अकारादिक्षकारान्ता शब्दजननी | वर्णात्मकत्वाच्छब्दानाम् | तत्समुत्थस्य कादिवर्गात्मकस्य ब्राह्म्यादिशक्तिचक्रस्य कलाभिः ककाराद्यक्षरैर्विलुप्तविभवो हृतमहाव्याप्तिः स्वभावात् प्रच्यावितोऽत एवास्य भोग्यतां गतः सन् पुरुषः पशुरुच्यते अज्ञत्वात् | उक्तं चेश्वरप्रत्यभिज्ञायाम् - स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः | मायातो भेदिषु क्लेशं कर्मादिकलुषः पशुः || क्वापि च - भेदग्रन्थिविभङ्गे हि कर्मात्मैक्यं प्रपद्यते | सोऽविज्ञातः पशुः प्रोक्तो विज्ञातः पतिरेव सः || इति || ४५ || अतश्च - परामृतरसापायस्तस्य यः प्रत्ययोद्भवः | तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः || ४६ || तस्य च पशोर्यः प्रत्ययोद्भवः श्रोत्रादिद्वारेण विषयदर् -शनेन स्मरणादिज्ञानोत्पत्तिः स एव परामृतरसात् स्वरूपोदयाद -पायः प्रच्युतिः | यतस्तेन स पुमानस्वतन्त्रतां पारतन्त्र्यमसर्व -गतत्वाद्यमेति प्राप्नोति | स च प्रत्ययोद्भवस्तन्मात्रगोचरः शब्दादिविषयविषयस्तदभिलाषात्मक इत्यर्थः || ४६ || अत एव च - स्वरूपावरणे चास्य शक्तयः सततोत्थिताः | यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः || ४७ || प्. ५४] अस्य च पुंसः स्वरूपावरणे स्वस्वभावाच्छादने शक्तयः पूर्वोक्ताब्राह्म्याद्या शब्दरूपाः क्रियाशक्तिद्वारेण सततमुद्य -ताः सदा सन्निहिताः पुंरूपग्लपनाय | यतः शब्दानुवेधेन वर्णानुगमेन विना न प्रत्ययोद्भवो ज्ञानसंवेदनमस्ति | शब्दायत्तत्वात्पदार्थस्य वाच्यवाचकयोरन्योन्यद्योतकत्वाच्च | तथा चोक्तं वाक्यपदीये - न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | अनुविद्धमिव ज्ञानं सर्वं शब्देन दृश्यते || इति || प्राक्चोक्तं हि - वागेवास्याः कारणं विश्ववृत्तेरित्यादि | अन्यच्च - वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || इति || ४७ || अथास्या एव क्रियाशक्तेर्बन्धमोक्षहेतुतामाह - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपदादिका || ४८ || यैषा अज्ञानां बन्धयित्रीबन्धजननीभगवत् क्रियात्मिका क्रियास्वभावाऽशक्तिः सैवेयं शिवस्य सुप्रबुद्धस्य पशुवर्तिनी पशुवद्यथेष्टविनियोज्यतया या वर्तते सा यथोक्ता | सा च स्वमार्ग -स्था मदीयेति ज्ञाता सिद्ध्युपपादिका परापरसिद्धिप्रदा भोगमो - क्षावहेत्यर्थः | अर्थाच्च भिन्ना ज्ञाता बन्धदा भवति | अथवेयं व्याख्या - सेयमित्याद्यन्यस्तुल्यार्थः | स्वमार्गस्था स्वतन्त्रा अज्ञाता बन्धयित्री | ज्ञाता तु सिद्ध्युपपादिकेति | उक्तं चैतत्प्राक् - प्राणिनां पतनं येन इत्यादिना || ४८ || कथं त्वेषा बन्धहेतुतामापद्यत इति स्फुटीकर्तुमाह - तन्मात्रोदयरूपेण मनोऽहंबुद्धिवर्तिना | पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् || ४९ || प्. ५५] पुर्यष्टकस्य किल द्वे रूपे स्तः - एकं सूक्ष्ममातिवाहिका -ख्यं तन्मात्रमभिलापात्मकम् द्वितीयं स्थूलं भौतिकं भोगाख्यम् | तत्र सूक्ष्मेण पुर्यष्टकेन संरुद्धो बद्ध आवृतोऽतः एव परवशः सन् तदुत्थप्रत्ययोद्भवं सुखदुःख -संवेदनरूपं भोगं भुङ्क्ते अश्नाति | कीदृशम् | तन्मात्रा -णां शब्दादीनामनुभवद्वारेण य उदयोऽभिव्यक्तिः स एव रूपं यस्य तेन तथा मनोहङ्कारबुद्धिवर्तिना चान्तःकरणसं -युक्तेन | तस्य च पुर्यष्टकस्य भावात्तद्वशाच्छरीरी संसरेत् संसारं याति | अत एवास्य संसृतिप्रलयस्य जननमरणप्रवाहस् -यैतदेव कारणं हेतुं संप्रचक्ष्महे कथयामः || ४९ - ५० || एवं बन्धनिमित्तमुपवर्ण्यास्योच्छेदो पायमाह - यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ | नियच्छन्भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || ५१ || एवम् - बन्धमोक्षविचारेण प्रबोधाख्या यदा पुन इति | पुर्यष्टकद्वयमध्यादेकत्रैकस्मिन् पुर्यष्टके स्थूले सूक्ष्मे वा पतित्वेन संरूढो लीनचित्तस्तदा तस्य तदुत्थप्रत्ययोद्भवस्य शब्दार्थोर्लयोद्भवौ प्रध्वंसप्रादुर्भावौ नियच्छन् स्वेच्छया कुर्वन् भोक्तृतामेति | प्रभुत्वं प्राप्नोति | भोग्यरूपात् पशुत्वान्मुच्यते इत्यर्थः | तदुक्तम् - प्. ५६] पशुनां तु पतिर्भूत्वा पशूनां तु पतिर्भवेत् | पशुत्वान्मुच्यते सद्यो भूत्वा पशुपतेः पतिः || इति | स्वबोधोदयमञ्जर्यां च - यद्यन्मनोहरं किञ्चिदक्षिगोचरमागतम् | एकाग्रं भावयेत्तावद्यावल्लीनं निरोधकृत् || इति | एवं सति स्वातन्त्र्याप्तेस्ततश्चक्रेश्वरः शक्तिचक्रस्वामी सर्वज्ञतादियुतः सर्वाधिपतिर्भवेदित्यर्थः || ५१ || एवमस्याद्यश्लोके शक्तिचक्रैश्वर्यं यदुक्तं तदिहापि - अथेत्थं ग्रन्थनिष्पत्तेर्ग्रन्थकर्ता गुरोर्गिरम् | प्रहर्षवशतः स्तौति नीतिं शिष्यांश्च शिक्षयन् || अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् | वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् || ५२ || तमहं गुरुभारतीं वन्दे | कीदृशीम् | दुरवगाहसन्देहार् -णवपारोत्तारिणीम् | अन्यच्च विचित्रोऽर्थोऽभिधेयो विचित्राणि पदानि शब्दा यस्याः सा यथोक्ता | अत एव चित्रामाश्चर्यभूतामाचार्य -सरस्वतीं स्तौमि | नहि गुरोर्गरीयानन्योऽस्ति | तदुक्तं जयायाम् - यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् | मग्नानुद्धरते लोकान् कारुण्याच्छास्त्रपाणिना || इति | नारदसंग्रहे च - गुरवे दक्षिणां दद्यात् सर्वस्वं स्वार्धमेव वा | सर्वस्वमथवाऽत्यल्पं संसारोच्छेदहेतवे || इति | मयोक्तं क्वापि - भगवत्प्राप्तिकामो यस्तेनान्वेष्यो गुरुर्यतः | भगवान् ज्ञायते शास्त्राच्छास्त्रं च ज्ञायते गुरोः || प्. ५७] तद्बोधाद् ज्ञानविलयाज्ज्ञानाप्तौ प्राप्त एव सः | तस्माच्छास्त्रादीश्वराच्च गरीयान् गुरुरुच्यते || इति | पञ्चरात्रेऽपि - यथा भगवत्येव वक्तरि वृत्तिरिति || ५२ || अथाम्नायक्रमवर्णनद्वारेण संग्रहकृत्स्वकीर्त्यर्थ श्लोकेन स्वनामोपबध्नाति - वसुगुप्तादवाप्येदं गुरोस्तत्त्वार्थदर्शिनः | रहस्यं श्लोकयामास सम्यक् श्रीभट्टकल्लटः || ५३ || अस्यार्थः प्रारम्भ एवोक्त इति पुनर्नोच्यते | इदं च ब्रह्मविद् -याबीजं नाऽपरीक्ष्याऽस्थाने वपेत् | उक्तं ह्यनेनैवाऽन्यत्र - गुणैरूपेताऽपि तु सिद्धविद्या कन्येव दत्ता गुणवर्जिताय | सम्भोगहीना विदधात्यकीर्तिं दातुर्यतस्तत्प्रगुणाय दद्यात् || इति || ५३ || इत्यविद्यातमःस्थानां दर्शनाय प्रकाशिता | सतां सुपूर्णादेशेव शुद्धामलगुणोज्ज्वला || वाग्लुण्ठनार्थमन्येषां विद्वन्मन्यतयाऽपि तु | शुद्धबोलोल्लासवशात् कृत्वा स्पन्दप्रदीपिका || तस्मात् प्रोत्सार्य मात्सर्यमर्थमर्थ विचार्य च | आर्यैराश्चर्यभूताया न कार्योऽस्या अनादरः || नारायणस्थानज उत्पलाख्यस्त्रिविक्रमाख्यस्य सुतोऽग्र्यजन्मा | यस्तेन सच्छिष्यहिताय दृब्धा व्याख्या मयैषा च तमोनुदे स्यात् || प्. ५८] गतिः स्खलन्ती न क्वचिद्यथा निशि स्याद्दोपहस्तस्य तथा स न क्वचित् | स्खलत्यमार्गेऽपि करेऽस्ति यस्य हि प्रदीपिकेयं प्रगुणप्रकाशिका || किं वा बहूक्तिभिरिमां तु सरस्वतीं मे बोधद्रुमोत्तमसृतां परतीर्थयुक्ताम् | स्वच्छां विगाह्य विबुधत्वमुपैति मर्त्यो - ऽप्यत्यक्तदेह इह चित्रमतः परं किम् || इत्याचार्यभगवदुत्पलविरचिता स्पन्दप्रदीपिका समाप्ता || || शुभं भूयात् || ########### END OF FILE #######