#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00269 Uniform title: subodhamañjarī Manuscript : BHU C4255 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमो गणपतये || अथ सुबोधमञ्जरी लिख्यते || प्. २४५अ) सम्यग्बोधविचारेण भावनाम स्वभावतः | लब्धबोधोदया नन्दं वन्दे संस्थानमात्मनः || १ || रूपादि पञ्चवर्गोयं विश्वमेतावदेव हि | गृह्यते पञ्चभिस्तश्च चक्षुरादि भिरिन्द्रियैः || २ || चक्षुः सर्वास्ववस्थासु देहिनां मनसि स्थितम् | तत्प्रलीनं भवेत्तस्य यस्य सर्वं प्रलीयते || ३ || तस्यैव? विनियोपायः प्रदिष्टो गुरुणापरः | तदागम मयाद्भ्रंश भयात् सृष्टी कृते मया || ४ || जात्यादि कल्पना रूप व्यवहारो मनस्स्थितम् | यस्तुतो न ततास्सन्ति निश्चित्यै तच्छमं व्रजेत् || ५ || शुक्रशोणित संश्लेष कालेनास्ति मनः क्वचित् | नाबुद्बुदो न पेषं वान शरीरे क्वचित् स्थितम् || ६ || प्. २४५ब्) शरीरे गर्भवासान्ते कौमारे यौवने तथा | क्षाय?क्षयिविनाशान्तं तश्च नैवोपलभ्यते || ७ || पृथक् मांसं पृथग् रूपं लोमादीनां पृथक् स्थितिः | पृथक् सर्वं यथा दृष्टं क्वशरीरे मन स्थितम् || ८ || एवमेव विचार्योक्ते जातिस्तत्रैव पठ्यते | न च सा वस्तुतो युक्त्या कस्य चेद्वा वभासते || ९ || नाम पित्रा कृतं मिथ्या क्रिया न नियता यतः | गुणी यदि भवेत् कश्चिद् भवन्ति वहवो गुणाः || १० || इत्थं मिथ्या विकल्पोर्थं वामना भिरभि प्लुतम् | चञ्चलं मनसो रूपं निश्चित्यै तन्निबोधयेत् || ११ || पूर्वैर्निबोधः कथितो वैराग्या भ्यास योगतः | अयत्नेन निरोधोयमस्माभिरुपदिश्यते || १२ || प्. २४६अ) ग्राह्ययश्च भवेत् किञ्चित् तत्तल्लीनं तदा भवेत् | अन्यस्या ग्रहणाच्चित्तं स्वात्मन्येव प्रशाम्यति || १३ || यथाघनस्वने सान्द्रे क्रमेण विलयं गते | तदाश्रय वशाच्चित्तं तस्मिन् क्षीणे प्रशाम्यति || १४ || यद्यन्मनोहरं किञ्चिच्छ्रति गोचरमागतम् | एकाग्रं भावयेत् तावद् यावल्लीनं निरोधकृत् || १५ || रूपादीनां तथैवेर्थं भावयेद्रमणीयताम् | विलीनान्नास्मरेत् पश्चादात्मभावोपवृंहिताः || १६ ||| एवं ग्राह्यं समावेशान्निबोधर्कथितो मया | ग्रहणा देव पूर्वोयमिदानीं संप्रदृश्यते || १७ || ग्रहणानीन्द्रियाणी हसमानि तु प्रबोधयेत् | प्. २४६ब्) पररागात्महानिः स्याद्द्वेषस्यो पक्षयात्तथा || १८ || सर्वरागात्म हानिः स्यात् सर्वदेशात्तथैव तु | बुधवत् सर्वरागी स्यात् सर्वदुष्टश्च भैरवः || १९ || अग्राह्यमिन्द्रियं शून्यं स्वात्मन्येव प्रलीयते | प्रलीनेन्द्रिय वृत्तिस्तु केवला भ्युदयोदयः || २० || तस्माच्चित्तं समादाय शून्ये सङ्कल्प वर्जिते | निस्तब्धेन्द्रिय वृत्तेस्तु निबोधः संप्रजायते || २१ || जृम्भमानस्य सततं क्षुधानिष्टस्य योगिनः | ध्यायते वा किमस्यान्तः प्रत्यन्ते केवलं भवेत् || २२ || अप्रलीन मनोवृत्तेर्निद्रामाश्रयतः शनैः | विषया ग्रहणात् सर्व शिरोधः संप्रजायते || २३ || प्. २४७अ) यावतः पदविक्षेपाः प्रयत्नानु वधारणान् | निस्सङ्कल्प मनोवृत्तेः परमात्मा प्रकाशते || २४ || आसने प्युपविष्ठस्यक्वमेचित्त्रमवस्थितम् | विचार्यैवं प्रयत्नेन निरागारे प्रशाम्यति || २५ || वायुना स्पन्दनादीनि शरीरस्य करोम्यहम् | न च चित्ते स्थितो वायुर्न वायौ चित्तमास्थितम् || २६ || एवं विमृशतो भावान्न क्वचित् संस्थितो मनः | मिथ्यैव वृत्तयस्तस्य सर्वथा केवले स्थितम् || २७ | यत्र यत्र भवेद् वाञ्छा भोजनादिषु वस्तुषु | पूरयेत्ता यथा शक्तिर्भवेत् पूर्णो निराश्रयः || २८ || वाञ्छितं गदितं किञ्चिद कस्माद्यदिविस्मृतम् | प्. १४७ब्) पुनस्तस्यानु सन्धानात् क्षणात् कैवल्यमाप्नुयात् || २९ || स्थाणुः स्यात् पुरुषो वेत्ति दूराद्दृश्ये विकल्पते | सुनिश्चित मतेः क्षिप्रं निरोधः संप्रजायते || ३० || दृश्यैः पदार्थैर्द्वष्टारं पश्येद् बुद्ध्या यतो दृशः | तं दृष्ट्या मोक्षमाप्नोति येन तद् वत्स बध्यते || ३१ || आलम्व्य संविदोयत्नात् सर्वे?द्यं न स्वभावतः | तस्मात् संविदितं सर्वमिति संविन्मयो भवेत् || ३२ || पुनर्विदेशपानेन हृदयं प्रविकासयेत् | तथैव क्षीणवृत्तिः स्यादपाने विलयं गते || ३३ || सुषुम्णा पथमाश्रित्य प्रसादध्वनिबोधतः | बिन्दुषट्कपरित्यागाच्छान्तबोधः क्षणाद् भवेत् || ३४ || प्. २४८अ) वामदक्षिणसञ्चार बिन्दुद्वय निघर्षणात् | द्वादशान्ते महाशक्तिः सिद्धैरुक्ता सुखागमे || ३५ || ऊर्ध्वमाक्रमते वायुरुत्दृ?तान्तः शमो भवेत् | पुर्यष्टक विभेदेपि तथैव मनसो लयः || ३६ || निदार्यास्यं क्षणं स्थित्वा निस्सन्दिग्धमना कुलम् | स्तम्भित प्राणवृत्तैस्तु निरोधः संप्रजायते || ३७ || नाभि मेढ्रान्तरे चित्तं सुरतान्तैर्विनिक्षिपेत् | लीयमाने रतानन्दो निस्तरङ्गः क्षणं भवेत् || ३८ || दूरागतसु हृद्बन्धु परिष्वङ्ग निषेवितम् | आनन्द निर्भरं चित्तं निवृत्तिं लभते क्षणात् || ३९ || दूरादुच्चरिते शब्दे शब्दार्था न वधारणात् | प्. २४८ब्) सावधानस्य तज्ज्ञानं क्षीणबोधः प्रजायते || ४० || पदाभ्यङ्ग परिष्वङ्गाच्चित्तरोधः क्षयं भवेत् | दृश्यानां षाडवादीनां स्वलोलाग्रे स्थितिं कुरु || ४१ || क्षीयमान रसानन्दं कैवल्यमुपजायते | मालत्यादिषु गन्धांश्च तथैव परिभावयेत् || ४२ || तदाश्रय वशाच्चित्तं तेषु लीनेषु लीयते | इत्थं प्रतिक्षणं यस्य चित्तमात्मनि लीयते || ४३ || सलब्ध बोधो सद्भावो जीवन्मुक्तो विधीयते | मीमासावनसिंहस्य हर्षदात्तस्य सूनना | कृता वामन दत्तेन स्वबोधोदर्यामञ्जरी || ४४ || ########### END OF FILE #######