#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00090 Uniform title: suprabhedāgama Main title: suprabhedāgama (kriyāpāda and caryāpāda) Description: Transcribed from the Devakottai series. Notes: Transcribed by the staff of Muktabodha under the directions of Mark S. G. Dyczkowski. Revision 1: Reformatted Apr. 13 2007 Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1931 Publication city : devakottai Publication country : India #################################################### ओं शिवमयम् सुप्रभेदम् अथ क्रियापादे प्रश्नविधिपटलः | कैलाशशिखरासीनं मुनिसङ्घैः समावृतम् | देवैर्यक्षैः सगन्धर्वैः सिद्धविद्याधरैरपि || १-१ || ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् | दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् || १-२ || भगवन् देवदेवेश लोकनाथजगत्पते | अनन्यमानसो भूत्वा शिवज्ञानं परं वद || १-३ || यदवाप्यनराः सर्वे मुक्तिमायान्ति केवलाम् | ज्ञानयोगक्रियाचर्याः पुराप्रोक्ताः सविस्तराः || १-४ || पुंसामनुग्रहार्थाय संक्षेपाद् वकुमर्हसि | तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् || १-५ || किं शौचा चमनं देव स्नानं भस्मविधिः कथम् | अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् || १-६ || नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् | उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् || १-७ || शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् | कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् || १-८ || फलपाक विधानञ्च आचार्यस्य च लक्षणम् | लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो || १-९ || विभव निश्चयं किं वा कर्षणस्य विधिः कथम् | बालालयविधिः कोवा धामवास्तु विधि कथम् || १-१० || आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् | अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् || १-११ || मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् | प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् || १-१२ || लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् | शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् || १-१३ || प्. २) अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् | इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् || १-१४ || क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् | अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् || १-१५ || जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् | तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो || १-१६ || चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो | जातिभेदविधानं किं मण्डलस्य कथं प्रभो || १-१७ || दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् | आदिशैवानुशैवानां कथं वा शोडश क्रियाः || १-१८ || व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् | दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् || १-१९ || हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् | पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् || १-२० || अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् | नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् || १-२१ || आधाराधेयकं सर्वं योगपादे तु कीर्तितम् | ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् || १-२२ || पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् | मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः || १-२३ || वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो | श्रीभगवानुवाच साधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् || १-२४ || शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् | दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च || १-२५ || श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते | चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् || १-२६ || सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक | तवस्ते? हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् || १-२७ || प्. ३) शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् | तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् || १-२८ || शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च | मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् || १-२९ || अष्टाविंशति भेदेन सिद्धान्तं शृणु तत्वतम् | इति प्रश्नविधिपटलः प्रथमः || १ || अथ तन्त्रावतारविधिपटलः अथातः संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् | तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् || २-१ || त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् | कामिकं योगजं चिन्त्यं कारणमजितं तथा || २-२ || दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् | विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् || २-३ || वीरं च रौरवञ्चैव मकुटं विमलं तथा | चन्द्रज्ञानञ्च बिंबञ्च प्रोत्गीतं ललितं तथा || २-४ || सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च | किरणं वातुलञ्चैव अष्टाविंशति संहिताम् || २-५ || वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः | ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः || २-६ || सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये | कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया || २-७ || प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः | त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् || २-८ || नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् | योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया || २-९ || सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् | वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च || २-१० || प्. ४) आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः | चिन्त्यं सूदीप्त संज्ञस्य प्रोक्तं शतसहस्रकैः || २-११ || दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका | सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् || २-१२ || अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् | कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् || २-१३ || कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः | कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता || २-१४ || ततस्तु मारणत्वेषां सप्तधाकारणं तथा | अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया || २-१५ || सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः | प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता || २-१६ || चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् | दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया || २-१७ || ईशात् त्रिमूर्तिः संप्राप्ताः ततः प्राप्तो हुताशनः | अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् || २-१८ || आनन्दं माधवोद्भूतं अत्भुतञ्चमृतं तथा | दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् || २-१९ || सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तत् ग्रन्धं पद्मसङ्ख्यया | कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा || २-२० || अतीतममलं शुद्धमप्रमेयं तु जातुभाक् | वु?बुधं विबुधं हस्तमलङ्कारं सुबोधकम् || २-२१ || एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः | अम्शुमानम्बु संज्ञस्य पञ्चलक्षेण कीर्तितम् || २-२२ || अग्रश्चैवांबुसंज्ञाच्च अग्रान् प्राप्तस्ततो रविः | विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् || २-२३ || प्रकरणं भूततन्त्रमात्मालङ्कारमेव च | काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च || २-२४ || प्. ५) ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् | सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् || २-२५ || विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् | त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते || २-२६ || क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते | इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् || २-२७ || शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते | रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् || २-२८ || परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया | विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम् || २-२९ || कुबेरेशं महाघोरं विमलं विजयाष्टकम् | निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया || २-३० || दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः | निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् || २-३१ || निश्वासनयनञ्चैव तथा निश्वासकारिका | घोरसंज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा || २-३२ || निधनस्य स्वयंभूतं त्रिकोट्यर्द्धेन कीर्तितम् | निधने शात् स्वयंभुतं श्रुतवान्नपि चोद्भवः || २-३३ || प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा | आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् || २-३४ || आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः | आग्नेयमेकमेवन्तु आग्नेयां नादमेव च || २-३५ || तेजसो वीरसंप्रोक्तं नियुतग्रन्धसङ्ख्यया | प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः || २-३६ || प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् | अमोहं मोहसमयं शकटंशाकटायिकम् || २-३७ || हलं विलोखरं भद्रं वीरं वीरे त्रयोदश | रौरवं ब्रह्मणेशस्य अंबुजाष्टकसङ्ख्यया || २-३८ || प्. ६) नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते | कालदाहं कलातीतं रौरवं रौरवोत्तरम् || २-३९ || महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् | मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया || २-४० || महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् | मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते || २-४१ || सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया | वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च || २-४२ || अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् | प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा || २-४३ || आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् | अजितं मारणं तन्त्रं विमलं षोडशैव तु || २-४४ || चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया | बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश || २-४५ || स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् | एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् || २-४६ || श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् | शिवशेखरमाख्यातं देव्यामतन्तथैव च || २-४७ || चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् | मुखबिंबं प्रशान्तस्य शतसाहस्र सङ्ख्यया || २-४८ || दधीचिर्मुनि संप्राप्तो भेदः पञ्चदशैव तु | चतुर्मुखमहायोगं संस्तोभं प्रतिबिंबकम् || २-४९ || अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् | प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् || २-५० || महाविद्या महासौरं बिंबं पञ्चदशैव तु | प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया || २-५१ || कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि | कवचञ्चैव वाराहं पिङ्गलामतमेव च || २-५२ || प्. ७) पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् | शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च || २-५३ || आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् | गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै || २-५४ || ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् | आलयाल्ललितं प्राप्तो ललितं ललितोदरम् || २-५५ || कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् | बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया || २-५६ || बिन्दुसंज्ञाच्च संबन्धः प्राप्तश्चण्डेश्वरोपरः | सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च || २-५७ || शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् | सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु संङ्ख्यया || २-५८ || शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् | लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् || २- ५९ || असङ्ख्यमनिलं द्वंद्वं सन्तानं सप्तधोदितम् | सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया || २-६० || नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् | शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च || २-६१ || दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते | श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् || २-६२ || ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् | उशनामुनि संप्राप्त श्रीदेव्याश्च यथा क्रमम् || २-६३ || मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च | पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि || २-६४ || किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया | संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु || २-६५ || गारुडन्नै-ऋतन्निलं रुत्विंभानुक धेनुकम् | प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा || २-६६ || प्. ८) शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् | महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् || २-६७ || वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् | सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् || २-६८ || विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् | अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः || २-६९ || कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च | चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च || २-७० || अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् | सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् || २-७१ || अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् | विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् || २-७२ || स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च | वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च || २-७३ || मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च | बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् || २-७४ || बिंब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसंज्ञितम् | ललितं कपोलतलं सिद्धञ्चैव ललाटकम् || २-७५ || सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् | पारमेश्वरहारञ्च किरणं रत्नभूषितम् || २-७६ || वातुलं परमेशस्य वायुस्तद्विशङ्केन तु | कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् || २-७७ || ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् | तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा || २-७८ || एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः | शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः || २-७९ || चिन्तामणिरिवाभाति एक या बहुधादिशेत् | यट्र्य?व्येकोभवेद्वक्ता श्रोतारोबहवो यथा || २-८० || प्. ९) येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् | तस्मिन् तन्त्रे प्रकर्तव्यं अन्य तन्त्रं न कारयेत् || २-८१ || कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः | तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ शृणु || २-८२ || तन्त्रावतार द्वितीय पटलः || २ || मन्त्रोद्धार पटलः अथातः संप्रवक्ष्यामि मन्त्रोद्धारविधिं परम् | सर्वसिद्धिकरं श्रेष्ठं सर्वकामप्रदायिकम् || ३-१ || मननं सर्ववेदित्वं त्राणं संसारसागरात् | मननत्राणधर्मित्वां मन्त्र इत्यभिधीयते || ३-२ || शिवं ब्रह्माङ्गविद्येशान् गणेशान् लोकपालकान् | अस्त्रान्विद्याङ्गमेवन्तु बीजार्णक्षुरिकां तथा || ३-३ || पृथिव्यादीनि बीजानि बीजब्रह्मं पुरोक्तकम् | पिण्डमन्त्रं कलामन्त्रं पञ्चब्रह्मञ्च रुद्रकम् || ३-४ || वक्ष्यते सविशेषेण तच्छृणुष्व गजानन | योसौ परापरो देवः सर्वज्ञः सर्वदाविभुः || ३-५ || निष्कलन्तु परब्रह्मं तस्माच्छक्ति द्वयं भवेत् | तद्द्वयं निष्कलं प्रोक्तं तस्मान् नादसमुद्भवः || ३-६ || तस्मात् बिन्दु समुत्पन्नं तस्माद् योनिसबीजकम् | अकारादिविसर्गान्तं बीजं तत् षोडशाक्षरम् || ३-७ || त्रयस्त्रिंशाक्षराः शेषा योनयश्चाव्ययात्मिकाः | तेषु तन्त्राः समुत्पन्नास्तेषु मन्त्राः समुद्भवाः || ३-८ || तस्य वाचकमन्त्राणांस्तैरेवाभि न विद्यते | दशबीजमिदं मन्त्रं सर्वमन्त्रेषु कथ्यते || ३-९ || ओंकारं प्रथमंबीजमाकारन्तु द्वितीयकम् | त्रितीयं बीजमीकारं सर्वकारक कारणम् || ३-१० || प्. १०) चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् | मकारं षष्ठमेवं स्याद् व्याकारं सप्तमं तथा || ३-११ || पिकारमष्टमं बीजन्नेकारं नवमं स्मृतम् | ओंकारं दशमं बीजं सर्वात्मा चैव विश्रुतम् || ३-१२ || एत देव प्रबोद्धव्यं शिवेन परिभाषितम् | शिवमन्त्रमिदं प्रोक्तं तस्य लक्षणमुच्यते || ३-१३ || सदाशिवं तत्व संस्थं प्रत्यक्षं सर्वतोमुखम् | इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् || ३-१४ || कर्णिका केसरैर्युक्तं तत्रस्थन्तु सदाशिवम् | पञ्चमूर्द्धं चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् || ३-१५ || चतुरास्यञ्चतुर्नासं वसुश्रोत्रञ्चतुर्गलम् | दशभुजन्तनूरेका द्विपादं पद्मसंस्थितम् || ३-१६ || शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् | चन्द्रांशु हिमशीतञ्च सर्वाभरणभूषितम् || ३-१७ || शुक्लांबरधरन्देवं शुक्लयज्ञोपवीतिनम् | अभयं शूलपरशुं वज्रखट्गञ्च दक्षिणे || ३-१८ || खेटकं चांकुशं पाशं घण्टावह्निञ्च वामके | मनोन्मनीं तस्य वामे पञ्चावरणमध्यगाम् || ३-१९ || एवं सदाशिवं ध्यायेत् सर्वपाप निकृन्तनम् | इदं रूपं सदाध्येयं सर्वकर्मफलप्रदम् || ३-२० || एतत् सदाशिवं रूपमुमेशस्य शृणुष्व हि | मम रूपप्रभेदोस्ति चैक वक्त्रञ्चतुर्भुजम् || ३-२१ || शिवमन्त्रमितिख्यातं ब्रह्माङ्गञ्च ततः शुणु | प्रथमात् पञ्चबीजादि ब्रह्माङ्गं प्रधितानि वै || ३-२२ || शुक्लं रक्तं तथाश्यामं कुङ्कुमं क्षीरसन्निभम् | पञ्चानां पञ्चवर्णानि पञ्चब्रह्ममिहोच्यते || ३-२३ || रशामिषर्पपर्यन्तं शिवाङ्गञ्चेति कीर्तितम् | इन्दु धूम्रौ तथा किञ्चिद् धूम्र कृष्णं रवेर्निभम् || ३-२४ || प्. ११) तमोरूपं सुविज्ञेयं सूर्यकोटि शिवास्त्रकम् | शिवाङ्गास्त्रस्य पर्यायमघोरास्त्रं प्रकीर्तितम् || ३-२५ || एकाक्षरसमायुक्तमोङ्कारादिनमोन्तकम् | अस्त्रं विसर्गसंयुक्तमन्ये बिन्दुसमायुताः || ३-२६ || शेषा प्लुतसमायुक्ताः शिवाङ्गाश्च प्रकीर्तिताः | ब्रह्माङ्गाश्च यथा प्रोक्तास्तेषां रूपमिहोच्यते || ३-२७ || त्रिणेत्रञ्चतुर्भुजं सौम्यं सर्वलक्षणसंयुतम् | हारकेयूर संयुक्तं सर्वाभरणभूषितम् || ३-२८ || तेषां रूपं मयाप्रोक्तं विद्येशंलक्षणं शृणु | द्वितीयादि नमोन्ताश्च विद्येशानां प्रकीर्तितम् || ३-२९ || जपा पुष्प प्रभोनन्तो नीलवर्णन्तु सूक्ष्मकम् | शिवोत्तमोथकुन्दाभो बन्धूकं चैकनेत्रकः || ३-३० || पद्माभमेकरुद्रस्य रक्ताशोक स्त्रिमूर्तिभिः | नीलोत्पलाभ श्रीकण्ठः शिखण्डी चाञ्जनः प्रभः || ३-३१ || अनन्तादिशिखण्ड्यान्ताश्चाष्ट विद्येश्वरा स्मृताः | तेषां हृदोपचारन्तु ओंकारद्वयमेव हि || ३-३२ || पूर्वोक्तलक्षणोपेतं तेषां रूपं ततोमतः | गणेशलक्षणं वक्ष्ये शृणु तत्वङ्गजानन || ३-३३ || एकारादि द्वितीयान्तं गणेशानान्तु बीजकम् | जाम्बूनदमयिदेही चण्डो वै सूर्यसन्निभः || ३-३४ || नन्दीशः पद्मरागस्तु कालोमरतकप्रभः | वृषभः शारदाभ्राभो गणेशः पद्मसन्निभः || ३-३५ || भृङ्गीश श्वेतवर्णस्तु रक्तवर्णस्तु षण्मुखः | देव्यादि षण्मुखान्ताश्च विज्ञेयास्ते गणेश्वराः || ३-३६ || तेषां हृदुपचारन्तु ज्ञेयं विद्येशवत्पुरा | इन्द्रादिलोकपालानां शृणुमन्त्रङ्गजानन || ३-३७ || दशबीजं ततः प्रोक्तं पूर्वादिक्रमयोगतः | इन्द्रस्तु पीतवर्णः स्यात् पिङ्गवर्णस्तु पावकः || ३-३८ || प्. १२) कृष्णवर्णोयमः प्रोक्तो नि-ऋतिर्धूम्रवर्णकः | वरुणः शुक्लवर्णस्तु वायुर्वै पीतवर्णकः || ३-३९ || सोमस्तु हिमसङ्काशस्त्वीश स्फटिकसन्निभः | ज्वालाविद्युदनं तस्य ब्रह्मणश्चेन्द्रकोपकः || ३-४० || तेषां रूपं पृथक् प्रोक्तं मन्त्राणां लक्षण शृणु | दशाभि प्रथमान्तञ्च मन्त्रमुच्चार्यते क्रमात् || ३-४१ || नानावर्णमयं वज्रं शक्तिर्विद्युत् प्रभासिकाः | दण्डश्च नीलजिमूतः खड्गोनीलोत्पल प्रभः || ३-४२ || पाशः पावक सङ्काशश्चांकुशं पद्मरागभाक् | गदा तु षारवर्णा तु इन्द्रनील स्त्रिशूलकः || ३-४३ || अतसी कुसुमश्चक्रः पद्मस्तत् भास्करप्रभः | भूतानां शिरसश्चोर्द्ध्वे आयुधानि प्रकल्पयेत् || ३-४४ || शिवबीजमिदं मध्ये शिवब्रह्माङ्गमेव च | विद्येशाश्च गणेशाश्च लोकपालास्त्रसंयुतम् || ३-४५ || मन्त्रं रूपं तथा वर्णं प्रोक्तादश विशेषतः | दशबीजाच्च ये चान्ये क्रमान्नागानन शृणु || ३-४६ || विद्याङ्गलक्षणं ब्रूमो नेत्रेण तु समायुतम् | सप्ताष्ट पञ्चमात्रन्तु गुणवर्णा यथा क्रमात् || ३-४७ || ओङ्कारादि प्रशान्ताय नमोहृद्युक्त वर्णकम् | ओं प्रणवात्मं नमोनमः शिरस्फटिकसन्निभम् || ३-४८ || शिखायहुं प्रणवादि शिखाचैवाञ्जन प्रभा | हुङ्कारस्तु तथा वर्म पद्मपत्रेणसन्निभम् || ३-४९ || फट्कारमिहशस्त्रं स्यात् सूर्यकोटिसमप्रभम् | एतत् पाशुपतास्त्रञ्च ईषट्करालदंष्ट्रकम् || ३-५० || ओं जिह्वासं स्मृता नेत्रमरुणाभं ततो विदुः | पूर्ववद् रूपमेतेषां शक्तिबीजं तत शृणु || ३-५१ || ओं भॄं जॄं क्ष्मॄं शक्तिमन्त्रं स्यात् बीजमुख्यन्तु देवता | तप्तकाञ्चन वर्णाभा रूपलक्षणमुच्यते || ३-५२ || प्. १३) चतुर्भुजा त्रिणेत्रा च सर्वालङ्कारसंयुता | नितम्बतटविस्तीर्णा मध्यक्षामा स्तनोन्नता || ३-५३ || एवं लक्षणसंयुक्ता आदिशक्तिर्मनोन्मनी | शक्तेस्तु लक्षणं प्रोक्तं क्षुरिकास्त्रं ततः शृणु || ३-५४ || ओश्चिपिखीचिदक्षि उत्क्षुरिकामन्त्रमुत्तमम् | विशुद्धस्फटिकाकारं क्षुरिकास्त्रञ्चतुर्भुजम् || ३-५५ || विद्याङ्गास्त्रं शिवाङ्गास्त्रं अघोरास्त्रं त्रितीयकम् | शिवाङ्गास्त्र द्विधा चैव शिवशस्त्रं तथैव च || ३-५६ || सर्वात्मा ज्ञानहृदयं विद्याङ्गाद् योगजं स्मृतम् | भूतजं हृदयं घोरं हृदयन्तु त्रिधा भवेत् || ३-५७ || सृजेत भूतजेनैव योगजेन तु सम्हरेत् | ज्ञानेन मोक्षदं प्रोक्तमित्येवन्तु मनीषिणाम् || ३-५८ || पृथिव्यादीनि बीजानि लवरययहकारकाः | ब्रह्माख्यां पूर्ववत् ब्रह्ममेवञ्चैव तत शृणु || ३-५९ || प्रथमं ब्रह्मबीजं सात् द्वितिययं पिण्डमन्त्रकम् | कलामन्त्रं तृतीयन्तु ब्रह्ममेतत् त्रिधा मतम् || ३-६० || ब्रह्मबीजेष्वयत् ब्रह्म बीजब्रह्ममिहोच्यते | सद्यादीशानपर्यन्तं वक्ष्यमाणं विधानतः || ३-६१ || पिण्डमन्त्रमिति ज्ञेयं कलामन्त्रं ततः शृणु | सद्यः कलाभिरष्टाभिर्वामदेवस्त्रयोदश || ३-६२ || अघोराष्टकलाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् | ईशानं पञ्चधा भित्वा कल्पयेत् तु विचक्षणः || ३-६३ || अष्टत्रिंशत्कला ह्येवं कला ब्रह्मन्तु कथ्यते | ब्रह्मरुद्रौ प्रवक्ष्यामि चक्रं न्यसाक्षरक्रमात् || ३-६४ || मण्डपं कारयेत् तत्र नवहस्तप्रमाणतः | प्रपां वा कल्पयेद् विद्वान् द्वादशस्तम्भसंयुतम् || ३-६५ || वितानं ध्वजसंयुक्तं भूषितं धूपदीपकैः | मण्डपस्य तु तन्मध्ये चक्रं कुर्याद् विशेषतः || ३-६६ || प्. १४) पूर्वापरेण मार्गेण युग्मसूत्रं प्रपातयेत् | दक्षिणोत्तरमार्गेण तद्वत् सूत्रं प्रपातयेत् || ३-६७ || सप्ताङ्गुलान्तरं ज्ञेयं मानाङ्गुलेन कारयेत् | षोडशाङ्गुलमानेन मध्ये वृत्तं प्रकल्पयेत् || ३-६८ || तन्मद्ध्येऽष्टदलं पद्मं तत् बाह्ये षोडशं दलम् | तत् बाह्ये भ्रामयेद् विद्वान् संवीक्ष्य वरणङ्क्रमात् || ३-६९ || पञ्चाङ्गुलान्तरं तेषां द्वाराग्रे शूलमुल्लिखेत् | बाह्यविधौ न्यसेद् धीमान् त्रयस्त्रिंशच्च देवताः || ३-७० || बाह्यवास्तुपदे युक्ता देवान् सङ्कल्प्य तत्र वै | खट्गखेटकसंयुक्तान् वास्तुदेवान् न्यसेत् क्रमात् || ३-७१ || रक्तवर्णनिभान् देवान् हृदयेऽञ्जलिसंयुतान् | परितः कल्पयेत् तत्र एकैकान्तरितः क्रमात् || ३-७२ || ब्रह्माक्षरान् महाशासु रुद्रार्णानि दिशासु वै | प्रागाद्युत्तरपर्यन्तं दिक्षु ब्रह्मं समुद्धरेत् || ३-७३ || आग्नेययां दिशिकोणान्तं रुद्रमन्त्रं समुद्धरेत् | ब्रह्मरुद्रक्रमेणैवं विन्यासञ्च ततः शृणु || ३-७४ || ब्रह्मसूत्रं न्यसेत् तत्र सितेन रजसा पुनः | नानावर्णविमिश्रेण भ्रामयेत् ब्रह्मसूत्रकात् || ३-७५ || रक्तेन धातुना वर्ग प्रस्तरेदक्षराणि वै | यवर्गादष्टमं बीजं तेजोबीजसमायुतम् || ३-७६ || चतुर्दश स्वरोपेतं बिन्दुनादसमन्वितम् | ब्रह्महत्यादिकं पापञ्जप्तमात्रेण नश्यति || ३-७७ || इदं प्राणदमुद्धृत्य कर्णिकायां विशेषतः | प्राक् दले प्रणवं न्यस्त्वा द्याकारं तस्य दक्षिणे || ३-७८ || पप्रगच्छोश्च सद्योसौ न्यसेद् अष्टदलाब्जके | सद्योजाश्च तथा तश्च पृच्छिपश्च ततः पुनः || ३-७९ || जाकाराश्च इमेसर्वे पूजाद्यब्ददले न्यसेत् | मकारञ्च सकारञ्च गोकारञ्च तथा पुनः || ३-८० || प्. १५) जातायश्च तथा वै नं स्थवसर्गोयमेव च | भाश्च वे च तथा भश्च चेतना च तथातिभम् || ३-८१ || मिकारमिन्द्रदिक् पात्रे भतीनावे भवेगमः | न वै वताजान्योसाश्च न्यासेत् षोडशदिक् दले || ३-८२ || प्रदक्षिणक्रमादेवमन्वेष्वा वरणेषु च | जश्च भश्च तथा पेचमश्चप्यो च तमोक्षरः || ३-८३ || खकारश्च विकारश्च खकारोमा तथैव च | काच पश्च तथा पोच ह्योचरे कारयेव च || ३-८४ || मुश्चयश्च तथा द्राच रुद्रः शन्नोत एव च | पश्च धिश्च तथा गाश्च पूर्वादीनि प्रदक्षिणम् || ३-८५ || चतुर्विंशति मे प्रोक्ता प्रथमावरणे क्रमात् | नश्च माश्च तथा स्वश्च व्यश्च दिश्च ततः पुनः || ३-८६ || ने च पश्च तथाव्या च पश्चना चर एव च | बालबाधपराश्चैव रश्चघोचर एव च || ३-८७ || स्रश्च विश्चककारश्च षश्च पिश्च तथैव च | चोश्च प्रश्च तथा द्रश्च मुश्च प्रश्च श एव च || ३-८८ || एत चश्च द्वितीये तु द्वात्रिंशद्वर्णमुच्यते | स विसर्गोमकारस्तु रवतावाक्षरान्य हुः || ३-८९ || तत् बाह्ये षोडशदले भश्च मोचय एव च | पाच रूच क्वकारश्च रिकारश्च च एव च || ३-९० || बश्च मोच तथा नश्च मश्च पामस्तथैव च | मोकारश्च मलो चैव सविसर्गोह्य एव च || ३-९१ || रेतौ निश्च तथाद्याश्च निश्चयश्च त आयतः | शिकारः प्रणवश्चैव याच्चदश्च तथैव च || ३-९२ || सविसर्गे ककारस्तु तेधमाश्च प्रपञ्च च | षट्त्रिंशदक्षरा प्रोक्ता स्त्रितीया वरणे ततः || ३-९३ || नश्च वाच ततो दीप नाधा प्रश्च जनेऽपि वा | व्याश्चर्वश्च समौ प्रश्च लकारोभुक्तिरेव च || ३-९४ || निश्चयश्च तथा द्राश्च ओष्ठ ज्येकार एव च | सविसर्गन्त कोरस्तु मश्चसश्चम आयते || ३-९५ || प्. १६) ण्यश्चरश्च तथा हिश्च मोचनश्चध एव च | त्याकारश्च न कारश्च ईकारश्च त एव च || ३-९६ || तश्च भूश्च नवौभानौ वश्चभश्च तथैव च | चतुर्था वरणेह्यत्र चतुश्चत्वारिंशदक्षरम् || ३-९७ || यश्च वा च तथा देश्च माद्योवाश्च तथैव च | पादोहामाश्चयश्चैव वा कारश्च शि एव च || ३-९८ || स विसर्गोमकारश्च न कारः प्रणवस्ततः | यधौ नाधाब्द शाश्चैव शब्दासाः स विसर्गमः || ३-९९ || तश्चणे च विरूकारौ हुकारो बश्चयः ततः | ह्याकारौ सर्वकारौ च शश्चरश्च त आयतः || ३-१०० || तु हे सेच्च च कारश्च लकारश्च न एव च | लकारश्च निकारश्च स्वराद्योह्हेविस्तथा || ३-१०१ || रेफ पूर्वोपकारस्तु सश्चद्यश्चपि एव च | न्याकरोपित्तिशाश्चैव त्याच शश्च व एव च || ३-१०२ || वकारोव्यो च भव्यौ च भकारश्च ततोन्ततः | अष्टषष्ट्य क्षराः प्रोक्ताः पञ्चमावरणे तथा || ३-१०३ || ज्येकारश्च तथा मोश्च नश्चदापदपास्तथा | यच्च पाकृति पच्चैव कानेचाद्यस्वरस्तथा || ३-१०४ || यश्च आयसकारश्च हार्गसा स विसर्गमम् | न च जोश्च तथा तेजसौ जाते कार एव च || ३-१०५ || ऐकारश्च विकारश्च ऊकारश्च तथा पुनः | रेफ पूर्वशकारश्च सच्चयश्च ततः पुनः || ३-१०६ || रेफ पूर्वे तु दीर्घस्तु स्पश्चणे च विरू ततः | न ह्योर्वे घोततीं ताशा ताश्चशा च ततः पुनः || ३-१०७ || दीर्घरेफौ पकारश्च रश्च पश्चतिथौ ततः | णामिनाभ्याश्च श्लिंश्चैव शीं श्लीं कारस्तथैव च || ३- १०८ || प्रणवश्च शकारश्च देशादेत्ताश्च जा ततः | अश्च षश्च रुकारश्च पूषौ रूप तथैव च || ३-१०९ || षट् च सप्ततयः प्रोक्ताः षष्ठमावरणे क्रमात् | तधष्ठा षाश्च शेविश्च पाचयश्च ततः पुनः || ३-११० || प्. १७) रूचद्रश्च तथा रौचयश्च नाशाविरेव च | घ्नश्च विश्चर्वसौ चैव याकारश्च तरुश्च वै || ३-१११ || रेफपूर्वौ चकारश्च रुश्चण्डश्च गधौ तथा | डा गणेपि चरूडाश्च रावसाश्चरणेऽपि च || ३-११२ || रूस्तुस्तैमाश्च प्रोवैव स्वराद्योमविसर्गयुक् | तश्चवश्च शिमस्ता च वश्चशिश्च भ एव च || ३-११३ || तरघोमोगराश्चैव सश्चरश्चश्च एव च | ह्री कारश्च त्रयं दीप ह्रिकारस्य तथा त्रयम् || ३-११४ || अक्षर त्रीणी हुंकाराः प्रणवं फट् तथास्त्रयः | दीपकश्च तथांशाश्च अशीतिः सप्तमावृतौ || ३-११५ || द्रौश्चरुश्च तथा मोचनश्चरश्चरुपी तथा | यश्चष्टा च तथा दंश्च तूश्चवश्च लिपी तथा || ३-११६ || लिश्च किश्च लिपी चैव लिश्च हिश्चतन्ती पुनः | नामादाश्च तथा द्वंश्चणेपि रूलाश्चद्रू तथा || ३-११७ || यश्चला च तथा मूचणेपि रूजाश्च एव च | बीजायाश्चैव बीचैवणेपि बेरुद्र एव च || ३-११८ || अक्षरः सविसर्गेण मकारो न यदा तथा | नमो न देनाद्य स्वराः सविसर्गौमतौ ततः || ३-११९ || वीह्य पोमोन ह्यताम्रर्वनाश्चन्ता चनस्ततः | अफट्कारौ च हुंश्चैव प्रणवश्च तथा पुनः || ३-१२० || षट् च वौ चैव षट्चैव यथा स्वाचैव हा पुनः | स्वाश्चस्तिश्च सकारश्च सविसर्गौ मनौस्तथा || ३-१२१ || अष्टमावरणे प्रोक्ता अष्टाशीत्यक्षराः पुनः | सविसर्गोमकारश्च नकारश्च ययौ पुनः || ३-१२२ || यान्निर्वे च धमाः साश्च जुश्चग्यश्च ऋ एव च | श्वश्च ह्वा च तथा जींश्च ग्रश्चनोच ह आयतः || ३-१२३ || लीपे पाश्च तथा पश्च लापा नानास्तथैव च | मोनयाश्चैव पिश्चैव रुद्रपाश्चै य आयतः || ३-१२४ || द्रापणे पिततारू च लश्च नायौ चला ततः | नाकारेणापि रूरांश्च रुद्राश्चैव य एव च || ३-१२५ || प्. १८) राचरूश्च तथा तच्च प्रणवश्च ह्य एव च | पश्चसिश्च तथाद्यश्च चापिश्चर्व स एव च || ३-१२६ || सविसर्गोमकारश्च तश्चभ्यश्चनुयो पुनः | तव गोप्ते च गौयौ च ह्या च गुश्च तथा पुनः || ३-१२७ || मोनहु प्राश्च हश्चैव स्मश्च व्रंश्चैव नांस्ततः | तश्च हा च तथा स्वा च यकारश्च र आयतः || ३-१२८ || यश्च भीश्च तथा भूश्च मश्च प्रेच ह आयतः | सा च यश्च तथा रा च यश्च जश्च व एव च || ३-१२९ || हाच स्वाच तली चैव ज्वश्च सुश्च द एव च | नवमावरणे प्रोक्ताः शताष्टाधिकमक्षरम् || ३-१३० || यश्च लाच तथा काच व्यालिकैलिश्च किंस्ततः | यश्च ता च तथा श्वश्च शाश्चयश्च व आयतः || ३-१३१ || ध्राश्चयश्च तथा ता च ता श्रीश्चाना चयौ पुनः | ता च ना चस्वराच्छाद्यो यश्चन्ताश्च न एव च || ३-१३२ || अकारश्च मकारश्च नोमणश्च पिता तथा | लश्चपश्च यकारश्च लाचभश्च तथा पुनः || ३-१३३ || णेचपिश्च तथा रूच पञ्चपुश्च य एव च | ष्वाच पुश्च तथा णश्च विश्वरूपर्भगौ तथा || ३-१३४ || यश्च भाच तथा गश्चणे च ष्वाश्चरु एव च | पुश्च द्यो च तथात्मश्च व्योचनश्च त एव च || ३-१३५ || चेचना च तथा तश्च चेचेवाद्य स्वरास्तथा | यश्चरा च तथा पश्च रश्चयश्च तथैव च || ३-१३६ || मेचरश्च पकारश्च यश्च पाच तथा परू | निश्चद्यो च तथा ये च तश्च पश्चतिणाच्चिवाः || ३-१३७ || नकारश्च स्वरश्चोद्यो रश्चपश्चन्द्र एव च | रुश्चष्णुश्च तथा पिश्च ह्याच पुश्चरकौ ततः || ३-१३८ || स्यश्च नैश्च तथा सा चर्वश्च सश्च द एव च | प्रश्च खश्चसुतौ चैव हूकारश्चर्व एव च || ३-१३९ || दशमावरणे प्रोक्ताः शताश्च द्वादशाधिकाः | कश्चमः सविसर्गस्तु नयायेश्चरु आयतः || ३-१४० || प्. १९) याकारश्च तथा कारयश्च राच ह आयतः | नश्चद्ध्या च तथाने च गित्ययोत्यं नियास्तथा || ३-१४१ || ताच स्थिश्च तथा सश्च मश्च पीच ग एव च | यो बलंश्च नयौ ना च णेच विश्च तथा पुनः || ३-१४२ || रुकारश्च तथा नो च मश्च सेचनमौ ततः | णेकारश्च विरूतौ च रेकारश्च तथा पुनः || ३-१४३ || सेतरेणे विरुन्ताश्च नश्चयाश्च य एव च | तश्च नश्च अकारश्चत्मश्च विश्च वधू पुनः || ३-१४४ || अग्निश्च स्वराश्चाद्योप श्वरूपश्च एव च | नित्योजः सविसर्गश्च ते मथाश्च तथा पुनः || ३-१४५ || प्रश्च विश्च तथा रूनौ विश्वरूच अपिंस्ततः | व्या विश्चैव तथा व्योमिन् स्माच प्रश्चति एव च || ३-१४६ || शिक्ष क्ष्मा च तथा सूचब्दश्च शश्चन एव च | ज्ञाश्च गश्च तथा पिंश्च गश्च तश्च परू तथा || ३-१४७ || तुश्च षिश्च तथा सा च तश्च स्थिश्चर्व एव च | पूतौस्तुश्च अनौ चैव विन्यसेत् तु विशेषतः || ३-१४८ || दशैकावरणे प्रोक्ताः शतवर्णाश्च षोडश | ककारश्च विलौ चैव अकारोयश्च वा शिराः || ३-१४९ || घोमानाश्च यकारश्च ज्ञाचवश्च ष एव च | रुश्च पुश्च तयौ चैव वा शिये तत् पगास्तथा || ३-१५० || जकारोयश्च नाशाश्च ईकारश्चाद्यमक्षरम् | प्रणवः सविसर्गेण मकारप्रश्चयस्ततः || ३-१५१ || पारुतिश्च कृकारश्च प्रश्चणे च विरूरकाः | हंसश्चाभ्य स्वरश्चैव यश्चरा च क आयतः || ३-१५२ || अं चैवाद्य स्वाराश्चैव णेचविश्च तथा पुनः | रुर्थौ चाद्य स्वराश्चैव यर्थ चैवाद्यमक्षरम् || ३-१५३ || महामहे बहुश्चैव तथा प्रणव एव च | सविसर्गेण रूकारः प्रणवश्च तथा पुनः || ३-१५४ || चत्वारश्चैव सूकारा नाकारश्च तथा चतु | देनादेश्च तथा ना च अकारोन्तश्च नस्ततः || ३-१५५ || प्. २०) अकारश्च स्मकारश्च अश्चन्तश्चर्भ एव च | आह्य स्वरोमकारश्च मेवोशिश्च च एव च || ३-१५६ || षांश्च शांश्च तथा वांश्च लांश्च यांश्चस्तथापि च | ओकारेश्च तथा नेच विश्चव्याम च एव च || ३-१५७ || व्योकारश्च तथा ऊचं रच आकार एव च | प्रणवश्च वयश्चैव मश्चनच्चम एव च || ३-१५८ || शिश्च दश्चर्वसौ चैवर्वश्च शश्चव एव च | द्वादशावरणे प्रोक्तो विंशतिश्चशतं क्रमात् || ३-१५९ || यश्चणा च तथा रश्च वाचपाचप एव च | यकारो ह्यागुवाश्चैव देवमायाश्च एव च || ३-१६० || नोश्च पश्चात् प्रयद्युश्च विधं द्राचैवकास्तथा | वश्च सिश्च यथा दश्च भूयभ्यश्च च एव च || ३-१६१ || रेच घोणे विरुद्राश्च विश्चयद्यश्च आयतः | विश्चणे च तथा पिश्च रूपद्धश्च शुयौ ततः || ३-१६२ || याश्च गुश्च तथा णेचरु माया च यथौ ततः | माचणेऽपि तथा रूति ककारायश्च वा पुनः || ३-१६३ || देय व्याश्च स्वराश्चाद्यो वेचभश्च विमौ ततः | वाचमावाकने चैव कानेचाद्य स्वरस्ततः || ३-१६४ || त्र्यंश्च सश्च ततो दीपः सविसर्ग व एव च | तकारः प्रणवश्चैवः सविसर्गो न एव च || ३-१६५ || जकारादीपकश्चैवः सविसर्गो ह कारकः | मकारः प्रणवश्चैव सविसर्गस्प एव च || ३-१६६ || प्रणवश्च तथा दाच सश्चस्तुश्च तपो ततः | तश्च भावै च स्वाकारः सविसर्गो म एव च || ३-१६७ || नश्च पेच तथा भश्च प्रश्चगच्छ च एव च | सविसर्गोमकारस्तु नये ताश्च प एव च || ३-१६८ || न कारश्चैव शाद्रौ च क्षंकारः क्षविसर्गयुक् | त्वैंश्चक्षूंश्च तथा क्षंश्च त्वां क्षां हां हाश्च एव च || ३-१६९ || त्रयोदशावरणे प्रोक्ता विंशदष्टोत्तरं शतम् | यश्चमोश्च तथा रुश्च वश्चकायौ च एव च || ३-१७० || प्. २१) राचयाक्त्या च शश्चैव दिश्चमाकार एव च | लयेक्ता च तथा मूच तश्च जाद्यो स एव च || ३-१७१ || चन्द्रश्च नश्चधारा च विश्चसुश्चाष्ठ एव च | रिश्चवश्च तथाण्यश्च रेच वश्चरवौ तथा || ३-१७२ || यश्च घे च यकारश्च अकारश्च ततः पुनः | रश्चश्चाग्नि तथा लाच काश्चमः सविसर्गयुक् || ३-१७३ || नियवाशिश्च हौकारः प्रणवश्च तथा चणे | पिश्च रूच तथा वीच शिदासाश्चैव यस्ततः || ३-१७४ || पाशिदा साश्चणेकारः पिश्चरुय न एव च | यानाश्च महिमौ धीये वाश्च शिश्च तथैव च || ३-१७५ || दासः सर्वश्च चौचैव शिश्चवंश्च ह एव च | नोयनिश्च तथा नश्च धनिश्चाद्य स्वरस्तथा || ३-१७६ || मंपधा च तकारश्च तीरश्च स्वराभ्यतः | नश्चमश्च सनौसश्च शान्तेशायाश्च दीपकः || ३-१७७ || स विसर्गोवकारस्तु शिकारं विन्यसेत् ततः | स विसर्गोमकारस्तु नयेनांश्च पणांस्ततः || ३-१७८ || द्राचरुश्च विसर्गेण मकारोनश्चनेत्मकाः | मृश्च अश्च विसर्गेण मकारोनश्चने तथा || ३-१७९ || मवौ चैव सकारश्च स विसर्गो म एव च | नश्च नश्च तथा ने च तथात्मश्च तथा पुनः || ३-१८० || स विसर्गोमकारश्च नकारश्चैव ए ततः | चतुर्दशावरणे प्रोक्तं षट्त्रिंशश्च शतक्षरम् || ३-१८१ || एवं अक्षरविन्यासं कृत्वोद्धरणमारभेत् | सौधमूर्तिं प्रवक्ष्यामि पञ्चवक्त्रसमन्वितम् || ३-१८२ || पञ्चादशाक्षसंयुक्तं भूजैश्च दशशोभितम् | वरदाभय हस्तं स्याद् अष्टायुधसमन्वितम् || ३-१८३ || दुकूलपट्टवसनं सर्वाभरणभूषितम् | पद्मासनसमारूढं प्रासाअदमिति चोच्यते || ३-१८४ || एकवक्त्रं त्रिणेत्रं स्यात् चतुर्भुजं सुरूपकम् | दिव्यांबरधरं देवं दिव्याभरणभूषितम् || ३-१८५ || प्. २२) एवं ब्रह्मसमाख्यातं रुद्रलक्षणमुच्यते | चतुर्वक्त्रं चर्बाहु द्वादशाक्षिसमन्वितम् || ३-१८६ || वरदाभयहस्तं स्यात् छुलश्चांकुशमेव च | सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् || ३-१८७ || क्षौमवस्त्रधरं रक्तं ध्यायेद् रूपं विशेषतः | संक्रान्ते विषुवे चैव अयने जन्म-ऋक्षके || ३-१८८ || दीक्षायास्थापनान्ते च दुर्भिक्षे दुर्निमित्तके | भूमिकं पेदिशां दाहे ज्वरमार्यादि पीडने || ३-१८९ || गोक्षीरं गन्धतोयं वा घृतं वा मधुवा पुनः | नालिकेरजलं वापि रुद्रेण स्नापयेच्छिवम् || ३-१९० || सप्तजन्म कृतं पापं यजमानस्य नश्यति | सर्वेषामेव देवानां मन्त्रमेवं द्विधामतम् || ३-१९१ || स्वनाम्नि चादिवर्णे तु ऋचामन्यत् स वह्निकम् | बिन्दुनादसमायुक्तं सर्वेषां मूलमन्त्रकम् || ३-१९२ || दीर्घाणि ह्यंगमेवं स्यात् षडंगाश्चैव कीर्तिताः | अस्त्रं विसर्गसंयुक्तं ह्रस्वा वै ब्रह्मपञ्चकम् || ३-१९३ || यथा वर्णस्तथा रूपं अस्मिन् मन्त्रे प्रचोदितम् | तेषां मन्त्रं तु सर्वेषां शिवस्य परमात्मनः || ३-१९४ || सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिप्रदायकम् | मन्त्रोद्धारमिदं प्रोक्तं शौचाचमनकं शृणु || ३-१९५ || इति मन्त्रोद्धारस्तृतीय पटलः || ३ || प्. २३) अथ शौचाचमन पटलः अथातः संप्रवक्ष्यामि सौचाचमनलक्षणम् | साधकानां हितार्थन्तु चतुराश्रमधर्मिणाम् || ४-१ || ब्राह्मे मुहूर्ते विद्वान् वै मनसाचिन्तयेच्छिवम् | त्रिपादो न त्रिघटिका राजन्ते तु दिने दिने || ४-२ || ब्राह्म्यं मुहूर्त्तमाख्यातं मम संख्यासु कथ्यते | उत्थाय च बहिर्ग्रामात् गत्वाशौचं समाचरेत् || ४-३ || रविं दक्षिणतः कृत्वा विण्मूत्रन्तु विसर्जयेत् | दक्षिणाभिमुखोरात्रौ तृणमाधायभूतले || ४-४ || करे वा कर्णमूले वा उपवीतं न्यसेत् बुधः | वेष्टयित्वा शिरस्तत्र ऋजुका यो न पाचयन् || ४-५ || प्रत्यादित्य जलाग्निनां चन्द्रगोब्राह्मणान् प्रति | देवालयसमीपे तु कूपे गोष्ठेन भस्मनि || ४-६ || क्षेत्रे च वृक्षच्छायायां नद्यामन्तः सरस्वपि | चैत्य वृक्षसमीपे तु वेलायां वाम होदधेः || ४-७ || चत्वरे ग्रहमध्ये च न कुर्यादुभयं नरः | वामेन शिश्नं संग्राह्य मृत्पिण्डं दक्षिणे करे || ४-८ || जलेशुद्धे समागम्य पश्चात् छौचं समाचरेत् | सकृन्मृत्तिकया शिश्नमक्षमात्रप्रमाणतः || ४-९ || तथा सर्वत्र संयोज्य पश्चात् पादे तु मृत्तिकाम् | दश कृत्वा करं वामं सप्तकुर्यात् करद्वयम् || ४-१० || शोधयेदंभसा नित्यं ग्रहस्थानां विधीयते | एतद् उक्तं ग्रहस्थानां द्विगुणंब्रह्मचारिणाम् || ४-११ || त्रिगुणं वा न प्रस्थानां यतीनान्तु चतुर्गुणम् | यावन्मात्रामनः शुद्धिस्तावत् शौचं समाचरेत् || ४-१२ || उत्थायतीरोत् तस्माद् वै अन्यत्रा चमनञ्चरेत् | प्रक्षाल्य पाणिपादौ च दक्षिणादि क्रमेण तु || ४-१३ || स पवित्रकरेणैव सर्वकर्मसमाचरेत् | स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् || ४-१४ || प्. २४) नाभो न दिक्षुसंवीक्ष्य हस्ते गोकर्णवत् कृते | माषमग्नन्तु यद्वारि निःशब्दन्तत्र पीयते || ४-१५ || यथा वै त्रितयं पीत्वा आस्येंगुष्ठेन निस्पृशेत् | मुखं हस्तेन संस्पृश्य पद्भ्यामभ्युक्षणं भवेत् || ४- १६ || अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः | अङ्गुष्ठ तर्जनीभ्यान्तु नासिकां संस्पृशेत् पुनः || ४-१७ || अङ्गुष्ठ कनिष्ठाभ्यां तु श्रोत्रे चैव तु संस्पृशेत् | यदा तत् त्रितयं पीत मृग्यजुः सामतृप्तये || ४-१८ || अथर्वस्येति हासार्थं तन्मुखन्तु द्विधा स्पृशेत् | पादावुभौ तदाभ्युक्ष्य ऋषीणां सप्ततृप्तये || ४-१९ || मूर्द्धास्ये चक्षुषी श्रोत्रे सर्वाधिक्येन्दु चक्षुषा | भुजौ तु नाभि हृदयमिन्द्रमिष्ण्वनलांस्तथा || ४-२० || क्षुधेकफेत्वधासन्ने सद्य आचमनं कुरु | अङ्गुष्ठे नास्य संस्पृश्य पश्चादाचमनं बुधः || ४-२१ || एवमाचनं प्रोक्तं तत स्नानविधिं शृणु || इति शौचाचमनश्चतुर्थ पटलः || ४ || अथ स्नान पटलः अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् | पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः || ५-१ || स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ | वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् || ५-२ || दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् | मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः || ५-३ || वक्ष्ये वारुणमाग्नेयं शृणु तत्वं गजानन | नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् || ५-४ || प्. २५) कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे | तटाकेष्वपिन स्नानं सरित्सत्यांगजानन || ५-५ || कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् | तस्माद् दशगुणं नद्यः समुद्रगामिकाः पराः || ५-६ || प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः | ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते || ५-७ || तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् | तोयंशुद्धमशुद्धं वा शिवालयसमीपतः || ५-८ || शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् | तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः || ५-९ || शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः | प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् || ५-१० || मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् | रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् || ५-११ || मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः शृणु | मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः || ५-१२ || सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः | तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् || ५-१३ || हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् | हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः || ५-१४ || सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् | अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् || ५-१५ || पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु | ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् || ५-१६ || अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् | अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् || ५-१७ || शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् | फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः || ५-१८ || प्. २६) जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् | ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् || ५-१९ || शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः | शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः || ५-२० || उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः | तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे || ५-२१ || ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा (-था) | अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे || ५-२२ || तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते | अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते || ५-२३ || अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् | अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः || ५-२४ || अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् | पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् || ५-२५ || चक्रवत्युपचारेण सुगन्धामलकादिभिः | जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् || ५-२६ || शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः | पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् || ५-२७ || अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् | दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः || ५-२८ || मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् | अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते || ५-२९ || ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः | ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् || ५-३० || सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् | आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् || ५-३१ || स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः | स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके || ५-३२ || प्. २७) एकवारं यथा शक्यं प्राणायामन्ततो जपेत् | अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः || ५-३३ || मित्रा सत्येनेमम्मेति सततं स ममंत्रितः | एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् || ५-३४ || देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः | तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे || ५-३५ || अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् | वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् || ५-३६ || तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन | रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै || ५-३७ || सुवर्णानि समक्षं वा प्राणायामेन वा जलम् | प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः || ५-३८ || जलशुद्धिर्भवे देवं निशि स्नानायगम्यते | तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै || ५-३९ || एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् | ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् || ५-४० || शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः | फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् || ५-४१ || धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् | शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् || ५-४२ || प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् | यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते || ५-४३ || तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् | भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् || ५-४४ || तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः | स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् || ५-४५ || प्. २८) अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् | कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति || ५-४६ || ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् | जलस्नानमिदं प्रोक्तं भस्मस्नानमथो शृणु || ५-४७ || इति स्नान पटलः पञ्चमः || ५ || अथ भस्मस्नान पटलः अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् | श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा || ६-१ || लोकवश्यकरं पुण्यं पापनाशं दिने दिने | गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया || ६-२ || सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् | पञ्चगावः समुत्पन्नाः सर्वलोकस्यमातरः || ६-३ || नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा | कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च || ६-४ || नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् | सर्वलोकोपकारार्थं देवानां तर्पणाय च || ६-५ || गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु | गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् || ६-६ || षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि | गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः || ६-७ || गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः | शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ || ६-८ || शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च | शिरोमध्ये त्वहं तत्सभूतैः परिवृतः सह || ६-९ || प्. २९) ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः | कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ || ६-१० || कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ | दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः || ६-११ || सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः | सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः || ६-१२ || पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः | पुराणां पश्चिमाग्रेषु गणाह्यः सरस्तथा || ६-१३ || रुद्राश्चैव तु नाडिस्था वायवः सर्वसन्धिषु | श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे || ६-१४ || श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः | आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् || ६-१५ || ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः | उदरे पृथिवी जाताजन्तवश्च गजानन || ६-१६ || चत्वारः सागराः पुर्णागवां ये च पयोधराः | आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् || ६-१७ || दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् | कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् || ६-१८ || क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् | सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना || ६-१९ || गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः | आहारः सर्वदेवानां शिवस्य च विशेषतः || ६-२० || गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः | तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते || ६-२१ || बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् | यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् || ६-२२ || दध्नः सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये | घृताद् अमृतमुद्भूतममराणामति प्रियम् || ६-२३ || तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् | गोरोचना च माङ्गल्या पवित्रा सर्वकामदा || ६-२४ || प्. ३०) इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् | भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् || ६-२५ || पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् | पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् || ६-२६ || केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् | अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः || ६-२७ || जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् | जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते || ६-२८ || शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् | ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु || ६-२९ || बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् | सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः || ६-३० || उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् | पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु || ६-३१ || भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते | आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् || ६-३२ || तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् | ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् || ६-३३ || शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च | कण्ठे विनायकश्चैव बाहौ च केशवस्तथा || ६-३४ || हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः | जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा || ६-३५ || सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् | तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति || ६-३६ || भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः शृणु | इति भस्मस्नान पटलः षष्ठः || ६ || प्. ३१) अथ अर्चनाङ्ग पटलः अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् | पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् || ७-१ || दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु | दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु || ७-२ || दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् | शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते || ७-३ || उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् | चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् || ७-४ || एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् | आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति || ७-५ || आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः | तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते || ७-६ || यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः | व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् || ७-७ || अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च | सममर्धं पादमेवा कर्पूरेणसमायुतम् || ७-८ || गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः शृणु | श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् || ७-९ || पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् | कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् || ७-१० || नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् | साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका || ७-११ || द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका | नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् || ७-१२ || श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा | एवमादीनि पुष्पाणि सात्विकानि समादिशेत् || ७-१३ || रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा | पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् || ७-१४ || प्. ३२) कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा | एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् || ७-१५ || करञ्जवकुलञ्चैव शिरीषं केतकी तथा | लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी || ७-१६ || किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् | अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् || ७-१७ || केशकीटापविद्धानि लूतसूत्राव्रतानि च | स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् || ७-१८ || शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा | नागनन्दी रुद्रपर्णीधातकी पत्रमेव च || ७-१९ || भद्री चैव महाभद्री द्रोणपत्रं तथैव च | उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः || ७-२० || पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते | तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् || ७-२१ || उत्सवादिषु यात्रायां परिवेष क्रियासु च | सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः || ७-२२ || एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते | कृष्णागरुर्भवेदेव कार्यः सद्विगुणं भवेत् || ७-२३ || त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् | शीतारिनामधूपोयं मधुनां पावितं भवेत् || ७-२४ || एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते | गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् || ७-२५ || कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् | गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् || ७-२६ || चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते | दीप प्रियो हि भगवान् देवदेवः सदाशिवः || ७-२७ || अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं शृणु | इति अर्चनाङ्गः सप्तमः पटलः || ७ || प्. ३३) अथ शिवार्चनविधि पटलः अथातः संप्रवक्ष्यामि शिवार्चनविधिक्रमम् | सर्वपापहरं दिव्यं सर्वलोकसुखावहम् || ८-१ || श्रीप्रदं सर्वविघ्नघ्नं राज्ञो राष्ट्रविवर्धनम् | तदपि द्विविधं प्रोक्तमात्मार्थञ्च परार्थकम् || ८-२ || क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च | कौतुके भक्तिचित्रे वा आत्मार्थेऽर्चनमारभेत् || ८-३ || ग्रामे दृष्ट्वाधवान्येषु शिवधामनिनिर्मिते | तेषु स्थावरलिङ्गेषु परार्थं यजनं स्मृतम् || ८-४ || सिकतं तण्डुलञ्चान्नं नदीमृद्गोमयं तथा | नवनीतञ्च रुद्राक्षं पिष्टं चन्दनकूर्चकम् || ८-५ || पुष्पमालांगुलञ्चेष्टं क्षणिका द्वादश स्मृताः | पूजान्ते क्षणिका त्याज्याः तत्त्वं हृदि समानयेत् || ८-६ || स्फटिकं रत्नजं शैलं बाणलिङ्गञ्च लोहजम् | चललिङ्गं समाख्यातं स्थण्डिलं शालितण्डुलैः || ८-७ || सिकतैर्वा समाख्यातं मण्डलं करमानतः | गोमयालेपिते तत्र संलिख्ख्याब्जदलाष्टयुक् || ८-८ || मण्डलं त्विति विख्यातं द्वादशप्रतिमार्चनम् | कौतुकं त्विति ख्यातं भित्तिचित्रं तथैव च || ८-९ || आत्मार्थ यजनेख्याता यथा युक्त्यासमर्चयेत् | दीपान्तं वाहविष्यन्तमात्मर्थे तु परार्थके || ८-१० || सामान्यमिदमाख्यातं परार्थस्तु विशेषतः | नित्योत्सवन्तु नित्याग्नियजनं पादुकार्चनम् || ८-११ || नीराजनं रजन्याञ्च गीतं नृत्तञ्च वाद्यकम् | तेषु कुर्याद् यथा शक्यं लिङ्गेस्थावर संज्ञके || ८-१२ || उक्तेषु तेषु सर्वेषु विना नित्योत्सवं ततः | पादुकाभ्यर्चनं त्यक्त्वा शेषाण्यात्मार्थमाचरेत् || ८-१३ || दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् | परार्थमादिशैवानामात्मार्थं वा समर्चयेत् || ८-१४ || (प्. ३४, ३५) मिस्सिन्ग् प्. ३६) वह्निमण्डलमध्यस्थ ज्वालाभिर्वह्निबीजतः | पादाङ्गुष्ठाच्छिखायावन् निर्दहेच्छुष्ककाष्ठवत् || ८-१५ || विचिन्त्य भस्मीभूतं तु पिण्डीकृत्वा निलेन तु | तस्मिन् प्रागुक्तममृतं स्रवन्तं भस्मनि स्मरेत् || ८-१६ || आत्मानमानयेत् तत्र सर्वात्महृदयेन तु | दिव्यदेहो भवे देवमङ्गन्यासं अथ शृणु || ८-१७ || मूर्धादिसृष्टिरेवं स्यात् पादादिः संहृतिर्भवेत् | नासादि हृदयान्तन्तु स्थिति न्यासं प्रकीर्तितम् || ८-१८ || पञ्चमेन शिरः पञ्चपञ्चभिः कल्पयेत् ततः | चत्वारिवदनां यत्र वक्त्रमन्त्रेण भावयेत् || ८-१९ || पञ्चमं वदनं तत्र सर्वात्म हृदयेन तु | अन्यथा (-धा) कल्पयेत् घोरं हृत्ग्रीवांसेष्वधोरसि || ८-२० || तन्नाभ्युदरपृष्ठेषु न्यसेद् वा मन्त्रयेद् दश | गुह्यं पायुस्तथा चोरु जानुनी जंघकाद्वयम् || ८-२१ || स्फिचौ द्वौ तु कटिः पार्श्वौ न्यसेत् सद्यं ततोऽष्टधा | पाणिपादौ तथा नासाशिरोबाह्ये न्यसेत् बुधः || ८-२२ || दक्षिणे कटिपार्श्वे तु क्षुरिकास्त्रं प्रकल्पयेत् | मूर्धानने च हृदये गुह्यो वै पादयोः क्रमात् || ८-२३ || ब्रह्माणि सृष्टिमार्गेण ईशानादीनि विन्यसेत् | पादादारभ्य सद्यादि संहरं न्यासकर्मणि || ८-२४ || नाभ्यादि हृदयान्तन्तु स्थितिन्न्यासं प्रकीर्तितम् | सर्वात्मानन्तु हृदये सशिवं शिरसि न्यसेत् || ८-२५ || शिखायां ज्वालिनीं न्यस्त्वा वर्मणादेहमध्यतः | अस्त्रं हस्तप्रदेशेषु पञ्चाङ्गान्योमाचरेत् || ८-२६ || विद्याङ्गं पूर्ववन्न्यस्त्वा नेत्रं नेत्रेषु योजयेत् | द्वात्रिंशत् सन्धिदेशेषु बीजमुख्यन्तु विन्न्यसेत् || ८-२७ || हृत्पद्मे तु न्यसे देवमष्ट त्रिंशत् कलान्वितम् | अङ्गुष्ठमात्रमचलं ध्यायेत् प्रणवमीश्वरम् || ८-२८ || मानसैः कुसुमैर्गन्धैर्धूपदीपोपचारकैः (-र्गन्थैर्-)| पूजयेद् धृदये नैव आत्मशुद्धिस्तु कीर्तिताः || ८-२९ || प्. ३७) द्वारदेवान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् | वाग्देवीं द्वारशाखोर्ध्वे सव्ये वामे श्रियं यजेत् || ८-३० || विघ्नेशं मध्यमे पूज्यनन्दिवर्गांश्च दक्षिणे | यमुनाञ्च महाकालं वामे भ्यर्च्यस्वनामभिः || ८-३१ || स्थानं संमृज्यसंप्रोक्ष्य दिग्बन्धञ्चास्त्रमन्त्रतः | भौमदिव्यन्तरिक्षस्थान् विघ्नान् प्रोत्सारयेद्धृदा || ८-३२ || भूमीष्ठान् प्राणदृष्ट्या तु तत्वदृष्ट्यान्तरिक्षगान् | ज्ञानदृष्ट्या तु दिक् स्थांस्तां स्तन्नामाख्यायमुद्रया || ८-३३ || ब्रह्मस्थाने तु ब्रह्माणं पुष्पगन्धादिभिर्हृदा | स्थानशुद्धिर्भवे देवं द्रव्यशुचिन्ततः शृणु || ८-३४ || गोमयेनोपलिप्याथ द्रव्यपात्राणि विन्यसेत् | अर्घ्यपात्रं शरावञ्च पाद्याचमनपात्रकौ || ८-३५ || वर्धनीजलभाण्डञ्च अस्त्रमन्त्रेण क्षालयेत् | हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् || ८-३६ || अर्घ्यपात्रं समादाय सन्दाह्यभ्यन्तरं हृदा | संस्पृश्य तस्मिं श्वेताब्जं ध्यात्वा वै मण्डलत्रयम् || ८- ३७ || तेषु तत्वत्रयं स्मृत्वा आत्मविद्या शिवात्मकम् | शिवांबुना शिवे नैव अपूर्वब्रह्मपञ्चकैः || ८-३८ || कलावर्णात्मकैः पिण्डैरभिमन्त्र्य यथा क्रमम् | सुगन्धिकुसुमान् गन्धान् प्रक्षिप्याबुनिमन्त्रवित् || ८-३९ || तत्तोयं सर्वपात्रेषु द्रव्यपात्रेषु सर्वतः | विन्दौ बिन्दुं विनिक्षिप्य कुशेनैव हृदाणुना || ८-४० || द्रव्यशुद्धिर्भवेदेषां मन्त्रशुद्धिरतः परम् | ओंकारादि युतामन्त्रा नमस्कारान्तयोजिताः || ८-४१ || पूर्वं शिवं समुच्चार्य ततो ब्रह्माङ्गकाद्युभौ | विद्याङ्गं बीजमुख्यञ्च क्षुरिकाञ्च समुच्चरन् || ८-४२ || तत् तद्रूपान्वितान्ध्यात्वा पूर्ववन्मन्त्रशुद्धये | क्रियाकाले प्रयोक्तव्या स्वाहान्तं हवने स्मृताः || ८-४३ || मालाद्यैश्वर्यजातानि मन्त्राणि ह्यानितानि च | मन्त्रशुद्धिरियं प्रोक्ता लिङ्गशुद्धिरतः परम् || ८-४४ || प्. ३८) हुंफट्कारेण मन्त्रेण महाघण्टां प्रदापयेत् | प्रच्छादनपटन्त्यक्त्वा लिङ्गशुद्धिं समारभेत् || ८-४५ || निर्माल्योद्वासनारंभे स्नानारंभे तदन्तके | धूपकाले हविष्यादौ हविष्यन्ते तथैव च || ८-४६ || नित्योत्सवान्ते नृत्तान्ते महाघण्टां प्रदापयेत् | निर्माल्योद्वासने काले स्नानान्ते तु विशेषतः || ८-४७ || हविष्यादौ च नृत्तान्ते कुर्याद्यवनिवान्ततः | स्नानारंभे तथा धूपे हविष्यान्ते तथैव च || ८-४८ || नित्योत्सवादिकाले च पटं प्रच्छादनन्त्यजेत् | शिवे समर्चितं पूर्वं हृदयार्घ्यं विसर्जयेत् || ८-४९ || अङ्गुष्ठतर्जनीभ्यान्तु पुष्पं ग्राह्यविचक्षणः | कनिष्ठानामिकामध्ये त्यजेत् पर्यूषितङ्गुरुः || ८-५० || विसर्जने च काले तु पुष्पं मूर्ध्निदापयेत् | न पुष्परहितं तुर्याच्छिवमौलिं गुरूत्तम || ८-५१ || पिण्डिकेशस्थ निर्माल्यञ्चण्डेशाय निवेदयेत् | लिङ्गशुद्धिः सपिण्डान्ता क्रमेणैव समापयेत् || ८-५२ || लिङ्गं प्रक्षाल्य चास्त्रेण पीठं पाशुपतेन तु | त्यजेदुषितगन्धादि जलैर्दक्षिणहस्ततः || ८-५३ || सङ्ख्याय शुद्धयः पञ्च ततस्त्वासनकल्पनम् | आसने मूर्तिमावाह्य त्वेतद्वितयमध्वनि || ८-५४ || व्याप्यव्यापकभावेन ज्ञात्वायजनमारभेत् | इच्छाशक्त्युत्थितं पद्मं पृथिव्यादिशिवान्तकम् || ८-५५ || पार्थिवाण्डमयं स्कन्दमाप्यान्तं नालमेव च | प्रधान तत्व पर्यन्तं तन्नालं कण्टकैर्युतम् || ८-५६ || अकारादिक्षकारान्तं शंबरं कण्टकं स्मृतम् | श्यामाभन्नालमित्युक्तं नालसूत्रं त्विदं स्मृतम् || ८-५७ || पुंस्तत्वादि कलान्तञ्च पीठन्दलाष्टकान्वितम् | धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पादमेव हि || ८-५८ || प्. ३९) आग्नेयादिक्रमेणैव सिंहरूपोग्रदंष्ट्रकाः | सितरक्तपीतकृष्णा स्त्रिणेत्रा वज्रपीठकाः || ८-५९ || अन्योन्याभिमुखाः सर्वे सिंहकोटिसमायुताः | न्यस्तव्या भार्द्रमन्त्रेण भीमाभीम पराक्रमाः || ८-६० || अधर्मज्ञानवैराग्या नैश्वर्यान्वै क्रमेण तु | प्रागाद्युत्तरपर्यन्तान्नियतांश्च सितप्रभान् || ८-६१ || न्यस्त्वागुणत्रये नैव ऊर्ध्वच्छदमथच्छदम् | पीठस्योर्ध्वे महामाया ग्रन्थिस्तत्वङ्गजानन || ८-६२ || विद्यातत्वमयिन्तस्य कर्णिकां परिचिन्तयेत् | इच्छाशक्त्यादिबीजानि विद्येशांश्च दलानि वै || ८-६३ || मन्त्रास्तत् केसरेप्रोक्तास्ते विद्यायां प्रतिष्ठिताः | केसरे बीजमुख्येन शक्तिन्तत्र प्रकल्पयेत् || ८-६४ || सितरक्तासितांश्चैव मूलमध्याग्रकान् क्रमात् | दलंश्वेतं विजानीयात् कर्णिकाकनकप्रभा || ८-६५ || पञ्चविंशतिकानीह बीजानिहरितानि वै | तप्तचामीकरप्रख्यं शक्तिव्यूहं न्यसेत् ततः || ८-६६ || केसरेषु च मध्ये तु वामादीन् पूर्वतः क्रमात् | वामाज्येष्ठा च रौद्री च कालीकलविकरणी तथा || ८-६७ || बलविकरणी बलप्रमधनी सर्वभूतदमनात्मिका | मध्येमनोन्मनीं देवीं कर्णिकायां निवेशयेत् || ८-६८ || सूर्याख्यमण्डलं पात्रे केसरे सोममण्डलम् | कर्णिकोपरिचाग्नेयं मण्डलस्थां मनोन्मनीम् || ८-६९ || इच्छाशक्त्यादिनालान्त (इश्चा-) मनन्तासनमीरितम् | गुणान्तं धर्मज्ञानादि सिंहाख्यमासनं विदुः || ८-७० || योगासनन्तु तत् ख्यातं परमेशस्य सुव्रत | पद्मग्रन्धिं समारभ्य केसरान्ताब्जमासनम् || ८-७१ || शक्त्यन्तं केसरादूर्ध्वं कर्णिका विमलासनम् | एव मब्जासनं कल्प्यपूजयेत् स्वस्वनामभिः || ८-७२ || मुकुलीं प्रथमं बध्वा पद्ममुद्रामतः परम् | शशकर्णिं शिवं विप्रः कर्णिकान्तं निदर्शयेत् || ८-७३ || प्. ४०) आसनोपरिमूर्तिन्तु सदाशिवमनुत्तमम् | पञ्चवक्त्रशिरोपेतं पञ्चाधिकदशेक्षणम् || ८-७४ || दशदोर्दण्डसंयुक्तं अष्टायुधसमज्वलम् | अभयं शूलपरशुं वज्रं खट्गञ्च दक्षिणे || ८-७५ || वरदञ्चाङ्कुशं पाशं घण्टां वह्निञ्च वामतः | अच्छ स्फटिकसंकाशमष्टत्रिंशत् कलात्मकः || ८-७६ || पञ्चब्रह्माङ्ग विद्याङ्ग दशबीजात्मकं परम् | दिव्यांबरधरञ्चार्थ वज्राङ्कितजटाधरम् || ८-७७ || बद्धपद्मासनासीनं कंबुग्रीवं सुयौवनम् | इच्छाज्ञानक्रियाचेति नेत्रत्रयसमन्वितम् || ८-७८ || शुक्लयज्ञोपवीतञ्च देवं ज्ञात्वा परापरम् | सर्वाभरणसंयुक्तं ध्यात्वा ह्यावाहयेत् ततः || ८-७९ || लिङ्गंमूलपरीणाहे कल्पयेत् तु मनोन्मनीम् | तदे?स्या परिस्थिते लिङ्गे चलेचैव सदाशिवम् || ८-८० || एवं सङ्कल्प्यमूर्तिन्तु ततोवाह्यमनुं स्मरन् | पुष्पैरञ्जलिमापूर्य तदा वाहनमुद्रया || ८-८१ || प्रविष्टे हृदयाग्रे तु शिवरूपं विचिन्तयेत् | प्रणवं मनसोच्चार्य सर्वज्ञादिर्गुणैर्युतम् || ८-८२ || सर्वोपाधिविनिर्मुक्तं कारणानान्तु कारणम् | अतर्क्यमप्रमेयञ्च धृतमव्ययमीश्वरम् || ८-८३ || बिन्दावभ्युदितं ध्यायेत् स्थिरधीः पुरतः स्थिरे | सदाशिवात्ममध्यस्थं विन्यसेद् देशिकोत्तमः || ८-८४ || आवाहनादिभिर्भक्त्या परमेशं सुपूजयेत् | आवाह्य सद्यमन्त्रेण स्थापयेत् गुह्यमन्त्रतः || ८-८५ || बहुरूपेण सान्निध्यं पुरुषेणनिरोधनम् | सर्वावयवसंपूर्णमिशानेन तु भावयेत् || ८-८६ || आवाहनाख्यया वाह्य स्थापयेच्छान्तमुद्रया | ध्वजाख्यया तु सान्निध्यं रोधनं निष्ठुराख्यया || ८-८७ || पाद्यं हृदाणुनादत्वा वक्त्रेणाचमनं ततः | अर्घ्यन्तु शिरसादत्वा पञ्चमूर्धसु बुद्धिमान् || ८-८८ || प्. ४१) करन्यासं विना तत्र दहनप्लावनं विना | सर्वमात्मविशुध्यर्थमाचरेत् तु गजानन || ८-८९ || आवाहने तु पूजान्ते विसर्जनविधौ तथा | अर्घ्यं दद्यात् तु मन्त्रज्ञस्त्रिषु कालेषु बुद्धिमान् || ८-९० || अर्घ्ये विलेपने स्नानेत्रिषुगन्धं प्रेयोजयेत् | आवाहनार्घ्य पाद्येषु स्नाने धूपे विलेपने || ८-९१ || नैवेद्ये च विसर्गे च पुष्पमष्टसुयोजयेत् | आवाहनंविना सप्तकाले वारिसुयोजयेत् || ८-९२ || गन्धं पुष्पेण संयोज्य पुष्पं गन्धेनयोजयेत् | धूपं दीपेनसंयोज्य दीपन्दीपेन योजयेत् || ८-९३ || तिलोद्भवेनतैलेन हस्तयन्त्रोद्भवेन वा | गोघृते नैव वा लिङ्गमभ्यज्य हृदयाणुना || ८-९४ || मर्दयेच्छालिपिष्टेन हरिद्रा चूर्णकेन वा | शिवेन पिण्डमन्त्रैश्च कलाभिर्मानमन्त्रकैः || ८-९५ || सहस्राक्षरमन्त्रेण व्योमव्यापिदशाक्षरैः | पञ्चाङ्गैश्चैव विद्याङ्गैः क्षूरिकाबीजमुख्यकैः || ८-९६ || सुगन्धिकुसुमोपेतं जलौघैरभिषेचयेत् | सद्योजातेन गोमूत्रं गोमयङ्गुह्यकेन तु || ८-९७ || क्षीरन्तु बहुरूपेण दधितत् पुरुषेण तु | ईशानेन घृतं स्नाप्य पञ्चगव्यमथैकतः || ८-९८ || समादायोक्तसंख्याभिः स्नापयेत् तु दशाक्षरैः | मधुने क्षुरसे नैव नालीकेरजलेन च || ८-९९ || अच्छगोरोचनामिश्र जलैः संस्नापयेद्धृदा | द्रव्येषूक्तेष्वथा लाभे यथालाभं परिग्रहेत् || ८-१०० || घृष्ट्वा हरिद्राचूर्णैश्च स्नापयेद् गन्धवारिणा | वस्त्रमाचमनीयञ्च अर्घ्यन्तु हृदयाणुना || ८-१०१ || दुकूलपट्टकार्पास वासोभिर्विविधैरपि | इन्ध्याभिः पुष्पमालाभिः पत्रच्छेदैरथार्च्चयेत् || ८-१०२ || संपत्तौ हेमपट्टाद्यैर्विविधैरङ्गभूषणैः | संभूष्य हेमपुष्पैस्तु कुसुमेश्च सितासितैः || ८-१०३ || प्. ४२) विज्ञाप्यलयभोगाङ्गं देवदेवं क्षमापयेत् | जपं स्तुत्यं नमस्कारं ध्यानं श्रद्धावदित्यपि || ८-१०४ || नृत्तं गीतञ्च वाद्यञ्च महाघण्डा स्वनादिकम् | लयाङ्गमुक्तं पूजायां देवदेवस्य नित्यशः || ८-१०५ || भोगाङ्गानि च शेषाणि लयैर्भागैश्च पूजयेत् | पञ्चवरणमार्गेण क्रमादावरणं न्यसेत् || ८-१०६ || सद्यं पश्चिमदिक्पात्रे वाम देवन्तथोत्तरे | अघोरं दक्षिणे यष्ट्वा पुरुषं पूर्वपात्रतः || ८-१०७ || ईशानमीशदिक्भागे न्यस्त्वा सम्यक् समर्चयेत् | स्नानदीपं पृथक् तेषामङ्गानामंगभावतः || ८-१०८ || कर्णिकायां ततो याम्ये संयजेदात्म तत्वकम् | विद्या तत्वन्ततः सौम्ये शिवतत्वन्तु मद्ध्यमे || ८-१०९ || आत्मानमन्तरात्मानं परमात्मानमेव च | यजेत् तत्व त्रयं स्थाने हृदापुष्पैः सितासितैः || ८-११० || गर्भावरणमाख्यातं विद्येशावरणं ततः | गर्भावरणबाह्येषु पद्मपत्रेषु संयजेत् || ८-१११ || अनन्तं पूर्वतः पूज्य त्रिमूर्तिं वह्निगोचरे | सूक्ष्मन्तु दक्षिणेभागे श्रीकण्ठं नि-ऋतौ तथा || ८-११२ || शिवोत्तमन्तु वारुण्यां शिखण्डिं वायुगोचरे | एक नेत्रं तथा सौम्ये ह्येकरुद्रं तथैशके || ८-११३ || द्वितियावरणं ह्येवं प्रणवेन स्वनामभिः | उमा वै चोत्तरेयष्ट्वा पूर्वभागे वृषन्ततः || ८-११४ || दक्षिणे गजराजानं गुहं वै वारुणे तथा | महाकालन्तु नि-ऋतौ भृंगीशं वायुदेशतः || ८-११५ || चण्डेशमीशदिक्भागे नन्दीशञ्चाग्निगोचरे | उमादिक्षुमुखान्तानि तृतीयावरणेदले || ८-११६ || इन्द्रादिलोकपालांश्च ऐन्द्र्यादिषु प्रपूजयेत् | ब्रह्माणं दक्षिणेभागे विष्णुमुत्तरतो यजेत् || ८-११७ || लोकेश गणयोर्मध्ये ब्रह्मविष्णूयमोत्तरे | चतुर्थावरणं ह्येवमथास्त्रावरणं शृणु || ८-११८ || प्. ४३) आशास्वष्ट सुवज्रादींश्चक्रं सौम्येब्जमन्त्रके | लोकपालान् सहस्त्रांश्च स्वस्वमन्त्रेण पूजयेत् || ८-११९ || गर्भावरणमन्त्राणां बीजमुद्रान्तु दर्शयेत् | विद्येशानाङ्गणेशानां कालकण्ठन्तु दर्शयेत् || ८-१२० || लोकेशानामथास्त्राणां शूलमुद्राः प्रकीर्तिताः | देवतार्चनकाले तु यथा त्वाच्छादयेत् बुधः || ८-१२१ || पापरोगनिमग्नानां मृष्टानाञ्च स्वकर्मभिः | क्रूराणां कुब्जकादीनं कृशिकानां तथैव च || ८-१२२ || तथा कृत्रिमभक्तानां निन्दकानाञ्च पापिनाम् | अन्यच्च दोषदृष्टानाम दृष्टानामिति स्मृतम् || ८-१२३ || महाघण्टानिनादेन राक्षसाश्चासुरास्तथा | ब्रह्मराक्षसपैशा च भूतयक्षोरगेश्वराः || ८-१२४ || दूरं गच्छन्ति नादेन यान्ति देवाः सुसन्निधिम् | धूपदीपौ प्रदातव्यौ घण्टारवसमन्वितम् || ८-१२५ || ज्वलदङ्गारसंपूर्णं धूपपात्रं नरेण तु | सव्यहस्तेन सङ्ग्राह्य घण्टां वामेनपाणिना || ८-१२६ || सुरूपान्धीरनिर्घोषां वादयन् सर्वदा गुरुः | ध्वनिनाधूपखण्डाया ग्रामशान्तिकरं भवेत् || ८-१२७ || दद्यादाचमनं तत्र दर्पणच्छक्रचामरान् | मनसा वा स्वरूपेण दर्शयेत् तु विचक्षणः || ८-१२८ || बीजमुद्रां नमस्कारां मुकुलिं पद्ममुद्रिकाम् | ध्वजाख्यां लिङ्गमुद्राञ्च देवदेवस्य दर्शयेत् || ८-१२९ || शिवेच्छा प्रतिमाः सर्वाः पूजयेत् तु यथोचितम् | आसनावरणे कृत्वा द्वारपालार्चनं विना || ८-१३० || नित्यस्नानं विनालोभे स्नानं पर्वणि पर्वणि | चण्डेशपरिवाराणि विना बिंबानिपूजयेत् || ८-१३१ || शिवस्य परिवाराणि समभ्यर्च्य यथा विधि | मुद्रादर्शनवेलायां शिवं स्नाप्यनिवेदयेत् || ८-१३२ || समारभ्यशिरः पूर्वं दक्षिणोत्तर पश्चिमे | ऊर्ध्वभागे तु मन्त्रज्ञः पञ्च स्वर्घ्यं निवेदयेत् || ८-१३३ || प्. ४४) सद्योघोरेन रेवामेद त्वार्घ्यं पञ्चमान्तकम् | अपसव्यार्घ्यमित्युक्तं पूजाकालेषु नित्यशः || ८-१३४ || सव्यापसव्यमार्गाभ्यां दत्वार्घ्यन्तु पुनः पुनः | ऊर्ध्ववक्त्रे तु दातव्यं संमूखार्घ्यं पराङ्मुखम् || ८-१३५ || संमुखं संस्थि देहस्य विसर्गेर्घ्यं पराङ्मुखम् | नैवेद्यं दापयेत् पश्चात् यथा विभवविस्तरैः || ८-१३६ || भक्ष्यभोज्यां न पानानि सत्फलाज्यगुलान्वितम् | तेन दीपेन दत्वा तु नित्यां हि कमथो यजेत् || ८-१३७ || शिवाग्नौ रक्षिते तस्मिन् परितः शोध्य दीप्य च | परिषिच्य हृदापूज्यलोकेशानां ततो मतम् || ८-१३८ || संपूज्य च ततः पद्मे शिवं ब्रह्माङ्गकैरधः | घृतान्नेन घृतेनाथ जुहुयात् तण्डुलेन वा || ८-१३९ || प्रत्येकन्तु त्रिसंख्या वा ह्येक संख्यमथापि वा | परिषेचनमन्त्रेण पुनः सिच्यविसर्जयेत् || ८-१४० || एवं नित्याग्निकार्यन्तु मध्यमे चाथमेपि च | उत्तमे चाग्निकार्योक्तं सर्वं कुर्याद् विचक्षणः || ८-१४१ || परिवारबलिं दत्वा निर्माल्यान्नं विसर्जयेत् | मुखवासञ्च तांबूलं दत्वा नित्यपवित्रकम् || ८-१४२ || सर्वच्छिद्रापनोदार्थं धूपितं प्रोक्षितं ततः | दशबीजमनुस्मृत्य पवित्रमधिरोपयेत् || ८-१४३ || पूजाकाले तु संप्राप्ते लिङ्गमूर्ध्निपवित्रकम् | अवतीर्यार्चिते लिङ्गे तं पवित्रं पुनर्नयेत् || ८-१४४ || नित्योत्सवन्तु कर्तव्यं विध्युक्तं त्रिषुसन्धिषु | नीराजनन्तु कर्तव्यं रात्रौ रात्रौ विशेषतः || ८-१४५ || प्रक्षाल्यपादौ हस्तौ च प्र *?म्याष्टाङ्गमादरात् | प्रदक्षिणत्रयं कृत्वा मन्त्रञ्जप्त्वा क्षमापयेत् || ८-१४६ || कालत्रयङ्गुणातीतः कालात्मा शिवशाश्वतः? | उदयस्थिति संहारकण्व पुण्यैककारणा || ८-१४७ || अनेकतप कृत्यानि नयसर्वाणि सर्वदा | फलप्रदान्यमोघानि संपूर्णानि प्रसीदमे || ८-१४८ || प्. ४५) एतन्मन्त्रं जपित्वेशं क्षमस्वेति वदेत् गुरुः | स त्रिपाद त्रिघटिका रात्र्यन्ते तु दिने दिने || ८-१४९ || ब्राह्मं मुहूर्तमाख्यातं संघोष्यस्त्विति कथ्यते | तथा पञ्च महाशब्दं कृत्वा शुभनिवृत्तये || ८-१५० || शौचं स्नानादिकं कृत्वा पूजान् कृत्वादिशैवकम् | भास्करस्योदयात् पूर्वं दृष्ट्वारभ्य यथा क्रमम् || ८-१५१ || यामैका चोत्तमासन्धिर्मध्यमा पञ्चनाडिका | मध्यमाया कनिष्ठा स्याद् यथा विभवमाचरेत् || ८-१५२ || सा चैकाघटिका स्नाने घटिकाद्वयमर्चने | नैवेद्यं घटिकार्धञ्च घटिकार्धं बलिं ततः || ८-१५३ || घटिकार्धैकसंयुक्ता वेला तत्र विधीयते | नित्योत्सवे तथा स्नाने शुद्धे वै सुद्धनृत्तके || ८-१५४ || सार्द्धत्रिघटिका प्रोक्ता द्रव्यसंपन्नपूजने | असंपद्यजनं प्रोक्तं मध्यमाधमकालतः || ८-१५५ || एवं समर्चिते सर्वमर्चितञ्च चराचरम् | तस्माल्लिङ्गार्चनं कार्यं प्राज्ञैश्च सुमहात्मभिः || ८- १५६ || ब्रह्मचर्येण वेदैश्च यज्ञैश्च विविधैः शुभैः | अग्निहोत्रैश्च सन्यासैराश्रमैश्च सुपालितैः || ८-१५७ || त्रिदण्डैश्च व्रतैः सर्वै घृतैः पाशुपतादिकैः | एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् || ८-१५८ || तत्फलं लभते साधु लिङ्गस्यार्चन तत् परः | एकोह्यभ्यर्च्यते लिङ्गन्तपस्तप्यति चा परः || ८-१५९ || तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं संप्रपूजयेत् | अनेकजन्मसाहस्रे भ्रममाणस्तु योनिभिः || ८-१६० || कश्चिदाप्नोति वै मुक्तिं लिङ्गार्चनरतोनरः | शिवार्चनविधिः प्रोक्तो मुद्रायालक्षण शृणु || ८-१६१ || इति शिवार्चनविधि पटलोष्टमः || ८ || प्. ४६) अथ मुद्रालक्षण पटलः अथातः संप्रवक्ष्यामि मुद्रायालक्षणं परम् | अर्चनादिक्रियाकाले संयोज्या सा सलक्षणा || ९-१ || अस्त्रीवक्त्री महामुद्रा शोधनी च संहारिणी | पञ्चमुखी च सुरभि द्रव्या च मुकुली तथा || ९-२ || पद्मा च शशकर्णी च शक्तिबीजा तथा भवेत् | आवाहनी च शान्ता च मनोरमध्वजा तथा || ९-३ || निष्ठुरा लिङ्गमुद्रा च गायत्री कालकण्ठका | शूलमुद्रा नमस्कारात्रयोविंशति कीर्तिताः || ९-४ || द्वौ मुष्टी संहति कृत्वा शीघ्रं हस्तौ प्रसारयेत् | अस्त्रमुद्रेति विख्याता सर्वेषाञ्च भयंकरी || ९-५ || वामहस्तो परिस्थाप्य अङ्गुल्यो दक्षिणस्य तु | आकुञ्चयेत् ततः सर्वा नङ्गुष्ठेन तु बन्धयेत् || ९-६ || वामाङ्गुष्ठेषु संपीड्य अङ्गुल्योङ्गुष्ठकं दृढम् | इयं वक्त्राख्यमुद्रा तु स्नानार्थं देशिकस्य तु || ९-७ || हस्ताभ्यां संस्पृशेत् पादौ द्वौहस्तौ मस्तके न्यसेत् | एषामुद्रा महामुद्रा करसंस्कारपश्चिमे || ९-८ || पाणिमूले तु संलग्नौ हृद्देशे तु परस्परम् | कृत्वैवं ताडयेत् पाणिमुद्रेयं शोधनी भवेत् || ९-९ || प्रसार्य दक्षिणाङ्गुल्यस्त्वङ्गुष्ठं मूर्ध्निसंस्थितम् | मुष्टिवत् सततं कृत्वा ह्येषा संहारिणी स्मृताः || ९-१० || कृत्वान्योन्य गताङ्गुल्याः पृष्ठतो हस्तयोर्द्वयोः | तिर्यक् त्वेकं न्यसेत् तत्र अङ्गुष्ठाभ्यां समाक्रमेत् || ९-११ || तर्जिन्या मध्यमादूर्ध्वे नामिके चोच्छ्रिते शुभे | कृत्वा पञ्चमुखी ख्याता मुद्रेयं शङ्करस्य तु || ९-१२ || वेणी बन्धं करौ कृत्वा ह्यङ्गुष्ठौ युग्मसंस्थितौ | तर्जनीमध्यमे लीनौ कनिष्ठानामिके युते || ९-१३ || एवञ्चत्वारि युग्मन्तु दिव्यामृतसुवर्षिणि | इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते || ९-१४ || प्. ४७) कृत्वाञ्जलिं कराभ्यान्तु अङ्गुष्ठानामिकान्वितम् | प्रसारयेत् ततः शेषां मुद्रेयं द्रव्यरूपिणी || ९-१५ || द्वौहस्तावेकतः कृत्वा मध्ये तु सुषिरन्तयोः | सरोजमुकुलाकारां मुकुलिन्तु प्रदर्शयेत् || ९-१६ || पूर्वोक्तामुकुली या तु हृद्देशान्निः सृताङ्गुली | व्याको च कमलाकारां पद्ममुद्रान्तु दर्शयेत् || ९-१७ || तर्जन्यौ कुञ्चिते चैव तयोरग्रे निधापयेत् | द्वयोरंगुष्ठशिरसि तेषां मध्यघनः समाः || ९-१८ || कृत्वा तु मणिबन्धे तु वामे सव्यन्तथा न्यसेत् | मुद्रेयं शशकर्णी तु विज्ञेया योगकर्मणि || ९-१९ || तर्जनीं कुञ्चयेदेकामङ्गुष्ठे तु तथा पुनः | शक्तिमुद्रेति विख्याता शक्तीनाञ्च प्रकल्पयेत् || ९-२० || उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् | अङ्गुष्ठौ प्रक्षिपेन्मध्ये हस्तसंपुट गोपितौ || ९-२१ || कनिष्ठकौ तथा चैव मुहुः कृत्वा प्रसारितौ | अग्रे गुरुसमायुक्तां बीजमुद्रां प्रदर्शयेत् || ९-२२ || तर्जन्यङ्गुष्ठलग्नाग्रा शान्तेयं संप्रकीर्तिता | हस्ता वुत्तान्नकौ कृत्वा कन्न्यसौङ्गुष्ठकौ न्यसेत् || ९-२३ || मूलपर्वे समौ कृत्वा मुद्रेषावारिधि स्मृता | बलितं हस्तयोः कार्यमुत्ताने तु कनिष्ठकौ || ९-२४ || तयोर्वामावलि ज्ञेया वलीते मध्यमेऽपि च | कुञ्चिते नामिका या च स्वपाणितल योजिते || ९-२५ || देशिन्यौ प्रसृतौ कृत्वा तयोरग्रे नियोजयेत् | अङ्गुष्ठौ मूलपर्वस्थौ तयोरेव हि कुञ्चितौ || ९-२६ || मनोरमेति विख्याता शिव सा युज्यदायिका | वामे प्रदेशिन्यग्रन्तु वेष्टयेत् सव्यपाणिना || ९-२७ || कृत्वोर्ध्वे तु ततोऽङ्गुष्ठं हृदये सन्नियोजयेत् | वामाङ्गुष्ठञ्च वामाभिस्ति सृभिर्वेष्टयेत् क्रमात् || ९-२८ || ध्वजमुद्रासमाख्याता संयोज्या योगकर्मणि | अङ्गुष्ठौ मध्यतः कृत्वामुष्टिभ्यां पीडयेदुभौ || ९-२९ || प्. ४८) हस्तौ वाप्युभयौ कृत्वा निष्ठुरां सन्नियोजयेत् | कृत्वामुष्टि भवेद्धस्तौ व्युद्धमङ्गुष्ठसंस्थितौ || ९-३० || मुद्रैषा लिङ्गसंज्ञा तु कृत्वा देशिकदर्शने | अन्योन्यान्तरगाः सर्वाः करपृष्ठाग्रयोजिताः || ९-३० || अङ्गुष्ठाङ्गुलयः कुर्यादक्षरञ्च नरान्तने | पूजाकर्मणि गायत्रीं गायत्र्यान्तु प्रयोजयेत् || ९-३१ || कृत्वामुष्टिं ततो स्थाने तदानङ्गुलियोजिते | अङ्गुष्ठाग्रौ च संलग्नौ कालकण्ठीन्तु दर्शयेत् || ९-३२ || अन्योन्यान्तरितं कृत्वा पाणि पृष्ठेन योजयेत् | मध्यमे चोच्छ्रिते कृत्वा शूलमुद्रे कीर्तिताः || ९-३३ || सतताङ्गुलि संलग्नौ हस्तौ हृद्देशमाश्रितौ | सर्वेषां बन्धनं कार्यं वमाङ्गुष्ठनिपीडनम् || ९-३४ || नमस्कारेति विज्ञेया सर्वकर्मणिकारयेत् | विधिप्रपूरणार्थन्तु कृत्वा मुद्रान्तु देशिकाः || ९-३५ || मुद्रायालक्षणं प्रोक्तं हविष्यलक्षणं शृणु | इति मुद्रालक्षण पटलो नवमः || ९ || अथ हविष्यविधि पटलः अथतः संप्रवक्ष्यामि हविष्यविधिमुत्तमम् | नीवारञ्चैव गोधूमं यवं वेणुसमुद्भवम् || १०-१ || प्रधानतण्डुलं प्रोक्तन्नैवेद्यस्य शिवस्य तु | अलाभे चोक्तबीजानामथवा शालितण्डुलैः || १०-२ || श्वेतशाली महाशाली रक्तशाली तथैव च | कृष्णशाली हेमशाली शालायश्च तथान्यकाः || १०-३ || शालयोर्व्रीहहयोर्वाथ तण्डुलार्थं प्रगृह्य च | वर्णगन्धरसैरुष्टास्त्वयोग्यास्तण्डुलास्तथा || १०-४ || चातुर्वर्णोत्भवानारी पतिपुत्रवतीमता | तेषामेक तमे जाता अन्या वा कृतमङ्गला || १०-५ || प्. ४९) सा तण्डुलक्रियायास्तु युक्ताभक्तिसमन्विता | आदित्यरश्मि सन्तप्ता धान्यं प्रक्षिप्युलूखले || १०-६ || प्राङ्मुखोदुङ्मुखो वापि कुट्टने मुसलेन तु | तुषान् व्यपोह्य शूर्पेण कंबुकाञ्च कणान्त्यजेत् || १०-७ || अखण्डान् तण्डुलान् ग्राह्य श्वेतवर्णांस्तु निर्मलान् | द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः || १०-८ || धरणाष्टौ पलञ्चैव पलंमुष्टिरिहोच्यते | चतुर्मुष्टिस्तथा पादं प्रस्थं पादचतुष्ककम् || १०-९ || आढकन्तच्चतुष्कं स्याद् द्रोणन्तस्य चतुष्ककम् | तवधामार्गमुद्दिश्य नैवेद्यन् तत् प्रकल्पयेत् || १०-१० || प्रातः साये तथा भ्यर्च्य मध्याह्ने च निवेदनम् | प्रस्थद्वयन्तु तत् काले पाचयित्वा निवेदयेत् || १०-११ || एकदीपं द्विकाले च रात्रौ दीपद्वयन्त्विह | एवमुक्तप्रमाणेन क्षुद्रमध्याधमाधमम् || १०-१२ || प्रातः काले च मध्याह्ने द्विप्रस्थन्तण्डुलं हविः | साये संख्यान्तमभ्यर्च्य दीपं प्राग्द्विगुणं भवेत् || १०- १३ || प्रस्थद्वयं त्रिकालेषु प्रत्येकञ्च निवेदयेत् | दीपञ्चैव चतुःप्रोक्तासा ये तु द्विगुणं तथा || १०-१४ || अधमन्त्रयकञ्चैव वाद्यध्वनिसमन्वितम् | स्नाने भोजनके याने प्रच्छन्नपटमार्जने || १०-१५ || बलिदानेप्युषः काले वाद्यघोषन्तु कारयेत् | मध्यमस्याधमे प्रोक्तं मध्याह्ने त्वाढकं हविः || १०- १६ || प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् | मध्यत्रये तु मतिमान् वाद्यध्वनि समायुतम् || १०-१७ || त्रिकालं बलिलिङ्गे च बलिदानन्नयेत् ततः | मध्यमामध्यमं विद्यात् त्रिकाले ष्वाढकं हविः || १०-१८ || अर्धयामे तदर्द्धञ्च चतुर्विंशति दीपकम् | अर्द्धरात्रे तु या पूजार्धयाममिहोच्यते || १०-१९ || स्नानानि तु निवेद्यान्तं बलिहोमविवर्जितम् | वामान्तं वाथ कुर्वीत स्नात्वा वर्जितपूजितम् || १०-२० || प्. ५०) सायङ्कालस्य यामान्ते पूजायामान्तमुच्यते | त्रिकालं च बलिः प्रोक्तं पुष्पार्घ्यन्तु क्रमेण तु || १०-२१ || वाद्यध्वनिसमायुक्तं शंखकाहलसंयुतम् | मध्याह्ने नित्यहोमञ्च शिवमन्त्रसमन्वितं || १०-२२ || मध्यमस्योत्तमे चैव त्रिकालेस्वाढकत्रयम् | आढकश्चार्धयामेतु दीपसप्ततिसंयुतम् || १०-२३ || त्रिकालं बलिरन्नं स्यात् द्विकालं होममाचरेत् | सर्ववाद्यसमायुक्तं षट्काले च सुघोषयेत् || १०-२४ || षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते | उत्तमस्याधमं ज्ञेयं द्रोणेनैव त्रिसन्धिषु || १०-२५ || द्रोणार्धमर्धयामे तु दीपमष्टशतं भवेत् | त्रिकाले बलिरुक्तं स्यात् त्रिकालं होमसंयुतम् || १०-२६ || वादकानाञ्चतुर्विंशत् सर्ववाद्यसमन्वितम् | गणिकाश्च चतुस्त्रिंशत् चतुर्विंशति वार्धकम् || १०-२७ || रूपयौवनयुक्ताभि स्त्रिकालं नृत्तमाचरेत् | पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् || १०-२८ || उत्तमं मध्यमे तस्मिन् चतुर्वर्णं हविस्त्रिषु | पायसादीन्विधाने तु प्रत्येकं द्रोणतण्डुलैः || १०-२९ || द्रोणे तु चोदनं कुर्यात् पाचयित्वा पृथक् पृथक् | द्रोणान्न्यधार्धयामे तु दीपञ्चैव शतद्वयम् || १०-३० || त्रिकालं बलिहोमञ्च शीतारिधूपमुच्यते | वाद्यकानां चतुस्त्रिंशत् पञ्चाशत् गणिकान्वितम् || १०-३१ || कालं यामन्तु तस्योक्तं नृत्तं कुर्यात् त्रिसन्धिषु | घटिकाद्वेभवेत् स्नानं घटिकैकार्चनं भवेत् || १०-३२ || निवेद्यार्त्थं त्रिपादं स्याद्यात्रार्थन्तु त्रिपादकम् | अतः परं त्रिघटिका शंखवाद्यादिशोभनैः || १०-३३ || शेषकाले महाहव्यं भक्ष्यादीनां निवेदनम् | परिवेषं विनोदञ्च गेयमुक्तादिभिश्चरेत् || १०-३४ || प्. ५१) अत्रार्धयामपूजान्ते कुर्यात् कवाटबन्धनम् | अन्यकालेन कर्तव्यं कवाटस्य तु बन्धनम् || १०-३५ || उत्तमान्मध्यमं प्रोक्तं उत्तमोत्तममध्यमे | उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते || १०-३६ || पायसादीनिपक्वानि पञ्चद्रोणेन वै पृथक् | तदर्द्धमर्द्धयामे तु दीपं पञ्चशतं भवेत् || १०-३७ || त्रिकालं बलिहोमञ्च पञ्चाशद्वाद्यसंयुतम् | तण्डुलात् त्रिगुणं क्षीरं कदलीफलसंयुतम् || १०-३८ || मुद्गभिन्नञ्चतुर्थाशं यथा शत्यागुलान्वितम् | पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु || १०-३९ || तण्डुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् | तच्चतुर्थांश शमाज्यन्तु पाचयित्वा यथा विधि || १०-४० || कृसरान्नमिदं प्रोक्तं गुलान्नमधुनोच्यते | तण्डुलात् द्विगुणं क्षीरं तदर्धांशंगुलं क्षिपेत् || १०-४१ || गुलार्धं प्रक्षिपेदाज्यं गुलान्नमिदमुच्यते | तण्डुलस्य चतुर्धांशं मुद्गजन्तत्र बुद्धिमान् || १०-४२ || नालिकेरफलैः सूक्ष्मैर्मुद्गस्यार्धं सुनिक्षिपेत् | महाहविरथो वक्ष्ये वसुद्रोणाधमाधमम् || १०-४३ || द्विगुणं मध्यमं प्रोक्तं त्रिगुणञ्चोत्तमोत्तमम् | चतुःपञ्चषट्गुणितं मध्यमत्रितयं तथा || १०-४४ || सप्ताष्ट नवगुणितमेतदुत्तमकन्त्रयम् | उपदंशं ततो वक्ष्ये शृणु तत्त्वङ्गजानन || १०-४५ || द्वात्रिंशदंशमेव स्यात् सर्पिस्तत्र परिग्रहेत् | षोडशांशन्तु गुल्माषं दद्ध्यष्टांशन्तु संग्रहेत् || १०- ४६ || कदलीपनसाम्राञ्च परिपक्वान् समर्चयेत् | तरुणाश्चोपदं शास्युः शृणु वक्ष्योपदंशकान् || १०-४७ || कदली चैव कुश्माण्डोर्वारुकञ्च पटोलिका | कोशातकी चरूपुष्पं वेत्राग्रंलिकुचं तथा || १०-४८ || प्रस्थस्य त्रिफलञ्चैव स्तुषित्वा देशिकोत्तमः | वल्लीशूलं तथान्त्रान्तं सर्वान्य न्यासमं तथा || १०-४९ || प्. ५२) अलाबुन्नालिकेरञ्च सूरणंकारवल्लिका | अन्ये रसयुताः शुद्धाः कन्दमूलफलास्तथा || १०-५० || कटुकाश्च तथा म्लाश्चतिक्ताश्च मधुरास्तथा | तथा लाभो पदंशाञ्च पचेल्लवणसंयुतम् || १०-५१ || प्रक्षालनं ततः कृत्वा सत्कृत्वोद्भिस्तु तण्डुलान् | बीजमुख्येन मन्त्रेणशोधयित्वा विशेषतः || १०-५२ || अर्धाधिकयुतन्तोयं तण्डुलस्य प्रमाणतः | चुल्लिमध्ये न्यसेदग्निं स्वबीजेन तु चार्चयेत् || १०-५३ || तस्योपरि तथा पात्रं काष्ठैरग्निं प्रदीपयेत् | क्रिमिजुष्टैस्तथा काष्ठैर्विस्फुलिङ्गयुतेन च || १०-५४ || गन्धपुष्पादिनाभ्यर्च्य वस्त्रेणा वेष्टयेत् ततः | पिपीलिकाश्रितैश्चैव काष्ठैरग्निन्नदीपयेत् || १०-५५ || अपक्वमतिपक्वञ्च परिम्लानञ्च वर्जयेत् | पात्राणि च शरावाञ्च बाह्यशुद्धिं विशेषतः || १०-५६ || सर्वपात्रेषु तद्भाह्ये त्रिपुण्ड्रन्तु विचक्षणः | हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् || १०-५७ || मुखं वस्त्रेण वाच्छाद्य पाचकस्तान् समुद्धरेत् | अभ्युक्ष्यपरितोमार्गं छत्रपिञ्छसमायुतम् || १०-५८ || शङ्खध्वनिसमायुक्तमालयन्तु प्रवेशयेत् | मण्डपस्योत्तरे भागे दक्षिणे वा निधाय च || १०-५९ || हविष्ये चोपदंशे च आज्ये नैवाभि हारयेत् | सौवर्णं रजतन्ताम्रमधवा कदलीदलम् || १०-६० || शुद्धकांस्येन वा कार्यं पात्रं शतपलेन तु | स्थलकापादरहिता त्रिपादीकार्यमस्थिता || १०-६१ || पीठोत्सौधा महाभद्राः शुद्धकांस्यमयाः समाः | दर्वीं हस्ते समादाय सप्रमाणां सलक्षणाम् || १०-६२ || तदाज्ये नाभिचर्यादौ पात्रमन्नेन पूरयेत् | हविष्यस्य चतुर्भागं निवेद्यं स्यात् शिवस्य तु || १०-६३ || पूर्णचन्द्रमिवाकारं गुल्माषेन गुलेन च | फलेनाज्येनदध्ना वा उपदंशैः समावृतम् || १०-६४ || प्. ५३) निवेदयेच्छिवायैवं हविष्यं सर्वसिद्धिदम् | हृदयेन तु मन्त्रेण निवेद्य विधिपूर्वकम् || १०-६५ || चतुर्भागैकभागेन परिवारे बलिन्ददेत् | चतुर्भागैकभागेन होमकर्मसमाचरेत् || १०-६६ || शेषांस्तु देशिकायैव दातव्यं भोजनं हितम् | आचमनं हृदादत्वा चण्डेशाय निवेदयेत् || १०-६७ || तांबूलं दापयेत् पश्चात् पत्रस्यैकफलं तथा | फलाच्चतुर्गुणं प्रत्रं तैलमिश्रं सचूर्णकम् || १०-६८ || तत्वान्यान्युपचाराणि हृदयेन तु दापयेत् | सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् || १०-६९ || पशूनाञ्च गजादीनां वा जले वाथ निक्षिपेत् | अथवा वह्निनादाह्य भूमौ वा खनयेत् बुधः || १०-७० || सकलानान्तु नैवेद्यं परिचारकभोजनम् | तदप्यं यजनैश्चैव भोजने त्वथदोषकृत् || १०-७१ || हविष्यलक्षणं प्रोक्तमग्निकार्य विधिं शृणु | इति हविष्यविधि पटलोदशमः || १० || अथ अग्निकार्यविधि पटलः अथातः संप्रवक्ष्यामि अग्निकार्यविधिक्रमम् | नित्यन्नैमित्तिकञ्चैव प्रतिष्ठा या मथोत्सवे || ११-१ || ग्रहणे विषुसंक्रान्त्यां शत्रूणाञ्च प्रदर्शने | शान्तिके पौष्टिके चैव दीक्षायान्तु पवित्रके || ११-२ || गर्भाधानादिशैवानां तेषान्तु दहनादिषु | प्रायश्चित्तादिकालेषु वह्निकर्मसमाचरेत् || ११-३ || कुण्डे वा स्थण्डिले वापि द्विविधे होमकर्मणि | वर्तनाविधिनावत्स कुण्डञ्चेद्वर्तयेत् बुधः || ११-४ || प्. ५४) वालुकै स्थण्डिलञ्चेत् तु प्रत्यग्रे हस्तविस्तृते | शोधनं क्षालनञ्चैव शोषणं पाचनं तथा || ११-५ || रेखात्रयं तु पूर्वाग्रं रेखैकाचोत्तरामुखा | उल्लेखनन्तु चास्त्रेण अभ्युक्ष्यकवचेन तु || ११-६ || पूर्वामुखास्त्रयोरेखा ब्रह्माविष्णुश्च रुद्रकः | उत्तराभिमुखारेखा शिवा सा तु न संशयः || ११-७ || पुष्पाक्षतैः समभ्यर्च्य शिवाग्निं तत्र साधयेत् | सूर्यकान्तोद्भवं श्रेष्ठमरण्युत्भवमेव वा || ११-८ || क्षेत्रे वा श्रोत्रियागारे जातवेदसमानयेत् | ताम्रपात्रे शरावे वा सौवर्णेराजतेऽपि वा || ११-९ || नवमृण्मयपात्रे वा तद लाभे विशेषतः | अग्निं तत्रैव निक्षिप्य आग्नेये तन्त्रवित्तमः || ११-१० || शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयेत् | बीजमुख्येनमन्त्रेण अमृतीकृत्यभावयेत् || ११-११ || क्षुरिकामर्चयेन्मंत्री गन्धपुष्पादिभिः क्रमात् | कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् || ११-१२ || तन्मध्ये तु सुसंस्थाप्य वागीश्वरीं विशेषतः | ऋतुस्नाता स कृच्चस्ताद्ध्याययेत् तु विचक्षणः || ११-१३ || त्रिभिर्भज्याग्नि नाकुण्डं योगमार्गेण निक्षिपेत् | बीजमन्त्रेण संस्थाप्य शौचमाचमनं ददेत् || ११-१४ || सद्यमन्त्रेण संस्नाप्य प्रशान्तेति त्रिधास्मरन् | गर्भाधानं कृतं ह्येवं गर्भपुंसवनन्ततः || ११-१५ || वामदेवेन मन्त्रेण रुद्राण्यभ्यर्चयेत् ततः | प्रोक्तं पुंसवनं ह्येवं सीमन्तञ्च ततः शृणु || ११-१६ || शिरसा बहुरूपेण गन्धपुष्पादिभिर्युतम् | वक्त्रेण चास्त्रमन्त्रेण जातकर्मसमाचरेत् || ११-१७ || हृदयेनद्विवक्त्रन्तु द्विनासी च षडक्षिकम् | त्रिमेखलं त्रिपादञ्च चतुश्रङ्गं द्वयं शिरः || ११-१८ || प्. ५५) सोपवीतं जटामौलिमुक्षारूढं सिताननम् | सप्तहस्तं सुदीप्ताङ्गं सप्तजिह्वासमावृतम् || ११-१९ || हिरण्याकनकारक्ता कृष्णा च सुप्रभा तथा | अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः || ११-२० || हिरण्यावारुणे जिह्वा कनकामध्ये व्यवस्थिताः | रक्ताचोत्तरजिह्वा स्यात् कृष्णायाम्यादिशि स्थिता || ११-२१ || सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नौ व्यवस्थिता | बहुरूपे शदिक्भागे जिह्वास्थानं प्रकीर्तिताः || ११-२२ || अग्निरूपमिदं गुह्यं सर्वशान्त्यर्थमुच्यते | एवं रूपं स्मरन्नित्यं जातकर्मसमाचरेत् || ११-२३ || पुरुष्टु तेन चैशेन गन्धाद्यैः सुप्रपूजयेत् | नामकर्मसमाख्यातं पञ्चसंस्कारकं स्मृतम् || ११-२४ || प्रागग्रैश्चोदगग्रैश्च कुशैः कुण्डे परिस्तरेत् | त्रयः परिधयः प्रोक्ताः पश्चिमेदक्षिणोत्तरे || ११-२५ || वह्नावीशे समिच्चेत् तु मेखलोपरिनिक्षिपेत् | दक्षिणे ब्रह्मणस्थानं पद्माकारं प्रकल्पयेत् || ११-२६ || प्रणीतामुत्तरे स्थाप्य विष्णुस्तस्याधि दैवतम् | बीजमुख्येन मन्त्रेण ब्रह्मविष्णू च पूजयेत् || ११-२७ || लोकपालास्तथा पूज्या मेखलोपरिदेशिकः | आज्यस्थालिं चरुस्थालीं प्रणीतां प्रोक्षणीं तथा || ११-२८ || होमद्रव्याणि पात्राणि वामपार्श्वे विचक्षणः | दर्भोपरि तथा द्वंद्वं दैवस्यपि तुरेकशः || ११-२९ || पात्राण्युद्वापयेद्विद्वान् सर्वद्रव्याणिशेषतः | इन्धनाज्यसमित् क्षीर दधीमधु चरूणि च || ११-३० || लाजसक्तूतिलं मुद्गमाढकीमाष एव च | सर्षपं धवनिवारौ फलापूपौ दशाष्टधा || ११-३१ || प्रोक्तान्येतानि सर्वाणि नित्यादौ होमयेत् क्रमात् | नित्येन्धनादयः सप्त ह्यथवा होमकर्मणि || ११-३२ || प्रणीतांभसि सौम्ये तु सर्वतीर्थानि कल्पयेत् | दक्षिणे होमद्रव्याणि प्रोक्षणीञ्च न्यसेत् क्रमात् || ११-३३ || प्. ५६) प्राङ्मुखोदङ्मुखोवापि होमं कुर्याद् विशेषतः | आज्यशुद्धिन्ततः कुर्यात् पर्यग्नि प्लवनं क्रमात् || ११-३४ || संप्लवनं कुशेनैव कुशाग्रौ तत्र निक्षिपेत् | अदिते न्वादिमन्त्रेण सर्वत्र परिषेचनः || ११-३५ || जलेन स्पर्शनं कृत्वा वह्नौ सन्तप्प्यतं स्रवम् | पञ्चविंशद्धुनेद्धिमानग्निबीजन्तु संस्मरन् || ११-३६ || अन्नप्राशनमेवं हि अन्यकर्मणिकारयेत् | हृदयेन तु मन्त्रेण सप्तसप्ताहुतिर्जपेत् || ११-३७ || वक्त्रक्रियादिकं सर्वं हृदयेन तु कारयेत् | शिवाग्निजनितौ ह्येवं पश्चात् संकल्प्य विष्टरम् || ११-३८ || अग्निमध्ये ततोमंत्री ह्यब्जं संकल्पयेत् प्रभोः | पूर्ववत् कल्पयित्वा तु तत आवाहयेच्छिवम् || ११-३९ || आवाहनादियत् कर्म पूर्वोक्तविधिना ततः | होमं कुर्याच्छिवे नांगैर्विद्यांगैर्ब्रह्मभिस्तथा || ११-४० || विद्येशान् लोकपालांश्च अस्त्रशक्तिसमायुतान् | गन्धपूष्पादिनाभ्यर्च्य होमयेत् तु विचक्षणः || ११-४१ || शिवे दशाहुतिं हुत्वा ह्यन्येष्वेकाहुतिर्भवेत् | सर्वद्रव्यसमायुक्तं शिववक्त्रे नियोजयेत् || ११-४२ || शिवब्रह्माङ्ग विद्याङ्ग घृतादीनिहुनेत् तथा | सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा || ११-४३ || शतमष्टोत्तरं वापि पञ्चविंशति षोडश | द्रव्यान्ते व्याहृतिं हुत्वा तदादौपरिषेचनम् || ११-४४ || एवं विधि क्रमेणैव होमयेत् साधकोत्तमः | वर्णं गन्धं ध्वनीधूमं शिखामग्नौ सुलक्षयेत् || ११- ४५ || वज्रकाञ्चनरौप्याभं सिन्दूरेन्दु समप्रभम् | आदित्योदयवर्णाभं हरितालसमप्रभम् || ११-४६ || वैडूर्यद्युति संकाशं पिङ्गलञ्च स्वभावतः | तप्तायससुवर्णाभा दशवर्णाः प्रकीर्तिताः || ११-४७ || चन्दनागरु कर्पूरकच्चोलजाति गन्धवत् | मल्लिका पाटलीगन्धमन्दारञ्च सुगन्धिकम् || ११-४८ || प्. ५७) उशीरनागपुन्नाग चंपकन्तु सुशोभनम् | शखभेर्यादिनिर्घोषं मेघदुन्दुभिनिस्वनम् || ११-४९ || सर्वसंपत्करं घोषं धूपञ्चैव ततः शृणु | कुन्दपुष्पसमाकारं श्यामलाक्षाकृतिं शुभम् || ११-५० || शुकपिञ्छनिभाकारं धूमञ्चाप्युत्तमं भवेत् | स्वस्त्या कृति समाकाराच्छत्राकारोर्ध्वगामिनी || ११-५१ || शिखाशिखी प्रतीकाशा कदंबमुकुला कृतिः | यस्य होमेशिखा ह्येषा तस्य सिद्धिर्न्न संशयः || ११-५२ || एवमादि शुभं ज्ञात्वा कारयेत् तन्त्र वित्तमः | पूर्णाहुतिं ततः कृत्वा शिवमन्त्रेण देशिकः || ११-५३ || शिवं पूर्वं विसृज्यात्र पच्छादग्निं विसर्जयेत् | अग्निकार्यस्य चान्ते तु प्राणाग्नि होममाचरेत् || ११-५४ || तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते | तत् स्थानं गोमयालिप्तं शुद्धिं कृत्वा विशेषतः || ११-५५ || पिष्टचूर्णैरलङ्कृत्य सवितानं सदीपकम् | तांम्रकांस्य कटल्यादि पात्रेष्वेक तमेशुभे || ११-५६ || पात्रशेषाणि संयोज्य आत्मस्थं शिवमर्चयेत् | आत्मा हि यजमानोसौबुद्धिस्तत्पत्निका स्मृता || ११-५७ || हृत् पुण्डरीकवेद्याञ्च अन्तस्थाग्नौ सुपूजयेत् | रोमदर्भान् परिस्तीर्य ह्योंकारं शिवसंयुतम् || ११-५८ || उच्चार्य परिषिच्याथ पादावभ्युक्ष्यमन्त्रवित् | अमृतोपेति मन्त्रेण जलं पीत्वा विशेषतः || ११-५९ || अनामिमध्यमाङ्गुष्ठ युक्ताभ्यन्नं शनिः शनैः | पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः || ११-६० || तत्पात्र स्पर्शनं कृत्वा पश्चात् भुञ्जीत बुद्धिमान् | आचम्य च विधानेन आदित्याभिमुखं स्थितः || ११-६१ || उदरं शिवमन्त्रेण दक्षिणाभिमृशेत् ततः | दक्षिणाङ्गुष्ठके नाथ पादाङ्गुष्ठे तु दक्षिणे || ११-६२ || प्. ५८) स्रवन्तोयं शिवं स्मृत्वा हृन्मन्त्रन्तु समुच्चरन् | चुलुकोदकमेवं स्यात् स्वात्मानं पादमूलतः || ११-६३ || प्राणाग्निहोत्रमित्येतं नित्यमेवमुदाहृतम् | आचार्यमूर्तिमास्थाय पाशौघान् कृन्ततीश्वरः || ११-६४ || पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविराहुतिम् | अग्निकार्यमिदं प्रोक्तं शृणुत्वंकुण्डलक्षणम् || ११-६५ || इति अग्निकार्यविधि पटल एकादशः || ११ || अथ कुण्डलक्षण पटलः अथातः संप्रवक्ष्यामि कुण्डलक्षणमुत्तमम् | प्रतिष्ठाद्युत्सवे काले मण्डपङ्कारयेत् बुधः || १२-१ || प्रासादपुरतोभागे प्रतिष्ठायां विशेषतः | ईशाने पार्श्वके चैन्द्रे कल्पयेत् तु विशेषतः || १२-२ || महानसेन्यधाग्नेययां नित्याग्न्यायतनं बुधः | अनुक्तेषु च येज्ञेषु उक्तदेशे विधीयते || १२-३ || उत्तमन्दशहस्तं स्यान्मध्यमं नवहस्तकम् | अधमं सप्तहस्तं स्यान्मण्डपं त्रिविधं मतम् || १२-४ || षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा | दिशश्च विदिशश्चैव नच्छिद्रं व्योमसंपदम् || १२-५ || चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् | स्थलन्तालसमुत्सेधमथवा च षडङ्गुलम् || १२-६ || दर्भमालाभिरावेष्ट्य पुष्पामालोपशोभितम् | वितानैरूर्ध्वमाच्छाद्यमुक्तादामैरलङ्कृतम् || १२-७ || तत् त्रिभागैक भागेन वेदिं मध्ये प्रकल्पयेत् | हस्तमात्रसमुत्सेधं दर्पणोदरसन्निभम् || १२-८ || तत् पूर्वे चतुरश्रं स्यादाग्नेययान्तु भगाकृतिः | अर्धचन्द्रस्तु याम्यायां नै-ऋत्यान्तु त्रिकोणकः || १२-९ || वारुण्यां वर्त्तुलं कुण्डं षट्कोणञ्चैव वायवे | उत्तरे पद्मकुण्डन्तु ऐशान्न्यामष्टकोणकम् || १२-१० || प्. ५९) ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डन्तु कारयेत् | नित्यहोमाग्नि कुण्डन्तु हस्तमात्रप्रमाणतः || १२-११ || शतार्धाहुति कुण्डस्यमुष्टिमात्रप्रमाणतः | रत्निः स्याच्छतसङ्ख्यायाः सहस्रे करसंहितम् || १२-१२ || द्विकरं दशसाहस्रे चतुर्हस्तन्तु लक्षके | षट्करं दशलक्षे तु कोट्याहुत्यष्टहस्तकम् || १२-१३ || कुण्डविस्तारमाख्यातं कुट्यूर्ध्वेऽष्टकरं मतम् | अनुक्तमानाहुतयश्चोक्त कुण्डेषु होमयेत् || १२-१४ || चतुरश्रस्यकुण्डस्य लक्षणं शृणु सांप्रतम् | प्राङ्मुखानि त्रिसूत्राणि उदङ्मुखानि तथैव च || १२-१५ || एवं विन्यस्यमानेस्याच्चतुरश्रञ्चतुष्पदम् | योन्यादि सर्वकुण्डानि चतुरश्रोद्भवानि हि || १२-१६ || कोणे ग्राह्या चतुर्थांशं तद्भागेन तु वर्तयेत् | क्षेत्रस्यार्धावधिर्यावत् तथान्यं भ्रमयेत् क्रमात् || १२-१७ || कर्णायामस्य सप्तांशं पूर्वायादिशिविन्यसेत् | तस्माच्च पादयेत् सूत्रौ भवेदश्वत्थ पत्रवत् || १२-१८ || दशभाग कृतं क्षेत्रं द्विभागन्तु व्यपोह्य च | मध्येऽष्टांशं परिग्राह्य भ्रामयेदर्धचन्द्रवत् || १२-१९ || पञ्चभाग कृतं क्षेत्रं द्विभागौ पार्श्वयोर्न्यसेत् | तेनमानेन सूत्रेण द्विसूत्रञ्चाग्रसंयुतम् || १२-२० || तत्र सूत्रत्रयं कृत्वा तत् त्रिकोणमिहोच्यते | अष्टादशकृतं क्षेत्रमेकभागं बहिर्न्यसेत् || १२-२१ || तस्मान्मध्यं गृहीत्वैव भ्राम्यतद्वर्तुलं स्मृतम् | तत् क्षेत्रमष्टधा कृत्वा भागैकं पार्श्वयोर्बहिः || १२-२२ || तयोर्मध्यं गृहीत्वार्धं सूत्रेणैव पुरा तथा | षट्सूत्रं परितः कृत्वा षट्कोणन्तद्भवेदिह || १२-२३ || वर्तुलं पूर्ववत् कृत्वा मध्यमेकर्न्निकान्न्यसेत् | षोडशंदलसंयुक्तं दलाग्रं दर्शयेद् बहिः || १२-२४ || पद्मकुण्डमिदं प्रोक्तं सर्वकामार्थसाधनम् | चतुर्विंशति भागैकं बाह्ये दिक्षु व्यवस्थितम् || १२-२५ || प्. ६०) मध्यात् कोणं गृहीत्वा तु अष्टसूत्रं समर्पयेत् | अष्टकोणमिदं प्रोक्तमितिशास्त्रस्य निश्चयः || १२-२६ || यावन्मात्रन्तु विस्तारन्तावद् घातप्रमाणकम् | कुण्डस्ययाद्रशं रूपन्तादृशि मेखला भवेत् || १२-२७ || त्रिमेखलन्तु कर्तव्यमेकमेखलमेव वा | चतुरङ्गुलमुत्सेधं विस्तारं तत् प्रमाणतः || १२-२८ || एकमेखलमेवं स्यात् त्रिमेखलमथ शृणु | चतुरङ्गुलं भवेदूर्ध्वं मध्यमन्त्र्यङ्गुलं भवेत् || १२- २९ || अधस्तात् द्व्यङ्गुलं प्रोक्तं विस्तारोत्सेधमेव हि | अश्वत्थ पत्रवद्योनि मेखलोपरिविन्न्यसेत् || १२-३० || एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् | सप्ताङ्गुलन्तु दैर्घ्यं स्यादेकाङ्गुलन्तु नालकम् || १२-३१ || कुण्डानां लक्षणं प्रोक्तं स्थण्डिलञ्चेत् तु पूर्ववत् | चतुरङ्गुलमुत्सेधं दर्पणोदरसन्निभम् || १२-३२ || एकाङ्गुलन्तदुत्सेधमष्टाङ्गुल सुविस्तृतम् | प्रणिता स्थानमेवं स्यात् ब्रह्मस्थानं तथा भवेत् || १२-३३ || चतुरश्रं प्रणिताया ब्रह्मणे पद्ममेव च | विना वा केवलं स्थाप्य स्थलमात्रे यजेदुभौ || १२-३४ || सिकतैस्थण्डिलञ्चेत् तु स्यात् कुर्याद् धस्तमात्रकम् | हस्तमात्रस्य कुण्डस्य लक्षणं कीर्तितं क्रमात् || १२-३५ || द्विहस्तादीनिकुण्डानि कृत्वैवं मेखलादिकान् | अङ्गुलाङ्गुलवृद्ध्या तु विस्तारोत्सेधतः समान् || १२-३६ || समन्तात् सुसमान् कृत्वा ह्योष्ठ कुण्डस्य चापरि | एकाङ्गुलेन हस्तस्यान्मेखलायाः सुमध्यमे || १२-३७ || अङ्गुलाङ्गुल वृध्यातु मानाधिक्येषु कारयेत् | अथवाङ्गुलिभिः षट्भिश्चतुर्भिश्चाष्ट हस्तके || १२-३८ || कुण्डानां लक्षणं प्रोक्तं नित्योत्सवमथ शृणु | इति कुण्डलक्षण पटलोद्वादशः || १२ || प्. ६१) अथ नित्योत्सवविधि पटलः अथातः संप्रवक्ष्यामि नित्योत्सव विधिक्रमम् | त्रिकालमर्चनान्ते तु क्रतोर्बलिरुदाहृतम् || १३-१ || सर्वेषाञ्च बलिं कुर्यात् ततो बलिरिति स्मृतम् | यक्षराक्षस पैशाच भूतनागास्तथैव च || १३-२ || श्रुत्वैव तद्बलेःशब्दं सद्योगच्छन्ति बाह्यतः | तस्मात् सर्वप्रयत्नेन कुर्यान्नित्योत्सवं बुधः || १३-३ || मण्डपाद्दक्षिणे भागे मण्डलञ्चतुश्रकम् | सौवर्णं राजतन्ताम्रं कांस्यं वा पात्रमुच्यते || १३-४ || चतुस्त्रिद्वियवं पात्रघनंस्यादुत्तमादिके | विस्तारं हस्तमानं स्यादोष्ठन्नवमथाङ्गुलम् || १३-५ || घनं नवचतुष्कं स्यात् पात्रमेध्येऽब्जमुच्यते | त्रिभागैकन्तु विस्तारं पात्रं काम्स्ये न कारयेत् || १३-६ || तस्याब्जस्योच्चंद्व्यङ्गुल्यमेकाङ्गुलमथापि वा | कर्तव्यं कर्णिका बाह्ये दलाष्टकमथार्धतः || १३-७ || उत्सेधार्द्धं तदर्द्धं स्याद्दलाग्रन्तु नवोन्नतम् | पात्रं वृत्तं प्रकर्तव्यं मध्यमे विंशदङ्गुलम् || १३-८ || अधमे षोडशाङ्गुल्यं पात्र विस्तारमुच्यते | एवं कृत्वा बलेः पात्रं मण्डले विन्यसेत् सुधीः || १३-९ || तत स्त्रिकालमन्नेन बलिर्लिङ्गस्यचोत्तमम् | प्रातर्मध्याह्नमन्नेन मध्यन्तु विदुर्बुधाः || १३-१० || मध्याह्ने चान्नलिङ्गन्तु अधमन्तत् गजानन | पूर्वाह्णे पुष्पलिङ्गन्तु सा ये तण्डुलमेव च || १३-११ || उत्तमस्याढकञ्च स्यान्मध्यमस्य तदर्धकम् | अधमं पञ्चपादन्तु तण्डुलं पाचयेत् क्रमात् || १३-१२ || अपक्वमति पक्वञ्च अत्युष्णमतिशीतलम् | बलेस्तुरसलवणं वर्जयेद् देशिकोत्तमः || १३-१३ || प्. ६२) दधिसर्पिफलैर्मिश्रं मर्दितं सुदृधं यथा | षोडशाङ्गुलमुत्सेधं (-थं) मूलन्तद्विगुणं भवेत् || १३- १४ || ऊर्ध्वं त्रयङ्गुलन्नाहमानुपूर्वात् क्षयं भवेत् | मध्यमं द्वादशाङ्गुल्यमूर्ध्वं कुर्यात् द्वयाङ्गुलम् || १३-१५ || अष्टाङ्गुलाधमं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् | अस्त्रं पाशुपतन्न्यस्त्वा रूपन्तत्र विचिन्तयेत् || १३-१६ || त्रिणेत्रं चतुर्भुजं रौद्रं शिखाकोटिसमुज्वलम् | वरदाभयदं हस्तं वामं सव्याक्षशूलधृत् || १३-१७ || एवं पाशुपतं ध्यात्वा बलिलिंगेसु पूजयेत् | दर्शयेदस्त्रमुद्रान्तु शास्त्रमुद्रान्तु देशिकः || १३-१८ || नमस्काराब्जमुद्रे च दर्शयेत् तु विशेषतः | गन्धपुष्पादिनाभ्यर्च्य तद्रूपं प्रतिमां बुधः || १३-१९ || पुरस्तात् प्रतिमाङ्गच्छेदन्नादिकमनु व्रजेत् | दशायुधानि परितः सर्वालंकारसंयुतम् || १३-२० || विधिस्नानं पुराकृत्वा पुर्यष्टिपरिचारकाः | शुक्लोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः || १३-२१ || पवित्रपाणिर्मौनी च हस्तमात्रेण दण्डधृत् | सर्वाभरणसंयुक्तः सर्वावयवसुन्दरः || १३-२२ || शिरसाधारयेल्लिङ्गं प्रदक्षिण विशेषतः | पूर्वाह्णे ब्रह्मणः प्रीतिर्भवेत् बलिविधानतः || १३-२३ || रक्तोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः | मध्याह्ने धारयेन्नित्यं मम प्रीतिकरं भवेत् || १३-२४ || पीतोष्णी षोत्तरीयश्च विष्णु प्रीतिस्तु सायके | दक्षिणाभिमुखः शिष्यं संप्रोक्ष्य हृदयेन तु || १३-२५ || गन्धं पुष्पन्तथा दत्वा पात्रं शिरसिविन्यसेत् | रंगेवाशिबिकायां वा गजारूढमथापि वा || १३-२६ || अथवा पादगमनं प्रदक्षिणमथाचरेत् | पटहैर्मद्दलैश्चैव झल्लरी जयघण्टकैः || १३-२७ || प्. ६३) काहलैस्तालकैः शंखैर्वीणावेणुरवैः सह | छत्रध्वजसमायुक्त पिञ्छचामरसंयुतम् || १३-२८ || धूपदीपसमायुक्तं वितानोपरिशोभितम् | नृत्तगीतसमोपेतं गणिकाभिरलंकृतम् || १३-२९ || अन्यैर्भक्तजनैः सार्धं स्तोत्रध्वनिसमन्वितम् | पूर्वे तु समहस्तं स्यात् भृंगिणी पततं परम् || १३-३० || तृतीयं कद्रुवाद्यञ्च चतुर्थन्तु च ढक्ककम् | पञ्चमं कयटञ्चैव कुञ्चितालञ्च षष्ठकम् || १३-३१ || सप्तमन्तु प्रहारं स्याद्विषमच्छिन्नचाष्टमम् | बाह्य पीठैकमावृत्य प्रासादाग्रप्रदक्षिणम् || १३-३२ || इन्द्रस्य शुभ्रतालन्तु अग्नेर्बाद्धावणं भवेत् | यमस्यद्व्यगुणीतालं नि-ऋतौमल्लतालकम् || १३-३३ || वारण्यान्नवतालन्तु वायोर्वैनागतालकम् | सोमस्य कोल्लिका प्रोक्ता ईशानस्य तु ढक्करी || १३-३४ || इत्येतैः कल्पितास्तालैः प्रासादं त्रिःप्रदक्षिणम् | कृत्वा पादौ सुसंक्षाल्यपादुकार्चनमारभेत् || १३-३५ || पाद्यैराचमनैरर्घ्यैर्गन्धैः पुष्पैः सुधूपकैः | बलिञ्च प्रथमञ्चैव पूजयेत् तु विशेषतः || १३-३६ || विदोलयं ततः पश्चाद्विन्यस्य पूर्वमण्डले | गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रवित् || १३-३७ || प्रागुक्तेनास्तमन्त्रेण शिव संयोजयेत् सुधीः | संपूज्य देवदेवेशं नमस्काराख्यमुद्रया || १३-३८ || सव्यापसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् | दण्डवत् प्रणमेद्वाथ दण्डाख्यमिति च स्मृतम् || १३-३९ || दण्डाख्यः श्रूयते पश्चादष्टाङ्गं सन्नियोजयेत् | शिरोजानू च कर्णौ च चिबुकं बाहुकद्वयम् || १३-४० || अष्टांगेन नमस्कुर्यात् पञ्चाङ्गोप्यत्र तं शृणु | शिरोहस्तौ द्विजानू च कृत्वा पञ्चभुवि स्थितम् || १३-४१ || प्. ६४) इदं पञ्चाङ्गमेवन्तु नमस्कारत्रयं स्मृतम् | अधमं ह्येतदाख्यातं यथा शक्त्येनकारयेत् || १३-४२ || ततोपहारपुष्पाणि चण्डेशायनि वेदयेत् | अन्नलिङ्गञ्जले वापि बाह्यपीठे विनिक्षिपेत् || १३-४३ || तदन्ते कारयेन्नृन्तं तदुक्तविधिनासह | तदुपाङ्गमिति प्रोक्तमर्चनान्ते तु नित्यशः || १३-४४ || चित्रालङ्कारसंयुक्ते मण्डपे समलंकृते | भेर्यादींस्तु तथा यान्ती * * *शिवसंस्थितान् || १३-४५ || नर्त्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितौ | गायकोवंशकश्चैव उत्तरे विनिवेशितम् || १३-४६ || आचार्यौ दक्षिणे देशे सौम्ये तस्याधिप स्मृतम् | सुस्नात्वा सम्यगाचम्य गन्धद्रव्यादिपूर्वकम् || १३-४७ || शुक्लवस्त्रपरिधानाः शुक्लमाल्योपशोभिता | सर्वाभरणसंपूर्णा नृत्तगेयसुपेशला || १३-४८ || पूर्वासन्ध्यास्तु गान्धारं षाडपञ्च ततः परम् | मध्याह्ने नट्टरागं स्यात् कौशिकञ्च ततः परम् || १३-४९ || साये तु चेदकं प्रोक्तमर्धरात्रे तु पञ्चमम् | भरतोक्तं यथा नृत्तं सन्धिं प्रतिसुकारयेत् || १३-५० || एवं नृत्तं कृतं यत्र सुभिक्षं लोकशान्तिकम् | दुर्निमित्तानि नश्यन्ति क्षेत्रमारोधकं नृणाम् || १३-५१ || ककाराधि पतिश्चापि भोगमोक्षप्रादायकम् | कवाटबन्धनं कृत्वा स्वगृहं सन्निवेशयेत् || १३-५२ || एवं नित्योत्सवं प्रोक्तमुत्सवञ्च ततः शृणु | इति नित्योत्सवविधि पटलस्त्रयोदशः || १३ || प्. ६५) अथ शिवोत्सवविधि पटलः अथातः संप्रवक्ष्यामि शिवोत्सवविधिं शृणु | नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं स्मृतम् || १४-१ || पञ्चाहमधमं प्रोक्तमुत्सवं त्रिविधं स्मृतम् | अलाभे तु प्रकर्तव्यौ त्रयहैकाहकौ तथा || १४-२ || आद्येषु च त्रितीयेषु ध्वजारोहणमारभेत् | न ध्वजारोहणं प्रोक्तं द्वितये तु तथोत्सवे || १४-३ || तद्दिनं त्रिगुणि कृत्य तदादौध्वजमुद्धरेत् | द्विगुणे तद्दिनादौ वा ध्वजमारोप्य बुद्धिमान् || १४-४ || ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् | त्रिगुणे द्विगुणे काले कारयेद् देशिकोत्तमः || १४-५ || अङ्कुरार्पण पूर्वे तु आदिरात्र्यङ्कुरार्पणम् | कृत्वा भेरीन्तु सन्ताड्य ध्वजमारोपयेत् ततः || १४-६ || उत्सवे च प्रतिष्ठायं सायादिदिनमुत्तमम् | प्रातः काले ह्यवभृथं सायङ्काले समारभेत् || १४-७ || रात्रिः सायाह्नि वा प्रातरितिशास्त्रस्य निश्चयः | नवाहेऽष्टादशबलिं सप्ताहे तु चतुर्दश || १४-८ || पञ्चत्रयैक ऋक्षषु दशषट्द्वितयं बलिम् | एवं कृते तु मतिमान् लोकशान्तिकरं भवेत् || १४-९ || कृत्तिकादिषु मासेषु कार्तिके कृत्तिकान्तकम् | मार्गशीर्षकमासेषु आर्द्रान्तन्तु शिवोत्सवम् || १४-१० || पुष्यान्तं पौष्यमासे तु मघान्तं माघमासके | फाल्गुने चोत्तरान्तं स्यात् चित्रान्तञ्चैत्रमासके || १४-११ || विशाखान्तं हि वैशाखे ज्येष्ठे मूलान्तकं भवेत् | उत्तराषाढमाषाढे श्रावणे श्रवणान्तकम् || १४-१२ || पूर्वाभाद्रे तथा मासे पूर्वाभाद्रान्तमुच्यते | आश्वन्तमश्वयुङ्मासे उत्सवं कारयेत् बुधः || १४-१३ || आर्द्रान्तं सर्वमासेषु कर्तव्यन्तु शिवोत्सवम् | षष्ठ्यष्टमीह्यमावास्यान्ते वान्यत् पुण्य ऋक्षके || १४-१४ || प्. ६६) राज्ञन्मन्य विलये युद्धारंभे समारभेत् | विस्तारेणसमं पुच्छं त्रिपुच्छं वा द्विपूच्छकम् || १४-१५ || मध्ये वृषभमालिख्य स्थितं वा शयनन्तु वा | दर्भमालासमायुक्तं किंकिणिवरकान्वितम् || १४-१६ || ग्रामप्रदक्षिणं कृत्वा चालयं वा प्रदक्षिणम् | वेणुं वा क्रमुकं वापि चन्दनञ्जातिबिल्वकम् || १४-१७ || सालस्तं भञ्चखदिरञ्चंपंकं देवदारुकम् | नालिकेरतरुं वापि निर्णितं सुदृढध्वजम् || १४-१८ || प्रासाद त्रिगुणं दैर्घ्यं द्विगुणं वा ततः समम् | शिखरग्रीवसीमान्तं वृषभस्थलसंमतम् || १४-१९ || तथा द्वित्रितलान्तं वा गोपुरान्तमथापि वा | षट्त्रिंशदंगुलन्नाहं ध्वजदण्डं विधीयते || १४-२० || त्रिंशदंगुलके नाथ चतुर्विंशन्तु वाङ्गुलम् | उत्तमादधमन्नाहं ग्राह्यमेवं सुदण्डके || १४-२१ || घटिकात्रयसंयुक्तं विस्तारेऽष्टाङ्गुलेन तु | तत् घनञ्चतुरङ्गुल्यं त्रिभिरङ्गुलिभिस्तु वा || १४-२२ || दैर्घ्यन्तु द्वादशाङ्गुल्यं षोडशाङ्गुल्यकन्तु वा | दण्डे तु सुषिरं कृत्वा सुस्निग्धन्तु यथा तथा || १४-२३ || घटिकात्रयकं न्यस्य तेष्वन्तस्थं सवैणवम् | दण्डाग्रेण समं कुर्यादग्रं वेणवकस्य तु || १४-२४ || दण्डञ्चाप्यथवा कुर्यात् घट्यन्तस्थं सुनिश्चलम् | वैणवस्य तु दैर्घ्यन्तु द्वादशन्तालमुच्यते || १४-२५ || अथवा षोडशन्तालं चतुर्दशन्तालमेव वा | दशतालन्तु वा ग्राह्यं द्वादशाङ्गुल नाहकम् || १४-२६ || तस्यार्धार्धश्च मात्रे तु वलयन्त्वायसेन तु | यन्त्रार्थं बन्धयेद्धीमानलाभे दारुणा भवेत् || १४-२७ || तदन्ते रज्जुसंवेश्य द्विगुणं मूलमाश्रितम् | मध्यमाङ्गुलिनाहन्तु तन्तुना सुदृढं कृतम् || १४-२८ || पीठगोपुरयोर्मध्ये वृषभस्याग्रतोऽपि वा | कलयेन्मध्यहारायां मध्यादेर्मध्यमेपि वा || १४-२९ || प्. ६७) भूमिं खात्वोरुमात्रन्तु हैमन्तत्रैव निक्षिपेत् | दण्डं संस्थाप्य पूर्वन्तु दर्भमालासमावृतम् || १४-३० || चतुस्तालन्तु विस्तारादुत्सेधं द्वितलान्तकम् | दर्पणोदर संकाशं ध्वजपीठं विधीयते || १४-३१ || पञ्चतालन्तु विस्तारमुत्सेधन्तु त्रितालकम् | उत्तमोत्तमपीठस्य मध्यमस्योर्ध्वमुलतः || १४-३२ || तयोर्मध्येऽष्टधाभज्यध्वजपीठानव स्मृताः | ध्वजमारोपयेत् तत्र रज्जुयन्त्रेण बुद्धिमान् || १४-३३ || प्रासादाभिमुखं स्थित्वाप्य घोरास्त्रेणमन्त्रतः | ध्वजदण्डेन संबध्वा रोपयेद्विधिपूर्वकम् || १४-३४ || प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् | स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा || १४-३५ || सर्वदेवमयं शूलं स्थण्डिलोपरिविन्यसेत् | मध्यपत्रे भवेद् रुद्रो ब्रह्मादक्षिण पत्रके || १४-३६ || वामपत्रे ततो विष्णु स्त्रिपत्रस्याधिदैवतम् | वामे ज्येष्ठान्तु रौद्रीन्तु शूलमूले प्रकल्पयेत् || १४-३७ || फलकास्कन्ददैवत्या कुंभन्तत्रैव वारुणम् | स्थली चैवाग्निदैवत्यं दण्डस्य तु सरस्वती || १४-३८ || पीठस्य पार्वती प्रोक्ता भूमिभागे वसुन्धरा | गन्धादिभिः समभ्यर्च्य तदग्रे कलशान्न्यसेत् || १४-३९ || विद्येश्वरसमायुक्तां मध्ये वृषभदैवतम् | सकूर्चान् सा पिधानांश्च सहास्त्रान् स हिरण्यकान् || १४-४० || गन्धादिनार्चयित्वा तु स्वैस्वैर्नामभिरेव तु | तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रेण वेष्टिताम् || १४-४१ || पटहं विष्णुदैवत्यं सुषिरं वायुदैवतम् | शब्दन्तत् ब्रह्मरूपं स्याद् रूपाभावस्तथैश्वरम् || १४-४२ || वासुकी चर्मसूत्रन्तु वलयौरविचन्द्रकौ | मातरः सप्तकीलास्तु प्रहारास्कन्ददैवतम् || १४-४३ || प्. ६८) अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणम् | आचार्यं पूजयेत् पूर्वं वादकं तदनन्तरम् || १४-४४ || आचार्यो वाममन्त्रेण सन्ताड्य स्त्रिप्रकारतः | वादकस्ताडयेत् पश्चात् बलितालं विशेषतः || १४-४५ || गेयनृत्तादिसंयुक्तं दिशितालन्तु वादयेत् | तीक्ष्ण शृङ्गायविद्महे वेदपादायधीमहि || १४-४६ || तन्नो वृषभः प्रचोदयात् * * * * * * * | इमं मन्त्रमनुस्मृत्य रवन्दत्वा विशेषतः || १४-४७ || तन्मूलेकलशैः स्नाप्यमुद्गान्नन्तु निवेदयेत् | पुण्याहन्तत्र कर्तव्यं भेर्यारवमथाचरेत् || १४-४८ || शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमाकुलम् | सर्वालङ्कारसंयुक्तं त्रिशूलेनसमन्वितम् || १४-४९ || ग्रामप्रदक्षिणे काले सन्धिदेवान् समर्चयेत् | आवाह्य लोकपालांश्च बलिन्दत्वा विशेषतः || १४-५० || श्रावयेत् तीर्थदिवसानाचर्य प्रीतमानसः | त्रिशूलञ्च ध्वजन्नित्यं संपूज्य हविषान्वितम् || १४-५१ || उत्सवारंभ पूर्वे तु रथादीन् कारयेत् क्रमात् | यन्त्र डोलांदृढाञ्चित्र यन्त्र रंगांस्तथैव च || १४-५२ || यन्त्र देवालयांश्चैव मन्त्रमण्डपिकां तथा | भ्रमत् गजांश्चयन्त्रांश्च सिंहयन्त्रान्तथैव च || १४-५३ || वृषभं यंत्रिकांश्चैव कारयेत् सुविशेषतः | नानापिच्छान्विताञ्छत्रां नानाव्यजनमेव च || १४-५४ || नानाच्छत्रध्वजांश्चैव चामराण्यपि कारयेत् | देवालयमलङ्कृत्य बाह्यमभ्यन्तरं ततः || १४-५५ || द्वारतोरणविन्यासं कदली क्रमुकान्वितम् | देवालयस्य पुरतः प्रपाङ्कृत्वाति सुन्दराम् || १४-५६ || वितानो परिसञ्छन्नां मुक्तादामैरलङ्कृताम् | पुष्पमालासमायुक्तामलङ्कृत्य प्रपां क्रमात् || १४-५७ || स्तंभानावेष्ट्य वस्त्रैश्च फलपुष्प ध्वजान्वितान् | यागशालां ततः कुर्यात् पूर्वोत्खातस्य पार्श्वयोः || १४-५८ || प्. ६९) उत्तरे वाथ कर्तव्यमैशान्न्यां पावके तथा | मण्डपे वा दृढं कार्यं षोडशस्तंभसंयुतम् || १४-५९ || नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् | हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् || १४-६० || कुण्डानिपरितः कुर्यादेककुण्डमथापि वा | गोमयेनोपलिप्यात्र नानापुष्पैः प्रकीर्य च || १४-६१ || सूक्ष्मैस्तण्डुल चूर्णैस्तु नानावर्णसुचूर्णकैः | वज्राङ्कुशं त्रिशूलञ्च चक्रं तत्र तथैव च || १४-६२ || पद्मञ्चैवोत्पलाङ्कञ्च नन्द्यावर्तकमेव च | कुम्भाभं मध्यचन्द्राभं वृक्षाकारांश्च लाञ्छयेत् || १४-६३ || वामां वा नगरादीं वा ह्यलङ्कृत्य विशेषतः | वीधयश्चोपवीध्यश्च निम्नोन्नतविवर्जिताः || १४-६४ || शोधयित्वा समांभूमिञ्जलसेकोपलेपनैः | पताकाभिर्ध्वजैश्चापि तथा काशद्ध्वजैरपि || १४-६५ || कदलीभिर्धूपदीपैर्द्वारकुंभैरथान्यकैः | साङ्कुरैच्छिद्र कुम्भैश्च पालिकाभिः समन्ततः || १४-६६ || वस्त्रैश्च गन्धमाल्यैश्च भवनं प्रतिभूषयेत् | ततोङ्कुरार्पणङ्कुर्यादुत्सवस्य दिनादितः || १४-६७ || यथाङ्कुरार्पणे प्रोक्ता तथा कुर्याद् विशेषतः | वेदिमध्ये ततः कृत्वा स्थण्डिलं शालिकामयम् || १४-६८ || षट्द्रोणैः पञ्चद्रोणैर्वा चतुद्रोणैस्तु वा पुनः | तण्डुलैः समलंकृत्य तिलैर्दर्भैस्ततोपरि || १४-६९ || ससूत्रं कुर्चवस्त्राढ्यं पञ्चरत्नसमन्वितम् | शिवकुम्भं न्यसेन्मध्ये वर्धनं तस्य वामतः || १४-७० || वस्त्रकूर्च्च समायुक्तं हेमयुक्तं प्रकल्पयेत् | ध्यात्वा सदाशिवं देवं शिवकुम्भे निवेशयेत् || १४-७१ || मनोन्मनींस्तु सञ्चिन्त्य वर्धन्यां विन्यसेत् सुधीः | परितोऽष्टौ घटां न्यस्य विद्येश्वरसमन्वितान् || १४-७२ || प्. ७०) सकूर्चान्वस्त्रसंयुक्तान् सहेमान्वारिपूरितान् | कलशाधिपतींस्तत्र स्वैस्वैर्मन्त्रैः सुपूजयेत् || १४-७३ || लोहादिदारुवर्णहनि आयुधानिदशक्रमात् | वक्ष्यमाणोक्तविधिना कारयेत् प्रतिमाकृति || १४-७४ || वेदिकायास्तु परितस्त्वायुधानि प्रपूजयेत् | वज्रादीन् स्थापयेद् विद्वान् पूर्वादिषु प्रदक्षिणम् || १४-७५ || वामे संस्थाप्य चक्रन्तु दक्षिणे पद्ममेव च | अष्टमङ्गलरूपाणि वेदिबाह्ये प्रपूजयेत् || १४-७६ || शूलास्त्रं विन्यसेत् तत्र उत्सवे योगधामनि | अग्निकार्यन्ततः कृत्वा नवपञ्चैक वा पुनः || १४-७७ || एकाग्नेर्वेदिका पूर्वे ह्युत्तरे पश्चिमेऽथवा | वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् || १४-७८ || पर्यग्निकरणं कृत्वा यागशालां विशेषतः | यवं हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः || १४-७९ || तिलमीशानमन्त्रेण हुत्वामुद्गन्तु नेत्रतः | द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः || १४-८० || पूजावसाने विद्वान्वै वह्निकार्योक्तमाचरेत् | अर्चनं विधिनावत्स सायं प्रातर्दिने दिने || १४-८१ || होमान्ते तु बलिं दद्यात् बल्यन्ते चोत्सवं बुधः | प्रथमं विश्वरात्रन्तु द्वितीयं भूतरात्रकम् || १४-८२ || तृतीयमृषिरात्रं स्याच्चतुर्थञ्चेन्द्ररात्रकम् | पञ्चमं ब्रह्मरात्रन्तु षष्ठं वै विष्णुरात्रकम् || १४-८३ || सप्तमं रुद्ररात्रं स्यादष्टमञ्चैश्वरस्य तु | सदाशिवस्य नवमन्नवाहेष्वधि देवताः || १४-८४ || ऋषिरात्रं समारभ्य सदाशिवदिनान्तकम् | सप्ताहेतु प्रयोक्तव्यं ब्राह्म्यात् सदाशिवान्तकम् || १४-८५ || पञ्चाहेतु प्रयोक्तव्यं रुद्रात्सदाशिवान्तकम् | त्रयहेत्विति चैका हे सदाशिव पदान्तिकम् || १४-८६ || प्. ७१) त्रयहेत्वितिचैकाहे सदाशिवदिनं भवेत् | हविर्भिर्दीपकैश्चैव दिनेष्वेतेषु नित्यशः || १४-८७ || विशेषात् पूजनं कुर्यात् विभवस्यानुरूपतः | ग्रामाधिदैवतांश्चैव पूजयेत् तु विशेषतः || १४-८८ || शुद्धान्नन्दधिसंमिश्रं लड्डुकापूपसंयुतम् | फलञ्च गुलसम्मिश्रं गणेशस्य प्रियन्त्विदम् || १४-८९ || बलयोरजनी पूर्णं घृतान्नन्दधिसक्तुकम् | भूत क्रूरबलिः प्रोक्तस्तेन भूतबलिं हरेत् || १४-९० || पञ्चमूलङ्कुशाग्रञ्च शाल्यनञ्चाज्यमिश्रकम् | कदलीफलसंयुक्त मृषीणां बलिरुच्यते || १४-९१ || इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृतसंयुतम् | चतुर्थे हनिदातव्यमिन्द्रस्य बलिरुत्तमम् || १४-९२ || पद्मपुष्पं स रजनी पायसंलाजसंयुतम् | पञ्चमे हनिदातव्यं ब्रह्मणोबलिरुच्यते || १४-९३ || गुलोदनं घृतोपेतं बृहतीफलसंयुतम् | षष्ठे हनि च दातव्यं विष्णु प्रीतिकरं परम् || १४-९४ || साज्यन्तु कृसरान्नं वै नालीकेरफलैर्युतम् | सप्तमे हनिदातव्यं रुद्रप्रीतिकरं भवेत् || १४-९५ || वेणुकन्दधिसंयुक्तं कदलीफलसंयुतम् | अष्टमे हनिदातव्यमीश्वरस्य बलिस्तथा || १४-९६ || शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम् | कदलीपनसोपेतं गुलखण्डसमिश्रितम् || १४-९७ || नवमे हनिदातव्यं सादाख्यस्य शिवस्य तु | सर्वेषामपि शुद्धान्नमाज्ययुक्तं दधिप्लुतम् || १४-९८ || दापयेद् वा विशेषेण तत्तन्मन्त्रेण देशिकः | द्रोणं वापि तदर्धं वा तदर्धं वापि पाचयेत् || १४-९९ || कपित्थफलमात्रेण बलिं दत्वा पृथक् पृथक् | उत्सवस्य पुरस्तात्तु दद्यात् ग्रामबलिं तथा || १४-१०० || प्. ७२) वाद्यध्वनिसमायुक्तं धूपदीपसमायुतम् | ध्वजैः पिञ्छैः समायुक्तं स्तोत्रमङ्गलवाचकैः || १४-१०१ || यज्ञपिठोपरिस्थाप्य त्रिशूलञ्चान्नलिङ्गकम् | दशायुधानि परितः स्थापयेद् देशिकोत्तमः || १४-१०२ || यज्ञाभावे तु तत् सर्वं व्रजेयुः शिरसाधृताः | आचार्यः शिष्य संयुक्तः सर्वाभरणभूषितः || १४-१०३ || सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः | आदिशैवः प्रसन्नात्मा श्रद्धाभक्तिसमन्वितः || १४-१०४ || ब्रह्मादीशानपर्यन्तमिंद्रादीशान्तमेव वा | बलिं दत्वा तु तत् ग्रामे देवैश्चैवं विशेषतः || १४-१०५ || सायं प्रातर्बलिं दद्यात् होमान्ते तु विशेषतः | उत्सवं प्रारभेदन्ते सर्वालङ्कारसंयुतम् || १४-१०६ || नानाप्रहरणोपेताः सगजाश्चाग्रतस्ततः | तदन्ते तुरगारूढास्तदन्ते गजवाहनाः || १४-१०७ || यन्त्ररङ्गास्तदन्ते तु दिव्यस्त्री परिभूषिताः | तदन्ते शाश्चयन्त्राश्च डोलायन्त्राश्च मण्डपाः || १४-१०८ || यन्त्र देवालयं पश्चान्नृत्तगेयसमन्विताः | आद्यं सुखासनं प्रोक्तं द्वितीयमुमयासह || १४-१०९ || वृषारूढं त्रितीयन्तु त्रिपुरघ्नञ्चतुर्थकम् | नृत्ताख्यं पञ्चमं प्रोक्तं षष्ठ वै चन्द्रशेखरम् || १४- ११० || सप्तमं त्वर्धनारीशं हरिरर्धन्तु चाष्टमम् | भिक्षाटनं च नवमं दशमङ्कालनाशनम् || १४-१११ || दशैकं कामदहनं ततो लिङ्गं पुराणकम् | द्वादश प्रतिमास्त्वेते सर्वालङ्कारसंयुताः || १४-११२ || रङ्गे वा शिबिकायां वा रथेवारोप्य भक्तितः | आदिशैवानुशैवाश्च देवानामनुगा स्मृताः || १४-११३ || पशुपतास्तदन्ते तु महावृतधरास्त्वनु | कालामुखास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् || १४-११४ || तदग्रे रुद्र गणिकाः सर्वालङ्कारसंयुताः | तदन्ते गायकाः प्रोक्तास्तदन्ते नर्तका व्रजेत् || १४-११५ || प्. ७३) ईश्वरः शक्तिसहितस्ततो गच्छेश्चनैः क्रमात् | योषिद्भिः सत्रिशूलादि यन्त्रदीपैर्विशेषतः || १४-११६ || अस्त्रदीपैर्यष्टिदीपैः सर्वत्र परिशोभितः | वितानैच्छिद्र दीपैश्च पताकाभिश्च शोभितः || १४-११७ || सर्वेषां पृष्ठतो गच्छेच्चण्डेशः समलङ्कृतः | तदग्रे घोषयेत् सम्यक् सर्वातोद्यान् क्रमेण तु || १४-११८ || पटहैर्मद्दलैस्तालैर्भेरीपणवडुण्डुभैः | जर्झरी झल्लरी मोन्तैर्वीणावेणुरवैस्तथा || १४-११९ || अग्रतः पृठतश्चैव घोषयेत् सविशेषतः | तदन्ते वैश्य शूद्राद्यागच्छेयुर्भक्तिसंयुताः || १४-१२० || सर्वे वर्णास्तदन्ते तु व्रजेयुः क्रमशस्ततः | ये देवमनुगच्छन्ति तत्गतेनान्तरात्मना || १४-१२१ || पदे पदेश्वमेथस्य प्राप्नुवन्ति फलं नराः | वृद्धबालयुवानश्च स्त्रियश्च पुरुषास्तथा || १४-१२२ || सर्वपापाद्विमुच्यन्ते सर्वत्रैव समन्विताः | एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरन्तु वा || १४-१२३ || शनैर्देवालयङ्गच्छेत् बलिपीठे बलिं क्षिपेत् | पादप्रक्षालनङ्कृत्वा प्रविशेदालयं प्रति || १४-१२४ || प्रपाङ्कृत्वा स्थितं देवं सर्वदेवगणैः सह | मृदङ्गादिमहाशब्दं शिवस्य पुरतस्थितम् || १४-१२५ || नमकश्चमकश्चैव दक्षिणे तु व्यवस्थितौ | गान्धर्वकोवं शकश्च उत्तरे तु व्यवस्थितौ || १४-१२६ || आचार्यो दक्षिणेभागे नृपस्तस्यैव चोत्तरे | उभयोरपि पार्श्वाभ्यां देवस्य गणिका स्मृताः || १४-१२७ || देवस्याग्रे विशेषेण नृत्तं कुर्यात्सगेयकम् | नीराञ्जनं कर्तव्यं देवदेवस्य चोत्सवे || १४-१२८ || भस्मपुष्पञ्च दीपञ्च पात्रेषु च विनिक्षिपेत् | पुरादत्वा त्वाचमनं पुष्पं शिरसि विन्यसेत् || १४-१२९ || अच्युतं मूर्ध्नि विन्न्यस्य गन्धं दद्याद् विशेषतः | पुनराचमनं दद्याद् धूपदीपं प्रदापयेत् || १४-१३० || प्. ७४) पिष्टे विन्यस्त दीपेन भ्रामयेच्छिवमूर्धनि | तदन्ते दापयेत् भस्मदर्पणं दर्शयेत् पुनः || १४-१३१ || गणिकाभिर्वहित्वा तु वाद्यध्वनि समायुतम् | पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिः क्षिपेत् || १४-१३२ || कारयेत् साधकेन्द्रेण एतत् साये तु रक्षयेत् | वस्त्रादिनि प्रदातव्यं भक्तानाञ्च विशेषतः || १४-१३३ || परिवेष क्रमं ह्येवं दर्शनादघनाशनम् | यावद् देवोत्सवं कुर्यात् तावदेवदिने दिने || १४-१३४ || अनाद्यं सर्ववर्णानां दद्याद् देवस्य तुष्टये | तत स्त्रीर्थदिनात् पूर्वे मृगयात्रां समारभेत् || १४-१३५ || युद्धारंभ प्रभावेन ग्रामङ्गत्वा प्रदक्षिणम् | कौतुकं बन्धयेद् धीमान् तस्मिन्रात्रौ विशेषतः || १४-१३६ || सौवर्णं रजतं सूत्रं अथ कार्पासमेव वा | स्थण्डिलोपरिसंस्थाप्य त्रिशूलं स्थण्डिलोपरि || १४-१३७ || याग मण्डपमध्ये तु शूले कौतुकबन्धनम् | हृदये नैव कृत्वा तु पुण्याहन्तत्र कारयेत् || १४-१३८ || उत्सवप्रतिमां बध्वा कौतुकं हृदयेन तु | स्थण्डिलोपरिसंस्थाप्य कलशान्नवसङ्ख्यया || १४-१३९ || पिधानकूर्चवस्त्राढ्याञ्छिव विद्येश्वरान्वितान् | गन्धादिभिः समभ्यर्च्य शूलन्तैः स्नानमाचरेत् || १४-१४० || नद्यां वाप्यां तटाके वा हृदे स्नानं समाचरेत् | अथ नद्यादिषु स्नानं विना वा शेषमाचरेत् || १४-१४१ || होमबल्युत्सवान् प्रातः कृत्वा चूर्णोत्सवन्ततः | प्रासादस्याग्रतो वापि याम्ये वा पावकेऽथवा || १४-१४२ || गोमयालेपनं कृत्वा धूपदीपैः समन्वितम् | पालिकाद्यैरलङ्कृत्य स्थण्डिलन्तत्र कारयेत् || १४-१४३ || शूलं पश्चिमतः स्थाप्यो लूखलं मुसलं ततः | वस्त्रेणो लूखले वेष्ट्यदर्भैरावेष्टयेत् पुनः || १४-१४४ || प्. ७५) गन्धाद्यैरर्चयित्वा तु त्रिशूलं लूखलं ततः | घृतं शिरोर्पणङ्कृत्वा हेमदूर्वाङ्कुराक्षतैः || १४-१४५ || सुशुष्कां रजनीं पूर्वं चूर्णे चूर्णे तु लूखले | हृदा प्रक्षिप्य चास्त्रेण कुट्टयेद् देशिक स्त्रिभिः || १४-१४६ || ततो भक्तजनैः सार्धं चूर्णयेद् देशिकोत्तमः | संस्नाप्य लिङ्गं चूर्णेन पञ्चब्रह्मसमुच्चरन् || १४-१४७ || स्नापयेत् कौतुकं शूलं हृन्मन्त्रेण सतैलकम् | आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः || १४-१४८ || ग्रामं वा नगरं वापि शीघ्रङ्गच्छेत् प्रदक्षिणम् | नदीतटाकतीरे वा स्थण्डिले द्वितये कृते || १४-१४९ || शूलन्तत्रैव संस्थाप्य तत्पूर्वेकलशां न्यसेत् | अर्चयेत् स्वस्वमन्त्रेण शूलं वै कलशांस्तथा || १४-१५० || गङ्गा च यमुना चैव नर्ददा च सरस्वती | सिन्धुर्गोदावरी चैव कावेरी चैव सप्तकान् || १४-१५१ || आवाह्य मध्यकलशे गन्धतोय सुपूरिते | अनन्तादि शिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् || १४-१५२ || पुण्याहं वाच्यशूलास्त्र देवानभ्यर्च्य पूजयेत् | स्नापयेत् कलशैः पश्चात् स्नानं तीर्थे समाचरेत् || १४-१५३ || त्रिशूलेन सहैवात्रये तीर्थं कुर्वते नराः | मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः || १४-१५४ || याग गेहे शिवाग्नौ तु दद्यात् पूर्णाहुतिं पुनः | होमोपरिष्टात् तत्रस्थं शास्त्रोक्तं सुसमाचरेत् || १४-१५५ || यागेशं पूजयेत् पश्चात् गन्धपुष्पादिभिः शुभैः | साधितैः कलशैस्तत्र स्नपनं कारयेच्छिवम् || १४-१५६ || भक्तानां परिचाराणां वस्त्रादिभिः प्रदापयेत् | ध्वजावरोहणं कुर्यात् तत्रादौ तु विशेषतः || १४-१५७ || त्रयाहे वापि पञ्चाहे सप्ताहे वा वरोहयेत् | स्नपनन्तु ततः कृत्वा मूललिङ्गे विशेषतः || १४-१५८ || प्. ७६) उत्सव प्रतिमाश्चापि त्रिशूलञ्च ध्वजस्तथा | स्नपनङ्कारयेत् तत्र स्तोत्रमङ्गलवाचकैः || १४-१५९ || हरिद्रानथ शुद्धान्नं सो पदंशं बलिं क्षिपेत् | ध्वजावरोहणङ्कृत्वा पूजान्ते तु विचक्षणः || १४-१६० || प्रदक्षिणं ततः कृत्वा सन्धिदेवां विसर्जयेत् | यागोपयुक्त द्रव्याणि देशिकाय प्रदापयेत् || १४-१६१ || एवं यः कुरुते मर्त्त्य उत्सवं च शिवस्य तु | कुलैकविंशदुत्तार्य शिवलोकमवास्यति || १४-१६२ || शिवोत्सवमिदं प्रोक्तं स्नपनञ्च ततः शृणु | इति शिवोत्सवविधि पटलश्चतुदर्शः || १४ || अथ स्नपनविधि पटलः अथातः संप्रवक्ष्यामि स्नपनस्य विधिक्रमम् | पञ्चम्याञ्च नवम्याञ्च चतुर्दश्यान्तु पर्वणोः || १५-१ || संक्रान्तौ विषुवे चैव अयने ग्रहणे तथा | पञ्चम्यादि ग्रहणान्तं दशवृद्ध्युत्तरं वरम् || १५-२ || दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके | यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि || १५-३ || कर्तव्यं जन्मनक्षत्रे मङ्गलेमन्त्रसाधने | राजाभिषेक समये मरणान्तेथ जन्मनि || १५-४ || अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके | भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने || १५-५ || सर्वरोगसमुत्पन्ने शत्रुभिः पीडनेपि च | प्रायश्चित्तादिकालेषु शिवं संस्नापयेत् गुरुः || १५-६ || नवधा स्नपनं तत्र संक्षेपेण शृणु क्रमात् | पञ्चभिः पञ्चभिश्चैव पञ्चविंशतिभिस्तथा || १५-७ || अन्यस्य त्रितयन्त्वेषु शृणु मध्यमकत्रयम् | पञ्चाशन्न्यूनमेकन्तु एकाशितिस्ततः परम् || १५-८ || प्. ७७) शतमष्टोत्तरं ज्ञेयं मध्यमत्रितयं त्विह | षोडशद्विशतञ्चैव अष्टोत्तरशतत्रयम् || १५-९ || अष्टाधिकसहस्रन्तु उत्तमादिशिवाधिकम् | उत्तमं त्रीणिविख्यातं सर्वेषां स्नपनं शृणु || १५-१० || प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् | विंशश्चतिथि हस्तञ्च भानुदिक्करमेव च || १५-११ || नवाष्ट सप्तषट्पञ्चहस्तैर्नवविधं स्मृतम् | अष्टसाहस्रकं पादं नवानां मण्डपा स्मृताः || १५-१२ || षट्त्रिंशत् गात्रसंयुक्तमुत्तमानां विधीयते | षोडशस्तंभसंयुक्तं मध्यमानान्तु कारयेत् || १५-१३ || द्वादशस्तंभसंयुक्तमधमानां प्रकल्पयेत् | कूटं वा मण्डपं वापि कारयेत् स्वप्रमाणतः || १५-१४ || चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् | वितानध्वजसंयुक्तं दर्भमालोपशोभितम् || १५-१५ || वक्ष्यमाणविधानेन कर्तव्यञ्चाङ्कुरार्पणम् | कलशानि ततो ग्राह्य साधयेद् आदिशैवकः || १५-१६ || सौवर्णं रजतं वापि तथा ताम्रमयैरपि | शङ्खैर्वा शुक्तिकैर्वापि गवां शृङ्गैरथापि वा || १५-१७ || अथवा मृन्मयैर्वापि सर्वलक्षणसंयुतैः | सुपक्वैः सुस्वरैः स्निग्धैर्बिंब प्रभसमन्वितैः || १५-१८ || एतैर्ल्लक्षणसंयुक्तैः स्नापयेत् परमेश्वरः | उत्तमं द्रोणसंपूर्णं मध्यमन्तु तदर्धकम् || १५-१९ || अधमञ्चाढकं प्रोक्तं सर्वेषामाढकं तु वा | शङ्खशुक्ति विशृङ्गाणां स्वप्रमाणेन पूरयेत् || १५-२० || सूत्रेण वेष्टयित्वा तु कालयित्वाधिवासयेत् | गोमयालेपनङ्कृत्वा विष्टसूत्राणि पातयेत् || १५-२१ || सूत्राणाञ्चाप्य धर्मादीन् गात्राणान्धर्मपूर्वकान् | स्थण्डिलन्तत्र कुर्वित् शालिभिर्विमलैस्तथा || १५-२२ || आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् | तदर्धं तण्डुलैर्भूष्य तदर्धन्तिलसंयुतम् || १५-२३ || प्. ७८) नवधा स्नपनन्तेषु चाद्यसप्तविधिं शृणु | मण्डपान्तश्चतुष्पत्र युक्ताब्जं कर्णिकान्वितम् || १५-२४ || पञ्चकुम्भस्य विख्यातं महादिदलशोभितम् | प्रागुदक्भ्यां चतुःसूत्रं मार्गैर्न्नवपदं विदुः || १५-२५ || अष्टसूत्रं समङ्कृत्वा प्राङ्मुखोदङ्मुखं क्रमात् | मध्ये नवपदं ग्राह्यं बहिरेका वृतिन्त्यज्येत् || १५-२६ || ऐन्द्रादिषु चतुर्दिक्षु पदमेकं परिग्रहेत् | अग्नेययादीशपर्यन्तन्तिसृभिस्त्रिः पदं भवेत् || १५-२७ || महादिक्पदपार्श्वाभ्यां द्वारार्थं द्विपदं त्यजेत् | पञ्चविंशत्पदङ्कृत्वा स्थापयेदधमत्रयम् || १५-२८ || पादानान्तालमात्रं स्यात् सूत्रद्वादशकल्पितम् | उदक्सूत्रं तथा कल्प्य ह्यष्टद्वाराणि योजयेत् || १५-२९ || मध्यमे पञ्चविंशच्च द्विपदंत्वावृतं त्यजेत् | पञ्चत्रिंशत्पदं कृत्वा तेष्वेकं गृह्ययत्नतः || १५-३० || इदमेकोन पञ्चाशदेकाशीति पदं शृणु | पदमेकं समावृत्त्य द्वारादिषु पदा त्यजेत् || १५-३१ || एकाशीति पदं ह्येवं मध्यमान्मध्यमं शृणु | प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च || १५-३२ || पञ्चविंशत् पदन्तेषु मध्यसङ्ग्राह्ययत्नतः | विदिक्षुनवकङ्ग्राह्यं द्वारत्वात् द्विपदं त्यज्येत् || १५-३३ || चतुर्दिक् तिथिकोष्ठेषु तृतीये सन्त्यजेत् त्रयम् | एवङ्कृते पदा सम्यक् शिवाधिक्यं शताष्टकम् || १५-३४ || विंशत् सूत्रं प्रकर्तव्यं प्राङ्मुखोदङ्मुखं क्रमात् | तन्मध्ये पञ्चविंशच्च संग्राह्य परितोद्वयम् || १५-३५ || त्यजेत् द्वाराष्टकोपेतं गोमयेन तु वारिणा | दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् || १५-३६ || मध्यमव्यूहमध्यस्थं नवन्त्यक्वाब्जमालिखेत् | एवङ्कुर्याद् विधानज्ञः षोडशद्विशतं भवेत् || १५-३७ || नवधा स्नपनं प्रोक्तं तेषां द्रव्यन्ततः शृणु | वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम् || १५-३८ || प्. ७९) मौक्तिकं पञ्चरत्नानि शिवकुंभे तु विन्यसेत् | रत्नाभावे ततो हेमं नवानां हेममेव च || १५-३९ || पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् | क्षीरं दधिघृतञ्चैव प्रथमावरणं विदुः || १५-४० || प्रस्थपादं घृतं प्रोक्तं द्विपादन्दधिरुच्यते | त्रिपादं क्षीरमित्युक्तं प्रस्थञ्चैव तु गोमयम् || १५-४१ || षट्गुणञ्चैव गोमूत्रं पञ्चगव्यमिति स्मृतम् | मधु इक्षुरसञ्चैव पनसाम्रफलौ तथा || १५-४२ || कदली नालिकेरौ च सर्षपञ्च तिलं तथा | विल्वञ्चमातुलुङ्गञ्च नारङ्गद्वयमेव च || १५-४३ || यवनी वारलाजञ्च तस्य चूर्णङ्गुलन्तथा | चन्दनं लघुकुष्ठौ च कच्चोलं पुष्पपत्रकम् || १५-४४ || कर्पूरं हिमबेरञ्च जटामांसिमुरन्त्रणम् | शमीदूर्वा च श्वेतार्कं बिल्वपत्रञ्च चंपकम् || १५-४५ || शङ्खपुष्पंत्वपामार्गं विष्णुक्रान्ति च धुर्तुरम् | नन्द्यावर्तं श्वेतपद्मं पुन्नागञ्चातिपाटलि || १५-४६ || सह देवी शतपत्री लक्ष्मीस्थलारविन्दकम् | धातकी तुलसी चैव करवीराकृष्णमल्लिका || १५-४७ || मल्लिका च शतावेरी गोक्षुराज कृताञ्जली | महाद्रोणञ्च द्रोणञ्च भद्री च मधुमद्रिका || १५-४८ || इन्द्रवल्लीरुद्रपाणी धात्री चैव हरिद्रकी | व्याघ्र नवी च माञ्जिष्ठी सरलं भद्रकाषुकम् || १५-४९ || नवनीतं द्राविलञ्च सज्जन्तक्कोलमेव च | बला चाति बला चैव सिंही प्रियङ्गुलोद्धृता || १५-५० || नागकेसरजंबूका कपित्थाश्वत्थ गुग्गुलु | एला च जीरकञ्चैव कृष्णजीरकमेव च || १५-५१ || सुतैलं कुङ्कुमं मेघमगरुङ्कृष्णलोचना | श्रीवेष्टकं गन्धरसं पिप्पलीहस्तपिप्पली || १५-५२ || कृष्णागरुञ्चतगरं मनःशिलारक्तचन्दनम् | लवङ्गं रजनी चूर्णं कषायं मार्जनान्तकम् || १५-५३ || प्. ८०) पिप्पलोदुंबर प्लक्ष वटत्वग्भिः कषायकम् | द्रव्यं तिलकुशाग्राणि तथा मार्जव्यमादिशेत् || १५-५४ || द्रव्याण्येतानि चोक्तानि द्विविधं स्नानमार्जनम् | रसद्रव्याणि सर्वाणि स्नानद्रव्याणि संविदुः || १५-५५ || फलचूर्णौषधीत्यादि मार्जनद्रव्यकाणिते | रसादन्यानि सर्वाणि तोयैःसंपूरयेत् सुधीः || १५-५६ || रसाश्च पञ्चगव्याक्ताः पञ्चकुम्भेषु कीर्तिताः | आज्यान्ता नवकुम्भानां वत्वन्ताः पञ्चकुम्भके || १५-५७ || गुलादिपुन्नागान्ताश्च चत्वारिंशन्नवाधिके | द्रव्यादिजात्यलान्ताश्च एकाशीतिर्विशेषतः || १५-५८ || पाद्यादिमार्जनान्तास्तु अष्टोत्तरं शतं भवेत् | अधर्माद्यादि * * * दिग्विदिग्व्यूह संज्ञकाः || १५-५९ || मध्यमस्य शिवव्यूहो नवव्यूहा प्रकीर्तिताः | गन्धपुष्पादिनाभ्यर्च्य दर्भैश्चैव परिस्तरेत् || १५-६० || मध्यमे शिवकुम्भन्तु शिवमन्त्रेण विन्यसेत् | द्वात्रिंशद् वा चतुर्विंशत् षोडशप्रस्थपूरितः || १५-६१ || शिवकुम्भमिदं प्रोक्तं वर्धन्यास्तु तदर्धकम् | पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् || १५-६२ || शिवव्यूहस्य मध्ये तु विन्यस्य शिवकुम्भकम् | तस्य व्यूहस्य सुम्ये तु तन्मध्ये वा शिवोत्तरे || १५-६३ || सकूर्चां वस्त्रसंयुक्तां वर्धनीं हेमसंयुताम् | मनोन्मनीन्तु संस्थाप्य बीजमन्त्रमनुस्मरन् || १५-६४ || गन्धपुष्पादिभिः पूज्य हृदयेन विचक्षणः | पाद्यारभ्य घृतान्तानामष्ट विद्येश्वराधिपाः || १५-६५ || मध्वादिमार्जनान्तानां शतरुद्राधिदैवताः | एकैकमर्चयेत् सर्वानेकैकं वस्त्रकं ददेत् || १५-६६ || स्वस्वनाम चतुर्थ्यन्तैर्गन्धपुष्पादिभिर्यजेत् | षोडश द्विशतञ्चैव पूर्ववत् स्थापयेत् क्रमात् || १५-६७ || पूर्वोक्तानीहद्रव्याणि प्रधानानि सुकीर्तिताः | उशीरागरुकर्पूर चन्दनैश्च सुपुष्पितम् || १५-६८ || प्. ८१) शुद्धतो येन सम्मिश्रमुपस्नानोदकं स्मृतम् | उपस्नानानि तत् सङ्ख्या सप्ततीर्थानि यानि तु || १५-६९ || अधमाधममारभ्य उत्तमादधमान्तकम् | उक्तं सर्वं विशेषेण देवता द्रव्यसंयुतम् || १५-७० || उत्तमान्मध्यमञ्चैव उत्तमोत्तममेव च | स्नपनञ्चैव द्रव्यांश्च किञ्चित् भेदं गजानन || १५-७१ || षट्सूत्रं प्राङ्मुखं तत्र उदक्सूत्रकमेव च | पञ्चतालप्रमाणेन पदवीसारविस्मृता || १५-७२ || अतः परं समावृत्य पदमष्टौ परित्यजेत् | चत्वारिवीधयः प्रोक्ता महादिक्षु चतुष्पदाः || १५-७३ || द्वादशानि पदानिह चतुष्कोणेषु सङ्ग्रहेत् | तेषु द्वादशकोष्ठेषु प्रत्येकं पञ्चविंशतिः || १५-७४ || मध्यव्यूहविशेषेण कृत्वा नवपदन्ततः | षडावरणमार्गेण स्थापयेत् स्थापकोत्तमः || १५-७५ || स्थापयेन्मध्यतो व्यूहे नवकुम्भानि पूर्ववत् | वर्धनीं तस्य वामे तु प्राग्वत्संस्कृत्य मन्त्रवित् || १५-७६ || पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चमावरणान्तिकम् | प्रथमे चैव बीजानि लोहान्येव द्वितीयके || १५-७७ || तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके | पञ्चमे पञ्चगव्यन्तु तिंशदष्टोत्तरं त्विदम् || १५-७८ || यवनी वारमुद्गांश्च तिलं सर्षपमेव च | श्वेतशाली महाशाली रक्तशाली तथैव च || १५-७९ || सौगन्धी हेमशाली च दशबीजमिति स्मृतम् | द्वाविंशत् कलशेपूर्य प्रथमावरणे न्यसेत् || १५-८० || उपस्नानादिनीतानि तावत् सङ्ख्यानि विन्यसेत् | चत्वारिंशच्च चत्वारि कलशानि समन्ततः || १५-८१ || अर्चयित्वा विधानेन बीजमन्त्रमनुस्मरन् | प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु || १५-८१ || चामीकरं तथा हेमं शातकुम्भमतः परम् | जांबूनदञ्च तप्तञ्च जाति सप्तादिमिश्रितम् || १५-८२ || प्. ८२) षड्विंशत् कलशे सूत्रमुदकैः सहविन्यसेत् | तावत् सङ्ख्या भवेत् तेषु कलशेष्वन्तणोदकम् || १५-८३ || कलशानि द्विपञ्चाशच्चतुष्कोणेषु चैव हि | द्वितीयावरणे न्यस्त्वा ब्रह्ममन्त्रैश्च देशिकः || १५-८४ || द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु | पद्मरागञ्च वैडूर्यं वज्रं पुष्यन्तथैव च || १५-८५ || स्फटिकं मौक्तिकं निलमिन्द्रनीलं प्रवालकम् | एतेषु नवरत्नांबु त्रिंशत् सुकलशेषु वै || १५-८६ || तावत् सङ्ख्या भवेत् तानि कलशेष्वन्तरोदकम् | कलशानि भवेत् षष्टिश्चार्चयित्वाङ्ग विद्यया || १५-८७ || तृतीयावरणं प्रोक्तञ्चतुर्थावरणं शृणु | हरितालं तथा माञ्जिमञ्जनञ्च मनःशिला || १५-८८ || रोध्रञ्च सीसकञ्चैव गैरिकन्तु ततः परम् | चतुस्त्रींशत्सुकुम्भेषु सप्तधात्वंबुना सह || १५-८९ || तावत् ग्राह्यो भवेत्तानि कलशेष्वन्तरोदकम् | अष्टोत्तरं तथा षष्टिः कलशानां विशेषतः || १५-९० || प्रत्येकमर्चयेत्तानि विद्यांगैश्च विशेषतः | पञ्चमावरणे पञ्चगव्याधानमतः शृणु || १५-९१ || गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् | गोमूत्रादिषडेतैस्तु अष्टत्रिंशत् घटे न्यसेत् || १५-९२ || विन्यसेत् ब्रह्मपञ्चानामष्टत्रिंशत् कला क्रमात् | यावत् सङ्ख्या भवेत्तानि प्रत्येकञ्चान्तरोदकम् || १५-९३ || द्रव्यान् कुम्भेषु संयोज्य शतरुद्रान्विशेषतः | शतत्रयेषु कुंभेषु विन्यसेत् तु पृथक् पृथक् || १५-९४ || संस्नाप्याभ्यर्च्य विधिना स्वैस्वैर्नामभिरेव च | त्रिशताष्टममेवोक्तमुत्तमस्योत्तमं शृणु || १५-९५ || प्रागग्रं द्वादशं सूत्रं उदगग्रं तथैव च | एकविंशच्छतं कृत्वा पदन्तत्र विनायक || १५-९६ || चतुष्कोणेषु मतिमांश्चतुःसूत्राणि विन्यसेत् | आग्नेयादिसमारभ्य पदैकान्तरितं यथा || १५-९७ || प्. ८३) षट्त्रिंशत् गात्रसंयुक्तं गात्रस्थाना वृतन्त्यजेत् | द्वारे द्वेद्वेपदन्त्यक्त्वा चत्वारिंशत् पदं स्थितम् || १५-९८ || तेषां मध्यमकोष्ठन्तु कृत्वा नवपदन्ततः | एकैकं पदमध्ये तु पञ्चविंशति सङ्ख्यया || १५-९९ || कलशानि ततोप्यष्ट सहस्रैकादशावृतौ | विद्येशोमा शिवाख्यांश्च कुम्भान्विन्यस्य पूर्ववत् || १५-१०० || विद्येशावरणन्त्यक्त्वा तच्छृणुष्वदशावृतान् | प्रथमे चैव बीजानि लोहान्येव द्वितीयके || १५-१०१ || तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके | पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदकान् || १५-१०२ || गन्धाश्चौषधयः सर्वे सप्तमे च तथा भवेत् | अष्ट मृच्चाष्टमे चैव कषाया नवमावृतौ || १५-१०३ || दशमे चैव पुष्पाणि एकैकन्तु शृणु क्रमात् | बीजानि पञ्चगव्यान्तं पूर्ववत् स्थापयेत् बुधः || १५-१०४ || पञ्चमावरणं प्रोक्तं षष्ठमावरणं शृणु | कदली बिल्वचूतांश्च मातुलुङ्गञ्च डाडिमी || १५-१०५ || नालिकेरञ्च नारङ्गं लिकुचंपनसं तथा | फलोदकानि तानीहद्वेषष्टीत्यभीधीयते || १५-१०६ || प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् | कलशानि शतानीह चतुर्विंशति चोत्तरम् || १५-१०७ || प्रत्येकमर्च्चयेत् तानि प्रशान्तायेतिमन्त्रतः | गन्धैरोषधिभिश्चैव सप्तमावरणं शृणु || १५-१०८ || उशीरञ्चन्दनञ्चैव कर्पूरञ्जातिरेव च | शङ्खपुष्पञ्च श्रीदेवी विष्णुक्रान्तीशतावरी || १५-१०९ || गन्धांश्चाष्टौ च धातूंश्च षष्ट्युत्तरषडेव च | तावत् सङ्ख्या तु विज्ञेया ह्युप स्नानविशेषतः || १५-११० || द्वात्रिंशदुत्तरं प्रोक्तं शतमेकं समासतः | ओषधीनां लतानाञ्च वृक्षाणाञ्च समासतः || १५-१११ || फलानां कुसुमानाञ्च मूलादीनां समाहरेत् | सप्तमावरणं प्रोक्तमष्टमावरणं शृणु || १५-११२ || प्. ८४) दर्भाधोनागदन्ताग्रे वराहस्य च कर्षणे | वल्मीके वृषशृंगाग्रे नद्यां वै पर्वतेऽपि च || १५-११३ || समुद्रे चैव मेधावी मृदं ग्राह्य विशोधयेत् | प्रत्येकं कलशेष्वेवं सप्ततिः परिसङ्ख्यया || १५-११४ || उदकेन समापूर्य तत् सङ्ख्या चान्तरोदकम् | चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् || १५-११५ || अर्चयेत् पार्थिवार्णेन नवमावरणं शृणु | आम्रोथपनसश्चैव न्यग्रोधोदुंबरस्तथा || १५-११६ || अश्वत्थञ्च शिरीषञ्च मधुकोथपलाशकः | अष्टवृक्षत्व चश्चूर्णं विन्यसेद् वारिणासह || १५-११७ || प्रत्येकं पूरयित्वा तु सप्ततिश्चतुरुत्तरम् | तावत् सङ्ख्या भवेत् तानि उपस्नानोदकानि च || १५-११८ || चत्वारिंशत् तथा चाष्टौ शतैकेन समायुतम् | अर्चयेच्छिखयाधीमान् गन्धपुष्पादिभिः क्रमात् || १५-११९ || दशमावरणे प्रोक्तं पुष्पाणि च ततः शृणु | पङ्कजांश्च पलाशांश्च नन्द्यावर्तांश्च मल्लिकाः || १५- १२० || करवीरञ्चंपकञ्च नीलोत्प्ललं तथाष्टकम् | कलशेषु विनिक्षिप्य सप्तत्यष्टाधिक स्मृताः || १५-१२१ || पुष्पाणि कलशेष्वेव निक्षिप्याद्भिः प्रपूर्य च | तावत् सङ्ख्या भवेत् तानि उपस्नानानि विन्यसेत् || १५-१२२ || एवं दशावृतान् स्थाप्य गन्धपुष्पाक्षतैर्युतम् | प्रत्येकं कलशान् सर्वान्वस्त्रैरावेष्ट्य यत्नतः || १५-१२३ || द्रव्येषु शतरुद्रांश्च अप्सुतीर्थानि कल्पयेत् | नवधा स्थापनं प्रोक्तं तत्र मुद्रां प्रदर्शयेत् || १५-१२४ || आद्यन्ते च नमस्कारां मध्ये बीजांमनोराम् | एवन्तु स्थापयेद् विद्वानासनावाहनादिकम् || १५-१२५ || कृत्वा प्रागुक्तवद्धिमानभिषेकं समाचरेत् | पुण्याहन्तु विशेषेण कृत्वा कुम्भान् प्रपूजयेत् || १५-१२६ || शैवन्तत्र विधानज्ञमादिशैव कुलोद्भवम् | एकन्तत्र विधानज्ञमाचार्यं पूजयेत् क्रमात् || १५-१२७ || प्. ८५) वस्त्रैराभरणैः पुष्पैरङ्गुलीयकयज्ञकैः | शिवकुम्भं समुत्थाप्य हस्तेन शिरसाथवा || १५-१२८ || संवाह्य गर्भगेहन्तु उत्तराभिमुखस्थितः | स्थापयेद् देवदेवेशं मूलमन्त्रेणमन्त्रवित् || १५-१२९ || गणांबिकेन मन्त्रेण वर्धन्या स्थाप्यपिण्डिकाः | तत् तत् स्थाने पुनस्थाप्य पूर्ववच्च यथा क्रमम् || १५-१३० || स्नाप्यद्रव्यं यथा न्यायमुत्थानञ्च तथैव च | स्थापिते नैव मन्त्रेण स्नापयेत् तु सदाशिवम् || १५-१३१ || कलशं वा महेस्ते तु विन्यस्त्वा दक्षिणेन तु | गोशृंगाग्र प्रमाणेन संस्थाप्यच्छिन्नधारया || १५-१३२ || स्थापितान्युपयुक्तानि कलशानिविसर्जयेत् | स्नपनानाञ्च सर्वेषामन्तेहारिद्र चूर्णकैः || १५-१३३ || संस्नाप्याभ्यर्चयेद् विद्वान् प्रभूतहविषं कुरु | बीजानामप्यलाभे तु निवारं वायवन्तु वा || १५-१३४ || लोहानामप्यलाभे तु निक्षिपेत् तप्तकाञ्चनम् | रत्नानामप्यलाभे तु मौत्तिकं ग्राह्य देशिकः || १५-१३५ || धातूनामप्यलाभे तु हरितालं विशेषतः | पुष्पाणामप्यलाभे तु पद्मसङ्ग्राह्य देशिकः || १५-१३६ || एवं यः कुरुते मर्त्यः भक्तियुक्तस्तथैव च | शशिवत् क्रीडते नित्यं शिवलोकेमहीयते || १५-१३७ || स्वेच्छयैव समागत्य पृथिव्यामेकराट् भवेत् | नवधा स्नपनं प्रोक्तं शीतकुम्भविधिं शृणु || १५-१३८ || इति स्नपनविधि पटलः पञ्चदशः || १५ || प्. ८६) अथ शीतकुम्भविधि पटलः अथातः संप्रवक्ष्यामि शीतकुम्भस्य लक्षणम् | अनावृष्टेश्च दुर्भिक्षे परराष्ट्रप्रवेशने || १६-१ || ज्वरापस्मारनाशाय वसूरिनासनार्थकम् | सर्वरोगविनाशार्थं शीतकुम्भन्तु कारयेत् || १६-२ || द्वात्रिंशत् प्रस्थसंपूर्णं बिंब प्रभसमन्वितम् | त्रिसूत्रैर्वेष्टयित्वा तु यवान्तं वाथवाङ्गुलम् || १६-३ || शिवाग्रे स्थण्डिलं कृत्वा या वदष्टौ सकर्णिकम् | तण्डुलैः सोभितं कृत्वा तिलैर्दर्भैः परिस्तरेत् || १६-४ || अष्टद्रोणेन शालीनं तदर्धैस्तण्डुलैर्युतम् | तण्डुलार्धतिलैर्युक्तं कारयेत् तु विचक्षणः || १६-५ || वस्त्रपूतेन तोयेन शिवकुम्भन्तु पूरयेत् | सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् || १६-६ || स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् | स्थण्डिले विन्यसेत् कुम्भं गन्धपुष्पादिभिर्युतम् || १६-७ || पूर्वेद्युरधिवासं स्याद्रात्रौ जागरमाचरेत् | दिशास्वध्ययनं कार्यं कुम्भं स्पृष्ट्वा विशेषतः || १६-८ || शान्ति होमं प्रकर्तव्यं तस्याग्रे तु विशेषतः | प्रभाते देवदेवस्य मूर्ध्निमध्येसु षिरङ्कृतम् || १६-९ || वस्त्रैरावेष्ट्यगात्राणि पुष्पमाल्यैर्विभूषयेत् | कुम्भं विन्यस्य तन्मध्ये तत् पृष्ठेसु षिरं न्यसेत् || १६-१० || लोहसूच्याग्रमानेन नालं हेममयं भवेत् | द्विगुणं क्षीरदातारं मधूनित्रिगुणं भवेत् || १६-११ || हृदयेन तु मन्त्रेण कुम्भमारोप्ययत्नतः | उपकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववत् बुधः || १६-१२ || एकविंशद्दिनं वापि चतुर्दशदिनन्तु वा | सप्ताहं वाथ पञ्चाहं त्रियहं वा विशेषतः || १६-१३ || प्. ८७) सन्ततं श्रावयेन्मूर्ध्नि कृत्वाशान्तिकरं स्मृतौ | नित्यपूजाविशेषेण काले काले विचक्षणः || १६-१४ || द्विगुणं पूजयेत् तत्र यावच्छक्यमथापि वा | उपकुम्भात् तु निक्षिप्य जलादुत्थाय पूर्ववत् || १६-१५ || कुम्भावरोहणं यावत् तावद्धोमं समाचरेत् | आचार्यं पूजयेत् तत्र वस्त्राङ्गुलीयकादिभिः || १६-१६ || दक्षिणां देशिकायैव दापयेत् तु विशेषतः | अन्ते कुम्भं परित्यज्य वक्त्रमन्त्रेणमन्त्रवित् || १६-१७ || प्रभूतहविषन्दत्वा पूर्वोक्त विधिनासह | अन्यान् भक्तजनांश्चापि अन्नपानेन पूजयेत् || १६-१८ || शीतकुम्भमिदं प्रोक्तं नवनैवेद्यकं शृणु | इति शीतकुम्भविधि पटलःषोडशः || १६ || अथ नवनैवेद्य विधि पटलः अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् | अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् || १७-१ || सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते | वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् || १७-२ || सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् | स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः || १७-३ || तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् | शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् || १७-४ || विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः | ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् || १७-५ || सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् | तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् || १७-६ || प्. ८८) शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे | उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् || १७-७ || वादका गणिकाश्चैव व्रजेयुः सर्वभूषिताः | सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः || १७-८ || ततो भक्तजनाः सर्वे व्रजेयुः क्रमशः पुनः | प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै || १७-९ || आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले | तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः || १७-१० || शालिभि स्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् | वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् || १७-११ || संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः | नालिकेरगुलोपेतं मरीची जीरकान्वितम् || १७-१२ || हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः | अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः || १७-१३ || परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् | ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना || १७-१४ || प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः | ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् || १७-१५ || प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं शृणु | इति नवनैवेद्यविधि पटलः सप्तदशः || १७ || अथ कृत्तिकादीपविधि पटलः अथातः संप्रवक्ष्यामि कृत्तिकादीपलक्षणम् | कार्तिके कृत्तिकामासे दीपकर्मसमाचरेत् || १८-१ || देवालयमलङ्कृत्वा दीपसाधन सङ्ग्रहम् | स्नपनन्तत्र कुर्वीत यजमानेच्छयान्वितम् || १८-२ || प्रासादाग्रस्य परितच्छाष्टदिक्षुविशेषतः | कूटागाराणि कृत्वा तु चतुर्गात्रान्वितानि वै || १८-३ || प्. ८९) कूटबन्धेषु सर्वत्र मृदं विन्यस्य तत्र वै | दीपानिविन्यसेत् तेषु दीपस्तं भांस्तु विन्यसेत् || १८-४ || खदिरन्नालिकेरं वा पात्रमानं प्रकीर्तितम् | घृतं पात्रे समानीय शोधितं तैलमेव वा || १८-५ || कार्पासबीजसंयुक्तं वाससच्छिन्नसंयुतम् | घृतमध्येसु विन्यस्य स्तंभमूर्ध्निसुदीपयेत् || १८-६ || प्रासादमिह सर्वत्र दीपमाल्यैरलङ्करोत् | क्षुद्रनास्यां महानास्यां कुंभे चैव कपोतके || १८-७ || पालिका सुगुहा स्वत्र दीपयन्त्रैः सुदीपयेत् | प्रासादमूर्ध्नि देशेषु मण्डपेगोपुरे तथा || १८-८ || प्राकारेषु विशेषेण दीपं सर्वत्र योजयेत् | स्तंभेषु घटिका योज्यास्तेषु दीपसमावृतम् || १८-९ || अघोरास्त्रेण मन्त्रेण दीपदण्डेधिरोपयेत् | उत्तमं कूटदीपं स्यान्मध्यमं स्तंभदीपकम् || १८-१० || दीपं बाहुल्या मात्रं यदधमं परिचक्षते | भवानीं कारयेत् पश्चात् देवदेवं त्रिशूलिनम् || १८-११ || उत्सवं वा प्रकर्तव्यमेकाहं विधिवत् सुधीः | केवले भवने नैव बल्यादि क्रममाचरेत् || १८-१२ || ग्रामं वा नगरादिं वा आलयं वा प्रदक्षिणम् | दीपेन भूषयित्वा तु भक्तियुक्तानरोत्तमाः || १८-१३ || ईदृग्गुण विशेषाढ्यं ग्रामं कृत्वा प्रदक्षिणम् | आलयं संप्रविश्याथ परिवेषक्रमञ्चरेत् || १८-१४ || प्रभूतहविषङ्कृत्वा देवदेवस्य भक्तितः | स्तुत्यैरध्ययनैर्भक्तैर्वाद्यै नृत्तादिकैरपि || १८-१५ || परितोष्य च देवेशं क्रियां सम्यक् समाचरेत् | कृत्तिका दीपमत्रोक्तं पूरकर्म ततः शृणु || १८-१६ || इति कृत्तिकादिपविधि पटलोष्टादशः || १८ || प्. ९०) अथ आषाढपूरकर्मविधि पटलः आषाढपूर्वनक्षत्रे पूर्वेद्युरधिवास्य च | रात्रौ होमं प्रकर्तव्यं बलिं प्रक्षिप्ययत्नतः || १९-१ || रात्रौ प्रतिसरं बध्वा आचार्यं पूजयेत् ततः | प्रभाते देवदेवेशं विशेषात् पूजनं तथा || १९-२ || बलिन्तत्रैव निक्षिप्य कृत्वा ग्रामप्रदक्षिणम् | लाजचूर्णादि सङ्ग्राह्य स्नानार्थन्तु शिवस्य तु || १९-३ || जलतिरे प्रपाङ्कृत्वा सर्वालङ्कारसंयुताम् | तन्मध्ये तु स्थितं देवमभ्यर्च्य हृदयेन तु || १९-४ || लाजचूर्णसमायुक्तं गुलञ्चाम्रफलैर्युतम् | कदलीपनसोपेतमपूपञ्च विशेषतः || १९-५ || सङ्ग्राह्यमृद्घटे शुद्धे प्रत्येकं भक्तिपूर्वकम् | भक्त्यानि वेदयित्वा तु हृन्मन्त्रेण विचक्षणः || १९-६ || लाजचूर्णं विसृज्याथ हृदयेन शिवाग्रतः | नवोदकेन तन्मध्ये शूलं संस्नाप्यदेशिकः || १९-७ || आलयन्तु पुनर्गत्वा ततः स्नपनमाचरेत् | प्रभूतहविषं दत्वा हृदयेन शिवाग्रतः || १९-८ || प्रभूतहविषं दत्वा शिवस्य च विशेषतः | अन्येषां प्रतिमाणाञ्च हविषन्तु निवेदयेत् || १९-९ || एवं समासतः प्रोक्तं फलपाकविधिं शृणु | इति आषाढपूरकर्मविधि पटल एकोनविंशतिः || १९ || प्. ९१) अथ फलपाकविधि पटलः अथातः संप्रवक्ष्यामि फलपाकविधिं परम् | दूरतस्तु शिवं दृष्ट्वा नमस्कृत्वा तु यो नरः || २०-१ || मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः | दूराध्वश्रमविक्लान्तः सुधीः कृत्वा प्रदक्षिणम् || २०-२ || मार्ग क्लेशोऽप्यथेशाय भवेत् पापानि नश्यति | जनैः पृष्ठानु यातोऽत्र भूलोके तु स जीवति || २०-३ || उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् | पदे पदेऽश्वमेऽथस्य फलं प्राप्नोति मानवः || २०-४ || यथा कृत्वा नमस्कारं तथा लोकेसु पूजितः | जलपुष्पं सुपुष्पं वा देवमुद्दिश्य निक्षिपेत् || २०-५ || नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते | आरामं देवदेवस्य यो नरः कृतवान् भुवि || २०-६ || स एव धनवान् च्छ्रीमानिहलोकेसु पूजितः | अयुतं योगवान् दद्यात् श्रोत्रिये वेदपारगे || २०-७ || गोशृङ्गेनाधिकं देवं क्षीरस्नानस्य तत्समम् | कपिलापञ्चगव्येन कुशवारियुतेन च || २०-८ || स्नापयेद् देवदेवेशं गवाङ्कोटिफलैः समम् | नवधा स्नपनं कुर्वन्यो नरो भक्तिसंयुतः || २०-९ || नानाभोगसमायुक्तः शिवलोके महीयते | नवमार्गे तु यत् कर्म भोगोऽपि नवधा भवेत् || २०-१० || नवधा हविषं कृत्वा नवधा भोगमश्नुते | घण्टामणिञ्च यो दद्यात् ख्यातिर्भूतिर्विशिष्यते || २०-११ || वस्त्राण्याभरणादीनि देवदेवस्य योजयन् | नानावस्त्रैः सुसंपूर्णैर्नाना चा भरणैस्तथा || २०-१२ || पूजितस्त्विह देवैस्तु पृथिव्यामेकराट् भवेत् | दीपन्तु देवदेवस्य सकृत् काले प्रदापयन् || २०-१३ || प्. ९२) लोके तु दीपवत् सोऽपि सर्ववित्तावृतस्मृतः | मनसा कर्मणा वाचा शिवमुद्दिश्य यो नरः || २०-१४ || सर्वारम्भप्रयोगे वा * * * * * भात् पुनः | सर्वदानतपोयज्ञैः प्राप्यते यत् फलं महत् || २०-१५ || तस्मादतिशयं स्वर्गे तत्फलं महमा?प्नुयात् | कर्षणे च मते लोकान् सप्तसर्वान् जयिष्यति || २०-१६ || इष्टकाशैल लोहैर्वायः कुर्याद् भवनन्नरः | काञ्चनेन विमानेन शिवलोकेमहीयते || २०-१७ || संसिद्धे तु विमाने तु स्थापनं विधिमार्गतः | शिवलोकमवाप्नोति पूज्यमानः सदामरैः || २०-१८ || शिवलिङ्गे कृते पश्चात् फलं सामीप्यमाप्नुयात् | यद्रूपं स्थापितं बिम्बन्तद्रूपोथ भविष्यति || २०-१९ || रूपैर्हरव पुर्भूत्वा ईशेन सहितः सुवी | तस्य लोके च रन्धिमान् यथा कामन्तथेशवत् || २०-२० || शिवायनिहिता यानि पुष्पाणि च दलानि च | फलानि चैव बीजानि धान्यादीनि विशेषतः || २०-२१ || यजमानस्य पूर्वे तु शिवलोके व्रजन्ति हि | शिवयज्ञे समाप्ते तु तत् प्रयोगेन देहिनः || २०-२२ || एवं विंशदतीतानां गुरूणां तस्य वंशिनाम् | दशपूर्वान् समृच्छन्ति समासेनदशा परान् || २०-२३ || मातृपक्षे प्रसूतानां तल्लोके स्थानमिष्यते | शुश्रूषकाणां दाराणां पुत्रभ्रातृसमन्वितम् || २०-२४ || शिवलोके निवासं स्याद् यन्नलभ्यंसु देवतैः | भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते || २०-२५ || ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते | प्राकारमण्डपान् कुर्वन्यधेऽष्टं स्वर्गमाप्नुयात् || २०-२६ || वापी कुपतटाकांश्च देवमुद्दिश्ययत्नतः | यः कुर्वन्बहुधनाढ्यस्तदन्ते शिवमाप्नुयात् || २०-२७ || प्. ९३) कार्यकर्मण्य शक्तस्तु स्मरन्नित्यं तु यः पुमान् | तत्रैव मृयते चैव तस्य स्वर्गं न संशयः || २०-२८ || आसनासनि सद्भावं ज्ञात्वा संपूजयेच्छिवम् | सा लोक्यञ्चैव सामीप्यं सा रूप्यं प्राप्नुयात् क्रमात् || २०- २९ || अग्निपूजा च सा लोक्यं बलिना वै तथा भवेत् | उत्सवे नैव सामीप्यं सा रूप्यं रुद्रचिन्तया || २०-३० || शिवनिन्दाञ्च यो मूढः कुर्यादज्ञानमोहितः | स याति नरकं घोरं त्रिसप्तति च संयुतः || २०-३१ || तं हन्यादसमर्थश्चेत् गच्छेद् वाथ ततो बहिः | यस्तु प्राणपरित्यागं कुर्याच्छिवनिमित्ततः || २०-३२ || तस्यैव फलसंपत्तिं मयावक्तुन्न शक्यते | तावत् तु शिव सा युज्यं प्राप्नुयान्नात्र संशयः || २०-३३ || भक्तिः स्वाभाविकी चैव कृत्रिमा चेति वै द्विधा | स्वभाविका तु या भक्तिः पूर्वजन्मविवर्त्तिता || २०-३४ || सहजा चेति सा ज्ञेया इहामुत्र सुखप्रदा | कृत्त्रिमा वै कृतानाम सा परत्र सुखप्रदा || २०-३५ || सहजा वै कृता चैव या सा भक्तिर्न नश्वरी | स पुनः शिव एवेति चिन्तयेत् तच्छिवं नरम् || २०-३६ || लिङ्गाद्धस्तं शतं वार्धं शिवक्षेत्रं समन्ततः | यस्य तत्रैव वासत्वं शिवलोकस्य कारणम् || २०-३७ || यत्र तत्रैव पञ्चत्वं शिवलोकस्य कारणम् | यत् तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् || २०-३८ || स्वयंभूते सहस्रं स्यादार्षे चैव तदर्धकम् | आरामवापि सर्वाणि स्थावराणि तराणि च || २०-३९ || दिव्यं प्रयान्त्य सन्देहं प्रभावात् परमेष्ठिनः | तस्मादावसथं कार्यं शिवक्षेत्रसमीपतः || २०-४० || आत्मार्थं पूजयेत् सर्वेसोपहारं शिवस्य तु | तस्मात् पत्रफलैः पुष्पैरम्भ सा मनसा बुधः || २०-४१ || प्. ९४) चित्तं शिवात्मकङ्कृत्वा शिवमाराधयेत् सदा | शिवधर्मात्परोधर्मो न भूतो न भविष्यति || २०-४२ || अन्येषु पशुधर्मेषु स्वर्ग एव फलं हि तत् | एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् || २०-४३ || सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् | फलपाकविधिः प्रोक्तमाचार्यलक्षणं शृणु || २०-४४ || इति फलपाकविधि पटलोविंशतिः || २० || अथ आचार्यलक्षण पटलः अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् | फलपाकविधिं श्रुत्वा शिवभक्तिर्भवेद्यथा || २१-१ || तदा प्रवर्तते पुंसो लिङ्गसंस्थापनेरतिः | आचार्यं पूर्वमन्वेष्य मूर्तिपांस्तदनन्तरम् || २१-२ || आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः | सर्वशास्त्रार्थ तत्वज्ञः शिवज्ञानविशारदः || २१-३ || शिवसिद्धान्त तत्वज्ञः शिवाग्निगुरुपुजकः | सर्वावयवसंपूर्णः सर्वलक्षणसंयुतः || २१-४ || वयः षोडशकादूर्ध्वं सप्ततेरध उच्यते | शिखी वा बद्धकेशश्च कृतज्ञः प्रियदर्शनः || २१-५ || गृहस्थश्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि | क्रियादि ज्ञानपर्यन्त शास्त्रेषु कृतनिश्चयः || २१-६ || क्रियापादे तु निपुणश्चर्या पादानुवर्तकम् | योगपादे क्रियाभ्यासो ज्ञानपादानुरञ्जकः || २१-७ || हेयो पादेय तत्वज्ञस्तत्वार्थे संव्यवस्थितः | परं भाव विद श्रेष्ठं पञ्चधा वा परं विदुः || २१-८ || प्. ९५) देहबन्धनिमित्तञ्च विधिवद्दीक्षितो बुधः | शिवज्ञानामृतानन्दस्तूहापोह विधानवित् || २१-९ || ईदृक् भूतस्तु यो विद्वान् स्थापनादीनि कारयेत् | स एव स्थापको वत्सनेतरः सर्वदा विभोः || २१-१० || अनुशैवादिभिर्नैव स्थापनादीनि कारयेत् | कण्वादिरादि शैवैस्तु कर्तव्यं स्थापनान्तकम् || २१-११ || अन्यथा तु कृते राज्ञस्त्वाभिचारश्च देवताः | नतं गृह्णीत देवेशो न फलञ्जायते ततः || २१-१२ || यदि मोहेन कुर्वीत सान्निद्ध्यं न कदाचन | मूर्तिपांस्तु ततो वक्ष्ये आदिशैव कुलोद्भवान् || २१-१३ || आचार्यारम्भशास्त्रे तु तस्मिन्विगत संशयान् | तदभि प्रायतत्व ज्ञानाचार्यस्यानुकूलकान् || २१-१४ || मूर्तिञ्च मूर्तिधारांश्च ज्ञातान् सम्यक् समाहितान् | एभिर्गुणैः समायुक्तान् गृह्णीयातान्विचक्षणः || २१-१५ || वामनांश्च ततोज्ञात्वा वर्जयेत् तान् प्रयत्नतः | स्वशास्त्रसमयद्वेक्षी त्वङ्गप्रत्यङ्गहीनकः || २१-१६ || नास्तिकोमत्सरोरोगी बधिरोवृद्धिजीवकः | भिषक् शास्त्रोपजीवी च तथा रंगोपजीवकः || २१-१७ || पिशुनः क्रूरकर्मस्थश्च पलः पारदारिकः | सभीपुरोधसोगर्वीनिः सत्यश्च कृतघ्नकः || २१-१८ || सन्यासीतार्किको भ्रष्टः कृशाङ्गः शल्यजीवकः | परापवादशीलश्च नैष्ठिकश्च कपालिकः || २१-१९ || अति ह्रस्वस्त्वति स्थूलो अतिदीर्घोकुदर्शकः | विकटदन्तः कुनवीमधु वै खलतिस्तथा || २१-२० || शिपिविष्टोव्रणोपेतश्मश्रुभ्रू चक्षुपिङ्गलाः | गुल्मी चैव बृहद्बीजीत्वर्शसादीनि पिडितः || २१-२१ || प्रतिष्ठा तन्त्र किञ्चित् ज्ञः पशुशास्त्रानुरञ्जितः | तन्वोपदेश हीनश्च विमनस्कामनस्ककः || २१-२२ || प्. ९६) न्यूनाङ्गी चातिरिक्ताङ्गी शठः पण्योपजीवकः | षण्डश्च गुह्यकश्चैव नैर्गकः श्वापदन्तकः || २१-२३ || ईदृशान्वर्जयेद् विद्वान् सर्वकर्मबहिष्कृतान् | यदि मोहेन कुर्वीत सान्निध्यं न कदाचन || २१-२४ || आचार्यमूर्तिपांश्चैव पूर्वोक्तान् संप्रगृह्य च | ततश्चापेक्षयेद् वत्स शिल्पिनं सुकुलोद्भवम् || २१-२५ || स्थपतिं सूत्र गृहिणं वर्धकं तक्षकं तथा | स्थापकेनोदितं सर्वं शिल्पशास्त्रेण निर्दिशेत् || २१-२६ || प्रासादादि प्रकर्ताथ सोऽपि हस्तपतिः स्मृतः | सूत्रग्राही च मानज्ञो द्रुमाभिख्यो च वर्द्धकी || २१-२७ || तनूकरणयोग्यो यस्त्वसौ तक्षक उच्यते | च्छेद्यांश्च च्छेदयेत् सर्वान् भेद्ये तु द्रव्यभेदकः || २१-२८ || वेद्ये तु वेदयेद् द्रव्यां च्छिल्पिकर्मस्त्रिधा भवेत् | स्थपतिः सूत्रग्राही च प्रासादान् प्रतिमादिकान् || २१-२९ || कुर्यात् तदक्षिमोक्षादीन् तक्षकेन समाचरेत् | शेषे तु वर्जयेत् तत्र मन्त्रकर्मसु सर्वदा || २१-३० || तेषान्तु शिल्पिकार्येऽपि स्थपतेस्तु नियोगतः | स्थपतिः शिल्पकार्येषु स्थापकस्यानुसारतः || २१-३१ || स्थपतिः शास्त्रकर्मज्ञः कृतकर्माभिजात्यवान् | न हीनाङ्गोतिरिक्ताङ्गो धर्मिष्ठः सत्यवाचकः || २१-३२ || शल्य ज्ञानान्वितः साधु दृढबन्धुरतन्द्रितः | ईदृशं शिल्पिनङ्ग्राह्य प्रारभेत् सर्वकर्मकम् || २१-३३ || आचार्यलक्षणं प्रोक्तं करणानां विधिं शृणु | इति आचार्यलक्षण पटल एकविंशतितमः || २१ || प्. ९७) अथ करणाधिकारलक्षण पटलः अथातः संप्रवक्ष्यामि करणानां तु लक्षणम् | यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः || २२-१ || दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः | कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् || २२-२ || आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् | हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् || २२-३ || धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् | प्रमाणं दीपदण्डानां यंत्रिकायाश्च लक्षणम् || २२-४ || बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा | वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् || २२-५ || तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च | रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा || २२-६ || सिंहासनोपयानानां स्तंभाच्छादनरङ्गयोः | पादुकादर्शनानान्तु व्यजनञ्चामरस्य च || २२-७ || सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् | मङ्गलानामधात्राणां तोरणद्वयलक्षणम् || २२-८ || सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् | मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै || २२-९ || कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् | जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् || २२-१० || क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् | एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन || २२-११ || अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा | कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः || २२-१२ || मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः | अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः || २२-१३ || दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः शृणु | कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा || २२-१४ || प्. ९८) सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् | द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् || २२-१५ || दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् | अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् || २२-१६ || तप्तचामीकरेणैव पवित्रं कनकाख्यकम् | दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा || २२-१७ || दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा | दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके || २२-१८ || नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके | दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् || २२-१९ || कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते | दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् || २२-२० || द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् | ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् || २२-२१ || कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः शृणु | द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा || २२-२२ || दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लंबयेत् | कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् || २२-२३ || लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः | जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः || २२-२४ || प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः | विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् || २२-२५ || मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते | सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा || २२-२६ || दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् | ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तं अग्रं तु द्विगुणं भवेत् || २२-२७ || नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् | एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं शृणु || २२-२८ || एकविंशति दर्भाभिः कला ग्रन्थिस्तु बन्धयेत् | मेखला मध्यमायाममूलाग्रोदयमिष्यते || २२-२९ || प्. ९९) परिस्तरणकं प्रोक्तं ततः परिधयः शृणु | यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् || २२-३० || आयामं हस्तमानेन कनिष्ठाङ्गुलिनाहकम् | तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे || २२-३१ || परिधेर्लक्षणं प्रोक्तं समिधालक्षणं शृणु | न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः || २२-३२ || द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः | समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः || २२-३३ || ततः सृक्लक्षणं वक्ष्ये शृणु मुग्धविनायक | खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ || २२-३४ || तथा च यज्ञ वृक्षेषु यथा सम्भवतः कुरु | त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः || २२-३५ || तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः | षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् || २२-३६ || तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् | गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् || २२-३७ || तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् | अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता || २२-३९ || तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् | खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका || २२-४० || पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा | बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु || २२-४१ || श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् | श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः || २२-४२ || खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् | दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका || २२-४३ || अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका | दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् || २२-४४ || दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् | नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते || २२-४५ || प्. १००) वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् | तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् || २२-४६ || अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् | अरत्निमात्रमायामं तदग्रे बिलसंयुतम् || २२-४७ || मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् | पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् || २२-४८ || माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् | गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् || २२-४९ || सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् | अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् || २२-५० || घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते | होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना || २२-५१ || घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः | सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् || २२-५२ || करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु | समिदौषधकं दानां फलानां स्वप्रमाणतः || २२-५३ || अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति | तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते || २२-५४ || दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् | यववेणु कुलुत्थानां शुक्तिमात्रेण होमयेत् || २२-५५ || अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् | एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः शृणु || २२-५६ || आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् | आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् || २२-५७ || कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् | विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् || २२-५८ || चरुस्थालिन्तथैवापि कलशानां विधिं शृणु | द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् || २२-५९ || वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते | कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् || २२-६० || प्. १०१) ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् | एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ || २२-६१ || अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः | आच्छादनं शरावाणां मुखमानेन विस्तरम् || २२-६२ || त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् | एवं प्रमाणमुद्दिष्टं शृणुष्व घटलक्षणम् || २२-६३ || यद्वद्वैकलशाकरं तद्वदेव * * स्मृतम् | चतुर्गुणविवृध्या तु घटमेवं विधीयते || २२-६४ || चरुस्थाली यथा रूपं हविः पात्रन्तथैव च | यावत् तण्डुलसंपत्तिस्तावत् ब्रह्मणमुच्यते || २२-६५ || आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा | मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् || २२-६६ || सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा | जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका || २२-६७ || दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् | अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः || २२-६८ || चतुर्भिर्वा त्रिभिः कार्यं वर्धनीञ्च ततः शृणु | तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् || २२-६९ || तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् | बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् || २२-७० || कमण्डलुश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके | ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलंबितम् || २२-७१ || अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा | ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् || २२-७२ || एवं कमण्डुलुङ्कुर्यात् सर्वलक्षणसंयुतम् | कलुषं कृमिशैवालमशुचिस्थानसंश्रितम् || २२-७३ || गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् | पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् || २२-७४ || अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् | अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते || २२-७५ || प्. १०२) अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् | उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ शृणु || २२-७६ || विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते | तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते || २२-७७ || तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् | शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् || २२-७८ || शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् | तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् || २२-७९ || पिधानं मुकुलाकारमनेकसुषिरैर्युतम् | धूपपात्रं समाख्यातमुरुघण्टामथ शृणु || २२-८० || द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च | जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् || २२-८१ || तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् | तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् || २२-८२ || कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् | द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ शृणु || २२-८३ || घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते | विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् || २२-८४ || अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला | तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् || २२-८५ || अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् | ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः || २२-८६ || तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् | पात्रं वा शंखचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् || २२- ८७ || धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् | घण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते || २२-८८ || स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् | सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् || २२-८९ || ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु | अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे || २२-९० || प्. १०३) स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः शृणु | एकहस्तं समारभ्य नवहस्तान्तमेव च || २२-९१ || उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् | तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् || २२-९२ || पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् | नानागणिकया युक्तं नानाकुंभैः समन्वितम् || २२-९३ || तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् | दीपदण्डं तव प्रोक्तं दीपमालां ततः शृणु || २२-९४ || ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् | द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके || २२-९५ || शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् | धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका || २२-९६ || दीपदेहा इमे प्रोक्ता यंत्रिकांश्च ततः शृणु | आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् || २२-९७ || कवाटार्गल संबन्धं यथा युक्तं भवेदिह | द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् || २२-९८ || मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह | यंत्रिका च तथा प्रोक्ता बलिपात्रमतः शृणु || २२-९९ || आयसेन प्रहैमेन अथवा ताम्रकेण वा | चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् || २२-१०० || दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् | भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः || २२-१०१ || चतुर्विधा त्रिपादी स्याच्छंख पादीत्रिपादिका | यवनी पादमेवं स्यात् स्थलिका पादमेव च || २२-१०२ || षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् | कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः || २२-१०३ || द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् | शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् || २२-१०४ || प्. १०४) त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते | पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च || २२-१०५ || त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं शृणु | रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् || २२-१०६ || अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च | तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् || २२-१०७ || पञ्चहस्त प्रमाणेन विस्तारायामतः समम् | वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् || २२-१०८ || नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् | एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते || २२-१०९ || क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा | हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् || २२-११० || चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् | पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् || २२-१११ || अन्यत् समानमत्रैव जललक्षणमुच्यते | पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा || २२-११२ || पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते | विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् || २२-११३ || आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् | वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते || २२-११४ || द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् | पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः || २२-११५ || गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः | वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि || २२-११६ || अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला | विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि || २२-११७ || निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते | उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा || २२-११८ || उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः | खट्गपादसमुत्सेध रत्निद्वयसमायुतम् || २२-११९ || प्. १०५) अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् | विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः || २२-१२० || खट्गायालक्षणं प्रोक्तमासनं शृणु सुव्रत | चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् || २२-१२१ || द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् | आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् || २२-१२२ || हंसा कारेण वा पादं भूतपादमथापि वा | गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः || २२-१२३ || कपोतनासिका युक्तं नानारत्नैर्विभूषितम् | हाटकं रजतं वापि यथा दारुमयन्तु वा || २२-१२४ || आसनं त्विदमाख्यातं ततः पद्मासनं शृणु | ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् || २२-१२५ || खट्गाकारैर्युतं पीठं समं वा चतुरायतम् | फलकापादहिनञ्च ततो रथमिहोच्यते || २२-१२६ || चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् | तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् || २२-१२७ || तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् | कापोत नासिकायुक्तं फलकोपरि विन्यसेत् || २२-१२८ || द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा | विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि || २२-१२९ || प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् | वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः || २२-१३० || यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः | प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा || २२-१३१ || रथं समासतः प्रोक्तं रङ्गञ्चैव ततः शृणु | रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् || २२-१३२ || रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् | दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगंमयः || २२-१३३ || चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा | तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् || २२-१३४ || प्. १०६) एवं तु रङ्गमाख्यातं शिबिकाञ्च तत शृणु | शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् || २२-१३५ || उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् | अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् || २२-१३६ || विस्तार द्विगुणायामं पादो न द्विगुणं तु वा | दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् || २२-१३७ || पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् | पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् || २२-१३८ || षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् | एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु || २२-१३९ || पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् | अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा || २२-१४० || मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् | भित्तिपादाश्रितं कीलमायसेन तु कारयेत् || २२-१४१ || नानारूपसमायुक्तं नानानटसमायुतम् | मध्यपट्टसमं प्रोक्तमग्रभित्तेः समुन्नतम् || २२-१४२ || भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि | पालिका सदृशाः पादाः सप्तवाष्टाङ्गुलोन्नताः || २२-१४३ || एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः शृणु | विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु || २२-१४४ || शलाकृति यथा रूपं मौण्ड्याकारं विधीयते | शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् || २२-१४५ || एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः शृणु | अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा || २२-१४६ || वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः | अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् || २२-१४७ || कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् | आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् || २२-१४८ || चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् | पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् || २२-१४९ || प्. १०७) अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् | रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् || २२-१५० || वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् | यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् || २२-१५१ || नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा | नानावर्णैः सवर्णैश्च नानारूपसमायुतैः || २२-१५२ || एतैर्वस्त्रैस्तु संप्रोक्तं तरङ्गमिहशोभनम् | स्तम्भायाम समायुक्तं स्तंभवेष्ट न मुच्यते || २२-१५३ || शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् | षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् || २२-१५४ || तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् | तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः || २२-१५५ || आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् | लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् || २२-१५६ || चामरव्यजनादीनां लक्षणं वक्ष्यते धुना | मायूरव्यजनं कुर्याच्चमर्या चामरं तथा || २२-१५७ || हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा | दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः || २२-१५८ || श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं शृणु | सप्त षट्तालतारं वा ह्यधवा पञ्चतालकम् || २२-१५९ || वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् | मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् || २२-१६० || सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् | नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः || २२-१६१ || त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् | तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् || २२-१६२ || छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते | दर्पणं पूर्णकुंभञ्च वृषभं युग्मचामरम् || २२-१६३ || श्रिवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् | स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः || २२-१६४ || प्. १०८) रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् | दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् || २२-१६५ || सर्वधा शुक्लवर्णाः स्युः सर्वाभरणसंयुतान् | यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् || २२-१६६ || हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः | लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः || २२-१६७ || स्वनाम्नैव च संपूज्य सर्वमङ्गलकर्मसु | अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् || २२-१६८ || अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः | पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् || २२-१६९ || देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं शृणु | शूलं परशु वज्रञ्च खट्गंपाशं तथाङ्कुशम् || २२- १७० || घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् | एकतालप्रमाणन्तु भूतानामुपरि स्थितम् || २२-१७१ || विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् | भूतवत् भूतमानेन कारयेत् सर्वमानकैः || २२-१७२ || यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् | भागेन कारयेच्छूलं गण्डिकाभागमेव च || २२-१७३ || शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं शृणु | गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः || २२-१७४ || भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् | एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते || २२-१७५ || तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् | तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः || २२-१७६ || शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् | पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् || २२-१७७ || एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते | एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् || २२-१७८ || चतुरङ्गुलविस्तारा फलका चतुरश्रका | त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् || २२-१७९ || प्. १०९) कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः | तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् || २२-१८० || ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् | फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः || २२-१८१ || पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः | नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् || २२-१८२ || अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् | क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् || २२-१८३ || ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् | एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् || २२-१८४ || सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि | पूजयेत् सुविशेषेण लोकपालायुधांच्छृणु || २२-१८५ || वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशांकुशौ गदाम् | त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् || २२-१८६ || प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् | पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते || २२-१८७ || मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् | एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् || २२-१८८ || चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् | तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः || २२-१८९ || दण्डमेवं समाख्यातं खट्गंपाशन्तु पूर्ववत् | दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् || २२-१९० || अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते | गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् || २२-१९१ || कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ | प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि || २२-१९२ || चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् | मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् || २२-१९३ || एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते | अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् || २२-१९४ || प्. ११०) चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् | सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् || २२-१९५ || तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः | किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् || २२-१९६ || शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः | अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः || २२-१९७ || अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु | अस्त्राणां लक्षणं प्रोक्तं तोरणानां शृणु क्रमात् || २२- १९८ || पलाशखदिराश्वत्थैः शमीबिल्वशिरीषकैः | कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः || २२-१९९ || सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् | एकहस्तप्रमाणेन मध्ये शूलसमायुतम् || २२-२०० || तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते | द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि || २२-२०१ || द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतः समम् | कुम्भगण्डियुतं स्तंभं विष्कंभं रत्निविस्तृतम् || २२-२०२ || अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् | त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् || २२-२०३ || भद्रतोरणमेवोक्तं सुवर्णकुसुमं शृणु | द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा || २२-२०४ || मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् | पुष्पमेवं समाख्यातं पट्टञ्च गोलकां शृणु || २२-२०५ || पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् | गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् || २२-२०६ || जटामकुटमीशस्य शक्तिनान्तु किरीटकम् | मकुटं कुण्डलञ्चैव हारकेयूरकं तथा || २२-२०७ || कटकं कटिसूत्रञ्च पादनूपुरकं तथा | कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् || २२-२०८ || प्. १११) यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् | एवमाभरणं प्रोक्तं क्षुरकर्तरिकां शृणु || २२-२०९ || अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा | आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् || २२-२१० || द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् | क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् || २२-२११ || द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् | नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् || २२-२१२ || अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् | द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि || २२-२१३ || मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् | लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् || २२-२१४ || एवं समासतः प्रोक्तं ग्रमादीनां ततः शृणु | इति करणाधिकारलक्षणपटल द्वाविंशतितमः || २२ || अथ ग्रामादिलक्षण पटलः अथातः संप्रवक्ष्यामि ग्रामादीनान्तु लक्षणम् | देवानां पूजनार्थन्तु ग्रामादिविन्यसेत् क्रमात् || २३-१ || ग्रामञ्च नगरञ्चैव पत्तनं खर्पटं परम् | खेटकं कुटिकञ्चैव शिबिरं राजधानिकम् || २३-२ || सेनामुखं दशैतानि कीर्तितानि क्रमेण वै | विप्राणाञ्च ससत्यानां वासोग्राम इति स्मृतम् || २३-३ || स एव विप्रमुख्यानामग्रहार इति स्मृतम् | अनेकजातिसंबाधं नानाशिल्पजनैर्युतम् || २३-४ || क्रयविक्रयकैः कीर्णं सर्वदेवैः समायुतम् | नगरं त्वितिविख्यातं पत्तनं शृणु सांप्रतम् || २३-५ || प्. ११२) दीपान्तरगतद्रव्यं विक्रयक्रयकैर्युतम् | पत्तनं त्वब्धितीरे तु तयोर्मिश्रन्तु खर्पटम् || २३-६ || क्रयविक्रयकैर्युक्त नानाजातिसमायुतम् | तन्तु वायैः समायुक्तं तत्पुरं त्वितिसंस्मृतम् || २३-७ || शूद्रैरधिष्ठितं यत्तत् खेटकं त्वितिकीर्तितम् | तेषां समान्तरे येषां वा संकुटिकमुच्यते || २३-८ || राजसेना च मूनान्तु निवेशं शिबिरं स्मृतम् | चतुरङ्गसमाकीर्णं नृपभूतिसमायुतम् || २३-९ || राजवेश्मसमायुक्तं राजधानीति चोच्यते | सर्वजातिसमाकीर्णं नृपवेश्मसमायुतम् || २३-१० || बहुरक्षासमायुक्तं सेनामुखमिति स्मृतम् | ग्रामद्वादश साहस्रैर्दशसाहस्रकैरथ || २३-११ || सहस्राष्टकसङ्ग्याभिः कर्तव्यञ्चोत्तमत्रयम् | सप्तषट्पञ्चसाहस्रैर्मध्यमत्रयमेव हि || २३-१२ || चतुस्त्रिद्विसहस्रैस्तु कन्यसत्रयमाश्रयेत् | एवं नवविधं प्रोक्तमथक्षुद्राणि चोच्यते || २३-१३ || सहस्रमर्धमर्धञ्च क्षुद्रेषु वरमुच्यते | द्विशतं त्वर्धमर्धञ्च क्षुद्रमध्यममेव च || २३-१४ || चत्वारिंशदथत्रिंशद्विंशत् क्षुद्रावरं स्मृतम् | अष्टादशविधन्तेषु यथा शक्तन्तु कारयेत् || २३-१५ || विद्याचारगुणैर्युक्तान् पत्न्यग्नि गुरुपुत्रकान् | दरिद्रां वेदशास्त्रज्ञानाहू या भ्यर्चयेत् क्रमात् || २३-१६ || विप्रनामादिकं गोत्रैस्ताम्र पत्रतलेर्पयेत् | ग्रामबीजां विनिच्छित्य तथा प्रत्यकरेणुना || २३-१७ || प्रमाणैर्निश्चितं भूमिं दद्यादुदकपूर्वकम् | एवमेव कृते पश्चात् ग्रामविन्यासमारभेत् || २३-१८ || भूमिं समतलङ्कृत्वा खातकर्षणसंयुतम् | पञ्चसाहस्र दण्डेन कल्पयेदुत्तमस्य तु || २३-१९ || सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् | तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु || २३-२० || प्. ११३) वृत्तं वा चतुरश्रं वा पूर्वायाममथापि वा | दक्षिणायतमेवाथ कल्पयेत् तन्त्रवित्तमः || २३-२१ || तन्मध्ये नै-ऋतेभागे दण्डमानेन विस्तृतम् | शङ्कुमण्डलमास्तीर्य मध्ये शङ्कुं स लक्षणम् || २३-२२ || खदिरञ्चन्दनं वापि सालयाज्ञकवृक्षजम् | द्वादशाङ्गुलमुत्सेधं नाहङ्कृत्वा तदर्धतः || २३-२३ || मूलात् षोडश हीनाग्रं सुदृढमृजुमव्रणम् | शङ्कुप्रमाणाद् द्विगुणं त्रिगुणं मण्डलत्रयम् || २३-२४ || ब्रह्माणं मनसाध्यात्वा शङ्कुण्डलमध्यमे | न्यस्त्वाच्छायाग्रपतनं दृष्ट्वा संलक्ष्यसुचिना || २३-२५ || पूर्वाह्णे वा पराह्णे वा सूत्रं तत्र प्रसारयेत् | एवं पाचीन्तु सङ्कल्प्य मत्स्ये नोदीचिकंबुधः || २३-२६ || एकाशीति पदन्तत्र सूत्रमानेन कल्पयेत् | तत्रस्थ देवान् सङ्कल्प्य गन्धपुष्पादिभिः क्रमात् || २३-२७ || ईशानश्चाथफर्जन्यो जयन्तश्च महेन्द्रकः | आदित्यः सत्य अभ्रंशा वन्तरिक्षश्च पूर्वगाः || २३-२८ || अग्निः पूषा च वितथोग्रहक्षतयमौ तथा | गन्धर्वो भृंगराजस्तु मृगश्चिव तु दक्षिणे || २३-२९ || नि-ऋतिद्वौ वारिकश्चैव सुग्रीवं पुष्पदन्तकः | वरुणश्चासुरः शोषः पापयक्ष्मा च पश्चिमे || २३-३० || वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च | ऋगोदध्ययनश्चैव द्वात्रिंशत् बाह्यदेवताः || २३-३१ || मरीचिको विवस्वांश्च मित्रश्च पृथिवीतरः | आपश्चैवापवत्सश्च सविता सावित्र एव च || २३-३२ || इन्द्र इन्द्र जयश्चैव रुद्रोरुद्र जयस्तथा | * * * * * * * * * * * * * ?कल्पयेत् || २३-३३ || तत् समंद्वा * * * * * * * * * * * *? | * * * * * * * * ?तद्वामूक्तपदेषु वै || २३-३४ || तदर्धं क्षुद्रविधिना दक्षिणोत्तरमार्गतः | ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् || २३-३५ || प्. ११४) श्रीवत्सन्नाभिवर्तञ्च पार्श्वयुक्तन्तु पद्मकम् | नन्द्यावर्तञ्च भद्रञ्च स्वस्तिकञ्च प्रकीर्णकम् || २३-३६ || ग्रामा ग्रहारयोर्न्यासमेवं प्रोक्तं विशेषतः | कुम्भवेदिक सिंहाख्या स्त्रिधासेना निवेशनम् || २३-३७ || दण्डकन् त्वितिविख्यातं नागरादिप्रकल्पयेत् | वीधयः प्राङ्मुखस्तिस्रः सप्तपञ्च उदङ्मुखाः || २३-३८ || अष्टद्वारन्तु विन्यासं श्रीवत्सन्तु प्रगद्यते | ता एव विधयः प्रोक्ता नाभियुक्तञ्च मध्यमे || २३-३९ || पार्श्वयो राजवीधी च नाभिवर्तस्य चोच्यते | अनाभिः पूर्ववत् प्रोक्तं पार्श्वयुक्तमिति स्मृतम् || २३-४० || अष्टद्वारसमायुक्तं प्राङ्मुखं पञ्चवीधिकाः | शेषाणि पूर्ववत् कृत्वा नन्द्यावर्तमुदाहृतम् || २३-४१ || द्वारवीधिं यदिप्रोक्ष्यद्रुममध्यम संस्पृशेत् | भद्रकं नामनामेति स्वस्तिकञ्च ततः शृणु || २३-४२ || तिर्यग्वीधिरयुग्माश्च प्राङ्मुखाश्चतुरत्थ्यया | स्वस्तिकञ्च इति प्रोक्तं पद्मकञ्च ततः शृणु || २३-४३ || नाभिमङ्गलवीधीभ्यामयुग्माः क्षुद्रविधयः | परिवेष्टिञ्च तद्वारमेतत् पद्मकमुच्यते || २३-४४ || तथा स्वस्तिकवत् कृत्वा कोणमध्ये च द्वारकौ | एतत् तु कर्णिका पद्मं पद्मावर्तमथशृणु || २३-४५ || पद्मवत् प्रोतरत्थ्यान्तं पद्मावर्तमिति स्मृतम् | स्वमध्ये नाभियुक्तन्तु तद्युक्ता चान्तवीधिका || २३-४६ || प्रकीर्णकमिति प्रोक्तं कुम्भकञ्च ततः शृणु | आवृतञ्चोक्तरत्थ्या च कुम्भकञ्चेति कथ्यते || २३-४७ || पञ्च * * * * * * * * * * * * * *? | * * * * * * * * * ?कल्पयेदुत्तरस्य || २३-४८ || सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् | तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु || २३-४९ || प्. ११५) यथेष्टायतरत्थ्येक द्वारद्वयसमन्वितम् | तद्दण्डकमिति प्रोक्तमेतत् ग्रामादिनामतः || २३-५० || नाभिप्रोक्तं दण्डछेदं सूत्रछेदं न कारयेत् | सगर्भा सर्व-ऋद्धिः स्यादगर्भा सर्वनाशिनी || २३-५१ || तस्मादादौ प्रकर्तव्या सगर्भा पृथिवी ततः | शतद्वयपलैस्ताम्रैस्तदर्धैर्वा तदर्धकैः || २३-५२ || पलैः फेला प्रकर्तव्या हस्तमात्रप्रमाणतः | नवकोष्ठसमायुक्तं सपिधाना समादृढा || २३-५३ || रत्नबीज सम्रध्या तु लोहकन्दानि चैव हि | फेलामध्ये यथा न्यस्त्वा सुमुहूर्ते तु विन्यसेत् || २३-५४ || ग्राममध्ये सभास्थाने द्वारदक्षिणपार्श्वके | देवालये तथा रामे तटाकस्य तु तीरके || २३-५५ || एवं गर्भं सुविन्यस्य ग्रहश्रेणी समारभेत् | त्रिदण्डं पञ्चदण्डं वा सप्तदण्डाधमत्रयम् || २३-५६ || नवैकादशदशकं मध्यमत्रितयं विदुः | दशपञ्चाधिकं सप्तदशचैकोनविंशतिः || २३-५७ || उत्तम त्रितयद्वत्र एषामेक तमंबुधः | विस्ताराभद्विगुणाधिक्यं दण्डैकमधिकं यथा || २३-५८ || विस्तारादर्द्धमायामं द्विगुणं त्रिगुणायतम् | पुरुषस्यप्रधानं हि वासं दक्षिणमुच्यते || २३-५९ || उत्तरेरङ्गमेवं स्यात् स्त्रीणाञ्चेद्विपरीतकम् | ईशे महासनं प्रोक्तं मांहेन्द्रे द्वारवेशनम् || २३-६० || नै-ऋते कल्पयेद् धान्यं फर्ज्जन्येजलनिर्गमम् | विधेरभिमुखद्वारं ग्रहाणां तद्विधीयते || २३-६१ || सप्तविंशति दण्डं वा महावीधि प्रमाणतः | तत् समन्द्वारमाख्यातं तद्वास्तूक्त पदेषु वै || २३-६२ || तदर्धं क्षुद्र विधिना दक्षिणोत्तरमार्गतः | ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् || २३-६३ || प्. ११६) ईशाने चेश्वर स्थानं सोमेशानान्तरेऽथवा | तथैन्द्राशान योर्मध्ये कल्पयेत् तु विचक्षणः || २३-६४ || सहस्रभूसुरादूर्ध्वे ब्रह्मेशो वायुदेशके | पञ्चमूर्ति विधानेन स्थापयेद् वै जनार्दनम् || २३-६५ || ऐन्द्रे तु भास्करस्थानं महामोट्यास्तु पावके | दुर्गस्थानन्तु याम्यायां महेशि तुश्च नै-ऋते || २३-६६ || विष्णु स्थानन्तु वारुण्यां सुब्रह्मण्यन्तु वायवे | विनायक स मातृणां स्थानं सम्यक् तथोत्तरे || २३-६७ || प्राकार परिखाबाह्ये मातृणां स्थानमिष्यते | तासां वै चोत्तरद्वारं ग्रामादीनां हिताय वै || २३-६८ || सूर्यस्य पश्चिमद्वारमन्येषां पूर्वतोमुखम् | तटाकस्य तु तीरे तु ज्येष्ठा देवीं प्रकल्पयेत् || २३-६९ || बाह्ये चाभ्यन्तरेवापि देवागारं पृथक् पृथक् | शिवस्य वास्तु बाह्ये तु प्रासादं प्रोक्तदेशके || २३-७० || सन्धिमर्मेषु वीध्यग्रे देवानामालयन्न हि | ग्रामायामस्य पञ्चांशं परितः कल्पयेत् पृथक् || २३-७१ || पैशाचमिति विख्यातं तत्र देवालयं स्मृतम् | शिवस्याराधनं नित्यं भुक्तिमुक्तिप्रदायकम् || २३-७२ || अन्येषां पूजनन्नित्यं ग्राम-ऋद्धिकरं भवेत् | देवस्थानं विनायत्र एककालं न वासयेत् || २३-७३ || नित्यपूजाविहीने तु क्रुद्धं पीडां करोति हि | तत् पूजकास्तु तत् पार्श्वे तस्यालयसमीपतः || २३-७४ || आवासं संप्रकल्प्यैव न्यसेयुर्निरुपद्रवाः | ग्रामादीनान्तु परितः शूद्राणान्तु निवासकम् || २३-७५ || वारिजां पश्चिमेभागे अथवा दक्षिणे दिशि | प्राच्याञ्चैव कुलालानां पश्चिमे वा विशेषतः || २३-७६ || पश्चिमे मांसवृत्तीनां वायव्येमत्स्यजीविनाम् | दक्षिणे तैल वृत्तीनामुत्तरे पुष्पजीविनाम् || २३-७७ || प्. ११७) आग्नेययां नापितानान्तु नै-ऋत्यान्तन्तु वायकान् | परितः परिघातन्तत् बाह्ये चाप्यन्त्यजनान् पृथक् || २३-७८ || पूर्वे वा पश्चिमे वापि कर्मकारान् प्रकल्पयेत् | कारुकाणान्ततो बाह्ये चण्डालानान्ततो बहिः || २३-७९ || ग्रामात् क्रोशमतिक्रम्य नगराणान्तदर्धतः | ग्रामस्यैशान दिक्भागे श्मशानन्तु विधीयते || २३-८० || नद्यास्तीरेऽथवा सोमे कञ्चिद्दूरं समाश्रितम् | चतुर्दिक्षु तटाकञ्च कोणे वापि प्रकल्पयेत् || २३-८१ || एवं समासतः प्रोक्तं ग्रामादीनान्तु लक्षणम् | शृणुत्वमेव मनसा विभवस्य तु निश्चयम् || २३-८२ || इति ग्रामादिलक्षणपटलस्त्रयोविंशतितमः || २३ || अथ विभवनिश्चय पटलः अथातः संप्रवक्ष्यामि विभवस्य विनिश्चयम् | साम्रतं हारकञ्चैव द्विविधं मार्गमुच्यते || २४-१ || शिवं साम्रमिति प्रोक्तमन्येषां हारकं स्मृतम् | अशक्तः साम्रतं कर्तुं हारकेणसमारभेत् || २४-२ || समाप्ति पूर्वं यत् कर्मसाम्रतं ह्यभिधीयते | पश्चात् कर्मसमाप्तिः स्यात् हारकं मार्गमुच्यते || २४-३ || नवधा कल्पयेद् विद्वान् यज्ञोपस्करमादरात् | आदिशैवांस्तपोयुक्तां विधिज्ञान् मन्त्रसंयुतान् || २४-४ || शिवव्रतधरान्मुख्यान् शैववेद विशारदान् | यस्मिन् सञ्जायते भक्तिस्तस्मिन्नाहूयशास्त्रतः || २४-५ || प्. ११८) सर्वशास्त्राश्रितं शास्त्रं सर्वज्ञानेषु दुर्ल्लभम् | सर्वपूजा क्रियायुक्तं तन्त्रं सर्वार्थसाधनम् || २४-६ || इदं शास्त्रं परं दिव्यं तमसामिव भास्करः | तस्माच्छैवमिदं श्रेष्ठं रत्नानामिव भास्करः || २४-७ || शैवरत्नमतं दिव्यं शैवशास्त्रार्थ पारगाः | जङ्गमा इवमूर्तिस्थाः शिवस्येव विशेषतः || २४-८ || नमस्कृत्वा यथा न्यायं पप्रच्छेत् सविधानतः | अनुज्ञाप्य स्वदेशस्थान् भक्तियुक्तान् दृढवृतान् || २४-९ || यूयं दासाः शिवेमुख्या युष्माकमिहमुख्यतः | भक्तस्य मम दासस्य युष्मद् भक्तिपरस्य च || २४-१० || अनुमान्यो भवद्भिश्च पूजा संप्रतिग्रह्यताम् | अहं दीक्षां करीष्यामि येषु यज्ञपरं परम् || २४-११ || समाप्यताञ्च युष्माभिर्दीर्घ सत्रं विशिष्यते | अरिष्टानाञ्च शान्त्यर्थं यूयमेव प्रगृह्यताम् || २४-१२ || तत् पुनर्महदत्यन्तं युष्माकं प्रक्षिपाम्यहम् | शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च || २४-१३ || एत देवञ्च कर्तव्यं मयायज्ञसमाप्तिकम् | युष्मच्छासनमार्गेण प्रयताम विशेषतः || २४-१४ || हविषामध्यमे तावदर्चनाभोगमेव तु | गन्धपुष्पार्थमेतावद् धूपस्य च तथैव च || २४-१५ || स्नपनार्थं तथा चैव उत्सवार्थं तथैव च | एतावत् परिचाराणामुद्भूतिकसमन्वितम् || २४-१६ || प्रायच्छित्तार्थमेतावत् कृत्तिकादीपकाय वै | आश्रायणार्थमेतावत् प्रभूतहविरत्थकम् || २४-१७ || न्यूनातिरिक्त वस्त्वेश्च सर्वेषाङ्गुरवे तथा | तन्त्र संरक्षकस्यैव एतावल्लेखकस्य च || २४-१८ || श्रोतॄणाञ्चैव वक्तुश्च दैवज्ञस्य तथैव हि | शुश्रूषकाणामेतावत् भोगमेताव देव तु || २४-१९ || प्. ११९) शैवातिथ्यर्थमेतावत् भक्तानामपि चैव हि | वाद्यकानां हि वै तावत् तथा वै तक्षकस्य तु || २४-२० || यथार्हकं तथा स्मृत्वा स्मृत्वा चैव तु कारयेत् | इति सञ्चिन्त्य सर्वस्वं परिकल्प्य यथा क्रमम् || २४-२१ || भूमिभागेन वै ह्येषां भृत्त्यर्थं परिकल्पयेत् | यद्यन्तरेभि ह्रियते तत् समाप्तिफलं भवेत् || २४-२२ || अक्षीणं कल्पयेत् तेषां यथा शुद्धां न भोजनम् | अक्लेशवस्त्रा जीवन्ति नित्यं गन्धादिवासिताः || २४-२३ || ग्रहस्थान् स्थापयेद् धीमान् सर्वोपकरणानि तु | सुपुष्टभोगङ्कृत्वा तु सुस्थिरं शासनान्वितम् || २४-२४ || कृत वा नल्पभोगं यः क्लेशेन परिचारकान् | सतमेव हि देवेशः क्लेशयत्य चलात्मकः || २४-२५ || न तिष्ठेद्यदि वा तिष्ठेत् नतमाढ्यं प्रकल्पयेत् | स्वयत्नतः फलंदातु रदा तुश्चाप्यफं व्रजेत् || २४-२६ || सहैकविंशत् पूर्वैस्तु स्वकुलैश्च तथानुजैः | वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः || २४-२७ || न तत्फलमवाप्नोति प्रलोभा क्रान्तमानसः | तस्मात् त्रिभागं वित्तस्य जीवनार्थमथात्मनः || २४-२८ || भागद्वयञ्च धर्मार्थमनित्यं जीवितं यतः | साधयित्वा च तत् पूर्णन्ताम्रपात्र तलेर्पितम् || २४-२९ || निश्चयं विभवस्योक्तं कर्षणं शृणु सुव्रत | इति विभवनिश्चयपटलश्चतुर्विंशतितमः || २४ || प्. १२०) अथ कर्षण पटलः अथातः संप्रवक्ष्यामि प्रासादार्थन्तु कर्षणम् | सुमुहूर्ते सुलग्ने च देशिकः शिल्पिभिः सह || २५-१ || उत्तरायणकाले तु कर्षणादीन् समारभेत् | शिशिरश्च वसन्तश्च ग्रीष्म प्रावृट् तथैव च || २५-२ || शरच्चैव तु हेमन्तो ऋतवः षट्प्रकीर्तिताः | तपस्तपस्य शिशिरस्तौ मासौमाखफाल्गुनौ || २५-३ || वसन्तश्चैत्र वैशाखौमासौ तौमधुमाधवौ | ज्येष्ठाषाढाव्रतु ग्रीस्मोमासौ शुक्लशुचिस्मितौ || २५-४ || प्रावृट्च्छ्रावण भाद्राख्यौ नभोनभस्य संज्ञितौ | मासौ शरदिषोर्जौ तु तावाश्वयुजकार्तिकौ || २५-५ || सहः सहस्यौ हेमन्तौ मार्गपुष्यौ तु तौ स्मृतौ | दक्षिणं शर्वरी ज्ञेया देवानामुत्तरोत्तमौ || २५-६ || दिनौतदुत्तरायणे दक्षिणे त्वरिते मतम् | मार्गशीर्षं तथा षाढं प्रोष्ठं माखंविवर्जयेत् || २५-७ || सर्वे मासाग्रहीतव्याः शिवेन परिभाषिताः | तत्रापि सर्वमासेषु वसन्तश्रेष्ठ उच्यते || २५-८ || श्रेष्ठं मध्यममेवोक्तं अधमं दक्षिणायनम् | नक्षत्रपक्षवाराश्च पूर्वमेव सुभाषिताः || २५-९ || कृत्तिका वह्निदैवत्यं रोहिणी च प्रजापतिः | मृगशीर्षः सोमदेवत्यमार्द्रायान्तु शिवं स्मृतम् || २५-१० || पुनर्वसोस्त्वदित्याश्च तिष्यस्य च बृहस्पतिः | आश्लेषस्य हिनागः स्यान्मखस्य पितरस्तथा || २५-११ || भोगो हि फाल्गुने चैव ह्यर्यमोत्तर फाल्गुनः | हस्तं सावित्रमित्युक्तं सर्वकार्येषु पूजितम् || २५-१२ || त्वष्टा चैव तु चित्ताया स्वातेर्वै वायुदैवतम् | इन्द्राग्नी च विशाख्यस्य त्वनूराधस्यमिश्रकम् || २५-१३ || ज्योष्ठायाश्चैव चेन्द्रस्तु मूलस्य नि-ऋतिस्तथा | पूर्वाषाढांभ इत्युक्ता स्थपनेष्वहितं त्विदम् || २५-१४ || प्. १२१) विश्वे देवोत्तराषाढं ब्रह्मात्माभिजितस्तथा | श्रवणस्य हरिश्चैव श्रविष्ठावसवस्तथा || २५-१५ || वरुणः शतभिषजस्त्वजः प्रोष्ठपदस्य तु | उत्तरप्रोष्ठ पादस्य त्वहिर्बुद्ध्निश्च कीर्तितम् || २५-१६ || पूषा चैव तु रेवत्याश्चाश्विन्याश्वयुजस्तथा | यमश्चैव भरण्याश्च दिनानामधिदैवताः || २५-१७ || तिष्यश्रवणहस्तार्द्रामैत्रादित्यमखास्तथा | प्राजापत्याश्वयुक् स्वाति सौम्यपौष्ण्यत्रिरुत्तराः || २५-१८ || द्वितीया च तृतीया च पञ्चमी षष्ठ सप्तमी | दशम्येकादशी चैव प्रतिपच्च त्रयोदशी || २५-१९ || पौर्णमासी च तिथयः शुक्लपक्षे विशेषतः | राशयश्चरवर्ज्यास्तु शेषाग्राह्याधनुर्विना || २५-२० || बुधः शुक्रेन्दु जीवश्च वाराश्रेष्ठास्तु नेतराः | द्रेक्काणांशकहोराश्च एकादर्शनमिष्यते || २५-२१ || त्यक्त्वा सोमोदयं तत्र चान्येषामुदयं शुभम् | व्याधि पीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह || २५-२२ || सोमसूर्यौ च भुञ्जाश्च त्रिषष्ठाय स्थिताः शुभाः | त एव लग्नगाः कुर्यार्व्याधिशोक भयानि तु || २५-२३ || अष्टमस्थाग्रहाः सर्वे कर्तुः कुर्वन्ति दुस्थितम् | एकादश गताः सर्वे क्षेमारोग्यसमृद्धिदाः || २५-२४ || भयकृत् भार्गवः प्रोक्तः सट्सप्तदशम स्थितः | नवद्विसप्त पञ्चस्थो गुरुः शोभनकृत् तथा || २५-२५ || सोमोति सौख्यकृत् प्रोक्तो द्वितीये पञ्चमेपि च | रविवारः शुभोयुक्तः पौष्णहस्तत्रिरुत्तरैः || २५-२६ || सौरिवारः शुभः प्रोक्तस्वातीरोहिणी योगतः | बुधयुक्ता द्वितीया च गुरुः षष्ठिसमायुतः || २५-२७ || इन्दुरेकादशी युक्तः प्राणपीडां करोति हि | पौष्णस्तु सप्तमीयुक्त प्रजान्दहति वह्निवत् || २५-२८ || प्. १२२) अशुभः सोमवारस्तु उत्तराषाढसंयुतः | विष्ठिस्त्रणान्त नक्षत्रखण्डांश्च गुलिकांस्त्यजेत् || २५-२९ || दुर्दिने च दिशादाहे भूकंपे चण्डमारुते | अशनिध्वनिसंयुक्त दिवसे चाशुभं स्मृतम् || २५-३० || संक्रान्तौ ग्रहणे चैव अयने विषुवे तथा | उत्सवे शान्तिकाले वा षडशीतिमुखेपि च || २५-३१ || यदिमोहेन कुर्याच्चेत् कर्तुर्वै वस्तुनाशनम् | एवं परीक्ष्य बध्नियात् यदीश्चेच्छ्रियमात्मनः || २५-३२ || पर्वतेषु च रम्येषु ग्रामे च नगरेथवा | इन्द्रेशाने त्वथेशाने सोमेशानेऽथवा पुनः || २५-३३ || यस्मिं देशेमनोज्ञे तु तत्र प्रासादमारभेत् | अथभूमिं परिक्ष्यादौ कर्षणन्तदनन्तरम् || २५-३४ || श्वेतारक्ता तथा पीता कृष्णाभू ब्राह्मणादयः | मोक्षदा ब्राह्मणी भूमिर्जयदाक्षत्रिया तथा || २५-३५ || वैश्या भूमिस्तु धनदावृषला पुत्रदायिका | ऊषरां क्रिमिभिर्जुष्टां वल्मीकायां विवर्जयेत् || २५-३६ || जानुमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् | उत्तमात्वधिकाभूमिस्तत् समञ्चेत्तु मध्यमा || २५-३७ || न्यूनेवर्ज्या प्रयत्नेन तत्रस्थां देवतां न्यसेत् | भूतप्रेत पिशाचानां बलिन्दत्वा विशेषतः || २५-३८ || एतत् तु देवदेवस्य स्थानं कर्तुं महीतले | बलिं पूजाञ्च संग्राह्य शीघ्रं गच्छेद् यथा सुखम् || २५- ३९ || एवमुक्त्वा ततो देवानुद्वास्याथ प्रकर्षणम् | पिङ्गलौ पालितौ रक्तौ वृषौ वै नाङ्गहीनकौ || २५-४० || अन्यवर्णं न कर्तव्यं न बालौ न च वृत्तकौ | हेमशृङ्गखुरौ न्यस्त्वा वृषमन्त्रेण पूजयेत् || २५-४१ || युगञ्च सहलं बध्वा याज्ञकैर्वृक्षसंभवैः | शमिबिल्वञ्च खदिरो पनसस्तंबकस्तथा || २५-४२ || प्. १२३) तक्षकेन तथा कृत्वा यन्त्रयित्वा सलोहकम् | हलं युगेनसंबध्वा गोचर्मकृतरज्जुना || २५-४३ || आचार्यस्त्वादिशैवस्तु सकलीकृत विग्रहः | पूण्याहं वाचयित्वा तु संप्रोक्ष्य पञ्चगव्यकैः || २५-४४ || कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवां महीम् | आचार्यं पूजयित्वा तु दद्यात् तु सहलौ वृषौ || २५-४५ || तिलसर्षपमुद्गांश्च शालीबीजांश्च वापयेत् | पञ्चरात्र्यां त्वङ्कुरिता ग्राह्यान्या तु विवर्जिता || २५-४६ || तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् | एवं परीक्ष्य वसुधां संग्राह्यो देशिकोत्तमः || २५-४७ || विसृज्यमेष वृषभं गते सूर्ये दिने शुभे | शङ्कुच्छाया गृहीतव्या मण्डलन्तत्र कारयेत् || २५-४८ || कृत्वा समतलं तत्र गोमयेनानुलिप्य च | द्वादशाङ्गुलमायामं स्वायामन्नाहमेव तु || २५-४९ || अष्टांशैकं परित्यज्य सप्तांशमूर्ध्वनाहकम् | शमीबिल्व पलाशैर्वा याज्ञिकैर्वा विशेषतः || २५-५० || शंकुन्न्यस्त्वा तु तन्मध्ये भ्रामयेन्मण्डलत्रयम् | शंङ्कुच्छायाञ्च संलक्ष्य पूर्वाह्णे वा पराह्णके || २५- ५१ || तन्मध्ये पातयेत् प्राचीं सूत्रमार्गेण देशिकः | प्राचीसूत्रप्रमाणेन मत्स्यन्तत्र प्रकल्प्य च || २५-५२ || भवेत् सूत्रमुदक् चैवं संकल्प्य चतुरश्रकम् | प्रासादमण्डपानाञ्च प्राकाराणाञ्च विस्तृतः || २५-५३ || सङ्ग्राह्य सुविशेषेण पुण्याहं वाचयेत् बुधः | मूलस्थानं गृहीत्वा तु बालस्थानन्तु कारयेत् || २५-५४ || कर्षणाया विधिः प्रोक्तो बालस्थान विधिं शृणु | इति कर्षणविधिपटलः पञ्चविंशतितमः || २५ || प्. १२४) अथ तरुणालयलक्षण पटलः अथातः संप्रवक्ष्यामि तरुणालयलक्षणम् | आद्यं द्वितीयमेवन्तु द्विविधन्तरुणालयम् || २६-१ || मूलस्थानस्य यत् पूर्वन्तदाद्यन्तरुणालयम् | पूनः प्रासादकरणे भिन्नेच्छिन्नेन वीकृते || २६-२ || यत् कृतन्तत् द्वितीयाख्यन्तरुणालयमुत्तमम् | अन्यानि सर्वकर्माणि समानमिति भाषितम् || २६-३ || मूलस्थानं विनिश्चित्य बालस्थानन्तु कारयेत् | बाललिङ्गं प्रतिष्ठाप्य पश्चान्मूलं प्रतिष्ठयेत् || २६-४ || बालस्थानं विनापूर्वं मूलस्थानं न कारयेत् | बालस्थानं विना यत्र पुत्रपौत्र विनाशनम् || २६-५ || तस्मात् सर्वप्रयत्नेन बालस्थानन्तु कारयेत् | यस्मिन् काले यदा क्षेत्रे कृते भूमिपरिग्रहे || २६-६ || तस्याग्रे चोत्तरेवापि अग्रे वामेग्रदक्षिणे | ईशाने वापि शेषेण कारयेत् तरुणालयम् || २६-७ || पञ्चसप्त नवाहे वा रात्रौ कृत्वाङ्कुरार्पणम् | लोहजं शैलजं लिङ्गं दारुजं मृन्मयन्तु वा || २६-८ || कारयेत् तु विशेषेण लक्षणोक्तेन देशिकः | शमीबिल्वमधूकैश्च अश्वत्थोदुंबरैस्तहा || २६-९ || बाललिङ्गं प्रकर्तव्यं मृन्मयञ्चेत् सुपक्वकम् | द्वादशाङ्गुलमुत्सेधमुत्तमं परिकीर्तितम् || २६-१० || सप्ताङ्गुलमधोत्सेधमधमामधमेव हि | तस्मात् द्व्यङ्गुल वृध्या तु बाललिङ्गा नवस्मृताः || २६-११ || स्वधामकुण्डली भूतं सर्ववृत्तमिहोच्यते | छत्राकारं शिरः कुर्याल्लक्षणोद्धारणं विना || २६-१२ || स्वयोनिं कारयेत् पीठमथवा चेष्टकामयम् | सप्तपञ्च त्रिहस्तं वा कर्तव्यन्तरुणालयम् || २६-१३ || एवमाद्यं समाख्यातं द्वितीये तरुणालये | पूजाभागसमायामं त्रिपादं वार्द्धमेव वा || २६-१४ || प्. १२५) आयाम सदृशन्नाहं लक्षणोधारणं विना | नतौ विष्णु विरिञ्चांशौ तश्चिरोन्मूललिङ्गवत् || २६-१५ || लिङ्गमेवं समापाद्य मूलगर्भार्धमानतः | त्रियंशं वा चतुर्थाशं प्रोक्तं बालग्रहं त्विह || २६-१६ || बालगेहान्तरे पिठं बाललिङ्गसमोन्नतम् | उच्छ्रायसमविस्तारं सावटं सप्रणालकम् || २६-१७ || लिङ्गायामं त्रिधा कृत्वा भागं पीठे निवेशयेत् | वृत्तं वा चतुरश्रं वा षोडशांशेन योजितम् || २६-१८ || रत्नन्यासं न कर्तव्यं पादशैलानिकानि च | प्रतिलिङ्गं न कर्तव्यं सूत्रञ्चैव तथा भवेत् || २६-१९ || तद्विमानाग्र भागे तु मण्डपं सुविशेषतः | दशाष्ट नवहस्तं वा सप्तहस्तमथापि वा || २६-२० || षोडशस्तंभसंयुक्तं सर्वालङ्कारसंयुतम् | तन्मध्ये वेदिकां कुर्यात् नवभागैक भागतः || २६-२१ || हस्तमात्रसमुत्सेधां दर्पणोदरवत् समाम् | गोमयालेपनङ्कृत्वा ब्राह्मणान् भोजयेत् ततः || २६-२२ || पुण्याहन्तत्र कर्तव्यं वास्तुहोमं विशेषतः | तद्धोमं विधिवत् कृत्वा पर्यग्निकरणं तथा || २६-२३ || वस्त्रैः सशालिभिर्युक्तं सदर्भैः पुष्पसंयुतम् | पीठस्य मध्यमे न्यस्त्वा कण्ठमात्रे जले तथा || २६-२४ || उषितं लिङ्गमुत्थाप्य स्नानवेद्यु परिन्यसेत् | सौवर्णं राजतं वापि क्षौमङ्कार्पासमेव वा || २६-२५ || कौतुकं हृदये नैव कृत्वा घृतशिरोर्पणम् | शयने शाययेल्लिङ्गं प्राक् शिरस्कं सयोनिकम् || २६-२६ || गन्धपुष्पाक्षतैश्चैव संपूज्यशयनो परि | वस्त्रेणाच्छादनङ्कृत्वा हृदिना पुष्पदर्भकैः || २६-२७ || सर्वलक्षणसंयुक्तं शयनं संप्रकल्पयेत् | त्रिरात्रमेक रात्रं वा जले चैवाधिवास्य च || २६-२८ || प्. १२६) वस्त्रेण वेष्टयित्वा तु कुम्भं सूत्रेण वेष्टितम् | पञ्चरत्नसमायुक्तं वस्त्रयुग्मेन वेष्टितम् || २६-२९ || व्योमवद् व्यापिनं देवं ध्यात्वारूपं सदाशिवम् | विन्यसेत् कुम्भमध्ये तु शिवमन्त्रं समुच्चरन् || २६-३० || संपूज्यगन्धपुष्पाद्यैर्हृदयेन तु मन्त्रतः | तस्य वामे तु वर्धन्यां गौरीं विन्यस्य मन्त्रतः || २६-३१ || हैमवस्त्रसमायुक्तां वर्धनीं पूर्ववद्यजेत् | मूललिङ्गे तु देवेशं द्वितीयश्चेत् समावहेत् || २६-३२ || विज्ञाप्य देवदेवेशं क्षणकालं विचक्षणः | एकाब्दात् द्वादशाब्दान्तं बालस्थाने स्थिरो भव || २६-३३ || एत योरब्दयोर्मध्ये कुर्यान्मूलप्रवेशनम् | विज्ञापयेत् द्वितीये तु चाद्ये विज्ञापनं विना || २६-३४ || विद्येशोमा शिवाख्येषु कलशेषु पृथक् पृथक् | तत्तद्रूपमनुस्मृत्य स्वस्वमन्त्रेण विन्यसेत् || २६-३५ || सकूर्चान् वस्त्रसंयुक्तान् सर्वलक्षणसंयुतान् | गन्धपुष्पादिना पूज्य हृदयेन विचक्षणः || २६-३६ || दिशा स्वध्ययनं कुर्या दृग्यजुः सामाधर्वकैः | नवपञ्च तथा त्रीणि एकहोममथापि वा || २६-३७ || कृत्वाग्निमुखसंस्कारं पूर्वोक्तविधिना ततः | खदिरं वटबिल्वौ च प्लक्षाश्वत्थावुदुंबरम् || २६-३८ || शमीवैकं ततञ्चैव समित् पूर्वादितः क्रमात् | पलाशस्तु प्रधानस्य होमयेद्धृदयेन तु || २६-३९ || औदुंबरसमिद्भिर्वा सर्वेषाञ्चैव कारयेत् | समिदाज्यान्नकैर्मन्त्रैर्होमङ्कृत्वा पृथक् पृथक् || २६-४० || समिधं हृदये नैव मूले नैव घृतं हुनेत् | शिवगायत्रि मन्त्रेण चरुंहुत्वा विशेषतः || २६-४१ || स्पर्शा हुतिं शिवाङ्गेन हुत्वाङ्गानि च संस्पृशेत् | प्रभाते विमले होमङ्कृत्वा पूर्णां शिवेन तु || २६-४२ || प्. १२७) आचार्यं पूजयित्वा तु मूर्तिपानथ पूजयेत् | दैवज्ञं पूजयित्वा तु अध्ये तॄन् परिचारकान् || २६-४३ || उत्थाप्यशयनाल्लिङ्गन्तरुणालय मध्यमे | संस्थाप्य लिङ्गं सुस्निग्धं पीठस्या वटमध्यमे || २६-४४ || कुम्भस्थ देवदेवेशं शिवमन्त्रेण विन्यसेत् | शिवाङ्गानि न्यसेत् पश्चात् पिण्डिकायां मनोन्मनीम् || २६-४५ || अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् | विद्येशोमा शिवाख्यैस्तु कुम्भैरस्त्राभिषेचनम् || २६-४६ || अर्चनोक्तमथाभ्यर्च्य नैवेद्यं दापयेत् क्रमात् | द्वारादिपीठपर्यन्तं विन्यसेत् तु यथा विधि || २६-४७ || स्नपनन्तत्र कुर्वीत यथा शक्त्या विशेषतः | उत्सवन्तु यथा शक्ति द्वितीये तरुणालये || २६-४८ || बल्यन्तः पूजयेन्नित्यमुत्सवन्न समाचरेत् | बालस्थान विधिः प्रोक्ता शृणुष्वालयवास्तुकम् || २६-४९ || इति तरुणालयलक्षण पटलः सड्विंशतितमः || २६ || अथ प्रासादवास्तु लक्षणपटलः अथातः संप्रवक्ष्यामि प्रासादवास्तु लक्षणम् | मूलस्थानन्तु संशोध्य वास्तु रूपं प्रकल्पयेत् || २७-१ || पुण्याहं वाचयित्वा तु प्रोक्षयित्वा शिवाम्भसा | पुष्पादिभिरथाभ्यर्च्य वास्तु देवान् स्वनामकैः || २७-२ || यदङ्गं संस्पृशेत् कर्ता पूजान्ते तन्निरीक्षयेत् | तत्रैव वास्तु देहेपि ब्रूयाच्छल्यं यथार्थतः || २७-३ || शिरस्पर्शात् तु तत्रैव अस्थिशल्यङ्करद्वयात् | हस्तमात्रे मुखस्पर्शात् काष्ठपृष्ठे गलेद्धृवम् || २७-४ || कण्ठस्पर्शे गलेत्वस्थि त्रिकरे शृंखलं विदुः | त्रिभिर्हस्तैरुरस्पर्शात् भवेच्छल्यन्तु शृंखलम् || २७-५ || प्. १२८) करस्पर्शात् करान्ते तु खट्गापातं समादिशेत् | बाहुसंस्पर्शनात् कर्तुरङ्गारस्तु त्रिहस्ततः || २७-६ || अश्वपादं विनिर्दिष्टङ्गुल्फे पदप्रमाणतः | कणकं पादसंस्पर्शात् सवितस्तिप्रमाणतः || २७-७ || कनिष्ठाङ्गुष्ठयोः स्पर्शात् कराद्धेकां शमुच्यते | लोहशल्यं कटिस्पर्शात् तत् करद्वयमानतः || २७-८ || जानुसंस्पर्शनाद्धस्तेनापितोपस्करं तथा | भुमिष्ठं शल्यमुद्वास्य तत् प्रदेशं खनेत् ततः || २७-९ || यावत् प्रासादविस्तारं तत् समं वा तदर्द्धकम् | अर्धाधिकमथाध्यर्धं खात्वा प्रासादमानतः || २७-१० || अवटस्य चतुर्थांशन्त्र्यंशं वा वालुकैः समम् | अश्वेभपादमुसलैर्मुत्गरैस्तु घनं कृतम् || २७-११ || समं कृत्वा ततः पश्चात् प्रोक्षयित्वा शिवास्त्रतः | पञ्चगव्येन संसिच्य पवमानमुदीरयन् || २७-१२ || वास्तु विन्यासमार्गन्तु दशसूत्रेण देशिकः | एकाशीति पदं वास्तु सर्वसंपत्करन्नृणाम् || २७-१३ || असुराणां हितार्थन्तु शुक्रः कृत्वा महातपः | महातपसिसंभूतो भूताकारोमहाबलः || २७-१४ || अप्रयुक्तस्ततो भूतो देवैर्युद्धं प्रवर्तते | नहतेस्त्रादिभिर्ज्ञात्वा देवैः सुनिहितः कृतम् || २७-१५ || भूम्यामथोमुखस्तत्र * * * * * संस्थिताः | वंशौद्वौ तत्र विज्ञेयौ चतुष्कोणेषु संस्थितौ || २७-१६ || पार्श्ववं शोर्ध्वपाशाश्च त्वष्टौ चैव प्रकीर्तिताः | पूत्वोत्तरमुखारज्जुरूर्ध्वं वंशमिति स्मृतम् || २७-१७ || शिरोमर्माणितान्याहुः कोणपार्श्वे तथाष्टसु | सूत्राणीह सिराज्ञेया तत्सन्धौ सन्धिरुच्यते || २७-१८ || पदे चैक तु षट्भागे तत् तत् षट्कस्तु चोच्यते | पदे चतुर्थभागन्तु तच्चतुष्कमितिरीतम् || २७-१९ || प्. १२९) रज्वग्रसंस्थितं यत् तत् केवलं मर्म उच्यते | वास्तु मध्ये भवेत् पद्मं पदमेकाष्टभाजितम् || २७-२० || कोणात् त्रिशूलं स्यात् पादं पादार्धं करसंपुटम् | एषान्तु पीडने दोषा बहवः परिकीर्तिताः || २७-२१ || सिराश्च सीरं मर्माणि नश्यन्ति स्थान वासिनः | मित्रनाशन्तु सन्धौ तु षट्के वै रंसमन्ततः || २७-२२ || चतुष्के वाहनक्षयं मरणं मर्मसु क्रमात् | पद्मस्थाने विनाशन्तु त्रिशूले गर्भनाशनम् || २७-२३ || गोधनस्य विनाशं स्यात् करसंपुटपीडने | वास्तु देवां यथा स्थाप्य ईशानादी न शेषतः || २७-२४ || ईशानश्चाथ पर्जन्यो जयन्तोथमहेन्द्रकः | आदित्यः सत्यकं शावन्तरिक्षश्च पूर्वगाः || २७-२५ || अग्निः पूषा च वितथो ग्रहक्षतयमौ तथा | गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे || २७-२६ || नि-ऋतिर्दौ वारिकश्चैव सुग्रीवः पुष्पदन्तकः | वारुणो रोगशोषौ च पापयक्ष्मा च पश्चिमे || २७-२७ || वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च | ऋगोदितिर्दिदिश्चैव द्वात्रिंशत् बाह्यदेवताः || २७-२८ || एकमेकं पदं भुक्त्वा श्मशानाद्याः सुसंस्थिताः | ब्रह्मा नवपदान् भुंक्ते वास्तु मध्ये विशेषतः || २७-२९ || समरीकस्तथैन्द्रे तु विवस्वांश्चैव दक्षिणे | मित्रश्च पश्चिमे भागे ह्युत्तरे पृथिवीधरः || २७-३० || ब्रह्मणश्च चतुर्दिक्षु स्थिताः षट्पदभोगिनः | आपश्चैवा पवत्सश्च ऐशान्न्यां दिशिसंस्थितौ || २७-३१ || शुनासीरश्च सावित्र आग्नेययां दिशिसंश्थितौ | इंद्र इंद्र जयश्चैव नै-ऋत्यां दिऽसिसंस्थितौ || २७-३२ || रुद्र रुद्र जयौवायौ चतुष्कोणे प्रकीर्तिताः | एते द्विपदभोक्तारो द्व्यर्धमेव पदस्मृतः || २७-३३ || चरकी च वितारी च पूतनापापराक्षसी | ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः || २७-३४ || प्. १३०) एवं विन्यस्य पूर्वे तु वास्तुदेहं प्रकल्पयेत् | यत् किञ्चिद्वास्तु विन्यासं तत् सर्वं वास्तु रूपकम् || २७-३५ || ईशानेकन्तु विन्यस्त्वा वापौ नै-ऋतगोचरे | अग्निवायवोश्च दिक्भागे जानुकूर्परसंस्थितौ || २७-३६ || लिङ्गमिन्द्र पदेन्यस्त्वा पादौ नै-ऋति विन्यसेत् | मरीचिश्चोदरस्थाने स्तनौ विन्यस्य बुद्धिमान् || २७-३७ || विवस्वति च मित्रे च विन्यसे अकुक्षिपार्श्वके | ऊरुहस्त तलौ चैव साविते स्थापयेत् ततः || २७-३८ || ऊरुप्रकोष्ठ मध्ये च पादौ सवितरि न्यसेत् | रुद्ररुद्रजयौ चैव विन्यसेत् पूर्ववच्छुभम् || २७-३९ || महेन्द्राद्यन्तरिक्षान्ता बाहुमध्ये स्थिता स्मृताः | सुजानुकूर्परे चैव ह्यग्नौ विन्यस्य बुद्धिमान् || २७-४० || पूषादिमृगपर्यन्तञ्जंघाञ्च विनिवेशयेत् | दौवारिपापयक्ष्मान्ते चान्यजंघा विनिश्चिताः || २७-४१ || वायौ कूर्परजानूच्चं ऋगान्तं बाहु संस्थितम् | शेते त्वधोमुखो वास्तु देवः प्राच्यभुवं प्रति || २७-४२ || उग्रः सुभीषणो यस्मात् तस्मात् पूज्यं क्रियार्थिभिः | पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः || २७-४३ || गन्धपुष्पादिभिर्धूपैर्वास्तु देवान् प्रपूजयेत् | ईशानं पूजयेत् पूर्वं घृतेना क्षतमिश्रितम् || २७-४४ || पर्जन्याय विशेषेण दद्यान्निलोत्पलादिकम् | जयन्तस्य पताकान्तु नीलवर्णां विशेषतः || २७-४५ || महेन्द्रस्य तु रत्नानि भास्करस्य वितानकम् | गोधूममण्डकान् सत्ये दद्यान्मत्स्यंभ्रशस्य तु || २७-४६ || दद्यात् तु शाकुनं मांसमन्तरिक्षाय देशिकः | अग्नये तु स्रवं दद्याल्लाजं पूष्णे तथैव च || २७-४७ || क्षीरान्नं वितथस्योक्तं मध्वन्नं हि ग्रहक्ष्ते | मांसोदनं यमस्याथ गन्धं गन्धर्वकस्य तु || २७-४८ || भृंगे तु शाकुनाजिह्वा मृगेयवतिलस्तथा | कृसरं त्वथपित्रे तु दन्तकाष्ठञ्च दौव्रके || २७-४९ || प्. १३१) यावन्त्वथ च सुग्रीवे कुशान्वै पुष्पदन्तके | दवापद्मन्तु वरुणे रोगस्यमधु चैव हि || २७-५० || घृतोदनन्तु शोषस्य यवान्वैपापयक्ष्मणि | घ्ताक्तमण्डकं दद्याद्रोगाय तु विशेषतः || २७-५१ || नागपुष्पाणि नागाय मुख्यस्या पूपमुच्यते | मुद्गान्नञ्चैव भल्लाटे पायसं मधुसोमके || २७-५२ || ऋगस्यैव तु शालूकं लोहितान्यदितौ तथा | पूरिकाञ्च दितौ दद्यात् क्रमेणोक्तं बलिक्रमम् || २७-५३ || पयोदधिकुशांश्चैव हरिद्रान्नं गुलान्नकम् | पक्वमांसञ्च शुद्धान्नं पक्वञ्च पिशितं तथा || २७-५४ || विदिक्ष्वा पादिदेवानां बलिंदद्यात् पृथक् पृथक् | घृतान्नं रक्ताहारञ्च लड्डुकं माषमेव च || २७-५५ || समरीयकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः | तिलाक्षतय वांश्चैव पञ्चगव्यं कुशं तथा || २७-५६ || दातव्यञ्चरुणा तत्र ब्रह्मणे तु विशेषतः | चरकी प्रभृतीनान्तु मांसं पक्वन्निवेदयेत् || २७-५७ || सर्वेषाञ्चैव शुद्धान्नं गुलाज्यन्धिसंयुतम् | अलाभे सतिदातव्यं गन्धाद्यैश्च समन्वितम् || २७-५८ || सर्वेषामेव मन्त्रास्तु नामप्रणवसंयुताः | पूजादीनां नमोन्तन्तु बलिः स्वहान्तमुच्यते || २७-५९ || कृत्वैवं बलिदानान्ते पूण्याहन्तु विशेषतः | संप्रोक्ष्य पञ्चगव्येन मूलमन्त्रमदीरयन् || २७-६० || वास्तुहोमन्ततः कृत्वा मध्ये चोत्तरपूर्वके | आरंभस्यादि काले तु होमङ्कृत्वा विशेषतः || २७-६१ || स्थण्डिलन्तत्र कुर्वीत हस्तमात्रप्रमाणतः | चतुरंगुलमुत्सेधं गन्धपुष्पं सदर्भयुक् || २७-६२ || शिवाग्निञ्जनयेत् तत्र पूर्वोक्तेन विधानतः | अग्निमध्ये न्यसेद् वास्तुन् तत्रस्थैर्दैवतैर्युतम् || २७-६३ || आज्यादि द्रव्यमेवन्तु वास्तोर्वक्त्रे हुनेत् क्रमात् | पार्थिवेन तु बीजेन सर्वद्रव्यैस्तु होमयेत् || २७-६४ || प्. १३२) तत्रस्थ देवतानाम्ना स्वाहान्तेन तु होमयेत् | एवं पृथक् शतं प्रोक्तं तदर्द्धं वा तदर्धकम् || २७-६५ || दशसङ्ख्याथवा तत्र प्रत्येकं द्रव्यमाचरेत् | द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं शिवस्य तु || २७-६६ || वास्तु देवान् विसृज्याथ पश्चादग्निं विसर्जयेत् | एवं प्रासादवास्तुञ्च संपूज्यसाधकोत्तमः || २७-६७ || बलिं दत्वाग्नि संपूज्य वास्तुकर्मसमारभेत् | वास्तुकर्म यदा रब्धं वास्तुहोमं तदा चरेत् || २७-६८ || वास्तुहोमं विनायत्र कृतं वास्तुविनश्यति | वाप्यादि होमपर्यन्तं तत्सर्वं समवेन तु || २७-६९ || चतुरायपदं कृत्वा माहेन्द्र द्वारकल्पनम् | एतद् विशेषमेवन्तु ग्रह वास्तुविधिं प्रति || २७-७० || एवमेव तु संप्रोक्तं प्रासादवास्तुलक्षणम् | आद्येष्टकाविधिं पश्चाच्छृणुष्वैकाग्रमानसः || २७-७१ || इति प्रासादवास्तुलक्षण पटलः सप्तविंशतितमः || २७ || अथ आद्येष्टकाविधि पटलः अथातः संप्रवक्ष्यामि शृणुत्वं प्रथमेऽष्टकाम् | खननं पूरणङ्कृत्वा वास्तु देवान् प्रपूजयेत् || २८-१ || तस्योत्तरे प्रपाङ्कृत्वा पूर्वे वाथ विशेषतः | स्थण्डिलन्तस्य मध्ये तु शालिभिश्चतुरङ्गुलम् || २८-२ || अधिवास्यार्ध रात्रौ तु चतस्रः प्रथमेऽष्टकाः | शिलामयविमानञ्चेच्छिलाखण्डाधिवासयेत् || २८-३ || इष्टकामय धाम्नि तु इष्टाकास्थापयेत् सुधीः | तालत्रयसमुत्सेधं द्विगुणेन सुविस्तृतम् || २८-४ || विस्तार द्विगुणायामं कारयेन्मध्यमोत्तमे | अध्यर्धतालमतालं मध्यमान्मध्यभावयेत् || २८-५ || प्. १३३) तालमात्रसमुत्सेधं मध्यमादधमं भवेत् | मध्यमत्रयमित्युक्तं मथमत्रयमुच्यते || २८-६ || एकादशाङ्गुलोन्नत्या ह्यधमोत्तममाचरेत् | नवाङ्गुलेन तन्मध्यं सप्ताङ्गुल्याधमाधमम् || २८-७ || उन्नतिस्त्वेवमाख्यातं द्विगुणैर्विस्तृतिर्भवेत् | तासां द्विगुणकैर्दैर्घ्यं मानैः सर्वाणिकारयेत् || २८-८ || शिलायाः कथितं मानमिष्टकायाः शृणु क्रमात् | षडङ्गुलं तदुत्सेधं द्वादशाङ्गुलविस्तृतम् || २८-९ || विस्तारद्विगुणं दैर्घ्यमुत्तमोत्तममेव हि | त्रियङ्गुलप्रमाणेन कनीयससमुन्नती || २८-१० || उत्तमाधमयोर्मध्य सप्तधासुविभाजिते | नवधा भेदमाख्यातं यथारुचि समाचरेत् || २८-११ || उन्नते द्विगुणन्तारं तस्मात् द्विगुणमायतम् | एवं सुपक्वकैकार्यं सुदृढैस्तु मनोहरैः || २८-१२ || मूलं स्थूलं भवेन्नारी ह्यग्रं स्थूलं नपुंसकम् | मूलमग्रं समञ्चेत्तु पुल्लिङ्गमिति निश्चितम् || २८-१३ || पुल्लिङ्गैश्चैव पूंसां स्यात् स्त्रीणां स्त्रीलिङ्गकैस्तथा | पाटलिपुष्पसंकाशामिष्टकांशं ग्रहेत् ततः || २८-१४ || सूत्रैर्दर्भैरथावृत्य वस्त्रैरावेष्ट्य यत्नतः | गन्धपुष्पैरलङ्कृत्य स्थण्डिलोपरिविन्यसेत् || २८-१५ || तस्य पूर्वे तु कलशान् स वस्त्रान् सूत्रवेष्टितान् | विद्येश्वरसमायुक्तान् स्थण्डिलोपरिविन्यसेत् || २८-१६ || मध्यमे शिवकुम्भन्तु तस्य वामे तु वर्धनीम् | पूजयेद्धृदये नैव गन्धपुष्पादिभिः क्रमात् || २८-१७ || तस्यैवोत्तरदिग्भागे होमं कुर्याद्विचक्षणः | समिदाज्यान्नकैश्चैव यथा विधिविशेषतः || २८-१८ || तिलतण्डुलसंमिश्रैर्विशेषेण घृत प्लुतैः | ईशानेन तु मन्त्रेण जुहुया तु शताहुतिः || २८-१९ || प्. १३४) शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्यान्ते जुहुयात् ततः | प्रभातेसु मुहूर्ते तु इष्टकास्थापनं भवेत् || २८-२० || स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् | मन्त्रोक्त सर्वकर्माणि स्थापकेन समाचरेत् || २८-२१ || मन्त्रहीनञ्च यत् कर्म सर्वं स्थपतिना कुरु | कृतञ्चेत् मन्त्रयुक्कर्मत्वभिचाराय तत् भवेत् || २८-२२ || तस्मात् सर्वप्रयत्नेन मन्त्रोक्तान् स्थापकेन तु | सुमुहूर्ते न्यसेद्विद्वांश्चतस्रश्चेष्टकाः क्रमात् || २८-२३ || द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेऽष्टकाः | पूर्वादिषु चतुर्दिक्षु चतुर्भिर्ब्रह्मभिर्न्यसेत् || २८-२४ || अग्रमग्रन्तथैशान्ये मूलग्रमञ्च नै-ऋते | मूलाग्रञ्चाग्नि वायव्यां स्थापयेत् तु विचक्षणः || २८-२५ || सद्यादि ब्रह्ममन्त्रेण पूर्वादिपुरुषादिके | तेषां मध्ये तदा गर्ते पूरयेदुदकैः शुभैः || २८-२६ || कलशान्तस्थ तोयैश्च शिवमन्त्रेण पूरयेत् | शुभं स्याद्दक्षिणावर्तं वामावर्तमशोभनम् || २८-२७ || तद्दोषशमनार्थन्तु ईशानेन शताहुतिः | तत्रैव नवरत्नानि विन्यसेदनुपूर्वशः || २८-२८ || वज्रमौक्तिक वैडूर्य शङ्खस्फटिक पुष्यकान् | चन्द्रकान्तं महानीलं माणिक्कञ्चक्रमां न्यसेत् || २८-२९ || तेषामभावे सौवर्णं विन्यसेत् तु विचक्षणः | गजदन्ते तथा क्षेत्रे वल्मीके कर्कटालये || २८-३० || वृष शृङ्गे हृदे नद्याञ्तीर्थे वै पर्वते तथा | समुद्रे च मृदं ग्राह्य पूरयेदवटं तथा || २८-३१ || मृदलाभे तु मतिमां नदीतीरे मृदंग्रहेत् | अत ऊर्ध्वं प्रकर्तव्यं प्रासादं लक्षणेन तु || २८-३२ || आद्येऽष्टका विधिः प्रोक्ता गर्भन्यासविधिं शृणु | इति आद्येऽष्टकाविधि पटल अष्टविंशतितमः || २८ || प्. १३५) अथ गर्भन्यासविधि पटलः अथातः संप्रवक्ष्यामि गर्भं न्यासविधि क्रमम् | यत् प्रासादं सगर्भन्तु सर्वसंपत्करं नृणाम् || २९-१ || अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् | तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् || २९-२ || भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् | सौवर्णं राजतं वापि ताम्रं कांसमयं तथा || २९-३ || शङ्खं वा शुक्तिकं वापि संप्रोक्तं गर्भभाजनम् | लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः || २९-४ || शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् | अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् || २९-५ || पादविष्कंभविस्तारा पञ्चविंशत् पदान्विता | तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा || २९-६ || घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः | उत्तमन्तु समाख्यातं विस्तारोत्सेधतः समा || २९-७ || विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् | समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् || २९-८ || पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः | खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते || २९-९ || क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् | भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते || २९-१० || गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै | सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् || २९-११ || स्थण्डिलङ्कारयेत् तत्र शालिभिः समलङ्कृतम् | तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् || २९-१२ || कुशवस्त्रैः समास्तीर्य पुष्पैर्ल्लाजसमायुतैः | तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् || २९-१३ || ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः | मरीचिः सविता चैव विवस्वांश्च विशेषतः || २९-१४ || प्. १३६) रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसु रास्तथा | पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः || २९-१५ || ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः | वितथश्च यमो भृंगो नि-ऋतिश्च सुकर्णकः || २९-१६ || वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः | बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः || २९-१७ || माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च | स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ || २९-१८ || प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् | शालिनी वारगोधूमश्या ममाषकुलुत्थकान् || २९-१९ || तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै | तालं तथाञ्जनश्यामं विसकञ्च मनःशिला || २९-२० || कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा | जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः || २९-२१ || पर्वते च तथा तिर्थे नद्यास्तीरे हृदे मृदम् | कुलीरावासवल्मीके शंखे वै गजदन्तके || २९-२२ || सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् | सुवर्णं रजतन्ताम्र मायसन्त्रपुकन्तथा || २९-२३ || मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् | उत्पलस्य च पद्मस्य नीललोहितकस्य च || २९-२४ || कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः | खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा || २९- २५ || कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् | ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु || २९-२६ || गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च | वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् || २९-२७ || स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः | तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः || २९-२८ || अष्टत्रिंशत् कलाभिश्च षडंगैश्च दशाक्षरैः | हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः || २९-२९ || प्. १३७) संपातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् | ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् || २९-३० || आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे | गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे || २९-३१ || प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा | भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः || २९-३२ || नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते | सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् || २९-३३ || प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे | यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् || २९-३४ || कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् | मण्डपे स्तंभमूले तु प्रथमावरणे बुधः || २९-३५ || गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् | गर्भस्थानन्तु संप्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः || २९-३६ || फेलामादाय सद्येन वाममन्त्राभिमंत्रिताम् | अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु || २९-३७ || अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे | स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः || २९-३८ || स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः | स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् || २९-३९ || सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु | शृणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् || २९-४० || इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः || २९ || प्. १३८) अथ अङ्गुली लक्षणविधि पटलः अथातः संप्रवक्ष्यामि अङ्गुलीनान्तु लक्षणम् | मानाङ्गुलन्तु प्रथमं मात्राङ्गुलं द्वितीयकम् || ३०-१ || देहलब्ध प्रमाणन्तु तृतीयमङ्गुलं स्मृतम् | यस्मात् परमणुर्नास्ति परमाणुस्तदुच्यते || ३०-२ || परमाणुरधश्चैवापि च केशाग्र एव च | रीक्षायूकाय वास्तत्र क्रमशोऽष्टगुणैर्मतम् || ३०-३ || मानाङ्गुलमिति प्रोक्तं ततो मात्राङ्गुलं शृणु | आचार्य दक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे || ३०-४ || पर्वमात्राङ्गुलं ज्ञेयं देहलब्धाङ्गुलं शृणु | प्रतिमायास्तथोत्सेधे कालगण्येन भाजिते || ३०-५ || तेष्वेकं भागवन्मानं देहलब्धाङ्गुलं स्मृतम् | प्रासादमण्डपांश्चैव प्राकारान् गोपुरानपि || ३०-६ || ग्रामाध्वक्षेत्र गण्येषु मानाङ्गुलविधानतः | आचार्यदक्षाङ्गुलिभिर्मितेर्व्यासमिधादिकैः || ३०-७ || कूर्चे पवित्रके चैव सृवे सृक्भिरथान्यकैः | यागे प्रयोजितानीह मात्राङ्गुलिविधिश्चरेत् || ३०-८ || अथमानाङ्गुलैर्वापि कारयेद्यागकर्मणि | देहलब्धाङ्गुले नैव प्रतिमाङ्कारयेत् बुधः || ३०-९ || एकाङ्गुलस्य संज्ञा स्यात् बैन्दुमोक्षोक्तमात्रकम् | कलाकोलक पद्माक्षि चाश्विनीद्व्यङ्गुलस्य तु || ३०-१० || रुद्राक्षाग्निगुणाश्चैव शूलविद्या त्रियङ्गुलम् | युगभागञ्च वेदञ्च तुरीयं चतुरङ्गुलम् || ३०-११ || रुद्राननेन्द्रियं भूत बाणं पञ्चाङ्गुलस्य तु | कर्माङ्गमयनञ्चैव रसश्चैव षडङ्गुलम् || ३०-१२ || पातालमुनिधातूंश्च चाब्धिं सप्ताङ्गुलस्य तु | वसुलोकेशमूर्तिश्च ततोऽष्टाङ्गुलसंज्ञकाः || ३०-१३ || द्वारं सूत्रं ग्रहं शक्तिर्नवाङ्गुलमिति स्मृतम् | दिशानाड्यायुधञ्चैव प्रादुर्भावं दशाङ्गुलम् || ३०-१४ || प्. १३९) त्रिषु विष्कूश्च विंशश्च गतित्रिंशतिरुच्यते | त्रिजगत् चत्वारिंशत् पञ्चाशच्छक्वरीति च || ३०-१५ || अतिशक्वरिश्च षष्टिस्तु यष्टिसप्ततिरुच्यते | अत्यष्ट्यशीतिकं विद्धि नवती धृतिरेव च || ३०-१६ || अतिधृतिः शताङ्गुल्यमिति संज्ञा प्रकीर्तिताः | एकं दशं शतञ्चैव सहस्रमयुतं पुनः || ३०-१७ || नियुतं प्रयुतञ्चैव कोटिञ्चैव यथार्बुदम् | बृन्दं खर्वं निखर्वञ्च शंखं पद्ममतः परम् || ३०- १८ || समुद्रमध्यन्ताराख्यं पराख्यमपरं तथा | परार्धमेवमाख्यातं दशवृत्त्युत्तरोत्तरम् || ३०-१९ || एवमेतानि चोक्तानि सङ्ख्या स्थानानिविंशतिः | कालं यमं त्रिभागञ्च षट्कलाश्च वितस्तिकम् || ३०-२० || षट्कोलकं मुखञ्चैव द्वादशाङ्गुलसंज्ञकम् | अङ्गुष्ठ तर्जनीयुक्तं प्रादेशमिति कीर्तितम् || ३०-२१ || मध्यमाङ्गुष्ठ संयुक्तं तालमानमिति स्मृतम् | अङ्गुष्ठानामिकायुक्तं वितस्तिरिति चोच्यते || ३०-२२ || कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञिकम् | प्रादेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः || ३०-२३ || यज्ञादिके प्रयोक्तव्याः प्रासादादौ नमापयेत् | रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः || ३०-२४ || किष्कुश्च प्राजापत्यश्च धनुर्मुष्टिधनु ग्रहौ | अङ्गुलेस्तु चतुर्विंशत् किष्कुरित्युच्यते बुधैः || ३०-२५ || पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् | षड्विंशतिधनुर्मुष्टिः सप्तविंशद्धनुग्रहः || ३०-२६ || किष्कुस्तादि चत्वारिमानाङ्गुलवशात्तम | एभिर्हस्त प्रमाणैस्तु प्रासादादीनि कारयेत् || ३०-२७ || शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु | लिङ्गञ्च पिण्डिकाञ्चैव प्रासादं गोपुरं तथा || ३०-२८ || प्. १४०) प्राकारमण्डपञ्चैव प्राजापत्यकरेण तु | धनुग्रहश्चतुष्कं यद्दण्डमानं प्रकीर्तितम् || ३०-२९ || सहस्रदण्डमानेन क्रोशमात्रं विधीयते | गव्यूतिर्द्विगुणं ज्ञेयं तद्विगुणन्तु घातकम् || ३०-३० || घातकस्य चतुष्कन्तु योजनापरिकीर्तिता | प्रतिमायास्तदुत्सेधं तालदण्डेन भाजयेत् || ३०-३१ || चतुर्विंशच्छतञ्चैव उत्तमं दशतालकम् | विंशच्छतञ्च मध्यन्तु कन्यसं षोडशाधिकम् || ३०-३२ || द्वादशाधिकमेवं यत् नवतालोत्तमं भवेत् | अष्टौशतञ्चतुःशतं मध्यमं कन्यसं तथा || ३०-३३ || शतं षण्णवतिश्चैव नवत्युत्तरकरद्वयम् | अष्टतालमिदं प्रोक्तं त्रिविधं पूर्वपद्धति || ३०-३४ || इत्येवं भागहीनं स्यादेक तालान्तमेव हि | तयोदशार्द्धं मुखज्येष्ठन्तयोदशन्तु मध्यमम् || ३०-३५ || तत्द्वादशार्धमधममुत्तमं दशतालके | नवतालोत्तमे चैव मुखं वै द्वादशाङ्गुलम् || ३०-३६ || अर्धार्धाङ्गुल हीनेन मध्यमाधममुच्यते | त्रिविधादशतालेन त्रिमूर्तीनान्तु कीर्तिता || ३०-३७ || त्रिविधं नवतालेन देवानां योषितामपि | अष्टतालेन मर्त्यानां सप्ततालेन रक्षसाम् || ३०-३८ || षट्तालेन तु गन्धर्वान् पञ्चतालो गणाधिपः | वामनस्य तथैवस्याच्चतुस्तालास्तु भूतकाः || ३०-३९ || त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् | अणुजानान्तथैकं स्यात् पिशाचानान्तु विंशतिः || ३०-४० || अङ्गुल्यः सम्यगाख्याताः प्रासादलक्षण शृणु | इति अङ्गुलीलक्षणविधिपटलस्त्रिंशत्तमः || ३० || प्. १४१) अथ प्रासादलक्षणविधि पटलः अथातः संप्रवक्ष्यामि प्रासादानान्तु लक्षणम् | सप्ताष्ट नवहस्तञ्च अधमं त्रितयं भवेत् || ३१-१ || दशद्वादशकं हस्तं षोडशं मध्यमत्रयम् | विंशत् त्रिंशच्च पञ्चाशत् त्रीणिचोत्तममिष्यते || ३१-२ || एवं नवविधं प्रोक्तं प्रासादानान्तु विस्तरम् | विस्तारं पञ्चविंशत्तु भागं कृत्वा विचक्षणः || ३१-३ || नवांशं गर्भगेहन्तु भित्तिमानन्तु षोडश | अथवा षोडशांशे तु चतुष्टं गर्भविस्तरम् || ३१-४ || द्वादशांशस्तु भित्तेस्तु विस्तारं सर्वतः समम् | एकाशीति पदङ्कृत्वा नवांशं गर्भमेव तु || ३१-५ || षोडशं भित्तिमानन्तु भित्तिमभ्यन्तरं विदुः | तत् बाह्यैकन्तु सलिलं तत् बाह्यैकन्तु भित्तिकम् || ३१-६ || बाह्यभित्तौ चतुर्द्वारमथवा द्वारमेकतः | अन्यत् सर्वसमं प्रोक्तं स्थूप्यन्तं कारयेत् बुधः || ३१-७ || यदुक्तं भित्तिविस्तारं बाह्याभ्यन्तरयोः समम् | बाह्ये वा भ्यन्तरे वापि त्रिविधं भित्तिमानकम् || ३१-८ || लिङ्गमानविमानस्य विस्तारं शृणु सांप्रतम् | यावल्लिङ्गस्य विष्कंभं त्रिगुणं पीठविस्तरम् || ३१-९ || तत्तारं त्रिगुणीकृत्य गर्भगेहं प्रचक्षते | गर्भगेहं त्रिभागैकं भित्तिमानं विधीयते || ३१-१० || यदीश्चेत् कर्तृ विस्तारन्तद्विस्तारं विधीयते | पूजांशं द्विगुणं पीठं त्रिगुणं वा विशेषतः || ३१-११ || पीठस्य त्रिगुणं गर्भन्तत्रिभागैक भित्तिकम् | संवीक्ष्य समभूमिश्चेदुपपीठं प्रकल्पयेत् || ३१-१२ || विस्तारस्याष्टभागैकमुपपीठस्य चोच्छ्रयम् | तत् पादहीनमर्द्धं वा द्वादशांशं विभज्यतम् || ३१-१३ || द्विभागौ पट्टिकाधस्तादूर्ध्वमंशेन पट्टिका | षट्भागं कर्णभागं स्यादेकांशाक्षुद्र पट्टिका || ३१- १४ || प्. १४२) तस्योर्ध्वे तु द्विभागेन ग्रीवं पादैरलङ्कृतम् | यथा लङ्कार संयुक्तमुपपीठं प्रकीर्तितम् || ३१-१५ || ततो जाङ्गलभूमिश्चेदधिष्ठानं प्रकल्पयेत् | तच्चतुर्विधमाख्यातमिहशास्त्रे विशेषतः || ३१-१६ || पद्मबन्धञ्चारुबन्धं पादबन्धं प्रतिक्रमम् | विस्तारस्य चतुर्थांशमधिष्ठानोच्छ्रयं भवेत् || ३१-१७ || पद्मबन्धं प्रवक्ष्येऽहं शृणु तत्वङ्गजानन | उत्सेधं सप्तविंशत् तु द्विभागा पट्टिका भवेत् || ३१-१८ || एकांशं दलमेवोक्तमुपानञ्चैक भागिकम् | जगती तु षडंशा स्यात् द्विभागार्धदली क्रमात् || ३१-१९ || अर्धभागं भवेत् स्कन्धं भागमूर्ध्वदलं तथा | त्रिभागं कुमुदं विद्या दधोब्जं भागमेव तु || ३१-२० || पट्टिका चैकभागा तु ग्रीवा चैव द्विभागिका | तदूर्ध्वमेक भागन्तु पद्मबन्धतो परि || ३१-२१ || द्विभागा पट्टिकाया तु एकभागेन योजनम् | तत्व्रतेश्चैक भागन्तु पद्मबन्धमिति स्मृतम् || ३१-२२ || अधिष्ठानस्य चोत्सेधञ्चतुर्विंशति भाजितम् | द्विभागापट्टिका प्रोक्ता ह्युपानञ्चैक भागिकम् || ३१-२३ || षट्भागाजगती प्रोक्ता कुमुदं पञ्चभागिकम् | एकांशापट्टिका प्रोक्ता ग्रीवा चैव त्रियंशका || ३१-२४ || एकांशापट्टिका विद्धि त्रियंशाचोर्ध्वपट्टिका | महापट्टिका त्रियंशा एकं वा जनमुच्यते || ३१-२५ || पादबन्धमितिख्यातं सर्वकार्येषु पूजितम् | वृतिक्रमं विशेषेण कर्तव्यं पादबन्धवत् || ३१-२६ || पट्टिकां प्रतिवक्त्रन्तु कुमुदावृत्तमुच्यते | एवं प्रतिमुखं कार्यमधिष्ठानं समासतः || ३१-२७ || पादायाममधिष्ठानं द्विगुणं सर्वसंमतम् | पादार्धं प्रस्तरं प्रोक्तं कर्णं प्रस्तरवत्समम् || ३१-२८ || प्. १४३) प्रस्तरद्विगुणायामं शेखरं हितमुच्यते | भागस्थूपिं प्रकर्तव्यं सर्वालङ्कारसंयुतम् || ३१-२९ || प्रस्तरादूर्ध्वभागे तु कर्णकूटसमायुतम् | चतुर्दिक्षु कपोतञ्च तयोर्मध्येऽष्टपञ्जरम् || ३१-३० || अर्धभागन्तु कण्ठं स्यात् भागार्धं शिखरं भवेत् | एवमेकतलं प्रोक्तं द्वितलादीनिमच्छृणु || ३१-३१ || प्रस्तरान्मूलपादाच्च तलं प्रतितदूर्ध्वतः | सप्तभागैकभिन्नन्तु तलेष्वेवं प्रकीर्तितम् || ३१-३२ || आद्वादशतला देवं भूमौ प्रकल्पयेत् | एवमुक्तमिहोत्सेधं द्वारभेदं ततच्छृणु || ३१-३३ || वृतेरूर्ध्वोत्तरान्तं यद्वारस्योत्सेधमुच्यते | उत्सेधार्धदशांशो न द्व्यंशं तु परिहीनकम् || ३१-३४ || विस्तारमुत्तमं मध्यमधन्तु प्रकीर्तितम् | पूर्वे वा पश्चिमे वापि द्वारङ्कृत्वा विचक्षणः || ३१-३५ || पद्मबन्ध्याद्यधिष्ठाने वृत्ते रुपरिनिर्गमम् | वृतेरधस्तादुच्छेदं मसूरे पादबन्धके || ३१-३६ || अङ्गच्छेदन्तु कर्तव्यमाङ्गन्तु न च कारयेत् | द्वारभेदमिदं प्रोक्तं जातिभेदं ततः शृणु || ३१-३७ || नागरं द्राविढञ्चैव वेसरञ्च त्रिधामतम् | कण्ठादारभ्य वृत्तं यत् तद्वेसरमिति स्मृतम् || ३१-३८ || ग्रीवमारभ्य चाष्टाश्रं विमानं द्राविडाख्यकम् | सर्वं वै चतुरश्रं यत् प्रासादं नागरन्त्विदम् || ३१-३९ || एवं जातिरितिख्यातं तत्भेदञ्च ततः शृणु | कैलासोमन्धरोमेरु हिमवन्निषधं स्मृतम् || ३१-४० || नीलपर्वतमाहेन्द्रौ नलीनकप्रलीनकः | नन्द्यावर्तं च श्रीवर्तं पर्वताकृतिरेव च || ३१-४१ || इत्येवमादि सर्वेषां भेदमित्यभिधीयते | चतुःशालाचतुष्कूट युक्तः कैलास एव हि || ३१-४२ || प्. १४४) मन्धरोनाम इत्युक्तश्चतुःशालाष्टकूटकम् | मेरुर्नाम इतिख्यातस्त्वष्टशालाष्ट कूटकः || ३१-४३ || हिमवानिति विख्यातो युक्तषोडशपञ्जरः | अष्टशालाष्टकूटस्तु प्रासादो लक्षणान्वितः || ३१-४४ || प्रासादो निषधस्तत्र कूटशाला विहीनकः | अष्टशाला समायुक्तश्चाष्ट पञ्जरसंयुतः || ३१-४५ || चतुःशालासमायुक्तो वेदीसोपानसंयुतः | नलीनकस्तु संप्रोक्ता प्रलीनकमतः शृणु || ३१-४६ || शीर्षकञ्चतुरश्रन्तु पार्श्वयोः कोष्ठसंयुतः | पञ्जरं नासिका युक्तं सोपानं पार्श्वयोस्ततः || ३१-४७ || प्रलीनक इति प्रोक्ता नन्द्यावर्तमिति शृणु | चतुष्कूटश्चतुःशालाश्चत्वारः पार्श्वनासिकाः || ३१-४८ || मुखनासी तथा युक्तं द्वादशञ्चानुनासिकाः | चतुःसोपानसंयुक्तं भूमौ भूमौ विशेषतः || ३१-४९ || नन्द्यावर्तमिदं वत्स श्रीप्रदञ्च ततः शृणु | कोष्ठकास्त्विह चत्वारश्चतुष्कोणेषु चैव हि || ३१-५० || चतुर्नासी समायुक्तमनुनासी दशाष्टकम् | एवं लक्षणसंयुक्तं श्रीप्रदन्त्विति कीर्तितम् || ३१-५१ || कूटशालासमायुक्ता पुनः पञ्जरनासिका | वेदिकाजालकोपेता पर्वता कृतिरुच्यते || ३१-५२ || एवं तले तले कर्यन्नूनमेकैक भागिकम् | जातिभेदं समाख्यातं पादानामधुनोच्यते || ३१-५३ || चतुरश्रमथाष्टाश्रं षोडशाश्रन्तु वृत्तकम् | कुम्भयुक्तास्तथा केचित् केचित् कुम्भविहीनकाः || ३१-५४ || केचिद् वैकुंभमण्डिभ्यां युक्ताः पादा इति स्मृताः | पादानामा इति प्रोक्तो तेषां लक्षणमुच्यते || ३१-५५ || विस्तारस्य चतुर्विंशत् भागैकं पादविस्तरम् | तदैवदण्डमाख्यातं पादालङ्कारकर्मणि || ३१-५६ || प्. १४५) मूलपादस्य विस्तारात् सप्तैकांशो न मार्गतः | द्विदण्डं मण्डिरुत्सेधं दण्डपादन्तु विस्तरम् || ३१-५७ || अष्टांशं कण्ठमुत्सेधं द्विदण्डं कुम्भविस्तरम् | उत्सेधन्तु त्रिपादं हि पादोनाफलका भवेत् || ३१-५८ || त्रिदण्डं विस्तरं प्रोक्तं तदर्धं निर्गतं स्मृतम् | वीरकण्ठन्तु दण्डेन विस्तारं तत् समं भवेत् || ३१-५९ || तदूर्ध्वे पोतिकायामन् तत् त्रिपादन्तदुच्छ्रितम् | त्रिदण्डमधमायामञ्चतुर्दण्डन्तु मध्यमम् || ३१-६० || उत्तमं पञ्चदण्डन्तु पोतिकायाममुच्यते | चित्रपत्रतरंगैश्च भूषयित्वा तु पोतिकाम् || ३१-६१ || कुम्भपादमिदं प्रोक्तं कुम्भभिन्नं प्रचक्ष्महे | पादं पोतिकया युक्तं शेषं कर्म न कारयेत् || ३१-६२ || कुम्भहीनास्त्विमे प्रोक्ता लताकुम्भन्तदुच्यते | कुम्भाकारन्तु तन्मूले तदूर्ध्वं पद्ममेव तु || ३१-६३ || फलकोर्ध्वे लताङ्कुर्यात् तच्छेषं कुम्भपादवत् | पादान्तरे तु कर्तव्यमशक्तश्चेत् तु वर्जयेत् || ३१-६४ || सर्वेषां मेवपादानां तत् पादं निर्गमं भवेत् | श्रीकरञ्चन्द्रकान्तञ्च सौमुख्यं प्रियदर्शनम् || ३१-६५ || शुभंकरी च नामानि कर्तव्यानि विशेषतः | श्रीकरं वृत्तपादानां षोडशाश्रे तु कान्तकम् || ३१-६६ || सौमुख्यं हि तथाष्टाश्रे तुर्याग्रे प्रियदर्शनम् | चतुरश्राष्टमिश्रे च पादाकार्याशुभंकरी || ३१-६७ || पादानां लक्षणं प्रोक्तं तोरणं वक्ष्यते धुना | पृष्ठे तु पार्श्वयोश्चैव कर्तव्यास्तोरणास्तथा || ३१-६८ || द्वारस्योत्सेधमानं यत्तोरणस्योच्छ्रयं भवेत् | तदर्धं विस्तरं प्रोक्तमुछ्राये षट्विभाजिते || ३१-६९ || मकरन्तु द्वियंशेन शेषं पादमिति स्मृतम् | मूलपादस्य चार्धेन तस्य पादप्रमाणकम् || ३१-७० || मकारांशं तदूर्ध्वे तु मध्ये वृत्तं सनिम्नकम् | वृत्तेरूर्ध्वे उहां कृत्वा चतुरायतमेव तु || ३१-७१ || प्. १४६) प्रमाणन्तोरणस्योक्तं प्रस्तरञ्च ततः शृणु | प्रस्तरोत्सेधमानन्तु पञ्चभागविभाजितम् || ३१-७२ || त्रिभागमुत्तरोत्सेधं पादेनोत्तरवाजनम् | एकभागन्तदूर्ध्वे तु कर्तव्या पद्मपट्टिका || ३१-७३ || गजश्रेणी मृगश्रेणी प्रस्तरान्तेषु योजयेत् | एवं प्रस्तरमाख्यातं तलं प्रति विशेषतः || ३१-७४ || कूटशालाप्रमाणञ्च अधुना वक्ष्यते शृणु | तस्योत्सेधकपोतान्तं षट्भागन्तद्विभाजिते || ३१-७५ || पादं वेदिकया युक्तं पादग्रीवा समायुतम् | द्विभागं पादमेव स्यात् द्विभागं शिखरं भवेत् || ३१-७६ || भागस्थूपिसमायुक्तमेवं वै कारयेत् सुधीः | कृत्वा विस्तारषट्भागं कूटमेकेन चैव हि || ३१-७७ || द्विभागेन तु शालान्तु भागाभ्यां पञ्जरं तथा | चतुरश्रन्ततः कूटं शालं स्यात् गोपुराकृति || ३१-७८ || पार्श्वयोर्नासिका युक्तं तन्मध्ये तनुनासिका | द्वित्रिकञ्च चतुः प्रोक्तं कुम्भन्तस्योपरि स्थितम् || ३१-७९ || एक नासिकयायुक्तं पञ्जरं समुदाहृतम् | कूटेषु नासिकायुक्तं कोष्ठमेतत् प्रकीर्तितम् || ३१-८० || प्रस्तरोच्च प्रमाणेन तत्समंकण्ठमुच्यते | द्वादशांशं विभज्याथ द्विभागापट्टिका भवेत् || ३१-८१ || द्विभागा वेदिका प्रोक्ता कण्ठं पञ्चांशमुच्यते | पट्टिकाश्चैक भागं स्यात् द्विभागापद्मपट्टिका || ३१-८२ || तदूर्ध्वे शिखरं प्रोक्तं भागार्धं निर्गमं भवेत् | तस्योत्सेधं त्रिधा कृत्वा भागं पादस्य दैर्घ्यकम् || ३१-८३ || भागेन नासिका प्रोक्ता तदर्धं मध्यनिम्नकम् | शेषभागं त्रिधा कृत्वा नालभागेन कल्पितम् || ३१-८४ || पञ्जरञ्चैकभागेन त्रिशूलं भागमानतः | चतुर्भागन्तदर्धं वा ह्यनुनासिकमुच्यते || ३१-८५ || एवं नासिकमाख्यातं स्थूपिलक्षणमुच्यते | शिखरार्धं समुत्सेधं पञ्चविंशत् तु तद्भवेत् || ३१-८६ || प्. १४७) सप्तांशं दलमानन्तु भागं तत्कण्ठमुच्यते | अष्टभागैस्तु तत्कुम्भञ्चतुर्भागन्तु नालकम् || ३१-८७ || द्विभागं वेदिकां कुर्यात् मुकुलन्तु कला भवेत् | मुकुलाग्रमधैकांशं स्थूपिपट्टमिहोच्यते || ३१-८८ || विदिक्षु वृषभं न्यस्त्वा महादिक्षु च मूर्तयः | स्कन्दङ्कृत्वा तु तत्पूर्वे याम्ये श्रीकण्ठनायकम् || ३१-८९ || शास्त्रार्थानिमुनीनान्तु मुक्त्यर्थं प्रोच्चरन् गुरुः | पश्चिमे नारसिंहञ्च सौम्ये वा विन्यसेत् बुधः || ३१-९० || ब्रह्माणमुत्तरे कृत्वा चतुर्वक्त्रसमायुतम् | वृषस्य तालमूर्ध्वे च ह्यासनाः कण्ठसंश्रिताः || ३१-९१ || शालासु देवताः प्रोक्ताः कूटेषु च नयत्विह | दिव्यमानुष देवांश्च यथा युक्त्या तु योजयेत् || ३१-९२ || शिवक्रीडा हरिक्रीडा तपक्रीडा विशेषतः | यक्षराक्षसगन्धर्व सिद्धविद्याधरोरगान् || ३१-९३ || अष्टदिक्षु यथा युक्त्या न्यस्त्वा पूर्वादितः क्रमात् | प्रासादलक्षणं प्रोक्तं मण्डपानां विधिं शृणु || ३१-९४ || प्रासादार्द्धं मुखायामं विस्तारं सममुच्यते | त्रिपादं वा मुखायामं सार्धं मण्डपमुच्यते || ३१-९५ || देवतामण्डपं पूर्वं द्वितीयं स्नपनार्थकम् | वृषार्धं मण्टपं पश्चाच्चतुर्थं नृत्तमण्डपम् || ३१-९६ || देवता प्रतिमारूपा स्थापितं देवमण्टपम् | कलशस्थापनं यत्र प्रोक्तं स्नपनमण्डपम् || ३१-९७ || वृषभं स्थापितं यत्र वृषभं मण्डपं तथा | नृत्तं यत्र कृतं तत् तु नृत्तमण्डपमेव तु || ३१-९८ || गोपुरेऽथव्यवायेपि व्यवाये विकृतं तथा | एवञ्चतुर्विधेष्वन्य मण्डपञ्चाग्रतो बहिः || ३१-९९ || तेषां नामानि वक्ष्यामि शृणुवत्स समाहितः | नन्दवृत्तं श्रियावृत्तं वीरासनञ्च वृत्तकम् || ३१-१०० || नन्द्यावर्तं माणिभद्रं विशालञ्चेति कीर्तितम् | नन्दवृत्तञ्चतुष्पादं षोडशं श्रीप्रतिष्ठितम् || ३१-१०१ || प्. १४८) विंशतिस्तंभसंयुक्तं वीरासनमिति स्मृतम् | द्वात्रिंशत् गात्र संयुक्तं जयभद्रेति कथ्यते || ३१-१०२ || षट्त्रिंशत् गात्रसंयुक्तं नद्यावर्तमिति स्मृतम् | चतुःषष्टिसमायुक्तं स्तम्भानां माणिभद्रकम् || ३१-१०३ || स्तम्भानान्तु शतैर्युक्तं विशालमिति संज्ञितम् | प्रासादवत् समाख्यातं प्रस्तरान्तं प्रमाणतः || ३१-१०४ || प्रासादस्तंभमानस्य एतत् स्तंभं विशिष्यते | पादाधिकमथाध्यर्धं पादो न द्विगुणं भवेत् || ३१-१०५ || स्तंभायामाष्टभागैकं स्तंभस्यैव तु विस्तरम् | वृत्तं वा चतुरश्रं वा चतुरष्टाश्रमिश्रकम् || ३१-१०६ || षोडशाश्रयुतं वापि शिल्पैः सर्वैः सुशोभितम् | स्तंभाच्च बोधिकाधिक्या बोधेरप्युत्तराधिका || ३१-१०७ || उत्तराद्वाजनाधिक्या तस्योर्ध्वे मुद्रिकां न्यसेत् | मुद्रिकाच्चतुलाधिक्या जयन्ती तु ततो परि || ३१-१०८ || च्छदयेदिष्टकाभिस्तु तस्योर्ध्वे कलकान् क्षिपेत् | वालुकैस्तु समञ्चूर्णं गुल्माषं योजयेत् क्रमात् || ३१-१०९ || मुसलेन तु संपीड्य शर्करादिसमन्वितम् | कषाय पिच्छलैर्युक्तं त्रिफलोदकसंयुतम् || ३१-११० || हरीतक्क्यास्तु भागैकं द्विगुणञ्च विभीतकम् | धात्रि त्रिगुणमित्युक्तं प्रक्षुण्णान् मलसंयुतम् || ३१-१११ || षण्मासं वा त्रिमासं वा मासं वाप्युषितं तथा | दधिमाषोदकञ्चैव नालिकेरस्य तोयकम् || ३१-११२ || क्षीरञ्चदधिसंमिश्रं सम्यक् कर्मसमाचरेत् | कूटशालासभां कृत्वा भोगयोग्यं विशेषतः || ३१-११३ || सोपानञ्च यथा युक्त्या हस्तिहस्तन्तथैव च | एवं समासतः प्रोक्तं मण्डपं विधिपूर्वकम् || ३१-११४ || प्राकारं परितः कुर्यात् प्रासादस्य प्रमाणतः | भूमौ विन्यस्य विस्तारं प्रासादस्य सुनिश्चयम् || ३१-११५ || प्रासादस्य तु विस्तारं तस्य दण्डमिहोच्यते | दण्डात्तेन कृतं यत्र त्वन्तर्मलसमैव हि || ३१-११६ || प्. १४९) एकदण्डान्तर्भारा तु मध्यभाराद्विदण्डतः | चतुर्दण्डप्रमाणेन कृत्वामययादिभित्तिकम् || ३१-११७ || महामययादिभित्तिः स्यात् सप्तदण्डप्रमाणतः | पृष्ठे चैवाग्रतोप्यर्धं द्विगुणं त्रिगुणन्तु वा || ३१-११८ || चतुर्गुणं मुखायामं प्राकाराणां विशेषतः | कपोतान्तं समुत्सेधं हस्तविस्तारभित्तिकम् || ३१-११९ || कूटशालायुतं वापि कूटशालान्तमेव च | प्राकारेण समायुक्तं गोपुरस्य विधीयते || ३१-१२० || मण्डले द्वारके वाथ द्वारशालान्तु भारके | प्रासादं मध्यभारायां मययादौ हर्म्यमेव च || ३१-१२१ || गोपुरन्तु महामयये एवं पञ्चविधि स्मृतम् | चतुर्दिक्षु च संयोज्याः प्राकाराणां पृथक् पृथक् || ३१-१२२ || केचिद् वै मालिकाकारा केचिद् वै गोपुराकृतिः | विस्तारं द्वारशोभाया द्वित्रिपञ्चकरं भवेत् || ३१-१२३ || षट्सप्ताष्टनवकरैर्द्वारशाला प्रकीर्तिता | एकादश त्रयोदश हस्तं प्रासादविस्तृतम् || ३१-१२४ || चतुर्दशपञ्चदश द्वारहर्म्यमिति स्मृतम् | एकविंशस्त्रयोविंश द्वारगोपुरमुच्यते || ३१-१२५ || विस्तारद्विगुणायाममायामद्विगुणोच्छ्रयम् | भौमोर्ध्वोत्तरसीमान्तं द्वारस्योच्छरयलक्षणम् || ३१-१२६ || तदर्धं विस्तारं प्रोक्तं अलङ्कारं विमानवत् | प्राकारभित्तिमाश्रित्य कुर्यादावृतमण्डपम् || ३१-१२७ || तत्बाह्ये भ्यन्तरेवापि मालिका मण्डपं हि वा | पञ्चप्राकारमेवं स्यात् परिवारालयं शृणु || ३१-१२८ || प्रासादस्य चतुर्थं वा तदर्धं वार्धमेव वा | मातॄणामालयं कुर्यात् गोपुराकारमेव तु || ३१-१२९ || हस्ति पृष्ठन्तपप्रोक्तं प्रासादन्तु विशेषतः | मेध्यन्तु पचनाकारञ्चतुःशालैकशालकम् || ३१-१३० || प्राकारसंयुतङ्कृत्वा बाह्ये वा भ्यन्तरेपि वा | पूर्वे तु पश्चिमे द्वारं पश्चिमे पूर्वतो मुखः || ३१-१३१ || प्. १५०) दक्षिणे चोत्तरद्वारमुत्तरे दक्षिणोन्मुखम् | वह्नीशान स्थितं यत् तत् पश्चिमेद्वारमिष्यते || ३१-१३२ || नीलानिल स्थितञ्चैव पूर्वद्वारं प्रशस्यते | वृषस्य मण्डपं तत्र चतुर्द्वारसमायुतम् || ३१-१३३ || प्रासादलक्षणं प्रोक्तं ततो मूर्धेऽष्टकां शृणु | इति प्रासादलक्षणविधिपटल एकत्रिंशत्तमः || ३१ || अथ मूर्धेऽष्टकाविधि पटलः अथातः संप्रवक्ष्यामि मूर्धेऽष्टकाविधिं शृणु | प्रासादस्योत्तरे वाग्रे प्रपां कृत्वा स लक्षणम् || ३२-१ || स्थण्डिलं तत्र कुर्वीत तिलतण्डुलशालिभिः | न्यस्त्वा तन्मध्यमे पश्चादिष्टकाः पञ्चकाः क्रमात् || ३२-२ || शालिपिष्टमयेनाथ लेखयेदक्षराणि तु | यकारं पूर्वभागे तु रकारं दक्षिणे तथा || ३२-३ || लकारं पश्चिमे चैव पकारञ्चोत्तरे तथा | हकारं मध्यमे न्यस्त्वा पृथग्वस्त्रेण वेष्टयेत् || ३२-४ || अभितः कलशानष्टौ त्रिसूत्रपरिवेष्टितान् | पिधान कूर्चवस्त्राड्यान् गन्धांबु परिपूरितान् || ३२-५ || हेमरत्न विनिक्षिप्त लोकपालाधि देवतान् | संस्थाप्या भ्यर्च्यगन्धाद्यै स्वस्वमन्त्रेण देशिकः || ३२-६ || लोहजं दारुजं वापि स्त्रिभिस्तंभं विशेषतः | शिखरं सदृशं दीर्घं तारमष्ट षडङ्गुलम् || ३२-७ || अग्रमङ्गुलविस्तारमानुपूर्वात् कृशं तथा | चतुरश्रं भवेन्मूलं मध्यमष्टाश्रकं तथा || ३२-८ || तदूर्ध्वं वृत्तमेवं स्याच्छिखि पादमिव स्थितम् | गव्यैः प्रक्षालयित्वा तु स्थण्डिलोपरिविन्यसेत् || ३२-९ || प्. १५१) आच्छाद्याहत वस्त्रैश्च दर्भैः संस्तीर्य यत्नतः | वास्तु होमन्ततः कृत्वा पर्यग्निं तेन वह्निना || ३२-१० || कुर्यादस्त्रं महाशासु कुण्डानि विधिवत् ततः | तुर्याश्राण्यथ वृत्तन्तु शङ्करेपि तथैव हि || ३२-११ || अथवा वालुकैर्वापि स्थण्डिलं कारयेत् क्रमात् | अग्न्याधानादिकं सर्वं पूर्वोक्तेन विधानतः || ३२-१२ || पार्थिवादीनि तत्वानि पञ्चेऽष्टकाधि देवताः | समिदाज्य चरूलाजान्य वैःसद्यादिभिः क्रमात् || ३२-१३ || उदुंबर वटाश्वत्थ प्लक्षपालाशकाः क्रमात् | प्रागादि समिधः प्रोक्ता स्थण्डिले वा विशेषतः || ३२-१४ || प्रत्येकं शतमर्धं वा हुत्वा पूर्णाहुतिं ततः | पञ्चभूतात्मकं स्मृत्वा होममेकमथैशके || ३२-१५ || प्रभाते विमलेधीमां नक्षत्रे करणान्विते | सुमुहूर्तेसुलग्ने च स्थापक स्थपती तथा || ३२-१६ || शुक्लवस्त्रपरिच्छन्नौ शुक्लमाल्यानुलेपनौ | अनन्यमनसा वेतौ स्थापयेदिष्टकाः क्रमात् || ३२-१७ || सद्यादि ब्रह्ममन्त्राणि स्मरन् पूर्वादिविन्यसेत् | भूमादि पञ्चत्वत्वानि न्यस्त्वा पूर्वादितः क्रमात् || ३२-१८ || मध्यमे नवरत्नानि न्यस्त्वापूर्वोक्तमार्गतः | ईशानेन तु मन्त्रेण स्थूपिं तत्रैव विन्यसेत् || ३२-१९ || स्थपतिः शेषकर्माणि कारयेत् तु यथा दृढम् | स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः || ३२-२० || शिखरोर्ध्वे तु संस्थाप्य पञ्चभागत्रिभागिकम् | अर्धभागन्तु वा दृश्यं स्थूप्याः शेषन्तु बन्धयेत् || ३२-२१ || विमानाङ्गानि सर्वाणि कुर्यच्छास्त्रोक्तमार्गतः | शैलेन निर्मितेधाम्नि वर्णिते वाप्य वर्णिते || ३२-२२ || इष्टकाभिः सुनिर्वृत्ते सुधाद्यैर्वर्णिते क्रमात् | विमान स्थापनं धीमान् कुर्यादस्मिन् विशेषतः || ३२-२३ || प्. १५२) व्यपोह्य संकरान् भाण्डान् कृत्वा शिल्पिविसर्जनम् | ततो क्षिमोचनं कुर्याद्धोम वेदान्विशेषतः || ३२-२४ || संपूज्यस्थापकं पश्चात् स्थपतिं पूजयेत् ततः | वस्त्रहेमाङ्गुलीयाद्यैर्गो भूमिधनधान्यकैः || ३२-२५ || प्रागुक्तविधिना सम्यक् कर्तव्यञ्चाङ्कुरार्पणम् | प्रतिष्ठादिवसात् पूर्वे दिवसे विप्रनिर्णिते || ३२-२६ || प्रासादस्य चतुर्दिक्षु प्रपाः पञ्चकरैः क्रमात् | प्रासादमध्यमे वेदीं तत् त्रिभागैकमानतः || ३२-२७ || विस्तारार्ध समुत्सेधं मुष्टिमानमथापि वा | चतुर्दिग्वेदिकायास्तु प्राग्याम्य वरुणेन्दुषु || ३२-२८ || होमकुण्डं विधानेन प्रोक्तं वा चतुरश्रकम् | प्रासादाभ्यन्तरे कुर्यात् वास्तु होमं विधानतः || ३२-२९ || पर्यग्निकरणङ्कृत्वा महाव्योमेति मन्त्रतः | पुण्याहं वाचयित्वाद्भिः प्रोक्षयेत् तु समं ततः || ३२-३० || द्रोणांबुपूरितान् कुम्भान् निर्दोषान् सुदृढान्नव | तन्तुना चित्रितान् सर्वान् सर्वगन्धांबु पूरितान् || ३२-३१ || हेमपुष्पविनिक्षिप्तान् प्रत्येकं वस्त्र वेष्टितान् | चूतपल्ववसंयुक्तान् संस्थाप्य स्थण्डिलोपरि || ३२-३२ || अष्टद्रोणैस्तदर्धैर्वा वेदिकोर्ध्वे पृथक् पृथक् | आलिख्य नलिनञ्चोर्ध्वे चाष्टपत्रं सकर्णिकम् || ३२-३३ || शाल्यर्धन्तण्डुले नैव तण्डुलार्धतिलैः कृतम् | मध्यादीशान पर्यन्तं वेदिकासु पृथक् पृथक् || ३२-३४ || संस्थाप्य वर्धनीयुक्तं स्वस्वमन्त्रैर्विशेषतः | धामप्राग्वेदिकोर्ध्वस्थ मध्यकुम्भे तु षण्मुखम् || ३२-३५ || तस्यैव वामभागे तु वर्धन्यां सुमतिन्न्यसेत् | अभितोष्ट घटेष्वेषु लोकेशान् स्वस्वदिग्गजान् || ३२-३६ || दक्षिणे मध्यकुंभे तु श्रीकण्ठे शन्तु विन्यसेत् | वामभागे तु वर्धन्यां न्यस्त्वागौरीं समन्त्रतः || ३२-३७ || प्. १५३) अनन्तादि शिखण्ड्यन्तां विद्येशानभितो न्यसेत् | पश्चिमे विष्णुमूर्तिन्तु मध्यकुम्भे तु वामता || ३२-३८ || श्रीयं विन्यस्य वर्द्धन्यां पुरुषं सत्यमेव च | अव्यक्तञ्चानिरुद्धञ्च प्रद्युम्नं वासुदेवकम् || ३२-३९ || संकर्षणमनन्तञ्च परितोष्ट सुविन्यसेत् | उत्तरे मध्यकुम्भे तु ब्रह्माणञ्च स्वमन्त्रतः || ३२-४० || तस्य वामे तु वर्धन्यां सावित्रीमभितोष्टसु | व्यासागस्त्यवसिष्ठांश्च कौशिकं काश्यपं तथा || ३२-४१ || गौतमञ्च भरद्वाजं विन्यसेत् तु पराशरम् | यद्वद् धामगतासीनास्तद्वत्सं भावयेत् घटे || ३२-४२ || संयजेदुक्तमन्त्रैश्चाप्यनुक्तान् स्वस्वनामभिः | प्रत्येकं हविषं दत्वा ह्युपदंशैः समन्वितम् || ३२-४३ || ततो होमं प्रकुर्वीत चतुर्दिक्षु विशेषतः | कृत्वाग्निमुखसंस्कारं प्रागुक्तविधिना सुधीः || ३२-४४ || मध्यकुम्भस्थ देवास्तु होमानामधिदेवताः | पिप्पलोदुंबर प्लक्षवटाः पूर्वादिषु क्रमात् || ३२-४५ || समित्सर्पिश्चरुर्ल्लाज तिलसिद्धार्थमुद्गकाः | यवमाषकुलुत्थाश्च नीवारैकादशः क्रमात् || ३२-४६ || पञ्चब्रह्मैश्च विद्यांगै स्त्रिशतं द्विशतं तु वा | शतमष्टोत्तरं वापि प्रत्येकं जुहुयुस्ततः || ३२-४७ || विमानादूर्ध्व भूमिस्थदेवान् संस्नाप्य शैलजान् | संप्रोक्ष्य वर्णी तद्देवान् स्वस्वमन्त्रेण देशिकः || ३२-४८ || हैमकौतुकसूत्रेण तेषां दक्षकरे हृदा | बध्वा दर्भैः सुवस्त्रैश्च बिंबानाच्छाद्य वर्मभिः || ३२- ४९ || ऋगाद्यध्ययनं कुर्याच्चतुर्दिक्षु विशेषतः | एवं रात्रौ तु निर्दिष्टं प्रभाते देशिकोत्तमः || ३२-५० || सुस्नातः सकलीकृत्वा सोष्णीषः सोत्तरीयकः | शुक्लांबरधरः सृग्वी शुक्लगन्धानुलेपितः || ३२-५१ || प्. १५४) पञ्चाङ्गभूषणैर्भूष्य हेमयज्ञाङ्गुलीयकैः | कुम्भा न भ्यर्च्य विधिना दद्यात् पूर्णाहुतिं हृदा || ३२-५२ || सुमुहूर्तेसु लग्ने च कुम्भानुधृत्यमध्यमान् | वर्धनीभिः सहैवात्र नयेदृक्षस्थलोपरि || ३२-५३ || त्यक्त्वा प्रतिसरं वस्त्रं हृदयेन स्वमन्त्रकान् | विन्यस्त्वाक्षरसंघांश्च शिरोमध्यात् पदान्तकम् || ३२-५४ || कुम्भात् बिंबे तु तत् तत्त्वं योजयेत् तु पृथक् पृथक् | तेषान्तु वामपार्श्वे तु वर्धन्यन्तस्थदेवताः || ३२-५५ || संयोज्य स्वस्वमन्त्रेण यथा युक्त्याभिषेचयेत् | परितोष्टघटान्तस्थां स्वस्वाशासु च विन्यसेत् || ३२-५६ || संप्रोक्ष्य कुम्भतोयैश्च देवानन्यांश्च धामनि | स्थूप्याद्युपान पर्यन्तं प्रासादाङ्गानि सेचयेत् || ३२-५७ || स्थापकं मूर्तिकांश्चैव अध्ये तॄन् परिचारकान् | सर्वांश्च शिवभक्तांश्च पूजयेत् पूर्ववत् सुधीः || ३२-५८ || धामान्तस्थगतं देवं स्नपनं कारयेत् ततः | दद्यात् प्रभूतहविषं भोजयेत् भूसुरानपि || ३२-५९ || विमानस्थापनोपेत धाम्निपूजाफलप्रदा | अकृते पूजिते धाम्नि तत्सर्वं निष्फलं भवेत् || ३२-६० || शिवस्यैवं समाख्यातं विमानस्थापनं मया | अन्येषां देव सर्वेषां कुर्यादेवं विधानतः || ३२-६१ || मन्त्रभेदो भवेदत्र क्रियाभेदो न कल्प्यते | प्रासादग्रीवमध्यस्थ देवानां स्वस्वमन्त्रकैः || ३२-६२ || कुर्यात् सर्वं यथोद्दिष्टं विधिनादेशिकोत्तमः | विमानस्थापनोपेत मूर्धेऽष्टका विधिं ततः || ३२-६३ || अत ऊर्ध्वं प्रवक्ष्यामि शृणु लिङ्गस्य लक्षणम् | इति मूर्धेऽष्टकाविधिपटलो द्वात्रिंशत्तमः || ३२ || प्. १५५) अथ लिङ्गलक्षणविधि पटलः अथातः संप्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् | लयङ्गच्छन्ति भूतानि संहारे निखिलं यतः || ३३-१ || सृष्टिकाले तथा सृष्टिः तस्माल्लिङ्गमुदाहृतम् | त्रिविधं लिङ्गमाख्यात सकलं निष्कलं कलम् || ३३-२ || सकलं त्रिविधं तत्र तेषां लक्षणमुच्यते | दिक्देशकालरहितो वाङ्मनातीतगोचरः || ३३-३ || स एव देवदेवेशः स्वेच्छया गृह्णिते तनुम् | परं भावं समालंब्य सर्वज्ञत्वादिभिर्गुणैः || ३३-४ || योगिनां लक्षणार्थन्तु शास्त्राणामुद्भवाय च | प्राणिनामुपकाराय गृह्णीते विग्रहं शिवः || ३३-५ || परात्पर तराद्यस्माच्छिवशक्तेः समुत्भवः | द्वितीयं शक्तिमूर्तिश्च बिन्दुनादश्चतुर्थकम् || ३३-६ || दिक्देशकालसंबन्ध रहिता वाच्यवाचकौ | स्थापनारहितौ शक्त्या मनोगम्ये तु निष्कलौ || ३३-७ || एतत् तु निष्कलं लिङ्गं शृणु सकलनिष्कलं | निष्कलं हि कलाहीनं सकलन्तु कलान्वितम् || ३३-८ || सकलं निष्कलोपेतं तस्मात् सकलनिष्कलम् | मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् || ३३-९ || निष्कलं लिङ्गमित्याहुः सकलं भाव्यरूपकम् | द्विधाभावगतो योऽन्यो बिन्दुनादोद्भवं ततः || ३३-१० || सकलं निष्कलं तस्मान्मुखलिङ्गं द्विरूपतः | सकलं निष्कले लिङ्गे पूजयेत् तु सदाशिवम् || ३३-११ || तदर्धस्त्वीश्वरः प्रोक्तः सकलं रूपमुच्यते | तस्य मध्ये सहस्रांशाद्रुद्रोद्भवमिहोच्यते || ३३-१२ || तस्य वामे तु कोट्यंशादेकांशो विष्णुरुद्भवः | तस्य दक्षिणभागे तु कोट्यंशात् ब्रह्मणोद्भवम् || ३३-१३ || सकलानि तथैतानि अन्यानि तु तथैव हि | ईश्वरः सृष्टिसंहार रक्षणे च प्रभु स्मृतम् || ३३-१४ || प्. १५६) ब्रह्मणा सर्वमुत्पन्नं विष्णुना सर्वपालनम् | जगतां सर्वसंहारं शिवस्य परमेष्ठिनः || ३३-१५ || यद्वच्छंभोः समुद्भूतं तद्वच्छक्तेः मुद्भवम् | अमूर्तञ्चेदमूर्ता तु समूर्तञ्चेत्समूर्तका || ३३-१६ || अग्नेरुष्णत्व वच्छक्ति रविनाभाविनीविभोः | ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः || ३३-१७ || सावित्री श्रीरुमादेवी ईश्वरी च मनोन्मनी | लिङ्गे सदाशिवं प्रोक्तं पिण्डिकायं मनोन्मनी || ३३-१८ || एवं पञ्चममूर्तीनामुच्यन्ते पञ्चमूर्तयः | तस्मात् तदुदयं प्राप्य शक्तिशंभुमयञ्जगत् || ३३-१९ || द्विधाभवस्य लिङ्गस्य लक्षणं शृणु सांप्रतम् | लिङ्गयोनि प्रभेदानि सैकतादीनिमच्छृणु || ३३-२० || क्षणिकञ्चैव मृल्लोहं रत्नजं दारुजं तथा | शैलजञ्चैव विघ्नेश षडङ्गं लिङ्गमुच्यते || ३३-२१ || क्षणिका द्वादशप्रोक्ता मृन्मयं द्विविधं पुनः | दारुजञ्चाष्टधा प्रोक्तमष्टधालोहजं स्मृतम् || ३३-२२ || सप्तधा रत्नजञ्चैव शैलजन्तु चतुर्विधम् | पूजान्ते क्षणिकास्त्याज्यास्त्यजेदन्यानि तल्लये || ३३-२३ || रत्नजं लोहजञ्चैव बाणलिङ्गञ्चलं स्मृतम् | शैलञ्चलाचलं प्रोक्तं मृन्मयं दारवं तथा || ३३-२४ || क्षणिकानां फलं वक्ष्ये सैकतं मोक्षकांक्षिणाम् | तण्डुलं विभवार्थीनामन्नमन्नप्रदं स्मृतम् || ३३-२५ || नदीमृत् भूमिलाभः स्यात् गोमयं रोगनाशनम् | नवनीतं मनोह्लादं रुद्राक्षं ज्ञानवर्धनम् || ३३-२६ || गन्धं सौभाग्यकांक्षिणां कूर्चं मुक्त्यर्थिनां स्मृतम् | आयुष्यवर्धनं पुष्पं गुलमिष्टार्धसिद्धिदम् || ३३-२७ || पैष्टं पुष्टि प्रदं प्रोक्तं क्षणिकानां फलं भवेत् | एतेषां चैव लिङ्गानां न प्रमाणन्न च स्थितिः || ३३-२८ || मृन्मयं राज्यफलदं पक्वापक्वप्रभेदकम् | शुद्धदेशेमृदं ग्राह्य पूजाभागं सयोनिकम् || ३३-२९ || प्. १५७) कृत्वा दग्धमिदं पक्वं तत्रापक्वमिहोच्यते | यवगोधूमचूर्णैश्च घृतक्षिरकषायकैः || ३३-३० || सर्जगुल्गुलुग्रीवेष्टकापित्थनिरयासकैः | चूर्णैरालोढ्यसु मृदा मासपक्वोषितं तथा || ३३-३१ || रत्नबीजसमायुक्तं पक्वलिङ्गं समाचरेत् | सुवर्णं रजतं ताम्रं कांसमारकूटं तथा || ३३-३२ || आयसं सीसकञ्चैव त्रपुकञ्चेति लोहजम् | सौवर्णं श्रीप्रदं प्रोक्तं राजतं राज्यसिद्धिदम् || ३३-३३ || ताम्रं पुत्रप्रदञ्चैव विद्वेषं कांसमेव च | आरकूटं तथोच्चाटे क्षयकारकमायसम् || ३३-३४ || सीसकं रोगहरणं त्रपुरायुष्यवर्धनम् | एवन्तु लोहजं प्रोक्तं ततो रत्नजमुच्यते || ३३-३५ || मौक्तिकञ्च प्रवालञ्च वैडूर्यं स्फटिकं तथा | पुष्यं मरतकं निलं रत्नजं संप्रकीर्तितम् || ३३-३६ || स्फाटिकं भुक्तिमुक्त्यर्थमिष्टसिद्धिं तु रत्नजम् | लोहरत्नानिके लिङ्गे पूजाभागं सपीठिकम् || ३३-३७ || यथा लाभप्रमाणेन स्फटिकादीनि कारयेत् | स्फटिकादिषु कर्तव्या त्रिभागैरेव पीठिका || ३३-३८ || तदायामसुविस्तारा पिण्डिका शुभदा स्मृता | एकाङ्गुलं समारभ्य आचतुर्विंशदङ्गुलान् || ३३-३९ || लोहजं लिङ्गमित्याहुर्लक्षणोद्धारणं विना | दारवस्यैव शैलस्य वनं गच्छेत् स्थिरो गुरुः || ३३-४० || शुभे दिने तिथौ वारे सुमुहूर्ते विशेषतः | आचार्यं शिल्पिमाहूय वस्त्रैर्हेमाङ्गुलीयकैः || ३३-४१ || शुक्लमाल्यानुलेपाद्यैर्भक्तियुक्तं सुपूजयेत् | कुठारादीनि चिह्नानि पराङ्ग्राह्य विचक्षणः || ३३-४२ || आचार्यः शिल्पिभिश्चैव सहायैर्बलवत्तरैः | पुण्याहजयशङ्गैश्च शंखभेर्यादिनिस्वनैः || ३३-४३ || यथावस्थानकाले तु निमित्तान्युपलक्षयेत् | दिव्यान्तरिक्षभौमानि अशुभानि शुभानि च || ३३-४४ || प्. १५८) सव्येत्वागमनं वामा द्वायसस्य स्वरस्तथा | समांसश्येनकस्त्वग्रे दक्षिणाद्वाममार्गतः || ३३-४५ || कन्यानां दर्शनञ्चैव गवारोहणमेव च | दधिवै पूर्णकुम्भञ्च ब्राह्मणं पुष्पसंयुतम् || ३३-४६ || पावकं ज्वलमानञ्च मांसभारं तथैव च | वेश्यासं दर्शनञ्चैव वराहं हयमेव च || ३३-४७ || शुभान्येतानि सर्वाणि दर्शयित्वा व्रजेत् बुधः | उल्कापातं दिशादाहं महावातप्रवर्तनम् || ३३-४८ || अशुभं ह्यन्तरिक्षे तु पूर्वोक्त विपरीतकम् | तैलाभ्यङ्गञ्च तत् पात्रं मुक्तकेशस्य दर्शनम् || ३३-४९ || दर्शनं नवमृत् भाण्डं च्छिन्ननासिकमेव च | एते तु भौमजा ज्ञेया परीक्षैवं शुभाशुभम् || ३३-५० || शुभेषु प्रस्थितोया या दशुभे तु निवर्तयेत् | अशुभेग्निं समास्तीर्य शिवेनैवशतं हुनेत् || ३३-५१ || निमित्तेशोभने गच्छेद् आचार्यः शिल्पिभिः सह | संप्रविश्य ततो धीमान्वनान्युपवनानि च || ३३-५२ || महेन्द्रे मलये चैव सह्यैविन्ध्ये तथैव च | यावच्छिलाद्रुमौ चास्ति तावद्यायाद्विचक्षणः || ३३-५३ || शमीमधुकरण्डूक कर्णिकारं तथैव च | तिन्दुकार्जुनकौ चैव पिप्पलोदुंबरं तथा || ३३-५४ || एते वर्गास्तु चत्वारो ब्राह्मणादि यथा क्रमम् | अन्ये च बहवो वृक्षा मध्यवाराः सुशोभनाः || ३३-५५ || स्निग्धपत्रा महाकायाः शुभदेशोत्थितास्तु ये | अग्निदग्धाश्चतुष्काश्च पक्षिणान्तु निकेतनाः || ३३-५६ || लतावल्मीकसंस्थाश्च वर्जयेत् साधकोत्तमः | शिलाभापि सुविज्ञेया जातिभेदपरीक्षणैः || ३३-५७ || श्वेतरक्ता तथा पीता कृष्णा चैव चतुर्विधा | गोक्षीर शंखवर्णाभा ब्राह्मणानां प्रशस्यते || ३३-५८ || जपाबन्धूकपुष्पाभा नृपाणां प्रोच्यते क्रमात् | रजनी स्वर्ण सदृशा वैश्यानान्तु प्रशस्यते || ३३-५९ || प्. १५९) माषगुल्गुलु संकाशा शूद्राणान्तु समृद्धिदा | सर्वेषान्तु शिलाकृष्णा सर्वसंपत्करी स्मृता || ३३-६० || वसासोषरज क्लिन्ना तप्ताश्चार्कस्यरश्मिभिः | अग्निदग्धान्य युक्ता सा वर्जयेत् तां प्रयत्नतः || ३३-६१ || तस्याच्छोत्तरपार्श्वे तु स्थण्डिलेग्निमुखङ्कृते | शतं हुत्वा शिवास्त्रेण तमग्रे शयने वसेत् || ३३-६२ || स्वप्ने माणवकञ्जप्त्वा रात्रौ सुप्त्वा शिवं स्मरेत् | अशुभे दर्शने स्वप्ने मूले नैव शतं हुनेत् || ३३-६३ || शुभे स्वप्ने तु चेद्धिमान् तदाच्छेदनमारभेत् | अभिषिच्य शिवाद्भिस्तु प्रभाते विमलेशुभे || ३३-६४ || अघोरास्त्रेण मन्त्रेण छित्वामधुयुतेन च | अधोभागमुखं तस्य पृष्ठमूर्ध्नि प्रकल्पयेत् || ३३-६५ || पार्श्वयोः पार्श्वमेवन्तु मूलं याम्यापरे विदुः | पूर्वे चोत्तरपार्श्वे वा शिरः संकल्प्य बुद्धिमान् || ३३-६६ || लाञ्छयित्वा क्षराण्यत्रं ततस्तत् क्षणमारभेत् | मूलं पादशिलां ग्राह्य योऽन्या चावृत पार्श्वयोः || ३३-६७ || बाला च यौवना वृद्धाज्ञातव्या लक्षणैस्ततः | स्निग्धा मृदुतला चैव बालाक्षीण स्वरान्विता || ३३-६८ || सुस्वराकान्ति संयुक्ता सा शिला यौवना स्मृता | अग्निदग्धा झर्झरूक्षा वृद्धासानिस्वराशिला || ३३-६९ || बालां वृद्धान्तु सन्त्यज्य यौवनां संग्रहेत् बुधः | शिलागर्भान् परीक्ष्याथ कर्तव्यं विधिचोदितम् || ३३-७० || लिङ्गं प्रक्षिप्यक्षिरेण पिष्टकासैः सगैरिकैः | इति तत्त्वे करात्रन्तु लिङ्गं प्रक्षाल्य चांभसा || ३३-७१ || बिन्दुरेखा कलंकाश्च शिलादोषाः प्रकीर्तिताः | दृश्यते मण्डलं यत्र गर्भं तत्र विनिर्दिशेत् || ३३-७२ || सिते तु मण्डले सर्पो रत्ने तु कृकलासह | गोधा वै मण्डले पीते माञ्जिष्ठे दर्दुरोत् भवेत् || ३३-७३ || प्. १६०) कापिले मूषिका प्रोक्ता चित्र वर्णे तु वृश्चिकः | श्वेतरक्तविमिश्रे तु गण्डूकोमण्डले भवेत् || ३३-७४ || खद्योतं मधुवर्णे तु कापोतौ ग्रहगौलिका | गुलवर्णे तु पाषाणं निस्त्रिंशाभेजलं भवेत् || ३३-७५ || वर्जिता गर्भयुक्तास्तु विमलैरन्वितास्तथा | विमलं हेमकांसाख्यं लोहाख्यञ्च त्रिधा स्मृतम् || ३३-७६ || परीक्ष्यैव तु कर्तव्यं लिङ्गं गर्भादिवर्जितम् | प्रासादगर्भविस्तारं सूत्रेण समितं तथा || ३३-७७ || गर्भविस्तारपञ्चांश स्त्रियं शेनोत्तमं विदुः | गर्भन्तु नवधा कृत्वा पञ्चभागन्तु मध्यमम् || ३३-७८ || अधमं गर्भमानार्थं त्रिविधन्तु प्रमाणतः | कनिष्ठ ज्येष्ठयोर्मध्ये गर्भेऽष्टांश कृते सति || ३३-७९ || प्रोक्तन्तु नवधा मानन्तेषु कार्यं यदृच्छया | अथवान्य प्रकारेण गर्भन्तु नवधा पुनः || ३३-८० || उत्तमं त्रिणिचोक्तानि मध्यमं त्रिणिचादिशेत् | अधमं त्रिणिचोक्तानि नवभेदमुदाहृतम् || ३३-८१ || हस्तादि नवहस्तान्तं नवधा हस्तमानकम् | त्रितालाद्रुद्रतालान्तं तथा नवविधिं पुनः || ३३-८२ || समं वै वर्धमानञ्च शिवाधिकमतः परम् | चतुरश्रमधोभागमष्टाश्रं मध्यमं तथा || ३३-८३ || तदूर्ध्वं वृत्तमेवस्यात् त्रिभागं सर्वतः समम् | समलिङ्गमिति प्रोक्तं वर्तमानमथ शृणु || ३३-८४ || चतुर्विंशति चायामे सप्ताङ्गञ्चतुरश्रकम् | अष्टाश्रमष्टभागेन नवांशे नैव वृत्तकम् || ३३-८५ || वर्धमानमिदं लिङ्गं शिवाधिकमतः परम् | आयामं दशधा कृत्वा चतुरश्र त्रिभागतः || ३३-८६ || अष्टाश्रञ्च त्रिभागेन चतुरंशेन वृत्तकम् | शिवाधिकमिदं शस्तं भुक्तिमुक्तिप्रदं शुभम् || ३३-८७ || यस्य लिङ्गस्य चायाम चतुरश्रस्य नाहकम् | आयामस्याष्टभागाच्च सप्तांशैर्मध्यनाहकम् || ३३-८८ || प्. १६१) तत् षडंशैस्तु वृत्तं स्यात् परिणाहं प्रकीर्तितम् | लिङ्गाया मे चतुर्विंशद्विष्कंभः पञ्चभागिकम् || ३३-८९ || वेदाश्रादिपरीणाहाद्विंशत् षोडश वा नव | सर्वेषामेव लिङ्गानां प्रोक्तं वै परिणाहकम् || ३३-९० || धारालिङ्गं मुखंलिङ्गं शृणुवत्ससमाहितः | पञ्चधारा सप्तधारा नवधारा द्वादशधारकः || ३३-९१ || धाराः षोडशविंशच्च त्रिरष्टावाष्टविंशतिः | अष्टाश्रं मूर्तिपर्यन्तं यवार्धं वायवोन्नतम् || ३३-९२ || पूर्वभागं त्रिधा कृत्वा प्यूर्ध्वभागे मुखं भवेत् | पञ्चमूर्धा चतुर्वक्त्रं ग्रीवाचैका समायुतम् || ३३-९३ || श्रोत्राष्टौ च दशोष्ठञ्च सर्वलक्षणसंयुतम् | लिङ्गाकारमधस्तस्य पिण्डिकालक्षणं शृणु || ३३-९४ || त्रिगुणं लिङ्गविस्तारं त्रिगुणार्धञ्चतुर्गुणम् | त्रिविधस्त्वधमादिस्तु पीठविस्तारमुच्यते || ३३-९५ || विष्णुभागस्य चोत्सेधं पीठोत्सेधं विधीयते | अथवा ब्रह्मभागस्य चाष्टांशेन समन्वितम् || ३३-९६ || पद्मपीठं भद्रपीठं वेदिकोपरिमण्डलम् | पीठञ्चतुर्विधं प्रोक्तं लक्षणं शृणु सांप्रतम् || ३३-९७ || कृत्वा षोडश चोत्सेधं द्व्यंशेन चतुपट्टिका | पञ्चभागन्तदूर्ध्वाब्जं दलैः षोडशभिर्युतम् || ३३-९८ || दलमध्याङ्गुलोत्सेधं पद्मकुण्डमिहोच्यते | द्विभागं मध्य वृद्धन्तु समन्तात् सदृढं दृढम् || ३३- ९९ || चतुर्भिरूर्ध्व पद्मन्तु द्विभागे नोर्ध्वपट्टिका | तदूर्ध्वे तु ततः कुर्यादेकांशं घृतवारिणा || ३३-१०० || पीठतार त्रिभागैकं नालं कुर्यात् तथोत्तरे (तधोत्तरे) | तत्तारस्य चतुर्थांशं तदर्धार्धमथादिकम् || ३३-१०१ || द्विगुणं त्रिगुणं मूलं तदमग्रञ्चार्धनाशनम् | विस्तारस्य चतुर्धांशादर्धादर्धमथापि वा || ३३-१०२ || प्. १६२) जलमार्गं त्रिभागैकं कुर्यात् तत्र विशेषतः | एवन्तु पद्मपीठं हि भद्रपिठमथशृणु || ३३-१०३ || पूर्ववत् षोडशांशन्तु कृत्वोत्सेधं विधानतः | भागेनो पानमेकेन चतुर्भिर्जगती भवेत् || ३३-१०४ || कुमुदन्तु त्रिभिर्भागैरेके नैव तु पट्टिका | कण्ठं कुर्यात् त्रिभिर्भागैरेकांशेन तु पट्टिका || ३३-१०५ || महापट्टिकाद्व्यंशा तु एकेन घृतवारिणि | भद्रपीठं समाख्यातं वेदिपीठमथोच्यते || ३३-१०६ || पीठोत्सेधे नवांशे तु द्वियंशेन तु पट्टिका | चतुर्भिः कण्ठ तुङ्गन्तु द्व्यंशे नैवोर्ध्वपट्टिका || ३३-१०७ || घृतवार्येकभागन्तु समन्ताच्चतुरश्रकम् | वेदीपीठं समाख्यातं परिमण्डलमुच्यते || ३३-१०८ || भद्रमेव हि वृत्तं स्यादेतद् वै परिमण्डलम् | तेष्वेकांश समं वापि त्रिपादं वार्धमेव वा || ३३-१०९ || पीठाङ्गानां प्रवेशञ्च तथा निर्गमनं पुनः | सकलानाञ्च लिङ्गानां सामान्यं पीठलक्षणम् || ३३-११० || लिङ्गस्य पीठिकाचेत् तु मध्वष्टाश्र क्रमान्वितम् | अवटं कारयेद् धीमान् विष्णुभागसमं यथा || ३३-१११ || ब्रह्मभाग प्रवेशार्थं तन्मानाच्चतुरश्रकम् | घृतवारि घटान्नालं सकलेत्वासने विना || ३३-११२ || नन्द्यावर्त शिलांवक्ष्ये पीठाधस्ताच्चतुः शिला | परितस्तालमात्रं वा षडङ्गुलमथापि वा || ३३-११३ || पीठविस्तारतोधिक्या नन्द्यावर्तशिलाः शुभाः | समन्ताच्चतुरश्रास्तु ब्रह्मभागसमोन्नतः || ३३-११४ || अथवा चतुरश्रस्य चाष्टांशत् सप्तमोच्छ्रिताः | गर्भस्य नवभागैकं पादाधारशिलाशुभा || ३३-११५ || तदर्धमेकमेवं वा तन्नवांशैकमुच्छृतः | चतुरश्रस्य चाष्टांशादेकांशं मध्यनिम्नगम् || ३३-११६ || प्. १६३) लिङ्गतारप्रमाणेन खातविस्तारमानकम् | नवनिम्नन्तु तन्मध्ये रत्नन्यासार्धमुच्यते || ३३-११७ || ब्रह्मोपलासमोत्तुंगा तत्ताराध्यर्धविस्तृता | एवं कूर्मशिला सिद्धा सुदृढा चतुरश्रका || ३३-११८ || एवमुक्तास्तु सर्वांगाः किञ्चिन्मानाधिकास्तु वै | रथस्योपरि विन्यस्य तत् ग्रामं प्रविशेत् सुधीः || ३३-११९ || ग्रामं प्रदक्षिणं कृत्वा वाद्यध्वनि समायुतम् | प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं बुधः || ३३-१२० || नीत्वा तन्मध्यमे लिङ्गं प्राक्च्छिरस्कं सुबुद्धिमान् | पट्टिकोपरिविन्न्यस्य सूक्ष्मकर्म च कारयेत् || ३३-१२१ || आचार्यः शिल्पिभिश्चैव लक्षणेनसहैव तु | शिरसावर्तनं कार्यन्तच्चतुर्विधमुच्यते || ३३-१२२ || च्छत्राकारन्तु पूर्वञ्च द्वितीयन्त्र पुषाकृतिः | कुक्कुटाण्डं तृतीयन्तु चतुर्थंत्वर्धचन्द्रकम् || ३३-१२३ || कृत्वा तारन्तु षट्भागं लिङ्गस्य च शिरस्त्वथ | भागेन वर्तनङ्कृत्वा यावन्निम्नन्तु मध्यमम् || ३३-१२४ || च्छत्राकारमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् | तारं कृत्वा तु षट्भागं द्विभागार्धेन वर्तिनम् || ३३-१२५ || त्रपुषाकृतिरेवं स्यात् भुक्तिमुक्तिफलप्रदम् | कुक्कुटाण्डन्तु तत्रैव विस्तारार्धेन वर्तितम् || ३३-१२६ || लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्तितम् | अर्धचन्द्रमिदन्तत्र मुक्त्यर्थं प्रोच्यते क्रमात् || ३३-१२७ || एवं सदाशिवं प्रोक्तं सर्वसिद्धिकरं परम् | अन्यानाव्रतदेवांश्च ध्यानमन्त्रेण पूजयेत् || ३३-१२८ || सकलं निष्कलं प्रोक्तं सकलं शृणु सुव्रत | इति लिङ्गलक्षणविधिपटलस्त्रयस्त्रिंशत्तमः || ३३ || प्. १६४) अथ सकललक्षणविधिपटलः अथातः संप्रवक्ष्यामि सकलानान्तु लक्षणम् | सर्वावयवदृश्यत्वात् प्रतिमा त्विति चोच्यते || ३४-१ || ईश्वरादिचतुर्मूर्तिः पठ्यते सकलं त्विति | एतानि सकलादीनि त्रिविधानि मयोच्यते || ३४-२ || चित्रं चित्रार्धमेवन्तु चित्राभासं तथैव च | सर्वावयसंपूर्णं दृश्यं तच्चित्रमुच्यते || ३४-३ || अर्धावयवसंदृश्यं मर्धचित्रं तथैव च | पटे भित्तौ च यो लिख्यं चित्राभासमिहोच्यते || ३४-४ || पूजाभागसमायमं तदूर्ध्वं प्रतिमोच्छ्रयम् | द्विगुणं त्रिगुणं तत्र मध्यमञ्चोत्तमं त्विह || ३४-५ || एकैकस्य त्रिभिर्भेदैर्नवमानमुदाहृतम् | गर्भन्तु नवधा कृत्वा नवधादीप्यमुच्यते || ३४-६ || द्वारस्योच्छ्रयमाने तु षोडशांशविभाजिते | भवंगञ्च पतङ्ग च ऊर्ध्वाधोंशद्वयं त्यजेत् || ३४-७ || शुद्धद्वारमिदं शेषमेतन्मनेन चोत्तमम् | तत्त्रिभाग द्विभागञ्च मध्यमं त्विति कीर्तितम् || ३४-८ || तत्त्रिभागैकमथममेकैकं त्रित्रिभाजिते | प्रोक्तं हि नवधा मानं स्तंभमानमथ शृणु || ३४-९ || स्तंभायामार्धभागेन कर्तव्यं कन्यसं बुधः | त्रिपादं मध्यमं प्रोक्तं समं चैवोत्तमं भवेत् || ३४-१० || प्रत्येकं त्रिविधैर्भागैर्नवमानं पुरोक्तवत् | उत्तमन्तु चतुस्तालं त्रितालं मध्यमं तथा || ३४-११ || द्वितालमधमं विद्धि हस्तमानसमं शृणु | एकहस्तं समारभ्य नवहस्तान्तमेव च || ३४-१२ || नवमानं करेणैव त्वङ्गुलीनां वशाच्छृणु | यजमानसमं ज्येष्ठं त्रिपादञ्चैव मध्यमम् || ३४-१३ || प्. १६५) अधमं त्वर्धमित्युक्तं यजमानानुरूपतः | एतान्युक्तानि मानानि मानाङ्गुलेन भाजिते || ३४-१४ || तेषु मानेषु युग्मार्थं मानं प्रत्यङ्गुलाधिकम् | अथवैकाङ्गुलोनं वा माने माने प्रयोजयेत् || ३४-१५ || एकाङ्गुलं समारभ्य द्वादशान्ताङ्गुलं ग्रहेत् | तदूर्ध्वन्तु न कुर्वीत अथस्तादालयेन हि || ३४-१६ || यदुक्तोत्सेधमानन्तु त्रिभागं संविभज्य वै | उष्णीषात् पादपर्यन्तं द्विभागे नैव कारयेत् || ३४-१७ || पीठमानमथैकांशं त्रिविधा पद्ममेकतः | द्विभागं पीठमानं स्यादासने तु विशेषतः || ३४-१८ || बिंबायाम चतुर्थांशं पीठोच्चं स्थानकस्य तु | स्थानकासनयानञ्च कर्तव्यं त्वनुरूपतः || ३४-१९ || यद्विष्णु प्रतिमादन्यं शयनन्तु न कारयेत् | आचार्यशिल्पिकर्तॄणामिष्टमानं प्रगृह्य च || ३४-२० || मृन्मयं यदि कुर्याच्चेच्छूलं तत्र प्रकल्पयेत् | लोहजञ्च विशेषेण मधूश्चिष्टेन निर्मितम् || ३४-२१ || अङ्गोपाङ्गानि कृत्वाथ स्थिरवत् संप्रकल्पयेत् | गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम् || ३४-२२ || तस्यैव दक्षिणे पार्श्वे शिवाग्निं तु प्रकल्पयेत् | हृदा चाष्टशतं हुत्वा समिदाद्यैः पृथक् पृथक् || ३४-२३ || पूर्णाहुतिं ततो दद्यात् ध्यात्वा तद्रूपमात्मनि | हृन्मन्त्रन्तु समुच्चार्य तत्तदङ्गानि बन्धयेत् || ३४-२४ || सर्वावयवसंपूर्णां प्रतिमंशिल्पिभिः सह | गृहितप्रतिमोत्तुङ्गे नवभागविभाजिते || ३४-२५ || भागमेकं मुखं प्रोक्तं कण्ठभागं त्रिभागतः | भागं कण्ठस्तनान्तञ्च भागं नाभ्यन्तमेव च || ३४-२६ || मेढ्रान्तं भागमानेन द्विभागं चोरुमानकम् | भागत्रिभागिकं जानुजंघायाम द्विभागिकम् || ३४-२७ || गुदं भागं त्रिभागन्तु द्विभागं बाहुदैर्घ्यकम् | पादोनद्विगुणं तस्य प्रकोष्ठायाममिष्यते || ३४-२८ || प्. १६६) मानमेवन्तु विख्यातं सर्वेषान्तु प्रशस्तकम् | तालगण्येन चाङ्गुल्या मानोन्माने तु कारयेत् || ३४-२९ || मुखन्तालं यमञ्चैव वितस्तिर्द्वादशाङ्गुलम् | ईश्वरादि चतुर्मूर्तिदशतालेन कारयेत् || ३४-३० || शक्तिनामन्यदेवानां नवतालं प्रकीर्तितम् | दिव्यमार्षमनुष्याणामष्टतालेन कारयेत् || ३४-३१ || रक्षसामसुराणाञ्च सप्ततालमिहोच्यते | षट्तालेनैव गन्धर्वान् पञ्चतालेन विघ्नकम् || ३४-३२ || वामनात् पञ्चतालैस्तु चतुस्तालैस्तु भूतकान् | त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् || ३४-३३ || एकतालस्तु कूश्माण्डात् पिशाचाविंशदङ्गुलाः | स्थूलसूक्ष्म प्रभेदांस्तु तालभेदमिहोच्यते || ३४-३४ || विहितं तत्तदङ्गुल्या मानमुन्मानमेव च | मानन्तद्विस्तरं प्रोक्तमुन्मानं नाहमेव च || ३४-३५ || प्रमाणं दीर्घमित्युक्तं मानोन्मानप्रमाणतः | मुखभागं त्रिधा कृत्वा ललाटोच्चमथैव तु || ३४-३६ || एकांशं नासिकान्तं स्यादन्यं नतद्वदेव हि | अन्यानि चाङ्गुलैः कार्यमुष्णीषाच्चरणान्तकम् || ३४-३७ || उष्णीषमङ्गुलं प्रोक्तं मस्तकन्तु त्रियङ्गुलम् | षट्त्रिंशदङ्गुले नैव शिरसोनाहमुच्यते || ३४-३८ || श्रोत्रयोरन्तरं तत्र ललाटोष्टादशाङ्गुलम् | उष्णीषात् तु ततः कर्णपर्यन्तं द्वादशाङ्गुलम् || ३४-३९ || कलाधा नेत्रमायामं विस्तारन्तु तदर्धतः | तत्तारे पक्ष्मरेखेव करवीरद्वयोर्यवम् || ३४-४० || असितञ्च त्रिभागैकं ज्योतिः स्यात् पञ्चभागिकम् | द्विकलानासिकायामं तदर्धन्तु पुटद्वयम् || ३४-४१ || पुटमध्यं यवं प्रोक्तं नासाग्रन्तिलपुष्पवत् | अग्रन्तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः || ३४-४२ || भ्रुवौषडङ्गुलायामौ कला चैव तदन्तरम् | ओष्ठमेकाङ्गुलं प्रोक्तं तदर्धेनोत्तरोष्ठकम् || ३४-४३ || प्. १६७) कलायामं भवेदास्यं मध्यार्धञ्चिबुकं तथा | निर्गमञ्चतुरङ्गुल्यं गुलमध्याङ्गुलाधिकम् || ३४-४४ || कर्णं वै चतुरङ्गुल्यं विस्तारन्तु तदर्धतः | निम्नमेकाङ्गुलं प्रोक्तं कर्णनाहं त्रियङ्गुलम् || ३४-४५ || षट्भागं कर्णनाहं स्यात् तन्मूलन्तु कलाधिकम् | तत्बाह्वोरन्तर स्कन्धौ ततः षट्त्रिंशदङ्गुलम् || ३४-४६ || अग्रं त्रिभागनाहन्तु मणिबन्धेऽङ्गुलाधिकम् | इन्दुभागन्तलं ज्ञेयं रसाङ्गुलप्रमाणतः || ३४-४७ || सप्ताङ्गुलं त्वथायामं द्व्यङ्गुलञ्चोन्नतं स्मृतम् | रेखाभिः संयुतं वत्समध्यनिम्नं बहिर्घनः || ३४-४८ || करमध्याङ्गुलायामं सप्ताङ्गुलमुदिरितम् | मध्यादर्धाङ्गुलं ह्रासं तर्जन्यानामिके तथा || ३४-४९ || भागमङ्गुष्ठमेवन्तु कनिष्ठस्य तथा भवेत् | अङ्गुष्ठस्य तथा नाहमायामसदृशं त्विह || ३४-५० || तस्मादर्धाङ्गुल ह्रासो मध्यमायास्तु नाहकाः | त्रियङ्गुलन्तु विज्ञेया तर्जन्यानुमिकाद्वयोः || ३४-५१ || तदर्धाङ्गुलहीनन्तु कनिष्ठस्य तु नाहकम् | अङ्गुलीनान्तु पर्वं स्यात् पञ्चभागैकमूर्ध्वतः || ३४-५२ || द्विभागं मध्यमं पूर्वं तत्समन्तु तदा स्मृतः | अङ्गुष्ठन्तु द्विपर्वं स्यादधश्चोर्ध्व समंमतम् || ३४-५३ || नखं वै चाग्र पर्वाग्रमङ्गुलीनां प्रमाणतः | मकुटस्य तु चोत्सेधं मुखं भागाधिकन्तु वा || ३४-५४ || तदर्धाधिकमेवाथ द्विगुणं नाहमुच्यते | ईश्वरस्य चतुर्नाहं तथा भूतगणाधिपौ || ३४-५५ || समानमेव सर्वेषां विशेषाकृतिरुच्यते | ईश्वरस्य तु वक्ष्येऽहं यथा वदनुपूर्वशः || ३४-५६ || ईश्वरं ह्यात्म तत्वस्थं सर्वतोक्षि शिरोमुखम् | इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् || ३४-५७ || कर्णिकाकेसरैर्युक्तं पंकजन्तु महेश्वरम् | पञ्चमूर्ध्वञ्चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् || ३४-५८ || प्. १६८) चतुरास्यञ्चतुर्नासी वसुश्रोत्रञ्चतुर्गलम् | तनुरेतत् द्विपादं हि सायुधं दशबाहुकम् || ३४-५९ || शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् | चद्रांशुहिमशितञ्च सर्वाभरणभूषितम् || ३४-६० || शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् | अभयं शूलपरशुं वज्रं खट्गं च दक्षिणे || ३४-६१ || खेटकांकुशपाशञ्च घण्टांवरदवामके | कुर्यादेवं महेशन्तु शक्तेस्तु लक्षणं शृणु || ३४-६२ || चतुर्भुजां त्रिणेत्राञ्च सर्वालङ्कारसंयुताम् | नितंबतटविस्तीर्णां मध्यक्षामांस्तनोन्नताम् || ३४-६३ || दक्षिणे चोत्पलोपेतां वामहस्तेस्रजन्धरीम् | वरदाभयहस्तां वै दुकूलवसनान्विताम् || ३४-६४ || करण्डमकुटोपेतामीश्वरस्य तु वामके | पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् || ३४-६५ || चन्द्रार्काग्नि प्रतीकाशां जगन्मङ्गलकारकाम् | कारयेद् ईश्वरीमेवं वामादीनां शृणुष्व हि || ३४-६६ || वामादीशाष्ट शक्तिंस्तु ईश्वरीं च पृथक् पृथक् | ईश्वरस्य च हन्वन्तं बाह्वन्तं वास्तनान्तकम् || ३४-६७ || ईश्वरीदिशमाख्यातं शक्तीनां तत् त्रिपादतः | तद्वदा व्रतदेवानामायामन्तु विधीयते || ३४-६८ || ब्रह्मविद्याङ्ग पञ्चाङ्ग विद्येशाश्च गणेश्वराः | त्रिणेत्राश्चतुर्भुजाः सौम्याः सर्वाभरणभूषिताः || ३४-६९ || नमस्कारकराः सर्वे ह्यक्षमालाब्जधारकाः | जटामकुटसंयुक्ताः सर्वे सम्यक् प्रकीर्तिताः || ३४-७० || तेषां वर्णं पुराप्रोक्तं लक्षणेन समन्वितम् | एवं आवृत देवानां ममरूपाणि च शृणु || ३४-७१ || आद्यं सुखासनञ्चैव द्वितीयमुमया सह | वृषारूढं तृतीयन्तु त्रिपुरारिञ्चतुर्थकम् || ३४-७२ || नृत्ताख्यं पञ्चमं रूपं षष्ठं सोमार्धशेखरम् | सप्तमं च धनादीशं हरिरर्धन्तु चाष्टमम् || ३४-७३ || प्. १६९) भिक्षाटनञ्च नवमं दशमंकामनाशनम् | एकादशन्तु कालघ्नं ततो लिङ्गपुराणिकम् || ३४-७४ || द्वादश प्रतिमां ह्येवं तेषां लक्षणमुच्यते | मेरुपर्वत पार्श्वे तु मुनीनामाश्रमे तथा || ३४-७४ || दिगंबरन्तु मान् दृष्ट्वा तेषां स्त्रीणांभ्रमोसिवै | तं ज्ञात्वा मुनयः सर्वे जुहुयास्त्वाभिचारकम् || ३४-७५ || तन्मध्ये हृदयेतानि नागङ्कृष्णा मृगं तथा | अपस्मारञ्च परशुमुक्षं व्याघ्रं हरिं तथा || ३४-७६ || करोटिन्तु महाभीमामेवमाद्यागतोमयि | नागं मृगञ्च परशुं क्रीडार्थन्धारितं मया || ३४-७७ || पादाधसादपस्मारं करोटिं शिरसोपरि | सिंहव्याघ्रौ तदा हत्वा तच्चर्मन्धारितं मया || ३४-७८ || तदुक्षं वाहनं भूत्वा ममप्रियकरं सदा | महोदधेर्विषं कण्ठे सोमार्धं शेखरे धृतम् || ३४-७९ || बकपुष्पं जटाभारे मयानृत्ते वधारितम् | समानमन्यत् सर्वेषां प्रतिमानां विशेषतः || ३४-८० || त्रिणेत्रञ्चतुर्भुजं सौम्यं बालेन्दु कृतशेखरम् | धुर्तूरभुजगोपेतं जटामकुटमण्डितम् || ३४-८१ || व्याघ्रचर्मांबरञ्चैव हारकेयूरसंयुतम् | यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलं कृतम् || ३४-८२ || मूर्तीनां द्वादशानान्तु सामान्यमिदमिरितम् | अतः परं विशेषन्तु क्रमशो वक्ष्यतेऽधुना || ३४-८३ || आसने तु सुखासीनं मृगीपरशुधारिणम् | अभयं दक्षिणे हस्तं वरदं वामहस्तके || ३४-८४ || कटकं वा सुखासीनमुमा स्कन्दौ च वर्जितम् | एवं सुखासनं प्रोक्तमुमा सहितमुच्यते || ३४-८५ || सहासने ह्युमादेवीं सुसौम्यवदनोज्वलाम् | द्विभूजां पद्महस्तान्तु मकुटाभरणान्विताम् || ३४-८६ || कटकाख्य ध?रांवामे प्रसारितमथापि वा | उमा बाहुस्तनान्तं वा मानं वै षण्मुखस्य तु || ३४-८७ || प्. १७०) कण्ठेशूलसमायुक्तं च्छन्नवीरसमायुतम् | उमा शङ्करयोर्मध्ये स्कन्तं वै बालरूपिणम् || ३४-८८ || आसनं स्थानकं वापि वरदं कटकान्वितम् | कृत्वा सुखासनं यद्वत् पूर्ववत् परमेश्वरम् || ३४-८९ || देवस्यमुखमन्वीक्ष्य किञ्चित् गौरीन्तु कारयेत् | वृषारूढमथोवक्ष्ये वृषभं पृष्ठत स्थितम् || ३४-९० || उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके | मृगं परशु संयुक्तं कर्तव्यं वृषवाहनम् || ३४-९१ || धनुर्बाणसमायुक्तं कृष्णां परशुधारिणम् | उमया सहितं देह कृत्वा तत्त्रिपुरान्तकम् || ३४-९२ || नृत्तार्थोद्धृत वामांघ्रिजानुनाभि समोत्थितम् | पादाङ्गुष्ठं समोजानु जान्वङ्गुष्ठ समोद्धृतम् || ३४-९३ || प्रसार्य वामहस्तञ्च दण्डवद्धृदयोपरि | अभयं दक्षिणं हस्तं शेषण्डमरुकान्वितम् || ३४-९४ || कण्ठसीमान्तमुधृत्य यथा शोभं प्रकल्पयेत् | साग्निकं वामहस्तन्तु बाहुसीमान्तमुद्धृतम् || ३४-९५ || पादाधस्तमपस्मारं सर्पक्रीडा समन्वितम् | धुर्तूरकां करोटीञ्च गङ्गेन्दुबकपिञ्छकम् || ३४-९६ || तिस्रः पञ्चजटाः सप्त प्रसार्यकुसुमोज्वलाः | सव्ये त्वेवन्तथा वामे दिप्ताग्निसदृशोज्वलाः || ३४-९७ || नृत्तरूपमिदं वत्स सर्वशान्त्यर्थमुच्यते | ऋज्वागतन्तु तं देवं मृगं परशुधारिणम् || ३४-९८ || कृत्यंबरधरं देवं कर्तव्यञ्चन्द्रशेखरम् | दक्षिणार्धे हरञ्चैव वामार्द्धे पार्वती तथा || ३४-९९ || दक्षिणं कुञ्चितं पादं वामपादमृजु स्थितम् | मध्यकायानतौ वक्रमेवं कुर्यात् त्रिभागिकम् || ३४-१०० || हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् | प्रकोष्ठे शुकसंयुक्तं हरं परशु संयुतम् || ३४-१०१ || वामे कटकहस्तन्तु दक्षिणेत्वभयं स्मृतम् | श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा || ३४-१०२ || प्. १७१) व्याघ्रचर्मांबरं देवं पार्वतीं क्षौमधारिणीम् | पितांबरधरं विष्णुं व्याघ्रचर्मांबरं हरम् || ३४-१०३ || विष्णुं किरीटसंयुक्तं शंकरन्तु जटान्वितम् | श्यामवर्णं हरिञ्चैव शंकरं युक्तरूपिणम् || ३४-१०४ || हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् | सृष्टिमूर्तेः कपालन्तु स्थितिमूर्तेः कलेबरम् || ३४-१०५ || डमरुकसमोपेतं भस्मसर्पैरलङ्कृतम् | कण्ठेशूलसमायुक्तं छन्नवीरसमायुतम् || ३४-१०६ || पादुको परिपादौ च सर्वभूतसमावृतम् | एवं भिक्षाटनं वत्सकामनाशमथ शृणु || ३४-१०७ || उग्ररूपन्तु कामारि पार्श्वे कामं प्रपातितम् | कार्यं कामारिपुं ह्येवं वक्ष्येऽहं कालनाशनम् || ३४- १०८ || दक्षिणे तु करेशूलं वामे सूच्यङ्गुलि स्मृतम् | पादं कालस्य हृदये न्यस्त्वैवं पादसंस्थितम् || ३४-१०९ || कालनाशमिदं प्रोक्तं लिङ्गात् पत्तिमतः परम् | लिङ्गं कृत्वोर्ध्वत ब्रह्मा हंसरूपन्तथैव च || ३४-११० || विष्णुं वराहवक्त्रन्तु लिङ्गस्याद्धः प्रकल्पयेत् | हृदयेऽञ्जलिसंयुक्तौ ब्रह्माविष्णू च पार्श्वयोः || ३४-१११ || लिङ्गं मध्ये तु कर्तव्यं पूर्ववचन्द्रशेखरम् | अदृश्यौ तस्य पादाब्जौ तथैव मकुटं यथा || ३४-११२ || प्रोक्तं द्वादशमूर्तिनां रूपभेदं गजानन | देव्यास्तु लक्षणं वक्ष्ये समासाच्छृणु सांप्रतम् || ३४-११३ || हन्वन्तं बाहुसीमान्तं स्तनान्तं समुच्छ्रयम् | द्विभुजां श्यामवर्णान्तु सर्वाभरणभुषिताम् || ३४-११४ || दक्षिणे चोत्पलं ग्राह्य वामहस्तं प्रसारयेत् | किरीटं वा करण्डाख्यन्तुङ्गपीनपयोधराम् || ३४-११५ || पूर्वोक्तमध्यनाहस्य सप्तांशैकं परित्यजेत् | मध्यनाहमिदं प्रोक्तमन्यत्सर्वं समं तथा || ३४-११६ || गौरीरूपमिदं विद्धि विष्णुरूपं ततः शृणु | शङ्खचक्रधरं देवं पीतांबरधरं हरिम् || ३४-११७ || प्. १७२) श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् | स्थितं वाथसमाहीनं शयितं वापि कारयेत् || ३४-११८ || चतुर्मुखञ्चतुर्बाहुं कमण्डल्वक्षधारिणम् | रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्वलम् || ३४-११९ || सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् | एवं चतुर्मुखं कुर्यात् जगत् सृष्टिकरं शुभम् || ३४-१२० || अन्येषां प्रतिमानान्तु तेषां संस्थापनाविधौ | लक्षणं प्रोच्यते सम्यग्यधावनुपूर्वशः || ३४-१२१ || सकलानामिदं प्रोक्तमङ्कुरस्य विधिं शृणु | इति सकललक्षणविधिपटलश्चतुस्त्रिंत्तमः || ३४ || अथ अङ्कुरार्पणविधि पटलः अथातः संप्रवक्ष्यामि अङ्गुरस्यविधिक्रमम् | सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलांकुरम् || ३५-१ || स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा | नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः || ३५-२ || सायादिदिनमारभ्य साये चैवाङ्कुरार्पणम् | बीजानमधिपः सोमस्तस्माद्रात्रौ तु वापयेत् || ३५-३ || कृत्वा प्रदक्षिणं ग्रामं शङ्खभेर्यादिनीस्वनैः | च्छत्रद्ध्वजवितानैश्च गजाश्वरथरोपणैः || ३५-४ || पिञ्चचामरसंघैश्च त्रिशूलेन समायुतम् | माहेश्वरैर्वहित्वा तु पालिकादीन् शिरोपरि || ३५-५ || पालिकाघटिका चैव शरावं त्रिविधं भवेत् | सौवर्णं रजतं वापि ताम्रजं मृन्मयन्तु वा || ३५-६ || पालिकामुखविस्तारं कन्यसं द्वादशाङ्गुलम् | विस्तारं षोडशाङ्गुल्यं मध्यमं समुदाहृतम् || ३५-७ || प्. १७३) विंशत्यङ्गुलकं ज्येष्ठं विस्तारोत्सेधतः समम् | तदर्धं पादविस्तारं सवृत्तं सुदृढं समम् || ३५-८ || विस्तारस्य तु षट्भागमोष्ठं हि परितः त्विह | विस्तारस्य त्रिभागैकं सुवृत्तं बिलमुच्यते || ३५-९ || एवं मुखं बिलञ्चैव शेषं दण्डं प्रकल्प्य वै | विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते || ३५-१० || घटिकाकलशाकारा दण्डं पादन्तु पूर्ववत् | चतुर्दिक्षु चतुर्द्वारं त्रिकोणञ्च त्रियङ्गुलम् || ३५-११ || पालिकार्धं शरावन्तु प्रमाणञ्च तथा भवेत् | नदीतटाकतीरे वा केदारे पर्वते वने || ३५-१२ || स्थानं प्राप्य विशुद्धञ्च समृन्मृज्याथ भूतलम् | हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिनार्चयेत् || ३५-१३ || कुन्दाल्या खानयेन्मन्त्री शिवं स्मृत्वा हृदा ततः | मृदं संग्राह्य वामेन प्रविशेदालयं प्रति || ३५-१४ || आलयस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् | पुण्याहं वाचयित्वा तु भूमिं संप्रोक्ष्य बुद्धिमान् || ३५- १५ || स्थण्डिलन्तत्र कर्तव्यं पालिकादीनिविन्यसेत् | प्रत्येकं षोडशं वापि अष्टौ वा चतुरोपि वा || ३५-१६ || एकाशीति पदं कृत्वा चतुर्विंशपदं विना | मध्येनवपदं पद्मं कोणेषु द्वादश स्मृताः || ३५-१७ || पञ्चविंशत् पदं कृत्वा मध्ये पद्मं सलक्षणम् | अथवा षोडशं कृत्वा तन्मध्ये बञ्चतुष्पदम् || ३५-१८ || कुम्भं पद्मे तु संस्थाप्य सोमराजाधिदैवतम् | सा पिधानं सकूर्चञ्च सहिरण्यं स वस्त्रकम् || ३५-१९ || गन्धाद्यैरर्चयेत् सोमममृतेन तु बीजतः | कुरीयमनिलाख्यस्य प्रथमस्वरसंयुतम् || ३५-२० || सानुस्वारं सदानञ्च योजयेदत्रदाक्षरम् | दीपमादौ समुच्चार्य तदन्ते बीजमुच्चरेत् || ३५-२१ || सोमं शब्दञ्चतुर्थ्यन्तं नृत्यन्तं प्रोच्चरेत् गुरुः | पायसं सोमराजायसोपदं शन्निवेदयेत् || ३५-२२ || प्. १७४) पालिकाकोणभागेषु घटिकाश्च शरावकान् | पूर्वादिषु चतुर्दिक्षु विन्यसेत् क्रमयोगतः || ३५-२३ || एवं संस्थापनं प्रोक्तमुत्तमं चाधमाधमौ | दिशश्च विदिशश्चैव पालिका स्थापनं भवेत् || ३५-२४ || घटाश्चाभ्यन्तरे स्थाप्य शरावा मध्यमे स्मृतः | पालिका ब्रह्मदैवत्यं घटिकाविष्णुरुच्यते || ३५-२५ || ईश्वरस्तु शरावाणां पात्राणामधिदेवताः | तेषां मृद्भिः करीषैश्च वालुकैश्च सुपूरयेत् || ३५-२६ || तिलसर्षपमुद्गानिमाषानिष्पावकौ तथा | शालिप्रियमपामार्ग यवशामानि वै दश || ३५-२७ || प्रक्षाल्यपयसाविद्वन् दशबीजेन वा पयेत् | कुम्भस्थेन जले नैव नित्यं संप्रोक्षयेत् सुधीः || ३५-२८ || नित्यं संपूरयेत् गन्धतो ये नैव घटं पुनः | विधाय च विधानेन स्वनुगुप्तं निधापयेत् || ३५-२९ || सितानि कोमलानीह कीर्तितानिशुभानि वै | असितानि चतुब्जानि तथा तिर्यग्गतानि च || ३५-३० || तद्दोषशमनार्थन्तु शतं हुत्वाशिवं स्मृतः | अङ्गुराणां विधिः प्रोक्तं लिङ्गसंस्थापनं शृणु || ३५-३१ || इति अङ्कुरार्पणविधिपटलः पञ्चत्रिंशत्तमः || ३५ || अथ लिङ्गप्रतिष्ठाविधिपटलः अथातः संप्रवक्ष्यामि लिङ्गसंस्थापनं परम् | सर्वसिद्धिकरं पुण्यं सर्वयज्ञफलप्रदम् || ३६-१ || लिङ्गसंस्थापनादन्यत् फलपाकं न विद्यते | तस्मात् सर्वप्रयत्नेन लिङ्गसंस्थापने यतिः || ३६-२ || धामाधिष्ठानपर्यन्ते द्वारबन्धस्य पूर्वके | मूर्ध्वेऽष्टकायां पूर्वे वा तलान्तेष्वथवा (-धवा) पुनः || ३६-३ || प्. १७५) धामाङ्गानां समाप्तौ वा लिङ्गं सस्थापयेत् सुधी | सुनक्षत्रे तिथौवारेसु योगेसुमुहूर्तके || ३६-४ || तत्पूर्वे वाङ्कुरं कृत्वा पञ्चसप्तनवाहके | अङ्कुरादि प्रतिष्ठान्तमादिशैवेन कारयेत् || ३६-५ || कृत्वा कर्मकुटौ देशे लिङ्गेसूक्ष्माणि शिल्पिभिः | शाणाभिर्घर्षयित्वा तु लिङ्गं पीथसमायुतम् || ३६-६ || पीठे तु प्रतिलिङ्गञ्च यथा युक्त्या तु योजयेत् | कृत्वा तु लक्षणोद्धार * * * * * मारभेत् || ३६-७ || प्रासादस्याग्रतः कुर्यान्मण्डपं नातिदूरतः | अथवा दक्षिणे भागे सर्वालङ्कारसंयुतम् || ३६-८ || मध्यमे स्थण्डिलङ्कृत्वा तत्र लिङ्गन्तु विन्यसेत् | सुवर्णलिङ्गं संग्राह्य हृदागैरिकया लिखेत् || ३६-९ || स्थूलरेखान्ततः कृत्वा शिल्पिना विधिचोदितम् | पूजाभागन्ततः कृत्वा षोडशांशं समंबुधः || ३६-१० || त्यक्त्वोर्ध्वे तु चतुर्भागं भागेन मुकुलं भवेत् | त्रिभागैकं भवेदग्रं तन्मानं मूलविस्तृतः || ३६-११ || तन्मानमूलं तत् प्रोक्तं त्यक्त्वाधस्ताद्वियंशकम् | रेखाद्वयन्तु नालं स्यात् तरोरर्धां शकान्तकः || ३६-१२ || पार्श्वे रुद्रौ समालिख्य मुकुलाद्याब्धिकान्तकम् | तालान्तरत्रियंशेन तन्मूलादनुपूर्वशः || ३६-१३ || विभागोर्ध्वे तु परितः सूत्रौ पृष्ठे तु बन्धयेत् | यवं वा पियवार्धं वा सूत्रनिम्नं विधीयते || ३६-१४ || सूत्राग्रे तु मुखं प्रोक्तं सुत्रसन्धौ तु पृष्ठकम् | सूत्रपार्श्वन्तु तत्पार्श्वन्तमूलन्तस्य पद्मकम् || ३६-१५ || स्थापकः स्थपतिं पूज्य पश्चाच्छुद्धिं समाचरेत् | अष्टमृत् पञ्चगव्यैश्च शुद्धतोयैर्विचक्षणः || ३६-१६ || ग्रामं प्रदक्षिणङ्कृत्वा देशिकः शिल्पिसंयुतम् | कणमात्रे जलेशुद्धे प्रपाङ्कृत्वा विचक्षणः || ३६-१७ || वितान ध्वजमाल्यादि दर्भमालाभिरावृतम् | वस्त्रैरावेष्टयेल्लिङ्गं दर्भैरावेष्ट्य यत्नतः || ३६-१८ || प्.१७६) फलकायान्तु पीठे वा प्राक्च्छिरस्कन्तु शाययेत् | ऊर्ध्वसूत्रं यथा कृत्वा पीठन्तत् पार्श्वयोस्ततः || ३६-१९ || कलशानष्ट संस्थाप्य रक्षार्थं परितस्तदा | लोकपालाधिदैवत्यान् सकूर्चान्वस्त्र वेष्टितान् || ३६-२० || पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा | पञ्चगव्ये तु तल्लिङ्गमेकरात्रोषितं तथा || ३६-२१ || अथवा स्नापयेत् गव्यैराढकैस्तु पृथक् पृथक् | आलयस्याग्रतो भागे मण्डपञ्चतुरश्रकम् || ३६-२२ || दशद्वादशहस्तं वा त्रयोदशकरं तु वा | दशपञ्चकरं वापि विंशद्धस्तमथापि वा || ३६-२३ || षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् | चतुस्तोरणसंयुक्तं दर्भमालासमावृतम् || ३६-२४ || वितानद्ध्वजसंकीर्णं पुष्पमालावलंबितम् | नानावस्त्रैरलङ्कृत्य नानालङ्कारसंयुतम् || ३६-२५ || तन्मध्ये वेदिकां कुर्यात्त त्रिभागैकविस्तृतम् | हस्तमानसमुत्सेधं दर्पणोदरसन्निभम् || ३६-२६ || तस्यैव परित कृत्वा कुण्डानि च विधानतः | पूर्वे तु चतुरश्रन्तु याम्ये चैवार्धचन्द्रवत् || ३६-२७ || पश्चिमे वृत्तकुण्डन्तु उत्तरे पद्ममेव च | योन्याकारं तथाग्नेययां त्रिकोणञ्चैव नै-ऋते || ३६-२८ || षट्कोणं वायुदिग्भागे ऐशान्यामष्टकोणकम् | ऐशान इद्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् || ३६-२९ || विस्तारे नवहोमस्यात् संक्षेपे पञ्चहोमकम् | पञ्चाग्निच्छेन्महाशासु मूर्तिरीशे शिवाग्निकम् || ३६-३० || गोमया लेपनङ्कृत्वा पिष्टचूर्णैरलकृतम् | तस्यैवोत्तर पार्श्वे तु कर्तव्यं स्नानमण्डपम् || ३६-३१ || सप्ताष्टनवहस्तैर्वा कृत्वालङ्कृत्य पूर्ववत् | स्नानवेदिन्तु तन्मध्ये स्वभ्रं सम्यक् तथोत्तरे || ३६-३२ || चतुरश्रं समङ्कृत्वा चतुस्त्रिनवहस्तकम् | त्रिमेखलसमायुक्तमेकतालसमुन्नतम् || ३६-३३ || प्. १७७) चतुस्त्रिद्व्यङ्गुलन्तारमथवा चैकमेखलम् | उत्तरे जलमार्गञ्च मण्डपात् बाह्यनिर्गमम् || ३६-३४ || प्रासादे मण्डपे चैव ब्राह्मणान् भोजयेत् क्रमात् | शिवव्रतधरांश्शुद्धान् शिवेभक्तिसमन्वितान् || ३६-३५ || ब्राह्मणोच्छिष्टमुद्वास्य गोमयालेपने कृते | पुण्याहं वाचयित्वा तु ब्रह्मघोषसमावृतम् || ३६-३६ || प्रासादेवास्तु होमन्तु पूर्वोक्तविधिनाबुधाः | दर्भैः पलाशपत्रैश्च शमीपिप्पलबिल्वकैः || ३६-३७ || पर्यग्निकरणं कृत्वा प्रासादमण्डपं क्रमात् | संप्रोक्ष्य शिवमन्त्रेण पञ्चगव्यकुशोदकैः || ३६-३८ || शयनं कल्पयेद्विद्वान् शुद्धशालियवैः सह | अष्टद्रोणमयं शालि तदर्धन्तण्डुलं तथा || ३६-३९ || तण्डुलार्धं तिलं प्रोक्तमब्जमालिख्यचार्चयेत् | दर्भैरुपरिसंस्तीर्य पुष्पैर्लाजसमायुतम् || ३६-४० || सदशाहत वस्त्रैश्च अण्डजादीनि कल्पयेत् | अण्डजं मुण्डजञ्चैव रोमजं वा मजं तथा || ३६-४१ || चर्मजं शयनं पञ्चकल्पयेत् कल्पवित्तमः | अण्डजञ्चेति जानीयात् पक्षिणां पिञ्छसंभवम् || ३६-४२ || कार्पासादि कृतं यत्तु मुण्डजञ्चेति तत्स्मृतम् | आविकादि मृगाणान्तु रोमजं रोमजं भवेत् || ३६-४३ || कौशेयं वामजं प्रोक्तं सिंहव्याघ्रेण चर्मजम् | चर्मजन्तु विजानीयादलाभे सतिबुद्धिमान् || ३६-४४ || पञ्चवक्त्रेण संभाव्य स्थण्डिलोपरियत्नतः | पूर्वोक्त लक्षणैर्युक्तं त्वादिशैव कुलोद्भवः || ३६-४५ || शैवतन्त्रं विधानज्ञः समयाचारपालकः | सुस्नात्वा चम्यविधिवत् भस्मस्नानमनन्तरम् || ३६-४६ || सर्वाभरणसंयुक्तः सूक्ष्मवस्त्रधरस्तथा | शुक्लमाल्यानुलेपश्च शुक्लोष्णीषः सुवस्त्रभृत् || ३६-४७ || ईदृक् भूतः शिवश्वेतः सर्वकर्मसमाचरेत् | चतुरश्रावसुवृत्ता वा तजापट्टिका स्मृताः || ३६-४८ || प्. १७८) पट्टिकावेदिका मध्ये स्थापयेन्मन्त्रवित्तमः | पञ्चगव्योषितं लिङ्गं शुद्धिं कृत्वा पुनः पुनः || ३६-४९ || दर्भमूले भदन्ताग्रे वराहस्य तु कर्षणे | वल्मीके वृषङ्गाग्रे नद्यां वै पर्वते तथा || ३६-५० || समुद्रे च समासेन मृदं ग्राह्यविचक्षणः | अष्टमृत् सलिले नैव स्नानन्तत्र समाचरेत् || ३६-५१ || व्योमव्यापि सहस्रेण स्नात्वाद्भिस्तु पुनः पुनः | पञ्चगव्येन संस्नाप्य गन्धपुष्पादिनार्चयेत् || ३६-५२ || मधुक्षीर घृताश्चैव सहिरण्यं सपुष्पकम् | सौवर्णं रजतन्ताम्रमथवा काम्समेव वा || ३६-५३ || प्रत्येकं प्रस्थसंपूर्णं कृत्वा प्रात्रत्रये बुधः | तैर्द्रव्यैर्बीजमन्त्रेण हेमसूच्या तु लेखयेत् || ३६-५४ || बध्वा प्रतिसरं पश्चात् स्वस्तिपुण्याह घोषणैः | सौवर्णं राजतं वापि क्षौमं कार्पासजन्तु वा || ३६-५५ || लिङ्गमध्ये तु तां बध्वा पूजांशेन शिवेन वै | शयने शाययेल्लिङ्गं प्राक्च्छिरच्छोर्ध्वक्त्रकम् || ३६-५६ || उत्तराच्छादनं वस्त्रैर्दर्भैश्चैव परिस्तरेत् | हृदा सुगन्धपुष्पाद्यैः पूजयित्वा समाहिताः || ३६-५७ || पिण्डिकामधिवास्यैव लिङ्गवल्लिङ्गमूलतः | दिक्षुतोरणकुम्भानि लोकपालाधिपानि तु || ३६-५८ || शकूर्चान् सा पिधानांश्च वस्त्रयुग्मसमावृतान् | मङ्गलाङ्कुरसंयुक्तान् स्थापयेत् तु समं ततः || ३६-५९ || प्रधानकुम्भमादाय द्वात्रिंशत् सप्तपूरितम् | बिंब प्रभा समोपेतं तदर्धं वर्धनीं तथा || ३६-६० || सूत्रैरावेष्टयित्वा तु एकसूत्रे तु दोषकृत् | त्रिसूत्रं शान्तिकं प्रोक्तं यवमानान्तरं स्मृतम् || ३६-६१ || सूत्रान् सूत्रान्तरं तत्र गन्धतोयैः सुपूरितम् | वस्त्रयुग्मेन संवेष्ट्य सकूर्चं सा पिधानकम् || ३६-६२ || चूतपल्लव पुष्पैश्च वितानोपरिशोभितम् | पञ्चरत्नन्तु कुम्भे च वर्धन्यां हेमसंयुतम् || ३६-६३ || प्. १७९) ब्राह्मणानां हितार्थन्तु सृक्स्रुवञ्च कमण्डलुम् | क्षत्रियाणां हितार्थन्तु गजाश्वरथ सैनिकान् || ३६-६४ || वैश्यानान्तु तुला प्रोक्तं शूद्राणां युगलाङ्गलौ | एतानि विन्यसेद् विद्वान् वर्धन्यां शिवकुम्भके || ३६-६५ || तरुणालय पूर्वे तु स्थापयेत् स्थण्डिलोपरि | बाललिङ्गगतं देवं कुम्भे विन्यस्य बुद्धिमान् || ३६-६६ || तस्य पीठगतां देवीं वर्धन्यान्तु समावहेत् | विद्येश्वराधिपानष्टौ वस्त्रहेमास्त्रसंयुतान् || ३६-६७ || कूर्चाक्षतवितानास्यान् फलपल्लवशोभितान् | शिवकुम्भस्य परितः संस्थाप्यकलशान् बुधः || ३६-६८ || विद्येश्वरान् परीवारान् द्वारपालादिदेवताः | तत्तत् कुम्भे समाहूय तत्तन्मन्त्रेण मन्त्रवित् || ३६-६९ || रात्रौ होमन्तु कर्तव्यं सर्वमन्त्रैः पृथक् पृथक् | तरुणं लिङ्गमुत्थाप्य शैवा लौघे जले क्षिपेत् || ३६-७० || दारुजञ्चाग्निनादग्धमथवाप्सु विनिक्षिपेत् | शिवशक्तिञ्च विच्छेद्ये शाच्छिरोधार्य यत्नतः || ३६-७१ || पिञ्छचामरसंयुक्तं छत्रध्वजवितानकैः | कुर्याच्छब्दं महाघोषैर्नृत्तगेय समायुतैः || ३६-७२ || प्रदक्षिणं विमानन्तु कृत्वा वर्धनिधारयेत् | वेदिकायामथैशाने स्थापयेत् स्थण्डिलोपरि || ३६-७३ || शिवं ब्रह्माङ्गविद्याङ्ग विद्येश्वरगणेश्वरान् | लोकपालास्त्रसंयुक्तान् समन्त्रैरेव पूजयेत् || ३६-७४ || गेयनृत्तसमायुक्तं वाद्यध्वनिसमायुतम् | ऋग्यजुः सामाधर्वांश्च पूर्वाद्यध्ययनं तथा || ३६-७५ || जपस्तोत्र समायुक्तं ततो होमं समाचरेत् | पूर्वोक्त विधिनाहुत्वा कुण्डेष्वेतेषु बुद्धिमान् || ३६-७६ || सर्वद्रव्यं समानं स्यात् समिधस्तु पृथक् शृणु | शमीद्ध्मं पूर्वदिग्भागे आग्नेययान्तु वटं तथा || ३६-७७ || याम्ये वै कंकतञ्चैव प्लक्षं नै-ऋतिगोचरे | अश्वत्थं वारुणे भागे औदुंबरमथानिले || ३६-७८ || प्. १८०) बिल्वं वै सौम्यदिग्भागे ह्यर्कमीशानगोचरे | एवं सर्वाग्निकुण्डानां शिवाग्नेस्तु पलाशकम् || ३६-७९ || विद्याङ्गैश्च शिवाङ्गैश्च हुत्वालिङ्गन्तु संस्पृशेत् | प्रत्येकं तु शतं साज्यं स्पर्शाहुतिमथाचरेत् || ३६-८० || शिवोहमिति संभाव्य हुत्वायत्नाच्छिवात्मिकम् | आकाशो वायुरग्निश्च जलभूमिं दुरेव च || ३६-८१ || सूर्यात्ममूर्तयश्चाष्टौ भवादिमूर्तिधारकाः | भवः शर्वः पशुपति रुग्रोरुद्रस्तु भीमतः || ३६-८२ || महानीशश्च विख्यातो मूर्तिधाराः प्रकीर्तिताः | कुण्डेष्वग्निं प्रतिष्ठान्तं संरक्ष्येन्धनपूर्वकैः || ३६- ८३ || प्रभाते सुमुहूर्ते तु रत्नन्यासं समारभेत् | एकविंशतिभिर्भागैर्द्वारतारं विभज्य वै || ३६-८४ || मध्यमांशं षडंशन्तु सविभज्य द्विभागिकम् | वामे व्यपोह्य यत् सूत्रं ब्रह्मसूत्रमिति स्मृतम् || ३६-८५ || तन्मध्ये स्थापयेल्लिङ्गं तन्मध्ये स्थापयेच्छिवम् | अन्यथा स्थापिते लिङ्गे नृपराष्ट्राहितावहम् || ३६-८६ || आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् | न्यसेत् ब्रह्मशिलामूर्ध्नि नन्द्यावर्तशिलान्विताम् || ३६-८७ || स्थलं सम्यक् प्रकुर्वीत स्नेहद्रव्यान्वितं दृढम् | माणिक्कञ्चैव वैडूर्यं निलं मरकतं तथा || ३६-८८ || मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् | एतानि नवरन्तानि मध्यमादिविनिक्षिपेत् || ३६-८९ || यवनीवारमुद्गाञ्च तिलं वै सर्षपं तथा | शालिप्रियङ्गुश्यामाश्च कुलुत्थो नवबीजकम् || ३६-९० || हरितालं तथा श्यामं चन्दनञ्चमनः शिलाम् | सौराष्ट्रं पारतं सीसं गैरिकं हेममाक्षिकम् || ३६-९१ || एवं स्मृत्वा क्ष्पेद्विद्वान् प्राणधात्विंद्रियादिके | रत्नानि प्राणसंज्ञानि सुबीजानींद्रियाणि च || ३६-९२ || धातूनिधातवः प्रोक्ता बीजमुख्येन विन्यसेत् | गन्धपुष्पादिनाभ्यर्च्य नन्द्यावर्तशिलां न्यसेत् || ३६-९३ || प्. १८१) शयनाल्लिङ्गमुत्थाप्य त्यक्त्वा पर्युषितानि च | अर्घ्यं दत्वा यथा न्यायं हृदयेन स पुष्पकम् || ३६-९४ || पश्चिमाभिमुखं कृत्वा लिङ्गं वै तु हृदा बुधः | आचार्यमूर्तिपांश्चैव अध्ये तॄन् परिचारकान् || ३६-९५ || दैवज्ञं मन्त्रजप्तृंश्च महेः पूज्यो यथार्हकैः | आचण्डालमथां नाद्यं कारयेच्छक्तितः क्रमात् || ३६-९६ || रथो परिस्थितं लिङ्गं प्रासादन्तु प्रदक्षिणम् | आचार्योग्रन्तु संस्पृष्ट्वा मूर्तिपास्तु स्वकादिशम् || ३६-९७ || कर्तामुलन्तु संस्पृष्ट्वा चाग्रे वर्धनिधारया | कृत्वा प्रदक्षिणं देवं स्थित्वाद्वारसमीपके || ३६-९८ || गन्धपुष्पादिनाभ्यर्च्य अर्घ्यं दत्वा हृदाबुधाः | ततः प्रवेशयेल्लिङ्गं गर्भगर्ते सुखं यथा || ३६-९९ || सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्विते | ध्यात्वा सदाशिवं देवं मूलमन्त्रमनुस्मरन् || ३६-१०० || लिङ्गं संस्थापयेत् तत्र किञ्चिदीशानमाश्रितम् | नन्द्यावर्तशिलाभिस्तु बध्वापीठन्तु योजयेत् || ३६-१०१ || स्वयोनिं पीठमुख्यन्तु अवा चैवाष्टकं दृढम् | स्थपतौ बुद्धिमात्रेण स्थापकस्तु समाचरेत् || ३६-१०२ || अष्टबन्धं ततः कृत्वा जतुगुल्गुलु सिद्धियुक् | सर्जञ्च स्फटिकञ्चैव शर्करा कुरु विन्दकम् || ३६-१०३ || तैलं वै चाष्टसंमिश्रं दग्ध्वाचक्कणवत् बुधः | लिङ्गपीठान्तरे क्षिप्त्वा सुदृढञ्च समं ततः || ३६-१०४ || पूजांश षोडशांशैक विस्तारेण समं ततः | तत्पादमुच्छ्रयं प्रोक्तमष्टबन्धमिदं मतम् || ३६-१०५ || लिङ्गपीठान्तरं स्निग्धं वज्रबन्धेन वा पुनः | आचार्यस्तु पुनस्नात्वा मन्त्रसन्नद्धविग्रहः || ३६-१०६ || पुण्याहं वाचयित्वा तु स्नापयेत् पञ्चगव्यकैः | गन्धपुष्पादिनापूज्य क्ल्पयित्वा तथा सनम् || ३६-१०७ || आवाह्याराध्यमन्त्रज्ञः सकलीकरणं शिवम् | मन्त्रसन्तर्पणं कृत्वा पूर्णाहुतिमथाचरेत् || ३६-१०८ || प्. १८२) कुम्भपूजां विशेषेण कृत्वा विज्ञाप्यपूर्वकम् | आचार्यं पूजयेत् तत्र यथा विभवसंयुतम् || ३६-१०९ || उष्णीषमुत्तरीयञ्च परिधानं तथैव च | हेमाङ्गुलीयकैश्चैव गन्धपुष्पं तथैव च || ३६-११० || मकुटं कुण्डलञ्चैव हारकेयूरकं तथा | कटकं कटिसूत्रञ्च आचार्यस्य प्रदापयेत् || ३६-१११ || आचार्यदक्षिणा हेमकन्यसं दशनिष्ककम् | मध्यमं द्विगुणं तस्य उत्तमे त्रिगुणं भवेत् || ३६-११२ || एवं संपूज्यविधिवत् सवत्साङ्गाश्चदापयेत् | आचार्यमनसस्तुष्टिर्देवस्य प्रीतिकारणम् || ३६-११३ || मूर्तिपानां पृथग्वस्त्रैर्हेम निष्कं च दापयेत् | होमशेषं ततो नेयं हृदयेन विचक्षणः || ३६-११४ || कुम्भस्थ देवदेवेशं विज्ञाप्य विधिपूर्वकम् | आचार्यः कुम्भमुत्थाप्य शिष्येनोत्थाप्य वर्धनीम् || ३६-११५ || मूर्तिपैस्त्वथकुम्भानि प्रासादन्तु प्रदक्षिणम् | विश्रम्यद्वारदेशे तु दद्यादर्घ्यं हृदागुरुः || ३६-११६ || ततः प्रविश्यतल्लिङ्गमुत्तराभिमुख स्थितः | त्रिपादिकायामुपरि विन्यस्त्वा शिवकुम्भकम् || ३६-११७ || षडध्वासनं तु संकल्प्य लिङ्गमुद्रां प्रदर्शयेत् | पुष्पगन्धस्तिलेतैलं यद्वत् तद्वत् स्थित प्रभुः || ३६-११८ || कुम्भस्थ देवदेवेशं लिङ्गमध्ये तु योजयेत् | शिवमन्त्रं समुच्चार्य शिवमात्मनि भावयेत् || ३६-११९ || तज्जलेनाभिषेकं यत् तल्लिङ्गे प्राण उच्यते | तच्छक्ति व्यापकं स्मृत्वा तद्वच्छक्तिन्तु पीठके || ३६-१२० || सर्वावरणदेवांश्च पूर्ववत् संप्रकल्प्य वै | कलशस्थानथावाह्य तज्जलेनाभिषेचयेत् || ३६-१२१ || गन्धपुष्पञ्च धूपञ्च दीपं दत्वा यथा क्रमम् | द्वारपालादि पीठान्तं परिवाराण्यशेषतः || ३६-१२२ || तत्तत् कुम्भगतां देवां तत्तत्स्थाने निवेशयेत् | पायसं कृसरं गौल्यं मौद्गंशुद्धां न मेव च || ३६- १२३ || प्. १८३) पञ्चवर्णहविर्दद्यात् परिवारबलिं तथा | उत्सवं कारयेत् तत्र सायादिविधिपूर्वकम् || ३६-१२४ || प्रतिष्ठाविधिरेवोक्ता ततः संप्रेक्षणं शृणु | प्रतिष्ठाविधिना सर्वं कर्तव्यं युक्तितः क्रमात् || ३६-१२५ || पूर्ववद्वेदिका मध्ये कुंभानिविधिवं न्यसेत् | कुम्भसंस्थापनात् पूर्वे लिङ्गशुद्धिं विशेषतः || ३६-१२६ || पिण्डिकाञ्च स्थलञ्चैव पञ्चशुद्धि क्रमेण तु | सर्वगन्धैर्विलिप्याथ वस्त्रैरेवा वकुण्ठयेत् || ३६-१२७ || संप्रोक्षणाह्वये नैव पुरोवाहनकं तथा | एकलिङ्गविधिस्त्वेषा पञ्चलिङ्गविधिं शृणु || ३६-१२८ || मध्ये सदाशिवं स्थाप्य पुरुषं पूर्वतः तथा | अघोरं दक्षिणे स्थाप्य सद्यं पश्चिमतः तथा || ३६-१२९ || उत्तरे वा देवञ्च अथकोणेषु वा बुधः | कोणेषु च महादिक्षु संवीक्ष्याथ सदाशिवम् || ३६-१३० || पृथक् पृथक् विमानानि शेषकर्म च पूर्ववत् | पञ्चलिङ्गविधिर्येषा नवलिङ्गविधिं शृणु || ३६-१३१ || तेषां विमानं पूर्वोक्तं अष्टदिक्षुविधीयते | सदाशिवं समीक्ष्यैव दिशासु विदिशासु च || ३६-१३२ || नवलिङ्गविधिप्रोक्तं सहस्राणां विधिं शृणु | मध्ये सदाशिवं प्राग्वद्विद्येशानां पृथक् पृथक् || ३६-१३३ || चतुर्विंशच्च तल्लिङ्गं विद्येशानावृतं बुधः | सादाख्यस्य वदन्येषां नामरूपाणि कीर्तिताः || ३६-१३४ || तत्तत् स्वनाममन्त्रेण संस्थाप्य विधिचोदितः | अष्टा हे षोडशाहे वा मासे वा विधिपूर्वकम् || ३६-१३५ || एकलिङ्गविधौ यद्वत् तद्वत् सर्वं समाचरेत् | सादाख्यं लिङ्गरूपेण अन्वलिङ्गन्तु नेष्यते || ३६-१३६ || एवं यः कुरुते मर्त्यः शिव सा युज्यमाप्नुयात् | लिङ्गसंस्थापनं प्रोक्तं सकलानां विधिं शृणु || ३६-१३७ || इति लिङ्गप्रतिष्ठाविधिपटलः सट्त्रिंशत्तमः || ३६ || प्. १८४) स्वायंभुलिंगागमम् कारणं वा तुलञ्चैव सूक्ष्मञ्च सुप्रभेदकम् | आगमञ्चतुर्भेदं स्वयंभूपुजितं क्रमात् || दैवलिंगागमम् कामिकं विजयं चैव स्वायंभुवमथानलम् | पूजयेद् देवके लिंगे कल्पयेत् कल्पवित्तमः || दिव्यलिंगागमम् चिंत्यं चैव सहस्रञ्च दीप्तञ्चाप्ययुतं तथा | दिव्यलिंगार्चना प्रोक्तं सर्वकर्मसमाचरेत् || ऋषिलिंगागमम् योगजं मकुटं चैव निश्वासं रौरवं तथा | आर्षकं पूजयेद्धीमान् अर्धयामे विशेषतः || मानुषलिंगागमम् वीरञ्च विमलोद्भेदं चंद्रज्ञानञ्च बिंबकम् | पूजयेत् परमं चैव मानुषे देशिकोत्तमः || राक्षसलिंगागमम् प्रोत्गीतं ललितं चैव सिद्धिं संतानमेव च | राक्षसे प्रोक्षयेल्लिंगं आसुरञ्च प्रपूजरेत् || बाणलिंगागमम् पारमेश्वर संख्योक्तं अंशुमान् किरणं तथा | बाणलिंगार्चनं चैव गणपञ्चप्रपूजयेत् || मानुषं योजनादर्वाक् पौराणं दशयोजनम् | शतयोजनमार्षञ्च सहस्रं दैविकं भवेत् || प्. १८५) सकलप्रतिष्ठाविधि पटलः सकलानां प्रतिष्ठान्तु वक्ष्येहमधुना शृणु | मूर्तीनामिश्वरादीनां सामान्य स्थापनाविधिम् || ३७-१ || द्वादश प्रतिमानान्तु सामान्यमिदमुत्तमम् | चलानाम चलानाञ्च सर्वेषां स्थापनं समम् || ३७-२ || चलस्य तु शिलामृत्भ्यां शृणुमत् स्थापनाविधिम् | रत्नन्यासञ्जले वा संशयनन्तु प्रदक्षिणम् || ३७-३ || चित्राभासे तु वर्ज्यं हि रत्नसेतु समाचरेत् | चित्राभासे तु कर्तव्यं दर्पणोपरियत्नतः || ३७-४ || त्रिपाद्यूर्ध्वे जलद्रोण्यां स्रावयेद् दर्पणोपरि | जलाधिवासं स्नपनं नवमेव समाचरेत् || ३७-५ || सकलानान्तु सर्वेषां सममेतद् भवेद्ध्रुवम् | कृत्वाङ्कुरार्पणं पूर्वं प्रागुक्तविधिना पुनः || ३७-६ || प्रासादस्य पुरोभागे मण्डपे समलङ्कृते | स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा || ३७-७ || गन्धपुष्पादिना पूज्य पद्मपीठस्य मध्यमे | न पापटानि कर्तव्यं रत्नानिविधिवं न्यसेत् || ३७-८ || माणिक्कञ्चैव वैडूर्यं निलं मरतकं तथा | मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् || ३७-९ || एतानि हृदये नैव मध्यमादीनि विन्यसेत् | तिलमुद्गारनीपांश्च तिलं वै सर्षपं तथा || ३७-१० || श्यामं शालिकुलुत्थञ्च प्रियंगुनवबीजकम् | सुवर्णेन कृतञ्चेह बीजानिकवचेन तु || ३७-११ || अञ्जनं हरितालञ्च श्यामञ्चैव मनः शिलाम् | पारतञ्चैव सौराष्टं सिद्धकं गैरिकं तथा || ३७-१२ || स्थापकं शिवमन्त्रेण पीठोर्ध्वे पटमध्यमे | प्रतिमां तत्र संयोज्य सुस्निग्धं कारयेत् तथा || ३७-१३ || ततः सिकत चूर्णैश्च कृत्वा गोचर्मपट्टिकैः | यथा निर्मलतां याति घर्षयेत् प्रतिमां ततः || ३७-१४ || प्. १८६) ततो क्षिमोचनार्थन्तु स्थण्डिले पूर्ववत् कृते | बिंबं विन्यस्य तस्योर्ध्वे पटेनमहता वृते || ३७-१५ || अभितः कलशानष्टौ कूर्चाक्षत सपुष्पकान् | विन्यस्य तेषु दिक्पालान् समभ्यर्च्य यथा विधि || ३७-१६ || आचार्यः शिल्पिनासार्धं नेत्रमन्त्रमनुस्मरन् | हेम सूचि प्रहाराभ्यां शैलजे लोहजे तथा || ३७-१७ || वर्णयत्नन्तु संलिख्य चित्राभासे तु मृण्मये | भ्रूरेखां प्रतिमां कृत्वा पक्ष्मरेखा त्रितीयकम् || ३७-१८ || श्वेतमण्डलमालिख्य तन्मध्ये कृष्णमण्डलम् | कृष्णस्याभ्यन्तरे विद्वान् ज्योतिर्मण्डलमालिखेत् || ३७-१९ || सुव्यक्तं शिल्पिनाकार्यं नेत्रे मन्त्रं जपेत् गुरुः | स्थापकं स्थपतिं पूज्य वस्त्रसौवर्णभूषणैः || ३७-२० || संपूज्यतोषयित्वा तु कृत्वा शिल्पि विसर्जनम् | मध्वाज्याभ्यान्तु सन्तर्प्य सौवर्णेन तु दूर्वया || ३७-२१ || नेत्राणि नेत्र मन्त्रेण क्षीरेणैवं समाचरेत् | पात्रत्रयन्तु संग्राह्य ताम्रजं कांसमेव वा || ३७-२२ || तेषु क्षीराज्यमधुभिः सौवर्णं राजतैः सह | पात्राण्यापूर्यतैरैव प्रत्येकं प्रस्थमानतः || ३७-२३ || मधुनादक्षिणे नेत्रे दर्शयेत् भास्करात्मके | सर्पिषागविवामे तु चंद्रात्मकमितः स्मरन् || ३७-२४ || पयसाचोर्ध्व नेत्रे तु दर्शयेदनलात्मकम् | तत्तन्मन्त्राण्यनु स्मृत्यतैस्तु संप्रोक्षयेत् गुरुः || ३७-२५ || सौवर्णेन खयुक्तास्तु मध्यतर्जन्यनामिकाः | तर्जनीदक्षिणे चोर्द्ध्वे मध्यमा नामिकान्यके || ३७-२६ || संयोज्य हृदयाद्यैश्च सिच्यगन्धांबुना ततः | पृच्छन्नपटमावर्ज्य सुपुष्टाङ्गांसु यौवनाम् || ३७-२७ || गोधेनुहव्यमन्त्रेण दुग्ध्वाक्षीरांसवत्सकाम् | गांसमभ्यर्च्य सावित्र्या दर्शयेत् तु विचक्षणः || ३७-२८ || दर्शयेत् तु द्विजान् पश्चात् द्विजानन्यान्विशेषतः | एवं सकलं बिंबानां सममेतत् प्रकीर्तितम् || ३७-२९ || प्. १८७) येन तस्य विशुद्धिः स्यात् तेन तस्य विशोधयेत् | सर्वालंकार संयुक्तं कृत्वाग्रामप्रदक्षिणम् || ३७-३० || जलाधिवासनं कुर्यात् कण्ठमात्रे जलेशुभे | चतुष्पादसमायुक्ते वितानध्वज संयुते || ३७-३१ || दर्भमालासमायुक्ते प्रपायाञ्जलमध्यमे | वस्त्रयुग्मपरिच्छन्नं दर्भैः पुष्पैश्च वेष्टितम् || ३७-३२ || पीठे वा फलकायां वा प्राक्च्छिरस्कं सुशाययेत् | पञ्चरात्रं त्रिरात्रं वा चैकरात्रमथापि वा || ३७-३३ || ततो मण्डपसंस्कारं यथा विभवविस्तरम् | पूर्वे वा दक्षिणे वापि पश्चिमे वाम मनोरमे || ३७-३४ || दशभादशहस्तं वा षोडश स्तंभसंयुतम् | चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् || ३७-३५ || दर्भमालासमायुक्तं पुष्पमालावलंबितम् | वितानोपरि सच्छन्नमष्टदिग्ध्वजलंबितम् || ३७-३६ || मङ्कलांकुर संयुक्तं मुक्तादामैर्विभूषितम् | मण्डपेन वकोष्ठे तु मध्यभागे विशेषतः || ३७-३७ || उपवेदीं तु कर्तव्या तालोच्छ्रायासुविस्तृता | आलयाभ्यन्तरे वेदीं कारयेत् सुदृढांशुभाम् || ३७-३८ || हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् | अष्टदिक्षु च कुण्डानि कारयेत् सुप्रमाणतः || ३७-३९ || पूर्वे तु चतुरश्रन्तु वह्निपिप्पलपत्रवत् | अर्धचन्द्रं तु याम्यायां नै-ऋत्यान्तु त्रिकोणकम् || ३७-४० || वृत्तन्तु वारुणे भागे षडश्रं वायुगोचरे | पद्मञ्चैवोत्तरेभागे ऐशान्यामष्टकोणकम् || ३७-४१ || ईशान ऐन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् | मण्डपस्योत्तरे भागे स्नानमण्डपमेव वा || ३७-४२ || स्नानवेदीन्तु तन्मध्ये त्रिद्व्येककरसम्मिताम् | हस्तमात्रसमुत्सेधां सुसमां सुदृढां शिवाम् || ३७-४३ || त्रिमेखला समायुक्तां भूताब्ध्यग्न्यङ्गुलैर्मिताम् | अथवाष्टाङ्गुला भद्रामेखलैका समन्विता || ३७-४४ || प्. १८८) गोमयालेपनं कृत्वा शोषणं पावनं तथा | ब्रह्मणान् भोजयित्वा तु वास्तुहोममतः परम् || ३७-४५ || पर्यग्निकरणं कृत्वा प्रासादं यागमण्डपम् | पुण्याहं तत्र कर्तव्यं प्रोक्षयेत् पञ्चगव्यकैः || ३७-४६ || शयनं कल्पयेद्विद्वान् वेदिकोपरिशालिभिः | अष्टद्रोणैस्तदर्धैर्वा तदर्धै स्तण्डिलैस्तथा || ३७-४७ || तन्मध्येऽष्टदलं पद्मं तण्डुलेन तु कारयेत् | अण्डजाद्यैस्तु संकल्प्य यत्नतो पर्युपर्युतः || ३७-४८ || अलाभे चाण्डजादीनां वस्त्रैपञ्चभिरास्तरेत् | तदूर्ध्वे नवशक्तिस्तु इच्छाज्ञानक्रिया अपि || ३७-४९ || गन्धपुष्पादिना पूज्यमङ्गलांकुर शोभितम् | जलात् बिंबं समुत्थाप्य पञ्चगव्योषितं तथा || ३७-५० || एकरात्रं तु कर्तव्यमथवा स्नापयेत् तु वै | स्नानवेद्यास्तु तन्मध्ये संस्थाप्य प्रतिमां ततः || ३७-५१ || अष्टमृत् सलिले नैव स्नात्वाभ्यर्च्य हृदाबुधः | घृतः शिरोर्पणं कृत्वा साक्षितः हेमदूर्वया || ३७-५२ || सौवर्णं रजतं वापि हृदयेन तु मन्त्रतः | कौतुकं दक्षिणे हस्ते बन्धयेद्रक्षयान्वितम् || ३७-५३ || गन्धाद्यैश्चैव संपूज्य नीत्वा वैवेदिकोपरि | पश्चिमाभिमुखं देवं संयजेद्धृदयेन तु || ३७-५४ || शयने शाययेद् देवं प्राक्च्छिरस्कं मुखोर्ध्वकम् | ईश्वर प्रतिमाञ्चेतु श्क्तिञ्च सहवामतः || ३७-५५ || रत्नन्यासादिकर्माणि सहैवात्र समाचरेत् | अन्यानि प्रतिमानि ह युक्तायुक्तं सुबुद्धिमान् || ३७-५६ || उत्तराच्छादनं कृत्वा वस्त्रैर्दर्भैस्तु पुष्पकैः | विद्येशकलशानष्टौ वज्राद्यस्त्रान् सहैमकान् || ३७-५७ || वस्त्रयुग्मपरिच्छन्नान् सकूर्चान् सा पिधानकान् | तत्तन्मन्त्रेण बिंबस्य परितोष्टसुदिक्षु च || ३७-५८ || संस्थाप्य बिंबशिरसच्छैशाने कुंभकेनकम् | षोडशावृत संपूर्णं बिंबप्रभसमन्वितम् || ३७-५९ || प्. १८९) त्रिसूत्रैर्वेष्टयित्वा तु सूत्रान् सूत्रान्तरं यवम् | पञ्चरत्न समायुक्तं शुद्धांबुपरिपूरितम् || ३७-६० || सचूतपल्लवोपेतं सकूर्चं सा पिधानकम् | वस्त्रयुग्मेन संवेष्ट्य स्थण्डिलोपरि विन्यसेत् || ३७-६१ || विप्राणान्तु हितार्थन्तु यज्ञसूत्रञ्च सृक्स्रवम् | क्षत्रियाणां हितार्थन्तु गजवाजिरथान् बुधः || ३७-६२ || तुलाञ्चमानपात्राणि वैश्यानान्तु हिताय वै | शूद्राणान्तु हितार्थन्तु वृषलांगलसंयुतम् || ३७-६३ || कृत्वैतानि सुवर्णेन षडंगैस्तु विनिक्षिपेत् | यद्रूपं प्रतिमं स्थाप्यं तत्तद्रूपस्य भावयेत् || ३७-६४ || कुंभमध्ये तु संस्थाप्य तस्य मूलमनुस्मरन् | षड्विधं ध्यानमावाह्यतानि संकल्प्य तच्छिवे || ३७-६५ || पूर्वोक्तेनैव मार्गेण मन्त्रन्यासन्तु कारयेत् | पूजयेत् गन्धपुष्पाद्यैर्हृदयेन विचक्षणः || ३७-६६ || वर्धनीं बीजमुख्येन तद्वत्संस्थाप्य वामके | अभितश्चोपवेद्यान्तु संस्थाप्यकलशाष्टकान् || ३७-६७ || वस्त्रकूर्चाक्षतो पेतान् ससूत्रान् पल्लवान्वितान् | हेमवज्रादिको पेतान् लोकपालाधिदेवतान् || ३७-६८ || संपूज्य स्वस्वमन्त्रेण द्वारकुंभांस्तु विन्यसेत् | अष्टमङ्गलरूपाणि वेदिकायास्तु बाह्यतः || ३७-६९ || संस्थाप्य स्वस्वनाम्नार्च्य ततो होमं समाचरेत् | कृत्वा चाध्ययनं दिक्षु ऋग्यजुः सामधर्वकैः || ३७-७० || नवपञ्चत्रयं वापि एकाग्निरथवा पुनः | प्राग्याम्येन्दुषु कुण्डेषु त्रेताग्निं सम्यगाचरेत् || ३७-७१ || सदाशिवेश्वरौ रुद्रः क्रमात् कुण्डाधिपाः स्मृताः | त्रयोवैकाग्निके विद्वाञ्छिवाग्निं पूर्वतो हुनेत् || ३७-७२ || शिवाग्निं प्रथमं हुत्वा मूर्तिहोमं ततः परम् | शिवाद्यवनिपर्यन्तं ध्यात्वा सर्वगतं प्रभुम् || ३७-७३ || तत्तद्रूपान् स्वमात्मानं स्मृत्वाग्निं संयजेत् बुधः | आदित्यः पूर्वतोमूर्तिर्भव स्त्रिमूर्तिधारकः || ३७-७४ || प्. १९०) आग्नेययामग्निमूर्तिस्तु धारकः शर्व उच्यते | मूर्तिधारः पशुपतिः पृथिवीमूर्तिदक्षिणे || ३७-७५ || आकाशे नै-ऋते मूर्तिरुद्रस्तन्मूर्तिधारकः | आपोवरुणदिक्भागे रुद्रोनामसुधारकः || ३७-७६ || वायुर्वै वायुदिग्भागे भीमा वै मूर्तिधारकः | उत्तरे सोममूर्तिस्तु महान्यै मूर्तिधारकः || ३७-७७ || मूर्तिधारस्तथेशस्तु आत्मानं मूर्तिरेव च | एवं विधान तस्त्वष्टमूर्तयोमूर्तिधारकाः || ३७-७८ || प्रधानस्य शिवः प्रोक्तस्तत्तद् ध्यानपरायणः | प्राग्वदग्निमुखं कृत्वा पश्चात् द्रव्यैस्तु होमयेत् || ३७-७९ || काष्ठाज्य समिदन्नादिलाजासक्तु तिलानि च | यवसिद्धार्थ मुद्गानि मधुनैकादशानि च || ३७-८० || तूष्णीन्तदिन्धनं कृत्वा मूले नैव घृताहुतिः | समिधं बीजमुख्येन चरुसद्येन होमयेत् || ३७-८१ || लाजा हृदय मन्त्रेण सक्तुञ्च शिरसापुनः | शिखया तु तिलं हुत्वा यवान्वैक वचेन तु || ३७-८२ || सिद्धार्थं बहुरूपेण मुद्गमस्त्रेण चैव हि | नेत्रेण मधुहोतव्यं जुहुयाद् व्याहृतिं ततः || ३७-८३ || पलाशसमिधं पूर्वे आग्नेययास्तु वै कंकतम् | वटं याम्ये तु विज्ञेयं अश्वत्थन्नि-ऋतौ तथा || ३७-८४ || प्लक्षन्तु वारुणे गाभे चौदुंबरन्तु वायवे | अर्का वै सौम्यदिक्भागे बिल्वमिशानगोचरे || ३७-८५ || इन्द्र ईशानयोर्मध्ये पलाशसमिधं भवेत् | द्रव्यं प्रतिसहस्रं वा तदर्धं वार्धमेव वा || ३७-८६ || अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशती | षोडशा हुतिकं वापि द्रव्यं प्रतिसमाचरेत् || ३७-८७ || ब्रह्माङ्गैरेव हुत्वा तु तत्तत्स्थाने च संस्पृशेत् | तदन्ते व्याहृतिं हुत्वानिद्रां रात्रौ तु वर्जयेत् || ३७-८८ || प्रभाते विमले विद्वान् प्रतिष्ठालग्नपूर्वके | आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः || ३७-८९ || प्. १९१) हेमपुष्पोपवीतञ्च कुण्डलं कटकं तथा | दासीं दासांश्च गाभूमिमाचार्याय प्रदापयेत् || ३७-९० || कन्यसं दशनिष्कञ्च द्विगुणं त्रिगुणं तथा | दक्षिणां कन्यसादीनि देशिकस्य विधीयते || ३७-९१ || प्रत्येकं मूर्तिपान् पूज्यदेशिकस्याष्टभागतः | दैववज्ञं वास्तुहोतारं मूर्तिपान् त्रिगुणेन वै || ३७-९२ || मूर्तिपस्य त्रिपादेन तद्ध्येतृंश्च पृथक् पृथक् | तेषां हेमाङ्गुलीयञ्च वस्त्रयुग्मञ्च दापयेत् || ३७-९३ || भक्तानां परिचाराणां दापयित्वा स्वशक्तितः | दीनान्ध कृपणानाञ्च अन्नपानादि दापयेत् || ३७-९४ || दद्यात् पूर्णाहुतिं सर्वैर्मन्त्रैर्वेदशतात्मना | होमोपरीष्टतंत्रञ्च कुर्यात् सर्वे यथा क्रमत् || ३७-९५ || किञ्चित् पूर्वमुहूर्तस्य उत्थाप्यशयनाच्छिवम् | संपूज्यगन्धपुष्पाद्यैः शङ्खदुन्दुभिनिस्वनैः || ३७-९६ || सर्वालङ्कारसंयुक्तं मन्त्रन्यासमथारभेत् | शिवकुंभं समुद्धृत्य वर्द्धनीन्तु शिवाग्रतः || ३७-९७ || विन्यस्त्वार्घ्यन्तु दत्वाथ सकलीकृतविग्रहः | ध्यात्वा तद्रूपमग्न्यस्थं प्रतिमायां सुयोजयेत् || ३७-९८ || शक्तिं वै वामपार्श्वे तु विन्यसेत् बीजमूख्यकैः | कुम्भात्तत्वं तथा बिंबे संयोज्याङ्गानि विन्यसेत् || ३७-९९ || शिवाख्योमाख्य विद्येश कुंभैरत्राभिषेचयेत् | तदन्ते स्नपनं कृत्वा हविष्यन्तु महद्भवेत् || ३७-१०० || उत्सवन्तत्र कर्त्व्यं प्रागुक्तविधिना ततः | ईश्वर प्रतिमाण्येवमुत्सवार्थं प्रकीर्तितम् || ३७-१०१ || द्वादश प्रतिमा प्रोक्तास्तथा चोत्सवकर्मणि | देशकाल स्वरूपान्यत् समानं सर्वमेव हि || ३७-१०२ || अर्चनादि क्रमान् सर्वान् शिववत् कल्पयेत् क्रमात् | सर्वेषामन्य देवानां तत्र तद्विधिचोदितम् || ३७-१०३ || प्. १९२) तथा स्वरूपमेवं स्यात् स्वस्वनामादिमन्त्रतः | सर्वेषां स्थापनान्ते तु स्नपनञ्चोत्सवं कुरु || ३७-१०४ || सकलस्थापनं प्रोक्तं तेषां संप्रोक्षणं शृणु | वेदिकायां शिवोमाख्य विद्येशकलशान् बुधः || ३७-१०५ || विन्यसेदुपवेद्यान्तु लोकपालाख्य कुंभकान् | वस्त्राणि हेमरूपाणि प्रक्षिपेत् पूर्ववत् सुधीः || ३७-१०६ || रत्नादिशयनान्तञ्च वितानैर्बिंबकर्मणि | वस्त्रैराच्छाद्य तत्बिंबं होमं पूर्ववदाचरेत् || ३७-१०७ || स्नपनं वायुदिक्भागे अन्यत्सर्वं समानकम् | योगोपयोगद्रव्याणि आचार्यायप्रदापयेत् || ३७-१०८ || सकलस्थापनं ह्येवं शक्तिसंस्थापनं शृणु | इति सकल प्रतिष्ठाविधिपटलः सप्तत्रिंशत्तमः || ३७ || अथ शक्तिप्रतिष्ठाविधिपटलः अथातः संप्रवक्ष्यामि शक्तिसंस्थापनं परम् | वह्नेरुष्णत्ववच्छक्तिरविनाभाविनीविभोः || ३८-१ || अमूर्तिच्छेदमूर्ताख्या समूर्तञ्चेत् समूर्तकम् | सदाशिव शिवौ रुद्रो विष्णुब्रह्मेति भेदिताः || ३८-२ || मनोन्मनीश्वरीचोमा श्रीसावित्री प्रभेदिताः | परापरमिदं भेदं लोकानुग्रहकारिणम् || ३८-३ || मनोन्मनीश्वरी चैव सहैवस्थापनं विदुः | त्रिभेदमन्यच्छक्तीनामेक युक्तं सहेति च || ३८-४ || शक्तिस्तु केवलं यत्र स्थापने त्वघमुच्यते | पूर्वं शंभुं प्रतिष्ठाप्य शक्तेस्तु स्थापनं तथा || ३८- ५ || कृतो युक्तोविधानेन युक्तं तत् परिकीर्तितम् | शक्तिंशंभुमथैकत्र स्थापनं तत्सहैव तु || ३८-६ || प्. १९३) त्रिप्रकारेषु सामान्यं मूलमन्त्रादिकं शृणु | मायाबीजञ्च व्योमेन सहबिन्दुं सनादिकम् || ३८-७ || आदिशक्तेस्तु मूलं स्याद्वियद्वापि सबिन्दुका | षडंगास्तु समाख्यातं स्वरेव द्वितयं तथा || ३८-८ || चतुर्त्थमष्टमञ्चैव द्वादशं स्वरमेव च | चतुर्दशस्वरञ्चैव षोडशं स्वरमेव च || ३८-९ || संयोज्य हृच्छिराचूडा वर्मनेत्रास्त्र संज्ञिका | शिरोमन्त्रे विशेषोस्ति सलिलार्णेन संयुतम् || ३८-१० || सविसर्गमथास्त्र स्यात् विन्दुनादविवर्जितम् | आद्यास्वर तृतीयञ्च पञ्चमं दशमान्तकम् || ३८-११ || द्वादशान्तञ्च पञ्चैते सद्यादि ब्रह्मपञ्चका | उच्यते गौरिगायत्री गणांबिकायै विद्महे || ३८-१२ || इत्युच्चार्य तदन्ते तु महातपायैधीमही | एवमुक्त्वा तदन्ते तु तन्नोगौरी प्रचोदयेत् || ३८-१३ || गौरिगायत्रि संज्ञाख्या चतुर्विंशतिकाक्षरा | मृण्मयं शैलजञ्चैकं शेषं लोहजमुच्यते || ३८-१४ || मृण्मये तु तथा नोक्तमधिवासञ्जलेन तु | समानमन्यत् सर्वेषां यथा शक्तिविधीयते || ३८-१५ || पूर्वोक्तेन विधानेन कृत्वा तत्प्रतिमं बुधः | प्रतिष्ठादि वसात् पूर्वे कर्तव्यञ्चाङ्कुरार्पणम् || ३८-१६ || पूर्ववद्रत्नविन्यासं कृत्वा तदनुबिंबकम् | सुस्निग्धं कारयित्वा तु नेत्रमोक्षणमारभेत् || ३८-१७ || हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण चारभेत् | हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण देशिकः || ३८-१८ || भ्रूरेखा प्रथमं लिख्य पक्ष्मरेखाद्वितीयकम् | श्वेतमण्डलमालिख्य ततो वै कृष्णमण्डलम् || ३८-१९ || ज्योतिर्मण्डलमध्ये तु कर्तव्यं शिल्पिनाबुधः | शिल्पिमुद्वास्य गुरुणा कर्तव्यं कर्मचोत्तरम् || ३८-२० || हिरण्य नखसंप्रोक्तौ तर्जनीमध्यमाङ्गुली | तासां नेत्रेप्यसौधीमां छक्तिमन्त्रेण संस्पृशेत् || ३८-२१ || प्. १९४) कांस्ये मधुघृताभ्यान्तु सौवर्णेन तु दूर्वया | हृन्मन्त्रेण तु संसिच्य सवत्साङ्गां पयस्विनीम् || ३८-२२ || गौर्धेनुहव्य मन्त्रेण देशिकोगां प्रदर्शयेत् | ब्राह्मणादिञ्जनान् सर्वान्वीक्षयित्वाक्षमन्त्रतः || ३८-२३ || बिंबशुद्धिं ततः कृत्वा शुद्धतोयैर्विचक्षणः | सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् || ३८-२४ || जलाधिवासनं पश्चात् त्रिरात्रं वैकरात्रकम् | चतुरश्रां प्रपां कृत्वा दर्भमालाविभूषिताम् || ३८-२५ || वस्त्रैरावेष्टयित्वा तु पुष्पैर्दर्भैर्विशेषतः | कण्ठमात्रे जलेशुद्धे शक्तिं तत्राधिवासयेत् || ३८-२६ || दिक्पालाधिपकुंभानि विन्यसेत् परितोजले | प्रतिष्ठामण्डपं कृत्वा सर्वालङ्कारसंयुतम् || ३८-२७ || षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् | चतुस्तोरणसंयुक्तं दर्भमालाभिशोभितम् || ३८-२८ || तन्मध्ये वेदिकां कृत्वा तत्त्रिभागैकविस्तृताम् | हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् || ३८-२९ || तालमात्रसमुत्सेधामुपवेदीं प्रकल्प्य वै | तस्योत्तरसमीपे तु तद्वद् वै स्नानमण्डपम् || ३८-३० || तन्मध्ये स्नानवेदीञ्च तिस्रोवाद्व्येकमेखलाम् | स्थण्डिले वेदिकोर्ध्वे तु अष्टद्रोणैश्च शालिभिः || ३८-३१ || तिलतण्डुलसंयुक्तं पद्ममष्टदलं लिखेत् | अण्डजाद्यैर्विशेषण संकल्प्यशयनं तथा || ३८-३२ || अलाभे त्वण्डजादीनां वस्त्रः संकल्प्य पञ्चभिः | प्रागुक्तलक्षणोपेतस्त्वादिशैव कुलोद्भवः || ३८-३३ || सुस्नात्वा चन्म्यविधिवत् सर्वालङ्कारसंयुतम् | नीत्वा जलोषितं बिंबं स्नापयेत् पञ्चगव्यकैः || ३८-३४ || स्नानवेद्युपरिस्थाप्य सुस्नाप्य विधिपूर्वकम् | गणांबिकेतिमन्त्रेण अष्टमृत्सलिलेन तु || ३८-३५ || तदा म्लेलेपनाद्यैश्च बिंबशुद्धिं यथोचितम् | गन्धपुष्पादिनाभ्यर्च्य बीजमुख्येन देशिकः || ३८-३६ || प्. १९५) ततः सुवर्णसूत्रेण बध्वा प्रतिसरं बुधः | घृतः शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः || ३८-३७ || शयने शाययेच्छक्तिं शिरः पूर्वमुखोर्ध्वतः | वस्त्रैराच्छादयित्वा तु पुण्याम्बुनितु देशिकः || ३८-३८ || स्थण्डिले तूपवेद्यान्तु निष्कलंकाञ्छुभां दृढान् | वस्त्रहेमसमायुक्तान् सूत्राक्षतसपल्लवान् || ३८-३९ || लोकपालाधिपानष्ट कुंभान् पूर्वादितः क्रमात् | आवृतान् कलशांश्चैव हैमसूत्राष्टसंयुतान् || ३८-४० || सकूर्चान् सा पिधानांश्च वस्त्रयुग्मेन वेष्टितान् | वामादिशक्ति संयुक्ता नष्टौ संस्थापयेद्धृदा || ३८-४१ || गन्धपुष्पादिनाभ्यर्च्य हृदयेन विचक्षणः | वर्धनी सूत्रसंयुक्तान् वस्त्रयुग्मसमावृतान् || ३८-४२ || सकूर्चां सा पिधानांश्च आदिशक्त्यधिदैवतान् | हेमपंकजनिक्षिप्तां नवरतसमायुतान् || ३८-४३ || बिंबस्य शिरसश्चैव भावे संस्थाप्यबीजतः | गन्धपुष्पाक्षताद्यैश्च संपूज्याग्निमथारभेत् || ३८-४४ || नवपञ्चाग्निकं वापि त्रयं वा चैकमेव वा | योन्याकाराणि विधिवत् ततः कुण्डं प्रकल्पयेत् || ३८-४५ || अग्न्याधानान्ततः कृत्वा पूर्ववत् षोडशक्रियाम् | आहूयाग्नौ तु तच्छक्तिं बीजमुख्येन मन्त्रवित् || ३८-४६ || पूर्ववत् समिधाज्यैस्तु होमं कृत्वा स्वमन्त्रतः | स्पर्शाहुतिं ततः कृत्वा तत्तन्मन्त्रेण मन्त्रवित् || ३८-४७ || प्रभाते सुमुहूर्ते तु सर्वातोद्यसमायुतम् | आचार्यमूर्तिपांश्चैव दैवज्ञं संप्रपूजयेत् || ३८-४८ || पूर्णाहुतिं ततो दत्वा बीजमुख्येन मन्त्रतः | शक्तिबिंबन्ततोत्थाप्य स्नानवेद्युपरिन्यसेत् || ३८-४९ || वर्द्धनीन्तु ततोत्थाप्य देशिकश्चोत्तराननः | बिंबस्य हृदये मूर्ध्नि नाभौ मूले तु विन्यसेत् || ३८-५० || न्यस्त्वा ब्रह्माङ्गमन्त्राणि विन्यसेत् सर्वमात्रकाः | वर्धकुंभस्थ शक्तीश्च बिंबे संयोज्यमूलतः || ३८-५१ || प्. १९६) बीजमुख्येन मन्त्रेण तज्जले नाभिषिच्य वै | वामादि शक्तिकुंभाद्भिः संस्थाप्य स्वस्वमन्त्रकैः || ३८- ५२ || स्नान लेपादिभिरद्भि स्वस्वमन्त्रैर्विशेषतः | पाद्यमाचमनञ्चार्घ्यं दद्याद् देव्यै हृदादिभिः || ३८-५३ || अभ्यर्च्य गन्धपुष्पाद्यैः सर्वालङ्कारसंयुतम् | पायसं हविषं तत्र हृदयेन प्रदापयेत् || ३८-५४ || एव मेवं समाख्यातं युक्तं तत्र वदामिते | मण्डपं विधिना कृत्वा तन्मध्ये वेदिकां क्रमात् || ३८-५५ || सर्वालङ्कारसंयुक्तां वितानध्वजभूषिताम् | तन्मध्ये स्थण्डिलं कृत्वा वह्निं तत्रैव संयजेत् || ३८-५६ || तत्र मानुषनाहे तु उमारुद्रौ तु वारुणे | वामभागे ह्युमां न्यस्त्वा सर्वालङ्कारसंयुताम् || ३८-५७ || नववस्त्रैरुमारुद्रौ प्रशान्तायेति भूषयेत् | आचार्यो ब्रह्मवद्ध्यात्वा विवाहे सर्वकर्मणि || ३८-५८ || पूर्वोक्तेन विधानेन अग्न्याधानादिकं तथा | विष्णुं तत्रैव चाहूय देवीमुदकपूर्वकम् || ३८-५९ || रुद्रस्य दक्षिणे हस्ते बीजमुख्येन दापयेत् | वामे श्मानन्तु संस्थाप्य गौरीगायत्रिमंत्रतः || ३८-६० || देव्याः पादञ्च रुद्रेण स्पर्शयित्वाश्मनि न्यसेत् | शिवमन्त्रेण मन्त्रज्ञो लाजं हुत्वात्रयंबुधः || ३८-६१ || शक्तियुक्तं ततः सर्वं प्रभूतहविषं ददेत् | युक्तमेवमिदं प्रोक्तं सहैव स्थापनं शृणु || ३८-६२ || आरंभस्थापनान्तं यत्सर्वकर्मसहैव तु | सहैव इति विख्यातं चोत्सवोविधिचोदितः || ३८-६३ || एवमेवं तथा प्रोक्तं लक्षः सावित्रयस्तथा | शक्तिसंस्थापनं प्रोक्तं परिवारमथ शृणु || ३८-६४ || इति शक्तिप्रतिष्ठाविधिपटलः अष्टत्रिंशत्तमः || ३८ || अथ परिवारविधिपटलः अथातः संप्रवक्ष्यामि परिवारविधिक्रमम् | द्वारपालादि पीठान्तं परिवारमिति स्मृतम् || ३९-१ || द्वारस्थात् प्रथमंयिष्येत् द्वारपालां ततः परम् | वृषभं वै तृतीयन्तु इन्द्रादींस्तु चतुर्थकम् || ३९-२ || पञ्चमं भद्रपीठन्तु तथैवबहिरावृतम् | यत्र यत्र मुखद्वारे कवाटाभ्यान्तु देशिकाः || ३९-३ || तत्र तत्र विशेषेण नवधैवं विसर्जयेत् | भुजंगञ्च पतंगञ्च ऊर्ध्वाधः संप्रकल्प्य वै || ३९-४ || उत्तरञ्च पताकाञ्च तिष्ठतः सव्यवामयोः | विमलञ्च सुबाहुञ्च विन्यसेद्वामदक्षयोः || ३९-५ || श्रियं सरस्वतीञ्चैव स्कन्दोर्ध्वाधः प्रकल्प्य वै | तस्य मध्ये तु विघ्नेशं स्वनाम्नाबासने सदा || ३९-६ || स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत् | एवं कृत्वा यथा न्यायं द्वारेद्वारे विशेषतः || ३९-७ || सुदृढं वृक्षसारैस्तु कवाटौ तु सलक्षणौ | शून्यमेक कपाटञ्चेत् द्विकपाटे तु शान्तिकम् || ३९-८ || दण्डानुपरिबध्वाथ अथस्थाद्दारुजानपि | पुलकान्नर्धचंद्रादीञ्छल्पशास्त्रोक्तमार्गतः || ३९-९ || उत्सेधस्याष्टभागैक ऊर्ध्वाधस्तु घनं क्रमात् | विस्तारस्तु चतुर्भागं घनं वै दक्षिणोत्तरे || ३९-१० || कपाटलक्षणं ह्येवं तत्रस्थान् प्रथमं यजेत् | द्वारे तु देवता प्रोक्ता द्वारपालां ततः शृणु || ३९-११ || अभ्यन्तरग्रहद्वारे शक्तिद्वारमिति स्मृतम् | दक्षिणे ज्ञानदाशक्ति धर्मदा चैव चोत्तरे || ३९-१२ || एकवक्त्रो द्विहस्ते च मध्यक्षामेस्तनान्विते | कुंकुमाभो महाकालः परशुच्छायुधस्तथा || ३९-१३ || अनन्तेशः पशुपतिर्दक्षिणे द्वारपालकौ | अनन्तो रक्तवर्णस्तु वस्त्रायुधसमन्वितः || ३९-१४ || प्. १९८) पशुपद्मोत्पलवर्णः शक्तिहस्तोग्रलोचनः | पश्चिमद्वारपालौ च दण्डिमुण्डीशसंज्ञकौ || ३९-१५ || दण्डी सुरेन्द्र चापास्त्र खट्गहस्तोग्रदंष्ट्रकः | मुण्डीकुंदेन्दु वर्णाभभिण्डिपालायुधस्तथा || ३९-१६ || विजयश्चैव भृंगीशश्चोत्तरद्वारपालकौ | भ्रंशो भृंगश्चवर्णस्तु क्षुरिकायुधहस्तकः || ३९-१७ || विजयश्चेन्द्रकोलोहः शूलहस्तोभयंकरः | सर्वेत्रिभंगियुक्तश्च सर्वेकुञ्चित पादकाः || ३९-१८ || उग्रदंष्ट्राः सुवृत्ताश्च सर्वां निर्देशहस्तकाः | सर्वे चतुर्भुजोपेता द्विभुजा वा त्रिणेत्रकाः || ३९-१९ || द्विनेत्राश्चोग्रदंष्ट्राश्च हलपल्लवहस्तकाः | द्वारोत्सेध समाभद्राः किरीटाद्यङ्गदोज्वलाः || ३९-२० || प्रासादे मण्डपेद्वारे द्वारेद्वारे च कीर्तिताः | महामर्यादिभित्तिस्था द्वारगोपुर पार्श्वयोः || ३९-२१ || चतुर्दिक्षु विशेषेण महाकाराणि कारयेत् | संवर्तकं श्रियावर्तं कुण्डोदर बृहोदरौ || ३९-२२ || सिंहमुखोहय मुखस्त्वेक पादस्त्वधोमुखः | श्वेतवर्णस्तथा न्यस्त्वास्त्व परांश्यामसन्निभः || ३९-२३ || द्विनेत्रा द्विभूजाः सर्वे शूलखट्गायुधास्तथा | भूतौ द्वौ द्वौ प्रकर्तव्यौ वासवादिप्रदक्षिणम् || ३९-२४ || अथाहपरिवाराणां पिठञ्चेदन्तरावृते | तेषां विमानमन्विच्छेत् द्वितीयेपि च हारके || ३९-२५ || * * * * * * * * आग्नेययां पावकं तथा | मातृंस्तु दक्षिणे भागे वीरविघ्नसमन्वितम् || ३९-२६ || विष्णुं वा तत्र संस्थाप्य आसीनमथवा स्थितम् | विघ्नेशन्नै-ऋते भागे सुब्रह्मण्यन्तु पश्चिमे || ३९-२७ || ज्येष्ठायां वायुदिक्भागे श्रियं वै स्थापयेत् गुरुः | दुर्गां वै चोत्तरे कुर्यात् ब्रह्माणमथवापि वा || ३९-२८ || चण्डेशमैशदिग्भागे भास्करं पूर्वतोदिशि | कूपस्थानं तथैशान्यामाग्नेययां पचनालयम् || ३९-२९ || प्. १९९) अन्तरालेष्वनुक्तेषु यथा रुचिविशेषतः | शयनस्थानमाख्यातं पार्वती सहितं तथा || ३९-३० || परिवारालयं सर्वं बाह्येवाभ्यन्तरेपि वा | द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु || ३९-३१ || इन्द्रादिलोकपालांश्च स्वेस्वेस्थानेऽष्टदिक्षु वै | शक्रशांकरयोर्मध्ये पित्रस्थानं विधीयते || ३९-३२ || नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च | वरुणवायुदिशोर्मध्ये आदित्या द्वदशोच्यते || ३९-३३ || भास्करक्षेत्रपालौ च शंकरे वा विशेषतः | चक्रपावकयोर्मध्ये अश्विन्यौ द्वौ तु विन्यसेत् || ३९-३४ || आग्नेयधर्मयोर्मध्ये संस्थाप्यसप्तरोहिणीः | याम्यनै-ऋतयोर्मध्ये पितृस्थानं विधीयते || ३९-३५ || नि-ऋतिर्वरुणयोर्मध्ये पित्रस्थानं विधीयते | नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च || ३९-३६ || वरुणवायव्ययोर्मध्ये मुनीनां स्थानमुत्तमम् | वायव्यसोमयोर्मध्ये चान्ते तु वसवस्तथा || ३९-३७ || उत्तरेशानयोर्मध्ये रुद्रैकादश एव हि | बलिपीठं ततः कृत्वा चतुर्दिक्षु विचक्षणः || ३९-३८ || बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे प्रकल्पयेत् | अन्तरे सर्वभूतांस्तु पिशाचान् बाह्यपीठके || ३९-३९ || यक्षाणां दक्षिणेपीठे राक्षसानां तु पश्चिमे | अधमं हि तदग्रे तु अथवाभ्यन्तरे बुधः || ३९-४० || गर्भगेहस्य पञ्चांशे चतुष्कञ्चोत्तमोन्नतम् | त्रिभागं मध्यमप्रोक्तं द्विभागमधमं स्मृतम् || ३९-४१ || द्वारोत्सेध समञ्ज्येष्ठं तत्त्रिभागन्तु मध्यमम् | द्वाराणामधमं विद्धि उत्सेधसमविस्तृतम् || ३९-४२ || उत्सेधसंविभज्याथ भागमेकोनविंशतिः | भागेनोपानमेकेन चतुर्भुजगतिस्तथा || ३९-४३ || कुम्भं कृत्वा त्रिभिर्भागैस्तदूर्ध्वे केन पट्टकम् | कण्ठं कुर्यात् त्रिभिर्भागैरेके चैवोर्ध्वपट्टिका || ३९-४४ || प्. २००) महापट्टिका द्विंशेन दलोत्सेधं गलोष्टकम् | कर्णिकाचैकभागेन प्रोक्तमुत्सेधमुत्तमम् || ३९-४५ || प्रवेशनिर्गमं वक्ष्ये विस्तारं षोडशांशकम् | समस्तांशमुपानं तु मन्वन्तं जगतीं तथा || ३९-४६ || भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिकास्तथा | अष्टांशं कण्ठविस्तारं दशांशञ्चोर्ध्वपट्टिका || ३९- ४७ || द्वादशांशं महापट्टं वेदिकायां दशांशकम् | अष्टांशं दलविस्तारं त्रियंशेन तु कर्णिका || ३९-४८ || चतुरश्रं यथा पीठं कुर्यात् पददलं विना | स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः || ३९-४९ || प्रतिष्ठाविधि मार्गेण कारयेद् देशिकोत्तमः | एवं तथोत्तमं विद्धि सर्वसिद्धिप्रदायकम् || ३९-५० || द्वारकान् भूतपीठान्तं कल्पयेच्चक्रमाद्गुरुः | सूर्यार्कवारुणेयात् तु नांशेहर्म्याणु कल्पयेत् || ३९-५१ || आग्नेययान्तु प्रकर्तव्यं च्छात्रादीनान्तु मण्डपम् | नै-ऋत्यां दिशिकर्तव्यं धर्मश्रवणमण्डपम् || ३९-५२ || गीताभ्यां सर्वविख्यातं वायव्यान्तु विशेषतः | यागानामुत्सवादीनां ऐशाने मण्डपं स्मृतम् || ३९-५३ || विख्यातं मध्यहारायां मर्यादिभित्तिके शृणु | गोपुरेशानयोर्मध्ये धान्यस्थानमुदाहृतम् || ३९-५४ || कुर्याज्जननशालान्तु याम्यपावकमध्यगः | याम्यनै-ऋतयोर्मध्ये कुर्यादायुधमण्डपम् || ३९-५५ || वरुणनै-ऋतयोर्मध्ये कुर्यादास्थानमण्डपम् | पाशभ्रद्वायुमध्ये तु नृत्तांव्यासस्यमण्डपम् || ३९-५६ || कुबेरानिलयोर्मध्ये धनसञ्चितमण्डपम् | ईशानसोमयोर्मध्ये कर्तव्यं पुष्पमण्डपम् || ३९-५७ || मर्यादिभित्तिके ख्यातं महामर्यादिके शृणु | चतुर्दिक्षु महाद्वारे गोपुराणिप्रकल्पयेत् || ३९-५८ || अन्तरालेषु सर्वेषु क्रमेणैवप्रदक्षिणम् | ऋग्यजुः सामधर्वाणाञ्छन्दो ज्योतिषयोस्तथा || ३९-५९ || प्. २०१) शीक्षाकल्पनिरुक्तानां ततो व्याकरणस्य च | शैवसिद्धान्त शास्त्रस्य तथा पाशुपतस्य च || ३९-६० || सोमसिद्धान्त तन्त्रस्य बौद्ध अर्हतयोस्तथा | पा~चरात्राख्य तन्त्रस्य व्याख्यानाभ्यासनानि वै || ३९-६१ || विप्राणां भोजनार्थाय लिङ्गानां भोजनाय वै | आदिशैवानुशैवानां स्थापनापरिकल्पयेत् || ३९-६२ || परिवारसमायुक्तं प्राकाराणां प्रकीर्तितम् | अतः परं विशेषेण वृषभस्थापनं शृणु || ३९-६३ || इति परिवारविधिपटल एकोनचत्वारिंशत्तमः || ३९ || अथ वृषभस्थापनविधिपटलः अथातः संप्रवक्ष्यामि वृषभस्थापनं परम् | अन्तरावरणे देवाभिद्यते शिवशासने || ४०-१ || तेषु देवा स्थिते तस्मात् परिवारस्यवस्थता | वृषभस्य सहस्रांशाभिद्यन्ते मूर्तयस्तदा || ४०-२ || त्रिविधं स्थापनं प्रोक्तं शैलं लोहंसुधामयम् | लोहजं स्थानकेकार्यं शयने वा विशेषतः || ४०-३ || शिलासुता प्रकर्तव्यं शयने तु विचक्षण | त्रिविधं तत्र कर्तव्यं सर्वसंपत्करं नृणाम् || ४०-४ || लोहजेन तु विघ्नेश कृतञ्चेदुत्तमं सृतम् | शैलञ्चमध्यमं प्रोक्तं सुधाया चाधमं भवेत् || ४०-५ || वृषभस्य तदुत्सेधं द्वारमानेन वै शृणु | द्वारोत्सेधञ्चतुर्थांशमर्धपादोनकं तथा || ४०-६ || समं वा द्विगुणं वापि त्रिगुणं वा विशेषतः | तत्काले वृषभायामं द्विसप्तत्यङ्गुलं स्मृतम् || ४०-७ || चतुर्भागमुखं तत्र त्रिभागं नासिका तथा | द्व्यङ्गुलन्तु तथा नेत्र मन्त्रः पादसुविस्तरम् || ४०-८ || प्. २०२) शृङ्गायामं द्विभागन्तु तन्मूलं भागविस्तरम् | तीक्ष्णाग्रौ तु प्रकर्तव्यौ चानुपूर्वात् क्रमेण तु || ४०-९ || कर्णायामं दशांगुल्यं तद्विस्तारं तदर्धता | कला तु कर्णमूलं हि तदन्तश्च तदेव तु || ४०-१० || त्रिभागं नेत्रयोर्मध्ये तद्वच्छ्रंगौ तु मध्यमम् | अक्षिकर्णान्तरं भागं कर्णाच्छृङ्गान्तरं तथा || ४०-११ || द्व्यङ्गुलं नासिकाद्वारे तद्वक्रं भागमानतः | जिह्वासौ दन्तपङ्ती च यथा युक्त्या च कारयेत् || ४०-१२ || अष्टादशाङ्गुलञ्चोरु तन्नाहं त्रिगुणं तथा | जंघादशाङ्गुला ज्ञेया तदूर्ध्वे तु चतुष्कला || ४०-१३ || षडङ्गुलं ततः पादं तदर्धंखुरमुच्यते | जंघायाः पश्चिमं पादं कलोर्ध्वन्तु कलाधिकम् || ४०-१४ || पुच्छं स्यादग्रमूलान्तञ्चतुरङ्गुलविस्तृतम् | मध्यमं द्व्यङ्गुलन्तारमग्रमेकाङ्गुलं स्मृतम् || ४०-१५ || वृषणौ द्विकलायामौ विस्तारं स्याच्चद्व्यङ्गुलम् | वृषस्यलक्षणं प्रोक्तं स्थापनं तस्य वै शृणु || ४०-१६ || लोह * * * * ञ्चैव विनाशैलेसुधामये | जलाधिवासं शयनं सुधायाञ्च न कारयेत् || ४०-१७ || नेत्रेणमोचयं नेत्रं शयन * * * * * | दिक्पालकलशानष्टौ लोकपालाधिपास्ततः || ४०-१८ || वृषकुंभन्तु तन्मध्ये वृषभंगौः समावृतम् | घण्डमालारवोपेतं श्वेतवर्ण महाद्युतिम् || ४०-१९ || * * * * * * * त्तत्रमूलमन्त्रेण देशिकः | नवपञ्चत्रयं वापि एकाग्निमथवा पुनः || ४०-२० || शिवाग्निं पूर्ववत् कृत्वा मध्येचाहूयतद्वृषम् | पूर्वोक्तमूलमन्त्रेण हुत्वा तत्र शताहुतिम् || ४०-२१ || शिवाङ्गैः शैवमन्त्रेण हृदयादीनिसंस्पृशेत् | प्रभाते विमले तत्र पूर्णां हुत्वास्त्रमन्त्रतः || ४०-२२ || प्. २०३) * * स्वनाममन्त्रेण कलशैरभिषेचयेत् | वृषगायत्रि मन्त्रेण मध्यकुंभेनदेशिकः || ४०-२३ || गन्धपुष्पादिनायष्ट्वा मुत्गान्नं दापयेत् ततः | वृषयागं ततः कृत्वा नवसप्ताहपञ्च वा || ४०-२४ || त्रयाहैकाह्नमेवाथ उत्सवं विधिचोदितम् | प्रदक्षिणे वृषंपूर्वं कुर्यादन्यानि तत्समम् || ४०-२५ || वृषयागमिदं ख्यातं वह्नेः संस्थापनं शृणु | इति वृषभस्थापनविधिपटल चत्वारिंशत्तमः || ४० || अथ वह्निस्थापनविधिपटलः अथातः संप्रवक्ष्यामि वह्नेः संस्थापनं शृणु | परिवारेऽप्यथाग्नेययां विमाने पूर्ववत् कृते || ४१-१ || तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः | हस्तमानेन वा चार्धकरेणैव तु पीठकम् || ४१-२ || त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा | पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् || ४१-३ || यत्ते नाद्यस्वरोपेतं प्रथमंबीजमिष्यते | रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना || ४१-४ || द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् | शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् || ४१-५ || जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् | तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे || ४१-६ || मौलिना भूषिताः सर्वे भुक्तिमुक्तिफलप्रदम् | वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् || ४१-७ || वरदाभयहस्तञ्च * * * * * * * * | शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् || ४१-८ || प्. २०४) एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च | वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् || ४१-९ || यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः | संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः || ४१-१० || धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् | प्रागुक्तेन क्रमेणैव पञ्चाग्निं संप्रकल्पयेत् || ४१-११ || त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः | लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् || ४१-१२ || जलाधिवासयेत् बिंबं शैलजे तु विशेषतः | ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि || ४१-१३ || प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् | निर्दोषां नवकुंभाश्च वर्धन्यां सहसूत्रके || ४१-१४ || संयोज्यगन्धतो येन पूरयित्वा सकूर्चकान् | वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् || ४१-१५ || स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् | आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् || ४१-१६ || वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च | अष्टकुंभांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् || ४१-१७ || स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा | भास्करं वामकेकुंभे लोकेशां स्वस्वदिक्षु च || ४१-१८ || विन्यस्याभ्यर्च्य गन्धाद्यैः कुंभानां दक्षिणे तथा | संकल्प्यचासनं प्राग्वत् तस्मिन् बिंबं सुशाययेत् || ४१-१९ || आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् | शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् || ४१-२० || अग्निमूर्तिन्तु संकल्प्य समिधान्याज्यलाजकैः | तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् || ४१-२१ || प्रभाते सुमुहूर्ते तु शयनात् बिंबमुद्धरेत् | समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् || ४१-२२ || स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे | पीठे वा न्यस्य बिंबन्तु रत्नन्यासादनन्तरम् || ४१-२३ || प्. २०५) हृदये पञ्चमंबीजं मुर्ध्निवक्त्रे च नाभिके | गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् || ४१-२४ || गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् | पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् || ४१-२५ || ततः कुंभान् सुमुद्धृत्य मध्ये कुंभन्तु पञ्चभिः | बीजैः पिण्डेनबिंबन्तु प्रागुक्तन्यासमार्गतः || ४१-२६ || तत्कुंभवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः | तत्कुंभस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः || ४१-२७ || यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः | देशिकं पूजयेत् तत्र वस्त्रहेमांगुलीयकैः || ४१-२८ || वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं शृणु | इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः || ४१ || अथ मातृस्थापनविधिपटलः अथातः संप्रवक्ष्यामि मातृणां स्थापनं परम् | नै-ऋतस्य वधार्थाय ब्रह्मणाचापि निर्मिताः || ४२-१ || ब्रह्माणीं ब्रह्मवत् कुर्यात् महेशीमिश्वरोपमाम् | कुमारवच्चकौ मारीं विष्णुवद्वैष्णवीं तथा || ४२-२ || क्रोधाननान्तु वाराहीं वामिनीं तु हलायुधाम् | चक्राणीं चक्रवत् कुर्यात् चामुण्डीमुग्ररूपिणीम् || ४२-३ || सुविकीर्णजटाभारां श्यामवर्णाञ्चतुर्भुजाम् | कपालशूलहस्ताञ्च चामुण्डीं कारयेत् ततः || ४२-४ || वरदाभयहस्तास्तु तत्तदायुधधारिणः | तत्तद्वर्णसमायुक्ता वाहनध्वजसंयुताः || ४२-५ || चतुर्भुजास्तु सर्वाश्च नलिनास्ताश्च संस्थिताः | वीरभद्रन्तु पूर्वे तु विघ्नेशं पश्चिमं दिशि || ४२-६ || प्. २०६) वीरासनस्थं वीरेशं विघ्नेशञ्च तथा कुरु | मृद्दारुशैल लोहैर्वा कृत्वा तु प्रतिमां बुधः || ४२-७ || रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् | नेत्रस्य मोक्षणं पश्चाच्छयने वाधिवासनम् || ४२-८ || शिखाग्नौ विधिवत् कृत्वा ध्यात्वा होमं समाचरेत् | स्थापयेत् सुमुहूर्ते तु सुनामाद्यैश्च मन्त्रतः || ४२-९ || मातृणां हविषं दत्वामातृगायत्रि मन्त्रतः | यामलोक्त क्रमेणैव मातृयायागं समाचरेत् || ४२-१० || मातृणां स्थापनं प्रोक्तं विघ्नेशस्थापनं शृणु | इति मात्रस्थापनविधिपटल द्विचत्वारिंशत्तमः || ४२ || अथ विघ्नेशस्थापनविधिपटलः अथातः संप्रवक्ष्यामि विघ्नेशस्थापनं परम् | आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने || ४३-१ || करेणुश्च गजेन्द्रेण संभोगमकरोत्ततः | यदृच्छया तु तन्दृष्ट्वा तदा कारमगामहम् || ४३-२ || करेण्वराकृतिञ्चोमां तदा क्रीडमहं भृशम् | तस्यान्तु गर्भमदधात् तस्मिन्काले तपोभवेत् || ४३-३ || महेश्वरसहस्रांशाद् दशांशं तत्तद्रूपकम् | एकोनविंशत्यर्णेन भान्तं वह्निसमायुतम् || ४३-४ || मनुस्त्रयो दशान्तञ्च बिन्दुनादसमन्वितम् | मूलमन्त्रमिदं ख्यातं विघ्नेशस्य महात्मनः || ४३-५ || द्वितीयस्य तृतीयेन एकमात्रस्वरान्वितम् | ब्रह्मजज्ञन्तु विख्यातं षडंगं दीपसंयुतम् || ४३-६ || अङ्गान्ते सविसर्गोत्र शेषस्तु स्वरसंयुतम् | आखुध्वजाय विद्महे इत्युक्त्वा तत्तदागुरुः || ४३-७ || प्. २०७) दन्तिहस्ताय धीमहे तन्नोदन्तिः प्रचोदयात् | फलदक्षिणहस्ते तु वमहस्ते स्वशृङ्गकम् || ४३-८ || पाशाङ्कुशोर्ध्व हस्ते तु गजहस्ते तु लड्डुकम् | करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् || ४३-९ || शिरश्चक्रप्रभां कृत्वा पद्मपीठोपपरि स्थितम् | डाडिमी पुष्पसंकाशं सर्वाभरणभूषितम् || ४३-१० || आसनं स्थानकं वापि कारयेद् विघ्ननायकम् | पञ्चतालप्रमाणेनमानेनोक्त प्रमाणकम् || ४३-११ || तन्मानं नवधा कृत्वा मुखमानं द्विभागतः | मेढ्रतन्तु चतुर्भागमुलूकातमिति स्मृतम् || ४३-१२ || जान्वन्तमेकभागेन नलकान्तं तदा भवेत् | चरणञ्चानुकर्णञ्च भागेनैकेन बुद्धिमान् || ४३-१३ || वाग्वायाम द्विभागन्तु मणिबन्धान्तकं यथा | हस्तायामाष्टतालैक हीनं तस्य प्रकोष्टकम् || ४३-१४ || हस्तादप्यर्धमायामं गजहस्तस्य कीर्तितम् | कर्णोत्तुङ्गन्तथैकांशं तत्पादोनं सुविस्मृतम् || ४३-१५ || कर्णतारोर्ध्वमानेन दन्तायाममिहोच्यते | नवाङ्गुलानि सर्वं तत्पूर्वोक्तेन प्रमाणतः || ४३-१६ || एवन्तु कथितं प्रोक्तं स्थापनञ्च शृणुष्व हि | कृत्वालयं तु पूर्वोक्तं प्रथमञ्चाथ बुद्धिमान् || ४३-१७ || प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् | सर्वलक्षणसंयुक्ता वेदिका तस्य मध्यमे || ४३-१८ || विस्तारस्य त्रिभागैकं वेदिविस्तारमात्र वै | जानुमात्रन्तमुत्सेधं कुण्डानि परितः क्रमात् || ४३-१९ || रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् | नेत्राणि नेत्रमन्त्रेण मोचयेत् तु यथा विधि || ४३-२० || वस्त्रैरास्तीर्यशयनं शाययेच्छयनोपरि | सर्वलक्षणसंयुक्तं सूत्रेणैव तु वेष्टितम् || ४३-२१ || सकूर्चं सा पिधानाञ्च सवस्त्रंवारिपूरितम् | सहिरण्यं न्यसेत् कुंभं गन्धपुष्पादिनार्चयेत् || ४३-२२ || प्. २०८) तद्रूपं मूलमन्त्रेण प्रत्यङ्गमंगसंयुतम् | ध्यात्वा कुम्भे तु विन्यस्य स्वापमुद्रां प्रदर्शयेत् || ४३-२३ || आवृतान् कलशानष्टौ लोकपालादिकान् क्रमात् | पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयैककम् || ४३-२४ || समिदाज्यं चरुंलाजान् सकूर्चं सर्षपं तथा | लड्डुकं गुलखण्डञ्च फलंक्षीरं तथैव च || ४३-२५ || शिवाग्निं पूर्ववद्ध्यात्वा गणेशं वह्निमध्यमे | विघ्नगायत्रि मन्त्रेण सर्वद्रव्याणिहोमयेत् || ४३-२६ || स्पर्शाहुतिं ततः कृत्वा तन्मन्त्रेणैव देशिकः | पूर्णाहुतिं ततो हुत्वा मूलमन्त्रं समुच्चरेत् || ४३-२७ || कलशस्थं यथा तत्वं प्रतिमायां तु विन्यसेत् | कलशैस्नाप्य विघ्नेशं गन्धपुष्पादिभिः सह || ४३-२८ || गुलोदनं तु हविषं फलयुक्तं निवेदयेत् | कर्तव्यमुत्सवं तन्त्र कर्मवित्तानुसारतः || ४३-२९ || त वै तत्स्थापनं प्रोक्तं स्कन्दस्य स्थापनं शृणु | इति गणेशस्थापनविधिपटलस्त्रिचत्वारिंशत्तमः || ४३ || अथ स्कन्दस्थापनविधिपटलः अथातः संप्रवक्ष्यामि स्कन्दस्य स्थापनं परम् | तस्योद्भवं समासेन शृणु पूर्वं गजानन || ४४-१ || देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् | सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा || ४४-२ || गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् | आवयोः संगमं तत्र देवैः संप्रार्थितोयतः || ४४-३ || रेतोवह्निस्तु संग्राह्य क्षिप्त्वाशरवणे च तु | तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः || ४४-४ || प्. २०९) षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते | तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् || ४४-५ || आदिशक्तेः सहस्रांशात् कुमारस्योदयस्तथा | पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं शृणु || ४४-६ || प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् | शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् || ४४-७ || द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा | द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे || ४४-८ || अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् | खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् || ४४-९ || आसनं स्थानकं वापि यानं वै त्रिविधं तथा | आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् || ४४-१० || यानमष्टभूजे कुर्यात् स्थापनं परिवारके | स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् || ४४-११ || डाडिमीपुष्पसंकाशं सर्वाभरणभूषितम् | सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः || ४४-१२ || विद्यामेधा च सहिते शुक्लश्यामनिभे तथा | सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके || ४४-१३ || स प्रतीकारमेवं हि प्रतिष्ठां शृणु तत्वतः | प्रासादस्य पूरस्तात् तु मण्डपे समलङ्कृते || ४४-१४ || रत्नन्यासन्तु कर्तव्यं जले नैवाधिवासनम् | कर्तव्यमक्षिमोक्षञ्च शयनंत्वधिवासनम् || ४४-१५ || कुंभं विन्यस्य तत्रैव कलशान्नावृतान् पुनः | प्राग्वत्संस्कृत्य कुंभानि स्कन्दमध्ये तु मूलतः || ४४-१६ || विन्यसेत् परितोमंत्री लोकेशान् स्वस्वबीजतः | नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् || ४४-१७ || नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः | शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः || ४४-१८ || प्. २१०) त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता | मूलब्रह्मषडंगैश्च गायत्र्यागव्यवर्तकैः || ४४-१९ || हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः | स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् || ४४-२० || स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः | पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः || ४४-२१ || उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् | आचार्योमूर्तिपांश्चैव संपूज्यविधिवत् ततः || ४४-२२ || स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं शृणु | इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः || ४४ || अथ ज्येष्ठास्थापनविधि पटलः अथातः संप्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् | आदिशक्तेः समुत्पन्ना पश्चादुदधिसंभवा || ४५-१ || उदधौमत्थ्यमाने तु चोत्थिता सा गजानन | कालाञ्जननिभा देवी सर्वाभरणभूषिता || ४५-२ || कररूढा कलेपत्नी सुखघ्नादुहितातनुः | जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा || ४५-३ || वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा | रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् || ४५-४ || रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् | ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् || ४५-५ || कुंभान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् | शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् || ४५-६ || प्. २११) ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् | संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः || ४५-७ || ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं शृणु || इति ज्येष्ठा स्थापनविधिपटलः पञ्चचत्वारिंशत्तमः || ४५ || अथ दुर्गास्थापनविधिपटलः अथातः संप्रवक्ष्यामि दुर्गायाः स्थापनं परम् | आदिशक्तेः समुत्भूता विष्णुप्राणानुजा शुभा || ४६-१ || शंखचक्रधरा देवी धनुः सायकधारिणी | खट्गखेटकसंयुक्ता शूलपाशसमायुता || ४६-२ || चतुर्भुजं वा कुर्वीत सर्वाभरणभूषितम् | श्यामवर्णांसुवदनां महिषस्यशिरस्थिताम् || ४६-३ || सिंहारूढाञ्च वा कुर्यात् पद्मासनसमागताम् | आलयस्य पुरोभागे प्रपां कृत्वा सलक्षणाम् || ४६-४ || रत्नन्यासन्तु तत्रैव जले चैवाधीवासयेत् | मन्त्रपक्ष्माक्षिमोक्षन्तु कृत्वा प्रतिसरंबुधः || ४६-५ || संकल्पशयनादीनां शाययेत् प्रतिमन्त्रतः | कुंभमन्त्रैश्च विन्यस्य ध्यात्वा तद्रूपमात्मनि || ४६-६ || आवृतान् कलशान् स्थाप्य लोकपालांश्च विन्यसेत् | होमं पञ्चत्रयैकं वा प्रागुक्तद्रव्यसंयुतम् || ४६-७ || वह्निमध्ये तु देवेशिमाहूयाज्यादिभिर्बुधः | आज्यञ्चरुं तथा लाजानौदुंबरसमित्तथा || ४६-८ || दुर्गायामूलमन्त्रेण होमयेद्देशिकोत्तमः | देविमुत्थाप्य शयनात् स्नानवेद्युपरिन्यसेत् || ४६-९ || प्. २१२) कुम्भन्दत्वा तथा बीजं मूलमन्त्रेण योजयेत् | संस्नाप्य कलशैः पश्चात् प्रभूतहविषं तथा || ४६-१० || दुर्गास्थापनमेवोक्तं चण्डेशस्थापनं शृणु | इति दुर्गास्थापनविधिपटलः षट्चत्वारिंशत्तमः || ४६ || अथ चण्डेशस्थापनविधिपटलः अथातः संप्रवक्ष्यामि चण्डेशस्थापनं परम् | उद्भवं प्रथमन्तस्य द्वितीयं स्थापनं क्रमात् || ४७-१ || रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः | गणेशावरणे स्थित्वा दशांशेना युतेन तु || ४७-२ || प्रचण्डादिविनिष्क्रान्ता पञ्चमूर्तिर्विधानतः | प्रचण्डचण्डः प्रथमं ततो विक्रान्त चण्डगः || ४७-३ || तृतीयो भुविचण्डस्तु वीरचण्डश्चतुर्थकः | एवं वै पञ्चचण्डेशा पञ्चब्रह्मसमुद्भवा || ४७-४ || कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते | विक्रान्तचण्डनामा तु त्रेतायामधिप स्मृतः || ४७-५ || द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते | कलौ तु वीरचण्डेश स्वाधिपत्यं प्रकीर्तितम् || ४७-६ || एवं वै पञ्चभेदेन चण्डनामविधीयते | आलयस्यैश दिक्भागे विमानं पूर्ववत् क्रमात् || ४७-७ || त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा | भमंजटासमायुक्तं सर्वाभरणभूषितम् || ४७-८ || अभयं शान्तदेहञ्च पाशं वै परशुं तथा | द्विभुजं यदिकर्तुञ्चेच्छान्तटंकायुतं तथा || ४७-९ || शुक्लयज्ञोपवीतञ्च शुक्लांबरधरं तथा | स्नानकञ्चासनं प्रोक्तं पूर्वोक्तविधिना ततः || ४७-१० || प्. २१३) चलस्थापनवत् सर्वं यथा युक्त्याथकारयेत् | स्वनामाद्यक्षरं यत्तु तस्यतन्मूलमन्त्रकम् || ४७-११ || तस्य ह्रस्वांश्च दीर्घांश्च ब्रह्मांगस्तु विनिर्दिशेत् | शिवार्चने तु तस्यैव दशार्णं मूलबीजतः || ४७-१२ || चण्डेश स्थापनं प्रोक्तं इद्रादि स्थापनं शृणु | इति चण्डेशस्थापनविधिपटलः सप्तचत्वारिंशत्तमः || ४७ || अथ चक्रादिस्थापनविधिपटलः अथातः संप्रवक्ष्यामि चक्रादिस्थापनं परम् | इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्रांकुशोधरात् || ४८-१ || श्यामाङ्गन्तु गजारूढमप्सरोगणसंयुतम् | कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् || ४८-२ || शिखाभिरूर्ध्वगाभिश्च युक्तिशक्तिस्रवन्धरम् | यमं सुदण्डहस्तन्तु महिषासनसंस्थितम् || ४८-३ || करालं कालवर्णञ्च फलपल्लवपाणिनम् | खट्गखेटकसंयुक्तं नि-ऋतिश्यामवर्णकम् || ४८-४ || करालं विकृताकारं सिंहारूढं द्विनेत्रकम् | वरुणं पाशहस्तन्तु शुक्लवर्णसमप्रभम् || ४८-५ || अन्यहस्तेन वरदं सर्वाभरणभूषितम् | अनिलन्धूम्रवर्णन्तु मृगारूढन्धवं ध्वजम् || ४८-६ || सव्येंकुशधरं स्यामञ्चात्मानं विधिवत् गतम् | त्वक्षेशन्तु गदाहस्तं श्यामरूपं भयावहम् || ४८-७ || द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं पद्मपाणिनम् | ईशानन्तु चतुर्बाहुं त्रिणेत्रं तु जटाधरम् || ४८-८ || शूलपाणिं वृषारूढं वरदाभयपाणिनम् | कृत्वा वीणाधरं देवं ब्रह्मविष्णू च पूर्ववत् || ४८-९ || प्. २१४) अर्यमाचेन्द्र वरुणौ पूषाविष्णुर्भगस्तथा | अजघ्न्योजघन्यञ्च मित्रोधाता इति स्मृताः || ४८-१० || विवस्वांश्चैव फर्जन्यात्वादित्या द्वादश स्मृताः | द्विभुजा पद्महस्ताश्च रक्तपद्मासने स्थिताः || ४८-११ || रश्मिमण्डलसंयुक्ता सुरक्तालोकनायकाः | ना सत्यश्चैव दस्रश्च अश्विनौतौ प्रकीर्तितौ || ४८-१२ || शुक्लवस्त्रधरौष्णीषौ पुष्तकाभयपाणिनौ | सोत्तरीयौ स्वरूपौ च शुक्लहेमनिभौ तथा || ४८-१३ || कुंभिनीग्रन्धिनी कूर्चकुट्टिनि च विकारिणि | रुद्राणी च विकारी च रोहिण्याः सप्तकीर्तितः || ४८-१४ || नागाभरणसंयुक्ताः केशभारविभूषिताः | नागहस्ता स्वरूपास्तु वरदाभयपाणिकाः || ४८-१५ || पितापितामहौ चैव प्रपितामह एव च | पितरस्तूयमानास्तु तेषां वै लक्षणं शृणु || ४८-१६ || सुदृढा पीतकर्णास्तु च्छत्रदण्डधरास्तथा | शुक्लवस्त्रै परिच्छन्नाः कीर्तिता पितरस्त्रयः || ४८-१७ || रंभा च विपुला चैव उर्वशी च तिलोत्तमाः | मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः || ४८-१८ || भृगुश्चैव वसिष्ठश्च पुलस्त्यः पुलहः कृतुः | काश्यपः कौशिकाश्चैव आंगिरामुनयस्त्विमे || ४८-१९ || सुवल्कलाजटायुक्ताः सुमुखादंशहस्तका | कट्या च मण्डिताकारा शुक्लवस्त्रधराः शुभाः || ४८-२० || पिङ्गला च स नेत्राश्च पत्नयः सप्तकीर्तिताः | धरोधृवस्तथा सोमसावित्रस्त्वनिलोनलः || ४८-२१ || प्रत्युषश्च प्रभावश्च सुदंष्ट्राभीमरूपकाः | खट्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः || ४८-२२ || सर्वाभरणसंयुक्ता चित्रवस्त्राधरास्तथा | रक्तवस्त्रधरापिताः प्रोक्ता वै वस्त्रतास्त्विह || ४८-२३ || प्. २१५) गीरिशातोगिरीशश्च केशनाशस्तथैव च | भूतकासास्तदेकश्च बुद्धिर्भवन एव च || ४८-२४ || कपालीशो ह्यजोबुद्धच्छद्रमौली प्रकीर्तिता | भस्मोद्धुलित देहाश्च शूलपाशधरास्तथा || ४८-२५ || त्रयस्त्रिंशतिमेदे वा लोकपालास्त्रसंयुतम् | प्रोक्तवर्णाभिधानाश्च सर्वेषां स्थापनं शृणु || ४८-२६ || चलस्थापनवत् सर्वमेकैकं तु विशेषतः | अथवान्य प्रकारेण स्थापनन्तु विधीयते || ४८-२७ || तेषां वै मण्डपादीनि कर्माणि च सहैव तु | प्रत्येकं कुंभमेवन्तु प्रत्येकाग्निं विशेषतः || ४८-२८ || कारयेत् स्वस्वमन्त्रेण स्थापयेत् तु पृथक् पृथक् | इन्द्रादि स्थापनं प्रोक्तं आदित्यस्थापनं शृणु || ४८-२९ || इति चक्रादिस्थापनविहिपटल अष्टचत्वारिंशत्तमः || ४८ || अथ आदित्यस्थापनविधिपटलः अथातः संप्रवक्ष्यामि आदित्यस्थापनं परम् | अदितेः पुत्रभावत्वादादित्यस्यति चोच्यते || ४९-१ || ईश्वरस्यार्धभागे तु जगश्चक्षुरिति स्मृतः | द्विभुजं सौम्यमित्युक्वा तस्मात् सौम्यन्तु पूजयेत् || ४९-२ || सर्वसिद्धिं समन्विच्छेत् ग्राममध्ये विशेषतः | आलये वामपार्श्वे तु विभवार्थाय देशिकः || ४९-३ || प्रासादं विधिना कृत्वा चाश्वाकर्णसमायुतान् | मूर्तयस्तु चतुर्दिक्षु सूर्याक्षविभवानुगाः || ४९-४ || रक्तं श्वेतञ्च पीतञ्च श्यामं सूर्यादिवर्णकम् | शिल्पालङ्कारसंयुक्तं प्रासादलक्षणान्वितम् || ४९-५ || ग्रामस्याभिमुखद्वारमालये पश्चिमे मुखम् | काष्ठलोहशिलाकृत्भिः कृत्वा तु प्रतिमां ततः || ४९-६ || प्. २१६) द्विभुजं पद्महस्तन्तु रक्तवर्णं स्वरूपकम् | करण्डमकुटोपेतं सर्वाभरणभूषितम् || ४९-७ || मकुटद्विगुणन्तारं प्रभामण्डलमध्यमम् | उषाश्च प्रत्युषादेवी सव्यासव्ये तु संस्थितः || ४९-८ || अरुणञ्चाग्रतः कृत्वा पङ्कजं तत्स्वरूपकम् | सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् || ४९-९ || रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् | पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् || ४९-१० || मृण्मयं यदिकुर्वीत दैविके प्रतिमं तथा | शूलरज्जुमृदाद्यैस्तु वर्णभेदं सुशिल्पिकम् || ४९-११ || कर्माच्च मध्यमे स्थाप्य शैलजं वाथलोहकम् | रत्नादि स्थापनान्तञ्च संक्षेपाच्छृणु सांप्रतम् || ४९-१२ || आलयस्याग्रतः कृत्वा मण्डपंविधिनान्वितम् | तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागेति विस्तरात् || ४९-१३ || हस्तमात्रप्रमाणञ्च दर्पणोदरसन्निभम् | कुण्डानिपरितः कृत्वा मृदा वा वालुकैश्च वा || ४९-१४ || शालिभिस्थण्डिलङ्कृत्वा रत्नन्यासायदेशिकः | रत्नानामप्यलभे तु मौक्तिकं तु निधापयेत् || ४९-१५ || उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः | वस्त्रेण वेष्टयित्वा तु जले चैवाधिवासनम् || ४९-१६ || नीत्वा जलोषितं बिंबं संस्नाप्य पञ्चगव्यकैः | हेमसूच्याथमधुना नेत्रं नेत्रेणमोचयेत् || ४९-१७ || बध्वा प्रतिसरं मंत्रीशयने चाधिवासयेत् | उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः || ४९-१८ || शयनस्य च दिक्भागे कुंभंवस्त्रेण वेष्टयेत् | सकूर्चान् सापिधान् कुंभान् गन्धाद्यैर्विधिना यजेत् || ४९-१९ || ध्यात्वा तत्तत् स्वरूपाञ्च * * * * * * * * | आवृतान् कलशानष्टौ लोकपालाधिकान् क्रमात् || ४९-२० || प्. २१७) वस्त्रकूर्च पिधानाद्यै स्थापयित्वा पृथक् पृथक् | पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयन्तु वा || ४९-२१ || शिवाग्निं पूर्ववद् ध्यात्वा न्यस्त्वा चाद्यन्तु मध्यमे | समिदाज्यचरूं लाजान् सक्तुसर्षपमेव च || ४९-२२ || सूर्यगायत्रि मन्त्रेण सर्वद्रव्याणि होमयेत् | स्पर्शाहुतिं ततः कृत्वा तन्मूलेन तु देशिकः || ४९-२३ || प्रभाते सुमुहूर्ते तु पूर्णां दत्वा स्वमन्त्रतः | आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः || ४९-२४ || शयनात् बिंबमुत्थाप्य स्नानवेद्यामथानयेत् | घृतः शिरोर्पणं कृत्वा नीत्वाकुंभन्तु सन्निधौ || ४९-२५ || कुंभस्थन्तु यथा देवं प्रतिमाया हृदिन्यसेत् | संस्थाप्य कलशैरेव गन्धपुष्पादिनार्चयेत् || ४९-२६ || प्रभूतं हविषं दत्वा मूलमन्त्रेण देशिकः | प्रारभेदुत्सवं तत्र कर्तावित्तानुसारतः || ४९-२७ || तदुत्सवविधौ सर्वमाहशास्त्रे तु चोदितम् | आदित्य स्थापनं प्रोक्तं क्षेत्रपालविधिं शृणु || ४९-२८ || इति आदित्यस्थापनविधिपटल एकोनपञ्चाशत्तमः || ४९ || अथ क्षेत्रेशस्थापनविधिपटलः अथातः संप्रवक्ष्यामि क्षेत्रेशस्य विधिक्रमम् | ईश्वरस्यायुतांशेन क्षेत्रपालोद्भवं तथा || ५०-१ || ग्रामादा वै शदिग्भागे लोकरक्षार्थकारणम् | प्रासादं प्रतिमां तत्र पूर्वोक्तविधिना तथा || ५०-२ || द्वारन्तु पश्चिमे मुख्यं दक्षिणे मध्यमं स्मृतम् | कन्यसञ्चेन्द्रदिक् द्वारं प्रतिमालक्षणं ततः || ५०-३ || प्. २१८) चतुर्भुजं त्रिणेत्रं वा षट्भुजञ्चाष्टहस्तकम् | सुदंष्ट्रं भैरवाकारं कृष्णवर्णं दिगंबरम् || ५०-४ || सर्पयज्ञोपवीतञ्च शिरोमालाकरोटिकम् | ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणभूषितम् || ५०-५ || त्रिशूलं दक्षिणेहस्ते वामहस्ते कपालकम् | खट्गञ्च दक्षिणेहस्ते वामहस्ते तु खेटकम् || ५०-६ || एवं चतुर्भुजं विद्धि षत्भूजञ्च ततः शृणु | नागञ्च दक्षिणेपाणौ तोमरं वामहस्तके || ५०-७ || प्रागुक्तायुधसंयुक्तं षट्भूजं त्विति कीर्तितम् | शूलं डमरुखट्वांगं दक्षिणे वामहस्तके || ५०-८ || एवमष्टभुजं प्रोक्तं षट्भुजायुधसन्निभम् | जलस्थापनवत् कृत्वा रत्नन्यासादि पूर्वकम् || ५०-९ || क्षेत्रपालं स्वमन्त्रेण प्रतिष्ठां सम्यगाचरेत् | क्षेत्रपालाधिकं प्रोक्तं शूलस्थापनकं शृणु || ५०-१० || इति क्षेत्रेशस्थापनविधिपटलः पञ्चाशत्तमः || ५० || अथ शूलस्थापनविधिपटलः अथातः संप्रवक्ष्यामि शूलस्थापनकं परम् | सदाशिवस्य देवस्य चेतनांशूलमुच्यते || ५१-१ || सर्वदेवमयं शूलं लक्षणं शृणु सांप्रतम् | प्रासाद तुङ्गकं वापि त्वथवास्तंभमानकम् || ५१-२ || पादात् पादाधिकं वापि पादार्धं पादमेव वा | अधिकं व्योममित्युक्तं तद्विहीनं विशेषतः || ५१-३ || तदुत्सेधदशांशैकं पत्रविस्तारमुच्यते | तदर्धं नालविस्तारं तच्चतुर्थं घनं स्मृतम् || ५१-४ || प्. २१९) पार्श्वपत्रेद्वयोरग्रे चूतपत्राग्रवत् कृतम् | पत्रतारं त्रिभागेन पत्राणान्तु घनं स्मृतम् || ५१-५ || घनस्यार्द्धांशमेवोक्तं पत्राणान्तु घनं भवेत् | तदूर्ध्वन्तारद्विगुणं फलका चतुरश्रकम् || ५१-६ || तदष्टांशं घनं प्रोक्तं तस्याधः कुंभमिष्यते | फलकाकार नाहार्धं कुंभ तुङ्गन्तदर्धकम् || ५१-७ || कुंभाधश्चोर्ध्वतश्चापि कर्णनाहं नवांशकम् | कुंभनाहाष्टभागेन कर्णनाहमिति स्मृतम् || ५१-८ || कुंभार्धं तदधस्ताच्च तदर्धोदण्डपञ्जरम् | दारुजञ्चेत् तु कर्तव्यं लोहजञ्चेत् परं विना || ५१-९ || फलकातारपञ्चांशं त्रिभागं दण्डनाहकम् | मूलाधस्तासिकान्तं यत्तन्मानं पीठ तुङ्गकम् || ५१-१० || तदुत्सेधस्य पञ्चांशं त्रियंशंपीठविस्तरम् | अब्जाकारञ्चतुरश्रं पीठाकारं तथा स्मृतम् || ५१-११ || अष्टांशं वीभजी कृत्वा त्वैकांशेन तु कर्णिका | चतुरंशं दलोत्तुङ्गं दलाग्रञ्चैकभागतः || ५१-१२ || पञ्चभागञ्चतुरश्रं भागादिपाद्य तुङ्गता | पीठस्य घनमाख्यातं फलकायाघनार्धकम् || ५१-१३ || ततो दारुमयैर्दण्डैः पीठोर्ध्वे दण्डपञ्जरम् | दारुदण्डस्य मध्ये तु योगपट्टेन तां दृढम् || ५१-१४ || शूलाग्रमुखसंज्ञाथ मध्यपत्रेब्जमालिखेत् | एवं शूलास्त्रमापाद्य ततस्थापनमारभेत् || ५१-१५ || जलाधिवासनं स्नानं कृत्वा मण्डपसंस्कृतिम् | वस्त्रैराच्छाद्य शूलन्तु स्थण्डिले शयनो परि || ५१-१६ || न्यस्त्वा शूलाधिपां देवानर्चयित्वा यथाक्रमम् | कलशां विन्यसेत् तत्र शूलास्त्राधिपसंयुतान् || ५१-१७ || सकूर्चानस्त्रसंयुक्तान् तदा युधांश्च बैजिकान् | तत्तदग्नौ हुतं हुत्वा तत्तन्मन्त्रैस्तु बुद्धिमान् || ५१-१८ || प्. २२०) सुमुहूर्ते सुलग्ने तु तत्तन्मन्त्राणि संस्मरन् | मध्यपत्राधिपो रुद्रो दक्षिणे तु पितामहः || ५१-१९ || वामपत्रे तथा विष्णु स्त्रिपत्राणां तु देवताः | वामा ज्येष्ठा च रौद्री च शूलमूले तु देवताः || ५१-२० || फलका स्कन्ददैवत्यं कुंभे तु वरुण स्थिताः | तदर्धञ्चाग्नि दैवत्यं दण्डैश्चैव सरस्वती || ५१-२१ || पीठे चैवमुमादेवी भूमिभागे वसुन्धरा | स्थापयेत् क्रमशोविद्वान् गन्धपुष्पाक्षतान्वितम् || ५१-२२ || स्वनामाद्येन बीजेन कलशैरभिषेचयेत् | अभ्यर्च्य हृदये नैव हविष्यन्तु निवेदयेत् || ५१-२३ || शूलसंस्थापनं प्रोक्तमस्त्रराजविधिं शृणु | इति शूलस्थापनविधिपटल एकपञ्चाशत्तमः || ५१ || अथ अस्त्रराजविधिपटलः अथातः संप्रवक्ष्यामि अस्त्रराजस्य पूजनम् | चतुर्भुजं त्रिणेत्रञ्च शिखाकूटसमुज्वलम् || ५२-१ || वामसव्ये च शूलन्तु वरदाभयहस्तकम् | रौद्रपाशुपतं ह्येवं बलिबिंबन्तथोच्यते || ५२-२ || स्थानकञ्चासनं वापि प्रभावीं समन्वितम् | कृत्वैवं प्रतिमां तत्र पूर्वोक्तेन प्रमाणतः || ५२-३ || जलस्थापनवत् सर्वं रत्नादिस्थापनान्तकम् | तन्मन्त्रेणैव संस्थाप्य अन्यत् सर्वं समं भवेत् || ५२-४ || अस्त्रराजविधिः प्रोक्ता शास्त्रसंस्थापनं शृणु | इति अस्त्रराजविधिपटल द्विपञ्चाशत्तमः || ५२ || अथ शास्त्रस्थापनविधिपटलः अथातः संप्रवक्ष्यामि शास्त्रस्थापनमुत्तमम् | शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते || ५३-१ || तस्योक्तञ्च स्वरूपञ्च स्थापनञ्च शृणुष्व हि | समुद्रमथने काले परिग्रह्यामृतं तथा || ५३-२ || हरिर्बभूवस्त्रीरूपा मोहीनीनामनामतः | तन्मोहिनी महंदृष्ट्वा सङ्गतोस्मि कदाचन || ५३-३ || जातस्तदा महाशास्ता मेद्ध्याहाम्रवतीश्वराः | द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् || ५३-४ || श्यामवर्णयुतं तेषां शुक्लयज्ञोपवीतिनम् | श्वानकुक्कुटमेषाद्यैः क्रिडन्तं सर्वसिद्धिदम् || ५३-५ || मदनावर्णनी देवौ पीतौरससमन्वितौ | सर्वाभरणसंयुक्तौ पार्श्वयोर्विन्यसेत् ततः || ५३-६ || वामे दमनकं न्यस्त्वा ते द्वेषं विकृतं स्मृतम् | द्विभूजं दक्षिणेहस्ते चक्रदण्डमथेश्वरम् || ५३-७ || फलपल्लवहस्तञ्च कुञ्चितां घ्रिकरं द्वयम् | भूताकारं बृहत्कुक्षिं निलालकविभूषितम् || ५३-८ || शास्तुश्च लक्षणं प्रोक्तं स्थापनं शृणु तत्वतः | प्रासादे नै-ऋते भागे ग्रामादीनाञ्च नै-ऋते || ५३-९ || अष्टदिक्षु च पूर्वादि तत्ग्रामस्य पराङ्मुखम् | प्रासादं कारयेद्धिमान् गजपृष्ठं विशेषतः || ५३-१० || अथवामण्डलं वापि कर्तव्यं प्रतिमां ततः | भद्रासने त्वधासीनं तथा वीरासनं तु वा || ५३-११ || मृद्दारुशैललोहैश्च कारयेच्छास्त्रवित्तमः | शैलस्थापनवच्छेषं मन्त्रध्यानमथोक्तवत् || ५३-१२ || तस्मादाद्याक्षरेणैव मूलमन्त्रप्रयोगवत् | अग्निमध्ये तु तद्रूपं ध्यात्वा होमन्तु मन्त्रवित् || ५३-१३ || प्. २२२) तद्रूपभावनाविष्टा स्थापनादिसमाचरेत् | तद्रूपं कौतुकं स्थाप्यमूलबेरस्य चाग्रतः || ५३-१४ || लोहादीनि तथा कार्यं मृच्छिलादीनि कारयेत् | अर्चयित्वाथ विधिना हविष्यन्तु निवेदयेत् || ५३-१५ || शास्तुः संस्थापनं ह्येवं जीर्णोद्धारविधिं शृणु | इति शात्रस्थापनविधिपटलस्त्रिपञ्चाशत्तमः || ५३ || अथ जीर्णोद्धारविधिपटलः अथातः संप्रवक्ष्यामि जीर्णोद्धारविधिक्रमम् | जीर्णदेही यथा देहं त्यक्त्वान्यं प्रतिपद्यते || ५४-१ || तथा जीर्णञ्च चलितं बेरन्मुञ्चति देवता | एवमादीनि सर्वाणि राक्षसाद्याविशन्ति हि || ५४-२ || राक्षसाश्चासुराश्चापि पिशाचा ब्रह्मराक्षसाः | तस्मात् सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् || ५४-३ || प्रासादं प्रथमं लिङ्गं पीठं प्राकारमण्डपम् | गोपुरं परिवारञ्च जीर्णकाले ततोद्धरेत् || ५४-४ || स्थूपीनासि च शाला च कपोतं कूटपञ्जरम् | पादाधिष्ठानसंयुक्तं यद्धिनन्तद्विवर्जयेत् || ५४-५ || विमानं पूर्ववत् कृत्वा प्रोक्षणं विधिवत् कुरु | तेष्वैकाङ्गविहीनश्चेत् तत् कुर्यात् पूर्ववत् बुधः || ५४-६ || आलयानामिदं प्रोक्तं प्रतिमानां ततः शृणु | भ्रूरेखा च क्षुरेखा च नासिका चापिनाक्षयेत् || ५४-७ || ससूत्राणाञ्च लिङ्गे तु रेखाश्राणां तु पीठके | अन्याङ्गानां क्षयं दृष्ट्वा पीठे लिङ्गविशेषतः || ५४-८ || उत्तरे जीर्णलिङ्गन्तु तस्योद्धारक्रमं शृणु | मण्डलं वर्तयेद्धीमान् शिवलिङ्गस्य दक्षिणे || ५४-९ || प्. २२३) संकल्प्यासनमाराध्य बाह्यपूजां समारभेत् | मन्त्रपूतं हविर्दद्यात् तदग्रेऽग्न्यानने कृते || ५४-१० || दूर्वाभुक्ति घृतैर्वापि क्षीरेण तिलतण्डुलैः | दशात्मनाशिवाङ्गैश्च पञ्चब्रह्मषडङ्गकैः || ५४-११ || प्रत्येकं शतमर्द्धं वा होमयेत् पञ्चविंशतिः | लिङ्गस्या चलनार्थाय मूलेनैव शताहुतिः || ५४-१२ || दद्यात् पूर्णाहुतिं तत्र सहस्राक्षरमन्त्रतः | तद्वल्कलेन सम्मिश्रं गोवालकृतरज्जुना || ५४-१३ || कर्तुर्वर्णानुरूपञ्च वृषभं लक्षणान्वितम् | तरुणं बलवन्तञ्च भूषयेत् भूषणार्हकैः || ५४-१४ || रज्जुनाबध्यतल्लिङ्गं ककुदग्रे वृषस्य तु | तद्रज्जुनासुबध्वा तु बहुरूपमनुस्मरन् || ५४-१५ || तल्लिङ्गमुद्धरेन्मंत्री वृषभेण शिवेन च | देशिकं पूजयेत् तत्र वस्त्रैः सौवर्णभूषणैः || ५४-१६ || आरोप्यजीर्णलिङ्गन्तु शिबिकायां रथेपि वा | शङ्खकाहलवाद्यैश्च कुर्याच्छब्दं महारवैः || ५४-१७ || आवृतं शिवभक्तैस्तु स्तुतिस्तोत्रसमन्वितम् | समुन्द्र प्रक्षिपेल्लिङ्गं नमस्कारान्तमन्त्रकैः || ५४-१८ || तटाकादिष्वशोष्येषु खात्वोर्व्यां वाथनिक्षिपेत् | दारुजञ्चेदथाग्नौ तु जले लिङ्गं व्यपोह्य च || ५४-१९ || प्रतिलिङ्गञ्च पीठञ्च कृत्वा पूर्वोक्तलक्षणैः | स्थापयेद्विधिनाधीमां नृपराष्ट्रहिताय वै || ५४-२० || जीर्णोद्धारे कृतं सर्वं मण्डलस्थाय शंभवे | विज्ञापयेत् प्रणम्यादौ शिवमस्त्विति चोच्चरेत् || ५४-२१ || शिवं प्राग्वत् समभ्यर्च्य शिवास्त्रन्तु विसर्जयेत् | तस्याच्छिद्रापनोदार्त्थमघोरास्त्रेण मन्त्रवित् || ५४-२२ || आज्येनाष्टशतं हुत्वा व्याहृत्याहुतिमाचरेत् | अग्निस्थं शिवमुद्वास्य होमशेषं समापयेत् || ५४-२३ || प्. २२४) सकलानि च जीर्णानि उद्धरे देवमेव तु | वृषं विना चलानान्तु क्रमादेवं समुद्धरेत् || ५४-२४ || मृद्दारुरूपबिंबानि उद्धृत्याशुविनिक्षिपेत् | उद्धृते लोहबिंबे तु तद्रव्येण पुनर्नवम् || ५४-२५ || कुर्यात् सामान्यमेवन्तु विशेषमधुना शृणु | द्रव्योत् कृष्टेन कर्तव्यं तत्प्रमाणाधिकं तथा || ५४-२६ || इतरन्तु न कर्तव्यं कृतञ्चेत् कर्तृनाशनम् | प्राकारमण्डपादीनां यज्जीर्णन्तत्र तद्विना || ५४-२७ || कृत्वा तत् पूर्ववद् धीमान् सुदृढं हि मनोरमम् | अन्यथा यदि कुर्याच्चेत् दोषावहं नृणां भवेत् || ५४-२८ || सर्वनाशं भवेदत्र सर्वं निष्फलमेव हि | यदा मासा तदर्धेषु अशुभानिशुभानि च || ५४-२९ || अपरीक्ष्य तदा कुर्यादुद्धारं स्थापनं पुनः | जीर्णोद्धारमिदं प्रोक्तं प्रायश्चित्तमथ शृणु || ५४-३० || इति जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः || ५४ || अथ प्रायश्चित्तविधिपटलः अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् | प्राशब्दाख्यो विनाशस्तु प्रायश्चित्तमिति स्मृतम् || ५५-१ || अर्चनादिहुतान्तञ्च प्रायश्चित्तं वदाम्यहम् | अर्चनाकालहीने तु शिवमन्त्रञ्जपेच्छतम् || ५५-२ || अर्चनाकालहीने तु सन्ध्याया द्विगुणं तथा | एकाहेचाङ्गविच्छेदे हृन्मन्त्रेण शताहुतिः || ५५-३ || एकाहेचार्चहीनेन स्नपनं नवकुंभकैः | द्विदिनेत्रि दिने हीने पञ्चविंशतिकुंभकैः || ५५-४ || चतुर्त्था हेतु पञ्चाहे पूजाहीने तु संभवे | पञ्चादौ दशके हीने स्नपनं शतकुंभकैः || ५५-५ || प्. २२५) पूजाहीने तु मासान्तं त्रिशतैः कलशैः पुनः | त्रिमासमर्चनाहीने सहस्रकलशैः क्रमात् || ५५-६ || षाण्मासोर्ध्वेऽर्चनाहीने संप्रोक्षणमथाचरेत् | सन्ध्यायां बलिहीने तु रुद्रमन्त्रंशतं जपेत् || ५५-७ || द्विसन्ध्यं बलिहीने तु शताद्यर्धं जपेत् गुरुः | त्रिसन्ध्यं बलिहीने च स्नपनं कारयेत् ततः || ५५-८ || द्वियहादि च मासान्तं बलिविच्छेदकर्मणि | शिवाग्निं पूर्ववद् ध्यात्वा स्नपनन्तु शताष्टकम् || ५५-९ || बलिर्मासोर्ध्वहीने तु शिवागिं तत्र बुद्धिमान् | सहस्राज्याहुतिञ्चाङ्गैः शिवे नैव तु देशिकः || ५५-१० || अष्टोतरशतैः कुंभैः स्नपनं कारयेत् बुधः | नित्योत्सवं पुनः कुर्यात् पूर्ववच्च विशेषतः || ५५-११ || बलि भ्रमणकाले तु लिङ्गं पतितमेव वा | स्फटितञ्चलितं भग्नं च्छिन्नं भिन्नन्तु संभवेत् || ५५-१२ || तत्रैव कारयेद्धोममथवालय मध्यमे | पूर्ववत् बलिलिङ्गस्य कृत्वा तत्र प्रदक्षिणम् || ५५-१३ || अथवा पूर्ववत् कृत्वा भ्रमणान्ते हुतं क्रमात् | मूलमन्त्रं जपेत् तत्र शतमष्टाक्षरं बुधः || ५५-१४ || अगम्यमितिगम्यं वा मूलमन्त्रंशतञ्जपेत् | तत्काले दीपहीने तु स्थित्वा तत्र बलिं ततः || ५५-१५ || पुनर्दीपं समावाह्य कृत्वा शेषं प्रदक्षिणम् | नैवेद्ये च वीहीने तु द्विगुणन्तु निवेदयेत् || ५५-१६ || हविर्द्रव्यविहीने तु द्विगुणेन तु बुद्धिमान् | नित्यं द्रव्यविहीने तु तदान्ये द्विगुणञ्चरेत् || ५५-१७ || नित्याग्निकार्ये हीने तु हृन्मन्त्रेणशता हुतिः | उत्सवे तु विशेषेण प्रायश्चित्तं ततः शृणु || ५५-१८ || ध्वजस्य ध्वजदण्डस्य घण्डायास्तु विशेषतः | छिन्ने भिन्ने च पतिते चोरग्रस्तादि संभवे || ५५-१९ || कृत्वा तत् पूर्ववत् सर्वं पुनरुत्थापनं कुरु | हृदयेनशतं हुत्वा स्नापयेत् पञ्चगव्यकैः || ५५-२० || प्. २२६) यागकाले विहीने तु मूलमन्त्रेण होमयेत् | होमद्रव्यविहीने तु हृदयेन शताहुतिः || ५५-२१ || बलिप्रदानवेलायां शुनानीतेति रिक्तके | हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्तकः || ५५-२२ || शूलास्त्रं पतितं वापि आयुधञ्चाष्टमङ्गलम् | शूलस्य स्नपनं तत्र अन्येषाञ्च शताहुतिः || ५५-२३ || प्रतिमां प्रतिमां वापि स्पृष्टां वै चान्त्यपायिभिः | कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते || ५५-२४ || प्रमादात् भिन्नच्छिन्नादि संभवे पूर्ववत् कुरु | सर्वेष्वङ्गेषु हीनञ्चेत् पुनरङ्गं नियोजयेत् || ५५-२५ || कण्ठोर्ध्व हीनं बिंबन्तु जीर्णोद्धारन्तु कारयेत् | तिथिवारमुहूर्तानि निरपेक्षेण बुद्धिमान् || ५५-२६ || अधिवासनादिकार्याणि सद्य एव समाचरेत् | प्रतिष्ठाप्य विशेषेण प्रायश्चित्तं शृणुष्वहि || ५५-२७ || स्नपने कालहीने तु शिरसा तु शताहुतिः | स्नपन द्रव्यहीने तु शिखया तु तदर्धतः || ५५-२८ || सुषिरं पतितं भिन्नं भेदनञ्छेदनं हि वा | व्यपोह्यकलशन्तत्तु पूर्ववत् कल्पयेत् बुधः || ५५-२९ || अस्पृश्य स्पर्शने वापि श्वानकाकादि स्पर्शिते | अन्यं कलशमादाय मन्त्रतो येन पूरयेत् || ५५-३० || हृदयेन शतंहुत्वा स्नपनं तत्र पूर्ववत् | करुणालय हीनश्चेत् कृत्वा तत्पूर्ववत् बुधः || ५५-३१ || तरुणं लिङ्गपीठे वा च्छिन्नभिन्नादि संश्रिते | तल्लिङ्गन्तु जले त्यक्त्वा लिङ्गं संस्थाप्य पूर्ववत् || ५५-३२ || पतितञ्चलितं लिङ्गं पूर्ववत् स्थापयेत् क्रमात् | मूललिङ्गे च विघ्नेश वक्ष्येहमधुना शृणु || ५५-३३ || लिङ्गन्तु स्फटितं भिन्नं जीर्णञ्छेद्यन्तथैव च | ईदृग्लिङ्गन्ततस्त्यक्त्वा स्थापयेत् तु न वीकृतम् || ५५-३४ || चलितं पतितं वापि नदिस्रोतेन पातितम् | गजेनोत्थापितं वापि चोरैरुन्मत्तकैरपि || ५५-३५ || प्. २२७) तल्लिङ्गं तत्र संस्थाप्य पूर्ववच्छेषमाचरेत् | गंभीरे च महालिङ्गे स्रोतसा चलिते सत् || ५५-३६ || अन्यस्यां प्रतिमायां वा शतदण्डात् तु योजयेत् | मूललिङ्गमदृश्यञ्चेन् नवलिङ्गन्तु पूर्ववत् || ५५-३७ || एवं वै पिण्डिकायास्तु तथान्यप्रतिमासु च | प्रतिष्ठालयहीने तु मूले नैवशताहुतिः || ५५-३८ || क्रियाहीने यथा शास्त्रं मूले नैव समाचरेत् | क्रियायां मन्त्रहीने तु शिखया तु शताहुतिः || ५५-३९ || द्रव्यहीने तु विघ्नेश सहस्राहुति वर्मणा | क्रियातिरिक्ते सर्वत्र न्यूनेमूलं शतञ्जपेत् || ५५-४० || काकश्वानखरोष्ट्रैश्च मत्तोन्मत्तैश्च दूषयेत् | स्पर्शाहुतिञ्च कुर्वीत पुण्याहन्तु विशेषतः || ५५-४१ || हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं हि वा | चण्डालाद्यैस्तु परितः संस्पृष्टं वा समीपगम् || ५५-४२ || संप्रोक्षणं प्रतिष्ठाञ्च कुर्वीत स्नपनं पुनः | प्रासादे पतिते भिन्नेच्छिन्नेनष्टे तथैव च || ५५-४३ || बालालये शिवं नित्वा विमाने पूर्ववत् कृते | विधिवत् प्रोक्षणं कृत्वा पश्चादुत्सवमारभेत् || ५५-४४ || गर्भगेहे स्थलेनिम्ने कलकाद्यैर्द्रवं पुनः | तदन्ते वास्तुहोमञ्च पुण्याहं तत्र वाचयेत् || ५५-४५ || बलिपीठविनाशे तु स्थापयेत् बलिपीठकम् | परिवारालये हीने पूर्ववत् परिकल्पयेत् || ५५-४६ || तत्बिंबे पतिते भिन्नेच्छिन्ने भेदे तु वर्जयेत् | हुत्वा तु शिवमन्त्रेण कुर्यात् बिंबानि पूर्ववत् || ५५-४७ || प्रतिष्ठां कारयेत् प्राग्वत् स्वकीयेन विधानतः | अथाद्भुतानां शान्तिन्तु वक्ष्ये दोषविनाशनम् || ५५-४८ || सर्वं विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च | ज्वरमारिसमुत्पन्ने रोगस्फोटादि संभवे || ५५-४९ || नवप्रासादपतने चैत्य वृक्षस्य पातने | एवमादिसमुत्पन्ने ग्रामादीनाञ्च दोषकम् || ५५-५० || प्. २२८) तद्दोषशमनार्थन्तु त्रिसप्ताहन्तु शान्तिकम् | भूमिकंपेदिशान्दाहे प्रतिसूर्य प्रदर्शने || ५५-५१ || दिवानक्षत्रमुत्पन्ने रात्राविन्द्रधनु स्थिते | दुर्भिक्षं शत्रुवर्धन्यां राजराष्ट्रभयंकरः || ५५-५२ || मासपूर्णं तथा शान्तिं कुर्याद्दोषनिवृत्तये | प्रासादमण्डपाद्येषु वल्मीकं यत्र दृश्यते || ५५-५३ || रत्नकन्यासमुत्पन्ने प्रासादे मधुसंश्रिते | प्रविष्टेपिपीलिकालूकौ प्रासादाभ्यन्तरे तथा || ५५-५४ || तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धपांसुभिः | पञ्चगव्येन संप्रोक्ष्य पुनःशान्तिन्तु कारयेत् || ५५-५५ || शान्तिं संक्षेपतो वक्ष्ये शृणु तत्वं गजानन | हविषं द्विगुणं कृत्वा दीपैः पूष्पैर्विशेषतः || ५५-५६ || शीतकुंभन्तु विधिना शिवस्योर्ध्वन्निदापयेत् | दिशाहोमन्ततः कृत्वा मूर्तिहोमं विशेषतः || ५५-५७ || चतुर्दिक्षु चतुर्वेदैः पूर्वमध्यापनं तथा | यथावत् स्नपनन्नित्यं तथा वित्तानुसारतः || ५५-५८ || गृतं क्षीरं यथा शक्ति अभिषेकन्तु नित्यशः | नालिकेरस्य सलिलैरभिषेकं समाचरेत् || ५५-५९ || तदन्ते रात्रिचूर्णन्तु लिङ्गमुद्वर्त्यशोधयेत् | प्रभूतहविषं नित्यं तदन्ते द्विगुणं स्मृतम् || ५५-६० || एवं शान्तिस्तु तत्प्रोक्तं सर्वारिष्टविनाशनम् | शान्तिरेवं कृतं यत्र धनधान्याभिवर्धनम् || ५५-६१ || अनुक्तानां तु सर्वेषां विदित्वा गुरुलाघवम् | उक्तैरेवं प्रकारैस्तु प्रायश्चित्तानि कारयेत् || ५५-६२ || शान्तिहोमङ्गुरुः कुर्यात् शेषाणान्तु यथोक्ततः | प्रायश्चित्तमिदं प्रोक्तं तत्राणां संकरं शृणु || ५५-६३ || इति प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः || ५५ || प्. २२९) अथ तन्त्रसंकरविधिपटलः अथातः संप्रवक्ष्यामि तन्त्राणां संकरं परम् | शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् || ५६-१ || तेषां भेदोपभेदैश्च तत्तच्छास्त्रे समाचरेत् | चतुर्विधेषु तन्त्रेषु यथेष्टं तेन बुद्धिमान् || ५६-२ || कर्षणादि प्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः | कर्षणादि प्रतिष्ठान्तमेक तन्त्रेण कारयेत् || ५६-३ || भुक्तिमुक्तिप्रदं मुख्यं सर्वसिद्धिमवाप्नुयात् | पूर्वमेकेन कृत्वा तत् पश्चादन्येन वै कृतम् || ५६-४ || एतत् तु संकरं तेन राज्ञोराष्ट्रस्य दोषकृत् | आचार्यश्चैव कर्ता च नाशनन्त्वखिलं तथा || ५६-५ || यच्छास्त्रेण यदा रब्धं तच्छास्त्रेणैव तत् कुरु | कृतञ्चेदन्यशास्त्रेण तन्त्रदोषाय कल्पयेत् || ५६-६ || सौम्यं रौद्रं द्विधावत्स शैवं सौम्यमिति स्मृतम् | तदन्यं त्रिविधं तत्र रौद्रमेवेति कीर्तितम् || ५६-७ || रौद्रेण पूजितश्चाहं तथा रौद्रफलप्रदम् | सौम्येन पूजितश्चाहं वत्ससौम्यफलप्रदम् || ५६-८ || रौद्रं सौम्येन यष्टव्यं सौम्यं रौद्रेण नार्चितम् | वैदिकाचार संबन्धात् सौम्यं श्रेष्ठमिति स्मृतम् || ५६-९ || श्रुत्युक्ताचारबाह्यत्वादपरं रौद्रमुच्यते | सौम्येन स्थापयेत् ग्रामे रौद्रेण तु न कारयेत् || ५६-१० || रौद्रेण स्थापितं मोहात् ग्रामनाशं भवेद्धृवम् | सौम्यरौद्रमयं सर्वं जगत्येवं चराचरम् || ५६-११ || तस्मात् सर्वप्रयत्नेन रौद्रं सौम्येन पूजयेत् | सर्वसिद्धिकरञ्चैतत् एतदुक्तं शिवात्मना || ५६-१२ || पूर्वं सौम्येन संस्थाप्य पश्चाद्रौद्रेण पूजयेत् | मोहेन चेत् कृतं तेन राजराष्ट्रं विनश्यति || ५६-१३ || प्. २३०) किमत्र बहुनोक्तेन सौम्ये नैव तु पूजयेत् | कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् || ५६-१४ || तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु | तदन्यं रौद्रमाख्यातं तत्रं पाशुपतादिकम् || ५६-१५ || शैवसिद्धान्त तन्त्रेषु तन्त्रैकेन तु कारयेत् | अनुक्तेऽस्मिन् तथान्येन संकरन्तु न दोषषभाक् || ५६-१६ || तथा वै चान्य तन्त्राणां तेषु तेषु न दोषकः | तन्त्राणां संकरञ्चैव समासात् परिकीर्तितम् || ५६-१७ || षष्ठपञ्चाशत् पटलैः क्रियापादं सुकीर्तितम् | क्रियापादमिदं वत्स चर्यापादमथ शृणु || ५६-१८ || तन्त्राणामवतारणादि सकलं संक्षेपतो भाषिते तेषां संकरमन्त्यमेव तु मया शैवेषु सिद्धान्तकम् | पञ्चाशत् पटलश्चषष्ठमधिकं तत्संख्यया विद्यते तत्पादन्त्वखिलादि शैव सहितन्नोपूजितं दुर्जनैः || इति तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः || ५६ || इति सुप्रभेदे क्रियापादः समाप्तः ओं शिवमयम् सुप्रभेदम् अथ चर्यापादे-शैवोत्पत्तिविधिपटलः प्. २३१) अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् | तस्य पादस्य पूर्वे तु शैवानामुद्भवं शृणु || १-१ || शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् | एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् || १-२ || चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् | त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि || १-३ || चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् | शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः || १-४ || पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः | त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः || १-५ || इदानीं शैवभेदानि वक्ष्यंते तु समासतः | शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् || १-६ || सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् | वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् || १-७ || वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः | वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् || १-८ || मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् | सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा || १-९ || सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् | वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि || १-१० || शैवबाह्याः समाख्याता ते तु शैवेऽप्यपूजिताः | कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता || १-११ || प्. २३२) शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः | सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् || १-१२ || वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च | द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः || १-१३ || सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं शृणु | आचार्यः साधकश्चैव समयि पुत्रकस्तथा || १-१४ || चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः | शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् || १-१५ || साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः | मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् || १-१६ || स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् | तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः || १-१७ || शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः | उक्तः पारशिवञ्चैव चित्रकेटकनामतः || १-१८ || समासमिश्रशैवानां यथा तथ्यं शृणूद्भवम् | अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् || १-१९ || आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः | पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः || १-२० || शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् | सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः || १-२१ || अनादिशैवा इमे प्रोक्ता महाशैवास्ततः शृणु | अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः || १-२२ || मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः | अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा || १-२३ || ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैः सह | महाशैवास्तु विख्याता आदिशैवान् शृणुष्व हि || १-२४ || अनुशैवा स्मृता ह्येते यक्षरक्षोरगैः सह | ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः || १-२५ || प्. २३३) परमेश्वरप्रसादेन अधिकारे नियोजिताः | शिवधर्मप्रकाशाय सर्वेषां बोधनाय च || १-२६ || स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् | ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना || १-२७ || अनुग्रहीताश्च ये सर्वे शैवास्त्वे वान्तर स्मृताः | शिवज्ञानयुताः सर्वे शिवधर्मपरायणाः || १-२८ || आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि | शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः || १-२९ || गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् | गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् || १-३० || सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् | शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः || १-३१ || एतानि पञ्चनामानि शैवानां शिवशासने | गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् || १-३२ || काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः | आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह || १-३३ || काश्यपादिमुनीनान्तु शिवगोचरमुच्यते | काश्यपोनमुचिश्चैव मनुजोमनुभः सह || १-३४ || विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः | सनत्कुमारो मेधावी सवक्क्रश्च पराशरः || १-३५ || सनंदनः सदीर्घश्च सनकश्च सनातनः | एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः || १-३६ || कौशिकादिमुनिनान्तु शिखागोचरमुच्यते | कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः || १-३७ || शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः | शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च || १-३८ || शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः | सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते || १-३९ || मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते | भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः || १-४० || २३४, २३५ मिस्सिन्ग पगे प्. २३६) स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् | ये शिवं निर्मितायेन शिवेन परमात्मना || १-४१ || सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् | काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः || १-४२ || आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः | शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः || १-४३ || सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः | द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः || १-४४ || एषां पर्यायनामानि संक्षेपात् कथितं तव | क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः || १-४५ || पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा | द्विजातिष्वधिका विप्रा विप्रेषुक्र तु बुद्धयः || १-४६ || क्रतु बुद्धेषु कर्तव्यास्तेभ्यः सन्यासयोधिकाः | सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः || १-४७ || इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः || १ || अथ जातिभेदविधिपटलः अथातः संप्रवक्ष्यामि जातिभेदविधिं क्रमात् | शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते || २-१ || गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः | मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा || २-२ || वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः | चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः || २-३ || तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः | ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत् भवं शृणु || २-४ || प्. २३७) वर्णेवर्णे यथा मातःशक्तिशंभुमयात्मकाः | शक्तिस्त्रीरूपमित्युक्तं पुरुषः शंभुरुच्यते || २-५ || शक्तिशंभुमयं प्राहुर्जगदेतच्चराचरम् | ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः || २-६ || तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् | शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् || २-७ || चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् | लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु || २-८ || अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा | दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते || २-९ || जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते | नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः || २-१० || षडेते निजनामानि तेषां पर्यायवाचकाः | जगतः पालनन्तेषां स्वधर्मपरिपालनम् || २-११ || ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते | पीतायां न्यास्तु वणिजः कामदाः सर्वलौकिकाः || २-१२ || पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः | गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः || २-१३ || पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् | शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते || २-१४ || कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः | एतानि पञ्चनामानि शूद्रपर्यायवाचकाः || २-१५ || अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् | अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः || २-१६ || तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा | ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः || २-१७ || चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे शृणु | स्वर्णं प्रथमं विद्यादंबष्ठश्च द्वितीयकम् || २-१८ || पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः | मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु || २-१९ || प्. २३८) वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु | संप्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् || २-२० || तत्र जातः सवर्णस्तु जानुलोमेषु पूजितम् | तत्ब्राह्मणस्तु संज्ञो वै कर्माधर्मण विस्मृतः || २-२१ || हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया | सेनापत्यञ्च मूनां वा कुर्यादा जीवसंयुतः || २-२२ || पीतस्त्री विप्रसंयोगा दंबष्ठोनामजायते | तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् || २-२३ || शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः | शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् || २-२४ || नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका | रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः || २-२५ || महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् | इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् || २-२६ || कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः | दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् || २-२७ || कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा | काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः || २-२८ || क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका | अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः शृणु || २-२९ || वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च | आयोगोमागधश्चैव जायन्ते कामतश्चतु || २-३० || सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः | वैश्यायां कृष्णसंयोगाज्जातो वै देहकः स्मृतः || २-३१ || गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् | पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् || २-३२ || रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते | सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् || २-३३ || २३९) श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते | कर्णे संधाययगोचर्म आयसाभरणं तथा || २-३४ || झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च | पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् || २-३५ || रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः | वस्त्रतन्त्रोप जीवी च तन्तु वाया भवेत् खलु || २-३६ || विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते | सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः || २-३७ || अधसं स्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते | सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका || २-३८ || विप्रायान्तु नृपस्यैव विधिनायदि जायते | पूजितः प्रतिलोमेषु ससूतो नामनामतः || २-३९ || श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते | तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् || २-४० || प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः शृणु | ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः || २-४१ || सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः | नृपायां ब्राह्मणस्यैव चोररूपेणजायते || २-४२ || ज्योतिषंगणितञ्चैव भूततन्त्रार्थ निश्चितम् | आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु || २-४३ || वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः | कुलाल वृत्याजीवी च ना पिताश्च तदेव तु || २-४४ || सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् | शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः || २-४५ || अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः | श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः || २-४६ || आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः | वाहनानि तु संप्रेष्य तेषां तु परिचारकम् || २-४७ || प्. २४०) रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः | अभिषेकं विना तस्य शासनी पट्टबन्धनम् || २-४८ || आचारं रक्तवन्नित्यं भोज इत्यभिधीयते | पुनर्भूकरणे जातो रक्तायां रक्तनामतः || २-४९ || भोजैः समन्तं विद्यात नृपंकानिनमेव च | वैश्यायां रक्तसंञ्चोरा दश्वव्यापारमुच्यते || २-५० || वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते | रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः || २-५१ || ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः | वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु || २-५२ || रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः | पीतायां पीतसञ्चोरामणिकारक उच्यते || २-५३ || मणीनां विक्रयं कृत्वा शंबायां वलय क्रिया | वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते || २-५४ || श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते | रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते || २-५५ || अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् | पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः || २-५६ || स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः | कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते || २-५७ || तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् | अन्तराल इमे प्रोक्ता वृत्याश्चैव तत शृणु || २-५८ || अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् | तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै || २-५९ || अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः | रक्तायां पीतवद्योगा दधोनापित उच्यते || २-६० || रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः | विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः || २-६१ || रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः | पीतायामपिजातोसौ सामुद्रः पश्यजीवकः || २-६२ || प्. २४१) मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते | रक्तायामेव सञ्जातः कर्मकार इति स्मृतः || २-६३ || अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते | चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते || २-६४ || श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् | एवमादीनि भेदानि युक्तियुक्तानि योजयेत् || २-६५ || इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि | समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् शृणु ( च्शृणु) || २-६६ || ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः | एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् || २-६७ || सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः | अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः || २-६८ || सूतश्च मागधश्चैव आयोगावसृतीयकः | अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः || २-६९ || व्रात्यः सर्वे तु संयोज्याः सर्वकर्मबहिष्कृताः | जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः शृणु || २-७० || इति जातिभेदविधिपटलो द्वितीयः || २ || अथ मण्डलविधिपटलः अथातः संप्रवक्ष्यामि मण्डलं सार्वकामिकम् | मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः || ३-१ || मण्डलन्तेन विख्यातं शिवेन परमात्मना | सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् || ३-२ || दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः | यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् || ३-३ || प्. २४२) महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके | गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा || ३-४ || पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके | शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा || ३-५ || प्रागुदक् प्लवणेदेशे मण्डलंत्वा लिखेत्बुधः | सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा || ३-६ || त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते | नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे || ३-७ || गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् | शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् || ३-८ || गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् | अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु || ३-९ || प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् | तृतीयमभिषेकन्तु क्रमेणैव विधीयते || ३-१० || अधुना मण्डलं यत्तत् समासात् च्छृणुसुव्रत | हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् || ३-११ || तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता | न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् || ३-१२ || उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् | वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे || ३-१३ || चतुरश्रं समंकृत्वा संप्रोक्ष्यपञ्चगव्यकैः | मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् || ३-१४ || विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा | दिक् रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् || ३-१५ || चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् | तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः || ३-१६ || शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा | वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् || ३-१७ || स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् | वर्द्धनीं वामपार्श्वे तु हेमरत्नांबुसंयुतम् || ३-१८ || प्. २४३) वस्त्रयुग्मसमायुक्तौ सकूर्चौ सा पिधानकौ | शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः || ३-१९ || संपूज्यैवं विधानेन तत् कुंभाभ्याञ्जलैः शुभैः | भूमिं द्रव्याणि शिष्यांस्तु संप्रोक्ष्यास्त्रोदकेन तु || ३-२० || ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः | अधिवास्य ततः पश्चाच्छिवमन्त्रगणैः सह || ३-२१ || शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् | योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् || ३-२२ || शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा | शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा || ३-२३ || संपूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् | विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् || ३-२४ || चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा | चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् || ३-२५ || आनयित्वा ततस्थालीं क्षालयित्वा शिवांभसा | गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् || ३-२६ || पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् | कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् || ३-२७ || न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् | यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् || ३-२८ || गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च | संपाद्य विधिनाहुत्वा मन्त्रैः सर्वैः सकृत् सकृत् || ३-२९ || सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे | निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् || ३-३० || उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् | दन्तैर स्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् || ३-३१ || भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः | दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् || ३-३२ || प्. २४४) दशाक्षरञ्जपित्वा तु विद्यांगैर्ब्रह्मभिर्युतम् | बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः || ३-३३ || ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् | गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि || ३-३४ || भस्मशयया समारूढः शिवद्ध्यानपरायणः | ओं शंभवे त्रिणेत्राय पिङ्गलाय महात्मने || ३-३५ || वामाय विश्वरूपाय स्वप्नाधिपतये नमः | इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा || ३-३६ || यागस्थाने वसेन्मंत्री शिष्यैः सार्धं शिवाग्रतः | ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा || ३-३७ || स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा | शुभेसु खमवाप्नोति शिष्याणान्त्वैहिकं फलम् || ३-३८ || अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् | शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् || ३-३९ || त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः | रात्रा वै वं कृते पश्चात् प्रभाते मण्डलं लिखेत् || ३-४० || तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् | एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् || ३-४१ || द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् | सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् || ३-४२ || वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् | पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः || ३-४३ || तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् | तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते || ३-४४ || पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् | आग्नेययां प्रभवं सूत्रं वायव्यान्तु विसार्य च || ३-४५ || ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् | चतुरश्रं समंकृत्वा नवभागं विभज्यताम् || ३-४६ || मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् | चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् || ३-४७ || प्. २४५) प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै | तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् || ३-४८ || प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् | पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च || ३-४९ || स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् | वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः || ३-५० || वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता | तत्समानकपोले तु शोभान्तुल्यापशोभका || ३-५१ || पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः | द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् || ३-५२ || निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् | देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् || ३-५३ || स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् | हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् || ३-५४ || कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके | सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने || ३-५५ || तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् | शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् || ३-५६ || वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता | मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् || ३-५७ || तद्राग जननार्थाय रक्तवर्णस्य पातनम् | तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् || ३-५८ || तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् | आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः || ३-५९ || सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् | असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु || ३-६० || सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् | मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः || ३-६१ || प्. २४६) पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते | इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् || ३-६२ || चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् | अलाभे संखचूर्णैश्च जातिलिङ्गस्य चूर्णकैः || ३-६३ || कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः | तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः || ३-६४ || पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः | ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै || ३-६५ || कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः | यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् || ३-६६ || केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः | पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै || ३-६७ || रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् | रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा || ३-६८ || द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः | शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् || ३-६९ || एवं समाप्तेन लिने शिवमावाहयेत् बुधः | मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् || ३-७० || गर्भावरणसंपूज्य विद्येशावरणं ततः | गणेशावरणं पश्चाल्लोकेशावरणं ततः || ३-७१ || अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि | ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके || ३-७२ || मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः शृणु | इति मण्डलविधिपटस्तृतीयः || ३ || प्. २४७) अथ दीक्षाविधिपटलः अत ऊर्ध्वं प्रवक्ष्यामि दीक्षामार्गं विशेषतः | दीयते तच्छिवत्वं हि क्षीयते पापपञ्जरः || ४-१ || क्षयदानविशेषत्वात् दीक्षा चेत्यभिधीयते | मण्डलं पूजयित्वा तु तदग्रे चाग्निपूजनम् || ४-२ || शिवाग्निं विधिवद्धुत्वा प्रागुक्तविधिना हुतः | ततस्तु दीक्षयेच्छिष्यान् ब्राह्मणादि क्रमेण तु || ४-३ || आचार्यलक्षणोपेतः शैवसिद्धान्तवित्सुधीः | नैष्ठिकः शिवयोगज्ञः सर्वेषां तु गुरूत्तमः || ४-४ || सुस्नात्वा शैवमन्त्रज्ञः सकलीकृतविग्रहः | प्रोक्षणं प्रथमं कृत्वा दीक्षांकुर्याद्दिनान्तरे || ४-५ || संपूज्य विधिवच्छिष्यां दीक्षांकुर्यात् द्वितीयकम् | विप्रादीञ्च ततः शिष्यान् शुचिस्नात्वा जितेन्द्रियान् || ४-६ || उत्तराभिमुखान् पुष्पैः कुशैरास्तीर्यमण्डले | शिवांभसा तु संप्रोक्ष्य चाङ्गुल्यास्त्रेण भस्मना || ४-७ || दहेत् कालाग्निना (कालाग्गिना) सर्वं शरीरं शुष्ककाष्ठवत् | ततो स्यालभतं कार्यं शिववीजेनमुद्रया || ४-८ || हृदा हृदयमालभ्य शिरसा तु शिरस्तथा | शिखया तु शिखां स्पृष्ट्वा कवचेनस्तनान्तरम् || ४-९ || नेत्रेणनेत्रं स्पृष्ट्वा तु सर्वेष्वंगेषु चा स्मृतः | शिवहस्तन्तु दातव्यमीशानोद्याभिमंत्रितम् || ४-१० || तेषां मूर्धसुतद्धस्तं त्रिधा संस्वापयेत् बुधः | गन्धाद्यैस्तु समभ्यर्च्य प्रोक्षणञ्चैवमुच्यते || ४-११ || तस्याग्रे मण्डलं कृत्वा चतुरश्रसमन्वितम् | पिष्टचूर्णैरलङ्कृत्य दर्भैरास्तीर्य पुष्पकैः || ४-१२ || ईशानं मध्यमे स्थाने वक्त्रमैन्द्र तु बुद्धिमान् | अघोरं दक्षिणे न्यस्त्वा पश्चिमे सद्य एव तु || ४-१३ || प्. २४८) उत्तरे वामदेवन्तु आग्नेययां हृदयं ततः | ब्राह्मशिरस्तु नै-ऋत्यां शिखां वै वायुदेशके || ४-१४ || कवचं त्वीशदिक्भागे तत्तन्नाम्ना समाचरेत् | देवस्याभिमुखाञ्चिष्यान् भस्मोद्धूल न विग्रहान् || ४-१५ || नेत्रे च नेत्रमन्त्रेण संवेष्ट्य नववस्त्रकैः | विप्रादीनान्तु शिष्याणां तद्वर्णं समपुष्पकम् || ४-१६ || निक्षिप्यमण्डले मध्ये शिवमन्त्रं समुच्चरन् | यस्मिन् च नृपतेः पुष्पं नामगोत्रन्तदात्मकम् || ४-१७ || ईशानवक्त्र विद्येशान घोरब्रह्मसद्यकम् | रुद्रो वामश्च हुंकारो नवधानाम उच्यते || ४-१८ || ब्राह्मणादि चतुर्णान्तु गणान्तान्तं शिवादिकम् | स्त्रीणान्तु शक्तिनामान्तं दीक्षनामविधीयते || ४-१९ || नैष्ठिकानां विशेषोस्ति गोचरं गोत्रसन्ततिः | शिवः शिखा तथा ज्योतिः सावित्री चेति गोचराः || ४-२० || दूर्वासादिचतुर्णान्तु तद्वर्णं गोत्रमुच्यते | चर्यापादे तु यत् प्रोक्तं तत्सूत्रं शिवभाषितम् || ४-२१ || आचार्यं गोचरं गोत्रं सूत्रं तस्य विधीयते | प्रागुक्तवत् समयिनां तेषामभिमुखङ्गुरुः || ४-२२ || करन्यासं पुराकृत्वा दहनप्लावनञ्चरेत् | अष्टत्रिंशत् कलान्यासं कृत्वा तास्तु पुरोक्तवत् || ४-२३ || हृदयानि षडंगानि पञ्चब्रह्माणि विन्यसेत् | रुद्रमन्त्रदशात्मानं प्रासादं विन्यसेत् ततः || ४-२४ || षडध्वानां तु संकल्प्य शिवास्यं न कथं यथा | करादिपां नदान्तस्य स्वमूर्ध्नादि यथा क्रमम् || ४-२५ || तच्छिष्यानान्तु देहेषु एकैकं विन्यसेत् ततः | षडध्वशोधनं ह्येनन्ततो होमं समाचरेत् || ४-२६ || तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकम् | मन्त्राध्वा च कलाध्वा च एकैकं होमयेच्छतम् || ४-२७ || प्. २४९) विद्येशानां स्वमन्त्रैश्च गणेशानां स्वमन्त्रकैः | लोकेशानां स्वमन्त्रैश्च दशास्त्राणां समन्त्रकैः || ४-२८ || घृतेन होमयेद् विद्वान् प्रत्येकन्तु शताहुतिः | एवं कर्तुमशकश्चेत् तत्व दीक्षां समाचरेत् || ४-२९ || संश्राव्य समया पश्चात् देवदेवस्य चाग्रतः | शिवशास्त्रमनिन्द्यं हि प्रविशेद्दीक्षितान् सदा || ४-३० || आचार्यस्य तु ज्येष्ठानां लिङ्गश्ता?यां न लंघयेत् | अदीक्षिता च या नारी सङ्गमं वर्जयेत् तदा || ४-३१ || निर्माल्यन्तु न भुञ्जीत भस्मयुक्तां न निन्दयेत् | इत्यष्टौ समयास्त्वेते दीक्षितानां प्रकीर्तिताः || ४-३२ || पालनीयास्तथा ह्येते दीक्षितानां वचः शृणु | सुशीलः सुवृतश्चैव शिवभक्ति गुरुस्तथा || ४-३३ || शिवशास्त्रे रतिश्चैव यदा क्षान्ति जितेन्द्रियः | इत्यष्टा वस्तिचेत् पुंछः? सयांतिपरमाङ्गतिम् || ४-३४ || न पालयन्ति ये मोहात्तेयान्ति नरके भृशम् | कृत्वा तु दिक्बलिन्तत्र गन्धपुष्पादिभिर्युतम् || ४-३५ || सपत्नीकाश्च शिष्याश्च ततः स्वश्रमसंयुता | इत्येवं विधिवत् कृत्वा पश्चाद्धोमं प्रकीर्तितम् || ४-३६ || शिवाग्निं पूर्ववत् कृत्वा शिष्यानाहूयमन्त्रवित् | अभिमुखे तथा सीनाश्चार्घ्य पाद्यादिनार्चयेत् || ४-३७ || वक्ष्येहं तद्यथा युक्तं पञ्चधा शृणु सांप्रतम् | उक्तासुतासु सर्वा तु श्रेष्ठा चेत्यभिधीयते || ४-३८ || पृथिव्यापसथा तेजोवायुराकाशमुच्यते | काला न याच्छिवं यावत् पञ्चतत्वैर्व्यवस्थितम् || ४-३९ || पार्त्थीवन्तु निवृत्यां वै शतरुद्रमवस्थितम् | आपत् प्रतिष्ठाया विद्या यावच्च प्रकृतिन्नरम् || ४-४० || तेजो वै विद्यया ज्ञेया यावद् विद्येश्वरान्तकम् | वायुः शास्त्या तु विज्ञेयास्ततः सदाशिवान्तकम् || ४-४१ || प्. २५०) शक्त्यन्तं नाभिरित्युक्ताः शान्त्याती तेन बुद्धिमान् | निवृत्तिर्जानुपर्यन्तं प्रतिष्ठानाभि सीमकान् || ४-४२ || विद्या कर्णान्तमेवं हि मुखान्तं शान्तिरेव तु | शान्त्यातीतं तदूर्ध्वे तु परापर शिवान्तकम् || ४-४३ || निवृत्तिं सद्यमन्त्रेण प्रतिष्ठां वाममन्त्रतः | विद्याघोरेण होतव्यं शान्तिस्तत्पुरुषेण तु || ४-४४ || शान्त्यातीतमथैशान मन्त्रेण जुहुयात्बुधः | एकैकस्य शतं हुत्वा तदर्धं वार्धमेव वा || ४-४५ || एवमेव हुतं हुत्वा बुधस्तत्वैस्तु पञ्चभिः | अन्यजन्मविनाशाय हृदयेन शतं हुनेत् || ४-४६ || पशुत्वं नाशनं तस्माच्छिवत्वं हि निवर्तते | ततः पूर्णाहुतिं हुत्वा पञ्चब्रह्मभिरेव तु || ४-४७ || एवं समाप्य तद्दीक्षामभिषेकन्ततः शृणु | सर्वालंकारसंयुक्तं मण्डपे समलंकृते || ४-४८ || शिवाग्निं पूर्ववत् कृत्वा अभिषेकं समाचरेत् | हस्तादि पञ्चहस्तान्तं यथा वित्तानुसारतः || ४-४९ || स्नपनस्य विधानेन स्थापयेत् कुलशानि वै | भद्रपीठे समास्थाय शिष्यस्थानं दृढवृतम् || ४-५० || अर्चयित्वा यथा न्यायं न्यासं कृत्वा यथा विधि | निष्कलन्तु यथा चार्यः सकलः साधकः सदा || ४-५१ || ततोभिषेकं तस्यैवमाचरेद् देशिकोत्तमः | दशाक्षरेण मन्त्रेण कूटकैरष्टभिः क्रमात् || ४-५२ || यथा वित्तानुसारेण पुण्याहञ्जयमङ्गलैः | स्नापयित्वा ततो मंत्री शुक्लवस्त्रैर्विभूषितः || ४-५३ || गन्धपुष्पैः समभ्यर्च्य योगपीठोपरिस्थितः | उष्णीषं बन्धयेत् सूक्ष्मं सितसुद्धेन वाससा || ४-५४ || ललाटपट्टं दातव्यं यथा राज्ञः प्रकीर्तितम् | मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैरपि || ४-५५ || च्छत्रं ह्युपरिसन्धार्य चामरञ्च विधानवित् | द्रव्याणामप्यलाभे तु दर्भैरेतानि कल्पयेत् || ४-५६ || प्. २५१) अथवा मनसा सर्वं शिवमन्त्रेण (छिवमन्त्रेन्तण) चिन्तयेत् | रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् || ४-५७ || पुस्तकं सृक्सृवञ्चैव करणीं कर्तरीं तथा | शिवार्चनाग्निकार्यञ्च जपध्यानञ्च शक्तितः || ४-५८ || व्याख्यामनुग्रहं कार्यमेवं भवतु सर्वदा | सर्वाधिकारभावञ्च दत्वाशिष्यस्य देशिकः || ४-५९ || ब्राह्मणक्षत्रिया वैश्याः शूद्राः शुद्धकुलोद्भवाः | आचार्यदेहि विज्ञेयानान्येषान्तु कदाचन || ४-६० || सर्वमन्त्रजपध्यान ज्ञानं सत्भावभावितम् | सर्वेषान्तु समंज्ञेयं होत्रयादीक्षिताद्ध्वरे || ४-६१ || एवं मन्त्रप्रभावेन कुर्यात् संस्कारकर्मणि | चातुर्वर्णानि चान्यानि शिवयागे तु दीक्षयेत् || ४-६२ || अनुलोमान् प्रतिलोमांश्च सुज्ञात्वा दीक्षयेत् गुरुः | दक्षिणां गुरवे दत्वा वित्तशाठ्य विवर्जितः || ४-६३ || वस्त्रमाभरणञ्चैव मकुटं कुण्डलं तथा | हेमयज्ञोपवीतञ्च हेमपूष्पोपहारकम् || ४-६४ || मुद्राशययासनादीनि आचार्यस्य प्रदापयेत् | तेषां षोडशकर्माणि शृणु तत्त्वं विनायक || ४-६५ || इति दीक्षाविधिपटलश्चतुर्थः || ४ || अथ षोडशक्रियाविधिपटलः अथातः संप्रवक्ष्यामि शैवानां षोडशक्रियाः | शिवाध्वरे च ये मर्त्या दीक्षायोग्यतया स्थिताः || ५-१ || तेषान्तु षोडशप्रोक्तं शिवेन परमात्मना | ऋतुसङ्गमनञ्चाद्ये गर्भाधानं द्वितीयके || ५-२ || पुंसवनं त्रितीयन्तु सीमन्तं हि चतुर्थकम् | पञ्चमञ्जातकर्मञ्च षष्ठञ्चोत्थानमेव च || ५-३ || प्. २५२) सप्तमन्नामकरणमन्नप्राशनमष्टकम् | नवमे वा सगमनं दशमे पिण्डवर्द्धनम् || ५-४ || समावर्तनकं पश्चाद्विवाहं षोडशो भवेत् | एतानि षोडशानी ह पृथग्वक्ष्ये समासतः || ५-५ || प्रथमे ऋतुसंयुक्ते ऋतुसङ्गमनं तथा | त्रिरात्रं ऋतुसंयुक्तञ्चतुर्थेह निशुद्ध्यति || ५-६ || आर्तवे पूर्वरात्रौ तु तद्रात्रं प्रतिगृह्य च | आर्तवे पररात्रौ तु तद्रात्रं परिवर्जयेत् || ५-७ || प्रथमेहनि चण्डाली द्वितीये ब्रह्मघातकी | तृतीये रजकी प्रोक्ता चतुर्थे हनि शुद्ध्यति || ५-८ || त्रिरात्रं मलविद्धा सा स्नानादीनि विवर्जिता | एकभुक्ता न खर्वेण वरिसाञ्जलि ना पिबेत् || ५-९ || ग्रहेक्षणदिवा स्वप्नं न शुल्पेनाश्नियात् ततः | चतुर्थे दन्तकाष्ठाद्यै स्नात्वा चामलकादिभिः || ५-१० || शुद्धवस्त्रानुलेपाद्यैस्त्रीशूद्राणां न भाषयेत् | स्नातायान्तु दृशापश्येत् तादृशं लभते सुतम् || ५-११ || अपश्येदपरं तस्मात् भरारन्दर्शयेत् तु सा | कन्याया प्रथमे चेति सर्वालङ्कारसंयुता || ५-१२ || शास्त्रोपदिष्टकल्याणं कृत्वा तत्व विशेषतः | शिवाग्निं पूर्ववत् कृत्वा पूर्वोक्तविधिना यथा || ५-१३ || शिवं मध्ये तु संस्थाप्य संपूज्यपूर्ववत् क्रमात् | शिवाङ्गं ब्रह्ममन्त्रैस्तु होममेवं प्रकारयेत् || ५-१४ || ऋतु स्नातान्तरितं कृत्वा तत्र वामे तु संस्थिता | सुस्नात्वा चम्य विधिवत् बस्मोद्धूलितविग्रहा || ५-१५ || वह्नेः पश्चिमदिक्भागे पूर्वस्याभिमुख स्थिता | आचार्येणार्चितञ्चाग्निं ततो मन्त्रेण हूयते || ५-१६ || परिषेकं ततः कुर्याद् विद्यांगैरभिमंत्रितः | सहस्रं वा शताष्टं वा हुत्वा वै ब्रह्मपञ्चकैः || ५-१७ || प्. २५३) लक्ष्या तु पटश्रंगे च हविष्यञ्चैव निक्षिपेत् | नासिकादक्षिणे पुत्र मपरेदुहितेश्चया || ५-१८ || निर्वीवनं न कर्तव्यं शोषरोषौ च वर्जयेत् | पुत्रार्त्थमेव संकल्प्य न भोगाय कदाचन || ५-१९ || आर्तवात् द्वादशान्तं वा षोडशं वा प्रचक्षते | प्रधानं त्रिदिनं त्यक्त्वा चतुर्थदिवसागमम् || ५-२० || युग्मके तु पुमान्विद्धित्वयुग्मेस्त्रीप्रजा तथा | शुक्लवृद्ध्या तु पुरुषो रक्तवृद्ध्यास्त्रीप्रजायते || ५-२१ || रक्तशुक्लौ समञ्चेत् तु षण्डन्तत्र प्रजायते | पुन्नागमुकुलं यद्वत् तद्वत् गर्भाशयोगतम् || ५-२२ || गर्भाशयगतो बिन्दुर्वायुच्छेद्य द्विधापुनः | द्विधागर्भं समादाय शरीरं द्विविधं स्फुटम् || ५-२३ || आयुः कर्म च वित्ताद्या वर्तन्ते चेश्वरेण वै | ऋतु सङ्गमनं प्रोक्तं गर्भाधानन्ततः शृणु || ५-२४ || सद्योग्रहीत गर्भाया लक्षणं मन्निबोधतः | शरीराटोपसं क्लेश स्थितद्वेषकभर्त्रका || ५-२५ || अत्र चिंखरतायोने स्फुरणेन समन्विता | आलक्ष्यगर्भं सवीक्ष्य शुभनक्षत्रसंवृतः || ५-२६ || अग्निं पूर्ववदाराध्य सद्येनाष्टशतं हुनेत् | यवञ्चापि पयोदत्वा पयोदधि घृतं समम् || ५-२७ || एतत् तु प्रथितं प्रोक्तं प्रासयेदीशमन्त्रतः | तत्पत्नीं सकलीकृत्य पुरुषेणोदरं स्पृशेत् || ५-२८ || गर्भाधानमिदं प्रोक्तं ततः पुंसवनं शृणु | द्विमासे प्रथमे गर्भे चतुर्मासेऽथवा पुनः || ५-२९ || शुभनक्षत्रसंयोगे चाग्निमाराद्ध्य पूर्ववत् | वामदेवेन साहस्रमथवाष्टशतं हुनेत् || ५-३० || तत्र पृथक् च सहितो माषधान्यं प्रवेशयेत् | याज्ञिकैर्वृक्षमुकुलैः क्षीरयुक्तं विमत्थ्य वै || ५-३१ || प्. २५४) तद्द्रव्यं नववस्त्रेण पत्न्यानासापुटे बुधः | वामदेवेन मन्त्रेण शिवं स्मृत्वा तु दापयेत् || ५-३२ || शैवान् संभोजयित्वा तु आचार्यं पूजयेत् ततः | एवं पुंसवनं प्रोक्तं सीमन्तञ्च ततः शृणु || ५-३३ || चतुर्थे षष्ठमेवाष्टमासे सिमन्तकर्मकम् | पूर्वे वा शुभनक्षत्रे वह्निं पूर्ववदाचरेत् || ५-३४ || अघोराष्टशतं हुत्वा व्याहृतिस्तत्र हूयते | दर्भोदुंबरमाल्यादि बध्वासीमन्तकर्मणि || ५-३५ || ललाटच्छिरमध्यान्तं समालिख्य समापयेत् | विद्यांगेन तु तत्कर्म नववस्त्रन्तु दापयेत् || ५-३६ || संपूज्य हेमस्रग्गन्धैः सीमन्तोन्नयनं ततः | पुरस्तादीशमन्त्रेण पूर्ववक्त्रवृतञ्चरेत् || ५-३७ || पुरुषेणोदकं स्पृष्ट्वा जपित्वा शिवमन्त्रतः | प्रोक्तं सिमन्तमेवं हि जातकर्मं ततः शृणु || ५-३८ || सूतिकाग्रहमन्वीक्ष्य शुद्धिं कृत्वा पुरातनम् | तिलसर्षपचूर्णैस्तु धूपयित्वाग्रहान्तरम् || ५-३९ || सूतिकायात्वथेऽष्टाभिस्तर्जांस्त्रीभिः प्रवेशयेत् | ग्रहसारन्तु संपूज्य तदज्ञात्वा ग्रहस्थितिम् || ५-४० || कुमारोजायमानश्चेत् विरह्यमपरं ततः | अस्त्रेणैवशतं हुत्वा सर्वरक्षार्थमेव च || ५-४१ || जाते पुत्रेशिवं ध्यात्वा मुखं वामेन दर्शयेत् | नाभिसूत्रमथास्त्रेण छित्वांगानि विशोद्ध्य वै || ५-४२ || पञ्चब्रह्मसमुच्चार्य पुत्रमूर्ध्नि जिघृक्षयेत् | तस्यैव दक्षिणे श्रोत्रे जप्त्वा तत्पुरुषं ततः || ५-४३ || मध्वाज्यगुलसम्मिश्रं दत्वाब्रह्मवृतं तथा | सुवर्णदर्भयाबध्वा ते नैवाज्य हृदासह || ५-४४ || प्. २५५) दत्वा हिरण्यरूपेति दातव्यं साधकोत्तमः | मातृहस्ते च दत्वातं सद्येन क्षालयेत् स्तनौ || ५-४५ || प्रशान्तायेति मन्त्रेण दातव्यं दक्षिणं स्तनम् | कुम्भमाराध्य तत्रैव अघोरास्त्रेण मन्त्रतः || ५-४६ || पूर्णोदकं शरस्थाने रक्षार्थं स्थापयेत् बुधः | होतव्यं दशरात्रौ तु सायं प्रातरतंद्रितः || ५-४७ || एतत् कर्म च भर्तुश्च कर्तव्यं हि दिनेदिने | त्रयः पञ्चाहसप्ताहे शयनादीनिशोधयेत् || ५-४८ || जातकर्ममिदं प्रोक्तमुत्थानं शृणु सुवृत | दशारात्रे त्वतीते तु कृत्वोत्थापनकर्मकम् || ५-४९ || सर्वद्रव्याणि भाण्डानि वर्जयेत्तानि यत्नतः | कं सदार्वायसादीनि मानसाशुद्धिरुच्यते || ५-५० || संशोध्यकारुणा वस्त्रं भस्मना हेमशुद्धिकम् | मृत्गोमयोदकैरेव तत्ग्रहञ्चोपलेपयेत् || ५-५१ || कृत्वा तु मलिनस्नानं दंपत्योः क्षुरकर्मकम् | तत स्नानन्तु कर्तव्यं तदा पर्यग्निकं बुधः || ५-५२ || प्रक्षिप्यनवभाण्डानि पञ्चगव्यन्तु प्राशयेत् | पुण्याहं वाचयित्वा तु प्रोक्षयित्वा जनान् क्रमात् || ५-५३ || कुशोदकं शरावे तु शिवमन्त्रगणैः सह | शिवभूतञ्च तत्तोयं दंपत्योः प्राशयेत् क्रमात् || ५-५४ || उत्थापनमिदं प्रोक्तं नामनिर्देशनं शृणु | एकादश्यां वा द्वादश्यां नामनिर्देशनं क्रमात् || ५-५५ || शिवाग्निं विधिवत् कृत्वा पुत्रं संस्पृश्यमन्त्रवित् | पुत्रस्य देवतोद्दिश्य नामकर्म च कारयेत् || ५-५६ || प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् | त्रितीयं शंकरं प्रोक्तञ्चतुर्थं वृषभध्वजम् || ५-५७ || पञ्चमं कृत्तिवासस्तु षष्ठं वै कामनाशनम् | सप्तमं देवदेवेशं श्रीकण्ठञ्चाष्टमं स्मृतम् || ५-५८ || नवमं ईश्वरं प्रोक्तं दशमं पार्वती प्रियम् | रुद्रमेकादशञ्चैव द्वादशस्तु शिवस्तथा || ५-५९ || प्. २५६) तानिद्वादशनामानि कृत्तिकादिषु बुद्धिमान् | शिवान्तं मुक्तिनामानि वाचयेदग्नि सन्निधौ || ५-६० || दूर्वांकुराक्षतैर्मिश्रैः पाणौ वा दक्षिणोत्तरम् | पादादिमूर्ध्निपर्यन्तं शिवांगेन निदापयेत् || ५-६१ || शिवमन्त्रं समुच्चार्य कन्यायाः शक्तिनामतः | अंबिका पार्वतीगौरी भवानी च सुरार्चिता || ५-६२ || दाक्षायणीहैमवती महादेवी हरि प्रिया | उमाशिवकरी चेति गिरिजाद्वादशैव तु || ५-६३ || शक्तेर्नाम इति ख्याता कृत्तिकादिषु योजयेत् | आचार्यपूजनं कृत्वा शैवांस्तान्परिपूजयेत् || ५-६४ || नामनिर्देशनं प्रोक्तं ततोन्नप्रासनं शृणु | षाण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् || ५-६५ || नोच्छिष्ट स्पर्शनं बालं सुमुहूर्ते शुभेदिने | पक्वान्नं पयसाज्येन वह्निमाराध्यपूर्ववत् || ५-६६ || बीजमन्त्रेणमतिमान् कांसपात्रे तु संस्थितम् | भोजयेत् पायसे नैव जनान् सर्वान्विशेषतः || ५-६७ || होमान्नं कारयेद्धिमानन्न प्राशनकर्मणि | अन्नप्राशनमेवं हि प्रवासगमनं शृणु || ५-६८ || तद्दिने सुमुहूर्ते तु सङ्ग्रहे तु मनोरमे | अग्न्याधानन्ततः कृत्वा सद्येनाष्टशतं हुनेत् || ५-६९ || पितापुत्रमलंकृत्य शिवघोषं विशेषतः | पिता तत्पुरुषेणैव तत्पुत्रं मूर्ध्नि जिघ्रति || ५-७० || शिवमन्त्रं ततो जप्त्वा गत्वादेवालयं शनैः | वृषगायत्रि मन्त्रेण वृषगर्भं प्रणम्य च || ५-७१ || देवदेवं नमस्कृत्वा पुत्रेणसहबान्धवैः | गुहालयं ततो गत्वा प्रणम्यगुहमव्ययम् || ५-७२ || शनैः शनैर्ग्रहं नित्वा रक्षां कृत्वा तु भस्मना | पिण्डवर्धनकं वक्ष्ये अग्न्याधानन्तु पूर्ववत् || ५-७३ || प्. २५७) विधिवत् ब्रह्मशिरसा हुत्वा चाष्टशतं पुनः | दक्षिणांगुष्ठमारभ्य ईशानं तदनुक्रमात् || ५-७४ || जपित्वा कारयेद्विद्वान्येवं वापि दशाक्षरम् | मधुराक्षारसद्रव्यैः शैवान् संभोज्ययत्नतः || ५-७५ || पिण्डवर्धनमेवं हि क्षुरकर्म ततः शृणु | त्रिवर्षे शुभनक्षत्रे सुतिथौ चोतरायणे || ५-७६ || तद्दिनात् पूर्वदिवसे कृत्वानां दीमुखं पुनः | चौलोपनयने चैव समावर्तनके तथा || ५-७७ || पाणिग्रहणके तेषां पूर्वे नान्दीमुखं स्मृतम् | वितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् || ५-७८ || पितॄन् पितामहांश्चैव तथा वै प्रपितामहान् | एतैर्नामभि संकल्प्य शिवभावादनु क्रमैः || ५-७९ || एवं नान्दीमुखं कृत्वा यथा शक्त्या तु दक्षिणाम् | अस्त्रमन्त्रेण संप्रोक्ष्य बध्वा प्रतिसरन्निशि || ५-८० || प्रभाते चौलकार्यार्थं स्थण्डिलं तत्र वित्तमः | शिवाग्निं विधिवद्धुत्वा रुद्राण्यष्टशताहुतिः || ५-८१ || अग्नेः पूर्वे तु तद्बालं न्यस्त्वा गव्यादिनार्चयेत् | हरहरे तु घोषैस्तु ततोमङ्गलवाचकैः || ५-८२ || दूर्वाक्षताद्यैस्तोत्रैस्तु कृत्वा घृतशिरोर्पणम् | क्षुरश्चास्त्रेण संस्पृश्य पितापुत्रञ्च वापयेत् || ५-८३ || ईशाद्यजानुकै ब्रह्मैः शिवपूर्वादितस्तथा | पात्रस्थं गोशक्रं मध्ये तत्तत्केशान्वि निक्षिपेत् || ५-८४ || शिरोमध्ये शिखांविद्धि पञ्चविंशति भागतः | समवृत्तां शिखां कृत्वा शेषान्त्यक्त्वोर्ध्वनापितः || ५-८५ || प्रवासगमने चैव पिण्डवर्द्धनकेऽपि च | चौलकर्मणि कल्याणे श्रद्धावित्तान्वितेऽपि च || ५-८६ || होमं विनाकूमारीणां ततो मन्त्रेणचाचरेत् | स्नानं तत्र प्रकर्तव्यं मुक्त्वा प्रतिसरं तथा || ५-८७ || वस्त्राद्यैः समलं कृत्य हारिद्रगन्धपुष्पकैः | अग्नेः पूर्वं सुखासीनमक्षताद्यैः समर्चयेत् || ५-८८ || प्. २५८) हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं बुधः | पूर्णाहुतिं ततः कृत्वा पूर्वोक्ते नैव मंत्रतः || ५-८९ || आचार्यं पूजयेत् पश्चात् सवत्साङ्गान्तु दापयेत् | गोशकृत् सास्त्रकेशांश्च संग्राह्यं धान्यसंयुतम् || ५-९० || गवामभिमुखं कृत्वा निक्षिपेत् पंकमध्यमे | दर्भोदुंबरमूले वा कृत्वा चम्यविशेत् पुनः || ५-९१ || चौलकार्यमिदं प्रोक्तमौपनाय नकं शृणु | जातसंवत्सरादूर्ध्वे पञ्चषट्सप्तवत्सरा || ५-९२ || अष्टमे वा नवाब्दे वा क्रमात् ज्ञानं स्वरूपकम् | ब्रह्मवर्चसमायुष्यं श्रीप्रदञ्च विशेषतः || ५-९३ || अथवा षोडशाब्दान्तमौपनायनमाचरेत् | षोडशाब्दादतीते तु उद्दालान्ते समाचरेत् || ५-९४ || द्विमासंयावकं भुक्त्वा मासंक्षीरन्तु दापयेत् | आमीक्षिकायाः समार्धं भक्षयेत् दिनेदिने || ५-९५ || पक्वं पयसिदध्योङ्गया तु सामीक्षिका स्मृता | कृष्णायां कपिलायां वा अष्टरात्रं क्षितौशयेत् || ५-९६ || शयाच्च्रितन्तु षड्रात्रं त्रिरात्रमुदकं तथा | उपवासमहोरात्रमतीते द्वापरे युगे || ५-९७ || एकवृत्तञ्च कर्तव्यमुद्दालकमनुक्रमम् | स्नानं वाचाश्वमेधान्ते वाक्यैस्तौ मे विनायक || ५-९८ || गर्भाधानमिदं कर्मपूर्ववत्कारयेत् क्रमात् | वृतान्तेथ प्रकर्तव्यं वसन्ते चोत्तरायणे || ५-९९ || शुभनक्षत्रसहिते सुमुहूर्ते विशेषतः | अङ्कुरार्पणकं त्वेह सप्ताहे पञ्चमेऽपि वा || ५-१०० || उपवीताजिनं मौञ्जी दण्डन्तत्रैव साधयेत् | उपवीतविधिं वक्ष्ये चोष्णीषञ्चोत्तरीयकम् || ५-१०१ || शुभनक्षत्रयोगे च तान्या पाद्ययत्नतः | ब्राह्मणीराजपुत्री वा वैश्यकन्याथवा पुनः || ५-१०२ || तिसृभिर्निर्मितं सूत्रं अथवा शूद्रकन्यया | अन्यस्त्रीनिर्मितं सूत्रं वर्जितव्यं प्रयत्नतः || ५-१०३ || प्. २५९) अथवातन्तु कार्येषु संग्राह्यं साधकोत्तमः | सूत्रसंग्रहणे काले शोधयेत्तोयभस्मना || ५-१०४ || प्राज्ञः प्रारभ्यपूर्वाह्णे सद्यमन्त्रेण तन्तुकम् | चतुरङ्गुलमात्रेण षण्णवती च सूत्रकम् || ५-१०५ || ते नैव त्रिगुणं यत्तत्सूत्रं दिग्धमिहोच्यते | पूर्वपश्चिमतः स्थित्वा दक्षिणोत्तरमेव हि || ५-१०६ || हस्तदक्षिणमूर्ध्वे तु पृष्टा वै प्रथमं तथा | पश्चाद्वामिकञ्चोर्ध्वे त्रिगुणान्ते विशेषतः || ५-१०७ || भूमावन्यत्र वा क्षिप्य पूर्वाग्रे चोत्तराग्रकम् | पत्रं पुष्पं तृणं दत्वा कृतलोलवशं कृतम् || ५-१०८ || संप्रोक्ष्य वामदेवेन रज्जुं गृह्णीतसाधनम् | ग्रीवायाहस्तयोस्तिर्यक् चांगुष्ठात् बाहुचान्तकम् || ५-१०९ || तत्समञ्चैकसूत्रन्तु त्रिगुणञ्चोपवीतकम् | रज्जुं तत्ग्रन्धिके तस्मिन् वाग्देवी सुप्रतिष्ठिता || ५-११० || सावित्री चैव गायत्री वसेतामग्रमूलयोः | ब्रह्माविष्णुश्च रुद्रश्च त्रिसूत्राणान्तु देवता || ५-१११ || अघोरास्त्रेण तत्बध्वा बहुरूपेण धारयेत् | नाभिप्रदक्षिणं कार्यं नाभेरूर्ध्वं विधानतः || ५-११२ || तत्सूत्रं ब्रह्मचारीणां ग्रहस्थानां षडेव हि | नवकं वान प्रस्थानां यतीनां द्वादशं स्मृतम् || ५-११३ || उपवीतविधिः प्रोक्तमुत्तरीयमथ शृणु | वाससा त्रिविशुक्लेन कर्तव्यञ्चोपपीतवत् || ५-११४ || उत्तरीयमिदं प्रोक्तमुष्णीषं त्विहवक्ष्यते | हत्वाथस्ताच्छिरोन्तं यत् कर्णौ संच्छाद्ययत्नतः || ५-११५ || शिरोवेष्टनकं नाममृदुना शुक्लवाससा | उष्णीषलक्षणं प्रोक्तं कृष्णाजिनमथ शृणु || ५-११६ || चर्मकृष्णाजिन मृगस्यैव नान्योपयोगतः | कामं त्वरोगसंयुक्तं स्वतोथमरणन्ध्रुवम् || ५-११७ || प्. २६०) त्रियंगुलं समं वापि तथैवांगुलविस्तृतम् | उपवीतसमायाममिति कृष्णाजिनं स्मृतम् || ५-११८ || सद्यमन्त्रं समुच्चार्य बध्वातच्चर्मरज्जुना | कार्पासरज्जुना वापि मेखलं शृणुतत्वतः || ५-११९ || शुद्धदेशे स्थितं मौञ्जीं गृहीत्वा शोषणं ततः | सूच्यग्रेणैव तांभित्वा त्रिवृद्रज्जु त्रिरावृतम् || ५-१२० || समासान्मेखला प्रोक्ता दण्डस्य लक्षणं शृणु | पलाशबिल्वखदिरं शमीवै कंकतं तथा || ५-१२१ || तस्यमूर्ध्नासमदीर्घं सितबाहुसमन्तु वा | चर्मयुक्तमृजु स्निग्धं * * * * * * * * || ५-१२२ || पूर्वे नान्दीमुखं कृत्वा तदन्ते चोपनायनम् | शिवाग्निं पूर्ववत् कृत्वा चौलवद्वापयेत् ततः || ५-१२३ || अधोमुखगतान् केशान् त्यक्त्वा तत्र शिखाभ्रुवौ | स्नानं तत्रैव कर्तव्यं सर्वाभरणभूषितम् || ५-१२४ || भोजयित्वा चरूंविद्वान् कायशुद्ध्यर्थमेव च | उपवीतादि चिह्नानि चोत्तरे स्थापयेत् क्रमात् || ५-१२५ || शुचीवोभव्यमन्त्रातः संप्रोक्ष्य देशिकोत्तमः | ततः शिष्यं समाहूय वह्नेर्दक्षिणत स्मृतम् || ५-१२६ || संप्रोक्ष्य पञ्चब्रह्मैस्तु शुचीवोहव्यमंत्रितः | उत्तराभिमुखं शिष्यं समभ्यर्च्याक्षतादिभिः || ५-१२७ || प्रारभेय.ं प्रधानञ्च परिषेचन पूर्वकम् | ब्रंह्मांगैस्तपसं देव्या प्रत्येकं पञ्चकाहुतिः || ५-१२८ || परिषेचनन्तु कर्तव्यं शिवे गन्धादिनार्चयेत् | बध्वा वै तां नवं रज्जुमियन्द्रक्तेति मेखलाम् || ५-१२९ || शाटिं कौपीनवत् कृत्वा शेषं पृष्ठे वलंबितम् | स्वयमुच्चार्य तन्मन्त्रं उपवीतन्तु दापयेत् || ५-१३० || कृष्णाजिनं तु सन्धार्य बहुरूपेण बुद्धिमान् | उत्तरीयन्तु दातव्यं प्रशान्तायेति मन्त्रतः || ५-१३१ || प्. २६१) तस्योष्णीषं विनातन्त्रं तदान्याश्रमिणां तु तत् | दण्डं दत्वास्त्रमन्त्रेण पवित्रं तदनामिके || ५-१३२ || अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा विशेषतः | पादौ प्रक्षाल्य विधिवत् द्विराचम्य विशेषतः || ५-१३३ || ब्रह्मकूर्चं पिबेद्गव्यं शिवमन्त्रेणमन्त्रवित् | पञ्चगव्यं कुशोपेतं ब्रह्मकूर्चमिति स्मृतम् || ५-१३४ || पुनराचम्य विधिना सावित्री वृतबन्धनम् | प्रदक्षिणं हि मूर्धानं पञ्चब्रह्मैस्तु हूयते || ५-१३५ || सावित्री काण्डर्षयेति हुत्वेदं वृतबन्धनम् | सावित्रीञ्चैव गायत्रीं जपित्वाष्टा परं ततः || ५-१३६ || कृत्वा प्रदक्षिणञ्चाग्निं नमस्कृत्वा यथा विधि | क्र्त्वा तत्परिषेचन्तु शिवास्त्रेण शताहुतिः || ५-१३७ || समत्भिन्नभित्वा वै शतेन त्वभिमंत्रितैः | परिषेचन्तु कर्तव्यं गायत्रीं व्याहृतिं ततः || ५-१३८ || ब्रह्मांगैर्जुहुयात् सम्यक् प्रत्येकं सप्तसप्त च | देवदेवं नमस्कृत्वा गुरुपूर्वं यथार्हतः || ५-१३९ || आचार्यं पूजयेत् तस्मात् यथा वित्तानुसारतः | भिक्षापात्रं सुवर्णाद्यैर्दातव्यं पुरुषेण तु || ५-१४० || दण्डं तद्वामहस्ते तु भिक्षापात्रं तु दक्षिणे | भवति भिक्षां देहीति वाच उक्त्वा पृथक् पृथक् || ५-१४१ || आत्मार्थं तण्डुलं ग्राह्यं प्रतिग्रहे ग्रहे तु च | यात्राकाले तु दण्डेन पश्वादीनि च ताडयेत् || ५-१४२ || सुस्नात्वा विधिना चम्य त्रिषुकालेषु नित्यशः | पूर्वमुक्तेन मन्त्रेण विधिनित्यं विधानवित् || ५-१४३ || शैवशास्त्रानुसारेण गुरुपारंपरेण तु | संयमेन यनो भूत्वा पूततोयं पिबेत्सुधीः || ५-१४४ || सिवसूर्याय दत्वार्घ्यं कुशपुष्पाक्षतान्वितम् | ततो गायत्रिमन्त्रन्तु त्रिसन्ध्यान्तु पृथक् पृथक् || ५-१४५ || प्. २६२) अष्टोत्तरशतञ्चैव शिवं ध्यायं जपेत्बुधः | दिनेदिने प्रकूर्वीत सर्वपापविशोधनम् || ५-१४६ || विधिनाचाग्निमन्त्रज्ञः सायं प्रातः सुपूजयेत् | कृत्वा वै मन्त्रभावेन व्याहृत्यादि घृतेन च || ५-१४७ || पूर्वोक्तेनैव मन्त्रेण समित्भिश्चैव हूयते | एवं दिनत्रयेषूक्तञ्चतुर्थे दण्डमोचनम् || ५-१४८ || पूर्वोक्तविधिवद्धुत्वा सद्येनाष्टशताहुतिः | प्रातर्विसर्जनं कृत्वा पूर्वोक्तेन तु मन्त्रतः || ५-१४९ || पर्यूषितोपवीता नित्यक्त्वा दक्षिणतोबुधः | नवयज्ञोपवीताद्यैः पूर्ववत् परिकल्पयेत् || ५-१५० || परिषिच्याथविधिवद् व्योमव्यापिदशाहुतिः | शिवायशिवमन्त्रेण स्वाहेत्यष्टशतं हुनेत् || ५-१५१ || एवं घृताहुतिं हुत्वा शिवोपकरणं स्मृतम् | ब्रह्मचर्यं ततः काले अर्थयेत् साधकोत्तमः || ५-१५२ || ब्रह्मचारी द्विधा तत्र शान्तयः शिवशासने | भौतिको नैष्ठिकश्चैव प्रोक्तौतौ ब्रह्मचारिणौ || ५-१५३ || ग्रहस्थस्याश्रमं प्राप्तं भौतिकस्य विधीयते | ब्रह्मचर्य वृतिर्यावं नैष्ठिकस्य विशेषतः || ५-१५४ || ताभ्यामेकं विनिश्चित्य घृताहुतिशतं पुनः | पूर्णाहुतिं ततो हुत्वा तदहं प्रत्यहं यजेत् || ५-१५५ || नद्यां वापि तटाकेवा उपवीतादिकान्त्यजेत् | स्नात्वा चम्य यथान्यायं देवदेवं प्रणम्य च || ५-१५६ || पूजाविधिं ततो ज्ञात्वा संपूज्यपरमेश्वरम् | वह्निस्थं देवदेवेशं विधिना पूजयेत् ततः || ५-१५७ || गुरुं प्रणम्यविधिवत् तस्माद्वै गुरुपूजकः | तत्रर्ग्वेदमयं सद्यं वामदेवं यजुर्मयम् || ५-१५८ || सामवेदमघोरञ्च वक्त्रञ्चाधर्वणं स्मृतम् | सर्वदेवमयेशानमंगयुक्तं शिवं तथा || ५-१५९ || प्. २६३) साक्षात् शिवमयं प्रोक्तं कामिकाद्यागमं त्विह | इमान्यध्ययनान्येव तदेवाद्ध्ययनं स्मृतम् || ५-१६० || अध्यापनानितानिह तस्याद्ध्यापनमेव हि | शिवायाराधना तस्य यजनं याजनं तथा || ५-१६१ || शिवमुद्दिश्ययद्द्रव्यं दत्तं तद्दानमेव च | प्रतिग्रहं ततो वाथ तस्य षट्कर्ममुच्यते || ५-१६२ || शिवसद्भावयुक्तस्य शुद्धशैवस्यधीमतः | संस्कारप्रमुखाञ्चैव नान्यसूत्रं समाचरेत् || ५-१६३ || आचरेदन्य होमेन सर्वकर्मबहिस्कृतः | वृतभृष्टस्त्विति ज्ञात्वा पुनर्दीक्षां समाचरेत् || ५-१६४ || काण्डोपकरणं कृत्वा वृतारंभविधिं तथा | वृते परिसमाप्ते तु कृत्वा तद्वृतमोक्षणम् || ५-१६५ || समावर्तन पूर्वे तु कृत्वा वै श्वक्रिया वृतम् | अग्निं नन्दीमुखं कृत्वा क्रियां रात्रौ तु चारभेत् || ५-१६६ || पूर्वयामस्य चान्ते तु बध्वा प्रतिसरं क्रमात् | पुरुषेणैव मन्त्रेण सौवर्णं क्षौममेव च || ५-१६७ || अस्त्रेण प्रोक्षयित्वा तु वस्त्रैरेवाव कुण्ठनम् | व्योमव्यापि जपित्वा तु रस्वप्नं न तु वाचकम् || ५-१६८ || प्रभाते चोत्तरं तत्र चैवं वै श्वक्रियावृतम् | अग्निं पूर्ववदारभ्य मूले नैव शतं हुनेत् || ५-१६९ || ब्रह्मचारी वृतं मत्वाग्रहस्थाशममाश्रयेत् | चौलवद्वपनं कृत्वा शिखाप्रकोष्ठ वर्जितम् || ५-१७० || तत्र संशोध्यदशनं स्नापयेद्रजनीयुतः | ईशानाद्यैः शतं हुत्वा मुक्त्वामौञ्ज्यादिकास्ततः || ५-१७१ || दत्वा तदुपवीतञ्च षट्सूत्रं पूर्वमन्त्रतः | कुण्डलाद्यैस्तु संभूष्य हृदयेन तु मन्त्रतः || ५-१७२ || गन्धादीनि ततो दत्वा वामदेवेति मन्त्रतः | नयने चाञ्जनं दत्वा दर्पणं दर्शयेत् बुधः || ५-१७३ || प्. २६४) मधुपकर्मन्तु दातव्यं वामवेतिमन्त्रतः | अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा तु चाग्रतः || ५-१७४ || छत्रोपानहदण्डादि सन्धार्योत्तरदिग्गतः | निवृत्यबन्धुभिस्तत्र सुस्थितस्त्वासने तु सः || ५-१७५ || पितृभ्रातृपित्रव्यैस्तु भोक्तव्यं सहबान्धवैः | तत्समावर्तनं प्रोक्तं तत्पाणिग्रहणं शृणु || ५-१७६ || सर्वकाले विवाहं स्यात् माघप्रोष्ठविवर्जिते | विवाहमष्टधा प्रोक्तं शिवेन परमात्मना || ५-१७७ || ब्राह्मञ्च दैविकञ्चैव प्राजापत्यमथार्षकम् | पञ्चमं त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा || ५- १७८ || पैशाचमष्टमं ज्ञेयमुच्यन्ते तानि वै पुनः | वयो वृत्तञ्च संपन्नं वृत्तरूपाभिजात्यकम् || ५-१७९ || कन्यां दत्वा समाहूय गोभूमिसहिरण्यकम् | तत् ब्राह्ममिति निर्दिष्टं विवाहेषुत्तमं वृतम् || ५-१८० || यज्ञेषु ऋत्विजस्यैव कन्यादानन्तु दैविकम् | विप्रस्यैव सुशीलस्य विवाहापेक्षि तस्य च || ५-१८१ || होमकर्मस्वयं कृत्वा वस्त्राभरणकन्यकाम् | बुद्धिपूर्वं तु यद्दत्तं प्राजापत्यमिति स्मृतम् || ५-१८२ || सुरूपां कन्यकांश्चैव दत्वागोमिधुनद्वयम् | अथगोमिथुनैकं वा विवाहमार्षकं स्मृतम् || ५-१८३ || आरोप्याहरणं कन्यां याच्यमाने मुहुर्मुहुः | धनं दत्वा तु यः कन्या संग्रहणं तु यत्तदा || ५-१८४ || आसुरन्तु सविज्ञेयमविद्वत्भिरनुष्ठितम् | उभयोरपि संवादे स्त्रीपुंसौ यदिरागतः || ५-१८५ || दानन्तस्यैव तां कन्यां गान्धर्वमिति पठ्यते | कृत्वा युद्धं महाघोरं वधबन्धनताडकैः || ५-१८६ || अपहृत्य बलात् कन्यां रुदन्तीं रक्षसामिदम् | कन्यांसुप्तां प्रमत्ताञ्च चौर्यापात हृतन्तु वा || ५-१८७ || पैशाचमिति विख्यातं प्राक्पञ्चोदकपूर्वकम् | तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः || ५-१८८ || प्. २६५) कर्तव्यमासुरं वापि त्रीणिचान्न्यानि वर्जयेत् | सुशीलां रूपसंपन्नां कुलजांबानवान्विताम् || ५-१८९ || असगोत्रां हि कुशलां वधूं संग्राह्यबुद्धिमान् | गन्धादिभिरलं कृत्य वस्त्रहेमन्तु दापयेत् || ५-१९० || तयोर्गात्रञ्च नाम्नी च पूर्वमुच्चार्यबुद्धिमान् | दत्वोदकन्तु तद्धस्ते पिताभ्राता तु मातुलः || ५-१९१ || दानमेतदिदं प्रोक्तं विसंवादे तु पूर्ववत् | स्थण्डिलेऽग्निं समाराद्ध्य ग्रहीतां वै तदग्रहे || ५-१९२ || पुनस्तोयन्तु दातव्यं भर्तुर्वाथपि तुर्ष्वपि | एवं पुनर्जलं दानं विवाहं शृणु सुवृत || ५-१९३ || अग्नेः पश्चिमभागे तु आसनं संप्रकल्प्य वै | पतिपत्न्योः समाहूय सर्वालंकारसंयुतौ || ५-१९४ || शिवात्मकेति मन्त्रेण वस्त्रं पुष्पन्तु दापयेत् | दक्षिणे तु पतिञ्चैव वामे पत्निन्निधाय वै || ५-१९५ || परिषेचनं ततः कृत्वा ब्रह्मांगैरेव हूयते | मम हृदयेत्युच्चार्य पत्यातद्धृदयं स्पृशेत् || ५-१९६ || आत्मानं शिववद् ध्यात्वा पत्निं शक्तिस्वरूपवत् | शतं हुत्वा तु मूलेन स्वाहान्तं प्रणवादिकम् || ५-१९७ || मधुपर्कन्तु संप्राश्य प्रागुक्तविधिनाचरेत् | वृतं गायत्रिमन्त्रेण दर्शयित्वा धनं तथा || ५-१९८ || पुनराचम्य विधिवद् व्याहृत्या तु शताहुतिः | अग्नेर्ददिक्षिण पार्श्वे तु प्राणाग्निं संयजेत् क्रमात् || ५-१९९ || गोर्द्धेनुहव्यमन्त्रेण गोवत्सं तत्र दर्शयेत् | स्वाहान्तं शिवमन्त्रेण शताष्टकहुतं पुनः || ५-२०० || अग्नेश्च वामपार्श्वे तु गत्वा सप्तपदं ततः | संस्थाप्य पश्चिमे श्मानमक्षतादिभिरर्चयेत् || ५-२०१ || पत्न्यास्तु दक्षिणं पादं पतिहस्तेनचोद्धृतम् | शिवगायत्रि मन्त्रेण पादमश्मनि विन्यसेत् || ५-२०२ || क्रमात् सप्तपदं गत्वा वाममन्त्रेण बुद्धिमान् | भर्तुर्दक्षिणहस्तेन तस्याहस्तन्तु संग्रहेत् || ५-२०३ || प्. २६६) उमामहेशमन्त्रेण हुत्वा लाजाञ्जलित्रयम् | देवदेवं नमस्कृत्वा विज्ञाप्यांग विभूषणम् || ५-२०४ || व्योमव्यापिनि मन्त्रेण ग्रहस्थानि च हूयते | आद्यन्तं व्याहृतिं हुत्वा प्रायश्चित्ताय सर्वतः || ५-२०५ || औपासनाग्निकं हुत्वा ब्रह्माङ्गैर्दिवसं प्रति | हस्तं प्राग्वच्च संग्राह्य गच्छतान्तु शुभे ग्रहे || ५-२०६ || सर्वालङ्कारसंयुक्ते मुक्तादामविभूषिते | सद्येन शोधनङ्कृत्वा कतैराप्तोपधानकैः || ५-२०७ || उपलं शक्तिवत् स्मृत्वा दंपत्योर्मध्यमे क्षिपेत् | रात्रौदिनाधिपं कृत्वा पूर्वं सोमाधिदैवतम् || ५-२०८ || गान्धर्वञ्च द्वितीये तु त्रितीयेचाग्निदैवतम् | तत्तन्मन्त्रन्तु मतिमाञ्जपेत् त्रिंशं नमोन्तकम् || ५-२०९ || तयोः स्वप्ने तु रात्रौ तु स्पर्शनं ननुवाचकम् | सुस्नात्वा चम्यविधिवदौपासनं दिनेदिने || ५-२१० || चतुर्थे हनिपूर्वाह्ने तैलेनाभ्यञ्जनं तथा | सहैव स्नापयित्वा तु रात्रौवह्निं प्रकल्प्य वै || ५-२११ || ब्रह्माङ्गैर्जुहुयात् तत्र दर्शयित्वा त्वरून्धतीम् | अरुन्धतीति मन्त्रेण तां विज्ञाप्य प्रणम्य वै || ५-२१२ || अश्मानं पूर्ववत् कृत्वा ततस्त्वायतनं तु वा | हृदाचोत्थाप्यशयनं संप्रोक्ष्यशिवमन्त्रतः || ५-२१३ || खट्गञ्चैव कटंवाथ संविकीर्योपधानकम् | शयनं पूर्ववत् कृत्वा तस्मिन् संपादयेत् ततः || ५-२१४ || आत्मानं शिववद्ध्यात्वा तत्पत्निं शक्तिवत्बुधः | ऋतुसङ्गमनात् कृत्वा सर्वं वामेन मन्त्रतः || ५-२१५ || सहैवार्त गृहङ्गत्वा गणानाञ्च बलिं पुनः | अभ्यागतातिथिञ्चैव पूजयेत् तु दिनेदिने || ५-२१६ || शुद्धशैवोद्भवानान्तु प्रोक्तं वै षोडशक्रिया | तेषां वृतं समाचारं शृणुतत्वं विनायक || ५-२१७ || इति षोडशक्रियाविधिपटलः पञ्चमः || ५ || प्. २६७) अथ वृताचारविधिपटलः अथातः संप्रवक्ष्यामि संक्षेपाद् वृत्तमुत्तमम् | वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः || ६-१ || ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः | चतुराश्रममेवं हि सामान्यं विधिचोदितम् || ६-२ || चतुर्णां गोचराणान्तु सममेतच्छिवागमे | ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा || ६-३ || शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः | मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु || ६-४ || शिखीमुण्डी जटीवापी सकौपीनः समेखलः | सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः || ६-५ || त्रिस्नायि च जित क्रोधः सुयमः सत्यभाषणः | एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे || ६-६ || वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा | हरिद्रमञ्जनञ्चैव तांबूलं लवणं तथा || ६-७ || शिखा वृतेश्वरं यागङ्कृत्वा चार्यपरिग्रहे | ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं शृणु || ६-८ || गृहिणी संग्रहं कृत्वा विवाहं विधिना तथा | अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् || ६-९ || देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः | शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् || ६-१० || शिखी वा बद्धके शीवा शुक्लयज्ञोपवीतकम् | स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् || ६-११ || सुदारान् संग्रहं नित्यं ऋतुकाले विशेषतः | चन्दनादीनिमाल्यानि त्वलं कृत्य शुभे ग्रहे || ६-१२ || ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं शृणु | अपत्नीकः सपत्नीको द्विविधं शिवभाषणे || ६-१३ || वने संवासिको नित्यं शाकमूलादिभक्षयेत् | ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु || ६-१४ || प्. २६८) सपत्निकवृतं प्रोक्तमपत्निकवृतं शृणु | ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् || ६-१५ || सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा | सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् || ६-१६ || कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् | वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् || ६-१७ || अपत्निकवृतमिदं यतिनाञ्च वृतं शृणु | आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च || ६-१८ || सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः | सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् || ६-१९ || समत्वं सुखदुःखेषु सर्वारंभ विवर्जितम् | काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समंभवेत् || ६-२० || स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् | य निवृत्तिरियं प्रोक्तं शृणु वै शेषिकां वृतान् || ६-२१ || शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा | शिवदेह समुत्भूतं गोचरं तुलमुच्यते || ६-२२ || काश्यपादि ऋषिणान्तु शिवगोचरसंज्ञकम् | भारद्वाजमुनिनान्तु ज्योतिर्गोचरसंज्ञकम् || ६-२३ || गौतमादि ऋषिणान्तु नाम सावित्रगोचरः | आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः || ६-२४ || तेषां वै शुद्धशैवानां वृत्तिवै शेषिकान् शृणु | चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः || ६-२५ || प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् | कपोतं हि तृतीयं वै चतुर्थ्ं ग्रन्धिकं स्मृतम् || ६-२६ || ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह | शिवगोचरसंज्ञानां वृत्तिभेदाः प्रकीर्तिताः || ६-२७ || धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् | अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका || ६-२८ || प्. २६९) प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममांकुरं तथा | तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे || ६-२९ || चतुर्गोचर संज्ञन्तु प्रोक्तं भेदानि मे शृणु | स्वाद्ध्यायङ्कुरु शुश्रूषा संयमः सत्यवाचकम् || ६-३० || प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् | शान्त्यादिकर्मकुशला मारणादि सुपेशका || ६-३१ || रक्षकान्तु महिसर्वां महिपालवृतात् तु वै | पततिर्णकणान् भूमौ भक्षयित कपोतवत् || ६-३२ || कपोत जीविताये च कपोतास्तु प्रकीर्तिताः | सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि || ६-३३ || त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदा हृताः | समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् || ६-३४ || ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः | क्षेमारामेसु तीर्थे वा तत्प्त्नि सहजीवनः || ६-३५ || सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै | दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः || ६-३६ || पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः | वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः || ६-३७ || अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै | आशनं गुलिकामात्रं गुलिकान्ते महावृताः || ६-३८ || शरीरदण्डनं कृत्वा वीरासन रतः सदा | वृतैश्च दण्डन अस्मात् ते नैव दण्डनं स्मृतम् || ६-३९ || कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् | रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् || ६-४० || स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः | चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह || ६-४१ || चरन्ति संसवद्ये च निर्मले कलसं श्रये | वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः || ६-४२ || ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? | वृता वै शेषिकाः प्रोक्ता गोचराणामिदं वृतम् || ६-४३ || प्. २७०) अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् | वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः || ६-४४ || चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै | पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते || ६-४५ || पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे | पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे || ६-४६ || ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा | अघोरं दक्षिणे पद्मे सद्यं पश्चिमपंकजे || ६-४७ || सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै | तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः || ६-४८ || तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा | व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः || ६-४९ || व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् | स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः || ६-५० || प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् | व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै || ६-५१ || तदभावे जलेलिङ्गे प्रक्षेपणविधिं शृणु | नद्यां वापि तटाके वा तीरे समतले शुभे || ६-५२ || अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः | संपूज्य वृतशुद्ध्यन्तु संग्राह्य विधिवत् ततः || ६-५३ || व्योमव्यापि शिवे नैव तल्लिङ्गन्तु जलेक्षिपेत् | स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् || ६-५४ || प्रोक्तं वृतेश्वरं यागं समाचारविधिं शृणु | प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् || ६-५५ || ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकम् | गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः || ६-५६ || ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः | प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं शृणु || ६-५७ || वाचकः सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् | जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते || ६-५८ || प्. २७१) ऋषिच्छन्दोवर्ण तत्वदेवतास्तु शृणु क्रमात् | काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः || ६-५९ || आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः | अनुष्टुप्चत्रिजगती * * * * * * * * || ६-६० || छन्दांसि सर्वमाख्यातं वर्णान्येव मम शृणु | रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् || ६-६१ || पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् | सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः || ६-६२ || प्रणवेन समायुक्तं जपकाले तथा चरेत् | तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् || ६-६३ || जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् | मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च || ६-६४ || व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् | सहस्रं मानसं तस्मादंगुल्यादि जपं शृणु || ६-६५ || अङ्गुल्या जपसंख्या तु तुल्या एकफलं तथा | रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् || ६-६६ || सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् | मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते || ६-६७ || पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते | रुद्राक्षस्य ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना || ६-६८ || दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया | मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते || ६-६९ || एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् | सन्धार्य मृयते यस्तु सयाति परमांगतिम् || ६-७० || द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते | चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् || ६-७१ || षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृताः | अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् || ६-७२ || प्. २७२) नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् | हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना || ६-७३ || सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् | दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् || ६-७४ || प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् | रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा || ६-७५ || प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये | ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते || ६-७६ || तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैः सदा | जपकालञ्च शेषञ्च वक्ष्यते तु समासतः || ६-७७ || पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके | चतुष्कालं त्रिकालं वा तद्देशञ्च शृणुष्व हि || ६-७८ || नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा | वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् || ६-७९ || दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः | पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते || ६-८० || पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् | लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च || ६-८१ || रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ | पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा || ६-८२ || भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् | शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः || ६-८३ || पंकमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति | पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः || ६-८४ || अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् | जपं समासतः प्रोक्तं पवित्रारोहणं शृणु || ६-८५ || इति वृताचारविधि पटलः षष्ठः || ६ || प्. २७३) अथ पवित्रारोहण विधिपटलः अथातः संप्रवक्ष्यामि पवित्रारोहणं शृणु | सर्वपूजा समृद्ध्यर्थं वृतपूर्णार्थमेव च || ७-१ || सर्वकर्मसुहीनेषु पूर्णार्थं कारयेत् बुधः | आलये देवमारभ्य सर्वसंपत्कराय च || ७-२ || शिवपूजाकरोकार्यः पवित्रारोहण क्रियाम् | आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः || ७-३ || प्रोष्ठमासे स्वयुङ्मांसे कृष्णपक्षेऽथवा पुनः | द्वितीयादि चतुर्थादि षष्ठ्यादि च विशेषतः || ७-४ || अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् | अष्टम्यादि दशम्यादि द्वादशादी च वा बुधः || ७-५ || चतुर्दश्यान्तकं कार्यं पवित्रारोहण क्रियाम् | सप्ताहञ्चैव पञ्चाहं त्रियाहं वापि कारयेत् || ७-६ || सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते | आर्द्रायां रोहिणी युक्ते कारयेत् तत्पवित्रकम् || ७-७ || कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् | स्नपनन्तु यथा शक्त्या शिवाग्निन्तु विशेषतः || ७-८ || विशेषपूजनं कृत्वा नमस्कृत्वा विशेषतः | मया कृतानिदानानि द्रव्याणीह वृतानि च || ७-९ || अनया पूजया सर्वाः संपूर्णास्तु प्रसीदत | एवं विज्ञाप्यतं शंभु नमस्कृत्वा तु भक्तितः || ७-१० || तत्भस्मदन्तकाष्ठानि तोयं सूत्रं समावहेत् | नदिमृत् भस्मपूर्णे वा मलके वा परिग्रहम् || ७-११ || पूर्ववत् तस्य संग्राह्य पालाशं दन्तकाष्ठकम् | अथवा याज्ञकै वृक्षैर्नव वा सप्तसंख्यया || ७-१२ || कनिष्ठांगुलिनाहन्तु द्वादशांगुलीदीर्घकम् | वस्त्रपूतेन तोयेन संपूर्यनवमृत्घटम् || ७-१३ || द्वात्रिंशत् प्रस्थपूर्णं वा तदर्द्धं त्वर्धमेव वा | सूत्रैः संवेष्टयित्वा तु वस्त्रैरावेष्ट्य यत्नतः || ७-१४ || प्. २७४) पञ्चरत्नानि निक्षिप्य रत्नालाभे हिरण्यकम् | सूत्रं प्रागेव संग्राह्य निर्मितं द्विजकन्यया || ७-१५ || यथा संभवसूत्रं वा शोधयेत्तोय भस्मना | तत्सूत्रं द्विगुणं प्रोक्तं तदेव द्विगुणं भवेत् || ७-१६ || नवसंख्या तु यत्सूत्रं पवित्रं कनकसिद्धिदम् | वामाद्या शक्तयस्तत्र नवसूत्राधि देवताः || ७-१७ || लिङ्गोत्सेध समायामं प्रासादे तु पवित्रकम् | हस्तमात्रसमायामं पवित्रमिहशोभनम् || ७-१८ || सूत्रैर्विवर्धयेद्विद्वान् नवधा तु पवित्रकम् | नवषोडशविंशद्भिरधमत्रयमेव च || ७-१९ || पञ्चविंशच्च द्वात्रिंशत् षट्त्रिंशे मध्यमत्रयम् | पञ्चाशत्सप्ततिश्चैव नवतिश्चोत्तमत्रयम् || ७-२० || एतेषान्तु यथा शक्त्या पवित्रं लक्षणान्वितम् | प्रशान्तायेति मन्त्रेण ग्रन्धयित्वा पवित्रकम् || ७-२१ || तस्य मध्ये दशग्रन्धिं बध्वासूत्रेति देशिकः | नवसप्ताष्टसूत्रैर्वा ग्रन्धिं कृत्वा विचक्षणः || ७-२२ || इन्द्रादिलोकपालाश्च ग्रन्धीनामधि देवताः | आत्मार्थेप्येवमाख्यातं सूत्रसंग्रहणं क्रमे || ७-२३ || सकलानान्तु बिंबानां तदुत्सेधं प्रकीर्तितम् | रात्राधिवासने प्रोक्तं पवित्राणि विशेषतः || ७-२४ || निर्दिष्टदिवसे सुद्ध पवित्राण्यधिदेवताः | प्राङ्मुखे मण्डपे रम्ये वितानाद्युपशोभितम् || ७-२५ || मण्डले वर्तयेत् तस्या मध्ये पूर्वोक्तमार्गतः | पूजाविद्ध्युक्तमार्गेण तस्मिन्न्यस्यात् सदाशिवम् || ७-२६ || हविर्निवेदनं कृत्वा फलभक्ष्यान्यनेकधा | तस्याग्रे तु पवित्राणि तद्रात्रौ चाधिवासयेत् || ७-२७ || पवित्राणां तथाग्रे तु कुण्डे वा स्थण्डिलेऽथवा | शिवाग्निं पूर्ववत् कृत्वा समिदाज्यां न संयुतम् || ७-२८ || तत्पवित्रविशुद्ध्यर्द्धं तद्रात्रौ चाधिवासयेत् | शालितण्डुलपुष्पाद्यै स्थण्डिलञ्चतुरश्रकम् || ७-२९ || प्. २७५) संस्तिर्योपरिवस्त्रेण गन्धपुष्पादिभिः सह | वस्त्रोपरि पवित्राणि संस्थाप्याभ्यर्च्य बुद्धिमान् || ७-३० || वस्त्रौराच्छाद्य शिरसा धूपयेद्धृदयेन तु | भस्मदक्षिनतः शुद्धं मृच्चूर्णं पश्चिमे दिशि || ७-३१ || सोमे संस्थाप्यतोयन्तु दन्तकाष्ठानि पूर्वके | एतानि गन्धपुष्पाद्यैरर्चयेद्धृदयेन तु || ७-३२ || उत्तराच्छाद्नं कृत्वा दर्भैरुपरिदेशिकः | तत्र संपूज्य देवेशं गन्धपुष्पस्रगादिभिः || ७-३३ || गन्धैराच्छाद्यविधिवत् पुष्पैराच्छाद्ययत्नतः | दर्भैराच्छाद्य पश्चात् तु सुत्रैरावेष्ट्य बुद्धिमान् || ७-३४ || शिवमारोपयेद् रात्रौ पवित्रं पिण्डिकान्वितम् | धूपदीपसमायुक्तं संपूज्य हृदयेन तु || ७-३५ || हुत्वातेऽग्निं समाराध्य पवित्रं लिङ्गवर्ततः | प्रभूतञ्चैव नैवेद्यं पञ्चवर्णे विशेषतः || ७-३६ || शिवाग्नौ मूलमन्त्रेण शतं हुत्वा विचक्षणः | द्रव्यांस्तु हृदये नैव होतव्यं व्याहृतिं ततः || ७-३७ || नृत्तगेय समायुक्तं रात्रौ निद्रां विवर्जयेत् | प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः || ७-३८ || पर्यूषितानि पुष्पाणि पवित्राणि विसर्जयेत् | पूजनं पूर्ववत् कृत्वा स्नपनान्ते विशेषतः || ७-३९ || मृच्चूर्णलेपनं पूर्वं भस्मनालेपनं ततः | दन्तकाष्ठैश्च दन्तानि धावयेद् देशिकोत्तमः || ७-४० || पूर्णकुंभोदकैः स्नानं कृत्वा गन्धादिभिः पुनः | वस्त्रैराभरणैश्चैव मूलमन्त्रेण देशिकः || ७-४१ || संपूज्य देवदेवेशं नृत्तगेय समन्वितम् | सदाशिवमनुस्मृत्य मूलमन्त्रं समुच्चरेत् || ७-४२ || पवित्रारोहणं कृत्वा देवेशं पिण्डिकान्वितम् | मण्डलस्थं शिवं यष्ट्वा गन्धाद्यैरनुपूर्वशः || ७-४३ || सहस्राक्षरमन्त्रेण हुत्वातेऽग्निं समर्प्य वै | पवित्रं वह्निमारोप्य परिषेषमथाचरेत् || ७-४४ || प्. २७६) पञ्चवरणदेवानां पवित्रं हृदयेन तु | अन्येषाञ्चैव देवानां दापयेत् तु पवित्रकम् || ७-४५ || कर्तुश्च देशिकस्यैव तयोः पत्न्याश्च देशिकः | शिष्याणां परिचाराणां दत्वा वै तत्पवित्रकम् || ७-४६ || गन्धपुष्पैस्तु संपूज्य धूपदीपैर्विशेषतः | प्रभूतहविषं पश्चात् पायसादीनि दापयेत् || ७-४७ || होमन्तथैव कर्तव्यमाद्यन्तं मुनिभोजनम् | जनानां सर्वदानानि दत्वा तत्र यथार्हकम् || ७-४८ || वस्त्रैराभरणाश्चाद्यैराचार्यं पूजयेत् ततः | यतीनां शुद्धशैवानामन्यान्महेश्वरानपि || ७-४९ || विशेषभोजनं दानं कृत्वा तत्र स्वशक्तितः | संश्राव्यसमवान् पश्चाद् देवदेवस्य चाग्रतः || ७-५० || एतानि वृतदानानि संपूर्णानि प्रसीदतः | एवं विज्ञापयेद्देवं समाप्तिर्नयनं तथा || ७-५१ || पाशजालानि संश्चिद्यमोक्षं तद्दातुमर्हसि | प्रणम्यदण्डवत् भूमौ नमस्कृत्वा विशेषतः || ७-५२ || तस्मादारभ्य चाब्दान्तं षट्चतुर्मासमेव च | तन्मासं तद्दिनं वापि नियमेन नयोद्धृतः || ७-५३ || नियमेष्वर्चयेद् धिमान् लिङ्गोक्तमवदारयेत् | ततस्त्यक्त्वा तु निर्माल्यं स्नात्वा पूजां समाचरेत् || ७-५४ || रोपयेत् तत्पवित्रन्तु माविभग्नं दिनेदिने | नियमावृतसूत्रन्तु तदासूत्रावरोहणम् || ७-५५ || अरोहिणिपवित्राणि पुष्पाणि च विसर्जयेत् | पूर्ववत् पूजनं कृत्वा प्रभूतहविषं ततः || ७-५६ || यागोप योगद्रव्याणि ह्याचार्याय प्रदापयेत् | पवित्रारोहंअं प्रोक्तं हिरण्यगर्भकन्तुलाम् || ७-५७ || इति पवित्रारोहणविधि पटलः सप्तमः || ७ || प्. २७७) अथ हिरण्यगर्भतुलाभरविधिपटलः अथातः संप्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् | दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ || ८-१ || ग्रहणे विषुवेकाले अयने तु प्रशस्यते | पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके || ८-२ || पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् | ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् || ८-३ || स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् | पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् || ८-४ || तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः | दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् || ८-५ || प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा | पश्चिमे चोत्तरेवापि अन्तराले मनोरमे || ८-६ || चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् | दशद्वादशहस्तं वा षोडशस्तंभसंयुतम् || ८-७ || चतुस्तोरणसंयुक्तं सर्वालंकारसंयुतम् | दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् || ८-८ || तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् | उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् || ८-९ || अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह | अथवा चतुरश्राणि वृत्तानि विदिशासु वै || ८-१० || चक्रशंकरयोर्मध्ये वृतकुण्डं प्रकल्पयेत् | अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु || ८-११ || स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा | तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् || ८-१२ || गन्धपुष्पैः समभ्यर्च्य धूपदीपैर्विशेषतः | हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् || ८- १३ || ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् | तथोभागे न्यसेन्मंत्री बीजमुख्येन मन्त्रतः || ८-१४ || प्. २७८) प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः | जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् || ८-१५ || भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः | शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः || ८-१६ || सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः | प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः || ८-१७ || शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः | ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः || ८-१८ || सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलंकृतः | शिवोहमिति संभाव्य यावत् स्वस्वाहितावतः || ८-१९ || तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् | हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् || ८-२० || भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु | प्रणिपत्य गुरुं तत्र संपूज्य च विशेषतः || ८-२१ || होत्रान् संपूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः | सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् || ८-२२ || दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः | शैवमार्ग स्थितानां तु ग्रहिणां लिंगिनामपि || ८-२३ || भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् | प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः शृणु || ८-२४ || पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु | खदिरश्चन्दनञ्चैवस्तालं चंपकविल्वकैः || ८-२५ || अन्यैस्तु सारवृक्षैर्वा कृत्वास्तं भद्वयं ततः | तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् || ८-२६ || सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदंगुलम् | अग्रयोः सुषिरं कृत्वा बध्वाशृंखलया दृढम् || ८-२७ || समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा | किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः || ८-२८ || आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः | दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् || ८-२९ || प्. २७९) स्तंभं वस्त्रैस्तु संवेष्ट्यः सर्वालंकारसंयुतम् | तुलामारोप्य नृपतिः सर्वाभरणभूषितः || ८-३० || तुलामनुसमायुक्तं हृदयेन विचक्षणः | शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः || ८-३१ || शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः | अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् || ८-३२ || दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा | आदिशैवानुशैवानां दापयेत् तु यथार्हकम् || ८-३३ || वा जपेय सहस्रैस्तु राजसूयशतैरपि | अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् || ८-३४ || तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं शृणु | इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः || ८ || अथ दहनविधिपटलः अतः परं प्रवक्ष्यामि दहनस्यविधिक्रमम् | यदा चैतन्यरहिते प्रारभेद्दहनक्रियाम् || ९-१ || दहनञ्च कृतिं भद्रञ्चावटाग्निकमेव च | अवटादि क्रियाः सर्वाः संक्षेपाच्छृणु सुवृत || ९-२ || गर्भस्रावञ्च पतनमुढगर्भं तथा प्रजाः | चौलकार्यादयोमर्त्या ये मृताश्चावटाभिकाः || ९-३ || दहनं हलिकर्मादि वर्ज्यन्तेषां प्रयत्नतः | पवनोर्ध्व मृतिर्येषामब्दं प्रतिदिनेदिने || ९-४ || बलिदाहाद्यकर्माणि सममेतदुदाहृतम् | दशवर्षादतिक्रान्ते दशाहं दापयेत् बलिम् || ९-५ || अवटाग्निककार्यं तु समासात् प्रोच्यतेऽधुना | कृत्वा शरीरशुद्धिं तत् रजनीपुष्पशोभितम् || ९-६ || प्. २८०) दर्भैरावेष्ट्य यत्नेन बन्धुभिः परिवारितः | कार्पासवाससा वापि ग्राहयेत् तु विचक्षणः || ९-७ || शिवभक्तिः शुचिर्भूत्वा भस्मोद्धूलितविग्रहः | अपसव्योपवीतस्तु कृतदर्भोत्तरीयकः || ९-८ || गत्वा श्मशान देशे तु शुद्धदेशेमनोहरे | खात्वोर्वीं तत्प्रमाणेन विस्तारं तत्प्रमाणतः || ९-९ || बाहुमात्रभिदे निम्ने न्यस्त्वादर्भाक्षतादिभिः | शिरस्तु दक्षिणे देशे शाययेन्मृतकं तथा || ९-१० || तूष्णीं गन्धादिनाभ्यर्च्य दर्भैराच्छाद्यतच्छवम् | मृदं संपूर्य तत्रैव सुस्निग्धन्तु सुवर्णकैः || ९-११ || तदा स्नानञ्च कर्तव्यं तत्सपिण्डैः सहैव तु | दाहक्रियाविना यत्र बलिकर्म न कारयेत् || ९-१२ || अवटाग्निकमेवोक्तमाकृतिञ्च ततः शृणु | वाचायुक्तस्यमरणं शस्त्रेणैव तु मुष्टिका || ९-१३ || वसूरिक्षयकुष्ठाद्यैरात्म घातकमारणम् | जलेन श्रिंगिणावापि वह्निना वा विशेषतः || ९-१४ || एतैस्तु मरणं एषां तेषामाकृतिरुच्यते | सर्पेण पशुनानागैर्देशाद् देशान्तरे गते || ९-१५ || द्वादशाब्दादति क्रान्ते चा कृतिर्दहनं स्मृतम् | तस्य पत्न्यस्ति चेत्तत्र वैधव्यं कारयेत् क्रमात् || ९-१६ || बलिकर्माणि चान्यानि कृत्वा चैव समन्त्रकम् | पश्चात् कृते गते वापि मङ्गल्याभरणं तथा || ९-१७ || मङ्गल्यमुत्तरीयेण पत्न्याकण्ठे तु रोपयेत् | आचार्यं पूजयेद्धिमान्यावदा मरणान्तिकम् || ९-१८ || यत्र पूर्वक्रियासूत्या तत्र कर्म न कारयेत् | शस्त्रादिमरणं यत्र कार्यं संवत्सरोपरि || ९-१९ || अमन्त्रेण दहेद् देहं खनित्वा चाथभूतले | सुदर्भैराकृतिं कृत्वा सूत्रैरावेष्ट्य चा कृतिम् || ९-२० || पलाशपत्रैरावेष्ट्य सर्वाङ्गं परिकल्प्य वै | मृतवत् सर्वकर्माणि कारयेत् तु विचक्षणः || ९-२१ || प्. २८१) आकृतेर्दहनं प्रोक्ता दहनस्य विधिं शृणु | शवशुद्धिं पुराकृत्वा भस्मस्नानमतः परम् || ९-२२ || सिकते स्थण्डिलङ्कृत्वा स्वप्रमाणेन देशिकः | दर्भैरुपरिविन्यस्य प्रेतं तत्रोपविन्यसेत् || ९-२३ || बध्वापादौ च हस्तौ च रङ्गमाल्यैरलङ्कृतम् | ध्यात्वा शिवतनुं पूर्वं ब्रह्माङ्गाकृति विग्रहः || ९-२४ || कर्णमन्त्रञ्जपं कृत्वा बीजमुख्यन्तु मन्त्रतः | स्नात्वा चम्यविधानेन वामे तदुपवीतकम् || ९-२५ || सपिण्डैर्बान्धवैर्वापि संस्नाययेवं शिवाग्निकम् | चतुरश्रमलङ्कृत्वा खनित्वा कीलकत्रयम् || ९-२६ || तेषामूर्ध्वे तथा पात्रं न्यस्त्वाधसुषकं बुधः | तस्याधश्चाग्निमुद्दीप्य तु षकाग्नौ यथा विधि || ९-२७ || शिवाग्निं ध्याययेत् तत्र गन्धाद्यैश्चाग्निपूजनम् | निधाय शुद्धदेशे तु कृत्वाश्वास परीक्षणम् || ९-२८ || हृन्नासिकर्ण देशेषु स्पर्शयित्वा क्रमात् बुधः | हृदयेन तु मन्त्रेण श्वासंसंशोध्यमन्त्रवित् || ९-२९ || अघोरेण तदुथाप्य शशाने चोपरोप्यते | यावत् प्रेतस्य चायामं तावत् भूमिन्तु खातयेत् || ९-३० || अरतिमात्रमर्धं वा तिलाक्षत कुशोदकैः | वामदेवेन संप्रोक्ष्य स्नात्वाकोणेषु कीलकान् || ९-३१ || सूत्रैरावेष्ट्य परितः काष्ठन्तत्रैव निक्षिपेत् | प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववत् बुधः || ९-३२ || हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिः | होमशेषं घृते नैव चरुक्षीराक्षतादिभिः || ९-३३ || नाभि हृद्वक्त्रदेशेषु हृदयेन विनिक्षिपेत् | इन्धनोपरि विन्यस्य दक्षिणे तु शिरस्ततः || ९-३४ || दत्वाहिरण्यशकलं नवद्वारेषु बुद्धिमान् | तदास्य चक्षुषी कर्णौ नासिद्वारौ गुहसथा || ९-३५ || लिङ्गञ्चेति नवद्वारं हृदयेन निधापयेत् | क्षीरतण्डुलसम्मिश्रं दत्वा वामेन चास्यके || ९-३६ || प्. २८२) छेदयित्वा ततः पाशमघोरास्त्रेण मन्त्रवित् | स्रग्वासञ्च ततः कुर्यात् सपिण्डैर्भ्रातृभिस्तथा || ९-३७ || प्रदक्षिणत्रयं कृत्वा वेलाग्रेणैव बुद्धिमान् | जलधारा समायुक्तं वह्निस्थ नवमृत्घटम् || ९-३८ || प्रदक्षिणवशाद्वारमस्त्रमन्त्रेण देशिकः | प्रदक्षिणत्रयङ्कृत्वा वामपार्श्वे निधाय वै || ९-३९ || ततः कपालतोयैश्च प्राणस्थानेषु योजयेत् | मूर्धादिपादपर्यन्त माज्यालेपं सुशोभितम् || ९-४० || पादद्वयञ्च संस्पृश्य स्मृत्वागौ तु हविष्यवत् | अघोरेणाग्नि निक्षिप्य शिरस्थाने शिवं स्मरेत् || ९-४१ || नद्यां वापि तटाके वा सुस्नात्वा भारकैः सह | पञ्चगव्यं घृतं पीत्वा मूलमन्त्रं शतञ्जपेत् || ९-४२ || यथा शक्त्याधनं दत्वा ब्राह्मणानां दरिद्रिणाम् | तीर्त्थं गत्वा यथा न्यायं स्नापयित्वा सपिण्डकैः || ९-४३ || तिलोदकन्तु तातव्यं तस्य तन्नामपूर्वकम् | दहनस्य विधिः प्रोक्ता ब्रह्मचर्यादिषु क्रमात् || ९-४४ || दहनन्तु न कुर्वीत यतीनाञ्चावटाग्निकम् | संवाह्य शिबिकाद्येषु तूर्यशब्दैर्महारवैः || ९-४५ || सर्वमङ्गलकर्माणि कारयेत् तु विचक्षणः | खात्वादण्डप्रमाणेन प्राङ्मुखं तत्र पूर्ववत् || ९-४६ || स्नानं तत्र न कुर्वीत नास्त्ये वा शौचं मंत्रिणः | बलिकर्मणि कर्तव्यमेकोद्दिष्टाधिकं विना || ९-४७ || समासाद्दहनं प्रोक्तं पितृयज्ञविधिं शृणु | इति दहनविधिपटलोनवमः || ९ || प्. २८३) अथ पितृयज्ञविधिपटलः अथातः संप्रवक्ष्यामि पितृयज्ञविधिक्रमम् | दहनान्ते बलिङ्कृत्वा एकोद्दिष्टन्तदन्तिके || १०-१ || आश्रमाणां त्रयाणाञ्च बलिपिण्डोदक क्रिया | कर्तव्यं द्वारवामे तु न्यस्त्वा चात्मशरावकम् || १०-२ || कूर्चं प्रादेशमात्रन्तु अश्ममध्ये विनिक्षिपेत् | पितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् || १०-३ || तस्य तत् गोत्रनाम्ना तु सर्वद्रव्यं हृदाबुधः | प्रथमेह्नि बलिन्दत्वा चान्येष्वेवन्तु दापयेत् || १०-४ || तस्य प्रीतिकरं द्रव्यं दापयित्वा प्रयत्नतः | पितृपूजा यदा कुर्यात् तस्य तुष्टिप्रदं सदा || १०-५ || द्वितीयेहनितन्त्रात्मा दाहकेन समन्वितः | सपिण्डैः सहगत्वा तु श्मशाने चाग्निके पुनः || १०-६ || घृतक्षुरसमायुक्तं शेषाङ्गं दहनञ्चरेत् | सप्ताहे नवभाण्डन्तु अस्थिसंग्रहणं तथा || १०-७ || सक्तुलाजोदना पूपैश्चतुर्दिक्षु च दापयेत् | अङ्गैरङ्गादिकन्धार्य तन्मन्त्रेणैव निक्षिपेत् || १०-८ || पुण्यनामा तु मतिमान् शुभार्थाय च देहिनाम् | नवाहे वा पराह्णे तु शरावाश्मसुपूर्ववत् || १०-९ || दशरात्रमति क्रम्य सर्वान्तस्थान्विसर्जयेत् | स्थापयित्वा जलान् सर्वान् गोमयेन तु लिप्य वै || १०-१० || पुण्याहं तत्र कुर्वीत ग्रहेऽस्मिं तदशेषतः | एकादशाहे कर्तव्यमेकोद्दिष्टं विसर्जयेत् || १०-११ || कृतिकालमथारभ्य सुभक्षापेक्षकं विना | ग्रहे वा पुरतो वापि प्रपां वै कारयेत् बुधः || १०-१२ || चतुरश्रे समेशुभ्रे सर्वालङ्कारसंयुते | शैवतन्त्रविदः सर्वान् तस्य मध्ये समावहेत् || १०-१३ || प्. २८४) पाद्याचमनार्घ्यं दत्वा नम स्मृत्वा तु चाग्रतः | ममेदं पितृयागन्तु सर्वशास्त्रार्थमस्तु वै || १०-१४ || अनुग्रह्णं त्विति ब्रूयादावर्तेका वटद्वयम् | श्राद्धकर्म समारभ्य दक्षिणे तत्पदार्थिनः || १०-१५ || पदार्थिनो निमित्तञ्च विश्वेदेव पुरस्कृतान् | शैवाचारवृतांश्चैव श्रोत्रियान् प्रियदर्शिनः || १०-१६ || संग्राह्यैतान् नमस्कृत्वा पादौ शौचं ततः कुरु | कारयेच्चद्वयं पूर्वन्तयोर्दर्भान् परिस्तरेत् || १०-१७ || प्रक्षिप्याथ तिलं मध्ये तैलेनाभ्यञ्जनं ततः | सर्वानभ्यञ्जनङ्कृत्वा स्नानं सर्वान् समाचरेत् || १०-१८ || देवाग्नि पितृयज्ञार्थं स्थण्डिलं त्रयमत्र वै | उत्तरे देवदेवेशं मध्यमेऽग्नीं प्रकल्पयेत् || १०-१९ || दक्षिणे पितृपिण्डं च शूर्पाकारन्तु देशिकः | कारयेद्व्यजनं भक्त्या शिवस्य विधिपूर्वकम् || १०-२० || मेध्येऽग्निं विधिवद्धुत्वा दक्षिणाग्निं परिसरेत् | तद्वत् परिधयस्तत्र समिदाज्योदनैस्तिलैः || १०-२१ || हुतायना ममूलेन प्रत्येकन्तु शताहुतिः | सहस्राक्षरमन्त्रेण होमङ्कृत्वा तु शक्तितः || १०-२२ || अघोरेण शतं हुत्वा स्वनाम्ना तु शताहुतिः | निमित्तञ्च त्रयंभोज्यं विश्वौ देवौ प्रपूजयेत् || १०-२३ || गन्धाद्यैश्च समभ्यर्च्य वर्धनीञ्च सतण्डुलाम् | वस्त्रं कांसं सुवर्णञ्च शयनं पादुकं तथा || १०-२४ || दक्षिणाञ्च यथा शक्त्या दापयेत् भक्तिसंयुतः | तांबूलन्तु विशेषेण दत्वा वैकंप्रणम्य च || १०-२५ || दर्भाग्रैसुसमुद्वास्य पश्चात् पिण्डन्तु देशिकः | शूर्पे सोदनदद्याच्यैर्मर्दयेत् सा पदंशकैः || १०-२६ || कदली पुष्पवत् पिण्डं दक्षिणाग्रं विशेषतः | स्वाहान्तं प्रणवान्तं वा मन्त्रमेतदुदाहृतम् || १०-२७ || प्. २८५) चतुर्थ्यन्तं हिते मध्ये तस्य नामसमन्वितम् | तत्सूत्र गन्धपुष्पञ्च धूपदीपं विशेषतः || १०-२८ || तिलं दत्वोदकञ्चैव तांबूलमपि पार्श्वकाः | ध्यात्वा परमसत्भावं शिवं तत्वैकतां बुधः || १०-२९ || पात्रे पिण्डं समुत्थाप्य ततो हंसन्नियोजयेत् | शैवान् संभोज्ययत्नेन पिण्डं रात्रौ जलेक्षिपेत् || १०-३० || पित्रयज्ञविधिः प्रोक्तः सपिण्डीकरणं शृणु | इति पितृयज्ञविधिपटलोदशमः || १० || अथ सपिण्डीकरणविधिपटलः अथातः संप्रवक्ष्यामि सपिण्डीकरणं परम् | द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा || ११-१ || तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् | देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे || ११-२ || संपूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः | पृथिव्यापस्थथा तेजोवायुराकाशमेव च || ११-३ || तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः | पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् || ११-४ || तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् | लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् || ११-५ || अर्चनोक्तविधानेन तस्मिन् संपूजयेच्छिवम् | तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् || ११-६ || पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् | त्रितीयञ्चैव सारूप्यं सा युज्यन्तु चतुर्थकम् || ११-७ || प्. २८६) एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् | अष्टकाहोमकार्यं तु संक्षेपं शृणु सुवृत || ११-८ || माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः | सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च || ११-९ || अष्टका कुरुते विद्वानस्य द्वारे तु वायदि | शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् || ११-१० || पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः | दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् || ११-११ || पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु | संप्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं शृणु || ११-१२ || इति सपिण्डीकरणविधिपटल एकादशः || ११ || अथ प्रायश्चित्तविधिपटलः अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् | ज्ञातीनाञ्च सगोत्राणां प्रायश्चित्तन्तु नोच्यते || १२-१ || तथा प्रबद्धलोकस्य लोकाचारं नलंघयेत् | अदत्वा प्रातिबुद्धस्य प्रायश्चित्तं विधीयते || १२-२ || स्वजाति दीक्षितं स्पृष्ट्वा भस्म स्मानं विशेषतः | शूद्रस्य स्पर्शने तस्य सचेल स्नानमाचरेत् || १२-३ || अन्तरालानि सर्वाणि स्पर्शने स्नानकद्वयम् | प्रमादात् स्पर्शने विद्वान् जलस्नानं विधीयते || १२-४ || भस्मस्नानं ततः कृत्वा शिवमन्त्रशतञ्जपेत् | बुध्यासं स्पर्शनञ्चेति पूर्ववत् स्नानकर्मकम् || १२-५ || तद्दृष्टे भोजनेकाले तच्छेषान्नन्त्यजेत् बुधः | स्नानद्वयं तत कृत्वा जप्त्वा मूलं शताष्टकम् || १२-६ || प्. २८७) दुर्गन्धं वायुनागच्छेन्नासाग्रे भिनिवर्तके | गोमयन्तु तथा जिघ्रन् सद्यः पञ्चाक्षरञ्जपेत् || १२-७ || स्वजातिदीक्षितानाञ्च भुक्त्वाकामेन वै बुधः | व्योमव्यापिञ्जपेदेवं यदिकामाच्छतं जपेत् || १२-८ || नृपान्नभोजने वैद्योघोरमन्त्रं शतञ्जपेत् | भुक्ते वैश्यान्नमेवन्तु सहस्रान्तञ्जपेत् क्रमात् || १२-९ || भुक्ते त्वकामाद्रुद्रान्नं कृच्छ्रञ्चांद्रायणञ्चरेत् | चान्द्रायणञ्च कामाद्वै कृच्छ्रञ्चैव तु कूष्मकम् || १२-१० || भूक्ते चैकाहमूर्ध्वे तु कृच्छ्रञ्चान्द्रायणञ्चरेत् | मासे निरन्तरे भुंक्ते शुद्रत्वमुपजायते || १२-११ || शूद्रेणैव तु संयुक्तो नित्यं शूद्रवदाचरेत् | शूद्रस्त्री सङ्गमं कृत्वा सप्तकृच्छ्रन्ततश्चरेत् || १२-१२ || सप्तकृच्छ्रादिकृच्छ्रञ्च मासंमासार्धगामिनः | षाण्मासंवत्सरं वापि कृच्छ्रञ्चान्द्रायणञ्चरेत् || १२-१३ || अब्दादुपरिसंयोगे प्रायश्चित्तं न विद्यते | तस्याचारञ्च तद्वच्चमरणान्ते विशेषतः || १२-१४ || रजस्वलाङ्गना स्पर्शे भुक्ते स्नात्वा शिवञ्जपेत् | हेरण्ड कवटाश्वत्थ पत्रेषु यदिभोजनम् || १२-१५ || कामादकामतो वापि शिवमन्त्रं शतञ्जपेत् | उच्छिष्टे घृतसंयुक्ते क्षीरेलवणसंयुते || १२-१६ || जपित्वा हृदयं तत्र सर्वदोषनिक्रन्तनम् | भुक्त्वान्नदर्शने केशे त्यक्त्वा संशोध्यभस्मना || १२-१७ || संस्मरेद् देवदेवेशं जलं प्राप्यविशुद्ध्यति | लशुनं मत्स्यमांसञ्च निर्माल्यञ्च विसर्जयेत् || १२-१८ || प्रमादात् भक्षयित्वा तु शिवमन्त्रं जपेच्छुचिः | कामेन यदि भुंजितं शिवमन्त्रशतं जपेत् || १२-१९ || प्. २८८) पातकानाञ्च सर्वेषां समसाच्छृणु सुवृत् | ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च || १२-२० || गुर्वङ्गनागमञ्चैव तद्योगं पञ्चमं स्मृतम् | गुरुतल्पसुरापानं ब्रह्महत्या चते त्रयः || १२-२१ || मरणाभिमुखे प्रोक्तन्तेषाञ्च मरणं शृणु | बीजं कोशसमायुक्तं मूले संच्छिद्यसाहसात् || १२-२२ || तालपत्रस्य नालेन गुरुतल्पीमृतस्तथा | हस्ते संग्राह्य तप्तानां सुरापी मरणं भवेत् || १२-२३ || वचनाच्छृणु ताच्छ्रिद्रं प्रमादादग्निसंभ्वे | विप्रचिह्नं परित्यज्य संप्राप्य स्वहतं पदम् || १२-२४ || ब्रह्महाचेति वा गच्छेनहा प्रस्थानमाचरेत् | सकृत् प्रवेशीतद्ग्रामं द्वितीयं न प्रवेशयेत् || १२-२५ || भर्त्रानारी समागच्छन् ग्रामान्ते नयतान्निशि | एवञ्चाकामतोज्ञेयः कामत शृणु सुवृत || १२-२६ || कृत्वा पूर्ववदाचर्य द्वादशाब्दान्तकं यथा | तदूर्ध्वगमने काले जलेवह्नौरणेपतन् || १२-२७ || संप्रविश्यापि मरणं नयेच्छुद्धो भविष्यति | स्वर्णस्तोधि च तद्योगात् समासाः शृणु सुवृत || १२-२८ || दानं कृत्वा तु सर्वत्र तीर्थे स्नात्वा तु वत्सरम् | शिवमन्त्रं जपेद् देही पश्चादुद्दालकञ्चरेत् || १२-२९ || इदं सुवर्णसेयस्य प्रायश्चित्तं विधीयते | चतुर्भिरथसंयुक्तं कामतो कामतोपि वा || १२-३० || न गाग्रे पञ्चब्रह्माणि जपित्वा वत्सरत्रयम् | मन्दिरे शिवहर्म्ये वा वने वापि विचक्षणः || १२-३१ || जले लक्षन्तथा कामि स्नात्वा तु दिवसं प्रति | विशेषपातकञ्चोक्तं सामान्यं शृणु सुवृत || १२-३२ || मृगजाति कृते हिंसां सद्यमन्त्रं शतं जपेत् | पशुजातेश्च हिंसायां प्रागुक्त वृतमाचरेत् || १२-३३ || प्. २८९) पक्षिजातौ वेद्धिं सा घोरमन्त्रं शतं जपेत् | सरीस्रपादि हिंसाचेत् पुरुषन्तु शतञ्जपेत् || १२-३४ || स्थावराणि च हिंसाया मीशमन्त्रं शतं जपेत् | गुरोस्तु वेतनार्थञ्च हिंसायान्तु न दोषभाक् || १२-३५ || सामान्य पातकं प्रोक्तं सामान्यसेयकं शृणु | मृद्दारुशैललोहाञ्च कामतोकामतो भवेत् || १२-३६ || ईशमन्त्रं शतं जप्त्वा लक्षं कामेन वै बुधः | स्तेयं समासतः प्रोक्तं सूतकञ्च ततः शृणु || १२-३७ || ग्रहस्थोग्रहिणी योगात् सूतकं प्रेतकं द्विधा | दशाहाच्छुद्धिविप्रस्य द्वादशाहात् नृपस्य तु || १२-३८ || वैश्यस्य पक्षतः शुद्धिर्मासं शूद्रस्य चोच्यते | सम्यक् ज्ञानी स्वधर्मस्थो न त्यजेत् ज्ञातिनं ततः || १२-३९ || शुद्ध्यते तत्क्षणात् ज्ञानी अज्ञानी चोक्तभाक् भवेत् | अन्यथा कुलहानिः स्यात् प्रायश्चित्ते कृते सति || १२-४० || देवाग्नि गुरुपूजादि हीनेद्विगुणमाधिके | अघोरन्तु शतं जप्त्वा स्वधर्मपूरितस्तथा || १२-४१ || आशौ चान्नन्ततो भुक्त्वा कृच्छ्रं तत्रैव कारयेत् | त्रिसन्धौ पायसादीनि भुकेतु प्रेतकेपि वा || १२-४२ || सूतके सूतके प्राप्ते प्राक्सुतांशेन शुद्ध्यति | शूतके सूतकं वापि प्रेतके प्रेतकं तु वा || १२-४३ || प्राप्ताशौचदिनं शुद्धं पूर्वाशौचाद्विनश्यति | निकृष्टजाति संयुकेमन्दिरे संस्थिते सदा || १२-४४ || सर्वान् भाण्डान् परित्यज्य कृच्छ्रशुद्धिर्विधीयते | कृच्छ्रञ्चैवाति कृच्छ्रञ्च तपकृच्छ्रन्तथैव च || १२-४५ || पराकञ्चान्द्रायणोद्दालन्तेषामाचरणं शृणु | दिवसत्रयमेकाशी अयाचितदिनत्रयम् || १२-४६ || दिनत्रयन्तु नक्ताशी निराहारदिनत्रयम् | एवं कृच्छ्रं समाख्यातमति कृच्छ्रं ततः शृणु || १२-४७ || प्. २९०) पिबेत् क्षीरस्य कुडुपमेकविंशद्दिनान्तकम् | स्नानाद्ध्यायसमायुक्तमति कृच्छ्रमिति स्मृतम् || १२-४८ || त्र्यहमुष्णोदकं पीत्वा क्षीरञ्चैव त्र्यहं पिबेत् | त्र्यहमुष्णघृतं पीत्वा त्रयाहं वायुभक्षणम् || १२-४९ || तप्त कृच्छ्रं समाख्यातं पराकञ्च ततः शृणु | अनश्नन् द्वादशाहन्तु स्नानं कृत्वा त्रिसन्धिषु || १२-५० || पराकमिति विख्यातं सर्वद्रव्यस्य पूर्वकम् | मासार्धं ग्राहवृद्धिः स्यान्मासार्द्धं क्षयमेव च || १२-५१ || चांद्रायणमिति प्रोक्तमुद्दालकं ततः शृणु | आमीक्षकं पिबेत् पक्षमष्टरात्रं घृतं स्मृतम् || १२-५२ || अयाचितन्तु षड्रात्रं त्रिरात्रमुदकं बिबेत् | उपवासमहोरात्रमेवमुद्दालकं स्मृतम् || १२-५३ || * * * कुसुमं प्रोक्तमशनं ग्रासमात्रतः | एतेषु प्रायश्चित्तेषु स्नात्वा स्नात्वाशिवं जपेत् || १२-५४ || सहस्राष्टशतं वापि यथा शक्त्या जपेत् ततः | चतुर्विधा समाख्याता शिवश्वेता इमाः शृणु || १२-५५ || उदितोदितमुक्तश्च पादाधिक्यन्तमोदितः | अर्द्धाधिक्याधिकान्तञ्च द्विगुणास्तु समासतः || १२-५६ || अनुक्तमिहशास्त्रे तु शेषं सामान्यवच्चरेत् | प्रायश्चित्तमिदं प्रोक्तञ्चर्या पादे समासतः || १२-५७ || चर्यापादं समाप्तं स्याद्योगपादं ततः शृणु | इति प्रायश्चित्तविधिपटलोद्वादशः || १२ || इति सुप्रभेदे चर्यापादः समाप्तः ओं शिवमयम् सुप्रभेदम् अथ योगपादे-नाडी चक्रविधिपटलः प्. २९१) अथातः संप्रवक्ष्यामि योगपादं समासतः | तस्यपादस्य पूर्वे तु नाडीचक्रक्रमं शृणु || १-१ || द्विसप्तति सहस्राणि नाडयस्तु प्रकीर्तिताः | नाडीभिर्व्यावृते देहे जीर्णाश्वत्थस्य पत्रवत् || १-२ || अशीतिश्च चतुश्चैव शतसाहस्रभेदकैः | शरीरे क्रीडते देवाः स्वेच्छया परमेश्वरम् || १-३ || भूतग्रामैश्चतुर्भिश्च सर्वयोनि समुद्भवम् | अण्डजं स्वेदजञ्चैव उत्बीजञ्च जरायुजम् || १-४ || अण्डजाताश्चये भावास्त्वण्डजास्ते प्रकीर्तिताः | स्वेदजाताश्चये भावास्वेदजास्तु प्रकीर्तिताः || १-५ || भूमौ तु तोयबीजाभ्यां मुत्भिदाश्चेति कीर्तिताः | इल्वयुक्ताश्चये जाताः कीर्तितास्ते जरायुजाः || १-६ || भूतग्रामैश्चतुर्भिश्च नराद्याषड्विधो भवेत् | नरश्चैव मृगश्चैव पशुः पक्षीतथैव च || १-७ || सरीस्रपः स्थावरश्च षड्विधं योनिसंभवम् | वाचा वदन्ति यद्वाण्या ते नरास्त्विति कीर्तिताः || १-८ || ऊर्ध्वपुच्छन्तु तद्वृद्धिं मृगं विद्याद्विनायक | अधोदीर्घाश्च ये पुच्छाः पशुजातिरुदीरिता || १-९ || द्विपक्षाः पक्षिरित्याहु सरतीतिसरीस्रपः | स्थापितं स्थावरं प्रोक्तं षड्विधं भूतमेव च || १-१० || अथ्यन्ते योनि भेदानि क्षेत्रं स्यात् भूमिकं शृणु | पृथिव्यादीनि तत्वानि यत्र तिष्ठन्ति तल्लये || १-११ || लयस्थानं तदाख्यातं तत्वातीतं परात्परम् | तस्माच्छिन्नं समुत्पन्न तस्माच्छक्तिरजायत || १-१२ || प्. २९२) तस्मान्नादिं समुत्पन्नं तस्मात् बिन्दुसमुद्भवम् | तस्मात् सदाशिवं प्रोक्तं सृष्ट्यर्थं पञ्चधा भवेत् || १-१३ || तस्मादात्मा समुत्पन्नं सहजं मलसंयुतम् | क्षेत्रज्ञन्तं विजानीयाच्छक्तिस्थन्तु तथोच्यते || १-१४ || तस्मादुपरिवेशस्य शुद्धावस्थोनुकीर्तिताः | शुभाशुभ वरप्राप्तौ तत्र गच्छन्ति जायते || १-१५ || मायाद्यवनि पर्यन्तं देहबद्धोत्र दृश्यते | कर्मोदये तु जननं कर्मान्ते मरणं स्मृतम् || १-१६ || सुखदुःखनिमित्ताय शरीरग्रहणं कृतम् | शरीरं द्विविधं प्रोक्तं पुंसत्व स्त्रीत्वमेव च || १-१७ || लिङ्गेन लांच्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलांच्छितम् | लिङ्गमीशमयं प्रोक्तं योनिः शक्तिमयं स्मृतम् || १-१८ || तस्माद्वै शिवशक्तिस्तु सर्वमेतत् चराचरम् | तच्छरीरं द्विधाप्रोक्तं स्थूलं वै सूक्ष्ममेव च || १-१९ || पृथिव्यापस्तथा तेजोवायुराकाशमेव च | शुक्रं बीजां शमित्युक्तं क्षेत्रांशं श्रोणितं स्मृतम् || १-२० || अस्थि स्नायुश्चमज्जा च पित्रजंस्त्रयमेव तु | त्वङ्मांसशोणितञ्चैव मातृजं त्रिकमेव च || १-२१ || इत्थं षट्कौशिकं प्रोक्तं शरीरान्तैस्तु जायते | नखदन्तश्च रोमाणि केशाश्च नाडयस्तथा || १-२२ || शब्दस्पर्शश्च रूपश्च रसोगन्धश्च पञ्चधा | एतैर्भूतगणैर्युक्तं स्थूलं शरीरकं भवेत् || १-२३ || शूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् | जननमरणञ्चैव कर्मणा जायते ततः || १-२४ || एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया | श्रोत्रं त्वक्चक्षुजिह्वा च घ्राणं बुद्धीन्द्रियं विदुः || १-२५ || वाक्पादपाणि पायुश्चोपस्थं कर्मेन्द्रियं स्मृतम् | प्राणः समानोदानश्च अपानोव्यान एव च || १-२६ || नागः कूर्मश्चक्रकरो देवदत्तोधनञ्जयः | मनोबुद्धिरहंकारश्चित्तोन्तः करणं स्मृतम् || १-२७ || प्. २९३) मदमात्सर्यमानादि सूक्ष्मशारीरकं भवेत् | इदं शरीरं लिङ्गं हि तयोर्जन्म ततः शृणु || १-२८ || शुक्लं रक्तेन संभाव्य जनन्याश्चोदरे स्थितम् | कर्मादौ सकलं ग्राह्यं प्राप्यते सुषिराशयम् || १-२९ || क्षेत्रांशैश्चैव बीजांशैः शरीरव्याव्रतोगतः | रक्ताधिक्क्यात् स्त्रीप्रजा च शुक्लाधिक्यात् पुमान् भवेत् || १-३० || यदिशुक्लसमंरक्तं जायते तु नपुंसकम् | भजने तु यथा बिदुर्वद्धते तु शनैः शनैः || १-३१ || पुन्नागमुकुलाकारं गर्भाशयगतं तथा | मरणादीनि कर्माणि निमित्तानि वरेण तु || १-३२ || आयुष्यं विभवं कर्मविद्या च निधनं सुखम् | षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशन् || १-३३ || गुणाश्चैव त्रिदोषाश्च जन्तूनान्तत्र संभवाः | सत्वं रजस्तमश्चैव गुणत्रयमिहोच्यते || १-३४ || सत्यं ज्ञानं तपोमौनं स्मृतिर्मेधाधृतिः क्षमा | उत्साहो निश्चयन्धैर्यमेवं वै सात्विकं गुणम् || १-३५ || दर्पं महदहंकारं विषादं प्रियवाचकम् | उद्योगंमात्सरं प्रोक्तं रजसंगुणमुच्यते || १-३६ || आलस्यं मोहनिद्राश्च चापलं ही नवृत्तिकम् | पापिष्ठं परनिन्दा च तामसं गुणलक्षणम् || १-३७ || गुणानान्तु समावस्था मूलप्रकृतिरुच्यते | संक्षेपात् त्रिगुणं प्रोक्तं त्रिदोषांश्च शृणुष्वमत् || १-३८ || वातं पित्तंकफञ्चैव रोगाणामधिपा स्मृताः | सर्वजन्तुषु सामान्यं समंवाधिकमेव च || १-३९ || एवमादीनि चान्यानि संविशेत् सुषिराशयम् | गर्भाशयगते काले वायुनाभिद्यते यथा || १-४० || तदा रूपद्वयङ्गत्वा वर्धते तु शनैः शनैः | पञ्चाहे तु दशाहे तु पत्मपत्रस्थतोयवत् || १-४१ || मासान्ते चाक्षफलवद् विमासां मृफलाकृतिः | त्रिमासेऽष्टाङ्गुलं दीर्घञ्चतुर्मासे शिरोभवेत् || १-४२ || प्. २९४) हस्तौ चैव तु पादौ च पञ्चमासे प्रकीर्तितम् | नखाङ्गुल सपादौ च गुल्भौ च नलकौ तथा || १-४३ || जंघेजानु तथा चोरुकटिस्फिक् जघनं तथा | स्तनपार्श्वोदरारभ्य कक्षौ वक्षाभुजावुभौ || १-४४ || पादयोर्हस्तयोरेखा ह्यंगुष्ठे नखपर्वगाः | गलः कर्णौ च जिह्वा च ओष्ठौ दन्ताश्च नासिका || १-४५ || नयनं भ्रूललाटश्च शिरः केशादयस्तथा | एतान्यङ्गानि सर्वाणि जायते षष्ठमासिके || १-४६ || सप्तमासेन्न पानौ च नाभिनालेन भुज्यते | प्रसूयते वा तन्मासे वायुना न प्रसूयते || १-४७ || अष्टमासे समुत्थाय वीणादण्डं समाश्रितम् | संप्राप्याष्टगुणैश्वर्य मणिमादिकमत्र वै || १-४८ || त्रिकालन्तु विजानाति ज्ञानात् सर्वं प्रकाशते | जायते चाष्टमे मासे जातश्चोत्तमजीवती || १-४९ || जायते नवमे मासे दशमासे तु वा पुनः | ततस्त्वेकादशे मासे मायया प्रेरितो जनः || १-५० || बोद्धव्यं शक्तिना काचित् श्रमदाहक्षुधादिकान् | एवमादीनि वर्द्धन्ते क्रमेणैव शनैः शनैः || १-५१ || तत्र भूत्वान्न वीर्येण वर्धन्ते सप्तधातवः | अन्नद्रवसमुत्पन्न रसाद्वै श्रोणितं स्मृतम् || १-५२ || श्रोणितान्मांसमुत्पन्नं मांसान्मेदः समुत्भवम् | मेदसोस्थि समुत्पन्नं तस्मात् मज्जातु संभवम् || १-५३ || मज्जाशुक्लं समुत्पन्न मित्येते सप्तधातवः | शरीरन्धातुभिः प्राप्तं धातुभिः शब्दराशयः || १-५४ || शब्दादिविषयं ज्ञानं द्विमासोपरिपूर्णके | पञ्चविंशति तत्त्वानि वक्ष्यते तु समासतः || १-५५ || भूतानि भूतमात्राणि ततो बुद्धिन्द्रियाणि च | कर्मेन्द्रियाणि विघ्नेश तथान्तः करणानि च || १-५६ || अव्यक्तेन समायुक्तं पञ्चविंशदुदाहृतम् | पृथिव्यादीनि तत्वानि प्राप्यते त्वखिलान्तनुम् || १-५७ || प्. २९५) पृथिव्यापस्तथा तेजोवायुराकाश एव च | महाभूतानि चोक्तानि तेषां भेदं शृणुष्वहि || १-५८ || यत् कठिनं तत्पृथिवी यद्रव्यं ह्याप उच्यते | यदुष्णञ्चेत्ततो वह्निर्वायुः सञ्चरति त्विह || १-५९ || अवकाशं यदा काशं महाभूतगणास्विमे | अस्थित्वक्मांसकेशाश्च नाडयस्त्विह कीर्तिताः || १-६० || पृथिव्यं शास्तथा ज्ञेयास्त्वाप्यंशाश्च ततः शृणु | कफः शोणितमूत्राणि मज्जाशुक्लन्तथैव च || १-६१ || द्रव्यांशकमिति ज्ञेयं सर्वप्राणि च संस्थितम् | क्षुधानिद्रा च कृष्णा च आलस्यं मैधुनं तथा || १-६२ || एते पञ्चगुणा प्रोक्ता तेजोंशा इति संस्थिताः | आस्ते शेते च गमनं प्रसाराणि निरोधनम् || १-६३ || एते पञ्चगुणा प्रोक्ता वायवंशा सुप्रकीर्तिताः | कामक्रोधञ्च लोभञ्च भयोमोहसथैव च || १-६४ || पञ्चैतेनुगुणा प्रोक्ता व्योमांशास्तु प्रकीर्तिताः | प्रोक्तं भूतगुणञ्चैवं गुणन्तेषान्तु वक्ष्यते || १-६५ || शब्दस्पर्शञ्चरुपञ्च रसंगन्धञ्च पञ्चधा | आकाशस्य गुणं शब्दं वायोस्तु स्पर्शनं गुणम् || १-६६ || तेजसस्तु गुणं रूपं रसमापगुणं स्मृतम् | पृथिव्यास्तु गुणं गन्धं भूमिकादीनि विन्यसेत् || १-६७ || विषयं त्विति विख्यातं भूतानाङ्गुणमुच्यते | शब्दादिविषयं पुण्यं भूमौ तु विनिवर्द्धते || १-६८ || चतुर्गुणाः प्रवर्धन्ते त्रिगुणस्त्वथ वह्निके | वायोश्च द्विगुणं प्रोक्तमाकाशस्यैकमेव तु || १-६९ || विषयाणि तथोक्तानि बुद्धिन्द्रियाणि ततः शृणु | श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं बुद्धिन्द्रियाणि च || १-७० || शब्दादिविषयाणाञ्च साधनन्ते प्रकीर्तितम् | बुद्धीन्द्रियाणामेतेषां देवभूतात्मकं शृणु || १-७१ || प्. २९६) श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यमधि भूतता | शिवहस्ताधि दैवन्तु त्वगेवाध्यात्मकं विदुः || १-७२ || स्पर्शनञ्चाधिभूतः स्याद् वायुस्तत्राधिदैवतम् | चक्षुरध्यात्ममित्युक्तं द्रष्टव्यमधिभूतता || १-७३ || सूर्यस्तत्राधिदैवत्य जिह्वाचाध्यात्मकं विदुः | रसज्ञात्वधिभूतन्तु वरुणश्चाधिदेवता || १-७४ || घ्राणमध्यात्ममित्युक्तं घ्रातव्यमधि भूतता | बृहस्पत्यधिदैवञ्च प्रातः शक्तिरिति स्मृतम् || १-७५ || बुद्धीन्द्रियाणि चोक्तानि शृणु कर्मेन्द्रियाणि च | वागध्यात्मकमित्युक्तं वक्तव्यमधि भूतता || १-७६ || सरस्वत्यधिदैवत्यं वाणिरध्यात्मकं ततः | दातव्यमधिभूतश्च शक्रस्तत्राधिदेवता || १-७७ || पादमध्यात्मकं प्रोक्तं गमनञ्चाधि भूतता | शक्राधिदैवतं प्रोक्तं वायुरध्यात्मकं विदुः || १-७८ || * * * मधिभूतः स्यात् मित्रस्तत्राधि दैवतम् | उपस्थोध्यात्ममित्युक्तमानन्दमधिभूतता || १-७९ || प्राजापत्याधिदैवत्यं क्रियाशक्तिरिति स्मृता | कर्मेन्द्रियाणि चोक्तानि ततोन्त करणं शृणु || १-८० || मनोहङ्कारबुद्धि च चित्तोन्तः करणं विदुः | मनोध्यात्ममिति प्रोक्तमन्तव्यमधिभूतता || १-८१ || सोमाधि दैवमित्युक्तो हङ्कारोध्यात्मकं विदुः | अधिभूतमहंकारं रुद्रमूर्त्यधिदैवतम् || १-८२ || बुद्धिरध्यात्ममित्युक्तं बोद्धव्यमधिभूतता | क्षेत्रज्ञस्याधिदैवं स्याच्चित्तमध्यात्मकं स्मृतम् || १-८३ || चैतन्यमधिभूतं हि ईश्वरश्चाधिदैवतम् | मन्यते तंमनो ज्ञात्वा अहङ्कारमहंकृतम् || १-८४ || बोद्ध्यत्वात् बुद्धिरेवं हि चिन्तत्वाच्चित्तमुच्यते | मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् || १-८५ || प्. २९७) अहङ्कारं त्रिधाज्ञेयं भूतवैकारि तेजसम् | वक्ष्यते तु समासेन भूतसारसमुद्भवम् || १-८६ || शब्दतन्मात्रमादौ तु गन्धतनात्रमर्थके | एतानि पञ्चमात्राणि भूतानां सृष्टिरुच्यते || १-८७ || स्यात्तैजस अहंकारे इन्द्रियाणि समुद्भवम् | वैकारिकमहङ्कारे इन्द्रियाणि समुद्भवम् || १-८८ || वैकारिकमहंकारे अधिदेवाः समुद्भवम् | बुद्धिरष्टविधा ज्ञेया धर्माधर्मादिरष्टधा || १-८९ || चित्तमेक विधं ज्ञेयं तच्चान्तः करणं विदुः | चतुर्भिरन्तः करणैश्चतुर्विंशतिरुच्यते || १-९० || उपादानन्तु तेषां वै चाव्यकमिति निन्दितम् | अव्यक्तस्य तु धर्मः स्यात् त्रिगुणं संप्रकीर्तितम् || १-९१ || तामसं राजसञ्चैव सात्विकञ्च तृतीयकम् | तामसेयान्ति नरकं राजसे स्वर्गमुच्यते || १-९२ || सात्विके मोक्षमित्युक्तं तस्मात् सात्विकमुच्यते | सात्विके सर्वकर्माणि एक चित्तस्तु सात्विकम् || १-९३ || तस्मात् सर्वप्रयत्नेन सात्विकङ्गुणमाश्रये | पञ्चविंशति तत्वानि समासात् कीर्तितानि तु || १-९४ || तेभ्य एकादशं तत्वं समासात् च्छृणु सांप्रतम् | पुंरागोनियती विद्याकलाकलस्तथैव च || १-९५ || शुद्धविद्याशुद्धकला शुद्धमायान्तथैव च | आत्मतत्वञ्च विद्याञ्च शिवतत्वमतः परम् || १-९६ || एकादशानि तत्वानि शरीरे संस्थितानि तु | कञ्चुकत्रयमाविश्य शनैः कालेन वित्तमः || १-९७ || आलिंग्यते नियतिना आत्मवद्भाववर्तकः | प्रकृतिः पौरुषं यस्मान् तस्मात् पुरुष उच्यते || १-९८ || बालार्कशतसाहस्र भागैकं तत्र चिद्विदुः | सञ्जिव इति विख्यातः संसारी चेति चोच्यते || १-९९ || प्रधानादि विशेषान्तं व्यापं वै परिशक्तिना | कलाशक्तिरितिख्याता चानमु?क्तैस्तु कारणा || १-१०० || प्. २९८) धर्माधर्माधिसंबन्धा दाणवं सहजं स्मृतम् | इत्येवमादि संबन्धाच्छरिरेषु व्यवस्थिताः || १-१०१ || संबन्धास्तस्य जीवस्य दुःखत्रयमिहोच्यते | आध्यात्ममधिभूतञ्च अधिदैविकमेव च || १-१०२ || त्रिविधं दुःखमाप्नोति तेषामाध्यात्मकं शृणु | आध्यात्मकं द्विधाप्रोक्ता शरीरं मानसं तथा || १-१०३ || गुल्मारशोति सारञ्च ज्वरशूलाद्यनेकधा | नरमृगपिशाचैश्च गोपक्षीचोरराक्षसैः || १-१०४ || प्रोक्तं शरीरकं दुःखं मानसं शृणु सुव्रत | शोकासूयावमानेर्ष्या मासाध्यादिभिरेव च || १-१०५ || एवं मानसमाख्यातमाधिभौतिकमुच्यते | शीतोष्णवातवर्षैश्च विद्युदाशनिमारुते || १-१०६ || एतैर्भूतैस्तु जन्दुःखमाधिदैविकमुच्यते | गर्भजन्मजरा ज्ञानमृत्युर्नरकजं तथा || १-१०७ || प्रोक्तं दुःखत्रयं ह्येवमेषु स्थानेषु भूज्यते | ततोदराग्निना गर्भे मातृशीलेन बाध्यते || १-१०८ || गर्भात् कोटिगुणं दुःखं योनि यंत्रे प्रपिडनम् | एवमादीनिदुःखानि शरीरीभुज्यते क्रमात् || १-१०९ || जाग्रत् स्वप्नं सुषुप्तिश्च तुर्यावस्था ततः शृणु | इन्द्रियाणि गताबुद्धिः कृत्वा कर्माण्य शेषतः || १-११० || करणी यानि सर्वाणि दृश्यन्ते जाग्रदेव तु | करणानि चेंद्रियाणि बध्वावै वाश्रयं भवेत् || १-१११ || निद्रामाश्रयते बुद्धिर्मन्यते पूर्वकर्मकम् | एवं स्वप्नं विजानीयात् सुषिपिञ्च ततः शृणु || १-११२ || करणानि गृहीत्वा तु बुद्धिश्चैतन्यमागता | तदाश्रये तु काले तु कर्माण्य प्रतिबुद्ध्यति || १-११३ || सुषिप्तिरिति विख्याता तुरीयं करणं विना | जाग्रोमुखगतो जीवस्वप्ने कर्णं समाश्रितः || १-११४ || प्. २९९) सुषुप्तौ हृदमाश्रित्य तुर्ये सर्वगत स्मृतः | एवं व्यवस्थितो देहे नाडयश्च तत शृणु || १-११५ || नाभिमूलन्तु हृन्नाल नाडयश्चक्रवत् तथा | तिर्यगूर्ध्वमधश्चैव व्याप्तितातैस्तु सर्वतः || १-११६ || चक्रवत्संस्थिता ह्येताः प्रधानश्चाष्टविंशतिः | तेषु प्रधानभूतास्तु इडादिदशनाडयः || १-११७ || इडयाविमाशोषा पृथिवी आपनी तथा | तेजोवती वायुवी च गमनीमर्दनी तथा || १-११८ || रोदनीरक्तवागि च मृद्वंगी श्रिंगिणी तथा | शब्दा स्पर्शा च पूर्णा च सद्रूपारसधारिणी || १-११९ || सर्वाङ्गेषु स्थिता ह्येता प्रधानाश्चाष्ट विंशतिः | तासुनाडीषु चान्तस्थाः प्राणादि दशवायवः || १-१२० || प्राणापानस्तथाव्यान उदानश्च समानकः | नागकूर्माश्चक्रकरो देवदत्तोधनञ्जयः || १-१२१ || दशप्राणा इति प्रोक्ता वायवः समुदहृताः | वायूनान्तु नवानाञ्च प्रभुः प्राणप्रकीर्तिताः || १-१२२ || निश्वासोछ्वासकासैश्च प्राणीनामुदरे स्थिताः | इन्द्र निलप्रतिकाशप्राणरूपसुकीर्तिताः || १-१२३ || नादसंयुक्त जीवान्त जीवमाश्रित्य नित्यशः | स्थान हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः || १-१२४ || अपान पृष्ठमाश्रित्य वामदक्षिणनिर्गमम् | प्राणस्य लक्षणं प्रोक्तमपानञ्च ततः शृणु || १-१२५ || अपानो जीवमाश्रित्य तद्वर्णञ्चैंद्रकोपवत् | स्थानन्तु मेढ्रमुले तु गुदमूलन्तु निर्गमम् || १-१२६ || नाभेरधस्तात् स्थानन्तु मेढ्रमूले तु निर्गमम् | पुरीषोत् सर्गमात्रादि प्राणापानाश्च निर्गमम् || १-१२७ || प्राणापानोपहे नित्यं शरीराख्यं महारथम् | दीपान्तस्थ प्रभु प्राणोरक्षाङ्कृत्वा महामनुम् || १-१२८ || प्. ३००) व्यानं सकलमाश्रित्य स्पर्शादीनी प्रबोधकः | गोक्षीरसमवर्णं स्यात् स्थानं सर्वाङ्गसन्धिषु || १-१२९ || उदानच्छक्तिरोगाणामुद्भवन्तत्र कारयेत् | विद्युत्पावक सङ्काशान्तस्य वर्णं प्रकीर्तितम् || १-१३० || स्थानं पार्श्वौ च कर्णौ च चक्षुषोर्घ्राणयोस्तथा | समान वायोर्वर्णन्तु अतसी कुसुमप्रभम् || १-१३१ || स्कन्धे मूर्धनि जिह्वाश्च जंघयोर्गुल्भयोस्तथा | अन्नपानरसन्नित्वा चा पादतलमस्तकम् || १-१३२ || अशेषानन्नपानादीन्वैश्विनराग्नि संयुतम् | तत्रा शयाख्य कुण्डे तु हुतं तत्रैव कारयेत् || १-१३३ || तत्र नागसुवर्णन्तु मार्ताण्डोदय सन्निभम् | हित्काञ्चरोमहर्षादिन् गेयभक्तिञ्च कारयेत् || १-१३४ || उदयञ्च ललाटञ्च स्थानन्नासादि चासनम् | कुन्दपुष्पसमाकारं कूर्मवायोः प्रकीर्तितम् || १-१३५ || नेत्रपक्षौ तु संप्राप्य निमीलोन्मीलनङ्कुरु | कृकरस्य तु वर्णं स्यात् भिन्नाञ्जनसमप्रभम् || १-१३६ || क्षुधादिकुरुते नित्यं नासाग्रे तु व्यवस्थितम् | देवदत्तस्य वर्णं स्यात् शुद्धस्फटिक सप्रभम् || १-१३७ || मुखं पृष्ठञ्च पादञ्च पार्श्वञ्चैव विशेषतः | उत्थाप्यशयनासीनं विज्रंभणमतः परम् || १-१३८ || धनञ्जयस्य वर्णस्यां नीलाञ्जनसमप्रभम् | धनञ्जयस्थितो देहममृतस्यापिमुञ्चति || १-१३९ || पश्चात् तु ब्राह्मणं कृत्वा शरीरं भिद्यते गतः | इत्येते दशवायूनां प्राणादीनां प्रचक्षते || १-१४० || इडादिनाडयस्तत्र शरीरेव्या प्रतस्तथा | नाडीमध्ये ततो वायुः सञ्चरेत् क्रमशस्तथा || १-१४१ || कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तिताः | अष्टवर्तुलमेवन्तु कुण्डलीनाडिसुप्तवत् || १-१४२ || नाभेरूर्ध्वं भवेत् पद्मं तटाकाब्जं तु पुष्पवत् | तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः || १-१४३ || प्. ३०१) तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निकुण्डलम् | तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभम् || १-१४४ || वामपार्श्वे इडानाडी पिंगलादक्षनाडिका | सुषुम्ना मध्यमे चैव यावदङ्गुष्ठकान्तका || १-१४५ || गान्धारी दक्षिणे नेत्रे हस्ति जिह्वा च वामके | पूषा वै दक्षिणे कर्णे वामकर्णे यशस्विनी || १-१४६ || अलंपुष्पन्तु मेडुन्तु कुहूश्चैव गुदे स्थिता | शखिनी नासिमध्ये तु दशनाडी ह्यवस्थिता || १-१४७ || अशेषानाडयः सर्वाश्चक्रवद् व्यावृतस्तनुम् | चक्रवद् वा वृतोयस्मान् नाडीचक्रमिहोच्यते || १-१४८ || नाडीचक्रमिदं प्रोक्तं कालचक्रमथ शृणु || इति नाडीचक्रविधिपटलः प्रथमः || १ || अथ कालचक्रविधिपटलः अथातः संप्रवक्ष्यामि कालचक्रस्यलक्षणम् | कालञ्च कुरुते यस्मात् कालमेवमुदाहृतम् || २-१ || प्राणीनाञ्चैव देवानां विनाशोत्पत्तिकारणम् | अमूर्तिं कालमाख्याता दृष्वादष्टन्तु लक्षणम् || २-२ || त्रिविधं कालमाख्यातं शिवेन परिभाषितम् | सृष्टिकालं स्थितिकालं संहारञ्चेति कीर्तितम् || २-३ || शिवाद्यवनि पर्यन्तं सृष्टिरेवमुदाहृतम् | या स्थितिः सर्वभूतानां शिवाद्यानन्तक स्थितम् || २-४ || पृथिव्यादि शिवान्ताये लयङ्गच्छेत् परापरम् | तदा संहारमेवोक्तं त्रिविधं कालनिर्णयम् || २-५ || त्रिषुकालेषु वर्तन्तेतीतानां गमं ततः | वर्तमानाख्यकं कालमुच्यते वै पृथक् पृथक् || २-६ || प्. ३०२) यदा शेषं समाप्तन्तु तदा तीतमिति स्मृतम् | सापेक्षकञ्च यत्काले तदा नागतमुच्यते || २-७ || असमाप्तं यदारब्धं वर्तमानमुदाहृतम् | तत्कालमव बोद्धव्यं देवादीनामुदाहृतम् || २-८ || युगपत् सृष्टि संहारौ स्थितिकाले निवर्तते | केचित् कालात् सृजन्त्येव केचित् कालात् भ्रमन्ति च || २-९ || मनुष्य पितृदेवानां कालसंख्यान्ततः शृणु | कालञ्च द्विविधं प्रोक्तं स्थूलं सूक्ष्मन्तथैव च || २-१० || मौक्तिकं (मौकिकं) स्थूलमाख्यातं योगिनां सूक्ष्ममेव च | स्थूलञ्च द्विविधंवत्स चंद्रादित्यस्य चारणम् || २-११ || चंद्रस्य वर्तनाकालोमनुष्याणां प्रकीर्तितम् | सूर्यस्य वर्तनाकालो देवानान्तु प्रकीर्तितम् || २-१२ || कालचक्रे तु वर्तन्ते भास्करादि ग्रहास्थथा | द्वादशारयुते चक्रे मेषाद्याराशयोरवेः || २-१३ || पट्टिकायाञ्च नाभौ च मध्ये वायुः प्रकीर्तिताः | मेरुमूर्ध्निगतञ्चक्रं ब्रह्माण्डे संव्यवस्थितम् || २-१४ || कुलालचक्रवन्नित्यं भ्रामस्तत्रैव देवताः | मेरुं प्रदक्षिणं कृत्वा नक्षत्राणि ग्रहाणि च || २-१५ || सूर्योदयास्तमायान्तमहरेवविदुर्बुधाः | अस्तमयादुदयान्तं निशा चैवमुदाहृतम् || २-१६ || अहर्निशिद्वयोपेतमहोरात्रमिति स्मृतम् | दिवाप्रातरहञ्चैव प्रोक्तः पर्यायवाचकाः || २-१७ || शर्वरीरजनीसायं निशिनक्तन्तु रात्रिकम् | हायादि देवतानान्तु पितृणां प्रातरादिकम् || २-१८ || मनुष्याणामहोरात्रमितिशास्त्रेसु निश्चितम् | मनुष्याणां हितार्थाय सर्वसंपत्कराय च || २-१९ || पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धयामके | तस्मात् सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् || २-२० || यामं प्रतिविशेषेण पूजयेदष्टसन्धिषु | यामार्धं सन्धिरित्युक्तमहोरात्रन्तु पूजयेत् || २-२१ || प्. ३०३) मनुष्याणां दिनं प्रोक्तं पञ्चपञ्चदशाहकः | पक्षद्वयिशुक्लपक्षः कृष्णपक्षस्तथैव च || २-२२ || एकराशिगतौ यत्र चन्द्रादित्यौ सहैव तु | तत्रामावास्याचेत्युक्तं तत्पक्षं शुक्लमुच्यते || २-२३ || सप्तराशिगतञ्चंद्रं तत्र पूर्णकलामतः | पौर्णमासी ततः प्रोक्तः कृष्णः पञ्चदशाहकः || २-२४ || पक्षद्वयं तथा मासोमासाद्वादशवत्सरम् | वर्षञ्चैवाब्द पर्याय वाचकाः परिकीर्तिताः || २-२५ || शताब्दन्तु मनुष्याणामायुष्यं समुदीरितम् | मृगाणां सर्वजातीनां शताब्दायुः प्रकीर्तितम् || २-२६ || नराणाञ्चैव चायुष्यं शतञ्चैव प्रकीर्तितम् | एवमुक्तं मनुष्याणां पितृकालं ततः शृणु || २-२७ || मनुष्याणामहोरात्रं पितृणां घटिका भवेत् | त्रिंशत्घटिमहोरात्रं शुक्लपक्षन्तु वासरम् || २-२८ || निशिकृष्णं विजानीयात् पितृणां तदहर्न्निशम् | पूर्वसन्धिरमावास्या मध्याह्नञ्चाष्टमी भवेत् || २-२९ || पौर्णमास्यपराह्णन्तु अष्टमीचार्धयामकम् | दिवसैर्द्वादशैर्मासं मासैर्द्वादशवत्सरम् || २-३० || अमावास्यान्तु या पूजा पितॄणान्तु प्रसादद | पितृकालमिदं प्रोक्तं मनुष्याणां हिताय वै || २-३१ || देवानां वक्ष्यते कालस्तुट्यादि प्रलयान्तकम् | तुटिलवनिमेषाश्च काष्ठा चैव कला तथा || २-३२ || क्षणं मुहूर्तं घटिका सन्धिर्यामस्त्वहर्निशि | दिवसः पक्षमासौ च ऋतुस्त्वयनवत्सराः || २-३३ || युगमन्वन्तरौ कल्पं महाकल्पप्रलयस्तथा | तुट्यादिप्रलयान्तञ्च लक्षणं शृणु सांप्रतम् || २-३४ || स्वस्थान राक्षिकोन्मील उन्मीलन्तु निमेषकम् | निमेषस्य चतुर्भागन्तुटीरेवमुदाहृतम् || २-३५ || तुटिद्वयलवं विद्धि लवद्वयनिमेषकम् | निमिषोदश पञ्चैव काष्ठाः सा त्रिंशतिः कला || २-३६ || प्. ३०४) कलार्धस्तु क्षणं प्रोक्तं क्षणद्वयं मुहूर्तकम् | तदर्द्धं घटिका प्रोक्ता सर्वकार्यन्तया कृतम् || २-३७ || सत्रिपादत्रिघटिका सन्धिरित्युच्यते बुधैः | सन्धिद्वयन्तथायाम चतुर्यामन्दिवा स्मृतम् || २-३८ || तदहर्मात्र विज्ञेय महोरात्रं दिनं स्मृतम् | दिनपञ्चदशः पक्षो मासः पक्षद्वयं तथा || २-३९ || पूर्वपक्षोपरञ्चैव तौपक्षद्वयमुच्यते | मासद्वयं ऋतुः प्रोक्तमयनं वै ऋतुस्त्रयम् || २-४० || अयनद्वयमब्दं हि अहोरात्रन्तु दैविकम् | देवानान्तु दिवाप्रोक्तं मकरादि ऋतुस्त्रयम् || २-४१ || ऋतुस्त्रयं कुलीरादि निशि चैवमुदाहृतम् | संक्रान्ति विषुवे चैव अयने च प्रकीर्तिताः || २-४२ || अन्यराशि गते भानौ राशिमध्ये तु संक्रमः | तुलामेषगते सूर्ये विषुवे तत्प्रकीर्तितौ || २-४३ || कुलीरेमकरे प्राप्ते दक्षिणञ्चोत्तरायणम् | उत्तरायण संक्रान्तिः पूर्वाह्नमिति कीर्तितम् || २-४४ || चैत्रे विषु च मध्याह्ने अपराह्ने तु दक्षिणे | अश्वयुक् विषुवं प्रोक्तं देवानामर्धरात्रिकम् || २-४५ || चतुः सन्धिषु तस्माद्वे देवेशेषं प्रपूजयेत् | नित्यसन्धिर्मनुष्याणां पितॄणामाससन्धिकम् || २-४६ || अब्दसन्धिषु देवाश्च पूजयेत् तु यथा विधि | इत्थं भूतमहोरात्रं देवानां तु प्रकीर्तितम् || २-४७ || प्रोक्तमब्द क्रमं ह्येवं युगमानन्तु वक्ष्यते | अण्डजाति युगाद्यैव केचित् शास्त्रे प्रकीर्तिताः || २-४८ || चतुर्युगन्तु शास्त्रे तु शिवेन परिभाषितम् | तृतयुगन्तु त्रेता च द्वापरन्तु कलिस्तथा || २-४९ || कृतश्चतुः सहस्राब्दं सन्धिरष्टशतं भवेत् | सन्ध्याशतं तथा ज्ञेयस्त्रेतार्ध पादहीनका || २-५० || प्. ३०५) चतुःशतः सहस्रो वा द्वापरश्चेति कीर्तिताः | कलियुगञ्च ऊर्धस्थो वर्धते तु पुनः पुनः || २-५१ || एतैर्द्वादशसाहस्रैरब्दैरैव चतुर्युगाः | सप्तत्येक समावर्त्यामन्वन्तरमिहोच्यते || २-५२ || अशीति सहस्रैर्वर्षैः पञ्चाशद्विसहस्रकैः | दिव्यसंवत्सरेणैव ज्ञेयमन्वन्तरं तथा || २-५३ || स्वायंभुवमनुः पूर्वं स्वारोचिषमतः परम् | उत्तमंरैव तञ्चैव तापसञ्चक्षुषं तथा || २-५४ || वै वस्वतञ्च सा वर्णमेरु सा वर्णमेव च | दक्ष सा वर्णमेवं हि ब्रह्म सा वर्णमेव च || २-५५ || रुद्र सा वर्णमित्युक्तं रौल्यंभौत्यञ्चतुर्दश | इत्येवन्तवसं क्षेपात् मनवः परिकीर्तिताः || २-५६ || नाभिकल्पन्तु तत्कालं ब्रह्मणोयदि भावयेत् | पञ्चैव कालमेवञ्च कल्पं ब्रह्मादि वा भवेत् || २-५७ || कल्पमेवं समाख्यातं महाकल्पं ततः शृणु | त्रयस्त्रिंशच्च देवाद्यास्त्रिशतं त्रिसहस्रकम् || २-५८ || देवानां लयमित्युक्तं तद्रात्रौ तु प्रकल्पयेत् | ब्रह्मणस्तदहोरात्रं तदा चेन्द्रालयं भवेत् || २-५९ || शतत्रयं षष्टिदिनं ब्रह्मवर्षमुदाहृतम् | षष्टित्रिंशच्च चक्राणां लयं तत्र पुनः पुनः || २-६० || तेन वत्सरमानेन शताब्दं ब्रह्मणोलयम् | यावत्ब्रह्मलयं तावद् विष्णोस्तु तदहर्न्निशि || २-६१ || ब्रह्मणात्रिशतं षष्टि लयंतत्र पुनः पुनः | तेनमानेन बोद्धव्या शताब्दमीश्वरस्य तु || २-६२ || ईश्वरस्तु लयं यत्तु निमेषं हि सदाशिवे | ततो वृद्ध्याशतं वर्षात् सदाशिवलयं स्मृतम् || २-६३ || बिन्दोर्नादस्य तद्वंशात् लयं तत्रैव चोच्यते | नादमूर्तिलयं यावच्छक्ताच्छक्तेर्दिनं तथा || २-६४ || प्. ३०६) दिनवृद्ध्याशतं कान्त तावच्छक्ति स्थितः सदा | यदा शक्तेर्लयं विद्धि यावत् परदिनं तु यत् || २-६५ || तत्सङ्ख्यानिशताब्दन्तु परस्यैवलयं भवेत् | प्रथमं शक्तिकं शान्तं शिवः पर्यायवाचकः || २-६६ || परापरस्य तं ज्ञातं विनाशोत्पत्तिकारणम् | देवानां कालमित्युक्तं तत्वानां कालमुच्यते || २-६७ || पृथिव्यादि शिवान्तञ्च सत्वकालं प्रकीर्तितम् | ईश्वरस्य लयं यावदात्मनस्तुलयं भवेत् || २-६८ || सदाशिवलयं यावत् नादान्तं लयमेव च | ततः शक्तेर्लयं यावल्लयङ्गच्छेच्छिवान्तकम् || २-६९ || तत्वानां लयमेवोक्तं सूक्ष्मकालं ततः शृणु | श्वासैस्तु त्रुटिभिः प्राणो घटिका प्राणषट्कके || २-७० || अहोरात्रं ततः षष्टि घटिकादिर्विशेषतः | पूर्ववद्दिनवृद्ध्या तु पक्षादीनि विवर्धयेत् || २-७१ || सूक्ष्मकालेन योगेन देव ब्रह्मादिकालयः | ज्ञानिनां योगिनाञ्चैव सूक्ष्मकालं प्रकीर्तितम् || २-७२ || कालचक्रमिदं प्रोक्तमाधाराधेयकं शृणु | इति कालचक्रविधिपटललो द्वितीयः || २ || अथ आधाराधेयविधिपटलः अथातः संप्रवक्ष्यामि आधाराधेयलक्षणम् | आधारं स्थानमित्युक्तमाधेयमधि दैवतम् || ३-१ || आधाराधेय संबन्धाद्योगमित्यभिधीयते | योगं बहुविधं वत्स आधाराणां बहुत्वतः || ३-२ || योगिनां योगमित्युक्तं ज्ञानिनां ज्ञानमेव च | वक्ष्येहमधुनायोगं संक्षेपान्नतु विस्तरात् || ३-३ || प्. ३०७) योगिनां साधकं पूर्वं मच्छृणुष्व हि साधके | प्रथमञ्चासनञ्चैव द्वितीयं योगपट्टिका || ३-४ || तृतीयमक्षमाला च वेणुदण्डञ्चतुर्थकम् | कमण्डलु विजानीयात् पञ्चमन्तु विशेषतः || ३-५ || तेषान्तु लक्षणं वक्ष्ये चासनं कूर्मवत् कृतम् | खादिरोदेवदारू च मधुको बिल्व एव च || ३-६ || अथवा याज्ञिकै वृक्षैः कृत्वा कूर्मासनं तथा | पादोनं वा तदर्द्धं वा त्रिविधं त्वासनं तथा || ३-७ || दर्पणोदरसङ्काशमधस्तादवदं तथा | आसनं त्वेवमाख्यातं योगाभ्यासे विनायक || ३-८ || व्याघ्राजीनं तु प्रधमा कृष्णाजिनं द्वितीयकाः | अथवा तन्तुना कार्या त्रिविधायोगपट्टिका || ३-९ || विस्तारन्त्र्यङ्गुलं प्रोक्तं नमानमुपवीतवत् | जपमालाशिरोमाला हृंमाला बाहुमालका || ३-१० || कर्णपृष्ठात् तु नाभ्यन्ता उरोमाला इति स्मृताः | शिरोमाला तु तन्नाहा भुजमालाभुजासमा || ३-११ || जपमालां समानेन संख्यामात्रं शृणुष्व हि | पञ्चविंशति रुद्राक्षैर्माक्षार्त्थिनाञ्जपं स्मृतम् || ३-१२ || षड्विंशति शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् | सप्तविंशति इत्यर्थं पुष्ट्यर्थमष्टविंशतिः || ३-१३ || त्रिंशज्जयार्थिनां कार्यं दशपञ्चाभिचारकः | जपमालासमाख्याता जपमालाविधिं शृणु || ३-१४ || प्रणवं सर्वमन्त्रेषु सर्वमुच्चार्यते यतः | प्रणवं संप्रवक्ष्यामि संक्षेपान्न तु विस्तरात् || ३-१५ || अकारञ्च उकारञ्च मकारं बिन्दुरूपकम् | अकारं ब्रह्मदैवत्यमुकारं विष्णु दैवतम् || ३-१६ || मकारं रुद्र दैवत्यं बिन्दोरीश्वर एव हि | नादं सदाशिवं प्रोक्तमित्येते अधिदेवताः || ३-१७ || प्. ३०८) अकारं तु हृदिस्थानं उकारं कर्णदेशकम् | तालुमध्यं मकारं स्यात् बिन्दोश्चैव ललाटकम् || ३-१८ || तस्योपरि च नादस्य स्थानं ह्येवं प्रकीर्तितम् | अकारादि त्रयोवर्णास्त्वनुस्वार विसर्गकौ || ३-१९ || पञ्चवर्णाः प्रशस्यन्ते अकाराक्षर संभवाः | * * * * * * * * उकाराह्यापि संभवा || ३- २०|| कादिभामक्षिकारेता यकारान्यस्तु बिन्दुके | जाताना देशकारान्यास्त्वेते पञ्चाशति स्मृताः || ३-२१ || प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः | ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकः || ३-२२ || गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वकः | ओमित्येकाक्षरं * * * * * * * * वा हिनाम् || ३-२३ || प्रणवन्तु समास्योक्ता स्मृतपञ्चाक्षरं शृणु | नमःशिवाय पञ्चार्णमेतत् पञ्चाक्षरं स्मृतम् || ३-२४ || वाचिकायस्तु विज्ञेयस्तद्वाच्यस्य शिवः स्मृतः | जपं शक्तिप्रदंशस्तं मल्लयोमुक्तिरिष्यते || ३-२५ || ऋषिच्छन्दोवर्णतत्वा देवतास्तु शृणु क्रमात् | काश्यपः कौशिकश्चैव भारद्वाजस्तु गौतमः || ३-२६ || आत्रेयस्तु न कारादि मुनयः क्रमशस्तथा | अनुष्टुप् त्रिष्टुप् ब्रहति जगत्यति जगत्यपि || ३-२७ || च्छन्दांसिहि समाख्याता वर्णाद्यैश्चक्रमाच्छृणु | रक्तं कृष्णन्तथा श्यामं पीतं स्फटिकसन्निभम् || ३-२८ || पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् | सद्यादि पञ्चवक्त्राणि तेषां देवाः प्रकीर्तिताः || ३-२९ || प्रणवेन समायुक्तं जपकाले तथोच्यते | तदा षडक्षरं प्रोक्तं स्त्रीशूद्रादैस्तु वर्जितम् || ३-३० || जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् | मानसञ्चैव कण्ठेष्यमुपांशु व्यक्तमेव च || ३-३१ || प्. ३०९) व्यक्तंदशगुणोपांशु स्तस्मात् कण्ठेष्यकं शतम् | सहस्रं मानसं तस्मादङ्गुल्यादि जपं शृणु || ३-३२ || अङ्गुल्या जपसंख्यातु तुल्या एकफलं तथा | पर्वणाष्टगुणं प्रोक्तं दीपेशतगुणाधिकम् || ३-३३ || शतसङ्ख्याकुशग्रन्धी प्रवालैस्तु सहस्रकम् | मणिभिर्दशसाहस्रं मौक्तिकैर्ल्लक्षमुच्यते || ३-३४ || पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते | रुद्राक्षैस्तु ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना || ३-३५ || दिव्यवर्षसहस्रन्तु चक्षुरुन्मीलितं मया | मुञ्चन्ति मम नेत्राणि श्रितरुद्राक्षमुच्यते || ३-३६ || एकवक्त्रं शिवः साक्षादनन्तन्धारणे फलम् | सन्धार्यमृयते यस्तु सयाति परमाङ्गतिम् || ३-३७ || द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमेव च | चतुर्वक्त्रन्तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवम् || ३-३८ || षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृतम् | अष्टवक्त्रं स्मृतो विष्णुर्नववक्त्रञ्चतुर्मुखम् || ३-३९ || नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् | हस्ते कर्णेशिखेकण्ठे सन्धार्यं सहभस्मना || ३-४० || सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् | दर्शनं पापनाशन्तु स्पर्शनं सर्वसिद्धिदम् || ३-४१ || सर्वाङ्गधारणात् पुण्यं रुद्राक्षं धारयेत् सदा | प्रयाणकाले रुद्राक्षं भक्षयित्वा मृयन्ति ये || ३-४२ || ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते | तस्मात् सर्वप्रयत्नेन जप्यं रुद्राक्षकैः सदा || ३-४३ || जपकालञ्च देशञ्च वक्ष्यते तु समासतः | पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धरात्रिके || ३-४४ || प्. ३१०) चतुष्कालं त्रिकालं वा तद्देशन्तु ततः शृणु | नदीतटाकतीरे वा गोष्ठे देवालयेपि वा || ३-४५ || वने वाथ गिरौ देशे पुण्यस्थाने ग्रहे जपेत् | देशमेवं समाख्यातं जपसंख्यां ततः शृणु || ३-४६ || सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् | जपेन् नित्यं सदायोगी सर्वपापविनाशकृत् || ३-४७ || सयाति जपमात्रेण शिवलोकमथाक्षयम् | जपसंख्या विधिप्रोक्तो वेणुदण्डविधिं शृणु || ३-४८ || विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटके | वैश्यानां नासिकोत्सेधं शूद्रादीनान्तु वर्जयेत् || ३-४९ || वेणुदण्डमृजुं स्निग्धं वक्रकोटरवर्जितम् | दण्डस्यैव विधिः प्रोक्ता कमण्डलुविधिं शृणु || ३-५० || पूरितञ्चाढकैः शृएष्ठं मध्यं त्रिप्रस्थपूरितम् | द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः || ३-५१ || सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा | यदुक्तं शिल्पशास्त्रेषु तत्तदुक्ता तु कारयेत् || ३-५२ || शैवाना साधनं प्रोक्तं पञ्चधा समुदाहृतम् | योगाष्टकांगौ वक्ष्यामि शृणुष्वेकाग्र मानसः || ३-५३ || यमनियमासनञ्च प्राणायामं ततः परम् | प्रत्याहारञ्च ध्यानञ्च धारणा च समाधिकम् || ३-५४ || अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहम् || ३-५५ || यमन्तु पञ्चधा प्रोक्तं नियञ्च ततः शृणु | शौच सन्तोषकात्तच्च तपःस्वध्यायमेव च || ३-५६ || ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् | गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् || ३-५७ || वीरयोगासनञ्चैव षड्विधश्चासनं स्मृतम् | वामजानूपनिन्यस्य दक्षिणञ्जानुमण्डलम् || ३-५८ || प्. ३११) द्वयोः पादतले चैव न्यसेत् द्वौपृष्ठ पार्श्वयोः | एवं कृत्वा तु सुस्निग्धं गोमुखीलक्षणान्वितम् || ३-५९ || ऊरूपार्श्वे तलौ न्यस्त्वा जंघामघ्नन्तु स्वस्तिकम् | ऊरूपरितले न्यस्त्वा पद्मासनमिहोच्यते || ३-६० || गुल्फत्रयं समं कृत्वा तलेगुह्ये च विन्यसेत् | अर्द्धचन्द्रं समाख्यातं वीरासनं ततः शृणु || ३-६१ || द्विभुजं पतितं वामपादं दक्षिणतोपरि | स्थिरं वीरासनं प्रोक्तं योगासनं ततः शृणु || ३-६२ || शरीरञ्जानु संबन्धं योगपट्टिकया वृतम् | कूर्परौ चैव विन्यस्तं योगासनमिहोच्यते || ३-६३ || कृत्वा चैवैकमेतेषां ततो योगं समाचरेत् | योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु || ३-६४ || रेचकं पूरकञ्चैव कुंभकं योगमभ्यसेत् | योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु || ३-६५ || रेचकं पूरकञ्चैव कुंभकञ्च द्वितीयकम् | रेचकं रविबिंबं स्यात् पूरकं चन्द्रमण्डलम् || ३-६६ || आग्नेयं कुंभकं ज्ञेयं सकायोद्ध्यान पूजयेत् | रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं ततः || ३-६७ || कुंभकन्तु निरोधेन प्रणवेनाभ्यसेत्त्रयम् | रेचकात् द्वादशं मात्रं तन्मात्रं पूरकं स्मृतम् || ३-६८ || कुंभकं द्वादशं मात्रमिहशास्त्रे तु निश्चितम् | रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् || ३-६९ || कुंभकं रुद्रदैवद्यमधि देवास्त्रयं स्मृतम् | रेचकं पूरकञ्चैव योगिनान्तु अहर्निशि || ३-७० || सूतकं प्रोतकं मुक्त्वा कुंभकेन तु पूरयेत् | प्राणायामक्रमं प्रोक्तं प्रत्याहारं ततः शृणु || ३-७१ || प्. ३१२) इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः | यावत् तावत् स्थितीभूतः प्रत्याहारः स उच्यते || ३-७२ || आधारेषु च संकल्प्य यथासनं स्वरूपकम् | ध्यानमेवं विजानीयात् सर्वदुःखनिवारणम् || ३-७३ || आधारलक्षणं वक्ष्ये संक्षेपान्नतु विस्तरात् | नाभेस्तु चतुरंगुल्य मधस्तादग्निमण्डलम् || ३-७४ || कदंबपुष्पवज्जुष्टं पत्रं जुष्टं त्रिकोणकम् | मूलाधारमधः प्रोक्तं द्वितीयं नाभिमूलके || ३-७५ || भुजङ्गवलयाकारमष्टवर्तुलमेव च | कुण्डलाख्या महानाडी भानुमण्डलमुच्यते || ३-७६ || नाभेरूर्ध्वन्तु यत्पद्मं चंद्रमण्डलमुच्यते | हृदये कर्णमूले तु तालुमूले ललाटके || ३-७७ || मूर्ध्निस्थाने तु संकल्प्य ध्यायेत् पद्मकपुष्पवत् | हृत् पद्मलक्षणं वक्ष्ये यथा वदनुपूर्वशः || ३-७८ || नाभौ तन्नालमूलन्तु ऊर्ध्वनालमधोमुखम् | कदलीपुष्पवत् पद्ममष्टपत्रं सकर्णिकम् || ३-७९ || इहशास्त्रेन वा धारं हृत्पद्मेन समायुतम् | आधारलक्षणं प्रोक्तमाधेयञ्च ततः शृणु || ३-८० || आधेयं यत्प्रयुक्तञ्च समाधीत्येवमिश्रितम् | इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः || ३-८१ || सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा | जीवप्राणसमायुक्तास्तेषु मध्येषु सञ्चरेत् || ३-८२ || सञ्चरन्निह तत्काले आधारेषु व्यवस्थितम् | संयुक्ते योगमाख्यातं योगी खगं समाश्रयेत् || ३-८३ || मूलाधारे ततस्त्वग्नि संयुक्ते योगमभ्यसेत् | योगाभ्यासेन तद्योगी अग्निलोकन्तु संस्पृशेत् || ३-८४ || तदूर्ध्वे भास्करन्ध्यात्वा रविलोकमवाप्नुयात् | एवं ध्यात्वा तदूर्ध्वे तु चंद्रलोकं स गच्छति || ३-८५ || प्. ३१३) ब्रह्माणं हृदये स्मृत्वा ब्रह्मलोकमवाप्नुयात् | विष्णुं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितम् || ३-८६ || पुरुषं व्यापयेद्योगी योगाभ्यासेन तत्गुणैः | तालुमूले स्मरेद्रुद्रं रुद्रलोकपदेच्छया || ३-८७ || पुरुषोपरिवेशान्तं व्यापकं स्वेन तेजसा | ललाटे ईश्वरं ध्यात्वा तल्लोकं तदवाप्नुयात् || ३-८८ || सदाशिवन्तु शिरसि ध्यात्वा तत्रैव भूज्यते | हृत्पद्ममध्यं गत्वा तु बिन्दुनादञ्च शक्ति च || ३-८९ || चतुरङ्गुलमात्रेण दीपाकारं विचिन्तयेत् | चतुस्थानेषु संपूज्य तत्तत्स्थान स्वरूपकैः || ३-९० || शिरोपरिन्यसेत् ब्रह्ममव्ययं निष्कलान्वितम् | तस्माद्योग समायुक्तो योगीयोगफलं लभेत् || ३-९१ || अणुमात्रं लभेद्यस्मादणिमेत्यभिधीयते | सहस्रैर्वा यथा गत्वा मूलवर्णप्रदेशकम् || ३-९२ || स्वेच्छया लभते यस्मात् तस्मात् सा लघिमा स्मृता | भूमौ मनो जपं कृत्वा पूज्यते शास्त्रवादिभिः || ३-९३ || सर्वत्र पूजितो यस्मात् तस्मात् सा महिमा भवेत् | सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता || ३-९४ || प्रकाम्येषु शरीरेषु प्रकाशन्तु प्रवेशिता | सूर्यादिष्वनवाप्तत्वादीशत्वं समुदाहृतम् || ३-९५ || यदीशत्वन्तु तत्रैव तदीशित्वं विधीयते | शिवसायुज्य सामर्थ्यात्तच्छिवत्वमिति स्मृतम् || ३-९६ || अणिमाद्यष्ट सिद्धिञ्च लभेद्योगी विशेषतः | सालोक्यादि चतुर्थश्च प्राप्यते योगी लक्षणम् || ३-९७ || प्. ३१४) सालोक्यञ्चैव सामीप्यं सा रूप्यं सा युज्यकं तथा | ध्यानलोकन्तु संप्राप्य सा लोक्यन्तद्विधीयते || ३-९८ || तद्देवस्यं समीपत्वात् सामीप्यमिति चोच्यते | तत्तद्रूपन्तु लब्ध्वा तत् सारूप्यमिति च स्मृतम् || ३-९९ || शिवे संयोजितं रूपं सा युज्यमिति कत्थ्यते | योगं समासात् संप्रोक्तं ज्ञानपादं ततः शृणु || ३-१०० || तद्योगपादं क्रमशः प्रमाणैर्यत्प्रोक्तमत्रैव समासतस्तत् | नाडी तु चक्रन्त्वथ कालचक्रमाधारयुक्तं पटलत्रयेण || ३-१०१ || इति आधाराधेय विधिपटलस्तृतीयः || ३ || इति सुप्रभेदेयोगपादः समाप्तः ओं शिवमयम् सुप्रभेदम् अथ ज्ञानपादे-शिवसृष्टिविधिपटलः प्. ३१५) अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः | तस्यादौ शिवसृटिञ्च शृणुष्वेकाग्रमानसः || १-१ || ज्ञानं प्रवर्तते वत्सभ्रान्ति निर्नाशनाय च | अध्वाश्रेणि विनाशाय शिवव्यक्तिकराय च || १-२ || अन्धकारवद ज्ञानं ज्ञानं दीपवदुच्यते | ज्ञेयं भास्करवत् प्रोक्तं पश्चात् ज्ञानं विनश्यति || १-३ || पाशजालानि विच्छेद्य तीष्णादिज्ञानमुच्यते | पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः || १-४ || ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशयः | शिवाद्यवनिपर्यन्तं लक्षणं शृणु सांप्रतम् || १-५ || योगिनामुपकाराय मोक्षार्थं भुक्तये तथा | सृष्ट्यर्थं सर्वजन्तूनां तदा सृष्टिद्वयं स्मृतम् || १-६ || शिवसृष्टिस्तथा पूर्वापशु सृष्टिर्द्वितीयका | शुद्धदेव समायुक्ता शिवसृष्टिरुदीरिता || १-७ || मलैरावृत्य शुद्धात्मा पशुसृष्टिः प्रकीर्तिता | चराचरादि भेदैस्तु क्रीडते परमेश्वरम् || १-८ || शिवसृष्टिं समासेन शृणु सर्वान् गजानन | शिवं परात्परं ब्रह्मवत्? प्रमेयमिति स्मृतम् || १-९ || मलत्वां निन्दितं ज्ञेयममलत्वाद निन्दितम् | अनौपम्य समादृश्यं दक्षिणत्वं यथाव्ययम् || १-१० || व्योमातीतात् परं सूक्ष्मं नित्यङ्कारण शून्यतः | व्यापीत्वात् सर्वगं प्रोक्तं स्वामिभावात् प्रभुसृतम् || १-११ || प्. ३१६) वाङ्मनोव्यतिरिक्तत्वात् प्रमाणातीतगोचरम् | प्रत्यक्षादिप्रमाणानि शृणुवत्स समाहितः || १-१२ || प्रत्यक्षमनुमानञ्च शब्दञ्चोपमयासह | अर्त्था पत्तिरभावश्च षट्प्रमाणमिति स्मृतम् || १-१३ || अक्षादिकरणैर्दृश्यं प्रत्यक्षन्तदिहोच्यते | लिङ्गालिङ्गादि विज्ञान मनुमानमिति स्मृतम् || १-१४ || आप्तोक्तिवचनैर्गम्यं शब्दमेवमुदाहृतम् | तत्सादृश्याद् यथा गम्या ह्युपमाचेति कीर्तिता || १-१५ || दिवाभोजनमस्तीति रात्रौ नास्तीति गम्यते | अर्थेनैवार्थ विज्ञेया चार्थापत्तिरिति स्मृतम् || १-१६ || भ्रान्ति ज्ञाने ह्यभावे तु स्वयज्ञानन्तु गम्यते | भ्रान्त्या भावे स्वयं ज्ञानमभावमिति कीर्तितम् || १-१७ || एवमादिप्रमाणैस्तु दुर्लक्ष्यन्तच्छिवं स्मृतम् | शिवतत्वमिदं प्रोक्तं तत्वा नामखिलात्मनाम् || १-१८ || सृष्ट्यर्थं लोकरक्षार्थं लोकस्योत् पत्तिकारणम् | साधकानां हितार्थाय स्वेच्छया ग्रह्णते तनुम् || १-१९ || तच्छरीरं त्रिधाज्ञेयं निष्कलं सकलनिष्कलम् | सकलञ्च तथा ज्ञेयं त्रिविधन्तु विशेषतः || १-२० || निष्कलन्तु चतुर्भेदं सकलञ्च तथा भवेत् | सकलं निष्कलञ्चैव नवधाकीर्तिताः क्रमात् || १-२१ || शिवतत्वात् सहस्रांशाच्छां निर्नाम्ना समुद्भवा | शान्तिश्चेति पराप्राहुस्तस्यापर्याय वाचकः || १-२२ || तस्माच्चैव सहस्रांशाच्छक्तिनामा समुत्भवा | शक्तिश्चैव तु विद्या च पर्यायस्तदुदाहृतः || १-२३ || तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः | नादस्तस्य प्रतिष्ठा च पर्यायस्त्विति कीर्तिताः || १-२४ || तस्माद् दशैकभागेन बिन्दुतत्व समुद्भवः | बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकौ || १-२५ || प्. ३१७) परं भावं समारभ्य सर्वज्ञत्वादिभिर्गुणैः | अव्यक्तानि च रूपाणि निर्ल्लक्ष्यानि क्रियास्तथा || १-२६ || चतुर्था निष्कलं ह्येवं शिवतत्वं समुच्यते | ध्यानपूजाविहीनस्तु निष्कलत्वं द्वितीयका || १-२७ || इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम् | तस्माद् दशैकभागेन सादाख्यं तत्वमुद्भवम् || १-२८ || लिङ्गपीठ प्रकारेण सादाख्यं तत्वलक्षणम् | लिङ्गेशंभुः समुत्भूतो नाम्ना सदाशिवेन तु || १-२९ || पीठे शक्तिः समुत्भूतो नाम्ना चैव मनोन्मनी | लिङ्गे च पीठिकायाञ्च शक्तिशंभू समुद्भवौ || १-३० || लिङ्गन्तु पुंस्त्वमेवं स्यात् तत्पीठं स्त्रीत्वमेव च | निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशांभवौ || १-३१ || निष्कलन्तु कलाहीना सकला तु कलान्विता | यतीनाञ्चैव मंत्रीणां ज्ञानिनाञ्चैव योगिनाम् || १-३२ || ध्यानपूजानिमित्ताय सकलन्निष्कलं स्मृतम् | लिङ्गपीठं प्रकारेण देवेशं पूजयेत् सदा || १-३३ || अष्टत्रिंशत् कलायुक्तं सकलं त्वितिविद्यते | ईशादि सद्यपर्यन्तं कल्पयेत् तु सदाशिवम् || १-३४ || ईशानेन तु मन्त्रेण पञ्चमूर्ध्नि प्रकल्पयेत् | पुरुषेणैव मन्त्रेण चतुर्वक्त्रं प्रकल्पयेत् || १-३५ || अघोरेणैव मन्त्रेण हृदयादीनि विन्यसेत् | वामदेवेन मन्त्रेण गुह्यादीनि प्रकल्पयेत् || १-३६ || सद्योजातेन मन्त्रेण पादाद्यङ्गानि कल्पयेत् | अष्टत्रयोदशाष्टौ च चतुःपञ्च यथा क्रमम् || १-३७ || सद्यवा ममघोरञ्च पुरुषे पकला स्मृताः | एवन्तु सकलं प्रोक्तं सकलं त्विति निश्चितम् || १-३८ || करपादा वयवानि कल्पनात्सकलं विदुः | सादाख्य तत्व देवेशं प्रत्यक्षं सर्वतोमुखम् || १-३९ || प्. ३१८) इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् | कर्णिकाके सरैर्युक्तं तत्रस्थं हि सदाशिवम् || १-४० || पञ्चमूर्धा चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् | चतुरास्यञ्चतुर्नासि अष्टश्रोत्रञ्चतुर्गलम् || १-४१ || दशभुजन्तनूरेकं द्विपादं पद्मसंस्थितम् | शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् || १-४२ || चन्द्रांशु शीतलं सौम्यं सर्वाभरणभूषितम् | शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् || १-४३ || अभयं शूलपरशुं वज्रं खट्गन्तु दक्षिणे | खेटकांकुशपाशञ्च घण्टावरद वामके || १-४४ || इत्येतैर्लक्षणैर्युक्तं सदाशिवमिति स्मृतम् | तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी || १-४५ || वह्नेरुष्णत्व वच्छक्ति रविनाभा विनीविभोः | शक्तिहीने शिवोनास्ति शिवहीना न शक्तिका || १-४६ || एते समस्त देवाश्च शक्तिशंभु मया स्मृताः | तस्माच्छिवमयं प्रोक्तं जगदेतच्चराचरम् || १-४७ || एकवक्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् | नितंबतट विस्तीर्णां मध्येक्षामांस्तनोन्नताम् || १-४८ || वामादिशक्तिकोपेतां मनोन्मनीं स लक्षणाम् | ध्यात्वा संपूजयेद् धीमान् जगत् प्रीतिकराय वै || १-४९ || ब्रह्माङ्गैश्चैव विद्याङ्गैर्विद्यैश्चैव गणेश्वरैः | लोकपालैः सहस्रैश्च क्रमशस्ते समुद्भवाः || १-५० || तत्तत्गुणा वृताः सर्वे तत्तच्चिन्ह समायुताः | सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः || १-५१ || चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः | सदाशिवं नमस्कृत्वा तत्तदायुधधारिणः || १-५२ || नानावर्णसमायुक्ता नानाभरणभूषिताः | नानागन्ध समायुक्ता नानापुष्पोपशोभिताः || १-५३ || प्. ३१९) सदा शिवं यदात्मन्तु तथा चावृत देवताः | आमूर्तञ्चेदमूर्तस्तु पूजांकुर्याद् विशेषतः || १-५४ || यदिलिङ्गस्तु कर्तव्यो गर्भगेहे पृथक् पृथक् | लिङ्गस्येव तथा पीठे मूर्तादीनि विचिन्तयेत् || १-५५ || सर्वावरण देवांश्च सकलानि ततः शृणु | मूर्तयश्चेश्वराद्यस्तु सकलञ्च प्रकीर्तितम् || १-५६ || यत्तत्सदाशिवं प्रोक्तं तद्वदीश्वरमुच्यते | यासां मनोन्मनीयद्वदीश्वरी तत्वमुच्यते || १-५७ || वक्त्राद्यावरणे चैव पूर्ववत् परिकल्पयेत् | काष्ठलोहशिला मृत्भिः प्रतिमास्तु प्रकल्पयेत् || १-५८ || विद्या तत्व स्थितं शंभुं सर्वालङ्कारसंयुतम् | लिङ्गस्य कौतुकं विद्यात् सकलं त्विति बुद्धिमान् || १-५९ || लिङ्गपूजावसाने तु ईश्वरं पूजयेत् क्रमात् | ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते || १-६० || चतुर्भुजस्तिणेत्रस्तु चन्द्रार्धकृत शेखरः | विद्युत् पुञ्जनिभो देवो परशूमृगधारिकः || १-६१ || सर्वावयव संपूर्णः सर्वाभरणभूषितः | उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता || १-६२ || ईश्वरस्य तु कोट्यंशात् विष्णुस्तत्रैव कीर्तितः | श्यामवर्णः सरक्ताक्षः शङ्खचक्रधरोहरिः || १-६३ || पीतांबरधरो देव श्रीभूमिसहितस्तदा | ईश्वरस्य तु कोट्यंशात् ब्रह्मणस्तु समुद्भवः || १-६४ || चतुर्भुजश्चतुर्वक्त्रो जटामकुटधारकः | कमण्डल्वक्षमालाधृत् पीतवर्णः सुलोचनः || १-६५ || सावित्री सहितस्तत्र सृष्टिमूर्तिरिति स्मृतः | स्थितिमूर्तिस्तु विष्णुः स्याद्रुद्रः संहारकारकः || १-६६ || त्रिमूर्तयोथ विख्याता ब्रह्माण्डे संव्यवस्थितः | निष्कलन्तु लयस्थानमधिकारं स निष्कलम् || १-६७ || ३२०) भोगः सकलमेवं स्यात् लयभोगाधिकारपान् | परं निष्कलमित्युक्तं परमं सकलं स्मृतम् || १-६८ || परापरं तथा प्रोक्तं सकलन्निष्कलं भवेत् | परापरं यथा ज्ञात्वा समुक्तः पाशहा भवेत् || १-६९ || तिस्रस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः | रुद्रैकादशपूर्वास्तु द्वादशादित्यसंयुताः || १-७० || वसवश्चाश्वनीयुक्तास्त्रयस्त्रिंशाधिदेवताः | सहस्र त्रिंशतत्रिंशद् देवतास्तत्र मूर्तिषु || १-७१ || शरीरभूतसारेण देवानान्तु स्रजन्ति वै | ऐश्वर्यमलसंबन्धाद्धृत् बोधस्तु विनाशयेत् || १-७२ || शिवसृष्टिमिदं प्रोक्तं पशुसृष्टिं ततः शृणु | इति शिवसृष्टिविधिपटलः प्रथमः || १ || अथ पशुसृष्टिविधिपटलः अथातः संप्रवक्ष्यामि पशुसृष्टिविधिक्रमम् | अनादित्वं पशुत्वञ्च प्रोच्यते शिवशासने || २-१ || शिवात्तु विद्यते चात्मा जगत् सृष्ट्यर्थमेव तु | विद्या तत्वादियोगेन आत्मतत्वमुदीरितम् || २-२ || अथात्मा विमलः शुद्धो माययाबद्धते सदा | सहजं मलसंबन्धात् पशुरित्युच्यते बुधैः || २-३ || अमूर्तिस्तु पशुर्नित्यो निर्गुणोनिष्क्रियो प्रभुः | मायोदरगते व्यापि भोगोपायेषु वर्तितः || २-४ || सकेवलस्त्विति प्रोक्ता स्वाणवं मलबन्धनात् | आणवं सहजं प्रोक्तं तु षकंबुकवत् क्रमात् || २-५ || प्. ३२१) मोहोमदश्चरागश्च विषादश्चैव शोषितम् | हर्षको हि च वै चित्र्यं सप्तैते सहजामलाः || २-६ || सहजं मलसंबन्धे केवलं तदुदाहृतम् | सहजं मलमित्युक्तमागन्तु कमलं शृणु || २-७ || मायेयं कर्मजञ्चैव द्विविधं शिवसाधने | शक्त्याकाचित् बन्धनादि कलाद्यवनिलक्षितम् || २-८ || मायायत्तं विजानीयात् पुण्यपापैश्च कर्मजम् | आणवञ्चैव माये यंकामजञ्च त्रिधा भवेत् || २-९ || मलोज्ञानन्तमश्चैव तिरस्कारकरस्तथा | प्रतिपत्तिरविद्येति ममपर्याय वाचकाः || २-१० || त्रिमलैर्बद्ध्यते चात्मा सकलः परिवादितः | सकलश्चेति बद्धात्मा संसारी विषयि तथा || २-११ || क्षेत्री क्षेत्रज्ञ भोक्ता च पशुज्ञानी तथैव च | भोगी चैव शरीरी च आत्मपर्याय वाचकः || २-१२ || अशीतिश्च चतुश्चैव शतःसाहस्र भेदकैः | संप्राप्तो योनिभेदस्तु जीवनाम्ना तु तत्र वै || २-१३ || प्रोक्ता तु सकलावस्था शुद्धावस्था ततः शृणु | मलानां नाशनार्थय अन्यच्छक्तिनिपा ततः || २-१४ || यावच्छक्तिनि पातान्तं तावदज्ञानवेदनम् | पूर्वकर्माणि सर्वाणि समके शक्तिपातने || २-१५ || सदाशिवत्वमापेक्ष्य शिवे भक्तिर्भवेद्यथा | तदादीक्षां प्रविश्याथ पूजाश्चैव तु भक्तितः || २-१६ || योगाभ्यासं ततः कृत्वा ज्ञान तंत्रं तदाभ्यसेत् | तदा ज्ञानान्धकारञ्च ज्ञानदीपेन नाशयेत् || २-१७ || स्वभावशुद्धं तत्ज्ञानं स्वभावन्तु तथामलम् | श्यामनीलादि संबन्धे स्फटिकं तद्वदेव हि || २-१८ || प्. ३२२) तत्वेनाति प्रयत्नेन शुद्धस्फटिकवत् भवेत् | घटगुप्तो यथा दीपो घटनाशे तु दीप्यते || २-१९ || घटाभूक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् | तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ || २-२० || मलैरावृतमात्मानं पशुरित्युच्यते बुधैः | मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः || २-२१ || ईश्वर स्मृतिना काले लब्धत्वं सतिनिर्मलम् | अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः || २-२२ || सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् | भ्रमेनष्टे यथा काले तदा सर्पं न दृश्यते || २-२३ || अथात्म बन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः | स्वभावं ज्ञानतोमुक्तिः सजीवन्मुक्त एव हि || २-२४ || देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् | सोहं ज्ञाने तु पश्चाद् वै पूजाध्वाने तु वर्जयेत् || २-२५ || सर्वतत्वानि भूतानि दृश्यते चात्म एव हि | समत्व सुखदुःखाभ्यां तत्प्रियाप्रिययोः समम् || २-२६ || शरीरारब्धकर्माणि भुज्यते स्वयमेव तु | हिंगुत्यक्ते तु तत्पात्रे गन्धं तत्र न नश्यति || २-२७ || कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा | तत्वज्ञ सर्वकर्माणि शरीरन्तेषु नाशनम् || २-२८ || अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले | त्रिवर्ण स्थानियो ज्ञात्वा पुनर्जन्म न विद्यते || २-२९ || शुद्धावस्था इयं प्रोक्ता सर्वतत्वादिभिर्गुणैः | त्र्यवस्थं पुरुषः प्रोक्तः ह्यध्वानञ्च ततः शृणु || २-३० || इति पशुसृष्टिविधिपटलोद्वितीयः || २ || अथ अध्वाविधिपटलः प्. ३२३) अथातः संप्रवक्ष्यामि अध्वानञ्च समासतः | अध्वानं षड्विधं प्रोक्तं तत्वाध्वादिविनायक || ३-१ || तत्वाध्वा प्रथमं विद्धि भुवनाध्वा द्वितीयकम् | मन्त्राध्वा वै तृतीयन्तु वर्णाध्वा वै चतुर्थकम् || ३-२ || पदाध्वा पञ्चमं ज्ञेयं कलाध्वा षष्ठमं स्मृतम् | षड्विधैरध्वभिर्मार्गैः संविशेदेकमीश्वरम् || ३-३ || तत्वाध्वानं समासेन भूकटाहादिकं शृणु | पृथिव्यादीनिमायान्तमध्वानं वर्ण्यते क्रमात् || ३-४ || कालाग्नेः शतरुद्रान्तं ब्रह्माण्डमिति संस्मृतम् | अथाण्डकटहोत्सेधं योजनाकोटिरुच्यते || ३-५ || कालाग्नि रुद्रदेवस्य तस्योर्ध्वे भुवनं विदुः | अनेक कोटिरुद्रैस्तु परिवृत्तस्तु तिष्ठति || ३-६ || सिंहासनं महादीपं नानारत्नोपशोभितम् | सहस्रत्रयविस्तारं सहस्रयोजनोच्छ्रयम् || ३-७ || * * * * * * * * योजनादशकोटयः | भूमेरुपरितप्तेन कोटिषट्कं विधीयते || ३-८ || कोटयः सप्तदशकाः कालाग्नेस्तु घनंमहत् | तस्योर्ध्वे नरकं विद्यात् चत्वारिंशच्छताधिकम् || ३-९ || तेषां प्रयत्याद्वात्रिंशत् प्रधानास्तेषु ते त्रयः | उपर्युपरि संस्थास्तु द्वात्रिंशन्नरकान् शृणु || ३-१० || रौरवं प्रथमं प्रोक्तं महारौरं द्वितीयकम् | शीतोष्णं हि तृतीयन्तु सन्तापनञ्चतुर्त्थकम् || ३-११ || पञ्चमं पद्ममेवं स्यात् महापद्मन्तु षष्ठकम् | कमलं सप्तमञ्चैव सूचिमुखमथाष्टकम् || ३-१२ || कृष्णसूत्रन्तु नवमं श्रीमुखं दशमं स्मृतम् | एकादशंक्षुराधारमसिधारन्तु द्वादशम् || ३-१३ || प्. ३२४) एकादशं नरकाणामदीप्ते रौरवं स्मृतम् | कुंभीपाकस्तु प्रथमो हुंकारं द्वितयस्तथा || ३-१४ || रेश्चीनोकहयस्तुण्डा स्त्रितयः परिकीर्तिताः | असृक् पूयश्चतुर्त्थन्तु गजपादस्तु पञ्चमम् || ३-१५ || कृकरच्छेदषष्ठस्तु तप्तमोहस्तु सप्तमम् | त्रपुलोमाष्टमप्रोक्ता नवमस्तप्तवालुकः || ३-१६ || अस्तिभङ्गस्तु दशमं कुंभीपाकप्रधानतः | अवीचि प्रथमं विद्धि जलूकस्तु सदानदी || ३-१७ || हैमवर्णस्तृतीयं हि शाल्मली च चतुर्त्थकम् | अनध्वासो निरुच्छ्वासं पूतिमां सानुदक्षणः || ३-१८ || जतुपंकञ्चलोहञ्च युग्मपर्वत एव च | नरकाणां नवानान्तु अवीच्येषु प्रथानकः || ३-१९ || रौरवं कुंभिपाकञ्च अविचिञ्च इमेत्रयः | राजराजेश्वरा ह्येते नरकास्तु त्रय स्मृताः || ३-२० || रौरवस्तु तथा मेध्यं कुंभिपाकस्तु तापनम् | अवीच्या क्रिमिनिचयं अन्तर्भूतं विचिन्तयेत् || ३-२१ || सप्तसप्तोपनरकैः त्रयाणां परिवारितैः | एकोनत्रिंशन्नरकां स्त्रिभिस्त्रिभिरथा वृतान् || ३-२२ || एवं नरकमाख्यातञ्चत्वारिंशत् तदादिकम् | अतिघोरस्तु नरका स्त्रिकोणा कृतिसंस्थिताः || ३-२३ || पापिनां नरकं प्रोक्तं धर्मिणां स्वर्ग उच्यते | देवद्रव्यापहारश्च शिवशास्त्रविदूषकाः || ३-२४ || पित्रघातश्च ब्रह्मघ्ना एवमाद्यास्त्वनेकशः | यातना स्थानमाश्रित्य पतितं नरकार्णवे || ३-२५ || अक्रोधशौचमाचार क्षान्तियुक्ति समायुतः | यत्पुण्यं शिवभक्त्या तु सर्वं प्राणिदयान्वितम् || ३-२६ || एवमाद्यानराः सर्वे गच्छन्ति नरकं न हि | उच्छ्रयं नरकाणान्तु शृणुवत्स समाहितः || ३-२७ || प्. ३२५) नवं नवतिलक्षाणि एकैकस्योच्छ्रयं विदुः | पक्षमात्रान्तरं ज्ञेयं शतलक्षमिति स्मृतम् || ३-२८ || एवन्तु त्रिशतं लक्षं नरकाणां प्रकीर्तितम् | अधोरौरवमित्युक्तं कुंभिपाकन्तु मध्यमम् || ३-२९ || अवीचिच्छोर्ध्वतो ज्ञेयं तेषां त्रिस्थानमुच्यते | नरकाणामधोर्ध्वे तु विंशत् साहस्रसंयुतम् || ३-३० || नरकाधिपतिःसोयं कूश्माण्डस्तत्र संस्थितः | नवन्नवति साहस्रं पुरन्तस्य प्रकीर्तितम् || ३-३१ || शतसहस्रमिति ज्ञेयं लक्षमित्यभिधीयते | कुश्माण्डाधिपतिः सोपि नरकाणां प्रभु स्मृतः || ३-३२ || तस्योपरिष्ठात् पातालं अथयामि समासतः | महातलं सुतलञ्च रसातलं तलातलम् || ३-३३ || पातालं शङ्करञ्चैव आभासञ्चैव सपकम् | महातलानां सप्तानां पाताल इति संज्ञितः || ३-३४ || नागाश्चराक्षसश्चैव देवाश्चाप्सरसस्तथा | महातले तूपस्वस्थे सक्रीडमुदितात्मनः || ३-३५ || नवलक्षाणि चोत्सेध मन्तरं लक्षमुच्यते | लक्षमात्रान्तरश्चैव पातालानां प्रमाणतः || ३-३६ || ततः सौवर्णपातालं दशलक्षप्रमाणतः | तस्योर्ध्वे तु वसुर्देवो हाटकः परमेश्वरः || ३-३७ || नानालङ्कारसंयुक्तं पुरकोटिसमावृतम् | तत्सर्वं हाटकं यस्मात् तस्माद्वेहाटकेश्वरः || ३-३८ || तस्योर्ध्वे नवलक्षाणि अन्तरिक्षे प्रकीर्तितम् | भूकटं दशलक्षाणां मृच्छ्रयन्तु विधीयते || ३-३९ || कूश्मायुधिष्ठितं स्थानं शतलक्षमिति स्मृतम् | शन्तलक्षं कोटिविज्ञेयं पञ्चाशत् कोटयं स्मृतः || ३-४० || भूम्यन्तं लक्षणं प्रोक्तं भूलोकानि ततः शृणु | समुद्रैः सप्तभिर्युक्तं भूलोकमिति विश्रुतम् || ३-४१ || प्. ३२६) भूलोकं तु वलोकश्च स्वल्लोकश्च महस्तथा | जनलोकस्तपोलोकः सत्यलोकस्तु सप्तमः || ३-४२ || प्रमाणं सप्तलोकानां लक्षणञ्च वदाम्यहम् | भूलोकं प्रथमं वक्ष्ये समासात् तु शृणुष्व हि || ३-४३ || नानाजन पदाकीर्णं नानावस्तु समायुतम् | जंबूद्वीपादि संयुक्तं क्षीरमं बोधि संयुतम् || ३-४४ || तस्यमध्ये महामेरुर्हेमरूपेण तिष्ठति | लक्षयोजनमानेन कर्णिकारूपवत् क्रमात् || ३-४५ || षोडशैस्तु सहस्राणि भूम्यधस्तात् प्रविष्टकम् | चतुराशीतिसाहस्रं योजनोर्ध्वे विधीयते || ३-४६ || ऊर्ध्वभागः समंमूलं द्विगुणं मूर्ध्निविस्तरम् | नानाशिखरसंयुक्तं नानाभूमिमलतान्वितम् || ३-४७ || तस्योर्ध्वे तु सभाः विद्यात् ब्रह्मणश्च महात्मनः | नाम्नामनोवती चैव सर्वरत्नसमासतः || ३-४८ || चतुर्दशसहस्राणि योजनानां प्रमाणतः | नानालङ्कारसंयुक्ता ऋषिसिद्धगणायुताः || ३-४९ || तस्योर्ध्वे शानदिग्भागे ज्योतिः शिखर उच्यते | विंशतिश्च सहस्राणि विस्तारोत्सेधमेव च || ३-५० || नानालङ्कारसंयुक्तो नानावर्णसमासतः | हेमप्रासादसंयुक्तं हेमप्राकारतोरणम् || ३-५१ || सगन्धर्वसमायुक्तं सर्वदेव गणावृतम् | गणैः सर्वैः समायुक्तं त्रिंशत् साहस्रशोभितम् || ३-५२ || उमादेव्या सहैवाहं वसेन्नित्यं हि तत्र वै | तस्य पश्चिमदिग्भागे वै कुण्ठः शिखरं भवेत् || ३-५३ || सर्वालङ्कारसंयुक्तं मुनिसिद्धगणावृतम् | चतुर्दशसहस्राणि विस्तारोत्सेधमेव च || ३-५४ || सर्वरत्नमयं भासं हेमप्राकारतोरणम् | तत्रैव वसते विष्णुः सर्वदेवगणावृतः || ३-५५ || भूलोकरक्षणार्थाय वसन्तिमुदितात्मनः | सृष्टिस्थितिश्चस्संहारान् कुर्वन्ति क्रमशः तथा || ३-५६ || प्. ३२७) मूर्ध्निभागादधस्तात् तु योजनानां सहस्रकम् | पूर्वे त्विन्द्रस्य विख्याता पूर्नाम्नात्वमरावती || ३-५७ || आग्ने तेजोवती नाम्ना पूर्वह्नेस्तु प्रकीर्तिता | यमस्य दक्षिणे भागे नानासंयमनी पुरी || ३-५८ || कृष्णाङ्गनापुरीनाम्ना नि-ऋतोराक्षसालयम् | पश्चिमे वरुणस्यैव नाम्नाशुद्धवती पुरी || ३-५९ || वायोश्च वायुदिग्भागे नाम्नागन्धवती पुरी | सोमस्योत्तरभागे तु पुरीनाम्नामहोदया || ३-६० || ईशानस्यैशदिग्भागे पूरीनाम्ना च धावती | पुरैः कोटिसहस्रैस्तु सर्वैः सर्वप्रशोभितः || ३-६१ || गङ्गाजलेन सुस्नात्वा क्रीडन्तिमुदितात्मनः | चतुर्निष्कं भगिरयः पूर्वाद्यास्तु यथा क्रमात् || ३-६२ || मन्दरः पूर्वदिग्भागे दक्षिणे गन्धमादनः | पिङ्गलः पश्चिमे भागे सुपाशश्चोत्तरे तथा || ३-६३ || श्वेतं हरितकी नीलं डाडिमी कुषुमप्रभम् | योजनानि सहस्राणि तेषां पञ्चाशदुच्छ्रितम् || ३-६४ || भूम्ने नाथोष्ट साहस्रञ्चत्वारिंशत् द्वयोच्छ्रितम् | तेषान्तु मूलविस्तारं द्विगुणोपरिविस्तृतम् || ३-६५ || मन्दरोपरिसंस्थन्तु कदंबो नामकवृतः | सहस्रयोजनोत्सेधं स्कन्धैः साहस्र शोभितम् || ३-६६ || कुंभाकारन्तु तत्पुष्पं शङ्खाभञ्च सहस्रकम् | गन्धमादनमूर्ध्निस्थो जंब्वाख्यं तत्र वृक्षकः || ३-६७ || कदंबद्विगुणोत्सेधं स्कन्धाः शाखास्तथैव च | महागज प्रमाणानि तस्य जंबू फलानि तु || ३-६८ || पतितानां फलानान्तु तेन जांबूनदी भवेत् | तत्र वेगवतीनाम्ना कृत्वा मेरुप्रदक्षिणम् || ३-६९ || तेन प्रवेशितं सर्वं कनकं देव भूषणम् | ये तत्र वासिनः सर्वे जांबूनदमयास्तथा || ३-७० || प्. ३२८) अश्वत्थं केतुनाम्ना वै विपुलोपरि संस्थितिः | सहस्रयोजनोत्सेद्धं स्कन्धैः साहस्रशोभितम् || ३-७१ || अश्वत्थ फलवत् ज्ञेयं वृत्तनाम्नासु शोभितम् | तस्यपार्श्वे तु न्यग्रोधस्तस्योपरितु संस्थितम् || ३-७२ || गणैः सप्तैः समायुक्तं विचित्रैर्विविधैः शुभैः | चतुर्वणानि चोक्तानि पूर्वादिनि च चोत्तराः || ३-७३ || पूर्वे चैत्ररथं नाम्ना वनं पुष्पोपशोभितम् | तस्य मध्ये तटाकोस्ति नाम्ना वै वारुणोदयः || ३-७४ || नक्रैर्मत्स्यैरनेकैश्च मण्डितं पद्मपुष्पकैः | दक्षिणे नन्दनं नामवनं तत्र विशेषतः || ३-७५ || तटाकं मानसं नाम तस्यमध्ये प्रकीर्तितम् | वै भ्राजं पश्चिमे भागे तटाकं विपुलोदकम् || ३-७६ || सौम्ये पत्रवनं नाम तटाकं सुमनोहरम् | ईदृशैर्ल्लक्षणैर्युक्तो मेरुस्तत्र प्रकीर्तितः || ३-७७ || मेरुपार्श्वे तु वर्षाणि पारुषाणि समासतः | लवणोदधिपर्यन्तो जंबूद्वीपं प्रकीर्तितम् || ३-७८ || जंबूशाककुशक्रौञ्च शाल्मकोमेदपुष्करः | सप्तद्वीपाः समाख्याताः समुद्राश्च ततः शृणु || ३-७९ || क्षारंक्षीरोदधिः सर्पिरिक्षूदकमधूदकम् | समोदकस्त्विति ख्याता सुमुद्राः सप्तकीर्तिताः || ३-८० || लक्षयोजनविस्तारं जंबूद्वीपं विनायक | कमलाक्षोदितं विद्यात् लवणांभस्ततो बहिः || ३-८१ || द्विगुणेना वृतं बाह्ये शाकद्वीपस्तु नामतः | द्विगुणात् द्विगुणं ह्येवं द्वीपात् द्वीपसमुद्रकम् || ३-८२ || स्वादूदकान्तामेर्वादि प्रमाणं पञ्चकोटयः | सप्तलक्षाधिकाः प्रोक्तास्वाधिपत्यान्ततः शृणु || ३-८३ || देवाश्चराक्षसाश्चैव ईश्वरेण सुचोदिताः | स्वयंभुवमनुः पूर्वं सप्तद्विपान् सुरक्षितः || ३-८४ || प्. ३२९) तस्यपुत्रो महावीर्यः प्रियव्रतः सुरक्षकः | दशपुत्राः समुत्पन्नाः तस्यवीर्यान् महाबलाः || ३-८५ || अग्निधृत् त्वग्निबाहुश्च मेधामेधातिथिर्विभुः | ज्योतिष्ठान् धृतिमान् भव्योवसनः पुत्र एव च || ३-८६ || अग्निबाहुश्च मेधावी पुत्रा प्रवृजितास्त्रयः | शेषाणां सप्तपुत्राणां सप्तद्वीपांशभागिनः || ३-८७ || अग्निधृत् बाहुवीर्येण जंबूद्वीपः सुरक्षितः | नाभिः किं पुरुषश्चैव हरिश्चैव जलावृतः || ३-८८ || भद्राश्च केतुमालश्च पुष्यकस्तु हिरण्मयः | पुत्रनामाथ नवमो नवपुत्राः प्रकीर्तिताः || ३-८९ || जंबूद्विपन्तु तेषां वै नवभागं प्रकल्पितम् | त्रयस्तु दक्षिणाख्यातो चोत्तरे त्रय एव तु || ३-९० || त्रयस्तु मध्यमे ख्याताः पर्वतान्तरितः तथा | दक्षिणे हिमवाह्ने मकूटस्तस्यैव चोत्तरे || ३-९१ || निषधस्य समाख्यातो हेमकूटस्य चोत्तरे | नीलश्चेत्तु स्त्रिशृंगश्च उत्तरस्य च निर्गतः || ३-९२ || समुद्रादधिकाशस्ता स्थिता प्राक् पश्चिमायता | सर्वैश्वर्य समायुक्ता षडेते गिरयस्तदा || ३-९३ || पूर्वपऽऽस्चिम मेरोस्तु माल्यवान् गन्धमादनौ | निषधनील पर्यन्तौ नगौ सौम्योत्तराथतौ || ३-९४ || योजनाशीति विस्तारौ सहस्रद्वयकोच्छ्रितौ | हिमवान् हिमवर्णस्तु हेमकूटस्तु हेमवत् || ३-९५ || निषधः पद्मरागाभो नीलाभोगन्धमादनः | माल्यवान् पीतवर्णस्तु नीलोरत्तमयस्तथा || ३-९६ || श्वेतस्तु सितवर्णः स्यात् त्रिशृंगी चन्द्रकान्तवत् | सीमास्तु गिरयप्रोक्ता देशां देशाधिपान् शृणु || ३-९७ || त्रिशृंगस्योत्तरे पार्श्वे दक्षिणे लवणोदधेः | क्मरदेशस्त्वितिख्यातः स्वधिपाश्च गुरुर्भवेत् || ३-९८ || प्. ३३०) धन्वाकारः सविज्ञेयो नवसाहस्रयोजनः | भूमिसुवर्णवत् ज्ञेया वालुकाश्च तथा स्थिता || ३-९९ || जनावसन्ति सर्वत्र कामवृक्षफलाशिनः | त्रिशतानि सहस्राणि जीवन्ति वत्सराणि वै || ३-१०० || द्वेद्वेपुत्रौ प्रसूयन्ते स्त्रीप्रजानां तथैव च | श्यामपुष्पनिभाकारा भयदुःखविवर्जिताः || ३-१०१ || सूर्यकान्तेषु कान्तश्च तत्रैव कुलपर्वतौ | रुरोर्नामना तु तं विद्धि कुरु विन्दस्ततस्तु वै || ३-१०२ || चन्द्रदिपं समाख्यातं प्रविश्यलवणोदधिम् | तस्य वायव्यदिक्भागे द्विपो भद्राकर स्मृतः || ३-१०३ || सहस्रायुर्जनास्तत्र सुदिव्याम्र फलाशिनः | त्रिशृंग श्वेतयोर्मध्ये हिरण्यं वर्षको भवेत् || ३-१०४ || नवसाहस्र विस्तारं समुद्रावधि दीर्घकम् | जनास्त्विन्दुमुखाः सर्वे वकुलस्य फलाशिनः || ३-१०५ || जीवन्नेवं सहस्राब्दं तेषामायुः प्रकीर्तितम् | सुनील श्वेतयोर्मध्ये रम्यं वर्षमिति स्मृतम् || ३-१०६ || विस्तारं नवसाहस्रं समुद्रान्तायुतं महत् | न्यग्रोधस्य फलं प्राश्य नीलोत्पलसमप्रभाः || ३-१०७ || द्वादशाब्दसहस्राणि जीवन्ति भयवर्जिताः | मेरु प्रदक्षिणं देशमवधूतनरं तथा || ३-१०८ || नवसाहस्र विस्तारं योजनानां समन्ततः | तस्येन्दु रश्मय स्थित्यामेरुदीप्त्यासुदीपिता || ३-१०९ || जंबूफलरसं पीत्वा जनारोगविवर्जिताः | त्रयोदशसहस्राब्दं तेषामायुः प्रकीर्तितम् || ३-११० || समुद्रस्य तु पूर्वे तु गन्धमादनपश्चिमे | केतुमालाख्य वर्षस्तु जनाः श्याम निभास्तथा || ३-१११ || पनसस्य फलं भुक्त्वा जीवन्त्ययुतवत् सराः | चतुस्त्रिंशत् सहस्राणि योजनादक्षिणोत्तरे || ३-११२ || पूर्वपश्चिममायामं द्वात्रिंशच्च सहस्रकम् | उदधेः पश्चिमे भागे पूर्वे वै वाह्यवत्गिरेः || ३-११३ || प्. ३३१) भद्राश्वनामवर्षं हि जनाश्चंद्र निभास्तथा | ते कृष्णाम्रफलं प्राश्य लभेदयुतमायुषम् || ३-११४ || तस्य दीर्घञ्च विस्तारं केतु मालाद्रिवर्ततः | दक्षिणे निषधस्यैव हेमकूटस्य चोत्तरे || ३-११५ || तं विद्धि हरिवर्षन्तु समुद्रान्तायुतं स्मृतम् | विस्तारन्नवसाहस्रं योजनानां प्रमाणतः || ३-११६ || जनस्त्विक्षुर संपीत्वा रौप्याभास्तत्र वासिनः | द्वादशैव सहस्राब्दं तेषामायुः प्रकीर्तितम् || ३-११७ || दक्षिणे हेमकूटस्य सौम्ये हिमवतस्तथा | मध्ये किं पुरुषं वर्षं विस्तारायामपूर्ववत् || ३-११८ || जनाः सुवर्णवर्णाश्च जीवन्ति प्लक्षभोजनाः | द्वादशाब्दं सहस्रायुस्तेषा जीवान्तमुच्यते || ३-११९ || हिमवत् दक्षिणे भागेप्युत्तरे लवणोदधेः | नाभेश्च वृक्षोत् भवनो भरतस्तत्सुत स्मृतः || ३-१२० || तन्नाम्नाभरतं वर्षं धन्वाकारन्तदुच्यते | नवसाहस्रविस्तारं समुद्रान्तरितायतम् || ३-१२१ || नानाजन पदाकीर्णञ्जनारोगभयान्वितम् | कल्पसौख्यं महादुःखं जनाः कृष्यान्नभोजनम् || ३-१२२ || तेषां शताब्दमायुष्यं चतुर्युगवशात् पुनः | गुणमेवं विजानीयात् शुभाशुभफलार्जनम् || ३-१२३ || कर्मभूमिरियं विद्धि स्वर्गभूमिस्तथापरा | मुक्तिभुक्तिफलं प्राप्यं शिवं सांप्राप्ययत् ततः || ३-१२४ || ततो भारतवर्षञ्च नवभागं प्रकल्पितम् | नवपुत्रास्तु जायन्ते भरतस्येन्द्र पूर्वकाः || ३-१२५ || इन्द्रश्चैव कशेरुश्च ताम्रवर्णो गभस्तिमान् | नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिकाः || ३-१२६ || तेषां नाम्नैव बोद्धव्या द्वीपश्चैकैकशः क्रमात् | इन्द्र द्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् || ३-१२७ || नागद्वीपञ्च सौम्यञ्च गान्धर्वो वरुणं तथा | नवमा तु कुमाराख्या तेषां भेदाः प्रकीर्तिताः || ३-१२८ || प्. ३३२) सागरान्तरितः कृत्वा स्थलं पञ्चशतं भवेत् | कुमारद्वीपाधान्यास्तु म्लेश्चद्वीपाः प्रकीर्तिताः || ३-१२९ || चतुर्वणसमायुक्तञ्चतुराश्रम संयुतम् | गंगादीनां नवानान्तु ज्ञेयाः पञ्चशतानि तु || ३-१३० || तीर्थानां कोटयः प्रोक्ता महापुण्यफलोदयाः | हिमवत्यन्तरे पार्श्वे कैलासशिखरं महत् || ३-१३१ || रौप्यवर्णं महाशेष मुनिसिद्धैर्निषेवितम् | सर्वालङ्कारसंयुक्तं द्रुमैः सर्वत्र शोभोतम् || ३-१३२ || तत्रैव वसतो नित्यमुमादेवी समन्वितः | अष्टषष्टि महाक्षेत्रं पुराणस्यादि संस्थितम् || ३-१३३ || जंबूद्वीपादि षट्द्वीपाः सागरेषु व्यवस्थिताः | महेन्द्रोमन्धरः सख्यशुक्तिमानृक्ष पर्वतः || ३-१३४ || विन्ध्यश्च पारीपात्रश्च इत्येते कुलपर्वताः | मलयद्वीपगालंका चामीकरमयाशुभा || ३-१३५ || नानाविचित्र संयुक्ता रमन्ते राक्षसेस्वरैः | जंबूद्वीपं समाख्यातं लवणोदञ्च मच्छृणु || ३-१३६ || लक्षद्वयन्तु विस्तारं लवणोदधिरावृतम् | भूधराद्वादशाश्चैव प्रविष्टा लवणोदधौ || ३-१३७ || प्रभावश्चैव धूम्रश्च दुन्दुभिः पूर्वभागतः | चक्रञ्चैव तु मैनाकं वलाहं दक्षिणे तथा || ३-१३८ || मैनाकचक्रयोर्मध्ये संस्थितो बडबानलाः | वराहः सोमके तु श्वनन्दनं पश्चिमे दिशि || ३-१३९ || कंकश्चन्द्रस्तथा द्रोणश्चोत्तरे संव्यवस्थिताः | लवणोदधिरित्युक्तच्छाक द्वीपं ततः शृणु || ३-१४० || शाकद्वीपाधिपो यावान् पुष्पवान् कुशद्वीपके | ज्योतिष्मान् क्रौञ्च द्वीपे तु शाल्मल्यां द्युतिमां तथा || ३- १४१ || गोमेदेध नवान् प्रोक्तवासीनस्तु महाबलाः | दौपुत्रौ तु समाख्यातौ द्विभागौ तत्र कीर्तितौ || ३-१४२ || पर्वतं वलयाकारं मानसोत्तरनामतः | कृतादियुगवत्कालः शाकादिद्वीपवासिनाम् || ३-१४३ || प्. ३३३) स्वादूदान्तन्तु मेर्वादि विस्तारं पञ्चकोटयः | सप्तलक्षाधिकं तत्र समासात् परिकीर्तितम् || ३-१४४ || ततो हेममयं भूमि विस्ताराद्दशकोटिकाः | देवानां क्रीडनार्थाय प्रोच्यते त्रमया ततः || ३-१४५ || लोकालोक स्वनाम्ना तु पर्वतं वृत्तरूपतः | सहस्रयोजनन्तारमुत्सेधं लक्षयोजनम् || ३-१४६ || लोकपाला स्थितास्तत्र सिद्धामर निषेविताः | तस्यान्तर्भासते सूर्यस्त्वन्धकारस्त्वथा परः || ३-१४७ || लोकालोकः समावृत्य गर्भोदधिसमुद्रकान् | गर्भोदधिसमावृत्य पार्थिवा वरणं स्मृतम् || ३-१४८ || पात्थिवन्तु समावृत्य कटाहं कोटिविस्तृतम् | कटाहं मेरुमध्यान्तं पञ्चाशत् कोटय स्मृताः || ३-१४९ || दशदिक्षु समंज्ञेयं प्रमाणः शतकोटयः | भूलोकश्च समाख्यातो भुवलोकं ततः शृणु || ३-१५० || लक्षयोजनमानेन सूर्यलोकं विधीयते | द्वादशादित्य वसवो रुद्राश्चैकादशः तथा || ३-१५१ || अश्विनौ द्वौस्त्रयस्त्रिंशत् सञ्चरन्ति शिवेच्छया | मेरु प्रदक्षिणे नैव भुवलोकमिति स्मृतम् || ३-१५२ || तस्योपरितुं क्षेण चन्द्रलोकं विधीयते | चन्द्रोर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् || ३-१५३ || लक्षद्वये बुधं विद्यात् द्विलक्षे भार्गव स्मृतः | लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः || ३-१५४ || सौरिलक्ष द्वये प्रोक्तो मुनयो लक्षयोजने | अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः || ३-१५५ || भृग्वङ्गिरामरीचिश्च मुनयः सप्तकीर्तिताः | उपरिष्टाधृवः प्रोक्तस्त्वेक लक्षप्रमाणतः || ३-१५६ || चन्द्रलोकाद्धृवान्तश्च स्वर्ल्लोकमिति कीर्तितम् | दशपञ्च च लक्षाणि भूतपृष्ठाद्धृवान्तकम् || ३-१५७ || ततोपरिमहल्लोकं द्विकोटियोजनं स्मृतम् | पञ्चाशीति च लक्षाणि जनलोकमिति स्मृतम् || ३-१५८ || प्. ३३४) अष्टकोटित पोलोकमुपर्युपरि संस्थितम् | द्वादशैव तथा कोटिः सत्यलोकं विधीयते || ३-१५९ || महर्ल्लोकादि सत्यान्तं रुद्रास्तत्र निवासिनः | कोटिषोडशमानेन ब्रह्मलोकं विधीयते || ३-१६० || कोटियोजनमानेन विष्णुलोकं प्रकीर्तितम् | नवकोटिप्रमाणेन रुद्रलोकमिहोच्यते || ३-१६१ || कटाहेस्य घनंकोटिः पञ्चाशत्कोटय स्मृताः | शतयोजनकोट्येवं कोट्या ब्रह्माण्ड तत्र वै || ३-१६२ || ब्रह्माण्डधारकास्तत्र शतसंख्या शृणुष्वहि | कपालीशो ह्यजोबुद्धो वज्रदेहः प्रमर्दनः || ३-१६३ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | इन्द्रस्यबलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१६४ || विचरन्ति महारुद्राः शक्रराजस्य पूजिताः | अग्निरुद्रोहुताशश्च पिङ्गलः कादको हरः || ३-१६५ || ज्वलनोदहनो बभ्रू भस्मान्तकक्षयान्तकः | अग्नेस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१६६ || विचरन्ति महारुद्रा वह्निराजस्य पूजिताः | याम्येऽमृत्युहरोधाता विधाता कर्तृकालकः || ३-१६७ || संयोक्ता च वियोक्ता च धर्माधर्म वृतिस्तथा | धर्मस्य बलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१६८ || विचरन्ति महादेवायमराजेन पूजिताः | नै-ऋतोमारणो हन्ता क्रूर दृष्टिर्भयानकः || ३-१६९ || ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् | नि-ऋतेः बलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१७० || विचरन्ति महादेवा राक्षसेन सुपूजिताः | वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१७१ || विचरन्ति महादेवा वारुणेन सुपूजिताः | शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्ण क्षयान्तकः || ३-१७२ || पञ्चान्तकः पञ्चशिखः कपर्दीमेखवाहनः | वायोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः || ३-१७३ || प्. ३३५) विचरन्ति महादेवाः सोमराजेन पूजितः | विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः || ३-१७४ || सुरेश्वरश्च सर्वेशो भूतपालोबलि प्रियः | सुखकृद्दुःखकृच्छैते शैवेन तु समासतः || ३-१७५ || ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा ईशानेन तु पूजिताः || ३-१७६ || वृषोवृषधरः कान्तो क्रोधेशस्वनिलाशनः | ग्रसनोदुंबरश्चैव फणीन्द्रो वज्रदंष्ट्रवान् || ३-१७७ || विष्णोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा विष्णुनामसुपूजिताः || ३-१७८ || प्रोक्तोयं पृथिवी पश्चात् आप्यन्तत्वमतः शृणु | ब्रह्माण्ड परितः स्थाप्य दद्याद् दशगुणावृतम् || ३-१७९ || अमरेशं प्रभावञ्च नैमीशं पुष्करं तथा | आषाढीशञ्च पिण्डीशं हारभूतञ्च वाकुलम् || ३-१८० || प्रोष्टं गुह्याष्टकं ह्येवं जलावरणमाश्रितम् | ऊर्ध्वे दशगुणेनैव वह्नेरावरणं महत् || ३-१८१ || हरिश्चंद्रं सुशैलञ्च जल्पेरम्रातिकेश्वरम् | महाकालं मध्यमञ्च केदारं भैरवं तथा || ३-१८२ || अतिगुह्याष्टकं ह्येवं अग्न्यावरणमाश्रितम् | वायवावरणमूर्ध्वे तु विह्नेर्दशगुणं महत् || ३-१८३ || गया चैव कुरुक्षेत्रं नखलं नाखलं तथा | विमलञ्चाट्टहासञ्च महेन्द्रं भीम एव च || ३-१८४ || गुह्यात्गुह्याष्टकं ह्येवं अनिलावरणैः स्थितम् | तदूर्ध्वन्तु भवेद् व्योमं स्थितं दशगुणावृतम् || ३-१८५ || वस्त्रापदं रुद्रकोटिं रविमुक्तं महालयम् | गोकर्णं भद्रकर्णञ्च सुवर्णाक्षञ्च स्थाणुकम् || ३-१८६ || पवित्राष्टकमेवं हि व्योमावरणमाश्रिताः | अत ऊर्ध्वमहंकारं स्थितं दशगुणेन तु || ३-१८७ || प्. ३३६) खगलेन्दु करण्डञ्चोमाकोटि मण्डलेश्वरम् | कौञ्जरं शंखुकर्णञ्च स्थूलेश्वरं स्थलेश्वरम् || ३- १८८ || स्थानाष्टकमिदं विद्यात् पूर्वाद्यैः शान्तकं स्थितम् | श्वेतगुह्याष्टकं प्रोक्तं रक्तं चैवाजगुप्सितम् || ३-१८९ || गुह्यात्गुह्याष्टकं पीतं कृष्णञ्चैव पवित्रकम् | स्थानाष्टकं स्फटीकाभमेवं पञ्चाष्टकं स्मृतम् || ३- १९० || पक्षाकारस्तु भवताभ्युच्य वै तु निवासता | एते श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तिताः || ३-१९१ || अथ चोर्ध्वे भवेत् बुद्धि स्थिता दशगुणावृता | पैशाचं राक्षसं याक्षं गान्धर्वञ्चैंद्रमेव च || ३- १९२ || सौम्यं प्राजेश्वरं ब्राह्मं देवयोन्यष्टकं स्मृतम् | एतत् पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् || ३-१९३ || स्थानान्युक्तानि दिव्यानि सर्वैश्वर्ययुतानि च | गुणावरणमूर्ध्वे तु बुद्धेर्दशगुणं स्मृतम् || ३-१९४ || अकृतञ्च कृतञ्चैव भैरवं ब्राह्म एव च | वैष्णवञ्चाथकौमारं कौमिश्रैकर्णमेव वा || ३-१९५ || प्रोक्ता योगाष्टकं ह्येवं गुणावरणामाश्रितम् | योगेश्वरेषु यो भोक्ता योगं पूजन्ति तत्पराः || ३-१९६ || तेषां स्थानानि दिव्यानि योगैश्वर्ययुतानि तु | अव्यक्तमत ऊर्ध्वे तु स्थितं दशगुणावृतम् || ३-१९७ || क्रोधश्चण्डश्च संवक्तो ज्योतिः पिङ्गलसूरकः | पञ्चान्तकैक वीरश्च शिवेन सहितेश्वरः || ३-१९८ || महादेवाष्टकं ह्येवं तद्व्यक्तावरणे स्थितम् | अव्यक्त प्रकृतिश्चैव प्रधानमिति चोच्यते || ३-१९९ || अत ऊर्ध्वं भवेदन्यद्रागाख्यावरणं विदुः | तत्प्रधानात् शतगुणं पौरुषन् तत्वमुत्तमम् || ३-२०० || तत्र रुद्रो महातेजो वाम देवौ भवोद्भवौ | एकलिङ्गेक्षणेशान भुवनैश्च परस्परम् || ३-२०१ || अङ्गुष्ठमात्रास्ते देवास्त्वङ्गुष्ठात्मक संज्ञकाः | माया ज्ञानविनिर्मुक्ता परमेश प्रभावकाः || ३-२०२ || प्. ३३७) तत्रैव पुरुषो ज्ञ्यो रागाख्यावरणाश्रिताः | षट्कौशिकानि भूतानि भूतानि विषयाणि च || ३-२०३ || मनोबुद्धिरहंकार स्त्रिगुणश्च विशेषतः | एतैर्युक्तस्तु पुरुष आत्मतत्वे भुवि स्थितः || ३-२०४ || विद्यातत्वन्तदूर्ध्वन्तु रागाच्छतगुणं भवेत् | वामदेवोधभीमश्च उग्रश्चैवस्तथा पि च || ३-२०५ || शर्वैशानैक वीरश्च ईश्वरश्च प्रचण्डधृत् | ईश्वरोथ उमाभक्त अजेशोनन्द एव च || ३-२०६ || ततो ह्येक शिवश्चैव विद्यावरणमाश्रिताः | कालतत्वं भवेदूर्ध्वं विद्यायास्तु शताधिकम् || ३-२०७ || उच्छ्रच्छुष्कश्चांबरश्च मातंगोघोररूपकः | याम्योहलाहलश्चैव क्रोधेशोवसवामुखः || ३-२०८ || स्थूलरुद्रोवर्ष रुद्रोरुद्रोगलगुरुस्तथा | द्वादशैते महावीर्या कलावरणमाश्रिताः || ३-२०९ || अत ऊर्ध्वं भवेन्माया कलायास्तु शताधिकाः | संपुटद्वितये माया रुद्रैर्द्वादश संस्थिताः || ३-२१० || अधश्च संपुटे विद्यादूर्ध्वश्वासं पुटे परम् | गहने शस्त्वव्ययश्च तथा हरिहर प्रभुः || ३-२११ || दशैशानस्तथा चैव त्रिकालो गोपतिस्तथा | अधोमाया पुटान्ते तु षड्रुद्रास्ते प्रकीर्तिताः || ३-२१२ || क्षेमीशो ब्रह्मचारी च विद्येशानस्तथैव च | विश्वेश्वरः शिवश्चैव अनन्तस्तु षडेव हि || ३-२१३ || ऊर्ध्वजा या पुटान्तास्तु एते रुद्रा प्रकीर्तिताः | तेषां मध्ये सभगवाननन्तेशो जगत्पतिः || ३-२१४ || उत्पत्तिं भावयित्वा तु कुरुते स्वेच्छया प्रभुः | मायाद्यवनि पर्यन्ता ये रुद्राः संस्थिताः क्रमात् || ३-२१५ || भुंजते तत्र तत्रैव भोगादिमुदितात्मनः | पश्चात् ज्ञानं समाश्रित्य शिवतत्वं समाश्रिताः || ३-२१६ || प्. ३३८) मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु | मायोर्ध्वे तु भवेदात्मा स्थितिः शतगुणेन तु || ३-२१७ || तदात्मा विमलः शुद्धः सर्वज्ञत्वादिभिर्गुणैः | जगत् बीजमिदं ज्ञेयं शिवव्यक्तिकरं परम् || ३-२१८ || माययासं वृतो ह्यात्मा शिवव्यक्तिकराय च | पशुपाश पतित्वञ्च त्रिगुणं विद्यते तथा || ३-२१९ || आत्मानमेवं वेत्तव्यं विद्यातत्वं तथा शृणु | आत्मनस्तु सहस्रांशात् विद्यातत्वन्तु संस्थितम् || ३-२२० || ईश्वरः संस्थितस्तत्र ब्रह्माङ्गादि समन्वितः | तदूर्ध्वे चैव सादाख्यं तत्र संस्थः सदाशिवः || ३-२२१ || तदूर्ध्वे बिन्दुतत्वन्तु तदूर्ध्वे नादमेव तु | तदूर्ध्वे शक्तितत्वं हि चोर्ध्वे प्रथमशक्तिकम् || ३-२२२ || तदूर्ध्वे शिवतत्वन्तु सर्वतत्वोपरि स्थितः | शिवा?द्यवनि पर्यन्तं व्यापकन्तेन तेजसा || ३-२२३ || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | अहङ्कारस्तथा बुद्धिर्गुणमव्यक्तमेव च || ३-२२४ || रागत्वञ्च ततः तस्मिन् दशपञ्चेन्द्रियाणि च | विद्याकालकला माया आत्मानन्तु तथैव च || ३-२२५ || शुद्धविद्या चं सादाख्यं बिन्दुनादन्तथैव च | द्वितीयं शक्तितत्वं च प्रथमं शक्तिमेव च || ३-२२६ || षट्त्रिंशत्तत्वमेतानि शिवतत्वोद्भवा इह | ब्रह्माण्डं पृथिवी ज्ञेया प्रकृत्यञ्जलकं स्मृतम् || ३-२२७ || तेजो विद्यान्तमेवं हि वायुः सदाशिवान्तकम् | व्योमः शक्त्यन्तमेषां वै पञ्चतत्वेषु संस्थितम् || ३-२२८ || एतानि पञ्चतत्वानि सुतत्वे तु स्थितानि तु | मायान्तानि च तत्वानि शिवतत्वमुदीरितम् || ३-२२९ || आत्मैव चात्म तत्वस्य सर्वतत्व प्रभुः स्मृतम् | विद्या तत्वादिशक्त्यन्तं विद्यातत्वमिति स्मृतम् || ३-२३० || ########### END OF FILE #######