#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00533 Uniform title: svātantrayadīpikā Author : mānasarāma Manuscript : Manuscript Description: Summary of the main tenents of Kashmiri śaivism by Mānasarāma the grand teacher of Swami Lakṣmanjoo. It is written in the form of short aphorisms on which the author himself comments. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 14, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### स्वातन्त्र्यदीपिकासूत्र सटीक (मनसारामकृता) सवाध्वात्मादृढे तस्मिन् देहयन्त्रे चिदात्मना प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् | क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते प्राणयन्त्रं विघटते देहः स्यात् कुड्यवत् तत इति || परः प्रमाताविनाशी || तयोः साक्षिभूतः चिदानन्दरूपः प्रत्यगात्मा सर्वोपनिषद्गीयमानोऽन्वयव्यतिरेकाभ्यां जननमरणरहितो न्न मयादिभ्यो विलक्षणः सर्वैरनुभूयमान उपद्रष्टानुमन्ता च भत्ता (?) भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेस्मिन् पुरुषः परः इत्युक्त्वा परः प्रमाताविनाशीति सिद्धम् | न हि देह क्षयात् प्रमातरि काचिद्धानिः घटध्वंसान्नभसीव यथा घटेष्वबाह्याभ्यन्तरवस्थिताकाशः उपाधिस्थन्यः (प्. २) तथा प्रमाता च शरीरेषु तदुपाधिरहितोऽक्षयस्वभावः सर्वानुप्राणकः सर्वस्य प्रकाशकः यतः || संविन्मार्ताण्डः सर्वालोकः || शवावभासानां पिण्डानामनुप्राणकः संविन्मार्ताण्डो निजप्रकाशनशक्त्या सर्वं भावजातं प्रकाशयति नहि परमार्थसंवित्प्रकाशानुप्रवेशं विना कस्यचिदपि स्वात्मतोपपद्यते यत्र यदिदं किञ्चिद् बाह्यमाभ्यन्तरं वा प्रतिभासते तत् तदेव तत्प्रकाशकचनम् | यदुक्तं महागुरुभिः महागुहान्तरनिर्मग्नभावजातप्रकाशकः ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुसः शिवमिति कथमित्थं || विश्वात्मा || या सा सवितुर्भन (?) शक्तिः सर्वं प्रतिबिम्बितं भावजातं स्वसंविन्सक्तरान्तरे (प्. ३) भासयति सा च सर्वपदार्थेषु प्रतिबिम्बति | एकापि नानारूपैव भासते यथाकाशो घटेषु अथवा सूर्यप्रकाशो विचित्ररूपः स्वच्छास्वच्छेषु इत्यतिडुर्घटसामर्थ्यरूपा भगवच्छक्तिः यदि प्रत्यगात्मा यैव चिद्गगनाभोगभूषणे व्योम्नि भास्करे | धराविवरकोशस्थे सैव चित्कीटकोदर || इत्युक्त्यैकरूप एव तर्हि कस्मात् पश्वादिभ्यो मनुष्याणां परमेश्वर तादात्म्यापादने विशेष इत्याशङ्क्याह || आद्यन्तप्रत्याहारोपदेशात् || भूम्यन्तं सङ्कोचं जडाभिप्रायं पाषाणादिमनुजान्तं विकासतारतम्यात् स्वभावभेदं सर्वेषां ह्यादिसिद्धो महेश्वरः | जाड्यता नवस्वरूपेऽन्तर्भूतो नृदेहोत एवादिदेवस्य (४) प्रकाशद्योतनभाजनं भ्रमरकीटवन्मानुष्यं बिन्दुपर्यवसायात्मकं अकारहकारसम्पुटीकरणमेव रहस्योपदेशं यद्वत् | अन्यश्च || शुद्ध्यशुद्ध्याभ्यां नरेशत्वम् || प्रकृतिपुरुषसंयोगादङ्कुरायमाण सुच्छूनस्वभावं सत्वप्रधानं दृक्क्रियाद्योतनस्थानं तत् स्वाभाव्यात्मकमन्तर्बहिष्करणादिप्राप्तसत्ताकं तदभिमतो संविदात्मकस्वात्मप्रत्यवमर्शोन्मग्ननिमग्नस्वरूपत्वाच्छु द्धा-शुद्धविशेषविशेषितावेशनरौ यदुक्तं मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधेति | ईश्वरस्य दृक्क्रियोल्लासं युगपत्समानवृत्या भवति | नरस्य तु तद् विपर्ययात् | प्रत्यभिज्ञयामपि स्वातन्त्र्यहानिर्बोधस्य (प्. ५) स्वातन्त्र्यस्याप्यबोधता द्विधाणवं मलमिदं स्वस्वरूपापहानित | इति नरशब्देन मनुष्यजातिविशिष्टमेव न पशुवनादयस्तेषां तु तत् स्वाभाव्यं रजस्तमस्तारतस्य वैचित्र्यप्रजनं यदुक्तं सर्वद्वारेषु येशैक (?) देहे स्मिन् प्रकाश उपजायते | ज्ञानं यदा तदा विद्या द्विवृद्धे सत्वमित्युत लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा रजस्येतानि जयन्ते विवृद्धे कुरुनन्दन अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च | तमस्येतानि जायन्ते विवृद्धे भरतर्षभेति ईश्वरो हि सर्वज्ञादिगुणशाली सर्वैश्वर्यसम्पन्न एष एवान्तर्यामी सर्वानुप्राणकः | सर्वस्य वेदकः सर्वैरविषयीकृतस्वरूपत्वात् सर्वत्र साक्षी स्वाङ्गरूपेषु (६) भावेषु पर्त्युर्ज्ञानं क्रिया च या माया तृतीये ते एव पशोः सत्वं रजस्तम इति स्थित्या जीवो हि सङ्कुचितैरेतैशुणैः पूर्णो पि अपूर्ण इव भाति स्वस्वरूपप्रत्यभिज्ञानात् सर्वज्ञादिगुणसम्पन्नस्तद्रूप एव | तदाहुः || प्रवेशात् तन्मयः || स्वस्वभावोन्मग्नस्वरूपा तुर्यधामानुप्रवेशात् त्राससमये हृअत्प्रवेशवत् सर्वतो निवर्तनात् समुश्छलितशक्तिर्दृक्क्रियासम्पद्विलासात् सङ्कोचदारिद्र्यं निरस्य स्वचैतन्यात्मसाम्राज्यमवाप्यते | यथा कीटः स्वान्तरसङ्कुचितान् षट्पदगुणान् सर्वतो निवर्तनस्वरूपेण तद्ध्यानप्रवेशेन विकासयित्वा तद्रूपो भवति तद्वज्जीवो पि स्वतादात्म्यसमर्पणस्वरूपेण शिवो हसम्मीति (७) भावनाबलेन विकसितस्वशक्तिविभवः प्राप्तपरमेश्वरेकात्म्यभावः यदा तु मध्यधामानुप्रवेशान् तन्मय एव तिष्ठति तदा देहस्थो पि विभागश्थ(?)न्यमुपाधिरहितं चिदाकाशस्वरूपमेवावतिष्ठते सत्यं तत् स्वभावं शुद्धाशुद्ध विशेषविशेषितं कथं कुत्रोपलक्ष्यते || सोमसूर्याग्निषु || यथा निरावरणाच्युतस्वरूपो भगवाननामयो देवः प्रकाशानन्दसामरस्यस्वरूपाद् द्वादशकलात्मकमनहतभट्टारकाख्यमवतारं निजशक्तिसमवायिकं भित्तिभूते स्वात्माकाशे अविष्करोति तथानावृतावृतात्मम् अष्टिव्यष्ठिस्थित्यवभासनात्मोमाग्निसामानाधिकरण्य मध्ये ताभ्यां व्यापकं (प्. ८) पञ्चशक्त्यात्मकं पञ्चसमवायिनी वृत्यवभासकं द्वादशकलासहितं प्राक्संवित्प्राणे परिणते त्यादिनीत्यासामान्यविशेषव्यापारात्मकं सहस्ररश्म्यवतारं मूलप्रकृत्याकाशे उद्गमयति एतत् त्रितयधामास्पदे कृतस्थितिः पराशक्तिरिति तदेवाह || तदात्माशक्तिः || एषा तु पराशक्तिः शब्दराशिं क्रोडीकृत्य परपरापरापरसार्धत्रिवलयात्मकुण्डलिनी तां स्वात्मानं नीत्वा ब्रह्मविष्ण्वादिव्यापारेण समस्तं प्रपञ्चं प्रपञ्चयति तत् कौटिल्यात् कुटिलवाहिनी चित्तवृत्तिस्तद्वैवश्येन विस्मृतस्वसंविदात्मनः शुभाशुभवासनात्मकफलभोगभागिनः सर्वे प्राणिनः खेदमापन्नास्तत्खेदपरिहारयुक्तिमाह (प्. ९) || सङ्घट्टे स्वचित्प्रमात्रचिन्तने परा सिद्धिः || सोमसूर्याग्निसङ्घट्टं तत्र ध्यायेदनन्यधीरिति | मध्यमन्तु नयोगेन ऋजुत्वं जायते प्रिये | इति नीत्या तस्या ऋजुर्थं सोमसुर्याग्निसङ्घट्टे निजप्रेमातिशयनिर्भरो भूत्वा मध्यमन्तु नयुक्त्या सर्वाधीष्ठानं स्वात्मानं परामृष्ट्वा कुटिलाकारन्यग्भावेन ता मृजुत्वं नीत्वा परनादानुप्रवेशात् ऊर्द्ध्वगमनं भावयति ऊर्धगमनात् परसङ्घट्टात्मकमानन्दोल्लासमुल्लासयति यदुक्तं प्रकाशानन्दाभ्यामविदितचंरी मध्यपदवीं प्रविश्यैतद् द्वन्द्वं रविशशिसमाख्यं कवलयन् | प्रविश्योर्ध्वं नादं लयदहनभस्मीकृत (१०) कुलः प्रमादात् तेजन्तः शिवमकुलमस्वप्रविशतीति यैव सोमसूर्याग्निसङ्घट्टं यथेष्टं सम्पाद्य ईश्वरवन्महावीर्यात्मिका तिष्ठति सैवताभिः शक्तिभिः स्थूलसूक्ष्मप्रभृति सृष्टिस्थितिसंहारान् सामान्यदृग्गोचरं कर्तुं क्षमा यथा सोमस्य सितासितपक्षे तद्वत् | यस्तु तत्संघटे औदासीन्येन सत्यं ज्ञानं स्वात्मानं परामृश्य सङ्कल्पसृष्टिवत् सृष्ट्यादिकं कृत्वा सो पि परमे पदे समाविशति संवित्प्रकाशानुसन्धानात् सवाः क्रियाः परधामसमावेशोपायास्तदृते स्वप्नमुञ्चान्ता एव एव सवस्थात्रयं शक्तित्रयं पुटत्रयं प्राणापानसमानदशांश तुरीयप्रकाशोत्तेजनाध परामृष्टव्यं (प्. ११) इत्थं निर्सृष्ट परतत्वप्रवेशायोपायान्तरमाह || सङ्कोचविकासाभ्याम् || स्वसंविन्निभालनबलादन्तर्बहिष्करणवृत्तिनां युगपत्प्रसरविश्वान्तिं कुर्वन् स्वात्मसामर्थ्योत्तेजनेन स्वशक्तिचक्रे शित्वमवश्यं प्राप्यते | कश्चिद्धीरः प्रत्यगात्मानमेक्षद्व्यावृत्तचक्षुरमृतत्वमश्रन्निति श्रुत्यान्तर्बहिष्करणवृत्तीनां क्रुर्माङ्गसङ्कोचवद् युगपत्सर्वतो निवर्तनम् | यदुक्तं गीतासु यदा संहरते चायं क्रुर्माङ्गनीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञ प्रतिष्टिता इति प्रसरावसरे पि स्वसामर्थ्य बलात् तासां स्वस्वविषये निवेशनम् | यदुक्तं सर्वाः शक्तीश्चेतनादर्चनाड्याः स्वे स्वे वेद्यै योगपत्येन विश्वक् | (प्. १२) क्षिप्त्वा मध्ये हाटकस्तम्भभूतस्तिष्ठन् विश्वाकार एकोवभासीति || प्रकारान्तरमाह || महार्थसन्धानम् || सर्वार्थेभ्यो व्यापकोत्कृष्टपरमार्थसंवित्स्वभावस्यानुसन्धानम *(?) प्रत्यवमर्शात्मसंवेदनं सर्वासु शब्दार्थचिन्तास्व सदावहितत्वेन कर्तव्यं तत्परिशीलनप्रकर्षान्निमेषक्षोभो पशमायशङ्ककलङ्कं विलायय परधामनि स चाविषेत् | मन्दाभ्यामादप्राप्त तत्पदस्य सर्वे विघ्नः प्रवर्तन्ते तस्मादप्रतिहतप्रयत्नेन निश्चल चित्तो भूत्वा परमपदविश्रान्तिमधितिष्ठेत् | अन्यश्च || सत्तासंभवोद्यमो योगः || भावाभावे मर्त्याभासमाने सत्तासम्भवो रूपनस्थापनस्वरूपः (१३) शक्त्युद्यमः अच्युतस्वभावः परतत्वसमावेशोपायः तदैक्यात्मदृढभावेन यः स्वात्मन्यच्युतस्वरूपे स्वभावस्थितिं करोति लयोदयतीस्व क्षणे क्षणे वस्था विशेषेषु स्वरूपान्न च्यवति स्वास्थ्येन ह्युद्यमः प्रकर्षते स्वास्थ्योपयोग्यानि व्यापाराणि युक्त्या निरूप्यन्ते || स्वस्थः || आधिव्यापाराणि सङ्गस्मरणजातानि सूक्ष्मरोगानि तेषां चिकित्सा कर्मणि यो निपुणः स एव स्वस्थः यथा हि ध्यायतो विषयान् पुंस इत्यनेन बुद्धिनाशात् प्रणश्यतीति कामक्रोधादि दोषासङ्गदेव जायन्ते अत एवासंसक्तभावनयातान् सर्वानुपशमयेत् | यदि प्रसवादुत्पद्यन्ते तेषां प्रतियोगिनो वैराग्यादयस्तत्महायमन्वेष्टव्यः रहस्यदृशा एक (प्. १४) एव मोहो महान् रोगः तद्वैवश्येन तु पञ्चमहाभूतावेशः तस्मात् सर्वाणि भूतसज्ञकानि भ्रान्त्योन्मत्तवश्चरन्ति तत्प्रशमनार्थं स्वस्मिन्नेव प्रकाशानन्दपदे नायासेन तिष्टतीति स्वस्थः सदावहितस्य हि दासवद् वैराग्यादयो नुचरन्ति ननु पञ्चशक्त्यात्मके चित्ते बलवत् तद्वृत्त्युन्मुखे क्रोधादयो वश्यं प्रवर्तन्ते केन युक्ति सामर्थ्येन तापं शमयतीत्येतदेवाह || वितर्कः परमौषधम् || विवेको हि तुष्टिपुष्टिहेतुभूतत्वात् सर्वायासरिरा सकरः परमौषधं तत्प्रसादेन स्वात्मसङ्कोचात्मकं दौर्बल्यं विहायपरमवीरत्वं संप्राप्ता योगिनः सम्राज इव विराजन्ते तथा च नेति (प्. १५) नेतीति युक्त्या सदसद्विवेचनं कृत्वा धर्मप्रतिद्वन्द्वीन्यादौ शमयित्वा सर्वाणि करणानि निजसंवित्प्रसादेन प्रसन्नतां नीत्वा क्षुब्धत्वं ततो गुणानां सासानाधिकरण्यं द्विविधं गुणवृत्तिप्रवृत्तिनिवृत्तिष्षोढासीन्यं यदुक्तं भगवता प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डवेत्यारभ्य गुणातीतः स उच्यते इत्यन्तं द्वितीयं निजबलेन यथेष्ठसम्पादननिःष्यन्दोत्पादनम् | गुणोभिरुचिस्वरूपेण परिणमते रुचिश्च शुद्धामयत्वेन त्रिधा तद्व्यापारस्य पूषे सात्विकी राजसी तामसीति संज्ञकृता साप्युन्मीलननिमीलनार्धनिमेलनभेदान् नवधे दृशा विभागेन क कस्याः प्राधान्याद् (प्. १६) बुद्ध्यादिवृत्तिसम्बन्धत्वाश्चानन्तप्रकारा एते हि गुणा यत् सहायत्वेन प्राप्तसत्ताकास्तन्मध्यबलमाश्रत्याहं प्रत्यवसर्वात्मस्वसंविदात्मनि समाविष्ठो भूत्वा यथेष्टं वेद्यवेदकाभासं स्वेच्छये वै भासयिष्यति किं च परिपूर्णस्वतन्त्रानन्दसुरूपो विश्वनिर्भरवपुरखण्डात्मा शिवोहमस्मीति यो विचारः स एव परमौषधं सङ्कुचितैश्वर्यस्य मलत्रयाभिभूतस्य जीवस्य जन्ममरणादिव्याधिं निरस्य परमशिवाख्यममृतधामस्वात्मात्मन्येवावस्थितिं प्रकटीकरोति || उदितबलो हि योगी || सोत्कट्वादिहामुत्रसाक्षी || %%%%%%%%%%%%%%%%%%% (प्. १७) या वृत्तिभित्तिभूतान् निजस्वरूपादुन्मीलयति ताः स्वात्मनि हेलया निमीलयति यत् तदेव स्वात्मनो बलं तस्योत्कर्षादुन्मधस्वभावादि हासुत्रसाक्षी यथा स्वप्नजागरौ नन्धिहोपयुक्ता स्ववृत्तीषु प्रमातरि साक्षित्वमवश्यमेवाङ्गी कर्तव्यं कथमसुत्रेत्याशङ्क्याह || हृदयं प्रकाशः || यतः सर्वासां दृश्या दृश्य वृत्तीनं प्रसरविश्रान्ति स्थानं चित्प्रकाशस्ततोयोग्यपि तत्प्रकाश प्रकाशनात् स्वसंविन्सक्तरान्तरे प्रतिबिम्बितानिहामुत्रगतान्भावजातान्प्रकाशयत्वा तद्व्यापारसाक्षी | यदुक्तं वा सिष्टे स्वज्ञानदर्पणे स्फारे समस्तावस्त्रजातयः इसास्ताः प्रतिबिम्बन्ति सरसी वतटद्रुमा इति (१८) ईदृश्यामवस्थायां बाह्याभ्यन्तरवृत्युपसंहरणात् || प्रमादेन्यक्कारः || प्रमादे महामयारूपेमितसिद्धि प्रपञ्चे स्वातन्त्र्यरहितेस्थन्य स्वभावे च निजौदार्योच्छलनबलान्न्यक्कारः हेयमिति विचारः यदात्तूल्लसितमपि सिद्धि प्रपञ्चं इन्द्रजालमिवैन्द्रजालिक इवपश्यति | तदा तत् सृष्टिलयात्परतत्वारूढो भवति नन्वी (?) दृशे सिद्धि प्रपञ्चे कथंन्यग्भावं (?) कर्तुं शक्रुयादित्याह || त्वप्तः (?) || यदैश्वर्यविप्रुड्भिर्ब्रह्मादय ऐश्वर्य भागिनस्तस्यात्मनोलाभेन स्वस्वभावैक्यात्मोल्लासेन परिपूरिताभिलाषः सजाव सर्वाकाङ्क्षोन्मूलने क्षमः | तदेव स्फुटयति || (प्. १९) परापराकलङ्किता पराकाष्ठा || विक्षेपाश्रय पदार्थरञ्जने ऐकाग्र्यभावनया निजपिण्डवालाग्रचेष्टा परिचिन्तने च प्रकृताश्रितं ज्ञानं तदुत्तीर्णोच्छलनस्वभावा पराकाष्ठा तस्यामधिरूढे स्थूल सूक्ष्मवाक्याभ्यन्तरैहामुत्रिकविषयवासनाविनिर्मुक्तः परमहंसस्तस्य स्थितिमाह || पद्मासनस्थः परमहंसः || एकाधारत्वाद्युगपत्सङ्कोचविकासधर्मित्वाच्छक्तिचक्रमेव पद्मस्तस्मिन्नेव सृष्टि स्थिति संहारपि धानानुग्रहकारकः परमहंसः प्रभुत्वेन स्थित्वा निजशक्ति मुखेन यतोत्तीर्णं महारावं गीयते तत्समाश्रिता ब्रह्मादयो देवा हृध्यन्ति जीवन्ति च इति शक्ति (प्. २०) चक्रमेव तस्य शरीरम् | एतादृशस्य परमहंसाश्रमस्थस्य स्वरूपमाह || निराभासत्वम् || सोमसूर्याग्न्युद्भासितं बाह्याभ्यन्तरं यत्किञ्चिद्भासते तत्सर्वंधीगोचरं | न तत्र सूर्योभाति न चन्द्रतारकानेमाविद्युतोभातिकुतोयमग्निः तमेवभान्तमनुभाति सर्वं तस्य भासः सर्वमिदं विभाति | न तद्भासयते सूर्यो नशशङ्कोनपावकः यद्गत्वा न निवर्तन्ते तद्धामपरमं मम | इति स्थित्यातदति क्रम्यसमस्तशक्यैकसङ्घटत्वान्निराभासं स्वप्रभा भास्वरं विश्रान्तिस्थानं तत्स्वतन्त्रात्म भूतस्यसहजं स्वभावं तत्पदाधिरूढस्य वहिनमागमाद्यवसरेलोकान्तनतां चर्यामाह || (२१) स्वाच्छन्द्यम् | स्वतन्त्रोल्लासित स्वभावेवर्तमानस्य या वृतिः सा निर्नलाहमेव परोहंसः शिवः परमकारणमिति स्थित्याहं प्रत्यवमर्शः सर्वत्राप्रतिहतस्वरूपोत एवासो हानादानमानावमानकल्पनारहितार्जवपुरःसरं व्यवहारं यथेष्टं करोति यदुक्तं कुचिच्छ्रेष्ठः कुचिद्रष्टः (?) कुचिद्भुतपिशाचवत् | नानावेशधरो योगी विचरत्यवनीतले | इति एवं दशा वृत्तोवर्तमानस्य स्वभाव स्थितिमाह || घूर्णितः || अनुत्तरा ह्लाद रसा स्वादक्षीवितोन्तर्वहिष्करण चक्रं तत् पूरेण प्लावयित्वार्वनिमीलन वृत्या मदिरामदघूर्णित इव सर्वव्यापारसाक्ष्युपलक्ष्यते | यदुक्तं (प्. २२) वासिष्ठे अन्तर्मुखतयातिष्ठन्वहिर्वृत्तिपरोपिसन् | परिश्रान्त तया नित्यं निद्रालुरिवलक्ष्यत इति ननु परमे पदे बाह्याभ्यन्तर वृत्रूपशमेसह जानन्द चमत्कार उल्लासति किन्तु तत्प्रसरे प्रारब्धभोगमवश्यमश्नुते कथं तादृक्स्वभाव तत्व सङ्गी कर्तव्यमित्याशङ्क्याह || अमापूर्णा च || यचैषा मृताकार रूपाशक्तिर्बाह्योल्लास रूपात्परप्रमातृ विश्रान्त्यन्तं देवपितॄशुर्पयित्वा विस्मयरूपामावशिष्यत | सैव परप्रमतृ पदाद्बाह्योल्लासपर्यन्तमनपह्नवनीय स्वभावा सदोदिता सर्वान्पाययतिपोषयति च तच्छक्तिमांश्चण्डभास्कर इव सर्वो ममायं विभव इत्येवं साक्षात् कृत सुस्वभावो योगीश्वरो विराजते | (प्. २३) नास्य स्वस्वरूपप्रकाशनव्यतिरिक्तं किञ्चित् | ईदृशस्य योगिनो माहात्म्यमाह || योगीन्द्रो भैरवः || सर्वप्राण न रूपा क्रियाख्यानुत्तरादि देवस्य शक्तिः कालेनपरिणता प्रकृत्युल्लासरूपाणि विकारवैचित्र्याणि स्वस्मिन्प्रोतानि प्रेरयति कालो हि अध्यात्मिक बाह्य स्वरूपत्वाद् द्विधा दक्षिणोत्तर गत्यासप्तर्क्षचक्रं भ्रामयन् | तद्भ्रामणाद्दिनरात्रि ह्रासवृद्धि विभागमाभास्यत्तटिसुहूर्तादिना सर्वं प्रपञ्चं कलयति तदधीनादेवादि स्थावरान्ताः सर्वेप्राणिनस्तद्ग्रासकः श्रीमन्महाभैरवदेवो निराभासाभाससम्पद्विलासोद्भवविस्मय चमत्कारस्वतन्त्रो योगी (२४) श्वरस्तस्य स्वभावोलयोदयाकलङ्कितः सर्वत्र स्वचमत्कारनिर्भर एव यतः स्वात्मैक्यात्म भूतानांभक्तिभाजां हृदये महेश्वरः स्वसामर्थ्य स्वरूपं साक्षात्करोतीति शिवं || इति श्रीमहामाहेश्वराचार्यवर्यविरचितायां स्वातन्त्र्य बोधदीपिकायां परमेश्वरविभूति स्फारतत्समावेशो पायकथनं नाम प्रथमोल्लासः || ओं प्रकाशानन्दस्वरूपा महेश्वरस्यैकैव स्वरूपभूता पराशक्तिः | सैवसर्वात्मना स्फुरति एकैवानेक रूपाभासते तदंशाहि सर्वे प्राणिनोममैवांशो जीवलोके जीवभूतः सनातनः मनः षष्ठानीन्द्रियाणि प्रकृति स्थानि कर्षतीति स्थित्या तदंशो जीवस्तद् रूपोपित द्वै मुख्यात् प्राप्तपशुत्वो यत् तस्य निजशक्ति सङ्कोच स्वरूपान्तर्बहिष्करणाधीन स्वभावा बहिर्मुखो ध्यासस्तदेव पशुत्व संशत्वं च तस्य स्वात्मभूतात् परमेश्वरा द्विमुखस्य शक्ति दरिद्रस्य स्वशक्ति विकासात्मकं प्रत्यभिज्ञानं प्रतिपादयिषुः प्रथमं तावत् तत् तदनन्तजगदात्मना स्फारित स्वरूपां परमेश्वर हृदय भूतां परां शक्तिं वितत्यनिरूप्यते || प्रभुशक्तिः पराकाली || सर्वासां शक्तीनां प्रसरविश्रान्ति स्थनभूतः प्रभुर्महेश्वरस्तन्नित्ययोगिनी सारभूता शक्ति पञ्चकप्राण न स्वरूपा परा स्वातन्त्र्य भट्टारिकानुत्तरा कुलजम्नोहमिति स्पन्दनोल्लासं प्राप्तेच्छा (प्. २६) ज्ञानक्रियारूपेण प्रस्फुरतीदमिति बहिरुल्लिलसिषापेक्षयाताभिस्तस्थित स्वरूपाभिस्तत्रितयस्तम्भन स्वभावामिदन्तात्मिकां मायाभिधां सङ्कोच प्राधान्यात्मत्वरजस्तमः साम्यावस्थां प्रकृतिमाभास्य शिव शक्त्यात्मिकां बीजयोनित्वमादधात्मैव पुत्र इत्युक्त्या स्वांशभूतो नरेश्वराख्यौ सन्तानौ स्वातन्त्रोन्मीलन निमेलनादेकानेक मूर्तीसर्जयित्वा प्रकृत्युच्छूनात्मकेषु तत् तत् स्थान विशेषेषु विकसित स्वरश्मिभिर्यथा योग्यं चकास्ति रश्मयस्तमोमसूर्य वह्न्यात्मिकास्ताभिः प्रसरणस्थापन संहरण स्वरूपाभिः सर्वमिदन्तात्मकं क्षिपतिस्थापयति ग्रसतीति काली द्वादशात्म (प्. २७) सर्वेषु भूतेषु समस्त विद्योत्पादिका कलावती कौशल्याद् व्याप्यव्यापकस्वरूपा तत्र द्वादशान्त पीठे ज्ञाननिधि स्वरूपा हृदिस्थाने जीवनव्यापारा त थ द द्वादशान्त इच्छाख्य तन्त्र प्रेरणादैन्मुजालिक इवान्तर्बहिष्करणादिषु ज्ञानक्रिये सङ्क्रामयित्वा तद् व्यापारात्मकमिन्द्रजालमाविष्करोति हृदिस्थाने च लोहकार इवप्राण यन्त्र चोदनादुदरगतं वैश्वानरसुद्दीपयित्वा सारासारविभागेनान्नपानं पचति तदारत्तत्मारं यकृत्स्थाने नीयते तत्रापि सारासारं विभज्य निज मरीच्युल्लास रूपयातत्तच्छक्ति स्वरूपयातत्सारं तत् तत् स्थाने यथा योग्यमाकर्षयति तेन सोमकलां बलवन्तीं कृत्वा सर्वाणुङ्गनि पुष्णाति (प्. २८) तत्रहानसमाधानस्तम्भनसाम्यापादन व्यापकाधारभूत स्वरूपाभिः पञ्चशक्तिभिर्विराजमाना सोमाग्नि सामानाधि करणात्मकं बलमेवजीवनम् || सोमसूर्याग्निमध्ये कृत्वास्पदा *(?) ष्ट त्रिंशत्कलास्वरूपैत्येवं प्रकारा ब्रह्मरन्ध्रादधो वक्त्रपर्यन्तं चितिरेव सर्वत्र गता तद् विमुखः पशुरिति तदेवाह || वैमुख्यात् परवशोजीवः || अहमात्मा गुडाकेश सर्वभूताशय स्थित इति नीत्या परासंविदेव सर्वाशयेष्वात्मभूता तद्वै मुख्यात् स्वस्वभावविस्मरण स्वरूपात् सङ्कुचित निजशक्ति विभवः प्रकृति तादात्म्यमापन्न चिद्रूपः प्राणे परिणमति प्राणचेतसौ परस्परं संबद्धो (प्. २९) सर्वेद *(?) विशेषास्तद्वृत्ति स्वरूपास्ताश्च हृदुदरादि स्थानेषु विकसितप्रायस्तत् तत् स्वभावतुल्यतामादधानजीवोहि गुणानु सारीक्षीराज्य सम्बन्धवत् तत्रावस्थितो त एवपरवशः तत्तश्छब्द स्फुरणात्म मातृका चक्र व्यामोहाद् बाह्योल्लासरञ्जित ज्ञाने सिष्याप्रत्यय रूपाध्यामाभिभूतः कामक्रोधलोभमदमात्सर्य शोकहर्षादि भिरभिभूयमानो जननमरणव्याधिभिः परिभूयते यदुक्तं सत्वस्थोराजसस्थश्च तमस्थो गुणवेदकः | एवं पर्यटते देही स्थानात् स्थानान्तरं व्रजेदिति करन्ध्रचितिमध्यस्था ब्रह्मपाशावलम्बिकाः पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुरिति पुर्यष्टकेन संरुद्धस्तदुक्तं (प्. ३०) प्रत्ययोद्भवमिति च | ईदृशा सवस्थां प्राप्तस्य भ्रमनिवृत्ति स्वरूपं क्लेशनिर्हरणो पायमाहा || देहास्थैर्य दर्शनम् || शुक्रशोणितपरिकल्पितस्य षड्विकारसहितस्य दशदोषदूषितस्य देहस्यास्थैर्य दर्शनम् | नदी वेगोर्थ बुद्बुधवद्विमर्शनं कर्तव्यम् | सुखदुःखानां भोगायतनमिदं शरीरवराकं क्षणभङ्गुरमेवेति दृष्ट्या तत् सम्बन्धीनि कुटुम्भादीनि तदग्रे गतान्ये वेत्युपलक्षितानि इति तीव्रतमवैराग्य भावनादाढ्यमापन्नस्य सत्यज्ञानानन्दस्वरूप स्वात्मस्थिति हेतुमाह || उत्तमसङ्गः || तद्विज्ञनार्थं गुरुमेवाभि गच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठमिति श्रुत्या विगलितरागद्वेषाणां विकसित (प्. ३१) परबोधात्मकानां समीपे गत्वा सेवाप्रणामादि पुरःसरी भावेन तद्भाषितानि वधांसि हृदयकर्णैराकर्णयित्वा तदनुवर्तनीयम् | तदाज्ञा पालनमेवपरं पुण्यं तद्वहिनमनमेव महापातकम् | परतत्वारूढानां साधूनां सङ्गमो हि पर पद प्राप्तये उपयुक्तं न तु सद्बोधरहितानां दाम्भिकानां यतः सङ्गनुरूपः स्वभावः प्रवर्तते ततो युक्त मुक्तमुत्तमसङ्ग इत्यनुत्तरपदविश्रान्तिभाजो ये पवित्रीकृत हृदयाः सर्वोत्कृष्टास्ते सत्सम्प्रदायो पदेशयुक्त्या तारणे क्षमाः दर्शनात् स्पर्शनाद्वापि वितताद् भवसागरात् | तारयिष्यन्ति योगीन्द्रः कुलाचारप्रतिष्ठिता इति ह्युक्तम् | स्वभावस्थितिपोषिकां (प्. ३२) तदधिगतां युक्तिं स्फुटयति || मध्यचिन्तनात्मिका युक्तिः || सङ्कोच प्रसरस्तम्भनात्मकेषु प्राणान्तर्बहिष्करणादि वृत्तिषु मध्यचिन्तनात्मिकां संविदुच्छलनस्वभावा या युक्तिः सा सर्वाधिषुनात्मके परासंवित् स्वरूपे स्वात्मपरिज्ञाने कारणम् | यथा काष्ठनिर्मथनादग्निः क्षीरमन्थनात्सर्पि विलक्षणः प्रादुर्भवति तथा मध्य चिन्तन युक्तेः स्वात्मसाक्षात्कारो भवेदिति भवः | ननु स्वरूप स्थिति प्रतिबन्धकानि बहूनि विघ्नानि सन्ति कथं तान्युपशमयेदित्याह || अभ्यासप्रकर्षाद्विघ्न निरासः || मध्यभावना परिशीलन प्रकर्षादितस्ततश्चेतसो वृत्ति नियमात्क्षणे मध्यचिन्तना विस्मरणात् सर्वेषां (प्. ३३) माधिध्याध्यादीनां स्थूलसूक्ष्माणां क्षोभानां निरास उपशमः | उपशमितक्षोभस्य || चितैकाग्र्यादात्मबोधः || लयविक्षेपालस्याद्यतीतात्तत्तत्क्षुद्र सिद्धि प्रपञ्चोल्लासन्यक्कार स्वरूपाश्चित्तैकाग्र्यान्निरन्तरनिर्विकल्पनाद बिन्दुस्थैर्य स्वभावात्मन्तोषादि सम्पन्नस्य श्रद्धा भक्ति मतो हृदये आत्मबोधः स्वस्वरूपविकासात्मा सत्वा पत्तिर्भवति आत्मव्याप्तिर्भवत्येषा इत्युक्तेयमेवात्म व्याप्ति लक्षणा चतुर्थी भूमिका शिवव्याप्तिरतोन्यथा इति नीत्या यदा तु शिव व्याप्तिमिच्छति तदा || रसनिर्भरम् || श्रद्धा भक्त्यतिशयदार्ढ्याच्छैव धर्म्यं जिगमिषुस्तद्रसेन तदैक्य प्रत्यवमर्शात्मकमीतलाच्छा स्वादरसेन (प्. ३४) मीन इव परिपूरित वपुर्यथा जलमयत्वेननायासंमत्स्यव्यापारं तथा योगिनामेव बुद्धि मनः प्राणेन्द्रियव्यापारं परप्रतिभोन्मज्जनात्मकम् | ईदृशस्य योगयुक्तस्य तत्थ (?) रूपौ व्रततपसो || परप्रतिभोन्मज्जनप्रकर्षात् सर्वैश्वर्यसम्पन्नोन्तर्बहिर्व्यापकः परमेश्वरोहमेवेति नियमेन महाभिमानभाजनात्मकं यद्व्रतं तदेवनिःशेष मलच्छेदन स्वरूपं तपः ईदृग्व्रततपोभजमानस्य प्रभुशक्त्युज्जृम्भनात्मिकां प्रसन्नतां सर्वत्राविर्भवति अस्य च अविभागानु पा(?)यनोजपः || उपसंहृतान्तर्बहिः सञ्जल्प प्रसरान्निर्विकल्प स्वरूपो प्रतिहत स्वभावः पश्यन्ती वाक्प्रधानः परमस्पन्दः शिवोऽहं स्फुरणात्मको जपो जायते (प्. ३५) यदा तु त्रिपुटीभेदो पशमनात्मको जपोश्चधो (?) हृद्युल्लसति तदा || विशेषार्पणात्परमोलाभः || प्राणपुर्यष्टक माया प्रमातृत्वान्तर्बहिर्विकल्पानु सन्धान भेदाभेदो पशमन स्वरूपान्निवेषार्पणात्परमस्य प्रकाशानन्द घनस्य परमेश्वरस्य लाभः साक्षात्कारः यदुक्तं मानसं चेतनाशक्तिरात्माचेति चतुष्टयम् | यदा प्रिये परिक्षीणं तदातद्भैरवं वपुरित्यादि इयमेवनिःशेषार्पण रूप पूर्णाहुतिरनयानेकजन्मार्जितशुभाशुभवासनाप्लोषकः सुषुम्णागर्त तदा न वह्निरुद्बुध्यते तन्मुखेन चैतन्यदेवः सन्तृप्यति सन्तष्य च भक्तिभाजां हि महाव्योमाकारां परमसिद्धिं ददाति तदाह || तदनोदयात् परा (प्. ३६) प्रसादः || यतः साम्यापादन सामर्थ्यं सर्वत्र यथा योग्यमुदानस्य लक्षणं तस्मादुदितमध्यबलस्वरूपात् तद्वृत्त्योदयाश्चैतन्य धामात्मकस्य परमेश्वरस्य शक्ति पातस्तदात्मतावेशः | उदानो हि महानग्निरिति यथाग्नावर्पितानिद्रव्यविशेषाणि | अग्निसाद्भवन्ति तथा उदानवृत्युदयात्प्राणान्तः करणादीनि स्वतादात्म्य समर्पणेन सत्यज्ञानैकात्म्य भूतान्येव भवन्ति उदानस्य प्राणीय भाव निमज्जनेन ज्ञानशक्तिरूपत्वमितिह्युक्तम् | या सा शक्तिः घ्राणाद्यनु सरणाज्जाग्रदादि पदेषु परतन्त्री भूता जीवसंविद्भिधाना सैव मध्यधामात्मनि निजबलासादन निमित्तादुदानो पायात्परमार्थसंवित्स्वरूपा तुर्या सर्वं भेदाभेदात्मकमिदं (प्. ३७) विश्वं स्वात्मनिविलाध्य तुर्यातीत पदविश्रान्ति भागिनी यदुक्तं जगत्काये कृत्वा तदपि हृदये तच्च पुरुषे पुमां संबिन्दुस्थं तदपि वियदाख्ये च गहने तदेतज्ज्ञानाख्ये तदपि परमानन्द विभवे महाव्योमाकारेत्वदनु भवशीलेविजयते इति विश्रान्ति लक्षणान्येवाह || रोमञ्चाद्याः समाधिचिह्नाः || भ्रमः कम्पश्च घूर्णिश्च प्लुत आनन्द एव चेत्येतानि लक्षणानि क्रमात् क्रममुल्लाङ्घ्य आनन्दप्रकर्षादस्रुरोमाञ्चौ बाह्यलक्षणो समाधेः तत् प्रादुर्भावेसु सितसमस्तवृत्त्यात्मिका प्रकाशानन्द स्वरूपा समाधि रुच्यते | इत्थमस्यस्वरूपमाह || समावेशात्पतिसमः || सुसंविदात्मनि (प्. ३८) भालनयुक्त्योदितोदानीयवृत्तिस्तद्दार्ढ्यात् प्राप्त तुर्यैकात्म्यभावः तदैकात्म्येन जाग्रदादि पदेषून्मीलित स्वस्वातन्त्र्योगलितप्राणादि वृत्तिः परमशिवधाम्नि समाविष्ठो भवति | तदावेशेन सर्वा स्ववस्थासु सम्राडिव विराजते जीयन्नेव शिवसायुज्यमश्नुते | यदुक्तं | अहोसंसार स्वखकेली अहोस्वलभं मोक्षमाने सौभाग्यम् | त्रुटितान्तककलिका अहोशिवयोगिनां यामलीवृत्तिरिति शिवम् || इति श्रीमहामाहेश्वराचार्यवर्यविरचितायां स्वातन्त्र्यदीपिकायां परशक्ति समावेशोनाम द्वितीयोल्लासः || ओं यथा पराद्वयसामरस्यस्वरूपो महेश्वरः स्वशक्ति बलात् सर्वमिदन्तात्मकं भित्ति भूते स्वात्माकाशे हेलयैव प्रकाशयित्वा निमिलयित्वाद प्रकाशानन्दात्मके स्वस्वभावे स्वतन्त्रस्तथातदैक्यमापन्नास्तत्सुरूपभूता जीवन्मुक्ता असंसारान्मोक्षान्तेरमति तदेव प्रकाशनसारभमाणो शिवशक्ति तारतस्यस्वरूपां तयोः सामरस्य स्वभावं तेषां हृदये विकसितां विमर्शशक्तिं तावत् प्रकटी करोति || प्रकाशमानो महाप्रकाशः || अनुतुरानन्दस्वरूपो महाप्रकाशात्मा चैतन्यदेवो निजप्रकाशनशक्त्या प्रकाशमानः प्रकाशनं हि सत्ता स्फुरतात्मकं तत् प्रकाशेन तेजस्तमसोपलक्षितानि बाह्याभ्यन्तरगतानि नील सुखादीनि प्रतिभासन्ते सूर्यादीनां प्रकाशो (प्. ४०) यद्यपि प्रकाशमानो न हि स्वस्वरूपप्रतिपादने समर्थः अतो हेतोर्नीलादि प्रकाशवज्जडाभि प्रायः चित्प्रकाशेन प्राप्तसत्ताकः (?) स च स्वप्रकाशः | ननु महाप्रकाशस्य स्वप्रकाशत्वं कुतोङ्गीकर्तव्यमिति तदाह || विमर्शवत्वात् || संवित्प्रकाशाधीनाः सर्वे प्रकाशास्तत्प्रकाशनेन तेजांसि च तमांसि च भासन्ते संवित्प्रकाशो हि विमर्शवत्वात् स्वप्रकाशः विमर्शोनामाहमिति स्वरूपः यदुक्तं प्रकाशमानं न पृथक् प्रकाग्विमर्शात्म च विमर्शो न पृथक्प्रकाशात् | नान्यो विमर्शोहमिति स्वरूपादहं विमर्शोस्मि चिदेकरूप इति विमर्शादेव सर्वमुत्पन्नं प्राप्तसद्भावं विमर्शो हि सर्वस्य स्वात्म (प्. ४१) भूता कृत्रिमः स्वभावः तथा च प्रत्यभिज्ञायां स्वभावमवभासस्यविमर्शं विदुरन्यथा प्रकाशोर्थो परक्तोपि स्फाटिकादि जडोपम इति स्थित्या विमर्श एव परमेशितुर्मुख्यं सुरूपं तन्मुखेनात्मना स्वात्मभूतं प्रभुं परिज्ञेयं यदुक्तं तस्यदेवाति देवस्य परबोधस्वरूपिणः विमर्शः परमाशक्तिः सर्वज्ञज्ञानशालिनीति सा शक्तिर्गीयते || अनन्तोल्लासरूपा || अहं प्रत्ययस्वरूपा परावाग्विमर्शिनीशक्तिः पश्यन्ती मध्यमा वैखरी स्वरूपेण प्रस्फुरन्तीच्छाज्ञानक्रियात्मना विराजमानातत्रैकैकस्यास्त्रै रूप्यान्नवधा स्वमरीच्युल्लामात्मिकां वर्णसृष्टिं तदात्मिकां (प्. ४२) पद मन्त्रस्वरूपतां च भासयित्वा कारहकारप्रत्याहारेण नादबिन्द्वाविभागात्मस्वभावादशमीवीर्य भूता इयमेव चित्तत्वं प्रकर्षेण विराजमाना इति यदुक्तं नमोस्ति प्रत्ययोलोकेयः शब्दानुगमा दृते अनुविद्धमिवज्ञानं सर्वं शब्देन गम्यते | वाग्रूपताचेदुत्क्रामेदवबोधस्य शाश्वती न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनीति || किं च || द्वादशात्माहंसी च || चितिरेवभगवती परस्पन्दनात्मकतयोन्मना भिधानाकामयतप्रजासृजेयतेतिश्रत्याकिञ्चित्सङ्कल्पात्मकं समनाभावमासाष्य व्यापिन्याद्यकारपर्यन्तं स्थूलाअत्म सूक्ष्मं प्राणस्वरूपेणावतरति यदुक्तं | कलैकादशका चैव प्राणे चरति नित्यशः | (प्. ४३) अकारश्च उकारश्च मकारो बिन्दुरेव च | अर्धचन्द्रो निरोधी च नादोनादान्त एव च | शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता | उन्मना तु (?) ततोतीता तदतीतमनामयमिति चाकारादिनिन्द्वन्तं पञ्चमात्रा नादादि व्यापिन्यन्तं पञ्चमात्रांशाः बौह्योल्लिलसिषात्मसङ्कल्परूपासमना तासामधिष्ठान भूता प्राण न स्वरूपापरस्पन्दनात्मोन्मना सैवपरमेश्वरहंसस्य मुख्याशक्तिः स्वमरीच्युल्लामात्मकेर्थर्वाधो(?) मुखे कमलयुगल मध्ये स्वस्वामि प्रेमातिशयनिर्भरा स्थिता निज विभूति चमत्कार चमत्कृति हेतवे द्वादश महावाक्यैर्द्वादश कलात्मकं महारावं गीयते एवं ह्यसौ || (प्. ४४) तदा रूढो प्रतिहतस्वभावः || यथापरमेश्वरः स्वस्वातन्त्र्यात् सर्वत्रा प्रतिहतस्वभावः तथा तदैक्यमापन्नोपि बुद्ध्यादि व्यापारेष्वविस्मृत स्वात्मसम्पद्विलासः देहाभिमानपाशनिकृन्तनात् सच्चिदानन्दात्मकः अहं ब्रह्मास्मीत्यभिमाननरूपो नित्योदितात्मभावः ईदृक्स्वभावतः सत्यधामा वेशात् सर्वमृतं परासंविदेवसत्तास्फुरत्तात्मासत्यधामतदावेशाद्धेतोः सर्वं कायवाङ्मन सगोचर मृतं नित्यव्यापक पूर्णस्वरूपस्य परमेशितुर्विजृम्भनम् | तद्वैवश्येन हृद्वचन क्र्माध्वन्यार्जवभूतस्य कालत्रितयात्मिका कायवाङ्मनोभिर्यद्यश्चेष्ठां प्रवर्तते तत्तदेवाग्रे स्फुटी भवति अपि चासौ || (प्. ४५) उदितोदार्यः || योगी ह्युदितौदार्यः उन्मग्नस्वसंविदौदार्य स्वभावः देहीन्द्रियादिव्यापाराख्ये माया प्रपञ्चे पद्म इव सदाशुचिरलेपोन च तद्व्यापारोल्लास रूपास्य वासना काल कला नियतिरागादिभिरभिभूत्वापित्तशुद्धविद्यामयासत्ता सामान्य स्वरूपा तस्मादस्य ज्ञानमन्तः करणातीतं स्वतः सिद्धं नत्तु मूढवर्तदधीनम् | उन्मिषितानुत्तर स्वरूपत्वा षट्त्रिंशत्तत्वानि निजोदार्य स्वभावाङ्कितानि स्वशक्ति विभूति सम्परि पूरितानि भासयति ईदृग् योगी || प्रशान्तमोहः धन्योरमति || शरीरत्रितय व्यापारमवस्था त्रयं (प्. ४६) तदेव जगन्नामकं लोकत्रयं तच्छाया कलङ्कश्थन्यः (?) सर्वमेव स्वशक्ति स्फारात्मकं ज्ञात्वातस्मिन्नेव तदधिपति स्थाने परमार्थाच्युत स्वरूपे सर्वैश्वर्य सम्पन्ने स्वात्मनि स्थित्वा धन्यः कृतार्थः स्थित प्रज्ञोरमति क्रीडति जगद्ध्यस्य क्रीडास्थानं यदुक्तं वासिष्ठे परिक्षीणे मोहे गलति च पले ज्ञान जलदे परिज्ञाते तत्वे समधिगत आत्मन्य ऋभमते विचार्यार्यैः सार्वं गलितवपुषोर्वै सदसतोर्धिया दृष्ठैतत्वे रमणमटनं जागतमिदम् | प्रसन्नेचित्तत्वे हृदि स्वविभवे वल्लति परे समाभोगी भूत्वा स्वखिल कलनादृष्टिषु पुरःशमंयन्तीष्वन्तः करण घटना स्वाहितर संधिया (प्. ४७) दृष्ठे (प्. ४७) तत्वे रमण मटनं जागतमिदम् | रथ स्फारोदेहस्तु रगरचनाचेन्द्रियगतिः परिस्पन्दो वातादहमकलितानन्तविभवः परो वा वादेही जगति विहरामित्यनघयाधिया दृष्ठे तत्वे रमण मटनं जागतमिदम् | इति ईदृक् स्वभावेन सर्वं स्थावरजङ्गमात्मकं भितिभूते सर्वाधारे स्वात्मनि तिष्ठतीति ज्ञात्वा रागद्वेषमानावमानादि प्रशमनादस्मिञ्जागते जीवन्मुक्ता निर्भया चरन्ति ईदृक्तत्वज्ञः || विश्रान्ति पदेचिदाकाशः || प्रकाशस्यात्म विश्रान्तिरहं भावोहि कीर्तितः उक्ता च सैवविश्रान्ति सर्वापेक्षानिरोधतरित्यादि स्वस्मिन्नेव स्वात्म भूते (प्. ४८) चित्प्रकाशानन्दघनेनिस्तरङ्गमहोदधि सदृशे विश्रान्ति स्थाने स्वात्मना विशुम्यगलितबन्धमोक्ष गमागमादि समस्तशङ्क कलङ्कश्चिदाकाशो वशिष्यते एवं ह्यसौ || अन्ते तन्मयः || यतश्चिदाकाशस्वरूपः परमेश्वरः सर्वाकाशः सर्वाधारो भित्ति भूतस्ततस्तदैक्यमापन्नोपि प्रारब्धक्षयावसरे तन्मय एव नह्यस्य संवित्प्राग्वदिन्द्रियादि पदेषु प्रसरति | अपितु निर्विभागचिदाकाशोघटध्वंसेनभ इववतिष्ठते एतदेवमोक्षः न तु कुत्रचिद्गमनं श्रुतिरपि न तस्य प्राणा उत्क्रामन्ति तत्रैव समवलीयन्ते विमुक्तश्च विमुच्यत इति मोक्षमेवावस्थाभेदेन (प्. ४९) विभज्य निरूपयति || स्व स्वभावानु रूपामुक्तिः || या च चित्प्रतिभा दृगादि द्वारानु सरणात् तत् तत् संज्ञभिधाना जीवभूता सा च स्वचित्प्रमातृ पदारोहणा तुर्या स्वरूपा स्वातन्त्र्योन्मीलनतारतस्याद् यादृक् स्वभावमादन्ते तादृग्मुक्तिः यथा हि पुरुष पदारूढा प्रकृति स्वतन्त्राः सिद्धाः सिद्ध पदवी मारुह्य यथेष्टं पिण्डं धारयन्ति सर्वैश्वर्य सम्पत्परिपूर्णचैतन्यस्वरूपात्म भूताः पञ्चभूतानि पञ्चभूतेषु योजयित्वा निरावरणस्वभावाश्चिदाकाशस्वरूपाः कचकचायन्ति यथाशुकदेवादयः ईश्वरपदारूढा महामाया स्वतन्त्राश्चित्प्रकाशशरीररचनां यथारुचिं रचयहम् || (प्. ५०) अहमेवपरानन्द निर्भरितवपुः सदानन्द लवाश्रिता आनन्दिनः सर्वे प्रमातारः आनन्दादेव खल्विमानि भूतानि जायन्ते इति श्रुत्याय आनन्दः सर्वत्रपोषकः सर्वोत्कर्षेण विराजमानो ब्रह्मादिभिरभिवाञ्छनीयस्तेन मत्स्वभाव भूतेन स्वात्मन्ये वरमामितश्चमत्कार पूर्विकां विश्वमयविश्वोत्तीर्णा क्रीडां यथेष्टं सम्पादयामि तदाह || नायको मध्यसंस्थः || ईशनसंवेदन जानामीत्यान्तरोश्छलन संपादन स्मृत्यपोहनाभिमानाध्ययसायसङ्कल्प प्राणान्तः सङ्जल्प तत् तच्छब्द स्फुरण बुद्धिन्द्रियकर्मेन्द्रिया तत् तत् स्पन्दन रूपा अनन्तशक्तयः तासां मध्ये स्वप्रकाशन्ति (प्. ५१) यथा हरिहरादयः विगलितदेहाभिमाना मायाप्रकृत्युदासीना आनन्द पदविश्रान्ताः पञ्चभौतिकं शरीरमिहैवान्त्या वसरे परित्यज्य क्षीरे क्षीर इव परे व्योम्नि लीनाभवन्ति एवं चतुष्टय मोक्ष प्रकारेतारतस्या मादादत्राप्यनन्तभेदे यथा भुवनाधि पतित्वादि युक्ताना मत्र परमेश्वर शक्ति पात एव निबन्धनमिति शिवम् || इति श्रीमहामहेश्वराचार्यवर्यविरचितायां स्वातन्त्र्यदीपिकायां जीवन्मुक्तस्वरूपनिरूपणं नाम तृतीयोल्लासः || ओं अथ तुर्योल्लास निर्णये पारमेश्वरस्वस्वभाव परामर्शो गीयते || मुदित स्वभावो (प्. ५२) स्वभावोभिन्नाश्रय भूतोनायकः प्रभुरहमेव सम्यक् स्थितः तत् तन्मुखेन व्यापृतोपि चमत्कुर्वन्नपि स्वस्थाने महाविर्यात्मके च्युतस्थितिरेव न हि तत् तद वस्था भेदेन समाच्युतानन्द स्वभावस्यान्यथा भावः एते हि प्रविशन्तस्तत्तद्वृत्ति गुणा मम निर्विकल्प स्वरूपस्य ननदी वेगा इवोदधेस्तरङ्गयमानत्वं न प्रापयन्ति एवं स्वभाव स्थितेस्तच्छक्तेश्वर पदारूढो नस्तमितभास्वरूपो महावीरः स्वप्रकाशनशक्त्या तत् सर्वं प्रकाशयामीति दर्शयति || स्वशक्तिकचनम् || मत्स्वभाव भूताहमिति स्वातन्त्र परामर्शात्मा पराशक्तिर्युगपदुन्मेषनिमेष धर्मत्वात् तत् तदनन्तशक्ति वृन्दं भित्तिभूतान्निजस्वरूपात् स्वेच्छयै (प्. ५३) वोन्मीलयित्वा तत्स्फुरणात्मक तया स्वप्रकाशस्वरूपे महाव्योमाकारे स्वात्मन्येव कच कचायते तस्या मरीचयस्तत्स्थाने तत् तद् व्यापारात्मा तत् तच्छक्त्यभिधाना न हि तद् व्यतिरिक्तं किञ्चित् | सा हि निष्क्रियत्वेन तत् तत् स्वभाव क्रीडनात्मने तत् तद् व्यापारे निवृत्तसङ्गमामद्विश्रान्ति भाजातया सर्वप्राण न (?) स्वरूपया तासां मत्सेवनपराणां निमेषोन्मेष व्यापार साक्ष्य हमेव स्वतन्त्रस्तदाह || अवस्थाद्वये वीरः || सर्वासामुपसंहृतवृत्तीनां शक्तीनामेकसङ्घट्टप्रसरा वसरे तत् तत् स्थाने विशीर्ण स्वरूपोयोन्तर्बहिर्निमेषोन्मेषस्तस्मिन् स्वातन्त्र्ये हमेवशिवोनिजैश्वर्यबलात् सदा शिवे (प्. ५४) श्वरो भूत्वा तासां निमेषोन्मेषात्मकमवस्थाद्वयं यथेष्टं सम्पादयामि | न हि मद्व्यतिरिक्तं किञ्चित् यतः || मदभिमतमृतम् || अहं प्रत्यवमर्शात्मकस्य प्रकाशानन्द स्वभावस्य ममस्वरूप भूत्वा सत्ता (?) स्फुरत्ता स्वरूपापरासंविच्छक्तिः तया यद्यत्किञ्चिद् बाह्यमाभ्यन्तरं वा प्रकाशितं तत् तदेवधतं प्राप्तमद्भावमहमेव संविन्नाथो निजसंवित्प्रकाश वैभवादाब्रह्मादि पिपीलिकान्तं प्रमातृ प्रमाण प्रमेयात्मकमिदं विश्वं भित्तिभूते स्वात्माकाशे प्रकाशयित्वा तत् तत् स्वरूपत्वेन तत् तत् संज्ञाभिधानः स्फुरामि तदाहः || संज्ञम्पदैकः || नाहन्तादि परामर्श भेदादस्या (प्. ५५) न्यतात्मनः अहं मृष्यतयैवास्य सृष्टेस्तिज्वा च कर्मवदिति नीत्या तत् तदवस्था स्वरूपेप्रमाण प्रमेयात्मके विश्ववैचित्र्ये सर्वानु प्राण नस्व रूपः परः प्रमातैक एवाहं स्वच्छन्द स्वभावान्नट इवरमामि न च तत् तद् दशासुमत् स्वभावस्यान्यथा भावः अहं प्रत्यवमर्शैक स्वभावत्वात् | अहं प्रत्ययः सर्वत्रा प्रतिहतस्वभावः सर्वत्र चोदकः एतदेव स्फुटी करोति || मदाज्ञाधीनं सर्वम् || अहमेव स्वशक्ति वैभवं सर्वत्र यथायोग्यं स्फारयित्वा त्रिषुलोकेषु सम्राडिवरमामि न हि मश्चोदनादृतेकश्चित् कुत्रापि स्वव्यापारे प्रवर्तते अहमेव सर्वानु प्राण न स्वरूपयानिज (प्. ५६) शक्त्या तत् तत् स्थाने तत् तद् देवता स्वरूपो भूत्वा क्रमाक्रमात्मकं तत् तद् व्यापारं यथेष्टं करोमि न च तत् तद् दशाव्यापारे ममपरानन्दात्मके स्वभावे कश्चित् क्षोभः स्वतन्त्रस्य न क्वापि चलनमस्ति तदाहुः || पूर्णोहं तुष्टः || अहमेव तत् तद् दशासु व्याप्यव्यापकस्वरूपत्वान्निजविभूति स्फारविस्मय चमत्कार परामर्शरसेन परिपूरितवपुः गम्भीरा क्षुद्ध स्वभावे स्वात्मन्येव सन्तुष्टः अत एव विगलित समस्तक्षोभकलङ्कित्वान्नित्योदित सच्चिदानन्द स्वभावो विश्वमयत्वेपि विश्वोत्तिर्णो मत्स्वरूपः सर्वोत्कर्षेण विराजते अत अह || उपाधिरहितं मद्रूपम् || शत्रुमित्र (प्. ५७) गृहदारादि बन्धमोक्ष परिणामनरशक्ति शिवात्मकजीवेश्वर ब्रह्मकल्पना स्वरूपा या उपाधिस्तद्रहितं विशुद्धनिर्मलं महाकाशं मद्रूपम् | अहं प्रत्यवमर्शात्मकं परमानन्द संवित्स्वभाव महमेवनिरुपाधि स्वरूपत्वाच्चण्डभास्कर इव स्वप्रशान्त पदे स्थित्वा विश्वमय तदुत्तीर्ण क्रीडा चमत्कारं चमत्कारोमि यतः || शिवोहं स्वतन्त्रः || अहमेव महाकाश स्वरूपः परमानन्दघनो चैतन्य देवो विश्वमयत्वेपि विश्वोत्तिर्णो विश्वोत्तीर्णत्वेपि विश्वमय स्वभावां स्वशक्ति स्फारात्मिकां क्रीडां क्रमाक्रम स्वरूपत्वेन यथा रुचिं रचयित्वा स्वप्रभा प्रसरात्मके विशुद्ध परमाकाशे स्वात्मन्येव स्वस्वातन्त्र्य प्रकर्षाद्विराजे स्वातन्त्र्यात्मा राजमानो स्वभाहित्वा ह्या भ्यन्तर क्षीवितो चिद्रसेनशक्तिपीठे यामल वृत्तिलुब्धो महानन्दो भैरवोहं शिवोहमिति शिवम् || इति श्रीमहामाहेश्वराचार्यवर्य विरचितायां स्वातन्त्र्यदीपिकायां स्वातन्त्र्यशक्त्युच्छलनं नाम चतुर्थोल्लासः || महामाहेश्वराचार्यमन्सारामेन निर्मिता जनानामुपकारार्थमियं स्वातन्त्र्यदीपिका || ########### END OF FILE #######