#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00668 Uniform title: svātantryadīpikā Author : maheśvarācārya Manuscript : Ragunath Temple, Jammu, JandK manuscript 1127k Description: Copied from Shri Raghunath Temple MSS Library manuscript 1127 k digitized by eGangotri on archive.org https://archive.org/download/SwatantryaDeepikaMansaRamMonghaAlm5593DevanagariTantra/Swatantrya%20Deepika%20-%20Mansa%20Ram%20Mongha_Alm_5593_Devanagari%20-%20Tantra.pdf Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: September 22, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नो. ११२७ क तित्ले स्वातन्त्र्य दीपिका औथोर् एxतेन्त् ११० पत्र सुब्जेच्त् तन्त्र कर्ता- श्रीमहामहेश्वराचार्य पृ० १अ) ओंश्रीगुरुवरचरणकमलेभ्योनमः ओंतत्सत् ओंनिराभासाभासेविकसितनिजैश्वर्यविभवे परेक्रीडास्थानेरमतिपरमानंदवपुषा स्वस्वा तंत्र्यात्पूर्णोच्छलितपरपीयूषहृदयो महावी पृ० १ब) त्मासौजयतिसशिवाख्यःपरनभः अथेहख ल्वनवच्छिन्नानंतस्वातंत्र्यसमुच्छलत्परमात्मा द्वयः प्रकाशानंदमयःपरमेश्वरोनिजसमा वेशप्राप्तयास्वशक्त्या समस्तशास्त्रार्थैकेभावे पृ० २अ) भासमानंस्वंमहात्म्यंस्वस्वरूपप्रतिभिज्ञापनाय पश्यंतीमध्यमापदयोविमृश्यवैखरीदशायां स्फुटीकरोति स्वतंत्रपरमेश्वरः सर्वावभास नंसावात्म्येन स्वस्वरूप विमर्शनभेदे पृ० २ब) भेदनंभिदितेचांतरनुसंधानेनाभेदनमित्ये वमैश्वर्यरूपांक्रियाशक्तिंनित्ययोगेनविभ्रत्प्र काशानंदवपुः स्वतःसिद्धोमहेश्वरोविश्वकर्तृ त्वलक्षणंसाम्राज्यंनिराभासात्स्वस्वरूपात्स्वेच्छयै पृ० ३अ) वोल्लास्यपूर्णत्वनित्यत्वव्यापकत्वादिधर्मित्वाद्वि कसितस्वशक्तिवैभवः यदुक्तं यस्मिन्सर्वंयतः सर्वंयःसर्वंसर्वतश्चयः यश्चसर्वमयोनित्यंतस्मै सर्वात्मनेनमितिस्वातंत्र्यानुप्राणनस्वरूपा- पृ० ३ब) मुख्यायः पंचशक्तयस्तदात्मकेनवैभवेनवि श्वमय तदुत्तीर्णक्रीडाचमत्काररसंचमत्करो ति उक्तंचमहागुरुभिः निराशंसात्पूर्णादह मितिपुराभासयतियद्विशाखामाशास्तेतदनुच पृ० ४अ) विभक्तंनिजकलां स्वरूपादुन्मेषप्रसरणनिमे षस्थितिजुषस्तदद्वैतंवंदेपरमशिवशक्त्यात्म निखिलमिति भारूपंपरिपूर्णंस्वात्मनिविश्रां तिंतोमहानंदं इच्छासंवित्किरणैर्निर्भरितमनंत पृ० ४ब) शक्तिपरिपूर्णमितिच तदिच्छापरिणामरूपांड पिंडाद्युत्पतिहेतुभूतामूलप्रकृतिस्तत्परिणाम वैचित्र्येस्वरसरसितंपरमेश्वरस्वरूपंगीयतित्या ह परोविकारत् प्रकृतेर्महांस्ततोहंकारस्तयो पृ० ५अ) विकारेसृष्टिवैचित्र्येसत्यपितद्विलक्षणः परः पुरुषःसर्वदैव सच्चिदानंदस्वभावत्वात्सुप्रका शेनप्रकाशमानः भारूपत्वात्तदैकनित्यत्वाच्चाय मीश्वरः वश्यंभावविकाराणांनकदाचनगच्छतीति पृ० ५ब) ईक्षणात्प्रकृतेविसर्गवैचित्र्यमुत्पादयित्वाक र्तृत्वाकर्तृत्वस्वभावापादनेनतद्व्यापारसाक्षी तेकर्तृत्वाकर्तृत्वेदृष्ट्वांतमुखेननिरूपयति रत्नार्कवत् चित्प्रकाशैकवपुषोमहेशस्यमा पृ० ६अ) योल्लासनोन्मुखेनकश्चिद्यत्नवेगोपितुतत्साक्षि त्वेनस्वभावतेवमायोल्लासात्मकंप्रपंचंप्रादुर्भ वत्यत एवप्रकृतिपुरुषयोःकर्तृत्वाकर्तृत्वेसर्वै र्गीयमानेतेसूर्यसूर्यमणिवत्स्वभावसिद्धेतयोरं पृ० ६ब) शांशरूपाः सर्वेप्राणिविशेषाः एतावदुत्पत्तिपर मार्थः इत्यनेनस्वचमत्कारनिर्भरंपरमेशस्वरूपं दर्शितप्रायम् ननुतयोरंशभूतस्यजीवस्यक- स्मात्तद्विपरीतःस्वभावितितदाह संकुचितपुरु पृ० ७अ) षार्थः मोहाभिभवादितिशेषः चिदंशोहिमा यावेगाद्भ्रममाणोविष्ट्यात्मकंनिजप्रकृत्यंशंस्वा श्रयभूतमिवाभिमन्यमानस्तत्तादात्म्यमाप्नो ति अतेवसंकुचितपुरुषार्थोविस्मृतनिजस्वा पृ० ७ब) भावोमहावीरोपिप्रकृतिप्रसराधीनशक्तित्वात्क्षी णिवाभाति तदेवस्फुटयति विकासात्मासंसारी वेद्यवेदकतादात्माभिमानात्संकुचितस्वशक्तिवै भवः मायाविमोहितोंतर्वहिष्करणद्वारेणस्वश पृ० ८अ) रूपात्प्रच्युत वहिर्विकासंप्राप्तः परांशिखानिर्वि तृणत्स्वयंभूस्तस्मात्परांपश्यंति नांतरात्म्येतिश्रु त्यास्नेहपाशैःस्वात्मानंवद्धा विकारदृष्ट्याभिभू तोधर्माधर्मदास्यमापन्नोनानायोनिषुसंसरति पृ० ८ब) संसरणंहिभ्रांतिमात्रकल्पनारूपं नतुवस्तुतो- स्यकिंचित्स्वभावहानिः संसरणंहिपारतंत्र्यनिमि त्तंप्रकृतिविकारात्मकंइतितदेवनिरूप्यते प्र कृतेविकृतिः शक्तित्रितयप्राप्तपरिणामगुणत्रय पृ० ९अ) साम्यावस्थाव्यष्टिसमष्टिभेदाद्द्विविधाप्रकृतिस्त त्रस्थूलसूक्ष्मव्यापाराद्द्विप्रकारा उपादानावरणस्व भावात्मासूक्ष्मातत्परिणामतारतस्यरूपाणि पंचमहाभूतानितद्व्याप्तिकानिस्थूलसूक्ष्मांगानि पृ० ९ब) अतेवतेषुविचित्ररूपावर्तमानापुरुषसाक्षित्वेन प्राप्तचेष्टातत्स्पंदनेनहृदुदरादीनि स्वस्वव्यापारेप्र वर्तंते वैचित्र्यभावसंयोगात्क्षररूपाविक्षेपस्वभा वास्थूलसापिरक्तपित्तकफवातात्मिकागुणत्रयता पृ० १०अ) रतस्यभेदादनंतप्रकारासृष्टिसंहाराख्याद्यंत- कोट्यैकांशेतत्तत्स्थानवलरूपाणि द्वारपालानि प्राणयंत्रोंभितानिसंयोगंलभंते यथासृष्टिकाले मेषमाद्यंशेप्रलयावसरेमीनांत्याशेसप्तर्क्षाणिप पृ० १०ब) रस्परंसंयुज्यंते सृष्टिकालास्थित्यवसरेपितेषाम वांतरसंयोगानितदाश्रितावस्थाविशेषाणिप्रव र्तंते यथाग्रहाणामवांतरसंयोगेनशुभाशुभवला धिक्यात्कृतादीनिभवंति संहाराख्यांतकोटेरत्रपाना पृ० ११अ) र्जितमस्थिमांसविकारमिहैवविहायशुभाशुभवा सनाश्रित्येनान्ययोनिरूपेणोल्लसति यथामीनां त्यांशसंयोगात्प्रकृतिपरिणामरूपाणिपंचमहाभू तानि पश्चिमोल्लासंविहायान्यरूपेणोल्लसंति तस्यवेगा पृ० ११ब) वतेसर्वेभूतास्तृणवन्मज्जनीन्मज्जनाभिःपोप्लयं ते यथामहाप्रलयावसरेप्रकृतिप्रसरंस्वस्वका रणतांनीत्वा तन्निःशेषलयापादानाच्छुद्धस्वरूपो महाव्योमांकारःपरमेश्वरोवशिष्टते तथायोग्य- पृ० १२अ) पिस्वरूपानुसंधानादेवेतिदर्शयति वेदनात्तन्मो क्षः समस्तविभागकल्पनाशून्यस्वरूपात्सम्यज्ञ्ज्ञा नान्निजवलैश्वर्यसाक्षात्काररूपस्तन्मोक्षः सम्य ज्ञ्ज्ञानंसत्यज्ञानानंदस्वभावस्यस्वात्मभूतस्यपर पृ० १२ब) मेचित्तरात्मन्येवतत्तादात्म्यस्वरूपत्वेनयथार्थद र्शनं नतुव्यातृध्यानाद्याकारकल्पनारूपंतत्त्वंप दार्थैक्यप्रतिपादनस्वरूपात्परसंविदुन्मज्जनादु पाधिरहितं प्रशांतसमस्तप्रपंचभासंस्वात्मभूतं पृ० १३अ) परमाकाशंसर्वोत्कर्षेणविराजते ज्ञानादेवत्तु कैवल्यंनान्यथावीरवंदितितिह्युक्तंवोधोन्यसा धनेभ्योहिसाक्षान्मोक्षैकसाधनं पाकस्यवह्नि वज्ञ्ज्ञानंविनामोक्षेनसिद्ध्यतीत्यपिच स्वयंविदात्मप्रथनस्वरूपं पृ० १३ब) यज्ञ्ज्ञानंतदेवमोक्षः नतुकुत्रचिद्गमनमिति ज्ञानमोक्षयोरेकमेवस्वरूपं यदुक्तंनमोक्षो नामचैवान्यःस्वरूपप्रथनंहिसःस्वरूपंचात्मनः संविदित्यादिननुप्रकृतिवेगावर्तेपोप्लयमा पृ० १४अ) नःस्वस्वरूपंकथंकुत्रानुसंदध्यात् यत्साक्षा त्कारेणमुक्त्वास्वतंत्रोवशिष्यतेतदाह तदा द्यंते उन्मेषोपशमात्मकेप्रकृतिप्रसाद्यंते निर्विकल्पस्वरूपातुर्यधामास्वभावतेवस्थि पृ० १४ब) ता यदुक्तं ऊर्ध्वाधुद्भ्रांतप्रभापरिस्फुरज्जीवे- श्वरकोटियुगेतदाश्रयं परंमहद्व्योमविभा गवर्जितंपूर्णंतच्छक्तिशिवात्मकंभजेइतिअ तोहेतोराद्यंतकोटौस्वशक्तिनिवालनयुक्त्या पृ० १५अ) सच्चिदानंदस्वभावंस्वात्मानमुद्धृत्य वृहत्प्र सरंस्वसंविन्महोदधौतत्फलेनतुल्यतांनये त् यदुक्तंवासिष्टे निद्रादौजागरस्यांतेयो भावुपजायते तंभावंभावयन्साक्षादक्षया पृ० १५ब) नंदमश्नुते विज्ञानभैरवेपि ऊर्ध्वेप्राणोह्यधो जीवोविसर्गात्मापरोश्चरेत् उत्पतिद्वितयस्था नेभरणाद्भरितस्थितिः मरुतोंतर्वहिर्वापि वियद्युग्मनिवर्तनात् भैरविभैरवस्येत्थंभैरव्या पृ० १६अ) व्यज्यतेवपुः क्षुताद्यंतेभयेशोकेगह्वरेवारणा द्द्रुते कुतूहलेक्षुधाद्यंतेव्रह्मसत्तासमीपगा इतिएवंप्रकारेषुसर्वाद्यंतेषुस्वस्वरूपानुसं- धानंकर्तव्यम् यतः सर्वैभावादैश्वर्यम् पृ० १६ब) चेतन्याभिमुखभावोल्लासितनिजशक्तिपरि स्पंदात्सर्वज्ञादिगुणस्वभावमैश्वर्यंस्वयमेवो ज्जृंभते यथास्मृतिप्रादुर्भावात्सुकंठाभरणं ननुकरणवर्गसामर्थ्याद्देहश्चेष्टतेतन्नि- पृ० १७अ) मित्तंजीवितंतत्क्षयेवांतकालःकोनामत द्व्यतिरिक्तोवशिष्यते कथंचप्रतिभिज्ञानी यादित्याशंक्याह स्वच्छत्वंजीवितं गोलवर्ग नैर्मल्यंसंवित्प्रतिविंवग्रहणसामर्थ्यंजीव पृ० १७ब) नव्यापारंतेनतत्तस्थानेतत्तद्वृत्यभासनेप्रा णशक्तिः स्फुरतिचिच्छायासंक्रमणस्वरूपा त्प्राणशक्तिस्फुरणादेवजडोदेहश्चेष्टते- यस्कांतसंगाल्लोहिव तन्मलोंतकालः वर्गे पृ० १८अ) भ्योयेप्रधानास्तेषांतादृशसामर्थ्यक्षयाश्चिच्छा याग्रहणासहिष्णुत्वरूपाच्छवाभिप्रायः कु ड्यवज्जडोदेहोवशिष्यते प्रारव्धवेगोत्रनिर्ध नम् एतावदेवजीवित मरणात्म- पृ० १८ब) कंपिंडविकारं यदुक्तंवासिष्टे व्यापकोपिशि- वःस्वेच्छाकॢप्तसंकोचमुद्रणात् विचित्रफल- कर्मौघवशात्तत्तच्छरीरभाक् सवायवात्मादृ- ढेतस्मिन्देहयंत्रेचिदात्मना प्रेर्यमाणोविच पृ० १९अ) रतिभस्त्रायंत्रगवायुवत् क्षयेतुकर्मणांतेषां देहयंत्रेन्यथागते प्राणयंत्रंविघटतेदेहः स्यात्कुड्यवर्ततिति परःप्रमाताविनाशी तयोःसाक्षिभूतःसच्चिदानंदरूपःप्रत्यगात्मा पृ० १९ब) सर्वोपनिषद्गीयमानोन्वयव्यतिरेकाभ्यांजनन मरणरहितोन्नमयादिभ्योविलक्षणः सर्वैरनु भूयमानः उपद्रष्टानुमंताचभर्ताभोक्तामहे श्वरः परमात्मेतिचाप्युक्तोदेहेस्मिन्पुरुषःपर पृ० २०अ) इत्युक्त्यापरःप्रमाताविनाशीतिसिद्धं नहिदेह क्षयात्प्रमातरिकाचिद्धानिःघटध्वंसेनभसी व यथाघटेषुवाह्याभ्यंतरवस्थिताकाशुपा धिशून्यः तथाप्रमाताचशरीरेषुतदुपाधिरहि पृ० २०ब) तोक्षयस्वभावःसर्वानुप्राणकःसर्वस्यप्रका शकः यतः संविन्मार्तांडःसर्वालोकः शवाव भासानांपिंडनामनुप्राणकः संविन्मार्तां डोनिजप्रकाशनशक्त्यासर्वंभावजातंप्रकाश पृ० २१अ) यति नहिपरमार्थासंवित्प्रकाशानुप्रवेशंवि नाकस्यचिदपिस्वात्मतोपपद्यते यत्रयदिदंकिं चिद्वाह्यमाभ्यंतरंवाप्रतिभासतेतत्तदेवतत्प्र- काशकदनम् यदुक्तंमहागुरुभिः महा पृ० २१ब) गुहांतर्निमग्नभावजातप्रकाशकः ज्ञानश क्तिप्रदीपेनयःसदातंस्तुमःशिवमितिकथमि त्थं विंवात्मा यासासवितुर्भर्गशक्तिःसर्वं प्रतिविंवितंभावजातंस्वसंविमुंथरांतरेभास पृ० २२अ) यति साचसर्वपदार्थेषुप्रतिविंवति एकापि नानारूपैवभासते यथाकाशोघटेषु अथवा सूर्यप्रकाशोविचित्ररूपः स्वच्छास्वच्छेषुइत्य तिदुर्घटसामर्थ्यरूपाभगवच्छक्तिः यदिप्र पृ० २२ब) त्यगात्मायैवचिद्गगनाभोगभूषणेव्योम्निभा- स्करे धराविवरकोशस्थेसैवचित्कीटकोदरः इत्युक्तैकरूपेवतर्हिकस्मात्पश्वादिभ्योमनु ष्याणांपरमेश्वरतादात्म्यापादेनविशेषित्या पृ० २३अ) शंक्याह आद्यंतप्रत्याहारोपदेशात् भूम्यंतं संकोचंजडाभिप्रायंपाषाणादिमनुजातुं विकासतारतम्यात्स्वभावभेदंसर्वेषांह्या- दिसिद्धोमहेश्वरः जाड्यतानवस्वरूपेंतभूतोनृ पृ० २३ब) देहोतेवादिदेवस्यप्रकाशद्योतनभाजनंभ्र मरकीटवन्मानुषम् विंदुपर्यवसायात्मकंअ कारहकारसंपुटीकरणमेवरहस्योपदेशं यद्वत् अन्यश्च आद्ध्यशुद्धिभ्यांनरेचत्वम् पृ० २४अ) प्रकृतिपुरुषसंयोगादंकुरायमाणमुच्छू नस्वभावं सत्त्वप्रधानंदृक्क्रियाद्योतनस्थानं तत्स्वभाव्यात्मकमंतर्वहिष्करणादिप्राप्तस त्ताकंतदभिमतौसंविदात्मकस्वात्मप्रत्यवम पृ० २४ब) र्शोन्मग्ननिमग्नस्वरूपत्वाशुद्धाशुद्धविशेषवि शेषितावीशनरौ यदुक्तं मायाविंवोवशीकृत्य तांस्यात्सर्वज्ञीश्वरः अविद्यावशगस्त्वन्यस्तद्वै चित्र्यादनकधेति ईश्वरस्यदृक्क्रियोल्लासंयु पृ० २५अ) गपत्समानवृत्त्याभवति नरस्यतुतद्विपर्य- यात् प्रतिभिज्ञायामपि स्वतंत्रहानिर्वो धस्यस्वातंत्र्यस्याप्यवोधता द्विधाणवंमलमि दंस्वस्वरूपापहानितिति नरशव्देन पृ० २५ब) मानुष्यजातिविशिष्टमेवनपशुवर्गादयस्ते षां उत्तत्स्वभावंरजस्तमस्तारतस्यवैचित्र्यप्र धानम् यदुक्तं सर्वद्वारेषुदेहेस्मिन्प्रकाश उपजायते ज्ञानंयदातदाविद्याद्विवृद्धेस- पृ० २६अ) त्वमित्युत लोभःप्रवृतिरारंभःकर्मणामश मःस्पृहा रजस्येतानिजायंतेविवृद्धेकुरुनंद न अप्रकाशोप्रवृत्तिश्चप्रमादोमोहेवच तमस्येतानिजायंतेविवृद्धेभरतर्षभेति ईश्व पृ० २६ब) रोहिसर्वज्ञादिगुणशालीसर्वैश्वर्यसंपन्नेष एवांतर्यामीसर्वानुप्राणकः सर्वस्यवेदकः सर्वैरविषयीकृतस्वरूपत्वात्सर्वत्रसाक्षीस्वां गरूपेषुभावेषुप्रत्युर्ज्ञानंक्रियाचया मा पृ० २७अ) यातृतीयेतेएवपशोः सत्त्वंरजस्तमितिस्थि त्याजीवोहि संकुचितैरेतैगुणैःपूर्णोपि अपू र्णिवभाति स्वस्वरूपप्रतिभिज्ञानात्सर्व ज्ञादिगुणसंपन्नस्तद्रूपेवतदाहुः || पृ० २७ब) प्रवेशात्तन्मयः स्वस्वभावोन्मग्नस्वरूपातुर्य धामानुप्रवेशत्र्याससमयेहृत्प्रवेशवत्सर्वतो निवर्तनात्समुच्छलितशक्तिर्दृक्क्रियासम्पद्वि लासात्संकोचदारिद्र्यंनिरस्यस्वचैतन्यात्मसा पृ० २८अ) म्राज्यमवाप्यते यथाकीटःस्वांतरसंकुचितान्ष ट्पदगुणान्सर्वतोनिवर्तनस्वरूपेण तद्ध्यान प्रवेशेनविकासयित्वातद्रूपोभवति तद्व ज्जीवोपिस्वतादात्म्यसमर्पणस्वरूपेणशिवो पृ० २८ब) हमस्मीतिभावनावलेनविकसितस्वशक्ति वैभवः प्राप्तपरमेश्वरैकात्म्यभावः यदातु मध्यधामानुप्रवेशात्तन्मयेवतिष्ठति त दादेहस्थोपिविभागशून्यमुपाधिरहितंचि पृ० २९अ) दाकाशस्वरूपमेववतिष्ठते सत्यंतत्स्वभावं शुद्धाशुद्धविशेषविशेषितंकथंकुत्रोपलक्ष्य ते सोमसूर्याग्निषु यथानिरावरणा च्युतस्वरूपोभगवानानामयोदेवः प्रका पृ० २९ब) शानंदसामरस्यस्वरूपाद्द्वादशकलात्मकम नाहतभट्टारकाख्यं मार्तांडमवतारंनिजश- क्तिसमवायिकं भित्तिभूतेस्वात्मकाशेआवि ष्करोति तथानावृत्तावृतात्मसमष्टिवृष्टिस्थि पृ० ३०अ) त्यवभासनात्सोमाग्निसामानाधिकरण्यमध्ये ताभ्यांव्यापकंपंचशक्त्यात्मकंपंचसमवायिनी वृत्त्यवभासकंद्वादशकलासहितंप्राक्षंवित्प्रा णेपरिणतेत्यादिनीत्या सामान्यविशेषव्या- पृ० ३०ब) परात्मकंसहस्ररश्म्यवतारंमूलप्रकृत्याकाशे उद्गमयति एतत्त्रितयधामास्पदेकृतस्थितिः पराशक्तिरितितदेवाह तदात्माशक्तिः एषातुपराशक्तिः शव्दराशिंक्रोडीकृत्यपर पृ० ३१अ) परापरापरसार्धत्रिवलयात्मकुंडलिनीतां स्वात्मानंनीत्वा व्रह्मविष्ण्वादिव्यापारेणसमस्तं प्रपंचंप्रपंचयति तत्कौटिल्यात्कुटिलवाहि नीचित्तवृत्तिस्तद्वैवश्येनविस्मृतस्वसंविदात्म पृ० ३१ब) नः शुभाशुभवासनात्मकफलभोगभागि नःसर्वेप्राणिनःखेदमापन्नास्तत्खेदपरिहा रयुक्तिमाह संघट्टेस्वचित्प्रमातृचिंतनेप- रासिद्धिः सोमसूर्याग्निसंघट्टंतत्रध्यायेदन पृ० ३२अ) न्यधीरिति मध्यमंथनयोगेनृजत्वंजाय- तेप्रियेइति नीत्यातस्याऋजत्वंसोमसूर्याग्नि संघट्टेनिजप्रेमातिशयनिर्भरोभूत्वामध्य मंथनयुक्त्यासवाधिष्ठानंस्वात्मानंपरामृष्टा पृ० ३२ब) कुटिलाकारन्यग्भावेनतामृजुत्वंनीत्वा परना दानप्रवेशादूर्ध्वगमनंभावयति ऊर्ध्वगमना त्परसंघट्टात्मकमानंदोल्लासमुल्लासयति यदुक्तं प्रकाशानंदाभ्यामविदितचरींम पृ० ३३अ) ध्यपदवीं प्रविश्यैतद्द्वंद्वंरविशशिसमाख्यं कवलयन् प्रविश्योर्ध्वंनादंलयदहनभस्मी कृतकुलः प्रमादात्तेजंतुःशिवमकुलमंव प्रविशतीति यैवसोमसूर्याग्निसंघट्टंय पृ० ३३ब) थेष्टंसंपाद्य ईश्वरवन्महावीर्यात्मिकोत्तिष्ठ ति सैवैताभिस्तिसृभिःशक्तिभिःस्थूलसूक्ष्म प्रभृतिसृष्टिस्थितिसंहारन्सामान्यदृग्गोचरंक र्तुंक्षमयथासोमस्यसितासितपक्षेतद्वत् य पृ० ३४अ) स्तुतत्संघट्टेऔदासीन्येन सत्यंज्ञानंस्वात्मानं परामृश्यसंकल्पसृष्टिवत्सृष्ट्यादिकंकृत्वा सो पिपरमेपदेसमाविशति संवित्प्रकाशानुसं धानात्सर्वाःक्रियाः पराधामसमावेशोपाया पृ० ३४ब) स्तदृतैस्वप्नमूर्छांताएवेवमवस्थात्रयंशक्ति त्रयंपुटत्रयंप्राणापानसमानदशांचतुरीयप्र काशोतेजनायपरामृष्टभ्यम् इत्थंनिर्दिष्ट परतत्त्वप्रवेशायोपायांतरमाह संको पृ० ३५अ) चविकासाभ्याम् स्वसंविन्निभालनवलादं- तर्वहिष्करणवृत्तीनांयुगपत्प्रसरविश्रांतिं कुर्वन्द्वासमर्थ्यतेजनेनस्वशक्तिचक्रेशत्व मवश्यंप्राप्यते कश्चिद्वीरःप्रत्यगात्मानमैक्ष पृ० ३५ब) द्व्यावृत्तचक्षुरमृतत्वमश्नन्नितिश्रुत्यांतर्बवहि- ष्करणवृत्तीनांकूर्मांगसंकोचवत्युगपत्सर्व- तोनिवर्तनं यदुक्तंगीतासु यदासंहरतेचा यंकूर्मोंगानीवसर्वशः इंद्रियाणींद्रियार्थेभ्य पृ० ३६अ) स्तस्यप्रज्ञाप्रतिष्टिताइति प्रसरावसरेपिस्वसा मर्थ्यवलात्तासांस्वस्वविषयेनिवेशनं यदुक्तं सर्वाः शक्तीश्चेतसादर्शनाद्याः स्वेस्ववेद्येयौगपद्ये नविश्वक् क्षिप्त्वामध्येहाटकस्तंभभूतस्तिष्ठ पृ० ३६ब) न्विश्वाकारेकोवभासीति प्रकारांतरमाह महार्थसंधानं समस्तार्थेभ्योव्यापकोत्कृष्ट परमार्थसंवित्स्वभावस्यानुसंधानमहंप्र- त्यवमर्शात्मसंवेदनं सर्वासुशव्दार्थचिंतासु पृ० ३७अ) सदावहितत्त्वेनकर्तव्यं तत्परिशीलनप्रकर्षा न्निःशेषक्षोभोपशमानायशंकाकलंकंवि लाप्यपरधामनिसचाविशेत् मंदाभ्यासाद प्राप्ततत्पदस्यसर्वेविघ्नाःप्रवर्तंते तस्मादप्र- पृ० ३७ब) तिहतप्रयत्नेननिश्चलचित्तोभूत्वा परपदवि श्रांतिमधितिष्टेत् अन्यच्च मत्तासंभवोद्य मोयोगः भावाभवेसत्याभासमानेसत्ता संभवोत्थापनस्थापनस्वरूपः शक्त्युद्युमः अ पृ० ३८अ) च्युतस्वभावः परतत्वसमावेशोपायः तदैक्या त्मदृढभावेन यःस्वात्मन्यच्युतस्वरूपेस्वभा- वस्थितिंकरोति लयोदयवतीसुक्षणेक्षणेव स्थाविशेषेषुस्वरूपान्नश्यवति स्वास्थ्येनह्युद्यमः पृ० ३८ब) प्रकर्षतेस्वास्थ्योपयोग्यानिर्व्यापाराणियुक्त्या निरूप्यंते स्वस्थः आधिव्यापाराणिसंगस्मरण जातानिसूक्ष्मरोगाणितेषांचिकित्साकर्मणि योनिपुणःसेवस्वस्थः यथाहि ध्यायतोविष पृ० ३९अ) यान्पुंसःसंगस्तेषूपजायते संगात्संजायतेका मःकामात्क्रोधोभिजायते क्रोधाद्भवतिसंमोहः संमोहःस्मृतिविभ्रमः स्मृतिभ्रंशाद्वुद्धिनाशोवु द्धिनाशात्प्रणश्यतीति कामक्रोधादिदोषासंगादेव पृ० ३९ब) जायंते अतेवासंसक्तभावनयातान्सर्वानुपश मयेत् यदिप्रसवादुत्पद्यंते तेषांप्रतियोगिनो वैराग्यादयस्तत्सहायसन्वेष्टव्यः रहस्यदृशातु एकवमोहोमहान्रोगः तद्वैवश्येनतुपंचमहा- पृ० ४०अ) भूतावेशः तस्मात्सर्वाणिभूतसंज्ञकानिभ्रांत्योंम त्तवश्चरंति तत्प्रशमनार्थंस्वस्मिन्नेवप्रकाशानं दपदेनायासेनतिष्टतीतिस्वस्थः सदावहित स्यहिदासवद्वैराग्यादयोनुचरति ननुपंचश पृ० ४०ब) क्त्यात्मकेचित्तेवलवत्तद्धृत्युन्मुखेक्रोधादयो वश्यंप्रवर्तंते केनयुक्तिसामर्थ्येनतानुपशम यतीन्येतदेवाह वितर्कःपरमौषधम् वि वेकोहितुष्टिपुष्टिहेतुभूतत्वात्सर्वायासनिरा पृ० ४१अ) सकरःपरमौषधं तत्प्रसादेनस्वात्मसंकोचात्म कंदौर्वल्यं विहायपरमवीरत्वंसंप्राप्तयोगि नः संराजिवविराजंते तथाचनेतिनेतीति युक्त्यासदसद्विवेचनंकृत्वा धर्मप्रतिद्वंद्वीन्या पृ० ४१ब) दौशमयित्वा सर्वाणिकरणानिनिजसंवित्प्रसा देनप्रसन्नतांनीत्वाक्षुव्धत्वं ततोगुणानासा- मानाधिकरण्यंद्विविधंगुणवृत्तिप्रवृत्तिनि वृत्तिष्वौदासीन्यं यदुक्तंभगवता प्रकाशं पृ० ४२अ) चप्रवृत्तिंचमोहमेवचपांडव नद्वेष्टिसंप्रवृत्तानि ननिवृत्तानिकांक्षितिः उदासीनवदासीनोगु णैर्योनविचाल्यते गुणावर्तंतित्येव ना- वतिष्टतिनेंगते समदुःखसुखःस्वस्थःसमलो पृ० ४२ब) ष्टाश्मकांचनः तुल्यप्रियाप्रियोधीरस्तुल्यनिंदा त्मसंस्तुतिः मानापमानयोस्तुल्यस्तुल्योमित्रा रिपक्षयोः सर्वारंभपरित्यागीगुणातीतःसु च्यतेइति एतेहिगुणाःपिंडधर्मतयावस्थितान पृ० ४३अ) मांक्षोभयित्वमलमितिमत्वानःस्वरूपान्नश्यवते गुणातीतोभवति द्वितीयंनिजवलेनयथेष्टस्पंद निष्पंदौत्पादनम् गुणोहिरुचिस्वरूपेणपरिण मते रुचिश्चश्रद्धामयत्वेनत्रिधातद्व्यापारस्य पृ० ४३ब) पूर्वे सात्विकीराजसीतामसीतिसंज्ञकृता सा प्युन्मीलननिमीलनावलिमीलनभेदान्नव धेदृशाविभागेनैककस्याःप्रादान्याद्वुद्ध्यादि वृत्तिसंवंधत्वाश्चानंतप्रकारा एतेहिगुणायत्स पृ० ४४अ) हायत्वेनप्राप्तसत्ताकास्तन्मध्यवलमाश्रित्या हंप्रत्यवमर्शात्मस्वसंविदात्मनिसमाविष्ठो भूत्वा यथेष्टंवेद्यवेदकाभासंस्वेच्छयैवभास यिष्यति किंच परिपूर्णस्वतंत्रानंदस्वरूपोविश्वनिर्भ पृ० ४४ब) रितवपुरखंडात्माशिवोहस्मीतियोविचारः सेवपरमौषधं संकुचितैश्वर्यस्यमलत्रया विभूतस्यजीवस्यजन्ममरणादिव्याधिंनिरस्य परमशिवाख्यममृतधामस्वात्मात्मन्येवाव पृ० ४५अ) स्थितिंप्रकटीकरोति उदितवलोहियोगी सो त्कर्षादिहामुत्रसाक्षी यावृत्तीर्भितिभूता- न्निजस्वरूपादुन्मीलयति ताःस्वात्मनिहेल यानिमीलयति यत्तदेवस्वात्मनोवलंतस्योत्कर्षा पृ० ४५ब) दुन्मग्नस्वभावादिहामुत्रसाक्षीयथास्वप्नजा- गरौ नन्विहोपयुक्तासुवृत्तीषुप्रमातरिसाक्षि त्वमवश्यमेवांगीकर्तव्यं कथममुत्रेत्याशं क्याह हृदयंप्रकाशः यतःसर्वास्वांदृश्या पृ० ४६अ) दृश्यवृत्तीनांप्रसरविश्रांतिस्थानंचित्प्रकाशस्त तोयोग्यपितत्प्रकाशनात्स्वसंविन्मकुरांतरेप्रति विंवितानिहामुत्रगतान्भावजातान्प्रकाशयि त्वातद्व्यापारसाक्षी यदुक्तंवासिष्टे स्वज्ञानद- पृ० ४६ब) र्पणेस्फारेसमस्तावस्तुजातयः इमास्ताःप्र तिविंवंतिसरसीवतटद्रुमिति ईदृश्यामव- स्थायांवाह्याभ्यंतरवृत्युपसंहरणात् प्रमा- देन्यक्कारः प्रमादेमहामायारूपेमितसि पृ० ४७अ) द्धिप्रपंचेस्वातंत्र्यरहितेशून्यस्वभावेचनिजौदा र्योच्छलनवलान्न्यक्कारः हेयमितिविचारः य दातूलसितमपिसिद्धिप्रपंचं इंद्रजालमिवैं द्रजालिकवत्पश्यति तदातत्सृष्टिलयात्परतत्वा पृ० ४७ब) रूढोभवति नन्वीदृशेसिद्धिप्रपंचेकथंन्यग्भावंक र्तुंशक्नुयादित्याह तृप्तः यदैश्वर्यविप्रड्भिर्व्र ह्मादयैश्वर्यभागिनस्तस्यात्मनोलाभेन- स्वस्वभावैक्यात्सोल्लासेनपरिपूरिताभि पृ० ४८अ) लाषः सेवसर्वाकांक्षोन्मूलनेक्षमः तदेव स्फुटयति परापराकलंकितापराकाष्ठा विक्षेपाश्रयपदार्थरंजने ऐकाग्र्यभाव नया निजपिंडवालाग्रचेष्टा परि- पृ० ४८ब) चिंतनेचप्रकृताश्रितंज्ञानंतदुत्तीर्णोच्छलन स्वभावापराकाष्टा तस्यामधिरूढोस्थूलसूक्ष्म वाह्याभ्यंतरैहामुत्रिकविषयवासनाविनि- र्मुक्तः परमहंसस्तस्यस्थितिमाह पद्मास पृ० ४९अ) नस्थःपरमहंसः एकाद्वारत्वाद्युगपत्संको चविकासधर्मित्वाच्छक्तिचक्रमेवपद्मस्त- स्मिन्नेवसृष्टिस्थितिसंहारपिधानानुग्रह- कारकःपरमहंसः प्रभुत्वेनस्थित्वा नि- पृ० ४९ब) जशक्तिमुखेनहतोत्तीर्णंमहारावंगीयते तत्स माश्रिताव्रह्माशयोदेवाहृष्यंतिजीवंतिच इति शक्तिचक्रमेवतस्यशरीरम् एतादृशस्यपर- महंसाश्रमस्थस्यस्वरूपमाह निराभास- पृ० ५०अ) त्वम् सोमसूर्याग्न्युद्भासितंवाह्याभ्यंतरंयत्किंचि द्भासते तत्सर्वंधीगोचरं नतत्रसूर्योभातिन चंद्रतारकानेमाविद्युतोभाति कुतोयमग्निः त मेवभांतमनुभातिसर्वंतस्यभासः सर्वमिदंवि- पृ० ५०ब) भाति नतद्भासयतेसूर्योनशशांकोनपावकः य द्गताननिवर्तंतेतद्धामपरमंममेति स्थित्यातद- तिक्रम्यसमग्रशक्त्यैकसंघट्टत्वान्निराभासंस्व- प्रभाप्रसरभास्वरंविश्रांतिस्थानंतत्स्वतंत्रात्मभू पृ० ५१अ) तस्यसहजांस्वभावं तत्पदाधिरूढस्यवहिर्गमा गमाद्यवसरेलोकांतर्गतांचार्यमाह स्वाच्छंद्यम् स्वतंत्रोल्लासितस्वभावेवर्तमानस्ययावृत्तिः सा निर्गलाहमेवपरोहंसःशिवःपरमकारणमि पृ० ५१ब) तिस्थित्याहंप्रत्यवमर्शः सर्वत्राप्रतिहतस्व रूपोतेवासौहानादानमानावसानकल्पना गहतार्जव पुरःसरंव्यवहारंयथेष्टंकरोति यदुक्तं क्वचिच्छ्रेष्टःक्वचिद्भ्रष्टःक्वचिद्भूतपिशा पृ० ५२अ) चवत् नानावेशधरोयोगीविचरंत्यवनीत- लिति एवंदशावृत्तोवर्त्तमानस्यस्वभाव स्थितिमाह घूर्णितः अनुत्तराह्लादसांवाद- क्षीवितोंतर्वहिष्करणचक्रंतत्पूरेणप्लावयित्वार्धनि पृ० ५२ब) मीलनवृत्त्यामदिरामदघूर्णितिवसर्वव्यापार साक्षापलक्ष्यते यदुक्तंवासिष्टे अंतर्मुखतयाति ष्टन्वहिर्वृत्तिपरोपिसन् परिश्रांततयानित्यंनि- द्रालुरिवलक्ष्यतिति ननुपरमेपदेवाह्याभ्यंतरवृ पृ० ५३अ) त्युपशमेसहजानंदचमत्कारुल्लसति किं तु तत्प्रसरेप्रारव्धभोगमवश्यमश्नुते कथंतादृक्स्व भावतत्त्वमंगीकर्तव्यमित्याशंक्याह अमापूर्णा च याचैषामृताकाररूपाशक्तिर्वाह्योल्लासरूपा- पृ० ५३ब) त्परप्रमातृविश्रांतितंदेवपितृस्तर्पयित्वा वि स्मयरूपामाशेषावशिष्यते सैवपरप्रमातृपदा द्वाह्योल्लासपर्यंतमनपह्नवनीयस्वभावासदो दितासर्वान्माययति पोषयतिच तच्छक्तिमां पृ० ५४अ) श्चंडभास्करिवसर्वोममायंविभव इत्येवंसाक्षा त्कृतंस्वस्वभावोयोगीश्वरोविराजते नास्यस्वस्व रूपप्रकाशनव्यतिरिक्तंकिंचित् ईदृशस्य योगिनोमाहात्म्यमाह योगींद्रोभैरवः || पृ० ५४ब) सर्वप्राणनरूपाक्रियाख्यानुत्तरादिदेवस्यश क्तिःकालेनपरिणताप्रकृत्युल्लासरूपाणिवि कारवैचित्र्याणिस्वस्मिन्प्रोतानिप्रेरयति कालो हि आध्यात्मिकवाह्यस्वरूपत्वाद्द्विधादक्षिणोत्तर पृ० ५५अ) गत्यासप्तर्क्षचक्रंभ्रामयन् तद्भ्रमणाद्दिनारा- त्रिह्रासवृद्धिविभागमाभास्यत्रुटिमुहूर्तादिना सर्वंप्रपंचंकलयति तदधीनादेवादिस्था- वरांताः सर्वेप्राणिनस्तद्ग्रासकः श्रीमन्म- पृ० ५५ब) हाभैरवदेवोनिराभासाभाससंपद्विलासोद्भ वविस्मयचमत्कारस्वतंत्रोयोगीश्वरस्तस्यस्व भावोलयोदयाकलंकितःसर्वत्रस्वचमत्कारनि र्भरेवयतः स्वात्मैक्यात्मभूतानांभक्तिभजांहृ पृ० ५६अ) दयेमहेश्वरःस्वसामर्थ्यस्वरूपंसाक्षात्करोती- तिशिवम् || इतिश्रीमहामहेश्वराचार्यव र्यविरचितायांस्वातंत्रदीपिकायांपरमेश्वर विभूतिस्फारतत्समावेशोपायकथनंनाम- पृ० ५६ब) प्रथमुल्लासः १ || ओंप्रकाशानंद स्वरूपामहेश्वरेस्यैकैवस्वरूपभूतापराश- क्तिः सैवसर्वात्मनास्फुरति एकैवानेकरू पाभासतेतदंशाहिसर्वेप्राणिनो ममैवांशो- पृ० ५७अ) जीवलोकेजीवभूतःसनातनः मनःषष्ठानींद्रि याणिप्रकृतिस्थानिकर्षतीतिस्थित्या इदंशोजी वस्तद्रूपोपितद्वैमुख्यात्प्राप्तपशुत्वयत्तस्यनिज शक्तिसंकोचस्वरूपांतर्बहिष्करणाधीनस्वभा पृ० ५७ब) वावहिर्मुखोध्यासस्तदेवपशुत्वमंशात्मकत्वंच तस्यस्वात्मभूतात्परमेश्वराद्विमुखस्यशक्तिदरिद्र स्य स्वशक्तिविकासात्मकंप्रत्यभिज्ञानंप्रति- पादयिषुः प्रथमंतावत्तत्तदनंतजगदात्मना पृ० ५८अ) स्फारितस्वरूपांपरमेशहृदयभूतांपरांशक्तिंवि- तत्यनिरूप्यते प्रभुशक्तिःपराकाली सर्वासां शक्तीनांप्रसरविश्रांतिस्थानभूतः प्रभुर्म हेश्वरस्तन्नित्ययोगिनीसारभूताशक्तिपंचक- पृ० ५८ब) प्राणनस्वरूपापरास्वातंत्र्यभट्टारिकानुत्तराकु लधाम्नेहमितिस्पंदनोल्लासंप्राप्तेच्छाज्ञान क्रियारूपेणप्रस्फुरतीदमितिवहिरुल्लिल सिषापेक्षयाताभिस्तंभितस्वरूपाभिस्तत्त्रित पृ० ५९अ) यस्तंभनस्वभावामिदंतात्मिकांमायाभिधांसं कोचप्राधान्यासत्त्वरजस्तमःसाम्यावस्थांप्र कृतिमाभास्य शिवशक्त्यात्मिकांवीजयोनित्व मादधानात्मावैपुत्रित्युक्त्वास्वांशभूतौनरेशाख्यौ पृ० ५९ब) संतानौस्वतंत्र्योन्मीलननिमीलनादेकानेकमूर्ती सर्जयित्वा प्रकृत्युच्छूनात्मकेषुतत्तत्स्थानविशे षेषुविकसितस्वरश्मिभिर्यथायोग्यंचकास्ति रश्मयस्तुसोमसूर्यवह्न्यात्मिकास्ताभिःप्रसरण पृ० ६०अ) स्थापनसंहरणस्वरूपाभिःसर्वमिदंतात्मकंक्षि- पतिस्थापयतिग्रसतीतिकालीद्वादशात्म- ना सृष्टिस्थितिसंहारक्रीडांकृत्वा प्रशंतनिःशे षाशंकासंस्कारत्वात्परास्वरूपापरप्रमातृवि- पृ० ६०ब) श्रांतिमेति इतिपरैवपारमेश्वरीसर्वत्रचका स्ति इत्थसियत्क्रियावैचित्र्यसंपादनेस्यानक श्चित्क्षोभित्याह अविक्षुब्धा निजप्रकाशप्र सरात्मकेज्ञातृत्वेनव्याप्तेकर्तृत्वेस्फारितेस्मिं पृ० ६१अ) जगदाडंभरेविक्षुव्धाक्षतप्रकाशानंदस्वभा- वासर्वत्रस्वतंत्रास्मृतिज्ञानापोहनात्मकेषु तत्तद्दशाव्यापारेषुदक्षापरप्रमातृविश्रां तिशीलाऽतेवविश्वमयेत्वेपिविश्वतीर्णा पृ० ६१ब) सैवसर्वेषांहृदयेष्वात्मभूतातत्रतस्याःस्वरूपं निर्णेतुमाह कौशल्यात्प्राणिषुचोदका चि त्संविदेवसर्वेषुभूतेषुसमस्तविद्योत्पादि काकलावतीकौशल्याद्व्याप्यव्यापकस्वरूपा पृ० ६२अ) तत्रद्वादशांतपीठेज्ञाननिधिस्वरूपाहृदिस्था नेजीवनव्यापारा तथाच द्वादशांतिच्छाख्य तंतुप्ररेणाचेंद्रजालिक इवांतर्वहिष्करणा दिषुज्ञानक्रियेसंक्रमयित्वातद्व्यापारात्मक पृ० ६२ब) मिंद्रजालमाविष्करोति हृदिस्थानेचलोहकार इव प्राणयंत्रचोदनादुदरगतंवैश्वानरमुद्दीप यित्वा सारासारविभागेनान्नपानंपचति उ दरात्तत्सारंयकृत्स्थानेनीयते तत्रापिसारासारं पृ० ६३अ) विभज्यनिजमरीच्युल्लासरूपायतत्तच्छक्तिस्वरू पयातत्सारं तत्तत्स्थानेयथायोग्यंआकर्षयति तेनसोमकलांवलवंतींकृत्वा सर्वाण्यगानि पुष्णाति तत्रहानसमाधानस्तंभनसाम्यापाद पृ० ६३ब) नव्यापकाधारभूतस्वरूपाभिः पंचशक्तिभिर्विरा जमानासोमाग्निसामानाधिकरणात्मकंवल मेवजीवनम् सोमसूर्याग्निमध्येकृतास्पदाऽ ष्टात्रिंशत्कलास्वरूपैत्येवंप्रकारा व्रह्मरंध्राद पृ० ६४अ) धोवक्त्रपर्यंतंचितिरेवसर्वत्रगतातद्विमुखाः पशुरितितदेवाह वैमुख्यात्परवशोजीवः अहमात्मागुडाकेशसर्वभूताशयस्थितिति नीत्यापरासंविदेवसर्वाशयेष्वात्मभूता त पृ० ६४ब) द्वैमुख्यात्स्वस्वभावविस्मरणस्वरूपासंकुचित निजशक्तिविभवः प्रकृतितादात्म्यमापन्नश्चि द्रूपःप्राणेपरिणमति प्राणचेतसौपरस्परं संवद्धौ सवेदशाविशेषास्तद्वृत्तिस्वरूपास्ताश्च पृ० ६५अ) हृदुरादिस्थानेषुविकसितप्रायास्तत्तत्स्वभाव तुल्यतामदधानाजीवोहिगुणानुसारीक्षीराज्य संवंधवत्तत्रावस्थितो तेवपरवशः तत्तच्छ व्दस्फुरणात्ममातृकाचक्रव्यामोहाद्वाह्योल्लास पृ० ६५ब) रंजितज्ञानोमिथ्याप्रत्ययरूपाश्यासाभिभूतः कामक्रोधलोभमदमात्सर्यशोकहर्षादिभिर भिभूयमाणोजननमरणव्याधिभिःपरिभूयते यदुक्तं सत्त्वस्थोराजसस्थश्चतमस्थोगुणवेदकः पृ० ६६अ) एवंपर्यटतेदेवीस्थानात्स्थानांतरंव्रजेदिति क रंध्रचितिमध्यस्थाव्रह्मपाशावलंविकाः पी ठेश्वर्योमहाघोरामोहयंतिमुहुर्मुहुरिति त न्मात्रोदयरूपेणमनोहंवुद्धिवर्तिनापुर्यष्टकेन पृ० ६६ब) संरुद्धस्तदुत्थंप्रत्ययोद्भवमितिच ईदृशामव- स्थांप्राप्तस्यभ्रमनिवृत्तिस्वरूपंक्लेशनिर्हरणोपा यमाह देहास्थैर्यदर्शनम् शुक्रशोणित परिकल्पितस्यषट्विकारसहितस्यदशदो पृ० ६७अ) षदूषितस्यदेहस्यास्थैर्यदर्शनम् नदी वेगोत्थवुधद्वुधवद्विमर्शनंकर्तव्यम् सुख दुःखानांभोगायतनमिदंशरीरवराकंक्ष णभंगुरमेवेति दृष्ट्यातत्संवंधीनिकुटुंभा- पृ० ६७ब) दीनितदग्रेगतान्येवेत्युपलक्षितानि इतितीव्र रसवैराग्यभावनादार्ढ्यमापन्नस्य सत्यज्ञा नानंदस्वरूपस्वात्मस्थितिहेतुमाह उत्तस संगः तद्विज्ञानार्थंगुरुमेवाभिगच्छेत्समि पृ० ६८अ) त्पाणिःश्रोत्रियंव्रह्मनिष्टमितिश्रुत्याविगलि तरागद्वेषाणांविकसितपरवोधात्मकानां समीपेगत्वा सेवाप्रणामादि पुनःसरी भावेनतद्भाषितानिवचांसिहृदयकर्णै- पृ० ६८ब) राकर्णयित्वा तदनुवर्तनीयम् तदाज्ञापालन मेवपरंपुण्यंतद्वहिर्गमनमेवमहापातकं परतत्त्वारूढानासाधूनांसंगमोहि परप दप्राप्तये उपयुक्तं नतुसद्वोधरहितानांदां पृ० ६९अ) विकानांयतः संगानुरूपःस्वभावःप्रवर्तते त तोयुक्तमुक्तमुत्तमसंगित्यनुत्तरपदविश्रांति भाजोयेपवित्त्रीकृतहृदयाः सर्वोत्कृष्टा- स्तेतत्संप्रदायोपदेशयुक्त्यातारणेक्षमः पृ० ६९ब) दर्शनात्स्पर्शनाद्वापिवितताद्भवसागरात् तारयिष्यंतियोगींद्रःकुलाचारप्रतिष्ठिताइति ह्युक्तम् स्वभावस्थितिपोषिकांतदधिग- तांयुक्तिंस्फुटयति मध्यचिंतनात्मिकायुक्तिः पृ० ७०अ) संकोचप्रसरस्तंभनात्मकेषुप्राणांतर्वहिष्कर णादिवृत्तिषुमध्यचिंतनात्मिकांसंविदुच्छल नस्वभावःयायुक्तिः सासर्वाधिष्टानात्मकेप रासंवित्स्वरूपेस्वात्मपरिज्ञानेकारणं यथाका पृ० ७०ब) ष्टनिर्मथनादग्निः क्षीरमंथनात्सर्पिविलक्षणः प्रादुर्भवति तथामध्यचिंतनयुक्तेः स्वात्मसा क्षात्कारोभवेदितिभावः ननुस्वरूपस्थिति प्रतिवंधकानिवहूनिविघ्नानिसंतिकथंतान्यु पृ० ७१अ) पशमयेदितितदाह अभ्यासप्रकर्षाद्विघ्न निरासः मध्यभावनापरिशीलनप्रकर्षादि तस्ततश्चेतसोवृत्तिनियमात्क्षणेक्षणेमध्य चिंतनाविस्मरणात्सर्वेषामाधिभ्याध्यादीनांस्थू पृ० ७१ब) लसूक्ष्माणांक्षोभानांनिरासुपशमः उपश मितक्षोभस्य चित्तैकाग्र्यादात्मवोधः लयवि क्षेपालस्यात्पतीतातत्तत्क्षुद्रसिद्धिप्रपंचोल्ला सन्यक्कारस्वरूपाश्चित्तैकाग्र्यानिरंतरनिर्विक पृ० ७२अ) ल्पनादविंदुस्थैर्यस्वभावात्संतोषादिसंपत्संप न्नस्यश्रद्धाभक्तिमतोहृदयेआत्मवोधः स्वस्व रूपविकासात्मासत्त्वापतिर्भवति आत्मव्याप्ति लक्षणाचतुर्थीभूमिकाशिवव्याप्तिरतोन्यथाइति पृ० ७२ब) नीत्यायदातुशिवव्याप्तिमिच्छतितदा रसनि र्भरम् श्रद्धाभक्त्यतिशयदार्ढ्याच्छैवधर्म्यं जिगमिषु स्तद्रसेनतदैक्यप्रत्यवमर्शा- त्मकशीतलाच्छास्वादरसेनमीनिवपरिपू पृ० ७३अ) रितवपुर्यथाजलमयत्वेनानायासंमत्स्यव्या पारं तथायोगिनामेववुद्धिमनःप्राणेंद्रिय व्यापारंपरप्रतिभोन्मज्जनात्मकं ईदृशस्य योगयुक्तस्यतत्स्वरूपौव्रततपसौ परप्रतिभो पृ० ७३ब) न्मज्जनप्रकर्षात्सर्वैश्वर्यसंपन्नोंतर्वहिव्याप कः परमेश्वरोहमेवेतिनियमेनमहाभिमान भजनात्मकंयद्भ्रतंतदेवनिःशेषमलच्छेदन स्वरूपंतपः ईदृग्व्रततपोभजमानस्यप्रभुशक्त्यु पृ० ७४अ) ज्जृंभनात्मिकांप्रसन्नतांसर्वत्राविर्भवति अस्य च अविभागानुपायनोजपः उपसंहृतांतर्व हिःसंजल्पप्रसरान्निर्विकल्पस्वरूपोप्रतिह- तस्वभावः पश्यंतीवाक्प्रधानःपरमस्पंदःशिवोहं पृ० ७४ब) स्फुरणात्मकोजपोजायते यदातुत्रिपुटीभे दोपशमनात्मकोजपोश्चारोहृद्युल्लसतित दा निःशेषात्मणात्परमोलाभः प्राणपुयष्ट कमायाप्रमातृत्वांतर्वहिर्विकल्पानुसंधानभेदा पृ० ७५अ) भेदोपशमनस्वरूपान्निःशेषार्पणात्परमस्य प्रकाशानंदघनस्यपरमेश्वरस्यलाभःसाक्षा त्कारः यदुक्तं मानसंचेतनाशक्तिरात्मचेति चतुष्टयं यदाप्रियेपरिक्षणंतदातद्भैरवंवपुरि पृ० ७५ब) त्यादि इयमेवनिःशेषार्पणरूपापूर्णाहुतिर नयानेकजन्मार्जितशुभाशुभवासनाप्लोष कः सुषम्लागततदानवह्निरुद्वुध्यते त न्मुखेनचैतन्यदेवःसंतृप्यतिसंतुष्यचभक्तिभा पृ० ७६अ) जांहिमहाव्योमाकारांपरमसिद्धिंददातित- दाह उदानोदयात्पराप्रसादः यतःसाम्या पादनसामर्थ्यंसर्वत्रयथायोग्यमुदानस्यल क्षणं तस्मादुदितमध्यवलस्वरूपात्तद्वृत्योद पृ० ७६ब) याश्चैतन्यधामात्मकस्यपरमेश्वरस्यशक्तिपा तस्तदात्मतावेशः उदानोहिमहानग्निरिति य थाग्नावर्पितानिद्रव्यविशेषाणिअग्निसाद्भवंति तथोदानवृत्युदयात्प्राणांतःकरणादीनिस्व पृ० ७७अ) तादात्म्यसमर्पणेनसत्यज्ञानैकात्म्यभूतान्येवभ वंति उदानस्यप्राणीयभावनिमज्जनेनज्ञानश क्तिरूपत्वमितिह्यक्तम् यासाशक्तिःप्राणाद्यनु सरणाज्जाग्रदादिपदेषुपरतंत्रीभूताजीवसंवि पृ० ७७ब) द्भिधानासैवमध्यधामात्मनिजवलासादननि- मित्तादुदादानोदयात्परमार्थसंवित्स्वरूपातुर्या सर्वंभेदाभेदात्मकमिदंविश्वंस्वात्मनिविलायय तुर्यातीतपदविश्रांतिभागिनी यदुक्तं जगत्काये पृ० ७८अ) कृत्वातदपिपुरुषेतश्चहृदये पुमांसंविंदुस्थंत दपिवियदाख्येचगहने तदेतज्ञ्ज्ञानाख्यंतद पिपरमानंदगहने महाव्योमाकारेत्वदनुभव शीलेविजयतितिविश्रांतिलक्षणान्येवाह पृ० ७८ब) रोमांचाद्याःसमाधिचिह्नाः भ्रमःकंपश्चपूर्णिश्च प्लुतानंदेवचेत्येतानिलक्षणानिक्रमात्क्र ममुल्लंघ्यानंदप्रकर्षादस्रुरोमांचौवाह्यल क्षणौसामाधेः तत्प्रादुर्भावेस्तमितसमस्तवृत्त्या पृ० ७९अ) त्मिकाप्रकाशानंदस्वरूपासमाधिरुच्यते इत्थम स्यस्वरूपमाह समावेशात्पतिसमः स्वसंविदा त्मनिभालनयुक्त्योदितोदानीयवृत्तिस्तद्दार्ढ्या त्प्राप्राप्ततुर्यैकात्म्यभावः तदैकात्म्येनजाग्रदादि पृ० ७९ब) पदेषुन्मीतस्वस्वातंत्र्योगलितप्राणादिवृत्तिः प रमशिवधाम्निसमाविष्टोभवति तदावेशेनस र्वासुवस्थासुसम्राडिवविराजतेजीवन्नेवशि वसायुज्यमश्नुते यदुक्तं अहोसंसारसुखकेलीअ पृ० ८०अ) होसुलभंचमोक्षमार्गेसौभाग्यं त्रुटितांतककलि काहोशिवयोगिनांयामलीवृत्तिरितिशिवम् इतिश्रीमहामाहेश्वराचार्यविरचितायांस्वातंत्र्यदी पिकायांपरशक्तिसमावेशोनामद्वितीयोल्लासः २ पृ० ८०ब) ओंयथापपराद्वयसामरस्यस्वरूपोमहेश्वरोःस्वशक्ति वलात्सर्वमिदंतात्मकंभित्तिभूतेस्वात्माकाशे हेलयैवप्रकाशयित्वा निमीलयित्वाच प्रका शानंदात्मकेस्वस्वभावेस्वतंत्रस्तथातदैक्यमाप पृ० ८१अ) न्नास्तत्स्वरूपभूताजीवन्मुक्ताआसंसारान्मोक्षांते रमंति तदेवप्रकाशनमारभमाणोःशिवशक्ति तारतस्यस्वरूपांतयोःसामरस्यस्वभावांतेषांहृ दयेविकसितांविमर्शशक्तिंतावत्प्रकटीकरोति पृ० ८१ब) प्रकाशमानोमहाप्रकाशः अनुत्तरानंदस्वरूपो महाप्रकाशात्माचैतन्यदेवोनिजप्रकाशनशक्त्या प्रकाशमानःप्रकाशनंहिसत्तास्फुरत्तात्मकंतत्प्र काशेनतेजस्तमसोपलक्षितानिवाह्याभ्यंतरगता पृ० ८२अ) निनीलसुखादीनिप्रतिभासंते सूर्यादीनांप्र- काशोयद्यपिप्रकाशमानोनहिस्वस्वरूपप्रतिपा दनेसमर्थः अतोहेतोर्नीलादिप्रकाशवज्जडा भिप्रायःचित्प्रकाशेनप्राप्तसत्ताकःसचस्वप्रका पृ० ८२ब) शः ननुमहाप्रकाशस्यस्वप्रकाशत्वंकुतोंगीकर्त व्यमितितदेवाह विमर्शवत्त्वात् संवित्प्रकाशा धीनाः सर्वेप्रकाशस्तत्प्रकाशनेनतेजांसि चतमांसिचभासंते संवित्प्रकाशोहिविमर्शव- पृ० ८३अ) त्वात्स्वप्रकाशः विमर्शोनामाहमितिस्वरूपः य दुक्तं प्रकाशमानंनपृथग्विमर्शात्सचविमर्शो नपृथक्प्रकाशात् नान्योविमर्शोहमिति स्वरूपादहंविमर्शोस्मिचिदैकरूपिति वि- पृ० ८३ब) मर्शादेवसर्वमुत्पन्नंप्राप्तसंभावंविमर्शोहि स र्वस्यास्वात्मभूताकृत्त्रिमःस्वभावः तथाचप्रति भिज्ञायां स्वभावसर्वभासस्यविमर्शंविदुरन्य- थातथा अंतर्विभातिसकलंजगदात्मनेहिय पृ० ८४अ) द्वद्विचित्त्ररचनामकुरांतराले वोधपुनःनिजवि मर्शनसारयुक्त्याविश्वंपरामृश्यतिनोमकुरुस्त थातु प्रकाशोरूपोरक्तोपिस्फटिकादिजडो पमितिस्थित्याविमर्शेव परमेशितुर्मुख्यंस्व पृ० ८४ब) रूपंतन्मुखेनात्मनास्वात्मभूतंप्रभुंपरिज्ञे यं यदुक्तं तस्यदेवातिदेवस्यपरवोधस्वरूपि णः विमर्शःपरमाशक्तिंसर्वज्ञानशालिनी ति साशक्तिर्गीयते अनंतोल्लासरूपा अहंप्र- पृ० ८५अ) त्ययस्वरूपापरावाग्विमर्शिनीशक्तिःपश्यंती मध्यमावैखरीस्वरूपेणप्रस्फुरंतीच्छाज्ञानक्रिया त्मना विराजमानातत्रैकैकस्यास्त्रैरूप्यान्नवधा स्वमरीच्यल्लासात्मिकांवर्णसृष्टिंतदात्मिकांपदं पृ० ८५ब) मंत्रस्वरूपतांचभासयित्वाकारहकारप्रत्याहारे णनादविंद्वाविभागात्मस्वभावादशमीवी- र्यभूता इयमेवचित्तत्त्वप्रकर्षेणसर्वत्रवि- राजमानाइति यदुक्तं नसोस्तिप्रत्ययोलोके पृ० ८६अ) यःशव्दानुगमादृते अनुविद्धमिवज्ञानंसर्वंश व्देनगम्यते वाग्रूपताचेदुत्क्रामेदववोधस्यशा श्वती नप्रकाशःप्रकाशेतसाहिप्रत्यवमर्शि नीति किंच द्वादशात्माहंसीच चितिरेवभ पृ० ८६ब) गवतीपरस्पंदनात्मकतयोन्मनाभिधानाका मयतप्रजाःसृजयतेति श्रुत्याकिंचित्संक- ल्पात्मकंसमनाभावमासाद्यव्यापिन्याद्यकार पर्यंतंसूक्ष्मस्थूलात्मप्राणस्वरूपेणावतरति पृ० ८७अ) यदुक्तं कलैकादशिकाचैवप्राणेचरतिनित्य शः अकारश्चुकारश्चमकारोविंदुरेवच अर्ध चंद्रोनिरोधीचनादोनादांतेवच शक्ति श्चव्यापिनीचैवसमनैकादशीस्मृतेति उ- पृ० ८७ब) न्मनातुततोतीतातदतीतमानामयं इतिचा- कारादिविंदुंतंपंचमात्रानादादिव्यापिन्यंतं पंचमात्रांशाः वाह्योल्लिलसिषात्मसंक- ल्परूपासमनातासामधिष्ठानभूताप्राणन पृ० ८८अ) स्वरूपापरस्पंदात्मोन्मनासैवपरमेश्वरहंसस्य मुख्याशक्तिः स्वमरीच्युल्लासात्मकेऊर्ध्वाधो मुखेकमलयुगलमध्ये स्वस्वामिप्रेमाति शयनिर्भरास्थितानिजविभूतिचमत्कारच पृ० ८८ब) मत्कृतिहेतवेमहावाक्यैः द्वादशकलात्मकंम हारावंगीयते एवंह्यसौ तदारूढोप्रतिहत- स्वभावः यथापरमेश्वरःस्वस्वातंत्र्यात्सर्व त्राप्रतिहतस्वभावः तथातदैक्यमापन्नोपि पृ० ८९अ) वुद्ध्यादिव्यापारेषुविस्मृतस्वात्मसंपद्विलासः देहाभिमानपाशनिकृंतनात्सच्चिदानंदात्मकः अहंव्रह्मास्मीत्यभिमननरूपो नित्योदि तात्मभावः ईदृक्स्वभाववतः सत्यधामा- पृ० ८९ब) वेशात्सर्वमृतं परासंविदेवसत्तास्फुरत्तात्मा सत्यधामतदावेशाद्धेहोः सर्वंकायवाङ्मन सगोचरमृतंनित्यव्यापकपूर्णस्वरूपस्य परमेशितुविजृंभनं तथाचस्वतंत्र्यस्वच्छा- पृ० ९०अ) त्मास्फुरति सततंचेतनशिवः पराशक्तिश्चेयं करणसरणिप्रांतरुदिता तदाभोगैकात्मस्फु रतिच समस्तंजगदिदं नजानेकुत्रायंध्व निरनपतेत्संसृतिरिति तद्वैवश्येनहृद्व- पृ० ९०ब) चनकर्माध्वन्यार्जवभूतस्यकालत्रितयात्मि काकायवाङ्मनोभिर्यद्यश्चेष्टांप्रवर्तते तत्त देवाग्रेस्फुटीभवति अपिचसौ || उदि- तौदार्यः योगीह्युदितौदार्यः उन्मग्नस्व पृ० ९१अ) सोविदौदार्यस्वभावः देहेंद्रियादिव्यापारा- ख्येमायाप्रपंचेपंकेपद्मिवसदाशुचिरलेपो नचतद्व्यापारोल्लासरूपास्य वासनाका- लकलानियतिरागादिभिरभिभूतापितुशु पृ० ९१ब) द्धविद्यामयासत्तासामान्यस्वरूपातस्मादस्य ज्ञानमंतःकरणातीतंस्वतःसिद्धंनतुमूढव- त्तदधीनम् उन्मिषितानुत्तरस्वरूपत्वात् ष ट्त्रिंशत्तत्वानिस्वशक्तिविभूतिसंपत्परिपूरि पृ० ९२अ) तानिभासयति ईदृग्योगी प्रशांतमोहः धन्योरमति शरीरत्रितयव्यापारमवस्थात्र यं तदेवजगन्नामकंलोकत्रयंतच्छायाकलं कशून्यः सर्वमेवस्वशक्तिस्फारात्मकंज्ञात्वात पृ० ९२ब) स्मिन्नेवतदधिपतिस्थानेपरमार्थाच्युतस्वरूपेस र्वैश्वर्यसंपन्नेस्वात्मनिस्थित्वाधन्यःकृतार्थस्थि- तप्रज्ञोरमतिक्रीडति जगद्व्यस्यक्रीडास्थानं यदुक्तंवासिष्ठे परीक्षीणेमोहेगलितिचघने पृ० ९३अ) ज्ञानजलदे परिज्ञातेतत्त्वेसमधिगतात्म न्यभिमतेविचार्यार्यःसार्धगलितवपुषोर्वैस दसतो वियादृष्टेतत्त्वेरमणमटनंजागत- मिदम् प्रसन्नेचित्तत्वेहृदिस्वविभवेवला पृ० ९३ब) तिपरे समाभोगेभूतास्वखिलकंलनादृष्टिषु पुरः शमंयांतीष्वंतः करणघटनास्वाहित रसंधियादृष्टेतत्त्वेरमणमटनंजागतमि दम् रथस्फारोदेहस्तुरगरचनाचेंद्रि- पृ० ९४अ) यगतिः परिस्पंदोवाताचहनकलितानंद- विभवः परोचार्वादेहीजगतिविहरामी त्यनघया धियादृष्टेतत्त्वेरमणमटनंजा गतमिदमिति ईदृक्स्वभावेनससर्वस्थां पृ० ९४ब) वरजंगमात्मकंभित्तिभूते सर्वाधारेस्वात्मनि तिष्ठतीतिज्ञात्वारागद्वेषमानावसानादिप्रशम नादस्मिंजागतेजीवन्मुक्तनिर्भयाचरंति ईदृक्त त्वज्ञः विश्रांतिपदेचिदाकाशः प्रकाशस्या- पृ० ९५अ) त्मविश्रांतिरहभावोहिकीर्तितः उक्ताचसैववि श्रांतिसर्वापेक्षानिरोधतरित्यादिस्वस्मिन्नेवस्वात्म भूतेचित्प्रकाशानंदघनेनिस्तरंगमहोदधिस दृशे विश्रांतिस्थानेस्वात्मनाविश्रम्यगलितवं पृ० ९५ब) धमोक्षगमागमादिसमस्तशंकाकलंकश्चि दाकाशोवशिष्यते एवंह्यसौ अंतेतन्मयः यतश्चिदाकाशस्वरूपःपरमेश्वरःसर्वाका शाःसर्वाधारोभितिभूतस्ततस्तदैक्यमापन्नो पृ० ९६अ) पिप्रारव्धक्षयावसरेतन्मयेव नह्यस्यसंवि त्प्राग्वादिंद्रियादिपदेषुप्रसरति अपितुनि र्विभागचिदाकाशोघटंध्वंसेनभिवावति ष्टते एतदेवमोक्षः नतुकुत्रचिद्गमनंश्रुतिरपि पृ० ९६ब) नतस्यप्राणाउत्क्रामंति तत्रैवसमवलीयंते विमुक्तश्चविमृश्यतिति मोक्षमेवावस्थाभेदेन विभज्यनिरूपिति स्वस्वभावानुरूपामुक्तिः याचचित्प्रतिभादृगादिद्वारानुसरणा- पृ० ९७अ) त्तत्तत्संज्ञाभिधानाजीवभूतासौचस्वचित्प्रमा- तृपदारोहणा तुर्यास्वरूपास्वातंत्रोन्मीलन तारतस्याद्यादृक्स्वभावमादत्तेतादृक्मुक्तिः यथाहिपुरुषपदारूढाप्रकृतिस्वतंत्रास्सि- पृ० ९७ब) द्धाःसिद्धपदवीमारुह्ययथेष्टंपिंडंधारयंति सर्वैश्वर्यसंपत्परिपूर्णचैतन्यस्वरूपात्मभूताः पंचभूतानिपंचभूतेषुयोजयित्वा निरावर णस्वभावाश्चिदाकाशस्वरूपाःकचकचायंति पृ० ९८अ) यथाशुकदेवादयः ईश्वरपदारूढामहामाया स्वतंत्राश्चित्प्रकाशशरीराः स्वशक्तिवलेनश रीराशरीररचनांयथारुचिंरचयंति यथा हरिहरादयः विगलितदेहाभिमानामायाप्रकृ पृ० ९८ब) त्युदासीना आनंदपविश्रांताः पंचभौतिकंशरी रमिहैवांत्यावसरेपरित्यज्य क्षीरेक्षीरिवपरे व्योम्निलीनाभवंति एवंचतुष्टयमोक्षप्रकारे तारतस्यासादादत्राप्यनंतभेदेयथाभुवनाधि पृ० ९९अ) पतित्वादियुक्तानामत्रपरमेश्वरशक्तिपातेव निवंधनमितिशिवम् इतिश्रीमहामाहेश्वराचा र्यवर्यविरचितायांस्वातंत्र्यदीपिकायांजीव- न्मुक्तस्वरूपनिरूपणंनामतृतीयोल्लासः ३ पृ० ९९ब) ओंअथतुर्योल्लासनिर्णयेपारमेश्वरस्वस्वभावप रामर्शोगीयते मदितस्वभावोहम् अहमेवपरा नंदनिर्भरितवपुःसदानंदलवाश्रिता आनं- दिनःसर्वेप्रमातारः आनंददेवखल्विमानिभूता पृ० १००अ) निजायंतेइतिश्रुत्यायानंदःसर्वत्रपोषकःस र्वोत्कर्षेणविराजमानोव्रह्मादिभिरभिवांछनीय स्तेनमत्स्वभावभूतेनस्वात्मन्येवरमामि तश्चम- त्कारपूर्वकांविश्वमयविश्वोत्तीर्णाक्रीडांयथेष्टंसंपा पृ० १००ब) दयामि तदाह नायकोमध्यसंस्थः ईषनसंवे दनजानामीत्यांतरोच्छलनसंपादनस्मृत्यपो हनाभिमानाध्यवसायसंकल्पप्राणांतःसं जल्पतत्तच्छव्दस्फुरणवुद्धींद्रियकर्मेंद्रियतत्त- पृ० १०१अ) त्स्पंदनस्वरूपानंतशक्तयःतासांमध्येस्वप्रका शस्वभावोभिन्नाश्रयभूतोनायकः प्रभुरहमे वसम्यक् स्थितःतत्तन्मुखेनव्यापृतोपिचम- त्कुर्वन्नपिस्वस्थानेमहावीर्यात्मकेच्युतस्थितिरेव पृ० १०१ब) नहितत्तदवस्थाभेदेनममाच्युतानंदस्वभाव- स्यान्यथाभावः एतेहिप्रविशंतस्तत्तद्वृत्तिगुणाम मनिर्विकल्पस्वरूपस्यनानानदीवेगाइवोदधे स्तरंगायमानत्वंनप्रापयंति एवंस्वभावस्थिते पृ० १०२अ) स्तच्छक्तेश्वरपदारूढोनस्तमितभास्वरूपोमहा वीरः सुप्रकाशनशक्त्यातत्सर्वंप्रकाशयमीति दर्शयति स्वशक्तिकचनम् मत्स्वभावभूता हमितिस्वातंत्र्यपरामर्शात्मापराशक्तिर्युगपदु पृ० १०२ब) न्मेषनिमेषधर्मत्वात्तत्तदनंतशक्तिवृंदंभित्ति भूतान्निजस्वरूपात्स्वेच्छयैवोन्मीलयित्वातत्स्फु रणात्मकतयास्वप्रकाशस्वरूपे महाव्योमाका रेस्वात्मन्येवकचकचायते तस्यामरीचयस्तत्त- पृ० १०३अ) त्स्थानेतत्तद्व्यापारात्मातत्तच्छक्त्यभिधानानहित द्व्यतिरिक्तंकिंचित् साहिसन्निष्क्रियत्वेनतत्तत्सुभा वक्रीडानात्मनेतत्तद्व्यापारेनिवृत्तसंगमामद्विश्रां तिभाजतयासर्वप्राणनस्वरूपयातसांमत्सेवन पृ० १०३ब) पराणानिमेषोन्मेषव्यापारसाहमेवस्वतंत्रःत दाह अवस्थाद्वयेवीरः सर्वासामुपसंहृतवृ त्तीनाशक्तीनामेकसंघट्टाप्रसरावत्सरेतत्त त्स्थानेविशीर्णस्वरूपोयोंतर्वहिनिमेषोन्मेषस्त पृ० १०४अ) स्मिन्स्वातंत्रेहमेवशिवोनिजैश्वर्यवलात्सदाशि वेश्वरौभूत्वा तासांनिमेषोन्मेषात्मकमवस्था- द्वयंयथेष्टंसंपदयामि नहिमद्व्यतिरिक्तं किंचित् यतः मदभिमतमृतम् अहंप्र- पृ० १०४ब) त्यवमर्शात्मकस्यप्रकाशानंदस्वभावस्यममस्व रूपभूतासतास्फुरत्तास्वरूपापरासंविच्छक्तिःत यायद्यत्किंचिद्वाह्यमाभ्यंतरंवाप्रकाशितं त त्तदेवृतंप्राप्तसद्भावमहमेवसंविन्नाथोनिज पृ० १०५अ) संवित्प्रकाशवैभवादाब्रह्मादिपिपीलिकांतं प्रमातृप्रमाणप्रमेयात्मकमिदंविश्वंभित्तिभू तेस्वात्माकाशेप्रकाशयित्वा तत्तत्स्वरूपत्वेन तत्संज्ञाभिधानःस्फुरामि तदाह संज्ञास्पदैकः पृ० १०५ब) नाहंतादिपरामर्शभेदादस्यान्यतात्मनः अहंमृ- ष्यतयैवास्यस्यष्टेस्तिज्वाचकर्मवदितिनीत्यातत्त दवस्थास्वरूपेप्रमाणप्रमेयात्मकेविश्ववैचित्र्येस र्वानुप्राणनस्वरूपःपरःप्रमातैकेवाहंस्वच्छंदस्व पृ० १०६अ) भावनटवरमामि नचतत्तद्दशासुमत्स्वभावस्या न्यथाभावः अहंप्रत्यवमर्शैकस्वभावत्वात् अ हंप्रत्ययःसर्वत्राप्रतिहतस्वभावःसर्वत्रचोदकः एतदेवस्फुटीकरोति मदाज्ञादीनंसर्वं अहमे पृ० १०६ब) वस्वशक्तिवैभवं सर्वत्रयथायोग्यंस्फारयित्वात्रि षुलोकेषुसाम्राडिवरमामि नहिसश्चोदनादृते कश्चित्कुत्रापिस्वव्यापारेप्रवर्तते अहमेवसर्वा नुप्राणनस्वरूपयानिजशक्त्यातत्तत्स्थानेतत्तद्दे पृ० १०७अ) वतास्वरूपोभूत्वा क्रमात्क्रमात्मकंतत्तद्व्यापारंयथे ष्टंकरोमि नच तत्तद्दशाव्यापारेममपरानंदात्म केस्वस्वभावेकश्चित्क्षोभः स्वतंत्रस्यनक्वापिचल नमस्तितदाहुः पूर्णोत्वंतुष्टः अहमेवतत्तद्द- पृ० १०७ब) शासुव्याप्यव्यापकस्वरूपत्वान्निजविभूतिस्फार विस्मयचमत्कारपरामर्शरसेनपरिपूरितवपुः गं भीराक्षुव्धस्वभावेस्वात्मन्येवसंतुष्टः अतेव विगलितसमस्तक्षोभकलंकित्वान्नित्योदितस- पृ० १०८अ) च्चिदानंदस्वभावोविश्वमयत्वेपिविश्वोत्तीर्णो मत्स्वरूपः सर्वोत्कर्षेणविराजते अताह उपाधिरहितंमद्रूपम् शत्रुमित्रगृहदारा दिवंधमोक्षपरिणामनरशक्तिशिवात्म- पृ० १०८ब) कजीवेश्वरव्रह्मकल्पनास्वरूपायाउपाधिस्तद्रहि तं विशुद्धनिर्मलंमहाकाशंमद्रूपं अहंप्रत्यव मर्शात्मकंपरमानंदसंवित्स्वभावमहमेवनिरु पाधिस्वरूपत्वाच्चंडभास्करिवसुप्रशांतपदेस्थि पृ० १०९अ) त्वाविश्वमयतदुत्तीर्णक्रीडाचमत्कारंचमत्करो मियतः शिवोहंस्वतंत्रः अहमेवमहाकाशस्व रूपःपरमानंदघनोचैतन्यदेवोविश्वमयत्वेपि विश्वोत्तीर्णोविश्वोत्तीर्णत्वेपि विश्वमयस्वभा पृ० १०९ब) वांस्वशक्तिस्फारात्मिकांक्रीडांक्रमाक्रमस्वरूप त्वेन यथारुचिंरचयित्वा स्वप्रभाप्रसरात्मकेवि शुद्धपरमाकाशेस्वात्मन्येवस्वस्वातंत्र्यप्रकर्षाद्वि राजे स्वतंत्रात्माराजमानोसुभाभिर्वाह्याभ्यंतर- पृ० ११०अ) क्षीवितोचिद्रसेन शक्तिपीठेयामलवृत्तिलुव्धो महानंदोभैरवोहंशिवोहमितिशिवम् इति श्रीमहामाहेश्वराचार्यवर्यविरचितायां स्वातंत्र्यदीपिकायांस्वातंत्र्यशक्त्युच्छलनं पृ० ११०ब) नामचतुर्थोल्लासः ४ समाप्तमिति || ########### END OF FILE #######