#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00091 Uniform title: svacchandatantra Main title: svacchandatantra with the commentary of kṣemarāja Commentator : kṣemarāja Description: The e-text was converted from devanagari typesetting files prepared by Dr. S. Malaviya by computer programs developed by Muktabodha. The photographic facsimiles are from the Kashmir Series of Texts and Studies volumes 31, 38, 44, 48, 51, 53, and 56 . Notes: Transcribed by the staff of Muktabodha under the directions of Mark S. G. Dyczkowski. Revision 0: July 7, 2006 Publisher : Internet publisher: Muktabodha Indological Research Institut Publication year : 2006 Publication city : Publication country : United States #################################################### श्रीः स्वच्छन्दतन्त्रम् श्रीमन्महामाहेश्वराचार्यक्षेमराजकृतोद्योताख्यविवरणोपेतम् प्रथमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ विश्वैकरूपविश्वात्मविश्वसर्गादिकारणम् | परप्रकाशवपुषं स्तुमः स्वच्छन्दभैरवम् || प्रसरच्छक्तिकल्लोलजगल्लहरिकेलये | सर्वसम्पन्निधानाय भैरवाम्भोधये नमः || एकैव बोधजलधेः शक्तिशुक्तिर्जयत्यसौ | यदन्तनीखिलं भाति मुक्तामयमिदं जगत् || स्मृतिमात्रविनिर्धूतनिःशेषाज्ञानकिल्विषाः | गुरुसूक्तवरस्फारा विजयन्ते जगत्त्रये || तत्सेवाविमलव्यक्तमहामाहेशदर्शनः | क्षेमराजो विवृणुते श्रीस्वच्छन्दनयं मनाक् || अभिनवबोधादित्यद्युतिविकसितहत्सरोजान्मे | रसयत सरसाः परिमलमसारसंसारवासनाशान्त्यै || इहानुजिघृक्षारससरसहृदयपरसंवित्सम्मुखीकृतो ग्रन्थमवतारयितुं कश्चिद् देवीशिष्य आह ---- कैलासशिखरासीनं भैरवं विगतामयम् | चण्डनन्दिमहाकालगणेशवृषभृङ्गिभिः || १-१ || कुमारेन्द्रयमादित्यब्रह्मविष्णुपुरःसरैः | स्तूयमानं महेशानं गणमातृनिषेवितम् || १-२ || सृष्टिसंहारकर्त्तारं विलयस्थितिकारकम् | अनुग्रहकरं देवं प्रणतातीविनाशनम् || १-३ || मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत् | इह परमेश्वरस्य चिदानन्दघनस्य ब्रह्मदर्शनोक्ततत्त्वातिशायिनः स्वच्छन्दभैरवस्फुरत्तात्मा परमार्थः, इति भगवतः शास्त्रस्य चास्य तदेवाभिधानम् | तस्य स्वात्मैकरूपपञ्चकृत्यकारित्वमित्याशयेन शृष्ट्रयादिपञ्चकृत्यकरं देवं मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत्ऽऽ इत्युक्तम् | तत्र देवः शिवादिक्षित्यन्ताशेषसृष्ट्यादिक्रीडापरः, तावदशेषोत्कर्षतया विजिगीषुः, तदभिन्नत्वात् विश्वस्य जगद्व्यवहाररूपतयापि द्योतमानः, शिवमन्त्रमहेश्वरादिभिः स्तूयमानः, सर्वेषामगतीनां गतिः प्राप्योऽभिन्नबोधसारश्च, यथोक्तं ऽऽदिवु क्रीडादौऽऽ इति | भैरवो विश्वभरणरवणवमनरूपः, भीरूणामभयमिति व्युत्पत्त्या संसारिणामभयदः, भयं भीः संसारत्रासः, तया जनितो रवः आक्रन्दः भीरवः ततो जातः तदाक्रन्दवतां स्फुरित; अस्यैव भीरवस्य संसारभयविमर्शनस्यायं शक्तिपातवशेनोत्थापकः, भानि नक्षत्राणि ईरयति इति भेरः काल; तं वायन्तीति भेरवाः कालग्राससमाधिरसिकाः योगिनः तेषामयमिति आन्तरः स्वभावः, भिये पशुजनत्रासाय रवः शब्दराशिसमुत्थाकारादिकलाविमर्शो यासां खेचरी-गोचरी-दिक्चरी-भूचरीचक्ररूपाणां संविद्देवीनां ताः भीरवाः, तासामयं स्वामी भैरवः तथा भैरवो भीषणः संसारविघटनपरः, एवमागमेषु निरुक्तत्वात्,श्रीबृहस्पतिपादैः शिवतनावन्वर्थव्याख्यातस्वरूपत्वाच्च | अत एवायं मुदितो नित्यानन्दघनस्वातन्त्र्यशक्तियुक्तो यः तं भैरवाभिधानमेव, न तु ब्रह्मविष्ण्वीशसदाशिवशिवरूपम् तेषामेकादशपटलनिरूपितनीत्या एतत्स्वभावाभावादेतदुल्लास्यविलाययत्वाद्वा | अत एव महान्तमीशानं सर्वेषामेषां स्वामिनम् | अत एव के मूर्धन्ये ब्रह्मबिले एला स्फुरन्ती शक्तिः तस्यामासः आसनमुपरिस्थितिर्यस्य, व्यापिनीसमनात्मनः शिखरस्य सर्वाध्वोपरिवतीनः पदस्य, तत् कैलासशिखरम्, तत्रासीनं तदुत्तीर्णं प्रकाशैकघनं तदशेषव्याप्त्या च विश्वरूपम् | ततो विगतामयम् आ समन्तात् मिमीते इत्यामयः, शक्तिरूपा स्मृता माया यदधः शक्तिकुण्डली | (१०-१२६३) इति वक्ष्यमाणाख्यातिरूपा महामाया, तद्विरहितम्, विगतश्चामयो यतो भजमानानाम् | भगवतः शक्तिप्रपञ्चव्याप्तिरूपैः तदनुगृहीतैरेव चण्डादिभिः कुमारान्तैः, तत्प्रपञ्चसारव्याप्तिरूपस्य भगवत उमापतेः व्याख्यातभैरवस्फारसमावेशात् भैरवरूपस्य तन्नाम्नश्च भुवनाध्ववक्ष्यमाणकैलासाख्यहिमवच्छृङ्गासीनस्य अन्तरङ्गपरिवाररूपैरिन्द्रादिभिः लोकपालैः, यमोपलक्षितैः सर्वैः संहर्तृभी रुद्रादिभिः, आदित्योपलक्षितैः सर्वैस्तेजोमयैः, ब्रह्मविष्णुपलक्षितैः सृष्टिसंहारस्थितिकारिभिः सर्वैः अनन्तभट्टारकादिभिः, तत्पुरःसरैरन्यैरपि च निरपेक्षशक्तिपातपात्रीकृतैः स्तूयमानं कल्पितप्रमातृतानिमज्जनात् सर्वोत्कृष्टत्वेन परामृश्यमानम्, गणेन कपालीशादिभैरवाष्टकेन वक्ष्यमाणपरिवाररूपेण, मातृभिः बाह्म्यादिदेवीभिः, गणानां मात्रा प्रपञ्चव्याप्त्या उमादेव्या उक्तान्तरङ्गपरिवारमध्यप्रधानभूतया निषेव्यमानं तच्छक्तिपातादेव अख्यातिप्रशमनतया समाविश्यमानम्, सृष्टिसंहारौ ताच्छील्येन कुर्वाणम्, सृष्टिसंहारप्रपञ्चात्मानं च विशिष्टप्रत्यवायफलं विलयं स्थितिं च विदधतम्, अनुग्रहं च ताच्छील्यताच्छब्द्यादिस्वभावतया कुर्वन्तं सदा पञ्चकृत्यकारिणम्, प्रणतानां साधकादीनां यथाभिलषितसंपादनेन आतीविनाशनम् | एवं भूतं देवं भैरवं मुदितं यथोक्तदेवरूपैव देवी स्वातन्त्र्यशक्तिः, दृष्ट्वा साक्षात्कृत्य, वचनमब्रवीत् पूर्णाहन्तात्मना परामृशत् | तत्परामर्श एव हि अकारहकारप्रत्याहारात्मा गर्भीकृताशेषविश्वसमग्रशास्त्रप्रसरप्रथमाङ्कुररूपो भगवान् शब्दराशिः | यद् वक्ष्यति ---- अदृष्टविग्रहाच्छान्ताच्छिवात्परमकारणात् | ध्वनिरूपं विनिष्क्रान्तं शास्त्रं परमदुर्लभम् || (८-२७) इत्यादि | चिदात्मैव च भगवान् भैरवः सदाशिवादिमूतीग्रहणपूर्वं स्वाधारप्रपञ्चव्याप्तिप्रधानभूतमुमापतिरूपं स्वसत्तानुप्रवेशात् भैरवात्मकमेव मुदितमास्थाय तथाभूतामेव च उमाभट्टारिकामूतीं गुरुशिष्यभूमिकाग्रहणेन, शास्त्रं वचनप्रतिवचनरूपं लोकानुग्रहार्थं प्रथयति | यद् वक्ष्यति ---- गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः | पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः || (८-३१) इति | एवमान्तरबाह्यक्रमाभ्यां शास्त्रार्थसूत्रणात् सूत्रभूतं सार्धश्लोकत्रयात्मकं तन्त्रावतारकवाक्यमेतद्वोद्धव्यम् | अत्र च एकवाक्यमेतत् बोद्धव्यम् | देवभैरवपदाभ्यां यथाव्याख्यातं गर्भीकृतमर्थं स्फुटीकर्तुं कैलासेत्यादिविशेषणान्तराण्युपात्तानि | तथाहि ---- दिवः क्रीडाव्यवहारलक्षणार्थौ शृष्टीत्यादिना, अनुग्रहकरम्ऽऽ इत्यन्तेन प्रकटीकृतौ | तत्राद्यैः पञ्चभिः पटलैः मुद्रापटलेन च एतदङ्गभूतेन चतुर्दशेनानुग्रहः प्रतिपादितः, एकादशेन सृष्ट्यादिस्वरूपमुक्तम्, विजिगीषात्मार्थः कैलासेति पदेनान्तरार्थपरेण महेशानपदेन चाभिव्यक्तो दशमपटलेन निर्णीतः, द्योतनार्थोऽनामयमुदितपदाभ्यां प्रकाशितः, स मध्ये मध्ये ---- ऽऽतत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम्ऽऽ (४-३९७) इत्यादौ ग्रन्थे प्रथितः, स्तुत्यर्थः ऽऽचण्डेत्यादिना, निषेवितम्ऽऽ इत्यन्तेन स्फुटीकृतः, शुरासुराणां सिद्ध्यर्थं यजनोपायहेतुना | देवदेवेन निदीष्ट......................... ||ऽऽ इत्याद्युद्देशेषु निर्वाहितः, अगतीनां गतिरित्येवंरूपो योऽर्थः सोऽपि ऽऽप्रणतातीविनाशनम्ऽऽ इत्यन्तेन व्यक्तः षष्ठसप्तमाष्टमनवमद्वादशत्रयोदशपञ्चदशपटलैनीणीतः, एवं भैरवपदार्थोऽपि योजितव्यः | तत्र हि यथा रवणार्थः ऽऽअब्रवीत्ऽऽ इत्यन्तेन व्यञ्जितस्तन्त्रावतारपटलेन प्रदशीतः, तथान्येऽप्यर्थाः यथायोगं देवपदतुल्यार्थतया योज्याः | अपि च कैलासेति पदेन द्वितीयार्थेन स्थानपूर्वकं देवभैरवादिपदैः सृष्टीत्यादिना च अवस्थापूर्वकं स्तूयमानम् इत्यन्तेन च स्तुतिपूर्वकमस्य शास्त्रस्यावतरणम्, इत्यनेनैव अवतारकवाक्येन प्रकाशितम्, मुदितमित्यनेन प्रश्नयोग्यावसरज्ञत्वं शिष्यस्य प्रकाशितम् | भैरवपदेन च दक्षिणस्रोतः समुद्भूतत्वम् अस्य शास्त्रस्य सूचितम्, स्रोतोभेदं च नवमपटले दर्शयिष्यामः || ३ || किमब्रवीत् ? इत्याकाङ्क्षायामाह ---- श्रीदेव्युवाच ---- यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर || १-४ || शतकोटिप्रविस्तीर्णं भेदानन्त्यविसपीतम् | चतुष्पीठं महातन्त्रं चतुष्टयफलोदयम् || १-५ || न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः | अल्पायुषोऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर || १-६ || तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरम् | भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः || १-७ || हे शंकर ! अनुग्रहैकपरतया श्रेयस्कर ! स्व आत्मरूप परमेश्वर, यत् त्वया मह्यं स्व एवच्छन्द इच्छा यस्य तादृगनर्गलभैरवरूपाभिधायित्वात् स्वच्छन्दं, तन्त्रावतारपटलनिरूपयिष्यमाणदृशा कोटिशतादिविस्तीर्णं कोटराक्षव्याधिभक्षाघोरेश्वरस्वच्छन्दादिना भेदानन्त्येन प्रसारितम्, चतुर्णां विद्यामन्त्रमण्डलमुद्राणाम्, पीठम् आश्रयं संभवमात्रेण | मुद्रा मण्डलपीठं तु मन्त्रपीठं तथैव च | विद्यापीठं तथैवेह चतुष्पीठा तु संहिता || इति तथा ---- स्वच्छन्दभैरवश्चण्डः क्रोध उन्मत्तभैरवः | ग्रन्थान्तराणि चत्वारि मन्त्रपीठं वरानने || इति श्रीसर्ववीरेऽभिहितत्वात् | तत्र विद्या स्वच्छन्दशिवरूपा स्फुरत्ता परमार्थमातृका, मन्त्राः चतुष्कलाद्याः, मण्डलं नवनाभादि, मुद्राः कपालाद्यनुकाराः | समयि-पुत्रक-साधक-आचार्यरूपस्य चतुष्टयस्य वक्ष्यमाणभेदभिन्नस्य यत्फलं भोगमोक्षवितरणादिरूपं तस्योदयो यस्मात् तादृशं कथितं तत् | मरणजन्मधर्मका मनुष्याः, अल्पेन वीर्येणोत्साहेन पराक्रमेण सामर्थ्येन च युक्ताः, अत एव च वीरसिद्धिषु अशक्ताः, अल्पजीवितत्वेन अल्पवित्तत्वेन च महानुष्ठानेषु चासमर्थाः, अल्पसत्त्वतया च महार्थज्ञानोपदेशाश्वासरहिताः, न शक्नुवन्ति श्रोतुमध्येतुं किं पुनरनुष्ठातुम्, तदर्थं तस्य शास्त्रस्य संग्रहं संक्षेपम्, अल्पः शास्त्रार्थविस्तरो यस्य तादृशम्, भुक्तिं मुक्तिं च ताच्छील्येन ददतम्, प्रसादेन अन्तर्नैर्मल्यप्रथनात्मना अनुग्रहेण, कथय || ७ || अथ प्रश्ननिर्णेयानि वस्तूनि उद्दिशति ---- कीदृशं वै गुरुं विद्यात् साधकं च महेश्वर | भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीम् || १-८ || मन्त्रांश्चैव समासेन कालं चैव समासतः | यजनं हवनं चैव अधिवासं रजांसि च || १-९ || पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलम् | दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च || १-१० || कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर | गुर्वादि भूम्यन्तं कीदृशं विद्यात् उपादातुं हातुं जानीयात् | मन्त्रादिसाधनान्तानि पञ्चदश वस्तूनि च यथा कलौ सिद्ध्यन्ति तथा ब्रूहि | तत्र समयिना श्रुतशास्त्रेण पुत्रकादिपदजिघृक्षया गुरुः परीक्ष्यो गुरुणैव वा परीक्ष्यः, गुर्वादयः कार्याः गुर्वादयोऽत्र यथाप्राधान्यं क्रमेण निदीष्टाः, शिष्यः पुत्रकः समयी च वक्ष्यमाणस्वरूपः, सद्गुरुः गुर्वादिचतुष्टयरूपस्य शिष्यवर्गस्याभयप्रदः, असद्गुरुस्तु भयप्रदः, सच्छिष्यवर्गः असच्छिष्यवर्गश्च स्वात्मन एव अभयं भयं च प्रददाति, भयं सिद्धिमुक्तिप्रत्यूहात्, तदभावादभयम्, भयाभयप्रदातारमित्येतल्लिङ्गादिपरिणामेन, भूमिमन्त्रदन्तकाष्ठादीनामपि वक्ष्यमाणनीत्या यथायोगं योज्यम्, भूमिः मन्त्रयागप्रस्तारस्थानम्, मन्त्राः आसन्नमूतीसकलनिष्कलाद्याः, कालः सौरः आभ्यन्तरश्च विचित्रः, समासतो यजनहवने सर्वदीक्षितसाधारणे, दीक्षोपयोगिसर्ववस्तूनां योग्यतापादनात्मा संस्कारः अधिवासः, रजांसि शालिचूर्णादीनि वक्ष्यमाणानि नवनाभादिमण्डलोपयोगीनि, पाशक्षपणशिवपददानरूपा दीक्षा, बहुभेदोऽध्वा वर्णमन्त्रपदकलातत्त्वभुवनरूपः षड्विधः, अभिषेकः आचार्यादीनां यागान्ते मन्त्रकलशाम्भसा सेचनम्, दीक्षितानां शेषवत्त्वेन नियतविधिनिषेधाः समयाः, साधनानि साधकानां सिद्ध्युपायाः, न्यासजपाज्यसंस्कारादि अन्यत् सर्वमत्रैव अन्तर्भूतत्वात् पृथङ् नोद्दिष्टम् || १० || अथ प्रश्ननिर्णयमुपक्रममाणः प्रोत्साहनाप्रमुखं शिष्यप्रवर्तनाय प्रयोजनाभिधायि आदिवाक्यम् ---- श्रीभैरव उवाच ---- साधु साधु महाभागे यत्त्वया परिचोदितम् || १-११ || अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते | साधु साधु इति वीप्सया अवसरप्रष्दृतां जनानुकम्पां च श्लाघमान उपदेशग्रहणयोग्यतापादनाय शिष्यधियमुत्तेजयति देवः | महाभागे इत्यनेन अनुग्रहोन्मुखत्वं श्लाघितम्, त्वया मर्त्यानां मृतिधर्माणां सामान्येन सर्वेषां न तु नियतानां केषांचिदधिकारिणाम्, अनुग्रहाय भोगमोक्षसम्पत्तये, यत्प्रमेयजातं परिपाट्या चोदितं पृष्टं तत्तेषामनुग्रहायैव | अहं साम्प्रतं परभैरवसत्तानुप्रवेशोन्मिषितमहाविकासावसरे बालबालिशविद्वज्जनाद्युचितदीक्षाप्रदर्शनादिक्रमेण उपपन्नं च कृत्वा ते कथयामि | अत्र च यच्छब्दपरामृष्टपूर्वोद्दिष्टप्रमेयपरिपाटीज्ञानमभिधेयम्, तत्प्रयोजनं भोगमोक्षात्मा अनुग्रहः, तत्र चोपायोपेयभावात्मा सम्बन्धः, मर्त्यानामधिकारित्वम्, परानुजिघृक्षोन्मुखतया निवृत्तभोगाभिलाषस्य शिष्यस्य योग्यत्वोत्तेजनम्, परभैरवस्फारावमर्शोन्मिषत्प्रतिभागावसरत्वेन आत्मन आप्ततां परसम्बन्धसारतां च नवमपटले निर्णेष्यमाणां सम्बन्धषट्कस्य निरूपितवान् परमेश्वरो मुख्यभूतप्रयोजनप्रतिपादनपरोऽपि आदिवाक्ये || ११ || अथ यथोद्देशं निर्णेतुमाह ---- आदौ तावत्परीक्षेत आचार्यं शुभलक्षणम् || १-१२ || शुभम् ---- ऽऽशिवेन सहचारित्वादाचार्यस्तेन कीतीतःऽऽ (४-४०९) इति इहैव वक्ष्यमाणं शिवाभिन्नस्वरूपप्रतीतिरूपं लक्षणं यस्य तमाचार्यंसाधकादिभिश्च आभिमुख्येन चरणीयं सेव्यम् | आदाविति शक्तिपातवशसंप्राप्तप्रबुद्धसुहृद्वाक्यावेदितसतत्त्वः शिष्यः पुत्रकादिदीक्षां जिघृक्षुः श्रुतसंहिताशास्त्रः समयी, यद्वा गुरुरेव शिष्यमाचार्यीकर्तुं पूर्वं परीक्षेत, यद्भविष्यति ---- ऽऽश्रुतशीलसमाचारान् दैशिकत्वे नियोजयेत् |ऽऽ (४-४५४) इति तावच्छब्देनेदं ध्वनति ---- शर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरुत्तमः |ऽऽ इति नीत्या उक्तप्रतीतिरूपतैव अस्य शुभलक्षणम्, ऽऽअहमेव परो हंसः शिवःऽऽ (४-३९९) इति वक्ष्यमाणनीत्या तस्या एव मोचकत्वात् दीक्षाक्रियाया अपि शिवाभेदव्याप्तिसारत्वस्य दर्शयिष्यमाणत्वात् || १२ || आर्यदेशजत्वादि उपचयहेतुः शिष्याणां सिद्ध्यङ्गम्, अत एवैतत् पश्चान्निदीशति ---- आर्यदेशसमुत्पन्नं सर्वावयवभूषितम् | शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् || १-१३ || देवकर्मरतं शान्तं सत्यवादिद्रढव्रतम् | सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतम् || १-१४ || त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितम् | ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ति न दूरतः || १-१५ || प्रविभक्तचातुर्वर्ण्यः आर्यदेशः | यदाह विष्णुः ---- ऽऽचातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते | स म्लेच्छदेशो विज्ञेय आर्यावर्तस्त्वतः परः ||ऽऽ इति विधानं दीक्षादि, ज्ञाने शिवशास्त्रे, ज्ञेये च परमशिवतत्त्वे, तत्तदध्ववव्याप्त्यादौ विशारदं निर्मलम्, शान्तं जितेन्द्रियः, सत्यवादी चासौ दृढव्रतः अभ्युपगतनिर्वाहकः, सत्त्ववान् निष्कम्पश्च असौ वीर्येण परमुद्रापरमार्थेन सम्पन्नः पूर्णः, दया संसारिणः प्रति अनुजिघृक्षा, दाक्षिण्यम् अमात्सर्यमानुकूल्यम्, त्यागिनं तृणवद्वित्तं मन्यमानम्, दम्भनिर्मुक्तम् अवक्रव्यवहारम्, शिवशास्त्रेषु भावितम् अशेषविद्याभिज्ञत्वेऽपि शिवशास्त्रेष्वेव विश्रान्ताश्वासम्, ईदृशमिति समनन्तरोक्तशिवाभिन्नस्वप्रतीतिसारम्, गुरुम् उपदेष्टारम्, प्राप्य कारणभूतमासाद्य, सिद्धिमुक्ती कर्त्र्यौ न दूरतः झटित्येव भवत इत्यर्थः | व्याख्यातरूपं शुभलक्षणत्वं मुक्तेरार्यदेशोद्भूतत्वादि च सिद्धिहेतुः शिष्यस्य, इत्युक्तप्रायम् || १५ || एवमभयप्रदं गुरुसतत्त्वमुक्तवा विपर्ययमाह ---- क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवजीतः | केकरो दन्तुरः काणः पापिष्ठः शास्त्रवजीतः || १-१६ || अतिदीर्घस्तथा ह्रस्वः कृशः स्थूल क्षयान्वितः | ताकीको दम्भसंयुक्तः सत्यशौचविवजीतः || १-१७ || अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः | क्रोधनः क्रोधमयः, चपलो दुशीलः कार्येष्वरुढश्च, क्षुद्रः क्षुद्रसिद्धिसाधनपरः, केकरो लोलतारकदृष्टिः, क्षयान्वितो यक्ष्माक्रान्तः, ताकीकः कुतर्कशास्त्रैकनिष्ठः, ऊहात्मकस्तु तर्कः श्रीपूर्वशास्त्रे शस्त एव, यथोक्तम् ---- ऽऽतर्को योगाङ्गमुत्तमम् | ऽऽ (१७-१८) इति, शौचवजीतः, अर्थशुद्ध्यादिशून्यः, स्पष्टमन्यत् | एवमीदृशो गुरुः साधकाय फलं सिद्धिलक्षणं न ददाति प्रत्युत वक्ष्यमाणदिशा भयमेव वितरति | यस्तु अन्यत्र वैष्णवादौ शास्त्रे रतः, अथ च चुम्बकादिवृत्त्य शिक्षितपारमेश्वरशास्त्रः, तत्र असमाश्वस्तः तदुक्तम् ---- ऽऽदीक्षादि कुर्वन्नपि पापिष्ठो न मुक्तिप्रदः, शिवशास्त्ररतस्तु तत्तदंशकनिष्ठेभ्यः सर्वेभ्यो मुक्तिफलप्रद एव तस्य सर्वोर्ध्ववतीत्वात्ऽऽ | यद्वैष्यति ---- शर्वाध्वनो विनिष्क्रान्तं शैवानां परमं पदम्ऽऽ (१०-७४) इति, मुक्तिं फलं च सिद्धिरूपं प्रददाति, इत्येवं योजयित्वा यथोक्तं व्याकर्तव्यम्, एवं हि ---- शन्तापं क्रोधने विन्द्यात्ऽऽ (१-२२) इत्यादि, ऽऽमन्त्रास्तस्य न सिद्ध्यन्ति यः सत्यादिविवजीतःऽऽ (१-२७) इत्यन्तं वक्ष्यमाणविरुद्धफलप्रदत्वं क्रोधनादेः सङ्गच्छते | अत एव अन्यशास्त्ररतस्य यद्विपरीतफलप्रदत्वम् उत्तरत्र नोक्तम्, तदपि युक्तमेव | शंतापं क्रोधने विन्द्यात्ऽऽ (१-२२) इत्यादि इह क्रमप्राप्तमपि अपठित्वा शिष्यनिर्णयादनन्तरं पठन् शिष्यस्यैव भूयसा ईदृशो गुरुर्भयद इति ध्वनयति || १७ || अथात्मनि अभयप्रदस्य शिष्यस्य स्वरूपं निदीशति ---- शिष्यो दयान्वितो धीरो दम्भमायाविवजीतः || १-१८ || देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः | गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः || १-१९ || ईदृशो वै भवेच्छिष्यः सोऽत्रानुग्रहभाजनम् | दया दीनादिविषयानुकम्पा, धैर्यं सर्वत्रोत्साहः, दम्भः अस्पष्टहृदयता, माया वञ्चकत्वम्, दृढव्रतो निश्चितमतिः, एतत्साधकविषयं तस्यैव क्रोधनादिवजीताचार्यशिष्यस्य निश्चितधीत्वेनैव साधनाधिकारिणः शिवधमीलोकधमीभिदा स्वावसरे निर्णेष्यमाणत्वात् देवादिचतुष्टयभक्तिः शिष्यस्य मुख्यं रूपम् | भक्तिः दूरस्थे गुरौ भवति शुश्रूषा तु सततं तदनुचरत्वम् | सोऽत्रानुग्रहभाजनम्ऽऽ इत्यनेन अस्य स्वात्मन्येव अभयप्रदत्वमुक्तम् | द्वितीयः शिष्यशब्दोऽर्हप्रत्ययान्तः | स्पष्टमन्यत् || १९ || एतद्विपरीतमाह ---- मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः || १-२० || कामी च लोभसम्पन्नः शिवभक्तिविवजीतः | दूषको गुरुशास्त्राणां दीक्षितोऽपि न मुक्तिभाक् || १-२१ || शठः अस्वच्छहृदयः, क्रूरो रौद्रप्रकृतिः, कलहप्रियो वितण्डावान्, लोभसम्पन्नः सम्भवसत्तायामपि पूजादिषु वित्तशाठ्यवान् | शिवभक्तीत्यादिना विलयशक्त्याघ्रातत्वमस्योक्तम् | न मुक्तिभागित्यनेन स्वात्मन्येव अस्य भयप्रदत्वमुक्तम् सर्वेषां शिष्यत्वात् || २१ || अथ शिष्याणां यथा भयप्रदो गुरुस्तथा निरूपयति ---- सन्तापं क्रोधने विन्द्याच्चपले चपलाः श्रियः | मन्त्रसिद्धिं हरेत् क्षुद्र आचार्यस्तु वरानने || १-२२ || दयाहीनेन दौर्भाग्यमदक्षे दस्युपीडनम् | केकरेण भवेद्व्याधिर्दन्तुरः कलिकारकः || १-२३ || काणो विद्वेषजननः खल्वाटश्चार्थनाशनः | शास्त्रहीने न सिद्धिः स्याद् दीक्षादौ वीरवन्दिते || १-२४ || दीर्घे राजभर्यं ज्ञेयं ह्रस्वः पुत्रविनाशनः | कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः || १-२५ || क्षयान्वितेन मृत्युः स्यात् ताकीके वधबन्धनम् | दाम्भिकः पापजनको वेदितव्यो वरानने || १-२६ || मन्त्रास्तस्य न सिद्ध्यन्ति यः सत्यादिवजीतः | सर्वे ते न शुभा देवि इह लोके परत्र च || १-२७ || विन्द्यात् लभते, न सिद्ध्यन्ति नानुग्रहादिकार्यं कुर्वन्ति, एतच्च कर्मप्रधानाचार्याशयेन उच्यते, ज्ञानयोगनिष्ठस्तु आचार्यः काणत्वादियोगेऽपि न दोषकृत् यथोक्तम् ---- शर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरुत्तमः | ऽऽ इति स्पष्टमन्यत् | अत्र च ईश्वरोक्त्येकप्रमाणके उपपत्तय आलजालप्राया लिखिताः, ता उपहास्या एव || २७ || अथ संप्रति मातृकाप्रस्तारे उत्तरत्र च यागादावुचितां भूमिं निदीशति ---- सितरक्तपीतकृष्णां भूमिं प्लवविशोधिताम् | विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकाम् || १-२८ || श्रित्वेति शेषः, दीक्षायां जात्युद्धारस्य भैरवीयजात्यापादनस्य च वक्ष्यमाणत्वात् | ऽऽवर्णानां ब्राह्मणादीनां श्वेता मृत् काञ्चना सिता | ऽऽ इति भेददर्शनवन्नात्र विभाग उक्तः, संकीर्णवर्णा तु भूर्व्यवच्छिन्ना, प्लवेन उपरिजलप्रक्षेपेण शोधितां परीक्षितेशानपूर्वोत्तरदिङ्नतिं समनिम्नां वा, यथोक्तम् ---- ऽऽउदगादिप्लवा श्रेष्ठा........................ | ऽऽ इति विशल्याम् अस्थ्यङ्गारादिशून्याम्, लक्षणैः स्निग्धत्वमनोहरत्वादिभिर्युक्ताम्, अनुवादपरमपि एतदेव वाक्यं विधायकम्, विधिवाक्यान्तरस्याभावात् || २८ || एवंविधां भूमिं श्रित्वा ---- सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालिताम् | सुधूपामोदबहलां वितानोपरिशोभिताम् || १-२९ || कृत्वेति शेषः, भुवं पारमेश्वरीं धर्तृशक्तिमादौ पूजयेदित्यर्थः || २९ || अथ समुचिताचार्यप्रदर्शनपूर्वं मन्त्रोद्धारे इतिकर्तव्यतामाह ---- आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचचीतः | सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः || १-३० || प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः | मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमात् || १-३१ || शुचिः कृतयथेष्टस्नानः, चन्दनेत्यादिना विहितनित्यानुष्ठानः, अत एव प्रसन्नः, देहादिनिमज्जनादुन्मग्नशिवभाव आत्मा यस्य, तत्पुरुषसद्योजातवक्त्रयोः सिद्धिमुक्तिहेतुत्वात् आचार्यो यथाभिप्रायं ऽऽप्राङ्मुख उदङ्मुखो वाऽऽ इत्युक्तम् | एकचित्तो मन्त्रोदयनिभालनप्रवणः अत एव समाहितो लब्धमन्त्रवीर्यः, मातृकां पशूनामज्ञानां विश्वमातरं सर्वमन्त्रतन्त्रजननीम्, आदिक्षान्तामिति अनुत्तराकुलव्याप्तिसारकलाप्रमुखानन्देच्छादिशक्तिक्रमेण प्रसृत्य कादिसान्तप्रत्याहारस्वीकृताशेषविश्वक्षकारात्मकपिण्डमन्त्र- प्रदशीतपर्यन्तव्याप्तिसाराम्, प्रस्तरेदिति स्वप्रमाणशक्तावस्थितस्वाभाविकपञ्चाशद्रुद्रतच्छमर्श- प्रसरसंचेतक्त्यानानुस्वारश्रीसर्ववीरभर्गशिखोक्तशक्तिचतुष्टयात् मक-लिपिव्याप्त्यनुसंधिपूर्वं च प्रस्तृणीयात् | ऽऽप्रस्तरेदितिऽऽ आर्षः पाठः | एवमन्यदपि परमेश्वरवचः साध्वेव, भगवदुक्तीनां मितदृष्टिभिरविकल्प्यत्वात् || ३१ || एवमस्य शास्त्रस्योद्दिष्टविद्यापीठत्वचिकीर्षया पूर्वभित्तिभूतां मातृकां प्रदर्श्य, अस्याः शिवशक्तिरूपतां निरूपयति ---- आदिः षोडशभेंदेन साक्षाद्वै भैरवः स्मृतः | कवर्गश्चटवर्गौ च तपयाः शस्तथैव च || १-३२ || संहारेण समोपेतौ योनिर्वै भैरवी स्मृता | आदिः प्रथमो वर्गः, अनुत्तरादेवीसर्गान्तस्य विश्वाप्यायिनः षोडशकस्य स्वयं राजमानतया शब्दनस्वाभाव्येन भेदोपतापकारितया विश्वाक्षेपेण च स्वरशब्दवाच्यस्य गर्भीकृताशेषवाच्यवाचकादियोनिवर्णतत्त्वप्रसरसमाश्रयत्वात् तदुल्लासकत्वाच्च बीजव्यपदेशस्य परसंवित्स्फारसतत्त्वस्य भेदेन वैचित्र्येण साक्षाद्भैरवः अशेषविश्वमयत्वात् वाच्यवाचकयोरभेदाच्च | कादीनां तु बीजश्यानीभावरूपत्वेन घनत्वात् बीजव्यङ्ग्यत्वेन व्यञ्जनशब्दव्यपदेश्यानामुक्तबीजसंसर्गेंण जगत्कारणत्वात् योनिता | तथैव चेति वर्गरूपतया संहारेण क्षकारेण, भैरवी || ३२ || प्रोक्तभैरवशक्तिरूपमातृकायाः प्रस्तारं प्रदर्श्य, सर्वमन्त्रदेवतास्फारसाराया अस्या मन्त्रोद्धाराङ्गत्वेन पूजां दर्शयन्, अनुष्ठानविशेषतामपि सूचयति ---- मातृकाभैरवं देवमवर्गेण प्रपूजयेत् || ३३ || भैरवी कादिना पूज्या.......... मातृकाधिष्ठातारं भैरवं तत्स्फाररूपतयैव भरणवणावमनपरमार्थं निष्कलभट्टारकस्वरूपम्, अवर्गेण व्यावणीतस्वरूपेण षोडशकेन प्रपूजयेत् | भैरव्यपि निष्कलभट्टारकाभिन्नस्वरूपैव कादिना क्षान्तेन योनिवर्गग्रामेणाविभक्तेन तदधिष्ठात्री उमा योगीश्वरीरूपा पूज्या || ३३ || ..............ंआतॄर्वर्गैः प्रपूजयेत् | अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा || १-३४ || चवर्गे तु महेशानी टवर्गे तु कुमारिका | नारायणी तवर्गे तु वाराही तु पवगीका || १-३५ || एन्द्री चैव यवर्गस्था चामुण्डा तु शवगीका | एताः सप्त महामातॄः सप्तलोकव्यवस्थिताः || १-३६ || मातृः ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही एन्द्री चामुण्डा इति सप्त भैरव्यो मरीचिरूपाः, अग्नीशानसोमयमवरुणेन्द्रनिरृतिदिक्षु ऽऽअष्टवर्गविभिन्ना तु विद्या मातृका तु वै | ऽऽ (१०-११४४) इति वक्ष्यमाणत्वादवर्गस्य चोपयुक्तत्वात् सप्तभिरेव कादिवर्गैः प्रविभज्य पूजयेत्, एवं चेदमनुष्ठानान्तरमपि युक्तमेव, तथा च भुवनाध्वनि बुद्धिभुवनेषु मध्ये योगाष्टकादनन्तरम् औमं भुवनं प्रतिपाद्यम् | स्वचारुनामनि भुवने परभैरवप्रपञ्चव्याप्तिरूपस्य उमापतेः मातृसप्तकपरिवारस्य ध्यानादिस्वरूपमस्त्येव | तद्यथा ---- ऽऽउमापतिर्जगन्नाथः सर्वानुग्रहकृत्परः | ऽऽ (१०-१००८) इत्युपक्रम्य तद्ध्यानमुक्त्वा ऽऽमातरः सप्तरूपिण्यःऽऽ (१०-१०१७) इत्यादिना ब्राह्म्यादिमातॄणां ध्यानसंनिवेशादि प्रतिपाद्य श्वच्छन्दं पर्युपासीनाः परापरविभागशः | ऽऽ (१०-१०२९) इत्युक्त्वा ऽऽउमा वै सप्तधा भूत्वा नानारूपविपर्ययैः | ऽऽ (१०-१०२९) इत्यादिना अनुष्ठानभेदतैव निर्वाहिता, तत्र तु भगवतोऽपरं रूपमुक्तम्, इह तु परं रूपमिति विशेषः, यद्वक्ष्यति ---- श्वच्छन्दास्तु पराश्चान्याः परे व्योम्नि व्यवस्थिताः | स्वच्छन्दं पर्युपासीनाः परापरविभागशः ||ऽऽ (१०-१०२८) इति | तस्मात्मन्त्रोद्धारादङ्गभूतमातृकाभैरवपूजनस्यानुष्ठानान्तर- रूपत्वेऽपि न काचिदनुपपत्तिः || ३६ || युक्तं चैतत्, यदाह ---- सर्वा कामानवाप्नोति देव्येवं भैरवोऽब्रवीत् | मन्त्रोद्धाराङ्गत्वे तु ऽऽफलवत्सन्निधावफलमङ्गम्ऽऽ इति नीत्या मातृकाभैरवपूजनस्येयमुक्तिरतथ्या स्यात्, कर्मणोऽपरिसमाप्तस्य फलनिर्देशायोगात् || एवं च कृत्वा ---- अन्तेऽस्या उद्धरेन्मन्त्रान् यथाक्रमनियोगतः || १-३७ || अस्या मातृकापूजायाः, यथाक्रमम् आसनमन्त्रमूतीमन्त्रादिक्रमेण यो नियोगः तत्तन्मन्त्रवाच्यदेवतानुसन्धानपरत्वं तेन, स च क्रमयोगो द्वितीयादिपटलभाविन्यासावसरोपयोगि, इति || ३७ || इह मन्त्रोद्धारोऽपि भाविन्यासक्रमानुसारमुच्यते, तत्र ---- त्रयोदशं बिन्दुयुतमनन्तासनमुत्तमम् | अनेन योजयेत् सर्वं सोमसूर्याग्निमध्यगम् || १-३८ || ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेत् | त्रयोदशम् ओकारं, बिन्दुना युतं प्रणवाकारम्, अनन्तासनमिति परतत्त्ववाचकमपि, एतत् संप्रतीश्वरेणासनवाचित्वेन नियुक्तात् अधःस्थानन्तमूलविद्येशान्तमध्यव्यापिनीपदस्थानन्तपर्यन्तासनमनुर् ऊपमित्यर्थः | सर्वाध्वोर्ध्ववतीनोऽनन्तभट्टारकस्यैव धराधरानन्तरूपा प्रपञ्चव्याप्तिः, इति भविष्यति, तत् व्यापिनीपदस्थानन्तपर्यन्ता इहैवासनव्याप्तिः, अत आह ---- उत्तममितिश अति-येनोद्गतं सर्वाध्वमूर्धस्थमित्यर्थः | एतदेव व्यनक्ति ---- अनेन आसनमन्त्रेण, सर्वमधरवती योजयेत् एकाधारशक्तितया अनुसन्दध्यात्, एवं सोमसूर्याग्निमध्यगं ब्रह्मविष्णुमहेशानं कृत्वा | अयमर्थः - --- शाक्तपद्मव्याप्तिसतत्त्वे विद्यापद्मे दलकेसरकणीकाभागेषु सोमसूर्यवह्निमण्डलानां सर्वप्रमेयप्रमाणप्रमातृव्याप्तिसाराणां मध्यगतमन्तर्गतं ब्रह्मादिसमग्रकारणग्रामं कृत्वा भेदव्याप्त्यानुसंधाय, तदुपरिवर्त्यनाश्रितभट्टारको द्वितीयपटलप्रदर्शयिष्यमाणशवव्याप्तिकोऽन्ते यस्य तत् तादृगासनम्, प्रणवेन गुरुमुखप्रसिद्धविशेषणानुसन्धानव्याप्त्या व्याप्यमानं परामृशेत् || ३८ || एवमनेन न्यासेनैव भेदो विलायते | अणुत्वलयायाह ---- मूतीं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेत् || १-३९ || अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभाम् | ऽऽआत्मा वै हंस ......................... | ऽऽ इति वक्ष्यमाणात्मपरामशीना हंसपथसततसञ्चारिणा, अक्षरेण विचलद्रूपेण हकारेण, अशेषमन्त्रारणिरूपेणापि समस्तविद्याविभागवेदनात्मकबिन्दुयुक्तेन भेदितबिन्दुना अतश्च पञ्चप्रणवाधिकारनिरूपयिष्यमाणदिशा लब्धमन्त्रत्वात् उच्चार्येण, मूतीमिति मुण्डान्तभेदव्याप्तिमोहात् शुद्धात्मदशासमुच्छ्रयाच्च मूतीव्यपदेश्याम् आत्मस्थितिं कल्पयेत् विमृशेत् | कीदृशीम् ? अर्धचन्द्रे बिन्दुमूतीवतीनि कृत आटोपो यया ललाटग्रन्थिभेदाय आस्थितोत्साहामित्यर्थः | तद्भेदादेव ध्वनिमातृरूपतया स्वस्वनाम् अहंविमर्शरूपाम्, तथा तुहिनप्रभां कदम्बगोलकाकारचैतन्यप्रकाशरूपाम् | तदुक्तं श्रीत्रिकहृदये ---- ऽऽअनन्ते भैरवोच्छ्राये मूतीरेषा परापरा | यस्यास्तु न्यासमात्रेण अणुत्वं प्रविलीयते ||ऽऽ इति || ३९ || ततोऽपि ---- तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेत् || १-४० || तदिति चिन्मूर्तेरूर्ध्वे तत्सङ्कोचं निमज्ज्य, अशेषवाच्यवाचकशरीरं सकलं प्राग्व्याख्याततत्त्वम्, देवं स्वच्छन्दमिति अनुग्राह्यानुग्रहाय चिन्मूतीभित्तिं भित्त्वेव निर्यातम्, परिकल्पयेत् भावयेत् || ४० || परिकल्पनामात्रकृत एव मूतीभैरवनिष्कलानां भेदः, तमाह ---- ओंकारमुच्चरेत्पूर्वमघोरेभ्यो अनन्तरम् | अथ घोरेभ्यो समालिख्य ततोऽन्यत्तु समालिखेत् || १-४१ || घोरघोरतरेभ्यश्च सर्वतः शर्वं उच्चरेत् | सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च || १-४२ || रूपेभ्यश्च समालिख्य नमस्कारावसानकम् | मन्त्रराजः समाख्यातः अघोरः सुरपूजितः || १-४३ || अत्र मन्त्रपदानां स्वरूपरक्षार्थं संहिताकार्यं न दशीतम् | आद्यन्तस्थितप्रणवनमस्कारवर्जं द्वात्रिंशदक्षरोऽयं श्लोकनिदीष्टो महामन्त्रः | अस्यायं रहस्योऽर्थः ---- हे परमेश्वर रुद्र परचैतन्यस्फारानुप्रवेशान्मनो रोधनस्य अशेषपाशद्रावणस्य च हेतो ! घोर भेदाभेदात्मकसदाशिवेशादिपदोल्लासक ! शर्व भेदमयमायीयस्वरूपप्रकटनात् सृष्टिस्थितिप्रलयसंहारमात्रतापादनेन शरणवरणरूप ! इत्यामन्त्रणत्रयेण व्याख्यास्यमानरूपत्रयौचित्यप्रयुक्तेन सर्वदशाप्रदर्शनपरम् अशेषविग्रहं भगवन्तं परभैरवं संमुखीकृत्याह ---- ते तव, सम्बन्धिभ्यः रौद्रीज्येष्ठावामाख्यशक्तित्रयविभवरूपनानारुद्र तच्छक्तिचक्रात्मकेभ्यः संहितान्तरेऽपरापरापरापरानामनिरुक्तेभ्यो यथाक्रममविद्यमानं भेदमयं भेदाभेदमयं च पाशात्मकं घोरस्वरूपं येषां तेभ्यः परचैतन्यानन्दघनाद् वयमहाभैरवात्मकस्वस्वरूपप्रत्यभिज्ञापकेभ्यः अघोरेभ्यः, तथा अनाश्रितसदाशिवेश्वरादिरूपभेदात्मपदप्रदेभ्यः, अथेति उक्तरूपभित्तिप्रथमानत्वात् अनन्तरभाविभ्यः, अत एवाहन्ताच्छादितेदन्तोन्मज्जनेन आद्यरूपापेक्षया भीषणत्वात् ऽऽघोरेभ्यःऽऽ परचित्प्रथाभित्त्याभासिताहन्तेदन्ताभास- कात्मकस्वशक्तिदर्पणोट्टङ्कितमायादिक्षित्यन्तभेदप्रथाप्रदेभ्यः, अतिभीषणत्वात् घोरतरेभ्यश्च रूपेभ्यः स्वभावेभ्यः, एकैकस्य रूपस्य परभैरवरूपभित्तिमयत्वेन पूर्णत्वात्, सर्वतः सर्वेण रूपेण सर्वेभ्यः सर्वदा सर्वत्र सर्वसर्वात्मतया स्फुरद्भ्यः महामन्त्रवीर्यात्मकपूर्णाहन्तापरामर्शमयेभ्यो नमः आमन्त्रणपदपरामर्शाभिमुखीभूतम् अहारुद्रशक्तित्रयस्फारविवशीभवत्पाशराशिशरीरादिकल्पितप्रमातृ पदप्रह्वीभावेन समाविशामीत्यर्थः | उक्तं च श्रीमालिनीविजये ---- ऽऽविषयेष्वेव संलीनानधोधः पातयन्त्यणून् | रुद्राणून् याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः || मिश्रकर्मफलासक्तिं पूर्ववज्जनयन्ति याः | मुक्तिमार्गनिरोधिन्यस्ताः स्युः घोराः परापराः || पूर्ववज्जन्तुजातस्य शिवधामफलप्रदाः | पराः प्रकाशितास्तज्ज्ञैरघोराः शिवशक्तयः ||ऽऽ (३-३१-३३) इति | श्रीपञ्चार्थप्रमाणे तु ---- ऽऽघोरेति पाशजालाख्यं पापयुक्तं भयानकम् | तद्येषां तु न विद्येत ह्यघोराः परिकीतीताः || वामेश्वरादयो रुद्रा जालमूलोपरिस्थिताः | ते ह्यघोराः समाख्याताः शृणु घोरान् समासतः || प्रोक्ता गोपतिपूर्वा ये रुद्रास्तु गहनान्तगाः | ते तु घोराः समाख्याता नानाभुवनवासिनः || विद्येश्वराद्यनन्तान्ता महामाहेश्वराश्च ये | घोरघोरतरास्त्वन्ये विज्ञेयास्त्वध आश्रिताः || एते अघोरा घोराश्च घोरघोरतरास्तथा | एतेष्ववस्थिता नित्यं शक्तयः पारमेश्वराः || स्थितिप्रलयसर्गेषु बन्धमोक्षक्रियासु च | सर्वार्थप्रेरकत्वेन रूपेष्वेतेषु शक्तयः || रूपेभ्य एभ्यः सर्वेभ्यो नमस्कारं करोत्यणुः | नमस्कारः परित्यागः कार्यकारणलक्षणः ||ऽऽ इति || ४३ || एवमस्य सर्वसर्वात्मकपारमेश्वरसतत्त्वमयस्य दुर्लभस्यापि भक्तिशालिभिः सततलब्धस्य महामन्त्रस्य स्वरूपमभिधाय माहात्म्यं प्रकटयति ---- सकृदुच्चारितो देवि नाशयेत् सर्वकिल्विषम् | जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपाजीतम् || १-४४ || शिष्याणां दीक्षासमये गुरुणा प्रयुज्यमान इति शेषः || ४४ || तथा ---- स्मरणान्नाशयेद् देवि तमः सूर्योदये यथा | तम इति आणवं मायीयं च मलम्, तमः अन्धकारमिव सूर्योदयो नाशयति, एवं दीक्षया तमश्च देहाद्यभिमानरूपमज्ञानम्, स्मरणान्नाशयत्येव स्ववाच्यभैरवदेवतासमावेशनेन शिष्याणामेव च प्रामादिकसमयाननुष्ठानकिल्विषरूपम्, साधकानां च विघ्नरूपं तमोऽपि व्याख्यातपरमार्थवीर्यानुसन्धानात्मकस्मरणमात्रादेव नाशयत्येवेत्यस्मिन् सकलभोगापवर्गप्रदे महामन्त्रे नार्थवादा१शङ्कया भ्रमितव्यम् | तथा च श्रीमतङ्गशास्त्रे ---- ऽऽप्रमाणमेकं तद्वाक्यं तथ्यमीश्वरभाषितम्ऽऽ (१-३-१८) इत्युक्तम् | परभैरवस्फारमयैरस्मद्गुरुभिरपि तन्त्रालोकेऽभिहितम् ---- ऽऽविधिवाक्यमिदं चैव नार्थवादः कदाचन | नार्थवादाभिरूपत्वं वाक्ये माहेश्वरे भवेत् ||ऽऽ (४-२३२) इति || ४४ || अस्य परमेश्वरस्यानुग्रहार्थं भक्तिभाजां चिन्मूर्तावेव प्रदर्शयिष्यमाणव्याप्तिकमाकारमुट्टङ्कयितुं वक्त्रमन्त्रानाह ---- यकारादिवकारान्ताः संहारेण समायुताः || १-४५ || बिन्दुमस्तकसंभिन्ना भैरवस्य मुखानि च | मातृकापर्यन्तवतीत्वात् संहारेण क्षकारेण, सम्यगिति आदौ, आयुताः सम्बद्धाः, वेदनात्मकबिन्दुव्याप्तिसारा ऊर्ध्वपूर्वदक्षिणपश्चिमवाममुखानां परमव्योमवायुतेजोवारिधराशक्तिसाराणां वाचकत्वाद् भैरवीयस्वरूपप्रवेशोपायत्वाच्च भैरवस्य मुखादि एते मन्त्राः | एतानि च ---- ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि || ४६ || ब्रह्मणो बृहत्त्वात् बृंहकत्वात् विश्वात्मनः शक्तिमूर्तेः, भङ्ग्या दण्डाकारतया, ब्रह्मणां च ईशानादीनां पञ्चानां, भङ्ग्या विभागेन, तेन प्रणवपूर्णं ऽऽक्षंऽऽ ईशानमूर्ध्नेऽऽ ऽऽयंऽऽ तत्पुरुषवक्राय, ऽऽरंऽऽ अघोरहृदयाय, ऽऽवंऽऽ वामदेवगुह्याय ऽऽलंऽऽ सद्योजातमूर्तये, इति मूतीरेकत्वादेकेन मन्त्रेण दण्डाकारा अनुद्भिन्नावयवा भगवन्मूतीः कल्प्या || ४६ || अस्या विभागदर्शनार्थं वक्त्रक्षेत्रे भाविस्फुटवक्त्रविभागभित्तिभूतां कवाटभङ्गिं दर्शयति ---- पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरम् | अपरं.......... मुखानीति पदविभक्तिविपरिणामात् तृतीयाबहुवचनान्तमिह योज्यम्, तेन मुखैः ऽऽक्षं यं रं वं लंऽऽ इत्येतैः मुखमन्त्रैः, पुनरिति ब्रह्मभङ्ग्या न्यासोपरि, मुखमिति मुखावकाशदानार्थम्, ऊर्ध्वंप्रागादिकवाटे न्यसेदित्यर्थः | अत्र च ऽऽओंक्षं ईशानवक्त्राय नमःऽऽ इति पृथक् पृथङ् न्यासः कार्यः, वक्त्राणां भिन्नत्वात् || किं च ---- ........कल्पयित्वा तु कलाभेदेन विन्यसेत् || १-४७ || पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा | ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् || १-४८ || इह ---- ऽऽशिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् | सा शक्तिभीद्यते भूयोभेदै........................ ||ऽऽ (११-२७१) इति वक्ष्यमाणनीत्या भगवतः स्वातन्त्र्यशक्तिसारस्य यथा मूतीग्रहणं तथा तदनुरूपं तत्तच्छक्तिस्फारमयत्वं न तु शान्तरूपत्वम्, इति दर्शनसतत्त्वमुन्मीलयितुं कवाटादिभङ्गिषु कलापर्यायाणां शक्तीनां न्यास उच्यते, तत्र ऽऽपाठक्रमादार्थः क्रमो बलीयान्ऽऽ इति स्थित्या ऊर्ध्वमूर्ध्वरूपं पूर्वं दक्षिणमुत्तरं पश्चिममिति क्रमेण संसारतारकत्वादन्वर्थनामा ---- ऽऽतारा सुतारा तरणी तारयन्ती सुतारिणी | ईशानस्य कलाः पञ्च ................. ||ऽऽ इति वक्ष्यमाणो यः कलाभेदः, तेन ऽऽक्षकारं मन्त्रमीशरूपिणम्ऽऽ ईशानभट्टारकाख्यवाच्यदेवतास्फारमयमूर्ध्वं पूर्वादिकं वक्त्रं विन्यसेत् | क्षकारश्च पूर्वमित्यादि सामानाधिकरण्येनोक्तं योज्यम्, कलाभेदश्च प्रातिलोम्येनानुसन्धेय इति गुरुक्रमः | एवं ऽऽक्षं सुतारिण्यै नमःऽऽ इत्यूर्ध्वकवाटे, ऽऽक्षं तारयन्त्यै नमःऽऽ इति पूर्वंस्मिन्, यावत् ऽऽक्षं तारायै नमःऽऽ इति पश्चिमकवाटे, ईशानव्याप्तिदर्शनाय कलान्यासः कार्य इति पिण्डार्थः || ४८ || अथ वक्त्राणि स्फुटयितुमाह ---- एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेत् | कलाभेदेनेत्यनुवर्तते | एवमिति च ईशानकलाभेदन्यायेनैव पूर्ववक्त्रमन्त्रं ऽऽयकारंऽऽ वक्त्रेषु चतुर्धा पूर्वादिवक्त्रनिमित्ततत्स्फुटीकरणाय चतुर्धैव कलाभेदेन योजयेत् | कलाश्चात्र ---- ङिवृत्तिश्च प्रतिष्ठा च विद्या शान्ता तथैव च | पुरुषस्य कला एताश्चतस्रः..................... ||ऽऽ (१-५५) इति वक्ष्यमाणाः | अत्रापि प्रातिलोम्येन सृष्टिक्रमेण न्यासः, तेन ऽऽयं शान्तायै तत्पुरुषवक्त्राय नमःऽऽ इत्यादि ऽऽयं निवृत्तये सद्योजातवक्त्राय नमःऽऽ इत्यनुसंधेयम्, वक्त्रचतुष्टयस्य च स्फुटता भावनीया || पुरुषादिकलानां स्फुटभेदोल्लासकत्वात्, ऊर्ध्ववक्त्रे तु अनुद्भिन्नाकारभेदेऽवधिमाह ---- पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निदीशेत् || १-४९ || परस्वरूपस्य व्यञ्जकत्वात् संसारत्राणाच्च वक्त्रम् | एवकारेण अत्र स्फुटाकारतानुसंधेया, इति ध्वनति || ४९ || एवमूर्ध्ववक्त्रक्षेत्रयोः कवाटकलावक्त्रभङ्गिन्यासमुक्त्वा हृत्क्षेत्रादावघोरकलान्यासमाह ---- हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा | पृष्ठे चोरसि विन्यस्येदघोरेण यथाक्रमम् || १-५० || ऽऽतमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा | अघोरस्य कला ह्येता अष्टौ वै वरवणीनि ||ऽऽ (१-५६) इति वक्ष्यमाणकलाभेदात्, अघोरेण अघोरवक्त्रमन्त्रेण, यथाक्रमं विन्यसेत् | तेन ऽऽओं रं तमायै हृदयाय नमःऽऽ इत्यादि, ऽऽओं रं जरायै नमः उदरेऽऽ, इत्यन्तो न्यासः कार्यः, अघोरभट्टारकस्य संहारप्रधानत्वात् | कलास्तथोचितनाम्न्यः || ५० || गुह्यादिक्षेत्रे श्रीवामदेवकलान्यासमाह ---- गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि | जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि || १-५१ || विन्यसेच्चैव वामेन शरीरे तु यथाक्रमम् | ऽऽरजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रियाः | ऋद्धिर्माया च रात्रिश्च भ्रामणी मोहनी तथा | मनोन्मनी कला ह्येता वामदेवे त्रयोदश ||ऽऽ(१-५७-५८) इति वक्ष्यमाणं सृष्टिप्रधानस्य श्रीवामदेवस्य कलाभेदं सृष्टिप्रधानोचिताभिधानं गुह्यादिस्थानत्रयोदशप्रकटनपरं यथाक्रमं वामेनेति श्रीवामदेववक्त्रेण न्यसेत्, तेन ऽऽवं रजायै नमःऽऽ गुह्ये इत्यनुसन्धेयम् || ५१ || भगवतः पादादिक्षेत्रस्थश्रीसद्योजातकलान्यासमाह ---- पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ || १-५२ || सद्येन कल्पयेद् देवि सर्वमेतद्यथाक्रमम् | सद्येन श्रीसद्योजातमन्त्रेण, पादादीन् यथाक्रमं कल्पयेत्, अर्थात् सद्योजातकलाभिरेव, ताश्च वक्ष्यन्ते ---- शिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः | सद्योजातकलास्त्वेवमष्टौ सम्परिकीतीताः ||ऽऽ (१-५८-५९) इति श्रीमत्सद्योजातस्य स्थितिपदाप्यायकत्वात् सिद्ध्यादयः कलाः, तेन ऽऽओं लं सिद्धये नमः दक्षिणपादेऽऽ इत्यनुसंधेयम् | यद्यपि पूर्ववक्त्रमन्त्रेण वक्त्राणामुन्मीलमनं कृतम्, तथापि शिरःक्षेत्रनासाक्षेत्रयोः कल्पना पुनरनेन विधिना कर्तव्या, प्रतिपदोक्तत्वात् | एवं पादस्थसद्योजातकलानामपि नासाशिरःक्षेत्रपर्यन्तां व्याप्तमभिदधत् शर्वत्र सर्वमस्तिऽऽ इति भङ्ग्या शिक्षयति हस्तौ कल्पयेदिति | ऽऽग्रहं संमाष्टीऽऽ इतिवत् प्रधानविधेरस्य संख्याया अविवक्षितत्वात् अष्टादशभुजत्वस्य च वक्ष्यमाणत्वात् ऽऽप्राजापात्या नव ग्रहा भवन्तिऽऽ इतिवत् अनागतावेक्षणरूपतन्त्रयुक्त्या दक्षवामपार्श्वगतभुजनवकद्वयकल्पनं द्युतिलक्ष्मीभ्याम्, इति मन्तव्यम् || ५२ || कला निर्देष्टुमाह ---- तासां नामानि वक्ष्यामि यथावदनुपूर्वशः || १-५३ || तारा सुतारा तरणी तारयन्ती सुतारणी | ईशानस्य कला पञ्च निरञ्जनपदानुगा || १-५४ || निवृत्तश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | पुरुषस्य कला ह्येताश्चतस्रः परीकितीताः || १-५५ || तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा | अघोरस्य कला ह्येता अष्टौ वै वरवणीनी || १-५६ || रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया | ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा || १-५७ || मनोन्मनी कला ह्येता वामदेवे त्रयोदश | सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः || १-५८ || सद्योजातकलास्त्वेवमष्टौ सम्परिकीतीताः | यथावदिति यथाव्याप्त्यनुसारम् | अनुपूर्वश इति ऊर्ध्वपूर्वदक्षवामपश्चिमवक्त्रक्रमेण | अत्र च ---- अपरा सा तनुः स्थूला षट्त्रिंशत्तत्त्वकल्पिता (४-४०७) इति वक्ष्यमाणनीत्या षट्त्रिंशत्तमस्य तत्त्वस्य ऽऽशुद्धात्मा उन्मना परम्ऽऽ इति त्रिभेदत्वात् तत्त्वव्याप्त्यैव भैरवदेहन्यासः कार्यः | षोडशद्वादशदश संख्यसोमसूर्याग्निकलाव्याप्त्या त्रिधाममयत्वापत्त्यर्थमित्यन्ये || ५८ || अथात्र षट्त्रिंशत्तत्त्वमये देहे सूक्ष्मव्यात्या परव्याप्त्या च मूतीन्यासं दर्शयति ---- पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमम् || १-५९ || नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेत् | पुनरिति कलारूपपूर्णदेहन्यासानन्तरं यथाविभागमुक्तेषु सर्वाङ्गेषु ---- प्रकृतिः पुरुषश्चैव नियतिः काल एव च | माया विद्या तथेशश्च सदाशिवशिवौ तथा || (५-११) इति वक्ष्यमाणं नवतत्त्वं वामादिशक्तिव्याप्त्या कपालेशादिस्वच्छन्दान्तभैरवव्याप्त्या च, आत्मविद्याशिवाख्यं त्रितत्त्वं शुद्धात्मोन्मनापरतत्त्वव्याप्त्या | ध्रुवेणेति सर्वमन्त्रेषु अविचलद्व्याप्तिकेन प्रणवेन ऽऽओं शिवादिप्रकृत्यन्तनवतत्त्वात्मने नमःऽऽ इति प्रयोगेण | र्मूध्नि वक्त्रे च कण्ठे च हृदये (२-५१) इति वक्ष्यमाणस्थानानुसन्धानेन कल्पयेत् ऽऽओं शिवतत्त्वाय नमःऽऽ इत्यादि क्रमेण, शिखान्तभ्रूमध्यहृदयेषु सृष्टिक्रमेण कल्पयेत् || एवमियदन्तेन न्यासेन भगवतो भैरवभट्टारकस्य स्फुटीभावे जाते ---- विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान् शृणु प्रिये || १-६० || परिपूर्णवेदनात्मतया विद्यारूपस्य भगवतो बहुरूपस्याङ्गानि || ६० || तन्मन्त्रानाह ---- अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकम् | घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेत् || १-६१ || सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेत् | नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः || १-६२ || ओंकारमुच्चरेत् पूर्वं जुं सश्च तदनन्तरम् | नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि || १-६३ || विद्याङ्गानि विजानीयात्............... द्वात्रिंशदक्षरविद्यादेहस्य भगवतोऽवयवरूपाः हृत् शिरः शिखा कवचम् अस्त्रं च, इति पञ्चानां पञ्च मन्त्राः, त्र्यक्षरस्तु ऊर्ध्वदक्षिणवामनेत्रत्रयस्य | अत्र च पदानां प्राग्वत् संहिताकार्यं न कृतम् || अथैषाम् ---- ............णामानि च निबोध मे | सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा || १-६४ || दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च | अत्र अनागतावेक्षणतन्त्रयुक्त्या अन्ते नमः स्वाहादिजातिर्देया, तेन ऽऽअघोरेभ्यो सर्वात्मने हृदयाय नमःऽऽ इत्यादिप्रयोगः कार्यः | ऽऽदुर्भेद्यं पाशुपत्यम्ऽऽ इति पदद्वयमस्त्रे योज्यम्, अत्र च शर्वज्ञता, तृप्तिः, अनादिबोधः, स्वतन्त्रता, अविलुप्तशक्तिः, अनन्तशक्तिःऽऽ इति भगवद्गुणा एते हृदादिनेत्राङ्गतया प्रसृता इत्याम्नायः | कवचन्यासादनन्तरं नेत्रन्यासः, ततोऽस्त्रन्यासः कार्यः, अस्त्रस्य बहिरङ्गत्वात् नेत्रमन्त्रस्य तु विद्यादेहावयवत्वाभावात् पश्चात्तदुद्देशः कृतः | वक्त्रएवमासनचिन्मूतीब्रह्मकवाटवक्त्रभङ्गीन्यासानन्तरं पञ्चादिकलात्मकषट्ंत्रशत्तत्त्वव्याप्त्या पञ्चभिः प्रघट्टकैरष्टात्रिंशत्कलान्यासमुक्त्वा भैरवनवकव्याप्त्या नवतत्त्वन्यासं शुद्धात्मोन्मनापरतत्त्वव्याप्त्या च त्रितत्त्वन्यासमभिधाय सर्वज्ञतादिधर्मव्याप्त्याङ्गन्यास उक्तः | एवमधिष्ठात्र धिष्ठेयाशेषविश्वशरीरत्व भगवती बहुरूपत्वं दशीतम् | एवं चैतत्सर्वं त्रितयविश्रान्तमपि शक्तित्रयस्फारमयमेवेति दर्शयितुमेतदुपरि शक्तिमन्त्रान्यासार्थमाह ---- क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे || १-६५ || विश्वप्रसरस्य शक्तिषूपसंहारेणैव विश्रान्तिरिति क्रिया ज्ञानं चेच्छा चेति प्रक्रमः || ६५ || आसां क्रमेण मन्त्रमाह ---- चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितम् | क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका || १-६६ || चतुर्थस्वर ईकारः, हान्तं क्षवर्णम् || ६६ || शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकम् | ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा || १-६७ || शकारस्य तृतीयं सकारम्, षष्ठेन ऊकारेण संयुक्तम् || ६७ || क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूच्छीतम् | इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका || १-६८ || क्षकारस्य आदिवर्णं ऽऽहऽऽ, द्विस्वरः ऽऽआकारःऽऽ, त्रिपञ्चः पञ्चदशः स्वरः ऽऽअङ्कारःऽऽ || ६८ || अथासामशेषविश्वाकारिणीनां शक्तीनां यत्र विश्रान्तिः, तस्य भगवतः सर्वात्मतायामपि निष्प्रपञ्चस्य स्वच्छन्दभट्टारकस्य प्रोक्ताशेषमन्त्रोपरि न्यासाय मन्त्रमाह ---- हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः | बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः || १-६९ || हंसाख्य इति सर्वसृष्टिसंहारकारित्वेन हानसमादानधर्मा ऽऽप्रकृतिवीकृतिश्चैव उभे षष्ठेन संयुतः | ऽऽ (६-२०) इति वक्ष्यमाणस्थित्या आदिक्षान्तस्य विश्वस्य प्रकृतिभूतः ङादाख्यं यत्परं बीजम् | ऽऽ (कालो० १-५) इत्यादिना, परं शास्त्रेषु अभिहितानाहतध्वनिरूपः, ङास्योच्चारयिता कश्चित् प्रतिहन्ता न विद्यते | स्वयमुच्चरते देवः .................. ||ऽऽऽऽ (७-५९) इति वक्ष्यमाणस्फारः सततोदितानस्तमितस्फुरतैकसारोऽनच्कहकारः | षष्ठस्वरेण ऊकारेणोन्मेषात्मकज्ञानशक्तिप्रसरात्मरूपेण अन्तवीश्वमूर्ध्वाधोरूपतया बिभ्रता संवित्स्फारस्य किञ्चिदूनताभासनेन क्रियाशक्त्यासूत्रणात्मना लिपिक्रमेणापि ऊर्ध्वाधःप्रसृतशक्तिद्वयकोटिप्रकटनोट्टङ्कितशुद्धाशुद्धाशेष -विश्वसर्गसंहारात्मसततप्रसरेण | ऽऽषष्ठं च पञ्चमं चैव तस्य देवि गुणाः स्मृताःऽऽ (६-१७) इति वक्ष्यमाणनीत्या नादभट्टारकशक्तिरूपतया गुणभूतेन ऊर्ध्वाधःसञ्चारितया च चरणरूपेण विभेदितः संंयोजितः | अथ च पराभेदभूमेः किञ्चिच्चलितोऽनुग्राह्यानुग्रहाय उच्चार्यमन्त्ररूपतापादनेन उन्मुखीभूतः, विन्दुना अशेषविश्वसामरस्यवेदनात्मना, सम्यगिति अभेदापत्त्या युक्तः, वक्ष्यमाणव्याप्तिसतत्त्वा बालेन्दुनादशक्तयो गर्भीकृतनिरोधिकानादनादान्तव्यापिनीसमनोन्मनाप्रमेयसतत्त्वस्फारा अन्ते विश्रान्तौ यस्य, स एव परमेश्वरः स्वच्छन्दो निष्कलः अनाहतध्वनिपरमार्थमहामन्त्रवीर्यरूपोऽपि शिरोरूपाकारकलया षष्ठेन सकारेण च घोरतरशक्तिचक्ररूपेण ब्रह्मविष्णुरुद्रान् ब्रह्मप्रकृतिमायाण्डानि जागरस्वप्नसुषुप्तानि प्रमेयप्रमाणप्रमातृंश्चेति सृष्टिस्थितिसंहारविलयमात्रं भेदमयं जगत् दर्शयति, व्याख्यास्यमानसतत्त्वतया बिन्द्वादिप्रमेयपरिपाट्या च घोररूपतया भेदाभेदमयेश्वरसदाशिवानाश्रितादीन् शक्त्यण्डवतीनः तुर्यपदावस्थितान् क्रमात्क्रमं सातिशयान् सर्गस्थितिसंहारशक्त्याक्रान्तानाभासयति, उन्मनाशक्त्या तु अघोररूपशक्तिचक्रपरमार्थतयाशेषतुर्यातीतपदारोहितया स्वात्ममयीकुर्वन् मोचयति, इति भगवतो बहुरूपस्य पदार्थद्वारेण यावान् स्फारो व्याख्यातः सोऽस्य भगवतः सर्व एव अभेदेनैवान्तः स्थितः, इत्ययं भगवान् सदा पञ्चविधकृत्यकारी अशेषशक्तिचक्रात्मकस्वातन्त्र्यशक्त्यवियुक्तः श्रीस्वच्छन्दो, निष्कलः इति निष्क्रान्ताः अशेषाः कलाः शक्तयो यस्मात् कलनारूपात् यश्च निष्क्रान्तोऽप्रमेय इत्यर्थः | अथ च अकारोकारमकारबिन्द्वादिकलायोगाच्चतुष्कलशब्दवाच्योऽपि वस्तुतो निष्कलानाहतध्वनिपरमार्थत्वात् निष्कलः | यद्वक्ष्यति ---- शगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवःऽऽ (६-१७) इत्यलं मन्त्ररहस्यप्रकटनेन | सम्प्रदायस्तु मा परिच्छेदीति किञ्चिदुन्मीलितम् | स्मृत इति भगवता श्रीकण्ठेनेश्वरेण सदाशिवेनापि पारम्पर्येण स्वस्वरूपः परमेश्वरानुग्रहादेव उपलब्धः प्रणवः चतुष्कलः श्वच्छन्दभैरवाय नमःऽऽ इति च प्रयोगः || ६९ || पूर्वपदस्य च माहात्म्यं प्रकटयति ---- अस्योच्चारणमात्रेण ये युक्ताः सर्वपातकैः | शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयम् || १-७० || एतत्पूर्वव्याख्यानेनैव गतार्थम् || ७० || अस्यानाहतात्मकस्वस्वरूपस्फाराणि सर्वज्ञतादिरूपाण्यङ्गान्याह --- - सान्तं दीर्घस्वरैः षड्भिभीन्नजातिविभेदितम् | हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेत् || १-७१ || सान्तं हवर्णम्, दीर्घस्वराः षट् आ ई ऊ ए औ अः | एते च विसर्गमृते बिन्दुयुक्ता इत्यर्थात्, जातयः ङमः स्वाहाऽऽ इत्यादिवक्ष्यमाणाः, षडेते क्रमेण हृदयादीनां मन्त्राः || ७१ || प्रयोगे इतिकर्तव्यतामाह ---- ओंकारो दीपनस्तेषामन्ते जातिं प्रकल्पयेत् | नमः स्वाहा तथा वौषट् हुं वषट् फट् क्रमेण तु || १-७२ || (अत्र-नमः स्वाहा वषट् चैव हुं वौषट् फट् क्रमेणतु इति पाठ साधीयान् मन्तव्यः) तेन ऽऽओं हा हृदयाय नमःऽऽ इत्यादिक्रमेणैषां प्रयोगः || ७२ || अस्य साङ्गस्य न्यासे फलमाह ---- एष भैरवराजस्तु सर्वकामार्थसाधकः | अशेषभोगमोक्षद इत्यर्थः | एवं चाभिदधत् श्रीसकलभट्टारकपरमीकरणरूपस्यापि अस्य भाजनं जनं प्रति पृथगनुष्ठानत्वमपि भवति ---- इति सूचयति | अतश्च त्रयोदशे पटले भविष्यति, अत्र च वक्त्रमन्त्राः पूर्वोक्ता एव इति तेषां सकलभट्टारकतदङ्गवत्पदवाच्यत्वाभावात् बीजाक्षररूपत्वमेवास्ति, इति निष्कलभट्टारकतदङ्गवत् न पुनर्वक्त्रमन्त्रान्तरैनीष्कलीकरणं कृतम् शाक्तस्फारत्वादस्य नयस्य || भगवत्या मन्त्रमाह ---- हरईम अकारश्च ङादिरोस्वरसंयुतः || १-७३ || यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः | लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुतः || १-७४ || षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः | अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी || १-७५ || हकाररेफावनच्कौ, अकारस्योच्चारणत्वात् तेन हश्च रश्च ईश्च मश्च तेन ऽऽहरईमोऽऽ मिलिताः एकं बीजम्, अकारः अ, ङादिः ङकारस्यादिः घः, ओस्वरेण युक्तः घो, यान्तः रेफः, एकारेण युक्तः रे, षादिः शकार, लान्तेन वकारेण विभेदितः मिश्रितः श्व, लस्यादिः रेफः, त्रिस्वरेण इकारेण मिश्रितः रि, हंस इत्यादिना चतुष्कलस्वरूपं योजयन् सकलनिष्कलैक्यस्फारसारैषा देवीति प्रथयति | हंसः हकार अनच्, बिन्दुसमायुतः षष्ठस्वरेण ऊकारेण समोपेतः हू, फट्कारेण अन्ते विशेषेण कल्पितः नित्यमेव क्रूरजातियुक्तः, अत एव अशेषभेददाहात्मानुग्रहैकप्रवणः, अत एव व्याख्यातस्वरूपाघोराख्यशक्तिचक्रस्वामिनी विशेषेण ख्याता qफुरत्तासारतया द्योतमाना, श्रीमतः स्वच्छन्दभैरवस्योत्सङ्गगामिनी नित्यावियुता उन्मनान्तकोर्ध्वसङ्गप्रसरसारा तत्प्रकाशप्रवणा च इत्यर्थः || ७५ || अथ च आकृतिमतो भगवतोऽङ्कगताया देव्या अङ्गवक्त्राणि योजयितुमाह ---- भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता | भैरवशब्देन समनन्तरप्रतिपादितो मुख्यो निष्कल एवात्र विवक्षितः, तेन निष्कलाङ्गान्येव तदविभेदसाराया देव्याः अङ्गानि | ऽऽवक्त्रपञ्चकसंयुताऽऽ इति सामान्योक्त्या सकलनिष्कलमन्त्रैकरूपायाः श्रीदेव्याः पूर्वोक्तबीजकल्प्यानि सकलनिष्कलभट्टारकवदविभक्तान्येव वक्त्राणि || अथ श्रीस्वच्छन्दभैरवरश्मिपुञ्जात्मनो भैरवाष्टकस्य मन्त्रानाह ---- हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः || १-७६ || बिन्दुनादसमायोगात् कपालेशः प्रकीतीतः | हस्यान्तः क्षकारः अनच् क्ष्, यस्यादिः म्, यकारस्यान्तः र्, रस्यादिः य, तेन ऽऽक्ष्म्र्यऽऽ इति क्रमेण मिश्रीकृत्य षष्ठकलया ऊकारेणान्वितः बिन्दुनादाभ्यामर्धचन्द्रादेरपि स्वीकारात् विन्द्वर्धचन्द्रादिपरिपाट्याः सम्यगिति वक्ष्यमाणव्याख्यानुसारम्, आ समन्तात् परतत्त्वैक्यापत्तिरूपात् योगात्, अयं कपालेश उक्तः, मन्त्राणां मन्त्रदेवतैकात्मत्वात्, एवमन्यत्र || सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीतीतः || १-७७ || शिखिवाहनसंज्ञस्तु ज्ञातव्योऽसौ वरानने | सान्तः ह्, तस्याधोऽग्निः र्, षष्ठः ऊकारः, बिन्दुनादाद्युपलक्षणपरः || ७७ || संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः || १-७८ || क्रोधराजः समाख्यातः............. संहारः क्ष्, षष्ठेन स्वरेण ऊकारेण संयुक्तः, तथा षण्णां वर्गाणां अकचटतपवर्गाणामन्तेन मकारेण अनुस्वारोच्चारणात्मना युक्तः, अर्थात् बिन्द्वादियुक्तोऽपि || .............टथान्यं कथयामि ते | ञादिः षष्ठस्वरोपेतस्त्रिपदेन समायुतः || १-७९ || बिन्दुमस्तकसम्भिन्नो विकरालो वरानने | ञादिः झ्, त्रिपदेन इच्छाज्ञानक्रियाव्याप्तिसारेण, अन्यत्र त्रिशूलशब्दाभिहितेन औकारेण समायुक्तः, षष्ठेन च उकारेणोपेतः, औकारानुसरणन्यायेनोच्चारतायुक्तः || ७९ || सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतोऽप्यधः || १-८० || चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः | मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः || १-८१ || येनेदन्तु जितं सर्वं जगत् स्थावरजङ्गमम् | सान्तः ह्, शकारस्य तालव्यस्य आद्यः व्, षष्ठः ऊ, चतुर्दशस्वरः औ, एतदक्षरसंघातात्मायं मन्त्रो विन्द्वादियुक्तः || ८१ || हररादिसमायुक्तः ऊकाराधः सबिन्दुकः || १-८२ || मेघनादेश्वरो ह्येष भैरवः सम्प्रकीतीतः | अकारस्य उच्चारणार्थत्वात् ह्-र्, रस्यादिना अनच्केन यकारेण युक्तः सबिन्दुकः || ८२ || क्षसान्तबीन्दुसंयुक्तः पञ्चमेन विभेदितः || १-८३ || सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः | क्षसयोः क्षकारसकारयोः, अन्तर्मध्ये ऽऽह्ऽऽ पञ्चमेन उकारेण विभेदित उच्चार्यमन्त्ररूपतामापादितः | क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः || १-८४ || भान्तो वादिर्लकारान्तो राद्योऽधोरुद्रयोजितः | बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः || १-८५ || विद्याराजः समाख्यातो महापातकनाशनः | क्षादिः ह्, यस्यान्तः र्, हस्यान्तः क्ष्, भस्यान्तः म्, वस्यादिः ल्, लकारस्यान्तः व्, रस्यादिभूतं बीजं य, अधो रुद्रः ऊकारः, एवमूकारान्ता अष्टौवर्णाः, गृहीतनादादिव्याप्तिको विन्दुर्नवम इत्ययं नवात्मा, महापातकनाशन इति पूर्ववत् | एते च नवमे पटले वक्ष्यमाणतत्तत्सिद्धिसाधकत्वादेवमभिधाना उक्ताः || ८५ || एवं च भैरवाष्टकमेतद्धि परिवारः प्रकीतीतः || १-८६ || संसार्यनुग्रहाय गृहीताकारस्य परभैरवस्य रश्मिपुञ्जस्थानीयमेतद्भैरवाष्टकं द्वितीयपटले प्रदर्शयिष्यमाणध्यानस्वरूपम् || ८६ || जगदधिष्ठातॄणां लोकपालानां भगवच्छक्तिरूपकपालेशाद्यधिष्ठितानां तद्व्याप्त्यैव लोकोत्तरया पूज्यानां मन्त्रान् वक्तुमाह ---- लौकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् | नमस्कारावमानांश्च सास्त्रान्संपरिकल्पयेत् || १-८७ || स्वनाम्ना प्रणव आदिर्येषामिति विग्रहः | सास्त्रानित्यनेन अस्त्राणि न पृथगावरणतया कल्पयेत्, अपि तु ऽऽओं इन्द्राय वज्रहस्ताय नमःऽऽ इत्यादि क्रमेण अग्नियमनिरृतिवरुणवायुकुबेरेशानान् शक्तिदण्डखङ्गपाशध्वजगदात्रिशूलहस्तांश्चतुर्थ्यन्तान् प्रणवादिनमस्कारान्तान् एकावरणतया कल्पयेत्, इति शिक्षयति | ऽऽभैरवाष्टकरूपेण ध्यातव्याऽऽ (२-१२५) इति वक्ष्यमाणत्वादिह लोकपालाष्टकमेव, न त्वन्यत्रेव तद्दशकम् | अस्मिन् मन्त्रपटले श्मशानाधिपमन्त्रा भाविनोऽपि नोद्धृताः तेषां यद्येकविषयत्वात् ऽऽउद्धृत्य परिकल्पयेत्ऽऽ इति वाचोयुक्त्या समनन्तरपटलभाविनो न्यासपूजाविधेः प्रकारमुपक्षिपन् पाटलिकीं संगति दर्शयति भगवान् || ८७ || ऽऽअध्वानं सकलं निमज्ज्य सुसितां चिन्मूतीमुन्मज्ज्य तां कृत्वा भैरवरूपिणीं तदखिलं रूपं त्रितत्त्वात्मकम् | शक्तित्रैधमयं विलायय परमे स्वच्छन्दधाम्नि स्फुरत्तच्छक्तिप्रथितं तदात्म निखिलं लोकेश्वरान्तं नुमः ||ऽऽ ऽऽगतानुगतिकप्रोक्तव्याख्याभेदतमोऽपनुत् | पराभेदरसोल्लासी स्वच्छन्दोद्द्योत उत्थितः ||ऽऽ इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः || १ || द्वितीयः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ विगलति भवदौर्गत्यं मोक्षश्रीः श्रयति हृत्कजं कचति | प्रसरति परमानन्दो यत्र तदीशार्चनं जयति || प्रश्नोद्देशक्रमेण प्राप्तावसरं कालस्वरूपं काम्यवन्नित्यविधौ प्रायेण अनुपयोगात् बहुवक्तव्यत्वाच्च अनभिधाय, यत्रैषां मन्त्राणां साधकतमत्वं येन च मन्त्राः फलदा भवन्ति, तमर्थसङ्गत्या प्राप्तप्रतिपादनावकाशमर्चाजपहोमादिविधिं प्रकाशयितुं द्वितीयपटलारम्भः | तत्र ङित्यपूर्वं नैमित्तिकम्ऽऽ इति नित्यमेव तावद्विधिं प्रदर्शयितुं श्रीभैरव उवाच ---- अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः | अथेति मन्त्रप्रकाशानन्तरं, स्नानन्यासावाहनादेर्जपहोमादेश्च अर्चनाङ्गभूतत्वादङ्गिभूतमर्चनमेव, प्रकर्षेण इति वैतत्येन, वक्ष्यामि | यथावदिति गर्भीकृतव्याप्तिंसतत्त्वतया, अनुपूर्वश इति स्नानशौचादिक्रमेण | यत इयमर्चनक्रिया पाकक्रियावत् अनेकावयवक्रियारम्भपूतीः, अतः स्नानाद्यवयवक्रियाभिघातपुरःसरं तत्प्रतिपादनम्, न च अकृतशुद्धेः स्नानाधिकार इति शौचपुरःसरमेव स्नानं दर्शयति --- - शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा || २-१ || शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम् | प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने || २-२ || अस्त्रेणेति श्थूले कर्मणि निष्कलस्य अनधिकरात्ऽऽ सकलेन तृणकेशपर्णकाष्ठादि, अस्त्रमन्त्रेण चोद्धरेत् || २ || भागद्वयं ततोऽस्त्रेण कर्तव्यं तु कृशोदरि | तत इति = शोधितायाः मृदः || भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च || २-३ || क्षालयेत यथान्यायं त्रिरन्तरितयोगतः | भागार्धेनेति ---- एकभागस्य संबन्धिना अर्धेन श्रीपूर्वाद्युक्तनीत्या संहारक्रमेण आदौ पादौ प्रक्षाल्य जङ्घोरुकटि क्षालयेत् इति यथान्यायशब्दार्थः, त्रीन् वारांस्त्रिः मध्ये भवता हस्तक्षालनेन अन्तरितो यो योगः क्षालनसंबन्धस्ततः पादौ प्रक्षाल्य हस्तौ क्षालयेत् ततो जङ्घे ततो हस्तौ तत ऊरू ततो हस्तौ ततः कटिं ततोऽपि हस्तौ इति मध्ये त्रिरेव हस्तक्षालनम् इति ऽऽत्रिरन्तरितयोगतःऽऽ शब्दस्यार्थः, उक्तं च श्रीमृत्युजिति ---- ऽऽपादौ जङ्घे करौ चोरू मृत्स्नाभिस्तिसृभिः क्रमात् | त्रिरन्तरितयोगेन सप्तभिः शोधयेत् पुनः ||ऽऽ इति | पुनः पश्चात् सप्तभिर्हस्तौ क्षालयेदित्यर्थः | न तु तिसृभिर्हस्ताविति व्याख्येयम्, द्रव्याभ्यावृत्तौ सुजभावात् | यत्तु तिसृभिर्मात्राभिमृद्भागैरन्तरितो यतो योग इति केनचित्पठित्वा व्याख्यातम्, तदत्यन्तासमन्वितत्वादुपेक्ष्यम् || ३ || अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् || २-४ || सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत् | अवशिष्टमिति एकस्माद्भागात् | अर्कदीप्तमिति कराभ्यां मृदित्वा | सूर्यस्पृष्टं तददर्शने प्राणस्पृष्टं वा कृत्वा || ४ || तेनैव ---- शिरःप्रभृति पादान्तमागुण्ठ्य स्नानमाचरेत् || २-५ || शुद्धतत्त्वसृष्टिव्याप्त्यैतत् | तदागुण्ठ्येति लिप्त्वा || ५ || उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम् | संध्याया वन्दनं कुर्याच्छास्त्रदृष्टेन कर्मणा || २-६ || उपस्पर्शनमाचमनम्, तत्र चान्तः सूक्ष्मदेहशुद्ध्यर्थं प्रणवेन त्रिरपां पानम्, द्विःसृक्विमार्जनम्, चक्षुरादिद्वारस्पर्शनं चेति यथाक्रमशब्दार्थः, शास्त्रद्रृष्टेन वेदादिसिद्धेन || ६ || मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे | भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु || २-७ || वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात् | मलस्नानं चित्तदेहाशुद्धिः | भागार्धमिति, एकस्य भागस्य समस्तस्य उपयुक्त्वाद् द्वितीयभागः सकलः मृदपेक्षया त्वर्धम् || ७ || पूर्वभागं ततोऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् || २-८ || दक्षिणस्थं तथा वक्त्रैरभिमन्त्र्य वरानने | उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च || २-९ || पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत् | उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् || २-१० || बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन् | आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते || २-११ || स्नायाद्राजोपचारेण सुगन्धामलकादिभिः | अत्रैव भैरवभट्टारको यथादर्शनं सकलो निष्कलो वा, एवमेव अङ्गाद्यपि ज्ञेयम् | बाहुमात्रप्रमाणेनेतिस्वाभिमुखं शिवतीर्थं हस्तमात्रं प्रकल्पयेदित्यर्थः | राजापचारेणेतिगृहस्थानां सति संभवे सुगन्धामलकाद्यभ्यङ्गस्नानं विहितमेव, न तु नैष्ठिकवन्निषिद्धमित्यर्थः || ११ || प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च || २-१२ || प्राणायामं कुम्भकवृत्त्याऽवस्थानम्, अभिषेकः उन्मज्जनादनन्तरं कलशमुद्रया शिरसि जलपातः || १२ || उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत् | उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् || २-१३ || तीर्थं सङ्गृह्य देवेशि आत्मनोऽग्रे निधापयेत् | न्यासकरणं संक्षेपेण मन्त्रैकादशिकया, तीर्थं सङ्गृह्यतिअङ्कुशमुद्रया आकृष्य || १३ || तत्रस्थो वन्दयेत् संध्यां मार्जनादिरनुक्रमात् || २-१४ || अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे | जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने || २-१५ || मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह | सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेत् || २-१६ || मूलमन्त्रमनुस्मृत्य................ हृत्तालुद्वादशान्तविश्रान्तिपरया मूलमन्त्रपरामर्शात् संध्यावन्दनमिदं परमेश्वरमन्त्रक्रमेण, पूर्वं तु वैदिकैर्मन्त्रैः तच्चापि अनिवृत्तप्राग्जातिवासनैः कार्यम्, इतरैस्तु विधिस्नानानन्तरमेव शैवैर्मन्त्रैः, यथोक्तम् ---- ऽऽब्राह्मीं कुर्यान्न वा कर्याच्छैवीमेव नियोगतः |ऽऽ इति | एवं भस्मस्नानेऽपि द्विः संध्यावन्दनं योज्यम्, वामकरविप्रुषां दक्षकरशाखाभिरस्त्रेणाधःक्षेपः, वक्त्राङ्गमन्त्रैस्तु उपरि, इति मार्जनम्, आदिशब्दान्मन्त्रसंहिताजप्तदक्षकरवारिणः शिरसि क्षेपः तच्चैतदनुक्रमात्, अनुक्रमश्च अघमर्षणादनन्तरं मार्जनादि, तत उपस्थानमिति, ईदृशस्तत्रागमो दक्षिणपाणिस्थं जलं सितरूपं प्रणवतेजसोद्दीपितं दक्षनासापुटेनैव अन्तरनुप्रविष्टं वाङ्मनः कायमलक्षालनात् कृष्णरूपं वामनासापुटात् बहिनीःसृतं ध्यात्वाधः क्षिपेत्, इति, ईदृशमुपस्थानमिति परमेश्वरशक्त्यात्मसूर्यसंमुखं मन्त्रसंहितया अञ्जलिक्षेपः, ततो यथाशक्ति जपं कृत्वा हृत्स्थाय श्रीभगवते पूरकेण निवेद्य शरीरादिप्रह्वीभावोन्मग्नपरस्वरूपानुप्रवेशरूपं प्रणामम्, स्वकल्पमन्त्राणां जलेन तर्पणं कृत्वा ऽऽदेवेभ्यो नमःऽऽ इत्यादिक्रमेण देवषीभूतसंघानां तर्पणं कृत्वा, मूलमन्त्रमनुस्मृत्य, संहारमुद्रया शिवतीर्थं संहरेत् स्वात्मनि अनुप्रविष्टं ध्यायेत् || १६ || एवं जलस्नानमुक्त्वा भस्मस्नानं नैष्ठिकस्यावश्यकम्, गृहस्थस्य कामचाराद्वक्तुमाह ---- ................भस्मस्नानमतः परम् | उच्यते इति शेषः, तन्त्रान्तरोक्तविधिसाधितम् अस्त्राभिमन्त्रितं भस्म कृत्वा, आ काद्धृदयावधि, आ पादाच्छिरोन्तं हृदन्तं वा संहारक्रमेण भस्म कृत्वा इति समुद्धूल्य || मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना || २-१७ || प्रसन्नेन चित्तेन || १७ || परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेत् | जलेनैव || विधिस्नानं ततः कुर्याद् भैरवेशमनुस्मरन् || २-१८ || भैरवव्याप्तिमात्मनो विभावयन् || १८ || शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः | भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् || २-१९ || साङ्गेन मूलेन भस्म अभिमन्त्र्य शुद्धतत्त्वसृष्ट्यर्थं मूर्धादिपादान्तमुद्धूलयेत् || १९ || ततोऽपि ---- अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन् | निष्कलवीर्यमाविशन् || संध्याया वन्दनं कुर्याद्यथापूर्वं वरानने || २-२० || यथापूर्वमिति जलेनैव अघमर्षणादिकं कार्यमित्यर्थः | अभिषेको मूलमन्त्रेण कलशमुद्रया भस्ममुष्टेः शिरसि क्षेपः, एवं भस्मस्नानं गृहस्थेनापि कामतः कार्यम्, तन्त्रान्तरनिदीष्टनीत्या त्रिपुण्ड्रकमात्रमेव वा गृहस्थेन कार्यम् || २० || एवं स्नानं विधाय अर्चाविधिं कर्तुमुपक्रमेत ---- ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत् | रथ्याधूलिलिप्तौ पादौ तत्स्पर्शाद्धस्तावपि क्षालयेत् | शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः || २-२१ || उपस्पृश्य आचम्य, विधानतः एकाग्रचित्ततया, शिखां शिखामन्त्रं स्मृत्वा, शिखां मध्यशक्तिम्, बद्ध्वा अवष्टभ्य || २१ || बाह्यपूजाधिकृतत्वमात्मनि जनयितुं संक्षेपेण मन्त्रैकादशिकास्मरणेन ---- सकलीकृतदेहस्तु पुष्पमादाय सुव्रते | दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः || २-२२ || शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत् | शिवाम्भसा इति वदन् सामान्यार्घपात्रमादौ बाह्यपूजार्थं कुर्वीतेति सूचयति || २२ || ततः ---- द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा || २-२३ || संपूज्य गन्धपुष्पाद्यैर्धूपादिभिरनुक्रमाद् | अर्घ्यपाद्योपहारैश्च................ ऽऽओं दिङ्मातृभ्यो नमःऽऽ इति कुसुमं क्षिप्त्वा, आयतने यागगृहे बाह्ये वा व्योम्नि प्रभामण्डलवृषशूलसूर्यान् बाह्यपरिवारनिष्ठोर्ध्वडम्भरे द्वारस्य दक्षिणाद्वामान्तं गणेशं तथाशब्दसमुच्चितां वागीशीं श्रियं च प्रणवादिनमः शब्दान्तेन मन्त्रेण पूजयेदिति क्रमः || २३ || ............टतो द्वारस्य चोत्तरे || २-२४ || नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे | कालिन्दीं चैव सम्पूज्य यथानुक्रमयोगतः || २-२५ || कालिन्दीं यमुनाम्, दक्षिणस्रोतसः संहारप्राधान्यान्महाकालयमुने द्वारस्य दक्षिणे एव पूज्ये | वामे तु नन्दिगङ्गे, शाक्तस्फारसारत्वाच्चास्य नयस्य गुप्ते स्वगृहादौ द्वारवामात् प्रभृति वामकरेण पूजयेदिति गुरवः | एष च द्वारदेवताक्रमः श्रीत्रिशिरोभैरवस्रोतसि दृश्यते, केवलं तत्र द्वारवामदक्षिणयोदीण्डिमहोदरावधिकौ पूज्यावुक्तौ | वामस्रोतोभेदे पुनः सृष्टिप्रधाने द्वारस्य दक्षिणे नन्दि-गङ्ग-मेषास्याः, वामे तु महाकाल-यमुना-च्छागलास्या इति क्रमः, सिद्धान्तेषु तु द्वारस्य दक्षिणे नन्दि-गङ्गे वामे तु महाकाल-यमुने | प्रायश्च सिद्धान्तप्रियो लोकः सिद्धान्तक्रममाश्रितः, इतीह लोकोत्तरे भैरवस्रोतसि भगवदुक्त एव क्रमः आश्रयितव्यो न त्वन्यथा भ्रमितव्यम् | अतो ये सिद्धान्तदर्शनभ्रान्ता भगवदुक्तं पूर्वपश्चिमद्वारापेक्षया विपर्यासयन्ति ते विपर्यस्ता एव || २५ || ततः ---- भैरवास्त्रं समुच्चार्य पुष्पं सङ्गृह्य भावितः | सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् || २-२६ || नाराचास्त्रप्रयोगेण प्रविशेद् गृहमध्यतः | अत्रादौ देहल्यर्चां कुर्यात्, भैरवास्त्रमतिदीप्तं निष्कलास्त्रमेव, ज्वलदित्यादि ध्यानम्, नाराचास्त्रप्रयोगस्तर्जनीमध्यमाङ्गुष्ठप्रेरणात्, गृहमध्यत इति, प्रक्षिपन्निति शेषः || २६ || निवारितं तेन सर्वं विघ्नजालमनन्तकम् || २-२७ || भावयेदिति शेषः || २७ || ततो रक्षार्थमस्त्रं च दशदिक्षु विनिक्षिपेत् | विघ्नानां प्रवेशावकाशनाशाय || अथ ---- मध्ये संपूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् || २-२८ || दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः | उपविश्यासनं बद्धवा स्वभ्यस्तं वै पुरःस्थितम् || २-२९ || ब्रह्माणं वास्त्वधिष्ठातारम् | दक्षिणायाम् इति दक्षिणस्रोतोऽनुष्ठानप्रवृत्तौ, समस्तभेदप्लोषकाघोरवक्त्रसंमुखत्वस्यानुरूप्यात्; मन्त्रोद्धारप्रारम्भे त्वनुष्ठानस्याप्रवृत्तेः ऽऽप्राङ्मुखोदङ्मुखो वाऽऽ इत्युक्तम् | प्रणवासने वणीतव्याप्तिके सम्यग्भैरवाभेदाभिमाने स्थितः || २९ || करन्यासमाह ---- गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् | कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु || २-३० || परां शक्तिं तु संक्षोभ्य................. गन्धेन अलक्तकादिना, दिग्धौ लिप्तौ, परिशोधयेत् क्रियाशक्तित्वं प्रापयेत् | परां द्वादशान्तस्थशिवचन्द्रचन्द्रिकारूपां शक्तिं संक्षोभ्यानङ्गधेनवीयुक्त्या प्रसरोन्मुखीं कृत्वा, ऽऽअमृतेनऽऽ परानन्दरसेन, ऽऽप्लावयेत्ऽऽ आच्छुरयेत् | पश्चात् तथारूपतारक्षार्थं कवचमन्त्रेणावगुण्ठ्य || ३० || ..............टतोऽनन्तं प्रकल्पयेत् | करशुद्धिविधाने तत्तन्मन्त्रैर्न्यास उचित एव कार्यः | तेनोपबाहुदण्डाग्रगग्रन्थिप्रान्तवतीविद्यापदोर्ध्वावस्थितानाश्रितप्रे तान्तमनन्तासनं प्राङ्नर्णीततत्त्वं प्रणवेन कल्पयेत् || मूतीं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् || २-३१ || मूतीब्रह्मकवाटकलावक्त्रन्यासादि प्रागेव निर्णीतम् | अतो यत्र यत्रायाति तत्र तत्र प्रथमपटलनिर्णीतव्याप्तिरनुसर्तव्या | श्वच्छन्दम्ऽऽ इति सकलम् || ३१ || अनन्तरम् ---- अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम् | उभयोरपि करयोः पद्ममुद्रामाविष्टयोः | ऽऽअस्त्रं नखेषुऽऽ इति गुरवः || ततः ---- भैरवानपि सङ्कल्प्य परं तत्त्वमनुस्मरेत् || २-३२ || ऽऽभैरवान्ऽऽ कपालीशादीनष्टौ वामतर्जनीतो दक्षिणतर्जन्यन्तम्, परं तत्त्वं निष्कलनाथं साङ्गं सदेवीकम्, अर्थात् स्फारिताङ्गुष्ठयोः, अनुस्मरेत् विश्वानुगामित्वेनानुसन्दध्यात् | यद्यपि करयोः पिण्डावयवत्वात् भाविपिण्डन्यासेनैव न्यासः संपद्यते, तथापि सर्वकर्मप्रवृत्तिप्रथमाङ्कुरकल्पयोर् भग्वत्क्रियाशक्तिमयत्वप्रत्यभिज्ञानायतयोर्देहन्यासात् पूर्वं सर्वागमेषु न्यास उच्यमान उपपन्न एव | शिवहस्तस्त्वन्यादृगेव विशिष्टविधिविषयः || ३२ || एवं करन्यासमुक्त्वा देहन्यासे इतिकर्तव्यतामाह ---- प्राणायामत्रयं कार्यं देहसंशुद्धिकारणम् | इह चैतन्यविश्लेषपूवीकां देहदाहोत्प्लावनाप्यायनादिमयीं शुद्धिमाधाय भैरवात्मतापत्तिः कार्या | चैतन्यस्य च ---- ऽऽप्राक्संवित्प्राणे परिणता |ऽऽ इति नीत्या प्राणेनैव विशोधनं कार्यम् | न चाशुद्धेन तेन तत्कर्तुं शक्यमिति प्रथमं तच्छुद्धिः | देहस्याशुद्धस्य पुर्यष्टकरूपस्य संशुद्धिकारणम् || तत्प्रदर्शयंश्चैतन्यविश्लेषं वक्तुमाह ---- अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् || २-३३ || कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत् | ऽऽअशुद्धःऽऽ इति बहिःप्रसरे हेवाकचाञ्चल्यप्राबल्योल्लासितविकल्पतया जीवस्य पाशत्वेन स्थितः | ऽऽरेच्यःऽऽ इति स्वरसवाहप्रशमनेन भोगद्वादशान्ते निवेश्यः | ऽऽशुद्धेनऽऽ इति द्वादशान्तविश्रान्तिलब्धशाक्तबलेन | आ समन्तात् स्वरसवाहनिरोधेन पूरयेत् तच्छाक्तस्पर्शेनाच्छुरयेत् | आपूर्यैवं कंचित्कालं प्रवेशनिरोधेन बललाभाय हृदयान्मूलपीठान्तं पूर्णकुम्भवदचलस्थित्या स्थापयेत् | ततः कुम्भकप्रकर्षलब्धशाक्तबलेन तेन वक्ष्यमाणदिव्यकरणानुसरणयुक्तयोर्ध्वरेचकं कृत्वा प्राणाश्रयमात्मानं व्योम्नि मुण्डान्ते विश्रामयेत् | एष च प्रणवोच्चारसगर्भः प्राणायामः कार्यः | अत्र च रेचनादौ व्योमविश्रान्त्यन्ते पञ्चके धारणापञ्चकं मनसा सूक्ष्मभुजयानुसंधायाविकल्पविश्रान्त्या मनोऽहङ्कारबुद्धीः परतत्त्वे विलाप्य विश्राम्येत् | एवं सूक्ष्मशरीरशुद्धिर्भवति, इति गुरवः || ३३ || किंरूपमात्मानमित्याह ---- खद्योतैअनिभं सूक्ष्मं करणैस्तु विवजीतम् || २-३४ || कार्येणैव विहीनं च मायाप्रध्वस्तगोचरम् | खद्योतकनिभं प्रकाशमात्रतत्त्वम्, सूक्ष्मम् अवेद्यम्, करणैः त्रयोदशभिरिन्द्रियैः कार्येण स्थूलसूक्ष्मात्मना दशविधेन, प्रध्वस्तो मायागोचरः कालनियत्यादिर्यस्य, इति व्यत्ययः पूर्वनिपातस्य || ३४ || एवं शुद्धतामापादितोऽपि ---- शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु || २-३५ || ऽऽशिवो भूत्वा शिवं यजेत् |ऽऽ इति न्यायात् | शृणु अन्तः परामृश || ३५ || परं भावं तु सङ्गृह्य................ ऽऽअहमेव परो हंसः शिवः परमकारणम्ऽऽ (४-३९९) इत्यादौ वक्ष्यमाणं परं स्वभावम्, सम्यगिति अविकल्पावष्टम्भेन, गृहीत्वा स्वीकृत्य || अत एव सृष्टिसंहारकारिपरमेशस्वरूपसमावेशात् ---- ........टतः शोष्या तनुः प्रिये | सूक्ष्मायाः शुद्धत्वात् स्थूला || कथम् ---- संहारेण यभिन्नेन रुद्रबीजयुतेन च || २-३६ || संहारः क्ष् ईशानस्फाररूपो यभिन्नो य इत्यनेन युक्तः, रुद्रबीजम् ऊकारः, बिन्दुरर्थाक्षिप्तः | एवमन्यत्र | अत्र देहे पाथीका धारणां कृत्वा तच्छोषणे वायवी धारणा स्मर्तव्या | तनोः शोषोऽहन्ताभिमानरसतनूभावः || ३६ || तेनैव दहनं कार्यमूर्ध्वाधोऽग्नियुतेन च | तेनैवेदानीं निर्णीततत्त्वेन संहारेण, ऊर्ध्वाधोऽग्निना रेफेण युक्तेन तेन र् क्ष् र् य ऊ इति पिण्डीकृतबीजाक्षरेणाग्नेयया धारणया कालाग्निना आ पादान्मुण्डान्तं दहनम्, इति अहन्ताभिमानपाशस्य प्लोषणं कार्यम् || अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः || २-३७ || उत्पूयनकरो ह्येष.................. विष्णुरुकारः, वायुवर्णो य, उत्पूयनमुत्प्लवनम्, प्लुष्टस्यापि देहाभिमानस्य संस्कारशेषस्य वायव्या धारणयैव निर्धूननम् || ३७ || ..........प्लावने वारुणः स्मृतः | बिन्दुमस्तकसंभिन्नः................ वारुणो वकारः सबिन्दुको वारुणधारणया ऊर्ध्वद्वादशान्तादधोमुखं प्रवृत्तैः पूर्णचन्द्राकारबिन्दुप्रसरत्सितप्रकाशवारिपूरैरशेषप्लावकः स्मृतः, स प्लावने भाविशुद्धसर्गभित्तिविरचने प्रभवतीत्यर्थः | सर्वाणि चैतानि बीजानि परस्वस्वभावप्रभावप्रभाश्रू(भू)तानि विचिन्त्यानि | अत्र च विषस्येव मारकत्वं मन्त्रयुक्त्या देहस्याहमभिमानात्मकपाशरूपत्वं दह्यते, प्रतिदिनं तदभ्यासप्रकर्षेण च शिवाहन्तोज्जृम्भते, न तु साक्षाद् देहो दह्यते, प्रत्यक्षबाधात् | अत एवानादिदेहाहङ्कारस्यापसार्यत्वात् प्रत्यहं शुद्धात्मस्थितिग्रहणतदानयनामृतप्लावनभैरवतापादनादि क्रियमाणं युक्तमेव || एवमशुद्धदेहसंहारयुक्तिमुक्त्वा शुद्धदेहसृष्टिं वक्तुमाह ---- .......शक्तिन्यासस्ततो भवेत् || २-३८ || ततो देहदाहाद्यनन्तरं विश्ववैचित्र्यं बिभ्रत्याः पारमेश्वर्या मनोन्मनिकायाः शक्तेर्भाविमन्त्रमयशुद्धदेहनिर्माणभित्तिभूताया न्यासो भवेत् || ३८ || तदनु ---- आनयेत्तं यथानीतं प्लावयेदमृतेन तु | यथेति मध्यमार्गोर्ध्वरेचकेण नीतं तम् आत्मानमूर्ध्वरेचकेणैव आनयेत् शक्तिदेहस्य मध्यं हृदयं कल्पनया प्रापयेत्, अमृतेन परभावसमावेशावष्टम्भरसेन, प्लावयेत् भेरेवाभेदपरामर्शमयं कुर्यादित्यर्थः | तथाभूतमेव नीतं तमानयेत् || कीदृशं च ---- मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् || २-३९ || रागेण रञ्जितात्मानं कालेन कलितं तथा | नियत्या यमितं भूयः पुंभावेनोपबृंहितम् || २-४० || प्रधानाशयसंपन्नं गुणत्रयसमन्वितम् | बुद्धितत्त्वसमासीनमहङ्कारसमावृतम् || २-४१ || मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः | युक्तमिति शेषः | नयनानयनपात्रत्वादेव सङ्कोचाभासरूपेण मलेन प्रध्वस्तं गुणीभूतं चैतन्यं यस्य, अत एव किञ्चित्कर्तृत्वज्ञातृत्वरूपाभ्यां कलाविद्याभ्यां समाश्रितम् | एवमन्यत् | अन्येषां च कलादीनां स्वरूपमुत्तरत्र स्वावसरे निर्णेष्यामः || ४१ || यदेतन्मायादिक्षित्यन्तं तत्त्वजातम् ---- प्रणवेन तु सर्वं तच्छरीरोत्पत्तिकारणम् || २-४२ || न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया | शरीरोत्पत्तेः कारणं मायादिक्षित्यन्तं तत्त्वानि एकत्रिंशतं प्रणवेन श्रीमन्निष्कलभट्टारकतुल्यव्याप्तिकेन शुद्धदेहोत्पत्त्यर्थं न्यसेत् | प्रणवन्यासाच्चैतानि प्राग्दशातोऽन्यादृंश्येव (भवन्ति) | तथाहि ---- अख्यातिरूपा माया भेदप्रागल्भ्याविमोहिनी अस्य, कला पूजाध्यानादिकिंचित्कर्तृत्वोन्मीलिका, विद्या तात्त्विकविवेकप्रदा, रागो भक्त्यभिष्वङ्गप्रदः, कालः उपदेशादिविषयकलनाप्रदः, नियतिः भगवदाराधनादौ नियामिका, पुंभावः ऽऽअहं शिव एवऽऽ इति प्रथाप्ररोहकः | एवमन्यत् || ४२ || अस्यास्तत्त्वैकत्रिंशतो मध्यात् ---- षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने || २-४३ || मायादिनियत्यन्ता कञ्चुकरूपा षट्तत्त्वी आत्मनः पुंस्तत्त्वस्य तण्डुलकम्बुकवत् सम्यगालक्ष्य पृथक्तया बद्धा ज्ञातव्या, न त्वस्यामात्माभेदो ग्राह्यः | एवमात्मनः परो देहः || ४३ || स्थूलसूक्ष्मौ युगपदाह ---- प्रधानावनिपर्यन्तं शरीरं च विनिमीतम् | ज्ञातव्यमिति लिङ्गविपरिणामात् | विनिमीतं कृत्त्रिमं न तु तात्त्विकमित्यर्थः || अत्र च ---- चतुवींशतितत्त्वानि चैतन्यरहितानि तु || २-४४ || द्रष्टव्यानि वरारोहे................ द्रष्टव्यानि वेद्यतयैव निश्चेयानि || ४४ || यद्येतान्यचेतनानि कथमेतानि दृश्यन्ते ? इत्याह ---- .........पुरुषाधिष्ठितानि तु | सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि || २-४५ || अधिष्ठितता कलोद्वलितस्वकर्तृताच्छुरणम्, ज्ञातव्यानि अहन्तापहस्तनेन वेद्यरूपाणि बोद्धव्यानि, बुद्धेरपि वृत्तिद्वारेण वेद्यत्वात् | वेद्यत्वादेवैतानि तण्डुलतुषवद् बहिरङ्गानि | षट्तत्त्वी तु आत्मनोऽन्तरङ्गप्रधानस्य संवेद्यपर्वत्वमिति || ४५ || तेन सह ---- पञ्चविंशकमेतच्च प्राकृतं समुदाहृतम् | प्रकृतिरेव प्राकृतम्, प्रकृतेरायातं च प्राकृतं गुणादिक्षित्यन्तमेव | ऽऽओं शुद्धदेहाय नमःऽऽ इति मन्त्रेण युगपत्षट्तत्त्वीरूपं परम्, तन्मात्रान्तःकरणरूपं सूक्ष्मम्, पृथिव्यादिरूपं च स्थूलं परामृतप्लावितस्यात्मनो देहं न्यसेत् || तामेव शुद्धरूपतां स्फुटयितुमाह ---- ततो मूतीं न्यसेद् देवि मूलमन्त्रसुलक्षितम् || २-४६ || सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने | मुखानि कल्पयेत्पश्चान्मूर्धादिचरणावधि || २-४७ || वक्त्राणि कल्पयेत् पश्चादूर्ध्वं पूर्वं च दक्षिणम् | उत्तरं पश्चिमं चैव यथावत्प्रविभागशः || २-४८ || कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत् | नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् || २-४९ || वर्गातीतेन क्षुरिकामूर्ध्वाधोऽग्निप्रदीपिताम् | षोडशान्तर्गता सा तु रक्षिका विघ्ननाशिका || २-५० || नवकं कल्पयेत् पश्चात् र्मूध्नि वक्त्रे च कण्ठके | हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः || २-५१ || पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम् | क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः || २-५२ || विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः | सर्वमेतत्प्रथमपटल एव यथा निर्णीतसतत्त्वं तथेहोत्तरत्रापि चानुसंधेयम्, विषममतिरिक्तं च व्याक्रियते | मुखानीति क्षादीनि, मूर्धादीति दण्डभङ्ग्या सहायमेव क्रमो युक्तो भैरवन्यासान्तं सृष्टिक्रमस्य स्थितत्वादित्युक्तत्वात्; अतो न नैष्ठिकाभिप्रायेणान्यथा व्याख्येयम् | यथावत्प्रविभागश इति कवाटवक्त्रभङ्गिभ्याम् | शोध्याध्वानम् इति सकलन्यासान्ते कलाद्येकतममध्वानं भावियुक्त्या गर्भीकृतेतराध्वपञ्चकन्यासादिवशेन शोधनीयं दीक्षायामेव कल्पयेत् | यद्वक्ष्यति ---- ऽऽदीक्षाकाले तु देवेशि शोध्याध्वानं प्रकल्पयेत्ऽऽ (२-२७३) इति | विद्याङ्गा इति सशोऽत्र आ-आदेशः, विद्याङ्गानीत्यर्थः | क्षुरिकामन्त्रः कट्यां न्यस्यः, स पूर्वमनुक्तत्वादिहोक्तः | वर्गातीतः क्ष्, अग्निः र्, षोडशान्तः षोडशस्वराणामन्तः अः, नवकम् इति श्रीस्वच्छन्देशकपालीशाद्यष्टकोपेतम् | अस्य र्मूध्नि इत्यादिना निर्देशः | स्वस्था (ध्या) नादि समनन्तरं भविष्यति | क्रियेत्यादि पाठक्रमादर्थक्रमस्य बलीयस्त्वात् ---- ऽऽज्येष्ठाज्ञाने तथा दक्षे क्रिया वामा तथोत्तरेऽऽ (७-१५२) इति भाविग्रन्थेनैकार्थत्वात् प्राधान्याच्च दक्षिणे ज्ञानशक्तेर्वामे क्रियाशक्तेर्न्यासः || ५२ || परन्यासमाह ---- निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् || २-५३ || न्यसेदित्येव | आ समन्तात् द्वादशान्ताद्वाहयित्वा अवतार्येत्यर्थः | एवमित्यावाह्य, अङ्गानि च सर्वज्ञत्वादिगुणषट्करूपाणीति पूर्वमेवोक्तम् | तेनात्राङ्गत्राणरूपाण्यङ्गानीति तन्त्रान्तरयोजनमसत् | अङ्गन्यासावसरे मुद्राषट्कबन्धः कार्यः इति गुरवः | तत्र हृदि निलीनाङ्गुष्ठा मुष्टिः, सैवोच्छिरताङ्गुष्ठा शिरसि, उच्छिरततर्जनीका शिखायां, परस्परान्तरिताङ्गुलि पाणिद्वयं कवचे, मध्यमातर्जन्यनामिकाभिर्नेत्रत्रयस्पर्शो नेत्रे, तर्जन्यङ्गुष्ठच्छोटिकादर्शनमस्त्रे || ५३ || आवाहनानन्तरम् ---- गन्धैर्धूपैस्तथा पुष्पैवीविधैर्भक्ष्यभोजनैः | पूजयेद् देवदेवेशं मनसैव प्रकल्पितैः || २-५४ || एवं च ---- आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत् | पुर्यष्टकशरीरमपि भैरवीकर्तुमयं प्रक्रम आरब्धः || ५४ || तत्र याज्यस्य भैरवरूपस्यात्मन आसनन्यासं तावद्वितत्य निरूपयति ---- नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् || २-५५ || हृदन्तं कल्पयेद्यावत्तत्र पद्मं विचिन्तयेत् | अष्टपत्रं महादीप्तं केसरालं सकणीकम् || २-५६ || कन्दं पद्मोत्पत्तिमूलम्, समारोप्य परिकल्प्य, मत्तगन्धपीडनयुक्त्या च कन्दं नाभौ नाभिविषये समारोप्य उल्लास्य, नालं प्राणशक्तिरूपम्, नाभिहृदयान्तरालस्य द्वादशाङ्गुलत्वात् द्वादशाङ्गुलमित्युक्तम् || ५५-५६ || अत्र व्याप्तिमाह ---- कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये | भुवनानि च तान्येव रुद्राणां वरवणीनि || २-५७ || मायात्मको भवेद् ग्रन्थिरशुद्धाध्वव्यवस्थितः | विद्यापद्मं महादीप्तं कणीकाबीजराजितम् || २-५८ || पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः | एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् || २-५९ || कल्पयेदित्यनुवर्तते | शक्तिरिच्छात्मा पारमेश्वरी आधारभूता यस्यां विश्वमिदमाधिरयते सा ऽऽव्योमाकाराम्ऽऽ इति वक्ष्यमाणत्वात् गर्भीकृतधरादितत्त्वचतुष्टया | यथोक्तं श्रीपूर्वशास्त्रे ---- ऽऽआदावाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् | धरां सुरोदं पोतं च कन्दश्चेति चतुष्टयम् ||ऽऽ (८-५५) इति | तत्र अप्तत्त्वव्याप्त्या सुरार्णवम्, तेजोव्याप्त्या ख्यातं (पोतम्), प्राणप्रसूतिहेतुं व्यूहात्मकं वायुव्याप्त्या कन्दमित्येवंव्यक्तिका शक्तिः प्रकृतं रूपं यस्य तत्सारमित्यर्थः | अत एव अङ्कुरनालरूपाशेषाध्वव्यक्तेः तत्र गन्धतन्मात्रादिकलातत्त्वान्तनालव्याप्तिः | रुद्राणामिति तत्तत्तत्त्वाधिष्ठातृणाम् | महादीप्तमिति शुद्धाध्ववर्त्यशेषमन्त्रतेजोमयत्वात् | पुष्कराणि बीजानि | विद्येश्वराः अनन्तभट्टारकाद्याः शिखण्ड्यन्ताः | एवं कन्दनालग्रन्थिदलकणीकाबीजरूपं षडुत्थमासनं प्रसिद्धम् || ५९ || आसनन्यासे क्रममाह ---- शक्तिन्यासो भवेत् पूर्वं कन्दं तु तदनन्तरम् | अङ्कुरं नालविन्यासमनन्तं परिकल्पयेत् || २-६० || तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम् | विश्वोल्लेखभित्तिभूतामिच्छाशक्तिमाविश्य तदवष्टम्भरूपं कन्दमाक्रम्य तदुन्मेषतत्प्रसररूपाङ्कुरनालात्मकमशेषं मायान्तमध्वानमासूत्र्य तदुपरि अनन्तं विद्येशं तेजोमयं स्मरणमात्रेण कल्पयेदित्यर्थः || ६० || नालं विन्यस्य यदुक्तं ऽऽअनन्तं परिकल्पयेत्ऽऽ इति, तन्मध्ये ग्रन्थिस्थाने सिंहासनं तदुपरि च पद्मऽऽ क्रमेण कल्पयितुमाह ---- धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमान्न्यसेत् || २-६१ || एते च ---- सितरक्तपीतकृष्णा आग्नेययादीशदिग्गताः | पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः || २-६२ || पादका इति-एतद्वासनानुविद्धा हि संसरन्ति संसारे ---- इत्यशेषसंसारिणः अज्ञाताः पादाः पादकाः, एते सिंहरूपा इति पराक्रममहिम्ना, अशेषविश्वा क्रमणात् | ईश्वरशक्त्यधिष्ठाने एवैतदेषां घटते न तु सांख्यनये जडबुद्धिधर्मरूपतायाम् इतीश्वरशक्त्यधिष्ठानादेते त्रिनेत्राः, घोरसंसारघातहेतुत्वाच्च भीमविक्रमाः || ६२ || एते च मुमुक्षुणा ---- शिवशक्तिमया मन्त्रा न्यस्तव्या वीरवन्दिते | वस्तुतः परमेश्वरशक्तिमया एव, तथा त्वपरिज्ञाता अधरपदसञ्चारिणः | यदा तु यथा प्रत्यभिज्ञायन्ते, तदा मननत्राणधर्मकाः प्रत्यभिज्ञातुः शिवस्य इच्छया मन्त्ररूपतां प्रकटयन्तः शुद्धप्रसरणिसंसारिणो भवन्ति भक्तिभाज इति परमार्थः, न त्वन्यथैषां मन्त्ररूपता काचित्, अशुद्धाध्वव्यवस्थितेः || सिंहासनेऽवयवान्तराण्याह ---- अधर्माज्ञानावैराग्यमनैश्वर्यं च प्राग्दिशः || २-६३ || उत्तरान्तं निवेश्यं तु............. एते हि ---- ............गात्रकाः सितवर्णकाः | सिंहासनपट्टिकारूपाः | प्रायश्च सर्वेऽख्यातिमयमायाच्छादितत्वादधर्मादिमयाः, अत एव धर्मादीन् प्रति स्पृहयालव इत्यधर्मादय एषां मायापदे अज्ञातानि गात्राणि गात्रकाणि, अज्ञातार्थे ऽऽकन्ऽऽ || ६३ || अत्रैव ---- संधानकीलकाश्चैव अतसीपुष्पसंनिभाः || २-६४ || वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये | आग्नेययादिक्रमेण प्रतिकोणं पादकेन सह गात्रकद्वयस्य बन्धनार्थं कीलकद्वयमिति | ऋगादयो वेदाः, कृतादयश्च युगास्तत्तद्भोगवासनाः पुष्णन्तः संसारबन्धनहेतवो विचित्रशङ्काशङ्कुरूपाः संधानकीलका इत्युक्ताः | बन्धकत्वादेव च कृष्णवर्णा ज्ञातव्याः | पूर्वोक्तपारमेश्वरशक्तिरूपतया यथाऽज्ञाता बन्धका भवन्ति | ननु एते बुद्धिधर्माः कथमियतीं भूमिं प्राप्ताः? उच्यते ---- सर्वेषां बुद्ध्यादिधर्माणां मायोत्पत्तिभूः, बुद्ध्यादयस्तु विभवस्थानम्, उच्छेद्यास्तु मूलभूमित उच्छिन्ना न पुनः प्ररोहन्तीत्युत्पत्तिपदादुच्छेत्तुमेतानीदृक्क्रमो दशीतः || ६४ || अत एव सत्त्वरजस्तमांसि मूलत एवोच्छेत्तुं सिंहासनोपरि गुणमयमेव मायामसूरकं न्यसितुमाह ---- अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् || २-६५ || मध्ये तमो विजानीयाद्गुणास्त्वेते व्यवस्थिताः | ऊर्ध्वं शुद्धविद्यानिकटवतीत्वात् सितं सत्त्वरूपम् | अधस्तु संसरणानुगुणत्वाद्रक्तं रजोमयम् | मध्ये तु ख्यात्याच्छादनप्रकर्षात् तमोमयं कृष्णम् | प्राधानिकः प्रपञ्चो मायायामसन्नित्यादि त्वसत्, अशेषमायाकार्यस्य मायायां सूक्ष्मरूपतया भुवनाध्ववर्णयिष्यमाणस्थित्यावस्थित्यावस्थितत्वात् | शक्तिपातपवित्रैस्तु सर्वमेतच्छिवशक्तिरूपं मन्त्रतयैव भवनीयम् | यद्वक्ष्यति ---- ऽऽयत्र यत्रऽऽ इत्युपक्रम्य, सर्वं शिवमयं यतः || (४-३१०) इति || अथ सिंहासनमसूरकोपरि विद्यापद्मं न्यसितुमाह ---- सितं पद्मं विजानीयात् केसराणि विचिन्तयेत् || २-६६ || सितरक्तप्रपीतानि मूलमध्याग्रदेशतः | कणीका हेमसङ्काशा बीजानि हरितानि तु || २-६७ || ईदृग्वर्णमेव सितपद्मं भवति | सितत्वं चास्य शुद्धविद्यामयत्वात् || ६७ || अस्य दलेषु देवतान्यासमाह ---- वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम् | रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे || २-६८ || कलविकरणीं देका विन्यस्येद् वारुणे दले | बलविकरणीं देका वायव्यदलमाश्रिताम् || २-६९ || बलप्रमथनी देवीमुत्तरे विनियोजयेत् | सर्वभूतदमनीं च एशान्यां विनियोजयेत् || २-७० || मध्ये मनोन्मनीं देका कणीकायां निवेशयेत् | स्पष्टमेतत् || ७० || एतच्च ---- शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् || २-७१ || ततोऽपि ---- मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम् | एता देव्यो भुवनाध्वनीत्या परेण रूपेण शक्तितत्त्वे स्थिताः, मध्ये तु पदे परापरेण, इह तु विद्यायामपरेण रूपेणेति विभागः | तत्रैव चासां नामानुसारि स्वरूपं दर्शयिष्यामः, सर्वं प्रागुक्तशक्तित्रयमयमिति || विद्यातत्त्वे मानमेयमातृरूपं ज्ञानक्रियेच्छाव्याप्तिसतत्त्वं मण्डलत्रयं न्यसितुमाह ---- सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे || २-७२ || वह्निमण्डलकं देवि कणीकायां निवेशयेत् | अत्र हि मेयरूपस्य सोमस्य वह्निसूर्यात्मकमातृमानमध्यवतीत्वम्, न हि मातृप्रकाशभित्तिं विना मानप्रकाशाच्छुरणं विना वा मेयप्रकाशः कश्चित् | प्रमात्रैव हि चिद्रसाश्यानीभावात्म मेयमाभास्यते, आभास्यमानं च प्रमाणप्रकाशाच्छुरितमेव भवतीत्यलमधिकेन; (विस्तृतं च) भविष्यत्येतत् सृष्टिसंहारपटले || ७२ || एतद्धामत्रयाधिष्ठातृदेवतात्रयं निरूपयति तदधिष्ठातृविश्वान्तर्भावमत्र प्रकटयितुम् ---- ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः || २-७३ || परापरया व्याप्त्या एषां ध्यानमाह ---- ब्रह्मा चतुर्मुखो रक्तश्चतुर्बाहुविभूषितः | कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः || २-७४ || कमण्डलुधरो देवि दण्डहस्तस्तथैव च | अक्षमालाधरो देवः पद्महस्तः सुलोचनः || २-७५ || ध्यात्वा पत्रेषु तं न्यस्येत् सर्वकिल्विषनाशनम् | अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरम् || २-७६ || पीताम्बरधरं देवं वनमालाविभूषितम् | स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् || २-७७ || दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् | ध्यात्वा विष्णुं महात्मानं केशरेषु निवेशयेत् || २-७८ || शङ्खेन पद्ममुपलक्ष्यते | मानमेययोर्लोलीभावान्मेयात्मनि सोममण्डले सृष्टिप्रधानेऽपि स्थितिकारी विष्णुः, स्थित्यात्मनि च प्रमाणरूपे सूर्यमण्डले सृष्टिकर्ता ब्रह्माधिष्ठाता, इति युज्यते एवैतत् || ७८ || शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम् | दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् || २-७९ || सिंहचर्मपरीधानं शशाङ्ककृतभूषणम् | नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने || २-८० || निवेशयेत् कणीकायां महापातकनाशनम् | तदुपरि ---- महाप्रेतं न्यसेत् पश्चात् प्रहसन्तं सचेतनम् || २-८१ || रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम् | प्रकर्षेण इतः स्फुटेदन्तानिमज्जनेन अहन्ताप्रधानां स्थितिमनुप्रविष्ट; प्रकर्षेण च इतं गतं संबद्धं विश्वं यस्य इति व्युत्पत्त्या प्रेत इह सदाशिवः, स च महदिति पदेन अनाश्रितशिवरूपः | परमशिव एव च भगवानेकश्चिद्रूपस्तदधररूपवर्ती, इत्यनाश्रितादिस्तदेकजीवितः, स्वयं तु प्रेत इव प्रेतः, अधराध्वनोऽत्र स्तिमितत्वेनावस्थानाच्च प्रेतः, स च अपरया व्याप्त्या स्थूलः सदाशिवः, मध्यमया स एव नादरूपः, परया तु अनाश्रितः, इति तदनुसारेण सिंहासनं पद्मं च योज्यम् | स च प्रेतः परमशिवोऽहन्तानुप्रवेशादेव प्रहसन् नादामर्शरूपो महाविकासमयश्च, तेनैव परमशिवेन नादात्मना सचेतनः | एवमपि तावन्मात्रेदन्तोन्मेषात्मकोपाधिरूपत्वात् विश्वानुरञ्जकत्वाच्च रक्तवर्णः, बोधप्राधान्यात् सुतेजस्कः | वक्ष्यति च ---- शूर्यकोटिसमप्रभम् |ऽऽ (१०-१२१४) इति भौवने पटले | इच्छाज्ञानक्रियाशक्त्यात्मना च एषणीयज्ञेयकार्यात्म विश्वं नयता नेत्रत्रितयेन ऊर्ध्वदृशा विशेषेण भूषितं राजमानम् | यथोक्तम् ---- ऽऽतिस्रो देव्यो यदा चैनं नित्यमेवाभ्युपासते | त्र्यम्बकस्तु तदा ज्ञेयः....................... ||ऽऽ इति || ८१ || एवमियत्पर्यन्तम् प्रणवेन न्यसेत् सर्वमासनं भैरवस्य तु || २-८२ || ऽऽओं आसनाय नमःऽऽ इति मन्त्रेण | एतत्सर्वमासनं चिद्भैरवाभेदेन व्याप्तं शर्वं शिवमयम्ऽऽ इति वक्ष्यमाणत्वात् शक्तिरूपम्, न तु व्यतिरिक्तापररूपं प्रणवान्तर्गर्भीकारेण न्यसेत् | अत्र च ---- ऽऽआसनं विभजेन्मन्त्री क्रमशः पद्ममुद्रया |ऽऽ इति श्रीरौरव उक्तत्वात् करद्वयं मुकुलीकृत्य पद्ममुद्रास्फालनीया स्थापनीया || ८२ || गन्धैः पुष्पैः समभ्यर्च्य............. प्रणवेनैव | ..........टतो मूतीं प्रकल्पयेत् | कदम्बकुसुमाकारां तुषारविरणत्विषम् || २-८३ || प्रकाशाह्लादमयीमित्यर्थः || ८३ || अथ ---- मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत् | द्वात्रिंशद्वर्णखचितं स्फुरत्तडिदिवोज्ज्वलम् || २-८४ || हृत्तो द्वादशान्तं मन्त्रोच्चारं कृत्वा, तत्र क्षणं विश्रम्य हृद्येव मन्त्रराजं पुर्यष्टकं भैरवीकर्तुं न्यसेदिति गुरवः | अत्र च वक्ष्यमाणब्रह्मकवाटकलावक्त्रभङ्ग्यादि सर्वमासूत्रितमात्रं प्रभापुञ्जन्यायेन चिन्तयेत्, इत्याशयेन श्फुरत्तडिदिवोज्ज्वलम्ऽऽ इत्युक्तम् || ८४ || अथ ---- वक्त्राणि कल्पयेद् देवि स्वध्यानेन महेश्वरि | मूर्धादिचरणं यावत् प्रणवादिनमोन्ततः || २-८५ || अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत् | नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् || २-८६ || विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत् | शक्तित्रयं ततो न्यस्येद् दक्षदिग्वामगोचरे || २-८७ || मध्यप्रदेशे देवेशि................ एतदविस्मरणार्थं पुनरपि पठितम् | तत्त्वन्यासेन परमेश्वरसृष्टानि तच्छक्तिमयानि, भगवति तु प्रकाशानन्दघनानि अत एव आसनासी (नात्म?) विश्वं शिवमयमित्युक्तम् || ८७ || ध्यानमाह ---- ..........टतो रूपमनुस्मरेत् | त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् || २-८८ || चन्द्रकोटिप्रतीकाशं चन्द्रार्धकृतशेखरम् | पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् || २-८९ || वृश्चिकैरग्निवर्णाभैर्हारेण तु विराजितम् | कपालमालाभरणं खड्गखेटकधारिणम् || २-९० || पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् | वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् || २-९१ || वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् | वज्रदण्डकृताटोपं परश्वायुधहस्तकम् || २-९२ || मुद्गरेण विचित्रेण वर्तुलेन विराजितम् | सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् || २-९३ || अष्टादशभुजं देवं नीलकण्ठं सुतेजसम् | आरुरुक्षून् निष्कलधाम्नि प्रवेशयितुं भगवता स्वस्वातन्त्र्यात् ईदृगाकार उन्मनाशक्तिभूमौ दशीतः | नहि भौवने क्वापि ईदृग्देवोऽस्ति | शाक्तस्फारमयत्वादेव चायमष्टादशभुजो दुर्गादेव्यास्तथात्वात् | अस्मिंश्च प्रतिमुद्रास्थानीयाकृतिग्रन्थे चिद्भैरवव्याप्तिरखण्डितैवास्ति | तथाहि ---- तिसृभिः परादिशक्तिभिः स्थूलसूक्ष्मपरभेदान्मायान्तं व्याप्य स्थितानां पञ्चानां नयनं येन तं त्रिपञ्चनयनम्, जटाभिरुर्ध्वपदावस्थिताभिर्वामेश्वर्यादिशक्तिभिः, मुकुटेन च स्वातन्त्र्यास्फारेण मण्डितम्, चन्द्रकोटिप्रतीकाशम् इति प्रकाशानन्दघनम् | तदुक्तं श्रीलक्ष्मीकौलार्णवे ---- ऽऽअद्वैतत्वात् सुरेशानि भैरवो गीयते भुवि | न तु दंष्ट्राकरालत्वात्तस्मात् सौम्यं विचिन्तयेत् ||ऽऽ इति | चन्द्रार्धकृतशेखरम् इति विश्वाप्यायकृदमाख्यामृतकलासंबद्धम्, पञ्चवक्त्रम् इति चिदानन्देच्छाज्ञानक्रियाख्यानि पञ्च परस्वरूपाभिव्यञ्जकानि संसारत्राणरूपाणि वक्त्राणि यस्य स तम्, विशालाक्षम् इति | ऽऽअन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः | ऽऽ इत्याम्नातपरभैरवस्फारावस्थितम्, सर्पेत्यादिना हारेण तु विराजितम् इत्यन्तेन बहिष्कृतमायीयकार्माणवाख्यपाशत्रयसंयोजनवियोजनक्रीडापरत्व मुक्तम्, कपालमालाभरणम् इति अशेषविश्वशरीरम्, विश्वम् कपालमालात्मनावयवप्रपञ्चरूपमाभरणं न तु आवरणं यस्य, चिदानन्दघनस्य भगवतस्तिस्र इच्छाज्ञानक्रियाः करणरूपाः, एकैकस्याश्च शक्तेस्त्रैरूप्यान्नवत्वम्, तत्रापि परापरभेदेन द्वैविध्यादष्टादशभुजत्वम् | तत्र खड्गेन ज्ञानशक्त्यात्मना पाशच्छेदनम्, खेटकेन क्रियाशक्तिरूपेण भक्तानां संसारत्रासपरिहरणम्, पाशेन विश्वबन्धनेन स्वातन्त्र्यम्, अङ्कुशेन तदाकर्षणम्, शरपिनाकाभ्यां कारणग्रन्थिमालाभेदनम्, वरदाभयहस्तत्वेन भोगमोक्षप्रदत्वम् मुण्डधारणेन अख्यात्यात्मकमायामुण्डापहर्तृत्वम्, अनाश्रितान्तस्य विश्वस्य अस्थिकरङ्कस्थानीयस्य स्वचिद्भित्तिलग्नत्वं खट्वाङ्गधारणेन, वीणाडमरुघण्टाभिर्मन्द्रतारमध्यध्वनिवैचित्र्याश्रयनादावमर्श निभालनावहितशक्तित्वम्, इच्छाज्ञानक्रियायोगिस्वातन्त्र्यशक्तिदण्डेन त्रिशूलेन पाशत्रयशातनम्, वज्रेण ऊर्ध्वस्थितेच्छादिशक्तित्रयेण अधः स्थितैषणीयादित्रयेण च अशेषविश्वात्मकनिजशक्तित्वम्, दण्डेन नियतिशक्त्यात्मना विश्वनियमनम्, परशुना हलाकृतिना नादशक्त्यात्मना मुद्गरेण बिन्दुशक्तिरूपेण अशेषभेदविदारणचूर्णीकरणम्, इति ध्वन्यते | सिंहो विद्येश्वरसदाशिवशक्तिशिवात्मकपञ्चाननश्चित्स्फारः, तस्य चर्म चरितम्, गजस्य च विततविततस्य मायात्मन उक्तस्वरूपसिंहनिर्भेद्यस्य चर्म चरितं विलसितं स्वस्वरूपसंलग्नत्वात् परीधानं बोधाभेदात्मकस्वस्वरूपोपरि परिवर्तमानं यस्य, देवं क्रीडादिशीलम्, नीलकण्ठम् अख्यात्यात्मकमहाविषहरम्, सुतेजसं चिदानन्दघनम् | एवमादि च भैरवानुकरणस्तोत्रेऽस्माभिवीतत्य दशीतम् || ९३ || अस्य भगवतो वक्त्रध्यानमाह ---- ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् || २-९४ || आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् | दक्षिणं तु विजानीयाद् वामं चैव विचिन्तयेत् || २-९५ || दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसन्निभम् | चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् || २-९६ || वक्त्राणां दिग्रूपवैचित्र्यं तत्तदनुग्रहादिकृत्यवैचित्र्यात् || ९६ || एवमीदृशम् ---- स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् | ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः || २-९७ || युक्तात्मा एकचित्तः, सिद्ध्यति भुक्तिमुक्ती लभते | यथा पूर्वं वाचकस्य सकृदुच्चारात् सर्वकिल्विषनाशित्वमुक्तम् तथा वाच्यस्यापि ध्यानमात्रात् सर्वसिद्धिप्रदशीत्वमुक्तम्, इति महाप्रभावतास्योच्यते || ९७ || परं न्यासमाह ---- ततः परमबीजेन परं परमकारणम् | सुशान्तं निष्कलं देवं सर्वव्यापि निरञ्जनम् || २-९८ || आवाहयेत् सुहृष्टात्मा तव देवि वदाम्यहम् | परं निरतिशयम्, सुहृष्टात्मा इति शाम्भवपदसमावेशं प्रति उत्कण्ठातिशयात्, आवाहयेत् द्वादशान्तादवतारयेत्, परशक्त्यवष्टम्भेन तत्स्वरूपमुन्मज्ज्य हृत्पर्यन्तं तच्चमत्कारसारं कुर्वीतेत्यर्थः || ९९ || कीदृशम् ---- हृत्कण्ठतालुभ्रूमध्यनादान्तान्तसमाश्रितम् || २-९९ || निष्कम्पं कारणातीतम्.......... नादान्तः शक्त्यन्तः, तस्यान्तः पर्यन्तो द्वादशान्तः, तेन हृदादिद्वादशान्तं युगपद्व्याप्नुवन्तं निष्कम्पं स्वरूपादचलितम् || एवम् ---- ..............आवाह्य परमेश्वरम् | संस्थाप्य विधिवद् देवमङ्गषट्कं ततो न्यसेत् || २-१०० || ऽऽउत्तानौ तु करौ कृत्वा अङ्गुष्ठौ तलमध्यगौ | आवाहनी त्वियम्.............................. ||ऽऽ इति आवाहनमुद्रया आवाहनम् | ऽऽबद्धाङ्गुष्ठौ स्थितौ मुष्टी उन्मुखौ स्थापनी भवेत् |ऽऽ इति मुद्रया स्थापनम् || अथ ---- पाद्यमाचमनं चार्घं स्वागतं तदनन्तरम् | संनिधानं च देवेशि................ कल्पयेदिति शेषः | पादार्थमुदकं पाद्यम् | सुशोभनम् अस्मदनुग्रहपरमागमनमस्त्विति स्वागतम्, योनिमुद्रया संनिधानम् || एवं कृत्वा .............णिष्ठुरया निरोधयेत् || २-१०१ || निष्ठुरा मुद्रा, तया निरोधयेत् अविचलं स्थापयेत् | सा तु ---- ऽऽअङ्गुष्ठगर्भगौ मुष्टी.......................... | ऽऽ इति | ऽऽ..........................णिष्ठुरा तन्निरोधने | ऽऽ इत्युक्ता || १०१ || ततः ---- गन्धैः पुष्पैस्तथा धूपैर्धूपयित्वा तमर्चयेत् | सर्वमेतन्मानसं कुर्यात् || अथ सन्निधानार्थं मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि || १०२ || मुदं हर्षं राति ददाति, परभैरवचैतन्यद्रविणं मुद्रयति, परावेशेन मोदयति भक्तान्, द्रावयति पाशान् इति वा निरुक्तां परस्वरूपप्रतिबिम्बरूपां मुद्रां वक्ष्यमाणाम् अष्टादशविधाम् | ऽऽएता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् | आवाहने निरोधे च तथैव च विसर्जने ||ऽऽ (१४ | २०) इति वक्ष्यमाणत्रैकाल्यकर्मणि | त्रिधेति ---- ऽऽमनोजा गुरुवक्त्रस्था वाग्भवा मन्त्रसंभवा | देहोद्भवाङ्गविक्षेपैर्मुद्रेयं त्रिविधा स्मृता ||ऽऽ इत्याम्नायनिदीष्टा || १०२ || विस्तरेणान्तर्यागं वक्तुमाह ---- ततः स्नादादिकं कर्म कृत्वा चैव वरानने | परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च || २-१०३ || विलिप्यागुरुकर्पूरैर्मुकुटाद्यैवीभूषयेत् | विलिप्य परिधाप्य भूषयेदिति क्रमः || पुष्पैर्नानाविधैः शुभ्रैरर्चयेद्भूषयेत् पुनः || २-१०४ || अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत् | प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् || २-१०५ || अर्घं विशेषार्घम् | प्रणम्य इति समावेशेन तन्मयीभावमाश्रित्य || १०५ || ततो ह्याभरणं बाह्ये विनिवेश्य वरानने | परमेश्वरशक्तिरूपं तदभेदेन न्यस्तमपि वक्त्राङ्गादि पुनस्तदिच्छयैव तदाभासितत्वात् प्रभापुञ्जवत् पृथगिव आवरणतया स्थितं विनिवेश्यम् | एवं चाभिदधदेवं शिक्षयति यत् ---- विश्वं ग्राह्यग्राहकाभिमतं शिवरूपमपि शिवेन तथाभासितत्वात् पृथगिव लक्ष्यते, न तु वास्तवमस्य पृथक्त्वं कदाचित् || आवरणन्यासे विभागमाह ---- एशान्यां पूर्वतो याम्यां उत्तराप्यावसानकम् || २-१०६ || विन्यसेत् पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च | बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह || २-१०७ || ध्यातव्यानि स्वरूपाणि वराभयकराणि तु | एकैकस्याः शक्तेः पञ्चशक्तिरूपत्वात् पञ्चवक्त्ररूपत्वमेकैकस्य च शाक्तस्फारात्मकस्वरूपतो भेदेनाभासितत्वात्, तथापि च मन्त्रनाडीसंधानाभ्यां तदभेदसारत्वात् पृथगपि एषां पूजनमुक्तम् | स्वं स्फटिकाभत्वादि पूर्वोक्तं रूपं येषां तानि स्वरूपाणि | वराभयकरत्वं खड्गखेटकपाशाङ्कुशशरपिनाकमुण्डखट्वाङ्गोपलक्षणपरम् | मन्त्राणां परपरापरापररूपत्वात् परादीनां च प्रत्येकं त्रैविध्यान्महासामान्यरूपव्याप्तत्वाच्च दशरूपता, इति तद्व्याप्तत्वाच्च दशबाहुत्वम् || १०७ || वक्त्रावरणानुषक्तान्यङ्गान्याह ---- अग्नीशरक्षोवायव्यचतुदीक्षु च तं न्यसेत् || २-१०८ || हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः | अग्नीशरक्षोवायव्यदिक्षु यथासंख्यं हृच्छिरःशिखावर्माणि अस्त्रं च चतुदीक्कम् इति विभागः | सकलाङ्गान्येव पृथगावरणतया पूज्यानि न तु निष्कलाङ्गानि, तेषां सर्वज्ञताद्येकरूपाणां निष्कलैकरूपत्वात् || १०८ || एषां रूपमाह ---- हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् || २-१०९ || तडिद्वलयसङ्काशां शिखां देका विचिन्तयेत् | आधूम्रं कवचं विद्यात् कपिशं चास्त्रमेव च || २-११० || नेत्ररूपस्थाननिर्देशं वक्तुमाह ---- ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम् | विन्यसेदित्येव | मध्ये इति कणीकायाम् वक्ष्यति हि ---- ङेत्रं तु कणीकायां वै | ऽऽ (२-१७१) इति || एते च ---- पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः || २-१११ || नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः | नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः || २-११२ || रत्नमालावनद्धाश्च हारकेयूरभूषिताः | एते च ---- द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः || २-११३ || भैरवाद्याः स्मृता मन्त्रा पीठेशाः पीठमर्दकाः | भैरवाद्या अङ्गान्ता मन्त्राः, पीठस्य विद्यामन्त्रमण्डलमुद्रारूपस्य चतुवीधस्य, ईशाः स्वामिनः, स्वात्मसात्करणेन मर्दकाश्च | ये तु पीठक्षेत्रसंदोहादिपल्लीपरमेतद्व्याचक्षते तेऽस्मिन्नन्तर्यागे देवतान्यासस्य मध्येऽप्येवं कल्पयन्त उपहास्या एव || ११३ || अथ ---- या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा || २-११४ || भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत् | तस्या ध्यानमाह ---- यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि || २-११५ || तथा च ---- ईषत्करालवदनां गम्भीरविपुलस्वनाम् | प्रसन्नास्यां सदा ध्यायेद् भैरका विस्मितेक्षणाम् || २-११६ || करालत्वं भैरवानुकारतः पाशभक्षणात्, गम्भीरविपुलस्वनत्वं विमर्शप्राधान्यात्, प्रसन्नास्यत्वं परभैरवानुरूप्येण अनुग्रहप्रवणत्वात्, अत एव भैरवमुद्रानुप्रवेशादेव विस्मितेक्षणत्वम् || ११६ || ततः ---- द्वितीयावरणे देवि विन्यसेद् भैरवाष्टकम् | द्वितीयशब्देन अङ्गवक्त्राणि एकमेवावरणं समव्याप्तिकत्वाद् भगवद्देहारम्भकत्वाच्च, इति दर्शयति || कथं न्यसेदित्याह ---- कपालीशं तु पूर्वायामाग्नेययां शिखिवाहनम् || २-११७ || दक्षिणे क्रोधराजं तु विकरालं तु नैरृते | मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा || २-११८ || वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे | विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः || २-११९ || अष्टावपि ---- पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः | कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः || २-१२० || एषां दिक्क्रमेण ध्यानमाह ---- पूर्वं पीतं स्मृतं देवि रक्तमाग्नेयगोचरे | दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् || २-१२१ || श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे | चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् || २-१२२ || अथ ---- तृतीये चैव लोकेशान् सास्त्रान् संपरिकल्पयेत् | नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः || २-१२३ || इन्द्राग्नियमनिरृतिवरुणाश्च समीरणः | सोमराजः कुबेरश्च ईशानः परमेश्वरः || २-१२४ || शास्त्रान् इति वदन्नस्त्रावरणं न पृथङ्न्यास्यम् इति निरूपयति, तृतीये इत्यभिधानाच्च || १२४ || ते च ---- भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने | परभैरवशक्तिपुञ्जात्मकभैरवाष्टकप्रसररूपत्वात् पूर्वं पीतम् इत्याद्युक्तभैरवाष्टकरूपेणैव चिन्त्याः || एवमेतदस्त्राण्यपि भैरवास्त्रव्याप्तिसाराणि यागरक्षापराणि नामत उद्दिशति ---- वज्रं शक्तिस्तथा दण्डः खड्गपाशस्तथैव च || २-१२५ || ध्वजो गदा त्रिशूलं च लोकपालायुधानि वै | ध्यानमाह ---- वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् || २-१२६ || दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम् | किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् || २-१२७ || गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम् | एतानि चैषां करस्थानि ध्येयानि || २-१२७ || अथ ---- संपूज्यावरणं सर्वं संधानं मन्त्रनायके || २-१२८ || कर्तव्यमित्यनुषज्यते || १२८ || कथमित्याकाङ्क्षायाम् ---- अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च | पञ्च ब्रह्माण्यथाङ्गानि एतान्यावरणानि तु || २-१२९ || क्रमेणोच्चारयेत् सर्वं यावत्तद्गर्भमैश्वरम् | अस्त्राणीत्यादिस्तृतीयपटलोक्तः प्रकारोऽनुसंधेयः | इदं चात्र पूजासतत्त्वम् ---- ऽऽउल्लङ्ध्याखिलमध्वजालममलां चिन्मूतीमाश्रित्य ता मुन्मुज्जद्बहुरूपमूतीमभितः श्रित्वा धिया वाथ ताम् | उद्योगादिचतुष्कलद्युतिमहातत्त्वात्मिकां तन्मयी भाव्याशेषमिहार्पयेत मनसा विश्वं परार्चापरः ||ऽऽ इति || १२९ || अनन्तरम् ---- मूलमन्त्रेण कर्त्तव्यं नाडीसंधानमेव च || २-१३० || अत्रापि ---- ऽऽआत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् | कलशस्थस्य वामेन रेचयेत् पूरयेत्ततः || मण्डलस्थस्य सव्येन पुनर्वामेन रेचयेत् |ऽऽ (४-४६-४७) इति चतुर्थपटलनिरूपयिष्यमाणस्थित्या निष्कलनाथमुच्चारयेत्, स्ववामेन निर्गत्य भैरवदक्षिणेन विशेत्, ततः क्रमेण वक्त्राङ्गभैरवलोकपालान्तमेवमेव च कुर्वीत इति मूलमन्त्रेण नाडीसंधानम् | एवं ह्युपसंहारप्रसरक्रमाभ्यां सर्वं देवताचक्रं भगवत्परभैरवमयमेव जायते | ये तु तृतीयचतुर्थपटलग्रन्थमेतत् परामृश्य मन्त्रसंधाननाडीसंधाने अन्यथा चान्यथा व्याचक्षते ते भ्रान्ता एव, ऽऽअनागतावेक्षणं तन्त्रयुक्तिःऽऽ इति हि वाक्यविदां निश्चयः || १३० || अथ ---- परान्तं यावदाभाव्य नैवेद्यानि निवेदयेत् | परान्तं यावदाभाव्य इत्यनेन परमीकरणं कृत्वा नैवेद्यानि निवेदयेत्, इत्यादिशति | वक्ष्यति हि तृतीये पटले ---- ऽऽमन्त्रसंधानमेतद्धि............................ | ऽऽ इत्युक्त्वा ऽऽ............................परमीकरणं शृणु | उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुप्तान्वितम् || तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् |ऽऽ (३-२०-२१) इत्यादि यावत्, शर्वेष्वावरणेष्वेव देवि तद्व्यापकं न्यसेत् | तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः ||ऽऽ (३-२४) इत्येवमीदृशेषु स्थानेषु पूर्वापरं विमृश्य अनुसंधेयम् | अथ च परान्तं यावदाभाव्य षट्त्रिंशत्तत्त्वमयत्वेन ध्यात्वा, नैवेद्यानि निवेदयेत् ब्रह्मार्पणदृष्ट्या भगवति अर्पयेत्, निवेदयेत् शिवमयानि जानीयादित्यर्थः || मानसानि नैवेद्यानि उद्दिशति ---- घारिकां वटकाश्चैव शष्कुलीर्मोदकांस्तथा || २-१३१ || खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च | शाल्योदनं मुद्गसूपमाज्याक्तं संप्रकल्पयेत् || २-१३२ || कौशल्यां मण्डजापूपांस्तथा क्षौद्रशिरांसि च | घृताक्ताश्चिल्लकांश्चैव लवणं परिकल्पयेत् || २-१३३ || अवदंशान्यनेकानि कटूनि मधुराणि च | रसालां च दधि क्षीरमासवं विविधं तथा || २-१३४ || मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च | अग्रमापूरयेच्छंभोवीत्तशाठ्यविवजीतः || २-१३५ || ऽऽयद्यत्किञ्चिन्मानसाह्लादि सर्वं तत्तद्युक्त्यैवानुसन्धाय पूर्वम् | विश्वाभेदाद्भैरवैकात्म तस्मिन् स्वस्मिन् सर्वं धाम्नि लीनं विदध्यात् ||ऽऽ इति नैवेद्यरहस्यम् | वित्तशाठ्यविवजीत इति बाह्ययागे योज्यम्, नहि मानसे यागे कृपणत्वं भवति कस्यचित् || १३५ || एवं कृत्वा भगवद्रूपस्य स्वात्मनः परमानन्दनिर्भरत्वमनुसन्धातुम् ---- पाश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया || सुराया आनन्दहेतुत्वादेवमुक्तम् | ये तु जात्युद्धारपरभैरवरूपत्वोन्मीलकेऽप्यस्मिन् भैरवनये सुराशब्दं जलवाचिनमपि व्याचक्षते, ते जातिग्रहग्रस्ताः ऽऽमद्यं मांसं तथा मत्स्यानन्यानि च वरानने | साचारांश्च निराचारांल्लिङ्गिनो न जुगुप्सयेत् ||ऽऽ (५-४८) इति भाविसमयोल्लङ्घिनः पशव एव || एवं च कृत्वा ---- मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि || २-१३६ || ऽऽत्रैकाल्यकर्मणिऽऽ इत्यनुवादः | व्याकृतं चैतत् प्राक् || १३६ || प्रणिपातं ततः कृत्वा जपं पश्चात् समाचरेत् | वासनामात्रशेषस्यापि देहादेश्चिदात्मनि परभैरवे समावेशः प्रणिपातः, अन्यथा अन्तर्बहिश्च भैरवीभावे कृते कः कुत्र कं प्रणिपतेत् | जपोऽत्र भूयोभूयः परभैरवस्वरूपे विमर्शः || कथमित्याह ---- अक्षमालां तु सङ्गृह्य गन्धैः पुष्पैः समचीताम् || २-१३७ || वाङ्निरुद्धः सुचित्तात्मा राजीवासनसंस्थितः | मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् || २-१३८ || उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेत् | समचीतामिति ऽऽओं अक्षमालायै नमःऽऽ इतिप्रयोगेण | राजीवासनसंस्थित इत्यनेन वक्ष्यमाणदिव्यकरणाधिरूढत्वं लक्ष्यते | अत एव पश्यन्त्यादिरूपा वाक् निरुद्धा मन्त्रामर्शमयीकृता येन, अत एव शोभनमविचालि चित्तं यस्य तादृगात्मा यस्य, मूलमन्त्रम् इति सकलं निष्कलं वा, सम्यगिति अक्षराक्षरसन्तानम् इति क्रमेण, उच्चार्य ऊर्ध्वं चारयित्वा नाद इति | ङास्योच्चारयिता कश्चित्ऽऽ (०-५९)? इति वक्ष्यमाणनित्योदितस्फुरत्तात्मनि लीनं तन्मयीभूतं विशेषेण तदनुप्रवेशात्मना चिन्तयेत् | कथम् ? अक्षाणि इन्द्रियाणि, उन्मील्य ऊर्ध्वं मीलितानि कृत्वा, संचिन्त्य मन्त्रदेवतां सम्यगात्मैक्येन चिन्तयित्वा, चिन्तयन्नेव जपमारभेत भूयोभूयो मन्त्रं विमृशेत् | उक्तं च ---- ऽऽभूयोभूयः परे भावे भावना भाव्यते हि या | जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ||ऽऽ इति श्रीवैज्ञानभैरवे (१४५ श्लो०) || १३८ || अत्र च ---- अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् || २-१३९ || जपः प्राणसमः कार्यः................ अक्षरादक्षरं सन्तानः प्रसरणं यत्र | तेन बीजाक्षराणां ह्रस्वदीर्घादि मात्राः मालामन्त्राणामक्षराणि चिच्छक्त्यात्ममन्त्रदेवतास्रगुम्भितानि विमृशेत् | यथोक्तम् ---- ऽऽमन्त्रं मणिवदालम्ब्य प्रभावन्मन्त्रदेवताम् | जपध्यानादिकं कुर्यान्न ताटस्थ्येन कुत्रचित् ||ऽऽ इति | न द्रुतम् इति ग्रस्तक्रमविधिं परिहृत्येत्यर्थः | न विलम्बितम् इति मध्ये मध्येऽत्यनुसन्धिशून्यमिति यावत् | ऽऽप्राणसमःऽऽ इति मध्यवाहिना प्राणेनोल्लासप्रवेशात्मना समो मध्यवाही प्राणो यथान्तर्मान्त्रं परामर्शं सहत इत्यर्थः | तेन मालामन्त्रान् प्राणशक्तावंशांशिकात्वात्मक्रमेण क्रमात्क्रममधिकं नियोजयंस्तावदभ्यसेत्, यावत् समस्तमालामन्त्रपरामर्शं प्राणशक्तिरन्तः क्षमते | तथा सति हि कलाग्रासात्मकसंवित्सतत्त्वासादनं भवति | चतुष्कलप्रणवादीनि तु पिण्डाक्षराणि पञ्चप्रणवाधिकारवक्ष्यमाणव्याप्त्यनुसन्धानेनैव मध्यमप्राणसाम्येन उच्चारयन् जपेत् | उक्तं च ---- ङ पुंसि न परे तत्त्वे शक्तौ मन्त्रं नियोजयेत् | ऽऽ इति || १३९ || एवमितिकर्तव्यतामुक्त्वा फलभेदं निरूपयति ---- .......डिनस्थो मुक्तिकाङ्क्षिभिः | हृदयाद् द्वादशान्तं प्राणवाहः दिनम्, तत्र तिष्ठति, इति निर्गर्भमपानवृत्त्या प्रविश्य मन्त्रगर्भमूर्ध्वं प्राणान्ते विश्रान्तिपरो जपेदिति यावत् || संहारः स तु विज्ञेयः............... समस्ताशेषसंहारात् || अत एव ---- ..............शिवधामफलप्रदः || २-१४० || साधकाभिप्रायेण तु ---- व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते | शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः || २-१४१ || सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया | व्योम्नि द्वादशान्ते, नाद इति तच्छेषीभूतो मन्त्रो निवर्तते इति द्वादशान्तावस्थितिलब्धोन्मेषवशादपानक्रमेणान्तवीशेत् | सृष्टिरिति आप्यायकरत्वात्, सर्वेषामुत्तमादिसिद्धिफलानामुदयो यस्याम् | तेनैवं साधकैनीर्गर्भमेव प्राणवृत्त्या मुक्तिप्रत्यूहपरिहाराय मुण्डान्तमाश्रित्य तत उन्मिषदपानशक्त्याश्रयेण हृत्प्राप्तिपर्यन्तं जपः कार्यः, उभयाथीना तु उभयथापि, इत्यर्थान्मन्तव्यम् | इत्थं चास्य मन्त्रस्य अशुद्धतत्त्वसंहारशुद्धतत्त्वसृष्टिकारितया मुक्तिभुक्तिप्रदमेकमेव पूर्णं वीर्यम्, आराधकाशयभेदात्तु पृथग्विभज्य उपदिष्टम् || १४१ || एवं च कुर्वता ---- आत्मनो भैरवं रूपं सदा भाव्यं वरानने || २-१४२ || तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत् | सर्वदशासु परभैरवचैतन्यरूपमात्मानं भावयतो विमृशतो विशेषेण घ्नन्ति मुक्तिसिद्धिप्राप्तीः, इति विघ्नाः पाशाः प्रतिबन्धकाश्च नश्यन्ति, अत एव जपो भुक्तिमुक्तिभ्यां सफलो भवेदेषां यथाभिप्रायम् || १४२ || जप्त्वा निवेदयेद् देवि भैरवाय वरानने || २-१४३ || पूरकेण प्रयोगेण.............. हृदि स्थिताय भैरवाय द्वादशान्तात् प्रवेशरूपेण पूरकप्रयोगेण मुमुक्षुस्तु फलानभिसंधिसंबन्धिना ऽऽभगवन् जपमेवंसंख्याकं गृहाणऽऽ इति निवेदयेत् || १४३ || कीदृशम् ---- ........ट्रिस्थं च त्रितयान्वितम् | त्रिसिद्धिसिद्धिदं देवि............. त्रिषु उल्लासप्रवेशोभयात्मकेषु पदेषु तिष्ठति, इति यः (सः त्रिस्थः), तथा वाङ्मनःप्राणात्मकेन त्रितयेनान्वितं युक्तम्, उत्तममध्यमाधमभेदात्त्रिरूपा या सिद्धिः साधकेभ्यः, तथा सिद्धिरेतद्विलक्षणा मुमुक्षोर्मुक्तिरूपा, तामुक्तवक्ष्यमाणयुक्त्या ददाति यः | त्रिसिद्धिरिति सिद्धिश्चेति योजयित्वा व्याख्येयम् || किं च ---- .............षरहस्यमुदाहृतम् || २-१४४ || योजनिकायां पञ्चप्रणवाधिकारे च वक्ष्यमाणनीत्या मुमुक्षुबुभुक्षूणामूर्ध्वं द्वादशान्तमाहृतं प्रापितम्, ऊर्ध्वाच्चाहृतं हृदयान्तं प्रापितं सरहस्यं कैश्चिदेव विकसितमध्यमार्र्गैर्लभ्यमित्यर्थः || १४४ || सिद्धिवैशिष्ट्येनास्य साधकं प्रति विशेषं वक्तुमाह ---- शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः | सशब्दश्चाभिचारेऽसौ प्रागुदग्दक्षिणामुखः || २-१४५ || एतद् व्याचष्टे ---- आत्मा न शृणुते यं तु मानसोऽसौ प्रकीतीतः | आत्मना श्रूयते यस्तु तमुपाशुं विजानते || २-१४६ || परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः | मानसो मध्यमायां वाचि उपांशुसशब्दौ तु सूक्ष्मस्थूलप्रयत्नायां वैखर्याम् | त्रयस्यास्य भोगहेतुत्वमन्यत्राप्युक्तम् ---- ऽऽमध्यमो भोगमोक्षाख्य उपांशुः सिद्धिदायकः | वाचिको भूतविषजित् सशब्दश्चाभिचारिकः ||ऽऽ इति | एवं वदन् पश्यन्तीपरावाग्भ्यां मुक्तौ जीवन्मुक्तौ च जपः कार्यः, इति सूचयति | उक्तं च ---- ऽऽजीवन्मुक्तौ परो ज्ञेयो मुक्तौ मुद्रितभेदकः | ऽऽ इति || १४६ || जपोपयोगिनीमक्षमालां निदर्शयति ---- अष्टोत्तरशतेनैव अक्षमाला समेरुका || २-१४७ || रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः | स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा || २-१४८ || एताश्च ---- दशाक्षमाला देवेशि गृहस्थानां प्रकीतीताः | अष्टाभिरुत्कृष्टेन अधिकेन शतेन | एवकारेण अधिकसंख्याया व्युदासः, सप्तविंशतिचतुष्पञ्चाशत्संख्याया अपि भावात् || यथाक्रमम् ---- सूत्रं ध्यात्वा परां शक्तिमध्वभागांस्ततो मणीन् || २-१४९ || व्यक्तिस्थानं शिवस्याध्वा ततस्तस्तद्धमीणीं स्मरेत् | सप्तविंशतिभिः कुर्याद् द्विगुणैर्वा चतुर्गुणैः || २-१५० || समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे | न तं विलङ्घयेद् विद्वान् सृष्टिसंहारकारणम् || २-१५१ || अत्र च नवानाम् अष्टादशानां वा षट्त्रिंशतो वा तत्त्वानां तत्त्वदीक्षायामिह मृत्युञ्जयादौ गणितानां परशक्तिशिवात्मकस्थूलसूक्ष्मपरभेदत्रैविध्यादेवंसंख्याकत्वमेव भवति, इति तत्र व्याप्तिरस्ति || १५१ || नैष्ठिकानामाह ---- वीरस्थानरतानां हि वीराणां वरवणीनि | महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् || २-१५२ || वीरस्थानं श्मशानादि, महाशङ्खं नरास्थि, वीरा निष्कम्पाः || १५२ || एतत्तु ---- गृहस्थेन न कर्तव्यमुद्वेगजननं परम् | यत एवम् ---- तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः || २-१५३ || साधकोत्तमैर्गृहस्थैः || १५३ || सा हि ---- साधयेद्विविधान् कामानधमान् मध्यमोत्तमान् | विविधसिद्धिखगतिविद्यातत्त्वाद्याप्तिरूपान् | मुमुक्षोस्तु दशविधाक्षमाला उक्तैव || उपसंहरति ---- एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः || २-१५४ || सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् | सह बाह्याभ्यन्तराभ्यां देहपुर्यष्टकभैरवत्वापादनाभ्यां वर्तते यो याग एक एव, न तु करयोर्देहे अन्तश्च अन्यान्यरूपो भैरवैक्यस्यैव प्राप्यत्वेन उपदेक्ष्यमाणत्वादिति | सबाह्याभ्यन्तरम इत्यैक्येन य उपसंहृतो यागश्चिद्भैरवेऽशेषविश्वार्पणात्मा,तं कृत्वा हृद्यागप्रतिबिम्बकरूपं च बाह्ययागम् अभिसंधाय, इत्यपि च सबाह्याभ्यन्तरं कृत्वा इत्यस्यार्थः | पश्चादिति जपानन्तरम् ---- महाशून्यालये वह्नौ भूताक्षविषयादिकम् | हूयते मनसा सार्धं स होमः स्रुक् च चेतना || (१४९) इति श्रीविज्ञानभैरवोक्तनीत्या द्वादशान्ते मन्त्रस्मरणपूर्वंकं विश्वभावार्पणरूपं होमं विधाय अन्तर्यागप्रतिबिम्बरूपं यजनमारभेत बाह्यमित्यर्थः || १५४ || आत्ममन्त्रार्घपात्रमण्डलभैरवकुसुमादिद्रव्याणां कर्तृकरणापादानाधिकरण संप्रदानकर्मकारकरूपाणां ब्रह्मार्पणदृष्ट्या परमाद्वैतापादनरूपबाह्यपूजनाभ्यासपरिनिष्ठया सर्वव्यवहारेषु सर्वकारकाणां चिद्भैरवैक्यं प्रत्यभिज्ञाप्यते, इति यद् बहिर्यागसतत्त्वं तत्प्रस्तावनाय कर्तृकरणसंस्कारात्मकान्तर्यागानन्तरं कर्मादिसंस्काराधायकापाद नादिसंस्कारार्थमर्घपात्रविधिं तावदाह ---- तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा || २-१५५ || शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा | पद्मपत्रपलाशोत्थं गृहीत्वाऽऽक्षाल्य वारिणा || २-१५६ || अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः | मृष्टधूपेन संधूप्य वारिणा पूरयेत्ततः || २-१५७ || वस्त्रपूतेन शुद्धेन................. अर्घपात्रं रक्षाधाम | तत्र इत्यन्तर्यागाद्भैरवीभावे जाते सति | आदाविति कुसुमादिसंस्कारार्थम् | सौवर्णादि मुमुक्षोर्यथासंभवम् | शम्बूकः सामुद्रः प्राणिविशेषः | पलाशो यज्ञियस्तरुः | आक्षालनं भेदशल्यापनयनम् | आपूरणम् अशेषविश्वमयीभावानाम् || १५७ || ततः ---- ...........टाडयेदस्त्रमुच्चरन् | वर्मावगुण्ठितं कृत्वा............. अत्रानुक्तमप्यनेन मन्त्रेणाप्यायनममृतमुद्रया कार्यम् || अनन्तरम् ---- .........यागं तत्रैव विन्यसेत् || २-१५८ || इज्यत इति याग मन्त्रगणः | अनेनैव चात्र पूजनमपि सूचितम् || १५८ || कथम् ---- पूर्वोक्तेन विधानेन............... अन्तर्यागोक्तासनादिपूर्वं स्फुरत्तेजोरूपसकलमन्त्रैकादशिकानिष्कलतदङ्गन्यासयुक्त्येत्यर्थः || ततोऽपि ---- .................प्रोक्ष्यस्तेन समासतः | यागार्थो द्रव्यसंघातः.................. परावृत्त्यवष्टम्भेनावलोक्येति शेषः | प्रोक्षणम् अत्र तेजोमयत्वापादनम् | ततः पुष्पादिभिः शिरसि चिद्भैरवं पूजयित्वा ---- .................टतो यजनमारभेत् || २-१५९ || अत्र भूमिकां रचयति ---- शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम् | सकलव्यापिकां सूक्ष्मां शिवाधारातु सर्वगाम् || २-१६० || ओङ्कारदीपितां देका नमस्कारावसानिकाम् | शिव आधार आश्रयो यस्यास्तां प्रथमोन्मेषरूपां विन्यसनीयाशेषासनादिभित्तिभूताम्, चिन्मात्रमूतीत्वेन व्योमाकाराम् अनुपाधिज्ञत्वरूपस्फुरत्तया सुजाज्वलाम्, गर्भीकृताशेषविश्वतया सकलव्यापिकाम्, सर्वैरलक्ष्यत्वात् सूक्ष्माम्, आधारमासनपक्षम् आधेयं च शिवं प्राप्यावस्थितत्वात् सर्वगां देका विश्वक्रीडादिप्रदशीनीं पारमेश्वरीं शक्तिमाधाररूपां परिकल्पनीयस्य अशेषस्य तदुत्थत्वेन शिवमयत्वमनुसंधातुम् उक्तवक्ष्यमाणव्याप्तिकेन ओङ्कारेण परभैरवरूपेणोत्तेजिताम् ऽऽओं आधारशक्त्यै नमःऽऽ इति प्रयोगेण न्यस्य उत्तरं विधिमारभेतेत्यर्थः | एष च शक्तिन्यासः पूर्वत्र अन्तर्यागादावपि स्मर्तव्यः || १६० || अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च || २-१६१ || वैराग्यं च तथैश्वर्यमाग्नेययादिक्रमेण तु | अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् || २-१६२ || संधानकीलकांश्चैव अधश्छादनमूर्ध्वगम् | पद्मं सकेसरं देवि कणीकां पुष्कराणि च || २-१६३ || मण्डलत्रितयं देवान् शक्तिञ्चापि शिवान्तकम् | मूतीं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् || २-१६४ || भैरवाष्टकविद्याङ्गलोचनं क्षुरिकां तथा | शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् || २-१६५ || विन्यस्य भावयेद् देवि सततं विधिपूर्वकम् | विधिपूर्वकमिति पूर्वोक्तध्यानादियुक्त्येत्यर्थः | यदिहानुक्तं तत्पूर्वतोऽनुसंधेयम्, यच्च पूर्वत्र नोक्तं तदितोऽनुसंधेयमधिकारभेदेनान्तर्बहिर्यागयोः पर्यायेण प्रकृतिविकृतिरूपत्वात्, सर्वं चैतत् पूर्वं निर्णीतम् || १६५ || निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना || २-१६६ || स्वागतं चार्घ्यपाद्यं च सन्निधानं तथैव च | रोधं निष्ठुरया कुर्यान्मूलमन्त्रमनुस्मरन् || २-१६७ || पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः | मुद्रां प्रदर्शयेत् पश्चात् त्रिधा त्रैकाल्यकर्मणि || २-१६८ || तत आवरणं बाह्ये विनिवेश्यं वरानने | ईशपूर्वयाम्यसौम्यवरुणान्तं प्रकल्पयेत् || २-१६९ || वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम् | आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि || २-१७० || उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा | नेत्रं तु कणीकायां वै पूर्वस्यां दिशि संस्थितम् || २-१७१ || एतदपि पूर्वमेव व्याख्यातम् | प्रहृष्टेनान्तरात्मना इति भैरवाशेष (वेश)मयेनेत्यर्थः | अत्र पूर्वं श्रीमदघोरेश्वरीन्यासः स्मर्तव्यः | सामीरैन्द्रदिशोरपि उत्तरान्तम् इत्यत्रैन्द्रदिश उत्तरान्तं चतुदीक्कमस्त्रं कल्पयेदिति योज्यम् | यथोक्तं पूर्वम् ---- ऽऽअग्नीशरक्षोवायव्यचतुदीक्षु च तं न्यसेत्ऽऽ (२-१०८) इत्यादि || १७१ || सर्वत्र व्यापकं विधिमाह ---- स्वमन्त्रेण तु सर्वेषामर्घ्यं पाद्यं समाहितः | दद्यादिति शेषः || समाहितत्वं स्फुटयति ---- मन्त्रसङ्करपुष्पाणि न कुर्यात् साधकः सदा || २-१७२ || न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत् | परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत् क्वचित् || २-१७३ || मन्त्राणां सङ्करो यत्र तादृंशि पुष्पाणि न कुर्यात्, नान्यमन्त्रेणान्यमर्चयेदित्यर्थः | तदित्येवं कृते सति साधकः परसिद्धिपात्रं भवतीत्यर्थः || १७३ || एवं च ---- स्वमुद्रामन्त्रसंयुक्तान् युगपत् परिकल्पयेत् | ध्यानपूजादौ स्वमुद्राभिश्च मन्त्रैश्च संयुक्तान् देवान् परिकल्पयेत् | येषां विशिष्टमुद्रा नोक्तास्तेषाम् ---- ऽऽकपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत्ऽऽ (१४-२०) इति भाविनं विधिं स्मरेत् || पूजा सुविपुला कार्या इत्युक्तम्, असंभवद्वित्तस्तु किं कुर्यात् ? इदित्याह ---- अर्घ्यं पाद्यं च धूपं च नित्यं तावत् समाचरेत् || २-१७४ || सर्वेषामेव मन्त्राणां विधिरेष प्रकीतीतः | वित्तशाठ्यवर्जं नित्यं पूजयेत्, सर्वथा वित्ताभावे तूक्तशाम्बूकादिनापि वा मनसैवापि पूजयेदित्यर्थः || १७४ || एवमसंभवद्वित्तविषयामर्घ्यपाद्यपुष्पादिसंपाद्यां पूजां प्रसङ्गादुक्त्वा प्रकृतमनुबध्नाति ---- भैरवाष्टकलोकेशान् सास्त्रान् सम्परिकल्पयेत् || २-१७५ || अथ ---- बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम् | पूर्वादीशानपर्यन्तं कल्पयेत विधानतः || २-१७६ || आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम् | श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः || २-१७७ || चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः | अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा || २-१७८ || एकपादं तथा सौम्ये आग्नेययां त्रिपुरान्तकम् | नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् || २-१७९ || एशान्यां भीमवक्रं तु श्मशानेशाः प्रकीतीताः | एते च श्रीकामरूपोज्जयिनीकाश्मीरकाञ्चीकरवीरदेवीकोट्टोड्डयानहिरण्य पुरवासिनः, इत्याम्नायादेतदाधारपीठादिपूजाऽर्थसिद्धैव | अत्र श्मशानैः सकबन्धैरित्यादि सर्वश्मशानसाधारणम् | इत्थंभूतलक्षणे चैतास्तृतीयाः || १७९ || एतांश्च ---- तर्पयेन्मत्स्यमांसाद्यैरासवैवीविधैस्तथा || २-१८० || गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत् | श्मशानानि हृद्यागे नोक्तानि मा भूद् देहशोष इति, एवमुग्रत्वादादौ मत्स्यादिभिस्तर्पणं ततः पूजा, एतानि यतिविषयाण्येव | अत्र च पक्षे लोकपालास्त्रावरणे पृथक्कार्ये, यथा च पञ्चावरणा पूजा भवति || १८० || अत्र च ---- प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः || २-१८१ || रेचकेन प्रयोगेन निवेद्य विधिपूर्वकम् | हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् || २-१८२ || अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः | मन्त्रमिति मूलमङ्गसहितम्, रेचकेन विधिपूर्वकम् इति द्वादशान्तारोहतद्विश्रान्तितदवरोहपूर्वं नासाग्रेण जप्तं मन्त्रं शपुष्पं भगवञ्जपं गृहाणऽऽ इति प्रयोगेणार्पयेत् | भक्तिवैवश्योन्मिषन्नादामर्शमयो ध्वनिर्मुखवाद्यापरपर्यायो हुडुङ्कारः || १८२ || कुण्डसंस्कारानाह ---- कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा || २-१८३ || कवचेनावगुण्ठ्यैतदस्त्रदर्भेण चोल्लिखेत् | उद्धृत्य प्रोक्षयेत् पश्चादस्त्रमन्त्रेण भामिनि || २-१८४ || पूरणं तेन कर्तव्यं समीकरणमेव च | सेचनं कुट्टनं चैव लेपनं तेन कारयेत् || २-१८५ || प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत् | लक्षणोपेतं प्रतिष्ठाशास्त्रादिनिरूपितमानस्वरूपम् | परदृगवलोकनानन्तरं प्रोक्षणं शुद्ध्यर्थमवगुण्ठनं रक्षार्थम् इति सर्वत्रानुमन्तव्यम्, प्रोक्षणविशेषात् संताडनं तेनैव सङ्गृहीतम् | एते च प्रोक्षणादयः शोषणान्तास्त्रयोदश कुण्डनिष्पत्त्यवसरे निष्पन्नेऽपि वा तत्र क्रियाशक्त्यात्मपरमेश्वररूपसंपत्तये भावनया कर्तव्याः | उल्लिखेत् खनेत् | उद्धरणम् अशुद्धमृदपासनम् संमार्जनं रजोनिवारणम् || १८५ || अनन्तरम् ---- पूजनं गन्धपुष्पाद्यैः................. ऽऽओंक्रियाशक्त्यात्मने कुण्डाय नमःऽऽ इति प्रयोगेण | अथात्र वागीश्वर्यवतारयोग्यतां कर्तुमस्त्रेणाभिमन्त्रणवज्रीकरणगृहीकरणानि वक्तुमाह ---- ...........ऽसिना चाभिमन्त्रणम् || २-१८६ || वज्रीकरणमस्त्रेण................... तदेव व्याचष्टे ---- ..........ॠएखाः पूर्वापरास्त्रयः | याम्यसौम्यमुखी चैका वज्रमेतत् प्रकीतीतम् || २-१८७ || त्रय इति लिङ्गव्यत्ययात्, उल्लेखनव्यापारेणैतत्कार्यम् | यद्वा पूर्वापरायतदर्भत्रयमध्ये दक्षिणोत्तरायतं दर्भकाण्डमेकं क्षिप्त्वा वज्रसंस्थानेन कुण्डस्य दाढर्यं जनयेत् || १८७ || किं च ---- असिनैवाग्निकुण्डं तद्दर्भैः पूर्वाग्रसंस्तरैः | सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि || २-१८८ || निवीघ्नं गृहं संपादयितुम् || १८८ || अथ वागीश्या महत्तरकस्यासनं निरूपयति ---- कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम् | दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् || २-१८९ || कुण्डान्तर्दक्षिणे गोमयासनोपरि दार्भं विष्टरं तदुपरि पुष्पं ओं ब्रह्मासनाय नमः इति दद्यात् || १८९ || एतदुपरि महत्तरमाह ---- स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम् | आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् || २-१९० || पुष्पादिभिः सुधूपाद्यैर्ध्रुवेण तु यथाक्रमम् | अत्र च ओं ब्रह्मन् संनिहितो भव नमस्तेऽऽ इति प्रयोगः || १९० || अत्र गृहमध्यलाभार्थमाह ---- चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु || २-१९१ || पूर्वसौम्याग्रभागाभ्यां विष्टरं तस्य चोपरि | पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् || २-१९२ || वागीशीं च समाहूय प्रणवादिनमोन्तगाम् | हृदयेन नैष्कलेन, वागीशस्येयं वागीशी पराशक्तिः, आह्वानामन्त्रणविभक्त्या पश्चाद् नमस्ते इति सर्वत्र प्रयोगः || १९२ || अस्या ध्यानपूर्वां पूजामाह ---- नीलोत्पलदलश्यामामृतुमच्चारुलोचनाम् || २-१९३ || सर्वलक्षणसंपूर्णां सर्वावयवभूषिताम् | ध्यात्वा चैवंविधां देका स्थापयेत् कुण्डमध्यतः || २-१९४ || ऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम् | पूजयेद् गन्धपुष्पाद्यैर्भवमन्त्रमनुस्मरन् || २-१९५ || देका द्योतमानां वाक्शक्तिम्, कुण्डस्य क्रियाशक्त्यात्मनो मध्ये, स्थापयेद् अवस्थितिं बन्धयेत् | उत्तानाम् ऊर्ध्वधाम्नि प्रसारात्मकतननरूपाम्, अत एव चारु लोचनं प्रकाशो यस्याः | नीलोत्पलश्यामलत्वं तु मायीयरूपापेक्षमस्याः | ऋतुकालः शुद्धविद्यात्मवह्न्यादिजननौन्मुख्यम्, शिरसा परारूपेण, एशाने स्वातन्त्र्यभट्टारके, संस्थितां नित्यसंबद्धामीशानदिशि निष्ठशिरसं च | किं कुर्वन्, भवति तेन तेन सकलब्रह्मभङ्ग्यादिरूपेण भवो निष्कलभट्टारकस्तस्य मन्त्रमनुस्मरन् तत्सत्तासमाविष्टः || १९५ || किं च ---- ततो मुद्रां दर्शयेत संनिधानाय मन्त्रवित् | मुद्रां योन्याख्याम् || ततोऽग्निपात्रमादाय शिवाम्भोऽस्त्रेण प्रोक्षयेत् || २-१९६ || कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत् | अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः || २-१९७ || अग्निमित्युत्तरस्थं काकाक्षिवदिहापि संबन्ध्यम् || १९७ || अथ ---- अग्निं तु शुक्रवद् ध्यात्वा चैतन्यं प्रणवेन तु | कल्पयेदस्येति शेषः | नासापथेनाग्निं प्रवेश्य स्वचैतन्यैकीकारं नीत्वा रेचयेदिति गुरवः || ततोऽपि ---- षडङ्गेनैव संपूज्यं अमृतत्वं ध्रुवेण तु || २-१९८ || ध्रुवेण इति परचैतल्यमन्त्रेण श्रीनिष्कलेन षडङ्गेनैव परामृतापादनरूपं पूजनमस्य कुर्यादित्यर्थः || १९८ || अथ ---- आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत् | ध्रुवेण कुण्डबाह्ये तु त्रिधा भ्राम्यावतारयेत् || २-१९९ || योनौ तु बीजवत् क्षिप्त्वा भैरवेण शिवाम्भसा | अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद् बुधः || २-२०० || दर्भेण ध्रुवमन्त्रेण................ त्रिधा भ्राम्य इति योन्याकारसंपुटगृहीतं पात्रं सव्यापसव्यक्रमेण त्रिधा योनिक्षोभार्थमाभ्राम्य अवतारयेद् योनिं प्रापयेत् | भैरवेण तु श्रीनिष्कलेन | ध्रुवमन्त्रेण इति प्रणवेन तदुच्चमेखलासंस्थैः प्रागग्रैरुदगग्रैर्हुतभुग्वेश्मनो दर्भैरक्षवाटं | प्रकल्पयेत् | श्रीमन्त्रराजे इत्थमूर्ध्वमुखैः इति चोपकल्पितमुपेक्ष्यम् | बुद्धः शिवसमावेशैकशाली | आत्मनो हेतुकर्तृत्वं शिवस्य तु मुख्यकर्तृत्वम् इत्यादिव्याख्यानमसत्, शिवीभूतस्यैव शिवयागेऽधिकृतत्वात् कैवात्र पशुभावशङ्का ? पशुत्वे वा कथं मोचकता ? ऽऽमन्त्राः करणभूतास्तु पशुकार्यस्य साधने | आचार्यः करणं प्रोक्तः शिवरूपो यतः स्मृतः ||ऽऽ (३-१६०) इत्यादिना च वक्ष्यमाणेन का सङ्गतिः ? इरित्यास्तामेतत् | अयं तत्र रहस्यार्थोऽद्याप्यनुन्मुद्रितोऽस्मद्गुरुवक्त्रपारम्पर्यायातः प्रकाश्यते ---- परावाङ्माहेशी जगदजनयत् स्वाप्रथनतो विशुद्धान्तर्धामा विकृतिकलनाग्रस्तविभवम् | श्रितज्येष्ठास्फारात्तनिततनुरेषा तदुचितं शिशुं दृष्ट्या रौद्र्या प्रथयति शिवाभेदसरसम् || अतः पूर्णाहन्तामृतरससमास्वादसुहितः शिवावेशाद्वाचं शिवरसपरौन्सुख्यमुभगाम् | स्ववीर्येणाक्रम्य प्रवरगुरुरग्न्यादि निखिलं शिवैकात्मस्वात्मद्युतिमयमयं सञ्जनयति || इति || २०० || किं च ---- ............ऽक्षवाटं ततो न्यसेत् | अस्त्रेणैव चतुदीक्षु दर्भैरेव प्रकल्पयेत् || २-२०१ || देव्या गुप्त्यर्थमक्षवाटं जवनिकास्थानीयं रक्षार्थमूर्ध्वमुखैर्दर्भैर्न्यसेत् || २०१ || अथान्तर्वत्न्या देव्याः ---- सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम् | दक्षहस्ते तु बध्नीयादस्त्रमन्त्रमनुस्मरन् || २-२०२ || रक्षार्थमग्निगर्भस्य................ ऽऽओं कङ्कणं बध्नामि नमःऽऽ इत्यूहमन्त्रोऽत्र | एवं सर्वत्र कर्मौचित्येनोहमन्त्राः कर्तव्याः | दक्षहस्ते पुङ्गर्भार्थं कङ्कणबन्धः || २०२ || एवं प्रोक्षणावगुण्ठनोल्लेखनोद्धरणप्रोक्षणादि- शोषणान्तैस्त्रयोदशभिः संस्कारैः कुण्डं संस्कृत्य संपूज्य, अस्त्राभिमन्त्रणवज्रीकरणकुण्डाच्छादनात्मसंस्कारत्रयं गृहहेत्वर्थं कृत्वा, ब्रह्मण आसनावाहनपूजनानि विधाय, गृहमध्यलाभाय चतुष्पथं कृत्वा, वागीस्यावाहनासनपूजनशुक्रध्यानचैतन्यापादन (अमृती) करणविशेषध्यानत्रिराभ्रमणयोनिप्रक्षेपान् नव संस्कारान् प्रकल्प्य, पुनर्वागीश्याः प्रोक्षणयोनिप्रच्छादनाक्षवाट- कल्पनकङ्कणबन्धांश्चतुःसंस्कारान् विधाय, अग्नेर्दीक्षादिकर्मसंपत्तिसमर्थं मान्त्रं देहं संपादयितुं वक्त्राङ्गक्रमाद्गर्भाधानादिसंस्कारानाह ---- ..........गर्भाधानमतो भवेत् | अपरास्यत्रिराहुत्या पूजनं हृदयेन तु || २-२०३ || हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत् | प्रणवपूर्वं पश्चिमवक्त्रबीजं लकारमुच्चार्य ऽऽगर्भाधानं करोमि स्वाहाऽऽ इति त्रिः कृत्वा हृदयेन नैष्कलेन ऽऽगर्भाधानं संपद्यतां स्वाहाऽऽ इति त्रिर्जुहुयात् एवमुत्तरत्रानुसंधेयम् | अत्र ऽऽपूजनं हृदयेन तुऽऽ इति मध्यग्रन्थः पूर्वं योज्यः, तेनादावाङ्गमन्त्रेणाहुतित्रयम्, उत्तरत्र ईदृश एव क्रमस्य भावात् || २०३ || पुंसवनमाह ---- हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् || २-२०४ || गन्धपुष्पादिभिः पूजां शिखया कारयेत्ततः | त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् || २-२०५ || पंसः कल्पनमेव हि न स्त्रीगर्भे तु जन्यते | जलबिन्दुं पुर्यष्टकरूपं जीवमभिसंधातुं ऽऽपुमान् भव नमःऽऽ इत्यन्तेन प्रयोगेण अत्रेत्याहिते गर्भे क्षिपेत् | शिखया नैष्कल्या, उत्तरेणेति वकारेण | पुंस्त्वमुपचयः कार्ये शक्तत्वम्, अपचयः स्त्रीत्वम् || २०५ || अथ ---- सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् || २-२०६ || ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत् | प्रत्यङ्गानि च सङ्कल्प्य सीमन्तोन्नयनं भवेत् || २-२०७ || पुर्यष्टकोपरि स्थूलदेहप्रविभागमात्रमिह सीमन्तः | दक्षिणास्यम् अघोरवक्त्रमन्त्रः, प्रत्यङ्गानि करोदरचरणाङ्गुल्यादीनि || २०७ || अत्र च ---- गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात् | पूर्वमध्यापरान् वह्नौ त्रीन् भागान् परिकल्पयेत् || २-२०८ || मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम् | पूजेति कार्या, शिरसेति काकाक्षिवत् | आहुतित्रयाद्धोमादित्त्येकवाक्यता | तच्चैतद्भागत्रयं शिवविद्यानराख्यतत्त्वत्रयरूपम् | मुखेन मूर्धा, पादाभ्यां गुह्यमाक्षिप्तमित्येषैवात्र दण्डभङ्गिः || २०८ || प्रत्यङ्गानीति यदुक्तं तद्विभक्तुं कवाटक्त्रादि न्य सितुंकवाटन्यासं तावदाह ---- शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः || २-२०९ || कल्पयेदिति शेषः | शिरांसि कवाटानि, ऊर्ध्वास्येन क्षकारेण | अत्र च सुतारिण्याद्याः प्राग्वत् कला अनुसंधेयाः || २०९ || अथैतदनूद्य वक्त्रकलाभिर्वक्त्रकल्पनामाह ---- पञ्चवक्त्रं तु सङ्कल्प्य मध्यप्राग्याम्यसौम्यकम् | अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया || २-२१० || वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसंख्यया | ऽऽपञ्चमं यद् भवेद्वक्त्रं क्षकारेणैवऽऽ (१-४९) इति पूर्वमुक्तत्वाद् आदौ मध्यममूर्ध्ववक्त्रं क्षकारेण शान्त्यतीतानुसंधानेन प्रकल्प्य, पश्चात् पूर्वास्येन यकारेण वक्त्रचतुष्टयं शान्त्यादिकलानुसंधिना प्रत्येकं तिसृभिराहुतिभिः कल्प्यम्, मध्येत्यादावुक्तत्वाद् आदौ मध्यमवक्त्रन्यासः | एतच्च सर्वत्रानुसंधेयम् || २१० || किं च ---- नेत्रं नेत्रेण सङ्कल्प्य मुखेष्वेवं त्रयं त्रयम् || २-२११ || आहुतित्रितयेनैव.................... नेत्रेण सकलनेत्रमन्त्रेण || २११ || एतच्च ---- ........टिलैः सर्वं तु कारयेत् | सर्वमित्यग्निसंस्कारजातम्, आज्यं तु निष्पन्नस्य शिवाग्नेस्तर्पणाय, निष्पत्तिश्चास्य भैरवरूपस्यैवेति || ततः कलासमूहं च पञ्च चाथ चतुष्टयम् || २-२१२ || सीमन्तोन्नयनमध्य एव तद्वक्त्रकलादिन्यासस्तन्त्रान्तरवैलक्षण्येनेहोक्तः || २१२ || एवमीशानपुरुषकलाभिः प्रत्यङ्गन्यासमुक्त्वा अघोरकलाभिराह ---- अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात् | शेषास्यैः संप्रकल्प्यैवं कलामूतीस्ततो भवेत् || २-२१३ || अङ्गानि ऽऽहृदि ग्रीवाऽऽ (स्व० तं० १ | ५०) इत्यादिप्रागुक्तानि | एवमिति प्रत्यङ्गम्, तत्तत्कलानुसंधिनाहुतित्रयेण | कला मूतीर्यस्येति बहुव्रीहिः || २१३ || अथात्रैव ---- अङ्गानि विन्यसेत् पश्चाद् हृदाद्यानि यथाक्रमम् | नेत्रस्योक्तत्वात् तद्वजीतानि सकलाङ्गानि तन्मन्त्रैर्न्यसेत् | एवं ऽऽप्रत्यङ्गानि सङ्कल्प्यऽऽ इति यदुक्तम्, तदेव पूर्वमध्येत्यादिना श्लोकषट्केन विभक्तम् || एवमेतत्सर्वं कृत्वा ---- त्रिराहुतिं दक्षिणेन................ दक्षिणवक्त्रमन्त्रेण शीमन्तोन्नयनं करोमिऽऽ इत्यन्तेन दद्यात् || अथ ---- ............शिरसा चाहुतित्रयम् || २-२१४ || चकारोऽनेनैवादौ पूजां कुर्यात्, इति प्रस्तावपूरणं ध्वनति | यत्तु ---- ऽऽगन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात्ऽऽ (२ | २०८) इति पूर्वोक्तम्, तद्भागत्रयकल्पनया त्रितत्त्वकल्पनार्थम् || २१४ || उपसंहरति ---- सीमान्तोन्नयनं ह्येवं.............. एवं विभक्तावयवस्याग्नेः ..........जातकर्म त्वथोच्यते | अस्त्रेण वीजयेदग्निमस्त्रेणैव तु पूजयेत् || २-२१५ || त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम् | एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् || २-२१६ || वीजनं प्रसवाभिमुखीकरणम्, पूर्वेण ऽऽयऽऽकारेण || २१६ || एवं गर्भाधानसीमन्तोन्नयनजातकर्माणि कृत्वा ---- अस्त्रेण प्रोक्षयेत् कुण्ड सद्यः सूतकशुद्धये | आपादितशिवभावोऽपि दीक्षादिसंपत्त्यर्थं यतोऽग्निः शरीरं ग्राहितस्ततश्चिदात्मनो देहग्रहः सूतकरूपः सर्वाशुद्धिप्रथमाङ्कुरः शोध्य एव || जातस्याग्नेः ---- वक्त्राण्युद्घाटयेत् पश्चाद्वक्त्रेणैवाहुतित्रयात् | उद्घाटनं विकासः | यथा ---- वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः || २-२१७ || प्रतिवक्त्रं स्वमन्त्रेण परामृश्य ऽऽशोधयामिऽऽ इत्यूहान्तेऽस्त्रमुच्चार्य त्रिर्जुहुयात् || २१७ || तथा ---- वक्त्राभिधारौ वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम् | वक्त्रेष्वभिधारो दीप्तिः | त्रयं त्रयमिति आहुतीनां दद्यादिति शेषः || वह्नेः संरक्षणार्थं दिक्षु देवतान्यासं प्रस्तोतुमाह ---- प्रोक्षयेत् कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा || २-२१८ || दर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान् | सौम्याग्रान् पूर्ववारुण्योः परिधीन् विष्टरांस्तथा || २-२१९ || हस्तमात्राः शाखाः परिधयः | समध्यग्रन्थि दार्भमासनं विष्टरः | एवं क्रमात्क्रममन्तर्दर्भपरिधिविष्टराः ---- अस्त्रमन्त्रेण ते सर्वे............... न्यसनीयाः | तत्र ---- .................ब्रह्माणं पूर्वविष्टरे | रुद्रं च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे || २-२२० || सदाशिवं चोत्तरेऽथ स्वनामपदचिह्नितम् | आदौ ध्रुवं स्मरेद् देवि नमश्चान्ते प्रकल्पयेत् || २-२२१ || गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत् | स्पष्टम् | ततोऽप्यन्तः ---- मेखलोपरि लोकेशान् पूजयेत् प्रणवेन तु || २-२२२ || एवं च ---- रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये | ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् || २-२२३ || पुष्पं सङ्गृह्य देवेन शिवाग्नेर्नाम कल्पयेत् | गर्भस्य जातत्वाद्रक्षान्तरस्य च विहितत्वाद् गर्भरक्षाया अधिकारो निवृत्त इति कङ्कणमोक्षः | देवेन मूलमन्त्रेण सप्रणवेन ऽऽशिवाग्निर्भव नमःऽऽ इति नामकल्पनम् || २२३ || अथ ---- कवचेनोपचारं तु गन्धपुष्पादिधूपकैः || २-२२४ || कवचेन नैष्कलेन ऽऽशिवाग्नये नमःऽऽ इत्यन्तेन उपचारं पूजां कुर्यात् || २२४ || अत्र ---- ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः | प्राग्वदूहमन्त्रेण दद्यात् | एवं सूतकशुद्धिवक्त्रोद्घाटनवक्त्रशुद्धिवक्त्राभिघारविष्टरादिन्यास- देवतास्थापनतदर्चनकङ्कणमोक्षणान्यष्टौ अवान्तरसंस्कारान् कृत्वा नामकरणाख्यः पश्चिमः संस्कारः कृतः || अथ ---- शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः || २-२२५ || विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु | पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः || २-२२६ || तुश्चार्थे भिन्नक्रमः | तेन सुरान् ब्रह्मादीन् सरस्वतीं च प्रणवादिस्वनामभिरभ्यर्च्य प्रत्येकमाहुतित्रयेण संतर्प्य ऽऽक्षम्यताम्ऽऽ इत्युक्त्वा विसर्जयेत् || २२६ || अथ ---- धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः | चतुवीशतिसंख्याताः शिवाग्नेस्तर्पणाय तु || २-२२७ || धाम्ना निष्कलेन | इध्मा अस्फुटिता ऋज्व्यः सत्वचः शखाः || २२७ || एवं तिलैः संस्कारानुक्त्वा आज्यकार्यान् संस्कारान् प्रस्तोतुमाज्यप्रक्षेपकरणस्रुक्स्रुवसंस्कारार्थमाह ---- स्रुक्स्रुवौ संप्रताप्याग्नौ शिवाम्भोऽस्त्रेण प्रोक्षयेत् | कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत् त्रिधा || २-२२८ || अस्त्रेण मार्जयेदद्भिर्दर्भाग्रेणाथ संस्पृशेत् | पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा || २-२२९ || दर्भमध्येन संस्पृश्य भूयोऽग्नौ भ्राम्य तापयेत् | शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् || २-२३० || स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ | दर्भाणां पृष्ठतः पूज्यौ दक्षिणेऽग्नेः सदा बुधैः || २-२३१ || मार्जनं प्रोक्षणमेव, तापनं काष्ठादिभावनिवारणाय | यथोक्तम् ---- ऽऽ...........................टापयेत्तेजसि त्रिधा | सञ्जातौ तेन संतप्तौ काष्ठभावपराङ्मुखौ ||ऽऽ इति || सृष्टिक्रमेणात्र दर्भस्याग्रमध्यमूलैस्तदग्रमध्यमूलस्पर्शेन त्रिर्भ्रमणेन च इच्छादिशक्तित्रयमयत्वमनयोर्जायते | स्रुक्स्रुवाभ्यामिति स्रुक्स्रुवयोरित्यर्थः | संस्कारद्वादशकानन्तरं पूज्यावधोमुखाविति सृष्ट्युन्मुखत्वाभिप्रायेण | अग्नेर्दक्षिणे होतुर्वामे, इति दीप्त्याप्यायनाभ्यामनयोर्युगपत् संबन्धेनाग्नीषोममयत्वापत्तिः || २३१ || अथ ---- आज्यसंस्करणं कुर्यादाज्याधिश्रयणादिकम् | अधिश्रयणं संप्रोक्षिते पात्रे प्रस्रुतस्य स्थापनम् | क्वचिदधिस्रवणमिति पाठः | तत्राधिकरणभाण्डे तापनमित्ययमर्थः || आदिशब्दसूचितान् संस्कारानाह ---- आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् || २-२३२ || शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु | कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् || २-२३३ || योनिसंस्थं चाज्यपात्रं................. तापनं दीप्त्यर्थमाग्नेययां दिशि | उद्वासनमग्नेरूर्ध्वधारर्णं दीप्तेः स्फुटतार्थम् || २३३ || किं च ---- ................उत्प्लवं संप्लवं ततः | तस्याज्यस्योत्प्लवं च कुर्यादिति शेषः || केनेत्याह ---- दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् || २-२३४ || पवित्रमेतद्विहितमुत्प्लवं तेन संप्लवम् | प्रसारिताङ्गुष्ठतर्जनीमानं प्रादेशः || २३४ || कथमित्याह ---- अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत् पवित्रकम् || २-२३५ || पराङ्मुखं तु त्रीन् वारान् संमुखं त्रींस्तथैव च | अस्त्रेणैव तु मन्त्रेण.................. असारभागापनयनायोत्प्लवं साराहरणाय संप्लवम् || किं च ---- .............ऽवद्योतः शिवाग्निना || २-२३६ || अस्त्रेणेत्येव कार्य इति शेषः || २३६ || तं व्याचष्टे ---- दर्भोल्मुकं तु सङ्गृह्य आज्यपात्रं निरीक्षयेत् | तेन प्रकाशयेत् | अत्र चावसरे स्वनेत्रतेजोनिरीक्षणेन परतेजोमयं चाज्यं कुर्यादित्यर्थः || नीराजनं ततः कुर्यात्................ निःशेषेण राजनं च ज्वलितेन दर्भेण सर्वतो भ्रामितेन दीपनमस्त्रेणैव | ..............पर्यग्निकरणं ततः || २-२३७ || कथम् ---- धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् | धाम्ना मूलेन सह परितः समन्तादग्निकरणं तेजोमयत्वापत्तिः || ततः ---- धाम्नैव विधिना मन्त्री प्रोक्षयेदस्रवारिणा || २-२३८ || विधिः शिवाभेदाभिसंधिः || २३८ || किं च ---- अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु | निष्कलेन साङ्गेनाभिमन्त्रणमेवममृतत्वममृतमुद्रया || एवमाज्यप्रोक्षणावगुण्ठनतापनोद्वासनभ्रामणोत्प्लवसंप्लवावद्योत ननीराजनपर्यग्निकरणप्रोक्षणामृताख्यसंस्कारान् द्वादश कृत्वा - --- सकृदुच्चारयोगेन पूजयेद् भैरवेण तु || २-२३९ || निष्कलेन || २३९ || एवं कर्त्रपादानकरणाधिकरणकर्मणां यष्ट्रर्घपात्रस्रुगादिस्थण्डिलाग्न्याज्यादीनां संस्कारैः संप्रदानात्मकभैरवदेवतैक्यापादनं कृत्वा तदेव द्रढयितुमग्निवक्त्राणां भैरववक्त्रमन्त्रैरभिसन्धिमाह ---- वक्त्रसंधानकं वक्त्रैराहुतित्रितयेन तु | एतद्व्याचष्टे ---- अपरास्येन तद्वक्त्रसंधानं तु समाचरेत् || २-२४० || एवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेत् | त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः || २-२४१ || पूर्ववक्त्रेऽप्यथैवं स्यादूर्ध्ववक्त्रं शिवान्वितम् | त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीतीतः || २-२४२ || अपरास्येनेति तन्मन्त्रेण, तद्वक्त्रसंधानमिति तेनैवापरवक्त्रेण संधानमिति अर्थादुत्तरवक्त्रबीजनामभ्यां विस्पष्टस्य उत्तरस्य | यदाह ---- एवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेदिति | अतश्च ऽऽओंलं सद्योजातवक्त्रेण ओंवं वामदेवक्त्रमनुसंदधे स्वाहाऽऽ इति प्रयोगः | एवम् ऽऽओंवं वामदेववक्त्रेण ओंरं अघोरवक्त्रमनुसंदधे स्वाहाऽऽ इति प्रयोगः | एवमन्यत् | शिवान्वितमितीइशानविश्रान्तिसारम् | अत्र प्रतिवक्त्रानुसंधिं त्रिस्तिलैर्जुहुयात्, न त्वाज्येन, तत्संस्काराणामसमाप्तत्वात् | पश्चिमप्रमुखमूर्ध्वे विश्रान्तिः कार्या || २४२ || मुमुक्षून् प्रति अस्यैव प्राधान्यादित्याह ---- मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु | अथ कर्मौचित्यानुगुण्येन यन्मुख्यं वक्त्रं तदूर्ध्वं स्मर्तव्यम्, इत्यत्राप्यर्थेऽनुसंधिमुक्त्वा प्रसङ्गाद्वक्त्रभेदेन होममाह ---- मुक्तिकामस्य दीक्षायामूर्ध्ववक्त्रस्य मुख्यता || २४३ || एतन्नैमित्तिकविषये || २४३ || काम्ये तु विभागेनाह ---- पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः | सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् || २-२४४ || विविधा इति उत्तममध्यमाधमाः | होमयेदिति होमेन साधयेत् || २४४ || मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा | दक्षिणे चैव वक्त्रे तु होमात् सिद्धिः परा भवेत् || २-२४५ || शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च | सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत् सदा || २-२४६ || आकर्षणं परचित्तादेः || २४६ || नित्यविषयमप्याह ---- पश्चिमे नित्यकर्माणि............... सर्वैः कार्याणि, तस्य विधिपूर्वकत्वात् || स एष ---- ..............विनियोगः प्रकीतीतः | एवं च यो यत्र वक्त्रे कर्म कर्तुं वाञ्छति, स तदूर्ध्वे न्यसेत्, ऊर्ध्वं तु तत्स्थाने | यद्वक्ष्यति ---- ऽऽ.................येन यत्कर्म वाञ्छितम् | तन्मुख्यवक्त्रं सङ्कल्प्य ................. ||ऽऽ (स्व० २-२६४) इति || एवं प्रस्तुते नित्यकर्मणि ---- आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे || २-२४७ || पश्चिमे सद्योजाते, ऊर्ध्ववक्त्रे ऊर्ध्ववक्त्रस्थाने प्रापित इत्यर्थः || २४७ || एवमस्य भैरवापत्तिपर्यन्तान् संस्कारान् कृत्वा वह्नेर्भैरववक्त्रानुनुसंधिना भैरवेणैकतां संपूर्य, इदानीमाज्यवह्न्योः क्रमेण त्रिधामत्वापादनार्थमाह ---- आज्यपात्रस्य मध्ये तु दर्भे वै भैरवेण तु | न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना || २-२४८ || तत इति मध्यस्थदर्भद्वयदानाद्वर्त्मनां त्रयाणां मार्गाणां कल्पना कार्या | दर्भ इति जातावेकवचनम् || २४८ || कथमित्याह ---- उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना | नाडीत्रयेण युगपत् पात्रे भागत्रयं न्यसेत् || २-२४९ || नाडीत्रयरूपेण वर्त्मना मार्गत्रयेण भैरवं निष्कलमुच्चार्य आज्यगतभागत्रये त्रिष्ठया प्राणशक्त्या इच्छाज्ञानक्रियात्मना समं पातं विश्रान्तिं कृत्वा वह्निसोमसूर्यात्मकधामत्रयमयं भागत्रयं न्यसेद् अनुसन्दधीत || २४९ || अत्र विभागः ---- सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत् | इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् || २-२५० || एवमाज्यं त्रिधाममयीकृत्य तद्धोमाद्वह्निमपि तन्मयीकर्तुमाह ---- एवं त्रिभागं सङ्कल्प्य स्रुवमापूर्य होमयेत् | भैरवेणैव मन्त्रेणाग्नये स्वाहान्तमेव च || २-२५१ || अग्निभागात्तु सङ्गृह्य................ मध्यनाडिस्थं प्रकाशानन्दसारमग्नीषोमात्मकं धाम पृथक्त्वमाभासयद् वामे सोमतां श्रयति दक्षिणे तु वह्निताम्, तत्र सोमात्मनो हविषोऽन्तर्वतीनः प्रज्वालकस्याभावान्न न मध्यवद् भेददाहकात्मत्वम्, इति तत्प्रकाशकत्वमात्रात् सूर्यरूपताप्युच्यते, उपादानौचित्यात् त्वग्नितापीत्यग्निभागोऽत्र दक्षिणः, अत एवेह पिङ्गलेत्यग्निनाम्ना दक्षनाडी व्यवहिता | तृतीयपटले तु ---- ऽऽपिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु |ऽऽ (स्व०तं० ३-२२) इति, ऽऽपिङ्गला मध्यमा नाडीऽऽ (स्व०तं० ३-१४९) इति च मध्यनाड्युक्तेति युज्यत एव, इति न कश्चित् पूर्वापरव्याघातोऽस्ति | ततो विभागोऽत्रदक्षिणकृतनाडीसम्पातानुसारं स्वदक्षिणस्ततो होमोऽग्नेर्दक्षिणे भागे | एवं वामेऽपि ज्ञेयम् || २५१ || अथ ---- ...........ष्रुवेणाज्याहुतिं क्षिपेत् | सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् || २-२५२ || सप्रणवं निष्कलपूर्वोऽत्र मन्त्रः, इत्यादिकमादिशन् पूर्वोक्तमनुवदति ---- धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत् | क्रियाविशेषणमेतत् || ततोऽपि ---- अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः || २-२५३ || प्रणवाद्याज्यमध्यात् तु स्रुवमापूर्य होमयेत् | शुक्लपक्षे विधिर्ह्येष................ अग्निषोमेत्यत्र अग्नीषोमाभ्यामिति प्रयोगः | अयं शुक्लपक्षे विधिः | अन्यत्र तु ---- ...............कृष्णपक्षेऽन्यथा भवेत् || २५४ || तमाह ---- सोमभागे भवेत् सूर्यो ह्यग्निसंज्ञा तु पूर्ववत् | अग्नेः सूर्यस्य मध्याद् (वै) आहुतिं प्रतिपादयेत् || २-२५५ || यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी | शुक्लपक्षे सोमस्य पूर्णत्वात् सोमायेत्याहुतिः | कृष्णपक्षे तु क्षीणस्येन्दोः सूर्यमण्डलाक्रमणात् सूर्यायेत्याहुतिः | मध्ये तु अग्निसूर्याभ्यामिति | अन्यत्तु पूर्ववत् || २५५ || एवमग्नेरपि त्रिधाममयत्वं संपाद्य ---- प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु || २-२५६ || कार्य इति शेषः | अत एव त्रिधाममयीकारादनन्तरं तेन प्रणवं निष्कलं वक्त्रमन्त्रं चोच्चार्य ऽऽअग्नेः प्राशनं करोमि स्वाहाऽऽ इत्यन्तोऽत्र प्रयोगः | प्राशनं च भाविपाशभक्षणाद्यौचित्याधानम् || अन्यानपि संस्कारानेकप्रघट्टकेन शिवाग्नेः पुष्कलतासंपत्तिसतत्त्वानाह ---- चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः | प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् || २-२५७ || भैरवं तु समुच्चार्य................. आदिशब्दादुपनयनादयो बालस्य ब्रह्मचारिणोऽन्ते ये संस्थिता उद्वाहादयः | अत्र च ऽऽअग्नेः चूडाद्याः सर्वे संस्काराः सन्तु स्वाहाऽऽ इत्यन्तः प्रयोगः | पूर्णायामितिकर्तव्यता भविष्यति || २५७ || एवं कृते सति प्रवृद्धः ---- ..............शिवाग्निः सर्वसिद्धिदः | सर्वेषां समययादीनां सर्वाः सिद्धिर्ददातीति तन्त्रेणेत्यर्थः | एवं संस्कृताच्छिवाग्नेश्चर्वर्थं पुनः संस्कारं विना नित्यकर्मार्थं च ---- ऽऽश्राप्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते | अनाहूते शिवे वह्नौ..................... ||ऽऽ इत्यन्यत्रोक्तत्वादनाहूतपरमेश्वर एव || अग्निं तु प्रोद्धरेत् पश्चात् पात्रे संस्थाप्य रक्षयेत् || २-२५८ || कवचावगुण्ठितं रक्षितं कुर्यात् || २५८ || अथ ---- कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः | प्रणीतं कल्पयेत्तत्र.............. विष्टरस्येति रुद्राश्रयस्य || प्रणीतं व्याचष्टे ---- .................चमसं वारिपूरितम् || २-२५९ || चमसं दारुपात्रम् || २५९ || तत्र च यज्ञध्वंसनाशिनो विष्णोरासनार्थम् ---- पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत् | तस्मिंश्च ---- प्रणवादि समावाह्य विष्णुनाम ततो नमः || २-२६० || आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत् | स्वागतासनपाद्यार्घैः.............. अत्र प्राग्वत् प्रयोगतः ...........टतो विज्ञापयेत्तु तम् || २-२६१ || पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः | भगवंस्त्वत्प्रसादेन यागे निश्छिद्रताऽस्तु नः || २-२६२ || पश्वर्थं नैमित्तिके, दीक्षाविधानार्थं नित्ये, भगवन् काम्ये इति योज्यम् || एवमितिकर्तव्यतां कृत्वा ---- ततोऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत् | कथमित्याह ---- स्थण्डिलोक्तविधानेन अनन्तादीन् प्रकल्पयेत् || २-२६३ || अत्र विभागं तावदुक्त्वा कर्मौचित्येनाग्निवक्त्रजिह्वाकल्पनं कर्तुमाह - --- ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम् | तन्मुख्यवक्त्रं सङ्कल्प्य मुखं कुण्डप्रमाणतः || २-२६४ || भावयेन्नव जिह्वास्तु वक्त्रे वक्त्रे प्रतिष्ठिताः | वक्त्राणां गुणमुख्यताकल्पनं पूर्वमेव सुविभक्तम् | मुखमित्यास्यम् || २६४ || जिह्वानां दिग्विभागमाह ---- प्रागाद्यष्टौ मध्य एका.................... प्रागादि कृत्वा च एशान्तमष्टौ || तासां च ---- ..............काम्यार्थे दिग्गतास्तु याः || २-२६५ || याः प्रागादिदिगष्टस्थास्ताः काम्ये कर्मणि इत्यर्थः || २६५ || ताः कर्मचोदितैर्नामभिरुद्दिशति ---- राज्यार्था दाहजननी मृत्युदा शत्रुकारिका | वशीकर्त्र्युच्चाटनी स्यादर्थदा मुक्तिदायिका || २-२६६ || नवम्याः कर्मोचितं नामाह ---- सर्वसिद्धिप्रदा मध्ये................. यत एवम् ---- .............टस्मान्मध्ये तु होमयेत् | एवमुद्दिष्टानाम् ---- पूर्णा तु भैरवेणैव जिह्वानां कल्पनाय च || २-२६७ || पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत् | एकत्र मूलमन्त्रपूर्वम् ऽऽअग्निजिह्वाः कल्पयामिऽऽ इति प्रयोगः | अन्यत्र ऽऽजिह्वासंनिधिरस्तु स्वाहाऽऽ इति || २६७ || अथ वह्नेः परमसंस्कारकरणपूर्वमनन्तादीन् प्रकल्पयेदिति यदुपक्षिप्तं तन्निर्वाहयति ---- ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् || २-२६८ || आत्महृत्स्थं तु सङ्कल्प्य योगपीठं तु कल्पयेत् | मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् || २-२६९ || नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् | वह्निचैतन्यरूपतया कल्पितं भावितं ज्वालाग्रं हृदा हृन्मत्रेण आगृह्य नासापथेन स्वीकृत्य हृद्गतचैतन्यानलैकीभावेन भैरवीकृत्य बाह्यवह्नेः सूक्ष्मदेहस्यापि भैरवतां कर्तुं | ऽऽयोगोऽस्य शक्तयः स्वाक्या विस्फूर्जन्ति समन्ततःऽऽ | (१-५-५) इति मतङ्गोक्तनीत्या योगपीठम् अनन्तादिसदाशिवान्तं शक्तिरूपमासनमस्य कल्पयेत् || २६९ || पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् || २-२७० || अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम् | ओंकारेण शिवान्तं च............... गतार्थमेतत् || २७० || ततः ---- ............ऽग्निमूतीं प्रकल्पयेत् || २-२७१ || प्राग्वत् हंसाक्षरेणैव || २७१ || ततोऽपि ---- शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत् पुनः | रेचकेण क्षिपेद् वह्नौ सा मूतीर्भैरवात्मिका || २-२७२ || ध्रुवेण निष्कलेन, उत्कीलयेत् स्वचैतन्यभैरवेणैकीकृतामुद्धरेत्, ततो दक्षनासापथेन बाह्यवह्निमूर्तौ क्षिपेत्, एवमेषा मूतीर्भैरवात्मिका भवति || २७२ || अथ ---- मूतीभूतं प्रकल्प्यैवमष्टात्रिंशत्कलायुतम् | शोध्याध्वानं तु विन्यस्येद् दीक्षाकाले वरानने || २-२७३ || अष्टात्रिंशत्कलाः पूर्वोक्ता वक्त्रभङ्ग्याद्युपलक्षणपराः | शोध्याध्वानमिति येनाध्वना गुरुर्दीक्षां चिकीर्षति || २७३ || एवं कृत्वा ---- भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा | वक्त्रसंधिश्च वक्त्राभ्यां शिववक्त्राग्निवक्त्रयोः || २-२७४ || शास्त्रदृष्टेनेति यथोक्तावरणान्तं मानसेनार्घादिक्रमेण | वक्त्राभ्यामिति बह्वर्थं द्विवचनम्, तेन वक्त्रमन्त्रैरित्यर्थः | शिववक्त्रे भैरववक्त्रम्, अत्र च ऽऽओं लं सद्योजाताख्यभैरववक्त्रं शिवाग्निवक्त्रेऽनुसंदधे स्वाहाऽऽ इत्यादिक्रमेण वक्त्रसंधिश्च पूर्वोक्तवक्त्रसंधिविलक्षणः कर्तव्यः || २७४ || किं च ---- संधाय चैवं जिह्वाभ्यां.................. अन्तर्बहिर्वह्निवक्त्राणां परमेशवक्त्रैर्मन्त्रपूर्वं जिह्वानुसंधानं कृत्वा ...........णाडीसंधिरतो भवेत् | तदाह ---- मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् || २-२७५ || स्थण्डिलस्थशिवालीनमेकार्थं चैव संधयेत् | अग्निहृदयाद्भावनया मूलमन्त्रमुच्चार्य तद्दक्षिणेन निर्गत्य स्थण्डिलेशस्य वामेन प्रविश्य दक्षिणेन निर्यायात्, इति क्रमेण सर्वावरणमन्त्रेष्वनुसंधाय अग्नेर्वामेन विशेत् एकार्थमित्यभिन्नं स्वच्छन्दभैरवात्मकं वाच्यदेवतारूपमित्यर्थः || २७५ || एवमनुसंधाय ---- शुद्धाज्येनाहुतिशतमष्टोत्कृष्टं वरानने || २-२७६ || भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम् | भैरवाष्टकलोकेशान् दशमांशेन होमयेत् || २-२७७ || षटित्रशत्तत्त्वानि स्थूलसूक्ष्मपरभेदादष्टोत्तरशतमिति (व्याप्त्या) (अधिश्रयणादिद्वादश) संस्कारै१रापादिताशेषविश्वमयत्वेन आज्येन अष्टोत्तरशतस्रुवहोमाद्भैरवमन्त्रदेवतां तर्पयेत् अनुग्रहाभिमुखीकुर्यादित्यर्थः | वक्त्रादीनां दशांशत्वेऽभिप्रायो जपप्रकरणे निर्णीतोऽङ्गवद्देव्या देववदित्यन्ये || २७७ || अथ ---- मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत् | सर्वमन्त्रचक्रतर्पणाय || ततोऽपि प्रधानभूतमूलमन्त्रतृप्त्यर्थं द्वितीयां पूर्णां दद्यादित्याह ---- भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् || २-२७८ || ततोऽपि ---- पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च | मूलेन पूर्णां पातयेदिति शेषः | न्यूनातिरिक्तनिवृत्त्यर्थमेव निश्छिद्रकरणम् || एवं नित्यहोमविधिं निर्वर्त्य ---- पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने || २-२७९ || यथेच्छमिति नैमित्तिकः काम्यो वा || २७९ || अथैवं होमद्रव्यविभागं तत्तत्साधनाभिप्रायतो निदीशति ---- सर्वकामप्रदो होमस्तिलैः शस्तो घृतान्वितैः | पृथक् तु ---- धान्यैर्धनार्थसिद्ध्यर्थं............... आज्याक्तैरिति सर्वत्रानुषङ्गः | धनमजाविकम्, अर्थो हिरण्यादिकम् || ...............घृतगुग्गुलहोमतः || २-२८० || जायते विपुला सिद्धिरधमा मध्यमोत्तमा | तथा ---- श्वेतारविन्दैराज्याक्तैः.................. होमः कार्यः | ..........बिल्वैश्च श्रियमाप्नुयात् || २-२८१ || क्षीराक्ततिलहोमेन शान्तिकर्म वरानने | प्रायश्च द्रव्याणि जातभेदेन चतुर्धा स्थितानीति तैर्होमार्हैः | सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् || २८२ || मारणं च वरारोहे क्रमेण परिकल्पयेत् | किं च ---- कुन्दपुष्पैः सुतार्थाय............... होमो भवति || ...............ऽशोकैः प्रियसङ्गमः || २-२८३ || जातिकुड्मलकैः कन्या गान्धर्वी बकुलोद्भवैः | नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका || २-२८४ || चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु | घृताक्तेन वरारोहे समन्त्रो सपुरोहितः || २-२८५ || राज्ञी पुत्रसमोपेता वशं याति वरानने | यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः || २-२८६ || सर्वेष्वभिमतेषु तैरित्यनुषङ्गः कार्यः | नागैरिति पुंनागैः, सिद्धार्थैः पुष्पविशेषैः | अत्र यैः पुष्पैर्होमस्तत्र तैरेवार्चनं कार्यम्, फल्गुषमिति नृमांसम् || २८६ || तथा विद्याधरीं कुययकैश्च साधयेन्नात्र संशयः | कुययकानि कुटकाख्यानि | नात्र संशय इत्यनेन निश्चितप्रतिपत्तेः कर्म फलदं भवति, इत्याह, अत एव शिष्यलक्षणे दृढव्रत इत्येतत्साधकविषये योजितम् || होमे हस्तसंस्थानमाह ---- मृगीं बद्ध्वा तिलैर्होमः............... प्रसृततर्जनीकनिष्ठाङ्गुलिरङ्गुष्ठमध्यमानामासंदंशात्मा मृगीबन्धः || ................पद्मबिल्वैरधिष्ठितम् || २-२८७ || अखण्डितैः कृत्वा जुहुयादिति शेषः || २८७ || भक्ष्यैर्ग्रासप्रमाणैस्तु धान्यैः प्रसृतिसम्मितैः | अत्र च हस्तसंनिवेशो यथोचितमनुमन्तव्यः || उपसंहरति ---- एवं होमानुसारेण साधको विधिसंस्थितः || २-२८८ || पूजाहोमरतो नित्यं यान् यान् कामान् समीहते | तांस्तान् स साधयत्येव भैरवस्य वचो यथा || २-२८९ || विधौ शास्त्रनियन्त्रिते कर्मणि सम्यक् स्थितः कामान् काम्यमानानि फलानि, यथा भैरवस्याज्ञा स ह्यागमात्माज्ञामात्रेणैव सर्वं सम्पादयति | अथ च यथा येन सत्याभिसंधिरूपेण भैरवस्य सर्वशक्तेः, न तु परिमितस्य कस्यचिदिदं वचः, तथा तेन प्रकारेण आश्वस्तानामेष विधिरनुष्ठीयमानः साधयत्येवाभीष्टमिति शिवम् || २८९ || गुरुचरणसरोजामोदमत्तं मनो मे यदिह किमपि तत्त्वं व्याकरोच्छैवशास्त्रे | विविधविधिरहस्यं स्यात् तदासेव्यमानं भवहरहरधामावेशि सद्भक्तिभाजाम् || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराज- विरचितोद्द्योताख्यव्याख्योपेतेऽर्चाधिकारो नाम द्वितीयः पटलः || २ || तृतीयः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ यत्र गलत्युन्मिषितेऽशेषा संसारवासनाविस्रा | अधिवासोऽसौ सर्वो जयति परानन्दनिःष्यन्दी || एवं प्रासङ्गिकानन्तरप्रमेयगर्भमवश्यानुष्ठेयं नित्यकर्मोक्त्वा प्राप्तनिरूपणावसरं नैमित्तिकप्रथमभूतमधिवासं निर्णेतुं भैरव उवाच ---- अधिवासं प्रवक्ष्यामि यथावदनुपूर्वशः | देवगुरुशिष्यद्रव्याणां भाविदीक्षोचितयोग्यतात्मकसंस्कारपरिग्रहो यागगृहाधिकरणवसनं चाधिवासः स च गुरुणा कार्यः ---- इति तत्संस्कारोपक्रममेव तमाह ---- वारिणा सुविशुद्धात्मा कृतकृत्यः प्रसन्नधीः || ३-१ || भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः | जिह्मजेनोपवीतेन सवासा वा दिगम्बरः || ३-२ || सुगन्धिगन्धलिप्ताङ्गः पुष्पस्रग्दामभूषितः | दिव्याभरणसंपन्नः सुप्रसन्नः सुभावितः || ३-३ || सुधूपितः सुताम्बूलश्चन्दनागुरुचचीतः | आत्मा शरीरं मनश्च | कृत्यं संध्यावन्दनादि, अथ च कृतकृत्यः परभैरवैक्यपरिपूर्णः, तत एव प्रसन्ना त्यक्तबाह्याभिलाषा धीः यस्य | मुद्रालङ्कारभूषितः शिखाकर्णप्रकोष्ठप्रतिष्ठापितपञ्चमुद्रः | जिह्मः शवः तज्जेन तत्केशजेन | एतच्च यथायोगं गृहस्थनैष्ठिकाचार्यविषयं व्याख्येयम् | सुगन्धि इत्यादिना इदमाह ---- यस्य स्वभावेन शिवभावनापरत्वं नास्ति, स बाह्योपचारेणापि चेतः प्रसाद्य सुभावितः शिवावेशोन्मेषमयः स्यात् | यतः ---- ङ चावज्ञा क्रियाकाले संसारोद्धरणं प्रति | मन्त्रदानव्रतादेशशिष्यध्रुङ् नारकी भवेत् ||ऽऽ इत्याम्नातम् || किं कुर्यादित्याह ---- मखद्वारप्रदेशे तु स्थित्वा प्रागिव भावितः || ३-४ || द्वाराध्यक्षान् पूजयित्वा पुष्पप्रक्षेपणं ततः | हुंफट्कारप्रयोगेण तालाशब्दं विधाय च || ३-५ || पार्ष्ण्यधोहस्तसंयोगाद्विघ्नप्रोच्चाटनाय वै | पार्ष्ण्या भूमिगतान् हन्यात्तालया चान्तरिक्षगान् || ३-६ || मन्त्रैदीव्यान् विशोध्यैवं यागहर्म्यं विशेत्ततः | पुष्पप्रक्षेपणं तालाशब्दं विघ्नप्रोच्चाटनाय पार्ष्ण्या अधोभूमिसंयोगात् हस्तसंयोगाच्च विधायेति विदधद्विशेदिति योजना | अन्तरिक्षं भुवोलोकः | स्पष्टमन्यत् || ६ || अथ ---- रक्षां पूर्ववदस्त्रेण परितः परिकल्पयेत् || ३-७ || वर्मणा मायारूपेणाच्छाद्यैव तु मखालयम् | ततो दक्षिणदिग्भागे उपविश्य वरानने || ३-८ || करन्यासं यथापूर्वं दहनोत्पूयने तथा | प्लावनाप्यायने चैव सकलीकरणं तथा || ३-९ || पूर्ववन्मानसं यागमन्तर्देहे समाचरेत् | परित इति अस्त्रप्राकाररूपाम्, मायारूपेण इति माया हि कलातत्त्वान्ताशेषाच्छादिका दुर्भेदा चेति तद्रूपेन | शिष्टं निर्णीतपूर्वम् || ९ || अन्तर्यागे प्रागुक्तं विधिं स्मारयति ---- शक्त्याधारमनन्तं च धर्मादिचरणावधि || ३-१० || गात्रकाणि त्वधर्माद्यास्तथा संधानकीलकान् | अधश्छादनमूर्ध्वं च पद्मकेसरकणीकाः || ३-११ || पुष्कराणि च शक्तीश्च मण्डलान् मण्डलाधिपान् | शिवान्तमासनं दद्यात् पूर्वरूपं ध्रुवेण तु || ३-१२ || मूतीब्रह्मकलाव्यूहं नवतत्त्वं त्रितत्त्वकम् | द्वात्रिंशदक्षरं देवं भैरवाष्टकमेव च || ३-१३ || विद्याङ्गानि तथा देका क्षुरिकां लोचनत्रयम् | शक्तित्रयं परं देवमङ्गषट्कसमन्वितम् || ३-१४ || निर्णीतं चैतत् | नैमित्तिकेऽपि सर्वमेतत् कार्यमिति पुनः पाठेऽभिप्रायः || १४ || अपि च ---- मुद्रामन्त्रांश्च द्रव्याणि यथास्थानं प्रकल्पयेत् | आवाहनस्थापनसंनिधाननिरोधनादिरूपा मुद्राः, आसनतो भैरवान्तान् मन्त्रान्, पाद्याचमनीयार्घादीनि द्रव्याणि | यथास्थानमिति पूर्वोक्तया नीत्या || तदेतत्सर्वम् ---- सङ्कल्प्य च यथान्यायं यथायोगं प्रकल्पयेत् || ३-१५ || यथायोगं यथाक्रमं यो यो न्यायो निरूपितव्याप्त्यनुसरणं तदनतिक्रमेणेत्यर्थः || १५ || अथावरणन्यासमपि स्मारयति ---- सद्योजातं च वामं च अघोरं च यदुक्तवान् | पुरुषेशौ च देवस्य दलस्थांश्चोपकल्पयेत् || ३-१६ || हृदयादींस्ततः पञ्च दिशासु विदिशासु च | उक्तवानहमित्यर्थः | दिशास्वित्यादिरैशः पाठः || १६ || किं च ---- पूर्वतो यावदीशान्तं भैरवावरणं बहिः || ३-१७ || लोकपालांस्तदस्त्राणि पूर्वादीशान्तकावधि | परिकल्पयेदित्यनुषज्यते || १७ || मन्त्रसंधानमाह ---- अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च || ३-१८ || पञ्चब्रह्माण्यथाङ्गानि एतान्यावरणानि हि | क्रमेणोच्चारयेत् सर्वान्यावत्तद्गर्भमैश्वरम् || ३-१९ || मन्त्रसंधानमेतद्धि................. ऽऽशूलहस्तायेशानाय नमःऽऽ इति प्रातिलोम्यक्रमेण सकलान्तमुत्तरोत्तरलीनताक्रमेणोच्चारणं मन्त्रसंधानम् ऽऽपञ्चब्रह्माण्यथाङ्गानिऽऽ इति प्रातिलोम्यक्रमेऽप्यानुलोम्येन पाठो वक्त्राङ्गानामेकावरणहेतुतया, इति त्र्यावरणोऽयं क्रमः || १९ || अथ ---- ...............परमीकरणं शृणु | उच्चारयेत्ततो देवं ह्रस्वदीर्घप्लुतान्वितम् || ३-२० || तावदुच्चारयेन्मन्त्रं यावन्निर्वाणगोचरम् | देवं द्योतनादिसतत्त्वं श्रीनिष्कलम् | ह्रस्वेत्यादि, ऽऽह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवम्ऽऽ (६-४) इति पञ्चप्रणवाधिकारे वक्ष्यमाणस्थित्या अकारोकारमकारबिन्दुनादवर्णकलासु ह्रस्वादिमात्रारूपासु वक्ष्यमाणव्याप्त्यनुसारेण विश्रम्य निर्वाणगोचरं द्वादशान्तं यावन्मन्त्रमुच्चारयेदित्यर्थः || २० || अत्रैवेतिकर्तव्यतां पूरयति ---- अधःशक्तेर्यावदूर्ध्वं सोमसूर्यपथान्तरा || ३-२१ || पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु | देवतापञ्चकं शक्तिं व्यापिनीं समनोन्मने || ३-२२ || भेदयित्वा क्रमात् सर्वं यावद्वै निधनान्तिकम् | निस्तरङ्गं निरध्वाख्यं सकलव्यापि चोन्मनम् || ३-२३ || वक्ष्यमाणदिव्यकरणक्रमेण अध इति कन्दात् प्राणशक्तिं हृदयं प्रापयय वामदक्षिणवाहमध्ये पूर्वनिर्णीतदिशा पिङ्गलानाम्ना मध्यमार्गेणाकारोकारादीन् नादपर्यन्तं ह्रस्वादिरूपवर्णोच्चारक्रमेण ब्रह्मादिसदाशिवान्तं देवतापञ्चकं तदुपरितनसुसूक्ष्मतममन्त्रांशैश्च शक्त्त्याद्युन्मनान्तं भेदयित्वा, ग्रन्थिरूपताविदारणयुक्त्त्या परावाग्रूपमन्त्रपरामर्शं शेषं कुर्वन् निधनान्तिकं सर्वोपशान्तिपदं द्वादशान्तं यावत् मन्त्रमुच्चारयेदित्यर्थः | कीदृशं निधनान्तिकम् ? तरङ्गेभ्यो भेदकल्लोलेभ्यो निष्क्रान्तम्, निष्क्रान्ता उल्लसिता वर्णमन्त्राद्याध्वनामाख्याः प्रथा यतस्तादृशम्, तथा सकलस्याशेषस्य व्यापकम् | ईदृशं कथमेकं वस्तु भवतीत्याह ---- उन्मनम् मननं सर्वं सङ्कुचितं संवेदनमुत्क्रम्य स्थितं स्वतन्त्रमित्यर्थः || २३ || अथ ---- तदध्यास्य................. तन्निष्कलं तत्त्वं गाढावष्टम्भेन किंचित्कालं समाविश्य | ...........आनुलोम्येन हृत्पद्मे विनिवेशयेत् | द्वादशान्तात् प्रभृति तत्त्वं च ---- शमना उन्मना चैवऽऽ (११-२९) इत्यादिवक्ष्यमाणदृष्ट्या मन्त्रप्रमेयसृष्टिक्रमेणावरुह्य हृत्पद्मप्रतिष्ठापितसकलभट्टारकव्यापकत्वेन भावयेत् || किं च ---- सर्वेष्वावरणेष्वेवं देवि तद् व्यापकं न्यसेत् || ३-२४ || एवमिति एकेनैव प्रयत्नेन || २४ || तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः | तद्रश्मिपुञ्जात्मकत्वात् सकलादिमन्त्राणाम् | चो ह्यर्थे || अत्र पूर्वोक्तं ध्यानादि स्मारयति ---- यथा स्वरूपसंस्थानवर्णा ये कथिता मया || ३-२५ || तथा ते विनियोक्तव्या मानसे मानसेन तु | स्वरूपं मूलं ब्रह्माङ्गादिरूपम्, संस्थानम् आकृतिः, वर्णः सितादिः कथिता इति द्वितीये पटले | मानस इति यागे, मानसेन चित्तेन || २५ || ततश्च ---- कणीकायां तु संस्थाप्य द्विधावस्थं च भैरवम् || ३-२६ || शुद्धस्फटिकसङ्काशं सर्वमन्त्रैरलङ्कृतम् | द्विधा सकलनिष्कलभावेन, अवस्था अनुग्राह्यानुग्रहाय स्वस्वातन्त्र्येणावस्थितिर्यस्य, सकलं सिताकारं निष्कलं तु प्रकाशमात्रतत्त्वम् अलङ्कृतम् इति रश्मिपरिवृतम् | एवं द्वात्रिंशदक्षरापेक्षया यद्यपि मूलमन्त्रस्य निष्कलत्वं तथाप्यकारादिकलोच्चारे सति सकलत्वमप्यस्तीति || २६ || यत्सत्यतो निष्कलं तत्त्वं तन्निदीशति ---- तत्रापि परतो ज्ञेयमनिर्देश्यमनामयम् || ३-२७ || तत्र तयोः सकलनिष्कलयोरुपरि परतः परं परिपूर्णेन रूपेण भैरवस्वरूपं ज्ञेयम्, स्वतः प्रकाशमानं प्रत्यभिज्ञेयमित्यर्थः | यतस्तद् अनिर्देश्यम् इदन्ताया न विषयो यस्मात्, अनामयं सूक्ष्मतमेनापि आमयेनाख्यात्यात्मकमहामायास्पर्शेन शून्यम् || २७ || तथा च ---- यत्र नास्ति द्विधाभावः......... निष्कलसकलाद्यशेषसामरस्यात्मकत्वात् || .........ण (च)मन्त्रादिकल्पना | ओंकारबिन्दुनादानां विलयं तं विनिदीशेत् || ३-२८ || सर्वमन्त्रप्रमेयविश्रान्तिपदं तज्जानीयादित्यर्थः | यद्वक्ष्यति ---- ऽऽयावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति | तावत् स सकलो ज्ञेयः |ऽऽ (७-२३९) इति | तथा ---- ऽऽअक्षरेषु कुतो मोक्षः परं तत्त्वमनक्षरम् |ऽऽ (७-२३८) इति || २८ || अतश्च ---- तत्स्थानं दुर्लभं मत्वा संभवेन्न कदाचन | यस्य नाग्रं च मूलं च न दिशो विदिशस्तथा || ३-२९ || न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते | तिष्ठत्यस्मिन् सर्वमिति स्थानम् | आकृतिशून्यत्वाद् मूलाग्राद्यभावः, वर्णात्मकमन्त्ररूपशून्यत्वान्न शब्द इत्युक्तम् | एवमपि न तच्छून्यमित्याशयेनोक्तं नाकाशमिति | ध्यात्वा इति अकृतकाहंविमर्शविश्रान्त्या समाविश्य विमुच्यते जीवन्मुक्तिराप्यते || २९ || तदित्थम् ---- प्रथमं मानसं यागं पश्चाद् द्रव्यसमन्वितम् || ३-३० || य एवं सततं कुर्याद् दैशिको यागतत्परः | स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा || ३-३१ || जले चाग्नौ च संपूज्य सम्यग् दीक्षाफलं लभेत | मानस्य प्राथम्यं शिवीभावं विना शिवयागेऽधिकाराभावादित्युक्तत्वात्, देशिक उपदेशप्रयोजन आचार्यः | सततमिति नित्यार्चारतत्वात् | स्वहस्ते इति शिवहस्तदानावसरे, स्थण्डिल इत्यधिवासमये, लिङ्गे इति ऽऽलिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणम् | ऽऽ इत्यादिनिरुक्तेः प्रस्तावोचितशिष्यचैतन्ये बाह्येऽपि वा बाणादिरूपे भाक्ते, मण्डले इति वक्ष्यमाणरूपे, चरुके हविवीशेषात्मनि, जले कलशस्थे, वह्नौ पाशदाहके | दीक्षायाः फलं शिष्याणां भैरवात्मकस्वरूपप्रत्यभिज्ञानम् लभेत तत्र हेतुकर्तृकत्वसामर्थ्यमासादयत्येव | एवं च सर्वथा शिवीभावात्मकमानसयागपूर्वं बाह्ययागं निर्वर्तयेत् || ३१ || अन्यथा ---- अकृत्वा मानसं यागं योऽन्यं यागं समारभेत् || ३-३२ || अशिवः स तु विज्ञेयो न मोक्षाय विधीयते | अशिव इति मानसयागकार्यशिवीभावाभावात् तथाभूतश्च पशुर्मोक्षाय न विधीयते तदर्थमधिक्रियते इत्यर्थः || ३२ || यतः ---- आत्मयागे कृते चैव देहशुद्धिः प्रजायते || ३-३३ || चो ह्यर्थे | एवशब्दो जायतेशब्दादनन्तरं योज्यः | तेन यस्माद्यागादनन्तरं बाह्यान्तरोभयरूपस्य देहस्य शिवीभावावेशात्मा शुद्धिर्जायत एव, तस्मादसाववश्यकार्य इत्यर्थः || ३३ || तथा हि सति ---- अधिष्ठितं शिवेनैव तमाचार्यं विनिदीशेत् | शिवेन सहचारित्वादाचार्य इति हि वक्ष्यति || किं च ---- आत्मनिर्दहनं चैव मानसं च यदुक्तवान् || ३-३४ || अहमित्यर्थः | आत्मा इह द्विविधो देहः || ३४ || विदित्वा सम्यगाचार्यः पाशहा स शिवः स्मृतः | सम्यग्वेदनं देहाद्यहन्ताप्रशमनेन शिवाहंभावावेशः | यागस्यास्य प्रभावमाह ---- यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् || ३-३५ || ब्रह्महापि स मुच्येत किं पुनः शिवतत्परः | विहितमहापातकोऽपि भगवदिच्छाप्रयोजनाद् यो विधिमिममभिसंधाय यजेत् भगवन्तमर्चयेत्, सोऽपि मुच्यते || ३५ || किं च ---- सर्वावस्थागतश्चैव विषयैरनुरञ्जितः || ३-३६ || सकृत् संपूज्य मुच्येत किं पुनर्यो दिने दिने | शर्वावस्थागतऽऽ इत्यादिना समयपालनासमर्थो भोगभुगपि सकृन्निर्बीजदीक्षायामर्चनान्मुच्यते, तस्मात् सततमेतदर्चनं पुत्रकाद्यैवीधेयमित्येवंपरमेतत् || ३६ || अस्या अर्चादिक्रियाया महत्तां प्रथयति ---- एतत्तन्त्रोक्तविधिना यदुक्तं विधिपूर्वकम् || ३-३७ || इज्यादि चान्यतन्त्रेऽपि तद्वैतत् कामिकं भवेत् | समानासमानस्रोतस्यन्यत्रापि पारमेश्वरे तन्त्रे यदिज्यादि दीक्षादिविधिपूर्वकमुक्तम्, तदेतत्तन्त्रोक्तेन संपूर्णेतिकर्तव्यताकेन विधिना तत् ऽऽकामिकम्ऽऽ इति तत्तत्काम्यमानभोगमोक्षप्रयोजनं स्यात् | एतदुक्त्या दीक्षादावितिकर्तव्यतान्यत्राश्रीयमाणाभिलषितं पूरयत्येव संपूर्णत्वादित्यर्थः | ऽऽतद्वैऽऽ इत्यत्र तस्येति पाठे तस्य कर्तुमिति व्याख्येयम् || ३७ || अत एवान्यत्राप्याश्रीयमाणमेतत् ---- नानासिद्धिगुणैर्युक्तं............... अधिकानपि क्रियापादोक्तान् सिद्धिरूपान् गुणान् करोति || तथा ............णानाकामफलप्रदम् || ३-३८ || चर्यापादोक्तमप्यविलम्बितं फलं संपादयति || ३८ || योगपादोक्तमपि घटयतीत्याह ---- योगसिद्धिश्च जायेत.................. विद्यापादोक्तमपि इतः पराद्वयस्पशीनो विधेरनुष्ठानाच्चसाधयत्येवानुष्ठातृजन इत्यप्याह ---- ...........ंउक्तिं च लभते ध्रुवम् | अपि चैतदिज्यानुष्ठातृपूजनम् ---- सदाशिवोऽपि जानाति देवाश्चैवासुरादयः || ३-३९ || परभैरवभक्तिशालिनोऽपि महाप्रभावा अपि स्पृहयन्तीति यावत् || ३९ || एवं प्रासङ्गिकमुक्त्वा प्रकृतमाह ---- एवं तु मानसं यागं कृत्वा बाह्यं समाचरेत् | तत्र प्रथमम् ---- परां वृत्तिमनुध्यायन् द्रव्याण्यादौ विलोकयेत् || ३-४० || पराम् अन्तर्यागनिष्पन्नभैरवावेशमयीं वृत्तिं स्फुरत्तामवलम्बमानो यागद्रव्याणि प्रोक्षणादिकल्पितसंस्कारेभ्यः पूर्वं पराद्वयज्ञानापादितैक्यात्ममहाशुद्धीनि कुर्यादित्यर्थः || ४० || तान्युद्दशति ---- सितचन्दनकर्पूरं सुधूपं सितवाससी | पुष्पाणि दिव्यगन्धीनि तिलव्रीहिघृतादिकम् || ३-४१ || चूतपल्लवदर्भास्तु सिद्धार्थान् खटिकां तथा | करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् || ३-४२ || वार्धानीं शिवकुम्भं च तथेध्मान् परिधीनपि | समिधो दन्तकाष्ठं च चरुस्थालीं स्रुचं स्रुवम् || ३-४३ || तण्डुलांश्च तथा क्षीरमेवमादीन्यनेकशः | दीक्षायाः शिवत्वापादनात्मनः शुद्धेः कार्यत्वात्तदौचित्येन सितगुणस्य प्रधानत्वम् | सितवाससी चूतपल्लवाश्च कलशवार्धान्यर्थम्, व्रीहयो विकिरार्थम्, सिद्धार्थाः शययाद्यवसरे रक्षार्थम्, खटिकाकरण्यौ मण्डलार्थम्, कर्तरी पाशसूत्रच्छेदाय, वार्धान्यस्त्रयागाय, इध्माः प्रागुक्ताः हस्तमात्राश्चतुवींशतिः समिद्धस्याग्नेस्तृप्त्यर्थम्, परिधयो हस्तप्रमाणाः सपत्राः शाखाश्चतस्रः कुण्डबाह्ये दिक्षु विघ्नप्रवेशरक्षार्थम्, शमिधो यज्ञवृक्षोत्थाः सत्वचो निर्व्रणाः शुभाः | प्रादेशमात्राः स्थौल्येन कनिष्ठाभ्यधिकाश्च याः ||ऽऽ इत्युक्तास्ताश्चाग्नेर्दीप्त्युत्पादनाय, दन्तकाष्ठं शिष्यार्थम्, तण्डुलक्षीरचरुर्देवगुर्वर्थमपि | स्पष्टमन्यत् | एवमादीनि | आदिशब्दान्मण्डलार्थं रजांसि, शिष्यार्थं पञ्चगव्यनेत्रपट्टाद्यपीति || ४३ || एवं द्रव्याण्यवलोक्य ---- ततोऽर्घपात्रमादाय क्षालयेदस्त्रवारिणा || ३-४४ || कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत् | उदकादिभिरष्टाङ्गै पूरयेत्तु वरानने || ३-४५ || उदकं क्षीरकुसुमं कुशसर्षपतण्डुलाः | सयवघृता अष्टौ | इहाष्टमूर्तेरर्घ्यं पुर्यष्टकाकूतम् || ४५ || अथ ---- प्रणवेनासनं सर्वं ततो मूतीं न्यसेत् प्रिये || ३-४६ || भैरवावरणैर्युक्तां पूजयेत्तां यथाक्रमम् | गन्धैः पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकम् || ३-४७ || भैरवेणावरणैश्च युक्तां न्यसेत्, मन्त्रसंधानपूर्वकं पूजयेत् || ४७ || किं च ---- मन्तव्यं परमं तत्त्वं ततश्चैवामृती भवेत् | परमं तत्त्वं निष्कलं पूर्वोक्तयुक्त्या जपन्नमृतमुद्राप्रदर्शनेनामृतीकुर्यादित्यर्थः || अर्घपात्रार्थं च ---- पात्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा || ३-४८ || पश्वर्घे च................... विध्यर्घपात्रं पूजार्थम्, निरोधार्घपात्रं तु निरोधविसर्जनाद्यवसरोपयोगि सुरया कर्तव्यम् | यदवोचत् ---- ऽऽपश्चादर्घः प्रदातव्यः सुरया सुसुगन्धयाऽऽ (२-१३६) इति | पशोस्तु प्रोक्षणाद्यर्थं पश्वर्घपात्रम् || ४८ || तदेतत्त्र्यम् ---- ............प्रकल्प्यैवं शिवहस्तं प्रकल्पयेत् | इह लौकिके दीक्षाकर्मणि शिक्षकात्मनाचार्येण प्रस्तूयमानेऽविशिष्टेन करेण कथं करणम्, इत्यस्य नित्यकर्मन्याससंस्कृतस्यापि सातिशयपाशक्षपणशिवत्वदानात्मकनैमित्तिककर्मविशेषविशिष्टां साधकतमतामाधातुं दीप्तमन्त्रचक्रन्यासतत्स्वात्मैक्यानुसंध्यध्यासित- शिवात्मककर्तृवीर्यावष्टम्भसारा शिवहस्तता प्रथममवश्यमेव विधातव्या | यत्तु ---- ऽऽशिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् |ऽऽ (३-१४२) इतीहैव वक्ष्यति, तदनुग्राह्यैकविषयम् || मन्त्रसंधानकं प्राग्वन्नाडीसंधानमेव च || ३-४९ || कर्तव्यमिति शेषः || ४९ || मन्त्रसंधाने मुख्यप्रकारमाह ---- मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगम् | भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेत् || ३-५० || वामदक्षिणमध्ये तु विषुवत्स्थेन भेदयेत् | द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः || ३-५१ || अनुसंधेय इति शेषः | परं मूलमन्त्रं शब्दकूटम् अशेषवाचकशब्दात्मकमन्त्रराशिरूपमन्तःस्वीकृतमन्त्रग्रामम्, शब्दनरूपं च कूटं परनादात्मकनित्यस्वरूपमनुस्मृत्य वक्ष्यमाणकरणबन्धमात्रार्थानुसंधिमान् स्वेच्छयाचार्यो हृत्कण्ठतालुभ्रूमध्यात्मकं तुर्यस्थानं च भेदयेत् | कथमित्याह ---- वामेत्यादिना | मध्यमार्गेण भ्रूमध्यं यावत्करण क्रमेण भ्रूमध्यदत्तचित्तः सव्येतरनासापुटसमस्फारणयुक्तिलब्धमध्यप्राणतीक्ष्णसूच्यग्रेण बिन्दुग्रन्थिं भित्त्वाऽनायासेन नादादिग्रन्थीनपि भिन्द्यादित्यर्थः | भविष्यति चैतत् | ततो द्वादशान्तं मन्त्रं नीत्वा करस्थो मन्त्रविग्रहः शुद्ध्याप्त्यैवानुसंधेयो यथा करणस्य कर्तृवीर्यसारता भवति || ५१ || नाडीसंधानमप्याह ---- तस्याप्यनेन न्यायेन विलोमेन`विशेद्धृदि | आत्मनो रेचकेनैव पूरकेण विशेद्धृदि || ३-५२ || नाडी संधानमेतद्धि शिवेन परिकीतीतम् | आत्मन ऊर्ध्वरेचकेन गत्वा, तस्यापि इति करस्थस्य भगवतो विलोमेन इति द्वादशान्ताद्धृदि विशेत् पुनस्तत उल्लास्य तद्द्वादशान्तं प्राप्य तेनैव पूरकेण हृदि स्वस्मिन् विशेत्, इत्येतन्नाडीसंधानं पूर्वोद्ष्टनासाक्रमनाडीसंधानविलक्षणं शिवेन परिकीतीतम् इत्यनेनास्याभेदव्याप्तिप्रदर्शकस्योपादेयत्वमिति ध्वनति || ५२ || एवं नाडीसंधानेन स्वहृदयं प्रविश्य ---- व्यापकं तु शिवं ध्यायेन्मन्त्रमूतीमधिष्ठितम् || ३-५३ || अन्तर्बाह्ये शिवहस्ते च स्थितां सर्वां मन्त्रचक्रमूतीमधिष्ठाय स्थितं शिवं निष्कलनाथं व्यापकं ध्यायेत् || ५३ || अथैवं शिवहस्ते महाव्याप्तिमनुसंधाय शिष्याद्युपयोगिपञ्चगव्यसंस्कारमाह ---- दर्भं संगृह्य चास्त्रेण सप्तवाराभिमन्त्रितम् | पञ्चगव्याय पात्रं तु शोधयेत्तु शिवाम्भसा || ३-५४ || ऽऽपवित्राः पावना गावः सर्वदैवतविग्रहाः | गोमूत्रे स्वःसरिन्मुख्या तटस्था मृच्च गोमयम् || अमृतं तत्पयो दिव्यं तद्विकारो दधि स्थितम् | तद्घृतं तद्गतः सारस्तत्सदामरतर्पणम् ||ऽऽ इति श्रीमत्पराख्यसंहितोक्तातिशयानि पञ्चगव्यानि समाह्रियन्ते यस्मिंस्तत् पञ्चगव्यं कुशोदकेन शोधयेत् क्षालयेदित्यर्थः || ५४ || अस्त्रेण क्षालयेत्तच्च कवचेनावगुण्ठयेत् | तस्य च ---- दर्भासनं ध्रुवेणैव मण्डलं तु प्रकल्पयेत् || ३-५५ || वर्तुलं स्वस्तिकं वा || ५५ || तस्योपरि न्यसेत् पात्रं गोमयादीनि चाहरेत् | पृथक्पात्रस्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा || ३-५६ || अथ ---- गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसा दधि | शिखया वर्मणा क्षीरमस्त्रेणाज्यं कुशोदकेन || ३-५७ || तथा ---- धाम्ना च मन्त्रयेत् पश्चाद् गोमयादीनि योजयेत् | पूर्वसंस्कृतपात्रे तु स्वमन्त्रैः............ तथा ---- ....................गोमयादिकम् || ३-५८ || संयोज्य मन्त्रयेत् पश्चात्तैरेव हृदयादिभिः | सर्वैरेव युगपत् || एवं संस्कृतस्यास्यात्र विशेषसंस्कारार्थमासनपूर्वं मन्त्रन्यासमाह ---- प्रणवेन तु सङ्कल्प्य अनन्तं मूतीविग्रहम् || ३-५९ || धामाङ्गानि च बाह्ये तु संपूज्यावरणस्थितिम् | मन्त्रसंधानकं कृत्वा अमृतीकरणं तथा || ३-६० || शिवामृतं तत्संचित्य संपूज्य स्थापयेत्ततः | मूतीः चिद्रूपा, विग्रहः सकलभट्टारकः, धाम मूलमन्त्रः || ६० || अथ यागभूमिं संस्कर्तुम् ---- अस्त्राभिमन्त्रितं दर्भं गृहीत्वोल्लेखनं कुरु || ३-६१ || यावद्भूमौ समन्तात्तु सौम्यास्यो दक्षिणे स्थितः | ततश्चैवोद्धरेच्छल्यमाजलान्तं व्यवस्थितम् || ३-६२ || रेचितं भावयेच्छुद्धं मौक्तिकाद्यैः प्रपूरयेत् | समीकरणमस्त्रेण कवचेन तु सेचनम् || ३-६३ || आकोटनमथास्त्रेण............ एतान् संस्कारान्निष्पन्नकुण्डवद्भावनया कृत्वा ---- ..............टतो मार्जनलेपने | अस्त्रेण पञ्चगव्येन गन्धतोयेन चोपरि || ३-६४ || पञ्चगव्येन लेपनं ततोऽपि गन्धतोयेनेत्यर्थः || ६४ || अथ ---- शिवाम्भसास्त्रयुक्तेन विकिराण्यभिमन्त्रयेत् | सप्तकृत्वोऽस्त्रमन्त्रेण................ शिवाम्भसा संप्रोक्ष्य, विकीर्यन्त इति विकिराणि तिलादीनि | यथोक्तं श्रीमन्मतङ्गतन्त्रे ---- ऽऽतिला लाजा यवाश्चैव दूर्वाः सिद्धार्थकाः शुभाः | कुसुमानि च शुक्लानि सुसुगन्धीनि भूरिशः | ईषच्चन्दनपङ्केन मिश्रोऽयं विकिरः शुभः | ऽऽ (२-५०-२३-२४) इति | एतानि विकिराण्यभिमन्त्रयेत् || ततः ---- ........ष्थित्वा मध्ये तु प्राग्दिशः || ३-६५ || ऊर्ध्वाधो विकिरेद्धान्यान्यस्त्रभूतानि चिन्तयेत् | शिववदाचार्यस्य मध्ये स्थितिः || ६५ || एतानि च ---- चामरेण सुशुभ्रेण अस्त्रमन्त्रेण संहरेत् || ३-६६ || एशान्यभिमुखान्येव................ कुतः किमवधि? इत्याह ---- .............णैरृत्या यावदैश्वरम् | अथ यागक्षेत्रमध्यक्रमेण पञ्चगव्येन संप्रोक्ष्य गन्धाम्भोभिः शिवाम्भसा || ६७ || ध्रुवेण श्रियमावाह्य पद्महस्तां सुलोचनाम् | शुक्लपुष्पाणि मुञ्चन्तीं सर्वलक्षणसंयुताम् || ३-६८ || नीलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् | ब्रह्मस्थानोपविष्टां तु द्वाराभिमुखभद्रदाम् || ३-६९ || गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रकल्पयेत् | द्वाराभिमुखस्य यागधाम प्रविशतः शिष्यादेः कल्याणकारिणीं मोक्षलक्ष्मीं संपूज्य शिवकुम्भं कुर्यात् || ६९ || कथम् ? इत्याह ---- एशानीं दिशमाश्रित्य पञ्चगव्येन मण्डलम् || ३-७० || गन्धोदकेन संलिप्य शिवाम्भोऽस्त्रेण प्रोक्षयेत् | अनन्ताद्यासनं दत्त्वा ध्रुवेणामण्डलावधि || ३-७१ || सर्वदोषविनिर्मुक्तं कुम्भं चन्दनलेपितम् | स्वस्तिकाद्यैश्चर्चयित्वा यवसिद्धार्थदूर्वभिः || ३-७२ || सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा | संपूर्य सर्वतश्छन्नं चूताश्वत्थादिपल्लवैः || ३-७३ || रत्नगर्भौषधीयुक्तं सहदेवादिभिर्गणैः | प्रोक्ष्य चास्त्रेण संगृह्य कवचेनावगुण्ठितम् || ३-७४ || आसनस्योपरि न्यस्येन्मूलमन्त्रमनुस्मरन् | आमण्डलावधि इति परव्याप्त्या ब्रह्मबिलशक्तिव्यापिन्यात्मकानि ब्रह्मविष्णुरुद्राधिष्ठितानि यानि सूर्यादिमण्डलानि, तदन्तं न तु शिवान्तम् ऽऽमन्त्रशक्तिभिरुग्राभिः शोषनिर्दहनादिभिः | शरीरं शोषितं यस्मात्तदर्थमभिषेचनम् ||ऽऽ (४-४५०) इति भाविनीत्याप्यायनप्रयोजनस्योपसंहारप्रधानशिवान्तासनत्वानु- पपत्तेः | यवादिभिरन्तर्गतैरुपलक्षितम्, सूत्रेण वर्मभूतेनेति, रत्नगर्भमोषधीयुक्तं च | सहदेवादिभिर्गणैरिति ऽऽओषधीनां वरैकैव सहदेवा शिवागमे |ऽऽ इति सारसङ्ग्रहे कथितत्वात् सहदेवाप्रधानौषधिलोहधातुबीजपुञ्जैर्युक्तमित्यर्थः | ऽऽमूलमन्त्रम्ऽऽ इत्यादिना कलशस्य परचिन्मूतीमयत्वमुक्तम् || ७४ || अथ तत्र ---- कलाध्वभैरवादीनि न्यस्यार्घादीन् प्रकल्पयेत् || ३-७५ || मुद्रां बद्ध्वा हृदादीनि पूज्यान्यग्निदलादिषु | गन्धपुष्पपवित्राद्यैः सितवस्त्रेण भूषयेत् || ३-७६ || अ(त्र) च पूर्वोक्तः सर्वो न्यासादिक्रम आश्रयणीयः | पवित्रम् अर्घपात्राम्बु न तु पवित्रकम्, तस्य नियतसमयपूरणाय नियतकालत्वात् | एवमुत्तरत्रापि || ७६ || अथ ---- वामभागे तु कुम्भस्य पञ्चगव्येन मण्डलम् | शिवाम्भसा तु संप्रोक्ष्य प्रणवेनासनं न्यसेत् || ३-७७ || संप्रोक्ष्य च शिवाम्भोभिर्वार्धानीं मङ्गलान्विताम् | कुम्भवच्चार्चयित्वा तामासनस्योपरि न्यसेत् || ३-७८ || वामभाग इति क्रियाशक्तिव्याप्त्या भाविधारापातनक्रमेण विघ्नप्रशमनसिद्ध्यर्थम्, कुम्भवदासनस्योपरि तदङ्गत्वात्तद्व्याप्त्यैवेत्यर्थः | मङ्गलान्वितां सुलक्षणान्विताम् || ७८ || अथ ---- गन्धपुष्पपवित्राद्यैः पूजयित्वा तु वार्धनीम् | उच्चार्यास्त्रं क्रमेणाग्रे द्रव्याणां वार्धनीं नयेत् || ३-७९ || अच्छिन्नामनुलोमेन जलधारां तु पातयन् | तत्स्थानात्तु समुद्धृत्य यावत्कोणं तु शाङ्करम् || ३-८० || उच्चार्येति काकाक्षिवत् | तत्स्थानात् कलशवामादस्त्रमुच्चार्य वार्धानीं समुद्धृत्य अधिवास्यानां द्रव्याणामग्रे पृष्ठतोऽनुलोमेन पूर्वादिदिक्क्रमेण शाङ्करं कोणम् एशानं कोणं यावदच्छिन्नां विघ्नोत्सादनाय जलधारामस्त्रमुच्चार्य पातयन्निति द्वौणिचौ || ८० || अत्र च कर्मणि ---- आचार्यः कलशं पश्चाद् भैरवेण समुद्धरेत् | नयेद्वार्धानिमार्गेण तस्मिन् संस्थापयेत् पुनः || ३-८१ || अग्रे भ्रमन्त्या वार्धान्याः पश्चाच्छिवकुम्भं भ्रमयन् स्वमन्त्रेण स्थापयेदित्यर्थः || ८१ || वार्धानीं स्थापयेत् पश्चादस्त्रमन्त्रमनुस्मरन् | स्थापयेदिति, क्रियाशक्तिव्याप्त्या धारापातेन लोकपालान् व्यवस्थाप्य भगवतो दक्षिणहस्ते वार्धान्यस्त्रमिति || अथ ---- विशेषपूजामुभयोर्गन्धपुष्पपवित्रकैः || ३-८२ || मन्त्रसंधानकं कुर्यान्नाडीसंधिमथोभयोः | किं च ---- विकिरान् संहितान् पूर्वं वार्धान्याः कल्पयेदधः || ३-८३ || अत एव च ---- अक्षतास्त्राण्यनेकानि शरकुन्तासिमुद्गराः | चक्रपट्टिसवज्रादित्रिशूलान्तान्यनेकशः || ३-८४ || यागौको व्याप्य सर्वं तु तिर्यगूर्ध्वमधः स्थिताः | वार्धान्यस्त्रस्य सर्वे ते रश्मिभूता व्यवस्थिताः || ३-८५ || एताच ---- शिष्यस्य दक्षिणे हस्ते वार्धान्यस्त्रं तु संहितम् | तेन स्वस्थान एव स्थापितस्य शिवस्य शिवकुम्भदक्षिणेऽस्त्रं स्थापयेत् | यदुक्तं मृगेन्द्रेऽपि ---- ऽऽतद्दक्षिणे १महाशस्त्रम्ऽऽ (कि० ७-२४) इत्यादि || यत एवम् ---- तेनैतं यज्ञरक्षार्थं यागादौ कलशं न्यसेत् || ३-८६ || ऽऽकलशम्ऽऽ इति कलशाधिकरणमशेषयागाद्याप्यायनाद्यवभृथस्नानान्तप्रयोजनं भगवन्तमित्यर्थः || ८६ || तं च ---- नैवेद्यं विविधं दत्त्वा नुत्वा विज्ञापयेद्विभुम् | भगवंस्त्वत्प्रसादेन यागं निर्वर्तयाम्यहम् || ३-८७ || संनिधानं सदा तुभ्यं............ इच्छामीति शेषः | क्रियाग्रहणमपि कर्तव्यमिति चतुथीं || ततश्च ---- ...........ऽविघ्नार्थं सदा भव | एवं कृत्वा ---- अनुज्ञातोत्थितो यायादर्घहस्तो दिगीश्वरान् || ३-८८ || ततश्च ---- स्वनामपदविन्यासानोंकारादिनमोन्तगान् | गन्धपुष्पपवित्राद्यैः पूजयेत्तान् प्रयत्नतः || ३-८९ || ऽऽओं इन्द्र संनिहितो भव नमस्तेऽऽ इत्यादिस्वनामपदविन्यासपूर्वमेतान् प्रपूजयेत् || ८९ || तानुद्दशति संक्षेपेण ---- इन्द्राद्यनन्तपर्यन्तांल्लोकपालान् प्रपूजयेत् | ऊर्ध्वे ब्रह्मा, अधोऽनन्तः, इत्यनन्तपर्यन्तानित्युक्तम्, तत्र चैशानदिगूर्ध्वे ब्रह्मा नैरृतदिग्भागेऽनन्तः पूज्यः | इहाधिवासे गृहरक्षार्थं दश लोकपालाः पूज्याः | यागे तु पूर्वोक्तभैरवाष्टकव्याप्त्याष्टावेव, तथा श्रुतत्वात्१ | यदर्थमेतत्तदाह ---- ततो मण्डलकं मध्ये यागभूमौ प्रकल्पयेत् || ३-९० || पञ्चगव्येन लिप्त्वादौ गन्धतोयेन चोपरि | मण्डलं लिम्पेदित्यर्थः | रजोमण्डलकं त्वधिवासादुत्तरकालं भविष्यति || ९० || अथैतत् ---- शिवाम्भसास्त्रमन्त्रेण संप्रोक्ष्य त्ववगुण्ठयेत् || ३-९१ || अर्थात् कवचमन्त्रेण || ९१ || अत्र चादौ ---- ब्रह्मस्थानस्य पूर्वेण गुरुन् पूज्य विनायकम् | वायव्ये पूजयेद् देवि गन्धपुष्पैरनुक्रमात् || ३-९२ || अविघ्नार्थमादौ वायव्ये गणपतिं पूजयेत्, ततः पूर्वस्यां दिशि गुर्वादीनित्यनुक्रमार्थः || ९२ || अथैतांस्तु नमस्कृत्य आज्ञां दत्तां विभावयेत् | एतैरेव | इत्थं गृहीताज्ञः ---- ततस्तु मध्यदेशस्थं योगपीठं प्रकल्पयेत् || ३-९३ || पूर्वोक्तेन विधानेन................ आधारशक्त्यादिप्रेतान्तं परमेश्वरस्य योगशब्दवाच्यस्वशक्तिरूपपीठमासनम् | यथोक्तम् ---- ऽऽयोगोऽस्य शक्तयः स्वाक्याःऽऽ (मतङ्ग० १-१-४) इति || ९३ || अत्र च ---- ..................भैरवेशं वरानने | पूजयित्वा पवित्राद्यैस्त्रिरावरणसंयुतम् || ३-९४ || स्वध्यानगुणसंयुक्तं मुद्रालङ्कारभूषितम् | ब्रह्माङ्गावरणं भैरवावरणं सास्त्रलोकपालावरणं च ---- इति त्रीण्यावरणानि | ध्याने गुणः शुद्धस्फटिकत्वादिः | मुद्रा आयुधसंनिवेशाः, आभरणं कपालमालादि || ९४ || अत्र च ---- मन्त्रसंधानकं पूर्वं नाडीसंधानमेव च || ३-९५ || परमीकरणं कुर्याद् व्यापकेन परेण तु | नैवेद्यान् विविधाकारान् दत्त्वा मुद्रां प्रदर्शयेत् || ३-९६ || प्रणिपातं जपं कृत्वा निवेद्य विधिपूर्वकम् | पश्चाद् बलिः प्रदातव्यो मातृणां भूतसंहतेः || ३-९७ || भूतेश्वराणां देवेशि क्षेत्रपालस्य सर्वतः | ऽऽभूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः |ऽऽ (३-२०७) इत्यादिना भाविना मन्त्रेण कलशादियागान्तेऽपि, एतेभ्यो भगवदनुचरेभ्यो बलिर्देयः || ९७ || एवं दत्तबलिराचार्यः ---- ततः स्नायादथोद्धूल्य अथवाचम्य सुव्रते || ३-९८ || ततोऽग्निकुण्डं गत्वा तु पूर्ववच्छोधनं तथा | भैरवं पूजयेत्तत्र विधिदृष्टेन कर्मणा || ३-९९ || सत्कर्मान्तरायभूतबलिस्पर्शसञ्जाताशुद्धिविकल्पानुसारेण स्नानादि कार्यम्, शोधनमग्नेः संस्करणम् || ९९ || ततश्च शिवीकृत्य पूजितस्य ---- अग्नेः संतर्पणं कुर्यात् सहस्रेण शतेन वा | यथासंभवं तिलाद्यैः, परिवाराणां दशांशतः, इत्युक्तमेव || ततश्चरुं च श्रपयेत्................ पचेत् पाचयेद्वा || तद्वा कथम् ? ........ष्थालीं संगृह्य निर्व्रणाम् || ३-१०० || शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत् | चन्दनाद्यैवीलिम्पेत् तां मृष्टधूपेन धूपयेत् || ३-१०१ || सूत्रेण वेष्टयेत् कण्ठे वर्मभूतेन सुव्रते | अथ स्थाल्याः ---- दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये || ३-१०२ || प्रोक्ष्य चैव शिवाम्भोभिः कवचेनावगुण्ठयेत् | आसनं तत्र विन्यस्येदनन्तादिशिवान्तकम् || ३-१०३ || तत्र च ---- मूतीभूतां न्यसेत् स्थालीं तत्रस्थं भैरवं यजेत् | त्रिरावरणसंयुक्तं गन्धपुष्पैरनुक्रमात् || ३-१०४ || मानसेन प्रयोगेण भावपुष्पैर्वरानने | चरोः पुष्पादिसङ्कीर्णतया विरसता मा भूत्, इति पूजात्र नोक्ता || १०४ || अथ ---- चुल्लीं संप्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत्ततः || ३-१०५ || प्रोक्षणं कुण्डोक्तसंस्कारान्तरोपलक्षणाय || १०५ || तत्र स्थालीं समारोप्य पश्चादग्निं न्यसेदधः | पूर्वसंस्कृतोद्धृतम् || अथ स्थाल्याम् ---- क्षीरं प्रोक्ष्य शिवाम्भोभिस्तण्डुलांश्च समासतः || ३-१०६ || मन्त्रेणाष्टशतेनैव प्रक्षिप्य पाचयेच्छनैः | मूलमन्त्रेण देवेशि एकचित्तः समाहितः || ३-१०७ || शनैरिति, यथा स्थाली न भज्यते || १०७ || तत्र च ---- चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत् | कारयेदिति पूर्वदीक्षितशिष्येण || अथात्र चरौ ---- तप्ताभिघारं सुस्विन्ने अङ्गैश्चैव प्रकल्पयेत् || ३-१०८ || त्रिभिस्त्रिभिर्घृतेनैव स्रुवेण जुहुयात् प्रिये | तप्तश्चासावग्निव्याप्त्याभिघारश्च आज्यामृतसेचनेन उद्दीपनात्मा, धात्वर्थानुसारात् | एष च दीप्तस्वाहान्तमन्त्रैः स्थाल्यां होमोऽस्विन्नतादोषनाशनाय || १०८ || अथ ---- भूमौ मण्डलकं कृत्वा प्रणवेनावतारयेत् || ३-१०९ || स्थालीमाज्योपलिप्तां तु शीताघारं च होमयेत् | भैरवेण षडङ्गेन वषड् जातियुतेन च || ३-११० || शीतेति सोमव्याप्त्या अस्विन्नतादोषनाशनाय, अत्रान्तरे स्वा इति चरौ हा इत्यग्नौ उच्चार्य जुहुयादिति गुरवः | एवमग्नीषोममयश्चरुं संस्कारतः संपन्नः | यथोक्तं श्रुतौ ---- ऽऽयो ह वैतदग्नीषोमीयमाज्यं जुहोति तस्यैतदमृतीभवति | ऽऽ इति | १श्रीमृगेन्द्रोत्तरेऽपि ---- ऽऽअग्नीषोमात्मकावेतावाघारौ विहितौ चरौ | अमृतत्वाप्तये तत् स्यादग्नीषोमात्मकं यतः ||ऽऽ इति || ११० || ततः ---- मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत् | स्थाल्यां(लीं) तस्योपरि न्यस्य संपातं मन्त्रसंहिताम् || ३-१११ || जपन्नेकैकयाहुत्या पातयेद् भैरवेण तु | निष्कलतदङ्गवक्त्रोच्चारपूर्वं स्वा इत्यग्नौ हा इति चरौ उच्चार्य जुहुयादिति संपातहोमक्रमः || १११ || प्रसङ्गादग्नीषोमताभिव्यक्तये सर्वत्र संपातहोममाह ---- अष्टोत्कृष्टशतेनैव परामृतमनुस्मरन् || ११२ || रजस्यादौ ततो देवि कर्तर्यां करणौ तथा | खटिकातिलाज्यसंपातं मूलमन्त्रेण कारयेत् || ११३ || मूलमन्त्रं तत्करणे चिदानन्दात्मकपरामृतानुस्मरणेन तत्समर्थाचरणेन प्रयुञ्जीतेत्यर्थः || ११२-११३ || अथ ---- त्रिभागं कल्पयित्वा तं चरुं स्थाल्यां तु संस्थितम् | शिवाग्निसाधकेभ्यश्च शिवायाग्रं निवेदयेत् || ३-११४ || शिवाग्निसाधकार्थं त्रयो भागा यस्य तादृशं तमिति अलौकिकं चरुं कल्पयित्वा अग्रं शिवभागात् स्थालिकलशाद्यर्थं भागीकृतात् प्रथमं भागं शिवाय मण्डलस्थाय दद्यात् || ११४ || अग्न्यादिभागादिविनियोगमाह ---- द्वितीयं होमयेदग्नौ साधकेभ्यस्तृतीयकम् | साधकाः शिवाराधकाः || शिवाय विनिवेदने विधिमाह ---- चरुं पात्रे तु संगृह्य पूजयेद् भैरवेण तु || ३-११५ || पुष्पधूपादिभिर्नीत्वा धाम्ने तं विनिवेदयेत् | अनन्तरम् ---- हृदाद्यावरणस्थानां दशमांशं निवेदयेत् || ३-११६ || कलशेऽप्येवमेव तु................. मण्डलवत् कलशे सपरिवारे विधिः || ११६ || अथ ---- ........ऽग्नौ होम्यश्चरुः स्रुचा | अत्र ---- भैरवस्य शतं होम्यमङ्गानां तु दशांशकम् || ३-११७ || साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत् प्रिये | शेषम् इत्यवशिष्टभागरूपम् | स्थापयेदिति साधकानां शिष्याणामद्याप्यसंस्कृतानां संस्कृतचरुभोजनेऽनधिकारात् || ११७ || अथाधिवासार्थं होममाह ---- विनायके शतं होम्यं भूपरिग्रहणे तथा || ३-११८ || भुवः पूर्वावतारितमोक्षलक्ष्याधिष्ठितायाः परिग्रहे स्वीकारनिमित्तम्, तेन ऽऽओं भुवे स्वाहा, ओं श्रिये स्वाहाऽऽ इति प्रयोगः | शतं शतं होम्यम् || ११८ || किं च ---- अधिवासे तथैवेह अष्टोत्तरशतं हुतिः | प्राङ्निर्णीताधिवासनिमित्तम् | हुतिरिति भैरवस्य स्यादित्यर्थः || अथ ---- प्रायश्चित्तनिमित्तं तु अनुलोमविलोमके || ३-११९ || न्यूनातिरिक्ते देवेशि अष्टोत्तरशतं हुतिः | अनुलोमस्य विधिक्रमस्य विलोमोऽन्यथात्वम्, तत्र न्यूनाधिके च यत् प्रायश्चित्तं प्रायस्तपसि चित्तं निश्चयस्तदर्थम्, मूलेन ऽऽप्रायश्चित्ताय जुहोमि स्वाहाऽऽ इत्यन्तेन होमः || ११९ || शिष्यं संस्कर्तुं पीठबन्धं करोति ---- भैरवं पूजयित्वाथ प्रार्थ्यानुज्ञां वरानने || ३-१२० || शिशोः कर्म प्रकर्तव्यं यथा भवति तच्छृणु | शिशोरिति शक्तिपाताङ्कुरितश्रीशिवभावस्य | कर्म इति अधिवासरूपम् || १२० || तदाह ---- द्वारे मण्डलकं कृत्वा दर्भं तस्योपरि न्यसेत् || ३-१२१ || प्रणवेनासनं कल्प्यं शिष्यं तस्मिन्निवेशयेत् | समपादं स्तब्धकायं सौम्याननकृताञ्जलिम् || ३-१२२ || द्वारे द्वारसमीपे, स्तब्धकायम् उत्थितम्, सौम्यदिगभिमुखं प्रसन्नवदनं च || १२२ || गुरुः पूर्वमुखोऽस्त्रेण प्रोक्षयेत्तं शिवाम्भसा | भस्मना ताडयेन्मूध्नी अस्त्रमन्त्रेण चालभेत् || ३-१२३ || भस्मना ताडनं यतेः, आलम्भनं स्पर्शश्च || १२३ || नाभ्यूर्ध्वं त्रींस्तथा वारान्नाभ्यधस्त्रीन् प्रकल्पयेत् | एतत्संस्कारत्रयं पाशशैथिल्याय अधस्त्रीन् वारान् मलत्रयोत्पुंसनार्थम्, ऊर्ध्वं तु शक्तित्रयोत्तेजनाय || अथैवं शिथिलपाशत्वादेव विहितदेहादिशुद्धौ शिशौ ---- शिवं न्यासाङ्गसहितं पूजयेद् भैरवेण तु || ३-१२४ || किं च ---- वस्त्रं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् | पूजयेद् भैरवेणैव.................. तेनैवास्य ---- ..............ंउखं प्रच्छादयेत्तथा || १२५ || करणानां बहिष्प्रसरनिवारणायान्तवीन्यस्तभैरवप्रकाशप्रत्यङ्मुखीकरणाय च बुद्धीन्द्रियाश्रयस्य मुखस्य प्रच्छादनम् || १२४ || बुद्धीन्द्रियकर्मेन्द्रियाणां संयमनाय यत्प्रधानपाण्यवष्टम्भपूर्वं शिष्यं प्रवेशयेदित्याह ---- हस्ताभ्यां तं गृहीत्वाथ विशेज्जवनिकान्तरम् | ततोऽपि ---- देवस्याभिमुखं कृत्वा............... तस्य च ---- ..............पुष्पं पाणौ प्रदापयेत् || ३-१२६ || एकमेव पुष्पं मूलाभिमन्त्रितं पुष्पपातस्य सम्यङ्निर्णयाय दत्त्वा || ततश्च ---- प्रक्षेपयेत्ततो धाम्ना.................. क्षिप पुष्पमिति तं प्रयुञ्जीत, तत्पातावसरे च मूलमुच्चारयेद् गुरुरित्यर्थः || अथास्य ---- ...........ंउखमुद्घाट्य दर्शयेत् | विद्यामन्त्रगणैः सार्धं कारणं ससदाशिवम् || ३-१२७ || कारणम् इति निष्कलनाथम्, सह सदाशिवेन सकलभट्टारकेण वर्तमानम् || १२७ || अथासौ ---- अज्ञानपटनिर्मुक्तः प्रबुद्धः पशुरीक्षते | दण्डवद्धरणीं गत्वा प्रणिपत्य पुनः पुनः || ३-१२८ || अज्ञानेत्यनेन पटापासने व्याप्तिरुक्ता | प्रागवस्थो यः पशुः स इदानीमेव प्रबुद्धः, अत एव जन्मसहस्रापूर्वभगवत्स्वरूपावलोकनाद्विस्मयाविष्टः पुनः पुनर्भगवन्तमीक्षते | दण्डवद् गमनेन देहादिप्रमातृतापहस्तनात् श्रीशिवसमावेशानुसरणे योग्यतास्य दशीता || १२८ || अत एवासौ ---- कृतकृत्यः प्रहृष्टात्मा............... तं च ---- ................प्रहृष्टनयनं शिशुम् | उत्थाप्य हस्तात् संगृह्य दक्षिणां मूतीमानयेत् || ३-१२९ || चिदानन्दात्मकस्वरूपस्पर्शात् प्रहृष्टनयनम् | उत्थाप्य इति चिरतरं देहादिभूमिमग्नं तत उन्मज्ज्य युक्त्येत्यर्थः | दक्षिणाम् अनुकूलां शिवात्मिकामेव, न तु पाशका देहमयीम् || १२९ || श्रीमदघोरभट्टारकसंमुखं च ---- तत्र मण्डलकं कृत्वा पुष्पेण प्रणवासनम् | तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखम् || ३-१३० || गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत् | आदिशब्दात्ताडनालम्भने प्राग्वत् | कारयेदिति, कुर्वतो मन्त्रांस्तद्वीर्यानुप्रवेशेन प्रयुञ्जीत | अथात्रासने ---- उपवेश्य ततः कृत्वा सकलीकरणे विधिम् || ३-१३१ || विशेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा | सामान्येन कृतसंस्कारस्य दृष्टभगवत्स्वरूपस्यापि ---- ऽऽशिवपूजाग्निकार्यादौ सकलीकृतविग्रहः | नान्यथा प्राक्स्वरूपेण | ऽऽ (३-१४६) इति वक्ष्यमाणत्वात् पुनर्यथायोगं भोगाय मोक्षाय वा शिवार्चाद्यर्हत्वविशेषफलसिद्ध्यर्थं सकलीकरणेऽस्य विधिं कृत्वा ऽऽकलाध्वानं न्यसेत्पश्चात्ऽऽ इति व्यवहितेन संबन्धः || १३१ || सकलीकरणं क्रमेणादिशति ---- गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् || ३-१३२ || कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु | तयोरेव च ---- अनन्तमासनं कल्प्यं भैरवाङ्गानि विन्यसेत् || ३-१३३ || भैरवश्चाङ्गानि चेति द्वन्द्वः || १३३ || देहन्यासमाह ---- व्योम्न्यात्मानं योजयित्वा शिशोः शोष्या तनुः प्रिये | आग्नेयीं धारणां ध्यात्वा निर्दह्यास्त्रेण तं शिशुम् || ३-१३४ || धूमज्वालाविनिर्मुक्तं दग्धकायं विभावयेत् | भस्मीभूतं ततः शान्तं प्लावयेदमृतेन तु || ३-१३५ || व्योमवच्चिन्तयेद् देहं चैतन्यं कनकाग्निवत् | शक्तिन्यासं न्यसेत् पूर्वं कमलं प्रणवेन तु || ३-१३६ || तस्योपरि तदात्मानं ध्यायेज्ज्योतिर्मयं शुभम् | मूतीमन्त्रं समुच्चार्य मूतीभूतं प्रकल्पयेत् || ३-१३७ || तत्सर्वं भावनया कार्यम् || १३७ || कथमित्याह ---- पूर्वोद्धृतेन मन्त्रेण.................. जातावेकवचनम् | तेन ---- शंहारेण यभिन्नेनऽऽ (२-३६) इत्यादिः सर्वः पूर्वोक्तः क्रम आश्रयितव्यः | एवमुत्तरत्र || प्राग्वदेव शिवावेशावष्टम्भरसेन-- ......................प्लावयेदमृतेन तु | अथ ---- मन्त्रन्यासो यथापूर्वमष्टात्रिंशत्कलावधि || ३-१३८ || अथात्रैवान्तर्बहिश्च शुद्धतत्त्वात्मकदेहसर्गाय सृष्टिक्रमेण ---- कलाध्वानं न्यसेत् पश्चाच्छान्त्यतीताद्यनुक्रमात् | स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका || ३-१३९ || शान्त्यतीतादिका ज्ञेयास्तत्त्वभूतास्तु ताः कलाः | तत्त्वभूता इति खादिपृथिव्यन्तास्तत्त्वरूपतां प्राप्ताः, अत एवासां यथोचितमेव ध्यानं युक्तमित्येष शुद्धतत्त्वसृष्ट्यर्थं कलापञ्चकन्यासोऽत्राधिवासे तावदुक्तः | पुत्रकादीनां तु भाविपटलेऽन्यथैव संहारक्रमेण दीक्षार्थमसौ इति भविष्यति, न त्वत्राप्राकरणिकमेतदिति भ्रमितव्यम् || १३९ || उक्तसकलमन्त्रन्यासोपरि ---- धाम्नावाह्य तथाङ्गानि न्यस्यान्तःकरणं भवेत् || ३-१४० || आत्मान्तःकरणे यद्वत् तद्वत् पूजां समारभेत् | धाम प्रोच्चार्य संदध्यात् सबाह्याभ्यन्तरं पुनः || ३-१४१ || संधानं नाडीमन्त्रात्मकम् सबाह्याभ्यन्तरम् इति देहान्तःकरणाश्रयभैरवविषयम् | स्थण्डिलाभ्यन्तरभेदेति त्वसत् || १४१ || अथ ---- शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलम् | धामोच्चार्य च संधाय शिष्यमूध्नी करं न्यसेत् || ३-१४२ || अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत् | विभुं व्यापकम्, सुजाज्वलत्वं पाशदाहाय | संधायेति पूर्ववन्नाडीमन्त्रक्रमेण, ब्रह्मरन्ध्रहृदययोर्भगवदधिष्ठानेऽपि पाशावृतत्वमस्तीति मूलभूमौ तत्र पाशदाहेन पारमेश्वरस्वभावोद्दीपनार्थमङ्गुलिपञ्चकाभिव्यक्तचिदादिशक्तिपञ्च कव्याप्तिना शिवहस्तेन स्पर्शः || उत्थाप्य दत्त्वा पुष्पं तु अञ्जलौ भैरवेण तु || १४३ || प्रवेश्याभ्यर्चयेच्छंभुं................ उत्थाप्येति, उत्पूर्वस्य तिष्ठतेरीहार्थत्वाद्भगवत्पूजोद्योगं ग्राहयित्वेत्यर्थः | प्रवेशो ऽऽमण्डलेऽत्र शिवं पूजयऽऽ इत्याज्ञया भक्तिश्रद्धोन्मुखस्य तत्परत्वापादनम्, यथा व्याकरणे प्रवेशित इति | अर्चयेदिति ---- अर्चतेणीच् || १४३ || शिष्योऽपि तथाचार्येण शिक्षितमन्त्रः पुष्पम् ---- ..............शिवमुच्चार्य निक्षिपेत् | अथ ---- निर्गत्य वन्दयेद् देवं दण्डवत्........... मण्डल इति योज्यम् || तथा ---- ..................ट्रिः प्रदक्षिणम् || ३-१४४ || शिवकुम्भाग्निमध्यस्थं स्थण्डिलस्थं च वन्दयेत् | त्रिरिति त्रिविधेऽपि कालाध्वनि दण्डवत्, दक्षिणः स्वस्वरूपप्रथापरो मे भवेति वाञ्छया स्वदक्षिणमेव भगवन्तं कुर्वन् परिभ्राम्यन् स्तुवीत || १४४ || एवं च ---- शिवपूजाग्निकार्यादौ सकलीकृतविग्रहः || ३-१४५ || नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत्तु सः | भवेदिति वाक्यद्वये योज्यम् | आदिशब्दाज्जपध्यानादौ || ३-१४५ || किं च ---- नीत्वा कुण्डसमीपं तं शिष्यहस्तावियोगतः || ३-१४६ || आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु | प्रणवेनासनं दत्त्वा तस्योपरि शिशुं न्यसेत् || १४७ || विन्यास्यमन्त्रतेजसां ज्ञानक्रियाशक्तिस्फारमयेन स्वहस्तेनास्य निमग्ने ज्ञानक्रियाशक्ती हस्ताकर्षणयुक्त्या कर्षन्निति हस्तावियोगार्थः | सव्ये दक्षिणे, शिशुमित्यद्यापि अतरुणीभूतशिवस्वरूपम् || १४७ || उपवेश्य करे दर्भं भैरवेण समर्पयेत् | दर्भस्य ---- मूलं शिष्यस्य हस्तस्थं साग्रमाचार्यजङ्घयोः || ३-१४८ || हस्तयोः प्रसारितयोः सव्येतरशाखारूपयोर्मध्ये तिष्ठति, इति हस्तस्थम्, जङ्घयोरिति जङ्घोपजङ्घयोरूरुजानुसंधावित्यर्थः || १४८ || दर्भस्य व्याप्तिमाह ---- पिङ्गला मध्यमा नाडी शिष्यदेहाद्विनिर्गता | सैवात्र दर्भभूता तु गुरुनाड्यां लयं गता || ३-१४९ || अथ ---- नाडीसंधानहेत्वर्थं भैरवेणाहुतित्रयम् | तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् || ३-१५० || ग्रहणाकर्षणार्थं तु............. भैरवो निष्कलः, ऽऽशिष्यमध्यनाडी मन्मध्यनाड्यां संलीनास्तु स्वाहाऽऽ इत्यत्र प्रयोगः | एकात्म्यप्राप्तिरूपनाडीसंधानपूर्वमेव ग्रहणाकर्षणे युज्येते | यथोक्तं श्रीस्पन्दे ---- ऽऽअयमेवात्मनो ग्रहः | ऽऽ (४-२) इति || १५० || अत एवाह ---- .........गृह्णन् मुञ्चन् पुनः पुनः | दीक्षाकाले यतश्चैवं तदर्थं नाडिसंहतिः || ३-१५१ || आचार्यः शिष्यात्मा भवतीति पूर्वपादान्तशेषः | समयिदीक्षायां शिष्यात्मनो हृदयाद् द्वादशान्तमाकर्षणम्, ततोऽपि स्वहृदये सामरस्यापत्तिरित्यादि, पुत्रकादिदीक्षायां तु पाशमात्र (सूत्र) वागीशीगर्भयोजनादिकमधिकम् || १५१ || अथ सर्वाश्रयन्यस्तमन्त्रैः समं शिष्ये वह्नौ चाग्नीषोमात्मतामभिव्यङ्क्तुं संपातहोमं निरूपयति ---- शिष्यस्याथ शिरोभूमौ भैरवेण विधाय तु | सम्पातं सर्वमन्त्रैस्तु ध्रुवेणाज्याहुतिं क्षिपेत् || ३-१५२ || जुहुयादिति शेषः || १५२ || कथमित्याह ---- मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत् | हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः || ३-१५३ || स्पष्टार्थम् || १५३ || संपातं व्याचष्टे ---- शिष्यदेहे तु ये मन्त्राः सबाह्याभ्यन्तरं स्थिताः | कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः || ३-१५४ || युगपत्तर्पणं तेषां सम्पातस्तेन कीतीतः | एकैकस्यात्र मन्त्रस्य आहुतित्रितयेन तु || ३-१५५ || संपातो युगपत् सर्वत्राग्नीषोमात्मकस्वरूपोन्मीलनात्मा संस्कार इत्यर्थः || १५५ || किं च ---- उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम् | कुर्यादित्यर्थः || तत्र ---- भैरवाय शतं हुत्वा हृदादौ दशकं हुतिः || ३-१५६ || दशांशेन स्यादित्यर्थः || १५६ || अथ ---- धाम्ना चोत्थाय होतव्यं पूर्णाहुत्यानुतर्पयेत् | उत्थायेत्यनेन पूर्णाहुतिप्रयोग स्मारयति || एवं सामान्येन समयिदीक्षाविषयमधिवासमुक्त्वा पुत्रकादौ तद्विशेषमाधातुं यः पाशसूत्रविधिर्भविष्यति, तत्र पाशानां बन्धनाय मन्त्रोद्दीपनं कर्तुमाह ---- मन्त्राणां दीपनं कुर्याद् धामाद्यस्त्रावधि क्रमात् || १५७ || कथमित्याह ---- हुङ्कारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् | प्रणवादिफडन्तेन आहुतीः प्रतिपादयेत् || ३-१५८ || एषैव ---- हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने | जायते तत्तत्कार्यानुगुण्यमनयेति ऽऽजातिःऽऽ विशिष्टो मन्त्रप्रयोगः | हृच्छब्दो वक्त्रादीन्युपलक्षयति || एतच्च ---- पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् || ३-१५९ || ते च दीप्ताः सन्तः ---- मन्त्राः करणभूतास्तु पशुकार्यस्य साधने | पशुकार्यं दीक्षा || यस्यैतानि करणानि स महाप्रभावः ---- आचार्यः करणं प्रोक्तः........... कर्तेत्यर्थः | कथमस्य शरीरादिमतो मन्त्राः करणमित्याह ---- .............शिवरूपो यतः स्मृतः || ३-१६० || सत्यपि देहे निरुपाधिचित्प्रकाशशिवाहंभावमय इत्यर्थः | ईदृशस्यैवानुग्रहेऽधिकृतत्वाच्चेत्याहुः ---- ऽऽआचार्याधिकरणः शिवो दीक्षायां साक्षात्कर्ता मण्डलस्थस्तु प्रयोजकःऽऽ इति | ततस्तेषां सरस्वतीगर्भाधानसमये शिवः साक्षात्कर्ता, प्रयोजक आचार्यः, इत्यादि स्वोक्तेन व्याहन्यते | न च प्रयोज्यप्रयोजकभावः कश्चिदत्र पूर्वत्र वा ग्रन्थेऽस्तीत्यसदेवैतत् | तस्मात् सर्वमन्त्रोदयप्रणयहेतुश्चिद्घनशिवात्ममय एवाचार्योऽत्राधिकृतः | मन्त्राणामुद्दीपनमवश्यं कार्यमित्यर्थः || १६० || क्रूरकार्ये तु कर्तव्ये मन्त्रान् संदीप्य योजयेत् | क्रूरजात्यनुरूपेण वाचकान् योजयेत् सदा || ३-१६१ || कूरकार्यं पाशानां बन्धच्छेदादि, पूर्वोक्तेन क्रूरजातिक्रमेण योजनमेव मन्त्राणामुद्दीपनम् || अत्र चावसरे ---- भ्रुकुटीकरालवदनान् वाच्यरूपान् विचिन्तयेत् | ईदृशं वाच्यवाचकानां क्रूरत्वमन्यत्रापि साधकविषये क्रूरकार्ये मन्तव्यम् || अत एवाप्यायनादौ ---- सौम्यजातियुतान् सौम्ये सौम्यरूपान् विचिन्तयेत् || ३-१६२ || सौम्यजातिर्वषडादिका || १६२ || यदर्थं मन्त्रोद्दीपनं तत्प्रतिजानीते ---- पाशकर्म ततो वक्ष्ये................. एतच्च भाविपुत्रकदीक्षाधिवासाय | तत इति मन्त्रोद्दीपनानन्तरम् | पाशकर्म पुत्रकादिदीक्षोपयोक्ष्यमाणस्य भाविपाशसूत्रस्य यदधिवासरूपं कर्म तद्वक्ष्ये इत्यर्थः || तत्क्रमेणाह ---- ................कन्याकतीतसूत्रकम् | त्रिगुणं त्रिगुणीकृत्य............... कन्या अनुपजातविकारपरशक्त्यानुकृतरूपेति | ततो मूलभूमेः प्रवृत्तानामाणवमायीयकार्मरूपाणां सत्त्वादिगणत्रयात्मकप्रपञ्चव्याप्तिभाजां पाशानां भाविबन्धच्छेदादिकं समूलमुन्मूलनार्थम्, इति कन्याकतीतत्वे त्रिगुणत्रिगुणत्वे चाशयः || अथैतत् ---- ...............पाशबन्धनसूत्रकम् || ३-१६३ || शिवाम्भोऽस्त्रेण संप्रोक्ष्य कवचेनावगुण्ठयेत् | पूजयित्वा विधानेन गन्धपुष्पादिधूपकैः || ३-१६४ || प्रसारयेद् गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि | शिष्यस्य स्तब्धदेहस्य............. ऽऽओं पाशबन्धनसूत्राय नमऽऽ इति पूजाविधानं सर्वाध्वव्याप्तिचिन्तनम्, ऽऽशिष्यस्य इति पुत्रकादेर्न तु समयिनः | स्तब्धदेहता पाशानां बन्धाद् देहेन्द्रियादीनां निष्क्रियत्वानुव्याप्त्या | तत्सूत्रं पुमान् दक्षिणेन स्त्री वामेन करेण मूध्नी धारयेदित्यसत् | दीक्ष्यहस्तयोर्दर्भनाडीधारणे व्यापृतत्वमतः शिखायामेव पाशसूत्रं लम्बयेत् | एकैव क्रियाशक्तिः पारमेश्वरीत्थं स्वरूपगोपनेन पाशरूपतया स्थिता, इत्येकत्वमिह पाशसूत्रस्य | श्रीपूर्वादौ तु शक्तित्रयमेव त्रितत्त्वेन स्थितम्, इत्याशयेन त्रीणि सूत्राणीति प्रक्रियामात्रभेदः || १६४ || तच्चास्य सूत्रम् ---- ............णाडीभूतं विचिन्तयेत् || ३-१६५ || सा च ---- सुषुम्ना मध्यमा नाडी सर्वनाडीसमन्विता | ओंकारादि स्वनाम्ना तु नमस्कारावसानकम् || ३-१६६ || शिष्यदेहस्थितां नाडीं सूत्रे संगृह्य योजयेत् | भावनयेति शेषः | सूत्रभूतायां नाड्यां सर्वनाडीभिः समन्विता भावनया सङ्गता योजिता च || १६६ || ताम् ---- गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् || ३-१६७ || अत्रैव संनिधानार्थं होममाह ---- संनिधानाहुतीस्तिस्रः स्वनामपदजातिकाः | दद्यादिति शेषः | ऽऽओं सुषुम्नायै स्वाहाऽऽ इत्यत्र प्रयोगः || १६७ || अथ ---- शिवाम्भोऽस्त्रेण सम्प्रोक्ष्य शिष्यस्य हृदयं पुनः || ३-१६८ || ताडयेदस्त्रपुष्पेण................. एवं च ---- ............ःऋदि चित् संहृता भवेत् | सर्वव्यापिकापि हृदयैकनिष्ठीकृता भवतीत्यर्थः || तदनु योगक्रमेण भावनयापि वा ---- हुङ्कारोच्चारयोगेन रेचकेन विशेद्धृदि || ३-१६९ || नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेच्छिशोः | कदम्बगोलकाकारं स्फुरत्तारकसंनिभम् || ३-१७० || हृत्स्थं छित्त्वास्त्रखड्गेन हुंफट्कारान्तजातिना | निष्कलास्त्रमेव खड्गः तेन शिशोः पुर्यष्टकं रश्मिमात्रावियोगिच्छित्त्वा || १७० || धाम्ना चाङ्कुशरूपेण कर्षेच्छक्त्यवधि क्रमात् || ३-१७१ || अङ्कुशेति पाश्चात्त्यकुटिलालकात्मना ख्यातेन | शक्त्यवधि द्वादशान्तं तच्च नासिक्यमिह || १७१ || ततः ---- द्वादशान्तं तु संगृह्य सम्पुट्य हृदयेन तु | संहारमुद्रया योज्यं सूत्रे नाडीप्रकल्पिते || ३-१७२ || व्यापकं भावयित्वा तु कवचेनावगुण्ठयेत् | प्रणवनिष्कलोच्चारपूर्वं ऽऽदेवदत्तचैतन्यं पाशसूत्रे योजयामि नमःऽऽ इति प्रयोगात् सूत्रदेहयोजितस्यास्य व्यापकत्वभावना || १७२ || अथास्मै पूजां कृत्वा ---- भैरवेणाहुतीस्तिस्रः संनिधानस्य हेतवे || ३-१७३ || दद्यादिति शेषः || १७३ || पाशसूत्रविधेः प्रयोजनमाह ---- द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे | बन्ध्याश्छेद्यास्तथा दाह्याः सूत्रस्थाने..... सूत्रस्थाने समस्तपाशाश्रयस्य समावृतिहेतोः प्राणदेहस्य परोक्षत्वेन साक्षाद् बन्धाद्ययोगे तत्प्रतिकृतिरूपं भाविशोध्यदेहासूत्रणात् सूत्रदेहं कल्पयित्वा तत्स्थान् पाशान् बध्नीयात् छिन्द्यात् दहेच्चेत्यर्थः | ऽऽइमेऽऽ इत्यनन्तरमेव वक्ष्यमाणाः || ऽऽ......................येनेदं तद्धि भोगतः | ऽऽ इत्याम्नातत्वादारब्धकार्ये दीक्षोत्तरकाले, भगवदर्चादिहेतौ तु न दाहादि युक्तमित्याह ---- .....ण विग्रहे || १७४ || पाशानां संख्यासंज्ञास्वरूपाणि क्रमेण कथयति ---- पाशास्तु त्रिविधा भाव्या मायीयाणवकर्मजाः | चैतन्यरोधकास्त्वेते कार्यकारणरूपिणः || ३-१७५ || मायोत्थत्वं मायायां भवत्वं मलान्तरेऽप्यस्तीति रूढ्यैव भिन्नवेद्यप्रथारूपं मलं मायीयम् उच्यते | अत एवान्यत्र ---- ऽऽअथात्ममलमायाख्या...................... | ऽऽ इत्याख्याशब्दः | अणूनामयम् आणवः अपूर्णम्मन्यतात्मा लोलिकारूपः | कर्म यजनब्रह्महननादिरूपम्, ततो जातम्, अत्र वासनाधिरूढं धर्माधर्मात्मकम् | एषां च चैतन्यप्रतिरोधकत्वं गुणभावापादनरूपमेव पाशत्वम् || १७५ || एषां कार्यकारणरूपतां स्फुटयति ---- मलः कर्म निमित्तं तु नैमित्तिकमतः परम् | मलः कर्म चेत्येतदद्वयं निमित्तं मलस्य कर्महेतुत्वात् कर्मणश्च मायीये कारणत्वात्, अतः परं मायीयं नैमित्तिकं मलकर्मणोः कार्यमेवेत्यर्थः | यद्यपि कार्मं भिन्नवेद्यप्रथारूपे मायीये सति भवति, तथापि न तद्धेतुकम्, पूर्णस्फाराणां ज्ञानिनां तत्सद्भावेऽपि तस्यादर्शनात्, इत्यपूर्णम्मन्यानामेवार्ज्यमानं तद्भवतीति यथोक्तमेव ज्यायः || ततश्च ---- आधाररूपं नैमित्तं शरीरभुवनादिकम् || ३-१७६ || आधारता भोगाश्रयता, आदिशब्दात् भावाः || १७६ || अत्र च नैमित्तिके मायीये मले ---- निमित्तमभिलाषाख्यं................ लोलिकारूपमाणवं मलमित्यर्थः || किं केवलेनेत्याह ---- ...............विचित्रैर्हेतुरूपकैः | धर्माधर्मात्मकैः सहकारिभिर्युक्तमित्यर्थः || प्रकृतमनुसरति ---- तांश्चावलोकयेत् सूत्रे बन्ध्यबन्धनहेतुतः || ३-१७७ || तानिति पाशान् वक्ष्यमाणव्याप्यव्यापकभावयुक्त्यावलोकयेत्, किमर्थं बन्ध्यानामर्थात्तेषामेव बन्धनहेतुतो बन्धनायेत्यर्थः || १७७ || अथैषां शिष्यदेहस्थानां ताडनग्रहणपूर्वकं सूत्रे क्रमेण योजनमाह ---- पाशानां ताडनं कार्यं हुंफट्कारान्तजातिना | स्वनामप्रणवाद्येन शान्त्यतीताद्यनुक्रमात् || ३-१७८ || प्रणवं शान्त्यतीताबीजं धाम चोच्यार्य ऽऽअमुकात्मस्थपाशव्यापिकायै शान्त्यतीतायै हुं फट्ऽऽ इति मन्त्रमुच्चारयन् || १७८ || पुष्पेण ताडयेन्मूध्नी ग्राह्यं........... ततः ---- .................ःऊमादि योजयेत् | हुंफट्कारान्तयोगेनागृह्य संहारमुद्रया || ३-१७९ || धाम्ना तु योजयेत् सूत्रे नमस्कारान्तयोगिना | पूर्वोक्तेनैव प्रणवपूर्वमूलमन्त्रसहितेन मन्त्रेण संहारमुद्रया वक्ष्यमाणया पाशत्रयमागृह्योक्तां जातिमपास्य नमस्कारान्तजातिनानेनैव मन्त्रेण पाशसूत्रे योजयेत् || १७९ || अमुमेव क्रमं शान्त्यादिकलास्वपि स्वमन्त्रनामयोजनयुक्त्यातिदिशति ---- एवं शान्त्यादिकान् पाशान् स्थानात् संगृह्य योजयेत् || ३-१८० || स्थानमत्र क्रमेण वक्त्रं हृद् गुह्यं पादौ || १८० || एतांश्च ---- भावयेत् त्रिविधान् पाशान् पञ्चतत्त्वाध्वव्यापकान् | कलादीक्षायां समनन्तरं ऽऽतत्त्वभूतास्तु ताः कलाः | ऽऽ (३-१४०) इति वक्ष्यमाणत्वात् पञ्च यानि तत्त्वानि कलारूपाणि तैरात्मभूतैरध्वनोऽशेषस्य व्यापकानित्यर्थः || अथ कथं पाशानां कलाव्याप्तिः ?, कथं च मायोर्ध्वस्थशान्ताशान्त्यतीतापदे पाशानां सत्ता ? ---- इत्याशङ्क्याह ---- त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी || १८१ || शान्त्यतीतादिभेदेन पञ्चसंज्ञाप्रतिष्ठिता | येयं परमेश्वरस्य नित्यावियोगिनी शक्तिः, सा क्रियाख्या गृहीतक्रियाशक्तिभूमिका सती इदन्तावैचित्र्योट्टङ्कनात् शान्त्यतीतादिपञ्चधात्वं प्राप्ता त्रयाणां मलानां व्यापिका | तदुक्तम् ---- शेयं क्रियात्मिका शक्तिः शिवस्य पशुवतीनी | बन्धयित्रीऽऽ (स्प० ४-१८) इति | अत एव यावदिदन्ताभासस्य स्थितिस्तावत्तदौचित्येन पाशाः स्थिताः, इति शान्त्यतीतापदेऽपि तच्छोधनं युक्तम् | व्यापके च शुद्धे व्याप्यस्य तत्प्राणस्य सम्यक् शुद्धिर्भवति, इति मलानामात्मभूतकलाव्याप्त्या तद्व्यपदेशैः शोधनम्, तच्च नित्यावियोगिपारमेश्वरस्वातन्त्र्यशक्तिरूपतोन्मज्जनमेव | यथोक्तम् ---- श्वमार्गस्था ज्ञाता सिद्ध्युपपादिका |ऽऽ (स्प० ४-१८) इति | निर्णीतैतच्छक्तिवीर्यसारैरेव मन्त्रैनीमग्नपारमाथीकतद्रूपतया प्राप्तभेदानामिवासां संशोधनम्, इति सर्वमुपपन्नम् || १८१ || एवं च ---- आधेयग्रह आधारं गृहीतं भावयेत् पशोः || ३-१८२ || आधेयाः कलाः, आधारा मलाः || १८२ || अथ पारमेश्वरशक्तिव्याप्त्या तत्सारानाह ---- गन्धपुष्पादिभिः पूज्य सूत्रे पाशांस्तु तर्पयेत् | शान्त्यतीताक्रमेणैव................ तच्च तर्पणम् ---- .............आहुतीनां त्रयं त्रयम् || ३-१८३ || संनिधानाय पाशानामतः पाशांस्तु दीपयेत् | मन्त्रशक्त्या भाव्यक्रमसमस्तभोगसिद्ध्यौचित्येन युगपत् परिपक्वान् विदधीत् || १८३ || कथमित्याह ---- स्वनामजातिफट्कारधामभिश्च त्रयं त्रयम् || ३-१८४ || आहुतीनां दत्त्वेति शेषः | जातिरत्र हुङ्कारः | मन्त्रपाठस्य क्रमः प्राग्वत् || १८४ || एतच्च शिष्यचैतन्यात् ---- विश्लेषकरणार्थं तु पाशानां दीपनं भवेत् | यत एव ---- दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना || ३-१८५ || आदिशब्दाद् ग्रन्थिदानमपुनःप्ररोहार्थम् | उद्दीपितवीर्याणामेव पाशानां बन्धनं शिष्यचैतन्यावरणे स्वातन्त्र्यापसारणम् || १८५ || ताडनमाह ---- सूत्रस्थांस्ताडयेत् पुष्पैः स्वदेहस्थानिव क्रमात् | (स्वदेहस्थानिवेति ---- ) यथा स्वदेहे | क्रमादिति प्रोक्तमन्त्रतद्व्याप्त्यादिक्रमेण ताडितांस्तथा ताडयेत् || बन्धने युक्तिमाह ---- धाम्ना च संपुटीकृत्य स्वनाम्ना च सकृत्सकृत् || ३-१८६ || बन्धने तु प्रयोगोऽयं................ एवं प्रणवधामशान्त्यतीताबीजेभ्योऽनन्तरं ऽऽशान्त्यतीतां देवदत्तात्मस्थपाशव्यापिकां बध्नामिऽऽ इत्युच्चार्य धाम ङमःऽऽ शब्दान्तमुच्चारयन् पाशसूत्रस्य मूध्नी ग्रन्थिं दद्यात् | एवमन्यत् || १८६ || तदाह ---- ..............षूत्रे ग्रन्थीन् प्रदापयेत् | ग्रन्थीनिति, व्याप्त्या पञ्च || किं च ---- बन्धने परिमाणं च कर्मणो विषयस्य च || ३-१८७ || न केवलं ग्रन्थीन् यावद् बन्धनसमये कर्मणः शुभाद्यात्मनो विषयस्य भुवनादेर्मायीयमलात्मनः, चशब्दादाणवस्य मलस्य परिमाणं नियतामध्वव्याप्तिं च प्रकल्पयेत् | तथा निवृत्तावेकं पाथीवं तत्त्वम्, अष्टोत्तरशतं च कालाग्न्यादिभुवनानामिति विषयस्य परिमाणं भविष्यति | कर्मणो निवृत्तिप्रतिष्ठाविद्यान्तं यावद्व्याप्तेः, मलस्य तु शान्ताशान्त्यतीतान्तमपि संस्कारात्मना सूक्ष्मेण रूपेण सत्तास्त्येवैतत्सर्वमनुसंदधीत || १८७ || एवं च पाशसंयोगाज्जीवः ---- षट्त्रिंशत्तत्त्वमध्यस्थो भुङक्ते भोगं...... शुद्धम् | अन्यच्च पाशविच्छेदात्तु नेत्याह ---- ...ण चान्यथा | न एवार्थे || प्रकृतमाह ---- पाशान् संस्थाप्य पात्रे तु संपातं जुहुयात् सकृत् || ३-१८८ || पाशानिति पाशसूत्रम् संस्थाप्य इति शिष्यदेहाद्विमुच्येत्यर्थः | सम्पातहोमः शम्पातं सर्वमन्त्रैश्चऽऽ (३-१४२) इत्यादौ निर्णीतः || १८८ || अथैतान् पाशान् ---- पात्रसंपुटमध्यस्थान् स्थण्डिले विनिवेदयेत् | पात्रमध्यस्थवेद्यवेदकान्तरावस्थिता एते, इत्याशयात् कवचावगुण्ठनव्याप्त्या च श्थण्डिलेऽऽ इति तत्राचीते भगवति | विनिवेदयेदिति | एतस्य पशोः(पाशाः) त्वयैव मामिकां तनुमाविश्य बद्धाः (बन्धयाः ?), इति विज्ञप्तिं कुर्यादित्यर्थः || तथैव च ---- नीत्वा समर्पयेत् कुम्भे................. तत्स्थं भगवन्तं विज्ञापयेद् यथा ---- ................पाशान् संरक्ष हे विभो || ३-१८९ || संरक्षणं च भाविपुत्रकादिदीक्षोच्छेद्यानामेषां सांप्रतं स्वकार्यशक्तिबन्धनात्माधिवास संस्कारः || १८९ || ततः ---- दर्भं विमोचयेच्छिष्यं................ नाडीसंधानार्थं प्राक्परिकल्पितम् || अथ चास्मै ---- ..............पुष्पं पाणौ प्रदापयेत् | तेन चासौ श्रीभगवन्तं समन्त्रकमेव ---- स्थण्डिले शिवकुम्भे च शिवाग्नौ च प्रपूजयेत् || ३-१९० || चकाराद्गुरुमूर्तावपि || १९० || ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि | अथ चास्मै ---- उत्थाप्य पञ्चगव्यादीन् दद्याद्वै भैरवेण तु || ३-१९१ || आदिशब्दाच्चरुं दन्तकाष्ठम्, भैरवेणेति सकलेन || १९१ || अत्र विधिमाह ---- गोमयेन शुचौ देशे कार्यं मण्डलकत्रयम् | एकस्मिन् मण्डले विष्टः पञ्चगव्यं शिशुः पिबेत् || ३-१९२ || उपविश्य द्वितीये तु चरुकं प्राशयेद् बुधः | आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः || ३-१९३ || भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत् | पञ्चगव्यं संस्कृतस्थापितचरुभागभोजनयोग्यतायै, चरुकं तु इतः प्रभृति शिवमयभोग्यभोक्तृत्वावसायाय, दन्तकाष्ठं परां शुद्धिमभिव्यङ्क्तुम् | आचम्येति पूर्वत्रापि योज्यम् || १९३ || तच्च पतितम् ---- पूर्वं पश्चात्तथैशोर्ध्वं चोत्तरस्यां च शोभनम् || ३-१९४ || अन्यस्यामशुभं विद्धि तस्य होमः शतं भवेत् | अस्त्रमन्त्रेण विघ्नशमनायेत्यर्थात् | एतच्च बाहुल्येन साधकविषयम् || १९४ || अथैतदन्तस्यास्य कर्मणः सम्यक् संपत्त्यर्थम् ---- आचार्यो जुहुयात् पश्चात् प्रायश्चित्तं शिवेन तु || ३-१९५ || विधेर्न्यूनातिरिक्तस्य चित्तविक्षेपकर्मणि | चित्तविक्षेपकर्मणि सति विधेर्न्यूनातिरिक्तत्वं तस्य प्रायश्चित्तं जुहुयादिति सङ्गतिः | तच्च ---- ऽऽअग्निकार्यं यथापूर्वं ....... | ऽऽ (४-३१) इति भाविनीत्या अग्निकार्यान्ते, न त्वधुनैवेति, पश्चादित्यस्यार्थः || १९५ || अत्र च ---- अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद् विशुध्यति || ३-१९६ || अथ मूलविश्रान्तिमेवानुसंधातुम् ---- पश्चात् संतर्पयेद्धोमसहस्रेण शतेन वा | यावदस्य विश्रान्तिर्घटत इत्यर्थः || अङ्गवक्त्रवाचिनः ---- मन्त्रांश्च दशभागेन.................. अनन्तरमेषामेव ---- ................वह्नौ नैवेद्यदापनम् || ३-१९७ || किं च ---- विशेषपूजनं चार्घं मुद्राबन्धं वरानने | स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राश्य विसर्जयेत् || ३-१९८ || परमेशमित्यर्थात् || १९८ || निरोधार्घेण चार्घं तु दत्त्वा चैव वरानने | रेचकेन तु संगृह्य भैरवं तमनुस्मरन् || ३-१९९ || मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने | अग्निष्ठं वै......... अग्निष्ठं तमिति पूर्वोक्तम्, पूरितमिति पूरकेण, मण्डलात् संगृह्य रेचकेनाग्नौ स्थितं कृत्वा तत्रापि तथैवार्चयित्वा || १९९ || .....पूरकेण गृहीत्वा स्थापयेत् पुनः || ३-२०० || तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत् | कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् || ३-२०१ || यागगृहमनधिष्ठितं माभूदित्याशयात् || २०१ || अथ स्थण्डिलात् ---- प्रक्षिप्य चैव निर्माल्यं गोमयेन स्पृशेत् प्रिये | निष्क्रान्तं माल्यं न त्वत्र चण्डीशयोगतः || तत्रैव च ---- शिवाम्भसा तु संप्रोक्ष्य शिश्ये शययां प्रकल्पयेत् || ३-२०२ || गृहिणो दर्भशययां तु यतेर्वै भस्मना प्रिये | पूर्वाशिरा गृही कार्यो यतिर्वै दक्षिणाशिराः || ३-२०३ || दक्षिणवक्त्राभिमुखेन | शिष्टं स्पष्टम् || २०३ || अथ शिखामन्त्रेण ---- तत्र स्थितस्य शिष्यस्य शिखाबन्धं वरानने | तथा ---- सिद्धार्थरोचनाद्यैश्च रक्षां कुर्यादसिं स्मरन् || ३-२०४ || यतेर्गृहिणश्च क्रमेण रेखायुक्त्या ---- भस्मना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् | एतदुपसंहरति ---- कवचेनावगुण्ठ्यैव शिष्यं तु स्वापयेत् ततः || ३-२०५ || ततश्चैव तु निर्गत्य बलिकर्म समारभेत् | तदाह ---- बलिस्तु कल्पितः पूर्वं सर्वभूतेष्वथादरात् || ३-२०६ || तं तु संगृह्य देवेशि पूर्वादीशान्तकं क्षिपेत् | कल्पितो भूतार्थं साधितः || २०६ || अत्र च ---- भूता ये विविधाकारा दिव्यभौमान्तरिक्षगाः || ३-२०७ || पातालतलसंस्थाश्च शिवयागे सुभाविताः | ध्रुवादिसर्वभूताश्च एन्द्र्याद्याशास्थिताश्च ये || ३-२०८ || स्वाहाकारसमायोगात् तृप्यन्तूच्चारयन् क्षिपेत् | प्रणवपूर्वं ऽऽभूता येऽऽ इत्यादि श्थिताश्च चेऽऽ इत्यन्तमुच्चार्य ऽऽतृप्यन्तु स्वाहाऽऽ इति मन्त्रेण बलिं क्षिपेत् | अत्र मध्ये ध्रुवादीत्येतत् ध्रुवलोकपरामर्शाय | अथ च ध्रुवः प्रणवः, तदादि कृत्वायं मन्त्रः पठनीयः || २०८ || बलिं च पूजापूर्वकं क्षिपेदित्याह ---- नमस्कारेण सम्पूज्य गन्धैर्धूपैरनुक्रमात् || ३-२०९ || पूर्वादीशानपर्यन्तमधश्चोर्ध्वं समन्ततः | अधिवासे बलिकर्मोपसंहरन् द्रव्यान्तरमुपक्षिपति ---- कोणस्थान् क्षेत्रपालांश्च पतिताञ्छ्वपचानपि || ३-२१० || बलिं दत्त्वा तु सर्वेभ्य आचम्य च वरानने | सकलीकरणं कृत्वा क्रमेण प्राशयेच्चरुम् || ३-२११ || अनुग्रहावसरेऽत्र यावत्संभवं सर्वान् पूजयित्वैषामाशांं पूरयेदित्यर्थः | चरुमिति, यमवशिष्टं भगवदग्रात् प्राथीतं च | क्रमेण इति गुरुसाधकपरिपाट्या || २११ || यदाह ---- सहायैः सहितो वीर एकचित्तः समाहितः | प्राङ्मुख उदङ्मुखो वा मण्डलस्थः पृथक्पृथक् || ३-२१२ || वीर इति त्यक्तजात्यादिग्रहो निष्कम्पः, एकत्र शिवाभेदे चित्तं यस्य तादृक् समाहितः, बुभुक्षुर्दीक्षायां प्राङ्मुखो मुमुक्षुस्तु उदङ्मुखः, पृथक् पृथग् मण्डलस्थ इति स्वसहायानां साधकपुत्रकादीनां समव्याप्त्यभावात् सङ्करशङ्का माभूदित्यभिप्रायात्, समव्याप्तिविश्रान्तौ त्वेकमण्डलत्वेऽपि न काचिद्धानिः || २१२ || तत्र ---- पञ्चगव्यं पिबेत् पूर्वं चरुकं दन्तधावनम् | प्राश्यैवं सकलीकृत्य रक्षां पूर्ववदेव च || ३-२१३ || विधायेति शेषः || २१३ || यागभूमौ स्वपेत् पश्चाच्छिष्यै सह वरानने | भगवदधिष्ठिते यागगृहे गुर्वादीनां स्वापो दीक्ष्यविषयसमुचितस्वप्नदर्शनाय || प्रकारान्तरमाह ---- भैरवध्यानयोगेन समाधौ जाग्रदेव वा || ३-२१४ || गुरुर्भवेत् शिष्यार्थमिति शेषः | समाधौ इति समाधाननिमित्तम् | इति शिवम् || २१४ || सन्मानसाम्बरविबोधदिनेशभाभि रामोदवद्विकसितं हृदयाम्बुजन्म | कृत्वा शिवार्चनविधौ विनिवेशयध्व मार्या भवभ्रमणदुःखमलं जहीत || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते अधिवास नाम तृतीयः पटलः || ३ || चतुर्थः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ दीक्षाज्ञानक्रियाप्लुष्टदुष्टपाशवनावलिः | महाज्योतिर्जयत्येको ह्लादी भैरवहव्यभुक् || अधिवासानन्तरभाविनीं दीक्षां प्रस्तावयितुं श्रीभैरव उवाच --- - प्रत्यूषे विमले कृत्वा शौचाद्यान् पूर्ववत् क्रमात् | सकलीकरणं कृत्वा पूर्ववत् प्रविशेद् गृहम् || ४-१ || पटलसङ्गत्या प्रकृत आचार्यः, शौचाद्यानित्यादिशब्दात् स्नानादि, पूर्ववत् प्रविशेदिति द्वारदेवतार्चां कृत्वा शिष्यश्च शुचिराचान्तः पुष्पहस्तः......... प्रविशेत् | स च .............गुरुं ततः | प्रणम्य शिरसा............ तत्प्रणामादेव च ........ःऋष्टो गुरोः स्वप्नान्निवेदयेत् || ४-२ || तांश्च ---- शुभान् स्वप्नान् प्रवक्ष्यामि अशुभांश्च वरानने | स्वप्नेषु मदिरापानमाममांसस्य भक्षणम् || ४-३ || क्रिमिविष्ठानुलेपं च रुधिरेणाभिषेचनम् | भक्षणं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् || ४-४ || श्वेतातपत्रं मूर्धस्थं श्वेतस्रग्दामभूषणम् | सिंहासनं रथं यानं ध्वजं राज्याभिषेचनम् || ४-५ || रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च | दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् || ४-६ || क्रिमिर्लाक्षा, एतत्सर्वं श्रेष्ठम् || ६ || नरेन्द्रैरृषिभिर्देवैः सिद्धविद्याधरैर्गणैः | आचार्यैः सह सम्वादं कृत्वा स्वप्ने प्रसिद्ध्यति || ४-७ || सम्यक् वादः संवादः || ७ || तथा च ---- नदीसमुद्रतरणमाकाशगमनं तथा | भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् || ४-८ || ग्रहनक्षत्रताराणां चन्द्रबिम्बस्य दर्शनम् | हर्म्यस्यारोहणं चैव प्रासादशिखरेऽपि वा || ४-९ || नराश्ववृषपोतेभतरुशैलाग्ररोहणम् | विमानगमनं चैव सिद्धमन्त्रस्य दर्शनम् || ४-१० || लाभः सिद्धचरोश्चैव देवादीनां च दर्शनम् | गुटिकां दन्तकाष्ठं च खड्गपादुकरोचनाः || ४-११ || उपवीताञ्जनं चैव अमृतं पारतौषधीः | शक्तिं कमण्डलुं पद्ममक्षसूत्रं मनःशिलाम् || ४-१२ || प्रज्वलत्सिद्धद्रव्याणि गैरिकान्तानि यानि च | दृष्ट्वा सिद्ध्यति स्वप्नान्ते क्षितिलाभं व्रणं तथा || ४-१३ || सिद्धो जपादिक्रमेण मन्त्रो यस्य, व्रणमिति स्वदेहेऽस्त्रजम्, स्वप्नान्ते इति, न तु स्वप्नस्याद्यमध्ययोः | यथोक्तमन्यत्र ---- ऽऽप्राङ्नमित्तं दिवा ग्राह्यं रात्रौ ग्राह्यं तु पश्चिमम् |ऽऽ इति || १३ || किं च ---- क्षतजार्णवसङ्ग्रामतरणं विजयं रणे | ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् || ४-१४ || वीरवेतालसिद्धैश्च महामांसस्य विक्रयम् | महापशोः संविभागं लब्ध्वा देवेभ्य आदरात् || ४-१५ || आत्मना पूजयन् देव जपन् ध्यायन् स्तुवन्नपि | सुहुतं चानलं दीप्तं पूजितं वा प्रपश्यति || ४-१६ || हंससारसचक्राह्वमयूरशवरोहणम् | मातृभिर्भैरवैश्चैव मातृरुद्रगणैः सह || ४-१७ || भैरवं भैरका दृष्ट्वा सिद्ध्यत्यत्र न संशयः | वीरवेतालसिद्धैश्चेति सहार्थे तृतीया | मातृरुद्रा देवविशेषाः | महापशुः पुरुषपशुः | सारसः सरस्येव य आस्ते हंसविशेषः | सिद्ध्यतीति तत्स्वप्नानुसारिणीमुत्तमादिरूपां सिद्धिं प्राप्नोतीत्यर्थः | यद्यपि ---- ऽऽदृष्टः श्रुतोऽनुभूतश्च प्राथीतः कल्पितस्तथा | भावितो दोषजश्चेति स्वप्नः सप्तविधः स्मृतः ||ऽऽ इति निमित्तान्तरजोऽस्ति स्वप्नः, तथापीह भगवद्गुर्वधिष्ठिते यागधाम्नि मन्त्रादिमाहात्म्याद् भाविफलानुरूप एव दृश्यतेऽसावधिवासे || १७ || एवम् ---- शुभाः स्वप्ना मयाख्याता अशुभांश्च निबोध मे || ४-१८ || तानाह ---- तैलाभ्यङ्गस्तथा पानं............. तैलस्यैव च | .................विशनं च रसातले | अन्धकूपे च पतनमथ पङ्के निमज्जनम् || ४-१९ || वृक्षवाहनयानेभ्यः पतनं हर्म्यपर्वतात् | कर्तनं कर्णनासाभ्यामथ वा हस्तपादयोः || ४-२० || पतनं दन्तकेशानामृक्षवानरदर्शनम् | वेतालक्रूरसत्त्वानां तथैव कालपूरुषाः || ४-२१ || कृष्णोर्ध्वकेशा मलिनाः कृष्णमाल्याम्बरच्छदाः | रक्ताक्षी स्त्री च यं स्वप्ने पुरुषं त्ववगूहयेत् || ४-२२ || मिरयते नात्र संदेहो यदि शान्तिं न कारयेत् | गृहप्रासादभेदं च शययावस्त्रासनेषु च || ४-२३ || आत्मनोऽभिभवं संख्ये आत्मद्रव्यापहारणम् | खरोष्ट्रश्वसृगालेषु कङ्कगृध्रबकेषु च || ४-२४ || महिषोलूककाकेषु रोहणं च प्रवर्तनम् | भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनम् || ४-२५ || कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति | हसनं वल्गनं स्वप्ने म्लानस्रग्दामधारणम् || ४-२६ || स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणम् | उद्वाहं च तथा स्वप्ने दृष्ट्वा नैव प्रसिध्यति || ४-२७ || क्रूरसत्त्वं व्याघ्रादि, संख्ये सङग्रामे, विकृतात्मा विघ्नव्याकुलचित्तो भीषणाकृतिर्वा, हसनोद्वाहादि आत्मनः, वल्गनं नृत्तम् || २७ || उपसंहरति ---- अशुभा ह्येवमाख्याता विज्ञेया दैशिकोत्तमैः | विज्ञेया इति कालस्वरूपाधिकार्यनुसारेणैव एषां बलाबलचिन्ता कार्येत्यर्थः || तत्र ---- शुभास्तत्रानुमोद्यास्तु अशुभेषु तु होमयेत् || ४-२८ || अष्टोत्तरशतं धाम्ना................ तथा सति दीक्षान्तरायोपशान्तिः || २८ || ...............प्रायश्चित्ताद् विशुद्ध्यति | अत्र विधिमाह ---- पूर्ववत् सकलीकृत्य विघ्नोच्चाटनरक्षणम् || ४-२९ || वेष्टनं पूर्ववत् कुर्याच्छिवाम्भः शिवहस्तकम् | लोकपालांस्तु सम्पूज्य शिवकुम्भं च स्थण्डिलम् || ४-३० || अग्निकार्यं यथापूर्वं पूर्णाहुतिप्रपातनम् | प्रायश्चित्तं ततः पश्चाद् दुःस्वप्नार्थं यदुक्तवान् || ४-३१ || तत् कुर्यादिति शेषः | वेष्टनं कवचेन, शिवाम्भ इति प्रोक्षणा(१द्यर्थम्) शिवहस्तः कर्मणो दीप्त्यापत्त्या सम्यक् प्रायश्चित्तशान्त्यर्थम्, स्थण्डिलमिति तदाधेयं भैरवम् || ३१ || एतदुपसंहरन् प्रकृतं प्रस्तावयति ---- एवं पूजादिकं कृत्वा विसृज्य स्थण्डिलाच्छिवम् | निर्माल्यापनयं कृत्वा भूमिं संशोध्य पूर्ववत् || ४-३२ || नित्यकर्म ततः कुर्यात् पूजाहोमजपादिकम् | नित्याह्निके समाप्ते तु नैमित्तिकमथाचरेत् || ४-३३ || नित्यकर्म स्वानुष्ठानविषयम् | तत्र प्रायश्चित्तिनो नाधिकार इति तच्छुद्ध्यन्ते तस्याभिधानम्ः नैमित्तिकं दीक्षाख्यान्निमित्तादागतम् || ३३ || तदुपक्रमते ---- उपलिप्य शिवाम्भोभिर्ब्रह्मस्थानं प्रपूजयेत् | भावेन गन्धपुष्पाद्यैः............ भावेन प्रणवेन | ................टतो मण्डलमालिखेत् || ४-३४ || तद्विधिरग्रे भविष्यति || ३४ || अथ ---- करणीं खटिकां चैव भैरवेण प्रपूजयेत् | धाम्ना तु रजसां पातः............ भैरवः सकलः, धाम्नाभिमन्त्रितानां रजसां पश्चात् पातो निर्मन्त्रक एव, अन्यथा भाविरजोदोषोक्त्त्यनुपपत्तिः || स च रजसां पातः ---- ..............षिताद्यश्चागमोदितः || ४-३५ || सितं रजः पात्यमानमाद्यं यस्य, आगमे बृहत्तन्त्रे उदितः || ३५ || अथ ---- निष्पन्ने मण्डले स्नात्वा नित्यकर्म समाचरेत् | अपरेऽह्नि, इत्यर्थः || नित्यकर्मसमाप्तौ तु कुर्यान्नैमित्तिकं बुधः || ४-३६ || तन्नित्यकर्मानूद्य नैमित्तिकमादिशति ---- स्नानादि पूर्ववन्मन्त्रैः सकलीकरणादिकम् | आत्मरक्षास्त्रप्राकारद्वारपालादिपूजनम् || ४-३७ || विघ्नोच्चाटनदिग्बन्धौ भूपातालखवासिनाम् | अस्त्रप्राकारमारोप्य कवचेनावगुण्ठनम् || ४-३८ || उदङ्मुखं तूपविष्टः करशुद्ध्यादि पूर्ववत् | शिवाम्भः शिवहस्तं च अर्घत्रयप्रकल्पनम् || ४-३९ || कृत्वेति शेषः | आत्मरक्षार्थोऽस्त्रप्राकारः | भूपातालखवासिनां विघ्नानामुच्चाटनमिति व्यवहितः संबन्धः, आगमप्रामाण्यात् | अस्त्रप्राकारमिति यागगृहविषयम् | उदङ्मुखमिति बुभुक्षुदीक्षाया अपि मुक्तिपर्यवसायित्वात् | दक्षिणास्यस्य चाशेषपाशदाहकत्वात्, दीक्षाप्रारम्भे च अत्राचार्यस्योदङ्मुखत्वमेवोक्तम्, करशुद्ध्यादीत्यादिशब्दात् देहशुद्ध्यादिकम् | शिवाम्भ इति प्रोक्षणाद्यर्थं शिवमन्त्रितमम्भोऽर्घपात्रात् पृथक्, तच्च प्राक्पटलयोरनुमन्तव्यम् | पात्रत्रये विधिनिरोधपशुप्रयोजनमर्घत्रयम् || ३९ || ततः ---- लोकपालांस्तु सम्पूज्य शिवकुम्भं प्रपूजयेत् | ततोऽपि ---- मण्डलस्याग्रतो भूत्वा मण्डलं प्रोक्ष्य चासिना || ४-४० || वर्मणा वेष्टयेत् पश्चात् प्रणवेनाभिमन्त्रयेत् | अष्टोत्तरशतं धाम्ना रजोदोषैवीशुद्ध्यति || ४-४१ || मण्डलस्याग्रत इत्यनेन दीक्ष्यजनातिशयेन मण्डलस्य दिगन्तराभिमुखत्वमपि ध्वनति | प्रणवेन धाम्नेति प्रणवपूर्वेण निष्कलेनेत्यर्थः || ४१ || इत्थं च संस्कृतस्य मण्डलस्य ---- चतुदीक्ष्वस्त्रं सम्पूज्य द्वारे गन्धादिभिः क्रमात् | प्राकारं भावयेदस्त्रं............. द्वार इति जातावेकवचनम्, तेन वक्ष्यमाणनवनाभमण्डलस्य चतुदीक्षु यान्यष्टौ द्वाराणि तत्रेत्यर्थः || ..............ंअण्डलं प्रविशेत् ततः || ४-४२ || पूजामत्रारभेत इत्यर्थः || ४२ || तत्र ---- गुरुन् सम्पूज्य विघ्नेशं पुष्पाद्यैः प्रणवेन तु | पूर्वं गणपतिं वायव्यकोणे संपूज्य गुरून् प्राच्यां दिशि प्रपूजयेत् | यथोक्तं तृतीयपटले ---- ऽऽब्रह्मस्थानस्य पूर्वेण गुरून् पूज्य विनायकम्ऽऽ | (३-९२) वायव्ये इति || ततः ---- अनन्तमासनं प्राग्वच्छिवान्तं प्रणवेन तु || ४-४३ || मूर्त्यादि पूर्ववन्न्यस्येद्धृदाद्यावरणान्तगम् | पूर्वोक्तविधिना पूज्य नैवेद्यानि निवेदयेत् || ४-४४ || निरोधार्घेण चार्घं तु दत्त्वा चैव निरोधयेत् | जपध्यानादिकं कृत्वा अग्निष्ठं भैरवं यजेत् || ४-४५ || नाडीसन्धानकं त्रिष्ठं कृत्वा सन्तर्पयेद्विभुम् | अग्नाविति शेषः || ४५ || तत्र तावन्नाडीसंधानमाह ---- आत्मनो निष्कलोच्चारं कृत्वा कुम्भे निवेशयेत् || ४-४६ || कलशस्थस्य वामेन रेचयेत् पूरयेत् ततः | मण्डलस्थस्य सव्येन पुनर्वामेन रेचयेत् || ४-४७ || अग्निष्ठस्य तु तत्तेजो दक्षिणेन विशन् स्मरेत् | मन्त्रकलशाद्भिर्ग्रन्थेर्भेदक्रमेण ऊर्ध्वद्वादशान्तमाश्रयन् ततोऽपि हृदयमागत्य तत्र विश्रम्य प्रदक्षिणं भ्रमित्वा सोममार्गेण निःसृत्य कलशस्थस्य दक्षिणेन प्रविशेत्, तत्राप्यमुमेव क्रममास्थाय तद्वामेन निर्गत्य मण्डलस्थस्य दक्षिणेन प्रविश्य प्राग्वद्वामेन निर्गत्य वह्निस्थस्य दक्षिणेन प्रविशेत्, प्राग्वदेव च हृदये विश्राम्येत् | एवमधिकरणचतुष्टयैक्यापत्त्या वह्नावग्नीषोमसूर्यतेजःसामरस्येन स्थेयम्, न तु ततः स्वहृदयमागन्तव्यमग्निष्ठ एव भवति यागस्य प्रस्तुतत्वात् प्राधान्येनैवावस्थितेर्युक्तत्वात् || ४७ || यदाह ---- एवं संधानकं कृत्वा ततस्तर्पणमारभेत् || ४-४८ || एवमित्यग्निविश्रान्त्यन्तम् || ४८ || ततश्च ---- दशभागविभागेन हुत्वा पूर्णाहुतिं क्षिपेत् | मूलहोमात् पूर्वोक्ताद्वक्त्राणां दशमांशेन हुत्वेत्यर्थः | अथ ---- प्रायश्चित्तविशुद्ध्यर्थं कुर्यादष्टोत्तरं शतम् || ४-४९ || विधेः पूर्णातिरिक्तस्य धाम्ना पूर्णाहुतिं ततः | धाम्नेति काकाक्षिवत् || ४९ || किं च ---- आचार्योऽथार्घहस्तस्तु मण्डलं प्रविशेत्ततः || ४-५० || सम्पूज्य परमेशानं पुष्पाद्यैरर्घपश्चिमम् | मुद्रां बद्ध्वा प्रणम्यादौ जानुभ्यामवनिं गतः || ४-५१ || विज्ञापयेत पश्वर्थं प्रारब्धोऽयं मखोत्तमः | स्नानाधिवासनाद्यं यन्मण्डलेऽग्नौ च यत्कृतम् || ४-५२ || विधानं पुष्कलं सम्यक् त्वत्प्रसादादिहास्तु तत् | परमेशानं विज्ञापयेत् पश्वर्थमिति सङ्गतिः || ४-५२ || अनुष्ठितकर्मविषयां विज्ञप्तिं कृत्वा, अनुष्ठास्यमानविषयामप्याह ---- इदानीं शिष्यदेहे तु सकलीकरणादिका || ४-५३ || योजन्यन्ताध्वशुद्धिस्तु त्वत्प्रसादात् प्रसिद्ध्यतु | ततः कर्मप्रारम्भनिष्पत्त्यन्तं केवलमन्तर्मुखक्रमेण यावन्निश्चितप्रतिपत्त्यापि भगवदधिष्ठितिमात्मनः स्फुटयेदिति विज्ञप्तेराशयः || ५३ || अत एव ---- एवमस्त्वित्यनुज्ञातः परमेशेन वीरराट् || ४-५४ || लब्धानुज्ञः प्रहृष्टात्मा निष्क्रामेन्मण्डलाद् बहिः | वीरराडिति परमेश्वराधिष्ठितः | एवं लब्धाशेषनिर्दलनात्मकभैरवीभावोऽत एव तत्समावेशात् प्रहृष्टात्मा | बहिरिति जव निकान्तरिते यागधाम्न्येव || ५४ || पश्वर्थाय कृतं यत्तु तद् गृहीत्वार्घपात्रकम् || ४-५५ || धाम्नस्तु दक्षिणे भागे कारयेन्मण्डलं गुरुः | दक्षिण इति दक्षिणास्यस्य पाशप्लोषकत्वात् || ४-५५ || अथात्र ---- प्रणवासनं कुशैर्न्यस्य शुचिं शिष्यं निवेशयेत् || ४-५६ || शिवाम्भोऽस्त्रेण संताड्य भस्मना च कुशैः क्रमात् | मण्डले कल्पिते शिष्यं मूतीभूतं प्रकल्पयेत् || ४-५७ || शुचिं स्नातम् | अस्त्रेणेति त्रिषु योज्यम् | कल्पित इति आसनत्वेन, अत्र च मूर्त्यादीनां पूर्वोक्तैव व्याप्तिः | एवमुत्तरत्रापि || ५७ || अथास्य ---- उपविश्य करन्यासं निर्दाहाद्यस्त्रपूर्वकम् | सबाह्याभ्यन्तरं न्यासं मन्त्रसंधानमेव च || ४-५८ || गुरुः कुर्यात् || ५८ || ततः ---- शिवहस्तः प्रदातव्यो ध्यात्वा देवं सुजाज्वलम् | गुरुणा || एवं गुरुरस्य ---- मूध्नी सम्पातयेत्तेजः पाशाङ्कुरविनाशनम् || ४-५९ || पाशानामङ्कुराः संसारप्ररोहहेतव आद्या उद्भेदास्तेषां नाशनम् | यथोक्तमन्यत्र ---- ऽऽब्रह्मपञ्चकसंयुक्तः शिवेनाधिष्ठितः शिवः | पाशच्छेदकरः क्षेमी शिवहस्तः प्रकीतीतः || अनेनालब्धमात्रस्तु देही निर्मुक्तबन्धनः | प्रयाति शिवसायुज्यं निर्मलो निरुपप्लवः ||ऽऽ इति || ५९ || उत्थाप्य च ततो नीत्वा मण्डलं तु प्रवेशयेत् | इन्द्रियाणां बाह्यप्रसरप्रशमनेन भगवदेकाग्रतामाधातुं बद्धनेत्रस्य मण्डलदर्शनमुचितमित्याह ---- वस्त्रं सम्प्रोक्ष्य तोयेन कवचेनावगुण्ठयेत् || ४-६० || पूजयेद् गन्धपुष्पाद्यैर्भैरवेणाभिमन्त्रयेत् | नेत्रे बद्ध्वा तु नेत्रेण........... नेत्रेणाभिमन्त्रिते नेत्रमन्त्रोच्चारपूर्वं सर्वेन्द्रियप्रसरपुरःसरभूते नेत्रे बद्ध्वा || शिष्यस्य ---- ...........पुष्पं पाणौ प्रदापयेत् || ४-६१ || स च ---- अकामान्निक्षिपेन्पुष्पं देवस्याभिमुखं स्थितः | तदनन्तरं बुभुक्षोः ---- पुष्पपातवशान्नाम कुर्याद् वै साधकस्य च || ४-६२ || वक्त्राङ्गादिपूर्वं शिवान्तं पुंसः, स्त्रियस्तु शक्त्यन्तम् || ६२ || यस्तु निष्कामस्तस्य ---- मुमुक्षोर्गुरुरिच्छातः ............. यथारुचि कुर्याद्वा न वेत्यर्थः || पूर्वोक्तस्य साधकदीक्षादीक्ष्यस्य ---- ........... नाम वै साधकस्य वा | ऽऽवाऽऽ शब्दो निश्चये | कुर्यादेवेत्यर्थः || अथ ---- मुखमुद्धाट्य तं शिष्यं शिवाय प्रणिपातयेत् || ४-६३ || शाक्तमार्गोद्धाटनव्याप्त्या मुखमस्य लाघवेनोद्धाटयेत्, यथासावुद्भूतफुल्लन्यायेन१ विकसतीति गुरवः || ६३ || किं च ---- प्रदक्षिणमतः कृत्वा मण्डलेऽग्नौ प्रणम्य च | अग्निकुण्डसमीपे तु आचार्यः पशुना सह || ४-६४ || भवेदिति शेषः | प्रदक्षिणादिकर्तृत्वं द्वयोरपि | अत्र च पूर्वोक्ता कराकर्षणयुक्तिः स्मर्तव्या || ६४ || आत्मसव्येऽथ दिग्भागे मण्डलं प्रणवेन तु | पूर्ववन्नाडिसन्धानं तदर्थं चाहुतित्रयम् || ४-६५ || सम्पाताभिहुतिं कृत्वा अणुतर्पणमेव च | पूर्णाहुतिं ततो दत्त्वा प्रायश्चित्तानि होमयेत् || ४-६६ || धाम्ना चाष्टशतं............. ऽऽपिङ्गला मध्यमा नाडीशिष्यदेहाद्विनिर्गता |ऽऽ (३-१४९) इति प्रागुक्तस्थित्या शिष्यकरगुरुजङ्घासङ्घातदर्भयुक्त्त्या नाडीसन्धानम्, अणवो मूलाद्या मन्त्राः || ६६ || एतत् कृत्वा ---- ........पश्चात् पातयेदाहुतित्रयम् | जात्युद्धारे ध्रुवेणैव द्विजत्वापादने तथा || ४-६७ || ध्रुवं प्रणवमुच्चार्य ऽऽअमुकस्य जात्युद्धारङ्करोमि स्वाहाऽऽ इति प्रयोगेण पशुदेहसम्बद्धाया जातेरुद्धारे तिस्र आहुतीः पातयेत् | ततोऽपि ऽऽद्विजत्वापादनं करोमि स्वाहाऽऽ इति प्रयोगेण भाविरुद्रांशापादनयोग्यतार्थाचिन्त्यशक्तिभिर्मन्त्रैः शुद्धविद्यापदजननयोग्यतात्मकद्विजत्वापादनायाहुतीस्तिस्रः पातयेत् | अतश्च यत्केचिदूचुः ---- द्विजत्वापादनमेतन्न वर्तमानशरीरविषयम्, तत्र (द्रव्या?) तद्देहाश्रितायाः शूद्रादिजातेरेव स्थितत्वाद् द्विजत्वजातेश्च परस्या नित्याया जन्यत्वाभावादिति कर्मान्तरवशसंभाव्यमानद्विजदेहापेक्षयैवैतदष्टाचत्वारिंशतस् अंस्कारापादनेन द्विजस्यैव कार्यमिति तदेषां जातिग्रहग्रस्ततयाननुन्मिषितविवेकत्वादविदित- परमेशशास्त्रार्थसतत्त्वमभिधानमुपेक्ष्यमेव | यतो भाविद्विजदेहविषयमेतदित्यत्रार्थे श्रुतिरस्ति | यथा च वर्तमानस्य पशुशरीरस्याचिन्त्यशक्तिमन्त्रप्रभावाद् दाहादिकं जात्युद्धारश्च क्रियते, तथा शुद्धतत्त्वमयदेहान्तरोत्पत्तिद्वीजत्वापादनं च यद्य (न्त्यजा-)१देरपि क्रियते, तन्न काचिदनुपपत्तिः | श्रुतिस्तर्ह्यत्रार्थे यथाभिहितरूपा सेतिकर्तव्यता स्पष्टैवास्ति | श्रूयते हि एतद्यथाद्यापि योगिन्यो मन्त्रादिप्रभावेन देहजात्यादि आत्मनः परस्य च परिवर्तयन्तीति | माहेश्वरे च नये तदुक्तप्रक्रिययापि शिवपुंमायाभ्योऽन्यत्तत्त्वजात्यादि सर्वमेवानित्यम् | यत् तु भुवनाध्वनि अष्टचत्वारिंशत्संस्काराधानेन द्विजत्वापादनं क्रियते, तत्पुत्रकस्य वागीश्यां गर्भाधानादियुक्त्या तत्तत्त्वसंभाव्यमानभूतसर्गभोगशुद्धिमध्ये द्विजभोगशुद्ध्यर्थम् | इदं तु समयिनो वर्तमानदेहविषयम्, तस्य तत्त्वशुद्धरचोदितत्वात् | अतश्चैतदेव यतो दीक्षितानाम् ---- ऽऽएकैव सा स्मृता जातिर्भैरवीया शिवाव्यया |ऽऽ (४-५४३) इति वक्ष्यमाणस्थित्या न शूद्रादिजातीयत्वमस्ति, प्रत्युत प्राग्जात्युदीरणात् प्रायश्चित्तत्वं शास्त्रसमये स्थितानामुक्तम् | द्विजस्यापि चैतदलौकिकं द्विजत्वापादनं कार्यमेव | यत्तु ---- ऽऽयेनेदं तद्धि भोगतः |ऽऽ (किरणा०) इति देहस्थित्यां वर्तमानदेहे मन्त्रयोजनं (न) कार्यमित्याहुः, तदारब्धदेहकर्मशुद्ध्यर्थं न कार्यमितियदुच्यते त(दयु)क्तम्, शोषदाहाप्यायजात्युद्धाराद्यर्थं तु वर्तमानदेहेऽपि चोदितत्वात् कर्तव्यमेव | अन्यथा ---- ऽऽमन्त्रशक्तिभिरुग्राभिः शोषनिर्दहनादिभिः | शरीरं शोषितं यस्मात्तदर्थमभिषेचनम् ||ऽऽ (४-४५०) इत्यसङ्गतं स्यात् || ६७ || अत्र द्विजत्वापादने कर्तव्यान्तरमाह ---- बीजाहारे तथा देशभावशुद्धौ द्विजो भवेत् | प्रणवपूर्वं ऽऽ(= ओं) बीजाहारदेशभावशुद्धिममुकस्य करोमि स्वाहाऽऽ इत्यत्र प्रयोगः | इह ---- ऽऽब्रह्मण्यं बीजशुद्ध्या स्यात् सा च स्त्रीषु व्यवस्थिता | तासां तु चपलं चित्तं चण्डालेष्वपि धावति ||ऽऽ इति मुकुटसंहितोक्तन्यायान्न क्वचिद् बीजशुद्धिर्वास्तवी संभाव्यते, इति सा मन्त्रैरेव संपाद्या | आहारस्य श्रुतिस्मृत्युक्तप्रक्रियया अनिर्वाहादशुद्धिरस्ति, देशस्यापि म्लेच्छादिसंपर्कात्, भावस्यासत्यानार्जवदियोगादिति शुद्धिराधेयैव || अत्रैवमस्य मन्त्रैः शुद्धविद्यायां जननेनापादितलोकोत्तरद्विजत्वस्य - --- प्रणवेनाहुतीस्तिस्रो रुद्रांशापादने तथा || ४-६८ || प्रणवपूर्वं ऽऽरुद्रांशो भव स्वाहाऽऽ इति प्रयोगाद् भाविभैरवीभावभूमिकाग्रहणाय रुद्रांशत्वापादनमस्य कार्यम्, येनाधिगतशास्त्रार्थो रुद्रध्यानैकनिष्ठः स्यात् || ६८ || तत्रेतिकर्तव्यतां दर्शयितुमाह ---- अस्त्रेण प्रोक्षयेच्छिष्यं पुष्पयुक्तेन ताडयेत् | रेचकेन ततो गत्वा शिष्यदेहे विशेद्धृदि || ४-६९ || पुष्पेति अस्त्रजप्तेन पुष्पेणेत्यर्थः | रेचकेनेत्यूर्ध्वमागीकेण || ६९ || अथ तत्र ---- ओंकारादिशिवं जप्त्वा अस्त्रमन्त्रं फडन्तगम् | विश्लेषकरणं कृत्वा चैतन्यस्य विधानतः || ४-७० || छेदयेदस्त्रमन्त्रेण कवचेनावगुण्ठयेत् | अङ्कुशेन समाकृष्य द्वादशान्ते तु कारयेत् || ४-७१ || तत्रस्थः पुद्गलो ग्राह्यः सम्पुट्यैव ध्रुवेण तु | संहारमुद्रया सम्यक्........... शिवं निष्कलम्, चैतन्यस्येति पुर्यष्टकरूपस्य, विधानत इति पूर्वोक्तरश्मिमात्रावियोगभावनया, अङ्कुशेनेति मूलमन्त्रस्य कुटिलकलाक्रमेण अङ्कुशमुद्राप्रदर्शनेन चेत्यर्थः | पुद्गलो जीवः, सम्यगिति स्वाभेदप्रतीतिदार्ढ्येन | यथोक्तं स्पन्दे ---- ऽऽअयमेवात्मनो ग्रहः | ऽऽ (स्प० २-७) इति || अथोर्ध्वकेन ---- .... पूरकेण विशेद्धृदि || ४-७२ || स्वस्मिन् || ७२ || तत्र ---- संस्कुभ्य सरसीकृत्य रेचयेत् पुद्गलं पुनः | त्यजन्तं देवताषट्कं ततश्चापि स्वकं पदम् || ४-७३ || समरसीकरणं वक्ष्यमाणस्वाभेदापादनम्, रेचनमूर्ध्वोद्वेष्टनक्रमेण, देवता ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवाख्या हृत्कण्ठतालुभ्रूमध्यललाटब्रह्मरन्ध्रगाः, तत्त्याग एव शिष्यस्य तदधिष्ठिताध्वनि विश्लेषयोग्यताधानहेतुः, स्वामिनि जिते स्वस्यापि जयात्, स्वकं पदं भ्रूमध्यम् | यद्वक्ष्यति ---- ऽऽएश्वरं लभते पदम् |ऽऽ (४-७९) इति | तन्नये तु तत्पदप्रापकात् तदाराधनाद्योग्यतामस्यादधीत | यदुक्तं मृगेन्द्रायाम् ---- ऽऽइति सामयिकं कर्मऽऽ (क्रि० ७-७०) इत्युपक्रम्य ऽऽयत्प्राप्य योग्यतामेति (क्रि० ७-७०) ||ऽऽ इति || ७३ || तत्पस्थं पुद्गलं गृह्य सम्पुट्य च भवेन तु | संहारमुद्रयोद्धृत्य शिष्यस्य हृदि योजयेत् || ४-७४ || भैरवेणाभिमन्त्र्य............. भवेन भैरवेणेति निष्कलेनाभिमन्त्रणं च सप्तवारमित्याहुः | तदेतावत्पर्यन्तो रुद्रांशापादनाय ग्रन्थो न तु द्विजत्वापादनायेति (न) भ्रमितव्यम् || ७४ || द्विजत्वापादने तु पूर्वोक्ते वक्तव्यशेषमाह ---- ............एवमुपवीतं शिशोर्ददेत् | एवमिति भैरवेणाभिमन्त्र्य मन्त्रशक्त्यैव इदानीं शुद्धविद्यापदोद्भवात्मकद्वितीयजन्मयोगाद् द्विजत्वं भवति | उपवीतमिति, उप आत्मसमीपे विशेषेण मन्त्रसामर्थ्यात्मना इतं संबद्धम्, वीतं च शुद्धमनन्तमन्त्रदैवतव्यापकशुद्धविद्यात्मकशक्तिसूत्रप्रतिकृतिरूप मेतदुपवीतम् || दत्तोपवीतो हि असौ ---- आधानाद्यावदन्त्येष्टिं द्विजत्वे संस्कृतो भवेत् || ४-७५ || गर्भाधानादयो वक्ष्यमाणाश्चत्वारिंशच्छुद्धविद्योद्भवात्मक- प्रोक्तद्वितीयजन्मोपयोगाय | ते च मन्त्रशक्त्यैव सिद्ध्यन्ति || ७५ || एतच्चत्वारिंशता संस्कारैः ---- पिण्डस्यापादनं जातेः............. भवतीति शेषः || कथमित्याह ---- .................आहुतित्रितयेन तु | पूर्वं निर्णीतेनैव इत्यर्थः || न केवलमियता संस्कारैः पिण्डस्य जात्यापादनं यावत् ---- चैतन्यस्यापि संस्कारमाधानान्त्येष्टितः परम् || ४-७६ || सूक्ष्मविज्ञानतः कृत्वा द्विजत्वे संस्कृतो भवेत् | आधानेनादिभाविना सहितः पर्यन्तवर्तीअन्त्येष्ट्यात्मा चत्वारिंशः संस्कारः, ततः परं वक्ष्यमाणं दयाक्षान्त्याद्यात्मकात्मगुणसंस्काराष्टकं सूक्ष्मविज्ञानत इति भावनया | एवं द्विजत्वापादनार्थं यथोक्तं निर्वर्त्योक्तसतत्त्वं रुद्रांशापादनं कर्तव्यम् || ७६ || तदन्तेऽपि ---- शतहोमं सहस्रं वा हुत्वा पूर्णाहुतिं ततः || ४-७७ || दद्यादिति शेषः | शतादिहोमो मूलमन्त्रस्य तदङ्गानां तु दशांश इति स्थितमेव || ७७ || तदिदमुपसंहरति ---- समयी संस्कृतो ह्येवं.......... एवमिति जात्युद्धारद्विजत्वरुद्रांशापत्तिभिः | समयी समयः पारमेशशास्त्रमर्यादावर्तनमस्यास्तीति कृत्वा | यदाह ---- ........वाचनेऽस्यार्हता भवेत् | श्रवणेऽध्ययने होमे पूजनादौ तथैव च || ४-७८ || वाचनं बुद्ध्याद्यारोहायावर्तनम्, श्रवणमर्थावबोधः, अध्ययनं वेदवत्सततपाठ आगमग्रन्थस्य, आदिशब्देन जपध्यानादयः || ७८ || इत्थमयं समयी ---- चर्याध्यानविशुद्धात्मा लभते पदमैश्वरम् | चर्याध्यानाभ्यां समयपालनयोगाभ्यासाभ्यामेव विशुद्ध आत्मा यस्य | दीक्षया हि अस्याध्वशुद्धियोजनेन विना ईश्वरयोगयोग्यतैवाहितेति तद्योगादेवास्य पाशशुद्धावीश्वरपदाप्तिः | अतश्च यत्कश्चिदीश्वरतत्त्वयोजितस्यास्य पुत्रकादिदीक्षायामधरपदशोधनं न युक्तम् इति ईश्वरपदम् ---- ऽऽशुद्धभावस्थितस्यास्य कालरुद्रं निधापयेत् |ऽऽ इति कैरणवाक्यानुसारेण कालाग्निधाम वा (मैव) इत्यवोचत्, तदसत्, समयिनो योजनिकादेरचोदितत्वात् कैरणस्य वाक्यस्य चास्य पुत्रकाश्रयभुवनदीक्षाविषयत्वात् | किरणायां हि समयिदीक्षान्ते ऽऽततो दीक्षां समाचरेत् |ऽऽ इत्युपक्रम्य पुत्रकविषयभुवनदीक्षा एतद्वाक्यप्रमुखं निर्वाहितेत्यलम् | एश्वरपदलाभोऽपरा मुक्तिः || अथोक्तसमयिदीक्षानन्तरनिर्वर्त्यां प्रथमत एव वा कर्तव्यां पुत्रकादिदीक्षां निर्णेतुं प्रस्तौति ---- अथ दीक्षाध्वशुद्ध्यर्थं भुक्तिमुक्तिफलाथीनाम् || ४-७९ || विधानमुच्यते सूक्ष्मं पाशविच्छित्तिकारकम् | भुक्त्यथीनः साधकाः, मुक्त्यथीनः पुत्रकाचार्याः, तेषां या दीक्षा तस्यामध्वशुद्ध्यर्थं सूक्ष्ममिति भाविव्याप्त्या समूलपाशोन्मूलने परतत्त्वयोजनिकादिरूपं विधानमुच्यते | समयिनस्तु अधिष्ठातृकारणविश्लेषमात्रपूर्वमीश्वरतत्त्वाराधनयोगयोग्यता, इति तं प्रति न सूक्ष्मविधानं नापि परा मुक्तिर्नापि मन्त्राराधनक्रमेण भुक्तिरिति भाविपुत्रकादिपदप्राप्तियोग्यताजननमात्रं समयिदीक्षालक्षणम् | यथोक्तम् ---- शमयी राजपुत्रवत् |ऽऽ इति || ७९ || अथ पुत्रकसाधकदीक्षयोवीषयविभागं सपीठिकाबन्धं करोति ---- गुरुः संपृच्छते शिष्यं द्विविधं फलकाङ्क्षिणम् || ४-८० || द्विविधं बुभुक्षुं मुमुक्षं वा, फलमिति मोक्षो भोगो वा || ८० || अतश्चेदमस्मै ब्रूयात् ---- फलमाकाङ्क्षसे यादृक्तादृक् साधनमारभे | साधनं दीक्षाविधिः || यतः ---- वासनाभेदतः प्राप्तिः साध्यमन्त्रप्रचोदिता || ४-८१ || साध्य आराध्यो यो मन्त्रः स चिन्तामणिकल्पो वासनानुसारं फलति अत एव श्रीस्पन्दे ---- ऽऽतदाक्रम्य बलं मन्त्राःऽऽ (स्प० २-१०) इत्युपक्रम्य शहाराधकचित्तेनऽऽ (स्प० २-१०) इत्यन्तम् || ८१ || तथा च ---- मन्त्रमुद्राध्वद्रव्याणां होमः साधारणः स्मृतः | भुक्तौ मुक्तौ च || स तु ---- वासनाभेदतो भिन्नः शिष्याणां च गुरोस्तथा || ४-८२ || यदा शिष्यः स्वप्रत्ययी तदा गुरुः तद्वासनानुसारं मुक्तये भुक्तये वा जुहुयात् | यदा तु गुरुप्रत्ययी तदासौ स्ववासनानुसारं मुक्तय एव, तस्य बुभुक्षाभावादित्यर्थलभ्योऽयमत्राशयः || ८२ || अथ वासनाभेदतः शिष्यभेदं प्रतिपादयति ---- साधको द्विविधस्तत्र शिवधर्म्येकतः स्थितः | शिवमन्त्रविशुद्धाध्वा साध्यमन्त्रनियोजितः || ४-८३ || ज्ञानवांश्चाभिषिक्तश्च मन्त्राराधनतत्परः | त्रिविधायास्तु सिद्धेर्वै सोऽत्रार्हः शिवसाधकः || ४-८४ || शिवधर्मः शिवशास्त्रोक्तसमाचारो नित्यावियोगेन विद्यते यस्य, अत एव शिवपदेन साध्यमन्त्रेणैव विशुद्धो न तु लोकधमीण इव अंशेन स्थापितोऽध्वा यस्य, यस्मिन्नेव च साध्यमन्त्रयोजित इत्याचार्येणाराधकत्वेन नियुक्तः | ज्ञानवानिति अधिगतमन्त्रतन्त्ररहस्यः || ८४ || अपरमाह ---- द्वितीयो लोकमार्गस्थ इष्टापूर्तविधौ रतः | कर्मकृत् फलमाकाङ्क्षन् शुभैकस्थोऽशुभोज्झितः || ४-८५ || लोकमार्गः श्रुतिस्मृत्याचारः, इष्टं तीर्थस्नानान्नदानादि, पूर्तं कूपतडागमठादि (निर्माणं), फलमाकाङ्क्षन् कर्म शुभमेव करोति, न तु मन्त्राराधनम् ---- ऽऽलोकधमीण्यसौ दीक्षा मन्त्राराधनवजीता |ऽऽ (४-१४४) इति वक्ष्यमाणत्वात् शुभकर्मणैव तु फलस्य साधनात् साधकोऽयम्, दीक्षया त्वस्याशुभमात्रमेव शमनीयमित्याह, अशुभोज्झित इति || ८५ || अत एव ---- तस्य कार्यं सदा मन्त्रैरशुभांशविनाशनम् | सदेति देहारम्भकर्मवर्जं यद्यदकरोत् करिष्यति वा तत्र मध्ये योऽशुभांशः स सर्वोऽस्य शोध्यः || ऽऽ.............. प्रारब्ध्रेकं न शोधयेत् |ऽऽ (४-१४१) इति वाक्यस्य प्रायशः सर्वविषयत्वादसङ्कीर्णाचारेण शिवधमीणा भाव्यमित्याह ---- गृहस्थो वा यतिर्वासावाश्रमैकतमस्थितः || ४-८६ || श्मशानादिकवृत्तेनैव वा सिद्धिं साधयेत्, गृहस्थवृत्तेन तादृशैरेव द्रव्यैर्न तु शबलतया, असाविति शिवधर्मी न त्वन्यः, तस्य मन्त्राराधनेऽनधिकारात् | न तु आश्रमानवकॢप्तिपरमेतत्, इहानुपयोगात् || ८६ || साधकं निर्णीय मोक्षैकनिष्ठं पुत्रकं निर्णेतुमाह ---- मुमुक्षुद्वीविधः प्रोक्तो निर्बीजो बीजवान् पुनः | उभयोवीषयविभागमाह ---- बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम् || ४-८७ || एषां निर्बीजिका दीक्षा समयादिविवजिता | बालिशो मूर्खः | वृद्धोऽनुष्ठानासमर्थः | भोगभुग् उपनतभोगैकसक्तोऽप्यायातशक्तिपातो दीक्ष्य एव | अन्ये त्वालस्योपहतोऽयं न पात्रम्, अतो भोगभुक् अपथ्यपरश्चासौ व्याधित इति योजयन्ति, व्याधितो दुश्चिकित्स्यः, निर्बीजिकेत्यस्य व्याख्यानं समयादिविवजीतेति | आदिशब्दात् पवित्रकादिविधिः | वक्ष्यति च ---- शमयाचारपाशांश्च निर्बीजायां विशोधयेत् |ऽऽ (४-१४७) इति || ८७ || विद्वद्द्वन्द्वसहानां तु सबीजा कीतीता प्रिये || ४-८८ || विदुषां शास्त्रविवेककुशलानां द्वन्द्वसहानां व्रतचर्यादिक्लेशक्षमाणां समयपालनेऽपि शक्तत्वात् || ८८ || दीक्षानुग्राहिका तेषां समयाचारसंयुता | पूर्वाविवेक्यशक्तविषया, इयं तु विपरीतविषयेति तात्पर्यम् || अतश्च ---- विशेषसमयाचारा मन्त्राख्ये ये प्रकीतीताः || ४-८९ || तेऽत्र पाल्याः प्रयत्नेन मोक्षसिद्धिमभीप्सता | मन्त्राख्ये मन्त्रपीठे, अस्मिन् ये ---- ङ निन्देद्भैरवं देवं न च शास्त्रं तदुद्भवम् |ऽऽ (५-४४) इत्यादयो वक्ष्यमाणा विशेषसमयाचारा उक्ताः, तेऽत्रेति सबीजदीक्षायां प्रयत्नेन पाल्याः, अन्यथा प्रायश्चित्तित्वमिति भविष्यति | मन्त्राख्ये इति विद्यापीठादेरप्युपलक्षणपरम् || ८९ || येयमेवं निर्णीता दीक्षा ---- सबीजा सा तु विज्ञेया पुत्रकाचार्ययोः स्थिता || ४-९० || वागीश्या गर्भोद्भूतेः संसारप्रशमनेनानुकम्पितः पुत्रः पुत्रकः, साधकदीक्षायां यद्यपि समयपालनमाम्नातम् तथापि न तद्दीक्षा सबीजोच्यते, मुमुक्षुद्वीविधः, इति परिभाषणात् || ९० || एवमस्मिंश्चतुवीधे दीक्षाकर्मणि प्रथमम् ---- गृहस्थो वाश्रमी वाथ यतिः सङ्कल्प्य दीक्षयेत् | वाक्यार्थस्यात्र कर्मता पश्य मृगो धावतीतिवत्, तेन गृहस्थोऽयमाश्रमीति एहिकभोगस्पृहयालुः, यतिरित्येतद्विपरीतो वेत्येतत् प्रथमं सङ्कल्प्य एतदुचितेनैव असङ्कीर्णेन विधिना दीक्षां कुर्यात् || तत्र पुत्रकदीक्षायां प्रक्रमते ---- पाशसूत्रकमादाय शिष्यदेहेऽवलम्बयेत् || ४-९१ || अधिवासावसरे अधिवास्यकुम्भाग्रे यत्संरक्ष्य स्थापितमवलम्बनं शिखाग्रात् पादान्तं प्राग्वत् || ९१ || अथ ---- अध्वानं संधयेदग्नौ धाम्ना चैव विचक्षणः | वक्ष्यमाणषडध्वव्याप्तिज्ञो गुरुः प्राधान्यात् शिवाग्नावेव अशेषपाशप्लोषिणि, अध्वानमितीह प्रस्तुतं कलाध्वानम्, तत्त्वादिदीक्षायां तु तत्त्वादिरूपं संदधीत || न चाग्नावेव यावत् ---- कुम्भमण्डलवह्निस्थश्चाध्वात्मस्थः शिशोश्च यः || ४-९२ || सूत्रस्थश्चापि चैकत्र अध्वसंधिः प्रकीतीतः | आत्मस्थ इति गुरोः || ९२ || एकत्रेत्युक्तमधिकरणं विभजन्नध्वशुद्धिं निरूपयितुमाह ---- षड्विधस्याध्वमार्गस्य साधारणगतस्य तु || ४-९३ || कुण्डे सङ्कल्प्य संशोध्यमध्वसंधौ तु होमयेत् | वर्णमन्त्रपदकलातत्त्वभुवनभेदात् षड्विधस्याध्वनस्तत्तत्पदप्राप्तिहेतुतया मार्गरूपस्य कुम्भादिषु षट्सु अधिकरणेषु साधारणगतस्याभेदेन स्थितस्य तथा ज्ञातस्य च मध्यात् संशोध्यमित्यन्तर्भूताध्वपञ्चकमेकतमं प्राधान्येन शोधयितुमिष्टम् | कुण्डे इति तत्स्थे शिवाग्नौ सङ्कल्प्य अध्वसंधिनिमित्तं होमं कुर्यात् || ९३ || कथमित्याह ---- मूलमन्त्राष्टशतिकमध्वसन्धानहेतुतः || ४-९४ || प्रणवमूलमन्त्रोच्चारपूर्वमध्वसंधिर्भवतु स्वाहा इति प्रयोगेनाध्वव्याप्तिज्ञो गुरुरष्टोत्तरं शतं जुहुयादिति यावत् || ९४ || अध्वावलोकनं पश्चाद् व्याप्यव्यापकभेदतः | अवलोकनं भावनं, कुर्यादिति शेषः || व्याप्तिं स्फुटयति ---- भुवनव्याप्तिता तत्त्वेष्वनन्तादिशिवान्तके || ४-९५ || अनन्तादिशिवान्तके यानि भुवनानि तद्व्यापकत्वं तत्त्वेषु || ९५ || तानि च तत्त्वानि ---- व्यापकानि च षट्त्रिंशत्................... ये त्वन्ये त्रयोऽध्वानः ---- ..............ंअन्त्रवर्णपदात्मकाः | वर्णाः पञ्चाशत्, पदानि नवात्मसंबन्धीन्येकाशीतिः || ते च ---- तत्त्वान्तर्भाविनः सर्वे............... तत्त्वानि अन्तर्भावयन्तीति कृत्वा | कथम् ---- ...............वाच्यवाचकयोगतः || ४-९६ || तत्त्वानि वाच्यानि मन्त्रादयो वाचकाः | यथा च अयं वाच्यवाचकभावस्तथाग्रे भविष्यति || ९६ || कलादीक्षायाः प्रस्तुतत्वात् तदन्तर्भावं तावत् पञ्चानामध्वनामाह ---- कलान्तर्भाविनस्ते वै निवृत्त्याद्याश्च ताः स्मृताः | अस्य सर्वस्य अध्वग्रन्थस्यायं पिण्डार्थः ---- परमेश्वरश्चिदानन्दघनः स्वतन्त्रभट्टारक एकादशपटलनिरूपयिष्यमाणस्थित्या उन्मनाख्यया स्वस्वातन्त्र्यशक्त्या शून्यादिक्षित्यन्तमनन्तं वाच्यवाचकरूपं स्वभित्तौ स्वानधिकमप्यधिकमिव युगपदवभासयति | तत्र वाचकं ग्राहकभागावस्थितं परसूक्ष्मस्थूलभेदेन वर्णमन्त्रपदात्मकं त्रिधा, वाच्यमपि ग्राह्यभागाभिनिविष्टं कलातत्त्वभुवनात्मकम्, तथैव वर्णा ह्यभेदविमर्शसाराः किंचित्स्थौल्येन भेदाभेदविमर्शनात्मकमन्त्ररूपतामाश्रित्य ततोऽपि स्थौल्येन भेदविमर्शावगमकपदरूपतया भान्ति | एवं वाच्यरूपा पारमेश्वरी कलाख्या शक्तिरुत्तरोत्तरवैशिष्ट्येन तत्त्वभुवनात्मतां गृह्णाति, वस्तुतश्चेयमक्रमैव पारमेश्वरी शक्तिः स्फुरति, तत्रापि च स्वस्वातन्त्र्याद् दर्पणनगरवत् क्रममप्यादर्शयति, क्रमेऽपि च पूर्वं पूर्वमुत्ररत्र व्यापकतया स्थितं मृदिव घटादौ उत्तरमुत्तरं तु पूर्वत्र शक्त्यात्मना स्थितं वृक्ष इव स्वबीज इति सर्वं सर्वात्मकमेव | अत एव पञ्चतत्वदीक्षायामनाश्रिततत्त्वपर्यन्ता भूतव्याप्तिर्भविष्यति | एवं चैकैकोऽपि प्रमाता भावो वा वस्तुतः षडध्वस्फाररूपपारमेशशक्तिमयादिहान्तपरामर्शसाराहन्ताविश्र अन्तिसतत्त्वः परभैरवरूप एव, तथात्वापरिज्ञानात् तु तन्मायाशक्तिकृतादपूर्णंमन्यः शब्दराशिकलाविलुप्तविभवत्वात् वर्णादिभिः कलादिभिश्च तात्त्विकस्वरूपेणास्फुरद्भिः प्रत्ययोद्भवक्रमेण देहादौ ग्राहिताहंभावो विषयमात्रासु ग्राहितभोक्तृताभिमानश्च खेचर्यादिचक्रचतुष्टयस्य भोग्यतां प्राप्तो बद्धः पशुः संपन्न इत्यस्य पशुभावशमनाय पारमेश्वरी अनुग्राहिका शक्तिः शिवाभिन्नाचार्यहृदये पारमाथीकेन स्वरूपेण स्फुरन्ती शिष्यस्य सर्वमध्वानं सङ्कोचकत्वप्रशमनेन असङ्कुचितस्वशक्तिसारतया स्फारयन्ती शोधयति दीक्षाज्ञानादियोगेन, अत एवमाचार्यस्फारसारा मन्त्रादयः शोधकाः, पश्वात्माभिनिविष्टाः शोध्या, इति शोध्यशोधकभावेऽपि न काचित् क्षतिः | यतश्चैकैकस्याप्यध्वनः सर्वमयत्वमस्ति, अत एव तत्तदध्वप्राधान्येन दीक्षायामन्याध्वपञ्चकमन्तर्भावशोधनमुक्तव्याप्तिसतत्त्वं कार्यम् | उक्तं च श्रीस्पन्दे ---- शेयं क्रियात्मिका शक्तिः शिवस्य पशुवतीनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ||ऽऽ (३-१६) इत्यलम् | केवलम् ---- ऽऽयावन्न वेत्ति वै व्याप्तिं कुण्डस्यैवात्मनोऽपि वा || साध्यस्यैव पशोश्चैव पाशानां च षडघ्वनः | बालवत् क्रीडते तावत् कार्यं तस्य कथं भवेत् ||ऽऽ(१६-५४-५५) इति मृत्युजित्युक्तत्वात् तत्र तत्र व्याप्तिप्रदर्शनायायमस्माकं भर इति न नो वाचालता कल्प्या सचेतोभिः || अथ प्रसङ्गात् कलावाचकान् मन्त्रानाह ---- हृदाद्या वाचकास्तासां बीजमन्त्राः प्रकीतीताः || ४-९७ || बीजमन्त्रा इति निष्कलाः, हृदाद्या इति हृच्छिरःशिखाकवचनेत्रमन्त्राः क्रमेण निवृत्त्यादीनां वाचकाः || ९७ || एवं चास्मिन् कलादीक्षाविधौ ---- एकैकस्याः कलायाश्च पृथग् व्याप्तिं विभावयेत् | सा चादूर एव व्यक्तीभविष्यति || ताश्च ---- पृथिव्यादिकला ज्ञेया ब्रह्माद्याः कारणश्च ते || ४-९८ || निवृत्याद्याः पृथिव्यादिशक्तिरूपा ज्ञेयाः, पृथिव्यादीनामेवानाश्रितपर्यन्तं सूक्ष्मतयावस्थानात् | एतच्च पञ्चतत्त्वदीक्षाविधौ स्फुटीभविष्यति | एता एवमधिष्ठातृरूपतया ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवाः, अतश्च अधिष्ठातृदेवताशुद्ध्याप्येताः शुद्धा भवन्तीत्यपि सूचितम् || ९८ || उपसंहरति ---- एवं व्याप्तिं भावयित्वा............... प्रतिकलं समनन्तरवक्ष्यमाणव्याप्तिम् | एवमिति निर्णीतपरसूक्ष्मस्थूलक्रमेणध्वनो भावयित्वा || ................ऽध्वोपस्थापनं भवेत् | उपस्थापनमेकतमस्य प्रधानतया शुद्ध्यर्थं सम्मुखीकरणम् | अत्र च धामादीत्यादिना (स्व० ४-१०१) मन्त्रं वक्ष्यति || एवमुपस्थितस्य संनिधानाय ---- त्रिराहुतिं ध्रुवेणैव................ दद्यादिति शेषः || किं च ---- ...............ऽध्वशुद्धिरतो भवेत् || ४-९९ || कथम् ? ---- त्याह ---- अग्नौ तु पूजिते देवे अध्वन्यासे कृते सति | तदेव पादादारभ्य पृथिव्यादिक्रमान्न्यसेत् || ४-१०० || तदेवेति निवृत्यादिरूपम् | पादादिति संहारक्रमेण | तत्र गुल्फान्तं निवृत्तिः, नाभ्यन्तं प्रतिष्ठा, ताल्वन्तं विद्या, मूर्धान्तं शान्तिः, ब्रह्मरन्ध्रान्तं शान्त्यतीता, इति भविष्यति | इत्थं च वर्तमानप्राणदेहप्रतिकृतिरूपे सूत्रके देहानुसारिगुल्फनाभ्याद्यवधिमति अध्वन्यासतच्छुद्ध्यादिकं कृतं देहेऽपि संपन्नमेवेति न तत्र समयदीक्षायामिव पृथग् जात्युद्धारद्विजत्वापत्त्यादि क्रियते, पृथगचोदनात् | भाविस्थित्या तु निष्कृतिहोमान्तर्भावेन भाविदेहाश्रयतयापि चैतन्यस्य तत्कृतं तत्स्थीकरणादियुक्त्या वर्तमानदेहाश्रयस्यापि संपद्यते | एवं समयदीक्षान्तर्भाविपुत्रकदीक्षापक्षे च वर्तमानदेहविषयो दीक्षासंस्कारः पुनरुपयुक्तः || १०० || पूर्वोक्ते उपस्थापने मन्त्रमाह ---- धामादिः प्रणवादिश्च निवृत्त्यै च नमः पुनः | उपस्थापनमन्त्रोऽयं व्याप्तिं ध्यात्वाध्वसंस्थिताम् || ४-१०१ || प्रयोक्तव्य इति शेषः | अत्र च प्रणवधामभ्यामनन्तरं हृन्मन्त्रः पूर्वोक्तः पठनीयः, ऽऽहृदाद्या वाचकास्तासां बीजमन्त्राःऽऽ (४-९७) इत्युक्तत्वात् | एवमुत्तरत्रापि ज्ञेयम् || १०१ || यदुक्तमेकैकस्याः कलायाः पृथग्व्याप्तिरिति, तत् स्पष्टयति ---- निवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा | तस्यां च भुवनानां च शतमष्टोत्तरावधि || ४-१०२ || अष्टाविंशतिः पदानि वर्ण एकोऽत्र संस्थितः | मन्त्रौ द्वावेव विज्ञेयौ................ शतकोटीति योजनशतकोटिविस्तारेत्यर्थः | शतमष्टोत्तरावधीति --- - तत्र कालाग्निः कूष्माण्डो हाटक इति ब्रह्माण्डान्तरधोभागगतास्त्रयः | मध्ये भूलोकाधिपतिः शिवः, तदुपरि सत्यलोकान्तमधिष्ठाता ब्रह्मा, तदुपरि विष्णुरुद्रौ स्वलोकयोरित्यन्तः सप्त, बहिरस्य दशसु दिक्षु स्थितं रुद्रशतम्, तदुपरि सर्वेषां स्वामी वीरभद्रः, इत्येतदष्टोत्तरं शतम् | पदानि त्वष्टाविंशतिः, भाविनवनाभमण्डलारम्भिभागैकाशीतिनिविष्टवक्ष्यमाण- विभागनवात्मवर्णान्येकाशीतिस्तत्तद्विश्रान्तिप्रदत्वात्पदानि, तेभ्यः प्रकृतितत्वाधिष्ठितेशदिग्गतभागनवकगतं प्रातिलोम्येनेशोत्तरादिक्रमेण मध्यपदं यावद् ओंकाराद्यकारान्तं पदनवकम् | तथैव पुरुषतत्त्वाश्रितकुबेरदिग्गतमकारादियकारान्तं नवकम् | एवं नियतिस्थानस्थवायुदिग्गतमूकारा(दिमकारा)न्तमिति सप्तविंशतिः पदानि; कालतत्त्वास्पदवरुणदिग्गतैशकोणस्थ ऊकारश्चेत्यष्टाविंशतिः पदानि | अत्रैव स्पष्टीकरणार्थमयं प्रस्तारः प्रदर्श्यते ---- (पूर्वपृष्ठे द्रष्टव्यः) वर्ण एक इति मातृकासंबन्धी प्रातिलोम्येन क्षः | यद्यप्ययं पूर्वं वक्त्रभङ्ग्या शान्त्यतीतापरमार्थ ईशानवक्त्रवाचकत्वेन निरूपित इह तु पृथिवीवाचकत्वेन, तथापि आदिक्षान्तस्य शब्दराशेरशेषविश्वशरीरपरभैरवपरामर्शात्मकत्वेन एकैकोऽप्यंशः ---- ऽऽप्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च |ऽऽ इति स्थित्या विश्वरूपत्वाद्विश्वाभिधायकाः, वाच्योऽपि चांशः ---- ऽऽएकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता |ऽऽ इति नीत्या विश्वात्मकत्वात् सर्ववर्णवाच्यः | ततश्च भगवता शक्तिनियन्त्रणाय एवमत्यण्वपि वा तत्तदागमे सिद्धवाचकभावे विचित्रदीक्षादिक्रमोपयोगिनि निरूप्यमाणेऽपि न काचिदनुपपत्तिः | मन्त्राविति निष्कलसद्योजातौ || एवमस्यां निवृत्तिकलायाम् ---- .............ऽध्वषट्कं विभावयेत् || ४-१०३ || अथेमां निवृत्तिमन्तर्भावितापराध्वव्याप्तिं पूर्वोक्तक्रमेण ---- पुष्पगन्धादिना पूज्य.............. अस्याश्च प्राङ्मन्त्रेण ---- ................षंनिधावाहुतित्रयम् | संनिधानाय आहुतित्रयं दद्यादिति शेषः | कलाद्यध्वान्तर्मलत्रयं शोध्यमिति वक्तुमाह ---- मायीया भुवनाकारा मलाः कर्म च संस्थिताः || ४-१०४ || पाशा इति शेषः || १०४ || तत्र ---- शरीरभुवनाकारा मायीयाः परिकीतीताः | भोगहेतुश्च कर्म स्यादभिलाषो मलोऽत्र तु || ४-१०५ || भुवनैर्भावभूतादि लक्ष्यते, तेन यत्किंचिद्वेद्यतया भाति स मायीयो मलः, भोगेन तदाक्षिप्तं जन्मापि लक्षितम् | उक्तं च प्रत्यभिज्ञायाम् ---- ऽऽभिन्नवेद्यप्रथात्रैव मायाख्यम्, इति तथा ---- जन्मभोगदम् कर्तर्यबोधे कार्मं तु |ऽऽ (ई०प्र० ३-२-५) इति | अभिलाष इति अपूर्णंमन्यतात्मा लोलिकारूपः, न तु किंचिन्मे स्यादितीदृक्, रागतत्त्वस्यैवमात्मत्वात् | अत्र त्विति, एतस्मिन्नाणवे भित्तिभूते सति अन्यन्मलद्वयमित्यर्थः || १०५ || अत एव शान्त्यतीतायामपि सूक्ष्मभुवनावस्थितेः प्रतिपादयिष्यमाणत्वात् तावतांशेन मलसंस्कारस्य सत्त्वात् शोध्यतां प्रतिपादयिष्यन्नुपसंहरति ---- एवं पाशत्रयं भाव्यं दीक्षायामध्वसंस्थितम् | अथैतद्भावयित्वा ---- तद्विशुद्ध्यै च दीक्षा च क्रियते सा यथाविधि || ४-१०६ || विविधं तेषां पाशानां विशेषेण संस्कारपर्यन्तताप्रशमनरूपेण शुद्ध्यर्थं चकाराद्योजनिकाग्रन्थनिर्वर्त्यशिवत्वाभिव्यक्त्त्यर्थं च दानक्षपणात्मा दीक्षा क्रियते || १०६ || तद्विधिं प्रस्तौति ---- आदौ शक्तिं न्यसेद् देवि कलातत्त्वसमन्विताम् | शक्तिमाधाररूपां पारमेशीं क्रियाख्यां कलादीक्षाप्रस्तावात् प्रथमं निवृत्तिकलात्मना तत्त्वेनान्तर्भावितापराध्वपञ्चकेन सम्बद्धाम् || तथा ---- हृदा सङ्कल्प्य वागीशीं व्यापिकां सर्वयोनिषु || ४-१०७ || न्यसेत् | हृदेति काकाक्षिवत् पूर्वत्रापि योज्यम् | उक्तं च ---- ऽऽहृदाद्या वाचकास्तासां (४-९७) इति | ऽऽवागेव विश्वा भुवनानि जज्ञे |ऽऽ इति स्थित्या यथास्याश्चतुर्दशविधभूतसर्गजन्मभूमिव्यापकत्वं तथा निर्णीतमेव || १०७ || निवृत्त्यनुसारेण योनीनीरूपयति ---- शतरुद्राद्यनन्तान्तं योनयो विविधाः स्थिताः | विविधाश्चतुर्दशविधभूतसर्गजनिकाः || तासु च ---- समकालमृतुत्वेन वागीशीं सन्निधापयेत् || ४-१०८ || आयातशक्तिपातं प्रति शुद्धसृष्ट्यौन्मुख्यसंपाद्ययुगपदनेक- देहसर्गयोग्यतात्मकार्तवयुक्तया सा तावत्संनिहिता | आचार्यस्तु तन्मूलबलावष्टम्भात्मना प्रयोजकव्यापारेण तां संनिधिमुद्राबन्धनपूर्वमग्निकुण्डेऽवस्थापयेत् || १०८ || अथ ताम् ---- ध्रुवेण पूजयेत् पुष्पैर्गन्धधूपैरनुक्रमात् | अत्र च प्रणवं हृद्बीजं चोच्चार्य, ऽऽपृथिवीतत्त्वस्थानन्तादिवीरभद्रान्तनानाभुवनगतचतुर्दशविधभू तसर्गविचित्रशरीरहेतवे ङिवृत्तिव्यापिकायै वागीश्यै नमःऽऽ इति मन्त्रः संनिधापनपूजनयोः || अथ ---- ओंकारेणाहुतीस्तिस्रो वागीशीसंनिधापने || ४-१०९ || दद्यादिति शेषः || १०९ || दत्त्वा च ---- शिष्यं संप्रोक्ष्य चास्त्रेण ताडयेदस्त्रमुच्चरन् | प्रोक्षणं हृदयदेशानुसारे पाशसूत्रे शिवाम्भसा, ताडनं तु भस्मना तैरेव वा || ततोऽपि ---- रेचकेनात्मनो गत्वा छिन्द्यात्तस्यासिनाहृदः || ४-११० || ऽऽशशिमार्गेण शिष्याणां सूर्यस्थः प्रविशेद्धृदि |ऽऽ इति श्रीलक्ष्मीकौलार्णवोक्तनीत्या स्वदक्षिणेन निर्गत्य शिष्यस्य वामेन प्रविश्य पुर्यष्टकरूपं शिष्यात्मानमस्त्रमन्त्रेण भावनया सूत्रस्थं छिन्द्यात् || ११० || छिन्नं च ---- धाम्नाकृष्य तदात्मानं द्वादशान्ते निधापयेत् | आकर्षणयुक्तिः पूर्वमेवोक्ता | एतच्च ---- ऽऽरश्मिमात्रावियोगेन कार्यम् |ऽऽ इत्युक्तम् || अथ ---- ध्रुवेण तत्स्थं संपुट्य चैतन्यं मुद्रयात्मनि || १११ || पूरयेद् भैरवेणैव................... तत्स्थं द्वादशान्तस्थम् | मुद्रयेति दीप्तशिवहस्तकृतया संहाराख्यया, आत्मनीति स्वहृदये | भैरवेण निष्कलेन || १११ || तेनैव च ---- ..........कुम्भयेद् रेचयेत् ततः | नासाक्रमेणैव || तत एव च ---- द्वादशान्तात्तु संगृह्य योजयेद् भवमुद्रया || ४-११२ || योजनं वागीशीगर्भे, भवमुद्रा लिङ्गमुद्रा || ११२ || योजने इतिकर्तव्यतामाह ---- आत्मानमीश्वरं ध्यात्वा मायां वागीश्वरीमपि | संयोज्य तस्यां चैतन्यं शरीराण्यध्वनि सृजेत् || ४-११३ || ईश्वरः क्रियाशक्तिप्राधान्यात् स्रष्टा, प्राङ्नर्णीता तु वागीश्वरी संप्रत्यशुद्धाध्वप्रमातृत्वान्माया, शुद्धाध्वप्रसवे तु एषैव महामायात्मा भविष्यति, मायारूपायाश्चास्याः शुद्धविद्यास्पर्शो नास्ति, अन्यथा क्रमिककर्मभोगानां युगपच्छुद्ध्यर्थमनन्तदेहसृष्टेरयोगात्, चैतन्यमिति दीक्ष्यस्येति अर्थात्, अध्वनीति प्रकृते निवृत्तिकलाप्रधाने || ११३ || किमर्थं सृजेदित्याह ---- प्राक्कर्मवासनाशेषफलभोगत्वहेतवे | पूर्वकर्मवासनाहेतुकानि यान्यशेषाणि जन्मायुर्भोगात्मकानि फलानि, तेषां भोग्यत्वं भोगसिद्धिर्यथा स्यात् || एतानि च शरीराणि ---- युगपद्भिन्नभोगानि देशकालशरीरतः || ४-११४ || मन्त्रशक्त्या विपच्यन्ते............ शरीरमत्र स्वभावः | भिन्नो भोगो येषु, देशादित्रयान्तानि शरीराणि मन्त्रशक्त्या युगपद्विपच्यन्ते फलदानोन्मुखानि संपद्यन्ते || ११४ || न केवलं शरीराणि युगपद्भिन्नभोगानि विपच्यन्ते यावत् ---- ..........पुद्गलाश्च तथाविधाः | भिन्नदेहा विसृज्यन्ते गर्भे वागीशियोनिषु || ४-११५ || पुद्गला इत्यनेनैकस्यापि दीक्ष्यस्य नानाशरीरतया बहुत्वं वदन् भेदवादस्यावास्तवतां ध्वनति | यस्मादेकस्यापि दीक्ष्यात्मनो नानाभोगाश्रयविचित्रदेहशुद्धौ भोग्यवैचित्र्येण नानात्वभावः | तथाविधा इति भिन्नभोगाः | योनिष्विति चतुर्दशविधभूतसर्गापेक्षं बहुत्वम्, विसृष्टिः नियतभोगार्थं संयोजनम् || ११५ || तदित्थं शिष्यचैतन्यम् ---- धाम्ना च योजयित्वा च जुहुयादाहुतित्रयम् | निष्कलोच्चारपूर्वनिवृत्तिव्याप्तानन्तादिवीरभद्रान्तनानाभुव- नगतचतुर्दशविधभूतसर्गसंपत्त्यर्थं देवदत्तस्य वागीशीगर्भयोजनं करोमि नमः ---- इति मन्त्रः | होमे तु स्वाहान्तः | एवमुत्तरत्राप्यूहमन्त्राः स्वयमभ्यूह्याः || एवं संयोजने सति ---- युगपत् सर्वगर्भेषु देहा विविधरूपकाः || ४-११६ || भैरवेच्छासुसम्पन्नाः शतरुद्राद्यनन्तगाः | भवन्तीति शेषः | भैरवशब्देनात्र भैरवसमावेशशाली आचार्य उक्तः || ११६ || अथ ---- गर्भेषु गर्भनिष्पत्तिं भैरवेणाहुतित्रयम् || ४-११७ || हुत्वा तु जननं कार्यं पुनस्तेनाहुतित्रयात् | कर्मनामानुसारी अत्रोहमन्त्रः, गर्भाणां निष्पत्तिर्यत्र आहुतित्रये तद्गर्भेषु गर्भनिमित्तं हुत्वा, जननं गर्भनिःसरणम्, तेनेति निष्कलेनैव || ११७ || शिष्यदेहे ---- १. पाशसूत्रावलम्बनम्, २. षडधिकरणगताध्वसंधानम्, ३. तद्धोमः, ४. अध्वव्याप्त्यवलोकनम्, ५. अध्वोपस्थापनम्, ६. तत्पूजा, ७. होमः, ८. तदन्तःपाशत्रयचिन्तनम्, ९. कलाशक्तिसमन्विताधारशक्तिन्यासः, १०. वागीश्याः संनिधापनम्, ११-१२. तत्पूजाहोमौ, १३-१४. शिष्यसम्प्रोक्षणताडने, १५. तच्चैतन्याकर्षणम्, १६. द्वादशान्ते स्थापनम्, १७. ततो ग्रहणम्, १८. स्वहृदि योजनम्, १९. स्वद्वादशान्तप्रापणम्, २०. वागीशीगर्भे योजनम्, २१. नानागर्भनिष्पत्तिहोमः ---- इत्येकविंशत्यवान्तरसंस्कारैरुपस्कृतं होमेन जन्माख्यं संस्कारमभिधाय, अधिकाराख्यं संस्कारं वक्तुमाह ---- सर्वयोनिषु देहास्ते युगपद् वृद्धिमागता || ४-११८ || भाव्या इति शेषः || ११८ || प्रवृद्धदेहानामेव भोगेऽधिकाराद्भोगमाह ---- भोगनिष्पत्तये कर्म व्यापारसहकारणम् | भाव्यमिति शेषः | पशोरतीतमनागतं च यत् क्रमिकानन्तभोगसंपादकं संभाव्यते शुभादि वासनात्मकं कर्म तत्सर्वं ऽऽअनेकभविकं कर्म दग्धं बीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगतः ||ऽऽ इति श्रीकिरणोक्तनीत्या मन्त्रयुक्त्या युगपद्भोगनिष्पत्त्यर्थमनुसंधेयम् | कीदृक्? व्यापारैः वाङ्मनःकायचेष्टाभिः | सहकारणं सहेतुकमित्यर्थः || अवश्यं चैतत् अन्यथा ---- तदभावान्न भोगः स्यात्............. कर्मैव हि मायीयभोगहेतुः || भोगार्थमेव तत्साधनाहरणाय सर्वे प्रवर्तर्न्त ---- इत्याह ---- ...............टदर्थं मार्जनं स्मृतम् || ४-११९ || यस्मात् शुभाद्यनुष्ठानाद् भोगसाधने अजीते सति भोक्तव्यो भोगो दुःखसुखात्मकः | एवं भोगं निर्णीय, निवृत्तेऽपि तस्मिन् तत्संस्कारान्तर्मायीयभावरूपमिव लयं वक्तुमाह ---- लयः परमया प्रीत्या सुखदुःखादिकेऽप्यलम् || ४-१२० || दीक्ष्यस्य गुरुणा भाव्य इति शेषः | तदुक्तं श्रीमृगेन्द्रे ---- ऽऽकंचित्कालं लयः (८-९०) इति || १२० || एवमधिकारभोगलयाख्यं संस्कारत्रयं भावनया परिकल्प्य ---- तिसृभिस्तिसृभिर्होमं धाम्नैव त्रिषु कारयेत् | ऊहमन्त्रान्तेनेत्यर्थात् तिसृभिरित्याहुतिभिः || एवं जन्माधिकारभोगलयान् प्रतिपाद्य, निष्कृत्याख्यं पञ्चमं संस्कारं प्रतिपादयितुमाह ---- आहुतीनां शतं होम्यं धाम्ना निष्कृतये पुनः || ४-१२१ || निष्कृतेरदूर एव स्वरूपं निर्वक्ष्यति || १२१ || नन्वस्यां किमिति विशेषेण होम इति ? अत्रहेतुमाह ---- यत्कर्म भोग्यरूपं तु जात्यायुर्भोगलक्षणम् | निष्कृत्यन्ते विशुद्धेत् तद् भूलोकसमवस्थितम् || ४-१२२ || कर्मणा शुभाशुभात्मना भोग्यं रूपं यस्य जात्यायुर्भोगात्मनः फलस्य तद् निष्कृतावेव शुद्ध्यति, अतो युक्तोऽस्यां शतहोमः | भुवो लोका वीरभद्रान्तानि भुवनानि, तत्र समवस्थितं भोग्यतां प्राप्तम्, एतच्चेह निवृत्तिशुद्धिप्रसादादेवमुक्तम्, तच्च प्रतिष्ठादिव्याप्ताप्ततत्त्वान्तर्गतभुवनभोगोपलक्षणपरम् | अन्यस्तु भूलोके इति पठित्वा भूर्लोकैकदेशे कन्याद्वीपेऽजीतमित व्याकृतवान् || १२२ || ऽऽभोगो दुःखसुखात्मकःऽऽ इत्युक्त्या भोग इदानीमेव निर्णीतः, आयुः सृष्टिसंहारपटले निर्णेष्यते, इत्यवशिष्टां जाति जन्मप्रकारभेदैरादिशति ---- संसारा दशचत्वारः................ देवमानुषतिर्यग्भेदभिन्नश्चतुर्दशधा भूतसर्ग एव संसारा नानाजातय इत्यर्थः || भुवनदीक्षायाम्. ऽऽअन्त्यजान् शुद्रविट्क्षत्रब्राह्मणांश्च विशोधयेत् |ऽऽ (१०-३८४) इति सर्वजातिशोधनं वक्ष्यति | इह तु ऽऽएवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ||ऽऽ (९-२१) इति गीतोक्तनीत्या षट्कर्माधिकारित्वेन बन्धकर्मत्वान्मनुष्यजातिशुद्धौ ब्राह्मण्यजातिरेव निष्कृतिहोमेनैवावश्यं शोध्या | संक्षिप्तत्वादस्य विधेरिति वक्तुमाह ---- .............षंस्कारा अष्टभिः सह | चत्वारिंशद् द्विजत्वाय वक्ष्यन्ते भुवनाध्वनि || ४-१२३ || योनिर्बीजं तथा भाव आहारो देश एव च | एतेषां शोधनं देवि................ आधानादयोऽन्त्येष्ट्यन्ताश्चत्वारिंशत्, दयादयः स्पृहान्ताश्च अष्टाविति येऽष्टचत्वारिंशत् संस्कारा अग्रे स्फुटीभविष्यन्ति, ते तु भुवनदीक्षायां पृथक् शोध्याः, आहाराद्याश्च कलादिदीक्षासु तु निष्कृतिहोमान्तर्भावयुक्त्या, इति भाविवाक्यसङ्गत्यात्र पिण्डार्थः | इदं च द्विजजात्यापादनं कर्महेतुकभाविशरीरविषयम्, पूर्वं तु समयिनो वर्तमानदेह एव शुद्धविद्याजातियोग्यत्वरूपमन्यदेवेति निर्णीतम् | अत एव पूर्वं समयिनो रुद्रांशापादनमीश्वरतत्त्वप्राप्तियोग्यतात्मकमुक्तम्, इदं तु शक्तिगर्भानुप्रवेशवशभविष्यद्रुद्रत्वापत्तियोग्यताभावनात्मकम्, न तु रुद्रत्वापत्त्यात्मकम् निवृत्तिपाशानामद्याप्यशुद्धत्वात् | उक्तं च श्रीमृगेन्द्रे ---- ऽऽरुद्राणी शक्तिरुच्यते तद्गर्भयोग्यतापत्तिरुद्रांशत्वं न रुद्रता ||ऽऽ (क्रि०८ | ६५) इति || १२३ || तदेतदीदृशं रुद्रांशापादनं जात्यायुर्भोगशुद्ध्या सह निष्कृतिहोममध्य एव संपाद्यमित्याह ---- ..............ॠउद्रांशापादनं तथा || ४-१२४ || अत्रावलोकनं कृत्वा निष्कृत्यामेव शुद्ध्यति | न केवलं जन्मायुर्भोगानां निष्कृतौ शुद्धिराधातव्या, यावद्रुद्रांशापत्तिरूपापि शुद्धिर्व्याकृतस्वरूपा तत्रैवाधातव्येत्यर्थः | अत्रेति निष्कृतौ, अवलोकनमिति भावानाम् || १२४ || निष्कृतिस्वरूपं व्याचष्टे ---- विषया भुवनाकारा ये केचिद्भोग्यरूपिणः || ४-१२५ || भुक्तकर्मफलाशेषा निष्कृतिस्तेन सा स्मृता | भुवनं स्त्र्यादिभावोपलक्षणपरम् | तेष्विति श्लोकमध्येऽध्याहार्यम् | भुक्तं कर्मफलमशेषं समग्रं यया हेतुना दीक्ष्येण सा तथा, पूर्वनिपातव्यत्यय एषः | निःशेषेण कृतिः समस्तकर्मफलभोगसमाप्तिर्यस्यामिति व्युत्पत्त्या निष्कृतिः | स्मृतेति दीक्षायामेव शोध्यत्वेनेति शेषः || १२५ || अथ ---- विश्लेषो निष्कृतेर्भोगात्............... भोगाद्विश्लेषः पुनर्भोगैरसंबन्धो भोक्तुर्भोक्तृत्वाभावात्, संस्कारोऽपि निष्कृतेः कार्यः || ...........भोगाभावे स हि स्मृतः || ४-१२६ || नहि भोगसमाप्तिरूपां निष्कृतिं विना संस्कर्तुं शक्यः || १२६ || भोक्तृताभावरूपं विश्लेषं भोक्तृतानुवादपूर्वं वक्तुमाह ---- भोक्तृत्वं विषयासक्तिर्मलकार्यं प्रकीतीतम् | भोक्तृत्वाभावस्तत्रैव शरीरेण तु यत्कृतम् || ४-१२७ || विश्लेषः क्रियते तस्य पशोर्मन्त्रैः शिवाज्ञया | शरीरेण यत् कृतं शरीरैर्यदजीतं किंचित् तत्रैव या विषयत्वेनासक्तिः ऽऽकिंचिन्मे स्यात्ऽऽ ---- इत्यभिष्वङ्गस्तदेतन्मलकार्यम्, अपूर्णम्मन्यतात्मकाणवमलोत्थापितं भोक्तृत्वम्, तस्येदृशस्य भोक्तृत्वस्य पशोः शिवाभिन्नगुर्वाज्ञया मन्त्रैवीश्लेषः क्रियते, स च यथोक्तस्य भोक्तृत्वस्याभाव उच्यत इति सङ्गतिः || १२७ || अत्र च ---- धाम्ना चाहुतयस्तिस्रो विश्लेषकरणाय च || ४-१२८ || ऽऽअमुकाय निवृत्तिपाशविश्लेषं करोमि स्वाऽऽ ---- इत्यत्र मन्त्रः | एवमुत्तरत्रापि स्वयमूहः कर्मणामौचित्येन कार्यः || १२८ || अथ ---- आहुतित्रितयं धाम्ना पाशच्छेदेऽपि दापयेत् | यत्पाशच्छेदनिमित्तमाहुतिस्तत्पाशानाह ---- पाशा देहे तु मायीयाः कलाद्या भूतकावधि || ४-१२९ || शरीरकरणाकाराः पुरुषार्थप्रसिद्धये | देहे देहनिमित्तं कलाद्या महाभूतान्ता मायीयाः पाशाः, ते च शरीरेन्द्रियाणि तदुपलक्षितांश्च भुवनभावादीन् आकारयन्ति संपादयन्ति पुरुषार्थस्य भोगस्य प्रसिद्ध्यर्थम् | उक्तं च ---- ऽऽकलादिक्षितिपर्यन्तमेतत् संसारमण्डलम्ऽऽ | (११-२९५) इति | ऽऽतुऽऽशब्दः ---- ऽऽभोक्तृत्वं विषयासक्तिर्मलकार्यंम् |ऽऽ (४-१२७) इति | तथा तत्रैव ---- ऽऽशरीरेण तु यत्कृतम् | ऽऽ (४-१२७) इति पूर्वोक्ताणवकार्मपाशवैलक्षण्यं द्योतयति || १२९ || एवं च निष्कृतिविश्लेषरूपात् ---- भोगाभावाद्विपद्यन्ते शरीराणि सहस्रधा || ४-१३० || शरीराणीति स्थूलसूक्ष्मादिरूपाणि | सहस्रधेति नानाविचित्रभेदभूतसर्गरूपाणि | विपद्यन्ते अपुनर्भावेन नश्यन्तीत्यर्थः || १३० || यस्य च दीक्ष्यस्यैतानि विपद्यन्ते ---- पाशच्छेदे विधिस्तस्य मन्त्रैश्च विधिचोदितैः | प्रदशीताणवादिपाशव्याप्तिकपाशसूत्रगतनिवृत्तिभागात्मनः पाशस्य च्छेदे विद्यात्मकशास्त्रवाक्यचोदितैर्मन्त्रैवीधिः कार्यः | स च विधिः ---- ऽऽशिवशक्तिरमोघेयं कर्तरी परिकीतीता |ऽऽ इति श्रीहंसपारमेशोक्तव्याप्त्या कर्तर्यास्त्रजप्तया शिवं सास्त्रं हुंफडन्तं प्लुतयुक्त्योच्चारयन् पाशान् छिन्द्यादित्येवंरूपः | यथोक्तं श्रीमृगेन्द्रे ---- ऽऽततः शिवेन सास्त्रेण हुंफडन्तेन सस्वरम् | छिन्द्यात् स तावतः पाशान् कर्तर्या चास्त्रजप्तया ||ऽऽ (क्रि० ८-११३-११४) इति || उपसंहरति ---- एवं पाशत्रयस्यापि विश्लेषो दीक्षयोच्यते || ४-१३१ || एवमिति जन्माधिकारभोगलयनिष्कृत्याख्ययथाप्रतिपादितसंस्कार- पञ्चकपूर्वमित्यर्थः | अत्र चोक्तेनैव हुंफडन्तेन मन्त्रेण पूर्णाहुत्या समं छिन्नस्य पाशस्य होमः कार्यः, ---- इति संहितान्तरोक्तोऽर्थोऽनुमन्तव्यः | तथोक्तं श्रीमृगेन्द्र एव ---- ऽऽततस्तां स्रुवमापूर्य जुहुयादाज्यसंयुतान् | तेनैव मन्त्रयोगेनऽऽ (क्रि० ८-११४-११५) इति || १३१ || एवं विश्लेषान्ते संस्कारषट्के कृते ---- शरीराशेषभङ्गेन एकचैतन्यभावना | गुरुणा शिष्यस्य कार्येत्यर्थः || अत्र चावसरे ---- पूर्णाहुतिं शिवेनैव वौषड्जातियुतेन च || ४-१३२ || दद्यादित्यनुषङ्ग || १३२ || अथ पाशाभावात् ---- शुद्धतत्त्वाग्रसंस्थं तच्चैतन्यं कनकप्रभम् | तदेकीकृतं चैतन्यं शुद्धस्य निवृत्त्याख्यस्य तत्त्वस्याग्रे उपरि सम्यगनावृततया स्थितं दीप्तं भावयित्वा उद्धारायाहुतीस्तिस्रः पुनर्धाम्ना तु दापयेत् || १३३ || ङिवृत्तिव्याप्तात् पृथिवीतत्त्वाद् देवदत्तमुद्धरामिऽऽ इति चात्र प्रयोगः || १३३ || अथ ---- तस्मात् तत्त्वाद् गृहीत्वा तु चैतन्यं मलसंयुतम् | मुद्रया प्राग्विधानेन आत्मस्थं पूरयेद्धृदि || ४-१३४ || निवृत्तिशुद्ध्या निर्मलमपि कलान्तराणामशोधितत्वात् मलसंयुतम् | मुद्रयेति संहाराख्येति, प्राग्विधानं प्रणवसंपुटहंसबीजत्वादिरूपम् || १३४ || ततः ---- कुम्भित्वा रेच्य संगृह्य द्वादशान्ताद् ध्रुवेण तु | शिष्यदेहे निवेश्यैतन्नाडीरन्ध्रेण पूर्ववत् || ४-१३५ || अथास्मै ---- तत्स्थीकरणहेत्वर्थं धाम्ना चैवाहुतित्रयम् | देयमिति शेषः | ऽऽशोधितचैतन्यं देवदत्तस्य हृत्स्थं करोमि स्वाहाऽऽ इत्यन्तोऽत्रायं प्रयोगः || एवं पाशच्छेदः, तद्धोमः, पूर्णाहोमः, चैतन्यस्यैक्यभावनम्, तदुद्धारहोमः, पूरकेण हृत्स्थीकरणम्, कुम्भनम्, द्वादशान्तरेचनम्, ततो ग्रहणम्, शिष्यदेहे निवेशनम्, तदर्थो होमः -- -- इत्येकादशभिरवान्तरसंस्कारैरुपस्कृतं विश्लेषं निर्वर्त्य तदवशिष्टनिवृत्त्यर्थमाह ---- कलाशुद्ध्यवसाने तु ब्रह्माणं (करणा)धिपमे१ || ४-१३६ || स्वनामप्रणवाह्वानपूजं संतर्प्य चार्पयेत् | ऽऽओं ब्रह्मन्नागच्छऽऽ इति स्वनामप्रणवपूर्वमाह्वानं ऽऽतुभ्यं नमःऽऽ इति च पूजा यस्येति बहुव्रीहिः | तत्सन्तर्पणं वह्नौ श्वाहाऽऽ इति प्रयोगात्, ततोऽपि चार्पणं पुर्यष्टकार्पणाय || १३६ || तदाह ---- शब्दस्पर्शौ त्यजेत् तस्मिन्............. कथम् ---- ................ढ्रुवाद्यौ नामसंयुतौ || ४-१३७ || स्वाहाकारप्रयोगेन तौ ब्रह्मणि निवेदयेत् | तिसृभिस्तिसृभिर्होमात्............... ऽऽओं ब्रह्मणे शब्दमर्पयामि स्वाहाऽऽ इति त्रिर्हुत्वा (ओं ब्रह्मणे) स्पर्शमर्पयामि स्वाहा इति त्रिर्जुहुयात्, इति वीप्सातोऽवसेयम् || १३७ || एवं चेदमस्मै ---- ..................पुर्यष्टांशं निवेदयेत् || ४-१३८ || पुर्याः सूक्ष्मदेहस्यारम्भकमष्टकं तन्मात्रमनोऽहङ्कृद्बुद्धिरूपम्, तदंशार्पणविभागेऽभिप्रायं पर्यन्ते स्फुटयिष्यामः || १३८ || किं च ---- आमन्त्रणविभक्त्या तु श्रावणां तस्य कारयेत् | तस्येति ब्रह्मणः, श्रावणा शिवाज्ञा | यथोक्तं श्रीपूर्वे ---- ऽऽभुवनेश त्वया नास्य साधकस्य शिवाज्ञया | प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ||ऽऽ (मा०वि० ९-६५) इति || कृतश्रावणं च ---- ब्रह्माणं पूजयित्वा तु होमं कृत्वा विसर्जयेत् || ४-१३९ || किं च ---- ध्रुवेणाभ्यर्च्य वागीशीं संतर्प्य च विसर्जयेत् | विसर्जनं निजपरावागैकात्म्यविमर्शनम्, ध्रुवेण निष्कलेन || तदित्थमध्वसंधानात् प्रभृति वागीश्या विसर्जनान्तम् ---- हुत्वावलोकयेत्तत्र विशुद्धं पाशजालकम् || ४-१४० || हुत्वेति ---- अध्वसंधानम्, अध्वोपस्थानम्, वागीशीगर्भयोजनम्, तद्गर्भनिष्पत्तिर्जननमधिकारः, भोगः, लयः, निष्कृतिः, विश्लेषः, पाशच्छेदहोमः, पाशहोमः पूर्णाहोमः, उद्धारहोमः, तत्स्थीकरणम्, ब्रह्मतर्पणम्, पुर्यष्टकांशार्पणहोमः, पुनर्ब्रह्महोमः, वागीशीहोमः, इत्येकोनविंशतिहोमानुक्तान् कृत्वा, तत्रेति विशुद्धायां निवृत्तिकलायाम्, एवमुत्तरत्रापि संस्कारसङ्कलना होमकलना च स्मर्तव्या || १४० || अत्र च पाशशुद्ध्यवलोकनावसरे ---- प्राक्कर्मभाविकस्याथ अभावं भावयेत्तदा | मुमुक्षोनीरपेक्षत्वात्........... भाव्येव भाविकमर्थात् कर्म, प्राक्कर्म च भाविकं चेति समाहारः | निरपेक्षत्वात् साधकवत् फलौन्मुख्याभावात् | कैश्चित्तु प्राक्कर्मणा भवतीति प्राक्कर्मभवस्तत्र भवति यत्फलमिति योजनया प्राक्कर्मभविकस्येति व्याख्यातम्, तदसत्, क्लिष्टं चेत्युपेक्ष्यम् || फलदानोन्मुखस्य वर्तमानस्य का गतिरित्याह ---- ...........प्रारब्ध्रेकं न शोधयेत् || ४-१४१ || तस्य भोगेनैवातिवाहनादित्यर्थः || १४१ || मुमुक्षोः कर्मशुद्धिवृत्तान्तमुक्त्वा साधकस्य तमाह ---- साधकस्य तु भूत्यर्थं................ भूतिप्रयोजनं भाविमन्त्राराधनरूपं यत्तदपि न शोधयेदित्यर्थः | केवलम् ---- ...............प्राक्कर्मैकं तु शोधयेत् | भूत्यर्थाद्यत् प्राग्देहारम्भि शुभाशुभं तत एकमशुभमेवास्य शोधयेत्, एवं हि निवीघ्नं भोगसिद्धिर्भवति || १४१ || यत्तु जन्मान्तरसंचितं शुभाशुभं यच्चास्मिन् जन्मनि करिष्यति, तत्सर्वमुक्तनीत्या मन्त्राराधनवर्जमस्य पुत्रकवच्छोध्यमेवेत्याह ---- प्राक्कर्मागामि चैकस्थं भावयित्वा च दीक्षयेत् || १४२ || साधकमिति शेषः | एकस्थमिति एकप्रघट्टकतया भावितम् || इत्थं च ---- शिवधमीण्यसौ दीक्षा................ साधके इति शेषः || .............ऌओकधमीण्यतोऽन्यथा | कीदृगित्याह ---- प्राक्तनागामिकस्यापि अधर्मक्षयकारिणी || ४-१४३ || लोकधमीण्यसौ ज्ञेया मन्त्राराधनवजीता | ऽऽइष्टापूर्तविधौ रतः | कर्मकृत् फलमाकाङ्क्षन्ऽऽ (४-८५) इति लोकधर्मी प्रागेव निर्णीतः | अधर्मक्षयकारिणीति सापेक्षः समासः | मन्त्राराधनेन पिण्डसिद्धिहेतुना मन्त्रत्वादिप्राप्तिहेतुना च सर्वेणैव विवजीता विशेषाचोदनात् | श्रीमृगेन्द्रायां च वर्तमानसिद्धिहेतोर्मन्त्राराधनस्य शिवधमीण्येव प्रतिपादितत्वात् | तथा च तत्रोक्तम् ---- ऽऽशिवधमीण्यणोर्मूलं शिवधर्मफलश्रियः | हितेतरा विना भङ्गं तनोराविलयाद्भुवाम् ||ऽऽ (क्रि० ८-६) इति | अस्यायमर्थः ---- शिवधमीणी या दीक्षा साणोः शिवधर्मफलश्रियो मूलं मन्त्रमन्त्रेशत्वादिप्राप्त्यात्मकपारमेशफलसंपदो हेतुरेका, इतरा तु शिवधमीण्येव भुवां भोगभूमीनामाविलयात् प्रलयकालं यावत् तनोः शरीरस्य भङ्गं विना हिता यथाभीष्टखड्गपाताललोचनाञ्जनपादुकादिसिद्धिसंपादिकेति | न चेतरेति लोकधमीणी व्याकर्तव्या ---- ऽऽभोगभूमिषु सर्वासु दुष्कृतांशे हते सति | देहान्तराणिमाद्यर्थं शिष्टेष्टा लोकधमीणी ||ऽऽ (क्रि० ८-७) इति तत्रैव पृथक्त्वस्यानिर्णीतत्वात् | न च मन्त्राराधनं विना साधकत्वं न भवतीति भ्रमितव्यम्, इष्टापूर्तफलसाधनेनापि तस्य लाभादित्यलम् || १४४ || एवं लोकधमीदीक्षावसात् ---- प्रारब्धदेहभेदे तु भुङ्क्ते स ह्यणिमादिकान् || ४-१४४ || भोगान् ---- दीक्षावशादस्य शुभकर्माणिमादिपर्यवसायीत्यर्थः || अथ ---- भुक्त्वा व्रजेदूर्ध्वं गुरुणा यत्र योजितः | सकले निष्कले वापि............. ऽऽयो यत्राभिलषेद् भोगान् |ऽऽ इत्युक्तनीत्या सकले तत्र तत्र भुवनेश्वरे सायुज्याद्यर्थं शुभकर्मभोगान्ते मुमुक्षुर्वा निष्कले शिवे योजितस्तदेव पदं गच्छेत् | यथोक्तं श्रीमृगेन्द्रायाम् ---- ऽऽलोकधमीणमारोप्य मते भुवनभर्तरि | तद्धर्मापादनं कुर्याच्छिवे वा मुक्तिकाङ्क्षिणम् ||ऽऽ (क्रि० ८-१४८) इति || एतच्चोर्ध्वव्रजनं योजनं च यथाक्रमम् ---- .........शिष्याचार्यवशाद् भवेत् || ४-१४५ || शिष्यस्य गुरोश्चाभिसंधिवशाज्जायत इत्यर्थः | उक्तं च तत्प्रागेव ---- ऽऽफलमाकाङ्क्षसे यादृक् तादृग्यजनमारभे |ऽऽ (४-८१) इत्यादि || एवं द्विधा भोगदीक्षां निर्णीय मोक्षदीक्षां सबीजां निर्बीजां सद्योनिर्वाणदां च क्रमेण निर्णेतुमाह ---- निर्वाणेऽपि सबीजायां कर्माभावाद्विपद्यते | निर्वाणनिमित्तं या सबीजा पूर्वं निर्णीता दीक्षा तस्याः | विशेषसमयाचारा मन्त्राख्ये ये प्रकीतीताः | तेऽत्र पाल्यांः प्रयत्नेन ....... ||ऽऽ (४-९०) इति पूर्वोक्तं यत्कर्म, तस्याभावादननुष्ठानाद्विपद्यते कंचित्कालं शिवमययाः स्वसत्तातो भ्रंशित्वा क्रव्यादत्वमेतित्यर्थः || १४६ || यत एवमतः ---- समयाचारपाशं हि दीक्षितः पालयेत्तु यः || ४-१४६ || तं पाशं नैव शुध्येत............. दीक्षितः समयाचारपाशं पालयेत् यस्मात्तस्मात्तस्य निर्बीजदीक्षितस्येव न शोधयेत् || दीक्षा चैषा ---- .............षा सबीजा प्रकीतीता | समयाचारपाशं तु निर्बीजायां विशोधयेत् || ४-१४७ || तच्छुद्धिविधिरग्रे तु भविष्यति || १४७ || अस्य च निर्बीजदीक्षादीक्षितस्य ---- दीक्षामात्रेण मुक्तिः स्याद्भक्तिमात्राद् गुरोः सदा | गुरुभक्तिमात्रमेवास्य समय इत्यर्थः || ४-१४८ || अस्या भेदान्तरमाह ---- सद्योनिर्वाणदा दीक्षा निर्बीजा सा द्वितीयिका || ४-१४८ || अतीतानागतारब्धपाशत्रयवियोजिका | दीक्षावसाने शुद्धिः स्याद् देहत्यागे परं पदम् || ४-१४९ || सद्य इति दीप्ततममन्त्रदीक्षावियोजितदेहकलावस्थितिसमनन्तरमेव | अत एवारब्धकार्यस्यापि पाशत्रयस्य वियोजिका, देहत्यागे देहत्यागसमये दीक्षाया यदवसानं निष्पत्तिस्तत्रेत्यर्थः | एवं चारिष्टलक्षणादिभिनीश्चितासन्नमरणस्यैवेयं कार्येति तात्पर्यम् | यदुक्तं श्रीमद्गुह्वरे ---- ऽऽदृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् | उत्क्रमयय ततस्त्वेनं परतत्त्वे नियोजयेत् ||ऽऽ इति || १४९ || प्रासङ्गिकं दीक्षाविवेकमुपसंहरति ---- एवं भावानुसारेण शिष्याणां गुरुणा सदा | फलं तु विविधाकारं निष्पाद्येत सुदीक्षया || ४-१५० || यस्मात् ---- अचिन्त्या मन्त्रशक्तिर्वै परमेशमुखोद्भवा | परमेशस्य मुखं पराशक्तिस्तदुद्भवत्वादेवाचिन्त्या | शक्तिशब्देन वीर्यसारतां मन्त्राणामाह || १५१ || सा च ---- क्रियाकाले प्रयोक्तव्या गुरुणा भक्तिपूवीका || ४-१५१ || क्रिया दीक्षादिका, भक्तिर्मन्त्रस्वरूपामर्शनक्रमेण तद्वीर्यानुप्रवेशमयी सैव || अचिन्त्येत्यादिनेदमाह ---- विषाणामिव पाशानां मन्त्रैः कवलनं ध्रुवम् | करोति मन्त्रतत्त्वज्ञः शिवावेशी गुरुः क्षणात् || ४-१५२ || ऽऽपाशाश्च पौरुषाः शोध्या दीक्षायां न तु धीगताः | तेन तस्यां दोषवत्यामपि दीक्षा न निष्फला || सुतीव्रशक्तिपाताश्च दोषबीजविनाकृताः | अपि भान्ति तुलादीक्षाघटशुद्धिवदीक्ष्यते || पापस्य गुरुता नो चेद्धटशुद्धौ ब्रवीषि किम् | तन्मन्त्रशक्त्या दीक्षाणां चित्रत्वं नासमञ्जसम् || लिप्यक्षरे कृते यद्वताडनादि नृणां भवेत् | मन्त्रशक्त्या तथा सूत्रे पाशानां छेदनं स्फुटम् ||ऽऽ इत्यास्तां तावदेतदग्रे वितत्य निर्णेष्यामः || १५२ || अथ प्रासङ्गिकं प्रमेयं निर्णीय प्रकृतमनुबध्नन्नाह ---- कलासंधानकं कुर्याच्छुद्धाशुद्धद्विरूपगम् | शुद्धनिवृत्तिकलासंधानकं कुर्याच्छुद्धमशुद्धप्रतिष्ठाकलायोगाच्चाशुद्धमत एव द्विरूपगम् || १५२ || अत्र च ---- शुद्धमुच्चारयेद्ध्रस्वमशुद्धं दीर्घमेव च || ४-१५३ || एकत्वं भावयित्वा तु लीनं शुद्धं विभावयेत् | इह भगवान् निष्कलभट्टारको निःशेषपाशशोधकोऽङ्गब्रह्ममन्त्रैकादशिका तु शोध्या, तथापि च शुद्धाशुद्धकलावाचित्वान्निष्कलनाथः शुद्धतयाशुद्धतयापि च व्यवह्रियते, तं च शुद्धनिवृत्तिवाचित्वाच्छुद्धम्, ह्रस्वमिति प्रशान्ताशेषप्रसरं परबिन्दुव्याप्तिसतत्त्वमुच्चारयेत्, अशुद्धप्रतिष्ठावाचकत्वाच्चाशुद्धम् दीर्घमिति प्रसरोन्मुखं नादव्याप्तिसतत्त्वम्, एकत्वं सामरस्यं भावयित्वोच्चारयेत् | अत्र च शुद्धं लीनमिति प्रतिष्ठां बोधयितुं तद्वाचिमूलमन्त्रेण सहैकीभूतं विभावयेत् || १५४ || अथ प्रतिष्ठाकलाशुद्धिः न चात्र ह्रस्वदीर्घमात्रमुच्चार्यमपि तु ---- प्रणवादिनिवृत्तिस्तु प्रतिष्ठा तदनन्तरम् || ४-१५४ || नमस्कारस्तदन्ते तु कलासन्धानकं स्मृतम् | प्रणवं ह्रस्वं निष्कलं निवृत्तिवाचिनं हृन्मन्त्रं चोच्चार्य तदन्ते निवृत्तये इति पदं ततोऽपि प्रणवं दीर्घं निष्कलं प्रतिष्ठावाचिनं च शिरोमन्त्रमुच्चार्य ऽऽप्रतिष्ठायै नमऽऽ इत्यत्र प्रयोगः | होमे तु स्वाहान्तः || १५५ || इत्थं च ---- आवाह्य स्थाप्य सम्पूज्याहुतीस्तिस्रः प्रपातयेत् || ४-१५५ || कलासंधानमेद्धि................ कलानां पृथ्व्यादिधारणाध्यानं कार्यमिति केचिद्वदन्ति | अथ ---- .........व्याप्तिं तस्या (वि)लोकयेत् | तस्याः प्रतिष्ठायाः || तत्र ---- गुल्फादारभ्य नाभ्यन्तं शिष्यदेहेऽध्वकल्पनम् || ४-१५६ || प्रतिष्ठाया भवेद् व्याप्तिश्चतुवींशतितत्त्विका | षट्पञ्चाशद्भुवनिका त्रयोविंशतिवणीका || ४-१५७ || ज्ञेयैकविंशतिपदा त्रिमन्त्रा च विधीयते | अबादीनि गुणतत्त्वेन सह प्रधानान्तानि चतुवींशतिस्तत्त्वानि यस्याम्, तथा गुह्यातिगुह्यपवित्रस्थाणुस्थूलदेवयोनियोगाख्यानि सप्ताष्टकरूपाणि भुवनाध्वनि वक्ष्यमाणानि षट्पञ्चाशद्भुवनेश्वराधिष्ठितानि, तावन्त्येवान्तर्भूतभुवनान्तराणि प्रधानानि भुवनानि यस्याम्, हकारात् टकारान्तानि त्रयोविंशतिवर्णानि यस्याम् | एकविंशतीति पूर्वं कलातत्त्वास्पदवारुणदिग्गतपदनवकादीशकोणस्थ ऊकारो यावदुपयुक्तः, इति प्रातिलोम्येन तदन्तरस्थाद्यकारादारभ्य लकारान्तमष्टकम्, तथा मायातत्त्वाश्रयनैरृतदिक्स्थकोष्ठनवक- गतमूकारादिमकारान्तं नवकम्, विद्यातत्त्वाधिष्ठितदक्षदिग्गत- कोष्ठनवकमध्यादूकारादिलकारान्तं चतुष्टयं चेत्येकविंशतिपदानि यस्याम् | त्रय वामदेवः, शिरः, शिखा च मन्त्रा यस्याम्, न तु हृदयं, हृन्मन्त्रस्य निवृत्त्यन्तर्भावात् || १५७ || इत्थं च षडध्वात्मानः ---- मुख्या ह्येते स्मृताः पाशाः.............. मुख्यत्वमेषां सर्वाणुसाधारण्यात्, पदवर्णमन्त्रा अपि ---- ऽऽशब्दराशिसमुत्थस्यऽऽ (स्प० ४-१५) इति युक्त्या वाचकरूपतामश्नुवानाः पाशा एव अत एव निरुपाधिचिदानन्दघनस्वरूपामर्शपरमार्थमूलमन्त्रातिरिक्तं सर्वमत्र शोध्यमेव | यदुक्तमस्मद्गुरुभिः श्रीतन्त्रालोके ---- ऽऽयत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् | पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ||ऽऽ (८-२९२) इति || अत्रैव च ---- .............षूक्ष्मानन्तवीभावयेत् || ४-१५८ || तान् स्फुटयति ---- अन्यतन्त्रप्रसिद्धं तु तन्मात्रेन्द्रियशोधनम् | अत्रान्तर्भाव्यमित्यर्थः | अन्यत्तन्त्रं लाकुलादि | यद्यपि च ऽऽत्रयोविंशतितात्त्विकऽऽ इत्युक्त्वा तन्मात्रादीन्यन्तर्भावितानि, तथापि तानि बाह्यभौवनसंनिवेशव्यापकान्यन्यान्येव, एतानि तु स्थूलसूक्ष्मशरीरसंनिविष्टान्यपराण्येव, इति न भ्रमितव्यम् || १५९ || किं च ---- षट्कोशान् विषयान् पञ्च तदन्तर्भावयेत् सदा || ४-१५९ || असृङ्मांसलोममज्जास्थिस्नायवाख्याः षट्कोशाः सूक्ष्मदेहोपरि कोशाकारतया स्थिताः | सदेति दीक्षाकाले | एवं च वर्तमानेऽपि देहशोधनं चोदितमेवेति तत्र कर्तव्यं यैरुक्तं ते भ्रान्ता एव || अत एवोक्ताध्वव्याप्तिविमर्शरूपम् ---- विशेषस्थापनं कृत्वा पूज्या गन्धादिभिस्ततः | तथा ---- भैरवेणाहुतीस्तिस्रः............... दद्यादिति शेषः | भैरवेणेति काकाक्षिवत्, तेन प्रणवनिष्कलप्रतिष्ठाबीजान्युच्चार्य ऽऽप्रतिष्ठायै नमःऽऽ इति मन्त्रेण पूजा, स्वाहान्तेन होमः | एवमुत्तरत्रापि || अथ ---- ...........टस्या वागीशिकल्पना || ४-१६० || सा हि विप्रुषि सर्वमन्तःकर्तुं क्षमा | अत्र चादौ शक्तिं न्यसेदित्यादि पूर्वोक्तं स्मर्तव्यम् || किं च ---- स्वनामावाहनाद्यस्य अर्घहोमादि पूर्ववत् | प्रोक्षणं ताडनं छेद आकर्षग्रहणे तथा || ४-१६१ || धाम्नापूर्य कुम्भयित्वा छित्त्वाथ ग्राहयेत् पुनः | योजनं गर्भधारित्वं जननं पूर्ववत् क्रमात् || ४-१६२ || पूर्ववदित्यतिदेशेन निवृत्त्युक्तं सर्वं विधिक्रममनुस्मरेदिति शिक्षयति || १६२ || अथ प्रसङ्गात् सर्वदीक्षासु वक्तव्यशेषं पूरयति ---- एश्वरीं मूतीमास्थाय ताडनादीनि कारयेत् | ताडनप्रोक्षणादीनि क्रियाशक्त्यावेशे कार्याणि, इति क्रियाशक्तिप्रधानेश्वराहंभावेनैव युक्तानि || किं च ---- अधिकारस्तथा भोगो लयो निष्कृतिरेव च || ४-१६३ || शिवरूपेण कर्तव्याः............. अधिकारादिज्ञानं प्रभुत्वसंपाद्यम् | प्रभुश्च सदाशिवादौ विश्वत्र शिव एवेति शिवाहंभावेनैव तदुचितम्, निवृत्तौ निष्कृतिविश्लेषहोमौ मूलेनैवोक्तौ || इह तयोवीशेषमाह ---- .........णिष्कृतिः शिरसा पुनः | विश्लेषश्च हृदा होम्यः.............. पुनःशब्दो विशेषाय सर्वत्रैव | ............पाशच्छेदस्तथासिना || ४-१६४ || तथाशब्दान्मूलेनापि | यथोक्तं प्राक् ---- ऽऽआहुतित्रितयं धाम्ना पाशच्छेदेऽपिऽऽ (४-१२९) इति पुर्यष्टकच्छेदनताडनादीन्यपि असिनैवेत्यपि ऽऽतथाऽऽ शब्दार्थः | आकर्षणग्रहणाद्यास्तु धाम्नैवेत्युक्तम् || १६४ || किं च ---- पूर्णाहुतिसमुद्धारं पूर्ववद्भैरवेण तु | निष्कलेनेत्यर्थः || ज्ञानशक्तिप्रधानः श्रीसदाशिव इति ---- सदाशिवतनौ स्थित्वा विश्लेषादीनि कारयेत् || ४-१६५ || विश्लेषादीनां भेदोपशान्तिपरत्वात्तत्प्रधाना सदाशिवस्य व्याप्तिर्ग्राह्या | ऽऽआदिऽऽ शब्दादेकचैतन्यभावितोद्धारादयः || १६५ || एवं प्रसङ्गाद्वधिं पूरयित्वा प्रकृतमाह ---- आत्मस्थं पूरकेणैव हृत्स्थं रेचकवृत्तितः | सर्वमेतत् पूर्वमेव निर्णीतम् | अथ प्रतिष्ठाधिपतिम् ---- स्वनाम्नोच्चारयेद्विष्णुं ध्यात्वावाह्य तु स्थापयेत् || ४-१६६ || पूजयेत् पुष्पगन्धाद्यैः............. अस्मै च ---- .................टर्पणायाहुतित्रयम् | दद्यात् || किं च ---- रसं पुर्यष्टकांशं तु अर्पयेद्विष्णवे सदा || ४-१६७ || दीक्षास्विति शेषः || १६७ || पूर्ववत् कृतश्रावणम् ---- विसर्जयेत्ततो विष्णुं वागीशीं च विसर्जयेत् | अथ ---- कलासंधिर्यथापूर्वं ह्रस्वदीर्घप्रयोगतः || ४-१६८ || अभावं भावयेत्तस्मिन् पाशजाले त्वनन्तके | अथ ---- कलाद्वयविनिर्मुक्तः पशुरुर्ध्वगमोत्सुकः || ४-१६९ || तस्येदानीं तृतीयस्यां विद्यायां योज्य शोधयेत् | चैतन्यमित्यर्थात् || १६९ || तां च विद्याम् ---- स्थापयित्वाथ सम्पूज्य जुहुयादाहुतित्रयम् || ४-१७० || एवं तु संमुखीकृत्य प्रागिवाध्वावलोकनम् | कार्यमित्यर्थः || १७० || तदेवाह ---- पुंस्तत्त्वाद्यावन्मायान्तं विद्याया व्याप्तिरिष्यते || ४-१७१ || एवं च ---- सप्त तत्त्वानि................ पुरुषनियतिकालरागविद्याकलामायाख्यानि, पुरुषस्यैतत्तत्त्वषट्कमेततत्कञ्चुकरूपमन्तरङ्गवेदनहेतुतया स्थितत्वाद्विद्याख्यया कलया व्याप्तम्, प्रतितिष्ठते भोगहेतुतत्त्वजालं यत्रेति निरुक्त्त्या प्रतिष्ठा, निवर्तते तत्त्वसृष्टिर्यत इति निवृत्तिः, अशेषभेदोपशमाच्छान्ता, तामप्यतीता तत्संस्कारेणापि शून्या शान्त्यतीतेत्यनुसंधेयम् || तथा ---- ...........भुवनसप्तविंशतिरेव च | यद्यपि पुमान्नियतिरित्यादिस्तत्त्वक्रमस्तथापि पुंसो लोलिकामयस्य सामान्याभिष्वङ्गात्मना रागेणाव्यभिचारः, किंचिद्वेदनात्मनो विद्याया नियमनात्मना नियत्या, कर्तृत्वोद्बलनात्मनश्च कलायाः कालेनेति तत्त्वपददीक्षयोः संपुटयोगस्य वक्ष्यमाणत्वात्तदनुसारेणैव भुवनेशस्थितिस्तत्र पुरुषरागतत्त्वयोवीद्येशाष्टकं प्रधानमिति तदधिष्ठितान्यष्टौ भुवनानि, नियतिविद्ययोस्तु वामादिमनोन्मनान्तभुवनेशनवकाधिष्ठितानि नव, कालकलयोर्महादेवादित्रयाधिष्ठितं त्रयम् | एवम् विंशतिः | एतत्तत्त्वकारणभूतायां मायायामधोभागे गोपतिरूर्ध्वे विश्वे मध्ये त्रिकालक्षेमेशब्रह्माधिपतिशिवाश्चत्वारः, एतदधिष्ठाता चानन्तः, इति सप्तेति भुवनसप्तविशतिः || तथा ---- पदविंशतिराख्याता................. दक्षदिग्गतपदनवकाल्लकारान्तं चतुष्टयं पूर्वत्रान्तर्भूतमित्यवशिष्टं प्राग्वन्मादिक्षान्तं पञ्चकम्, तथेशतत्त्वाधिष्ठिताग्नेयकोष्ठनवकादूकारादिरेफान्तं नवकम्, सदाशिवतत्त्वाधिष्ठितपूर्वदिग्गतान्नवकादूकारादिक्षकारान्तं षट्कमिति पदविंशतिः || किं च ---- ...............वर्णाः सप्त प्रकीतीताः || ४-१७२ || ञाद्याः घान्ता || १७२ || तथा ---- मन्त्रौ द्वौ............ अघोरः कवचम् || इत्थमत्र ---- ..........षड्वधाध्वानं ज्ञात्वा वागीशिकल्पनम् | अत्र पूर्वोक्तं स्मारयति ---- प्रणवेन समावाह्य व्यापिनीं सर्वयोनिषु || ४-१७३ || समकालमृतुत्वेन ध्यात्वा सम्पूज्य तर्पयेत् | किं च ---- ततः शिवाम्भसा शिष्यं प्रोक्ष्य चास्त्रेण ताडयेत् || ४-१७४ || तेनैव चास्त्रभूतेन हुंफट्कारयुतेन तु | आत्मनो रेचकेनैव............. गत्वेति शेषः | ...................शिष्यदेहे विशेद्धृदि || ४-१७५ || अथास्य पुर्यष्टकरूपम् ---- अस्त्रमन्त्रेण संछिद्य (विश्लेष्या)स्त्रेण१ कर्षयेत् | द्वादशान्तात्तु संगृह्य आत्मस्थं पूर्ववत् कुरु || ४-१७६ || पूरकेणाथ सङ्कुम्भ्य रेचयित्वा तु योजयेत् | पूर्ववद् व्यापकं न्यस्य चैतन्यं सर्वयोनिषु || ४-१७७ || योगाद्यं लयपर्यन्तं धाम्ना चैवात्र पूर्ववत् | कुर्यादित्यर्थः || १७७ || विशेषस्त्वत्रायम् ---- शिखया शतहोमात्तु विद्याया निष्कृतिर्भवेत् || ४-१७८ || अथास्य विश्लेषपाशच्छेदाभ्यामनन्तरं परेणात्मस्थतत्स्थत्वे कुर्यात् || १७८ || अथ पुर्यष्टकांशार्पणाय ---- प्रणवादि ततो रुद्रमावाह्य स्थाप्य पूजयेत् | ततोऽस्य विन्यसेद् देवि गन्धरूपे ध्रुवाहुती || ४-१७९ || एवम् ---- पुर्यष्टकांशं विन्यस्य विसर्ज्य रुद्रदेवताम् | वागीशीं च विसर्ज्यैवं कलासंधिश्च पूर्ववत् || ४-१८० || कार्यः || कथम् ---- ह्रस्वदीर्घविभागेन विद्यां शान्तौ नियोजयेत् | संधानार्थं तु मूलेन जुहुयादाहुतित्रयम् || ४-१८१ || संधेरनन्तरमध्वोपस्थापनाय ---- स्वनाम्नावाहनं शान्तेवीधिपूर्वं निवेदनम् | प्रमेयभावनां कृत्वा................ तां च ---- .............पूजयेत् कुसुमादिभिः || ४-१८२ || त्रिराहुतिं तु मूलेन................. दद्यात् || १८२ || अस्या अध्वान्तरव्याप्तिमाह ---- ..........विद्यातत्त्वात् सदाशिवम् | तत्त्वानां त्रितये व्याप्तिर्वर्णानां त्रय एव च || ४-१८३ || क-ख-ग इत्यत्र च || १८३ || पदैकादशिका ज्ञेया............ पूर्वदिग्गतान्नवकात् क्षान्तस्य षट्कस्य विद्यायामन्तर्भावाद्रेफप्रणवहकारात्मकं त्रयं मध्यमाच्च नवकादूकारादिहान्तमष्टकमिति पदैकादशिका || ...........पुराणि दश सप्त च | तत्र विद्यायां त्रिगुण्यादीनां विद्यराज्ञीनामेकमीश्वरतत्त्वे त्वैश्वरं भुवनमनन्तादिशिखण्ड्यन्तविद्येश्वरभुवनान्यष्टौ, धर्मादीनां भुवनानि चत्वारि, वामादिशक्तित्रयभुवनमेकम्, ज्ञानक्रियाभुवनमेकम् तस्मिन्नेव च भुवने विद्याद्वयादेः प्रभवद्वादशकपर्यन्तर्स्यैकोनषष्टेर्भुवनानामवान्तरो विभागः | वक्ष्यति च ---- ऽऽएकोनषष्टिर्भुवनं ज्ञानशक्त्त्यादितः क्रमात् | ऽऽ (१०-११८५) इत्येवमीश्वरतत्त्वे पञ्चदश भुवनानि | यद्वक्ष्यति ---- ऽऽदश पञ्च च शोध्यानि भुवनान्यैश्वरे पदे |ऽऽ (१०-११७१) इति | सदाशिवतत्त्वे सादाशिवमेकं भुवनं स्वमिव ब्रह्माङ्गसकलाद्यष्टकशिवरुद्रभेदावरणगतानन्तभुवनव्यापकमिति सप्तदश भुवनानि || तथात्र ---- मन्त्रौ द्वौ........... तत्पुरुषास्त्ररूपौ || तदत्र ---- .....षड्विधोऽध्वैवं मुख्याः पाशा इमे स्मृताः || ४-१८४ || पूर्ववच्च ---- सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत् सदा | अथ ---- वागीशीं कल्पयेत्तत्र पूर्वेण विधिनाहुतिः || ४-१८५ || पूजनं मूलमन्त्रेण ततः प्रोक्षणताडनम् | छेदाकर्षग्रहं चैव योगधारित्वजन्म च || ४-१८६ || अधिकारस्तथा भोगो लयो वै पूर्ववद्भवेत् | सर्वे ते मूलमन्त्रेण आहुतित्रितयेन तु || ४-१८७ || योगो गर्भेषु चैतन्यस्य, धारित्वं युगपद्गर्भवर्धनम् | यदुक्तम् ---- शर्वयोनिषु गर्भास्ते युगपद्वृद्धिमागताः | ऽऽ (४-११८) इति | सर्वे इति गर्भाधानाद्याः संस्काराः || ४-१८७ || किं च ---- निष्कृतौ शतहोमं तु कवचेन तु कारयेत् | तुशब्दः पूर्वस्माद्विशेषाय || विश्लेषं पाशच्छेदं तु कुर्यादस्त्रेण दैशिकः || ४-१८८ || उद्धारकरणात्मस्थतत्स्थीकारान् भवेन तु | अथ ---- स्वनाम्ना प्रणवाद्येन ईशमावाह्य पूजयेत् || ४-१८९ || सम्पूज्य हुत्वा सन्तर्प्य बुद्ध्यहङ्कृतिद्व्यंशकम् | अत्र प्रयोगः ---- स्वनाम्ना प्रणवाद्यं तु स्वाहान्ते बुद्धिमर्पयेत् || ४-१९० || अहङ्कारं तथाप्येवं हुत्वेदं क्षमयेत्ततः | वागीशीं पूजयित्वा तु तर्पयित्वा विसर्जयेत् || ४-१९१ || यदत्रानुक्तं तत्पूर्वतो योज्यम् || १९१ || अथ-- कलासंधानकं पूर्वं शान्त्यतीते तु योजयेत् | ह्रस्वदीर्घविभागेन ............. प्राग्वच्छान्ताशान्त्यतीते अनुसंदधीतेत्यर्थः || तदर्थं च ---- ................ जुहुयादाहुतित्रयम् || ४-१९२ || अथ ---- ध्रुवेण तत्त्वसंधानं कर्तव्यं विधिवेदिना | पूर्ववत् प्रणवधामशान्त्यतीताबीजोच्चारपूर्वं ऽऽशान्त्यतीतायै नमःऽऽ इति प्रयोगः स्मर्तव्यः | तत्त्वमत्र प्रकृता शान्त्यतीता, विधिवेदिना व्याप्तिज्ञेन || किं च ---- कलोपस्थापनं पश्चाद् ध्रुवेण जुहुयात् प्रिये || ४-१९३ || त्रिराहुतिप्रयोगेण स्वनामपदमुच्चरन् | शान्त्यतीतां समावाह्य स्थापयेत् पूजयेत् पुनः || ४-१९४ || व्याप्तिमालोक्य चाध्वस्थां.............. तामेव स्पष्टयति ---- ..................शिवतत्त्वगताश्च ये | पदार्थास्तेऽनुसंधेया अत्रेत्यर्थः | तानाह ---- बिन्दुर्नादस्तथा शक्तिः शिवतत्त्वे व्यवस्थिताः || ४-१९५ || शिवतत्त्वं समनाव्याप्त्यन्तमिहेति तच्छोध्यमेव | बिन्दुनादशक्तयोऽत्र गर्भीकृतवक्ष्यमाणषोडशभुवना मुख्यान्यावरणानि || १९५ || किं च ---- पदमेकं मन्त्र एको वर्णाः षोडश कीतीताः | भुवनानि तु सूक्ष्माणि शान्त्यतीते तु भावयेत् || ४-१९६ || पदं मध्यकोष्ठनवकमध्यगत ओंकारः, मन्त्र ईशानभट्टारको धामत्रयमयनेत्रमन्त्राभिन्नमूतीः, वर्णा विसर्गाद्या अकारान्ताः षोडश, भुवनानि भूमिकात्मकप्रमेयमात्ररूपत्वात् सूक्ष्माणि न तु संनिवेशवन्ति, तानि च षोडश | तद्यथा ---- बिन्द्वावरणे निवृत्त्यादिकलाचतुष्कपरिवृतं शान्त्यतीताभुवनमेकम्, ततोऽर्धचन्द्रनिरोधिकाभुवने द्वे निजनिजकलापञ्चकपरिष्कृते, नादावरणे पुनरिन्धिकादिशक्तीनां स्वशक्तिमदधिष्ठितानां पञ्च भुवनानि, नादान्ते सुषुम्णेशपरब्रह्माधिष्ठितमेकं भुवनम्, शक्त्त्यावरणे तु सूक्ष्मादिशक्तिचतुष्कपरिष्कृतं पराशक्तिभुवनमेकम्, ततोऽपि व्यापिनीभूमौ व्याप्यव्योमरूपानाथानन्तानाश्रितानां पञ्च भुवनानि, ततोऽपि समनायां महामायारूपायां तच्छक्तिमारूढः पञ्चविधकृत्यकारी शिव इति | नन्विह मन्त्राणां शोधकानामपि कथं शोध्यत्वमुक्तम्, तथात्वे वा कस्य तच्छोधकत्वं मूलमन्त्रस्यापि च मन्त्रत्वाच्छोध्यत्वप्रसङ्गः निवृत्त्यादिवच्च शान्त्यतीतायामप्यङ्गमन्त्रः किं नोक्तः | निवृत्तिशान्त्यतीतयोर्मूलेन निष्कृतिहोमः प्रतिष्ठाविद्याशान्तानां शिरःशिखाकवचैनीवृत्तौ विश्लेषो मूलेनान्यत्र हृदयेनापरत्रास्त्रेणेति कोऽयं क्रमः | अत्रोच्यते ---- इह मन्त्राः शिवावेशशालिनो वीर्यविदो गुरोनीजशक्तिसारतया स्फुरन्तः शोधकाः, पशूनां तु गूहितस्ववीर्याः स्वस्वरूपावरणतया तिष्ठन्तः शोध्या एव, ते चाङ्गवक्त्रभेदादेकादश, मूलमन्त्रस्तु --- - श्वयमुच्चरते देवःऽऽ (७-५९) इति वक्ष्यमाणस्थित्या नादामर्शपरमार्थतया सर्वस्य स्फुरतीति नास्य शोध्यत्वम् केवलमकारादिसमनान्तप्रमेयैकादशकमत्र सूक्ष्मरूपतया गर्भीकृतमन्त्रैकादशिकास्फारमित्यारुरुक्ष्वाशयेन विश्लेषणक्रमयुक्त्यांशांशिकाभिप्रायात् | ऽऽअक्षरेषु कुतो मोक्ष आकाशे कुसुमं कुतः |ऽऽ (७-२३८) इति मूलमन्त्रविषयमुक्तम् | तत्तद्वाच्यभागाभिप्रायेण च ---- शमनान्तं वरारोहे पाशजालमनन्तकम् |ऽऽ (४-४३२) इत्युक्तम् वस्तुतस्त्वशेषविश्वाभेदमयो नित्योदितानुच्चार्यमहाविमर्शरूप एवायं निष्कलनाथस्तदभिन्नमूत्तीः सकलोऽपि वेति नास्य कदाचिदपि शोध्यत्वं शङ्कितव्यम् | शान्त्यतीतायां च नामानुरूपत्वादेव न पृथगङ्गमन्त्रः संभवति | धामत्रयात्मनेत्रमन्त्रस्तु ईशानमन्त्रभिन्नमूतीरवश्यमनुप्रविष्टोऽन्यथा मन्त्रैकादशिका न शोधिता स्यात्, ऽऽमन्त्रा एकादश ज्ञेयाः |ऽऽ (४-२००) इति च भाविवाक्यमसङ्गतं स्यादत एवास्त्रमन्त्रस्ताडनादावेवोपयुङ्क्ते | नेत्रमन्त्रस्तु मूलमन्त्रादभिन्न इति न तौ कलान्तःशोध्यौ, इत्येकीयमतमसत् | यस्तु निष्कृत्यादिहोमेषु मन्त्रनियम उक्तस्तत्रेश्वराज्ञैव नियन्त्रिकेति सर्वमनवद्यम् || १९६ || त एते सर्व एव पाशाः ---- शोधनीया वरारोहे............... वर उत्कृष्ट ऊर्ध्वद्वादशान्तविश्रान्तिरूप आरोह उल्लासो यस्याः शक्तेः || तावच्चैते शोध्याः ---- ...............यावत्ते शिवरश्मयः | निरवशेषभेदोपशान्त्या शिवस्य रश्मिरूपा अभिन्नप्रभामात्रात्मानः संपद्यन्ते इत्यर्थः || अत एव ---- शिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायते || ४-१९७ || उत्तीर्णशिवतत्त्वोपरि विश्वोत्तीर्णविश्वमयचिदानन्दघनस्वच्छन्दभट्टारको यत्र वक्ष्यमाणयोजनिकाक्रमेण युक्तो न जायते, मुच्यते इत्यर्थः || १९७ || अत एवास्य यावान् कलापञ्चकान्तः प्रपञ्चितः, स सर्व एव ---- षडध्वा चैकतो ज्ञेयः................ एकस्मिन् परमशिवात्मन्यभेदेनावस्थितस्तत्सामरस्यमापन्नो ज्ञातव्यो गुरुणा साकल्येन सङ्कल्पितः || कियानसावध्वा यो दीक्ष्यस्य शिवैकात्म्यं प्राप्त इति दर्शयितुमाह --- - ........टस्य संख्यां पुनः शृणु | कलाश्च पञ्च विज्ञेयास्तत्त्वषट्त्रिंशदेव तु || ४-१९८ || सचतुवींशति ज्ञेयं भुवनानां शतद्वयम् | एकाशीतिपदान्यत्र वर्णार्धशतिका स्मृता || ४-१९९ || मन्त्रा एकादश ज्ञेया इत्येतच्चाध्वमण्डलम् | एतस्मिन् शुद्धिमापन्ने मुक्तिमाप्नोति दीक्षितः || ४-२०० || शुद्धिरस्य परमशिवाभिव्यक्तिरित्युक्तम् || २०० || एवं प्रसङ्गिकमध्वशुद्धिग्रन्थमभिधाय प्रकृतमाह ---- ध्रुवेणावाह्य वागीशीं विन्यसेत्........ तदर्थम् ---- .......पूर्ववद्धुतिः | सम्पूज्य कुसुमाद्यैस्तु तद्योनौ पूर्ववत् पशुम् || ४-२०१ || योजयेदिति शेषः || २०१ || किं च ---- ध्रुवेण सर्वं कर्तव्यं जननादिलयान्तकम् | निष्कृतौ शतहोमं तु मूलमन्त्रेण कल्पयेत् || ४-२०२ || विश्लेषपाशच्छेदाभ्यां प्राग्वत् कुर्याद् ध्रुवेण तु | छेदाभ्यामिति तादर्थ्ये | तेन विश्लेषाद्यर्थं प्राग्वत् कुर्यात्, हुत्यादिकर्मेत्यर्थः || २०२ || किं च ---- ग्रहेणात्मस्थतस्थत्वं प्रणवेन पशोः स्मृतम् || ४-२०३ || प्रणवो निष्कलनाथः || २०३ || सदाशिवमथावाह्य मूलमन्त्रं समुच्चरन् | नमस्कारेण संस्थाप्य पुष्पैः सम्पूज्य तर्पयेत् || ४-२०४ || मनः पुर्यष्टकांशं तु विन्यसेत् कारणेश्वरे | कथमित्याह ---- प्रणवादि समुच्चार्य मनः संज्ञां नमस्तथा || ४-२०५ || विन्यस्य पूजयेत् पश्चात् संज्ञास्वाहान्तमेव च | प्रणवधामभ्यामनन्तरं ऽऽमनो देवदत्तस्यार्पयामि नमःऽऽ इति मन्त्रप्रयोगः, होमे तु स्वाहेत्यन्तः | संज्ञास्वाहान्तमिति क्रियाविशेषणम् || २०५ || अत्र च ---- आहुतित्रितयं हुत्वा पुर्यष्टांशाद्विशुद्ध्यति || ४-२०६ || ततो विसर्जयेद् देवं कारणं च सदाशिवम् | पुष्पादिभिः समभ्यर्च्य वागीशीं तदनन्तरम् || ४-२०७ || तां तु सम्पूज्य संतर्प्य विज्ञाप्या भक्तिभाविता | क्षमस्व देवदेवेशि पश्वर्थं खेदिता मया || ४-२०८ || इदानीं नोपरोद्धव्यं गच्छ देवि स्वविष्टपम् | सर्वदीक्षान्त इयं विज्ञप्तिः कार्येति विशेषद्योतनाय तुशब्दः | खेदनं भूयोभूयः परस्वरूपाद् गर्भाधानाद्यर्थमवतारणम्, नोपरोद्धव्यमिति अस्य दीक्षितस्येदानीं त्वया नोपरोधेन स्वरूपावरणं कार्यमिति यावत् | अत एव स्वविष्टपं दीक्षितस्य परमशिवात्मस्वात्मस्वरूपमधिकरणं गच्छ तन्मयतयास्य सदा स्फुरेत्यर्थः | अत एव श्रीस्पन्देऽभिहितम् ---- श्वमार्गस्था ज्ञाता सिद्ध्युपपादिकाऽऽ (स्प० ३४-१८) इति | यदुक्तं ब्रह्मणि शब्दस्पर्शौ, विष्णौ रसः, रुद्रे रूपगन्धौ, ईश्वरे बुद्ध्यहङ्कारौ, सदाशिवे मनः पुर्यष्टकांशमर्पयेत् | तत्रायमभिप्रायः ---- इह ब्रह्मा परमया व्याप्त्या नादान्तोपरि ब्रह्मबिलाधिष्ठातृब्रह्मरूपः, विष्णुरपि तदुपरि प्रसरद्रूपशक्तिप्रधानशक्त्त्यात्मा, रुद्रोऽपि व्यापिनीपदावस्थितानाश्रितनाथरूपः, ईश्वरोऽपि समनापदाधिरूढः सृष्ट्यधिकारी शिवः, सदाशिवस्तु स्वच्छस्वच्छन्दचिदानन्दघनः परमशिवः, इत्येकादशपटलोक्तव्यवस्थया परस्य ब्रह्मणो नादान्तशक्त्योर्मध्यवतीत्वात् सूक्ष्मतमाभ्यां शब्दस्पर्शाभ्यां योगः | एवं मूलभूमौ स्पर्शप्रधानापि प्रसरद्रूपतया रसमयी शक्तिरिति तन्मयस्य विष्णोः सूक्ष्मतमरससंबन्धः, ततोऽपि रुद्रस्य व्यापिन्यामनाश्रितपदे विश्वस्यासूत्रणादमात्रात्मनः प्राक्सृष्टोपसंहृतजगद्गतसुसूक्ष्मतमसंस्कारमात्रात्मना तनीयस्तमेन गन्धेन चास्ति संबन्धः | समनाधिष्ठातरि तु शिवे मननमात्रसारे विगलद्वुद्ध्यहङ्कारवासनासङ्गः, परमशिवेऽपि उन्मनाशक्तिसमाश्लिष्टे मननसंस्कारस्यापि गलनमित्यतिसुसूक्ष्मतमस्वप्रशान्तमनःसंस्कारसंबन्धोऽस्ति, इत्याशयेन निरवशेषसंस्कारपर्यंन्तपुर्यष्टकप्रशान्त्यर्थमेव पुर्यष्टकांशार्पणम् | अन्ये तु ---- ऽऽश्रुतित्वग्विप्लुतिर्ब्राह्मी ब्रह्मक्रव्यादयोनिदा | रासनी वैष्णवी रौद्री घ्राणलोचनहेतुका || एश्वरी गर्वधीरूपा मानसी शिवदेवता |ऽऽ (मि.क्रि. ८-१४०-१४१) इति निर्बीजदीक्षाविषयश्रीमृगेन्द्रवाक्यटीकायामुक्तेन्द्रिय- विप्लुत्यात्मसमयोल्लङ्घनसंभाव्यमानतत्तत्क्रव्यादत्वप्रशमनाय पाशशोधनपरेऽपि वाक्ये निर्बीजदीक्षायां पुर्यष्टकात् शब्दस्पर्शार्पणं ब्रह्मणि कार्यमित्यादि यद्भट्टनारायणकण्ठेनोक्त्तं तदेवात्र योजयाञ्चक्रुः | तत्र सबीजनिर्बीजादिसर्वदीक्षासु पुर्यष्टकांशार्पणमाम्नातम्, अतो मृगेन्द्रायां समयपाशशोधनपरेऽपि वाक्ये निर्बीजदीक्षाविषयमेव पुर्यष्टकांशार्पणं तदभिप्रायवर्णनं च तेनाकारि, तद्युक्तमयुक्तं वेति सचेतसः प्रमाणमित्यलम् || २०८ || अथ वागीशीम् ---- विसर्ज्यैवं कला भाव्या शान्त्यतीता लयं गता || ४-२०९ || स्वशक्त्याधारपर्यन्ते सुसूक्ष्माभावसंस्थिते | स्वा स्वातन्त्र्यात्मा शक्तिराधारः समवायिनी यस्य, स एवाशेषस्य समनाप्रतिष्ठास्थानत्वात् पर्यन्तः, अत एव सुष्ठु सूक्ष्मस्याभावस्य समनात्मनो व्यापिन्यादिक्षित्यन्तनिःशेषभावाभावभित्तिभूतस्य महाशून्यस्य संस्थितं संस्थानं यत्र || २०९ || अथ कायवाङ्मनःकर्मान्यथाभावे जाते सति ---- आत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् || ४-२१० || आत्मशब्दो विद्याशिवावुपलक्षयति, तेनात्मविद्याशिवतत्त्वविभागेनेत्यत्रार्थः || २१० || तथा ---- सशब्दोच्चारयोगेन आत्मतत्त्वे तु होमयेत् | प्रणवनिष्कलोच्चारपूर्वं दीक्ष्यस्यात्मतत्त्वव्याप्तमायान्ताध्वशुद्धौ विधिन्यूनातिरिक्तदोषशुद्धिरस्तु स्वाहा ---- इत्यत्र प्रयोगः || एतच्चात्मतत्त्वम् ---- मायातत्त्वावधि ज्ञेयं दैशिकेन महाध्वरे || ४-२११ || मायान्तं वेद्यं सर्वमिति तद्व्याप्त्यात्मतत्त्वं | महाध्वरे दीक्षाप्रयोजनशिवयागे || २११ || किमर्थमयं होमः, इत्याह ---- विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये | विधिः पूजाहोमादिः शास्त्रचोदितस्तस्य वैकल्यकर्म न्यूनातिरेकानुष्ठितिस्तदर्थमिति तन्निवृत्त्यर्थं या प्रायश्चित्तशुद्धिस्तस्यै || अथ ---- विद्यातत्त्वे तु होतव्यं शतमष्टोत्तरं प्रिये || ४-२१२ || तच्च उपांशूच्चारयोगेन विद्यातत्त्वे तु होमयेत् | पूर्वोक्ताया विद्याया इयमन्यैव | मायान्ते विद्या करणरूपा भगवतः, इति वक्तुमाह ---- सदाशिवान्तमध्वानं विद्यातत्त्वं विनिदीशेत् || ४-२१३ || ज्ञानक्रियात्मा शक्तिः शिवस्य कारणं तद्रूपश्च सदाशिवः, इति तदन्ता विद्यातत्त्वस्य व्याप्तिः || २१३ || अत्र च ---- मन्त्रोच्चारविलोमेन प्रायश्चित्तं तु यद्भवेत् | तद्विशुद्ध्यै स होमः स्याद्विद्यातत्वे तु यः कृतः || ४-२१४ || विलोमताऽन्यथाकरणम् | अत्र च प्रणवनिष्कलावुच्चार्य दीक्ष्यस्य विद्यातत्त्वव्याप्तसदाशिवान्ताध्वशुद्धौ मन्त्रोच्चारवैलोम्यशुद्धिरस्तु स्वाहेति प्रयोगः || २१४ || अनन्तरम् ---- मनोविज्ञानवैकल्यात् प्रायश्चित्तं तु यद्भवेत् | तच्छुद्ध्यर्थं शिवे तत्त्वे मूलमन्त्रेण होमयेत् || ४-२१५ || मानसेन प्रयोगेन.............. मनोविज्ञानं भावना, शिवतत्त्वमुक्ततत्त्वापेक्षयात्र प्रमातृरूपम् || २१५ || एतच्च ---- ........शक्त्यन्तेऽध्वनि संस्थितम् | शक्त्यन्तं समनान्तमुत्तीर्य शिवभट्टारकस्य तावद्व्याप्तिकत्वात् || अथाशेषबन्धभित्तेर्मुण्डान्तोर्ध्ववाहिन्याः प्राणशक्तेरधोवाहात्मकबन्धकत्वोपशमाय तदनुकारिण्याः स्थूलदेहगतायाः शिखायाश्छेदमादिशति ---- तत्त्वत्रयविशुद्ध्यन्ते शिखाच्छेदं तु कल्पयेत् || ४-२१६ || कथं च ---- अध्वान्तस्थां परां शान्तामनौपम्यामनामयाम् | व्यापिनीं सर्वतत्त्वानां सर्वकारणकारणम् || ४-२१७ || ध्यात्वा शिशोः शिखाग्रे तु पुष्पाग्रे जलबिन्दुवत् | अध्वनोऽन्तेऽत एवाविद्यमानाध्वान्ते पदे च स्थितां परां शान्तामिति शान्त्यतीतां सर्वोपाधिक्षैण्यादनामयामकलङ्कां षण्णामपि कारणानां कारणं शिशोः शिखाग्रे ध्यात्वेति सङ्गतिः || २१७ || किं च ---- कर्तरीं शिखयामन्त्र्य शिखया च्छेदयेच्छिखाम् || ४-२१८ || शिखयेति नैष्कलेन शिखामन्त्रेण | इह विशेषानभिधानान्निर्बीजसबीजदीक्षाद्वयविषयशिखाच्छेदनं न तु निर्बीजायामेव || २१८ || अथ ---- शिखां समर्प्य चान्यस्य निर्गच्छेत् स सशिष्यकः | तत्र च ---- स्नानं समाचरेच्छिष्यः................ छिन्नशिखत्वात् || तत्स्पर्शात्तु ---- ................गुरोराचमनं भवेत् || ४-२१९ || स शिष्यसंपर्कत्वात् पराशयग्रहणाय वा ---- स्नानमुद्धूलनं वाथ आचरेत् स्वेच्छया गुरुः | ततः ---- प्रविश्य सकलीकृत्य.............. आत्मानम् | ............पूर्णया जुहुयाच्छिखाम् || ४-२२० || उक्तव्याप्तिप्राणशक्त्त्यनुकारिणीम् | अत्र च पूर्वसंवादितः पाशहोममन्त्रः प्रयोक्तव्यः || २२० || इत्थं च ---- हुत्वा निर्गम्य चाचम्याक्षाल्य स्रुक्स्रुवकर्तरीः | प्रविश्य सकलीकृत्य शिवहस्तानुपूजनम् || ४-२२१ || कुर्वीतेत्यर्थः || ततस्तु मण्डले पश्चात् पूजयेत् परमेश्वरम् | पुष्पादिभिरशेषैस्तु ततो विज्ञापयेच्छिवम् || ४-२२२ || भगवंस्त्वत्प्रसादेन अध्वषट्कव्यवस्थितम् | पशं संगृह्य संशोध्य शिखाच्छेदावसानकम् || ४-२२३ || त्वन्मुखोक्तविधानं तु लेशतो वतीतं मया | ग्रहणं पाशसूत्रात् स्वदेहाच्च | संशोधनं मलेभ्यः | वतीतं संपादितम् || २२३ || किं च, शिष्यमिष्टं धाम लम्भयितं मया ---- त्वच्छक्त्यैव तु गन्तव्यमाशु ध्रुवपदं शिवम् || ४-२२४ || एवकारो निरपेक्षः शक्तिपात एवात्र प्रभवतीति ध्वनति | एतच्च पञ्चमपटलान्ते निर्णेष्यामः | ध्रुवपदं सप्तमं परमशिवस्थानम् || २२४ || तदर्थमेव ---- इदानीं योजये कर्म................ मयारभ्यते | ततोऽत्र ---- ...............टवाज्ञानुविधायिनः | आज्ञा मे दीयतां नाथ शिष्यं संयोजयाम्यहम् || ४-२२५ || तवाज्ञेति ऽऽदीक्षणीयास्त्वया शिष्याः |ऽऽ इत्यधिकारावसरे प्राप्ता | अथ ---- लब्धानुज्ञातमात्मानं.................. आज्ञालाभयुक्त्यैव रुद्रशक्तिसमावेशात् ---- .............प्रहृष्टो निर्गतः पुरात् | अर्घहस्तो व्रजेदग्निम्................. पुरादिति मण्डलक्षेत्रात् | अथात्र ---- ..............शिष्यमाहूय प्रोक्षयेत् || ४-२२६ || प्रोक्षितस्य ---- पूर्ववच्चासनस्थस्य सकलीकरणादिकम् | अन्तःकरणविन्यासं नाडीसन्धानपूर्वकम् || ४-२२७ || पूजं तर्पणं चाग्नौ मन्त्राणां च शिवस्य च | कुर्यात् | तर्पणं मूलापेक्षया वक्त्राङ्गानाम् || दशभागविभागेन................ नचात्र द्रव्येयत्तानियम इत्याह ---- .............यथा द्रव्यानुसारतः || ४-२२८ || यद्वक्ष्यति ---- ऽऽतिस्रः पञ्च दशैका वा तिलैर्वाथ घृतेन वा |ऽऽ (४-४४८) इति || २२८ || अथ ये निष्कलस्वरूपनिमज्जनेन सकलतामुन्मज्ज्य भगवतोऽन्तरङ्गशक्तिरूपा वक्त्राङ्गमन्त्रा भेदप्रथोत्थापनेन चिदात्मना संशुद्धत्वापादनेऽधिकृतास्तान् ---- मन्त्रान् संशोधयेत् पश्चात् सकलीकरणे स्थितान् | सकृदाहुतियोगेन.................. मूलमन्त्रेणैवेतरमन्त्रशुद्धिरिति निर्णीतम्, अतः प्रणवनिष्कलोच्चारपूर्वं हृदाद्येकैकं जात्यन्तमुच्चार्य ऽऽभगवन् दीक्ष्यस्य निष्कलशुद्धधामप्रथापरो भव स्वहाऽऽ इति प्रयोगेण निष्कलधामविश्रान्तिभावनयाहुतिं दद्यात् || तत एतानिदं श्रावयेत् ---- ..............ऽधिकारो विवर्ज्यताम् || ४-२२९ || सकलीकरणत्वेन न कदाचित् पशोः पुनः | सकलीकारो भवद्भिः कार्य इति शेषः || २२९ || एवं दीक्ष्यस्य मन्त्रैकादशिकाशुद्धिमितिकर्तव्यत्वेनोक्त्वा देवीमाह भगवान् ---- योजनीयं प्रयोगं तु अधुना कथयामि ते || ४-२३० || योजनायै हितं योजनीयम्, प्रकृष्टं योगमितिकर्तव्यतारूपं प्रयोगं चाधुना निःशेषपाशक्षपणे जाते सति, ते इत्यनुग्रहैकप्रवणतया भगवत्या एवैकस्याः परस्याः शक्तेर्योजनायां शक्तायाः कथयामि विमर्शपदं लम्भयामीत्यर्थः || २३० || अस्य चाभ्यस्तज्ञानयोगदुष्प्रापदैशिकप्रवरसाध्यत्वमिति दर्शयितुं महता पीठिकाबन्धग्रहणेन योजनोपयोगि प्रमेयत्रयोदशकं सद्गुरूणां हृदयङ्गमीकार्यं निर्णेतुमुदाक्षिपति परमेश्वरः ---- ज्ञात्वा चारप्रमाणं तु प्राणसञ्चारमेव च | षड्विधाध्वविभागं तु प्राणैकत्र यथास्थितम् || ४-२३१ || हंसोच्चारं तु वर्णैश्च कारणत्यागमेव च | शून्यं समरसं ज्ञेयं त्यागं संयोगमुद्भवम् || ४-२३२ || भेदनं च पदार्थानां भावप्राप्तिवशात् पुनः | आत्मविद्याशिवव्याप्तिमेवं ज्ञात्वा तु योजयेत् || ४-२३३ || इह ---- ऽऽतस्मिन् युक्तः परे तत्त्वे सर्वज्ञादिगुणान्वितः | शिव एको भवेद् देवि अविभागेन सर्वतः ||ऽऽ (४-४०२) इति भाविनीत्या परभैरवैक्यापत्त्यात्मा योजना पुर्यष्टकाहन्ताप्रशान्त्यैव गुरोः कर्तव्या | पुर्यष्टके च प्राणाश्रये शून्याश्रयं च स्वप्नसौषुपत्योस्तथा निश्चयादिति प्राणशून्यपदयोः प्रशमनीयत्वे चारस्य प्राणवाहस्य देशकालाभ्यां प्रमाणमवश्यं ज्ञातव्यम्, तत्रापि चारोहावरोहरूपसञ्चरणं ज्ञातसञ्चारस्य तत्रस्थोल्लङ्घनीयसमस्ताध्वपरिज्ञानमुपयोगि, अध्वोल्लङ्घनमपि ऊर्ध्वनदनात्महसोच्चारपरिज्ञानात्, तदुच्चारो द्विधा स्वाभाविकः प्रायत्निकश्चेति, प्रायत्निके तस्मिन् नैष्कलैरकारोकारादिभिर्वर्णैः कारणानां ब्रह्मादीनां त्यागोऽपि ज्ञेयः, चकारात्तदूचितकालत्याग इहानुद्दष्टोऽपि वक्ष्यमाणो ज्ञातव्य एव, प्राणवच्च शून्यमपि प्रशमनीयत्वाज्ज्ञेयमेव, परभैरवैक्यात्मयोजनं च मन्त्रात्मनाड्यादिसामरस्यज्ञप्तिपूर्वकम्, सामरस्यज्ञानं साम्यज्ञप्तिपूर्वकमिति साम्यात्मविषुवत्स्वरूपमपि भविष्यति, अकाराद्युन्मनान्तं द्वादशविधं ज्ञेयमपि मन्त्रोच्चाराङ्गतया ज्ञेयमेव, त्यागाय चैतज्ज्ञेयमिति त्याग उक्तः, स च तत्तद्दशासंयोगपूर्वकः तत्तद्दशात्यागे चोर्ध्वोर्ध्वारोहात्मोद्भवोऽपि ज्ञातव्यः, यावच्चैषां ग्रन्थीनां भेदनं न वृत्तं न तावत्तत्त्यागेनोर्ध्वोद्भवो घटते, भेदनं च ज्ञानयोगाभ्याम् | यद्वक्ष्यति ---- ऽऽभेदयेज्ज्ञानशूलेनऽऽ (४-३३५) इति | तथा ऽऽभेदयेन्मन्त्रशूलेन मुद्राभावयुतेन तु |ऽऽ (४-३५७) इत्यादि | तच्च भावस्य दृढारूढप्रतिपत्त्यात्मनस्तत्तच्छब्दाद्यनुभवात्मनश्च वक्ष्यमाणस्य प्राप्तिवशाद्भवति | एवमियज्ज्ञानपूर्वं प्राणे शून्ये च प्रशमितेऽपि, आत्मतत्त्वस्यैतावदुत्तीर्णा शुद्धात्मदशानुभवरूपा, विद्यातत्त्वस्य चोन्मनाविश्रान्त्यात्मा, शिवतत्त्वस्यापि च परतत्त्वसमावेशरूपा व्याप्तिरवश्यं ज्ञेयेति, इयत्प्रमेयपरिज्ञानमागमतोऽनुभवतश्च योजनायामुपयोगीत्याशयेनात्र वाक्ये ज्ञात्वेति द्विरुपात्तम् || २३३ || यथोद्दष्टं निर्णेतुमाह ---- तद्विभागं प्रवक्ष्यामि यथा ज्ञायेत तत्त्वतः | विभागो विभजनमसाधारणेन रूपेण विवेचनलक्षणम् | प्रकारभेदकथनमपि यथासम्भवम् | तं क्रमेणाह ---- षट्त्रिंशदङ्गुलश्चारो हृत्पद्माद्यावशक्तितः || ४-२३४ || तुटिषोडशमानेन कालेन कलितः प्रिये | यावच्छब्दे तलोप एश्वरः | आद्येनार्धेन देशतो द्वितीयेन कालतश्चारप्रमाणमुक्तम् | शक्तिरिह भाविनीत्या समनान्ताभिप्रेता | तुटिश्चषकषड्भागरूपस्य प्राणापानवाहस्य द्वात्रिंशत्तमोंऽशः | अथ प्राणसञ्चारमाह ---- सञ्चरन्तं विभागेन यथावत्तं शृणुष्व मे || ४-२३५ || तमिति प्राणं ताल्वादिस्थानानुसारिणा विभागेन यथावत् स्वानुभवसाक्षिकं सम्यक् चरन्तं शृणु कथितमन्तनीभालय || २३५ || हृत्पद्माद्यावदयनं भागमेकं त्यजेत्तु सः | नासिकाग्रे द्वितीयं तु शक्त्यन्ते तु तृतीयकम् || ४-२३६ || तत्रस्थो विनिवर्तेत यावत्तत्वं न विन्दति | विदिते तु परे तत्त्वे तत्रस्थोऽपि न बाध्यते || ४-२३७ || एतच्छास्त्रप्रक्रियया मन्त्रोदयस्थानाद्धृत्पद्मात् प्रभृति | अयनमिति कालाधिकारवक्ष्यमाणया ऽऽप्राणे दिनोदयऽऽ इति स्थित्या प्राणादित्यस्य मध्याह्नगताश्रयं तालुस्थानमष्टादशाङ्गुलान्तमिह विवक्षितम् | तच्च मायाग्रन्थ्यात्मकं रुद्रस्थानं दुर्भेदमित्यशिक्षिततदनुप्रवेशस्य तु मध्यनाड्या नासिकाग्रं भ्रूमध्यमैश्वरं स्थानं प्राप्नोति, एवमप्यभिन्नभ्रूग्रन्थेस्तस्मिन् नासिकाग्रे | द्वितीयमिति षडङ्गुलं भागं त्यजेत्, तत्प्रवेशमनासाद्य पार्श्वनाडीद्वयेन यावच्छिक्षिततदनुप्रवेशस्य तु शक्त्यन्तं ब्रह्मबिलपर्यन्तमाश्रयति, तथाप्यस्वीकृतशाक्तबलस्य शक्त्त्यन्ते तस्मिंस्तृतीयं भागं द्वादशाङ्गुलं त्यजेत्, तत्रान्तरज्ञस्य ब्रह्मरन्ध्रेणाधः प्रसरेत्, एतदेव तत्रस्थेत्यादिना श्लोकार्धेनोक्तमत एवासादितशाक्तबलः समग्रग्रन्थिसञ्चाराभिज्ञः परस्मिंस्तत्त्वे विदिते | तत्रेत्युक्ते.qउ ग्रन्थिस्थानेष्वपि स्थितो न बाध्यते, न देहादिप्रमातृतावैवश्यमेतीति यावत् | अतश्च परतत्त्वज्ञप्तिपर्यन्तः प्राणसञ्चारः शिक्षणीय इति पिण्डार्थः || २३७ || अत्रैव सञ्चारे पारिभाषिकीः संज्ञा उद्घाटयति ---- शक्त्या चाधो यदा गच्छेदबुधस्तु तदा भवेत् | शक्तिपर्यन्तेऽपि पदे लब्धे तत्त्वेऽनारोहात् | यदा तु तदारोहाय ---- हृद्गतः पुनरुत्तिष्ठेद् बुध्यमानः स उच्यते || ४-२३८ || ततश्च ---- शक्तिं प्राप्य बुधो ज्ञेयः............... ततोऽपि शाक्तबललाभात् तत्त्वारोहयुक्तिज्ञस्य ---- ..............व्यापिन्यंशे प्रबुद्धता | यदा तु ततोऽप्यूर्ध्वमारोहति, तदा समनापर्यन्तमेषमध्वानम् ---- अतीतः सुप्रबुद्धस्तु.................. परतत्त्वानुलाभात् अबुद्धरूपतैवेति केचित्, तदसत्, तस्येह प्राकरणिकत्वेऽपि सुप्रबुद्धैकरूपत्वात्, अन्यथा गुरुत्वायोगात् | अस्य च ---- ...............उन्मनस्त्वं तदा भवेत् || ४-२३९ || मनःसंस्कारस्यापि क्षयात् || २३९ || किं च ---- न कालो न कला चारो न तत्त्वं न च कारणम् | सुनिर्वाणं परं शुद्धं गुरुपारम्परागतम् || ४-२४० || तद्विदित्वा विमुच्येत गत्वा भूयो न जायते | कालस्तुट्यादिः परार्धान्तः, कला निवृत्त्यादिका, चारः प्राणवाहः, तत्त्वं पृथिव्यादि, कारणं ब्रह्मादि, सुनिर्वाणमिति पराद्वयमयत्वात्, अत एव परं शुद्धं शुद्धाशुद्धसदाशिवादिपदादपि प्रकर्षात्, गुरूणां परम्परैव पारम्परं परभैरवतच्छक्तिसदाशिवेशानन्तश्रीकण्ठादिरूपं तत आगतम् | विदित्वेति अनुभूय, विमुच्यते इति जीवन्नेव विमुक्तः स्यात्, गत्वेति देहान्ते तदैकात्म्यमेति || अथाध्वषट्कविभागमाह ---- अध्वषट्कं यथा प्राणे संस्थितं कथयामि ते || ४-२४१ || आपादान्मूर्धपर्यन्तं चितेः संवेदनं हि यत् | भुवनाध्वा स विज्ञेयस्तत्त्वाध्वा च तथैव हि || ४-२४२ || इह तस्य भावस्तननात्तत्त्वमिति व्युत्पत्त्या निरुक्त्या च विशेषनिष्ठः सामान्याभासः शरीरभुवनभावविरचनाहेतुतत्त्वम् | तदाभोगः शरीरभुवनादिर्यथा देहमृद्दारुपाषाणादौ काठिन्याभासः पृथिवीतत्त्वम्, एवमन्यत् | सामान्याभासश्च चिद्भित्तौ भाति परचिद्भूमौ च सर्वं चिदेकरसमिति न कोऽपि विभागस्ततः, ऽऽप्राक् संवित्प्राणे परिणताऽऽ इति न्यायात्, प्राणसङ्कोचिन्यास्तस्याः प्राणत्वारोहेण देहमप्यश्नुवानाया यस्तत्त्वप्रतिभासरूपं स एव तत्त्वाध्वा घटते इत्यभिप्रेत्यापादान्मूर्धान्तं यच्चितेः संवेदनं तत्तत्काठिन्यादिप्रतिभासरूपं स एव तत्त्वाध्वा भुवनाध्वा चेत्युक्तम् | तत्त्वसत्तयैव च भुवनसत्तापि सौक्ष्म्येणानुमीयते | प्राणचारो हृदयाच्छक्त्यन्तं षट्त्रिंशदङ्गुल उक्तः | अध्वषट्कविभागस्तु प्राणैकत्रेति समस्तदेहव्यापिसूक्ष्मप्राणमात्र एवोद्दष्टो न तु प्राणचार इत्यापादादित्यादिका युक्तैवोक्तिः | तत्त्वानां चोद्देशान्ते श्रीमतङ्गेऽप्युक्तम् ---- ऽऽतत्त्वं वस्तुपदं व्यक्तं स्फुटमाम्नायदर्शनात् | ततमेतेन वा यस्मात्तत्तत्त्वं तत्त्वसंततौ ||ऽऽ (१-५-४) इति | तथा ऽऽशिवाद्यवनिपर्यन्तो योऽयमध्वातिविस्तृतः | स समस्तश्चितो ज्ञेयो नाशिवत्वाद्विमुच्यते ||ऽऽ (१-१०-२३) इति || २४२ || प्राणे कलाध्वस्थितिमाह ---- कलाकलितसंतानः प्राणः सञ्चरते सदा | कलाभिः कलितो व्याप्तः संतानः प्राणवाहो यस्य || अस्य हि ---- निवृत्तिश्च प्रतिष्ठा च अधोभागे प्रवतीके || ४-२४३ || विद्या शान्तिस्तथा चोर्ध्वे शान्त्यतीता त्वधिष्ठिका | ऽऽआ पादान्मूर्धपर्यन्तम्ऽऽ इत्युक्त्वा समस्तदेहव्यापी सामान्यप्राणनारूपः प्राण उद्दष्टो यस्य प्राणापानाद्यात्मिका विशिष्टा वृत्तयः | ततोऽधोभागप्रवतीके इत्यादिकं सङ्गतमेव | ये तूर्ध्ववाहिप्राणाश्रयमेतत्, इत्यभिप्रायेण अधोभागप्रवतीके इति पठित्वा अधोभागे प्रवृत्तिरवस्थितिवीद्यते ययोरित्यादि श्लिष्टं व्याचक्षते, तेषां ऽऽशक्त्या चाधो यदा गच्छेदिति (४-२३८) पूर्वोक्तं विस्मृतम्, जडस्य च शक्त्यात्मककलाव्यापकत्वमुक्तम् न तु विपर्यय इत्यास्तामेतत् | एवंप्रायं व्याख्यानं बहु असमञ्जसं टीकाकृतामस्ति, तत् स्वयमेवान्वेष्टव्यम् | ग्रन्थगौरवभयात् प्रतिपदं नोन्मीलितं कियन्मात्रं तु दशीतम् || हेयहान्या शिष्याणामुपादेये धीः प्ररोहत्विति कलातीतं पदं निरूपयितुमाह ---- तदतीतः परो भावः................. शान्त्यतीतामप्यतिक्रान्तः शुद्धात्मदशारूपः स्वभाव इत्यर्थः | अत एवोन्मनापरतत्त्वात्मकशक्तिशक्तिमत्सामरस्यात्मकम् ---- ............टदूर्ध्वं पदमव्ययम् || ४-२४४ || यत्प्राप्त्यर्थमियान् शास्त्रसंरम्भः || २४४ || प्राणे निवृत्त्यादिकलास्थितिमुक्त्वा मन्त्रकलास्थितिमप्याह ---- एवं बिन्दुकला ज्ञेया नादशक्त्यात्मिकाश्च याः | व्यापिन्याद्यात्मिका याश्च व्याप्यव्यापकभेदतः || ४-२४५ || प्राणैकसंस्थिताः सर्वाः............... अकारोकारमकारात्मानः कलाः प्राणैः सर्वैरुच्चरन्त्य उपलभ्यन्ते | यास्तु बिन्द्वाद्याः समनान्ताः क्रमेण व्याप्यव्यापकभावेन स्थिताः, ताः सर्वाः प्राणे स्थिता ज्ञेयाः प्रयत्नेनानुभवितव्याः | बिन्दुनादव्यापिनीनां तिसृणां प्रधानतया इह उद्देशोऽर्धचन्द्रादिशक्तीनां यथायोगमेतदन्तर्भूतत्वेन प्राधान्यात्| अत एव ---- .............षट्त्यागात् सप्तमे लयः | सर्वोपलभ्या अकारोकारमकारकलाः, योगगम्यास्तु बिन्दुनादव्यापिन्य इत्यासां षण्णामपि त्यागात् परमयोगिनां सप्तमे परशक्तिमति परतत्त्त एव लयो विश्रान्तिः कार्या || एतदुपसंहृत्यान्यदवतारयति ---- कलाध्वैवं समाख्यातो वर्णाध्वानं निबोध मे || ४-२४६ || तमाह ---- वर्णाः शब्दात्मकाः सर्वे जगत्यस्मिंश्चराचरे | स्थिताः पञ्चाशता भेदैः शास्त्रेष्वानन्त्यकोटिषु || ४-२४७ || शब्दात् प्राणः समाख्यातस्तस्माद्वर्णास्तु प्राणतः | उत्पद्यन्ते लयं यान्ति यत्र शब्दो लयं गतः || ४-२४८ || आनन्त्येन कोटिसंख्येषु शास्त्रेषु पञ्चाशता भेदैर्मातृकारूपैः चरे जङ्गमे वाग्वति, अचरे चान्तःसंज्ञे स्थावरे तत्तदव्यक्तवाच्याक्षराद्यभिव्यञ्जके वर्णाः स्थिताः | ते च शब्दात्मकाः शब्दनरूपाः, शब्दोऽपि प्राणनात्मा ध्वनिसतत्त्वश्च प्राणोऽत एवास्माद् ध्वनिरूपाद्वर्णा जायन्ते, यत्र च शब्दात्मा प्राणो लयं याति तत्रैव वर्णा लीयन्ते, इति प्राणनात्मनि प्राण एव वर्णाध्वा स्थितः || २४८ || यतश्च वर्णानां प्राणस्य चैकत्र लयस्ततः ---- शब्दातीतो वरारोहे तत्त्वेन सह युज्यते | युक्तः सर्वगतो देवि धर्माधर्मविवजीतः || ४-२४९ || नाधो निरीक्षते भूयः शिवतत्त्वं गतो यदा | तत्त्वेन परमशिवेन सह युज्यते एक्यमेति, अत एव सर्वगतो धर्माधर्माभ्यां प्राणापानाभ्यां शुभाशुभाभ्यां च रहितः | अध इति इदन्तारूपो भेदः | यदेति यतः || एतदुपपादयति ---- अधो वै यात्यधर्मेण धर्मेणोर्ध्वं व्रजेत् पुनः || ४-२५० || विज्ञानेन द्वयं त्यक्त्वा सर्वगस्तु भवेदिह | अधर्मेणाशुभेनाधः स्थावरान्तमपानात्मदेहभूमिं, धर्मेण शुभेन देवयोन्यादिताम्, प्राणात्मना तु शक्त्यन्तं व्रजति | एतद्द्वयं तु विशिष्टेन शिवैक्यात्मविमर्शात्मना | ज्ञानेन त्यक्त्वा, इहेति देहावस्थितोऽपि सर्वगः शिवो भवति || उपसंहरति ---- वर्णाध्वैवं समाख्यातः........... अथ ---- .................पदाध्वा प्रोच्यतेऽधुना || ४-२५१ || एकाशीतिपदान्येव विद्याराजस्थितान्यपि | वर्णात्मकानि तान्यत्र वर्णाः प्राणात्मकाः स्थिताः || ४-२५२ || तस्मादेवं पदान्यत्र तानि प्राणक्रमेण तु | एकस्मिन्नपि विद्याराजे नवात्मन्येकाशीतिपदानि प्राग्विभक्तनीत्या यानि स्थितानि, तान्यपीदानीमेव निर्णीतनीत्या वर्णात्मकानि, वर्णाश्च प्राणरूपास्तदात्मकत्वात् पदानाम् || २५२ || पदाध्वैवं समाख्यातः................. अथात्र ---- ................ंअन्त्राध्वानं निबोध मे || ४-२५३ || तमाह ---- मन्त्रैकादशिका या तु सा च हंसे व्यवस्थिता | पदैकादशिका सा च प्राणे चरति नित्यशः || ४-२५४ || हंसे मध्यमे प्राणे, नैष्कलवक्त्राङ्गरूपा मन्त्रैकादशिका स्थिता यस्मात्, सा पदैकादशिका नित्योच्चरन्निष्कलकलारूपविश्रान्तिहेतुर्ब्रह्मादिवाचकाकारादि- समनान्तपदरूपा | निर्णीतं चैतत् पूर्वमेव || २५४ || एतानि पदान्याह ---- अकारश्च उकारश्च मकारो बिन्दुरेव च | अर्धचन्द्रो निरोधी च नादो नादान्त एव च || ४-२५५ || शक्तिश्च व्यापिनी चैव समनैकादशी स्मृता | निष्कलनाथेऽकारकला यादृश्यस्ति, यादृशं चैतत्कलानां रूपं तददूर एव निर्णेष्यते || २५५ || एकादशिकाया अस्या अध्वरूपतां दर्शयितुमाह ---- उन्मना च ततोऽतीता तदतीतं निरामयम् || ४-२५६ || तत इति तां समनामतीता | तदतीतमिति तामुन्मनामतिशयेनेतं गतं तदभिन्नम् | उन्मनापरतत्त्वप्राप्तिहेतुत्वात् पदवर्णादीनामिव मन्त्राणामप्यध्वतेति यावत् || २५६ || उपसंहरति ---- मन्त्रा एवं स्थिताः प्राणे........... बहिःस्थूलरूपस्याप्यध्वप्रपञ्चस्य मान्त्रकलोच्चारणे सूक्ष्मरूपतया मन्त्रोच्चिचारयिषा मन्त्रविश्रान्तिदशायोगे पररूपतया मन्त्रौपयिक एवोपलम्भो भवतीत्याशयेन पर्यन्ते मन्त्राध्वा निर्णीतः || क्रमप्राप्तः ---- ..............ःअंसोच्चारस्तथोच्यते | तमाह ---- हकारस्तु स्मृतः प्राणः स्वप्रवृत्तो हलाकृतिः || ४-२५७ || योऽयं हलाकृतिरनच्को हकारोऽनाहतध्वन्यात्मा श्वयमुच्चरते देविऽऽ (७-५९) इति भाविनीत्या स्वप्रवृत्तः ङादाख्यं यत्परं बीजंऽऽ (कालो० १-५) इति तन्त्रान्तरोक्तदृशा सर्वस्य स्वतः स्फुरन् स एष प्राणः प्राणनापरपर्यायो जीवः, स्मृतो गुरुपारम्पर्येणाविच्छेदेनाधीतः | अथ च धूलिभेदानुसारेण हलाकृतिरशेषं विश्वं गर्भीकृत्य कुण्डलिन्याकारः प्रसुप्तभुजगरूपः | स्वप्रवृतः इति स्वयमेव नादामर्शरूपतां निमज्ज्य प्राणात्मकं रूपमाविश्य स्थितः | यतः पारमेशी बोधाख्या शक्तिवीश्वं गर्भीकृत्य परा कुण्डलिका सती विमर्शरूपतया नादात्मवर्णकुण्डलिकात्मना स्फुरित्वान्तनीमज्जितैतत्स्वरूपा प्राणकुण्डलिकात्मतया भातीत्याम्नायः | एवं च व्याख्यातरूपः प्राण एव हंस ऊर्ध्वमधश्च स्वरसेन वहन् हानसमादानधर्मकहकारसकारविमर्शरूपतया स्फुरणात् || २५७ || अथात्रैव वर्णैः कारणत्यागं निर्णेष्यन् वर्णोच्चारं तावन्निरूपयति ---- अकारेण यदा युक्त उकारचरणेन तु | मकारमात्रया युक्तो वर्णोच्चारो भवेत् स्फुटः || ४-२५८ || योऽयं नादात्मनो हंसस्य नित्यप्रवृत्त उच्चारः स एव स्फुटो वर्णोच्चारो भवति, कथमकारेणानच्कहकारस्याभिव्यक्तिहेतुना शिरोरूपेण यदा युक्तस्तदा उकार एवोर्ध्वाधःसञ्चारकत्वाच्चरणरूपस्तेन तथा बिन्द्वादिप्रमेयासूत्रकानुसाररूपमकारमात्रया यदा युक्तः, ईदृशो हि उच्चरन्नसौ सर्वैरुपलभ्यते || २५८ || अथ च ---- बिन्दुः शिरःसमायोगात् सुस्वरत्वं प्रपद्यते | उक्तरूपो वर्णोच्चार एव योगिनां भ्रूमध्येऽकारादिमात्रात्रयस्वीकृतनिःशेषभेद- संपिण्डिताविभागवेदनात्मकबिन्दुरूपतामाश्रित्य शिरः समायोगादिति शिरसि ललाटस्थे प्रशाम्यद्वेद्यप्राधान्येऽर्धचन्द्रे प्रशान्तवेद्यप्रधानतया ऊर्ध्वोन्मुखत्वेन स्पष्टरेखात्मनि, अयोगिनो नादपथप्रवेशरोधकत्वान्निरोधिकासमाख्ये, सम्यगासमन्तात् योगात्तत्तत्पदारोहात् सुस्वरत्वं गुणीकृतवेद्यभेदप्रधानेश्वरपदं समस्तवाचकाविभेदविमर्शप्रधानान्नादनादान्तभूमिं गृह्णातीत्यर्थः || अतश्चेयत्पदमारूढस्य ---- नादोऽस्य वदनं प्रोक्तः.......... यतः प्रोक्तनीत्यानाहतध्वनिपरमार्थोऽयं हंसस्ततो वर्णोच्चारात्मतादशायामपि ललाटमध्ये नाद एवास्यवदनमिव वदनं मुख्यमङ्गम् || युक्तं चैतद्यतः ---- ............वदनं शब्दमीरयेत् || ४-२५९ || नादरूपं वदनं कर्तृ शब्दं नादान्तात्मानमीरयेद् ब्रह्मरन्ध्रतले प्रेरयेत्तद्रूपतया स्फुरेत् || न केवलमेवमयं नादात्मा प्राणः शिरोवदनचरणयुक्तो नदन् हंस इत्युक्तो यावत् ---- अनेनैव च योगेन हंसः पुरुष उच्यते | ब्रह्मविष्ण्वीशमार्गेण चरन् वै सर्वजन्तुषु || ४-२६० || पुरुषः क्षेत्रज्ञोऽनेनैव मध्योर्ध्वमार्गारोहणात्मना योगेन सर्वजन्तुषु हृत्कण्ठभ्रू मध्यललाटमार्गेण प्रसरन्नधरभूमिहानोर्ध्वपदसमादानरूपो हंस उच्यते | वक्ष्यति चाग्रे ---- ऽऽशिवो धर्मेण हंसस्तु सूर्यो हंसः प्रभान्वितः | ऽऽ (७-३९) इत्युपक्रम्य ---- ऽऽआत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः ||ऽऽ (७-३०) इति एतच्च तत्रैव व्याख्यास्यामः || २६० || एवं नादान्तरूपतां गृहीत्वा ---- शक्तितत्त्वे लयं याति................ नादान्तरूपतां प्रशमययानन्दस्पर्शात्मतां ब्रह्मबिले श्रयति || ततोऽपि शिवपदसमाविविक्षावष्टम्भात्मना ---- ................विज्ञानेनोर्ध्वतां व्रजेत् | कथम् ---- व्यापिनीं समनां त्यक्त्वा व्रजेदुन्मनया शिवम् || ४-२६१ || शक्तौ स्पर्शमनुभूयोर्ध्वप्रवेशयुक्त्या व्यापिन्यां त्वक्केशपदे व्याप्तिं लब्ध्वा तदूर्ध्वे शिखाकेशस्थाने सामनसेपदे मन्तव्याभावान्मननमात्ररूपतया स्थित्वा ततोऽप्यूर्ध्वं हंसः शुद्धात्मरूपो मननोल्लङ्घनस्वभावो युगपदशेषविश्वाभेदप्रकाशात्मकोन्मनाशक्त्याश्रयेण शिवं व्रजेच्चिदानन्दघनपरभैरवसमापत्तिं श्रयेत् || २६१ || एवं च ---- शिवतत्त्वगतो हंसो न चरेत्........ शिवाख्यं तत्त्वं परमशिवो न चरेन्न सङ्कोचेन प्रसरेत् || अपि तु ---- ...................व्यापको भवेत् | शिवादिक्षित्यन्ताशेषविश्वात्मना तदुत्तीर्णेन च रूपेण स्फुरेदित्यर्थः || उपसंहरति ---- हंसोच्चारः समाख्यातः कारणैश्च समन्वितः || ४-२६२ || कारणैर्ब्रह्मादिभिः, चकारादकारादिवर्णैर्वस्तुगत्या सम्भवद्भिः सम्यगन्वितो मिश्रितः || इदानीं वर्णैः कारणत्यागं निरूपयति, तत्र ---- हकारः प्राणशक्त्यात्मा.............. प्राणशक्तेरात्मोक्तस्थित्या जीवितरूपः | एतस्य शिरोरेखात्मा ---- ...............ऽकारो ब्रह्मवाचकः | हृदि त्यागो भवेत्तस्य................ वाचकोच्चारणान्त इति यावत् || एवमुत्तरत्र ---- ...............उकारो विष्णुवाचकः || ४-२६३ || कण्ठे त्यागो भवेत्तस्य मकारो रुद्रवाचकः | तालुमध्ये त्यजेत्तं तु................... त्यजेदिति कर्तृप्रत्ययस्तुशब्दश्च रौद्रग्रन्थ्युल्लङ्घनेऽवधातव्यमिति सूचियति | ...............बिन्दुश्चैवेश्वरः स्वयम् || ४-२६४ || अभेदोक्त्याकारादिवदितः प्रभृति न पृथग् वाच्यवाचकतेति दर्शयति | त्यागस्तस्य भ्रुवोर्मध्ये.................. विधीयत इत्युत्तरस्थं संबध्यते | अर्धचन्द्रनिरोधिकान्तास्यैव व्याप्तिः | .............णादे वाच्यः सदाशिवः | तदभेदेन विमृश्येत्यर्थः | ललाटान्मूर्धपर्यन्तं त्यागस्तस्य विधीयते || ४-२६५ || नादस्यैव नादान्तान्ता व्याप्तिवीधीयते योगिभिर्यत्नेन क्रियते || २६५ || अथ याः सूक्ष्मानुभावगम्याः ---- शक्तिव्यापिनीसमनास्तासां वाच्यः शिवोऽव्ययः | सदाशिवापेक्षयायमव्ययः परमशिवापेक्षया तु सव्यय एव || तत्र ---- मूर्धमध्ये त्यजेच्छक्तिं तदूर्ध्वे व्यापिनीं त्यजेत् || ४-२६६ || व्याख्यातस्पर्शानुभूत्यन्ते इत्यर्थमेवं व्याख्यातम् || २६६ || मननमात्ररूपानुभवान्ते ---- समनाम्............. तदूर्ध्वे त्यजेदित्येवम् || एवमियदध्वातिक्रान्त्या प्राप्तशुद्धात्मस्वरूपस्य योगिनः ---- ......उन्मनां त्यक्त्वा षट्त्यागात् सप्तमे लयः | भवतीति शेषः | व्याख्यातरूपोन्मनाशक्त्यनुप्रवेशेन परमशिवीभाव एवोन्मनात्यागः | एवं च षण्णां ब्रह्मविष्णुरुद्रेश्वरसदाशिवशिवाख्यानां कारणानां त्यागाद्विश्रान्तिपूर्वमुल्लङ्घनात् सप्तमे परमशिवे लयः समापत्तिर्भवति || एतदधिकावापेनोपसंहरति ---- सूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत् प्रिये || ४-२६७ || स्थूलस्थूलतरैर्भावैर्नानासिद्धिफलप्रदैः | अवरोहक्रमेण यथोक्तवाच्यवाचकात्मानो भावाः पदार्था ये वक्ष्यमाणयुक्त्या स्थूलस्थूलतरास्तत्तत्सिद्धिप्रदाः स्थितास्तैरेवारोहक्रमेण यथोत्तरं सूक्ष्मसूक्ष्मतरैरुपलक्षितम् | एवमिति सर्वमध्वानम्, एवमित्युक्तयुक्त्यैव त्यजेत्, तैस्त्यज्यमानैरुपलक्षिता ये सूक्ष्मसूक्ष्मतरा आरोहक्रमेण यथोत्तरं त एव, तैः कारणभूतैरेवमिति प्रदशीतनीत्या एवमिति यथोक्तं त्यजेत् | स्थूलानां सिद्धौ सूक्ष्माणां मुक्तौ हेतुत्वमित्यधिकमत्रोपक्षिप्तम् || २६७ || तत्र ---- सूक्ष्मोऽत्यन्तं परो भावस्त्वभावः स विधीयते || ४-२६८ || परो भावः परा सत्ता परमशिवोऽत्यन्तं सूक्ष्मो विज्ञेयं सर्वकारणं चेत्यर्थः | स चाशेषभावप्रक्षयात्मकत्वादभावः || २६८ || न च स एवेदृग् यावत् ---- उन्मना त्वपरो भावः............... परभावापेक्षया स्वात्मविमर्शरूपतया किञ्चिदौन्मुख्यादुन्मना अपरो भावो महासत्तात्मा सूक्ष्मो भावोऽभावश्चेति समन्वयः || ...............ष्थूलस्तस्यापरो मतः | तस्योन्मनाख्यस्य स्वभावस्य यः संबन्धितया व्याप्यव्यापकरूपतया, न तु ततः पृथक्त्वेनापरः समनाख्यस्तदपेक्षया स्थूलोऽकाराद्यपेक्षया तु सोऽपि सूक्ष्म एवान्यथा सूक्ष्मसूक्ष्मतरैरिति बहुवचनं न युज्यते || तस्यापरं पुनः शून्यं................. तस्येति समनात्मनो भावस्यापरं व्यापिनीरूपं शून्यमशेषभावासूत्रणरूपं महाशून्यमित्यर्थः | ऽऽपुनःऽऽशब्देन समनात्मकं तावन्निःशेषभावाभावासूत्रणरूपमेकं शून्यम्, इदं तु सर्वभावाभावाभासनभित्तिकल्पं द्वितीयमित्युक्तम् || अत एव च ---- .............षंस्पर्शं च ततोऽपरम् || २६९ || शक्तिपदमित्यर्थात् || २६९ || ततोऽपि ---- शब्दो....... नादान्तात्मा नादरूपश्च | ततोऽपि ---- .........ज्योतिः......... व्याप्तनिरोधिकार्धंचन्द्रपदो बिन्दुः | ........टतो मन्त्राः कारणा भुवनानि च | मन्त्रा मकारोकाराकारवर्णपरामर्शात्मानो वाचकाः, तद्वाच्या रुद्रोपेन्द्रब्रह्माणः कारणानि तदाश्रयभूतानि च तत्त्वानि भुवनानि च क्रमेणात्यन्तं स्थूलतमानीत्यर्थः | तदाह ---- पञ्चभूतात्मभुवनं कारणैः समधिष्ठितम् || ४-२७० || पञ्च भूम्यादीनि स्थूलसूक्ष्मादिरूपतयात्मा कारणं यस्य भुवनस्य | मायाविद्यादिपदेऽपि हि भुवनानि सन्ति, न च तत्र स्थूलभूतारब्धानि, तेषां च सूक्ष्मभूतारब्ध्यानामपि स्वाधिष्ठातृकारणापेक्षया स्थूलत्वमेव, वस्तुतस्तु एषां भुवनादीनां शिवरूपत्वमेव | यथोक्तमन्यत्र ---- ऽऽभुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च | बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ||ऽऽ इति | आरुरुक्षून् प्रति तु स्थूलस्थूलतरैरित्याद्युक्तम् || २७० || यदुक्तं श्थूला भावाः सिद्धिदाःऽऽ इति, तत्रोक्तक्रमप्रातिलोम्येन सिद्धिभेदं विभज्य दर्शयति ---- भुवनं चिन्तयेद्यस्तु वक्ष्यमाणैकरूपकम् | भुवनेशत्वमाप्नोति............... वक्ष्यमाणमिति भुवनाध्वनि भुवनेशत्वं कालाग्न्यादिरूपत्वम् | यस्तु परो योगित्वादेतद्भुवनं वक्ष्यमाणं विग्रहाद्यपि शिवरूपतयैव पश्यति सः ---- ...........शिवं ध्यात्वा तु तन्मयः || ४-२७१ || शिवस्य च चिदानन्दघनतयैव ध्यानं नत्वाकारेण | अन्येषां तु ---- ब्रह्मादिकारणानां च साधने विग्रहं स्मरन् | पूर्वोक्तलक्षणं यश्च तन्मयत्वमवाप्नुयात् || २७२ || पूर्वमित्यासननिर्णयावसर उक्तम्, यश्चेत्यत्र स इत्यध्याहार्यः || मन्त्रैश्च मन्त्रसिद्धिस्तु जपहोमार्चनाद् भवेत् | आराधितैरिति शेषः || अतश्च जपादिना पूर्वमेव ये साधिता मन्त्रा अङ्गब्रह्माद्याः ---- पूर्वोक्तरूपकध्यानात् सिद्ध्यन्त्यत्र न संशयः || ४-२७३ || एषां पूर्वमेव ध्यानम्, साधनफलं चाग्रे भविष्यति || २७३ || ज्योतिर्ध्यानात्तु योगीन्द्रो योगसिद्धिमवाप्नुयात् | ज्योतिबीन्दु | योगसिद्धिरतीतादिज्ञानम् || योगप्रकर्षात्तु ---- तन्मयत्वं यदाप्नोति योगिनामधिपो भवेत् || ४-२७४ || अधिप इति भगवदीश्वररूपः || २७४ || शब्दध्यानाच्च शब्दात्मा वाङ्मयापूरको भवेत् | शब्दो नादः || स्पर्शध्यानाच्च स्पर्शात्मा जगतः कारणं भवेत् || ४-२७५ || स्पर्श आनन्दात्मा शक्तिगतस्तस्याधस्तनजगत्कारणत्वाज्जगतः कारणमित्युक्तम् || २७५ || व्यापिनीपदे तु ---- शून्यध्यानाच्च शून्यात्मा व्यापी सर्वगतो भवेत् | समनाध्यानयोगेन योगी सर्वज्ञतां व्रजेत् || ४-२७६ || एवं स्थूलस्थूलतरादिभावापेक्षया सिद्धीः प्रतिपाद्य शूक्ष्मोऽत्यन्तं परो भावःऽऽ (४-२६८) इत्यादिप्रतिपादितदृशात्यन्तसूक्ष्मोन्मनापरतत्त्वध्यानं मुक्तिप्रदमित्यादिशति ---- उन्मन्या तु परं सूक्ष्ममभावं भावयेत् सदा | उन्मन्या समवायिन्या शक्त्या सह परं पूर्वोक्तशिवतत्त्वरूपमभावं भावयेत् | अभावं व्याचष्टे ---- सर्वेन्द्रियमनोतीतस्त्वलक्ष्योऽभाव उच्यते || ४-२७७ || सर्वाणीन्द्रियाणि मनश्चातीतोऽतिनिष्क्रान्तः, समनापदादूर्ध्वस्य वेदित्रेकरूपत्वात्, अत एवालक्ष्यः, अतश्च न विद्यन्ते वेद्यादिरूपा भावा यत्रेति व्युत्पत्त्याभाव उच्यते, वस्तुतस्त्वसौ चिदानन्दघन एव || २७७ || ननु यद्ययमीदृशस्तत्कथमुक्तम् ---- ऽऽअभावं भावयेत् सदाऽऽ ? ---- इत्याशङ्क्याह ---- अभावं भाव्यं भावेन भावं कृत्वा निराश्रयम् | न विद्यन्ते भावा यस्मिंस्तदभावरूपं पदम्, भावेन परसत्तात्मना चिन्मयेन रूपेण भाव्यं भावनीयम् | ननु चितत्त्वं भावकं तत्कथं भाव्यमुच्यते ---- भावं कृत्वा निराश्रयमिति | भवतीति भावः सदाशिवादिः क्षित्यन्तः, तं निराश्रयं निरालम्बनं प्रशान्तरूपतया शक्तिधामानुप्रवेशेन तन्मयीकृत्य || इत्थं च ---- सर्वोपाधिविनिर्मुक्तमभावं लभते पदम् || ४-२७८ || उपसंहरति ---- एष ते कारणत्यागः............... कारणत्यागेऽर्थाक्षिप्तं कलात्यागमाह ---- ...............कालत्यागं निबोध मे | स च ---- तुटिषोडशसंयुक्तः प्राणस्तु समुदाहृतः || ४-२७९ || तस्य च ---- तुटिद्वयं समाश्रित्य एकैको भैरवः स्थितः | द्वितीयावरणनिष्ठः कपालीशभैरवादिः || अस्मिंश्च ---- अहोरात्रविभागेन कुर्वन्त्युदयमेव ते || ४-२८० || यथाह्नि प्राणेऽष्टावुद्यन्त्येवं रात्रौ अपानेऽपि || २८० || एषां व्यापकः ---- नवमस्तु परो देवः................ पर इत्यष्टानां पूरको व्यापकः प्रकृष्टश्च श्रीस्वच्छन्दनाथः || एतदीयान्महाप्रकाशात्मनो व्यापकात् ---- ...............टेजसस्तूदयन्ति ते | तद्भित्तावेव स्फुरन्तीत्यर्थः | अतश्च प्राणोदये तदविनाभाविनि बाह्यान्तरनीलसुखादिज्ञाने तद्विकल्पनेऽपि वा परभैरवविकासमया एव महायोगिनो न तु कदाचित् क्वचिदपि खण्ड्यन्ते, प्रत्युत स्वात्मविकासेन सततं मण्ड्यन्ते, इति सरहस्यार्थोऽत्र कटाक्षितः || एवं स्थिते सति ---- सर्वं कालं त्यजेत् प्राणे यथावत् कथयामि ते || ४-२८१ || तत्र ---- तुटयः षोडशैवोक्ताः कालस्य करणं तु ताः | तदादिः संस्थितः कालः सर्वं चरति वाङ्मयम् || ४-२८२ || ऽऽकरणं तु ताःऽऽ इति प्राणारम्भद्वारेण ताभिः सर्वस्य कालस्योत्थापनात् | तदादिरिति ऽऽक्षणद्वयं तुटिः प्रोक्ताऽऽ (११-२०१) इति भाविनीत्या यद्यपि क्षणादिः कालस्तथापि ऽऽमानुषाक्षिनिमेषस्याष्टमोंऽशः क्षणः |ऽऽ (११-२०१) इति भाविवाक्येनैव लक्ष्यस्यानुमेयत्वमुक्तमिति न तस्य सावधानैरपि तुटिवत् स्फुटसंवेद्यत्वमित्येवमुक्तम् सर्वं चरति वाङ्मयमिति | प्राणोच्चारोच्चरन्मातृकाव्याप्तिद्वारेण समस्तवाचकराशिं तद्द्वारेण च वा(च्यान्य१)पि व्याप्नोति || २८२ || तदादिरित्युक्तं विभजति ---- तुटिर्लवो निमेषश्च काष्ठा चैव कला तथा | मुहूर्तश्चाप्यहोरात्रः पक्षो मास ऋतुस्तथा || ४-२८३ || अयनं वत्सरश्चैव युगं मन्वन्तरं तथा | कल्पश्चैव महाकल्पः............. तुट्यादयः षोडश इति, वक्ष्यमाणौ च द्वौ एकादशपटले निर्णेष्यन्ते | ऽऽमहाकल्पस्य पर्यन्ते ब्रह्मा याति परं लयम् |ऽऽ (११-२६४) इति | एषोऽत्र महाकल्पो न ग्राह्योऽसङ्गतेः, अपि तु सदाशिवजीवितावध्यात्मा परममहाकल्पः || यदाह ---- .........शक्त्यन्ते तं परित्यजेत् || ४-२८४ || शक्त्यन्तर्भावानुप्रवेशान्ते सूक्ष्मदृशा सदाशिवान्तकारणपञ्चकोपसंहारी कालः प्रशाम्यतीत्यर्थः || २८४ || अथ ---- व्यापिन्यन्ते परः कालः स तदङ्गी....... स परममहाकल्पोऽङ्गमवयवः तेनाङ्गी पर इति साम्याख्यः | यद्वक्ष्यति ---- श कालः साम्यसंज्ञो वैऽऽ (११-२०९) इति || .........ट्यजेत्तु तम् | तं च समनानुभवदशायां परित्यजेत् || पूर्वप्रकारापेक्षया च ---- स च सप्तदशो ज्ञेयः........... ततोऽपि ---- ..............परार्धः परतः स्थितिः || ४-२८५ || सोऽपि चाष्टादशो देवि समनान्ते तु तं त्यजेत् | समनानुभवपर्यन्ते उन्मनान्तर्भावे त्यजेत् प्रशमयेत् || २८५ || एवमेकप्राणोच्चारेणैव बहिवीततमपि परार्धान्तं कालं गुरुप्रवरः प्रशमयय अकालकलिते पदे स्थितिं बध्नीयात् | तदाह ---- सर्वकालं तु कालस्य व्यापकः परमोऽव्ययः || ४-२८६ || उन्मन्यन्ते परे योज्यो न कालस्तत्र विद्यते | कालस्येति परार्धान्तस्य, सर्वकालं नित्योदितत्वेन व्यापकः, अत एव परमोऽव्ययश्च, उन्मन्यन्ते परे शक्तिशक्तिमदनुभवावेशे योज्यः सामरस्येन प्रत्यभिज्ञेयः | तत्र च कलनात्मा कालो नास्ति, तस्यैव विश्वकलनाकारित्वान्न तं कश्चित् कलयतीत्यर्थः || २८६ || अत एवासौ ---- नित्यो नित्योदितो व्यापी.............. नित्योदित इति न केनचिदाच्छादितः इत्यर्थः || तं च सर्वोपरिवतीत्वात् ---- .............आदिरूपं न संत्यजेत् || ४-२८७ || तमेव दृढावष्टम्भयुक्त्या श्रयेत् || एवं च सति ---- तं च नित्योदितं प्राप्य तन्मयो जायते सदा | योगीन्द्र इति शेषः | एवं च कारणत्यागानन्तरीयकः कालत्यागो निर्णीत इत्याह ---- कालत्यागो भवेदेवं............. उद्देशक्रमायातः ---- ...............शून्यभावस्त्वथेच्यते || ४-२८८ || शून्यो रूपो भावः पदार्थः, परशून्यपदप्राप्त्युपायभूत इत्यर्थः || २८८ || तमाह ---- ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तृतीयकम् | ऽऽचतुर्थं व्यापिनीशून्यंऽऽ (४-२९०) इति वक्ष्यमाणत्वाद् ऊर्ध्वशून्यमत्र नादान्तान्तनिःशेषपाशप्रशमभूः शक्तिपदम्, अधःशून्यमनुल्लसितप्रपञ्चं हृत्क्षेत्रम्, मध्यशून्यं तु क्रमेणाधस्तनप्रमेयप्रशमात्मकं कण्ठतालुभ्रूमध्यललाटमूर्धरन्ध्रात्मकम् | इत्थं च ---- शून्यत्रयं चलं ह्येतत्तदधो मध्य ऊर्ध्वतः || ४-२८९ || तदेतत् क्रमेणाधो मध्य ऊर्ध्वतः स्थितं शून्यत्रयमापेक्षिकत्वाद्धेयमित्यर्थः || २८९ || किं च ---- चतुर्थं व्यापिनीशून्यं समनायां च पञ्चमम् | उन्मनायां तथा षष्ठं.......... अत्राप्यापेक्षिकत्वाच्चलं ह्येतदिति योज्यम् | अतश्च ---- ..........षडेते सामयाः स्थिताः || ४-२९० || आमयपदेनात्र हेयत्वमुपलक्ष्यते, तेन चलत्वाद् एते हेया इत्यर्थः | उन्मनाया अपि परतत्त्वापेक्षया किंचिच्चलत्वमस्ति | परतत्त्वस्यैव तु अविचलत्वादुपादेयत्वम् || २९० || अत एवैते ---- तत्त्वेनाधिष्ठिताः सर्वे सामया अपि सिद्धिदाः | तत्त्वं परमशिवः अधिष्ठितिर्व्याप्तिः | सिद्धिरत्र परयोगिनः पूर्णानन्दघनात्मैव, इतरस्य तु तत्तत्स्वप्नपदोचिता || अत एव ---- षट् शून्यानि परित्यज्य सप्तमे तु लयं कुरु || ४-२९१ || यतः ---- तच्छून्यं तु परं सूक्ष्मं सर्वावस्थाविवजीतम् | परं सूक्ष्ममिति निर्णीतं प्राक् | उन्मनाया अपि ---- ऽऽशैवी मुखमिहोच्यते |ऽऽ (वि०भै० २०) इति न्यायात् परमपदप्रविविक्षु (र्योग्या ? क्षुयोग्याशयेन ---- ) परमत्त्वानुप्रवेशोपायत्वाद् अवस्थात्वमस्तीति कृत्वा सर्वावस्थाविवजीतमवस्थात्रयैकरूपं परमेवतत्त्वम् || एवं चेत् कथं शून्यम् ? ---- इत्याह ---- अशून्यं शून्यमित्युक्तं शून्यं चाभाव उच्यते || ४-२९२ || अभावः स समुद्दष्टो यत्र भावाः क्षयं गताः | यदेतच्छून्यमित्युक्तम्, तद्वस्तुतोऽशून्यं चिदानन्दघनपरमशिवतत्त्वम् | अत्र हेतुः शून्यमिति | चो ह्यर्थे | यस्मात् शून्यमभाव उच्यते, अभावश्च न विद्यते भावः सर्वः प्रमेयादिप्रपञ्चो यत्रेति व्युत्पत्त्या इह चित्तत्त्वमेवो(प)दिष्टम्, तस्मादशून्यमेव शून्यमिति युक्तमुक्तम् || अत एव तत् ---- सत्तामात्रं............ महासत्तारूपम्, प्रकाशात्मैव हि सर्वेषां भावाभावानां सत्ता || निःशेषभेदप्रशमात्तु ---- ............परं शान्तं तत्पदं किमपि स्थितम् || ४-२९३ || लोकोत्तरमित्यर्थः || २९३ || न च विश्वोत्तीर्णरूपमेव एतद्यावद्विश्वमयमपीत्याह ---- यत्र यत्र च नादादिस्थूला अन्येऽपि संस्थिताः | तत्र तत्र परं शून्यं सर्वं व्याप्य व्यवस्थितम् || ४-२९४ || नाद आदिर्येषां बिन्द्वादीनाम्, नादस्य चादयः शक्तिव्यापिन्याद्या यत्र यत्र ललाटादिक्षेत्रे, अन्येऽपि स्थूलाः नादादिवाच्याः सदाशिवाद्यास्तदधिष्ठिताश्च तत्तत्तत्त्वभुवनादयो यत्रान्तर्बहिर्वा संस्थिताः, तत्र सर्वत्र परं सत्तामात्ररूपं शून्यं सर्वमिदं शर्करारसवत् तिलशोंऽशमंशं व्याप्य विचित्रेण रूपेणावस्थितम् || २९४ || व्यापकमेव च व्याप्यात्मतया स्फुरति, न तु व्याप्यं नामान्यदित्याह --- - तदेव भवति स्थूलं स्थूलोपाधिवशात् प्रिये | महाप्रकाशात्मा श्रीस्वतन्त्रनाथः स्वस्वातन्त्र्येणैव यतः स्थूलाभासतया स्फुरति, ततस्तदुपाधिवशात् स्थूलमुच्यत इत्यर्थः || इत्थं च ---- स्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम् || ४-२९५ || अत एव यस्येयतीं धारामारूढा संविन्महायोगिनः स ---- तत्प्राप्य तन्मयत्वं च लभते नात्र संशयः | प्राप्येति दृढप्रतिपत्त्यावलम्ब्य | न संशयः इति तत्त्वमेवैतन्मन्तव्यं न तु जडजनसुलभः संशयोऽत्र कार्यः | यस्त्वियति रहस्येऽर्थे न समाश्वस्तस्तदपेक्षया कारणत्यागाद्युक्तम् || शून्यमुपसंहृत्यैतदुचितानुक्रमं समरसमवतारयति ---- शून्यभावः समाख्यातः सामरस्यं निबोध मे || ४-२९६ || समो रसो यस्मिन् स समरसो लोलीभावः || २९६ || तद्भेदानुद्दशति ---- आत्मन्येकः समरसो मन्त्रे ज्ञेयो द्वितीयकः | तृतीयं नाडिगं कुर्याच्छक्तौ कुर्याच्चतुर्थकम् || ४-२९७ || व्यापिन्यां पञ्चमं प्रोक्तं समनायां तु षष्ठकम् | तात्त्वः समरसो देवि सप्तमस्तु विधीयते || ४-२९८ || एतान्यथोद्देशं लक्ष्यति ---- शिष्यात्मानं तु संगृह्य पूर्वोक्तविधिना क्रमात् | पश्चादात्मनि संयोज्य लोलीभूतं विचिन्तयेत् || ४-२९९ || आत्मानं पुर्यष्टकसंविदं, पूर्वोक्तविधिनेति ताडनच्छेदनादिपूर्वम्, आत्मनि चैतन्यमात्रे संयोज्याविकल्पं विमृश्य तद्विश्रान्त्यैव समरसीकुर्यात् || २९९ || अत्रैवेतिकर्तव्यतांशं पूरयन्नाडिमन्त्रसामरस्ये निदीशति, तत्र शिष्यात्मनो ग्रहणार्थम् ---- पूरकं कुम्भकं कृत्वा समानेन निरोधयेत् | कुम्भकप्रकर्षाल्लब्धबलेन समानेन निरोधयेदित्याक्रामेदर्थात् सर्वनाडीः || यदाह ---- यावत्यो नाडयो देवि तिर्यगूर्ध्वमधःस्थिताः || ४-३०० || समानेन समाकृष्टा एकीभूता भवन्ति ताः | तदित्थं कुम्भकप्रकर्षेऽवस्थितस्य ---- तासु ये वायवस्तेऽपि प्राणे समरसीगताः || ४-३०१ || नाड्यस्तु सुषुम्नायामेकीभूता व्यवस्थिताः | भवन्तीति शेषः || ३०१ || इत्थं नाडिसामरस्यपूर्वं मन्त्रसामरस्यं भवति | तदाह ---- ततो वै उच्चरेन्मन्त्रः.......... उदित्यूर्ध्वमवहितस्य, चरेत् स्वयमेव प्रसरेत् || उच्चरन्तं च तं सादाख्ये पदेऽव्यक्तध्वन्यात्मनि ---- ...........णादे लीनं विचिन्तयेत् || ४-३०२ || उपसंहरति ---- मन्त्र आत्मा तथा नाडी एवं समरसीभवेत् | वामदक्षिणमध्ये तु.............. युगपदेवेत्थं मन्त्रादिसामरस्ये वृत्ते ---- .............टतो नादं प्रमोचयेत् || ४-३०३ || सेतुबन्धं च तं मार्गं यत्र गत्वा न जायते | शक्तिव्यापिनीसमनोन्मनारूपसेतुबन्धात्मकं मार्गं सर्वाध्वपारवतीशिवपदप्रापकं पन्थानं नादं मोचयेद् गमयेत् | तद्गतौ च सत्यां न संसरति | मुचेर्गत्यर्थविवक्षया द्विकर्मता || अत्र च कारणसामरस्यमर्थसिद्धमित्याह ---- ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च || ४-३०४ || एतेऽत्र समतां यान्ति............. यदा त्वकारोकाराद्युच्चारैर्हृत्कण्ठादौ विश्रान्तिस्तदा ---- ..........ऽन्यथा तु पृथक् पृथक् | समनन्तरोक्तसेतुगतौ सामरस्यान्तराणि स्थितानि लक्षयति ---- तस्मिन् समुच्चरेन्नादं यावच्छक्तौ लयं गतः || ४-३०५ || शक्तिमध्यगतो नादः शक्त्यात्मा तु विधीयते | सर्वं शक्तिमयं तत्र सर्वं समरसीभवेत् || ४-३०६ || तस्मिन्निति पूर्वोक्ते सेतुबन्धे, सर्वमिति नादे समरसीभूतमात्ममन्त्रनाडिकारणरूपम् || तदेतच्छक्त्यैक्यमाप्य ---- तदूर्ध्वं व्यापिनीं प्राप्य सर्वं तन्मयतां व्रजेत् | सर्वं प्राप्तव्यापिन्यभेदम् || समन्ताद् व्याप्नुयाद्यस्माद् व्यापिनीत्यभिधीयते || ४-३०७ || ततश्च ---- तदूर्ध्वं समनां व्याप्य तन्मयत्वं व्रजेत् पुनः | तत्र च ---- सा च सर्वगता ज्ञेया सामरस्येन संस्थिता || ४-३०८ || चशब्द एवार्थे, सैव तत्र सर्वगता, शर्वावबोद्धव्याऽऽ इत्यर्थः | गमिरत्र ज्ञानार्थः || ३०८ || तदित्थम् ---- षष्ठं समरसं त्यक्त्वा सप्तमं तु ततो व्रजेत् | उन्मनाशक्त्यनुप्रवेशेन प्राप्नुयात् || तं प्राप्य तन्मयत्वं हि नात्र कार्या विचारणा || ४-३०९ || यश्चेत्थं प्राप्तपरसामरस्यः ---- स च सर्वेषु भूतेषु भावतत्त्वेन्द्रियेषु च | स्थावरं जङ्गमं चैव चेतनाचेतनस्थितम् || ४-३१० || अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः | स चेति स एव स्थावरमचेतनं जङ्गमं सचेतनं चेति संक्षेपेण द्विधा स्थितं षडविधमध्वानं व्याप्य तदन्तर्वतीषु सर्वेष्विति देवयोन्यादिषु चतुर्दशसु भूतेषु भावेषु धर्मादिषु घटादिषु च तत्त्वेषु पृथिव्यादिषु भोगसाधनेषु चेन्द्रियेषु सामरस्येन स्थितः सर्वास्ववस्थासु अविलुप्तपरभैरवसमापत्तिः | एषैव च निर्व्युत्थानसमाध्यात्मा महारहस्यभूता || अध्यासितसमाधिषु तु ---- प्रसह्य चञ्चलीत्येव योगिनामपि यन्मनः || ४-३११ || कुटिलं चलति भोगाभिलाषेण व्युत्थानमेव धावति, नाभीष्टं पदमवष्ट(भ्ना)ति, यदिति यस्मादेवम् || ३११ || ततः ---- यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः | मनो न चलते तस्य सर्वावस्थागतस्य तु || ४-३१२ || ज्ञेयं च यथा व्याख्यातं परतत्त्वम्, भाव आशयः, स्थिरो निश्चलः, पूर्णो निराकाङ्क्षः, समन्ततः सर्वंसवीकया, ऽऽतुःऽऽ अप्यर्थे || ३१२ || ईदृशस्य महायोगिनः ---- यत्र यत्र मनो याति ज्ञेयं तत्रैव चिन्तयेत् | चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः || ४-३१३ || मन एव परतत्त्वैक्यभावनावासितं कर्तृ यथोक्तं ज्ञेयं सर्वत्र चिन्तयत्येव | तदुक्तं महागुरुभिः ---- ऽऽशिवभावनयौषध्या बद्धे मनसि संसृतेः | काष्ठकुड्यादिषु क्षिप्ते रसवच्छिवहेमता ||ऽऽ (शि०दृ० ७-४८) इति || ३१३ || एतदेव द्रढयति ---- विषयेषु च सर्वेषु इन्द्रियार्थेषु च स्थितः | यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् || ४-३१४ || इन्द्रियाणि चार्थश्चैन्द्रियकं प्रयोजनं विषयोपभोगस्तेषु स्थितो योगिवरो यो निरूप्येत विचार्येत, तत्र कुत्रापि नास्याशिवमस्ति, सर्वस्यास्य प्रकाशमानतया प्रकाशघनशिवैकात्म्यात् || ३१४ || एवं समरसं ज्ञात्वा नासौ मुह्येत् कदाचन | मितयोगिनो व्युत्थाने मुह्यन्त्येवेति ऽऽकदाचनऽऽ पदस्याशयः || अतश्च ---- यस्यैवं सर्वतो भावः सोऽपि सर्वगतो भवेत् || ४-३१५ || शिवस्तावत् सर्वगत इति नास्त्यत्र विमतिः, यस्य त्वेवं शिवैक्येन भाव आशयः सर्वगतः, सोऽपि सर्वगतो भवेद् महाव्याप्तिमनुभवत्येव || एतदुपसंहृत्य एतत्पूर्वकक्ष्याभावि अनुद्दष्टमपि विषुवत्स्वरूपं निरूपयति ---- एवं समरसः प्रोक्तो विषुवत्तु निबोध मे | तद्विभजति ---- प्रथमं प्राणविषुवन्मान्त्रं ज्ञेयं द्वितीयकम् || ४-३१६ || तृतीयं नाडिविषुवत् प्रशान्तं च चतुर्थकम् | पञ्चमं शक्तिविषुवत् षष्ठं वै काल उच्यते || ४-३१७ || सप्तमं तत्त्वविषुवत्............ विषं साम्यरूपां व्याप्तिमर्हतीति विषुवत् || एवं विभक्तस्यास्य ---- ..............प्रविभागस्त्वथोच्यते | प्रकर्षेण विभज्यतेऽन्यपरिहारेण व्यवस्थाप्यते वस्तु येन स प्रविभागो लक्षणम् | तत्र ---- आत्मानं च मनः प्राणे संयोज्य विषुवद् भवेत् || ४-३१८ || शिष्यसत्कमात्मानमात्मीयं च मनः प्राणे मध्यवाहिनि सम्यगित्युक्तवक्ष्यमाणकरणयुक्त्या योजयित्वा प्राणविषुवद् भवति || ३१८ || एवम् ---- प्राणे विषुवदाख्यातं............... अथ ---- ...............ंआन्त्रं विषुवदुच्यते | मन्त्रमुच्चारयेत्तावद्यावन्नान्यमना भवेत् || ४-३१९ || परापरविभागेन मन्त्रात्मा तु तदुच्यते | मन्त्रं श्रीनिष्कलं, परापरेति नादान्तमपरम् उन्मनान्तं तु परम् || मान्त्रं विषुवदित्युक्तं............. मन्त्रोच्चाराश्रयो नाडिरतः ............णाडिस्थं तन्निबोध मे || ४-३२० || सर्वासामेव नाडीनां मध्ये या संव्यवस्थिता | सुषुम्ना नाम सा ज्ञेयाभेः शक्त्या शिवं गता || ४-३२१ || आ नाभेः नाभेरारभ्य, शक्त्या शक्त्यनुभवानुप्रवेशेन, शिवं गता परं तत्त्वं प्राप्ता || एवं स्थिते ---- तत्र प्रवाहयेन्नादम्............... नादमव्यक्तध्वनिरूपम्, प्रकर्षेण वाहयेदकारादिसंयोगेन उर्ध्वं प्रापयेत् || तदेतत् सर्वनाडीसाम्यात्मकम् ---- ..............णाडीविषुवदुच्यते | उच्यते, उक्तमित्यर्थः || क्रमप्राप्तं तु प्रशान्तं विषुवच्चैवमधुना कथयामि ते || ४-३२२ || तदाह ---- अयने षडङ्गुलश्चारः कारणान्यङ्गुलेऽङ्गुले | तान्यधस्तात् परित्यज्य कारणानि षडेव तु || ४-३२३ || सप्तमे तु प्रशान्तं वै प्रशान्तेन्द्रियगोचरम् | विषुवदिति शेषः | षट्त्रिंशदङ्गुले चारे कालाधिकारस्थित्या हृदयात् प्रभृति मकरादिराशिसञ्चाररूपेषु अयनेषु प्रत्येकं षडङ्गुलश्चारः, तत्र च प्रतिषट्कं षटकारणान्यङ्गुलेऽङ्गुले इति षष्ठे षष्ठे इति यावत् | एवं यानि प्रपञ्चव्याप्त्या षट्कारणानि अधस्तात् स्थितानि, तानि त्यक्त्वा सप्तमे परमकारणे कारणानां साम्यावस्थितिरूपात् प्रशमात् प्रशान्तविषुवद् भवतीति विशेषः || प्रशान्तं व्याचष्टे ---- प्रशान्तः स्तिमितो ज्ञेयः स्तिमितो निश्चलः स्मृतः || ४-३२४ || निश्चलो निस्तरङ्गश्च स्थिरः पूर्णः समन्ततः | भेदतरङ्गशान्त्या चिद्घनतैव प्रशान्त इति निस्तरङ्गपूर्णपदाशयः || एवं भावं समास्थाय दीक्षा कार्या तु दैशिकैः || ४-३२५ || प्रशान्तविषुवति विश्रम्येत्यर्थः | एतत्प्रशान्तविषुवत्................ अथ ---- .............शक्त्युपाधिं निबोध मे | शक्तिमध्यगतो नादो नादोर्ध्वं च चरेद्यदा || ४-३२६ || तावत्तु शक्तिविषुवत्................ शक्तिमध्यगतो मध्यधामारूढः | नादोऽव्यक्तध्वनिः, नादात् सदाशिवपदादूर्ध्वं शक्तिस्थानं यदा चरेत्, यदा मध्यस्थस्तदा शक्तिविषुवत् || ............कालाख्यं तु निबोध मे | तदर्थमाह ---- तुटिः षोडाशिका या तु प्राणान्ते संव्यवस्थिता || ४-३२७ || कालो भ्रूक्षेपमात्रस्तु तत्रान्ते कीतीतो मया | तं परापरभागेन पुनरेव त्रिधा कुरु || ३२८ || प्राणस्यान्ते या षोडशी तुटिः, तत्र तस्यामन्तेऽर्धतुटिरूपे, भ्रूक्षेपमात्रोऽत्यन्तसूक्ष्मसाष्टभागाङ्गुलचारसञ्चारात्मा यः कालः, तमेकं त्रिधा अपरेण परेण परापरेण च भागेन कुरु, तुटेरर्धीकृतायाः त्रिधा विभजनमिति ऽऽपुनःऽऽ शब्दार्थः || ३२८ || तत्र ---- अपरः षोडशो यावत्............. षोडशः पूर्वोक्तो महाकल्पाख्यो यावदपरः स्थूलः || ..............कालः सप्तदशः परः | पराख्ययैव पूवं निदीष्टः || परापरस्तु यः कालः स प्रियेऽष्टादशः प्रभुः || ४-३२९ || परापर इति परादपि परः, अष्टादशः परार्धाख्यः प्रभुः सर्वकालावयवव्यापी || ३२९ || तदित्थम् ---- प्राण एवं त्रिधा कालं कृत्वा चैव त्यजेत् पुनः | प्रा(णे) प्राणीयोर्ध्वतुट्यर्धे पूर्वं वर्णैः कारणत्यागावसरेऽनुनिष्पादितयाष्टादशावयवकलात्यागो मन्त्रोच्चारयुक्त्योक्तः | इदानीं तु योगक्रमेण प्राणचारस्थित्या सप्तदशावयवं कालं यत्नेन त्यक्त्वाष्टादशे कालविषुवति विश्रमितव्यमिति ऽऽपुनःऽऽ शब्दार्थः || त्रिधा विभक्तस्य कालस्य पूर्वोक्तं स्थानविभागं स्मारयति ---- अपरः शक्तिमूर्धस्थो व्यापिन्यां च द्वितीयकः || ४-३३० || तृतीयः समनास्थाने तत्कालविषुवत् स्मृतम् | यस्तृतीयस्तत्कालविषुवदिति संबन्धः | तदूर्ध्वं हि ---- ङ कालस्तत्र विद्यतेऽऽ (४-२८७) इत्युक्तम् || ३३० || तदित्थम् ---- एतत्षष्ठं समाख्यातं.............. अथ ---- ................षप्तमं तात्त्वमुच्यते || ४-३३१ || तदाह ---- उन्मना परतो देवि तत्रात्मानं नियोजयेत् | तस्मिन् युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते || ४-३३२ || परत इति समनायाः, य एवात्मन उन्मनायोगः || ३३२ || तदेव ---- तत्त्वाख्यं विषुवद् देवि सर्वेषां परतः स्थितम् | उपसंहरति ---- विषुवदेवंविधं ज्ञात्वा को न मुच्येत बन्धनात् || ४-३३३ || विषुवत्ते समाख्यातं............... इदानीं परम्पराविनाभूतान् पञ्चपदार्थांल्लङ्घयितुमुद्दशति ---- .................पदार्थभेदनं शृणु | त्यागं चानुभवं चैव योजनं च परे पदे || ४-३३४ || पदानि वक्ष्यमाणप्रमाणकानि हृदादिस्थानानि, तत्र तत्तत्कारणानुभवकारित्वेनार्थ्यन्त इति पदार्था अकारादिसमनान्ता एकादश तेषामेव भेदनमनुभवयुक्त्या स्ववशीकरणम्, यथा ऽऽभेदिता माण्डलिका भूभुजःऽऽ इति | अत्र चावश्यमधराधरत्यागे सति उत्तरोत्तरपदार्थानामनुभवोऽस्ति, स एव च पूर्वं सम्यग्योगरूपः संयोग इत्युद्दष्टः, भेदनपर्यन्ते च परे पदे योजनमवश्यंभावि, तच्च पूर्वं सर्वोर्ध्वभावनात्मत्वात् पदेनोद्दष्टम् || तत्र ---- पदार्थैकादशी ज्ञेया............ या च पूर्वं निर्णीता | तत ऊर्ध्वं तु ---- .............उन्मनान्तः परो भवेत् | पदार्थ इत्यर्थः || अतस्तत्रावस्थितये तां पदार्थैकादशीम् ---- भेदयेज्ज्ञानशूलेन............. समनन्तरनिर्णेष्यमाणपरशक्तिस्फारप्रकाशरूपं यज्ज्ञानं तदेव समरसीभूतेच्छादिशक्तित्रयसंवृता(रा) रूपतोन्मीलितातितैक्ष्ण्येन भेदकत्वात् शूलम् || न केवलमेतद्भेदकं यावत् ---- ..............ज्ञानं ज्ञेयस्य ज्ञापकम् || ४-३३५ || ज्ञेयमिह परं तत्त्वम् || अत एवास्य ---- ज्ञापकं बोधमतुलं.............. परशक्तिप्रथात्मकं न तु विषयानुभवरूपं बोधमिति (स्थिति? द्वितीया ---- ) निर्देशश्छान्दसः || अत्र हेतुः ---- ................डीपवद्द्योतनं यतः | एतत् स्फुटयन् ज्ञानौपयिकं ज्ञेये विश्राम्येदित्याह ---- दीपहस्तो यथा कश्चिद् द्रव्यमालोक्य चाहरेत् || ४-३३६ || एवं ज्ञानेन च ज्ञेयं तस्मिन् कुर्यात्तु संस्थितिम् | दीपज्ञानयोरंशमात्रेण दृष्टान्तदार्ष्टान्तिकभावः || न तु दीपवद् ज्ञानं ज्ञेयाद्भिन्नमित्याह ---- ज्ञानं वै लक्षणं प्रोक्तं ज्ञेयतत्त्वस्य सुव्रते || ४-३३७ || न च कमण्डलुनेव छात्रो ज्ञानेन परं तत्त्वं लक्ष्यते इत्याह ---- लक्षणं गुण आख्यातः........... असाधारणस्तत्त्वव्यवस्थापको हि धर्मो लक्षणम् || अत एव तत् ---- ...............कला तत्त्वस्य सर्वदा | तत्त्वस्य प्रत्यभिज्ञेयस्य परमशिवस्य सर्वं ददाति द्यति चेति व्युत्पत्त्या विश्वसर्गसंहारकारिणी स्वातन्त्र्याख्या सर्वदा च नित्यावियुक्ता कला शक्तिरेव लक्षणम् | उक्तं च श्रीविज्ञानभैरवे -- -- ऽऽयथालोकेन दीपस्य किरणैर्भास्करस्य वा | ज्ञायते दिग्विभागादि तद्वच्छक्त्या शिवः श्रितः(प्रिये) ||ऽऽ (वि०भै० २१) इति || एतादृक्छक्त्यात्मना ---- न गुणेन विना तत्त्वं न तत्त्वेन विना गुणः || ४-३३८ || शिवशक्त्योनीत्यलोलीभाव इत्यर्थः || एवमपि ---- गुणं गृह्णन्ति सर्वत्र न तत्त्वं गृह्यते क्वचित् | धर्ममुखेनैव शिवो धर्मी प्रथते विशेषतः परमशिवात्मा, तस्मिन् विश्वनिर्भरे शक्त्युपायं विना स्वतोऽनुप्रवेशायोगात् || युक्तं चैतदित्याह ---- गृह्यते ह्यनुमानेन प्रत्यक्षानुभवेन च || ४-३३९ || अथीप्रत्यथीभावेन आगमेन तु लभ्यते | तत्त्वादेवीश्वस्य संनिवेशविशेषवत्त्वात् तत्तत्कर्तुरनुमानं तावद्विश्वज्ञत्वकर्तृत्वमुखेनैव, प्रत्यक्षानुभवोऽपि योगिनां प्रोक्तशक्तिद्वारक एव | यथोक्तम् ---- ऽऽतदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणःऽऽ (स्प० १०) इति | अर्थी प्रष्टा, प्रत्यर्थी संशयच्छेदको वक्ता, तयोर्भावोऽनुग्राह्यानुग्राहकत्वात्मा, तेन यः प्रवृत्त आगमस्तेनापि शब्दनरूपेण नियतशक्तिद्वारकमेव तत्तत्त्वं लभ्यते || उक्तयोगिप्रत्यक्षैकयोगक्षेमतामागमस्य कथयति ---- आगमो ज्ञानमित्युक्तमनन्ताः शास्त्रकोटयः || ४-३४० || अनन्ताः शास्त्रकोटयो यः पारमेश्वर आगमस्तज्ज्ञानं परशक्तिस्फाररूपमित्युक्तम् | आ समन्ताद् गमयति अभेदेन विमृशति पारमेशं स्वरूपमिति कृत्वा परशक्तिरेवागमस्तत्प्रतिपादकस्तु शब्दसंदर्भस्तदुपायत्वात् शास्त्रस्य || ३४० || कथं परशक्त्यात्मत्वमित्याह ---- शास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीतीतः | यत् किंचित् क्वचिच्छासनाच्छास्त्रं तच्छब्दात्मकं पञ्चाशद्वर्णशब्दराशिसतत्त्वं, शब्दराशिश्च हंसोच्चारात्मा, हंसोच्चारश्च परशक्त्यनुभवस्फारसार इति || निर्णीतमेतदित्याह ---- हंसयोगः पुराख्यातः.............. तेन सर्वप्रमाणानां शक्तिविषयत्वात् शक्तिमद्रूपमप्रमेयमेवेति युक्तमुक्तं ऽऽगुणं गृह्णन्ति सर्वत्रऽऽ इति सङ्गतिः | ऽऽभेदयेत् ज्ञानशूलेन (४-३३५)ऽऽ इत्युपक्रम्य ऽऽभेदयेन्मन्त्रशूलेन (४-३५७)ऽऽ इति ---- प्रतिपादयिष्यति | अतो ज्ञानसतत्त्वं वर्णमन्त्रोच्चारकालम्, तेन च वाच्यवाचकयोर्वर्णदेवतयोः संबन्धम् तद्वाच्यदेवताश्रयहृदयादिस्थानपरिमाणं च वक्तुमासूत्रयति ---- .........ंआत्रासंख्या त्वथोच्यते || ४-३४१ || मात्रायोगो यथा चास्य प्रमाणं हृदयादिषु | मात्रा अकारादिवर्णोच्चारकालः | अस्येति भेदकस्य | मन्त्रोच्चारात्मनो हंसोच्चारस्य यथा मात्राभिर्योगो यथा चोच्चारणास्पदानां हृदानीनां प्रमाणं तत्सर्वमुच्यत इत्यर्थः | तत्र प्रमाणं तावदाह ---- नाभेरूर्ध्वं वितस्त्यन्ते कण्ठाधस्तात् षडङ्गुले || ४-३४२ || हृदयं मध्यदेशे तु चतुरङ्गुलसंमितम् | वितस्तिः द्वादशाङ्गुलानि तदन्ते, कण्ठाधस्तात् षडङ्गुले अवधिभूते क्षेत्रद्वये यो मध्यदेशस्तत्र चतुरङ्गुलो हृद्ग्रन्थिः इति संबन्धः || अत्राधिष्ठातारमाह ---- चतुवींशतितत्त्वैस्तु ब्रह्मा तत्र व्यवस्थितः || ४-३४३ || सहार्थे तृतीया, प्रकृत्यन्तमधिष्ठाय ब्रह्मात्र स्थित इत्यर्थः || तदूर्ध्वम् ---- कण्ठमष्टाङ्गुलं विद्धि विष्णुस्तत्र व्यवस्थितः | तत्त्वषट्केन संयुक्तः............... पुमादिकलान्ते || .............टदूर्ध्वं चतुरङ्गुलम् || ४-३४४ || तत्र च ---- मायातत्त्वं समाश्रित्य रुद्रस्तालुतले स्थितः | तदूर्ध्वम् ---- अङ्गुलद्वयमानं तु भ्रुवोर्मध्यं प्रकीतीतम् || ४-३४५ || तत्रेश्वरः स्थितो देवि तत्त्वद्वयसमन्वितः | तत्त्वद्वयं शुद्धविद्येश्वराख्यम् | ततोऽपि ---- एकादशाङ्गुले चैवमूर्ध्वं देवः सदाशिवः || ४-३४६ || तत्त्वद्वयसमायुक्तो यावद् ब्रह्मबिलं गतः | सदाशिवतत्त्वशक्तितत्त्वाभ्यां युक्तः | एवं च वदन् अर्धचन्द्रादिनादान्ते श्रीसदाशिवोऽधिष्ठाता इति शिक्षयति, तत्त्वव्यवस्थया तु निरोध्यन्तमीश्वरतत्त्वस्य नादान्तान्तं सदाशिवतत्त्वस्येति वक्ष्यमाणनीत्या तत्त्वव्याप्तेरन्यैवेयमीश्वरसदाशिवाख्यदेवताव्याप्तिः || तदूर्ध्वैकाङ्गुलाशक्तिः............ शक्तिर्ग्रन्थिस्थानमित्यर्थः | ...........शिवस्तत्र व्यवस्थितः || ४-३४७ || अनाश्रिताख्यः || ३४७ || अत्रैव चाङ्गुले ---- त्वक्शेषे व्यापिनी प्रोक्ता समना च..... सापि भूः शिवेनैवाधिष्ठितेत्यर्थः | शक्तिव्यापिनीसमनाख्याः शिवतत्त्वभूमयः, शिवाख्यकारणाधिष्ठिता इत्यर्थः | एवं च वदन्नापादाद् बाह्यमानेन यत्षण्णवत्यङ्गुले मुण्डान्तस्थानम् तदेवेह द्वादशान्तमान्तरव्याप्त्या हावधेस्तावतः षट्त्रिंशदङ्गुलत्वेन विभजनादिति ध्वनति | अन्यत्र दृश्यमानोर्ध्ववाहिधूमलेखान्तं बाह्यमानेनाष्टोत्तरशताङ्गुलान्तं तदुच्यते मुण्डान्तात् प्रभृति च निरावरणता, इत्युभयथा प्रतिपादनेऽपि न किंचित्प्रमेयवैषम्यम्, बिन्द्वादिसमनान्तप्रमेयसोपानमालिकायाः सर्वत्र स्थानसाम्येनाभिधानात् || एवं कारणषट्कास्पदस्थानषट्कप्रमाणमुक्त्वा निष्प्रमाणकं सप्तमं पदं परमशिवाधिष्ठितमित्याह ---- ......................उन्मना ततः | तत्परं तु परं तत्त्वं प्रमाणपरिवजीतम् || ४-३४८ || पदार्थभेदनाङ्गतया ---- मात्रासंख्या च योगश्चाधुना हंसस्य कथ्यते | हंसस्येति तदभिन्नस्य निष्कलस्य | यद्यपि ---- ऽऽमात्रासंख्या त्वथोच्यते | मात्रायोगो यथा चास्यऽऽ (४-३४२) इति पूर्वमेवोद्दष्टम्, तथापि ब्रह्मादिकारणाधिष्ठितहृदादिप्रमाणमुक्त्वा यदिदानीं निर्णीयते तद्युक्तमेव, स्थानाश्रयणक्रमेणैव हि वाचकवर्णकलाकालविश्रान्त्या वाच्यदेवताव्याप्त्यनुभवरूपं पदार्थभेदनं भवति | तत्र ---- अकारश्च हकारश्च द्वावेतावेकतः स्थितौ || ४-३४९ || विभक्तिर्नानयोरस्ति मारुताम्बरयोरिव | अकारोऽनुत्तरशक्तिविमर्शात्मा, हकारश्च शांभवविमर्शनस्वरूपः, शिवशक्त्योश्चाभेदाद् एतौ खवायुवदेकत्र एक्येन स्थितौ विश्वामशीनः स्वयमुच्चरतोऽनच्कहकारस्य शिरोरेखारूपाकारकलानुप्रवेशात् || एकमात्रः स विज्ञेयो हृदयात् सम्प्रवर्तते || ४-३५० || स इत्यकारयुक्तो हकारः केवलस्त्वनुच्चार्यत्वादकालकलित एव || ३५० || ऊकारस्तु द्विमात्रो वै कण्ठस्थाने समुच्चरेत् | त्रिमात्रस्तु मकारो वै तालुमध्यगतश्चरेत् || ४-३५१ || त्रिमात्रत्वं गीतिकाक्षरस्वरमध्येऽक्षरशून्यपदोच्चारवत् || ३५१ || प्लुतोच्चारयुक्त्या मात्राभेदं स्थूलस्थित्योक्त्वा, सूक्ष्मस्थित्याप्याह -- -- बिन्दुश्चैवार्धमात्रस्तु............. अनुस्वारोच्चाररूपः || कुत इत्याह ---- ............ंआत्रार्धं हि स उच्यते | वक्ष्यमाणयुक्त्या भेदितग्रन्थेर्योगिनो मात्रार्धमेव तदुच्चारो भवतीति || अस्य स्थानमाह ---- भ्रुवोर्मध्ये स उच्चारस्तस्य देवि विधीयते || ४-३५२ || भेदितग्रन्थिभिर्योगिभिः || ३५२ || अथास्यैव विगलद्विभागध्वन्यात्मनोऽनुनिर्ह्रादरूपः ---- तच्छेषाच्चार्धचन्द्रस्तु पादमात्रस्त्वसौ भवेत् | मात्राया इत्यर्थात् | निरोधी चार्धपादस्तु............... सोऽयमर्धचन्द्रो निरोधीयमन्त्रैकदेशः | .............ऌअलाटान्ते समुच्चरेत् || ४-३५३ || ललाटाग्रतदग्रभागात्मन्यन्तद्वये द्वावुच्चरत इत्यर्थः || ३५३ || अत ऊर्ध्वम् ---- नादः षोडशकांशस्तु मूर्धान्तं यावदुच्चरेत् | नादस्य नादान्तः पल्लवप्राय इति पृथङ् नोक्तः || अत ऊर्ध्वम् ---- द्वात्रिशदंशा शक्तिस्तु षट्त्रिंशान्ते समुच्चरेत् || ४-३५४ || प्राणचारस्य यत्षट्त्रिंशदङ्गुलं तल्लक्षणान्ते सम्यक् शान्तभेदस्पर्शमात्रानुभवात्मतया उच्चरेत् | इह एकत्रैव षट्त्रिंशदङ्गुलरन्ध्रान्ते शक्तिः, त्वक्शेषे व्यापिनी, केशदेशे समनेति स्थितिः || ३५४ || तत्र शक्तेर्मानमुक्तम् | व्यापिनीसमनयोराह ---- व्यापिनी चतुःषष्ट्यंशा शक्तेस्तु परतः स्थिता | समना च.............. चतुष्षष्ट्यंशैव, एवं चेमौ चतुष्षष्ट्यंशावेकीकृतौ द्वात्रिंशांशः, सोऽपि शक्त्यात्मद्वात्रिंशांशेन सह मिलितः षोडशांशो जायते, सोऽपि नादीयश्च षोडशांशोऽष्टांशो जातः, सोऽपि निरोध्यष्टांशेन सह चतुर्थांशः स्थितोऽर्धचन्द्रः, अपरश्चतुर्थांशो बिन्दुरर्धमात्रेत्येष मात्रा मकारान्ताश्च षण्मात्रा इति समनान्तमात्रासप्तकक्रोडीकृताशेषाक्षेपिभाविदेवीसप्तकोऽयममात्रो न्मनापरतत्त्वसतत्त्वः श्रीनिष्कलनाथः | यत्तु ---- ऽऽ.........................परार्धः परतः स्थितः | सोऽष्टादशस्तु तं देवि समनान्ते परित्यजेत् ||ऽऽ (४-२८५) इत्युक्तम्, तद्वाच्यदेवतावधिभूतबाह्यस्थूलकालप्रशमनपरम्, इदं तु मन्त्रावयवगतातिसूक्ष्मोच्चारकालप्रतिमादनपरमिति न काचिद्धानिः | अतश्च सूक्ष्ममन्त्रकलोच्चारकालेनैव बाह्यतत्त्वगतसंभाव्यमानविततविततमपि कलाध्वानं वटधानिकादलनेन वटदलनवद्योगीन्द्रः प्रशमयेदिति निरूपितं भवति | अत्र च मन्त्रावयवविमर्शकाले तत्तद्वाच्यदेवतानुभवोऽधराधरानुभावस्य चोर्ध्वोर्ध्वपदानुभावात्मसाद्भावो भवतीति मन्तव्यम् || समनाया अपि ---- ............उन्मना चोर्ध्वममात्रः परमोऽव्ययः || ४-३५५ || उन्मनया सह परमशक्तिमान् व्ययहीनत्वादमात्रो मात्रार्धमात्रादिकालस्पर्शरहित इत्यर्थः || ३५५ || एतदुपसंहरति ---- मात्रासंख्या च योगश्च प्रमाणं परिकीतीतम् | तदेतत्सर्वम् ---- एवं ज्ञात्वा वरारोहे पदार्थान् भेदयेत्ततः || ४-३५६ || वरारोहे इति प्राग्वत् || ३५६ || कथम् ---- भेदयेन्मन्त्रशूलेन मुद्राभावयुतेन च | प्राङ्नर्णीतज्ञानशूलसतत्त्वेन मन्त्रशूलेन, मुद्रया वक्ष्यमाणकरणरूपया, भावेन जिज्ञासाजिज्ञासितानुभवात्मना युक्तेन | त्रयमेतद् ज्ञानक्रियेच्छाशक्तिस्फारसारमत एतच्छक्तिमयमहेश्वरैकात्मा गुरुर्भेदनं कुर्यादिति प्रकाशयति ---- मन्त्रो वै ज्ञानशक्तिश्च मुद्रा चैव क्रियात्मिका || ४-३५७ || भावश्च मन इत्युक्तं तन्मनो बुद्धिपूर्वकम् | मनः सततं मननमनुभवो बुद्धिपूर्वकमिति निश्चित्य प्रवृत्तस्य तत्तदनुभवलाभात् | भेदनं चैतत्परतत्त्वव्याप्त्यर्थम् || परतत्त्वव्याप्तिश्च जिज्ञासाप्रमुखकरणबन्धे मन्त्रोच्चारोन्मिषत्पूर्णस्वसंवेदनतः ---- इत्याह ---- परश्च मनसा गम्य इच्छाशक्त्या त्वधिष्ठितः || ४-३५८ || मनसा स्वसंवेदनेनेच्छाशक्त्या तत्परमार्थतया जिज्ञासयाधिष्ठितः प्रथमं विषयीकृत इत्यर्थः || ३५८ || युक्तं चैतत्, यतः ---- यत्र यत्र भवेदिच्छा ज्ञानं तत्र प्रवर्तते | क्रियाकरणसंबन्धात्.............. योगात् क्रियाया व्यापारस्य करणस्य च तद्व्यापारोचितशरीरसंनिवेशस्य सम्यग् बन्धाद् जिज्ञासितेऽर्थे ज्ञानं भवतीत्यर्थः || तदित्थं शक्तित्रयात्मशिवावेशज्ञस्य गुरोः ---- .........टत्त्वस्योच्चारणं भवेत् || ४-३५९ || तत्त्वं वीर्यसारो मन्त्रः || ३५९ || अत्रैव भरं दर्शयितुमप्यर्थलब्धं व्यतिरेकमाह ---- क्रियाकरणहीनस्य न चैवोच्चारणं भवेत् | करणभेदेन क्रियाभेदं सम्यग् मन्त्रोच्चारसिध्यदर्थं दर्शयितुमुपक्रमते ---- क्रिया करणभेदेन सा चैव त्रिविधा स्मृता || ४-३६० || तत्र ---- एकेनोच्चारयेत्तत्त्वं करणेन विचक्षणः | ऊर्ध्वरेचकेन नाडीश्चाथ द्वितीयेन द्वाराणि च निरोधयेत् || ४-३६१ || कुम्भकेन तृतीयं करणं दिव्यं कृत्वा वै तत्त्वमुच्चरेत् | तत्त्वं निष्कलं तेन कुम्भकेन द्वाराणि निरोध्य दिव्यं करणं बद्ध्वा ऊर्ध्वरेचकेन मन्त्रमुच्चारयेत्, इत्ययमत्र क्रमः || तमेव स्फुटयितुमुपक्रमते ---- पूरकं कुम्भकं कृत्वा सर्वद्वाराणि रोधयेत् || ४-३६२ || कुम्भकावसर एव || ३६२ || तानि ---- गुदद्वारेण रुद्धेन रुद्धान्यत्र भवन्ति हि | रोधश्चास्य सङ्कोचविकासाभ्यामावेशवशेन कार्यः | एवं कृत्वा ---- द्वारमेकं ततश्चोर्ध्वे प्रवहत्तद्विचिन्तयेत् || ४-३६३ || मध्यनाडिरूपं विचिन्तयेत् न तु संप्रत्येव वाहयेत् || ३६३ || तथा सति हि ---- नाडयो ग्रन्थिपद्माश्च येऽधोमुखगताः प्रिये | ते कुम्भकेन संरुद्धा विकसन्ति समन्ततः || ४-३६४ || प्राणशक्तिकौटिल्यधामानि हृदयादीनि ग्रन्थयः | सङ्कोचविकासधर्मत्वात् पद्मानि | तानि चापानशक्तिप्रवाहवशादधोमुखानि विकसन्तीत्यूर्ध्ववाहोन्मुखीभवन्ति || ३६४ || इत्थं कुम्भकादनन्तरम् ---- करणं तु ततः कृत्वा.............. अत्र च ऽऽतत्त्वस्योच्चारणं कुरुऽऽ (४-३६७) इति दूरेण सङ्गतिः | मध्ये तु करणलक्षणम् || तदाह ---- ..............ऌअक्षणं तस्य वै शृणु | जिह्वा तु तालुके योज्या किंचिदूर्ध्वं न संस्पृशेत् || ४-३६५ || ईषत्प्रसार्य वक्त्रं तु किंचिदोष्ठौ न संस्पृशेत् | दन्तपङ्क्ती तथैवेह दृष्टिश्चाधोर्ध्ववजीता || ४-३६६ || कायं समुन्नतं कृत्वा करणं दिव्यमुच्यते | अत्र जिह्वायास्तालुयोजने कुञ्चितत्वमर्थलब्धं किंचिदोष्ठौ नेति न किंचिदपि स्पृशेदिति योज्यम् | तथैवेति प्रसार्य न संस्पृशेदित्यर्थः | दृष्टेरध ऊर्ध्वं वर्जनं निश्चलतारकत्वेन विकल्पहानये | समुन्नतमिति सम्यगविकृततयोन्नतम् | दिवि परसंविल्लाभे उपायतया भवं दिव्यम् || तदित्थम् ---- दिव्यं च करणं कृत्वा तत्त्वस्योच्चारणं कुरु || ४-३६७ || चकारात् कुम्भकमूर्ध्वरेचकं च, तत्त्वं मूलमन्त्रः || ३६७ || अत्र दिव्यकरणावसरे ऊर्ध्वरेचकमपि कुर्वीतेत्याह ---- कुम्भितश्चैव यः प्राणो रेचयेत्तं शनैः शनैः | ऊर्ध्वमित्यर्थात् || तथा सति हि ---- नाड्यो ग्रन्थिपद्माश्च देहे याः संव्यवस्थिताः || ४-३६८ || रेचकेन समाक्षिप्ता ऊर्ध्वस्रोतो भवन्ति ते | मध्यवाहरूपतां यान्तीत्यर्थः | अत्र च रोमाञ्चोद्गमोऽभिज्ञानम् | एवं करणत्रयबन्धावहितः ---- ततो वै ज्ञानशूलेन ग्रन्थीन् भिन्दन् समुच्चरेत् || ४-३६९ || ज्ञानशूलं पूर्वं निर्णीतम्, ग्रन्थीनां भेदो हृदयादिपदेषु प्राणशक्तेः स्पष्टीभावेन तत्तदनुभवलाभः, सम्यगविकल्पमुच्चरेत् स्वयमेवमूर्ध्वं प्रसरेत् | मन्त्र इति अर्थात् || ३६९ || अत्र भेदेन घटमानस्य योगिनो भावप्राप्तिवशादिति यः पूर्वं हेतुरुक्तः तन्निर्णयानुभवभेदान्निरूपयति ---- भित्वा हृत्पद्मग्रन्थिं तु ततः शब्दः प्रजायते | यदाकाशसमायोगात्.............. सम्यगासमन्ताद्योगाद् मन्त्राद्यकलोच्चारैकाग्रतारूपात् | शब्द इति उपांशुरूपतयान्तरकारादिकलात्मा स्फुटं श्रूयमाणः || स च ---- ..............घोषशब्दोपमो भवेत् || ४-३७० || ऽऽश्रवणाङ्गुलिसंयोगाद्यः शब्दः संप्रवर्तते | दीप्तवह्निस्वनाभोगः स नादो घोष उच्यते ||ऽऽ इति लक्षितो घोषो दीप्ताग्नेर्यो धकधकाकृतिशब्दतुल्याकारश्रुतिरुच्चरतीत्यर्थः || ३७० || कण्ठस्थो विरमेच्छब्दः कण्ठं प्राप्य वरानने | मन्त्रो विमर्शः कण्ठं प्राप्य यदा तत्स्थो भवति तदा घोषः शाम्येदित्यर्थः || तत्र तु ---- भिन्दतः कण्ठदेशं तु शब्दो धुगधुगायते || ४-३७१ || तद्रूपाकार उच्चरतीत्यर्थः || ३७१ || अतः ऊर्ध्वम् ---- तालुमध्यगतः प्राणो यदा भवति सुव्रते | भिन्दतस्तालुग्रन्थिं तु शब्दो घुमघुमायते || ४-३७२ || शोभनं व्रतं मध्यधामनिभालननियमरूपं यस्या सा सुव्रता, तत्सम्बोधनम् | (सुव्रते) | ऽऽघुमघुमायतेऽऽ इति तदनुकृतिर्मकारक(ल्पमु)च्चरतीत्यर्थः || ३७२ || तदत्र ग्रन्थित्रयभेदेन ---- एवं तेऽनुभवाः प्रोक्ताः प्राणे चरति सुव्रते | प्रोक्तशब्दविषयाः त्रयस्तेऽष्टकलाः प्रोक्ता उपर्युपरितः क्रमात् || ४-३७३ || इह एकादशे पटले ---- अष्टधा तु स देवेशि व्यक्तः शब्दः प्रकीतितः | घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च | झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीतीताः ||ऽऽ (११-६७) इत्युक्त्या व्यक्तस्य शब्दस्याष्टविधत्वं वक्ष्यति | अकारोकारमकाराश्च त्रयो व्यक्ता इति तदुच्चारस्थानेषु ग्रन्थिभेदानुभवविषयाणां शब्दानां घोषाद्यष्टकलत्वम्, यत्तु घोषोपम इत्युक्तम्, त(न्न), घोषैकरूपत्वम्, अपितु घोषसमानत्वमिति, तत्रापि ऋआवादिशब्दाः सन्त्येव || ३७३ || तदित्थम् ---- तिष्ठेत् स यत्र वै प्राण आत्मा तद्गतिमाप्नुयात् | प्राणाश्रया संवित् तद्द्वारेणैव तत्तत्स्थानमाप्नोति || तत्र ---- तत्तद्रूपं भवेत्तस्य स्थानभावानुरूपतः || ४-३७४ || स्थाने हृदादौ भावस्तत्तत्कारणान्तर्भावः | एवं हृत्कण्ठतालुषु ब्रह्मविष्णुरुद्राधिष्ठितेषु सृष्टिस्थितिसंहाररूपतां प्राणावस्थितिक्रमेणात्मा भजते | भ्रुवोर्मध्यं यदा गच्छेत् स्फोटशब्दस्तु जायते | अनभिव्यक्तवर्णरूपस्फुटत्वादशब्दकल्पः स्फोटः | एष च ---- बिन्दुं भेदयतो देवि शब्दो धुमधुमायते || ४-३७५ || बिन्दुमिति बिन्दुग्रन्थिं भिन्दतो बिन्दुकलाख्य एव मन्त्रावयवबोधी धुमधुमानुकृतिरुच्चरति | बिन्दुग्रन्थिभेदश्चायमपवर्गपदाधिरोहे प्रथमसोपानकल्प इत्यत्र भरः कर्तव्यो योगिभिः, तद्भेदे हि उल्लङ्घित एवं भेदमयः संसारः || ३७५ || अन्यथा तु ---- कपिर्वै नारिकेलेन आचार्यः सह बिन्दुना | अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये || ४-३७६ || भजते इति वाक्यशेषः | दृष्टान्तदार्ष्टान्तिकभावोऽत्रार्थलभ्यः, तेन यथा कपिर्नारिकेलेनाभिन्नेन कुतो मोक्षं भजते न भजते नारिकेलं रसास्वादायाभङ्क्त्वा न मुञ्चति, तथैवाचार्यो बिन्दुग्रन्थिना अभिन्नेन सहेति साकं दीक्ष्येण शिष्येणेत्यर्थात् | कुतः सबाह्याभ्यन्तरं कृत्वा मोक्षं भजते, बाह्यात् स्थूलाद् भावभूतशरीरादाभ्यन्तराच्च सूक्ष्मात् पुर्यष्टकशून्यशरीरान्न मुच्यते, बिन्दुभेदात्तु मुच्यते एवेत्यर्थः | ऽऽकपेर्वै नारिकेलेन तथाचार्यस्य बिन्दुनाऽऽ इति स्पष्टः पाठः || ३७६ || अतश्च ---- भित्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत् | भिद्यतश्चार्धचन्द्रस्य ललाटे झिमिझिमायते || ४-३७७ || अर्धचन्द्रग्रन्थिं भिन्दतस्तत्स्थान एवार्धचन्द्राख्यो मन्त्रावयवो झिमिझिमानुकारो जायते इत्यर्थः | इत्थुमुत्तरत्रापि योजना कार्या || ३७७ || अथ ---- अर्धचन्द्रं तु भित्त्वा वै भेदयेत्तु निरोधिनीम् | तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते || ४-३७८ || बिन्द्वादौ प्राग्वत् कलाव्याप्तिमाह ---- स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् | तत्र बिन्दोः ङिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च |ऽऽ (१०-१२१७) इत्युपक्रम्य ऽऽएतस्य वामदिग्भागे शान्त्यतीता |ऽऽ (१०-१२१८) इति कलापञ्चकं वक्ष्यति | एवमर्धचन्द्रस्य ऽऽज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ||ऽऽ (१०-१२२०) इति, निरोधिन्या अपि ---- ऽऽरुन्धनी रोधिनी रौद्री ज्ञानबोधा तमोपहा |ऽऽ (१०-१२२१) इति कलापञ्चकम् | स्थानत्रयमिति वर्गीकरणमाद्यग्रन्थिभेदादेवापरग्रन्थिभेद इत्याशयात् | एवमुत्तरत्र || तदित्थम् ---- प्राणस्य चरतस्तत्र यस्मिन् स्थाने स तिष्ठति || ४-३७९ || तत्तद्रूपो भवेदात्मा तां तां गतिमवाप्नुयात् | तत्रेति तेषु त्रिषु ईश्वरतत्त्वाधिष्ठितेषु स्थानेषु चरतः, प्राणस्येति चरन्तं प्राणमनादृत्य संवित्प्रधानतया प्राणभूमिकां गुणीकृत्य यस्मिन् यस्मिन् स्थाने स योग्यात्मा तिष्ठति, तत्तद्रूपतामनुभूय तत्तन्मयत्वमाप्नोतीत्यर्थः || अथ ---- निरोधिनीं भेदयित्वा ततो नादं व्रजेद् बुधः || ४-३८० || वंशशब्दसमः शब्दस्तत्र सूक्ष्मः प्रजायते | सूक्ष्मत्वं पूर्वापेक्षमीश्वरतत्त्वम् || ततोऽपि ---- भेदयेन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुभीदम् || ४-३८१ || भिद्यतो ब्रह्मरन्ध्रस्य शब्दः शुमशुमायते | नादस्य सम्यक् स्थानं विश्रान्तिर्यत्र तन्नादसंस्थानं ब्रह्मरन्ध्रं सुदुभीदं नादान्तपदं तदेव च ब्रह्मरन्ध्रमूर्ध्वकवाटछिद्रं सुदुभीदं सातिशयावधानैरेव भेत्तुं शक्यम् || एवं नादनादान्तस्थानं सदाशिवाधिष्ठितं भित्त्वा ---- शक्तिमध्यगतः प्राणो वंशनादान्तसंनिभः || ४-३८२ || शक्तिभेदस्पर्शाद्वंशनादान्ततुल्यो भवति, न तु शक्तिस्थानभेदाद्, वंशनादस्य मधुरध्वनिरूपस्यान्तोऽनुरणनरूपः सूक्ष्मस्तत्तुल्यो भवति || ३८२ || अथ ---- तां वै तु भेदयेच्छक्तिं दुर्भेद्यां सर्वयोगिनाम् | भिद्यते च यदा शक्तिः शान्तः शुमशुमस्ततः || ४-३८३ || दुर्भेदत्वं चास्याः, तदनुभवाह्लादस्य स्पृहणीयतमत्वेन त्यक्तुमशक्यत्वात् | ऽऽशान्तऽऽ इति प्रवृत्तिस्थानकरणाभिघातादेव शब्दवृत्तिः शाम्यति, इह तु शमित्वा आनन्दस्पर्शात्मतामेतीत्यर्थः || ३८३ || किं च ---- शक्तिं भित्वा ततो देवि यच्छेषं व्यापिनी भवेत् | अनुभावो भवेत्तत्र स्पर्शो यद्वत् पिपीलिका || ४-३८४ || शक्तिभेदानन्तरं यन्मन्त्रावयवरूपं वस्तु शेषमिति शिष्यमाणं तद् व्यापिनी भवेत्, शक्त्यन्तसर्वाध्वव्यापनाद् व्यापिन्याख्यो मन्त्रावयवः सः | ऽऽतच्छेषे व्यापिनी भवेत्ऽऽ इति तु स्पष्टः पाठः | तत्र चानुभवः प्रशान्तशब्दव्याप्तिकत्वात् स्पर्शप्रथारूपः | यद्वत् पिपीलिकेति सञ्चरन्तीनां पिपीलिकानामिवेत्यर्थः | पिपीलिका इत्यत्र नांशब्दस्य लोप एश्वरः || ३८४ || अत्रापि कलाविभागमाह ---- स्थानत्रयमिदं देवि पञ्चपञ्चकलान्वितम् | तत्र नादस्थाने श्रीसदाशिवाधिष्ठिते ऽऽइन्धिका दीपिका चैव रोचिका मोचिका तथा | ऊर्ध्वगाऽऽ (१०-१२२६) इति वक्ष्यमाणाः पञ्च कलाः, शक्तितत्त्वे व्यापिनीपदे च श्रीशिवनाथाधिष्ठिते क्रमेण ---- शूक्ष्मा चैव सुसूक्ष्मा च तथा चैवामृतामिता | व्यापिनीऽऽ (१०-२१४२) इति पञ्च कलाः, ऽऽव्यापिनी व्योमरूपा चानन्तानाथा त्वनाश्रिता |ऽऽ (१०-१२५२) इति पञ्चैताश्च सर्वाः स्वावसरे निर्वक्ष्यामः | यत एवं ततः ---- यत्र यत्र चरेत् प्राणस्तत्तद्रूपमवाप्नुयात् || ४-३८५ || प्राणो जीवस्तत्तदनुभवं प्राप्नोतीत्यर्थः | तदनुभवाभ्यासप्रकर्षात् तु ---- यत्र यत्रावतिष्ठेत तां तां गतिमवाप्नुयात् | तत्तदात्मैव भवतीत्यर्थः | एवं च ---- शमनान्तं वरारोहे पाशजालमनन्तकम् |ऽऽ (४-४३२) इति वक्ष्यमाणमेतत्सर्वम् ---- तस्माद्वै सुप्रयत्नेन भित्वा याति परां गतिम् || ४-३८६ || शोभनः प्रयत्नो दिव्यकरणधाराधिरोहरूपः || ३८६ || अत्र क्रममाह ---- भित्वा वै व्यापिनीं देवि समनायां मनस्त्यजेत् | मनसा तु मनस्त्यक्त्वा जीवः केवलतां व्रजेत् || ४-३८७ || मन इत्यविकल्पं चेतः | मनसेति स्पर्शपर्यन्तस्य मन्तव्यस्य क्षीणत्वात्, अविकल्पमननमात्ररूपेण चित्तेनैव तादृशमेव च मन एकाग्रताप्रकर्षात् त्यक्त्वा वेद्याभासजिघृक्षासङ्कोचरूपं स्वं वेदनं प्रशमयय जीव आत्मा केवलत्वमेति शुद्धो वेदितृमात्ररूपो भवतीत्यर्थः || ३८७ || एवं ऽऽभेदनं च पदार्थानां भावप्राप्तिवशात् इत्युपक्रान्तं निर्वाह्य क्रमप्राप्तामात्मव्याप्तिमाह ---- जीवो वै केवलस्तत्र आत्मज्ञानक्रियान्वितः | बन्धनाशेषनिर्मुक्तः सत्तामात्रस्वरूपकः || ४-३८८ || समस्ताध्वपदातीतः शुद्धविज्ञानकेवलः | गृह्णाति नापरं भावं न परं च शिवात्मकम् || ४-३८९ || परापरविनिर्मुक्तः स्वात्मन्यात्मा व्यवस्थितः | यो जीवः प्राणनात्मा, स तत्र समनोर्ध्वे यतः समस्तमध्वपदमतीतोऽत एवाशेषेण मलत्रयरूपेण बन्धेन निःशेषेण वासनापर्यन्तेन मुक्तस्ततश्च सत्तामात्रस्वरूपो भावाप्रतियोगिप्रकाशमात्रतत्त्वो य आत्मा आत्मीयाभ्यां स्वोचिताभ्यां ज्ञानक्रियाभ्याम्, न तु परमशिवसंबन्धिनीभ्यां सामरस्यावस्थितिसतत्त्वाभ्यामन्वितो व्याप्तो न तु सांख्यादिमुक्तरूपः | एष च मायोर्ध्ववर्त्त्याणवमलयुक्तविज्ञानकेवलवैलक्षण्यात् शुद्धो विशिष्टेन चाशेषाध्ववेद्यीकरणात्मना, न तु मायापुंविषयकरूपेण ज्ञानेन, तेनैव च केवलो न तु मन्त्रमन्त्रेश्वरवद्विज्ञेयेनापि संपृक्तः अत एवापरं शिवं सदाशिवरूपं स्वभावं न गृह्णाति, न च परं परमशिवरूपं स्वच्छस्वच्छन्दचिदानन्दघनम्, अतश्च अयं व्याख्यातपरापररूपाद् विनिर्मुक्तस्त्यक्तापर रूपोऽप्यप्राप्तपरस्वभावः स्वात्मन्येव बोद्धृतामात्ररूपे व्यवस्थितः || न चैवात्र संतोषः कार्य इत्युपसंहारदिशा दिशन्नन्यदवतितारयिषुराह ---- आत्मव्याप्तिर्भवेदेषा शिवव्याप्तिरतः परम् || ४-३९० || बन्धनाशेषभावेन सर्वाध्वोपाधिवजीता | एषेति समनान्तस्थिता, न तु सांख्यपातञ्जलाद्युक्ता, अस्यैव त्वात्मन उन्मनापदारोहेण चिदानन्दघनपरतत्त्वव्याप्तिरूपा शिवव्याप्तिर्यतः सा बन्धनानामाणवादीनां मलानामशेषभावेन | शमनावधिपर्यन्तः कलङ्काधार उच्यतेऽऽ (७-२२९) इति भाविनीत्या समनान्तेन प्रसरेण ये पूर्वोक्ता सर्वेऽध्वरूपा उपाधयोऽवच्छेदकास्तैवीशेषेण समस्तबन्धनप्रशमसंस्कारात्मनापि वजीता, शुद्धविज्ञानकेवलतायां समनान्तसमस्तबन्धनप्रशमेऽपि तन्निवृत्तिसंस्कारभावेनावच्छेदकत्वात् सोपाधित्वम्, परमशिवता तु विश्वोत्तीर्णविश्वमयस्वतन्त्रचिदानन्दघनानवच्छिदैव || यत ईदृशी शिवव्याप्तिस्ततः ---- अविदित्वा परं तत्त्वं शिवत्वं कल्पितं तु यैः || ४-३९१ || त आत्मोपासकाः शैवे न गच्छन्ति परं शिवम् | यैरिति शैवपाशुपतलाकुलादिभिर्नानात्मवादिभिः शिवत्वं कल्पितमात्मनां व्यापकत्वनित्यत्वामूर्तत्वचित्त्वस्रष्टृत्वाद्यनन्तधर्मसाम्येन शिवैकरूपाणामपि केनचित्कल्पनामात्रेण निर्युक्तिकेन भिन्नशिवरूपत्वमुच्यते, ते सर्वे व्याख्यातव्याप्तिकात्मोपासकाः शैवेऽस्मिन्नद्वयनये परं शिवं व्याख्यातस्वरूपं न गच्छन्ति न तन्मयीभवन्ति | सांख्ययोगवेदान्तवाद्यादयस्तु अपरपदस्था एवेति केन तेषामियत्पदप्राप्तिसंभावनापि | अथ च सर्व एवात्मोपासकाः शैवेन पारमेश्वराद्वयदर्शनोक्तेन ज्ञानेन परं शिवं गच्छन्तीति तन्त्रेण सप्तमी तृतीये योज्ये | उक्तं च श्रीमृत्युजिति ---- ऽऽये वदन्ति न चैवान्यं विन्दन्ति परमं शिवम् | त आत्मोपासकाः शैवे न गच्छन्ति परं पदम् ||ऽऽ (ने०तं० ८-३०) इति | अत्र हि परमशिवमन्यं वदन्ति, केवलं न चैव विन्दन्ति, न पुनः केनापि प्रमाणेन लभन्ते, साधयितुं शक्नुवन्तीत्यर्थः || ते तु सर्वे ---- आत्मतत्त्वगतिं यान्ति आत्मतत्त्वानुरञ्जिताः || ४-३९२ || आत्मतत्त्वरूपतायां तत्त्वं परमशिवाभेदाख्यात्यात्मा सङ्कोचः, तेन येऽनुरञ्जितास्तदाश्वस्ताः पाशुपताद्याः, त आत्मनो यत्तत्त्वं शुद्धविज्ञानकेवलतारूपं तद्गतिं लभन्ते, न तु तात्त्विकीं मुक्तिं भेदस्यापरित्यागादिति || ३९२ || मुक्तशिवसंसारं परिजिहीर्षुणा ---- तस्मादात्मा परित्याज्यो यदीच्छेच्छिवमात्मनः | आत्मेति मुक्ताणुरूपता | शिवमिति मुक्तविकसितपरमशिवैकताम् || तदित्थम् ---- आत्मतत्त्वं ततस्त्याज्यं विद्यातत्त्वे नियोजयेत् || ४-३९३ || आत्मानमिति शेषः || ३९३ || कात्र विद्या ? ---- इत्याह ---- उन्मना सा तु विज्ञेया........... तां व्याचष्टे ---- .............ंअनः सङ्कल्प उच्यते | सङ्कल्पः क्रमतो ज्ञानमुन्मनं युगपत् स्थितम् || ४-३९४ || सङ्कल्प इच्छा, सा चेशितव्यविश्वक्रमासूत्रणात्मत्वात् क्रमतो ज्ञानमित्युक्तम् | उन्मनमुत्क्रान्तमुत्कर्षं च मनः प्राप्तं यत्र तदुन्मनम् | युगपदिति विश्वस्यासूत्रणावभासननिर्माणाद्यन्तानन्त- शाखाशतभिन्नस्याप्यत्र नित्योदितानन्दघनस्वातन्त्र्यशक्त्याभासात्मत्वेनावस्थानात् || ३९४ || यत ईदृगुन्मनं ज्ञानमेवोन्मनाशक्तिः ---- तस्मात् सा तु परा विद्या.......... मायान्तावधिकात्मतत्त्वोर्ध्वस्थशुद्धविद्यादिशक्त्यन्ताध्वव्यापकाद् विद्यातत्त्वादियमन्यैव विद्या || ..............यस्मादन्या न विद्यते | ईदृशीत्यर्थाद् एतयैव अशेषविश्वक्रोडीकारात् || तदाह ---- विन्दते ह्यत्र युगपत् सार्वज्ञ्यादिगुणान् परान् || ४-३९५ || परानित्यभेदरूपान् सर्वज्ञत्वादीन् यतो युगपदत्रोन्मनायां योगिवरो लभते, तत इयं परा विद्या ऽऽविदॢ लाभेऽऽ इति धात्वर्थानुगमात् || ३९५ || किं च ---- वेदनानादिधर्मस्य परमात्मत्वबोधना | वर्जनाऽपरमात्मत्वे तस्माद्विद्येति सोच्यते || ४-३९६ || अनादिधर्मः स्वातन्त्र्यशक्त्यात्मा स्वभावः, तस्य वेदना विचारणा, आत्मनश्च यत्परमात्मत्वं शिवरूपत्वमस्ति, तस्य | बोधना अवगमहेतुः, अत एवापरमात्मत्वेऽतद्विषये इयं वर्जना संपद्यते | तस्मात् ऽऽविद विचारणेऽऽ, ऽऽविद ज्ञानेऽऽ इति धात्वर्थानुगमादियं विद्योच्यते || ३९६ || एवं च तत्रस्थो व्यञ्जयेत्तेजः परं परमकारणम् | परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् || ३९७ || तत्रेति उन्मनाख्यायां विद्यायाम्, व्यञ्जयेदात्मीयमेवोन्मीलयेत् प्रत्यभिजानीयात् | तेजः चिज्ज्योतिः परमसङ्कुचितं परमकारणं परमशिवरूपम् अतश्च शिवतां व्रजेत् तदैकात्म्यमियात् || ३९७ || एतद् दृष्टान्तेनोपपादयति ---- सुप्रदीप्ते यथा वह्नौ शिखा दृश्येत चाम्बरे | देहप्राणस्थितो ह्यात्मा तद्वल्लीयेत तत्पदे || ४-३९८ || देहमन्त्रप्राणात्मशिवपदानामौचित्यात् काष्ठारणिवह्नितच्छिखाम्बराणि दृष्टान्तः | तेनारणिमन्थनयुक्त्या सुप्रदीप्ते प्रज्वलिते वह्नौ सति यथा शिखा ज्वाला दाह्यं दग्ध्वाम्बरे दृश्यते, तत्र लयात् तदात्मभावं प्राप्तावलोक्यते, तद्वद्दिव्यकरणमन्त्रारणिसमुत्तेजनेन देहे यः प्राणस्तस्मिन् सुप्रदीप्ते मध्योर्ध्वबाह्यदावाग्नितामायाति, देहे स्थितो य आत्मा प्रोक्तशुद्धविज्ञानकेवलरूपो वह्निशिखातुल्यः समनान्तं समस्तं देहदारुं दग्ध्वा तस्मिन् पदे लीयते निरुपाधिपरमशिवैकात्म्यमेत्येवेत्यर्थः || ३९८ || इत्थमुक्तयुक्त्या परतत्त्वलीने ---- तद्वदेवाभिमानस्तु कर्तव्यो दैशिकोत्तमैः | तद्वत् परमपदवदभिमानः पूर्णाहंविमर्शः कर्तव्यः स्वीकार्यः न तु पाशवे शरीराद्यहंभावे वतीतव्यमेतदर्थमेवोत्तमपदम् || तमभिमानं स्फुटयति ---- अहमेव परो हंसः शिवः परमकारणम् || ४-३९९ || एतत् पूर्वव्याख्याभिर्गतार्थम् || ३९९ || अतश्च ---- मत्प्राणे स तु पश्वात्मा लीनः समरसीगतः | एवंविधस्य मम प्राणे प्रोक्तषडध्वव्याप्तिमये || तं पूर्वोक्तयुक्त्या समरसीकृतम् ---- मन्त्रकरणक्रियायोगाद्योजयामि परे शिवे || ४-४०० || मन्त्रो निष्कलः, करणं दिव्यम्, क्रियायोगो द्वाररोधोर्ध्ववाहाधरपदत्यागग्रन्थिभेदनाद्यात्मा || ४०० || न चैतद्वचनमात्रेण घटते, अपि तु ---- एवं यो वेत्ति तत्त्वेन अग्निवद् देहमध्यतः | यद्वद्वह्निशिखातीता तद्वद्योजयते परे || ४०१ || तत्त्वेनानुभवरूढ्या य एवमिति शिवाभेदं वेत्ति, स इन्धनकल्पस्य देहस्य मध्येऽग्निवत् पाशानुत्प्लोषयति, दीप्तभा(स्स्व)ज्योतिर्मात्ररूपतया स्थितः शिष्यात्मानं परे शिवे योजयते, तदैकात्म्यमासादयति | कथम् ? वह्निशिखा अतिशयेन इता व्योम्नि लीना तदैक्यमाप्ता यद्वत् (तद्वत्) || ४०१ || अतश्च ---- तस्मिन् युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः | शिव एको भवेद् देवि अविभागेन सर्वतः || ४०२ || युक्त इति योग एक्यम् | यथोक्तम् ---- ऽऽयोगमेकत्वमिच्छन्तिऽऽ (मा०वि० ४-४) इति | एक इत्यविभागेन, सर्वत इत्यनेन चाभिन्नशिववादस्य वास्तवत्वं ध्वनति | सर्वज्ञत्वादिकमिहाभेदसारं मन्तव्यम्, न तु मन्त्रादिवद्भेदविषयम् || ४०२ || भावित्रितत्त्वदीक्षायां ऽऽज्ञात्वा तत्त्वे नियोजयेत् | ऽऽ (४-४०४) इति यद्वक्ष्यति, तत्राप्येतदेव मन्तव्यमित्याह ---- तत्त्वत्रयं परं ख्यातमपरं चाध्वमध्यगम् | भेदनं तु पदार्थानां त्यागानुभवयोजनम् || ४-४०३ || पूर्वोक्तं च इदं सर्वं ज्ञात्वा तत्त्वे नियोजयेत् | परं शुद्धात्मोन्मनापरशिवरूपं यत्तत्त्वत्रयं प्रकाशितम्, यच्चापरं स्थूलम् अध्वमध्यगमिति पञ्चमपटलभावितत्त्वभुवनाध्वदीक्षामध्ये मायासदाशिवशिवान्तव्याप्त्या आत्मविद्याशिवाख्यं तत्त्वत्रयं पूर्वं प्रायश्चित्तशुद्धावपि निर्णीतमेतत् त्रित्तत्त्वदीक्षायां प्रधानरूपम्, तथा पूर्वोक्तं भेदनादि चकाराच्चारं प्रमाणादिकं च ज्ञात्वा एतज्ज्ञानप्राधान्येनैव तत्त्वे परस्मिन् योजयेत् शिष्यमित्यर्थः | एतच्च दीक्षान्तरविषयमपीति मन्तव्यम् || ४०३ || अथेह परतत्त्वस्वरूपं निश्चिन्वन् भाविचतुर्भेदतत्त्वदीक्षामध्येऽसंगृहीतामप्येकतत्त्वदीक्षां प्रसङ्गेन सूचयितुमाह ---- संक्षेपेण तु तत्त्वस्य व्याप्तिं शृणु सुरेश्वरि || ४-४०४ || सुराणां ब्रह्मादिशिवान्तानां कारणानामीश्वरि परस्वातन्त्र्यशक्तिरूपे || ४०४ || विद्यातत्त्वास्पदं बद्ध्वा विन्दुतत्त्वासने स्थितः | नादशक्तितनुश्चैव व्यापिनीकरणान्वितः || ४०५ || विद्यातत्त्वे शुद्धविद्यायां प्रोक्तकरणावष्टम्भलभ्यमध्यविकासेनास्पदमवस्थितिं बद्ध्वा, अथ च विद्याया मातृकायास्तत्त्वे मूलमन्त्रे वा स्थितिं बद्ध्वा, तदुच्चारावहितो भूत्वा मान्त्रे बिन्दुतत्त्वेऽभिन्नवेद्यज्योतीरूपेऽशेषविश्वविश्रान्तिस्थानत्वादासने स्थितोऽधिरूढः, नादो विमर्शमात्ररूपो ह्लादानुभवात्मकः शक्त्यन्तस्तनुः शरीरं यस्य, व्यापिनी शक्त्यन्ताध्वव्यापिका करणमान्तरमुपलब्धिसाधनं यस्य गुरोः, स सर्वं ज्ञात्वा तत्त्वे नियोजयेदिति पूर्वोक्तेन संबंधः || ४०५ || अस्य करणरूपा या व्यापिनी ---- सर्वज्ञत्वावबोधेन समना........... सैवेत्यर्थः || .................ऽन्तश्चरा तु सा | सैवास्यान्तःकरणमित्यर्थः || एवमीदृशे तत्त्वासने शरीरान्तर्बहिष्करणस्यास्य ---- त्रितत्त्वं यत्परं प्रोक्तं तेन चापूरिता तनुः || ४-४०६ || परादिशक्तित्रयमयेन आत्मकल्पेनेत्यर्थः || ४०६ || एतच्च त्रितत्त्वं यस्मादध्वातीतं समनान्तमतिक्रम्य स्थितं तस्मात्परं तत्त्वम्, यत्तु मायासदाशिवशिवव्याप्त्या तदपरं यस्मादध्वमध्यगम्, अत एवापरेणात्मादितत्त्वत्रयेण धरादेः शिवान्तस्यान्तःकृतत्वात् तदारब्धा ---- अपरा सा तनुः स्थूला षट्त्रिंशत्तत्त्वकल्पिता | इयं पुनः ---- तत्त्वत्रयं परं यच्च सर्वतत्त्वाध्ववजीतम् || ४-४०७ || तेन चापूरिताशेषं सा तत्त्वाध्वपरा तनुः | समस्ताध्वातिक्रान्तं यत् शुद्धात्मादितत्त्वत्रयं तेनोक्तसतत्त्वेनाशेषं कृत्वा आपूरिता सर्वात्मताभासनेन व्याप्ता या प्रक्रान्ता नादशक्त्यात्मा तनुः सा तत्त्वाध्वनः सकाशात् परा प्रकृष्टा || ४०७ || एवमीदृक्शिवाभेदविमर्शमय एव यथार्थ आचार्यो भवतीत्याह ---- एवमाचरते यस्तु आचारं तु शिवात्मकम् || ४-४०८ || शिवेन सहचारित्वादाचार्यस्तेन चोच्यते | आचारः प्रोक्तस्फारानुप्रवेशः सहचारित्वं तदभेदविमर्शपरमार्थम् || ४०८ || अस्य माहात्म्यमाह ---- तस्य दर्शनसम्भाषास्पर्शनात् स्मरणादपि || ४-४०९ || भवत्येवैश्वरी व्याप्तिर्न भवेत्तदधोगतिः | यतोऽस्य करणानि प्रोक्तव्यापिनीसमनाव्याप्तिमयानि, ततस्तत्सङ्गादीश्वरस्य शिवतत्त्वस्य व्याप्तिर्भवत्येव देहान्ते, न तु शिवादधः प्रवृत्तिः कदाचिदपि | योऽपि तं यथारूपं भक्त्या पश्यति सोऽप्येवम्, तेन तस्येति कर्तरि कर्मणि च षष्ठी || ४०९ || यस्तु अनुत्तरशक्तिपातवशात् ---- तेन संयोजितो जन्तुः............ ........ब्रह्महापि शिवो भवेत् || ४-४१० || परमशिव एव || ४१० || तदेवं भवति ---- ततस्तेन समो नास्ति जगत्यस्मिंश्चराचरे | तेन शिवैकात्मनाचार्येण कः समः, तस्यैकत्वात् || अतश्च ---- शिव आचार्यरूपेण लोकानुग्रहकारकः || ४-४११ || अनुजिघृक्षापरो हि परमशिव आचार्यदेहमास्थाय पशूनां पाशान्निकृन्तति || ४११ || यत एवम् ---- तस्मान्न मानका बुद्धिं कारयेद् देशकं प्रति | दिशत्युपदेशमिति देशकः उपदेष्टा, तस्मिन् दौरात्म्यान्मानका बुद्धिं कुर्वन्तं निवर्तयेदित्यर्थः || यतो येऽप्येते मायोर्ध्ववतीनोऽनन्तभट्टारकाद्यास्तेऽपि ---- आचार्यस्य च मन्त्रस्य शिवज्ञाने शिवस्य च || ४-४१२ || नानात्वं नैव कुर्वन्ति विद्येशाश्चक्रनायकाः | चक्रस्य विद्याग्रामस्य नायकाः प्रभवः स्वस्वरूपज्ञापकाश्च, शिवज्ञाने पारमेशे शास्त्रे आचार्यस्योपदेष्टुर्मन्त्रस्य शिववाचिनो निष्कलादेस्तद्वाच्यस्य च शिवस्य भेदं न कुर्वन्ति, नैतद्भिन्नं पश्यन्तीत्यर्थः आचार्यादेव शिवशास्त्रमन्त्रशिवानामवगमात् | यत्र च विद्येश्वरा अप्येवमभेदं मन्यन्ते, तत्र तदनुगृहीतैः कथं भेदधीः कार्या | एवं च ये आचार्यशिवमन्त्रानैक्येन जानन्ति, ते विद्येश्वरा इति मन्त्रेश्वरस्फारमेव विशन्ति || ४१२ || युक्तं चैतत्, यतः ---- ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वीरवन्दिते || ४-४१३ || आचार्यत्वे नियुक्ता ये ते सर्वे तु शिवाः स्मृताः | शिवाचार्य एव हि आचार्यो युक्तः || ४१३ || ये तु आचार्यमित्थं न मन्यन्ते, ते प्रत्यवायिनः ---- इत्याह ---- अन्यथा प्राक्स्वरूपेण ये पश्यन्ति नराधमाः || ४१४ || नरके ते प्रपच्यन्ते सादाख्यं वत्सरत्रयम् | अधमत्वं गृहीतदीक्षाणामपि गुरुद्वेषेण विलयशक्त्याघ्रातत्वात् | सादाख्यवत्सरमानमेकादशे पटले भविष्यति || ४१५ || पातकिसङ्गतिरपि पापाय ---- इत्याह ---- न तेन सह संभाषा कर्तव्या तु शिवाथीना || ४-४१५ || कृत्वा संभाषणं तेन नरकं सोऽपि गच्छति | यत एवम् ---- तस्माच्छिवसमाः सर्वे द्रष्टव्या मुक्तिमिच्छता || ४-४१६ || यस्मात् ---- भुक्तिमुक्तिफलावाप्तिर्भवत्येव तदाज्ञया | अस्य चेयान् प्रभावो यदयम् ---- आचार्यः स्वजनानां च कुलको (टि?टीः)सहस्रशः || ४-४१७ || ज्ञानज्ञेयपरिज्ञानात् समस्तास्तारयिष्यति | स्वे आत्मीया विद्यासंबन्धिनो जनाः शिष्याः, तेषां ऽऽचऽऽकारादात्मनश्च सहस्रशः कुलको (टीः) ज्ञानस्य तावदनुग्राह्यानुग्रहाभिसंधिपूर्वं परशाक्तस्फारानुप्रवेशस्योपायरूपस्य, ज्ञेयस्य चोपादेयस्य परतत्त्वस्य, परितः समन्तादविकल्पसविकल्पसमापत्तिभ्यां परतत्त्वविश्रान्त्यात्मकात् शिष्यप्रशिष्यादिक्रमेणानन्तकालव्यापिनश्च ज्ञनात्तारयिष्यति संसाराब्धेरुद्धरिष्यति | ज्ञानज्ञेयपरिज्ञानमेव गुरोर्मुख्यं रूपम् | यथोक्तं प्राक् ---- ऽऽज्ञानज्ञेयविशारदम्ऽऽ (१-१३) इति || ४१७ || एतदुपसंहरन् प्रकृतमाह ---- एवमुक्तविधानज्ञो भावज्ञश्चापि दैशिकः || ४-४१८ || पूर्णाहुत्यैकयैवासौ पशून् योजयते परे | उक्तं प्राणचारादिविधानम्, भावः परतत्त्वभावनात्मा || पूर्णाहुतौ प्रयोगं जिज्ञासुं देका प्रत्याह ---- पूर्णाहुतिप्रयोगं तु कथयाम्यधुना तव || ४-४१९ || पूर्णत्वार्थमाहुतिप्रयोगमाह ---- ऊर्ध्वकाय ऋजुग्रीवः समपादो व्यवस्थितः | नाभिस्थाने स्रुचो मूलमुत्तानाग्रमुखं समम् || ४-४२० || स्रुच्युपरि स्रुवं देवि कृत्वा चैवमधोमुखम् | पुष्पं दत्त्वा स्रुगग्रे तु दर्भेण सहितौ करौ || ४-४२१ || मुष्टिना चैव हस्ताभ्यां गृहीत्वा यत्नतोऽपि च | अग्रतो दक्षिणं हस्तं वामं वै पृष्ठतः प्रिये || ४-४२२ || मुष्टिभ्यां संगृहीत्वा वै उत्तानकरयोगतः | ततो घृतेन संप्लाव्य अभिमानं तु कारयेत् || ४-४२३ || अहमेव परं तत्त्वं परापरविभागतः | ऊर्ध्वकाय उत्थितः, उत्तानमग्रस्थितवेदिकापुष्करादिरूपं मुखं यत्र, सममृजुतया स्थितम्, स्रुच्युपरि स्रुवमिति शिवशक्तिव्यापकौ स्रुक्स्रुवौ परस्परोन्मुखौ कृत्वा, अत एव च पुष्पदानम्, अतश्च शिष्यस्य शक्तिस्त्यक्ताधःप्रसरा शिवोन्मुखा शिवेन संमुखेन प्लुष्टेति भावनीयम् | करावित्यत्र कृत्वेति शेषः | हस्ताभ्यामूर्ध्वाधःस्थिताभ्यां दक्षवामाभ्यां कृतो यः प्रत्येकं मुष्टिस्तेन, अत एव मुष्टिभ्यामित्युक्तिः | यत्नत इत्यनवलिप्ततया | अग्रत इति स्रुङ्मूलगतवामापेक्षया | दक्षिणमिति स्रुववदधोमुखं शिवव्याप्त्या, वाममिति स्रुग्वदुत्तानं च शक्तिव्याप्त्या | यदाह उत्तानेन करेण यो योग इत्यर्थादधोमुखस्य दक्षिणस्य वामेन | संप्लाव्येति संपूरितां स्रुचं कारयित्वा | अहमेव परं तत्त्वं परापरेति प्राग्वत् परसूक्ष्मस्थूलरूपतया स्थितमित्यभिमानं निश्चितां प्रतिपत्तिं कारयेत् कुर्यात् || ४२३ || न चैतदभिमानमात्रं, यतः ---- तत्त्वमेकं हि सर्वत्र............. सर्वं हि चेत्यमानत्वात् चिन्मात्रपरमार्थमेव || अतश्च ---- ............णान्यं भावं तु कारयेत् || ४-४२४ || कारयेदिति प्राग्वत् | मायाप्रमातृतासुलभं भेदाभिमानं त्यजेदित्यर्थः || ४२४ || किं च ---- यत्कुम्भेऽध्वात्र विन्यस्तः षट्प्रकारो वरानने | मण्डलेऽग्नौ शिशोरन्तः साधारणविकल्पितः || ४-४२५ || स्रुच्यध्वानं तमारोप्य प्राणस्थं नाडिमध्यगम् | प्राणधारे समीकृत्य स्रुचा धारां विनिक्षिपेत् || ४-४२६ || कुम्भमण्डलाग्निशिशुगतं षड्विधमध्वानमाज्यरूपतया स्रुचि मध्यनाडिप्रतिच्छन्दकरूपायामारोप्य, पूर्वोक्तयुक्त्या प्राणस्थितं च तं मध्यनाडिगतं कृत्वा, अत एव मध्यमं प्राणं धारां चाज्यसंबन्धिनीं स्रुग्गतां समीकृत्येति मान्त्रवह्निद्रावितषडध्वरसमयतया भावयित्वा तां धारां क्षिपेत् || ४२६ || कथं क्व चेत्याह ---- वसुधाराप्रयोगेण प्रक्षिपेज्जातवेदसि | अविच्छिन्नसंतत्या शिवाग्नौ द्वादशान्तस्थे बाह्ये च प्राणमाज्यधारां चाविभागभावनया जुहुयादित्यर्थः | वसवेऽभीष्टफलायात्युच्चैर्धाराप्रयोगेन || अत्रेतिकर्तव्यतामाह ---- नाभिस्थाने स्रुचो मूलं नयेन्नासान्तगोचरम् || ४-४२७ || यथा यथा त्यजेद्धारां तथा प्राणं समुच्चरेत् | नाभिस्थाने यत् स्रुङ्मूलं स्थितं तन्नासाग्रं प्रापयेद् धारापातानुसाराय मध्यप्राणं सम्यगभ्यस्तवाहचारेण ऊर्ध्वं चरेत्, द्वादशान्तविश्रान्तं कुर्यात् || ४२७ || एवं सति न केवलं द्रुतषडध्वरसमयी धारा यावत् ---- प्राणोऽपि वर्णतां याति षड्विधाध्वमयस्तु सः || ४-४२८ || यः षडध्वमयः प्राणः, सोऽपि वर्णतां मान्त्रपरामर्शतां याति || ४२८ || एवं च सति ---- षड्विधेऽध्वनि नातोऽन्यः प्रमेयो विद्यते क्वचित् | षड्विधेऽध्वनि यः कश्चित् प्रमेयः सोऽस्मिन्नवसरे | अत इति मान्त्रात् परामर्शात् | नान्यः क्वचिदपि, जागरादौ विश्वत्र सर्वस्य मान्त्रपरामर्शशेषीकृतत्वात् || यत एवम् ---- तस्मान्मान्त्रे परामर्शे हेयोपादेयतः स्थिताः || ४-४२९ || ये हेयतया स्थिताः समनान्ताः पदार्थाः ये चोपादेयतया शुद्धात्मोन्मनापरमशिवाः स्थितास्ते मन्त्र एव वाचकेऽन्तरभिन्नवाच्यात्मतया स्थिताः || ४२९ || यस्मान्मन्त्रैरकारादिध्वनिरूपैः ---- वर्णैः कारणषट्कं तु.............. पूर्वोक्तं तत्तत्तत्त्वाधिष्ठातृरूपं व्याप्तम्, अतस्तद्व्याप्त्यैव विश्वं स्वीकृतमेभिः || अतश्च ---- .............षट्त्यागात् सप्तमे लयः | कार्य इति शेषः || यदवधिकं कारणषट्कं यावद्भिर्मान्त्रैर्ध्वनिभिर्व्याप्तं तद्धेयत्वेन दर्शयति ---- अकारश्च उकारश्च मकारो बिन्दुरेव च || ४-४३० || अर्धचन्द्रो निरोधी च नादश्चैवोर्ध्वगामिनी | शक्तिश्च व्यापिनी ह्येताः समना च ततः परम् || ४-४३१ || समनान्तं वरारोहे पाशजालमनन्तकम् | कारणैः षड्भिराक्रान्तं मन्त्रस्थं हेयलक्षणम् || ४-४३२ || पूर्वमेव व्याख्यातमेतत् | ऊर्ध्वगामिनी नादान्तदशा | अस्य मान्त्रस्य प्रमेयैकादशकस्य भेदकल्पनामयत्वेन हेयत्वम्, अभेदविमर्शात्मत्वे तु उपादेयतेति प्राग्विभक्तमेव || ४३२ || मन्त्रस्थं हेयमुक्त्वा उपादेयं प्रस्तौति ---- अत्र पाशोपरि ह्यात्मा व्योमव (द्विन्दु?च्चित्सु) निर्मलः | शिवतत्त्वगुणामोदाच्छिवधर्मावलोककः || ४-४३३ || समनान्तपाशातिक्रमादेव चिता सुष्ठु निर्मलः शिवतत्त्वस्य सदाशिवस्य संबन्धिभिरभेदसर्वज्ञत्वादिभिर्गुणैरभिलष्यमाणैर्जनितादामोदात् प्रहर्षादेव शिवस्य धर्मं पूर्णपञ्चविधकृत्यस्वातन्त्र्यं प्राप्यत्वेनावलोकयति, न त्वद्यापि प्राप्ततद्रूपः || ४३३ || यतः ---- पाशावलोकनं त्यक्त्वा स्वरूपालोकनं हि यत् | आत्मव्याप्तिर्भवेदेषा.............. पाशानां समनान्तानामवलोकनमात्मत्वेनाभिमननम् | स्वरूपं पाशोत्तीर्णचिन्मात्रत्वं यदेतावत्पर्यन्तात्मव्याप्तिः || ..............शिवव्याप्तिस्ततोऽन्यथा || ४-४३४ || तां प्रतिपादयति ---- सार्वज्ञ्यादिगुणा येऽर्था व्यापकान् भावयेद्यदा | शिवव्याप्तिर्भवेदेषा चैतन्ये हेतुरूपिणी || ४-४३५ || ये वक्ष्यमाणाः सर्वज्ञत्वसर्वकर्तृत्वादिगुणा धर्माः परमोपादेयत्वेनार्थ्यमानत्वादर्थाः तान्, व्यापकानिति अशेषमन्तरभेदेन क्रोडीकुर्वतो यदा स्वात्मनि भावयेत् तदा तद्भावनापरिनिष्पत्तिरात्मनः शिवव्याप्तिः | सा च भावके चैतन्ये हेतुरूपिणी प्रयोजिका, तत्प्रसादादेव शुद्धात्मनस्तद्भावनाप्ररूढेः || ४३५ || यतोऽयमेवं सर्वज्ञत्वादिगुणयुक्तः ---- अतो धमीस्वभावो हि शिवः शान्तश्च पठ्यते | विश्वस्य भित्तिलग्नत्वेनैव स्फुरणाद्धर्मकल्पस्यासौ धमीकल्पः निःशेषभेदोपशमात् शान्तः, अभेदसार्वज्ञ्यादियोगेन श्रेयोरूपतया शिवः, पठ्यते इत्यागमेषु || एवं पठ्यमानोऽप्यसौ वस्तुतो न शब्दगोचर इत्याह ---- उन्मनाश्च मनोग्राह्यः............... उन्मनाः शक्त्यभेदात्मनो विषयत्वाभावाद् वस्तुतो न शब्दवाच्य इत्यर्थः | न केवलमीदृक् शिवो यावत् ---- ..............आत्मबोधे स्थितोन्मनाः || ४-४३६ || शिववदात्मापि मन उत्क्रम्य मनोभूमिमुज्झित्वा बोधे संविन्मात्रे पूर्णत्वसर्वज्ञत्वसर्वकर्तृत्वाद्यात्मनि स्थितः | स्थितश्चासौ उन्मनाश्चेति समासः || ४३६ || यतश्चात्मा शिवश्च न मनोगोचरस्ततः ---- व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् | तदा शिवत्वमायाति पशुर्मुक्तो भवार्णवात् || ४-४३७ || ऽऽतत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः |ऽऽ (स्प० २-३) इति स्पन्ददृशा आदौ शिष्यात्मानं स्वात्मनि समरसीकृत्य समनान्तमतिक्रम्य शुद्धात्मनि स्थितिं बद्ध्वा बोधरूपेणेति अविकल्पसंवित्स्पर्शेनैव प्रौन्मनाशक्त्यनुवेशप्रमुखं शिवे योजयेत् || ४३७ || अत्र चावसरे ---- परे चैव नियुक्तस्य स्रुवमापूरयेत् पुनः | स्रुचो रन्ध्रेण तद्द्रव्यं यावद्वह्नौ प्रयुज्यते || ४-४३८ || बहिःस्थं कुम्भकं तावत् परे तत्त्वे तु भावयेत् | बहिरिति ऊर्ध्वरेचकान्ते द्वादशान्ते || एवं च यत् ---- बहिनीरोधभावेन सामरस्यं शिवेन च || ४-४३९ || शब्दाच्च तच्छक्त्यापि || ४३९ || तत् ---- अन्यथा न भवेद् देवि............. न कदाचिदेतस्याशिवीभावहेतुरित्यर्थः || अत्र दृष्टान्तः ---- ................णदीवेग इवार्णवे | एतत्स्फुटयति ---- स्थितः स सागरेऽद्भिस्तु सिन्धुः समरसीभवेत् || ४-४४० || पुनवीभागं नाप्नोति तथात्मा तु शिवार्णवे | अद्भिरिति सागरसङ्गताभिः | सिन्धुर्नदी || बहिःस्थकुम्भकभावनाया अवधिमाह ---- स्रुचस्तु पूरणं यावत्तावत्कालं समादिशेत् || ४-४४१ || स्रुचः सकाशादाज्येन यावत्पूरणमिति वह्नौ पूर्णाहुतिर्यावद्भवति तावद् बहिः कुम्भक् सम्याअ समन्तात् दिशेत् प्रापयेत् || ४४१ || तदित्थं पूर्णाहुतौ ---- अनेनैव तु कालेन बहिः कुम्भकवृत्तिना | आत्मा समरसत्वेन शिवीभवति सर्वगः || ४-४४२ || एवं शिष्यशिवीकरणानन्तरम् ---- गुणानापादयेत् पश्चात् षट्............ वक्ष्यमाणान् सर्वज्ञत्वादीन् गुणान् || कीदृशान् ---- .................ऽङ्गपरिमाहुतीन् | अङ्गैर्नैष्कलैरङ्गमन्त्रैरेव अङ्गपरिमा अङ्गसंख्याकाः षडेवाहुतयो येषां तान् || शिवत्वे प्राप्ते यद्यपि तदभिन्ना गुणा अपि प्राप्ताः, तथापि तेऽस्य स्पष्टमान्त्रप्रत्यवमर्शपूर्वकस्वनादोदीरणेनापि स्पष्टीकार्या एवेति दृष्टान्तपूर्व निदीशति ---- यथा नृपत्वे सम्प्राप्ते कलशैश्चाभिषिच्यते || ४-४४३ || वन्दिभिश्च गुणास्तेऽपि ख्याप्यन्ते वसुधातले | तथा शिवत्वे सम्प्राप्ते गुणानापादयेद् बुधः || ४-४४४ || दार्ष्टान्तिके कलशाभिषेकम् ---- ऽऽदद्यात् ततोऽभिषेकं तुऽऽ (४-४४८) इत्यत्र वक्ष्यति | वन्दितुल्या अङ्गमन्त्राः || गुणापादने प्रयोगमाह ---- सर्वज्ञो वै भव स्वाहा परितृप्तस्तथैव च | अनादिबोधो भव च ततः स्वातन्त्र्यशक्तिकः || ४-४४५ || तथा त्वलुप्तशक्तिश्चानन्तशक्तिस्ततः पुनः | अत्र च प्रणवपूर्वा हृदादिमन्त्राः षट् क्रमेण पूर्वं योज्याः | सर्वज्ञा अपि कपिलादयो निवीमर्शचिन्मात्रत्वेनानन्दशक्तिरूपतृप्तिरहिताः | केचित्तु आनन्दशक्तियुक्तत्वेऽपि भावनया तद्रूपतां प्राप्ताः, नत्वनादिबोधाः | दीक्ष्यस्य त्वनादिबोधत्वं स्थितमेव सदभिर्व्यज्यते, न त्वपूर्वं जन्यते | केचित्तु सदा सर्वज्ञतयाऽनादिबोधा अपि निर्माणशक्तिविकलत्वात् स्वातन्त्र्यहीनाः सृष्ट्यादिकर्मणि स्वतन्त्रा अपि ब्रह्मादयो न नित्यमलुप्तशक्तिकाः, निजासु रात्रिषु व्यामूढत्वात् | मन्त्रमन्त्रेश्वरादयस्त्वव्यामूढत्वेऽपि नानन्तशक्तिकाः, तदपेक्षया विश्वस्य भिन्नत्वेन शक्तिरूपत्वाभावादित्येकस्यापि शिवनाथस्येत्थं व्यावृत्तिभेदेन सर्वज्ञत्वादयः षड् गुणा व्याख्येयाः || गुणानां गु(णि)१ विश्रान्तिसारतां स्फुटयितुं मूलविश्रान्तिपूर्वं मूलेनैव षडाहुतीर्दद्यादित्याह ---- गुणानापाद्य सर्वांस्तान् मूलमन्त्रमनुस्मरेत् || ४-४४६ || ओंहूमात्मपदोपेतं सर्वज्ञायेत्यपश्चिमम् | स्वाहाकारप्रयोगेण आहुतीः प्रतिपादयेत् || ४-४४७ || आत्मपदं दीक्ष्यनामपूर्वं चतुर्थ्यन्तं यतः ---- ऽऽअनिदीष्टसमाख्यं च यत्कृतं तत्तथा भवेत् | तदुद्दश्य कृतं कर्म (फलत्येव न) संशयः ||ऽऽ सर्वज्ञायेत्युपलक्षणम्, तेन तृप्तायेत्याद्यपि | तच्चापश्चिममित्येतावदन्तं पूर्वमुच्चार्य स्वाहाकारेणाहुतीर्दद्यात् || ४-४४७ || ताश्च सम्भवव्यवसायानुसारम् ---- तिस्रः पञ्च दशैका वा............ अत्यन्तमसम्भवे चैकाहुतावपि न क्षतिः || द्रव्यविषयेऽप्यत्र विकल्प एवेत्याह ---- ..............टिलैर्वाथ घृतेन वा | दीक्षान्ते शिष्यस्यावभृथस्नानमाह ---- दद्यात् ततोऽभिषेकं तु मूलमन्त्रेण सुव्रते || ४-४४८ || मूलमन्त्रमन्त्रितेन शिवकुम्भेन मूलमन्त्रोच्चारेण वा इत्यर्थः || ४४८ || कथम् ---- परं शक्त्यमृतं क्षोभ्य शिष्यमूध्नी निपातयेत् | तुर्यद्वारं विशेत् तद्धि सबाह्याभ्यन्तरं स्मरेत् || ४-४४९ || द्वादशान्ते विश्रम्य तत्स्थानमानन्दस्पर्शात्मकं परं शक्त्यमृतं क्षोभयित्वा विमृश्य शिष्यस्य द्वादशान्तान्मूतिर्घ्न पतितं भावयन् कलशाद्धारां पातयेदित्यर्थः | तुर्यद्वारं तुर्यानुभवप्रधानं ब्रह्मरन्ध्रम् || ४४९ || अभिषेकप्रयोजनमाह ---- मन्त्रशक्तिभिरुग्राभिः शोषनिर्दहनादिभिः | शरीरं शोष्यते ताभिस्तदर्थमभिषेचनम् || ४-४५० || ताभिः पूर्वोक्ताभिर्मन्त्रशक्तिभिः | शोषनिर्दहनादिभिरिति करणे तृतीया | तदर्थमिति शोषनिवृत्तये || ४५० || अथ ---- दीक्षानिर्वर्तनात् पूर्वं पुष्पं पाणौ प्रदापयेत् | दर्भं विमोचयित्वा च........... पूर्वं (परतत्त्वस्य) कल्पनाय दत्तं दर्भं विमुञ्चेति शिष्यं प्रयुज्य पारितोषिकं पुष्पमस्य हस्ते दद्यात् | यद्वा णिच् विवक्षितस्तेन गुरुरात्मनः पाणौ प्रदापयेद् देहीति शिष्यं प्रयुञ्जीत, विधिर्दक्षिणाहीनो मा भूदित्यभिप्रायात् | एवं च वदन् गुरोनीःस्पृहत्वं सूचयति | शिष्यस्तत्कालं वित्तशाठ्यहीनो यद्दाति ददातु तत्, गुरुणा तु निःस्पृहेणैव भाव्यमित्यर्थः || अथ शिष्यः ---- ............शिवाग्नौ कलशे गुरौ || ४-४५१ || प्रत्येकम् ---- प्रदक्षिणत्रयं कृत्वा दण्डवन्निपतेद् भुवि | चतुरधिकरणः शिवो मम प्रकर्षेण दक्षिणोऽनुकूलः सर्वदशास्वादिमध्यान्तपदेष्वस्तु इत्याशयेन त्रिःप्रदक्षिणीकरणम्, दण्डवन्निपतनं शरीरादिगुणीकरणेन शिवसमावेशाय || अत एव ---- कृतकृत्यः प्रहृष्टात्मा भवोत्तीर्णः सुनिर्मलः || ४-४५२ || प्रोत्फुल्लनयनः शान्तस्तृप्तात्मानं तु भावयेत् | कृतं पाशक्षपणशिवत्वव्यक्तिरूपं कृत्यं यस्य, अत एव प्रहृष्टात्मा पूर्णचिदानन्दानुभवोऽतश्च भवादुत्तीर्णः, परमशिवत्वव्यक्त्या सुष्ठु निर्मलः, तथाभूतः सन्नपि व्युत्थानाद्यवसरेषु तृप्तात्मानमिति गुरूपदेशादिसमये पूर्णानन्दघनमात्मानमनुभूतचरं भावयेत्, येन सदैव तन्मयीभवति | अत्रोपायप्रकटनाय विशेषण (द्वा)रकं हेतुमाह --- - प्रोत्फुल्लनयनः शान्त इति | ऽऽकैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः |ऽऽ (वि०भै० ११३) इति रहस्यदृष्ट्यनुसारेण निर्लक्ष्यस्तब्धदृष्टिबन्धः शान्तो विगलिताभिलाषप्रक्षीणसकलविकल्पजालश्च || उपसंहरति ---- इयं नैर्वाणिकी दीक्षा निर्बीजा वा सबीजिका || ४-४५३ || ऽऽअथ दीक्षाध्वशुद्ध्यर्थंऽऽ (४-७९) इत्युपक्रम्य ऽऽपाशसूत्रं समादाय शिष्यदेहेऽवलम्बयेत्ऽऽ (४-९१) इत्यतः प्रभृति ऽऽदण्डवन्निपतेद्भुविऽऽ (४-४५२) इत्यन्तं या निर्बीजा वा सबीजा वा दीक्षोक्ता, सा उभययपि निर्वाणप्रयोजना | ऽऽवाऽऽग्रहणेनेदमाह ---- द्वयोरपि दीक्षयोः प्रोक्तो यः पाशक्षपणशिवयोजनात्मा विधिः स तुल्यः, केवलं निर्बीजायां मायीयपाशशुद्धिभावनावसरे समयपाशमप्यन्तःशुद्धं भावयेत्, न तु तेषां शुद्धौ विध्यन्तरमस्ति | पूर्वं हि ---- शमयाचारपाशं तु निर्बीजायां विशोधयेत्ऽऽ (४-१४७) इत्येतावन्मात्रमुक्त्वा ऽऽएवं भावानुसारेण शिष्याणां गुरुणा सदा | फलं तु विविधाकारं निष्पाद्येत सुदीक्षया ||ऽऽ (४-१५०) इत्युक्तम् | तथा ऽऽ................ंउख्याः पाशा इमे स्मृताः | सूक्ष्मपाशाननेकांश्च तदन्तर्भावयेत्.......... ||ऽऽ (४-१५८) इत्यप्युक्तम् | अतो निर्बीजायां समयपाशा मायीयपाशान्तर्भूता एव शोध्यत्वेन भाव्याः, तेषां क्रव्यादभोगप्रदत्वश्रुतेर्मायीयपाशान्तर्भावस्यैवोदितत्वात् | अत एव श्रीपूर्वशास्त्रे कण्ठगतमायीयपाशशुद्ध्यन्ते समयपाशशुद्धिरुक्तेत्येतावतैव तन्त्रभेदः | एवं दीक्षाद्वयवि(ध)१रेकरूपत्वेनोपसंहृतत्वाद् यत् पूर्वं पुर्यष्टकांशार्पणं निर्बीजैकविषयमुक्तम्, तदयुक्तमेव मन्तव्यम् || ४५३ || एवं समयपुत्रकयोर्दीक्षामुक्त्वा आचार्यसाधकयो प्रक्रमते ताम् ---- तेषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम् | ऽऽविद्व्द्द्वन्द्वसहानां तु सबीजऽऽ (४-८८) इत्युक्तत्वात् तानेवाचार्यत्वे साधकत्वे वाभिषिञ्चेदित्यर्थः || तत्र ---- श्रुतशीलसमाचारान् देशकत्वे नियोजयेत् || ४-४५४ || श्रुतं पारमेश्वरसंहितायां गुरुतस्तात्त्विकार्थपरिज्ञानम्, शीलं वाङ्मनःकायविषया यमनियमाः, सम्यगाचारः शास्त्रानुष्ठानात्मा, एते विद्यन्ते येषां तान् दिशतीति देशक उपदेष्टा आचार्यः, तद्रूपत्वे नियुञ्जीतेत्यर्थः | अथाभिषेक आचार्ये शिवयोगादनन्तरम् | शिवयोगो योजनान्तो दीक्षाविधिस्तस्य पश्चात् || केन कार्यः? ---- इत्याह ---- पञ्चभिः कलशैर्भद्रे सितचन्दनलेपितैः || ४-४५५ || शिवकुम्भवदभ्यर्च्य रत्नगर्भाम्बुपूरितैः | ऋद्धिवृद्ध्यादिभिः पूतैरोषध्यक्षतपूरितैः || ४-४५६ || सितपद्ममुखोद्गारैश्चूतपल्लवसंयुतैः | ऋद्धिवृद्धी आयुर्वेदप्रसिद्धे ओषध्यौ | पृथगोषधीशब्दः सहदेव्यादौ | सितपद्मान्येव मुखानि तैरुद्गार उल्लासो भोगमोक्षलक्ष्मीपरामर्शश्च विद्यते येषाम् | चूतपल्लवादीनि सच्छायपत्रान्तराद्युपलक्षणाय || अथैतेषु ---- पृथिव्यादीनि तत्त्वानि पञ्च पञ्चसु विन्यसेत् || ४५७ || कलशेषु महादेवि पुनश्चैव कलां न्यसेत् | ताश्च-- निवृत्त्याद्याः कलाः पञ्च तेषु चैवात्र विन्यसेत् || ४-४५८ || तेष्विति पृथिव्यादिषु व्यापकत्वेन, चकारः सहक्रमं सूचयति || ४५८ || तेष्वेवासनपक्षे ---- एकैककलशे व्याप्यो ह्यनन्तादिशिवान्तकः | भुवनेशपुञ्जः || तत्र च ---- पूजयेद् भैरवं देवं सर्वसम्भारकैः क्रमात् || ४-४५९ || षडङ्गावरणोपेतं मन्त्रसन्धानसंयुतम् | क्रमो निवृत्तिकलशः पूर्वमित्यादिरूपः, आवरणानि श्मशानवर्जानि, इति केचित् || एवं सम्पूज्य ---- भैरवेणाभिमन्त्रेत एकैकं कलशं प्रिये || ४-४६० || अष्टोत्तरशतेनैव परतत्त्वमनुस्मरन् | एषां कलानुसारां दिक्स्थितिमाह ---- वारुण्यां सौम्ययाम्यायामेन्द्र्यामैश्यां तथैव च || ४-४६१ || सम्पूज्यैवं विधानेन अभिषेकं समाचेरत् | तत्र ---- यागहर्म्यस्य एशान्यां पीठं सङ्कल्पयेद् बुधः || ४-४६२ || पीठमासनम् || ४६२ || कथम् ---- तत्र मण्डलकं कृत्वा स्वस्तिकादिविभूषितम् | वितानोपरिसंच्छन्नं ध्वजैश्च परिशोभितम् || ४-४६३ || तत्रासनं न्यसेद् देवि श्रीपर्णीचन्दनोद्भवम् | श्रीपर्णीचन्दने प्रशस्तपदत्वोपलक्षणे || तत्रानन्तासनं न्यस्य मूतीभूतं शिशुं न्यसेत् || ४-४६४ || पूर्ववत् सकलीकृत्य एशान्यभिमुखं स्थितम् | तत्रेति श्रीपर्ण्याद्यासने, शिशुमाचार्यीचिकीषीतम् || अथ ---- गन्धपुष्पादिनाभ्यर्च्य निर्भर्त्स्यः काञ्चिकौदनैः || ४-४६५ || मृद्भस्मगोमयैः पिण्डैर्दूर्वाङ्कुरसमाश्रितैः | सिद्धार्थदधितोयैश्च नीराजनसमन्वितैः || ४-४६६ || काञ्चिकादिद्रव्यपूर्णेन कुम्भेनोपरि निःशेषराजनात्मतया नीराजनादिदीपयुक्तेन निर्भर्त्स्यः प्रशान्तविघ्नः शिशुः कार्य इत्यर्थः || अथ ---- निर्भर्त्स्यैवं विधानेन अभिषेकं प्रदापयेत् | पृथिव्यादिघटास्यैर्वा धामानुस्मृत्य सेचयेत् || ४-४६७ || ईशानान्तैः पृथिव्यादिकलशानामास्यैर्वक्त्रैः सिञ्चेत् | णिजविवक्षितोऽत्र | एवमन्यत्र | घटाद्यैरिति त्वपपाठः || ४६७ || किं च ---- क्रमाद् ध्यात्वा कलशेषु......... निवृत्त्यादिव्याप्तिक्रमेण चिन्तयित्वा, इत्यर्थः || कः? ---- .............आचार्यः सुसमाहितः | शिवावेशशालीत्यर्थः || अथायं यथायथम् ---- अभिषिक्तोऽन्यवासस्तु परिधाप्याचमेत् ततः || ४-४६८ || मायीकञ्चुकप्रक्षेपव्याप्त्या पूर्ववस्त्रत्यागः | परमशिवप्रकाशपरीतताव्याप्त्या अन्यद्वासः परिदधीत || ४६८ || आचान्तजलं शिष्यम् ---- प्रविश्य दक्षिणां मूतीं.......... तत्रास्य व्याख्यातव्याप्त्यानन्तासनरूपम् ---- ................योगपीठं प्रकल्पयेत् | तत्रैवम् ---- संस्थाप्य सकलीकृत्य.............. अस्मै ---- ..............ऽधिकारं प्रकल्पयेत् || ४-४६९ || कथमित्याह ---- उष्णीषं मुकुटाद्यांश्च छत्रं पादुकमासनम् | हस्त्यश्वशिविकाद्यांश्च राजाङ्गानि ह्यशेषतः || ४-४७० || करणीं कर्तरीं खटिकां स्रुक्स्रुवौ दर्भपुस्तकम् | अक्षसूत्रादिकं दत्त्वा................ उष्णीषश्च शिरसि बन्धनाय पटः | मुकुटादिकमाभरणजातं भूषणार्थम् | शिविका युग्यम् | राजाङ्गानि तूर्यभेर्यादीनि | करण्याद्याचार्यतोपयोगि | ऽऽआदिऽऽ ग्रहणाद् दूत्यर्घपात्रादिकम् || अधिकारं व्याचष्टे ---- .................चतुराश्रमसंस्थिताः || ४-४७१ || दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा | अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया || ४-४७२ || चतुर्ष्वपि आश्रमेषु ये स्थिताः, तेषां त्वया दीक्षा व्याख्या च कार्या, कथं दीक्ष्याणामायातशक्तिपातत्वाद् दीक्षार्हाणामनुग्रहमार्गेणानुजिघृक्षया, न तु स्नेहलोभादिना, सदेति न कदाचिदपि परानुग्राहितां विना स्थेयमित्यर्थ इत्ययमसौ तवाधि कार आयातः न त्वत्रान्यस्य कस्यापि शक्तिरित्याज्ञा देयेत्यर्थः || ४७२ || अथ तम्-- उत्थाप्य हस्तौ संगृह्य मण्डले तु प्रवेशयेत् | किं च ---- जानुभ्यां धरणीं गत्वा सम्पूज्य भैरवं ततः || ४-४७३ || विज्ञाप्य............ किम् .............भगवन्नेवमभिषिक्तस्त्वदाज्ञया | आचार्यपदसंस्थेन तवानुज्ञाविधायिना || ४-४७४ || त्वदाज्ञयैवमाचार्यपथे स्थितः || ४७४ || तवाज्ञयैव चायमभिषिक्त इति विज्ञाप्य ---- कर्तव्यं यत्तदायातमधिकारं तु देशके | शिवतत्त्वार्थकथनं शिवस्य पुरतः स्थितः || ४-४७५ || यद् गुरुपारम्यर्येणायातं शिवतत्त्वार्थकथनमवश्यकर्तव्यं तदहं तवैव शिवस्य पुरतः स्थितोऽस्य करोमीति विशेषकथनम्, कीदृगधिक्रियतेऽनुगृहीतस्त्वद्रूपः संपद्यते येन तादृक् || ४७५ || अथ ---- निर्गत्य भवनादग्नौ कलाध्वानं तु होमयेत् | तत्रादौ मूलमन्त्रक्रमेण ---- मन्त्रतर्पणकं कृत्वा............. प्रत्येकम् ---- ...........कलानां पञ्च चाहुतीः || ४-४७६ || दद्यात् || ४७६ || तदित्थम् ---- पञ्च पञ्चसु सर्वासु हुत्वा पूर्णाहुतिं गुरुः | अर्थान्मूलेन दद्यात् || अथ ---- अर्घपूजादिकं कृत्वा प्रणम्य ख्यापयेत् प्रभोः || ४७७ || किम् ---- अभिषिक्तो मयाचार्यस्तदर्थं मन्त्रतर्पणम् | वह्नौ कृतमित्येतद्वस्तु ख्याप्यमित्यर्थः || अथास्य ---- हृदाद्यैः पञ्चभिश्चाङ्गैर्दक्षिणं लाञ्छयेत् करम् || ४-४७८ || नेत्रस्य मूलाभिन्नव्याप्तिकत्वात्तद्वजीतैः || कथम् ---- दर्भोल्मुकं शिवाग्नौ तु........... कृत्वा || तेनैव ---- ...........कनीयस्यादि लाच्छयेत् | कनीयस्याद्यङ्गुलीर्हृदादिमन्त्रैः क्रमेण दर्भोल्मुकेन स्पृशेत्; येनास्य मन्त्रा दीप्ताः करणरूपा झटिति तत्तत्कार्यशक्ता भवन्ति, एतत्करस्पर्शात् पाशा दग्धबीजकल्पा यान्तीत्यर्थः || इत्थं समुत्पन्नाभिषेकस्य विधिरयं फलत्विति धिया पारितोषिकम् ---- पुष्पं पाणौ प्रदद्यात्तु............... तं च ---- .............ंअण्डलाग्नौ प्रपायेत् || ४-४७९ || शिष्यं दण्डवत् प्रणामार्थम् | स च ---- भैरवं कलशं चाग्निं नमस्कृस्य तु दण्डवत् | लब्धाधिकारो हृष्टात्मा दृष्टादृष्टफलान्वितः || ४-४८० || स गुरुः शिवतुल्यस्तु शिवधामफलप्रदः | दण्डवदित्यादावभिप्राय उक्त एव, दृष्टं फलं जीवन्मुक्तिः, अदृष्टं तु परमशिवत्वम् || एवं पुत्रकाचार्यविषयं विधिं निर्वाह्य साधकविषयं तमुपक्रमते ---- शान्त्यन्ते भूतिदीक्षा च सदाशिवपदात्मिका || ४-४८१ || भूतिदीक्षा सदाशिवान्ताणिमादिभोगदीक्षा शान्त्यन्ते शान्त्यन्तपदे योजनान्ते इत्यर्थः | ऽऽचऽऽकारात् शिवयोजनिकारूपापि, यतः ---- ऽऽयेषां सबीजिका दीक्षा कुर्यात्तेष्वभिषेचनम् |ऽऽ (४-४५४) इत्युपक्रान्तम् | सबीजिका च शिवयोजनिकात्मैवोक्ता | अत एवोक्तमन्यत्र --- - ऽऽअप्रसादाद्भवेत् सिद्धिः प्रसादाच्छाङ्करं पदम् |ऽऽ इति | यदि सिद्धिविषयेषु माद्यति तदस्य शाङ्करे पदे विघ्नो मा भूदित्येवमर्थं साधकस्य शिवयोजनिकां कृत्वा सदाशिवे योजना कार्या || ४८१ || तदित्थम् ---- शिवधमीण्यसौ ज्ञेया............ साधकदीक्षेति शेषः यत्र सदाशिवतत्त्वे योजनमस्ति || सा च ---- .............ऌओकधमीण्यतोऽन्यथा | अशुभैकक्षपणात् तत्तद्भुवनेशादिपदयोजनात्मिका || अतश्च ---- शिवधमीण्यसौ येषां साधकानां प्रकीतीता || ४-४८२ || तेषां कृत्वाभिषेकं तु............... वक्ष्यमाणरूपम् | तानेव ---- ..............षाधकत्वे नियोजयेत् | तत्र ---- साधकस्याभिषेकोऽयं विद्यादीक्षात उत्तरः || ४-४८३ || विद्या सकलमन्त्रस्तत्कृता विद्यात्मकसदाशिवपदयोजनात्मा शिवपदयोजनादनन्तरभाविनी या दीक्षा, तत उत्तरः साधकस्यायमितीदानीमेव कथ्यमानप्रकारोऽभिषेकः कार्यः || ४८३ || यद्यपि सकलमन्त्रस्यापि परपदप्राप्तिहेतुत्वमस्ति, तथापि ---- विद्यादीक्षा भवेत् सा तु वासनाभेदतः स्थिता | उक्तं हि ऽऽमन्त्रमुद्राध्वद्रव्याणां होमः साधारणःऽऽ (४-८२) इत्यादि || अत एव ---- कर्मभेदो न विद्येत सर्वत्राध्वनि संस्थितः || ४-४८४ || कर्म पाशक्षपणम् || ४८४ || अतश्च ---- कृतानि यानि कर्माणि सर्वाण्यध्वगतानि तु | तानि संशोध्य विधिवत् कलापञ्चस्थितानि तु || ४-४८५ || योजन्यवसरे भेदो विमर्शः साधकस्य तु | पूर्वं च कलात्रये कार्ममलस्थितिः स्थूलतयोक्ता, इह तु सूक्ष्मतया कलापञ्चकेऽपि, इति न कश्चिद् व्याघातः | प्रथमःऽऽतुऽऽशब्दश्चार्थे भावीन्यपि कर्माणि समुच्चिनोति || अत्र पूर्वोक्तं विधिं स्मारयति ---- प्रारब्धं कर्म पाश्चात्त्यं न चैकस्थं तु भावयेत् || ४-४८६ || वर्तमानदेहे मन्त्राराधनादि यत् प्रारब्धं कर्म पाश्चात्त्यं च यत्तदेकत्र क्षपणीयत्वे स्थितं न भावयेत्, नास्य मन्त्राराधनादि कर्मापि क्षपयेदित्यर्थः || ४८६ || निर्णीतं चैतत् ---- साधकस्य तु भूत्यर्थं प्राक् कर्मैकं तु शोधयेत् | प्राक् कर्म आगामि चैकस्थं भावयित्वेत्यर्थः || अतश्च ---- धाम प्रोच्चार्य सकलं सदाशिवतनौ न्यसेत् || ४-४८७ || सकलं द्वात्रिंशदक्षरम् || कथम् ---- विद्यादेहस्वरूपेण ध्यात्वा देवं सदाशिवम् | पूर्णाहुतिप्रयोगेन अणिमादिगुणैर्युतम् || ४-४८८ || विद्यादेहोऽष्टादशभुजः सकलभट्टारकः || अथ ---- अणिमादिगुणावाप्तौ मूलमन्त्रस्वसंज्ञया | अष्टावेवाहुतीर्दत्त्वा अभिषिञ्चेत्तु साधकम् || ४-४८९ || यथा निष्कलयोजनानन्तरं तद्गुणापादनं कृतमेवं सकलयोजनानन्तरमस्याणिमादिगुणात्मतापत्तिः कार्या | अत्र सकलमन्त्रपूर्वं साधकानामणिमा भवेत्युच्चार्य पुनः सकलोच्चारपूर्वमणिमादिगुणाय दीक्षात्मने स्वाहेत्यादिप्रयोगः | अणिमादिगुणावाप्ताविति तन्निमित्तम् || ४८९ || तदभिषेकं प्राग्वत् ---- कलशैः पञ्चभिः कुर्यात्.......... कथमित्याह ---- निवृत्त्याद्यास्त्रिषु न्यसेत् | शान्त्यतीतां पञ्चमे च शान्तिं पश्चाच्चतुर्थके || ४-४९० || त्रिष्विति दक्षिणोत्तरवारुणदिग्गतेषु प्राग्वक्त्रादिपूर्णेषु पञ्चसु | पञ्चम इति चेशाने | पश्चादिति शान्त्यतीतान्यासादनन्तरम् | चतुर्थक इति प्राच्यकलशे | अत्र चाभिप्रायो यत् साधकस्य शिवदशाविश्रान्तिपूर्वमविघ्नं सादाशिवी सिद्धिरस्त्वित्येवमुक्त्वा भोगानयं शिवो भवत्विति || ४९० || तदित्थम् ---- शान्त्या तु सम्पुटीकृत्य............ शान्त्यतीताकलशानन्तरं शान्ताकलशन्यासात् शान्त्या संपुटीकारो भवती, शान्त्यतीतायाः कलात्रयेण शान्त्या च गर्भीकृतत्वात् || किं च ---- .............पृथिव्याद्यैश्च पञ्चभिः | कलाक्रमेणैव कलशेषु न्यासं कुर्यादिति शेषः | पृथिव्यादयोऽत्र क्रोडीकृताशेषतत्त्वतत्त्वेश्वरस्फारा ब्रह्मपञ्चकपरमार्था, न तु स्थूलभूतमात्रात्मकाः || अथ ---- एकैककलशे पश्चात् साध्यमन्त्रं तु विन्यसेत् || ४-४९१ || विद्याङ्गैः सकलीकृत्य............. साध्यमन्त्रः सकलभट्टारक इह मुख्यः, अन्योऽपि वा पुष्पपातानुसारम्, विद्याङ्गैरिति सकलाङ्गैः सर्वज्ञत्वादिरूपैस्तत्तत्साध्यमन्त्राङ्गैर्वा || पश्चात्तत्र ---- .............विद्याङ्गावरणं न्यसेत् | विद्याङ्गानां सर्वज्ञत्वादिरूपाणामेव सिद्धिसाधनानुगुण्यान्नावरणान्तरन्यास उक्तः || अथ साध्यमन्त्रेणैव ---- संमन्त्र्याष्टशतेनैव एकैकं कलशं ततः || ४-४९२ || बहिर्मण्डलके न्यस्य आसनं प्रणवेन तु | साधकं तत्र संस्थाप्य सकलीकरणं ततः || ४-४९३ || निर्भर्त्स्य पूर्ववत् सर्वैः साध्यमन्त्रेण सेचयेत् | निवृत्याद्येकैककलशस्य साध्यमन्त्रेण मन्त्रणं सर्वभूमयोऽस्य मन्त्रप्रसादात् सिद्धिप्रदा भवन्त्विति | बहिरिति यागाद् | मण्डले स्वस्तिकादिरूपे | आसनं श्रीपर्ण्यादिरूपम् | सकलीकरणमिति, तस्य कुर्यादिति शेषः | सर्वैरिति पूर्वोक्तैः काञ्चिकादिद्रव्यैः || तत्र ---- निवृत्यादित्रिभिः कुम्भैः स्नापयेत् पूर्वदिङ्मुखम् || ४-४९४ || शान्त्यतीतं घटं पश्चाद् गृहीत्वा सेचयेच्छिशुम् | शान्तिं पश्चात्तु गृह्णीयात्............ शान्तिमिति शान्तिघटम् || तदित्थम् ---- ...............षम्पुटेनाभिषेचयेत् || ४-४९५ || संपुटार्थस्तदभिप्रायश्च व्याकृत एव || तदेवम् ---- साधकस्याभिषेकोऽयमनुलोमविलोमतः | आनुलोम्यं निवृत्त्यादित्रये, शान्तिशान्त्यतीतयोस्तु प्रातिलोम्यम् || किं च ---- अभिषिच्य प्रवेश्यैनं दक्षिणां मूतीमास्थितम् || ४-४९६ || परिवतीतवस्त्र इत्यर्थात्, दक्षिणमूर्त्याश्रयणं विघ्नप्रशमाय || ४९६ || तत्रास्य च ---- प्रणवेनासनं दत्त्वा सकलीकरणं भवेत् | अथास्य सिद्ध्युपकरणम् ---- साधकस्याधिकारार्थमक्षमालादि कल्पयेत् || ४-४९७ || समुचितं ढौकयेत् || ४९७ || कल्पयित्वैतत् ---- मन्त्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके | उष्णीषरहितं दत्त्वा............. कल्पः साध्यमन्त्रपुस्तिका, उष्णीष आचार्यायैव देयः | अथ ---- ...............प्रविश्य शिवसंनिधौ || ४-४९८ || विज्ञाप्य परमेशानं साधकोऽयं मया कृतः | भूयात् सिद्धिस्त्वदाज्ञातस्त्रिप्रकारास्य भक्तितः || ४-४९९ || साध्यमन्त्रं ददेत् पश्चात् पुष्पोदकसमन्वितम् | शिवसंनिधाननिमित्तं प्रविश्यान्तर्मुखीभूय तदवष्टम्भेनैव देवं विज्ञाप्य साध्यमन्त्रं दद्यात्, साधकोऽयमित्यादि विज्ञप्तेः स्वरूपम्, विज्ञप्तेः पश्चात् पूर्ववल्लब्धानुज्ञत्वं भव्यम्, शिवसंनिधावेव च पुष्पं फलोत्पादनधिया, उदकं सिद्ध्याप्यायनाय || तदाह ---- तस्य हस्ते समर्प्येत सिद्ध्यर्थं साधकस्य तु || ५०० || परशक्तित उद्भूतं तच्छक्तिसंमुखीभूतमेतदित्यभिप्रायाद् हस्तेन हस्ते समर्पणम् || साधकस्तु ---- प्रणम्योभौ गृहीत्वा तु मन्त्रं हृदि निवेशयेत् | उभौ गुरुमन्त्रौ, हृदीति स्वात्मानं तत्तद्विमर्शमयं कुर्वीतेत्यर्थः || तदेवमुभयोर्योग्यसंबन्धलाभात् ---- प्रहृष्टवदनः शिष्यो गुरुश्चापि प्रहर्षवान् || ४-५०१ || उभौ निर्गत्य च ---- अग्न्यागारे सावधानौ............... स्यातामिति शेषः || ततो गुरुरग्नौ तु ---- ...............टर्पयेन्मन्त्रसंहिताम् | ततोऽपि यथासंभवम् ---- सहस्रं वा शतं वापि साध्यमन्त्रस्य तर्पणम् || ४-५०२ || कुर्यात् || एवं संतर्पयित्वा तु पुष्पं पाणौ प्रदापयेत् | प्राग्वद् गुरुः साधकाय, तेन वात्मन इत्यर्थः || ततः साधकः ---- त्रिस्थं सम्पूज्य देवं तु............... स्थण्डिलवह्निगुरुमूतीषु दण्डवन्निपतेत् || ...........टतोऽपि त्रिःप्रदक्षिणम् || ५०३ || कृत्वा || प्रणम्य भक्तियुक्तात्मा अणिमादिफलं लभेत | तद्योग्यतामेति || गुरुस्तु ---- उत्थाप्य साधकं ब्रूयात् समयान् पाहि यत्नतः || ४-५०४ || तेऽग्रे भविष्यन्ति || किं च निर्बीजदीक्षादीक्षितवर्जं सर्वे शिष्याः समयान् श्राव्या इत्यादिशति ---- दीक्षावसाने ते देवि श्रावणीया विपश्चिता | समयज्ञेन || उपसंहरन्नन्यदवतारयति ---- दीक्षां एवं तु निर्वर्त्य सर्वदैव वरानने || ४-५०५ || आत्मयागः प्रकर्तव्यो यथा भवति तच्छृणु | दीक्षां समययादीनाम् | आत्मनो यागः परतत्त्वयोजनात्मा समुच्छेद्यपाशसंस्पर्शविधिन्यूनतादिसंभावनाशङ्काशान्तये कर्तव्यः || तदित्थम् ---- वैज्ञानिकी प्राकृती वा आचार्यस्य यदृच्छया || ४-५०६ || दीक्षा भवति | विज्ञानहेतुका वैज्ञानिकी | तिलाज्याहुतिहेतुका प्राकृती || ५०६ || तत्र ---- वैज्ञानिकीं सुसूक्ष्मां तु विधिनानेन कारयेत् | सुसूक्ष्मां पूर्णज्ञानसंपाद्याम् | अनेन वक्ष्यमाणेन || तत्र प्राकृती तावत् पूर्वोक्तप्रकारात् किंचिद्वैलक्षण्येनाह ---- तिलाज्यादिसमायुक्ता अध्ववागीशिकल्पना || ४-५०७ || प्राकृत्यां कार्येति शेषः || ५०७ || तत्र च ---- कलाभिः पञ्चभिर्व्याप्तमध्वानं युगपन्न्यसेत् | न तु प्राग्वत् || क्रमेण च तद्व्यनक्ति ---- पूजाहोमोपचाराद्यान् कृत्वात्मानं नियोजयेत् || ४-५०८ || शिष्यचैतन्यवत्............... वागीश्यां युगपदशेषकलाव्याप्तिकायामाह्वानार्चादिपूर्वं पुर्यष्टकरूपमात्मानंयोजयेत् | ततोऽपि ---- ..........योगादध्वानं युगपन्न्यसेत् | गर्भयोजनादनन्तरं दीक्ष्यमध्वानं युगपन्न्यसेत् || न्यस्तं च ---- पुष्पाद्यैः पूजयित्वा तं........... तत्रैव ---- ...............योगार्थमाहुतित्रयम् || ४-५०९ || प्रणवमूलहंसबीजपूर्वमात्मानं सर्वाध्वव्यापकं वागीशीगर्भे युगपद्योजयामि स्वाहा इत्यत्र प्रयोगः || ५०९ || अथ ---- गर्भधारित्वजनने अर्जने भोगतल्लये | युगपद्धोमयेद् देवि मूलमन्त्रेण सुव्रतः || ४-५१० || प्रत्येकं युगपदिति सर्वाध्वव्याप्तिभावनया त्रिर्होमः || ५१० || तदाह ---- आहुतीनां त्रयं होम्यं प्रतिकर्म वरानने | निष्कृतेः प्राधान्यात् पृथग्घोममाह ---- होतव्या निष्कृतिभीन्ना पञ्चस्थानकलात्मसु || ४-५११ || शतमेकं तदर्धं वा.............. पञ्च पृथिव्यादीनि स्थानानि यासां कलानां तदात्मसु तद्विषये | तेन निवृत्तौ मच्चैतन्यस्य गर्भाधानादिकर्मपञ्चके निष्कृतिरस्तु स्वाहा इति प्रयोगः | एवमन्यत्र || एषा च ---- .........णिष्कृतिः परिकीतीता | पूर्वमेव निर्णीता | अथ ---- विश्लेषपाशच्छेदाद्ये धाम्नैव युगपद्धुतिः || ४-५१२ || उद्धारे चात्मतत्त्वस्थे................ आदिपदाद्विधिपूरणे पाशदाहे च युगपदेव पूर्णाहोमः | अत्र च ताडनच्छेदनग्रहणैकचैतन्यभावनकारणाह्वानपुर्यष्टकां- शार्पणं पूर्वत उपजीव्यम्, पुर्यष्टकांशार्पणं सबीजायामपि भवतीति निर्णीतत्वात् || अथ ---- ............पूर्णाहुतिं तु पातयेत् | तयैव च ---- आत्मानं योजयेत्तत्त्वे शिवे परमकारणे || ४-५१३ || ततोऽपि ---- गुणान् पूर्ववदापाद्य........... अवभृथस्नानेन || तानेव ---- ............ऽमृतान् पूर्ववत् कुरु | अमृतान् अविनश्वरान् | सेयं प्राकृती ---- आत्मदीक्षा..................... पुत्रकादिदीक्ष्याणाम् ---- ......षमाप्तौ तु प्रायश्चित्तनिवृत्तये || ४-५१४ || पशुसंसर्गन्यूनातिरिक्तविधिसंभावनाशङ्काशान्त्यर्थमित्यर्थः || ५१४ || नन्वात्मनोऽशुद्धस्य यो दीक्षया शुद्धिमादत्ते, सोऽपि यद्यशुद्धस्तदन्धेनान्धस्य हस्तग्रहणम् | अथ प्राणादिविलक्षणतया प्रत्यभिज्ञातोऽसौ शुद्धः, तही तत्पपरामर्शादेव सर्वं संपन्नमिति किं प्राकृत्या दीक्षया ? सत्यमेतत्, यदि शक्तिपातवशादेव रूढिः स्यात्, तदा प्राकृती नैव कार्या | तदा तु कुशलैकसम्पाद्यां विज्ञानदीक्षामाह ---- अथ विज्ञानरूपेण सकृदुच्चारलक्षणा | दीक्षा भवति | मध्यधामसमनुप्रवेशेन यः स्वपूर्णाहंपरामर्शमयस्य मूलमन्त्रस्य सकृदुच्चारः, स एव लक्षणं यस्याः (सा विज्ञानदीक्षा) || यतः ---- हेयोपादेयपाशानां युगपद् भैरवेण तु || ४-५१५ || भैरवेण निष्कलेन सकृदुच्चारितेन मायान्तानां भेदैकरसत्वेन हेयानाम्, समनान्तानां भेदाभेदरूपतयोपादेयानाम्, तथापि भेदांशसंबन्धात् पाशव्यपदेश्यानां युगपत् शुद्धिर्भवतीति शेषः | उक्तं च प्राक् ---- शकृदुच्चारितो देवि नाशयेत् सर्वकिल्विषम्ऽऽ (१-४४) इति || ५१५ || न केवलं युगपत् पाशक्षपणं मन्त्रेण क्रियते, यावत्परमशिवपदे-- -- शाश्वती संस्थितिः पश्चात्........... एषा च ---- ..........षूक्ष्मदीक्षा प्रकीतीता | इत्थमात्मदीक्षान्ते ---- विशेषपूजनं होमं यथाशक्ति प्रकल्पयेत् || ४-५१६ || वाद्यगीतसुनृत्याद्यैः स्तुतिभिः पूजयेद्धरम् | त्रिः प्रदक्षिणमावर्त्य कलशाग्निसमण्डलम् || ४-५१७ || अष्टाङ्गपतनं कृत्वा विज्ञपेत् परमेश्वरम् | त्र्यधिकरणं देवं प्रदक्षिणीकृत्य || किं विज्ञापयेत् ? ---- इत्याह ---- भगवन् पशुहेत्वर्थं यन्मयावाहितो भवान् || ४-५१८ || तत्क्षन्तव्यं सदा देव विधिस्थस्य मम प्रभो | विधिर्दीक्षाकर्म | ममेति त्वयैव दत्ताधिकारस्य || यदपि ---- विधिन्यूनमकामस्य............ प्रामादिकं विधिन्यूनत्वमपि क्षन्तव्यमित्यर्थ || यस्मात् ---- ............पूजा शास्त्रोदिता यथा || ४-५१९ || न भवेदतिभूयिष्ठा प्राकृतैर्द्रव्यसञ्चयैः | यथा शास्त्रे पूजा भूयिष्ठा विततपरिपाटीकोदिता, तथा प्रकृतिपरिणामरूपैमीतैर्द्रव्यैर्न भवेदिति विनयपरा उक्तिः, अन्यथार्घपात्रविप्रुट्संस्कृतानां द्रव्याणां शिवीकृतत्वात् कथं प्राकृतत्वम् वित्तशाठ्यविवर्जनाच्च मितत्वमस्य प्रयोजकम् || यत एवं ततः ---- अवलम्ब्य भक्तिमात्रं विधानं यत्कृतं मया || ४-५२० || तत्सर्वं सफलं मेऽस्तु सुप्रसन्ने विभो त्वयि | सुष्ठु प्रसादो मायाकालुष्यप्रशमनेन पूर्णचिद्रसमयत्वेन स्फुरणम् || एवं विज्ञप्तिसमनन्तरम् ---- प्रसन्नवदनो हृष्टो वरं दत्तं विभावयेत् || ४-५२१ || अथ ---- उपविश्य ततो यागं संहरेत क्रमात् प्रिये | तत्रादौ ---- अग्रं संप्रार्थ्य गृहणीयात् स्थापयेच्चास्त्ररक्षितम् || ४-५२२ || अग्रवती चर्वादि अग्रम्, ऽऽदेवदेवस्य नैवेद्यं चान्द्रायणशतादिकम् | ऽऽ इत्यन्यत्रोक्तत्वात् परं पवित्रमेतन्मा कश्चिद्भूतादिरदीक्षित आहार्षीदित्यस्त्रेणास्य रक्षणम् || एवं कृत्वा ---- विशेषपूजनं चार्घं प्रणिपातं ततः पुनः | निरोधार्घं ततो गृह्य अर्घं सव्यापसव्यतः || ४-५२३ || दत्त्वा विसर्जयेद् देवं धाममन्त्रमनुस्मरन् | अर्घमिति ---- ऽऽपश्चादर्घः प्रदातव्यः सुरया |ऽऽ (२-१३६) इत्युक्तपूर्वं दत्त्वा प्रणिपातं कृत्वा निरोधप्रयोजनोऽर्घः प्रसृतस्तं परिसमाप्ते विधौ स्वरूपविश्रान्त्यर्थं सव्यापसव्यत इति ज्ञानक्रियाशक्तिव्याप्तिभ्यां दक्षवामकराभ्यां दत्त्वा विसर्जयेत् || विसर्जनविधिमेव प्रदर्शयति ---- आत्मनो रेचकं कृत्वा पुष्पं देवाय निक्षिपेत् || ४-५२४ || निष्कलेनेत्यर्थात् || ५२४ || संहारिण्या च संगृह्य मन्त्रान् पार्श्वव्यवस्थितान् | विद्युद्वच्चलितान् ध्यात्वा धामदेहे तु विन्यसेत् || ४-५२५ || कनिष्ठादिक्रमेण दक्षकरशाखासंवर्तनात्मा संहारिणी मुद्रा | धामदेहे सकलभट्टारके | विन्यसेत्तदेकलीनान् भावयेत् || ५२५ || तमपि ---- विद्यादेहं भैरवस्य.............. निष्कलस्य उपलीनं चिन्तयेत् || ................टल्लीनं बिन्दुविग्रहे | तन्निष्कलरूपमकारादिप्रशमयुक्त्या ज्योतिर्मात्रात्मनि बिन्दौ लीनम् || तमपि ---- बिन्दुं तु नादशक्तिस्थं शक्तिरूपं तु ग्राहयेत् || ४-५२६ || अर्धचन्द्रनिरोधिकाप्रशमयुक्त्या विमर्शप्रधाननादनादान्तरूपतां गमितमानन्दस्पर्शप्रधानशक्तिरूपं संपादयेत् || ५२६ || तदपि ---- शक्तिरूपं व्यापकेन प्रणवोभयसम्पुटम् | स्वरूपेण स्थितं सत् || प्रकर्षेण नूयते स्तूयते सर्वैरिति प्रणवः परं तत्त्वम्, तेन उभयतः सम्पुटितमित्यन्तःकृतं सर्वतो व्याप्तमित्यर्थः || तथा भावितम् ---- संहारिण्या तु संगृह्य द्वादशान्ते तु योजयेत् || ४-५२७ || ततोऽपि ---- पूरकेण हृदि न्यस्य स्वस्थानस्थं तु भावयेत् | स्वस्थानं निरुपाधिप्रकाशानन्दघनमेव तत् || सकलं निष्कलं रूपं तथा सकलनिष्कलम् || ४-५२८ || भिन्नावस्थं तु मन्त्रेषु हृत्स्थं तत्संस्मरेत् प्रिये | सकलं द्वात्रिंशदर्णम्, निष्कलं च मन्त्रविरामे प्रकाशविमर्शमात्रतत्त्वम्, सकलनिष्कलं तु चतुष्कलनाथात्मकं यदेकमप्यनुजिघृक्षया त्रिधैव भूत्वा पुनर्वक्त्राङ्गादिभूमिषु भिन्नावस्थं तदेवंव्याप्तिकमेतदेकमेव मान्त्रं रूपं हृत्स्थं स्मरेत् || उपसंहरति ---- विसर्जनविधिर्ह्येवं............ यथा मण्डले तथान्यत्राप्याह ---- ......ऽग्नावेवं........ तत्रादावग्निम् ---- .........प्रपूजयेत् || ४-५२९ || ततोऽपि मूलेन ---- अष्टोत्तरशतं हुत्वा पूर्णाहुतिं प्रपातयेत् | तं च ---- अर्घमाचमनं दत्त्वा प्रणिपत्य क्षमापयेत् || ४-५३० || क्षमयेदित्यत्रार्थेऽयमैशः पाठः || ५३० || कथं क्षमयेत् ? ---- इत्याह ---- मण्डलस्थप्रयोगेन रेचकापूरकेण तु | संगृह्य मन्त्रसंघातं यथास्थानं प्रकल्पयेत् || ४-५३१ || स्वात्मनो मन्त्रोच्चारानन्तरं नासिक्यरेचकेन निर्गत्य लोकपालादिक्रमेण धामान्तमापूर्य रेचयित्वा स्वात्मानमेव पूरयेत् | तत्र लोकपालमन्त्राणां भैरवाः, तेषामङ्गवक्त्राणि, तेषां सकलः, तस्यापि सकलनिष्कलः, तस्यापि व्याख्यातरूपनिष्कलनाथः स्थानमित्ययमेवात्र क्रमः || ५३१ || इत्थमग्निस्थं देवं विसृज्य ---- जागरयेत्तदाग्निं तु नित्यकर्मनिमित्ततः | मा भूत् प्रतिदिनं संस्करणमित्याशयः || अथ ---- निर्माल्यनयनं कुर्याद्रजांस्यपहरेत् प्रिये || ४-५३२ || ततः प्रविश्य वसुधां प्रोक्षयेत्तां शिवाम्भसा | निर्गतं माल्यं निर्माल्यम्, न तु चण्डेशकल्पनया, तस्या इह विशेषनयेष्वचोदितत्वात् || अथ ---- बहिनीर्गत्य भूतानां बलिकर्म तु पूर्ववत् || ४-५३३ || प्रागुक्तेनैव मन्त्रेण कार्यम् || ५३३ || अथ ---- आचम्य सकलीकृत्य लिङ्गिनस्तर्पयेत्ततः | लिङ्गिनो जटाभस्मादियुक्तान् | उक्तं च ---- ऽऽशिवस्य परिपूर्णस्य किं नाम क्रियते नरैः | यत्कृतं शिवभक्तेषु तत्कृतं तु शिवे भवेत् ||ऽऽ इति | (शिवभक्तेषु =) शिवधर्मेषु || अनन्तरम् ---- गुरुं सम्पूजयेच्छिष्यो यथाविभवविस्तरैः || ४-५३४ || अथास्मै स्वात्मानमनृणीकर्तुम् ---- देशाध्यक्षो ग्रामशतं मण्डलेशस्तदर्धकम् | शतभुक् पञ्च वै दद्याद् ग्रामं विंशतिभुक् तथा || ४-५३५ || दद्यात्तु ग्रामभुक् क्षेत्रं क्षेत्रभोक्ता तु विंशतिम् | विंशतितमं भागमित्यर्थः | एतच्चोपलक्षणम् || वस्तुतस्तु ---- येन येन गुरुस्तुष्येत् तत्सर्वं विनिवेदयेत् || ४-५३६ || ततस्त्वनृणतां याति वित्तशाठ्यविवजीतः | वित्तशाठ्ये सति लोभादियुक्तस्य शरीरादिप्रमातृत्वानुग (त्वं न) मना ? (ग)१ पि (मि?)२ लितमिति दीक्षासंस्कारोऽस्य न सम्यग्वृत्त इत्यनुमीयते | यत्र च शिष्यस्येदृग् वृत्तं तत्र गुरुर्दण्डापूपिकयैव निर्लोभः सिद्धः | अत एव प्राक् ---- ऽऽपुष्पं पाणौ प्रदापयेत्ऽऽ (४-५०३) इत्युक्तम् || एवं विदितयोग्यभावः शिष्यः ---- ततस्तु समयान् श्राव्यस्तन्त्रे भैरवनिर्गते || ४-५३७ || ते चाग्रे भविष्यन्ति || अथ च ---- चरुकं प्राशयेत् पश्चाच्चुम्बकः साधकैः सह | वाङ्निरुद्धः प्रसन्नात्मा पृथक् पात्रव्यवस्थितः || ४-५३८ || चरुकमिति प्राथीतनैवेद्यम् | साधकैरित्युपलक्षणम् | चुम्बति परम्परायातेन गुरुवक्त्रेण संयोज्यते संयोजयति च शिष्यमिति निरुक्त्या चुम्बको गुरुः | परमपवित्रचरुभोजने वाङ्निरुद्धत्वं चित्तैकाग्र्याय, अत एव प्रसन्नात्मा || स च चरुः साधकादीनां ज्येष्ठादिक्रमेण देय इत्याह ---- अनुक्रमेण दातव्यः.............. एवं हि सति स स चरुभोजी ---- ...............टतः सिद्धिमवाप्नुयात् | एष च दीक्षाविधिरसामान्यरूप इत्याह ---- अनेनैव विधानेन दीक्षिता ये वरानने || ४-५३९ || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽथवा प्रिये | सर्वे ते समधर्माणः शिवधर्मे नियोजिताः || ४-५४० || सर्वे जटाधराः प्रोक्ता भस्मोद्धूलितविग्रहाः | नात्र अन्यतन्त्र इव दीक्षितानां प्राग्जातिसंस्कारः कोऽपि, केवलं समयादिभेदादेव भेदः || अत एव ---- एकपङ्क्तिभुजः सर्वे समयिनस्तु वरानने || ४-५४१ || सर्व इति ब्राह्मणाद्याः सङ्कीर्णाश्च || ५४१ || किं च ---- पुत्रकाणां भवेदेका साधकानां तथा भवेत् | चुम्बकानां भवेदेका न प्राग्जातिविभेदतः || ४-५४२ || पङ्क्तिरित्यर्थात् || यतः ---- एकैव सा स्मृता जातिर्भैरवीया शिवाव्यया | उक्तं हि प्राक् ---- ऽऽतस्मिन् युक्तः परे तत्त्वे सार्वज्ञादिगुणान्वितः | शिव एको भवेद् देवि अविभागेन सर्वतः ||ऽऽ (४-४०२) इति | यत एषा भैरवसम्बन्धिनी जातिस्तत एव श्रेयोरूपा च नित्या च || अत्रायमेवागमः प्रमाणमित्याह ---- तन्त्रमेतत् समाश्रित्य प्राग्जातिं नह्युदीरयेत् || ४-५४३ || पुत्रकाणां साधकानां तथा समयिनामपि | किं पुनराचार्याणामेतत्तन्त्राश्रितानामेव | अयं नियमो न लौकिकानाम्, तन्त्रमेतत्समाश्रित्येत्येतदावृत्त्या योज्यम् | अतश्च एतत्तन्त्रदीक्षितः ---- प्राग्जात्युदीरणाद् देवि प्रायश्चित्ती भवेन्नरः || ४-५४४ || नर इत्यात्तदेहादिग्रहः || अतश्च ---- दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य च | पितामहस्य पक्षैकं नरके पच्यते तु सः || ४-५४५ || यत एवम् ---- अविवेकी भवेत्तस्माद्यदीच्छेदुत्तमां गतिम् | अविवेकी स्वात्मानमिव दीक्षितान् शिवैक्येन पश्यन् || यतः ---- अविवेकेन देवेशि सिद्धिर्मुक्तिर्ध्रुवं भवेत् || ४-५४६ || शिवैक्यदार्ढ्यमेव सर्वश्रेयःसाधनमिति शिवम् || तन्त्रार्थप्रतिजागरात् प्रतिपदं सद्व्याप्तिसंदर्शनात् सम्यक्सङ्कलनाक्रमात् प्रकटितो दीक्षाविधिर्यो मया | उद्द्योतेऽत्र तमामृशन्तु गुरवः श्रीशङ्कराज्ञाधरा दीक्षां दीक्ष्यजनस्य कर्तुमभितो भोगापवर्गप्रदाम् || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते दीक्षाभिषेकप्रकाशनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ दीक्षादीक्षणनिर्माणनानोपायप्रदर्शनः | जयत्यनुग्रहैकान्तविश्रान्तः परमेश्वरः || अथ पटलसङ्गतिं कुर्वती उक्तकलादीक्षानुवादपूर्वं तत्त्वदीक्षां प्रस्तावयितुं श्रीदेव्युवाच ---- कलादीक्षा सुरेशान कथिता परमेश्वर | तत्त्वदीक्षां समासेन कथयस्व प्रसादतः || ५-१ || सुरेशानो ब्रह्मादीनां स्वामी | परमेश्वरस्तु परभैरवसत्तानुप्रवेशात् | समासेनेति संक्षेपेण विधिविस्तारस्य कलादीक्षायामुक्तत्वात् || १ || एवमभ्यथीतः श्रीभैरव उवाच ---- समासात् कथयिष्यामि त्वत्प्रियार्थं वरानने | पूर्वं प्रश्नेन प्रकृतां तत्त्वदीक्षां नानाभेदभिन्नाम् || तत्र ---- षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति || ५-२ || पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह | यथा शुद्ध्यन्ति देवेशि तथा ते कथयाम्यहम् || ५-३ || तत्त्वदीक्षायां तत्त्वानामन्तर्भाविताध्वान्तरापेक्षं प्राधान्यमेव व्याप्तिरध्वान्तराणां तु गुणीभावः | एवमन्यत्र | येन प्रकारेण शोध्यानि शोधनीयानि, यथा च शुद्ध्यन्ति तथा शोधकशोध्यगतं प्रकारं तव अनुग्रहैकपरायाः कथयामीति प्रतिज्ञा || ३ || तत्र ---- विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः | वाचकास्ते च तत्त्वानां............ शोध्यत्वेनोपस्थाप्यानाम् || यथा भवन्ति तथा ---- ................कथयाम्यनुपूर्वशः || ५-४ || तत्र ---- धरित्र्यादिप्रधानान्तमूकारो वाचकः स्मृतः | पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च || ५-५ || स्मृत इति श्रीश्रीकण्ठेन | अतश्च तेनैव वर्णेन प्रणवनवात्मोच्चारपूर्वं तत्तत्तत्त्वं कलोपस्थापनवदुपस्थाप्य अध्वसंधानादिशुद्धाशुद्धतत्त्वानुसंध्यन्तं सर्वं पूर्ववत् कर्तव्यम् | एवं सर्वत्र | पुरुषस्य स्पृहामयत्वाद् रागतत्त्वान्वितस्येत्युक्तम् || ५ || नियामिकां वकारेण विद्यातत्त्वसमन्विताम् | कालं कलां लकारेण कल्पयेत्तु वरानने || ५-६ || किञ्चिद्वेदनात्मनोऽशुद्धविद्यायाः किञ्चिदंशे नियमानुप्रवेशान्नियत्या सह निर्देशः | कलायास्तु किञ्चित्कर्तृत्वात्मनः क्रियाविशिष्टायाः कालानुवेधस्यावश्यंभावात् कालेन सह निर्देशः | सहनिर्देशश्चायं वाच्यवाचकभावप्रदर्शनाय | शोधनं तु पृथगेव || ६ || किं च ---- मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः | रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः || ५-७ || प्रणवेन तथा शक्तिर्न्यसितव्या वरानने | प्रणवेन बिन्दुना | शक्तिरिति शक्तितत्त्वं परमशिवरूपमेव || ७ || अत एव ---- व्यापिनीं समनां चोर्ध्वे तत्रैव तु विशोधयेत् || ५-८ || तत्रैवेति शिवतत्त्वे प्रणवेनैव || ८ || एतच्च सर्वं पूर्वोक्तेन सर्वेण विधिना ---- शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते | योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे || ५-९ || निराभासे परे शान्ते ईशाने चाव्यये त्वजे | शिष्यदेहे पादान्ताद् गुल्फान्तं पृथ्वी, गुल्फान्नाभ्यन्तं जलादिप्रधानान्तानि त्रयोविंशतिः, ततस्ताल्वन्तं पुमादिमायान्तानि सप्त, ततो ब्रह्मबिलोपान्तं विद्यादिसदाशिवान्तं त्रयम्, तदुपरि समनान्तं शक्तितत्त्वसहितं शिवतत्त्वम्, इति तत्त्वानि विन्यस्य, दीक्ष्यस्य तानि सर्वाणि क्रमेण पूर्वोक्तविधिना प्रोक्तनवात्मावयवैः शोधयित्वा, आत्मा परे तत्त्वे परमशिवे, मूलमन्त्रेणेत्यवयवापेक्षया समग्रेण नवात्मना योज्यः | कीदृशे ? उन्मनामतीते तदनुप्रवेशानन्तरलभ्ये शक्तिमदात्मनि सर्वगे व्यापके | ईषद्भासनाद् निष्क्रान्ते सर्वाभासोत्थापके च, निःशेषभेदोपशमात् परे शान्ते, ईशाने विश्वेश्वरे, अव्यये अजे चेति नित्ये || ९ || तदित्थमेकैकं शोधनीयत्वेन ---- षट्त्रिंशत्तत्त्वमाख्यातं............... पात्रादित्वात् समाहारे स्त्रीप्रत्ययाभावः || अथ ---- ................णवतत्त्वं प्रचक्ष्महे || ५-१० || तत्र ---- प्रकृतिः पुरुषश्चैव नियतिः काल एव च | माया विद्या तथेशश्च सदाशिवशिवौ तथा || ५-११ || एतानि मुख्यानि नवतत्त्वानि नवभिर्नवात्मकैः प्रातिलोम्येन पूर्वोक्तविधिना ---- शोधयित्वा तु विधिवद् व्याप्त्यात्मानं नियोजयेत् | शिष्यस्य | प्राधान्येन तु ---- पञ्चतत्त्वी यदा शोध्या.............. तदा ---- ..............वक्त्रमन्त्रास्तु वाचकाः || ५-१२ || तैश्च सद्योजातादिक्रमेण ---- धरित्र्यादि खपर्यन्तं शोधयेत् तत्क्रमेण तु | तत्त्वपञ्चकस्याशेषाध्वशुद्ध्यनुगुणां निवृत्त्यादिकलाव्याप्तिमाह -- -- कलानां यावती व्याप्तिस्तत्त्वानां तावदेव हि || ५-१३ || एवं च वदन् कलादीक्षोक्तोऽत्र सर्वो विधिः, केवलं कलोपस्थापनाद्यवसरे सद्योजातादिमन्त्रैर्धरादितत्त्वोपस्थापनादि कार्यम् | अतश्च तत्त्वपञ्चकमेतद् भगवद्वक्त्रमन्त्रस्फारसारतया परभैरवमयमेवेति तदभेदव्याप्तिरेव परं शुद्धिसाधनमिति शिक्षयति || १३ || अथ ---- त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने | आत्मविद्याशिवाख्यं मेयमानमातृरूपम् || अस्य वाचकव्याप्तिमाह ---- अकार आत्मतत्त्वस्य वाचकः परिकीतीतः || ५-१४ || मायान्तं तद्विजानीयात्............... अकार इति प्रणवसत्कः (= प्रणवगतः) | मायान्तमेकत्रिंशता तत्त्वैरपरिवजीत आत्मा शिवशक्तेर्मेय इति तावत्येवास्य व्याप्तिः || .............विद्याख्यस्याप्युकारकः | सकलावधि तज्ज्ञेयं.................. विद्या ज्ञानक्रियात्मा शक्तिः शुद्धविद्येश्वरसदाशिवव्याप्तिका | सकलः सदाशिवः || तदुपरि शक्तिव्यापिनीसमनाशक्तिव्यापकस्य ---- ...............शिवस्य तु मकारकः || ५-१५ || यस्तु तदूर्ध्वगो बिन्दुरुन्मनाव्याप्तिसतत्त्वः ---- खस्वरः.............. खं पराकाशं स्वरयति शब्दयति सः पराकाशात्मा || अत एव ---- ............खस्वरूपस्य शिवतत्त्वस्य वाचकः | तदित्थमेतदनुसंधाय प्राग्वदध्वोपस्थापनपूर्वम् ---- शोधयित्वा क्रमेणैव.............. शिष्यात्मानम् ---- ..............परे तत्त्वे नियोजयेत् || ५-१६ || खस्वरोक्तव्याप्तिसारेण प्रणवेन || १६ || तदित्थमत्र ---- तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता | पूर्वं तु योजनिकाग्रन्थान्ते एकतत्त्वदीक्षाप्युक्तेति दशीतमेव || एवं प्रश्नितां तत्त्वदीक्षामुक्त्वा, अनुजिघृक्षोर्भगवत्या आशयपरितोषायाप्रश्नितामपि पदादिदीक्षां निरूपयिष्यन् भगवानाह ---- पददीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः || ५-१७ || वर्णमन्त्रदीक्षाभ्यां तुल्येतिकर्तव्यतां भुवनदीक्षां तदवसर एव संक्षेपेण प्रतिपादयिष्यति, विस्तरेण तु दशमपटले | ततः पददीक्षामेव तावदाह || १७ || तत्र ---- विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः | पृथग्भेदेन तेषां तु विन्यासं कथयामि ते || ५-१८ || तत्र ---- नवनाभं पुरं कृत्वा नवपद्मोपलक्षितम् | कथम् ---- नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः || ५-१९ || वेश्म मण्डलक्षेत्रम् | अष्टभिः पर्वभिरङ्गुलैराधिक्ये सर्वमेतत् क्षेत्रमङ्गुलशतद्वयं चतुवींशत्यधिकं २२४ भुवनाध्वप्रतिबिम्बरूपं भवति | तस्मिन् सर्वतः सप्तभागकल्पनयैकैकस्य भागस्य द्वात्रिंशदङ्गुलत्वं जायते, इति तदर्थमङ्गुलाष्टकाधिक्यदानम् || १९ || अथ ---- सप्तभागीकृतं तत्तु............. कुर्यात् || किं कृत्वा ---- .............डक्षिणोत्तरभाजितम् | चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितम् || ५-२० || भाविनीत्या ब्रह्मस्थानात् पूर्वापरदिशौ अङ्कयित्वा, किञ्चिदूनेन चतुर्भागेन क्षेत्रमानेन सूत्रेण पूर्वापराङ्कयोर्वामहस्तप्रतिबद्धेन दक्षकरगताग्रभागेन पार्श्वयोर्मत्स्यबन्धाकारं रेखाद्वयमुत्पाद्य, तन्मध्ये सूत्रमास्फाल्य दक्षिणोत्तरभाजितं क्षेत्रं कृत्वा, क्षेत्रार्धमानेन सूत्रेण पार्श्वगतमध्याङ्कप्रतिबद्धेन कोणेषु मत्स्यबन्धचतुष्कमुत्पाद्य, तत्र सूत्रास्फालनेन चतुरश्रं विभज्येत्यत्र पिण्डार्थः || २० || एवं चतुरश्रे क्षेत्रे पूर्वापरायतैः सूत्रैः सप्तधा विभक्ते ---- कोष्ठकैकोनपञ्चाशत् सूत्रेण तु समालिखेत् | दक्षिणोत्तरायतैर्मध्यगतैः षड्भिः सूत्रैरेकोनपञ्चाशतं कोष्ठकानुत्थापयेत् || एवं कृत्वा ---- मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसंमितम् || ५-२१ || समालिख्य महादेवि चतुर्भागविभाजिते | ब्रह्मस्थानाच्चतुभीः समभागैर्भ्रमैः पर्यन्तभाविव्योमरेखावकाशं परिकल्प्य विभक्ते इत्यर्थः || तत्र भागचतुष्टयमध्यात् ---- प्रथमे कणीकां कुर्यात् केसराणि द्वितीयके || ५-२२ || तृतीये दलसंधींश्च दलाग्राणि चतुर्थके | यत्र दलानि तदग्रैः संधीयन्ते ते दलसंधयः || पूर्वोक्तेषु चतुर्षु भागेषु वृत्तवर्तनविधिमाह ---- दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च || ५-२३ || भ्रामयेच्चतुरो वृत्तांश्चतुरङ्गुलसंमितान् | दिक्षु अष्टस्वष्टौ, तन्मध्ये चाष्टौ सूत्राणि दत्त्वा, ब्रह्मस्थानात् पूर्वविभागाङ्केषु चतुरो भ्रमान् कुर्यात् || २३ || अथ ---- द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तत् || ५-२४ || सूत्राग्रं तु ततो भ्राम्यमर्धचन्द्रविधानतः | प्रतिदलसंधि अर्धचन्द्रद्वयविधानाय पूर्वदिग्रेखायाः पार्श्वरेखाभ्यामुपलक्षिते मध्ये मध्यद्वये वामेन करेण सूत्रं रुद्ध्वा, दक्षिणेन सूत्राग्रं पार्श्वरेखाभ्यां मध्यरेखान्तं भ्रामयेत् | अत्र चैकैकपार्श्वरेखा आयामतो मध्यात् विभक्तव्यायामेन संसक्तदला भवति || २४ || अर्धचन्द्रयोरुत्पत्तिहेतुप्रतिदिग्रेखयोर्मध्यद्वये मध्यग्रहणाय केसरसिद्ध्यर्थम् ---- मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता || ५-२५ || किञ्जल्के केसरे तन्निमित्तं तिष्ठन्ति | तेनैकैकार्धचन्द्रमध्यानुसारदलमध्यसूत्रोत्पन्नकिञ्जल्कस्य पार्श्वयोः किञ्जल्कद्वयोत्पादनाय अर्धचन्द्रद्वयोत्पत्त्यर्थं मध्यलाभे चादावेव सूत्रद्वयं देयम् | एवं साकल्येन द्वात्रिंशत् सूत्राण्येतानि भवन्ति || २५ || एतदुपसंहरन्नन्यत्राप्यतिदिशति ---- पूर्वपत्रं प्रसाध्यैवमितराण्येवमेव हि | प्रसाधयेत् || तत्र च ---- केसराणि च संलिख्य चतुवींशतिसंख्यया || ५-२६ || पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनाम् | प्रतिदलं त्रीणि केसराणि | पत्राग्रत इति दलान्युत्पाद्य तद्बहिः, सुशोभनां सम्पूर्णाम् || २६ || किं च ---- तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः || ५-२७ || तस्येति वृत्तरेखान्तस्य पद्मस्य | तत्प्रमाणत इति वर्तुलरेखाप्रमाणरेखम् || २७ || सर्वस्यास्य विधेभीत्तिभूतमाद्यं विधिं वक्तुमाह ---- पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना | ब्रह्म मध्यस्थानम् | हेलिः सूर्यः || तत्रादौ ---- पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत् प्रिये || ५-२८ || द्वादशाङ्गुलमानेन............. शङ्कुः कीलकम् || २८ || कथम् ---- ......ंअध्ये शङ्कुं प्ररोप्य तम् | पार्श्वे भ्रामयेद्रेखां षोडशाङ्गुलसंमिताम् || ५-२९ || शङ्कुक्षेत्रात् षोडशाङ्गुलं भ्रमं द्वाशिंदङ्गुलपद्मार्थं दद्यात् | एतच्च जिघृक्षितक्षेत्रोपलक्षणपरम् || २९ || तत्र च ---- पूर्वाह्णे ग्राहयेच्छायामपरस्थां सुचिह्निताम् | अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत् प्रिये || ५-३० || एवं भ्रमरेखाच्छायापृष्ठे पूर्वापरदिगङ्कनां कृत्वा ---- ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने | ध्रुवेण शङ्कुना हेतुभूतेन पूर्वनिर्णीतदिशोः स्थापितमत्स्यद्वयमध्यसूत्रेण उत्तरदक्षस्थां भ्रमरेखां लाञ्छयेत् | यद्वा क्वचिद्रात्रावेव विधातव्ये यागे ध्रुवेणेति चतुर्दशतारकारब्धशरीरेण ध्रुवनाम्ना निश्चलेन तारकेणादौ उत्तरदक्षिणदिक्सिद्धिं कुर्यात् | तत्र चैवमामनन्ति ---- सुषिरनाडिकामुखेन ध्रौका मुखतारामुत्तरदिक्संस्थां लक्ष्यीकृत्य तन्नाडिकानुसारेणोत्तरां दिशमङ्कयित्वा ध्रुवनाडितारानुसारेण मध्यम्, तत्पुच्छतारानुसारेण च दक्षिणामङ्कयेत् | ततो मध्यरन्ध्रानुसारं पूर्वापरेऽप्यङ्कयेत् | अत एवान्यत्र ---- ऽऽध्रुववेधेन वोदीचीम्ऽऽ इत्युक्तम् | यत्तु तत्र ---- ऽऽप्राचीं वा ध्रुवतारयाऽऽ इत्युक्तम्, तत्र ध्रुवतारासाम्येन मध्यं कल्पयित्वा तदनुसारं प्राचीं गृहीत्वा तदनुसारमितरां व्यवस्थापयेदिति योज्यम् | ध्रुवं ध्रुवस्थानग्रहणचतुरश्रीकरणपूर्वमेकोनपञ्चाशद्भागानां मध्यभागे पूर्वोक्तक्रमेण पद्मं कुर्यादिति | उपसंहरति ---- ततः समालिखेत् पद्मष्टपत्रं सकणीकम् || ५-३१ || अथ ---- दिक्कोष्ठकांश्च सङ्गृह्य अष्टसंख्योपलक्षितान् | शेषा लोप्या वरारोहे एकान्तरितयोगतः || ५-३२ || चतुदीक्कद्वारार्थं बहिःकोष्ठकपङ्क्तिं त्यक्त्वा मध्यपद्मानुसारं दिक्षु प्रतिदिक्षु चैकैककोष्ठकलोपान्तरितकोष्ठकाष्टकं पद्माष्टकार्थं गृह्णीयात् | एवं च मध्यवीथ्या(ः) पद्माष्टकक्षेत्रस्य द्वारवीथ्याश्चैकेनैव ग्रन्थेन स्वीकार उक्तः || ३२ || एवं चाष्टसु कोष्ठेषु ---- पद्माष्टकं ततो दिक्षु.............. कुर्यात् || अथ ---- .........बाह्ये द्वाराणि चालिखेत् | कथम् ---- वीथ्यर्धसंमितां देवि शोभां चैव प्रकल्पयेत् || ५-३३ || उपशोभां च तन्मानां कपोलान्तं समालिखेत् | तथा कण्ठं च तन्मानं द्वारमेतत् प्रकीतीतम् || ५-३४ || बाह्यवीथ्या मध्ये दैर्घ्ये सूत्रं दत्त्वा, आद्येऽर्धे वीथीं कृत्वा, परार्धं कल्पितवीथिक्षेत्रादूर्ध्वतोऽर्धमानां शोभां द्वारीयकण्ठपार्श्वोत्पद्यमानं विपुलमवयवमुपशोभां च तदधोगतं सूक्ष्मं भागं कल्पयेत् | कपोलो द्वारस्याग्रे विपुलो भागः | कण्ठस्तु कपोलपुरःसरो भागः, तं च तन्मानमिति निरुपितवीथ्यर्धमानं दैर्ध्याच्चैव वैपुल्याच्च कल्पयेत् | कपोलस्यात्र मानं यद्यप्यर्थसिद्धत्वान्नोक्तम्, तथापि तद्दैर्घ्यात् वीथिमानं वैपुल्यात्तदर्धमानमिति संहितान्तरादवसितम्, इत्येतद्भागनिष्पत्त्या द्वारं निष्पद्यत इत्यर्थः || ३४ || तदित्थम् ---- द्वाराष्टकविभागेन नवनाभं पुरं स्मृतम् | विदिशि द्वारस्याम्नातत्वात् प्रतिदिशं पद्मत्रयान्तरालद्वारद्वयं कुर्यात् | एवं च द्वाराष्टकविभक्तं नवनाभं नवनाभिस्थानस्थनवपद्ममेतत् पुरमण्डलम् | अत्र च देवसंमुखं द्वारद्वयमपिहितं कार्यम् | यथोक्तं लक्ष्मीकौलार्णवे ---- ऽऽद्वारत्रयं पिधातव्यं पश्चिमं न पिधापयेत् | तच्च पूर्वं विजानीयाद् देव्या देवस्य संमुखम् || पूर्वं तु पश्चिमं ज्ञेयं पश्चिमं पूर्वसंज्ञितम् | उत्तरं दक्षिणं ज्ञेयं दक्षिणं चोत्तरं तथा || सामान्यः सर्वमन्त्राणां क्रमोऽयं शिवभाषितः | गोपनीयः प्रयत्नेन शिष्याणां दुष्टचेतसाम् ||ऽऽ इति | एतत्तु गुरुपारम्पर्येणायातम् | तद्यथा ---- ऽऽमूलाद्यक्षिपरप्रतीततनुगद्वाराष्टकोर्ध्वोन्म(नौ१) घोरादित्रितयत्रयात्मविकचज्योतिर्नबाब्जद्युतिम् | मूलादिग्रहतत्त्वपर्वभुवनाभेदप्रथं भैरवं स्वं वन्दे नवनाभमण्डलरहः सारं नवात्मेश्वरम् ||ऽऽ इति | अस्यायमर्थन्यासोऽत्र ---- ऽऽधाम्ना तु रजसां पातः सिताद्यश्चागमोदितः |ऽऽ (४-३५) इति पूर्वमुक्तत्वादागमान्तरोक्तविभागोऽनुसर्तव्यः | स च ---- ऽऽलेख्या चात्र सिता रेखा शालिपिष्टकृता पुरः | हरिद्रावर्णसंमिश्रा कणीका पीतपिञ्जरा || सितपीतारुणानां स्यात् केसराणां त्रयं दले | ऽऽ ऽऽतानि शुक्लानि वा कुर्याद्धरितान्यन्तराणि वा | कोणा रक्ताः सितं पीठं प्रतिरेखा सिताङ्गुलात् ||ऽऽ इति | तथा ---- ऽऽअङ्गुष्ठः शक्तिमान् विन्दुश्चतस्रोऽङ्गुलयः कलाः | तदाधारं रजः कृत्वा शक्तिस्पर्शा (च्च)१ बिन्दुना || पातयेच्छक्तिगर्भं तत्तेन तच्छक्तिमण्डलम् |ऽऽ इति श्रीपरायामस्ति | अथवा ---- शितं पद्मं विजानीयात् केसरांस्तु विचिन्तयेत् | सितान् पीतांस्तथा रक्तान् मूलमध्याग्रतः क्रमात् || कणीका हेमसङ्काशा पुष्करा हरिताः स्मृताः |ऽऽ इति | इहान्तर्यागोक्तध्यानानुसारं रजःपातः कार्यः || अथ ---- स्नात्वा तु विधिवद् देवि............ द्वारार्चां कृत्वा ---- ..............प्रविशेद्भवनं गुरुः || ५-३५ || ततः ---- पूर्वोक्तेन विधानेन सकलीकरणादिकम् | कुर्यात् || ततः सम्पूजयेद् देवं भैरवं परमेश्वरम् || ५-३६ || केन ---- प्रणवेन................ नवात्मसत्कबिन्दूपलक्षितसमग्रोर्ध्वव्याप्तिसतत्त्वेनेत्यर्थः || किं कृत्वा ? इत्याह ---- ..........आसनं दत्त्वा शिवान्तं वरवणीनि | प्रणवेनेति काकाक्षिवदिहापि योज्यम्, तेन पूर्वोक्तानन्ताद्यनन्तमध्यानन्तान्तव्याप्तिना प्रणवेनासनं तेनैवोन्मनान्तव्याप्तिना तून्मनाभिन्नपरमशिववादिना भैरवं पूजयेदित्यत्रार्थः | वरमुत्कृष्टं परं तत्त्वं वर्णयति परामृशति तच्छीला (इति) वरवणीनी || क्व किं कथं पूजयेत् ? ---- इत्याह ---- मध्ये सम्पूजयेद् देवं स्वच्छन्दं परमेश्वरम् || ५-३७ || पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितम् | मध्य इति पद्मकणीकायाम् | विधानमावाहनादिसुरार्घपर्यन्तं सर्वम् | अङ्गान्यप्यत्र प्रणवेनैव स्वनामजात्यन्तेन नवात्मनावयवभेदेन, मन्त्रान्तरावका(शा)१ योगात् | एवं पद्मान्तरेष्वपि वक्ष्यमाणकपालीशादिभैरवतदङ्गपूजा मन्तव्या || ३७ || तदेवं मध्यपद्मे कणीकायां वर्णतद्वाच्यदेवतान्यासावुक्तौ, तत्पत्रेष्वप्याह ---- पत्राष्टके न्यसेद्वर्णान् पूर्वादीशांस्ततः क्रमात् || ५-३८ || तत्र ---- सदाशिवं हकारेणेत्येवमादि वरानने | प्रकृत्यन्तं विजानीयान्मध्ये पीठेशकल्पना || ५-३९ || पीठेशं स्वच्छन्दनाथं मध्यकणीकायां शिवतत्त्वाधिष्ठायकं विन्यस्य, सृष्टिक्रमेण नवात्मसम्बन्धिहरक्षमलवयऊकारैः पूर्वादीशान्तदलाष्टके कपालीश-शिखिवाहनक्रोधराज-विकराल- मन्मथ-मेघनाद-सोमराज-विद्याराजान् सदाशिवेश्वरविद्यामायाकलानियतिपुरुषप्रकृतितत्त्वाधिष्ठायिनो विन्यस्यार्चयेदित्यर्थः || ३९ || मध्यपद्मे विधिमुक्त्वा पूर्वादिपद्मेषु संक्षेपेण निरूपयति ---- दिक्पद्मकणीकासंस्थानष्टौ देवान् प्रपूजयेत् | मध्यपद्मे पूर्वादिदलेषु यैरेव हकारादिभिर्वर्णैर्ये कपालीशादयो भैरवास्तानेव तैरेव वर्णैः पूर्वादिदिक्पद्मकणीकासु पूजयेत् || ४० || पूर्वादिपद्मेषु स्वच्छन्दनाथस्य स्थानमाह ---- तत्स्थाने भैरवः पूज्यः........... प्रणवेणैव पूर्वोक्तेन | पूर्वपद्मस्य मध्ये हकारेण कपालीशः, प्रणवेन तु पूर्वदले स्वच्छन्दः | आग्नेयपद्मस्य मध्ये रेफेण शिखिवाहनः, शिखिवाहनस्थाने आग्नेयपत्रे प्रणवेन स्वच्छन्दनाथः | एवमन्यत् | एवं चैकैकभैरवस्थाने पर्यायेण स्वच्छन्दनाथस्य विन्यस्तत्वात् त(द)१भेदव्याप्तिसारता सर्वभैरवाणां तदधिष्ठियानां च सर्वतत्त्वानां शिवतत्त्वव्याप्तिमयतैव दशीता, इति परमाद्वयमयतया महारहस्यसारताऽस्यानुष्ठानस्य प्रकटिता, अतश्च शर्वतः सर्वेभ्यःऽऽ इति रूपविशेषेण मन्त्रपदार्थः स्फुटीभूतो जात इत्यलम् || पूर्वादिदलानां कपालीशादिस्वपीठेश्वरदलब्यतिरिक्तेषु दलेषु मध्यपद्मदलोक्त एव न्यासादिविधिरित्याह ---- ............शेषा वर्णैर्यथाक्रमम् || ५-४० || एष च वर्णन्यासः पूर्वमेवास्माभिः प्रस्तारेण दशीतः | अत्र च पृथक्-पृथक् पद्मस्थित्या नव, सामस्त्येन चैक इति दश देवगृहा जाताः | भगवतो विद्याराजस्य बिन्दुसतत्त्वत्वात् तदवयवानामपि पूजाकाले बिन्दुयोगोऽवश्यंभावी | एकैकोऽपि च वर्णः प्रदशीतक्रमव्याप्त्या सम्पूर्णविद्याराजस्फार एव | यद्वक्ष्यति ---- ऽऽयतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः | तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः ||ऽऽ (८-२५) इति || एवं सृष्टिक्रमेण न्यासमुक्त्वा संहारक्रमेण दीक्षामाह ---- शोधयेच्च प्रकृत्यादिशिवान्तं सुरसुन्दरि | प्रकृतिर्वाच्यरूपा आदिः शिवश्चान्ते यस्य पदजातस्य तच्छोधयेत् || कथम् ---- ईशानदिश आरभ्य मध्यपीठं विशोधयेत् || ५-४१ || ईशानदिक्पद्मगतेशानदिक्पत्रात् पूर्वोत्तरादिक्रमेण प्रणवाद्यूकारान्तं पदनवकं प्रणवविद्याराजोच्चारपूर्वकमुच्चार्य, प्रकृतितत्त्वस्य अन्तर्णीतक्षित्यादिगुणतत्त्वान्ततत्त्वजातस्य पूर्ववदन्तर्भूतेतराध्वप्रपञ्चस्य चात्रैवान्तर्भावं भावयित्वा, ऽऽपदनवकाय नमःऽऽ इत्यन्तेन मन्त्रेणोपस्थानादि पूर्वोक्तं सर्वं विधिं कुर्यात् | एवमनेन क्रमेण पदानि तावद्विशोधयेत् यावच्छिवतत्त्वव्यापकं मध्यपद्मगतमूकारादिप्रणवान्तं पदनवकम् | यस्तु ऽऽप्रकृतितत्त्वरूपादिपदनवकाय नमःऽऽ इति केनचित् क्रमो दशीतः, स न युक्तः, कलादीक्षोक्तपदक्रमस्य नवात्मवर्णगतप्रातिलोम्यक्रमोच्चारस्य च प्रसिद्धस्यावृत्त्या१पत्तेः, पूर्वस्य संहारक्रमस्य चोपेक्षणात् | अत्र पददीक्षायां नवतत्त्वदीक्षावन्नाभ्यन्ताद्यनाश्रितान्ते स्थाननवके पद्मनवकगतवर्णैकाशीतेर्न्यासः कार्यः || ४१ || एवं पदाध्वानं शोधयित्वा ---- योजयेत्तु परे तत्त्वे शिवे परमकारणे | वर्णादिदीक्षामप्यतिदेशेनातिदिशति ---- एवं वर्णांस्तथा मन्त्रान् भुवनानि विशोधयेत् || ५-४२ || किमवधि ? ---- इत्याह ---- कालाग्न्यादि शिवान्तं तु........... कथं वर्णमन्त्रभुवनदीक्षाः कुर्यात् ? ---- इत्याह ---- ............कलाविधिसमाश्रयात् | कलादीक्षोक्तप्रघट्टकपञ्चकानुसारेण वर्णादीन् प्रत्येकं विभज्येत्यर्थः | अत्र कलादीक्षावन्मन्त्रा अधिक्रियन्ते | इह च वर्णानाम् ---- ऽऽशब्दराशिसमुत्थस्यऽऽ (स्पन्द ३-१५) इति नीत्या बन्धकत्वम्, पदमन्त्राणां तु तत्तद्भिन्नाभिन्नतत्त्ववाचकत्वेन | यथा च मन्त्राणां शोध्यत्वेऽपि शोधकत्वम्, तन्निर्णीतमेवेति तदेवेह स्मर्तव्यम् | तदेवमिह त्रिपञ्चनवष्ट्त्रिंशद्भेदेन चतुष्प्रकारा तत्त्वदीक्षा पदमन्त्रवर्णभुवनदीक्षाश्चोक्ताः | तत्र पञ्चदीक्षायां ऽऽकलानां यावती व्याप्तिःऽऽ (५-१३) इत्यतिदेशात्, वर्णमन्त्रभुवनदीक्षासु च ऽऽकलाविधिसमाश्रयात्ऽऽ (५-४३) इत्युक्तत्वात् कलावदध्वपञ्चकान्तर्भावश्चिन्त्यः | पददीक्षायां तु नवधा विभक्तायाः प्रथमे प्राकृते प्रणवाद्यूकारान्ते पदानां नवके निवृत्तिप्रतिष्ठे कले, पृथिव्यादीनि प्रधानान्तानि पञ्चविंशीततत्त्वानि, भुवनानां कालाग्न्यादियोगाष्टकान्तं शतं चतुष्षष्ट्यधिकम्, क्षादिटान्ताश्चतुवींशतिर्वर्णाः, सद्योजातवामदेवहृदयशिरःशिखाः पञ्च मन्त्राश्चान्तर्भूताः || १ || पौरुषे ऊकारादियकारान्ते नवके विद्या कला, पुरुषरागौ तत्त्वे, तुष्टिसिद्धी भुवने, अणिमादिगुरुशिष्यपङ्क्तित्रयनाडीविग्रहाष्टकदेहपाशागन्तु- गणेशविद्येशपाशभुवनानि दश सुहृष्टादिरुद्रदशकस्य कल्याण्यादेर्गुरुशिष्यदशकस्य भुवनमिति चतुर्दश भुवनानि, ञझौ वर्णौ, मन्त्रावघोरकवचौ || २ || ऊकारादिवकारान्ते नैयते नवके कलामन्त्रौ प्राग्वत् | एवमुत्तरत्रापि नियतिविद्ये तत्त्वे, वामदेवाद्यष्टकभुवनं वामादिनवकभुवनं च, जछौ वर्णौ || ३ || ऊकारादिलकारान्ते कालीये नवके कालकले तत्त्वे, शुद्धादिदशकभुवनं महादेवादिभुवनत्रयं च, चङौ वर्णौ || ४ || ऊकारादिमकारान्ते मायीये नवके माया तत्त्वम्, गोपत्याद्यनन्तान्तानि सप्त भुवनानि, घ-वर्णः || ५ || ऊकारादिक्षकारान्ते विद्यापदनवके विद्यातत्त्वम्, त्रिगुणादिविद्याराज्ञीभुवनमेकं, शान्ता कला, तत्पुरुषास्त्रे मन्त्रौ, ग-वर्णः || ६ || ऊकारादिरेफान्ते एश्वरे नवके कलामन्त्रौ प्राग्वत्, एश्वरं तत्त्वम्, ईश्वरभुवनादिज्ञानक्रियाभुवनान्तं भुवनपञ्चदशकम्, ख-वर्णः || ७ || ऊकारादिहकारान्ते सादाशिवे नवके सादाशिवं तत्त्वम्, सादाशिवमेव सुशिवाद्यनन्तभुवनव्यापकमेकं भुवनम्, क-वर्णः || ८ || ऊकारादिप्रणवान्ते शैवे नवके शान्त्यतीता कला, ऽऽशक्तितत्त्वाभिन्नऽऽ शिवतत्त्वम्, शान्त्यतीताभुवनादिकानि शिवभुवनान्तानि षोडश भुवनानि, नेत्राभिन्नमूतीः ईशानमन्त्रः, विसर्गाद्या हकारान्ताः षोडश वर्णाः || ९ || पददीक्षावत् नवतत्त्वदीक्षा | तत्र पदस्थाने प्रकृत्यादितत्त्वान्युपस्थाप्यानि, तत्त्वस्थाने तु पदान्यन्तर्भाव्यानीति विशेषः | त्रितत्त्वदीक्षायां त्वात्मतत्त्वे क्षित्यादिमायान्तान्येकत्रिंशत्तत्त्वानि, निवृत्तिः प्रतिष्ठा विद्या कलाः, कालाग्न्याद्यनन्तान्तं भुवनानां शतमेकनवत्यधिकम्, प्रकृतिकोष्ठकेशदिग्गतप्रणवात् प्रभृति पूर्वपद्मगतयाम्यक्षकारान्तं पदान्येकोनसप्ततिः, सद्योजातवामदेवाघोरहृदयशिरःशिखाकवचाः सप्त मन्त्राः, क्षादिघान्ता एकत्रिंशद्वर्णाः || १ || विद्यातत्त्वे शान्ता कला, विद्येश्वरसदाशिवास्तत्त्वानि, विद्याराज्ञ्यादिसदाशिवभुवनान्तानि सप्तदश भुवनानि, पदानि, पूर्वपद्मात् र-ओं-ह इति त्रीणि, मध्यपद्मादूकाराद्या हकारान्ता अष्टौ इत्येकादश, तत्पुरुषास्त्रे मन्त्रौ, ग-ख-कवर्णाः || २ || शिवतत्त्वे शक्तिशिवौ तत्त्वे, पदं प्रणवः, भुवनादि प्राग्वत् || ३ || १. षट्त्रिंशत्तत्त्वदीक्षायां तु पृथिव्यां निवृत्तिः कला, अष्टोत्तरशतं भुवनानाम्, प्रकृतिपद्मान्नवपद्मानि प्रकृत्यन्तं तेषामेव नियुक्तत्वात्, सद्योहृदये मन्त्रौ, क्ष-वर्णः | २. जले प्रतिष्ठा कला, वामदेवशिरःशिखास्त्रयो मन्त्राः, पदानि पूर्वोक्तानि नव | एतानि मन्त्रकलापदानि प्रकृत्यन्तं यावत् | एवमेव ह-वर्णः भुवनानि लकुलीशादी-न्यमरान्तान्यष्टौ | ३. तेजसि स-वर्णः, भैरवादीनि हरिश्चन्द्रान्तान्यष्टौ भुवनानि | ४. वायौ ष-वर्णः, भीमादिगयान्तान्यष्टौ भुवनानि | ५. खे श-वर्णः, स्थाण्वादिवस्त्रापदान्तानि भुवनान्यष्टौ | ६. गन्धे व-वर्णः, शार्वं भुवनम् | ७. रसे ल-वर्णः, भुवनं भवस्य | ८. रूपे र-वर्णः, भुवनं पशुपतेः | ९. स्पर्शे य-वर्णः, ईशानभुवनम् | १०. शब्दे म-वर्णः, भीमभुवनम् | ११. उपस्थे भ-वर्णः, कश्यपभुवनम् | १२. पायौ ब-वर्णः, मित्रस्य भुवनम् | १३. पादे फ-वर्णः, विष्णोर्भुवनम् | १४. पाणौ प-वर्णः, इन्द्रस्य भुवनम् | १५. वाचि न-वर्णः, अग्नेर्भुवनम् | १६. घ्राणे ध-वर्णः, पृथ्व्या भुवनम् | १७. जिह्वायां द-वर्णः, वरुणस्य भुवनम् | १८. चक्षुषि थ-वर्णः, रवेर्भुवनम् | १९. त्वचि त-वर्णः, वायोर्भुवनम् | २०. श्रोत्रे ण-वर्णः, दिशां भुवनम् | २१. मनसि ढ-वर्णः, चन्द्रस्य भुवनम् | २२. अहङ्कृतौ ड-वर्णः, स्थलेश्वरादिछगलाण्डान्तानि भुवनान्यष्टौ | २३. बुद्धौ ठ-वर्णः, देवयोनिक्रोधतेजोयोगाष्टकानि चत्वारि भुवनानि | २४. अन्तर्भूतगुणतत्त्वे प्रधाने ट-वर्णः, गुरुपङ्क्तित्रयादाद्यानां शिवशक्तियोक्तृणां त्रीणि भुवनानि क्रोधेश्वराष्टकभुवनं प्रकृतिभुवनं चेति पञ्च भुवनानि | एतावत्पर्यन्तं कलामन्त्रपदानि प्राग्वत् | २५. पुंसि विद्या कला, अघोरकवचौ मन्त्रौ, मायान्ते षट्के कलामन्त्रौ एवमेव ऊकारादियकारान्तमुत्तरदिक्पद्मगतं पदनवकम्, ञ- वर्णः, तुष्टिसिद्धिगुरुशिष्यपङ्क्तित्रयनाडीविग्रहाष्टकदेह- पाशागन्तुगाणेशवैद्येशपाशभुवनानि द्वादश | २६. नियतौ वायव्यपद्मगतमूकारादिवकारान्तं पदनवकम्, झ- वर्णः, वामदेवाद्यष्टकभुवनम् | २७. कालतत्त्वे ऊकारादिलान्तं वारुणपद्मगतं पदनवकम्, ज-वर्णः शुद्धादिशंभुराडन्तशिवदशकभुवनानि | २८. रागे पौरुषमेव पदनवकम्, छ-वर्णः, सुहृष्टादिरुद्रदशकस्य भुवनम्, कल्याणादेश्च गुरुशिष्यदशकस्य भुवनम् | २९. अशुद्धविद्यायां नैयतमेव पदनवकम् च-वर्णः, वामादिमनोन्मनान्तं भुवननवकम् | ३०. कलायां पदनवकं कालीयमेव, ङ-वर्णः, महादेवमहातेजोमहाज्योतिषां भुवनत्रयम् | ३१. मायायां निवृत्तिपद्मादूकारादिमान्तं पदनवकम्, घ-वर्णः, गोपत्याद्यनन्तान्तानि सप्त भुवनानि | ३२. शुद्धविद्यायां याम्यपद्मादूकारादिक्षान्तं पदनवकम्, शिष्टं पददीक्षावत् | ३३. ईश्वरतत्त्वे आग्नेयपद्मादूकारादिरेफान्तं पदनवकम् शिष्टं पददीक्षावत् | ३४. सदाशिवतत्त्वे प्राक्पद्मादूकारादिहान्तं पदनवकम्, शिष्टं पददीक्षावत् | ३५. शक्त्यभिन्ने शिवतत्त्वे मध्यपद्मादूकारादिप्रणवान्तं पदनवकम्, शिष्टं पददीक्षावत् | अध्वव्याप्तिरियं ग्रन्थे सूचिता न स्फुटीकृता | सम्यग् दीक्षाविधिष्वत्र धीः सुधीभिनीधीयताम् || एवमीदृगेकतमप्रकारकृतदीक्षं निर्बीजदीक्षादीक्षितवर्जं शिष्यम् ---- समयान् छ्रावयेत् पश्चात् तन्त्राम्नायोत्थितान् प्रिये || ५-४३ || तन्त्ररूपादित आम्नायादुत्थितानित्यनेन स्रोतोभेदेन समयानां भिन्नाभिन्नरूपतैवेति सूचयति || ४३ || तानाह ---- न निन्देद् भैरवं देवं शास्त्रं वान्यसमुद्भवम् | लौकिकीं भेददर्शनवासनां च हित्वा तत्समुद्भवान्यन्यान्यपि तत्तदाचाराण्यपि भैरवशास्त्राणि तदुक्तं तत्तदुपासोपास्यं च तं तं देवविशेषं परभैरववद्वन्द्यतयैव पश्येदित्यर्थः || किं च ---- सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् || ५-४४ || तद्दर्शनस्थांस्तदनुपपत्तिदर्शनेन प्रयोजकव्यापारेण न तन्निन्दायां प्रयुञ्जीतेत्यर्थः || ४४ || अत्र हेतुः ---- यतः शिवोद्भवाः सर्वे ह्यपवर्गफलप्रदाः | तत्तत्स्वोचितमुक्तिकारिणः, तावन्मात्रविश्रान्तानां वाक्यैकवाक्यतया परिपूर्णव्याप्तिविदां सद्योमुक्तिदा अपि ---- ऽऽअदृष्टविग्रहाच्छान्तात्ऽऽ (८-२७) इति भाविनीत्या नानारूपाच्छिवात् सर्वशास्त्राणामुत्पन्नत्वेनतदभिन्नव्याप्तिकत्वात् | अनेनैवाशयेन ---- ऽऽयतः शिवोद्भवं सर्वं शिवधामफलप्रदम् |ऽऽ इति पाठं पुराणपुस्तकदृष्टमिह केचित् पठन्ति | पूर्णव्याप्त्यवेद्यभिप्रायेण तु ---- शर्वान् भ्रमयते माया ह्यमोक्षे मोक्षलिप्सया |ऽऽ (१०-११४१) इत्यादि वक्ष्यति || ४५ || किं च ---- स्मार्त्तं धर्मं न निन्देत्तु आचारपथदर्शकम् || ५-४५ || तदाचाररतानां न बुद्धिभेदं कुर्यादित्यर्थः || ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः | वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा || ५-४६ || ब्रह्मादीन्युल्लङ्घनीयान्यपि कारणानि, मातरो लौकिकाचारतो ब्राह्म्याद्याः, चुम्बति वक्त्रपारम्पर्येण शिष्यं प्रबोधयति रहस्यार्थे यः स गुरुः, गिरिरिव गिरिः मंत्राराधनादावविचलः साधकः, वीरा रहस्यचर्यानिष्ठाः, भगिन्यो मातृभक्ता योगिन्यो, गावः पशुशास्त्रप्रतिपादितपवित्रभावाः भूतानि पिशाचापस्मारादीनि, गणाः प्रमथाः | एतान् सर्वान्न निन्देदिति सम्बन्धः || ४६ || किं च ---- देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद् व्यवस्थितम् | सिद्धान्ते निश्चये यद्व्यवस्थितं तद्देवार्थमेवेदं द्रव्यमिति तन्न हिंस्यात् || किं च ---- गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि || ५-४७ || गुरुणा यन्न प्रसादीकृतं तत्तदीयमन्नमपि नाश्नीयात् || ४७ || मद्यं मांसं तथा मत्स्यानन्यानि च वरानने | साचारांश्च निराचाराल्लिङ्गिनो न जुगुप्सयेत् || ५-४८ || अन्यानीति वीरद्रव्याणि, निराचारानिति तद्रूपेण निह्नुततत्स्वरूपाणां सिद्धानामपि भावाद् न जुगुप्सीत || ४८ || चरुकं प्राशयेन्नित्यं............... स्वेष्टदेवतायै दत्तम् || ............गुरुन् सम्पूजयेत् सदा | अन्यथा नित्यार्चाधिकाराभावात् || उपस्करान् महादेवि पादेन तु न संस्पृशेत् || ५-४९ || उपस्करान् दृषदुलूखलमुसलादीनि गृहोपकरणादीनि, तेषां मतङ्गशास्त्रेषु नवयागविधौ देवतासङ्केतस्थानत्वेनाम्नातत्वात् || ४९ || संहितां चिन्तयेन्नित्यं.............. संहितां शैवं शास्त्रम् || .........भक्तानां श्रावयेत् सदा | गुरुस्तदनुज्ञातोऽन्योऽपि वा, अतः प्राधान्येनायं गुरोरेव समयः || आह्निकं न विलुम्पेत्तु संध्याकर्म वरानने || ५-५० || आह्निकं पूजादिनित्यकर्म, संध्यां संध्याकालसम्पाद्यां मन्त्रोपासनम् || ५० || अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिम् | शास्त्रपद्धतिं पारमेशशास्त्रप्रक्रियाम् || ५० || साधकविषयमाह ---- त्रिकालं पूजयेद् देवं जपध्यानरतः सदा || ५-५१ || प्रातर्मध्याह्ने सायं च || ५१ || तदेतान् यथायोगं पुत्रकादिः ---- समयान् पालयेन्नित्यमुभयार्थफलेप्सया | उभयार्थमैहिकमामुष्मिकं च फलं भोगो मोक्षश्च || तदित्थं समयश्रवणान्तां क्रियादीक्षामुक्त्वा, ज्ञानदीक्षां निरूपयितुमाह ---- अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः || ५-५२ || अध्यात्मगतिचारेण केवलेन विशोधिकाम् | अनुपूर्वशो वक्ष्यमाणोद्धातक्रमेण | अध्यात्ममात्मनि गत्या ज्ञानेन यश्चारः सौषुम्नमार्गारोहः, तेन | केवलेन होत्रादिहीनेन || तत्र ---- शिष्यात्मानं गृहीत्वा तमात्मप्राणे नियोजयेत् || ५-५३ || अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा | अभिमानम् ---- ऽऽअहमेव परो हंसःऽऽ (४-३९९) इत्युक्तरूपम् || ५३ || एतत्सर्वं पूर्वोक्तमनूद्य, विशेषमाह ---- उद्धातैश्च ततोऽध्वानं शिष्यस्य तु विशोधयेत् || ५-५४ || ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते | तत्त्वं निष्कलस्वरूपं पूर्वोक्तमुद्राबन्धयुक्त्या सम्यगुच्चरन् पृथिव्याद्यमध्वानं भावनया विन्यस्तं विशोधयेत् || ५४ || कथमित्याह ---- भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमम् || ५-५५ || सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितम् | मन्त्रकलाव्याप्त्या भिन्नेनाविकल्पविमर्शैक्याच्च अभिन्नेन स्वरूपेणोपलक्षितम्, तत एव देवताभिर्ब्राह्म्याद्याभिः सम्यगभेदव्याप्त्यान्वितम्, एकैकमकारोकारमकारादिरूपमक्षरम्, सस्वरमित्यान्तरोच्चारवत् पश्यन्तीविमर्शप्रधानम्, अत एव चाक्षरोच्चारमविचलितमन्त्रध्वनिरूपं कुर्वन्निति शेषः || ५५ || तदत्र ---- ऽऽआब्रह्मरन्ध्रं भ्रूमध्यात् सन्ति पञ्च धरादयः | ग्रन्थयः कारणैः सार्घं तान् भित्त्वा प्राप्यते शिवः ||ऽऽ इत्याम्नायान्तरोक्तस्थित्या भ्रूमध्यादिपदावस्थितसूक्ष्मपृथिव्यादिग्रन्थपञ्चकभेदम् उद्घातयुक्त्याऽऽदिशति देवः ---- बिन्दुना शक्तिसंयोगादुद्घातः१ प्रथमः स्मृतः || ५-५६ || देवतात्रयनिर्मुक्तः.............. पूर्ववच्छिष्यचैतन्यं स्वप्राणे लीनं कृत्वा, पूर्वोक्तकरणबन्धपुरःसरं हृदयान्मध्यशक्तिप्रसरयुक्त्याकृतकविमर्शसारं मन्त्रमुच्चरन्, मान्त्रविमर्शप्रधानायास्तस्याः शक्तेबीन्दुना संयोगादिति भ्रूमध्ये वज्रलाञ्छितपीतवर्णचतुरश्रपाथीवमण्डलमध्यध्यातबिन्दुतेजसा सम्यगित्यूर्ध्वोच्चारक्रमेण योगात् तदनुभवात् प्रथमोऽयमुद्धातो ब्रह्मविष्णुरुद्राख्य देवतात्रयेण निर्मुक्त ईश्वराख्यमन्त्रदेवतासमापत्त्यात्मा पञ्चगुणपृथ्वीतत्त्वगतगन्धाख्यमुख्यगुणसंशोधनरूप इत्यर्थः || रसाख्यगुणशुद्धयर्थं द्वितीयमाह ---- ..............चतुर्थान्तसमन्वितः | उद्धातः स तु देवेशि द्वितीयः परिकीतीतः || ५-५७ || चतुर्थस्य बिन्दुस्थानस्यान्तोऽर्धचन्द्रः, तेन प्राग्वत् सम्यगन्वितः, तदनुभवावेशरूप इत्यर्थः || रूपगुणशुद्ध्यर्थं तृतीयमाह ---- हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः | अर्धचन्द्रान्निरोधिन्यामुद्घातस्तु तृतीयकः || ५-५८ || हंसपथस्य हंसरूपस्य चाक्षरस्य निष्कलमन्त्रस्य सम्यगिति पूर्वोक्तयुक्त्या उच्चारः, सुदीर्घो ---- ऽऽह्रस्वं दीर्घं प्लुतं सूक्ष्मम्ऽऽ (६-४) इति भाविनीत्या मकारान्ते प्लुतः, ततोऽपि प्रथमोद्धातावधिना बिन्दुना सूक्ष्मरूपेण सम्यग् युतस्तद्विश्रान्तः, तथार्धचन्द्राद् द्वितीयोद्घातविश्रान्त्यवधेनीरोधिकास्थानान्तं प्रसरंस्तृतीय इति पाथीवरूपगुणशुद्धिकृदित्यर्थः || ५८ || स्पर्शगुणशुद्ध्यर्थमाह ---- भिन्नोद्घातो यदा देवि नादान्तस्तु तदा भवेत् | उद्घातः स तु देवेशि चतुर्थः परिकीतीतः || ५-५९ || भिन्ना उद्घाता इति प्रोक्तानि त्रोण्युद्घातस्थानानि येन मन्त्रोच्चारेण स पुनर्यदा नादान्तो नादानुभवविश्रान्तो भवति, तदा स चतुर्थगुणशुद्ध्यर्थ उद्घात उक्तः | तदाशब्दो भवेच्छब्दानन्तरं योज्यते || ५९ || शब्दगुणशुद्ध्यर्थं पञ्चममाह ---- स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः | उद्घातः स तु देवेशि पञ्चमः परिकीतीतः || ५-६० || स चैवेति नैष्कलः | व्यापिन्यन्त इति तद्विश्रान्तिरूढः | पञ्चम इति पञ्चमस्य शब्दगुणस्य शुद्ध्यर्थम् || ६० || तदित्थम् ---- पञ्चोद्घातांस्ततो दत्त्वा पृथिका शोधयेद् बुधः | तत इति यतः पञ्चगुणा पृथ्वी, बुध इति ज्ञानी | अत्र पञ्चस्वप्युद्घातेषु बिन्दुस्थाने पृथिका धारणां प्रत्येकं धृत्वा, उद्घातानुसारं बिन्द्वर्धचन्द्रनिरोधिनादव्यापिन्यन्तेषु विश्रान्तीः कुर्वन्, शिष्यात्मनो गन्धादिशब्दान्ते गुणपञ्चके भोग्यभोक्तृभावं शोधयेत् || इत्थं च व्यापिन्यन्ताश्रयणेऽपि सूक्ष्मव्याप्त्या पाथीवतत्त्वभोगस्थानं बिन्दुधामैव शुद्धं भवतीत्याह ---- अकारोकारमकारान्तमेवं शुद्ध्यति नान्यथा || ५-६१ || अकारोकारमकाराणामन्तं बिन्दुस्थानम् | एवमिति व्यापिन्यन्तानुप्रवेशात्मकोद्घातपञ्चकात् शब्दान्तगुणपञ्चकसंशुद्धियुक्त्या पृथ्वीतत्त्वशोधनादित्यर्थः | नान्यथेति हुतिदीक्षायामेव तत्त्वशुद्धिर्भवतीति भेदवादिवन्नास्यां ज्ञानदीक्षायां संशयितव्यम्, हुतिदीक्षायामपि ज्ञानस्यैव प्राधान्यादिति निर्णीतत्वात् | उक्तं च श्रीमतङ्गपारमेश्वरेऽपि ---- ऽऽयस्य ज्ञानान्न सम्प्राप्तिः क्रिया तस्य विधीयते |ऽऽ इति || ६१ || तदित्थम् ---- शुद्धेऽथ पाथीवे तत्त्वे चिन्तितव्यं तु योगिभिः | जलीभूतं तदेवैतदात्मना सह योगतः || ५-६२ || अथशब्दः क्रमं सूचयति, स च शुद्धतत्त्वाच्छिष्यचैतन्यस्योद्धरणम्, ततस्तत्स्थीकरणम्, तत आत्मप्राणे योजनं मन्त्रप्राणशिष्यात्मस्वात्मनां सामरस्यभावनमित्यादिरूपः | तदेवेति पाथीवं तत्त्वम् | जलीभूतमित्युक्त्या शुद्धाशुद्धतत्त्वानुसंधानमुक्तम् | योगिभिर्योगत इत्यनेनायोगिनोऽत्र नाधिकारो जातुचिदिति दशीतम् | एतदात्मना सहेति शिष्यात्मानमपि जलतत्त्व(यो)गाय तदेकात्मतामिव प्राप्तं चिन्तयेत् | अत्र चावसरे अर्धचन्द्रस्थाने पद्मलाञ्छितसितवर्णार्धचन्द्रमण्डलमध्यगतजलबिन्दुरूपां जलतत्त्वधारणां बघ्नीयादित्याम्नायः || ६२ || अथ पाथीवे तत्त्वे शिष्यात्मनि च यथोक्तभावनया ---- जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेत् | बिन्द्वन्तं धारणायुक्तं......... तदेवेति निष्कलस्वरूपम्, मन्त्रीति लब्धसामरस्यः, बिन्द्वन्तमर्धचन्द्रस्थानम्, धारणा व्याख्याता | चतुरिति पूर्वोक्तयुक्त्यार्धचन्द्रनिरोधिनादव्यापिनीपदेषु क्रमेण विश्रान्तिरूपांश्चतुरुद्घातान् दद्यादित्यर्थः | पुनरुच्चरेदिति पाठे चतुष्टयसंख्यार्थाद्योज्या || ६३ || तदित्थं जलतत्त्वं संशोध्य, पूर्वोक्तं सामरस्यान्तं क्रमं श्रित्वा तज्जलतत्त्वात् ---- .......शिष्यादात्मनि चिन्तयेत् || ५-६३ || अतश्च ---- शोधिते तोयसंघाते तेजोभूतं विचिन्तयेत् | अर्थात्तदेव तोयं शिष्यात्मना सहेत्यादि प्राग्वत् || अत्र च निरोधिकास्थाने शक्तिलाञ्छितरक्तवर्णत्रिकोणमण्डलादिरूपां तेजस्तत्त्वधारणां बद्ध्वा निरोधिनादव्यापिनीस्थानेषु मान्त्रविश्रान्तिरूपाः ---- तेजोद्धातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः || ५-६४ || तेजोद्घाता इत्यैशः पाठः | निरोध्यन्तं कृत्वा तत्र तेजोधारणां बद्ध्वेत्यर्थः || ६४ || तदेवं त्रिभिरुद्घातैस्त्रिगुणे तेजसि पूर्ववदन्तर्भूतेतराध्वपञ्चके शुद्धे ---- नास्ति तेजस्ततो वायुरुद्घातद्वयशोधितः | पूर्ववत् तत्स्थात्मस्थत्वादि कृत्वा, तेजः शान्तं विभाव्य, नादस्थाने षट्कोणबिन्दुलाञ्छितनीलवर्णमण्डलादिरूपां वायुधारणां बद्ध्वा, नादव्यापिनीस्थानयोर्मान्त्रविश्रान्त्यात्मनोद्घातद्वयेन वायुतत्त्वं शिष्यात्मनो भोगस्थानं शोधयेत् || अथ ---- अकाशे लीयमानं तमुद्घातेन तु चिन्तयेत् || ५-६५ || तं वायुम् || ६५ || एतद् व्यनक्ति ---- नष्टे वायौ ततः शून्यमुद्घातैकेन योजयेत् | नष्ट इति आकाशशेषीभूतत्वात् शिष्यात्मनो बन्धकत्वाच्चलिते | तत इति सुसूक्ष्मतममाकाशतत्त्वमन्तर्भूतेतराध्वपञ्चकम् उद्घातैकेनेति, आकाशस्यैकगुणत्वात् || यच्चैतत्सुसूक्ष्मतमं शून्यम् ---- व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता || ५-६६ || पञ्चमे व्योमतत्त्वात्मन्यन्ते व्यवस्थिता, तेनात्रान्तःशून्यसुसूक्ष्मशब्दशक्तिलाञ्छितपरिवर्तुलमण्डला- कारां व्योमधारणां बद्ध्वा, मन्त्रोच्चारणाभिज्ञो गुरुः शिष्यात्मना सहात्रैव विश्राम्यन् परतेजोमयतामनुसंदध्यात् || ६६ || एवं चात्र ज्ञानदीक्षामाहात्म्येन चरितार्थतया पुनर्भोगप्रदत्वाभावेनाबन्धकत्वात् सर्वैव भोग्यभूः शिष्यस्य शोधिता भवति, यतश्चिदानन्देच्छाज्ञानक्रियाख्यशक्तिपञ्चक- सामरस्यसतत्त्वः श्रीस्वच्छन्दभट्टारकश्चिदादिशक्तिप्रधान- शिवशक्तिसदाशिवेश्वरविद्याख्यतत्त्व पञ्चकात्मतामुट्टङ्कितामपि व्यापिन्यादिबिन्द्वन्तग्रन्थिपञ्चकस्वरूपगोपनात्मकमहामाया- शक्त्याच्छादयन्, मायादिक्षित्यन्तां क्रमात् क्रममधिकाधिकसङ्कोचां तत्त्वत्रिंशतं षड्भिः पञ्चकप्रघट्टकैरन्योन्यं शक्तिव्यक्त्यात्मकव्याप्यव्यापकभावभाग्भिरासूत्रितवान् सङ्कुचितप्रमातृभूमिकायामिति | तदनुग्रहप्राप्ततत्स्वरूपेण योगिना गुरुणा शिष्यात्मनैकीभूय यथोक्तोद्घातव्याप्तियुक्त्या शिष्यचैतन्यस्य समग्रां भोगभूमिं विलाप्य, ज्ञानदीक्षया चिदादिशक्तिपञ्चात्मकत्वमेवापादयितव्यम् | अत एव पञ्चत्रिंशत्तत्त्वव्याप्तिसारसुसूक्ष्मपृथिव्यादीनीत्थं संशोध्यापि तत्संस्कारमयं समनापदमपि शोधयितुमाह ---- समनायां ततो ह्यात्मा............. सुसूक्ष्मतमतत्त्वप्रपञ्चमननमात्ररूपायां समनाशक्तौ गुरुणा शिष्यात्मा तावन्मात्रभेदसंस्कारनिवृत्त्यर्थं योज्य इत्यर्थः || एवं च ---- ...........टत्त्वव्यापी स उच्यते | अशेषतत्त्वप्रथमासूत्रणरूपं यत्समनाख्यं तत्त्वं तद्व्यापक इत्यर्थः || इयति च संस्कारपर्यन्ते तत्त्वजाते संशुद्धे शुद्धात्मतामाप्नोतीत्याह ---- आत्मव्यापी ततश्चोर्ध्वे............. भवतीति शेषः || एवमासादितपरशुद्धात्मस्वरूपोऽपि शिष्यात्मा ततोऽपि परां चिदादिशक्त्यभेदसारां परभैरवरूपतां समनन्तरवक्ष्यमाणयोजनिकाक्रमेणैतीत्याह ---- ...........षर्वव्यापी ततः पुनः || ५-६७ || भवतीति शेषः || ६७ || अत्र योजनिकामासूत्रयितुमेकोद्घातरूपां युक्तिमाह ---- तत्त्वान्तसंस्थितो ह्यात्मा उद्धातैकेन योगवित् | योजयेत् परमे तत्त्वे उन्मनातीतसर्वगे || ५-६८ || तत्त्वोनामन्तः समनाया ऊर्ध्वं पदम् | उन्मनातीत इति तदनुभवानुप्रवेशेन शक्तिमत्स्वरूपासादनम् || ६८ || योजयेदित्युक्तिं स्फुटयति ---- योजनां तु परे तत्त्वे शृणु देवि वदाम्यहम् | अनयोक्त्यास्यार्थस्यावधानगम्यत्वं दर्शयति ---- मन्त्रमुच्चारयेद् देवि ह्रस्वं दीर्घं प्लुतं परम् || ५-६९ || परापरविभागेन यावत्तत्वं परं गतम् | ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्ममिति समनन्तरमेव पञ्चप्रणवाधिकारेऽकारोकारमकारबिन्दुनादमात्राणां प्रत्येकं प्रणवैकदेशभूतानामपि ---- ऽऽप्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तः |ऽऽ इति स्थित्या प्रणवत्वमिति वक्ष्यति | ततो ह्रस्वं मन्त्रमुच्चारयेदित्यादि सामानाधिकरण्यं युक्तमेव | परापरविभागेनेति सूक्ष्मातिसूक्ष्मभेदेनेत्यर्थः | परमुन्मनातीतं गतं प्राप्तम् || तदत्र ---- त्रिदेवं बिन्दुसंयुक्तमर्धचन्द्रं निरोधिकाम् || ५-७० || नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः | जानीयादिति शेषः | त्रयाणां ब्रह्मादीनां देवानां समाहारो यत्र अकारोकारमकारात्मनि कलात्रये तत्तथा || ७० || किं च ---- उन्मना च परश्चैव सर्वव्यापी शिवोऽव्ययः || ५-७१ || ज्ञातव्य इति शेषः | यथा चात्र ज्ञानं यादृशं च तत्सर्वं पूर्वमेव वितत्य निर्णीतम् || ७१ || तदित्थम् ---- ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमम् | तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेत् || ५-७२ || सर्वमिति पूर्वोक्तचारप्रमाणादिपरिष्कृतमेषां मान्त्रप्रमेयानां विधिं सम्यगुच्चारणमशेषेण निश्चयनिरूढ्यनुभवैः | अत एव मन्त्री सम्यङ्मन्त्रसतत्त्ववित् || ७२ || तमेव विधिं स्फुटयति ---- बिन्दुस्थं त्रितयं शब्दे................ मन्त्रप्रमेयानां यन्मकारान्तं त्रितयं तद् बिन्दुस्थं विद्वदनुभवात्मतामापादितं सत् शब्दे लादात्मनि कुर्यात् तन्मयत्वमापादयेत् || यस्मात् ---- .............चतुर्थो बिन्दुरेव हि | तस्मात् तद्विश्रान्तिपुरःसरमेव नादविश्रान्तं मकारान्तं त्रयं कुर्यात् || तदेतत्त्रयम् ---- ब्रह्मा विष्णुस्तथा रुद्रः............. वाच्यभेदात् || एतच्च ---- ............ट्रिमात्रं वर्ण उच्यते || ५-७३ || मात्रात्रयमेतदुच्चारणक्रियात्मकतया, वर्ण इत्यक्षररूपतया स्थूलमित्यर्थः || ७३ || चतुर्थस्तु ---- ईश्वरो बिन्दुदेवस्तु.............. तत्परामर्शमय इत्यर्थः || तदित्थं मन्त्रोच्चारं यः करोति ---- ............कण्ठे शब्दः प्रवर्तते | तस्य हृदयादुच्चरन्नादकलात्मकमन्त्रसतत्त्वरूपः शब्दः कण्ठे प्रकर्षेण वर्तते, ततः प्रभृति पञ्चप्रणवाधिकारवक्ष्यमाणनीत्या उच्चार्यतामासादयतीत्यर्थः || स च ---- तत्र शब्दः क्रियान्तस्थः.............. उच्चारणक्रियान्तर्गतः पश्यन्त्यात्मकशब्दरूपः, न तु मध्यामवैखरीव्यङ्ग्य इत्यर्थः || अत एवासौ ---- ..........क्रियाशक्तिरिति स्मृता || ५-७४ || तदित्थमुच्चारणप्रयत्नगतः ---- स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते | तस्य (= उच्चारयितुः तालुके इत्यर्थात्) ततोऽपि ---- किञ्चिद्गतः शब्दो नासिकान्ते प्रवर्तते || ५-७५ || नासिकान्तो भ्रूमध्यम् | तदेतावत्पर्यन्ता मान्त्री क्रियाशक्तिव्याप्तिः || ७५ || अथ ---- ज्ञानशक्तिस्तु विज्ञेया यत्नतः परमेश्वरि | मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः || ५-७६ || यदा स एव शब्दो योगिनः पूर्वोक्तात् नासापुटादिप्रयोगरूपाद्यत्नान्मूर्धस्थानतो ऽर्धचन्द्रादिस्थानान्युक्तोद्घातयुक्त्यारोहल्ललाटान्तमवस्थितो भवति, तदा सूक्ष्मरूपतोपसंहारादनुभवप्रकर्षमापन्नो ज्ञानरूपतामेतीत्यर्थः || तदित्थं बिन्द्वादिरूपतामासाद्याकारोकारमकारात्मा ---- वर्णः शब्दगतः............ शब्दं नादात्मतां गतस्तद्रूपतामाप्तः || तथाभूतश्च ---- ....टेषामुद्घातः स तु कीतीतः | तेषामिति बिन्द्वन्तानाम्, स एव नादकलानुभवात्मा शब्दः पञ्चादिभेदेन भिन्न उद्घातः पूर्वमुक्तो न त्वन्यः कश्चित् || एवमियतीं भूमिं मान्त्रीमाश्रित्यापि ---- तत्रस्था विनिवर्तन्ते............. ये ऊर्ध्वां शक्त्यादिसोपानमालिकामनारुह्य तत्रैव संतुष्यन्ति, ते --- - ..........शिवज्ञानविवजीताः || ७७ || नादतुष्टाः परमानन्दमयशिवज्ञप्तिसाधकतमां मान्त्रीमिच्छाशक्तिमेव नाविशन्ति, कुतस्तु शिवम्, अत उत्तरोत्तरपदारोहे यत्नः कार्य इत्यर्थः || ७७ || अथात्रैव बिन्द्वादिपदेषु सूक्ष्मतमानुभवगम्यं भाविनमेवान्तरं प्रविभागं दर्शयितुमाह ---- पञ्चधावस्थितो बिन्दुरर्धचन्द्रो निरोधिका | भुवनाध्वनि बिन्द्वावरणस्य निरूपणावसरे वक्ष्यति ---- ङिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते || तस्य वामदिशो भागे शान्त्यतीता व्यवस्थिता |ऽऽ (१०-१२१७-१८) इति | तथा ऽऽज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा | अर्धचन्द्रे स्मृता ह्येता निरोध्यंशे तु सुव्रते || रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा |ऽऽ (१०-१२२०-२१) इति | एवमेषां पञ्चधावस्थितत्वम् || अथ ---- तस्यातीतो भवेन्नादः............... तस्येति निरोध्यनुभवपर्यन्तव्याप्तिकबिन्दुदेवस्य, तं बिन्दुदेवमतीतः सन् स वर्णो नादो भवति नादामर्शरूपतामेति | तमिति वक्तव्ये तस्येत्युक्तिबीन्दोरेवेयं नादरूपतापत्तिरेवमुत्तरत्रापि पूर्वपूर्वावस्थैवोत्तरोत्तरं प्रकर्षमेतीत्याशयेन षष्ठी योज्या || एतदनुभवे युक्तिमाह ---- ........ऽवच्छिन्नस्त्वसौ भवेत् || ५-७८ || ईषत्प्रसारिते वक्त्रे............. पूर्वोक्तदिव्यकरणबन्धेनावच्छिन्नतामेतीत्यर्थः || एष च ---- ............डेवदेवः सदाशिवः | देवस्य द्योतनसतत्त्वस्य बिन्दोरपि, देवः सातिशयदीप्तः प्रभुश्च || एष च नादरूपः ---- चतुवीधो भवेच्छब्दो यः सुवेगवहः स्मृतः || ५-७९ || नादावरणे वक्ष्यति ---- ऽऽइन्द्रिका दीपिका चैव रोधिका मोचिका तथा |ऽऽ (१०-१२२६) इति | एताभिः शक्तिभिरस्य चतुवीधत्वम् || ७९ || ननु च ---- ऽऽऊर्ध्वगा तु समाख्याता कला त्वासां तु पञ्चमी |ऽऽ (१०-१२२९) इति भविष्यति, तत्कथमस्य चातुवीध्यम्, सत्यं तस्यास्तु न शब्दव्याप्तिरित्याह ---- पञ्चमो न वहेच्छब्दः.............. यः पञ्चमः प्रकारो नासौ शब्दरूपतया वहतीत्यर्थः || कथं तही भवति? ---- इत्याह ---- ............ऊर्ध्वगामिन्यसौ स्मृता | नादोर्ध्वगतेच्छाव्याप्त्यवस्थितो यः शक्तेः संस्पर्शस्तदभिन्नत एव नादान्तोऽव्यक्तध्वनिरिति चोच्यते इत्यर्थः || अथ ---- तस्यातीता भवेच्छक्तिः................ तमपि नादयतीत्यर्थः || सा च ---- .............पञ्चधा तु व्यवस्थिता || ५-८० || तद्वक्ष्यति ---- ऽऽऊर्ध्वे तु संस्थिता शक्तिः सुषुप्तभुजगाकृतिः |ऽऽ (१०-१२४१) इत्युपक्रम्य शूक्ष्मा चैव सुसूक्ष्मा च तथा चैवामृतामिता || व्यापिनीऽऽ (१०-१२४२) इति || ८० || अत्र शब्दव्याप्तेः क्षीणत्वात् कीदृगनुभव इत्याह ---- स्पर्शस्तत्र भवेद् देवि............ ह्लादात्मेति शेषः || किं च ---- ..............आत्मवित्तत्र पूर्ववत् | तत्र शक्तिपदे य आत्मवित् शक्त्यनुभवतुष्टः स पूर्ववदिति शिवपदं प्राप्नोतीति यावत् | एवमुत्तरत्रापि योज्यम् || अथातः ---- व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता || ५-८१ || सोऽपि स्पृशन्नूर्ध्वपदमारुरुक्षुर्योगिनो व्याप्तिमयान् व्यापिनीरूपो भवति | तत्र च ---- ऽऽव्यापिनी व्योमरूपा चानन्तानाथाप्यनाश्रिता |ऽऽ (१०-१२५२) इति वक्ष्यमाणसूक्ष्मतमशक्तिपञ्चकानुभवोऽस्ति || ५-८१ || अत्र च ---- बालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा | कदाचिदिति तत्पदारोहावसरे त्वशेषस्पर्शं वेत्ति, न वेति तदारोहप्रकर्षे व्याप्तिमात्रमेवानुभवति, न तु पृथक् स्पर्शमित्यर्थः || तदित्थम् ---- व्यापिनी सा समुद्दष्टा न ज्ञानं परमेश्वरि || ५-८२ || यदेतत् स्पर्शं वेत्ति न वेत्युक्तम्, सा व्यापिनीत्युपसंहृतं न ज्ञानमिति, नैषा ज्ञानशक्तिरपि तु इच्छाशक्तिरित्यर्थः || ८२ || अथ ---- तस्यापि समनातीता............. तदपि व्यापिनीज्ञानमतिक्रम्य स्थितेत्यर्थः || शमनं क्रमविज्ञानमुन्मनं युगपत्ऽऽ (४-३९४) इत्युक्तत्वादुन्मनानुभवं प्रविविक्षुः ---- .............ंअनस्तत्र न कारयेत् | न तत्रैव तुष्येदित्यर्थः | तदियतीयमिच्छाशक्तिव्याप्तिर्मान्त्रीत्यवसेयम् || समनायां भावाभावात्मनो विश्वस्य भेदस्यासूत्रणाद् हेयत्वमस्तीति तामतिक्रम्य ---- उन्मनापदमारोहन्............... मध्ये केवलात्मतामनुभवतीत्याह ---- ...........शुद्धात्मा तु ततो भवेत् || ५-८३ || तदित्थं शुद्धचैतन्यस्वरूपसामरस्य(मा)पन्नम् ---- शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेत् | उन्मन्यामन्ते चेति समासः | स्वातन्त्र्यशक्तिसामरस्यात्मनि स्वतन्त्रभट्टारकसंवेदने विश्रमयेत् तत्समावेशाभिज्ञ इत्यर्थः || एवं च ---- तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयात् || ५-८४ || युक्त एकत्वं प्राप्तः | समस्तस्य भेदकलङ्कस्य गलनात् परं शान्तत्वम् || तदित्थम् ---- गुरुपारम्परायातः सम्प्रदायः प्रकाशितः | परम्परैव पारम्परम्, गुरूणां शक्तिसदाशिवश्रीकण्ठादीनां पारम्परेणायातो रहस्यानुभवसञ्चारक्रमेण मया विदितः, सम्यग् दीक्षणादिपूर्वं शक्तिपातभाजां प्रदीयत इति सम्प्रदायः, प्रकाशितः, तवापि संक्रमणयुक्तिपूर्वं मया कथित इत्यर्थः | तदेवं गुरुतो लब्धोऽपि सम्प्रदायो यथारूढिमापन्नो गुर्वन्तरैः शिष्याणां सम्पाद्यते || तत्र ---- योजने तु परे तत्त्वे उपायः कथितस्तव || ५-८५ || ऽऽज्ञात्वा चारप्रमाणं तु प्राणसञ्चारमेव तुऽऽ (४-२३१) इत्यादिना चतुर्थपटल एवेत्यर्थः || ८५ || तदित्थं सर्वोत्तममिमं सम्प्रदायम् ---- एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेत् | सर्वासु व्यवहारदशासु परिमाणमाहात्म्य एव तिष्ठेदिति यावत् | आचार्यसाधकादींश्च स्वोचितेषु कर्मस्वेतज्ज्ञानपूर्वकमेव प्रयुञ्जीतेत्यर्थः | वरारोह इति प्राग्वत् || एवं तत्त्वदीक्षाप्रसङ्गोक्तेयं ज्ञानदीक्षा अन्याध्वदीक्षास्वपि कर्तव्या इति भङ्ग्या शिक्षां ददाति ---- तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च || ५-८६ || वर्णमन्त्रपदाध्वानं कृत्वैवं शुध्यति प्रिये | यथान्तर्भावितापराध्वपञ्चकं तत्त्वाध्वानमेवं कृत्वा इत्युद्घातपूर्वं परे तत्त्वे योजयित्वा शुद्ध्यति परभैरवतामाप्नोति, गुरुः शिष्यात्मना सह, तथान्यमप्यध्वानमेवमेव कृत्वा शुद्ध्यतीत्यर्थः || उपसंहरति ---- एषा वै धारणादीक्षा............. विज्ञानदीक्षामित्युपक्रम्यापि प्रोक्तधारणाक्रमेण क्रियमाणत्वाद् धारणादीक्षेत्युपसंहारेऽपि न दोषः || नैषा सर्वेण गुरुणा कार्येत्यभिदधद्भाविपटलमप्यवतितारयिषुः पाटलिकीं सङ्गतिं करोति ---- ..............कर्तव्या योगिनात्र तु || ५-८७ || मन्त्रसिद्धेन वा देवि.............. योगिना परसमावेशाभिज्ञेन | यदि वा अत्र तन्त्रे समनन्तरपटलवक्ष्यमाणसाधनक्रमेण यो मन्त्रसिद्धस्तेन कर्तव्या, द्वयोरप्यत्र सामर्थ्याविशेषात्, तदन्यस्य त्वनधिकारात् | इत्थमियम् ---- .............कृता वै सुकृता भवेत् || ५-८८ || सम्यङ्निवृत्तिमासादयत्येव || तदेवं चतुर्थपटले कलादीक्षोक्ता, अस्मद्दशीतयुक्त्या एकतत्त्वदीक्षा च | इह तु त्रिपञ्चनवषट्त्रिंशद्भेदाश्चतस्रस्तत्त्वदीक्षाः, पददीक्षा च नवतत्त्वदीक्षावत्, वर्णमन्त्रभुवनदीक्षाश्च तिस्रः कलादीक्षावत्, दशमे च वितता भुवनदीक्षा भविष्यतीत्येता एकादश अध्ववैचित्र्येण दीक्षाः | ज्ञानदीक्षा चोद्धातयुक्त्या द्वादशी इति | एताः सबीजनिर्बीजसद्योनिर्वाणभेदात् पुत्रकविषये षट्त्रिंशद्भवन्ति | आचार्ये तु सबीजैव द्वादशभेदा | साधके शिवधमीलोकधमीभेदाद् द्विविधे पूर्ववच्चतुवींशतिभेदा | समयिनि तु अध्वन्यासस्यानुक्तत्वात् ज्ञानक्रियाभ्यां हृदादिग्रन्थिभेदनतो द्विविधा, इति चतुःसप्ततिरिह संक्षेपतो दीक्षाभेदाः | तत्रापि सकलनिष्कलाघोरेश्वर्याद्यनुष्ठानभेदाद् लोकधमीसाधकस्य चावान्तरवैचित्र्याद् भौतिकनैष्ठिकाचार्यभेदाच्च बहुप्रकारा भवन्ति | तदत्र दीक्षायामेव प्रत्यवतिष्ठन्ते सौगताः ---- इह दीक्षया किमात्मनः संस्कारः क्रियते, बुद्धेर्वा? किमात्मग्रहादीनां मलानाम्, किं वा कर्मणाम् ? आत्मन आयातशक्तिपातस्य, तदितरस्य वा ? शक्तिपातोऽक्षीणमलस्य, अन्यस्य वा ? कश्चात्मनः संस्कारः ? कर्मनिवृत्तिः, सुखदुःखसंविन्निवृत्तिः, प्रकृत्यादिविवेकदर्शनम्, स्वस्वरूपज्ञानमद्वैतदृष्टिर्वा ? बुद्धेरपि कः संस्कार ? किमिन्द्रियप्रेरणासामर्थ्यम्, रागादिहान्याधानम्, उन्मूलनं वा ? मलानामपि किं तदैव कार्यप्रसवासामर्थ्यम्, मरणापेक्षं वा संस्कारः? एवं च कर्मणाम्? स च किमागमैकप्रमाणको युक्तिसिद्धोऽपि वा ? तत्र शक्तिपातादात्मग्रहादिमलक्षयः, मलक्षयाच्च शक्तिपात इत्यन्योन्याश्रयः | अक्षीणमलस्य शक्तिपाते सर्वस्यासौ स्यात्, मलक्षयोऽन्यतः कुतश्चिद् यदि तत एव तर्ह्यात्मनः संस्कारो भविष्यतीति किं शक्तिपातहेतुकेन दीक्षाविधानेन ? आत्मनश्च नित्यैकस्वभावस्य कर्मतद्भोगनिवृत्त्यनिवृत्त्योरविशिष्टस्य कः संस्कारः ? वैशिष्ट्ये नित्यताहानिः | कर्मभोगयोः व्यतिरिक्तयोर्नाशे तस्य किं वृत्तम् ? तत्समवायोऽस्य निवृत्त इति चेत्, सोऽपि कर्मादिवत् स्वात्मन्येवेत्यात्मनो न भोक्तृत्वकर्तृत्वे, नापि तदुपशमात्मा मुक्तिः स्यात् | प्रकृत्यादिविवेकस्वरूपदर्शनपक्षौ प्रागतत्स्वभावतयास्य भेदमानयतः | आत्मदर्शनमात्मीयादिदर्शनस्य तन्मूलानां रागादीनां च हेतुरिति ततोऽस्य बन्ध एव | अद्वैतदृष्टौ अपरस्य कस्याप्यभावात् क्रिया (भोगा? बोधा) नुपपत्तौ कर्तृत्वज्ञातृत्वतत्त्वैश्वर्यप्रविलोपो मुक्तात्मनां स्यात् | बुद्धेरक्षप्रेरणासामर्थ्या(धा)ने दीक्षितस्य करणवैकल्यं स्यात् | रागादिदोषाश्च सवासनाका दीक्षितस्य न निवर्तन्ते | बुद्धेरुन्मूलने दीक्षानन्तरं देहपातप्राप्तिः | मलानां तदैवासामर्थ्यसाधने प्रवृत्तिस्त्रुट्येत् | मरणापेक्षमसामर्थ्याधानमिति पलायनमार्गः | मृत्यवसरे च दीक्षितस्यात्मादिग्रहः प्राग्वदेवोपलभ्यते | एवं कर्मस्वपि वाच्यम्, आरब्धकार्यकर्मसंशोधने दीक्षाया न सामर्थ्यमिति चेत्, अन्यत्रापि क आश्वासः ? आगमप्रमाणकमेतदिति चेत्, आगमस्य तदर्थं कः प्रतिबन्धः ? मन्त्रप्रतिबन्धाद् यथा बीजमङ्कुरं न सूते, तद्वत् कर्मबीजान्यपि न संसारं सुवते इति | बीजादिसंसिद्ध्युक्त्या बीजादिवद् दीक्षितस्य तैलाभ्यङ्गदाहादयो ऽप्यसामर्थ्याधानहेतवः क्रियन्ताम् | अमूर्तत्वात् कर्मणामभ्यङ्गादयो न सन्तीति तानि दीक्षैव क्षपयति, तथा च घटदीक्षादीक्षितस्य लाघवमप्युपलभ्यत इति चेत्, नामूर्तस्य पापादेः, गुरुत्वाभावात् | तस्मात् क्षणिकत्वादिभावनापूवीका नैरात्म्यदृष्टिरेव मोक्ष इति | अत्रोच्यते ---- इहात्मसंस्कार एव दीक्षा | तथाहि ---- अयमात्मा सङ्कोचाभासतत्त्वापूर्णम्मन्यतात्मनेहाभिलाषशब्दोक्तेनाणवेन मलेन, शुभाशुभवासनात्मना विविधजन्मायुर्भोगदेन कार्मेण, तत्प्रभवेन च कञ्चुकपुर्यष्टकस्थूलभूतात्मनाजातिकत्रिविध- देहतदाश्रयविचित्रभुवनभोक्त-व्यार्थसार्थप्रतीतिभाजा मायाख्येन मलेन च वलितः | यतः सर्वस्यैव सङ्कुचितोऽभिष्वङ्गादिमयोऽन्तरुल्लेखशताकीर्णः कृशगौरादिरूपोऽमुत्रेदं जानामीत्यादिप्रतीतिसिद्ध एवायमर्थः | तदीदृशस्यास्यानन्तजन्मसहस्राभ्यस्तेदृग्वासनस्याप्याकस्मिकगुरु- यियासाभक्त्यादिवशोन्नीतशक्तिपातानुसारनिर्वर्त्यमानया दीक्षया ऽऽदीयते ज्ञानद्भावः क्षीयते पशुवासना | दानक्षपणसंयुक्ता दीक्षा तेनेह कीतीता ||ऽऽ इत्याम्नायनिरूपितस्थित्या आणवादिपाशप्रशमनशिवत्वाभिव्यक्तियोग्यतात्मा संस्कारः क्रियते | पाशानां च प्रशमनमचिन्त्यमन्त्रशक्तिवशाद् बीजानामिव पुनः प्ररोहाधानासामर्थ्यम् | यत्तु ---- ङालं बीजादिसंसिद्धौ विधिः पुंसामजन्मने | तैलाभ्यङ्गाग्निदाहादावपि मुक्तिप्रसङ्गतः ||ऽऽ इत्युक्तं तैः, तत्तेषामेवोपहास्यतामाविष्करोति, यतः स्थावरजङ्गमकृत्रिमाद्यात्मनो विषस्य स्वकार्यकरणशक्तिप्रशमनं बीजवद्यन्मन्त्रैः क्रियते, तत्रापि एतद्वक्तुं प्राप्तम् | अथ तैलाभ्यङ्गादेर्बीज एव शक्तिनिरोधकृत्वं न तु विशेषकृत्वं, मन्त्राणां तु तत्रापीत्युच्यते, तही अचिन्त्यप्रभावत्वात् तेषां पाशप्रशमनेऽपि सामर्थ्यं किं न सह्यते | अथ दोषाः सबीजसंताना दीक्षितेऽप्यनिवारिता दृश्यन्त इति किमस्य मन्त्रैः कृतमित्युच्यते | तदत्राप्युच्यते प्रोक्तपाशशक्तिप्रतिबन्धनं मन्त्रैः क्रियते अस्य, न तु रागद्वेषादिप्रशमनम् | यथाहि ---- विरूपस्य वैरूप्यमनिवर्त्यापि लोकोत्तररमणीवशीकरणं मन्त्रैः क्रियते, तद्वद्देहारम्भिकर्माशोधनाद् वर्तमानदेहे रागाद्यनिवृत्तावपि भाविप्ररोहप्रतिरोधनं पाशानां कुर्वतां मन्त्राणां किमायातम् | तीव्रतमशक्तिपातपूतानां च दीक्षानन्तरं रागद्वेषादिप्रशमः शतशोऽपि दृश्यन्ते | सद्योनिर्वाणदीक्षायां च त्रैकालिकपाशशोधनात् तदैव देहादिविगलनं शिवत्वाभिव्यक्तिश्च भवत्येव | शिवत्वाभिव्यक्तावत्र किं प्रमाणमिति चेत्, मन्त्रप्रभावसम्पादिततात्कालिकदेहदर्शनप्रशमनोद्भूतमनुमानं यथा च शान्त्याप्यायवशीकारदाहोच्चाटनशोषणमारणादि मन्त्रसामर्थ्याद्भवत्येव तथा दीक्षाफलमपि भवत्येवेति चेतसि निवेश्यताम् | तत्कालमेव दीक्षातः शिवत्वाभिव्यक्तिः किं न भवतीति चेत्, प्रकृष्टज्ञानशालिभिः क्रियमाणायां सहस्रशो भवन्ती असावपि दृश्यते एव | अथोच्यते ---- नित्यस्यात्मनो दीक्षातः संस्कारोत्पत्तौ संस्कृतत्वासंस्कृतत्त्वभेदाद् भेदः स्यादिति चेत्, न | तत्तत्प्रतिभासभेदेऽप्यस्याकृतकाहंविमर्शैक्येन एकत्वसिद्धिः, दूरासन्नादौ देवकुलादेरिव तद्विमर्शैक्यात् | विमर्शनवशादेव च सर्वव्यवस्थेति प्रत्यभिज्ञायां निर्णीतम् | एतेन भोक्तृत्वकर्तृत्वाद्यप्यस्य समथीतमेव, तत्तद्विषयभेदेऽप्यात्माव्यतिरेकेणास्य स्फुरणात् | यत्तु उक्तमात्मदर्शनं न मुक्तिरपि तु बन्ध इति तच्छरीरप्राणपुर्यष्टकशून्येष्वनात्मस्वेवमेव | यत्तु सत्यरूपे चिदात्मन्यहंविमर्शपरमार्थतया स्वीकृताशेषज्ञानक्रियापरमार्थे तत्रात्मदर्शनं सैव सत्यतो मुक्तिः | न च केवलमनात्मन्यात्मदर्शनं मिथ्याज्ञानरूपो बन्धः, यावदात्मन्यपि पूर्णप्रकाशाहंविमर्शपरमार्थाशेषविश्वमये विश्वत्रापि च चिदात्मैक्यपरमार्थे यदनात्मतया ज्ञानम्, तदपि बन्ध एवेति सर्वथा विगलितसङ्कोचचिदेकघनविश्वैकात्म्यमयशिवत्वाभिव्यक्तिरेव मुक्तिः | तत्र चाभेदसारं सर्वं ज्ञात्वा समाप्तमेवेति तत्प्राप्त्यर्थमेव दीक्षाप्रवृत्तिः | तदेवमुक्तनीत्या मलानां भेदेन प्रतिपादितत्वात् पृथग् न तत्संस्कारपक्षः कश्चित्, इत्यात्मन एवोक्तरूपः संस्कारो दीक्षया क्रियते | अद्वयमेवास्य स्वरूपमिति स्वरूपदर्शनाद्वयदर्शनपक्षयोर्नास्ति भेदः | सद्योनिर्वाणदीक्षायां त्वस्य कर्मसुखादिसंविन्निवृत्तिरपि क्रियत इति प्रतिपादितम् | असद्योनिर्वाणदीक्षासु देहारम्भिकर्मशुद्धिर्भगवदाज्ञातो न क्रियते, न त्वसामर्थ्यात् | अतोऽत्रापि यदुक्तम् ---- ऽऽगतिप्रतीत्योः कारणान्याश्रयस्तान्यदृष्टतोऽदृष्टनाशान्न | गतिर्दीक्षितस्य ||ऽऽ इति, तदप्यदूषणमेव | प्रकृत्यादिविवेकदृष्टिबुद्धिसंस्कारपक्षौ अनभ्युपगमपराहतौ | ततो यदुक्तम् ---- ऽऽधारणप्रेरणक्षोभनिरोधास्तेन (चावशा१ः?) | न स्युस्तेषामसामर्थ्ये त(स्य)२ दीक्षाद्यनन्तरम् ||ऽऽ इति तददूषणमेव | यदुक्तं पापस्य गुरुत्वाभावात् प्रत्ययवती तुलादीक्षा नोपपद्यते इति; तदविदिताभिप्रायतया न सम्यक्, यतस्तमोमयपापावृतिहेतुकं देहे गुरुत्वं तुलादीक्षया घटशुद्धिवत् कारणनिवृत्तिद्वारेण निवर्त्यते | तथा च स्मृतिकारः ---- ऽऽअधर्मात्तमसो देहे गुरुत्वं यत्क्षयोऽस्य तु | धर्मतो लघुतोत्पादाद्धटतः सम्प्रतीयते ||ऽऽ इति | तथैवैतत् | यत्पुनरुक्तमनायातशक्तिपातस्य दीक्ष्यत्वाभावात् शक्तिपातवत एव दीक्षा, शक्तिपातो मलक्षयात् स च शक्तिपातादितीतरेतराश्रयः, अक्षीणमलस्य शक्तिपाते सर्वस्यासौ स्यात्, अथ मलक्षयस्य शक्तिपातादन्यो हेतुः कश्चित् स एव तही शक्तिपाते हेतुरस्तु किं मलक्षयेणेतिं | सत्यमेतत्, किंन्तु निरर्गलपारमेशविचित्रशक्तिपातवतो दीक्ष्यत्वमस्माभिरिष्यते, न तु मलपरिपाकादियुक्तस्येति न कश्चिदुक्तचोद्यावस्करसंस्पर्श इत्युपपन्नमेव दीक्षयात्मसंस्करणम् | अपि च, सकलव्यवहारप्राणितभूतसर्वाभ्युपगमाविगीतप्रसिद्धिसिद्ध- सर्वज्ञमहेश्वरप्रणीतत्वप्रतीतप्रमाण्ये प्रेक्षापूर्वकार्याचार्यपरम्परानुष्ठीयमानानुष्ठानप्रकटित- तत्तत्सर्वनिर्वाणाद्याप्यायनादिनानाफललब्धसंवादे पारमेश्वरे शास्त्रे यद्यथाभिधीयते तत्तथैव | ततश्च यदुक्तम् ---- ऽऽआगमस्य तथाभावनिबन्धनमपश्यताम् | मुक्तिरागममार्गेण वदनपरितोषकृत् ||ऽऽ इति, तदसदेव | यत्पुनः ---- ऽऽतस्मादनादिसंतानतुल्यजातीयबीजिकाम् | उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः ||ऽऽ इत्युक्त्या आत्मदृष्टेरहन्ताविकल्पवासनामूलत्वमुक्तम् तत्प्रतारणमात्रमेव, यतः शिरोनिर्देश(प्रख्या)१ कृतकाहंविमर्शमयत्वमात्मन्यङ्गुलि- निर्देशप्रख्यासाङ्केतिकेदंविमृश्यत्वमिव विषयेषु स्वसंवेदनेन प्रतीयत एव, अन्यथा प्रथमसङ्केतग्रहणमेव न कस्यापि घटेत | नन्वहंप्रतीतेवीकल्पवासनामूलत्वमुक्तम्, तत् कथम्, यतो यो विकल्पो ज्ञानसंतानमहन्तयाभिमन्यते, स किं स्वात्मनो भेदेन तं तथाध्यवस्यति, स्वात्माभेदेन वा | भेदपक्षे इदमिति ज्ञानसंतानस्याध्यवसायः स्यान्नत्वहमिति | अभेदपक्षे तु विकल्पस्य स्वात्मापि विकल्पः प्रोक्तः, न च तद्युक्तं स्वात्मन्यविकल्पकत्वाद्विकल्पानाम् | अथ विकल्पः स्वात्मनो ज्ञानान्तरैः सह भेदं नाध्यवस्यति, न त्वभेदमध्यवस्यतीत्युच्यते, तही अध्यवसाये प्रतिषेधः पतित इत्यनध्यवसायव्यापार एष स्यात् | अथात्मनो ज्ञानान्तरैः सह भेदमनध्यवस्यन्नवान्तराण्यभेदेनाध्यवस्यति, तही येनात्मना सह येषां ज्ञानानां भेदो नाध्यवसितः, तेषामभेदाध्यवसाये तस्यात्मनोऽप्यभेदाध्यवसायः प्राप्तः, आत्मवद्वा तेषामप्यप्राप्तः, अन्यथात्मना सह कस्तेषां भेदः | न अध्यवसायः, भेदाध्यवसाय एव ह्ययमित्थं स्यात् | किं च, अनुभवसंस्कारोत्थमात्मनो रूपवैचित्र्यमनुभवतापि विकल्पेन निवृत्तपूर्वाण्यनुभवान्तराण्यवसातुं शक्यन्ते, तत्रास्य नारिकेलद्वीपनिवासितुल्यत्वात् | न चास्य प्रकाशातिरिक्तोऽध्यवसायसमारोपाभिमान- निश्चयादिपदवाच्याभिप्रायेणाभेदवाच्यः कश्चिदन्यो व्यापारो व्यवस्थापकः परदर्शने सङ्गच्छत इत्यास्तामतिगहनमेतत्, प्रत्यभिज्ञायां विततमस्तीह तु प्रतन्यमानं सुकुमारहृदयानायासयेत् | तत्स्थितमेतत् तत्तदाभासभेदेऽप्यकृतकाहं विमर्शसिद्धैक्यपरमार्थोऽयमात्मा इति | ननु च श्रीमत्खेटपालाचार्येण मलपरिपाकहेतुकः शक्तिपातोऽभ्युपगतः स्वतन्त्रशक्तिपातपक्षश्च दूषितः, तत्कथं स्वतन्त्रशक्तिपातपक्षाश्रयणेनैतत् प्रतिसमाहितम् ? अत्रोच्यते ---- अत्रार्थे यदि विविदिषास्ति तदेतदपि निर्णीयते | श्रूयताम् ---- ऽऽअथानादिर्मलः पुंसां पशुत्वं परिकीतीतम् | तुषकम्बुकवज्ज्ञेयं मायाजमङ्कुरस्य तु ||ऽऽ इति श्रीस्वायंभुवसूत्रे ऽऽमलऽऽ इति ऽऽपुंसाम्ऽऽ इति चोक्तिपर्यालोचनया एकोऽप्यसौ बहुशक्तिकः अन्यथा बह्वावारकत्वमस्य न घटते, एकमुक्तौ च सर्वे मुच्येरन्, कर्मभिश्च सह परिणमति, अमिश्रस्य परिणामायोगात् | परिणमंश्च कालविशेषात् कंचित्प्रति कथंचित् तीव्रमध्यादिभेदाद् यदा परिपच्यते, तदा पुंसां कर्मपरिपाकमिवापेक्ष्य शक्तिपातं करोति महेश्वरः, यावच्च मलस्य परिपाको न जातः, तावत् तत्पुंबन्धकत्वेनैव तं परिणमयति, यदा तु कृतकार्यत्वादात्मनि पक्वं पश्यति स्वशक्तिपातान्मलशक्तिं निरूणद्धि असौ | यथा च स्वतन्त्रशक्तिपातवादिपक्षे प्रतिपुरुषं किञ्चिदेव कर्म कदाचिदेव देवः परिपाच्य भोगभोग्यं करोति, न तु सर्वान् प्रति सर्वं युगपत्, तत्त्वानि च नियतकार्यकारणभावभाञ्जि दर्शयति, मायाप्रकृत्यादि च स्वापप्रबोधयोरौचित्येन परिणमयतीति नास्य सर्वत्राविशेषेण कर्तृत्वम्, तथा मलपरिपाकपक्षेऽपीति कर्मणो मलस्य च विचित्रं परिपाकमपेक्ष्य निग्रहानुग्रहौ पुंसां करोति परमेश्वरः, न त्वेवमेव, तस्याप्रेक्षापूर्वकारित्वप्रसङ्गादिति तावच्छ्रीमत्खेटपालाचार्यमतम् | यदाह भोगकारिकासु ---- ऽऽअनाद्यनादिसम्बद्धो मलः साधारणोऽक्षयः | प्रतिपुंनियतः स्वस्वकालव्यापृतशक्तिकः ||ऽऽ (श्लो० १२८) इति | तथा ऽऽमुक्त्वा निरोधिकाः शक्तीर्नान्यो धर्मोऽस्य विद्यते | कर्माशयसमेतस्य हेतुत्वं च भवार्णवे ||ऽऽ (श्लो० १४०) इति | तदत्र यदि स्वातन्त्र्यान्मलो बन्धकः, शिवमुक्ताणून् प्रत्यपि स्यात् | अथ शिवेच्छा (तः), तच्छिवस्य वीतरागद्वेषत्वाद् मुक्ताणून् प्रत्यपि मलशक्तिप्रेरकत्वं स्यात् | तेषां स्वस्वरूपाभिव्यक्तेर्न तथा इति चेत्, नेतरेषामपि स्वस्वरूपस्य तथात्वात् | अनादिमलनिरोधान्न तथात्वमित्ययुक्तम्, तन्निरोधस्यैव विचारयितुं प्रक्रान्तत्वात् | यदि चानादिनीरोधः, कृतं शिवशक्त्यधिष्ठानेन | तदप्यनादि चेत्, किमुभाभ्याम्, मलशक्तिकृतनिरोधस्यानादित्वमात्रेणैव सुलेभेनोत्तरेण नियतपुंविषयत्वमुच्यताम् | एवमस्त्विति चेन्न, शिवस्य सर्वत्राधिष्ठातृत्वं स्यात्, ततश्च ---- ऽऽमलसंसर्गात्तद्वत्तेषामकृतो हि शिववशीकारः | पत्युस्त्वेते रोध्या.............................. ||ऽऽ (त०त्र०नि०,का० ९) इति किमर्थमुक्तम् | अत एव शिवस्य मलशक्त्यधिष्ठातृत्वमपीष्यते इति चेत्सत्यम्, इष्यते, न तु सिद्ध्यति, द्वयोरनादित्वेनान्वयव्यतिरेकाभावात्, प्रयोजनमात्रवशेन च भावव्यवस्थानुपपत्तेः | अस्तु, नैवं तथापि यान् प्रति निरोधाय शिवो मलं प्रयुङ्क्ते, ते शिवतुल्यत्वाद् बहुत्वाच्च प्रत्युत शिवमेव प्रति तं प्रयुञ्जीरन्, भूयसामेकापेक्षया सामर्थ्यातिशयात् | किं च मलशक्तिर्यदि संनिधिमात्रेण निरोधिका तच्छिवमुक्ताणून् प्रत्यपि स्यात् | अथ ज्ञातृत्वकर्तृत्वात्मकस्वरूपावारकत्वेन (निरोधिका?), तही आत्मनां विकारिता प्राप्ता, स्वरूपनाशो वा, तेषाम् तदतिरिक्तस्य धमीरूपस्य वैशेषिक इव शैवेऽनभ्युपगमात् | न च मूर्तेन मलेनात्मनाममूर्तचित्स्वरूपाणामावरणं घटते | चक्षुसूर्यादिरश्मीनां तु भौतिकत्वात् पटलादिभिस्तद्युज्यत एव | यदपि मद्यविषादेर्जीवं प्रत्यावारकत्वम्, तत्सिद्धसङ्कोचं प्राणादिमयं प्रति न शुद्धचिदात्मानम् | मलसङ्कोच एव त्वयं प्राथमिको विचार्यो वर्तते, इति स कथं शुद्धचिदात्मन आवारकः स्यात् | प्रत्युता (रणा)१ यायातो मलोऽस्य वेद्यः स्यादिति सर्वः सर्वज्ञो भवेत् | मलश्च यद्यव्यापकस्तस्य व्यापकात्मावारकता न स्यात् | व्यापकत्वे तु शिवमुक्ताणूनप्यावृणुयात्तेषां जीवानां च सर्वदेशाक्रान्त्यात्मनो व्यापकत्वस्याविशेषात्तस्य च प्रत्यंशं व्यापकेन मलेनाच्छादनात् | आत्ममलयोश्च न संयोगः सम्बन्धस्तस्य व्याप्यवृत्तित्वात् तयोश्च व्यापकत्वात्, न समवायो नित्यद्रव्ययोस्तदयोगात् | अत एव न कार्यकारणभावः | नापि तादात्म्यं, भिन्नत्वात् | आवार्यावारकतापि घटपटादौ न संयोगात् व्यतिरिक्ता भवितुमर्हति | किं च, मलस्य नित्यत्वं व्यापकत्वमेकत्वमनेकशक्तित्वं शिवस्वभावात्मदृक्क्रियानिरोधनेनैतन्निरोधपरिपचने च स्वातन्त्र्यम्, शिवस्य च मुक्तशिवेभ्योऽणुभ्यश्च भिन्नत्वमत एवातद्व्यापकत्वमविश्वशक्तित्वं च कर्ममलपरिपाकादिमुखप्रेक्षितया च पारतन्त्र्यमित्यादि भेदवादिकृतं शिवमलयोः विपर्यस्तस्वरूपप्रतिपादनमतिसुभाषितम् | यच्च मलस्य परिणामित्वमुच्यते तैस्तदमिश्रस्यास्य कथं स्यात् | कर्मभिः सहितस्य भविष्यतीति चेन्न, तानि मलस्यान्तवीशन्तीति कास्य तैः सह मिश्रता | यद्यपि ---- ऽऽमायाविकारयोगे कर्मयुतः कारणं मलो भविनाम्ऽऽ (तं०त्र०नि०, का० ११) इत्युक्तं भर्वाद्भः, तथापि विज्ञानकेवलिनां मलस्य कर्मसाहित्याभावात् परिणामायोगे मुक्त्यभावः स्यात् | मन्त्रमन्त्रेश्वरादीनां च योऽयमधिकारबन्धः, नासौ सहजमलकृतः तस्य मायोर्ध्वेऽभावादिति तदर्थं मलान्तरमभ्युपगन्तव्यम् | तेषां माहेश्या महामायाशक्त्यैव तावतांशेन बन्धत्वम्, न तु व्यतिरिक्तेनान्येन मलेनेति चेत्, अणूनामपि मायाशक्त्या सङ्कुचितत्वाभासनं बन्धनमस्तु, किमनुपपन्नव्यतिरिक्तमलाभ्युपगमेन | अननुबन्धे मन्त्रादीनामपि तादृशो व्यतिरिक्तो मलोऽभ्युपगम्यताम् | किञ्च, अयं मलोऽध्वनि न क्वाप्यनुप्रविष्ट इति कथमस्य षडध्वदीक्षायामन्तर्भाव्य शुद्धिः क्रियते ? कर्मवत् पुंस्तत्त्वान्तर्भावोऽस्येति चेन्न, कर्त्रात्मनः पुंसः कर्माणि संस्कारात्मतयाऽन्तर्भवन्तीति युक्तम्, कर्तृनिष्ठत्वात् क्रियाणाम्, मलस्य तु व्यतिरिक्तस्य कथं तदन्तर्भावः | किञ्च, नावारकेण पटादिना घटादेः स्वरूपं विशिष्यते, अपि तु तद्विषये ज्ञातुर्ज्ञानं विहन्यते, तथा शिवमुक्ताणूनामेव स मलः स्यात्, तेषां मलेन पुंविषयज्ञानावरणादिति मलस्यावारकत्वं तावदयुक्तम् | यश्च मलस्य परिपाकोऽभिधीयते, स किं तस्य तच्छक्तेर्वा विनाशः, उत निरोधप्रतिबन्धः | आद्ये पक्षे एकत्र तत्परिपाके सर्वे शुद्धाः स्युः, तच्छक्तेरनेकत्वाभ्युपगमेऽपि सदृशत्वाच्छक्तिमदव्यतिरेकाच्चैष एव प्रसङ्गः | फलभेदादारोपितभेदो हि पदार्थात्मैव शक्तिरिति सूरयः | न चानादेर्वस्तुभूतस्य मलशक्तिनिरोधस्य नाशो युक्तः, प्रागभावस्य त्ववस्तुत्वात् स भवतु नाम | शक्तिनिरोधप्रतिबन्धोऽपि विषवह्निशक्तिप्रतिबन्धवत् सर्वानेव प्रति स्यात् | तद्वदेव च प्रतिबन्धकनिवृत्तौ तन्निरोधः पुनरुन्मज्जेत् | परिपाकश्चास्य यद्यहेतुकः प्रथममेव स्यात्, वृक्षफलानामिवर्तौ मलशक्तीनां सममेव वा सामनन्तर्येण वा परिपाकः स्यात्, नात्यन्तदूरकालव्यवधानेन | अथ ---- ऽऽपुंबलरोधं कुर्वन् पश्यति हि स शक्तिसाफल्यम् | दृष्ट्वा च तन्निवृत्त्यै योग्यं युङ्क्ते नृमुक्तये करणम् ||ऽऽ (त०त्र०नि०, का० २१) इत्युक्तनीत्या मलः स्वकार्यं कृत्वा पच्यते, तत् पुन्निरोधानन्तरमेव पच्येत् | अथ यदर्थं पुन्निरोधः, तस्मिन् कलादिक्षित्यन्ततत्त्वोदये भोगे भुक्ते सति पच्यते, तदत्रभोगो यदि सामान्येन, तदेकत्र शरीरे कलादिक्षित्यन्तमये तत्कार्यस्य भोगस्य सम्पन्नत्वात् तदनन्तरमेव मलपरिपाकः स्यात् | अथ विशेषेण, तन्न कदाचिदपि, भाविकलात्मनो विशेषस्य कर्मजभोगवैचित्र्यस्य तदुत्थत्वात् | अथेश्वरेच्छातो मलस्य परिपाकः, तदीयेच्छा यद्यनियन्त्रिता, हेतुः सर्वाणूनां स्यादित्युक्तमेव | अथ भोगपर्यायतः; कदाचिद्विरुद्धे समबले कर्मणी परिपक्वे अपि विरोधादुदासाते, कर्मान्तराणि चापरिपक्वत्वाद्भोगाय नोन्मुखीभवन्ति, इति तं कालमपेक्ष्य भगवान् मलं रुणद्धि, स च कालो दुःखसुखरहितः स्वयमुपलभ्येतापि कैश्चिदिति पक्,सः | तदत्रापि ब्रूमहे ---- कर्मणां क्रमानुष्ठितानां क्रमिकफलानां कथं तावद्युगपत्फलदानौन्मुख्यम्, कथं वा तन्निरोधावसरे ततोऽन्यत् कर्म फलं न दद्यात् | तस्य स्वकाल एव फलदानोन्मुखत्वं न तु तत्काल इति चेत्, तयोरपि तही न तदेककालं युक्तम् | ईश्वरेच्छात एवेति चेत् सा यदि स्वतन्त्रा, तद्युगपत् सर्वस्य सर्वकर्मपरिपाकात् तद्भोगं दत्त्वा मुक्तिं वितरतु, कर्मानपेक्षया वा सर्वस्य मलं रुणद्धु | अथास्वतन्त्रा, तदत्रापि तस्य हेत्वन्तरं वक्तव्यम् | यस्य च तुल्यबले कर्मणी भोगोन्मुखे रुद्धे तस्य तत्कालं देहपातः स्यात् | अथ न जात्यायुष्प्रदयोः कर्मणोनीरोधोऽपि तु भोगप्रदयोरेव | ननु जात्यायुष्प्रदकर्मानिरोधेऽपि यदीशो मलं रुन्धे, तद्भोगप्रदात् किमिति बिभेति, यत्तन्निरोधमवश्यमपेक्षते | यदि च रुद्धशक्तिकर्मदशायामेव मलं रुन्ध्यात्, तत्स प्रलयावस्थायां सर्वेषां तथा कुर्यात् | तत्रापि च तेषां तादृग्भोगप्रदकर्मसङ्गोऽस्तीति चेत्, विरुद्धकर्मद्वयसङ्गे तादृग्भोगदं कर्मास्तीति किं वक्तुं न शक्यते | किञ्च, विज्ञानाकलानां कार्ममलशून्यानामीश्वरो युगपन्मलं रुन्ध्यादित्यष्टौ बोधितवानिति शास्त्रेषु संख्यानियमानुपपत्तिः | अथ सत्यपि कर्मसाम्ये परिपक्वमेव मलमीशेच्छा रुणद्धीति कैरणव्याख्यातृमतमाश्रीयते, तही उक्तदूषणावृत्तिरनुपपन्ना व्यर्थकर्मसाम्याभ्युपगमदोषश्चापतति | एतेन तदपि प्रत्युक्तं यदाहुः केचित् ---- ऽऽवैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता | सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता || आपत्प्राप्तिस्तन्निरीक्षा देहे किञ्चिच्च लक्षणम् | शास्त्रसेवा भोगसङ्घपूर्णता ज्ञानमैश्वरम् || इत्यादिहेतुके चेच्छा मलं रुन्धे हठादिति | ऽऽ यत एतदुदयेऽपि यदीशेच्छैव कारणं तदन्योन्याश्रयः | कारणान्तरं च वक्तुमशक्यम्, तस्यापि नियमायोगात् | न चैते सर्वे हेतवः, ईशेच्छाया आयातशक्तिपातानां तथारूपत्वादृष्टेः, नाप्येकैकस्येशेच्छाहेतुत्वम्, वैराग्यादेः शतशो व्यभिचारदर्शनात्, परमेशपूजाज्ञानादेश्च मलपरिपाकपूर्वकत्वात्, न त्वीशेच्छाप्रचोदकत्वं युक्तम् | यत्पुनरन्यदुक्तम् ---- पुंसां मुक्तेः क्रमिकत्वं दृष्ट्वा ईशेच्छाया अपि मलपरिपाकहेतुत्वं क्रमिकमनुमीयते, यथा भोगस्य क्रमात्तद्धेतुकर्मपरिपाकहेतुत्वं क्रमिकमिति, तदसत्, मुक्तेः क्रमो मलपरिपाकक्रमात्, सोऽपि ईशशक्तिकृतपरिपचनक्रमादिति सत्यम्, ईशशक्तेस्तु मलपरिपाचनक्रमे हेतुर्न लभ्यते, स्वातन्त्र्ये त्वलं मलपरिपाकापेक्षया | तस्मान्न कथञ्चिदपि भेदवादिभिर्मलपृथक्त्वं तच्छक्तिनिरोधतत्परिणामतत्परिपाकशक्तिपातादयः प्रतिपादयितुं शक्यन्ते, इति यथोक्तमेव साधु | यद्यपि चतुर्थपटले ---- ऽऽअभिलाषो मलोऽत्र तुऽऽ (४-१०५) इत्यत्र मलस्वरूपविचारस्यावसरोऽभूत्, तथापीह एकप्रघट्टकेन पश्चात्तद्विचारितम्, मा भूत्तत्र दीक्षातन्त्रनिभालनोद्यतानां सुकुमारहृदयानां व्यामोह इति | किञ्च, भेदवादे जीवानामानन्त्येऽपि पुनरन्येषामुदयाभावात् ईश्वरेणेयत्तया परिच्छेद्यमानत्वाच्च नैयत्यं संसारस्य चानादित्वमतो यदि प्रतियुगमेकैकोऽणुर्मुच्यते, तदुच्छेद एव संसारस्य प्रसक्तः | अथ जीवानां तादृगानन्त्यमस्ति, यदीशेनापि न परिच्छिद्यते तही ईशस्यासर्वज्ञता स्यात् | तदुक्तं शारीरके मुनिना ---- ऽऽअन्तवत्त्वमसर्वज्ञता वाऽऽ (२-२-४१) इति | आस्तामेतत् | यत्तु तैः स्वतन्त्रशक्तिपातवादिपक्षे चोदितमीश्वरस्य निनीमित्ते निग्रहादिकारित्वेऽप्रेक्षापूर्वकारित्वं युगपत्सर्वतत्त्वस्रष्टृता सर्वं प्रति च युगपत्सर्वकर्मफलप्रदता जीवानां च मुक्तौ स्वरूपनाशः पुनर्भवाविर्भावश्च स्यादागमेषु च मलस्य वस्तुत्वाभिधानानुपपत्तिरिति, तदेषामपर्यालोचिततन्मतसतत्त्वमभिधानम्, यतस्तन्मते पारमेशचित्प्रकाशव्यतिरेकेण न किञ्चिदप्युपपन्नमिति स एव स्वातन्त्र्यात् शिवादिक्षित्यन्तानन्तविश्वात्मना स्वरूपमवबिभासयिषुस्तथा तथा भातीति न कश्चिदनुग्रहनिग्रहादिभाजनं जनोऽशुद्धिपरीतो वाऽस्ति | अथ च निगृहीतानुगृहीततत्तत्प्रमातॄंस्तत्तत्प्रमेयजातं च स्वभित्तौ दर्पणनगरवत् स एवोट्टङ्कयन् पञ्चकृत्यकारितां निर्भासयन्नपि न मनागप्यतिरिच्यते, अतिरिच्यते वा दर्पणवदेवेति स एव परं प्रेक्षापूर्वकारी यश्चित्रचमत्कारमयत्वाद् यथा च विश्वमाभासयति तथा तन्मध्ये नियतपौर्वापर्यक्रममपि यत्र यत्र प्रथयति तत्र तत्र कार्यकारणभावनैयत्यात्मना कर्मफलादिवैचित्र्येण निमीलितरूपतया तदुपसंहारेण चोन्मीलितरूपतयेति तावत्यंशे बद्धमुक्तरूपतया वस्तुतस्तु स एव तावद्विश्वात्मना स्फुरतीति न कश्चिदन्यो बद्धो मुक्तो वास्ति | न चैवं स्वरूपापत्त्यात्मनि मोक्षे स्वरूपनाशोऽस्ति | सङ्कोचनाशस्त्विष्ट एव | न च प्राप्तशिवाभेदस्य सर्वसर्वात्मतया सर्वत्र सर्वदा स्फुरतः पुनर्भवोऽस्ति | परमशिवस्यैव सतत्त्वस्य शिवादिसकलान्तेनापि महता स्वस्वरूपेण सरतस्तावतांशेन तत्तद्रूपतोच्यताम् | तत्त्वतस्तु परिपूर्णविश्वस्फारः परमेश्वर एवासौ | अतश्च पुनर्भवप्रसङ्गः स्यादिति यदुक्तं तदयुक्तमेवेति ---- ऽऽअनाद्यशुद्धिशून्यत्वात् प्राप्नोति न भवान्तरम् |ऽऽ इत्यादौ आगमोक्तौ न काचिद्विमतिः | न चास्येयद्विमर्शात्मताप्तौ परिणतिब्रह्मवादिपक्षोक्तदूषणावकाशः कश्चित्, विश्वात्मकस्वस्वरूपविजृम्भामयत्वेन विवर्तपरिणामपक्षयोरनभ्युपगमात् | तदित्थम् ---- सङ्कोचविकासवता तदुभययुक्तेन तद्विमुक्तेन | सर्वात्मना च सततं स्वच्छन्दश्चिद्घनः स्फुरति || १ || यद्यत्स्फुरति च तत्तद्वस्तु धरण्यादि तद्वदेव च | पौर्वापर्यनियत्या तत्त्वानां क्रमिकतापि युक्तैव || २ || सङ्कुचितजीवरूपं तत्तत्कर्माभिमानतत्फलभुक् | भासयति क्रमशोऽसौ दीक्षादावक्रमेणापि || ३ || इत्थं सङ्कोचात्माप्यभिलाषो लौलिकेति गदितो यः | सोऽपि तथात्वस्फुरणाद्वस्त्वेव मलोऽस्तु शास्त्रेषु || ४ || दीक्षायोगज्ञानैर्ध्वंसेऽपि मलस्य नात्मनाशोऽस्ति | स्वच्छस्वच्छन्दात्मकचिद्घनताव्यक्तिरेव यन्मोक्षः || ५ || जलमिव जले विनिहितं पयसि पयो यद्वदपीतं तद्वत् | यान्त्येकत्वं दीक्ष्या दीक्षाक्रमेण दीक्षिता इति हि || ६ || रौरवशास्त्रेऽप्युक्तं प्रायस्तं वृथैव वृत्तिकृता | येनार्थव्याख्याभिस्तस्मिन् देवस्तथा तथा प्रथितः || ७ || तदलं भेदविकल्पैरनर्गलेशानशक्तिपातोत्था | स्वच्छन्दशिवैक्यमयी मुक्तिर्दीक्षादितो घटते || ८ || इत्थं दीक्षोपायो यो यो यैर्यैर्यथा यथा विहितः | सोऽपीत्थमेव सर्वः समर्थ्यतां शक्तिपातेद्धैः || ९ || युक्त्यस्त्रैर्धार्मकीर्तं दलितमिह मतं दूषणोद्गारि सम्यग् विध्वस्तं खेटपालैः कथितमपि मलं भेदसंधानदक्षम् | प्रोक्तं दीक्षासतत्त्वं प्रविगलितमलप्रोन्मिषच्चिन्मयैक्य स्वच्छस्वच्छन्दधामप्रथनवशभवत् सर्वसर्वात्मरूपम् || १० || इति भद्रम् || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते तत्त्वादिदीक्षाप्रकाशनं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ ह्रस्वाकारविरिञ्चिजागरधरित्र्याद्या हि ये पञ्चकाः शक्त्याद्याश्च तथैव शङ्करनुतेः पूर्णावमर्शात्मनः | ये प्राप्तप्रणवाभिधाः कुशलवल्लेशेऽपि विश्वप्रथास्तं पञ्चप्रणवं स्मरामि सततं स्वच्छन्दधामाप्तये || प्रश्नग्रन्थे कालस्य साधनानां च स्वरूपं निर्णेतुमवशिष्टम् | तत्र समनन्तरपटलेन कालो निर्णेष्यते, स च बाहुल्येन सिद्ध्यङ्गम्, सिद्धयो मन्त्रसाधनपूवीका इति साधनानां स्वरूपनिर्णयाय पञ्चमपटलान्ते ऽऽमन्त्रसिद्धेन वाऽऽ इति यदासूत्रितं तद्विभक्तुमाह -- -- समयाचारयुक्तस्य साधकस्य वरानने | जायते विविधा सिद्धिः......... समयाः पूर्वोक्ताः | आचारो वक्ष्यमाणो मन्त्राराधनप्रकारः | वरमुत्कृष्टं शाक्तस्फारमयम्, आननं भोगापवर्गप्रदपरपदप्रवेशो यस्याः || आचारं क्रमेण स्फुटयति ---- ...............गिरिगह्वरमाश्रिते || ६-१ || सुशुद्धे भूप्रदेशे तु सर्वशल्यविवजीते | प्रच्छन्ने विजने रम्ये भैरवं तत्र पूजयेत् || ६-२ || सर्वशल्यविवजीतत्वमहिकण्टकपरुषवातोपद्रवप्रस्रवादिहीनत्वम् | प्रच्छन्नेऽदृश्ये | पूजयेदिति कामनोचितेन संभारेण || २ || अथ ---- जपित्वाक्षरलक्षं तु बहुरूपस्य सुव्रते | पञ्चप्रणवसंयोगाज्जपतः सिद्ध्यति ध्रुवम् || ६-३ || बहुरूपस्य पूर्वनिर्णीतपरमार्थस्य अक्षराणां द्वात्रिंशतः परिमाणेन, लक्षमिति द्वात्रिंशल्लक्षाणि, पूर्वसेवार्थं जपित्वा, ध्रुवं निश्चितम्, सिद्ध्यति यथेष्टां सिद्धिमेति साधकः | कथं जपित्वा? ---- इत्याह ---- पञ्चप्रणवसंयोगाज्जपतः | प्रकर्षेण नूयते स्तूयते, अभेदपरमार्थतया विमृश्यते, अशेषविश्वनिर्भरं पारमेश्वरं स्वरूपं येन स प्रणवो निष्कलनाथः, तदभिन्निव्याप्तिक ओंकारोऽपि | तस्य च मृगमदकुलकैकदेशलेशवद्विश्लेष्यमाणाकारादिकलाः, तद्वाच्या ब्रह्मादिदेवताः, तदधिष्ठातॄणि धराप्रकृतिमायादितत्त्वानि, वर्णोच्चारकला ह्रस्वादिरूपाः, तदुच्चारयित्रवस्थाश्च जाग्रदाद्याः प्रत्येकं पञ्चसंख्याः स्थूलाः शक्तिव्यापिन्यादिकलास्तद्वाच्यतदुच्चारणकलादिरूपाश्च सूक्ष्मदशाः, ऽऽप्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्चऽऽ इति स्थित्या परिपूर्णचमत्कारपूर्णत्वात् प्रणवशब्दवाच्याः | अत एवैतन्मन्त्रशरीरनिविष्टत्वादेतेऽकारादयो ब्रह्मविष्णुरुद्रशक्तिशिवप्रणवाभिधेयपिण्डबीजविशेषा भिन्नस्फारा इति कृत्वा, एते पूर्वोक्ताः सर्व एव पञ्च प्रणवा विद्यन्ते यत्र स पञ्चप्रणवो निष्कलस्तदभिन्नव्याप्तिरोङ्कारश्च | तस्मिन् पञ्चप्रणवे सम्यग्योगादुच्चारोन्मीलितहंसपदानुलग्नतात्मकत्वात् पूर्वनिर्णीतनिष्कलव्याप्त्यभिन्नसतत्त्वसकलमन्त्ररहस्यार्थभावना- रूपश्च यो जपस्तस्माज्जपतो न त्वक्षरपाठमात्रादित्यर्थः || ३ || न केवलमित्थं जपात् सिद्ध्यति यावत् ---- मुच्यते न तु संदेहो भेदनात् प्रणवस्य तु | पञ्चप्रणवसंयोगाज्जपत इति यदुक्तं तद्वक्ष्यमाणवर्णकलादिविश्लेषेण व्याप्तिरूपं भेदनं विना न भवति | भेदनं परतत्त्वावेशप्रदमिति मुक्तेनीःसंशयत्वमुक्तम् || तत्र मन्त्रोच्चाराङ्गभूतकालकलाज्ञानपूर्वकालातीतपद- प्रवेशार्थं तावद्भेदनमादिशति देवः ---- ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवम् || ६-४ || प्रणवं पञ्चधा ज्ञात्वा भित्वा मोक्षो न संशयः | प्रणवमकारोकारमकाराबिन्दुनादकलोच्चारेषु क्रमेण ह्रस्वाद्यतिसूक्ष्मान्तोच्चारणकालकलाप्रपञ्चरूपं भित्त्वा तत्तद्दशानुभवानुप्रवेशक्रमेणाध्यास्य परं भावमुन्मनापदासादनेन ज्ञात्वा मोक्षमाप्नोत्येवेत्यर्थः | अत्र च ह्रस्वादिनादान्ताः परस्परानुषक्ततयोच्चार्याः, सूक्ष्मातिसूक्ष्मयोबीन्दुनादयोरुपरि अर्धचन्द्रादिनादनादान्तादिदशास्ता रतम्यभाजोऽप्यनुसर्तव्याः | यथोक्तं प्राक् ---- शूक्ष्मसूक्ष्मतरैर्भावैरेवमेवं त्यजेत् प्रिये | ऽऽ (४-२६७) इति | ह्रस्वादीनां यथा प्रणवत्वं तथा निर्णीतम्, इति सामानाधिकरण्यं युक्तमेव | न संशय इत्युक्त्या स्वानुभवसिद्धतामस्य दर्शयति || ४ || तदित्थं ह्रस्वादिकालकलाक्रमेण वक्ष्यमाणवाचकादिक्रमेण चैकोऽप्ययं महामन्त्रात्मा ---- प्रणवः पञ्चधावस्थः................ पूर्वम् ---- ऽऽप्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तःऽऽ इति स्थित्या ह्रस्वादयः पञ्च प्रणवा इत्यभिहितमधुना त्वेक एव महाविमर्शात्मा मन्त्र इत्थं पञ्चधाऽवतिष्ठत इत्येवमभिहितम् इत्युक्तिभेदमात्रमेतत्, निर्णीतदृशा वस्तुतत्त्वैक्यात् || किमित्थं पञ्चधावस्थितिमात्रात्मैवायम् ? नेत्याह ---- ..............ःअंसेन सह संयुक्तः || ६-५ || पूर्वं ऽऽहंसोच्चारस्त्वथोच्यते | हकारस्तु स्मृतः प्राणः सुप्रवृत्तो हलाकृतिः ||ऽऽ (४-२५७) इति ग्रन्थेन हंसोऽनाहतध्वनिरिति निर्णीतम् | अतस्तेन स्वप्रवृत्तत्वादेवाकृतकमध्यमप्राणस्फुरत्तारूपेण समनन्तरवक्ष्यमाणनीत्याशेषविश्ववाङ्मयस्फारमयेन सह संयुतस्तद्विमर्शविश्रान्तिपरमार्थोऽयमत्रत्यो महामन्त्ररूपः प्रणवः || ५ || यत्किञ्चिद्वाङ्मयं लोके शिवज्ञाने प्रतिष्ठितम् | शिवज्ञानं च तत्रस्थं............. यत्किञ्चित् षडध्वनो मध्याल्लोकेऽस्ति, तत्सर्वं शिवज्ञानं च शिवो ज्ञायतेऽनेनेति शिवज्ञानं शिवज्ञाने ज्ञानस्फारमये पारमेशोक्तव्याप्तिसारे प्रणवे प्रोक्तवक्ष्यमाणदृशा प्रतिष्ठितमभेदेनान्तःस्थितम्, यतस्तद्वाङ्मयं परावाक्प्रसररूपम् | यथोक्तं श्रीसारस्वते स्तोत्रे ---- ऽऽत्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि स्वरा नकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति | तुरीयं ते धाम ध्वनिभिरनुरुन्धानमणुभिः समस्तव्यस्तं त्वां शरणद गृणात्योमिति पदम् ||ऽऽ (म०स्तो० २७) इति | ऽऽप्रणवेऽऽ इति वक्तव्ये ऽऽशिवज्ञानेऽऽ इत्युक्तेरयं भावः यद् वेदगारुडवैष्णवादिषु रूपसाम्येऽपि प्रणवस्य पारमेश्वरे प्रोक्तवक्ष्यमाणज्ञानव्याप्तिसारताकृत उत्कर्षः | अत एव एतद्व्याप्तिज्ञानानुसारेण सर्वत्राप्यसौ पूर्णस्फारमयत्वेन परसिद्धिप्रदः | यथोक्तम् ---- ऽऽयतः शिवोद्भवं सर्वं शिवधामफलप्रदम्ऽऽ (स्व० ५-४५) इति | तत्तत्परिमितव्याप्त्यनुसारेण तु स एव मितसिद्धिप्रदः | यदभिप्रायेण वक्ष्यति ---- ऽऽभ्रमयत्येव तान् माया ह्यमोक्षे मोक्षलिप्सयाऽऽ (१०-११४१) इति, आस्तां तावदेतदिह | यच्चैतदेवंविधप्रणवात्मकं शिवज्ञानं तदपि तत्रेति निरूपितसतत्त्वे हंसे, तिष्ठति || तदित्थमस्मिन्निष्कलनाथे पञ्चप्रणवे नित्योच्चरन्नादावमर्शरूपः --- - ...........ःअंसः प्रणवसंयुतः || ६-६ || प्रणवे प्रोक्तसतत्त्वे सम्यग्युतः प्राणरूपतया स्थितः, अत एवाशेषविश्वक्रोडीकारिहंससम्बन्धादेव शास्त्रान्तरोक्तब्रह्मविष्णुरुद्रशक्तिशिवप्रणवा भेदव्याप्तिरयं महामन्त्र इत्युक्तमेव | अतश्च यदुक्तम् ---- ऽऽपञ्चप्रणवसंयोगाज्जपतः सिद्ध्यति ध्रुवम्ऽऽ (६-३) इति, तत्रानाहतविश्रान्तिसतत्त्वो निष्कलोच्चारप्रगुणीकृतमध्यधामसंलीनतया जपः कार्यः, इति परमार्थः पर्यवसितः || ६ || अथ प्रणवसंयोगं विना कीदृगयम् ? इत्याशङ्क्याह ---- विना प्रणवसंयोगाज्जीव एको व्यवस्थितः | जीवो विश्वस्य प्राणभूतो हलाकृतिरेव | यथोक्तम् ---- ऽऽहकारस्तु स्मृतः प्राणः सुप्रवृत्तो हलाकृतिःऽऽ (४-२५७) इति | अत्र प्राण इत्यकारादिकलात्मकप्रणवसंयोगं विना, एक इत्यद्वितीयः | सर्वमन्त्रवीर्यान्तर्व्यवस्थित इत्यविचलद्रूपतयानुच्चार्यः, अथ चाव्यवस्थितो न केनचित् प्रतिनियतेन रूपेण स्थितोऽनियन्त्रितस्फार इत्यर्थः | जीवशब्देन व्यवहरन्नयमेव महास्फुरत्तारूप आत्मा मन्तव्य ---- इति ध्वनति | कश्चित्तु मन्त्रस्वरूपनिरूपणपरे ग्रन्थेऽस्मिन् मुख्यं च शब्दार्थमुत्सृज्य हंसशब्देन हंसपथः, प्राणशब्देन च स एव, यदि वा प्रणवप्राणयोरैक्यात् प्राणयोगं विना जीवः पुरुषः, एक इत्यनभिव्यक्तज्ञानक्रियास्वभावः ---- इति व्याचष्टे | तद्युक्तमयुक्तं वेति सचेतसो जानन्ति || यतोऽयं प्रणवसंयोगं विना स्वरूपमात्रावस्थितो जीवस्ततः ---- यथाप्रकृति संयुक्तो न च तिष्ठति चैकतः || ७ || तथा षष्ठेन संभिन्नो देहे जीवः प्रवर्तते | जीवो हंसः प्रकृत्यनतिक्रमेण स्वभावानुल्लङ्घनेन संयुक्तः, स्वभावानुल्लङ्घनेन चास्य ---- ऽऽविभक्तिर्नानयोरस्तिऽऽ (४-३५०) इत्युक्तनीत्याऽकारसङ्गत एव भवतीत्यकारेण संयुक्तोऽसौ | एकत इत्येकस्मिन्नद्वितीये सामान्यस्पन्दात्मनि रूपे न तिष्ठति, अपि तु किञ्चित् स्पन्दाधिक्यमिव भजते यथा, तथा षष्ठेन ऊकारेण संभिन्नो मिश्रितो देहे प्रवर्तते, सर्वेण स्वाभाविकेन प्राणवाहेन वहल्लक्ष्यते एव | तथाशब्दापेक्षया यथा शब्दोऽप्यत्राध्याहार्यः || पूर्वोक्तकरणबन्धानुसारिणा ---- चोदितस्तु यदा तेन तदा चोर्ध्वं प्रवर्तते || ६-८ || तेनेति षष्ठेन ऊकारेणार्थाद् बिन्द्वादियुक्तेन | तदा चेति तदैवेत्यर्थः | ऊर्ध्वमिति ताल्वादिस्थानम् | एतच्चोदनां विना त्वस्याकारयुक्तस्यापि नोर्ध्वप्रवृत्तिर्भवतीत्यर्थः || ८ || तदित्थम् ---- प्रत्यक्षमपि तत्तत्त्वं महामायाविमोहिताः | कथितं नाभिजानन्ति विना शास्त्रेण चोदनाम् || ६-९ || तदेतन्नादावमर्शसारं मन्त्रतत्त्वं सर्वस्य प्रमातृरूपं सदोच्चरद्रूपत्वात् स्वप्रकाशमपि, तथा शास्त्रेणेत्यागमवाक्यैः कथितमपि, महामायया सदाशिवेशादीनपि मोहयन्त्याऽपूर्णताख्यातिपरमार्थया विशेषेण चिद्रूपत्वादात्मस्वरूपे विश्वत्रानन्त्यात्मतावभासनपुरःसरमनात्मनि देहादावात्मतामवभासयन्त्या मोहिताः सङ्कुचत्तां ग्राहिताः | चोदनामिति महामायातिरस्कारिपरमेशानुग्रहकारिशक्त्युद्बोधनं विना न अभीत्याभिमुख्येनाश्वासरूढ्या जानन्ति | अतः सर्वथैतत्तत्त्वपरिज्ञानमेव परमोपादेयमिति तात्पर्यम् | उक्तं च ज्ञानगर्भे ---- ऽऽतवाम्ब परमाक्षरी भवति रूपमेतद् बहि वीशत्प्रणवरूपतां समुपयाति हृत्कोटरे | अवेद्यमकृतात्मभिर्जननि बिन्दुनादात्मय द्विदन्ति तदहेलया त्वदनुसंस्मृतेर्योगिनः ||ऽऽ इति || ९ || तज्ज्ञप्त्यर्थमाह ---- षष्ठश्चोर्ध्ववहो ज्ञेयः स्वभावमुखसंस्थितः | षष्ठ ऊकारः, ऽऽचोदितस्तु यदा तेनऽऽ (६-८) इत्यत्र य ऊर्ध्ववह ऊर्ध्वप्रवर्तक उक्तः, स्वभावो विश्वानुप्राणको मध्यमार्गः, स एव मुखं शिवपदप्राप्त्युपायस्तत्र सम्यक्पूर्वोक्तकरणबन्धक्रमेणोच्चरन् ज्ञातव्यः || अतश्च ---- अप्रकाशः स्वदेहस्थो गुणभूतः प्रवर्तते || ६-१० || योऽयं स्वप्रवृत्तत्वात् प्रकाशयितुमशक्यो रहस्यरूपश्चानाहतनाथः, स्वे आत्मीये उपचितरूपे मध्यधामात्मनि देहे तिष्ठति, नित्यावस्थितः स गुणप्रकारं भूतः प्राप्तस्तेन युक्तः सन् प्रवर्तते ऊर्ध्वमारोहतीत्यर्थः || १० || अन्यथा ---- निर्गुणस्तु यदा देव एकाकी कालवजीतः | विज्ञातव्यं न किञ्चित् स्यात् केवलो निष्कलस्तु सः || ६-११ || स्वतन्त्रचित्स्फारमयत्वाद् देवः, तदतिरिक्तस्याभावादेकाकी, नित्यत्वात् कालवजीतः, ईदृग्योऽनाहतनाथः | न च तद्विज्ञातव्यं किञ्चित्, नासौ केनापि प्रकारेण ज्ञेयो भवति, ज्ञात्रेकरूपत्वात्, अत एव केवल इत्यद्वितीयः | कलाभ्योऽकारादिवर्णेभ्यो ह्रस्वादिकालकलाभ्यो मेयत्वरूपपरिच्छेदेभ्यश्च निष्क्रान्तः, ताश्च कला यस्मान्निष्क्रान्ताः स एव चिद्घनपरमार्थ इति यावत् | एतत्सारत्वादेव च चतुष्कलनाथोऽपि निष्कल इत्युच्यते || ११ || अतश्च ---- तस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथा | रूपं शुद्धस्फटिकाभत्वादि | शरीरं पञ्चवक्त्रादि वाच्यगतम् | वर्णः अकारादिर्वाचकरूपः | क्रिया उच्चारादिरूपा | कश्चित्तु वर्णो ब्राह्मणादिः, क्रिया तदुचिता चेष्टेति || तदित्थं ज्ञेयपक्षादुत्तीर्णः ---- स कथं गृह्यते सूक्ष्म अग्राह्यो नित्यमव्ययः || ६-१२ || सूक्ष्मो विश्वकारणम् | अग्राह्य इन्द्रियागोचरः | अव्ययोऽपरिणतिधर्मा || १२ || यतोऽयमीदृक् ---- एतस्मात् कारणाद् देवि षष्ठं बीजं नियोजितम् | अस्य परमेशेन मन्त्रराजरूपता प्राप्ता१ | पुंसामनुग्रहायेति शेषः || तन्नियोजनाच्च ---- पञ्चपञ्चकसंयुक्तो देहे सकलनिष्कलः || ६-१३ || ह्रस्वादिरूपमुच्चारणकालकलानां पञ्चकमेकम्, अकारोकारमकारबिन्दुनादाख्यवाचककलानां द्वितीयम्, तद्वाच्यब्रह्मविष्णुरुद्रेशसदाशिवानां तृतीयम्, तदधिष्ठेयधराप्रकृतिमायेश्वरसदाशिवतत्त्वादीनां चतुर्थम्, वर्णोच्चारयित्रवस्थानां जागरस्वप्नसुषुप्ततुर्यतुर्यातीतानां पञ्चममिति पञ्चभिरुक्तवक्ष्यमाणैः पञ्चकैः परापररूपतया स्थितैर्यदा देहे हृत्कण्ठादिक्षेत्रे संयुक्तस्तदानाऽहतभट्टारको निष्कलोऽपि विचित्रेदृक्कलायोगात् सकलनिष्कल उच्यते इत्यर्थः || १३ || तेनैतदुच्चारणेऽपि निष्कलतत्त्वविश्रान्तावेवावधातव्यमित्याह ---- ग्रहणं तु यदा तस्य योगी योगविचिन्तकः | योगेनावाहितस्यापि भावमात्रं तु भावयेत् || ६-१४ || अत्र श्लोके ऽऽइच्छतिऽऽ इत्यध्याहार्यम् | तेनोक्तरूपपञ्चपञ्चकव्याप्तिरूपं योगं यो विकल्पपूर्वकाविकल्पविमर्शात्मकं चिन्तयति, स योगी यदा तस्य ग्रहणमुच्चारणमिच्छति, तदा योगेन पूर्वोक्तदिव्यकरणबन्धाद्यात्मना, आ समन्ताद्वाहितस्य मध्यधाम्नाऽभीष्टं पदं प्रापितस्यापि, भावमात्रमिति ---- शत्तामात्रं परं शान्तम्ऽऽ (४-२९३) इति योजनिकाग्रन्थनिर्णीतमनाहतध्वनिपरमार्थपूर्णस्फुरत्तां भावयेदुक्तव्याप्तिकमन्त्रोच्चिचारयिषाविमर्शपुरःसरं तद्ग्रहणेनैव मन्त्रभूमिमारुह्य तदपरकोटौ विश्राम्यन् मन्त्रवीर्यमनुशीलयेदित्यर्थः | तदुक्तं शिवसूत्रेषु ---- ऽऽविद्याशरीरसत्ता मन्त्ररहस्यम्ऽऽ (२-३) इति, तथा ---- ऽऽमहाह्रदानुसन्धानान्मन्त्रवीर्यानुप्रवेशःऽऽ (१-२२) इति | महाह्रदस्य विद्याशरीरस्य परसंवित्स्फारस्य सत्ता स्फुरत्ता मन्त्राणां रहस्यं वीर्यम्, तत्र चानुप्रवेशो महाह्रदस्य मध्यमार्गस्यानुगततया मन्त्रव्याप्त्यनुसरणपूर्वकतदुच्चिचारयिषाविमर्शानुप्रवेशात्मनः सन्धानान्मन्त्रविश्रान्त्यारोहादित्यर्थः || १४ || एवं मन्त्रवीर्यानुप्रवेशयुक्तिमुक्त्वा साधकोचितं तदनुप्रवेशक्रममाह ---- यदा करोति सृष्टिं च ऊर्ध्वे बिन्दुः प्रवर्तते | आराधको यदा सिद्धिकामो भवति, तदास्योक्तयुक्त्यैव कृतोर्ध्वपदविश्रान्तेराराधकसंविदनुसारेणोन्मिषितशाक्तबलो मन्त्रः, ऊर्ध्वे सर्वाध्वमूर्धनि समस्तभावाभावरूपशिवादिकालाग्न्यन्तजगदासूत्रणात्मकाविभाग- प्रकाशरूपः प्रवर्तते, ततः प्रभृति सृष्टिक्रमेण हृदन्तमस्यापूरयति, अभिलषितपदापूरणेनेत्यर्थः || मुमुक्षोस्तु न प्रोक्तसतत्त्वबिन्द्ववष्टम्भप्राधान्येन मन्त्रोच्चारणम्, अपि तु ---- बिन्दूपरि च यच्छान्तः शिवः परमकारणम् || ६-१५ || तत्र बिन्दुर्लयं याति.............. परमकारणत्वेन परमशिवाद्वैशिष्ट्यमुक्तं स्यादिति || १५ || यस्मादेवम्, तस्मात् ............टत्स्थानं दुर्लभं सुरैः | सुरैर्देवैः सर्वेन्द्रियैश्च, मननमात्रप्रधानसूक्ष्ममनोव्यापारं विषयसामरस्यपदातिक्रान्तत्वात् | स्थानमिति तिष्ठत्यस्मिन्नभेदेन विश्वमिति व्युत्पत्त्या || एवंविधमप्येतत् ---- षष्ठस्वरसमायोगादभ्यासादचिराल्लभेत् || ६-१६ || समवधानोद्यत इत्यनुषङ्गः | षष्ठः स्वरो बिन्द्वाद्युपलक्षणपर इत्युक्तमेव || १६ || अत एव ---- षष्ठश्च पञ्चमश्चैव तस्य देवि गुणाः स्मृताः | तस्येति महाविमर्शात्मनः परतत्त्वस्य, षष्ठ ऊकारः, पञ्चमस्तु तदन्तर्भूत एव उकारः, तावेवाध ऊर्ध्वं बहिःशक्त्यात्मकावस्येति पूर्वोक्तमेयार्थं चशब्दादेवकाराच्च प्रोक्तरूपा नियता मकारबिन्द्वादिप्रमेयपरिपाटी, गुणा ऊर्ध्वाधः प्रसरणहेतवो धर्माः शक्तिरूपा इत्यर्थः | स्मृता इत्यविच्छिन्नेन शिवादिश्रीकण्ठान्तेन गुरुपारम्पर्येणेत्यर्थः | कश्चित्तु चकारमेवशब्दं च अचेतित्वा गुणा इति बहुवचनं जपावृत्त्यपेक्षयेति व्याख्यातवान् || यस्मादेवं ततः ---- सगुणः सकलो ज्ञेयो निर्गुणो निष्कलः शिवः || ६-१७ || इत्थमुक्तनीत्या निष्कलनाथोऽपि सकलः सम्पन्नः | यस्तु पूर्वम् ---- ऽऽहकारस्तु स्मृतः प्राणः स्वप्रवृत्तःऽऽ (४-२५७) इत्यनाहतनाथो निदीष्टः, स एव निर्गुणत्वात्तत्त्वतो निष्कलः || १७ || अत एव ---- सकलो ग्रहसंयुक्तो निष्कलो भावमाश्रितः | ग्रह उच्चारः | भावः सुप्रवृत्ता महास्फुरत्तात्मा स्फुरत्ता || यतश्च पूर्वोक्तदृशा तात्त्विकनिष्कलामर्शसार एवायं सकलनिष्कलशब्देन पूर्वं व्यवहृतश्चतुष्कलनाथः, ततोऽस्मिन् सकले जप्यमाने तु जप्तो भवति निष्कलः || १८ || यद्येवम्, अयमेव चतुष्कलभट्टारकरूपः सूक्ष्मः सकलपारमाथीकनिष्कलतत्त्वविश्रान्त्यर्थं जपाद्युपासाभिराश्रीयताम्, किमिति द्वात्रिंशदक्षरात्मा स्थूलः सकलः ---- ऽऽजपित्वाक्षरलक्षं तु बहुरूपस्यऽऽ (६-३) इत्याद्युक्त्योपास्य उक्तः ? ---- इत्याशङ्क्याह ---- सुरासुराणां देवेन यजनोपायहेतुना | रूपं तु सकलं तस्य द्विधावस्थं प्रकाशितम् || ६-१९ || आदिवाक्यनिर्णीतस्वरूपेण देवेन चिदानन्दपरमार्थेन स्वच्छन्दभट्टारकेण | सुराणामिति ज्ञानमार्गाश्वस्तहृदयानाम्, असुराणां च ज्ञानायोग्यत्वेनाज्ञानमार्गाश्वस्तानां मोक्षाद्यर्थं यागोपायत्वेन | तस्येति स्वस्वरूपस्यानाहतात्मनो रूपं द्विधावस्थम् | सकलमिति चतुष्कलबहुरूपात्मकं तत्तदनुग्राह्यानुग्रहोचितं प्रकाशितम् | एतदुक्तं भवति ---- एकमेवेदं पारमेश्वरं तत्त्वं स्थितमनुग्राह्यानुग्रहानुसारं स्फुरितम्, न त्वत्र वास्तवः कोऽपि भेद इति | यथोक्तम् ---- ऽऽपुंसामनुग्रहार्थाय परोऽप्यपरतां गतःऽऽ इति | अत एव योग्यजनाभिप्रायेण केवलचतुष्कलनाथभट्टारकाश्रयः साधनविधिरग्रे भविष्यति | यस्तु तात्त्विको निष्कलनाथो नासौ जातुचिद्ध्येयजप्यादिरूपो भवति, तस्याशेषविश्वात्मपरमातृस्फुरत्तैकघनत्वादित्युक्तम् | यत्तु द्विधावस्थं सकलमिति सकलनिष्कलं देवानां दैत्यानां च प्रकाशितमिति व्याख्याय दैत्यानां तामसत्वादनुचितमेतत्प्रकाशनम्, आयातशक्तित्वेनासुराणामिति पूर्वजात्युदीरणं विरुद्धमिति केनचिच्छङ्कित्वा पूर्वावस्थामात्रकथनमेतदिति परिहृतम्, तद्युक्तमयुक्तं वेति सचेतसः प्रमाणमित्यलं पूर्वैः सह पदे पदे निर्बन्धनेन || १९ || तदेतस्य मूलमन्त्रस्य ---- प्रथमं प्राकृतं रूपं विकृतं च द्वितीयकम् | प्रथममिति विश्वोच्चारभित्तिभूतत्वात् प्रधानं प्रकृतेः स्वभावादायातं स्वयमुच्चरद्रूपम् | विकृतं तु तत्प्रथमप्रसररूपमकारात्मकम्, न तु विपर्ययेण व्याख्येयम्, श्वयमुच्चरते हंसःऽऽ (७ | ५९) इति, ऽऽ.......................टस्माद्वर्णास्तु प्राणतः | उत्पद्यन्ते लयं यान्ति........................ ||ऽऽ (४-२४८) इति, ऽऽशास्त्रं शब्दात्मकं सर्वं शब्दो हंसः प्रकीतीतःऽऽ (४-३४१) इत्यादिवाक्यव्याघातापत्तेः || तदित्थमेकत्रापि मन्त्रे युगपत् ---- प्रकृतिवीकृतिश्चैव उभे षष्ठेन संयुते || ६-२० || दशीतमेवैतद्यथा मन्त्रे हलाकृतेः प्रकृतिभूतस्य शिरोरेखारूपा विकृतिशब्दवाच्याऽकारकलास्तीति युगपदेव प्रकृतिविकृती षष्ठकलायुक्ते || २० || अत एव ---- ये पदार्थाः पुरा प्रोक्तास्तत्रासावुच्छ्वसन् मुहुः | प्रवर्तते च एतेन पुनस्तेन निवर्तते || ६-२१ || यः समनन्तरमेव ङिर्गुणस्तु यदा देवःऽऽ (६-११) इत्युक्त्या निष्कलनाथ उक्तोऽसौ उच्छ्वसन्नित्याकारोकारकलासम्भेदेनोर्ध्वं प्रसरन्, तत्रेति पूर्वोक्तेषून्मनान्तेषु पदार्थेषु, तेनैव पूर्वोक्तेन क्रमेण प्रवर्तते द्वादशान्तमारोहति | पुनश्च तेनेति प्रातिलोम्येन निवर्तते हृदयान्ते वर्णव्यक्तिमेति, अनाहतध्वनिमेवाविशति | मुहुरिति जपावसरे भूयो भूय इत्यर्थः || २१ || तदित्थमयं पदार्थेष्वारोहावरोहौ कुर्वन् ---- प्रणवः पञ्चधावस्थः............... पञ्चधात्वमस्य वाचककलाक्रमेण वाच्यक्रमेण च प्रथयति ---- .............ट्रिवर्णश्च त्रिदैवतः | बिन्दुनादसमायुक्तः प्रणवः परिपठ्यते || ६-२२ || बिन्दुनादसंभेदं विना वर्णसङ्घट्टनामात्ररूपता भवति, न तु प्रकर्षेण नूयतेऽनेन परं तत्त्वमित्येदृक्प्रणवत्वमित्यर्थः | एवं चाकारोकारमकारबिन्दुनादभेदात् प्राग्वद्वाचकरूपाः पञ्च प्रणवाः, ब्रह्मविष्णुरुद्रा वक्ष्यमाणेश्वरसदाशिवसहिता वाच्यरूपाः पञ्च च || २२ || तदाह ---- अकारश्च उकारश्च मकारश्च तृतीयकः | वर्णत्रयमिदं प्रोक्तं ब्रह्माद्या देवतास्त्रयः || ६-२३ || बिन्दुनादसमायोगादीश्वरश्च सदाशिवः | एते वै प्रणवाः पञ्च............... ब्रह्माद्या ये त्रयो देवता इति सम्बन्धः | वाच्यवाचकरूपा इत्यर्थात् || ते चैते ---- ........ःअंसः प्राणयुतः सदा || ६-२४ || ऽऽहकारस्तु स्मृतः प्राणःऽऽ (४-२५७) इति यः पूर्वं हंसप्राणोऽनाहतध्वनिरुक्तस्तेन सदा युतस्तदनुलग्नस्तां महाविमर्शभित्तिं विना कस्याप्यस्फुरणादित्यर्थः || २४ || अत एवात्र ---- परमात्मा शिवो हंसस्त्वपरेण समन्वितः | यो हंसः स्वयमुच्चरद्रूपो वाचकवृत्त्या, वाच्यवृत्त्या तु परमात्मा सर्वेषां ब्रह्मादीनामनुप्राणकः, परनिर्वाणात्मकश्रेयःप्रदत्वाच्छिवः वाच्यवाचकयोरत्राविभागेन प्रकाशानन्दघनत्वेन स्फुरणात् सोऽयमीदृशो हंसः, अपरेणेति प्रोक्तरूपवाच्यवाचकरूपेण प्रणवपञ्चकेन समन्वितः संबद्धः | अत्र चाकारादिरूपेषु प्रणवेषु ह्रस्वाद्युच्चारकला जाग्रदादयोऽवस्थाभेदाः, पृथिवीप्रकृतिमायेश्वरसदाशिवान्तानि च ब्रह्माद्यधिष्ठितानि तत्त्वानि, इति पञ्चकान्तराण्येतान्यन्तर्भूतानि निर्णीतदृशा प्रणवरूपाण्यनुसर्तव्यानि || न केवलमित्थमपररूपाः पञ्च प्रणवा मन्त्रेऽस्मिन् स्थिता इति, यावत् ---- परतः प्रणवान् पञ्च पुनरेव वदाम्यहम् || ६-२५ || अन्यतन्त्रसिद्धान्तवैलक्षण्येनेत्यर्थः || २५ || तानाह ---- शक्तिश्च व्यापिनी चैव समनात्मा च निष्कलः | उन्मना च तथा देवि प्रणवाः पञ्च कीतीताः || ६-२६ || अत्रापि वाचककलानां वाच्यानां तद्गर्भीकृतसुसूक्ष्मतमोच्चारकलोच्चारयित्रवस्थाशक्तितत्त्वाद्या- वरणानां च पूर्वोक्तयुक्त्या प्रणवत्वम् || २६ || तदेतावतो विश्वस्य भित्तिभूतः ---- परतः परमो हंसः सर्वं व्याप्य व्यवस्थितः | यो निर्णीतचरः परमो हंसः, स परतः प्रकृष्टतया परापरभेदभिन्नं प्रणवपञ्चकम्, तद्द्वारेण च विश्वं व्याप्य स्थित इति स एव परमोपादेयः | तदभेदविमर्शमयत्वेन निष्कलभट्टारकोऽपि || तदत्र ---- एते वै प्रणवाः पञ्च परापरविभागशः || ६-२७ || परापरेण हंसेन नित्यमेव प्रणामिताः | हंसो हलाकृतिः स्वशक्त्याद्यकारादिपरापरप्रणवयोगाच्चतुष्कलतां प्राप्तः परापर उच्यते | तेनोभयरूपेण प्रणामिताः प्रह्वीभावमापादिताः स्वप्रत्यवमर्शप्रवणाः कृताः | प्रणामिता इत्यैशः पाठः | अत एव प्रकर्षेण नूयते परं तत्त्वं यैस्ते प्रणवा इति प्रारम्भ एवोक्तमस्माभिः || २७ || अतश्चैते ---- प्रवर्तन्ते हि सर्वत्र भुक्तिमुक्तिफलप्रदाः || ६-२८ || सर्वत्रेति साधकपुत्रकादिविषये || २८ || तस्मादयं मूलमन्त्रः ---- पञ्चभिस्तु युतस्त्वेभिः स पञ्चप्रणवात्मकः | यो निःस्वभावः परापरप्रणवभेदप्रथनद्वारेणैव विश्वत्र कारणं चतुष्कलनाथ इति निर्णीतमेवैतत् || किं च ---- तत्रस्थ एकरूपस्तु निष्कलस्तत्त्वतः स्मृतः || ६-२९ || तत्रेति पूर्वोक्तप्रणवविश्रान्तिधाम्नि चतुष्कलनाथे यस्तिष्ठति | एकरूप इति प्रोक्तप्रकृतिरूपोऽनाहतभट्टारकः | स एव तत्त्वतो निष्कल इत्यर्थः || २९ || न केवलमसौ, यावत् ---- तद्योगादपि तद्बीजं................ प्रोक्तनिष्कलसंबन्धाद् बीजमपीति चतुष्कलनाथोऽपि निष्कल उच्यत इत्यर्थः || किं च ---- ..........षर्वबीजप्ररोहकम् | सर्वेषां बीजानां ब्रह्मादिकारणानामङ्गब्रह्मादिमन्त्राणां च प्ररोहकं सामर्थ्यप्रदं तद्योगादेव || अत्र हेतुः ---- प्रवर्ततेऽयतो यस्माद् देवासुरनिकेतनम् || ६-३० || अयेते गच्छति स्वयमुच्चरति चित्प्रकाशाभेदेन स्फुरतीत्ययो हलाकृतिस्ततो यस्माद् देवासुराणां प्राङ्निरूपितनीत्या निकेतनं उपासास्थानं चतुष्कलबहुरूपात्म मन्त्रद्वयं प्रवर्ततेऽनुग्रहादौ प्रसरति, ततो युक्तमुक्तम् ---- ऽऽतद्योगादपि तद्बीजं सर्वबीजप्ररोहकम् | ऽऽ (६-३०) इति | देवासुरा इन्द्रियाणि, तन्निकेतनं प्राण इति केचित् || ३० || अतश्च प्रथमपटलनिर्णीतव्याप्त्यनुसारं चतुष्कलबहुरूपाभ्यां विश्वस्य स्वीकारात्तयोश्च परस्फुरत्तासारानाहतध्वनिविश्रान्तत्वात् - --- तत्र मन्त्राश्च वर्णाश्च प्रतिष्ठां यान्ति नान्यथा | मन्त्राः पिण्डबीजानि | वर्णा मालामन्त्रसम्बन्धिनो मातृकावतीनश्च सर्वेऽनाहत एव प्रतिष्ठिताः | नहि परां स्फुरत्तां विना कस्यापि स्फुरणं घटते | उक्तं च श्रीस्पन्दे ---- ऽऽतदाक्रम्य बलं मन्त्राः |ऽऽ (२-१०) इत्यादि || अतश्च ---- तस्य बोधाद्विमुच्यन्ते अहिकञ्चुकवत् प्रिये || ६-३१ || दीक्षिता इति शेषः || ३१ || एतत् स्फुटयति ---- तावद् भ्रमति संसारे यावत्तत्त्वं न विन्दति | विदिते तु परे तत्त्वे न भूयो जायते क्वचित् || ६-३२ || यथाहिस्त्यक्तेन कञ्चुकेन न पुनः श्लिष्यति, तथा समनान्तेन बन्धेन त्यक्तेन तत्त्वज्ञो न भूयः स्पृश्यते || ३२ || तत्त्वं हंसरूपमेवेति दर्शयन्नेतदेव भूयः स्फुटयति ---- अकृतार्थो नरस्तावद्यावद्धंसं न विन्दति | विन्दति लभते स्वत्वेन प्रत्यभिजानाति || एतत्सोपायं वैधर्म्यदर्शनेन प्रकृते योजयति ---- प्रणवेन समायुक्तं कृतार्थ इति निदीशेत् || ६-३३ || प्रणवेन चतुष्कलेन सम्यगायुक्तमिति निर्णीतवक्ष्यमाणतदुच्चारज्ञानतदुच्चारणौपयिकमेव परनिष्कलस्वरूपविश्रान्तत्वान्नरः कृतार्थो भवतीत्यर्थः || ३३ || अतश्च ---- उच्चारं च ततो ज्ञात्वा उच्चरेत्तं वरानने | उच्चरेदुच्चारयेत् | तमिति परविश्रान्त्युपायभूतं चतुष्कलम् || तत्र ---- उच्चारस्त्रिविधो देवि हंसस्य समुदाहृतः || ६-३४ || उक्तरूपपरापरप्रणवाधिष्ठानाद्धंसस्यापि परापरः स्वरूपनिष्ठत्वेन तु परात्पर इति त्रिविधो य उच्चारः स, उदाहृतः -- -- ऽऽएते वै प्रणवाः पञ्च परापरविभागशः परापरेण हंसेनऽऽ (६-२७) इति, तथा ऽऽपरतः परमो हंसः सर्वं व्याप्य व्यवस्थितःऽऽ (६-२७) इत्याद्युक्त्या समनन्तरमेवोक्तः || ३४ || तमेवोच्चारं स्फुटयति ---- हकारोकारसंयुक्तबिन्द्वन्ते तु तृतीयकः | (सृष्टे)१र्न्यासेन तूच्चारः संहारयोग उच्यते || ६-३५ || ह् इति लुप्तविभक्तिकोऽनाहतस्वरूपदर्शनाय | तेन ह् इति यः स्वयमुच्चरद्रूपो हंसः स अकारेण उकारेण च वर्णेन संयुक्तस्तदूपरि च बिन्दोरन्ते समीपे तृतीयक इत्यनुस्वाररूपो मकारोऽस्य सम्बद्ध एवमेतदन्तो य उच्चारः | सृष्टेरिति जागराद्यवस्थात्रयाधिष्ठातृसृष्टिस्थितिसंहारकारिभेदमयब्रह्म विष्णुरुद्रसर्गस्य यो न्यासः पृथक्पृथग्वाचकत्वेन विमर्शस्तेन, न त्वभेदेनेत्यर्थः | एतेषां तु त्रयाणामपि भेदमयानां संहारयोग इति तुर्यदशाप्रथमकोटिसंस्पर्शात्मकबिन्दुपदैक्ययोजनारूप उच्यते, न त्वत्र वर्णोच्चारव्याप्तिरस्ति || ३५ || यथा विभक्तः प्राक् तेन ---- एवमादिक्रमेणैव मन्त्रमुच्चारयेद् बुधः | बुधो ज्ञानी, एवमित्युक्तरूपेण, आदीत्यकारादिक्रमेण, मन्त्रमित्येतत्सम्बन्धादेव मन्त्ररूपतां प्राप्तं हंसमुच्चारयेत् || एतदनुवदन्नत ऊर्ध्वं मन्त्रोच्चारे इतिकर्तव्यतान्तरमाह ---- बिन्दुस्थं त्रितयं कृत्वा वक्त्रमुद्घाटयेत्ततः || ६-३६ || त्रितयं मकारान्तम्, बिन्दुस्थं कृत्वेति तदभेदव्याप्तिसारं सम्पाद्य, नादोच्चारणार्थं वक्त्रमास्यमुद्घाटयेदित्येतदुच्चारावसरे दिव्यं करणं बध्नीयादित्यर्थः || ३६ || ततश्च ---- ईषदुद्घाटिते वक्त्रे तदा नादं विजानत | अनयेतिकर्तव्यतया मन्त्रोच्चारावहितस्य नादनादान्ताभिव्यक्तिर्भवतीत्यर्थः || किं च ---- नादस्थं पञ्चधा चैव शक्तिस्थं पञ्चधा पुनः || ६-३७ || व्यापिन्यां पञ्चधा चैव............. मन्त्ररूपं विजानतेति सम्बन्धः | पञ्चधात्वं च ---- ऽऽब्रह्मादिपञ्चकं यच्चऽऽ (६-४१) इत्युपक्रम्य ऽऽपरापरविभागेन ते सर्वत्र व्यवस्थिताःऽऽ (६-४१) इति समनन्तरवक्ष्यमाणस्थित्या मन्तव्यम् | तेन योजनिकाग्रन्थे नादस्य यदष्टकलत्वमुक्तम् तद्वाचकस्वरूपविमर्शयुक्त्या | इदं तु पञ्चधात्वं तत्पदाधिरूढवाच्यरूपकारणविमर्शयुक्त्येति न पूर्वापरवैषम्यं किञ्चित् || ३७ || किं च ---- .............षमनानिष्कलात्मनोः | ऊर्ध्वोर्ध्वमवस्थितयोः | पूर्वनिर्णीतं रूपं विजानतेत्यनुषङ्गः || अथैतदुपरि ---- उन्मना च परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् || ६-३८ || पूर्वनिर्णीतं रूपं जानीतेत्यर्थः || ३८ || उपसंहरति ---- एवं ज्ञात्वा विमुच्यन्ते शिवतत्त्वविदो जनाः | एवमुक्तक्रमेण, ज्ञात्वा उन्मनान्तानि पदान्यनुभूय, ये शिवतत्त्वमिति परमशिवमात्मानम्, विदन्ति प्रतिजानन्ति, ते विशेषेण सिद्धान्तवैलक्षण्येन मुच्यन्ते | तत्र हि ---- ऽऽअवर्णोवर्णमकारबिन्दुनादाश्च तस्य सन्मन्त्राः | ऽऽ इत्येवं मन्त्रव्याप्तिस्तद्गुरुभिर्दशीता || अत्र वैधर्म्यमाह ---- अन्यथा नैव मुच्यन्ते बिन्द्वन्ते ये व्यवस्थिताः || ६-३९ || बिन्दौ तदन्ते च नादादिपदे ये व्यवस्थिता विश्रान्तास्ते नैव मुच्यन्तेऽपि तु तत्तत्पदोचितविभूतिमेव भजन्ते || ३९ || यतः ---- ज्योतीरूपं तु बिन्दुस्थं नादस्थं शब्दरूपकम् | शक्तिस्थं स्पर्शगं चैव तदूर्ध्वं शून्यरूपकम् || ६-४० || यदेतद् बिन्दुस्थं त्रितयमिति नादस्थं पञ्चकमित्याद्युक्तं तद् बिन्दुस्थं ज्योतीरूपमिति वेद्याविभागप्रकाशरूपम् | नादस्थं तु शक्तिरूपमिति विसर्गशक्तिमयम् | शक्तिपदावस्थितं तु स्पर्शगमानन्दस्पर्शसतत्त्वम्, तदूर्ध्वं व्यापिन्यां तु शून्यताभासरूपम् || ४० || यतो व्यापिनीधाम ---- ब्रह्मादिपञ्चकं यच्च तेषां शून्यं च तत्पदम् | चकाराद् ब्रह्माद्यधिष्ठेयानां तत्त्वानामपि | तैः शून्यमिति वक्तव्ये तेषां शून्यमिति षष्ठ्या ते सर्वे तत्र तदुचितप्रकृष्टसंविद्रूपतया स्थिताः, न तु क्वापि गताः, इति दर्शयति | अत एव पूर्वमशून्यं शून्यमित्याद्युक्तम् || ननु ब्रह्मादयो हृदयादिललाटान्तपदावस्थितास्ते कथमियतीं भूमिमायाता इत्याह ---- परापरविभागेन ते सर्वत्र व्यवस्थिताः || ६-४१ || परमेश्वरस्य हि चिदानन्देच्छाज्ञानक्रियाख्याः शक्तयस्तत्पदोचितप्रपञ्चव्याप्तिभाजो ब्रह्मादिपर्यन्तमाभासितवत्य इति तद्व्याप्तिसारा ब्रह्माद्याः स्थूलसूक्ष्मादिव्याप्त्या सर्वत्र स्थिताः | एतच्च एकादशे व्यक्तीभविष्यति | अथवैते तत्तत्पदौचित्येन तास्ताः सिद्धीर्ददति || ४१ || अथ ---- शून्यातीता तु समना शुद्धात्मा तून्मना तथा | क्रमेण स्वोचितसंविद्रूपेत्यर्थः || अथ ---- सर्वातीतं परं तत्त्वं सर्वं व्याप्य व्यवस्थितम् || ६-४२ || सर्वातीतत्वेऽपि सर्वव्यापकत्वमस्य स्वच्छस्वच्छन्दचिदानन्दसुन्दरत्वात् || ४२ || यतश्च परं तत्त्वं सर्वं व्याप्य व्यवस्थितमत एवाकारोकारमकारवाच्या अतिस्थूला अपि ---- मन्त्ररूपाश्च विज्ञेया बिन्दुधर्मात्तु देवताः | चकार एवार्थः | मन्त्ररूपा एव तदभेदव्याप्तिसारेणाविश्लेषेण ज्ञातव्याः || एवं हि ---- तत्रस्था सर्वकर्माणि साधयन्ति न संशयः || ६-४३ || तत्रेति व्याख्यातव्याप्तिसतत्त्वे मन्त्रे स्थिता उपारूढाः || ४३ || एवमुल्लासक्रमेण हृदयाद् द्वादशान्तं मुक्त्यङ्गमन्त्रोच्चारमुक्त्वा सिद्ध्यङ्गं तं प्रातिलोम्येनादिशति ---- तत्त्वं च उन्मनात्मा तु समना शून्यमेव च | स्पर्शश्चैव तथा शब्दो रूपं च तदनन्तरम् || ६-४४ || मन्त्रात्मनि स्थिताः सर्वे ज्ञातव्या दैशिकेन तु | रूपमिति बिन्दुतेजः | तदनन्तरमिति मकारोका(राका)रात्मवर्णस्वरूपम् | त एते सर्व एव प्रमेया मन्त्रात्मनिष्कलस्वरूपेऽवस्थिता उल्लासप्रवेशक्रममविमृश्य मन्त्रावसर एव मुक्तिसिद्ध्यङ्गरूपेणोपलभ्यन्त इत्यर्थः | दैशिकेनेति प्राधान्यात्, तदुपदेशात्त्वन्येनापि || ४४ || न केवलमेते मन्त्रस्थाः सर्वकर्माणि साधयन्ति, यावत् ---- तत्रस्था ज्ञानयोगं च प्रयच्छन्ति वरानने || ६-४५ || ज्ञानं तत्तज्ज्ञेयतत्त्वानुभवम्, योगं तदैकात्म्यप्राप्तिम् || सर्वकर्माणि साधयन्तीति यदुक्तम्, तत्र कर्मानुरूपं मन्त्रदेवतानां ध्यानमाह ---- कर्मकाले तु सकलान् शिरःपाण्यादिभिर्युतान् | कर्म अर्चाहोमादि || क्रमेण ---- जपेत्तु सकलान् देवि निष्कलेन समन्वितान् || ६-४६ || ध्यायेदित्यनन्तरस्थमनुषज्यते | निष्कलेन चिद्घनतापरमार्थेन, सम्यगन्वितांस्तद्विश्रान्तिसारान् || ४६ || यदा तु सर्वज्ञत्वादिरूपां सिद्धिमिच्छति, तदा बिन्दुविश्रान्तिसतत्त्वान् ---- ध्यायेज्ज्योतिर्मयान् सर्वान्.............. उक्तं हि ---- ऽऽज्योतीरूपं तु बिन्दुस्थंऽऽ (६-४०) इति | इह त्वेत्फलनिरूपणपरत्वेनोक्तमिति प्रकरणतो ज्ञायत इति न पुनरुक्तम् || अथ बिन्दुविश्रान्त्यूर्ध्वनादपदे ---- .................शब्दसिद्धिप्रदायकान् | नादविश्रान्तिमयत्वेन ध्यातास्तत्सिद्धिमेव वितरन्तीत्यर्थः | एवमुत्तरत्रापि तदुचितरूपध्यानात्तत्तत्सिद्धिप्रदत्त्वमेषाम् || यदाह ---- शक्तिस्थाः शक्तिदाः प्रोक्ताः शून्यस्था व्यापकाः स्मृताः || ६-४७ || क्रमाज्ज्ञानप्रदास्ते वै समनास्था वरानने | कैवल्यदास्ततश्चोर्ध्वे सर्वज्ञाश्चोन्मने पदे || ६-४८ || शक्तिः सर्वकरणसामर्थ्यम् | शून्यं व्यापिनी | व्यापका इत्याराधकस्य व्याप्तिप्रदाः | क्रमाज्ज्ञानं शिवादिक्षित्यन्ताशेषविषयम् | कैवल्यं शुद्धविज्ञानकेवलित्वम्, यद्भेदवादिशैवानां परं प्राप्यम् | ऊर्ध्व इति शुद्धात्मपदे | सर्वज्ञा इत्यक्रमाशेषविश्वाभेदप्रथाप्रदाः | यथोक्तम् प्राक् ---- शमना क्रमविज्ञानमुन्मना त्वक्रमम्ऽऽ (४-३९४) इति || एते च मन्त्रावयवानुभवाः ---- तत्त्वेन वेधिताः सर्वे ये मया परिकीतीताः | तत्त्वेन परशिवेन वेधिताः सर्वात्मना व्याप्ताः | वेधिता इत्यैशः पाठः, ऽऽविध विधानेऽऽ इत्यस्यैवायं प्रयोगः || अत एव ---- तज्ज्ञात्वा सिद्धिदाः सर्वे मुक्तिदाश्च न संशयः || ६-४९ || तदिति तत्त्वम्, साधकानामपि ह्येतन्मन्त्रक्रमेण सिद्धिमुक्तिपर्यवसानेनैवेति योजनिकाग्रन्थे निर्णीतम् | भिन्नकर्तृत्वेऽपि (तत्रे१-)श्वरप्रामाण्यात् || ४९ || उपसंहरति ---- पञ्चप्रणवसंयुक्तं तत्त्वं ते कथितं मया | पञ्चप्रणवोच्चारोपायप्राप्तं तत्त्वं परमशिवात्मकपरमहंसस्वरूपम्, ते तवैव योग्यायाः शक्तेर्मया कथितम्, नान्यस्य कस्यचित् || तदेतज्ज्ञात्वा ---- पञ्चप्रणवपूर्वेण ओंकाराद्ययुतेन तु || ६-५० || नमस्कारावसानेन बहुरूपेण सुव्रते | जपतः सिद्धिमाप्नोति लक्षेणाक्षरसंख्यया || ६-५१ || साधक इति शेषः | पञ्चप्रणवः चतुष्कल पूर्वो यस्य तेन | व्याख्यातभिन्नतद्व्याप्त्यतद्व्याप्त्यनुसन्धानपूर्वं तदुच्चारोद्घाटितमध्यमार्गाश्रयत्वात्तल्लीनेन बहुरूपेण यो जपस्ततः सिद्धिमाप्नोतीति सम्बन्धः | ओंकाराद्ययुतेनेत्यादिनेदमाह - --- यद्यपि प्रणवसमनाव्याप्तिश्चतुष्कलनाथो बहुरूपस्याघोरशब्दादे रूपेभ्य इत्यन्तस्यादौ प्रयुक्तस्तथापि सर्वमन्त्राणां पूजाजपविषये प्रणवनमस्काराभ्यामाद्यन्तसम्बन्धो दीपकः कार्य इति शास्त्रसमयः | तेन द्वात्रिंशदक्षरस्य पूर्वं यौ नमस्कारप्रणवौ उक्तौ, तावेव चतुष्कलपूर्वस्य देयौ | यतः ---- ऽऽतत्रस्था सर्वकर्माणि साधयन्तिऽऽ (६-४३) इत्युक्तम् | अक्षरसंख्यया लक्षेणेति द्वात्रिंशता लक्षैरित्यर्थः || ५१ || एतदेवाधिकावापेन पूरयति ---- प्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत् सदा | प्रणव आद्यो यस्य चतुष्कलनाथस्य तेन सम्यग्युक्तं मन्त्रं जपेत् सदा इति यावत् | पूर्वमेव तावदस्यैकाग्रताया अविच्छेदेन जपः कार्य इत्यर्थः | सदेति अत्राधिकावापः || अथ ---- जपान्ते तु पुनर्होमं दशमांशेन कारयेत् || ६-५२ || ऽऽजपित्वाक्षरलक्षं तु बहुरूपस्यऽऽ (६-३) इत्याद्युपक्रम्य पञ्चप्रणवस्वरूपं निर्णीय, ऽऽप्रणवाद्येन संयुक्तं मन्त्रमेवं जपेत्सदाऽऽ (६-५२) इत्युपसंहृत्य ऽऽजपान्ते तु पुनर्होमंऽऽ (६-५२) इत्युक्तम् | अतो जपोपक्रमेणाङ्गहोमस्तावत्कृतः | जपे तु मन्त्रदेवतासंमुखीकरणात्मनि निष्पन्ने, तत्तर्पणाय स्वाहान्तेन मन्त्रेण जपसंख्यातो दशांशेनेति लक्षत्रयेण सहस्रविंशत्या च होमः कार्य इति ऽऽपुनःऽऽ शब्दस्यार्थः || ५२ || अत्र होमे समुचितं द्रव्यमाह ---- नृमांसं पुरसंयुक्तं घृतेन च परिप्लुतम् | ततः सिद्धिमवाप्नोति अधमां मध्यमोत्तमाम् || ६-५३ || पुरं गुग्गुलुः | एतत्त्रयं युगपद्धुत्वा तत्त्वेश्वरत्वाकाशोत्पतनपातालसिद्धीरुत्तमादिरूपाः सर्वाः प्राप्नोति, न तु यथासंख्यमशब्दार्थत्वादागमान्तरविरोधाच्च || ५३ || यदा तु ---- त्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत् | ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् || ६-५४ || भयदाता च हर्ता च शापानुग्रहकृद् भवेत् | दर्पं हरति कालस्य पातयेद् भूधरानपि || ६-५५ || स्फोटयेद् बिल्वयन्त्राणि दिग्गजानपि चालयेत् | ब्रह्मराक्षसवेतालान् क्रूरग्रहविनायकान् || ६-५६ || स्मरणान्नाशयेद् देवि अवध्यस्त्रिदशैरपि | शापानुग्रहकृत्त्वाद्भयस्य दाता हर्ता च, स्मरणादिति स्मृतमात्रः सन्नाशयत्येवेत्यर्थः || ५६ || अस्य च मन्त्रस्य ---- प्राकृतान्यपि कर्माणि सिद्ध्यन्ति जपलक्षतः || ६-५७ || प्रकृतिसंभूतद्रव्ययोगसंपाद्यानि वश्यादीनि प्राकृतानि | जपलक्षतः इति पूर्वसेवार्थं दशांशहोमसहितान्निर्वतीतात् | प्रयोगकाले कर्मोचितोहजात्यन्तमन्त्राभिमन्त्रणं वक्ष्यमाणप्रयोगनिदीष्टानां द्रव्याणां तत्तदन्यकल्पप्रयोगविषयाणां च स्थितमेव | यदुपसंहरिष्यति ---- ऽऽएवं शतसहस्राणि अन्यकल्पोत्थितानि च | प्रयोगानां करोत्येष मन्त्रराजेश्वरेश्वरः ||ऽऽ (६-९४) इति || ५७ || एवं पूर्वाराधितमन्त्रस्य यानि मुख्यसिद्ध्यङ्गभावेन कदाचिदवसरे प्रयोज्यानि ---- तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः | सम्यगिति यथा विसंवादीनि न भविष्यन्ति | यथावदिति यथेतिकर्तव्यतया युक्तानि | अत्रामुको मे वशो भवत्वित्यूहान्तो मन्त्रस्य लक्षजपः कार्यः इति व्याख्यानमसत् ऽऽओंकाराद्ययुतेन तु | नमस्कारावसानेनऽऽ (६-५१) इति पूर्वमेवासाधारण्येन मन्त्रस्वरूपस्य प्रतिपादितत्वात् | एतावता यथाप्रतिपादनमस्य सामान्येन क्षुद्रसिद्ध्यभिसन्धिमता पूर्वसेवार्थं जपहोमौ कृत्वा विनियोगकाले कर्मोचितोहजात्यन्तस्य प्रयोगः कार्यः || तत्र वश्यप्रयोगांस्तावदाह ---- मोहना सहदेवा च भूधात्री चक्रलाञ्छना || ६-५८ || रामवल्ल्या सहैकत्र आत्मबीजेन पेषयेत् | भक्ष्ये पाने च दातव्यं वशीकरणमुत्तमम् || ६-५९ || मोहना बलामोटा | भूधात्री भूम्यामलकी | चक्रलाञ्छना चक्राङ्का | रामवल्ली रामतरणिरिति प्रसिद्धौषधिः | आत्मबीजं स्वशुक्रम् | प्रदातव्यमिति मन्त्राभिमन्त्रितम् | एवं ह्यविसंवादि भवति || ५९ || उत्तवारणिमूलं तु पुष्यर्क्षेण तु ग्राहयेत् | आत्मेन्द्रियेण संयुक्तं वशीकरणमुत्तमम् || ६-६० || उत्तवारणी विशाला | पुष्यर्क्षेण त्विति पुष्यनक्षत्रेण सौम्यग्रहयुक्तेन | शुक्लपक्षे रात्रौ ओषधिग्रहणं कार्यमित्योषधिकल्पेष्वस्ति | आत्मेन्द्रियं स्वशुक्रम् | यथोक्तम् ---- ङृबीजमिन्द्रदैवत्यं तस्मादिन्द्रियमुच्यते |ऽऽ इति | उत्तमत्वमस्यैकौषधियोगात् | भक्ष्ये पाने चेति स्थितमेव || ६० || श्रवणाक्षिमलं लाला रुधिरेन्द्रियसंयुतम् | भूकदम्बसमोपेतं दातव्यं पयसा निशि || ६-६१ || श्रवणाभ्यामक्षिभ्यां मले लाला चेति पञ्च, रुधिरं वामानामिकासंबन्धि, इन्द्रियं शुक्रमित्यात्मीयं सप्तकम्, भूकदम्बं भूतीकमष्टमम् | एतदेकीकृत्य रात्रौ मन्त्राभिमन्त्रितजलपानमध्ये देयं वशीकाराय || ६१ || एतच्च ---- अप्रवासे प्रदातव्यं............... दत्त्वा न प्रोषितव्यम् || अन्यथा ---- ............ंइरयते विरहेण सा | इयानस्य प्रयोगस्य महिमेत्यर्थः || षष्टिं कनकबीजानि षोडश मणिचन्द्रिकाः || ६-६२ || नरगोदन्तसंयुक्ताः प्रदद्यास्य भामिनि | एष कापालिको योगो गच्छन्तमनुगच्छति || ६-६३ || सा तमिति शेषः | कनकं धत्तूरकम् | मणिचन्द्रिका रक्तिका | नरगोदन्तयोर्नात्र संख्यानियमः | एतच्चूर्णं भक्ष्ये पाने वा देयमिति प्राग्वत् | कपालैरस्थिभिनीर्वृत्तः कापालिकः || ६३ || श्वेतार्कमूलं मञ्जिष्ठा चटकस्य शिरस्तथा | गृहोद्भवस्य कुष्ठं च स्वरक्तेन्द्रिसंयुतम् || ६-६४ || भक्ष्ये पाने प्रदातव्यं वशीकरणमुत्तमम् | अर्कतरोः श्वेतत्वं श्वेतपुष्पत्वात् | गृहोद्भवश्चटको मूषकः | स्वरक्तेन्द्रियं प्राग्वत् || ६४ || मोहना चैव कान्तारी मयूरशिखया युता || ६-६५ || आत्मलालेन्द्रियैर्युक्तं वशीकरणमुत्तमम् | कान्तारी प्रियङ्गुः | मयूरशिखा तदाकारैवौषधिः | आत्मलालेन्द्रियैरिति बहुवचनादिन्द्रियद्रव्ये उभयोद्भूते | उत्तममविसंवादि || ६५ || लज्जालुका च गोरम्भा चण्डालीकर्मकं तथा || ६-६६ || नागेन्द्रपदमिश्रं तदात्मबीजसमन्वितम् | एष योगवरो दिव्यो दीयते यस्य सुव्रते || ६-६७ || मधुरेण समायुक्तो यावदायुर्वशी स तु | लज्जालुका लङ्गुडा | गोरम्भा छत्रा | चण्डाल्याख्याया ओषधेः कर्मकं प्रधानमूलम् | मधुरेण विषेण, तस्य च द्रव्यान्तरसंयोगान्मारणशक्तिनिरोधः || ६७ || चणका माषमुद्गाश्च अपानेन विनिर्गताः || ६-६८ || वान्तं घृतं तथा रेतः स्त्रीरजो हृन्मलं तथा | मूत्रं रक्तं तथा केशो लाला चैव वरानने || ६-६९ || पुत्रजानिः कृताह्वा च नागेन्द्रपदसंयुता | मोहना विष्णुक्रान्ता च धात्री चैवैकतः स्थिता || ६-७० || पुष्यर्क्षेण नियुञ्जीत गवीतानां वरानने | भक्ष्ये पाने प्रदातव्यो योगस्त्रिदशपूजितः || ६-७१ || अपानेन निर्गताः शकृद्भावमागताः | वान्तं घृतादि | आत्मीयं हृन्मलं नाभिमलम् | पुत्रजानिरोषधिविशेषः | कृताह्वा कृताञ्जलिः | विष्णुक्रान्ता प्रसिद्धा | धात्री आमलकम् | त्रिदशपूजित इत्यविसंवादी | एवमष्टौ वशीकारे प्रयोगा उक्ताः || ७१ || अथ ---- उच्चाटनं प्रवक्ष्यामि शत्रूणां गवीतात्मनाम् | तत्र ---- काकोलूकस्य पक्षांश्च खरोष्ट्रमूत्रमृत्तिका || ६-७२ || एभिर्द्रव्यैः ---- कृत्वा प्रतिकृतिं प्राज्ञः काकरक्तेन लेपयेत् | अथान्यत् ---- काकालूकस्य पक्षांश्च गुदे तस्या विनिक्षिपेत् || ६-७३ || अथ ---- तां चतुष्पथे निखनेत्................. तत्र खनित्वा स्थगितस्थापितायास्तस्याः ---- ................श्मशानाग्निमथोपरि | प्रज्वाल्य होमयेत्तत्र काकपक्षांश्च सुव्रते || ६-७४ || उद्भ्रान्तपत्रसहितान् खरमूत्रेण भावितान् | यस्य नाम समुद्दश्य यकाराद्यन्तरोधितम् || ६-७५ || मन्त्रावसाने विन्यस्तं विसर्गान्तं प्रचाटयेत् | तमिति शेषः | उद्भ्रान्तपत्राणि अर्जुनवातधूलिदण्डमध्यगतानि पत्राणि | मन्त्रावसान इति आराधितबहुरूपान्ते | विसर्गान्तं यकारेणाद्यन्तप्रयुक्तेन रोधितं सम्पुटितं यस्य शत्रोनामेति यः देवदत्तो य उच्चाटितो भवत्विति सक्रोधमुच्चार्य यः क्रोधसमाविष्ट एव वक्ष्यमाणनीत्या शतमष्टोत्तरं काकपक्षान् जुहुयात् साधकः, स तमुच्चाटयेदिति संबन्धः || ७५ || स इत्थमुच्चाटितः ---- भ्रमते काकवत् पृथ्का शत्रुर्व्याधिनिपीडितः || ६-७६ || विद्वेषे प्रयोगमाह ---- पिण्याकं निम्बपत्राणि मृत्किण्वं तु तुषाणि च | शत्रोः प्रतिकृतिं कृत्वा अक्षपुष्पैस्तु वेष्टिताम् || ६-७७ || श्मशाने निखनेत्तां तु वह्निं प्रज्वाल्य चोपरि | पुष्पैवीभीततरुजैर्यस्य नाम्ना तु होमयेत् || ६-७८ || विद्विष्टो वै भवेच्छत्रुः कामदेवसमोऽपि यः | पिण्याको गुग्गुलुबीजकल्कः | किण्वं सुरासंधानद्रव्यम् अक्षपुष्पैवीभीतपुष्पैः | वेष्टितामिति तन्मालावलिताम् | नाम्नेति विद्विष्टो भवतु इत्यन्तेन विद्वेषणजातियुक्तेन बहुरूपेणेत्यर्थात् | होमोऽष्टोत्तरशतसङ्ख्यः || ७८ || अथास्य विद्विष्टस्यान्यस्य वा सुभगीकरणमाह ---- प्रियङ्गुलतिकामिश्रं गुग्गुलं घृतवेधितम् || ६-७९ || हुत्वा त्वष्टशतं देवि सुभगः संप्रजायते | प्रियङ्गुलतिका गन्धप्रियङ्गुः | अत्राप्याराधितं बहुरूपमेवोच्चार्यामुकः सुभगो भवत्वित्यन्ते सौम्यजातिः प्रयोज्येति || ७९ || जातिकुट्मलकैमीश्रैस्त्रिमध्वक्तैस्तिलैर्हुतैः || ६-८० || सुभगत्वमवाप्नोति रूपहीनोऽपि यो नरः | त्रिमधु क्षीरशर्कराघृतम् | अत्रापि पूर्ववन्मन्त्रोऽष्टोत्तरशतसङ्ख्यश्च होमः | एवमुत्तरत्रापि कर्मोचितोहजात्यन्तो होमोऽष्टोत्तरशतसङ्ख्य एव || ८० || तिलैर्लवणसंमिश्रैस्त्रिमध्वक्तैर्हुतैः प्रियैः || ६-८१ || सप्ताहाद्वशमायाति या स्त्री रूपेण गवीता | आकर्षणमाह ---- राजिका लवणं चैव मधुक्षीरघृतप्लुतम् || ६-८२ || होमयेन्नामसंमिश्रं यस्याकर्षेत्तु तं द्रुतम् | राजिका आसुरिका || ८२ || पूर्वं भक्ष्यपानक्रमेणाष्टौ वशीकारा उक्ताः, होमेन त्वेकः, अधुना स्नानादिप्रयोज्यद्रव्यक्रमेणाप्याह ---- नरस्य रोचनां गृह्य द्विरदस्य मदेन तु || ६-८३ || भावयित्वाभिमन्त्र्यैतन्मन्त्रेणाष्टशतं जपेत् | स्नाने विलेपने मद्ये गन्धे वा यस्य दीयते || ६-८४ || स वश्यो भवति क्षिप्रं धनदः प्राणदस्तथा | नररोचनां गोरोचनावद् गृहीत्वा, हस्तिमदेन लिप्त्वा, मन्त्रेणेति बहुरूपेण प्राग्वदूहप्रयोगजात्यन्तेनैतद्द्रव्यमष्टोत्तरशतजपादभिमन्त्र्य यस्य स्नानादौ दीयते स वश्यो भवतीति संबन्धः || ८४ || मारणमाह ---- अथवा मारयेत् क्षिप्रं शत्रुं निश्चितमात्मनः || ६-८५ || अपकारशतैर्युक्तं कृतघ्नं दुष्टचेतसम् | न तु स्वल्पापराधम् || ८५ || तत्र ---- कपालद्वयमादाय नाम शत्रोः समालिखेत् || ६-८६ || कपालसंपुटस्थं तद्विषाङ्गारेण भावितम् | रुधिरेण समायुक्तं हुंफट्कारविदभीतम् || ६-८७ || महाप्रेतवनं गत्वा................ विषाङ्गारेण श्मशानाङ्गारेण रुधिरविमिश्रेण मषीं कृत्वा श्मशान एव कपालयोः शत्रोर्नाम द्वितीयान्तम्, विदभीतमिति ---- ऽऽअभिधेयं भवेत्पूर्वं ततो मन्त्रः सकृद्भवेत् | विदभीतो भवत्येष ............ ||ऽऽ इत्याम्नातत्वादन्तन्यस्तहुंफट्कारं मारयामि हुंफडित्यन्तं सम्यक् संरुद्धभैरवरूपस्वात्माभिमानानुसन्धानेन लिखेत् || ८७ || अथ ---- ............ष्वच्छन्दं पूजयेत्ततः | कृष्णमाल्योपहारैश्च................ श्मशान एव, कृष्णरात्रौ, श्मशानावरणयुक्तमित्यर्थात् || ..........टतः कर्म समारभेत् || ६-८८ || विज्ञाप्य भैरवं देवं शत्रुं मे विनिपातय | अथ ---- अनुज्ञातस्तु देवेन गृहीत्वा तच्छिरोद्वयम् || ६-८९ || तत्र गत्वा महादेवि कपालासनसंस्थितः | तत्रस्थो रोषसंपूर्णो दक्षिणाभिमुखः स्थितः || ६-९० || आत्मनो भैरवं रूपं ज्ञात्वा घोरं सुभीषणम् | क्रुद्धः समुच्चरेन्मन्त्री द्वात्रिंशाक्षरसंमितम् || ६-९१ || विलोमेन महाभागे शत्रुनाम ततोऽन्तगम् | हुंफट्द्वयं समुच्चार्य काद्ये चास्फालयेद् भृशम् || ६-९२ || खण्डशश्चूणीते यावत्तावच्छत्रुवीनश्यति | सप्तरात्रेण देवेशि प्रयोगस्त्वनिवर्तकः || ६-९३ || अनुज्ञात इति भावनया | शिरोद्वयं कपालयुग्मम् | कपालासनं मुण्डासनम् | रोषस्तीव्रापकारस्मरणात् | तत इति विलोममन्त्रोच्चारानन्तरम् | अनिवर्तको न निवर्तते, नान्यथा भवतीत्यर्थः || ९३ || उपसंहरति ---- एवं शतसहस्राणि अन्यकल्पोत्थितानि च | प्रयोगाणां करोत्येष मन्त्रराजेश्वरेश्वरः || ६-९४ || एवं करोत्यविसंवादीनि सम्पादयति || ९४ || एवमीदृक्प्पयोगक्रममुद्रितस्य यद्यस्यानुकम्पया स एवान्योऽपि वान्यस्य वा शान्तिमिच्छेत्, तदा ---- अनुलोमगतं देवं वौषट्कारान्तसंस्थितम् | अमुकस्येति ऊहयुक्तमुच्चार्य || क्षीरं तु होमयेद् देवि शान्त्यर्थे हितकारकम् || ६-९५ || अथोक्तानुक्तकर्मसु उचितजातिप्रयोगानाह ---- वषडाप्यायने शस्तं स्वाहान्तं वशकर्मणि | मन्त्राणां तर्पणार्थं च.............. अन्त इत्युभयत्र संबद्ध्यते || किञ्च मान्त्रं स्वरूपम् ---- ...........णत्यन्तं चार्चने स्मृतम् || ६-९६ || नतिर्नमःशब्दः | चकाराज्जपेऽपि || ९६ || एतदुपसंहरन् भाविपटलस्य सङ्गतिं करोति ---- एतद्धि कथितं देवि साधकस्य सुमेधसः | क्रियाकालांशयुक्तस्य अक्लेशात्तु सुखावहम् || ६-९७ || सुमेधसो यमनियमादिवशीकृतधिषणस्य, अत एव यथाकथञ्चित् क्षुद्रकर्माण्यनारभमाणस्य, अपि तु मुख्यसिद्ध्यङ्गतया स्वीकारयोग्यस्य वशीकरणादिसिद्धिसाधनपरिपन्थिनश्चोच्चाटनादि अवसरे कुर्वतः क्रियया स्नानार्चनसमयपालनात्मतया, भाविपटलनिर्णेष्यमाणकालेन, अंशकेन चाष्टमपटलनिर्णेष्यमाणेन युक्तस्य, तज्ज्ञात्वा प्रयोगमनुरुन्धानस्याक्लेशादित्याराधितैतन्मन्त्राभिमन्त्रण- पूर्वकमनुष्ठीयमानं सुखावहमित्यभीष्टफलप्रदं भवत्येवेति शिवम् || स्मारं स्मारं गुरुवरपदद्वन्द्वविस्फूजीतानां मान्त्रं वीर्यं किमपि परमं दशीतं यन्मयात्र | तस्मिन्नन्तर्नमत गुरवो मन्त्रचक्रैकसारे संसाराब्धिं तरत तरसा भैरवीभावमेत || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते पञ्चप्रणवाधिकारः नाम षष्ठः पटलः || ६ || सप्तमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ संकुचच्चित्स्फुरत्तात्मप्राणान्तर्येन भास्यते | कालाध्वा विश्वभृद् भुक्तिमुक्त्यर्थं स जयत्यजः || ऽऽक्रियाकालांशयुक्तस्यऽऽ (६ | ९७) इति यदुपसंहृतं ततो विदितं क्रियास्वरूपमनूद्य, कालांशकं ज्ञातुं श्रीदेव्युवाच ---- क्रिया ज्ञाता मया देव त्वत्प्रसादान्महेश्वर | कालांशकं च देवेश कथयस्व प्रसारतः || ७-१ || क्रिया पूजनादिसाधनान्ता | कालं च तत्तत्सिद्धिसाधनोचितमवसरम् | अंशकं च ब्रह्मांशकविष्ण्वंशकादिरूपम् | प्रसारतः इति सबाह्याभ्यन्तरव्याप्त्या अभिधत्स्व | अत एव पूर्वं ---- ऽऽकालं चैव समासतःऽऽ (१-९) इत्युक्त्योद्दिष्टमपि कालस्वरूपं तत्त्वतोऽज्ञात्वा पुनः प्रश्नितम् || १ || श्रीभैरव उवाच ---- कालो द्विधाऽत्र विज्ञेयः सौरश्चाध्यात्मिकः प्रिये | कलयति जन्मस्थित्यादिविकारषट्केन परिच्छिनत्ति जगद्यः पारमेशक्रियाशक्तिस्पन्दात्मा कालः | द्विधा इत्येकरूपोऽपि बाह्याभ्यन्तरतया संस्थितः, अत्र इति नित्यनैमित्तिककाम्येषु सर्वेषु कर्मसु अङ्गतयाराधकैर्ज्ञातव्यः | सूरे भवः सौरः स्थूलोऽहोरात्राद्यात्मा, स एव त्वात्मनीति तदधिष्ठिते प्राणे, अध्यात्मे भव आध्यात्मिकः सूक्ष्मरूपः | तत्र शुभं कर्म सुवारसुदिनादौ कर्तव्यम् | तत्र चैहिकामुत्रिकफलसिद्ध्यर्थं दक्षिणायनोत्तरायणादिस्वरूपमवश्यं ज्ञातव्यम् || तदेतत्सर्वं बाह्यकालत एव ज्ञायत इत्याह ---- सुवारकरणे लग्ने सुयोगे सुदिने प्रिये || ७-२ || तेजोऽपचयराशौ तु.......... शोभनो वारश्चन्द्रतिथ्यादिग्रहनक्षयोगः, करणं च वव-वालव- कौलवतैतिलादिकं विष्टिवजीतं यत्र, सुदिने अरिक्ततिथौ, सुयोगे इत्यानन्दादियोगवति यो लग्नः स्वर्क्षादेरनुकूलः सूर्यसञ्चारापेक्षः प्रतिदिनं घटिकानियमेन मीनादि राश्युदयस्तत्र, तेजसोऽपचयराशौ मकरसंक्रान्तौ तदुपलक्षिते च तदुपचयराशौ कर्कटे आमुत्रिकैहिककर्मारम्भविषयेऽवश्यज्ञातव्यो यः कालः स एष सौर इति दूरेण सम्बन्धः | सुवारकरणमित्यादिप्रथमापाठस्तु स्पष्टः || २ || किं च ---- .............डक्षिणायनमुत्तरम् | ग्रहणं चन्द्रसूर्याभ्यां कालश्च ऋतवस्तथा || ७-३ || पक्षो मासश्च वेला विषुवद्राश्यन्तरं तथा | पुण्यापुण्योदयो देवि........... चन्द्रसूर्याभ्यामुपलक्षितं ग्रहणम् | दक्षिणायनोत्तरायणवदैहिकपारलौकिकफलकर्मविषयम् | कालः चातुर्मास्यसंज्ञः | ऋतवो वसन्ताद्या | पक्षः शुक्लः कृष्णश्च | मासः चैत्रादिः | वेला तत्तद्ग्रहादिसञ्चाराश्रयः प्रविभक्तोऽहोरात्रविभागः | विषुवत् दिनमहनीशासाम्यात्म मेषतुलयोः सूर्यसंक्रान्तिकालः | राश्यन्तरम् इतराः संक्रान्तयः | पुण्यकालो वैशाखशुक्लतृतीयादिः | अपुण्यकालो मलमासादिः || ३ || तदेवमादिकं सर्वं तत्तत्कर्माङ्गतया उपयुज्यमानं यत्, स कालः -- -- ..............षौर एष प्रकीतीतः || ७-४ || बाह्य इति शेषः || ४ || आध्यात्मिकं पुनर्देवि कथयामि निबोध मे | पुन इति विशेषेण | ङिबोध मेऽऽ इत्युक्त्या परमोपादेयत्वं ध्वनति || तत्र ---- षाट्कोशिकस्तु यो देहो भूततन्मात्रसंयुतः || ७-५ || स मनोबुद्ध्यहङ्कारबुद्धिकर्मेन्द्रियैर्गुणैः | सर्वतत्त्वैस्तथा देवैः समधिष्ठितविग्रहः || ७-६ || तत्रात्मा प्रभुशक्तिश्च वायुर्वै नाडिभिश्चरन् | स्थित इति शेषः | षट्कोशानि त्वक्मांसरक्तमज्जास्थिशुक्राणि | यो देहः, स कार्यकरणत्रयोविंशत्या सत्त्वादिभिर्गुणैः सर्वतत्त्वैश्च तदुपरिस्थितैनीयत्यादिभिः शिवतत्त्वान्तैः, तथा देवैर्ब्रह्मादिभिः कारणैः, सम्यग् व्याप्यव्यापकभावेन, अधिष्ठितः कृतावस्थितिः, विग्रहः स्वरूपं यस्य | आत्मा संकुचितसंविद्रूपस्तत्तत्कर्मानुष्ठाता तत्फलभोक्ता च, प्रभोः स्वच्छन्दभैरवस्य, शक्तिः स्वातन्त्र्यात्मा मनःप्रसादा.वसरेषु भान्ती, वायुश्च नासिकापथवाही प्राणो नाडिभिर्वक्ष्यमाणाभिश्चरन् स्थितः | अयमत्राशयः ---- इह विश्वोत्तीर्णविश्वमयचिदानन्दसुन्दरः स्वतन्त्रभट्टारकः स्वस्वातन्त्र्यशक्त्या ---- श्थूलसूक्ष्मस्वरूपेण स एकः संव्यवस्थितःऽऽ (४-२९५) इत्युक्तन्यायेन सदाशिवादिक्षित्यन्त विश्वमुन्मीलयेत् प्रथमं तदुल्लासनभित्तिं शून्यातिशून्यभूमिं स्वात्मदर्पणे | तत्र च चित्प्रकाशप्राधान्येन शून्यस्य गुणीभावात् शून्यातिशून्यभूः सदाशिवादिमन्त्रान्तशुद्धप्रमातृसङ्कोचप्रपञ्चोत्थापिका महामायाशब्दवाच्या उच्यते | यदा तु चित्प्रकाशगुणीभावात् शून्यमेव प्राधान्येन दर्शयति, तदैषा मायाशक्तिरशेषविज्ञानाकलप्रलयाकलसकलतत्प्रमेयसङ्कोच- प्रपञ्चप्रदशीकाऽभिधीयते | यश्च सङ्कोचस्तया प्रदर्श्यते, स एव शून्यप्रमाता निमग्नविमर्शशक्तिः | यदा चासौ व्यतिरिक्तमेयग्रहणायोन्मुखीभवति, तदा प्राणरूपतया स्फुरति, तथा स्फुरन्नपि कस्तूरिकाकणवत् तत्रापि तावत्यंशे संकुचिताशेषविश्वात्मतया भाति तदभिप्रायेणैव च विततविततमूतीवैचित्र्यात्मा पूर्वं षड्विधाध्वविभागः प्राणस्थित इत्युक्तम् | इह चैकत्रैव प्राणोच्चारे नालिकातः प्रभृति षष्ट्यब्दोदयान्तम्, एकादशपटले च मानुषायुष्कालात् प्रभृति अनाश्रितान्तस्य विश्वस्य च आयुष्परिमाणमतिविततविततक्रियाशक्तिवैचित्र्यात्मकमस्ति, इति प्रतिपादयिष्यते | यद्यपि च प्राणभूमिकायामिवात्यन्तसंकुचितशरीराद्यात्मतायामपि परमेश्वरः पूर्णषट्त्रिंशत्तत्त्वस्फाररूप एव यथा प्रतिपादितम्, तथापि ऽऽप्राक् संवित्प्राणे परिणताऽऽ इति नीत्या प्राणरूपः परस्याः शक्तेरन्तरङ्गमधिष्ठानम्, तदवरोहक्रमेण भूतभावशरीरावतरणादिति समग्रप्राणप्रसरभित्तिभूतमध्यमप्राणभूमिकाध्यारोहक्रमेणैव परशक्तिपदानुप्रवेशावष्टम्भपूर्वमेव स्वच्छन्दीभैरवताऽवाप्यते महायोगिभिः, मितयोगिभिश्च तत्तदान्तरकालांशविश्रान्तिपूर्वं विधिमनुतिष्ठद्भिः सा सिद्धिरविघ्नेनासाद्यते | अत एव प्रतिपादितप्रतिपादयिष्यमाणैतच्छास्त्रनिदीष्टः संहितान्तरनिदीष्टोऽपि वा सर्व एवोपासादिक्रमो मध्यप्राणपथोच्चरन्मन्त्रप्रमुखमेव फलदो भवति, इत्याशयेनात्र पटले परमेश्वरस्याव्यात्मिककालस्वरूपप्रतिपादने महान् संरम्भः, इत्यलं तावदिहैवाधिकेन || ६ || यद्यप्यात्मप्रभुशक्तिवायवः सर्वत्र देहस्थिताः तथापि प्राधान्याभिप्रायेण यथाक्रमंम् ---- नाभ्यधोमेढ्रकन्दे च स्थिता वै............ नाभ्यन्तं प्रकृतितत्त्वस्य व्याप्तिरिति नाभावशेषनाडीचक्रभूतायां प्राधान्येनात्मा स्थितः, अधोमेढेर तु मध्यशक्तिः (कन्दे च वायुः) | एषां चात्र स्वरूपमवधानधनैरेव सम्यगुपलभ्यते न तु पशुभिः | एवं स्थिते सत्यात्मविश्रान्तिपदात् ---- .......................णाभिमध्यतः || ७-७ || तस्माद्विनिर्गता नाड्यस्तिर्यगूर्ध्वमधः प्रिये | अत एवोक्तमन्यत्र ---- ङाभिचक्रे कायव्यूहज्ञानम् |ऽऽ (पा०यो० ३-२९) इति | केचित्तु नाभिचक्रत इतिपाठं पूर्वत्रैव योजयित्वा, तस्मादित्यनेन कन्दपदं प्रत्यवमृष्टवन्तः || ७ || तासां मध्यात् ---- चक्रवत् संस्थितास्तत्र प्रधाना दश नाडयः || ७-८ || तत्र इति नाभौ पद्मे | दश नाडीर्नामतो वक्ष्यति || ८ || दशभ्यस्तु ---- द्वासप्ततिसहस्राणि नाड्यस्ताभ्यो विनिर्गताः | पुनवीनिर्गताश्चान्या आभ्योऽप्यन्याः पुनः पुनः || ७-९ || विनिर्गता इत्यूर्ध्वमधस्तिर्यक् च प्रसृताः || ९ || किमवधि निर्याताः इत्याह ---- यावत्यो रोमकोट्यस्तु तावत्यो नाडयः स्मृताः | अर्धचतस्रः कोटयः || अतश्च ---- यथा पर्णं पलाशस्य व्याप्तं सर्वत्र तन्तुभिः || ७-१० || शरीरं सर्वजन्तूनां तद्वद् व्याप्तं तु नाडिभिः | इह ऽऽप्राक्संवित्प्राणे परिणताऽऽ इति स्थित्या निर्णीतनीत्या संवित्तिः शून्यभूमिकामाभास्य प्राणभूमिमाश्रितवती, तत्रापि पलाशपत्रमध्यशाखान्यायेन मध्यनाड्याश्रयमध्यमप्राणरूपतां श्रित्वादिक्रमवस्थिते, तत्रापि प्रधानना(द)डीदशकाश्रयप्राणादिप्रधानवायुरूपतामासाद्य पुरुषायुषमध्यसम्भव्यहः संख्याकानि षट्त्रिंशत्सहस्राणि बहिर्वाहानां प्राणनाडीनाम्, तावन्त्येव चान्तर्वाहानामपाननाडीनाम्, इत्युभयं द्वासप्ततिसहस्राणि प्रधानभूतानि भासितवती | तथा हि सति यावज्जीवं कर्तव्यत्वेन दीक्षितानां यन्नित्यकर्म भगवतस्वरूपानुसन्धानादि आम्नातम् तदुक्तव्याप्तितत्त्वविदा एकवारमनुष्ठीयमानमपि सर्वमेवानुष्ठितं भवति | यदुक्तं कक्ष्यास्तोत्रे ---- ऽऽया अग्निहोत्राहुतयः सहस्रद्वासप्ततिः स्युः पुरुषायुषेण | नाड्यंशयुक्त्या सकृदेव जुह्वत् सम्पादयेत्तास्तव मार्गविद्यः ||ऽऽ इति | किं च ---- ऽऽमध्यप्राणनिविष्टहंसविसृता ये रोमकूपाश्रयाः प्राणाः सूक्ष्मविमर्शशालिवपुषः सार्धत्रिकोट्यात्मकाः | तान्मन्त्रात्मतया विलोमयति यो निःशेषतत्त्वाश्रये देहेऽसाविह नादभैरवतनुः स्वच्छन्दनाथः परः ||ऽऽ इति || १० || एताश्च नाड्यः ---- मारुतापूरिताः सर्वा आत्मशक्तिचराः सदा || ७-११ || आत्मा संकुचितसंविद्रूपो ग्राहकः, शक्तिः प्राभवी विश्वाशेषपरस्फुरत्तात्मा, ताभ्यां हेतुभ्यां चरन्ति वैचित्र्येण प्रसरन्ति || ११ || ताश्च ---- पृथग् वृत्तिप्रभेदेन भिन्नाश्चारप्रभेदतः | वृत्तयो व्यापाराः सूक्ष्मप्राणवाहात्मकचारप्रभेदहेतुकाः || अत एव ---- चारवृत्तिप्रभेदेन संज्ञाभेदो वरानने || ७-१२ || भवति || १२ || अतश्च संज्ञाभेदात् ---- नाडीनां चैव वायूनां भेदो ज्ञेयः सहस्रशः | सार्धत्रिकोटिपर्यन्त इत्यर्थः || तत्र ---- प्रधाना दश याः प्रोक्ता नाडयश्च वरानने || ७-१३ || तासां मध्ये तु देवेशि वायवो ये व्यवस्थिताः | मध्ये इत्यन्तः || १३ || तेषाम् ---- नाडीनां चैव वायूनां संज्ञावृत्तीनीबोध मे || ७-१४ || वृत्तीर्व्यापारान् || १४ || तत्र तावत्संज्ञा आह ---- इडा च पिङ्गला चैव सुषुम्ना च तृतीयका | गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी || ७-१५ || अलम्बुसा कुहूश्चैव शंखिनी दशमी स्मृता | आसां व्यापारमाह ---- एताः प्राणवहाः प्रोक्ताः प्रधाना दश नाडयः || ७-१६ || प्राणं प्राणनारूपं सामान्यं वक्ष्यमाणप्राणापानादिसंज्ञाभेदाद् दशविधं यथाक्रमं वहन्ति || १६ || वायूनां संज्ञाभेदमाह ---- प्राणोऽपानः समानश्च उदानो व्यान एव च | नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः || ७-१७ || एषां वृत्तिभेदम् ---- ऽऽजल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः | शिल्पं च सर्वकर्माणि प्राणस्येदं विचेष्टितम् ||ऽऽ (७-३०६) इत्यादिना पटलान्ते वितत्य वक्ष्यति || १७ || एते च ---- वायवो नाडयश्चैव चक्रवत् संस्थिताः प्रिये | नाभिमध्यं परिवृत्येत्यर्थः || तासु सञ्चरतः सिद्धिं योगं चैव वरानने || ७-१८ || सञ्चरतीति सञ्चरन् तं वायुमधिष्ठाय, तत्तदुचितां सिद्धिं चित्तैकाग्र्येण योगं च प्राप्नुयात् || जपतश्च वरारोहे जपसिद्धिमवाप्नुयात् | तासु सञ्चरतः इत्यनुवर्तते | जपाज्जपतः || आसामपि ---- दशानां तु परं देवि नाडीत्रयमुदाहृतम् || ७-१९ || बिन्दुनादात्मके द्वे वै मध्ये शक्त्यात्मिका स्मृता | बिन्दुर्ज्ञानशक्तिप्रधानः प्राणस्तदात्मिका पिङ्गला दक्षनाडी | नादः क्रियाशक्तिप्रधानोऽपानस्तदात्मिका इडा वामनाडी | तयोर्मध्ये सुषुम्नाख्या परेच्छाशक्तिस्फुरत्तारूपा || १९ || तिस्र एताः ---- हृच्चक्रे तु समाख्याताः साधकानां हितावहाः || ७-२० || हृत्पद्ममध्यकणीकायां सम्यगनुप्रवेशेन आ समन्तात् ख्याताः सत्यः साधकानां त्रिविधसिद्धिप्रदाः || २० || एवं स्थिते ---- प्राणो वै चरते तासु अहोरात्रविभागतः | प्राणः प्राणनात्मा सामान्यरूपः | अहोरात्रशब्दः पक्षमासाब्दोपलक्षकः || यथा ---- तथा ते कथयिष्यामि प्रविभज्य यथास्फुटम् || ७-२१ || अत्र पीठिकाबन्धं तावत् करोति ---- प्रभुशक्तिसमाकृष्टा मरुत्प्राणात्मसंस्थिताः | त्रय एतेऽविभागेन सञ्चरन्ते समन्ततः || ७-२२ || मरुत् प्राणनात्मा सामान्यः, प्राणस्तु दक्षवाममध्यादिवाही प्राणापानोदानाद्याख्याविशिष्टः, आत्मा संकुचितचिदात्मा | तद्रूपतया संस्थितास्त्रय एते पदार्थाः, प्रभोः शिवस्य, शक्त्या समाकृष्टा इति शून्यपदावभासपुरःसरं प्राणनाभूमिमुल्लास्य प्राणापानादिविशेषपदवीमुट्टङ्क्य भोगसांमुख्येन प्रवतीताः, अविभागेन सञ्चरन्ते नानादेहभूमीः श्रयन्ति || २२ || त्रिष्वेषु मध्ये यो मरुदुक्तः, सः ---- अध ऊर्ध्वं वहेद्यस्मात् सर्वनाडीः प्रवाहयन् | ततोऽस्य ---- वृत्तिसंज्ञाप्रभेदेन वर्णरूपाण्यनेकधा || ७-२३ || वृत्तिर्बहिर्वहनान्तर्वहनादिव्यापारस्ततो यः प्राणापानसमानादिसंज्ञाभेदस्तेन, द्वादशषोडशादिस्वरभेदभिन्नास्तद्गर्भीकृतव्यञ्जनात्मानश्च वर्णाः, तत्तदनुभवात्मकानि च रूपाणि, अनेकधा भवन्ति | अत्र चागमान्तरोक्त्या गर्भीकृतव्यञ्जनः स्वरोदयरूपः पञ्चाशद्वर्णोदयात्मा अष्टवर्गोदयस्वरूपो वा वर्णोदयोऽस्ति | स त्विह नोक्तः केवलं वर्णशब्देन सूचितः || २३ || तदत्र ---- द्वासप्ततिसहस्रेभ्यो जायन्ते दश वै प्रिये | ये दश प्राणादयस्ते द्वासप्ततिसहस्रेभ्यो द्वासप्ततिसहस्रनिमित्तं जायन्ते, तत्प्रपञ्चव्याप्तिं श्रयन्तीत्यर्थः || ततोऽपि प्रागुक्ताध्युष्टकोट्यात्मतां प्राणः श्रयतीत्याह ---- कोटिधातो वरारोहे स एकः संव्यवस्थितः || ७-२४ || स च ---- प्राणापानमयः प्राणो विसर्गापूरणं प्रति | ऽऽहकारस्तु स्मृतः प्राणःऽऽ (४ | २५७) इति यः पूर्वमेवाशेषवाच्यवाचकाविभागविमर्शमयो हलाकृतिः प्राण उक्तः, स एव स्वातन्त्र्यावभासितसङ्कोचावभासपुरःसरं निर्णीतावरोहक्रमेण प्रकृतं रूपं यस्य प्राणनरूपस्य सामान्यप्राणस्यः, स विसर्गापूरणं प्रतीति सर्वैरेव सुषिरमार्गाद् बहिस्तत्तद्भावावभाससृष्टिरूपविसर्गार्थं तदवभासपुरःसरं प्रवेशयुक्त्या तदाहरणेनान्तरापूरणार्थं प्रकर्षेण अननाद् ध्वननादर्थजिघृक्षाग्रहणविश्रान्तिदशोचिताद्विमर्शात् प्राण इत्यर्थः || एतदेव स्फुटयति ---- नित्यमापूरयन्नेव प्राणिनामुरसि स्थितः || ७-२५ || प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकीतीतः | सर्वदेहगतोऽप्ययं प्राणिनामुरसि स्फुटमुपलभ्यमानत्वेनावस्थितो नित्यमापूरयन्, अर्थात् प्राणिनोऽर्थांश्च प्रवेशनिर्गमाभ्यां प्राणनं विमर्शमयं जीवनं कुरुते, तस्मादयं प्राण उक्तः || २५ || यदर्थमियान् पीठिकाबन्धः कृतस्तदेवानुबध्नन्नाह ---- अहोरात्रगतिं प्राणे अधुना कथयमि ते || ७-२६ || गतिं ज्ञप्तिं प्रसरणं च || तत्र ---- तुटयः षोडश प्राणे पूर्वं हि कथिता मया | बाह्येनैव तु कालेन ते लवाः परिकीतीताः || ७-२७ || याः पूर्वं चतुर्थपटले सपादद्व्यङ्गुलोदयपरिमाणाः षोडश तुटय उक्ता ताः ---- ऽऽमानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः | क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः ||ऽऽ (११-२०१) इत्येकादशपटलवक्ष्यमाणेन बाह्येन कालेन ते लवा लवशब्दाख्याः कालावयवाः | एवं च प्राणीया तुटिर्बाह्यतुटिश्चान्यैव, न तु शब्दसाम्यादत्र भ्रमितव्यम् | प्राणीया तुटिर्बाह्यो लवः, बाह्या तुटिः प्राणीयं तुट्यर्धं पर्यवस्यति | इत्थं च बाह्यः क्षणः प्राणीयतुटेस्तुर्योंऽशः, इति मन्तव्यम् | अनेनैव च क्रमेण आन्तरप्राणापानोदयरूपो यः सन्ध्याकालं विना त्रिंशत्तुटिकोऽहोरात्रः, स एव ---- ऽऽलवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् | दश पञ्च निमेषास्तु काष्ठा चैव प्रकीतीता ||ऽऽ (११-२०२) इत्येकादशपटलव्यवस्थयैव काष्ठाभिधानः कालावयवः | यदिहैवाग्रे वक्ष्यति ---- ऽऽआध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयतेऽऽ (७-५०) इति || २७ || इह तु ---- ताभिश्चतसृभिर्देवि प्राणे यामो विधीयते | ताभिरिति तुटिभिः, बहिर्वदन्तरपि दिनचतुर्भागो यामः प्रहरः || तैरेव प्रहरैर्देवि चतुभीस्तु दिनं भवेत् || ७-२८ || एवं निर्गमक्रमवत् प्रवेशक्रमेणापि तथैव-- रात्रिश्चतुभीवीज्ञेया.............. तदित्थं सङ्कलयय ---- .............ऽहोरात्रस्त्वतोऽष्टभिः | पारमेशशक्तिनियमितसूर्योदयादिस्थित्या यथा बहिदीननिशाविभागः, तथान्तरपि प्राणसूर्योदयादिस्थित्या योगिनः प्रतिदिनादिसाध्यकार्यविवक्षया, इत्युक्तप्रायम् || यथास्य प्राणस्य बहिरन्तर्वाहितानैयत्यम्, तथोपपादयति ---- शिवो धर्मेण हंसस्तु सूर्यो हंसः प्रभान्वितः || ७-२९ || आत्मा वै हंस इत्युक्तः प्राणो हंससमन्वितः | यः पूर्वं चिदानन्दघनः शिव उक्तः, स धर्मेण स्वातन्त्र्यात्मना स्वभावेन, हंस इति हानसमादानधर्मा विश्वसर्गसंहारकारी, शिवत्वादेव पञ्चविधं कृत्यं हानसमादानसतत्त्वं करोति | यथा चासौ, तथा तदीयज्ञानशक्तिमयः सूर्योऽपि, प्रभया प्रकाशेन, अन्वितः सन् रसविसर्गादानक्रमेण हानसमादानधर्मा हंसः | यतश्च निर्णीतनीत्या शिव एव स्वातन्त्र्यावभासितसंकुचितचिद्रूप आत्मा, ततः सोऽपि करणोन्मीलननिमीलनादिक्रमेण हानसमादानधर्मा हंस इत्युक्त इति | ऽऽअनेनैव तु योगेन हंसः पुरुषऽऽ (४-२६०) इत्यत्र योजनिकाग्रन्थे इत्थं स एव प्राणः प्राणभूमिकामाश्रितोऽपि बहिरन्तश्च हानसमादाने कुर्वन् हंस एव | यतः स एवायं सूर्य आत्मा प्राणश्च हंसेन अनाहतात्मकनिष्कलभट्टारकेण शिवरूपेण सम्यगन्वितः | स एव ह्यवरोहक्रमेण प्राणान्तं पदमाश्रित्य बहिरन्तर्गमागमौ कुर्वन् सर्गसंहारकृत् | अत एवैतत्पदपरिशीलनाभ्यासेनैव झगिति परमशिवतामाविशन्ति महायोगिनः | प्रसङ्गादत्र रहस्यार्थः कटाक्षितः || २९ || प्रकृतं तु ---- तस्योदयात् कलेत् कालः......... तस्य प्राणस्य, उदयात् प्रभृति जन्मादिविकारषट्कक्रमेण, कालो भूतवर्तमानादिभेदेन वहन् विश्वं जगत् कलयति | कलेत् इत्यैशः पाठः || अत्र चोक्ताहोरात्ररूपे प्राणचारे ---- ...............ग्रहाणामुदयो भवेत् || ७-३० || स चादूर एव व्यक्तीभविष्यति || किं च ---- ऋक्षाणि राशयश्चैव तारास्त्वंशास्तथैव च | प्राणे वै उदयन्त्येते अहोरात्रेण सुव्रते || ७-३१ || बाह्यदिनगतनक्षत्रानुसारं प्राथम्यं परिकल्प्य, प्राणापानवाहे सप्तविंशतिधा विभक्ते प्रमाणे, अश्विन्यादिनक्षत्राणां तदधिष्ठातॄणां मेषादिराशीनामनुकूलाननुकूलजन्मादिताराणां त्रिभागनवभागादिकलनया च राश्यंशानां बाह्य इव प्राणीयेऽप्यहोरात्रोदयोऽस्ति || ३१ || अथ ---- अहोरात्रोदयस्यैव विभागं कथयामि ते | हृदयोर्ध्वे तु कण्ठाधो यावद्वै प्रवहेत् प्रिये || ७-३२ || अङ्गुलेन विहीने तु प्रथमः प्रहरः स्मृतः | ऽऽतुटिभिश्चतसृभिर्यामःऽऽ इति यत् प्रागुक्तम्, तत्तुटिचतुष्टयवाहिकालापेक्षम् | इदं तु देशापेक्षमिति न पौनरुक्त्यम् | हृदयात् कण्ठान्तं पूर्वं दशांगुलमेकांगुलहान्या नवांगुलं भवति || ३२ || ततोऽपि ---- द्वितीय ऊर्ध्वे विज्ञेयो मध्याह्नस्तालुमध्यतः || ७-३३ || अत्रापि नवांगुलतैव, यो द्वितीयः स एव तालुमध्ये मध्याह्नः || ३३ || अत्र विश्रान्तस्यानुष्ठानफलमाह ---- अत्र होमो जपो ध्यानं कृतं वै मोक्षदं भवेत् | अथ ---- नासाग्र्यत्र्यंगुलोर्ध्वे तु यावत् प्राप्तस्तु सुव्रते || ७-३४ || प्रहरस्तु तृतीयोऽसौ भवेद् वै वरवणीनि | नासाग्र्यस्य भ्रूमध्यस्य, त्र्यंगुलमूर्ध्वं ललाटम्, आकण्ठं चतुरंगुलात्तालुनो भ्रूमध्यं द्व्यंगुलमिति तदूर्ध्वं त्र्यंगुलमुक्तम् || ३४ || तदुपरि ---- शक्त्यन्ते च चतुर्थस्तु प्रहरः....... शक्त्यन्ते द्वादशान्ते || एतावदन्तम् ---- ................ऽहः प्रकीतीतम् || ७-३५ || आन्तरम् || ३५ || तत्र च ---- चतुर्थान्ते तु देवेशि प्राणसूर्यः सदास्तगः | सदा इति यदा यदा चतुर्थप्रहरस्यान्तो भवति, तदा प्राण एव अहोरात्रविभागहेतुत्वात् सूर्योऽस्तमेति || किं च ---- ततोऽस्तमयसन्ध्यात्र तुट्यर्धं तु भवेत् प्रिये || ७-३६ || तत इति तं चतुर्थान्तमवलम्ब्य, प्राणनिविवृत्सापानोल्लिलसिषासामरस्यात्मतया गुणीभूतवाहत्वेनोन्मज्जच्छक्तितद्वत्प्रकाशावेशविश्रान्तिरूपार्ध- तुटिकला अस्तमयसंध्या || ३६ || अत्र च सन्ध्यायां प्राणसूर्यः ---- तत्कालं तु विलम्ब्यैवं पुनश्चाधः प्रवर्तते | तत्कालं तुट्यर्धम्, संघट्टपदे विश्रम्य, एवम् इत्यारोहक्रमेणैव, पुनश्च इति पुनःपुनः, अधः प्रवर्तते अपानचन्द्रीभूय हृदन्तमवरोहति || तदाह ---- स च चन्द्रोदयो देवि रजनी च विधीयते || ७-३७ || सूर्य एव प्रभासंक्रमणयुक्त्या चन्द्र इति कालज्ञाः || ३७ || रात्रावपि प्रहरक्रमः प्राग्वन्नवांगुलस्थित्या अपानचन्द्रसञ्चारक्रमेणेत्यतिदिशति ---- पूर्वोक्तक्रमयोगेन यामेष्वेवं चरत्यसौ | अत्र सन्ध्याविश्रान्त्यनन्तरं दिनचतुर्थप्रहरोदयस्थानान्तमाद्यः प्रहरः || ततः ---- तालुके चार्धरात्रस्तु पुनरेवं विधीयते || ७-३८ || पुनरेवम् इत्यवरोहक्रमेण नवांगुलस्थित्यैवेत्यर्थः | अत्र होमादि सिद्धिदमित्यर्थलब्धमेतत् | किं च ---- पुनरेवं विधीयत इति पुनरपि नवांगुलस्थित्या कण्ठाधोऽंगुलान्ते तृतीयो रात्रियाम इत्यर्थः || ३८ || ततोऽपि ---- हृत्पद्मं तु यदा प्राप्तः प्रभातसमयस्तदा | तत्रापि ---- तुट्यर्धं तु वरारोहे पूर्वसंध्या भवेत्ततः || ७-३९ || एतत् पूर्ववद् व्याख्येयम् | पूर्वत्वमत्र संध्यायास्तदनन्तरं प्राणसूर्योदयात्मकदिनप्रारम्भात् || यदाह ---- तस्मात् समुदयश्चैव सूर्यस्य स भवेत् पुनः | सूर्यः प्राणः || उदेत्य च ---- पूर्ववत् क्रमयोगेन च चरेद्धि सदा शुभे || ७-४० || शुभे इत्यामन्त्रणम् || ४० || अत्रैव ---- वासरे तु चरेत् सूर्यो धारायां सञ्चरेच्छशी | प्राण एव सूर्यः अपानस्तु चन्द्रः | अथ च सूर्य इन्द्रियवर्गो वासरे प्राणोदये चरति समुल्लस्य बाह्यं प्रकाशयति | धारायां निशायामपानोदये शशी मेयग्रामरूपः चरेत् प्रमाणप्रकाशमाविश्य प्रमात्रैकात्म्यमेति || तदित्थमहोरात्रमध्ये ---- चन्द्रसूर्योदयो ह्येष मया ते परिकीतीतः || ७-४१ || साधकानां सौम्येतरसिद्ध्यर्थमत्रैव मध्ये सूरोदयोक्तवद् ग्रहपञ्चकोदयक्रमं दर्शयति ---- भौमाद्याश्च ग्रहा ह्येवं चरन्ति प्रविभागशः | यथा सदा बहिरन्तश्च दिननिशयोः सूर्यसोमौ चरतः, तथा सदैव पञ्चधा पञ्चधा विभक्तयोस्तयोः भौमाद्याः सौरान्ताः पञ्च विभागक्रमेण चरन्ति, तेन च क्रूरसौम्यसिद्ध्यंगं भवन्ति || अथ बाह्यवेलावारानुसारमहनि निशायां चान्तरपि ग्रहसप्तकोदयं गारुडादिशास्त्रदृष्टन्यायेन दर्शयति ---- प्राणे चाप्युदयन्त्येते प्रहरे प्रहरे प्रिये || ७-४२ || वेला वारो भवेद्यस्य स चरेत् प्रहरद्वयम् | यस्य ग्रहस्य बहिर्वारः, स प्रथमे प्रहरे बहिरिव अन्तरप्युदेति | ततो दिने षट्परिवर्तनक्रमेण अर्धेऽर्धे प्रहरे तदन्ये, यावदन्त्ये तद्दिनार्धप्रहरे स एव | तदुत्तरेष्वसरेषु क्रमेण पञ्चपरिवृत्तिक्रमेणान्ये, यावदन्त्ये तन्निशार्धप्रहरे स एव | एवमेकैकस्य ग्रहस्य दिनेऽर्धप्रहरं रात्रावर्धप्रहरं चोदयः | वारभागिनस्तु द्विगुणमिति स्थितेऽहोरात्रमेलनया वारभागिनः प्रहरद्वयम्, तदन्येषां तु प्रहरमुदयो भवति | तदुक्तं श्रीतोतुले -- -- ऽऽप्रहरार्धभुजः सर्वेऽहोरात्रं च चरन्ति ते |ऽऽ इति | संहितासारेऽपि ---- ऽऽणिसिवासर दुपहरेणा आभुञ्जन्ति गहपराहणा | जस्स दिनं से वारो विणिवत्तई राणिव अणा ते | कमपरिवत्तेण दिणरतिं भुञ्जन्ति बाणपरिवत्ते || इति || ४२ || अत्रैव मध्ये ---- राहुश्चरति सोमेन केतुश्चरति भास्वता || ७-४३ || अहेत्यर्थः | तेन तच्चार एव तयोश्चारः | न तु ग्रहान्तरवद् व्यतिरिक्तः || ४३ || किं च ---- ये ग्रहास्ते च वै नागा लोकपालाष्टकं च ते | मूर्तयश्चैव ते चाष्टावष्टौ ते च गणेश्वराः || ७-४४ || ते च पञ्चाष्टका रुद्रास्तथा योगाष्टकाः परे | अनन्तादिशिखण्ड्यन्तास्ते च विद्येश्वराष्टकाः || ७-४५ || सकलाद्यानि तत्त्वानि स्थितानि परतस्त्विह | पूर्वोक्ता भैरवाश्चाष्टौ सर्वे ते च व्यवस्थिताः || ७-४६ || ग्रहा आदित्यादयः सौरान्ता यथाक्रममनन्तवासुकितक्षककार्कोट- पद्ममहापद्मशंखपालनागाः, राहुस्तु कुलिकः | तदुक्तम् ---- ऽऽइनस्त्वनन्त इत्युक्तः सोमो वासुकिरुच्यते | तक्षकः कुज इत्युक्तः कार्कोटः सोमजो भवेत् || सरोजो गुरुराख्यातो महाब्जः शुक्र उच्यते | शंखो मन्दगतिर्ज्ञेयः सप्त नागा ग्रहाः क्रमात् || अष्टमः कुलिको नाम राहुः क्रूरग्रहो भवेत् |ऽऽ इति | यश्च श्रीतोतुले ---- ऽऽरवेः षोडश मध्यात्तु चतुरोऽन्ताच्च भार्गवात् | चषकौ द्वौ बुधस्यादौं सोमस्याष्टौ तु मध्यतः || सौरस्यान्ताच्चतुः षष्टिं मध्यतश्चषक गुरोः | द्वात्रिंशतं कुजस्यान्ताद् भुङ्क्ते षट्परिवर्ततः ||ऽऽ इति चषकसंख्यया कुलिककाल उक्तः, सोऽत्रात्यन्तसूक्ष्मे प्राणचारे दुर्लक्ष्य एवेत्यविचार्य एव | एवं पुभोगाय दिनार्धप्रहरानधितिष्ठतां ग्रहाणां नागैरधिष्ठितत्वम्, नागानां तूक्तक्रमस्थितिभिर्लोकपालैरिन्द्रादिभिः | इन्द्राद्या मूतीभिरिति क्षित्यादिमूर्त्यधिष्ठातृशर्वरुद्रभवादिभिर्मूतीश्वरैः, ते च चण्डनन्द्यादिभिः प्रागुक्तैर्गणेशैः, तेऽपि गुह्यातिगुह्यपवित्र स्थाण्वाद्यैः पञ्चभिरष्टकैः क्रमात् क्रममधिष्ठिताः | तेऽप्यकृतादिना योगाष्टकेन व्याप्ताः | योगाष्टकादपि परे ये प्रकृतिस्थाः क्रोधाद्या, मायास्था मण्डलिप्रभृतयस्तैर्व्याप्ताः, तेऽपि विद्यातत्त्वगतैरनन्तादिभिः, विद्येश्वरा अपि सकलाद्यैरिति सदाशिवपरिवारभूतैः शकलो निष्कलः शून्यः कलाढ्य..... |ऽऽ (१०-११९४) इति वक्ष्यमाणैरष्टभिः, यद्वा सकलः सदाशिव आद्यो येषामूर्ध्ववतीबिन्द्वीशब्रह्माव्यापिव्योमानन्तानाथानाश्रितानाम्, तैस्तत्त्वैरित्यभेदभूमिस्पर्शात् पारमाथीकैर्देवैः | तेऽप्यौन्मनसपदव्याप्त्यवस्थितश्रीस्वच्छन्दनाथपरिवारत्वात् तदधिष्ठितैः कपालीशादिभिर्भैरवैरधिष्ठिताः | तदाह ---- सर्व एवैते तेषु प्राणीयाहोरात्रार्धप्रहरेषु व्यवस्थिताः | अत्र चाद्यार्धप्रहरक्रमेणैव इन्द्रादीनां दिने रात्रौ च द्वितुटिक उदयः, न तु षट्परिवृत्त्याद्यवस्थितग्रहस्थित्या, ग्रहाणां सप्तानामष्टकैः सह सङ्गत्ययोगात् | व्यवस्थितिश्चैषामभेदव्याप्तिः, अत एवात्र सामानाधिकरण्येनोक्तिः कृता | एवं च परभैरवस्फारमयत्वमेव प्राणे पर्यवसितम् | अतो यदस्माभिः प्राणभूमिकायामहोरात्रक्रमेण व्याप्तिप्रदर्शनं पूर्वं कृतम्, तदुत्सूत्रं न मन्तव्यम् | इत्थं च सर्वमिदं परमेश्वराद्वयमेवेत्यत्र ज्ञानादेव ज्ञानिनां जीवन्मुक्तिः करतलगतेव, साधकानां तु तत्तद्भुवनेश्वरादिव्याप्ततत्पदानुसारेणापि महाव्याप्त्यनुसन्धानाविघ्नेनैव तत्तत्सिद्ध्युदयो भवति, इति प्रतिपादितं भवति || ४६ || तदुक्तमेवार्थमनुबध्नाति ---- ग्रहादीन् समधिष्ठाय सर्वेषूदयकारकाः | सर्वे एवैते लोकपालाद्या भैरवान्ताः, सर्वेषु दिनरात्रिप्रहरेषु उदयं कुर्वन्ति | कथम् ? ग्रहादीनिति तत्तदर्धप्रहरेषु पर्यायेण प्राप्तवारान् सूर्यादिग्रहान्, आदिशब्दादनन्तादिनागांश्च सम्यगभेदेनाधिष्ठाय || किं च ---- राशिभिः सह नक्षत्रैस्त उद्यन्ति अहनीशम् || ७-४७ || हृदयात् प्रभृति द्वादशान्तं यावत् प्रत्यंगुलषट्कं राशिः, इति स्थित्या मकरादयो मिथुनान्ताः षड्राशयः, तदधिष्ठितानि च नक्षत्राणि तदनुसारेणैव प्रत्यंशमपि तत्र उद्यन्ति, तथैव च द्वादशान्ताद्धृदयं यावत् कर्कटाद्या धन्व्यन्ताः || ४७ || अत्रैवाभिजिदुदयमाह ---- मध्याह्ने चार्धरात्रे च उदयोऽभिजितो भवेत् | तालुनीत्यर्थः | अभिजयति सर्वान् विघ्नान् इत्यभिजिद् नक्षत्रविशेषः || अतश्च ---- अभीप्सितं फलं तत्र साधकानां भवेदिह || ७-४८ || इह इति पारमेश्वरेषु शास्त्रेषु, उक्तं यद् भोगमोक्षाख्यं फलं साधकानामिष्टम्, तत्तु माध्याह्ने आर्धरात्रिकेऽभिजिन्नक्षत्रे भवत्येव || ४८ || एतदुपसंहरन्नन्यदवतारयति ---- अहोरात्रविभागोऽयमेवं ते कथितो मया | अधुना पक्षमासांश्च वर्षाणि कथयामि ते || ७-४९ || तत्र निर्णीताभ्यन्तराहोरात्रं बाह्ये काले नियोजयति ---- आध्यात्मिकाहोरात्रेण बाह्ये काष्ठा विधीयते | अत्र काष्ठा न घटिका, अपि तु दशपञ्चनिमेषात्मा कालावयवविशेष इति दशीतमेव || किं च ---- मासेनाध्यात्मिकेनैव बाह्ये चैव कला भवेत् || ७-५० || तत्र त्रिंशदहोरात्रा मासस्तु वरवणीनि | आध्यात्मिको मासः, ते प्राणचारात्मानस्त्रिंशदहोरात्रा बाह्यास्त्रिंशत्काष्ठाः, तेन ईदृशेनान्तरेण मासेन बाह्यकलाख्य एव कालो भवति | वक्ष्यति चैकादशे ---- ऽऽत्रिंशत्काष्ठाः कला ज्ञेयाऽऽ (११-२०३) इति | ऽऽएवऽऽशब्दः कलाशब्दानन्तरं योज्यः | वरं वर्णयति सर्वोत्कृष्टं परं तत्त्वं परामृशतीति वरवणीनी || किञ्चाध्यात्मिकैः ---- मासैर्द्वा दशभिश्चैव बाह्येऽथ घटिका भवेत् || ७-५१ || तदेव स्फुटयति ---- शतानि त्रीण्यहोरात्राः षष्टिरेव तथाधिकाः | वर्षमेतत् समाख्यातं बाह्ये वै घटिका च सा || ७-५२ || सषष्टित्रिशतप्राणापानचारा बाह्या घटिका | ऽऽयतोऽसौ षष्टिश्चषकाणिऽऽ चषकं च षट् प्राणापानचाराः || ५२ || एवमुक्तरूपाध्यात्मिकवर्षकलिताः ---- घटिकाः षष्टिस्त्वहोरात्रे वाह्ये तु प्रवहन्ति वै | ता एवान्तरचारेण षष्टिः संवत्सराः स्मृताः || ७-५३ || बाह्यघटिका आन्तरं वर्षमिति विभक्तमेव | अतस्ताः षष्टिस्तावन्त्येवान्तराणि वर्षाणि सूक्ष्मकालगत्या | अत एवैकत्र प्राणचारे षष्ट्यब्दोदय इति परा कालस्थितिरग्रे स्फुटीभविष्यति || ५३ || अथ षष्टिघटिकात्मसु वर्षेषु ---- प्राणसंख्या पुनस्तेषु कथयाम्यधुना तव | षट् शतानि वरारोहे सहस्राण्येकविंशतिः || ७-५४ || अहोरात्रेण बाह्येन अध्यात्मं तु सुराधिपे | घटिकायां सषष्टिस्त्रिशती प्राणचाराणाम्, इति गणनया षष्टिघटिकासंख्ये बाह्येऽहोरात्रेऽध्यात्मे आत्मनि तदाश्रयेण प्राणचाराणामेषैव संख्या भवति || एवमीदृशी ---- प्राणसंख्या समाख्याता ज्ञातव्या साधकेन तु || ७-५५ || एवं प्रोक्तवक्ष्यमाणव्याप्तिसतत्त्वेन ---- प्राणहंसे सदा लीनः साधकः........ लीनो निभालनया विश्रान्तः || तथा प्राणभूमिन्यग्भावेन शाक्तपदसमावेशादेवासौ ---- ........परतत्त्ववित् | भवति || तदा च ---- तस्यायं जप उद्दिष्टः सिद्धिमुक्तिफलप्रदः || ७-५६ || इह प्राणो निर्णीतविश्वमन्त्रवीर्यभूतहंसाश्रयत्वाद्धंस इति | तत्र यो लीनः, स प्राणसंख्ययैव सदैतावज्जपयुक्तो भवति | यथोक्तं श्रीविज्ञानभैरवे ---- ऽऽषट् शतानि दिवारात्रं सहस्राण्येकविंशतिः | जपो देव्याः समुद्दिष्टः प्राणस्यान्ते सुदुर्लभः१ ||ऽऽ (श्लो० १५६) इति || ५६ || सिद्धिमुक्तिद इति यदुक्तम्, तद्विभजति ---- अधः प्रवहणे सिद्धिर्हृत्पद्मं यावदागतः | मुक्तिश्चैव भवेदूर्ध्वे परतत्त्वे तु सुव्रते || ७-५७ || एतच्च ---- ऽऽयदा करोति सृष्टिं चऽऽ (६-१५) इत्यादौ वितत्य निर्णीतम् || ५७ || तदेवमुक्तव्याप्तिज्ञानपूर्वं प्राणहंसे लीनतया परतत्त्वविदो योगिनः सर्व एव कालस्तत्प्ररोहप्रकर्षात्तादृगनुभवमय एव भवतीत्याह ---- मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् | यथा प्रवर्तते प्राणस्त्वयत्नादेव सर्वदा || ७-५८ || तथेति मध्येऽध्याहार्यम् | तेन यद्यप्यन्तःकृतयो बहिष्कृतयः स्वधिये प्रसृताः, तथापि परतत्त्वविश्रान्तिपरत्वेन प्राणव्याप्तिज्ञस्य तथा तेनैव परविश्रान्तिप्रदेन प्रकारेण प्राणो हंसात्मा मध्यमः, अयत्नादेव स्वरसत एव, सर्वदा प्रवर्तते वहति || ५८ || एतदेवोपोद्बलयति ---- नास्योच्चारयिता कश्चित् प्रतिहन्ता न विद्यते | स्वयमुच्चरते हंसः प्राणिनामुरसि स्थितः || ७-५९ || हंसः प्राग्व्यावणीतसतत्त्वपरनिष्कलभट्टारकः, तदधिष्ठितत्वान्मध्यमः प्राणोऽपि निर्णीतव्याप्तिसारः | स्वयमुच्चरते अशेषं वाच्यवाचकक्रममुल्लङ्घ्य परमाभेदसारमहामन्त्रवीर्यात्मना स्फुरति | यतोऽस्य न कश्चिदुच्चारयिता प्रतिहन्ता वा अस्ति, अस्यैव सर्वकर्तृत्वेन परमातृरूपत्वात् | अत एव चायम् अनाहत इत्युद्धोष्यते, इतरवर्णवत् स्थानकरणाभिघातानभिव्यक्तत्वादनस्तमितत्वाच्च | स चायं प्राणिनामुरसि हृदये जीवितस्यापि जीवितभूतः स्थितः | केचिदेव त्ववधानधना एतत्सत्तामाविशन्ति || तदित्थं परतत्त्वावहितसाधकजपनिष्पत्त्यभिप्रायेण ---- मासवत्सरसंख्या तु एषा ते कथिता मया | आध्यात्मिकीति शेषः | त्रिंशत्प्राणचारा आध्यात्मिको मासः, षष्ट्यधिका तु त्रिशती वत्सरः, इति हि निर्णीतमेव || इदानीमत्रैव प्राणचारे ---- चन्द्रसूर्योपरागं तु कथयामि ततः परम् || ७-६० || साधकस्य भुक्तिमुक्तिफलप्रदमिति स्थितमेव || ६० || तत्रादौ ---- अहोरात्रस्तु यः प्रोक्तः प्राणेऽस्मिन् सुरसुन्दरि | स एव पक्षद्वितयं मासं च कथयामि ते || ७-६१ || अविभागेनेति शेषः | त्रिंशत्प्राणचाराः || ६१ || तत्र कृष्णपक्षं तावत् पक्षसंधिप्रदर्शनपूर्वं निरूपयति ---- तुट्यर्धं चाप्यधश्चोर्ध्वं विश्रमः परिकीतीतः | मध्ये पञ्चदशोक्ता यास्तिथयस्ताः प्रकीतीताः || ७-६२ || अध ऊर्ध्वं च यत्तुट्यर्धं पूर्वमहोरात्रोदये पूर्वापरसंध्यात्वेनोक्तम्, स एवेह विश्रमः पक्षसंधित्वेन कीतीतः | यास्तु मध्ये पञ्चदश तुटयः, ता एव प्रतिपदाद्यास्तिथयः || ६२ || अत्र च पक्षसंधितुट्यर्धमुत्सृज्य, प्रतितुट्यहोरात्रविभागमाह ---- प्रथमोदये तु हृत्पद्मात्तुट्यर्धं तु दिनं भवेत् | द्वितीये चैव तुट्यर्धे यदा चरति शर्वरी || ७-६३ || हृत्पद्मादित्युपलक्षणम् | तेनैकैकस्यास्तुटेः सार्धपादांगुलपरिमाणमाद्यमर्धं दिनं प्रकाशरूपम्, परं तु विश्रान्त्यात्मा रात्रिः | यत इयं भगवती संवित्प्रकाशान्दमयी, ततो यत्र यावन्तावनया वेद्यवेदकविश्रान्तिरूपौ प्रकाशानन्दावाभास्येते, तत्र तावद्रूपे एव दिननिशे | तथा च मशकादौ सदाशिवादौ चात्यल्पातिविततकालत्वं तयोर्युक्तमेव | एवं च प्रतितुट्यर्धं वक्ष्यमाणक्रमेण तदंशांशेष्वपि वा तावाभासमानौ दिननिशाभेदं समुचितं प्रमातारं प्रति भासयत एव | कदाचिच्च प्रकाशस्याधिक्यम् कदाचिच्च विश्रान्तेः, कदाचित्तयोः साम्यमिति कृत्वा दिननिशयोर्वैषम्यं च भवत्यन्तर्बहिश्च | ऽऽयदा चरतिऽऽ इति सूत्रांशादनन्तरं तदेत्यध्याहार्यम् || ६३ || अत्र च दिनरात्रिभेदे ---- राशयो ग्रहनक्षत्राण्युदयन्ति यथाक्रमम् | पारमेश्वर्या हि संविदा या यादृशी दिनादिव्यवस्था क्रियते, तां सर्वे ग्रहादयोऽनुवर्तन्ते || तदित्थम् ---- अस्मिन्नेवमहोरात्रे पूर्ववच्च वरानने || ७-६४ || तुटिभिः पञ्चदशभिः पक्षः स तु विधीयते | अस्मिन् इत्यान्तरे | एवम् इति तुट्यर्धार्धकलनया | पूर्ववद् इति सुसूक्ष्मया दृष्ट्या | पक्ष इति कृष्ण इत्यर्थात् || अथात्रैव पक्षे आमावस्यप्रातिपदतिथ्यंशमेलनप्रकटनेन सूर्यग्रहं निणीनीषुस्तिथिच्छेदवृद्धी दर्शयति ---- तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैव धनं भवेत् || ७-६५ || ऋणं चैव भवेत् कासो निःश्वासो धन (मु)१च्यते | ऋणं प्राणवाहस्य किञ्चिदल्पकालता कासवशाद्भवति | तथा सति झगिति धावनादामावस्योंऽशः प्रतिपत्स्थानं प्रसरति | एतच्च दर्शयिष्यमाणसूर्यग्रहणोपयोगि | निःश्वासवशात्तु किञ्चिच्चिरकालता अपानचन्द्रस्य धनम्, तथा सति पूर्णमास्युदयश्चन्द्रग्रहोपयोगी भवति || प्रकृतु (तस्य)२ तु ---- कृष्णपक्षोर्ध्वचारेण संहारः संक्षयो भवेत् || ७-६६ || कृष्णपक्षरूपेणोर्ध्वचारेण प्रकृतस्य प्राणस्य यः संहारः, स एव प्रवेशितपूर्वप्राणावस्थितमेयचन्द्रस्य प्रतितुट्येकैककलाक्रमेण अमावस्यान्तं पञ्चदशकलानां संक्षय इत्यर्थः | तदुक्तं श्रीकामिकायाम् ---- ऽऽअमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः | पिबन्ति च सुराः सर्वे दश पञ्च पराः कलाः || अमाशेषगुहान्तस्थामावस्या विश्वर्तार्पणी ||ऽऽ इति | द्विधेति कलापञ्चदशकभित्तिभूतातिस्वच्छरूपतया दृश्यमानसितपक्षपञ्चदशकलात्मना चेत्यर्थः || ६६ || यत ईदृक् कृष्णपक्षः, ततः ---- क्रूरकर्माणि वै तत्र कुर्वन् सिद्धिमवाप्नुयात् | शुभकर्माणि कृष्णे च न च सिद्ध्यन्ति सुव्रते || ७-६७ || चकारौ तुशब्दैवशब्दयोरर्थे | इह यदन्तस्तद्बहिरिति स्थित्या यद्यदान्तरे दिनरात्रितत्संध्यापक्षमासादिके फलमुक्तम्, तत्तद् बाह्येऽपि तत्र तथैवेति मन्तव्यम् || ६७ || अथान्तरीममावस्यां दर्शयति ---- शक्तिं वै विशति प्राणे या तुटिस्तु विधीयते | आमावस्या तु सा ज्ञेया कृष्णपक्षे वरानने || ७-६८ || शक्तिः ब्रह्मरन्ध्रस्थानम्, तुटिरिति प्रक्षीणचन्द्रा पञ्चदशी | अत एवामाख्यायां षोडश्यां तुटौ वसनात् तद्भित्त्यवलम्बनादमावस्या सा ज्ञेया || ६८ || अथ पूर्वमासूत्रितं पक्षसंधिं स्फुटयति ---- शक्तेर्मध्योर्ध्वभागे तु तुट्यर्धं यत्प्रकीतीतम् | पक्षसंधिस्त्वसौ ज्ञेयः......... ब्रह्मरन्ध्रादुत्थितायाः शक्तेर्मध्यं त्वक्स्थानं त्वक्शेषस्तु केशस्थानमूर्ध्वमेकमेव तुट्यर्धं यत्, स पक्षयोः कृष्णशुक्लयोः संधिः | यदेव हि प्राणस्यान्त्यं तुट्यर्धं तदेवापानस्याद्यं भवतीत्येतदुभयोस्तुट्यर्धात्मकं देशत एकमेव तत्तुट्यर्धद्वयवाहकालं संधिपदम् || अथात्र सूर्यग्रहणं दर्शयति ---- ...........ऽमावस्यार्धप्रतिपदा || ७-६९ || तिथिच्छेदेन वै तत्र सूर्यस्य ग्रहणं भवेत् | प्रागुक्तात् कासात् तिथिच्छेदेन यदा अमावस्येति तत्सम्बद्धः पक्षसंध्यार्धकालः स्वस्मिन् संध्यातुटिभागे प्रतिपत्कालेन सह भवति, तदा सूर्यग्रहणं भवति || यतः ---- रविबिम्बान्तरे देवि चन्द्रबिम्बं तदा भवेत् || ७-७० || तदन्तरे भवेद्राहुरमृताथीं वरानने | अमृतं स्रवते चन्द्रो राहुश्च ग्रसते तु तम् || ७-७१ || पीत्वा त्यजति तद्बिम्बं तदा मुक्तः स उच्यते | तदेति प्रतिपदोऽमावस्याभागसंघट्टे, रविबिम्बान्तरे प्राणमध्ये, चन्द्रबिम्बम् अपानः, प्रविशेत् | पूर्वोक्तनीत्या च चन्द्रसहचारी राहुः सूर्यसंस्पर्शविलीनं चान्द्रममृतं पीत्वा कंचित्कालमास्वाद्य अपानरूपं चन्द्रबिम्बं स्वसम्बन्धाद् मुञ्चति | इदमत्र सतत्त्वम् ---- प्राणार्कमानहठघट्टितमेयचन्द्र विद्रावितामृतरसोत्सुकितः खमाता | स्वर्भानुरावृणुत एव रविं रसं तु पुण्ये ग्रहेऽत्र रसयेत् त्रयघट्टनज्ञः || एवमन्तरिव बहिरप्यनयैव युक्त्या भवेत् || आदित्यग्रहणं चैव लोके तदुपदिश्यते || ७-७२ || ततो ज्योतिःशास्त्रोक्तप्रक्रियया ---- राहुरादित्यचन्द्रौ च त्रय एते ग्रहा यदा | दृश्यन्ते समवायेन तन्महाग्रहणं भवेत् || ७-७३ || महत्त्वमेव व्यनक्ति ---- स कालः सर्वलोकानां महापुण्यतमो भवेत् | तथा च ---- तत्र स्नानं तदा दानं पूजाहोमजपादिकम् || ७-७४ || यत्कृतं साधकैर्देवि तदनन्तफलं भवेत् | अनन्तम् अपरिच्छिन्नं मोक्षाख्यं फलं यस्य | यद्वक्ष्यति ---- ऽऽमोक्षश्चैव पुनर्भद्रेऽऽ (७-८६) इत्यादि || एवं कृष्णपक्षं सूर्यग्रहणं च प्रदर्श्य, शुक्लपक्षं चन्द्रग्रहणं च क्रमादादिशति देवः ---- तां चैवार्धतुटिं त्यक्त्वा शुक्लपक्षोदयो भवेत् || ७-७५ || ताम् इति यत्र सूर्यग्रहणं दशीतम्, शुक्लपक्षः अपानचन्द्रोदयरूपः || ७५ || तदाह ---- शक्तिगर्भादधः सृष्टिस्तस्माद् वृद्धिः प्रजायते | शक्तेर्गर्भः कुण्डलाकारता, सा हि शिम्बिकारूपतया स्वान्तरशेषं विश्वमासूत्र्य, अध इति हृदयपर्यन्तं तदेव सृजति | अत एव वृद्धिः क्रमात्क्रममपानचन्द्रपरिपुष्टिरूपा तथा वृद्धिनीःश्वासात्मकधनरूपा जायते | अत्र कासक्रमेण तिथिच्छेदस्याभावात् || यत एवम्, अतः ---- तदारभ्य च कर्माणि शुभान्यभ्युदयानि च || ७-७६ || ध्यानमन्त्रादियुक्तस्य सिद्ध्यन्ते नात्र संशयः | तदारभ्य इति शक्तिगर्भस्वरूपमवष्टभ्य, शुभानि आप्यायनादीनि कर्माणि, अभ्युदयानि च तत्फलानि च || अत्र शुक्लपक्षे दिननिशाविभागं प्रदर्शयति ---- प्राणहंसो यदा प्राप्तस्त्वधस्तां प्रथमां तुटिम् || ७-७७ || पूर्वमर्धं त्वहः प्रोक्तं तुट्यर्धमपरं निशा | प्राणहंस इति प्राग्वत् | अध इति संधितुट्यर्धात् प्रथमां तुटिं शुक्लपक्षप्रतिपद्रूपाम् | ऽऽयऽऽदाशब्दश्रवणात् तदेत्यध्याहार्यम् | अहनीशाप्रविभागः प्राग्वदेव | एवं द्वितीयादितिथिष्वपि मन्तव्यम् || किं चात्र ---- राशयो ग्रह ऋक्षाणि योगाश्च करणानि च || ७-७८ || पूर्ववत् क्रमयोगेन तान्युद्यन्ति त्वहनीशम् | गतार्थमेतत् || या चेयं प्रथमा तुटिः ---- प्रतिपत् सा तु विज्ञेया............ अत्र ---- .............चन्द्रश्चैककलो भवेत् || ७-७९ || किं च ---- द्वितीयायां द्वितीया तु वृद्धिमेति क्रमेण तु | द्वितीयायाम् इति तुटौ | द्वितीया इति कला || एता एव तुटयः ---- तिथयश्चैवमारभ्य यावत्पञ्चदशी तुटिः || ७-८० || भवति || ८० || सा च पञ्चदशी ---- पौर्णमासी तु विज्ञेया तिथिर्वै साधकेन तु | माः चन्द्रः पूर्णोऽस्यामिति कृत्वा, अत एवैहिकसिद्धिं साधयति | तेनैषा साधकैरुक्तवक्ष्यमाणव्याप्तिसारतया ज्ञातव्या || अतश्च ---- तत्र पूजा जपो ध्यानं सम्पूर्णं सफलं भवेत् || ७-८१ || एहिकफलमित्यर्थात् || ८१ || यतः ---- सम्पूर्णश्च भवेत्तस्यां चन्द्रो वै चारुलोचने | चो ह्यर्थे | चन्द्रः अपानः || अथ ---- तस्याश्चार्धतुटिर्या तु पक्षसंध्या तु सा स्मृता || ७-८२ || प्राग्वदेव | तस्या इत्यवधौ पञ्चमी || कृष्णपक्षसंध्याशब्दवाच्यस्य पक्षसन्धे पूर्ववदेव ---- तस्यार्धं पौर्णमासी तु प्रतिपदर्धेन संस्थिता | प्रतिपदः सम्बन्धिना अर्धेनेति तृतीया सहार्थे || इत्थं च प्रागुक्तव्याप्त्यैव ---- हृत्पद्मसंधिमध्ये तु सोमस्य ग्रहणं भवेत् || ७-८३ || संधिमध्यं प्राणापानसंधिस्थानम् | इदमत्र तत्त्वम् ---- ऽऽशक्तिसंस्नुतसुधारसक्रमात् पूर्णमिन्दुमणुराहुराहरन् | छादयेदिह शुभे महाग्रहे द्रावितं पिबति तं महामुनिः ||ऽऽ इति | तदेतद् अन्तरिव बहिरपि || ८३ || आदित्येन विना लोके सोमग्रहणमुच्यते | प्रतिपत्सङ्गात् दूरस्थार्कस्पृष्टेऽपीन्दौ रात्रावर्काभावात्, सूर्यग्रहणे तु पार्वणेन्दुकलयार्कः संस्पृश्यत एव || किं च ---- तत्रैव च महत्पुण्यं ध्यानहोमजपादिभिः || ७-८४ || यथोर्ध्वपदे आदित्यग्रहणं मोक्षप्रदतया महापुण्यम्, तथा तत्रैव इति मध्यमधामप्रवेशक्रमलब्धे हृदये, चन्द्रग्रहणमैहिकोत्तमसिद्धिप्रदतया महापुण्यम् || ८४ || न च केवलं मध्यधामनि चन्द्रसूर्ययोर्ग्रहणम्, यावत् ---- पक्षद्वयेऽपि देवेशि ग्रहणं चन्द्रसूर्ययोः | नानासिद्धिप्रदं ह्येतत् साधकस्याभियोगिनः || ७-८५ || पक्षद्वये दक्षे वामे च, मध्यवदेव ग्रहणद्वयम् | नाना इति क्रूरसौम्यसिद्धिप्रदम् | अभियोगिन उद्युक्तस्य || ८५ || मुमुक्षोस्तु ---- मोक्षश्चैव पुनर्भद्रे पक्षद्वयसमुज्झितः | चशब्द एवशब्देन सह नियतविषयतया तत्त्वेश्वरपदव्याप्त्यादिरूपमुत्तमं भोगं समुच्चिनोति | तेन पक्षद्वयोज्झितो मध्यमार्गश्च यो मोक्षः, तदूर्ध्वे सूर्यग्रहणे मोक्ष एव, हृदि तु चन्द्रग्रहणे भोगो मोक्षश्च || अतश्च यो मोक्षार्थी ---- पक्षद्वयं परित्यज्य पूर्वोक्तकरणेन तु || ७-८६ || उनमन्यन्ते स्थितो नित्यं परवृत्त्यवलम्बकः | परित्यज्य त्वधः सर्वं ध्यानमास्थाय योजयेत् || ७-८७ || तस्य मुक्तिर्न संदेहस्त्वन्यथा सिद्धिभाग्भवेत् | पूर्वोक्तं करणं दिव्यम् | परा वृत्तिरुक्ता लक्ष्यते च | अधस्तनं सर्वमुन्मनान्तं परित्यज्य तत्समरसीकृत्य | ध्यानं परतत्त्वविमर्शः | अन्यथा इति दक्षवामपथोर्ध्वस्थितः || ८६-८७ || मध्यपथग्रहणं चैतद् दुर्लभम्, इतरत्तु सुलभमेव इत्याह ---- पक्षद्वयेऽपि ग्रहणं भवेद्वै सर्वदेहिनाम् || ७-८८ || देहिनाम् इत्यनेन मितयोगिनामत्यन्तं देहप्रमात्रभिमानत्वमिति दर्शयति || ८८ || उपसंहरति ---- एवमेतत् समाख्यातं यावदायुर्वरानने | एतद् इति सावधानसञ्चेत्य ग्रहणम् | अत्रैवाध्यात्माहोरात्रे त्वथाब्दोदय उच्यते || ७-८९ || तमाह ---- हृत्पद्मादूर्ध्वपर्यन्तं राशयः षड् व्यवस्थिताः | राशयो मकराद्याः || षट्त्रिंशदङ्गुले चारेऽत्र ---- अङ्गुलैः षड्भिरेकैको हृत्पद्माद्याव शक्तितः || ७-९० || एकैक इति राशिः || इत्थमस्मिन् षट्त्रिंशदङ्गुले षण्मासोदये ---- अङ्गुले अङ्गुले (ह्यत्र) तिथयः पञ्च संस्थिताः | तस्याप्यर्धं दिनं पूर्वमपरार्धं निशा भवेत् || ७-९१ || तस्य अङ्गुलपञ्चभागावधेस्तिथेः || अत एव ---- षट्पञ्चकास्तिथीनां ये तेऽहोरात्रास्तु मासिकाः | त्रिंशता तैरहोरात्रैद्वीपक्षो मास उच्यते || ७-९२ || षडङ्गुले राश्युदयस्थाने त्रिंशदहोरात्रस्य मासस्य निष्पत्तिर्भवतीत्यर्थः | द्विपक्ष इत्यनेनेदमाह ---- यथातोऽपि तत्तन्माससाध्यक्रूरसौम्यसिद्ध्यर्थकृष्णशुक्लपक्षाश्रयणं सुसूक्ष्मदृशा योगिनानुसर्तव्यमिति | अत एव वर्षसाध्ये विधौ तत्तन्मासकार्यं कर्म बाह्यान्तरमासैकीकारानुसरणपूर्वं योगिनानुष्ठातव्यमिति वर्षोदयेऽभिप्रायः || ९२ || तदित्थम् ---- मासि राश्युदये ह्येष अधोर्ध्वप्राणसञ्चरे | ऊर्ध्ववदधः प्राणसञ्चारेऽपि, एष एवमादिः क्रमो ज्ञेय इत्यर्थः || अथ राश्युदयं विभागेनादिशित मासप्रभेददर्शनाशयेन ---- हृदयादुदयस्थानात् संक्रान्तिर्मकरे स्थिता || ७-९३ || षडङ्गुलान्यधस्त्यक्त्वा कुम्भे संक्रमते पुनः | कण्ठोर्ध्वे द्व्यङ्गुलं त्यक्त्वा मीने संक्रमते पुनः || ७-९४ || गलोर्ध्वाद्यावत्ताल्वन्तं त्यक्त्वा मेषेऽथ संक्रमेत् | नासान्तं यावत् संक्रान्तिरङ्गुलानि षडेव हि || ७-९५ || एषा वै विषुसंक्रान्तिरुत्तरे संव्यवस्थिता | उदयस्थानाद् इति मन्त्रोच्चारणभूमेः | संक्रान्तिरिति प्राणार्कस्येत्यर्थात्, अत एव माघादिमासक्रमोऽत्र स्थितः | षडङ्गुलानि इति काकाक्षिवत् | विषुसंक्रान्तिः विषुवत्संक्रान्तिः | उतरे इति उत्तरायणे || एतच्च प्राग्वत् पारलौकिकादिसिद्ध्यङ्गतयेति ज्ञेयम् | तदाह ---- जपहोमार्चनध्यानान्महाभ्युदयकारिका || ७-९६ || एषा विषुवत्संक्रान्तिरित्यर्थः | अत्रापि प्राग्वदन्तरिव बाह्यसंक्रान्तिष्वपि तत्तत्फलप्रदत्वं स्मर्तव्यम् || ९६ || अथ ---- नासाग्रं तु परित्यज्य प्राणहंसो वृषे चरेत् | षडङ्गुलानि संत्यज्य संक्रमेन्मिथुने पुनः || ७-९७ || शक्त्यन्तं यावदध्वानं संक्रान्तिमीथुने स्मृता | षडङ्गुलानि इति काकाक्षिवत् | शक्त्यन्तं द्वादशान्तम् || एतदनुवदन् फलं पर्यवसायि दर्शयति ---- मकराच्च समारभ्य मिथुनान्तं च सुव्रते || ७-९८ || उत्तरायणमत्रैतदैहिकीसिद्धिवजीतम् | उत्तीर्यतेऽनेनेति व्युत्पत्त्या उत्तरमयनम् || ततश्च ---- स्नानं ध्यानं तथा दानं पूजाहोमजपादिकम् || ७-९९ || साधकाद्यैः कृतं यच्च सहस्रानेकधा भवेत् | इह जन्मनि नाप्नोति परत्रैवोपतिष्ठते || ७-१०० || साधकादीनां पुत्रकादीनां चात्र स्नानादिकरणात्तद्देहान्ते भोगो मोक्षश्चाभीष्टो भवति || ९९-१०० || ऽऽइह जन्मनि नाप्नोतिऽऽ इत्यत्र हेतुमाह ---- दिनानि तत्र वर्धन्ते मकरान्मिथुनान्तिकम् | तत्काले संहरेद्वीर्यं जगत्यस्मिंश्चराचरे || ७-१०१ || हंसो रश्मिभिराकृष्य गर्भस्थं कारयेत्तु तम् | तत्र इत्युत्तरायणे | दिनवृद्धिर्मेयग्रहणाभ्यासेन तिश्रान्तिभागानादरात् | वीर्यं विश्वस्याप्यायनकरं रसम् | हंसः अनाहतनादोऽन्तः, बहिस्तु सूर्यः | रश्मिभिः अन्तर्मुखीभूताभिवीमर्शमयीभिरिन्द्रियदेवीभिरन्तः, बहिस्तु प्रभाभिः | शंहरेत्ऽऽ इति व्याचष्टे ---- गर्भस्थं शक्त्यन्तर्गतम्, कारयेत् कुर्वतो रश्मीन्नियुनक्ति || तत्कृत्वा ---- गर्भस्थानेकधारूपं यद् गृहीतं पुरातनम् || ७-१०२ || कर्कटादेः समारभ्य सर्वं वर्षति तत्पुनः | कर्कटादेरित्यपानोदयस्थानात् | तद् इति वीर्यम् || यत एवं प्राणोदयो वीर्यसंहारकृत् ---- तस्मादारभ्य मकराद् ध्यानहोमजपादिकम् || ७-१०३ || परलोकनिमित्ताय तदनन्तफलं भवेत् | पूर्वोक्तानुवादोऽयम् || अत्रैवोत्तरायणे साधकस्य मन्त्रसेवार्थं जपादावान्तरस्थानविशेषात्मकालविशेषाश्रयेणोच्चारमादिशति ---- पुरश्चर्यानिमित्ताय मन्त्रग्रहव्रतं च यत् || ७-१०४ || मीनादावारभेत् सर्वं मन्त्रसिद्ध्यर्थमात्मनः | पुरश्चर्या प्रथममेव, मन्त्रग्रहपूर्वं व्रतं नियतजपादिकरणम् | अष्टाङ्गुलात्कण्ठदेशादंगुलद्वयं त्यक्त्वा ऊर्ध्वं ताल्वन्तं षडंगुलं मीनस्थानम्, एतदादौ शक्त्यवधिमिथुनस्थानान्ते | अतः प्रभृति ह्यूकारमकारयोगात् परस्य निष्कलस्य मन्त्रत्वमिति पूर्वमुक्तम् | ऽऽमत्स्यवलनसंयोगात्तालुरन्ध्रे व्यवस्थिताऽऽ | इति च श्रीत्रिकसारे निरूपितत्वादत्र शक्तेर्मीनवन्मुखपुच्छाच्छोटनेन तालुबिलाक्रमणात्तद्गतरसास्वादनतः साधकसंविदः सरसत्वापादनेन भाविफलं प्रत्यङ्कुरीभावापादनादेवमुक्तम् || युक्तं चैतत्, यतोऽत्र ---- बाह्येऽपि तरवो लोके ऋतुषट्कसमीरितम् || ७-१०५ || कुसुमानन्दमायान्ति कुसुमायुधदीपकम् | तरवः कुरवकाद्या अपि मीनसञ्चारात्मकवसन्तात्प्रभृति कुसुमविकासमयमानन्दं प्राप्नुवन्ति | तं च ऋतुषट्के समीरितम् वसन्ते प्रथममुद्भिद्य अन्यत्रापि ऋतौ कुसुमानां प्रसरात् | ऽऽकुसुमायुधदीपकम्ऽऽ इत्यनेन कामोद्दीपनहेतुतामभिदधत् सादृश्येनान्तरस्यापि वसन्तस्य कामानां प्रति साधकत्वं ध्वनति | अत एव बहिर्यथा कुसुममेव फलोपादानम्, तथान्तरपि मीनादौ कर्मारम्भः कुसुमप्रतिमः साधकानामवश्यमीप्सितं फलमभिमुखं करोति इति कुसुमशब्दाभिप्रायः || अत एव ---- मन्त्राः कालानुरूपेण व्रतचर्यादिनेरिताः || ७-१०६ || ज्ञेयबोधप्रदीप्ताश्च सिद्धिमुक्तिप्रसाधकाः | कालो मीनाद्युदयः | व्रतम् आराधननियमः | चर्या साधकोचितसमयाचारः आदिशब्दात् करणबन्धादिरुच्चारणोपायः | ईरिताः उत्तेजिताः | ज्ञेयबोधो मन्त्रवाच्यदेवताव्याप्तिज्ञानम्, तेन प्रदीप्ताः तत्प्रकाशाविभेदिविमर्शसाराः || यत एवं सर्वमन्त्राणां स्थितिरतोऽयमत्रत्यो मन्त्रः पूर्वसेवार्थम् - --- अध्यात्मशब्दरूपात्मा षड्रसास्वादनेरितः || ७-१०७ || हंसबोधप्रदीप्तस्तु गलके मीनमाश्रितः | अध्यात्मशब्दोऽनाहतध्वनिस्तत्परमार्थः | ऽऽशिवो धर्मेण हंसस्तुऽऽ (७ | २९) इत्यत्र निर्णीतेन हंसस्य बोधेन व्याप्तिज्ञानेनेद्धः | व्याख्यातमत्स्यबलनव्याप्त्या गले मीनराशिसञ्चार प्राप्तः, अथ च षष्ठबीजमेवोर्ध्वाधः कलात्मकमुखपुच्छाच्छोटतया प्रोच्छलन्मीनरूपत्वम् आश्रित आरूढः | तत एव च सर्वेन्द्रियाश्रयप्राणाधिरूढेनात्मना ईरितो लम्बिकारसास्वादाय प्रेरितः, ततः प्रभृति मन्त्रतां प्राप्तः सन्नुच्चार्य इति यावत् || एतदेवोपसंहारभङ्ग्या आदिशति ---- शब्दसंवेदनं तस्य स्फुटं तत्र भवेद्यतः || ७-१०८ || तदारभ्य जपात्तस्य सर्वमेव प्रवर्तते | मिथुनान्तं च देवेशि ततः सिद्धिः प्रजायते || ७-१०९ || तस्य अध्यात्मशब्दस्य | स्फुटं शब्दसंवेदनं मन्त्रतत्त्वानुभवनम् | तत्र इति मीनस्थाने | तस्य इति साधकस्य | सर्वं पूर्वसेवार्थं जपपूजाध्यानादि | मिथुनान्तं शक्त्यवस्थाने विश्रान्तिं कृत्वेत्यर्थः | सिद्धिः प्रजायते मन्त्राराधनं निष्पद्यते | तदत्रोत्तरायणचारे प्राणस्यैव मकरादिरूपत्वमुक्तम्, तदनुकाराद् बहिरिति वर्णयन्ति | तथाहि ---- हृदयादुद्घाटितवक्त्रप्राणस्य प्रसरणान्मकरत्वम्, कण्ठे कुम्भवदवस्थानात्कुम्भत्वम्, ततः पूर्वापराच्छोटनेनोच्छलनान्मीनत्वम्, ततोऽपि हुडयुद्धवद् भ्रूमध्यभेदनान्मेषत्वम्, तदनु द्वयरसवर्षणाद् वृषत्वम्, अनन्तरं शिवशक्त्युभयात्मकत्वान्मिथुनत्वमिति || १०९ || एवं प्राणे मिथुनान्तमुत्तरायणं निर्णीय, अपाने कर्कटादिधन्व्यन्तं दक्षिणायनं निर्णेतुमाह ---- सहंसो बिन्दुशक्तिस्थः सिद्धिद्वारैरधोमुखः | कर्कटादौ स वर्षेत्तु तुलान्तं तालुकान्तरे || ७-११० || सह हंसेन वर्तते यः प्राणः स बिन्दुशक्तिस्थ इति ---- ऽऽयदा करोति सृष्टिं तु ऊर्ध्वे बिन्दुः प्रवर्ततेऽऽ (६-१५) इत्युक्तदृशा समनापदस्थः, सिद्धिप्रदत्वात्तद्द्वारैः षडङ्गुलैश्चतुभीश्चारैः, अधोमुखो ब्रह्मरन्ध्रक्रमेणान्तःप्रविष्टः, तालुकान्तरे तालुमध्ये, तुलान्तम् इति कण्ठं षडङ्गुलं वर्षेत् || तद्यावत् ---- कण्ठादधस्ततो देही हृत्पद्मात् सर्वतो व्रजेत् | सर्वतः सर्वत्र देहे | हृदयस्यापानपूरणेन विकासितत्वात् पद्मत्वम् | हृत्पद्मात् इति तदाश्रित्य || यस्मादेवम् ---- तस्मादिहात्मसिद्ध्यर्थं पुष्ट्यर्थ चैव साधयेत् || ७-१११ || इहात्मनः सिद्धिरस्मिन्नेव देहेऽणिमाद्याविर्भावनम्, पुष्टिः वलीपलिताद्यभावः || १११ || किं च प्राग्वद् बहिरपि ---- दक्षिणायनजे काले यस्मात् सृष्टिः प्रजायते | दक्षिणम् अनुकूलं देहभुवनाप्यायकरम् | ग्रीष्मोष्मशोषितानां तृणलतागुल्मादीनां वर्षासु पुनरङ्कुरोद्भेदो यतो भवति, तस्माद् बाह्याभ्यन्तरैतत्कालैकीकारेण पूर्वोक्ताः सिद्धीर्जपादिना साधयेदिति सम्बन्धः | ननु जपप्रकरणे ---- ऽऽजपः प्राणसमः कार्यो दिनस्थो मुक्तिकाङ्क्षिभिः | संहारः स तु विज्ञेयः शिवधामफलप्रदः || व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते | शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः | सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया ||ऽऽ (२-१४०-१४२) इति पूर्वं प्रविभाग उक्तः, इह तु दिनोदयात्मकमीनोदयतः साधकस्य मन्त्रसिद्ध्यर्थं जपाद्युक्तम्, तथा कर्कटादौ आत्मसिद्ध्यर्थं साधयेद् इति प्रतिपादितम्, तत्कथमेतत् ? उच्यते | द्वितीयपटलप्रतिपादिते जपप्रविभागे स्थिते एवमत्र विशेष उक्तः ---- साधकैर्मीनादिमिथुनान्तविश्रान्त्या कल्पोक्तजपादिक्रमेण पूर्वसेवया मन्त्राः साधनीयास्तथा साधितास्तु प्रयोगकाले सिद्ध्यर्थं कर्कटादितुलान्तविश्रान्तिप्राधान्येन प्रयोज्या इति न काचिदत्र विचिकित्सा || अथ कर्कटादिषट्कमङ्गुलविभागेन निरूपयति ---- शक्त्यधो हृदये हंसः संक्रमेत् कर्कटे प्रिये || ७-११२ || षडङ्गुलानि संत्यज्य सिंहे वै संक्रमेत् पुनः | षडङ्गुलैः पुनस्त्यक्तैः कन्यां संक्रमते पुनः || ७-११३ || नासिकाग्रात्तु ताल्वन्तं त्यक्त्वैवं विषुवद् भवेत् | तुलासंक्रान्तिरेषोक्ता दक्षिणं विषुवद् भवेत् || ७-११४ || शक्तेः साधनरूपाया अधो व्यापिनीशक्तिः | ब्रह्मरन्ध्रादिपदे कर्कट इव अधोवक्त्रो हंसः, ततः सदाशिवपदे नदनप्रधानत्वाशेषविश्वाक्रमणकारित्वाभ्यां सिंहः, ततो भ्रूमध्यादौ बैन्दवप्रकाशप्राधान्याद् दीप्तिकान्तियोगात् सर्वसाधारणप्रसरणरूपगतितश्च कन्याशब्दवाच्यः, ततोऽपि तालुमध्ये समत्वेनावस्थितत्वात् तुलारूपः, साम्यादेव च विषुं व्याप्तिमर्हतीति कृत्वा विषुवच्छब्दाभिधेयः | पुनवीषुवदिति पूर्वोक्तोत्तरविषुवतोऽन्योऽयं विषुवत्काल इत्यर्थः || ११४ || अन्यत्वादेव च ---- साधनं यत् कृतं तत्र इह जन्मनि कामदम् | तदित्यर्थात् | अतश्च ---- मृत्योर्जयं तथा शान्तिं पुष्टिं तस्मात् समारभेत् || ७-११५ || तस्मात् स षड्रसाहारो गलाधः प्रीणयेत्तनुम् | एषोत्तमादिरूपा त्रिविधात्र सिद्धिः | स इति दक्षिणविषुवत्कालस्थस्तुल्यः अत एवात्रैहिकं क्रूरकर्म न फलति, इति तत् सर्वरससंहारिपौषमासाधिष्ठातृधन्विचारविश्रान्त्या कार्यमित्यर्थलभ्यमत्र || अथ ---- षडङ्गुलानि त्यक्त्वा तु वृश्चिके क्रमते पुनः || ७-११६ || कण्ठोर्ध्वं द्व्यङ्गुलं त्यक्त्वा कण्ठाधश्चतुरङ्गुलम् | तालुतलादष्टाङ्गुलात् कण्ठात् षडङ्गुलानि त्यक्त्वा यत् प्रवेशापेक्षया ऊर्ध्वं प्राणोल्लासापेक्षया त्वधस्तनमङ्गुलद्वयं त्यक्त्वा कण्ठाधः षडङ्गुले क्षेत्रे प्रथममङ्गुलचतुष्टयम्, तत्र पूर्वाङ्गुलद्वयेन सह षडङ्गुले वृश्चिकवन्निश्चलमवस्थाय शनैः शनैः प्रसर्पणाद् वृश्चिकः || अथ ---- वृश्चिकं तु परित्यज्य धन्विसंक्रान्तिरुच्यते || ७-११७ || षडङ्गुलादधस्तात्तु धन्विस्थश्चरते हृदि | अधस्ताद् इत्यधःस्थं षडङ्गुलमाश्रित्य, हृदि चरति विश्राम्यति | तत्र चायं हंसो बद्धलक्ष्यत्वाद्धन्वीत्युच्यते || तदित्थम् ---- हृत्पद्मान्तं तु वै हंसश्चरित्वा ऊर्ध्वगोदयः || ७-११८ || पुनः प्राणवृत्तिं श्रयतीत्यर्थः || ११८ || उपसंहरति ---- मकरादिषु संक्रान्तौ द्वादशैवं चरेत् सदा | अमुनोक्तक्रमेणैव आयुर्वै सर्वदेहिनाम् || ७-११९ || संक्रान्तौ इति जातावेकवचनाद् मकरादिषु याः संक्रान्तयः तासु एवम् उक्तक्रमेण द्वादश इति माघादीन् मासान् सदा प्रतिप्राणचारं हंसश्चरेत् | किमवधीत्याह ---- आयुर्वै सर्वदेहिनाम् | यावज्जीवमित्यर्थः || ११९ || अथ प्रबुद्धस्य नित्यमेव संक्रान्तिदक्षिणायनोत्तरायणादिपुण्यकाललाभात् तत्तत्सिद्धिसमासादनमनायासेन जायते | तदेतदाह ---- एहिकामुष्मिकी सिद्धिरधमा मध्यमोत्तमा | साधकानामत्रस्थानां भवति || उपसंहरति ---- अयनद्वयमाख्यातं................. अत्र च मकरादिषु द्वादशसु कार्यस्य गर्भत्वम्, प्रोद्बुभूषिष्यत्त्वम्, प्रोद्बुभूषत्त्वम्, उद्भविष्यत्त्वम्, उद्भवप्रारम्भः, उद्भवत्त्वम्, जन्म, सत्ता, परिणतिः, वृद्धिः, ह्रासः, क्षयश्च क्रमाद् भव(न्ति)१ | अतोऽत्र जपादिक्रियैतादृगेव फलं सूते, इति गुरवोऽभ्यधुः || यदा तु प्राणापानयातायातपरिहारेण हृदि द्वादशान्ते च विश्रान्तिः क्रियते तदा ---- ............ंओक्षसिद्धिर्द्वयोज्झिता || ७-१२० || द्वयेन भेदेन, उज्झिता अद्वयमयी महासाधकस्य भवतीत्यर्थः || १२० || यतोऽसौ महासाधकः-- अयनद्वयपर्यन्त उन्मन्यन्ते सदा स्थितः | यदा यदा अयनद्वयमाश्रयति, तदा तदा उन्मन्यन्त इति प्राणापानप्रशमपदे द्वादशान्ते हृदि च परतत्त्वानुभवे विश्राम्यति | यद्यपि पूर्वमुन्मन्यन्तता द्वादशान्त एवोक्ता, तथापीहायनद्वयपर्यन्त उन्मन्यन्ते, इत्यभिदधद् द्वादशान्ताविभिन्ना हृदि व्याप्तिरस्तीति दर्शयति | अत एव ---- ऽऽद्वादशान्ते च हृदयेऽऽ इत्याद्यन्यत्रोक्तम् || अतश्च ---- तत्रस्थो वै जपध्यानान्मोक्षसिद्धिमवाप्नुयात् || १२१ || जपध्यानप्रमुखं यस्तत्र परतत्त्व एव तिष्ठति विश्राम्यति, स मुच्यत इत्यर्थः || १२१ || अत एवेत्थंस्वभावेनैव ---- मोक्षं गत्वा तु नागच्छेत् प्रतिज्ञा भैरवस्य तु | प्रतिज्ञा भैरवस्य, न तु श्रीकण्ठोमापत्यादेरित्यनेन सर्वथा द्वादशान्तहृदययोवीश्रान्तिः कर्तव्या, इत्यादिष्टम् || तथा द्वादशवर्षसाध्यमपि कार्यं सुसूक्ष्मतमस्थित्या प्राण एवं द्वादशवत्सरव्याप्तिमवगत्याप्रयासेनैव साधकः साधयेदिति शिक्षयन् द्वादशाब्दोदयमादिशति देवः ---- अस्मिन्नब्दोदये भूयो द्वादशाब्दोदयं शृणु || ७-१२२ || तत्र द्वादश चैत्रादयोऽब्दमाससमानसमाख्याः || १२२ || चैत्रसंवत्सरे यस्मान्मासानामुदयो भवेत् | तदादि साधकैस्तस्मात् कर्तव्यं मन्त्रसाधनम् || ७-१२३ || तदादि इति चैत्रनामानं संवत्सरमादिभूतं कृत्वा || १२३ || प्रागुक्तचैत्रादिमासोदयकाल एवात्र चैत्रादिसंवत्सरोदयकालः, इत्याह ---- द्वादशाब्दः स विज्ञेयश्चैत्रमासाद्वरानने | अष्टांगुलात् कण्ठादंगुलद्वयं त्यक्त्वा षडंगुलं यत्प्राक् चैत्रमासस्योक्तं स्थानम्, तदेव चैत्रसंवत्सरस्य || अथ ---- लक्षणं तस्य वक्ष्यामि प्राणेऽस्मिन् प्रविभागशः || ७-१२४ || तत्र संवत्सरेणेव अमुनोक्तेन सुव्रते | अहोरात्रस्तु यः प्रोक्तो द्वादशांशं भजेत् प्रिये || ७-१२५ || द्वादश ते अहोरात्रा द्वादशाब्दे भवन्ति वै | आन्तरेण प्राणसंवत्सरेण य आन्तरोऽहोरात्रोऽंगुलपञ्चमभागपरीमाणस्तस्य द्वादशमंशं द्वादशाब्दोदयेऽहोरात्रो भजते | एव चांगुलस्य षष्टितमोऽसौ भागो भवति | इत्थमहोरात्रं द्वादशाहोरात्रा भवन्ति | तथा च सत्यंगुले षष्ठिरहोरात्राणां जातेति || पञ्चभिस्तांस्तु संगुण्य द्वादशाब्द ऋतुर्भवेत् || ७-१२६ || मासद्वयमित्यर्थः || १२६ || तमेव द्विगुणं कृत्वा कालस्तु स विधीयते | चतुर्मासाख्यः || त्रिगुणेनैतदयने............. अंगुलत्रयेण त्रिगुणेनर्तुनाद्यमुत्तरायणम्, ततोऽन्यत्र त्रये दक्षिणायनम् || तदेवम् ---- ............वत्सरः षड्गुणेन तु || ७-१२७ || तदित्थम् ---- संक्रान्तयो द्वादशात्र यद्वदब्दे प्रकीतीताः | द्वादशाब्दोदये प्राणे वत्सरास्ते प्रकीतीताः || ७-१२८ || यद्वदिति षडङ्गुलकलनया || १२८ || अथ ये ---- द्वादशाब्दे त्वहोरात्राः............ सम्भवन्ति || ........टेषां संख्या निबोध मे | सहस्राणि तु चत्वारि त्रिशती विंशतिस्तथा || ७-१२९ || द्वादशाब्दोदये देवि प्राणेऽस्मिन् कथिता मया | प्राणे द्वादशाब्दोदये इति सामानाधिकरण्ये सप्तम्यौ || अथातिसूक्ष्मया व्यवस्थया ---- षष्ट्यब्दोदयमत्रैव पुनश्च कथयामि ते || ७-१३० || आनन्दाद्यास्तु ते ज्ञेयाः षष्ट्यब्दास्तु वरानने | अत्रैव इत्येकत्र प्राणचारे || तदाह ---- ते चाध ऊर्ध्वगे प्राणे एकस्मिन् सुरसुन्दरि || ७-१३१ || चरन्ति प्रविभागेन तथा ते कथयाम्यहम् | अतश्च षष्ट्यब्दसाध्यां सिद्धिं यो वाञ्छति, असावान्तरादानन्दाख्याद्वर्षात् प्रभृति मन्त्राराधनमुपक्रमेत ---- इत्याह ---- आनन्दप्रभृतेर्देवि मन्त्रमाराधयेत्तु यः || ७-१३२ || तस्यानन्दस्तु देवेशि मन्त्रेण सह जायते | मन्त्रस्य परनिष्कलस्वभावतयाऽशेषविश्वनिर्भरत्वेन परमानन्दरूपत्वात्तदभेदविमर्शमयप्राणोच्चारज्ञस्य आनन्दमयतैव भवति | ततश्चेहाभिहितषष्ट्यब्दोदयस्थित्या सर्वमेव पुरुषायुषं यन्नित्यकर्मावश्यकर्तव्यम् तदेकत्रैव प्राणचारे व्याप्तिज्ञस्य सकृदेव कृतं सर्वदैव कृतं भवति ज्ञानिनः | सिद्धिकामस्य तु षष्टिवर्षसाध्यम्, तदीयवत्सरे तत्तत्साध्यं वा कर्म प्राणीयव्याप्तिज्ञानपूर्वकं कुर्वतो न विसंवदतीत्याशयेनेह साधकाधिकारे षष्ट्यब्दोदयादधिकं नोक्तम् | श्रीनन्दिशिखायां तु ज्ञानव्याप्त्यभिप्रायेण विंशत्यधिकशतोदयोऽप्यभिहितः | एवं च ज्ञानयोगिनामेवं प्राणे व्याप्तिज्ञानात् सर्वमयत्नेन सिद्ध्यत्येव | यदुक्तं श्रीमदुत्पलदेवपादैः ---- शाक्षाद्भवन्मये नाथ सर्वस्मिन् भुवनान्तरे | किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति ||ऽऽ (स्तोत्राव० १ | ४) इति || किं च ---- द्वादशाब्दे त्वहोरात्रं पञ्चधा भेदयेच्च तम् || ७-१३३ || षष्ट्यब्दे ते त्वहोरात्राः पञ्चैव परिकीतीताः | द्वादशाब्दोदयेऽङ्गुलस्य षष्टितमो भागोऽहोरात्र इत्युक्तम् | इदानीं तु तमपि पञ्चधा भेदयेत् | एवं षष्ट्यब्दोदये प्राणाङ्गुलस्य त्रिशततमो भागोऽहोरात्रो भवति || तदनया सुसूक्ष्मया स्थित्या ---- ते वै षड्गुणितास्तत्र मास एकः प्रकीतीतः || ७-१३४ || तैश्च द्वादशभिर्देवि वर्षमेकं विधीयते | ते इति द्वादशाब्दोदयेऽहोरात्राः | तैरिति तथाभूतैर्मासैः || एवं च ---- अङ्गुले तु सपञ्चांशे मानमेतत् प्रकीतीतम् || ७-१३५ || अहोरात्रशतत्रयात्मन्यङ्गुले मासदशकम, अहोरात्रषष्ट्यात्मनि चाङ्गुलपञ्चमांशे मासद्वयम्, इति कृत्वा सपञ्चांशेऽङ्गुले, एतद् इति षष्ट्यब्दोदये वर्षमानमुक्तम् || १३५ || तदित्थम् ---- षडङ्गुलैस्तु पञ्चाब्दाः षष्ट्यब्द उदयन्ति ते | द्वादशाब्दोदयस्थित्या वर्षोदयाश्रयैः षड्भिरङ्गुलैरिह पञ्च वर्षाणि भवन्ति | मासदशकोदयात्मकोऽङ्गुल इति तैः षड्भिः षष्टिमासानां वर्षपञ्चकारम्भिणां निष्पत्तिः || अनया च कलनया ---- हृत्पद्माद्याव शक्त्यूर्ध्वं त्रिंशदब्दोदयो भवेत् || ७-१३६ || पुनरपि ---- शक्त्यधो यावद्धृत्पद्मं त्रिंशदब्दोदयो भवेत् | किं च ---- षष्ट्यब्दे ये त्वहोरात्राः सङ्ख्यां तेषु वदाम्यहम् || ७-१३७ || विंशतिस्तु सहस्राणि सहस्रं षट्शताधिकम् | अहोरात्रास्तु षष्ट्यब्दे शङ्ख्यातास्तु वरानने || ७-१३८ || बाह्याहोरात्रगतप्राणचारसंख्याः || १३८ || उपसंहरति ---- षष्ट्यब्दोदय आख्यातः प्राण एकत्र ते मया | अत्र षष्ट्यब्दोदयान्ते प्रयोजनमाह ---- चन्द्रसूर्योपरागे च पक्षमासायनेषु च || ७-१३९ || युगादिषु युगान्तेषु यच्च संवत्सरेऽप्यथ | वर्षद्वादशके चैव षष्ट्यब्देऽथ वरानने || ७-१४० || स्नानदानेन यज्ञैश्च पूजाहोमजपेन च | ज्ञानयोगादिभिश्चैव बाह्ये काले तु यत्कृतम् || ७-१४१ || अमुनोक्ते वरारोहे तत्फलं लभते महत् | बाह्ये चन्द्रोपरागादौ, षष्ट्यब्दान्ते अमुना आन्तरेण प्रकारेण उक्ते तस्मिन्नेव काले स्नानदानादिक्रमेण कृतं तत्फलं महद् अनन्तसाधको लभते || (एवं युगोदयस्थित्या चैत्राषाढाश्वयुजपौषाणां सिद्धये.........शेदीनि चत्वारि साधयति) ---- प्राणहंसगतिं चारे ज्ञात्वैकस्मिस्तु तद् भजेत् || ७-१४२ || प्राणस्य हंसत्वं प्राग्वत् | चारे प्राणापानवाहे षष्ट्यब्दान्तव्याप्तिके | तद् इति चन्द्रग्रहादिकम् || १४२ || नन्वेवं वस्तुवृत्तेन तद्व्याप्तिवत्त्वं प्राणस्य कथं प्रतिभागोचरतामेति ? ---- इत्याशङ्क्याह ---- स्वसंवेद्यो भवेच्चारो नाडीचारजयात् स्फुटम् | नाडिषु चारस्य वाहस्य, जयाद् अभ्यासेन सञ्चरणस्वातन्त्र्यलाभात् सर्वा प्राणीया व्याप्तिर्मध्यमार्गे व्यक्तीभवति, अतो योगाभ्यासे यत्नः कार्य इति तात्पर्यम् || योगाभ्यासप्रावीण्ये सति ---- अथवा स जपादेवमत्यर्थमुपबृंहितः || ७-१४३ || मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत् | जपाद् इति पञ्चप्रणवाधिकारोक्तसङ्ख्याकात्, उपबृंहितो लब्धोत्कर्षः, मन्त्री इति यथोक्तमन्त्रव्याप्तिज्ञः, योगं यथारुचि प्राणसञ्चारस्वातन्त्र्यम्, सर्वज्ञतां यथोक्तप्राणीयसर्वव्याप्तिसाक्षात्कर्तृत्वं परभैवरतां च | उक्तं हि ---- ऽऽत्रिगुणेन तु जप्येन स्वच्छन्दसदृशो भवेत्ऽऽ (६-५४) इति || एतदुपसंहृत्यान्यदवतारयति ---- पुनरेव प्रवक्ष्यामि नाडित्रयविभागतः || ७-१४४ || दक्षिणोत्तरसंक्रान्तौ विषुवच्चारतस्तथा | यथा चरत्यसौ हंसो जगत्यस्मिंश्चराचरे || ७-१४५ || अन्तःस्थः कालरूपेण कलाभिः कलयन् जगत् | मध्यमार्गाश्रयेण चारस्थितिरुक्ता | इदानीं दक्षे वामे तदुभयात्मनि च विषुवति तथा हंसो जङ्गमस्थावरात्मनि जगति, चरति जङ्गमेषु चरन् स्थावराण्यपीन्द्रियप्रसरणयुक्त्या स्पृशति, अत एव अन्तःस्थ इति प्रमातृषु, भूतवर्तमानादिकालरूपेण पदं बध्नन् जगत् सर्वं क्षणतुटिलवादिरूपाभिः कलाभिः कलयन् जन्मादिविकारषट्करूपतया सृजन् संहरंश्च यथा चरति, तथा प्रवक्ष्यामीति सङ्गतिः | अचरस्यापि च अन्तःसंज्ञस्य दक्षवाममध्यनाडिषु रसयोजनया पुष्पफलपोषान् हंसः करोति, इति वृक्षायुर्वेदज्ञाः || कीदृगसौ चरतीत्याह ---- नाडित्रयकृताधारो मार्गत्रयव्यवस्थितः || ७-१४६ || गुणत्रयसमाविष्टस्त्रिधावस्थाव्यवस्थितः | कारणैः षड्भिराक्रान्तः शक्तित्रितयसंयुतः || ७-१४७ || इच्छाज्ञानक्रियाविद्धः सोमसूर्याग्निमध्यगः | एतत् नाडीत्रयादिक्रमेण व्याचष्टे ---- दक्षनासापुटे चैव नाडी वै पिङ्गला स्मृता || ७-१४८ || इडा चैव तु वामेन सुषुम्ना मध्यतः स्थिता | एतन्नाडीत्रयमेव मार्गत्रयमित्याह ---- दक्षिणे देवमार्गस्तु पितृमार्गस्तथोत्तरे || ७-१४९ || मध्यमः शिवमार्गस्तु............ का तस्य शिवता ? ---- इत्याह ---- .............टत्र गत्वा न जायते | गत्वा इत्युपलम्भेन विश्रम्य || अत्रैव गुणत्रयमवस्थात्रयं च दर्शयति ---- दक्षिणे सत्त्वजाग्रत्स्थः स्वप्नस्थो वामतो रजः || ७-१५० || मध्ये तमस्तु विज्ञेयं सुषुप्तावस्थ एव च | सत्त्वरूपत्वं ज्ञानप्राधान्यात्, क्रियाशक्तिमयत्वाद्वामे रजः, मध्ये त्विच्छाशक्तिमये भेदोपसंहारमार्गरूपत्वात्तमः, अत एव मध्यम् | अत्रोभयनाडीसमवाहित्वं समानव्यात्या, न तु मध्योर्ध्ववाहित्वम्, तस्य तुर्यप्रकाशरूपत्वेन सौषुप्ततमोयोगाभावात् || अत्रैव कारणान्याह ---- ब्रह्मेश्वरश्च दक्षस्थो वामे विष्णु सदाशिवौ || ७-१५१ || मध्ये रुद्रशिवौ प्रोक्तौ सर्वातीतः परः शिवः | ब्रह्मविष्णुरुद्राणां परव्याप्त्येश्वरसदाशिवशिवा दक्षवाममध्याधिष्ठातृत्वेन स्थिताः | अत एव जागरादित्रयमयेऽपीश्वराद्यधिष्ठानात् तुर्यव्याप्तिरप्यस्ति, इति मन्तव्यम् | सर्वातीत इत्यनेन तु परकारणस्वरूपमुक्तम् || कारणवत्परापरभेदेन शक्तित्रयस्थितिमाह ---- ज्येष्ठाज्ञाने च दक्षे च क्रिया वामा तथोत्तरे || ७-१५२ || रौद्री चेच्छा च मध्यस्था............ ज्ञानाद्या अपराः, ज्येष्ठाद्यास्तु पराः || कारणानुसारेण परकारणस्वरूपवत् परशक्तिस्वरूपमप्याह ---- ..............परा शक्तिः परापरा | सर्वमेव परमपरं च व्याप्य स्थितेत्यर्थः || अत्रैव सोमसूर्याग्नीनाह ---- दक्षिणे तु स्थितः सूर्यो वामे सोमो विराजते || ७-१५३ || पाके प्रकाशकत्वे च मध्यस्थश्चैव पावकः | पाके प्रकाशकत्वे चेति तन्निमित्तं पावकोऽग्निः | सोमसूर्ययोस्तु ---- ऽऽवायति तपति सूर्यः सोमो वर्षति चामृतम्ऽऽ (७-१५७) इति कार्यं वक्ष्यति || पाकप्रकाशौ विषयद्वारेण व्याचष्टे ---- पाचयेत् सर्वपाकं हि सोमादिगुणसम्भवम् || ७-१५४ || प्रकाशयेत् स्वसामर्थ्यात् परतत्त्वमनामयम् | स्वसामर्थ्यादिति गुणीकृतप्राणादिवृत्तिवशोन्मग्नसंवित्स्वभावतया || पूर्वं मध्यमार्गाश्रयदिनोदयानुसारं ग्रहादीनां स्थितिरुक्ता, इदानीं तु दक्षवामतदुभयाश्रयेणाप्याह ---- राशयश्च ग्रहाः सर्वे ऋक्षयोगादयश्च ये || ७-१५५ || चन्द्रसूर्यपथेनैव ते चरन्त्यनुपूर्वशः | सूर्यसोमौ च ते सर्वे भुञ्जते क्रमशः प्रिये || ७-१५६ || ते सर्वे इति भैरवाष्टकपर्यन्ताः, सोमसूर्यौ इति पृथग्वाहे पृथक्, समवाहे तु युगपद्, भुञ्जतेऽधितिष्ठन्ति || १५६ || इत्थं च ---- सोमसूर्यात्मकास्ते वै पथित्रयव्यवस्थिताः | दक्षे प्राणसूर्यात्मानः, वामेऽपानसोमात्मकाः, मध्ये तूभयात्मकाः | एतच्च द्वितीयपटले आज्यत्रिपथविभागावसर एव विभक्तम् || सोमसूर्यात्मकत्वे च सति तेऽपि तत्फलप्रदा इत्याह ---- वायति तपति सूर्यः सोमो वर्षति चामृतम् || ७-१५७ || सोमसूर्यात्मकं यस्माज्जगत् स्थावरजङ्गमम् | यतः प्रोक्तव्याप्त्या सूर्यसोमवाहसम्बद्धत्वात् सर्वं जगत् सूर्यसोमात्मकम्, ऽऽहिममपि दहति, वह्निरपि चाप्याययति स्पर्शनेनऽऽ इत्यनेन न्यायेन तत्तत्प्रमातृदेशकालन्यायेन विश्वस्य ह्लादतापकारित्वेनोपलम्भनात्, ततः सूर्य इति दक्षवाहो वायति शोषयति (ऽऽओवैऽऽ शोषणे) संतापयति च, सोम इति वामवाहस्त्वमृतं वर्षत्याप्याययति | अतः क्रूरसौम्यहसद्धिसाधनपरेण तदौचित्येनैव प्रवर्तनीयमिति परमार्थः || किं च ---- सौरो दक्षिणमार्गस्तु उत्तरायणसंज्ञितः || ७-१५८ || वामः सौम्यस्तु यः प्रोक्तस्तत्र वै दक्षिणायनम् | सोमसूर्यात्म विषुवत्पुटद्वयविनिःसृतम् || ७-१५९ || ऊर्ध्वाधोवाहवदत्राप्युत्तरायणादिविभागोऽस्तीत्यर्थः || १५९ || अत्र संक्रान्तिभेदं दर्शयति ---- उदक्संक्रान्तयः पञ्च पञ्च वै दक्षिणायने | दक्षिणोत्तरयोर्मध्ये संक्रान्त्या विषुवद्द्वयम् || ७-१६० || ऽऽअहनि द्वादश प्रोक्ताऽऽ (७-१६८) इति वक्ष्यमाणस्थित्या बाह्येऽह्नि द्वादश वामदक्षमध्यसंक्रान्तयो नवशतप्राणापानवाहात्मानो भवन्ति || १६० || अत्र फलं दर्शयति ---- सौरश्च दक्षिणो मार्गस्त्वभिचारप्रसिद्धिदः | आप्यायने तथा पुष्टौ शान्तिके सौम्य उत्तरः || ७-१६१ || अथ संक्रान्तिदशके क्रममादिशति ---- दक्षिणादुत्तरं याति उत्तराद् दक्षिणं यदा | दक्षिणोत्तरसंक्रान्तिः सा चैवं संविधीयते || ७-१६२ || बाह्ये दक्षिणविषुवद्दिने वक्ष्यमाणानुसारं प्रातरान्तरं दक्षिणविषुवत्कालं समवाहेन स्थित्वा दक्षिणमार्गादुदेत्य उत्तरमार्गं याति, पुनरुत्तराद् दक्षिणं यदा याति तदा सा दक्षिणसंक्रान्तिरुत्तरसंक्रान्तिश्चोच्यते | एवं संविधीयते अनेनैव क्रमेण पुनरुत्तराद् दक्षिणं यातीति संविधीयते निश्चीयते | तेन दक्षिणोत्तरदक्षोत्तरदक्षेषु पञ्च संक्रान्तीर्वहतीत्यर्थः || १६२ || अथ षष्ठीमुत्तरविषुवत्संक्रान्तिमाह ---- दक्षिणस्यां यदा नाड्यां संक्रामेत्तु यदोत्तरम् | यावदर्धं तु तत्रस्थं मध्येनोत्तरतो वहेत् || ७-१६३ || तावत्तद्विषुवत् प्रोक्तमुत्तरं तूत्तरायणे | दक्षिणनाड्यां पञ्चसंक्रान्त्यात्मिकायां स्थित्वा यदा यदोत्तरं मार्गं संक्रामेत्तदा मध्येनेत्युभाभ्यामुत्तरं विषुवद् भवतीति | उत्तरायण इति दक्षिणवाहात्मकोत्तरायणाश्रयत्वात् | कथमित्याह- तत्रेति | दक्षिणस्थमर्धं प्राणीयं कृत्वोभाभ्यां पुटाभ्यां वहतीत्यर्थः | यावदुत्तरत इति च यद्व्याख्यातुमवशिष्टम् तस्यायमर्थः ---- ततोऽनन्तरमुत्तरत उत्तरात् प्रभृति वहेद्यावदुत्तरां पञ्चमीं संक्रान्तिं यावत् | तेनोत्तरदक्षोत्तरदक्षोत्तराः पञ्च संक्रान्तीर्वहेदिति तात्पर्यार्थः | उत्तरेति सौत्रं द्विरावर्तनीयम् | टीकाकारैस्तु दक्षिणोत्तरमित्याद्युत्तरायण इत्यन्तमुत्तरविषुवद्विषयमेव व्याचक्षाणैः संक्रान्तीनां विभागो न दशीतो, ग्रन्थपौनरुक्त्यं चाश्रितमत्र || अथ दक्षिणविषुवमाह ---- उत्तराद् दक्षिणायां तु संक्रामन् स वरानने || ७-१६४ || यावदर्धं वहेत्तत्र अर्धं दक्षिणतो वहेत् | विषुवद् दक्षिणं तावद् दक्षिणायनजं प्रिये || ७-१६५ || पञ्चसंक्रान्तिरूपादुत्तरान्मार्गाद् दक्षिणस्यां नाड्यां संक्रामन्नर्धं प्राणीयं तत्रेत्युत्तरे, अर्धं च दक्षिणे यावद्वहत्युभाभ्यां पुटाभ्यां समं वाहाद् दक्षिणविषुवदेतद्दक्षिणायनकालजातं भवतीत्यर्थः || १६५ || अत्र विषुवद्द्वये फलमाह ---- तत्र पूजा जपो होमो यत्कृतं मुक्तिदं भवेत् | तत् || किं च ---- ध्यानयोगेन दीक्षायां तत्स्थो वै मोचयेद् गुरुः || ७-१६६ || ध्यानमत्र परतत्त्वविषयम् || तदित्थम् ---- बाह्ये चैव त्वहोरात्रे अध्यात्मं तु वरानने | चतुवींशतिसंक्रान्तीः प्राणहंसस्तु संक्रमेत् || ७-१६७ || हृदब्जदलाष्टकस्य प्रधाननाडीत्रयस्पर्शादेवमिति व्याप्तिज्ञाः | प्राणहंस इति प्राग्वत् || अत्रायं विभागः ---- अहनि द्वादश प्रोक्ता रात्रौ वै द्वादश स्मृताः | अत्रापि विषुवत्संक्रान्तीनां विभागमाह ---- पूर्वाह्णे विषुवत्त्वेकं मध्याह्ने तु द्वितीयकम् || ७-१६८ || तृतीयं चापराह्णे वै अर्धरात्रे चतुर्थकम् | चतुर्धा विषुवत् प्रोक्तमहोरात्रेण मुक्तिदम् || ७-१६९ || तेन बाह्ये विषुवद्दिने पश्चिमरात्रिशेषघटिका सपादा दिनोदयाद् घटिका सपादा इत्येकं विषुवत् | ततः पञ्च क्रमेण संक्रान्तयः प्रत्येकमर्धतृतीया घटिका एवेति दिनारम्भात् प्रभृति पादोना एताश्चतुर्दश घटिका भवन्ति | ततो द्वितीयं विषुवदर्धतृतीयघटिकाः | ततोऽपि पञ्च संक्रान्तयस्तथैवेत्येवमियदन्तं पादोना एकान्नत्रिंशन्नालिका भवन्ति | ततोऽपि दिनादवशिष्टात् सपादा घटिका सपादा च रात्रिप्रारम्भघटिकेति तृतीयं विषुवदित्यनेन क्रमेणार्धरात्रे विषुवच्चतुर्थम् | यथा यथा दिननिशयोर्यो ह्रासो वृद्धिर्वा भवति, तथा संक्रान्तीनामपि स मन्तव्य इति समुदायार्थः | यदुक्तमस्मद्गुरुभिरशेषागमोपनिषदालोके तन्त्रालोके ---- ऽऽविषुवद्वासरे प्रातः सांशां नालीं स मध्यगः | वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् || एवं क्षीणासु पादोनचतुर्दशसु नालिषु | मध्याह्ने दक्षविषुवन्नवप्राणशतीर्वहेत् || दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् | नवासुशतमेकैकं ततो विषुवदुत्तरम् || पञ्चके पञ्चकेऽतीते संक्रान्तेवीषुवद् बहिः | यद्वत्तथान्तः संक्रातिर्नवप्राणशतानि सा || एवं रात्रावपीत्येवं विषुवद्दिवसात् समात् | आरभ्याहनीशावृद्धिह्राससंक्रान्तिगोऽप्यसौ ||ऽऽ (६-२०१-२०५) इत्यादि कालतत्त्वप्रकाशने षष्ठ आह्निके | यत्तु तत्र मध्याह्ने दक्षविषुवदित्युक्तम्, तद् बाह्योत्तरायणविषुवद्दिने प्रातरुत्तरविषुवद् भवतीत्याशयात् | इह तु बाह्यदक्षिणायनविषुवद्दिने प्रातर्दक्षिणविषुवद् भवतीत्याशयादन्यथोक्तम् || १६९ || अथाध्यात्मसंक्रान्तीनां बाह्यकालस्थितिमादिशति ---- चतुवींशतिसंक्रान्त्यः समधातोः स्वभावतः | शतानि नव वै हंस एकामेकां वहेत् सदा || ७-१७० || समधातोः श्लेष्माद्यनुपहतस्य | अत्र च शुक्लप्रतिपदः प्रभृति दिनत्रयमादौ वामे मार्गे प्रथममर्धतृतीया घटिका हंसो वहति, ततोऽन्यद्दिनत्रयं दक्षिणे, ततोऽप्यन्यद्वामे, इत्यादिः क्रमः श्रीकालोत्तरादिशास्त्रोक्त-उदयज्ञप्त्यर्थं स्मर्तव्यः | यदुक्तं कालावल्याम् ---- ऽऽतत्र तावदयं प्राप्य दर्शप्रतिपदं मरुत् | समुदेति विधौ तावदादौ चन्द्रदिनत्रयम् || ततः संक्रमते सूर्ये तत्राप्युदयते त्र्यहम् | संक्रम्य त्रयमेतस्मात् पुनरेति हिमद्युतौ ||ऽऽ इत्यादि || उपसंहरति ---- एतन्मानं समाख्यातं............... संक्रान्तीनामिति शेषः || अन्यथाप्रवहनमिष्टेतरसूचकमित्याह ---- .............ऽन्यथा प्रवहेद्यदा | इष्टं चैवाप्यनिष्टं च तदा संसूचयेत्तु सः || ७-१७१ || समधातोरित्येव || यत एवम् ---- आत्मार्थं वा परार्थं वा तस्माद्योगी निरूपयेत् | आत्मार्थं निरूपयेद् आत्मना परीक्षीत | परार्थं निरूपयेद् इति परं निरूपणायां परीक्षायां नियुञ्जीत | अत्र निरूपयेदिति द्वौ णिचौ || अथात्र परीक्षाकालमाह ---- पूर्वोदये तु सम्प्राप्ते भास्करस्य वरानने || ७-१७२ || जीवितं मरणं चैव तदारभ्य विचारयेत् | जीवितसंलग्नत्वात् सुखदुःखादिभोगस्य प्रथमं तत्परीक्षैव प्राधान्यादिहोपक्रान्ता | भास्करस्य दक्षिणप्राणस्य | पूर्वोदये इति प्रोक्तोभयवाहात्मकप्रातस्तनविषुवत्कालानन्तरं यदोदयो भवति, तदा प्रभृति विचारयेत् | अत्र च बाह्योत्तरायणे विषुवद्वासरप्रातस्तनकालात् प्रभृति परीक्षेत, इति कालावलीकारः | सर्वदैव प्राभातिकप्रोक्तान्तवीषुवत्कालोत्तरभाविदक्षवाहात् प्रभृति, इति गुरवः || तत्र ---- सुसंयतमना योगी वीरो योगासनस्थितः || ७-१७३ || संस्मरन्नात्मजं प्राणं सुषुम्नान्तर्गतं प्रिये | सुसंयतत्वं मनसो विषयाकलुषितत्वम्, वीरः प्राणवाहनिभालनैकाग्रः | योगासनं पद्मासनादि | आत्मजं प्राणम् इति व्याख्यातावरोहक्रमेण चित्स्वरूपादेवोत्थितम्, सम्यक् स्मरन् दिव्यकरणबन्धक्रमेण पूर्वोक्तानुप्रवेशयुक्त्या परामृशन् || अतश्च ---- सुप्रशान्तस्तदा तिष्ठेत् प्राणैकगतमानसः || ७-१७४ || मध्यप्राणवाहावधानेन प्रत्ययान्तरप्रशमात् सुप्रशान्तः || १७४ || एवं सर्वप्रसरभित्तिभूतनिभालितसुषुम्नामार्गस्य योगिनो यदा ---- प्राणसंक्रान्तिकालो वै पिङ्गलैकस्थितो वहेत् | प्रवाहे विषुवद् देवि ज्ञात्वा कालं समादिशेत् || ७-१७५ || ज्ञात्वेत्यतोऽनन्तरं तदेत्यध्याहार्यम्, तेनायमर्थः ---- मध्यपथनिभालनपुरंसरं प्रभातकालमुभयवाहात्मकं निभाल्य, तदनन्तरं पिङ्गले दक्षिणमार्गे एवैकस्मिन् यथोक्तदक्षिणवामक्रमवाहोल्लङ्घनात्स्थितं चिरकालं समवस्थानमुपलक्ष्य तादृशि प्रवाहे कालम् इति स्वस्य परस्य वा मृत्युमादिशेत् || १७५ || एतद्विभजति ---- एकाब्दं जीवितं ज्ञेयमहोरात्रेण सुव्रते | अब्दद्वयं स जीवेत्तु अहोरात्रद्वयेन तु || ७-१७६ || त्र्यब्दं तु त्रिभिरेवात्र चतुभीश्चतुरब्दकम् | पञ्चाब्दं पञ्चदिवसैः षड्भिः षड्वर्षमेव च || ७-१७७ || सप्तभिः सप्त वर्षाणि जीवेदष्टाष्टभिदीनैः | नवभिर्नववर्षाणि दशभिर्दश एव च || ७-१७८ || दिनैकादशकेनैव वर्षैकादशकं प्रिये | दिनैर्द्वादशभिर्योगी जीवेद् वर्षाणि द्वादश || ७-१७९ || सप्तयामप्रवाहेण षण्मासानथ जीवति | प्रहरान् षड्वहेद्यस्य मासांस्त्रीन् वै स जीवति || ७-१८० || पञ्चप्रहरवाहेन द्व्यर्धमासायुरेव सः | चतुभीः प्रहरैर्देवि मासमेकं स जीवति || ७-१८१ || प्रहरत्रयवाहेन मासार्धं चैव जीवति | प्रहरद्वयं वहेद्यस्य दिनान्यष्टौ स जीवति || ७-१८२ || चतुरः प्रहरान् जीवेत् प्रहरं तु वहेद्यदा | प्रहरार्धं वहेद्यस्य स जीवेत् प्रहरद्वयम् || ७-१८३ || अत्र प्रोक्तनवशतप्राणवाहातिरेकेण यदि द्वादशदिवसाद्येकान्तानि दिनानि समधातोः प्राणः पिङ्गलायामेवैकस्यां स्थितो वाममार्गासंस्पर्शे वहेत् तत्तावत् संख्यान्येव वर्षाणि जीवितं भवति | सप्तप्रहराद्यर्धप्रहरान्ते तु स्ववाहाभ्यधिके वाहे षट्त्रिद्व्यर्धैकमासतदर्धदिनाष्टक- चतुदीनैकदिनदिनार्धमायुर्भवति | कश्चित्तु नवशतिकाद्वाहादनन्तरं प्राणापानवाहात्मकान्तरदिनस्थित्या दिनविभागं स्वपरपरीक्षार्थं तुटिचतुष्ट्यात्मकान्तरप्रवहणस्थित्या च प्रहरविभागं स्वपरीक्षार्थमेव व्याकृतवान्, अनुभवबाधं च बाह्यदिनादिवाहे प्रोक्तवान् सप्तप्रहरादिवाहं तु बाह्यमभ्युपेत्योपेक्ष्यमेत् | यतो यदि बाह्यानि द्वादशापि दिनान्यायातमृत्योः प्राणो वहति, तत्कोऽत्रानुभवबाधः | न तथोपलम्भोऽस्तीत्यनायातमृत्युनाऽनवधानेन चैतद्वक्तुं शक्यम् | इतरस्य तु तथा चोपलम्भो भवत्येव | तुटिचतुष्टयात्मकप्रहरस्थित्या च सप्तादिप्रहरवाहोऽत्यन्तासम्बद्ध एव, नहि कस्यचिदपि जातुचित् प्राणापानवाहः स्वाभाविकीं द्वासप्तत्यङ्गुलतामुत्सृज्य वहति, चतुष्प्रहरवाहे च षट्त्रिंशदङ्गुलान्तेऽपानस्याप्रवेशे तदैव मरणप्रसङ्गः | किं च तथाविधांशांशिकावाहो योगिना महता प्रयत्नेन साधितस्तत्तत्सिद्धिप्रद इत्यमावस्याप्रयत्नेन घटितः सिद्धिप्रद एवं भवेन्न तु जीवितावसानसूचकः | पिङ्गलैकस्थित इति चात्राश्लिष्टम् | यदि तु योगिभिरत्र पक्षे वाग्भरो दीयते, तन्नेयार्थमप्येतत् साध्वेव नास्माकं ग्रहः कश्चित्, तदपि तु दिनवाहः स्वपरीक्षार्थः, यामवाहस्तु स्वपरपरीक्षार्थ इत्यत्र न वचनं किञ्चिदस्ति; प्रहरादिवाहव्यवस्था च बाह्याप्यभ्युपगम्यत इति स्फुटमिदं स्वमनीषामात्रकल्पितम् ---- इत्यलं पूर्वैः सह निर्बन्धेन | विपर्यस्तस्त्वागमार्थावबोधोऽनुष्ठान- विपर्यासहेतुर्माभूदित्याशयेनैतदुक्तम् || ७-१८३ || किं च ---- सद्यो मृत्युर्भवेत्तस्य यस्य हंसस्त्रिमार्गगः | सद्य इति तस्मिन्नेवार्धप्रहरे | त्रयो मार्गाः नासारन्ध्रे मुखं च || अब्दादिजीवितं च तत्परीक्षाकालात् प्रभृति गणयेदित्याह ---- यदारभ्य निरूप्येत प्राणे वै कालमीश्वरम् || ७-१८४ || मासः पक्षो दिनं वर्षं तदहः प्रभृति प्रिये | संलक्ष्यैवं प्रयत्नेन तत्काले निश्चयो भवेत् || ७-१८५ || यतो बाह्यात् कालादारभ्य सकलकालव्यवस्थोत्थापकत्वात्कालम्, प्रभविष्णुतया विश्वस्याक्रमणाच्चेश्वरम् प्राणे प्रकृष्टेन निभालनात्मना यत्नेनैवमुक्तयुक्त्या निरूपयेत् परीक्षेत्, ततः प्रभृति मासपक्षदिनवर्षादि सम्यग् लक्षयित्वा तत्काले निश्चयो भवेदर्थाज्जीवितस्येति सम्बन्धः || उपसंहरति ---- उत्तरायणजे काले एवं ते कथितं मया | उत्तरायणमत्र दक्षिणनासापुटवाहः, तस्य संहारप्रधानत्वात् || प्रसङ्गात् प्रकारान्तरं मृत्युज्ञानार्थं प्रतिजानीते ---- अयुक्तस्यापि च प्राणे मृत्युज्ञानं निबोध मे || ७-१८६ || तदाह ---- कर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुते यदा | मरणं तस्य देवेशि षण्मासेन विनिदीशेत् || ७-१८७ || घोषं द्रुतसरिच्छब्दानुकारं न शृणोति | तदन्तःस्थं चीरवागाख्यप्राणिकार्यचिञ्चिनीतुल्यं शब्दं शृणोत्येव || १८७ || यदा तु तमपि ---- घोषमध्ये परं शब्दं चीरवाक्चिञ्चिनीरवम् | मासमेकं स जीवेत्तु न शृणोति यदा प्रिये || ७-१८८ || कर्णरन्ध्रकृतांगुष्ठ इत्यनुवर्तते || १८८ || प्रसङ्गादन्यदप्याह ---- उत्पाटं चैव काणं च मृत्युयोगं च मे शृणु | तत्र ---- संक्रान्तिपञ्चकं प्राणो मुखरन्ध्रे वहेद्यदा || ७-१८९ || तमुत्पाटं वदेद्योगं............. प्राणस्य स्वस्थानानसापथादुत्पाटनादयमुत्पाटः || १८९ || यदाह ---- ......ष्थानात् स्थानान्तरं व्रजेत् | अतश्चेदृगरिष्टलक्षणयुक्तोऽपि स्थानात् स्थानान्तरमुद्भ्रान्तपत्रिवद् भ्रमति, इत्यप्यत्रार्थः || किं च, ईदृशोत्पाटवतः ---- वित्तनाशस्तथोद्वेगो रोगवृद्धिश्च जायते || ७-१९० || सुहृद्गृहविनाशश्च तेजोहानिश्च जायते | काणमाह ---- दक्षिणे पुट एकस्मिन् दक्षिणायनवजीते || ७-१९१ || संक्रान्त्यष्टकवाहेन काणयोगो भवेद्धि सः | दक्षिणायनेन वामपुटवाहेन वजीते मध्ये तद्रहिते | एवं चाभिदधत् यत् ऽऽत्रिंशत्प्राणक्षयोदयाःऽऽ (७-२०२) इति मृत्युयोगे संक्रान्तिस्वरूपं वक्ष्यति, तदिहापि सम्बन्ध्यमिति सूचयति, दक्षिणायने प्राप्त्यभावाद्वर्जनानुपपत्तेः | अतश्च वामवाहनिमीलनेन दक्षिणैकवाहात् काणः इव काणः || अतश्च ---- भगन्धरोऽनुग्रन्थश्च नेत्ररोगश्च कामला || ७-१९२ || शूलं विस्फोटिका दुःखमुरोदोषा भवन्ति च | भगन्धरः पायुरोगः | अनुग्रन्थः सशूलोऽतीसारः | नेत्ररोगः तिमिरामयः | विस्फोटिका पिटिका | उरोदोषा उरःक्षताद्याः || वामकाणमुक्त्वा दक्षिणकाणमाह ---- वामनासापुटेनैव संक्रान्तीश्च त्रयोदश || ७-१९३ || यदि प्राणो वहेत् तदा दक्षिणवाहनिमीलनादयमपि काणः || १९३ || तस्मात् ---- ज्वरः शिरोऽतीः शूलं च अर्शांसि स्तम्भ एव च | मूत्रकृच्छ्रं प्रमेहश्च पाण्डुरोगश्च जायते || ७-१९४ || प्रमेहः शुक्लादिप्रस्रावः || १९४ || तदित्थं प्राणः ---- इडास्थः श्लेष्मणा व्याधिं प्रकोपयति सुव्रते | व्याधिमिति ज्वरादिपाण्डुरोगान्तम् || अस्य व्याधेर्जातस्योदयकालं निरूपयति ---- यस्मिंश्चारे निरूप्येत तत्कालदिवसे परे || ७-१९५ || व्याधिभिः पीड्यते सर्वैर्वामवामेतरेतरे | वामे तदितरस्मिन् दक्षिणे च काणयोगः, इतरत्र च मुखे उत्पाटो यत्र वाहकाले दृश्यते, ततः परत्र दिवसे तत्काल एव प्रोक्तव्याधिभिः पीड्यत इत्यर्थः || १९५ || एवमुत्पाटकाणौ द्वौ निर्णीय, मृत्युयोगमव्याकृत्य प्रसङ्गान्नासापुटभागस्पर्शं शुभादिसूचकं निरूपयति ---- अथान्यत् स्पर्शविज्ञानं नासाधस्तात्तथोपरि || ७-१९६ || वक्ष्यामीति शेषः || १९६ || तत्र ---- ऊर्ध्वेन स्पृशतश्चोर्ध्वं रुग्दोषाः प्राक्प्रचोदिताः | स्युरिति शेषः | ऊर्ध्वेन इति ऊर्ध्ववाहिना प्राणेन | ऊर्ध्वम् इति नासायाः | अत्र च दक्षिणेनोत्तरस्थं सम्बध्यते || ऊर्ध्वेनोक्त्वा अध आह ---- वाचाक्रोशाभिभवनं दक्षिणेन वहेद्यदा || ७-१९७ || ऽऽदक्षिणेन स्पृशेत्ऽऽ इति पाठे पूर्वेण सह एकवाक्यतया व्याख्येयम् || १९७ || किं च ---- मध्ये मध्यपुटस्पशीं पराभिभवतां व्रजेत् | मध्ये इति सर्वपार्श्वस्पर्शवर्जम् मध्यपुटी मध्यवंशस्तत्स्पशीं च || किं च ---- इतश्चेतश्च बहुधा संक्रान्त्येका वहेद्यदा || ७-१९८ || पूजनं बहुसंमानं लाभस्तस्य भवेत्तदा | संक्रान्तिगतानि नव प्राणशतानि | इतश्चेतश्च इति वामदक्षिणवाहयोर्यदि पर्यायेण बहुशो वहेत् प्राणस्तदा पूजादिकं भवति | यत्तु कश्चिद् ऽऽयदाऽऽ इत्यत्र ऽऽतदाऽऽति पठित्वा पूर्वेण पराभिभवेन फलेन श्लोकार्धं योजितवान्, पूजनं बह्वित्यर्धं चोत्तरश्लोकेन, तदासारत्वादुपेक्ष्यम् || १९८ || किं च ---- मन्दचारे सुषुम्नायां प्राणहंसो वहेद्यदा || ७-१९९ || भूलाभो धर्म एश्वर्यं भवेच्चात्र प्रियागमः | सुषुम्नायाम् इति मध्यमार्गे स्वरसत एव यदा वहेदिति व्याकर्तव्यम्, न तु यथा बृहट्टीकाकारेण व्याकृतं नासापुटमध्य इति || एवं प्रासङ्गिकमुक्त्वावशिष्टं मृत्युयोगं निर्णेतुमाह ---- द्वादशैव तु संक्रान्तीर्वहेद्विषुवतैकतः || ७-२०० || तदैकवत्सरेणैव मरणं तु समादिशेत् | ह्रसेत् संक्रान्तिरेकैका मास एको ह्रसेत्तदा || ७-२०१ || विषुवतेति ऽऽउद्वतो निवतःऽऽ इति प्रयोगदर्शनादर्हार्थवत्यन्तस्यानव्ययत्वात्तृतीया | तेन वामदक्षिणयोर्युगपदवस्थित्या यदि द्वादश संक्रान्तिः समनन्तरवक्ष्यमाणत्रिंशत्प्राणचारात्मकैकसंक्रान्तिकलनया षष्ट्यधिकत्रिशतिकवाहात्मिका नवशतिकं स्वाभाविकं वाहमपास्य, एकत इत्येकप्रघट्टकेन वहेत्, तदा मासेन मरणं सूचयति | एकैका तु संक्रान्तिर्यदि ह्रसेद् इत्येकादशदशादिसंक्रान्तीर्यदा वहेत् तदा तावद्भिर्मासैर्मरणम्, यावत् स्वाभाविकनवशतिकविषुवद्वाहोल्लङ्घने यद्येकां त्रिंशत्प्राणचारात्मिकां संक्रान्तिं वहेत् तदा मासेन मरणं निश्चेयम् | पूर्वं ऽऽशतानि नव वै हंस एकामेकां वहेत् सदा |ऽऽ (७-१७०) इति यत् संक्रान्तेर्मानमुक्तम्, तदेवोत्पाट-काण-योगसंक्रान्तीनां दक्षिणायनवजीते (७ | १९१) इत्यभिधानादिति निर्णीतम् || २०१ || मृत्युयोगे त्वन्यथेत्याह ---- संक्रान्त्येका वरारोहे त्रिंशत्प्राणक्षयोदया | प्राणापानवाहस्य अहोरात्रत्वेन उक्तत्वात् तत्त्रिंशता इह संक्रान्तिर्मन्तव्या, इत्यर्थः || इत्थमीदृश्येकैव संक्रान्तिर्यदि स्वाभाविकं विषुवद्वाहमपास्य, तत्स्थाने ---- दिने दिने वहेद् बाह्ये यावत् त्रिंशद्दिनानि तु || ७-२०२ || तदा ---- मासान्ते तु भवेन्मृत्युः सद्य एव वरानने | तदित्थम् ---- मृत्युयोगः समाख्यातो मया ते वरवणीनि || ७-२०३ || अत्रापि पूर्ववत् परीक्षाकालात् प्रभृति प्रोक्ताशुभसूचककालगणना कार्येत्याह ---- अब्दं मासं तथा पक्षं तिथिं वेलां यदाभ्यसेत् | यत्कालात्तु समारभ्य तत्कालं तु समादिशेत् || ७-२०४ || यत्कालादभ्यसेद्यदा परीक्षितुमुपक्रमेत, ततः कालादारभ्य वर्षमासादि मरणादिसूचकं क्रमेण स्वात्मनः परस्य वा कथयेदित्यर्थः || २०४ || तदीदृशमेवंविधशुभाशुभसूचकम् ---- इडासुषुम्नामार्गेण प्राणचारं विदुर्बुधाः | सावधाना एव योगिनो जानीयुः, न त्वन्य इत्यर्थः | इडासुषुम्ने पिङ्गलां विषुवं चोपलक्षयतः || उपसंहरति ---- दक्षिणायनजे काले एवं ते कथितं शुभम् || ७-२०५ || दक्षिणायनजः कालो वामपुटवाहः | एतदपि पूर्ववदुपलक्षणपरमेव || २०५ || यदर्थमियदुक्तम् तत्प्रस्तावयति ---- एवं शरीरजे काले मृत्युं चाशुभमेव च | ज्ञात्वा योगी जयेन्मृत्युमशुभान्यप्यशेषतः || ७-२०६ || स्वस्य परस्य वा || २०६ || कथमित्याह ---- ध्यात्वा कालेशस्वच्छन्दं हंसं वा सकलेश्वरम् | कालस्य स्थूलसूक्ष्मादिभेदवतो बाह्यान्तरादिरूपस्य सर्वस्येशं यथारुचि निर्भासकम्, हंसं व्याख्यातपरनिष्कलस्वरूपं श्रीस्वच्छन्दं सकलस्य जगत ईश्वरं ध्यात्वा अनुप्रवेशयुक्त्या स्फुटीकृत्य योगी मृत्युं जयेदिति पूर्वेण सङ्गतिः || कुत्रस्थोऽसौ कीदृग् ध्येयः ? ---- इत्याह ---- नासिकारन्ध्रमार्गस्थः स सृजेत् संहरेज्जगत् || ७-२०७ || त(न्त्र)१स्थः कलयेत् सर्वं सर्वभूतेष्ववस्थितः | ऽऽयः सर्वभूतेषु स्थावरजङ्गमरूपेषुऽऽ ---- ङादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम्ऽऽ (कालो० १ | ५) इति तन्त्रान्तरोक्तस्थित्या अवस्थितः, नसते कौटिल्येन गच्छतीति नासिका मध्यशक्तिः, तद्रन्ध्रमार्गे सौषुम्ने धाम्नि स्थितो यथोक्तावरोहक्रमेण प्राणरूपतां श्रित्वा नासायां रन्ध्रमार्गेषु च चक्षुरादिसुषिरभूमिषु स्थितः, स उन्मेषनिमेषयुक्त्या बाह्यान्तररूपं जगत् सृजेत् संहरेच्च | यतस्तत्रस्थः सन् सर्वं कलयेद् अन्तरवस्थितं बहिः क्षिपेत्, बहिराभासितं चान्तः क्षिपेत्, अथ च कलयेद् गणयेत् वैचित्र्येण स्थापयेत् जानीयात् परामृशेच्च, कलतेः क्षेपसंख्यानगतिशब्दार्थत्वात् || तेनेदृशं स्वच्छन्दनाथं कालेश्वरम् ---- तत्स्थं ध्यात्वा जयेन्मृत्युं............. मध्यधाम्नः प्रभृति अशेषरन्ध्रव्याप्त्यावस्थितं परचैतन्यविमर्शसारमकालकलितम्, ध्यात्वा इति स्वात्मरूपत्वेन प्रत्यभिज्ञाय तदवष्टम्भेनावस्थितो मृत्युं जयत्येव || यतः ---- .........णाकालस्थं कलेत् प्रभुः || ७-२०८ || अकाले कालातीतपरमेश्वरात्मनि यस्तिष्ठति तदभेदेन स्फुरति तं प्रभुः परमेश्वरो न कलयेत्, स्वात्मनि क्रियावरोधात् || २०८ || यदि चात्रैव पदे योगीन्द्रः सततावहितो भवति, तदास्य ---- ध्यानयुक्तस्य षण्मासात् सर्वज्ञत्वं प्रवर्तते | कालत्रयं विजानाति कालयुक्तस्तु योगवित् || ७-२०९ || परस्वच्छन्दस्वरूपसमावेशरसेन धीसन्तानोत्तेजनात् षाण्मासिकात् सर्वं कालाग्न्यादिशिवान्तं जानाति, यदा तु तत्समावेशरसाच्छुरित एव काले प्राणचारे युक्तोऽवहितो भवति, तदातीतवर्तमानानागतं सर्वं जानाति योगिवरः || २०९ || किं च ---- कालहंसं स तु जपन् ध्यायन् वापि महेश्वरि | स भवेत् कालरूपी वै स्वच्छन्दः कालवच्चरेत् || ७-२१० || हतमृत्युर्जरां त्यक्त्वा रोगैः सर्वभयोज्झितः | पूर्वनिर्णीतो यः परनिष्कलभट्टारकात्मा हंसः, स एव निर्णीतहानसमादानधर्मतया विश्वं कलयन् कालहंस इतीह उक्तः | तं जपन् ध्यायन् वेति पञ्चप्रणवाधिकारयोजनिकाग्रन्थोक्तव्याप्तिचिन्तनया भूयोभूयस्तद्विश्रान्तिपरत्वेन चतुष्कलभट्टारकमन्त्रोच्चारावर्तनेन जपन्, कालरूपीत्यशेषविश्वकलनात्मकं कालरूपं प्रशस्तं विद्यते यस्य श्रीस्वच्छन्दभट्टारक एवासौ स्यात् | तद्वदेव च विचरेत सर्वदैव पञ्चविधकृत्यकारितया प्रसरेत् | रोगेर्हेतुभिः कृतं यद्भयम्, तेनोज्झितः || किं चास्य ---- विज्ञानं श्रवणं दूरान्मननं चावलोकनम् || ७-२११ || सर्वैश्वर्यगुणावाप्तिर्भवेत् कालजयात् सदा | दूरादिति सर्वत्र योज्यम् | विज्ञानं बुद्धेः, मननं मनसो व्यापारः, अवलोकनं चक्षुषः | एतच्च सर्वान्तरर्बहिष्करणव्यापारोपलक्षणपरम् | तदेवं सर्वरन्ध्रव्यापकदेशकालातीतस्वच्छन्दभैरवात्मकहंस- स्वरूपात्मताव्याप्तौ शरीरेन्द्रियादिभूम्युत्तरणात् पुनश्च परतत्त्वरसेन तदास्फुरणाज्जरामृत्युरोगमितविषयज्ञानानैश्वर्याद्य- भावोऽर्थसिद्ध इवेत्युक्तम् || इदानीं दक्षिणवाममध्यवाहेषु क्रमेण हंसध्याने तदुचितं मृत्युजयमादिशति ---- दक्षनासापुटे ध्यात्वा ब्राह्मैश्वर्यमवाप्नुयात् || ७-२१२ || तदायुस्तत्समं वीर्यं भूतकालं च वेत्त्यतः | भविष्यज्ज्ञो भवेद्वामे विष्णुतुल्यबलश्च सः || ७-२१३ || तत्समं चैतदैश्वर्यं तदायुर्योगिराड् भवेत् | भूतं भव्यं भविष्यच्च सर्वं जानाति मध्यतः || ७-२१४ || नित्यं वै ध्यानयोगेन रुद्रस्य समतां व्रजेत् | आयुषा बलवीर्येण रूपैश्वर्येण तत्समः || ७-२१५ || ब्रह्मणः परभावेन एश्वरं पदमाप्नुयात् | विष्णोः सदाशिवैश्वर्यं परभावादवाप्नुयात् || ७-२१६ || रुद्रस्य यः परो भावो ध्यात्वा तं तु शिवो भवेत् | इह ---- ऽऽब्रह्मेश्वरौ च दक्षस्थौ वामे विष्णुसदाशिवौ | मध्ये रुद्रशिवौ प्रोक्तौ......................... ||ऽऽ (७-१५१) इति नाडित्रय एव षट्कारणावस्थितिः परापरभेदेन पूर्वमुक्ता | तेन दक्षवामनाडिषु यदि हंसं ब्रह्मविष्णुरुद्ररूपमपरया व्याप्त्या ध्यायन् विमृशति, तदा तद्बलवीर्यैश्वर्ययोगी भवति | अतीतभाविवर्तमानरूपत्रैकालिकं विश्वं जानाति | अत्र च ब्रह्मादीननया व्याप्त्या ईश्वरसदाशिवशिवरूपान् ध्यात्वा तद्रूपतां लभते || उपसंहरति ---- एवं मृत्युजयः ख्यातः........... अथ ---- ..........ऽमृतं ध्यायतो जयः || ७-२१७ || मृत्योरेवेति शेषः || २१७ || कथमित्याह ---- नाडिभिन्नालरन्ध्रस्थं हृत्पद्मं षोडशच्छदम् | ध्यात्वा सितं सुविकचं कलाषोडशकान्वितम् || ७-२१८ || सम्पूर्णावयवं चन्द्रं कणीकाकारविग्रहम् | तन्मध्ये चिन्त्यमात्मानं शुद्धस्फटिकनिर्मलम् || ७-२१९ || क्षीरामृतार्णवावस्थकल्लोलामृतपूरितम् | उपरिष्टाद् द्वितीयाब्जं शाक्तामृतमहोदधौ || ७-२२० || तच्चाधो मुखपद्मं तु परिपूर्णेन्दुकणीकम् | तन्मध्ये चिन्तयेद्धंसमधो बिन्दुशिखान्वितम् || ७-२२१ || वर्षन्तममृतं दिव्यं समन्तात् संविचिन्तयेत् | आत्मोर्ध्वरन्ध्रमार्गेण प्रविष्टं तच्च चिन्तयेत् || ७-२२२ || सितं सुबहुलं सान्द्रममृतं मृत्युनाशनम् | तेनाप्लावितमात्मानं पूर्यमाणं विचिन्तयेत् || ७-२२३ || पद्मनालनिबद्धैश्च नाडीरन्ध्रमुखैः सदा | अमृतापूरितं देहं सर्वमेव विचिन्तयेत् || ७-२२४ || एवं वै नित्ययुक्तात्मा अमृतेशसमो भवेत् | व्याधीन् मृत्युं जरां त्यक्त्वा क्रीडते त्वणिमादिभिः || ७-२२५ || एवं तस्यामृतध्यानात् कालमृत्युजयो भवेत् | हृद्द्वाशान्तोर्ध्वाधः स्थितं श्रीपूर्वाद्युक्तामृतादिदेवतावाच्यकारादि- वर्णषोडशककलिततावत्पत्रविकसितसितकमलमध्यस्थम्, अधःकमलकणीकापूर्णेन्दुबिम्बनिष्ठम्, उर्ध्वाब्जकणीकापूर्णेन्दुमध्यस्थाधोमुखसितचतुष्कलबिन्दु- प्रकाशप्रसरत्सुधासारपूरितब्रह्मरन्ध्रविसृतकल्लोलप्लावितम्, अमृतराशिमध्यगम्, आत्मानं स्फटिकप्रभं विचिन्त्य, तदमृतं तदधःस्थसिताब्जनालरन्ध्रनानानाडीमुखैर् उच्छलत्समस्तदेहव्यापकं यः षण्मासान् सततं चिन्तयति, स गतव्याधिरजरामरणोऽणिमादिसिद्धिभागमृतेशभैरवतुल्यो भवतीति पिण्डार्थः | नाडिरूपतया भिद्यन्ते नानारूपत्वेन स्फुरन्ति यानि नालरन्ध्राणि, अर्थादधोऽब्जगतानि तत्स्थमिति, तैर्ग्रन्थिस्थानगतैः सम्बद्धम्, नालमत्र मध्यनाडीरूपम्, क्षीरं क्षीरोदाद्यदुद्भूतममृतम्, तद्रूपोऽर्णव इति सङ्गतिः | अमृतं चात्र परशक्त्यानन्दसारम् || एवं सर्वनाडीमार्गत्रयाश्रयहंसध्यानादमृतध्यानाच्च मृत्युजयमभिधाय, तात्त्विकमनुत्तरसाररूपमादेष्टुमुपक्रमते ---- अथवा परतत्त्वस्थः सर्वकालैर्न बाध्यते || २२६ || अथवेत्यनेनेदं ध्वनति ---- कतिपयकालशरीरस्थैर्यादिमृत्युजयप्रकारेभ्योऽयमन्य एवातिविर (ल१) महायोगीन्द्रहृदयङ्गमस्तत्प्रकारो यत्र देहावस्थित एव श्रीस्वच्छन्दभैरवतां सर्वदैव समाविशति कोऽपि (अ)पश्चिमजन्मा जन इति || २२६ || तत्र यादृक्परं तत्त्वम्, यथा च तन्मयीभावस्तदादेष्टुमाह ---- चिन्तयेत् परमं तत्त्वं कालचारविवजीतम् | कलाकलङ्कनिर्मुक्तं निष्कलं परमं पदम् || ७-२२७ || चिन्तयेत् स्वाभेदेन विमृशेत्, परं तत्त्वं हृद्द्वादशान्तस्फुरितं चिदानन्दघनात्मकम्, कालचारेण बाह्येनान्तरेण च वजीतम्, कलाकलङ्केन कल्पनामलेन शून्यम्, अत एव चतुष्कलवदकारादिकलायोगाभावाद् निष्कलम् परमं पदमनुत्तरं धाम || २२७ || न केवलं परमं धामेदृग् यावत् ---- निष्कलं चात्मतत्त्वं तु.............. आत्मतत्त्वं समनोपरि शुद्धात्म, निष्कलं त्यक्तसमनान्तभेदकलनम् || यतः ---- ...............कलङ्को देह उच्यते | संयुक्तः कारणैः षड्भिः सर्वतत्त्वसमन्वितः || ७-२२८ || वर्णो बिन्दुस्तथा नादो व्यापिनीशक्तिसंयुतः | समनावधिपर्यन्तः कलङ्काधार उच्यते || ७-२२९ || एतदुक्तं भवति ---- यथायं स्थूलस्तत्त्वादिरूपो देहः कलङ्कः, तथा कारणापरभैरवरूपो हि परव्याप्त्यायमात्मनि | यथा स्थूलदृष्ट्या देह प्राणादिरस्य कलङ्कस्तथा परदृष्ट्या समनान्ता प्रमेयमाला कलङ्क एव | वर्णः अकार उकारो मकारश्च | कलङ्करूपश्चासावाधार इति समासः | कलङ्कत्वं चास्य सर्वस्य परशिवाभेदाप्रथनात् || २२९ || यस्य चायमाधारः, सः ---- आधेयः परमो ह्यात्मा............ यः पूर्वं शुद्धविज्ञानकेवलो भेदवादिनां मोक्षभूरित्युक्तः | अथ ---- ...........टत्पराप्युन्मना स्मृता | अस्याश्चान्ते परं तत्त्वं सकलाकलवजीतम् || ७-२३० || व्यापकं सर्वतोभद्रं सर्वान्तः सर्वतोमुखम् | पञ्चपञ्चकतत्त्वस्थमष्टादशगुणान्वितम् || ७-२३१ || सकलः समनान्तः स्फारः, अकलः शुद्धात्मा, ताभ्यां वजीतं तयोः परस्परावच्छेदेन संकुचितत्वात् तत्तु व्यापकं दिक्कालासंकुचितम्, सर्वतश्च भद्रं चिदानन्दघनम्, सर्वस्य चान्तः जीवितभूतत्वेन स्थितम्, पूर्वापरमध्यकोटिमध्यगतं च | सर्वतः सर्वेण मुखमिव मुखं स्वात्मप्रत्यभिज्ञोपायरूपम् | पञ्चपञ्चकानि तत्त्वानि तथाष्टादश गुणांश्च स्वयमेव व्याख्यास्यति | पञ्चपञ्चकेषु च तत्त्वेषु च स्थितं तदभिन्नमूत्तीं गुणेषु चान्वितम् अनुगततया स्थितम् || २३१ || तदित्थंभूतमेतत् ---- यद्यस्मिंस्तु परं वेत्ति तदा मुच्येत बन्धनात् | ऽऽकलङ्को देह उच्यतेऽऽ (७-२२८) इत्युपक्रान्तत्वादस्मिन् देहप्राणादावेवावस्थितो यद्युक्तरूपं परं तत्त्वं वेत्ति, तदा बन्धनान्मुच्यत एव, जीवन्नेव स्वानुभवेन परभैरवतामाविशतीत्यर्थः || अथ पञ्चपञ्चकं दर्शयति ---- कारणानि च मन्त्राश्च निवृत्त्याद्याः कलास्तथा || ७-२३२ || बिन्दुश्चैवार्धचन्द्रश्च निरोधी नाद ऊर्ध्वगः | शक्तिश्च व्यापिनी चैव समनात्मा तथोन्मना || ७-२३३ || पञ्चपञ्चकमेतद्धि कथितं ते वरानने | कारणानि ब्रह्मादीनि षट् | मन्त्रा इति अकारोकारमकारा ब्रह्मविष्णुरुद्रवाचकास्त्रयः, बिन्दुनादशक्तीनामीशसदाशिवशिववाचिकानां सर्वमन्त्रसाधारणबिन्द्वाद्युन्मनान्तप्रमेयदशकमध्ये कथनात् | अतो मन्त्रशब्देन साधारणप्रमेयदशकावशिष्टा असाधारणास्त्रय एव उक्ताः | तथा वक्त्राङ्गमन्त्रैकादशिकावर्गश्चतुर्थ इत्येते दश, ब्रह्मादिकारणाधिष्ठिताश्च निवृत्त्याद्याः कलाः पञ्च प्राग् व्याकृताः, तत्त्वं च बिन्द्वादिप्रमेयदशकमित्येतत्पञ्चपञ्चकम् || तत्त्वान्याह ---- तत्त्वान्येव तु षट्त्रिंशत्................ पृथिव्यादीनि षट्त्रिंशत् पूर्वमेवोक्तानि | अत्र सर्वत्र परतत्त्वमभेदेन स्थितमिति पूर्वेण सम्बन्धः || अथ ---- ..............गुणांश्चैव निबोध मे || ७-२३४ || गुणाः परभैरवस्य गृहीतमायाप्रमातृभूमिकस्य परापरदशौचित्येनावस्थिता धर्माः शक्तयः || २३४ || तानाह ---- अहङ्कारो धीर्मनश्च इन्द्रियार्थास्तथैव च | ग्रहणं स्पर्श आधारः शक्तिश्चैवाष्टमी स्मृता || ७-२३५ || एते चाष्टौ गुणाः............. अन्तःकरणत्रयमिन्द्रियार्थसहितोऽर्थवर्गश्चतुर्थः, ग्रहणं च तद्विषयज्ञानम्, स्पर्श आन्तरसुखाद्युपलम्भः, आधारः शरीरम्, शक्तिर्ज्ञानक्रियात्मा प्रयत्नश्चेत्यष्टावपररूपस्यात्मनो धर्माः शक्तयः | यतो यत्किंचित् प्रकाशते विषयशरीरादि, तत्प्रकाशरूपाच्चेतनादभिन्नम्, अन्यथास्य प्रकाशनायोगादित्यस्य धर्मरूपमेव सर्वम् || अस्यैव पराव्याप्तिमाविष्टस्य ---- ........ऽष्टौ भैरवा भैरवाष्टकम् | ये पूर्वं कपालीशादयोऽष्टौ भैरवा उक्तास्तदात्मानः परव्याप्त्या भैरवस्य सतोऽष्टकं गुणानामित्यर्थः || किं चास्य ---- प्राणहंसस्तथा शक्तिः.......... अपरपरावस्थायाः क्रमेण धर्माः | यथा हि परमेश्वरः स्वस्वातन्त्र्यात् गृहीतात्मभूमिकस्तथा तदीयस्वातन्त्र्यात्मापि शक्तिः संकुचिततया भान्ती प्राण इत्युक्तप्रायम् || तदित्थम् ---- .........गुणा अष्टादश त्विमे || ७-२३६ || अतश्च ---- एतेषु तत्परं तत्त्वमुच्चारालम्बनादृते | उच्चारः करणबन्धादिपूर्वं मन्त्रोदीरणम्, आलम्बनं ध्यानाद्याश्रयणम्, तद्विना एतेषु सर्वेषु भेदेष्वभेदेन स्थितमिति शेषः | उपायाभिमतानामपि स्वप्रकाशचिद्भित्त्यैक्येन प्रकाशनात् | तदुक्तमस्मत्प्रभुपादैः ---- ऽऽउपायजालं न शिवं प्रकाशयेद् घटेन किं भाति सहस्रदीधितिः | विवेचयन्नित्थमुदारदर्शनः स्वयंप्रकाशं शिवमाविशेत्क्षणात् ||ऽऽ (तं०सा० २ आ०) इति || तदेव विशिनष्टि ---- अक्षराक्षरनिर्मुक्तं परं तत्त्वमनक्षरम् || ७-२३७ || अक्षरेणाविमलेन जीवात्मना रूपेण आ समन्तात् क्षरैः सर्वभूतैश्च निर्मुक्तं परचिन्मात्रमित्यर्थः, अथवाऽक्षरैर्वाचकैरक्षरैश्च तत्सम्बन्धिभिर्वाच्यैराकारैनीर्मुक्तमकारोकारादिवाचकमन्त्रकला- तद्वाच्यरूपं न भवतीत्यर्थः || युक्तं चैतत्, यतः ---- अक्षरेषु कुतो मोक्ष आकाशे कुसुमं कुतः | अत्यन्तासम्भाव्यमेतद् यत् स्थानप्रयत्नादुच्चार्यत्वात् सोपाधिषु मन्त्रावयवरूपेषु अक्षरेषु उच्चरत्सु निरुपाधिचिद्घनतत्त्वसमावेशात्मा मोक्षो भवतीति, परतत्त्वस्य वर्णतद्वाच्यरूपत्वाभावात् | उक्तं चैतत्प्राक् ---- ऽऽतस्य रूपं शरीरं च नास्ति वर्णः क्रिया तथाऽऽ (६-१२) इति | किं च, अक्षरेषु भिन्नेषु बहुषु मुक्तात्मसु इष्यमाणेषु कुतो मोक्षः ---- ऽऽत आत्मोपासकाःऽऽ (४-३९२) इत्यभिहितत्वात् || अत एव ---- यावदुच्चार्यते वाचा यावल्लेख्येऽपि तिष्ठति || ७-२३८ || तावत् स सकलो ज्ञेयो निष्कलो भेदवजीतः | पश्यन्तीपर्यन्ताभिर्वाग्भिरुच्चार्यमाणस्तत्तदकारादिकला- बन्धान्मन्त्रः सकल एव भवति, लिपिध्यानक्रमेऽपि आप्यायादि कुर्वन्नपि अम्बा-ज्येष्ठा-रौद्री-वामाख्यलिपिकलायोगादपि सकल एव | यस्तु सर्वभेदप्रत्यस्तमयात् स्वप्रकाशानाहतपरामर्शमयः, स निष्कलः | एतच्च वितत्य पञ्चप्रणवाधिकारादौ निर्णीतम् | उक्तं च श्रीविज्ञानभट्टारके ---- नहि वर्णविभेदेन देहभेदेन वा भवेत् | परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत् || (६ श्लो०) इति || अतश्चायम् ---- सृष्टिसंहारनिर्मुक्तः क्रियाकालविवजीतः || ७-२३९ || नायं मन्त्रान्तरवत् सृज्यते संह्रियते वा, नाप्यास्योच्चारध्यानादिक्रियाकालोऽस्ति | तथोक्तम् ---- ङास्योच्चारयिता कश्चित्ऽऽ (७-५९) इत्यादि || २३९ || एतद् व्यनक्ति ---- अधश्चारे भवेत् सृष्टिरूर्ध्वे संहार उच्यते | अधश्चारेण जातोऽसौ ऊर्ध्वे चैव मृतो भवेत् || ७-२४० || सूतकं मृतकं त्यक्त्वा तिष्ठेद् वै तत्त्ववृत्तितः | अधश्चारोऽपानः | ऊर्ध्वचारस्तु प्राणः | सृष्टिसंहार इति त्रिविधस्य देहप्रमातुः | असाविति देहप्रमाता | इत्थं मुहुः सूतकमृतकाशौचमयः | यदा तु देहप्रमातृताभिमानं प्रशमयय सत्यां चित्प्रमातृतामवलम्बते, तदा दलकल्पदेहप्राणादिपदवर्त्यप्ययं चिदामोदसुन्दरस्तत्त्ववृत्तिस्थित एवेति का मृतकसूतकसम्भावनापीति, इत्थमेतद् व्याकार्यम्, न तु प्राणापानप्रशमपदे सततमवस्थेयमिति, योगिनां व्युत्थानदशासम्भवेन तत्र सततावस्थानाघटनात्, ऽऽएतेषु तत्परं तत्त्वमुच्चारालम्बनादृतेऽऽ (७ | २३७) इत्युक्तेन वक्ष्यमाणेन च ग्रन्थेन विरोधापत्तेः | यदि चामुखे प्राणातानप्रशमपदनिभालनं तत्त्ववृत्त्यनुभवे भवत्युपायः, तथापि तदुपायपूर्वं सर्वदा सर्वावस्थासु सर्वत्र चिदानन्दघनपरमशिवतामयत्वज्ञानमेव तत्त्ववृत्त्यवस्थितत्वम् | यद्वक्ष्यति ---- शर्वं शिवमयं स्मरेत्ऽऽ (७-२४४) इत्यादि || तदित्थमियम् ---- तत्त्ववृत्तिश्च व्याख्याता सर्वाध्वोपाधिवजीता || ७-२४१ || षड्वधस्याप्यध्वनः पारमाथीकसत्तया चिन्मयया परिज्ञातत्वात् नास्त्युपाधित्वम्, व्यतिरेकाभावात् | विशेषेणाख्याता तत्र तत्र शास्त्रे निराचारावधूतनिर्मर्यादस्फुरत्तामहासत्तासमापत्तिसमावेशादिशब्द व्यवहृतत्वात् || २४१ || अतश्च ---- तत्त्वाध्वधर्मनिर्मुक्तः कारणैश्च विवजीतः | तत्त्ववृत्तौ स्थितो योगी सर्वारम्भविवजीतः || ७-२४२ || रागद्वेषविनिर्मुक्तो विषादानन्दवजीतः | नाकाङ्क्षेन्न च निन्देत्तु विषयांश्च कदाचन || ७-२४३ || समः शत्रौ च मित्रे च ब्राह्मणे श्वपचे समः | तुल्यदशीं भवेन्नित्यं सर्वं शिवमयं स्मरेत् || ७-२४४ || तत्त्वादिभिः शरीरावस्थितैर्नास्याहन्तावच्छिद्यत इत्यर्थः | अत एव चायं चित्समापन्नत्वात् सर्वैरारम्भैर्हेयोपादेयविषयाभिः प्रवृत्तिभिवीशेषेणाभिनिवेशात्मना वजीतः, यतस्तत्प्रवृत्तिहेतुभ्यां रागद्वेषदोषाभ्यां रहितः | तद्रहितत्वमप्यस्य विषयसङ्गसम्पाद्यविषादानन्दविरहात्, अत एवास्य आकाङ्क्षाद्यभावो यथोपनतमात्रभोगातिवाहकत्वात् | नास्य शत्रुमित्रब्राह्मणश्वपचेषु अपकार्युपकारिशुश्रूषापवित्रतादिधीः | तुल्यत्वेनासौ सर्वं पश्यति केवलम्, न तु लोकमध्यस्थो लोकस्य स्थितिभङ्गमुत्पादयेत् | इदं त्वस्य मुख्यं रूपं यत्सर्वं शिवत्वेन चिन्तयेत् | यदुक्तं श्रीविज्ञानभैरवे ---- ऽऽयत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये | तत्र तत्र शिवावस्था व्यापकत्वात् क्व यास्यति ||ऽऽ (११६) इति | तथा ---- शर्वं देहं चिन्मयं हि जगद्वा परिभावयेत् |ऽऽ इति || २४४ || सर्वं शिवमयं स्मरेदित्युक्तम् | तत्र सर्वमध्ये यद्यप्यात्मा प्रविष्टस्तथाप्यसौ अनादिशिवाद्भिन्न इति भेदवादिदृशा भ्रमो मा भूदित्याह ---- आत्मानं च तथैवैवं सर्वथैव सदा स्मरेत् | तथैवैवमिति विश्वात्मकपरमशिवैक्येन || अतश्च ---- सर्वतत्त्वानि भूतानि वर्णा मन्त्राश्च ये स्मृताः || ७-२४५ || नित्यं तस्य वशास्ते वै शिवभावनयानया | सर्वस्य शिवाभिन्नस्वात्मैक्येन दर्शनात्, भूतानि चतुर्दश, वर्णाः शब्दराशिशरीरस्थाः || ईदृक्तत्त्ववृत्तिनिष्ठत्वादेव ---- न चासौ कुरुते पुण्यं नैव पापं च सुव्रते || ७-२४६ || बुद्धिपूर्वं शुभमशुभं वा न किञ्चित् करोति || २४६ || यतोऽसौ ---- कृतकृत्यः प्रसन्नात्मा............. कृतं निष्पन्नं कृत्यं परमेशात्मस्वात्मसमापत्त्यात्मकं यस्य | प्रसन्नो मलाकलङ्कितः || अत एव ---- ........कृत्यं चास्य न विद्यते | च एवार्थो भिन्नक्रमः | यतोऽस्य कृत्यं नैव विद्यते, तेन कथं पुण्यं पापं वा कुर्यात् || जीवन्नप्यसौ मुक्त इत्याह ---- इह लोके परस्मिंश्च परिपूर्णस्तु सर्वदा || ७-२४७ || इहेति व्युत्थानाभिमतावस्थायामित्यर्थः || यदि बुद्धिपूर्वं धर्मादि नाचरति, तत्प्रमादसम्पन्नं परोपकारादिकमस्यावारकम् ? नेत्याह ---- धर्माधर्मविनिर्मुक्तः.............. अभिसन्धिं विना कर्मणो बन्धकत्वाभावात् || प्राक्शरीराजीतमप्यस्य पुण्यादिकमावारकं नेत्याह ---- ..............पुण्यपापविवजीतः | प्रोक्तज्ञानाग्निना तयोर्भस्मीकृतत्वादित्यर्थः || अत एवेदृशस्य ज्ञानराशेर्योगिनः ---- न चास्य भक्ष्याभक्ष्यं हि न पेयापेयमेव च || ७-२४८ || नापवित्रं हि तस्यास्ति न पवित्रं हि सुव्रते | निरपेक्षो ह्यसौ नित्यं सर्वापेक्षाविवजीतः || ७-२४९ || सर्वस्य शिवैक्येन प्रतीतत्वात् | तदुक्तं श्रीविज्ञानभैरवे ---- ऽऽकिञ्चिज्ज्ञैर्या स्मृता शुद्धिः साशुद्धिः शम्भुदर्शने | न शुचिर्ह्यशुचिस्तस्मान्निवीकल्पो भवेत् सदा ||ऽऽ (१२३) श्रीमदुच्छुष्मभैरवेऽपि ---- ऽऽयावन्न वेदका एते तावद्वेद्याः कथं प्रिये | वेदकं वेद्यमेकं तु तत्त्वं नास्त्यशुचि ततः ||ऽऽ इति || २४९ || ईदृशस्य च ---- नास्य क्षेत्रं नास्य तीर्थं नियमो यम एव च | नियमो जटाभस्मादिपरिग्रहः, परभैरवस्फाररूपस्य नास्य कश्चित् सङ्कोच इत्यर्थः | तदुक्तं श्रीपूर्वशास्त्रे रहस्यप्रतिपादिन्यष्टादशे पटले ---- ङात्र शुद्धिर्न चाशुद्धिःऽऽ (१८-७४) इत्यादिना महता ग्रन्थेन || एवंविधस्य योगिनो लोकोत्तर क्षेत्रादि निरूपयति ---- क्षेत्रं तस्य परा शक्तिर्यतः सर्वं प्रसूयते || ७-२५० || सर्वाध्वानो यतो देवि तत्रस्थाः प्रचरन्ति वै | तीर्थं चैव परं शान्तं नित्यं चानन्दविश्वगम् || ७-२५१ || येन व्याप्तमिदं विश्वमनन्तं विश्वशक्तिभिः | नित्यं विरक्तिः संसाराद्यमोऽयं परिकीतीतः || ७-२५२ || नियमो भावना नित्यं परतत्त्वैकतानता | ऽऽक्षेत्रं तदुच्यते यत्र देवताचक्रमध्यगः | तत्तदभीष्टं प्राप्नोति....................... ||ऽऽ इत्यतोऽस्य परयोगिनः पराद्वयमयाध्वचक्रदेवताचक्रमध्यगता परा शक्तिरेव सर्वप्रसवभूमिः क्षेत्रम्, तीर्थं सर्वमलध्वंसकृत् | तच्चास्य प्रशान्तभेदकल्लोलमानन्दरसमयं विश्वव्यापि परं शान्तम् अशेषशक्तिकचितं शक्तिमत्पदम् | परतत्त्वैकतानता तदभेदविमर्शमयी भावना, सास्य नियमो व्रतम् || एष च योगी ---- नात्मनो भावयेज्जातिं न कुलं न (च)बान्धवान् || ७-२५३ || देहात्मनो हि जात्यादिकलङ्कयोगो न चिदात्मनः || २५३ || ईदृशोऽपि च ---- आचरेत् सर्ववर्णत्वं............... सर्वेषां ब्राह्मणादिवर्णानां भावमाचरेत्, यसय यादृक् स्वरूपमाचारो वा तस्य तदेव श्लाघेत || न चात्मनि वर्णाश्रमनियमं गृह्वीयादित्याह ---- ...........ण च वर्णेषु वर्तयेत् | किन्तु ---- परभावनया नित्यं परधर्मेण वर्तयेत् || ७-२५४ || वर्तेतेत्यर्थः || २५४ || तामेव परधर्मवृत्तिं सामानाधिकरण्येनास्य दर्शयति ---- सर्वज्ञः परितृप्तश्च परिपूर्णः स्वभावतः | स्वतन्त्रोऽलुप्तसामर्थ्यस्त्वनादिनिधनाश्रितः || ७-२५५ || अनादिबोधो ह्यतुलः कालवेलाविवजीतः | चारोच्चारविनिर्मुक्तस्त्वहोरात्रविवजीतः || ७-२५६ || परिपूर्णोऽनन्तशक्तिः | सर्वज्ञत्वादय एते गुणाः षड् योजनिकाग्रन्थेऽस्माभिर्व्याकृता एव | अतुल इति शिवैक्येनास्य स्फुरणात्, द्वितीयस्याभावात् | कालवेलाविवजीत इति मितयोगिवदस्य प्राणीयतुट्यंशांशिकानिभालनानुपयोगात् | अत एव चारस्य प्राणवाहस्य य ऊर्ध्वप्रेरणात्मा उच्चारः, सोऽप्यस्यानुपयुक्तः | अतश्च नित्यमेव शिवैकात्म्यभावनाविष्टत्वाद् नास्य मुमुक्षुबुभुक्षुवदहोरात्रोपयोगः कश्चित् || २५६ || नाप्यस्य तत्प्रविभागोऽपीत्याह ---- न दिवा जागरं कुर्यात् न च रात्रौ स्वपेत् क्वचित् | स्वभावेनैव संतिष्ठेद् दिनरात्रिविवजीतः || ७-२५७ || यथा लौकिको दिवा जागती भेदव्यवहारमेव परिशीलयति, निशायां मायायां स्वपिति न प्रबोधमेति, तथा नायम्, अपि त्वभेदनिष्ठ एव तथा मायया नाभिभूयते | जाग्रतः स्वपतोऽपि चास्य न जागरस्वप्नौ स्तः, सदा तुरीयप्रकाशावियोगात् | यथोक्तम् ---- ऽऽतस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी | नित्यं स्यात् सुप्रबुद्धस्य ............... ||ऽऽ (१ | १७) इति श्रीस्पन्दे | तस्य परतत्त्वस्य सम्बन्धिन्युपलब्धिस्तन्मयः प्रकाशः सुप्रबुद्धस्य | त्रिषु जाग्रदादिपदेषु | सततम् इत्यादौ मध्येऽन्ते च | नित्यमित्यविच्छेदेन भवतीति | मयैवेत्थं स्पन्दनिर्णये व्याकृतमेतत् || २५७ || यः ---- एवं वै वर्तते योगी.............. सः ---- ...............परेण समतां व्रजेत् | न च तं कलयेत् कालः कल्पकोटिशतैरपि || ७-२५८ || अकालकलितपरमेश्वरैकरूपत्वात् || २५८ || एतदेव स्पष्टयति ---- जीवन्नेव विमुक्तोऽसौ यस्यैषा भावना सदा | शिवो हि भावितो नित्यं.......... ततश्च तम् ---- .........ण कालः कलयेच्छिवम् || ७-२५९ || शिवं शिवैकरूपं महायोगिनं कथं कालः कलयेत् || २५९ || अथास्य महाव्याप्तिज्ञानस्य सकलोपनिषदुपदेश- सारतमतामेतत्तन्त्रोपास्यदेवतानामोपपदप्रदर्शनपूर्वं निरूपयति - --- योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा | स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् || ७-२६० || प्रोक्ततत्त्ववृत्त्यवस्थित्यात्मना स्वात्मप्रतिष्ठया स्वच्छन्दगत्या चरत्यवश्यं योऽयं परतत्त्वैक्यप्रतीतिमयत्वात् स्वच्छन्दशब्दवाच्यो महायोगः, तेन श्रीस्वच्छन्दभैरवस्य पदे धाम्नि युक्तोऽभिनिविष्टः सन् तत्साम्यमेति || २६० || योगप्रकर्षात्तु ---- स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत् सदा | नित्यमादिमध्यान्तकोटिष्वयं श्रीस्वच्छन्दभैरव एव स्फुरन् स्थित इति यावत् || श्ववेद्यो भवेच्चारो नाडीचारजयात् स्फुटम् | अथवा स जपादेवमत्यर्थमुपबृंहितः || मन्त्री योगं विजानाति ज्ञात्वा सर्वज्ञतां व्रजेत् | ऽऽ (७ | १४३-१४४) इति यदुपक्रान्तम्, तन्मध्ये नाडित्रयवाहनिरूपणतदन्यथावाहाद्युत्थारिष्टज्ञानमृत्युजयादिब हुप्रमेयव्यवहितं जातम् | अत एतदुपसंहरन् प्रागुक्तमेवानुबध्नाति --- - एवं वै मृत्युलिङ्गानि रिष्टान्यन्यानि यानि च || ७-२६१ || योगाज्जानाति योगीन्द्रो नादजान्तर्गतानि च | निजीत्यैतानि योगेन एवमुक्तक्रमेण तु || ७-२६२ || एवमिति यथोक्तवाहविपर्ययात्मकानि यान्यन्यानि च ---- ऽऽकर्णरन्ध्रकृताङ्गुष्ठो घोषं न शृणुतेऽऽ (७-१८७) इत्यादीनि रिष्टानि नादजान्तर्गतान्युक्तानि, ऽऽचऽऽ शब्दात् काणोत्पाटादीनि च, तानि योगात् प्रोक्तरूपाच्चारावधानादेव योगी जानाति, ज्ञात्वा च हंसध्यानामृतध्यानतत्त्ववृत्त्यवस्थानरूपेण परपरापरापरात्मना मृत्युजिता योगेन निजीत्य पुनरपि नाडीचारजयाभ्यासाद्योगी विजानाति, ज्ञात्वा च सर्वज्ञतां व्रजेदिति सम्बन्धः || २६२ || अथेदानीम् ---- अयोगी यानि जानाति अयुक्तो वापि सुव्रते | बहिलीङ्गानि तान्यत्र अङ्गारिष्टानि मे शृणु || ७-२६३ || अयोगीत्यप्राप्तयोगः | अयुक्त इति योगायाघटमानो वा लौकिक एवेत्यर्थः || २६३ || तान्याह ---- शुष्कताल्वोष्ठकण्ठश्चेदकस्माद्धूसरच्छविः | स्कन्धौ च भङ्गमायातः षण्मासान्मृत्युमाप्नुयात् || ७-२६४ || अकस्मादिति प्रसिद्धं निमित्तं विना, एतच्च सर्वत्र योज्यम् || २६४ || सुनीलं मण्डलं व्योम्नि यः पश्यति दिने दिने | सितं हरितकृष्णं च वत्सरार्धान्मिरयेत सः || ७-२६५ || अकस्मादित्येव | मण्डलमिति सूर्यबिम्बस्य बाह्यपरिवेशः || २६५ || विरश्मि पश्यति रविं सोमं वै लक्ष्मवजीतम् | तारां ज्योत्स्नां च कृष्णां वै पश्येत् षण्मासजीवितः || ७-२६६ || रविं मण्डलान्तस्थं बिम्बम् || २६६ || हिरण्यवर्णं पुरुषं पिङ्गलं कृष्णमेव च | स्वप्ने सम्पश्यते यो वै षण्मासान् सोऽपि जीवति || ७-२६७ || अकस्मात् पित्तादिप्रकोपाभावादिति स्थितमेव || २६७ || आत्मनो ह्यशिरश्छायां पश्येत् षण्मासजीवितः | छायापुरुषपरीक्षायामित्यर्थात् || तैलाभ्यङ्गं तथा पानं रक्तस्रगनुलेपनम् || ७-२६८ || रक्ताम्बराणि कृष्णानि स्वप्ने पश्यति वै यदा | प्रेतैः पिशाचै रक्षोभिः श्वगोमायुकसूकरैः || ७-२६९ || वृतं यातं गृद्ध्रकाकैर्महिषैरुष्ट्रगर्दभैः | अङ्गभक्षणमुद्वाहं नग्नं चातीव विह्वलम् || ७-२७० || स्वप्ने च पश्यते यो वै वर्षमेकं स जीवति | अत्र यथायोगमात्मन आत्मानमिति च योज्यम् | गृद्ध्रादिभिर्यातमिति वाहनरूपैर्नीयमानम् || २७० || शंखावर्ते भुजामध्ये गुल्फयोर्मर्मसन्धिषु || ७-२७१ || सोऽवश्यं वधमायाति यस्यैतत् स्पन्दनं नहि | शंखावर्तो ललाटकपालसन्धी नेत्रप्रान्तस्थौ | भुजामध्यं मत्स्यस्थानमिति प्रसिद्धम् | मर्मसन्धयो धमन्यादयः सिराः || २७१ || किं च ---- सोमार्कमण्डलं देहे ध्रुवं चैव त्वरुन्धतीम् || ७-२७२ || न पश्यति महायानं सोऽवश्यं मिरयते नरः | एतानि प्रातिलोम्येन व्याचष्टे ---- तालुरन्ध्रगतो धूमो महायानं तदुच्यते || ७-२७३ || जिह्वा त्वरुन्धतीत्युक्ता नासाग्रं ध्रुव उच्यते | तालुरन्ध्रं ब्रह्मबिलम्, पश्चात्कृतसूर्यस्तदुत्थां धूमलेखां छायायां न पश्यति | नासाग्रं त्रिपुटिकाप्रान्तः || २७३ || किं च ---- नेत्रान्ते करजाक्रान्ते मण्डलं सोमसूर्ययोः || ७-२७४ || वामदक्षिणनेत्रप्रान्ता यदा नखेन पीड्यन्ते तदा ज्योतिर्यद् दृश्यते, तत्सोमसूर्ययोर्मण्डलम् || तदेतत्सर्वम् ---- न पश्येद् गगनेऽप्येतत् सोऽवश्यं मिरयते नरः | ऋतुकालादनन्तरमेव बहिर्यानमाकाशगङ्गापथः, अरुन्धती सप्तषीमध्यस्था, ध्रुवश्चतुर्दशतारारब्धशरीरः, सोमसूर्ययोर्मण्डलं बिम्बबाह्यपरिवेशः || स्थूलोऽकस्माच्च जायेत अकस्माद्वै भवेत् कृशः || ७-२७५ || अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति | पुनः स्वप्नविषयमाह ---- कृष्णाम्बरधरं कृष्णं लोहदण्डकरोद्यतम् || ७-२७६ || नरं चाभिमुखं स्वप्ने दृष्ट्वा मासत्रयायुषम् | आत्मानं निश्चिनुयात् || २७६ || हृदयं शुष्यते यस्य स्नातमात्रस्य तत्क्षणात् || ७-२७७ || गात्रं चैवाप्यनुष्णं च ऋतुमेकं स जीवति | धनुनीशि दिवा चोल्का व्यभ्रे विद्युत्प्रदर्शनम् || ७-२७८ || दिग्दाहोऽप्लुष्टदेशेऽपि मासमेकं स जीवति | धनुरैन्द्रम्, अप्लुष्टदेशेऽन्यजनापरिदृश्यदिग्दाहेऽपि यस्य दिग्दाहो भाति, स मासं जीवति, धनुनीशि, दिवा चोल्कादर्शनम् || चक्षुषी स्रवतो यस्य शब्दं न शृणुयात् स्फुटम् || ७-२७९ || नाघ्राति गन्धं......... आघ्रातीति एशः पाठः || यस्य च ---- .....वाग्जाड्यं...... अकस्मादिति सर्वत्र सम्बध्यते || तस्य ---- ...............ंआसमेकं गतायुषः | जीवितमिति सम्बन्धः || अकस्मादेव च ---- रक्तपद्मोपमं वक्त्रं जिह्वा कृष्णा च यस्य वै || ७-२८० || गात्रे वर्णान्यनेकानि हृदयं यस्य (च) रोदिति | तालुकम्पोऽथ नाभेश्च अर्धमासं स जीवति || ७-२८१ || रोदिति निनीमित्तं पुनः पुनः स्विद्यति, रोदनमनुभवतीत्यन्ये || २८१ || यश्च ---- प्रत्यक्षकाकनासीरो दीपधूमं न जिघ्रति | पूर्वदृष्टं न जानाति चतुर्मासं स जीवति || ७-२८२ || असंनिहिता अपि काका नासीराः कङ्काश्च येन प्रत्यक्षाः पुरो दृश्यन्ते || २८२ || बिन्दुं यस्तु न पश्येत्तु नित्यं वक्त्रानुगं हितम् | नित्यं वहति हिक्कां तु वर्षमेकं स जीवति || ७-२८३ || षडङ्गकरणं कृत्वापि यो बिन्दुं न पश्यति, वक्त्रानुगं भ्रूमध्यस्थम्, हिक्कां हिध्माम् || २८३ || उपसंहरति ---- बहिलीङ्गानि चैतानि अङ्गारिष्टानि यानि च | उक्तानीति शेषः || अथैतानि ---- पूजया जपहोमेन ध्यानधारणया प्रिये || ७-२८४ || कृतरक्षाविधानेन जीयन्ते नात्र संशयः | पूजादिधारणान्तं भगवद्विषयम्, रक्षाविधानं वक्ष्यमाणम् || २८४ || तदित्थं रिष्टप्रशमनं कृत्वा प्रकृतो योगाभ्यास एव कार्यः, स च नाडिशुद्धिपूर्वकप्राणजयादेवेति तत्प्रकाशनाशयेन श्रीदेव्युवाच - --- नाडीनां शोधनं चैव वायूनां च जयः कथम् || ७-२८५ || तेषां प्राग्विभक्तानां वायूनाम् ---- स्थानं रूपं च शब्दं च कर्म ब्रूहि मम प्रभो | एतत्प्रश्नषट्कं निणीनीषुः श्रीभैरव उवाच ---- परमो योगसद्भावो गुह्याद् गुह्यतरः प्रिये || ७-२८६ || यो न कस्यचिदाख्यातस्तं योगं शृणु तत्त्वतः | यत्त्वया प्रश्नितम्, तद्योगरहस्यं तद्विना योगाभ्यासायोगात् || तत्र तावत् ---- सुप्रशस्ते भूप्रदेशे नाग्नितोयसमीपतः || ७-२८७ || वालुकाशर्कराहीने शुष्कवृक्षविवजीते | निःशब्दकीटवल्मीके ईतिभिः परिवजीते || ७-२८८ || पुण्ये धमीष्ठसंवासे तत्र योगं समभ्यसेत् | ईतयः अतिवृष्ट्यादयः | पुण्ये सत्तीर्थादियुक्ते | धमीष्ठसंवासे पुण्याश्रये || तदासौ ---- देवदेवं समभ्यर्च्य भैरवं सविनायकम् || ७-२८९ || पूर्वाचार्यान्नमस्कृत्य युक्तो ध्यानपरायणः | विघ्नप्रशमनाय गणपतिपूजापूर्वमाज्ञाग्रहणाय गुरून् पूजयित्वा, भैरवमभ्यर्च्य ध्यानपरायणो युक्तः स्यादिति सम्बन्धः || कथमित्याह ---- आसनं स्वस्तिकं बद्ध्वा पद्मकं भद्रमेव वा || ७-२९० || सापाश्रयं सार्धचन्द्रं योगपट्टं यथासुखम् | दहनोत्पूयने कृत्वा प्लावयेदमृतेन च || ७-२९१ || सबाह्याभ्यन्तरेणैव सकलीकरणं ततः | अन्तर्यागं यथापूर्वमुच्चार्यं च परं तथा || ७-२९२ || दशधा योगमार्गेण हंसस्वच्छन्दमभ्यसेत् | पद्मकमूरुन्यस्तोत्तानपादतलं पद्मासनाख्यम्, पर्यङ्कस्थस्य जंघाव्यत्यासात् स्वस्तिकम्, समपादस्थित्या भद्रम्, भित्त्याश्रयात् सापाश्रयमेतच्चार्धचन्द्रविशेषणम् भूमिष्ठैकचरणोरुपृष्ठन्यस्तोत्तानद्वितीयचरणमर्धचन्द्रम्, योगार्थं पट्टपरिकरबन्धाय बद्ध्वा एतदन्यतममासनम्, अन्यदपि वा यद्यत्सुखं शरीरपरिक्लेशकृन्न भवति | यथोक्तम् ---- श्थिरसुखमासनम्ऽऽ (पात० २-४६) इति | ततः पूर्वोक्तं दहनाद्युच्चारान्तं कृत्वा, दशधा योगमार्गेणेति बाह्याभ्यन्तररेचनादिषट्कप्रशान्तकुम्भक-प्रत्याहार-धारणा ध्यानात्मना भाविना, अथ च भाविप्राणादिवायुदशकजयपूर्वं पूर्वोक्तं हंसस्वच्छन्दं परं निष्कलभट्टारकमभ्यसेदनुप्रविशेत् || तदनुप्रवेशं पूर्वोक्तोपायानुसारेण स्फुटयति ---- मन्त्रं बिन्दुमतीतं तु नादान्तज्योतिराकृतिम् || ७-२९३ || सङ्कल्प्य कल्पनालक्ष्यं ध्यायेद् वै तेन सर्वगम् | (मन्त्रं) चतुष्कलनाथमकारादिकलोच्चारपूर्वं बिन्दुमतीतमिति तदुल्लङ्घनाद् अर्धचन्द्रनिरोधिकापदमुद्घाट्य, नादनादान्तक्रमेण ज्योतिराकृतिमिति शक्त्त्यादिप्रकाशरूपम्, सङ्कल्प्य विकल्पपूर्वमविकल्पेनासाद्य, कल्पनाभिरलक्ष्यं स्वप्रकाशचिदानन्दघनम्, सर्वगं हंसस्वच्छन्दं ध्यायेदिति समनान्तं विलाप्य अकृतकविमर्शोदयेन समाविशेत् || २९३ || तदेतद् नाडिशुद्धिप्राणजयपूर्वकं सुघटं स्यात्, इत्याशयेन नाडिजयं तावदाह ---- अपसव्येन पूर्येत सव्येनैव विरेचयेत् || ७-२९४ || नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च | सव्येन दक्षनासापथेन, रेचयेत् रेचकं कुर्यात्, अपसव्येन वामेन, पूर्येत वायुपूरणं कुर्यादित्यर्थः | एवमनवरतं क्रियमाणमेतन्नाडीनां मोक्षमार्गपथस्य वा मध्यधाम्नः शोधनं मारुतप्रशमनं भवति || प्राणजयं व्यक्तुमुपक्रमते ---- रेचनात् पूरणाद्रोधात् प्राणायामस्त्रिधा स्मृतः || ७-२९५ || प्राणस्यायमनं यथास्थितवाहविजयेन स्वायत्ततानयनम् || २९५ || त्रय एते प्राणायामाः सर्वसाधारणेन नासिकापथक्रमेण निर्वर्त्यमानाः साधारणा बाह्याश्चेत्याह ---- सामान्या बहिरेते तु............. एतदभ्यासपूर्वमन्तःप्रयुज्यमानैः ---- ..............पुनश्चाभ्यन्तरे त्रयः | तानाह ---- आभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु || ७-२९६ || निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः | आभ्यन्तरेण मध्यपथेनात्र रेचनं द्वादशान्ते, पूरणं हृदि, निष्कम्पं कुम्भकमिति निरायासं प्रशान्तकुम्भकमित्यर्थः | कार्या इति निर्वर्तनीया भवन्ति || २९६ || अथ ---- नाभ्यां हृदयसञ्चारान्मनश्चेन्द्रियगोचरात् || ७-२९७ || प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः | निष्कम्पकुम्भकानन्तरं हृदयसञ्चाराद् इति शनैः शनैर्हृदयादधः सञ्चारयुक्त्या प्राणं नाभ्यामेव नियम्येत्यर्थात्, तथा मन इन्द्रियगोचरादिति तत्प्रत्याहारयुक्त्या नाभ्यामेव नियम्य, मनोनियमपूर्वकं प्राणं नाभौ नियच्छतः सुप्रशान्तः प्राणायामो भवति || २९७ || तदित्थम् ---- प्राणरोधे तु सम्पूर्णे नाभौ नीत्वा समुच्छ्वसन् || २९८ || अनन्तरम् ---- शनैवीमोचयेद्वायुं वामनासापुटेन तु | निरुद्धवायुप्रकोपापहाराय || एवं चारजयान्तं प्राणायामप्रत्याहारावभिधाय, धारणां निरूपयति ---- वायवी धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः || ७-२९९ || माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रया | आकाशधारणा मूध्नी सर्वसिद्धिकरी स्मृता || ७-३०० || पाददेशे तिर्यग्गतेः, नाभौ जाठराग्नेः, कण्ठे स्थितिपदे धरण्याः, घण्टिकायां रसस्य, ब्रह्मरन्ध्रे च व्योम्नः सद्भावात्तथैव धारणा उक्ताः | अत्र चोद्घाते दीक्षाप्रस्तावनिर्णीतं वर्णमण्डललाञ्छनाक्षरात्मकत्वं धारणाध्येयम् | तत्र प्रथमं कण्ठे पाथीका धारणां बद्ध्वा हृदयादुद्धातपञ्चकेन पञ्चगुणं पाथीवं तत्त्वं भिन्द्यात्, ततोऽनेनैव क्रमेण हृदयादेव चतुभीरुद्धातैश्चतुर्गुणमप्तत्त्वम्, ततो हृदयादेव नाभिक्षेत्रे त्रिभिरुद्धातैस्त्रिगुणमग्निम्, अनन्तरं हृदयादेव द्वाभ्यां पादाङ्गुष्ठगतं द्विगुणं वायुम्, ततोऽप्यङ्गुष्ठात् सङ्कोचयुक्त्या प्राणशक्तिमूर्ध्वमुद्बोध्य हृदयादेवैकोद्घातयुक्त्या शरवद् ब्रह्मरन्ध्रस्थमेकगुणं व्येमग्रन्थिं भित्त्वा, द्वादशान्तस्थस्य सर्वाः सिद्धयो भवन्तीति वाक्यार्थः || ३०० || तदेतदाह ---- एकद्वित्रिचतुष्पञ्चसंख्योद्घातैः प्रसिद्द्यति | उद्घातं लक्षयति ---- संनिरुद्धे तु वै प्राणे मूध्नी गत्वा निवर्तते || ७-३०१ || स उद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा | मूध्नी इत्युपलक्षणपरं कण्ठादिक्षेत्राणाम् | ज्ञातव्य इति तत्तत्स्थानानुसार्यनुभवात्मकोऽयमित्यर्थंः | अत एव पूर्वमनुभवप्रधान एवासावुक्तः || ३०१ || अथ प्राणायामादीनां फलमादिशति ---- रागद्वेषौ प्रहीयेते प्राणायामैः सुधारितैः || ७-३०२ || धारणाभिर्दहेत् पापं प्रत्याहारेऽक्षसंयमः | ऽऽपापं दहेत्ऽऽ इत्यावारकपृथिव्यादिग्रन्थिभेदात् शुभाशुभकर्मबन्धविच्छेदात् || अथ यत्प्राणादिविषयं प्रश्नितम् ---- श्थानं रूपं च शब्दं च कर्म ब्रूहि (७ | २८६) इति, तत्क्रमेण निर्णेतुमाह ---- हृदगुदे नाभिकण्ठे च सर्वसन्धौ तथैव च || ७-३०३ || प्राणाद्याः संस्थिता ह्येते........... व्यानान्ताः पञ्चेत्यर्थात् || एषां च ---- ........ॠऊपं शब्दं च मे शृणु | तत्र ---- द्रुततारनिभो रक्त इन्द्रगोपकसंनिभः || ३०४ || क्षीराभः स्फटिकाभश्च पञ्चानां रूपलक्षणम् | द्रुततारं गलितं रूप्यम् || ३०४ || घण्टाकंसाब्दमधुरो गजनादो महाध्वनिः || ७-३०५ || प्राणादीनां तु पञ्चानामयं शब्द उदाहृतः | कंसं कांस्यम्, अब्दो मेघः, महाध्वनिः द्रुतनदीघोषोपमः || ३०५ || एषां कर्मादिशति, तत्र ---- जल्पितं हसितं गीतं नृत्तं युद्धगतिः कलाः || ७-३०६ || शिल्पं च सर्वकर्माणि प्राणस्यैवं विचेष्टितम् | कलाश्चित्राद्याः | सर्वकर्माणीत्येतान्येव || ३०६ || प्रवेशयेदन्नपानं तन्मलं स्रावयेदधः || ७-३०७ || अन्धत्वं श्रोत्ररोगं च अपानस्तु करिष्यति | ऽऽचऽऽशब्दाद् ग्रहणघ्राणादि || ३०७ || अशितं लीढपीतं च समानः समतां नयेत् || ७-३०८ || नाडीषु सञ्चारयेत् || ३०८ || क्षोभो हिक्का तथा छिक्का उदानस्य विचेष्टितम् | छिक्का क्षुतम् || स्वेदश्च रोमहर्षश्च शूलं दाहोऽङ्गभञ्जनम् || ७-३०९ || व्यानस्यैतानि कर्माणि स्पर्शं चैव स विन्दति | स एव लभते || ३०९ || नागादीनां स्थानान्यादिशति ---- अङ्गुष्ठजानुहृदये लोचने मूध्नी संस्थिताः || ७-३१० || नागाद्याः...... क्रमेणेत्यर्थः || ३१० || सर्वेषामेषां शबलरूपता शबलशब्दता च तुल्येत्याह ---- .....बहुरूपश्च...... चकाराद् बहुशब्दाः || .............कर्म त्वेषां निबोध मे | तत्राविकृतावस्थायां क्रमेण ---- आह्लादोद्वेगजनकः शोषणस्त्रासनस्तथा || ७-३११ || नागः कूर्मश्च कृकरो देवदत्तश्च पञ्चमः | अतिनिद्राकरश्चान्यो योजकश्च धनञ्जयः || ७-३१२ || अतिनिद्रा तन्द्रा, योजको देहान्तरसम्बन्धकृत् || ३१२ || एषां विकृत्यवस्थायाम् ---- श्वाससङ्कोचनच्छेदा घुर्घुरोत्क्रमणं तथा | नागादीनां तु पञ्चानां मृत्युकाले विचेष्टितम् || ७-३१३ || उत्क्रमणम् = देहविश्लेषः || ३१३ || धनञ्जयकूर्मयोवीशेषस्त्वयम् यत् ---- न चैव याति चोत्क्रान्तौ तनुं त्यक्त्वा धनञ्जयः | कंचित्कालं शवशरीरं न मुञ्चति || आकुञ्चयति वै कूर्मः शोषयेच्च कलेवरम् || ७-३१४ || आकुञ्चनं संधिसङ्कोचः | शोषस्ताल्वादिस्थानेषु || ३१४ || तदेवं दशधा स्थितम् ---- प्राणमेव जयेत् पूर्वं जिते प्राणे जितं मनः | जिते मनसि शान्तस्य परं तत्त्वं प्रकाशते || ७-३१५ || तत्र ---- प्राणापानं गुदे ध्यायेत् प्राणसमानं नाभितः | प्राणोदानं तु कण्ठे तु प्राणव्यानं तु सर्वगम् || ७-३१६ || प्राणशब्दोऽत्र सामान्यप्राणवाची अपानादीनां विशेषरूपाणां सामानाधिकरण्येन प्रयुक्तः | यस्तु बहिःप्रसरणात्मा विशेषरूपः प्राणस्तं पूर्वोक्तदेशे हृदि ध्यायेत् | यथोक्तवर्णशब्दाद्यात्मानश्चैते ध्याता वशीकृता भवन्ति || ३१६ || एवमेव च ---- नागाद्याः प्राणसंयुक्ताः........... सामान्यप्राणसम्बद्धाः || एतान् यथोक्तरूपान् पूर्वोक्तेषु ---- ..............ष्वस्थानेषु निरोधयेत् | तदेतस्य दशकस्य यावता कालेन निरोधाज्जितता भवति, तत्कालं वक्तुमाह ---- निरुद्धस्य च यः कालस्तं वक्ष्यामि निबोध मे || ७-३१७ || तालात् प्रभृति तं ध्यायेद्यावत् पञ्च शतं गतम् | जितोऽनिलो भवत्येव संक्रान्त्युत्क्रान्तिकर्मणि || ७-३१८ || अङ्गुल्या जानुभ्रमणावधिकालस्तालः | तेषां यावत्पञ्चशतं गच्छति, तावद्यदि प्राणादीनामविचलं ध्यानं सिध्यति, तदा ते जिता भवन्ति | ततश्च परशरीरसंक्रान्तौ उत्क्रान्तौ च सामर्थ्यं भवति || ३१८ || इदं च तज्जयेऽभिज्ञानम् ---- दिव्या कान्तिः शुभो गन्धः प्रज्ञा चास्य विवर्धते | दिव्या दृष्टिश्च श्रवणं दिव्या वाक् च प्रजायते || ७-३१९ || वायुवद्विचरेल्लोकान् सिद्धान् देवांश्च पश्यति | मनसा चिन्तितावाप्तिः प्रवर्तेत गुणाष्टकम् || ७-३२० || सर्वकामसुसम्पूर्णंः सर्वद्वन्द्वविवजिंतः | संसारबन्धनिर्मुक्तः शिवतुल्यश्च जायते || ७-३२१ || गुणाष्टकमणिमादिकम् | तदियता ग्रन्थेन ऽऽदशघा योगमार्गेण हंसस्वच्छन्दमभ्यसेत्ऽऽ (७-२९३) इति यदुपक्रान्तमभूत्तन्निर्वाहितम् || ३२१ || अथेदानीं सगर्भप्राणीयधारणाभिर्योगिनां योगोचितजाग्रदाद्यवस्था दर्शयन् दर्शनान्तरोक्तवेधसमावेशस्वरूपज्ञानं शिक्षयति ---- प्राणापानौ तु संयोज्य ह्रस्वकोटिसमन्वितौ | नाभ्याधारे च योगीन्द्रः......... यदा तिष्ठेत् तदास्य ---- ............ष्वेदः कम्पश्च जायते || ७-३२२ || हृदये प्रशान्ताशेषतरङ्गानाहतविश्रान्त्यनन्तरं यदा मन्त्रवृद्धेरुन्मिषत्ता भवति, तदा हृदि सामरस्यावस्थितौ प्राणापानौ ह्रस्वकोट्याकारकलाविमर्शनेन युक्तावधः प्रसरणक्रमेण नाभौ संयोज्य, प्रोक्तकालं तिष्ठतः स्वेदकम्पौ भवतः || ३२२ || अथासौ ---- पुनरेव तु हृत्स्थौ हि प्राणापानौ निरोधयेत् | दीर्घकोटिसमायोगात् तत्क्षणाच्च पतेद् भुवि || ७-३२३ || नाभिपदविश्रान्त्यनन्तरमूर्ध्वमारुह्य हृत्स्थं कृत्वा दीर्घात्मकमान्त्रद्वितीयकलाविमर्शनपरो निरोधयेत् इति तत्कालोच्चारस्थाने कण्ठान्ते प्रोक्तकालं तिष्ठेत्, तदेकाग्रताप्रकर्षाद् भुवि पतेत् || ७-३२३ || ततोऽपि यद्यसौ ---- कण्ठस्थं च तथैवेह प्राणमेव निरोधयेत् | प्लुतकोटिसमायोगात् स्वप्नवृत्तिस्ततो भवेत् || ७-३२४ || उल्लासे सत्यपानप्रशमात् प्राणमितीहोक्तं, कालम् प्लुतकोटिः, पूर्वोक्तनीत्या ताल्वन्तोच्चारी मकारकलाविमर्शः | स्वप्नोऽत्र जिज्ञासितवस्तुप्रथनात्मा योग्युचितः | एवमादिशता कम्प-स्वेद-पाता योगिजागरा इति निरूपितं भवति || ३२४ || यदा तु ---- भ्रूमध्ये बिन्दुयोगेन प्राणरोधं तु कारयेत् | सुषुप्तं जायते तत्र क्षणाच्चैव प्रबुद्ध्यते || ७-३२५ || प्लुतेनैव तालुनो भेदितत्वान्मान्त्रविन्दुकलाव्याप्तिविमर्शेन भ्रूमध्ये प्रोक्तकालं तिष्ठतः प्रशान्तमनोवृत्तिः सुषुप्तावस्था उदेति, क्षणाच्च प्रबुद्ध्यत इति न लौकिकवत् तमोवरणेन अभिभूयते | तदुक्तं ---- ऽऽतदन्यत्र तु चिन्मयःऽऽ (स्प० २ | २) इति || ३२५ || ततोऽपि ---- मूर्धद्वारं समाश्रित्य निष्कलं ध्यानमारभेत् | एवमभ्यसतस्तस्य प्रत्ययस्तु तदा भवेत् || ७-३२६ || पिपीलकण्टकावेधो मूर्ध्वद्वारं विभिन्दतः | निष्कलमिति वर्णज्योतिर्ध्वनिव्याप्त्युल्लङ्घनात् स्पर्शनानुभवरूपम्, पिपीलकण्टकावेध इति सञ्चरत्पिपीलस्पर्शतुल्यकण्टकस्पर्शतुल्यश्च स्पर्श इत्यर्थः || ३२६ || किं च ---- भित्त्वा क्रमेण सर्वाणि उन्मन्यन्तानि यानि तु || ३२७ || पूर्वोक्तलक्षणैर्देवि............. लक्षणैरिति प्रणवाधिकारोक्तैरनुभवैर्युज्यते इति शेषः | तावदन्तात्र तुर्यदशा || अथैतत्सर्वम् ---- .......ट्यक्त्वा स्वच्छन्दतां व्रजेत् | गाढगाढोन्मनापदविश्रान्तिपदप्रकर्षात् तुर्यातीतदशालाभात् चिदानन्दघनपरभैरवसमावेशमनुभवति योगीन्द्र इत्यर्थः || न केवलं देहोत्तीर्ण एव पदेऽस्य परसमावेशो घटते, यावत् ---- जायते उन्मनस्त्वं हि देहेनानेन साधके || ७-३२८ || देहावस्थायां व्युत्थानेऽपि साधकस्य समावेशप्रकर्षात्तदानन्दरससंस्काराद् घूर्णमाणतैव भवतीत्यर्थः || ३२८ || किं चायं स्वातन्त्र्यशक्त्युन्मेषात् ---- संक्रामेत् परदेहेषु क्षुत्तृष्णाभ्यां न बाध्यते | अतीतानागतं चैव त्रैलोक्ये यत् प्रवर्तते || ७-३२९ || प्रत्यक्षं तद् भवेत्तस्य सर्वज्ञत्वं च जायते | यच्च प्रवर्तते इति यदपि वर्तमानं किञ्चिदस्ति, तदस्य सर्वं प्रत्यक्षीभवति | सर्वज्ञत्वम् इति क्रमेणाभ्यासप्रकर्षान्मन्त्रमन्त्रेशादितुल्यो भवतीत्यर्थः || ३२९ || पाटलिकं प्रमेयमुपसंहरन् पटलान्तरेण सङ्गतिं दर्शयति ---- प्रसङ्गेऽध्यात्मकालस्य ज्ञानं विज्ञानमेव च || ७-३३० || सर्वमेतत् समाख्यातमंशकांश्च निबोध मे | अध्यात्मकालकथनप्रसङ्गेन तत्त्ववृत्त्या ज्ञानं मृत्युजययोगिजागरावस्थाद्यात्मकवेधादिरूपं च विज्ञानमेतदुक्तमनुक्तमप्यनुजिघृक्षावेशात्, अतः ---- ऽऽकालांशकं च देवेश कथयस्व प्रसादतःऽऽ (७-१) इति यत् प्रश्नितम्, ततः कालस्वरूपं कथितं प्रसङ्गाज्ज्ञानं विज्ञानं चाप्यादिष्टम् | अंशकस्वरूपं तु निर्णेतुमवशिष्टम् | अतोंऽशकान् भाविपटलेन निर्णेष्यमाणन्निबोध जानीहीति पाटलिकी सङ्गतिरिति शिवम् || ३३० || शंवित्स्फारव्याप्त्या विश्वं प्राणान्तःस्थं सम्यग्ज्ञात्वा | तास्ताः सिद्धीरंशज्ञप्त्या पूर्णास्थितिं यायात् ||ऽऽ इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते कालाधिकारः नाम सप्तमः पटलः || ७ || अष्टमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ यस्य बोधमहाम्भोधेर्ब्रह्माद्या भुवनेश्वराः | अंशा मिता बुद्बुदवत् तं स्तुमः परभैरवम् || ऽऽअंशकांश्च निबोध मेऽऽ (७ | ३३०) इति यत्पटलान्ते उपक्षिप्तम्, तद्विभक्तुं श्रीभैरव उवाच ---- अंशकं षड्वधं देवि कथयाम्यनुपूर्वशः | परस्य बोधभैरवस्य शक्तिभिर्ब्राह्मभ्यादिभिरधिष्ठिता ब्रह्माद्यास्तथावभासिता अंशाः, ततस्तदनुग्राह्या अपि तदंशा इत्युच्यन्ते | अतोंऽशानाराध्यत्वेन स्थितान् कायति, अयं ब्रह्मांशोऽयं विष्ण्वंश इत्यादिक्रमेण यो वक्ष्यमाणो भावस्वभावादिः, सोऽंशक इत्युच्यते | स च साधकं प्रति सिद्ध्यनुकूलत्वाद् अल्पांशोऽंशक इत्यभिधीयते || तमुद्दिशति ---- भावांशकः स्वभावांशः पुष्पपातांश एव च || ८-१ || मन्त्रांशकः स्मृतश्चान्यस्त्वंशकापादनं द्विधा | भावः सहजस्तत्तद्भक्तियुक्त आशयः | स्वभावस्तदनुगुणो व्यापारः | यस्तु पूर्वयुक्त्या बद्धनेत्रस्य पुष्पपातानुसारं निश्चीयते, तन्मन्त्रवाच्यदेवतात्मा अनुष्ठातुम्, स मन्त्रांशः | अंशकापादनमंशस्यानिरूपितस्यापि मन्त्रस्य वीरद्रव्यादिहोमेन साधकदीक्षाक्रमेण वा आराधकं प्रति क्रियते, इति द्विरूपमिति (षडं)१शकाः || एषामाद्यस्य लक्षणमाह ---- देवानुस्मरणं भावः सहजं तं विजानता || ८-२ || अदत्तानुष्ठानस्यापि प्राग्जन्मवासनापरिपाकवशात् तत्तन्नियतदेवतानुस्मरणं यत्सहजम्, स भावांशः || २ || द्वितीयमाह ---- स्वभावश्च भवेच्चेष्टा........... प्रोक्तभावानुगुण एवमेव लिङ्गार्चनाद्यात्मा व्यापारः || तं च ---- ................कथयाम्यनुपूर्वशः | ब्रह्मांशो वेदभक्तस्तु रुद्रांशं च निबोध मे || ८-३ || रुद्रभक्तः सुशीलश्च शिवशास्त्ररतः सदा | विष्ण्वंशो विष्णुभक्तश्च चन्द्रांशः प्रियदर्शनः || ८-४ || सर्वदेवरतः शान्तो यक्षांशो धनसंग्रही | लुब्धो गवीतमृष्टाशी वातांशश्चपलः स्मृतः || ८-५ || सर्पविस्रम्भगामी स्यान्नागांशो दीर्घशाययथ | दीर्घरोषः पूतिवक्त्रो गुरुक्षीररुचिः सदा || ८-६ || गान्धर्वो गायनो नित्यं शिवभक्तो वरानने | विद्याधरांशकः प्राणी दैत्यांशो द्वेषणः स्मृतः || ८-७ || कामांशो रूपवांश्चैव सुभगो गणिकाप्रियः | रक्षोंशः क्रूरनिस्त्रिंशो देवद्वेषी द्विजेषु च || ८-८ || पिशाचांशश्छलान्वेषी वासरे भीरुकातरः | अग्न्यंशः परुषस्तीव्र उष्णादः पिङ्गलस्तथा || ८-९ || सवित्रंशश्च तेजस्वी पूर्तधर्मरतः सदा | इष्टानि कुरुते नित्यं दयालुः शिवभावितः || ८-१० || पूतिवक्त्रो दुरामोदलालास्यः | विद्याधरांशस्य शिवभक्तत्वं शिवशास्त्रोक्तविधानेन गुटिकाञ्जनादिसिद्धिरसिकत्वम् | क्रूरो दारुणहृदयः | निस्त्रिंशो निर्घृणव्यापारः | परुषो वाचा | तीव्रः कर्मणा | पूर्तं वापीकूपादिकरणम् | इष्टं यज्ञः | स्पष्टमन्यत् || १० || ये च यदंशास्तेषामेते ब्रह्मादयः ---- स्वसिद्धेः फलदाः सर्वे स्वध्यानजपहोमतः | यस्य यावदैश्वर्यम्, तावदेवासावाराधितः साधकेभ्यः प्रयच्छति | एवं चाभिदधदिदमाह यत् परिमितांशस्य तत्तत्पदप्रापक एव मन्त्रोदया | स च (यः)१ येषां विशेषतः शास्त्रेषु नास्ति, तेषां प्रणव एव तन्नामनमस्कारयुक्तः || यदा तु ---- ऽऽयो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः | सिद्धिभाङ् मन्त्रसामर्थ्यात्................... ||ऽऽ इत्युक्तस्थित्या इहत्यमन्त्रैः कृतदीक्षस्य साधकस्यैतन्मन्त्राराधनेनाराधितास्ते देवताविशेषाः तदा सर्वे भैरवरूपा एवेति सर्वसिद्धिसाधका इत्याह ---- भैरवाङ्गसमालब्धाः सर्वे देवा वरानने || ८-११ || भैरवास्तु स्मृताः सर्वे सर्वसिद्धिफलप्रदाः | भैरवाङ्गसमालब्धा इत्युक्त्येदमाह ---- येषां कपालीशादिमन्त्राणां वक्त्राणि नोक्तानि, तेषामाराधकैर्नैष्कलवक्त्राङ्गानि प्रयोक्तव्यानि | कश्चिदत्र सर्वशब्दस्य द्विःस्थितस्य वाक्यद्वयविषयां योजनामसहमानः सर्वेदेवा इत्यत्र सर्वदैवेति सर्वसिद्धिफलप्रदा इत्यत्र च सर्वकामसमन्विता इति पठित्वा एतन्मन्त्रदीक्षिताः साधकास्तदाराधनाद् भैरवा एव पूर्णसिद्धिभाजनं भवन्तीति व्याख्यातवान् | पुराणपुस्तकेषु त्वविगानेनाद्यः पाठो दृश्यते || एवम् ---- स्वभावांशः समाख्यातः साधकानां हिताय वै || ८-१२ || साधकपदेन मुमुक्षूणां नायं नियम इत्यादिशति || १२ || पुष्पपातांशं लक्षयति ---- पुष्पपातवशान्नाम कर्तव्यं सुरसुन्दरि | अनिश्चितभावस्वभावांशस्य बुभुक्षोर्बद्धनेत्रस्य पूजितसर्वावरणे भगवन्मण्डले पूर्वोक्तस्थित्या एकं पुष्पं क्षिपतो यत्र तत्पतेत्, तन्मन्त्रवाच्यदेवतानुसारेण नाम कार्यम् || अतश्च ज्ञातांशकेनाचार्येणोपदिष्टतत्तत्त्वस्य ---- स मन्त्रः सिद्ध्यते तस्य तमेवाराधयेद् यदि || ८-१३ || शास्त्रोक्तविधानेनेत्यर्थात् || १३ || क्रमप्राप्तं मन्त्रांशकमधिकवक्तव्यत्वात् सम्प्रत्यनुक्त्वा, अंशकापादनं प्रस्तौति ---- अंशकापादनं देवि कथयामि समासतः | कथमित्याह ---- वैहायसं ध्वजं चैव होमयेद् यस्तु साधकः || ८-१४ || स मन्त्रः सिद्ध्यते तस्य अर्यन्तोऽपि हि सुव्रते | वक्ष्यमाणस्थित्यार्यन्तोऽपि यो मन्त्रस्तदाराधनायैव वैहायसमिति उद्बद्धनरमांसम्, ध्वजं च शूलारोपितनरमांसमष्टोत्तरशतं सहस्रं वा यथासम्भवव्यवसायं यः साधक इत्याराधक आचार्यस्तत्प्रयुक्तोऽन्योऽपि वा साधको होमयेद् जुहुयात्, तस्यासावेवमाराधितः सिद्ध्यति साधनानुगुणो भवति || यस्य तु प्रोक्तक्रमेणाविवेचितांशकोऽपि प्रभावातिशयश्रवणात् कश्चिन्मन्त्र आरिराधयिषितो भवति, न च वीरद्रव्यक्रमे योग्यतास्ति, तस्यारिराधयिषितं पूजहोमादिनादौ तर्पयित्वा प्राक्प्रोक्तसाधकदीक्षाभिषेकविधानेनैव तन्मन्त्रांशकत्वापादनं कर्तव्यमित्यभिदधद् द्वितीयमंशकापादनं लक्षयति ---- अनंशकोऽपि यो मन्त्रो ज्ञातचिह्नैर्वरानने || ८-१५ || तदा यागं पुरा कृत्वा अग्नौ होमं तु कारयेत् | प्रोक्तप्रकारैर्न परिच्छिन्न अंशक आराधकः शिष्यो यस्यासावनंशकः | यागहोमौ तं शिष्यं प्रति तस्य मन्त्रस्याभिमुखीकरणाय || ततः ---- शिष्यस्य पूर्ववत् कर्म कृत्वा तु विधिपूर्वकम् || ८-१६ || पूर्णाहुतिप्रयोगेण योजयेच्छाश्वते पदे | कर्मेति भगवदर्चादिपूर्वं साधकाभिषेकान्तम् | योजयेदिति तमेव शिष्यं मन्त्रेण सह शाश्वत इति परमशिवपदे, साधकाभिमते च शाश्वतभोगप्रदे सदाशिवादिधाम्नि | शाश्वतपदयोजनादेव चायमासादितवीर्योऽनंशकतामुत्सृज्य, सदंशकत्वमेति || इत्थमासादितांशकोऽसौ ---- परतत्त्वमभिध्यायन् साधयेन्मनसेप्सितम् || ८-१७ || एवमंशकापादनं द्विधोक्त्वा मन्त्रांशकमाह ---- मन्त्रांशं गणयित्वा तु गृह्णीयात् सुविचारितम् | मन्त्ररूपमंशमक्षरभेदक्रमेणांशीकृतं मन्त्रम् || साधकस्य चानुरूपांशकरूपत्वादप्यंशेन ---- हीनमध्यसमुत्कृष्टं कथयामि समासतः || ८-१८ || तत्र ---- हीनं शत्रुं विजानीयान्मध्यमं साध्यरूपिणम् | सिद्धं चैव सुसिद्धं च उत्तमं परिकीतीतम् || ८-१९ || कथम् ? ---- इत्याह ---- मन्त्राक्षरं तु विश्लेष्य मात्राबिन्दुसमन्वितम् | आत्मनामाक्षरं तद्वदधोभागेऽस्य योजयेत् || ८-२० || ऽऽओं शिवाय नमःऽऽ इत्यादिके मन्त्रे ओंकारादि मन्त्राक्षरं मात्राभिरकारोकारादिभिबीन्दुना च समन्वितं विश्लेष्येत्यकारोकारादिमात्राबिन्दुं च मकारमात्राकल्पनयाऽस्य पृथक्कृत्य, एवं शिकारवाकाराभ्यामिकारमाकारं च विश्लेषयेत् | अकारमात्रा तूच्चारणार्थम्, न कुतश्चिद्विश्लेषयेत् प्रत्युत यतो वर्णान्मन्त्रान्तरं विश्लेषितम् तस्याकारमुच्चारणार्थं कल्पयेत्, अन्यथा उच्चारायोगात् | एवमात्मनः शिष्यसम्बन्धि यन्नाम विष्णुमित्रमित्यादिकम्, तत एकैकमक्षरं तद्वत् प्रोक्तमात्राभेदेन विश्लेष्य, अस्येति विभक्तमन्त्रस्याधोभागे योजयेत् | तेन औमशैवाअयनम इति दशानामक्षराणामधोविभक्तानि विष्णुमित्रनामाक्षराणि दद्यात् | यत्र मन्त्राक्षराणि बहूनि भवन्ति, तत्र नामाक्षराणि पुनः पुनर्योजयेदामन्त्राक्षरसमाप्तिं योजयेत् || २० || एवं स्थिते सति ---- आत्मवर्णात् समारभ्य यावन्मन्त्रार्णमागतम् | यस्मिन् स निपतेद् देवि तमायं परिकल्पयेत् || ७-२१ || शिष्यनामाक्षरमेकैकमवधिं कृत्वा मातृकावर्णपाठक्रमेण गणनया एकैकनामाक्षरोर्ध्वस्थ एकैको मन्त्रवर्णो यावदागच्छति, तावद्वक्ष्यमाणेन सिद्धसाध्यसुसिद्धारिभेदगणनेन यत्रैतदन्यतमे स नामवर्णो निपतेत् संयुज्येत, तमायमिति शुभाशुभसूचकं निश्चिनुयात् | यथोक्तं मयसंग्रहे ---- ऽऽआयान्तीष्टेतरार्थाय भवन्त्यायास्ततऽऽ इति || २१ || अत्र गणनोपायप्रदर्शनपूर्वमायस्वरूपमादिशति ---- रेखांगुलिगतं तं तु कथयामि समासतः | रेखोपलक्षितांगुलीगतमंगुलिरेखासु कथितं तमायम् || स च ---- पर्वणि प्रथमे सिद्धः साध्यश्चैव द्वितीयके || ८-२२ || तृतीये तु सुसिद्धः स्यादरिर्ज्ञेयश्चतुर्थके | अनेन क्रमेण नामाक्षराणि मन्त्राक्षरप्राप्तिं यावद् गणयित्वा आयं परीक्षेत || तत्र ---- अरिसाध्यौ परित्यज्य दातव्यश्चुम्बकेन तु || ८-२३ || सिद्धरूपः सुसिद्धश्च भुक्तिमुक्तिफलप्रद,ह्१ | अरिसाध्योराद्यन्तस्थितयोर्बहलयोर्वा परित्यागः, सिद्धसुसिद्धयोस्तु स्वीकारः, क्रमेण भुक्तिमुक्तिप्रदत्वात् | यथोक्तम् ---- शिद्धान्ते सिध्यतेऽवश्यं साध्यान्ते कृच्छ्रसाधनः | सुसिद्धः पूर्वसिद्धस्तु अर्यन्तो न प्रसिध्यति ||ऽऽ इति | तथा ---- ऽऽएवं शुद्धौ कृतायां तु सुसिद्धोऽभ्यधिको यदि | सिद्धौ न लभ्यते ग्राह्यमूतीः साध्येऽपि साधकः ||ऽऽ इति | शुद्धौ कृतायामित्यंशकविषये निश्चितायां साध्येऽप्यधिके त्रिश्चतुर्वा आयाते सति मन्त्रमूतीराराध्यत्वेन ग्रहीतव्या, इत्यत्रार्थः | इयं चांशकपरीक्षा एकाक्षरमालामन्त्रयोर्न कर्तव्या | यथोक्तम् ---- ऽऽएकाक्षरेषु कूटेषु मालामन्त्रेषु भामिनि | अंशकं न परीक्षेत परीक्षेतान्यमन्त्रगम् ||ऽऽ इति, कूटेष्वद्वैततत्त्वेषु | अत एव ---- ऽऽमायां१ नेत्रे च देवेशि तथा द्वात्रिंशदक्षरे | न च तत्रारिशङ्का स्यात्.................. ||ऽऽ इत्यप्यन्यत्रोक्तम् || तदित्थंविचारात् ---- यस्ंत्वंशकाविशुद्धः स्याद् भैरवोऽत्र वरानने || ८-२४ || तं मध्यमस्थं सम्पूज्य तत्स्थाने मध्यमं न्यसेत् | य इति कपालीशाद्यन्यतमः | मध्यमस्थमिति, आराधनायां प्रधानीभूतत्वात् | तत्स्थान इति तस्यावरणकक्ष्यास्थस्य कपालीशादेः पदे | मध्यममिति श्रीस्वच्छन्दमयं तुर्यादिरूपतया परीक्ष्येति दशीतम् || अथ कथं श्रीस्वच्छन्दनाथस्य परिवारं प्रति परिवारतया न्यासः ? ---- इत्याशङ्कां शमयितुमाह ---- यतः सर्वगतो देवः सर्वेष्वन्तर्गतः स्मृतः || ८-२५ || तत्सिद्धिमुक्तिदातासौ न वर्णाः परमार्थतः | यः सर्वगतो व्यापको देवः क्रीडादिशीलश्चिदानन्दघनः श्रीस्वच्छन्दभट्टारकः सर्वेषु कपालीशादिषु प्रपञ्चव्याप्त्यावस्थितेष्वन्तर्गतः परमार्थरूपो यतः, तत्तस्मात् स एव तत्तत्कपालीशाद्यात्मना स्मृतः, साधकस्यांशकशुद्ध्या सिद्धिमभेदव्याप्त्या च मुक्तिं ददाति परमार्थतः, न तु व्याप्तिज्ञानशून्या वर्णाः किंचित् कुर्वन्ति | उक्तं हि प्राक् ---- ऽऽअक्षरेषु कुतो मोक्षःऽऽ (७-२३८) इति | तेन स्वस्यावरणभेदस्यान्यथाकल्पनेऽपि न तत्त्वभूमेः काचिन्म्लानिः || तदिदमंशकविचारान्ते प्रसङ्गायातं वस्तु ---- कथितं सरहस्यं ते गुह्याद् गुह्यतरं परम् || ८-२६ || अथ यत् कथितमित्युक्तम्, तत्प्रमाणीकर्तुं परमशिवात् प्रभृति गुरुपारम्पर्येणेदं रहस्यं तन्त्रमवतीर्णमिति दर्शयन् परादि दिव्यान्तं सम्बन्धषट्कं प्रदर्शयति ---- अतस्तन्त्रावतारार्थं कथयामि समासतः | तत्र ---- अदृष्टविग्रहायातं शिवात् परमकारणात् || ८-२७ || ध्वनिरूपं सुसूक्ष्मं तु सुशुद्धं सुप्रभान्वितम् | तदेवापररूपेण शिवेन परमात्मना || ८-२८ || मन्त्रसिंहासनस्थेन पञ्चमन्त्रमहात्मना | पुरुषार्थं विचार्याशु साधनानि पृथक् पृथक् || ८-२९ || लौकिकादिशिवान्तानि परापरविभूतये | तदनुग्रहयोग्यानां स्वे स्वे विषयगोचरे || ८-३० || अनुष्टुप्छन्दसाऽऽबद्धं कोट्यर्बुदसहस्रधा | शिवात् परमाद्वयप्रथात्मकश्रेयोरूपात्, परमकारणात् शिवान्तानां कारणानां सर्वेषां स्वभित्तावाभासकात्, अत एवादृष्टः परद्रष्टेरकरूपो विग्रहः स्वरूपं यस्य तस्मात् | भिन्नमेतत्पदं छान्दसेन पञ्चम्यात्वादेशेन | अथ च तस्मिंस्तद्रूपमेवायातं प्रसरणस्फुरणं यस्य तद् ध्वनिरूपं नादामर्शात्मकं सुसूक्ष्ममप्रमेयं विश्वव्यापकं च, अकारादिकलाकलितत्वाभावात् सुशुद्धम्, सुप्रभान्वितं महाज्ञानरूपं यत्तदेवापररूपेणेत्यनाश्रितभट्टारकाख्येन शिवेन दण्डवक्त्रभंग्यवस्थितसद्योजातपञ्चमहामन्त्रशरीरे पृथक् पृथगनुग्राह्यानुसारं साधनान्यनुष्ठानानि लौकिकादिशिवान्तानि विचार्य तत्तर्तासद्धिसाधनार्थमपररूपेणैव स्थूलेन वेदादिरहस्यान्ततत्तत्स्रोतोभेदोद्भूतनानाशास्त्ररूपमनन्तग्रन्थसदर्ब् हात्मकं निबद्धम् | मन्त्रसिंहासनस्थेन सार्धत्रिकोटिमन्त्राधिपतिनेत्येनेनैव शास्त्रानन्त्यस्यावकाशो दत्तः | पञ्चमन्त्रमहात्मनेत्यनेन श्रीकण्ठीयसंहिताद्युक्तनानास्रोतोभेदः सूचितः | तत्र ---- ऽऽअदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् | ज्ञानरूपं विनिष्क्रान्तमनवच्छ(ब्द)१ महत् ||ऽऽ इत्यादिना नादस्वरूपं निरूप्य ---- ऽऽततो जातमिदं सर्वं चतुर्वर्गफलप्रदम् ||ऽऽ इत्युक्त्वा स्रोतोभेदेन नानाशास्त्रप्रपञ्चोदयः प्रदशीतः | तदेवेत्यादिना आबद्धमित्यन्तेन तत्तदनुग्राह्याशयानुसारेण भिन्नभिन्नफलान्यपि शास्त्राणि वस्तुतो वाक्यैकवाक्यतया परिपूर्णाभिन्नविमर्शस्फाराण्यासूत्रितसमस्तभेदाभेदप्रपञ्चानीति तथाविधव्याप्तिज्ञं तत्वज्ञं प्रत्यभिन्नचिदानन्दघनतत्त्वविश्रान्तिपरमार्थान्येवेति ध्वनति | तदुक्तम् ---- ऽऽयतः शिवोद्भवं सर्वं शिवधामफलप्रदम् |ऽऽ इति || एवं परसम्बन्धमूलतां शास्त्रप्रसरस्य प्रदर्श्य, सम्बन्धान्तरगोचरतामपि प्रदर्शयिष्यामीत्याशयेन परमशिवेनापीत्थमिदमुत्थाप्यत इत्याह ---- गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः || ७-३१ || पूर्वोत्तरपदैर्वाक्यैस्तन्त्रमाधारभेदतः | तज्ज्ञानमीश्वरेऽदात् तदीश्वरेण शिवेच्छया || ७-३२ || विद्यायाः कथितं पूर्वं विद्येशेभ्यस्तथादरात् | देवः परवाक्शक्तिमयः शिवभट्टारक एव | सदाशिव इति गृहीततत्तद्भूमिकः | स्वयं गुरुशिष्यपदे स्थित्वेति प्रतिभाभुवि प्रष्टृप्रतिवक्तृभावासूत्रणेन परममहापश्यन्तीवाक्शक्त्यासूत्रितपूर्वोत्तरपदात्मकैर्वाक्यैरुप- लक्षितं तन्त्रमशेषशास्त्रसन्दर्भमयं तज्ज्ञानं चेश्वरेऽदादिति संक्रमितवान् | आधारभेदत इति ईश्वरात्मकमाधारभेदमाश्रित्य स्वयं तदात्मना स्थित्वा इत्यर्थः | तज्ज्ञानमीश्वरे दत्तमिति तु पाठः पूर्वश्लोकान्त आसूत्र्येति योजयित्वा तेन चेत्यनुषङ्गेण व्याख्येयः | इयता महत्सम्बन्धो दशीतः | शिवेच्छया सदाशिवेच्छया, इत्यनेनानायातशक्तिपातो नोपदेश्य इति ध्वनति | विद्याया इति ---- ऽऽअष्टवर्गविभिन्ना च विद्या सा (मातृकैव तु)ऽऽ (१०-११४४) इति वक्ष्यमाणमातृकावाच्याया देव्यास्तथा वेदनप्रधानत्वाद् विद्याशब्दवाच्यस्याशेषस्य मन्त्रग्रामस्य, अनन्तभट्टारकादिभ्यश्च विद्येशेभ्यो मन्त्रचक्रवतीभ्य ईश्वरेण तन्त्रं तज्ज्ञानं च कथितं संक्रमणयुक्त्या विमर्शपदं नीतम् | आदरादिति भक्त्युल्लासप्रकर्षात् | यद्यपि भगवतो मातृका तदुत्थाश्च मन्त्राः परमेशवदभेदेनावभासिता विद्यातत्त्वधाम्नि तावदशेषविश्वाभेदव्याप्तिरत्र निमग्नेव स्थितेति तामुन्मज्जयितुमीश्वरेण विश्वानुजिघृक्षया ज्ञानसंक्रान्तिरत्र कर्तृमुपपन्नैव | इतः प्रभृत्यन्तरालसम्बन्धः आसूत्रितः ---- ऽऽमयापि तव देवेशि साधिकारं समपीतम्ऽऽ (८-३६) इत्येतावत्पर्यन्तो भविष्यति || एवं पश्यन्तीप्रसरणपर्यन्तां शास्त्रस्थितिमुक्त्वा, मध्यमाप्रसरणेनाह ---- मायानियतिपर्यन्तैस्तस्माद्रुद्रैरवापि तत् || ८-३३ || तस्मादिति विद्यातत्त्वचक्रवतीनोऽनन्तभट्टारकादित्यर्थात् | मायानियति पर्यन्तैरिति मण्डलप्रभृतिभिः कञ्चुकवासिभिश्च रुद्रैरवापीति संक्रमणयुक्त्यैव || ३३ || ततोऽनन्तरं तदेव ज्ञानं तथैव ---- श्रीकण्ठेनेश्वरात् प्राप्तं ज्ञानं परमदुर्लभम् | अहं हि भगवानीश्वरात्मनः शिवस्य शिष्यः मण्डल्याद्यास्त्वनन्तशिष्याः | अत्र मध्ये पुंस्तत्त्वाधिष्ठातारो रुद्रा बन्धहेतुतया स्थापिता इति तेषामेतज्ज्ञानशक्तिसंक्रान्तिर्न कृता || ततोऽपि तथैव ---- तेनापि तदधः प्रोक्तं रुद्राणामीश्वरेच्छया || ८-३४ || प्रधानाच्छतरुद्रान्तं दीक्षयित्वा विधानतः | ममापि च पुरा दीक्षा तथा चैवाभिषेचनम् || ८-३५ || श्रीकण्ठेन पुरा दत्तं तन्त्रं सर्वार्थसाधकम् | यद्यपि गुणतत्त्वे श्रीकण्ठनाथः स्थितः, तथाप्यसौ शिवशिष्यत्वेन प्रभावातिशयवानिति स्वोर्ध्वस्थप्रकृतिवतीनः क्रोधाद्यष्टस्य स्वाधारतत्त्वगतानां च शतरुद्रान्तानां रुद्राणामनुग्रहीता | ममापीति कैलासवासिनस्तन्त्रप्रवक्तुर्भगवत उमापतेरुक्तिः | तदित्थमनन्ताद्याः श्रीकण्ठश्चेश्वरभट्टारकात्मनः शिवस्य शिष्याः, मण्डलिनस्त्वनन्तशिष्याः, क्रोधादयः शतरुद्रान्ता उमापतिश्च श्रीकण्ठशिष्या इत्यादिष्टं भगवता | तेन यत् खेटकनन्दनेन --- - ऽऽमण्डलिनः श्रीकण्ठः क्रोधाद्याः शतभवा सवीरेशाः | एते कलादियोगात् प्रकटीकृतदृक्क्रियाः परेशेन ||ऽऽ (तषं. ३०) इत्युक्तम्, तद्यथोक्तानुसारं क्वचित् साक्षात् क्वचित् पारम्पर्येणेति व्याख्येयम्, नत्वविशेषेण | दीक्षयित्वेति, अभिषेचनं कृत्वेति च शाक्तसमावेशसंक्रमणयुक्त्या पूर्वं शांभवसमावेशयुक्त्यैव | एवं च नादीक्षितस्य ज्ञानग्रहणे, नाप्यनभिषिक्तस्य तद्दानेऽधिकार इत्यादिष्टं भवति || अथैतत्तन्त्रं च तज्ज्ञानं च संक्रमणयुक्त्यैव ---- मयापि तव देवेशि साधिकारं समपीतम् || ८-३६ || इतः प्रभृति वैखर्याः प्रसरः || ३६ || एवमियतान्तरालाख्यं सम्बन्धं प्रकटीकृत्य, दिव्यान्तमादिशति ---- त्वमपि स्कन्दरुद्रेभ्यो ददस्व विधिपूर्वकम् | ब्रह्मविष्ण्वन्द्रदेवानां वसुमातृदिवाकृताम् || ८-३७ || लोके संगृह्य नागानां यक्षाणां परमेश्वरि | विधिर्दीक्षाभिषेकरूपः || दिव्यादिव्यसम्बन्धमाह ---- कथयस्व ऋषीणां च............ एवं च देव्या विश्वानुग्रहाधिकारार्पणेन भगवता महाकारुणिकत्वं परिपोषितम् || अदिव्यं सम्बन्धमाह ---- ...........ॠषिभ्यो मनुजेष्वपि || ८-३८ || कथयस्वेति स्थितम् | देवी एव हि पराशक्तिस्वभावा विश्वाधिष्ठात्री अनुजिघृक्षारससरसहृदया तत्तदाचार्यदेहमाविश्यानुग्रहं करोति | एवं चादिव्यसम्बन्धपर्यन्तः पर एव सम्बन्धः सर्वत्र प्रपततीं त्यभिहितं भवति | तदुक्तम् ---- ऽऽ...........................षर्वः परकलामयः | महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ||ऽऽ इति त्रिकहृदये || ३८ || उपसंहरति ---- एवं तन्त्रवरं दिव्यं सिद्धरत्नकरण्डकम् | त्वया गुप्ततरं कार्यं न देयं यस्य कस्यचित् || ८-३९ || यद्यपि पूर्वोक्ते सर्वतन्त्रे तवाधिकारो दत्तस्तथापि यदेवं निर्णीतनिर्णेष्यमाणपटलगतरहस्यार्थपूर्णत्वाद् वरमुत्कृष्टमिदं दक्षिणस्रोतःसमुद्भूतभैरवतन्त्रजातमध्ये प्रधानभूतं दिव्यं सर्वभोगापवर्गप्रदं तन्त्रं तत्त्वया गूहनीयं ज्येष्ठाशक्तिपातवतामेव प्रकाश्यं नेतरेषामिति शिवम् || ३९ || आ देवेभ्यः क्रमान्तं निखिलमिदमियच्छासनत्राणरूपं विश्वं यत्सम्प्रसूतं परमशिवपदाल्लोकपर्यन्तमेतत् | शास्त्रं वाक्यैकवाक्यस्थितमिव विगलद्भेदविश्रान्तिलब्ध स्वच्छस्वच्छन्दधामप्रथनपरमिदं स्तात्समग्रस्य जन्तोः || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते अंशकाधिकारः नाम अष्टमः पटलः || ८ || नवमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ श्रीमन्निष्कलसद्भित्तावुट्टङ्क्य सकलस्थितिम् | विश्राम्यत्यकले तत्त्वे यस्तं भैरवमाश्रये || साधकोद्देशेनाराध्यपञ्चप्रणवनिरूपणानन्तरं तदुपयोगिबहुप्रमेयगर्भं कालस्वरूपमभिधायांशकसतत्त्वमुक्तम् | प्रसङ्गात् तन्त्रावतारो दशीतः | अथ विघ्नौघविघातेन झटित्यभीष्टसिद्धिसाधनं श्रीकोटराक्षविधानं रक्षाचक्रप्रपञ्चमप्रश्नितमप्यनुजिघृक्षया प्रतिपिपादयिषुः श्रीभैरव उवाच ---- अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम् | अतः शब्दो व्याख्यातक्रमसूचनाय | प्रकर्षेण अनुजिघृक्षादरेण वक्ष्यामि | उत्तमं रहस्यमिति सर्वविघ्नप्रशमनं झटित्यभीष्टसिद्धिप्रदं च || अत एव ---- यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते || ९-१ || शोभनं व्रतं परतत्त्वावहितत्वं यस्या इत्यामन्त्रणेन योग्यतमविरलशिष्यविषयत्वमस्यानुष्ठानस्येति ध्वनति | अतश्च योग्यदेवीव्यतिरेकेण नैतदन्यस्याप्युक्तम् || १ || एतदुद्घाटयति ---- महाभैरवदेवस्य क्रीडमानस्य भामिनि | सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः || ९-२ || महाभैरवदेवः प्रथमपटलदशीतनिर्वचनस्थित्या स्वच्छन्दनाथः, तस्य निःशेषविघ्नप्रशमनसर्वसिद्धिसम्पादनानुजिघृक्षात्मिकां क्रीडां ताच्छील्येन कुर्व(तो)१, स्वस्वातन्त्र्यशक्त्यात्मकाद् हृदयात्, सृष्टिसंहारयोः कर्ता वक्ष्यमाणश्रीकोटराक्षनामा देवः, अरं शीघ्रम्, विनिर्गतः समुच्छलित इत्यर्थः | अत एव भगवानघोरहृदय इत्युच्यते || २ || तं भगवन्तं दर्शयितुमाह ---- कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनम् | तडित्पुञ्जनिभोद्दन्ष्ट्रं जटाज्वालासमप्रभम् || ९-३ || चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणम् | बृहद्वक्षःस्थलाभोगं नागयज्ञोपवीतिनम् || ९-४ || स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितम् | सर्पहारकृताटोपं सर्पकङ्कणनूपुरम् || ९-५ || सिंहचर्मपरीधानं सर्पमेखलमण्डितम् | गजचर्मावृतपटं शशाङ्ककृतशेखरम् || ९-६ || पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनम् | कपालमालाभरणं खड्गखेटकधारिणम् || ९-७ || पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितम् | कपालखट्वाङ्गधरं वरदाभयपाणिकम् || ९-८ || भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरम् | ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभम् || ९-९ || सर्वमेतत् प्रागुक्तव्याख्याभिर्व्याख्यातसतत्त्वम् | तडित्पुञ्जनिभे उद्गते दन्ष्ट्रे यस्य, जटानां ज्वालानां चासमा प्रभा दीप्तिर्यस्य, कोटरं कुहरं तदाकृतीन्यक्षीणि यस्य, अनेन अन्तर्लक्ष्यतां बहिर्दृष्टित्वं च दर्शयति, सुष्ठु भीषणत्वं नाम्नैवोक्तम् | मेखलशब्दे तु ह्रस्वः एश्वरः | त्रिलोचनमिति प्रतिवक्त्रम् | अवतानितं मण्डलीकृतदोर्दण्डम् | स्फुरिताधरत्वं निःशेषविघ्नभक्षणपरत्वेन || ९ || एतद्रूपमनुग्राह्यैरुपास्यमित्याह ---- एवं तं भैरवं देवं स्वच्छन्दं परिकीर्त(चिन्त)१येत् | स्वच्छन्दनाथमेव बहुरूपत्वादनेन सुभीषणेन विघ्नसन्त्रासनेन रूपेण चिन्तयेदित्यर्थः || अतश्च ---- स्मरणान्नाशयेद् देवः पापसङ्घातमुल्बणम् || ९-१० || ध्यायिनां व्याध्याद्युद्भावकप्राक्तनमहापापप्रशमनायैव तेनैवंविधं रूपं स्वेच्छया गृहीतम् | अतः स्मरणादेवोल्बणं दुष्टभोगदानायोन्मुखीभूतं पापसङ्घातं नाशयत्येव | अत एव चतुर्वक्त्रात् श्रीव्याधिभक्षभट्टारकादयमन्य एव देवो व्याध्याधिकारणभूतमहापापभक्षण इत्यवगतम् || १० || किं च अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः | यस्तं भीषणरूपानुगुणतया ---- पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुम् || ९-११ || प्राग्दशीतसतत्त्वाः पञ्चः प्रणवाः पूर्वान्तयोर्यस्य तम्, तत्रैव पञ्चप्रणवस्वरूपे लीनं विश्रान्तम्, तद्भित्त्यर्थं तदाच्छुरितं चेमं महामन्त्रं पूजान्ते जपावसरे जपेत् | अतश्चैवं वाच्यवाचकक्रमाभ्यां दीप्तत्वादघोरीश्वर्युक्तत्वाद् भाविविशिष्टदेवतापरिवृतत्वेतराभ्यामस्य द्वात्रिंशदक्षरादन्यत्वमित्यनुष्ठानान्तरमेवैतत् || ११ || तदीदृशस्य ---- तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तरात् | कल्प्यत आराध्यतेऽनेनेति कल्पः विधानम् || तमाह ---- पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे || ९-१२ || पुष्पप्रकरसङ्कीर्णे गन्धधूपाधिवासिते | तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः || ९-१३ || एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकम् | सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः || ९-१४ || पूर्ववत् साधयित्वा तु दिग्भागांस्तु वरानने | पूर्वोक्तैरिति ---- ऽऽधाम्ना तु रजसां पातःऽऽ (४-३५) इति वाक्येन सूचितैः, वर्णकैः सिन्दूरादिभिः | गतार्थमन्यत् || एतत् प्राक्तनमण्डलाद्विशिष्टं मण्डलमित्याह ---- चतुर्द्वारसमोपेतमष्टपत्रं सकणीकम् | मध्ये पद्मं समालिख्य केसरैरुपलक्षितम् || ९-१५ || द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनम् | एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलम् || ९-१६ || चतुरस्रं तदासन्नं बाह्ये वीथीं प्रकल्पयेत् | मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववत् || ९-१७ || एवमिति चक्रपरीमाणानुसारेण, सुसूत्रितं वर्तुलं भ्रमं कृत्वा, तस्यासन्नं च चतुरस्रं कृत्वा वीथीं प्रकल्पयेत् | तद्बाह्येऽन्तःपद्मक्षेत्रमानं कण्ठकपोलशोभोपशोभाढ्यं चतसृषु दिक्षु द्वारचतुष्टयं कल्पयेत् || १७ || अथ निष्पन्ने मण्डले साधकः ---- भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः | केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः || ९-१८ || शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः | परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत् प्रिये || ९-१९ || प्रणवासनसंस्थं तु............ भस्मोद्धूलितत्वादिना साधकस्य मन्त्राराधनावसरे महाव्रतित्वमुक्तमत एव परभैरवानुकारित्वेनापि तदभिमानिनो विघ्ना नश्यन्ति | भाव्यस्यात्र जलस्नानादि नोक्तम्, दिग्वासाः, तदन्यस्य यत्संयमनाशयेनैव कौपीनग्रहणात् | शङ्खमत्र प्रकरणसामर्थ्यान्महाशङ्खम् | परितोऽस्त्रं सर्वतोऽस्त्रप्राकारम् | प्रणवासनस्थत्वं प्राग्वत् || कथं पूजयेत्, कं च भैरवमित्याह ---- ..........ंऊतीं हंसाक्षरेण तु | तमेव सकलं देवं स्वच्छन्दं परमेश्वरम् || ९-२० || मूतीं हंसाक्षरेणेति पूर्वोक्तेन चिन्मूतीमन्त्रेण द्वात्रिंशदक्षरेण च सकलमूतीरूपेण | तमेवेति पूर्वोक्तम् || २० || किमविशिष्टम् ? नेत्याह ---- यत्तत् परमनिर्भासमनामयमरूपकम् | तेन चावाहयेद् देवि........... परमः सर्वोत्कृष्टो निर्भासो यस्य, अनामयं मायासम्बन्धहरम्, अरूपकमनाकृति, यत्पूर्वं निष्कलं तत्त्वमुक्तम्, तेन प्रोक्तनीत्याद्यन्तस्थितेन सहितमावाहनमुद्रयाऽऽवाहयेत् पूजनार्थमभिमुखीकुर्यात् || किं च ---- ......ःऋच्छिरश्च शिखां तथा || ९-२१ || वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेत् | तेनैवेति नैष्कलेन हृदाद्यङ्गमन्त्रेण, न तु प्राग्वत् सकलेनापि | ब्रह्मपञ्चकमन्त्राणां तु न सकलादिविभागोऽस्तीति प्राग्वत् तन्न्यासानन्तरं भगवदाकृतौ निष्कलाङ्गन्यासः || इत्थं च निष्कलसकलात्मकैकरूपे भगवत्याह्वानसमये एव निष्कलसकलमन्त्रोच्चाराद् निष्कलस्थानविहितपरमीकरणे न्यस्ते वक्त्रनैष्कलाङ्गविन्यासे कृते ---- स्थापनं सन्निधानं च निरोधार्घादिपूजनम् || ९-२२ || सर्वं तेनैव कर्तव्यमुक्तानुक्तं वरानने | स्थापनादि सर्वं पूर्वप्रदशीतमुद्राबन्धपूर्वं कर्तव्यम् | तेनैवेति निष्कलसम्पुटितेन सकलेन | उक्तमिति स्थापनादि, अनुक्तं तु स्वागतपाद्याचमनस्नानादि आत्मनिवेदनपर्यन्तम् || इत्थं च ---- मध्यस्थं भैरवं पूज्यमङ्गषट्कसमन्वितम् || ९-२३ || मध्यस्थमिति मध्यगतम्, भैरवमिति भैरवतेज इत्यर्थः || २३ || किं चात्र पद्मबाह्ये द्वात्रिंशदरके चक्रे ---- ततः पत्रस्थिता देवीर्द्वात्रिंशार्णैनीवेशयेत् | पूर्वारकात् समारभ्य यावदन्ते व्यवस्थिता || ९-२४ || पत्रस्थिता इति अष्टपत्रस्य पद्मस्योक्तत्वात् प्रतिदिक्पत्रानुसारिस्थिताराचतुष्टये चक्रे संनिवेशयेदिति | द्वात्रिंशार्णैरिति तकारलोप एश्वरः, तेन द्वात्रिंशद्देवीः द्वात्रिंशतैव अर्णैः, अर्थाद् द्वात्रिंशद्वर्णसम्बन्धिभिवीभज्य निवेशयेत् || २४ || तासां नामानि वक्ष्यामि द्वात्रिंशत्परिसंख्यया | तानि मन्त्रस्थाक्षरस्फारसारतत्सदृशप्रथमनामाक्षररूपाणि निरूपयति ---- अरुणा घोषा देवी च रेवती भोगदायिका || ९-२५ || स्थापनी घोरसंज्ञा च रक्षा भारभरेति च | घोररूपा रवा घोणा रतिस्ताराथ रूपिणी || ९-२६ || भयहानिस्तु चण्डा वै सर्वदा च तथा वरा | तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा || ९-२७ || रौद्री च भ्रामणी चैव नागिनी च मनोहरा | स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी || ९-२८ || भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमात् | तत्क्रमादिति मन्त्रगताक्षरक्रमानुसारेणेत्यर्थः | एवं चाभिदधन्न केवलं मन्त्रस्य पूर्वनिर्णीतवाक्यरूपा वीर्यव्याप्तिः, यावद्वर्णानुसारेण प्रोक्तदेवताचक्रव्याप्तिमयत्वमपीत्यादिशति देवः || आसां देवीनामावाहनादौ मन्त्रमाह ---- प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा || ९-२९ || सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना | वर्ण इति द्वात्रिंशदक्षरसम्बन्धी क्रमेणैकैक इत्यर्थः | नाम इति चतुर्थ्यन्तमित्यर्थात् | विधिरिति पूजादिविषयो मन्त्रोच्चारणप्रकारः | विधिवेदिनेत्येष आवाहनादावामन्त्रणविभक्त्यन्तं नाम तथा तत्कर्मानुसारेण जातिप्रयोग इत्यनुमन्तव्यमिति ध्वनति || अथासां देवीनां प्रतिदिशं चतसृणां पूर्वोक्तनीत्या भैरवीयप्रपञ्चव्याप्तितत्त्वलोकपालानुसारेण भैरवानुसारेण ध्यानं निदीशति ---- हेमाभं प्राक् चतुष्कं तदिन्द्रचापसमप्रभम् || ९-३० || चतुर्मुखं चतुर्बाहं वज्रहस्तं सुगवीतम् | कपालमालाभरणं प्रहसत्तु विचिन्तयेत् || ९-३१ || प्राक् चतुष्कमिति पद्मप्राग्दलसंश्लिष्टानां चतुष्टयनिविष्टमरुणादिचतुष्कं तद्दिक्पतितुल्यत्वाद् हेमप्रभं वज्रहस्तं च, इन्द्रचापसमप्रभमित्यन्तःस्फुरन्नानावर्णभास्वरम्, ऊर्ध्ववक्त्रस्य निष्प्रपञ्चत्वात् सिद्ध्यनुगुणता नास्तीति पञ्चवक्त्रशक्तिमदधिष्ठितमपि देवताचक्रं साधकसिद्ध्यानुगुण्येन गृहीतचतुर्मुखचतुर्भुजादिरूपं दशीतम् | एकत्र दक्षहस्ते वज्रस्योक्तत्वादनुक्तमपि कपालखट्वाङ्गधारित्वमभयकरत्वमंशेन भैरवरूपानुकारादुक्तम्, अतश्च कपालमालाभरणत्वमपि सङ्गतमेवेति तदनुसारेण प्रतिवक्त्रं त्रिनेत्रत्वमपि मन्तव्यम् | सुगवीतत्वं प्रहसत्त्वं च निवीघ्नसिद्धिदानानुगुण्येन कियदेतद्वस्तु इत्याशयात् | एतच्चतुर्मुखत्वादि प्रहसितत्वान्तं सर्वत्र चतुष्केऽनुमन्तव्यम्, तथा कपालखट्वाङ्गहस्तत्वादिकं च || ९-३१ || आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेत् | दण्डहस्तं स्मरेद्याम्यं कृष्णवर्णं सुभीषणम् || ९-३२ || नीलमिन्दीवराभासं नैरृतं खड्गगहस्तकम् | श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेत् || ९-३३ || धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलम् | उत्तरं धवलं ज्ञेयं गदाखेटकधारि च || ९-३४ || स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकम् | उत्तरस्मिन् देवीचतुष्टये खेटकधारित्वस्य स्वकण्ठेनोक्तत्वादभयपाणित्वं न ध्यातव्यम् | चतुर्मुखत्वादि सर्वमन्यत् प्राग्वत् || अत्र ध्याने फलमाह ---- एवं ध्यानपरो यस्तु चक्रमेतत् सदाभ्यसेत् || ९-३५ || वत्सरार्धाद् वरारोहे तस्य सिद्धिस्त्रिधा भवेत् | उत्तममध्यमाधमरूपा || एवं ध्यानसिद्धिमुक्त्वा, तस्यैव जपसिद्ध्युचितं क्षेत्रमादिशति ---- महेन्द्रे मलये सह्ये पारियात्रेऽर्बुदे तथा || ९-३६ || विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये | एतान्यष्टौ सिद्ध्यनुगुणानि पर्वतस्थानानि || किं च ---- गङ्गायमुनासम्बाधे............. सम्बाधः सङ्कटं संमिश्रयोस्तयोः यावती प्रवाहभूमिः || ...............कुरुक्षेत्रे वरानने || ९-३७ || गङ्गाद्वारे प्रयागे च ब्रह्मावर्ते समास्थितः | सरस्वतीचर्मण्वत्योरन्तरस्थो देशो ब्रह्मावर्तः || अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च || ९-३८ || गङ्गायमुनाप्रवाहयोर्मध्यमन्तर्वेदी | नर्मदायामपि तत्तटे || ३८ || किं च ---- सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे | पद्मषण्डैर्मनोरमो यः सुस्निग्धो देशस्तत्र भूभागे इति योजना || किं च ---- येषु येषु प्रदेशेषु स्वयम्भूर्भगवाञ्छिवः || ९-३९ || तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः | वाङ्नरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः || ९-४० || शाकभक्ष्यः फलाहारी नीवाराद्यशने रतः | त्रिकालपूजानिरतोऽथाग्निकार्यपरायणः || ९-४१ || भावितात्मा महासत्त्वो रक्षायाश्च विधानवित् | यः ---- तस्य मन्त्रः प्रसिद्धयेत्तु........... स च ---- ..........षाधयेत् सचराचरम् || ९-४२ || स्वयम्भूनामनुग्रहार्थमेवावतीर्णत्वात् तत्क्षेत्रस्य सातिशयं सिद्धिप्रदत्वम् | नियमस्थ इति शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधाननिष्ठः | वाक् च निःशेषेण रुद्धा जपैकनिष्ठीकृता येन, प्रसन्नः त्यक्तसङ्गसंस्कार आत्मा मनो यस्य, लक्षाक्षरजपे रत इति प्राग्वत् द्वात्रिंशता लक्षैः सदशांशहोमैः, न तु यथान्ये ---- अक्षरं मन्त्रस्तस्य लक्षेणैकेनेति, अक्षरशब्दस्य मन्त्रवाचित्वाभावात्, ऽऽलक्षेणाक्षरसंख्ययाऽऽ (६-५१) इति प्राक्तनोक्त्यविशेषप्रतिभासनादेतस्या उक्तेः | न च षाण्मासिकस्य प्रोक्तचक्रध्यानस्य काचिदनुपपत्तिः, तस्यैतज्जपसंख्याविधिं विना शुद्धस्यैव प्रोक्तफलहेतुत्वात् | न च ध्यानमात्रात् सिद्धिर्न भवतीति वाच्यम्, आगमेषु शतशस्तत्प्रतिपादनात्, जपे तु तथोचितं ध्यानं न प्रत्याचक्ष्महे | यदि प्रोक्तचक्रध्यानं मन्त्रजपेऽङ्गं स्यात्, तच्चक्रदेवीनामपि जपनियममभिदध्यादित्यलम् | भावितात्मा आश्वस्तहृदयः, अत एव महासत्त्वः सावष्टम्भोऽत्यन्तशुद्धचित्तः | रक्षाया दिग्बन्धास्त्रप्राकारादिरूपायाः, चकारात् क्षेत्रपालबल्यादेः, विधानविदितिकर्तव्यताज्ञः || ४२ || यदुक्तं साधयेत् सचराचरमिति, तत्संक्षेपेण दर्शयन् भाविपटलप्रमेयवस्तु कटाक्षयति ---- कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः | सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परम् || ९-४३ || देवयोन्यष्टकं चैव प्रधानपुरुषान्तकम् | नियतिः कालतत्त्वं च रागो विद्या कला तथा || ९-४४ || माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरम् | सर्वं सिद्ध्यत्यनायासान्मन्त्रराजप्रभावतः || ९-४५ || एतत्समनन्तरपटलनिर्णेष्यमाणं शक्तितत्त्वान्तं सर्वं साधकस्य वशे भवत्यतश्च शिवरूपः साधको जायत इति यावत् || ४५ || यत्र चेयद्विश्वमस्य वर्तते, तत्र दण्डापूपीयन्यायो मितसिद्धीनां स्थित एवेत्याह ---- पूर्वोक्तं कर्म वै क्षिप्रमधमं मध्यमोत्तमम् | साधयेन्नात्र सन्देहो भैरवस्य वचो यथा || ९-४६ || अधमादि प्राग्वत् | मारणोच्चाटनवश्याकर्षणशान्तिकाप्यायनादि च यदधमादि कर्म पूर्वमुक्तम्, तदपि यथोक्तद्रव्ययुक्तिसहकृतमयं मन्त्रराजः पूर्वोक्तन्यायेनैव जपलक्षेण सहोमेनाराधितः साधयतीति सिद्ध एवायम् | भैरवस्य यथैव वचस्तथा अत्राश्वस्तव्यम् | आश्वासो हि अकम्पः सिद्धिलिङ्गम् || ४६ || अथ योग्यतमसाधकविषयमेतदेव दर्शनं द्वात्रिंशद्देवताचक्रपरिवारं विना एकवीरं निरूपयितुमाह ---- अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितम् | जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये || ९-४७ || पूजयेत् पूर्वविधिना.............. एकमेव देवीपरिवाराद्यपरिवृतं वक्त्राङ्गषट्कमात्रसहितम्, वीरं साधकानां मुक्तिपर्यवसिततत्तत्सिद्धिसाधनायोद्यतम् परमेश्वरं, पूर्वोक्तविधिनेति ऽऽभस्मोद्धूलितदेहस्तुऽऽ (९-१८) इत्यादिनोक्तेन सर्वेण क्रमेण पूर्वोक्त एव क्षेत्र आराधनार्थं होमान्तेन विधिना पूजयेत् || ४७ || ततः प्रोक्तसंख्याकं जपं होमं च प्रतिज्ञाय, तत्सम्पत्त्यै ---- ...................जपहोमार्चने रतः | ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरम् || ९-४८ || प्राप्नोति चिन्तितान् कामान् देवि नास्त्यत्र संशयः | एवं साधकसिद्ध्यानुगुण्येनाराधनप्रकारानुक्त्वा रक्षाकल्पं प्रस्तावयितुमाह ---- अथ रक्षाविधानेषु अघोरं योजयेद्यथा || ९-४९ || तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु | यत्र ---- द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि || ९-५० || नाभिकेसरसंयुक्तं सुसमं तु वरानने | गोरोचनां तु संगृह्य सिद्धालक्तकसंयुताम् || ९-५१ || दूर्वाकाण्डेन देवेशि हरितेन समालिखेत् | सिद्धैः सिद्धार्थकैरलक्तेन च मिश्रां गोरोचनां कृत्वा दूर्वाकाण्डेन नीलेन तत् चक्रमर्थाद् भूर्जे लिखेत् | सिद्धालक्तकमलक्तकविशेष इत्यन्ये | सिद्धा भगवती चण्डिका, तत्पादाद् गृहीतेन कुङ्कुमेनेति त्वसत् || अथास्य चक्रस्य ---- विद्याराजं कणीकास्थं बिन्दुनादसमन्वितम् || ९-५२ || शक्त्यवसानं देवेशि तस्मिन् साध्यं समालिखेत् | कषमध्ये वरारोहे नयनाद्यन्तरोधितम् || ९-५३ || ईकारवेष्टितं कृत्वा................. विद्याराजं नवात्ममन्त्रम् | कणीकास्थमिति द्वात्रिंशदरचक्रनाभिगतकमलकणीकागतमिति यावत् | बिन्दुनादशक्तयोऽत्र लिपिक्रमेण लेखितव्याः | साध्यमिति तन्नाम, एवं चाभिदधद्वाच्यस्य वाचकाभिन्नत्वमीशेच्छाकृतमिति सूचयति | कषमध्य इति नवात्मसम्बन्धिनः क्षकारस्य यौ ककारषकारौ तयोर्मध्य इति, कादुत्तरस्य षस्य प्रथमभागे | नयनेन त्र्यक्षरेण पूर्वोक्तेन नेत्रमन्त्रेण, रोधितमिति सम्पुटीकृतम् | तत्र च नेत्रमन्त्राक्षराणामादावनुलोमक्रमः पश्चात् प्रतिलोमक्रम इति सम्प्रदायः | ईकारवेष्टितं कृत्वेति मायाबीजमालिख्य तदीकारेण नेत्रमन्त्रसम्पुटितं तत्साध्यनाम त्रिवेष्टितं कषमध्ये लिखेदित्यर्थः || इत्थं कणीकायां लिखित्वा ---- ..............ऽरकस्था निवेशयेत् | पूर्वोक्तदेवता देवि............. पूर्वोक्ता अरुणाद्या यथोक्तैकैकमन्त्राक्षररूपाः साध्यान्ते भगवत्सम्मुखत्वेन, न तु तत्पराङ्मुखतयेत्याम्नायोऽत्र || अथ ---- ............टद्गर्भे साध्यमालिखेत् || ९-५४ || साध्यमिति तन्नाम || ५४ || कथम् ---- भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेत् | त्रीन् वारांस्तु वरारोहे ध्यानयोगसमाश्रितः || ९-५५ || भव इह प्रणवः, तत्पूर्वस्य देवीमन्त्रस्योक्तत्वात् तस्य गर्भे मध्ये | तदिति साध्यनाम कृत्वा पश्चादुपरिवतीमायाबीजसत्केनेकारेण प्राग्वद् वेष्टयेत् | तदीदृगितिकर्तव्यताविशेषितं साध्यनाम एकैकारानिविष्टदेवीमन्त्राक्षरमध्ये आलिखेदित्यर्थः | एवं घोशब्दस्य रेशब्दस्य अन्यस्य च प्रथमकुटिलभागात्मनि मध्ये एतत् लेखनीयम् | तथाभूतं चैतदेकैकं देवीमन्त्राक्षरं कणीकागतमन्त्रराजसम्मुखं पूर्वादिक्रमेणारासु निवेशयेत् | ध्यानयोगसमाश्रित इति भगवतो देवतानां च स्वरूपं सिद्धिसमुचितयथोक्ताकारं ध्यात्वा तद्व्याप्तिं च भावयित्वा लिखेत् || ५५ || तदेवं लिखितमेतत् सर्वमेव चक्रम् ---- ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने | दिगष्टकेऽस्याष्टौ बहिः क्रोंकारा दातव्या इत्यर्थः || अथैतत् ---- इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेत् || ९-५६ || इन्दुः कर्पूरम् | पूजनं मध्यमन्त्रात् प्रभृति सर्वमन्त्रैः यथास्थानम्, यथालेखोत्पुंसनं च सम्पद्यते || ५६ || अथ ---- वेष्टयेच्चैव तद्भूर्जमरन्ध्रं निर्व्रणं समम् | पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने || ९-५७ || सिक्थेन मुटयेत् पश्चात् क्षौद्रमध्ये निधापयेत् | सिक्थं मधूच्छिष्टम् | क्षौद्रं माक्षिकं सर्वौषधिरससारभूतमिति तन्मध्ये स्थापनं साध्यस्याप्यायनाय || अस्य रक्षाविधेः फलमाह ---- यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये || ९-५८ || अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेत् | तस्य मृत्युर्न जायेत इत्येवं भैरवोऽब्रवीत् || ९-५९ || ऽऽयदाऽऽशब्दो भिन्नक्रमः समालिखेदित्यस्यादौ योज्यः | अस्य च पश्चात् तदेत्यध्याहार्यम्, तेन कालाधिकारप्रोक्तैरन्यैर्वारिष्टैः चिह्नितम्, तत एव च ---- ऽऽएकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितम् | तत्रैकः कालमृत्युः स्याच्छेषास्त्वागन्तवः स्मृताः ||ऽऽ इति स्थित्यागन्तुशतेनाघ्रातं कालमृत्युना च एकेन कलितं साध्यं ज्ञात्वा गुरुरिमां रक्षां यदा समालिखेत्, तदा तस्य मृत्युः कोऽपि न स्यादिति भगवतैवोक्तमेतदिति नात्र संशयितव्यम् | लिपिमात्रात् कथमेतद्भवतीति ? यतः श्रीसर्ववीरश्रीभर्गशिखानिरूपितनीत्या लिपिरपि पराशक्तिप्रसररूपैव, अतो भगवतैवैवंप्रतिज्ञातत्वात् सत्यमेवैतन्मन्तव्यम् || ५९ || मृत्युरक्षणे प्रकारान्तरमाह ---- कपालीशस्य गर्भे तु नाम यस्य समालिखेत् | भूर्जपत्रे वरारोहे रोचनाया रसेन तु || ९-६० || ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः | वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते || ९-६१ || कपालीशः पूर्वोक्तः, तस्य गर्भे प्राग्वत् कषमध्ये | कीदृशं नाम | ओंकारपुटमध्यस्थमाद्यन्तयोरोंकारसम्पुटीकृतम् | तथाकृतं च सत्पूर्वोक्तैर्नयनाक्षरैवौषड्जातिप्रयोगेण पश्चात्कृतेनोपलक्षितैः रोधितमिति प्राग्वदनुलोमप्रतिलोमक्रमाभ्यामाद्यन्तयोः सम्पुटीकृतम् | दिग्विशेषानुपादानादष्टासु दिक्षु इति | अत्र च प्राग्वद् दूर्वाकाण्डलेखनपूजनादिक्षौद्रमध्यनिधानपर्यन्तं सर्वमनुसर्तव्यम् || ६१ || एवं परिवारस्थभैरवाष्टकाद्यन्तस्थकपालीशविद्याराजाश्रयेण रक्षाविधानेन मृत्युजयमुक्त्वा, प्रसङ्गात् कर्मान्तरसिद्धिमपि यन्त्रक्रमेणादिशति देवः ---- शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेत् | अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेत् || ९-६२ || शिख्याह्वेन शिखिवाहनमन्त्रेण पूर्वोक्तेन | विदर्भयेदिति ---- ऽऽअभिधेयं भवेत् पूर्वं ततो मन्त्रः सकृद् भवेत्ऽऽ इति शास्त्रान्तरोक्तस्थित्यानुविन्यस्तमन्त्रं कुर्यात्, अनलार्णं रेफः, तदेकैकत्र साध्यनामाक्षरं ऊर्ध्वाधो नियोजयेत् | इत्थं विदभीतमेतदाग्नेयमण्डलान्तस्थवायुमण्डलसंस्थितं कुर्यात्, आग्नेयमण्डलं त्रिकोणं तद्बहिर्वायुमण्डलं षट्कोणं वर्तुलम् || ६२ || एतच्च यस्य लिख्यते ---- तस्य वै जायते दाहः............ वायवाध्माताग्निदीपितत्वादग्निवर्णमध्यगताक्षरत्वात् शिखिवाहनविदभीतत्वाच्च || किं शिखिवाहनविदभीतमात्रमेव नामाग्नेयमण्डलान्तः क्रियते | न तन्मात्रमेव, किं तु ---- ..............फट्काराद्यन्तरोधितम् | फट्कारान्तशिखिवाहनबीजविदभीतमिति व्याख्यनमसत्, तथा वाक्यार्थस्याभावात् || एतल्लेखनानन्तरं च मन्त्रनाथं पूजयित्वा, एतच्चक्रमध्यगतमेव --- - ज्वलन्तं चिन्तयेत् साध्यं दिनानां सप्तकं यदि || ६३ || ततस्तस्य ---- तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा | क्रोधराजप्रयोगेण मारणमाह ---- क्रोधराजनिरुद्धं तु श्मशानपटमध्यगम् || ९-६४ || श्मशानादलिना लेख्यं विषरक्तान्वितेन तु | यस्य नाम वरारोहे हुंफट्कारविदभीतम् || ९-६५ || मारयेतिसमायोगात् क्रूरजातिसमन्वितम् | मिरयते सप्तरात्रेण यो रक्षाभिः सुरक्षितः || ९-६६ || सोऽपीति शेषः | श्मशानादलिः श्मशानाङ्गारः, तेन प्रेतरक्तविषमिश्रेण मषीं कृत्वा, प्रेतपटखण्डे यस्य नाम हुंफट्कारविदभीतमित्यन्ते विन्यस्य हुंफट्कारं कृत्वा, पश्चात् प्रागुक्तेन क्रोधराजेन निरुद्धमित्याद्यन्तरोधितम्, ततोऽपि मारयेत्यनेन युक्तम्, ततोऽपि क्रूरजात्या हुंफटित्यनेन समन्वितं लिख्यते, स रक्षाभी रक्षितोऽपि सप्तरात्रान्मिरयते | अत्र श्रीक्रोधराजरूपं शत्रुसंहारोचितमुग्रं चिन्त्यम् || ६६ || अथ शत्रोस्त्रासनाय विकरालप्रयोगमाह ---- विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः | साध्यनाम्नस्तु देवेशि हुंफट्कारविदभीणः || ९-६७ || न क्षामयत्ययत्नेन............. यस्य साध्यनाम्नः प्रोक्तयुक्तया हुंफट्कारविदभीतस्य विकरालाख्यो मन्त्रविशेष चतुदीग्गतः प्रोक्तया मष्या लिख्यते, तस्यासावयत्नेनहेलयैव न क्षमते | क्षामयतीत्यैशः पाठः || किमस्य न क्षमणमित्याह ---- ..............टस्य शत्रोर्भयं भवेत् | अत्र च श्रीविकरालस्वरूपं मध्यस्थितस्य साध्यस्य चतसृषु दिक्षु त्रासकत्वेनोत्थितं चिन्तनीयम् || अथ मन्मथप्रयोगं वशीकारायाह ---- मन्मथेन युतं कृत्वा साध्यनाम वरानने || ९-६८ || ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितम् | अमुकोऽत्र वरारोहे तद्दिशोऽभिमुखः स्थितः || ९-६९ || अमुकस्य वशं यातु जपहोमौ समाचरेत् | सप्ताहाद् वशमायाति इति शास्त्रस्य निश्चयः || ९-७० || पूर्वोक्तेन ह्वूऔकारसमुदायात्मना सबिन्दुकेन पिण्डाक्षरेण मन्मथेन युक्तं यत्साध्यनाम, तदेव विभजति | अमुक इति अमुकस्य वशं यातु इत्येतदन्तं स्वाहया स्वाहाशब्देनान्तेनान्तस्थेन युतं कृत्वा च | ईदृशा प्रणवपूर्वेण मन्त्रेण | रक्तध्यानसमन्वितमिति तं साध्यं रक्तं ध्यायन् तदवस्थितिदिगभिमुखः साधको यदि सप्ताहं जपं होमं च वशीकरणोचितैर्द्रव्यैः करोति तदास्य साध्यो वशमायात्येवेत्यत्रार्थः | अत्र च यन्त्रप्रकरणादेतन्निश्चितम् यदेवंविधं मन्त्रं लिखित्वा सम्पूज्य जप होमौ कार्यौ || ७० || मेघनादप्रयोगमुच्चाटनायाह ---- मेघनादावसाने तु नाम यस्य समालिखेत् | यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितम् || ९-७१ || प्रेतस्थाने निधाप्यैतद् भैरवं तत्र पूजयेत् | अक्षपुष्पैर्वरारोहे तद्दिशोऽभिमुखः स्थितः || ९-७२ || तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः | मेघनादो ह् र् य ऊबिन्दुसमुदायात्मा | यकारेति सविसर्गयकारसम्पुटितमित्याम्नायः | एतदित्येवं लिखितं भूर्जे | निधाप्येति श्मशानभूम्यन्तर्गतं कृत्वा तत्र ईदृशे भूर्जे | अक्षा विभीतकाः | तदिति साध्यदिगभिमुखः | सप्ताहादिति स्थितमेव | स्पष्टमन्यत् || सोमराजप्रयोगं विभवार्थं वशीकृत्यर्थं चाह ---- सोमराजेन देवेशि आदिमध्यान्तसंयुतम् || ९-७३ || नाम यस्य समालिख्य वषड्जातिसमन्वितम् | संनिधाप्य त्रिमधुरे स्थापयेत् सुरसुन्दरि || ९-७४ || सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च | असाध्यं साधयत्याशु धनं च विपुलं लभेत् || ९-७५ || सोमराजो हुङ्कारः, तेन साध्यनाम आदिमध्यान्तसम्बद्धं कृत्वेति नाम्न आदौ मध्येऽन्ते च त्रिः सोमराजं लेखित्वा, ततो वषडन्तं कृत्वा, तद्यन्त्रं संनिधाप्य पूजयित्वा सिक्थसंमुटितं क्षीरक्षौद्रशर्करापात्रसम्पुटगं कृत्वा, सप्तदिनं यस्त्रिसंध्यं तथैव जपेदसाध्यं साधयितुमशक्यमपि साधयति वशीकरोति, श्रियं चाप्नोति || ७५ || पुनः प्रोक्तस्य क्रोधराजस्य जपहोमाभ्यां प्रयोगमुन्मादार्थमाह ---- पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकाम् | संज्ञां समुच्चरेद् देवि क्रूरजातिसमन्वितम् || ९-७६ || उन्मत्तो जायते साध्यो होमेन च जपेन च | पिशाचस्य विभीतकस्य मूलकाण्डपत्रकुसुमफलानि पञ्चाङ्गानि, तैमीलितं सप्ताहं प्रणवादिक्रोधराजहुंफडन्तं साध्यनामोच्चार्य, त्रिसंध्यमष्टोत्तरशतं यो जुहुयात्, तस्यासौ साध्यः शत्रुरुन्मत्तो भवति || पुनरप्यनुग्रहहेवाकितया मृत्युजिद्विधिमाह ---- मृत्युञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु || ९-७७ || भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समम् | तस्मिन् समालिखेत् पद्ममष्टपत्रं सकणीकम् || ९-७८ || तस्मिन् वै कणीकामध्ये साध्यनाम समालिखेत् | संवेष्ट्याष्टौ दिशो देवि स्वच्छन्देन कृशोदरि || ९-७९ || प्रणवेन तु संवेष्ट्य................. स्वच्छन्देनेति सिद्धिप्रदानेन सकलेन साध्यनामाष्टौ दिशश्चक्रवदावरणक्रमेण संवेष्ट्य ततः प्रणवेन संवेष्ट्य कणीकामध्ये लिखेदिति योजना || कणीकावत् प्रतिपत्रं लिखेदित्याह ---- ................पत्रेष्वेवं समालिखेत् | अष्टस्वपि | किं च ---- पत्राष्टकेऽप्यघोरस्य नामाधस्तात् समालिखेत् || ९-८० || पत्रबाह्य आवरणक्रमेण व्योमरेखामित्यर्थः || एवं लिखित्वा प्राग्वत् कर्पूरादिना पूरयित्वा सम्पूज्य विज्ञप्त्यर्थम् -- -- वक्तव्यं देव संरक्ष शरणं त्वामुपागतम् | साध्यमित्यर्थात् | तत एषा रक्षा सिक्थकादिना संवेष्ट्य पयसि क्षेप्या | पयसि क्षीरे निक्षिप्तमात्रैव सती साध्यस्य सद्योमृत्युविनाशिनीति कणीकायां लिखित्वा तल्लग्नेष्वष्टसु पत्रेष्वेवमेव लिखेत् || अथ शान्तिकमाह ---- आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरम् || ९-८१ || जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेत् | पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेत् || ९-८२ || नेत्रमन्त्राक्षराणि त्रीणि चतुष्कलं च लिखित्वा जन्मसमयकृतं साध्यनामाक्षरैरिति, अर्थादघोरसत्कैरन्तरितमेकैकतदक्षरव्यवहितम्, ऽऽअ देवदत्तः घो देवदत्तः, इत्यादिक्रमेण लिखित्वा पुनर्वषडन्तानि प्राग्वल्लिखेत् || ८२ || इमां च रक्षां सम्पूज्य ---- मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेत् | इत्थं च साध्यस्य ---- जायते परमा शान्तिः........... किं च ---- .................पुनरन्यन्निबोध मे || ९-८३ || कथम् ---- जं सः सम्पुटमध्यस्थं प्रणवोभयसंयुतम् | नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये || ९-८४ || जुं स इत्यनेन प्राग्वत् प्रागनुलोमं पश्चात्तु प्रतिलोमं विन्यस्तेन सम्पुटीकृतं नाम पश्चात् प्रणवेन सम्पुटितं कुर्यादित्यर्थः | मधुरत्रयं प्राग्वत् || ८४ || इत्थं च ---- परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते | साध्य इत्यर्थात् || पुनर्मृत्युजयप्रकारान्तरमाह ---- भूर्जपत्रं समादाय रोचनाया वरानने || ९-८५ || मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेत् | तदभ्यन्तरगर्भे तु स्वरैरन्तरितं कुरु || ९-८६ || पुनर्गर्भे समालिख्य साध्यनाम वरानने | ध्रुवेण वेष्टयेत् पश्चाद् वकारेण ततः प्रिये || ९-८७ || सकारं च क्षकारं च लिखेच्च तदनन्तरम् | पुनर्वेष्ट्य ठकारेण मायाबीजेन सुव्रते || ९-८८ || अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीम् | स्वच्छन्दसहितां देवि प्रणवेनादियोजिताम् || ९-८९ || वषड्जातिसमोपेतां कर्पूरक्षोदचचीताम् | गन्धपुष्पादिनापूज्य प्रक्षिपेन्मधुरत्रये || ९-९० || गर्भे साध्यनाम | प्रणवेनादियोजितामपि प्रणवान्तर्गर्भीकृतां विधाय स्वच्छन्दसहितां वषड्जातिसमोपेतां रक्षां कृत्वेति गर्भीकृतनाम्नः प्रणवस्य बहिरघोरं वषडन्तं परिवेष्टनया लिखेत् तच्च तदभ्यन्तरगर्भे तु स्वरैरन्तरितं कुर्वीत | बहिवीन्यस्तकादिक्षान्तमातृकाया अभ्यन्तरे षोडशभिः स्वरैरन्तःकृतैः परिमण्डलेन लिखितैर्व्याप्तं करणीयम् | यदाह - --- मातृकान्तरितमिति | एतच्च सर्वं पुनर्ध्रुवेण वेष्टितं सत् क्रमेण वकारसकारक्षकारठकारैर्वेष्टयेत् | तदनु मायाबीजसत्केकारेण त्रिर्वेष्टयेत् | पश्चादष्टसु दिक्षु क्रोंकारेण रोधयेदिति व्यवहितवाक्यार्थसङ्गत्यनुसारेण चक्रमेतत् प्रदशीतम् || ९० || अर्चयित्वा चैतत् सिक्थकेन मुटितं मधुरत्रये यस्य क्षिप्यते, तस्य ---- जायते परमा शान्तिर्नात्र कार्या विचारणा | निश्चितमतिनैतत् प्रयुक्तमभीष्टं साधयत्येव || अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेत् || ९-९१ || यः ---- तस्य व्याधिर्न जायेत इत्येवं भैरवोऽब्रवीत् | गुटिकां कृत्वेति जतुबद्धां कनकादिभूषितां विधाय कण्ठे भुजे वा धारयेत् | चो वार्थे || गुटिकां विना विशिष्टमन्त्राभिमन्त्रितभोजनपानक्रमेण सततं क्रियमाणेन मृत्युजिद्विधिमाह ---- त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितम् || ९-९२ || भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा | न तस्य जायते मृत्युर्भैरवस्य वचो यथा || ९-९३ || नेत्रमन्त्रचतुष्कलनाथाभ्यां वषडन्ताभ्यां भोजनपाने द्वे सततमभ्यवहरतो न मृत्युर्भवति || ९३ || अथ विषादिहेतुर्यस्यापि मृत्युर्न, तं समादिशति ---- अथाहिना महादेवि दूषितः साधको यदा | तदा ---- मूलमन्त्रसमोपेतमघोरं तत्र योजयेत् || ९-९४ || मूलमन्त्रः श्रीचतुष्कलः, तेन समोपेतं सम्पुटीकृतम् | तत्रेति अहिदूषणप्रशान्तिनिमित्तम् | अस्यान्ते ऽऽभगवन् विषं शमय-शमय हुं फट्ऽऽ इति क्रूरजात्यन्त ऊहः प्रयोक्तव्य इत्यर्थात् || ९४ || प्रयोगावसरे च ---- आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणम् | दंष्ट्राकरालविकटं ज्वालामालोपशोभितम् || ९-९५ || सपै(र्ला)१लम्बमानैः खड्गहस्तं सुभीषणम् | पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभम् || ९-९६ || तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेत् | तज्ज्वालाभिः सुदीप्ताभिर्दग्धं संचिन्तयेद् विषम् || ९-९७ || तत्क्षणाद् देवदेवेशि निवीषः स तु जायते | कृत्वेति ध्यात्वा, सर्पैरिति हारकटकादिस्थैरुपलक्षितम् | पूर्वरूपं श्रीकोटराक्षसम्बन्धि | अहिदूषितत्वं विषदूषितत्वोपलक्षणपरम् || किं च ---- ग्रहेष्वेवंविधं ध्यानं यः कुर्यात्......... सः ---- ...................ंओचयेत् क्षणात् || ९-९८ || तेभ्योऽपस्मारादिग्रहेभ्यः साध्यमित्यर्थात् | अत्र च ऽऽभगवन्नस्य साध्यस्य ग्रहं शमय शमय हुं फट्ऽऽ इत्यन्तपूर्वोक्तमन्त्राभिमन्त्रितेनाम्भःकुसुमादिना साध्यं ताडयेदित्यर्थात् || ९८ || ध्यानासमर्थं प्रति विषशमनं कारुणिकत्वादोषधिप्रयोगैरप्यादिशति शम्भुः ---- अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेत् | तदागदैर्महादेवि निवीषं कुरुते क्षणात् || ९-९९ || दष्टं भक्षितविषं च || ९९ || अगदमाह ---- कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः | गोकणीकासितं मूलं सोमाह्वामूलसंयुतम् || ९-१०० || आमगोक्षीरसंपिष्टं भक्षयेन्निवीषो भवेत् | कुमार्याख्यौषधिः सफला बन्ध्या चेति द्विरूपापि, नागिन्यामहागोनासाह्वया सह गोक्षीरपिष्टमित्येकः प्रयोगः | गोकणीका गिरिकणीका, सोमाह्वा सोमराजी, तयोः सितं मूलं गोक्षीरपिष्टमिति द्वितीयः, क्षीरेण पिष्टमप्येतद्धृतेन सह पाने नस्ये वा प्रयोक्तव्यम् | यद्वक्ष्यति ---- ऽऽअगदान् घृतसंयुक्तान् पिबेत्ऽऽ (९-१०८) इत्यादि || किं च ---- गोनिम्बस्य च मूलेन निवीषत्वं प्रजायते || ९-१०१ || गोनिम्बो भूम्यामलकी | क्वचित्तु एरण्डस्य मूलेनेति पाठः | अत्रापि आमगोक्षीरपिष्टत्वं स्थितमेव || १०१ || अश्वमारस्य मूलं तु उदकेन तु पेषयेत् | पाने नस्ये प्रदातव्यं तदा भवति निवीषः || ९-१०२ || अश्वमारः करवीरकम् || १०२ || आरग्वधस्य मूलं तु उदकेन च पेषयेत् | पाने नस्ये प्रदातव्यं तदा भवति निवीषः || ९-१०३ || आरग्वधमारोचकमिति प्रसिद्धम् || १०३ || मधुकस्य तु सारं यन्नस्ये पाने प्रयोजयेत् | निवीषस्तु प्रजायेत भैरवस्य वचो यथा || ९-१०४ || मधुकस्य मधूकस्य सार आन्तरो भागस्तं द्वयोः | प्रक्रान्तत्वाद् उदकेन क्षीरेण वा पिष्ट्वा, नस्ये पाने प्रदातव्यम् | मधुकं मधुयष्टिरित्यन्ये || १०४ || जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेत् | निवीषस्तु भवेद् देवि नात्र कार्या विचारणा || ९-१०५ || जम्बुलासिकमूलं जम्बुवृक्षमूलम् | अत्रापि गोक्षीरपिष्टमिति स्थितमेव || १०५ || अथ विषानाक्रमणहेतुमगदगुटिकाप्रयोगमाह ---- षड्बिन्दुपटखर्जूरसूक्ष्मचूर्णं तु कारयेत् | मयूरपित्तसंयुक्तं गुटिकां कारयेत् प्रिये || ९-१०६ || त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेत् | न विषं क्रमते तस्य यश्च दष्टो महोरगैः || ९-१०७ || षड्बिन्दुः प्राणिविशेषः | पटखर्जूरं शतपदी | गुटिकां कारयेदित्यनन्तरं तां चेति, निधापयेदित्यनन्तरं ऽऽयतःऽऽ इति चाध्याहार्यम् | त्रिलोहं हेमरजतताम्रम् || १०७ || अगदप्रयोगे शेषविधिमाह ---- अगदान् घृतसंयुक्तान् पिबेद् वै विषदूषितः | न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः || ९-१०८ || एतेष्वगदेषु वान्येषु वा पृथक्पृथक् कुण्डलीयगारुड्येकवीराबलामोटादिमूलविषयेषु निष्कम्पप्रतिपत्तिना प्रयुज्यमानेष्वविसम्वादिता भवतीति दर्शयन् पटलमुपसंहरति ---- एवमन्येऽपि ये योगाः स्वच्छन्देन विनिमीताः | कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः || ९-१०९ || प्रदद्याद् भावितात्मा च सिद्ध्यन्ते नात्र सशयः | स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवतीतम् | यदुक्तं श्रीश्रीकण्ठ्याम् ---- ऽऽप्रवर्तेतेश्वरात् सर्वं निवर्तेत तथेश्वरात् | ईश्वराधिष्ठितं सर्वं जगत् स्थावरजङ्गमम् || महादेवात् परं नास्ति सत्यमेतन्न चान्यथा | ऽऽ इति | च एवार्थे, भावितात्मैव प्रयुञ्जीतेत्यर्थः | पाटलिकी सङ्गतिरदूर एव ---- ऽऽकालाग्निर्नरकाश्चैव पाताला हाटकेश्वरःऽऽ (९-१०९) इत्यादिना पटलान्तं कटाक्षयता ग्रन्थेन कृतेति शिवम् || ऽऽव्याधीनामगदं दिव्यमाधीनां मूलकर्तनम् | उपद्रवाणां दलनं महादेवमुपास्महे ||ऽऽ || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते नवमः पटलः || ९ || दशमः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ आ कालाग्नेः शिवपुरपरो योऽयमध्वा स सर्वो मूर्त्याभासा स्फुरति लहरी यस्य यश्चाखिलं तम् | मेयत्वेन प्रथयति परां मातृतां भक्तिभाजां व्यङ्क्तुं देवो जयति स महाभैरवः श्रीस्वतन्त्रः || नवमपटलोपान्ते कालाग्निरित्यादिना कटाक्षिताध्वस्वरूपावबोधार्थं श्रीदेव्युवाच ---- अध्वायं तु महादेव सूचितो न तु वणीतः | कथयस्व प्रसादेन साधकानां हिताय तम् || १०-१ || पारमेशधामप्राप्त्युपायः प्रबुद्धैरदनीयश्चाध्वायमिति नवमपटलोपक्रान्तो भुवनात्मा, साधकानामिति भुक्तिं मुक्तिं च साधयतामाचार्यादीनाम् || १ || एतत्प्रश्ननिर्णयं श्रीभैरव उवाच ---- अध्वानं सम्प्रवक्ष्यामि साधकानां हिताय वै | अध्वानमिति भुवनरूपम्, सम्यक् तत्तद्भुवनेशाधिष्ठितक्रमेण प्रकर्षेण वैतत्येन वक्ष्यामि || तं प्रस्तौति ---- अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः || १०-२ || कोटियोजनबाहुल्यः............. पृथ्व्याः सर्वतत्त्वावृतत्वात् तदीयब्रह्माण्डान्तरवस्थितं कालाग्निरुद्रभुवनमादौ, तस्याधः कटाहो ब्रह्माण्डकर्परः कटाह इव च यत्र निमज्ज्योन्मज्ज्यते कृच्छ्रात् | बाहुल्यं घनता || किं च ---- ............टस्योर्ध्वे भुवनानि तु | नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकम् || १०-३ || कोटीनां सप्ततिर्लक्षाण्ययुतानां सहस्रकम् | अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च || १०-४ || पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः | तेषां वै नायको ह्यत्र त्वनन्तः परमेश्वरः || १०-५ || तस्य कटाहस्योर्ध्वे पृष्ठे कर्परबाह्ये इत्यर्थः | नवनवतिकोट्य इत्यादिना तद्बहिर्वतीनां भुवनानां ब्रह्माण्डानां च निःसंख्यत्वमुच्यते | यथोक्तं श्रीमालिनीविजये ब्रह्माण्डं प्रकृत्यण्डं चाधिकृत्य ---- ऽऽपृथग्द्वयमसंख्यातम्ऽऽ (२-५०) इति | श्रीकण्ठसंहितायामपि ---- ऽऽब्रह्माण्डं कोटिविस्तीर्णम्ऽऽ इत्युक्तम् | यत्तु टीकाकारैः ---- ऽऽअथ कालाग्निरुद्राधःऽऽ (१०-२) इत्यत्र कालाग्निरुद्रभुवनसामीप्यादाद्यं पाथीवमनन्तभुवनमुक्तम्, अण्डानामित्यत्र चाण्डशब्देन भुवनान्युच्यन्ते, तेषां च कालाग्निब्रह्माण्डकवाटयोर्मध्यवतीत्वमिति व्याख्यातम्, तदनागमिकं स्वयंकल्पितमित्युपेक्ष्यम् | यतोऽनन्तभुवनस्य प्रथमत्वेऽपि शतरुद्रमध्यवतीत्वेनाण्डबाह्याधोभागगतत्वमेवागमेषु दृश्यते | यथोक्तं श्रीमालिनीविजये ---- ऽऽतद्बहिः शतरुद्राणां भुवनानि पृथक्पृथक्ऽऽ (५-१२) इत्युपक्रम्य...... ऽऽअनन्तः प्रथमस्तेषांऽऽ (५-१३) इति | इहाप्येकादशे भविष्यति ---- ऽऽअनाथोऽनन्तरूपेण स्थितश्चाध्वनि धारकःऽऽ (११-२२) इति | तथा ---- शंस्थितश्चाम्भसो मूध्नी शक्त्याधारस्तु हूहुकःऽऽ (११-२४) इति | एतच्चानन्तरमेव व्यक्तीभविष्यति | अण्डशब्दस्य च भुवनवाचकत्वमप्रसिद्धम् | एवमपि पृथग् भुवनशब्दोऽनुपादातव्यः स्यात् | वक्ष्यमाणे च ब्रह्माण्डान्तर्वतीभुवनमानसंख्यामध्येऽनन्तभुवनमानस्यानुद्देश अन्न कर्परिकाकालाग्निभुवनयोर्मध्येऽनन्तभुवनम्, अपित्वधः कर्परिकाबाह्यपृष्ठभागेऽधःस्थशतरुद्रदशकमध्ये, इत्यलम् || ५ || तदित्थं प्रपञ्चव्याप्त्याऽनन्तब्रह्माण्डाश्रया भूः | तस्यात एवानन्तशब्दवाच्यस्य भगवतः शुद्ध्या सर्वब्रह्माण्डाधोवतीनिःसंख्यभुवनशुद्धिरूहकाख्यैः रुद्रभुवनैः सहास्यां भुवनदीक्षायां सम्पद्यत इत्याह ---- तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह | ऊहन्ते तर्कयन्ति परिछिन्दन्ति विश्वमित्यूहकाः || कीदृशैरूहकैरित्याह ---- शक्त्याधाराश्रयैरेव............... शक्तिः पारमेश्वर्येव विश्वभित्तिभूतत्वादाधार इवाधारस्तदाश्रयैरेव शक्तिविश्रान्तैरित्यर्थः || ते चोहकाः कियन्तः, कीदृशाः, के ? ---- इत्याह ---- ............ड्वात्रिंशत्परिसंख्यया || १०-६ || कोटिकोटिपरीवारास्त्वनौपम्यगुणान्विताः | दिव्याङ्गनौघसङ्कीर्णा भ्रूभङ्गललितेक्षणैः || १०-७ || सूर्यायुतप्रतीकाशास्तोरणाट्टालमण्डिताः | किं च ---- न तत्र दुःखितः कश्चिन्मुक्त्वा दुःखमनङ्गजम् || १०-८ || रमन्ते तत्र वै वीरा नारीभिः सह लीलया | भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः || १०-९ || अनेन स्त्रैणभोगप्राधान्यमेवैषां भुवनानामुपोद्बलितम् || ९ || तदित्थम् ---- भुवनान्येवमुक्तानि भुवनान्तरवासिनाम् | ऽऽतस्योर्ध्वे भुवनानिऽऽ (१० | ३) इति यान्युपक्रान्तानि, तानीहानन्तभुवनमध्यगतेषु भुवनविशेषेषु ये वसन्त्यूहकास्तेषामाश्रयत्वेनोक्तानि || एवं च दीक्षायाम् ---- सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते || १०-१० || स्वामिन्यनन्तभट्टारके दीक्ष्यं प्रति भोगप्रदत्वान्निवतीते तदधिष्ठिता ऊहकास्तद्भुवनानि चानन्तानि शुद्ध्यन्ति न भोगदत्वेन बन्धकानि भवन्तीत्यर्थः | एवमेव चोत्तरत्रापि तत्तद्भुवनेशशुद्धिद्वारेण भुवनशुद्धिर्मन्तव्या | शोधने चोपस्थानादिपूर्वं विधिमग्रे वक्ष्यति | एवं कर्परिकाया बाह्येऽनन्तभुवनम् || १० || ततस्तु ---- अथोपरिष्टात् कालाग्निः श्रीकण्ठेन निवेशितः | अधिकारं प्रकुरुते तदाज्ञानुविधायकः || १०-११ || अनेकरुद्रकोटीभिरुपेतस्तिष्ठति प्रिये | उपरिष्टादिति कटाहस्य | कालः(ग्नि) संहारकृदग्निः | यद्यपि पूर्वोक्तनीत्या स्वतन्त्रभट्टारकमयत्वाद् विश्वस्योर्ध्वाधरप्रविभागो नास्ति, तथापि तदिच्छयैवारुरुक्षूणामुपदेश्योपदेशकानामयमित्थमाभासितः क्रमः | कालाग्न्यादिश्च परभैरवमयत्वाद् व्यापकोऽपि तदिच्छयैव तथावभासितस्तत्र तत्र तथा संनिविष्टः || एवं कटाहस्याध ऊर्ध्वे च भुवनद्वयमुक्त्वा पुरप्रमाणं निणीनीषुरुपक्रमते ---- अधुना सम्प्रवक्ष्यामि प्रमाणं शिवनिमीतम् || १०-१२ || योजनानां वरारोहे............. तच्चोपक्रमत एव ---- ............यथा भवति तच्छ्रणु | तत्र ---- अव्यक्ताद्दशभिर्भागैर्महान् स्थूलो विभाव्यते || १०-१३ || द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते | इह योगिनः प्रति विश्वं मेयम्, अयोगिनस्तु प्रकृतितत्त्वात् प्रभृति मेयव्यवस्था, मायायाः पुरुषं प्रत्याच्छादकत्वात् कलादेश्च कञ्चुकरूपत्वेन ग्राहकशक्तिमयत्वात् | प्रकृतितत्त्वं तु वेद्यसामान्यरूपं मुमूर्षावसरे कण्ठगतमिव स्मर्यमाणं प्रतिभात्येव | कण्ठो हि प्रकृत्यधिष्ठातुः विष्णोः स्थितिधाम | तदित्थं वेद्यरूपादव्यक्ताद्दशगुणं स्थूलत्वं महतो बुद्धेः | बुद्धिर्ह्यध्यवसायव्यापाररूपा स्वसम्वेदनेन सम्वेद्यते | तस्याश्च प्रोक्तप्राकृतरूपाद् वेद्यात् स्थूलत्वं प्रतीतिसाक्षिकमेव | एवंभूतान्महतो द्विपञ्चभाग इति दशगुण एव, भूतानामादिः कारणं तन्मात्रं स्थूलः, न तु भूतादिरहङ्कारो व्याख्येयस्तस्य महत आधिक्येनासञ्चेत्यत्वात् | तन्मात्रस्वरूपं तु वासनारूपतयान्तः स्थितं वृद्धस्येवाभिलाषास्पदीभूतं प्रमदामात्ररूपं स्फुरत्येव | तच्चाध्यवसायात्मनो बुद्धेराकारतया स्फुरत्स्थूलतां धत्त एव | तदेतदन्तःकरणैकपरिच्छेद्यमित्याह ---- भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषम् || १०-१४ || तदीदृशात् ---- भूतादेर्यद्दशगुणमणीयो दृश्यते रजः | जालान्तरगते भानौ परमाणुः स उच्यते || १०-१५ || अणीयः स्वल्पतरं, भूताद्यपेक्षया तु दशगुणं स्थूलं चाक्षुषत्वात् | अयं च परमाणुः ताकीकोपगतपरमाणुविलक्षणः || १५ || ईदृशश्च ---- अष्टानां परमाणूनां समवायस्तु यो भवेत् | त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते || १०-१६ | समवायः सङ्घट्टनम् | तस्य त्रसरेणुः, पद्मरज इति नामद्वयम् || १६ || त्रसरेणवश्च ये त्वष्टौ बालाग्रं तु विधीयते | बालाग्राणि तथा त्वष्टौ लिक्षेति परिकीतीता || १७ || लिक्षाचाश्ष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेत् | अष्टौ यवा वरारोहे पर्वांगुष्ठमथांगुलम् || १८ || द्वादशांगुलमानेन वितस्तिस्ताल उच्यते | तालद्वयं भवेद्धस्तश्चतुवींशतिकांगुलः || १९ || बालाग्रादीनि प्रमाणविशेषाभिधानानि | पर्वणोऽङ्गुष्ठमंगुलमिति पर्यायः, वितस्तेस्तु तालः || १९ || चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च | धनुष एव दण्डो नालिका यूप इति च नाम || धनुःसहस्रे द्वे पूर्णे क्रोशः समभिधीयते || १०-२० || क्रोशद्वयेन गव्यूतिर्गव्यूती द्वे तु योजनम् | एतत्प्रकृते योजयति ---- अनेन परिमाणेन योजनानां यशस्विनि || १०-२१ || सिंहासनं महादीप्तं सहस्रद्वयविस्तृतम् | सहस्रमुच्छिरतं तस्य........... तस्येति कालाग्नेः || .............ंअहापीठेषु सुव्रते || १०-२२ || तिष्ठते यत्र देवेशः कालो द्वादशलोचनः | तिष्ठते प्रकाशते || स पश्चिमोत्तरप्राग्दक्षतः ---- सितरक्तपीतकृष्णश्चतुर्वक्त्रो महाबलः || १०-२३ || ऊर्ध्ववक्त्रमस्यानुन्मीलितं भगवता दशीतं मा भूद् भूरादिलोकदाह इति || २३ || किं च ---- रक्ताङ्गोऽथ करालश्च पिङ्गभ्रू श्मश्रुलोचनः | वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः || १०-२४ || ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः | इत्थं चायम् ---- ज्वलत्पर्वतवद् दीप्तो ज्वलज्ज्वालाभिराजितः || १०-२५ || दशबाहुर्महात्मा वै खड्गखेटकधारकः | शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा || १०-२६ || कपालखट्वाङ्गधरो वरदाभयपाणिभृत् | विहस्तो विशिष्टहस्तः || अपि च ---- दश योजनलक्षाणि शरीरं भाति भास्वरम् || १०-२७ || एतद् भावस्वरायाः कान्तेः प्रमाणम् न तु शरीरस्य, अन्यथा प्रागुक्तासनमानस्यासङ्गतत्वापत्तिः | शरीरमानं त्विह नोक्तम् || २७ || कोटियोजनमानेन भुवनं चास्य जाज्वलम् | तच्च ---- सम्भृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः || १०-२८ || नानारूपविमानैश्च प्रज्वलद्भिः समावृतम् | किं च ---- ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दश चोर्ध्वतः || १०-२९ || तस्येति भुवनस्य || २९ || तस्योपरिष्टाद् देवेशि पञ्च कोट्यो वरानने | न कश्चिन्निवसत्यत्र धूमोष्मपरिवारितः || १०-३० || एवं कटाहः कोटिस्तदुपरि कालाग्निभुवनं कोटिः, भुवनज्वाला दश कोटयः, शून्यं पञ्च कोटय इति सप्तदश | न चात्र मध्येऽनन्तभुवनपरीमाणमुक्तमिति मध्ये तत्परिकल्पनमसदित्युक्तमेव || ३० || अतः परं वरारोहे नरकाः परिकीतीताः | पञ्चाशत्कोटयो देवि कथिता ह्यनुपूर्वशः || १०-३१ || अन्तर्भावितण्यर्थत्वाद् नरान् काययन्ति साक्रन्दान् सम्पादयन्ति दुःखानुभवेनेति नरकाः कथिता इति महासंहितासु || ३१ || इह तु ---- प्रधानं सम्प्रवक्ष्यामि शतं तत्र वरानने | चत्वारिंशत्समोपेतं कथितं....... यन्महासंहितासु तत् ................णामतः शृणु || १०-३२ || अवीची रौरवश्चैव महारौरव एव च | तामिस्रश्चान्धामिस्रः सञ्जीवनसुजीवनौ || १०-३३ || तदेते ---- ऽऽअवीचिर्वीचिभिश्छन्नः पूयासृक्कर्दमादिभिः | रुदन्तः प्राणिनो यत्र निक्षिप्यन्ते स रौरवः ||ऽऽ ऽऽतामिस्रस्तमसा मिश्रः शर्वरीध्वान्तधूसरः | तथारूपोऽन्धतामिस्रस्त्वविभावितदिङःमुखः ||ऽऽ इति श्रीपरायां निरुक्ताः | रौरव एव सातिशयो महारौरवः | यातनाभिर्मृतकल्पानां पुनर्यातनार्थं यत्र सम्यग्जीवनम्, सुष्ठु भूयोभूयश्च जीवनं तौ सञ्जीवनसुजीवनौ || ३३ || पद्मश्चैव महापद्मः कालसूत्रस्तथैव च | एते च श्रीपरायाम् ---- ऽऽपद्मः पद्मसमाकारः सुषीतो हिमकर्दमः | महापद्मस्तथारूपः किन्तु शीतहिमोत्तरः || कालसूत्रोऽसितः पाशस्त्रिकण्टदृढवेष्टनः | ऽऽ इति निरुक्ताः || सूचीमुखः........ एषोऽपि ---- शूचीमुखः सुतीक्ष्णाग्रसूचीवत्प्रविभेदकः |ऽऽ इति तत्रैवोक्तः || .....ंअहाकायः...... महान् दुर्वाहः कायो यत्र || ..............क्षुरधारोऽसिपर्वतः || ३४ || ऽऽक्षुरधारो लुनात्यङ्गं क्षुरधारानिरन्तरः |ऽऽ इत्युक्तः | असिः खड्गस्तन्मयश्च पर्वतो गच्छतां दुःखदः || ३४ || असिस्तालो द्रुमश्चैव द्रुममस्तक एव च | द्रुमारामश्च विख्यातः.......... असिसंज्ञः ---- ऽऽखड्गश्छिनत्ति गात्राणि खड्गधारापरिग्रहः |ऽऽ इति परायां निरुक्तः | तालोऽपि ---- ऽऽतालस्तालवदङ्गस्थैवीदारयति वल्कलैःऽऽ इति निरुक्तः | द्रुमो दारुणवाताभिभवनीयद्रुमाकारो निश्चलदेहहेतुः | द्रुमो मस्तके यत्र स द्रुममस्तकः | एवं द्रुमाणामारामः समूहो यत्राङ्गेषु स द्रुमारामः || ...........कुम्भीपाकस्तथैव च || १०-३५ || ऽऽकुम्भीपाको बृहद्घोरः कुम्भवक्त्रोज्ज्वलच्छिखः |ऽऽ इति निरुक्तः || ३५ || अम्बरेषोऽङ्गारराशिः........... ऽऽअम्बरेषोऽम्बराद्यस्मात् सुतीक्ष्णेषून् प्रवर्षति | तप्ताङ्गारोऽग्निसङ्काशो लोहाङ्गारनिकेतनः ||ऽऽ इति निरुक्तावेतौ || ...........टीक्ष्णतुण्डस्तथैव च | वज्रतुण्डश्च शकुनिः............. एवंविधशकुनिभिर्जना यत्र ताड्यन्ते || ...............ंईनोदरखरोदरौ || १०-३६ || मीनखरयोरुदरे महासन्तापदे यत्र जनाः पीड्यन्ते || ३६ || सन्दंशः........ सन्दंशो यत्र सन्तप्तैः सन्दंशैर्जनाः पीड्यन्ते || .....वज्रकायश्च..... यत्र महायातनानुभववतां वज्रमयः कायः || ..............ंएदकश्च वरानने | यत्र महासन्तापवति मेदोमयशरीरता || उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः || १०-३७ || उष्ट्रस्येवातिदीर्घत्वात् कृष्छ्रेणाशनीयप्रापणी ग्रीवा, (महा)कायश्च महान् बह्वन्नभरणीयः, वेताला ज्वालास्या भयानका यत्र | वडवामुखाकारो दारुणोऽनलः सन्तापनो यत्र || ३७ || असृक्पूयह्रदश्चैव......... असृघ्रदः पूयह्रदश्च || ...........भ्रमरो मषकस्तथा | यत्र भ्रमरा मषकाश्च विषमा दंशकारिणः || संग्रहश्च............. यत्र तप्तोदकवज्जनाः संगृह्यन्ते क्वाथ्यन्ते || .......कपालश्च...... यत्र कपालेष्विवापूपाः जनाः पच्यन्ते || ...............टप्तकवच एव च || १०-३८ || यत्र तप्तकवचान्तनीविष्टाङ्गानि पीड्यन्ते | गजपादो महावक्त्रः कूर्माख्यो नकुलस्तथा | यत्र गजपादैर्जनाः पीड्यन्ते | यत्र महावक्त्रैः प्राणिभिः ग्रसनम् | यत्र कूर्मैर्नकुलैश्च जना भक्ष्यन्ते त्रास्यन्ते च || पीडनश्चैव.......... यत्र महाशिलाभिर्जनाः पीड्यन्ते || ........कुम्भीरः...... एतन्नाममहाजलचरभीषणः || ..............क्रकचः शूलमेव च || १०-३९ || यत्र क्रकचैरङ्गच्छेदनम् | यत्र च शूलारोपणम् || ३९ || अनङ्गश्चाङ्गारोद्गारः............ यत्र तापेनाङ्गानि विलीयन्ते | यत्र चाङ्गारोद्गारैर्महोष्मभिः सन्तापः || ...............प्रदीप्तस्त्रिमुखस्तथा | पञ्चवक्त्रः शतास्यश्च.......... प्रदीप्तोऽन्यत्र ---- ऽऽअन्तःसन्तापकृत्तापः शोषितोदरकन्धरःऽऽ इत्युक्तः | त्रिपञ्चशतमुखाश्च प्राणिनो यत्र दशन्ति || .............जलौको बिलधूमकः || १०-४० || यत्र जलौकःसमाख्यैः प्राणिभिरुपद्रवः | यत्र च धूमबहुलेषु विलेषु जन्म || ४० || सुतप्तौ जतुपङ्कश्च.......... शुतप्तस्तापकृत्प्रोक्तः केवलोज्ज्वलितानलः | जतुपङ्को ज्वलल्लाक्षाप्रलेपप्लुष्टविग्रहः ||ऽऽ इति श्रीपरायां निरुक्तः || ..............घोररूपोऽतिदारुणः | यत्र घोररूपा भीषयन्ते, अत एवातिदारुणोऽयम् || अस्थिभङ्गः पूतिमांसः.......... यत्रास्थ्नां भङ्गः | यत्र च पूतिमयमांसदेहता || .............ड्रव्यश्चैव त्वमेध्यकः || १०-४१ || यत्र द्रव्ये बहुमूत्रमध्येऽमेध्यमध्ये च निवासः || ४१ || उलूकः परशुर्दण्डः काकाख्यश्च तथैव च | यत्रोलूकैर्भक्षणम्, परशुना छेदः, दण्डैस्ताडनम्, काकैश्च भक्षणं जनानाम् || सोच्छ्वासश्च निरुच्छ्वासः....... शोच्छ्वासः श्वसनप्रायो निश्चेष्टकृतकाश्रयः | निरुच्छ्वासोऽक्षसंरोधान्निरुच्छ्वसनलक्षणः ||ऽऽ ..............वृकास्यश्च तथैव च || ४२ || अश्वास्यो गोपलादश्च.......... महतां वृकाणां सृगालानामश्वानां च भक्षणार्थमास्ये यत्र जनाः सृज्यन्ते | गावः पशवः पलं मांसमदन्ति यत्र | यदुक्तम् --- - ऽऽमांसादः सर्वदेहस्थसर्वमांसापकर्षकः |ऽऽ इति || .............ऽलोको दहनस्तथा | यत्राविद्यमानोऽन्यो लोकः | यश्च दहनः ---- ऽऽउष्णोऽत्युष्णज्वरारम्भः सर्वाङ्गपरितापकः |ऽऽ इत्यन्यत्रोष्ण इति प्रोक्तः || श्ववक्त्रोऽथ दवाग्निश्च...... श्ववक्त्रः श्ववक्त्रवान् | दवाग्निमध्ये जन्म यत्र || .............क्षारकूपस्तथा..... यत्र क्षारमये कूपे जनः क्षिप्यन्ते || .......टमः || १०-४३ || ऽऽतमःसंज्ञो महामोहश्चैतन्यगुणमोहकः | ऽऽ इति निरुक्तः || ४३ || अहीनां निचयश्चैव.......... भयानककृष्णसर्पमयः || ..............टप्तपाषाण एव च | शुदाहकृज्ज्वलल्लोहपाषाणपरिपूरितः |ऽऽ इति निरुक्तः || विरूपो रूपवांश्चैव........... वैरूप्यप्रद एकः | रूपवद्दुर्लभाभिलषणीयजनदर्शनसम्भाषणाभ्यां दुःखासिकाप्रदो द्वितीयः || ...............चित्री चित्रधरस्तथा || १०-४४ || चित्रं श्वित्रिवच्छबलरूपं मुहुर्मुहुरन्यदन्यद् यत्र भूम्ना जुगुप्सापदं जायते | चित्रधरस्तु यत्र जन्तोश्चित्रमेकमेव रूपम् || ४४ || कृष्णपिङ्गलरक्तास्यः............. कृष्णं पिङ्गलं रक्तमास्यमतीव विभीषणं यत्र || .............ंअहिषो राक्षसस्तथा | यत्र भीमैर्महिषै राक्षसैश्च वित्रास्यमाना जायन्ते || कुब्जः........ कुब्जा एव यत्र जायन्ते || .....उत्तप्ततैलाख्यः..... उत्तप्तं तैलमङ्गेषु निषिच्यते यत्र || ..............ऽशनी वृष्टिमुद्गरौ || १०-४५ || वृष्टिमुद्गरावशनिरूपौ यत्रोपरिष्टात् पततः || ४५ || मुसलः......... मुसलवृष्टिः || ....ऽनातपश्चैव...... अनातपः शीत इत्युक्तः | तथाच श्रीपरायाम् ---- ऽऽशीतः शीतज्वरारम्भः समस्ततनुतापकृत् | ऽऽ इति || ..............यमलाद्रिस्तथैव च | ऽऽयुग्माद्रिः कर्कशाश्माद्रिः सन्दंशपरिपीडितः |ऽऽ इत्युक्तः || क्रिमिकूटः....... ऽऽक्रिमीणां निचयः प्रोक्तः केवलक्रिमिसञ्चयः | ऽऽ इत्युक्तः | तन्मध्ये यत्र जन्मेत्यर्थः || ........बहुशाखः शाल्मलिश्च फडिस्तथा || १०-४६ || निगडो लोहरज्जुश्च लोहपञ्जर एव च | फडिः पादबन्धः, निगडः शृङ्खलैकदण्डादिबन्धः, लोहरज्जुः सर्वत्र बन्धाय | एवं लोहपञ्जरः सर्वगात्रनिश्चेष्टत्वोत्पादनाय || तनुभेदश्चोरगश्च वृश्चिकः काल एव च || १०-४७ || यत्र तनोर्देहस्य भेदश्चूर्णनम् | यत्रोरगैर्जना बाध्यन्ते | यत्र वृश्चिकैर्दश्यन्ते | कालः संहर्तृपुरुषपूर्णः || ४७ || वज्रकणः कटाहश्च......... तप्तवज्रकणपतिताः कटाहपतिताश्च यत्र जनाः || ............पट्टः...... यत्र तप्तैर्लोहपट्टैर्नरा निबध्यन्ते | एष च लोहस्तम्भ इत्यन्यत्रोक्तः यदुक्तम् ---- ऽऽलोहस्तम्भो ज्वलल्लोहपट्टकप्लुष्टविग्रहः |ऽऽ इति || ....षंकुल एव च | यत्र संकुले स्थाने निःस्पन्दतयाङ्गक्लेशः || घोरश्चाजगरश्चैव............ यत्र घोरा अजगरा ग्रसन्ते || ................ंअहावैतरणी तथा || १०-४८ || ऽऽवैतरण्यां वितार्यन्ते जन्तवः पूयपूरिताः | तस्मादसौ नदी घोरा दुर्गन्धा तु वहेत् सदा ||ऽऽ इति | वितारणं पिपासातुराणां जलभ्रान्तिजननम् || १०-४८ || गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः | गृद्ध्राद्यभिधहिंस्रपक्षिसंकुला एते चत्वारः || कर्दमः........ यत्र कर्दममध्ये मग्ना जायन्ते || ........डुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः || १०-४९ || चिपिटः खञ्जरीटश्च.......... दुर्दुरो मण्डूकबहलः | लम्बोष्ठादय एतद्रूपभयानकप्राणिबहुला नरकाः | खञ्जरीट एतन्नामकोपघातकपक्षिपूर्णः || ............शबलो नील एव च | शबलो विचित्रो नीलो नीडो यत्र || काकः......... विषमकाकपूर्णः || ..........कङ्कमुखश्चैव...... कङ्कः सन्दंशः, तदाकारमुखपक्षिमयः || ..........शिवारावस्ततः परः || १०-५० || यत्र शिवाभिरारावैर्जनास्त्रास्यन्ते || ५० || गजनादो महानादः सिंहनादस्तथैव च | स्पष्टार्था एते त्रयः || महाग्राहस्तथा नक्रो मूषिकाकीटसागरः || १०-५१ || ग्राहा अतिक्रूरा नकारख्यजलचरविशेषव्यतिरिक्ताः प्राणिनः, ते महान्तो यत्र स महाग्राहः | तथा नक्र इति महानक्रः | मूषिकामयः सागरः | कीटसागरः सूक्ष्मक्रिमिबहुलामेध्यसागरः | यस्तु श्रीपरायाम् ---- ऽऽविण्मूत्रो विट्छिलाशीर्णचूर्णास्यकृतपूरणः |ऽऽ इत्युक्तः || ५१ || अवाक्शिराः.......... अवाग् अधः शिरः, ऊर्ध्वं तु पादौ यत्र || ........ट्रिरावर्तः......... त्रिरावर्तन्ते समन्तात् प्रवर्तन्ते यत्र | यदुक्तं श्रीपरायाम् ---- ऽऽत्रिनीवासः पिपासातीबुभुक्षापीडितोदरःऽऽ इति || .............चक्रपीडनकस्तथा | यत्र तिलवज्जनाश्चक्रेण पीड्यन्ते || त्रपुलेपस्त्रपुकूप......... गलितत्रपुणा तप्तेन यत्राङ्गानि लिप्यन्ते | यत्र च तादृगेव कूपः || .......इक्षुयन्त्रः...... यत्र इक्षुवज्जनाः पीड्यन्ते || .........गिरेर्लता || १०-५२ || गिरिप्रभवाभिवीषलताभिर्यत्र जनास्ताड्यन्ते || कटङ्कटश्च विख्यातः.......... एतन्नाममहाकटाहप्रख्योऽतिविषमः कूपः || ..............टप्तवालुक एव च | यत्रातितप्तासु वालुकासु पापीयांसः सञ्चार्यन्ते || तदेते सचत्वारिंशच्छतसंख्याताः ---- एतेऽतिघोरा नरकास्त्रिकोणाः परिकीतीताः || १०-५३ || नरकदेशानां संस्थानतस्त्रिकोणत्वमित्यर्थः || एते च ---- असत्कर्मरतानां च प्राणिनां पातनाय तु | असद् एकादशपटलवक्ष्यमाणात् सामान्यविशेषात्मनः स्वस्मात् शास्त्राद् बहिष्कृतम् || विशेषतस्तु ---- निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा || १०-५४ || निस्त्रिंशकर्म परवधादिकम्, शठानां निवारणयाप्यनिवर्तमानानाम्, अत एव प्रागजीतादेव पापसंस्कारात् पुनरपि पापिनामित्याह || इत्थं चैषाम् ---- निर्दयाधमजातीनां परहिंसारतात्मनाम् | तथा ---- परदाररतानां च............. विशेषतः ---- ...........शिवशास्त्रस्य दूषिणाम् || १०-५५ || देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनाम् | गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनाम् || १०-५६ || कृतमुपकारं घ्नन्तीति कृतघ्नाः | मित्रं विस्रम्भेण विश्वासेन घ्नन्तीति तच्छीला मित्रविस्रम्भघातिनः || ५६ || किं च ---- सुवर्णभूमिहर्तॄणां शौचाचारनिवतीनाम् | दयादाक्.qइण्यहीनानां पैशुन्यानृतचेतसाम् || १०-५७ || नरकास्तु समाख्यातास्त्वकर्मपथवतीनाम् | शौचमाचारश्च निजनिजशास्त्रोक्तौ | अन्यथा ---- ऽऽकिञ्चिज्ज्ञैर्या स्मृता शुद्धिः साशुद्धिः शम्भुदर्शने | न शुद्धिर्ह्यशुचिस्तस्मान्निवीकल्पो भवेन्नरः ||ऽऽ इत्यादिश्रुतेनीवीषयत्वं स्यात् ---- ऽऽजिह्मजेनोपवीतेनऽऽ (३-२) इत्यादि च पूर्वोक्तमवाच्यं स्यात् | अत्र च यथायोगं शरीरमनोवाग्विषयत्वं योज्यम् | एतदेवाकर्मपथवतीत्वं यत् स्वशास्त्रविरुद्धाचरणम् | प्रकर्षाप्रकर्षयोगाच्चैषां पापानां तदुचितनरकसम्बन्धः || ये तु एतद्विपरीतास्ते ---- शुभकर्मरता लोका नरके न पतन्ति हि || १०-५८ || यच्च तेषां सम्बन्धि सु(भं)१ कर्म ---- तत्समासेन वक्ष्यामि यथावदनुपूर्वशः | अनुपूर्वशः-- ऽऽवाच्यर्था नियताः सर्वे वाङ्मूला वाङ्निबन्धनाःऽऽ इत्युक्तत्वाद् वाचिकादिक्रमेण || तच्च ---- सत्यं क्षान्तिरहिंसा च........... एतानि वाङ्मनःकायकर्माणि सुखानि || किं च ---- .............शौचं स्नानमकल्कता || १०-५९ || दयालौल्यं च यस्यासौ नरकान् नाधिगच्छति | शौचं प्राग्वत् | स्नानं भसमादिनापि | अकल्कता शुभसङ्कल्पता | अलौल्यमिन्द्रियाचापलम् | शान्तो दान्तः सुहृष्टात्मा त्वनहङ्कारवान् समः || १०-६० || अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः | नरकान्नाधिगच्छतीत्येव | शान्तो जितचित्तः | दान्तो जितेन्द्रियः | अतश्च विषयवैवश्याभावात् सुहृष्टात्मा, निरहङ्कारश्च | समः शत्रुमित्रादि साम्येन पश्यन् | परैश्वर्ये निःस्पृहः सन्तुष्टः || किं च ---- अमात्सर्यममानित्वं शिवभक्तिरचापलम् || १०-६१ || जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनम् | व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिसंध्यता || १०-६२ || सर्वत्र श्रद्दधानत्वमार्जवं ह्रीर्मनस्विता | तेजः प्रशान्तिः सन्तोषोऽप्रियवाक्यविवर्जनम् || १०-६३ || समीक्ष्यकारिता नित्यं मनोहङ्कारनिग्रहः | अदम्भित्वममायित्वमकल्को ज्ञानशीलता || १०-६४ || पितृदेवार्चने भक्तिर्गोब्राह्मणशरण्यता | अग्नौ होमो गुरोर्दानं ज्ञानिनां पर्युपासनम् || १०-६५ || एकान्ते च रतिर्ध्यानमात्मन्येव च तुष्टता | अव्यापारः परार्थेषु औदासीन्यमनागसः || १०-६६ || अक्रोधित्वमनालस्यमेते धर्माः प्रकीतीताः | शिवभक्तिर्मुख्यो धर्मः | अचापलं कर्तव्यविषया रुढिः, विशेषात्तु जपध्यानविश्रान्तौ | तेजः परानभिभवनीयत्वम् | प्रशान्तिः सौम्यदर्शनता | मनोहङ्कारयोनीग्रहो यत्र तत्र वर्तनपरिहारः | दम्भो मिथ्याचारता | माया परवञ्चनम् | अकल्कोऽपापचित्तः | परार्थेषु परवित्तेषु, अव्यापारो मनसाप्यचिन्तनम् | औदासीन्यमिति व्यवहारविषयम् | अनागस इत्यनागस्त्वं गुर्वाज्ञादावप्रमादित्वम् | अनालस्यमित्युपादेयानुष्ठानोद्योगः | एते धर्माः शुभा आचाराः || अतश्च ---- यस्त्वेतान् भजते भावान् सोऽमृतत्वाय कल्पते || १०-६७ || शिवे भक्तिरेकैव मोक्षप्रदा किमङ्गैतद्धर्मान्तरसहिता || ६७ || यस्मात् ---- नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीतीताः | शिवाचाररतानां तु धामीकाणां हि देहिनाम् || १०-६८ || तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेत् | पुरुषतत्त्वभुवनावसरे पौरुषा ये पाशा वक्ष्यन्ते, तेऽपि शिवभक्तिभाजां नश्यन्ति | धर्म इति प्रोक्तरूपे || किं च ---- यस्य चित्तमसम्भ्रान्तं निवीकल्पमकल्मषम् || १०-६९ || स याति परमांल्लोकान्नरकांश्च न पश्यति | अकल्मषत्वादपापत्वाद् निवीकल्पं कृत्वा तात्त्विकेऽर्थे समाश्वस्तम् | न पश्यतीति दर्शनमात्रमप्यस्य नास्तीति तदुपभोगे कैव सम्भावना || यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी || १०-७० || अकल्कवान् सत्त्ववान् यो नरकान् न पश्यति | असंमूढा निवृत्ताज्ञाना | अकल्कवान् शुद्धाशयः, अत एव सत्त्ववृत्तिनिष्ठः || जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितम् || १०-७१ || तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरम् | सर्वाभोगभूरनेन सुप्रापेत्यर्थः || एतदेव श्लाघते ---- स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेत् || १०-७२ || एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः | स्वकार्यमात्मज्ञाननिष्ठत्वम्, परकार्यं परेषामात्मज्ञाने योजनम् || उपसंहरति ---- इत्येष तान्त्रिको न्यायः कथितस्तु समासतः || १०-७३ || अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते | तान्त्रिकः परमेशसंहिताप्रसिद्धः | अतान्त्रिकाः धर्मसूत्रकारादिप्रसिद्धाः || असामान्यैराचारैः ---- शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः || १०-७४ || परतत्त्वविदो ये तु न तेषां दुरितं भवेत् | दुष्टमितमागमनं जन्मेत्यर्थः || एवं प्रसङ्गादुक्त्वा प्रकृतमाह ---- एतेषां नरकाणां तु प्रधानानि निबोध मे || १०-७५ || पञ्चत्रिंशत्तु नरकाः........... यस्मादेत एव ---- ..............चतुर्भेदाः प्रकीतीताः | पञ्चत्रिंशत् चतुभीर्गुणिताश्चत्वारिंशदधिकं शतं भवतीत्यर्थः || तदाह ---- चत्वारिंशच्छतं ह्येतत् समासात् परिकीतीतम् || १०-७६ || यस्मात् ---- तैवीशुद्धैवीशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः | तैरिति चत्वारिंशदधिकशतसंख्यैः | ता इति पूर्वोपक्रान्ताः || यदि वा ---- पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः || १०-७७ || चत्वारिंशच्छतं शुद्धं तदेतत् स्याद्वरानने | अवीचीकुम्भीपाकरौरववर्जं वक्ष्यमाणनामानो द्वात्रिंशत् || यद्वा ---- त्रिभिः शुद्धैस्तु द्वात्रिंशच्छुद्धा एव भवन्ति हि || १०-७८ || निवीशेषं न सामान्यमिति स्थित्या सामान्यशुद्ध्या विशेषशुद्धिः, विशेषाणां वा गर्भीकृतसामान्यानां शुद्ध्या सामान्यशुद्धिः | अत्र चायं गुरूणामाशयः ---- यस्य दीक्ष्यस्य पापभूयस्त्वं निश्चितम्, तस्य वितत्य नरकशुद्धिः कर्तव्या, अन्यस्य तु संक्षेपेणेति प्रघट्टकचतुष्टयेन शुद्धिरत्रोक्ता किरणायां तु प्रघट्टकत्रयेण | यदुक्तम् ---- ऽऽचत्वारिंशत्समधिकं यदेतेषां प्रकीतीतम् | द्वात्रिंशत्तत्र राजानो राजराजेश्वरास्त्रयः ||ऽऽ इति | श्रीमालिनीविजये कूष्माण्डरुद्रशुद्ध्यैव तच्छुद्धिरुक्तेति प्रक्रियाभेदः || ७८ || अथ ---- तेषां नामानि वक्ष्यामि त्रयाणां वरवणीनि | अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः || १०-७९ || महारौरवराजश्च............ अथ ---- ............ष्थानं तेषां निबोध मे | अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमम् || १०-८० || किं च ---- व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः | द्वात्रिंशन्नरकास्त्रिभिर्यथान्तर्गर्भीकारेण व्याप्ताः, तथेत्यर्थः || अत्र ---- नरकैकादशगतमवीचिं शोधयेत् प्रिये || १०-८१ || आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेत् | महारौरवसंज्ञं चाप्येवमेव न संशयः || १०-८२ || तानेतान् ---- पञ्चत्रिंशत् प्रवक्ष्यामि समासेन वरानने | अवीचिः क्रिमिनिचयो नदी वैतरणी तथा || १०-८३ || लोहश्च शाल्मलिश्चैवाप्यसिपर्वत एव च | सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा || १०-८४ || तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च | अन्तर्भूता अवीचौ तु........... अवीचिरेव क्रिमिनिचयपदेन विशेषितो न तु पूर्वनिदीष्टादसौ व्यतिरिक्तः संख्याधिक्यप्रसङ्गात् || अथ ---- .............कुम्भीपाकस्य श्रूयताम् || १०-८५ || अस्थिभ न्गः क्रकचच्छेदः कूपश्चापि कटङ्कटः | वसामिश्रो ह्ययस्तुण्डस्त्रपुलेपः प्रकीतीतः || ८६ || कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च | तप्तलोहश्च विज्ञेयः क्षुरधारपथस्तथा || १०-८७ || अशनिश्च सुतप्तश्च द्वादशैते प्रकीतीताः | एकादशान्तवीज्ञेयाः कुम्भीपाकस्य दारुणाः || १०-८८ || महारौरवराजे च अत ऊर्ध्वं निबोध मे | कालसूत्रो महापद्मः कुम्भः सञ्जीवनेक्षुकौ || १०-८९ || पाशोऽम्बरेषकश्चैव अयःपट्टस्तथैव च | दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः || १०-९० || महारौरव एतेषामुपरिष्टाद् व्यवस्थितः | वसामिश्र इति यः पूर्वं मेदक उक्तः | अयस्तुण्डस्तु तीक्ष्णतुण्ड इति, तीक्ष्णासिरसिरिति, कुम्भस्तु कुम्भीर इति, अशनिरित्यशनी वृष्टिमुद्गराविति, पाशोऽप्युरग इति, दण्डयन्त्रो दण्ड इति पूर्वमुक्तः || यदाऽऽदाववीच्यादित्रयमेव शोध्यते, तदा ---- अवीचौ कृमिनरकान् कुम्भीपाके सुदारुणान् || १०-९१ || महारौरवकेऽमेध्यानन्तर्भूतान् विचिन्तयेत् | अथैतैस्त्रिभिर्व्याप्तानाम् ---- द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे || १०-९२ || तत्र योजनानाम् ---- नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः | एते च ---- लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमात् || १०-९३ || एवमेतन्मानं द्वात्रिंशत्कोटयो नरकभूः || ९३ || अथ ---- एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने | योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः || १०-९४ || एष च ---- ऽऽक्विति क्षितिः समुद्दिष्टा तस्यामूष्मानुलोमतः | सो(ऽण्डो)१ यद्वद्दुरालोकः कूष्माण्डस्तद्वदुद्भटः ||ऽऽ इति श्रीपरायां निरुक्तः | अस्य च कुकर्मजनानुशासकत्वात् क्रूररूपत्वं क्रूररूपनिर्वृत्तत्वं च श्रीपरायामुक्तमतः समस्तनरकशुद्धिं कृत्वैतच्छ्रावणा कार्यां | एवमन्यत्र || ९४ || किं च ---- नवनवतिर्लक्षाणि पुरं तस्य प्रकीतीतम् | अथ ---- तस्योपरिष्टात् पातालान् कथयामि समासतः || १०-९५ || आभासं वरतालं च शर्करं च गभस्तिमत् | महातलं च सुतलं रसातलमतः परम् || १०-९६ || सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितम् | विशेषणमेतत्सर्वसाधारणम् | आ समन्तात् सर्वरत्नादिभिर्भासनात्, वरभोगयोगात्, शर्करावत् स्पृहणीयगुणत्वात्, भास्वरत्वात्, महाभोगयुक्तत्वात्, शोभनतलत्वात्, रसास्वादयुक्तत्वात्, सुवर्णमयत्वाच्च एतान्येषां नामानि | यदुक्तं श्रीपरायाम् ---- शमन्तात् सर्वरत्नानां भासो यस्माद्विभान्त्यलम् | तद्धर्म्याणां च तत्स्त्रीणामाभासं तेन तत्स्मृतम् ||ऽऽ इत्यादि | शर्कराख्यं तु तत्र नितरां भोगसम्पत्त्यादितलमित्युक्तम् || अथ ---- आभासाद्यावत् सौवर्णं प्रमाणं कथयामि ते || १०-९७ || सहस्रनवकोत्सेधमेकैकं तु पुरोत्तमम् | उत्सेध औन्नत्यम् || तथा ---- एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया || १०-९८ || एवं पातालात्यशीतिसहस्राणि || ९८ || किं च ---- छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु | सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु || १०-९९ || हेमप्राकारशिखरैश्छत्रध्वजसमाकुलैः | किङ्किणीजालमुखरैस्तोरणाट्टालमण्डितैः || १०-१०० || निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः | तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः || १०-१०१ || नानाभुवनपङ् क्त्योघैः सर्वरत्नसमुज्ज्वलैः | प्रसादैस्तुङ्गशिखरैश्चन्द्रातपसमप्रभैः || १०-१०२ || रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः | कोकिलारावमधुरैः शिखिषट्पदसेवितैः || १०-१०३ || हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः | सारसारावसंघुष्टपद्मिनीषण्डमण्डितैः || १०-१०४ || तडागैः स्वच्छतोयाढ्यैर्दीघीकाभिर्युतानि तु | पुरुषैश्च महाकायैर्महाबलपराक्रमैः || १०-१०५ || सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः | दिव्यवस्त्रैः सुताम्बूलैदीव्यगन्धानुलेपनैः || १०-१०६ || दिव्याभरणसंयुक्तैर्मुकुटै रत्नमण्डितैः | युक्तानीत्येव | मुकुटैरित्युपलक्षितैरित्यर्थः || किं च ---- शिवाराधनसक्ता ये तत्प्रसादेन साधकाः || १०-१०७ || ते विशन्ति महादेवि पातालं सिद्धसेवितम् | तत्प्रसादेनेति काकाक्षिवद् योज्यम् || विष्ट्वा तु ---- रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते || १०-१०८ || रसं हेमसाधनम् | रसायनं शरीरस्थैर्यहेतुः | सिद्धद्रव्यं पादुकादि | तदुचितसिद्ध्यर्थं लब्ध्वा यथारुचि भुवनानि चरन्तीत्यर्थः || १०८ || ये तु ततो न निर्यान्ति, ते ---- क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः | कामिनः(कामरूपाभिः)१ मत्तमातङ्गगामिभिः || १०-१०९ || सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः | दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः || १०-११० || मध्यक्षामैः प्रसन्नास्यैस्तरलायतलोचनैः | सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः || १०-१११ || सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः | एवं ते कथिता देवि पातालान्तरवासिनः || १०-११२ || किं च ---- त्रयोऽसुरास्तथा नागा राक्षसाश्च विभागतः | एकैकत्र च पाताले कथितास्ते वरानने || १०-११३ || कथिता इत्येतदन्यशास्त्रोक्तं श्रीभैरवः श्रीदेका स्मारयति | तथा च श्रीपरायाम् ---- ऽऽआभासे शङ्कुकर्णाख्यः कुटिलो विकलः पतिः | वरतालेऽपि प्रह्लादो वासुकिर्लोहिताननः || (वि)१ तले शिशुपालाख्यः कम्बलो यमदंष्ट्रकः | गभस्त्याख्ये सकर्कन्धुः कर्कटो विकटाननः || महातले हिरण्याख्यः कालाङ्गश्च कराङ्गकः | रसातले बृहद्भोगो दुर्दर्शो भीमनिःस्वनः || षडेतानि त्रिखण्डानि भोग्यान्येभिर्महात्मभिः | सुतले संस्थितोऽधस्ताद् बलिस्तक्षकपिङ्गलौ ||ऽऽ इत्युक्तम् || ११३ || किं च ---- पातालसप्तके ज्ञेयास्तथान्ये भुवनाधिपाः | बलो ह्यतिबलश्चैव बलवान् बलविक्रमः || १०-११४ || सुबलो बलभद्रश्च बलाध्यक्षश्च कीतीताः | यतः सप्तसु पातालेषु यथाक्रमं स्थिता एते रुद्रास्ततः ---- एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः || १०-११५ || सप्तसु पातालेषु भूम्ना वसनं यैः स्वकर्माजीतैर्भोगविशेषैः, त इमे प्रोक्ता भोगविशेषाः शुद्ध्यन्तीत्यर्थः || ११५ || अतस्तु ---- यदूर्ध्वे चैव सौवर्णं पातालं परिकीतीतम् | तत्र वसत्यसौ देवो हाटकः परमेश्वरः || १०-११६ || पुरकोटिसहस्रैस्तु समन्तात् परिवारितः | सिद्धै रुद्रगणैदीव्यैर्भगिनीमातृभिर्वृतः || १०-११७ || सिद्धैः रुद्रैरिति सिद्धविशेषाप्तरुद्रमूतीभिः, भगिन्यो ब्राह्म्याद्यङ्कोशद्भूता देव्यः, मातरस्तु ब्राह्म्याद्याः, ता हि प्रपञ्चव्याप्त्या परापरभावेन प्रायः सर्वत्र स्थिताः || ११७ || किं च ---- योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः | योगिन्यो योगेन सिद्धाः, योगकन्यास्तु जातमात्रा एव संस्मारितयोगाः || किं च ---- सिद्धद्रव्यसमैर्मन्त्रैश्चिन्तामणिरसायनैः || १०-११८ || सिद्धद्रव्यसमत्वं प्राप्तमात्राणामेवाभीष्टप्रदत्वम् | चिन्तामणिभिः रसायनैश्चेत्यर्थः || ११८ || तदित्थम् ---- सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरम् | एतच्च उक्तरुद्राद्युपलक्षणपरम् || हाटकपदं निर्वक्ति ---- हठात् प्रवेशयेल्लोकांस्तद्भावगतमानसान् || १०-११९ || तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः | देवानां बलादीनां देवः | भगवतः श्रीकण्ठस्यैवेत्थं भोगप्रदत्वेनानया मूर्त्या स्थितत्वान्महेश्वरः || एवं चान्तर्भूतपातालसप्तके तत्पुरशुद्धौ हाटकरुद्रोपस्थापनपूर्वं चतुर्थपटलोक्ताध्वसन्धानादिसमस्तेतिकर्तव्यतां श्रावणान्तां कुर्यात् | एवं प्रतिभुवनेशमेतदेव स्मर्तव्यम् | तदेवं भूकटाहः कोटिः, कालाग्निरुद्रपुरं कोटिः, तज्ज्वाला दश कोटयः, धूमः पञ्च कोटयः, नरका द्वात्रिंशत्कोटयः, कूष्माण्डपुरं नवनवतिलक्षाणि, पातालमशीतिसहस्राणि, इत्येवं सहस्रविंशत्यूनाः पञ्चाशत्कोटयः | एतावदन्तोऽध्वा कोटिपञ्चाशतैव, शिष्टानि तु ---- तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः || १०-१२० || भूकटाहः समुद्दिष्टः समन्तात्तु वरानने | भूकटाहो मनुष्याधारभूः | एवमियदन्तं ब्रह्माण्डस्यार्धम् || अतो भगवती पृथ्वी नानाजनपदाकुला || १०-१२१ || तस्या मध्ये महामेरुः सौवर्णश्च वरानने | तस्याचलस्य विस्तारमूर्ध्वाधः कथयामि ते || १०-१२२ || जनपदो लोकानां निवासः || १२२ || तत्र ---- योजनानां सहस्राणि चतुरशीतिरुच्छिरतः | षोडशैव सहस्राणि अधोभागे प्ररोपितः || १०-१२३ || वैपुल्यमस्याह ---- तान्येव मूलविस्तारः.......... तानीति षोडशैव || .............ड्विगुणो मूर्धविस्तरः | द्वात्रिंशन्मूर्धविस्तारोऽस्येत्यर्थः | ऽऽभैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका | ऽऽ (तं०आ० ८-४५) इति गुरवः | एष च श्रीपरायां कणीकाकारमस्तक इत्युक्तः || अथ ---- तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती || १०-१२४ || चतुर्दश सहस्राणि योजनानां प्रमाणतः | सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता || १०-१२५ || सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः | ब्रह्मणः सत्यलोकस्थब्रह्मांशावतारस्यास्थानभूः, अतश्च सर्वत्र मध्यं ब्रह्मस्थानमुच्यते || सा च ---- सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता || १०-१२६ || तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतम् | ज्योतिष्कं स्फाटिकम् || तच्च ---- सूर्यकोटिप्रतीकाशं गणप्रथमसेवितम् || १०-१२७ || सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितम् | स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितम् || १०-१२८ || गणप्रथमाः प्रधानगणाः || १२८ || तत्रास्ते भगवान् देवस्त्र्यम्बकः परमेश्वरः | लोकपालैर्वृतोऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः || १०-१२९ || ममांशं तं विजानीयाः सुरसिद्धनमस्कृतम् | कैलासवासिन उमापतेरियमुक्तिः || स च तत्र ---- अधिकारं प्रकुरुते परेच्छासम्प्रचोदितः || १०-१३० || एवं चाभिदधत् पर एवाहं श्रीसदाशिवेशानन्तश्रीकण्ठरूपतया विष्णुभुवनोर्ध्वस्थरुद्रत्वेन मेरुशिखरगतत्र्यम्बकत्वेन च प्रपञ्चव्याप्त्यावस्थितो न तु पृथक्त्व मेषामित्यादिशति | अधिकारं ब्रह्मविष्ण्विन्द्रनायकत्वमेव | एतच्च शृङ्गप्रधानत्वादिहोक्तम्, न त्वेतदेवास्ति, श्रीचन्द्रगर्भादौ ---- ऽऽशृङ्गत्रयसमोपेता ब्रह्मविष्णुहरालयाःऽऽ इति, श्रीकिरणायां तु ---- ऽऽत्रिभिः शृङ्गैः समायुक्तो रुक्मकाञ्चनरत्नजैःऽऽ | इति प्रतिपादितत्वात् || १३० || अस्य च मेरोः ---- सभाया ब्रह्मणोऽधस्तात् सहस्राणि चतुर्दश | योजनानां परित्यज्य चक्रवाटः समन्ततः || १०-१३१ || चक्राकारो वाटः पुरीणां समूहः || १३१ || एष एव च ---- स्वर्गाष्टकं समुद्दिष्टं....... यतः ---- ...........टत्र तिष्ठन्ति लोकपाः | इन्द्रादयः || तत्र ---- पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती || १०-१३२ || तेजोवती तथाग्नेययां चित्रभानोः प्रकीतीता | दक्षिणे यमराजस्य नाम्ना संयमनी पुरी || १०-१३३ || कृष्णाङ्गारा तु नैरृत्यां राक्षसेशस्य कीतीता | पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता || १०-१३४ || वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये | उत्तरेणापि सोमस्य पुरी नाम्ना महोदया || १०-१३५ || एशान्यामीशराजस्य पुरी नाम्ना यशोवती | तथा ---- एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः || १०-१३६ || दक्षिणेनामरावत्याः कामवत्यप्सरःपुरी | सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु || १०-१३७ || तस्या वै दक्षिणैनान्या पद्मरागोपशोभिता | आदित्यानां पुरी ख्याता नाम्ना चांशुमती शुभा || १०-१३८ || साध्यानां राजती दिव्या ख्याता वै कुसुमावती | दक्षिणेनेत्येव | कामवती रेवत्याः पुरीत्यसत्, कामवती सौवर्णीति हि नामनी || वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी || १०-१३९ || रेवत्याख्या, विश्वे देवा यत्र स्थिताः || १३९ || तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः | दिव्येति नाम्ना || पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता || १०-१४० || क्रीडन्ति मातरस्तत्र मधुपानाविघूणीताः | रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी || १०-१४१ || तत्र शूलधरा रुद्रा यमस्य परिचारकाः | तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी || १०-१४२ || एकादशानां रुद्राणां वज्रप्प्राकारतोरणा | निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी || १०-१४३ || स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः | स्वेन कर्मणा पिशिताशनेन निमित्तेन संज्ञा येषाम् || नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता || १०-१४४ || निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा | नैरृत्या दिश उत्तरं यत्सामीप्यं समीपम्, तत्र || तस्या अप्युत्तरे भागे पुरी हैमी सुखावती || १०-१४५ || मित्रो वसति तत्रैव बहुभृत्यजनावृतः | सुखावतीति नाम्ना || तस्या अप्युत्तरे हैमी गान्धर्वी नाम विश्रुता || १०-१४६ || वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः | दशकोटिसहस्राणि तेषां संख्या प्रकीतीता || १०-१४७ || भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे | हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे || १०-१४८ || वरुणस्येति तत्पुर्याः || १४८ || तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी | सर्वविद्याधराणां तु सा पुरी परिकीतीता || १०-१४९ || वायोर्दक्षिणतो देवि सिद्धा नाम पुरी स्मृता | वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः || १०-१५० || वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु | गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता || १०-१५१ || आस्ते भगवती साक्षात् सप्तस्वरविभूषिता | ग्रामत्रयपरीधाना जातिमेखलमण्डिता || १०-१५२ || मूर्च्छनातानचित्राङ्गी नानातालकलोदया | लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता || १०-१५३ || गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती | नारदाद्यैश्च ऋषिभिर्नागकिन्नरसेविता || १०-१५४ || ग्रामाः षड्मध्यमगान्धाराः | षाड्जीनन्दयन्त्याद्या जातयोऽष्टादश, ता एव मेखलाः | स्वरा मूर्च्छन्ति गुम्फनया समुच्छ्रायं नीयन्ते याभिस्ता मूर्च्छना उत्तरमन्द्राद्याः, ऽऽक्रमयुक्ताः स्वराः सप्त मूर्च्छनेत्यभिशब्दिताः | ऽऽ (२८-३४) इति भरतनाट्यशास्त्रे लक्षिता एकविंशतिः, तास्तायन्ते विस्तार्यन्ते यैस्ते तानाः, एकोनपञ्चाशत् पञ्चत्रिंशच्च | यदुक्तं तत्रैव ---- ऽऽषट्पञ्चस्वरकास्तानाऽऽ (२८-३४) इत्युपक्रम्य ---- ऽऽतत्र मूर्च्छनाश्रयास्तानाश्चतुरशीतिरेकान्नपञ्चाशत्षट्स्वराः, पञ्चत्रिंशत्पञ्चस्वराःऽऽ (२८-३५) इति | तालाश्चञ्चत्पुटाद्या यत्यात्मकाः | कलास्तु तालाक्षररूपा गुरुलघुमात्राः | लक्षणानि ---- ऽऽभूषणाक्षरसङ्घातौ शोभोदाहरणे तथा |ऽऽ इत्यादीनि षट्त्रिंशत् | व्यञ्जनेति व्यज्यन्ते येषु गीतकविशेषेषु तैरुपेता | मध्यमेनेति मध्यमाख्येन स्वरेण श्रव्यतातिशययोगादवगुण्ठिता | नायिकापक्षे रूपकाणां श्लेषच्छाया स्पष्टा || १५४ || तस्याः पूर्वेण चित्रा वै तुम्बुरोर्नारदस्य च | सोमस्य पश्चात् प्रमदा गुह्यकानां पुरी स्मृता || १०-१५५ || पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी | सर्वधातुमयी चित्रा कुबेरस्य महात्मनः || १०-१५६ || स हि तत्र ---- षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः | यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः || १०-१५७ || युक्तः || १५७ || तस्याः पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी | तत्र वै कर्मदेवास्तु.......... ते च ---- .............डेवत्वं कर्मणा गताः || १०-१५८ || वाजपेयादिना || १५८ || पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी | तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसन्निभः || १०-१५९ || शङ्खचक्रगदापाणिः पीतवासा जनार्दनः | ईशस्य दक्षिणे भागे नाम्ना पद्मवती पुरी || १०-१६० || महापद्मोपविष्टस्य पद्ममालाधरस्य तु | पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः || १०-१६१ || सत्यलोकनिवासिब्रह्मांशावतारस्य || १६१ || तस्या दक्षिणतो देवि नाम्ना कामसुखावती | अश्विनौ तत्र देवेशि.......... देववैद्यौ || ........टथा धन्वन्तरिः स्थितः || १०-१६२ || गोवैद्यः || १६२ || उत्तरे त्वमरावत्या महामेधेति विश्रुता | विनायकानां सा दिव्या वसतिस्तत्र कल्पिता || १०-१६३ || ते हि पूर्वम् ---- दशकोटिसहस्राणि वीर्यवन्तः ऽऽqउभास्तथा | विनायका महादीप्ता अग्निज्वलिततेजसः || १०-१६४ || असुराणां वधार्थाय अंगुष्ठान्निमीता मया | अंगुष्ठात् कालाग्निस्थानान्निमीतत्वाद् दीप्तत्वमेषाम् || उपसंहरति ---- एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः || १०-१६५ || ऊर्ध्वं ब्रह्मसभाया ज्योतिष्कगतत्र्यम्बकपुरेण || १६५ || एताश्च ---- पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः | पुरकोटिसहस्रैस्तु सर्वास्ता सम्भृताः प्रिये || १०-१६६ || सर्वैश्वर्यसुसम्पूर्णाः सर्वरत्नसमुज्ज्वलाः | दिव्यस्त्रीभिः समाकीर्णा दिव्यपुम्भिः समाकुलाः || १०-१६७ || तत्र ---- आनन्दा सततं देवि देवानां च पुरे पुरे | विमाननगरारामैश्चतुरोद्यानमण्डपैः || १०-१६८ || छत्रध्वजपताकाभिर्गजवाजिसमाकुलैः | दुन्द्वुभीनन्दिशब्दैश्च शङ्खकाहलनिः स्वनैः || १०-१६९ || गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा | आकीर्णमाकुलम् || अतश्च ---- इष्टापूर्तरता देवि ये नरा पुण्यभारते || १०-१७० || त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः | पु(ण्य)जनाश्रये वक्ष्यमाणे भारते वर्षे इष्टापूर्तै रता ये च त्र्यम्बकं महेश्वरं सकृदेकवारं हेलामात्रेणार्चयन्ति ते मेरुं प्राप्नुवन्ति, गृहीतदीक्षास्तु सततं तदर्चापरा मुच्यन्त एव || येऽपि ---- गङ्गातोयसुसंसिक्ताः........... तेऽपि तत्र ---- .............क्रीडन्ति सुरसत्तमाः || १०-१७१ || प्राप्तप्रधानसुरभावाः || १७१ || एवं श्रुतगङ्गाप्रभावा तज्जिज्ञासार्थं श्रीदेव्युवाच ---- कथं गङ्गा समुत्पन्ना सुरसिद्धनमस्कृता | कथयस्व प्रसादेन समासात् सुरसत्तम || १०-१७२ || श्रीभैरव उवाच ---- गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते | तां वक्तुमुपक्रमते ---- जगन्माता महादेवि मम पत्नी पुरा हि सा || १०-१७३ || मम परया व्याप्त्या विश्वकारणस्य परयैव व्याप्त्या स्थिता पत्नी क्षयाख्या शक्तिरत एव पुरा जगन्माता आदिसर्गे विश्वप्रसरहेतुः || स्वातन्त्र्याद् गृहीतरुद्रलोकाधिष्ठातृरुद्रमूर्त्तेस्त्वसौ ---- मम नेत्रोदकं चैव............. आनन्दाश्रु इत्यर्थः || यस्मादाकृतिमत्या प्रणयकेलिवशेन कदाचित् ---- .............करजैश्छादिते मम | पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया || १०-१७४ || मन्नेत्रेभ्योऽस्रवत्तोयं त्वदीयांगुलिभिः प्रिये | एवं चाभिदधदुमापतिरुर्ध्वस्थरुद्रलोकवतीरुद्रभट्टारकाभेद आत्मनः, तत्रस्थदेव्यभेदश्चोमाभट्टारिकाया इत्यादिशति || यच्च तत्तोयमंगुलिभिः स्रुतम्, तदेव || दशधा निःसृता गङ्गा............. तासां मध्यात् ---- ..............कपालावरणे मम || १०-१७५ || सप्तैव संस्थितास्तत्र........... कान् प्रजापतीन् पालयतीति कपालो रुद्रस्तदावरणे तल्लोके ब्रह्माण्डोर्ध्वकपालोपलक्षितावरणे रुद्रलोके इत्यर्थः | यद्वक्ष्यति - --- ऽऽवरेण्या वरदा चैव वरिष्ठा वरवणीनी | वसिष्ठा च वराहा च वरारोहा च सप्तमी || गङ्गा ह्येताः समाख्याता रुद्रलोकवहाः सदा | ऽऽ(१०-५५०-५५१) इति || तिसृणां मध्यात्तु ---- ..........एका विष्णुपुरे स्थिता | द्वितीया ब्रह्मलोकोर्ध्वे............. ब्रह्मलोकस्य सत्यलोकस्य यदूर्ध्वम् ---- ऽऽकोटियोजनमानेन सत्यलोकोपरि प्रिये | ब्रह्मासनमिति ख्यातं जपासिन्दूरसप्रभम् ||ऽऽ (१०-५३४) इति यद् ब्रह्मणो निवासस्थानम्, तत्र || .............टृतीया सत्यलोकगा || १०-१७६ || तृतीयैव प्राकाम्यवशात् ---- स्वर्गे चैव......... किं च ---- .........पुनः सा वै संस्थिता सोममण्डले | सोमलोके || एषैव तु ---- सोमाच्चैव विनिःसृत्य पुराकाशे व्यवस्थिता || १०-१७७ || सोमात् सोमलोकात् || १७७ || ततोऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः | यथा ---- गङ्गा नदीं महापुण्यां मर्त्यानां हितकाम्यया || १०-१७८ || अवतार्य महादेव मर्त्यलोकं विसर्जय | आकाशादित्यर्थात् || ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता || १०-१७९ || लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि | अथासौ ---- आगत्य मम मूर्धानं............ ममेति ज्योतिष्कशिखरगतस्य || ..............ंएरुमूध्नी पुनर्गता || १०-१८० || तस्मान्निर्गत्य देवेशि चतुदीक्षूदधिं गता | सा च ---- पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु || १०-१८१ || सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे | बहुपर्वतादिव्यवहितचतुदीग्गतोदधिप्राप्तिर्गंगायाः प्राकाम्यादिति मन्तव्यम् || प्रसङ्गाद् गङ्गामाहात्म्यमुक्त्वा प्रकृतमाह ---- मन्दरस्तु महादेवि गन्धमादनसंज्ञकः || १०-१८२ || विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः | विष्कम्भाश्च समाख्याताः........ अवष्टम्भका इत्यर्थः | यदुक्तं श्रीतन्त्रालोके ---- ऽऽएतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः |ऽऽ (८-६०) इति || एषां पर्वतानाम् ---- ..........वर्णांश्चैव निबोध मे || १८३ || सितं चैव हरिद्राभं नीलं दाडिमसप्रभम् | स्फटिकहेममहानीलपद्मरागसमा एते इत्यर्थः || एषां च पृथङ्मानस्यानुक्तत्वाद् भाविनवसहस्रेलावृताङ्गतैव मन्तव्या | तथा च श्रीकिरणायाम् ---- ऽऽ.................................इलावृतम् | मेर्वन्तं चतुरस्रं तु सहस्रनवसंयुतम् ||ऽऽ इति तस्योक्तत्वात्, अर्थात्तदेकदेशता पादपर्वतानाम् || किं च ---- प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनम् || १०-१८४ || तत्रारुणोदकं नाम तडागं पद्ममण्डितम् | गन्धमादनसामीप्ये नन्दनं तु महावनम् || १०-१८५ || तस्य मध्येऽम्बुजच्छन्नं मानसं तु सरोवरम् | विपुलस्य समीपे तु वैभ्राजं तु महावनम् || १०-१८६ || सितोदं तस्य मध्ये तु तडागं विमलोदकम् | वनं पितृवनं नाम स्वपार्श्वस्य समीपतः || १०-१८७ || तस्यान्तस्तु महाभद्रं तडागं च मनोरमम् | अत्रैव ---- कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् || १०-१८८ || मन्दरेऽथ कदम्बं स्यान्मस्तके तु व्यवस्थितम् | सहस्रयोजनायामं शाखापञ्चशतोच्छिरतम् || १०-१८९ || पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितम् | कदम्बं वृक्षः | तच्च शाखाभिः सह सार्धसहस्रयोजनोच्छ्रायम् || तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि || १०-१९० || तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः | तेन जम्बूनदी जाता प्रिये वेगवती भृशम् || १०-१९१ || तेनेति रसेन || १९१ || स च ---- मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत् स्वकम् | तत्सम्पर्कात् समुत्पन्नं कनकं देवभूषणम् || १०-१९२ || तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमम् | तत्र वृक्षलतागुल्माः पक्षिणः श्वापदादयः || १०-१९३ || जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः | किं च ---- विपुलेऽपि तथाश्वत्थः केतुमाल इति श्रुतः || १०-१९४ || तथेति तत्प्रमाणकः || १९४ || केतुमालसंज्ञां व्याचष्टे ---- तस्येन्द्रेणासुरान् जित्वा रत्नमाला प्रलम्बिता | तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः || १०-१९५ || किं च ---- न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीतीतः | प्रमाणमहत्त्वाभ्याम् || तदित्थम् ---- अनेकगुणसम्पन्नो मेरुः ख्यातः समासतः || १९६ || अथ यथायं समासत उक्तः ---- तत्पार्श्वस्थान् प्रिये देशान् कथयामि समासतः | तत्रादौ ---- मेरुमध्याच्चतुदीक्षु लक्षार्धं तु समासतः || १०-१९७ || लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः | मेरुमूलमध्यात् पञ्चाशत्सहस्राणि, तत्पार्श्वद्वयकलनया लक्षं भवति || पर्वतान्तरितास्तत्र नव भागा भवन्ति हि || १०-१९८ || तत्रेति जम्बुद्वीपे | भागाः खण्डाः || तथाहि ---- दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः | निषधो हेमकूटश्च हिमवानिति ते त्रयः || १०-१९९ || ङिषिद्धो यत्र वै तार्क्ष्यः शेषाहिं हन्तुमुद्यतः |ऽऽ इति, ऽऽहेमकूटस्तथा सोऽद्रिर्यत्र दत्तः प्रजापतेः | सुवर्णस्य महाकूटो यागार्थं धनदेन तु ||ऽऽ इति ऽऽ...........................ःइमवान् हिमकूटवान् | रत्नाढ्योऽपि हिमप्रायस्तेनासौ हिमवान् गिरिः ||ऽऽ इति श्रीपरायां निरूपितम् || १९९ || किं च ---- उत्तरे चापि मेरोस्तु नीलः श्वेतोऽथ शृङ्गवान् | ऽऽशनिस्तत्र सुनीलाभो जातो नीलस्त्वतो गिरिः | नीलवच्च गिरिः श्वेतो यत्र श्वेतो महामुनिः || मृत्युना ग्रस्यमानोऽपि रक्षितश्चन्द्रमौलिना | ऽऽ इति, ऽऽश्वेतवच्च त्रिशृङ्गोऽद्रिर्वज्रपातोपमर्दनः | त्र्यश्रितस्तेषु शृङ्गेषु किल देवास्त्रयः स्थिताः ||ऽऽ इत्यपि तत्रैवोक्तम् || एषां मानमाह ---- प्राक्पश्चिमायता ह्येते षडेव तु महीधराः || १०-२०० || पूर्वाब्धेः पश्चिमाब्धिं प्राप्ताः || २०० || तत्रापि ---- नीलश्च निषधश्चैव लक्षायामौ प्रकीतीतौ | मध्यासन्नत्वात् || द्वीपवर्तुलतानुपाततस्तु ---- श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ || १०-२०१ || हिमवान् शृङ्गवांश्चैव सहस्राशीतिरेव तु | तदेते ---- लवणोदधिपर्यन्ताः......... पार्श्वमानात्तु ---- ...........षहस्रद्वयविस्तृताः || १०-२०२ || किं च ---- कैलासयुक्तो हिमवांस्त्रिशृङ्गश्च सजारुधिः | हिमवतो मध्ये कैलासः शृङ्गरूपः | यदुक्तं देवीयामले ---- ऽऽतस्य मध्ये महाशृङ्ग शतयोजनविस्तृतम् |ऽऽ इत्युपक्रम्य, ऽऽतत्रासावमरैः सार्धं शूली वसति सर्वदाऽऽ इति | शृङ्गवतस्तु जारुधिः संलग्नः || एषां प्रातिलोम्यतो वर्णं निरूपयति ---- शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते || १०-२०३ || नीलरत्नमयो नीलो निषधः पद्मरागभः | सौवर्णो हेमकूटश्च हिमाभो हिमवानिति || १०-२०४ || मेरोः पूर्वपश्चिमयोः पर्वतावाह ---- पूर्वेण माल्यवान् मेरोः पर्वतस्तु विराजते | चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि || १०-२०५ || याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः | तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः || १०-२०६ || आयामविस्ताराभ्याम् | अयं च दक्षिणस्थाद्विष्कम्भकगन्धमादनादन्यः | एतौ च श्रीपरायाम् ---- ऽऽदृष्ट्वा माल्यानि दिव्यानि ब्रह्मसेवार्थमागतैः | सम्भृतानि यतः सिद्धैर्माल्यवांस्तेन लप्यते ||ऽऽ इति तथा च ---- ऽऽमदमत्ता पुरा दृष्टा माल्या विद्याधरी किल || ऋषिणा नारदेनास्मिन्नाघ्राता मोदभाविता || गन्धो मे मादनो विप्रेत्युक्तस्तद् गन्धमादनः |ऽऽ इति निरुक्तौ || २०६ || एषां सर्वेषामुच्छ्रायमानमाह ---- नीलश्च निषधश्चैव माल्यवान् गन्धमादनः | चत्वारिंशत्सहस्राणि योजनानां समुच्छिरताः || १०-२०७ || नीलादयो मेरोः प्रतिप्राकारस्थानीयत्वेन स्थिताः एवंप्रमाणकाः | दक्षिणोत्तरगतानां तु श्वेतशृङ्गवद्धेमकूटहिमवतां दशयोजनसहस्रोच्छिरत्वम् | यदुक्तं श्रीमृगेन्द्रोत्तरे ---- शहस्रद्वयविष्कम्भा दशोत्सेधाः नवान्तराःऽऽ (१३-६५) इति | एवं दक्षिणोत्तरस्थैस्त्रिभिस्त्रिभिः पूर्वपश्चात्स्थाने च एकैकेनेत्यष्टाभिः पर्वतैवीभक्तं नवधा जम्बुद्वीपं जातम् || २०७ || किं च ---- चतुदीक्षु गतौ मेरोर्द्वौ द्वौ सीमान्तपर्वतौ | पूर्वादिदिगभिमुखौ समुद्रान्तं प्राप्तौ || तत्र ---- जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ || १०-२०८ || कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ | निषधः पारियात्रश्च अपरेण महीधरौ || १०-२०९ || जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ | पूर्वोक्तहेमकूटादिसमनामानोऽन्य एवामी हेमकूटाद्याः | एते चाष्टावलङ्घ्यत्वान्नवधा विभक्तस्य जम्बुद्वीपस्य नवभागान्तरहेतव इति || पूर्वोक्तपर्वतैर्नवविभक्तेऽत्र नामभेदेन देशविभागमाह ---- मेरोः समन्ततो रम्यमिलावृतमुदाहृतम् || १०-२१० || अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतम् | योजनानां चतुदीक्षु चतुरश्रं समन्ततः || १०-२११ || तेन मध्यवतीनः षोडशसाहस्रिकस्य मेरोः पार्श्वद्वयं नव नव सहस्राणीत्याकलयय दैर्घ्यदिशां चतुस्त्रिंशत्सहस्रमेतद्भवति | अत एव पूर्वपश्चात्स्थयोर्माल्यवद्गन्धमादनयोश्चतुस्त्रिंशत्सहस्राणि दैर्घ्यमिति युक्तमुक्तम् | अस्य च निर्वचनम् ---- ऽऽइला नामाप्सरा दिव्या रूपयौवनशालिनी | दृष्टा सामृतरूपेण विचरन्ती मनोहरा || भुजाभ्यामावृता रागात्तेनेलावृतमुच्यते | ऽऽ इति श्रीपरायामुक्तम् || २११ || अत्र च चक्रवाटावृतत्वात् ---- नातपो भानुजस्तत्र न च सोमस्य रश्मयः | प्रभवन्ति हि लोकानां........... किन्त्वेतत् ---- ..........ंएरोर्भासा प्रभासितम् || २१२ || अत एव ---- प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः | जम्बूरसफलाहारा जरामृत्युविवजीताः || २१३ || त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीतीतम् | अतश्चाकालमृत्युविवजीता इत्युक्तं भवति || किं च ---- देवगन्धर्वसिद्धाश्च ऋषयोऽथ विनायकाः || १०-२१४ || गणमातृभगिन्यश्च वेताला राक्षसादयः | एवमाद्यैरसंख्यातैर्वृतं चैतदिलावृतम् || १०-२१५ || अथ ---- गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः | केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमम् || १०-२१६ || मेरुपश्चात्स्थगन्धमादनस्य या वारुणी, सा पश्चिमाब्धेः पूर्वैव भवति | उक्तं च श्रीपरायाम् ---- ऽऽदेवासुराणामारम्भे दारुणे समुपस्थिते | अकस्मात्तत्र केतूनां या माला सहसोत्थिता || तां दृष्ट्वा विबुधा भीताः केतुमालमतो मतम् |ऽऽ इति | वर्षं जनपदः || २१६ || नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः | पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च || २१७ || दश सहस्राणि अयुतम् || किं च ---- जयन्तो वर्धमानश्च अशोको हरिपर्वतः | विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः || १०-२१८ || मेरोरग्रे तु ---- माल्यवत् पूर्वभागेन समुद्रस्यापरेण तु | वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः || १०-२१९ || जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः | उक्तं च श्रीपरायाम् ---- ऽऽउच्चैःश्रवास्तु भद्राश्वः क्षीरोदमथनोद्गतः | तस्मिंश्चरति येनाश्वो भद्राश्वं तेन तत्स्मृतम् ||ऽऽ इति || किं च ---- कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा || १०-२२० || पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः | एते च केतुमालभद्राश्वे ---- द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते || १०-२२१ || चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते | एवं च केतुमालभद्राश्वे प्राक् पश्चाद् द्वात्रिंशद् द्वात्रिंशत् सहस्राणि, गन्धमादनो माल्यवांश्चैकमेकं सहस्रम्, इलावृतमुभयपार्श्वगतमष्टादश, षोडश मेरुरित्येवं लक्षयोजनं जम्बुद्वीपं पूर्वापरतः | जठरादिसीमान्तपर्वतमानं जयन्तादिकुलपर्वतमानं च तत्रैवैकदेशी भूतत्वान्न पृथग्गणनीयम् || एवं पूर्वपश्चिमयोर्वर्षस्थितिमुक्त्वोत्तरेऽपि तामाह ---- वर्षे द्वे तु समाख्याते............ समाख्याते इत्युपसंहारोपक्रमयोः काकाक्षिवद्योजनीयम् | पूर्वपश्चाद्गते केतुमालभद्राश्वे समाख्याते || मेरोरुत्तरे तु ये वक्ष्यमाणविभागे कुरुहिरण्मये वर्षे, तयोर्मध्यात् --- - ..............कुरुवर्षनिवासिनः || २२२ || कुरवो नाम लोकास्ते.......... यस्मात् ---- .............कुरुवृक्षफलाशिनः | अतश्च ---- त्रयोदशसहस्राणि जीवन्ति स्थिरयौवनाः || १०-२२३ || युग्मं युग्मं प्रसूयन्ते वियोगभयवजीताः | तुल्यकालं जायन्ते, तथैव मिरयन्ते इत्यर्थात् | अतश्च पतिमनुयातानां स्त्रीणामनुजन्म सम्भाव्यते || किं चात्र ---- श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः || १०-२२४ || स्त्रियश्चेत्यर्थः || २२४ || तथा ---- सर्वरत्नमयी भूमिहीमवालुकया चिता | एतच्च कुरुवर्षं पार्श्वमानात् ---- नवयोजनसाहस्रं धन्वाकारं प्रकीतीतम् || २२५ || धन्वाकारमित्यत्र सकारलोपश्छान्दसः | दैर्घ्यादेतच्छृङ्गवत्प्रमाणम् | अनुपातेन वलयाकृत्यवस्थितोत्तराब्धिसमीपगतत्वाद् धनुराकारतैवास्य भवति || सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ | कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः || १०-२२६ || तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनम् | श्रीमत्परायाम् ---- ऽऽरम्यवत् कुरुवर्षाख्यमुपमन्युर्हरेण सः | कुर्वेवं तु पिब क्षीरं यत्रोक्तस्तेन तत्कुरु ||ऽऽ इति निरुक्तम् || २२६ || अथ ---- तस्य चोत्तरदिग्भागे प्रविश्य लवणोदधिम् || १०-२२७ || पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीतीतम् | तथा वायव्यदिग्भागे प्रविश्य लवणोदधिम् || १०-२२८ || योजनानां सहस्राणि चत्वार्येव वरानने | दशयोजनसाहस्रं द्वीपं भद्रं प्रकीतीतम् || १०-२२९ || भद्राकारमिति ज्ञेयं सर्वकामफलप्रदम् | चत्वार्येवेत्येवकारात् पूर्वत्राप्यब्धिप्रवेश एतत्सम्बध्यत एव || २२९ || किं च ---- अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः || १०-२३० || इत्थमेव ---- चन्द्राख्येऽप्ययुतं चायुर्जीवन्ति फलभोजिनः | एवं शृङ्गवदुत्तराभ्यन्तराले कुरुवर्षमुक्त्वा हिरण्मयं वर्षमाह ---- श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयम् || १०-२३१ || हेममयत्वादिहैवमुक्तम् | परायां तु ---- ऽऽयत्र गन्धर्वमुख्येन रमणा रमिता बलात् | रमणं तत्परं वर्षम्.......................... ||ऽऽ इति संज्ञान्तरेणोक्तम् | गन्धर्वमुख्येन चित्ररथेन, रमणाख्या अप्सराः || २३१ || लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः | जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश || १०-२३२ || अथ ---- नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे | रम्यकं नाम वर्षं तु............ एतदपि परायाम् ---- ऽऽउर्वशी याप्सरा भद्रा दृष्ट्वा चन्द्रमसा किल | प्रोक्ता रम्येति तद्वाक्यात्तेनेदं रम्यनामकम् ||ऽऽ इति निरुक्तम् || तत्र च ---- ............ण्यग्रोधफलभोजनाः || १०-२३३ || नीलोत्पलदलश्यामा जरारोगविवजीताः | अतश्च ---- द्वादशाब्दसहस्राणि तेषामायुः प्रकीतीतम् || १०-२३४ || एतच्च दैर्घ्यमानात् पूर्वमुक्तमपि, पार्श्वतः ---- नवसाहस्रविस्तारं रम्यकं च हिरण्मयम् | रम्यकं च हिरण्मयं चेत्यर्थः || मेरोरुत्तरे वर्षस्थितिमुक्त्वा दक्षिणे क्रमेणाह ---- हेमकूटस्य सौम्येन दक्षिणे निषधस्य तु || १०-२३५ || हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः | द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः || १०-२३६ || अतीव शोभनं तच्च नवसाहस्रविस्तृतम् | एतच्च ---- ऽऽयत्र नागेन शेषेण हरिराराधितस्तथाऽऽ इति श्रीपरायां निरुक्तम् || अथ ---- हेमकूटस्य याम्येन हिमवतस्त्वथ(चो)१त्तरे || १०-२३७ || वर्षं किंपुरुषं नाम तत्र हेमनिभा जनाः | नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः || १०-२३८ || नवैव तु सहस्राणि विस्तारस्तत्र कीतीतः | किंपुरुषम् | एतदपि ---- ऽऽयत्र विद्याधरी रम्या विद्याधरकरच्युता | किं त्वया पुरुषस्त्यक्त इत्युक्ता......... ||ऽऽ इति परायां निरुक्तम् || अथ ---- याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः || १०-२३९ || भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतम् | यतः ---- जना रोगभयत्रस्ता दुःखिता मन्दसम्पदः || १०-२४० || सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे | भोगिनो मन्दभोगाश्च तथान्येऽत्यन्तदुःखिताः || १०-२४१ || गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः | वर्णजातिप्रभेदेन नानाकर्मानुरूपतः || १०-२४२ || चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये | वर्णो ब्राह्मणादिः | जातिः पुलस्त्यपुलहादिगोत्ररूपा | एतदपि वर्षम् ---- ऽऽभरतेन भृतं दुःखं यत्र पुत्रैः कुमार्गगैः |ऽऽ इति श्रीपरायां निरुक्तम् | एवमेतानि नव वर्षाणि श्रीपरायां निरुक्तानि, इह त्विलावृताद्याख्यस्वाम्यधिष्ठितत्वादिति वक्ष्यति || अत्र च ---- स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च || १०-२४३ || पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा | योगिनो ज्ञानियश्चैव धमीष्ठाः पापिनोऽपरे || १०-२४४ || याचकाश्चापि जायन्ते दातारश्चापरे जनाः | प्रेष्या दासाश्च बहवो मानवाः सतर्तं प्रिये || १०-२४५ || द्वीपेष्वन्तर्द्वीपानि द्वीपान्तराणि | प्रेष्या विनियोज्या अदासा अपि भवन्ति || २४५ || तदित्थं दोषवत्यपि ---- गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनम् | द्वयमप्यत्र सम्भवति | सचेतसस्तु अशुभवर्जनेन शुभार्जनाय उद्यच्छन्ति | यदुक्तं श्रीमृगेन्द्रायाम् ---- ऽऽगुण एको यदुद्युक्तो नेष्टं किञ्चिन्न साधयेत्ऽऽ (१३-९२) इति || किं च भारतवर्जमन्यवर्षेषु ---- नाष्टासु विद्यते काचिद्युगत्रयमयी स्थितिः || १०-२४६ || कृतयुगव्यतिरेकेण त्रेतादिमयी || २४६ || तस्मात् ---- चतुर्युगवती ज्ञेया भारताख्ये वरानने | एवं च ---- तत्रैव यत्कृतं कर्म शुभं वा यदि वाऽशुभम् || १०-२४७ || वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः | अत्रैव भोगमोक्षसिद्धिसाधनस्वयम्भूपुण्यतीर्थमहानदीसम्पदस्तीत्याह ---- महाकालस्तथैकाम्रमेवमादि वरानने || १०-२४८ || तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया | गङ्गादीनां नदीनां च तत्र पञ्च शतानि च || १०-२४९ || एवमादीत्यादिशब्दात् श्रीअमरेशादिपञ्चाष्टकानां वाराणस्यादिगतश्रीमहादेवाष्टषष्टेश्च परिग्रहः | तीर्थानामिति प्रभासादीनाम् | यदुक्तं श्रीदेवीयामले ---- ऽऽप्रभासाद्या तु तीर्थानां कोटिरेका वरानने | पञ्चाष्टकं तु तत्रैव लोकानुग्राहकं सदा ||ऽऽ इति || २४९ || कुरुवर्षं च ---- नवयोजनसाहस्रं धन्वाकारं निबोध तम् | भारते च वर्षे ---- नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये || १०-२५० || हिमवद्दैर्घ्येण अवतारितैः सामुद्रैर्वारिभिः कृतव्यवधानाः | अत्र चाष्टमो वारिदेशो बिन्दुसरःसंज्ञः | यद्वक्ष्यति ---- ऽऽबिन्दुसरःप्रभृत्येव कुमार्याह्वं .... | ऽऽ (१०-२५४) इति || २५० || तदत्र योजनानाम् ---- एकैकस्य तु द्वीपस्य सहस्रं परिकीतीतम् | जलेन सह मानमेतदित्यर्थः || यदाह ---- शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा || १०-२५१ || एतत् पार्श्वमानम् | दैर्घ्यं तु हिमवद्यथानुपातमर्धं पञ्चशतिकजलव्यवहितत्वात् || २५१ || एवं च ---- परस्परमगम्यास्ते........... ते इति द्वीपविशेषाः || ..........टेषां नामानि मे शृणु | इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमत् || १०-२५२ || नागद्वीपं च सौम्यं च गान्धर्वं वारुणं तथा | द्वीपं कुमारिकाख्यं च नवमं परिकीतीतम् || १०-२५३ || द्वीपाष्टकस्य सागराः सप्त व्यवधायका उक्ताः | नवमस्य त्ववधिनिरूपणेन व्यवधायकमाह ---- बिन्दुसरःप्रभृत्येव कुमार्याह्वं प्रकीतीतम् | पूर्वेभ्योऽस्यायं विशेषः यदयम् ---- योजनानां सहस्रं तु........... नेतरवत् पञ्चशतिकम् | केवलं साहस्रिकस्यास्य विभागो वारुणान्तस्थेन बिन्दुसरसा कृतः || एतच्च ---- ..........णानावर्णाश्रमान्वितम् || १०-२५४ || वर्णा ब्राह्मणाद्याः || २५४ || किं च ---- ये पूर्वोक्ता गुणा लोके भारते वरवणीनि | ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये || १०-२५५ || गुणाः शुभार्जनस्वयम्भूतीर्थपुण्यनद्यधिष्ठानादिरूपाः कुमारीद्वीप एव | यदुक्तं श्रीश्रीकण्ठ्याम् ---- ऽऽतत्र मध्ये महद्द्वीपं कुमारीद्वीपसंज्ञकम् | तत्र रुद्रशतं पूर्णमवतीर्णं शुभङ्करम् | पशूनां हेतुभूतं च स्मरणात् पापनाशनम् ||ऽऽ इति | इन्द्रद्वीपादिस्तु म्लेच्छादिप्रायाणां निवासो देवतातीर्थाद्यनधिष्ठितश्च | तदुक्तमन्यत्र ---- ऽऽवर्णाश्रमसमाचारः कुमार्याख्ये न संशयः | इतरे म्लेच्छसंज्ञेयाः शिष्टाचारबहिष्कृताः ||ऽऽ इति || २५५ || अन्यच्च ---- भूधराः सप्त विज्ञेयास्तत्रैव तु सुशोभनाः | महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः || १०-२५६ || विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः | सुशोभना सिद्धिसाधनानुगुणाः | केतुमालस्थात् पारियात्रादयमन्यः | एवमन्यत्र || अथ ---- दक्षसागरमध्यस्थान्युपद्वीपानि षट् प्रिये || १०-२५७ || तान्याह ---- अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकम् | कुमुदं च वराहं च इत्येवं परिकीतीतम् || १०-२५८ || एषां मध्यात् ---- कथितो मलयद्वीपे मलयो नाम पर्वतः | तस्य पादे त्रिकूटो वै लङ्का तस्योपरि स्थिता || १०-२५९ || पादे पर्यन्ते || २५९ || सा च ---- चामीकरमयी शुभ्रा चत्वरोद्यानमण्डिता | चत्वरैः शिवाधिष्ठितैश्चतुष्पथैर्मुक्तिदैः, उद्यानैश्च भोगस्थानैर्भूषिताः || तथा ---- चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता || १०-२६० || अनन्तविभवास्तत्र राक्षसा देवकन्यकाः | रमन्ते कन्यकासक्ता महाबलपराक्रमाः || १०-२६१ || पराक्रम उत्साहः || २६१ || अन्यच्च ---- अगस्त्यशिखरं तत्र मलये भूधरोत्तमे | तत्राश्रमो महापुण्य आगस्त्यः स्फटिकप्रभः || १०-२६२ || तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः | न तत्र जायते मारी नाकालः सम्प्रवर्तते || १०-२६३ || न जरा न च शोकश्च नोपसर्गभयं क्वचित् | मारी बहुमरणम् | अकालो वर्षातपवैपरीत्यम् | उपसर्गा व्याधयः || किं च ---- न वदत्यनृतं कश्चिद्रागद्वेषो न कुत्रचित् || १०-२६४ || अगस्त्यस्य प्रभावेण त्वज्ञानं दूरतो गतम् | तत्र वै ऋषयो वीरा ज्ञानयोगकृतश्रमाः || १०-२६५ || जपाध्ययनहोमादिपूजास्तुतिपरायणाः | त्र्यम्बकस्य महादेवि नित्यमाराधने रताः || १०-२६६ || अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः | तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः || १०-२६७ || मोक्षमेवाभ्युदयं वदन्ति तच्छीलाः | भावितः शिवत्वं प्रापित आत्मा यैः || २६७ || उपसंहरति ---- लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः | पूर्वपश्चिमतः प्राग्दशीतं दक्षिणोत्तरतस्तूच्यते | कुरुहिरण्मयरम्यकहरिकिंपुरुषभारतवर्षाणि षट् प्रत्येकं नवसहस्राणि, इति चतुष्पञ्चाशत् | प्रत्येकं द्विसाहस्रिकाः शृङ्गवच्छ्वेतनीलहेमकूटनिषधहिमवन्तः, इति द्वादश | मेरोः सव्यापसव्यगतमिलावृतमष्टादश | मेरोः षोडश सहस्राणि, इत्येवं लक्षयोजनं जम्बुद्वीपं भवति || अस्य च ---- लक्ष्योजनविस्तीर्णं लवणाम्भः स्थितं बहिः || १०-२६८ || लवणाम्भः क्षारसमुद्रः || २६८ || तच्च ---- त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति | उक्तं च श्रीमलये ---- शर्वत्र त्रिगुणो नाहः.......................... |ऽऽ इति || किं च ---- वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः || १०-२६९ || द्वादशैव महावीर्यास्तान् ब्रवीमि समासतः | वृत्रारिरिन्द्रः || तानाह ---- वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः || १०-२७० || चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु | अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः || १०-२७१ || अपरेण नगास्तत्र प्रविष्टा लवणोदधिम् | चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः || १०-२७२ || दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः | अत्र च ---- चक्रमैनाकयोर्मध्ये तिष्ठेद्वै वडवामुखः || १०-२७३ || तदेवमब्धिपरिवृतम् ---- जम्बुद्वीपं समाख्यातं.......... अथैषां वर्षाणामिलावृतादिनामकस्वाम्यधिष्ठानादेव ताः संज्ञा इति देवतासंज्ञानामुत्पत्तिहेतुरूपं प्रभवं दर्शयितुमुपक्रमते ---- ..............प्रभवस्त्वधुनोच्यते | तत्राद्यो भूपतिः ---- स्वायम्भुवो मनुर्नाम............ अभूत् || ..............टस्य पुत्रः प्रियव्रतः || १०-२७४ || तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः | अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः || १०-२७५ || ज्योतिष्मान् द्युतिमान् हव्यः सवनः सत्र एव च | एषां मध्यात् ---- मेधाः सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः || १०-२७६ || सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः | तत्र ---- जम्बुद्वीपे तथाग्नीध्रः............ तथेत्यभिषिक्तः || ...........टस्य पुत्रा नव स्मृताः || १०-२७७ || नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः | भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः || १०-२७८ || नवमस्तु कुरुर्नाम............. एते ---- ...........णववर्षाधिपाः स्मृताः | अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः || १०-२७९ || तेषां नामाङ्कितानीह नववर्षाणि पार्वति | तत्र भारतं वर्षं प्रथमं नाभिनामाङ्कितमभूत् || पश्चात् तु ---- नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः || १०-२८० || तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् | तन्नाम्नैव तु विज्ञेयं भारतं वर्षमुत्तमम् || १०-२८१ || अथ ---- तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये | तेषां मध्यात् ---- भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः || १०-२८२ || नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः | कन्याप्रतिपादनादेव कुमार्याह्वः || ततश्च ---- तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीतीताः || १०-२८३ || ये पूर्वम् ---- ऽऽइन्द्रश्चैव कशेरुश्चऽऽ (१०-२५२) इत्युक्ताः || २८३ || तदेवं सप्तदशधाविभक्तजम्बुद्वीपानुवादपूर्वं द्वीपान्तराण्याह ---- जम्बुद्वीपं च शाकं च कुशं क्रौंचं च शाल्मलिम् | गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति || १०-२८४ || यैः समुद्रैर्वलयितानि द्वीपानि, तान् ---- अधुना सम्प्रवक्ष्यामि समुद्रांस्तव सुव्रते | क्षारः क्षीरं दधि घृतं तथा इक्षुरसोऽपि च || १०-२८५ || मदिरोदश्च स्वादूदः समुद्राः सप्त कीतीताः | प्रोक्तद्वीपानुसारमेते यथोक्तक्रमेणैव स्थिताः, सर्वेषु पारमेशेष्वेवमेवोक्तत्वात् | तेनेक्षुरससुराघृतदधिक्षीरस्वादूदका इति पातञ्जले यः क्रमो दृश्यते, स लेखकदोषाद्विपर्यस्त इति मन्तव्यम् || अथोक्तजम्बुद्वीपप्रमाणानुवादेनैषां द्वीपसमुद्राणां प्रमाणमाह ---- जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः || १०-२८६ || परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः | परिमण्डलत इति वैपुल्यात् || एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः || १०-२८७ || संस्थिता इति संशब्दः सहार्थे | तेन शाकादिभिः द्वीपैः सह क्षीरादिसमुद्राः क्रमाद् द्विगुणवृद्ध्या स्थिताः | तद्यथा शाकद्वीपं द्वे लक्षे, तथा क्षीराब्धिः | कुशद्वीपं लक्षाणि चत्वारि, तथैव दध्यब्धिः क्रौञ्चमष्टौ, तथैव च घृताब्धिः | शाल्मलिः षोडश, तद्वदिक्षुरसाब्धिः | गोमेदो द्वात्रिंशत्, तद्वद् मदिराब्धिः | पुष्करश्चतुष्शष्टिः, तथैव स्वादूदः | एतच्च द्वीपसमानत्वमब्धीनामुपसंहरिष्यति ---- ऽऽपुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितःऽऽ (१०-३२७) इति | इत्थं च मेर्वर्धात् स्वादूदान्तं कोटिद्वयं त्रिपञ्चाशल्लक्षाणि पञ्चाशच्च सहस्राणि भवन्ति | यद्वक्ष्यति ---- ऽऽपञ्चाशच्च सहस्राणि त्रिपञ्चाशत्तथैव च | योजनानां तु लक्षाणि कोटिद्वितयमेव च || मेर्वर्धाद्यावत् स्वादूदं प्रमाणं परिकीतीतम् | ऽऽ (१०-३२८-३२९) इति || २८७ || तथा च ---- अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने | तथा ---- शाके मेधातिथिर्नाम वपुष्मान् कुशसंज्ञके || १०-२८८ || राजा क्रौञ्चेऽथ ज्योतिष्मान् शाल्मलौ द्युतिमान् स्मृतः | गोमेदे हव्यनामा तु सवनः पुष्करे तथा || १०-२८९ || किं च ---- त्रेतायुगसमः कालः शाकगोमेदवासिनाम् | तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनाम् || १०-२९० || तथेति त्रेतायुगानुगुणाः | अन्यत्र विशेषानभिधानाच्चतुर्युगसमत्वं सम्भाव्यते || २९० || शाकादिद्वीपविभागान्तरमाह ---- मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः | शान्तोऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः || १०-२९१ || क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः | प्रसिद्धवर्षनामानुसारीणि तेषां नामानीत्यर्थः || वर्षाणि सप्त ख्यातानि........... तत्प्रविभागहेतून् ---- ...............पर्वतांश्च निबोध मे || १०-२९२ || गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा | सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः || १०-२९३ || एते च शाकद्वीपस्य पार्श्वमानविभागेन स्थिताः सप्तधात्वं कुर्वन्ति | एवमन्यत्र || २९३ || किं च ---- सुकृता चानसूया च सुमुखी च तृतीयका | विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका || १०-२९४ || एता एव महानद्यो गिरिष्वेतेषु निर्गताः | संस्थिताः सत्य एभ्यो निर्गता इत्यर्थः || एताश्च ---- पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरम् || १०-२९५ || अत्र च ---- शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः | अतश्च ---- चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः || १०-२९६ || क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः | तदेवम् ---- कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः || १०-२९७ || श्वेतलोहितजीमूता हरितो वैद्युतस्तथा | मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः || १०-२९८ || अत्र च विभागहेतवः ---- कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ | महिषः कुसुमश्चैव सप्त सीमान्तपर्वताः || २९९ || अत्र च ---- श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी | वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः || १०-३०० || दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः | जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः || १०-३०१ || दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः | दध्ना सहामृतमयानि फलानि चाश्नन्ति | एवमुत्तरत्र || ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः || १०-३०२ || उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च | रथकारश्च लवणो धृतिमान् सुप्रभाकरः || १०-३०३ || कपिलश्चेति राजानो वर्षनाम्ना च तेऽङ्किताः | अत्रापि विभागहेतवः ---- वैद्रुमो हेमनाभश्च द्युतिमान् पुष्पदन्तकः || १०-३०४ || कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः | तेभ्यः ---- मही धाता शिवापापा पवित्रासन्ततद्युतिः || १०-३०५ || दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः | घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये || १०-३०६ || जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः | घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः || १०-३०७ || क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः | स्मरपीडितत्वं सम्भोगैकनिष्ठत्वम् || तथा ---- सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः || १०-३०८ || मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः | मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः || १०-३०९ || वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमात् | क्रौञ्चेऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः || १०-३१० || द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः | पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती || १०-३११ || सन्ध्या रात्री च विख्याता समासात् परिकीतीताः | नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवम् || १०-३१२ || पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः | दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः || १०-३१३ || नानानारीसमाकीर्णाः सर्वकामसुखोदयाः | एवम् ---- हव्यराजः सुतान् सप्त गोमोदे चाभ्यषेचयत् || १०-३१४ || जलदश्च कुमारश्च सुकुमारो मरीचकः | कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः || १०-३१५ || तेषां नाम्ना च वर्षाणि अङ्कितानि स्वनामतः | उदयः केसरश्चैव जठरोऽथ सुरैवतः || १०-३१६ || श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमान्तगास्त्विमे | गभस्ती सुकुमारी च कुमारी नलिनी तथा || १०-३१७ || वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः | मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः || १०-३१८ || अमृतोपमानि स्वादूनि फलान्यत्र वरानने | भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतम् || १०-३१९ || मदिरोदमिति ऽऽकालभावगन्तव्याध्वानः कर्मसंज्ञाःऽऽ || ३१९ || ते च ---- सर्वकामसमृद्धाश्च सुरूपा व्याधिवजीताः | नानायुवतिवृन्दैश्च रूपयौवनगवीतैः || १०-३२० || मदालसैः पानमत्तै रमन्ते सततं प्रिये | अतश्च पुष्कराख्ये च सवनस्तत्र नायकः || १०-३२१ || द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ | वक्ष्यमाणसंज्ञौ || तत्र च ---- पर्वतो वलयाकारो मानसोत्तरसंज्ञितः || १०-३२२ || पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविशतिः | योजनानां वरारोहे............ स च ---- ..............षर्वरत्नसमन्वितः || ३२३ || तेन द्विधाकृते देशे सति ---- धातकी मध्यमे राजा महवीतो बहिर्नृपः | मध्यम इति भूगोलापेक्षया || अत्र च ---- ईर्ष्यया रागतृष्णाभिरीतिभिश्च विवजीताः || १०-३२४ || ईतय आधिदैविकदुःखहेतवः || ३२४ || अत एव ---- सर्वे ते सुखिनस्तत्र तस्मिन् वर्षद्वये जनाः | स च पर्वतः ---- चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने || १०-३२५ || अथ ---- चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते | अत्रेति पर्वते || तत्र पूर्वादिक्रमेण ---- हरेर्वस्वेकसाराख्या याम्या संयमनी पुरी || १०-३२६ || सुखाह्वा वारुणी चैव सोमस्य तु विभावरी | पूर्वोद्दिष्टस्वरूपमानमेव स्वादूदस्येति स्मारयति || पुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितः || १०-३२७ || गुणित इति क्रमद्विगुणवृद्ध्या चतुःषष्टिलक्षसंख्यो तथा विभक्तं प्राक् || तदित्थं मेरुमध्यात् स्वादूदान्तमुक्तं प्रमाणं सङ्कलयति ---- पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च | योजनानां तु लक्षाणि कोटिद्वितयमेव च || १०-३२८ || मेर्वर्धाद्यावत् स्वादूदं प्रमाणं परिकीतीतम् | एतत्प्रागेव व्याख्यातम् || ततो हेममयी भूमिर्दश कोट्यो वरानने || १०-३२९ || देवानां क्रीडनार्थाय लोकालोकस्त्वतः परम् | पर्वतो वलयाकारो योजनायुतविस्तृतः || १०-३३० || लक्षमात्रसमुत्सेधो योजनानां वरानने | अयुतं दशसहस्राणि || स च ---- सर्वरत्नसमोपेतो हेमवर्णः प्रकीतीतः || १०-३३१ || किं च ---- तस्यान्तर्भासयेद् भानुर्न बहिः सुरसुन्दरि | लोकोऽन्तःस्थितानां चतुर्दशभूतात्मनां लोकानामालोको यत्र | यद्वा लोकः प्रकाशोऽलोकश्च तमोऽन्तर्बहिश्च यस्य स लोकालोकः, आदित्यस्य लोकालोकसमानोच्छ्रायत्वाद् मेरोस्तदन्तरालवतीत्वाच्च न तद्बहिर्भासकत्वभ् || अन्यच्च ---- लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः || १०-३३२ || च एवार्थे | रुद्रा एव भगवन्तोऽन्तर्वतीसमग्रलोकपालास्तत्र स्थिताः, न तु तावदध्वपालने इन्द्रादीनां सामर्थ्यमस्ति, अतो रुद्राणामेवात्र नियोगः | इन्द्रादयस्तु भगवच्छक्तिमयामोघशक्त्या एतद्रुद्रांशाधिष्ठानादेव लोकपाला उच्यन्ते, अत एव भगवदावरणत्वेन पूज्यत्वमेषाम् || एतान्नामत उद्दिशति ---- विरुजो वसुधामा च शङ्खपात् कर्दमस्तथा | हिरण्यरोमा पर्जन्यः केतुमान् भाजनस्तथा || १०-३३३ || एते ---- जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने | पूर्वादारभ्य क्रमशो यावदीशानगोचराः || १०-३३४ || लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः | सिद्धानां योगिनाममराणां च निवेशनेऽर्धस्थितिधाम्नि | इमा इति, अन्तर्द्वीपवतीचतुर्दशविधभूतसर्गात्मनः || तदाह ---- अस्य मध्ये वरारोहे योनयस्तु चतुर्दश || १०-३३५ || चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः | यदुक्तम् ---- ऽऽतस्यान्तर्भासयेद् भानुःऽऽ (१०-३३२) इति, तस्य लोकालोकसंनिकर्षविप्रकर्षोन्मिषितगतिवैचित्र्येण दक्षिणोत्तरायणस्थितिमादिशति ---- लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनम् || १०-३३६ || तथोत्तरायणं तत्र उत्तरेण प्रकीतीतम् | इह मेरुलोकालोकयोरन्तर्वतीगगनपथमध्ये सञ्चरन् भूपीठिकाप्रतिष्ठितलिङ्गमूतीमेरुमनवरतं परमेश्वरनियतिनियन्त्रितषष्टिघटिकात्मना बाह्यकालेन प्रदक्षिण्यन् ध्रुवनाभिनिबद्धभचक्रसञ्चारिग्रहमध्यगो ग्रहग्रामणीस्तत्तद्राशिसञ्चारानुसारितत्तद्दत्तसहभावाद् आश्रिततीव्रमन्दामन्दादिदीप्तिभेदोऽन्यरूपो भूतसर्गवर्तनीं विचित्रां वर्तयति | अतश्च स विभुः | लोकालोकोपरिष्टादिति तन्नैकट्येन भ्रमणात् | तत्रेति, लोकालोकमेर्वन्तरालवतीनि विषये स्थित्वा क्रमात्क्रमं मेरुनिकटाद् बहिनीःसरणेन भ्रमणात् कर्कटादिराशिषट्कसञ्चाररूपं दक्षिणायनम्, लोकालोकसंनिकर्षान्मेरुनैकट्येनान्तरन्तः प्रवेशात्मनोत्तरेण भ्रमणान्मकरादिसञ्चाररूपं तूत्तरायणं भवति | वक्ष्यति हि --- - शर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणेऽऽ१ इति | एवं सङ्गतागमिकप्रक्रिययैव एतद् व्याख्येयम्, न तु परस्परविसम्वादिज्योतिशास्त्रमतानुसरणसङ्गत्या || एवं दक्षिणोत्तरायणस्थितिमुक्त्वोदयास्तमयभेदमाह ---- अर्धरात्रोऽमरावत्यामस्तमेति यमस्य च || १०-३३७ || मध्याह्नश्चैव वारुण्यां सौम्ये सूर्योदयः स्मृतः | यदैव चामरावत्यामुदयस्तस्य दृश्यते || १०-३३८ || तदास्तमेति वारुण्यामित्यादित्यगतागतम् | निदीष्टनीत्या मेरुं प्रदक्षिणयतः सूर्यस्य यदा सौम्य इति मेरोरुत्तरे भागे उदयो वारुण्या आगच्छतो दर्शनं तदा मेरुतत्पार्श्वस्थप्रोक्तपर्वतच्छायावशाद् यमस्य दिशि सूर्योऽस्तमेति, न दृश्यते तत्प्रकाश इत्यर्थः | तदैव च वारुण्यां दिशि मध्याह्नः, तत्पूर्वगस्यार्कस्योदयदेशाद् दक्षिणदिशः पञ्चदशघटिकावधेर्गतेः सम्पन्नत्वात् तदैव त्वमरावत्यामर्धरात्रः, घटिकापञ्चदशकेनात्र सूर्योदयस्य भविष्यत्त्वात् | इत्थं च यदैवामरावत्यामस्योदयः, तदैव वारुणीवतीनां सौरस्य त्रिंशद्घटिकावाहस्य जातत्वाद् वारुण्यां सूर्योऽस्तमेति दिनान्तो जायते, इत्यनेन प्रकारेणादित्यगतागतं विदिक्ष्वपि मन्तव्यम्, प्रतिपादितक्रमस्य उपलक्षणभूतत्वात् || अत्र च ---- सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे || १०-३३९ || एतद् व्याचष्टे ---- पितृदेवपथो ह्येष कथितस्तु मया तव | शोभना वीथी मार्गो देवपथः | न जाता उत्पत्तिस्थाने सम्प्रति न किमपि प्राप्ता इत्यजाः पितरः, तेषां वीथी पन्था इति यथासम्भवं योज्यम् | उत्तरायणस्य दिव्यसिद्धिहेतुत्वाद् देवमार्गता, दक्षिणायनस्य त्वैहिकसिद्धिपूरकत्वात् पितृमार्गतेत्यर्थः | एतच्च कालाधिकारोक्तनीत्याऽन्तरिव बहिरपि ज्ञेयम् | यदुक्तं गीतासु ---- ऽऽशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | अनयोर्यात्यनावृत्तिमेकयावर्ततेऽन्यया ||ऽऽ (८ -२६) इति | अन्तरपि हृत्पद्मकणीकैव मेरुः, तदुपरिचिज्ज्योतिर्मात्ररूपस्यात्मनो ध्रुवस्यानुलग्नः प्राणादित्यः कालाकारोक्तसकलभचक्रग्रहाद्यनुयातः कणीकोपकण्ठगतप्रधाननाडीमुखस्पर्शेन प्रदक्षिणमनारतमावर्तमानस्तिष्ठन् तत्तन्मकरादिसंक्रान्तिक्रमेणोत्तरदक्षिणादिविभागं दर्शयतीत्युक्तप्रायम् | यतश्च मेरुं (मेरुलोकालोकान्तरालस्थव्योमपथमध्येन) प्रदक्षिणयत्यनिशं दिनेशः, तत एव तदुदयस्थानात्मकपूर्वदिगभिमुखानाम् इलावृतवर्जप्रतिपादितवर्षाष्टकद्वीपान्तरादिस्थानां जनानां१ सर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे | मेरुं प्रदक्षिणयन् हि भास्करतत्पश्चात्केतुमालादिवासिनां मेरोर्दक्षिणत उदेति, तदुत्तरस्थकुरुवर्षादिवासिनां पश्चिमतः, तत्पूर्वभद्राश्वादिवासिनामुत्तरतः, तद्दक्षिणहरिवर्षादिनिष्ठानां पूर्वत इति स्थित्या सर्वेषां द्वीपान्तरगतानामपि मेरुलोकालोकौ उदग्दक्षिणस्थौ भवत इलावृतवर्जम्, तत्रापि वा छायामात्रेण सूर्यप्रकाशानुसारिणी काचिदवस्थितिरस्तीति कल्पनीयम् || एवं प्रसङ्गाद् दक्षिणोत्तरायणे उदयास्तमयस्थितिं च प्रतिपाद्य प्रकृतमाह ---- अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववजीतम् || १०-३४० || पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः | चत्वारिंशत्सहस्राणि योजनानां वरानने || १०-३४१ || लोकालोकविष्कम्भो दश सहस्राण्युक्तः, तैः सह पञ्चाशत् मेर्वर्वाग् जम्बुद्वीपः | पञ्चाशदित्यनेन लक्षेण प्राक्सङ्कलनासङ्कलितेन कोटिद्वयेन हेमभूकोटिदशकेन च सह सप्तचत्वारिंशत्कोटयो भवन्ति || ३४१ || अथ ---- सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः | गर्भेऽन्तः सप्तसागरसम्बन्ध्युदकोपलक्षितलोकालोकतमपर्यन्तं विश्वं यस्य स गर्भोदः | तत्सम इति क्षाराब्धिरसतुल्यः | यदुक्तं परातन्त्रे ---- ऽऽगदिता येऽब्धयः सप्त तेऽत्र गर्भे यतः स्थिताः | प्रथितस्तेन गर्भोदः समस्ताब्धिरसोद्वहः ||ऽऽ इति | स च सप्तानां क्षारादिसागराणामेकलक्षात् प्रभृति द्विगुणवृद्ध्या यन्मानं कोटिरेका सप्तविंशतिर्लक्षाणि तत्तुल्यमानः | एवमियदवधि प्राक्तनेन मानेन सहैकोनपञ्चाशत्कोटयो भवन्ति | ब्रह्माण्डकर्परिका च कोटिरिति पञ्चाशत्कोटयो मेरुमध्यात् कर्परिकान्तम् || तदाह ---- ब्रह्मणोण्डकटाहेन युक्ता वै मेरुमध्यतः || १०-३४२ || पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः | उभयपार्श्वकलनया तु ---- एवमेतच्छतं ज्ञेयं कोटीनां पाथीवं महत् || १०-३४३ || पाथीवमिति पृथ्वीगतं वैपुल्यम् || ३४३ || एवं पृथिव्या अधो मध्ये मानमुक्तम्, अधुना तु ---- अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवणीनि | ऊर्ध्वमिति भुवर्लोकाधिगतम् || आस्तां वैतत्, भूर्लोकगतभुवनशुद्धौ पूर्वोक्तसंस्कारक्रमं मा विस्मार्षीदुपदेश्य इत्याशयेन तमेव तावत् स्मारयितुमाह ---- अथवात्र महादेवि परिपाट्या समन्ततः || १०-३४४ || दीक्षाकाले तु संस्काराः.......... ये कर्तव्याः ...........क्रमं तेषां निबोध मे | कलादीक्षायां कलोपस्थापनपूर्वं ये संस्कारा उक्ताः, त एवेह भुवनोपस्थापनपूर्वं यद्यपि क्रियन्ते, तथापि शिष्यहितत्वात् परमेश्वरस्तान् स्मारयति वक्तव्यशेषं च योजयति || शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेत् || १०-३४५ || संस्कृताग्नौ आदाबध्वसन्धितदवलोकनतदुपस्थापनतत्सांनिध्यानन्तरं शक्तिमाधाररूपां ततोऽपि भुवनाश्रयं तत्त्वं ततोऽपि भुवनेशसहितं भुवनं निवेशयेत् शोध्यत्वेनाभिसन्दधीत | ततोऽपि हृदा वागीशी सर्वयोनिव्यापिकां न्यसेत् || ३४५ || ततः ---- तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमम् | तेषामित्याधारशक्तितत्त्वभुवनादीनाम् || अत्र च शोधनीयानि भुवनेशसहितानि भुवनानि क्रमेण दर्शयति ---- अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् || १०-३४६ || पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः | नरकानिति प्रोक्तप्रघट्टकमध्यादेकतमेन भेदेन शोधने चात्र कलादीक्षोक्तप्रक्रिया भुवनेशश्रावणान्ता सर्वानुसर्तव्या || इयदन्तं संशोध्य ---- उपस्थानं ततः कुर्याद् भुवर्लोकस्य वरानने || १०-३४७ || ऽऽधामादिः प्रणवादिश्चऽऽ (४-१०१) इत्यादिना मन्त्रेण पूर्वोक्तेन केवलं कलास्थाने भुवनानामप्रक्षेप्यता | उपस्थानं च कलशाद्यग्न्यन्ताधिकरणषट्के न्यसनम् || ३४७ || एवं कृत्वा ---- ततो वागीश्वरी देवी सम्पूज्या कुसुमादिभिः | ततः पशुस्तु सम्प्रोक्ष्यस्ताड्यो विश्लेष्य एव च || १०-३४८ || अथास्य ---- छेदनं च तथाकर्षो ग्रहणं योजनं ततः | गर्भधारित्वजनने अधिकारं तथैव च || १०-३४९ || योगं भोगं लयं चैव ततो योनिविशोधनम् | कुर्यात् | सर्वमेतत् प्रागेव व्याख्यातम् || यदुक्तं योनिविशोधनमिति, तत्र या योनीः ---- चतुर्दश समासेन कथयाम्यनुपूर्वशः || १०-३५० || पैशाचं राक्षसं याक्षं गान्धर्वं त्वेन्द्रमेव च | सौम्यं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः || १०-३५१ || एतच्चोक्तमेव || ३५१ || संहारक्रमयोगेन शोधनीयाः शिवाध्वरे | संहारक्रमयोगेन इत्यनेन चेदमाह--यत् स्थावरादि पश्वन्तं तामसं पञ्चकं संशोध्य मानुष्यं शोधयेत् | ततः पैशाचादि ब्रह्मान्तं देवयोन्यष्टकमित्येष एव च क्रमोऽग्रे स्फुटीभविष्यति || एवं योन्यष्टकमुद्घाट्य योनिषट्कमप्याह ---- पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः || १०-३५२ || स्थावरं पञ्चम चैव षष्टं मानुषयोनिकम् | तदेतत् ---- देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलम् || १०-३५३ || चतुर्दशविधं चैव........... एतच्च ---- ............भूर्लोके तु विशोधयेत् | भूर्लोके कर्मानुसारेण एतदर्ज्यते, इत्यत्र विभागेनैतत्सर्वं शोधनीयम्, अन्यत्र तु सामान्येनापीत्याशयः || कस्माच्चैतत् संसारमण्डलम् ? ---- इत्याह ---- आत्मा संसरति ह्यत्र मायाद्यवनिगोचरे || १०-३५४ || संसारः प्रोच्यते तस्मात् पर्यटेत् स यतस्ततः | संसारश्च ---- सुखं दुःखं तथा मोहं भुंक्ते चैवाध्वमध्यगः || १०-३५५ || बन्धत्रयसमायुक्तो वामाशक्त्या त्वधिष्ठितः | ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि || १०-३५६ || साक्षान्मन्त्रमहेशादिमुखेन वा ईश्वरेण संसारवमनारूपया स्वया वामाशक्त्याधिष्ठितः परतन्त्रीकृतः, तत एव चाणवादिबन्धत्रयेण समायुक्तः सम्यगाक्रान्तोऽभिभूतः सुखादित्रयं भुञ्जानः || ३५६ || पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः | अतश्च ---- अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः || १०-३५७ || प्रधानगुणभेदेन यावच्चानाश्रितं पदम् | तदुक्तम् ---- शमनान्तं वरारोहे पाशजालमनन्तकम्ऽऽ (४-४१०) इति || यतश्चैवम् ---- तस्मादेवं विजानीयात्............ किं च ---- .........ऽध्वा बन्धस्य कारणम् || १०-३५८ || तदियति संसारमण्डले कर्मैव कारणमित्याह ---- चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम् | तस्य भेदा ह्यनन्ताश्च............ ये ते ---- ...............भिद्यन्ते कर्मभेदतः || १०-३५९ || तदित्थं संसारमण्डलहेतुभूताः ---- कर्मवल्ल्यो ह्यनन्ताश्च कर्मेशानादिकारकाः | अनादिमायाशक्तिमुषितमहिमा हि अणुः स्वोपभोगाय चेष्टमानोऽनन्ताभिः कर्मसन्ततिभिर्बद्धः || न चैतदस्यान्यतः क्वचिदायातम्, अपि त्वपूर्णंमन्यतयैवेत्याह ---- आत्मना बद्ध्यते ह्यात्मा........... बद्धं च तमसामर्थ्यात् ---- ................ंउञ्चेन्नात्मानमात्मना || १०-३६० || परमेश्वरानुग्रहं विनेत्यर्थात् | मुञ्चेदात्मानमिति पाठो न सङ्गतः || ३६० || एतद्दृष्टान्तेन स्फुटयति ---- कोशकारो यथा कीट आत्मानं वेष्टयेद् दृढम् | न चोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा || १०-३६१ || तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः | न च मोचयितुं शक्ताः पशवः पाशबन्धनाः || १०-३६२ || स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः | अनुग्रहशक्त्या || यतः ---- शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनात् || १०-३६३ || अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलम् | यत्तत् स्वाभिजनं शुद्धमनौपम्यमनामयम् || १०-३६४ || सुनिर्मलं परमशिवैकरूपम्, अत एव द्वितीयाभावाद् अनौपम्यम्, तथा स्व आत्मैव अभिजनं कारणं यस्य तत्, अनन्यकार्यं स्वतन्त्रवस्त्वित्यर्थः | यस्मात् शुद्धं चिदेकघनमतश्च अनामयं मायासंस्पर्शशून्यम्, यत्तदिति लोकोत्तरम् || ३६४ || कस्मादेतत्स्वरूपं न जानन्तीत्याह ---- मोहिता मलमोहेन बद्धाः कर्मकलादिना | निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा || १०-३६५ || ऽऽअभिलाषो मलोऽत्र तुऽऽ (४-१०५) इति यः पूर्वमपूर्णंमन्यतात्मा स्वरूपाख्यातिरूपो मल उक्तः, स एव मोहोऽज्ञानम्, तेन मोहिता अज्ञीकृताः, अतश्च तत्रैंव पाशबन्धे निगूढा निमग्नप्रोक्तस्वस्वरूपास्तिष्ठन्ति, यथा काष्ठेऽन्तरग्निः || ३६५ || स चेत् काष्ठनिगूढः ---- उद्धृतस्तु यथा वह्निर्मन्थकस्य वशात् स्फुटम् | स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलम् || १०-३६६ || अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषाम् | प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः || १०-३६७ || तथात्मा तु विजानाति यत्स्वरूपमनादिमत् | मन्थकस्य वशाद् देवि नान्यथा तु कथंचन || १०-३६८ || मन्थकस्य वशादित्युक्तिं विभजति ---- मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः | आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः || १०-३६९ || च एवार्थे || ३६९ || मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा | वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवत् || १०-३७० || आत्मा वै वह्निवज्ज्ञेयो बोधकस्तु परः शिवः | मन्थानं मथनकारणं वैशाखं तद्वन्मन्त्राः, समनान्तोऽध्वाऽरणिः, यदावृत आत्मा वह्निः पूर्वनिर्णीतव्याप्तिदृशा वागीशीयोनौ धूमस्थानीयाख्यातिरूपतुच्छमलापासनं परमशिवेन प्रबोध्यते गुरुमूतीस्थसदाशिवभट्टारकप्रयुक्त्या || अतश्च ---- उद्बोधितो यथा बह्निनीर्मलोऽतीव भास्वरः || १०-३७१ || न भूयः प्रविशेत् काष्ठं तथात्माध्वन उद्धृतः | मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः || १०-३७२ || तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः | मलादिनिर्मोकादे(वा)१ संसारतया विगतक्लमः तत्रस्थोऽप्युपनतभोगातिवाहनमात्रप्रयोजनतस्तन्मध्यवर्त्यपि न बध्येत तदहंभावाभिमानवान् न भवति, अपि तु सुष्ठु निर्मलचिद्घनात्माविष्ट एव सर्वदा || किं च ---- रसवह्निसमायोगात्ताम्रं कालिकया यथा || १०-३७३ || विश्लेषितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते | न भूयस्ताम्रतां याति तथात्मा न कदाचन || १०-३७४ || अख्यातिरूपया कालिकया गुरुणा वियोजित आत्मा न पुनर्युज्यत इत्यर्थः || ३७४ || अत्र च ---- रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवत् | तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः || १०-३७५ || आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका | क्रिया दीक्षा, तज्ज्ञो रसवह्नियोजनावज्ज्ञानयोगक्रियामयदीक्षासतत्त्ववित् || १०-३७५ || अतश्च ---- मन्त्रद्रव्यक्रियायोगाद्वह्न्याधारे तथा प्रिये || १०-३७६ || गुरुणा तन्त्रविदुषा ह्यात्मा वै निर्मलीकृतः | न भूयो मलतां याति शिवत्वं याति निर्मलम् || १०-३७७ || तथेति चतुर्थपटलोक्तप्रक्रियायोजनिकाक्रमेण | तन्त्रविदुषेति तन्त्रज्ञानमत्र पर उपाय इति शिक्षयति | १ उक्तं हि ---- ङ चावज्ञा क्रियाकाले संसारोद्धरणं प्रति | मन्त्रदानव्रतादेशे शिष्यघ्रुङ् नारकी भवेत् ||ऽऽ इति | मलतामित्यपूर्णंमन्यतारूपामख्यातिम्, शिवत्वं परशिवैक्यम् || ३७७ || उपसंहरति ---- एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा | चतुर्थपटलोक्तक्रमेण | वक्ष्यति हि ---- ङास्ति दीक्षासमो मोक्षःऽऽ (११-१९९) इति || तत्र च दीक्षायाम् ---- शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा || १०-३७८ || ऽऽमलकर्म निमित्तं तु नैमित्तिकमतः परम्ऽऽ इति तन्त्रान्तरे || ३७८ || अतश्च ---- गुणभूतास्तु ये पाशास्तेऽपि शुध्यन्ति तद्वशात् | गुणभूताः मदमोहादयः, तद्वशादित्याणवकार्ममायीयशुद्धिवशात् || किन्तु गुणभूतमपीदम् ---- चतुर्दशविधं चैव यदुक्तं तु मया पुरा || १०-३७९ || संसारमण्डलं देवि शोध्यं तदवनीतले | शोध्यमिति पृथगेवेत्यर्थः || अतश्च ---- तद्वक्ष्यामि क्रमात् सर्वं यथा शोध्यं शिवाध्वरे || १०-३८० || अदूर एव || ३८० || यच्च ---- ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेत् | न त्वन्तर्भावेनेत्युक्तम् || तत् क्रमेण तावदुद्दिशति ---- ब्राह्मं चैव तु प्राजेशं सौम्यमैन्द्रं तथैव च || १०-३८१ || गान्धर्वं चापरं याक्षं राक्षसं च तथापरम् | पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा || १०-३८२ || स्थावरं पञ्चविधं तिर्यग्योन्युपलक्षणम् | क्रमत इति संहारक्रमेण || ३८२ || यदुक्तम् ---- शंहारक्रमयोगेन ते च शोध्याःऽऽ (१०-३५२) इति संहारक्रमेण शोधनं तत्तत्स्थावरादिजातीयमध्यगतप्रधानभूतैकैकक्रमेण प्रस्तावयति ---- सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा | पक्षिणां गरुडं चैव मृगाणां सिंहमेव च || १०-३८३ || पशूनां चैव गोयोनिं............. अत्र च देवदत्तात्मने प्राक्कर्माजीतस्थावरादिजातिप्रधानभूतं सप्तच्छदं शोधयामि स्वाहा, इत्याद्यूहः कार्यः || एवं तैर्यग्योनं पञ्चप्रकारं प्रातिलोम्येन संशोध्य ---- ............ंअनुष्यांश्च विशोधयेत् | तानपि प्रातिलोम्येन || अन्त्यजान् शूद्रविट्क्षत्रब्राह्मणांश्च विशोधयेत् || १०-३८४ || तदेतासु सर्वासु जातिषु ---- पञ्चभिर्ब्रह्मभिर्देवि त्वधिकारान् विशोधयेत् | अधिकारान् प्राक्कर्मवशसम्भाव्यमानतत्तज्जातिसम्बन्धात् || कथम् ---- दशाहुतिप्रयोगेण अन्त्यजान् ब्राह्मणावधि || १०-३८५ || ऽऽतिस्रः पञ्चदशैका वाऽऽ (४-४४८) इति प्रागुक्तेरिहायमपवादः | तत्र स्थावरादिपश्वन्ते पञ्चकेऽन्त्यजादिब्राह्मणान्ते च पञ्चके प्रातिलोम्येन सद्योजातादय ईशानान्ताः प्रणवपूर्वका मन्त्रा मन्तव्याः || ३८५ || ब्राह्मणस्य षट्कर्माधिकारित्वात् (त)१च्छुद्धौ विशेषमाह ---- ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च | विशोधयेदित्येव || तान् क्रमेणाह ---- गर्भः पुंसवनं चैव सीमन्तो जातकर्म च || १०-३८६ || नाम निष्क्रमणं चैव अन्नप्राशनचूडकम् | अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीतीताः || १०-३८७ || सीमन्तोऽङ्गोपाङ्गविभागसम्पत्तिः, निष्क्रमणमादित्यदर्शनम्, चूडकं शिखाकॢप्तिः | अनेनैवेति, प्रोक्तक्रमायातविनियोगेनेशानभट्टारककारणकेन दशाहुतिप्रयोगेण || ३८७ || अतश्च ---- एतैनीवतीतैर्देवि ततोऽसौ जायते द्विजः | अविप्लुताभ्यां ब्राह्मणाभ्यामेकं वैदिकैर्मन्त्रैः संस्कारैश्च द्वितीयं जन्म द्विजस्य यत्सिद्धं तदुभयमपीहत्यैरेव मन्त्रैः कृतमिति || एवमस्य द्विजस्य ---- नवमो व्रतबन्धस्तु............... संस्कारः | ...........ष चाङ्गी परिकीतीतः || ३८८ || यतस्तेनास्य ---- अङ्गानि सम्प्रवक्ष्यामि यथावदनुपूर्वशः | तान्याह ---- मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा || १०-३८९ || सध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः | त्र्यायुषं भस्मत्रिपुण्ड्रकम् | एतानि च मेखलाव्रतानि सप्त, एतानि ब्रह्मचारी समाचरेत् || नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने || १०-३९० || दीक्षाकाले मण्डलोपलक्षितभाविगोदानसमयेऽनिष्पन्नानि सन्त्येतानि नियन्तॄणि प्रथमाश्रमावस्थितेर्लोपो मा भूदित्यवश्यानुष्ठेयानि || ३९० || किं च ---- भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा | उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः || १०-३९१ || सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणाम् | दृष्टानीति पारमेश्वरे शास्त्रे, वेदे तु उच्छिन्नशाखापक्षे स्थितानि, अद्यत्वेऽननुष्ठेयत्वात् || एतानि च ---- चर्याव्रतानि बोध्यानि......... व्रत(बन्धा)१वसरे चरणीयानि | एतानि च ---- ........ऽङ्गत्वे कीतीतानि तु || १०-३९२ || फलेन फलवतो व्रतबन्धाख्यस्य संस्कारस्यैतान्यङ्गभूतानि व्रतान्तराणि || ३९२ || अतश्च ---- एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनम् | तस्यान्तर्भूतमेवैतत् कथितं व्रतसप्तकम् || १०-३९३ || तदेवं मेखलादीनि सप्त, भौतेशादीनि च सप्तेति कृत्वा ---- चतुर्दश व्रतान्येवं होतव्यानि वरानने | पृथक् पृथक्, न तु व्रतबन्धान्तर्भावमात्रेणेत्याशयः || अथ ---- वेदव्रतानि चत्वारि होतव्यानि न संशयः || १०-३९४ || होमेन सम्पाद्यानि || ३९४ || तान्याह ---- एष्टिकं पावीकं चैव भौतिकं सौमिकं तथा | इष्टिपर्वभूतसोमयज्ञप्रतिपादकवैदिकग्रन्थपाठेन कालकार्याणि व्रतान्यैष्टिकादिशब्दैः पारमेश्वरेषु ग्रन्थेषु उक्तानि | यज्ञसूत्रे तु ---- ऽऽत्रैविद्यं च चतुर्होत्रं गोदानं स्नानमित्यपि | वेदव्रतानि चत्वारि ........................ ||ऽऽ इत्येवमुक्तानि | इह तु गोदानं पृथगेव भविष्यति || एते च वेदाध्ययनाधिकारदानेन व्रतान्तरापेक्षया प्राधान्यात् ---- व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः || १०-३९५ || ब्रह्मचारिणां नियामकास्तथात्वसम्पादकाः || ३९५ || तदेतावत्पर्यन्तमेतान् संस्कारान् ---- त्रयोदश विजानीयात्.............. एभिरनुष्ठितश्चायं वेदेष्वधिकृत इत्याह ---- ...........टतो वै वेदभाजनम् | किं च ---- ततो भवति गोदानं तच्चतुर्दशकं प्रिये || १०-३९६ || वेदाध्ययनान्ते उपाध्याय गोमिथुनदानेनोपलक्षितमात्मनः केशदिवपनं गोदानम् || ३९६ || अथ गुरुभिर्गार्हस्थ्यायानुज्ञातः ---- स्नात उद्वाहयेद् भार्यां ज्ञानसिद्धः कुमारिकाम् | वेदाध्ययनेन लब्धशुद्धिः स्नात उच्यते | अध्ययनान्ते हि स्नानमनेनैवाशयेनाम्नातम्, अत एवायं वेदार्थाधिगमात्मना ज्ञानेन सिद्धः सम्पूर्णः || अथ वा ऽऽब्रह्मचर्यादेव प्रव्रजेत्ऽऽ इति चोदितत्वात् शीघ्रमेव प्राव्राज्यमिच्छन् ---- कृत्वा दर्भमयीं पत्नीं तया सह यजेत् क्रतून् || १०-३९७ || गृहस्थाश्रमचोदितनित्यनैमित्तिकरूपमित्थमुद्वाहात्मकसंस्कारसम्पाद नरूपमेतत् कर्म ---- तज्ज्ञेयं पञ्चदशमं............. अनेनैव च ---- ऽऽपितृदेवमनुष्याणां भूतानां तर्पणं तथा | ब्रह्मणोऽध्ययनं चेति महायज्ञास्तु पञ्च वै ||ऽऽ इति यज्ञसूत्रप्रतिपादिता नित्ययज्ञाः संगृहीताः | तदुक्तम् ---- ऽऽपञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः | खण्डनी चोदकुम्भश्च बध्यते यस्तु वाहयन् || तासां क्रमेण सर्वासां निष्कृत्यर्थं महात्मभिः | पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् || अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् | होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ||ऽऽ इत्येवमुद्वाहेनैवैते नित्ययज्ञाः संग्रहीता इत्याशयः || ३९७ || नैमित्तिकानाह ---- ..........टतः पाकमखाः क्रमात् | नैमित्तिकांश्च तानाहुः प्रवक्ष्याम्यनुपूर्वशः || १०-३९८ || अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा | चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमात् || १०-३९९ || पौषादिकृष्णपक्षगताः शाकाद्या अष्टकाः | पार्वणी सितासितपक्षाद्यदिने, तत्रत्यो यागस्तथोक्तः | श्राद्धं पित्र्यादिदिनोक्तो विधिः | श्रावण्यां यागः श्रावणी | आग्रायणी नवान्नयागः | एवं चैत्र्यादिरपि बोद्धव्यः | अन्ये तु आग्रायणीद्वयमिति पठित्वा शरद्वसन्तयोर्नवान्नयागद्वयं व्याचक्षते, ते च पार्वणं श्राद्धमेकमेव वर्णयन्ति | एते च पाकयज्ञा वेदे तु पुरोडाशादिभिः कार्या उक्ताः, वक्ष्यमाणास्तु हविर्यज्ञाः सक्त्वादिभिः | इह तु विशेषानभिधानात् प्रस्तुतैस्तिलैरेव कार्या इति ज्ञेयम् || ३९९ || तदेवम् ---- एतैः सह विजानीयाद् द्वाविंशत् परिसंख्यया | एतैः सप्तभिः सह पूर्वोक्तान् पञ्चदशसंस्कारान् | अथ ---- आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परम् || १०-४०० || पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च | पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परम् || १०-४०१ || हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये | आग्नेयमरणिक्रमेणाग्न्यानयनम् | अग्निहोत्रं सायंप्रातश्च होमः | दर्शो विपरीतलक्षणयाऽदृश्यमानचन्द्र आमावस्यो यागः | चातुर्मास्यं फाल्गुनात् चैत्राद्वा प्रभृति मासचतुष्टयान्ते पौर्णमासीभवो विशिष्टो यागः | पौर्णमासीशब्देन तु सर्वपौर्णमासीगतः सामान्ययाग उक्तः | पशुबन्धो यागविशेषो यत्र पशोर्मांसवसादि हूयते | सौत्रामणिः सुत्रामदेवताकः सुरायागः || एतानपि सङ्कलयति ---- एभिः सह विजानीयात् संस्कारैकोनत्रिंशकम् || १०-४०२ || अथ ---- अग्निष्टोमात्यग्निष्टोमौ उक्थ्यः षोडशिका तथा | वाजपेयोऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः || १०-४०३ || त एते यागविशेषाः ---- सोमसंस्था समाख्याताः.............. ग्रहकरणकसोमपानयुक्ता यज्ञरूपाः क्रियाः सोमसंस्थाः || एतावदन्तानेतान् संस्कारान् ---- ............षट्त्रिंशत् परिसङ्ख्यया | प्रोक्तमन्त्राहुतिक्रमेण कुर्यादिति शेषः | अथ ---- हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृत् || १०-४०४ || हिरण्यमेढ्रो हिरण्यनाभिहीरण्यगर्भ एव च | हिरण्यश्रोत्रो हिरण्यत्वग् हिरण्याक्षस्तथैव च || १०-४०५ || हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीतीताः | गर्भो हृदयम् | एते पक्ष्याद्याकारा अग्निचित्याविशेषा येषां पादादिस्थानेषु हिरण्यं दीयते || येषां तत्तत्पक्ष्याद्याकृतिभेदात् ---- शतेन तु घृतं चात्र एकैकं तु विजायते || १०-४०६ || एतत्सम्पत्त्यर्थं होमे विशेषमाह ---- एते सर्वे सहस्रेण शुद्ध्यन्ते.......... स एव सहस्रहोमसम्पाद्यो हिरण्यपादादिश्चित्ययज्ञः | ....षप्तत्रिंशकः | किं च ---- अश्वमेधं ततः पश्चाज्जुहुयात्तु यथाक्रमम् || १०-४०७ || ब्राह्मणस्यापि कर्मवशप्राप्तसार्वभौमभूपतित्वस्यायमश्वमेधः कार्य एव || ४०७ || एवं विवाहात् प्रभृति एतावदन्तैः ---- एवं कृतैस्तु तैः सर्वैस्ततश्चैव गृही भवेत् | द्वितीयाश्रमस्थः || अष्टात्रिंशत्तमं तं तु.......... अश्वमेधाख्यं संस्कारं जानीयादित्यर्थः | ................वानप्रस्थं ततो भवेत् || १०-४०८ || पारिव्राज्यं ततोऽन्तेष्टिमेवं ब्राह्मण्यमाप्नुयात् | वानप्रस्थं पारिव्राज्यं चाश्रमद्वयरूपं संस्कारद्वयम् | अन्तेष्टिवीहिताननुष्ठानसम्भाव्यमानप्रायश्चित्तशुद्धयर्थं गार्हस्थ्यावस्थितस्य कार्या, न तु वानप्रस्थस्याश्रितपारिव्राज्यस्य वा, तेनासौ पृथङ् न गण्यते | एवमिति पारमेश्वरमन्त्रहोमक्रमेण, पाशवे तु विधौ सत्यपि बीजाहरादिदोषसद्भावान्न सम्यग् ब्राह्मण्यं भवति | इदं तु पारिव्राज्यलक्षणं चत्वारिंशत्तमसंस्कारमेतैः सह विजानते, एतैः सह गणितमिति यावत् || अत आत्मगुणानष्टौ कथयामि समासतः || १०-४०९ || दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता | शौचं चैवमनायासो मङ्गलं चाप्यतः परम् || १०-४१० || अकार्पण्यं चास्पृहा चेत्यष्टावात्मगुणाः स्मृताः | दया परानुकम्पा, क्षान्तिरपकारिषु शक्तत्वेऽप्यप्रतिक्रिया, परगुणसहत्वमनसूयता, चित्तवाक्शरीरशुद्धिः शौचम्, अक्लेशावहकर्मकारित्वमनायासः, मङ्गल्यद्रव्याणां दर्शनस्पर्शनचिन्तनानि मङ्गलम्, यथाशक्ति दातृत्वमकार्पण्यम्, अस्पृहा सन्तोषः, इत्येते आत्मन आत्मसंनिकृष्टस्यान्तःकरणवागादेर्गुणाः, न त्वात्मनस्तस्य चिदेकरूपत्वात् | तत्र (च)१ दीक्ष्यात्मनो ब्राह्मण्याय गर्भाधानं करोमि स्वाहा, इत्यनेन सप्रणवेशानोच्चारपूर्वेण मन्त्रेणादौ पञ्चकृत्वो हुत्वा पुनर्गर्भाधानं सम्पन्नमस्तु, इत्यन्तेन पञ्चकृत्वो जुहुयात् | इत्थमेव चत्वारिंशदन्तान् संस्कारान् निधाय वक्ष्यमाणमन्त्रक्रमेण गुणाष्टकोत्थापनपूर्वं ब्राह्मणमस्यापाद्येशानेनैवाधिकारभोगादिपूर्वं ब्राह्मण्यमस्य शोध्यम् || इत्थमेव ---- चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः || १०-४११ || एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या येऽपि सुव्रते | चत्वारिंशद्देहविषयाः, अष्टौ तु पुर्यष्टकनिष्ठाः | असंख्या इत्याचाराध्यायोक्तविविधाचाररूपाः || यत एते आत्मगुणाश्चत्वारिंशद्देहसंस्कारानन्तरमुक्ताः ---- अतोऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः || १०-४१२ || अत्रापि ब्राह्मण्यशुद्धौ सामान्योक्त्येशानमन्त्रस्य विनियोगे प्राप्ते विश्लेषमाह ---- पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमात् | चशब्द एवार्थे, ब्रह्मभिरेव, अपिशब्दात्समुचितोहयुक्तैः | अनुक्रमशब्दस्यायमर्थः ---- प्रागुक्तक्रमेण सद्याअदिचतुष्टयेन दयाक्षान्त्यनसूयाशौचाख्यं चतुष्टयं प्रोक्तयुक्त्या पञ्चधा पञ्चधा हुत्वा, ईशानेनायासमङ्गलाकार्पण्यास्पृहाख्यं चतुष्टयं तथैवाहुतिभिः सम्पादयेदिति || आहुतिषु करणमाह ---- तिलैर्घृतेन वा तांश्च............... दत्त्वेति सम्बन्धः | तिलाः स्नेहमयबीजात्मकाः, आज्यं मूर्तः स्नेह इति | संस्कारबीजानां संस्काराभिलाषस्नेहस्य चैतत्प्र(ति)कृतिरूपं वासनास्नेहदाहात्मके दीक्षाकर्मणि होतव्यम् || एवं कृत्वा ---- ............ऊर्ध्वे तु विनियोजयेत् || १०-४१३ || किमूर्ध्वमित्याह ---- ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीतीतम् | मनुष्यजातिप्रदस्य कर्मणो भूर्लोके शोधितत्वात् तदुपरिवतीदेवयोनिप्रदं कर्म यत्तदूर्ध्वमुच्यते || तच्छुद्धये च दीक्ष्यस्य ---- तस्मिन् संयोजनं कार्यं.............. न तु तं त्यक्त्वान्यत्रेत्याह ---- .............ण चान्यत्र विधीयते || १०-४१४ || एतत् स्फुटयति ---- तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचित् | यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेत् || १०-४१५ || उद्धरणमुल्लङ्घनम् | नयनमस्य स्थानेऽन्यस्य शोधनम् | नियोजयेत् इति दीक्ष्यम् || ४१५ || एवं स्थावरादिक्रमेण मनुष्यजातिभेदान् संशोध्य देवयोनीः शोधयितुमाह ---- ततोऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमात् | पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः || १०-४१६ || प्राग्वत् संहारक्रमेण प्रणवसद्योजातोच्चारपूर्वं ऽऽदेवदत्तस्य पैशाचाणिमादिमापादयामि स्वाहाऽऽ इत्याहुतीः पञ्च हुत्वा तद्भोगप्राप्तिमस्य सञ्चिन्त्य तेनैव मन्त्रेण ऽऽपैशाचभोगमस्य शोधयामि स्वाहाऽऽ इति पञ्चाहुतीर्दद्यात् | अनेन क्रमेण वामदेवाघोरतत्पुरुषैः राक्षसयाक्षगान्धर्वान् संशोध्य एन्द्रादिब्रह्मान्तचतुष्टयं सत्त्वप्रधानमीशानभट्टारकेणैव शोधयेत् || ४१६ || न च मानुष्यादनन्तरं देवयोनीरुर्ध्वस्थाः शोध्याः, इति मत्वा बुद्धितत्त्ववतीनीस्ताः शोधयेत्, अपि तु ---- ऊर्ध्वशब्देन तज्ज्ञेयं यद्भूर्लोकं समाश्रितम् | तस्मिन् युक्तस्य कर्तव्यं न चान्यस्मिन् कदाचन || १०-४१७ || भूर्लो(क स)१ माश्रितं भूर्लोके देवयोन्युपपत्तिदं यत्कर्म, तदत्रोर्ध्वं ज्ञातव्यम् | तत्र युक्तस्य भोगार्थं योजितस्य मन्त्रैः कर्तव्यं शोधनमित्यर्थात्, न तु बुद्धितत्त्वे, तत्र सुनन्दकरालादिनामविशेषोच्चारणेन शोधनस्य वक्ष्यमाणत्वात् || ४१७ || युक्तं चैतत्, अन्यथा क्रमप्राप्तात् शोध्यस्थानाद् दीक्ष्यात्मनि ---- अनुद्धृते कथं योगः............. न च ततस्तावदुद्धरणं युज्यते ---- ................यावत् कर्म न भुज्यते | दीक्ष्येण दीक्षाप्रभावादिति शेषः || यतश्चायं कर्मफलमवश्यं भोजयितव्यः ततो योजनमस्य तत्तत्कर्मवासनैकतानतामयमाचार्येण भावनया क्रियत इत्याह ---- तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना || १०-४१८ || निवर्त्यते महादेवि.............. अथ ---- ...........णिष्कृतिं जुहुयात्ततः | शिवेनाष्टशताहुत्या............ शिवेनेति निष्कलेन | एतच्चतुर्थपटल एव निर्णीतं तथा वक्ष्यमाणमपि || यदाह ---- ...........टतस्तु भुवनाधिपान् || १०-४१९ || भुवनान्तनीवासांश्च भुवनानां यथाक्रमम् | होमेनैव तु संशोध्य विश्लेषं छेदनं तथा || १०-४२० || पूर्णां चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमात् | कुर्यादिति शेषः | भुवनानां शोधने प्रस्तुते भुवनेशान् कालाग्न्यादीन् प्रधानभूतान् भुवनान्तर्वासिनश्चान्यानपि तदङ्गभूतानाहूय आहुतिभिः स्मर्तव्यश्रावणादिपूर्वं विसर्जयेदिति | तेषां शोधनं कृत्वा भुक्तेभ्यो भोगेभ्यो दीक्ष्यस्य विश्लेषो वियोजनम्, छेदनं तु सूत्रस्य भुवनात्मनः पाशस्य, समुद्धारं ततो भुवनात्, तत्स्थत्वं शिष्यहृन्निवेशमित्यादि पूर्वमेव निर्णीतम् | यथाक्रममिति वदन्नुद्धारादनन्तरमात्मस्थीकरणम्, ततस्तत्स्थीकरणम्, ततो भुवनेशाह्वानमिति प्रागुक्तमेव क्रमं स्मारयति भूर्लोकेशाधिपतिर्भगवान् शर्व इत्यग्रे भविष्यति || किं च ---- प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः || १०-४२१ || उत्तरं कर्म कार्यमिति शेषः || ४२१ || एतत्सर्वं भूर्लोकोक्तं भुवनान्तरशुद्धावप्यतिदिशति ---- एवमादिक्रमेणैव धामान्तं च विशोधयेत् | धाम समनावधिकशिवतत्त्वरूपं तदन्तम् | यदुक्तम् ---- शमनान्तं वरारोहे पाशजालमनन्तकम्ऽऽ (४-४१०) इति | .वमादिक्रमेणेति, प्रोक्षणादिपूर्वं शिष्यात्मनस्तत्र प्रागुक्तसंस्कारान्तरोपस्कृन् जन्माधिकारभोगलयनिष्कृतिविश्लेषपाशच्छेदपूर्णाहुत्युच्चारात्मस्थ तत्स्थत्वसंस्कारान् कृत्वा भुवनेशाह्वानतर्पणश्रावणाविसर्जनादियुक्त्येत्यर्थः || तदेतत् प्रासङ्गिकमुक्त्वा प्रकृतमनुबध्नाति ---- भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे || १०-४२२ || भूपृष्ठाद्यावदादित्यं लक्षमेकं प्रमाणतः | तत्र च ---- दश वायुपथा मध्ये त्वयुतायुतसंख्यया || १०-४२३ || अयुतं दश सहस्राणि, अयुतायुतमन्तरमिति पाठे तेषामयुतायुतमन्तनीवासस्थानमिति व्याख्येयम् || ४२३ || तत्र ---- आद्ये वायुपथे मेघान् कथयामि यथास्थितान् | परमेश्वरेच्छानियमितवायुविततविहरणोपभोगभूमयो वायुपथाः || तत्र ---- पञ्चाशद्योजनादूर्ध्वमृतद्धीर्नाम मारुतः || १०-४२४ || यो विवर्धयते पुष्टिमोषधीनां बलं तथा | बृंहयेच्च महीं सर्वामाप्याययति चाव्ययः || १०-४२५ || अव्यय इति सदा आप्यायादि कुर्वन्नपि न क्षीयते || ४२५ || किं च ---- दिवा हंसः स वै वायुर्मनुजानां सुखावहः | स एव ---- यतो गृद्ध्रान् धारयति तेन गृद्ध्रधरः स्मृतः || १०-४२६ || एक एवायं नानासंज्ञो नानाव्यापारश्चेत्यर्थः || ४२६ || तदुपरि ---- प्राचेतसो नाम वायुः प्रचेतोऽभिविनिमीतः | स वै नाशयते वृक्षान् कदाचित् सम्प्रवर्तयेत् || १०-४२७ || प्रचेतसा वरुणेनाभिविनिमीत उत्पादितः | नाशयते दहति | प्रवर्तयत्युद्भिन्नाङ्कुरान् सम्पादयति || ४२७ || वायोः कथं दाहकत्वमित्याह ---- अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति | तत्साहित्यादसौ ---- यदा दहति वेश्मानि तदासौ समुदाहृतः || १०-४२८ || एतन्नामैवेत्यर्थः || ४२८ || अयं चाग्निर्वडवात्मेत्याह ---- सुखी समुद्रे वसति.......... अयत्नोपनतनानानीरपानाशनः || वसंश्चात्र ---- ............ष जलान्नोपशाम्यति | प्रत्युत ज्वलति || अथ ---- योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते || १०-४२९ || ङीचवायुरिति स्मृतःऽऽ इति केचित्पठन्ति | शतादूर्ध्वमित्यत्रायमाशयः ---- भूपृष्ठात् पञ्चाशद्योजनोर्ध्वं योजनपञ्चाशति ऋतद्धीः, प्रचेताश्च पञ्चाशति || ४२९ || विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते | चो ह्यर्थे || ते भुवः क्रोशमात्रेण तिष्ठन्तोऽपसृजन्त्यपः || १०-४३० || योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः | मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुदीने || १०-४३१ || यत ईदृशास्ततः सत्त्ववहा इत्यर्थः || ४३१ || एतस्मात् सत्त्ववहव्याप्तात् ---- योजनानां शतादूर्ध्वं वायुरोघः प्रकीतीतः | तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकम् || १०-४३२ || तेनोपसर्गा जायन्ते............ चो ह्यर्थे || तैश्चोपसर्गैः पीडादिभिः ---- ..............ंआरकाः सर्वदेहिनाम् | प्रवर्तन्ते || अथ ---- तस्मादूर्ध्वं तु ताव(द्)१भो देव्यमोघः स्थितो मरुत् || १०-४३३ || तस्मिंस्ते मारका मेघा अमोघे सम्प्रतिष्ठिताः | तावद्यभः पञ्चाशत इत्यर्थः | तावच्छब्दो व्यवहितपञ्चाशद्योजनामर्शकः || अथ ---- वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः || १०-४३४ || तस्मिंस्तूपलका नाम मेघास्तूपलवषीणः | तदुपरि ---- तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः || १०-४३५ || मेघाश्च वैद्युतास्तस्मिन् निवसन्ति तु वैद्युते | तावद्भिः पञ्चाशता || वैद्युतत्वमेतेषां विद्युत्कारणत्वेनेत्याह ---- अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान् || १०-४३६ || अशनिवीद्युत् | तेषु मेघेषु || ४३६ || तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः | तस्मिन् पुष्टिवहो नाम पुष्टिं वर्षति देहिनाम् || १०-४३७ || रैवत इति तदाख्यः | पुष्टिवहाख्यो मेघः || ४३७ || तदुपरि स्थिते ---- संवर्ते रोगदा मेघास्ते रोगोदकवषीणः | पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः || १०-४३८ || ततोऽपि ---- विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः | तस्मिन् क्रोधोदका नाम मेघा वै सम्प्रतिष्ठिताः || १०-४३९ || ते क्रोधरागबहुलं संग्रामबहुलं तथा | राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा || १०-४४० || वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः | ते घनाः, संवर्ताश्रयस्य पञ्चाशत उपरि पञ्चाशदुपरि | विषावर्तस्य तु मानमग्रे वक्ष्यति | क्रोधसहितो रागः क्रोधरागस्तेन बहुलं पूर्णं तत्सम्पादकमिति यावत् || ओघादीन् सप्त वायून् धर्मसाम्येन विशिनष्टि ---- ओघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा || १०-४४१ || सम्वर्तश्च विषावर्तो वायवो घोरवेगिनः | घोरवेगिन इति, घोरो वेगो भूम्ना विद्यते येषाम् || एतत्सप्तकं येषामास्पदं तान् क्रमेणाह ---- ओघे वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः || १०-४४२ || त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः | ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजम् || १०-४४३ || तदूर्ध्वस्थे ---- अमोघे विनायका घोरा महादेवसमुद्भवाः | त्रिंशत्कोटिसहस्राणि तस्मिन् वायौ प्रतिष्ठिताः || १०-४४४ || ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् | अकृतात्मनामसंयमवताम् || वज्राङ्गेऽपि तथा वायौ मातङ्गाः क्रूरकमीणः || १०-४४५ || भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः | तदारोहिणश्च ---- विद्याधराणामधमा मनःपवनगामिनः || १०-४४६ || मनः पवनवन्मातङ्गारोहादेव गच्छन्ति तच्छीलाः, अत एवाधमाः | उत्तमास्तु विद्यादिप्रभावेणैव तत्तद्देशप्राप्तिमन्तः || ४४६ || किं च ---- ये विद्यापौरुषे ये च वेतालादीन् श्मशानतः | साधयित्वा ततः सिद्धास्तेऽस्मिन् वायौ प्रतिष्ठिताः || १०-४४७ || विद्यापौरुषे शास्त्रविद्यादिस्पर्धायां तथा वेतालादीन् साधयित्वा ये प्रसिद्धा मृता इत्यर्थंः || ४४७ || वैद्युतेऽप्सरसस्तस्मिन् वासवेन प्रयोजिताः | तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने || १०-४४८ || पृथिवीपुरपालनं चैतत् तासां यत् तन्निवासिसदाचारजनपदस्य विमानैः स्वभूमिप्रापणम् || ४४८ || तदाह ---- भृगौ वह्नौ जले वापि संग्रामेष्वनिवर्तकाः | गोग्रहे बन्दिमोक्षे वा मिरयन्ते पुरुषोत्तमाः || १०-४४९ || ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः | पताकादीघीकाकीर्णैदीव्यघण्टानिनादितैः || १०-४५० || न निवर्तन्त इत्यनिवर्तकाः सम्मुखं ये मिरयन्त इत्यर्थः | गवां ग्रहः सिंहादिभिराक्रमणम् | बन्द्यो बलाद्गृहीता हठमिरयमाणाः परयोषितः | एते च संग्रामादौ मृताः सदाचारत्वात् पुरुषोत्तमाः, न तु पूर्वे ---- ऽऽअसूर्या नाम ते लोका अन्धेन तमसावृताः |ऽऽ तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो (जनाः)१ ||ऽऽ (ईशा० ३) इति श्रुतौ तेषामनुत्तमत्वेनोक्तत्वात् | तत इति स्वभूमेः || ४५० || कथं व्रजन्तीत्याह ---- स्त्रीसहस्रपरीवारैवीमानैस्तान्नयन्ति ताः | यत इति शेषः | ता इत्यप्सरसः | रैवते तु महात्मानः सिद्धा वै सम्प्रतिष्ठिताः || १०-४५१ || गोरोच(नाञ्ज)२ने भस्मपादुके अजिनादि च | साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः || १०-४५२ || सिद्धाः सम्पन्नाः || ४५२ || ततश्चात्र ---- ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः | वज्राङ्गस्थत्वेन तद्रूपत्वाद् विद्याधराधमा उक्ताः || संवर्तेऽपि महावायौ विद्याधरगणाः स्मृताः || १०-४५३ || दश त्रिंशच्च कोट्यस्ते दिव्याभरणभूषिताः | दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः || १०-४५४ || दश ये गणाः संक्षेपतः, त एव विस्तरतस्त्रिंशत्कोटय इत्यत्रार्थः | एते च विद्याधरा देवयोनिभेदा एव, न तु मनुष्याः सन्तः खड्गादिसिद्ध्या सिद्धाः || अथैतदुपरि ---- आग्नेया धूमजा मेघाः शीतदुदीनदाः स्मृताः | विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः || १०-४५५ || तत्र गान्धर्वकुशला गन्धर्वसहधमीणः | वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः || १०-४५६ || गन्धर्वसहधमीता गान्धर्वेण महेश्वराराधकत्वम् || ४५६ || ब्रह्मजा नाम वै मेघा ब्रह्मनिः श्वाससम्भवाः | उपरिष्टाद्योजनशताद् दुर्जयस्योपरि स्थिताः || १०-४५७ || विषावर्ताख्यवायुव्याप्तयोजनशतोपरिष्टाद् यो दुर्जयो नाम वायुः, तस्योपरि ब्रह्मजा मेघाः स्थिता इति सङ्गतिः || ४५७ || किं च ---- तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः | परावहाभिधं वायुं ते समाश्रित्य संस्थिताः || १०-४५८ || महावीर्यबलोपेता दश कोट्यः प्रकीतीताः | तत्रेति दुर्जयसमीपे परावहाभिधं वायं समाश्रित्येति सङ्गतिः || अतोऽप्यूर्ध्वम् ---- पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः || १०-४५९ || तथा ---- शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनाम् | परावहस्तान् वहति मनुजानिव वारणः || १०-४६० || तानिति पुष्करावर्तकान् पर्वतपक्षांश्च परावहाख्यो वायुर्वहति || ४६० || किं च ---- तस्मिन् वायुगमा नाम गन्धर्वा गगनालयाः | एकादश तु वै कोट्यस्तेषां तु समुदाहृताः || १०-४६१ || तथा ---- जीमूता नाम ये मेघा देवेभ्यो जीवसम्भवाः | द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः || १०-४६२ || तस्मिन् जीमूतका नाम विद्याधरगणा दश | जीवसमुद्भवा इति ---- जीवः श्वासः, तत उद्भवाः | द्वितीयमावहमिति पुष्करावर्तकाश्रयं परावहमित्यर्थः, न तु प्रथमं दुर्जयानामाधारम् || अथ ---- आवहस्तु ततो वायुर्यत्र द्रोणाः समाश्रिताः || १०-४६३ || तस्मिन् द्रोणाः समाख्याता मेघानां परिरक्षकाः | द्रोणा नाम मेघविशेषा अधोवतीमेघानामयथाकारित्वं रक्षन्ते || यतः ---- हितार्थं तु प्रजानां वै निमीतास्ते मया पुरा || १०-४६४ || मयेति कैलासस्थेनेति तत्र प्रवक्तुरुक्तिः | हितमधोवतीमेघेभ्य उपद्रवपरिरक्षा || ४६४ || अथैषाम् ---- उपरिष्टात् कपालोत्थाः संवर्ता नाम वै घनाः | महापरिवहो नाम वायुस्तेषां समाश्रयः || १०-४६५ || कपालोत्था इति ममैवेत्यर्थात् || ४६५ || उपसंहरति ---- आद्ये वायुपथे ह्येवं मेघा वै वायुभिः सह | सिद्धाश्च पतयश्चैव कथिता मेघचारिणः || १०-४६६ || दशसहस्रोन्मानो योऽयमाद्यो वायुपथस्तस्य भुव ऊर्ध्वं शून्यं पञ्चाशद्योजनानि, तदूर्ध्वमृतद्धीः, प्राचेतसः, सेनानीः, सत्त्ववहः, ओघः, अमोघः, वज्राङ्गः, वैद्युतः रैवतः, संवर्तः, विषावर्त इति | एत एकादश ये वायवस्तेषां मध्यात् सेनानीः सत्त्ववहश्च शते शते योजनानां स्थितः, शेषाः, प्रत्येकं पञ्चाशद्योजनावस्थितय इति कलनया भूपृष्ठाद्विषावर्तान्ते योजनसप्तशती | तदुपरि सहस्रनवके शतत्रये च दुर्जयपरावहद्वयावहावहमहापरिवहाख्याः पञ्च वायवः स्थिता इति || ४६६ || आद्यं वायुपथं वितत्योक्त्वा, अन्यान् संक्षेपेण विभजते ---- द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः | ता वसन्ति गुणोपेता रुद्रशक्त्या त्वधिष्ठिताः || १०-४६७ || मातरोऽपरेण रूपेण ब्राह्म्याद्याः | गुणेन सर्वज्ञत्वादिनोपेता यतो रुद्रशक्त्यधिष्ठिताः || ४६७ || अथ ---- तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः | स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः || १०-४६८ || स्वं प्राक्तनं शुभं कर्म, भोगस्तत्तत्पदोचितसुखात्मकः, तद्वशेन संसिद्धाः प्राप्ततत्पदाः | सर्वसिद्धैरप्यन्यैरपि तत्तत्पदोचितयोगसिद्धैरधिष्ठिता आसादिताः || ४६८ || तदुपरि ---- चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः | नाराचचक्रचापष्टीशूलशक्तीषुमुदगराः || १०-४६९ || ऋष्टिरायुधविशेषः | एते च खड्गखट्वाङ्गादीनप्युपलक्षयन्ति | आयुधानामेव च तद्देवतानाम || ४६९ || अथ ---- पञ्चमे पथि देवेशि वसन्त्यैरावतादयः | एरावतोऽञ्जनश्चैव वामनश्च महागजः || १०-४७० || सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च | कुमुदः पुण्डरीकश्च सार्वभौमोऽपि चाष्टमः || १०-४७१ || वामनस्य विशेषणं महागज इति | तथा सुप्रतीकस्य करीन्द्र इति || ४७१ || त एते ---- दिग्गजा इति विख्याताः स्वासु दिक्षु व्यवस्थिताः | व्यवस्थिता इति पूर्वादिक्रमेण नभस्येव || ततोऽपि ---- षष्ठे वायुपथे देवि पक्षिराजो महाबलः || १०-४७२ || गरुत्मानिति विख्यातो दुर्जयोऽतीव वीर्यवान् | सप्तमे व्योमगङ्गा तु नानाजलचरानुगा || १०-४७३ || दिव्यामृतजला पुण्या त्रिधा सा परिकीतीता | दिव्यममृततुल्यं जलं यस्याः सा | त्रिधेति सत्यलोकस्वर्लोकभुवर्लोकस्थित्या || सा भ्रान्ता नभसो मध्ये समन्तात् परिमण्डला || १०-४७४ || आकाशगङ्गा प्रथिता देवानां सततोत्सवा | पुष्पमालेव सा भाति नभसः शिरसि स्थिता || १०-४७५ || तत्र सिद्धैर्महाभागैवीद्याधरगणैस्तथा | गन्धर्वैरप्सरोभिश्च साध्यैवीश्वैर्मरुद्गणैः || १०-४७६ || रुद्रैर्वसुभिरादित्यैः पितृदेवमहषीभिः | रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः || १०-४७७ || स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः | नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः || १०-४७८ || भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः | वंशवादित्रनादैश्च मनोवायुसमीरितैः || १०-४७९ || तत्र सिद्धैरिति सिद्धादिभिरुपलक्षिता | रुद्रादीनां त्रयाणां विशेषणं पितृदेवैरिति | स्तुवद्भिश्चेत्यादिभिवीशेषणैः पूर्वे यथायोगं विशेष्याः | दिव्यदुन्दुभिनिःस्वनैरित्याद्या नृत्तं वल्गनं च प्रति हेतुतृतीयाः | मनोधिष्ठितेन वायुनेति प्राणेन समीरितैः पूरितैरिति योज्यम् || ४७९ || किं च ---- वैदूर्यनालैः कमलैर्हेमपत्रैः सुगन्धिभिः | केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः || १०-४८० || नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता | मण्डिता च वनैदीव्यैर्धर्माधारा महानदी || १०-४८१ || केसरैः पद्मरागैरिति पद्मरागात्मककेसरयुक्तैः पद्मैरित्यर्थः | धर्म आ समन्ताद्धार्यते दर्शनस्पर्शनादिना सम्पाद्यते यया || ४८१ || युक्तं चैतत्, यतः ---- मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा | एतत्पूर्वमेव निर्णीतम् || सैषा ---- महामन्दाकिनी देवी त्रिदशैः पर्युपासिता || १०-४८२ || महाविमानकोटीभिनीरन्तरमवस्थितैः | शोभितासौ भगवती नित्यमास्ते नभस्तले || १०-४८३ || महत्त्वं प्रभावातिशयादस्याः | अवस्थितैरिति त्रिदशविशेषणम् || ४८३ || तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता | पपात धरणीपृष्ठे लोकानां हितकाम्यया || १०-४८४ || एषा गङ्गा पूर्ववणीतयुक्त्या देवैरभ्यथीतेन मया मर्त्यलोकपावनाय समाहूय विसृष्टा सती मेरुशिरःस्थितस्य मम मस्तकं प्राप्य, ततश्च्युता मेरुशिरसि स्थिता, पश्चाद् धरणीपृष्ठे पपातेति सङ्गतिः | उक्तं च प्राक् ---- ऽऽआगत्य मम मूर्धानं मेरुमूध्नी पुनर्गता | तस्मान्निर्गत्य देवेशि चतुदीक्षूदधिं गता ||ऽऽ (१०-१८१) इति || ४८४ || किं च, मदीयनियतिशक्तिनियन्त्रणतः ---- अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता | अन्यथा कथमनिलेन न क्षोभ्येत कथं वाह्येत || योजनानां शतं पूर्णं विस्तारोऽस्याः प्रकीतीतः || १०-४८५ || परिणाहस्ततः कोट्यः............. तत इति तस्मिन्नाकाशे | कोट्य इति बह्वयः कोटय इत्यर्थः || एषा चात्र ---- .................ंअहावेगवती शुभा | सा भ्रमन्तीव संतिष्ठेत् समन्तात् परिमण्डला || १०-४८६ || परिमण्डलेति ब्रह्माण्डान्तराकाशस्य तथात्वात् || ४८६ || ध्रुवमापूर्य सा देवी त्वत्यद्भुतमवस्थिता | ध्रुवमिति तन्नाभिनिबद्धभचक्रमित्यर्थः | देवी द्योतमाना | अत्यद्भुतं कृत्वावस्थिता || किं च ---- दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी || १०-४८७ || दिवि भवं दिव्यं लोकोत्तरममृतं जलं वहति || ४८७ || अथ ---- अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः | वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः || १०-४८८ || वृषराज इति महेश्वरस्य वाहनम् | अप्रतीघातः स्वेच्छाविहारी | धर्म इति ---- ऽऽवृषो धर्मः स देवस्य गुणो ज्ञानक्रियात्मकः | धत्ते स चिदचिद्यस्माद्धर्मस्तेनोच्यते बुधः ||ऽऽ इति श्रीमन्मयसंग्रहोक्तसतत्त्वः || ४८८ || नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः | ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः || १०-४८९ || ब्रह्मणः शक्तिनीर्मातृरूपा || ४८९ || दशमे वायुपथे देवि वसुरुद्रदिवाकराः | एते च पूर्वं गङ्गासेवार्थमितोऽवतीर्णा वणीताः || तत्र प्राधान्यादादौ रुद्रान्नामतो दर्शयति ---- अत्र चाङ्गारकः सपीर्नैरृतः सदसत्पतिः || १०-४९० || बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा | अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा || १०-४९१ || एकादश स्मृता रुद्राः सर्वकामफलोदयाः | सदसस्पतिरिति यः क्वचिदुक्तः | ज्वरो विख्यातः त्रिजगत्प्रसिद्धः | सर्वेषां कामफलानामुदयो येभ्य इति समासः || तदित्थम् ---- धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः || १०-४९२ || प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीतीताः | तदित्थम् ---- वसवः कथिता ह्येते आदित्यांश्च निबोध मे || १०-४९३ || अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् | मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः || १०-४९४ || विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः | काश्यपेयान् विदुस्त्वेतान्........... कश्यपस्यामी काश्यपेयाः, कश्यपापत्यानीत्यर्थः || ................टेषां तेजोनिधेरथ || १०-४९५ || अमृतोद्भवो रथो दिव्यः सर्वदेवसमन्वितः | तेषां वसुरुद्रादित्यानां मध्यात् तेजोनिधेरादित्यस्य क्षीरोदोद्भवो रथः, तस्यैव तदारूढस्य जगत्प्रकाशाय नियुक्तत्वात् | तेजोनिधेश्चिदर्कस्य परशक्त्यमृतोत्थितः पूर्वोक्तदृशा सर्वदेवमयः प्राणरूपो रथ इत्यपि सूचितम् || अनेन यदुक्तं सर्वदेवमय इति, तद्विभजते ---- यज्ञश्चक्रं रथे तस्मिन् सर्वज्ञानमयी च धूः || १०-४९६ || सप्ताश्वाश्च स्वराः सप्त वेदहूङ्कारनिःस्वनाः | नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः || १०-४९७ || सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु | यज्ञः क्रियाशक्त्यात्मा देवता, अस्य रथस्य चक्रम्, तद्वशादूर्ध्वाधरस्थसर्वलोकयात्रासम्पत्तेः | यदुक्तं गीतासु ---- ऽऽतस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्ऽऽ (३-१५) इति | विश्वान् यजतीत्याम्नातत्वात् सर्वशास्त्रज्ञानमयी वागीश्वरी अस्य धूः, यत्र लग्ना अश्वा वहन्ति | ते च समस्तवाचकात्मकवेदप्रधानभूतहूङ्काररूपहेषाशब्दव्यञ्जकाः षड्जाद्याः सप्त स्वराः | एवं च नदन्नादामर्शोत्थितत्वं ज्ञानक्रियादेवताकाण्डरूपत्वात्परापरतदुभयसिद्धिमयत्वं च ऊर्ध्वाधरशक्तिसम्बन्धेन वेदानां प्रतिमन्त्रमुद्रास्थानीयत्वेन दर्शयति | योक्त्राणि बन्धनरज्जवः | नागा अनन्ताद्याः तेषां षड्जादीनाम् | न अगाः सततगतिशीलाः सङ्कल्पा नियोक्तारः | अरुणोऽनूरुर्दीप्तोऽहङ्कारश्च | सत्यं च ऋतम् | मञ्चकमासनम् | प्रतिप्रकाशमाने विश्वत्र साध्वाधारतया स्थितं सत्त्वात्मकं बुद्धितत्त्वम् | रथस्य वेगो वायवाख्या देवता | प्राणनात्मन आन्तरस्य च रथस्य प्राणापानादिरूपो वायवात्मैव वेगः || तदेवमीदृग्रथारुढस्य ---- नवयोजनसाहस्रो विग्रहो भास्करस्य तु || १०-४९८ || त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरम् | जीवादित्यस्यापि नवतालो विग्रहः | मण्डलं च प्रकाशात्मकं त्रिभिः सत्त्वादिभिर्गुणैरुपेतम् || स चायमसामान्य इत्याह ---- ज्ञानशक्तिः परा ह्येषा तपत्यादित्यविग्रहा || १०-४९९ || सर्वशक्तेर्महेश्वरस्य विश्वप्रकाशिका ज्ञानशक्तिर्जीवादित्यबाह्यादित्यरूपतया स्थितेत्यर्थः || इत्थं पारमेशज्ञानशक्त्यात्मका द्वादशादित्याः ---- मासवारप्रयोगेण सञ्चरन्ति शिवेच्छया | मासेन वारः, स एव प्रयोगो नियोगः | जीवादित्यस्य मासादिविभागः प्रागेव निर्णीतः | द्वादशधात्वं चास्य बुद्धिभेदात् | शिवेच्छयेति नात्रान्यस्येच्छा प्रभवतीत्यर्थः || अतश्च ---- अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः || १०-५०० || एतच्च ---- ऽऽउदयो योऽमरावत्याऽऽ (१०-३३८) इति प्रोक्तानुसारेण योज्यम् | यत्तु ---- वृहट्टीकाकारराजानकभुल्लकेन यावदशेषभुवनप्रकाशनव्याप्तिः सूर्यस्य नास्ति, तावत्सूर्यसंयमाद् भुवनज्ञानं कथं पनतञ्जलिनोक्तम्१, अत आ पातालात् सत्यलोकान्तं सूर्यस्य प्रकाशकत्वमिति स्वरुच्या व्याख्यातम्, तदसारत्वादुपेक्ष्यम् || ५०० || अथ सूर्योपरि चन्द्रादीनां स्थितिविभागमाह ---- ततः सोमस्तु लक्षेण आदित्योपरि संस्थितः | आप्याययन् जगत्सर्वं सुधाधाराप्रवर्षणैः || १०-५०१ || इत्थं च ---- चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु | इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् || १०-५०२ || नक्षत्रमण्डलं ताराचक्रम् || ५०२ || लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः | लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः || १०-५०३ || सुराचार्योऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः | तस्योर्ध्वेऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः || १०-५०४ || तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया | सर्पति राशिषु सञ्चरति | लीलयेति मन्दमन्दम्, यतोऽयं शनैश्चरः || तस्योपरि ---- लक्षमात्रेण तु ऋषीन् कथयामि समासतः || १०-५०५ || तान्यथावस्थितिक्रमेणाह ---- अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः | भृग्वङ्गिरा मरीचिश्च........... शृग्वङ्गिरा गोत्रनामक्रमाभ्यामेक एव || एते सप्त ---- ........ॠषयः सम्प्रकीतीताः || १०-५०६ || यमनियमतो ह्येते शापानुग्रहकारकाः | अहिंसाद्या यमाः१ | शौचाद्या नियमाः२ || ५०६ || किं च ---- भीताश्च परपीडायाः.......... प्रत्यवायिनामपि निग्रहं न कुर्वन्ति, दयापरतन्त्रत्वात् || तथा ---- ...........शूराः शास्त्रविचारणे || १०-५०७ || शूरास्तीक्ष्णधियः || ५०७ || अत एवानुग्राह्याणाम् ---- ज्ञानखड्गोद्यताः सर्वे त्वज्ञानपटलापहाः | अज्ञानमेव चित्प्रकाशावरकत्वात् पटलस्तमपघ्नन्ति || तदर्थमेव च ---- मन्त्रयोगक्रियाचर्यासंनद्धा दुरतिक्रमाः || १०-५०८ || योगैश्वर्यगुणोपेता शिवाराधनतत्पराः | मननसारा मन्त्राः, योगो ध्यानधारणादिः, क्रिया नित्यनैमित्तिकानुष्ठानम्, चर्या व्रतादिरूपा, एतैर्मन्त्रादिभिः संनद्धाः परिष्कृताः | अत एव दुरतिक्रमा अज्ञानेन न कदाचिदभिभूयन्ते | अतश्च योगैश्वर्यगुणैरणिमादिसिद्धिभिरुपेताः | तथापि शिवाराधनप्रधानकर्मणि तत्परा नित्यासक्ताः || अथ ---- तेभ्यो लक्षाद् ध्रुवो देवि तारकाः स चतुर्दश || १०-५०९ || एक एव सन् || ५०९ || अतश्चतुर्दशभिस्तारकाभिः ---- शरीरं घटितं ताभिर्ध्रुवस्य वरवणीनि | तथा च ---- ऽऽउत्तानपान्मखहनुः शुचिधर्ममूर्धा नारायणाश्विवरुणार्यमहृत्पदोरुः | संवत्सरप्रजननो जघनस्थमित्रो वह्नीन्द्रकश्यपमरीच्यभयाख्य पुच्छः ||ऽऽ इति ज्योतिःशास्त्रे हनुशिरःप्रभृतिगात्रारम्भोऽस्य यज्ञधर्मादिदेवताभिरुक्तः | एष च ---- ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः || १०-५१० || सत्यलोकस्थो ब्रह्माण्डेनापररूपेण भुवर्लोकमध्ये नियुक्तः || ५१० || इत्थं मध्ये चक्रनाभिवदवस्थितस्य ---- तस्य ज्योतिर्गणो देवि निबद्धो भ्रमते सदा | निश्चलः स तु विज्ञेयः शिवशक्त्या त्वधिष्ठितः || १०-५११ || शिवशक्त्यैवेत्थं व्यवस्थापित इत्यर्थः | एष चान्तरस्थित्याऽविचलश्चिदात्मैव समध्यवाहत्रयोदशेन्द्रियताराचक्रपरिवृतः कालाधिकारोक्तस्थित्याशेषग्रहर्क्षाद्याश्रयणप्राणापानसूर्य सोमसञ्चारप्रवर्तक इति बोद्धव्यम् | अत एवात्मप्रतिनिधिरूपध्रुवस्य --- - ऽऽयदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुच्यते | अधिकं च भवत्यायुर्ध्रुवान्तानां समाः समाः ||ऽऽ इत्यस्य ज्योतिःशास्त्रादौ श्रूयते | यत्तु तत्र ध्रुवनाभिनिबद्धस्य ग्रहनक्षत्रचक्रस्य बहिर्भूगोलं यन्निवर्तनम्, सूर्यादीनां भूम्यादेश्चान्वथावस्थानपरिमाणादि श्रूयते, तत् ---- ऽऽयदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पङ्क्तिम् | व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ||ऽऽ (सू०जा० १-३) इति तदुक्तप्रक्रिययैव पूर्वकर्मानुसारितेजोगोलकाधिष्ठातृसूर्यादिरूपदेवतापेक्षया कर्मार्जनस्थानस्थभूम्यपेक्षया च तथा, इदं तु तेजोगोलकाद्यधिष्ठातृसूर्यादिरूपदेवतापेक्षया | यथोक्तप्रक्रिययैव सूर्यादीनामवस्थानसंनिवेशभ्रमणादि पातालभूम्यादिपरिमाणादि वास्तवम् | सर्वसर्वज्ञमहेश्वरपरिदृष्टमेतदेवेति न तेन सह संवादविसंवादादिचर्चा कार्या | अत एव ---- ऽऽशास्त्रान्तरैर्न यद्दृष्टं तद्दृष्टं पारमेश्वरे | नियत्यादि शिवान्तं वाक् क्वान्यत्र परिदृश्यते ||ऽऽ इतीयमेव प्रक्रिया साध्वी || ५११ || दश पञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलात् | भुवः सूर्येन्दुभचक्राणि प्रत्येकं लक्षान्तरितानि, प्रत्येकं लक्षद्वयेन भौमाद्याः पञ्च, लक्षेण सप्तर्षयः | लक्षेण ध्रुव इति पञ्चदशलक्षमेव ध्रुवान्तं भवति || किं च ---- वायुस्कन्धान् स्थितांस्त्वत्र कथयामि समासतः || १०-५१२ || अत्रेति पञ्चदशयोजनलक्षोन्मानभुवःस्वर्लोकद्वये | ईश्वरशक्तिनियमितवायुसंनिविष्टभुवनादिरूपान् वायुस्कन्धान् कथयामि || ५१२ || तेषां कक्ष्याभेदमाह ---- आ मेघाद्भास्करात् सोमान्नक्षत्राद् ग्रहमण्डलात् | ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः || १०-५१३ || आ मेघादिति प्रोक्तवायुपथगतेभ्यो मेघेभ्यः प्रभृति ध्रुवान्तं सप्तसु कक्ष्यासु सप्त वायुस्कन्धाः स्थिताः | यदुक्तं पुराणेषु ---- ऽऽपृथिव्यां प्रथमः स्कन्ध आ मेघेभ्यो य आवहः | द्वितीयश्चापि मेघेभ्य आ सूर्यात् प्रवहस्तु यः || सूर्यादूर्ध्वं तथा सोमादुद्वहो यस्तु वै स्मृतः | सोमादूर्ध्वं तथर्क्षेभ्यश्चतुर्थः संवहस्तु यः || ऋक्षोर्ध्वं ग्रहपर्यन्तं पञ्चमो विवहस्तु यः | ऊर्ध्वं ग्रहादृषिभ्यस्तु षष्ठो योऽसौ परावहः || सप्तषीभ्यस्तथैवोर्ध्वमा ध्रुवात् सप्तमः स्मृतः | वातस्कन्धः परिवहः................................. ||ऽऽ इति | तत्रैव च प्रत्येकं शुक्रज्योतिः सत्यज्योतिश्चित्रज्योतिर्ज्योतिष्मानित्यादिसंज्ञाः सप्त सप्तावान्तरभेदा उक्ताः || ५१३ || तदयम् ---- आदित्यादिध्रुवान्तश्च स्वर्लोकः परिकीतीतः | अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः || १०-५१४ || ऋषिदेवैः सगन्धर्वैर्वृतश्चाप्सरसां गणैः | भूपृष्ठादादित्यान्तो भुवर्लोको योजनानां लक्षमेकम् | ततो ध्रुवान्तः स्वर्गलोकश्चतुर्दश लक्षाणि || ईदृशं चामुम् ---- अग्निहोत्रं क्रतून् वापि कृत्वा ज्ञानविवजीताः || १०-५१५ || स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषम् | अग्निहोत्रं नित्याग्निनिष्ठो होमः, क्रतवस्तु ज्योतिष्टोमादयः | ज्ञानविवजीतत्वाद् देहान्ते स्वर्लोकं यान्ति | तत्र स्वकर्मोपचितफलं भुक्त्वा पुनर्मानुषादिकमायान्ति | ज्ञानिनस्तु यज्ञादि कुर्वन्तोऽपि निष्कामत्वान्मुच्यन्त इत्याशयः || इत्थमेवंविधस्य ---- स्वर्लोकस्योपरिष्टात्तु द्वे कोटी योजनानि तु || १०-५१६ || पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने | एवमिहत्यप्रक्रियया सूर्यान्तो भुवर्लोकः | ध्रुवान्तः स्वर्लोकः तदूर्ध्वे सपञ्चाशीतिलक्षं कोटिद्वयं महर्लोकः | श्रीपरामृगेन्द्रादौ तु ध्रुवान्तो भुवर्लोकः, तदूर्ध्वम् ---- ऽऽपञ्चाशीतिमितैर्लक्षैः स्वर्लोकः स्वर्गसंश्रयः | कोटिद्वयं महर्लोको महान्तो यत्र संस्थिताः ||ऽऽ इति, ऽऽतिथिलक्षैर्भुवर्लोको ध्रुवप्रान्तो महीतलात् | तदूनकोटिः स्वर्लोक.......................... ||ऽऽ (१३-११४) इति प्रक्रियाभेदो दृश्यते, स तद्ग्रन्थसंग्रहकर्तृभिस्तथानिबद्धत्वात् | इदं तु साक्षात्परमेश्वरेणोक्तम् ---- ऽऽभूर्भुवःस्वर्ध्रुवान्तं स्याल्लक्षाणि............ |ऽऽ ऽऽ...................ंअहान् कोटिद्वयं भवेत् ||ऽऽ इति किरणादिग्रन्थेन भगवदुक्तेन च संसवादमित्ययमेव क्रमो युक्तः || अत्र महर्लोके ---- ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै || १०-५१७ || अथ ---- कोट्यष्टकं महादेवि योजनानां वरानने | महर्लोकोपरिष्टात्तु जनलोको व्यवस्थितः || १०-५१८ || किं च ---- एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा | भौतिको वाड्वलिश्चैव जनलोकनिवासिनः || १०-५१९ || अथ ---- द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये | तपोलोकः समाख्यात ऋषियोगेश्वराकुलः || १०-५२० || तानाह ---- सनकश्च सनन्दश्च सनत्कुमारः सनन्दनः | शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः || १०-५२१ || अथ प्रसङ्गाद्भूर्लोकात् सत्यलोकान्तं भुवनसंख्यामाह ---- पद्माः षट्पञ्चपञ्चशत् कोट्यो लक्षाणि विंशतिः | भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने || १०-५२२ || इयं संख्या समाख्याता भुवनानां वरानने | परमेश्वरेण बृहत्तन्त्र इति शेषः | पद्मसंख्या एकादशपटले वक्ष्यमाणा | प्रकृतमाह ---- कोट्यः षोडश मानेन तपोलोकोर्ध्वतः प्रिये || १०-५२३ || सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः | क्रीडते भगवान् देवो वृत आत्मसमैद्वीजैः || १०-५२४ || यतस्ते तत्र ---- कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः | आनन्दपदसम्प्राप्ता आनन्दपदमागताः || १०-५२५ || कर्मणा नित्यनैमित्तिकानुष्ठानेन ज्ञानेन च वेदान्तोक्तेन समुच्चितेन सम्यक् सिद्धाः, अत एव ऽऽविज्ञानमानन्दं ब्रह्मऽऽ (बृ०उ० ३-९-३४) इत्युक्ताद्वैतपदे परिनिष्ठिता रूढभावनाः, अतश्च सत्यलोकाख्यमिदमानन्दपदं महाभोगस्थानं सम्प्राप्ता अधिरूढाः, अत्रापि चानन्दपदमागताः स्वात्मारामा एवेत्यर्थः || ५२५ || किं च ---- ऋग्वेदो मूतीमांस्तस्मिन्निन्द्रलीनसमद्युतिः | दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः || १०-५२६ || संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा | उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः || १०-५२७ || दिव्यकुण्डलधारी च महाकायो महाभुजः | स्थितः पश्चिमदिग्भागे सामवेदः सनातनः || १०-५२८ || रक्ताम्बरधरः श्रीमान् पद्मरागसमप्रभः | स्रग्दामधारकश्चित्रमालाभूषणभूषितः || १०-५२९ || अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा | पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः || १०-५३० || ऋचां कर्मदेवतास्तुतिमात्रपरायणानामनुष्ठानास्फुटतया श्यामता | यजुषां तु तत्स्फुटतया सितत्वम् | साम्नां गीतिप्राधान्येन रञ्जकत्वाद्रक्तत्वम् | अथर्वण अभिचाराद्यैहिककर्मपरतया कृष्णत्वं शबलता च || ५३० || किं चात्र ---- षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु | वेदोपनिषदश्चैव मीमांसारण्यकं तथा || १०-५३१ || स्वाहाकारवषट्कारौ रहस्यानि तथैव च | गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः || १०-५३२ || अङ्गानीति वेदस्य शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिःशास्त्राणि | इतिहासः भारतादीनि | व्यासाद्युक्तानि शास्त्राणि पुराणानि | वेदोपनिषदो वेदान्ताः | वेदविचारशास्त्रं मीमांसा | आरण्यकं बृहदारण्यकं वेदान्तेऽपि पृथगुक्तमरण्येऽनूद्यमानत्वात् | दीप्त्याप्यायविषयौ मन्त्रौ स्वाहाकारवषट्कारौ | रहस्यानि तैत्तिरीयादिवेदान्तविशेषा रहस्यत्वादेव पृथगुक्तानि | गायत्री वेदमाता | सर्वा एता आकृतिमत्यो देवताः || ५३२ || सोऽयं सत्यलोकः ---- भोगस्थानं ब्रह्मणः स्यात्............ स तत्र निर्वतीताधिकारः ---- ............परं ब्रह्म ततो व्रजेत् | अनाकृति ऽऽविज्ञानमानन्दं ब्रह्मऽऽ (बृ०उ० ३-९-३४) इति यदुक्तम् तदित्यर्थः || अथ ---- कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये || १०-५३३ || ब्रह्मासनमिति ख्यातं जपासिन्दूरसप्रभम् | आस्यतेऽस्मिन्नित्यासनं भुवनं सत्यलोकस्योर्ध्वम् || तत्रासौ ---- रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः || १०-५३४ || चतुर्मुखश्चतुर्वेदश्चतुर्युगवशानुगः | ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः || १०-५३५ || एश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः | धर्मादिफलसम्बन्धप्रदाता च युगे युगे || १०-५३६ || तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह | स्रष्टा च सर्वभूतानां सदेवासुरमानुषे || १०-५३७ || चत्वारो युगा वशा अनुगा यस्येति पूर्वनिपातव्यत्ययः | एश्वर्याष्टकमणिमादि | षड्विधेति नारकिस्थावरसरीसृपादिपश्वन्ता त्रिविधा तामसी, रजस्तमोमयी मानुषी, रजःसत्त्वरूपा मौनी, सात्त्विकी दैवी चेत्येकादशे भविष्यति | युगे युग इति धर्मादिफलप्रदः | तिर्यगादीनां सर्वेषां भूतानां चतुर्दशसंख्यानां सदेवासुरमानुषे जगति स्रष्टा || ५३७ || अथ ---- कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने | नीलेन्दीवरसङ्काशा इन्द्रनीलसमप्रभा || १०-५३८ || ब्रह्मलोकात् परत्वेन विष्णोश्चैव पुरी स्मृता | सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला || १०-५३९ || मरकतस्तम्भसोपाना नीलध्वजसमाकुला | घण्टावितानविस्तीर्णा चारुचामरशोभिता || १०-५४० || नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता | कामकार्मुकनिर्घोषवित्रस्तमृगलोचनैः || १०-५४१ || नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः | मनोभवशरायासनिपातशतजर्जरैः || १०-५४२ || सुघूणीतमदायासविलोलधवलेक्षणैः | संसेव्यते स भगवान् विष्णुः कमललोचनः || १०-५४३ || इन्द्रनीलसमाकारो नीलोत्पलदलप्रभः | चतुर्भुजो महाकायः पीनवक्षा गदाधरः || १०-५४४ || किरीटी कुण्डली शङ्खी प्रजापालनतत्परः | संसेव्यते स भगवान्निकायैरात्मविक्रमैः || १०-५४५ || (किरीटी =) किरीटमौलिः१ | गदाशङ्खौ चक्रशार्ङ्गे अप्युपलक्षयतः | आत्मविक्रमैरित्यात्मन इव विक्रमो येषां तैः, निकायैरनुचरसमूहैः संसेव्यते || ५४५ || किं च ---- विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः | ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः || १०-५४६ || विष्णुभक्ता इति तदाकारोपासापराः || ५४६ || अथ ---- सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः | शुद्धस्फटिकसङ्काशश्चत्वरोद्यानमण्डितः || १०-५४७ || सहस्रभूमिकाभिश्च हर्म्यमालाभिरूजीतः | विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः || १०-५४८ || वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः | सोपानवदुपर्युपरिवतीचारुदारु (रचितक्षुद्रा) भूमयो भूमिकाः | पुष्पकैरिति सङ्कल्पमात्रसञ्चारिभिः | श्रीपरायां तु ---- ऽऽतद्ब्रह्मोर्ध्वं भवेद्विष्णुः स च कोटिचतुष्टयात् | षड्भिः स कोटिभिर्देवः शङ्करः संस्थितो हरः ||ऽऽ इति | किरणायां तु ---- ऽऽदशषट्कोटयः सत्य.......................... |ऽऽ इत्युक्त्वा ---- ऽऽतस्मादूर्ध्वं भवेद् ब्रह्मा कोटित्रयमितः ख(ग)१ | त्रिभिस्तु कोटिभिवीष्णुश्चतुभीस्तु हरः स्थितः ||ऽऽ इति प्रक्रियाभेदो न अवस्थितस्यास्य देवतात्रयस्य सङ्कलयय दशकोटिदेशत्वानपायाद्विरुद्धः || अत्र च ---- मारुताः सुखसंस्पर्शा वतीकर्पूरगन्धयः || १०-५४९ || एष च ---- नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः | तथा च ---- वरेण्या वरदा चैव वरिष्ठा वरवणीनी || १०-५५० || वसिष्ठा च वराहा च वरारोहा च सप्तमी | गङ्गा ह्येताः समाख्याता रुद्रलोकवहाः सदा || १०-५५१ || एताश्च ---- लक्षपत्रदलाढ्यैश्च सितपद्मैवीभूषिताः | इन्द्रनीलनिभैर्नालैर्योजनायतगन्धिभिः || ५५२ || दलानि प्रधानपत्राणि, प्रत्येइअं लक्षपत्राणीत्यर्थः | (तैः) उपलक्षितैरित्यर्थः || ५५२ || किं चात्र रुद्रलोके ---- स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः | शरदिन्दुनिभा नार्यो नवनीतसुकोमलाः || १०-५५३ || सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः | अलिपुञ्जनिभैः केशैर्मृगामोदसुगन्धिभिः || १०-५५४ || प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः | दाडिमीपुष्पसङ्काशैरोष्ठैरुत्पलगन्धिभिः || १०-५५५ || रम्भानिभाभिर्जङ्घाभिर्बाहुभिबीसकोमलैः | अशोकपल्लवाकारैः पादैः पद्मदलोपमैः || १०-५५६ || नखैश्च केतकीप्रख्यैर्दशनैमौंक्तिकोज्ज्वलैः | स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतम् || १०-५५७ || हारकेयूरकटकैः सीमन्तमणिजालकैः | काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिता सदा || १०-५५८ || नार्यः स्त्रीसहस्रकदम्बैः परिवाररूपेणाढ्याः | मृगामोदः कस्तूरिका | श्रवणाधारः कर्णपाली | अशोकपल्लवा लौहित्यस्य, पद्मदलानि तु सौकुमार्यस्य उपमानाय | केतक्यो लोहितराजयः स्वच्छाश्च || ५५८ || किं च ---- तारकुम्भनिभाकारैरुन्नतैश्च पयोधरैः | सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः || १०-५५९ || गुरुश्रोणीभराक्रान्ता मुक्तावलिविराजिताः | राजहंसगतिस्पधीमत्तमातङ्गविभ्रमाः || १०-५६० || नूपुरारावमुखरप्रस्खलन्मृदुविक्रमाः | हास्यलास्यविलासाढ्यभ्रूभङ्गतरलेक्षणाः || १०-५६१ || ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनाम् | तारं रजतम् | पीने कण्ठे समाश्रितं समाश्रयणं येषां पयोधराणाम्, तैः | लास्यं सुकुमारं नृत्तम्, विलासा लीलाः, हास्यादिभिराढ्या भ्रूभङ्गतरलेक्षणाश्चेति विशेषणसमासः || किं च ---- कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः || १०-५६२ || परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् | कामे सम्भोगे ग्रहोऽभिनिवेश एव ग्रहो भूतमिति योज्यम् || एवंविधरूपलावण्यशालिन्य एताः ---- यद्यप्येवंविधा नार्यः............... तथापि ...........णिजभर्तृभयातुराः || १०-५६३ || अस्वैरिण्य इत्यर्थः || ५६३ || अतश्च ---- वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः | ईदृश्यश्च ---- अवगूह्य च सर्वाङ्गैरापीय वदनैर्मुखम् || १०-५६४ || क्रीडन्ति रुद्रभवने रुद्रकन्याः सरुद्रकाः | किं चात्र ---- रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः || १०-५६५ || कामनिष्ठा अपि ज्ञानयोगाभ्यां न परिहीयन्त इत्यर्थः || ५६५ || एते च ---- मुकुटैः कुण्डलैश्चित्रैर्महारत्नसमुज्ज्वलैः | केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः || १०-५६६ || मुक्ताफलावलीहारैर्ब्रह्मसूत्रोत्तरीयकैः | उपलक्षिताः सन्तः || महाकाया महोरस्कास्त्रिनेत्राः शूलपाणयः || १०-५६७ || चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः | सुरसिद्धनुताः सर्वे सुप्रसन्ना वरप्रदाः || १०-५६८ || हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः | तेषां च ---- न तत्र मृत्युर्न जरा न शोकोऽस्ति वियोगजः || १०-५६९ || अतश्चैते ---- क्रीडन्ति सार्धं कन्याभिः......... न तद्भोगप्रदकर्मक्षये पुनः संसरन्तीत्याह ---- .............षंसारभयवजीताः | केवलमेते ---- अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः || १०-५७० || श्रीकण्ठस्येच्छया सर्वे शिवं यान्ति तनुक्षये | गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि || १०-५७१ || इच्छा अत्र अनुजिघृक्षा, तां विनोर्ध्वं सृज्यन्त एवेत्यर्थः || ५७१ || तदित्थम् ---- एवंविधैरसंख्यातैवीमानरथगामिभिः | महावृषगजारूढैः सिंहवाजिसुवाहनैः || १०-५७२ || लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतम् | तन्मध्ये सर्वतोभद्रं सिंहद्वारैः सुतोरणैः || १०-५७३ || स्वच्छमौक्तिकसङ्काशप्राकारशिखरावृतम् | नन्दीश्वरमहाकालद्वारपालगणैर्वृतम् || १०-५७४ || किंकिणीजालमुखरैः पताकाध्वजसंकुलैः | वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः || १०-५७५ || घण्टाचामरशोभाढ्यं दर्पणैश्चोपशोभितम् | कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः || १०-५७६ || रचितैश्चित्रशास्त्रज्ञै रत्नचूर्णसमुज्ज्वलैः | स्वस्तिकैः पत्रवल्ल्याढ्यैश्चित्रितं भुवनाजिरम् || १०-५७७ || शतसिंहासनाकीर्णं वेदिकारत्नभूषितम् | गोपुराट्टालरथकैर्वीथीभिश्च भ्रमान्त्रकैः || १०-५७८ || सर्वरत्नविचित्राढ्यैर्द्वारबद्धैः सुशोभनम् | निर्गमैः सुगवाक्षैश्च विटङ्कैः स्फटिकप्रभैः || १०-५७९ || स्तम्भैः सोपानबद्धैश्च वज्रवैडूर्यसप्रभैः | पूर्णचन्द्रनिभाकारैरण्डैः शिखरमण्डितैः || १०-५८० || मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः | नाट्यशालैः सुशोभाढ्यैर्नृत्तगीतरवाकुलैः || १०-५८१ || मण्डपै रत्नचित्राढ्यैः सभामण्डलनिर्भरैः | आसीनै रुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः || १०-५८२ || मत्तवारणकै रम्यैश्चन्द्रशालासुशोभनैः | धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितम् || १०-५८३ || चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलम् | तूर्यशब्दजयध्वानकाहलाकूजितेन च || १०-५८४ || वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः | पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च || १०-५८५ || दुन्दुभीनादशब्देन मुरजस्फालनेन च | कारस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः || १०-५८६ || गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिः स्वनैः | वन्दिनां स्तोत्रशब्देन सामवेदरवेण च || १०-५८७ || हुडुङ्काराट्टहासैश्च गेयझाङ्कारयोजितैः | वृषनन्दितशब्देन गजवाजिरवेण च || १०-५८८ || काञ्चीनूपूरशब्देन नदतीव महत्पुरम् | नन्दीश्वरमहाकालप्रधाना द्वारपालगणा इति समासः | किङ्किणीजालमुखरैरित्यादि वितानच्छत्रषण्डविशेषणम् | मुक्ताहारप्रलम्बितैरिति पूर्वनिपातव्यत्ययः | चित्रशास्त्रज्ञैः कर्तृभिः रत्नचूर्णेन रचिता ये पत्रवल्ल्याढ्याः पत्रलतालंकृताः स्वस्तिकास्तैवीचित्रम् | तत्र रुद्रभुवने भुवनाजिरं भुवनाङ्गनमिति योज्यम् | वेदिकाभिश्चतुरस्रभूमिकाभिः, रत्नैश्च प्राकारस्थैर्भूषितम् | गोपुराणि प्रधानद्वाराणि | अट्टालाः पुरप्राकाराः | रथका रचनाविशेषाः | वीथ्यो विमानसञ्चारभुवः | भ्रमान्त्रकैः जलप्रवाहप्रणालैः | सर्वरत्नविचित्रत्वाच्च आढ्यैः स्फीतैर्द्वारोपान्तगतैः शोभनम् | निर्गमाः मार्गाः१ | गवाक्षास्तदवलोकनजालकस्थानानि | विटङ्काः स्तम्भशीर्षकाः | अण्डा वर्तुलसंस्थानदेवगृहाः | रत्नरचनापरिष्कृतं यच्चित्रं तेनाढ्याः | तथा सभास्थानेषु यानि रत्नचूर्णरचितानि मण्डलानि तैनीर्भरा ये मण्डपास्तैर्युक्तम् | तूर्यं द्विखण्डं ताम्रादिमयं वाद्यम् | काहलास्तु त्रिखण्डाः | गोमुखा तट्टरी | पणवोऽन्तस्तन्त्रीवलयझाङ्कारिणी ढक्का | तालवाद्यं वाद्यशब्दः | दुन्दुभिः कांस्यशब्दः | फनत्कारिणी ढक्का भेरी | गर्जनं सर्वप्राणबलोत्थो नादः | भक्तिवैवश्येनोच्चरन्नान्तरः शब्दो हुडुङ्कारः | वृषस्य परमेश्वरवाहनाभिमान प्रहर्षोत्थितो नादो नन्दितशब्दस्तेन | काञ्चीनूपुरशब्दो नृत्यद्रुद्रकन्यासम्बन्धी | एवमीदृशैः शब्दैः पुरमेव साक्षान्नदतीति ज्ञायते || तदित्थम् ---- सर्वसम्पत्करं श्रीमच्छङ्करस्य तु मन्दिरम् || १०-५८९ || तन्निवासिनामित्यर्थात् || ५८९ || अत्रासौ भगवान् रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः | गङ्गया स्नपितो नित्यं दिव्यवस्त्राम्बरच्छदः || १०-५९० || पृथिव्या गन्धलिप्ताङ्गः श्रिया पुष्पैः सुपूजितः | सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः || १०-५९१ || पृथिवी गन्धगुणा | श्रीः पुष्पाश्रिता | एवं च गङ्गादिदेवता अस्य ब्रह्माण्डस्योपरि वक्ष्यमाणभुवनेभ्यः प्राकाम्यादवतीर्णाः स्वोचितं स्नानादि कुर्वत्योऽन्तरङ्गपरिवाररूपाः || ५९१ || अपि चास्य देवस्य ---- पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः | तस्मिंस्तु ---- गङ्गा तूत्तरिका च्छत्रे.......... गङ्गा तु उत्तरिकात्वं प्राकाम्येनाश्रित्य स्थिता || किं चास्य ---- .........षर्वादित्याश्च दीपिकाः || १०-५९२ || तथा ---- पुष्पदन्तगणेशाद्यैरासनं तस्य संवृतम् | तस्मिंश्चासने ---- कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा || १०-५९३ || विक्रमश्च दृढश्चैव निष्कम्पो निष्कलस्तथा | अष्टौ ते हरयः प्रोक्तास्त्रिनेत्रा भूरिविक्रमाः || १०-५९४ || सिंहरूपाः सुतेजस्काः सटाविकटभास्वराः | एतादृशैः ---- शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः || ५९५ || आसनं विवृतं तैस्तु महोत्साहैर्बलोत्कटैः | अस्य भगवतो ब्रह्माण्डान्तरवस्थितस्यापि परमेव माहात्म्यमिति कृत्वा ---- ऽऽशिवशक्तिमया मन्त्रा न्यस्तव्या वीरवन्दितेऽऽ (२-६३) इति पूर्वोक्तभैरवासनवच्छिवशक्तिपरमार्था एव सिंहाः || तत्र भद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः || १०-५९६ || सर्वलक्षणसम्पूर्णः सर्वाभरणभूषितः | त्र्यक्षो दशभुजो देवो जटामुकुटमण्डितः || १०-५९७ || पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः | बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः || १०-५९८ || वरदाभयपाणिश्च सर्वायुधधरस्तथा | भद्रं प्रशस्तम् | वरदाभयौ पाणी मुख्यौ | सर्वायुधानि पूर्वोक्तानि खड्गखेटकादीनि || किं च ---- शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः || १०-५९९ || चन्द्रबिम्बनखाभाभिरंगुलीभिरलंकृतैः | सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः || १०-६०० || पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः | शतपत्रपद्मचिह्नितहस्तपादत्वादिना दिव्यलक्षणत्वमुक्तम् | पादैरिति जातौ बहुवचनम्, प्राकाम्यतो वा ऽऽ(उत)१ विश्वतस्पात्ऽऽ (श्वे०उ० ३-३) इति स्थित्या बहुचरण(ता)२ऽप्यस्य | इत्थंभूतलक्षण एतास्तृतीयाः || किं च ---- चामरव्यजनोत्क्षेपै रुद्रस्त्रीभिः समन्ततः || १०-६०१ || वीजितस्तु सदा श्रीमांश्चन्द्रकोटिसमप्रभः | ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः || १०-६०२ || ध्यातो वै योगिभिनीत्यं प्रसन्नवदनेक्षणः | प्रहसन् स इवाभाति निर्मलज्ञानरश्मिभिः || १०-६०३ || अज्ञानतिमिरं हत्वा दर्शयेत् परमं वपुः | सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः || १०-६०४ || ध्यातः सन् परस्वरूपानुप्रवेशाद् ज्ञानरश्मिभिः प्रहसन्निवाभाति अतश्चाज्ञानं हत्वा परं स्वरूपं दर्शयत्येव || ६०४ || किं च ---- तस्योत्सङ्गगता देवी तत्काञ्चनसुप्रभा | पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः || १०-६०५ || सर्वलक्षणसम्पूर्णा सर्वाभरणभूषिता | योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका || १०-६०६ || देवस्याभिमुखी नित्यमुमा तु ललितेक्षणा | परावेशशक्तितद्वन्तावेतदपरं रूपं श्रित्वा ब्रह्माण्डान्तःसृष्टिसंहारौ कुर्वाते इत्याह ---- शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा || १०-६०७ || ब्रह्माण्डे सृष्टिसंहारौ (कुर्वाते)१ च शिवेच्छया | चकारावत्र तुल्ययोगे | तथेत्यपररूपेण | चकारः स्थितिविलयानुग्रहान् समुच्चिनोति | शिवोऽत्र परमः || किञ्चेदम् ---- दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः || १०-६०८ || ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहम् | अनेनापि क्रमेणास्यानुग्राहकत्वमित्यर्थः || जरामरणनिर्मुक्ता व्याधिशोकविवजीताः || १०-६०९ || ते च ---- नाधो यान्ति पुनर्देवि संसारे दुःखसागरे | किन्तु शिवं यान्ति ततश्चोर्ध्वं श्रीकण्ठेन समीक्षिताः || १०-६१० || तत इति हरस्थानात् | सम्यगीक्षिताः शक्तिपातेनानुगृहीताः | तदेव(म)१स्य पुरस्य भगवदधिष्ठानादयं महिमा यत्तत्प्राप्ता नाधो यान्ति, अपि तु श्रीकण्ठनाथेन सम्यगनुग्रहदृष्ट्येक्षिता मुच्यन्ते, अन्यथा तु ऊर्ध्वोर्ध्वमेव क्रमेण भोगाय सृज्यन्ते || ६१० || इत्थम् ---- रुद्रलोकः समाख्यातस्ततश्चोर्ध्वमुमे शृणु | उत्तरोत्तरवृद्धया च भुवनं भुवनं स्थितम् || १०-६११ || वृद्धिः प्रमाणविभवाभ्याम् | सा चाग्रे वक्ष्यते || ६११ || सम्प्रति तु ---- ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्य चोर्ध्वतः | दण्डपाणेः पुरं ज्ञेयं नानारुद्रगणावृतम् || १०-६१२ || दण्डपाणिस्तु भगवान् योगैश्वर्यबलान्वितः | दण्डः पाणितलेनैव धृतो येन शिवेच्छया || १०-६१३ || रुद्रभट्टारक एवानेन वपुषा स्थितः || ६१३ || विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुभीदम् | विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया || १०-६१४ || अनुध्यानमास्थाय विधिनार्चाजपादिरूपेणाराधितः सन् ब्रह्माण्डे मोक्षमार्गं सुदुभीदं योगिभिर्महता प्रयत्नेन भेत्तुं शक्यं विवृणोति विगतावरणं करोति ब्रह्माण्डकर्परिकाविभेदनयुक्त्या प्रगुणीकरोति, न तु रुणद्धि | अथ च परचैतन्यस्फारात्मा भगवान् रुद्रः स्वशक्तिगतसुस्पष्टीकृतप्राणदण्डप्रयोगेण शरीरगतहृत्प्रदेशाश्रितस्वात्माख्यातिरूपहृद्ग्रन्थ्याख्ये ब्रह्माण्डे मोक्षमार्गं करोति, १ऽऽहृदये यः स्थितो ग्रन्थिरध ऊर्ध्वनियामकः |ऽऽ इत्याम्नाताख्यातिग्रन्थिप्रशमनेन मध्यमार्गगतशक्तिभूमिम् ---- ऽऽशैवी मुखमिहोच्यतेऽऽ (वि०भै० २०) इत्याम्नायोक्तस्थित्या शिवताप्राप्तिहेतुं स्फुटयतीत्यान्तरोऽर्थः, न तु ब्रह्मबिलान्ता ब्रह्माण्डव्याप्तिरिति व्याख्यातव्यम् | एवं हि जलाद्यावरणव्याप्तिर्देहाश्रया न भवेत् | ङाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् | अधःशक्त्या विनिर्गत्य यावद् ब्रह्माणमूर्ध्वतः || नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः | नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः ||ऽऽ (१०-१२३४-३६) इत्यादिश्च भाविग्रन्थो भेदव्याप्तिहान्या निवीषयः स्यात् | यत्तु ---- शौषुप्तेऽध्वन्यस्तमितो हित्वा ब्रह्माण्डगोचरम्ऽऽ (२-८) इति श्रीस्पन्दे श्रीगुरुभिनीबद्धम्, तद् ब्रह्मबिलाधिष्ठातृवक्ष्यमाणपञ्चब्रह्मोपलक्षितो यः शक्त्यण्डपर्यन्तोऽध्वा, तदभिप्रायेण स्थितमित्येतद् भ्रान्त्यापि न मुण्डान्ता ब्रह्माण्डव्याप्तिर्व्याख्येयेति यथाव्याकृतमेव भद्रम् || ६१४ || एवं दण्डपाण्यन्ते रुद्रलोके मूतीद्वयेनावस्थितो विश्वाधिपतित्वाद् मूर्तीशमध्ये पशुपतिर्यः, स रुद्राधिष्ठाता | ये त्वन्ये शर्वादयः सप्त मूर्तीश्वरास्ते भूरादिसत्यान्तेषु सप्तसु लोकेष्वधिपतय इत्यादिशति ---- सप्तलोकेषु ये रुद्रा............ अधिपतयः || तान् ---- ............कथयामि समासतः | तानाह ---- शर्वो रुद्रस्तथा भीमो भव उग्रस्तथैव च || १०-६१५ || महादेवस्तथेशानो रुद्रलोकाधिपास्त्वमी | लोकानां भूरादीनां यथासंख्यमधिपाः | अनेनैवाशयेन ---- ङिवृत्त्यभ्यन्तरे पृथ्वी शतकोटिप्रविस्तरा | तस्यां च भुवनानां च शतमष्टोत्तरावधि ||ऽऽ (४-१०२) इत्येद्व्याख्याने कालाग्निः कूष्माण्डो हाटक इति ब्रह्माण्डान्तरधोभागे त्रयः, भूर्लोके शर्वः, सत्यलोकान्ते ब्रह्मा, विष्णुरुद्रौ स्वलोकयोरित्यन्तः सप्त, बही रुद्रशतम्, तदुपरि सर्वाधिष्ठाता वीरभद्र इति व्याख्यातम् || यदि भूर्लोकतः सत्यलोकान्तमेते रुद्राः पृथग्भुवनदीक्षायां सप्त शोध्याः, तदूर्ध्वे का तही स्थिति ? ---- इत्याह ---- ब्रह्मलोके स्थितो ब्रह्मा विष्णुर्वै वैष्णवे पुरे || ६१६ || ब्रह्मलोको यः प्राग्वद् ब्रह्मासनमित्युक्तः || तथैतदुपरि ---- रुद्रलोके स्थितो रुद्रः सर्वेषां नायकः स्मृतः | कालाग्न्यादित्रयस्य शर्वादिसप्तकस्य ब्रह्मविष्ण्वोश्चेत्यर्थः | अयं विश्वाधिपतित्वाद् मूर्तीश्वरमध्ये पशुपतिरित्याख्ययोक्तः | एवं च -- -- ऽऽअनन्तं चैव कालाग्निं नरकांश्च यथाक्रमम् | पातालानि ततश्चोर्ध्वं शोधयेदनुपूर्वशः ||ऽऽ (१०-३४७) इत्युक्तक्रमेण संशोध्य भूरादिसत्यान्तलोकसप्तकशुद्धौ शर्वादीनीशान्तान् सप्त क्रमेण संशोधयेत् | ततो ब्रह्मविष्णुभुवनशुद्धौ ब्रह्मविष्णू संशोध्याविति भुवनदीक्षायामस्यां भुवनेशशुद्धिविभागो ग्रन्थोपारूढ एव स्थितः | तेन यत् श्रीभुल्लकः ---- अनन्तभुवनात्प्रभृति समस्तद्वीपसमुद्रभूर्लोकान्तं शर्वः, (भुवः)१ स्वर्महःसु रुद्रभीमभवाः, जनस्तपःसत्येषु त्रिषूग्रः, महादेवो विष्णुलोके, रुद्रलोकेऽधिपश्चेशानः शोध्य इति स्वकल्पनयाऽभिहितवान्, तदुपेक्ष्यमेव || तदेतत्सङ्कलयितुमाह ---- कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः || १०-६१७ || योजनानां वरारोहे त्वध्वायमुपवणीतः | कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने || १०-६१८ || कोटियोजनमानेन घनाकारेण संस्थितः | पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने || १०-६१९ || पञ्चाशच्च अधो ज्ञेया योजनानां समन्ततः | एवं कोटिशतं ज्ञेयं पाथीवं तत्त्वमुच्यते || १०-६२० || अधःकटाहाद्यथा भूपृष्ठान्तं पञ्चाशत्, तथा दशीतम् | भूपृष्ठात्तु ध्रुवान्तं पञ्चदश लक्षाणि, तदूर्ध्वं महर्लोकः पञ्चाशीतिर्लक्षाणि कोटिद्वयं च, जनोलोकः कोट्यष्टकम्, तपोलोकः कोटयो द्वादश, सत्यलोकः षोडश, ब्रह्मभुवनं कोटिः, विष्णुलोकः कोटिद्वयम्, रुद्रलोकः कोटयः सप्त, ऊर्ध्वकटाहः कोटिरित्यूर्ध्वमपि पञ्चाशत्कोटयः पाथीवं तत्त्वमिति तत्र यः स्थूल आभोगः, न तु तत्त्वस्यैतावत्येव व्याप्तिः, उद्धातदीक्षायां बिन्द्वन्तमपि सूक्ष्मदृशा तद्व्याप्तेर्दशीतत्वात् | ज्ञेयमुच्यत इति दीक्षाधारणादौ ज्ञातव्यमाचार्यसाधकादिभिरित्यभिधीयते भगवतेत्यर्थः || ६२० || तदेतत् ---- शतरुद्रावधि ज्ञेयं सौवर्णं परिवर्तुलम् | वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि || १०-६२१ || वज्रसारादधिकं सारं यस्य || ६२१ || एतच्च मन्त्रनादास्त्रप्रयोगेण दीक्ष्यस्य भेदनीयमित्याह ---- हुंफट्कारप्रयोगेण भेदयेत्तु वरानने | एवं मान्त्रतेजःस्फारानुप्रवेशेनैव पादाङ्गुष्ठाग्रगतादनन्तभुवनादारभ्य हृदन्तमवस्थितं ब्रह्माण्डं चेद्विदीर्णम्, तद् बाह्यमपि तदनुषक्तं दलितमेव भगवतोक्तं भवति || शतरुद्रावधीति यदुक्तम्, तद्विभक्तुमाह ---- शतरुद्रानतो वक्ष्ये समासेन कृशोदरि || १०-६२२ || शतरुद्राभिधेत्थमेषामित्याह ---- दश दश क्रमेणैव दशदिक्षु समन्ततः | पूर्वादिक्रमयोगेन.............. यतः स्थितास्तत एते शतरुद्रा उच्यन्त इति शेषः || तांश्च ---- ................कथयाम्यनुपूर्वशः || १०-६२३ || कपालीशो ह्यजो ब्रध्नो वज्रदेहः प्रमर्दनः | विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः || १०-६२४ || एते च ---- इन्द्रस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा इन्द्रेण च सुपूजिताः || १०-६२५ || आक्रम्येत्यधिष्ठाय, अत्र हेतुः प्रभोः परभैरवस्य शक्त्या स्वान्त्र्यात्मनाधिष्ठिता ईदृशीमुन्मीलितदृक्क्रियाशक्तिमधिकारभूमिं ग्राहिताः, विचरन्ति सृष्ट्यादि कुर्वन्तः क्रीडन्ति | अत एवेन्द्रेण सुष्ठु भक्तिप्रकर्षेण पूज्यन्ते | एवमुत्तरत्रापि योज्यम् || ६२५ || अग्निरुद्रो हुताशी च पिङ्गलः खादको हरः | ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षयान्तकौ || १०-६२६ || अग्नेर्बलं समाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा अग्निराजसुपूजिताः || १०-६२७ || अग्निराज आग्नेयदिक्पतिः | एवमन्यत् || ६२७ || याम्यो मृत्युर्हरो धाता विधाता कर्तृसंज्ञकः | संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा || १०-६२८ || यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा यमराजसुपूजिताः || १०-६२९ || नैरृतो मारुतो हन्ता क्रूरदृष्टिर्भयानकः | ऊर्ध्वकेशो विरूपाक्षो धूमलोहितदंष्ट्रकौ || १०-६३० || नैरृतं बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा नैरृतेन्द्रसुपूजिताः || १०-६३१ || बलो ह्यतिबलश्चैव पाशहस्तो महाबलः | श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः || १०-६३२ || मेघनादी सुनादी च समासात् परिकीतीताः | वारुणं बलमाक्रम्य प्रभुशक्तिसमन्विताः || १०-६३३ || विचरन्ति महादेवा वरुणेन्द्रसुपूजिताः | शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः || १०-६३४ || पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः | वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः || १०-६३५ || विचरन्ति महादेवा वायुराजसुपूजिताः | निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः || १०-६३६ || लक्ष्मी रत्नधरः कामी प्रसादश्च प्रभासकः | सोमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः || १०-६३७ || विचरन्ति महादेवाः सोमराजसुपूजिताः | विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः || १०-६३८ || शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिप्रियः | ईशानानुमता देवाश्चेष्टन्ते सुरपूजिताः || १०-६३९ || विचरन्ति महादेवा ईशशक्त्या त्वधिष्ठिताः | वृषो वृषधरोऽनन्तः क्रोधनो मारुताह्वयः || १०-६४० || ग्रसनो डम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः | विष्णोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः || १०-६४१ || विचरन्ति महादेवा अनन्तेन सुपूजिताः | ईशानो दिक्पतिरनुमतो दिक्पतित्वेनाभिमतो येषाम् | सुरैः सर्वैः पूजिताः सर्वसिद्धिप्रदत्वात् | विष्णोरित्यधोदिग्गतस्य | अनन्तेनेति सर्वाधोदिगधिष्ठात्रा || ऊर्ध्वदिशि तु ---- शम्भुवीभुर्गणाध्यक्षस्त्र्यक्षश्च त्रिदशेश्वरः || १०-६४२ || संवाहश्च विवाहश्च नलो लिप्सुस्त्रिलोचनः | ब्रह्मणो बलमाक्रम्य प्रभुशक्तिसमन्विताः || १०-६४३ || विचरन्ति महादेवा ब्रह्मणैव सुपूजिताः | एषां सर्वेषां मध्यात् ---- एकैकस्य सहस्रं तु परिवारोऽभिधीयते || १०-६४४ || बृहत्तन्त्रेषु || ६४४ || एते च ---- शतरुद्रा इति ख्याता ब्रह्माण्डं व्याप्य संस्थिताः | व्याप्येति परिवृत्य || एते च ---- असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः || १०-६४५ || स्वच्छन्दा विश्वगा देवाः कल्पमन्वन्तरेष्वपि | सहस्रसंख्ययापि संख्यातुमशक्याः | प्रोक्तप्रभुशक्तिसमन्वितत्वात् स्वच्छन्दा अनुग्रहादौ स्वतन्त्राः | नियतशरीरत्वेऽपि विश्वगा व्यापकाः कल्पादिष्वपि च देवा द्योतमानाः || प्रतिदिशं चैते दशदिग्व्यवस्थायां संनिविष्टा इत्याह ---- पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु || १०-६४६ || दशानां दशानाम् ---- एकैकमधिपं चैव कथयामि वरानने | स्थितो वै पूर्वतोऽण्डस्य श्वेतो वै नाम नामतः || १०-६४७ || रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः | दीप्तिमद्भिर्महातीव्रैर्मयूखैरिव भास्करः || १०-६४८ || आग्नेययामग्निसङ्काशो वैद्युतो नाम विश्रुतः | सोऽपि विद्युत्प्रभै रुद्रशतैस्तु परिवारितः || १०-६४९ || याम्येऽण्डस्य महाकालो युगान्तानलसंनिभः | शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः || १०-६५० || नैरृते विकटो नाम शतेन परिवारितः | संतिष्ठते महातेजा द्वितीय इव भास्करः || १०-६५१ || शतेनेति मुख्येन | एवमन्यत्र || ६५१ || पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः | शतरुद्रैर्वृतः सोऽपि तिष्ठत्यमितविक्रमः || १०-६५२ || वायव्यदिशि चाण्डस्य वायुवेगा महाबलः | शतेन च वृतः श्रीमांस्तिष्ठत्यत्र महाबलः || १०-६५३ || सुभद्रनामोत्तरतः शतेन परिवारितः | महावीर्यबलोपेतस्तिष्ठत्यत्र महाबलः || १०-६५४ || परिविष्टो मरीचिभिस्तत्र तिष्ठति वीर्यवान् | विद्याधरो नाम रुद्र एशान्यां वै प्रतिष्ठितः || १०-६५५ || शतरुद्रैर्वृतः सोऽपि परिविष्ट इवोडुराट् | महावीर्यबलोपेतस्तिष्ठतेऽनन्तविक्रमः || १०-६५६ || परिविष्टो मरीचिभिः परिवृतः || ६५६ || अधः कालाग्निरुद्रोऽन्यः स्थितस्त्वत्र द्वितीयकः | समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने || १०-६५७ || द्वितीयक इत्यन्तस्थात् कालाग्नेरन्यः || ६५७ || शतैः समावृतो रुद्रो मयूखैरिव भास्करः | उपरिष्टाद् रुद्र इत्येतदाख्ययाख्यातः || तदित्थम् ---- वीरभद्रो वृतो रुद्रैरुपर्यण्डस्य संस्थितः || १०-६५८ || एकादशो महाकायै रुद्रक्रोधसमुद्भवैः | वृत इत्येतैः श्वेतादिभिरेव पूर्वादिदिग्गतशतरुद्राधिष्ठातृभिः | एवं मध्यवर्ती वीरभद्र एकादशः | एतैश्च समस्तरुग्द्रावणस्य भगवतो रुद्रस्य संसारवित्रासकारिणः क्रोधादुद्भूतैः | क्रोधसमुद्भव इति पाठो वीरभद्रैकविषयः | यतश्चैते श्वेतादयो वीरभद्रस्य परिवारभूतास्तत एव श्रीपूर्वशास्त्रे ---- ऽऽअनन्तः प्रथमस्तेषां कपालीशस्तथापरः | अग्निरुद्रो यमश्चैव नैरृतो बल एव च || शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः | शम्भुश्च........................... ||ऽऽ (मा०वि० ५-१३-१४) इति प्रतिदिग्गतरुद्रदशकमध्यगमेकैकं रुद्रमुक्त्वा वीरभद्रश्च विधूमज्वलनप्रभ एकादश उक्तः, श्वेतादयस्तु तत्परिवारत्वान्न प्राधान्येन गणिताः || उपसंहरति ---- एवं तेऽत्र महात्मान एकैकं तु शतेन च || १०-६५९ || दशैते वेष्टिता देवि शतरुद्रैश्च सुव्रते | प्रत्येकं शतेन परिवारभूतेन प्रोक्तैश्च कपालीशादिभिरन्तरङ्गैर्दशभिर्वेष्टितः | एवमस्यां विततायां भुवनदीक्षायां सर्व एवैते पाथीवाण्डगता यथोक्तभुवनेश्वराः शोध्याः, न तु प्राक् संक्षिप्तदीक्षोक्तमष्टोत्तरमेव शतमिति न तदाशयेनेदं विपर्यासितव्यम्, प्रतिपदोक्तस्य विधेः श्रुतिप्रमाणोत्कर्षेण बलवत्त्वादिति | यत्तु श्रीभुल्लकेन ---- अनन्तश्री..... दिभिर्द्वीपादिभिः सह सप्तनवतिः, बहिरेकादशेति कल्पितम्, तदसदेव || एते श्वेतादयो दश शतरुद्रपरिवृता अपि एकैकं शतेन परिवृता इति यदुक्तम्, तत्संक्षेपाशयेन, विस्तरतस्तु ---- एषामपरिसंख्येयः परिवारो महात्मनाम् || १०-६६० || अतश्चैते सर्वे ---- आवृत्याण्डं स्थिता ह्येते मधु यद्वन्मधुव्रताः | कदम्बकुसुमं यद्वत् केसरैः परिवारितम् || १०-६६१ || परिवारितं तथा ह्यण्डं रुद्रैरमितविक्रमैः | मधुव्रता मधुकराः || तथा ---- गृहैः सतोरणाट्टालैर्नानारत्नविचित्रितैः || १०-६६२ || जाम्बूनदमयैश्चित्रैः समन्तात् समलंकृतम् | दिव्यनारीभिराकीर्णं सर्वकामसमन्वितम् || १०-६६३ || ब्रह्माण्डमेतदाख्यातं पाशजालावतारितम् | जन्मव्याधिजरामृत्युमहोदधिपरिप्लुतम् || १०-६६४ || गुणत्रयमलच्छन्नं नानाजातिसमाकुलम् | पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलम् || १०-६६५ || गृहा भुवनानि | आणवादिपाशजालेनावतारितमाच्छादितं जन्मादिपरिप्लुतं चेति तदाश्रयजनाभिप्रायेण | गुणत्रयं सत्त्वादि, तदेव मलम् | जातयश्चतुर्दशविधो भूतसर्गः | पशुज्ञानेन वेदसांख्यादिना परितः समन्तात् क्रान्तं तज्ज्ञानाश्वासबहुलमिति यावत् | गतित्रयं देवमनुष्यतिर्यग्रूपम् || ६६५ || अत्र च ---- अनित्या एव गतयः सर्वेषामेव वादिनाम् | गतयो देवमनुष्यतिर्यक्प्रवृत्तयः || ऽऽएवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ||ऽऽ (भ०गी० ९-२१) इति नीत्याऽनित्याः परिमितकालाः | वादिनामिति वेदसांख्यपुराणेतिहासन्यायवैशेषिकसौगतार्हतादिनिष्ठानाम् || यत एते ---- परापरविभागं तु नैव जानन्ति मोहिताः || १०-६६६ || भेदात्मकं पदमपरम्, अद्वैतं तु परमिति न जानन्ति मायया व्यामूढीकृतत्वात्, अतो भेदपद एव सुरनरतिर्यक्पदानि परापरतया प्राप्याणि मन्यन्ते || ६६६ || अतश्च ---- हेमाण्डं तु पुरा सृष्टं क्षयात्म भुवनाकृति | ईशमायासमाविष्टस्यात्मवर्गस्य भूतये || १०-६६७ || यद्यपि समनान्तं क्षययोगि, तथापि यदस्य क्षयात्मत्वमुक्तम्, तदतिपरिमितकालतया तुच्छताप्रतिपादनाशयेन | समाविष्टस्य क्रोडीकृतस्य | भूतये कर्मोपभोगसिद्ध्यर्थम् || ६६७ || गतमेतत् ---- अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकम् | उच्यन्त इति शेषः || तत्र मानकलनयैतानि ---- उत्तरोत्तरयोगेन दशधा संस्थितानि तु || १०-६६८ || शतकोटिविस्ताराद् ब्रह्माण्डाद् दशधा गुणितं जलतत्त्वम् | ततो दशगुणं तेजः | ततोऽपि वायुः | ततोऽपि व्योम | ततोऽपि गर्भीकृततन्मात्रेन्द्रिय एव गुणः || ६६८ || अहङ्कारः......... एवंकलितपरिमाणादहङ्कारात् ---- ..........टदूर्ध्वं तु बुद्धिस्तु शतधा स्थिता | ततोऽपि ---- ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवणीनि || १०-६६९ || गुणतत्त्वेन सह प्रकृतितत्त्वस्य तत् परिमाणमित्यर्थः || ६६९ || तदुपरि ---- पौरुषं दशसाहस्रं............ ततोऽपि ---- ...........णियतिर्लक्षधा स्मृता | तदूर्ध्वं दश लक्षाणि कला यावत्तु सुव्रते || १०-६७० || तदेवंविधात् कलातत्त्वमानादपि ---- माया तु कोटिधा.......... सा च ---- ............व्याप्य स्थिता सर्वं चराचरम् | सर्वमिति कलादिक्षित्यन्तम् | एतच्चोपलक्षणपरं सर्वतत्त्वेषु, तेन पृथिव्यादितत्त्वान्युत्तरोत्तरं जलादितत्त्वैर्व्याप्तानि | अतश्च शतकोटिविस्तीर्णाद् ब्रह्माण्डाद् दशगुणं यदप्तत्त्वमुच्यते, तत्तदन्तर्वतीना ब्रह्माण्डेन सह | तेन मध्ये ब्रह्माण्डं कोटिशतम्, अधोजललेखिका चत्वारि सर्वाणि कोटिशतानि, जलावरणस्य मानं मध्वतीना व्याख्यातेन ब्रह्माण्डेन सह तु कोटिशतान्येव, सर्वतः, पारिवार्तुल्यमानब्रह्माण्डेनान्तर्वतीना दशकोटिशतानि जलावरणमिति स्थित्या तेजस्तत्त्वादीन्यप्यन्तर्वतीजलादितत्त्वमानेन सह यथोत्तरं दशादिगुणितानि व्याख्यातव्यानि || तदेवंविधान्मायापरिमाणात् ---- दशकोटिगुणा विद्या........... सापि व्याख्यातदृष्ट्या ऊर्ध्वाधःकोटिनवकपरीमाणा, मध्यस्थात् कलामानात् कोटिगुणितात् || .......ंआयां व्याप्य व्यवस्थिता || १०-६७१ || अथ ततोऽपि ---- शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु | ईश्वरेण ईश्वरतत्त्वेन || ततोऽपि तद्व्याप्यैव स्थितम् ---- सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः || १०-६७२ || सादाख्यं यत् तत्त्वं कोटिसहस्रपरिमाणम्, तदेवोर्ध्वत इति तत्रैवाध्वन्यूर्ध्वभागे परव्याप्त्या बिन्दुनादं वक्ष्यमाणबिन्दुनादात्मकावरणरूपतया स्थितं परं सादाख्यं रूपम् | बिन्दुनाऽर्धचन्द्रनिरोधिकावरणे, नादेन च नादान्तावरणमुपलक्षितम् | एतच्चाग्रे व्यक्तीभविष्यति || ६७२ || अतोऽप्यूर्ध्वे ---- योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता | वृन्दं शतकोटिसहस्राणि | शक्तिरिति शक्तितत्त्वम् || अत्रैव च शक्तिसम्बन्धिन्यूर्ध्वभागे ---- व्यापिनी सर्वमध्वानं व्याप्य देवि व्यवस्थिता || १०-६७३ || शक्तिरेव परया व्याप्त्या परशिवतत्त्वात्मा व्यापिनीरूपा, सर्वमिति शक्तिसदाशिवाद्यधस्तनं समनात्मकं चोर्ध्वमध्वानं व्याप्य स्थिता | एषां च सर्वेषां तत्त्वानां पूर्वमेव स्वरूपं व्याख्यातमिति मायान्तं तत्तत्पदोचितानां क्षेत्रज्ञानां विचित्राणाम्, विद्यादिव्यापिन्यन्तं तु मन्त्रमन्त्रेश्वरमन्त्रमहेश्वराद्यावर्तेन भेदभिन्नानां रुद्राणामवस्थितिरिति तदपेक्षया तत्र तत्र तथोचितमेव भुवनभोगादिकम् | तदेतदग्रे व्यक्तीकरिष्यति भगवान् || ६७३ || एवमपरशिवतत्त्वान्तमध्वपरिमाणमुक्त्वा विश्वव्यापिनि परमशिवतत्त्वे न परिमाणमस्तीत्याह ---- अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने | ततो व्यापिनीसमनान्तादध्वन ऊर्ध्वं यत् श्रेयोरूपं तत्त्वं पारमाथीकं स्वतन्त्रप्रकाशानन्दघनं परमशिवरूपम्, तदप्रमेयं परप्रमात्रेकरूपमित्येवं ज्ञेयं निश्चेतव्यम्, न त्वितरतत्त्ववदुत्तरोत्तरप्रमाणाधिक्यकलनया कलनीयम् | एवं चाभिदधदेवमादिशति यत् समनान्तं विश्वं यथोक्तप्रक्रियया प्रमेयीकुर्वन्नेव परप्रमात्रात्मनि स्वप्रकाशचिदानन्दघने परमशिवपदे समाविशेदिति || एवं प्रसङ्गादुक्त्वा जलतत्त्वादौ भुवनस्थितिं प्रकटयितुमाह ---- भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमात् || १०-६७४ || तथा ---- आकारं विभवं चैव भुवनानेकविस्तरम् | आकारः संस्थानम् | विभवो विभूतिः | भुवनानेकस्य तत्तत्प्रधानभुवनानुलग्नस्य भुवनसमूहस्य विस्तारो दशसंख्याकृतं वैतत्यम् || एतच्च पारमेश्वरव्यतिरेकेण नान्यत्र दृष्टमित्याह ---- यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः || १०-६७५ || स्वतन्त्रचिद्घनानन्दात्मकपरभैरवस्वस्वभावाख्यातिपाशपाशितत्वात् संकुचितदृक्शक्तीनां ज्ञानानि ज्ञायतेऽभिलषितं पशुभिः यैस्तैः पशुशास्त्रैः, यन्न ज्ञातं तथा कुपथेन परिमितक्लेशमात्रप्रशमकारिणा, न तु परिपूर्णपदप्राप्तिप्रदेनोपायप्रदर्शनेन भ्रान्ता लब्धातात्त्विकप्रकाशा दृष्टिर्ज्ञानं प्रतिपद्यमानं येषां तादृग्भिः || ६७५ || तान्येतानि पशुज्ञानानि लेशतो दर्शयितुमाह ---- यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः | प्रकृतिपुरुषयोरविवेकमात्रात् संसारो विवेकात्तु मुक्तिरितीदृग्ज्ञानैः सांख्यैः, अत्रैव चित्तैकाग्र्यात्मयोगावेशसम्प्राप्यद्रष्टृ- स्वरूपावस्थित्यात्ममुक्तिवादिभिर्योगशास्त्रस्थैः, षड्विंशतितत्त्वरूपमहाविभूत्यात्मकवासुदेवाख्यपरप्रकृति- परिणामात्मकप्रकृत्यादिजगद्वादिभिः पाञ्चरात्रिकैर्यन्न दृष्टमिति सम्बन्धः || तथा ---- स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः || १०-६७६ || नापि संशयवादैश्च नग्नक्षपणकादिभिः | पृथिव्यादयः स्वभावेन तनुकरणभुवनादिकार्यार्थं प्रवर्तन्ते न पुनरत्रेश्वरः प्रवर्तकोऽस्तीत्येवं वदद्भिः स्वभाववादिभिः, कर्मैव विश्वकारणं नान्यदित्याचक्षाणैः कर्मप्रवादिभिः, दैवं पुरुषकारो वा विश्वकारणमिति ब्रुवाणैः संशयवादिभिः, ऽऽजीवाजीवास्रवाश्चैव संवरो विवरस्तथा | बन्धो मोक्षश्च सप्तैते सप्तभङ्गीविचित्रिताः ||ऽऽ इति वचनव्यक्त्याऽनादिसिद्धो बन्धो मोक्षश्च | त्रिविधो जीवः, अजीवस्तु स्थावरम्, पुद्गलो देहः, धर्मोऽधर्मो भुवनाद्यधिकरणं लोकाकाशो मुक्तपुद्गलस्थानमलोकाकाशश्चेति षड्विधा शब्दादिविषया विकल्पवृत्तिः सुखदुःखादिसम्भिन्ना विकल्पकप्रशमनरूपा, आ समन्तात् स्रवति प्रसरत्यजस्रमित्यास्रवो, यमनियमादिनियमितेन्द्रियवृत्तिपूर्वममलपुद्गलरूपध्यानं सम्यग् वृणीते जीवानिति संवरः केशोल्लुञ्चनतप्तशिलापतनमलधारणादिसमस्तदुःखानुभवः प्राक्सञ्चिताशुभसञ्चयस्य निर्झर इव विध्वंसको विवरः, लोभमोहशोकादिलोहपञ्जर इवालावुपात्राणां निमज्जकः पुद्गलानामावारको बन्धः, तदावरणव्यपगमे मुखसंविदात्मकपुद्गलोन्मज्जनमलोकाकाशो मोक्षश्चेति जीवाजीवादिपदार्थसप्तकवादिभिः ---- १. स्यादस्ति, २. स्यान्नास्ति, ३. स्यादस्ति च स्यान्नास्ति च, ४. स्यादनिर्वाच्यम्, ५. स्यादस्ति च निर्वाच्यम्, ६. स्यान्नास्ति च निर्वाच्यम्, ७. स्यादस्ति च नास्ति चानिर्वाच्यं चेति सप्तभिरेव भङ्गीभिरनिश्चितमेव सर्वं वदद्भिर्नग्नक्षपणकादिभिर्यन्न दृष्टमिति सम्बन्धः || तथा ---- न भूतवादिभिश्चैव........... पृथिव्यप्तेजोवायुरिति भूतचतुष्टयमेव प्रत्यक्षदृष्टमस्तीति कथयद्भिश्चार्वाकैः || ........णापि स्याल्लौकिकैरपि || १०-६७७ || वार्तादण्डनीतिमात्रनिष्ठैः || ६७७ || न चात्मचिन्तकैर्वापि............. ऽऽपुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्ऽऽ (ऋ० १०-९०-२) इत्यादि चिन्तयद्भिर्वैदिकैः ---- ..........ण च तर्कप्रवादिभिः | ऽऽअविज्ञाततत्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कःऽऽ (न्या०सू० १-१-४०) इत्यूहरूपेण तर्केण व्यवस्थां कुर्वद्भिः || न च वैशेषिकैर्वाऽपि षट्पदार्थपरायणैः || १०-६७८ || द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यपदार्थषट्कमेव तत्त्वमित्यभिदधद्भिः कणादशिष्यैः || न चापि न्यायवादैश्च................ प्रमाणादिपदार्थषोडशकतत्त्वज्ञानान्निःश्रेयसाधिगमो भवतीति ब्रुवाणैर्नैयायिकैः || .............ःएतुदृष्टान्तवादिभिः | न च यद्दृष्टमिति स्थितमेव | ऽऽतद्भावहेतुभावो हि दृष्टान्ते तदवेदिनः | (ख्याप्येते)१, (विदुषां वाच्यो)२ हेतुरेव हि केवलः ||ऽऽ (प्र.वा. ३-२७) इत्यारटद्भिः सौगतैः || नाप्येकजन्मवादैश्च................ वर्तमानमेवेदमेकं जन्म, न तु जन्मान्तरमभूद् भावि वेत्युदितवद्भिः || ..........ण चाप्येकत्ववादिभिः || १०-६७९ || पारमेशशास्त्रप्रतिपादितस्वप्रकाशस्वतन्त्रचिदद्वयवादव्यतिरेकेण सत्ताद्यद्वयवादिभिः || ६७९ || न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरम् | धूर्तविरचितम्लेच्छादिशास्त्रनिष्ठैः | ईश्वरेण शिवभट्टारकेण प्रोक्तमप्तत्त्वादिभुवनानामाकारविभवविस्तारादिकं यत् सांख्यादिभिर्धूर्तलोकपर्यन्तैर्न कैश्चिदपि परिज्ञातम्, तत्ते वक्ष्यामीति प्रोक्तेनैव सङ्गतिः || न चेयन्त एव वादिनः, अपि तु ---- इत्येवंवादिनां तेषां वादानां तु शतत्रयम् || १०-६८० || त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् | अज्ञानतिमिरान्धानामुन्मीलनकृदुत्तमम् || १०-६८१ || संसारपङ्कमग्नानां नौरिवोत्तारणं परम् | महामोहतमोऽन्धानां तमोनुदमिदं परम् || १०-६८२ || परमेशमुखोद्भूतं यन्मया प्राप्तमद्भूतम् | ज्ञानामृतमिदं दिव्यं नानाभुवनविस्तरम् || १०-६८३ || शृणुष्वैकमना देवि विचित्राकारमद्भुतम् | इतिशब्दः प्रकारवाची | एवंप्रकारं वदतां वादिनां सम्बन्धिनो ये वादास्तेषां मध्ये जलादिशिवान्तगततत्तद्भुवनाद्यध्ववेद्यीकरणप्रतिपादनेन तावद्वेद्यवेदकपरभैरवात्मकमहाप्रमातृपदसमावेशप्रदमिदं ज्ञानामृतम् | अज्ञानतिमिरेण तत्त्वावेदनान्धकारेण, अन्धा अनुन्मीलितदृक्शक्त्यः, तत एव भ्रान्तचेतसः, तेषां शक्तिपाततः प्राप्तं सद् उन्मीलनकृत् स्वस्वभावोन्मेषकम् | तथा संसारकर्दमे मग्नानां नौरिवोत्तारणं परं पारप्रापकम् | महामोहो विषयेष्वलङ्कारवस्त्रस्त्र्यादिष्वात्माभिमानः, तमः पुर्यष्टके आत्माभिमानः, आभ्यां मोहतामिस्रान्धतामिस्रा लक्ष्यन्ते | एवमेभिरन्धीकृतानां तमोनुदमित्यज्ञाननाशनम् | परमेशमुखोद्भूतमिति परभैरवादेव शक्तिसदाशिवादिक्रमेणायातं यद् मया कैलासवासिना प्राप्तमिति श्रीश्रीकण्ठाद् लब्धदीक्षेणाधिगतम् | अद्भुतं निभाल्यमानं सद्विस्मयमुद्रानुप्रवेशनेन परभैरवस्वरूपाभिव्यञ्जकम्, अत एव दिव्यम् | नानाभुवनानां प्रतिपाद्यमानानां विस्तारो विभवादिप्रपञ्चो यत्र तत्तादृशम् | ज्ञानामृतप्रतिपादकमिदं शास्त्रमेव ज्ञानामृतम् | एकाग्रमनाः शृण्वित्यनेन परमोपादेयतां ध्वनति || अद्भुतत्वं भुवनानां स्पष्टयति ---- अनन्तो भुवनव्रातस्त्वव्युच्छेदाद् व्यवस्थितः || १०-६८४ || मधुकोशजालकवत्तथा भूरिचयावृतिः | अव्युच्छेदान्नैरन्तर्येण | मधुकोशे मधुमक्षिकाणां गोलकाकृतावाश्रये यानि जालकानि उपर्युपरि वर्तुलाकृत्या स्थितानि | भूरिचयावृतिरिति विततया परस्परमावार्यावारकतयावस्थितः || किं च ---- मीनशङ्खकुलायाभं दाडिमीबीजवत् स्थितम् || १०-६८५ || कदम्बकेसरनिभं पुराणां तु समूहकम् | कुलायमालयः | दाडिमीबीजवदित्यतिनिबिडगर्भार्थस्थितम् || किं च ---- महासेनावासकवद्वने तरुसमूहवत् || १०-६८६ || निरन्तरमनन्तानि भुवनानि वरानने | नानाकाराणि चित्राणि सर्वरत्नमयानि च || १०-६८७ || महती चासौ सेना च महासेना, तस्या आवासकः शिबिरम्, तद्वत् | आकारः संस्थानम् | विचित्राणि विविधशोभाभाञ्जि || ६८७ || तथा ---- परिमण्डलानि दीर्घाण्यर्धचन्द्राकृतीनि च | पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च || १०-६८८ || पर्वताकृतिरूपाणि गजयूथाकृतीनि च | शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च || १०-६८९ || महाविमानरूपाणि त्रिशूलाकृतिमन्ति च | मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च || १०-६९० || महापुरुषरूपाणि शतशृङ्गाकृतीनि च | सहस्रशृङ्गावर्तानि तथान्यानि वरानने || १०-६९१ || कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च | वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च || १०-६९२ || परिमण्डलानि सन्ति दीर्घाणीति पश्चात्परिमण्डलान्यग्रे तु दीर्घाणि, अत एव वृत्तानीत्यनेन न पुनरुक्तता | नन्द्यावर्तः संनिवेशविशेषः | मुरजाकृतीनां भुवनानां त्र्यश्राकृतीनि पुराणि गृहा येषामिति विशेषणम्, तेन त्रिकोणानीत्यपुनरुक्तम् | महापुरुषः ---- ऽऽपृथुवक्षा दीर्घबाहूरुश्चऽऽ इत्यादिरूपः | पुरुषाकृतीनीति तु सामान्योक्तिः || ६९२ || किं च ---- दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च | भेरीनादस्वराढ्यानि दिव्यगीतध्वनीनि च || १०-६९३ || दिव्यदुन्दुभिनादानि महावेणुस्वनानि च | नानावादित्रघोषाणि भुवनानि च सर्वदा || १०-६९४ || इत्थमेषां विभूतिमुक्त्वा वर्णमाह ---- शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च | चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च || १०-६९५ || लाक्षारससवर्णानि कानिचिद्वरवणीनि | इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च || १०-६९६ || नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च | बालादित्यसवर्णानि पद्मगर्भनिभानि च || १०-६९७ || चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च | मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च || १०-६९८ || अशोकस्तबकाभानि हरितालनिभानि च | शक्रचापसवर्णानि गोक्षीरधवलानि च || १०-६९९ || सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च | तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च || १०-७०० || शङ्खपाण्डुरवर्णानि कानिचिद्भुवनानि च | नानावर्णानि चान्यानि नानारूपाकृतीनि च || १०-७०१ || इन्द्रगोपकः = खद्योतकः | एतानि च जलतत्त्वादनाश्रितशिवतत्त्वान्तमीदृंश्युक्तानि || यतः ---- एतेषां परतो देवि व्यापकं परमं पदम् | अप्रमेयमसंख्येयमगम्यं सर्ववादिनाम् || १०-७०२ || अप्रमेयमिदन्तया परिच्छेत्तुमशक्यं यतः संख्ययापि निर्देष्टुमशक्यम् | अतश्च शैवशास्त्रज्ञव्यतिरेकेण प्रागुक्तानां सर्ववादिनामगम्यमप्राप्यम् || ७०२ || तदाह ---- विना प्रसादादीशस्य ज्ञानमेतन्न लभ्यते | न चापि भावो भवति दीक्षामप्राप्य देहिनाम् || १०-७०३ || शक्तिपाततो लब्धमाहेश्वरदीक्षाणामेतज्ज्ञानं लब्धं सत् प्ररोहति नान्यथेत्यर्थः || ७०३ || एतदेव स्पष्टयति ---- यदा तु कारणाच्छक्तिर्भवेन्निर्वाणकारिका | शिवेच्छया प्रपद्येत दीक्षां ज्ञानमयीं शुभाम् || १०-७०४ || मन्त्रयोगात्मिकां दिव्यां........... तदेति मध्ये व्याकार्यम् | कारणात् परमशिवात् निर्वाणकारिका शक्तिर्भवेद् अनुग्राह्यस्योन्मज्जति तदा सोऽनुग्राह्यो दीक्षां प्रपद्यते | दीक्षां ज्ञानमयीमित्यनेन प्रोक्तवक्ष्यमाणसमस्ताध्वमेयीकरण- लब्धपरप्रमातृपदानुप्रवेशाभिव्यक्तिदाम्, शुभां जीवन्मुक्तिरूपाम्, ज्ञानमयीमित्यनेन क्रियादीक्षयापि ज्ञानसारतैवेत्यादिशति | मन्त्रेण मननत्राणधमीणा योग एक्यं यस्याम्, दीक्षायां हि मन्त्राराधनात् तत्तादात्म्यं भवति | दिव्यामिति वैष्णवादिदीक्षाभ्योऽभ्यधिकप्रभावाम् || इत्थं ज्ञानमयीं दीक्षामासाद्य ---- .........टतो मोक्षं व्रजेत् पशुः | जीवन्मुक्तिं लभते | पशुरिति प्रागवस्थानुवादः || यदि त्वियद्विश्ववेद्यवेदनतः परां वेदकभुवं नारोहति, तदा न मुच्यत इत्याह ---- नान्यथा मोक्षमायाति अपि ज्ञानशतैरपि || १०-७०५ || पूर्वनिदीष्टरूपैः || ७०५ || अतश्च ---- यस्य प्रकाशितं सर्वं शिवेनानन्तरूपिणा | स एव मोक्षं व्रजति.......... प्रकाशितमित्यनेन भुवनाध्वज्ञानेनाभिव्यक्तिं नीतम् | अनन्तरूपिणाऽशेषशरीरेण || काऽस्य मोक्षप्राप्तिः ? ---- इत्याह ---- ..............शिवः सर्वमहेश्वरः || १०-७०६ || शिव इति प्राप्ताद्वयप्रकाशानन्दघनश्रेयोरूपः, तत एव ब्रह्माद्यनाश्रितान्ताधिष्ठातृत्वात् सर्वेषां महानीश्वरः || ७०६ || किं च ---- तेनेदं ज्ञानमुख्यं तु पुरा प्रोक्तं मया तव | तेनेति सर्वमहेश्वरात्मकपरस्वरूपेण मया कैलासवासिना (तव) देव्याः परशक्तिरूपायाः पुरा प्रोक्तमित्यनेन परस्वरूपप्रत्यभिज्ञापनया देवीमुन्मिषत्स्वस्थानां कुर्वन्नेतद् बृंहयन् प्रोक्तज्ञानदीक्षातो मुक्तः परमेश्वर उमापतिश्चैकं तत्त्वमिति | अतश्च तन्त्रावतारपटलोक्तपरसम्बन्धसारतैव सर्वत्रेति दशीतं भवति || एतच्च ---- संसारार्णवमग्नानां नौरिवोत्तारणं परम् || १०-७०७ || यत एतत् ---- महामायाञ्जनातीतं........... मायोपरि महामाया सदाशिवादीनामपि समुचितसङ्कोचोत्थापिका शून्यातिशून्यरूपा शक्तिस्तत्कृतमञ्जनमावरणमप्यतीतम् || अत एव ---- ...........ऽज्ञातं पशुगोचरे | पशूनां मायाञ्जितत्वात् || किं चेदम् ---- अनन्तं पारमक्षोभ्यं सुबोधं परमेश्वरम् || १०-७०८ || अनन्तं देशकालाकारानवच्छिन्नम् | पारं च मायापर्यन्तात्मकम् | स्वतन्त्रचिदेकघनाकारत्वान्न केनचित् क्षोभणीयमपि तूल्लासनविलापनक्रमेण विश्वक्षोभकम् | सुबोधमिति ---- ऽऽदिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ||ऽऽ (४-१३) इति श्रीस्पन्दनिरूपितनीत्या विश्वप्रमेयीकरणेन सुखोपायप्राप्यं स्वप्रकाशस्वस्वरूपात्मकत्वात् | अथ चेदं पारमेश्वरं ज्ञानं शास्त्रं शतकोटिप्रविस्तीर्णत्वादनन्तपारं वाद्यन्तरैः क्षोभयितुमशक्यम् || ७०८ || तदीदृशम् ---- परमेशमुखोद्गीर्णं यन्मया प्राप्तमद्भुतम् | तत् ---- वक्ष्ये ज्ञानामृतमिदं शृणुष्वैकमनाः प्रिये || १०-७०९ || शृणुष्वेति पुनरपि सावधानत्वग्राहिकयोक्त्या देका प्ररोचनायाभिमुखीं कुर्वन्नस्य ज्ञानस्य परमोपादेयतामेव प्रथयति || ७०९ || तत्र ---- ऊर्ध्वं वै ब्रह्मणोऽण्डस्य पुरैकादशकं स्थितम् | एकादशानां रुद्राणां युगान्ताग्निसमत्विषाम् || १०-७१० || ऊर्ध्वमिति शतरुद्रपुराण्यतिक्रम्य, एकादशानामपि प्रागुक्तानां श्वेतादीनां वीरभद्रान्तानां युगान्ताग्निसमत्विषामेषामतिदीप्तत्वात् || ७१० || एवं शतरुद्राधिपतेर्वीरभद्रस्य सपरिवारस्य भुवनान्युक्त्वा, तदुपरि श्रीभद्रकालीपुरमाह ---- अथोर्ध्वे भुवनं देव्याः कथयामि वरानने | इन्द्रनीलमयं दिव्यं समन्तात् परिमण्डलम् || १०-७११ || तस्मिन् भगवती देवी भद्रकाली व्यवस्थिता | सा च तत्र ---- वसतीन्दीवरश्यामा स्निग्धकङ्कुष्टसप्रभा || १०-७१२ || सूर्यमण्डलरूपाभ्यां कुण्डलाभ्यामलङ्कृता | पौर्णमास्यां यथा सन्ध्या चन्द्रर्काभ्यां विराजते || १०-७१३ || कङ्कुष्टं रञ्जनद्रव्यविशेषः || ७१३ || अस्याश्च ---- राजते च महाहारः स्तनाभ्यामन्तरे स्थितः | असिताञ्जनशैलाभ्यां मध्ये स्रोतोवहा यथा || १०-७१४ || श्तनाभ्याम्ऽऽ ऽऽशैलाभ्याम्ऽऽ चेति सहार्थे तृतीये || ७१४ || किं चास्याः ---- चतुभीश्च धृतं पीठं सिंहैरमितविक्रमैः | पीठमासनम् || तत्र च ---- सर्ववज्रमये दिव्ये दिव्यरत्नविभूषिते || १०-७१५ || आसने सुप्रभे देवी जात्यञ्जनसमप्रभा | शुक्ले हिमवतः शृङ्गे नीलमेघ इव स्थिता || १०-७१६ || किं च ---- सर्वरत्नमयी दिव्या रशनास्याः विराजते | इयं च देवी ---- पीतमाल्यांशुकवती शर्वरीवारुणोदये || १०-७१७ || शर्वरी रात्रिः कृष्णा, अरुणोदयसमये संध्यारागरञ्जिता भवति || ७१७ || देव्या रुद्रशक्तित्वात् ---- तृतीयं नयनं तस्या ललाटस्थं विराजते | उदयस्थ इवादित्यो रश्मिजालविभूषितः || १०-७१८ || किं च ---- उच्छिरतेनातपत्रेण सा श्वेतेन विराजते | कृष्णमेघोपरिस्थेन चन्द्रेणेव विभावरी || १०-७१९ || एषा च देवतारूपाणाम् ---- कोटिकोटिसहस्रेण स्त्रीणां तु परिवारिता | आवृता चन्द्रलेखेव नक्षत्रैस्तु नभस्तले || १०-७२० || एताश्च ---- कुमुदोत्पलवर्णाश्च हेमश्यामाश्च योषितः | प्रियंगुकलिकाश्यामाश्चन्द्रगौर्यः सयौवनाः || १०-७२१ || पद्मावदातरूपिण्यः पीनश्रोणिपयोधराः | हावभावविधिज्ञास्तु नृत्तगीतविशारदाः || १०७२२ || वीणावेणुमृदङ्गाद्यैर्वंशवादित्रनिःस्वनैः | उपासीनास्तु तां देका रमन्ते तत्र योषितः || १०-७२३ || हावश्चेष्टालाञ्छनः, भावस्तु तत्तच्चेष्टाद्युदितः सात्त्विको धर्मः || ७२३ || तदेतद्देव्याः सम्बन्धि ---- एवं विद्धि जयं नाम भुवनं तु वरानने | एषा च सा देवी ---- या दुर्गेति स्मृता लोके ब्रह्माण्डोदरवतीनी || १०-७२४ || विष्णुना तपसा पूर्वमाराध्य परमेश्वरम् | अवतारिता वधार्थाय महिषस्य महात्मनः || १०-७२५ || महात्मनो महाशरीरस्य || ७२५ || महिषस्य महात्म्यं प्रकटयति ---- येन चैकेन शृङ्गेण भगवान् हिमवान् गिरिः | शुष्कपर्णमिव क्षिप्तः.......... भगवानिति देवतात्मा || सोऽयमीदृशो महिषासुरः ---- ............भगवत्या विनाशितः || १०-७२६ || कथमित्याह ---- सा तं विनाशयेद् देवी तमः सूर्य इवोत्थितः | किं च ---- सा देवी सर्वदेवीनां नामरूपैश्च तिष्ठति || १०-७२७ || योगमायाप्रतिच्छन्ना............ योगात् परतत्त्वैक्यादुत्थिता या माया स्वरूपगोपना, तया प्रतिच्छन्ना स्थगितपरस्वरूपा | सर्वदेवीनां सम्बन्धिना नामरूपप्रपञ्चेन स्थितेत्यर्थः || किं चैषा ब्रह्माण्डमवतीर्णा सती ---- ...............कुमारी लोकभाविनी | भगवच्छक्तिरेषा परानुपभोग्यत्वात् कुमारीत्वमाश्रित्य स्थिता | तादृशी चासौ लोकान् भावयत्यभीष्टफलेन सफलान् सम्पादयति || इत्थमाकृतियुक्ताप्येषा वस्तुचिन्तायाम् ---- अचिन्त्या चाप्रमेया च अन्यत्र परिपठ्यते || १०-७२८ || अन्यत्रेति तात्त्विके तत्स्वरूपनिरूपणपरे तत्र तत्र शास्त्रे || ७२८ || किं चैषा ---- विष्णुना सहिता देवी कल्पे कल्पे पुनः पुनः | भगिनीत्वेन चायाति नामरूपविपर्ययैः || १०-७२९ || मन्वन्तरे मन्वन्तरे तथा चैव युगे युगे | रक्षणार्थं हि लोकानां मातेव हितकारिणी || १०-७३० || कल्पादिस्वरूपमेकादशे व्यक्तीभविष्यति | नामरूपविपर्ययैरिति नानानामरूपभोगैः || ७३० || उपसंहरति ---- इत्याख्यातं तु भुवनं जयं नाम वरानने | अतश्च ---- तद्भक्तास्तत्र गच्छन्ति तस्या मण्डलदीक्षिताः || १०-७३१ || मण्डलशब्देन तदधिकरणं भुवनं तत्प्राप्त्यर्थम् || ७३१ || तदित्थं दीक्षापूर्वभक्तिक्रमलभ्यमेतत्, नान्यथेत्याह ---- न चैतत्तपसा प्राप्यं न यज्ञैर्भूरिदक्षिणैः | न दानैवीविधैश्चापि शक्यं प्राप्तुं वरानने || १०-७३२ || किन्तु ---- प्रसादाद् देवदेवस्य शशाङ्काङ्कितमौलिनः | दीक्षां प्राप्य प्राप्नुवन्ति.......... जयमित्यनुवर्तते || न चैतज्ज्ञानप्राप्तिमेव दीक्षिताः, अपि तु ---- ............ंअण्डलं चक्रवतीनाम् || १०-७३३ || मन्त्रमन्त्रेश्वरादीनामपि मण्डलमेतद्दीक्षातः प्राप्नुवन्ति | मण्डले इति सप्तमीपाठे प्राप्तिर्भवतीति योजना कार्या || ७३३ || न च केवलं दीक्षितेभ्यो देवी स्वमण्डलप्राप्तिं विद्येशपदप्राप्तिं च ददाति, यावत् ---- निर्बीजदीक्षया मोक्षं ददाति खलु देहिनाम् | निर्बीजदीक्षया मोक्षं ददाति, किमङ्ग सबीजया || यतः ---- सा मुक्तिदीक्षा परमा विधिवत् परिकीतीता || १०-७३४ || विधिवदिति समयपाशशुद्ध्यन्तेन विधिनेत्यर्थः || ७३४ || किं च ---- विद्येशावरणे दीक्षा यावती क्रियते नृणाम् | तावतीं गतिमाप्नोति भुवनेऽत्र वरानने || १०-७३५ || यावती यादृशभोगप्रापिका | आप्नोतीत्यर्थाद् दीक्षितः | ऽऽयावतीं कुरुतेऽऽ इति तु स्पष्टः पाठः | अत्रेति श्रीभद्रकालीभुवने || ७३५ || अथैतद्भद्रकालीभुवनादूर्ध्वम् ---- भुवनानि तदीशांश्च संस्थानानि यथाक्रमम् | कथयिष्यामि ते सर्वं शृणुष्वैकमनाः प्रिये || १०-७३६ || संस्थानानि भुवनसन्निवेशाः || ७३६ || भद्रकाल्याः परो देवो रुद्रक्रोधसमुद्भवः | कोटिमात्रेण देवेशि युगान्ताग्निसमप्रभः || १०-७३७ || युगान्ताम्बुदवृन्दोत्थगजीतध्वनिनिःस्वनः | शतबाहुर्महातेजा दिव्याभरणभूषितः || १०-७३८ || शिरसीन्दुधरः श्यामो नीलाञ्जनसमद्युतिः | शिखिकण्ठनिभः किञ्चित्किञ्चिदापाण्डुलोहितः || १०-७३९ || चाषजीमूतवर्णश्च अतसीपुष्पसन्निभः | इन्द्रनीलनिभः किञ्चित्किञ्चिद्भृङ्गनिभाकृतिः || १०-७४० || जात्यञ्जननिभाकारो रुद्रैकादशिकान्वितः | रुद्रैकादशिका ---- ऽऽअत्र चाङ्गारकः सपीर्नैरृतःऽऽ (१०-४९०) इत्यादिना या पूर्वमुक्ता, सैवेह पररूपेण स्थिता || किं च ---- युतं कोटिसहस्रेण रुद्राणां च महात्मनाम् || १०-७४१ || भुवनं तस्य देवस्य विजयं नाम विश्रुतम् | इन्द्रनीलनिभं दिव्यं सर्ववज्रनिभं महत् || १०-७४२ || वज्रनिभत्वं सारप्रकर्षात् || अत्र च ---- दशकोटिसहस्राणि रुद्राणां वरवणीनि | मुख्यानि स्थितानि || एतच्च भुवनम् ---- अन्तर्भुवनसङ्घातैरन्यैश्च परिवारितम् || १०-७४३ || नीलोत्पलदलश्यामैः शिखिकण्ठनिभैस्तथा | अन्यच्च ---- रुद्रैदीभ्यैर्महावीर्यैः समन्तात् परिवारितम् || १०-७४४ || प्रधानानामपि प्रधानभूतैरित्यर्थः || ७४४ || किं च ---- स्तुतिभिर्मङ्गलैर्गीतैर्नृत्तवादित्रवादितैः | पणवैर्वेणुवीणाभिर्भेरीझल्लरिगोमुखैः || १०-७४५ || पटहैः काहलैश्चैव शङ्खदुन्दुभिपीलुकैः | मृद्दलैस्तट्टरीभिश्च तालकैर्मुरजैस्तथा || १०-७४६ || मौन्दकाहलटङ्कैश्च तमिलद्रघटादिभिः | वादित्रैर्वल्गितैस्तालै रोटनैर्मुखमृद्दलैः || १०-७४७ || भूतैर्भूतगणै रुद्रैर्जल्पितैः पठितैस्तथा | ध्यायद्भिश्च जपद्भिश्च धावद्भिश्चेष्टितैस्तथा || १०-७४८ || मयूरकोकिलारावान् मुञ्चद्भिश्च तथापरैः | नानारुतविलासैश्च विकुर्वद्भिर्महात्मभिः || १०-७४९ || आवृतस्तैर्महातेजा मयूखैरिव भास्करः | गजवक्त्रैः सिंहवक्त्रैरश्ववक्त्रैः शुभाननैः || १०-७५० || गोकर्णैर्गोमुखैश्चान्यैर्द्वीपिऋक्षमुखैस्तथा | व्याघ्रवानरवक्त्रैश्च भगवान् पर्युपास्यते || १०-७५१ || वीरभद्रो महातेजा युगान्ताग्निसमप्रभः | पीलुकमृद्दलतमिलद्रघटादयो वाद्यविशेषा इह प्रसिद्धाः | तृतीयाश्चैता यथायोगमित्थम्भूतलक्षणे कर्तरि करणे हेतौ च योज्याः || किं च ---- आसनं तस्य देवस्य सर्वज्रमयं महत् || १०-७५२ || दशयोजनविस्तीर्णं चतुरस्रानलप्रभम् | राजतेऽत्राष्टभिः सिंहैर्वृतं भीमपराक्रमैः || १०-७५३ || चतुरस्रानलप्रभमिति कर्मधारयः | अत्रेति विजयाख्ये पुरे || ७५३ || एतद्येषां यथोपपत्ति स्थानम्, तान् दर्शयति ---- अत्र ते पुण्यकर्माणः........... जायन्ते || के ---- ..............ये स्मरन्ति महेश्वरम् | जले मरुत्स्वथाग्नौ वा शिरश्छेदेन वा मृताः || १०-७५४ || ये यान्ति चैश्वरं बोधं वीरभद्रं महाद्युतिम् | मरुत्सु महावात्यासु | मरुष्विति पाठे महापथेषु महेश्वरं स्मरन्ति, मृताश्च ये तथा भगवत्पादपूजार्थं शिरश्छेदेन ये वा मृताः संग्रामे शिरश्छेदेन, महेश्वरं स्मरन्तो मृतास्त एतत्स्थानं लभन्ते | महेश्वरस्मरणं विना तु ये जलादौ मृतास्ते पूर्वोक्तं वैद्युतं वायुपथमिति विभागः || अथ ---- भुवनस्यास्य देवेशि ह्युपर्यावरणं महत् || १०-७५५ || अम्मयं तु घनं चापि शक्रचापमिव स्थितम् | वितानमिव तद्भद्रमन्तरे समवस्थितम् || १०-७५६ || घनमतीव आश्यानम् | भद्रं रम्यम् | अन्तर इति जयविजयादिभुवनानां तेजस्तत्त्वस्य च || तत्र चास्ते महात्मासावङ्गुष्ठाग्रप्रमाणकः | भगवान् रुद्रो ध्यायिनां ध्यानाय सूक्ष्मरूपमाश्रित्य प्रभावातिशयशाली तत्र स्थितः || यथा च ब्रह्माण्डस्योर्ध्वकर्परिका कोटियोजना, तथाऽऽप्यावरणकर्परिकापीत्याह ---- तत्र योजनकोटिर्वै विष्कम्भादूर्ध्वमुच्यते || १०-७५७ || तत्रेत्यावरणकर्परिकाभागे | विष्कम्भाद् घनत्वादूर्ध्वमुच्यत इत्यावरणकर्परिकेत्यर्थात् || अतश्च ---- तिर्यक्त्रिगुणविस्तारमाप्यमावरणं प्रिये | शतकोटिविस्ताराद् ब्रह्माण्डाद् दशगुणं यदाप्यमावरणं सहस्रकोट्युन्मानमुक्तम्, ऽऽतत्सर्वं त्रिगुणेनोह्यऽऽ इति नीत्या त्रिसहस्रकोटिपरिमाणमित्यर्थः, न तु कर्परिकाघनतानुसारेण त्रिगुणविस्तारत्वं योज्यम्, आसमञ्जस्यापत्तेः || अतश्च ---- आवृतं तेन तत्सर्वं महाम्भोधिविसारिणा || १०-७५८ || तेनेत्याप्यावरणेन || ७५८ || किमावृतम् ? ---- इत्याह ---- रुद्राण्ड इति विख्यातं रुद्रलोक इति प्रिये | वीरभद्रादिवीराश्रयत्वाद् रुद्राण्ड इति रुद्रलोक इति चागमेषु ख्यातं पुरजातमाप्यावरणेनावृतमित्यर्थः || एतदेव विभजति ---- वीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा || १०-७५९ || त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् | वीरभद्रनिकेतो भद्रकाल्यालय इत्यादिप्रागुक्तरुद्रभुवनैकादशकेन सह त्रयोदशभिः, अन्यैश्च धरित्र्यादिभिर्भुवनैर्वक्ष्यमाणैर्भ्राजमानम् || एतच्च ---- नानारुद्रगणैदीव्यैनीरन्तरमलङ्कृतम् || १०-७६० || अण्डं वै वीरभद्रस्य ब्रह्माण्डसदृशं प्रिये | वीरभद्रस्याण्डमिति प्राधान्यात् | ब्रह्माण्डसदृशं चतुर्दशविधभूतसर्गाश्रयनानाभुवनपरिष्कृतत्वात् || यदुक्तमन्यैश्च भुवनैरिति, तत्स्फुटयति ---- अतः परं प्रवक्ष्यामि धरित्र्या भुवनं महत् || १०-७६१ || धात्री यस्मिन् भगवती धरालोके सनातनी | धत्ते सर्वमिति धात्री आकृतिमती भगवच्छक्तिः || एषा हि ---- हैरण्यमतुलं प्राप्ता आधारं यत्र संस्थिता || १०-७६२ || आधारमिति भुवनम् || ७६२ || कीदृशम् ---- चक्रवतीविमानैश्च बहुभिः परिवारितम् | आवृतं भूतसङ्घातैराचार्यैस्तत्परायणैः || १०-७६३ || दिव्यगीतनिनादाढ्यैर्वादित्रशतनिःस्वनैः | अन्तर्भुवनसङ्घातै रुद्राणां परिवारितम् || १०-७६४ || चक्रवतीनोऽत्र महापुण्यभाजो गीर्वाणादयः | भूतसङ्घैरिति चतुर्दशभिः | आचार्यैस्तत्परायणैरिति पाथीवधारणासिद्धैर्योगिरूपैरित्यर्थः | पारमेश्वरी मूतीरेषेति कृत्वैतद्भुवनं रुद्रभुवनैः परिवृतम् || ७६४ || भुवनस्यास्य मध्ये तु उदयादित्यसंनिभः | रक्तोत्पलनिभो दिव्य अशोकस्तबकच्छविः || १०-७६५ || पद्मरागमयो दिव्यः प्रासादो बहुभूमिकः | प्रासादो देवगृहम् | बहुभूमिक इति शिखरवर्तनागतनानाभूमिकायुक्तः || तस्य मध्ये भगवती धरित्री लोकधारिणी || १०-७६६ || मालया रक्तपुष्पस्य लम्बया नित्यभूषिता | चन्द्रार्कमण्डलाकारकपोलतलभूषिता || १०-७६७ || पीतहेमांशुकवती महाहारविभूषिता | शतयोजनविस्तीर्णे कूर्मपृष्ठे व्यवस्थिता || १०-७६८ || चतुर्वक्त्रा चाष्टभुजा दिव्याभरणभूषिता | पीतहेम्ना कृतमंशुकं प्रशस्तवस्त्रं यस्याः || किं च ---- रुपयौवनसम्पन्ना नृत्तगीतविशारदाः || १०-७६९ || परिवार्योपासते तां दिव्या वै मानसाः स्त्रियः | तस्यास्ता मनस उद्भूताः || काः ? कियत्यश्च ? ---- इत्याह ---- त्रिंशत्कोट्यस्तु तासां वै दिव्याभरणभूषिताः || १०-७७० || उत्पादितास्तु शर्वेण तदर्थं हितमिच्छता | शर्वेण धरामूर्तीश्वरेण स्वस्या मूर्तेर्धरित्र्या हितार्थं विनोदायैता मनसा निमीता इत्यर्थः || किं चैताः ---- तप्तजाम्बूनदनिभा दिव्याभरणशोभिताः || १०-७७१ || उच्छिरतेनातपत्रेण धिरयमाणेन शोभिताः | किं च ---- पुरःस्थितो महातेजा योऽसौ मेरुर्महागिरिः || १०-७७२ || उपासीनस्तु तां देका तत्रास्ते स नगाधिपः | शिरःपाण्याद्याकृतिमानित्यर्थः || तथा ---- नीलोत्पलदलश्यामो नीलजीमूतसंनिभः || १०-७७३ || नीलो नाम महाशैलः पीतवासा महाद्युतिः | अतिकान्तेन रूपेण कैटभारिरिवापरः || १०-७७४ || उपास्यमानो दिव्याभिर्नगरीभिर्नगाधिपः | तस्योत्तरे चन्द्रनिभो नानालङ्कारभूषितः || १०-७७५ || श्वेतातपत्री तेजस्वी श्वेतो नाम महागिरिः | तस्योत्तरेण सूर्याभो मुकुटादिविभूषितः || १०-७७६ || पीताम्बरधरः श्रीमान् शृङ्गवानिति विश्रुतः | अतिकान्तेन रूपेण कुसुमास्त्र इवापरः || १०-७७७ || आद्यस्तस्योत्तर इति शब्दः काकाक्षिवद् मेरोरुत्तरे नीलः, तस्याप्युत्तरे श्वेत इति योज्यः || किं चास्य मेरोः ---- दक्षिणेनापि वक्ष्यामि शृणुष्वावहिता प्रिये | आकृतिमतः पर्वतान् स्थितानिति शेषः || तान् क्रमेणाह ---- चन्द्रावदातदीप्तौजा दिव्याभरणभूषितः || १०-७७८ || शुक्लाम्बरधरः श्रीमान् निषधो नाम विश्रुतः | तप्तहेमप्रतीकाशो दिव्याभरणभूषितः || १०-७७९ || अतिशुभ्रेण देहेन पितामह इवापरः | पीताम्बरधरः श्रीमान् पीतमाल्यानुलेपनः || १०-७८० || हेमकूटो महातेजास्तेजसामिव सङ्ग्रहः | राजते भगवान् शैलः सन्ध्यावृत इवांशुमान् || १०-७८१ || पाण्डुराभ्रप्रतीकाशः शङ्खगोक्षीरसन्निभः | शुक्लाम्बरधरः श्रीमान् दिव्यकुण्डलभूषितः || १०-७८२ || आतपत्रेण महता धिरयमाणेन मूर्धनि | हिमवानिति विख्यातो द्वितीय इव भास्करः || १०-७८३ || किं च ---- इन्द्रगोपकसङ्काशः पश्चिमे गन्धमादनः | रक्ताम्बरधरः श्रीमानस्ताद्रिस्थ इवांशुमान् || १०-७८४ || शुद्धस्फटिकसङ्काशः शुक्लाम्बरधरः शुभः | किरीटी कुण्डली श्रीमान् माल्यवान्नाम पर्वतः || १०-७८५ || इत्येवमादिभिश्चान्यैः पर्वतैः परिवारिता | लोकालोकावसानैश्च तथान्यैः कुलपर्वतैः || १०-७८६ || दिव्यरूपधरा देवी तनुर्वै पारमेश्वरी | भूलोके ये मेर्वादयस्तदधिष्ठातृरूपा एवेत्यर्थः | पारमेश्वरीत्यनेन ---- श्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम्ऽऽ (४-२९५) इति पूर्वोक्तं प्रमाणीकृतम् || यत एवमतः ---- धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः || १०-७८७ || ते यान्ति तादृशीं मूतीं धरित्र्याः परमां तनुम् | गन्धतन्मात्रे धारणां कृत्वा योगिनस्तामिमां धरित्र्याः परमां मूतीमाकृतिमतीं देका सायुज्यसामीप्यसालोक्यभेदेन प्राप्नुवन्ति, अतश्च आचार्यैरुपास्यमानामिति यत्पूर्वमुक्तम्, तत् स्फुटीकृतम् || अतः परतरं देवि सामुद्रं भुवनं महत् || १०-७८८ || सर्ववज्रमयं दिव्यं नानाश्चर्यशतान्वितम् | सामुद्रमिति समुद्राधिष्ठातृदेवताश्रयम् || तच्च ---- नीलोत्पलसमच्छायं सर्वतः परिमण्डलम् || १०-७८९ || मध्ये तु भुवनस्यास्य मण्डलं चन्द्रसंनिभम् | शतयोजनसाहस्रं समन्तात् परिमण्डलम् || १०-७९० || तस्य मध्ये तु पुरुषो रुक्मवर्णो महाद्युतिः | किरीटी कुण्डली स्रग्वी दिव्याभरणभूषितः || १०-७९१ || अपां निधेर्भगवतो वरुणस्य परा तनुः | पुरुष इति समुद्रदेवतात्मा || तं तु देवं महात्मानं परिवार्य समन्ततः || १०-७९२ || रूपयौवनसम्पन्नाः सततं पर्युपासते | देव्यः || तासां मध्ये तु ---- शुक्लाम्बरधरा देवी शुक्लगन्धानुलेपना || १०-७९३ || शुक्लयज्ञोपवीता च शुक्लहारोपशोभिता | शुक्लेनैवातपत्रेण धिरयमाणेन मूर्धनि || १०-७९४ || गङ्गा ह्युत्तरतस्तस्य स्थिता वै परमा तनुः | नीलाम्बरधरा देवी नीलगन्धानुलेपना || १०-७९५ || नीलस्रग्दामकण्ठा च यमुना तस्य दक्षिणे | एवमाद्या महानद्यः परिवार्य महाद्युतिम् || १०-७९६ || समुद्राष्टकं च देवेशि स्वनदीभिः समावृतम् | उपासते सदा भक्त्या वारुणीं परमां तनुम् || १०-७९७ || परमां तनुमित्यधिष्ठातृदेवतारूपाम् || ७९७ || अत्र चाकृतिमन्त्येव ---- नानासरांसि तीर्थानि............ तथा ---- .........टद्भक्ताश्चापि संस्थिताः | रसतन्मात्र अत्रैव कृत्वा सम्यक्तु धारणाम् || १०-७९८ || अपां योनिं परां प्राप्ताः............ इमामेव || यस्मादेषाम् ---- ...........वारुणी सा परा तनुः | अष्टमूर्तेर्महेशितुरियं द्वितीया मूतीर्जलाधिष्ठातृदेवतारूपा | धारणास्वरूपं प्राग्धारणादीक्षावसरे दशीतम् || अतः परं प्रवक्ष्यामि भुवनं वरवणीनि || १०-७९९ || श्रीनिकेत इति ख्यातं पद्मगर्भं इति श्रुतम् | एतन्नामभ्यां प्रतीतमागमेष्वित्यर्थः || तच्च ---- विमानशतसङ्घातैनीरन्तरमवस्थितैः || १०-८०० || शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा | सरोभिर्मानसैदीव्यैर्दीघीकाभिश्च शोभितम् || १०-८०१ || रथचक्रप्रमाणैश्च मणिकाञ्जनमण्डितैः | वैदूर्यनालैः कमलैदीव्यगन्धसुगन्धिभिः || १०-८०२ || मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः | संशोभितं विचित्रैस्तैवीकचैर्वज्रकेसरैः || १०-८०३ || उद्यानैवीविधैश्चापि नानाविहगकूजितैः | नानाकामप्रदैर्वृक्षैः समन्तात् समलंकृतम् || १०-८०४ || नानामणिमयैदीव्यैः क्रीडाशैलैश्च मानसैः | मानसीभिश्च नारीभिदीव्ययौवनकान्तिभिः || १०-८०५ || हावभावविलासाढ्यदिव्यस्त्रीभिरलंकृतम् | विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते || १०-८०६ || विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः | गायद्भिश्चाथ नृत्यद्भिदीव्यस्त्रैणैः समाकुलम् || १०-८०७ || मानसैरिति सङ्कल्पमात्रसिद्धैः | स्वभावत एव पद्मानां मणिकाञ्चनमण्डितत्वं वैदूर्यनालता च | चन्द्रमण्डलसंनिभैरित्यनेन पद्मानां श्वेतता उक्ता | वज्रं (हे)१रकम् | नानाकामप्रदैर्वृक्षैः कल्पवृक्षैरित्यर्थः | मानसीभिर्मनोनुकूलाभिः | स्त्रीणां समूहः स्त्रैणम् || ८०७ || तदीदृशे ---- तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे | शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलम् || १०-८०८ || मण्डलं प्रधानभुवनम् || ८०८ || तस्य मध्ये भगवती श्रीः स्वयं लोकभाविनी | चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते || १०-८०९ || लोकान् भावयति प्रोद्भूतविभूतिकान् सम्पादयति || ८०९ || सा च ---- एकत्र युगपत्तेजस्तेजसां तु विराजते | सर्वतेजसां सम्बन्धि तेजः, एकत्र राशीभूतमिव भवति || एवमपि च सौम्याकृतित्वात् ---- निर्वाणमिव या शान्ता सर्वानन्दमनोहरा || १०-८१० || रूपिणी.......... आकृतिमती || वस्तुतस्तु ---- .............परमा देवी मूतीरव्यभिचारिणी | परैव द्योतमाना पारमेश्वरी मूतीरियमित्थं गृहीताकृतिरित्यर्थः | अनयैव मोक्षश्रिया नित्यसम्बद्धया परमेश्वरः श्रीकण्ठ उच्यते || एषा च ---- शतयोजनविस्तीर्णे उदितादित्यसप्रभे || १०-८११ || चन्द्रकान्तमये पद्मे वज्रकेसरकणीके | कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते || १०-८१२ || पद्मासने भगवती पद्मगर्भसमप्रभा | उपविष्टात्र सा नित्यं विभूत्या परया युता || १०-८१३ || महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभम् | वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथम् || १०-८१४ || त्रिपथापथमाकाशं गङ्गाप्रवाहात् || ८१४ || अपि च ---- स्फुरन्मयूखचलने कपोलतलमण्ड(ने)१ | सूर्यमण्डलसङ्काशे धारयन्ती च कुण्डले || १०-८१५ || किं च ---- स्फुरन्मयूखसङ्घातां रशनां सा तु बिभ्रती | हेमाभा पीतवसना महाहारविभूषिता || १०-८१६ || चन्द्राभेनातपत्रेण धिरयमाणेन राजिता | उपगीता च गन्धर्वैर्मानसै रुद्रसम्भवैः || १०-८१७ || परिवारिता भगवती सा तनुः पारमेश्वरी | मानसै रुद्रसम्भवैरिति रुद्रेणैव भगवता तदाराधनार्थमेव सृष्टैः || किं च ---- या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना || १०-८१८ || आराधनादेव चास्मै ---- दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी | न च सार्वात्म्येन, अपि तु ---- अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठिता || १०-८१९ || पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता | तदर्धेन पुनर्देवि पाथीवेषु व्यवस्थिता || १०-८२० || तदर्धेन मनुष्येषु.............. दिवि तन्निवासिदेववक्त्र इत्यर्थः | पाथीवेष्विति सर्वेषु चक्रवतीष्वंशांशिकायोगात् | मनुष्येष्वमात्यादिषु, सर्वेष्वित्थं विष्णोरंशांशिकया श्रीः स्थिता, साकल्येन तु भगवति श्रीकण्ठ एवेत्युक्तं भवति || इत्थमेषा सर्वमेव जगत् ---- ........या स्थिता व्याप्य मूतीभिः | स्वरूपा कामरूपा च द्विधा सा परिकीतीता || १०-८२१ || मूतीभिनीजैरंशांशिकावतारैः | स्वं पारमाथीकं परिपूर्णं रूपं यस्याः | कामेनेच्छामात्रेण तत्तद्विष्ण्विन्द्रादिमाहात्म्यप्रदं रूपं यस्याः सा कामरूपा || ८२१ || तत्र स्वरूपात्मा ---- अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति | सूक्ष्मा सर्वनिजावतारव्यापिका | अक्षोभ्या निरतिशया | तत्रेति प्रोक्ते स्वपुरेऽचला तिष्ठति || यथैतच्छ्रीपुरमाप्स्यति, तथादिशति ---- रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते || १०-८२२ || श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेत् | रुद्रस्य क्रीडया, नत्वनुजिघृक्षयाऽवतारो येषु ते देवदारुवनप्रभृतयो रुद्रक्रीडावताराः || अतश्च ---- सत्स्वन्येष्वपि भोगेषु त्वियं सा गदिता गतिः || १०-८२३ || बुभुक्षूणां प्राप्यत्वेनेति शेषः || ८२३ || यस्माद् बुभुक्षवः श्रीगिर्यादौ मरणादेतदाराधनाद्वा ---- प्राप्य तामीदृशीं देवीमैश्वर्यमणिमादिकम् | लभन्त इति शेषः, प्राप्य तामिति तद्भुवनमित्यर्थात् || न केवलमेतत्, यावत् ---- भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति || १०-८२४ || अष्टधेत्यणिमादिरूपतया || ८२४ || तथा जन्मौषधिमन्त्रतपःसमाधिभिः ---- सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते | अपि च ---- यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः || १०-८२५ || सह ---- कृतो घोरस्त्वसंख्येयः............ तथोक्तांशांशिकारूपाम् ---- ..........टां श्रियं प्राप्तुमिच्छुभिः | असंख्येयाश्च संग्रामाः कृता वै चक्रवतीभिः || १०-८२६ || तदित्थमुक्तैषा ---- सा बन्ध एवमुक्तानामबुधानां परा स्मृता | एवमुक्तानां तारकादीनामबुधानां विनश्वरभोगाभिलाषेण संग्रामादिकुर्वतामेषा श्रीर्बन्ध एव, अथ च मुक्तानां प्रत्यभिज्ञातस्वरूपाणां जीवन्मुक्तिभाजां सा बन्ध एव, न ते तदर्थं प्रयतन्ते, अपि तु प्राप्तां तामथीभ्यो वितरन्ति | ये त्वबुधास्तेषामेव सा परा प्राप्यत्वेनाभिलषितेत्यावृत्त्याऽकारप्रश्लेषेण व्याख्येयमेतत् || तदेतत् ---- श्रीपुरं तु समाख्यातं यथावच्च वरानने || १०-८२७ || अथ ---- अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे | सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतम् || १०-८२८ || ऊर्ध्वमित्युपरिस्थितम् | सरस्वत्या इदं सारस्वतम् | सरस्वती च सर्वशास्त्रस्फाररूपा गान्धर्वविद्यारूपा चेति गान्धर्वमित्यस्य पुरस्य नाम || ८२८ || तदेतत् ---- पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते | योजनानां समाख्यातं प्रमाणेन समन्ततः || १०-८२९ || पद्मगर्भाकारं सुकुमारोज्ज्वलमित्यर्थः || किं च ---- सर्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितम् | विमानैवीविधाकारैर्नानारत्नमयैः शुभैः || १०-८३० || गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा | नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा || १०-८३१ || स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलम् | गन्धर्वाणाममी गान्धर्वा विमानास्तैः | मानसैः सङ्कल्पमात्रसिद्धैः | गणैः परमेश्वरानुचरैः || तदीदृशस्य ---- तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभम् || १०-८३२ || रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलम् | तस्य मध्ये भगवती स्थिता साक्षात् सरस्वती || १०-८३३ || शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते | पीताम्बरधरा देवी पद्मपत्रायतेक्षणा || १०-८३४ || नीलोत्पलदलश्यामा दिव्याभरणभूषिता | हेमपट्टपरीधाना दिव्यकुण्डलधारिणी || १०-८३५ || उरसा तु महाहारमुद्वहन्ती शशिप्रभम् | स्फुरन्मयूखसङ्घातकुण्डलद्वयमण्डिता || १०-८३६ || मण्डलं प्रधानभुवनम् | कान्तिर्दीप्तिः, श्यामत्वं तु वर्णः | अम्बरमान्तरं वस्त्रम्, परीधानं तु बाह्यम् || ८३६ || समग्रगान्धर्वमयी अस्या मूतीरित्याह ---- ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा | तानमूर्धरुहा देवी मूर्च्छनाङ्गरुहोद्वहा || १०-८३७ || पदासना तालपादा गीतवर्णप्रभावती | षड्जमध्यमगान्धाराख्यं ग्रामत्रयमेव त्रिवलिलेखाशोभि मध्यं यस्याः सा | षड्जादिसप्तस्वरशरीरा, तथा तन्यन्ते विस्तार्यन्ते स्वरगुम्फनामययो मूर्च्छना यैस्ते ताना मूर्धरुहाः केशा यस्याः | मूर्च्छना एवाङ्गरुहान् रोमाञ्चान् यद्वहति | पदानि छन्दोनिबद्धानि गीतकान्यासनं यस्याः | चञ्चुपुटादयस्ताला एव प्रसरणहेतुत्वात् पादौ चरणौ यस्याः | द्वित्रिश्रुत्यात्मकस्वरगीयमानाः पदैकदेशा गीतवर्णास्तैः प्रभा दीप्तिर्यस्याः || किं चास्याः ---- अंगुल्यः सन्धयश्चैव लक्षणानि वरानने || १०-८३८ || सन्धयो मर्माणि | लक्षणानि ---- ऽऽअलङ्कारगुणैश्चैव बहुभिः समलंकृतम् | भूषणैरिव चित्रार्थैस्तद्भूषणमिति स्मृतम् ||ऽऽ (१६-६) इत्यादिलक्षणेन भरतमुनिना लक्षितानि भूषणाक्षरसङ्घातादीनि षट्त्रिंशत् | तदियमेवं भूत्वा स्वराद्याबद्धशरीरा सरस्वती इह पररूपेणाधिष्ठात्री देवतोक्ता | पूर्वं तु मेरुगतगान्धर्वपुर्याम् - --- ऽऽआस्ते भगवती साक्षात् सप्तस्वरविभूषिता | ग्रामत्रयपरीधाना................................ ||ऽऽ (१०-१५२) इत्याद्युक्त्या स्वराद्यलंकृतवाण्यात्मिकापररूपेणैतद्देवताधिष्ठेयरूपेति विशेषः || ८३८ || तदेषात्र ---- आसने परमे दिव्ये वृता भूतगणेश्वरैः | स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा || १०-८३९ || ऽऽवाच्यर्था निहिताः सर्वे वाङ्मूला वाङ्निबन्धनाःऽऽ इति नीत्या जगद्व्यवस्थाहेतुरियमेव हि देवी || किं च ---- मानसीभिश्च नारीभिर्गान्धर्वैर्मानसैर्वृता | तथा च ---- हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा || १०-८४० || विश्वावसुवीश्वरथः............. त एते ---- ................डिव्यगीतविचक्षणाः | संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहाम् || १०-८४१ || ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते | स्वरवैखरीभूम्यवस्थितिक्रमेण मध्यमापश्यन्तीपदप्रतिष्ठैकाग्रमनस्का इमामेव देवीमुपासीना एते गन्धर्वमुख्या एतत्पुरं प्राप्ताः || न केवलमेते पुरमिदं प्राप्ताः, यावत् ---- ये च वाग्धारणां ध्यात्वा प्राणान् मुञ्चन्ति देहिनः || १०-८४२ || ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः | वाग्धारणा तत्त्वसिद्धिपटले द्वादशे वक्ष्यते || युक्तं चैतत्, यस्मात् ---- एषा सरस्वती देवी मूतीर्वै पारमेश्वरी || १०-८४३ || या स्थितापरभावेन ब्रह्माण्डोदरवतीनाम् | कथमित्याह ---- ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति || १०-८४४ || शाक्रे चापि तदर्धेन............ शक्रलोकेऽष्टमांशेन || .................गन्धर्वेषु तदर्धतः | षोडशांशेन || सिद्धेषु च तदर्धेन............ द्वात्रिंशांशेन || .................किन्नरेषु तदर्धतः || १०-८४५ || चतुःषष्ट्यंशेन || ८४५ || तदर्धेन च नागेषु............... अष्टाविंशत्यधिकशततमेनांशेन || ................यक्षेष्वर्धेन वै पुनः | षट्पञ्चाशदधिकद्विशततमांशेन || पिशाचेषु तदर्धेन............ द्वादशाधिकपञ्चशततमांशेन || तदित्थम् ---- .........षा वै तिष्ठति भागशः || १०-८४६ || किं च ---- पिशाचेभ्यः सहस्रांशान्मानुषेषु च तिष्ठति | न चैवमंशांशिकयैषावतीर्णा देवी, अपितु ---- तैस्तु तप्त्वा तपो घोरमाराध्य च पिनाकिनम् || १०-८४७ || अवतारिता तु सा देवी रूपिणी स्वरभूषिता | रूपिणी आकृतिमती || तदेवं तपसा समाराधितस्य पिनाकिनस्तदादेशादेव प्रथमम् ---- स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मऌअः पुरा || १०-८४८ || स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती | स्वरप्रत्यवमर्शवशोन्मिशन्नादामर्शानुप्रवेशाद् ब्रह्मणः स्वरेभ्य इवोद्भूताऽभिव्यक्तिमागता यस्मात्, अत एषाऽक्षरसारूप्यात् सरस्वतीत्युच्यते | यदा तु ऽऽब्रह्मणोऽव्यक्तजन्मनःऽऽ इति पाठः, तदाऽव्यक्ताद् वक्ष्यमाणात् प्रकृतितत्त्वाद् जन्म यस्य बुद्धितत्त्वगतस्य परस्य ब्रह्मणः पिनाकिप्रसादाद् व्यक्तिं गतेति व्याख्येयम् || तदित्थमवतीर्णैषा ---- सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता || १०-८४९ || अधिष्ठाय स्थितेत्यर्थः || ८४९ || किं च ---- या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरम् | ऋषीणां चैव सर्वेषां मेधाबुद्धिविवधीनी || १०-८५० || मेधा निवीकल्पप्रतिभा, बुद्धिरध्यवसायिनी धीः || ८५० || एषा हि ---- सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता | ब्रह्माण्डान्तरवतीर्णायाश्च क्रमेण ---- मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीतीतम् || १०-८५१ || अपरम् ---- इदं तु परमं देव्या मया ते परिकीतीतम् | एतदुपसंहरति ---- सारस्वतं तु भुवनं कीतीतं.......... यत्र सरस्वती भगवती देवी || ...........परमा तनुः || ८५२ || परमेश्वरसम्बन्धिनी परमा मूतीः स्थितेत्यर्थः || अधुना ---- अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमम् | प्रोक्तेभ्योऽपि भुवनेभ्य उत्तमं वक्ष्यमाणदृशा भुवनाष्टकं शृणु || तच्च भुवनेशद्वारेण दर्शयति ---- अमरेशं प्रभासं च पुष्करं नैमिषं तथा || १०-८५३ || आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलम् | तदेतत् ---- गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये || १०-८५४ || गुह्यत्वमेषां शतरुद्रादिभ्योऽप्युत्कर्षणात् | एते च भुवनेश्वरा भुवनमप्येतन्नामकं नानादिग्गतस्वयम्भूतीर्थादिरूपतयाऽनुग्रहार्थमवतीर्णाः प्रसिद्धाः | एवमन्येऽपि वक्ष्यमाणा ज्ञातव्याः || ८५४ || अथ ---- तेजस्तत्वमतश्चोर्ध्वं कथयामि समासतः | अग्नेस्तु भुवनं तत्र कथयामि वरानने || १०-८५५ || तच्च ---- अशोकस्तबकानां च सर्वतो दीप्तिमुद्वहत् | उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभम् || १०-८५६ || अतिलोहितमित्यर्थः || ८५६ || भूवनस्यास्य मध्ये तु उदितार्कसमप्रभम् | परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते || १०-८५७ || परितस्त्रिकोणाकारं मण्डलं परिमण्डलम् | तेजोमण्डलमिति तेजोमयं प्रधानभुवनम् || ८५७ || तस्य मध्ये तु भगवान् शिवाग्निः कारणं परम् | शिव एव परमेश्वरो गृहीताग्निमूतीः शिवाग्निः | परं कारणमिति ब्रह्माण्डवतीसर्वाग्निभेदानाम् || यदाह ---- योऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा || १०-८५८ || भौमान्तरिक्षजाठराग्निरूपतया || ८५८ || किं च ---- वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः | स्थितो जिह्वास्वरूपेण स्वयम्भूर्नीललोहितः || १०-८५९ || तस्येति शिवाग्निरूपस्य रुद्रस्य | यो नीललोहितो ज्वालालिङ्गात्मा श्रीपर्वतादौ स्वयम्भूः प्रसिद्धः, स दक्षिणे वक्त्रे जिह्वारूपस्तद्दक्षिणवक्त्राद् भुवनमनुग्रहायावतीर्ण इत्यर्थः || ८५९ || किं च ---- स एव तु महादेवि कालाग्निः परमेश्वरः | यः कर्परिकापृष्ठे ब्रह्माण्डोर्ध्वे च प्रतिपादितः, स एवेति नीललोहितो यस्य दक्षिणजिह्वामात्रात्मा कालाग्निः, स निःसामान्यात्मेति यावत् || एतस्य शिवाग्नेर्ध्यायिजनोपयोगि ---- तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये || १०-८६० || रक्तपद्मदलच्छायः पद्मरागसमद्युतिः | रक्ताम्बरधरः श्रीमान् रक्तमाल्यानुलेपनः || १०-८६१ || अर्काभाभ्यां कुण्डलाभ्यामलंकृतशुभाननः | महाहारेण दीप्तेन उरःस्थेन विराजते || १०-८६२ || पद्मरागमयेनेत्यर्थात् || ८६२ || किं च ---- किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते | अस्यन्त्यनेन शिवाग्निरूपेण विश्वभक्षकेण हविरित्यास्यम् || अयं चात्र भुवने ---- सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः || १०-८६३ || दावाग्निरिव शैलाग्रे वेणुघर्षात् समुत्थितः | किं च ---- दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः || १०-८६४ || दक्षिणास्याद्विनिष्क्रान्ताः श्वसतोऽस्य स्वयम्भुवः | हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः || १०-८६५ || तेन तेऽग्निं महात्मानो नित्यशः पर्युपासते | गणानां स्वपरिवाराणामीश्वरा रुद्राः | हिताय सर्वभूतानामिति सूर्यमरीच्याद्यधिष्ठानद्वारेण संस्थिताग्न्यधिष्ठानेन च भोगमोक्षरूपमनुग्रहं सम्पादयितुम्, तथा च पुराणेषु ---- ऽऽचन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु | रसातलगता ये च ये च तस्मात् परं गताः || नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्योऽस्तु नित्यशः | येषां न विद्यते संख्या प्रमाणं रूपमेव वा || असंख्येयगणा रुद्रा नमस्तेभ्योऽस्तु नित्यशः | ऽऽ (वाम०पु० २६ | १५९-१६१) इति स्तुतिवाक्यमस्ति || किं च ---- नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः || १०-८६६ || गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रशः | तं पर्युपासत इति सम्बन्धः || किं च ---- स वै शिवाग्निः पठितः सर्वहौमेश्वरः परः || १०-८६७ || पारमेश्वरेषु शास्त्रेषु दीक्षात्मनि शिवयज्ञे || किं चासौ ---- अग्निकार्यविधानेषु हूयते तद्विदैः सदा | तत्र विदा ज्ञानं येषां ते तद्विदास्तैः | किं च ---- तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणाम् || १०-८६८ || देहान्त इत्यर्थात् || ८६८ || अयं चास्य शिवाग्नेमैहिमा, यत् ---- स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः | एकधेति शिवाग्नितया | बहुधेति वक्ष्यमाणपञ्चाशद्रूपतया || किं च ---- स तेजस्तेजसां योनिः............ यतः ---- ..........टस्माज्जज्ञे दिवाकरः || १०-८६९ || जज्ञे जातः | उक्तं च ---- ऽऽज्ञानशक्तिः परस्यैषा तपत्यादित्यविग्रहा |ऽऽ (१०-४९९) इति | शिवाग्नेरस्येहोद्भवो यत उक्तः || ८६९ || किं च ---- बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु | वक्ष्यमाणेषु कल्पादिषु बहुधा व्यज्यते नानाप्रकारतया ब्रह्माण्डान्तरंशांशिकयावतरति || किं चायम् ---- भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले || १०-८७० || ते च वायुपुराणादौ१ विद्युदरणिसूर्यकान्तोद्भूतानां पावकपवमानशुचिसंज्ञानां भेदेन तत्पुत्रपौत्रादिभेदेन च भरतवैश्वानराथर्वभृदृगादिनानानादनिदीष्टेन पञ्चाशन्नित्यनैमित्तिककाम्यकर्माधिकरणभूताः केचिद् लौकिकाः केचिच्च वैदिका निदीष्टाः | मोचकस्त्वेक एव शिवाग्निः परमेशमन्त्रसंस्कारसंस्कृतः साक्षादयमेवावतीर्णः स एकधेति योऽनन्तरं निदीष्टः || ८७० || उपसंहरति ---- तदेवं कीतीतं सम्यगाग्नेयं भुवनं महत् | अत्रैव ---- भुवनाधिपांश्च भुवने कथयामि त्वतः परम् || १०-८७१ || हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरम् | महाकालं मध्यमं च केदारं भैरवं तथा || १०-८७२ || तदभिधाने रुद्राष्टकं पूर्वोक्ताद् गुह्याष्टकात् सातिशयम् ---- अतिगुह्यं समाख्यातं............. अतिगुह्यं गुह्येभ्यः प्रकृष्टत्वात् | एवमुत्तरत्र || कथमेतदत्र स्थितम् ? ---- इत्याह ---- .............पूर्वेशान्तमनुक्रमात् | पूर्वदिश ईशानदिगन्तं स्थितं प्रधानभूतमेतद्रुद्राष्टकमित्यर्थः | एतच्चोक्तवक्ष्यमाणाष्टकान्तरेष्वप्येवमवस्थानं प्राधान्यं चोपलक्षयति || अथोर्ध्वे वायवावरणं तत्रस्थो वायुरव्ययः || १०-८७३ || प्राणस्य भुवनं तत्र वायोस्तु वरवणीनि | शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसप्रभम् || १०-८७४ || प्राणाख्यस्य प्रधानस्य वायोः ---- तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते | मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभम् || १०-८७५ || रश्मिमालाकुलं दिव्यं द्योतयद् वै दिशो दश | मण्डलं प्रधानपुरम् || तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः || १०-८७६ || वायवधिष्ठातृदेवः स्थित इत्यर्थः || ८७६ || स च ---- किरीटी कुण्डली दीप्तो हारकेयूरभूषितः | नानाभरणचित्राङ्गश्चित्रमाल्यानुलेपनः || ८७७ || चित्राम्बरधरः श्रीमान् महाहारविभूषितः | तं च ---- मारुता नाम वै देवाः शतकोट्यो महाबलाः || १०-८७८ || उपासते महात्मानं वायुमूतीं महाद्युतिम् | कं तमित्याह ---- यो व्यापयेच्छरीराणि एकधा पञ्चवधा विभुः || १०-८७९ || एकधा सामान्यप्राणात्मना | प्राणापानसमानोदानव्यानानां भेदेन तु पञ्चधा | व्यापयेदिति व्याप्नुवतः स्वप्रपञ्चव्याप्तिरूपान् वायून् प्रयुञ्जीत || ८७९ || न केवलं सर्वाणि शरीराणि स्वप्रपञ्चव्याप्तिरूपैः सूक्ष्मवायुभिर्व्यापयेदिति, यावद् बहिरपि ---- सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः | ऽऽआ मेघाद् भास्करात्ऽऽ (१० | ५१३) इत्याद्युक्तनीत्या ये सप्त, ते प्रत्येकं पौराणिकप्रसिद्ध्या सप्तधेत्येकोनपञ्चाशद्धा बहिस्तिर्यग्गो वायुः | द्विगुण इति शब्दस्पर्शाख्यगुणद्वययुक्तः || एवंभेदभिन्नस्याधिष्ठातृदेवतात्मा ---- स्वमण्डलस्य सा दिव्यैवीभात्येका परा तनुः || १०-८८० || किं च ---- तमेतमेकं दशधा प्राणात्मानं तु योगिनः | ध्यात्वा त्यक्त्वा तु वै प्राणान् कृत्वा तस्मिंस्तु धारणाम् || १०-८८१ || तं विशन्ति महात्मानो वायुभूताः खमूर्तयः | तमिति सामान्यप्राणरूपमेकम् | दशधेति प्राणादिभेदान्नागकूर्मादिभेदाच्च | तं विशन्तीति वायवावरणगतत्वाद्वायुदेवतासायुज्यं यान्ति || उपसंहरति ---- इति प्राणस्य भुवनमाख्यातं तव सुव्रते || १०-८८२ || अथ ---- भुवनेशांस्तत्र रुद्रान् कथयाम्यनुपूर्वशः | गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा || १०-८८३ || विमलं चाट्टहासं च माहेन्द्रं भीममष्टमम् | पूर्ववद् भुवनमप्यवतीर्णम् ---- गुह्याद् गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः || १०-८८४ || वेदितव्यमिति दीक्षायामुपस्थानादिपूर्वं शोध्यत्वेन || ८८४ || अथोपरि ---- आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलम् | आकाश इति तदावरणे | यथाकाशमिति व्यापकम् | शुद्धेति स्वच्छम् | भुवनमित्यर्थात् || तथाऽत्र ---- सूक्ष्मरूपोऽव्ययो नित्यो मध्यदेशे व्यवस्थितः || १०-८८५ || आकाशाख्य एव परमेश्वरमूतीरूपो भुवनेश इत्यर्थात् || ८८५ || किं च ---- आकाशधारणायुक्तो योगी युज्येत तत्पदे | देहान्तर एव || अथ ---- अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः || १०-८८६ || तान् || ८८६ || वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् | गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमम् || १०-८८७ || पवित्राष्टकमेतद्धि समासेन प्रकीतीतम् | पवित्रस्य निरावरणपदनिविष्टत्वेन पूर्वेभ्योऽप्युत्कर्षात् || अथ ---- अस्य बाह्ये अहङ्कारः.............. अस्य आकाशावरणस्य बाह्ये सर्वतो व्यापकत्वेनावस्थितोऽहङ्कार इत्यन्तर्गर्भीकृततन्मात्रेन्द्रियात्मकस्वविकारषोडशकमहङ्कारावरण् अमित्यर्थः || अतश्च ---- ............टत्र रुद्रान्निबोध मे || १०-८८८ || छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरम् | कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ || १०-८८९ || स्थाण्वष्टकं समाख्यातं............ तिष्ठत्यस्मिन् तन्मात्रेन्द्रियाधिष्ठातृद्वारेण सर्वभोगसम्पदिति स्थाणुशब्दाभिधेयमष्टकमेतत् || पूर्ववदष्टकमेतत् ---- .............पूर्वादीशानगोचरम् | स्थितमित्यर्थात् || एतदष्टकाधिष्ठानादेव च ---- मध्यदेशे स्थितो रुद्रस्त्वहङ्कारेश्वरः प्रभुः || १०-८९० || अहङ्काराधिष्ठातृदेवतात्मा एतत्तत्त्वाविभिन्नमूतीः | अत एव श्रीपूर्वादौ (५ | २१-२२) प्रधानभूतस्याष्टकस्य शोध्यत्वमुक्तम्, न तु तदधिष्ठेयस्याहङ्कारेश्वरस्य || ८९० || इदानीं जलतत्त्वाधिपतेर्गुह्याद्यष्टकपञ्चकस्य दीक्षायां ध्यानोपयोगि रूपमादिशति क्रमेण ---- श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभम् | तदित्थम् ---- पञ्चाष्टकेषु ये वर्णाः समासात् कथितास्तव || १०-८९१ || शतरुद्राणामपि पूर्वादिदिक्क्रमेणैव वर्णविभागं निरूपयति ---- सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः | पीताः शुक्लाश्च विज्ञेयाः............. ऊर्ध्वं तु कपिशाः ---- .....ऽधस्तु धूम्रवर्चसः || १०-८९२ || त एतद्वर्णाः ---- शतरुद्राः समाख्यातास्त्रिनेत्राः शूलपाणयः | चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः || १०-८९३ || सर्व इति पञ्चाष्टकरुद्रा अपि त्रिनेत्रादिरूपाः || ८९३ || एवं देवानां रूपमुक्त्वा तद्भुवनानामप्याह ---- पद्माकृतीति ज्ञेयानि चित्ररत्नयुतानि च | शतरुद्रभुवनानि भोगैश्वर्ययुतानि च || १०-८९४ || पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः | एवमहङ्कारावरणे रुद्रानुक्त्वा तदन्तर्वतीतन्मात्रादिषोडशकक्रमेण भुवनानि निरूपयितुमुपक्रमते - --- आकाशावरणादूर्ध्वंमहङ्कारादधः प्रिये || १०-८९५ || भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः | तत्र ---- आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महत् || १०-८९६ || स्थितं वितानवद् देवि योजनानेककोटयः | मण्डलं भुवनं शतकोटिमानाद् ब्रह्माण्डात् क्रमेण दशगुण्या वृद्ध्या कोटिगुणमहङ्कारावरणमिति तदन्तर्वतीनांं तन्मात्राद्यावरणानामनन्तकोटितैव भवति || तच्च ---- शुक्लरक्त१सितापीतहरितं स्फुटिकप्रभम् || १०-८९७ || वितानमिव देवेशि सर्वतः परिमण्डलम् | यथा च भूलोके तथा भूतत्त्वकारणेऽपि || शर्वो ह्यधिपतिस्तत्र एक एव वरानने || १०-८९८ || युक्तं चैतद्यतः ---- तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता | अन्यथा जडस्य तन्मात्रस्य कथं कारणता स्यात् | एवमन्यत्रापि ज्ञातव्यम् || अथ ---- तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलम् || १०-८९९ || हरितं मरकतश्यामं चाषपक्षनिभं प्रिये | भवो ह्यधिपतिस्तत्र एक एव वरानने || १०-९०० || तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः | अथ ---- तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलम् || १०-९०१ || स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभम् | रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते || १०-९०२ || तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया | तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि || १०-९०३ || पशुपत्याख्यो रुद्रः | लोकानां व्यापकमित्यन्तर्बहिश्च जाठरभौमरूपाद्यग्निरूपतया स्थितमित्यर्थः || ९०३ || अथ ---- अस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलम् | सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये || १०-९०४ || संध्यायामरुणो गुणः किञ्चित्तमसा कर्बुरधूसराभो भवति || ९०४ || तच्चैतत् ---- वितानाकारसदृशं समन्तात् परिमण्डलम् | तत्रैव मण्डले देवि त्वीशानः संव्यवस्थितः || १०-९०५ || अधिपतिः || ९०५ || अतश्च ---- तस्माद्वायुवीनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये | यः पूर्वं वायुतत्त्वरूप उक्तः || किं च ---- तस्मात् प्राणादयः पञ्च......... तस्मादिति वायोः || ततोऽसौ ---- ...........वायोस्तद्व्यापकः परः || १०-९०६ || सप्तधा सप्तधा सोऽपि स एको बहुधा गतः | एतत्पूर्वमेव निर्णीतम् || अथ ---- तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलम् || १०-९०७ || नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभम् | वितानसदृशाकारं समन्तात् परिमण्डलम् || १०-९०८ || भीमस्तत्राधिपत्येन एक एवावतिष्ठते | तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महत् || १०-९०९ || व्यापकं सर्वलोकानां परापरगतं प्रिये | परं जलादितत्त्वस्थानम्, अपरं तु ब्रह्माण्डान्तर्गतम् || अथ ---- तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते || १०-९१० || सहस्रादित्यसङ्काशं दीप्यमानं समन्ततः | वितानवद्रश्मिदीप्तं समन्तात् परिमण्डलम् || १०-९११ || रुद्रो ह्यधिपतिस्तत्र त्वेक एवावतिष्ठते | सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने || १०-९१२ || ये ब्रह्माण्डान्तरधिकृताः | एवमुत्तरत्र || ९१२ || अथ ---- तस्मात्त मण्डलादूर्ध्वं सोममण्डलमुच्यते | चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलम् || १०-९१३ || तुल्यं च मण्डलं परिमण्डलमित्यर्थः || ९१३ || अत्र च ---- अधिपतिस्तु महादेव एक एवावतिष्ठते | तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः || १०-९१४ || असंख्याताः सहस्राणि कल्पे कल्पे विनिर्गताः | अथ ---- तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते || १०-९१५ || चन्द्रकोटिसमच्छायं समन्तात् परिमण्डलम् | वितानवत् स्थितं दिव्यमुग्रेशसमधिष्ठितम् || १०-९१६ || संरुद्धं वामया तत्तु............ उग्राख्यस्य रुद्रस्य सम्बन्धिन्या वामाख्यशक्त्या तद्वेदमण्डलं संरुद्धमाच्छादितं पराद्वयस्वरूपमनधिष्ठितमित्यर्थः || अतश्च वेदान्तप्रतिपाद्याद्वयात्मनः स्वरूपस्य वामशक्त्यावृतत्वात् कर्मानुष्ठानप्रधानानि भेदमयान्येव ---- .............टस्माद्वै निर्गतानि तु | यजमानसहस्राणि कल्पे कल्पे स्थितानि हि || १०-९१७ || ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदितात् | तस्माद्वेदमण्डलरूपाद् ब्रह्मण उग्रेशेन प्रचोदितात्, न त्वीश्वरचोदनां विना, उग्रेण तपसा लक्षितानि तानि निर्यातानि ब्रह्माण्डं यज्ञानुष्ठानायावतीर्णानि || तत्समकालमेव च ---- वेदयज्ञाश्च विविधा ब्रह्मणोऽनन्तवर्त्मनः || १०-९१८ || तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च | तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः || १०-९१९ || वेदयज्ञा ज्योतिष्टोमादयः | यज्ञा इति स्वाध्यायजपयज्ञादयः | एतच्च ---- ऽऽब्रह्माण्डमेतदाख्यातं पाशजालावतारितम्ऽऽ (१०-६६४) इत्युक्तदृष्ट्या ऽऽवामाधः प्रेरयत्यणुम्ऽऽ इति स्थित्या वामाशक्त्यधिष्ठानक्रमेणोग्रदेवेनैव सम्पाद्यते | ब्रह्मणोऽपि हि तन्निर्मातृत्वाभिमानस्तेनैव दत्तः || ९१९ || उपसंहरति ---- इत्यष्टौ तनवस्त्वेताः परा वै सम्प्रकीतीताः | परमेश्वरस्येत्यर्थः || यदपेक्षया परा एताः, ता अप्याह ---- अपरा ब्रह्मणोऽण्डं वै व्याप्य सर्वं व्यवस्थिताः || १०-९२० || बहिरन्तश्च स्थावरभूतरूपा इत्यर्थः | एवं चाभिदधत्सर्वमिदं परमेश्वरात्मकमित्यद्वयदृष्टिमेव प्रस्तुतां निर्वाहयति | एवं भूततन्मात्रात्मकदशविधकार्यतत्त्वगतो भुवनविभाग उक्तः, तत्प्रसङ्गेन च मूर्त्यष्टकाधिष्ठायकमूर्तीश्वराष्टकमुक्तम् | उक्तमूर्त्यष्टकाधिष्ठायकमध्ये याजमानी मूतीः सर्वोपरि प्रधानभूतोक्ता, यस्या मूतीपञ्चकं कार्यात्मकं भोग्यं सूर्यसोमात्मकं च मूतीद्वयं कारणतया वर्तते || ९२० || एवं कार्यावरणमहङ्कारान्तर्गतं पञ्चविधमुक्त्वा करणावरणैकादशकं प्रकटयितुमाह ---- एभ्यः परतरं चापि मण्डलं करणात्मकम् | करणं शब्दोदीरणादिव्यापारतत्साधनकर्मेन्द्रियोदयस्थानम् | मण्डलं भुवनं वक्ष्यमाणदृष्ट्या वागादिकर्मेन्द्रियतत्त्वपञ्चात्मकतया विभक्तमित्यर्थः || तच्च क्रमेण ---- शुक्लरक्तासितं पीतं हरितं चापि वर्णतः || १०-९२१ || तत्र च ---- पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके | ते चाधारपटलनिरूपयिष्यमाणनीत्या वह्निशक्रविष्णुमित्रकश्यपाः || किं च ---- कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनाम् || १०-९२२ || कर्मदेवा वचनादिस्वक्रियाद्योतकानि कर्मेन्द्रियाणि, तस्मात् करणमण्डलात्, प्रवर्तन्ते देहिनां प्रत्यणु पृथग्रूपाण्युद्भवन्ति || ९२२ || तानि च ---- वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः | अन्तःप्राणाश्रये त्यागादाने वागिन्द्रियकार्ये | बहिस्त्वादानं त्यागो द्वयं च पाणिपायुपादनिर्वर्त्यम् | समस्तत्यागादानक्षोभप्रशमनेनानन्दात्मकस्वरूपविश्रान्तिरुपस्थकार् यम् | न चैतद्व्यतिरिक्तः कश्चिद्व्यापारोऽस्तीति पञ्चैव कर्मेन्द्रियाणि | तेषां च सर्वशरीरव्यापकत्वेऽपि पाण्याद्यधिष्ठानस्थानम्, तेन वक्त्रादिनापि यद्ग्रहणम्, तदपि पाणीन्द्रियकार्यमेव || बुद्धीन्द्रियाण्याह ---- एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभम् || १०-९२३ || ऽऽरूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिःऽऽ (सा०का० २८) इति स्थित्या श्रोत्रादीनां शब्दादिप्रकाशकत्वात् तदुद्भवस्थानं प्रकाशकं मण्डलमित्युक्तम्, अत एव सूर्यसन्निमम् || ९२३ || एतच्च करणमण्डलात् पञ्चधैव | यदाह ---- तस्माद्वै सम्प्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु | प्रत्यणु भिन्नभिन्नरूपाणीत्यर्थः || तानि च ---- श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् || १०-९२४ || व्योमवायवादितत्त्वप्रसरणक्रमेणेत्यर्थः || एषां च ---- विषयालोचनं वृत्तिः........... यतः ---- ...............टेजोमण्डलसंस्थिताः | स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः || १०-९२५ || भाविनीत्या दिग्वायुसूर्यवरुणाश्व्याख्यस्वकाधिष्ठातृदेवताप्रेरिता बुद्धिदेवाश्चोदनानुसारं रूपाद्यालोचनेषु प्रवर्तन्ते, तेनैषां विषयालोचनं वृत्तिरित्यर्थः | एषां कर्मेन्द्रियाणां च प्रतिलोमक्रमेण भुवनसंशोधनं कार्यम् || ९२५ || अथ ---- एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभम् | विस्तारात् परिणाहाच्च सर्वतो रश्मिमण्डलम् || १०-९२६ || तस्माद्वै सम्प्रवर्तन्ते पञ्चार्थाः सर्वदेहिनाम् | शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः || १०-९२७ || भोग्यभूताः प्रतिपुरुषं विचित्रभोगसम्पादका रूपादयः सर्वे तस्मादुद्यन्ति | अत एव समस्ताम्मयचन्द्रोल्लासकत्वात्तस्य चन्द्रमण्डलसन्निभत्वं परिमाणतो रूपतश्चोक्तम् | यतश्चैतद्रश्मिमण्डलमत एवैतद्भूता विषया एतद्रश्मिरूपाः प्रकाशमानतया स्वप्रकाशस्वभावाः | यदुक्तं श्रीमदुच्छुष्मभैरवे ---- ऽऽयावन्न वेदका एते तावद्वेद्याः कथं प्रिये | वेद्यवेदकमेकं तु तत्त्वं नास्त्यशुचिस्ततः ||ऽऽ इति यद्यपि पृथिव्यादयो रूपादिगुणा एवोत्पन्नास्तथाप्येते प्रतिपुरुषं विचित्रभोगसम्पादका अन्य एव रूपादयो निर्याताः || ९२७ || किं च ---- एभ्यः परतरं चापि सौम्यं सोमस्य मण्डलम् | एभ्य इति करणप्रकाशरश्मिमण्डलेभ्यः || तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दशपञ्चभिः || १०-९२८ || बुद्धिकर्मेन्द्रियविषयाख्यस्य ग्रहणग्राह्यरूपस्य रश्मिपञ्चदशकस्यानुसन्धातृरूपमिति कृत्वा तैरेव तद्युक्तमुक्तम् || ९२८ || तच्च ---- चित्तं चेतो मनश्चेति........... इत्थमुच्यमानं सत् ---- ...............शब्दाद्यक्षप्रवर्तकम् | यतश्चायं प्रवर्त्यमानैतद्रश्मिपञ्चदशककलापूरिततनुः स्वामृतकलया सह षोडशकलोऽत एव ---- तस्याधिपो महातेजाश्चन्द्रमाः सोम्यतेजसा || १०-९२९ || महातेजा नित्यमक्षीणकलाषोडशकादिपरिपूर्णमूतीत्वात्, अतश्च चेतनस्य पुरुषस्य विकारषोडशकादियुक्ततया स्वावसरनिर्णेष्यमाणस्यावरोहक्रमेण प्रतिनिधिकल्पत्वात् ---- ऽऽपुरुषे षोडशकले तामाहुरमृतां कलाम्ऽऽ इत्युद्धोष्यते || ९२९ || अथ ---- तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महत् | जपाकुसुमसङ्काशमरुणादित्यसंनिभम् || १०-९३० || पूर्ववच्च प्रमाणेन समन्तात् परिमण्डलम् | पूर्ववदिति पूर्वोक्तचन्द्रमण्डलपरिमाणमित्यर्थः || किं च ---- तस्मात्तु मण्डलाद् देवि सन्ध्यारुणसमद्युतिः || १०-९३१ || सधूमोऽग्निरिवासौ वै अहङ्कारः प्रवर्तते | सर्वप्रमातृगता अहङ्कारा उद्यन्तीत्यर्थः | अहङ्कार इति जातावेकवचनम् | मनःपर्यन्तसमस्तविषयेन्द्रियाधिष्ठातृत्वात्तत्कल्पनस्वभावत्वाच्च तैजसभूतादिरूपस्यास्य सधूमाग्नितुल्यत्वमुक्तम् | एवं चाहङ्कारमनोविषयबुद्धीन्द्रियकारणभूतानि सूर्यसोमरश्मिप्रकाशकरणमण्डलानि पञ्च, तथा तन्मात्रमण्डलानि पञ्च व्याप्य अहङ्कारतत्त्वं स्थितमिति मनः प्रभृति षोडशकमाहङ्कारिकमुच्यते | अत एव कारणसकन्धदृष्ट्या बहिस्तत्त्वान्येकरूपाणि, करणस्कन्धदृष्ट्या तु प्रतिपुरुषं भिन्नभिन्नस्वभावानीति न करणस्कन्धरूपादहङ्कारात् षोडशकोत्पत्तिरपि तु सूर्यसन्निभान्मण्डलात् कारणस्कन्धरूपात् करणस्कन्धरूपाणां प्रतिप्रमातृभिन्नानामहङ्काराणामुत्पत्तिस्तथा मनः प्रभृतेः षोडशकस्येति मन्तव्यम् || यश्चायं करणस्कन्धात्मा अहङ्कार ---- , सः ---- अन्तःकरणमात्मस्थं.............. आत्मनोऽन्तरङ्गमेतत् सकलवसुधादिप्रतीतिसाधनं कारणमित्यर्थः || किं च ---- ...........येनेदं रञ्जितं जगत् || १०-९३२ || जगत् स्थावरजङ्गमात्मकं तत्तत्समुचिताभिमाननिवेशनेन येनोपरक्तं कृतमित्यर्थः || ९३२ || अयं च ---- मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति | यथा मत्तो द्विपो दावाग्निश्च तत्तत्तरुप्राण्यादिविनाशायोपसर्पति, तथाऽयमन्धोऽविचारितयुक्तायुक्तस्तदभिमानादानक्रमेण सर्वजगन्नाशकः || किमयमस्य परोपतापकारी स्वभावः स्वत एवोद्भूतः, नेत्याह ---- तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा || १०-९३३ || रुद्र इति यः पूर्वम् ---- ऽऽमध्यदेशे स्थितो रुद्रस्त्वहङ्कारेश्वरः प्रभुःऽऽ (१०-८९०) इत्युक्तः | प्रेर्यते संसाररक्षार्थमभिमानात्मनि स्वकार्ये प्रवर्त्यते || ९३३ || एतं ये परिवृत्य स्थिताः, तेऽपि ---- छगलाण्डादयो देवि पूर्वं ते कथिता मया | गतमेतत् || अहङ्कारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते || १०-९३४ || सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसम् | वर्चो दीप्तिः || किं च ---- अष्टानां देवयोनीनामत्रैव भुवनं शृणु || १०-९३५ || प्राग् ब्रह्माण्डरूपेणोक्तानां पैशाचादिब्रह्मपर्यन्तानामष्टानां देवयोनीनां सात्त्विकादिवृत्तिवैचित्र्येण स्थितानां पररूपेणात्रैव बुद्धितत्त्वे धर्मादिगुणाष्टकयुक्ते भुवनाष्टकमस्तीत्येवकाराशयः || ९३५ || तत्र ---- ककुभं नाम भुवनं सन्ध्यारुणसमप्रभम् | मानसीभिस्तु तत्स्त्रीभिर्मुदिताभिः समाकुलम् || १०-९३६ || मानस्यो मनोनुकूलाः || ९३६ || किं च ---- स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्रभाः | दशकोटिसहस्राणि.......... किं च ---- ...........टेषां तत्र निवासिनाम् || १०-९३७ || मध्ये ---- स्वनन्दो नाम विक्रान्तः.......... स च तेष्वेव ---- ............पिशाचेष्वीश्वरो महान् | सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः || १०-९३८ || कुण्डलाभरणोपेतो हारकेयूरभूषितः | किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः || १०-९३९ || परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा | नानारूपधदीव्यैदीव्याभरणभूषितैः || १०-९४० || दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः | मौलिः शिखामणिः | दिव्यमैश्वर्यं पिशाचोचितमेवाणिमाद्यष्टविधम्, एवमुत्तरत्रापि स्वोचितमेव दिव्यत्वं मन्तव्यम् || स चैतैः ---- परिवृतो महातेजा गणैरिव महागणः || १०-९४१ || महान्तो गणा यस्य स महागणो महादेवः || अथ ---- अतः परं प्रवक्ष्यामि राक्षसं भुवनं महत् | कोकिलाकण्ठसदृशं नीलजीमूतसंनिभम् || १०-९४२ || तस्मिंस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते | करालो राक्षसेशो वै जात्यञ्जननिभो महान् || १०-९४३ || किरीटी कुण्डली दीप्तः शोभते तु महाद्युतिः | जात्यञ्जननिभः श्रीमान् दावाग्निरिव पर्वते || १०-९४४ || श्रीर्दीप्तिवीद्यते यस्य, अत एव धूमबहुलेन दावाग्निनोपमितः || ९४४ || अस्य च परिवारः ---- दशकोटिसहस्राणि मुदिता नाम राक्षसाः | भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः || १०-९४५ || अथ ---- अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महत् | जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलम् || १०-९४६ || भोगैर्श्वर्यसमुत्पन्नं समन्तात् परिमण्डलम् | तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराट् || १०-९४७ || तप्तकाञ्चनवर्णाभो मुकुटादिविभूषितः | शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः || १०-९४८ || तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव | अथ ---- अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महत् || १०-९४९ || पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि | कौशीतकी पुष्पविशेषः || तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये || १०-९५० || गन्धर्वदेवाधिपतिर्गन्धमादनसन्निभः | अप्रकम्प्यत्वात् || तथा ---- तप्तजाम्बूनदनिभस्तरुणादित्यसप्रभः || १०-९५१ || दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः | दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः || १०-९५२ || मनःशिलाभङ्गनिभैर्हरितालनिभैस्तथा | स्वकान्ता नाम गन्धर्वाश्चित्रमाल्यानुलेपनाः || १०-९५३ || चित्त्राम्बरधराः सर्वे चित्त्राभरणभूषिताः | अथ ---- तस्मात् परतरं वक्ष्ये स्थानमैन्द्रं च पार्वति || १०-९५४ || बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदम् | शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभम् || १०-९५५ || बृहद्भोगमिति यथार्थनाम | ऊर्ध्वमित्युत्कृष्टम् || ९५५ || तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते | विभूतिर्नाम भगवान् महेन्द्रो भुवनेश्वरः || १०-९५६ || चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः | शुक्लाम्बरधरः श्रीमान् शुक्लमाल्यानुलेपनः || १०-९५७ || ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलङ्कृतः | हारकेयूरवान् श्वेतः श्वेतोष्णीषविभूषितः || १०-९५८ || भूतिजा नाम वै देवा विभूत्या परया युताः | किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः || १०-९५९ || दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीतीताः | तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः || १०-९६० || भूत्या सह जातत्वाद्भूतिजा इत्युक्ताः || ९६० || अतः परं तु ---- मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभम् | शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसम् || १०-९६१ || अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः | शुद्धस्फटिकसङ्काशः श्रीमान् शुक्लाम्बरोद्वहः || १०-९६२ || कुण्डलैर्दीप्तिसङ्काशैर्भूषितस्तु विराजते | दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः || १०-९६३ || तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः | देवाः || दिव्याः सौम्यास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः || १०-९६४ || दशकोटिसहस्राणि तेषां वै सौम्यतेजसाम् | अथ ---- अत ऊर्ध्वं तु देवेशि प्राजेशं भुवनं महत् || १०-९६५ || तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः | विश्वरूपो विश्ववर्णो विश्वालङ्कारभूषितः || १०-९६६ || विश्वरूपपरैर्देवैवीश्वात्मा परिवारितः | अमितद्युतिरित्येतन्नामा || तेषां च ---- दशकोटिसहस्राणि विश्वानां भूरितेजसाम् || १०-९६७ || परिवार्य महात्मानं शोभने पर्युपासते | विश्वानामित्येतत्संज्ञानाम्, अत एवासर्वनामत्वात् सुडभावः | शोभन इति भुवनविशेषणम् || अथ ---- ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभम् || १०-९६८ || पितामहो यत्र देवः शुक्लपद्मस्थसौम्यदृक् | शुक्लाम्बरधरः श्रीमान् शुक्लमाल्यानुलेपनः || १०-९६९ || शुक्लयज्ञोपवीती च महाहारविभूषितः | दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः || १०-९७० || ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् | तदित्थम् ---- पैशाचं राक्षसं याक्षं गान्धर्वं त्वैन्द्रमेव च || १०-९७१ || सौम्यं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये | साधिष्ठातृदैवतमुक्तमित्यर्थः || एतानि सुरयोनीनां स्थानान्येव पुराणि तु || १०-९७२ || एतानि पुराणि देवयोनीनां स्थानान्येव मुख्यान्येवावस्थितिधामानि || ९७२ || एभ्यश्च स्थानेभ्यः ---- अवतीर्यात्मजन्मानं ध्यायन्तः सम्भवन्ति हि | परमेशनियोगाच्च चोद्यमानाश्च मायया || १०-९७३ || नियमिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः | व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा || १०-९७४ || अंशेनैव वरारोहे.............. व्यक्तं प्रभूतात्मदेहमयं स्थूलं जन्म यस्य ब्रह्मणो ब्रह्माण्डान्तसत्यलोकाधिपतेस्तस्य सम्बन्धिनि प्रत्यहं कार्ये सर्गादौ सृष्टिप्रारम्भे व्यज्यन्ते तत्पदोचिताकृतिभाज आत्मजन्मानं बुद्धितत्त्वगतं ब्रह्माणं ध्यायन्तः परमेश्वरनियोगान्मायादिमाहात्म्याद्ब्रह्माण्डान्तर्जायन्ते | ते चांशमात्रेणैव व्यज्यन्ते || सर्वात्मना पुनरेते ---- ...........ण त्यजन्ति निकेतनम् | निकेतनं बुद्धिगतं निजं स्थानम् || एवं बुद्धितत्त्वगतं देवयोन्यष्टकमात्रमुक्त्वा प्रस्तुतभुवनदीक्षायां प्रकृतं मा विस्मार्षीदित्याशयेनाह ---- पुर्यष्टकेन्द्रियैः सार्धमात्मा मन्त्रैवीशोधयेत् || १०-९७५ || बुद्धिपर्यन्तगते भुवनजाते शोधिते सति तन्मात्रमनोहङ्कारबुद्धिरूपेण पुर्यष्टकेनेन्द्रियैश्च बाह्यैः करणैः सार्धं यः स्थित आत्मा, अर्थात्तमेव मन्त्रैरिति प्राग्विभक्तस्थित्या प्रतिष्ठायां यथाकर्मविभागं विनिर्मुक्तैर्मूलवामदेवादिभिवीशोधयेत् | विशोध्यत इति तु स्पष्टः पाठः || ९७५ || एतदुपसंहरन्नन्यदवतारयति ---- पञ्चाष्टकं मूर्तयोऽष्टौ बुद्धितत्त्वमनुक्रमात् | विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परम् || १०-९७६ || विशोधयेदिति सम्बध्यते | अनुक्रमादित्युक्तेरयमाशयः ---- गुह्याद्यष्टकचतुष्टयं जलादिव्योमतत्त्वान्तगं शोधयित्वा तन्मात्रपञ्चकसोमसूर्यवेद्यमण्डलगताः शर्वादिमूर्तयोऽष्टौ विशोध्याः, ततः कर्मबुद्धीन्द्रियपराधिष्ठातॄनग्न्यादिसोमान्तानेकादश शोधयित्वाऽहङ्कारगतं पञ्चम स्थाण्वष्टकं ततोऽपि बुद्धिगतं देवयोन्यष्टकं विशोधयेत् | प्रयत्नेनेति प्रागुक्तेनाध्वसन्धानादिना भुवनेश्वरवागीश्वरीविसर्जनपर्यन्तेन समस्तेन कर्मविस्तारादिना, न तु हेलामात्रेण | उक्तं चान्यत्र१ ---- ङ चावज्ञा क्रियाकाले संसारोद्धरणं प्रतिऽऽ इति || ९७६ || एवमियदन्तं शोधयित्वा बुद्धितत्त्वगतमेव क्रोधेश्वराष्टकं यच्छोध्यम्, तदुद्दिशति ---- संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः | मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः || १०-९७७ || महाक्रोधनाम्ना क्रोधाधिष्ठायिना रुद्रेणोपलक्षितमेतत्क्रोधाष्टकमुच्यते | एते च रुरुसंग्रहे ---- ऽऽक्रोधेशश्चण्डसंवर्तौ ज्योतिःपिङ्गलसूरकौ | पञ्चान्तकैकवीरौ च शिखी देशहितेश्वराः ||ऽऽ (४-१७) इति नामान्तरेणापि पठिताः || ९७७ || नीलोत्पलदलाभानि तेषां वै भुवनानि तु | एकैकस्य परीवारः कोटिर्दशसहस्रकम् || १०-९७८ || अथात्रैव तत्त्वे ---- क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महत् | बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः || १०-९७९ || सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च | निमेषसहित उन्मेष इत्यर्थः || एषां च ---- सहस्रैः पञ्चदशभिः परिवारोऽभिधीयते || १०-९८० || तेजोष्टकसमाख्याया निमित्तमाह ---- अग्निरुद्राः स्मृता ह्येते तेजसा कृष्णवर्णकाः | अग्निवद्दीप्तत्वादग्निरुद्राः तेजसा ज्ञानदीप्तिमयेनोपलक्षिताः, अत एव बुद्धिगतदीप्तात्मकतेजोऽष्टकाधिष्ठातृत्वादप्येतत्तेजोऽष्टकम्- उच्यते || कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु || १०-९८१ || अथ ---- अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमम् | सम्प्रज्ञातासम्प्रज्ञातयोगस्थितानां योगिनामधिष्ठातृत्वाद्योगाष्टकम्, अत एवाधस्तनाष्टकापेक्षयोत्कृष्टत्वादनुत्तमम् || तच्च ---- अकृतं च कृतं चैव रैभवं ब्राह्ममेव च || १०-९८२ || वैष्णवं त्वथ कौमारमौमं श्रैकण्ठमेव च | रिभूणां देवानामिदं रैभवम्, एवं ब्राह्मं भुवनमित्यादि योज्यम् | तेन रा धनं तत्र भवमित्यादिव्याख्यानमसत् | एतच्च योगाष्टकं प्रधानतत्त्वाश्रयमिति श्रीमालिनीविजये (५-२४-२५) सगुणयोगनिष्ठानां च शुद्धसत्त्वगुणा धीः प्रधानं वा प्राप्तिपदमिति न वस्तुभेदः कश्चित् || अतश्च ---- क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः || १०-९८३ || तत्र नैष्कर्म्ययोगनिष्ठा अकृतपदे, कर्मयोगनिष्ठाः कृतपदे, निर्माणयोगगता रिभुपदे, पुरुषाद्वययोगसेविनो ब्रह्मपदे, वैष्णवशास्त्रोक्तयोगसेविनो वैष्णवपदे, निष्पन्नब्रह्मचर्ययोगाः कुमारपदे स्फटिकप्रभैः स्वच्छैर्भुवनैरुपलक्षिताः क्रीडन्ति | तदूर्ध्वं त्वौमं श्रैकण्ठं च धाम शैविसिद्धान्तोपदिष्टशक्तिशक्तिम् अदाराधनपुरःसरचित्तवृत्तिनिरोधात्मकनिष्पन्नानां प्राप्तिपदम् || ९८३ || तत्र शिवयोगिन्या भगवत्या उमाया देव्या योगाष्टकस्योपरि परेण रूपेण स्थिताया भुवनमाह ---- ततः साक्षाद्भगवती जगन्माता व्यवस्थिता | उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा || १०-९८४ || साक्षादित्युक्त्या योगाष्टकमध्ये भगवत्या अंशावतरणमित्याह, एवं वक्ष्यमाणश्रीकण्ठभट्टारकविषयेऽपि मन्तव्यम् | स्वयम्भवेति स्वातन्त्र्यात् परानुग्रहाय तत्र स्थिता, नान्ययोगिवद्योगवशादेतत्पदं प्राप्ता || ९८४ || सा च ---- तप्तजाम्बूनदनिभा ह्युदयादित्यसप्रभा | महापीठे मणिमये सिंहाष्टकयुते शुभे || १०-९८५ || शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते | स्थितेति शेषः || किं च ---- दिव्यकुण्डलिनी देवी महाहारविभूषिता || १०-९८६ || किं च ---- विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी | जया च पद्मगर्भाभा सर्वालङ्कारभूषिता || १०-९८७ || नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता | सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा || १०-९८८ || परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः | श्रीरिवेति पूर्वोक्तश्रीरूपेत्यर्थः | सर्वत इति चतुदीक्कम् || किं च ---- त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च || १०-९८९ || मानस्यो दिव्यनार्यस्तास्तां सदा पर्युपासते | ता इति लोकोत्तराः | त्रिंशत्कोटीति पाठे वर्णव्यत्ययश्छान्दसः || किं च ---- विमानकोटिरेका च रुद्राणां भूरितेजसाम् || १०-९९० || तत्रास्ति || ९९० || ते च विमानस्था रुद्रास्तदाराधनपरा एवेति कृत्वा ---- औमा इति समाख्याताः........... किं च ---- ..........वैमाना इति तेऽन्यथा | विगतो मानः शरीरेन्द्रियादिविषयोऽभिमानो यस्याः सा विमाना भगवती, तस्या अमी वैमानाः || एते हि ---- उपासते तु तां देका मातरं तनया इव || ९९१ || न च तत्रासौ केवलमनुग्रहपरा स्थिता, यावत् | सावतीर्याण्डमध्ये तु मया सार्धं वरानने | अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी || ९९२ || सनातनी नित्यं पुंसामनुग्रहार्थं प्रपञ्चव्याप्त्या नानानामाकृतिरूपा प्रादुर्भूता व्यक्तिं गतेत्यर्थः | मया सार्धमिति वक्ष्यमाणश्रीकण्ठावतारेण कैलासवासिना मया सहेत्यर्थः || ९९२ || प्रतिकल्पं नानानामभेदेन देव्यवर्तीर्णेत्याह ---- कल्पे पूर्वे जगन्माता जगद्योनिद्वीतीयके | तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी || १०-९९३ || पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका | विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा || १०-९९४ || आनन्दा नवमे कल्पे दशमे वामलोचना | एकादशे वरारोहा द्वादशे च सुमङ्गला || १०-९९५ || कल्पे त्रयोदशे देवि महातनुरुदाहृता | कल्पे चतुर्दशे चैव अनन्ता नाम कीतीता || १०-९९६ || भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता | सहस्रधारा सप्तदशे सती चाष्टादशे पुरा || १०-९९७ || कल्पो भाविमानेन चतुर्दशमन्वतरं ब्राह्मं दिनं यदन्ते कालाग्निर्जगद् दहति तत्र प्रथमद्वितीयादिकल्पक्रमेण त्वेतन्नामरूपभेदेन लोकानुग्रहार्थमवतीर्णा || ९९७ || आस्तां वा निःसंख्यपुराकल्पगततत्तदवतारकीर्तनेनापरिसंख्येन, केवलमस्मिन् वर्तमाने ---- चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा | ब्रह्मणा स्वचक्षुषा निमीतत्वाच्चाक्षुषो यो मनुप्रजापतिस्तस्य कल्प इति तदीय एतत्कल्पसम्बन्धिनि प्रथममन्वन्तरात्मनि त्वं लोकानुग्रहार्थं दक्षप्रजापतिदुहितृरूपेणावतीर्णाऽभव इत्यर्थः | अवतीर्य च ---- अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुराः || १०-९९८ || एतत्पुराणेषु प्रसिद्धमेव || ९९८ || ततः सैव ---- अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता | महेश्वरानुरागात्तच्छिरःस्थाममाख्यां विश्वाप्यायिकां चन्द्रकलामापूर्येति | एवमपि जगदनुग्रहप्रयोजनैव देवी || अथ परमेश्वरी अनुजिघृक्षाप्रेरितेन ---- पुनहीमवताराध्य दुहिता त्वात्मनः कृता || १०-९९९ || त्वं देवि सा............. तथारूपतां गृहीत्वा ---- ...........ऽद्भुतं तप्त्वा तपः परमदुश्चरम् | मां भर्तारं पुनः प्राप्य जातास्य(ङ्क)१रुहा प्रिये || १०-१००० || मामिति परमहेश्वरमेव स्वातन्त्र्याद् गृहीतकैलासवासिमूतीम् | (अङ्के)२ रुहती (त्यङ्क)३ रुहा वामार्धभागगता || १००० || तदित्थम् ---- कैलासनिलयश्चाहं त्वया सार्धं वरानने | भक्तदृशा च मम ---- त्वं तनुर्वामभागस्य............. अतश्च तत्त्वदृष्टाविवाकृतिदशायामपि ---- ..............ंअत्तो नैव वियुज्यसे || १०-१००१ || न केवलमस्मिन्नेव कल्पेऽद्यत्वे मच्छरीरार्धगतत्वेन स्थितासि, यावत् -- -- दक्षाध्वरे पुनर्जाता भद्रकालीति नामतः | पुनरित्यन्यस्मिन् दक्षयज्ञे दक्षप्रजापतिकृताराधनप्रकर्षात्तदनुग्रहाय भद्रकालीत्वेनावतीर्णा त्वमभव इत्यर्थः || तदित्थं पररूपैव त्वम् ---- एकानंशापरा मूतीः सतीशानाद्विनिःसृता || १०-१००२ || एकानंशाऽविभक्ताऽद्वितीयरूपा सती इत्यपरा मूतीरीशानाद्विनिःसृतेत्युक्तप्रकारनानाविधापरामूतीरूपा त्वमीशानादिति परमेश्वरस्वातन्त्र्यादेव जगदनुजिघृक्षयेत्थमास्थितेत्यर्थः, अथ चैकानंशाख्यदेवतात्वेनाप्यवतीर्णेत्यर्थः || १००२ || किं च ---- इदं चतुर्युगं प्राप्य द्वापरे विष्णुना सह | महिषस्य वधार्थाय उत्पन्ना कृष्णपिङ्गला || १०-१००३ || वर्तमानचतुर्युगगते द्वापरे श्रीभद्रकालीपुरनिरूपितनीत्या विष्णुना आराधिता सती तेनैव भ्रातृभूतेन सह महिषासुरवधायावतीर्णा || १००३ || किं च ---- कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः | मनुष्याणां तु भक्तानां वरदा भक्तवत्सला || १०-१००४ || पूर्वमेवावतीर्णासि विन्ध्यपर्वतमूर्धनि | विविधैर्नामपर्ययैरिति विन्ध्यवासिनीभ्रमरवासिनीत्यादिनामभेदैः | कतस्य वृष्णिमध्यवतीनोऽपत्यं कात्यः, तस्य कृष्णावताराद्यपुरुषस्यापत्यं विष्णोर्भगिनी कात्यायनी | दुःखेन गम्यते जपयज्ञदानतपोभिरपि मुनिभिरपि न प्राप्यते, किन्तु भक्तिशालिभिरेवासाद्यत इति दुर्गा | सा च विन्ध्यस्य मूर्धनि पूर्वमेवावतीर्णेत्येतत्कल्पप्रारम्भ एवोक्तजम्बूद्वीपगतविन्ध्यपर्वतशिरसि भक्तानुग्रहार्थमवतीर्णाऽसि || अथेदानीम् ---- अत ऊर्ध्वं प्रवक्ष्यामि भुवनं वरवणीनि || १०-१००५ || सुचावीति तु विख्यातं सहस्रादित्यकान्तिमत् | कैलासशिखराकारं शुद्धस्फटिकसप्रभम् || १०-१००६ || महाविमानकोटीभिरावृतं चक्रवतीनाम् | चक्रवतीनो मन्त्रेश्वरा अनुग्रहार्थमेवाकृतिपरिग्रहेणात्रावतीर्णाः || तस्मिंस्तु भुवने दिव्ये सूर्यकोटिसमद्युतिः || १०-१००७ || सहस्रबाहुचरणः सहस्रवदनेक्षणः | उमापतिर्जगन्नाथः सर्वानुग्रहकृद्वरः || १०-१००८ || तस्य च भगवतो विश्वभोक्तुः ---- भोगस्थानं समस्तं वै तत्रस्थं वामभागतः | वामभागतो वामं देहार्धमाश्रित्य तत्रैव स्थितं समस्तं भोगस्थानमशेषभोग्योपभोगात्मतया वाममर्धम्, दक्षिणं तु भोक्तृरूपमेव | एवं च भोक्तृभोगात्मकविश्वशरीरोऽयं भगवानत एव सहस्रबाहुचरणादिरूपः || किं चायम् ---- शतयोजनविस्तीर्णे नानारत्नविभूषिते || १०-१००९ || दिव्यास्तरणसंछन्ने आदित्यशतसन्निभे | आसने परमे दिव्ये रत्नपद्मविचित्रिते || १०-१०१० || उपविष्टो महातेजा वृषभैरष्टभिर्वृतः | हेमचीनाम्बरधरो हारकेयूरभूषितः || १०-१०११ || धारयन् सुप्रदीप्ते च सूर्यमण्डलसन्निभे | स्फुरन्मयूखसङ्घाते कुण्डले रश्मिसङ्कुले || १०-१०१२ || मयूखाः सूक्ष्माः प्रभाः, रश्मयस्तु स्थूलाः || किं च ---- धारयन् मुकुटं मूध्नी दिव्यरत्नविचित्रितम् | देदीप्यमानमत्युग्रं कैलासशिखरोपमम् || १०-१०१३ || प्रलम्बोऽस्य महाहारः प्रभवद्रश्मिसङ्कुलः | गाङ्गो हिमवतः शृङ्गात् पतितो निझरो यथा || १०-१०१४ || किं च ---- त्रिंशत्कोटिसहस्रैस्तु त्रिंशत्कोटिशतैस्तथा | शूलिभिर्जटिभिस्त्र्यक्षैदीव्याभरणभूषितैः || १०-१०१५ || नानारूपधरै रुद्रैर्वृतो भूतगणैस्तथा | दिव्याभिर्मानसीभिश्च नारीभिः परिवारितः || १०-१०१६ || विमानशतकोटीभिरावृतः सर्व एव तु | अन्यच्च ---- मातरः सप्त रूपिण्यो नानालङ्कारभूषिताः || १०-१०१७ || परिवार्य महात्मानं समन्तात् पर्यवस्थिताः | ता दिग्विभागेनाह ---- ब्राह्मी कमलपत्राभा दिव्याभरणभूषिता || १०-१०१८ || आग्नेययां दिशि देवेशि स्थिता वै श्रीरिवापरा | शङ्खगोक्षीरसङ्काशा त्वैशान्यां तु वरानने || १०-१०१९ || माहेश्वरी महातेजास्तिष्ठते सुरपूजिताः | कौमारी पद्मगर्भाभा हारकेयूरभूषिता || १०-१०२० || दिश्युत्तरस्यां देवेशि कामिनीपर्युपासिता | स्निग्धनीलोत्पलनिभा हारकुण्डलमण्डिता || १०-१०२१ || दक्षिणस्यां दिशि तु सा उपास्ते परमेश्वरम् | वैष्णवीति च विख्याता शिवेन परमात्मना || १०-१०२२ || शिवेनैवाधिष्ठिता सती इयं ध्याता, न तु विष्णुना | प्रत्युतैतस्यैतच्छक्त्यंशाधिष्ठितत्वादेव विष्णुत्वम् || १०२२ || नीलजीमूतसङ्काशा सर्वाभरणभूषिता | वारुण्यां दिशि देवेशि वाराही पर्युपस्थिता || १०-१०२३ || शङ्खकुन्देन्दुधवला हारकुण्डलमण्डिता | एन्द्र्यां दिशि च सा देवी इन्द्राणी पर्युपस्थिता || १०-१०२४ || करालवदना दीप्ता सर्वाभरणभूषिता | नैरृत्यां दिशि चामुण्डा उपास्ते परमेश्वरम् || १०-१०२५ || एताः सप्त परिवारभूताः, उमा तु देवी भगवतः शरीरार्धस्थाऽष्टमी | सैव योगेश्वरी यस्या एताः प्रपञ्चः | यद्वक्ष्यति ---- ऽऽउमैव सप्तधा भूत्वाऽऽ (१०-१०२९) इति | अत एव पूर्वम् ---- ऽऽमातृकाभैरवं देवमवर्गेण प्रपूजयेत् | भैरवी कादिना पूज्या मातॄर्वर्गैः प्रपूज्येत् || (१-३४) इति | एतद्व्याख्यानावसरे इहत्यदेवगृहानुसारेण योजना दशीता || १०२५ || एताश्च देव्यः ---- न त्यजन्ति हि ता देवं सर्वभावसमन्वितम् | सर्वभावेन सर्वंसवीकयान्तर्बहिश्च समन्वितमभेदव्याप्त्याऽधिष्ठातृभूतम् || तदित्थं सततं परमेश्वरानुगता अप्येताः ---- अंशेन मानुषं लोकं ब्रह्मणा चावतारिताः || १०-१०२६ || असुराणां वधार्थाय मनुष्याणां हिताय च | हितमनुग्रहः | चशब्दस्तुशब्दार्थे || कथमवतारिता ? ---- इत्याह ---- तपस्तप्त्वा महाघोरं ब्रह्मणा लोकधारिणा || १०-१०२७ || प्रजाहितकारिणा || १०२७ || किं च ---- रुरोश्चैव वधार्थाय मयापि त्ववतारिताः | मयापीति प्रभुणा सता, न तु ब्रह्मवत्तपस्तप्त्वा, इत्यपिशब्दार्थः || न चैतदाकृतिमदेवासां तात्त्विकं रूपम्, अपि त्वैताः ---- स्वच्छन्दास्तु पराश्चान्याः परव्योम्नि व्यवस्थिताः || १०-१०२८ || स्वच्छन्दं पर्युपासीनाः परापरविभागतः | नित्यं स्थिता इति शेषः | परं स्वच्छन्दं चिद्भैरवं परेण तदविभिन्नेन रूपेण, अपरं तदुमापतिरूपम् | अनेनैवमुक्तेन विभागेनैव चायमुमापतिः परभैरवस्फारसार एवेति | अनेनैवाशयेनाप्यादिसूत्रे परभैरवपदमस्माभिर्युक्तमेव व्याकारि, परभैरवसत्तासारत्वादुमापतिर्भैरव इत्युक्त इति || एताश्च मातरः परशक्तिप्रपञ्चव्याप्तिरूपा इत्याह ---- उमैव सप्तधा भूत्वा नामरूपविपर्ययैः || १०-१०२९ || एवं स भगवान् देवो मातृभिः परिवारितः | आस्ते परमया लक्ष्म्या तत्रस्थो द्योतयञ्जगत् || १०-१०३० || परा लक्ष्मीर्ज्ञानदीप्तिमयी उमा देवी, तया सह | अतश्च उमैव सप्तधा स्थिता सती उमापतेर्देहाविभिन्नेत्यष्टशक्तिर्महेश्वरः || १०३० || अत एवैतद्व्याप्तिसारा एव ---- अस्योपरि तथा चाष्टौ मूर्तयस्तस्य धीमतः | अस्य सुचारुणो भुवनस्योपरि तस्य धीमत इत्येतदुमापत्यभिन्नस्य वक्ष्यमाणगुणतत्त्वनिष्ठस्य श्रीश्रीकण्ठस्य सम्बन्धिन्योऽष्टौ मूर्तयो मूर्तीश्वराः | तथा चेति तेनैव श्रीकण्ठाभिन्नेन प्रकारेण स्थिताः || ता आह ---- शर्वो भवश्च भगवान् रुद्रः पशुपतिस्तथा || १०-१०३१ || ईशानश्चैव भीमश्च महादेवोग्र एव च | वक्ष्यमाणदृष्ट्यनुसारमीशानादनन्तरं रुद्रः पठनीयः | महादेवेन सहित उग्र इति समासः || एवंनामनिदीष्टाभिः ---- एताभिः कुरुते शर्वो मूतीभिः सृष्टिमुत्तमाम् || १०-१०३२ || भगवानुमापतिरेताभिरष्टभिः, मूतीभिरित्यनेन मूर्तीश्वराष्टकेन परापरादिभेदेन सर्वमूर्ध्वाधरपदमधितिष्ठतो भगवतो निजशक्तिचक्रात्मना सृष्टिमिति स्थूलसूक्ष्मप्रभावभूततन्मात्रादिरूपवक्ष्यमाणकलादिरूपां सृष्टिम्, उत्तमामित्युक्तसूक्ष्मस्थूलसृष्टिमुद्गतामूर्ध्वे स्थितां भगवानुमापतिरेव वक्ष्यमाणदृष्ट्या परापरभेदेन तत्र तत्रावस्थितः करोति || १०३२ || का सा सृष्टिः ? ---- इत्याह ---- भूमिरापोऽनलो वायुराकाशं सूर्य एव च | सोमश्च यजमानश्चेत्यष्टौ सृष्टिरियं स्मृता || १०-१०३३ || एतदष्टकं स्थूलसूक्ष्मपरभेदेन तत्र तत्रावस्थितं मन्तव्यम् | तेषां च मध्यादुद्धातदीक्षायां बिन्द्वादिपदैः पृथिव्यादिस्वरूपं पूर्वं दशीतम्, सूर्यसोमावपि करणशक्तिरूपौ, तदाश्रयत्वेन च यजमानः प्रमातेति सर्वाध्वनि स्थितमेवैतत् | एवमेते मूर्तीश्वराः ---- सर्वात्मना तु ते तस्मिन्नन्यत्रैकांशत स्थिताः | तस्मिन्निति बुद्धितत्त्वगते मूर्तीशावरणे | अन्यत्रेति तन्मात्रावरणे ब्रह्माण्डान्तरे च || उपसंहारभङ्ग्या भगवत उमापतेर्यावती प्रपञ्चव्याप्तिस्तां दर्शयति ---- एवमस्मिन् स्थितो देवो ब्रह्मलोकोर्ध्वतस्तथा || १०-१०३४ || मेरोश्च मूर्धनीशानो योगाष्टकमथेष्यते | श्रीकण्ठ इति नाम्ना च कैलासनिलयस्तथा || १०-१०३५ || शर्वाद्याभिश्च तनुभिरष्टाभिर्व्याप्य तिष्ठति | अस्मिन्निति सुचारुभुवने, ब्रह्मलोकोर्ध्वत इति रुद्रलोके, मेरोर्मूध्नी ज्योतिष्कशिखरे, अथानन्तरमेष एव भगवान् योगाष्टकमिष्यते, न तु तदन्यत्किञ्चित् | तथा श्रीकण्ठ इति नाम्नायमेव कैलासनिलयश्चोमापतिरयमेव शर्वाद्याभिश्च मूर्तीश्वरमूतीभिस्तत्र तत्र तत्तत्स्थूलसूक्ष्मादि विश्वं व्याप्य तदैकात्म्येनावस्थिताभिरयमेव स्थित इति प्रपञ्चव्याप्तिरियं सर्वदैकस्यैव, परमेश्वरस्येति यावत् | एतच्चैकादशे सुतरां स्फुटीभविष्यति || एषामेतदुमापतिभुवनमुत्पत्तिस्थानमित्याह ---- ये तु माहेश्वरं योगं सगुणं पर्युपासते || १०-१०३६ || भक्त्या च ब्रह्मचर्येण सत्येन च दमेन च | दृष्ट्रवा देहस्थमात्मानं तेऽत्र यान्ति मनीषिणः || १०-१०३७ || ये तु माहेश्वरशास्त्रनिरूपितं सत्त्ववृत्तिनिष्ठत्वात् सगुणं न तु ज्ञानक्रियादिशक्तिस्फारसमावेशरूपं परयोगं परितो दीर्घकालनैरन्तर्यसत्कारैरुपासते सेवन्ते, ते देहस्थं न त्वनवच्छिन्नरूपमात्मानं ज्ञात्वा कर्तृरूपं स्वं स्वभावं साक्षात्कृत्यात्र यान्तीत्युमापतिपदं सायुज्यादिना प्राप्नुवन्ति | अत्र च भक्तिर्मुख्यं कारणं सत्यब्रह्मचर्यदमेषु प्रधानभूतम् | दम इन्द्रियजयः | इत्थं चास्य योगस्य सगुणत्वमेव व्यक्तीकृतम् || १०३७ || न च सगुणशाम्भवयोगप्राप्यमेतत्पदम्, यावत् ---- दृष्ट्वा च मण्डलं तस्य भक्त्या च परया भृशम् | मुक्तद्वैता यतात्मानस्तत्र यान्ति मनीषिणः || १०-१०३८ || तस्येत्युमापतेः, मण्डलमिति तदधिकरणं यागं, दृष्ट्वा तद्दर्शनात्समयदीक्षां प्राप्य, तद्भक्त्या च मुक्तद्वैता इत्युमापतिरेवैका पारमाथीकी देवतेति निश्चित्य तत्सेवार्थं प्रयतचित्ताः पूर्ववत् सायुज्यादिनैतत्पदं प्राप्नुवन्ति मनीषिणः परमेश्वरशास्त्राश्वस्तबुद्धयः || १०३८ || अथ ---- तेषां चैवोपरिष्टात्तु सुशिवा द्वादश स्थिताः | सुष्ठु शिवा आकृतिमत्त्वेऽपि शिवैक्यप्राप्त्या पूर्णसार्वज्ञ्यादिरूपाः | ते च ---- वामो भीमस्तथेशश्च शिवः शर्वस्तथैव च || १०-१०३९ || विद्यानामधिपश्चैव एकवीरः प्रचण्डधृत् | ईशानश्चाप्युमाभर्ता अजेशोऽनन्त एव च || १०-१०४० || तथा एकशिवश्चापि सुशिवा द्वादश स्मृताः | एषां ध्यानाय ---- सर्वे कुङ्कुमसङ्काशाः सूर्यकोटिसमप्रभाः || १०-१०४१ || भुवनेषु विचित्रेषु शङ्खाकारेषु संस्थिताः | मूर्तीश्वराणां त्वधिष्ठेयपृथिव्याद्युचितमेव रूपमिति कृत्वेह नोक्तम् || अथ ---- अत ऊर्ध्वं वीरभद्रो मण्डलाधिपतिः प्रभुः || १०-१०४२ || वक्ष्यमाणस्य महादेवादिमण्डलेश्वराष्टकस्याधिपतिः | अस्यैव चासौ परा मूतीर्यः पूर्वं श्वेतादिमध्ये तदुपरि चोक्तः, अत एवायं प्रभुरिति || १०४२ || अथैतद्ध्यानादिपरिनिष्ठितो यः सः ---- तत्सायुज्यमनुप्राप्य तेनैव सह मोदते | अथ ---- अत ऊर्ध्वं महादेवि महादेवाष्टकं विदुः || १०-१०४३ || महादेवो महातेजा वामदेवभवोद्भवौ | एकपिङ्गेक्षणेशानौ भुवनेशपुर,ह्सराः || १०-१०४४ || अङ्गुष्ठमात्रसहिता महादेवाष्टके शिवाः | एते च ---- मायाञ्जनविनिर्मुक्ताः परमेशानसंमताः || १०-१०४५ || परमेशानस्य संमता इति तन्त्रावतारपटलदशीतनीत्या पारम्पर्येणानन्तभट्टारकमूतीना परमेश्वरेणानुगृहीताः, अतश्च प्राप्तप्रबोधप्रकर्षत्वान्मायागर्भाधिकारित्वेऽपि मायाञ्जनविनिर्मुक्ता इत्युक्तम् | एते चापरेण रूपेणेहोक्ता मण्डलेश्वराः, परेण रूपेण तु कालतत्त्वे भविष्यन्ति | ते तु श्रीपूर्वशास्त्रे ---- ऽऽमहातेजःप्रभृतयो मण्डलेशानसंज्ञकाः | मायातत्त्वे स्थितिः....................... ||ऽऽ (५-२८) इत्युक्ता इति प्रक्रियाभेदाः || १०४५ || उपसंहरति ---- बुद्धितत्त्वे समासेन भुवनेशा मयोदिताः | देवयोनिक्रोधतेजोयोगमूर्त्यष्टकानि पञ्चेति चत्वारिंशत्, योगाष्टकोपरि पुनरौमं श्रैकण्ठं च भुवनम्, ततः सुशिवद्वादशकमहादेवाष्टकं चेति द्वाषष्टिरत्र भुवनान्युक्तानीति विततायामिह भुवनदीक्षायां सर्वाणि शोध्यानि | संक्षिप्तायां तु यः शोधनप्रकारः, स पञ्चमे पटले निर्णीतः || अथोर्ध्वं गुणतत्त्वं तु............ गुणसाम्यात्मनः प्रकृतितत्त्वात् सत्त्वगुणगुणोत्कर्षात्म अत्यन्तविलक्षणमत एव बुद्धिरिति विलक्षणव्यपदेश्यं बीजादिवाङ्कुररूपं कथं कार्यं जायते यावदुच्छूनताप्रायं किञ्चिद्वैषम्यात्म मध्ये गुणतत्त्वं प्रकृतितत्त्वादनतिभिन्नव्यपदेशं न जायते, इत्याशयेनेह गुणतत्त्वं तत्त्वान्तरतया दशीतम् | श्रीमालिनीविजयादौ तु किञ्चिद्वैषम्यावस्थायामित उच्छिरतायामिव बीजाभिधानवद् गुणव्यपदेशस्यानिवृत्तेर्गुणतत्त्वं प्रकृतितत्त्वाभेदेनैवोक्तं संक्षिप्तभुवनदीक्षाप्रतिपादनाशयेन | इह तु वितततया भौवनविधिप्रतिपादनस्य प्रस्तुतत्वात् प्रकृतितत्त्वाद्भेदेन गुणतत्त्वं दशीतमिति नागमविसंवादः शङ्कनीयः || यच्चैतद्गुणतत्त्वम् ---- .........टस्मिंश्चैव व्यवस्थितम् || १०-१०४६ || गुरुपंक्तित्रयं दिव्यं............. दिव्यमिति प्रभावातिशययोगात् || तच्च ---- ............गुणैरन्तरितं स्थितम् | सत्त्वादिभूमिकामुपविष्टमित्यर्थः || तत्र ---- प्रथमा तमसः पंक्तिरुपरिष्टाद् व्यवस्थिता || १०-१०४७ || तमोगुणोर्ध्वमधिरूढेत्यर्थः || १०४७ || तदत्र ---- तेषां नामानि कथ्यन्ते यथावदनुपूर्वशः | तेषामिति पङ्क्तिनिष्ठानां गुरूणाम् || शिवः प्रभुर्वामदेवश्चण्डश्चैव प्रतापवान् || १०-१०४८ || प्रह्लादश्चोत्तमो भीमः करालः पिङ्गलस्तथा | महेन्द्रो दिनकृच्चैव प्रतोदो दक्ष एव च || १०-१०४९ || कलेवरश्च विख्यातस्तथा चैव कटङ्कटः | अम्बुहर्ता च नारीशः श्वेत ऋग्वेद एव च || १०-१०५० || यजुर्वेदः सामवेदस्त्वथर्वा सुशिवस्तथा | विरूपाक्षस्तथा ज्येष्ठो विप्रो नारायणस्तथा || १०-१०५१ || गण्डो नरो यमो माली गहनेशश्च पीडनः | प्रथमा पंक्तिरुद्दिष्टा रुद्रैर्द्वात्रिंशता स्मृता || १०-१०५२ || अथ ---- रजसश्चोपरिष्टात्तु द्वितीया पंक्तिरुच्यते | शुक्लो दासः सुदासश्च लोकाक्षः सूर्य एव च || १०-१०५३ || सुहोत्र एकपादश्च गृद्ध्रश्चैव शिवेश्वरः | गौतमश्चैव योगीशो दधिबाहुस्तथापरः || १०-१०५४ || ऋषभश्चैव गोकर्णो देवश्चैव महेश्वरः | गुह्येशानः शिखण्डी च जटी माली तथोग्रकः || १०-१०५५ || भृगुः शिखी तथा शूली सुगतिश्च सुपालनः | अट्टहासो दारुकश्च लाङ्गलिश्चातिदण्डकः || १०-१०५६ || भवनश्च तथा भव्यो लकुलेशस्तथैव च | त्रिंशद्रुद्राः समाख्याता द्वितीया पंक्तिरुत्तमा || १०-१०५७ || अथ ---- सत्त्वस्य चोपरिष्टात्तु तृतीया पंक्तिरुच्यते | देवोऽरुणो दीर्घबाहुरतिभूतिश्च स्थाणुकः || १०-१०५८ || सद्योजातस्तथा झिण्ठी षण्मुखश्चतुराननः | चक्रपाणिश्च कूर्माख्यस्त्वर्धनारीश्वरस्तथा || १०-१०५९ || कपाली भूर्भुवश्चैव वषट्कारस्तथैव च | वौषट्कारस्तथा स्वाहा स्वधा च परिकीतीतः || १०-१०६० || संवर्तकश्च भस्मेशः कामनाशन एव च | एकविंशतिरुद्रास्तु पंक्तिरेषा तृतीयका || १०-१०६१ || एवमेते त्र्यशीतिर्गुरवो महेश्वरेण गुणतत्त्वभोगप्राप्तिकामानां तदुचितज्ञानयोगप्रदाः परमेश्वरा ज्ञेयास्तथा कञ्चित्कालं नियोजितास्तत्र क्रीडन्ति | तदाह ---- ज्ञानयोगबलोपेताः क्रीडन्ते दैशिकोत्तमाः | उत्तमपदेन गुणतत्त्वावस्थितत्वेऽपि नैषां तदुपरक्तत्वमित्याह | अत एव क्रीडन्ति, नत्वितरवद् गुणैर्बद्धा || यतः ---- संसारपाशनिर्मुक्ताः............ आणव-कार्म-मायीयमलनिर्मुक्ता जीवन्मुक्ता इत्यर्थः || किं च ---- .............ंअहामोहविवजीताः || १०-१०६२ || महामोहोऽत्राख्यातिरूपा माया, तद्वियुक्ताः, अत एव शुद्धाः || १०६२ || शुद्धविद्योदयादेते ---- त्रिनेत्रा गुरवः सर्वे शुद्धस्फटिकनिर्मलाः | सर्वज्ञाः सर्वगाश्चैव लोकानुग्रहाकारकाः || १०-१०६३ || सर्वज्ञत्वं सर्वज्ञानयोगसिद्धत्वमेषाम् | सत्त्वगुणतत्त्वास्पदभ्रमाद्यत् साङ्ख्यपातञ्जलदृष्ट्यैतत् कैश्चित् योजितम्, तदसदेव | केवलमेषां तावद्भोगलिप्सुजनाशयेन तावत्पदप्रापकाणां परमेश्वरयोगात्तत्रावस्थानम् || १०६३ || अतश्चैषाम् ---- गजाकाराणि दिव्यानि सर्वेषां भुवनानि तु | पूर्वम् ---- ऽऽवीरभद्रनिकेतश्च भद्रकाल्यालयस्तथा | त्रयोदशभिः............................... ||ऽऽ (१०-७५९) इति ग्रन्थेन श्वेतादिभुवनान्येकादश भद्रकालीवीरभद्रभुवनाभ्यां सह त्रयोदश सङ्कलितानि | यत्पुनः ---- ऽऽ..............ऽन्यैश्च भुवनैरुपशोभितम् |ऽऽ (१०-७५९) इत्युक्तम्, तत्रान्यानि भुवनानि वीरभद्रभुवनोर्ध्वगतानि || अथाण्डवतीनोऽङ्गुष्ठमात्रप्रमाणरुद्रभुवनात् प्रभृति गुणतत्त्वान्तमसङ्कलितान् रुद्रान् सङ्कलयितुमाह ---- बुद्धेः प्रकृतिपर्यन्ते ये रुद्रास्तान्निबोध मे || १०-१०६४ || बुद्धेरिति बुद्धेः पूर्वं ये सङ्कलयितुमवशिष्टास्तान्निबोध | किमवधि ? ---- इत्याह ---- प्रकृतिपर्यन्ते प्रकृतिः पर्यन्ते यत्र स प्रकृतिपर्यन्तो गुणतत्त्वम्, तत्र तदवधीत्यर्थः || १०६४ || तान् रुद्रान् भुवनसङ्कलनया सङ्कलयति ---- शतद्वयं सप्तकं च भुवनानां वरानने | तत्र जलावरणेशस्याङ्गुष्ठमात्रस्य पृथ्व्या अब्धेः श्रियः सरस्वत्या गुह्याष्टकस्येति त्रयोदश भुवनानि, ततः शिवाग्नेरतिगुह्याष्टकस्य वायवीशस्य गुह्यातिगुह्याष्टकस्य आकाशेशस्य पवित्राद्यष्टकस्य, ततः शर्वादिमूर्तीशाधिष्ठितानि तन्मात्रसूर्यसोमवेदमण्डलान्यष्टौ, ततोऽपि करणप्रकाशरश्मिसूर्यसोममण्डलानि पञ्च ततोऽहङ्कारेशस्य, ततः स्थाण्वष्टकस्याष्टावितीयदन्तं द्वाषष्टिर्भुवनानि, बुद्धावपि पूर्वोक्तनीत्या द्वाषष्टिः, गुणतत्त्वे त्र्यशीतिरित्येतच्छतद्वयं सप्ताधिकं भवति || किं चात्रैव ---- अन्तर्भूताः स्थिताश्चान्ये ये ते नोक्ता वरानने || १०-१०६५ || विपर्ययाशक्तितुष्टिसिद्ध्यादिभुवनेश्वरा ये बृहत्तन्त्रेषु रुद्रा उक्ताः, तेऽत्रैवान्तर्भूतत्वात् पृथगिह नोक्ताः || १०६५ || अथ ---- गुणानामुपरिष्टात्तु प्रधानं परिकीतीतम् | प्रधीयतेऽत्र गुणान्तं विश्वमिति प्रधानम् || तत्र ये संस्थिता रुद्राः........... तान् ---- ...............कथयामि समासतः || १०-१०६६ || क्रोधेश्वरश्च संवर्तो ज्योतिः पिङ्गलक्रूरदृक् | पञ्चान्तकैकवीरौ च शिखेदसहितेश्वराः || १०-१०६७ || शिखेदसहिता अष्टौ एते प्रधानतत्त्वगता ईश्वरा इत्यर्थः || १०६७ || त एते ---- तत्त्वे तु प्राकृते रुद्रा महावीर्याः प्रकीतीताः | दुरतिक्रमा इत्यर्थः || अस्य प्रधानतत्त्वस्य किं स्वरूपमित्याह ---- गुणानां या परा काष्ठा तत्प्रधानमिहोच्यते || १०-१०६८ || पराकाष्ठाऽविभागावस्था || १०६८ || अथ ---- अतः पुरुषतत्त्वे तु भुवनानि निबोध मे | अत इति प्रकृतेरूर्ध्वम्, पारमेशस्वरूपगोपनावशाद्यत् संकुचितचिदाभासरूपं पुरुषतत्त्वम्, तत्र सङ्कोचांशाश्रयाणि भुवनानि तु चिन्मात्राश्रयाणि तस्य निवीकारत्वात् || तत्र तावत् ---- अम्बा च सलिला ओघा वृष्टिः सार्धं च तारया || १०-१०६९ || सुतारा च सुनेत्रा च कुमारी च ततः परम् | उत्तमाम्भसिका चैव तुष्टयो नव कीतीताः || १०-१०७० || तथा ---- तारा चैव सुतारा च तारयन्ती प्रमोदिका | प्रमोदिता मोदमाना रम्यका च ततः परम् || १०-१०७१ || सदाप्रमुदिका चैव सिद्ध्यष्टकमुदाहृतम् | सांख्यशास्त्रे तुष्टिनवकं सिद्ध्यष्टकं च यत् प्रत्ययसेव्यं बुद्धिधर्मतया गणितम्, तदिह संकुचितचित्स्वभावस्य कलादिकञ्चुकाविवेकिनः पुरुषस्य भोक्तुरावारकम्, न तु पुंसि दृशिमात्रस्वभावेऽभोक्तरि बुद्ध्यादिवशोत्थितस्य भोगस्य कथचिदपि सम्भवः | नहि हिमान्यन्तर्देवदत्ते प्रतिबिम्बिते सति शीतानुभवलक्षणो भोगो गौण्यापि वृत्त्या सम्भवति | अतः सर्वोऽयं भोग उक्तरूपपुंसि पारमाथीके भोक्तरि सति घटत इति तत्रैव तुष्ट्यादिप्रत्ययसद्भावो युक्त इत्येवमुक्तम् | तत्र ---- ऽऽआध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः | पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ||ऽऽ (सा०का० ५०) इति, तथा ---- ऽऽऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः | दानं च सिद्धयोऽष्टौ................................. ||ऽऽ इति याः सांख्यैः, ऽऽअतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा | हेयेऽप्यादेयधीः सिद्धिः........................ ||ऽऽ इति गुरुभिर्लक्षितास्तुष्टयः सिद्धयश्चोक्ताः, तासामम्बादिकास्ताराद्याश्चाधिदेवता एतन्नामसु भुवनेषु स्थिता इह निरूपिताः || किं च, पारमेशमतयोगक्रमसाध्यं यदणिमाद्यष्टकरूपमैश्वर्यम्, तदप्येतन्नामकदेवताष्टकाधिष्ठितमत्रैव पुंस्तत्त्वे प्रोक्तनीत्याऽऽवारकतया स्थितमित्याह ---- अणिमा लघिमा चैव महिमा प्राप्तिरेव च || १०-१०७२ || प्राकाम्यं च तथेशित्वं वशित्वं यदुदाहृतम् | यत्रकामावसायित्वमणिमाद्यष्टकं स्मृतम् || १०-१०७३ || अणिमा शरीरस्य सूक्ष्मताकरणे सामर्थ्यम्, लघिमा तूलवल्लाघवोत्पादनशक्तत्वम्, महिमा महत्त्वोत्पादनशक्तता, प्राप्तिः सङ्कल्पमात्रात्तत्तद्देशावाप्तिः, प्राकाम्यमेकस्यैव युगपन्नानाशरीरकरणे शक्तता, ईशित्वमैश्वर्यम्, वशित्वं भूतवशीकारः, यत्रकामावसायित्वं सङ्कल्पमात्राद् देशकालस्वभावव्यवहितवस्तुनिश्चयः | भोग्यसामान्यगुणत्रयभोक्तृत्वात् पुंसोऽपि तद्गुणत्रयच्छायायोगाद् गुणवत्त्वम् || १०७३ || अथोर्ध्वं गुरुशिष्याणां पंक्तित्रयमतः श्रुणु | अत इति प्रोक्ताणिमाद्यष्टकादूर्ध्वम् || तत्र ---- मस्करी पूरणः कृत्स्नः कपिलः काश एव च || १०-१०७४ || सनत्कुमारगौतमवसिष्ठाद्यांशकास्तथा | कश्यपो नासिकेतुश्च गालवो भौतिकस्तथा || १०-१०७५ || शाकल्यश्च समाख्यातो दुर्वासाः परमस्त्वृषिः | बाल्मीकिश्च गुरुश्रेष्ठः सपराशरगालवः || १०-१०७६ || पिप्पलादश्च सौमित्रिर्वायुपुत्रो भदन्तकः | गालवावत्र द्वावुक्तौ || मस्कर्यादिभदन्तान्ता दृष्टादृष्टस्य वादिनः || १०-१०७७ || द्वाविंशतिर्गुरुवराः प्रथमा पंक्तिरिष्यते | एते च पूर्ववदनुग्राह्याणामेव तत्पदप्राप्तिहेतुत्वेनेश्वरेच्छयैतत्पदावस्थितिजुषः कृताः | यदुक्तं श्रीमालिनीविजये ---- ऽऽमयाप्येतत्पुरा प्रोक्तं कपिलाय महात्मनेऽऽ (१६-२४) इति | दृष्टमेतत्पदप्राप्त्युचितोपासादिकम् अदृष्टं चैतत्पदावाप्त्यात्मकं वदन्ति | एते च द्वाविंशतिर्गुरव एव || एतदूर्ध्वं तु रजःसंस्पर्शप्रधानायां पंक्तौ शिष्यरूपर्षीन् प्रतिपादयितुमाह ---- जह्नुश्च तृणबिन्दुश्च मुनिस्तार्क्ष्यस्तथैव च || १०-१०७८ || ध्यानाश्रयोऽथ दीर्घश्च होता जागर एव च | अगस्त्यो वसुभौमश्च उपाध्यायश्च कीतीतः || १०-१०७९ || शुक्रो भृग्वंगिरा रामो जमदग्निसुतोऽध्वगः | स्थूलशिरा बालखिल्यो मनुश्चेति प्रकीतीतः || १०-१०८० || वज्रात्रेयो विशुद्धश्च शिवश्चारुरथानुगः | वसुना सहितो भौम इत्येतौ द्वावेव, भृगुणा सहितोऽङ्गिरा इत्येतावपि द्वौ, रामो जमदग्निसुत एक एव, उपाध्याय इत्येतन्नामेति | एते उपाध्याया इति त्वसद्, वक्ष्यमाणसंख्याविघातापत्तेः || तदित्थम् ---- जह्न्वादिचारुपर्यन्ता द्वितीया पंक्तिरिष्यते || १०८१ || अथ सत्त्वसंस्पर्शवत्यामपि भूमावाह ---- हरो झिण्ठी प्रतोदश्च अमरेशश्चतुर्थकः | कृष्णपिङ्गेशरुद्रश्च इन्द्रजिद् वृषकः शिवः || १०-१०८२ || यमः क्रूरश्च विख्यातो गङ्गाधर उमापतिः | भूतेश्वरः कपालीशः शङ्करश्च तथैव च || १०-१०८३ || अर्धनारीश्वरश्चैव पिङ्गलश्च तथापरः | महाकालश्च संवर्तो मण्डली त्वेकवीरकः || १०-१०८४ || तथा चान्यश्च विख्यातो भारभूतेश्वरो ध्रुवः | कृष्णपिङ्गेशरुद्र एक एव | वृषकः शिवः श्रेयोरूप इत्यप्येक एव | यम इत्यस्य विशेषणं क्रूरो विख्यात इति क्रूरतया प्रसिद्ध इत्यर्थः | उमापतेवीशेषणं गङ्गाधर इति | कपालीशस्य विशेषणं भूतेश्वर इति | अन्यो विख्यात इति विख्यातनामाऽन्य इत्यर्थः || तदित्थम् ---- जह्न्वादिचारुपर्यन्ता ऋषयः पञ्चविंशतिः || १०-१०८५ || तृतीयपंक्तिनिष्ठा इत्यर्थः | इह गुरुवाचोयुक्तिमकुर्व(न्त)१ ऋषयः शिष्या एव पुंस्तत्त्वोपासादिप्रकर्षादिमां भूमिमाप्ता इत्यादिशति || १०८५ || प्रथमपंक्तिगता इव तृतीयपंक्तिगता अपि गुरव एव | यदाह ---- हरादयो ध्रुवान्ताश्च गुरवो विंशतिः स्मृताः | एते च सर्वेऽत्र स्थिता अप्यंशेन ह्माण्डान्तरवतीर्य तत्र स्वोचितमधिकारमतिवाह्य तदेव पदमाविशन्तीति मन्तव्यम् || उपसंहरति ---- पंक्तित्रयं समाख्यातमृषीणां गुरुशिष्ययोः || १०-१०८६ || प्रोक्तनीत्या गुरुशिष्यरूपमृषिपंक्तित्रयमेतदित्यर्थः || १०८६ || अथ ---- नाडीविद्याष्टकं देवि कथयामि त्वतः परम् | पुर्यष्टकसम्बद्धा या वक्ष्यमाणनाड्यस्तासामष्टकं बन्धनविवर्धनं कथयामि || ताश्च ---- इडा च चन्द्रिणी गौरी शान्तिः शान्तिकरी तथा || १०-१०८७ || माला च मालिनी चैव स्वाहा चैव स्वधा तथा | अस्य नाड्यष्टकस्य ---- अथोपरिष्टाद् देवेशि विग्रहाष्टकमुच्यते || १०-१०८८ || विग्रहस्य सूक्ष्मशरीरस्योत्थापकमष्टकं वक्ष्यमाणाभिमानदेवतारूपपुंस्तत्त्वावरणप्रयोजनम् || १०८८ || तच्च ---- कार्यं च करणं चैव सुखदुःखकरं तथा | ज्ञानं साध्यं च विख्यातं साधनं कारणं तथा || १०-१०८९ || कार्यं कार्यात्मसूक्ष्मदेहारम्भितन्मात्रोत्थापकम् | करणमिति सूक्ष्मदेहावस्थितानभिव्यक्तप्रायबाह्येन्द्रियदशकोत्थापकम्, तन्नामैव देवतादशकम् | सुखदुःखकरमिति सुखदुःखोपभोगसम्पादकं देवताद्वयम् | ज्ञानं साध्यं चेत्यनभिव्यक्तेन बुद्धीन्द्रियपञ्चकेन कर्मेन्द्रियपञ्चकेन च सम्पाद्यं ज्ञानमात्रं व्यापारमात्रे च विख्यातं प्रतीतं यत्तदधितृदेवतारूपमिहैवोक्तम्, साधनमित्यन्तःकरणे व्यापकं देवतात्रयमित्यर्थः | कारणमिति कारणरूपस्य प्रधानतत्त्वस्योत्थापकं देवतारूपमित्यर्थः | यद्यपि च प्राग्रश्मिकरणजतेजोमण्डलाद्युक्तिप्रसङ्गे कार्य करणादीनामुत्पत्तौ कारणमुक्तम्, तथापि तदेवेह देवतारूपं पुंस्तत्त्वेऽपि सूक्ष्मरूपतया स्थितं तत्रैव बन्धनात्मनस्तत्प्रयोजनस्य पर्यवसानात् | मायायां त्वेतत्सर्वमेव पाशजालं पररूपेणावस्थितमिति वक्ष्यति || १०८९ || अथ ---- देहपाशानतो वक्ष्ये........... स्थूलदेहारम्भकानधिष्ठातृदेवताविशेषरूपानित्यर्थः || तत्र ---- ...............ढर्मं च दशधोदितम् | च एवार्थे | धर्ममेव मुख्यं बन्धनमादौ दशविधं वच्मि || स च ---- अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता || १०-१०९० || अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् | एवं दशविधो धर्मो येनोक्तो धर्मकृन्नरः || १०-१०९१ || अकल्कता ---- श्वच्छता समता प्रीतिर्नापकारशतैरपि | कालुष्यमुत्सहेत् सोढं सेयमुक्तेत्यकल्कता ||ऽऽ (वि० १७ | ३९) इति श्रीमतङ्गपारमेश्वरे इत्थं लक्षिता || १०९१ || एवं धर्माख्यं प्रधानं देहपाशमुक्त्वा गौणमाह ---- विकारान् षोडशाख्यास्ये परभावेन संस्थितान् | प्रागुक्तस्थूलरूपापेक्षया परभावेन सूक्ष्मेण रूपेण स्थितानित्यर्थः, पररूपतया तु मायायां भविष्यन्ति || तानाह ---- रसो गन्धश्च रूपं च स्पर्शंः शब्दस्तथैव च || १०-१०९२ || तन्मात्रपञ्चकं ख्यातमिन्द्रियाणि निबोध मे | वाक्पाणिपादं पायुश्च उपस्थः कर्मसंज्ञकम् || १०-१०९३ || इन्द्रियपञ्चकमित्यर्थः || १०९३ || श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका पञ्चमी स्मृता | एतानि ---- बुद्धीन्द्रियाणि देवेशि........... तथा ---- .............ंअनः षोडशकं स्मृतम् || १०-१०९४ || त एते ---- देहपाशाः समाख्याताः............. किं च ---- .............ऽतो बुद्धिगुणान् विदुः | पुंसि सूक्ष्मरूपतया पाशकत्वेनावस्थितान् विदुरित्यविच्छिन्नेन पारम्पर्येण तत्त्वविदो जनाः || ते च ---- धर्मो ज्ञानं च वैराग्यमैश्वर्यं च ततः परम् || १०-१०९५ || अधर्मश्च तथाज्ञानमवैराग्यमनीशिता | प्रागुक्तादहिंसादेर्धर्मादयमन्यो धर्म इष्टापूर्तलक्षणः१ || किं च ---- अहङ्कारं च त्रिविधं प्रवक्ष्याम्यनुपूर्वशः || १०-१०९६ || वैकारिकं तैजसं च भूतादि च यथाक्रमम् | राजसं सात्त्विकं तामसं चेत्यर्थः || एवमेतानि तन्मात्रबहिष्करणान्तःकरणानि सूक्ष्मरूपतया पुंस्तत्त्वावस्थितानि बन्धकानीह यान्युक्तानि, एतान्येवात्र भूचरी- दिक्चरी-गोचरी-चक्राण्यान्तराणि प्रतिपादितानि | तदनुसारेणैव चेह पररूपाणीत्युपक्रम एवोक्तिः कृता, खेचरीचक्रं त्वान्तरं कञ्चुकदेवतारूपं भविष्यति || प्रातिलोम्यक्रमेण दीक्षाविधिमुपक्रान्तमेव स्मारयति ---- दीक्षाकाले यथा शुद्धिस्तथा चैषां निबोध मे || १०-१०९७ || एषां पुंस्तत्त्वगतानां तैजसाद्यहङ्कारपाशानामित्यर्थः | यथा येन क्रमेणेत्यर्थः || १०९७ || तमेव क्रममाह ---- तमो रजस्तथा सत्त्वं शोधयेदनुपूर्वशः | एतच्चोपलक्षणपरम्, सर्वान् पाशान् प्रातिलोम्येन शोधयेदित्यर्थः || किं च ---- शब्दस्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः || १०-१०९८ || विषयाश्च समाख्याताः शोधनीयाः प्रयत्नतः | विशेषेण सिन्वन्तीति विषया भोक्तरि पुंसि सूक्ष्मरूपतया भोग्यात्मानः स्थिताः, न तु पूर्वोक्ततन्मात्रात्मान इत्यर्थः | प्रयत्नतः शोधनीया इत्युक्तेरयमाशयः ---- न संक्षिप्तभुवनादिदीक्षावत् ---- शूक्ष्मानन्तवीभावयेत्ऽऽ (४-१५८) इत्युक्तनीत्याऽन्तर्भाव एषां चिन्तनीयः, अपि तु पृथक् पृथगेते सर्व एवात्र विततायां भुवनदीक्षायां शोध्याः | एवमन्यत्र || किं च ---- कामः क्रोधश्च लोभश्च मोहः पैशुन्यमेव च || १०-१०९९ || जन्ममृत्युजराव्याधिक्षुत्तृट्तृष्णास्तथैव च | विषादश्च भयं चैव मदो हर्षणमेव च || १०-११०० || रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता | माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता || १०-११०१ || तृष्णा स्पृहा, कुपितानृतद्रोहिणां भावः कुपितानृतद्रोहिता, क्रोधः पूर्वापरविमर्शशून्यः सप्रकर्षः कोपः, मदो दर्पः, मात्सर्यधर्मः परगुणासहिष्णुतात्मा स्वभावः | एते च१ श्रीमतङ्गपारमेश्वरे वितत्य व्याख्याताः || ११०१ || त इमे सप्तविंशतिसंख्याः पाशाः ---- आगन्तुकाश्च बोद्धव्याः............ प्रागुक्तेभ्यः सहजेभ्योऽन्ये आगच्छन्ति तच्छीला देहप्राप्त्युत्तरकालमत एव प्रस्तुतत्वात् पुंसामभिव्यक्तिमायान्तीत्यागन्तुकाः अत एव सहजाश्च वैराग्यादयः | अन्यः स्थूलः आगन्तुको रागः शोधनीयः प्रयत्नत इत्यनुषङ्गः | एवमुत्तरत्र || किं च ---- ...............गणपाशान्निबोध मे | ते च ---- देवी नन्दिमहाकालौ गणेशो वृषभस्तथा || १०-११०२ || भृङ्गी चण्डीश्वरश्चैव कातीकेयोऽष्टमः स्मृतः | एते पराद्वयात्मकपारमेश्वरस्वरूपमात्मानमावृण्वानाः पाशा उच्यन्ते | यदुक्तमस्मत्प्रभुणा तन्त्रालोके ---- ऽऽयत्किञ्चित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् | पराच्छिवादुक्तरूपादन्यत्तत् पाश उच्यते || तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे | तत्स्वरूपापरिज्ञानचित्रा हि पुरुषाः स्थिताः ||ऽऽ (८-२९२-२९३) इति || किं च ---- अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः || १०-११०३ || शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः | विद्येश्वरात्मकान् पाशान् दीक्षाकाले विशोधयेत् || १०-११०४ || ऽऽशुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुःऽऽ१ इत्याम्नायान्तरोक्तनीत्याऽशुद्धाध्वकारणं त्रितत्त्वादिपरिवृतो योऽनन्तभट्टारकस्तस्य पुंस्तत्त्वावारकत्वे सत्यशुद्धाध्वस्रष्ट्टत्वं फलतीति तत्र सूक्ष्मरूपेणावस्थितः इति भविष्यति | तदेवं तुष्टिनवकम्, सिद्ध्यष्टकम्, अणिमाद्यष्टकम्, पङ्क्तित्रयनिविष्टा द्वाविंशतिः पञ्चविंशतिवींशतिश्चेति सप्तषष्टिर्गुरुशिष्याः, नाड्यष्टकम्, विग्रहाष्टकमहिंसादयो दश, षोडश विकाराः, अष्टौ बुद्धिधर्मास्त्रिविधोऽहङ्कारः, शब्दादिविषयपञ्चकमित्यहिंसादिविषयपञ्चकान्ता द्वाचत्वारिंशत्सहजा देहपाशाः कामादयः, अस्वतन्त्रतन्त्राः सप्तत्रिंशतिरागन्तुकाः पाशाः, अष्टौ च गणेशाः, अष्टौ विद्येशाः पाशा इति त्रिनवत्यधिकं शतं१ पाशभुवनानां पुंस्तत्त्वे शोधनीयमुक्तम् || ११०४ || किं च ---- उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः | पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः || १०-११०५ || ये त्रिनवत्यधिकशतसङ्ख्या इह पाशा उक्ताः, ये चान्ये रतिहासशोकोत्साहादयो निर्वेदग्लान्यादयश्च इहानुक्ता अन्यतन्त्रे२ भरतादिषूक्तस्वरूपास्ते सर्वे पौरुषे तत्त्वे शोधनीयाः | एवं सति ततः पाशेभ्यः पुद्गलो मुच्यते, पुथा अन्तःशङ्कातङ्कसंस्कारोत्थापनात्मना हिंसया गिलनं भोग्यलक्षणं यस्य स पुद्गलो मायाप्रमाता || ११०५ || गतमेतत् ---- अर्थोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे | तानाह ---- वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ || १०-११०६ || वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ | सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः || १०-११०७ || दशदिक्कमवस्थिता इत्यर्थः || ११०७ || एतन्नियतितत्त्वनियमितः पुरुषो बुद्धिप्रमातृभूमिकां गृहीत्वाऽहङ्कारमयः शरीरे हृत्पद्मेऽवस्थित इति प्रतिपादयितुमाह ---- यत्तद्धृदि स्थितं पद्ममात्मा तत्र व्यवस्थितः | शाक्षं कृत्स्नमिमं देहं यद्यपि व्याप्य तिष्ठति | तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् ||ऽऽ इति स्थित्या हृत्पद्ममात्मनो विश्रान्तिपदम्, अत एवात्रस्थोऽयं पद्मासनस्वभावतयोक्तक्रमेण तत्तद्विषयावभासनादिसृष्टिं करोति || तच्च पद्मम् ---- नियतिदलमहङ्कारकेसरं बुद्धिकणीकम् || १०-११०८ || नियतिवशोद्भूतानि मनोबुद्धिकर्माक्षविषयरूपाणि दलानि सञ्चारपदानि यस्येति व्याख्येयम्, न तु नियतिरेव दलानि यस्येति, नियतेरहङ्कारकेसराधोव्याप्त्यभावात् | अहङ्कार एव रञ्जकत्वात् केसररूपो यत्र, बुद्धिस्त्वध्यवसाय- पर्यन्तविषयभोगसाधकत्वादुपरिवतीकणीकारूपा | अत्र चास्यात्मनः ---- ऽऽप्रधानाशयमापन्नं गुणत्रयविसपीतम्ऽऽ (२-४१) इति पूर्वोक्तस्वरूपं स्मर्तव्यमन्यथा बुद्धिप्रमातृत्वायोगात् || ११०८ || एतच्च नियतिनियमितत्वं कालकलितस्यैव घटते, न तु कालोत्तरस्वभावस्य | अतो यदेतत्कलनाकारणम्, तत्र ---- कालतत्त्वे शिवा ज्ञेया.............. शोध्यत्वेनेति शेषः || तांश्च ---- ..............कथयामि समासतः | शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः || १०-११०९ || शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराट् | दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने || १०-१११० || अक्षरराट् शम्भुराडिति द्वौ || १११० || तत्र ---- हेमाभाः शङ्कराः प्रोक्ताः शिवाः स्फटिकसन्निभाः | शङ्करा नियतिस्थाः, शिवास्तु कालस्थाः || किं च ---- एकैकस्य विनिदीष्टा परिवारो यशस्विनि || १०-११११ || कोटिरेका तथान्यानि सहस्राणि तु षोडश | तेषां च ---- कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु || १०-१११२ || अथ ---- अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे | काल्यकलनं वेद्यसम्बन्धं विना न युज्यते बोधरूपस्य पुंस इति किञ्चिन्मे स्यादिति वेद्यसामान्याभिलाषात्मना, अत एव स्त्र्यादिविषयबुद्धिधर्मस्थूलरागविलक्षणेन रागतत्त्वेनावश्यमयमुपरक्तः | अतः पुंरञ्जके रागतत्त्वे हरिहरौ मुख्यौ भुवनेशौ | अन्यानप्याह ---- सुहृष्टः सुप्रहृष्टश्च सुरूपा रूपवर्धनः || १०-१११३ || मनोन्मनो महाधीरः............ एते पूर्वाभ्यां सहाष्टौ ---- ............वीरेशाः परिकीतीताः | यथा नियतिकालगता रुद्राः शङ्कराः शिवाश्चोक्ताः, तथा एते वीरेशा उच्यन्ते दुष्परिहरत्वाच्चैवमुक्ताः || किं चान्यानपि ---- रागतत्त्वे प्रवक्ष्यामि येऽन्ये रुद्रा व्यवस्थिताः || १०-१११४ || तानिति शेषः || १११४ || कल्याणः पिङ्गलो बभ्रुर्वीरश्च प्रभवस्तथा | मेधातिथिश्छन्दकश्च दाहकः शास्त्रकारिणः || १०-१११५ || शास्त्रकारिण इति शास्त्रकारिनाम्न एकस्यैव गुरुत्वाद्बहुवचनं कृतमत्र पञ्च गुरव इति प्रदर्शनाय || १११५ || यदाह ---- पञ्च शिष्यास्तथाचार्या दशैते संव्यवस्थिताः | आद्याः शिष्याः, अन्त्या आचार्याः || सामान्यवेद्याभिव्यङ्गात्मकं रागतत्त्वं वेद्यप्रकाशेनोपपद्यते | तत्प्रकाशनाय किञ्चिज्ज्ञत्वप्रदं विद्यातत्त्वमस्य सम्बद्धमित्याह ---- विद्यातत्त्वमतश्चोर्ध्वं तस्मिन् वै भुवनं शृणु || १०-१११६ || भुवनमिति भुवनानीत्यर्थः || १११६ || तानि तदीशद्वारेण प्रतिपादयति ---- वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा | बलविकरणश्चैव बलप्रमथनस्तथा || १०-१११७ || सर्वभूतदमनश्च तथा चैव मनोन्मनः | कलो विकरण इति कलविकरण | क्वचिदेते वामादयः स्त्रीलिङ्गपाठेन दृश्यन्ते || किञ्चिज्ज्ञत्वरूपविद्यासम्बन्धोऽपि नाकर्तुरूपपद्यत इति मायानिगूहितपूर्णज्ञानक्रियाफारस्यास्य किञ्चित्कर्तृत्वोन्मीलनात् कलातत्त्वमस्ति | ततस्तत्र ---- कलातत्त्वे महादेवि महादेवत्रयं स्थितम् || १०-१११८ || महादेवो महातेजा महाज्योतिः प्रतापवान् | महच्छब्दोपलक्षितं देवत्रयं महादेवत्रयम् | प्रतापवानित्यतिदीप्तः || तदित्थम् ---- कलातत्त्वं समाख्यातं समासेन वरानने || १०-१११९ || समासेनेत्युक्तेरयमाशयो यदन्येऽप्यत्र वामदेवभवोद्भवैकपिङ्गेक्षणभुवनेशांगुष्ठमात्राख्याः सन्ति | एते ह्यष्टौ मङ्गलेश्वराः पूर्वं बुद्धितत्त्वेऽपररूपेणोक्ताः, इह तु पररूपेण | तत्र च त्रय एव प्राधान्यादुक्तास्तदेवं नियतिकालरागविद्याकलाख्यं यदेतत्तत्त्वपञ्चकमुक्तम्, तत्प्रोक्तभौवनसन्निवेशाश्रयतया बहिः साधारणमेव | ततस्तु प्रतिपुरुषमेतन्नामकमेव तत्त्वपञ्चकं कञ्चुकशब्दवाच्यं भिन्नभिन्नमेवाद्भुतमन्तःकरणादिवत् | एतच्च तण्डुलस्य कम्बुकमिव पुंसः परमावरणम्, प्रकृत्यादितन्मात्रान्तं तु सूक्ष्मशरीरारम्भकं तुषवत् सूक्ष्मम्, भूतपञ्चकं तु स्थूलशरीरारम्भकं किंशारुकवत् स्थूलमेवेति सर्वमेतत्प्रातिलोम्येन प्रोक्तभुवनविभागेन शोधनीयम् || १११९ || प्रोक्तनामानः सर्व एव ---- एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः | असामान्येन महेश्वराभिज्ञानेनालंकृताः || येषां च प्राक् परिवारो न सङ्ख्यातः, तेऽपि ---- रुद्रकोटिसहस्रैस्तु समन्तात् परिवारिताः || १०-११२० || शुद्धस्फटिकसङ्काशाः........... सर्व एव तु ---- ...............योगैश्वर्यबलान्विताः | विशेषमेषामाह ---- रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः || १०-११२१ || छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः | अन्येषां तु कूर्माकारा उक्ताः || गतमेतत् | अथैषाम् ---- उपरिष्टाद्भवेन्माया............. तां च ते ---- ..............कथयामि समासतः || १०-११२२ || व्याप्य या वै त्वधोऽध्वानं वैश्वरूप्येण संस्थिता | व्याप्यातिमात्रमाप्य, आकलादिक्षित्यन्तं सर्वमिति व्युत्पत्त्या, न च भेदेनात्र व्याप्यव्यापकभावः, अपित्वभेदेनेत्याशयेन व्याप्य विश्वं स्थितेत्युक्तम् | समासत इति सङ्क्षिप्तभुवनेशप्रतिपादनाशयेन || तदाह ---- तत्र रुद्रा महाभागा द्वादशैव महाबलाः || १०-११२३ || प्रधानभूताः स्थिताः | महाबला इति परमेशज्ञानं विना दुष्परिहराः || ११२३ || तानेतान् पुटविभागेन दर्शयति ---- गहनश्च असाध्यश्च तथा हरिहरः प्रभुः | दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा || १०-११२४ || अधःपुटे तु विज्ञेया मायातत्त्वे वरानने | एते षडित्यर्थः || क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च || १०-११२५ || विद्येशश्च शिवश्चैव अनन्तः षष्ठ उच्यते | ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीतीताः || १०-११२६ || एषां मध्ये तु भगवाननन्तेशो जगत्पतिः | श्रीमेङ्गशास्त्रे पुनर्मध्यपुटेऽपि ---- ऽऽयत्रासौ विग्रहेशानः स्थितः परमदुर्जयःऽऽ (१-८-८३) ऽऽयत्र शर्वो भवश्चैव उग्रो भीमश्च वीर्यवान् | भस्मान्तको दुन्दुभिश्च श्रीवत्सश्च महाबलः ||ऽऽ (१ | ८ | ८५) इति ग्रन्थेनाष्टकमुक्तम् | श्रीपूर्वशास्त्रे (५-२८-२९) तु महादेवाद्यङ्गुष्ठमात्रमण्डलेश्वराष्टकमेव मायायामुक्तमिति तन्त्रप्रक्रियाभेदः | एष चानन्तनाथः ---- उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः || १०-११२७ || यस्य स्वकर्मपरिपाकाद्यादृगुद्भवः स्थावराद्यात्मक उचितस्तं तस्य भावयित्वा विचार्य स्वेच्छया परमेशेच्छाचेष्टितस्वेच्छामात्रेण, न तु कुम्भकारवत् सहकार्याद्यपेक्ष्य कुरुते, यतोऽसौ प्रभुरियत्यध्वनि प्रभवनशीलः || ११२७ || किं चायम् ---- सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः | कलादिक्षित्यन्तं सर्वं जानाति करोति च, तत्रैव आयातशक्तिपातानामितरेषां चानुग्रहं निग्रहं च करोति || तदित्थम् ---- प्रथमेन तु भेदेन रुद्रा द्वादश कीतीताः || १०-११२८ || इह ---- ऽऽअतः परं भवेन्माया सर्वजन्तुविमोहिनीऽऽ (१०-११३८) इति वक्ष्यमाणदृष्ट्या पारमेश्वरी शक्तिर्माया | सा तत्त्वरूपतया ग्रन्थिरूपतया च द्विधा स्फुरिता | तत्र तत्त्वरूपया ---- ऽऽमाया तु कोटिधा व्याप्य स्थिता सर्वं चराचरम्ऽऽ (१०-६७१) इति तथा ---- ऽऽव्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिताऽऽ (१०-११२३) इति या उक्ता, तस्यामूर्ध्वाधरपुटात्मककाण्डरूपत्वमस्ति | तत्र पुटद्वये मायायाः प्रथमेन तत्त्वात्मना भेदेन द्वादश रुद्राः प्रकीतीता विभागेनावस्थिता उक्ताः || ११२८ || यस्त्वस्या निःसंख्यावान्तरभेदभिन्नकलादिक्षित्यन्ततत्त्वसन्ततिस्रोतो- भेदप्रसूतिहेतुः शक्तेः किञ्चिदुच्छूनतेवाम्नातो ग्रन्थ्यात्मा स्थूलस्वभावः, असौ सुसूक्ष्मतमसत्त्वरजस्तमोरूपतयोर्ध्वमध्याधरग्रन्थिभेदेन तालुग्रन्थिसमानरूपेण त्रिधाऽवस्थितः | यथोक्तं प्राक् ---- ऽऽअधश्छादनमूर्ध्वं च सितरक्तं विनिदीशेत् | मध्ये तमो विजानीयाद् गुणास्त्वेते व्यवस्थिताः ||ऽऽ (२-६६) इति | तत्र त्रिभेदे ग्रन्थ्यात्मनि रूपे रुद्राणां विभागेन स्थितिमाह -- -- अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः | तथाहं कथयिष्यामि भेदत्रयविभागशः || १०-११२९ || अस्मिन्निति प्रोक्तकलादितत्त्वस्रोतःसन्तानप्रसूतिहेतौ ग्रन्थ्यात्मनि मायीये रूपे ये गोपत्याद्या अनन्ताद्या यथा येन क्रमेण स्थिताः, तथा भेदत्रयविभागश इति सत्त्वादिग्रन्थिरूपेण भेदेन वर्णयिष्यामि || ११२९ || तत्र ---- गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः | तत्र इति कलातत्त्वप्रतिपादितमहादेवादिरुद्रभुवनोर्ध्वं यो मायीयोऽधोग्रन्थिस्तत्र प्रागुक्त एव गोपतिः पररूपेण स्थितः || तथा ---- ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकलः क्षेम एव च || १०-११३० || ब्रह्मणोऽधिपतिश्चैव शिवश्चेति स पञ्चमः | ग्रन्थ्यूर्ध्वं इति ऊर्ध्वग्रन्थावित्यर्थः | स इति प्रागुक्त एव | अपररूपेणेहायं विश्वाभिधो रुद्रः स्थितः, न त्वन्य इत्यर्थः || किं च ---- अध ऊर्ध्वमनन्तस्तु.............. अध इत्यधोग्रन्थेरूर्ध्वं यो ग्रन्थिस्तत्रानन्तः स्थित इत्यर्थः | एतच्च ग्रन्थितत्त्वात्मतया द्वित्वं मायायाः श्रीशिवतनौ ---- ऽऽमायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः | उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु || योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा |ऽऽ इत्यादिग्रन्थेन गुरुभिर्दशीतमिति | एतं व्याख्याक्रमं त्यक्त्वा यत्तु श्रीभुल्लकेन व्याख्यातं यथा परमेश्वरो लकुलेशाय ज्ञानं भेदेन प्रकाशितवानिति श्रीलकुलस्वच्छन्दप्रदशीतस्थित्या द्विस्कन्धं पारमेश्वरज्ञानमिति द्विधा मायायां भुवनेशविभाग इह दशीत इति, तद्युक्तमयुक्तं वेति सचेतसो जानन्ति || यश्चायमनन्तभट्टारकाश्रयो मध्यमो ग्रन्थिरुक्तः ---- ............पाशाश्चैवात्र संस्थिताः || १०-११३१ || ते च ---- पूर्वं वै कथिता देवि............. वैशब्द एवार्थे | पूर्वमेव पुरुषतत्त्वनिरूपणावसरे ---- ऽऽअम्बा च सलिला ओघाऽऽ (१०-१०६९) इत्यादिना तुष्टिसिद्ध्याद्या विद्येशपाशान्ता ये पाशा उक्ताः, त इह पररूपेणावस्थिता इत्यर्थः | माया हि सर्वेषां पाशानामुत्पत्तिभूः | तैस्त्वनन्तप्रयुक्तैवीशिष्टदेवतात्मभिः सूक्ष्मरूपैर्वामशक्त्याधिष्ठिता अणवो बध्यन्ते | बुद्धितत्त्वे तु तुष्टिसिद्ध्यादयः केचित्पाशाः स्थूलरूपाः स्थिताः, तदेषां विभवस्थान मित्युक्तप्रायम् || किं च ---- .........ऽतो ऋषिकुलं भवेत् | यत्पूर्वं पाशमध्ये गुरुशिष्यात्मकपङ्क्तित्रयेण ऋषिकुलमुक्तम्, तदिह पाशानामुपरि स्थितम् || किं चात्र ---- योनिर्वागीश्वरी चैव यस्यां जातो न जायते || १०-११३२ || ऽऽवागेव विश्वा भुवनानि जज्ञेऽऽ१ इति स्थित्या योनिवीश्वकारणं वागीश्वरी, अत्र सूक्ष्मेण रूपेण स्थिता, परेण शुद्धविद्यायां प्रतिपादयिष्यमाणत्वादपरेण सारस्वतभुवने प्रोक्तत्वात् | सर्वं हि स्थूलसूक्ष्मपररूपतया त्रिवीभक्तं परमेश्वरशक्त्यात्मकं तत्र तत्र तथा तथावस्थितमेकादशे वक्ष्यति | कीदृशी वागीश्वरी? ---- इत्याह ---- यत्र यस्यां प्राङ्निर्णीतस्थित्या स्थूलसूक्ष्मपररूपायां जातो मन्त्रसंस्कृतिसम्पादितगर्भाधानादिसंस्कारेणोत्पन्नस्तत्र तत्र तत्त्वे प्रागजीततत्तत्कर्मफलोपभोगाय नानायोनिभेदेन सृष्टो न जायत इति पाशशुद्धेर्योजनिकायाश्च सम्पन्नत्वात् परशिवैक्यप्राप्त्या मुच्यत इत्यर्थः || ११३२ || किं चात्र मायायाम् ---- ओङ्कारसाध्यधातारो दमनेशस्ततः परम् | ध्यानं भस्मेशमेवाहुः.......... ओङ्काराभिधान् साध्यादीन् पञ्च रुद्रानाहुः, अन्ये तु ऋषिकुलं यदनन्तरमुक्तम्, तदेवोङ्कारसाध्यादिनामषट्केन विभक्तमिति व्याख्यातवन्तः || किं च ---- ..........प्रमाणानि तदूर्ध्वतः || १०-११३३ || हेयोपादेयाशेषप्रमासाधकत्वात् प्रमाणशब्दाभिधेया अष्टौ रुद्राः प्रणवाख्यरुद्रपञ्चकावरणस्योपरि स्थिताः || ११३३ || तानि प्रमाणान्युद्दिशति ---- पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परम् | हृदयं लक्षणं चैव व्यूहमाकर्षमेव च || १०-११३४ || आदर्शं च तथैवेह अष्टमं परिकीतीतम् | एते रुद्रा एतन्नामकपाशुपतशास्त्रावतारकाः | तत्र च हृदयाख्यं यत्प्रमाणमुक्तम्, तस्यान्तर्भूतानि यानि पुरकल्पकनकशालानिरुत्तरविश्वप्रपञ्चाख्यानि षट्क्रियाप्रधानानि प्रमाणानि प्रोक्तज्ञानप्रधानप्रमाणाष्टकविलक्षणानि हृदयाख्यात् प्रमाणाल्लकुशशिष्येण मुसुलेन्द्रेणोद्धृत्य आरुरुक्षूणां प्रथमं प्रदशीतानि, न तानीहपृथग्गणितानि | एवम् ---- ऽऽलाकुलं मौसुलं चैव द्विधा तन्त्रं प्रकीतीतम्ऽऽ (११-७१) पाशुपतं यत्, तदत्र मायान्तरपरतया स्थितम्, परं पदं त्वेषामीश्वरतत्त्वमिति वक्ष्यति | अत एव ---- शर्वाध्वनौ विनिर्मुक्तं शैवानां तु परं पदम्ऽऽ (११-७४) इति वक्ष्यमाणस्थित्यैव पाशुपतेभ्यः शैवानां महदन्तरमित्युक्तम् || ये प्रणवप्रमाणाभिधा रुद्रा उक्ताः ---- एते परिवृता देवि रुद्रकोटिसहस्रकैः || १०-११३५ || नानावर्णविचित्त्राश्च नानाभरणभूषिताः | नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया || १०-११३६ || पत्युरनन्तस्य | अतश्च स एव लकुलेशादीनां गुरुः || ११३६ || किं च ---- त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकिरीटिनः | अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः || १०-११३७ || भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः | एवं चैतदाराधका एतत्पदप्राप्तिभाज एषामधिकारसमाप्तौ सह मुच्यन्त इत्यर्थलभ्यम् || एवं मायायास्तत्त्वरूपतां ग्रन्थिरूपतां च निर्णीय शक्तिरूपतामप्याख्यातुमाह ---- अतः परं भवेन्माया सर्वजन्तुविमोहिनी || १०-११३८ || सर्वान् जन्तून् जायमानान् सृज्यमानान् मोहयति स्वस्वरूपाख्यातिसतत्त्वाणवमलभाजः करोति | एवं चाभिदधन्मलस्यावास्तवतेत्याह, तच्चास्माभिः पूर्वमेव निर्णीतम् || ११३८ || किं चान्यत् ---- निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः | इदं तत्त्वमिदं नेति विवदन्तीह वादिनः || १०-११३९ || विवदन्ते परस्परविरुद्धं जल्पन्ति, अत एव वादिनो वादमात्रे पर्यवसिताः, न तु तत्त्वज्ञाने | विमतावात्मनेपदिनो वदेः परस्मैपदं व्यत्ययात् || अतश्च एतानसौ ---- सत्पथं तु परित्यज्य नयति द्रुतमुत्पथम् | सत्पथः पारमेश्वरशास्त्राणि, इतरदसत्पथः || एतदेव व्यनक्ति ---- गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः || १०-११४० || असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः | भ्रमयत्येव तान् माया ह्यमोक्षे मोक्षलिप्सया || १०-११४१ || असद्युक्तिः पारमेशपराद्वयागमबाह्यस्तर्कः | अमोक्षः परमाद्वैतचिदानन्दघनपरमेश्वरैक्यव्याप्तेरन्यत् सर्वमेव || ११४१ || कथमियं परिहार्या स्यात् ? ---- इत्याह ---- शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः | शिवेन स्वच्छस्वतन्त्रचिदानन्दघनेन शङ्करेण प्रोक्ता या ज्ञानयोगक्रियाप्रधाना नानाप्रकारा दीक्षा, ऽऽदीयते ज्ञानसद्भावःऽऽ इति प्राङ्१निरूपितरूपा, सैव पाशच्छेदकत्वादसिरिव, तेन यस्य च्छिन्नेति स्वातन्त्र्यशक्त्यात्मपरस्वरूपप्रत्यभिज्ञानेनोन्मूलिता, तं प्रति न कदाचित् प्ररोहतीत्यर्थः | एवं मायायास्तत्त्वग्रन्थिशक्त्यात्मकं त्रिविधं रूपमुक्तम् | तत्र तत्त्वात्मकमशेषविश्वव्यापकाण्डरूपसन्निभम्, ग्रन्थ्यात्मकं त्रिविधम्, शाक्तं तु स्वातन्त्र्यशक्तिसारमेव | तथात्वेनापरिज्ञायमानत्वान्मोहितान् प्रति मायेत्युच्यते | तदेवमियमीश्वरप्रयुक्ता निगूहितस्वस्वरूपान् पुंसः ज्ञातृकर्तृरूपान् स्वैः कलादिनियत्यन्तैस्तत्त्वैः किञ्चित्कर्तृत्वकिञ्चिज्ज्ञातृत्वाभिलाषकलननियमनैमीतभोग्योपभोग- भाजः प्रोक्तपाशशतपाशितान् विधाय किञ्चिदंशात्मभोग्यसामान्यरूपे प्रधानाशये तथा निक्षिपति, येन तत्कार्यगुणादिक्षित्यन्तस्थूलपाशपाशिता योनेर्योन्यन्तरमेवैतेऽनुसरन्ति | अतः पारमेशदीक्षायां समुच्छेद्यैव | इयं चेयद्विश्वव्यापिकापि मायाऽख्यातिरूपापि पारमेश्वरप्रकाशभित्तावेव प्रकाशत इति | एतन्मुखेन या विश्वप्रकाशिका पारमेश्वरप्रकाशभित्तिः, सा शुद्धविद्योच्यते | ततस्तां निरूपयति ---- अथोपरि महाविद्या सर्वविद्याभवोद्भवा || १०-११४२ || जगतः प्रलयोत्पत्तिविभूतिनिधिरव्यया | ऽऽदशकोटिगुणा विद्या मायां व्याप्य व्यवस्थिताऽऽ (१०-६७१) इत्युक्तत्वादशुद्धविद्यावैलक्षण्यतो महत्यशेषवेदनरूपत्वाद्विद्या सर्वासां विद्याराज्ञीप्रभृतीनां दिव्यानां भवानां च प्रणवोपलक्षितानां सर्वमन्त्राणामुद्भव उल्लासो यस्याः मायादितत्त्वतत्तत्प्रमातृभुवनादिरूपस्य जगतः प्रलयोत्पत्त्योवीभूतौ च ---- ऽऽविद्यामण्डलराजानां मण्डलानां विभूतयः | न शक्याः परिसङ्ख्यातुं मन्त्राणां च तथात्मनाम् ||ऽऽ इति स्थित्याऽऽत्मभोगसम्पत्तौ निधिराश्रयः, विश्वसर्गस्थितिसंहारकारिणीत्यर्थः, स्वयं तु प्रकाशरूपतयाऽन्यथा | यत्त्वेकादशेऽत्रापि संहारादि वक्ष्यते, तत्सङ्कोचापेक्षया || किं च ---- सा एव परमा देवी वागीशीति निगद्यते || १०-११४३ || परमेति मायाया उक्ताया भेदप्रथोत्थापिकाया इयमन्याऽभेदप्रथोन्मीलनप्रथमसोपान कल्पा वागीशस्य परपरामर्शात्मनो महेश्वरस्येयं वागीशीति निरुच्यते || ११४३ || अत एव ---- अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु | अ-क-च-ट-त-प-य-शैरष्टाभिर्वर्गैभीन्ना न त्वभिन्नाऽनाहतपरामर्शमयत्वेन भिन्नाशेषविश्वावभासभाजो मन्त्रानुन्मीलयेत्, अत एव चेयं मातृका वाच्यवाचकाशेषविश्वहेतुत्वेऽपि पशुभिस्तथात्वेनापरिज्ञाता माता || अथात्र ---- भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः || १०-११४४ || तत्र ---- वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा | बलविकरणी चैव बलप्रमथनी तथा || १०-११४५ || दमनी सर्वभूतानां तथा चैव मनोन्मनी | एताश्च श्रीमदानन्दभैरवे ---- ऽऽवामया विसृजेत् सर्वं ज्येष्ठया पालयेत् पुनः | रौद्र्या लोकोपसंहारं कुरुते स्वेच्छया प्रभुः || काल्या कलति भूतानि विकरण्या किरेत् कलाः | बलमप्यन्यया सर्वं बलं मथ्नाति चान्यया || दमन्या दमयित्वा तु मनः सङ्कल्परूपकम् | नयते परमं स्थानमुन्मन्या तु महेश्वरः ||ऽऽ इति निरुक्ताः | विकरण्येति कलविकरण्या कलाः शक्तीवीकिरेत् सर्वं स्वशक्त्यधिष्ठितं करोति | अन्यया बलविकरण्या सर्वत्र बलं स्वव्यापारकरणसामर्थ्यं विकिरेत् | अन्यया बलप्रमथन्या सर्वेषां रुद्रक्षेत्रज्ञानां बलं प्रमथ्नाति | दमयित्वेति समनान्तां भूमिमाविश्येत्येवमत्र सङ्गतिः | ये तु पूर्वमशुद्धविद्याया वामादयो नव देवाः स्त्रीलिङ्गपाठाद्वामाद्या वा नव शक्तय उक्ताः (१०-१११७ -१८), त एतदंशावताररूपाः स्थूला बोद्धव्याः || एताश्च ---- तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः || १०-११४६ || अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः | सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः || १०-११४७ || सर्वलक्षणसम्पन्नाः सर्वैश्वर्यसमन्विताः | तप्तचामीकराकारा अतिदीप्ताः | लक्षणानि विज्ञानयोगरूपाणि | सर्वतः सर्वत्र सर्वकालं स्थिता एतदनधिष्ठितं न किमप्यस्तीत्यर्थः | ईदृश्योऽपि सर्वज्ञं महेश्वरमनुगतास्तेन शक्तिमताऽधिष्ठिताः | सर्वमेवाभरणं तेन भूषिता | प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः || १०-११४८ || तासां मध्यात् ---- एकैकस्य परीवारो लक्षायुतसहस्रशः | एकैकस्येति मन्त्रस्य || किं च ---- पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते || १०-११४९ || त इत्येकशेषाद्वामाद्याः शक्तयो मन्त्राश्च || अत्रैव ---- त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा | रूपिणी मदीनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः || १०-११५० || विद्याराज्ञ्यः समाख्याताः............. तेषां मन्त्राणां विद्यानां चेश्वराः प्रभवः, अत एव विद्यानां मन्त्राणां राज्ञ्य इत्युक्ताः || अत एवैताः ---- ..........डीक्षाकाले विशोधयेत् | एतच्छुद्धावेतदधिष्ठितसप्तकोटिसङ्ख्याकमन्त्रशुद्धिसम्पत्ते || एवं मायान्ताशेषविश्वभेदसर्वज्ञमन्त्राश्रयभूता योक्ता शुद्धविद्या, सापि स्वाङ्गकल्पतयाऽहमिदं सर्वमिति स्फुटेदन्ताहन्तासामानाधिकरण्याभासात्मनीश्वरतत्त्वे भित्तिभूते सति भाति, नहि भेदाभेदप्रकाशं भित्तिभेदं विना भेदसर्वज्ञतापि घटते | तत ईश्वरतत्त्वं दर्शयितुमाह ---- बाह्ये तस्यैश्वरं तत्त्वं............... तस्येति विद्यातत्त्वस्य | बाह्य इति तदेव व्याप्त्या परिवृत्य स्थितमित्यर्थः || अतश्च ---- ...............भुवनान्यत्र मे शृणु || १०-११५१ || तत्र मुख्यभुवनावस्थितस्येश्वरस्य तावत् स्वरूपमाह ---- अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः | स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः || १०-११५२ || युक्तो वक्ष्यमाणक्रमेण परिवृतः | वीता माया यस्मात्, यतोऽयं भिन्नवेद्यप्रथात्मनोऽञ्जनाद् मायाख्यान्मलान्निष्क्रान्तः | नहि मन्त्रवदसम्भेदेन सर्वं जानाति, अपि तु भेदाभेदरूपतया | अत एव भेदांशस्पर्शाद्विद्येश्वरपरिवृतत्वं भुवनादिव्यवस्था चास्योच्यमाना नायुक्ता | एवं शिवतत्त्वपर्यन्ते सूक्ष्मतयाऽऽसूत्रितकल्पस्य भेदस्य भावाद् भुवनादिव्यवस्थापि शोध्यतया वक्ष्यमाणोपपन्नैव | स्थितिसंहाराभ्यां सृष्टिरप्युपलक्षिता | तच्चैतत्सृष्ट्यादित्रयम् ---- ऽऽशुद्धेऽध्वनि शिवः कर्ताऽऽ इति नीत्या मन्त्रमण्डलादिशुद्धाध्वविषयमेवास्येति मन्तव्यम् | तथा च श्रीमालिनीविजये ---- श सिसृक्षुर्जगत्सृष्टेरादावेव निजेच्छया | विज्ञानकेवलानष्टौ बोधयामास पुद्गलान् ||ऽऽ (१-१९) तथा ऽऽमन्त्राणामसृजत्तद्वत् सप्त कोटीः समण्डलाः | ऽऽ (१-२१) इति मोक्षमैश्वर्यं च लोकोत्तरभोगरूपं न केवलं मन्त्रेभ्यो ददाति, यावन्मन्त्रादिप्रयुक्त्याऽऽयातशक्तिपातेभ्यो मायागर्भगतेभ्योऽपि | एतदप्युपलक्षणपरम्, तेन दम्भेन देवगुर्वादिसेविमायीजनेभ्यो विलयमपि ददाति | एवं हि पञ्चविधकृत्यकारित्वमस्योक्तं भवति || ११५२ || अस्यासनवर्णनं ध्यानोपयोग्युपदिशति ---- तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितम् | असङ्ख्यातदलमित्यर्थः || यतोऽत्र ---- तिस्रः कोट्योऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः || १०-११५३ || यद्यपि सप्त कोट्यो मन्त्राणाम्, तथापि ---- ऽऽब्रह्मादिस्तम्बपर्यन्ते जातमात्रे जगत्यपि | मन्त्राणां कोटयस्तिस्रः सार्धाः शिवनियोजिताः || अनुगृह्याणुसङ्घातं याताः पदमनामयम् |ऽऽ (१-४०-४१) इति श्रीमालिनीविजयोक्तनीत्या सार्धास्तिस्रः कोट्योऽनुग्रहाधिकारायावस्थिता इत्येवमुक्तम् || ११५३ || तदित्थमयं विनियोज्यमन्त्रपद्मासनाधिरूढः ---- तत्रस्थ ईश्वरो देवो वरदः सर्वतोमुखः | देवो द्योतनादिपरमार्थः | सर्वतो मुखं प्रधानरूपं यस्य || आकारतोऽपि ---- पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः || १०-११५४ || गोक्षीरधवलः सौम्यो नागयज्ञोपवीतवान् | दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः || १०-११५५ || सर्वलक्षणसम्पूर्णः सर्वाभरणभूषितः | त्रिशूलपाणीन्दुमौलिर्जटामुकुटमण्डितः || १०-११५६ || प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः | वरदाभयहस्तश्च ध्येयोऽसावीशयोगिभिः || १०-११५७ || पञ्चवक्त्राद्याकृ(तौ)१ प्रागुक्तं सतत्त्वं मन्तव्यम् | वरदाभयपाणिश्चेति चकारात् खड्गखेटकादेः परिग्रहः | सौम्य इति पारमेश्वरक्रियाशक्तिप्राधान्येन सृष्टिप्राधान्यात्, अत एव द्वादशपटलवक्ष्यमाणस्थित्या ध्यातः सन् योगैश्वर्यप्रदायक ईश्वरयोगिनाम् || ११५७ || यथा च परमेश्वरो रुद्रक्षेत्रज्ञानां ध्यानार्चनादिनाऽनुग्रहीतुं गृहीतेश्वराकारः, तथा तत्समवायिनी शक्तिरपि तथैवाऽऽश्रिताकृतिरित्याह ---- तस्योत्सङ्गगता विद्या सर्वविद्यासमाश्रिता | दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना || १०-११५८ || दिव्यस्रग्दाममालाभिर्मुक्ताहारैवीभूषिता | मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना || १०-११५९ || विद्येति मायीयवर्णभट्टारकरूपा मातृका, एवमपि प्रागुक्तयुक्त्या अंशेन भेदस्यानिवृत्तेरुत्सङ्गगतेत्युक्तम्, एवमुत्तरत्र | सर्वाभिवीद्याभिः सर्वैर्मन्त्रविद्यागणैरुत्पत्तिक्षेत्रत्वात् सम्यगभेदेनाश्रिताऽवष्टब्धा | मुक्ताफलप्रतीकाशेति, अनुग्रहप्रवणत्वात् सौम्येत्यर्थः || ११५९ || एषा च ---- आराधिता विधानेन वेदयेज्ज्ञानिनः सदा | विधानेनान्तरभेदप्रत्यवर्शमबलेनाऽऽराधिता प्रसादं प्रापिता सती ज्ञानशालिनो वेदयेत् प्रकाशितस्वस्वरूपान् सम्पादयेत् || किं च ---- प्रहसन्तीव सा भाति महेशवदनेक्षणात् || १०-११६० || वदनमाकृत्यपेक्षया वक्त्रं स्वरूपापेक्षया तु परा शक्तिः | ईक्षणं दृष्टिर्ज्ञानं च || ११६० || अतो भगवतः परिवाररूपान् ---- विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान् क्रमात् | ते च विद्यातत्त्वगता अप्यत्र परेण रूपेण स्थिताः || अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः || १०-११६१ || एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीतीतः | श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमात् || १०-११६२ || एते चानन्ताद्या गुरुभिः शिवतनावित्थमुक्ताः ---- ऽऽभगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः | गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते || उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः | ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते || स पुनरधःपथवतीष्वधिकृत एवाणुषु शिवेन | अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः || निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु | अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने || इत्यष्टौ परिपाट्या यावद्धामानि यान्ति गुरुरेकः | तावदसङ्ख्याकानां जन्तूनां निर्वृतिं कुरुते || तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासीनाः | आलोचयन्ति देवं हृदयस्थं कारणं परमम् || ते भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् | सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः |ऽऽ इति | गुहा माया, तस्या मूर्धा शुद्धविद्या, तदेवासनम् | शक्त्यष्टकेन वामादिना योगो यत्र तादृशेऽमलजलरुह आसीनाः | परममनन्तमिति प्राप्तेश्वररूपम् || ११६२ || अत्रैव चेश्वरतत्त्वे भुवनान्तराण्याह ---- अतो रूपमवस्थानं............. विद्येशावरणोर्ध्वं रूपावरणं नाम भुवनमित्यर्थः | एवमुत्तरत्र || ..............टत्र रुद्रान्निबोध मे | धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् || १०-११६३ || यद्वशाद्विद्येश्वराणामधस्तनाध्वाधारवत्त्वमशेषज्ञत्वम्, पूर्णतया नैराकाङ्क्ष्यम्, महाविभवप्रदत्वम् | त एते धर्माद्या रुद्रा ईश्वरस्य परिवाराः || ११६३ || अत्रैव चेश्वरतत्त्वे ---- सूक्ष्मावरणमूर्ध्वेऽतः........... अतो रूपावरणादूर्ध्वे || ..............टत्र शक्तित्रयं विदुः | ताश्च ---- वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः || १०-११६४ || प्रधानभूताः || ११६४ || आसामेव हि काल्यादयः प्रागुक्ताः प्रपञ्चः | अत एवाह ---- परिवारस्तु तासां वै कोट्योऽनेकास्तु सङ्ख्यया | आसामेवाशेषशक्तिप्रपञ्चात्मकत्वात् || ये चासां परिवारत्वेन स्थिताः, ते ---- सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदाः || १०-११६५ || शुद्धस्फटिकसङ्काशास्त्रिनेत्राः शूलपाणयः | सर्वलक्षणसम्पन्नाः सर्वाभरणभूषिताः || १०-११६६ || सर्वैश्वर्यसुसम्पूर्णाश्चारुचन्द्रार्धशेखराः | किं च ---- शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः || १०-११६७ || नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः | ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते || १०-११६८ || शतपत्राब्जानां भा दीप्तिरिवाकारो येषां तादृशैः, तथाऽन्यैर्हारैः सुदीप्तिभिः प्राकारैरुपलक्षितेषु भुवनेष्वीश्वरभट्टारकमन्त्रानुगताः क्रीडन्तीति सम्बन्धः || ११६८ || अत एवाराधकैरेते ---- तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु | ऽऽयत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||ऽऽ (भ०गी० ९-२७) इति न्यायेन कर्मविषये तमीश्वरमाराधयितुमेते परिवाररूपा मन्त्राः पूज्यन्ते, एतत्पूजकानामेवंव्याप्तिविदामेतन्मुखेन ईश्वरावाप्तिर्भवतीत्यर्थः || किं च ---- व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः || १०-११६९ || भस्मनिष्ठा जपध्यानास्ते व्रजन्त्यैश्वरं पदम् | भस्मनिष्ठा स्नानमयकॢप्तिरूपा येषाम् || प्रासङ्गिकमुक्त्वा प्रकृतमाह ---- तत्रेश्वरस्तु भगवान् देवदेवो निरञ्जनः || १०-११७० || अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः | तत्रेश्वरतत्त्वे देवानामनन्तादीनां देवः | अधिकारं तेषामेवानुग्रहादौ विनियोजनम् | शिवेच्छैव विधत्ते सर्वमिति विधिः, तत्प्रचोदितः | परमशिव एव हीच्छाज्ञानक्रियाप्रधानः शिवसदाशिवेश्वरभूमिका भासयति | यदुक्तं श्रीमतङ्गपारमेश्वरे ---- ऽऽलयाधिकारभोगाह्वत्रितत्त्वोक्तिविमर्शनात् | पदार्थः पतिनामासौ प्रथमः परिकीतीतः ||ऽऽ (१-२-१४) इति | अत्र चोक्तवक्ष्यमाणरूपाणि ---- दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमात् || १०-११७१ || तत्रेश्वरभुवनम् (१) विद्येशाष्टकावरणभुवनम् (२) धर्मादिचतुष्टयाश्रयरूपावरणभुवनम् (३) वामादिशक्तित्रयाश्रयसूक्ष्मावरणभुवनम् (४) इति चत्वारि तावदुक्तानि, वक्ष्यमाणानि तु शुद्धावरण-विद्यावरण- प्रमाणावरण-(माना)१वरण-मायावरण-शुद्धशिवावरण-मोक्षा- वरणाख्यानि सप्तावरणानि, ततो ध्रुवभुवनम्, ततो वामादिशक्तित्रयाश्रयेच्छा-शक्तिभुवनम्, ततः प्रबुद्धावरणम् ततः समयावरणमित्येकादश चतुभीः सह पञ्चदश भवन्ति || ११७१ || एतानि पञ्चदशापि भुवनान्यान्तरेण क्रमेण ---- तालुकोर्ध्वे विजानीयाद् दीक्षाकाले वरानने | मायातत्त्वात्मकतालुग्रन्थ्यूर्ध्वस्थशुद्धविद्यापद्मकणीकोर्ध्वे यदीश्वरतत्त्वं तालुकोर्ध्वगतम्, तत्र जानीयात् तद्विश्रान्तिपुरःसरं पूर्वोक्तमन्त्रक्रमेण शोधयेदित्यर्थः | एतच्चोपलक्षणम्, तेन ब्रह्माण्डगतानि भुवनानि हृद्विश्रान्त्या, जलादिप्रकृत्यन्तगतानि कण्ठविश्रान्त्या, प्रकृत्यादिमायान्तगतानि तालुविश्रान्त्या, तदूर्ध्वपदविश्रान्त्या शुद्धविद्यातत्त्वगतानि भुवनानि शोधनीयानि | एवं ललाट-ब्रह्मरन्ध्र- व्यापिनीपदविश्रान्त्या सदाशिव-शक्ति-शिवतत्त्वगतानि वक्ष्यमाणानि भुवनानि शोधनीयानि || अथ शुद्धावरणादिभुवनैकादशकं क्रमेण दर्शयति ---- शुद्धावरणमूर्ध्वं तु तस्मिञ् छक्तिद्वयं स्मृतम् || १०-११७२ || ज्ञानं क्रिया च विख्यातं............ ज्ञानक्रियाशक्तिभुवनद्वितयरूपेण तद्भुवनमित्यर्थः, एवमुत्तरत्र || अथ ---- ..........ड्वे विद्ये चाप्यतः परम् | भावसंज्ञाप्यभावाख्या तस्मिन् शक्तिद्वये स्मृते || १०-११७३ || तस्मिन् ज्ञानक्रियाख्ये प्रोक्ते शक्तिद्वये विषयतया द्वे भावाभावाख्ये वेदनपरमार्थत्वाद्विद्ये स्थिते | तत्र पूर्वोक्तयुक्त्या स्फुटेदन्तात्मकभाववेदनशक्तिरेका, इदन्तोत्थानभितिभूताख्यात्यात्माभाववेदनशक्तिद्वीतीयेत्ये- तद्भुवनद्वितयरूपं विद्यावरणमेतदित्यर्थः || ११७३ || अतश्च ---- तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम् | प्रमाणावरणे चोर्ध्वे............ पूर्वोक्तानां मायातत्त्वाश्रितानां पञ्चार्थादिप्रमाणानां परमिदं पदं प्राप्तिस्थानं तेजेशश्च ध्रुवेशश्च विद्यावरणादूर्ध्वे प्रमाणावरणे स्थिते इत्येतत्प्रमाणावरणमपि भुवनद्वितययोगि || अथ ---- ..............कथयामि च मानतः || १०-११७४ || मानतो माने प्रमाणावरणोर्ध्वगते माननाम्न्यावरणे रुद्रान् कथयामि || ११७४ || ते च ---- ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः | तेनैतद्रुद्रभुवनचतुष्टयभुवनपरिष्कृतमेतनमायावरणभुवन- मित्यर्थः || अथ ---- सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः || १०-११७५ || एकाक्षः पिङ्गलो हंसः कथितं तु समासतः | परिवार एषामसङ्ख्य इति वक्ष्यति | अथ ---- शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः || १०-११७६ || संस्थितो रुद्रराजस्य.......... अथ ---- .............ंओक्षावरणमूर्ध्वतः | तत्र च ---- एकादशैव रुद्रांश्च कथयामि समासतः || १०-११७७ || तानाह ---- ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैव च | जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः || १०-११७८ || विजृम्भितः............. जन्महरो मृत्युहरः | सुखं द्यति खण्डयतीति सुखदः, एवं दुःखदः || त एते एकादश ---- ......षमाख्यातास्तालूर्ध्वे तु व्यवस्थिताः | तालूर्ध्वे इति प्रागुक्तमेवैश्वरं तत्त्वमेषामाश्रय इति स्मारयति || अथ ---- पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभम् || १०-११७९ || प्रमाणावरणे शिवावरणे ध्रुवावरणे चैक एव स्थूलसूक्ष्मपरभेदेन ध्रुवाख्यो रुद्रस्त्रिरत्रोक्त इति पुनःशब्दार्थः || ११७९ || अथास्य ध्रुवावरणस्य ---- ईशशक्तित्रयं मूध्नी............ स्थितम् || तच्च ---- ...............कथितं चानुपूर्वशः | वामा ज्येष्ठा रौद्री चेति यत्सूक्ष्मावरणे प्राक् शक्तित्रयमुक्तम्, तदेवेह पररूपेण स्थितमित्यर्थः || किं चात्रैव प्रधानभूतायाः ---- इच्छाशक्त्यभिधानायाः............... शक्तेः पुरम् || ताश्च वामाद्या एतस्याः ---- ...........ऽन्तर्भूताः प्रकीतीताः || १०-११८० || तेन वामादिभुवनत्रयपरिवृतमेतदिच्छाभुवनमत्रेत्यर्थः || ११८० || अथ ---- प्रबुद्धावरणं चोर्ध्वे............ तत्र च रुद्रान् ---- ..............कथयामि समासतः | प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः || १०-११८१ || विष्णुर्मदन एवाथ गहनः प्रथितस्तथा | तदेतदत्र ---- रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमात् || १०-११८२ || ततोऽपि ---- समयावरणं चोर्ध्वे........... अत्र रुद्रान् ---- ............कथयामि समासतः | प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा || १०-११८३ || ततो घनः समाख्यातो निरञ्जनस्ततः परम् | रुद्रोङ्कारस्तु पञ्चैते........... प्रभवाख्यस्य समयस्य विशेषणं क्षुद्र इति | विमलः शिव इति विमलशिवाख्यः || एतांश्च ---- ...........टालूर्ध्वे तु विजानत || १०-११८४ || विजानतेति बहुवचनमुपदेश्यशिष्यप्रशिष्यादिभेदेन, एवमन्यत्र | तालूर्ध्वं इति एतावदन्तमीश्वरतत्त्वाश्रयमिति स्मरणाय || ११८४ || तदत्र भुवनपञ्चदशकान्तर्वतीभुवनान्तरसङ्ख्यापूर्वमेतदुपसंहरति --- - एकोनषष्टिर्भुवनं ज्ञानशक्त्यादित,ह् क्रमात् | रुद्रोङ्कारान्तमित्येतद् दीक्षाकाले विशोधयेत् || १०-११८५ || ज्ञानशक्तेरादीनीश्वरविद्येश्वररूपसूक्ष्मावरणगतानि यानि भुवनानि, ततः प्रभृति रुद्रोङ्कारान्तमेकोनषष्टिरीश्वरतत्त्वेऽवान्तरभुवनानि | तत्रेश्वरस्यैकम्, विद्येशानामष्टौ, रूपावरणे चत्वारि, सूक्ष्मावृतौ त्रीणि, शुद्धावृतौ द्वे, विद्यावृतौ द्वे, प्रमाणावृतौ द्वे, (माना)१वृतौ चत्वारि, सुशुद्धावृत्तौ त्रीणि, शिवावृतावेकम्, मोक्षावृतावेकादश, ध्रुवावृतावेकम्, इच्छाशक्तिभुवनं वामादिशक्तित्रयेण सह चत्वारि, प्रबुद्धावृतावष्टौ, समयावृतौ पञ्चेत्येवमेकोनषष्ट्याऽवान्तरभुवनैर्युक्तमेतदीश्वरतत्त्वं सङ्क्षेपेण, न तु विस्तरतः शोधयेत् || ११८५ || अस्य च ---- एकैकस्य परीवारः कोट्योऽनेकाः सहस्रशः | ते च ---- त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः || १०-११८६ || शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः | त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः || १०-११८७ || सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः | सर्वलक्षणसम्पूर्णाः सर्वाभरणभूषिताः || १०-११८८ || रुद्रकन्यासमाकीर्णा दिव्यै रूपैर्मनोहरैः | संक्रीडन्ते पुरवरैः शिवेच्छाविधिचोदिताः || १०-११८९ || शुद्धं मायामलेनाकलुषं यत्सामर्थ्यं ज्ञानक्रियाविषयम्, तदेव विग्रहः स्वरूपं येषाम् | यद्यपि सर्वे ऽऽअहमिदं सर्वम्ऽऽ ---- इति स्वाङ्गकल्पाशेषविश्वप्रकाशात्मानः, तथापीश्वरेच्छातो नानारूपा अपि | एवमुत्तरत्रापि || ११८९ || अथ ---- ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवात् | सुशिवावरणं चोर्ध्वे तस्मिन् ज्ञेयः सदाशिवः || १०-११९० || यदेतत् सर्वविषयस्फुटेदन्ताहन्तासामानाधिकरण्यावभासादे- कमीश्वरतत्त्वमुक्तम्, तदन्तरा स्फुटेदन्ताच्छादकाहन्तावभासात्मकसदाशिवतत्त्वं विना नोपपद्यते | नह्यान्तराभासं विना बाह्याभासस्योदयो भवतीत्येतदीश्वरतत्त्वभित्तिभूतेन सदाशिवतत्त्वेन भवितव्यमित्याशयेनेश्वरस्योपरि सदाशिवतत्त्ववतीवक्ष्यमाणप्रधानसदाशिवभुवनस्याधः सदाशिवतत्त्वाश्रितसुशिवावरणमस्तीत्युक्तम् | सुशिवश्चेह सदाशिवभट्टारक एव | यदाह ऽऽतस्मिन् ज्ञेयः सदाशिवःऽऽ वक्ष्यमाणपररूपात् सदाशिवादन्योऽयमपररूप इत्यर्थः || ११९० || स च ---- त्रिपञ्चनयनो देवश्चन्द्रार्धकृतशेखरः | वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः || १०-११९१ || शुद्धस्फटिकसङ्काशः स्फुरन् वै दीप्ततेजसा | सिंहासनोपविष्टस्तु.............. तदुपरि च ---- ......श्वेतपद्मासनस्थितः || ११९२ || पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः | दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः || १०-११९३ || पञ्च ब्रह्माणि सद्योजातादीनि | अङ्गानि हृदयादीनि || ११९३ || सकलादीन् विभजति ---- सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः | क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः || १०- ११९४ || अस्यान्तरक्रमेण स्थानमाह-- भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः | सकलाद्यैर्वृतो देवः............ देव इति द्योतमानः || किं च ---- .............ओंंकारेशादिभिः क्रमात् || १०-११९५ || वृत इति वर्तते || ११९५ || ओंकारेशादीन् दश शिवानाह ---- ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः | सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः || १०-११९६ || शर्वश्च दशमः प्रोक्तः.......... त एते प्राग्दिश आरभ्य ---- .............ऊर्ध्वान्तं संव्यवस्थिताः | सदाशिवस्य ब्रह्मावरणसकलाद्यावरणाभ्यां बहिः || एषामपि ---- रुद्राश्चाष्टादश बहिः......... संव्यवस्थिता इत्येव || ..............टेषां नामानि वै शृणु || १०-११९७ || विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराट् | रौरवो मुकुटो विसरश्चन्द्रो बिम्बः प्रगीतवान् || १०-११९८ || ललित सिद्धरुद्रश्च सन्तानः शर्व एव च | परश्च किरणश्चैव पारमेश्वर एव च || १०-११९९ || अग्निसहितो वीरराडिति द्वौ | एते चैतन्नामकस्य मुक्त्यवताराः शास्त्रावतारैवीश्वमनुगृह्णानाः स्थिताः, अत एव दशाष्टादशभेदेन चैतदुच्यते || ११९९ || तदेवं ब्रह्माङ्गसकलादिशिवरुद्रावरणैश्चतुभीः परिवृतः ---- सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः | सर्वकारणमध्यक्षः सृष्टिसंहारकारकः || १०-१२०० || भुक्तिमुक्तिप्रदाता च साधकानां क्रियावताम् | भवनामतः प्रभृति सदिति व्यपदेशप्रवृत्तेः सदाख्ये सदाशिवतत्त्वे भवो देवः सादाख्यः, स च सकलो मन्त्रमूतीरिति | वक्ष्यमाणनिष्कलमूर्त्यपेक्षयाऽध्यक्षः सर्वेषामधिष्ठाता सर्वदर्शी च | सर्वकारणत्वं सुस्पष्टयति ---- सृष्टीति | सृष्टिसंहारौ स्थितिविलयावप्युपलक्षयतः | साधकानामित्याराधकानां मुमुक्षूणां मुक्तिं सिषाधयिषूणां मुक्तिम्, भुक्तिपूर्वां मुक्तिं तु क्रियावतामनुष्ठानपराणां सम्पादयति || किं च ---- कोटयः सप्त मन्त्राणामासने तस्य संस्थिताः || १०-१२०१ || निवृत्ताधिकाराश्चार्धचतस्रः प्रवृत्ताधिकाराश्चार्धचतस्र इति याः सप्त मन्त्रकोटयः, ता सर्वा अनेनाधिष्ठिता इत्यर्थः | ईश्वरभट्टारकेण त्वधिकारे प्रवृत्ता अर्धचतस्र एवाधिष्ठितास्तस्य स्थूलभोगत्वादिति शेषः | अत एव प्रागीश्वरस्यासनपद्मं सहस्रदलमुक्तम् || १२०१ || अस्यासनं तु ततोऽपि विशिष्टमित्याह ---- आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभम् | ईश्वरपद्मादप्यधिकदलमित्यर्थः || तच्च पद्मम् ---- वामाद्यैवीभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः || १०-१२०२ || ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितम् | वामाद्याः प्रागुक्ता एवेह परेण रूपेण स्थिताः, विभूपूर्वोक्तास्तु -- -- ऽऽविभुर्ज्ञानी क्रिया चेच्छा वागीशी ज्वालिनी तथा | वामा ज्येष्ठा च रौद्री च सर्वाः कालानलप्रभाः ||ऽऽ (८-६६) इति श्रीपूर्वे निदीष्टाः | ताराद्यास्तु शक्तयः प्रागुक्ताष्टात्रिंशत्कलारूपाः | तत्र वामाद्याः प्रागादिदिक्क्रमेण दलेषु मध्यान्ताः | विद्याद्यास्तु तत्प्रातिलोम्येन मध्यादिप्राग्दलान्ताः | तदुक्तं श्रीपूर्वे ---- ऽऽवामा ज्येष्ठाऽऽ (८-३३) इत्युपक्रम्य, ऽऽभानुमार्गेण विन्यसेत् | विभ्वादिनवकं चान्यद्विलोमात् परिकल्पयेत् ||ऽऽ (८-६५) इति | ताराद्यास्तु प्रागादिक्रमेणैव न्यस्ता भावनीयाः || अस्य च देवस्य ---- ज्ञानशक्तिः क्रियाशक्तिर्वामे दक्षिणतः स्थिते || १०-१२०३ || पाठक्रमादर्थक्रमो बलीयानिति न्यायाद् ज्ञानशक्तिर्दक्षिणे क्रियाशक्तिर्वाम इति ज्ञेयम् || किं च ---- इच्छाशक्तिः परा देवि यया सर्वमधिष्ठितम् | उत्पत्तिस्थितिसंहारांस्तिरोभावमनुग्रहम् || १०-१२०४ || यया करोति देवेशः सर्वदा सर्वमध्वनि | तस्योत्सङ्गगता सा तु नित्यं चैवात्मवतीनी || १०-१२०५ || परेति ज्ञानक्रियापेक्षया | अधिष्ठितं व्याप्तम् | सर्वमिति सृष्ट्यादिपञ्चकविशेषणम् | सर्वदेति ---- ऽऽतदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् | भान्तमेवान्तरर्थौघमिच्छया भासयेद्बहिः ||ऽऽ (१-६-७) इति प्रत्यभिज्ञोक्तनीत्या देहाद्याविष्टश्चिदात्मा महेश्वरस्तदर्थावभास-तत्स्थितितच्चर्वण-तत्संस्कारावस्थापन- तत्प्रकाशमयत्वापादनैही प्रतिक्षणं जगतः पञ्च कृत्यानि करोति | उत्सङ्गगतेति | आकृतिमत्त्वे आत्मशिवस्य || १२०५ || तत्कथं सदाशिवस्योक्तमिति तत्संख्यामाह ---- सा चेच्छा देवदेवस्य शिवस्य परमात्मनः | स एवापररूपेण पञ्चमन्त्रमहातनुः || १०-१२०६ || इच्छारूपधरः श्रीमान् देवदेवः सदाशिवः | यतः शिव एवापररूपेण सदाशिवः, अत इच्छाऽस्य शक्तिरुक्तेत्यर्थः | पञ्चभिरीशानादिब्रह्मभिर्मन्त्रैर्महती विश्वव्यापिका महामाहात्म्या च तनुर्यस्य | शिवस्यानुग्रहार्थमेतदपररूपग्रहणं स्वस्वातन्त्र्यादित्याह ---- इच्छारूपधर इति | अत एवायं सदेत्याकृतिपरिग्रहापरिग्रहयोः शिव इवेति कृत्वा सदाशिव उच्यते | श्रीमान् ज्ञानदीप्त्यतिशययुक्तः || अत्र च ---- शक्तयस्तस्य याः प्रोक्ताः......... वामाद्याः || ............टथा वै मन्त्रनायकाः || १०-१२०७ || आवरणचतुष्टयस्थाः || १२०७ || एते सर्वे ---- एकैकं परितो देवि पद्मैरर्बुदकोटिभिः | तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः || १०-१२०८ || विद्यारूपैः स्वरूपाढ्यैरप्रमेयगुणान्वितैः | सर्वलक्षणसम्पन्नैः सर्वाभरणभूषितैः || १०-१२०९ || हास्यलास्याविलासाढ्यैर्भ्रूक्षेपोन्मदविभ्रमैः | चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतम् || १०-१२१० || परिवृता इत्यर्थः | एकैकमिति क्रियाविशेषणम् | पद्मार्बुदादयो वक्ष्यमाणसङ्ख्याविशेषरूपाः | प्रतिरूपैरिति मुख्यसदृशैः | बलं ज्ञानक्रियासामर्थ्यम् | रूपमाकृतिसौन्दर्यं स्वरूपं च | गुणाः सर्वज्ञत्वादयः | लक्षणानि ज्ञानयोगैश्वर्याणि | सर्वेण आभरणेंन भूषितैः | अशेषविश्वात्मभिः परानुग्रहप्रवणतया नित्यप्रमुदितत्वेन हास्यलास्यादियुक्तत्वम् | अत एव हेलामात्रेण परानुग्रहसम्पत्तेर्भ्रूक्षेपेणोद्गतो मदो येषु तादृशा विभ्रमा विलासा येषां तैवीद्यावृन्दैः परिवृता इति सङ्गतिः || १२१० || अतश्चात्र ---- ताभिः सार्धं सदा रुद्राः प्रक्रीडन्तीच्छया प्रभोः | पुरवरैः सर्वतोभद्रैश्चन्द्रकोटिसमप्रभैः || १०-१२११ || ताभिवीद्याभिः क्रीडन्ति परानुग्रहायैव विहरन्ति पुरवरैरुपलक्षिताः || १२११ || त एते सर्वे ---- मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः | अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः || १०-१२१२ || मायाया धर्मश्चित्स्वरूपावरणम्, तेन विनिर्मुक्ताः | यद्यपि परमशिवापेक्षयैषां सङ्कुचितत्वं महामायाकार्यं पाशेनास्ति, तथापि मायाप्रमातृवत् सङ्कोचमया न भवन्ति | अत एव च निर्मला मायानावृताः | सङ्कोच एव हि पुंसामाणवमलमित्युक्तप्रायम् | अत एवैते विगतज्वराः सर्वसन्तापरहिता | एवमपि चानुग्राह्यानुग्रहाय शिवेन नियतिकालाधिकारवशानुबद्धाः स्थापिताः | सर्वज्ञाश्च ते, अमोघशक्तयश्च त इति समासः || किं च ---- अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः | शान्ता निवृत्तमहामायाकृततावन्मन्त्राख्याः, तथा व्यापकशिवैकीरूपा भवन्तीत्यर्थः || इत्थं च ---- परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन || १०-१२१३ || महासंसारतः सदाशिवान्ते विश्वत्र शून्यातिशून्यपदमाप्ते येऽविदिततत्त्वास्ते महासृष्टौ भूयः सृज्यन्ते, यथैकादशे दर्शयिष्यते | एते तु भगवन्तो मुच्यन्त एवेति पुनःशब्दस्यार्थः || उपसंहरति ---- सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने | मन्त्रा आसनगता आवरणगताश्च गर्भे यस्य तदेतत् सुशिवस्य सदाशिवभट्टारकस्य सम्बन्धि आवरणं भुवनमित्यर्थः | अथ च परिपूर्णज्ञानशालिव्यतिरेकेणान्येषां परपदावारकत्वादेव तान्यावरणानीत्युच्यन्ते || अथ ---- बिन्द्वावरणमूर्ध्वेऽतश्चन्द्रकोटिसमप्रभम् || १०-१२१४ || बिन्दुतत्त्वस्थानव्याप्तिरूपमावरणं बिन्द्वावरणम् || १२१४ || तत्र पद्मं महादीप्तं दशकोटिसमन्वितम् | तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः || १०-१२१५ || पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रिलोचनः | तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः || १०-१२१६ || अशेषं यद्विश्वम्, तदिह प्राप्तमहाविकासदीप्तियोगोत्कृष्टत्वान्माणिक्यम् || १२१६ || किं च ---- निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते || १०-१२१७ || प्रागुक्तं कलाचतुष्टयमेवाशेषविश्वाध्वगर्भं परशक्तिरूपतया स्थितमस्य देवस्य परिवारः || किं च ---- तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता | एताश्च ---- पञ्चवक्त्रा स्मृता सर्वा दशबाह्विन्दुशेखराः || १०-१२१८ || तदेवम् ---- बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतम् | मन्त्रमन्त्रेशतदीशपरिवारसम्बन्धिभिः | एष च शान्त्यतीत ईश्वरभट्टारकपरव्याप्तिरूपः | यद्वक्ष्यति | ऽऽआभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरःऽऽ (१२ | १५७) इति | योजनिकाग्रन्थेऽप्युक्तम् ---- ऽऽबिन्दुश्चैवेश्वरः स्वयम्ऽऽ (४ | २६४) इति अस्मिन् ह्यध्वनि स्थूलसूक्ष्मादिभेदेन मन्त्रदेवतादीनां स्थितिरित्युक्तप्रायम् || एतद्बिन्द्वावरणमुक्त्वाऽर्धचन्द्राद्यावरणमप्याह ---- अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका || १०-१२१९ || अत्र भुवनान्याह ---- एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते | कला देवताः ---- तत्र ---- ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा || १०-१२२० || अर्धचन्द्रे स्थिता ह्येता निरोधिन्यां शृणु प्रिये | रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा || १०-१२२१ || विमलाया विशेषणं शिवेति | अर्धचन्द्रपदस्य प्रकाशाह्लादप्रकर्षात्तच्छक्तीनां तथोचितनामानि | निरोधिनीपदस्यापि निरोधहेतुत्वाद्रुन्धनी रोधनी रौद्रीति तिस्रः शक्तयः | प्रबुद्धानां तु निरोधनिवृत्तौ ज्ञानबोधा तमोपहेति शक्तिद्वयमूर्ध्वप्रवेशदातृत्वादेवमभिधानम् || १२२१ || अत्र पूर्वोक्तं मात्राविभागं स्मारयति ---- अर्धमात्रः स्मृतो बिन्दुः खरूपश्च चतुष्कलः | तस्याप्यर्धमर्धचन्द्रस्त्वष्टांशश्च निरोधिका || १०-१२२२ || ऽऽह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मम्ऽऽ (६ | ४) इत्येतद्ग्रन्थनिर्णयावसर एवैतन्निर्णीतं यथा यावद्यावन्मन्त्रोच्चार ऊर्ध्वोर्ध्वं पदमाश्रयति, तावत्तावद्वाच्यवाचकगता स्थूलरूपता निवर्तते, सूक्ष्मसूक्ष्मतरादिरूपता चाभिव्यज्यमाना विश्रान्तिप्रकर्षं ददाति यावदुन्मनापरतत्त्वात्मनि पर्यन्ते सर्वोपाधिप्रशान्त्या चिदानन्दघनस्वच्छन्दभैरवरूपावेशो भवतीति | तदेवेह परमेश्वरेण स्मारितं तथा भुवनशुद्ध्यवसरे सूक्ष्मतरसूक्ष्मतमादिरूपा मान्त्री व्याप्तिरनुसरणीया गुरुभिः | एवमुत्तरत्रापि स्वयमनुसर्तव्यम् || १२२२ || निरोधिन्याः स्वरूपं निर्वक्ति ---- निरोधयति देवान् सा ब्रह्माद्यांस्तु वरानने | का तु कथा सामान्यजन्तूनाम् || यत एवम्, तेनैषा ---- निरोधिनीति विख्याता........... अतश्च पूर्वोक्तकरणबन्धव्याप्त्यनुसरणपुरःसरमन्त्रोच्चारयुक्त्या --- - ..........टां भित्त्वा तु वरानने || १०-१२२३ || सादाख्यपरभावेन पञ्चमन्त्रमहातनुः | लभ्यत इति शेषः | सादाख्यदेव इत्यर्थः | परभावेनेति प्रागुक्तो यः, स एवानेन सूक्ष्मेण रूपेणेत्यर्थः || तस्य स्थानं रूपं च निरूपयति ---- तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजःप्रभः || १०-१२२४ || महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः | तस्येति निरोधिकावरणस्य | नाद इति समस्तवाचकाभेदमयपरामर्शसतत्त्वः श्रीसदाशिव एव पररूपः | किञ्जल्करजःप्रभ इति दीप्त्यतिशययुक्तः | महद्भि पुरुषैरिति मन्त्रमहेश्वरभूमेः प्रभृत्युत्तरोत्तरं तारतम्येन स्थितैः || किं चात्र ---- तेषां वै नायिका वक्ष्ये भुवने पञ्चसङ्ख्यया || १०-१२२५ || तेषां महतां पुरुषाणां मध्ये नायिकाः प्रधानभूता देवताः | भुवन इत्यस्मिन् नादावरणं गते भुवनपञ्चक इत्यर्थः || १२२५ || ता आह ---- इन्धिका दीपिका चैव रोचिका मोचिका तथा | ऊर्ध्वगा तु समाख्याता कला त्वेषा तु पञ्चमी || १०-१२२६ || दीप्त्यतिशयादासामीदृंशिनामानि | पञ्चमीत्येतासां मध्ये प्रधानभूता || १२२६ || किं च ---- तस्मिन् पद्मं सुविस्तीर्णं........... तस्मिन्नित्यूर्ध्वगशक्तिधाम्नि | सुविस्तीर्णमिति प्रकृतापेक्षया || तत्र च ---- ............ऊर्ध्वगेशः स्थितः प्रभुः | ऊर्ध्वगाख्याया नादान्तात्मनः शक्तेरीशोऽधिष्ठाता || स च ---- चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः || १०-१२२७ || चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः | इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः || १०-१२२८ || शान्त इति नादपर्यन्तविश्वोपशमात् | जटाधरत्वादिकं प्राग्वत् || १२२८ || किं च ---- ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी | इयदन्ता सदाशिवतत्त्वस्य व्याप्तिः | एवमत्र सादाशिवे तत्त्वे सुशिवबिन्द्वर्धचन्द्रनिरोधिकानादनादान्तरूपाणि पञ्चावरणानि | तत्र सुशिवावरणे सदाशिवः, वक्त्राङ्गैकादशिका, सकलाद्यष्टकम्, ओङ्कारादिशिवदशकम्, विजयादिरुद्राष्टादशकमिति श्रीसदाशिवेन सहावरणदेवता अष्टचत्वारिंशत् | आसनपद्मगतास्तु वामाद्या नव, विश्वाद्या नव, ताराद्या अष्टात्रिंशदिति षट्पञ्चाशत्, ज्ञानक्रिये पार्श्वगते, इच्छा उत्सङ्गस्थेति सप्तोत्तरशतमत्र देवतानाम् | बिन्द्वावरणे शान्त्यतीतेशः, शान्त्यतीता, निवृत्त्याद्याश्चतस्र इति षड् देवताः | अर्धचन्द्रावरणे तु ज्योत्स्नादिशक्तिपञ्चकम् | निरोधिन्यां रुन्धन्यादिशक्तिपञ्चकम् | ततो नादभट्टारकः | ततो नादान्तपदे इन्धिकाद्याश्चतस्र ऊर्ध्वगेश्वर ऊर्ध्वगा चेति षट् | एवमत्र सदाशिवतत्त्वे सत्रिंशच्छतं देवतानाम् || अथ शक्तितत्त्वे भुवनेशानादिशति ---- ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता || १२२९ || सुषुम्णाख्या देवता, यदधिष्ठानान्मध्यनाडी सुषुम्णेत्युच्यते || १२२९ || न चासावेव स्थिता, अपि तु तत्प्रभुः ---- सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः | दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः || १०-१२३० || शशाङ्कशेखरः श्रीमान् पञ्चवक्त्रो महातनुः | किं च ---- इडा च पिङ्गला चैव वामदक्षिणतः स्थिते || १०-१२३१ || सुषुम्णा तु वरारोहे तुषारकणधूसरा | श्वेतपद्मकरा देवी पद्ममालाविभूषिता || १०-१२३२ || पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी | तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः || १०-१२३३ || तुषारधूसरा त्विति तुशब्दाद् इडापिङ्गले श्यामलोहिते इति तन्त्रान्तराज्ज्ञातव्यम् || १२३३ || एषा सुषुम्णा विश्वव्यापिनीत्याह ---- ग्रथितस्तु तया सर्वस्त्वध्वायमधऊर्ध्वगः | ग्रथित उम्भितो व्याप्तः, अधः अनन्तान्तः, ऊर्ध्वे शिवतत्त्वान्तः | सर्वोऽध्वेति शारीरो बाह्यश्च || अतश्च विश्वव्यापकसुषुम्णादिशक्तिभित्तिमाश्रितो नादस्तदधःप्रसरणमार्गेणाधस्तनं सर्वमध्वानमधिष्ठितं मूलभूतं ऊर्ध्वप्रसरणेन विभिद्य, नादान्तभूमिमारुह्य, ब्रह्मबिलात्मनि शक्तितत्त्वे लीयते ---- इत्याह ---- नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगत् || १२३४ || अधःशक्त्या विनिर्गत्य यावद्ब्रह्माणमूर्ध्वतः | नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः || १०-१२३५ || नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः | नाडिः सुषुम्णा आधारो यस्य | भित्त्वेत्यत्र करणम्, अध इत्युदयस्थानादुत्थिता क्रमेणारोहन्ती शक्तिः | ऊर्ध्वत इत्यूर्ध्वशक्त्या पूर्वोक्तप्रयोगतः स्पष्टीभूतया, ब्रह्मबिलान्तं निर्गत्य तत्रैव तया नाड्या सह लीनः श्लिष्टो भवति | सापि हि नाडी तदन्तेति तत्रैव श्लिष्टा शक्तिद्वययोगाच्च नादस्यानच्कस्य द्विकुब्जरूपत्वात् | स च नादः ---- ङादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम्ऽऽ (कालो० १-५) इत्याम्नायान्तरोक्तनीत्या सर्वभूतेष्वव्यक्तध्वनिरूपः, अत एवाक्षरोऽविचलत्स्वरूपो नदन् वक्ष्यमाणघोषादिपरामर्शमयत्वेन स्थितः | यद्यपि ब्रह्मबिललीन इत्युक्तस्तथापि लयोऽस्य सूक्ष्मतररूपेण शक्तिस्फुरत्तात्मनाऽवस्थानमत एव शिवशक्त्या त्वधिष्ठित इत्युक्तम्, न त्वत्यन्तं नाश इत्यक्षर इत्युचितैवोक्तिः || यत एवंविधा नादस्य व्याप्तिरतः ---- एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे || १०-१२३६ || ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितम् | तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रभः || १०-१२३७ || दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः | त्रिशूलपाणिर्भगवान् जटामुकुटमण्डितः || १०-१२३८ || ब्रह्मबिलं नामावरणमन्तरिव बहिर्भुवनाश्रयत्वेनापि स्थितम् | यद्यपि सार्धास्तिस्रः कोट्यो मन्त्राणामुक्तास्तथापि तत्परिवारस्यासङ्ख्यत्वादत्रापि च तेषां सूक्ष्मतमेन रूपेणावस्थितत्वाद्रुद्रकोट्यर्बुदान्वितमित्युक्तम् | पर इति प्रागुक्ताद्ब्रह्माण्डगतात् स्थूलाद् बुद्धितत्त्वगताच्च सूक्ष्मादुत्कृष्टः, अत एव शाक्तत्वादयं सितो दशबाह्वादिरूपश्च || १२३८ || किं च ---- ब्रह्माणी तु परा शक्तिर्या सा मोक्षपथे स्थिता | द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता || १०-१२३९ || मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता | परेत्यर्थात् | मोक्षपथे ---- ऽऽशैवी मुखमिहोच्यते |ऽऽ (वि०भै० २०) इति स्थित्योर्ध्वोन्मुखशक्तिमार्गे | अतश्चाज्ञानिनः प्रति तदेव शक्तिपथात्मकं मोक्षद्वारमीश्वरेच्छया रुन्धाना स्थिता | ज्ञानिनः प्रति मोक्षमार्ग प्रददाति तच्छीला || यतो ब्रह्माणी एवंविधा, अतः प्रोक्तमन्त्रोच्चारक्रमेण ---- तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये || १०-१२४० || अत्रेति शक्तितत्त्वे यदूर्ध्वं शक्तिव्यापिनीसमनाधाम, तत्रेत्यर्थः || १२४० || अथ ---- अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः | आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते || १०-१२४१ || शक्तिरिति शक्तितत्त्वगतशक्त्यावरणम् | सा च प्रसुप्तभुजगस्येव आकृतिर्यस्या इत्यनेन ब्रह्मबिलान्तमशेषमान्तरमुन्मिषितरूपत्वाद्विषमूछीतमिव कृत्वा निःस्पन्दरूपकुण्डलाकारतया स्थिता | सा चान्तरेण क्रमेण ब्रह्मरन्ध्रोपरि त्वग्भूमिकां निविष्टा | आधार इयमेवाध ऊर्ध्वं च व्याप्य विश्वं धारयन्ती आधारशक्तिरित्यर्थः | तां प्रवक्ष्यामीति तत्रस्थानि भुवनान्यधिष्ठातृदेवताद्वारेण वच्मीत्यर्थः || १२४१ || तत्र ---- सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता | शक्तिभूमेः सूक्ष्मत्वाह्लादकत्वापरिच्छिन्नत्वयोगात्तद्देवतानां तादृंश्येव नामानि || एतासां च ---- व्यापिनी मध्यतो ज्ञेया........... एता एव तु ---- ..........शेषाः पूर्वादितः क्रमात् || १०-१२४२ || सर्वाश्च एताः ---- पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः | तदित्थम् ---- शक्तितत्त्वं समाख्यातं................ अत्र च सौषुम्णावरणे सुषुम्णा, तदीश्वरः, इडापिङ्गले चतस्रो देवताः, ब्रह्मबिलावरणे ब्रह्मा ब्रह्माणीति द्वे, शक्त्यावरणे सूक्ष्मादिदेवतापञ्चकमित्येकादश शक्तितत्त्वे देवताः || यच्च प्रागस्फुटेदन्ताहन्तासामानाधिकरण्याभासात् सदाशिवतत्त्वं ज्ञानशक्तिप्रधानमुक्तम्, तत् तदासूत्रकेच्छाशक्तिप्रधानं शक्तितत्त्वं विना न घटते | नहि किञ्चिदुच्छूनतारूपान्तरासूत्रणां विना कस्याप्युदय इति सदाशिवतत्त्वस्य भित्तिभूतं शक्तितत्त्वमुक्तम् | तदपि शक्तिरूपत्वात् स्वाश्रयमपेक्षत इति इयतः शक्तितत्त्वान्तस्य विश्वस्य यदाश्रयस्तच्छिवतत्त्वमुक्तम् | तच्च शक्त्यन्ताध्वोत्तीर्णम्, तदारोहक्रमेणैव प्राप्यमित्थं चोपलभ्यतां नातिक्रामतीति तत्राप्यतिसुसूक्ष्मतया भुवनस्थितिं वक्तुमाह ---- .........शिवतत्त्वं शृणु प्रिये || १०-१२४३ || पुरश्रेष्ठैरनेकैस्तु समन्तात् परिवारितम् | हेमप्राकाररचितं रत्नमाणिक्यमण्डितम् || १०-१२४४ || अशेषभोगसम्पन्नं सर्वकामगुणोदयम् | धाराधिरूढेऽत्रापि शिवतत्त्वे हेमप्राकारादिव्यवस्थेत्यहो बताख्यातेर्महिमा | एवं चाभिदधदियत्पर्यन्तातिसुसूक्ष्मस्थित्या पृथिव्यादीनां व्याप्तिरिति चिदानन्देच्छाज्ञानक्रियाख्यमेव शक्तिपञ्चकं गुणप्रधानताद्याभासनवैचित्र्येण सप्तपञ्चकतत्त्वाभासरूपतया यथोत्तरमाश्यानीभावप्रकर्षाद्भूतपञ्चकान्तेन रूपेण स्फुरति | भूतपञ्चकमपि यथोर्ध्वं सूक्ष्मसूक्ष्मतराद्याभासवैचित्र्येण प्रोक्तशक्तिपञ्चकात्मकेन गलिताश्यानीभावात्मना पूर्णेन रूपेण विकसतीति पञ्चशक्तिसामरस्यमयं परमशिवतत्त्वमेव इत्थम् ---- श्थूलसूक्ष्मस्वरूपेण तदेकं संव्यवस्थितम्ऽऽ (४-२९५) इत्युक्तयुक्त्या विश्वात्मनाऽवस्थितम् | अतस्तत्र तत्र पदे शिवरूपतया विश्वावभासवत्त्वेऽपि तथानवभासात्मकानबन्धविनिवर्तनं दीक्षाज्ञानक्रमेण क्रियत इति शिक्षयति परमेश्वरः | सर्वकामगुणोदयमिति सर्वेषामत्युत्तमभोगरूपाणां कामानां गुणानां च सर्वज्ञत्वादीनामुदयो यत्र यतश्चेति योज्यम् || किं च ---- भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु || १२४५ || तानि चाधिष्ठातृमुखेनाह ---- व्यापकं व्योमरूपं च अनन्तानाथनाश्रित१म् | कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितम् || १०-१२४६ || अनन्तेति त्रयस्य समाहारः || १२४६ || किं च ---- तत्र पद्मं सुविस्तीर्णमनन्तानन्तसम्भवम् | सुविस्तीर्णं प्रोक्तसर्वपद्मापेक्षया | समनन्तरप्रोक्तानन्तादित्येतदावरणात् प्रभृत्यनन्तस्याशेषविश्वस्यानन्तमध्यानन्तान्तस्य सम्भवो यतः | अत एव प्राग् (१ | ३८) अनन्तासनमित्यनन्ताद्यनन्तम् अध्यानन्तान्तमासनमनन्तासनमित्यस्माभिर्व्याकारीति युक्तमुत्पश्यामः || तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः || १०-१२४७ || देवी द्योतनादिरूपः, न किञ्चिद्भुवनाध्ववती समाश्रितोऽपि तु सर्वैर्भुवनेशैराश्रितः || स च ---- पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः | दशबाहुर्महादीप्तः सृष्टिसंहारकारकः || १०-१२४८ || सर्वानुग्रहकर्ता च प्रणतातीविनाशनः | भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः || १०-१२४९ || स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः | दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः || १०-१२५० || पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः | आबद्धमणिपर्यंकश्चामरोत्क्षेपवीजितः || १०-१२५१ || रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः | शान्त इति शक्त्यावरणपर्यन्तगतस्य भेदसंस्कारस्यापि प्रशमात् | पञ्चवक्त्रादित्वं प्राग्वत् | सृष्टिसंहारौ स्थितिविलयावप्युपलक्षयतः | सर्वेति यस्य यस्यानुग्रह आयाति, तत एव प्रणतातीविनाशन इति | एतत् प्राग्वत् साधकाभिप्रायेण | एतदेव भुक्तिमुक्तीत्युक्त्या व्यक्तीकृतम् | उन्नतोरस्को महोत्साहः || किं चात्र ---- व्यापिनी व्योमरूपा चानन्तानाथा त्वनाश्रिता || १०-१२५२ || पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः | त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः || १०-१२५३ || पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः | कारणैरित्येतैरेव व्यापिनीप्रभृतिभिः सम्यगन्वितास्तदभिन्ना इत्यर्थः | एता इत्यनाथान्ताश्चतस्रः || पञ्चम्याः स्थितिमाह ---- अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः || १०-१२५४ || अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता | एवमाचक्षाणस्यायमाशयो यच्छक्तिसम्बन्धादेव सर्वे शक्तिमन्तस्तत्तत्स्वकार्यं सम्पादयन्ति, अतश्च परमशिवपदमपि प्रस्फुरच्छक्तिस्फाररसमेवेहोपेयम्, न तु शान्ताशेषशक्तिकम् | यस्तु शान्तव्यपदेशोऽत्र, स भेदप्रशमादिति || उपसंहरति ---- एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि || १०-१२५५ || तदेतत् ---- शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता | समना नाम सा ज्ञेया........... ततः शिवतत्त्वादूर्ध्वं त्वक्शेषस्थव्यापिनीपदावस्थितानाश्रितभट्टारकापेक्षया तत्पदविश्रान्त्या ज्ञातव्या | एषा च सह मनसा सुसूक्ष्मतमेन संवेदनेन वर्तते, न तु संविदि त्रिभूमिकामाप्तेति कृत्वा समना | यदुक्तं प्राक् ---- शङ्कल्पः क्रमतो ज्ञानंऽऽ१ (४-३९४) इति || अत ऊर्ध्वं मननव्यापारो नास्तीत्याह ---- ..............ंअनश्चोर्ध्वं न जायते || १०-१२५६ || एषा च समना ---- परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ | सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता || १०-१२५७ || सर्वेषामित्यनन्ताद्यनाश्रितान्तानाम् || १२५७ || अतश्चेयम् ---- बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता | ऽऽपृथग्द्वयमसङ्ख्यातमेकमेकं पृथग्द्वयम्ऽऽ (२-५०) इति श्रीमालिनीविजयोक्तनीत्या ब्रह्माण्डप्रकृत्यण्डात्मकमण्डद्वयमसंख्यातम्, मायाण्डशक्त्यण्डद्वयं त्वेकैकरूपमिति कृत्वैषा शक्तिरनेकान्यण्डान्यन्तःकृत्वा स्थितेति तच्छास्त्रप्रक्रियाप्यत्रोररीकृतैव || शक्तित्वादेव चैषा शिवेन सम्यगभेदव्याप्त्याऽधिष्ठितेति यदुक्तम्, तत् स्फुटयति भाविपटलार्थैकीकारयुक्त्या ---- तत्रारूढस्तु कुरुते शिवः परमकारणम् || १०-१२५८ || सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहम् | आरूढ इत्यशेषविश्वभावासूत्रणेन भित्तिकल्पमननमात्रात्मकैतच्छक्तिभूमिकां स्वामुल्लास्येत्यर्थः | परमकारणमिति परमशिवः || स हि ---- हेतुकर्ता महेशानः सर्वकारणकारणम् || १०-१२५९ || सर्वेषां ब्रह्माद्यनाश्रितान्तानां पृथिव्यादिबीजान्तानामपि तेनैव तत्तद्भूमिकाग्रहणात् तथावभासितानां कारणानां कारणं स्वातन्त्र्यात् स्वभित्तावुल्लासक इत्यर्थः | तथा महानीश्वरस्तेषां तत्तदुचितविभवप्रदत्वेन सर्वातिशायी | कर्तेति स्वतन्त्रः | हेतुरिति तेषामेव स्वे स्वे कर्मणि योजनप्रवर्तकं निमित्तम् || १२५९ || किं च ---- समना नाम या शक्तिः सा तस्य करणं स्मृतम् | स्वशक्त्यैव विश्वमाभासयतीत्यर्थः || यतः ---- तयाधितिष्ठेद् देवेशो ह्यधःकारणपञ्चकम् || १०-१२६० || तया स्वमननशक्त्याऽनाश्रितादिव्याप्यन्तं सदाशिवाद्यशेषकारणत्वात् कारणपञ्चकमधितिष्ठेत् तदनुप्राणनतया स्वकार्यसामर्थ्ययुक्तं कुर्यात् | तथा च शिव एव पररूपोऽनाश्रितादिरूपतां गृह्णाति | तथा तदीया परा शक्तिरप्यनाश्रितादिशक्तिरूपतया स्फुरति || १२६० || तत्र तत्कारणपञ्चकमध्यात् प्रधानभूतस्य ---- अनाश्रितस्य देवस्य कारणं सेयमाश्रिता | परमेश्वरेण स्वशक्त्याऽऽभास्यमानोऽनाश्रितभट्टारकादिः परिग्रहवतीस्वस्वशक्तिसहित एव आभास्यते | अतस्ता एव देव्योऽनाश्रितादीनां स्वकार्यकारणतां भजन्ते || तच्चैतच्छक्तियुक्तः ---- स वै प्रेरयते भूयस्त्वनाथं तु जगत्पतिम् || १०-१२६१ || भूय इत्यस्येदमाकूतं यत्परमशिव एव गृहीतानाश्रितभूमिको द्वितीयामिमां प्रेरणां करोति || १२६१ || इत्थमेव च ---- अनाथश्चाप्यनन्तेशमनन्तो व्योमरूपिणम् | व्योमव्यापी महादेवो व्यापिनं बोधयेत् प्रभुम् || १०-१२६२ || एते च प्रोक्तस्वशक्तिसहिता एव प्रेरकाः प्रेर्याश्च || १२६२ || किं च ---- व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः | कर्तृत्वमेतदीयं कर्मप्रदर्शनेनाभिव्यनक्ति ---- कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली || १०-१२६३ || पूर्वोक्तकुण्डलाकारतयाऽशेषविश्वगर्भा शक्तिः शक्तिकुण्डलिनी | मायेत्यशेषासूत्रणादेतदन्तोत्थापनभित्तिभूतत्वान्महामायारूपा | कुण्डलीति च्छान्दसत्वात् | यद् यस्माद् एतदीयक्रियाशक्तिव्यापकत्वात् कर्मरूपा स्थिता तेषां भगवानेतदाभासकत्वेन कर्ता सन् कर्मीभूतः | यथोक्तं प्रत्यभिज्ञायाम् ---- ऽऽआत्मानमत एवायं ज्ञेयीकुर्यात् पृथक्स्थितिः | ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता |ऽऽ (१-५-१५) इति | तथा ---- ऽऽकर्तृकर्मत्वतत्त्वैव कार्यकारणता ततःऽऽ (२-४-२) इति | स्पन्देऽपि ---- ऽऽअवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम्ऽऽ (१-४) इति || १२६३ || न केवलमसौ महामायात्मा शक्तिस्तस्य कर्मतया स्थितया, यावत् तदन्तर्गतं तदुल्लास्यं च ---- नादबिन्द्वात्मकं कार्यम्........... एतच्चानन्तरपटले क्रमेण व्यक्तीकरिष्यति || अतश्चास्माद् व्यापिभट्टारकाद् परमशिवाधिष्ठितात् ---- ..............इत्यादिजगदुद्भवः | महामायादिभूम्यन्तपरसूक्ष्मस्थूलवाच्यवाचकात्मकाशेष- विश्वोद्भवः | एष एव भगवांस्तदाभासात्मना स्फुरतीत्यर्थः | यत एवं समनाभूमिमाश्रित्य परमेश्वरः परसूक्ष्मस्थूलरूपं विश्वमाभासयति, अत एवाभास्यमानम् ---- यत् सदाशिवपर्यन्तं पाथीवाद्यं च सुव्रते || १०-१२६४ || तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् | सदाशिवोऽत्र पररूपोऽनाश्रितभट्टारकः | सूक्ष्मदृष्ट्या प्रकृतेवीश्वकारणात् समनात आयातं प्राकृतम्, स्थूलदृष्ट्या तु सदाशिवतत्त्वात् प्रभृति क्षित्यन्ता चतुस्त्रिंशत्सङ्ख्या तत्त्वप्रसृतिः | प्रकृतेः शक्तितत्त्वात् शिवतत्त्वाभेदभाज आयातीति | अत्र द्विविधो व्याख्याक्रमः प्रसिद्धः | तत्र आद्य एव ज्यायान्, भाविपटलेऽनाश्रितस्यापि सृष्टिसंहाराघ्रातत्वाभिधानात् | एतच्च विनाशोत्पत्तिमज्ज्ञेयं न पुनरत्राधारपदे विश्रमितव्यम्, अथ च ज्ञेयं ज्ञेयमानतयैव ज्ञानोपारोहपरज्ञानैकात्म्यापत्तियुक्त्या विलाययमित्यर्थः | उत्पत्तिविनाशेति वक्तव्ये विपर्ययपाठः सृष्टिसंहारपरम्पराया अनादित्वप्रतिपादनपरः || एवं समनान्तमध्वानमुक्त्वा पूर्वोपक्रान्तं दीक्षाविधिमेव स्मारयति ---- या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि || १०-१२६५ || स्फुरत्सूर्यसहस्राभकिरणानन्तभास्वरा | ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानवित् || १०-१२६६ || उपचारं ततः कृत्वा वागीश्यावाहनं तथा | स्थापनं पूजनं चैव पशोर्यागं तथैव च || १०-१२६७ || गर्भधारित्वजनने अधिकारं तथैव च | योगं भोगं लयं चैव निष्कृतिं तदनन्तरम् || १०-१२६८ || भुवनाधिपहोमं च भुवनाधिपवासिनाम् | भुवनानां यथायोगं होमं कृत्वा वरानने || १०-१२६९ || त्रितत्त्वं शोधयेच्चातोऽवयवांश्च यथाक्रमम् | स्फुरदित्यादिनैतदाह ---- यथा विश्वमत्रासूत्रितकल्पं प्रभामात्ररूपव्यतिरिक्तशक्त्यात्मकमिति | ऽऽया साऽऽ इत्यत्र ऽऽमायाऽऽ इति केचित् पठन्ति | एतामिति शिवतत्त्वाधिष्ठातृशिवभट्टारकात्मिकाम् | आवाहनादिः पूर्वोक्तक्रमात् | उपचारः पूजा | वागीश्या आवाहनमत्र परस्वरूपायाः | वागीशीस्थापनपूजनानन्तरं शिष्यप्रोक्षणताडन-तद्धृत्प्रवेश-तच्चैतन्याकर्ष- तद्ग्रहणादिपूर्वं वागीशीगर्भे तच्चैतन्यस्य योगः | गर्भधारित्वमेतत्पदोचितमहामन्त्रमयतौचित्येन | भुवनानां ये भुवनाधिपाः प्रधानभूतास्तेषां होमं कृत्वा, येऽन्ये तत्प्रधानभुवनापेक्षया भुवनान्तरवासिनस्तत्तत्त्वगतावान्तरभुवननिष्ठा रुद्रास्तेषामपि | यथायोगमिति संक्षिप्तदीक्षायामन्तर्भावभावनयुक्त्या, अन्यत्र तु पृथग् होमं कृत्वा श्रावणादि कार्यम् | यद्यपि समनान्तर्गतव्यापिनीपदे व्याप्यादिपञ्चकातिरिक्तानि भुवनेशान्तराणि न सन्ति, तथाप्यस्य विधेः सर्वशेषत्वादेवमुक्तम् | पश्चादात्मविद्याशिवाख्यं तत्त्वत्रयं शोधयेदिति शारीरवाचिकमानसशुद्ध्ध्यर्थं पूर्वोक्तहोमक्रमेण शुद्धं सम्पादयेत् | एवं ह्याचार्योऽस्मिञ् छिवयागे शरीरादिव्यापाराविष्टशुद्धतत्त्वमय एव भवतीति दर्शयति | अवयवांश्चेत्येतत्तत्त्वत्रयान्तर्वतीत्वाद् मायान्तसदाशिवान्तानि तत्त्वान्येवावयवानेतदन्तर्भावयुक्त्यैव होमकर्मणा शोधयेत् | यथोक्तं पुरस्तात् ---- ऽऽआत्मतत्त्वविभागेन धाम्ना वै जुहुयाच्छतम् || सशब्दोच्चारयोगेन आत्मतत्त्वे तु होमयेत् | मायातत्त्वावधि ज्ञेयं दैशिकेन शिवाध्वरे || विधिवैकल्यकर्मार्थं प्रायश्चित्तविशुद्धये |ऽऽ (४-२१०-२१२) इत्यादि || अत्र च मध्ये निष्कृत्यनन्तरम् ---- विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेत् || १०-१२७० || तदुक्तं प्राक् ---- ऽऽविश्लेषो निष्कृतेर्भोगात्ऽऽ (४-१२६) इत्यादि | अत्र च पाशच्छेदानन्तरं तद्धोमचैतन्यैकभावनापूर्वं शिवेन पूर्णाहुतिः || १२७० || ततस्तच्चैतन्यस्योद्धारात्मस्थीकार-तत्स्थीकारान् कृत्वा व्याप्यादिभुवनेश्वराह्वानतत्पूजन-पुर्र्यष्टकांशार्पण-श्रावणा- विसर्जनादिः कृत्वा प्रायश्चित्तहोमस्त्रितत्त्वयुक्त्या कर्तव्य इति | ईदृशं क्रमं लेशतः स्मारयति ---- प्रायश्चित्तं ततो हुत्वा......... ततः किं कर्तव्यमित्याह ---- ....कर्तरीमभिमन्त्रयेत् | तया च ---- शिखां छित्वा......... पूर्वोक्तभावनामन्त्रादिक्रमेण ---- ....षमर्प्यैतां..... कस्यचिद्धस्ते ---- ..............शिशुं संस्नापयेद् गुरुः || १०-१२७१ || स्नानाय आदिशेत् | एवमिहापि शिखाच्छेदविधेवीशेषाचोदनाद् यत् टीकाकारैनीर्बीजदीक्षाविषयत्वं प्राग्व्याख्यातम् तदसदेव मन्तव्यम् || १२७१ || अथ ---- आचार्यः प्रयतो भूत्वा सकलीकरणादिकम् | कृत्वा ---- स्रुचोऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरम् || १०-१२७२ || ततोऽपि ---- सकलीकरणं कृत्वा आचार्यस्तु वरानने | शिशोरपि विधिं कृत्वा........... प्राग्वन्मन्त्रन्यासादिरूपम् || ...........शिवकुम्भं समर्चयेत् || १०-१२७३ || तथा ---- भैरवं मध्यदेशस्थं........... यागस्येत्यर्थात् || किं च ---- ............भैरवाग्निं समर्चयेत् | आचार्यः पूजयेत् || ततो भगवन्तं विज्ञाप्य, पूर्वोक्तयुक्त्या योजनिकार्थम् ---- पूर्णां सम्पूर्य विधिवद्वाममन्त्रमनुस्मरन् || १०-१२७४ || पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः | पूर्वोक्तं लक्षणं योजनिकोक्तसमस्तप्रमेयानुसन्धिपूर्वपूर्णाहुतिप्रयोगरूपम् | तं मन्त्रम् || तदत्र मन्त्रोच्चारावसरे ---- हेयाध्वानमधः कुर्वन् रेचयेत्तं वरानने || १०-१२७५ || यावत् सा समना शक्तिः....... समनान्तस्य पाशत्वाद्धेयाध्वत्वम् | रेचयेदित्यूर्ध्वेन, इत्यर्थात् || अथोपादेयाध्वप्रवेशप्रमुखां परतत्त्वविश्रान्तिरूपां योजनिकामाह ---- .....टदूर्ध्वे चोन्मना स्मृता | मनो मननमात्ररूपमपि तत्र न क्रमते न सम्भवति, अपि तु मन्त्ररूपैवेयं दशेत्यर्थः | अत एवात्र प्राक् ---- ऽऽव्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् | तदा शिवतत्त्वमायाति पशुर्मुक्तो भवार्णवात् ||ऽऽ (४-४३७) इत्युक्तम् || यतश्चात्र मननं न क्रमते, अत एव ---- नात्र कालः कलाश्चारो न तत्त्वं न च देवताः || १०-१२७६ || कालः क्षणादिपरार्धान्तः | कला निवृत्त्यादिशान्त्यतीतान्ताः | चारः प्राणवाह | तत्त्वं तस्य भाव इति व्युत्पत्त्या तत्तद्भुवनावभासप्रमात्राद्यनुगततत्तत्सामान्याभासरूपम् | देवता ब्रह्माद्यनाश्रितान्ताः || १२७६ || किं तर्हीदम् ---- सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते | गुरोः परमशिवस्य वक्त्रं प्राप्त्युपायः | यदुक्तं त्रिशिरोभैरवे ---- ऽऽगुरोर्गुरुतरा शक्तिःऽऽ इति || अतश्च ---- तदतीतं वरारोहे परं तत्त्वमनामयम् || १०-१२७७ || तामप्यतीतं तदीयपार्यन्तिकविश्रान्तिरूपम्, न पुनरसौ समनावदतिक्रमणीया भवति, सुनिर्वाणमित्यभिधानात् | वरारोहे इति प्राग्वत् | परं विश्वोतीर्णं विश्वमयत्वात् पूर्णं च | तस्य क्षित्यादेरुन्मनान्तस्य सर्वस्य भावश्चित्प्रकाशमयः स्वभाव इति व्युत्पत्त्या तत्त्वं पारमाथींकं स्वरूपम्, न तु पृथ्वीतत्त्वादिवत् काठिन्यादिवेद्याभासरूपम् | अनामयमिति न विद्यत आमयोऽख्यातिर्यत्र तत् | उक्तं च त्रिकसारे ---- ऽऽबिन्दुनादात्मकैर्देहैः शान्तैश्च शिवसम्भवैः | अतीतस्तु भवेद् देवो निरञ्जनः परः शिवः ||ऽऽ इति || १२७७ || यत एवमतः ---- गुरुवक्त्रप्रयोगेण तस्मिन् योज्येत शाश्वते | निष्कम्पे कारणातीते विरजे निर्मले शुभे || १०-१२७८ || सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये | गुरुवक्त्रे उन्मनायां यः प्रकृष्टयोगः एकात्म्यं तेन ---- ऽऽव्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत्ऽऽ (४-४३७) इत्युक्तरूपेण तदनुप्रवेशतदवष्टम्भात्मना | योज्येतेति स्वात्मना सह शिष्यात्मा तत्सामरस्यमाप्येत | यथोक्तम् ---- ऽऽतस्मिन् युक्तः परे तत्त्वे सार्वज्ञ्यादिगुणान्वितः | शिव एको भवेन्नित्यमविभागेन सर्वशः ||ऽऽ (४-४०२) इति | शाश्वते नित्योदिते, अत एव निष्कम्पे सर्वदा व्यवहारदशास्वपि विमलचिद्घनैकरूपे | कारणानि ब्रह्माद्यनाश्रितान्यतीते तदनुभवविलक्षणेऽशेषविश्वाभासमय इत्यर्थः | अशेषविश्वप्रकाशमपि चैतन्न तेन विश्वेन मनागप्युपहितम्, तस्य विश्वस्य तत्प्रकाशैकरूपत्वादित्यतो विरजस्कत्वान्निर्मले | अतश्च शुभे परश्रेयःस्वभावे | सर्वं च तद् ज्ञं च तदिति सर्वज्ञं, तस्मिन् विश्वाद्वयप्रकाशरूपे परमे तत्त्वे | व्योम्नि शून्यातिशून्यपदस्याप्यतीतमत्ययः प्रशमो यत्र तस्मिन् | अतीन्द्रिय इति सदा सर्वस्य सर्वत्र च स्वप्रकाशैकपरमार्थे || उपसंहरति ---- इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे || १०-१२७९ || चकारात् तच्छुद्धिपरिकर्मापि | एष इत्यध्वान्तरव्याप्तो भुवनाध्वा || १२७९ || न चायं दीक्षायां शोधनार्थमेवेत्थमुक्तः, अपि त्वेतावत् समस्तप्रमेयकरणे परप्रमात्रावेशमपि ज्ञानशालिनामुन्मीलयतीत्याह ---- ज्ञात्वा चैवं महादेवि प्रयाति परमं पदम् | एवमुक्तरूपमिमध्वानं यः कश्चित् प्रमेयतया परिच्छिनत्ति, स परां प्रमातृतामाविशति || आचार्य पुनः ---- देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः | एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि || १०-१२८० || शाक्षात् स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम्ऽऽ (मा०वि० ९-४९) इत्युक्त्वाद् आदौ देहे वास्तका सर्वाध्वमयतां जानीयात्, येन तावदशेषाध्वशरीरः परभैरवाविष्टो भवति | ततो देवादावधिकरणचतुष्टये स्वाहम्भावाभेदप्रथां तथैव जानन् मुच्यते सर्वात्मकपरभैरवतामेति, तथाविधस्वात्माभेदेन चानुग्राह्यानपि पश्यन् मोचयति ---- ऽऽमत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयतेऽऽ (मा०वि० ९-५३) इति स्थित्या परभैरवरूपानेव सम्पादयतीति शिवम् || १२८० || ग्रन्थग्रन्थिविभेदनं प्रतिपदं पूर्वापरालोचनं तात्त्वी युक्तिरभङ्गुरान्तरबहिस्तत्त्वैक्यसन्दर्शनम् | सम्यक्सङ्कलनाः पुरेशविषयाः पूर्णाद्वयामर्शनं स्वाच्छन्दे भुवनाध्वनीह तदियत्किञ्चिन्मया द्योतितम् || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते भुवनाध्वदीक्षाविधिर्नाम दशमः पटलः || १० || एकादशः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ स्वस्वरूपात्मशक्त्यैव स्वाभिन्नं संसृजन् जगत् | संहरंश्च जयत्येकः स्वच्छन्दो बोधभैरवः || यदुक्तम् ---- ऽऽअत्रारूढस्तु कुरुते शिवः परमकारणम् | सृष्टि ................................ ||ऽऽ (१०-१२५८) इत्यादि, तन्निर्णाययिषुः पटलसङ्गतिं कुर्वती श्रीदेव्युवाच ---- अध्वायं तु मया ज्ञातस्त्वत्प्रसादात् सुराधिप | जगत्सृष्टिस्त्वया देव सूचिता न तु वणीता || ११-१ || अयमिति भुवनात्मा | जगदिति देहगतबाह्यगततत्त्वाध्वरूपमेव | सूचितेति ---- ङादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवःऽऽ (१०-१२६४) इति || अतश्च त्वम् ---- अध्वसृष्टिं महादेव कथय स्व प्रसादतः | हे महादेव अशेषविश्वप्रभो द्योतनादिसतत्त्व, स्व आत्मन्, प्रसादतोऽन्तर्नैर्मल्यगमनात् तात्त्विकार्थानिगूहनेनाध्वनः सृष्टिमुत्पत्तिं कथय | सृष्टिमित्युपलक्षणपरम्, स्थितिसंहारयोरप्यभिधास्यमानत्वात् || एतन्निर्णयाय श्रीभैरव उवाच ---- योऽसौ सूक्ष्मः परो देवः कारणं सर्वगः शिवः || ११-२ || निमित्तकारणं सोऽत्र कथितस्तव सुव्रते | योऽसाविति प्रतिपादितनिःसामान्यचिदानन्दघनः, परः सूक्ष्म इत्यन्तःकरणस्याप्यगोचरः, देवो द्योतनादिसतत्त्वः, कार्यते स्वशक्त्या आभास्यतेऽस्मिन्निति च कारणं तेन स्वतन्त्रः कर्ता स्वशक्त्यैव स्वभित्तौ सर्वमाभासयतीत्यर्थः | यद्वक्ष्यति ---- श्वतेजसा वरारोहेऽऽ (११-४) इत्यादि | यच्च तदाभासयति, न तद् व्यतिरिक्तमित्याह ---- सर्वग इति | सर्वं गच्छति प्राप्नोति सर्वात्मतां गृह्णाति, अथ च तद्गच्छति, आभासयति, अधितिष्ठति च तावदशेषव्यापकतदनाच्छादितस्वप्रकाशतया | स्वप्रकाशस्यास्य सिद्धौ न वराकं प्रमाणमुपयुक्तम्, प्रत्युत एतदायत्ता प्रमाणादिवस्तुसिद्धिः | अतश्च शिव उन्मलननिमीलनाद्यवस्थास्वपि श्रेयःस्वभाव एव इत्येवंभूतो यः, सोऽत्र जगति कर्तव्ये निमित्तकारणम् | तव सुव्रते तदद्वयसमापत्तिकारणभूते, कथितः, न तु व्यापकत्वनित्यत्वमात्रेण दिक्कालादिसाधारणेन, नाप्युपादानाद्यपेक्षकार्यजनकत्वेन कुम्भकारादिसाधारणेन रूपेण यथा अन्येषामद्वैतोपदेशायोग्यानामुक्तः | एवमीश्वरस्यानीश्वरत्वमेवोपेतम् | यथोक्तमन्यैः ---- ऽऽये त्वीश्वरं व्यपदिशन्ति निमित्तहेतुं दत्तस्तिलाञ्जलिरमीभिरिहेशितायै | अन्याङ्गतोपगमनेन वशीकृतस्य कामीश्वरस्थितिममी वत सङ्गिरन्ते ||ऽऽ१ इति || तस्माद्यथोक्तमेव साधु || ननु निष्प्रयोजना न प्रेक्षापूर्वकारिणां प्रवृत्तिरस्ति, न चास्येयज्जन्तुचक्रायासदायां सृष्टौ किमपि प्रयोजनमुत्पश्यामः ? --- - इत्याशङ्का शमयितुमाह ---- अकामात् संसृजेत् सर्वं जगत् स्थावरजङ्गमम् || ११-३ || स्वतेजसा वरारोहे व्योम संक्षोभ्य लीलया | अकामात् परिपूर्णत्वेन फलानभिलाषात्, लीलया स्वतन्त्रक्रीडयैव, सर्वं स्थावरजङ्गमं जगत् जीवात्मकं निमीमीते; न तु जीवा नाम नित्याः केचित् सम्भवन्ति | एवं ह्यनादिमति संसारे जीवानामानन्त्येऽपि प्रतियुगमेकैकमुक्तौ संसारोच्छेद एव स्यात् | तेन परमेश्वर एव स्वच्छस्वच्छन्दचिन्मात्रमूतीः ---- श्वशक्तिप्रचयोऽस्य विश्वम्ऽऽ (३-३०) इति शिवसूत्रोक्तस्थित्या स्वरूपगोपनासतत्त्ववेद्यवेदकप्रपञ्चरूपं जगद् दर्पणनगरवदनतिरिक्तमप्यतिरिक्तमिवाभासयति | एवं च न कश्चिद्व्यतिरिक्तो जीवपदार्थोऽपि यदायासकत्वेन भगवतोऽप्रेक्षापूर्वकारिता स्यात् | ईदृशं च जगदसौ न व्यक्तिरिक्तेन कारणेन केनचित् प्रकाशयति, अपि तु स्वतेजसा ---- ऽऽतस्य देवातिदेवस्य परबोधस्वरूपिणः | विमर्शः परमा शक्तिरवियुक्तो यया प्रभुः ||ऽऽ इति श्रीकालिकाकुलोक्तस्थित्या व्योम उन्मनावरणं स्वस्वरूपमेव संक्षोभ्य ---- ऽऽअत्रारूढस्तु कुरुते शिवः परमकारणम्ऽऽ (१०-१२५८) इत्युक्तदृशा व्यापिनीशक्तिसदाशिवादिभावाभावात्मकस्वशक्तिभित्तिभूतसमनाशक्त् इभूमिकामाश्रित्य समनात्मकस्वशक्तिभित्तौ स्वशक्त्यैव परमेश्वरेण जगद् भास्यत इति तात्पर्यम् || अतश्च यत्प्राक् कारणशब्दस्यार्थत्रयं व्याख्यातम्, तदेवेह स्फुटीभूतम्, अत एवात्र न व्यतिरिक्तमुपादानं किमपि, अपि तु तदेव व्योमेत्याह ---- उपादानं तु तत्प्रोक्तं संक्षुब्धं समवायतः || ११-४ || तदेव व्यापकावरणस्वस्वरूपं व्योम समवायतो नित्याविभिन्नविमर्शमयपराशक्तिसम्बन्धात् संक्षुब्धं भावितसंक्षोभं योग्यस्पर्शभूमिकाप्रदर्शनेन किञ्चिच्चलमिवेदन्ताभासोल्लासभित्तिभूतत्वावभासनेनोच्छलदिव | वस्तुतो ह्युन्मनाख्यैवपरविमर्शमयी पारमेश्वरी स्वातन्त्र्यशक्तिरहन्तैकरसा स्वरूपगोपनक्रीडा सदाशिवानाश्रितपदात्मकसर्वभावाभाससूत्राभित्तिकल्पसमानरूप- तया स्फुरति | इत्थं च करणाधिकरणोपादानरूपमशेषं विश्वकर्तुः परमेश्वरादभिन्नमेवेति प्रतिपादितं भवति || ४ || यथा च भगवता प्रकाशमानतया स्वाव्यतिरिक्तमपि व्यक्तिरिक्तमिव जगदाभास्यते, तथा तन्मध्यनियतपौर्वापर्यावभासात्मा महामायाशक्तिभूमौ मायापदे च विचित्रः कार्यकारणभावोऽपि प्रदर्श्यते | यथोक्तं प्रत्यभिज्ञायाम् ---- ऽऽमूतीवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ||ऽऽ (२-१-५) इति || ४ || तदेतदुपपादयितुमाह ---- तस्माच्छून्यं समुत्पन्नं शून्यात् स्पर्शसमुद्भवः | तस्मान्नादः समुत्पन्नः पूर्वं वै कथितस्तव || ११-५ || तस्मात् समनाशक्तिरूपाद् व्योम्नः शून्यमनाश्रितभट्टारकान्ताशेषविश्वावभास- प्रशमाभावावभासात्मकव्यापिनीपदमुत्पन्नम् | ततोऽपि प्रतिपादितरूपप्रसुप्तभुजगाकारशक्तितत्त्वात्मा स्पर्शः | इत्थमेकैव परमेशेच्छाशक्तिः परसूक्ष्मस्थूलरूपतया मेयाभाससूत्रणामयी समना व्यापिनी शक्तिरिति चोच्यते, एकस्या अपीच्छायाः सूक्ष्मरूपज्ञानक्रियाशक्तिसम्भेदेन त्रित्वात् | तस्मादपि शक्त्यात्मनः स्पर्शात् शून्यरूपवाच्यवाचकोभयात्मकस्य जगतो मध्यात् प्रथमं समस्तवाचकाविभागमयो नाद उत्पन्नः | संशब्देन उत्पाद्यमानस्य सर्वस्य कार्यस्य शक्त्यात्मककारणभित्तिसंलग्नतोच्यते | पूर्वमिति नादावरणरूपणाद्यवसरे || ५ || यश्चायं नाद उक्तः ---- अष्टधा स तु देवेशि व्यक्तः शब्दप्रभेदतः | स्वयमव्यक्तध्वनिरूपोऽपि वक्ष्यमाणैर्भेदैरष्टधा व्यक्तरूपतां प्राप्तः || तद्यथा ---- घोषो रावः स्वनः शब्दः स्फोटाख्यो ध्वनिरेव च || ११-६ || झाङ्कारो ध्वङ्कृतश्चैव अष्टौ शब्दाः प्रकीतीताः | एते च धर्मशिवाचार्येण स्वपद्धतौ ---- ऽऽएतेषां लक्षणं वच्मो गुरुपारम्परागतम्ऽऽ इत्युपक्रम्य इत्थं व्याख्याताः ---- ऽऽश्रवणाङ्गुलिसंयोगाद्यः शब्दः सम्प्रवर्तते | दीप्तवह्निस्वनाभासः स शब्दो घोष उच्यते || तदन्तेऽनुभवो यस्य ईषन्मर्मविसपीणः | भिन्नकांस्यनिभो रूक्षः स रावः स्यात्तदन्तगः || ततो वंशध्वनिप्रख्यो निवाते सौम्यवर्षवत् | स नादः स्वन इत्युक्तस्तत्परः कथितो ह्यसौ || चतुर्थः स तु वै शब्दः सर्वशब्दभवारणिः | आत्मानं रावयन्नादः खे यथा भ्रमरीरवः || वाक्यस्य स्फुटतां धत्ते वर्णभेदावभासकः | स्फोट इत्युदितो नादः पञ्चमः शास्तृभिस्ततः || ततोऽतितानधमीत्वान्नादः श्रोत्रसुखावहः | विपञ्च्याः पञ्चमीं तन्त्रीं हत्वा तीव्रप्रयत्नतः || तथा व्यज्यत आकाशे सह षष्ठो ध्वनिसंज्ञितः | सर्वतन्त्रीसमाघाताद्वीणायामिव साधुः यः || मृदुस्तब्धं निनदति झाङ्कारः सप्तमस्त्वसौ | घण्टानिनादानुकृतिः कदाचिद् व्यज्यतेऽन्यथा || तुङ्गमेघध्वनिनिभः सोऽष्टमो ध्वङ्कृतः स्मृतः | ऽऽ एषामष्टानामपि ---- नवमस्तु महाशब्दः सर्वेषां व्यापकः स्मृतः || ११-७ || नदत्यसौ सदा यस्मात् सर्वभूतेष्ववस्थितः | ऽऽशक्तिमध्यगतो नादो वंशनादान्तसंनिभः | ऽऽ इति यो नादः प्रतिपादितः, स महाशब्दः सर्वेष्वन्तःसञ्ज्ञबहिःसञ्ज्ञेषु स्थावरादिदेवयोन्यन्तेषु भूतेष्ववस्थितः | अत एव हि ---- ङादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम्ऽऽ (कालो० १-५) इत्याद्युक्तिप्रतिपादतया नादाख्यया विमर्शसत्तया सर्वेषां सत्त्वम् || यतः एवमतः ---- तस्मात् सदाशिवो देवो व्यक्तो वै दृक्क्रियात्मकः || ११-८ || स एव नादो ज्ञानक्रियायपसदाशिवभट्टारकाभिव्यक्तिसतत्त्व इत्यर्थः || ८ || अथास्मात् ---- नादाद् बिन्दुः समुत्पन्नः सूर्यकोटिसमप्रभः | अन्तःकृतज्ञानशक्तिप्रधाननादपरामर्शः समस्तवेद्याविभक्तः क्रियाशक्त्यात्मा प्रकाशो बिन्दुः समस्तवेद्याविभिन्नप्रथत्वादेव सूर्यकोटिसमप्रभः | स चैव दशधा ज्ञेयो दशतत्त्वफलप्रदः || ११-९ || दशधा वर्णरूपेण दशदैवतसंयुतः | क्रियाशक्तिप्रधानो बिन्दुरन्तर्गतेच्छाज्ञानशक्तिद्वयः, एकैकस्याश्च शक्तेः सर्वशक्तिसम्भेद इति नव शक्तयः, एतत्सामरस्यात्मा मुख्यो दशमः स्वभाव इति दशधात्वमस्य | तच्च ---- शितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् | नीलं विचित्रवर्णं तु स्फटिकाभं मनोरमम् ||ऽऽ (१२-१५४) इति द्वादशपटलवक्ष्यमाणवर्णस्वरूपभेदेन दशधा | तत्रैव ---- ऽऽकुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् | पूर्वाननमभिध्यायेद्वायुभक्षस्य यत्फलम् || तत्पुण्यफलमाप्नोति ..................... | ऽऽ (१२-१२५-१२६) इत्यादितत्पुरुषादिदेवतापञ्चकध्यानं तत्फलपञ्चकं च प्रतिपादयिष्यति | तथा तत्रैवान्तर्गतनादानुद्भिन्नाकारबिन्दुप्रकाशापेक्षया ---- ऽऽघण्टानादस्य वा ध्यानात् सिद्धिः षाण्मासिकी भवेत् | ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते || लिङ्गध्यानं तु यः कुर्यात् पूर्वबीजेन संयुतम् | मासेनैकेन पश्येत् स सूक्ष्मलिङ्गं तनूपरि || शुद्धस्फटिकसङ्काशं तदृष्ट्वा तु विमुच्यते | सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते ||ऽऽ (१२-१५७) इत्यन्तर्गतनादाविभक्तप्रकाशविद्वात्मषष्ठदेवताध्यानं तत्फलं च प्रतिपादयिष्यति | यथा ---- ङिवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | कलाचतुष्टयोपेतो ध्यातव्यो बिन्दुरीश्वरः ||ऽऽ (१२-१५७) इत्याद्यभिधास्यति | इत्थं दशदैवतसंयुतो निवृत्त्यादिकलाभिश्च सह दशतत्त्वफलप्रद इति व्याख्येयम् | टीकाकारैस्त्वेवमेतत्पूर्वापरमपरामृश्य ---- श चैव दशधाऽऽ (११-९) इत्यादिवीद्यातत्त्वविषयो ग्रन्थः, तत्र च षण्ठवर्णान् बिन्दुविसर्गौ च वर्जयित्वाऽकारादिवर्णदशकयुक्तत्वं तत्संभिन्नैकैककादिव्यञ्जनदेवतायोगाद् दशदैतत्वम्, एतद्वर्णदशकाभिव्यक्तत्वात् सर्ववाङ्मयरूपं फलं दशधाऽत्रेति यत् स्वकल्पनया व्याकारि, तदुपेक्ष्यम् | विद्यातत्त्वविषयस्तु ग्रन्थः --- - ऽऽतस्माद्विद्या ततो मायाऽऽ (११-५४) इत्यग्रे भविष्यति | एतदपि तैर्न परामृष्टम्, इत्यलं पूर्वैः सह निर्बन्धेन || अथैतस्मात् ---- बिन्दोः सदाशिवो ज्ञेयः सोऽष्टभेदाङ्गसंयुतः || ११-१० || पञ्चब्रह्मकलाभिश्च विद्याङ्गैः शक्तिभिर्युतः | पञ्चभिश्च महाज्ञानैर्मूतीभिश्च समन्वितः || ११-११ || स सदाशिव इति यः पूर्वं भौवनेऽध्वनि बिन्द्वावरणादधः स्थूलरूप उक्तः, तस्यैव हि सकलाद्यष्टभेदैरङ्गैः परिवारै पञ्चभिरीशानादिब्रह्मभिः सर्वज्ञत्वादिरूपैर्वेदनप्रधानैः षड्भिरङ्गैर्वामाद्याभिवीद्याद्याभिश्च शक्तिभिस्ताराद्यष्टात्रिंशत्कलाभिः पञ्चवक्त्रोद्भूतस्रोतःपञ्चकरूपैर्महद्भिर्ज्ञानशास्त्रैः ओंकारादिभिर्दशभिवीजयादिभिरष्टादशभिश्च मूतीभिर्व्यक्तत्वं पूर्वमभिहितम् | अतो यदन्यैबीन्दुः सदाशिव इति पठित्वा घोषाद्यष्टकाङ्गयुक्तनादाख्यसदाशिवरूपो बिन्दुरिति सामानाधिकरण्येन व्याख्यातम्, तदसत् || किं च ---- स एवापररूपेण परमात्मा शिवोऽव्ययः | यः पूर्वं परमकारणरूपोऽव्ययः शिव उक्तः, स एवापररूपेण सदाशिवभट्टारकः, न त्वसौ व्यतिरिक्त इत्यर्थः || अतः ---- द्विधावस्थः स च ज्ञेयः सोच्चारोच्चारवजीतः || ११-१२ || मुद्रामन्त्रस्वरूपेण स एव च पुनद्वीधा | क्रियाज्ञानस्वरूपेण इच्छारूपस्वरूपतः || ११-१३ || यः शिवोऽव्यय उक्तः, स द्विधा व्यापकत्वेनावस्थितो ज्ञेयो ज्ञातव्यः | कथम् ? ---- इत्याह ---- सहोच्चारेण ऊर्ध्वोच्चारणरूपेण बिन्दुनादादिपरामर्शात्मना रूपेण वर्तते, उच्चारवजीतस्त्वशेषविश्वव्यापिपरमशिवात्मा स्वभावः, एतत्स्वरूपप्राप्त्युपायात्मनापि मुद्रामन्त्रस्वरूपेण द्विधा | मुद्रा हि परतत्त्वप्रतिबिम्बभूताऽन्तःसंविद्द्र्विणमुद्रणाद् मुदं रान्ती, पाशमोचनभेदद्रावणकारिणी तत्तत्संनिवेशरूपतया परस्फारमनुकुर्वती, तथा मन्त्रोऽप्यन्तर्गुप्तभाषणात्मकपरपरामर्शसतत्त्वेन मननत्राणधर्मा परतत्त्वप्राप्त्युपायः परमेशात्मैव | परमेश्वर एव ह्युपेयपदवदुपायरूपतया स्फुरितः | किं च, क्रियाशक्तिप्रधानेनेश्वरभट्टारकात्मना ज्ञानशक्तिप्रधानेन च सदाशिवभट्टारकात्मना स एव स्फुरितः, तथेच्छाशक्त्यात्मनाऽनाश्रितरूपेण स्वरूपेण च शक्तिमद्रूपपरमशिवात्मना || १३ || न केवलमित्थमुपेयात्मनोपायात्मतया शक्तिवैचित्र्येण भगवानेवं भाति, यावत् समस्तशास्त्रीयलौकिकव्यवहारगतसर्ववाचकात्मतया तद्वाच्यवस्त्वात्मतया चेत्याह ---- शब्दावबोधरूपेण वस्तुरूपस्वरूपतः | शब्दरूपेण तदवबोधरूपेण तथा शब्दवाच्यवस्तुरूपेण स्वरूपेण च पूर्णचिदात्मनेत्यर्थः | स्वरूपेणेत्युक्तेरिदमाकूतं यदशेषशब्दार्थचिन्तारूपतया स्फुरन्नपि परमेश्वरोऽपरिम्लानचिदानन्दघन एवेति सर्वमिदं परभैरवाद्वैतरूपमेव | तदुक्तं मयैव ---- हेयं केचन मन्वते जगदिदं बाह्यं तनुस्थं परे (मेयान्ते हि)१ निवेशकेऽप्यथ परे देहे परस्मिन् स्थि(तम्)२ | भिन्नं भाति न जातु यत्पुनरिदं चिद्भानुभासस्ततो भाभिर्भामि निजाभिराभिरभितो विश्वात्मभिर्भैरवः || इति | येषां तु परमेशमायाशक्त्यावृतत्वादेतत्प्रथायोग्यता नास्ति, तदभिप्रायेण ---- शमनान्तं वरारोहे पाशजालमनन्तकम्ऽऽ (४-४३२) इत्याद्युक्तमिति न पूर्वापरवैषम्यं किञ्चित् || तदित्थम्-- स्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनः || ११-१४ || व्योमरूपस्वरूपेण समनोन्मन एव च | उन्मनातीतो देवेशि शिवो ज्ञेयः शिवागमे || ११-१५ || योऽसावुन्मनाक्रमं जानामीत्युक्तामुन्मनाशक्तिमतिशयेनेतः प्राप्तस्तद्धाराधिरूढः शक्तिमदात्मा शिवागमे शिवः श्रेयःस्वभाव उच्यते, स्थूलो भूम्यादिप्रकृत्यन्तेन रूपेण, सूक्ष्मः पुमादिमायान्तेन, परः शुद्धविद्यादिशक्तितत्त्वान्तेन स्फुरितस्तथा व्योमरूपेणानाश्रितात्मना स्वरूपेण, किं च समनोन्मने शक्ती विद्येते यस्यासौ समनोन्मनस्तद्रूपीत्यर्थः, अशेषविश्वात्मना परमेश एव स्फुरतीति यावत् || एवं स्थूलाद्युन्मनान्तं विश्वं परमेशमयेवेत्युपसंहारदृष्ट्योक्त्वा प्रसरक्रमेणापि तत्तत्कारणात्मना स एव स्फुरतीत्यादिशति ---- उन्मनासमनास्थानं शिवेन समधिष्ठितम् | पञ्चकारणरूपेण तदधः पुनरेव सः || ११-१६ || तिष्ठत्यस्मिन् विश्वमिति स्थानमुन्मनारूपं स्वातन्त्र्यशक्तिरूपम्, तत्स्वातन्त्र्यावभासितं च यद् भावाभावरूपाशेषसूत्रणात्म समनारूपं स्थानं तत् शिवेन सम्यगधिष्ठितं स्वभित्तौ स्वाभेदेनावभासितमित्यर्थः | तस्याः समनाया अध इति व्याप्यात्मनि शून्यातिशून्ये पदे चिदानन्देच्छाज्ञानक्रियाख्यशक्तिपञ्चकप्रधानेनानाश्रिता दिव्याप्यन्तपञ्चकारणरूपेण स एव शिवः पुनरपि स्थितः, न पुनरनाश्रितादयस्तद्व्यतिरिक्ताः केचित् || १६ || किं चैतत् ---- कारणं पञ्चकं देवि अधिष्ठाय त्वधस्ततः | ततोऽनाश्रितादिपञ्चकारणात्मनो रूपादधः शक्तिब्रह्मबिलसुषुम्नानादनादान्तबिन्दुपदान्यधिष्ठायाभेदेन तद्भूमीराभास्यैतत्कारणपञ्चकं स्थितमित्यनुषङ्गः || एतद्विभजति ---- व्यापकः शक्तिमूर्धस्थो बिलद्वारमनाश्रितः || ११-१७ || अनन्तश्च सुषुम्नेशस्त्वनाथश्चोर्ध्वगस्तथा | व्योमरूपी महादेवि बिन्द्वीशः परिकीतीतः || ११-१८ || व्यापक इति व्यापिभट्टारकः प्रपञ्चव्याप्त्या, शक्तिमूर्धस्थ इति शक्त्यावरणरूपो यो मूर्धा तत्स्थ इति तद्गतः | श्थूलः सूक्ष्मःऽऽ (११-१४) इत्युक्तकारणपञ्चकात्मतया स्फुरितः, तथानाश्रितभट्टारको बिलद्वारमिति तदधिष्ठातृब्रह्मरूपः, एवमनन्तः सुषुम्नावरणाधिष्ठातृसुषुम्नेपरूपः, अनाथ ऊर्ध्वग इति नादान्ताधिष्ठात्रूर्ध्वगेशरूपः, व्योमभट्टारकोऽपि बिन्द्वावरणगतशान्त्यतीताख्यबिन्द्वीशमूतीः | ननु चानाहतानाथानन्तव्योमव्यापिनो ये पूर्वमुद्दष्टास्ते यद्युत्तरा भूमीरानुलोम्येन भजन्ते, तदनाश्रितः शक्तिमूर्धस्थ इत्याद्युक्त्या भवितव्यम् | अथ प्रातिलोम्येन तथा ---- ऽऽव्यापी तु शक्तिमूर्धस्थो बिलद्वारं खरूपकःऽऽ इत्यादि दर्शनीयम्, तत्कोऽत्र क्रमः | एक एव पञ्चशक्तिसामरस्यात् परमेश्वरो यथास्वातन्त्र्यमनाश्रितादिव्याप्यन्तकारणपञ्चकरूपतां प्रपञ्चव्याप्त्या श्रित्वा शक्त्यादिबिन्द्वावरणगततत्तदीशमूतीरूपतयापि स्फुरितः, न त्वत्रानुलोम्यं प्रातिलोम्यं वा किञ्चित्, अपि त्वक्रम एवात्र क्रमो वास्तवेन वृत्तेन सर्वेषां भगवदेकमयत्वादित्याशयेनायमीदृशः क्रमोऽत्र प्रदशीतः | एवमुत्तरत्रापि स्मर्तव्यम् | तदुक्तं श्रीप्पत्यभिज्ञायाम् ---- ऽऽया चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ||ऽऽ (१-७-१) इति || १८ || इमामेवाभेदसारां प्रपञ्चव्याप्तिं सार्धश्लोकेन प्रदर्शयति ---- अनाश्रितः स्वयं ब्रह्मा समधिष्ठाय संस्थितः | अनाथो विष्णुरित्युक्तस्त्वनन्तो रुद्र एव च || ११-१९ || व्योमरूपीश्वरः प्रोक्तो व्यापी चैव सदाशिवः | अनाश्रितभट्टारक एव स्वयं साक्षाद् ब्रह्मा समधिष्ठाय संस्थित इति भूरादिब्रह्मलोकान्तमित्यर्थात् || किं च ---- व्यापकश्च पुनर्देवि हाटकः परमेश्वरः || ११-२० || विद्यामन्त्रगणैर्युक्तः सप्तपातालनायकः | अनन्तश्चैव देवेशि रुद्रः कालाग्निविग्रहः || ११-२१ || अनाथोऽनन्तरूपेण स्थितश्चाध्वनि धारकः | अनाश्रितो महादेवि स्थितो वै हूहुकः प्रभुः || ११-२२ || अनन्तरूपेणेति कर्परिकाधोगतानन्तभट्टारकात्मना | अध्वनीति कर्परिकापर्यन्ते | हूहुक इति पूर्वोक्तानन्तभुवनान्तर्वर्ती | तदेवं स्थूलेन हूहुकादिना सूक्ष्मेण ब्रह्मादिना च पञ्चकेनैक एव परमेश्वरः पूर्वोक्तपञ्चशक्त्यात्मा स्वच्छन्दनाथः प्रपञ्चव्याप्त्या स्फुरित इत्यनेनापि आशयेन ---- श्थूलः सूक्ष्मः परश्चैव परातीतो निरञ्जनःऽऽ (११-१४) इति श्लोकार्धं सङ्गमयितव्यम् | अनाश्रितादिपञ्चकस्यैवं प्रपञ्चव्याप्तिं तथा सर्वादेरनाश्रितनाथस्य सर्वान्तहूहुकनाथरूपतां प्रदर्शयन् सर्वमिदं निरञ्जनसतत्त्वमेवेति शिक्षयति, वस्तुतोऽनाश्रितभट्टारकस्य निरञ्जनपरभैरवस्वरूपाव्यतिरेकात् || २२ || यदाह ---- स्वशक्त्याश्रितः स भगवांस्तेन गीतस्त्वनाश्रितः | स्वा विशेषानुपादानाद् विश्वस्य प्रभवभूता या पारमेश्वरी स्वातन्त्र्यशक्तिस्तामाश्रितः साक्षात्तद्भित्तौ तदविभिन्नस्फारतया स्फुरति | परमेश्वरो हीच्छाशक्त्यात्मनाऽनाश्रितभट्टारकः स्वरूपकल्प एव | यदाह श्रीप्रत्यभिज्ञाकारः ---- शा द्वितीयैव शिवताऽऽ इति || अतश्च ---- तस्याश्रितं जगत्सर्वमुन्मन्यन्तं वरानने || ११-२३ || उन्मनी शक्तिरन्ते यस्य समनावधेर्जगतः, तत् तस्य आश्रितमनाश्रितभट्टारकरूपशिवतत्त्वाश्रितमित्यर्थः || २३ || यथा च पारमेशीं परां विश्वधारिकां स्वातन्त्र्यशक्तिभित्तिमाश्रित्यानाश्रितनाथः, तथा च परमूतीर्हूहुकभट्टारकोऽपि तामेवाश्रित्य स्थितः इत्याह ---- संस्थितश्चाम्भसो मूध्नी शक्त्याधारस्तु हूहुकः | शक्त्याधार इत्यपरशक्त्याश्रयः | अम्भसो मूर्ध्नीत्यनेनास्य देशनिर्देशः | यत् श्रीभुल्लकः शक्त्याधार इति ब्रह्माण्डकर्परिकारूपाधारशक्त्याश्रय इतीहापि व्याकार्षीत्, तदस्य विस्मृतवस्तुसमर्थनचरमेवेत्युपेक्ष्यम् || किं च ---- अप्तत्त्वं चैव तदध आग्नेयं तदनन्तरम् || ११-२४ || वायव्यं नाभसं चैव तन्मात्राणीन्द्रियाणि च | विषयाश्च मनश्चैव अहङ्कारस्त्वनुक्रमात् || ११-२५ || बौद्धं गौणं च देवेशि प्राकृतं पौरुषं तथा | नियतिः कालरागौ च विद्या चैव कला तथा || ११-२६ || मायातत्त्वं तथा विद्या ईश्वरश्च सदाशिवः | बिन्द्वर्धेन्दुनिरोधी च नादो नाडी त्वतः परम् || ११-२७ || अधो ब्रह्मबिलं देवि शक्तितत्त्वं ततः परम् | पञ्चकारणसंयुक्ता व्यापिनी च ततः परम् || ११-२८ || समना उन्मना चैव प्रक्रियाण्डैर्युता प्रिये | विषया इति ये पूर्वं रश्म्यावरणगता उक्तास्त इह विषयाकारतया स्थिताः | ततश्च यदाह श्रीभुल्लको विषया महाभूतस्वरूपा एवेहेन्द्रियग्राह्या इन्द्रियोक्त्यनुषङ्गेण प्रसङ्गादुक्ता इति, तदसत् | बौद्धमित्यादौ तत्त्वमिति योजनीयम् | नाडीति सुषुम्नावरणगता च सुषुम्नैव | अधो ब्रह्मबिलमित्यपास्य ऊर्ध्वं ब्रह्मबिलमिति टीकाकारपाठो न साधुः ऊर्ध्ववदधोऽपि सुषुम्नान्तस्याध्वनो ब्रह्मबिलव्याप्तत्वात् पृथिव्यादितत्त्वानामुत्तरोत्तरमन्तर्बहिर्व्याप्त्यवस्थित्या प्रतिपादितत्वात् | उन्मनाया विशेषणं प्रक्रियाण्डैर्युतेति प्रोक्तया प्रक्रियया स्थिता अण्डा ब्रह्माण्डप्रकृत्यण्डमायाण्डशक्त्यण्डास्तैर्युता सम्बद्धा | ते हि सर्वे तदेकाश्रयाः || एतत् सङ्कलयति ---- एवं वै प्रक्रियाण्डं तु अधोर्ध्वं संव्यवस्थितम् || ११-२९ || प्रोक्तप्रक्रियया स्थितं यदण्डमित्येकवचनाद् मायाण्डं शक्त्यण्डं चैकरूपम्, तदध ऊर्ध्वे चान्तर्वतीतत्तत्तत्त्वगर्भीकारेण सम्यक् सबाह्याभ्यन्तरव्याप्त्या विशेषेणावस्थितम् || किं शक्त्यण्डमायाण्डद्वयमेवान्तर्वतीतत्तत्तत्त्वोर्ध्वाधरादिव्याप्त्या स्थितम्, नेत्याह ---- एवंविधान्यभोऽधो वै ऊर्ध्वोर्ध्वं च समन्ततः | एवंविधानीति बहुवचने मायाण्डान्तर्गतप्रकृत्यण्डब्रह्माण्डपरामर्शस्तेषां बहुत्वात् | तदुक्तं श्रीमालिनीविजये ---- ऽऽपृथग्द्वयमसङ्ख्यातमेकमेकं पृथग् द्वयम्ऽऽ (२-५०) इति | एवंविधानीत्युक्तिः ऽऽअधोऽध ऊर्ध्वोर्ध्वं च समन्ततःऽऽ इत्यनेन व्याख्याता || बहुवचनसूचितमनेकत्वं स्फुटयति ---- यथा आत्माणवो देवि असङ्ख्याता व्यवस्थिताः || ११-३० || एवं वै प्रक्रियाण्डानि त्वसङ्ख्येयान्यनेकशः | व्यवस्थिता इति एश्वर्या मायाशक्त्या तथा संकुचितत्वेन आभासनादित्यर्थः | प्रकृत्यण्डानीति बहुवचनात् प्रकृत्यण्डब्रह्माण्डरूपाणीत्युक्तमेव || तही तान्यपि विभागेन किं न वर्ण्यन्ते | यतः ---- एकेन वणीतेनेह सर्वोऽध्वा वणीतः प्रिये || ११-३१ || यथा ह्येकं तथा सर्वं प्रक्रियाण्डं स्थितं प्रिये | सर्वेषां प्रक्रियाण्डानां स्वस्वरूपेण सुव्रते || ११-३२ || व्यापकस्तु शिवः सूक्ष्मः सबाह्याभ्यन्तरं स्थितः | सर्वातिशयनिर्मुक्तः सर्वकारणवजीतः || ११-३३ || सृष्टिसंहारनिर्मुक्तः प्रपञ्चातीतगोचरः | स्वेनानपायिचित्प्रकाशात्मना स्वरूपेण सर्वेषां सूक्ष्मः शिव इति परमशिवभट्टारको बहिरन्तश्च व्यापकः स्थितश्चित्प्रकाशात्मकपरमशिवरूपतां विना कस्यापि सत्तासिद्धेः शिवमयमेव विश्वमित्यर्थः | शिवसदाशिवेश्वरादीनामधराधरापेक्षया यथोत्थानमतिशयोऽस्ति | परमशिवस्तु चित्प्रकाशमात्रात्मतया महासत्तात्मा महासामान्यरूप इत्येतदन्यस्यातिशयावधेरभावात् सर्वातिशयैनीर्मुक्तः सर्वकारणं सर्वकारणवजीतश्च नित्योदितचिदेकमूतीरिति तन्त्रेण व्याख्येयम् यतः सृष्टिसंहाराभ्यां निर्मुक्तः | सर्वस्य हि जगत एष एव भगवान् स्वच्छस्वच्छन्दचिदेकमूतीः स्रष्टा संहर्ता च, न त्वस्याप्यन्यस्तस्य कल्प्यमानस्यापि एतत्प्रकाशात्मतां विनाऽनुपपत्तेः | किं चायं प्रपञ्चं वैचित्र्यमतीतः स्वचित्प्रकाशैकमयत्वेनैव प्रकाशमानो गोचरो जगदात्मा सर्वो विषयो यस्य | तदुक्तं श्रीप्रत्यभिज्ञायाम् ---- श्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तुऽऽ (२-१-७) इति || किं चायम् ---- निर्मलो विमलः शान्तस्त्वध ऊर्ध्वं व्यवस्थितः || ३४ || निर्गता आणवाद्या मला यस्मात् तथाभूतोऽसौ, विमलः चित्प्रकाशैकमूतीः, अतश्च समस्तभेदोपशमात् शान्तः, तथापि च स एवाध इति मायादिक्षित्यन्ततया, ऊर्ध्वं च शुद्धविद्यादिशिवान्ततया, विविधेन रूपेणावस्थितः, नहि तत्प्रकाशातिरिक्ता कापि कस्यापि कदापि सत्ताऽस्तीत्युक्तत्वात् || ३४ || एतद् दृष्टान्तप्रमुखं घटयति ---- आकाशस्य यथा नोर्ध्वं न मध्यं नाप्यधः क्वचित् | एवं सर्वगतो देवः शिवः परमकारणम् || ११-३५ || व्याप्य देवि जगत्सर्वं व्योमसु व्योमवत् स्थितः | व्योमसु गृहघटाद्यवच्छिन्नेष्वाकाशप्रदेशेषु यथा व्योमाभेदमयमेव स्थितम्, तथा जगत्सर्वं प्रकाशमानत्वात् प्रकाशमयं चित्प्रकाशात्मा शिवोऽभेदेन व्याप्य स्थितः | अत एवास्य देशकालादिकृत ऊर्ध्वमध्याधरभेदो न कश्चित् || एतदेवाद्वयज्ञानं परमोपादेयमित्याह ---- एवं ज्ञात्वा वरारोहे न भूयो जन्मभाग् भवेत् || ११-३६ || एवं शिवभट्टारकस्यैव स्वप्रकाशमयसमस्तजगदभेदव्यातिं प्रदर्श्य, तत्प्रपञ्चरूपाणां ब्रह्मादीनां यावती व्याप्तिस्तामपि दर्शयति ---- कारणानां पुनर्व्याप्तिं कथयामि समासतः | पूर्वमनाश्रितादेः परमकारणपञ्चकस्य हूहुकान्तं व्याप्यव्यापकभावो दशीतः, इदानीं तु तस्यैवापररूपतया ब्रह्मादिपञ्चकरूपस्य तत्त्वाद्यधिष्ठानद्वारिका व्याप्तिः प्रदर्श्यते ---- तत्त्वे तु पाथीवे ब्रह्मा अधिष्ठाता व्यवस्थितः || ११-३७ || अप्तत्त्वे तु स्थितो विष्णू रुद्रस्तेजसि संस्थितः | ईश्वरो वायुतत्त्वे तु आकाशे तु सदाशिवः || ११-३८ || व्यवस्थितः पूर्वम् ---- ऽऽकलानां यावती व्याप्तिस्तत्त्वानां तावदेव हिऽऽ (५-१३) इत्युक्तत्वात् प्रतिष्ठादिकलाव्याप्ततत्त्वानुसार्यप्तत्त्वादितत्त्वस्वरूपं मन्तव्यम् || ३८ || आदित्यश्च स्मृतो ब्रह्मा सोमो विष्णुश्च सुव्रते | ग्रहाणामधिपो रुद्रो नक्षत्राणां तथेश्वरः || ११-३९ || यजमानस्तु देवेशि स्वयं देवः सदाशिवः | इह पृथिव्यादिपञ्चकं सूर्यः सोमो यजमानश्चेति याऽष्टौ महेश्वरस्य मूर्तयः, ततः कलाव्याप्तिसतत्त्वं मेयरूपं पृथिव्यादिमूतीपञ्चकं ब्रह्मादिकारणैरधिष्ठितमित्युक्तम् | यत्तु करणपक्षे निविष्टा च याजमानी मूतीः पञ्चमीति, तत्रापि ब्रह्माद्यधिष्ठितत्वमुक्तम् | आदित्य इति प्राणो दक्षिणस्रोतश्च | सोमोऽपानो वामस्रोतश्च | ग्रहनक्षत्राधिपौ बाह्यौ सोमसूर्यौ प्रमेयप्रकाशेनोपयुक्तौ | सदाशिवस्य यजमानत्वमशेषप्रमेयप्रमाणाधिष्ठातृपरप्रमातृमयत्वात् || समस्तमहेश्वरमूर्त्यधिष्ठातारो ये ब्रह्मादयस्तेऽपि सद्याअदिभगवन्मन्त्रमया एवेतीत्थमपि परमेश्वराद्वयमयमेव जगदित्यादिशति ---- सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीतीतः || ११-४० || अघोरो रुद्र इत्युक्तस्तथा पुरुष ईश्वरः | ईशानस्तु वरारोहे स्वयं देवः सदाशिवः || ११-४१ || यच्चैतद् ब्रह्माद्यधिष्ठातृ भगवच्छक्तिरूपं सद्याअदिमन्त्रपञ्चकम्, तदेव वेदादिसमस्तशास्त्रप्रपञ्चरूपमित्याह -- -- सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः | अघोरः सामवेदस्तु पुरुषोऽथर्व उच्यते || ११-४२ || ईशानश्च सुरश्रेष्ठः सर्वविद्यात्मकः स्मृतः | ऋगादिवेदाः प्रत्येकं कर्मदेवताज्ञानकाण्डात्मका मन्तव्याः | सर्वविद्यात्मक इत्युक्त्या प्रोक्तोऽपि प्रविभागोऽस्यैव भगवतः प्रपञ्च इति शास्त्रक्रमेणापि भगवदद्वयमयमेव जगत् || ज्ञानक्रमेणाप्यद्वैतमित्याह ---- लौकिकं देवि विज्ञानं सद्योजाताद्विनिर्गतम् || ११-४३ || वैदिकं वामदेवात्तु आध्यात्मिकमघोरतः | पुरुषाच्चातिमार्गाख्यं निर्गतं तु वरानने || ११-४४ || मन्त्राख्यं तु महाज्ञानमीशानात्तु विनिर्गतम् | लौकिकं वार्तादण्डनीत्यायुर्वेदधनुर्वेदनाट्य- वेदादिप्रतिपाद्यकृषिनयानयचिकित्सादिविज्ञानम् | वैदिकं नित्यनैमित्तिककाम्ययज्ञादिस्वरूपम् | आध्यात्मिकं सांख्योगादिप्रतिपादितप्रकृतिपुरुषविवेकज्ञानसर्ववृत्तिनिरोध- ज्ञानादिकम् | आतिमागीकं वेदसांख्ययोगाद्युक्तोपासात्मकप्रसिद्धमार्गातिक्रान्तं सामान्येन पारमेशशास्त्रप्रतिपादितविविधमुद्रामण्डलक्रियाद्युपायरूपं विज्ञानमिहाभिप्रेतम्, नतु विशिष्टं चतुष्टयात् | मन्त्राख्यमिति तत्रैव पारमेशेषु शास्त्रेषु पञ्चप्रणवाधिकारप्रतिपादितनीत्या मन्त्रेषु आ समन्तात् ख्यानं यस्य तथाभूतं यन्महाज्ञानं मन्त्रवीर्यदं ज्ञानपादप्रोक्तक्रियादितन्त्रात्मविज्ञानाद्वैलक्षण्येनानुभवसारतां मन्त्राणां प्रथयति || पञ्चतत्त्वाधिष्ठानद्वारेण विश्वाधिष्ठातृत्वं ब्रह्मादिकारणपञ्चकस्योक्तम्, वितत्य तु प्रतिपादयितुमाह ---- तथा तत्त्वविभागेन पुनश्च शृणु सुव्रते || ११-४५ || चतुवींशतितत्त्वानि ब्रह्मा व्याप्य व्यवस्थितः | प्रधानान्तं तु देवेशि पौरुषं तु जनार्दनः || ११-४६ || गुणतत्त्वस्य पृथगविवक्षितत्वात् चतुवींशतितत्त्वानि व्याप्येति प्राग्वदभेदेनाधिष्ठाय, अत एव प्रतिपादितहृदयविषयाऽऽलोचनादिसृष्टिकारिणी ब्राह्मी व्याप्तिरस्तीति तत्र तत्रोच्यते || नियतेरथ मायान्तं रुद्रो व्याप्य व्यवस्थितः | विद्या तथैश्वरं तत्त्वं व्याप्तं चैवेश्वरेण तु || ११-४७ || ऊर्ध्वं सदाशिवो देवः सर्वं व्याप्य व्यवस्थितः | ऊर्ध्वमिति सदाशिवशक्तिशिवाख्यं तत्त्वत्रयम् | सदाशिव इत्यनाश्रितपरव्याप्त्येत्यर्थः || आत्मविद्याशिवाख्यतत्त्वत्रयविभागेन च कारणानां विश्वाधिष्ठितत्वमाह ---- तत्त्वत्रयविभागेन पुनर्वक्ष्यामि सुव्रते || ११-४८ || कारणव्याप्तिमिति शेषः || ४८ || तत्र ---- आत्मतत्त्वे तु वै ब्रह्मा मायान्ते च व्यवस्थितः | विद्यातत्त्वे तथा विष्णुर्यावत् सादाख्यगोचरम् || ११-४९ || शिवतत्त्वे तथा रुद्रो विज्ञेयस्तु वरानने | सादाख्यमूर्ध्वमध्वानं सर्वं व्याप्य व्यवस्थितः || ११-५० || सादाख्यगोचरमिति सदाशिवतत्त्वम् | सर्वमिति शिवतत्त्वान्त एव ब्रह्मविष्णुरुद्रान्ता ब्रह्मणो व्याप्तिः, ईश्वरसदाशिवान्ता विष्णोः, शिवरूपा रुद्रस्येति कारणपञ्चकस्याप्यनया भङ्ग्याऽभेद एव दशीतः || ५० || न केवलं कारणपञ्चकमेतावत्कारणत्रयव्याप्तिसतत्त्वम्, यावत्कारणत्रयमपि पारमेशरौद्र्यादिशक्तित्रयपरमार्थमित्याह ---- रौद्र्या अधिष्ठितात्मा वै स रुद्रः परिकीतीतः | व्याप्तश्च वामया विष्णुर्ज्येष्ठया च पितामहः || ११-५१ || समस्तरुग्द्रावणाद् विश्ववमनादभेदप्राधान्यप्राशस्त्यप्रकर्षाच्च रौद्रीवामाज्येष्ठाख्या याः शक्तयस्तासामधिष्ठाने क्रमव्यतिक्रमः परमार्थाद्वयक्रमवस्तुतत्त्वप्रदर्शनाय || ५१ || किं च ---- ज्ञानशक्तिः स्मृतो ब्रह्मा क्रियाशक्तिर्जनार्दनः | इच्छाशक्तिः परो रुद्रः......... परशब्दस्त्रिष्वपि सम्बध्यते | अत्रापि क्रमान्यथात्वे प्रोक्त एवाशयः || यश्चायं परो रुद्रः ---- .............ष शिवः परिगीयते || ११-५२ || विष्णुः सदाशिवो देवो ब्रह्मा चैवेश्वरस्तथा | एवं शक्तित्रयेणापरं कारणत्रयमिव तद्व्यापकं परमपि कारणत्रयमधिष्ठितमित्युक्तं भवति || तदित्थमुपायोपेयाद्यैकात्म्योक्त्या कारणगताधिष्ठात्रधिष्ठेयमुखेन समस्ताध्वव्याप्त्या मूर्त्यष्टकाधिष्ठितयुक्त्या वाचकमुखेन तज्ज्ञानदृष्ट्या तद्वाच्यषट्त्रिंशत्पञ्चत्रिंशत्तत्त्वभेदोक्तिद्वारेण शक्तित्रयाधिष्ठाननिरूपणक्रमेण च परभैरवाद्वयमयं जगदिति व्याप्यव्यापकसतत्त्वप्रदर्शनेन परमौपनिषदिकमर्थं प्रपञ्चप्रक्रान्तजगत्सृष्ट्यपेक्षं कार्यकारणविभागवैचित्र्यमेवानुबध्नाति ---- सदाशिवः शिवाद् देवि उत्पन्नः प्रभुरीश्वरः || ११-५३ || यद्यपि ---- ऽऽबिन्दोः सदाशिवो ज्ञेयःऽऽ (११-१०) इति प्रागुपक्षिप्तम्, तथापि प्रतिपादितव्याप्यव्यापकभावपरमार्थदृशा बिन्दुपर्यन्ते प्रसृत्य शिवभट्टारक एव प्रपञ्चव्याप्त्या सदाशिव ईश्वरश्च प्रभुः सम्पन्न इत्यत्र तात्पर्यम् || ५३ || तस्माद्विद्या ततो माया.............. तत इति विद्यातत्त्वात् | एषां च तत्त्वानामुत्पत्तिक्रमे युक्तिः पूर्वमेव दशीता || किं च ---- .................विद्यायाः पुनरीश्वरः | ज्ञानशक्तिकराग्रेण स्वेच्छया परमेश्वरः || ११-५४ || सप्त कोटीस्तु मन्त्राणां सृजेज्ज्ञानक्रियात्मिकाः | ऽऽअष्टवर्गविभिन्ना तु विद्या सा मातृका पराऽऽ (१०-११४४) इति पूर्वमुक्तस्वरूपाया विद्यायाः सकाशात् परमेश्वर इति परमशिवस्वरूप ईश्वरभट्टारकः स्वेच्छामात्रेणानुग्रहाख्यकृत्यप्रपञ्चनार्थं ज्ञानशक्तिरेव कराग्रं तेन सप्त कोटीर्मन्त्राणां मननत्राणसतत्त्वानां सृजति | ज्ञानशक्तिकरणत्वात् सृज्यमानत्वाच्चैताः कारणानुगुण्येन ज्ञानक्रियात्मिका इति पूर्णज्ञानक्रियासतत्त्वा भोगमोक्षप्रदाः || परमेश्वर इति विशेषणेनेश्वरस्य परमशिवरूपत्वमुक्तं यतस्तत एव तत्सृष्टानां मन्त्राणामणुशक्तिशम्भुपक्षतया सर्वत्रैवानुग्रहार्थमवस्थितत्वमस्तीत्याह ---- ते च सादाख्यपर्यन्ते पाथीवाद्ये तु सुव्रते || ११-५५ || अनुग्रहं प्रकुर्वन्ति देहिनां भुवने स्थिताः | पृथ्व्याद्यनाश्रितान्ते यानि भुवनानि, तेषु स्थिताः सन्तो देहिनां भोगमोक्षरूपमनुग्रहं प्रकर्षेणानवरतं कुर्वन्ति || एते च ---- शिवशक्तिसमाविष्टास्त्रिनेत्राश्चन्द्रमौलयः || ११-५६ || शिवशक्तिसमाविष्टत्वादेवैषामनुग्रहकर्तृत्वम् || ५६ || युक्तं चैतद्यतः ---- रुद्रमूतीभिरेकोऽसौ शिवः परमकारणम् | जगद् व्याप्य स्थितो मायी शूलपाणिरनेकधा || ११-५७ || रुद्राः सर्वरुग्द्राविणो मन्त्राः | एकोऽप्यनेकधा रुद्रमूतीभिर्जगद् व्याप्य स्थित इत्यत्र विशेषणद्वारको हेतुर्मायीति | स्वरूपगोपनारूपया महामायाशक्त्या ह्यसावनुग्रहाख्यकृत्यनिर्वाहाय नानारुद्रमूतीभिः स्फुरितः | मायाशक्त्यैव वक्ष्यमाणजगद्रूपतया परमेश्वरः स्वाभासस्वच्छस्वच्छन्दचिदानन्दसुन्दरः स्वस्वातन्त्र्याद् दर्पणनगरवत् स्वानधिकेनाप्यधिकेनेव केन नाम रूपेण न भवतीत्युक्तमसकृत्, अतो यत् श्रीसद्योज्योतिषा उक्तम् ---- ऽऽएकः शिवोऽविकारी तच्छक्तिश्चाप्यतो न तौ योग्यौ | बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् ||ऽऽ (तषं. ४५) इति, तत् प्रोक्तश्रुतियुक्तिभ्यां बाधितत्वादपर्यालोचिताद्वयवादसतत्त्वमित्युपेक्ष्यमेव || ५७ || किं चायमाश्रितानन्तभट्टारकमूतीः ---- ज्ञानशक्त्या पुनश्चैव समालोक्य वरानने | इच्छाशक्त्या समाविष्टः क्रियाशक्त्या तु सुव्रते || ११-५८ || मायातत्त्वं जगद्बीजं नित्यं विभुतयाऽव्यम् | तत्स्थं कृत्वात्मवर्गं तु युगपत् क्षोभयेत् प्रभुः || ११-५९ || जगतः कलादिक्षित्यन्तस्य विश्वस्य यद्बीजं कारणं मायातत्त्वं नित्यमिति तच्छक्तेरनिदंप्रथमिकतया प्रवृत्तत्वात्, अत एव चाव्ययम्, न तु तत्त्वात्मतया तन्नित्यमविनाशि च भवति, ऽऽततो मायाऽऽ इत्युक्तत्वात्, तत्संहारस्य प्रतिपादयिष्यमाणत्वात्; एवंभूतं यद् मायातत्त्वं तत्स्थमिति तद्वशाद्गोपितज्ञानक्रियारूपमात्मवर्गं कृत्वेति स्वभित्तावाभास्य, पुनश्च तं तथाविधं ज्ञानशक्त्या समालोक्य युगपदक्रममेव क्षोभयेदिति सर्वकर्तृत्वसर्वज्ञत्वनैराकांक्ष्याकालकलितत्वसार्वात्म्यरूपा- द्धर्मादपरामर्शनमयकिञ्चित्कर्तृत्वकिञ्चिज्ज्ञत्वसाकाङ्क्षत्वकाल कलितत्वनियतोत्थापककलाविद्यारागकालनियत्यात्मककञ्चुककलनापुरः- सरं प्रधानकारणकार्यपरवशं सम्पादयति परमेश्वरः | कीदृगसौ ? ---- इत्याह ---- इच्छाशक्त्या क्रियाशक्त्या च समाविष्टः, ऽऽएवंभूतमिदं वस्तु भवत्विति यदा पुनः | जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते ||ऽऽ (३ | ८) इति श्रीमालिनीविजयनिदीष्टनीत्येच्छामात्रानन्तरमेव क्रियाशक्त्याऽऽभासयतीत्यर्थः || ५९ || युगपत्क्षोभयेदित्युक्तिं दृष्टान्तेन परिघटयति ---- हेलादण्डाहतायाश्च बदर्या वा फलानि तु | तिर्यगूर्ध्वमधस्ताच्च निर्गच्छन्ति समासतः || ११-६० || वाशब्द इवार्थे | बदर्या इव फलानि मायाया आत्मानः समनन्तरवक्ष्यमाणतिर्यगूर्ध्वाधरभूमीर्गच्छन्ति || ६० || तत्र ---- मुक्तेस्तु भाजनं येऽत्र अनुध्याताः शिवेन तु | ऊर्ध्वं गच्छन्ति ते सर्वे शिवं परमनिर्मलम् || ११-६१ || अनुध्याता इति कृतशक्तिपाताः | यदुक्तं श्रीश्रीकण्ठ्याम् ---- ऽऽयया विना न सर्वज्ञः शिवः सा शक्तिरैश्वरी | या सा शिवप्रयुक्ता तु पशूनां मोक्षयेत्ततः || पतेद् दीक्षानुसन्धाने दीक्षा ज्ञानादिलक्षणा | ऽऽ इति | ऊर्ध्वमिति शिवैक्यप्राप्तिरेवैषामूर्ध्वगतिरित्यर्थः || ६१ || तथा ---- विद्याया भाजनं तिर्यङ्मन्त्ररूपा भवन्ति वै | तदुक्तमन्यत्र ---- ऽऽविद्याविद्येशत्वं त्वपरा मुक्तिः............ |ऽऽ (त०सं० ५१) इति || किं च ---- संसारभाजनं ये तु मलकर्मकलान्विताः || ११-६२ || अधस्तात्ते व्रजन्त्यत्र घोरेऽध्वन्यतिदारुणे | मलोऽख्यात्यात्मक आणवः, शुभादिवासनात्मकं कर्म, कलादिकं तु मायीयम् | घोरे भेदमये | अतिदारुणे दुःखबहले || ६२ || एवं प्रसङ्गाद् मन्त्राणां बद्धमुक्तानां च स्वरूपं प्रतिपाद्य प्रकृतामेव तात्त्का सृष्टिं दर्शयति ---- तस्मात् कला समुत्पन्ना विद्या रागस्तथैव च || ११-६३ || कालो नियतितत्त्वं च पुंस्तत्त्वं प्रकृतिस्तथा | केवलमेतदुच्यते कञ्चुकपञ्चकवलिताः पुमांसो भोक्तारः, भोग्यसामान्यरूपा च प्रकृतिर्युगपदेव मायातः सम्भूताः, भोक्तृभोग्ययोः परस्परापेक्षित्वात्, अतोऽत्र कलादीनां युगपदेव तस्मादिति मायातत्त्वादुद्भव उक्तः | श्रीमालिनीविजये तु कलातो विद्यादिचतुष्टयं प्रकृतिश्च, श्रीरौरवादौ तु कला रागविद्ये प्रसूय, अव्यक्तं जनितवतीत्यादिरागमेषु यः क्रम उक्तः तथा क्वचित् कञ्चुकानां चतुष्टयं क्वचित्त्रयमिति सङ्ख्यान्यथाभावोऽपि दृश्यते, न तत्र भ्रमितव्यम् | ऽऽकदलीगर्भदलवन्मोदकादिरसादिवत् | कदम्बगोलवच्चित्राः कञ्चुकाश्चित्रसंविदः ||ऽऽ इति श्रीत्रिकसारनिरूपितनीत्या कश्चिद्रज्यन्वेत्ति कश्चिच्च विदन्रज्यतीत्यादिः पुंसां विचित्रप्रतीतिक्रमानुसारी कञ्चुकक्रमोऽन्यथाऽन्यथा च सम्भाव्यते, प्रतिपुं कलादितत्त्वक्रमस्योक्तत्वादिति तदनुसारं तत्तच्छास्त्रावतारकैस्तथा तथा क्रमभेदमात्रप्रतिपादनमेतत् कृतम्, अन्तर्भावानन्तर्भावाच्च सङ्ख्याभेदोऽपि दशीतः | वस्तुतश्च किञ्चित्करोमीत्यादिप्रतीतिपञ्चकाक्षिप्ततत्त्वपञ्चककञ्चुकवलिताः पुमांसो भोक्तारः, किञ्चिदंशात्मा भोग्यसामान्यरूपा प्रकृतिर्मायातो युगपदेव उद्भूता इति एतत्तन्त्रोक्तमेव ज्यायः प्रतिभाति || अथ ---- सत्त्वं रजस्तमश्चैव प्रकृतेस्तु गुणास्त्रयः || ११-६४ || त्रिरूपं गुणतत्त्वं जातमित्यर्थः || ६४ || एतद् व्यापारभेदेन विभजति ---- सत्त्वं प्रकाशजनकं प्रवृत्तिजनकं रजः | तमोऽवष्टम्भकं प्रोक्तं विज्ञेयं तु गुणत्रयम् || ११-६५ || अवष्टम्भकमावारकम् | अत्र सर्वत्रोपपत्तिः प्रागेव (२-६६) दशीता || ६५ || गुणत्रयेऽधिष्ठातृदेवता आह ---- सत्त्वं ब्रह्मा रजो विष्णुस्तमो रुद्रः प्रकीतीतः | सामानाधिकरण्योक्त्याऽधिष्ठात्रभेद एवादिष्टः | अधिष्ठातारोऽपि व्यापारभेदात् त्रयः, वस्तुतस्त्वेक एव परमेश्वरस्तत्तद्व्यापार इति || पूर्वोपक्रान्तमेवार्थं भावप्रत्ययभङ्ग्या प्रथयति ---- ब्रह्मत्वे सृजते लोकान् विष्णुत्वे स्थितिकारकः || ११-६६ || रुद्रत्वे संहरेत् सर्वं जगदेतच्चराचरम् | एतदनुसारतश्च ---- जाग्रत्स्वप्नसुषुप्तं च तिस्रोऽवस्थाश्च तद्गताः || ११-६७ || तद्गता इति सत्त्वादिगुणवशोत्थिता इत्यर्थः || अथ ---- गुणेभ्यो धिषणा जाता.............. धिषणा बुद्धिः || सा च ---- ..............भावभेदैः समन्विता | भावा धर्मादयः, भेदाश्च अहङ्कारेन्द्रियादयो वक्ष्यमाणाः || किं च ---- ब्रह्मा तत्राधिपत्येन बुद्धितत्त्वे व्यवस्थितः || ११-६८ || सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम् | तमेव ब्रह्माणं सर्वज्ञम् न तु सर्वकर्तारम्, बौद्धानां परमं पदं मोक्षधाम आगमिकाः कथयन्ति | शर्व एव तदेवाहुःऽऽ इति पाठः सर्व एवागमिका बुद्धितत्त्वं बौद्धानां परमं पदमाहुरिति व्याकार्यः || एवमुत्पत्तिप्रतिपादनप्रसङ्गेन बुद्धिवृत्त्यात्मकहर्षविषादादिरूपक्षणिक- ज्ञानसन्ततिभावनानिष्ठानां बौद्धानां बुद्धितत्त्वप्राप्तिरेव मोक्ष इति प्रतिपाद्य, वाद्यन्तराभिमतप्राप्यपदरूपान् मोक्षाभासान् प्रदर्श्य शैवानां सर्वोत्तमसत्यमोक्षभाजनत्वमिति स्फुटयति | यदुक्तं पुरस्तात् ---- ऽऽइत्येवंवादिनां तेषां वादानां तु शतत्रयम् || त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसाम् | अज्ञानतिमिरान्धानामुन्मीलनकृदुत्तमम् ||ऽऽ (१०-६८०-६८१) इत्यादि | तत्र ---- गुणेष्वारहतानां च प्रधानं वेदवादिनाम् || ११-६९ || परमं पदमिति सम्बन्धः, एवमुत्तरत्र | आर्हता हि लोकपञ्जरस्थानीयशोकमोहाद्यावरणस्य तप्तशिलारोहादितपोवशात् प्रशमे सुखसंविदात्मकपुद्गलान्मज्जनान्मुक्तिमाहुः, सुखं च सत्त्वगुणरूपमिति गुणेषु स्थिताः इति || ६९ || ते हि ---- ऽऽअजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः | अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ||ऽऽ (श्वे० ४ | ५) इत्यादि वदन्तः प्रायः प्रकृतिमेव परं पदमित्याहुः | तदुक्तं गीतासु ---- ऽऽत्रैगुण्यविषया वेदाःऽऽ (भ०गी० २-४५) पौरुषं चैव सांख्यानां सुखदुःखादिवजीतम् | तेषां हि सुखदुःखाद्यात्मकप्रकृतिविविक्तचितिशक्तिमात्ररूपस्वरूपा- वाप्तिर्मौक्षः || षड्विंशकं च देवेशि योगशास्त्रे परं पदम् || ११-७० || षड्विंशमेव षड्विंशकम् यद्यपि ---- ऽऽतदा द्रष्टुः स्वरूपेऽवस्थानम्ऽऽ (यो०सू० १-३) इत्युक्त्या विविक्तपुंरूपतावाप्तिर्योगस्थैर्मोक्ष उक्तः, तथापि ---- ऽऽक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरःऽऽ (यो०सू० १ | २४) इत्येतत्सूत्रभाष्ये भगेवता व्यासमुनिना प्राग्बन्धकोटिवद्भ्यो मुक्तपुरुषेभ्योऽपीश्वरस्य नित्यनिर्मुक्तत्वनित्यैश्वर्ययोगरूपो विशेषो दशीत इति पञ्चविंशसङ्ख्यकमुपेक्ष्य, तदनुग्रहकारि षड्विंशकमीश्वररूपं परमं पदं योगशास्त्रे दशीतम् || ७० || व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् | ऽऽलाकुलं मौसुलं चैव द्विधा तन्त्रं प्रकीतीतम् |ऽऽ इति द्विधा यत्पाशुपतं, ततो मौसुलस्य निर्णेष्यमाणत्वाद् लकुलेशप्रतिपादितमेवेह पाशुपतव्रतमुच्यते | तत्र चेश्वरतत्त्वावाप्तिरेव परमं पदम् | पूर्वमेव ---- ऽऽव्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः | भस्मनिष्ठा जपध्यानास्ते व्रजन्त्यैश्वरं पदम् ||ऽऽ (१०-११७०) इत्युक्तम् || पाशुपतभेद एव तु क्रियाप्रधाने ---- मौसुले कारुके चैव मायातत्त्वं प्रकीतीतम् || ११-७१ || श्रीलकुलेशशिष्येण मुसुलेन्द्रेण कारोहणस्थानावतीर्णेन चापरेण मायातत्त्वगतक्षेमेशब्रह्मस्वामिप्राप्तिहेतुक्रियाबहुलाः स्वे स्वे शास्त्रे व्रतविशेषा उक्ता इति मायातत्त्वमेव तत्र परमं पदम् || ७१ || तथा च मायातत्त्वनिविष्टः ---- क्षेमेशो ब्रह्मणः स्वामी तेषां तत्परमं पदम् | यथासङ्ख्येन || येऽपि वैमलाख्याः पाशुपतभेदाः, तथा पञ्चार्थप्रमाणाष्टकोक्तोपासापराः परे, तेषामीश्वरतत्त्वगततेजेशध्रुवेशौ परं पदमित्याह ---- तेजेशो वैमलानां च प्रमाणे च ध्रुवं पदम् || ११-७२ || वैमलप्रमाणशास्त्रनिष्ठो हि ---- दीक्षाज्ञानविशुद्धात्मा देहान्तं याव चर्यया | कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् || ११-७३ || दीक्षाज्ञानविशुद्धात्मेतिपदेन प्रोक्तक्रियाप्रधानव्रतमात्रनिष्ठमौसुलकारुकेभ्योऽत्र विशेषो दशीतः | स्वं स्वं प्रोक्ततेजेशध्रुवेशरूपम् | यदुक्तं पुरस्तात् ---- ऽऽतेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदम्ऽऽ (१०-११७४) इति || ७३ || ये तु कपालाद्यस्थिव्रतधारिणः पूर्वोक्तलाकुलाम्नायात् ---- ऽऽभस्मनि शयीतऽऽ (१-३) इत्यादिपाशुपतशास्त्रचोदनातः ---- जपभस्मक्रियानिष्ठास्ते व्रजन्त्यैश्वरं पदम् | अत्र मध्ये मौसुलादिविषयां मायातत्त्वावस्थितिमुल्लङ्घ्य ---- ऽऽव्रते पाशुपते प्रोक्तमैश्वरं परमं पदम्ऽऽ (११-७१) इति यद् व्युत्क्रमेणोक्तम्, तन्मौसुलादीनां पाशुपतभेदप्रदर्शनाय || तदेवमा बौद्धेभ्यो लाकुलान्तास्तत्त्वाध्वभोगभाजः न तु मुक्ताः | ये तु षट्स्रोतोभेदभिन्नं शैवशास्त्रमास्थिताः, तेषाम् ---- सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम् || ११-७४ || उक्तं चान्यत्र ---- ऽऽवेदादिभ्यः परं शैवं....................... |ऽऽ१ इति | यत्तु ---- ऽऽ...................शैवाद्वामं तु दक्षिणम् | दक्षिणात्परतः कौलं कौलात्परतरं नहि ||ऽऽ इत्युच्यते, तत् शिवप्रोक्तशास्त्राणामवान्तरवैचित्र्यप्रतिपादनाभिप्रायेणैव | शैवाद्वाममित्यत्र हि शैवशब्देनानुत्तीर्णशिवपदप्रापकं कैरणादि सिद्धान्तशास्त्रमुच्यते || ७४ || तदेवं प्रासङ्गिकमेतन्निर्णीय प्रकृतमाह ---- बुद्धितत्त्वादहङ्कारः पुनर्जातस्त्रिधा प्रिये | सात्त्विको राजसश्चैव तामसश्च प्रकीतीतः || ११-७५ || पारिभाषिकसञ्ज्ञाभेदस्तु प्रातिलोम्यक्रमेण ---- भूतादिर्वैकृतश्चैव तैजसश्च त्रिधा स्थितः | तत्र ---- तन्मात्राण्यथ भूतादेस्तेभ्यो भूतान्यजीजनत् || ११-७६ || परमेश्वर इति शेषः | भूतानां स्थूलसूक्ष्माणामादिः कारणमिति व्युत्पत्तितोऽपि भूतादिः || तन्मात्राण्याह ---- शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | एतानि पञ्च ख्यातानि तन्मात्राणि........ एषां मध्ये ---- ..........क्रमेण तु || ११-७७ || शब्दाद् व्योम समुत्पन्नं स्पर्शाद्वायुस्तथा पुनः | रूपात्तेजः समुत्पन्नमापो जाता रसात् पुनः || ११-७८ || गन्धात्तु पृथिवी जाता........... स्पर्शादयो यथोत्तरं पूर्वपूर्वतन्त्रमात्रसहिता वायवादीनां द्व्यादिगुणानां कारणमिति समानतन्त्रादनुसर्तव्यम् || तदेतत् तन्मात्रभूतजन्म ---- ........षमासात् कथितं तव | किं च ---- कर्मेन्द्रियाणि जातानि तस्माद्वैकारिकादथ || ११-७९ || विकारोऽन्यान्यरूपतात्मकं चाञ्चल्यं प्रयोजनं यस्य तद्वैकारिकं राजसमिह विवक्षितम् | अथेति पादपूरणाय || ७९ || कानि तानीत्याह ---- वाक्पाणिपादं पायुश्च उपस्थश्चेति पञ्चमम् | तथा ---- बुद्धीन्द्रियाणि पञ्चैव तैजसात्तु भवन्त्यथ || ११-८० || अथेति प्राग्वत् | तेजः प्रकाशः प्रयोजनं यस्य, तत् तैजसं सात्त्विकमिहाभिप्रेतम् || तान्याह ---- श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी | चाञ्चल्यात् सर्वविषयप्रकाशकत्वाच्च ---- उभयात्म मनः प्रोक्तं व्याप्तृ सर्वेन्द्रियाणि तु || ११-८१ || व्याप्तृ इति तृन्प्रत्ययः, अत एव सर्वेन्द्रियाणीत्यत्र षष्ट्यभावः | श्रीपूर्वशास्त्रे तु ---- ऽऽ.........टैजसात्तस्मान्मनोऽक्षेशमजायत | वैकारिकात्ततोऽक्षाणि...................... ||ऽऽ (१-३१) इति प्रक्रियाभेदमात्रमस्ति || ८१ || तदेवंप्रतिपादितोत्पादक्रमाणि सर्वाण्येतानि तत्त्वानि ---- आत्मोपकारकाण्येव कथितानि यथार्थतः | वक्ष्यमाणविभागस्यात्मनो लौकिकालौकिकभोगतत्साधनतदाश्रयादिदानेन यथार्थेन निजनिजानुरूपप्रयोजनसम्पादनेनैतान्युपकारकाण्येव || अतश्चैतत्कृतविचित्रोपस्कार आत्मा विचित्ररूप इत्याह ---- आत्मा चैवान्तरात्मा च बाह्यात्मा चैव सुन्दरि || ११-८२ || निरात्मा परमात्मैतान् कथयामि समासतः | यथा ---- अबुधश्च बुधश्चैव बुध्यमानस्तथैव च || ११-८३ || प्रबुद्धः सुप्रबुद्धश्च पुनश्च कथयामि ते | एतानित्येव || तत्र ---- प्रधानसाम्यमाश्रित्य सुखदुः खविवजीतः || ११-८४ || यदा तस्मिन् स्थितो देवि तदात्मा तु स उच्यते | प्रधानस्य प्रकृतिरूपस्य यत् साम्यं गुणानामन्योन्याभिभवाद्यभावात् सामरस्येनावस्थानम्, तदाश्रित्य | तस्मिन्निति प्रधान एव | सुखादिरहितः प्रकृतिलीनत्वाद् व्यामूढः | यद्वक्ष्यति ---- ऽऽगुणसाम्यमनिर्देश्यमप्रतर्क्यमनौपमम् | तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति ||ऽऽ (११-२८७) इति | एवमेष कञ्चुकमात्रशरीरः प्रकृतिलीन आत्मेत्युक्तः || अयमेव च ---- पुर्यष्टकसमायोगात् पर्यटेत् सर्वयोनिषु || ११-८५ || अन्तरात्मा स विज्ञेयो निबद्धस्तु शुभाशुभैः | आन्तरसूक्ष्मशरीरात्मकपुर्यारम्भकतन्मात्रपञ्चकमनोबुद्ध्यहङ्कार अत्मकं पुर्यष्टकम्, तत्सम्बन्धाद्वासनारूपैः शुभाशुभैनीबद्धः सन् योनेर्योन्यन्तरं प्रसरन्नात्मबाह्यात्मनोरन्तर्मध्येऽवस्थितत्वादन्तरात्मा ज्ञेयः || एष एव तु ---- बुद्धिकर्मेन्द्रियैर्युक्तो महाभूतैः समावृतः || ११-८६ || बाह्यात्मा तु सदा देवि भुङ्क्तेऽसौ विषयान् सदा | स्थूलदेहवानिति यावत् || यदा त्वयम् ---- भूतभावविनिर्मुक्तस्तत्त्वधर्मकलोज्झितः || ११-८७ || मलधर्मैकयुक्तात्मा मायाधर्मतिरस्कृतः | निरात्मा तु सदा ज्ञेयः.......... भूतैः स्थूलसूक्ष्मैः, भावैश्च बुद्धिधर्मैवीनिर्मुक्तः, तत्त्वधर्मेण पुंस्तत्त्वात्मना रूपेण कलोपलक्षितेन च कञ्चुकेनोज्झितः, केवलं मलधर्मेणैवैकेनापूर्णमन्यतात्मकाणवमलस्वभावेन युक्तः संकुचितस्वभावः, यतो मायायाः पूर्वोक्तशक्तिरूपायाः, न तु तत्त्वात्मनः, धर्मेण अख्यात्यात्मना रूपेण, तिरस्कृतः संकुचिताभासीकृतः, एवंभूतो निरात्मा, आत्मनः पूर्वोक्तपाशशतवलितात् पुंस्तत्त्वलक्षणात् स्वभावाद् निष्क्रान्तः परमेशशास्त्रदृशाऽभ्यस्तमायापुंस्तत्त्वविवेकज्ञानो विज्ञानाकल इत्यर्थः | यदुक्तं श्रीपूर्वे ---- ऽऽ.........................टत्र विज्ञानकेवलः | मलैकयुक्तः.................................. ||ऽऽ (१-२३) इति | मलकर्मैकयुक्तात्मेत्यपपाठः || यदा तीव्रतमानुग्रहात् पूर्णतया स्फुरत्ययम्, तदा ---- .............परमात्माथ कथ्यते || ११-८८ || न तु पूर्ववत् पशुरूपः || ८८ || यतः ---- मलकर्मकलाद्यैस्तु निर्मुक्तश्च यदा प्रिये | सर्वाध्वसमतीतश्च मायामोहोज्झितश्च यः || ११-८९ || निर्मलत्वं यदा याति पदं परममव्ययम् | परमात्मा तदा देवि प्रोच्यते प्रभुरव्ययः || ११-९० || यत एवाणवादिमलत्रयेण निःशेषेण संसारपर्यन्तेन रूपेण मुक्तः, अत एव सर्वं समनान्तमध्यवानं सम्यक् तेषां विलापनयुक्त्याऽप्यतीतो न क्वाप्यध्वनि गृहीतात्माभिमानः, अतश्च मायामोहेनेति ---- ऽऽकर्मरूपा स्थिता माया यदधः शक्तिकुण्डलीऽऽ (१०-१२६३) इति पूर्वमुक्ता या माया, तत्कृतेन मोहेन सुसूक्ष्मेणापि महामायासङ्कोचेन, उज्झितो रहितः इत्थंभूतः सन् यदा परमं पदं परमशिवैक्यरूपं निर्मलत्वमायाति, तदा असावव्ययोऽविनाशी प्रभुः सर्वत्र स्वामी परमात्मेत्युच्यते || अथाबुधादिभेदान् व्याकर्तुमुपक्रमते ---- अबुधं च पुनर्देवि कथयामि समासतः | तथा च ---- तत्त्वभूतात्मसंहारे कलाक्षित्यन्तगोचरे || ११-९१ || मायासाम्यनिशायां वै संहृत्य परमेश्वरः | निर्व्यापारो भवेत्तावद्यावद्वै नोदयः पुनः || ११-९२ || ऽऽअबुधस्तिष्ठते तत्रऽऽ (११ | ९५) इति वक्ष्यमाणेन सम्बन्धः | कलादिक्षित्यन्तं यानि तत्त्वानि त्रिंशत्, तेषां तदाश्रयाणां च स्थावरादिब्रह्मान्तानां चतुर्दशानां भूतानां य आत्मा स्वभावः, तस्य संहारे प्रवृत्तः परमेश्वरो मायायाः साम्यं समस्तविकृतिप्रशमात्मकं तदेव विश्वप्रस्वापाद् निशा तस्यां मायीयमशेषमध्वप्रपञ्चमनन्तभट्टारकमुखं संहृत्य निर्व्यापारो भेदसृष्ट्यनुन्मुखस्तावद्भवति, यावद् वक्ष्यमाणमायानिशाकालप्रशमात्मा नोदय इति, यावन्नायं सुखप्रवृत्तः | तत्प्रवृत्तौ हि स पुनरन्तर्मुखेन जगत् सृजन् सव्यापार एव भवति || ९२ || अस्मिंश्च समये ---- सुखदुःखाद्यभावश्च ह्यात्मवर्गस्य कर्मणः | कर्मणः कार्यस्य, कलादिक्षित्यन्तदेहयोगेनोल्लास्यस्यात्मवर्गस्य सर्वस्य जीवजातस्य सुखदुःखशरीराद्यभावो भवति, गाढमूढत्वं सम्पद्यत इत्यर्थः || तदा ह्यसावात्मवर्गः ---- मलनिद्राविमूढात्मा रुद्धचैतन्यदृक्क्रियः || ११-९३ || न विजानाति शब्दादीनात्मानं च वरानने | कारणं न विजानाति न च स्थानं स्वकं प्रिये || ११-९४ || सर्वमेतन्न जानाति यतो लुप्ताक्षदृक्क्रियः | अबुधस्तिष्ठते तत्र यावन्मायाअहर्मुखम् || ११-९५ || मलेनाख्यात्यात्मना जनितया निद्रया स्वापेन विशेषेण मूढो जाड्यं प्रापित आत्मा, यतश्च रुद्धे चैतन्यात्मिके पूर्णे दृक्क्रिये यस्य, यतश्च संहारवशाद् लुप्ते अक्षसम्बन्धिन्यौ दृक्क्रिये यस्य तथाभूतोऽयम् अत एव न विजानाति शब्दादीन् आत्मानं च ग्राहकस्वरूपम्, ईदृगहमित्यन्तःकरणेनापि निश्चिनुते न | कारणं च परमेशमीदृशव्यामोहादिदशोत्थापकं स्वं च मायात्मकं स्थानमाश्रयं न जानाति | एतत्सर्वं यतो न जानाति ततोऽयमबुध्यमानत्वादबुधः | तत्रेति मायायां तावदास्ते यावन्मायीयमहर्मुखम् | मायाअहर्मुखमिति सन्ध्यभावश्छान्दसः | यतः शब्दापेक्षं तत इत्यध्याहार्यम् | तदयमित्थं मायालीनः प्रलयाकलोऽबुध इत्युक्तः | यस्तु पूर्वम् ---- ऽऽप्रधानसाम्यमाश्रित्यऽऽ (११-८४) इति ग्रन्थेनात्मा उक्तः, स प्रकृतिलीन इति विशेषः || ११-९५ || तदित्थम् ---- अबुधस्तु समाख्यातः............ अथ ---- ............बुधं चैव निबोध मे | तत्र ---- परिपाकगते कर्मणीश्वरेच्छाकरोद्धृते || ११-९६ || प्रकाशं नायनं यद्वदनुगृह्णाति भास्करः | करणान्यनुगृह्णाति तद्वदीश्वर आत्मनाम् || ११-९७ || आत्मनामनेककर्ममध्यात् कस्मिंश्चित् कर्मणि, उद्रेकवशात् परिपाकगते फलदानयोग्ये, अस्याणोरस्मात् कर्मण ईदृक् फलमस्तु, इतीदृगीशस्यानन्तमूर्तेर्भगवतो या इच्छा, सैव करस्तेन उद्धृतेऽनन्तकर्मसन्ततिमध्याद् निष्कृष्य तं तमात्मानं प्रति भोगाय योजिते सति, तेषामेवात्मनां कलादीनि करणानि, अनुगृह्णाति उन्मीलयति येन ते आत्मानः किञ्चित्कर्तृत्वादिप्रतीतिभाजो जायन्ते | अत्र दृष्टान्तो यथा नायनं प्रकाशं भास्करोऽगृह्णाति | यथा तदनुग्रहं विना नासौ भावान् प्रकाशयति, एवमीश्वरानुन्मीलिताः कलादयो न किञ्चित्कर्तृत्वादिप्रतीतिभाज आत्मनः सम्पादयन्तीति सर्वत्र ईश्वरेच्छैव भगवती भवति || ९७ || तदनुग्रहादेव ह्यात्मा ---- कलोन्मीलितचैतन्यो विद्यादशीतगोचरः | एतत् पूर्वमेव व्याकृतम् || किं च ---- रागोऽस्य रञ्जकत्वेन विषयानन्दलक्षणः || ११-९८ || सामान्यविषयाभिष्वङ्गात्मा रागोऽस्य पुंसो रञ्जकत्वेन स्थितः || ९८ || तथा ---- कालो वै कलयत्येनं तुट्यादिप्रलयावधिः | नियतिनीश्चितं नित्यं योजयेच्च शुभाशुभे || ११-९९ || एतदपि प्रागेव निर्णीतम् || ९९ || संयोज्य च तत्फलमस्य ---- परमाणुसहस्रांशान्न च न्यूनं च चाधिकम् | तदित्थं कलादिपञ्चकवेष्टितोऽयम् ---- पुंभावं समनुप्राप्य तत्त्वे च पुरुषाह्वये || ११-१०० || वर्तते इति शेषः | ऽऽआख्याह्वयश्च विज्ञेयौ नामपर्यायनामनी | ऽऽ इत्युक्तेः सञ्ज्ञायां रूढ आह्वयशब्दः | पुरुष इत्याह्वयो यस्य तत् पुरुषाह्वयम् || १०० || पुरुषशब्दमक्षरसाम्येन निर्वक्ति ---- पुरं प्रधानमित्युक्तं प्रपञ्चानेकसंकुलम् | तत्पुरं पोषयेद्यस्मात्तस्माद्वै पुरुषः स्मृतः || ११-१०१ || बुद्ध्यादिक्षित्यन्तेनानेकेन प्रपञ्चेन परिणामभूयस्त्वेन संकुलं व्याप्तं प्रधानं यस्मात् पोषयेद् आत्मप्रकाशाभिनिवेशनेन चेतनायमानं सम्पादयेत्, तस्मादयं पुरुष इत्युक्त इत्यर्थः | प्रपञ्चानेकेति पूर्वनिपातव्यत्ययश्छान्दसः || १०१ || तदित्थं प्रधानाशयमापन्नमिमम् ---- यतः श्रीकण्ठनाथस्तु नियत्या कर्मतः पशुम् | प्रधानपाशजालेन वेष्टयेदसमञ्जसम् || ११-१०२ || पशुमाणवपाशपाशितं कलादिकञ्चुकवलितं च पुरुषं प्रधानाशयमापन्नं प्रधानान्तेध्वन्यधिकृतः श्रीकण्ठनाथः प्रधानसम्बन्धिना पाशजालेन नियतिवशोत्थितकर्मानुसारमसमञ्जसम्, अनात्मन्यभिनिवेशनायाननुरूपमेव वेष्टयेत् || १०२ || प्राधानिकपाशवेष्टनं स्पष्टयति ---- बद्धस्त्रिगुणबन्धेन बुद्धया वैकारिकेण तु | तन्मात्रेन्द्रियबन्धेन दृढं भूतैश्च वेष्टितः || ११-१०३ || पूर्वं सत्त्वादिगुणैर्वलितः, ततस्तत्परिणामक्रमादध्यवसायात्मना बुद्ध्या, ततोऽभिमानात्मकदुरतिक्रमणीयविकारप्रयोजनेन वैकारिकादिरूपेणाहङ्कारेण | वैकारिकेणेत्युपलक्षणपरम् | ततोऽप्याहङ्कारिकेण तन्मात्रेन्द्रियवर्गेण, ततोऽपि तन्मात्रकार्यैराहारादिवशोत्थशुक्रशोणितक्रमप्रसृतैः स्थूलैर्भूतैर्दृढं गाढं कृत्वाऽयं वेष्टितो बद्धः || १०३ || कीदृशोऽयम् ---- बद्धः सञ्चरति ह्येवं मायाद्यवनिगोचरे | एवं बद्धो मायादिभूम्यन्ते सञ्चरति योनेर्योन्यन्तरं श्रयति || अतश्च ---- संसारी प्रोच्यते तस्मात् संसरेद्यत् पुनः पुनः || ११-१०४ || एवमित्थं निरुक्तस्य पुरुषस्य संसारिणः ---- शब्दादिविषया यस्माद्विद्यन्ते विषयी ततः | एष एवेत्यर्थः || अतश्चायम् ---- विषयाः परमित्याह............... स्त्र्यादयो ये विषयाः तदेव परं प्रकृष्टं वस्त्विति ब्रूते || कीदृशा विषयाः ---- ...............णानाभेदैवीसपीताः || ११-१०५ || नानाकर्मविपाकैश्च............. नानाभेदैरित्युपलक्षिताः | विसपीता उपसम्प्राप्ताः | नानाकर्मविपाकैः सुखदुःखादिभेदैः सहेत्यर्थः || तदेतान् विषयानयं ---- ..............भुङ्क्ते तद्भावभावितः | तेषां विषयाणां भावेन सत्तया भावितो वासितान्तःकरणः || एवं भुङ्क्ते तु वै यस्मात्तस्माद्भोक्ता स उच्यते || ११-१०६ || स इति विषयी || १०६ || किं चायम् ---- तस्मिंस्तज्ज्ञो वरारोहे क्षेत्रे वै कार्षको यथा | तस्मिन्निति भूतपर्यन्ते क्षेत्रे | तज्ज्ञ इति क्षेत्रज्ञ उच्यते | कार्षको यथेति दृष्टान्तपक्षे क्षेत्रं केदारः || दृष्टान्तं श्लेषच्छायया स्फुटयति ---- महाभिलाषमालोक्य कृषेद्वै लोभलाङ्गलैः || ११-१०७ || यथा कार्षकः कलुषजलरजोविश्रान्तिर्मा स्यादितीदृशमहाभिलाषमालोक्य विचार्य तत् क्षेत्रं लाङ्गलैर्हलैः कृषत्युल्लिखति, तथा ऽऽअभिलाषो मलोऽत्र तुऽऽ (स्व० ४-१०५) इत्युक्तस्थित्या मलरूपमभिलाषं विमृश्य देहात्मकक्षेत्रं बहुलोभेन कृषति कर्मबीजवापयोग्यं करोतीति रूपकश्लेषच्छायया उक्तिः || अथ च ---- वपेच्च मोहभावेन मनोवाक्कायिकं सदा | धर्माधर्ममयं बीजं प्रविकीर्य समन्ततः || ११-१०८ || मोहभावेनेति महायासदाययेतदित्यविचारेण | वपेदिति क्षेत्रपरिनिष्ठितं सम्पादयेत् || तदुत्तरकालं च ---- तस्माद्वै अङ्कुरोत्पत्तिः............... तस्मादेव बीजाद् नानाशरीरेन्द्रियात्मनोऽङ्कुरस्योत्पत्तिर्भवति || कीदृशीत्याह ---- ..............षुखदुःखफलोदया | सुखरूपस्य दुःखफलस्योदयो यत्र || सा चाङ्कुरोत्पत्तिः ---- वर्धते कामक्रोधेन सिक्ता रागाम्बुना भृशम् || ११-१०९ || अतश्च ---- यस्मिन् देशे च काले च वयसा यादृशेन च | उप्तं शुभाशुभं कर्म तत्काले लभते फलम् || ११-११० || तत्काल इति भाविजन्मगततारुण्यादिसमये इत्यर्थः || ११० || लब्ध्वा च तत् ---- भुङ्क्ते तु विविधाकारं पूर्वकर्मवशाद् बुधः | बुध इति यो निर्णेतुमुपक्रान्तः || तदेवमयमीदृशं क्षेत्रम्-- यस्मादेवं विजानाति तस्मात् क्षेत्रज्ञ उच्यते || ११-१११ || तदित्थम् ---- विषयान् बुध्यते यस्माद् बुधस्तस्मात् प्रकीतीतः | इत्थमयं बुधः पुरुषः संसारी विषयी भोक्ता क्षेत्रज्ञ इति च तत्तदर्थानुगताभिः सञ्ज्ञाभिरुच्यते || बुध्यमानं लक्षयति ---- तदेवानिष्टरूपेण यदा भावयते पुमान् || ११-११२ || बुध्यमानस्तु स तदा............ तदेवेति विषयभोगादि || एतदेव विभजति ---- ............ऽधुना कथयामि ते | तथा ---- यदा जुगुप्सते भोगान् शुभांश्चैवाशुभांस्तथा || ११-११३ || कृत्रिमानेव मन्येत परं वैराग्यमाश्रितः | मायाद्यवनिपर्यन्तमिन्द्रजालं तु बुध्यते || ११-११४ || मायेत्यादिना तत्तत्तत्त्वभुवनभोगेष्वपि भेदमयेष्वस्य विरक्तिर्दशीता || किं च ---- पुत्रमित्रकलत्राणि सुहृत्स्वजनबान्धवाः | यदजीतं मया द्रव्यं शुभेनाप्यशुभेन वा || ११-११५ || तद्भोक्ष्यन्ते त्विमे सर्वे निरातङ्का निराकुलाः | एकाकी चाहमेवैष यास्यामि यमसादनम् || ११-११६ || तस्माच्च न शुभा ह्येते वैरिणोऽनर्थकारिणः | मित्रं परस्परोपकारवशात् स्निग्धम्, सुहृत्त्वकारणमेव शोभनहृदयः | स्वजनो दासादिः | सदनमेव सादनम् | न केवलं पुत्रादिभ्य एव जुगुप्सते, यावत् ---- स्वात्मीयमप्ययं देहं नित्यमेव जुगुप्सते || ११-११७ || शुक्रशोणितसम्भूतं विषयोरगदूषितम् | नानाव्याधिसमाकीर्णं जरामृत्युभयाकुलम् || ११-११८ || अतश्च ---- सोऽहमस्मि मलाकीर्णे कथमत्र रमाम्यहम् | सोऽहमस्मीत्यागमाद्यवगतसत्यात्मस्वरूपो भवामि | मलमशुचिद्रव्यम् || तदित्थमयमाविर्भूतवैराग्यः ---- नित्यमुद्विग्नचित्तस्तु चिन्तयेद्वै पुनः पुनः || ११-११९ || कथं मुक्तिर्भवेदस्मात् संसाराद् दुरतिक्रमात् | एवं प्रबुद्धो देवेशि तल्लयस्तत्परायणः || ११-१२० || सर्वारम्भविनिर्मुक्तः प्रमुक्तः प्रोच्यते तदा | प्रबुद्धस्तु समाख्यातः सुप्रबुद्धं तु मे शृणु || ११-१२१ || दीक्षाज्ञानेन योगेन चर्ययाप्यथ सुव्रते | यदा प्राप्तः परं स्थानमध्वातीतं निरामयम् || ११-१२२ || विरजो विमलं शान्तं प्रपञ्चातीतगोचरम् | निष्कम्पं कारणातीतं सर्वज्ञं सर्वतोमुखम् || ११-१२३ || सुतृप्तानादिसम्बुद्धं स्वतन्त्रं नित्यमेव हि | अलुप्तशक्तिविभवं सुप्रबुद्धं सनातनम् || ११-१२४ || तस्मिन् युक्तस्तदात्मा वै तद्गुणैस्तु समन्वितः | सुप्रबुद्धः स एवोक्तो भैरवस्य वचो यथा || ११-१२५ || न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे | इह आत्माऽन्तरात्मा चोक्तः, विज्ञानाकलो निरात्मेति, प्रलयाकलोऽप्यबुध इति, सकल एव च बाह्यविषयावबोधाद् बुद्ध इति, आयातशक्तिपातो बुद्ध्यमानः, शिवयज्ञदीक्षितः प्राप्तज्ञानः प्रबुद्धः, स्वभ्यस्तज्ञानस्तु प्राप्तशिवैकात्म्यो निश्चलप्रतिपत्तिर्जीवन्मुक्तः सुप्रबुद्ध इति शुद्धात्मा बुद्ध्यमानः प्रबुद्धः सुप्रबुद्धः परात्मेति चतुवीध उक्तः || एवमात्मोपयोगितत्त्वसर्गनिरूपणानन्तरं ज्ञानियोगिनः प्रत्युपयोगिनो हेयोपादेयताप्रदर्शनायात्मनोऽवस्थाविशेषान् निरूप्य ---- ऽऽगुणेभ्यो धिषणा जाता भावभेदैः समन्विताऽऽ (११-६८) इत्युपक्रान्तान् भावभेदान्निरूपयितुम् ---- अधुना कथयिष्यामि भावभेदान् वरानने || ११-१२६ || भावयन्ति वासयत्यन्तःकरणमिति भावा धर्मादयोऽष्टौ || १२६ || तत्रादौ भेदानाह ---- कारणानि दश त्रीणि कार्यं च दशधा प्रिये | भावानप्याह ---- एकादशेन्द्रियवधा अहङ्कारस्तु वै त्रिधा || ११-१२७ || बुद्धिरष्टविधा चैव पञ्चधा तु विपर्ययः | अत्राहङ्कारस्त्रिविधो भेदमध्ये गणनीयः || अथ ---- नामान्येषां विभागेन कथयामि यथाक्रमम् || ११-१२८ || तत्र कार्यविषयाणि कारणानि, कार्याणि च स्थूलानि सूक्ष्मप्रतीतिहेतुभूतानीत्याशयेनोद्देशवैपरीत्येन नामान्याह ---- पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ११-१२९ || गन्धो रसश्च तन्मात्रे रूपतन्मात्रमेव च | स्पर्शः शब्दश्च पञ्चैव तन्मात्राणीरितानि तु || ११-१३० || ईरितान्युदीरितानि || १३० || एतत्ते दशधा कार्यं कीतीतं नामसङ्ख्यया | अथ ---- वाक्पाणिपादं पायुं च उपस्थं च तथा विदुः || ११-१३१ || श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति कीतीतम् | बहिष्करणकं देवि दशधा संव्यवस्थितम् || ११-१३२ || मनोऽहङ्कारबुद्ध्याख्यं त्रिधान्तःकरणं स्मृतम् | एवं त्रयोविंशतिधा कार्यकारणान्युक्त्वा, इन्द्रियासामर्थ्यरूपानिन्द्रियवधाख्यान् भावान् यथाक्रमं व्यनक्ति --- - मूकता कौण्यपंगुत्वं तथानुत्सर्गतापि च || ११-१३३ || निरानन्दश्च विज्ञेयो बधिरत्वं तथैव च | शीर्णता चैव गात्रस्य तथा चान्धत्वमेव च || ११-१३४ || अनास्वादस्त्वगन्धश्च अनवस्था मनस्यथ | इतीन्द्रियवधाः ख्याता एकादश तु तत्क्रमात् || ११-१३५ || तत्क्रमादिति प्रोक्तवाक्पाण्यादिक्रमात् || प्रागेव च ---- तेजसो वैकृताख्यश्च भूतादिश्च तृतीयकः | अहङ्कारस्त्रिधा प्रोक्तो मया ते वरवणीनि || ११-१३६ || अथ ---- धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् | अधर्मं च तथाज्ञानमवैराग्यमनैश्वरम् || ११-१३७ || अष्टावेते समाख्याता बुद्धेर्धर्मादयो गुणाः | किं च ---- तमो मोहो महामोहस्तामिस्रोऽन्यो विपर्ययः || ११-१३८ || अन्धतामिस्रमित्याहुरेवं पञ्च विपर्ययाः | गुणबुद्ध्यहङ्कृत्तन्मात्रात्मनि सूक्ष्मशरीरे इन्द्रियभूतात्मके स्थूलदेहे दृष्टानुश्रविकैः स्पृहणीये शब्दादिविषयपञ्चके य आत्माभिमानः, स क्रमेण तमो मोहो महामोह इत्युच्यते | यस्तु शरीरबाह्यविषयापकारिणि द्वेषः, स तामिस्रः | तद्वियोगभयात् त्रासोऽन्धतामिस्रः || तदेवम् ---- भावभेदाः समाख्याताः पञ्चाशत्ते यथाक्रमम् || ११-१३९ || अथ धर्मादीनां प्रभेदान् प्रतिपादयन् सांख्योक्तांस्तुष्टिसिद्धयादीन् दर्शयितुं प्रक्रमते ---- पुनश्चाष्टौ तु ये बुद्धेर्भेदा धर्मादयः स्थिताः | तेषां भेदा यथा भिन्नास्तथाहं कथयामि ते || ११-१४० || ऽऽपुनःऽऽ शब्दः ऽऽकथयामिऽऽ इत्येतदनन्तरं योज्यः || धर्माद्यष्टकरूपा या बुद्धिः, सा ज्ञानाख्यभेदवर्जम् ---- बध्नाति सप्तधा सा तु पंसः संसारवर्त्मनि | अष्टमेन तु ---- मोचयेज्ज्ञानभावेन सांख्यज्ञानरतान्नरान् || ११-१४१ || सांख्येत्याद्युक्तेः सांख्यदृष्टावेव ते मुक्ताः, न त्विहेत्याशयोऽग्रे व्यक्तीभविष्यति || १४१ || एषां धर्मादीनां मध्यात् ---- ज्ञानं च सात्त्विकं प्रोक्तं त्रयोऽन्ये राजसाः स्मृताः | तामसाश्चाप्यधर्माद्याश्चत्वारो वै वरानने || ११-१४२ || त्रय इत्यैश्वर्यवैराग्यधर्माः || १४२ || किं च ---- धर्मश्च दशधा प्रोक्तो ज्ञानं चैवाष्टधा स्मृतम् | वैराग्यं नवधा चैवमैश्वर्यं चाष्टधा विदुः || ११-१४३ || एत एव विपर्यस्ता अधर्माद्याः प्रकीतीताः | एत एव ते धर्मादयो यथाप्रोक्तसङ्ख्याप्रभेदा इत्यर्थः || तत्र धर्मं दशविधं तावदाह ---- अक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् || ११-१४४ || अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता | एवं दशविधो धर्मः कथितस्तु वरानने || ११-१४५ || अकल्कताऽपापचित्तता || १४५ || ज्ञानभेदानाह ---- तारं सुतारं तरणं तारकं च प्रमोदकम् | प्रमुदितं रम्यकं च सदाप्रमुदितं तथा || ११-१४६ || एतज्ज्ञानं समाख्यातं समासात् परमेश्वरि | यत् पूर्वं पुंस्तत्त्वभुवननिर्णयावसरे ---- ऽऽतारा चैव सुतारा चऽऽ (१०-१०७१) इत्यादि सिद्ध्यपेक्षया स्त्रीपाठेनोक्तम्, तत् सांख्योक्तोहादिरूपसिद्ध्यष्टकं ज्ञानविशेषमित्याशयेन | इह ज्ञानसमानाधिकरण्येन नपुंसकनिर्देशेनोक्तौ केवलं पूर्वं मोदमानेति यत्पठितम्, तत्स्थान इह तरणमिति पाठमात्रभेदः न तु वस्तुभेदः कश्चित् || पूर्वोक्तं तुष्टिनवकमपि वैराग्यप्रभेदरूपमित्याह ---- अम्भा च सलिला ओघा वृष्टिसञ्ज्ञा तथापरा || ११-१४७ || सुतारा च सुपारा च सुनेत्रा च परा स्मृता | अष्टमी च कुमारी स्यादुत्तमाम्भसिका तथा || ११-१४८ || तदित्थम् ---- वैराग्यं नवधा चैव कथितं तु मया तव | तदेतत्सिद्धितुष्टिसप्तदशकमिह तारादिदेवताधिष्ठितत्वादेवमभिहितमिति प्रागेवोक्तम् || अथैश्वर्य विभागतो दर्शयति ---- अणिमा लघिमा चैव महिमा प्राप्तिरेव च || ११-१४९ || प्राकाम्यं च तथेशित्वं वशित्वं च तथा परम् | यत्रकामावसायित्वमष्टमं परिकीतीतम् || ११-१५० || एश्वर्यमष्टधा चैव कथितं तु वरानने | अथाक्रोधादिविपरीतान् क्रोधादीनधर्मभेदानाह ---- क्रोधश्चागुरुशुश्रूषा अशौचं च ततः परम् || ११-१५१ || असन्तोषोऽनार्जवं च हिंसा चासत्यमेव च | स्तेयमब्रह्मचर्यं च तथा चैव सकल्कता || ११-१५२ || एवमेष समाख्यातो दशधाऽधर्मसंग्रहः | अज्ञानभेदानाह ---- अतारमसुतारं च अतारणमथापि च || ११-१५३ || अतारकं च देवेशि चतुर्थं परिकीतीतम् | अप्रमोदोऽप्रमुदितमरम्यकमथापि च || ११-१५४ || असदाप्रमुदितं तदज्ञानं चैवमष्टधा | एता एव सांख्यैरुहादिसिद्धिविपरीता अष्टौ बुद्धेरशक्तय उक्ताः || अवैराग्यभेदानाह ---- अनम्भा असलिला च अनोघावृष्टिरेव च || ११-१५५ || असुतारमसुपारमसुनेत्रमतः परम् | अकुमारी च विज्ञेयानुत्तमाम्भसिका तथा || ११-१५६ || तदित्थम् ---- अनणिमालघिमा चैवामहिमा महेश्वरि | अप्राप्तिरप्राकाम्यं चानीशित्वं च तथैव च || ११-१५७ || अवशित्वं तथा चैवायत्रकामावसायिता | तदित्थम् ---- अनैश्वर्यं च देवेशि अष्टधा परिकीतीतम् | एवं तत्त्वसर्गान्तरितो यो भावसर्गोऽभिहितः, स यथा यत्र स्थितस्तत्प्रतिपादयितुमाह ---- अनैश्वर्यादिभिश्चैते पैशाचाद्या अधिष्ठिताः || ११-१५८ || अधिष्ठिता व्याप्ताः || १५८ || अतश्च ---- यथाक्रमेण तेष्वष्टौ संस्थितान् कथयामि ते | तेषु पैशाचादिषु | अष्टावनैश्वर्यादीन् || तत्र ---- अनैश्वर्यं हि पैशाचे अवैराग्यं च राक्षसे || ११-१५९ || याक्षे चैव तदज्ञानं गान्धर्वेऽधर्म एव च | धर्मं चैव तथैन्द्रे तु ज्ञानं सौम्ये प्रतिष्ठितम् || ११-१६० || प्राजापत्ये तु वैराग्यमैश्वर्यं ब्रह्मणि स्थितम् | प्रधानतयेति शेषः || यच्चैतदैश्वर्यमुक्तम् ---- चतुष्षष्टिगुणं चैतत् पदे ब्राह्मे व्यवस्थितम् || ११-१६१ || षट्पञ्चाशद्गुणं तच्च प्राजापत्ये व्यवस्थितम् | अष्टचत्वारिंशद्गुणं सौम्ये वै परिकीतीतम् || ११-१६२ || चत्वारिंशद्गुणं चैव माहेन्द्रैश्वर्यमुच्यते | द्वात्रिंशद्गुणितं देवि गान्धर्वैश्वर्यमुच्यते || ११-१६३ || चतुवीशगुणं याक्षं षोडशं राक्षसं स्मृतम् | एश्वर्यमष्टगुणितं पैशाचं परिकीतीतम् || ११-१६४ || एवं स्थितं तदैश्वर्यं देवयोनिषु सुव्रते | देवयोनिष्वित्यर्थलब्धमभिदधतोऽयमाशयः ---- यादृक् सार्वभौमस्य नरपतेरैश्वर्यम्, ततोऽष्टगुणं पैशाचम्, ततोऽप्युत्तरोत्तरमष्टगुणं राक्षसादिषु, अन्यथाऽवधेरभावे किमपेक्षमष्टगुणत्वादि स्यात् | एवं ब्राह्मैश्वर्यापेक्षं पिशाचानामनैश्वर्यमेवोल्बणम्, चक्रवर्त्यपेक्षया त्वष्टगुणमैश्वर्यमुच्यते || एवंविधैश्वर्यव्यक्तिरिक्तास्तु ये धर्मादयः, ते ---- अन्ये सप्तस्वरूपेण संस्थिता देवयोनिषु || ११-१६५ || यद्यपि सर्वे बुद्धिधर्माः सन्तिः, तथापि पैशाचादिक्रमेणानैश्वर्यादेरेकैकस्य प्रकर्षः, अन्येषां त्वपकर्ष इत्युक्तम् || १६५ || न केवलमित्थमेते देवयोनिषु गुणप्रधानभावेन स्थिताः, यावत् ---- एत एव सुसङ्कीर्णा मानुषेषु व्यवस्थिताः | सुष्ठु सङ्कीर्णा अलक्ष्यमाणविवेकाः, अत एव मानुष्यमेकरूपम् || तिर्यग्भेदे का वार्ता इत्याह ---- प्रधानगुणभावेन स्थावरान्तं व्यवस्थिताः || ११-१६६ || पश्वादयस्तामसत्वाद् अधर्मादिचतुष्टयमयाः | तत्रापि च यथोत्तरमधर्मादयः प्रकृष्यन्ते || १६६ || अथात्रैव यथाविभक्तविषये भावभेदे ---- गुणत्रयस्य व्याप्तिं वै कथयामि यथास्थिताम् | तत्र ---- सत्त्वेनाधिष्ठिता देवा ब्रह्माद्या मघवान्तकाः || ११-१६७ || ब्रह्माद्या मघवदन्ताश्चत्वारः सत्त्वप्रधानाः || गन्धर्वयक्षमनुजा दैत्याश्चैव तु राजसाः | यातुधानाः पिशाचाश्च तामसाः परिकीतीताः || ११-१६८ || दैत्या यक्षप्राया एव || १६८ || रजःसत्त्वोत्कटा ज्ञेया ऋषयः संशितव्रताः | संशितं सुतीक्ष्णं व्रतं ज्ञानविज्ञानोपायानुष्ठाननियमो येषां ते देवमानुषान्तरालप्रायत्वाद् रजःसत्त्वाभ्यामुत्कटाः || ये च देवाद्या ऋषिपर्यन्तयोनिभेदाः ---- अन्योन्याभिभवास्ते च पृथिव्यां संव्यवस्थिताः || ११-१६९ || यातुधानप्रभृतिभिर्देवषीप्रभृतयो दुर्वृत्तेन भूर्लोकेऽभिभूयन्ते, तैरपि ते शौर्यतपोमन्त्रादिप्रभावात्, न तु गुणा अन्योन्याभिभवाः पृथिव्यामिति व्याख्येयं तेषामन्योन्याभिभवादिरूपतायाः सर्वत्राविशेषात् पृथिव्यामिति विशेषचोदनाया अनुपपत्तेः || १६९ || किं च ---- अत्यन्ततमसाविष्टाः स्थावराश्च सरीसृपाः | वृक्षादयः सर्पाद्याश्च गाढतामसा मोहक्रोधमयत्वात् || किं च ---- पादपादविहीनाश्च तामसाः परिकीतीताः || ११-१७० || सरीसृपाद्या विज्ञेयाः............ सरीसृपा आदौ येषां प्रातिलोम्यक्रमेण पक्ष्यादीनां ते सरीसृपाद्याः पश्वन्ताः सर्व एव तामसाः, किन्तु पादपादविहीना इति सरीसृपेभ्यः पक्षिणां पादेन हीनं तामसत्वम्, तेभ्योऽपि मृगाणां, तेभ्योऽपि पशूनाम् | तदीदृशी गुणव्याप्तिरिह भगवता विभज्य दशीता, सांख्यैस्तु ---- ऽऽऊर्ध्वं सत्त्वविशालस्तमोविशालस्तु मूलतः सर्गः | मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ||ऽऽ (सा०का० ५४) इत्यविशेषेण देवयोनिपश्वादिमनुष्याणां सत्त्वतमोरजोमयत्वं दशीतम् || तदित्थं गुणवैचित्र्येण दशीता ये ---- .............ष्थावरान्तास्तु सुव्रते | चतुर्दश योनिभेदाः || एषामन्तर्गताश्चान्या अनन्ता एव योनयः || ११-१७१ || मानुषेषु तथानन्ता भेदानन्त्यव्यवस्थया | न शक्या गदितुं ता वै कर्मानन्त्यप्रभेदतः || ११-१७२ || मानुषेष्विति पुनवीशेषोक्त्या दिग्देशकालसमाचारादिवैचित्र्येण तेषामनन्तशाखत्वं कथयति | कर्मसम्बन्धिनोऽनन्ताद् प्रभेदादिति योन्यानन्त्यहेतुः || १७२ || किं च ---- गुणास्तु मानुषे लोके धर्माद्या इव संस्थिताः | यथा ---- ऽऽएत एव सुसङ्कीर्णा मानुषेषु व्यवस्थिताःऽऽ (११-१६६) इति धर्माद्याः सुसङ्कीर्णा मनुष्याणामुक्ताः तथा गुणा अप्यलक्ष्यमाणविशेषा इत्यर्थः || अधर्मादिभिर्गुणैश्च ये सङ्कीर्णा मानुषाः तदुपदेष्टॄणि ---- धर्माद्येषु निबद्धानि यानि ज्ञानानि सुव्रते || ११-१७३ || अधर्माद्येषु यानि स्युस्तानि ते कथयाम्यहम् | धर्माद्येष्विति तद्विषये तद्वाचके इत्यर्थात् | ज्ञानानि शास्त्राणि || तत्र ---- हेतुशास्त्रं च यल्लोके नित्यानित्यविडम्बकम् || ११-१७४ || नित्यत्वानित्यत्वाभ्यां साध्याभ्यां विडम्बयति वञ्चयति प्रतिपाद्यं तत्त्वतस्तन्निश्चयायोगादिति नित्यानित्यविडम्बकम् | भावप्रधानो निर्देशः || १७४ || किं च ---- वादजल्पवितण्डाभिः............... यदुक्तं प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पक्षप्रतिपक्षपरिग्रहो वीतरागकथारूपो वादः | स एव च्छलजातिनिग्रहोपपन्नः पुरुषशक्तिपरीक्षार्थो जल्पः | प्रतिपक्षस्थापनहीनस्तु वितण्डा || एवंभूतं हेतुशास्त्रं सदागमबाह्यं तर्कशास्त्रं यत्, तेन ---- .............विवदन्ते ह्यनिश्चिताः | न विद्यते निश्चितं वस्तुसतत्त्वनिश्चयो येषाम्, ते विवदन्ते ---- इदं तत्त्वमिदं नेति परस्परव्याहतं रटन्ति || यतस्तेषाम् ---- हेतुनिष्ठानि वाक्यानि.............. न त्वागमिकार्थविचाररूपाणि || अतश्च ---- .......वस्तुशून्यानि सुव्रते || १७५ || ज्ञानयोगविहीनानि देवतारहितानि तु | तेनैषाम् ---- धर्मार्थकाममोक्षेषु निश्चयो नैव जायते || ११-१७६ || अत एवैतानि ---- अज्ञानेन निबद्धानि त्वधर्मेण निमित्ततः | उक्तं च प्राक् ---- ऽऽगुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः || असद्युक्तिविचारज्ञाः शुष्कतर्कावलम्बिनः | भ्रमयत्येव तान् माया ह्यमोक्षे मोक्षलिप्सया ||ऽऽ (१०-११४०-११४१) इति | तथा ---- शत्पथं तु परित्यज्य नयति द्रुतमुत्पथम्ऽऽ (१०-११४०) इति || यत एवंभूतं हेतुशास्त्रं तेन ---- निरयं ते प्रगच्छन्ति ये तत्राभिरता नराः || ११-१७७ || किं च, अधर्मनिमित्तकाज्ञानमयेषु शुष्कतर्केषु ---- अवैराग्यादनैश्वर्यं भुञ्जते निरये सदा | अतश्चाधर्माज्ञानावैराग्यानैश्वर्याख्या बुद्धिधर्माः ---- चत्वारस्ते वरारोहे दुःखदा नरके सदा || ११-१७८ || मोहकाः सर्वजन्तूनां यतस्ते तामसाः स्मृताः | एवमधर्मादिचतुष्टयमयानि शुष्कतर्कशास्त्राण्युक्त्वा धर्मादिनिबद्धानि शास्त्राण्याह ---- धर्मेणैकेन देवेशि बद्धं ज्ञानं हि लौकिकम् || ११-१७९ || लौकिकं वार्तादण्डनीत्यादि || १७९ || धर्मज्ञाननिबद्धं तु पाञ्चरात्रं च वैदिकम् | पाञ्चरात्रैरभिगमनोपादानेज्यादिधर्मवत् ---- ऽऽभूत एव स स्वयं भवतिऽऽ इत्यादि ज्ञानमप्युपदिश्यते | वैदिकैरपि कर्मानुष्ठानवत् ---- ऽऽपुरुष एवेदं सर्वम्ऽऽ (ऋ०वे० १०-९०-२) इति ज्ञानकाण्डादौ ज्ञानमप्युच्यते || बौद्धमारहतं चैव वैराग्येणैव सुव्रते || ११-१८० || बद्धमित्येव || १८० || ज्ञानवैराग्यसम्बद्धं सांख्यज्ञानं हि पार्वति | ज्ञानं पुंस्प्रकृतिविवेकोपलब्धिः || ज्ञानं वैराग्यमैश्वर्यं योगज्ञानप्रतिष्ठितम् || ११-१८१ || पातञ्जलादौ विभूतिपादे एश्वर्यस्याप्युक्तत्वात् || १८१ || एवं लौकिकादीनि योगान्तानि शास्त्राणि धर्मादिरूपबुद्धिधर्मनिष्ठानि, तदुत्तरं तु पारमेश्वरम् ---- अतीतं बुद्धिभावानामतिमार्गं प्रकीतीतम् | लोकातीतं तु तज्ज्ञानमतिमार्गमिति स्मृतम् || ११-१८२ || बुद्धिभावानां सर्वेषां प्रोक्तप्रपञ्चानां धर्मादीनामतीतमिति द्वितीयास्थाने व्यत्ययेन षष्ठी | तदेतदतिमार्गं शास्त्रं मार्गं पशुलोकमतीतमिति कृत्वा || १८२ || तदेतत् स्पष्टयति ---- लोकाश्च पशवः प्रोक्ताः सृष्टिसंहारवर्त्मनि | तेषामतीतास्ते ज्ञेया येऽतिमार्गे व्यवस्थिताः || ११-१८३ || सृष्टिसंहारमार्गे ये पशवः स्वसृष्टसंहर्त्रात्मकं संवित्तत्त्वं न जानन्ति, तत एव सृज्यमानाः संह्रियमाणाश्च ते सर्व एवेह लोका उच्यन्ते | तदतीता अतिमार्गस्थाः || १८३ || यतः ---- कपालव्रतिनो ये च तथा पाशुपताश्च ये | सृष्टिर्न विद्यते तेषां............ चोऽप्यर्थे भिन्नक्रमः | ये कपालव्रतिनः पाशुपताश्च, तेषामपि सृष्टिर्नास्तिः, किमङ्ग सर्वाध्वोत्तीर्णानां शैवानामित्यर्थात् || का तर्ह्येषां स्थितिः ? ---- इत्याह ---- ...........ईश्वरे च ध्रुवे स्थिताः || ११-१८४ || उक्तं च प्राक् ---- ऽऽदीक्षाज्ञानविशुद्धात्मा देहान्ते शैवचर्यया | कपालव्रतमास्थाय स्वं स्वं गच्छति तत्पदम् || जपभस्मक्रियानिष्ठास्ते व्रजन्त्यैश्वरं पदम् |ऽऽ (११-७३-७४) इति || १८४ || ननु सर्वस्याध्वनः सर्गसंहारपात्रत्वादीश्वरतत्त्वस्थानामेषामपि ताभ्यां भवितव्यम्? उच्यते ---- तावन्मात्राख्यात्यंशसंहार एषां परभैरवस्वरूपापत्तिः, न तु पशुवत् संहृतस्वरूपाः पुनः सृज्यन्ते | तदाह ---- यस्मान्मोक्षं गमिष्यन्ति अपुनर्भवकारणम् | तस्माद्युक्तमुक्तं सृष्टिर्न विद्यते तेषामिति सम्बन्धः || ये तु नातिमार्गस्थाः, तेषाम् ---- लौकिकानां पुनः सृष्टिः पुनः संहार एव च || ११-१८५ || अतश्च ते ---- संसारचक्रमारूढा भ्रमन्ति घटयन्त्रवत् | घटयन्त्रमरघट्टः || एतदेवोपपादयति ---- धर्माद्यरकसंयुक्तमष्टारं चक्रकं प्रिये || ११-१८६ || ईश्वराधिष्ठितं देवि नियत्यादण्डकाहतम् | मलकर्मकलाविद्धं भ्रमते कालवेगतः || ११-१८७ || धर्मादयो ये संसारकारणभूतास्त एवारा इवारकाः परिभ्रमणहेतवः | यदाहुः ---- ऽऽधर्मेण गमनमूर्ध्वम्ऽऽ (सां०का० ४४) इत्यादि | कुत्सितं चक्रं चक्रकम्, नियतिरेव आवर्तमानो दण्ड एव दण्डकः, तेन आहतं प्रेरितम्, मलेन आणवेन, कर्मणा, कलोपलक्षितेन मायीयेन विद्यादिना आविद्धं वेगेन प्रेरितम् कलनामयकालतत्त्वकृतवेगेन भ्राम्यति || यत ईदृशमेतदतिविषमं चक्रम्, ततः ---- लौकिकाद्येषु ज्ञानेषु ये तेष्वभिरताः प्रिये | हेतुशास्त्रपरा ये तु ये चान्ये पापकमीणः || ११-१८८ || ते सर्वे चास्य चक्रस्य नान्तं पश्यन्ति मोहिताः | तेष्विति प्रोक्तरूपेषु | ऽऽये तुऽऽ इत्यनेन लौकिकनिष्ठेभ्योऽपि शुष्कतर्कनिष्ठानामौपहत्यं ध्वन्यते | मोहिता मायया स्थगितस्वरूपाः || अयं च सर्वशास्त्रेभ्यः शिवशास्त्रस्य विशेषः, यत् ---- लौकिकाद्येषु ये साध्या अतिमार्गान्तगोचरे || ११-१८९ || लीलया साधयेत् सर्वान् शिवज्ञाने महोदये | ये सिद्धिविशेषा लौकिकादौ साध्यास्तान् सर्वानतिमार्गलक्षणो योऽन्तः सर्वशास्त्रपरिनिष्ठास्थानम्, तद्गोचरे तद्विषये महोदयहेतौ शिवज्ञाने साधको लीलया साधयति || यच्च शैवज्ञानेन साध्यते ---- न सर्वैः साध्यते तद्वै.............. लौकिकादिभिः || अत्र हेतुः ---- .............यतोऽतीव सुनिर्मलम् || ११-१९० || शिवज्ञानमिति शेषः || १९० || सुनिर्मलत्वमेव स्पष्टयति ---- यतो योजयते देवि अभावे परमे पदे | अविद्यमाना भावभेदरूपाः पदार्था यत्र || एतत् स्फुटयति ---- अभावं भावनातीतं प्रपञ्चातीतगोचरम् || ११-१९१ || मनोबुद्ध्यादिनिर्मुक्तं हेतुवादविवजीतम् | प्रत्यक्षादिप्रमाणैश्च व्यतीतं प्रभु चाव्ययम् || ११-१९२ || सर्वतर्कागमातीतं पाशमन्त्रविवजीतम् | सर्वज्ञं सर्वगं शान्तं निर्मलं निरुपप्लवम् || ११-१९३ || अविद्यमाना भावा यत्र तादृशं परमं पदम् | भावनातीतं यतः प्रपञ्चं वैचित्र्यमतीतो गोचरो विषयतया सम्भाव्यमानं रूपं यस्य | अत एव मनोबुद्ध्यादिनिर्मुक्तम् | अत एव च हेतुवादेन विवजीतं सर्वविचारभित्तिभूतत्वाद्विचारयितुमशक्यमित्यर्थः | तथा प्रत्यक्षादिप्रमाणविषयः प्रमाणानामपि स्वप्रकाशतद्भित्तिवशेन प्रकाशनात् सर्वावभासोल्लासकत्वाच्च | प्रभु प्रभवनशीलं स्वतन्त्रम् | न चोल्लास्यविनाशेऽस्यान्यस्येव मनागप्यन्यथाभाव इत्यव्ययमिति | सर्वं तर्क्यते विचार्यते यैरागमैरित्यागमविशेषैः पारमेश्वरैस्तेषामेव सर्वविचारकत्वात्, तानप्यतिक्रान्तं तेषामप्यविषयः, यतो मायान्तैरशुद्धाध्वगैः पाशैः शुद्धाध्वस्थैश्च मन्त्रैवीवजीतम् | सर्वं जानात्यभेदेन पश्यति, सर्वं गच्छत्यधिव्याप्नोति, तथापि च तेन न मनागप्यारूष्यत इति शान्तं चिदेकरूपम्, तथापि च निष्क्रान्ता उद्भूता आणवादिमला यस्मात्तादृक्, ईदृगपि च तैरसंस्पृष्टत्वाद् निरुप्लवं निवीकल्पं सततावभास्वरसर्वाभासकस्वतन्त्रचिदेकरूपम् || १९३ || किं च ---- सर्वशक्त्यात्मकं ह्येकं स्वतन्त्रानाथनादिमत् | सर्वातिशयनिर्मुक्तमनादिभववजीतम् || १९४ || सर्वज्ञानपदातीतं शैवं ज्ञानं परं स्मृतम् | ऽऽशक्तयोऽस्य जगत्कृत्स्नंऽऽ इति नीत्या जगदात्मकसर्वशक्तिस्वभावम् | एकमद्वितीयम् | स्वमात्मीयं रूपमेव तन्त्रं पञ्चधाकृत्यकर्मण्युपकरणं यस्य, तत्स्वतन्त्रम् | तथा न विद्यतेऽन्यो नाथो यस्य तदनाथं विश्वेश्वरम् | तथाऽनादिमत् सर्वस्यादिभूतम् | सर्वैर्ज्ञानक्रियादिविषयैनीमुक्तं विश्वातिशायिनिरतिशयचिन्मात्ररूपमित्यर्थः | अनादिनाऽहंप्रथमिकाप्रवृत्तेन भवेन वजीतमस्पृष्टम् | सर्वेषां बौद्धसांख्यलाकुलादिज्ञानानां यत्पदं स्वं स्वं विश्रान्तिधाम तदप्युल्लङ्घ्य स्थितम् | एवंभूतं यत् परमनुत्तरं शिवज्ञानम्, तद् अनुभवरूपं स्मृतमविच्छिन्नेन पारम्पर्येण प्रतीहतमित्यर्थः || एवं तत्त्वभूतभावभेदसृष्टीः प्रतिपाद्य, धर्मज्ञानादिनिबद्धलौकिकादिज्ञाननिरूपणपूर्वं शैवज्ञानमाहात्म्यं च निर्णीयोक्ततत्त्वादिसृष्टिमनुवादभङ्ग्योपसंहरन् शिवज्ञानमाहात्म्यमेवाधिकावापेन दर्शयति ---- एवं सृष्टानि तत्त्वानि ज्ञानानि च वरानने || ११-१९५ || तत्त्वैरेतैर्जगत्सर्वं विसृष्टं सचराचरम् | विशेषेण सृष्टं चतुर्दशविधभूतसर्गात्मना प्रपञ्चितम् || किं च ---- भुवनानि विचित्राणि शतशोऽथ सहस्रशः || ११-१९६ || तत्त्वाभ्यन्तरसंस्थानि............ यानि भुवनानि भुवनाध्वन्युक्तानि, तान्यपि तत्त्वैरेव सृष्टानि || तथा प्रोक्तज्ञानरूपाणि ---- ...........शास्त्राणि विविधानि च | न केवलं भुवनानि शास्त्राणि च तत्त्वाभ्यन्तराणि, यावत् ---- विज्ञानं कुहकं शिल्पं सिद्धिसन्दोहलक्षणम् || ११-१९७ || सर्वं तत्त्वेषु बोद्धव्यं............. विविधं मन्त्रमण्डलमुद्रादिज्ञानम्, तथा कुहकं विस्मापकं मितहृदयप्रत्ययकारि इन्द्रजालप्रायम्, शिल्पं चित्रपुस्तपुत्तलिकानृत्तगीतादि, सिद्धीनां वश्याकर्षणादिरूपाणां सन्दोहं समूहं लक्षयति दर्शयति च यद् ज्ञानं, तत् सर्वं तत्त्वेष्वस्तीति ज्ञेयम् || यतः ---- ................षर्वतत्त्वेषु दृश्यते | तत्तत्तत्त्वौचित्येन तत्त्वसाक्षात्कारादिभिरुपलभ्यते || न केवलं तत्त्वेषु साधकोपयोगि ज्ञेयमस्ति, यावत् ---- प्रक्रिया शिवदीक्षा च तत्त्वैरेतैही लभ्यते || ११-१९८ || पूर्वोक्ततत्त्वादिप्रदर्शनरूपा ज्ञानशालिनां साधकानां चोपयोगिनी या प्रक्रिया, तथा तत्तत्तत्त्वगतविचित्रभुवनभोगोचिततत्तद्- योनिभेदोपपत्तिनिष्कृतिकर्मादिपाशप्रशमः शिवयोजनिका चैतैरुक्तरूपैस्तत्त्वैर्लभ्यते, नान्यथा | तदर्थं यथोक्ततत्त्वस्वरूपमवश्यज्ञेयम् || १९८ || युक्तं चैतत्, यतः ---- नास्ति दीक्षासमो मोक्षः........... ऽऽदीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपिऽऽ | इति हि प्रतिपादितमन्यत्र || दीक्षा च यैर्मन्त्रैः क्रियते, तद्वीर्यरूपा ---- ..............ण विद्या मातृका परा | सा हि भगवती अशेषवाच्यवाचकात्मकजगदभेदचमत्कारात्मकशब्दराशिविमर्श- परमार्था सर्वमन्त्रारणिस्तत्र तत्रागमेषु निदीश्यते | सा चैषा विश्वावमर्शनेन परं ज्ञानं प्रयच्छति || तच्च प्रतिपादिताध्वप्रक्रियामयमेवेत्याह ---- न प्रक्रियापरं ज्ञानं................ प्रक्रियातः परमन्यज्ज्ञानं परितुच्छमेव || ज्ञानं ज्ञेयस्य ज्ञापकमिति पूर्वनिरूपितनीत्या ज्ञातेन लक्षणीयो यो लक्ष्यभूतपरतत्त्वैकात्मा योगस्ततोऽन्यो मितयोगो हेय एवेत्याह ---- ..........णास्ति योगस्त्वलक्ष्यकः || ११-१९९ || अविद्यमानं परं लक्ष्यं विश्रान्तिधाम यस्य तादृशो योगो नास्ति | विद्यमानोऽपि मितयोग इहानुत्तरचर्चायामयोग एवेति योजनिकोक्तः परयोग एवेह योगः || १९९ || एवं परपुरुषार्थप्रापकदीक्षातदुपयोगिमातृकाप्रक्रियाज्ञाना- लक्ष्यकयोग-स्वरूपमेतत्सर्वमेव सातिशयं वस्तु पारमेश्वर एव शासन उपादिश्यत इति तदेव सर्वशास्त्रोत्तममिति निरूपयति ---- तत्सर्वं कथितं देवि शिवज्ञानमहोदधौ | शिवज्ञानमेवागाधत्वात् समग्रज्ञाननदीभेदविश्रान्तिधामत्वात् समस्तसम्पत्समवाप्तिहेतुत्वाच्च महोदधिः || प्रकृतमुपसंहरन्नन्यदवतारयति ---- एवं सृष्टिः समाख्याता स्थितिः संहार उच्यते || ११-२०० || संहारश्चेत्यर्थः | तत्र स्थितिनीयतिकालावस्थानात्मा, तत्प्रान्ते च संहारस्तथेति || २०० || यतः प्रभृति प्रवृत्तो यादृशश्च यस्य स्थाप्यस्य संहार्यस्य च कालः, तत्सर्वमादेष्टुमाह ---- मानुषाक्षिनिमेषस्य अष्टमांशः क्षणः स्मृतः | क्षणद्वयं तुटिर्ज्ञेया तद्द्वयं तु लवः स्मृतः || ११-२०१ || लवद्वयं निमेषस्तु ज्ञातव्यो गणितक्रमात् | दश पञ्च निमेषाश्च काष्ठा चैव प्रकीतीता || ११-२०२ || त्रिंशत्काष्ठाः कला ज्ञेयामुहूर्तस्त्रिंशदेव ताः | मुहूर्तस्तु पुनस्त्रिंशदहोरात्रस्तु मानुषः || ११-२०३ || शास्त्रव्युत्पिपादयिषितानां मनुष्याणां स्वानुभवसिद्धो योऽक्ष्णो निमेषपक्ष्मसङ्कोचस्तदीयो योऽष्टमांशोऽत्यन्तमणीयान् कालावयवः, अक्षिनिमेषकाल प्रतीत्यैव कल्प्यमानः, स क्षणः | लव इति यः प्राणीयस्तुटिकालः | यदुक्तं प्राक् ---- ऽऽतुटयः षोडश प्राणे पूर्वं हि कथिता मया | बाह्येनैव तु कालेन ते लवाः परिकीतीताः ||ऽऽ (७-२७) इति | लवद्वयं निमेष इति क्षणाष्टकरूपः | मुहूर्त इति द्विघटिकारूपः || २०३ || किं च ---- अहोरात्रशतैश्चैव त्रिभिः षष्ट्यधिकैः प्रिये | संवत्सरस्तु विज्ञेयो मानुषः कमलेक्षणे || ११-२०४ || संवत्सरशतं पूर्णमायुर्ज्ञेयं तु मानुषम् | विंशत्यधिकं हि शतं परमायुरिति प्रसिद्धम् || यदुक्तं षष्ट्यधिकाहोरात्रशतत्रयेण वत्सर इति, तदेव पक्षमासादिविभागपूर्वं स्फुटयति ---- दश पञ्च त्वहोरात्राः पक्षस्तु परिकीतीतः || ११-२०५ || पक्षद्वयेन मासस्तु ऋतुद्वीगुण एव सः | ऋतुद्वयेन कालः स्यादयनं च त्रिभिस्त्रिभिः || ११-२०६ || ताभ्यां द्वाभ्यां वरारोहे वर्षं तु परिगीयते | कालश्चतुर्माससञ्ज्ञः | अयनमुत्तरायणं दक्षिणायनं च || इत्थमयनद्वयात्मको यो मनुष्याणां वत्सरः, स एव पित्र्योऽहोरात्र इत्याह ---- दक्षिणं चायनं रात्रिरुत्तरं चायनं दिनम् || ११-२०७ || पितॄणां तदहोरात्रमनेनाब्दस्तु पूर्ववत् | एवं दैवस्त्वहोरात्रस्तत्राप्यब्दादि पूर्ववत् || ११-२०८ || आदिशब्दात् पक्षमासादि | इत्थं पितॄणां देवानां च तुल्याऽहोरात्रकलनेति पुराणपुस्तकेषु दृश्यते | अद्यतनैस्तु ऽऽऋतुद्वीगुण एव सःऽऽ (११ | २०६) इत्यतोऽनन्तरम् ---- ऽऽकृष्णपक्षस्त्वहश्चैव शुक्लस्तु रजनी भवेत् | पितॄणां सोऽप्यहोरात्रस्त्वनेनाब्दस्तु पूर्ववत् ||ऽऽ इति विपर्यास्य पठित्वा मानुष्यो मासः पित्र्योऽहोरात्र इति व्याख्यातम्, तेषां च सांवत्सरिकी पितृदिनव्यवस्था लौकिक्यपि स्थितिः प्रसृता || तदेवं मानुषषष्ट्यधिकत्रिशताब्दपरिमाणो यो दिव्यो वत्सरस्तमाश्रित्य ---- द्वादशाब्दसहस्राणि विज्ञेयं तु चतुर्युगम् | द्वादशाब्दसहस्राणि विज्ञेयं चतुर्युगम् || अत्र चायं विभागः ---- चतुभीस्तु कृतं देवि सहस्रैस्तु यथाक्रमम् || ११-२०९ || त्रेता ज्ञेया त्रिभिर्देवि द्वाभ्यां वै द्वापरः स्मृतः | सहस्रेणैव वर्षाणां विज्ञेयस्तु कलिः प्रिये || ११-२१० || एवं दश वर्षाणां सहस्राणि || २१० || यत्त्ववशिष्टं सहस्रद्वयम्, ततः ---- सन्ध्याद्वयस्य मानं तु कथयामि युगे युगे | आद्यन्तगतस्य || तत्र ---- शतानि चत्वारि कृते त्वादिरन्तश्च कीर्त्यते || ११-२११ || त्रेते शतत्रयं ज्ञेयं द्वापरे तु शतद्वयम् | कलौ चापि शतं ज्ञेयं सन्ध्यामानमिदं स्मृतम् || ११-२१२ || एवं च कलेरन्ते शतं कृतस्यादौ चत्वारि शतानीति कलिकृतयुगयोः सन्ध्या पञ्च शतानि, एवं कृतत्रेतयोः सन्ध्या सप्त शतानि, त्रेताद्वापरयोः पञ्च शतानि, द्वापरकलियुगयोः त्रीणि शतानीति गणयित्वा सहस्रद्वयम् | एतत् प्रागुक्तेन सहस्रदशकेन सह द्वादशहस्रं चतुर्युगम् | यदा तु ---- शन्धिसन्ध्यंशमानं तु कथयामिऽऽ इति पाठः, तदाप्रोक्तोभयमेलनात् ससन्धिमानमेकैकशतं तु सन्ध्यंशमानं ज्ञेयम् || २१२ || एतदेव च ---- लौकिकेन तु मानेन पुनश्च कथयामि ते | यावत्सङ्ख्याकं भवति || त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः || ११-२१३ || लौकिकेन तु मानेन त्वियं सङ्ख्या चतुर्युगे | वर्षाणामिति शेषः || विभागेनापि ---- एकैकस्य पुनर्देवि युगस्य कथयामि ते || ११-२१४ || लौकिकवर्षसङ्ख्याम् || २१४ || दश सप्त च लक्षाणि सहस्राण्यष्टविंशतिः | कृतस्यैतद्भवेन्मानं............. आद्यन्तगतचतुःशतसन्ध्यंशयुक्तस्य, न तु केवलस्य | एवमुत्तरत्र || ..........ट्रेतायाः कथयामि ते || ११-२१५ || षण्णवतिः सहस्राणि लक्षाणि द्वादशैव तु | त्रेतायुगस्य मानं तु द्वापरस्य निबोध मे || ११-२१६ || चतुःषष्टिः सहस्राणि ह्यष्टौ लक्षाणि सुव्रते | द्वापरस्य तु मानं च कलेस्तु कथयामि ते || ११-२१७ || द्वात्रिंशत्तु सहस्राणि लक्षाणां च चतुष्टयम् | एतन्मानं कलेः प्रोक्तं समासात्तव सुव्रते || ११-२१८ || तदित्थम् ---- वर्षैस्तु मानवैर्देवि मानमेतद्युगे युगे | एवमुक्तदिव्यलौकिकाब्दमानानुसारेण ---- चतुर्युगैकसप्तत्या भवेन्मन्वन्तरं पुनः || ११-२१९ || एतच्चास्य ---- सन्ध्यामानविहीनं तु युगै(र्मानं)१ प्रकीतीतम् | एतद्दव्येन मानेन मानं मन्वन्तरे स्मृतम् || ११-२२० || चतुर्युगशतानि द्वादशाब्दसहस्राण्येकसप्तत्या गणयेत् || २२० || एतदेव च मानम् ---- वर्षमानैः पुनश्चैव लौकिकैः कथयामि ते | सप्तषष्टिस्तु लक्षाणि त्रिंशत्कोट्यो वरानने || ११-२२१ || सहस्रविंशतिर्ज्ञेयं मानं मन्वन्तरे प्रिये | सषष्टिशतत्रयकलनया मन्वन्तरकाल एव चैन्द्रस्थितिकालः || एवमेवंविधैः ---- चतुर्दशभिर्देवेशि कल्पो मन्वन्तरे भवेत् || ११-२२२ || मन्वन्तरसन्ध्यामानमाह ---- मन्वन्तरे व्यतिक्रान्ते चान्यस्मिन् पुनरागते | पञ्च वर्षसहस्राणि मध्ये सन्ध्या भवेत् सदा || ११-२२३ || दिव्यानीत्यर्थात् || २२३ || अयं तु विशेषः, यत् ---- आदौ सहस्रं सर्वेषामन्ते चापि पुनस्तथा | ब्रह्मदिनगतमन्वन्तरापेक्षयाऽऽदावन्ते चेति प्रथममन्वन्तरस्यादौ चरममन्वन्तरस्यान्ते सहस्रमेकमधिकमिति || तदित्थं ससन्ध्याकालचतुर्दशमन्वन्तरकालः ---- कल्पो ब्रह्मदिनं प्रोक्तं चतुर्युगसहस्रकम् || ११-२२४ || कल्पते विश्वमस्मिन्निति कल्पः, एकसप्तत्या चतुर्युगैश्च मन्वन्तरगुणितैः षड्भिरूनं चतुर्युगसहस्रं भवति | मन्वन्तरेषु सन्ध्याकालोऽप्युक्तनीत्या द्वासप्ततिसहस्रं इति तदीयचतुर्युगषट्केन सहस्रमानमेतदुक्तम् || २२४ || एतच्च ---- वर्षमानेन दिव्येन पुनश्च कथयामि ते | सङ्ख्यातमिति शेषः || तदाह ---- कोटिरेका तु वर्षाणां लक्षणां चैव विंशतिः || ११-२२५ || दिव्येनैव तु मानेन ब्रह्मणस्तु दिनं भवेत् | द्वादश सहस्राणि सहस्रगुणितान्येवमेव भवन्ति || ईदृशस्यास्य ब्राह्मदिनस्य ---- षण्णवत्या सहस्रैस्तु सन्ध्याकालः प्रकीतीतः || ११-२२६ || अष्टौ चतुर्युगानि षण्णवत्या वर्षसहस्रैर्भवन्ति | तत्र प्रातःसन्ध्यायां दिनशतानि चत्वारि चतुर्युगानि, सायंसन्ध्यायां चत्वारीति विभागः | निशाद्यन्तगतान्यप्येवमेवेत्यष्टयुगः प्रातः सायं च सन्ध्याकालः || २२६ || एतच्च ---- लौकिकेन तु मानेन अधुना कथयामि ते | सङ्ख्यातमिति शेषः || तदाह ---- वर्षवृन्दानि चत्वारि त्वर्बुदत्रयमेव च || ११-२२७ || कोटिद्वयं च देवेशि दिनं पैतामहं स्मृतम् | सन्ध्या कोटित्रयं चैव पञ्च लक्षाणि कीतीता || ११-२२८ || चत्वारिंशत्तथा षष्टिः सहस्राणि तथैव च | षष्णवतिसहस्राणि सषष्टिशतत्रयकलितान्येवमेव भवन्ति | अतश्च यत् श्रीभुल्लकः ---- शन्ध्या कोटित्रयं लक्षाणि चतुःसप्ततिरेव चऽऽ इत्यादि पठितवान्, तदुपेक्ष्यम् || यथा चायम् ---- पश्चिमः सन्धिरेवं हि............... सन्धिः सन्ध्याकालः || तथा ---- ..............पूर्वसन्ध्यापि तत्समा || ११-२२९ || तदित्थं ब्रह्मदिनावधिका ---- नरकैः सह सप्तानां पातालानां तथा प्रिये | लोकानां चैव सप्तानां स्थितिरेषा प्रकीतीता || ११-२३० || लोकानां तन्निवासस्थानानां भूरादीनाम् || तथैषामेव ---- संहारं च पुनर्देवि शृणुष्व कथयामि ते | ब्रह्मणः स्वदिनान्ते वै कल्पः संहार उच्यते || ११-२३१ || स्वदिनान्त इति तन्निशायाम् | कल्प इति कल्प्यते च्छिद्यतेऽस्मिन् विश्वमिति कृत्वा | संहार इति संहारकालः || २३१ || तत्र ---- दिनेनैकेन ब्राह्मेण इन्द्राश्चैव चतुर्दश | राज्यं कृत्वा क्रमाद्यान्ति मन्वन्तरव्यवस्थया || ११-२३२ || प्रतिमन्वन्तरं राज्यं कृत्वा, एकैक इन्द्रः स्वकर्मौचित्येन गच्छति || २३२ || ततः संहरते विश्वं सप्तलोकान्तगोचरम् | सुप्ते पितामहे देवि ऊर्ध्वं कालाग्निरीक्षते || ११-२३३ || तत इति चतुर्दशेन्द्रान्ते | पशुवन्निद्रायमाणेन ब्रह्मणा जनितविस्मयो यावत् कालाग्निरूर्ध्वमीक्षते, तावत् सप्तलोकान्तगोचरं विषयजातं संहरति || २३३ || अथ निरीक्षणसमये ---- तस्य वै दक्षिणं वक्त्रं महाज्वालां विनिक्षिपेत् | अतश्च ---- तस्माद्वक्त्रान्महाज्वाला लक्षयोजनविस्तृता || ११-२३४ || ऊर्ध्वं प्रयाति सा दीप्ता तीव्रवेगा सुदुःसहा | अत्र चावसरे सप्तसु ---- लोकेषु ये स्थिता लोका ये च पातालवासिनः || ११-२३५ || सुखदुःखोभये क्षीणे मोहं भूयिष्ठमागते | सत्तामात्रास्तु ते सर्वे भवन्ति ब्रह्मविष्टपे || ११-२३६ || ये चेति चशब्दान्नरकादिक्षेत्रगताः | ब्रह्मविष्टपे सत्यलोकोर्ध्ववतीनि ब्रह्मभुवने || २३६ || कियदवधिका एषां मूढता ? ---- इत्याह ---- यावन्नोदयनं भूयः सुखदुःखादिकर्मणाम् | तावत्तिष्ठन्ति ते मूढा यावद् ब्रह्मा न बुध्यते || ११-२३७ || सुखदुःखयोरादिशब्दाद् जन्मायुषोर्हेतुभूतानि कर्माणि, तेषाम् | उदयो विपाकः || २३७ || ये तु ---- रुद्रलोकाधिपतयः पातालपतयश्च ये | कूष्माण्डहाटकाद्यास्तु ते तिष्ठन्त्यतिनिर्मलाः || ११-२३८ || न तु मनागपि म्लायन्ति || २३८ || किन्तु ---- निर्व्यापारास्तु ते तावद्यावत् सृष्टिः पुनर्भवेत् | निवृत्तानुग्रहादिव्यापाराः || अथ ---- शून्यभूतेषु लोकेषु ज्वाला दहति दुर्धरा || ११-२३९ || सा दहेन्नरकान् देवि पातालानि समन्ततः | त्रींल्लोकांश्चैव दहति भूर्भुवःस्वःपदान्तिकान् || ११-२४० || शून्यभूतेषु लोकेष्विति तन्निमित्तम्, नरकेभ्यः प्रभृति स्वर्लोकान्तं दहति || २४० || ये त्वन्ये, ते ---- धूमेन च त्रयो लोका विनश्यन्ति वरानने | महोजनस्तपःसञ्ज्ञाः............. सप्तमस्तु ---- ............षत्यलोकोऽपि सुव्रते || ११-२४१ || पूर्वे च सर्वे ---- तिष्ठन्ति मोहितात्मानो निद्रया ते मृतोमपाः | अथ ---- एवं दग्ध्वा जगत्सर्वं ज्वाला वक्त्रं विशेत् पुनः || ११-२४२ || कालाग्नेर्दक्षिणमेव || २४२ || ततो वान्ति महावाता ब्रह्मनिः श्वाससम्भवाः | ते च ---- नाशयन्ति च तद्भस्म जगद्दाहोद्भवं प्रिये || ११-२४३ || अथ ---- ब्रह्मप्रस्वेदजं वारि तज्जगत् प्लावयेत् पुनः | तेनैव वारिणा देवि जगदेकार्णवं भवेत् || ११-२४४ || कालवह्न्यूष्मजोऽस्य प्रस्वेदः || २४४ || अथ ---- निशाक्षये पुनः स्थित्वा सुखदुःखफलोदये | कर्मतः सर्वलोकस्य ब्रह्मा लोकपितामहः || ११-२४५ || शून्यभूतां समालोक्य भगवान् प्रभुरिच्छया | षड्विधां कुरुते सृष्टिं यथापूर्वव्यवस्थया || ११-२४६ || कर्मपरिपाकक्रमेण कमीणां सुखदुःखफलस्योदयो यत्र तादृशे रात्र्यन्ते | स्थित्वाऽनुपशान्तनिःशेषनिद्रासंस्कारो भूत्वा | कर्मतः परिपक्वादिच्छामात्रात् | षड्विधामिति नारकिस्थावरसरीसृपादिपश्वन्तां त्रिविधां क्रमात्क्रममपचितां तामसीम्, तमोरजःसमाविष्टां मानवीम्, रजःसत्त्वसमाविष्टां मौनीम्, सात्त्विकीं तु दैवीम् | व्यवस्थयेति भुवनादिमर्यादया || २४६ || तत्र ---- प्रथमां तामसीं सृष्टिं करोति तमसोत्कटान् | नरकान् विविधाकारान्........... ततोऽंशेनांशेन तमसोऽनुत्कटत्वे ---- ..........पशून् वै स्थावरान्तगान् || २४७ || पशूनिति सरीसृपपक्षिमृगपशूनित्यर्थः || ततोऽपि ---- तमोरजःसमावेशान् मानवान् संसृजेत् पुनः | रजःसत्त्वसमाविष्टः सृजेन्मुनिवरेश्वरान् || ११-२४८ || एवमियत्पर्यन्तं ब्रह्मणः क्रमात्क्रमं निद्रासंस्कारस्याधिकाधिकतरत्वम् || २४८ || अथ ---- गतनिद्रः प्रबुद्धस्तु सत्त्वनिष्ठो जगत्पतिः | सृजेद् देवान् सलोकांश्च पूर्वयैव व्यवस्थया || ११-२४९ || सह लोकैस्तन्निवासस्थानैर्वर्तन्ते ये तान् | एतच्च विशेषणं सिंहावलोकितन्यायेन पूर्वत्रापि सम्बध्यते | पूर्वव्यवस्था पैशाचादिब्रह्मान्ता || २४९ || इत्थं षड्विधायां सृष्टौ निष्पन्नायाम् ---- ततो रुद्रेन्द्रसूर्येन्दुनक्षत्राणि ग्रहेश्वराः | अधिकारं प्रकुर्वन्ति स्वे स्वे विषयगोचरे || ११-२५० || पारमेशान्नियोगात् ---- दिने दिने सृजत्येवं............. ब्रह्मा || कालाग्निस्तु ---- ................षंहरेच्च दिनक्षये | अस्य च ब्रह्मणः ---- दिनमानं च यत्प्रोक्तं रात्रिसङ्ख्या च तावती || ११-२५१ || तदित्थम् ---- अहोरात्रेण चानेन अब्दं वै पूर्ववत् स्मृतम् | शतत्रयेण षष्ट्यधिकेन || अब्दानां तु शते पूर्णे महाकल्पः स उच्यते || ११-२५२ || ब्राह्मे वर्षशते देवि दिव्यान्यब्दानि मे शृणु | एकनवतिकोटिस्तु तथा लक्षाणि विंशतिः || ११-२५३ || तथा सप्तैव खर्वाणि निखर्वाष्टकमेव च | ब्राह्मं वर्षशतं चैतज्ज्ञातव्यं कालवेदिना || ११-२५४ || दिव्यवर्षमानेन ब्राह्ममहः सन्ध्याकालं विना सविंशतिलक्षा कोटिरेकेत्युक्तम्, रात्रिश्च तावतीति कोटिद्वयं सचत्वारिंशल्लक्षम् | एतद्दनानां शतत्रयेण सषष्टिना गुणितमष्टौ वृन्दानि, षडर्बुदानि, चतस्रश्च कोटयो भवन्ति | सन्ध्याकालोऽपि षण्णवत्या सहस्रैर्य उक्तः, सोऽपि शतत्रयेण सषष्टिना कलितः संस्तिस्रः कोटयः, पञ्चचत्वारिंशल्लक्षाणि, षष्टिः सहस्राणि भवन्ति | सोऽपि सायंप्रातर्भेदाद् द्विगुणः सन् कोटयः षड्लक्षाण्येकनवतिवींशतिः सहस्राणि भवन्ति | उभयं वृन्दान्यष्टौ, अर्बुदानि सप्ततिरेकनवतिर्लक्षाणि, विंशतिः सहस्राणि भवन्ति ८७०९१२०००० | एतदपि वत्सरसङ्ख्या शतेन कलितं निखर्वाण्यष्टौ खर्वाणि सप्त वृन्दस्थाने शून्यमेकनवतिः कोट्यो लक्षाणि विंशतिरिति ८७०९१२०००००० | इत्थमेषा यथोक्तैव सङ्ख्या भवति | एकान्ननवतिः कोट्य इत्यपपाठः || तदित्थम् ---- दैविकेन तु मानेन मानमित्थं प्रकीतीतम् | अथैतदेव ---- लौकिकेन तु मानेन पुनश्चैव निबोध मे || ११-२५५ || तद्यथा ---- द्वात्रिंशदब्दकोट्यस्तु तथा खर्वाष्टकं प्रिये | खर्वद्वयं च देवेशि निखर्वाः पञ्च एव तु || ११-२५६ || शङ्कुत्रयं पद्ममेकं सागरत्रयमेव च | पूर्वोक्तैकनवतिकोट्या दैविकमानकलितस्य ब्राह्मवर्षशतस्य लौकिकवत्सरमानेन षष्टिशतत्रयकलनयोक्तैव सङ्ख्याऽऽयाति | यत्तु श्रीभुल्लकः ---- ऽऽ.............ठाब्दकोट्यस्तु एकं चैवार्बुदं प्रिये | खर्वाशीतिस्तथा चैव निखर्वाणां च पञ्चकम् || चतुष्टयं च शङ्कूनां त्रिंशत्सागर एव च |ऽऽ इत्यपठत्, तदसङ्गतत्वादुपेक्ष्यमेव || इत्थं लौकिकाब्दमानेन ---- एतद् देवि समाख्यातं ज्ञातव्यं च मुमुक्षुभिः || ११-२५७ || महाकल्पान्तावस्थितिदाययपि ब्राह्मं पदं संह्रियमाणत्वात् पर्यन्तविरसम्, एवं वक्ष्यमाणनीत्याऽनाश्रितान्तमपीति सर्वथा स्वस्ति स्वप्नोपमेभ्यो भोगेभ्यो इति मत्वा दिक्कालाकाराकलितचिद्घनपरभैरवस्वरूपसमापत्तिरेव मुमुक्षुभिराश्रयणीयेति तात्पर्यम् || २५७ || उपसंहरति-- एतल्लौकिकमानेन ब्राह्ममाब्दशतं स्मृतम् | उक्तवक्ष्यमाणपरिमाणोपयोगिन्या एकादिपरार्धान्तायाः सङ्ख्यायाः क्रमेण रूपं लक्षयति ---- एकं दशगुणं पूर्वं शतं दशगुणं तु तत् || ११-२५८ || शतं दशगुणं कृत्वा सहस्रं परिकीतीतम् | सहस्रं दशगुणितमयुतं तद्धि कीतीतम् || ११-२५९ || दशायुतानि लक्षं तु नियुतं दश तानि च | दश तानि च कोटिः स्यात् दश कोटिस्तथार्बुदम् || ११-२६० || अर्बुदैर्दशभिर्वृन्दं खर्वं दशभिरेव तैः | दशभिस्तैनीखर्वं तु शङ्कुः स्याद् दश तानि तु || ११-२६१ || शङ्कुभिर्दशभिः पद्मं दश पद्मानि सागरः | सागरैर्दशभिर्मध्यमन्त्यं तैर्दशभिः स्मृतम् || ११-२६२ || अन्त्यं दशाहतं कृत्वा परार्धं परिकीतीतम् | उपसंहरति ---- एवमष्टादशैतानि स्थानानि गणितस्य तु || ११-२६३ || भवन्तीति शेषः || २६३ || एवं प्रसङ्गात् सङ्ख्यास्वरूपमुपदर्श्य प्रकृतमाह ---- महाकल्पस्य पर्यन्ते ब्रह्मा याति परे लयम् | अवृत्तपरशक्तिपातः परे इति सापेक्षतया प्रकृष्टे समनन्तरे कारणे लीयते, वृत्तपरशक्तिपातस्तु परमशिवे ऽऽपरस्मिन् ब्रह्मणि व्रजेत्ऽऽ (१०-५३३) इति पूर्वग्रन्थेऽयमेवाशयः | एवमुत्तरत्राप्यनुसर्तव्यम् | यश्चायमेवमुक्तो महाकल्पः ---- विष्णोश्च तद्दिनं प्रोक्तं रात्रिर्वै तत्समा भवेत् || ११-२६४ || ब्रह्माण्डानुविषयलोकस्थस्य || २६४ || किञ्च ---- अनेन परिमाणेन तस्याब्दं तु विधीयते | अह्नां चैव शतत्रयेण सषष्टिना || वर्षाणां च शते पूर्णे सोऽपि याति परे लयम् || ११-२६५ || इत्थम् ---- विष्णोरायुर्यदेवोक्तं रुद्रस्यैतद्दिनं भवेत् | रुद्रलोकस्थस्य || स च ---- दिने दिने सृजत्यन्यौ ब्रह्मविष्णू प्रजापती || ११-२६६ || प्राक्सृष्टयोः परब्रह्मणि लयादन्यं विष्णुं सृष्ट्वा, तन्मूर्त्याविष्टो ब्रह्माणमप्यन्यं सृजतीत्यर्थः || युक्तं चैतत्, यस्मात् ---- ब्राह्मी च वैष्णवी शक्तिरधिकारपदं गता | यं चाधितिष्ठत्यात्मानं तत्सञ्ज्ञां स प्रपद्यते || ११-२६७ || चो भिन्नक्रमः | पारमेश्वरी ब्राह्मी वैष्णवी च शक्तिर्यमात्मानं पुद्गलमधितिष्ठत्यधिकुरुते, स आत्मा तत्सञ्ज्ञामिति ब्रह्मत्वं विष्णुत्वं च प्राप्नोतीत्यर्थः || २६७ || प्राप्य च तद्रूपत्वमसौ ---- तदाधिकारं कुरुते इच्छया परमात्मनः | परमात्मनो निर्णीतस्वरूपस्य परमशिवस्य, न तु परेच्छाधिष्ठितोत्तरोत्तरकारणस्य इच्छया || यथा च ब्रह्मविष्णू पारमेश्वरी ब्राह्मी वैष्णवी शक्तिः परमार्थतः, तथा विश्वमिदं पारमेश्वरशक्तिमयमेवेत्याह ---- ब्रह्मविष्ण्विन्द्ररुद्राश्च विद्येशा ईश्वरस्तथा || ११-२६८ || लोकाधिपाश्च देवेशि तथा च भुवनाधिपाः | ग्रहादिमातरो रुद्रा योगनक्षत्रराशयः || ११-२६९ || शक्तियुक्तास्तु ते सर्वे भवन्ति तदधिष्ठिताः | तत्पराक्रमवीर्यास्तु स्वकीये तु पदे स्थिताः || ११-२७० || लोकाधिपा इन्द्राद्या लोकपालाः | ग्रहादयश्च मातरश्चेति द्वन्द्वः, मातरो ब्राह्म्याद्याः | योगाः सुनफाद्या ज्योतिःशास्त्रप्रसिद्धाः | ते सर्वे इति, उक्तास्तया परमेश्वरेच्छयाऽधिष्ठिताः सन्तः शक्तियुक्ता निजनिजसामर्थ्यभाजो भवन्ति || २७० || पूर्वं ब्राह्म्या वैष्णव्या चाधिष्ठितत्त्वं ब्रह्मविष्ण्वोरुक्तम्, इदानीं तु ब्रह्मादिभिरपि सह सर्वेषां परशक्त्यधिष्ठितत्वमतश्च सर्वमिदं जगत् ---- शिवस्यैका महाशक्तिः शिवश्चैको ह्यनादिमान् | सा शक्तिभीद्यते देवि भेदैरानन्त्यसम्भवैः || ११-२७१ || महती स्वातन्त्र्याख्या शक्तिः | शिवः प्रकाशानन्दघनः श्रेयोरूपः | चकारात् शक्तिरपि एकाऽद्वितीयाऽनादिमती च भेदैर्नानावैचित्र्यैभीद्यते ग्राह्यग्राहकाद्याभासतया स्फुरति || शिवशक्त्यद्वयमयतां प्रासङ्गिकीमुक्त्वा प्रकृतमाह ---- एवं वै कुरुते सृष्टिं रुद्रश्चैव दिने दिने | संहारं च दिनान्ते वै.............. सा च संसाररूपस्य ---- .............ॠआत्रिर्वै तत्समा भवेत् || २७२ || दिनरात्रिसाम्यमेवेश्वरेच्छातः सूर्यसोमसञ्चारादिति टीकाकारमतमसमञ्जसम्, तत्तद्भुवनतदीश्वरप्रभाभास्वरेषु ब्रह्मादिलोकेषु सूर्यादीनां प्रकाशकत्वेन क्वाप्यश्रुतत्वात् || २७२ || इत्थम् ---- दिनरात्रिप्रमाणेनानेन स्याद्वत्सरोऽस्य च | अस्येति रुद्रस्य || वत्सराणां शते पूर्णे शतरुद्रदिनक्षयात् || ११-२७३ || सोऽपि याति परं स्थानं यद्गत्वा निष्कलो भवेत् | रौद्रं वर्षशतं शतरुद्राणां दिनम्, तस्य क्षयः पर्यन्तः || तदन्ते च ---- तस्मिन् स्थाने पुनश्चान्यस्तत्समश्च प्रभुर्भवेत् || ११-२७४ || रौद्रशक्तिसमायोगाद् ब्रह्मविष्ण्विन्द्रनायकः | तदित्थमहोरात्रादिकलनया ---- शतरुद्रास्तु देवेशि स्वाब्दानां तु शतक्षये || ११-२७५ || ते प्रयान्ति परं तत्त्वं ततोऽण्डं तु विनश्यति | शतरुद्रजीवितावधिर्ब्रह्माण्डस्थितिकाल इत्यर्थः || कीदृगण्डमित्याह ---- सर्वभूतगुणाधारं सर्वतत्त्वालयालयम् || ११-२७६ || सपर्वतवनोद्यानद्वीपसागरमण्डितम् | विमानमालाकुलितं ग्रहनक्षत्रमण्डितम् || ११-२७७ || देवदानवगन्धर्वसिद्धविद्याधरोरगैः | ऋषिभिर्मानुषाद्यैश्च सप्तलोकनिवासिभिः || ११-२७८ || नरकैश्चैव पातालैर्युक्तं भुवनमण्डितम् | सर्वेषां भूतानां पृथ्व्यादीनाम्, गुणानां च शब्दादीनाम्, भूतगुणानां च पाण्डित्यशौर्यादीनामाश्रयः, तथा सर्वतत्त्वालयानां षट्त्रिंशत्तत्त्वमयानां नानाशरीराणामालयो निवासरूपः || ईदृशं च ---- अशेषभुवनाधारमण्डमप्सु प्रलीयते || ११-२७९ || एवं च यथोत्पादं तत्त्वानि स्वकारणेषु लीयन्ते | यद्वक्ष्यति ---- ऽऽआपस्तेजसि लीयन्तेऽऽ (११-२८४) इत्यादि || २७९ || इत्थं शतरुद्रान्तायां स्थितौ संहृतायां ब्रह्माण्डोर्ध्वाधरकर्परिकोपरिवर्ती संहर्तृरूपः ---- ततः कालाग्निरुद्रश्च कालतत्त्वे लयं व्रजेत् | अशेषविश्वकलनाकारित्वात् कालश्चासौ तत्त्वं च तदिति कालतत्त्वकालकलितः परमेश्वरः || यद्येवम्, अबादितत्त्वसंहारं कः करोति ? ---- इत्याशङ्क्याह ---- अप्तत्त्वात्तु समारभ्य यावन्मायान्तगोचरम् || ११-२८० || तत्सर्वं संहरेत् कालः स्वयमेव चराचरम् | कालः इत्यशेषविश्वकलनः परमेश्वर एवोर्ध्वोर्ध्वभुवनेशमूतीमाविश्याधोऽधोवतीतत्त्वसंहारं क्रमेण करोतीत्यर्थः | एतच्चाग्रे व्यक्तीभविष्यति || शुद्धेऽध्वनि कः संहर्ता ? ---- इत्याह ---- तदूर्ध्वे शुद्धमध्वानं यावच्छक्त्यन्तगोचरम् || ११-२८१ || तत्सर्वं संहरेद् घोरमघोरो घोरनाशनः | शक्त्यन्तस्याध्वनो घोरमिति विशेषणाद् मायादिक्षित्यन्तस्य घोरतरत्वमित्यर्थादवगतम् | न विद्यते घोरं भेदसंसृष्टं रूपं यस्य सोऽघोर इत्ययमर्थो घोरनाशन इत्यनेन व्याख्यातः | अत्रापि च यथोत्तरमीश्वरसदाशिवादितत्त्वेश्वरमूर्त्याविष्ट एवाघोरभट्टारकोऽधराधरतत्त्वं संहरतीत्यर्थो वक्ष्यमाणग्रन्थसङ्गत्या बोद्धव्यः || प्रसङ्गागतं संहर्तृविचारमुपसंहरति ---- त्रिष्वेवं संस्थितो रुद्रः कालरूपी महेश्वरः || ११-२८२ || त्रिषु पृथ्वीमायाशक्त्यन्तेषु पदेषु | एवमिति संहर्तृतया | रुद्र इति कालाग्निरुद्रो भुवि, कालरूपी मायान्तं पदं कलयन्ननन्तभट्टारकः, शक्त्यन्तेषु महेश्वरः | अथवा एको महेश्वरो रोदनद्रावणकारित्वाद्रुद्रस्त्रिषु पदेषु कालरूपी संहर्ता कालाग्निरुद्रादिवैचित्र्येण स्थित इत्यर्थः || २८२ || एवं प्रासङ्गिकमर्थमुपसंहृत्य प्रकृतमनुसरति ---- ततः संहरते तोयममरेशशतात्यये | तेजस्तत्त्वाधिष्ठितो रुद्रः, अमरेशसम्बन्धिवर्षशतसङ्ख्यातस्वदिनान्ते तोयं जलतत्त्वं संहरतीत्यर्थः | अमरेशस्य च शतरुद्रायुष्कालपरीमाणं दिनमिति तदनुसारेण प्राग्वद्वर्षम्, तच्छतमायुस्तदपि तेजस्तत्त्वाधिपतेदीनमित्याद्युत्तरोत्तरं क्रमेणानुसरणीयम् | ऽऽअमरेशः शतात्ययेऽऽ इत्यपपाठः, स्वशतात्यये तस्य संहर्तृत्वायोगात्तदधरवतीशतरुद्रात्ययेऽपि तोयतत्त्वसंहाराभावात् || तदेवादिशति ---- एवं भूताद्यावरणपतयश्च शतात्यये || ११-२८३ || संहरन्ति च देवेशि सृजन्ति च परस्परम् | भूततन्मात्राद्यावरणेश्वरा यथोत्तरमैश्वराण्यधराधरतत्त्वानि तदीश्वरसम्बन्धिवर्षशतान्तरूपे स्वदिनान्ते संहरन्ति, पुनस्तावत्कालस्वरात्र्यन्तेऽन्यानि सृजन्ति | क्वचित्तु ---- ऽऽएवं भूतपतीनां तु प्राप्ते वर्षशतात्यये | यातैस्तैनीष्कलस्थानं ततो भूतानि शाङ्करि || संहरन्ति च देवेशि सृजन्ति च परस्परम् |ऽऽ इति पाठः | अत्रापि यथोत्तरमधराधरगतानि तत्त्वानीति व्याख्येयम् || तत्त्वानां परस्परलयात्मकं संहारं स्फुटयति ---- आपस्तेजसि लीयन्ते तत्तेजश्चानिले पुनः || ११-२८४ || तथानिलोऽम्बरं प्राप्य सह तेनैव लीयते | तन्मात्रेषु प्रलीयन्ते यथोत्पन्नानि च क्रमात् || ११-२८५ || तन्मात्राण्यप्यहङ्कारे सेन्द्रियाणि यथाक्रमम् | स बुद्धौ सा च गहने गुणसाम्ये प्रलीयते || ११-२८६ || गुणसाम्यमनिर्देश्यमप्रतर्क्यमनौपमम् | तस्मिन् जगदशेषं तु प्रसुप्तमिव तिष्ठति || ११-२८७ || सह तेनैव लीयत इति तेनान्तःकृतपृथिव्यप्तेजोरूपतत्त्वत्रयेण वायुना सह व्योम लीयते | क्व लीयत इत्यत आह ---- तन्मात्रेष्विति | प्रलीयन्त इति बहुवचनस्य प्रशब्दस्य चायमाशयो यद् व्योम तल्लीनानि पृथिव्यप्तेजोवायुतत्त्वानि स्वकारणेषु तन्मात्रेषु प्रकर्षेण लीयन्ते तन्मयानि भवन्ति | यथोत्पन्नानीत्येकत्वादिक्रमेण यथा जातानि, तथैव | तेन पृथ्वी तन्मात्रपञ्चके, आपश्चतुष्टये, तेजस्तत्त्रये, वायुस्तद्द्वये, व्योम शब्दतन्मात्रे | गन्धो रसतन्मात्रें, तथा उपस्थः पायौ, पायुः पाणावित्यादिक्रमोऽनुसर्तव्यः | गहन इति प्रधानतत्त्वे | उपमैव औपमम् | इत्थं क्ष्मादिबुद्ध्यन्ते प्रकृतिविश्रान्ते सति तावदन्तमशेषं जगद् गाढनिद्रामूढमास्ते || २८७ || इत्थं प्रकृत्यन्ते संहृते सति ---- परमाणुप्रमाणेन लीनं संतिष्ठते जगत् | परमाणुनाऽत्यन्तमणीयसा परमपेलवेन चेन्द्रियाद्यगोचरेण रूपेण जगत् चराचरं प्रलीनमास्ते || यच्च प्रकृतितत्त्वनिविष्टानां रुद्राणां पूर्वोक्तकलनयाऽऽयुः, तत् ---- षड्विंशकस्य रुद्रस्य चैतद्दिनमिह स्मृतम् || ११-२८८ || गुणतत्त्वेन सह प्रधानान्तं तत्त्वपञ्चविंशतिगतानां पञ्चविंशत्या प्रघट्टकैरवस्थितानां सर्वेषां रुद्राणां स्वामी श्रीकण्ठनाथ इह षड्विंशकोऽभिप्रेतः || २८८ || अस्य ---- प्रजाः प्रजानां पतयः पितरो मानवैः सह | साङ्ख्यज्ञानेन ये सिद्धाः वेदेन ब्रह्मवादिनः || ११-२८९ || छन्दः सामानि चोङ्कारो बुद्धिस्तद्देवताः प्रिये | अह्नि तिष्ठन्ति ते सर्वे परमेशस्य धीमतः || ११-२९० || प्रजाः प्रजायमानानि चतुर्दशविधभूतानि | पतयो भुवनेशाः | इतरो अन्वाद्याः | प्रजाग्रहणसङ्गृहीतानामपि मानवानां पुनरुपादानं इचित्र्योत्थापककर्मकारित्वेन संसारे प्रधानत्वात् | साङ्ख्यज्ञानं रकृतिपुरुषविवेकप्रत्ययः | वेदेन ब्रह्मवादिन इति --- - ऽऽपुरुष एवेदं सर्वम्ऽऽ (ऋ.१०-९०-२) इति ब्रह्म ये वदन्ति वेदान्तविदः | तद्देवता इति बुद्धितत्त्वगता ब्रह्माद्या देवयोनयः | परमेशस्येति भुवनाध्वनि वणीतमाहात्म्यस्य, अह्नि तिष्ठन्ति दिनारम्भेऽभिव्यज्यन्ते || २९० || किञ्चास्य ---- दिनान्ते ते प्रलीयन्ते............... पुनरपि च ---- ..............ॠआत्र्यन्ते विश्वसम्भवः | अथाव्यक्ततत्त्वस्थरुद्रसम्बन्धिदिनावधेर्मानुष्येण दिव्येन चाब्दमानेन कलयितुमशक्यत्वाद् बुद्धितत्त्वगतब्रह्मसम्बन्धिभिः प्रलयोद्भवैः सङ्कलनां कर्तुमाह ---- षट्त्रिंशत्तु सहस्राणि ब्रह्मणां प्रलयोद्भवाः || ११-२९१ || अव्यक्ते च दिनं प्रोक्तं रुद्राणां तन्निवासिनाम् | पूर्वोक्तनीत्या बुद्धितत्त्ववर्ती ब्रह्मा गुणतत्त्वगतरुद्रदिनान्ते संह्रियते, तद्दनारम्भे चान्यः सृज्यत इति तदीयेऽब्दे सषष्टिशतत्रयं धीगतब्रह्मणां प्रलयोल्लासा भवन्ति | तावांश्च गुणतत्त्ववासिरुद्राणां जीवितावधिः | स चाव्यक्तनिष्ठरुद्राणां दिनकालः | तदिदं यदीदृगव्यक्तस्थरुद्राणां दिनमुक्तम्, तस्य चावान्तर उच्यते ---- ब्रह्माण्डप्रलयप्रधानप्रलयमध्यवर्ती जलादिगुणान्ततत्त्वविषयो विचित्रो यः संहार उक्तः, सोऽवान्तरप्रलयो मन्तव्यः || कस्तस्य प्रलयस्य तदन्ते च सृष्टेः कर्तेत्याह ---- तस्मिन् संहरते सर्वं प्रधानस्य दिनक्षये || ११-२९२ || रात्र्यन्ते च सृजेद् भूयः श्रीकण्ठो विश्वनायकः | यथा चास्य गुणमस्तकवतीनोऽपि विश्वनायकत्वं, तथा दशमपटले वितत्य दशीतम् || अथ ---- तस्याप्यनेन न्यायेन परिमाणस्थितिर्भवेत् || ११-२९३ || यस्मात् प्रलयकोट्यश्च व्यतीताश्च सहस्रशः | अनेन न्यायेन स्थितिरिति सषष्टिशतत्रयदिनसङ्ख्याब्दशतावधिः प्रलयकोट्य इत्यधोवतीतत्त्वतत्त्वेशगताः || एतदवध्यन्ते च ---- ततो नियतिकालौ च रागो विद्या कला तथा || ११-२९४ || परस्परं लयं यान्ति क्रमात् सर्वे स्वमानतः | तत इति श्रीश्रीकण्ठीयाधिकारसमाप्तौ | क्रमादिति कलाद्यानुलोम्यक्रमेण यत् कञ्चुकपञ्चकं देशवैचित्र्येणावस्थितम्, तद् नियत्यादिप्रातिलोम्यक्रमेण चूर्णपाषाणजलवत् परस्परं लीयते | स्वमानत इति कञ्चुकवासिसर्वरुद्रसम्बन्धिशतवर्षान्ते | अनेन चैतद्दशीतं यत् सर्वेषां कञ्चुकवासिनां सपुंस्तत्त्वरुद्राणां युगपदेव च प्रलय इति | तथा च पूर्वं तेषाम् ---- ऽऽतस्मात् कला समुत्पन्ना विद्यारागौ तथैव च | कालो नियतितत्त्वं च पुरुषः प्रकृतिस्तथा ||ऽऽ (११-६४) इति सृष्टिरपि युगपदेवोक्ता | भुवनादिदेशव्यवस्था तु पृथगिति तदाशयेन क्रमात् सर्वे इतीहोक्तम् || तदित्थम् ---- कलाद्यवनिपर्यन्तं गहनेशदिनक्षये || ११-२९५ || नानाभुवनविन्यासरचनादिविभूषितम् | सगुणाधारपर्यन्तरुद्रक्षेत्रज्ञसङ्कुलम् || ११-२९६ || गहनेशे लयं याति मूलप्रकृतिकारणे | गहनेशो मायातत्त्वग आद्यो रुद्रः | रचनादीत्यादिशब्दाद्विभवः | ऽऽअधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् | मध्ये तमो विजानीयाद् गुणास्त्वेते व्यवस्थिताः ||ऽऽ (२-६६) इति पूर्वोक्तनीत्याऽऽधारो माया, स पर्यन्ते यस्य तद्गुणाधारपर्यन्तं कलातत्त्वं सहगुणाधारपर्यन्ता ये रुद्रक्षेत्रज्ञास्तैः सङ्कुलम् | गहनेश इति गहन ईशः प्रभुर्यस्य, तस्मिन् गहनेशे मायातत्त्वे मूलप्रकृतेः प्रधानस्यापि कारणे || तच्च तथा लीनं सत् ---- रात्र्यन्ते जायते भूयो गहनेशप्रचोदनात् || ११-२९७ || तदित्थमस्य ---- अहोरात्रस्त्वयं प्रोक्तः प्राकृतः परमेश्वरि | प्रकृतिरिह विशेषाचोदनात् कलादिक्षित्यन्तस्य विश्वस्य कारणं मायोच्यते, तस्या अयं प्राकृतो मायीयः || तद्गतश्च यो रात्रिकालः ---- प्रलयश्च स एवोक्तो भूतानां परमेश्वरि || ११-२९८ || कलातत्त्वान्तानां सर्वेषां प्रकृष्टचिरतरकालानामधस्तनकालापेक्षया कलयितुमशक्यत्वात् प्राधानिककालमवधिं कृत्वा कलयितुमाह ---- प्राधानिकपरार्धेन दशधा गुणितेन तु | माया संहरते सर्वं पुनश्चैव सृजेज्जगत् || ११-२९९ || प्रधानस्यायं प्राधानिकः कालः, तस्य यत् परार्धं पूर्वोक्तः सङ्ख्याविशेषस्तेन | दशधा गुणितेनेति दशपरार्धगुणितेन प्राधानिककालेन मायाया दिनम्, रात्रिश्च तावती भवतीत्यर्थः | एतदुक्तं भवति ---- प्रधानाधिष्ठातृरुद्रायुष्कालो यः कञ्चुकनिवासिनां दिनम्, तत् सषष्टिशतत्रयकलितमब्दस्तच्छतेन तदायुरित्यत्र नेदृशी कलना क्रियते, अपि तु स कञ्चुकवासिदिनात्मा प्राधानिकः कालः परार्धदशकेन गुणितः कञ्चुकवासिनामायुः, तच्च गाहिनिकं दिनमित्ययमत्र पूर्वतो विशेषो दशीतः | इत्थं च परार्धदशकगुणितो यः प्राधानिककालस्तस्य शततमो भागः कञ्चुकवासिनाम् वर्षम्, तस्यापि षष्ट्यधिकत्रिशततमो भागोऽत्र दिनमितीत्थमत्र वर्षदिनादिव्यवस्था कार्या || २९९ || एवमुक्तपरार्धदशकगुणितं तद् गहनेशदिनम्, तत्कलनया वर्षम्, तच्छतरूपो यो गहनेशावस्थितिकालः, स एव तदाश्रयस्य मायातत्त्वस्य कालः | तमवधिं कृत्वेश्वरतत्त्वाधिष्ठातुरीश्वरस्य दिनपरिमाणं दर्शयितुमाह --- - मायाकालपरार्धस्य शतधागुणितस्य च | ईश्वरः कुरुते सृष्टिं पुनश्च संहरेज्जगत् || ११-३०० || अत्रापि मायाया योऽवस्थितिकालस्तस्य यत् परार्धं तस्य शतधागुणितस्येति परार्धशतसङ्ख्यातस्य | तावत्कालमीश्वरः सृष्टिं स्वदिने, संहारं स्वरात्रौ शुद्धविद्यातत्त्वान्तस्य विश्वस्य करोतीत्यर्थः | ऽऽशतधागुणितस्यऽऽ इत्युक्तेरयमाशयो यत्किल मायावधिः कालः परार्धैर्दशभिर्गुणितो विद्यातत्त्वाधिपतेरनन्तनाथस्याधिकारकालः, तत्रापि पूर्ववद्भागकलनया वर्षदिनप्रविभागो ज्ञेयः ---- इत्येवंविधो योऽनन्तनाथाधिकारकालः, सोऽपि परार्धदशकगुणित ईश्वरस्य दिनमिति | अत्राप्युक्तक्रमानुसारिवत्सरतच्छतात्मा ईश्वराधिकारकालः || ३०० || सोऽपि प्रक्रान्तरीत्या परार्धशतगुणितः सदाशिवनाथस्य दिनमिति तदन्तेऽसावधोवती विश्वं संहरतीत्याह ---- ततः सदाशिवो देवः स्वमानेन च संहरेत् | सृजते च पुनर्भूय आत्मीये देव्यहर्मुखे || ११-३०१ || स्वमानेनेत्यवतरणिकायामेव व्याख्यातम् | पुनर्भूयः भूयो भूय इत्यर्थः || ३०१ || तदित्थम् ---- महाप्रलय एवोक्तः सादाख्ये तु दिनक्षये | पूर्वोक्तमायीयप्रलयापेक्षयाऽयं महान्, शुद्धाध्वनोऽपि संहरणात् || अनेन च परिमाणेनायमपि स्ववर्षशतान्ते ---- बिन्दुतत्त्वे लयं याति पञ्चमन्त्रमहातनुः || ११-३०२ || विन्दुतत्त्व इत्यभिधानात्तदधोगतो भुवनाध्वा प्रतिपादितः, स्थूलः सदाशिवोऽत्र विवक्षितः | बिन्दुतत्त्वे लयं याति बिन्द्वीश्वररूपतामाविशति || ३०२ || तथाविधश्चासौ ---- बिन्दुं चैवार्धचन्द्रं तु भित्त्वा चैव निरोधिकाम् | नादतत्त्वे लयं याति गृहीत्वा सचराचरम् || ११-३०३ || बिन्द्वर्धचन्द्रनिरोधिकाभूमीः क्रमात्क्रमं परार्धशतगुणितपरिमाणदिनादिव्यवस्थाकलितावस्थितीराविश्य स्थूलः सदाशिवभट्टारको नादात्मनि सूक्ष्मे सदाशिवपदे लीयते तदात्मा जायत इत्यर्थः || ३०३ || सोऽपि च ---- नादः सौषुम्नमार्गेण भित्त्वा ब्रह्मबिलं प्रिये | शक्तितत्त्वे लयं याति शक्तितत्त्वदिनक्षये || ११-३०४ || नादात्मा सूक्ष्मः सदाशिवनाथः पूर्वोक्तकलनागणितसुषुम्नेशदिनान्ते तद्रूपतां श्रित्वा तथैव तदवधिकालगणनागणितब्रह्मेशदिनान्ते ब्रह्मरन्ध्रस्थब्रह्मरूपतां श्रित्वा तदीयावस्थितिकाले तथैव गणिते यच्छक्तितत्त्वस्थदेवतादिनम्, तदन्ते तन्मयीभवतीत्यर्थः || ३०४ || अथ शक्तितत्त्वदिनावधिः कियान् कालः स्यात् ? ---- इत्याह ---- परार्धः स तु विज्ञेयः कालस्तु वरवणीनि | पूर्वम् ---- ऽऽप्राधानिकपरार्धेन दशधागुणितेन चऽऽ (११-२९९) इति, तथा ---- ऽऽमायाकालपरार्धस्य शतधागुणितस्य चऽऽ (११-३००) इत्युक्तत्वाद् शक्तितत्त्वदिनान्तात्मा कालः परार्धपरार्धात्माऽतिविततसङ्ख्यो विज्ञेयः, न त्वेकपरार्धमात्ररूपः, पूर्वोक्तव्याघातापत्तेः | तथाहि भुवनाध्वनि तत्त्वानामुत्तरोत्तरं देशप्रमाणे प्रकर्ष उक्तस्तथेह स्थित्यादिकालोऽप्युत्तरोत्तरं प्रकृष्यत एवेत्यस्य ग्रन्थस्य तात्पर्यम् | इत्थं परार्धपरार्धमानं शक्तिदिनम्, तावत्येव च तदीया रात्रिरनया कलनया यद्वर्षशतम्, तदन्ते शक्तितत्त्वाधिष्ठातृसूक्ष्मदेवताधिकारपरिसमाप्तिः || तच्च शिवतत्त्वस्थस्य व्यापीशस्याप्यहर्मुखम् || ११-३०५ || तत्रासौ ---- ततश्च संसृजेद् भूयो व्यापी व्योमस्वरूपिणि | लीयते सोऽप्यनन्तेशे सोऽनाथे सोऽप्यनाश्रिते || ११-३०६ || स्वाधिकारपरिसमाप्तौ लीयते || ३०६ || अथास्यानाथान्तविश्वाश्रयस्यानाश्रितनाथस्य कियद्दनं स्यात्? ---- इत्याह ---- शक्तिकालपरार्धस्य कोटिधागुणितस्य च | अनाश्रितस्य देवस्य दिनमेतत् प्रकीतीतम् || ११-३०७ || यः परार्धपरार्धात्मा शक्तिकाल उक्तस्तस्य प्रकरणात् परार्धकोटिगुणितस्य यः कालः, तदनाश्रितस्य दिनम् || ३०७ || अथ ---- अनेन परिमाणेन परार्धगुणितेन तु | सोऽपि याति परं स्थानं कारणं स्वमनाश्रयम् || ११-३०८ || परार्धपरार्धरूपो यः शक्तिकालः परार्धकोट्या गुणितोऽनाश्रितदिनात्मा, सोऽपि परार्धेनेति परार्धपरार्धेन गुणितोऽनाश्रितस्याधिकारकाल इति तच्छतभागतत्सषष्टित्रिशतभागाकर्षणादस्य वर्षदिनव्यवस्था प्राग्वदनुसरणीया | तदित्थमतिविततकालाध्वगतस्वाधिकारकालपरिसमाप्तावनाश्रितनाथ. ह् स्वमनाश्रयम्, कारणमिति ---- ऽऽअत्रारूढस्तु कुरुते शिवः परमकारणम् | सृष्टिं......................................... ||ऽऽ (१०-१२५८) इत्याद्युक्तनीत्या परमशिवमेव, तिष्ठत्यस्मिन् विश्वमिति व्युत्पत्त्या स्थानम्, याति, तदेकात्मा भवति || ३०८ || यश्चायमियतीमतिविततविततविततामध्वधारामधिरूढः ---- स कालः साम्यसञ्ज्ञश्च.............. यथा गुणानां साम्यं प्रधानम्, तथा सर्वेषां सृष्टिस्थितिसंहारक्रियाकलनाभासानां यत् साम्यं प्रकर्षापकर्षशून्यं वपुः, तत् साम्यं ज्ञेयम् | समताश्रयः साम्येन, कल्यमानत्वादेव च कालशब्देनोक्तः || वैषम्यनिवृत्त्यात्मकसाम्यात्मकत्वादेव चायम् ---- ...................जन्ममृत्युभयापहः | समापन्नस्येत्यर्थः || अथ ---- ततोऽप्यूर्ध्वममेयस्तु कालः स्यात् परमावधिः || ११-३०९ || नित्यो नित्योदितो देवि अकल्यश्च न कल्यते | साम्यसञ्ज्ञः कालः प्रशान्तनिःशेषवैषम्यात्मतया कल्यमानत्वात् प्रमेयस्तथा नायम्, अत एव परमोऽवधिः सर्वप्रमेयप्रमात्रादिप्रतिष्ठापदमुन्मनापरतत्त्वसामरस्यात्म- परप्रमातृरूप इत्यर्थः | चो ह्यर्थे | यतो न कल्यते, अत एवाकल्यः || कथं तही कालशब्दोऽत्र प्रवृत्तः ? ---- इत्याह ---- स चाधः कलयेत् सर्वं व्यापिन्यादिं धरावधिम् || ११-३१० || तुट्यादिभिः कलाभिश्च देव्यध्वानं चराचरम् | साम्यसञ्ज्ञं कालं भित्तिभूतमवधिमाश्रित्य तदुद्भूतं व्यापिन्यादिं सर्वमिति धरान्तमध्वानं यतः कलयत्यन्तः प्रकाशैकात्म्येन स्थितं बहिर्वैचित्र्यशतैः प्रक्षिपति, बहिराभासितं चान्तः क्षिपति नानात्वेन च परिगणयति, यत एव सर्वं कलयति ततोऽयं काल उच्यत इत्यर्थः || एतदेवाधिकावापेनानुवदन्नुपसंहरति ---- ऊर्ध्वमुन्मनसो यच्च तत्र कालो न विद्यते || ११-३११ || न कल्यः कल्यते कश्चिन्निष्कलः कालवजीतः | यः शाङ्कर्युन्मनातीतः स नित्यो व्यापकोऽव्ययः || ११-३१२ || उन्मनसः सम्बन्धि ऊर्ध्वं परतत्त्वात्मकं यत्पदं तत्र कलनाहेतुः कालो नास्ति, यस्मान्न तत्र कल्यः कलनार्हः कोऽपि कल्यते, सर्वस्य तत्र परमशिवैकात्म्येनैवावस्थितेः | यतश्चायमप्रमेयत्वात्तुट्यादिकलाभ्यः कालावयवरूपेभ्यो निष्क्रान्तस्तेन क्रमाद्यवभासात्मककालवजीतः, तद्रूपो न भवति केवलं प्रोक्तव्याख्यासतत्त्वविश्वकलनाकारित्वात् काल इत्युक्तः | अव्यय इत्यपरिक्षीयमाणमूतीः | उक्तं च योजनिकायाम् ---- शर्वकालं तु कालस्य व्यापकः परमोऽव्ययः | उन्मनान्ते परे योज्यो न कालस्तत्र वर्तते ||ऽऽ (४-२८७) इति || ३१२ || यस्मात् ---- तस्यादौ यादृशं रूपं कल्पान्ते चैव तादृशम् | आदौ सृष्टिकाले || किञ्च ---- अरूपो रूपनिर्मुक्तः सोऽनादिर्भववजीतः || ११-३१३ || सर्वज्ञः सर्वकर्तां च दानादिगुणवजीतः | रूप्यन्त इति रूपाणि देशकालाकारनियमा न विद्यन्ते यस्य, अत एव रूपेभ्य इदमीदृगित्यादिरूपव्यापारेभ्यो निर्मुक्तः, यतोऽनादिस्तत एव भवेनोत्पादेन वजीतोऽसंस्पृष्टः | सर्वज्ञ इति प्राग्वत् | सर्वेण रूपेण कर्ता सर्वात्मना स्वतन्त्रः | चकारो ज्ञत्वकर्तृत्वयोः सामरस्यमाह | यश्च व्यतिरिक्ते ज्ञेये कार्ये ज्ञाता कर्ता च, असावनादिभिः प्रवाहनित्यतया वर्तमानैर्गुणैर्मायाधर्मैर्युक्तो भवति | अयं त्वभेदसर्वज्ञसर्तकर्तृत्वात्मकत्वात्तैरसंस्पृष्टः || एवमपि ततो नान्यत्किञ्चिदस्ति, अपि तु ---- स एवापररूपेण.............. स्वस्वातन्त्र्यात् स्फुरन्नपि ---- .........उन्मन्या र्मूध्नि संस्थितः || ११-३१४ || अतश्चायम् ---- देवदेवो जगन्नाथः परमात्मा शिवोऽव्ययः | पूर्वानुक्रमयोगेन सोऽकामात् सृजते जगत् || ११-३१५ || जगता कालाग्न्यादिशिवान्तेन नाथ्यत इति जगन्नाथः | पूर्वानुक्रमयोगेनेति समनापदमारुह्य तत्तत्कारणमूर्त्याश्रयणेनेत्यर्थः | अकामादित्थमिदमेवमहं करोमीति सङ्कल्पं विना | शिष्टं प्रागेव व्याख्यातप्रायम् || ३१५ || अकामादित्याक्षिपन्ती श्रीदेवी उवाच ---- अकामस्य क्रिया नास्ति निष्क्रियश्च सृजेत् कथम् | एतं प्रश्नवरं गुह्यं कथय स्व प्रसादतः || ११-३१६ || सर्वा गमनपचनादिक्रिया सङ्कल्पपूर्वा, सङ्कल्पश्च चिदानन्दघने भगवति नेष्टः, तत्कथमक्रियस्य स्रष्टृत्वम्; अथ च चित्प्रकाशात्मकपरमेश्वरस्वरूपव्यतिरिक्तस्यान्यस्य सत्त्वमेव न घटते, किमङ्ग कर्तृत्वम् | अत एतं प्रश्नानां मध्ये वरमुत्कृष्टं प्रश्नमेतन्निर्णयाच्च सर्वसंशयोच्छितिर्भवति | प्रसादतस्तत्त्वार्थोन्मीलनेन कथयेति एतन्निर्णयमादिश || ३१६ || इत्थं पृष्टः श्रीभैरव उवाच ---- आदित्यस्य मणेर्यद्वत्तापिताद्रविरश्मिभिः | वह्निः सञ्जायते तस्माद्रवेस्तत्र न कामिता || ११-३१७ || मणेरपि न कामित्वं तद्वद् देवस्य चेष्टितम् | यः किल कुम्भकारादिः स्वव्यक्तिरिक्तं कार्यं किमपि प्रयोजनमुद्दश्य जनयति, तस्य सङ्कल्पं विना तत्पूर्वकक्रियानुदयान्मा भूत् कर्तृत्वम्; परमेश्वरस्य स्वतन्त्रभट्टारकस्येदमेव परमेश्वरत्वम् यदयम् ---- शृष्टिसंहारकर्तारम्ऽऽ (१३) इत्याद्युक्तनीत्या स्वचिद्भित्तौ स्वातन्त्र्यशक्त्या दर्पणनगरवत् स्वानतिरिक्तमप्यतिरिक्तमिव शिवादिक्षित्यन्तमनन्तावान्तरवैचित्र्य- चित्रितमाभासयंस्तावदशेषचमत्कारात्मकपूर्णानन्दघनस्वभाव एवेति वस्तुस्वभावमात्रसाम्येन सूर्यसम्पृष्टसूर्यकान्तोत्थवह्निरत्र दृष्टान्तः || तदाह ---- आदित्यवच्छिवो ज्ञेयः शक्तिर्मणिरिव स्थिता || ११-३१८ || न तु जाड्यं भिन्नत्वं च दार्ष्टान्तिके शङ्कनीयम्, दृष्टान्तदार्ष्टान्तिकयोः सर्वसाधर्म्यायोगात् || किञ्च ---- ऋतुकालमिताद् वृक्षात् कालोऽङ्कुरनियोजकः | यद्वच्छिवसमायोगात्तद्वच्छक्तेर्जगत्स्थितिः || ११-३१९ || ऋतुकालभाजस्तरोर्यथाऽयं स्वभाव एव यदङ्कुरादिवैचित्र्यवत्त्वम्, तथा नित्यावियुक्तचिदानन्दात्मनोः शिवशक्त्योः स्वरूपमेवैतद् यत् कृत्यपञ्चकप्रपञ्चात्मना स्फुरणम् | तदुक्तं शिवसूत्रेषु ---- श्वशक्तिप्रचयोऽस्य विश्वम्ऽऽ (३-३०) इति | इत्थं चैवंविधाशेषविश्वचमत्कारसारपरमशिवात्मकस्वचिद्भूमि- विमर्शनं सर्वशास्त्रेषु परमोपादेयं जीवन्मुक्तिप्रदमुच्यत इत्याशयेन प्रश्नवाक्ये गुह्यमभिहितमिति शिवम् || ३१९ || शम्भोः पूर्णानन्दचिद्रत्नराशेः शक्तिर्बाह्याभासनात्मोच्छलन्ती | देवीत्रैतैकात्मरूपामिमां तां स्वां सम्पूर्णां देवतामामृशामि || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्य- श्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते एकादशः पटलः || ११ || द्वादशः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ स्वात्मनि स्वेच्छया कॢप्ततत्तत्तत्त्वस्फुटद्युतौ | स्वाभिन्ना भासयन् सिद्धीः स्वच्छन्दो जयति प्रभुः || पटलसङ्गत्यर्थमुक्तमनुवदन्ती तत्त्वसिद्धिबुभुत्सया श्रीदेव्युवाच -- -- सृष्टिः स्थितिश्च संहारस्तत्त्वानां कथितस्त्वया | जगत्सम्भवहेतुश्च.............. जगतस्तत्त्वभूतभावभुवनादिरूपस्य हेतुः परमकारणं परमशिवः || एतच्च ---- .............ट्वत्प्रसादाच्छ्रुतं मया || १२-१ || प्रसादादि प्राग्वत् || १ || इदानीं तु ---- तत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत् | विज्ञानं धारणादिक्रमेण साक्षात्कारः | तेष्विति तद्विषया सिद्धिर्यथा स्यात् || एतद् गदितुं श्रीभैरव उवाच ---- पृथिव्यादि शिवान्तं च कथयामि समासतः || १२-२ || यथा देहे यथा च बहिः स्थितम् | समासतः सङ्क्षेपेण, विस्तरतस्त्वग्रे धारणावसरे भविष्यति || २ || तत्र ---- पृथ्वी कठिनरूपेण शृणु देहे यथा स्थिता | यथेति येन मांसादिना प्रकारेण || तदाह ---- मांसेऽस्थिषु तथा चैव स्नायुलोमनखेषु च || १२-३ || मज्जान्त्रेषु च विज्ञेया पृथ्वी पञ्चगुणोत्कटा | एतच्चाग्रे स्फुटीभविष्यति || कफासृगाममूत्रेषु रसस्वेदवसासु च || १२-४ || शुक्रे च संग्रहे चैव स्थिता आपश्चतुर्गुणाः | देहे इत्येव | रस आहारपानपरिणामोत्थ आद्यो देहधारको धातुः | संग्रह पाथीवादीनां मांसादिभावेन परिणतानां संश्लेषः | पचने दहने चैव तेजस्यूष्मणि संस्थितम् || ५ || आहारादेः पाकनिमित्तं महाक्षारजननात्मकदाहाय परासह्यदीप्तये उपलभ्योष्मसम्पत्तये च देहे तेजः स्थितम् || ५ || तेजस्त्वेवं स्थितं देवि प्रकाशे च त्रिलक्षणम् | प्रकाशे इति नेत्ररश्मिद्वारेण वस्तुप्रथनाय | त्रयो रूपस्पर्शशब्दा लक्षणं यस्य | एतच्चादृष्टवशाद् देहेऽनुद्रिक्तरूपस्पर्शं स्पष्टम् || वायुरुच्छ्वासनिःश्वासस्पर्शनव्यूहलक्षणः || १२-६ || मूत्रोच्चारविसर्गेषु अन्नपानप्रवेशने | स्पर्शनं बाह्याभ्यन्तरस्पर्शग्रहणम् | व्यूहो रचना | उच्चारो मलपरिणामः | विसर्गो बहिष्कृतिः || तदित्थम् ---- वायुरेभिः स्थितो देहे विज्ञेयस्तु द्विलक्षणः || १२-७ || एभिर्व्यापारैरुपलक्षितः | द्वौ शब्दस्पर्शौ लक्षणं ज्ञप्तिहेतुर्यस्य स द्विलक्षणो द्विगुणः || ७ || एकलक्षणमाकाशं कथयामि यथा स्थितम् | एकः शब्दो लक्षणं यस्य | तत्र पृथिव्याः खटखटारूपः, जलस्य च्छलच्छलता, तेजसो धगधगाकृतिः, वायोः शुकशुकास्वभावः, आकाशस्य प्रतिश्रुत्काख्यः शब्दः | स्पर्शोऽपि पृथ्व्याः पाकजोऽनुष्णाशीतः, जलस्य शीतः, तेजस उष्णः, वायोरपाकजोऽनुष्णाशीतः | पृथ्व्याः सितादि नानारूपम्, जलस्य सितम्, तेजसो भास्वरम् | पृथ्व्याः षड्विधो मधुरादिरसः, जलस्य मधुरः | पृथ्व्या एव तु सुरभिरूपो गन्ध इति | विशिष्टैरेव तैर्गुणैर्देहे पृथिव्यादिभूतानि लक्षणीयानि || यथास्थितमित्युक्तं स्पष्टयति ---- सुषिरात्मकं तु विज्ञेयं नवधाच्छिद्रलक्षणम् || १२-८ || नव च्छिद्राणि द्वाराणि ब्रह्मरन्ध्रचक्षुःश्रोत्रघ्राणास्यचूचुकनाभिलिङ्गगुदगतानि लक्षणं यस्य || ८ || इत्थं नवद्वारलक्षितम् ---- शब्दात्मकं गुणं ह्येतत् कथितं तव सुव्रते | एवं देहे भूतपञ्चकं प्रदर्श्य, तदुपस्थापकतत्प्रकाशकानि कर्मेन्द्रियबुद्धिमनांसि प्रकाश्येन्द्रियकारणभौतिकरूपादिप्रतीतिवशानुमेयानि रूपाद्यविशेषरूपाणि तन्मात्राण्युपपादयिष्यति | तत्र तावत् ---- वागिन्द्रियं वदेद्वाणीं सा च वाणी चतुवीधा || १२-९ || संस्कृता प्राकृती चैव अपभ्रष्टानुनासिका | शंस्कृता नाम दैवी वागन्वाख्याता महषीभिःऽऽ इति तत्रभवद्भर्तृहरिणाउक्ततात्पर्या संस्कृता | प्रकृतिभूताया वर्णलोपान्यथाभावादिक्रमेण आयाता प्राकृती | यदाहुः ---- ऽऽतद्भवस्तत्समो देशी त्रिविधः प्राकृतक्रमःऽऽ इति | अपभ्रष्टा देशभाषा विचित्रः | अनुनासिका नासिकामनुगता गीयमानाक्षररूपा वर्णाङ्गमितिप्रसिद्धा || छेदनं भेदनं दानं व्यधनं शिल्पयोजनम् || १२-१० || ग्रहणं विजयश्चैव सर्वं हस्तेन्द्रिये स्थितम् | छेदनं रज्ज्वादिषु | (भेदनं) भेदः शरादिकृतो लक्ष्याधिष्ठः | विजयो युद्धम् | विजयी इति वा पाठः || समनिम्नोन्नताश्चैव लोष्ठकण्टकबालुकाः || १२-११ || कर्दमो जलदुर्गाणि रथ्याट्टालकपर्वताः | पादेन्द्रियेण गम्यन्ते देशान्तरगमागमे || १२-१२ || देशान्तरगमनागमननिमित्तं समनिम्नादिस्थानानि पादेन्द्रियेण गम्यन्ते || १२ || उत्सर्गे पदीते चैव पायुर्वै चेष्टते सदा | उत्सर्गो मलमोक्षः | पदीतं गुदरन्ध्रेण कुत्सितशब्दः | आनन्दकृदुपस्थश्च गम्यागम्यप्रवर्तकः || १२-१३ || आनन्दकृत्त्वादेव विहितनिषिद्धादौ सर्वत्र प्रवर्तनमस्य स्वभावः, अत एव तन्नियमः शास्त्रे क्रियते || १३ || तदित्थम् ---- कर्मस्वेतानि वर्तन्ते तेन कर्मेन्द्रियाणि तु | यथा चैतानि ईदृशि, तथा ---- बुद्धीन्द्रियाणि देवेशि वर्तन्ते बुद्धियोगतः || १२-१४ || बुद्धेर्ज्ञानस्य योगः सम्बन्धस्तत्र तन्निमित्तं प्रवर्तन्ते || १४ || तत्र वितत्य शब्दाख्यविषयप्रभेदनिरूपणपूर्वं श्रोत्रेन्द्रियस्य तदुपलब्धिसाधनत्वमाचष्टे ---- षड्जाख्यर्षभगान्धारमध्यमाः पञ्चमः प्रिये | धैवतो निषधश्चैव स्वराः सप्त प्रकीतीताः || १२-१५ || गान्धारो मध्यमः षड्जस्त्रयो ग्रामाश्च पार्वति | इत्थम् ---- सप्त स्वरास्त्रयो ग्रामा मूर्छनाश्चैकविंशतिः || १२-१६ || तान एकोनपञ्चाशदित्येतत् सुरमण्डलम् | तदित्थम् ---- सूक्ष्मशब्दाः स्मृता ह्येते चराचररवस्थिताः || १२-१७ || सूक्ष्मध्वनिमात्ररूपाः, अत एव चराचरे सर्वत्र रवरूपतया ध्वनिमात्रावस्थिताः || १७ || अथ ---- स्थूलांश्चैव प्रवक्ष्यामि यथावत्तान्निबोध मे | भेरीपटहशङ्खोत्थो मृदङ्गपणवोत्थितः || १२-१८ || वेणुगोमुखशब्दश्च मन्दलो दर्दुरो ध्वनिः | तन्त्रीवाद्यानि चित्राणि करवाद्यानि यानि च || १२-१९ || संयोगजवियोगोत्थाः काष्ठपाषाणवारिजाः | अपभ्रंशोऽनुनासिक्यः संस्कृतः प्राकृतो रवः || १२-२० || संयोगजा हुडुक्कादिहस्तसङ्गोत्थाः, विभागजास्तु दलादिविश्लेषोदिताः || २० || तदित्थम् ---- सप्तस्वरप्रतिष्ठानि व्यक्ताव्यक्तानि चैव हि | उक्तानुक्तानि गृह्णाति श्रवणेन्द्रिययोगतः || १२-२१ || वाद्यसंस्कृताद्यात्मकानि सर्वाणि शब्दरूपाणि सप्तस्वरात्मकध्वनिविशिष्टनिष्ठानि श्रोत्रेण पुरुषो गृह्णाति || २१ || ततश्च ---- शब्दोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः | एष प्रोक्तरूपः सर्वः शब्दोऽस्य श्रवणेन्द्रियस्य विषयः | कस्यास्येत्याह ---- येन पुद्गलः पुमान् बुद्ध्येत जानीयात् | एवमुत्तरत्रापि सङ्गतिः कार्या || मृदुं च कठिनं चैव कर्कशं शीतलं तथा || १२-२२ || उष्णं च पिच्छिलं लोष्ठं कर्दमं बालुकास्तथा | शरकुन्तासिघातादि ताडनं छेदनं तथा || १२-२३ || एतानि वै विजानाति स्पर्शनं च त्वगिन्द्रियम् | स्पर्शनं सज्जानाति, स्पर्शनक्रमेण वेत्तीत्यर्थः || तदित्थम् ---- स्पर्शोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः || १२-२४ || अथ ---- चक्षुरिन्द्रियकर्माणि कथ्यमानानि मे शृणु | सितं रक्तं च पीतं च कृष्णं हरितधूम्रकम् || १२-२५ || कपिलं पिङ्गलं बभ्रु अन्यान्यपि विशेषतः | रूपाणि || तथा ---- नरनारीपशुमृगान् ज्योतिः स्थावरजङ्गमम् || १२-२६ || तदित्थम् ---- रूपाकृतिविविक्तानि चक्षुः पश्यति सर्वदा | रूपं सितादि, आकृतिः संस्थानम्; ताभ्यां विविक्तानि विलक्षणानि वस्तूनि चक्षुः पश्यतीत्यस्य कर्तृत्वमुपचरितम् || तदेवम् ---- रूपाख्यो विषयो ह्यस्य येनात्मा प्रतिबुद्ध्यते || १२-२७ || मधुराम्लरसं चैव लवणं कटु तिक्तकम् | कषायमिश्रं स्वादुं च जिह्वा वेदयते रसम् || १२-२८ || इत्थम् ---- रसोऽस्य विषयो ह्येष येन बुद्ध्येत पुद्गलः | सुरभिदीव्यगन्धश्च दुर्गन्धश्चाप्यनेकधा || १२-२९ || उभौ जिघ्रति नासाग्रे................ नासा कर्त्री अग्रे स्थितावुभौ जिघ्रति || अतश्चास्यायम् ---- ...............विषयो गन्धसंज्ञितः | येनासौ बुद्ध्यते क्षेत्री अहङ्कारेण मोहितः || १२-३० || शरीरादौ बद्धाभिमानत्वादेव व्यतिरेकेण विषयान् वेत्ति | एतच्च पूर्वत्रापि सम्बन्धनीयम् || सङ्कल्पे च विकल्पे च दशधाक्षेषु धावति | अनिवारितसन्देहमजययं सर्वदेहिनाम् || १२-३१ || मनश्च कथितं ह्येतद्धर्माधर्मनिबन्धकम् | बुद्धिकर्मेन्द्रियविषये य इदं श्रितमिदमादधे इति सङ्कल्पः, यश्च इदमीदृशमिति निश्चयात्मा विकल्पः; अत्र धावति यथातथा प्रवर्तते; अत एवैतदनिवारितसन्देहं सर्वत्र ससंशयम्, ज्ञानयोगं विना यन्न केनचिज्जेतुं पार्यते; धर्माधर्माभ्यां निबध्नातीति तन्निबन्धकं तत्सङ्गमकृत् || अथेन्द्रियकार्यरूपाद्युपलब्ध्यनुसारेण देहे तन्मात्रावस्थितिं दर्शयितुमाह ---- स्वरूपधर्मं वक्ष्यामि तन्मात्राणां यथार्थतः || १२-३२ || अर्थः प्रयोजनं तदनुसारेण तन्मात्राणां स्वरूपमुपागतनियताश्रयावस्थितिरूपं धर्मं स्वभावं वच्मि || ३२ || तत्र ---- गन्धं तु गन्धतन्मात्रं नासिकाग्रेण जिघ्रति | जिह्वया रसतन्मात्रं रसं गृह्णाति संस्थितम् || १२-३३ || चक्षुषा रूपतन्मात्रं रूपं गृह्णात्युपागतम् | गृह्णाति स्पर्शतन्मात्रं त्वचा स्पर्शमुपागतम् || १२-३४ || शब्दं च शब्दतन्मात्रं गृह्णाति श्रवणेन तु | गन्धादिप्रतीतिसाधनघ्राणादीन्द्रियाश्रयनासिकादिक्षेत्रगतम् अदृष्टवशादुद्भूतगन्धतन्मात्रादिकं कर्क्तृ, तेनैव घ्राणादिनां गन्धादिगुणं गृह्णातीति सङ्गतिः | अत्र चाय ---- माशयः ---- यदाहङ्कारिकत्वाद् व्यापकत्वेऽपीन्द्रियाणां गन्धतन्मात्राद्यवस्थितिनियमितं नासिकादिक्षेत्रमभिव्यक्तिस्थानमिति, तत एव समुद्भूतवृत्तिगन्धतन्मात्रनियन्त्रिता गन्धस्योपलब्धिर्भवतीति नियमिततन्मात्रोपरक्ताहङ्कारिकत्वमिन्द्रियाणाम्, अन्यथा साङ्ख्यवत् केवले आहङ्कारित्वे नियतविषयसम्बन्धो न घटते, नैयायिकवद्वा केवलभौतिकत्वे त्वहंप्रतीत्यनुगमो न स्यात् || एतदुपसंहरति ---- सूक्ष्मस्तन्मात्रधर्मोऽयं भूतानां प्रकृतिक्रमात् || १२-३५ || यतो भूतानां प्रकृतयस्तन्मात्राणि तत एव तत्तत्तन्मात्राधिष्ठिततत्तदिन्द्रियकारणकपृथिव्यादिभूतगत- गन्धादिगुणोपलब्धिर्भवतीत्ययमिन्द्रियगतानां तन्मात्राणां सूक्ष्मः सर्वजनासञ्चेतितो धर्मोऽस्ति || ३५ || देहेऽहङ्कारस्थितिं दर्शयति ---- वैकारिकस्ततश्चोर्ध्वं बुद्ध्यते येन पुद्गलः | अहं विद्वानहं भोगी त्वहं जातो महाकुले || १२-३६ || अहं दाता च भोक्ता च तेजस्वी बलवानहम् | अहं योद्धा च संग्रामे शत्रवश्च मया जिताः || १२-३७ || धर्मशीलश्च गुणवान् श्रेयस्कर्ता ह्यहं परम् | अहं पापी दुराचारो मूर्खश्चाहं दुराकृतिः || १२-३८ || न दत्तं न मया भुक्तं मत्समो नास्ति दुःखितः | इत्यहङ्कारचित्तानां ममत्ववशवतीनाम् || १२-३९ || अहङ्कारो निबध्नाति संसारे दृढबन्धनैः | विद्वान् बोद्धा पापी, इत्यादिसात्त्विक्यादिप्रतीतिरूपैः संसारहेतुभिर्दृढैर्बन्धनैरहङ्कारो निबध्नाति जनान् | ऊर्ध्वमित्येतावदन्ततत्त्वव्यापकत्वेन || तदित्थम् ---- त्रिविधस्याप्ययं धर्मोऽहङ्कारस्य प्रकीतीतः || १२-४० || यत्तु ऽऽवैकारिकस्ततश्चोर्ध्वम्ऽऽ इत्युक्तम् (१२ | ३६), तदहङ्कारस्य राजसताप्राधान्यदर्शनाय || ४० || अथ धर्ममुखेन धमीरूपाया बुद्धेर्देहे सत्तामाह ---- बुद्धिधर्मांस्ततो वक्ष्ये धर्मादींस्तव सुव्रते | धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् || १२-४१ || अधर्मश्च तथाज्ञानमवैराग्यमनैश्वरम् | एषां मध्यात् ---- बध्नाति सप्तधा सा तु ज्ञानभावेन मोहयेत् || १२-४२ || साङ्ख्यसिद्धानिति, अर्थात् || ४२ || एषा चेत्थं मुख्यतया लक्ष्यत इत्याह ---- बुद्धिश्चाध्यवसायं च करोति विविधेष्वपि | वस्तुषु || धर्मादीनामथाष्टानां लक्षणानि शृणु प्रिये || १२-४३ || तत्र ---- उपवासो जपो मौनमक्रोधोऽस्तेयमार्जवम् | सत्यं शौचं च दानं च दया क्षान्तिश्च सर्वदा || १२-४४ || विद्याभ्यासश्च लज्जा च इन्द्रियाणां च निग्रहः | इष्टापूर्तं तीर्थसेवा पितॄणां चैव तर्पणम् || १२-४५ || अभयं सर्वसत्त्वेभ्यो जीवितस्य च रक्षणम् | धीगुणः प्रथमो ह्येष धर्म इत्यभिधीयते || १२-४६ || इह यः पूर्वम् ---- ऽऽअक्रोधो गुरुशुश्रूषा शौचं सन्तोष आर्जवम् | अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ||ऽऽ (११-१४५) इत्येवं दशविधो धर्म उक्तः, तस्यैव सप्रपञ्चभङ्ग्यन्तरप्रतिपादनमेतत् | तथा चेन्द्रियाणां निग्रहो ब्रह्मचर्यस्य प्रपञ्चोक्तिः | लज्जा उपवासो जपो मौनं दानं दया क्षान्तिरिष्टापूर्तादित्रयं चाकल्कतायाः प्रपञ्चः | विद्याभ्यासो जीवितरक्षा च गुरुशुश्रूषायाः फलम् | सर्वसत्त्वाभयमहिंसारूपम् | स्तेयवर्जनक्षान्ती सन्तोषार्जवरूपे || ४६ || तदित्थम् ---- धर्मकर्मनिबद्धानां संसारमनुवतीनाम् | पुनर्मार्त्यं पुनः स्वर्ग्यं तिर्यक्त्वं च पुनः पुनः || १२-४७ || भवतीति शेषः || ४७ || एवम् ---- धर्मभावः समाख्यातः.............. इदानीम् ---- .............ज्ञानभावं च में शृणु | भावं बुद्धिधर्मम् || तमेव स्फुटयति ---- चतुवींशतिकः पिण्डः करणेन्द्रियसंयुतः || १२-४८ || प्राकृतः स तु विज्ञेयो धर्माधर्मप्रवर्तकः | मनोवाक्कायव्यापारैर्धर्माद्यर्जकः || अकर्ता निर्गुणश्चाहं.............. तेन प्रकृतिभिन्नस्य ---- .........ण में बन्धोऽस्ति प्राकृतः || १२-४९ || केवलमिदं सर्वम् ---- प्रकृत्या कारितं मन्ये............. बुद्ध्यादिद्वारेण प्रवतीतमिति निश्चिनोमि || तदीदृशविवेकज्ञानोत्थात् ---- ...................वासनादेव मुच्यते | वासनं संस्कारः | मुच्यत इति साङ्ख्यभिक्षुः || तदेतत् ---- साङ्ख्यज्ञानं मयां प्रोक्तं प्रकृतेर्येन मुच्यते || १२-५० || कतिपयं कालं पृथग्भवति || ५० || अथ ---- मुक्तं प्रकृतिबन्धात्तं पुनर्बध्नाति चेश्वरः | स च ---- बद्धः संसरते भूयो यावद् देवं न विन्दति || १२-५१ || ईश्वरं सृष्टिकर्तारं सर्वजन्तुनिबन्धकम् | प्रकृतेर्जडायाः कर्तृत्वाघटनात् पुंसस्तदनभ्युगमात् संसर्गेऽपि जगदुदयो न स्यादिति तयोर्बन्धमोक्षनिर्मातारं यावदीश्वरं न लभते तावत्साङ्ख्यमुक्तोऽपि पुनः प्रत्यावर्तते तत्त्वज्ञानानुदयात् || वैराग्यं लक्षयितुमाह ---- वैराग्यात् सन्त्यजेत् पुत्रान् दारानिष्टान् सुसम्मतान् || १२-५२ || हस्त्यश्वरथयानानि सुहृद्भोगधनानि च | सुष्ठु सम्मताननुकूलान् || किञ्च ---- उपवासं जपं तीर्थं पञ्चाग्निं जलशायिताम् || १२-५३ || उपास्यैतानि घोराणि देहं सन्त्यजति क्षणात् | दक्षिणाग्न्याहवनीयगार्हपत्यौपसदिकसावित्राख्याग्निपञ्चमध्या- वस्थानं ग्रीष्मे पञ्चाग्न्याख्यं तपः | एतानीति तपांसि || कथं त्यजति ? ---- इत्याह ---- गिरिवृक्षजलाग्निभ्यः प्रहारोद्बन्धनाशनैः || १२-५४ || गिर्यादीनाश्रित्येत्यर्थः | वृक्षः प्रयागादिस्थितो वटः | आशनमशनमाङ् पूर्वस्य अश्नातेः प्रयोगः || तदेवंप्रायाण्यन्यान्यपि ---- वैराग्यं तु समाश्रित्य कुरुते साहसान्यपि | एश्वर्यभावमापन्नो द्रव्यैस्तृप्तिं न गच्छति || १२-५५ || न दारैर्न धनैर्भोगैः परिवारैर्न वाहनैः | तपो व्रतानि मन्त्रांश्च एश्वर्यार्थे तु साधयेत् || १२-५६ || किञ्च ---- युद्धं द्यूतं तथा मायां चौर्यं चानृतहिंसनम् | अन्यान्यपि त्वयुक्तानि विस्रम्भच्छलघातिताम् || १२-५७ || एश्वर्यभावमापन्नः करोति च बहून्यपि | तपोव्रतादीनि सात्त्विकस्य, युद्धादीनि तु राजसस्य, आश्वासहननादीनि तामसस्यार्थाहरणकारणानि || धर्मादिचतुष्टयं प्रदर्श्य, अधर्मादीनपि देहिनो दर्शयति क्रमेण -- -- प्राणिहिंसारतो नित्यं चौरिकानृतदम्भवान् || १२-५८ || याचको दुःखदाता च भवेच्चाधर्मचेष्टितम् | चौरिका चौर्यम् | प्राणिहिंसारतत्वादि, एतदधर्मस्य चेष्टितं भवतीत्यर्थः || नास्ति धर्मो न चाधर्मः स्वर्गं मोक्षं च को गतः || १२-५९ || अज्ञानभावमापन्नः सर्वं मिथ्येति भाषते | नित्यं दुःखी परप्रेष्यो भारं यानं वहन्नपि || १२-६० || कृच्छ्रजीवी च सततमवैराग्ये न खिद्यते | सतीत्यर्थः || राज्यं कृत्वा तु सामन्तः सामन्त्याद् ग्रामभुग्भवेत् || १२-६१ || ग्रामाद् भ्रष्टस्तदर्धेन वर्ततेऽसावनीश्वरः | न शोचति न चोद्विग्नः क्रीडते पूर्वराज्यवत् || १२-६२ || अनैश्वर्यस्य भावोऽयमेवं ते समुदाहृतः | अथ देहस्थम् ---- अव्यक्तं त्रिगुणं वक्ष्ये संसारस्य प्रवर्तकम् || १२-६३ || ईश्वरेच्छात इति, अर्थात् || ६३ || एतस्मादेव ---- यस्माच्च जगदुत्पत्तिः प्रकृतिस्तेन चोच्यते | एतदेव प्रकर्षेण क्रियते प्रपञ्च्यते बुद्ध्यादिक्ष्मान्तं सर्वमस्यामीश्वरेणेति प्रकृतिः || किञ्च, देहावस्थितिप्रतीतिहेतुम् ---- अस्य धर्मं प्रवक्ष्यामि रजःसत्त्वतमोऽभिधम् || १२-६४ || तत्र ---- प्रकाशभावः सत्त्वं च धर्मः सत्त्वसमाश्रितः | प्रकाशभावोऽर्थाकृतिसम्वेदनम्, सत्त्वं शुद्धचित्तता यया पूर्वोक्तो धर्मः || सत्त्वसम्बन्धादेव यश्च परेषां धनान्नादेः ---- संविभागी च सततं नित्यं सत्त्वोपकारकः || १२-६५ || क्षमादयासमायुक्तो ज्ञानविज्ञानपारगः | स सात्त्विक इत्यर्थः | सत्त्वोपकारको दानं विनापि वागादिना प्राण्युपकारी || किञ्च ---- प्रीतिर्दानं धृतिर्मेधा तपः शौचं दमस्तथा || १२-६६ || ऋतवाक् समदृष्टिश्च दिव्यबुद्धिप्रबोधनम् | यस्मिन्नेते सदा धर्मा भवन्ति पुरुषोत्तमे || १२-६७ || स सात्त्विकस्तु विज्ञेयः............ समदृष्टिः स्वात्मनीव परत्र प्रतिपत्तिः | दिव्यबुद्धिः प्रतिभा || अथ ---- ...........ॠअजोधर्मांश्च में शृणु | निस्त्रिंशश्चातिलोभी च विद्वेषी क्रोधनस्तथा || १२-६८ || कामी हर्षसमाविष्टो दुःखार्तः पर्यटेत् सदा | मानी दम्भसमायुक्तोऽप्यहङ्कारे व्यवस्थितः || १२-६९ || नित्यं युद्धरतः शूरः......... कामी सन् हर्षयुक्तः, न तु सन्तोषसुखवानिति || एवंविधो यः तस्यैतन्निस्त्रिंशत्वादिकम् ---- ............ॠआजसं गुणलक्षणम् | अथ ---- कामक्रोधाभिभूतत्वं लोभेन च समन्वयः || १२-७० || ईर्ष्या दम्भो विषादश्च मद उन्माद एव च | निद्रालस्यमकमीत्वं दौर्मेध्याज्ञानिते तथा || १२-७१ || अधर्मताबुद्धिमत्त्वं नास्तिक्यं छलचित्तता | एतत्सर्वम् ---- तमः....... तमोगुणरूपम् || अतश्च ---- ........चिह्नानि चैतानि दृश्यन्ते यत्र मानवे || १२-७२ || तामसः स तु विज्ञेयः पुरुषः कलुषाशयः | तदित्थम् ---- एतत्त्रिगुणमव्यक्तं त्रिगुणं समुदाहृतम् || १२-७३ || एतत् त्रिभिर्गुणैर्युक्तत्वात् त्रिगुणम् || ७३ || एतत् सम्यग्विदित्वा तु मुच्यते प्राकृतैर्गुणैः | विदित्वा प्रमेयतया परिच्छिद्य, प्राकृतैर्धर्मैर्मुच्यते प्रकृतिवैव्यक्त्यमेति || वस्तुतस्तु न स मुच्यते, यत एतावती अस्य प्रतीतिर्यदुत ---- गुणधर्मा न चैवाहं बुद्ध्यहङ्कृद्गुणो नहि || १२-७४ || करणेन्द्रियहीनश्च भूततन्मात्रवजीतः | अकर्ता निर्गुणश्चाहं चिन्मात्रः पुरुषः स्मृतः || १२-७५ || करणबाह्येन्द्रियाधिष्ठातृसमः | स्मृत इति पुराणादिप्रणेतृभिः | अतश्च अहमकर्ता || ७५ || अत एव ---- मानसं वाचिकं चैव शारीरं कर्म यत्कृतम् | तत्सर्वम् ---- प्रकृत्या कारितं मन्ये............ प्रकृतिप्रयुक्तैर्मनःप्रभृतिभिः कृतमित्यवैमि || एवं च न प्रयोजकत्वम्, नापि मुख्यं कर्तृत्वं पुंसोऽस्तीति कृत्वा --- - ............ऽकर्ता पुरुषः स्मृतः || १२-७६ || एवं संन्यस्य कर्माणि वर्तते न च नित्यशः | नाहं कर्ता न में बन्ध एवं बुध्येत यो नरः || १२-७७ || प्रकृतेः स विमुच्येत यावन्न सृजतीश्वरः | एवमितिवचनेन कर्माणि संन्यस्येति सङ्गतिः || प्रकृतिमात्रविवेकमात्मनो मन्यमानोऽकर्त्र्या जडायाः प्रकृतेः कर्तृत्वमधिष्ठातुरीश्वरस्य बन्धादिकर्तुश्चाकर्तृत्वं मोहान्मन्यमानस्तत्त्वाप्रज्ञानात् कञ्चित् कालं निवृत्तप्रकृतिसम्बन्धोऽपि न तत्त्वतः प्रकृतिबन्धात् प्रमुच्यते | तदाह ---- साङ्ख्यज्ञानेन सम्मूढो मुक्तिरित्यभिमन्यते || १२-७८ || नहि मुक्तिर्भवेत्तस्य कञ्चित्कालं विदेहता | कञ्चित्कालं या विदेहता सा न मुक्तिर्यतस्तस्मात् साङ्ख्यज्ञानेन मोहितो मुक्तिरिति मिथ्यैव जानाति || केवलमेतावज्ज्ञानादसौ ---- तिष्ठेत् प्रकृतिनिर्मुक्तः सृष्टिसंहारवजीतः || १२-७९ || यावत्करोत्यसौ सृष्टिमीश्वरः परमेश्वरः | इदमेवास्य प्रकृतिनिर्मुक्तत्वं यत् प्रकृतिकार्यशरीरादिसर्गसंहारवजीतत्वम् | एवं च यावदीश्वरः पुंसां भोगाय पुनः सृष्टिं न आरभते, तावदसौ प्रकृतिलीनप्राय एवास्ते इत्युक्तं भवति | न चैतावन्मात्रस्रष्ट्टत्वमस्य एश्वर्यम्, अपि तु शुद्धाशुद्धसर्वाध्वविषयमित्याशयेन परमेश्वरोऽनाश्रितान्तस्य विश्वस्य प्रभुरित्युक्तम् || तत ईश्वरे पुंसां कर्मपरिपाकानुसारिभोगदानाय सृष्ट्याभिमुख्यमाश्रयति साङ्ख्ययोगी ---- तावत्प्रकृतिबन्धेन संसारे क्षिप्यते पुनः || १२-८० || क्षिप्तः संसरते भूयः संसारे घोरसागरे | धर्माधर्मनिबद्धस्तु साङ्ख्यज्ञानेन मोहितः || १२-८१ || तावत् प्रकृतादविशिष्टो यः प्रकृतिबन्धस्तेन | घोरो विभीषिकाशतप्रदो दुरन्तत्वाच्च सागर इव सागरः | यद्यपि च नाहं कर्ता प्रकृतिरेव कर्त्रीत्यनेनावसितम्, तथापि तत्तस्या जडत्वाद् नोपपन्नम्, बुद्धेश्चिच्छायायोगे चेतनत्वमुपचरितं कथं मुख्यं कर्तृत्वं स्यात्, प्रकृतेश्च सत्त्वोद्रेकाभावात् चिच्छायाग्रहणायोग्यतयोपचरितमपि चेतनायमानत्वं नास्तीति कथं कर्मसम्बन्धः, कथं वा ज्ञानान्नैष्कर्म्यप्राप्तिः | अतोऽवश्यमीश्वरेच्छावशोत्थापितकलादिसम्बन्धहेतुकं पुंसो मितविषयं कर्तृत्वमस्तीत्यनादिभवोपाजीतधर्माधर्मनिबद्धत्वमस्य साङ्ख्यज्ञानमोहितस्यास्तीति युक्तमुत्पश्यामः || ८१ || इत्थमीश्वरेच्छातः संसारसङ्गरतोऽयम् ---- अहं कर्ता च भोक्ता च ईश्वरो बलवानहम् | इति मन्यमानः ---- ममत्वेनैव सम्मूढो भ्राम्यते घटयन्त्रवत् || १२-८२ || अहङ्कारपूर्वकत्वान्ममकारस्य | भ्राम्यत इति ईश्वरेण | यदुक्तं गीतासु ---- ऽऽईश्वरः सर्वभूतानां हृद्येष वसतेऽर्जुन | भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ||ऽऽ (१८-६९) इति || एतदुपसंहरति ---- साङ्ख्यज्ञानं मया प्रोक्तं............ इह पूर्वं यत् प्रश्नितम् ---- ऽऽतत्त्वविज्ञानमाख्याहि सिद्धिस्तेषु यथा भवेत्ऽऽ (१२-२) इति, तन्निर्णयाय देहाश्रयाणि धरादिप्रकृत्यन्तानि तत्त्वानि प्रतिपादितानि | अधुनोच्चारणादिक्रमेण तत्तत्सिद्ध्यर्थं साक्षात्कार्यमेतत्कार्यतत्त्वस्वरूपं स्थूलदृशा प्रदर्श्य, सूक्ष्मदृशा परदृशा चात्माश्रयाणि नियत्यादिसमस्तानि शुद्धविद्यादिशिवान्तानि च सिद्ध्यर्थमेव तत्त्वान्तरध्यानानि दर्शयन्नुपक्रमते ---- ...........शृणु ध्यानाधिदैवतम् | पृथिव्यादितत्त्वानां ध्यानं तत्संवाच्यतत्त्वाधिष्ठातृदेवतास्वरूपं च वक्ष्यमाणतत्तत्सिद्धिप्रदं शृण्विति सम्बन्धः | अत्र चादौ ---- शमयाचारयुक्तस्य साधकस्य वरानने | जायते विविधा सिद्धिगीरिगह्वरमाश्रिते || सुशुद्धे भूप्रदेशे तु...................... | ऽऽ (६-१-२) इत्यादिक्रमेण पूर्वोक्तभैरवपूजापूर्वकं पृथ्व्यादितत्त्वध्यानमारब्धव्यम् || तत्र तावत् ---- पृथ्का कठिनरूपेण चतुःसागरमेखलाम् || १२-८३ || सपर्वतवनाकीर्णां मृगपक्षिसमाकुलाम् | सुस्थिरां पीतवर्णाभामूबीजेन समन्विताम् || १२-८४ || ध्यात्वा तत्सिद्धिमभ्येति........... चतुःसागरमेखलादिरूपा या पृथ्वी पूर्वं उक्ता, तां सुस्थिरकठिनपीतवर्णाभां भुवनाध्वप्रतिपादिततत्तद्देवतात्मिकां सर्वदेहे गतां ध्यात्वा तत्सिद्धिमेति तन्मयः साधको भवति | अस्याश्च पूर्वोक्तरसात्मप्रक्रियया ---- ऽऽधरित्र्यादिप्रधानान्तमूकारो वाचकः स्मृतःऽऽ (५-५) इति कृत्वोकारबीजवाच्यत्वमुक्तम् | ध्यात्वेत्युक्त्या ध्यानात्पूर्वं धारणा आक्षिप्ता || सा च ---- श्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम्ऽऽ (मा.वि. १२-१२) इतीदृग्धारणापूर्वं पृथ्वीध्यानमभ्यस्येत् || ............विषसत्त्वान्निवारयेत् | विषं स्थावरजङ्गमादिरूपम्, सत्त्वान् पिशाचापस्मारादीन् शक्तिस्तम्भनादिक्रमेण हेलयैव नाशयति || समापन्नपृथ्वीध्यानस्त्वसौ ---- अचाल्यः सर्वभूतानां यथैव वसुधा भवेत् || १२-८५ || एतत् ---- ऽऽतत्सिद्धिमभ्येतिऽऽ (१२-८४) इति पूर्वोक्तेः स्फुटीकरणम् | यथैव वसुधेति पृथ्वीजयेन तदधिष्ठातृवत् तत्रैश्वर्यमाप्नोति | एवमुत्तरत्रापि योज्यम् || ८५ || जलध्यानमाह ---- जलापूरितसर्वाङ्गो जलध्यानेन पूरयेत् | एवमभ्यस्यमानस्तु विषसत्त्वान् विनाशयेत् || १२-८६ || तृष्णादाहविनिर्मुक्त ईतिभिश्च विवजीतः | जगदापूरयेत् सिद्धः पूर्वबीजसमन्वितः || १२-८७ || जलध्यानेन पूरयेदिति अङ्गोपाङ्गप्रसरणक्रमेण विश्वमापूरितं भावयेत् | एवमभ्यस्यन्विषादि नाशयेदिति आप्यायनयुक्त्या साध्यमाप्याययति प्रशान्तविषभूतदोषं करोति, स्वयं च तत्तत्सन्तापाद्यवसरेषु तृष्णादिभिरीतिभिश्च सर्वोपद्रवैवीवजीतः क्रमाच्च सिद्ध इति निष्पन्नाप्तत्वध्यानो जगदपि अम्भोवदेव आप्याययति | पूर्वबीजमूकार एव, प्रधानान्तं तस्यैव वाचकत्वेन उक्तत्वात् | अत्रापि ---- ऽऽजलात्मकं स्मरेद् देहं सितं शीतं सुवर्तुलम् |ऽऽ (मा.वि. १३-२) इति श्रीपूर्वोक्तनीत्या कमललाञ्छितसितार्धचन्द्रमण्डलात्मिकां जलधारणां बद्ध्वा ऊकारपरामर्शपूर्वं प्राङ्निदीष्टदेवताधिष्ठितं जलमयं स्वदेहं ध्यायेत् || ८७ || श्वशरीरोत्थितो वह्निर्ज्वलन् वै सर्वदाहकः | त्रिकोणं चिन्तयेद् देहं रक्तज्वालावलीधरम् ||ऽऽ (मा.वि. १३-२१) इति श्रीपूर्वनिरूपितवह्निधारणया स्वदेहं ध्यात्वा ---- कुर्यात् कर्मसहस्राणि स्वबीजेन तु बीजितः | बीजितः परामर्शयुक्त्या योजितः | स्वबीजं रेफ इत्यसदिह तथा प्रक्रमाभावात् | प्रधानान्तं देहाश्रयाणि तत्त्वान्युक्त्वा तत्त्वध्यानप्रतिपादनस्यायमेवाशयो यन्नवात्मप्रक्रियया ऊकारादिवाचकपरामर्शपूर्वमेतत्सिद्धिः स्यादिति || कृष्णरेण्वात्मको वायुर्ध्येयो बीजेन संयुतः || १२-८८ || पूरयेद्वै जगद्देहान्.............. अत्रापि ---- श्वदेहं चिन्तयेत्कृष्णं वृत्तं षड्बिन्दुलाञ्छितम् | चलं सधूधूशब्दं च............................. ||ऽऽ (मा.वि. १३-३४) इति श्रीपूर्वोक्तवायवीयधारणापूर्वकाद् ध्यानाज्जगद्गतान् देहानुच्छ्वासमात्रेण पूरयेदाप्याययेत् || ८८ || ध्यानप्रकर्षात्तु ---- .............षिद्धश्चाश्चर्यकारकः | वायुतत्त्वाधिष्ठातृदेवताप्रभावात् किं किं न करोतीत्यर्थः || सुषिरात्मकं स्वदेहं तु जगच्च सुषिरात्मकम् || १२-८९ || ध्यायेत् प्रकृतिबीजेन............. एकारेण (ऊकारेण) || एवं च ---- ...............चित्रकर्माणि कारयेत् | यदुक्तं श्रीपूर्वे ---- ऽऽषण्मासाद् गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत् | वत्सरत्रितयात् सार्धाद् व्योम एव भविष्यति | इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया | अच्छेद्यश्चाप्यभेद्यश्च........................ ||ऽऽ (मा.वि. १३-४६-४७) इत्यादि || प्राक्स्थित्यैव कर्मेन्द्रियबुद्धीन्द्रियतन्मात्रध्यानानि क्रमेणाह | तत्र ---- वागिन्द्रिये तथा वह्निर्ध्यातो वाक्सिद्धिदायकः || १२-९० || तथेति ---- ऽऽज्वलन् वै सर्वदाहकःऽऽ इति यथा पूर्वमुक्तः स तु सर्वदेहगतः, अयं तु जिह्वानुसारिहृदयादिमूर्धान्तवागिन्द्रियदेहाश्रयः इति विशेषः || ९० || इन्द्रः पाणावभिध्यातः............. पीत इति, अर्थात् || येनासौ ---- ...............बाहुशाली त्वजेयकः | स्वार्थे कन् || पादयोर्दूरसञ्चारं ध्यातो विष्णुः प्रयच्छति || १२-९१ || पायौ मित्रः सितो ध्यातः पायुव्याधिविनाशकः | शिश्ने प्रजापतिं श्यामं ध्यायेद्युक्तेन चेतसा || १२-९२ || जितेन्द्रियश्च भवति त्विच्छया रमते शतम् | पूर्वबीजमनुक्तमत्र योज्यम् | विष्णुः कृष्णवर्ण इति, अर्थात् || श्रोत्रेन्द्रिये दिशश्चित्रा ध्यायेद् बीजेन संयुताः || १२-९३ || दिशोऽधिष्ठातृदेवताः | चित्रा नानारूपाः | बीजं प्राग्वत् || ९३ || यश्च ईदृगसौ ---- सकृदुक्तं च गृह्णाति............... महान्तमपि शब्दसन्दर्भमिति, अर्थात् || अस्य चाभिसन्धिमात्रात् ---- ............डिग्यात्रा चैव सिद्ध्यति | दूरतरदिक्प्राप्तिरपि भवति || मारुतं कृष्णरूपेण ध्यायेत्तु त्वचि संस्थितम् || १२-९४ || यः स दंष्ट्राद्यभेद्यः स्यात्............. अस्य च ---- .........,न क्वचिज्जायते व्यथा | वज्रदेहो जायत इति यावत् || आदित्यं चक्षुषि ध्यायेज्जिह्वायां वरुणं तथा || १२-९५ || नासायां पृथिका पीतां मनसीन्दुं तथैव च | पीतकं गन्धतन्मात्रं रसतन्मात्रकं सितम् || १२-९६ || रक्तं तु रूपतन्मात्रं कृष्णं तु स्पर्शसंज्ञितम् | अरूपं शब्दतन्मात्रं ध्यातव्यं बिन्दुरूपि च || १२-९७ || विषयेष्वीप्सितां सिद्धिं जानाति च विचिन्तितम् | तन्मात्राणां घ्राणाग्रादीनि स्थानानि चतुरस्रादिरूपं च श्रीपूर्वतो ज्ञातव्यम्, यथा ---- ऽऽपीतकं गन्धतन्मात्रं तुर्याश्रं पञ्चसंमितम् | नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छनलाञ्छितम् ||ऽऽ (१४-२) इत्यादि, तथा ---- ऽऽजलबुद्बुदसङ्काशं जिह्वायां चाग्रतः स्थितम् | चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः || सुशीतं षड्रसं स्निग्धं तद्गतेनान्तरात्मना |ऽऽ (१४-१२-१३) इति, ऽऽएकान्तस्थो यदा योगी विनिमीलितलोचनः | शरत्सन्ध्याभ्रसङ्काशं यत्तत्किञ्चित्प्रपश्यति || तत्र चेतः समाधाय यावदास्ते दशाहकम् | तावत्प्रपश्यते तत्र बिन्दून् सूक्ष्मतमानपि || केचित्तत्र सिता रक्ता नीलाः पीतास्तथापरे | तान् दृष्ट्वा तत्र सन्दध्याच्चेतोऽत्यन्तमनन्यधीः || षण्मासात् पश्यते तेषु रूपाणि सुबहून्यपि |ऽऽ (१४-२०-२३) तथा ---- षट्कोणमण्डलान्तःस्थमात्मानं परिभावयेत् | रूक्षमञ्जनसङ्काशं प्रत्यंशं स्फुरिताकुलम् || ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः | भवेत् पिपीलिकास्पर्शस्ततस्तदनुचिन्तयन् || वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत् |ऽऽ (१४-२९-३१) इत्यादि, तथा ---- ऽऽकर्णौ पिधाय यत्नेन निमीलितविलोचनः | यं शृणोति महाघोषं चेतस्तत्रानुसन्धयेत् | दीप्यते जाठरो वह्निस्ततोऽस्य दशभिदीनैः | दूरात्कथनविज्ञानं षण्मासादुपजायते ||ऽऽ (१४-३३-३५) इति | बिन्दुरूपि चेति तन्मात्रविषयं यथायोगं योज्यम् | विषयेष्वीप्सितां सिद्धिमिति चक्षुरादिविषयेषु तथा प्रोक्तदृशा तन्मात्राधिष्ठितत्वादिन्द्रियाणां तन्मात्रविषयेषु रूपादिषु देशकालस्वभावविप्रकृष्टेषूपलब्ध्यादिकाम् | जानाति च विचिन्तितमिति यस्य कस्यचित् सम्बन्धि विचिन्तितं सङ्कल्पसिद्धिं जानातीत्येषां मनोध्यानसिद्धिः || अहङ्कारधारणामाह ---- वैकारिके तथा रुद्रो ध्यातव्यः सिद्धिमिच्छता || १२-९८ || अतश्च ---- ध्यानात् सिद्धिमवाप्नोति मुक्ताहङ्कारबन्धनाम् | मुक्तमहङ्कारबन्धनं (यस्याः)१ तादृशीं परप्रमात्रैकात्म्यप्राप्तिपर्यवसानामित्यर्थः | अत्रापि ---- ऽऽषोडशारं स्मरेच्चक्रमात्मन्यहमनन्यधीः | एषोऽहमिति सञ्चिन्त्य स्वकार्यपरिवारितम् || अप्रधृष्यो भवेद्योगी......................... |ऽऽ (मा.वि. १६-२-३) इत्यादि श्रीपूर्वोक्तमनुसन्धेयम् || अथ ---- ब्रह्माणं बुद्धिसंस्थं तु ध्यायेद्युक्तेन चेतसा || १२-९९ || स्मरन् वै पूर्वबीजेन............... पूर्वबीजेनेति ऊकारेण | एतच्च पूर्वत्राप्यनुसन्धेयम् | स्मरणं ध्याने हेतुः | अत्रापि ---- ऽऽउदितादित्यबिम्बाभं हृदि पद्ममनुस्मरेत् | धर्मादिभावसंयुक्तमष्टपत्रं सकणीकम् | ऽऽ (मा.वि. १६-८) इत्याद्यनुसर्तव्यम् || एवं ध्यानवतः ---- ..................ज्ञानौघः सम्प्रवर्तते | दिव्या च जायते बुद्धिः संशयोच्छित्तिकारिका || १२-१०० || भूतं भव्यं भवद्१ भविष्यच्च प्रत्यक्षं सम्प्रजायते | ज्ञानौघादिकमत्र ध्येयब्रह्माख्यदेवतारूपमिति ज्ञातव्यम् || अथ ---- प्रकृतिः कृष्णवर्णा तु रक्तशुक्ला विराजते || १२-१०१ || गुणत्रयमययाः प्रकृतेरधिष्ठातृदेवता एषाऽनेकवर्णा उक्ता || १०१ || इत्थं च त्रिवर्णायाः ---- रक्तं च हृदयं तस्याः................. शिष्टमूर्ध्वमधश्च गात्रमस्याः सितं कृष्णं चेति, अर्थात् || एषा च ---- ..................`अहुपादभुजानना | ध्यातव्या तत्त्वबीजेन यदीच्छेत् सिद्धिमात्मनः || १२-१०२ || सर्वपुरुषान् प्रति विचित्रप्रकाशप्रवृत्तिस्थितिप्रदत्वादस्या बहुवक्त्रादि (त्ववम्)२ | तत्त्वस्य प्रकृत्याख्यस्यैव यद्बीजं प्रक्रान्तप्रक्रियया ऊकारस्तेनैव तत्त्वाधिष्ठात्री एषा ध्येया | एवं च वदतोऽयमाशयो यत्पारमेश्वरे सर्वतत्त्वानि तत्तद्देवताधिष्ठितान्येव, न त्वेषां जडत्वमेवमित्यत्र देवताप्रधानमेव तत्त्वध्यानमुक्तम् | आत्मनः सिद्धिः प्रकृतिविविक्तस्य उपलब्धिः || १०२ || एवं ह्यात्मा मुक्तप्रकृतिबन्धनः ---- सिद्धश्चैव स्वतन्त्रश्च दिव्यदृष्टिश्च जायते | सिद्ध इति प्रकृतिविवेकेनोपलब्धोऽत एव स्वतन्त्रः, न तु प्रकृतिवशः, तथा च दिव्या लोकोत्तरा स्वपरविषया दृष्टिः सम्यक्प्रतीतिर्यस्य तादृग्भवति || यावता कालेनैषाऽस्य सिद्धिस्तदादेशाय आह ---- षण्मासाभ्यासयोगेन दिव्या दृष्टिः प्रवर्तते || १२-१०३ || एष चाभ्यासकालः सर्वतत्त्वविषयो मन्तव्यः || १०३ || तदित्थं दिव्यदृष्ट्युत्पत्तौ ---- त्रैलोक्ये यत्प्रवर्तेत प्रत्यक्षं तस्य जायते | तदेवं देवमनुष्यतिर्यग्रूपे लोकत्रये यत् सूक्ष्मव्यवहितविप्रकृष्टादिकं किञ्चित् प्रवर्तते प्रकृतितो जायते, तदस्य सर्वं प्रत्यक्षीभवति || उपसंहरति ---- एष ते प्राकृतो योग उक्तः........... एवं प्रकृत्यन्ते शरीरे तत्त्वानां स्थितिं धारणादिक्रमेण च तत्तत्सिद्धिहेतुत्वमुक्त्वा, तत्त्वान्तरध्यानान्युपक्षेप्तुं प्रकृतिसाक्षात्कारान्मायासाक्षात्कारस्य लोकोत्तरतामादिशति देवः -- -- ................ंओक्षकरः परः || १२-१०४ || पर इति मायाख्यः प्रकृतेः साक्षात्कारयोगादपि पर उक्तः | स च मोक्षकरः, मायोत्तरणात् प्रभृत्येव हि मोक्षमार्गसोपानपदप्रवृत्तिः, पुंस्प्रकृतिविवेकज्ञानिनां पुनर्बन्धाविर्भावस्योक्तत्वादेव || १०४ || देहावस्थितिप्रकृत्यन्ततत्त्वेषु ध्यानपूर्वाः सिद्धीः प्रतिपाद्य, एतदधिष्ठातृपुंस्तत्त्वध्यानोत्थसिद्धिप्रतिपादनायाह ---- अतः परं तु पुरुषः............ ध्येय इति शेषः || स च ---- ..............पद्ममध्ये व्यवस्थितः | शाक्षात् कृत्स्नमिमं देहं यद्यपि व्याप्य तिष्ठति | तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् ||ऽऽ इति हृदब्जकणीकास्थः || किमस्य स्वरूपम् ? ---- इत्याह ---- चित्स्वरूपश्च............. चिन्मात्र एव | यथोक्तं शिवसूत्रेषु ---- ऽऽचैतन्यमात्माऽऽ (१ | १) इति || अत एवास्य भेदवाद्युपगतो न कश्चिद्वास्तवो भेद इत्याह ---- .........षर्वेषु देहमापूर्य संस्थितः || १२-१०५ || परमेश्वरमायाशक्तिवशादवभासितभेदेषु सर्वप्राणिषु संस्थितः, अतश्च तदुपाधिभेदादयं भिन्न इव न वस्तुत इति सर्वेष्विति संस्थित इति बहुवचनैकवचनयोराशयः || १०५ || इत्थं पुर्यष्टकसंङ्कोचनाभासनादेव च ---- स जीव इति विख्यातो येन जीवति तत्पुरम् | पुरं शरीरम् || एतदेव व्यतिरेकेण दर्शयति ---- निर्गतेन मृता येन अचेताः शीर्यते तनुः || १२-१०६ || इत्थं च मायाशक्त्या पुर्यष्टकादौ गृहीताभिमानोऽयम् ---- बध्यते................ विश्वभित्तिभूतपरिपूर्णबोधरूपतया स्फुरन्नप्यसौ सङ्कोचावभासात्मना तावतांऽशेन स्वयमेव बध्यते | यथोक्तं प्राक् ---- ऽऽआत्मना बध्यते ह्यात्माऽऽ (१०-३६०) इति || यदा तु तेन भित्तिभूतेन शुद्धविद्याशक्त्या सङ्कोचावभासोऽस्य विलाययते, तदा ---- ........ंउच्यतेऽसौ वै......... न च देहपातेऽस्य मुक्तिरपि तु जीवतोऽप्यस्येत्याह ---- ..............षुखदुःखानि वेत्ति च | उक्तं च प्राक् ---- ऽऽजीवन्नेव विमुक्तोऽसौ यस्येयं भावना स्थिताऽऽ (७-२५९) इति | देहपाते तु परमशिव एवासाविति कस्य कुतो मुक्तिरित्यभिहितमेव || तदीदृशचितिमात्ररूपस्य ---- न तस्य रूपं वर्णो वा प्रमाणं दृश्यते क्वचित् || १२-१०७ || वर्णो ब्राह्मणादिः, रूपं सितादि, प्रमाणम् आरोहमहदादि, इदन्तानिर्देश्यत्वाभावात् | इदं च भेदस्यावास्तवतैवेत्यादिशति | अथ च चित्स्वरूपत्वात् सततं प्रथमानमूर्तेरस्य प्रत्यक्षानुमानाद्याख्यं नवार्थाभासरूपं प्रमाणं न क्वचिद् दृश्यते, नैवोपपद्यते | यथोक्तं श्रीप्रत्यभिज्ञायाम् ---- ऽऽप्रमातरि प्रमाणे तु सर्वदा भातविग्रहे | किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ||ऽऽ (२-३-१६) इति | श्रुत्यन्तरेष्वपि ---- ऽऽविज्ञातारमरे केन विजानीयात्ऽऽ (बृ.उ. २-४-१४) इति | क्वचिच्छब्देनासम्भाव्य एवायमर्थ इत्यादिष्टं भगवता || १०७ || यतश्चायं न कथञ्चिद्विषयीक्रियते, अत एव ---- न शक्यः कथितुं वापि............. अपिशब्दात् सङ्कल्पयितुं वा || अतश्चायम् ---- ...............षूक्ष्मश्चानन्तविग्रहः | अत एव व्यनक्ति ---- वालाग्रशतभागस्य शतधा कल्पितस्य तु || १२-१०८ || तस्य सूक्ष्मतरो जीवः स चानन्त्याय कल्पते | वालस्य यदग्रं तस्य यः शतभागस्तस्य शतधा कल्पितस्येति तमपि सूक्ष्मतया तथा कल्प्यमानत्वादेव वेद्यपदपतितमनादृत्य प्रकृष्टः सूक्ष्मो जीवो येन केनापि प्रकारेण वेद्यः, तत एव चित्स्वरूपवेदकैकात्मकत्वादानन्त्याय देशकालाकारापरिच्छिन्नत्वादशेषैकात्म्याय कल्पते तद्रूपतया स्वस्वातन्त्र्यात् स्फुरति; न तु केनचित् तथा कल्प्यत इति | कल्पितत्वं कल्पनोत्थापितत्वम्, कॢप्तिस्तु स्वयमेव तथावस्थितिः || एवमकल्पितत्वादध्येयस्याप्यस्य वक्ष्यमाण- कञ्चुकाविष्टस्यादूरविप्रकर्षेणोत्प्रेक्ष्यसिद्ध्यङ्गध्यानमाह ---- आदित्यवर्णं रुक्माभमब्बिन्दुमिव पुष्करे || १२-१०९ || पश्यन्ति तारकमिव योगिनो दिव्यचक्षुषा | आदित्यवर्णमिति तथा रुक्मस्य हेम्न इव आभा प्रकाशो यस्येत्यनेन दीप्तत्वमात्रमस्योक्तम्, न त्वाकृतिमत्त्वम्; पुष्करे पद्मेऽब्बिन्दुमिवेत्यनेन शरीरादिभूम्यस्पशीत्वम्, तारकमिवेत्यनेन तु स्फुरत्तासारत्वम् | दिव्यचक्षुषेति स्वसंवेदनेन | अत्र च प्रातिलोम्येन नवात्मसम्बन्धी द्वितीयो वर्णो वाचकत्वेन प्रकरणानुसारं योजनीयः | तारकमित्यनेन च प्रकृतिबन्धात्तारकत्वमेव तद्ध्यानस्योक्तमिति सिद्धिरपि निदीष्टा | दिव्यचक्षुषेत्यनेनापि तद्ध्यानाद्योगिनोऽशेषप्रकाशकं चक्षुदीव्यमाविर्भवतीति सिद्धिनिर्देशः कृतः | तदेवं पुर्यष्टकवशिनोऽस्यैतद्ध्यानम्, वास्तवेन तु चितिमात्रात्मना रूपेण ध्यातैवायम्; न तु ध्येयः | चिदात्मैव च सर्वाधिष्ठातृदेवतेत्याशयेनात्मनोऽत्र देवतान्तराधिष्ठितत्वं नोक्तम् || यश्चायं चितिस्वभावत्वात् वर्णरूपादिरहितः पुरुष उक्तः, असौ ---- रागविद्याकलोपेतः कालबद्धो हि रूपवान् || १२-११० || प्राङ् निर्णीतरूपकलादितत्त्वपञ्चकात्मककञ्चुकावृत आत्मा रूपवानित्यादित्यवर्णत्वादिध्येयरूप उक्तः || ११० || अथ ---- ऽऽप्रकृतिः पुरुषश्चैवऽऽ (५ | ११) इत्यादिप्रोक्तनवात्मप्रक्रियया नियतिध्यानमाह ---- श्यामवर्णेन विज्ञेया स्थिता जीवस्य देवता | दक्षिणेन सिताङ्गी तु वामेनासितरूपिणी || १२-१११ || जीवस्य जीवता नियतिनियन्त्रणाप्राणैवेत्याशयेन देवतेत्युक्तम् | नियामकत्वादेव च श्यामा | श्यामच्छायत्वेऽपि चास्या दक्षवामभागयोः सितासितत्वेन धर्माधर्मोत्थापकत्वमुक्तम् || १११ || अस्याश्च ---- तद्वर्णानि च वक्त्राणि मण्डलानि विशेषतः | दक्षिणे सितानि वामे चासितानीति वक्त्रचतुष्टयमपि दक्षिणतः सितं वामतोऽसितम् | मण्डलानीति वक्त्राङ्गोत्थितानि प्रभामण्डलकानि || एषा च सितासितरूपत्वादेव पुरुषम् ---- कर्मबन्धेन बध्नाति............... अस्य च ---- ...........षुखदुःखं प्रयच्छति || १२-११२ || तदीदृशीमेनाम् ---- नियतिं च विजानीयादनिवार्यां सुरासुरैः | सर्वो हि तन्नियन्त्रितः || इत्थमेषा ---- पूर्वबीजसहध्याना द्विरूपेण समन्विता || १२-११३ || पूर्वबीजेन प्रक्रान्तनवात्मसम्बन्धिना वकारेण सह ध्यानं तत्परामर्शसहितं चिन्तनं यस्याः, सा तथा प्रोक्तसितासितात्मकद्विरूपयुक्ता || ११३ || तस्याश्च ---- ध्यानात् सिद्धिमवाप्नोति........ कासौ सिद्धिः ? ---- इत्याह ---- .............णियतेश्च विमुच्यते | न भूयो नियत्या नियम्यत इत्यर्थः || अथ कालतत्त्वध्यानमाह ---- त्रिनेत्रं च चतुर्वक्त्रं कृष्णवर्णं चतुर्भुजम् || १२-११४ || संहरन्तं दुराधर्षमनन्तं कालमीश्वरम् | दुराधर्षं परमयोगिव्यतिरेकेण नान्येनाभिभवनीयम् | अनन्तमन्येनापरिच्छेद्यम् ईश्वरं विश्वसर्गसंहारप्रभविष्णुम् | ईदृशं कालं ध्यायेत् || अतश्चास्य ---- स्वबीजध्यानरूपज्ञः कालेन नहि कल्यते || १२-११५ || स्वबीजं नवात्मसम्बन्धी लकारः || ११५ || ये तु कालवञ्चनाय न यतन्ते, ते ---- चक्रवत् परिवर्तन्ते कालध्यानविवजीताः | तदुक्तं तत्रभवता हरिणा ---- ऽऽजलयन्त्रभ्रमावेशसदृशीभिः प्रवृत्तिभिः | स कालः कलयन् सर्वान् कालाख्यां लभते प्रभुः ||ऽऽ (३-९-१४) इति || यत एवम्, तस्मादुक्तदेवतारूपम् ---- एवं कालं सदा ध्यायेत्........... एवं हि ध्यातुः प्रोक्तकालवञ्चनरूपा ---- ...............ढ्येयसिद्धिश्च जायते || १२-११६ || न केवलं कालाधिकारोक्तमृत्युञ्जयप्रकारात् कालजयो भवति, यावत्प्रोक्तकालध्यानादपीत्यर्थः || ११६ || एवंप्रकारावमृष्टप्रकृत्यन्ततत्त्वध्यानादनन्तरं य-व- लकारवाच्यं पुंनियतिकालानां सिद्ध्यङ्गध्यानमुक्त्वा, नवात्मप्रक्रियया पुमादितत्त्वत्रयेण सह यथाक्रमं युगलकस्थित्या निरूपितानामत एव तद्वर्णावमृश्यानां रागविद्याकलानामपि ध्यानमाह ---- रागं तु रक्तवर्णं वै विद्यां श्यामां सुलोचनाम् | सितवर्णां कलां ध्यायेच्चैतन्योन्मीलिनीं तु ताम् || ११७ || सुलोचनामिति काकाक्षिवत् | अत्रापि चतुर्वक्त्रचतुर्भुजत्वे प्राग्वदनुसरणीये | कलाया विशेषणं चैतन्योन्मीलिनीमिति | यथोक्तं प्राक् ---- ऽऽकलोन्मीलितचैतन्योऽऽ (११-९८) इति | एतच्च ---- ऽऽविद्यादशीतगोचरःऽऽ (११-९८) इत्यादिकोपलक्षणपरम् | ताहन च तत्त्वान्यात्माश्रये हृदि ध्यानक्रमसाक्षात्कारतो वेद्यीकरणीयानि || ११७ || व्यामोहकत्वप्रशमनाय मायाया ध्यानमाह ---- कृष्णवर्णा च रक्ताक्षी दीर्घदन्ता सुलोचना | कचोर्ध्वपिङ्गकेशी च स्थूलकाया महोदरी || १२-११८ || सर्वजन्तुव्यामोहकत्वादस्या ईदृग्रूपं ध्यानमुक्तम् | कचेषूर्ध्वमित्युत्थिताः पिङ्गाः केशा यस्याः | इह यद्यपि केषाञ्चित् तत्त्वानां स्वरूपमात्रं ध्यानमुक्तमन्येषामाकृतिमद्देवतारूपत्वं तद्देवताधिष्ठितत्वम्, तथापि सर्वत्र तत्तदाभासरूपाणां तत्त्वानां तत्तद्देवताधिष्ठितत्वमेव साध्विति तत्तद्देवताधिष्ठितमूर्तीन्येव सर्वतत्त्वानि ध्यातव्यानि || ११८ || सर्वजन्तुव्यामोहकत्वमेवास्याः स्फुटयतिः ---- या पातयति भूतानि ब्रह्माद्यानि पुनः पुनः | पातयति स्वरूपाच्छादनप्रमुखं संसारीणि कुरुते || ततश्च तैः ---- निर्वैरपरिपन्थित्वान्माया ग्रन्थिर्दुरुत्तरा || १२-११९ || निर्वैरं निष्कारणमेव परमेश्वरस्वातन्त्र्यशक्तिरूपा माया परिपन्थिनी पूर्णस्वरूपगोपनेन सङ्कुचितक्षेत्रज्ञस्वरूपोत्थापिका, तद्रूपत्वादेव च पुम्बन्धिका माया ग्रन्थिरित्युच्यते || ११९ || अतश्च परमेश्वरानुग्रहं विना न केनचिदुत्तीर्यत इत्याह ---- साङ्ख्यवेदपुराणज्ञा अन्यशास्त्रविदश्च ये | न तां लङ्घयितुं शक्ता ये चान्ये मोक्षवादिनः || १२-१२० || अन्यशास्त्रममाहेश्वरम् || १२० || यतः सर्व एव ते ---- क्लिश्यन्ति मायया भ्रान्ता अमोक्षे मोक्षलिप्सया | स्वच्छस्वच्छन्दचिद्धनपरभैरवैक्यापत्त्यात्मना मुक्तेरन्यो यः कश्चिन्मोक्ष उच्यते, स तावदध्वौत्तीर्णतायामपीतराध्वानुत्तरणादमोक्षे मोक्षावभासः || स्वबीजध्यानयोगेन पूर्वध्यानस्वरूपतः || १२-१२१ || दीक्षासिना च तां छित्त्वा विशन्ति शिवमव्ययम् | स्वबीजं नवात्मसम्बन्धी मकारस्तस्य ध्यानं परामर्शस्तत्प्रधानेन सहितं यत् पूर्वोक्तम् ---- ऽऽकृष्णवर्णा च रक्ताक्षीऽऽ (१२-११८) इत्यादि ध्यानं तत्स्वरूपतो हेतोर्या पूर्वोक्ता निरूपिता दीक्षा सैवासिः खड्गस्तेन तां मायां छित्त्वा शिवं विशन्ति तदैकात्म्यमायान्ति || शुद्धविद्याध्यानमाह ---- चतुर्वर्णा भवेद्विद्या सा वर्णव्यापिनी स्मृता || १२-१२२ || सितरक्तपीतकृष्णा ध्यातव्या सुषिरात्मिका | आकाशवायुमारूढा रूपयौवनशालिनी || १२-१२३ || इह शामानाधिकरण्यं च सद्विद्याहमिदन्तयोःऽऽ (३-१-३) इति प्रत्यभिज्ञायां निदीष्टरीत्याऽशेषवाच्यवाचकाविभागप्रकाशमययाः शुद्धविद्यायाः सर्ववाचकतद्वाच्यव्यापि रूपमित्थमादिशति परमेश्वरः | तथाहि चतुभीरम्बाज्येष्ठारौद्रीवाम्- आख्यैबीन्दुसृष्टरेखाशृङ्गाटकार्धचन्द्रसन्निवेशैरागमोक्त- रूपैर्वर्णनं स्वरूपव्यक्तीकरणं यस्याः, अतश्च वर्णानामादिक्षान्तानां व्यापिनी प्रोक्तशक्तिचतुष्टयक्रमेण पञ्चाशद्वर्णभट्टारकात्मकस्वरूपोत्थापिका स्मृतेत्यविच्छिन्नेन पारम्पर्येणाधीतेत्यनेन समस्तवाचकव्यापि रूपमस्या उक्तम् | सितेत्यादिना तु समस्तवाच्यवाचकपञ्चतत्त्वदीक्षानिरूपितनीत्या पृथिव्यादितत्त्वपञ्चकात्मनो वि स्वस्य पीतसितरक्तकृष्णसुषिरात्मकत्वात् तद्व्यापिन्या देव्यास्तथारूपतोक्ता | यतश्चास्याः प्रतिपादितयुक्त्या समस्तवाचकव्यापित्वमत एवेयमाकाशवायुं सर्ववर्णोदयास्पदं सौषुम्नं पदमारूढा | पूर्वोक्तनीत्या वर्णकुण्डलिन्याः प्राणकुण्डलिनीवाहनत्वादशेषवाच्यपरिपूर्णत्वादेव चेयं रूपयौवनशालिनी उक्ता | चतुर्वक्त्रैत्यादिरपपाठः, भुवनाधिकारे ---- ऽऽअष्टवर्गविभिन्ना तु विद्या साऽऽ (१०-११४४) इत्युपक्रम्य विद्याधिष्ठितानां वामादिशक्तीनामपि ---- ऽऽतप्तचामीकराकाराः पञ्चवक्त्राःऽऽ (१०-११४६) इत्यादिध्यानाभिधानात् || १२३ || तदीदृश्येषा ---- स्वबीजेन तु सा ध्येया............. नवात्मसम्बन्धिना क्षकारेण ककारसकाराकारपिण्डीकरणयुक्त्या स्वीकृतविश्वात्मना कूटबीजेन पराम्रष्टव्या || एवं च साधकस्याशेषविश्वप्रकाशात्मिका ---- .............टत्सिद्धिश्चैव जायते | चकारेण दण्डापूपिकान्यायेनाणिमादिसम्पत् समुच्चिता || तदेषाऽशेषविश्वात्मताप्रथनयुक्त्याऽनुत्तरधामविकासात्मकपरफल् अपर्यवसायिनी ---- दिव्या सिद्धिरमोघा तु............ अतश्चायं साधकः ---- ..............षिद्धविद्यश्च जायते || १२-१२४ || सिद्धा वशवतीन्यः सप्तकोटिसङ्ख्या विद्या यस्य || १२४ || किं च ---- वेद लोकांस्ततः सर्वान्............ लोकयन्तीति लोका रुद्रक्षेत्रज्ञाः, लोक्यन्ते इति लोकाः शुद्धविद्यादिक्षित्यन्तानन्ततत्त्वादिमायापदार्थाः, तान् वेत्ति स्वाधारवतीनः सर्वान् स्वसामानाधिकरण्येन पश्यति || न केवलमयं सर्वज्ञो भवति, यावत् ---- .............कामरूपी स गच्छति | शिववत् स्वेच्छामात्रेण तत्तदाकारनिर्माता भवतीति यावत् || अथेश्वरतत्त्वप्रभोरीश्वर(स्य)१ प्रागादिवक्त्रध्यानमाह ---- कुङ्कुमाभं च नारेशं त्रिनेत्रं तु जटाधरम् || १२-१२५ || पूर्वाननमभिध्यायेत्.............. नराणामीश्वरस्यानुग्रहादिकर्तुस्तत्पुरुषभट्टारकस्येदं नारेशम् | अर्धनारीशमित्यपपाठः | भुवनाध्वनि ---- ऽऽतस्योत्सङ्गता विद्याऽऽ (१०-११५८) इत्युक्तत्वादर्धनारीश्वरतयायाः का सङ्गतिः? || तदीदृशं यत् पूर्वमाननम्, तद्ध्यानात् प्रकृष्टतपोनिष्ठस्य ---- ............वायुभक्षस्य यत्फलम् | तत्पुण्यफलमाप्नोति................ वायुव्याप्त्याऽस्य वक्त्रस्यागम उक्तत्वात् तद्ध्यानप्रारम्भ एतद्ध्यातुः फलमिहैवाविर्भवति || क्रमात्तु ---- ...............ऽश्वमेधायुतस्य च || १२६ || फलमाप्नोति || १२६ || ध्यानप्रकर्षाच्चास्य ---- जगच्च वशमायाति............... यतः सर्वत्र जगत्त्रये ---- ..............क्रमते सिद्धिमेति च | तत्तद्भुवनेशवत् प्रभवति, अणिमादिमांश्च भवति || एतच्चास्य ---- षड्भिर्मासैरसन्देहः.................. मासषट्कध्यानाद् निश्चितं भवतीत्यर्थः || दक्षिणस्य ध्यानं वक्तुमुपक्रमते ---- .............डक्षिणं च तथैव हि || १२-१२७ || ईश्वरस्य | त्रिनेत्रं ध्यायेदिति तथैवेत्यस्यार्थः || १२७ || विशेषं त्वाह ---- नीलाम्बुदप्रतीकाशं पिङ्गभ्रूश्मश्रुलोचनम् | भ्रुकुटीकरालवक्त्रं च कपालाहिविभूषितम् || १२-१२८ || बहुरूपजटाधारं दक्षिणं तस्य चिन्तयेत् | वक्त्रं चेति चस्त्वर्थो विशेषद्योतकः | द्वितीयो दक्षिणशब्दः साधकानुकूल्यवाची || इत्थं चैतत् ---- सुखदुःखविनाशाय ईतिज्वरविनाशनम् || १२-१२९ || विशेषस्तु ---- विषग्रहादि सर्वं तु ध्यानान्नाशयते क्षणात् | किञ्च ---- अग्निवज्ज्वलते योगी जरामृत्युविवजीतः || १२-१३० || क्रमते सर्वलोकान् वै सिद्धश्च समतां व्रजेत् | सिद्धः प्राग्वद् मासषट्कध्यानात् | क्रमते स्वामित्वेनाधितिष्ठति | समतां व्रजेत् परमेशसाम्यमेति || पश्चिमवक्त्रध्यानमाह ---- सितं त्रिनयनं देवि साक्षसूत्रकमण्डलु || १२-१३१ || पश्चिमं वदनं ध्यायेद्दव्यसिद्धिप्रदायकम् | दिव्यसिद्धिरणिमादिका || इयांश्चैतद्ध्यानस्य महिमा, यत् ---- हत्वा प्राणिसहस्राणि परदारशतानि च || १२-१३२ || अलेपको विशुद्धात्मा सिद्धिं प्राप्य शिवो भवेत् | हन्तिरिह हिंसार्थो गत्यर्थश्च क्रमेण | न केवलं प्राप्तसाधकदीक्षः सद्योवक्त्रध्यानादणिमादिसिद्धिं प्राप्य शिवो भवति, यावद् महापातक(मु)१क्तोऽपीत्यर्थः | अतश्च प्रायश्चित्तविषमप्येतद्ध्यानं निरूप्यमित्यादिष्टम् || उत्तरास्यध्यानमाह ---- त्रिनेत्रमुत्तरं वक्त्रं रक्तोत्पलसमद्युति || १२-१३३ || यत् ---- ध्यानात्तस्य जगत्सर्वं वशमेति न संशयः | मासषट्कं ध्यातुरिति, अर्थात् || किं च ---- तपते वर्षते चैव सृजते संहरत्यपि || १२-१३४ || ईप्सितां लभते सिद्धिं योऽब्दमेकं तु चिन्तयेत् | आत्मनेपदानि व्यत्ययात् || ऊर्ध्वास्यध्यानमाह ---- सितमूर्ध्वं सदा ध्यायेच्छूलहस्तं जटाधरम् || १२-१३५ || व्याघ्रचर्मपरीधानं साक्षसूत्रकमण्डलु | वीणाडमरुहस्तं च नागयज्ञोपवीतकम् || १२-१३६ || चन्द्रमूर्धोर्ध्वलिङ्गं च ध्यायेन्नित्यं महेश्वरन् | ऊर्ध्वलिङ्गमिति मौलिस्थाने लिङ्गाकारम् | महेश्वर इति पदेनैकवक्त्रं महेश्वरं ध्यायेत्, न तु वक्त्रमात्रमस्येत्यर्थः | नित्यमिति मासषट्कं यावत् || अतश्च ---- अनेनैव तु देहेन सर्वज्ञः कामरूपवान् || १२-१३७ || भवतीति शेषः || १३७ || एवमीश्वरतत्त्वाधिष्ठातुरीश्वरस्याकृतिमतो ध्यानमुक्तम् | अथास्यैव ---- ऽऽबिन्दुश्चैवेश्वरः स्वयम्ऽऽ (४-२६४) इति योजनिकाग्रन्थदृशा शर्वमिदमहम्ऽऽ इत्यशेषविश्वाभेदवेदनात्मकबिन्दुरूपस्यान्तर्गतविश्ववाचकविभागमय अनादध्यानमाह ---- घण्टानादस्य वा ध्यानात् सिद्धिः षाण्मासिकी भवेत् | ईप्सिता मर्त्यलोके तु सिद्धिस्तस्य प्रजायते || १२-१३८ || घण्टारवाकारस्य बिन्द्वन्तर्गतनादामर्शस्य ध्यानात् षाण्मासिकी सिद्धिर्भवेदिति षड्भिर्मासैर्नादामर्शे साक्षात्काररूपा सिद्धिस्तस्य भवति | तत्सिद्धौ च यथेष्टसिद्धवस्तुप्राप्तिर्देहस्थस्यैवास्य घटते || १३८ || अथास्यैवान्तर्भूतनादमशेषविश्वाभेदवेदनात्मकं बिन्दुप्रकाशमयं पूर्वमीशानवक्त्रध्यानमूर्ध्वलिङ्गमिति यल्लिङ्गमुक्तम्, तस्य ध्यानमाह ---- लिङ्गध्यानं तु यः कुर्यात् पूर्वबीजेन संयुतम् | मासेनैकेन पश्येत् स सूक्ष्मं लिङ्गं तनूपरि || १२-१३९ || शुद्धस्फटिकसङ्काशं तद्दृष्ट्वा तु विमुच्यते | लीनमनभिव्यक्ततयाऽन्तःस्थितं विश्वमस्येति लिङ्गमशेषविश्वाभेदवेदनात्मकबिन्दुप्रकाशमयम् | पूर्वमीशानवक्त्रमूर्ध्वमात्रम् | पूर्वबीजं नवात्मकसम्बन्धी रेफः, स च पूर्वदिग्वक्त्रध्यानेऽपि परामर्शकत्वेनानुसन्धेयः | सूक्ष्मं सर्वेन्द्रियविषयं पश्येत् तत्प्रकाशमयः स्फुरेत् | विमुच्यते जीवन्मुक्तिमासादयते || १३९ || यदि त्वेतद्ध्यानवतः सिद्ध्यभिलाषो भवति, तदा ---- सिद्धिस्तु मानुषे लोके षण्मासेन प्रजायते || १२-१४० || तां दर्शयति ---- त्रैलोक्यदर्शने बुद्धिः प्रत्यक्षा तस्य जायते | त्रैलोक्यदर्शनविषये साक्षात्काररूपा धीरस्योदेति, साक्षात्कृताशेषविश्वोऽयं भवतीत्यर्थः || तथा ---- आक्रामेत् सर्वलोकांश्च............ स्ववशान् कुर्यात् || किं च ---- .................ईश्वरेण समो भवेत् || १२-१४१ || देहस्थोऽपीश्वरभट्टारकतुल्यो भवति || १४१ || इदं चास्येश्वरतुल्यत्वम्, यत् ---- सोमार्कौ चक्षुषी स्यातां चक्रे वै धी रथस्य तु | तन्मात्राणि हयास्तस्य मनः सारथिचोदितः || १२-१४२ || अहङ्कारो भवेद्योद्धा गुणश्चास्य महाधनुः | इन्द्रियाणि शरास्तस्य मृगो धर्मः प्रकीतीतः || १२-१४३ || इहानुन्मिषितविवेकप्रज्ञः सत्त्वादिगुणबद्धः पुर्यष्टकाविष्टोऽहङ्काराधिष्ठितमनःप्रवतीतैरिन्द्रियैवीषयान अहरन्धर्माधर्माभ्यां बध्यते | यस्त्वीश्वराराधनात् प्राप्ततत्साम्यो योगीन्द्रः, स देहावस्थितोऽपि पुर्यष्टकं रथमिव वासनात्मकतन्मात्रकेण बहिः प्रवर्तमानं विवेचिकया धिया चक्ररूपया सम्यक् सञ्चार्यमाणमारूढो ग्रस्यमाने विषयग्रामे न कदाचित् पशुजनसुलभैर्धर्मादिविकल्पैः स्पर्शयत इति निस्त्रैगुण्यः पूर्णाहंभावमयोऽयम् | शिष्टं काव्यमात्रम् || १४३ || अतश्च ---- एवं स क्रीडते योगी परमात्मनि (हृदि स्थिते)१ | पुण्यपापैर्वर्तमान इच्छया परमेश्वरि || १२-१४४ || एवं पूर्वोक्तनीत्या परमात्मनि हृत्स्थिते वर्तमानः ---- शर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्मा इति दार्ढ्याच्छिवोदयः ||ऽऽ (१०९) इति विज्ञानभैरवादिष्टनीत्या तदभेदविमर्शमयो योगी स इच्छया पुण्यपापैः क्रीडनप्रायैः क्रीडति, नास्य जातुचित् संस्पर्श इति यावत् || १४४ || अथ तीव्रतमशक्तिपाताभावादेवमस्याभेदप्रतिपत्तिर्न प्ररोहति, तदापि धर्माधर्मबन्धप्रशमोपायमादिशति देवः कृपालुतया ---- नाहं कर्ता न में बन्धः सर्वमीश्वरकारणम् | मत्वा चेश्वरविज्ञानं सर्वकर्माणि सन्त्यजेत् || १२-१४५ || इतिशब्दोऽध्याहार्यः || १४५ || अतश्च ---- धर्माधर्मस्य कर्तृत्वे प्रेरको हृदि संस्थितः | सर्वस्य || यः ---- तमहं शरणं प्राप्तो न में बन्धोऽस्ति कर्तृता || १२-१४६ || सदाशिवोऽष्टभेदेन पूर्वबीजसमन्वितः | ध्येयः पूर्वोक्तरूपेण तत्सिद्धिफलमिच्छता || १२-१४७ || अष्टभेदेनेति सकलादिमूर्त्यष्टकेन युक्तः | पूर्वबीजं नवात्मसम्बन्धी हकारः | पूर्वोक्तेन भुवनाध्वनिरूपितेन रूपेण | तत्सिद्धिफलं तत्समत्वावाप्तिः || १४७ || एवं स्थूलमस्य ध्यानमुक्त्वा, सूक्ष्ममाह ---- नादं वै व्यापकं ध्यायेदहोरात्रायनेषु च | व्यापकमिति पूर्वोक्तघोषादिशब्दाष्टकव्याप्तिरूपत्वादेव कालाधिकारोक्तप्राणापानरूपस्यायनानां च दक्षिणोत्तरवाहरूपाणां व्यापकं सर्वेषां ध्वनिमयत्वात् | अत एव घण्टारवतुल्यात् स्थूलादैश्वरान्नादादयं विलक्षणः सर्वशब्दव्यापकः सूक्ष्मनादभेदः || ध्यानतश्चायम् ---- दक्षिणोत्तरसंक्रान्त्या विषुवज्ज्ञस्य मोक्षदः || १२-१४८ || दक्षिणोत्तरसंक्रान्तिपञ्चचषकान्ते पुटद्वयसमवाही यो यो विषुवत्संक्रान्तिकालस्तत्र यो नादं जानात्युपलभते, तस्यायं मोक्षं ददाति || १४८ || अस्य स्वरूपं दर्शयति ---- वंशध्वनिसमप्रख्यः शान्तनादस्तु स स्मृतः | सदाशिवः स विज्ञेयः.......... घोषादिविशेषरूपतोपशमात् शान्तः प्रोक्तस्थूलसदाशिवविलक्षणः || अस्य च ---- ...........ढ्यानात् सिद्धिफलं शृणु || १२-१४९ || मासमात्रेण तेजस्वी वागीशस्तु द्वितीयके | तृतीये पश्यते सिद्धान् दिव्यदृष्टिश्चतुर्थके || १२-१५० || या तु वलीपलितनाशादिरूपा, सा ---- सिद्धिस्तु मानुषे लोके वत्सरार्धे न संशयः | किञ्च ---- दिव्या सिद्धिस्तथाब्देन सायुज्यं तु द्वितीयके || १२-१५१ || द्वितीयेऽब्दे सदाशिवैकात्म्यमित्येवं पदं भवति || १५१ || सदाशिवपदे नामध्यानमुक्त्वा, सप्रयोगं बिन्दुध्यानमाह ---- षण्मुखीकरणं कृत्वा ध्यायेद् देवं सदाशिवम् | बिन्दुत्रयमित्यर्थः || अङ्गुष्ठाभ्यां श्रुती नेत्रे तर्जनीमध्यमाक्रमात् || १२-१५२ || शेषाभ्यां वृणुयाद् घ्राणे षण्मुखे किल बद्धधीः | तद्ध्यानाच्च ---- दशधा वर्णरूपेण दृश्यते च सदाशिवः || १२-१५३ || बिन्दुरूप इति, अर्थात् || १५३ || सितं रक्तं च पीतं च कृष्णं हरितपिङ्गलम् | नीलं चित्रकवर्णं तु स्फटिकाभं मनोरमम् || १२-१५४ || स्फटिकाभं स्वच्छम्, मनोरमं तु ऽऽचन्द्रमण्डलसङ्काशंऽऽ (१२-१५६) इत्यादिवक्ष्यमाणरूपमुपादेयम् || १५४ || यदाह ---- दृष्ट्वा सर्वाणि रूपाणि त्यजेत्तानि विचक्षणः | एकमेव तु गृह्णीयादन्ये तु गुणरूपकाः || १२-१५५ || विचक्षणस्तत्त्वज्ञानाभिनिविष्टः | एकमिति मनोरमम् | अन्य इति रूपविशेषाः | गुणरूपा अनुपादेयाः || १५५ || तदेकमाह ---- चन्द्रमण्डलसङ्काशं विद्युत्पुञ्जनिभेक्षणम् | तारकाचलिताकारं बिन्दुमेवं विलक्षयेत् || १२-१५६ || विद्युत्पुञ्जनिभमीक्षणं प्रकाशो यस्य | तारकायाश्चलितस्य चलनस्याकारो यस्य, स्फुरत्तारकातुल्यमिति यावत् || १५६ || एवं सदाशिवस्य बिन्दोरीदृग्रूपम् | यस्त्वीश्वरतत्त्वगतः, सः ---- निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | आभिः कलाभिः संयुक्तो ध्यातव्यो बिन्दुरीश्वरः || १२-१५७ || अत एवैकादशबिन्दुस्वरूपप्रतिपादनावसरे ---- ऽऽदशदैवतसंयुतःऽऽ (११-१०) इति ग्रन्थोऽस्माभिः सद्योजातादिदेवतापञ्चकम्, घण्टानादः, निवृत्त्यादिकलाचतुष्टयं च ध्येयं यदिह प्रतिपादितम्, तदाशयेन तत्र प्रतिपादितः || १५७ || उपसंहरति ---- बिन्दुध्यानं समाख्यातं................ एश्वरं सादाशिवं च द्विविधमपीति यावत् || ................शक्तिलक्षं निबोध मे | शक्तिर्लक्षं लक्षणं येन, तादृशं ध्यानं बुध्यस्वेत्यर्थः || तदेवम् ---- खं वीक्ष्य मीलिताक्षो यदुद्यद्भास्करसन्निभम् || १२-१५८ || ईक्षते च महत्तेजः शक्तिः प्रभ्वीति सा स्मृता | खमिति ब्रह्मरन्ध्रम् | प्रभ्वी नादान्तान्ते प्रभवनशीला || सा च तत्र ---- पीता रक्ता तथा कृष्णा स्फटिकाभा मनोरमा || १२-१५९ || द्रष्टव्या परमा शक्तिः.............. ज्ञानवशप्रकटीभूता ज्ञातव्या || ततश्च ---- .........टां दृष्ट्वा शिवतां व्रजेत् | तत्पदोचिता परमशिवरूपा || अथ ---- व्यापिनीं च ततश्चोर्ध्वे पञ्चरूपां विचिन्तयेत् || १२-१६० || कारणैः स्वैः समोपेतां............ व्याप्यादिभिः || तां च ---- ........ढ्यात्वा स्वच्छन्दतां व्रजेत् | समनादिपदासादनयुक्त्येति, अर्थात् || अथ पूर्वनिर्णीतरूपां क्रमेण ---- समनामुन्मनां चोक्तां ध्यायेद्युक्तेन चेतसा || १२-१६१ || अत्र च शक्त्यादिशिवान्तध्याने नवात्मसम्बन्धी प्रणवो वाचकत्वेन पराम्रष्टव्यः | ध्यायेदिति स्वविमर्शबलेन विमृशेदिति यावत् || १६१ || अतश्च ---- ध्यानात् सिद्धिमवाप्नोति............. ययाऽसौ ---- ..............व्यापकः प्रभुरव्ययः | समनाध्यानात् ---- ऽऽतत्रारूढस्तु कुरुते शिवःऽऽ (१०-१२५८) इति यः पूर्वमुक्तो व्यापकादिरूपः शिवः, तद्रूपो भवतीत्यर्थः || उन्मनाध्यानात्तु ---- ततश्चोर्ध्वे शिवः शान्तः.............. समनान्ताशेषविश्वप्रशमात् शान्तः परमशिव एव भवतीत्यर्थः || स च ---- ..............पूर्वं वै कथितो मया || १२-१६२ || ऽऽशिवस्योर्ध्वे शिवो ज्ञेयो यत्र युक्तो न जायतेऽऽ (४-१९७) इत्यादौ, तथा ---- श्थूलसूक्ष्मप्रभेदेन तदेकं संव्यवस्थितम्ऽऽ (४-२९५) इत्याद्युद्देशेषु च || १६२ || इहापि तत्स्वरूपं दर्शयितुमाह ---- चक्षुषा यश्च दृश्येत वाचो वा यश्च गोचरः | मनश्चिन्तयते यानि बुद्धिर्यानि व्यवस्यति || १२-१६३ || अहङ्कृतानि यान्येव यच्च वेद्यतया स्थितम् | यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः || १२-१६४ || स इति चित्प्रकाशघनः परमशिवो भावाभावमये विश्वस्मिन्, त्रिजगति चित्प्रकाशैकात्म्येन प्रकाशमानोऽन्वेष्टव्यः प्रत्यभिज्ञेयः ---- यथाऽयं सच्चिदात्मा प्रकाशो महेश्वरः, यत्प्रकाशाभेदेन विश्वमिदं प्रकाशते, प्रकाशबाह्यस्य कस्यापि प्रकाशनानुपपत्तेः, यस्त्वेवं विश्वप्रकाशात्मा स्वप्रकाशः प्रकाशः प्रकाशते, स एवाहमिति || एवंविधस्य च परतत्त्वैकतानहृदयस्य न देशाश्रमादिनियमः कोऽपीत्याह ---- यत्र तत्र स्थितो देशे यत्र तत्राश्रमे रतः | सुखासीनः संयतात्मा एकचित्तः समाहितः || १२-१६५ || स्वच्छन्दं समनुस्मृत्य अभावं भावयेत् सदा | सुखासीनो विदितवेद्यत्वात् प्राणायामाद्यायासरहितः | संयतात्मेत्येकचित्तपदेन व्याख्यातः | समाहित इति व्युत्थानेऽपि परतत्त्वपरामर्शनिष्ठः | स्वच्छन्दं समनुस्मृत्येति विश्वाभासात्मचित्प्रकाशरूपत्वेन विमृश्य | अभावं भावयेदिति चित्प्रकाशव्यतिरिक्तं न किञ्चिदपि कदाप्यस्तीति प्रत्यभिजानीयात् || अतश्च ---- भावनात्तस्य तत्त्वस्य तत्समश्चैव जायते || १२-१६६ || देहावस्थायामपीति यावत् || १६६ || युक्तं चैतत्, यस्मात् ---- ये धर्मास्तस्य चाख्याताः पूर्वं ते वरवणीनि | सर्वज्ञत्वादयः || तैस्तु धर्मैः समायुक्तो योगी वै भवति प्रिये || १२-१६७ || स्वरूपरूपकध्यानं तत्त्वानां कथितं मया | स्वरूपं कठिनत्वादि, रूपकं पीतत्वादि || अतश्च ---- एवं ज्ञात्वा च ध्यात्वा च सिद्ध्यते मुच्यतेऽपि च || १२-१६८ || सिद्धिरप्यत्रत्या मुक्तिपर्यवसायिन्येवेति शिवम् || १६८ || समस्ततत्त्वविभवपूर्णस्फारप्रथात्मकः | चिदानन्दघनः स्वात्मा स्वच्छन्दो जयति प्रभुः || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते द्वादशः पटलः || १२ || त्रयोदशः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ परामृतरसस्फारसारसम्बोधबृंहितः | सर्वसम्पत्प्रदः श्रीमान् स्वच्छन्दो जयति प्रभु || एवमियति द्वादशपटलान्तेऽस्मिन् ग्रन्थैकदेशे द्वाविंशतिरनुष्ठानभेदा दशीताः | तद्यथा मातृकाभैरवः, श्रीस्वच्छन्दभट्टारकः कपालीशादिभैरवाष्टकपरिवृतः१, ऽऽयस्त्वंशकविशुद्धः स्याद्भैरवोऽत्र वरानने | तं मध्यमस्थं सम्पूज्य तत्स्थाने मध्यमं न्यसेत् ||ऽऽ (८-२५) इत्यंशकविचारोक्तग्रन्थदृशा कपालीशादिनाथाः स्वाम्यावरणवैचित्र्येणावस्थिता अष्टौ, नवात्मा पृथक् पृथक् पदनवकभेदेन नवधा, सामुदायिकस्थित्या एकः, द्वात्रिंशद्देवीभिः परिवृतः कोटराक्षभट्टारकः, केवलो वा | अथेदानीं सकलदर्शनसारभूतं त्रयोविंशतितमं केवलमेव निष्कलनाथमयं स्वच्छन्दं श्वच्छन्दं समनुस्मृत्यऽऽ (१२-१६६) इति पटलान्ते पटलसङ्गत्यर्थमासूत्रितं निर्णाययितुं श्रीदेव्युवाच ---- सारं यदस्य तन्त्रस्य यागं तु परमेश्वर | तमाख्याहि समासेन साधकानां हिताय वै || १३-१ || इज्यत इति यागः सर्वतन्त्रसारभूतो निष्कलनाथः, यजनं यागस्तदाराधनप्रकारस्तं द्विविधं कथय || १ || एवंप्रश्नितः श्रीभैरव उवाच ---- मूलबीजाक्षरं मन्त्रनायकं परमीश्वरम् | प्रणवासनमारूढमङ्गवक्त्रैः समन्वितम् || १३-२ || पूर्वोक्तद्रव्यसङ्घातैः पूजयेत् परमेश्वरम् | परं मूलबीजात्मकमक्षरं चतुष्कलभट्टारकम् | ईश्वरमिति स्वच्छन्दभैरवं देवतारूपम् | परमेश्वरं सर्वप्रभुम् | मन्त्राणामावरणगतानां सर्वेषां (नामकं =) वाचकम् | प्रणवासनादि प्राग्वत् | अङ्गैरिति सर्वज्ञत्वादिपरमार्थैः ---- शान्तं दीर्घस्वरैः षड्भिःऽऽ (१-७१) इति पूर्वोक्तैः, वक्त्रैश्चेति ---- ऽऽयादिवान्तान्यक्षराणि संहारेण युतानि चऽऽ (१-४५) इति पूर्वोक्तैरेव, न तु श्रीकालोत्तरोक्तनिष्कलाभिन्नप्रायव्याप्तिकप्रासाद- भट्टारकबुद्ध्यसुपञ्चकसंभिन्नहकारात्मकैरिति व्याख्येयम्, ऽऽक्रियादिभेदभेदेन तन्त्रभेदो यतः स्मृतः | तस्मात्तत्र यथोक्तं तत्कर्तव्यं नान्यतन्त्रतः ||ऽऽ इति श्रुतेः | तेन यथोक्तैरेवाङ्गवक्त्रमन्त्रैः सम्यगित्यभेदेनैवान्वितम्, न त्वावरणस्थित्येत्यर्थः | अत एव श्रीमदघोरेश्वर्याप्यभेदेनैवान्वितम् | ऽऽतस्य देहार्धगां गौरीमुत्सङ्गे वा प्रकल्पयेत्ऽऽ इति यद्यपि शाक्तस्फारप्रधानेषु शास्त्रेषु कल्पिता श्रुतिरस्ति, तथापीहाङ्गवक्त्रमन्त्रवत् शक्तिमत्स्वरूपाभिन्नैवासाविति गर्भीकृतशाक्तस्फार एवायमत्रत्यः शक्तिमन्मन्त्रः | पूर्वोक्तमित्यनेन मूतीन्यासकलान्यासादि सर्वं संगृहीतम्, केवलं सकलन्यासो निष्कलनाथेनैव सकलनिष्कलव्याप्तिना कार्यः | भगवत्कोटराक्षस्य पश्चादस्योक्तत्वात् तद्वद् दशभुजोऽयमिति केचित्, स्वच्छन्दनाथत्वादष्टादशभुज एवेति गुरवः | द्रव्यसङ्घातैरित्यनेन सिद्ध्यङ्गं यजनं महासम्भारेण कर्तव्यमिति || नियतपूजितस्यास्य ---- स एव होमविन्यासः................. संस्कृतेऽग्नौ विन्यस्तस्य भगवतः शतं सहस्रं वाऽष्टोत्तरमाज्यादिना पूर्णान्तो होमः कार्य इत्यर्थः | एतच्च शिवधमीसाधकदीक्षादीक्षितस्य कर्म आरम्भणीयं वाऽन्यस्य || तस्य च ---- ..........डीक्षा सैव प्रकीतीता || १३-३ || सैव पूर्वोक्तैव || ३ || एवं पूर्वोक्तशिवधमीदीक्षादीक्षितो भगवत्यर्चातर्पणे विधाय ---- दशलक्षं जपेद्यस्तु एकचित्तः समाहितः | समुद्रगसरित्तीरे सहायैः परिवजीतः || १३-४ || होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलम् | जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः || १३-५ || असाध्यं साधयेद् देवि नात्र कार्या विचारणा | एकत्र निष्कलभट्टारक एव जप्यमाने चित्तं यस्य, अत एव समाहितः | समुद्रगा चासौ सरिदिति महानदीत्यर्थः | सहायैः परिवजीत इति यथाऽऽराध्यो देव एकवीरस्तथाऽऽराधकोऽपीत्यर्थः | ऽऽयथा होमस्तथा जपः | ऽऽ इति नीत्या होमेऽप्येकचित्तत्वाद्युक्तम् || किञ्चास्य ---- यानि कानीह कर्माणि चतुष्पीठस्थितानि च || १३-६ || अधमान्यथ मध्यानि ह्युत्तमानि वरानने | तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा || १३-७ || विद्या(त)१न्त्राणां पीठचतुष्टयात्मनि पारमेशे शास्त्रे यानि कर्माणि कार्याणीह जगति पातालाकाशतत्त्वतत्त्वेश्वरव्याप्तिहेतुभूतान्यधमादिरूपाणि स्थितानि, तानि कृतपूर्वसेवस्य योगिनः सिद्ध्यन्तीति योज्यम्; न तु कुहकवाद्यादीन्यधममध्यमादिरूपाणीति व्याख्येयम्, ऽऽकृतान्यपि हि कर्माणि सिद्ध्यन्ति जपलक्षतःऽऽ (६-५७) इति पूर्वं परिमितपूर्वसेवासाध्यत्वेनैषां चोदितत्वात् | भैरवस्य वचो यथेत्यनेन नात्र मायाप्रमातृसुलभः संशयो ग्राह्य इत्यादिशति || ७ || अथेदानीं मुख्यसिद्धिसाधनपरस्याप्यस्य साधकस्य क्वचित् क्वचिदवसरे उपयोगीनि प्रकृत्यादिवश्यानि कर्माणि द्रव्यमन्त्रयुक्तिसाध्यान्यार्यादिवृत्तान्तरैरादेष्टुमाह ---- अथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमम् | यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः || १३-८ || श्वल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः | सूत्रतः सानुसर्तव्या कारिकार्थोपदशीनी ||ऽऽ इति लक्षितानां कारिकाणां कोशं समूहम् | उत्तममिति वीरविषयत्वादविघ्नफलविषयमित्यर्थः | अत एव विचरन्तीति करतलप्राप्तसर्वसिद्धिका यथारुचि विलसन्तीत्यर्थः || ८ || तत्र ---- अभिमुखखड्गनिपातितशूरशिरः शोषितं समादाय | रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानम् || १३-९ || प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति | असुरेन्द्रचक्रवतीनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगात् || १३-१० || शिरः कपालम्, शोषितं निर्मांसीकृतम्, रक्तेन प्रेतसम्बन्धिना सहितमलक्तकं रक्तालक्तकं तेन लिखितम्, मन्त्रयुक्तमिति तद्विदभीतमिति पञ्चमप्रयोगे ---- ऽऽमन्त्रविदभीतऽऽ (१३-१६) इत्युक्तेः, ज्ञातं तच्च ललाटे लेख्यम् | यद्वक्ष्यति सप्तमे प्रयोगे ---- ङाम च तस्य ललाटेऽऽ (१३-२०) इति, अभिधानं साध्यनाम (आनय)१ इत्यूहान्तं साध्यतनावेव तद्द्रव्योल्लिखिते साध्यदेहे प्रेताग्नौ निशि सुष्ठु तप्तं विधाय यस्य साधकस्य कृते तद्दिगभिमुखं यथालिखितं शतं जपति, तं साध्यं यथाविनियोगाय वायुवेगादित्यतिशीघ्रमानयति || १० || प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तम् | यमलोकादप्यचिरादानयति बलेन पूर्ववत् साध्यम् || १३-११ || पूर्ववत् साध्यं मन्त्रयुतं साध्यनाम शतं जपतीत्यनुवर्तते | प्रेतालक्तकं प्रेतशरीरोत्थं रक्तम् | नरशिरसीत्यशूरसम्बन्धिनि | अपीति पूर्वस्माद्विशेषः || ११ || मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय | रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्ताम् || १३-१२ || खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन | आनयति शचीमहल्यामथवा दिवसस्य शतभागात् || १३-१३ || संयुक्तामित्यन्ते लिखितामिति योज्यं सुतप्तामित्यत्र कृत्वेति | रोचना इह नरसत्का | पांसुली पाष्णीकास्थीत्यन्ये | दिवसस्य शतभागेति सूक्ष्मः कालः || १३ || उद्बद्धस्त्रीतनुवामांघ्रेः पांसुलीं समादाय | प्रेतालक्तकनिजरुधिररोचनाभिवीलिख्य साध्यतनुम् || १३-१४ || प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुताम् | कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु || १३-१५ || पूर्वं प्रेतरक्तम्, इह तु निजरक्तमिति विशेषः || निजवामकरेऽलक्तकरोचनया साध्यनाम परिलिखितम् | मन्त्रविदभीतमेतज्जपशतयुक्तं सुतापितं रात्रौ || १३-१६ || खदिरानले विधूमेऽसुरगुरुमप्यानयत्यनिलवेगात् | विदभीतं नाम्नोऽन्ते | मन्त्रविन्यासः पूर्वमेव दशीतः || साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन || १३-१७ || गन्धोद्वतीतवामहस्तेन तु तत्त्वबीजयुक्तेन | आक्रम्य भूमिलिखितं साध्याभिमुखोऽर्धरात्रकाले तु || १३-१८ || क्षितिपतिमपि सामात्यं चानयति निमेषशतभागात् | अभिधानद्वारेण प्राग्वद् मन्त्रविदभीतेन लिखितं कृत्वा | गैरिकं हिङ्गुलकम् | रक्तेन प्रेतोत्थेनैव | अत एव भूमितलमेतत् श्माशानिकम् | अत्र च प्राकरणिकः शतजापयोगः स्थित एव || नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यम् || १३-१९ || नाम च तस्य ललाटे मन्त्रेण विदभीतं समालिख्य | गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय || १३-२० || कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत् सम्यक् | खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा || १३-२१ || यावत् सिक्थकमेतत् कपाललग्नं विलीयते तावत् | सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण || १३-२२ || मृतसूत्रेण वक्ष्यमाणछुम्मकायुक्त्या मृतस्नायुना | जपोऽत्र रात्रावेवेति स्थितमेव || २२ || भित्तौ गैरिकलिखितं मन्त्रार्णविदभीतं तदभिधानम् | साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन् क्रुद्धः || १३-२३ || क्रोङ्काराङ्कुशयोगादानयति सुरासुरान् क्षिप्रम् | भित्ताविति श्माशानिक्याम् | तदभिधानमित्यानयनेप्सितसुरासुरनाम | क्रोङ्काराङ्कुशयोगादित्यङ्कुशाकारलिखितक्रोङ्कारवामकराक्रान्तिवश अदित्यर्थः || रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयात् || १३-२४ || विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये | सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा || १३-२५ || आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागात् | ऽऽभ्रमेणाङ्गुलिकाभ्यां स्याच्चक्रं दुष्टविकर्तनम् |ऽऽ इति प्रसारिताङ्गुलिकोत्तानवामोपरिनिविष्टदक्षहस्तस्य प्रसारिताङ्गुलिकस्य तलसङ्घर्षेण, वामकनीयसीपार्श्वप्राप्तदक्षतर्जन्या भ्रमणाद् या चक्रमुद्राऽऽगमेषु स्थिता, तां विपरीतामिति वामकनीयसीपार्श्वाद् दक्षिणस्यान्तःप्रवेशेन बद्ध्वा तन्मध्यगतं साध्यं करपीडनविह्वलीभूतं ध्यात्वा मन्त्रविदभीतं साध्यनाम शतसंख्यया जप्त्वा प्रोक्तद्रव्येण निशि होमं कुर्वन्नृपतिमपि विधेयीकरोतीत्यर्थः | रात्रौ श्मशाने जपहोमादि प्राकरणिकमत्र स्थितमेव || शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्ष्मयुतम् || १३-२६ || तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु | तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः || १३-२७ || विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः | आदौ शस्त्रेण अक्षतो यो ध्वजे नरस्तस्य शीर्षं शूलारोपितपुरुषकपालम् | तत्र प्राग्वत् शोषिते त्रिरूपगदितमित्याकृतिमन्मुखलिङ्गरूपमव्यक्तलिङ्गाकृति धाम मूलमन्त्रवाच्यं दैवतं लिखित्वोत्कीर्त्य यो नित्यमर्चति, असौ लोकपालानपि वशीकुर्यात् || एतदेव भड्ग्या स्फुटयति श्लोकद्वयेन ---- व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकम् || १३-२८ || धाम चाराधयेत् सम्यक् तत्र यस्तु विचक्षणः | जायते त्रिविधा सिद्धिगीरिराजतनूद्भवे || १३-२९ || सुनिश्चितमतेः सम्यग् गिरिराजस्य तस्य वै | तत्रेति त्रिशूलारोपितनरकपाले | गिरिराजस्येति वक्ष्यमाणछुम्मकादृष्ट्या साधकेन्द्रस्य || अत्र द्रव्यविशेषहोमसाध्यं वशीकारमाह ---- रक्तचन्दनधूलिं तु राजिकां लवणं तथा || १३-३० || पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेत् | जपन् स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयम् || १३-३१ || चिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा | साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेत् || १३-३२ || शतमेकं जपेद्यावत्तावदाकर्षयेन्नृपम् | पादधूलिः पुंसो दक्षिणात् पादात्, नार्या वामाद् गृहीतव्या | प्रणवं निष्कलनाथं नमोऽन्तमुच्चार्य ऽऽअमुको में वशीभवतु स्वाहाऽऽ इत्यूहान्तो मन्त्रो जपे होमे च प्रयोक्तव्यः || वशमाकृष्टश्चासौ साधकस्य ---- वशमायाति भूनाथ आत्मना च धनेन च || १३-३३ || नात्र संशयः कार्य इत्याह ---- सिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहम् | एवं वशीकृतौ प्रयोगदशकमुत्तमादिसिद्ध्यर्थं च प्रयोगमुक्त्वा, स्तम्भने प्रयोगमाह ---- तामेव धूलिं संगृह्य लोहचूर्णविमिश्रिताम् || १३-३४ || श्मशानचीरके बद्ध्वा श१तजप्तां चतुष्पथे | निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्विताम् || १३-३५ || निक्षिपेद्यस्य नाम्ना तां स क्षणात् स्तम्भितो भवेत् | श्मशानचीरके शववस्त्रखण्डे | शतजप्तामित्यमुकं स्तम्भयेत्यूहभाजा निदीष्टमन्त्रेण || उन्मादे प्रयोगमाह ---- तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुताम् || १३-३६ || बद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्विताम् | शतजप्तां तु तां कृत्वा श्मशाने निखनेद् द्रुतम् || १३-३७ || भवत्युन्मत्तकः साध्यः............ पञ्चविधमुन्मत्तकं मूलकाण्डपत्रपुष्पफलाख्यावयवपञ्चकयुक्तं धत्तूरकम् | अत्राप्यमुकमुन्मादयेत्यूहः कार्यः || अस्य प्रत्यानयनमाह ---- ...............उद्धृतायां तु मुच्यते | निवृत्तोन्मादो भवति || कथमित्याह ---- उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेत् || १३-३८ || प्रत्यानयनमेतद्धि सिद्धमेव न संशयः | उद्धृतं श्मशानभवनादाकृष्टम् || पुनरप्याकर्षणे प्रयोगान्तरमाह ---- अथ रक्ताश्वमारस्य कुसुमानि समाहरेत् || १३-३९ || शतमष्टोत्तरं तेषां शतजप्तं तु कारयेत् | सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेत् || १३-४० || एवं दिने दिने कुर्याद् दशाहं सुसमाहितः | रक्ताश्वमारस्य लोहितकरवीरस्य प्रोक्तेतिकर्तव्यताकानि पुष्पाणि प्रत्यहं गृहीत्वा पृथक् पृथक् सुरक्षितानि स्थापयेत् || ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु || १३-४१ || महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेत् | आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रवित् || १३-४२ || प्रथमदिनपुष्पाणामादौ प्रवाहणम्, ततो द्वितीयादिदिनपुष्पाणामित्यानुपूर्व्यार्थः || ४२ || यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि | ऊर्ध्वं वहतीत्यर्थः || तद् गृहीत्वाम्बुसंमिश्रं दन्तैरस्पृष्टमापिबेत् || १३-४३ || पीतजलं कुर्यात् || ४३ || ततोऽश्वमारकुसुमं रक्तं वै शतमन्त्रितम् | तर्जन्यग्रे तु तत् कृत्वा अङ्गुष्ठेनाक्रमेद् बुधः || १३-४४ || दक्षिणेन || ४४ || अथ ---- भ्रामयेत् सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रवित् | स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतम् || १३-४५ || सव्यत इति दक्षिणे पार्श्वे | अत्राप्यमुकमाकर्षयेति प्रयोगः || ४५ || आकृष्टस्य विसर्जने प्रयोगमाह ---- अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनम् | अपसव्यं वामपार्श्वे तदश्वमारपुष्पं भ्रामयन् साधकस्य यथोपयोगं विनियुक्तस्य विसर्जनं करोतीति शिवम् || स्वातन्त्र्यशक्त्या परया नानाश्चर्यप्रदर्शकः | जयत्यनुग्रहकरः स्वच्छन्दः परभैरवः || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते त्रयोदशः पटलः || १३ || चतुर्दशः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ मोचयति पाशजालाद् द्रावयति भिदं मुदं राति | मुद्रयति विघ्नतस्करलुण्ठनतो मन्त्रसिद्धिसङ्घातम् || तत्तत्संवित्स्फाराननुकृतिरूपान् व्यनक्ति या शम्भोः | आकृतिरूपा मुद्रा जयति विभोरर्चनादिनिर्वर्त्या || त्रयोदशभिः पटलैः समययादिचतुष्टयनिर्वर्त्यनित्यनैमित्तिककाम्यकर्म सम्पूर्णमुदितम् | तत्र रक्षासन्निधितदनुप्रवेशादिप्रयोजनं ऽऽमुद्रां प्रदर्शयेत् पश्चात्त्रिधा त्रैकाल्यकर्मणिऽऽ (२-१०२) इति यत् पूर्वं कायवाङ्मनोनिर्वर्त्यमुद्रास्वरूपमुक्तम्, तद् विवक्षुः श्रीभैरव उवाच ---- मुद्राणां लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम् | अस्मिंस्तन्त्रे प्रोक्तप्रयोजना भगवदायुधानुकाररूपा या मुद्राः, तासां लक्षणं तत्त्वव्यवस्थापकं रूपं वक्ष्यामीति प्रतिजानाति || अत्र यद्यपि ---- ऽऽखड्गखेटकधारिणम्ऽऽ (२-९०) इति आयुधक्रम उक्तः, तथापि ---- ऽऽकपालं चैव खट्वाङ्गमनुक्तेषु प्रयोजयेत्ऽऽ (१४-२१) इति भाविनीत्या कपालखट्वाङ्गयोः सर्वावरणगतदेवतासाधारणत्वात् श्रीकोटराक्षभट्टारकविषये च तयोः प्राधान्यादादौ तन्मुद्रालक्षणमाह ---- उत्तानमञ्जलिं कृत्वा कपालं परिकीतीतम् || १४-१ || एषा च विश्वसमाहरणप्रवृत्तसंवित्स्वरूपानुकारिणी | यदुक्तं मयैव श्रीभैरवानुकरणस्तोत्रे ---- ऽऽशाक्ताण्डखण्डमध्ये विश्वरसमेवमहं समाहरामि सदा | व्यञ्जयसि करकपालगरुधिरमिषादेतदिव मेऽन्तः ||ऽऽ इति | यद्यपि ---- ऽऽमुण्डखट्वाङ्गधारिणम्ऽऽ (२-९१) इति पूर्वं पठितम्, तथापीह कपालमुद्रोक्तेर्मुण्डस्थाने कदाचित् कपालं भवतीत्यादिशति | मुण्डमुद्रापि खड्गवद् मुष्टिदर्शं दर्शनीया || १ || तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम् | अङ्गुष्ठेनाक्रमेद् देवि ऋज्का कृत्वा प्रदेशिनीम् || १४-२ || पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत् | खट्वाङ्गं कीतीतं ह्येतत्.............. वाममितिनिर्देशात् कपालमुद्रा दक्षिणेन निर्देश्येति ध्वनति | तथा च श्रीमालिनीविजये ---- ङिम्नं पाणितलं दक्षमीषत्तत्कुञ्चिताङ्गुलि | कपालमिति विज्ञेयम्..................... ||ऽऽ (७-२३) इति | अङ्गुलित्रयमिति मुष्टिसंनिवेशेन स्थितमित्यर्थात् | पराङ्मुखमिति स्कन्धापेक्षया | एतन्मुद्रासतत्त्वमपि तत्रैव स्तोत्रे प्रदशीतम् ---- ङिःशेषाहृतसारा मययेव जगत्स्थितिस्तदेइअमये | इति खट्वाङ्गकरङ्कोद्वहनच्छलतो ददास्याज्ञाम् ||ऽऽ इति || अथ ---- ................खड्गमुद्रां निबोध मे || ३ || अङ्गुष्ठेनाक्रमेद् देवि सकनिष्ठामनामिकाम् | मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीतीता || १४-४ || स्कन्धक्षेत्रे पराङ्मुखदक्षकरप्रदर्शनीया एषा | कृत्वेति शेषः | यदुक्तं तत्रैव ---- ऽऽअन्तःशक्तिकृपाणीं व्यनक्षि संसृतिविभेदिनीमसिना | निजशक्तिमहिमस्वीकृतसमस्तविश्वा हि वीरवराः ||ऽऽ इति || ४ || मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने | आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया || १४-५ || कृत्वेति वामहस्तमित्यर्थात् | स्फर इति स्फर इत्युच्यमानम् | उक्तं च तत्रैव ---- ऽऽभवभयहर्ता सोऽहं स्फराख्योऽवस्थितोऽस्मि मा भैष्ट | इत्यास्फोटितखेटकदर्शनतो दिशसि नः स्वामिन् ||ऽऽ इति || ५ || मुष्टिं बद्ध्वा देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत् | अङ्कुशः कथितो ह्येष........... दक्षिणपाणिं निर्वर्त्य | उक्तं च तत्रैव ---- ऽऽभेदमयमखिलमेतन्निजशक्त्यैवाक्षिपामि संहर्तुम् | इत्यङ्कुशधारणतः स्फुटयति परभैरवोऽस्माकम् ||ऽऽ इति || अथ वामपाणिना प्रदर्श्याम् ---- ..............पाशमुद्रां निबोध मे || १४-६ || तर्जनीं वर्तुलां कृत्वा मूलेऽङ्गुष्ठस्य योजयेत् | पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः || ७ || अङ्गुष्ठस्येति तत्स्थाने मुष्ट्याकृतिवामसम्बन्धिनः | दुष्टजालं विघ्नसमूहः | अस्यापि तत्रैव तत्त्वं प्रदशीतम् ---- ङिजशक्तिपाशवलितश्चिद्भस्मना कल्यते महाकालः | इति पाशधारणवशात् प्रथयानः कालकालस्त्वम् ||ऽऽ इति || ७ || मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम् | नाराचस्तु समाख्यातः समासात्तव भैरवि || १४-८ || सम्प्रसार्येति धनुरारूढनाराचवत् पार्श्वस्थित्येत्यर्थः | अस्यापि समनन्तरवक्ष्यमाणपिनाकमुद्रासहितस्य तत्रैव स्वरूपं निर्णीतम् -- -- ऽऽकोदण्डारूढशरप्रदर्शनाद् ब्रह्माविष्णुरुद्रेशान् | ससदाशिवकारणहरिणान् शक्त्या भिनत्सि युगपत्त्वम् ||ऽऽ इति || १४-८ || मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये | अग्रे निकुञ्चयेत् किञ्चित् पिनाकं परिकीतीतम् || १४-९ || पिनाकं धनुः | अग्रे किञ्चिदाकुञ्चनाद् धनुराकार एव सन्निवेशो भवति | अस्यापि सतत्त्वमुक्तमेव || ९ || अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने | पराङ्मुखं तु तं कृत्वा त्वभयः परिकीतीतः || १४-१० || पताकहस्तो दक्षिणः स्वशरीरपराङ्मुख उत्थित इत्यर्थः | उक्तं च तत्रैव ---- ऽऽअभयेन च भयान्युन्मूलतया प्रकाश्यते सततम् | विश्वानुग्रहकरणस्वभावता तव करण तेन ||ऽऽ इति || १० || वामं भुजं प्रसार्यैव जानूपरि निवेशयेत् | प्रसृतं दर्शयेद् देवि वरः सर्वार्थसाधकः || १४-११ || उक्तं च तत्र ---- ऽऽवरदेन पाणिना त्वं विश्वविभूतिप्रदत्वमभिनयसि | न खलु परतत्त्वनिष्ठो वित्तमलैः स्पृश्यते जातु ||ऽऽ इति || १४-११ || घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम् | दक्षहस्तस्य तर्जन्या घृषेद् घण्टा प्रकीतीता || १४-१२ || अस्यापि वक्ष्यमाणवीणाडमरुमुद्राभ्यां सह तत्रैव सतत्त्वं दशीतम् ---- ऽऽवीणाघण्टाडमरूनुड्डामरदर्शयन्निदं दिशसि | वृत्तित्रिभेदभिन्नं नादामर्शं निभालयन्नन्तः ||ऽऽ इति || १२ || कनिष्ठिकां समाक्रामेदङ्गुष्ठेन समाहितः | प्रसार्य चाङ्गुलीस्तिस्रस्त्रिशूलं परिकीतीतम् || १४-१३ || समाहित इति | तत्तत्संवित्स्फारात्मकवीर्यसारतां सर्वमुद्राणामनुसन्दधीतेत्यनेनादिशति | वीर्यं चास्य तत्रैव दशीतम् ---- ऽऽज्वलदिच्छादिकशक्तित्रितयां तां सुन्दरां परां शक्तिम् | देवानुकरोषि बहिस्त्रिशूलधारणमिषेण नित्यमपि ||ऽऽ इति | एषा च पराङ्मुखी जन्माधारात् प्रोल्लसच्छिखिशिखारूपा बिन्द्वन्तमेत्यारात्रयोल्लासेन द्वादशान्ते प्राप्तस्थितिनीबन्धनीयेति गुरवः || १३ || दण्डो वै मुष्टिबन्धेन.............. अनुकार्य इति शेषः | उक्तं च स्तोत्रे ---- ऽऽजगदखिलं मच्छक्त्या दमितं सर्वा व्यवस्थितीर्धत्ते | इति दण्डधारणवशाद् व्यनक्ति चिद्भैरवोऽस्माकम् ||ऽऽ इति | गुरवस्तु ---- ऽऽदण्डाख्यामृष्टसौषुम्ननाडीपथविराजिता |ऽऽ इति || .................वज्रमुद्रां निबोध मे | वामहस्तमधः कृत्वा उत्तानं तु समाहितः || १४ || दक्षं चाधोमुखं कृत्वा त्वङ्गुष्ठं च कनिष्ठिकाम् | उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् || १५ || उत्तानमिति विरलं प्रसारिततर्जनीमध्यानामिकं दक्षं च तादृशमेव तदुपरि पराङ्मुखं न्यस्तमुभयोः परस्परमङ्गुष्ठकनिष्ठिकाबन्धनेन पार्श्वकृतकूर्परविन्यासेन पार्श्वसन्निविष्टतामस्याः सूचयति | वीर्यं च तत्रैव दशीतम् ---- ऽऽइच्छादिकनिजशक्तिप्रकाशिताधःस्थगोचरत्रितयाम् | स्वामेव परां शक्तिं वज्रमयीं वहसि षडरां त्वम् ||ऽऽ इति | गुरवोऽपि ---- वज्रमुद्रा बन्धकत्रीं सुस्थितिः स्वस्तिकायतेऽऽ इति || १४-१५ || डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते | सुषिरेण समायुक्तं दर्शयेत्तु वरानने || १६ || तत्त्वमस्याः प्रदशीतमेव || १६ || मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत् | मुद्गरः कथितो ह्येष.............. सम्प्रसारयेदिति सम्मुखौ प्रसारयेत् परस्परसंलग्नावित्यर्थात् | अस्या अपि परशुमुद्रया सह तत्रैव तत्त्वं दशीतम् ---- ऽऽमुद्गरपरशू बिभ्रद् बैन्दवनादानुकाररूपौ त्वम् | भेदविभेदनशकलनपरत्वमीशान निदीशसि ||ऽऽ इति | गुरवोऽपि ---- ऽऽगाढग्रन्थिगणास्फोटो मुद्गरेण प्रवर्तते |ऽऽ इति | श्रीपूर्वशास्त्रे तु मुद्गरमुद्रा त्रिशिखा दशीता | तथा च ---- ऽऽकरावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुलि | अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपर्वतः || मध्ये द्वे तु युते कार्ये कनिष्ठे परुषावधि | तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते || मुद्गरस्त्रिशिखो ह्येष क्षणादेवोपकारकः |ऽऽ (७-२७-२९) इति अथ ---- .........वल्लकीं च निबोध मे || १४-१७ || वल्लकीं वीणाम् || १७ || हस्तौ प्रसारयेद् देवि उत्तानौ तु समाहितः | अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीतीता || १४-१८ || कुब्जावीणाविषया | एषा वामपार्श्वे प्रदर्शनीया | अस्याः सतत्त्वं दशीतमेव || १८ || प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः | अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृतः || १४-१९ || स्वपराङ्मुखेन दक्षहस्तेन स्कन्धदेशे प्रदर्शनीयोऽयम् | तत्त्वमस्याः पूर्वमेव दशीतम् | एताश्च मुद्रा गुप्ताः प्रदर्शनीयाः, अगुप्ते त्वायतनादौ वस्त्राच्छादिताः, अथवा स्मर्तव्या एवेति गुरवः | केचिदत्र परशुमुद्रास्थाने ---- ऽऽभ्रामयेदङ्गुले द्वे तु चक्रं दुष्टनिकृन्तनम्ऽऽ इति पठन्ति | अन्यैस्त्वेतत्प्रसङ्गात् शङ्खपद्ममुद्रालक्षणमपि क्षिप्तम्, अपरैस्तु परशुलक्षणम् ---- ऽऽराजावर्तनिभो देवि मुद्गरः परशुस्तथा |ऽऽ इत्येतदनन्तरं पठितम् | तत् सर्वमुपक्रमोपसंहारानुरूपत्वादुपेक्ष्यम् | एवं च प्रायशो ग्रन्थान्तरप्रक्षेपो ग्रन्थविपर्यासः पाठविपर्यासश्चास्य ग्रन्थस्य दुर्भेधोभिः परिकल्पितः शतशाखो दृश्यते | सोऽस्माभिः पुरातनपुस्तकान्वेषणतो यावद्गति अपसारित इत्यास्तामेतत् || १९ || एतदुपसंहरन् प्रकृते योजयति ---- एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत् | आवाहने निरोधे च तथा चैव विसर्जने || १४-२० || एता इत्युपसंहारात् कः परशुमुद्रायाः परो ग्रन्थेऽवसरो भैरवस्योक्तः, कश्चक्रपद्मादिमुद्राणामवकाशो ध्यानग्रन्थे तेषामनुद्देशादिति यथापठितमेव साधु | आवाहनेत्यादिना ---- ऽऽमुद्रां प्रदर्शयेत् पश्चात्त्रिधा त्रैकाल्यकर्मणि | ऽऽ (२-१०२) इति पूर्वोक्तमेव निर्वाहितम् || २० || अथ ये वक्त्राङ्गभैरवाद्या आवरणस्थाः, तेषां साधारणं मुद्राबन्धं प्रदर्शयति ---- कपालं चैव खट्वाङ्गमनुक्तेषु प्रदर्शयेत् | सर्वेषां ज्ञानक्रियाशक्तिस्फारसारत्वाद् मुद्राणां सन्निवेशमुक्त्वा यथौचित्यमासां मानसं रूपमाह ---- कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि || १४-२१ || त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः | स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीतीतम् || १४-२२ || घण्टा हेमप्रभा ज्ञेयाङ्कुशो मरकतप्रभः | पाशो भिन्नाञ्जननिभः स्फटिकाभोऽभयः स्मृतः || १४-२३ || वरश्चित्तप्रसादेन ध्यातव्यो वरवणीनि | डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् || १४-२४ || दण्डं रक्तं विजानीयाद्वज्रं पीतं विचिन्तयेत् | राजावर्तनिभो देवि मुद्गरः परशुस्तथा || १४-२५ || चित्तप्रसादेनेति प्रसादश्चित्ततुल्योऽनुपाधिसंवित्प्रकाशरूप इति यावत् || २५ || उपसंहरति ---- मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम् | न केवलं पूर्वनिदीष्टनीत्येदं तन्त्रं विद्यामन्त्रमण्डलपीठरूपं यावदिह मुद्राश्रयतया मुद्रापीठरूपमपि | चतुर्वर्गस्य समययादिचतुष्टयस्य रक्षासन्निधितत्त्वानुप्रवेशहेतुत्वात् फलोदयो यतः | एतत् ---- ऽऽचतुष्पीठं महातन्त्रं चतुर्वर्गफलोदयम्ऽऽ (१-५) इत्यस्य ग्रन्थस्य निगमनरूपम् || एवं मुद्राणां कायीयं मानसं च रूपमुक्त्वा, वाचिकमप्याह ---- प्रणवासनमारूढा ओंकाराद्या वरानने || १४-२६ || स्वनामकृतविन्यासा नमस्कारावसानिकाः | भगवच्छक्तिरूपाणां मुद्राणां स्वरूपं विमृशेत् || एवं सन्निवेशबन्धध्यानमन्त्रपरामर्शस्फुटीकृता एता विघ्नत्राणभगवत्स्वरूपसन्निधानतदनुप्रवेशनादिरूपाणि ---- साधयन्ति महादेवि फलानि विविधानि तु || १४-२७ || देव्या महत्पदेन विशेषणेन मुद्रावीर्यज्ञतां प्रकाशयन्मुद्राणां वीर्यमेव सारभूतमिति शिक्षयति || २७ || पाटलिकं प्रमेयमुपसंहरति ---- निवीघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये | वेदितव्यं प्रयत्नेन साधितव्यं महात्मना || १४-२८ || यद्यपि भगवत्सन्निधानतदनुप्रवेशादौ विघ्नव्युदासार्थं समययादिभिरप्येतन्मुद्रालक्षणं ज्ञातव्यम्, तथापि साधकेन विशेषतो ज्ञातव्यम्, मुद्राबन्धरक्षितस्यैवास्य साध्यसिद्धेः | यथोक्तं पूर्वशास्त्रे ---- ऽऽयाभिस्तु रक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात्ऽऽ (७-१) इति शिवम् || २८ || स्वावष्टम्भवशोन्मिषन्निजमहामन्त्रावमर्शस्फुरत् स्वच्छन्दस्फुरणामयाः परतरस्फारामृतस्यन्दिनः | उद्यन्त्येव तनावकृत्रिमतया द्रागेव मुद्राक्रमा यस्य त्रोटति पाशकुञ्जरभरः पायात् स एकः शिवः || || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराजविरचितोद्द्योताख्यव्याख्योपेते मुद्राप्रकाशः नाम चतुर्दशः पटलः || १४ || पञ्चदशः पटलः ऽऽ स्वच्छन्दोद्योतः ऽऽ (कर्त्ता सर्वस्य लोकस्य धर्त्ता हर्त्ता सहैव च | आधारः)स्वात्मविश्रान्तेः स्वच्छन्दो जयति प्रभुः || अथ समयिमध्ये समयिनां तान्त्रिकव्यवहारगोपनेन निवीघ्नसिद्धिसम्पत्त्यर्थं प्राक्प्रमेयशेषतया पटलमारभमाणश्छुम्मकाशर्मपर्याय- पारिभाषिकसंज्ञाभिर्लोकोत्तरव्यवहारप्रवर्तनेन गूढतया शास्त्रस्यास्य रहस्यतां दर्शयितुं श्रीभैरव उवाच ---- जपध्यानादियुक्तस्य चर्याव्रतधरस्य च | छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने || १५-१ || छुम्मका तत्समयानुप्रविष्टसञ्चित्या पारिभाषिकी संज्ञा | साधकस्येति प्राचुर्याश्रयेण || १ || तत्र ---- भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः | साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः || १५-२ || आराध्यदेवतायाः परमोपादेयत्वात् तदुपक्रमेयमुक्तिः | धामेति सूर्यसोमवह्नितेजसामपि प्रकाशकत्वाद् विश्वविश्रान्तिस्थानकत्वाच्च धाम | सर्वद इति स्वात्मनि परिपूर्णतया निराकाङ्क्षस्य गुरोः परार्थैकप्रयोजनत्वात् | गिरिरित्यप्रकम्प्यत्वादाराधनैकतत्परः | विमल इति सर्वस्याऽऽन्तरभूमेः संशोधनाद् विगतमलः | स्मृत इत्यविच्छेदेन पारम्पर्येण | एवमुत्तरत्र || २ || समयी कान्तदेहस्तु भगिन्यो बलदपीताः | कान्तदेह इति कान्तः शुद्धविद्यानुप्रवेशेन दीप्तिमान् देहो यस्य | मन्त्रसिद्धिफलेन याः सञ्जातदर्पा नार्यस्ता भगिन्य इव मन्त्राराधननिष्ठानामिति तथोक्ताः || सर्वेषामेषां यागोपयोगिद्रव्यविशेषविषयां छुम्मकामाह ---- मद्यं तु हर्षणं ज्ञेयं.............. हर्षयतीति कृत्वा || ..............ंउदिता तु सुरा स्मृता || १५-३ || मुदितेति मुदितं हर्षस्तद्धेतुत्वात् || ३ || तथा ---- मत्स्या जलचरा ज्ञेयाः............... जलचरजातेः श्रीचर्याकुलनिरूपितनीत्या चरुभोजनतो दीक्षितत्वाद् भैरवयागे परमोपादेयत्वमित्येवं छुम्मकया निर्देशः || ...............ंआंस च बलवर्धनम् | मांसेनासाधारणचमत्कारहेतुना रसादिधातुषट्कपरिपुष्टिक्रमाद् बलस्य वीर्यस्य वर्धनात् ---- ऽऽजग्धिपानकृतोल्लासरसानन्दविजृम्भणात्ऽऽ (७२) इति श्रीविज्ञानभट्टारकनिरूपितनीत्या योगिनं प्रति बलस्य स्पन्दात्मनः शाक्तवीर्यस्य विवर्धनादुत्तेजनादेवमभिधानम् | गोवलीवर्दन्यायेन च मत्स्यान्मांसं व्यतिरिक्तमुच्यते | जातं प्ररूढमित्याहुर्मृतं चैव पराङ्मुखम् || १५-४ || देहप्राणादिबन्धसांमुख्यादपवृत्तमित्याहुः पारम्पर्यनिष्ठाः || ४ || रक्तं त्वमृतमित्याहुः पद्मनालोऽन्त्रसञ्चयः | शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीतीतम् || १५-५ || तत्तद्रहस्ययागविशेषोपयोगिनां रक्तहृत्पद्मान्त्रशुक्रस्नायूनाममृतं पद्मनालश्चन्द्रः सूत्रमिति गुप्तानि सङ्केतनामानि परमाप्यायहेतुत्वात् कणीकादलादियुक्तत्वादस्थूलदीर्घरूपत्वात् सितत्वाह्लादकत्वयोगात् तत्तदुपह्रियमाणवस्तुग्रथनहेतुत्वाच्चेत्येतेऽत्र हेतवः क्रमेण योज्याः | पद्ममित्यत्रावृत्त्या द्विः पद्मशब्दः स्थितः, तेन हृत् पद्ममित्येवमभिधातव्यमित्यर्थः || ५ || किञ्च वीरचर्यास्थानम् ---- श्मशानं डामरं ज्ञेयं.............. समस्तशङ्कातङ्कत्रोटकत्वेनोड्डामरत्वाद् डामरम् || तत्रत्येऽपि क्वचित् कर्मणि सहचरतयोपयुक्तः ---- ..............ॠआक्षसस्तु भयङ्करः | पिशाचो रोमजननः.............. अधीराणां मिहृदयत्रासप्रदत्वाद् भयेन रोमोर्ध्वसरणाच्च || क्वचिद् रहस्याचारे उपयुज्यमाना ---- ............ॠउहा ज्ञेया रजस्वला || ६ || रोहतीति रुहा वीरचर्याया आश्रयभूता || रात्रिं वै च्छादिकां विद्धि............. छादयति पशूनामदर्शनपथं प्रापयति वीराचारमिति च्छादिका || यत्र तु रहस्यवीराचारो दर्शनीयो न भवति, तत् ---- .............प्रकाशश्च दिनं भवेत् | प्रकटत्वात् प्रकाश इत्युच्यत इत्यर्थः || अथ नेत्रजिह्वादौ कर्मविशेषोपयोगिनि शरीरावयवे पारिभाषिकं सङ्केतं करोति ---- नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः || १५-७ || लम्बिकादिरससङ्ग्राहित्वात् || ७ || तथा ---- करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः | परमेश्वरताप्राप्तिहेतुपूजानिधानकर्क्तृत्वादेकैकस्य गमनाद्यनुपपत्तेश्च || किञ्च ---- लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः || १५-८ || स्पष्टार्थसंज्ञे || ८ || क्वचिद् वीरपाशच्छेदादावुपयुज्यमानम् ---- शस्त्रं विभागजननं.............. तथा ---- ...........कर्तरी कार्यसाधिका | कार्यं पाशसूत्रादिकर्तनं साधयतीति || तथा ---- दूती संवाहिका ज्ञेया.............. समं सह वाहयति निर्वाहयति वीरस्य रहस्याचारमिति संवाहिका दूती भार्या उच्यते, अथ दूती घण्टा सममान्तरध्वनिना वाहयति प्रापयति बाह्यमिति कृत्वा संवाहिका || तथा ---- .................ढूपो ह्लादन उच्यते || १५-९ || गन्धः सन्तोषजननः............. गन्ध इति समालम्भनद्रव्यम् | छुम्मके एते स्पष्टार्थे || ..........ॠआजानो धारकाः स्मृताः | ये धारकाः पिष्टादिमया दीपाधारास्ते राजन्ते दीप्यन्त इति कृत्वा राजान उक्ताः, अन्ये तु ये राजानो भूमिपालास्ते धारयन्ति पूजा इति कृत्वा धारका इति व्याख्यातवन्तः || पशुवीबोधको ज्ञेयः............. यः पशुर्देवताभ्य उपहारीक्रियते, स वसासृगाद्याहारक्रमेण विबोधयति तास्ताः संविद्देवता इति विबोधकः || यस्तु देवताभिः साधितो विशिष्टः कश्चिच्चरुकः, सः ---- ............चरुकः सार्वकामिकः || १५-१० || सर्वान् कामान् समवाप्नोतीति कृत्वा || १० || अन्नं साधनमित्युक्तं.............. यत्पुनरन्नम्, तत् साधनमित्युक्तम् || ..............वसा मण्डमिहोच्यते | सर्वजनसाधारणत्वाद् मण्डमिव मण्डमाचामः || अथ ---- दिशां मुखं तु श्रवणं............... श्रवणं श्रोत्रं दिग्देवताधिष्ठितत्वाद् दिशां मुखमित्युच्यते || ............ट्वक् च संवेदनी स्मृता || १५-११ || संवेद्यतेऽनया स्पृश्यं वस्तु ---- इति कृत्वा || घ्राणं सुस्थितमित्युक्तं.............. सुगन्धिद्रव्याघ्राणक्रमेण सुखेन स्थितं स्थानं संविदो यस्मिन्निति कृत्वा || ..............ंउखं तु प्रविचारकम् | मुखमित्युपहार्यपशुशिरः, प्रविचार्यते चक्षुरादिद्वारेण रूपादि वस्तु येनेति कृत्वा, प्रविचारकमुच्यते || पशुः प्रचारो विज्ञेयः.............. प्रचारस्य विश्वेन्धनक्षारविमोकस्य हेतुत्वात् प्रचारः || एवं पश्वङ्गविषयां छुम्मकामुक्त्वाऽन्या अप्याह ---- ..............ंआता धात्रीति कथ्यते || १५-१२ || पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः | भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका || १५-१३ || मित्रं गुणानां जननं गुणनाशं रिपुं विदुः | स्पष्टम् || पुनः शरीरावयवेषु छुम्मकाः प्राह ---- छित् स्फिजौ कीतीतो देवि.......... छिनत्ति द्विधा प्रकाशयत्यधःकायसंस्थानमिति छित् || ..............डृष्टिश्चक्षुः प्रकीतीतम् || १५-१४ || दृष्टिर्दर्शनव्यापारः | चष्टे व्यनक्ति रूपमिति चक्षुः || १४ || दशनाः खण्डका ज्ञेयाः............ खण्डयन्तीति कृत्वा || ................आधार उदरं स्मृतम् | उदरं यत्तदशितादेरा समन्ताद् धारणादाधारः || हृदयं गुह्यमित्युक्तं.............. हृत्स्थानं गुह्यात्माश्रयत्वाद् गुह्यम् | यत्तु गुह्यम्, तत् प्रीतिविवर्धनमिति पूर्वमेवोक्तम् || ............कठिनं त्वस्थि विद्धि हि || १५-१५ || मेदो वसां विजानीयात्............... अस्थि कठिनमित्युच्यते | यत्तु मेदः, तद् मेदयतीति कृत्वा वसा || .............ंअज्जा पुष्टिकरः स्मृतः | मज्जाख्यस्य धातुविशेषस्य पुष्टिहेतुत्वात् पुष्टिकर इत्युक्तः || विष्ठां विदूषिकां विद्धि.............. विदूषयति विकृतां शारीरीं स्थितिं सम्पादयतीति कृत्वा || ................ंऊत्रं स्राव इहोच्यते || १५-१६ || स्रवणं स्रावः || १६ || कालेयकं तु कुसुमं१.............. कालेयकं कृष्णपद्मम् | तत् कुसुममिव कुसुममिति चमत्कृतिकारित्वेन देवतात्महेतुत्वात् || ..............ढूमं धृतिकरं विदुः | श्मशानोत्थितोऽत्र धूमो विवक्षितः | स च देवतानां प्रियत्वाद् धृतिकर इत्युक्तः || मेलकं चैव सङ्घातः............ देवतानां सम्बन्धि यद् मेलकं मेलनम्, तत् सङ्घात इत्युच्यते || एतन्मेलकोपदेशेन यः देवानाम् ---- .........पुत्रः सोद्द्योतकः स्मृतः || १५-१७ || उद्द्योतयत्यज्ञाननिवारणेन जगदिति कृत्वा || १७ || किं च ---- दुहिता ह्लादिका ज्ञेया............. ह्लादयति तत्त्वोपदेशेन जगदिति कृत्वा || ..........क्षुब्धं वै चलितं विदुः | आरुरुक्षुः प्राथमिके योगाभ्यासे स्थित्यलाभात् क्षुब्धश्चलित इत्युच्यते || दूषको जार इत्युक्तः............... यः क्वचिदिज्यादौ दूषकः, स ज्याहनहेतुत्वाज्जार इत्युक्तः || .............पीतं वन्दितमेव च || १५-१८ || भक्षितं प्राप्तमित्याहुश्छदीतं विकृतीकृतम् | यद् रहस्यद्रव्यं किंचित् पीतम्, तद् वन्दितमुच्यते | एवमेव यत्किञ्चिद् भक्षितम्, तत् प्राप्तमित्याहुः | छदीतं यत्किञ्चिन्नैवेद्यं संवादिभक्तितारतम्याद् बहु अशितं सत् प्रमादाद् वान्तम्, तद् विकृतीकृतं वाच्यम् || इत्थम् ---- दूषितं कषीतं ज्ञेयं............... यत्किञ्चिन्नलकादि दूषितम्, तत् कषीतं ज्ञेयमाहृतचरमित्यर्थः || ............षम्मतं समयं विदुः || १५-१९ || पारमेशः समयोऽवश्यानुष्ठेयत्वात् सम्मतमित्युक्तः || १९ || महल्लो रक्षको ज्ञेयः............. यः पारमेशाचारस्य रक्षकः, स महल्ल उच्यते, महदुत्तमं पारमेशपदं लातीति कृत्वा || ..............छगलस्तु कनिष्ठकः | यश्छगलः पशुः, स कनिष्ठक उच्यते | क्रमो ज्येष्ठमध्यमत्वात् || विनयो देहकर्म स्यात्............... तद्धि विनीततां करोति || ............षाधनं तु जपः स्मृतः || १५-२० || साध्यतेऽनेन भुक्तिमुक्ती इति साधनम् || होमितं सिद्धिजननं............... होमकर्मापन्नं हविर्यत्, तत् सिद्धिं त्रिविधां जनयतीति || तथा ---- .............विभागो रोचकः स्मृतः | चरुकादेर्यो विभागो विभजनम्, स रोचकः, रोचयति परां प्रीतिं जनयतीति कृत्वा || कदम्बं वृन्दमित्याहुः............... देवतानां वीरद्रव्यादीनां यद् वृन्दं समूहः, तत् कदम्बं वदन्ति || ...............विरलोऽश्लिष्ट उच्यते || १५-२१ || यो वीराचारात् पृथग्भूत इत्यर्थात् || २१ || विमलः शिष्यः इत्युक्तः............. यः शिष्यः शासनीयः, स गुरुप्रसादाद् विगतमल इति कृत्वा विमलः || ..............इच्छा चाज्ञा प्रकीतीता | गुर्वादीनां सम्बन्धिनी आज्ञा यत्र लब्धा, तत्रासौ तदीयानुग्राहिकेच्छा स्थितेति यावत् || देवतादर्शनं यत्तत्त्................ किञ्चिदसामान्यमेतदित्थं विमृष्टमित्यर्थः || ...............ऌअब्धं शस्त्रहतं विदुः || १५-२२ || यः शस्त्रहतः पशुः, तं लब्धमित्यामनन्ति || २२ || निशाचरो बिडालः स्यात्........... निशायां चरो यस्य वीरस्य, स बिडाल उच्यते | बिडालो हि रात्रावाखूनाहरति, अयं तु वीरपशून् || ..............णखिनश्च विदारकाः | ये वीरपशूनां विदारकाः, ते नखिन उच्यन्ते, विदारकत्वसाधर्म्यात् || आनीतं सारितं ज्ञेयं............... महाचर्वादि यदानीतम्, तत् सामरस्येन सञ्जातमिति कृत्वा सारितमित्युच्यते || ...............ॠअक्षितं पिहितं तथा || १५-२३ || यद् रक्षितम्, तत् पिहितमिति वाच्यम् || अथ कदाचित् तीव्रशक्तिपातवशात् समासादिते मेलके तत्तत्तत्त्वसाक्षात्कारमार्गं साधकेन्द्रस्य देव्यो दर्शयन्तीत्यादिशत्यनुग्रहपरः परमेश्वरः ---- शिखां संस्पृशते या तु सा तु शक्तिं विनिदीशेत् | शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिदीशेत् || १५-२४ || ललाटं दर्शयेद्या तु ईश्वरं सा विनिदीशेत् | तालुकं दर्शयेद्या तु तया रुद्रः प्रकीतीतः || १५-२५ || जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिदीशेत् | सप्त कोट्यस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते || १५-२६ || घण्टिकां दर्शयेद्या तु तयानन्तः प्रदशीतः | कण्ठं तु संस्पृशेद्या सा कालतत्त्वं विनिदीशेत् || १५-२७ || हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिदीशेत् | नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिदीशेत् || १५-२८ || तस्याधस्ताद् बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये | प्रशान्ताशेषतरङ्गशिवधामनि परमनिर्वाणरूपे न काचित् सिद्धिरस्तीति कृत्वा साधकेभ्यो मेलकावसरे वरदानोद्यता देव्यः सिद्धिमाधाराधिरूढाच्छक्तिस्थानात् प्रभृत्येव ददतीति तदुपक्रममेव निर्देशः कृतः | बिन्दुमित्यशेषवाच्यवाचकाविभागप्रकाशं सादाशिवं धाम | प्रकीतीत इति मया साक्षात्कृत इति दशीतः | सप्त कोट्य इत्युक्तेः साधकस्यास्याः सकाशात् तत्तन्मन्त्रसिद्धिलाभो भवतीति | तालुकं तालुरन्ध्रम् | घण्टिका तदधो लम्बमाना लम्बिकाख्या शक्तिः | अनन्त इति मायातत्त्वाधिष्ठाता | कालनियतिपुरुषतत्त्वैर्नवात्मप्रक्रियावत् कलाविद्यारागतत्त्वानि संगृहीतानि दशीतानि | यदि स्यादिति यदि तया साक्षात्कृतं भवेदित्यर्थः || किञ्च ---- यदा गुह्यं स्पृशेद् देवि............. तदाऽसौ ---- ...........ऽहङ्कारोऽधिदैवतम् || १५-२९ || साक्षात्कृतं सूचयतीत्यर्थः | अत्रैव चान्तर्भूतस्येन्द्रियतन्मात्रषोडशकस्य दर्शनम्, न पृथक् || किञ्च ---- कटिं सन्दर्शयेद्या तु व्योम तत्राधिदैवतम् | ऊरुकौ दर्शयेद् देवि पवनं सा विनिदीशेत् || १५-३० || जानुनी दर्शयेद्या तु तया तेजः प्रकीतीतम् | जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिदीशेत् || १५-३१ || एवं मेलकावसरे देवीभिश्छुम्मकायां दशीतायां प्रतिछुम्मका यादृक् साधकेन दर्शयितव्या, तादृशीमाह ---- शरीरं दर्शयेद् देवि सर्वदेवमयं प्रिये | तदाऽस्य ---- पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः || १५-३२ || समयाचारयुक्तस्य कालांशकविदः प्रिये | क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः || १५-३३ || दर्शयन्ति महाध्वानं नानाभोगसमन्वितम् | गिरिराजस्य देवेशि यं गत्वा फलमश्नुते || १५-३४ || क्रिया प्रोक्तरूपा | दर्शयन्ति स्वदेहस्थमेव प्रत्यक्षीकारयन्ति | गिरिराजस्य साधकेन्द्रस्य | यं गत्वेति साक्षादनुभूय, गमेर्ज्ञानार्थत्वात् | फलमश्नुत इति तत्तद्भोगभुग् भवति || ३४ || किञ्चास्यैतादृग् योग्यतातिशयात् ---- भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने | अन्याश्च सिद्धीवीविधा अधमा मध्यमोत्तमाः || १५-३५ || अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः | भैरवेण समाज्ञप्ता इत्यनेन परमेश्वर एवेत्थं साधकस्याभीष्टदानायोद्यच्छतीत्याह | न संशय इति निश्चितमेवैतदित्यर्थः || उपसंहरति ---- एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने || १५-३६ || सतताभ्यासयोगेन............... योग्यतमता जाता || तस्मै ---- ..........डदते चरुक स्वकम् | ऽऽदद दानेऽऽ इत्यस्यायं प्रयोगः | स्वकं स्वात्मार्थं साधितमसामान्यमित्यर्थः || तदाह ---- यस्य सम्प्राशनाद् देवि वीरेशसदृशो भवेत् || १५-३७ || सम्प्राशनमविकल्पमाहरणम् | वीरेशो भैरवनाथः || यत एवम् ---- तस्माद् ध्यानार्चने होमं जपं च वरवणीनि | कुर्वन्ति भावितात्मानस्ततः सिद्ध्यन्ति मन्त्रिणः || १५-३८ || भावितात्मत्वं सुदृढ आश्वासः || ३८ || (योगिनां साधकानां च यथायोगं) धुरन्धुराः | सम्पूर्णसिद्धीवीदधत् स्वच्छन्दो जयति प्रभुः || १ || सर्वत्रैव स्फुरति सततं सर्वसर्वात्ममूती र्योऽसौ स्वच्छोच्छलितललितो बोधसिन्धुः समन्तात् | स्वच्छन्दोऽयं जयति भगवान् सर्वसम्पन्निधान स्फीतस्फूर्जन्निरुपमसुधास्फारसारस्वशक्तिः || २ || नाम्नैव भेददृष्टिवीधुता येनास्वतन्त्रतातत्त्वा श्रीमत्स्वतन्त्रतन्त्रं भेदव्याख्यां न तत्सहते | भेददर्शनसंस्कारतन्तुसन्ततमादितः स्वच्छस्वच्छन्दचित्स्वात्मसतत्त्वं नेक्षते जनः || ३ || गतानुगतिकप्रोक्तभेदव्याख्यातमोऽपनुत् | तेनाद्वैतामृतस्फीतः स्वच्छन्दोद्द्योत उम्भितः || ४ || श्रीब्रह्मदेवादिगुरुक्रमाद्यः श्रुत्वा चिरं व्याकृतवान् स्वतन्त्रम् | श्रीमान् प्रयोगो गुरवस्तथान्ये तेऽभ्यर्थनायां पुनरप्रवृत्तौ || ५ || निस्सीमजन्ममरणादिव सम्प्ररूढ भेदाधिवासितमना न यदभ्यमंस्त | (स्वौजोविकासितं हृदय कमलप्ररुढ स्वच्छन्दभैरवमहः स्फुरतात् तदास्ये) || ६ || (स्वस्य = स्वच्छन्दनाथस्य यत् ओजो विमर्शः तेन विकासितं यत् साधकस्य हृदयकमलं तत्र प्ररूढं पूर्णतां प्राप्तम्) श्रीभैरवीयपरमाद्वयशक्तिपात पूताः सदैव गुरवो गलितापरेच्छाः | स्वच्छस्वतन्त्रमतिसुन्दरमात्मतत्त्वं सम्प्राप्नुवन्तु सह दीक्ष्यजनैरजस्रम् || ७ || पूर्णानुभवसद्युक्तिः सदाचारपरम्परा | विश्रान्ता यत्र यस्मिंश्च कार्तार्थ्यं गुरवोऽप्यगुः || ८ || तत्त्वोपदेशाद्यो विद्यासुधाम्भोधिसुधाकरः | यत्कृतैः शास्त्रसद्वृत्तिमण्डनैर्मण्डितं जगत् || ९ || अकस्मात् सर्वशास्त्रार्थज्ञत्वाद्यं लक्ष्मपञ्चकम् | यस्मिन् श्रीपूर्वशास्त्रोक्तमदृश्यत जनैः स्फुटम् || १० || हेलावलोकनादेव जन्तून् योऽमोचयत् क्षणात् | श्रीमतोऽभिनवाच्छास्त्रमागमयय गुरोरिदम् | व्यावृणोत् क्षेमराजस्तत्पादधूलिपवित्रितः || ११ || ग्रस्तोऽय सकलो भवो विगलिताः कर्माणुमायामलाः प्राप्तानन्दघना स्थितिः किमपरं लब्धः प्रकाशः परः | श्रीमच्चेतनभैरवस्तुतिरसास्वादेन लब्धोदयै रस्माभिवीमले हृदम्बरतले निर्यन्त्रणं स्थीयते || १२ || स्वतन्त्रः स्वच्छात्मा स्फुरति सततं चेतनशिवः परा शक्तिश्चेयं करणसरणिप्रान्तमुदिता | तदाभोगैकात्म प्रसरति समस्तं जगदिदं न जाने कुत्रायं ध्वनिरनुपतेत् संसृतिरिति || १३ || इति श्रीस्वच्छन्दतन्त्रे श्रीमहामाहेश्वराचार्यवर्यश्रीक्षेमराज- विरचितोद्द्योताख्यव्याख्योपेते छुम्मकाप्रकाशः नाम पञ्चदशः पटलः || १५ || ########### END OF FILE #######