#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00096 Uniform title: tārārahasyavṛttikā Commentator : gauḍīyaśaṅkara Alternate name : gauḍīyaśaṅkarācārya Editor : Pandita Manindra Mohan Chowdhury Kavyatirtha Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 15, 2007 Publisher : Calcutta Press (first publisher) Publication year : Pre-1900 Publication city : Calcutta Publication country : India #################################################### तारारहस्यवृत्तिका प्रथमः पटलः उर्जितानन्दगहनां सर्व-देव-स्वरूपिणीम् | परां वाग्रूपिणीं वन्दे महानीलसरस्वतीम् || स्वप्रकाश-विमर्षाख्य-बीजाद्यङ्कुररूपिणीम् | पूर्णानन्दमयीं वन्दे महानीलसरस्वतीम् || नीलतन्त्रं समाज्ञाय सिद्धसारस्वतं परम् | वीरतन्त्रं मत्स्यसूक्तं गान्धर्वं फेरवीन्तथा || गुरूणाञ्च मतं ज्ञात्वा गुरुभिः शुद्ध-भूमिका | कृता श्रीशङ्करेणैषा तारारहस्यवृत्तिका || नित्यपूजा-प्रमाणन्तु प्रथमे पटले तथा | दीक्षा-विधिर्द्वितीये स्यात् पुरश्चर्या तृतीयके || नैमित्तिकं चतुर्थे स्यात् पञ्चमे काम्य-निर्णयः | रहस्य-नियमः षष्ठे कुमारी सप्तमे तथा || अष्टमे तु पुरश्चर्या-रहस्याः परिकीर्तिताः | नवमे पटले देव्या मन्त्राणां परिनिर्णयः || (प्. २) दशमे पटले स्तोत्रं फलमेकादशे ततः | द्वादशे पटले सम्यग्भावानां परिनिर्णयः || नित्यपूजा-प्रयोगस्तु पटले च त्रयोदशे | सम्यग् विधानं होमस्य तारायाश्च चतुर्दशे || पञ्चदशे तु मन्त्राणां वासना-योगनिर्णयः | इति तारारहस्ये तु सम्यक् पटलनिर्णयः || ननु वैष्णवादि-मतं विहाय कथं शक्तिविषये यत्नः क्रियते? तैरेव भुक्ति-मुक्ती भवतः | किमनेनेति ? तथा च श्रुतिः (ईशोपनिषत् ) || योऽविद्यामुपासते सोऽन्धन्तमः प्रविशति || इति | मैवं वक्तव्यम् | संसार-नियतिरूपा स्त्वविद्येति सुरेश्वराचार्यः | तथाच शाम्भव-सूत्रे ममेदं खलु कर्तव्यमकर्तव्यमिदं मम | इत्थं नियमनस्यास्य हेतुर्नियति रुच्यते || तेन तुच्छाऽविद्या-परेयं श्रुतिः | अनुष्टुप् श्रुतिरपि जीवाश्रया ब्रह्म-पदा ह्यविद्या तत्वविन्मता | इति | जीवाश्रयेति | जीवानां मोक्ष-दशायां ब्रह्मपदा ब्रह्मस्वरूपा इति यावत् | प्रामाणिक-वचनमपि यत्रास्ति भोगो न च तत्र मोक्षो यत्रास्ति मोक्षो न च तत्र भोगः | शिवा-पदाम्भोज युगार्चकानां भोगश्च मोक्षश्च करस्थ एव || एव मन्येभ्यो दर्शनेभ्यो भोग-मोकौ एकत्रैव न स्तः, चिरकालाभ्यासेन कदाचिदपि सालोक्यादिरूपो भवति न वेति | तथा च ऊर्द्ध्वाम्नाये योऽन्येभ्योदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति | स्वप्नलब्ध-धनेनैव धनवान् स भवेद् यदि || (प्. ३) शुक्ती रजत-विभ्रान्तिर्यथा जायेत पार्वति | तथान्य दर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्ष्ति || रुद्रजामलेऽपि वाम-दक्षिण सिद्धान्त सोम-पाशुपतादिषु | सालोक्याद्यं भवेत्तत्र सायुज्यं मत्कुलागमे || कुलं मातृ-मान-मेयम् तस्माच्छक्त्युपासकानां सायुज्यमुक्तिरेव | नन्वेवं ज्ञातं, निःसन्दिग्धोऽस्मि | तथापि पृच्छे, - शक्त्या परम्परया मुक्तिः किं वा साक्षात् सोमपानादिवत् ? तदुक्तं दुर्वाससा भगवता दिव्यमहिम्नस्तुतौ सच्चित्तत्त्वमसाति वाक्यविदितैर्ब्रह्मात्मविद्याशिवैः आत्माद्यै रतुल-प्रभाव-सहितैस्तत्त्वैस्त्रिभिः सद्गुरोः | त्वद्रूपस्य मुखारविन्द-विवरात् संप्राप्य दीक्षामतो यस्त्वां विन्दति तत्त्वतस्तदह मित्यार्ये स मुक्तो भवेत् || अपिच सिद्धान्तर्बहुभिः पुराणगदितै रन्यैरविद्यातमो नक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते | यावत्ते सवितेव सम्मतमिदं नोदेति विश्वान्तरे जन्तोर्जन्मनिवारणैक-भिदुरं श्रीशाम्भवि श्रीशिवे || एवं शुद्ध-साधन-शीलानां कुलज्ञानां मुखाद्विद्याप्राप्तिमात्रेण जीवन्मुक्ता भवन्तीति | तथा चोर्द्ध्वाम्नाये धनैर्माहेश्वरैर्दिव्यः प्रत्यभिज्ञानशन्तिभिः | स्व-परिज्ञानमात्रेण जीवन्मुक्ता भवन्ति हि || (प्. ४) एतासां विद्यानां स्वकुलादि विचारो नास्तीति केषाञ्चिन्मतं सिद्धमन्त्रत्वात् | तत्र | मायातन्त्रे नाश्रयेदरिमन्त्रन्तु मित्रमन्त्रं समाश्रयेत् | इत्यादि वचनाद्विचारो युक्त एव | यथा काली तथा नीलेति वचनादरिमित्रादिदूषणं नात्र मन्तव्यमिति | तथापि विशेषो यथा वाराहीतन्त्रे नक्षत्र-शुद्धिस्तारिण्या नान्यच्चक्रं विचारयेत् इति प्राधान्येनोक्तमज्ञातविषये | इदानीं प्रातःकृत्यमाह | ब्राह्म मुहूर्ते उत्थाय ओं कुलवृक्षेभ्यो नम इति कुल-वृक्षं नमस्कृत्य गुरुं ध्यायेत् | तदुक्तं रुद्रजामले प्रातरुत्थाय मन्त्रज्ञः कुलवृक्षं प्रणम्य च | शिरः पद्मे गुरुं ध्यात्वा यजेत्तन्नमपूर्वकम् || कुलचूडामणी च साधुसिद्ध तरुच्छ्रायं कुलवृक्षं प्रणस्य च | मूलादि ब्रह्मरन्ध्रान्तं कुलं ध्यात्वा गुरुं स्मरेत् || ततः शिरः पङ्कजे परमशिवरूपं गुरुमभिपूज्य द्यायेत् | तदाह सहस्र-दल पङ्कजे सकल शीतरश्मिप्रभं वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् | प्रसन्नवदनेक्षणं सकलदेवतारूपिणं स्मरेच्छिरसि हंसगं तदभिधानपूर्वं गुरुम् || हंसगं सर्वोत्तिर्ण-पीठस्थम् | ततो मानसैरुपचारैराराध्य नमस्कुर्यात् | तथा चोक्तं विश्वमते कनिष्ठा पृथिवीतत्त्वं तद्योगाद्गन्धयोजनम् | अङ्गुष्ठा गगनं तत्त्वं तेनैव पुष्पयोजनम् || तर्जनी वायुतत्त्वं स्याद्रूपं तेनैव योजयेत् | तेजस्तत्त्वं मध्यमा स्यात् दीपं तेनैव योजयेत् || अनामा जलतत्त्वं स्यात् तेनैव योजयेच्चरुम् || (प्. ५) लं पृथिव्यात्मकं गन्धं समर्पयामि इत्यादिक्रमेण सम्पूज्याष्टोत्तरशतं वाग्भवं (ऐं) जपित्वा जपं समर्प्य नमस्कुर्यात् | तदुक्तं भैरवतन्त्रे ततो मानस गन्धाद्यै रर्चयेत् स्वस्वमुद्रया | ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः || जपं समर्प्य भक्त्या च प्रणमेद्दण्डवद्भुवि | प्रणाम मन्त्रस्तु अखण्ड मण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः || ततो मूलाधारपद्मे त्रिकोणान्तर्गताधोमुख स्वयम्भुलिङ्गवेष्टनीं तडित्कोटिकडारां मूलविद्यामयीं कुलकुण्डलिनीं ध्यात्वा सुषुम्नावर्त्मना परमशिवे सङ्गमयय तदमृतधारया लोलीभूतां चैतन्यमयीं पुनर्मूलाधारमानयेत् | तथाच प्रामाणिकवचनम् प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेप्यमृतायमानाम् | अन्तःपदव्यामनुसञ्चरन्ती मानन्दरुपा मवलां प्रपद्ये || तत उत्थायावश्यकं कर्म कुर्यात् | तदुक्तं मत्स्यसूक्ते उत्थाय चोत्तरे यामे कुण्डलीं तडिदाकृतिम् | ध्यात्वा सिद्धीश्वरी भूत्वा मुक्तिभागी भवेन्नरः || नीलतन्त्रेऽपि | उत्थाय चोत्तरे यामे चिन्तयेदुग्रतारिणीम् | मूलादि ब्रह्मारन्ध्रान्तं विसतन्तु स्वरूपिणीम् || मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् | सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् | (प्. ६) तडित्कोटिसमप्रख्यां कामानलशिखोपरि | तत्प्रभापटलव्याप्तपाटलीकृत-देहवान् || इति प्रातःकृत्यम् | ततश्च वहिर्गत्वावश्यकं विधाय सर्वमङ्गलसम्पन्नः स्नानकर्म समाचरेत् | मृकुशानपि संगृह्य गत्वा जलान्तिकं ततः || मलापकर्षणं स्नात्वा मन्त्रस्नानं समाचरेत् | वीरतन्त्रे विद्यया त्रिर्निमज्ज्यैव माचामेत् पाथसा तथा | मूलान्ते तर्पयामीति स्वाहान्तं तर्पणं मतम् || एवंविधम् स्नान-कर्म कृत्वा पापक्षयो भवेत् | ततः स्नानकाले संप्राप्ते यथाविधि स्नात्वा सन्ध्या तर्पणे कृत्वा देवर्षि पितृ तर्पणं कृत्वा मूलविद्यान्ते श्रीनीलसरस्वतीमुग्रतारामेकजटां वा तर्पयामि स्वाहेति त्रिस्तर्पयेत् | तदुक्तं नीलतन्त्रे पुनर्निमज्ज्य पयसि सङ्कल्पञ्च समाचरेत् | इष्टदेव्याः पूजनार्थं कुर्यात् स्नानं जलाशये || कुशीद-मोड्र पुष्पञ्च कुलपुष्पं कुलोदकम् | प्रस्थग्राहि ताम्रपात्रे कृत्वा चार्घ्यं निवेदयेत् || मूलान्ते चोद्यदादित्यमण्डलमध्यवर्तिन्यै | शिवचैतन्यमययै च स्वाहेति तन्मनुः स्मृतः || सूर्यायार्घ्यं प्रदायैव पूजा-स्थानं समाविशेत् | इति वचनाद्देव्यर्घ्यदानानन्तरं सूर्यार्घ्य दानमायाति, किन्तु तन्त्रान्तरैकवाक्यत्वात् देव्यर्घ्य दानात् पूर्वं सूर्यार्घ्यं दानमिति संप्रदायः | नीलतन्त्रोक्तं स्नानमिदं (प्. ७) नीलसरस्वतीपक्षे, अथवा गायत्राद्यनुष्ठानयुक्तं (क्तो) मायातन्त्रोक्त एकजटादिविद्यायाः स्नान विधिर्लिख्यते | ब्राह्मे मुहूर्ते उत्थाय शिरः पद्मे गुरुं स्मरन् | मूलादि ब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || उद्यत्सूर्य प्रतीकाशां कुण्डलीं परदेवताम् | यातायातक्रमेणैव अमृतीकृतविग्रहाम् || मूलविद्यां जपेद् ध्यात्वा चाष्टोत्तरशतं क्रमात् | मृत्कुशानपि संगृह्य गत्वा नद्यन्तिके सुधीः || मृत्तिकां मूलमन्त्रेण संगृह्य च करद्वये | सूर्याय दर्शयेत्तच्च पश्चाद्विलेपनं स्मृतम् || गो-करीषं नासिकायां व मन्त्रेण पुटद्वये | जलाञ्जलित्रयं दद्यान् मूद्ध्नि हृन्नाभिकेषु च || तत आचमनं कुर्यात् त्रिकोणं दक्षिणेन तु | गृहीतं पाणिना देवि शङ्खावर्तक्रमेण तु || विलोक्य तत्र निर्मज्जे दघमर्षणकं त्रिधा | कूर्चबीजेन दक्षिणहस्ते त्रिकोणं कृत्वा तत्र जलमादाय, तत्र कूर्चबीजं त्रिधा जप्त्वा तज्जलं शुक्लवर्णं मिडयाकृष्यान्तर्गत मलं प्रक्षाल्य कज्जलाभं तज्जलं दक्षिण नासापुटेन निःसार्य, दक्षिणे वज्रपाषाणे क्षिपेत् | एतदेवाघमर्षणम् | दद्या ज्जलाञ्जलीन् त्रीणि वरुणाय ततः परम् | सोमाय भानवे पश्चाज्जलादुत्थाय वाससी || परिधाय ततो मन्त्री यथाविधि समाचरेत् | तिलकं रक्तगन्धेन गोपीचन्दनकेन तु || (प्. ८) देव्यस्त्रं विलिखेद्भाले ताराबीजं ततो हृदि | शक्तिं मध्यगतां कुर्यात् प्राणायामं समाचरेत् || आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् | प्रसङ्गात् शाक्ताचमनं लिख्यते तदुक्तं मालिनीतन्त्रे आचामेदात्मतत्त्वाद्यैः प्रणवाद्यैर्द्विठान्तकैः | मन्त्रैस्त्रिधा तथा वक्त्रं नासाऽक्षि-श्रोत्रनाभि हृत् मस्तकांसान् स्पृशेन्मन्ती कुर्यात् श्रोत्राभिवन्दनम् | आत्म विद्या शिवास्तत्त्वं प्रणवं वाग्भवं मतम् || अघमर्षणकं तत्र कूर्चबीजजपो मतः | आचमनेपि कूर्चबीजं योज्यं ताराप्रणवत्वात् | त्रिकोणं मूलबीजेन सवित्रे हंसकं जपन् | उपस्थाप्य जपेद्देवीं गायत्रीं शृणु सुन्दरि | तारायै विद्महे प्रोक्ता महोग्रायै च धीमहि | तन्नो देवीति शब्दान्ते धियो यो नः प्रचोदयात् || गायत्र्येषा समाख्याता सर्वपापनिकृन्तनी | वामपादं ततः कुर्याद्दक्षपादे सुरेश्वरि | उपस्थाय पुनर्हंसमूर्द्धवाहुस्त्रिधा जपेत् || तत्र हंस ऋग्यथा ओं हंसः शुचि षद्वसुरन्तरिक्षसद्घोता वेदिसदतिथिर्दूरोनसत् | नृषहरसदृतसद्व्योमसदञ्जा गोजा ऋतजा अद्रिजा ऋतं वृहत् इति | (प्. ९) तीर्थोदकं तिल कल्कं क्षीराक्षतसमन्वितम् | उत्तराशामुखो भूत्वा देवीमात्रं प्रतर्पयेत् || मुलान्ते तारिणीं प्रोक्त्वा तर्पयाम्यग्निवल्लभा | स्वर्णपात्रेण रौप्येण ताम्रपात्रेण वा पुनः || ऋजुकुशत्रयेणैव सन्तर्प्य भक्तितः सुधीः | दक्षिणाशा मुखी भूत्वा संगृह्य मोटकं ततः || त्रप्यन्तु पितरः प्रोक्त्वा एतत्तर्पणमादिशेत् | सूर्यस्य वन्दनञ्चैव मभेदेन तयोरपि | गायत्रीं प्रजपेद्धीमानघमर्षणमेव च || एतत् सन्धात्रये चैव अर्द्धरात्री च वन्दनम् | महारात्रावपि तथा कार्या देशिकसत्तमैः || इति | तत्रैव अर्द्ध रात्रात् परं यच्च मुहूर्तद्वयमेव च | सा महारात्रि रुद्दिष्टा तत्र कृत्वाऽक्षयं भवेत् || ततो विद्यां हृदि ध्यात्वा अष्टोत्तरशतं जपेत् | अवहिर्मानसो योगी यागभूमि मथाविशेत् || यागस्थानमाह फेत्कारीये एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे | तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् || एकलिङ्ग लक्षणं तत्रैव पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते | तदेक लिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा || चतुष्पथ लक्षणं यथा तन्त्रान्तरे चतुष्पथं विजानीयाद् यत्रास्ते तारिणी शिला | तत्र यत्नेन गन्तव्यं जप्तव्यं सिद्धिकाङ्क्षिभिः || (प्. १०) अन्यत्रापि उर्र्जटे पर्वते वापि निर्जने वा चतुष्पथे | देवागारे च शून्ये च निर्जनेकान्त वेश्मनि || वीरतन्त्रेऽपि शून्यागारे श्मशाने यदि जपति जडस्त्वेकलिङ्गे तडागे गङ्गागर्भे गिरौ वा शुचि रमलमतिः सर्वदा भक्तियुक्तः | विद्यां श्रीनीलवाण्या भुवनजनपतिः सर्वशास्त्रार्थवेत्ता देहान्ते योगि मुख्यः परमसुखपदं ब्रह्म निर्वाणमेति || एतदन्यतमं स्थानमास्थाय तत्र पीठं चिन्तयेत् | तदुक्तं गान्धर्वाख्ये श्मशाने तत्र सञ्चिन्त्य तत्र कल्पद्रुमं स्मरेत् | तन्मूले मणिपीठञ्च नानामणि विभूषितम् | नानालङ्कार भूषाढ्यं मुनिदेवैश्च मण्डितम् | शिवाभिर्वहुमांसास्थिमोदमानाभिरन्ततः || चतुर्दिक्षु शवान् मुण्डांश्चिताङ्गारास्थि भूषितान् | तन्मध्ये भावयेद्देवीं यथोक्तध्यान योगतः | इति पीठं सञ्चिन्त्य जलादिशोधनं कुर्यात् | ओं वज्रोदके हूं फट् (प्. ११) स्वाहा इति जलमधिष्थाय ओं विशुद्धधर्मगात्रि ! सर्वपापानि शमयाशेषविकल्पमपनय हूं फट् स्वाहा इत्यनेन पादौ प्रक्षाल्य ओं ह्रीं फट् स्वाहा इत्याचम्य ओं मणिधरि वज्रिणि ! सर्ववशङ्करि ! हूं फट् स्वाहा इति शिखावन्धनम् | ओं रक्ष रक्ष हूं फट् स्वाहा इति जलाभिषेकाद् भूमिशोधनम् | ओं सर्वविघानुत्सारय हूं फट् स्वाहा इति नाराच मुद्रयाऽक्षतप्रक्षेपात्त्रिविधविघ्नानुत्सारयेत् | ओं पवित्र यज्ञभूमे ! हूं फट् स्वाहा इति भूमिमामन्त्रा, तत्र मृदु कम्बल कोमल विष्टराद्यासन मास्तीर्य आः सुरेखे वज्ररेखे हूं फट् स्वाहा इति रक्तचन्दनपुष्पाभ्यां तदभ्यर्च्य स्वस्तिकादिक्रमेण तत्रोपविशेत् | तदुक्तं मत्स्यसूक्ते (प्. १२) मृदु कोमलमासीनोऽप्यन्येषु कम्बलेषु वा | विष्टरे वा समासीनः साधयेत् सिद्धिमुत्तमाम् || संग्रामपतितं वापि व्यापादितमचूडकम् | वण्मासनिःसृतं प्राप्य चितायां वा तदन्तिके || अस्यायमर्थः | दशमासादर्वाक् षण्मासात् परं गर्भच्युतो बालको मृदुः | अचुडकोऽकृतचूडाकरणः | जननात् पञ्चवर्षाभ्यन्तरेऽचूडक इति केचित् | उपनयनसमया दर्वाक् चूडाकरणात् परं कोमलाभिधानम् | एषामभावे विष्टरेषु कुशेषु वा | तदुक्तं श्रीक्रमे वीरासनमभावे तु मृतासनं शृणु प्रिये | पञ्चवर्षाभ्यन्तरं यावन्मृतं वालमचूडकम् || षण्मासानन्तरं यावद्दशमासाच्च पूर्वकम् | गर्भच्युतं मृतं बालं गर्भाष्टमपुरःसरम् || एतत् कोमलमित्याहुर्विष्टरेषु कुशेषु वा | तदुक्तं मत्स्यसूक्ते (प्. १३) कृष्णसारद्वीपिचर्म अचूडं कम्बलं तथा | पीतञ्च श्वेतरक्तं वा आसनाय प्रकल्पयेत् || प्रोतं वा विस्तृतं वापि अथवा कुण्डलीकृतम् इति | कुशविष्टरस्यायमर्थः | कुशपत्रशतेन वटुकं निर्माय, शवप्रणप्रतिष्ठां कुर्यात् | (तत्र शवबुद्ध्या उपविशेत्) कोमलादेरभावे तच्चर्ममात्रं आह्यमित्याराध्यपादाः | एतेषामासनानां यथाप्राप्ताभिधानं चतुरस्रं हस्तप्रमाणम् तत्र चन्दनादिना मध्ये मण्डलं कृत्वा शवबीजं लिखेत् | एवमासनरहस्यमाराध्यपादमुखादवगन्तव्यम् | तत~स्च ओं मणिधरि वज्रिणि महाप्रतिसरे रक्ष रक्ष हूं फट् स्वाहा इति वस्त्रान्तिके रक्षाग्रन्थिं वध्नीयात् | ओं आः हूं फट् स्वाहा कायवाक् चित्तशोधनम् | ओं नमः पुष्पकेतु राजार्हति शताय सम्यक् सम्बन्धाय ओं पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसम्भवे पुष्पचयावकीर्ण हूं फट् स्वाहा इति पुष्पाभिमन्त्रणम् | तदुक्तं तन्त्रान्तरे तारो मणिधरीत्यन्ते वज्रिणीतिपदं लिखेत् | महाप्रसरे रक्षयुग्मं हूं फट् तथैव च || स्वाहेति वस्त्रप्रान्तेषु रक्षाग्रन्थिं समाचरेत् | तारोऽनन्तः सर्ग युक्तो हूं फट् स्वाहेति मन्त्रतः || (प्. १४) व्यापकं कायवाक् चित्त शोधनं तनुयात् सुधीः | प्रणवं हृत्पुष्पकेतु पदं राजार्हते तथा || शताय सम्यगुचार्य सम्बन्धाय च तारयुक् | पुष्पे युग्मं महापुष्पे सुपुष्पे पुष्पसम्भवे || पुष्पचयावकीर्णे हूं फट् स्वाहेति समुद्धरेत् | प्रविशुद्धमनेनैव पुष्पं देव्या समाचरेत् || ततोऽर्घ्यस्थापनम् | स्ववामाग्रे मूलास्त्रेण त्रिकोणवृत्तचतुरस्रमण्डलं कृत्वा तैरेव पुष्पेरभ्यर्च्य तत्र साधारं विहितपात्रं संस्थाप्य | यथा एकवीराकल्पे कापालं स्फुटमन्त्रसिद्धिजननम् इति | ततो मूलेन जलमापूर्य जलाधिष्ठान मन्त्रण जलमधिष्थाय तत्तत्षडङ्गेनाभ्यर्च्य स्पृष्ट्वा मूलमन्त्रमष्टधा जप्त्वाऽस्त्रेण संरक्षा कवचेनावगुण्ठ्य धेनुयोनी प्रदर्श्य तद्दक्षिणे पात्रान्तरं निधाय जलेनापूर्य, तत्रार्घ्य विप्रुषं निःक्षिप्यात्मानं पूजोपकरणञ्चाभ्युक्षयेत् | ततः स्वर्णादि पीठे रक्तचन्दन गोरोचनाकुङ्कुमवज्रपुष्पादि लिप्ते आः सुरेखे वज्ररेखे हूं फट् नम इति मन्त्रेणाधोमुख त्रिकोणगर्भितमष्टदलपद्मं चतुरस्रं चतुर्द्वारं यन्त्रमुद्धरेत् | तदुक्तं तन्त्रचूडामणी (प्. १५) ततः कुलरसेनव पीठं निर्माय यत्नतः | आः सुरेखे वज्ररेखे हूं फट् हृदयन्ततः || मन्त्रेणानेन संलिख्य वसुपत्रं मनोहरम् || तस्य पद्मस्य पूर्वदले ह्रीं बीजं लिखेत् याम्ये स्त्रीं लिखेत् उत्तरे फं पश्चिमे टं लिखेत् त्रिकोणमध्ये हूं लिखेत् | तदुक्तं फेरवीये सयोनिचन्दनेनाष्टदलावजन्तु लिखेत्ततः | मृहासनं समासाद्य मायां पुर्वदले लिखेत् || मध्यबीजं द्वितीये फमुत्तरे पश्चिमे तु टं | मध्ये बीजं लिखेत् तारं भूतशुद्धिमथाचरेत् || मध्यबीजं वधूबीजं तारं हूंकारं हूंकारस्य ताराप्रणवत्व न मन्त्रोद्धारप्रसिद्धिः | अथवा षडर्णाया नीलसरस्वत्या विधानेन मध्ये तारस्य लिखनमित्यपि केचित् | मध्ये षट्कोणान्वित पद्ममित्यपि केचित् || तदुक्तं गान्धर्वे षट्कोणान्तर्गतं पद्मं भूविम्बद्वितयं पुनः | चतुरस्रं चतुर्द्वरमेवं वा यन्त्रमालिखेत् || तन्मध्ये पूजयेद्देव्या वाहनं शवमेव च || इति अत्र बीजलिखनन्तु पूर्ववत् सारस्वतार्थिनान्तु विशेषयन्त्रान्तरमुक्तं नीलतन्त्रे (प्. १६) व्योमेन्द्वी रसनार्ण कर्णिकमचां द्वन्द्वः स्फुरत्कर्णिकम् वर्गील्लासि वसुच्छदं वसुमतीगेहेन संवेष्टितम् | ताराधीश्वर वारिवर्णविलसद्दिक्कोणसंशोभितम् यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || एतेन प्रकारपञ्चकं यन्त्रं भवति | एकं त्रिकोणगर्भं, अपरं त्रिकोणहीनपाशबीजपुटितकूर्चबीजमध्यं, अपरं षट्कोणमध्यम्, अपरं बिन्दुमध्यत्रिकोणगर्भं, अपरं वर्णात्मकमिति | त्रिकोणहीनं बिन्दुमध्यत्रिकोणगर्भमविशेषात् सामान्यं | त्रिकोणषट् कोणप्रेतबीजकर्णिकाणि यन्त्राणि एकजटा तारा नीलसरस्वतीनां यथासंख्यमायान्ति | (ऐच्छिक विकल्प इत्यन्ये |) एवमेतेषामन्यतमं यन्त्रं विरचस्य पुरतोगाम्भार्यादिपीठे निधाय पीठमर्चयेत् | तदुक्तं गान्धर्वोक्त प्रकारेण चैतानि पूजयेत्ततः | योनिमुद्रान्ततो बद्ध्वा चक्र मध्ये प्रपूजयेत् || पूर्वे गणपतिं चेष्ट्वा दक्षिणे वटुभैरवम् | पश्चिमे क्षेत्रपालञ्च योगिणीमुत्तरे यजेत् | ते सर्वे ध्रुवबीजाढ्याः शक्तीबीजसमन्विताः || इति वचनादेतेषां बीजमिच्छन्ति | यथा ओं ह्रीं गां गणपतये नमः | ओं ह्रीं वां वटुकाय नमः | ओं ह्रीं क्षां क्षेत्रपालाय नमः | ओं ह्रीं यां (प्. १७) योगिनीभ्यो नमः | ततः पीठपूजा | यथा श्मशानाय नमः | कल्पवृक्षाय नमः | तन्मूले मणिपीठाय नमः | नानामणिभ्यो नमः | नानालङ्कारेभ्यो नमः | मुनिभ्यो नमः | देवेभ्यो नमः | वहुमांसास्थिमोदमानशिवाभ्यो नमः | चतुर्दिक्षु शवमुण्डचिताङ्गारास्थिभ्यो नमः | अष्टदलेषु ओं लक्ष्म्यै नमः | ओं सरस्वत्यै नमः | रत्यै, प्रीत्यै, कीर्त्यै, शान्त्यै, पुष्ट्यै नमः | एवं पूर्वाद्युत्तरोत्तरमभ्यर्च्य मध्ये ह्सौः सदाशिव महाप्रेतपद्मासनाय नमः तदुक्तं सिद्धसारस्वते लक्ष्मी(ः) सरस्वती चैव रतिः प्रीतिस्तथैव् च | कीर्तिः शान्तिश्च पुष्टिश्च तुष्टिरित्यष्ट शक्तयः || देव्या नीलसरस्वत्याः पीठशक्तय ईरिताः | तथा वीरतन्त्रे तन्मध्ये पूजयेद्देव्या वाहनं शवमेव च | (प्. १८) अथ भूतशुद्धिः | यथा प्राणायाम क्रमेणाङ्के उत्तान हस्तः कुम्भकेन कुण्डलिणीं जीवात्मानं वैलीम्येन पञ्चविंशतितत्त्वानि सुषुम्नावर्त्मना परतेजसि संयोज्य कुम्भकेन ह्रीङ्कारं रक्तवर्णं नाभौ ध्यात्वा तदुद्भूतेनाग्निना लिङ्गशरीरं दग्धं विचिन्त्य स्त्रीङ्कारं पीतवर्णं हृदि विचिन्त्य तदुद्भूतेन वायुना तदुभस्म प्रोत्सर्य हूङ्कारं श्वेतवर्णं शिरसि विचिन्त्य तदुद्भूतेनाम्बुना तदस्थिप्लावितं कृत्वा समस्तमपगत व्यथं विश्वं शरीरमाप्लावयेत् | तथा च श्रुतिः | षट्त्रिंशत्तत्त्वानि विश्वं शरीरमिति | तत आत्मानमपग्त व्यथं (प्. १९) संसार दुःख रहितं निर्मलं देवताऽभेदेन चिन्तयेत् | तस्मिन् विश्वव्यापकवारिणि आःकाराद्रक्तपङ्कजं ध्यात्वा तदुपरि टाङ्कारात् श्वेतपङ्कजं विचिन्तयेत् | तदुपरि नील सन्निभं हूङ्कारं ध्यात्वा हूङ्कार बीजभूषितां कर्तृकां ध्यायेत् | कर्त्र्युपरि गतामात्माभेदेन देवतां ध्यायेत् | आं ह्रीं क्रीं स्वाहा तदुक्तं फेत्कारीये मायां नाभौ रक्तवर्णां ध्यात्वा तज्जात वह्निना | शुष्कं कर्मात्मकं देहं दग्धं सञ्चिन्तयेत्ततः || स्त्रीङ्कारं हृदि पीताभं तदुद्धृतेन वायुना | भस्म प्रोत्सारितं कृत्वा ललाटे चिन्तयेत्ततः || कूर्चं तुषारवर्णाभं तदुद्भूतामृतेन तु | तदस्थिप्लावितं कृत्वा तदात्मानं विचिन्तयेत् || सर्वव्यथा विनिर्मुक्तं निर्मलं देवतात्मकम् | विश्वव्यापकतोये तु श्वेताञ्जीद्भवकर्णिकाम् || तदुपरि नीलसन्निभं हूङ्कारं ध्यात्वा हूङ्कारबीजभूषितां कर्त्रिकां ध्यायेत् | (प्. २०) तदुपरि खर्वामभिनवजलधरनीलां लम्बोदरीं व्याघ्र-चर्मावृतां कटौ पीनोव्रत-पयोधरां रक्तवर्तुलत्रिनयनां ललज्जिह्वां दंष्ट्राकरालवदनां पिङ्गोग्रैकजटाजूटां तदुपरि पार्श्वद्वये लम्बमाननीलोत्पलमाला मतिनीलनागवद्धजटाजूटां ललाटे श्वेतास्थिपट्टिकासंयुक्तकपालपञ्चतयां जवाकुसुमसङ्काश-तक्षक- नागकृत-कुण्डलां अतिशुभ्र-नागकृतहारां दूर्वादलश्याम-नागकृत- यज्ञोपवीतां चतुर्भुजां तदुपरि दक्षिणे सरक्त-मांसखण्डमणिडित- मुष्टिनिविष्टजटाजूटसंलग्नाग्र-खड्गभूषितकरां वामोर्द्धे रक्तनाल-किञ्चिद्विकस्वर-नीलोत्पलकरां अधस्ताद्दाक्षिणे बीजभूषितवृन्तकर्त्रिकाभूषितकरां वमेऽधस्त्रिजगज्जाड्य-समेत- शुभ्रकपालमण्डितकरां भुजचतुष्टये धूम्रनाग-कृतकेयूरां कनकाभनागकृतकङ्गनां शवारूढां निर्भरयन्त्रणाभिप्रायेण शवहृदयसङ्कुचिताङ्गष्ऽथदक्षिणचरणां शवपादद्वयस्थित-प्रसारित- वामचरणां कुन्दाभ-नागकृतकटिमूत्रां ईषद्रक्तनागकृतनूपुरां सद्यःकृतगलद्रुधिरधाराऽन्योन्यकेशग्रथितपादपद्म प्रलम्बिपञ्चाशन्नमुण्डमालां ज्वलदमलचितामध्यस्थां द्वीपिचर्म कृतोत्तरीयां योषिदखिलालङ्कारालङ्कृतां मौलावक्षोभ्यभूषितां सावेशस्मेरवदनामेवंभूतमात्मानं ध्यायेदिति भूतशुद्धिः | तदुक्तं रुद्रजामले तस्या रूपगुणं यदुयत् स्वकीयमिति चिन्तयेत् | नीलतन्त्रेऽपि भूतशुद्धिं विधायेत्थं शून्यं विश्वं विचिन्तयेत् | निर्लेपं निर्गुणं शुद्धमात्मानं तारिणीमयम् || अन्तरीक्षे ततो ध्याये दाःकाराद्रक्तपङ्कजम् | भूयस्तस्योपरि ध्यायेट्टाङ्कारात् श्वेतपङ्कजम् || तत् कर्णिकोपरि ध्यायेद्धूङ्कारं नीलसन्निभम् | ततो हूङ्कारबीजात्तु कर्त्रिकां बीजभूषिताम् || कर्त्र्युपरिगतां (तं) ध्यायेदात्मानं तारिणीमयम् | (प्. २१) प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् | खर्बां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटी || नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् | चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् | खड्गकर्तृसमायुक्तसव्येतरभुजद्वयाम् | कपालोत्पलसंयुक्त सव्यपाणियुगान्विताम् | पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोब्यभूषिताम् | बालार्कमण्डलाकारलोचनत्रयभूषिताम् | ज्वलच्चितामध्यसंस्थां घोरदंष्त्रां करालिनीम् | सावेशस्मरेवदनां स्त्र्यलङ्कारविभूषिताम् | विश्वव्यापतोयान्तः श्वेतपद्मोपरिस्थिताम् | पञ्चमुद्राविभूषितामिति (गुह्यमुद्रायाः सर्वत्रप्रयोग लिखनात्) ललाटे श्वेतास्थिपट्टिकाचतुष्टयान्वितकपालपञ्चतयान्वितामिति मन्त्रसाधारणान्तर्गतशिवदीक्षाटीकायाम् | तेन सुमुखमित्यादि नमस्कृता मित्यन्त मनाकरः पाठः कुत्राप्यदृष्टत्वात् | (गुह्यमुद्रायाः सर्वत्रप्रयोगदर्शनाच्च | सर्वजननी नाथस्तवे चक्रीकुण्डलकणिका शवचला काञ्ची च पञ्चेत्यमू र्मुद्राः कामदुघा नरास्थिघटिता वद्ध्वा विशुद्धक्रमात्) मुद्रापञ्चविभूषितामिति पाठ एवं श्रीशङ्कराचार्यभगवताप्युक्तं विचित्रास्थिमालं करालं कपालम् | ललाटे तु पञ्चान्वितं धारयन्तीम् इति | मौलावक्षोब्यभूषितामिति | मौलौ मस्तके अक्षोभ्यः अविनाशिचन्द्रकला इति शिवदीक्षाकारः | तत्र | चन्द्रावतंशामिति सर्वध्यानेऽनुक्तत्वात् | वस्तुतस्तु अस्मिन् सम्प्रदाये गुरुरक्षोभ्यः वासुकिनागरूपः वटुरक्षोभ्यस्तिष्ठति जटे इत्यादि मत्स्यसूक्तवचनश्रवणात् | अतएवास्मिन्नाम्नाये अक्षोभ्य ऋषिरुक्तः | (प्. २२) भावचूडामणी तु अक्षोभ्योदेवीमूर्द्धन्य स्त्रिमूर्तिर्नागरूपधृक् || (अतएव मूर्द्ध्नि गुरुर्ध्येयः | अहो परदेवताया वेदमयया वेदाभ्युपगन्तृता यतः शिष्यशिक्षार्थं स्वयमपि मूर्द्ध्नि गुरुर्धृतः | तथाच भगवद्वाक्यं आचार्यः शिरसिस्थित इति | अथ ध्यानानन्तरं श्रीशङ्कराचार्यभगवत्पादै स्तोत्ररूपेणोक्तम् ज्वलत् पावकेत्यादिना सर्वार्थसिद्धै ध्यायेत् | तद्यथा ज्वलत्-पावक-ज्वालजालातिभास्वत् चितामध्यसंस्थां सुपुष्टां मुखर्वाम् | शवं वामपादेन कण्ठे निपीड्य स्थितां दक्षिणेनाङ्घ्रिणाङ्घ्री निपीड्य || १ || वृहत्तुङ्गलम्बोदरीं मेघवर्णाम् समुत्तुङ्गपीनस्तनाभोगरम्याम् | जवारागरज्यत्सुवृत्तत्रिणेत्राम् ललज्जिह्वया दंष्ट्रया भीषणास्याम् || २ || लसद्द्दीपिचर्मावृताङ्गीं स्मितास्याम् जटाजूटमध्यस्थितेन्दीवरालीम् | शिरोदेश-भास्वत्-पिषङ्गाभसर्पाम् जटाजूटमध्यस्थिताक्षोभ्यमूर्तिम् || ३ || मिथः केशवद्धां शिरश्छिन्नसम्यग् गलान्दोलितां मानवीं मुण्डमालाम् | दधानाञ्च पञ्चाशदाख्यानसंख्याम् शिरश्चिन्नमुण्डावली निर्मिताङ्गीम् || ४ || समाच्छिन्न मांसोत् कराघार्य सम्यक् स्फुरत्पाणिना धारयन्तीं महासिम् | (प्. २३) करे वाम ईषत् स्फुरद्रक्तनाल- स्फुरन्नीलपङ्केरूहं धारयन्तीम् || ५ || करे सव्य उच्चैरधस्ताद्दधानां सितां कर्तृकां वामपाणौ कपालम् | जगद्वर्तिसंजात जाड्याभिपूर्णं लसत्कर्तृकाधारया खण्डयन्तीम् || ६ || घनाभाहिवद्धं जटाजूटमुच्चैः जवारागनागैर्लसत्कुण्डलाढ्याम् | लसद्धूम्ररोचिर्महानागकाय- स्फुरच्चरुकेयूरशोभाभिरामाम् || ७ || सुवर्णाभनागोल्लसत्कङ्कणेन स्फुरन्तीं लसच्छेतनागाभिरामाम् | शरीरेण दूर्वादलश्यामलाहि- कृतं चारु यज्ञोपवीतं दधानाम् || ८ || दधानाञ्च कुन्दाभ नागेन सम्यक् कृतं शुभ्रकाटेय पावित्रसूत्रम् | महापाटलाभेन नागेन वृत्ताम् विभूषाञ्च पादद्वये धारयन्तीम् || ९ || विचित्रास्थिमालं कपालं करालं ललाटे च पञ्चान्वितं धारयन्तीम् | चिरं चिन्तयामीदृशीं चारुरूपा- ममेयामदोषामनाद्यामपाराम् || १० || सुरश्रेणिमौलिप्रभारञ्जिताङ्घ्रिम् नताशेषयोषिद्गणेष्टार्थदात्रीम् | यदीयप्रसादादिदं विश्वजातम् जनः प्राप्नुयान्मोदते शश्वदेव || ११ || यदेमं स्तवं यः पठेदेकचित्तो वशस्तस्य लोको भवेत्तत्र ननम् | (प्. २४) न दारिद्र्यपापे न वा दुर्गतिः स्यात् लभेतापि मोक्षन्तथा धर्मकामी || १२ || इति शङ्कराचार्य कृतं स्तवरूपध्यानं समाप्तम् | सर्वध्यानानुकूला श्रुतिर्यथा- प्रविश्य शून्यं निलयं यथोपवि श्याचूडकादौ शवविष्टरादिषु | उत्सार्य विघ्नानथ चैकमानसो विचिन्तयेद्विश्वमयी चिदात्मकम् || १ || विचिन्ता बीजान्यथ भूतशुद्धिम् विधाय तत्रैव नभोगते च | स शब्द-हूङ्कारज-कर्तृकोपरि | स्मरेत् स्वमात्मन्यपि तारिणीमयम् || २ || विरुद्धवाक्याच्छववह्निमण्डले नवाम्बुदाभां गुरुसन्नतोदरीम् | अतीव खर्वां नव यौवनस्थिताम् अधःस्थ शार्द्दुलकृत्तिबन्धजाघनीम् || ३ || अनैक्यमाहत्य शवोपरिस्थिताम् | शवोर्द्धमालीढ परीतमध्यगाम् | विशीर्णवर्णात्मशिरःस्रजोद्भटाम् | त्रयी विवर्ता ः रुण लोचनत्रयाम् || ४ || (प्. २५) अभेद भावैक् जटा विराजिता विभूषणाञ्चित्र सितास्थिभूषणाम् | महाष्ठसिद्धि प्रकटाहि भूषणा | मट्टाट्टहासैर्जगतामभोतिदाम् || ५ || जटास्वनन्तः श्रवणे च तक्षको महाहिपद्मो हृदि हार भूषिताम् | तथैव कर्काटकृतोपवीतिकां स्वमेखलायामथ देव वासुकिः || ६ || स शङ्खपालो भुजकङ्कणो मतः पादेषु पद्मः किल नूपुर श्रियम् | भुजेषु नागः कुलिकोऽङ्गदो मतो | भूजोर्द्धमाला मनुजास्थिभिर्मता || ७ || सितश्च रक्तो धवलश्च मलक स्तथैव पीतोऽसितश्च पान्डरः | भुजङ्गमाला इह वर्णजातयो भवन्ति सर्वे मणिभिर्ज्वलन्ति ताः || ८ || कपालकर्तृ ग्रथितोघ्रमूर्द्धजां सनालमिन्दीवर कान्तिमालिकाम् | विकोषखड्गं सततञ्च दक्षिणे स्वपौरुषोग्रै दधितीं भुजैःसदा || ९ || कपालनीलोत्पल पञ्च मुद्रया विराजमानामसितोतपल श्रजाम् | विचिन्तयेत् ताञ्च कवित्व कारिणीं मनोगताच्च प्रजपेच्च तारिणीम् || १० || (प्. २५) इति श्रुतयः | एवम्भुतमात्मानं ध्यायेदिति भूतशुद्धिः | अथ मूलमन्त्रेण प्राणायाम कुर्यात | तत ऋष्यादि न्यासः | शिरसि अक्षोभ्य ऋअषये नमः | मुखे वृहती छन्दसे नमः | हृदि श्रीमदेकजटायै देवतायै नमः | द्रुत कवित्व पान्डत्य सिद्धये विनियोगः | तद्रुक्तण् नीलतन्त्रे | अक्षोभ्य ऋषिरेतस्या वृहतो छन्द ईरितम् | नीला सरस्वती देवी त्रिषु लोकेषु गोपिता || हुं बीजम स्त्रं शक्तिः स्याच्चतुवर्गफलप्रदा || तथा एक वीराकल्पे अङ्ग्नयास करन्यासौ कुययादत्त्रैव केवलम् | अत्रोक्तमाचरेदत्र नान्यत सञ्चारयेत सुधीः || इति वचनात न्यासान्तराभावः | मातृकाया आवश्यकत्वात कालीतन्त्रोक्त मातृकान्यासोऽत्र लिखितह् | तदुक्तं नीलतन्त्रे यथा काली तथा नीलाततक्रमान्मातृकां न्यसेत || तद यथा- अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ इति हृदयं स्पृशेत | ए ऐ अ औ अं अः कं खं गं खं दक्षिण भुजे | उं चं छं जं झं एं टं टं डं डं वामभुजे | णं तं थं दं धं नं पं फं वं भं दक्षिण ज्ङ्घायाम् | मं वं रं लं वं शं षं सं हं लं क्षं वाम जङ्घायाम् | अथ कराङ्गन्यासौ यथा हां अखिलबागरूपिन्यै नमः | अङ्गष्टयोः | ह्रीं अखण्ड वाप्रूपिन्यै स्वाहा तर्जन्योः | ह्रं ब्रह्मावाग्रूपिन्यै वषट् मध्यमयोः | ह्रै/ विष्णुवागरुपिन्यै हु/ अनामिकयोः | ह्रों रुद्र वाग्रापिन्यै वौषठ कनिष्ठयोः | ह्रः सर्व वाग्रूपिन्यै फट करतल पृष्टयोः || ततोऽखिलवाग्रूपिन्यादिकमुक्त्वा | तर्जनी मध्यमा नामिकाभिर्हृदयाय नमः तर्जनी मध्यमाभ्यां शिरसे स्वाहा | अधोऽङ्गुष्टमुष्ठ्या शिखायै वषट् | व्यास्तऽस्ताङ्गुलोभिः कवचाय हु/ | तर्जनी मध्यमानामिकाभिर्नेत्रत्रयय वौषत् | तर्जनी मध्यमाभ्यां अस्त्राय फडिति ऊर्द्धार्द्धतालत्रयछोटिकाभिर्दशदिग्बन्धनं कुर्यात् | (एवं बिन्दुविसर्ग निर्बिन्दु निर्विसर्ग (प्. २७) योगा षोढा | क्ली/ अं क्लो/ नमः शिरसि | ह्रीं अं ह्रीं नमः शिरसी | अ/ अं अ/ नमः शिरसि | मन्त्रेण मातृका पूटीतमेषं षोढा भवति | साम्प्रदायिकास्तु बीजपुटीतां पञ्चधा मातृका विन्यस्य समस्तविद्यया चैकधा न्यसेदिति षोढा एकजटा पक्षे | नीलसरस्वतीपक्षे षडदीर्घभाजां बीजेन पूटितां कृत्वा न्यसेत्) ततस्तारा षोढां कुर्यात् | तद्रुक्तं नीलतन्त्रे विद्यया पुटितं कृत्वा षडधा च मातृकां न्यसेत् | क्रमोतक्रमाद् वरारोहे ताराषोढा प्रकीर्तिता || ये स्त्ववं कुरूते मन्त्री सतु तारा न संशयः || तस्य लोके गुरुर्नास्ति सगुरुः सर्वयोगिनाम् | सृष्ठिरकारादिक्षकारान्ता | स्थितिस्त्तु डादिठान्ता | संहृतिस्त्तुक्षकाराद्य कारान्ता | अयं न्यासस्त्तु काम्यः विशेषाकाङ्खिभिराचरनीयः || तदुक्तं सिद्धसारस्वते अखिलवाग्रुपिनी प्रोच्य हृदयाय नमो वदेत् | अखन्डवाग्रूपिनीत्युक्त्वा शिरसे वह्विवल्लभा | ब्रह्मवाग्रूपिनीत्युक्त्वा शिखायै वषडित्यापि || विष्णुबाग्रूपिणीतुक्त्वा कवचाय हु/मुच्चरेत् | रूद्रबाग रूपिणीतुक्त्वा नेत्रत्रयाय वौषडित्यापि || सर्ववागरुषिणीत्युक्त्वाऽस्त्राय फडिति स्मरेत् | एतच्च नीलसरस्वती पक्षे | मन्त्रचूडामणौतु बीजान्ते एक जटायै हृदयं परकीर्तितम् | तारिन्यै शिरसे तद्वद्वज्ज्रादके शिखा तथा || उग्रजटे च कवचं महाप्रतिसरे तथा | पिङ्गोग्रैकजटे तद्वन्नेत्रान्ते परिकीर्तितम् || (प्. २८) उभाभ्यां महोग्रतारापक्षे | पीठन्यास्य वर्णन्यास्यौ (बाहुन्यात) न लिखितौ | (अत्रानुप्रवेशो नास्ति) तदुक्तं एक वीराकल्पे अङ्गन्यास करन्यासौ कुर्यादत्रैव केवलम् | अत्रोक्तमाचरेदत्र नान्यत सच्चारयेत सुधीः || ततो मूलमुच्चर्यं शिर आदि पादान्तं पादादि शिरोऽन्तं हृदयादिमुखान्तं इति व्यापकत्रयं न्यसेत् | (ततोऽर्घ्यपात्र स्थापनमिति केचित्|) ततः पूर्वोक्तं ध्यात्वा कर कलितदूर्वाक्षत वज्रपुष्पादि मिलिते दिनकर किरणारुण कुसुमाच्ञलौ मातृकायन्त्रं ध्यात्वा हृदयात मूलमन्त्र तेजोमयीं शुद्धज्ञान चैतन्य रूपां तां षट्चक्रभेदक्रमेण शिवोऽवस्थित सहस्रदलकमलान्तर्गतं परमशिवं प्रापयित्वा क्रियासमभिहारेण तदमृताम्बुधौ विश्राम्य तदमृतलोलीभूतां आनन्दमयीं तेजोमयीं तां प्रवद्दन्नासापुटेन आनीय कल्पितमूर्ती समावहयेत् | देवेशि भक्तिसुलभे परिवार समन्विते | यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव | श्रीमदेकजटे इहागछ इहागछ इत्यावाह्य आवाहन संस्थापन सन्निधापन सन्निबोधादीन् तत्तन्मुद्राभिः कुर्यात् | ततो देव्यङ्गे षडङ्गानि विन्यस्य आं ह्रीं क्रों स्वाहेति प्राणान् प्रतिष्ठाप्य मूलविद्यान्ते श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ हूं फट् स्वाहा | इत्यनेन पाद्यादिभिः षोडशोपचारैरर्चयेत् | तदुक्तं फेत्कारिण्यां (प्. २९) आवह्य स्थापयित्वा तु ध्यात्वैवं पूजयेत् ततः | श्रीमदेकजटे चैष वज्रपुष्पं प्रतीच्छ इत्यपि || मूलेनाग्निप्रियान्तेन सतारेण यजेत् पुनः | उपचार मनुप्रोक्तः सर्वागम विशारदैः || नीलतन्त्रेऽपि सर्वं मन्त्रमयं कृत्वा देवतायै निवेदयेत् | अभावाद्वज्रपुष्पस्य स्मरणात् फलभाग् भवेत् || षोडशोपचारनियमो यथा | तदुक्तं मन्त्रनीलावत्यां पाद्यार्घ्यचामन स्नान वसनाभरणानि च | गन्धपुष्पधूपदीप नैवेद्याचमनन्तथा || ताम्बुलमर्चना स्तोत्रं तर्पनञ्च नमस्क्रिया | प्रयोजयैदर्चनायां उपचारांस्त्तु षोडश || अथवा-गन्धादयो नैवेद्यान्ता पूजा पञ्चोपचारिका | अत्र पुष्प नियमो यथा | तदुक्तं मतस्यमुक्ते पुष्प श्रेष्ठं रक्तकोकं बन्धुकं शतपत्रकम् | बर्बराद्वितयञ्चैव कर्णिकारद्वयं तथा || वकमन्दारवज्राणि करवीराणि शस्य ते || मल्लिकात्रितयं जाति क्षौम पुष्पं जयन्तिका || बिल्वपुष्पं कुरवक्युति पुष्पक केशरम् | वासन्तोद्वितयञ्चैव काशपुष्पं मरुवकम् || (कदम्ब वकुलञ्चैव लवङ्गकुसुमं तथा ||) यूथो शेफालिकाच्यूत पु.पैरर्चयेत् कुलैः || बिल्वैमेरूवकादैश्च तुलसी वर्जितैः शुभैः | अड्रपूष्पैर्विशेषेण वज्रपुष्पेन मिश्रितम् || सर्व पुष्पं प्रदातव्यं भक्तियुक्तेन चेतसा | इति || (प्. ३०) तथा मन्त्रचूडामणी अर्घं दद्याज्जवायुक्तं दापयेन्मन्त्रमुच्चरण् | वज्रपुष्पं प्रतीच्छेति सम्बोधन पदान्वितम् || नैवेद्यञ्च यथा मतस्यसूक्ते वायसं कृशरं दद्याच्छर्करागुडसंयुतम् | गव्यं दधि मधून्मिश्रं पाणीयञ्च निवेदयेत् || शालमतसञ्च पाटीनं गोधिकामां समुत्तमम् || अन्नञ्च मधुना युक्तं यत्नाद्दद्याच्च मन्त्रवित् || ततो योनिमुद्रां प्रदर्श्य आज्ञां पार्थ्य परिवारमर्चयेत् | यथा केशरेषु अग्नीशासुर वायुषु मध्ये दिक्षुच देव्यास्तदङ्गेवाषडङ्गमर्चयेत् | पूर्वादिदिक्नियमस्तु पूज्य पूजकयोर्मध्यं प्राचीति कीर्त्यते बुधैः | तद्दक्षिणं दक्षिनंस्यादुत्तरञ्चोत्तरं मतम् || पृष्ठन्तु पश्चिमं ज्ञेयं सर्वत्रैवं प्रपुजयेत् || इति मानसोल्लसे | ह्रा अखिलवाग्रूपिन्यै हृदयाय नम एक जटायै हृदयाय नम इत्यादि क्रमेण वा | तद्रुक्तमेकवीरा कल्पे षडङ्गमर्चयेद्देव्या देहेवा केशरेषु वा | अस्मिन्नेव समये देव्या वायव्यादीशानान्तं गुरूपंक्तिं अर्चयेत् | तदशक्तौ गुरुत्रयं वा ऋषिमात्रं वा | तदुक्तं भावचूमणी ईश्वर उवाच मातर्देवि महामाये बन्धमोक्ष प्रवर्तिनि | इदानीं श्रोतुमिच्छमि गुरूक्रममनुत्तमम् || देव्युवाच गुरूक्रमस्तु बहुधा मन्त्रविस्तर गौरवात् | कालानामप्यनादित्वात् कथं तत् कथयामिते || गुरुक्रमं न च ज्ञात्वा नष्ठमार्गु भविष्यति | नष्ठमार्ग मन्त्रविद्यौ न तादृक् सिद्धिगो भवेत् || (प्. ३१) गुरूणां सिद्धिभूतानां नास्तिचेत् सन्ततिक्रमः | तन्त्रविद्याश्च मन्त्राश्च निष्फला नात्र संशयः || उन्विंशति पुरूषान् वापि नव सप्तत्रयोऽपिवा | न ज्ञात्वा गुरुवंशानां शिष्यश्च नष्ठ सन्ततिः || स्ववंशादधिकं ज्ञेयं गुरूवंश शुभाशुभम् | जनकादधिको ज्ञेयो मन्त्रदश्च महेश्वरः || तस्माद् यत्नेन देवेश स.क्षेपात् शृणु तान् गुरून् || अथ तारागुरून् वक्ष्ये दुष्टादुष्ट फल प्रदान् || उर्द्धकेशो व्योमकेशो नीलकन्ठो वृषध्वजः | दिव्यौघा सिद्धिदा वत्स सिद्धौघान् शृणु तत्त्वतः | वशिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः | हरिनाथो मानवौघान् शृणु वक्ष्यामि सद्गुरून् || तारावती भानुमती जया विद्या महोदरी | सुखानन्दः परानन्दः पारिजातः कुलेश्वरः || विरुपाक्ष फेरवीच कथितं तारिनीकुलम् | सिद्धौघा मानबौधास्त्तु दिव्यौघा परमेश्वर | अक्षोभ्यः सर्वमूर्द्धण्य स्त्रिमूर्त्तिनागरुपधृक् | आनन्दनाथ शब्दान्ता गुरवः सर्वसिद्धिदाः | स्त्रियोऽपि गुरुरूपाश्च अम्बान्त्राः परिकीर्तिताः | अथवा सर्वशास्त्रेषु गुरवः पूर्वसुचिताः | कुल चूडामणौ देव शृणु गुरून् वक्ष्ये गुरु देवान् महेश्वर | येषु येषु च मन्त्रेषु ये ये ऋषिगणाः स्मृताः || (प्. ३२) ते ते पूज्या सपर्यादो संक्षेपादुदितिं मया | महेश्वरमुखाज् ज्ञात्वा यः साक्षात् तपसा मनुम् || संसाधायति शुद्धात्वा स तस्य ऋषि रीरितः | अशक्तानान्तु संक्षेपाद्, गुर्वर्चनं यथा भवेत् | यथा तत्रैवोक्तं अज्ञानाद् गुरूनाम्ना वै गुरूत्रितयमर्चयेत् | चतुष्टयं वा सङ्कोचन् न च कार्यं ततः परम् || अथवा प्रकारान्तं यथा भावनिर्णये | परमादिगुरूणां निर्णयो यथा | आदौ सर्वत्र देवेश मन्त्रदः परमोगुरुः | परमेष्टिगरुश्चैव कथितोऽयं गुरूद्भवः || इतिगुरु निर्णयः | ततोऽक्षोभ्य वज्रपुष्पं प्रतीच्छ हू/ फट् स्वाहेति देवीमौलौ वक्षोभ्यं पूजयेत् | ततः पूर्वाद्यष्टदलेषु अ/ वैरोचन वज्रपुषं प्रतिच्छ हूं फट् स्वाहा | तदुक्तं फेरवीये वज्रपुष्पं प्रतिच्छेति हू/ फट् स्वाहेति मन्त्रतः | एतन्मन्त्रे नाममात्रं भिन्नञ्चैव न संशयह् || अनेन मनुना सर्वान् परिवारानथाच्चयेत् | एवं शङ्खपान्डर पद्मनाभ-असिताङ्गकनामकमामकपान्डर- तारकाद्यान् पूजयेत् | ततः पद्माद्वहिः पूर्वादि द्वारेषु वामावर्तन अ/ पद्मान्तक वज्रपुष्पं प्रतीच्छ हु/ फट् स्वाहा | अ/ विघ्नान्तक वज्रपुष्पं प्रतीच्छ हु/ फट् स्वाहा | अ/ नरकान्तक वज्रपुष्पं प्रतीच्छ हु/ फट् स्वाहेति पूजयेत् | तदुक्तं फेत्कारीये अक्षोभ्यं वज्रपुष्पाद्यै स्तारिणी मूर्द्ध्नि पूजयेत् | तथा वैरोनचं शङ्ख पान्डरं पद्मनाभकम् || (प्. ३३) असिताङ्गं यजेन्मन्त्री दिक्ष्वैरैतच्चतुर्दले | नामकं मामकञ्चैव पान्डरं तारकन्तथा || वह्न्यादिषु चतुष्केषु मन्त्रैः स्वै स्वैर्यथा यजेत् | द्वारे पूर्वादितः पद्मान्तकं वापि यमान्तकम् || विघ्नान्तकं समभ्यर्च्यं पूजयेत् नरकान्तकम् || इति संपूज्य वामे त्रिकोनवृत्त चतुरस्रमन्डपं कृत्वा पुष्पैःतमभ्यर्च्य तत्र विहित बलिद्रव्य भरितं पात्रं निधाय अङ्गुष्ठानामिकाभ्यां स्पृष्ट्वा अ/ ह्री/ एकजटे महायज्ञाधिपायै मवोपनीतं बलिं गृह्न गृह्नाषय आपय मम शान्तिं कुरू कुरु परविद्यामाकृष्य त्रुट त्रुट छिन्धि छिन्धि ह्री/ स्वाहेति त्रिः पठित्वा बलिं दत्वा तालत्रयपुरःसरं ग्रासमुद्रां प्रदर्श्य रहस्यमालया यथाशक्ति निगदेन उपांशु वा मानसेन वा सहस्रादिकं जपेत् | तदुक्तं सहस्रं प्रजपेन्मन्त्रं शतं तद्दिनजन्तु वा | विंशत्या वा जपेन्मन्त्रं अतो न्यूनं न कारयेत् || अस्य रहस्यं यथा गान्धर्वे विना दीपक मन्तेण अग्रशून्यं नचार्चयेत् | विना ललनया देवी विना रुधिरमासवैः || त्रिवर्णमस्या दीपन्यामिते नीला च कथ्यते | अत्र जपरहस्यं यथा | हृत्पद्ममध्ये तरुणरविनिभां विद्यास्वरूपां कुन्डलिनीं ध्यायन् हृदयजिह्वा पर्यन्तं उच्चरेत् | तद्रुक्तं नीलतन्ते हृदा सारस्वतीं यावद्विद्यया व्याप्तिरुच्यते | तथाचोक्तं रुद्रजामले स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदा | स्थान् ध्यान परिभ्रष्ठाः सुसिद्धा अपि वेरिणः || (प्. ३४) जपलक्षणं विमलातन्त्रे यथा मनः संहरणं शौचं मौनं मन्त्रार्थचिन्तनम् | अव्यप्रत्वमनिर्वेदो जपसम्पत्ति हेतवः || जपःस्यात् त्रिविधावृत्ति मौनसोपांशुवाचकैः | मन्त्रमुच्चरवेद्वाचा वाचिकः स जपः स्मृतः || शनैरुच्चारयेन्मत्रमीषद्दोष्ठं प्रचालयन् | किञ्चिछ्रवन योग्यं स्यादुपांशुः स जपः स्मृतः || धिया यदक्षरश्रेणीं वर्णस्वर पदात्मिकाम् | उच्चरेदथ संस्मृत्य मानसः सजपः स्मृतः || उपांशुः पुष्टिकामानां मानसः सिद्धिमिच्छताम् || वाचिको मारणे शस्त स्त्रिविधोजप ईरितः | तत्र जपरहस्यं यथा | मूलाधार स्वाधिष्ठान मणि पूरकेषु तडितकोटिकटारां बीजव्याप्तिं विभाव्य तथैव फट्कारं हृदये ध्येयम् | (तदुक्तं नीलतन्त्र) मन्त्रध्यानं प्रवक्ष्यामि जपात् सर्व प्रदायिकाम् | मन्त्र ध्यानान्महेशानि सिद्ध्यते ब्रह्महा यतः | मूलचक्रे च हृल्लेखां सूर्यकोटि समप्रभाम् | स्वाधिष्ठाने पीतवर्णं द्वितीयार्णं विभावयेत् || नाभौ जीमूतसङ्काशं कूर्चबीजं महाप्रभम् | अस्त्रबीजं हृदि द्यायेत् कालानल समप्रभम् | मूलादि ब्रह्मरन्ध्रान्तं सर्वा विद्यां विभाअयेत् || सूर्यकोटि प्रतीकाशां योगिभिर्द्वेष्ठी पूर्विकाम् || अथवा सर्वां विद्यां दीपरुपिणीं जिह्वायां विभाज्य तत प्रभापटलैर्जिह्वामपि दीपरुपिणीं विभाज्य जपेत् | (प्. ३५) तदुक्तं फेत्कारीये जिह्वायां न्यसनादेव मूकोऽपिसुकविर्भवेत् || इति | मुखे करं दत्वा जपेदित्याराभ्य पादाः || नित्यपूजा जप नियमस्तु सहस्रैकं जपेन्मन्त्रं शतं तत् त्रितयन्तु वा | विंशति वा जपेन्मत्रं अतो न्यूनं न युज्यते || ततो गुह्यातिगुह्य गोप्त्रीत्वं गृहानस्मकृतंजपम् | सिद्धिर्भवतु मे देवि त्वत्प्रसादाद्धदिस्थिता || इति मन्त्रेणार्घ्योदक कुसुमैर्देव्या वामाधोहस्ते तेजोमयं जपं सम्पर्पयेत् इति | विशेष फलाकाङ्खिभिरयं क्रमो निशायामवमर्षणीयः | तदुक्तं फेत्कारीये वलिपूजादिकं यद्यद् निशायां क्रियते सदा | तत्तदक्षयतां याति तारादेव्या प्रसादतः || तद्रुक्तं मायातन्त्रे अर्द्धरात्रात् परं यच्च मुहूर्तद्वयमेव च | सा महारात्रि रुदिष्टा निशा सा परकीर्तिता || कूलचूडामणौ तु रात्रौ पर्यटनञ्चैव रात्रौ च शक्ति पूजनम् | न करोति कथं देव साधकः कौलिको भवेत् || कुलं मातृमानमेयं माता जीवो मानं प्रमाणं ज्ञानमिति यावत् | मेयं घटपटादिरूपं विश्वमिति यावत् | शाक्त इति सङ्कलितार्थः | ततः प्रदक्षिणीकृत्य स्तुत्वाष्ठाङ्गपातेन प्रणमेत् | अथ स्तुतिः घोररूपे महारावे सर्व शत्रुक्षयङ्करि | भक्तेभ्यो वरदेदेवि त्राहि मां शरणागतम् || सुरासुरार्चिते देवि सिद्ध गन्धर्व सेविते | जाड्यपापहरे देवि त्राहि मां शरणागतम् || जटाजुट समायुक्ते लोल जिह्वानुकारिणी | द्रुत बुद्धिकरे देवि त्राहि मां शरणागतम् || सौम्यरूपे चन्डरूपे घोररूपे नमोऽस्तुते | सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् || (प्. ३६) जडानां जडतां हंसि भक्तानां भक्तवत्सले | मूढतां हरमे त्राहि मां शरणागतम् || हू/ हू/ कारमये देवि बलि होमं प्रिये नमः | उग्रतारे नमो नित्यं त्राहि मां शरणागतम् || इन्द्रादि दिविषद्वृन्द वन्दिते करुणामयि | तारे ताराधिनाथास्ये त्राहि मां शरणागतम् || अष्टम्याञ्च चतुर्दश्यां नवम्यां यः पठेन्नरः | षन्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा | मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् || विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् | इदं स्तोत्रं पठेद् यस्तु सततं श्रद्धयान्वितः || तस्य शत्रु क्षयं याति महाप्रज्ञा च जायते | पीडायां वापि संग्रामे जप्ये दाने तथा मये || य इदं पठति स्तोत्रं शुभं तस्य न संशयः || एवं स्तुत्वा दण्डवत् प्रणम्य योनिमुद्रां प्रदर्शयेत् | आत्मसमर्पणञ्च कार्यम् | इतः पूर्त्वं? प्राण बुद्धिदेह धर्मकारितो जाग्रतस्वप्न सुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेणशिङा यतकृतं यतस्मृतं यदुक्तं तत सर्वं ब्रह्मार्पण भवतु स्वाहा | अष्टाङ्गप्रणतिर्यथा | तदुक्तं प्रपञ्चसारे पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा | वचसा मनसा चेति प्रणामोऽष्ठाङ्ग ईरितः || विशेष नमस्कारस्तु सङ्केततन्त्रे- नतिस्तु त्रिकोणाकारा तारायाः परिकीर्तिता | अर्धाचन्द्रं महेशस्य पृष्ठश्च समीहिता || वेदविद्भ्यो धरां दत्वा सम्यग्यल्लभते फलम् | तत फलं समवाप्नोति सकृत कृत्वा प्रदक्षिणम् || तत आवृत्ति देवतां देव्यङ्गे विलाण्य क्षमस्वेति सुषुम्नावर्त्मना स्वहृदि समानीय पुनः प्राणायामं कृत्वा तन्मयमात्मानं विभाव्य ऐशान्यां निर्माल्य (प्. ३७) वासिन्यै नम इत्यभ्यर्च शेषनिर्मल्यं शिरसि धृत्वा नैवेद्य जातं स्त्रीभ्यो दद्यात् | स्वयञ्च किञ्चित् स्वीकृत्य सिद्धसङ्कल्पः यथासुखं विहरेत् | (तदुक्तं सङ्केत तन्त्रे) नैवेद्य जातं यत् किञ्चित् कौलिकायै निवेदयेत् | नैवेद्यं स्त्रीभ्यो दद्यान्न कुत्रचित् || लम्बोदरस्य पौत्रेण कमलाकरसुनूना || अलिस्वित शङ्करेणायं नित्यपूजाविनिर्णयः || इति पूजा निर्णय प्रथमः पटलः || अथ द्वितीय पटलः || अथ दीक्षाविधिलिख्यते | तया विना सर्वमन्त्रस्यानधिकारित्वात् | चतुर्षु आश्चमेषु दीक्षाया आवश्यकत्वं तदुक्तं वाराहीतन्त्रे भगवानुवाच दीक्षामूलं जगतसर्वं दीक्षा हि परमं तपः | दीक्षामाश्रित्य निवसेत् यत्र कुत्राश्रमे वसन् || अदीक्षितोऽपिमरणे रौरवान्न निवर्तते | तस्माद्दिक्षां प्रयत्नेन प्रोक्तामाश्रित्य तान्त्रिकादिति || एवं सद्गुरोराहित दीक्षः सर्वं साधयेत् | तदुक्तं महाग्रताराकल्पे कल्पे दृष्ट्वा तु तारां वै यो गृह्णाति नराधमः | मन्वन्तरसहस्रैस्तु निष्कृतिर्नेव जायते || गुरोर्मुखान्महाविद्यां गृह्णीयात् पापनाशिणीम् | (प्. ३८) अत्र गुरू लक्षणं यथा कुल चूडामणौ कुलनाथं परित्यज्य ये शाक्ताः परसेविनः | तेषां दीक्षा च यागश्च अभिचाराय कल्पते || तस्मात् सर्वप्रयत्नेन मङ्गलंगुरूमाश्रयेत् || कुलीनः सर्विद्यानां अधिकारोति निश्चितम् || दीक्षाविभुः स एवात्मा सर्वमन्त्रस्य नापरः || दीक्षा कालं प्रवक्ष्यामि नीलतन्त्रानुसारतः || कृष्ण पक्षस्य चाष्ठभ्यां शुभलग्ने शुभक्षणे || पूर्वभाद्रपदायुक्ते मित्रतारादि संयुते || अथवा ह्यनुराधायां रेवत्यां वा प्रशस्यते || जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति || तदुक्तं नीलतन्त्रे रोहिणी श्रवणार्द्य च धनिष्टा चोत्तरात्रयम् | पुष्या शताभिषाचैव दीक्षानक्षत्रमुच्यते || इषे चैव विशेषण कार्तिकेच विशेषतः | महाष्टम्यां विशेषेण धर्मकामार्थसिद्धये || भाव चूडामणी विष्णुर्विष्णुमतस्था ये विष्णु दीक्षा प्रवर्तकाः | गणेशो गानपत्या ये गणदीक्षा प्रवर्तकाः || शैवाः शाक्ताश्च सर्वत्र सर्व दीक्षा प्रवर्तकाः || गुरु भक्तिर्यथा उतपादक ब्रह्मदात्रोर्गरीयान् व्रह्यदः पिता | तस्मात्तमभिमन्येत् पुतुरण्यधिकं गुरुम् || ऊर्द्ध्वाम्नाये कर्ममूलं गुरोर्मूर्तिः पूजामूलं गुरोः क्रिया | मूलमन्त्रं गुरोर्वाक्यं तस्मादादी गुरूं यजेत् || अथ शिष्य योग्यता | तथा च श्रुतिः | विद्या ब्राह्मणमित्याहुः सैबाधस्तेस्मि वक्षिमाम् | असूयकाय मा मादात्तथास्यां वीर्यवत्तमा || यमेवतु शुचिं विद्यान्नियतं ब्रह्मवादिनम् | तस्मै मा ब्रुहि विप्राय निधिपाया प्रमादिने || (प्. ३९) तथा च एक द्वित्रिचतुः पञ्चवर्षाण्यालोक्य योग्यताम् | योग्यं परिग्रहेच्छिष्यं अन्यथा दुःखमाप्नुयात् || दीक्षा कालनियमो यथा रुद्र जामले असिद्धिर्भूमिसम्पत्तिर्मरणं बन्धुनाशनम् | आत्मबुद्धिः प्रजानाशः सम्पतीरत्न सञ्चयः || पूर्ण फलं शत्रुवृद्धिर्मेधा कामप्रपूर्णता | चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् || पञ्चाङ्गशुद्धि दिवसे शोभने शशितारयोः | गुरुशुक्रोदयेचैव शस्यते मन्त्रसंस्क्रिया || अथ दीक्षास्थान नियमः | मतस्यसुक्ते गोष्ठे शिवालये शून्ये श्मशाने च नदीतटे | गिरौ च ग्रहणं कृत्वा पूजयेत् सिद्धिवाञ्चकः || एवं सिद्धिं लभेन्मन्त्री नान्यथा तामवाप्नुयात् | नात्र काल विशुद्ध्यादि न च नक्षत्रशोभनम् | अवाण्य मन्त्रं विधिवत् परितोष्य तथाएउरूम् || यदेवेच्छागुरोदीक्षा तदैव शुभदा मता | गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिध्यति || नीलतन्त्रे क्रमं प्रवृत्त्य विधिवत् पूजाद्दिमौ विधायच | विद्यां तां कथयेत्कर्णे जीवकर्णे च तत्त्ववित् || अत्रावश्यकत्त्वादादौ कुल्लुकामुपदिश्य पश्चादिष्ठमनुं वदेत् | तदुक्तं मतस्यसूक्ते अज्ञात्वा कुल्लुकां देवीमजप्ता गुरुपादुकाम् | अदत्वा दक्षिणां सम्यग् कृत्वा क्रमपूजनम् || योऽस्मिन्मत्रे प्रवर्तेत तं त्वं पीडयसे ध्रुवम् | अत्रत्य होम नियमस्तु होमप्रकरणे ज्ञेयम् | इषे चैव विशेषेण कार्तिके च विशेषतः | अष्टोत्तर शतं होमं बिल्वपत्रेण कारयेत् || अथवाष्ठादशं कुर्यादष्टाविंशतिमेव वा | पायसं कृषरं दद्यान्मोदकञ्च सशर्करम् || (प्. ४०) वलिं दद्याच्च छागलं गोधामांसमनुत्तमम् | रम्भापुष्पं शालमतस्यं जुहुयाच्च प्रयत्नतः || यवक्षीरं ततो दद्यात् शाल्यन्नं मधुना युतम् | नारिकेल जलं दद्यात् सशस्यं तदनन्तरम् || शर्करा संयुतं दद्यात् स्वर्णाद्याभणन्तथा | गोभुहिरण्य वस्त्राद्यैस्तोषयेद् गुरुमात्मनः || स्वतन्त्रतन्त्रे दक्षिना नियमो यथा गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने | सर्वस्वं वा तदद्धम्बा तदर्द्धम्बा तदाज्ञया || नचेत सञ्चारिणी शक्रिः कथमस्य भविष्यति | नीलतन्त्रेऽपि गुरू सन्तोष मात्रेण सिद्धिर्भवति शाश्वती | अन्यथानैव सिद्धिः स्यात् अभिचाराय कल्पते || गोभुहिरण्य वस्त्रादैर्यथाविभ्वमात्मनः | सर्वस्वं दक्षिणां दद्यात् गाश्च दद्यात् पयस्वणीः || भूमिं वृत्तिकरीं दद्यात् पुत्रपौत्रानुयायिणीम् | फेत्कारीये गुरूवे दक्षिणां दद्यात् सुवर्णं वाससान्वितम् | गुरोः सन्तोषमात्रेण सिद्धिर्भवति शाश्वती || अन्यथा नैव सिद्धिः स्यादभिचाराय कल्पते | विप्रेभ्यो दक्षिणां दद्याद्वहुमान पुरःसरम् || इति विशेषः | नीलतन्त्रे मतस्य सूक्ते च अत्राविरोधि सामान्यमपि कर्तव्यमिति | तथा स्वतन्त्रतन्त्रे तस्य च्छायानुसारी स्यान्निकटे त्रिदिनं वसेत् | नचेत सञ्चारिणी शक्ति गुरूमेति न संशयः || (प्. ४१) यस्मिन् दिवसे लभते मनुमेनं तत्र लाभः स्यात् | नियतं भवति व्यत्ययः सदसत कर्मणोरुभयोः || इति दीक्षानियमो द्वितीय पटलः || अथ तृतीय पटलः एवं सद् गुरोराहित दीक्षः मन्त्र सिद्धये पुरश्चरणमारभेत् || तथा नीलतन्त्रे जीवहीनो यथा देहो सर्व कर्मसु न क्षमः | पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः || जप होमौ तर्पनञ्च सेको ब्राह्मण भोजनम् | पञ्चाङ्गो हि लोकेऽस्मिन् पुरश्चरणमुच्यते || अत्र पञ्चाङ्गे जपस्य मुख्यता | अन्य चतुष्ट्यं तदङ्गत्वे ज्ञेयम् | तन्निष्पाद्य तदङ्गोक्तत्वात् | गान्धर्वे एवं कृत्वा हविश्याशो जपेल्लक्षमनन्यधोः | ततः प्रयोगं सर्वेषां वश्यादीनाञ्च कारयेत् || वीरतन्त्रहपि विशेषः स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये | रहस्यमालामादाय लक्षमेकं सदा जपेत् || (प्. ४२) फेरवीये जडोऽपि यदि मूकःस्याद्भावना वशतत्परः | लभते श्रीमतां वाणीं मन्त्रस्य लक्ष जापतः || श्रीमतां व्यासवशिष्ठादीनां वाक्यं प्राण्य कवयो भाररादिं प्रचक्रिरे इत्युक्त्वत्वात् | इह तु भावना शक्तानां तत्तदाचारविरतानाञ्चतुर्गुणं जपमामनन्ति | तदुक्तमेकवीरातन्त्रे भावनारहितानान्तु क्षुद्रानां क्षुद्रचेतसाम् | चतुर्गुण जपः प्रोक्त सिद्धये नान्यथा भवेत् || एवं महाचीनक्रमाशक्तानां ब्राह्मणादीनामपि चतुर्गुणविधानेन जपः कार्यः | जडोऽपि यदिमूकःस्याद्भावनावशतत्पर इति श्रवणात् | अन्यत्रापि रहस्यमार्गनिरताः सर्वे वर्णा द्विजातयः | तदनुष्टानविरताः सर्वे वर्णां पृथक पृथक् || अत्र यथोक्ताचार सिद्धविद्ययोश्चतुर्गुण युग सेवा परिश्रमो नास्ति | तदुक्तं फेत्कारीये विशेषतः कलियूगे मत्प्रसादात् भविष्यति | मत्यससूक्तेऽपि सिद्धमन्त्रतया नात्र युगसेवा परिश्रमः | पुरश्चरणकाले तदाचार माह नक्तं भोजी हविष्यान्नं जपेद्विद्यां दिवा शुचिः | तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरम् || तथाच गूढ पादाचार्यैः भूमौ शयया वचसि नियमः कामिनीभ्यो निवृत्तिः प्रातर्जातो विटपसमिधा दन्त जिह्वा विशुद्धिः | पत्रावल्यां मधुरमशनं ब्रह्मवृक्षस्य पुष्पैः पूजाहोमौ कुसुम रसनालेपनान्युजज्वलानि || मन्त्रकाले च सततं भार्यां यत्नेन वर्जयेत् | वर्जयेद्विष्णुकल्पञ्च वर्जयेत् तुलसी दलम् || (प्. ४३) वर्जयेन्मालती पुष्पं वर्जयेदन्य पूजनम् | हस्त प्रक्षालनं शौचमाचान्तस्तत्तदाचरेत् || देवीनाञ्च तथा पुष्पं पृथक् पात्रं नियोजयेत् || एकं भावं न कर्तव्यं यदीच्छेत् सिद्धिमात्मानः | नैवेद्यादि फलैस्तोयैर्जानीयदेषदेव भाक् || हविर्नानाविधै गन्धैः पायसै मोदकादिभिः | एवं क्रमेण युञ्जीत दधिक्षीरं तथैव च || रहस्य माला यथा फेत्कारीये अकस्मादीहिता सिद्धिमहाशङ्खाख्य मालया | पञ्चाशन्मणिभिर्माला निर्मिता सर्वसिद्धिदा || महाशङ्ख नीलसरस्वती मन्त्रः शीघ्रफलदो भवति | नृललाटास्थ्यभावे घटना साकर्यनिमित्तं देहान्तरस्यापि अस्थिप्राह्यम् | इति शैवदीक्षान्तर्गत टीका | अथमाला संस्कारो यथा | एकवीरा कल्पे स्यूताम्बा ग्रथिताम्वापि द्विजस्त्रीसूत्र निर्मिताम् | मुखे मुखन्तु संयोज्य पुच्छे पुच्छं नियोजयेत् || सर्पाकृतिर्यथामाला गोपुच्छाकृतिरेव वा | मातृका वर्णतो ग्रन्थिं विद्यया वाथ कारयेत् || ततसजातीय मेकाक्षं मेरूत्वेन प्रकल्पयेत् | एवं सा ग्रथिता माला मन्त्र सिद्धि प्रदायिनी || शुभे लग्ने शुभे वारे शुभर्क्षेच शुभे तिथौ | प्रतिष्ठां कारयेन्मन्त्री स्वयम्बा गुरुणापि वा || आश्वत्थपत्र नवकं पदमाकारेण कल्पयेत् | तत्र संस्थापयेन्मन्त्री मातृकामन्त्रमुच्चरण् || (प्. ४४) वह्निं संस्कृत्य विधिवदष्टोत्तरशतं हुनेत् | हुतिशेषं प्रतिहुतौ प्रदद्याद्देवताप्रियम् || तत्र देवीं समभ्यर्च्य ग्रहानपि च पूजयेत् | अनुलोम विलोमेन मातृकार्णेन मन्त्रयेत् || मेरुं प्रेतेन संमन्त्र्य भावयेद्देवतात्मकाम् | एवं सर्वगुणोपेता जायते सर्वसिद्धये || तदुक्तं शाम्भवीये स्यूत सूत्रं वीति होत्रं आवृत्तिद्वितयं पुनः | दिवा निशाकरौ प्रोक्तौ तस्मात्तेजस्त्रयी शुभा || तादृश्याक्षसृजा यस्तु कुरुते जपमुत्तमम् || अपमृत्यु कलिभ्यां समुच्यते नात्र संशयः || गोपनीये यमनिशं जपमालेप्सिताप्तये || करमाला निर्णयो यथा | तदुक्तं हंस पारमेश्वरे पर्वद्वयमनामायाः परिवर्तन वै क्रमात् | पर्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत् || अथमेरु लङ्घने दूषणं यथा शक्तिमाला समाख्याता सर्वमन्त्र प्रदीपिका | अत्रापिव्यग्रचित्तेन यज्जप्तं यज्जप्तं मेरुलङ्घनात् || तत् सर्वं निष्फलं याति इत्याज्ञा परमेश्वरि | पर्वद्वयन्तु तर्जन्या मेरुं तद्विद्धि पार्वति || सिद्धये साधको मेरुं जपेन्नत्वा पुनः पुनः | तर्जन्यग्रं तथा मध्यं यो जपेत् सोऽपि पापकृत् || तदुक्तं एकवीरातन्त्रे कुल्लुकां च ततो नत्वा माला पूजां विधाय च | गृह्णीयाद्दक्षिणेनाथ न च वामेन संस्पृशेत् || नाभितश्च शिरदेशे कुल्लुकां परिचिन्तयेत् | भट्टसूत्रकृता माला देव्याः प्रीतिकरो सदा || अथवा महाशङ्खाभावे पञ्चाशन्मणिनिर्मितया स्फाटिकादि मालया जपेत् | अथ परम योगिनां रहस्यातिरहस्यमाला लिख्यते | तदुक्तं विशुद्धेश्वरतन्त्रे (प्. ४५) मालां विधानं परमं शृणु पार्वति तत्वतः | येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत् क्षणात् || अनुलोम विलोमेन मन्त्रमात्र विभेदतः | मन्त्रेणान्तरितान् वर्णान् वर्णनान्तरितं मनुम् || कुययाद्वर्णमयीं मालां सर्वमन्त्रप्रदीपनीम् | चरमार्णं मेरुरूपं लङ्घयेन्न च सर्वदा || मेरुः शिरश्च सर्वेषां यथा देवेष्वहं हरिः | (मत्स्यसूक्ते) तस्मात्तत् स्थिरचित्तेन कर्म कुर्यादहर्निशम् | एतत् परमरहस्यं मयोक्तन्ते यशस्विनि | त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् || ततः सिद्धये सर्वदा गुरुभक्तिमङ्गीकृत्य उत्तराभिमुखः शिरसि कुल्लुकां ध्यात्वा यथासंख्यं जपेत् | तदुक्तं फेत्कारीये गुरुचरण सरोज सर्वदा भक्ति भावात् परिचरति विधेयो वास्य सर्वात्मना स्यात् | अनुदिनमनुमेनं मानयन् मानवोऽसौ भवति जगति वादी द्वैत सिद्धान्तहन्ता || तथा च मत्स्य उक्ते कुल्लुकाञ्च न जानाति महामन्त्रं जपेन्नरः | (यावज्जिवन्तु जप्तव्यं न सिध्यति कदाचन || महामन्त्रं परित्यज्य पूजयेद् यस्तु तारिणीम् |) पञ्चत्वं जायते तस्य अथवा वातुलोभवेत् || तारिण्याश्चण्डिकायाश्च मन्त्रः कुल्लुक वर्जितः | मतिमान् यो द्विजातीनां नोपास्ते स कदाचन || कुल्लुकाञ्च शिरे धृत्वा सर्वयज्ञफलं लभेत् || मायातन्त्रेऽपि कुल्लुकां धारयेच्छिषे लिखित्वाभूर्जपत्रके | (प्. ४६) सभायाञ्च राजद्वारे विजयी भवति ध्रुवम् | नान्यो विचारः सर्वत्र विरूपाक्षस्य सम्मतः || कुल्लुके वर्जिते पुंसां यज्ञे नोपस्थितिर्भवेत् | मम पूजा सदा व्यर्था मम यज्ञं तथैव च || तारामन्त्रस्य सामान्यं त्र्यक्षरं मन्त्रमुत्तमम् | न जानाति च यो मूढः कुल्लुकां हारिणीं यजेत् || यावज्जिवन्तु जप्त्वापि न सिध्यति कदाचन | महामन्त्रं परित्यज्य पूजयेद् यस्तु तारिणीम् || पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् | (कुल्लुका नाम सा देवी अनुभाव स्वरूपिणी || शरासन कर्तृहस्ता चतुर्बाहु समन्विता | नीलोत्पलवपुः श्यामा सर्वालङ्कारभूषिता || लिखेत्तु त्र्यक्षरं मन्त्रं हरिद्राचन्दनेन वा | यावज्जीवमतन्द्राक्षं शिखाया धारयेत् सदा || महत्या विद्यया प्राप्तं जपेन्मन्त्रं त्रिलक्षकम् ||) एवं पूर्वोक्तस्थानादिकमनुसन्धेयम् | एवमुक्तेन जप्त्वा तद्दशांशेन होमतर्पणाभिषेक ब्राह्मण भोजनगुरुदक्षिणाश्च समाचरेत् | तदुक्तम् | लक्षमेकं जपेद्विद्यां हविष्याशी जितेन्द्रियः | उक्तस्थानेषु च तथा तत्तदासन संस्थितः || पूर्वोक्तं पूजनं कृत्वा विप्राराधन तत्परः | अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् || रात्रौ बलिः सदा देयः सर्वसिद्धिमभीप्सुभिः | पुरश्चरण होमस्तु नीलोत्पलेन बिल्वपत्रेन वा विधेयः | तदुक्तं सिद्धसारस्वते | एवं जपं यथा कृत्वा दशांशमसितोत् पलैः | आज्याक्तै जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् || कालागुरुद्रवीपेतै विमलैर्गन्धवारिभिः | तर्पयेत्तां परां देवीं तत्प्रकारमिहोच्यते || (प्. ४७) जले चावाह्य विधिवत् पाद्याद्यैरुदगात्मकैः | सम्पूज्य विधिवद्देवीं परिवारान् सकृत् सकृत् || सन्तर्प्य विधिवद् भक्त्या दशांशं तर्पयेत् ततः | पुनरेकैकं सन्तर्प्य परिवारांस्तथा पुनः || अभिषेकं ततः कुर्यात् तत प्रकारं शृणुष्व मे | देवीबुद्ध्या स्वमात्मानं संपूज्य साधकोत्तमः || तारिणीं सिञ्चयामीति नमो मूर्द्धनि निःक्षिपेत् | अभिषेकोऽयमाख्यातः सर्वपाप निकृन्तनः || अभिषेक दशांशेन साधकानाञ्च भोजनम् | स्ववासिनीं कुमारीञ्च भोजयेत् तदनन्तरम् || क्षीरखण्डाज्य भोज्यैश्च मन्त्रसिद्धिर्भवेद् ध्रुवम् | गुरुवे दक्षिणां दद्याद्वहुमान पुरःसरम् || इति नीलतारातन्त्रे | उर्द्धाम्नायेऽपि होमतर्पनयोः स्वाहा न्यासपूजनयोर्नमः | मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततःपरम् || स्वाहान्ते तर्पनसेयवं अभिषेकं शृणुष्व मे | मन्त्रान्ते नाम चोच्चार्य सिञ्चयामि ततः परम् || तद्दशाशं ब्राह्मणानां भोजनं समुपाचरेत् | इत्येवं मन्त्रसिद्धः सन् सर्व कामाश्च साधयेत् || मत्स्य सूक्तेऽपि अक्षतं बिल्वपत्रञ्च दशांशं जहुयात्ततः | केवलं तिलाज्यमितिगुरवः | गुरवे दक्षिणाञ्च दद्यात् | तथा | अज्ञात्वा कुल्लुकां देवीमयष्ट्वा गुरुपादुकाम् | न दत्वा दक्षिणां सम्यग् कृत्वा क्रमपूजनम् || योऽस्मिन् मन्त्रे प्रवर्तते तं त्वं पीडयसिध्रुवम् | इत्यादि मत्स्यसूक्त वचनात् | इति पुरश्चरण निर्णयः तृतीयः पटलः || चतुर्थ पटलः अथ नैमित्तिकानुष्ठानम् | यथा उक्तं स्वतन्त्रतन्त्रे | नित्यं नैमित्तिकं काम्यं सापेक्षं पूर्व पूर्वतः | अन्यथा चेद्भवेदित्थं कुर्यादापत् पाम्पराम् || नीलतन्त्रे नित्याच्चनरतो मन्त्री क्र्यान्नैमित्तिकार्चनम् | नैमित्तिकार्चने सिद्धे कुर्यात् काम्यम् खण्डितम् || तद्यथामत्स्यसूक्ते अष्ट्म्याच्च चतुर्दश्यां पूजयेच्च प्रयत्नतः | यद् यत् प्रार्तयते मन्त्री तत्तदाप्नोति नित्यशः || लभते मञ्जुलां वाणीं कृष्णाष्टम्यां सदा यजेत् | अत्र नित्यार्चनानतरं नैमित्तिकं कार्यम् | यत्र कालनियमा न दृश्यते तत्र मासम्बा मण्डलम्बा व्याप्य नैमित्तिकाद्यनुष्ठानमेव मर्षनीयमिति | तथाचोक्त रुद्रजामले मासार्द्धमथवा मासं द्विगुणं त्रिगुणं तथा | यावत् फलाप्तिवान् योगो तावदेवं समाचरेत् || अन्यत्रापि नैमित्तिके तथा काम्ये फलाप्तिर्मण्डलावधिः | नचेत् तद्विगुणं कुर्याद् यथा स्यात् फलभाक् सुधीः || अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् | रम्भा पुष्पं बीजपूरं सुगन्धि परिमिश्रितम् || (प्. ४९) मिश्रीकृत्य बलिं दद्यादष्टम्याञ्च विशेषतः | स्वर्णमालां महादेव्यै दद्याद्गन्धौ विशेषतः || फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् | तस्मात् सर्वप्रयत्नेन सम्पत्त्यै पूजयेच्छिवाम् || तण्डुलाक्षययसिद्धार्थं दद्याद्देव्यै प्रयत्नतः | तथा नीलतन्त्रे अष्टम्याञ्च चतुर्द्द्श्यां पूजयेच्च यथाविधिः | आज्ञा सिद्धिमवाप्नोति जवापुष्पञ्च वर्वराम् || चन्दनञ्चाकं कुसुमं दद्याच्छ्वेतापराजिताम् || अर्घ्य दद्याद्विशेषेण नित्यपूजासु सर्वदा || अष्टोत्तर शतं जाप्यं यावज्जिवित संख्यया | यस्तु सम्पूजयेद् दुर्गां महाष्टम्यां प्रयत्नतः || स त्रिजन्मार्जितं पापं तत्क्षणादेव नाशयेत् | दुर्गां तारिणीमिति प्रकरणानुकूलत्वात् | ये यजन्ति महामायां ज्ञात्वा तत्त्वेन भैरव | आज्ञासिद्धिमवाप्यन्ते ध्रुवं यान्ति शिवालयम् || मत्स्यसूक्तेऽपि तारिणी यत्र पीठेतु शिलारूपा च तिष्ठति | तत्र यत्नेन गन्तव्यं फलसंख्या न विद्यते || लक्षत्रयं जपेन्मन्त्री तारिणां यत्र तिष्ठति | स्थिरचित्तेन मनसा सिद्धिर्भवति तत्क्षणात् || संख्याकृतां मृत्तिकाञ्च अक्षतञ्च तथैव च | मधुना पायसञ्चैव क्षीरं साज्यञ्च शर्कराम् || बलिं दद्याच्च गोधां वै आसवञ्च प्रशश्यते | नीलतन्त्रेऽपि यत्रासर्वमवश्यन्तु ब्राह्मणस्तु विशेषतः | तत्र गुडार्द्रकं दद्यात् तक्रं वा गुडमिश्रितम् || (प्. ५०) नारिकेलोदकं कांस्ये ताम्रे वा विसृजेन्मधु | रम्भापुष्पं शलमत्स्यं जुहुयान्मन्त्रवित्तमः || सर्वसिद्धिमनुक्रम्य चान्ते मोक्षमवाप्नुयात् | साक्षतं विल्वपत्रञ्च जुहुयाच्च सहस्रकम् || लभते मञ्जुलां वाणीं महाष्टम्याञ्च साधकः || तथा मन्त्र चूडामणौ कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः | योगिनीपूजनं तत्र प्रधानं कुलपूजनम् || यथा विष्णुतिथौ विष्णुः पूजितो वाञ्चितप्रदः || तथा कुलतिथौ श्क्तिः पूजिता वरदायिनी || तथा मत्स्यसूक्ते अष्टम्याञ्च चतुर्दश्यां पूजयेच्च विशेषतः | शङ्खस्थितं तोयं पूरं जवापुष्पञ्च वर्वराम् || चन्दनञ्चाककुसुमं श्वेताञ्चैवापराजिताम् | अन्नदानं विशेषेण नित्य पूजविधिः स्मृतः || अष्टोत्तरशतं जाप्यं यावज्जीवित संख्यया | सहस्रं वा जपेदेवं नित्यपूजाविधौ शृणु || महोग्रायाः सदा पूज्या पूजने कुल्लुका परा | स्तोत्र मन्त्र व्रतादीनां अनुष्ठाने च सर्वदा || अननुष्ठानतस्तस्याः सर्वं तन्निष्फलं भवेत् | महाविद्याञ्च सन्धायय वासुदेवञ्च योऽर्चयेत् || प्राप्नोति तत्फलं सम्यक् हरि सायुज्य माप्नुयात् | वासुदेवो हरो ब्रह्मा रारिणी प्रकृतिः सदा || एकमूर्तिः सदा चिन्त्या एकमूर्तिः सदा स्थिता | स्वर्गमोक्षप्रदा देवी जयविद्या प्रदायिनी | तस्मात्तां पूजयेद्देवीं गन्धपुष्पैश्च धूपकैः || नैवेद्यर्विविधयर्भक्त्या पूजयेत् तारिणीं सदा | (प्. ५१) अथ नैमित्तिके विशेषार्चनं यथा मायातन्त्रे आषाढे शयनं कुर्यात् सिंहे च परिवर्तनम् | आश्विने बोधयेद्देवीं पशु पायस मोदकैः || रात्रौ प्रबोधेन वरं जायते सुर सुन्दरि | दिवा प्रबोधेन तथा स्वपनेहपि च जायते || शुक्लाष्टम्यां महाष्टम्यां घटाष्टम्यां घटस्य च | माघस्य मेषस्य च विभोरात्रौ सम्पूजयेत् सुधीः || अथ पीठार्छनं नीलतन्त्रे पीठानां परमं पीठं कामरूपं महाफलम् | तत्र यत् क्रियते पूजा सकृद्वापि महेश्वर || विहाय सर्वपीठानि तस्य देहे वसाम्यहम् || तस्माच्चतगुणं प्रोक्तं कामाख्या योनि मण्डलम् | तेषां फलं महादेव वहु किं कथ्यतेऽधुना || यत्र कोटिगनैः सार्द्ध माद्या वसति तारिणी | यत् पीठं ब्रह्मणो वक्त्रं गुप्तं सर्वसुखावहम् || यतो देवाश्च वेदाश्च मुनयश्चैव भावजाः | सर्वं प्रविभवन्त्यत्र तेन गुप्तं सदाकुरु || द्विविधञ्चैव तत् पीठं गुप्तं व्यक्तं महेश्वर | व्याक्ताद् गुप्तं महापुण्यं दुरापं साधकोत्तमैः || गुप्तं सर्वत्र देवेश लभते कुलसुन्दरैः | अथ कुलपूजामाह् तन्त्रचुडामणौ एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र भैरवः | सर्व एव सुराः पूज्या सत्यं ब्रह्मशिवादयः || एका चेद् युवती तत्र पूजिता चावल्लोकिता | सर्वा एव परा देव्य पूजिता कुलभैरव || आदावन्ते च मध्ये च लक्षपूतौ विशेषतः | न पूजयति चेत् कान्तां तदा विघ्नेर्विलुप्यते || (प्. ५२) तदुक्तं रुद्रजामले पृथिवीं शस्यसम्पूर्णां ब्राह्मणे वेदपारगे | दत्वा यत् फलमाप्नोति तत्फलं कोलिकार्चनात् | अन्नदान सहस्रेभ्यः शतेभ्यो यज्वनामपि | तेषां भोजन दानेन तत् फलं कौल्भोजनात् || अश्वमेध सहस्राणि वाजपेय शतानि च | मेरुतुल्यं सुवर्णञ्च ब्राह्मणे वेद पारगे || दत्वा यत्फलमाप्नोति तत्फलं कोलिकार्चनात् | इष्ट्वा यत्फलमाप्नोति तत्फलं देशिकार्चनात् || वापीकूपतडागादि कृत्वा च शिवकृष्णयोः | दानाद् यत्फलमाप्नोति तत्फलं देशिकार्चनात् || इति संक्षेपः | पूर्वार्ज्जित फलं नास्ति का कथा परजन्मनि | हंस पारमेश्वरे नरशक्तिः पशुशकिः पक्षशक्तिश्च भैरव | पूजिता विगुणं कर्म सगुणं साधयेद् यतः || पुरश्चरण काले तु यदि स्यात् पीठ दर्शनम् | तदा तत्र पीठ पूजा मनसापि न हीयते || देवीकोटै महाभागामुड्डीयाने च भैरवीम् | योगनिद्रां कामरूपे महिषासुरमर्दिनीम् || कात्यायनीं कामभूतौ कामाख्यां कामदायिनीम् | जालन्धरे च पूर्णाशीं पूर्णशैले च चण्डिकाम् || कामरूपे ततो देव पुज्या दिक्कर वासिनी | अथवा कामरूपस्य दर्शनं यदि भाग्यतः || तदा भगादिदेविनां पूजा तत्र विधीयते | कुलवारे कुलष्टम्यां चतुर्दशा विशेषयः || (प्. ५३) योगिनी पूजनं तत्र प्रधानं कुल पूजनम् | यथा विष्णुतिथौ विष्णुः पूजितो वाञ्चितप्रदः || तथा कुल्तिथौ शक्तिः पूजिता वरदायिनी | अत्र भगादि देविणां बहुवचनं प्रसङ्गात् | तदुक्तं गान्धर्व | यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते | तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् || भगिनीं भगाजिह्वाञ्च भगास्यां भगमालिनीम् | भगदत्तां भगाक्षीञ्च भगकर्णां भगत्वचाम् || भगनासां भगस्तनीं भगस्थां भगसर्पिनीम् | सम्पूज्य तास्ता गन्धार्द मानसै गुरुमेव च || नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः | मत्स्य सूक्ते च द्वादश्यां पूजयेद्विष्णुं चतुर्दश्यामुमापतिम् | अष्टम्यां पूजयेच्छक्तिं सर्वसिद्धि प्रकामुकः || अथ शिवावलिः | तन्त्रचूडामणौ बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः | माअं प्रधान नैवेद्यं सन्ध्याकाले निवेदयेत् || कालि कालीति वक्तव्ये तत्र सा शिवरूपिनी | पशुरूपः समायाति परिवार गणैः सह || भुक्त्वा रौति यदैशानां मुखमुत्तोल्य सुम्वरम् | तदैव मङ्गलं तस्य नान्यथा कुलभूषणम् || अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् | नित्यश्राद्धं यथा सन्ध्या वन्दनं पितृतर्पनम् || तथैव कुलसेव्यानां नित्यता कुलपूजने | पशुरूपां शिवा देवीं यो नार्चयति निर्जने || शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् | जप पूजा विधानन्तु यत् किञ्चित् सुकृतानि च || गृहीत्वा पापमासाद्य शिवा रोदिति निर्जने | एकया भुज्यते यत्र शिवया देव भैरव || (प्. ५४) गृध्रं द्रष्ट्वा महाकालीं नमस्कुर्यादलक्षितम् | क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् || कृशोदरि महाचण्डे मुक्त केशि वलि प्रिये | कुलाचार प्रसन्नास्ये नमस्ते शङ्कर प्रिये || शशानञ्च शवं दृष्ट्वा प्रदक्षिण मनुव्रजन् | प्रणम्यानेन मन्त्रेण मन्त्रो मन्त्रफलं लभेत् || घोरदंष्ट्र करालस्ये किटिशब्द प्रनादिनि | गुरु (घुरु) घोररवस्कारे नमस्ते चिति वासिनि || रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुरात्मिकाम् | प्रणम्य दण्डवद्भूमौ इदं मन्त्रमुदीरयेत् || बन्धुक पुष्प सङ्काशे त्रिपुरे भयनाशिनि | भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि || कृष्णवर्णं तथा पुष्पं राजानं राजपुत्रकम् | हस्त्यश्वरथ ऽसस्त्रानि फलकान् वीर पुरुषान् || महिषं (षीं) कुलनाथञ्च दृष्ट्वा महिषमर्दिनीम् | प्रणम्य जय दुर्गां वा स विघ्नेर्नलिप्यते || जयदेवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते | भक्तेभ्यो वरदे देवी महिषघ्नि नमाम्यहम् || मद्य भाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् | दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृशेन्मनुम् || घोर विघ्नविनाशाय कुलाचार समृद्धये | नमामि वरदे देवि मुण्डमालास्थिभूषिते || रक्तमांस समाकीर्णवदने त्वां नमाम्यहम् | एतेषां दर्श्नादेव यदि नैवं प्रकुर्वते || शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते || इति तारा रहस्यवृत्तौ नेमित्तिक निर्नयश्चतुर्थः पटलः || पञ्चमः पटलः || अथ सिद्धविद्यानां काम्यानुष्ठा लिख्यते | काम्यकर्माणि यथा | तदुक्तं नीलतन्त्रे सिद्धमन्त्रः प्रकुर्व्वित् काम्य कर्माणि नान्यथा | सिद्धलक्षणं यथा स्वतन्त्रतन्त्रे मनोरथानामक्लेशं संसिद्धिः सिद्धिरीरिता | ख्यातिर्बाहनभूषादि लाभः सुचिर जीविता || आरोग्य मचिरं लाभह् सर्वज्ञत्वं कृतज्ञता | प्रत्यक्ष सिद्धयः प्रोक्ताः सिद्धमन्त्रस्य भामिनि || सिद्धमन्त्रे तु कर्तव्याः प्रयोगा नान्यथा प्रिये | तदुक्तं मत्स्य सूक्ते होमतर्पण पूजा च भावना जप एव हि | यन्त्रस्य धारणञ्चैव मारनोच्छादने तथा || एतानि काम्य कर्माणि प्रयोगोऽन्यत् समर्चनात् || तदुक्तं सोमभुजगावल्यां शान्तिकं शिशिरे ज्ञेयं हेमन्ते पौष्टिकं तथा | आकर्षणं वसन्ते च ग्रीष्मे विद्वेषणं तथा || प्रावृष्ट्युच्चाटनं कुर्यात् शरतकाले च मारणम् | एषु कालेषु चैतानि कुरूते साधकः सदा || (प्. ५२) तदुक्तं रुद्रजामले पृथ्वीं शस्यसम्पूर्णां ब्राह्मणे वेदपारगे | दत्वा यत् फलमाप्नोति तत् फलं कोलिकार्चनात् | अन्नदान सहस्रेभः शतेभ्यो यज्वनामपि | तेषां भोजन दानेन तत् फलं कौलभोजनात् || अश्वमेध सहस्रानि वाजपेय शतानि च | मेरुतुल्यं सुवर्णञ्च ब्राह्मणे वेद पारगे || दत्वा यत्फलमाप्नोति तत्फलं कोलिकार्चनात् | इष्ट्वा यत्फलमाप्नोति तत्फलं हि देशिकार्चनात् || वापीकूपतडागादि कृत्वा च शिवकृष्णयोः | दानाद् यत्फलमाप्नोति तत्फलं देशिकार्चनात् || इति संक्षेपः | पूर्वार्जित फलं नास्ति का कथा परजन्मनि | हंस पारमेश्वरे नरशक्तिः पशुशक्तिः पक्षिशक्तिश्च भैरव | पूजिता विगुणं कर्म सगुणं साधयेद्यतः || पुरश्चरण काले तु यदि स्यात् पीठ दर्शनम् | तदा तत्र पीठ पूजा मनसापि न हीयते || देवीकोट्टै महाभागामुड्डीयाने च भैरवीम् | योगनिद्रां कामरूपे महिषासुरमर्दिनीम् || कात्यायनीं कामभूर्तौ कामाख्यां कामदायिनीम् | जालन्धरे च पूर्णशीं पूर्णशैले च चण्डिकाम् || कामरूपे ततो देव पूज्या दिक्कर वासिनी | अथवा कामरूपस्य दर्शनं यदि भाग्यतः || तदा भगादिदेविनां पूजा तत्र विधीयते | कुलवारे कुलष्टम्यां चतुर्दशां विशेषयः || (प्. ५३) योगिनी पूजनं तत्र प्रधानं कुल पूजनम् | यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः || तथा कुलतिथौ शक्रिः पूजिता वरदायिनी | अत्र भगादि देविणां बहुवचनं प्रसङ्गात् | तदुक्तं गान्धर्व | यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते | तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् || भगिनीं भगाजिह्वाञ्च भगास्यां भगमालिनीम् | भगदत्तं भगाक्षीञ्च भगकर्णां भगत्वचाम् || भगनासां भगस्तनीं भगस्थां भगसर्पिनीम् | सम्पूज्य तास्ता गन्धादैर्मानसैर्गुरुमेव च || नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः | मत्स्य सूक्ते च द्वादश्यां पूजयेद्विष्णुं चतुर्दश्यामुमापतिम् | अष्टम्यां पूजयेच्छक्तिं सर्वसिद्धि प्रकामुकः || अथ शिवावलिः | तन्त्रचूडामणौ बिल्वमूले प्रान्तरे वा श्मशाने वापि साधकः | मांस प्रधान नैवेद्यं सन्ध्याकाले निवेदयेत् || कालि कालीति वक्त्व्ये तत्र सा शिवरूपिनी | पशुरूपः समायाति परिवार गणैः सह || भुक्त्वा रौति यदैशानां मुखमुत्तोल्य सुम्वरम् | तदैव मङ्गलं तस्य नान्यथा कुलभूषणम् || अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् | नित्यश्राद्धं यथा सन्ध्या वन्दनं पितृतर्पनम् || तथैव कुलसेव्यानां नित्यता कुलपूजने | पशुरूपां शिवा देवीं यो नार्चयति निर्जने || शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् | जप पूजा विधानन्तु यत् किञ्चित् सुकृतानि च || गृहीत्वा पापमासाद्य शिवा रोदिति निर्जने | एकया भुज्यते यत्र शिवया देव भैरव || (प्. ५४) तत्रैव सर्वदेवानां प्रीतिः परम दुर्लभा | तेन सर्व प्रयत्नेन कर्तव्यं पूजनं महत् || राजादि भयमापन्ने देशान्तर भयादिके | शुभाशुभाणि कर्माणि विचिन्त्य बलिमाहरेत् || गृह्ण देवि महाभागे शिवे कालाग्निरूपिनी | शुभाशुभ फल व्यक्तिं ब्रुहि गृह्ण बलिन्तव || एवमुच्चर्य दातव्यो वलिः कुलजन प्रिये | यदि न भूज्यते चान्नं तदा नैव शुभं भवेत् | शुभं यदि भवेत्तत्र भुज्यते तदशेषतः | एवं ज्ञात्वा महादेव नास्ति स्वस्तयनं चरेत् || इति नैमित्तिकं शिवावलिदानम् | अथ शाक्ताचार नियमो यथा | नीलतन्त्रे प्रातरुत्थाय मन्त्रज्ञः कुलवृक्षं प्रणम्य च | शिरः पद्मे गुरुं ध्यात्वा तत् सुधा प्लावितं स्मरेत् || मानसैरुपचारैस्तु तमाराध्य निरामयः | मूलादि ब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || सूर्यकोटिप्रतीकाशां सुधा प्लावित विग्रहाम् | तत् प्रभा मण्डल व्याप्तं स्वशरीं विचिन्तयेत् || कुलवृक्षनिर्णयस्तु रुद्रजामले पादाघातादशोको वदनमदिरया केशरः कर्णिकार | श्चूतो वीक्षाऽसाम्यां तिलकतरुणमेरुः पीयालश्च गीत्या || संलापात् कर्णिकारः कुरुवकतरुरालिङ्गनात् सिन्धूवारः | कादम्बः कामिनीनां मदयति नियतं स्पर्शनाच्चम्पशाखी || (तथाच कादम्बी महातन्त्रे श्लेष्मातककरञ्जक निम्बाश्वत्थ कदम्बकाः | बिल्वोवाथाप्यशोकश्च इत्यष्टौकुलपादपाः || तिष्ठन्ति कुलयोगिन्यः सर्वेष्वेतेषु सर्वतः | न स्वपेत् कुलवृक्षाधो नचोपद्रवमाचरेत् || (प्. ५५) तथा च श्रुतिः | कुल (कुश) कुल वृक्षाणामनुपल्लवः | वालांबा यौवनोन्मत्तां वृद्धां वा सुन्दरीं तथा | कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् || न तासां प्रहरणं निन्दां कौटिल्यमप्रियं तथा | सर्वथा न प्रकर्तव्य मन्यथा सिद्धिरोधकृत् || स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् | स्त्रिसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि || विपरीतरता सा तु भविता हृदयोपरि | तद्धस्तावचितं पुष्पं तद्धस्तावचितं जलम् || तद्धस्तावचितं भोज्यं देवताभ्यो निवेदयेत् | अन्यमन्त्र पुरस्कार निन्दाञ्चैव विवर्जयेत् || एतद्ब्रह्म तदैवततन्नाहं सोऽपि न वस्तु च | नाभावं न च वा कार्यं न का (चा) रणामितस्ततः || (प्रायश्चित्तं दृशोः पातं तीर्थावगमनं तथा | पिण्डं वेदोदितं न्यासः कलौ पञ्च विवर्जयेत् || भूतहिंसा न कर्तव्या पशुहिंसा विशेषतः | बलिदानं विना देवि हिंसां सर्वत्र वर्जयेत् || अथ समयाचारः | तदुक्तं मन्त्र चूडामणौ शृणु पुत्र रहस्यं मे समयाचार लक्षणम् | येन हीना न सिद्ध्यन्ति मन्त्राः कल्पशतैरपि || मनवः कुलशास्त्राणां कुलाचारानुचारिणाम् | सिद्धाः सुर्यनास्ति सन्देहो वैष्णवाचारतत्परः || परनिन्दा सहिष्णुः स्यादुपकाररतः सदा | पर्वते विपिने चैव निर्जने शूण्यमण्डपे || चतुष्पथे जलमध्ये यदि देवात् क्वचिद्भवेत् | क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद्यथा सुखम् || (प्. ५६) गृध्रं दृष्ट्वा महाकालीं नमस्कुर्यादलक्षितम् | क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् || कृशोदरि महाचण्डे मुक्त देशि बलिप्रिये | कुलाचार प्रसन्नास्ये नमस्ते शङ्कर प्रिये || शशानञ्च शवं दृष्ट्वा प्रदक्षिण मनुव्रजन् | प्रणम्यानेन मन्त्रेण मन्त्री मन्त्रफलं लभेत् || घोरदंष्ट्र करालास्ये किटिशब्द प्रनादिनि | गुरु (घुरु) घोररवस्कारे नमस्ते चिति वासिनी || रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुरात्मिकाम् | प्रणम्य दण्डवद्भूमौ इदं मन्त्रमुद्दिरयेत् || बन्धूक पुष्प सङ्काशे त्रिपुरे भयनाशिनि | भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि || कृष्णवर्णं तथा पुष्पं राजानं राजपुत्रकम् | हस्त्यश्वरथ शस्त्रानि फलकान् वीर पुरुषान् || महिषं (षीं) कुलनाथञ्च दृष्ट्वा महिषमर्दिनीम् | प्रणम्य जय दुर्गां वा स विघ्नेर्नलिप्यते || जयदेवि जगद्धात्रि त्रिपुराद्ये त्रिदेवते | भक्तेभ्यो वरदे देवी महिषघ्नि नमाम्यहम् || मद्य भाण्डं समालोक्य मत्स्यं मांसं वरस्त्रियम् | दृष्ट्वा च भैरवीं देवीं प्रणम्य विमृशेन्मनुम् || घोर विघ्नविनाशाय कुलाचार समृद्धये | नमामि वरदे देवि मुण्डमालास्थिभूषिते || रक्तमांस समाकीर्णवदने त्वां नमाम्यहम् | एतेषां दर्शनादेव यदि नैवं प्रकुर्वते || शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते || इति तारा रहस्यवृत्तौ नेमित्तिक निर्नयश्चतुर्थः पटलः || पञ्चमः पटलः || अथ सिद्धविद्यानां काम्यानुष्ठा लिख्यते | काम्यकर्माणि यथा | तदुक्तं नीलतन्त्रे सिद्धमन्त्रः प्रकुर्वीत काम्य कर्माणि नान्यथा | सिद्धलक्षणं यथा स्वतन्त्रतन्त्रे मनोरथानामक्लेशं संसिद्धिः सिद्धिरीरिता | ख्यातिर्वाहनभूषादि लाभः सुचिर जीविता || आरोग्य मचिरं लाभः सर्वज्ञत्वं कृतज्ञता | प्रत्यक्ष सिद्धयः प्रोक्ता सिद्धमन्त्रस्य भामिनि || सिद्धमन्त्रे तु कर्तव्याः प्रयोगा नान्यथा प्रिये | तदुक्तं मत्स्य सूक्ते होमतर्पण पूजा च भावना जप एव हि | यन्त्रस्य धारणञ्चैव मारनोच्छादने तथा || एतानि काम्य कर्माणि प्रयोगोऽन्यत् समर्चनात् || तदुक्तं सोमभुजगावल्यां शान्तिकं शिशिरे ज्ञेयं हेमन्त पौष्टिकं तथा | आकर्षणं वसन्ते च ग्रीष्मे विद्वेषणं तथा || प्रावृष्ठ्युच्चाटनं कुर्यात् शरतकाले च मारणम् | एषु कालेषु चैतानि कुरुते साधकः सदा | (प्. ५८) अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः | पुर्वाह्नश्च वसन्तःस्यान्मध्यह्न ग्रीष्म एव च || प्रावृट्रूपोऽपराह्नश्च प्रदोषः शिशिरःस्मृतम् || कृत्यापल्लवे ऊषायोगोहि हेमन्ते प्रभाते शिशिरागमे | प्रहरार्धां वसन्ते च ग्रीष्मं मधदिनान्तरे || तूर्ययामे च वर्षायख्ये शरदस्तगते रवौ | उपलक्षणं षट्कर्मपरम् | तदुक्तं भैरव स्रोतसि शान्तिं पुष्टिं तथा वश्यं आकर्षण चतुष्टयम् | षट् कर्माणि प्रयुक्तानि निग्रहो निधनं तथा || अथ तेषां लक्षणाणि रोगकृत्या ग्रहादीनां निरासः शान्तिवीरिता | पुष्टिर्धनजनादीनां ज्ञानादीनाञ्च कथ्यते || जनसम्मोहनं वश्य माकर्षणमात्मसात् कृतम् | उच्चटनादिकरणं निग्रहः परिकीर्तितः || जनानां प्राणहरणं मारणं परिकीर्तितम् | अथ तेषां काल नियमः | तदुक्तं कृत्या पल्लवे सूर्योदयं समारभ्य घटिकादशकं दिने दिने || ऋतवः सुर्यसन्ताद्या अहोरात्रं दिने दिने || वसन्त ग्रीष्म वर्षाख्य शरद्धेमन्त शैशिराः | हेमन्त शान्तिके ज्ञेयो विद्वेषे ग्रीष्म ईरितः | प्रावृद्धुच्चटने ज्ञेयः शरन्मारण कर्मनि || वश्ये चाकर्षणे स्तम्भे रक्तवर्णं विभायेत् | निर्विषो करणे शान्तौ पुष्टौ चाव्य (प्या) यने सितम् | पीतं स्तम्भन कार्यं च धूम्रमुच्चटने स्मरेत् || उन्मादे शत्रु गोपाभं कृष्णवर्णञ्च मारणे || (प्. ५९) उत्थितं मारणे ध्यायेत् सुप्तमुच्चाटने स्मृतम् || उपविष्टं सुरेशानि वश्यादौ परिचिन्तयेत् | आसीनं श्वेतवर्णञ्च शान्तिके परिचिन्तयेत् || वाम (यान) मार्गस्थितं कृष्णं तामसं परिकीर्तितम् | सात्वकं मोक्षकामानां राजसं राज्यमिच्छताम् || तामसं शत्रुनाशार्थं सर्व व्याधि निवारणम् | मारणे विषसंहारे ग्रहभुत निवारणे | उच्चाटने च विद्वेषे पञ्चवर्ण प्रयुज्यते || अन्तेनाम भ*?न्मत्रः पार्श्वतः परिकीर्तितः | मन्त्रान्ते नाम संस्थानं योग इत्यभिधीयते || शान्तिके पौष्टिके बश्ये प्रायश्चित्त विशोधने | मोहने दीपने योगं पयुञ्जन्ति मणीषिनः || स्तम्भनोच्चाटनोच्छेद विद्वषेसु स चोच्यते | नाम्न आद्यन्तमध्ये च मन्त्रः स्याद् योग उच्यते || मन्त्राभिमुख्यकरणे सर्वपाप निवारणे | ज्वर ग्रह विषकृत्या शान्तिके च स चोच्यते || सम्मेलने स एवाथ मन्त्रानामक्षराणि च | एकैकान्तरितं यत्तु ग्रथनं तत् प्रकीर्तितम् || तच्छान्तिके विधातव्यं नामाध्यन्ते यदा मनुः | तत् सम्पुटो भवेत् तत्तु कीलकं परिभाषितम् || स्थम्भ(ः) मृत्युञ्जये दिष्ठो रक्षणादिषु संपुटः | द्विषि (द्वो द्वो) मन्त्राक्षरं तस्य मध्ये नामाक्षरं क्रमात् || ग्रथ्यते स विदर्भस्तु वश्याकर्षण पौष्टिके || एवं योगक्रमः प्रोक्तः कर्मकाले मनीषिभिः | वह्निकार्य जपेत् स्वाहा नमः सर्वत्र चार्चने || (प्. ६०) शान्ति पुष्टिवशद्वेषेषुच्चाटने च मारणे | स्वधा स्वाहा वष्ठ् हुच्च वोषट् फट्कारं क्रमात् || पद्मासनं पौष्टिकेतु शान्तिके स्वस्तिकासनम् | आकृष्टौ पार्ष्णिकं तद्वद् विद्वेषे शत्रु निग्रहे || सर्व स्वस्तिकमुच्चाटे मारणादौ प्रशस्यते | शान्ति पौष्टिकवश्ये तु सुन्दरी शोभनाशया || सर्वाभरण संदीप्ता प्राप्रकाममानोव्यथा (रथा) | द्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा || आकर्षणे च तद्वच्च मारणे च प्रशश्यते | साध्य आकर्षणे द्वेषे भर्तस्यमानो जनैरपि | अर्द्यमानो जनैर्दण्डैर्ग्रसितस्तक्षके न तु | उलूक वायसाविष्टे ग्रस्त उच्चाटने रिपुः | जपेच्च शवमारूढ्य सन्दष्ठौष्ठपुटः क्रुध || कर्म कुर्याद् यथा न्यायं मन्त्री क्रुरेषु कर्मसु | पौष्ठिकादीनि कर्माणि यद्वार तिथि योगतः || प्रयोक्तव्यानि विधिना तच्च संप्रोच्यतेऽधुना | पञ्चमी च द्वितीया च तृतीया सप्तमी तथा || बुधेज्यवार संयुक्ता शान्ति कर्मणि पूजिता | नवमी पौष्टिके शस्ता अष्टमी सप्तमी तथा || दशम्येकादशी चैव भानुशुक्रादिसंयुता | आकर्षणेऽप्यमावस्या नवमी प्रतिपत् तथा || पौर्णमासी मन्दभानु युक्ता विद्वेषकर्मणि | कृष्णा चतुर्दशी तद्वदष्टमी मन्दतारका | उच्चाटने तिथिःशस्था प्रदोषे न विशेषतः || चतुर्दश्यष्टमी कृष्णा अमावस्या तथैव च || मन्दभौमदिनोपेता शस्ता मारण कर्मणि | बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा || (प्. ६१) पौर्णमासी च विज्ञेया तिथिः स्तम्भन कर्मणि | शुभग्रहोदये कुर्यात् शुभानि च शुभोदये || रौद्रकर्मणि रिक्तार्के मृत्युयोगे च मारणम् | तर्पणं मत्स्यसूक्ते मधुना तर्पणं प्रोक्तं सर्वकाम प्रपूरकम् | मन्त्र सिद्धिकरं साक्षात् महापातक नाशनम् || नीलतन्त्रेहपि कर्पूर मिश्रितैस्तोयैर्मास मात्रं हि तर्पयेत् | वशीकृत्य नृपान् सर्वानभोगी स्याद् यावदायुषम् || घृतैः पूर्णयशः सिद्धैर्दुग्धै वारोगय सिद्धये | अगरूमिश्रितै स्थोयैः सर्व कालं सुखी भवेत् || नारिकेलोदकै मिश्रेः स्तोयैः सर्वार्थ सिद्धयै || मरीचमिश्रितं रुष्णतोयैः शत्रुन् विनाशयेत् || केवलैरुष्णतोयेश्च शतूनुच्चाटयेत् क्षणात् | ज्वराविष्टो भवेत्तेन दुग्धसेकात समं नयेत् || अत्रैव जपप्रकारः | तदुक्तं नीलतन्त्रे हविष्याशी मुक्तकेशी जप्यादयुत मादरात् | गद्य पद्यमयी वाणी तस्य सर्व विधा भवेत् || ध्यानस्तु तत्रैव उच्चाटयति पिङ्गाक्षी संत्रासयति केकरा | विद्रावयति मुक्तास्या संत्रासयति घुर्णिता || विक्षोभयति संक्षुब्धा सम्पादयति सम्मता | सङ्कोचयति संरुद्धा विप्रलब्धा प्रबोधयेत् || फेत्कारीयेऽपि अत्र सर्वस्य कर्तव्यं भावनामन्त्र चिन्तनम् | अहोच्चाटनादिषु (सर्वदा) सर्वत्रैवायुतोजपः | तदुक्तं सिद्धसारस्वते शताभिजप्तमात्रेण रोचना तिलकं नरः | कृत्वापश्यति यं मन्त्री तं कुर्याद्दासवत् सुधीः || (प्. ६२) फेत्कारीयेऽपि पुष्करिण्याजलेऽगाधे यष्ठि काष्ठं तमो गृहे | दन्तेनानीय तत्तूर्णं कीलकं तेन कारयेत् || तेनैव मधु घृताक्तेन पद्मिनी पत्रमात्रके | लिखेत् सूत्रावलीमध्ये मूलमन्त्र विदर्भितम् || तत् कुण्डे चतुरस्रे तु निःक्षिप्य जुहुयदपि | सहस्रं क्षीरनीराक्तं पद्मानां लोहितद्विषाम् || अस्यार्थः तमोगृहे राहुग्रस्ते निशाकरे सूर्ये वा | निःक्षिप्येति कुण्डमध्ये द्वादशाङ्गुलाधोभागे निःक्षिपेदित्यर्थः | मूलमन्त्रविदर्भितमिति | मूलमन्त्रस्य हृल्लेखारेफमध्ये मम द्रुत कवित्व सिद्धिं कुरु कुरु इत्याख्यासहितं लिखेत् | ततः प्रयोगान्तरम् | पद्मावती मन्त्रेण बलिं दद्यात् चतुष्पथे | अ/ पद्मं पद्मे महापद्मे पद्मावति माये स्वाहा इति मन्त्रेण यथापूर्वं नैमित्तिकपटलोक्तं बलिं दद्यात् | तदुक्तं फेत्कारीये प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च | महापद्मे पदं ब्रूयत् पद्मावति पदं ततः || माये स्वाहेति मन्त्रेण यथापूर्वं वलिं हरेत् | एवं यः कुरुते कर्म सस्याद् द्रुतकवि नरः || अथ सकल सिद्धये वक्ष्यमान वलिमन्त्रेण नित्यपूजोक्तवलिमन्त्रेण वा रात्रौ चतुष्पथे वलिं दद्यात् | तदुक्तं फेत्कारीये उपचार विशेषेण राजपत्रीं वशं नयेत् | राजानं जपमात्रेण वलिना सकलं जगत् || अस्यार्थः उपचार विशेषेणेति | तदुक्तं मत्स्यसूक्ते रम्भाजाती बीजपूरं सुगन्धि परिमिश्रितम् | मिश्रीकृत्य वलिं दद्यात् अष्टम्याञ्च विशेषतः || राजानं जपमात्रेति पूजादिरहितेनैवेति यावत् | योगप्रयोगादिपल्लवेन राजा वश्यो भवति | वलिना सकलं जगदिति | मत्स्य सूक्तोक्त नैमित्तिकपटलानु सन्धानेन बोद्धव्यम् | दुक्तं नीलतन्त्रे | (प्. ६३) प्रयोगे वलिमन्त्रोऽयं प्रयोगात् साधयेद् यदि | अर्द्धरात्रे ततो नित्यं वलिं दद्याच्चतुष्पथे || परसैन्य ग्रहारिष्ट रोगकृत्या निवारिणः | प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् || विकटदंष्ट्रे परपक्षं मोहयद्वयमुच्चरेत् | मारय खादय पच तथा द्वयं द्वयं वदेत् || ये मां हिंसितुमुद्यताः योगिनी चक्रै | स्तान् हावय हू/ फट् स्वाहा परविद्यामाकर्षय छेदय कपाले गृह्न (६) स्वाहेति तन्मनुना बलिमन्त्रेनाप्याथ च वलिं दद्यात् यथारुचिः | प्रसङ्गादत्र छागादि वलिदानम् | यथा कालितन्त्रे | सुलक्षणं पशुं देव्यग्रे संस्थाप्याख्योर्दकेन संप्रोक्ष्यास्त्रेण संरक्ष्य कवचेनावगुन्ठ्य धेनुमुद्रयाऽमृतोकृत्य कर्णे धृत्वा इमं मन्त्रं पठेत् | गन्धपुष्पैश्च संपूज्य पशुपाशाय विंमहे विश्वकर्मणे धीमहि तन्नो जीवः प्रचोदयात् | द्री/ कालि कालि व्रज्रेश्वरिलोऽदणडायै नम इति संपूज्य खडगं पूजयेत् | हू/ वागश्वरी ब्रह्मम्यां नमः | हू/ लक्ष्मीनारायणाभ्यां नमः | हू/ उमा महेश्वराभ्यां नमः | इति मन्त्रेन ब्रह्माविष्णुशिव शक्त्युक्ताय खडगाय नमः | इति धृत्वा संपूज्य अ/ खडगाय स्वरनाशाय शक्तिकार्यार्थ तत्पर | पशुश्चेद्यस्त्वया शीघ्रं खडगनाथ नमोऽस्तुते | ततो मूलमन्त्रेण दूर्वाक्षत पानीयं गृहीत्वा दीर्घायुष्ट्व दुर्भिक्ष दुःख निवृत्ति परमपदगमन पूर्वक शाश्वत समावच्छिन्न हर्षं विजयकामः श्रीमन्नीलसरस्वति इमं पशुं तुभ्यमहंददे | देव्याज्ञां प्रार्थ्य पशुं निवेदयेत् | यथोक्तेन विधानेन तुह्यमस्तुसमर्पितम् | ततश्चेन्ने दक्षिणे पतिते वृद्दिर्वामभागे च निन्दितम् | दैन्यं मध्ये च पतितं देवि च्छेद्दंस्मरेद्बुधः || (प्. ६४) ततः कुण्डान्तिके गत्वा हुतिभिर्दश पञ्चभिः | तेनैव तु सृजन् दोषं बलिं लक्षं सुलक्षणम् || ततो रुधिर मांस भक्तान्वितं बटूकयोगिनी क्षेत्रपाल गणेशादीनां मन्त्रैर्वलिं हरेत् | आग्नेययां हु/ वां वटुक भैरवाय नम इति गन्धाक्षत कुसुमैः संपूज्य वायव्ये हूं यां योगिनीभ्य नमः | इति गन्धाक्षत कुसुमैः संपूज्य ईशाने हूं क्षां क्षेत्रपालाय नम इति गन्धाक्षत कुसुमैः संपूज्यर्नैऋते हूं गां गणेशाय नम इति गन्ध पुष्पैः संपूज्य वलिं दद्यात् | श्मशानाङ्गार मादाय मङ्गले वासरे निशि | कृष्णवस्त्रेण संवेष्ट्यवध्नियात् रक्ततन्तुना | शताभिमन्त्रितं कृत्वा निःक्षिपेद्वैर वेश्मनि | सप्तेहाभ्यन्तरे तेषामुच्चाटनमिदं महत् || तदुक्तं फेत्कारीये नरास्थनि लिखेन्मन्त्रं क्षारयुक्तं हरिद्रया | सहस्रं परिसंजप्य निशायां शनिवासरे || क्षिप्यते यस्य गेहेतु मृत्युस्तस्य त्रिमासतः | क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे || धनहानिर्धनागारे ग्राम मध्ये तु तत्क्षयः | क्षारन्तु श्यैन विट्युक्त षट्लवणम् | हृल्लेखाधोपतरेफमध्ये अमुकामुकवोर्द्वेषं कुरु कुरु इति || तदुक्तं नीलतन्त्रे द्वेषे तु विलिखेन्मन्त्रं प्रेतकर्पटके सुधीः | द्वेष्य द्वेषकयोर्नाम्नी तस्य द्वेषी महान् भवेत् || लिखेन्मन्त्रमिति | मन्त्रं लिखित्वा हृल्लेखारेफमध्ये अमुकं मारय मारय इत्यादि साध्य सहितमित्यर्थः | अथवा साध्यं लिखित्वा तदन्ते मन्त्रं लिखेत् | सहस्रं परिजप्येति | अमुकं मारय मारय इत्यन्ते मन्त्रजापः | द्वेषे तु (प्. ६५) अमुकामुकयोर्द्वेषं कुरु कुरु इत्यस्यान्ते मन्त्रमुच्चर्य सहस्रं जपेत् | अथ रयोगान्तरमाह | तदुक्तं सङ्केततन्त्रे उच्चाटय पदं प्रोक्ता पिङ्गाक्षो तदन्तरम् | षट् हूंञ्च मन्त्रमुच्चार्य साध्य संज्ञान्वितं पुरः || देशादेशान्तरं याति रिपुः काक इवापरः | पिङ्गाक्षो फ्रेमिति बीजं भूतभैरवोक्तत्वात् | पिङ्गाक्षो कुटिलेति यावत् | अथ परमन्त्रवीर्यहानिमाह || वह्निपुटे रिपोर्विद्यां लिखित्वा पत्रकेमले | श्मशाने मन्त्रमुच्चर्य पुटीकृत्वा विदर्भ्य च || सहस्रजन्मभिर्जप्त्वा विद्या नहि फलप्रदा | सिद्धयश्च विनश्यन्ति देवानामपि दुर्लभा || तत् प्रतीकारो यथा | मातृचक्रेऽमृतं लिख्यामृत भिन्न पूटीकृतम् | जले निःक्षिप्य मन्त्रन्तु पुनन्तु व इतीरितः || यन्मनुं तन्मनुं दग्धं न्वोदित शशि यथा | क्षणे क्षणे तु तेजस्वी विप्रद्वष्ठि गतोऽपि च || अथ शान्तिकादौ धारणं यन्त्रं लिख्यते योनियुग्मे लिखेन्मन्त्रं मन्त्री हेमशलाकया | क्लीवभिन्नान् दीर्घवर्णान् षट्कोणे विलिखेत ततः || अष्ट वक्त्रं भूपुरे च लिखेत् साधक सत्तमः || स्वर्णपट्टेऽय भूर्जे वा रौप्येवाप्यथ सुव्रते | विलिखेद्धेम लेखन्या गन्धाष्टक समन्वितम् || दुर्वाकाण्डेन वालिख्यद्दशमूलेन वा पुनः | इति | एकवीराकल्पे वेष्टितं पीतवस्त्रेण जतुना परिवेष्टयेत् | वध्नीयात् पट्टसूत्रेण शिशूनां कण्ठभूषयाम् || (प्. ६६) स्त्रीणां वामभुजे चैवमण्येषां दक्षिणेभुजे | वन्ध्या तु लभते पत्रं निर्धनो धनवान् भवेत् || इयं रक्षा पुरा वद्धा ज्ञानार्थं गीतमादिभिः | कीर्त्यर्थं पाथिरैश्चान्यैः संग्रमे जयकांक्ष्मिभिः || अस्यार्थः | योनियुग्मे षट्कोणे तन्मध्ये हेमशलाकया भूर्जपत्रादौ कुऽऽकुम गोरचना चन्दनैर्मसीं विधाय पंक्तिक्रमेण मूलमन्त्रं लिखित्वा तस्य हृल्लेखा रेफमध्ये अमुकस्य रक्षां कुरु कुरु अमुकीनां शुभ पुत्रमुतपादय इति वास्य ज्ञानसिद्धिं कुरु कुरु इत्यादि साध्य सहितं विलिख्य षट्कोणे क्लीवभिन्नान् वर्णान् ऋ ॠ ऌ ॡ रहितान् तदुक्तं स्वराणां मध्यगं यत्त्र तच्चतुष्कं नपुंसकम् || दीर्घवर्णान् आ ई ऊ ऐ औ अः इत्येकैकं लिखेत् | अष्टपत्रैषु अष्टवर्णान् यथा | ऐ/ द्रा/ अ/ ऐ/ द्री/ फट् स्वाहा इति | तदुक्तं वाग्भवं कुलदेवीञ्च तारकं वाग्भवं तथा | हृल्लेखाचास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः || अष्टाक्षर मनुः प्रोक्तः मन्त्राणां सार ईरितः | अन्ये प्रयोगाः कालिका विद्योक्ता अत्रापि कार्या | तदुक्तं फेत्कारीये कालिकामन्त्रतन्त्रोक्तान् प्रयोगानिहचाचरेत् | अत्रोक्तं सम्यक् तत्रापि प्रयोगानपि चाचरे अथ बालसंस्कारो यथा | दक्षिण पाणिना मधुलाजाभ्यां नाडीच्छेदात् प्राक् वारत्रयं जिह्वां संमार्ज्ज्य हेमशलाकया श्वेत दुर्वया यज्ञदारुशिखया वा बालकस्व जिह्वायामोष्ठे वा लिखेत् | एतल्लिखनं नेमित्तिकसंस्कार मनन्तरं पुत्रे जाते श्राद्धादिकं कुर्यात् | पंक्ति कृत्वा लिखेत् | एकादशाहेवेति केचित् | क्षत्रियानां पञ्चदशाहे वैश्यानां पञ्चविंशतिदिने शूद्रानां मासान्ते इति | एतदादौ तु देवता संपूज्यं मन्त्रं लिखेदिति गुरवः | महोग्रताराकल्पेतु पश्चाद्देवतां पूजयेत् | यदि पिता दूरेस्थो भवति तदा मातुलो वा पितृव्यो वा लिखेत् | तदुक्तं मत्स्यसूक्ते अथवा मधुलाजाभ्यां जिह्वायां बालकस्य च | नाडीच्छेदाद् यथा पूर्वं लिखेत् स्वर्णशलाकया || (प्. ६७) मूलमन्त्रं लिखेन्मन्त्री यस्योष्टे श्वेतदूर्वया | वाक्यीच्चरण मात्रेण वाग्मी द्रुतकविर्भवेत् || तत्रैव जन्म संस्कार कं नाम पुत्रे जाते प्रशस्यते | जिह्वायान्तु लिखेन्मन्त्रं यज्ञदारुशलाकया || वारत्रयन्तु सम्मार्ज्य दक्षिणे नैव पानिना | मन्त्रमुच्चर्य प्रत्येकं पंक्तिं कुर्यात् सुशोभनाम् || आदौ संस्कारः कर्तव्य स्तदन्ते विलिखेन्मनुम् | गन्धचन्दन पुष्पैश्च तदन्ते पूजयेच्छिवाम् || उत्तराभिमुखी भूत्वा स्थापयेत् पीठौत्तमम् | पूजयेत्तारिणीं देवीं नानाभक्ष्येः सुशोभनैः | कविर्वाग्मी भवेत् पुत्रः सत्यवादी जितेन्द्रियः || पुर्भ्राता लिखेन्मन्त्रं मातुर्भ्राता तथैव च | पिता चैव लिकेन्मन्त्रं नान्य एव कदाचन || मातुः क्रोडे तु संस्थाप्य वस्त्रेनास्तीर्य यत्नतः | शान्तिं कुर्याद्वालकस्य ब्राह्मणैः सह संयतः || यथा इमं पुत्रं कामयत कामजानां इहेवेति | देवेभ्यः पुष्णाति सर्वमिदं सज्जनं शिवशान्ति स्तारायै केशवेभ्य स्तारायै (रुद्रेभ्य स्तारायै) शिवाय शिवयशसे || मन्त्रलिखनान्ते स्वस्त्ययेन शान्तिं कुर्यात् | ततस्तस्य मातुःकर्णे शान्तिस्तोत्रं पठेत् | यथा तासां सव्येषु कर्णेषु ततः स्तोत्रं समाचरेत् | मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे || कृषया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | माहेशि वरदे देवि परमानन्दरूपिणी || (प्. ६८) कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | कौमारि सर्वविद्येशे कुमार क्रीडने वरे || कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | विष्णुरूपधरे देवी विनतासुतवाहिनि || कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | शत्रुरूपधरे देवि शक्रादि सुर पूजिते || कृपया हर बिघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | चामुण्डे मुण्डमालासृक् चर्चित विघ्नं नाशिनि || कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छमे | महालक्षि महोत्साहे क्षोभ सन्त्रापनाशिनि || कृपया हर विघ्नं मे मन्त्रसिद्धि. प्रयच्छेमे | मिति मातृमये देवि मिति मातृ वहिस्तृते || एके बहुतरे देवि विश्वरूपे नमोऽस्तुते || एतत् स्तोत्रं पठेद् यस्तु कर्मारम्भेषु संयतः | विदग्धां वा समालोक्य तस्य विघ्नां न जायते || कुलीनस्य द्वारदेवाः कथितास्तव पुत्रक | दीक्षाकाले नित्यपूजा समये नार्चयेद् यदि || तस्य पूजा फलं वत्स नीयते यक्षराक्षसैः | इति शान्तिस्तोत्रम् | इति तारारहस्ये काम्यानुष्ठाननिर्णयः | पञ्चमः पटलः || (लम्बोदरस्य पौत्रेन कमलाकरसूनुना | अलेखि शङ्करेणायं काम्यानुष्टान निर्णयः ||) अथ षष्ट पटलः || अथ महाचीनक्रम भावनाधीनाः सिद्धयश्चास्मिन् तन्त्रे सर्वे प्रति पादिताः सम्प्रति तद् यथा | तदुक्तं ताराणवे | देव्युवाच | महाचीनक्रमं देव कथितं भुवि दुर्लभम् | गान्धर्वञ्च तथा चीनं यद् यद् गुप्ततरं महत् || महाचीनक्रमं देव सृचितं न प्रकाशितम् | कथयस्व तदेदानीं यदि स्नेहोऽस्ति मां प्रति || श्रीभगवान उवाच | महाचीन क्रमं देवि सर्वतन्त्रेषु गोपितम् | न वक्तव्यं त्रिभुवने शुद्धभावेन भाविनि || केच्चिद्देवा नराः केचित् दानवा यक्ष राक्षसाः | नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः || येवा पशुगणाः पक्षाः ये केचिज्जगती गताः | एते जडतराः सर्व परस्परखलात्मकाः || कुकल्पनरताः सर्वे कुमार्गदर्शन्योत्सुकाः || (प्. ७०) एतेषु कोऽपि विज्ञानमानन्दं ब्रह्मचित् सुखम् | न जानाति महादेवि कथं तत् कथयामि ते || नित्य मुक्त स्वभावो यस्त्वदर्थमिदमीरितम् | क्षमस्व देवि चार्वाङ्गि न वक्तव्यं त्वयानघे || देव्युवाच | नमस्ते शिवरूपाय नमस्ते गुरुरूपिणे | नमस्ते वरद स्वामिन् करुणा निधये नमः || नान्यदेवरता ये च ये च त्वत्पाद काङ्खिनः | तेषामेवाधिकं फलं मद्भक्तानां व्यवस्थितम् || सिंहव्याघ्रादयो ये च ये च विघ्नानुकारिणः | रिपवश्च तथा सर्वे ये चान्ये दुष्ट जन्तवः || ते सरे विअलयं यान्ति पतङ्गा इव पावके | देहं दीपशिखाकारं दृश्यते दुष्ट जन्तुभिः || केवलं प्रेमभावेन त्वयेव विभुना प्रभो | किंवा शिवमयौ भूत्वा आसने पञ्चदेवताः || पृथिवी जलतां याति जलस्तेजोमयं भवेत् | तेजो वायौ तथा वायुराकाशं तत् प्रकाशकम् || दानवा राक्षसाः सर्वे ये चान्ये देवतागणाः | राजानश्च तथा चान्धे सर्वं त्वत् पदवर्तिनः || आज्ञां भजन्ति गन्धर्वाः केषुनर्नरकिङ्कराः | यत्र यत्र भवेद्वाञ्छा तत्तत् सिद्धिः करेस्थिता | सदा तं गोपिनी वाणी भयाद् भजति निश्चला || द्वन्दभावं परित्यज्य किमन्यद्वहुर्जल्पितः || मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् | अन्ते च जायते गौरीलोके शिव इवापरः || सिद्धाभवन्तु मद्भक्ताः कथयस्व ममाग्रतः | न वक्तव्यमभक्ताय परभक्ताय पापिने || (प्. ७१) भगवानुवाच | महाचीन क्रमं देवि त्रिविधं कथितं भुवि | तदुक्तं वीरतन्ते | स्नानादि मानसं शौचं मानसः प्रणवोजपः || पूजनं मानसं दिव्यं मानसं कल्पनादिकम् | सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् | न् विशेषो दिवारात्रो न सन्ध्यायां महानिशि || वस्त्राद्यमानसं शौचं देहस्पर्शादि वारिणः | शुद्धिं नचाचरेदत्र निर्विकल्पं मनश्चरेत् || नात्र शुद्धेरपेक्षा वा नचामेध्यादि दूषणम् | य एवं चिन्तयेन्मन्त्री सर्वकाम समृद्दिदम् || गद्य पद्यमयी वाणी सभायां तस्य जायते | तस्य दर्शन मात्रेण वादिनो निष्प्रभा मता || राजानोऽपिहि दासत्वं भजन्ते किं परे जनाः || सर्वदा पूजयेद्देवीमस्नातः कृत भोजनः || महानिश्यशुचौ देशे बलिमन्त्रेण दापयेत् | स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः || जपस्थाने महाशङ्खं निवेश्योर्द्धं जपञ्चरेत् | स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राण्यचूडके || भक्ष्यं ताम्बुल मन्यांश्च भक्ष्यद्रव्यान् यथारुचीन् | मत्स मांस दधि क्षौद्र भक्ष्यद्रव्यान् यथारुचीन् || भक्ष्यान्यशेषरूपाणि भुक्ता भक्ष्यं जपेज्जपम् | दिक्काल नियमोनात्र स्थित्यादिनियमो न च || न जापकालनियमो नार्चादिषु बलिष्वपि | स्वेच्छानियमो उक्तोऽत्र महामन्त्रस्य साधने || (प्. ७२) तिथि द्रुमेण संख्याभिर्लताभिर्वेष्टितो यदि | तदा मासेन सिद्धिः स्यात् सहस्रं जपमानतः || अष्टम्याञ्च चतुर्दश्यां द्विगुणं यदि जप्यते | तदैव महती सिद्धिर्दवानामपि दुर्लभा || महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च | तत् पार्श्वे साध्यमालिख्य ताडयेद् दृष्टि वृष्टिभिः || तत्र गच्छति कामार्ता यत्र येनोपलभ्यते | महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च | यन्नाम्नादीयते देवि सोऽचिरान्मृत्युमृच्छति | महाचीनद्रुमलतामज्जाभिर्बिल्वपत्रकैः || सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः || तदा राज्यमवाप्नोति यदि स्यान पलायते | (योषिन्मूलमिदं राज्यं कुलं सर्वत्र शोभनम् || तस्यापि षोडशांशेन कलां नार्हन्तितेऽमराः | शवासनाधिकफलं लता गृह प्रवेशनम् || एवम्भुतः सदा देवि साधको भुवि दुर्लभः | ययाकयाति दृष्या वा यः कोऽपि भुवि दृश्यते | एतत् प्रकाशनाद्देवि मृत्युर्भवति नान्यथा || एतत् साधकनिन्दां वा एतन्मन्त्रस्य वा पुनः | महाभूतगनैः सार्द्धं तस्य सर्वं हराम्यहम् || योगिनी चक्र सहितैः स्वयं तद्वध कारिणी | अथ सारस्वत प्रयोगः | तदुक्तं फेत्कारीये जिह्वायां न्यसनादेव मूकोऽपि सुकविर्भवेत् | (प्. ७४) अस्यायमर्थः | जिह्वायां विद्याबुद्ध्या मुखे हस्तमारोप्य जपेदिति केचित् | बालसंस्कार दीक्षाकाले जिह्वायां लिखनमिति केचित् वस्तुतस्तु तेजोरूपां विद्यां जिह्वायां भावयेदिति न्यसनर्थः | (रहस्यार्थः) | तदुक्तं वीरतन्त्रे जिह्वायां भावयेद्यस्तु तारिणीं दीपरूपिनीम् | वृहस्पति सम स्थस्य कविता शुक्र निर्जिता (निर्मिता) || नीलतन्त्रेऽपि ब्राह्मओ मुहूर्ते उत्थाय कृत्वावश्यं सुसंयतः | जिह्वायां भावयन् विद्यां तेजोरूपां जपेत् सुधीः || अमृत स्यान्दिनी तस्य वाणी सर्वविधा भवत् | एकवीरा कल्पे प्रातर्विद्यां विभाव्येव जिह्वाग्रे दीपरूपिणीम् | मातृका सहितां विद्यां एकावृत्त्या जलं पिबेत् || जलपान विधानेन मुकोऽपि सुकविर्भवेत् | अजस्र भावनाभ्यासात् साधकः सुकृती सुधीः | कविर्वाग्मी महायोगी मुक्ति भागी न संशयः | तत्रायं क्रमः | दक्षहस्ते जलगन्दुषमादाय जलाभिषेकेन मातृकां जपेत् | तत्रेदं जपरहस्यम् | सबिन्दून स्वरान् उच्चार्य निर्विन्दू .. .. .. च्चारणवायुमवष्टभ्य परबिन्दुं प्रापयय तत्र स्थितिरूपेण एकवारं जपेत् | ततो रेचकयोगेन तथ जप्त्वा हस्तस्थित गण्डुषमानयेत् | तदनु तज्जलं पिबेदिति रहस्यार्थः | एतद् योगं वत्सरावधि कार्यम् | स्वतन्त्रतन्त्रे अब्दाच्चतुर्विधं तस्य पाण्डित्य मुपजायते | अथ रहस्यान्तरम् | तदुक्तं वीरतन्त्रे कुलयुवति सुयोनौ मन्त्रवर्णान् विलिख्य निखिल निगम मन्त्रान् सुप्त दीषादि दुष्टान् | विदित गुरुकुलान्तवाह्यवर्णा विधिशो मनु पुटित पटियान् साधयेच्छान्तचेताः || (प्. ७५) कुलपथ मनुसन्धायामितायां स्वभूमो तव जननि जनो य स्थर्पयेत् तीर्थतोयैः | अरूण तरूण पुष्पैर्गन्ध माल्यानुलेपै रचित सुरभिवेशः तद्धियाध्यायते यः || परिचरति समस्तैर्न्यास पूर्वेः प्रसिद्धै स्तव परिजनजालैर्योगिनीभिः प्रपूज्य | सुविमल कुलजातां ह्री घृणा वर्जितां यः स्वयमपि विजिताङ्गः क्षोभकृद् योगिनीनाम् | पशुरिपु कुलचक्रं संस्पृशन मध्यशाखं शुरतरू सुरनाथं शापभ्रष्टो मनुष्यः | कुलपथि कुलनाथस्तद्वयं योजयित्वा मनु पुटित विमृष्यं (ग्यं) योजयेत्तदवहिर्यः || जननि तव कलानां कोविदां कामरूपः कुमति रहित चित्तः संलिखेत् तां त्रिधारे | विगत भय विषादध्वान्त जालः सुधांशु स्तव चरणलतान्त निःसरद्धूलिजालैः | परिकलित वपुस्थद्वत्मभिर्देवपूज्यैः | परिचरति स विज्ञो मोक्षपूज्याधिपः सः || अथ मन्त्रसिद्धानुकूल महारहस्यम् | विशुद्धेस्वर महातन्त्रे श्रीदेव्युवाच | भगवन् प्रसीद देवेश सर्वप्राणिहिते रतः | येनावश्यं भवेत् सिद्धिरुपायं वद शङ्कर || ईश्वर उवाच | शृणु देवि परं ज्ञानं सर्वज्ञानोत्तमोत्तमम् | येन विज्ञानमात्रेण क्षिप्रं विद्या प्रसीदति || मूलकन्दे तु या शक्ति भुजगाकार रूपिनी | तदभ्रामार्तववातोऽयं प्राण इतुऽच्यते बुधैः || झिल्लीकाव्यक्तमधुरा कूजन्ति सततोत्थिता | गच्छन्ति ब्रह्मरन्ध्रेण प्रविशन्ति सुकेतने || (प्. ७६) यातायात क्रमैनैव तत्र कुर्यान्मनोलयम् | तेन मन्त्र शिक्षा जाता (याता) सर्वसिद्धि प्रदीपिका || तमः पूर्णे गृहे यद्वन्नः किञ्चित् प्रतिभासते | शिखा हीनास्तथा मन्त्रा न सिद्धन्ति कदाचन || शिखोपदेशः सर्वत्र गोपितः परमेश्वरि | विनायेन न सिद्धिः स्याद्वर्षकोटिशतैरपि || तस्मात् त्वयापि गिरिजे गोपनीयं प्रयत्नतः | अथ रहस्यान्तरं नीलतन्त्रे | सुप्ता निद्रायिता मत्ता विद्रावणरताः परा | समस्त दोष जालेन ग्रथिता कुलसुन्दरी || निशिचारं दिवाचारं सन्धाचारञ्च पल्लवम् | दर्भनं बीजसंयोगं भाव संयोगमेवच || ज्ञात्वा प्रबोधयेद्बीजं गुरुरत्रैवकारणम् | निशिचारमित्यादि | निशिचारं वामनासायां वायोरुदयः | तथैव दक्षिणनासायां वायोरुदयः दिवावारः | सन्धाचारः उभयनाडी प्रवाहः | तदुक्तं विष्णुसंहितायां स्वापकाले तु मन्त्राणां जपो न सुफलप्रदः | तत्रैवोक्तं स्वापकालो वामवाहः प्रबोधो दक्षिणावहः | आन्त्रेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः || प्रबोध कालं जाणीयादुभवोरूभयोरपि | कर्मणीरहिताव.वियतप्रावाः समीरिताः | आग्नेयया मनवः सौम्या भूयिष्ठेन्द्वमृताक्ऽराः || तदुक्तं स्वतन्त्रतन्त्रे त्वदात्मिका स्मृता विद्या मन्त्रा देवि, मदात्मिका | एव मन्त्रा आग्नेया विद्याः सौम्याः | अथन्य रहस्यम् | शान्तिकादौ यदि वायो र्विपरीता स्यात्तदा मन्त्रे ह्रस्वदीर्घयोगः कर्तव्यः | (प्. ७७) वामवाहो यदा वायु दीर्घानां योजनं तदा | दक्षिणस्यां यदा वायुस्तदा ह्रस्वा नियोजिता || उभयस्थौ यदा वायुस्तदा स्यादुभयात्मकः | इति विज्ञान भट्टारकचरणाः | अस्यार्थः यदा विद्यादौ दीर्घयोगः तदा वामवाहोवायुरिति जानीयात् | तथैव ह्रस्वयोगात् मन्त्रानामिति ह्रस्वयोगात् दक्षिणवहः | दीर्घयोगात् वामवहः | यदा मन्त्रविद्ययोह्रस्व दीर्घयोगस्तदा उभयोस्तओ वायुरिति | पल्लवः यथ स्वतन्त्रतन्त्रे आदौ योगो भवेदन्ते पल्लवः सम्पुट द्वयोः | एकान्तरितं प्रथनं विदर्भो द्वऽन्तरीकृतः || अस्यार्थः | आदौ योग इत्यादिना श्लोकेन मन्त्रेषु साध्यकर्माणि योजना प्रकारमुपदिशति | एतदुक्तं भवति मन्त्रविद्ययोराद्ये साध्यसाधनकर्मणां योजने योगसंज्ञा | मन्त्रविद्ययोरन्ते पूर्वोक्त योजने पल्लव इति संज्ञा | मन्त्रविद्ययोराद्यन्तयोः पूर्वोक्त योजनात् सम्पूटसंज्ञा || मन्त्रविद्ययोः प्रागुक्तानाञ्च एकैकाक्षरतोऽन्योन्य योजनात् ग्रथन इति संज्ञा | मन्त्रविद्ययोः प्रागुकानञ्च अन्योन्याक्षरद्वययोजनात् विदर्भ इति संज्ञा | स च त्रिविधः | मन्त्राक्षरद्वयान्तरे साध्याक्षरमेकं योजयेत् इत्येकप्रकारः | साध्यक्षराणां द्वयान्तरे मन्त्रादीनामेकमक्षरं योजयोदित्यपरः | मन्त्रादीनामक्षरद्वयोरन्तरे साध्यादीनां अक्षरद्वयं योजयेद्परः | एवं त्रिविधमिति सुभगानन्दपादाः | बीजसंयोगो यथा | तदुक्तं विमलातन्त्रे प्रणवो मातृकादेवी हृल्लेखेत्यमृतद्वयम् | अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिद्ध्यति || (बीजसंयोगन्तु मन्त्रादौ सप्तवार संयोगेन जपः | तदनु यथातथेति भावसंयोग इति भावनिर्णये पटले बोद्धव्यम् | एतद्रहस्याचारं पुरुषपरम् | योषितां कुलचूडामनौ नियमः पुरुषे ज्ञेयो न योषित्सु कथञ्चन | यद्वा तद्वा येन केन सर्वदा सर्वतोऽपि च || (प्. ७८) योषितां ध्यानयोगेन सिद्धयः स्युर्न संशयः | यथायस्कान्तमात्रेण गूढविद्धः शिलोच्चयः || स्वयमेव वहिर्याति यथा वा सौरतेजसा | सुर्यकान्तः स्फुटं भाति यथावा चेन्दुरश्मिभिः || चन्त्रकान्तं द्रवयति यथा वर्षासु वारिवैः | जलसेकादभितप्ताभूरसम्पूर्णा प्रवक्ष्यते || क्षुधार्तः क्षीरपाणेन यथातृप्तोऽभिजायते | कुलपुष्पप्रदानेन यथाशक्तिः प्रतुष्यति || गुरुसेवैकमात्रेण मन्त्रसिद्धिर्यथा भवेत् | महापह्यवनं ध्यात्वा यथा योगीश्वरो भवेत् | त्रिपुराध्यानमात्रेण भुक्तिर्मुक्तिर्यथा भवेत् || महादुर्गा प्रसादेन यथा सिद्धिश्वरो भवेत् | गङ्गास्मरणमात्रेण निष्पापो जायते यथा || यथाकर्षणमात्रेण शिव एव प्रजायते | योषिच्चिन्तनमात्रेण तथेयं वरदायिनी | तस्मात् सर्वप्रयत्नेन दीक्षपेन्निजकौलिकीम् || (तथाकुलचूडामनौ |) अदीक्षितकुलासङ्गात् सिद्धिहानिः पदे पदे || इति रहस्य निण ये षष्ठः पटलः || अथ सप्तमः पटलः || अथ कुमारी पूजा | ज्ञानार्णवे | हामादिकन्तु सकलं कुमारीपूजनं विना | परिपूर्णफलं नैव सफलं पूजनाद्भवेत् || एवं सकल सिद्धऽर्थं सुवासिनीं वा पूजयेत् | तदुक्तं पञ्चमक्रमे आनयेत् कन्यकां योभ्यां कुमारीम्बा सुवासिनीम् || ज्ञानार्णवे सुवासिनी मदप्रौढा संशयं त्यज पार्वति || कुमारीलक्षणं रुद्रजामले | कथयामी न सन्देहः कुमार्याः पूजनं शुभम् | तस्याः पूजन मात्रेण त्रैलोक्य पूजनं भवेत् || कुमारी त्वं हऽहं नाथ स्त्रिधा मूर्तिर्व्यवस्थिता | परा चैवापराचैव तृतीया च परापरा || यत्रकाले न किञ्चित् स्याद्देवासुरमहोरगाः | त्रैलोक्यं नत्वहं त्वञ्च तदाजाता कुमारिका || आद्या सृष्टिकरि यातुप्रत्यक्षा सातुतत्त्रिधा | उमा कला तु सा जाता सृष्टिरूपा भवार्यावे || (प्. ८०) एकवर्षा भवेत् सन्धा द्विवर्षातु सरस्वती | त्रिवर्षातु स्त्रिधा मूर्तिश्चतुर्वषातु कालिका || सुभगा पञ्चवर्षातु षड्वर्षातु उमा भवेत् | सप्तमी मालिनी साक्षात् अष्टवर्षातु कुब्जिका || नवभिः कालसङ्कर्षा दशभिश्चापराजिता || एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी || त्रयोदशे महालक्ष्मीः द्विसप्ताः पीठनायिकाः || क्षेत्रज्ञाः पञ्चदशभिः ओंस्डशे चर्चिका मता | एवं क्रमेण पूज्येत् यावत् पुष्पं न विद्यते || प्रतिपदादिपूर्णान्तं वृद्दिभेदेन पूजयेत् | महापर्वषु ता देवीर्विशेषाच्च पवित्रके || महानवम्यां देवेशि कुमारीश्च प्रपूजयेत् || पिङ्गलां पूजयेद् यस्तु षोडशैश्चैव भक्तिमान् | भक्तितः पूजयित्वा तु सर्वसम्पत्तिमान् भवेत् || पूजयेत् कुलविद्यानामेकाम्बा कुलभरवि (वः) || एवं प्रणवयोगेन चैतन्यतनुमर्चयेत् | ऐ/ ह्रि/ श्री/ ह्री हू/ एते पञ्चप्रणवाश्च | (तथा रुद्र) जामले वाणी माया तथा लक्ष्मीर्मायाकूर्च्चद्वयं ततः | एते च प्रणवा ज्ञेयाः कुमार्याः परिपूजने || चतुर्द्दशस्वरेणाढेयो भृगुविन्द्वेन्दु संयुतः | चैतन्य बीजकथितं साधकानां समृद्धिदम् || हेसौ/ चैतन्यबीजंस्यादुभौ बीजाक्षरौ शिव | एवं द्वाभ्यां त्रिभिश्चैव सप्ताष्टनवधा पुनः || (प्. ८१) नित्यक्रमेण देवेशि पूजयेद्विधिपूर्वकम् | घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रून् महोत्कटान् | व्याधयः सर्वरिष्टानि दुर्निमित्तानि संशयम् | ग्रहा यक्षाः क्षयं यान्ति भूत वेताल पन्नगाः || असुरा गुहऽकाःप्रेताः योगिनी गुहऽडाकिनी | महाभयानि दुर्भिक्षाध्युत्पातानि कुलेश्वर || दुःस्वप्नमपमृत्युञ्च अन्ये ये ये समुद्भवाः | कुमारीपूजनादेव न तस्य प्रभवन्ति हि || अनिमादीनि सिद्धानि पातालगुटिकाञ्चनम् (नाः) | प्रत्यक्षं दिव्यवेतालो भवेत् कुमारिकार्चणात् || ऐ/ ङ्कारेण जलंदेयं ह्री उकारे पाद शोधनम् | श्रीङ्कारेणार्घकं दद्यात् कूर्चबीजेन चन्दनम् || शक्तिबीजेन पुष्पानि षष्ठे धूपञ्च दापयेत् | ऐ/ ह्री/ श्री/ ह्रौ/ हे/ कुलकुमारिके हृदयाय नमः | है/ वै/ ह्र/ श्री/ ह्री/ ऐं स्वाहा शिरसे स्वाहा | अ/ ह्रि/ से/ शिखायै वषट् | ऐ/ कुल कुलवागीश्वर वागीश्वरि कवचाय हु/ | ह्री/ अस्त्राय फट् | ऐ/ सिद्धजयाय पूर्ववक्राय नमः | अ/ ऐ/ जयाय उत्तरवक्राय नमः | ऐ/ ह्री/ श्री/ कुब्जिके पश्चिम वक्राय नमः | ऐ/ कालिके दक्षिणवक्राय नमः | (प्. ८२) वाग्भवेन रुपु क्षोभं मायाबीजे गुणाष्टकम् | श्रियो बीजे श्रियोलाभः ह्री/ बीजे चारिसंक्षयः || भैरवेन तु बीजेन खगत्वममरादिभिः | कुमारिका हऽहं नाथ सदा त्वञ्च कुमारिका || अष्टोत्तर शतं वापि एकां कन्यां प्रपूजयेत् | पूजिताः प्रतिपूज्यन्ते निर्द्दहन्तऽवमानिताः || कुमारी योगिनी साक्षात् कुमारी सर्वदेवता | भूर्भुवो मूर्तिपादैका कुमारीत्रिकपूजिताः || आसुरा दुष्टनागाश्च एते दुष्टग्रहा अपि | भूत वेतालगन्धर्वा डाकिनी यक्षराक्षसाः || हृदयं देवताः सर्वा भूर्भुवस्वश्च भैरवाः | पृथिव्यादीनि सर्वानि ब्रह्माण्डं सचराचरम् || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ते तुष्टाः सर्वतुष्टाश्च यन्तु कन्यां प्रपूजयेत् || कालाग्निशिवपर्यन्तं तथा गौर्यादि संस्थितः | सप्तद्वीपा समुद्राश्च भुवनानि चतुर्दश || विधियुक्तं कुमारीच्च भोजयेच्चैक भैरवीम् | पाद्यमध्यं तथाधूपं कुङ्कुमं चन्दनं शुभम् || भक्तिभावेन संपूज्य सर्वं तस्यै निवेदयेत् | प्रदक्षिण त्रयं कुर्यात् आदिमध्ये तथान्ततः || पश्चाच्च दक्षिणा देया रजत स्वर्ण मौक्तिकैः | विवाहयेत् स्वयं कन्यां ब्रह्महत्यां विनश्यति || गोहत्याञ्चैव स्त्रीहत्यां सर्वपापं प्रणश्यति | मातरः पितरश्चैव भ्रातरश्चैव सर्वतः || ये तु यत्र पुनः सर्वे कन्यादानं प्रकल्पयेत् | भुक्ति मुक्ति फलन्त्रस्य सौभाग्यं सर्वसम्पदः || (प्. ८३) रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः | षष्टिकोटिसहस्रानि अश्वमेधफलं लभेत् || एतत् फलं लभेन्मूर्तः कन्यां यस्तु विवाहयेत् | बालुका सागरे यावत् तावदब्दं नरेश्वरः || एकैकं कुलमुद्धृत्य स्वर्गकल्पे गतोऽपि च | तावद्भुञ्जन्ति ते भोगान् यावद्भूमि दिवौकसः | कन्यादानं महादानं सर्वदानेषु चोत्तमम् | दौर्भाग्यं नश्यति क्षिप्रं सौभाग्यञ्च प्रवर्तते || राजद्वारे लभेत् पूजां राजमान्यः स्वयं नरः | सर्वेषाञ्च कुमारीञ्च पूजयेच्च प्रयत्नतः || महाभये समुत्पन्ने क्रन्यकाञ्चैव पूजयेत् | तत्क्षणात् लभते मोक्षं सत्यं सत्यं तु भैरव || इति तारारहस्ये कुमारी तत्त्वनिर्णयः सप्तमः पटलः || अष्टमः पटलः || अथेदानीं रहस्यातिरहस्य पुरश्चरणं लिख्यते | तथा च गान्धर्वे देव्युवाच | महाचीनक्रमं देव सूचितं न प्रकाशितम् | कथयस्व महादेव सर्व सिद्धिप्रदं महत् | भैरव उवाच | सर्वसिद्धिप्रदं साक्षात् सर्वदेव नमस्कृतम् | सर्व पाप हरं देवि सर्वरोग विनाशनम् || ब्रह्माविष्णुमहेशानां दिक्पालानाञ्च भाविनि | भैरवानाञ्च सर्वेषां गन्धर्वानाञ्च योगिनाम् || सुखसिद्धिप्रदं देवि सर्वेषामालयं महत् | सर्वपापहरं देवि वीरसाधनमूर्जितम् || महाबलौ महाबुद्धिर्महा साहसिकः शुचिः | महास्वच्छो दवावांश्च सर्वभूतहिते रतः | तेषां कृते महेशानि कथितं वीरसाधनम् || अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि | कृष्णपक्षे विशेषेण साधयेदनयाहितम् || भौमवारे तमिश्रायां यामे याते च भाविनि | तदर्द्धम्यन्तरे सम्यक् पूजोपकरणं बलिम् || सामिषान्नं गुडं छागं सुरापिष्टक पायसम् || नानाफलञ्च नैवेद्यं स्वस्व कल्पोक्त साधितम् || (प्. ८५) चितास्थानं समानीय सुहृद्भिः शस्नपानिभिः | समान गुण सम्पन्नैः साधको वीतभीः स्वयम् || चितालक्षणं यथा | असंस्कृता चिता ग्राहा नतु संस्कारसंयुता | चण्डालादिषु संप्राप्य केवलं शीघ्रसिद्धिदा || वीरतन्तेऽपि | शवम्वापि चिताम्वापि नीत्वा गत्वा यथासुखम् | स्नात्वा बद्ध्वा सुरक्षां वै देवताध्यानतत् परः || भीतश्चेत् साधकस्तत्र चतुर्दिशिव साधकाः | मामैमीभैरिति वाक्यै वीरायन्ति पुनः पुनः || नचेत् स्वयं केवलोऽसौ भैरवः परिकीर्तितः | वस्त्रालङ्कारभूषाद्यैर्भूषितः पूर्वसम्मुखः || अस्त्रान्तुमूलमन्त्रेण प्रोक्षणं यागभूमिषु | गुरुपादरजो ध्यात्वा गणेशं वटुकं तथा || योगिनीं मातृकाञ्चैव वामपादपुरःसरम् | ये चात्र संस्थिता देवा राक्षसाश्च भयानकाः || पिशाचाः सिद्धयक्षाश्च गन्धर्वाश्च खचरास्त्रियः || सिद्धिदास्ते भवन्तृत्र तथा च ममरक्षकाः || प्रनम्य मनुनानेन पुष्पाञ्जलित्रयं क्षिपेत् | श्मशानाधिपतिं पश्चाद् भैरवं कालभैरवम् || महाकालं यजेद् यत्नात् पूर्वादि दिक्चतुष्टये | पाद्यादिभिश्च मन्त्रज्ञो बलिं पश्चान्निवेदयेत् | शब्दबीजं ततः पश्चात् श्मशानाधिपतत् परम् || (प्. ८६) इममन्ते सामिषान्नं बलिंगृह्न ततः परम् | गृह्नापय पदद्वन्द्वं विघ्नानिवारणं ततः || कुरुसिद्धिं मे ततश्च प्रयच्छ स्वाहया युतम् | प्रणवाद्येन मनुना प्रथमो बलिरीरितः || मायान्ते भैरवात् पश्चात् भयानक ततः परम् | पूर्ववन्मनुमुद्धृत्य दक्षिणे बलिमाहरेत् || हू/मन्ते च महाकालात् पश्चात् पूर्ववदुद्धरेत् | पश्चिमे कालदेवाय प्रणवाद्येन दापयेत् || शब्दान्ते कालशब्दान्ते भैरवेति ततः परम् | श्मशानाधिप इत्येवं पूर्ववच्चौत्तरे हरेत् || चितामध्ये ततो दद्याद् बलित्रयमनुत्तमम् | कालरात्रि महाकालि कालिके घोरनिःस्वने || गृहानेमं बलिं मातर्देहि सिद्धिमनुत्तमाम् | कालिकायै बलिं दत्वा भूतनाथाय दापयेत् || शब्दान्ते भूतनाथाय श्मशानाधिप इत्यपि | प्रणवाद्येन मनुना दापयेद् बलिमुत्तमम् || हू/ शब्दान्ते सर्वगण नाथान्ते चाधिपाय च | श्मशानमस्तके दत्वा पूर्ववच्च समुद्धरेत् || ताराद्येन बलिं दत्वा पञ्चगव्येन सुन्दरि | अस्थिसंप्रोक्षणं कृत्वा पीठमन्त्रं लिखेत्ततः || भूर्जं वा वटपत्रे वा तत्र पीठेमनुं न्यसेत् || पीठमास्तीर्य तस्मिन् वै बद्धवीरासनस्ततः | वीरार्द्धेनेन देवेशि रक्षं दिक्ष्प्रकल्पयेत् || कूर्चबीजद्वयं देवि मायायुग्मादनन्तरम् | कालिके घोरदंष्ट्रे च प्रचण्डे चण्ड नायिके || (प्. ८७) दानवान् दारयप्युक्त्वा हनेतिद्वितयं ततः | शवशरीर महाविघ्नं छेदय द्वितयं ततः || द्विठान्तं वर्मशस्त्रान्तो वीरार्द्धनमनुर्मतः || अनेन मन्त्रितं लोष्ट्रं दशदिक्षु समास्तरेत् | तन्मध्ये भैरवो देवी न विघ्नैः परिभूयते || यदि प्रमादाद् देवेशि साधको भयविह्वलः | तत्र तैस्तै सुहृद्वर्गं रर्क्षितो नाभिभूयते || अर्केन्दसित वाट्यालतुलै (सूत्र)र्निर्मित वर्तिका | प्रदीपं तत्र संस्थाप्य अस्त्रं तत्र प्रपूजयेत् || हते तस्मिन् महादीपे विघ्नैश्च परिभूयते | तदधश्चास्त्रमन्त्रेन लिखेत् कुलप्रदीपिकाम् || तत्तत् कल्पोक्त विधिना भूतशुद्धाऽदिकं चरेत् | मातृकाक्षरसंयुक्तां विद्यां षड्द्ध न्यसेत् ततः || वुऽत्क्रम क्रमयोगेन तारा षोढा प्रकीर्तिता | षोढाविन्यस्तदेहस्तु साक्षाद्विश्वेश्वरो भवेत् | षोढां वा तारकम्वापि विन्यस्य पूजयेत्ततः | मन्त्रध्यान पराभूत्वा जपेन्मन्त्रमनन्य धीः || एकाक्षरो यदि भवेत् दिक्सहस्रं ततो जपेत् | द्वक्ष्यरे चाष्टसाहस्रंऽत्रऽक्षरे त्वयुतार्द्धकम् || ततः परन्तु मन्त्रज्ञो गजार्द्धक सहस्रकम् || अथवा निशायां जपमारभ्य उदयान्तं समाचरेत् | जपादौ तु बलिं दत्वा पश्चादपि बलिं हरेत् || जपान्ते जपमध्ये वा देहि देहीति भाषिते | तदापि च बलिं दद्याद् महिषम्वापि छागलम् || (प्. ८८) न दिक्षु वीक्षणं किञ्चिन्न च बन्धु समागमः | जलादिदुर्गसर्पाग्नि गजानां दंष्ट्रिनां तथा || पक्षिकीट पिशाचानां यद्यन्मनसि संस्थितम् | तत्सर्वं स्वप्नबद्वुद्धाऽभयं सर्वत्र वर्जयेत् || समाप्य साधनं देवि दक्षिणां विभवावधि | गुरुवे गुरुपत्राय तत्पत्न्यैवा प्रदापयेत् || सम्यक् सिद्धैकमन्त्रस्य नासाध्यं विद्यते क्वचित् | वहुमन्त्रवतः पुंसः का कथा शिव एव सः || यतः सर्वत्र देवेशि गुरुपूजा गरीयसी | तदग्रे मन्त्रतन्त्रानां भाषणं नैव कारयेत् || पूजिते गुरुपादे वै सर्वदेवः सुखी भवेत् | सर्वेषां मन्त्रतन्त्रानां पितासौयत् सदाशिवः || अन्यदेव सपर्यां वा अन्यदेवस्य कीर्तनम् | गुरु देवं विना देवि तदग्रे नरकं व्रजेत् || शवारूढो यदि भवेत् तद्विशेष इहोच्यते | शूष्यागारे विल्वमूले नदीतीरे चतुष्पथे || श्मशाने वा विशेषेण नीत्वा उद्धृत्य भूषयेत् | आनीय स्थापयेदादौ न्यासजालं समाचरेत् | पीठमन्त्रं समालिख्य गन्धपुष्पादिभिस्ततः || अभ्यर्चऽचासनं दत्वा रक्षामात्मनि कारयेत् | ततः शवास्ये विधिवद्देवताप्यायनं ततः || ततो जप्त्वा सर्वमन्त्रं सर्वसिद्धीश्वरो भवेत् | तारं शब्दं मृतकाय नमोऽन्तं मन्त्रमुच्चरेत् || शवस्वपनमन्त्रोऽयं शवासनमनुं ततः | मन्त्रान्ते भुवनेशीस्यात् फडन्ता मन्त्र ईरित || महानीलक्रमं देवि सर्वसिद्धिप्रदायकम् | न कस्यचित् प्रवक्तव्यं गोप्तव्यं प्रीतये मम | सर्वषां जीवहीनानां जन्तूनां वीरसाधने | ब्राह्मणं गोमयं त्यक्त्वा साधयेद्वीर साधनम् || (प्. ८९) महाशवाः प्रशस्ताः सुः प्रधान साधनं प्रिये | ब्राह्मणन्तु स्त्रियं त्यक्त्वा साधयेद्वीर साधनम् || क्षूद्राः प्रयोगकर्तॄणां प्रशस्ताः सर्वसिद्धये | श्मशाने तु पुरश्चर्या कथिता देवि दुर्लभा || अथ भैरवतन्त्रेऽपि यदुक्तं भावसर्वस्वे सर्वतन्त्रेषु गोपितम् | वीरसिद्धि विधानन्तु देवदेवेन शम्भुना || यस्य विज्ञानमात्रेन मन्दभाग्योऽपि सिध्यति | अहोरात्रेण कालेन हेलया साधकोत्तमः || मन्त्रं नीत्वा गुरोः पार्श्वं गुरुभक्ति परायणः | मन्त्रश्रोत्रास्यनयन प्राणान् विज्ञाय यत्नतः || मन्त्रञ्च कीलकं ज्ञात्वा कुर्यान्मन्त्रपुरस्क्रियाम् | पूरश्ररण सम्पन्नो वीरसिद्धिं समाचरेत् || तदुक्तं स्वच्छन्द भैरवेऽपि सम्यक् परिश्रमेणापि नैवसिद्धिः समीहिता | जायते तत्र कर्तव्यं साधकै वीरसाधनम् || पूत्रदारधनस्नेह लोभ मोहविवर्जितः | मन्त्रं वा साधयिष्यामि देहम्बा पातयाम्यहम् || प्रतिज्ञामीदृशीं कृत्वा बलिद्रव्यानि चिन्तयेत् | यस्यमन्त्रस्य यद्द्रव्यं तत्तद् ग्राहऽञ्च साधकैः || शवलक्षणं यथा | सर्वेषां जीवहीनानां जन्तुनां वीरसाधने | ब्रह्मणं गोशवं त्यक्त्वा साधयेद्वीरसाधनम् || महाशवाः प्रशस्ताः सुः प्रधाने वीरसाधने | ब्राह्मणन्तु स्त्रियं त्यक्त्वा साधयेद्वीरसाधनम् || ततः प्रयोगकर्तॄणां प्रशस्ताः सर्वसिद्धये | ऊर्द्धं द्विवर्षाद् यदि वा पञ्च वा तरुणं यदि || (प्. ९०) सप्तमाष्टममासीयं गर्भजं यदिवा शवम् | चाण्डालं चाभिभूतम्बा शीघ्रसिद्धिफलप्रदम् || इति क्षेत्रं डामरे आ भैरवतन्त्रेऽपि यष्टिप्रभृतिभिर्विद्धं चाभिभूतं जलेमृतम् | (शवमानीय कर्तव्यं नाहरेत् स्वेच्छया मृतम् || स्त्रीवश्य पतितास्पृश्य नयवर्जं हितं नवम् | अव्यक्त लिङ्गं कुष्ठिम्वा विप्रभिन्नं शवं हरेत् || न दुर्भिक्षमृतं वृद्दं न पर्युषितमेव वा | स्त्रीजनञ्चेद्वशं रूपं सर्वथा परिवर्जयेत् || इति शवलक्षणम् | अथस्थान निर्नयो भैरवतन्त्रे | शुण्यागारे विल्यमूले नदीतीरे चतुष्पथे || श्मशाने वा विशेषेण नीत्वा चोद्धृत्य भूषयेत् | अन्यत्रापि | शुण्यागारमरष्यम्बा नीत्वोद्वर्त विभूषयेत् || संस्थाप्य कुश शययायां पुरुषं दिव्यरूपिणम् | तदुक्तं एकवीरा कल्पे आनीय स्नापयेदादौ न्यासजालं समाचयेत् | पीठमन्त्रं समालिख्य गन्धपुष्पादिर्भस्ततः || अभ्यर्चऽचासनं दत्वा रक्षामत्मनि कारयेत् | ततः शवास्ये विधिवद्देवताप्यायनं ततः || ततो जप्त्वा सर्वमन्त्रं सर्वसिद्धिश्वरो भवेत् | तारं शब्दं मृतकायनमोऽन्ते मन्त्रमुच्चरेत् || शवस्नपनमन्त्रोऽयं शवासनमनुं ततः | तारान्ते भुवनेशी स्यात् फडन्तो मन्त्र ईरितः || मत्स्य सूक्तेऽपि ततः शवं क्षालयित्वा स्नापयेच्च प्रयत्नतः | यदि रक्ताक्तकस्तिष्ठेद् भैरवाच्च भयं भवेत् || एलालवङ्ग कर्पूरजाती खदिर सार्द्रकैः | ताम्बुलञ्च मुखे क्षिप्त्वा शवं कुर्यादधो मुखम् || स्नापयित्वा च तत्पृष्ठे चन्दनेन विलेपयेत् | वागुमूलान्त कटण्तं चतुरस्रं विधाय च || (प्. ९१) मध्ये पद्मं चतुर्द्वारं दलाष्टक समन्वितम् | ततश्चैलेयमाजिनं कम्बलान्तरितं न्यसेत् || पूजाद्रव्यं सन्निधौच दूरे चोत्तरसाधकम् | संस्थाप्य शवमभ्यर्चऽतत्राश्वारोहनं विशेत् || कुशान् पादतले दत्वा शकेशान् प्रसार्य च | दृढं निवद्धऽजुटिकां तञ्च देवस्वरूपिणम् || तस्यां देवं सुसंपूज्य पठेदुथ्याय सम्मुखे | मद्वशे भव देवेश वीरसिद्धिकृतास्पदे | पट्टसूत्रस्य रज्जुकेन चरणौ बन्धयेद्दृढम् || अ/ भीम भीरु भयाभाव भाव्य लोचन भावुक | त्राहि मां देवदेश शवानामधिपाधिप || इति पादतले तस्य त्रिकोनं यन्त्रमुल्लिखेत् | तेनोत्थातुं न शक्नोति शवस्तु निश्चलो भवेत् || उप्विश्य पुनस्तत्र बाहु निःसार्य पादयोः | हस्तयोः कुशमास्तीर्य पादौ तत्र निधापयेत् || त्तष्ठौ तु संपुटीकृत्य स्थिरचित्तः स्थिरेन्द्रियः | सदा देवं (वीं) हृदिध्यात्वा मौनी जपमथाचरेत् || चलासनाद्भयं नास्ति भयेजाते वदेत्ततः | यत्प्रार्थय बलित्वेन दातव्यं कुञ्जरादिकम् || दिनान्तरे रुद्वस्यामि स्वनाम कथयस्व मे | इत्युक्त्वा संस्कृतोक्ता च निर्भयस्तु पुनर्जपेत् || ततश्चेन्मधुरै वक्ति वक्तव्यं लीलया नरैः|| (न वै) || ततः सत्यं कारयित्वा वरं तत्प्रार्थयेन्नरः | यदि सत्यं न करोति वरं वा न प्रयच्छति || (प्. ९२) तदा पुनर्जपेद्धीमान् एकाग्र यतमानसः | सत्ये कृते वरं लब्धा सं त्यजेत्तु जपादिकम् || फलं जातमिति ज्ञात्वा जुटिकां मोचयेत्तदा | शवं प्रक्षाल्य संस्थाप्य मोचयेत् पादवन्दनम् || पादचक्रं मोचयित्वा पूजाद्रव्यं जले क्षिपेत् | शवं जलेऽप गर्ते वा निःक्षिप्य स्नानमाचरेत् || ततस्तु स्वगृहं गत्वा बलिं दद्याद्दिनान्तरे | (अग्निमरात्रौ येन याचितोऽहं बलिं प्रियम् | तेन गृह्नन्तु मयादत्ताअमिमं बलिम् || अथ ये यांषितानश्वान् नरकुञ्जर शूकरान् | दत्वा पिष्टमयान् तेन कर्तव्यं समुपोषणम् || परेह्नि नित्यमाचर्य पञ्चगव्यं पिबेत्ततः | ब्राह्मणान् भोजयेत्तत्र पञ्चविंशति संख्यकान् || सप्त पञ्च विहीनान् वा क्रमेनैव दशावधि | ततः स्नात्वा तु भुक्त्वा च विसेदुत्तमें स्थले || यदि न स्याद् विप्रज्योज्यं तदा निर्द्धनतां व्रजेत् | तेन चेन्निर्धनत्वं स्यादुमा देवी प्रकुप्यति || त्रिरात्रं वाथ षडरा ए नवरात्रन्तु गोपयेत् | स्त्रीशययां यदि गच्छेद्वै तदाव्याधिं विनिर्दिशेत् || गीत श्रुत्वापि वधिरो निश्रक्षुर्नृत्यदर्शनात् | यदि वक्ति दिने वाक्यं तदास्य मूकता भवेत् || पञ्चदशदिनं यावत् देहे देवस्य संस्थितिः || न स्वीकुर्याद् गन्धपुष्पं बहिर्याति यदा यदा | तदा वस्त्रं परित्यज्य गृह्नीयाद्वसनान्तरम् || (प्. ९३) गो ब्राह्मण विनिन्दाञ्च न च कुर्यात् कदाचन | दुर्जनं पतितादींश्च न स्पृशेच्च कदाचन | देव गोब्राह्मणादींश्च् प्रत्यहं संस्पृशेच्छुचिः | प्रायर्नित्य क्रियान्ते च विल्वपत्रोदकं पिबेत् || ततः स्नात्वा तु गङ्गायां प्राप्ते षोडशवासरे | स्वाहान्तं मन्त्रमुच्चर्य तर्पनान्ते नमः पदम् || एवं शतत्रयादूर्द्धं देवान्वै तर्पयेज्जलैः| स्नानतर्पण शुण्यस्य न स्याद्देवस्य तर्पनम् | इत्यनेन विधानेन सिद्धिं प्राप्नोति निश्चितम् || इह भुक्त्वा वरान् भोगानन्तेथाति परं पदम् | इति वीरसाधनम् | अथवान्य प्रकारेण पुरश्चरण मिष्यते | कुजे वा शनिवारे वा नरमुण्डं समाहृतम् || पञ्चगव्य समालिप्तं चन्दनाद्यैर्विशेषतः | निःक्षिप्य भूमौ हस्तार्द्धमानतः कानने घने || तत्र तद्दिवसे रात्रौ सहस्रं यदि साधकः | एकाकी प्रजपेन्मन्त्रं सभवेत् कल्पपादपः || अथवा शवमानीय तेनैव परिखन्य च | तद्दिनात् तद्दिनं यावत् तावदष्टोत्तरंसतम् || सभवेत् सर्वसिद्धीशो नात्र कार्या विचारणा | अथवा | अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोभयोरपि || सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् | तावज्जप्त्वा निरतङ्कः सर्वसिद्धिश्वरो भवेत् || (प्. ९४) अथवा | चन्द्रसूर्यग्रहे चैव शुचिः पूर्वमुपोषितः | नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः || ग्रहणादि विमोक्षान्तं जपेन्मन्त्रं समाहितः | अनन्तरं दशांशेन क्रमाद्धोमादिकञ्चरेत् || एवं कृते सिद्धमन्त्रः प्रयोगानपि साधयेत् | सूर्यग्रहण कालाद्धि नान्यः कालः प्रशस्यते || अत्र यद्यत्कृतं सर्वमनन्त फलदं भवेत् | अथवा शरत् काले चतुर्थ्यादि नवम्यन्तं विशेषतः || भक्तितः पूजयित्वा तु रात्रौ तावत् सहस्रकम् | अष्टम्यादि नवम्यन्तमुपवासपरो भवेत् | अन्यत्र गुरुमार्गस्य लङ्घनं नैव कारयेत् || अथवा अष्टमी सन्दिवेलाया मष्टोत्तरलतागृहम् | प्रविश्य मन्त्री विधिवत्ताः समभ्यर्चऽयत्नतः || पूर्वोक्त कल्पमासाद्य प्रजादकमथाचरेत् | केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम् || तासाञ्च पत्रमूले तु उल्का संगृहऽमस्तके | महासिद्धिर्भवेत् सद्यो लतादर्शन पूजनात् || अथवा कुन्ताकृष्ति लतागात्रे लिखित्वा मन्त्रमुत्तमम् | संपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् || किञ्चिज्जप्तं मनुं नीत्वा देवता भाव तत परः | तां प्रपूज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः || प्रातः स्त्रीभ्यो बलिं दत्वा मन्त्रासिद्धिर्ण संशयः | अथवा भूमिपुत्र समायुक्ता अमावस्या शुभप्रदा || भाद्रे पुं ऋक्षयोगेन तस्यां वीरवरोत्तमः | विष्णुकान्तां समानीय निःक्षिपेन्मृतभूमिषु || (प्. ९५) तत्र तां साधितां कृत्वा तद्दिने मृतहट्टके | तत्र प्रसारितं मत्स्यमेकमूल्येन दापयेत् || तज्जलेनाभिषेकस्तु पूर्वच्च शवोपरि | साधितां विजयां तस्य उदरे मुख्वर्त्मना | क्षिप्त्वा तत्रैव तन्मत्स्यमञ्जनाञ्चितलोचनः | तिलकी पूर्वत्रव्येण उत्थाय च मनुं जपेत् || स्वयमायाति भगवान लण्डाडाङ्कित भैरवः | चरतीतस्तुतो वीरस्तं विलोक्य जपेन्मनुम् || यदि भाग्यवशाद्देवि लण्डडस्तत्र लभ्यते | तदा स्वयं भैरवोऽसौ स्वयं वीरेश्वरो भवेत् || अथवा मत्स्य मानीयदेवेशि निःक्षिप्य पितृकानने | तदा सकृज्जपित्वा च देवता मेलनं भवेत् || अथवा निशायां मृतहट्टे च उन्मत्तानन्दभरवः | दिग्वासा विमली भस्मभूषणो मुक्त केशकः || कपाली खड्गहस्तश्च जेपेन्मातृकया यदि | तदातस्य महादेवि सर्वसिद्धिः करेस्थिता || डाकिनीं योगिनीम्मापि अन्यां वा भूतलाङ्गनाम् | तत्र चानीय सम्पूज्य सर्वसिद्धिश्वरो भवेत् || अथवा गुरुमानीय संस्थाप्य देववत पूजयेद् विभुम् | वस्त्रालङ्कार हेमाद्यैः स्वयं सन्तोष्य सद्गुरुम् || तत्सुतं तत्सुताञ्चैव पत्नीञ्चैव विशेषतः | पूजयित्वा मनुं जप्त्वा सर्वसिद्धिश्वरो भवेत् || अथवा सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च | केवलं देवभावेन जप्त्वा सिद्धिश्वरो भवेत् || गुरुध्यानं यथा (नीलतन्त्रे) सहस्रदले पङ्कजे विमल शीतरश्मिप्रभं | वराभय कराम्बुजं विमल गन्धपुष्पाम्बरम् || प्रसन्न वदनेक्षणं सकलदेवतारुपिणम् | स्मरेछिरसि हंसगं तदभिधानपूर्वं गुरुम् || (प्. ९६) गुरवे दक्षिणां दद्याद् यथा विभवविस्तरैः | गुरो रनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिध्यति || गुरुं विलङ्घशास्त्रेऽस्मिन् नाधिकारः सुरैरपि | एवञ्च मन्त्रतन्त्राणां प्रयोगः क्रियते यदि || गुरुवक्त्रं विना देवि सिद्धिहानिः प्रजायते || एतत् तन्त्रञ्च मन्त्रञ्च शिष्येभ्योऽपि न दर्शयेत् | अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || अथ पुरश्चरण व्यतिरेकेण मन्त्रसिद्धि प्रकारो लिख्यते | तदुक्तं वीरतन्त्रे देव्युवाच || शम्भो सर्वविचारवर्यचतुरः सर्वांगमानां निधि स्त्वं वेदः सदसत्फैक निपुनः स्त्वं ब्रह्मवेद्यो नवा | देवोऽजः सृष्टिपारे प्रभवति खलुयुष्मादृशः कार्यरूपं तन्नैवास्ति न जायते ममपुनर्वाच्यं विचार्यन्तरो || यदुक्तं भवता तन्त्रं तत् सर्व दुःखसिद्धिदम् | विना दुःखैर्विना पापैस्तत्सिद्धिं व्रुहि सत्वरम् || भगवान् उवाच | विना दुःखैर्विना पापैर्विना पुरस्क्रियादिभिः | सिद्धिमन्त्रं प्रवक्ष्यामि शृणु पार्वति सादरम् || येनानुष्ठित मात्रेण भोगेन मोक्षमाप्नुयात् | न वक्त्रमुचितं लोके तव स्नेहादिहोच्यते || अथातः संप्रवक्ष्यामि गुरुसिद्धिपरःसरम् | गोपितं कोटितन्त्रेषु ईदानीं प्रकटीकृतम् || रहस्यं मन्त्रसिद्धेस्तु पुरश्चर्यादिकं विना | एतत् प्रकाशनाल्लोके महाहानिः पदे पदे || शिवशिखि सितभानुं पञ्चमान्तऽस्वराढ्यं द्वितयमिदमपूर्वं बीजमुग्रप्रमायाः | क्षणमपि खमनीनां मण्डलान्तर्विभाव्य क्षपयति दुरदृष्टं वादिराड् जायतेसः || १ || (प्. ९७) स जयति रिपुवर्गान् वादिराजो विवादे रमयति रमणीना चित्तचौरः स्थिरायुः | कवयति कविराजैरप्यदृष्टं सुकाव्यं मधुमतिरपि हेयाः किं पुनः सिद्धिसंघाः ||२|| कुलयुवतिषु योनौ मन्त्रवर्णान् विलिख्य निखिलनिगम मन्त्रान् सुप्त दोषादिदुष्टान | विदित गुरुकुलान्तर्वाहऽवर्त्माविधिज्ञो मनुपुटित पटियान् साधयेत् शान्तचेताः ||३|| कुलपथ मनुसन्धायामितायां स्वभूमौ तव जननि जनीयस्तर्पयेत् तीर्थः तोयैः | अरुणतर सुपुष्पैर्गन्धमाल्यानुलेपै रचितयुवतिवेशं (शः) तद्धिया ध्यायते सः ||४|| परिचरति समस्तैर्न्यासपूर्वैः (जालैः) प्रसिद्धै स्तव परिजनजालैर्योनिचक्रे प्रपूज्य | सुविमलकुलजातां ह्री घृणावर्जितां यः स्वयमपि विजिताङ्गः क्षोहकृद् योगिनीनाम् ||५|| पशुरिपुकुलचक्रं संस्पृशन् मध्यशाखं सुरतरु सुरनाथः शापभ्रष्टो मनुष्यः | कुलपथि कुलनाथस्तद्दयं योजयित्वा मनुपुटित विमृश्यं योजयेत् तद्वहिर्यः ||६|| जननि तव कलानां कोविदां कामरूपः कुमति रहित चित्तः संलिखेत् तां त्रिधारे | विगत भय विषादध्वान्तजालः सुधांशु स्तव चरणतलान्तर्निःसरद्धुलि जालैः ||७|| परिकलित वपुस्तद्वर्त्मभिर्देवपूज्यैः परिचरति स विज्ञो मोक्षचर्याधिपः सः | (प्. ९८) मदनमद बधूनां बीजमुद्धृत्य शक्तिं तदनु कठिन बीजं लोकधात्रीं तदन्तः ||८|| यदि जपति त्वदन्तर्भाव मासध्ये सद्यः सुरनगरगतैस्तैःसिद्धिघृन्दैः स पूज्यः | शिवभृगु मद पृथ्वी शक्तियुक्तं सुसिद्धं हरिहर चतुरास्य स्वस्वभूति प्रसूतम् ||९|| परम रस रसज्ञः क्षोभकृत् कामिनीनां अधिपतिरपि वाचां श्रीपतिः सार्वभौमः | मृगुमद कठिनाधः कामबीजं तदग्रे भुवनभय विनाश क्षोभिनीं योजयित्वा ||१०|| यदिजपति सकृद्वा चिन्तयेद् वीरसिंहः कुलयुवतिकुलान्तः क्षोभकृत् कामरूपात् | मद वरुणतलाधः शक्तिबीजं नियोज्य स्महर हरिरूपी कामरूपः कुवेरः ||११|| रिपुकुल हरिणाक्षी लोचनाम्भोज विप्रुट विपुलजल निषेकात् खण्डितान्तोत्यतापः | शिवभृगु भृगुमूलं लोभमूलं समूलं भजति यदिगूरूणां वर्त्ममूलं विमृष्य ||१२|| निधिपतिरपि नाथो गीष्पतिः क्षुद्रचेताः | यदि भवति तदेतन्मुख्य मुर्वौपतित्वम् || वरुण रण विवर्जंऽघ्राणमेकं विवर्जं तदुपरि मृगचिह्नं द्वन्द्वमेतद्भवान्याः ||१३|| निखिलमनुवराणां मोक्षदानैकदत्रः सदसद समधर्माक्षेमकृन्मन्त्रराजः | अनलशिरसि धर्मं रादिवर्जंसचन्द्रं भवसमनययुक्तं बीजमेत्द्भवान्याः ||१४|| त्रितयमपरिमाणं वक्तुमीशो महेशः किमिह कमलजन्मा जन्मधारासहस्रैः | इह भजति य एनं मन्त्रराजं सुभाग्यै भवति जननि युषम्त् पादपद्मोपभक्ता ||१५|| (प्. ९९) त्याजसि परप्रमांसं मादृशं क्वापिकाले न खलु वपुरन्र्घ्यं तस्य काचित् कदाचित् | विहित गुरुमुखाद्वा वालकाद्वा पशोर्वा लिखितमपि सुवुद्धा प्राप्य कस्मादकस्मात् ||१३|| स्मररिपु पुरपारे मोक्षपूर्याश्च पारे परम पद विलीनः सर्वसौभाग्यभोगैः | अनलपुरविभागे कालिकारन्ध्रबीजं तदपि यदि विदध्याद्दिगयुतं दन्तवर्नम् ||१७|| नयनयुतलकारं मस्तके नामयुक्तम् तदनु विकटदंष्ट्रासोत्कटं बीजमुक्तम् | यदि जपति समस्तं गुहऽगुह.आतिगुहं त्रिजगति किमिहास्ति क्लेशलभ्यं कथञ्चित् ||१८|| क्रम पठितमपूर्वं सर्वमेवानुरून्धं मनुमपरमवाच्यं सर्वमध्यस्थरूपम् | भजति यदिचिदानन्दरूपो नरोऽसौ ||१९|| इति ते कथितं सर्वं रहस्य परमाद्भूतम् | यथानुक्रमतालोके किं न साधयति योगिराट् ||२०|| (प्. १००) अथैषां टीका || अथ महाचीनक्रमाणां सत्पुरुषाणां अष्टादश पद्येन पज्झ्टिकया तेषामाचारः उच्यते | समस्ततन्त्रं श्रुत्वा निर्वृतिमनाकलयय स्नतिव्याजेन जिज्ञासितुं भगवतीत्याह शम्भो सर्वविचारे इत्यादि | हे शम्भो सर्वविचारेषु प्रधानः चतुरः समर्थः | यः सर्वत्र चतुरः स किमागमज्ञः इत्याह सर्वागमानां निधिरिति | भवत्याहं कथं ज्ञात इत्यादि वेद इति नित्य इति ज्ञायते | नहि फलदाता इत्याह सदसत्फलैकनिपुन इति शास्ता इति यावत् | शास्तास्त शम्भु स्तत् किमित्याह ब्रह्मवेद्यः | भवद्वर्णनीत् कर्षादिकल्ं ब्रह्मगा ज्ञायते नवा | अतएव सर्वोतकृष्टत्वं अहमनुजाने | तत्कति न सन्ति | न तव मनोरथं वर्णयितुं शक्या इति भगवद् द्विपारे यदस्ति तन्नैवास्ति | शशशृङ्गन्यायेनालीकत्यात् | यद्यपि जानामि तथापि अस्मत् स्तुत्याऽलं अतो नहि कर्ता इत्याह अस्मादृशो यतो न जायते कार्यरूपं त्वया अनुक्रियते | धर्मिग्राहाकप्रमाणेन भगवतः सृष्टिस्थिति संहार कर्तृत्वात् | अतत्रवाह साधारणगुरो मम वचनीयं विचार्याज्ञां विधेहि | ननु स्तुत्या किमिति चेत्, गुरुं प्रणम्य जिज्ञासा कार्या वै नान्यथा बुधैः | गुरुणापि तथाविध भक्तियुक्ताय शिष्याय कथितव्यम् | तथाच वीरतन्त्रे शिष्याय भक्तियुक्ताय शान्तायैव प्रकाशयेदिति श्रवणात् | ननु सर्वतन्त्रं त्वयि प्रकाशित मतो जिज्ञासावसर इत्याह यदुक्तमिति | हे भगवन् यदुक्तं तत् तथैव साध्यं दुःखं विना यथा निर्वहति तथा क्रियताम् ननु बगुतर दुःखं विना परदारादिसुखं विद्यते इत्याशङ्क्याह विना पापैरिति | तच्च बहुलद्वेषविषयम् || अवसरसङ्गत्या महेशेनोच्यते विनादुःखैरिति श्लोकार्थः स्फुट एव | साधकानां श्रद्धाभिज्ञानार्थं प्ररोचयति | यतः प्ररोचना प्रवृत्तवुपयुज्यते | प्रवृत्ति कारनीभूतत्वेन काम्ये अधिकारि विशेषण ज्ञापयति येनेति | अनुष्ठान मात्रेण महाभोगो भवति | ननु भोगस्य मोक्षप्रतिबन्धकत्वात् मोक्षार्थिन स्तत्राप्रवृत्तिः स्यादित्यशङ्क्य आह भोगेन मोक्षमाप्नुयादिति | अत एव विद्यायाः सर्वोत्कृष्टत्वं सूचितम् | तथा च वीरतन्त्रे (प्. १०१) यत्रास्ति भोगो नच तत्र मोक्षः यत्रास्ति मोक्षो न च तत्र भोगः | शिवा पदाम्भोजयुगार्चितानां भोगश्च मोक्षश्च करस्थ एव || ननु अमुष्यहेतोर्निजसिद्धये चेत्यादि निन्दार्थ वाह श्रवनात् महाप्रकाशः कथं क्रियते इत्याह तेवस्नेहादिति |) यद्यपि क्रूरत्वात् लोके दुष्टलोके यत् वक्तुं नोचितं तथापि भवद्भक्तुऽद्रेकात् प्रकाश्यते | तथाच शिष्यायभक्तियुक्ताय साधकाय प्रकाशयेदिति | प्रश्नानन्तरं मन्त्रमुद्धरति | शिवः हः, शिखी रेफः, सितभानुच्चन्द्रखण्डः, पञ्चमान्तऽस्वरः ऊः ते द्रु/मिति सिद्धम् | अपूर्वमुत्कृष्टं अथवा अनादिपरिप्राप्तम् | अथवा नास्ति पूर्वो महदुत कृष्टं यस्मादिति | उग्रप्रभायाः नवदुर्गायाः | खमनीनां सूर्याणां मण्डलमध्ये ध्यात्वा दुरदृष्टं क्षपयति नाशयतीत्यर्थः | वादिश्रेष्टश्च भवति ||१|| वैरिसमूहं जयति वादिसमूहं विवादे लघुस्वरूपं करोति | रमणीनां चित्तं हरति | दीर्घजीवी भवति | अदृष्टमपि सुकाव्यं छायारहितञ्च करोति | मधुमति रपि हेया | अनिमादयश्च के तावद् वराका इति प्रकटार्थः | गुप्तार्थस्तु षट्चक्रं भित्त्वा सर्वोर्द्धे खमणीनां चन्द्रसूर्याणां मध्ये आकाशपद्मे (थे) कुण्डलिनीं ध्यात्वा एतद्वीजरूपां तां चन्द्रामृतन स्नापयित्वा ईश्वरेण शिवेन सह क्रिडां कारायित्वा मूलाधारमानीय गुरुमुखप्रथित तत्तत् कर्मणा (वर्त्मना) उक्तफलेन फली भवति | प्रकारान्तरेण योनिवन्दोऽपि कथितः ||२|| ननु योनिरन्धासमर्थस्तदा किं स्यादित्याह कुलयुवतीति | कुलयुवतीषु योनौ कुण्डलिनीयोनौ सुषुम्नामध्यभागे गान्धारीमध्ये नानाविध दोष जालग्रस्त मन्त्रवर्णान् विचिन्त्य गुरुकुलानां कौटिल्यशूण्यतां ज्ञात्वा मनुपुटित पटीयान् बीजद्वयमध्ये मन्त्रस्य प्रत्येकवर्णं विचिन्त्य शान्तचेता गुरुभक्तः साधयेत् | एवं कृते दुष्टमन्त्रोऽपि सिध्यतीति गुप्तार्थः | अतिगुप्तार्थस्तु कुलयुवति कुलागारे बीजद्वयं विलिख्य ततो मन्त्रस्यादिवर्णं ततो बीजद्वितयं एवं क्रमेण सर्ववर्णान् विलिख्य संस्कारः कार्यः | तदा सिध्यति | गुरुर्यदि दुरात्मा स्वयमपि च तथा चेन्न तथा | अत एव गुरोर्वाह्यान्तर चेष्टां ज्ञात्वा तथा कार्यम् | तथा च अन्तः शाक्तो वहिः शैव इत्यादि | तथाचोत्तरतन्त्रे (प्. १०२) नालोक्य कुलजं वर्त्म देवताराधनं तथा | यः करोति न तत् तस्य बन्ध्यायाः सङ्गमो यथा || विधिज्ञः वक्ष्यमान विधिज्ञ इत्यर्थः | यदि शुद्धवर्त्मा तदा पुरोविधिर्न चेदपरा सा अग्रे वक्तव्या | ननु विधौ परदाराद्यासङ्ग निन्दार्थ वादश्रवनात् वलवदानिष्टा नुबन्धित्वे कुतो विधिप्रवृत्तिः इति चेन्न तथैव श्रुतिबोधनात् | ननू श्येनेनाभिचरण् यजेदित्यत्र श्रुति बोधनात् कुतो विज्ञाने प्रवृत्तिरिति चेत् तत्र तत्वेन निन्दार्थवादश्रवनादित्यवेहि अत्र तु सामान्यतो निषेधः विशेषश्रुत्या बाधते | तथा च धियामीत् सर्गिकं प्रामाण्यं विशेषेनोपपद्यते | यथा मा हिं स्यात् सर्व भूताणि | विशेषस्तु दैक्षं पशुमालभेदिति तद्वारकम् | अन्यथा अश्वमेधादावपि अननुष्ठान प्रसङ्गः | केचित्तु यदि श्येनवधे बलवद्वेषाविषयं ज्ञानं जन्यते तदा श्येनयागः कार्यः | तद्वदिहापि | यद्यनेकवर्त्मना कर्तुमिच्छति तदा तदसंसर्गः कार्यः | अन्यथा गुरुवर्त्मान्वेषनेनास्य सर्वत्र शुद्धवर्त्मत्वात् | तत् पशुप्रणपितम् | तत्र तत्वेन निन्दार्थवाद श्रवणात् एतदुक्तम् | अत्र तु न तथा | अन्यथा विहित नववधादावननुष्ठान प्रसङ्गः | यत्तु गुरुवर्त्मान्वेषनं तत्तुकुलाचार ज्ञापनार्थम् | वचनेन तथा बोधनात् | यथा केषाञ्चित् षष्ठदिवसे सुतिका पूजा देषाञ्चिदेकविंशतिदिवसे इत्यत्र दोषाभावे कुलक्रमलङ्घनभिया तद्विपर्ययः तद्वत् अत्रापीति विचार्य महेशहृदयाकूतव्याख्यान प्ररोहं नान्यथा वक्तव्यः शाक्तशैव वैष्णवचरनेः ||३|| ननू तद्विधानं किं भवेदित्याह कूलपथेत्यादि | हे मातः तत्वेन कूलथं ज्ञात्वा अमितायां सर्वोत्कृष्ट्वत्वात् स्वभूमौ सहस्रारे तीर्थतोयैरमृत वृष्टिभिः यं स्तर्पनं करोति तुष्टिमारचयति मानसगन्धादिभिरव्यर्च्य युवती रूपं ध्यात्वा यातायात क्रमेन कुलकुण्डलिनीं वक्ष्यमान क्रमेण चक्रं निर्माय गन्धादिभिः संपूज्य देवद्रव्येन यदि तर्पनं करोति तदा वक्ष्यमान फलभाग् भवति | देवद्रव्यन्तु कुब्जिकायां ########### END OF FILE #######