#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00094 Uniform title: tāratantra Description: Notes: Transcribed by the staff of Muktabodha under the supervision of mark S. G. Dyczkowski. Revision 0: May 11, 2006 Publisher : Reprinted by Bani Prakashan 1983 of original edition prior t Publication year : 1940 Publication city : Publication country : India #################################################### || तारातन्त्रम् || प्रथमः पटलः | ओं नम स्तारिन्यै * || कैलासशिखरे रम्ये देवदेवं महेश्वरम् | पप्रच्छ भैरवी देवी शयनीये सुखोषिता || १/१ || पुरा यौ कथितौ बुद्धवशिष्ठौ कुलभैरवौ | तेन मन्त्रेण देवेश ! सिद्धौ तौ वद मे प्रभो ! || १/२ || भैरव उवाच | क्ष एव परमो देवो बुद्धरूपी जनार्द्दनः | उग्रतारा - महामन्त्रं पञ्चार्णं परिजप्य च || १/३ || सृष्ट्यादिकर्मकर्ता च अजरामरतां ययौ | वशिष्ठोप्येन माराध्य नक्षत्रलोकमागतः || १/४ || प्. २) योगसिद्धीश्वरो भूत्वा द्योततेऽद्यापि वल्लभे ! | तदुद्धारमतं वक्ष्ये यतः सर्वेश्वरो भवेत् || १/५ || प्रणवं पूर्व्वमुद्धृत्य हृल्लेखा कुलकामिनी | कूर्चमस्त्रं मन्त्रराजो देवद्रुम इवापरः || १/६ || अनेनैव समाराध्य सर्व्वेशोऽभूत् सदाशिवः | दुर्व्वासाः - व्यास - वाल्मीकि - भारद्वाजादिकः कविः || १/७ || भीमसेनार्ज्जुनाद्यास्ते क्षत्रिया जयिनोऽभवन् | इति ते कथितं देवि ! रहस्यं परमोत्तमम् || १/८ || गोपनीयं प्रयत्नेन यदि स्नेहोऽस्ति मां प्रति || १/९ || भैरव्युवाच | त्वत्प्रसादादहं देव ! श्रुतो मन्त्रः सुरद्रुमः | बौद्धदेवेन यच्चीर्णं प्रातः कृत्यं वदस्व मे || १/१० || भैरव उवाच | प्रातःकृत्यं प्रवक्ष्यामि येन सिद्धो भवेन्नरः | उत्तरप्रहरे मन्त्री सहस्रदलपङ्कजे || १/११ || कर्णिकान्तर्गते पीठे चन्द्रमण्डलसन्निधौ | शुद्धस्फटिकसङ्काशं शुद्धक्षौमविराजितम् || १/१२ || वराभयकरं शान्तं प्रसन्नवदनेक्षणम् | गन्धपुष्पादिभूषाढ्यं दयिताशक्त मानसम् || १/१३ || प्. ३) इति ध्यात्वा तु गुरवे पाद्याद्यै र्म्मानसै र्यजेत् | त्रिधा वा सप्तधा वापि दशधा प्रजपेन्मनुम् || १/१४ || वाग्भवं पूर्व्वमुच्चार्यय गुरुं तद्दयिताभिधाम् | श्रीपादुकां पूजयामि नमो मन्त्रो गुरुप्रियः || १/१५ || गुह्यातिमन्त्रतो मन्त्री समर्प्य स्तवमाचरेत् || १/१६ || ओं नमस्ते भगवन्नाथ ! शिवाय गुरुरूपिणे | विद्यावतारसंसिद्धौ स्वीकृतानेकविग्रह ! || १/१७ || भवाय भवरूपाय परमात्मस्वरूपिणे | सर्वाज्ञानतमोभेद भानवे चिन्मयाय ते || १/१८ || स्वतन्त्राय दयालिप्त विग्रहाय शिवात्मने | परतन्त्राय भक्तानां भव्यानां भवदायिने || १/१९ || विवेकिनां विवेकाय विमर्षाय विमर्षिणाम् | प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे || १/२० || स्तुत्वाऽज्ञानेति - मन्त्रेण नमस्कारं समाचरेत् | मूलाधारे मूलविद्या - स्वरूपां कुलकुण्डलीम् || १/२१ || सूर्ययकोटि प्रतीकाशां विषतन्तुतनीयमीम् || १/२२ || प्रसुप्तभुजगाकारां सार्द्धत्रिबलयान्विताम् | हंसो - मन्त्रेण तस्याश्च चैतन्यं योजयेत्ततः || १/२३ || प्.४) पद्मषट्कं भेदयित्वा कर्णिकाधः समानयेत् | ततश्च संस्मरेत् कौलान् गुरूनेतान् कुलेश्वरि ! || १/२४ || प्रह्लादानन्दनाथाख्यः सनकानन्द एव च | कुमारानन्दनाथश्च वशिष्ठानन्दनाथकः || १/२५ || क्रोधानन्द सुखानन्दौ ज्ञानानन्द स्ततःपरम् | बोधानन्दस्ततो नित्यं कारणानन्दनन्दिताः || १/२६ || विघूर्णनयना स्तादृक्शक्तिसङ्गविराजिताः | ततो विन्दुस्फुरन्माध्वी - धारया तान् प्रतर्पयेत् || १/२७ || तस्मात्तेनैव मार्गेण स्वस्थानं प्रापयेत् पराम् | तत्प्रभापटलै र्देवि ! पाटलं स्वं विचिन्तयेत् || १/२८ || इति ते कथितं देवि ! प्रातःकृत्यमनुत्तमम् | गोपनीयं ममप्रीतिकृतेऽवश्यं सुरेश्वरि || १/२९ || || इति श्रीतारातन्त्रे प्रथमः पटलः || द्वितीयः पटलः | श्रीभैरव्युवाच | श्रुतमेतन्महाभाग ! प्रातःकृत्यमहो महत् | महाचीनाख्यतन्त्रे च त्रिविधं पूजनं हि यत् || २/१ || उक्तवान् बुद्धदेवेश स्तत्र योन्यर्च्चनं श्रुतम् | मानसं यान्त्रिकञ्चैव श्रोतुमिच्छामि माम्प्रतम् || २/२ || प्. ५) श्रीभैरव उवाच | मनः पूजा विधिं वक्ष्ये न्यासं पूर्व्वं शृणु प्रिये || अकृते न्यासजाले हि अधिकारो न विद्यते || २/३ || ऋष्यादिन्यासकञ्चैव कराङ्गन्यास एव च | वर्ण व्यापकविन्यासौ पीठन्यास स्ततः परम् || २/४ || अक्षोभ्यश्च ऋषिः प्रोक्तो वृहती च्छन्द ईरितम् | उग्रतारा देवतोक्ता कूर्च्चवीजसुदाहृतम् || २/५ || शक्तिरस्त्रं शेषवर्णाः कीलकानि भवन्त्युत | अखिलवाग्रूपिणीमुक्त्वा हृदयाय नमो वदेत् || २/६ || अखण्डवाग्रूपिणीमुक्त्वा शिरसे वह्निवल्लभा | ब्रह्मवाग्रूपिणीमुक्त्वा शिखायै वषडित्यपि || २/७ || विष्णुवाग्रूपिणीमुक्त्वा कवचाय इमीरितम् | विष्णुवाग्रूपिणी नेत्रत्रयाय वौषडित्यपि || २/८ || सर्व्ववाग्रूपिणीमुक्त्वा अस्त्राय फडिति स्मरेत् | षड्दीर्घमायया चैव वीजानामेव चोच्चरेत् || २/९ || अङ्गस्थानेऽङ्गुलीनान्तु पाणितो योजनञ्चरेत् | आदिॡवर्णपर्ययन्तान् हृदये विन्यसेत् प्रिये || २/१० || एकाराद्यान् ङादिढान्तान् क्रमेण बाहुयुग्मके | णादिभान्तान् मकारादिक्षान्तान् जङ्घाद्वये प्रिये ! || २/११ || प्. ६) मूलेन व्यापकं न्यस्य पीठन्यासं समाचरेत् | हृत्सरोजे सुधासिन्धुं मध्ये द्वीपं सुवर्णजम् || २/१२ || परितः पारिजातांश्च मध्ये कल्पतरुं ततः | तन्मूले हेमनिर्म्माणं द्वाश्चतुष्टय भूषितम् || २/१३ || मण्डपं मन्दवातेन पराक्रान्तं सुधूपितम् | तत्र यन्त्रं प्रतिष्ठाप्य तत्र पूजां समाचरेत् || २/१४ || एवं पीठमये देहे चिन्तयेदुग्रतारिणीम् | हृदिपाण्यग्रमादाय जीवन्यासं समाचरेत् || २/१५ || इति ते कथितं कान्ते ! न्यासजालमनुत्तमम् | परिपाटी गुरोर्ज्ञेया न्यासानां रचनं प्रिये || २/१६ || ततः पूजां प्रकुर्व्वीत येन तन्मयतामियात् | स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते || २/१७ || शिवशक्ति समायोगः सन्ध्या प्रोक्ता च तान्त्रिकैः | विन्दुच्युतसुधाभि स्तां तर्पयेत् प्राणवल्लभे ! || २/१८ || तत स्तत्पपरिवारादीन् तत्शरीरे विलाप्य च | उद्वर्त्तनादिकं दत्त्वा स्नापयेद्दिव्यवारिणा || २/१९ || मृदुवस्त्रेण संमार्ज्य नयने कज्जलं ददेत् | ललाटे चैव सिन्दूरं अलक्तं चरणाम्बुजे || २/२० || प्. ७) चिन्तयेन्मनसा मूर्तिं सर्वालङ्कारभूषिताम् | ततः सोऽहमिति ध्यात्वा पाद्यं दद्यात् पदोः प्रिये || २/२१ || मौलावर्घ्यं मुखे तोयं गन्धोऽङ्गे सर्वतः क्षिपेत् | सुगन्धि - श्वेतलौहित्यं जवां कृष्णापराजिताम् || २/२२ || पदे शीर्षे तथा कर्णे कण्ठे मालां निधापयेत् | सम्मुखे धूपदीपौ च नैवेद्यं भोजयेदथ || २/२३ || कारणं पललं भूयः कारणं मीनमुत्तमम् | पुनश्च कारणं देयं ततो भर्ज्जितशालिजम् || २/२४ || पुनर्मद्यं ततोऽपूपशष्कुलीं देवि ! दापयेत् | ततो मद्यं प्रदायैव नाना - तेमन - संयुतम् * || २/२५ || दधिक्षीराज्यसहितं दापयेदोदनं प्रिये ! | आचमनं ततो दद्यात्ताम्बूलं विनिवेदयेत् || २/२६ || ततो वै मानसं जापं कृत्वा तर्पण माचरेत् | स्तुत्वा नत्वा तत्तदङ्गदेवता [:] प्रापयेदथ || २/२७ || स्व स्व स्थानं ततः शेषं शक्तिभिर्भोजयेत् स्वयम् | ततः सोहमिति ध्यायेदात्मानं तारिणीमयम् || २/२८ || इदं मानसमाख्यातम् पूजनं देवि ! दुर्लभम् | एकान्तनिर्मलं चित्तं हृदम्भोजार्च्चनात् प्रिये || २/२९ || प्. ८) गुर्वर्च्चोचित काले च प्रातर्मध्याह्नतोऽपि वा | कर्त्तव्य मेतद्विधिवद्गुरुपादप्रसादतः || २/३० || अथातः संप्रवक्ष्यामि पूजां यन्त्रसमीरिताम् | अथ यागगृहं गत्वा पुष्पाहरणमाचरेत् || २/३१ || शताभिषेकेति पदं द्विरुच्चार्य ततो वदेत् | कूर्चास्त्रवह्निललना ताराद्यः पुष्पकर्षणे || २/३२ || मायां पूर्वं समुचार्य आधारशक्तिसंवदेत् | कमलासनं ङेन्तञ्च हृन्मनुश्चासनार्चने || २/३३ || अर्घ्यपात्रं स्थापयित्वा पञ्चानां शोधनञ्चरेत् | आदौ शोधनमेवोक्तं नीलतन्त्रे तव प्रिये || २/३४ || द्वितीयशोधने देवि ! प्रतद्धिष्णु - मनुं जपेत् | तृतीयशोधने देवि ! त्र्यम्बकेनैव मन्त्रवित् || २/३५ || तद्विष्णोरिति मन्त्रेण चतुर्थशोधनञ्चरेत् | प्रतद्विष्णुरिति मन्त्रेण स्वयम्भ्वादिविशोधनम् || २/३६ || शक्तेस्तु शोधनेनैव मैथुनं शुध्यति प्रिये ! | ततो देवि ! महायन्त्रं कथयामि तव प्रिये || २/३७ || सयोनिं चन्दनेनाष्टपत्रमब्जं लिखेत्ततः | चतुरस्रं चतुर्द्वारं यन्त्रं देवि ! समालिखेत् || २/३८ || गणेशं प्राचि संपूज्य दक्षिणे वटुकं यजेत् | पश्चिमे क्षेत्रपालञ्च योगिनीमुत्तरे यजेत् || २/३९ || प्. ९) श्माशानं तत्र संपूज्यं तत्र कल्पद्रुमं यजेत् | तन्मूले मणिपीठञ्च नानामणिविभूषितम् || २/४० || नानालङ्कार - भूषाढ्यं मुनिदेवैश्च मण्डितम् | शिवाभिर्वहुमांसास्थि - मोदमानाभिरन्ततः || २/४१ || चतुर्द्दिक्षु शवान् मुण्डांश्चिताङ्गारास्थिभूषितान् | (चतुर्दिक्षु शवमुण्डचिताङ्गारास्थि - भूषितम्) हसौः सदाशिवेत्युक्त्वा महाप्रेत ततः परम् || २/४२ || पद्मासनाय हृदयं पीठन्यासमनुर्मतः | लक्ष्मीः सरस्वती चैव रतिः प्रीति स्तथैव च || २/४३ || कीर्त्तिः शान्तिश्च पुष्ठिश्च तुष्टि रित्यष्टशक्तयः | एताः पूज्याः पत्रदेशे क्रमेण प्राणबल्लभे || २/४४ || ततः पुष्पाञ्जलिं नीत्वा कूर्मतत्त्वेन कौलिकः | हृदये द्यौतनं तेजः परिवारसमन्वितम् || २/४५ || यंकारादितया देवि ! शवोपरि निधापयेत् | आं सोहमिति मन्त्रेण जीवन्यासं समाचरेत् || २/४६ || ततः पाद्यादिना देवि ! पूजयेदुग्रतारिणीम् | नमः स्वाहा स्वधाञ्चैव नमो वौषट् तथा क्रमात् || २/४७ || ततो निवेदयामीति सर्वं दद्यान्महेश्वरि ! इदं द्रव्यं ततः प्रोच्य देवताबोधनं ततः || २/४८ || प्. १०) वज्रपुष्पं प्रतिच्छेदं हू/ - फट् - स्वाहा ततो वदेत् | मूलमन्त्रं समुच्चार्य ङेन्तं नाम नियोजयेत् || २/४९ || ततश्च परिवाराणि पूजयेद्देवि ! कौन्तिकः | इदं द्रव्यं समुचार्य परिवारेभ्यो नमोऽन्ततः || २/५० || प्रणवाद्येन मनुना कुलीनः पूजनञ्चरेत् | अक्षोभ्यं * मौलिदेशे तु प्रागाद्यष्टदलेषु च || २/५१ || शक्तयोऽष्टौ भैरवांश्च द्वारेषु चतुरः सुरान् | वायव्यादीशपर्यन्तं गुरुपङ्क्तिर्व्यवस्थिता || २/५२ || ततो जप्त्वा स्तवैः स्तुत्वा नत्वा च विसृजेद्धृदि | नैवेद्यं साधकेभ्यश्च स्त्रीभ्यो दद्यान्न कुत्रचित् || २/५३ || इति ते कथितं भद्रे ! तारायाः पूजनं महत् | मानसं यान्त्रिकञ्चैव नित्यं नृणामिति स्मृतम् || २/५४ || नाधिकारो यौनिके च स्त्रीणां मानस - यन्त्रयोः | विधेयं पूजनं देवि ! न कुर्याद्वा निजेच्छया || २/५५ || || इति श्रीतारातन्त्रे द्वितीयः पटलः || तृतीयः पटलः श्रीभैरव उवाच | अथातः संप्रवक्ष्यामि शृणु त्वं पर्वतात्मजे | पात्रमेकं द्वयं वापि त्रयं वा पञ्च वा प्रिये || ३/१ || पिवेद्वीरवरश्रेष्ठो यः स रुद्र इतीरितम् | सम्बिदानन्दयोगेन यः कारणमदो भवेत् || ३/२ || स एव परमानन्दो ब्रह्मसायुज्यदायकः | तस्माद्भुक्त्वा सिद्धिमूलं साधकः कारणं पिवेत् || ३/३ || विनानन्दं सम्बिदायाः पानं यत्कारणस्य च | तन्न चानन्द - जनकं बौद्धदेव - वचो यथा || ३/४ || पूज्योः गुरुः सदा चात्र तद्वत्तत्तनयोपि च | तत्पत्नी सर्वभावेन सदा कौलिकपूरुषैः || ३/५ || तस्याः सन्तोषमात्रेन देवी तुष्टा भवेत् प्रिये ! | तस्मात् स्तोत्रैर्धनैर्वाक्यै स्तोषयेत् ब्रह्मदायकम् || ३/६ || नक्तं जपविधानञ्च शृणुष्वैकमनाः प्रिये ! | आदौ षङङ्गं विन्यस्य गुरोर्ध्यानं ततःपरम् || ३/७ || मन्त्रध्यानं * ततःपश्चात् देवौध्यानं ततश्चरेत् | सेतुरूपं तत स्तारं जप्त्वा जपमथाचरेत् || ३/८ || प्. १२) पुनस्तारं ततो देवीध्यानं कृत्वा समर्पयेत् | शिवोऽहं तारिणीरूपमात्मानमिति चिन्तयेत् || ३/९ || परिवारमयश्चाहमिति ध्यायेदनारतम् | इति ते कथितं देवि ! रहस्यं तारिणीमयम् || ३/१० || न देयं पशवे तस्मात् शपथो मे त्वयि प्रिये ! || ३/११ || || इति श्रीतारातन्त्रे तृतीयः पटलः || चतुर्थः पटलः श्रीभैरव्युवाच | यत् प्रसादादिदं सर्वं कुलाचारविधानकम् | तस्यैवाद्यन्तमाहात्म्यं श्रोतुमिच्छामि साम्प्रतम् || ४/१ || श्रीभैरव उवाच | गुरुः परमगुरुश्चैव परापरगुरुस्तथा | परमेष्टिगुरुश्चैव चत्वारो गुरवः स्मृताः || ४/२ || ऋषिरत्र गुरुः प्रोक्तो मन्त्रदः परमो गुरुः | परापरगुरुश्चाहं त्वमेव परमेष्टिका || ४/३ || सर्वेषामेव मध्ये तु प्रधानं परमो गुरुः | गुरोर्विना महामोक्षं न काशी न च गङ्गया (?) || ४/४ || माहात्म्यं तस्य वक्ष्यामि येन तुष्टा च शाम्भवी | गुरुमन्त्रेष्टदेवीनामेकत्वं परिकथ्यते || ४/५ || तत्पत्नी च विशेषेण परदेवीविशेषभाक् | सरल्याऽसरला वापि निष्ठुरा वा प्रियोदिता || ४/६ || प्. १४) कुत्सिता व्याधिता वापि मूढाऽमूढापि वा प्रिये | सदेष्टदेवोभावेन भावनीया कुलोत्तमैः || ४/७ || तत्तनुजोदितञ्चैव यद्वा साधकभाषितम् | यत्नेनैव विधातव्यमशक्ये यत्नवान् भवेत् || ४/८ || वीरोच्छिष्टं विनामद्यं शक्त्युच्छिष्टं तदप्युत | भोजयेन्निर्विकल्पेन मनसा वीरवल्लभः || ४/९ || पुरा प्रोक्तानि पञ्चैव एकं वा शृणु भैरवि ! | शोधयित्वा निवेद्यैव योऽश्नीयात् स च भैरवः || ४/१० || सुसिद्धाः पीठसंस्था ये साधका स्तेऽर्चनाश्रयाः | गुरु तद्दयितापुत्रपुत्री - साधकयोषितां || ४/११ || यत्नेच्छा वर्तते तत्तु समर्प्यं परमेश्वरि ! | अवश्यं तारिणीमन्त्रे शक्तिपूजा विधीयते || ४/१२ || निजकान्तेष्ठदेवी तु पूजनीया विशेषतः | समानदेवतामन्त्रं निजक्रान्ता जपेद्यदि || ४/१३ || तदा सर्वार्थसिद्धिः स्यात् तुष्टा भवति तारिणो | शरीरार्धं स्मृता कान्ता यस्मात्तद्यत्नवान् भवेत् || ४/१४ || तस्याः किञ्चिच्च माहात्म्यं चीनतन्त्रे मयोदितम् | मैथुने वर्जनीया या स्तासां विधि रिहोच्यते || ४/१५ || प्. १५) गुरुपत्नी गुरुसुता गुरुपुत्रबधू स्तथा | सतीर्थस्य तु वीरस्य साधकस्य तथा प्रिये ! || ४/१६ || कान्ताया मन्त्रपुत्र्याश्च रमणान्नारकी भवेत् | मैथुनस्य विधानन्तु कथ्यते शृणु भैरवि ! || ४/१७ || अधः कृत्वा महादेवीं स्वयं भैरवरूपधृक् | पुरतो मूलमुच्चार्य धर्माधर्मादिकं पठन् || ४/१८ || गजतुण्डाख्यतत्त्वेन योजयेल्लिङ्गभैरवम् | तस्मात् शतं विंशतिं वा जप्त्वा तेजस्तु पातयेत् || ४/१९ || मूलान्ते तु प्रकाशेति वचनं परिपठ्य च | इति तं कथितं देवि ! यथोक्तं बुद्धरूपिणा || ४/२० || सिद्धिप्रदं समाचाराद् गोपनीयं स्वयोनिवत् || ४/२१ || || इति तारातन्त्रे चतुर्थः पटलः || पञ्चमः पटलः श्रीभैरव्युवाच | त्वत्प्रसादान्महादेव ! ज्ञातमेतन्मयाखिलम् | पुरश्चरणहीनेन मन्त्रेण न फलं भवेत् || ५/१ || तस्माच्च फलदानन्तु पुरश्चरणमुच्यताम् * | प्. १६) श्रीभैरव उचाच | अथातः संप्रवक्ष्यामि पुरश्चरणमुत्तमम् | कुजे वा शनिवारे वा नरमुण्डं समाहरेत् || ५/२ || वितस्तिमात्रे खाते तु निखनेत् सङ्गवर्जितः | तत्र नक्तं दशशतं प्रजपेन्मन्त्रसिद्धये || ५/३ || अनेनैव विधानेन पुरश्चर्या विधीयते | अथवान्यप्रकारेण पुरश्चरणमुच्यते || ५/४ || गुरुं तद्दयितां वापि तत्सुतं तत्सुताञ्च वा | देववत् पूजनं कृत्वा जपेत्तावद् वरानने ! || ५/५ || अष्टाधिकं शतं वापि पुरश्चरणमुच्यते | अथवा मूर्द्ध्निपद्मे तु ध्यात्वा पूजां विध्याय च || ५/६ || अष्टाधिक सहस्रञ्च जपेद्भैरवरूपधृक् | अनेनैव विधानेन पुरश्चरणमुच्यते || ५/७ || अथवान्यप्रकारेण पुरश्चरणमुच्यते | चतुर्दशीं समारभ्य यावदन्या चतुर्दशी || ५/८ || सहस्रं प्रत्यहं साष्टं जपेत् सिद्धीश्वरो भवेत् | एतत् सर्वं श्मशाने च रात्रौ वीरैर्विधीयते || ५/९ || इति ते कथितं भद्रे ! पुरश्चरणमुत्तमम् | गोपनीयं प्रयत्नेन जनन्या जारवत् प्रिये ! || ५/१० || जीवहीनो यथा देही सर्वकर्मसु न क्षमः | पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः || ५/११ || सकृत् द्विधा त्रिधा वापि चतुर्द्धा युगभेदतः | कर्तव्यञ्च प्रयत्नेन पुरश्चरणमुत्तमम् || ५/१२ || इदानीं रक्तदानस्य विधानं वरवर्णिनि ! | ग्राम्यारण्यजलस्थानां रुधिरं प्रीतिबर्द्धनम् || ५/१३ || घृताक्तं मधुनाक्तञ्च विशेषात् प्राणबल्लभे ! | जन्तुरक्तेन सम्पूर्ण - कलसात् पर्वतात्मजे ! || ५/१४ || तिलप्रमाणं रुधिरं निजदेहस्य शस्यते | ललाट - हस्त - हृदय शिरोभ्रूमध्य देशतः || ५/१५ || स्वदेहरुधिरे दत्ते रुद्रदेह इवापरः | ब्राह्मणो यदि वा क्षत्रो वैश्यः शूद्रश्च एव वा || ५/१६ || प्रदद्यान्निजरक्तञ्च मन्त्रयित्वा प्रयत्नतः | शक्तीनां नाधिकारोऽस्ति स्वदेहरुधिरार्पणे || ५/१७ || मन्त्रान्तरं प्रवक्ष्यामि शृणु भैरवि ! सादरम् | पूर्वोक्तमन्त्रराजस्य मध्यवीजत्रयं प्रिये ! || ५/१८ || कुल्वुका नाम देवी च महानीलसरस्वती | एकैव हि महादेवी नाममात्रं त्रिधा भवेत् || ५/१९ || प्रणवव्यतिरेकेन तृतीयैकजटा भवेत् | यथा पञ्चाक्षरी त्र्यर्णा तथा वर्णचतुष्टयम् || ५/२० || प्. १८) माहात्म्यं न च भेदः स्यात् साम्यमित्यभिधीयते | इति ते कथितं तत्त्वं दुर्लभं मयका प्रिये || ५/२१ || गोपनीयं प्रयत्नेन योनिः परनरे यथा || ५/२२ || इति श्रीतारातन्त्रे पञ्चमः पटलः || षष्ठः पटलः श्रीभैरव उवाच | अथान्यत् संप्रवक्ष्यामि रहस्यं तारिणीमयम् | उग्रादित्रयमन्त्रस्य माहात्म्यं वर्णयाम्यहम् || ६/१ || संक्षेपत स्तथापीह वर्णयामि महेश्वरि ! | तारामन्त्रविदो मन्त्री कालीमन्त्रविद स्तथा || ६/२ || शिवादप्यधिको देवि ! नात्र कार्यश्च संशयः | तारामन्त्रं विना देवि ! कालिकामन्त्रमेव च || ६/३ || नाप्नुयात् परमेशानि ! भोगमोक्षौ यशःश्रियौ | तारिणीहृदयज्ञानी लतासाधन - तत्परः || ६/४ || पञ्चमप्राशनप्राज्ञो देवैरपि नमस्यते | निजकान्ता - स्वरूपेण निजबन्धुस्वरूपतः || ६/५ || प्. १९) दारिद्र्येण विरोधेन न्यक्कारादिप्रयोगतः | पीडादिना विधीयेत देवैर्भङ्गोऽत्र साधने || ६/६ || तस्माद्यत्नेन वीरेन्द्रो गुरवे विनिवेदयेत् | सर्वथा सर्वयत्नेन सर्वोपास्या च तारिणी || ६/७ || भद्राभद्रविचारञ्च यः करोति स दुर्मतिः | इति ते कथितं तत्त्वमनुष्ठेश्च समासतः || ६/८ || दर्शनाद्भक्तशाक्ता ये सुखन्ते परिभुञ्जते | तारातन्त्रं चीनतन्त्रं कालीतन्त्रं गुरुदितम् || ६/९ || सर्वथा गोपनायैव शक्तिं वक्षःस्थलेऽर्पयेत् | देयं विष्याय शान्ताय साधकाय महात्मने || ६/१० || विलासिने स्वन्त्राय गुरुतन्त्राय सुव्रते ! | अन्यद्यन्नोक्तमत्रापि तत्सर्वं गुरुवक्त्रतः || ६/११ || विरुद्धं वेदवादेऽपि श्रोतव्यं नात्र संशयः || ६/१२ || || इति श्रीभैरवभैरवीसंवादे तारातन्त्रे षष्ठः पटलः || [ समाप्तोऽयं ग्रन्थः ] बुद्धवशिष्ठवृत्तान्तः (१) [ रुद्रयामले सप्तदशपटलः ] वशिष्ठो ब्रह्मपुत्रोऽपि चिरकालं सुसाधनम् | चकार निर्जने देशे कृच्छ्रेण तपसा वशी || ७/१ || षट्सहस्रं वत्सरञ्च व्याप्य योगादिसाधनम् | तथापि साक्षाद् गिरिजा न बभूव महीतले || ७/२ || ततो जगाम क्रुद्धोऽसौ तातस्य निकटे प्रभुः | सर्वं तत्कथयामास स्वीयाचारक्रमं प्रभो ! || ७/३ || अन्यमन्त्रं देहि नाथ ! एषा विद्या न सिद्धिदा | अन्यथा सुदृढं शापं तदाग्र (त्वदग्रे) प्रददामि हि || ७/४ || ततस्तं वारयामास एवं न कुरु भो ! सुत ! | पुनस्तां भज भावेन योगमार्गेण पण्डितः || ७/५ || ततः सा वरदा भूत्वा आगमिष्यति तेऽग्रतः | सा देवो परमा शक्तिः सर्वसङ्कटतारिणी || ७/६ || कोटिसूर्यप्रभा नीला चन्द्रकोटिसुशीतला | स्थिरविद्युल्लताकोटिसदृशी कालकामिनी || ७/७ || प्. २२) सर्वस्वरूपा सर्वाद्या धर्माधर्मविवर्जिता | शुद्धचीनाचाररता शक्तिचक्रप्रवर्तिका || ७/८ || अनन्तानन्तमहिमा संसाराणवतारिणी | बुद्धेश्वरी बुद्धिरूपा अथर्ववेदशाखिनी || ७/९ || सा पाति जगतां लोकां स्तस्या कर्म चराचरम् | भज पुत्र ! स्थिरानन्दः कथं शप्तुं समुद्यतः || ७/१० || एकान्तचेतसा नित्यं भज पुत्र दयानिधे | तस्य (स्या) दर्शनमेवं हि अवश्यं समवाप्स्यसि || ७/११ || एतच्छ्रुत्वा गुरोर्वाक्यं प्रणम्य च पुनः पुनः | जगाम उदधे स्तीरे वशी वेदान्तवित् शुचिः || ७/१२ || सहस्रवत्सरं सम्यक् जजाप परमं जपम् | आदेशोपि न बभूव ततः क्रोधपरो मुनिः || ७/१३ || व्याकुलात्मा महाविद्यां वशिष्ठः शप्तुमुद्यतः | द्विराचम्य महाशापः प्रदत्तश्च सुदारुणः || ७/१४ || तेनैव मुनिना नाथ ! मुनेरग्रे कुलेश्वरी | आजगाम महाविद्या योगिनामभयप्रदा || ७/१५ || अकारणमरे विप्र ! शापो दत्तः सुदारुणः | मम पूजां न जानासि मत्कुलागमचिन्तनम् || ७/१६ || कथं योगाअभ्यासवशात् मत्पादाम्भोजदर्शनम् | प्राप्नोति मानुषो देवो मम ध्यानमदुःखदम् || ७/१७ || यः कुलार्थी सिद्धमन्त्री महेदाचारनिर्मलम् | ममैव साधनं पुण्यं वेदानामप्यगोचरम् || ७/१८ || बौद्धदेशेऽथर्ववेदे महाचीने सदा ब्रज | तत्र गत्वा महाभावं विलोक्य मत्पदाम्बुजम् || ७/१९ || मत्कुलज्ञो महर्षे ! त्वं महासिद्धो भविष्यसि | एतद्वाक्यं कथित्वा सा वायव्याकाशगामिनी || ७/२० || निराकाराऽभवत् शीघ्रं ततः साकाशवाहिनी | ततो मुनिवरः श्रुत्वा महाविद्यासरस्वतीम् || ७/२१ || जगाम चीनभूमौ च यत्र बुद्धः प्रतिष्ठितः | पुनः पुनः प्रणम्यासौ वशिष्ठः क्षितिमण्डले || ७/२२ || रक्ष रक्ष महादेव ! बुद्धरूपधराव्ययः (य !) | अति दीनं वशिष्ठं मां सदाव्याकुलचेतसम् || ७/२३ || ब्रह्मपुत्रं महादेवीसाधनायाजगाम च (यः) | सिद्धिमार्गं न जानामि देवमार्गपरोहरः | तवाचारं समालोक्य भयानि सन्ति मे हृदि || ७/२४ || तन्नाशय मम क्षिप्रं दुर्वुद्धि वेदगामिनीम् | वेदवहिष्कृतं कर्म सदा ते चालये प्रभो ! || ७/२५ || कथमेतत्प्रकारञ्च मद्यं मांसं तथाङ्गनां (ना) सर्वे दिगम्बराः सिद्धाः रक्तपानोद्यता वराः | मुहुर्मुहुः प्रपिवन्ति रमयन्ति वराङ्गनाम् || ७/२६ || सदा मांसासवैः पूर्णा मत्ता रक्तविलोचनाः | निग्रहानुग्रहे शक्ताः पूर्णान्तःकरणोद्यताः || ७/२७ || वेदस्यागोचराः सर्वे मद्यस्त्री - सेवने रताः | इत्युवाच महायोगी दृष्ट्वा वेदवहिष्कृतम् || ७/२८ || प्राञ्जलिर्विनयाविष्टो वद चैतत्कुलप्रभो ! | मनः प्रवृत्तिरेतेषां कथं भवति पावन (नी) || ७/२९ || प्. २४) कथं वा जायते सिद्धिर्वेदकार्यं विना प्रभो ! | बुद्ध उवाच | वशिष्ठ ! शृणु वक्ष्यामि कुलमार्गमनुत्तमम् | येन विज्ञानमात्रेन रुद्ररूपी भवेत् क्षणात् || ७/३० || सङ्क्षेपेण सर्वसारं कुलसिद्ध्यर्थमागमम् | आदौ शुचिर्भवेद्वीरो विवेकाक्रान्तमानसः | पशुभावस्थिर चेताः पशुसङ्गविवर्जितः || ७/३१ || एकाकी निर्जने स्थित्वा कामक्रोधादिवर्जितः | सदा योगाभ्यासरतो योगशिक्षादृढब्रतः || ७/३२ || वेदमार्गाश्रयो नित्यं वेदार्थनिपुणो महान् | एवं क्रमेण धर्मात्मा शीलौदार्यगुणान्वितः || ७/३३ || धारयेन्मारुतं नित्यं श्वासमार्गे मनोलयम् | एवमभ्यासयोगेन वशी योगी दिने दिने || ७/३४ || शनैः शनैः कृताभ्यासाद्देहे स्वेदोद्गमोऽधमः | मध्यमः स्वल्पसंयुक्तो भूमित्यागः परो मतः || ७/३५ || प्राणायामेन सिद्धिः (द्धः) स्यान्नरो योगेश्वरो भवेत् | योगी भूत्वा कुम्भकज्ञो मौनी भक्तो दिवानिशम् || ७/३६ || शिवे कृष्णे ब्रह्मपदे एकान्तभक्तिसंयुतः | ब्रह्म - विष्णु - शिवा एते वायवीगतिचञ्चला || ७/३७ || एवं विभाव्य मनसा कर्मणा वचसा शुचिः | शक्तौ चित्तं समाधाय चिद्रूपायां स्थिराशयः || ७/३८ || ततो महावीरभावं कुलमार्गमहोदयम् | शक्तिचक्रं सत्वचक्रं वैष्णवं नवविग्रहम् || ७/३९ || प्. २५) समाश्रित्य भजेन्मन्त्री कुलकात्यायनीं पराम् | प्रत्यक्षदेवतां श्रीदां चण्डो देवगा (?) निकृन्तनीम् || ७/४० || चिद्रूपां ज्ञाननिलयां चैतन्यानन्दविग्रहाम् | कोटिसौदामिनीभासां सर्वतत्त्वस्वरूपिणीम् || ७/४१ || अष्टादशभुजां रौद्रीं शिवमांसाचलप्रियाम् | आश्रित्य प्रजपेन्मन्त्रं कुलमार्गाश्रयो नरः | कुलमार्गात् परं मार्गं को जानाति जगत्त्रये | एतन्मार्गप्रसादेन ब्रह्मा स्रष्टा स्वयं महान् || ७/४२ || विष्णुश्च पालने शक्तो निर्मलः सत्वरूपधृक् | सर्वसेव्यो महापूज्यो यजुर्वेदाधिपो महान् || ७/४३ || हरः संहारकर्ता च वीरेशोत्तममानसः | सर्वेषामन्तकः क्रोधी क्रोधराजो महाबलौ || ७/४४ || वीरभावप्रसादेन दिक्पाला रुद्ररुपिणः | मासेनाकर्षणं सिद्धिर्द्विमासे वाक्पतिर्भवेत् || ७/४५ || मासत्रयेण संयोगे जायते सुरवल्लभः | एवं चतुष्टये मासि भवेद्दिक्पालगोचरः || ७/४६ || पञ्चमे पञ्चवाणः स्यात् षष्ठे रुद्रो भवेद्ध्रुवम् | एतदाचारसारं हि सर्वेषामप्यगोचरम् || ७/४७ || एतन्मार्गं कौलमार्गं कौलमार्गात् परं न हि | योगिनां दृढचित्तानं भक्तानामेकमासतः || ७/४८ || कार्यसिद्धिर्भवेन्नारी कुलमार्गप्रसादतः | पूर्णयोगी भवेद्विप्रः षण्मासाभ्यासयोगतः || ७/४९ || प्. २६) शक्तिं विना शिवोऽशक्तः किमन्ये जडबुद्धयः | इत्युक्त्वां बुद्धरूपी च कारयामास साधनम् || ७/५० || कुरु विप्र ! महाशक्तिसेवनं मद्यसाधनम् | महाविद्यापदाम्भोजनदर्शनं समवारुपसि || ७/५१ || एतत् श्रुत्वा गुरोर्वाक्यं स्मृत्वा देवीं सरस्वतीम् | मदिरासाधनं कर्तुं जगाम कुलमण्डपे || ७/५२ || मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | पुनः पुनः साधयित्वा पूर्णयोगी बभूव सः || ७/५३ || (२) [ ब्रह्मयामले देवीश्वरसंवादे प्रथमपटले |] ब्रह्मणो मानसः पुत्रो वशिष्ठः स्थिरसंयमी | तारामाराधयामास पुरा नीलाचले मुनिः || ७/१३ || जपन् स तारिणीं विद्यां कामाख्यायोनिमण्डले | गमयामास वर्षाणामयुतं ध्यानतत्परः || ७/१४ || वर्षायुतेन तस्यैवं चिरमाराधिता सती | नानुग्रहं चकारासौ तारा संसारतारिणी || ७/१५ || अथासौ पितरं गत्वा ब्रह्माणं परमेष्ठिनम् | कोपेन ज्वलितो विद्यां तत्याज पितुरन्तिके || ७/१६ || द्वादशादित्यसङ्काशं तपोभिर्ज्वलितं मुनिम् | ब्रह्मा हि स मुनिं प्राह शृणु पुत्र ! वचो मम || ७/१७ || तत्त्वज्ञामयी विद्या तारा भुवनतारिणी | आराधय श्रीचरणमनुद्विग्नेन चेतसा || ७/१८ || अस्याः प्रसादादेवाहं भुवनानि चतुर्दश | सृजामि चतुरो वेदान् कल्पयामि स्म लीलया || ७/१९ || एनामेव समाराध्य विद्यां भुवनतारिणीम् | तत्त्वज्ञानमयो विष्णुर्भुवनं पालयत्यसौ || ७/२० || संहारकाले च हरो रुद्रमूर्तिधरः परः (.) | तारामेव समाराध्य संहरत्यखिलं जतत् || ७/२१ || ------------------------------------------------------------------ वशिष्ठ उवाच | देवानामादिभूतस्त्वं सर्वविद्यामयः प्रभो ! | कथं दत्ता दुराराध्या विद्या मह्यमियं त्वया || ७/२३ || सहस्रवत्सरान् पूर्व मियमारधिता पुरा | नीलाचले निवसता हविष्यं भुञ्जता मया || ७/२४ || तथापि तात ! तारिण्याः करुणा मयि नाभवत् | ततो गण्डूषमात्रन्तु काले काले पिवन् जलम् || ७/२५ || आराधयामि तां देवीं वत्सराणां सहस्रकम् | तथापि यदि नैवाभूत्तारिण्याः करुणा मयि || ७/२६ || तथा (दा) हमेक - पादेन तिष्ठन्नीलाचलोपरि | परं समाधिमासाद्य निराहारो दृढव्रतः || ७/२७ || तामेवाकरुणां ध्यायन् जपंस्तामेव सर्वदा | अतिवाहितवान् वर्षं सहस्राष्टकमुत्तमम् || ७/२८ || एवं दशसहस्रन्तु वर्षाणामहमीश्वरीम् | कामाख्यायोनिमाश्रिय समाराधितवान् प्रभो ! || ७/२९ || अद्याप्यनुग्रह स्तस्या स्तथापि न हि दृश्यते | अत स्त्यजामि दुःसाध्यां विद्यामेतां सुदुःखितः || ७/३० || इति तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः | उवाच शान्तयन् पुत्रं वशिष्ठं मुनीनां वरम् || ७/३१ || ब्रह्मोवाच | वशिष्ठ ! वत्स ! गच्छत्वं पुनर्नीलाचलं प्रति | तत्रस्थितो महादेवी माराधय दृढव्रतः || ७/३२ || कामाख्या - योनिमाश्रित्य जगतः परमेश्वरीम् | अचिरादेव ते सिद्धिर्भविष्यति न संशयः || ७/३३ || एतस्याः सदृशी विद्या काचिन्न हि जगत्त्रये | इमां त्यक्त्वा पुनर्विद्यां अन्यां कां त्वं ग्रहौष्यसि || ७/३४ || इति तस्य वचः श्रुत्वा प्रणम्य पितरं मुनिः | पुनर्जगाम कामाख्या - योनिमण्डलसन्निधिम् || ७/३५ || तत्र गत्वा मुनिवरः पूजासम्भारतत्परः | आराधयन् महामायां वशिष्ठोऽपि जितेन्द्रियः || ७/३६ || अथाराधयत स्तस्य सहस्रं परिवत्सरान् | जग्मुस्तारा - महादेवी - पादाम्भोजा - नुवर्तिणः || ७/३७ || तथापि तां प्रति प्रीता यदा नाभून्महेश्वरी | तदा रोषेण महता जज्वाल स मुनीश्वरः || ७/३८ || तदा जलं समादाय तां शप्तुमुपचक्रमे | एतस्मिन्नेव काले तु रुष्टमालोक्य तं मुनिम् || ७/३९ || चचाल वसुधा सर्वा सशैल - वनकानना | हाहाकारो महानासीद्देवि ! देवेषु सर्वतः || ७/४० || ततो बभूव पुरत स्तारा संसार - तारिणी | वशिष्ठ स्तां समालोक्य शशपातोवदारुणम् || ७/४१ || प्. २९) ततो देवी वशिष्ठेन शप्ता न फलदा भवेत् | चीनाचारं विना नैव प्रसीदामि कदाचन || ७/४२ || उवाच साधकश्रेष्ठं वशिष्ठमनुनीय सा | रोषेण दारुणमनाः कथं मा मनुशप्तवान् || ७/४३ || मयि आराधनाचारं बुद्धरूपी जनार्दनः | एक एव विजानाति नान्यः कश्चन तत्वतः || ७/४४ || वृथैवायास बहुल (लं) कालोयं गमित स्त्वया | विरुद्धाचारशीलेन मम तत्त्वमजानता || ७/४५ || उद्बोधरूपिणो विष्णोः सान्निध्यं याहि साम्प्रतम् | तेनोपदिष्टाचारेण मामाराधय सुव्रत ! || ७/४६ || तदैवाशु प्रसन्नास्मि त्वयि यस्या (विप्र) न संशयः || [द्वितीय पटले] श्रीभैर्व उवाच | ततः प्रणम्य तां देवीं वशिष्ठोऽसौ महामुनिः | जगामाचारविज्ञानवाञ्छया बुद्धरूपिणम् || ७/१ || ततो गत्वा महाचीनदेशे ज्ञानमयो मुनिः | ददर्श हिमवत्पार्श्वे साधकेश्वरसेविते || ७/२ || रणज्जघनरावेण रूपयौवनशालिना | मदिरामोदचित्तेन विलासोल्लसितेन च || ७/३ || शृङ्गारसारवेशेन जगन्मोहनकारिणा | भयलज्जाविहीनेन देव्या ध्यानपरेण च || ७/४ || प्. ३०) कामिनीनां सहस्रेण परिवारितमीश्वरम् | मदिरापानसञ्जात - मन्दमन्दविलोचन || ७/५ || दूरादेव विलोक्यैनं वशिष्ठो बुद्धरूपिणम् | विस्मयेन समाविष्टः स्मरन् संसारतारिणीम् || ७/६ || किमिदं क्रियते कर्मं विष्णुना बुद्धरूपिणा | वेदवादविरुद्धोयमाचारोऽसम्मतो मम || ७/७ || इति चिन्तयत स्तस्य वशिष्ठस्य महात्मनः | आकाशवाणी प्राहाशु मैवं चिन्तय सुव्रत ! || ७/८ || आचारः परमार्थोऽयं तारिणीसाधने मुने ! | एतद्विरुद्धभावस्य मते नासौ प्रसीदति || ७/९ || यदि तस्याः प्रसादं त्वमचिरेणाभिवाञ्छसि | एतेन चीनाचारेण तदा तां भज सुव्रत ! || ७/१० || आकाशवाणीमाकर्ण्य रोमाञ्चितकलेवरः | वशिष्ठो दण्डवद्भूमौ पपातातीवहर्षितः || ७/११ || अथोत्थायाचिरेणासौ कृताञ्जलिपुटो मुनिः | जगाम विष्णोः शरणं बुद्धरूपस्य पार्वति ! || ७/१२ || अथासौ तं समालोक्य मदिरामदविह्वलः | प्राह बुद्धः प्रसन्नात्मा किमर्थं त्वमिहागतः || ७/१३ || अथ बुद्धं प्रणम्याह भक्तिनस्रो महामुनिः | यदुक्तं तारिणीदेव्या निजाराधनकर्मणि || ७/१४ || तत् श्रुत्वा भगवान् बुद्ध स्तत्त्वज्ञानमयो हरिः | वशिष्ठं प्राहमज्ञानं चीनाचाराधिकारणान् (णम्) || ७/१५ || न प्रकाश्योयमाचार स्तारिण्याः सर्वदा मुने ! | तव भक्तिवशेनास्मि प्रकाश्यमिह तत्परः || ७/१६ || बुद्ध उवाच प्रथाचारविधिं वक्ष्ये तारादेव्याः समृद्धिदम् | यस्यानुष्ठानमात्रेण भवाब्धौ न निमज्जसि || ७/१७ || समस्तशोकशमन - मानन्दादिविभूतिदम् | तत्त्वज्ञानमयं साक्षाद्विमुक्तिफलदायकम् || ७/१८ || स्नानादि मानसः शौचो मानसः प्रवरो जपः | पूजनं मानसं दिव्यं मानसं तर्पणादिकम् || ७/१९ || सर्व एव शुभः कालो नाशुभो विद्यते क्वचित् | न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि || ७/२० || वस्त्रासन - स्थानगेह - देहस्पर्शादिवारिणः | शुद्धिं न चाचरेत्तत्र निर्विकल्पं मनश्चरेत् || ७/२१ || नात्र शुद्ध्याद्यपेक्षास्ति न चामेध्यादिदूषणम् | सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः || ७/२२ || महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् | स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियां || ७/२३ || [ अतः परं यदुक्तञ्च तदन्यत्र प्रपञ्चितम् |] [तृतीय पटले ] पूजाकालं विना नैव पश्येच्छक्तिं दिगम्बराम् | पूजाकालं विना नैव सुरा पेया च साधकैः | आयुषा हीयते दृष्ट्वा पीत्वा च नरकं ब्रजेत् || [अयमेव वृत्तान्तो महाचीनाचारक्रमेऽपि सविस्तरं वर्णितः |] (३) [बुद्धस्य कामशास्त्राचार्यत्वं स्पष्टमुक्तं मीननाथकृतस्मरदीपिकायाम् |] सारं निष्क्रम्य बुद्धादिमुनीनां प्रमुखात् श्रुतम् | श्रीमता मीननाथेन क्रियते स्मरदीपिका || कामशास्त्रस्य तत्त्वज्ञा भवन्ति योषितः सदाः | ये वै शास्त्रं जानन्ति रमन्ते वृषभा यथा || [महाचीनक्रमो गान्धर्वेऽपि वर्णितः |] ########### END OF FILE #######