#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00314 Uniform title: tantracintāmaṇi Main title: tantracintāmaṇipañjikāsahita Author : navamīsiṃha Alternate name : ādyānanda Manuscript : NGMCP Manuscript No. : 4-1665 Reel No. : B 131/2 Description: First 30 chapters of the tantracintāmaṇi with the commentary pañjikā Description by Mark S.G. Dyczkowski: The author of the Tantracintāmaṇi is ṇavamīsiṃha, who is also called Aadyananda. In the beginning of his work he tells us that he was a minister of King BhUpAlendra of Nepal who he says was a pious and learned man. He was probably king MahIndra Malla or BhUpAlendra Malla of Kathmandu who ruled for about five years between 1689-1694 cE. Like the Kulamuktikallolinī, by the same Navamīsiṃha, this too is a massive compendium of passages from a wide range of Tantras. He discusses the creation of the universe and with it the Tantras in the first chapter. He maintains that Kālī, Kṛṣṇa Tārā and Rāma are essentially the same. He presents the Mantras and ritual procedure for the worship of the Ten Mahāvidyās that in his day had become a popular group of deities in Nepal as they were in North India. He also deals with the worzip of śiva and śakti. He also dedicates much space to an exposition of the worship of śyāmā. The chapters are called prakāśas. The twenty- fifth chapter is missing in this manuscript. A complete manuscript containing all forty chapters is deposited in the Asiatic Society of Mombai. The format of all the colophons is exemplified by that of the first chapter which is as follows: iti śrītaṃtraciṃtāmaṇau sṛṣṭikramanirūpaṇātmakaḥ prathamaprakāśaḥ || 1 || The names of the chapters indicate their contents. They are as follows: sṛṣṭikramanirūpaṇa || 1 | śrīśyāmādividyoddhāropāsanāvaśyakatāpūrvakamāhātmyakathanaṃ || 2 || guruśiṣyamaṃtranirṇaya || 3 || sādhakānāṃ garbhādhānādi ṣoḍaśa saṃskāranirṇaya || 4 || dīkṣākālanirṇaya || 6 || vāstuyāganirṇaya || 7 || paśupatikuṇḍādinirṇaya || 8 || dīkṣāvidhinirṇaya || 10 || pūrṇābhiṣekanirṇaya || 11 || dakṣiṇādyācāranirṇaya || 12 || mahānīlādikramanirṇaya || 13 || bhāvanirṇaya || 14 || prātaḥkṛtyādinirṇaya || 15 || sādhāraṇanityārcanāyāṃ pūjāmaṇḍapapraveśanādinyāsajālāṃtanirṇaya || 16 || sādhāraṇanityārcanāyāṃ taryajanādivisarjanāṃtanirṇaya || 17 || kaulavāmayoḥ sāmānyanityārcanāyāṃ tanmārgotpattipūrvaka śrīpātrādisthāpanāṃtanirṇaya || 18 || kaulavāmayoḥ sāmānyanityārcanāyāṃ pīṭhapūjādikuladravyaniṣevano || 19 || bhojanādipūjāyāḥ sātvikādibhedāṃtanirṇaya || 20 || śrīdakṣiṇakālikāyāḥ nityārcananirṇaya || 21 || śrīdakṣiṇakālikāyā nityārcanāyāṃ stavakavacādinirṇaya || 22 || mahākālādimitānityāṃtakarmanirṇaya || 23 || tārābhedatritayasādhāraṇanityārcananirṇaya || 24 || 25 missing in this manuscript or wrongly numbered śrīvidyānityārcananirṇaya || 26 || tripurabhairavī-mahālakṣmī-mātaṅgī-bhuvaneśī- dhūmāvatī-vagalāmukhīvidyānāṃ nityārcananirṇaya || 27 || sakalasādhāraṇacakrārcananirṇaya || 28 || yaṃtrakarmaṇādipūrvakapratiṣṭhāṃtanirṇaya || 29 || mālābhedādipratiṣṭāṃtanirṇaya || 30 || Notes: Revision 0: Nov. 14, 2014 First 30 chapters Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) ओं नमः श्रीकालिकायै | यस्याः सृष्टिमिदं कुलाकुलगतं तत्वेन संपादितं | भूतं पंचरसोज्वलं च निगमाश्चत्वार एव क्रमात् || १ || बूताद्यं किलसागरेण सहितं नित्यं जगन्मण्डले तस्यै साधकसिद्धिदान विमल प्रख्यात कीर्त्यै नमः || वन्दे ज्ञानवरप्रदाननिरतं पादारविंदं गुरोर्दिव्यौघे प्रभृतेश्च विघ्ननि च यध्वंशलंवोदरं | तंत्राणां रचनाकरं पशुपतिं गुह्येश्वरीं कलिकां ब्रह्मोपेंद्रमहेंद्रवंदिततरां वज्रादिकां योगिनीं || नेपालाधिपतेः समस्तधरणीयानीन्द्र चुडामणेर्नानादानतपोव्रतादि कविताशीलस्य विद्यानिधेः | भूपालेन्द्रधराधिपस्य नवमी सिंहस्त्वमात्यः क्रमं निर्णीया शुवुधैः समं वितनुते श्रीतंत्रचिंतामणिं || चेद्ग्रंथलाघवधियात्र निगूढगुप्तिः कार्या तदावुधजने मम मुग्धता स्यात् | तस्माद् रहस्यकथनं ध्रुवमस्ति लोके प्राकट्यदोषशमनं कुरु देविमातः || हे धीरा परमार्थदत्तमनसः सिद्धिं परामीप्सवस्तत्तद्दैवतसद्रहस्यमखिलं ज्ञातुं च चेदुत्सुकाः | तत् पश्यंतु भवंत एव ममतं ग्रंथं मदीयं मुद्धर्नानातंत्रविलोकनोत् सुकतयानायासयध्वं मतः || मंत्राणां वचनं येषां ग्रंथेस्मिन् प्रकटी कृतं | तेषां नामानि तंत्रस्य उत्पत्ति कथनं पुनः || आधिक्यमागमानां च सृष्ट्युत्पत्तिः क्रमस्ततः | कालिका कृष्णयोस्तारा रामयोश्चैकरूपता || निर्णयो दशविद्यायाः शिवशक्त्यो रूपासना | श्यामायाः सर्वमूलत्व मुक्तमाद्ये प्रकाशके || मंत्रोद्धार क्रमेणैव वामदक्षिणलक्षणं | विद्या स्वाम्नायके मार्गनिर्णयश्च पृथक् पृथक् || आवश्यको मकारेषु चाश्रायाधीनतस्तुयः | गुरुं विना तंत्र मंत्रेणाधिकारी निरूपणं || दीक्षा प्रशंसा गदिता द्वितीये तु प्रकाशके | श्रीगुरोः शिवतुल्यत्वं गुरुलक्षण निर्णयं || गुरुं विनोपदेशौ च स्त्रीणां वामे स्वनायकात् | लक्षणालक्षणे शिष्य तयोराम्नाय निर्णयः || त्याज्यात्याज्य विवेकः स्यादुपदेशांतरं तयोः | वैदिकादिषु मंत्रेषु स्त्री शूद्रौनाधिकारिणौ || प्. १ब्) जातिर्मनोश्च विप्रादौ देया देया विवेचना | एतेषां तु स्थितिर्ज्ञेया प्रकाशे तु तृतीयके || तुर्य प्रकाशे संस्काराः षोडशैव तु मंत्रिणः | तत्र नाम प्रादानाख्ये चक्राणां लिखनं कृतं || मंत्राणामधि संस्काराः षोडशैव प्रचोदिताः | मध्येशाय प्रदानह पंचमे तु प्रकाशते || मासादि निर्णयः षष्ठः प्रकाशे तु प्रकीर्तितः | दीक्षाविधिर्द्धनाद्यादौ परिधा ग्रहणे भुवः || वास्तुयागविधेरादौ तस्योत्पत्तिः प्रकीर्तिता | तन्मंण्डलं च शास्त्रोक्तं तत्र देव विनिर्णयः || वलिमंत्राश्च तंत्रोक्त वास्तुमण्डल दैवते | प्रकाशे सप्तमे प्रोक्ते चाष्टमेथ निगद्यते || दिक्साधनं मण्डपस्य कुण्डादेर्ल्लक्षणानि च | अंकुरा रोपणं प्रोक्तं नवमे तु प्रकाशके || गुरोर्निमंत्रणविधिर्दंतकाष्ट शुभाशुभं | स्वप्नः संप्रार्थन विधिर्वह्नेः स्थिति विवेचनं || कुण्डसंस्कार पूर्वं हि वह्निसंस्थापनं पुनः | दीक्षायादि न कृत्यं च तदंगह वनं ततः || मंत्रप्रदानभेदोस्ति वामदक्षिणमार्गयोः | उपदेशः कुलस्त्रीणां दीक्षाभेदोपदेशकौ || उपासनाविधिः स्वप्नलब्ध मंत्रस्य निर्णयः | मनोर्गुरोश्च देवस्यत्यागोदश प्रकाशके || आचारा दशधा प्रोक्ता महानीलादयः क्रमात् | श्यामादि विद्या विषये त्रयोदश प्रकाशके || दिव्यवीर पशूनां च भावावाला प्रपूजने | योग्यायोग्य विवेकोस्ति चतुर्दश प्रकाशके || सात्विकादि प्रभेदेन पूजा भिन्नाः प्रकीर्तिताः | पृथक् मोक्षप्रदं कर्म प्रातःकृत्य विधिस्ततः || अजयाया विधानं च स्नानं नानाविधं स्मृतं | विभूतिधारणं संध्या चंदनं च क्रमात् पुनः || गायत्रीणां समुद्धारः प्रकाशति स्मसंख्यके | पूजाप्रसंसा द्वारार्चासनं भूतापसारणं || भूतशुद्धिर्मातृकादिः कलासंख्या प्रकाशके | अंतर्ययजनकर्माणि चार्घ्यादि स्थापनेविधिः || द्रव्याणि यंत्रलिखने पीठनिर्णयमेव च | सालग्राम शिलायाश्च उत्पत्तिर्लक्षणानि च || हरींशाद्रिसुता सूर्यगणेश दिक्पतिग्रहाः | एतेषां भेदतो भेदः सम्यगुक्त पृथक् पृथक् || प्. २अ) मुद्राः सर्वोपचारेषु प्रत्येकं लक्षणादिकं | नित्यहोम विधिर्भूत वलिरा रात्रिकं ततः || देवता भेदतो भिन्ना करमाला प्रचोदिता | ब्रह्मार्पणादिकं सर्वं सप्तदश प्रकाशके || कुलमार्ग समुत्पत्तिः पंचशुद्धिर्विधिस्ततः | शक्तिशुद्धिस्तु कौलादेर्विशेषन्या स निर्णयः || द्रव्यदान विवेकस्तदुत्पत्तिः पाककर्मणि | मांसादेर्निर्णयः सम्यङ्मकारस्यानु कल्पकं || आन्तरीय विशेषस्तु संस्कारं कथनं क्रमात् | पात्रसंख्या प्रकथने मानसेष्ठादिनिर्णयः || महापात्रस्य च पुनः साधनं लक्षणं शुचिः | श्रीपात्रस्थापनादिश्च तर्पणं तत्वशोधनं || वटुकादि वलिश्चाष्ठा दशमेस्ति प्रकाशके | पूजोपचार मंत्रश्च कुलद्रव्याणि सेवनं || ऊनविंशति संख्येस्मिन् प्रकाशे प्रकटीकृतं | भोजनादि विधिः सायं तन्नीय कृत्यलेखनं || शिवावलिर्न्निशाकृत्यं नित्यभेद विनिर्णयः | लिखितो विंशतितमे प्रकाशे सर्वसंमते || श्यामा पूजाक्रमस्त्वेक विंशत्याद्य प्रकाशके | स्तोत्रादि लिखनं सम्यक् विंशति प्रकाशके || महाकालादि नित्यानां मंत्रोद्धारादिकं पुनः | त्रयोविंशति संख्येस्मिन् प्रकाशे प्रकटायते || तारार्चन क्रमोवेव विंशत्याद्य प्रकाशके | प्रचण्ड चण्डिका पूजा पंचविंशति संख्यके || श्रीविद्याया क्रमः सम्यक् षड्विंशति प्रकाशके | भैरवी च महालक्ष्मी मातंगी भुवनेश्वरी || धूमावती च वगला तासां पूजा पृथक् पृथक् | सप्तविंशति संख्येस्मिन् प्रकाशे प्रतिपादितं || चक्रपूजा पूर्व कृत्यं सामग्री लक्षणं ततः | द्विविधं यजनं तत्र दूतानां लक्षणं पृथक् || दशविद्या क्रमेणैव दूतीयाग विधिस्ततः | चक्राचारः कृतोप्यष्टा विंशत्याद्य प्रकाशके || प्रस्तारादिश्च यंत्राणां क्रमाद् दक्षिण वामयोः | प्रतिष्ठाद्विविधा प्रोक्ता ऊनविंशत् प्रकाशके || चलाचलाद्विधा माला देवताम्नाय भेदतः | पृथक् पृथक् वला प्रोक्ता रुद्राक्ष संभवादिकं || महाशंखादिभिर्भिन्ना महाफलविनिर्णयः | ग्रथनादि विवेकस्तु संस्कारादि विधास्तथा || महामाला विनिर्माणं संस्कारौ मुख्यभेदयोः | जाग्रतीकरणं तस्याः प्रोक्तं त्रिंशत् प्रकाशके || प्. २ब्) कालचार्थस्ततोंगानिपुरश्चरणकर्मणः | विघ्नराजविधिर्विद्या विशेषाम्नायनिर्णयः || क्रमेण दशविद्याया जपसंख्यादि निर्णयः | सर्वसिद्धिप्रदं स्थानं देवतानां पृथक् पृथक् || पीठानां च समुत्पक्तिः क्षेत्रस्य ग्रहणे विधिः | कूर्मचक्र परिज्ञानमभिषेकविधिस्ततः || कार्याकार्य विचारस्तु संकल्पकरणं ततः | जपस्य कालकथनं रहस्यमतु सूतके || मंत्रविद्या विभेदेन प्रबोधकाल निर्णयः | तयोर्भेदे मंत्रशिखा मंत्र चैतन्यकं ततः || क्रमेण दशविद्यायाः कुल्लुका विधिरीरितः | सेतु विप्रादिभेदेन निर्वाण कथनं ततः || शापोत्कीलनयोर्भेदः सापोद्धारो सितामनोः | मंत्रस्य हृदयं चार्थनिर्णयोर्न विशेषतः || जपस्यारंभ भेदादि पुनर्वीरपुरस्क्रिया | शावरस्य च स्तोत्रादेश्चैक विंशत् प्रकाशके || मंत्रसिद्धेरुपायाश्च चितासाधन कर्मध | वीरसाधन भेदाश्च विद्यायां च पृथक् पृथक् || जपसंख्या प्रमाणं च युग्म त्रिंशत् प्रकाशके | नैमित्तिकस्य कालादि कुलाकुल विनिर्णयः || ग्रहणं द्विविधं प्रोक्तं वाह्याभ्यंतरभेदतः | दमनारोपणोत् पत्तिर्द्दमनारोपणे विधिः || पवित्रारोपणोत्पत्तिः पवित्रारोपणे विधिः | ग्रंथिर्भेदो देवता या त्रयस्त्रिंशत् प्रकाशके || शारदीयविधानं च चतुःस्त्रिंशत् प्रकाशके | पशुदाने विवेकस्तु पशुभेदादि निर्णयः || देवता तृप्तिकालश्च पशोर्लक्षणवीक्षणं | नराणां प्रोक्षणं खड्गलक्षणं पात्रनिर्णयः || शुभाशुभं च नैवेद्यं पंचत्रिंशत् प्रकाशके | कुमारी पूजनविधौ तासां लक्षण निर्णयः || शुभाशुभादि संकेतः ऋतुत्रिंशत् प्रकाशके | सामान्यतः काम्यविधिः षट्कर्म क्रमनिर्णयः || तेषां प्रकीर्णकथनं आसनादि निरूपणं | मंत्रग्रथनभेदादि माला कुण्डादि निर्णयः || होमद्रव्यप्रमाणं च सप्तत्रिंशत् प्रकाशके | क्रमेण दशविद्यायाः प्रयोगश्च पृथक् पृथक् || प्रायश्चित्त विधिः पश्चादष्ट त्रिंशत् प्रकाशके | साम्राज्य मुद्रिका पश्यन् यंत्राणां लक्षणं क्रमात् || प्. ३अ) मंत्रीणां धारणायो न चत्वारिंशत् प्रकाशके | प्रत्येकं मातृवर्ण ध्यानादीनां निरूपणं || क्रमेण दशविद्यायाः मंत्रभेदाः प्रकीर्तिता | नानाप्रयोगमंत्राः स्युश्चत्वारिंशत् प्रकाशके || कुमारी योगिनी काली वाराहि कुब्जिका परा | नारायणी मुंडमाला चामुण्डा भुवनेश्वरी || गौतमी समसूत्रामणिर्विजयमालिनी | लेएलावती गुह्यसिद्धिर्मालिनी परमेश्वरी || प्रचण्ड चण्डिका शंभू नित्या कात्यायनीति च | फेत्कारी भैरवी भूतसिद्धि सिद्धेश्वरी तथा || मेरुनीलमतंगाश्च शक्तिसंगम भैरवी | साख्यायनं किरणाख्यं गंधर्व भूतभैरवौ || वीरार्द्दनं वीरभद्रं रुद्रकालानरोत्तरे | सिद्धिसारस्वतं हाहारावो मंथानभैरवः || सिद्धेश्वरो विश्वसारस्तथा वौद्धायनं पुनः | माहेश्वर महाहारौ कालाग्निश्च मृडाण्यपि || एतेषामं ततो ज्ञेयास्तंत्रशब्दः पृथक् पृथक् | सिद्धनाथो महाकालो दक्षिणामूर्तिरेव च || सुरेन्द्र ब्रह्मगोरक्षा वै शंपायनमेव च | नंदिकेश्वर वायव्यौ वाराही शांभवीति च || सनत्कुमारः श्रीकण्ठोप्यगस्त्यस्तत्वसारकौ | वसिष्ट पुनरेतेषामं तस्याच्छंहिताभिधा || ब्रह्मविष्णुरुद्रसिद्धदेव्युमाचंद्रशक्तयः | एतेषामं ततो ज्ञेया यामलं चाष्टसंज्ञकं || कुलवीर मंत्रभाव चूडामणिभिरीरितः | हयग्रीवं नारदाभ्यां महाकपिलतो भवेत् || पंचरात्र ततो देवी शैवलिङ्गागमानि च | कुमारी विजया काली ताराकल्पाश्च विश्रुताः || मातृमंत्र ज्ञानानि कुलगुप्ता कुलानि च | माघश्चेतेभ्यः शब्देभ्योप्यर्णवं परिकीर्तितं || रहस्य क्रमतः कुल्लोलिनी श्रीमतकालयोः | उत्तरं च पदं ज्ञेयं चण्डी पीठं प्रकीर्तितं || नित्याह्निकोमा तिलके चोड्डीशं कुलपूर्वकं | स्वायंभुवः सोमशंभुस्तथैव पिंगलामतं || षडन्वयो महारत्न नवरत्नेश्वरावपि | कामधेनुमतं कुंभकुलसंभवसंज्ञकौ || कालिक्रमोमत्स्यसूक्तमुदयाकर पद्धतिः | योगिनी हृदयं चेति काली हृदयमेव च || त्रिशक्तिरत्नकं सोमभुजंगा वलिरेव च | कुलावतारकं पद्यवाराही हरपूर्वतः || प्. ३ब्) गौरी संवादकं ज्ञेयं समाकर्ण्यकमातृका | तूर्णायागश्च ललित स्वच्छंदं परिकीर्तितं || कुलप्रकाशकं चेति कुलामृत प्रदीपिका | नवदुर्गा कल्पसंज्ञं कुलमूलावतारकं || तंत्रराजश्च कामाख्या शब्दात् पंचासिकाः स्मृता | कुलरत्नद्योतकंस्यादेतेभ्यः ग्रंथमध्यतः || वचनाति समानीयं लिख्यते क्रियते न तु || जातीकदंव करवीर कुशेशयादि पुष्पेभ्य मकरंद कणाप्रसिद्धा || आनीय संचयतियन्मधुमक्षिका सा गृह्नंति दैवत विधौ विबुधान किं तत् || श्रीदेव्युवाच || त्राहि त्राहि महादेव शरणागतवत्सलः | साहंकारावयं मूढा ईश्वरा इति वादिनः || महाकालः कथं ज्ञेयः कथं मुक्तिर्भवेच्छिव | मुक्तयः कतिधादेव श्रेष्ठा का किंच साधनं || यदास्माकं यदि कृपा देव्या विष्णौ सुरेषु च || श्री-ईश्वर उवाच || ज्ञायते तत्प्रभावेण सकलं वेदवाक्यतः | देवेभ्यः सारमुद्धृत्य यत् कृतं शंकरेण वै || वेदाधिकतया देवीश्चागम परिकीर्तितः | आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखं || मलत्रय विनाशित्वात्तस्मादागम उच्यते | आगमोत्पत्ति संख्ये च कथ्यते शृणु सांप्रतं || सार्द्धवर्षाष्टको ब्रह्मा यदा जातस्तु देवताः | अहंकारीं महान् जातस्तंत्र विद्या प्रभावतः || तदा तस्मिन् कलियुगे शिश्नोदर परायणाः | नादृतास्तैस्तु वेदादि स्मृतया वै वृथागमे || खानं पानं मैथुनं च देशे देशे पुरे पुरे | न कश्चिन्मन्यते विष्णुं गणेशं नरविंशिवं || मत्वा सर्वं जगच्छाक्तं भगपूजां प्रकुर्वंते | तदा वटुकरूपेण मया मृष्टाः पितामहः || ब्रह्मणादिश्यतां धर्मोवयं येन तरेन हि | तदा तु ब्रह्मणा प्रोक्तं ममोर्द्ध्व मुखनिर्गतः || आगमः पंचमो वेदो भुक्तिमुक्तिप्रदायकः | तदाद्य कलिसद्ये तु मया प्रोक्तं पितामहः || ब्रह्मणेर्दत्वया वाच्यं सृष्टिकर्ता सदाशिवं | तदा पितामहे प्रोक्तं कर्ताहं चापि रक्षकः || ममोर्द्ध्वमुखतो जातं मन्यसे चान्य आगमः | एवं तदाचार निष्टायास्यंति मरमांगतिं || चदुस्त्वं वेत्सिनो सौख्यं खानपानांगनाभवं | इति श्रुत्वा ब्रह्मवचो धर्मसंस्थापनाय तु || प्. ४अ) युगत्रयस्तदाजातः क्रोधसंरक्तलोचनः | अवज्ञां वीक्ष्य धातुश्च प्रखरेण नखेन च || शिरो निपातितं धातुः करांगुल्याद्धरातले | तन्मुखा पंचमो वेदो ममदेहेलयं गतः || तस्मादागमकर्ताहं वेदकर्ता पितामहः | पंचाशद्वै महापद्माह्यागमं ग्रंथ ईरितः || तंत्र मंत्रा महादेवि सर्वेपि सुप्रतिष्ठितः | त्रिंशन्निखर्वषट् वृंद नवत्यर्वुदकोटयः || मंत्रा प्रोक्ता महेशानिह्यागमं कुत्र किं स्थितं | तच्छृणुत्वं महेशानि यद्यहं तव वल्लभः || महत् पंचाशपद्मे तु षट्विंशति भुविस्थितं | चतुर्दशस्थितं स्वर्गे दशपाताल गोचरं || एवं क्रमेण देवेशिह्यागमः कथितो मया | आगमे सर्वशास्त्राणि ह्यागमे सर्वदैवतं || आगमे सकलं पुण्यंमागमे किं न लभ्यते | आगमं सकलं ज्ञानं विद्याः सर्वाः प्रतिस्थितां || अथ सृष्टिक्रमः || मंत्रशास्त्रस्य सिद्ध्यर्थमाविर्भवति पार्वती | अनादि विद्या काली च महाताराभिधा परा || षट्शांभवेश्वरी विद्या वाच्या तीता पराकला | महाप्रलयमासाद्यकोटि ब्रह्माण्डनायिका || शिवशक्तिमयं देहमेकी कृत्य सदास्थिता | कोटिवक्त्रा भवाद्यास्तु ब्रह्माणः प्रेतरूपिणः || तछ्मशाने प्रनृत्यंती गायंती ध्यान संकुला | चितिरक्षा स्वरूपत्वं प्राप्यतिष्ठति पार्वती || माहेश्वराणामानंत्यं संति विष्णोरनेकताः | शक्रादीनां तु गणनानास्त्येव प्रियवादिनी || नद्यां तु वालुकायावत्तावदिंद्रापुरेरिताः | कीटाद्ब्रह्माण्डपर्यंतं स्थावरंजंगमादिकं || एकैकवारमिंद्रत्वं गतं तत्पुनरप्यलं | अनंतकोटि ब्रह्माण्डे यावतः परमाणवः || तावंतः संस्थितं भूमौ चितिरूपिस्थ रूपतः | माहेश्वरी समेतानां ब्रह्माणी कोटिकोटयः || तिष्ठंति देवदेवेशि चतुर्वेदाः शवास्मृता | युताश्च शवरूपेण सप्तप्रेतगता परा || सामरस्यं समासाद्य सर्वरूपा समाहितां | विन्दुव्यापक रूपेण स्वरूपं विभ्रतीपरं || एकस्मिन्नेव काले तु स्वविंवं पश्यती शिवा | तद्बिम्बं तु भवेन्माया तत्र मानसिकं शिवं || प्. ४ब्) सृष्टेरुत्पादनार्थं तु भर्तृरूपम कल्पयेत् | आदिनाथं तु मनसा कल्पातीत स्वरूपिणं || तं विलोक्य महेशानि सृष्ट्युत्पादन कारणात् | आदिनाथं मानसिकं स्वभर्तारं प्रकल्पयेत् || विपरीतरतिः कृत्वा महाशून्यं विधाय च | त्रिंशदर्बुदषट्वृंद पंचाशत् पद्मकोटयः || युगानि परमेशानि विपरीतरता भवेत् | विपरीत रतौ देविविंदुरेको भवेत्पुरा || बिंदुध्वनि सकाशाच्च प्रत्येकं वर्णजातयः | मातृकर्णास्तदा जाता अक्षरेति तदा भवे || ध्वनिना व्याप्तमखिलं जगदेतच्चराचरं | अद्यापि जायते देवि कादंवर्यया ध्वनि श्रुतः || तत्रैका तु सखी जाता महालावण्य कालिका | श्रीमहासुंदरं रूपं विभ्रती परमाकला || तस्यानाम महाकाली सुंदरीति प्रकल्पयेत् | तां विलोक्य महाकालो महामोह परो भवन् || कालीं प्रतिवचः कालो वाणीं गर्वान्वितां परां | उवाच सुंदरी कालो महाकाल प्रियेपरे || त्रैलोक्यसुंदरी काली कारुण्या मृतसागरे | द्वितीय वाक्यं देवेशि कालीमुवाच शंकरः || महाघोरे शिवारावे क्रूर दंष्ट्रा करालिनी | ललजिह्वे भीमनादेर्दूदृशं वचनं वदन् || ईदृशं वचनं श्रुत्वा निर्गुणा परचण्डिका | अनादिरूपा श्रीकालीसोमोत्पादन तत्परा || कालो मोहवशं जातः कालिका मायया शिवे | अनादि सृष्टोरुत्पत्तिःकारणार्थं महेश्वरी || ब्रह्माण्डानामथेशस्त्वं मायया कथितं क्षणात् | कालस्य मायां ज्ञात्वा तु स्वयं व्याप्यत्वतांगता || कालस्तु चकितो जातः सा वै कुत्र गता प्रिया | हाहाप्राणप्रियाकाली सा वै कुत्र गता प्रिया || इति मोहवशं यातः श्मशानाटन तत्पराः | एवं मोहवशं जातो भ्रांतचित्तस्तदा भवेत् || दर्शनार्थं तपस्तेपे पंचाशत् पद्मकोटयः | युगानि तत्र जातानि न कालीदर्शनं शिवे || कालस्य जातं देवेशि मार्गभ्रष्ट परायणः | इति ज्ञात्वा महाकालः ज्ञानं दत्तं महेश्वरी || आकर्षणाख्या बुद्धिस्तुदत्ता कालाय पार्वती | भक्तिप्रिया महाकाली श्रीमहादक्षिणामता || वरदानेषु त्वरिता तेनेदं दक्षिणा स्मृता | आकर्षणं कृतं तेन जातं तत्क्षण मात्रतः || काल्या ज्ञानं महेशानि मार्गव्यक्तिपरायणः | कालो जातो महेशानि महाभक्ति प्रियोवचः || प्. ५अ) शिवाकर्षणकं कर्म मिथुनत्व प्रदायकम् | इति ज्ञात्वा महेशानि आगत्यं तु शिवांतिके || तदा स्वमनसा वालां शक्तिं कृत्वा महेश्वरी | आनीयादाच्च कालस्य मार्गाभ्यासार्थमेव तु || मार्गं विना महेशानि गतिरत्र कथं भवेत् | तत्राभ्यास युतः कालः कुण्डली ध्यान तत्परः || मनुष्याणां कुण्डली तु सार्द्ध त्रिवलया स्मृता | श्रीदेव्याः कुण्डली देवी स्वेच्छया गुणिता शिवे || त्रिगुणाश्री त्रिशक्तिश्च यदा वेदगुणा भवेत् | चतुर्वर्णा चैक जटा चतुर्वेदेश्वरी परा || यदा पंचगुणा देवि महोग्रा तु तदा भवेत् | यदा षट्गुणिता शक्तिः सिद्धि काली प्रकीर्तिता || यदा सप्तगुणां शक्तिः सप्तार्णा कालसुंदरी | यदाष्टगुणिता शक्तिरष्टार्णा भुवनांविका || यदा नवगुणा शक्तिर्नवार्णा चण्डिकेश्वरी | यदा दशगुणा जाता दशविद्यास्वरूपिणी || यदा रुद्रगुणा जाता श्मशानकालिका भवेत् | यदा सूर्यगुणा देवि द्वादशी चंद्रभैरवी || यदा कामगुणा देवी कामभेदा च तारिणी | चतुर्द्दश गुणा जाता महापंचदशी स्मृता || कलागुणा यदा शक्तिः श्रीमहाषोडशी तदा | कलातीतागुणा देवी छिन्नमस्ता तदा भवेत् || अष्टादशगुणाः प्रोक्ता महामधुमती भवेत् | ऊनविंशद्गुणादेवी महापद्मावती तदा || गुणिता विंशति यदा विंशद्वर्णा रमा भवेत् | एकविंशद्गुणादेवि प्रोक्ता श्रीकामसुंदरी || द्वाविंशद्गुणितादेवी दक्षिणा कालिका तदा | त्रयोविंशद्गुणादेवि विद्येशी तु तदा भवेत् || गुणिता तत्व संख्याभिर्गायत्रीस्या तदा भवेत् | पंचविंशद्गुणादेवी पंचमी सुंदरी तदा || षड्विंशद्गुणिताशक्तिः षष्ठिविद्या प्रकीर्तिता | सप्तविंशद्गुणादेवि महारत्नेश्वरी परा || अष्टाविंशतिधा सा वै गुणिता परमा कला | अष्टाविंशत्यक्षरी सा मृतसंजीवनी परा || ऊनत्रिंशद्गुणादेवी महानीर सरस्वती | त्रिंशद्गुणा यदा विद्यावसोर्द्धारा तदा स्मृता || एकत्रिंशद्गुणा देवी त्रैलोक्यमोहिनी भवेत् | द्वात्रिंशद्गुणिता चेत्स्यात्त्रैलोक्य विजया स्मृता || त्रयस्त्रिंशद्गुणा चेत्स्याच्छ्रीमछ्री कामतारिणी | चतुस्त्रिंशद्गुणा शक्तिरघोराख्या तदा भवेत् || पंचत्रिंशद्गुणादेवी संगीतमोहिनी भवेत् | षड्त्रिंशद्गुणिता विद्या वगलाख्या तदा भवेत् || प्. ५ब्) सप्तत्रिंशद्गुणाशक्तिः प्रोक्ता विद्यात्वरुंधती | अष्टात्रिंशद्गुणा चेत्स्यादन्नपूर्णेश्वरीमता || गुणितो न चत्वारिशन्नकुली परिकीर्तिता | चत्वारिंशद्गुणाशक्तिः प्रोक्ता विद्या त्रिकंटकी || गुणिता एकचत्वारिंशत् तदा राजेश्वरी कला | द्विचत्वारिंशद्गुणिता त्रैलोक्याकर्षणी तदा || त्रिचत्वारिंशद्गुणिता राजराजेश्वरी स्मृता | चतुश्चत्वारिंसद्गुणिता कुक्कुटी परिकीर्तिता || चत्वारिंशत् षष्टगुणाः प्रोक्ताः श्रीमृत्युहारिणी | चत्वारिंश मुनिगुणा महाभोगमतीमता || चत्वारिंशद्वसुगुणा वासवी परिकीर्तिता | ऊनपंचाशद्गुणिता फेत्कारी परिकीर्तिता || पंचाशद्गुणिता देवी महाश्रीमातृसुन्दरी | पंचाशच्चंद्र गुणिता मातृकोत्पत्ति सुंदरी || एकैक मातृका वर्णं प्रतिविद्याः सकाशतः | उत्पन्ना परमेशानिस्वोत्पत्तिषुपरायणा || यो भावो यस्य वै प्रोक्तस्तद्भावे संस्थिता शिवा | स्वेच्छाया वरयं कृत्वा यथा कुण्डलिनी स्थित || तथा विद्यासु संजाता अक्षोभ्य मुनिरूपिणी | सार्द्ध त्रिवलयादेवी मनुष्यस्य प्रकीर्तिता || एवं विद्या समुत्पन्नाः कुण्डलीतो महेश्वरी | येन तुष्टासु यापूर्वा स तस्या ऋषिरीरितः || उपासकास्तदन्येस्युरिति संक्षेपतो मतं | अथातो ब्रह्मदेवे शिष्याष्यास्यामि यथा क्रमं || वीजांकुर स्फटिजवा ब्रह्मेति परिकीर्तितं | तदिदं ब्रह्म चाख्यातं कालकालीमयं परं || दावधि वर्णितो वाक्यं तावत्सगुणतागतं | तदेव सगुणं ब्रह्मवर्णना शक्तिगोचरं || वर्णनायामशक्तिर्हि यदा जाता महेश्वरी | तदेव निर्गुणं प्रोक्तं सगुणं वाच्यगोचरं || वाग्भवं मुखमित्युक्तं मुखादुच्चार्यते च तत् | अवाच्यं यद्भवेद्ब्रह्म तत्कथं मुखगोचरं || स्वाशक्त्या यंत्रितच्च तस्माच्छक्ते प्रधानताः | शक्तिकोणे महेशानि ब्रह्माण्डानामनंतकं || सर्वं तिष्ठति देवेशि जगदेतच्चराचरं | तस्या कुण्डलिनी शक्ति रक्षोभ्य नागरूपिणी || स्वेच्छयागुणितादेवि स्वेच्छावर्णः स्वरूपिणी | ब्रह्माण्डगोला देवेशि काल्या तस्मै प्रदर्शितः || प्. ६अ) ब्रह्मगोला विष्णुगोला रुद्रगोलस्तृतीयके | लोकेश गोलदेवेशि देव गोलस्ततः शिवे || ततो हि ऋषिगोलो हि क्रमाद्गोलाश्च कोटिशः | परंब्रह्म च प्रकृतिः प्रतिबिम्बः स्वरूपिणी || महत्तत्वं ततो जातमहंकारस्ततः परं | आकाशस्तु ततो जातस्ततो वायुः प्रकीर्तितः || ततोग्नि पूजातोग्र अग्नेरापः प्रकीर्तितः | पानीयात् पृथिवी जाता ततोह्यौषधयः शुभाः || औषधीभ्यो भवेदन्नं अन्नात्प्राणः प्रकीर्तितः | प्राणाज्जीवो हि संजातो जीवात्मा परमात्मकौ || ब्रह्मविंवात् सर्वमेतज्जगदेतच्चराचरं | अत एव भवेद्ब्रह्मजगदेतच्चराचरं || सत्वं रजस्तम इति ब्रह्मविष्णुशिवादयः | ये चान्ये वहवो भूताः सर्वं प्रकृति संभवाः || सैव देवी महाशक्तिः श्यामा दक्षिणकालिका | सैव प्रसूयते विश्वं विश्वं सैव प्रयाति च || सैव संहरते विश्वं जगदेतच्चराचरं | आधारं सर्वभूतानां सैव रोगार्तिहारिणी || इच्छाक्रिया तथा ज्ञाना ब्रह्मविष्णुशिवात्मिका | त्रिधा शक्तिः स्वरूपेण सृष्टिस्थित्यंतकारिणी || सृजति ब्रह्मरूपेण विष्णुरूपेण पाल्यते | संहरेद् रुद्ररूपेण जगदेतच्चराचरं || यस्या योनौ जगत्सर्वे मध्ये प्रवर्ततेखिलं | यस्यां प्रलीयते विश्वं यस्यां तज्जायते पुनः || यां समाराध्य त्रैलोक्यं संप्राप्तं पदमुत्तमं | तस्माद्भेदं प्रवक्ष्यामि सावधानावधारय || कदाचिदाद्या ललिता पुंरूपा कृष्णविग्रहा | लोकः संमोहनार्थाय स्वरूपं विभ्रतीपरा || वेणुनाद समारंभ सर्वसंमोहन क्षमा | कदाचिदाद्याः श्रीकालीसैव तारोस्तिपार्वती || कदाचिदाद्याः श्रीतारापुंरूपारामविग्रहा | रावणस्यवधार्थाय देवानां स्थापनानि च || दैत्य संहारणार्थाय पुंरूपं विभ्रती परं | आद्या तारा महाशक्तिः सैवकाली महेश्वरी || या महावैष्णवी माया सा महासुंदरी मता | नैव स्त्री न पुमानेषा नैव चाग्नि नपुंसकं || यद्यच्छुरी रमाधत्ते पूज्यते तेन तेन सा | कदाचिज्जायते सा स्त्री कदाचिदपि सा पुमान् || तां तां तनुं वितनुते लीलार्थमरिमर्द्दनी | सर्वभेदाः कालिकाया सैवाद्याः परिकीर्तिताः || श्रीदेव्युवाच || देवेश श्रोतुमिच्छामि सिद्धिविद्यादि निर्णयः | तत्वं कथय देवेश यदिमेकरुणा तव || प्. ६ब्) श्रीशिवोवाच || चतुर्युग क्रमेणैव भेदभेदांतरे शिवे | सत्ये काली च श्रीविद्या कमला भुवनेश्वरी || सिद्धिविद्या महेशानि त्रिशक्ति वगलाशिवे | महाविद्या सत्ययुगे मातंगी भैरवीशिवे || धूमावती च विद्यास्यात् त्रेतायां शृणु पार्वती | कालीतारा सुंदरी च सिद्धिविद्या प्रकीर्तिता || मातंगी भुवना लक्ष्मी महाविद्या प्रकीर्तिता | धूमावती भैरवी च विद्यात्वेन महेश्वरी || द्वापरे कालिका तारारोधिनी भैरवी तथा | सिद्धिविद्या महेशानि सुंदरी भुवना रमा || धूमावती महाविद्या मातंगी कमला तथा | विद्यात्वेन महेशानि कलौकाली तु केवलं || कालीतारा छिन्नमस्ता सिद्धिविद्या कलौ मता | सुंदरी भैरवी लक्ष्मी मातंगी भुवनेश्वरी || महाविद्या महेशानि धूमा च वगला शिवे | विद्यात्वेन महेशानि कलौ संकीर्तिता मया || कालिकायां महाकालश्चा क्षोभ्यस्तारिणी मनौ | त्रिपुरायां तु राजेशो वगलायां च त्र्यम्वकः || मातंग्यां तु महेशश्च भुवनेस्यां महेश्वरः | नारायणो महालक्ष्म्यां महादेवं शृणु प्रिये || छिन्नायां तु करालस्यात् सिद्धायां कुक्कुटेश्वरः | धूम्रायां तु अघोरः स्यादिति संक्षेपतो मतां || शक्त्या विना शिवे सूक्ष्मे नामधाम न विद्यते | शिवं विना चित्कलायां न कलात्वं क्वचिद्भवेत् || बिजांकुरन्याय योगाच्छिव शक्त्यात्मकं महः | सदा जागर्ति देवेशि नानारूपाणि दर्शयत् || सर्वाभावे तु वटुक्तो महाकालस्तथैव च | तारिणां वटुकः प्रोक्तः काल्यां कालः प्रकीर्तितः || कलौ काली कलौ कली कलौ काली तु केवला | साधिता कालनाथेन प्रत्यक्षा कालिका वलौ || कलौ कालीं विहायाथ यः कश्चिन् मोक्षकार्मुकः | स भोजनं विना सूनं क्षून्निवृत्तिमभीप्सति || कलौकालीं विहायाथयः कश्चिच्छांतिमिच्छति | सहिशीत निवृत्त्यर्थं हिमशैलं निषेधिते || कलौ कालीं विहायाथयः कश्चिन्मोक्षकार्मुकः | स सिद्धान्नं परित्यज्य विषभोजनमिच्छति || कलौ कालीं विहायाथ यः कश्चित्काव्यमिच्छति | स तु दुःखनिवृत्त्यर्थं पापानि कुरुते सदा || स दरिद्रो महामूर्खो ममद्रोही स एव तु | युगत्रयेषु देवेशि कलिपूर्वेषु तत्वतः || प्. ७अ) अन्या विद्यामपि भजन् सिद्धिमाप्नोति मानवः | कलौ काली स्पर्शमणिर्नान्या विद्या कदाचन || श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा | अज्ञानाद्ज्ञानतो चापि सलीलं वा सहेलया || स्मृतापि सिद्धिदा काली सकृदेव महेश्वरी | चतुर्युगानां राज्ञी वै कालिका परिकीर्तिता || विद्याराज्ञी सिद्धि विद्या कलौ शीघ्रफलप्रदा | नामैक्याद्रूप साम्यार्द्ध महाविद्या प्रकीर्तिता || महाविद्या सिद्धिविद्या विद्याभेदैः प्रतिष्ठिता | उपविद्यादिभेदैश्चकालिका संस्थिता भुवि || ताराद्याः सकला विद्या कालिकायां अजायत | सर्वविद्या कालिकायां संस्थिता एव पार्वती || शक्तिः शिवशक्तिर्ब्रह्मा शक्तिर्विष्णुर्जनार्द्दनः | शक्तिरिंद्रोरविःशक्तिशक्तिश्चंद्रो ग्रहाः ध्रुवं || शक्तिरूपं जगत्सर्वं यो न जानाति नारकी | तेषां मध्ये प्रजातं तु कालीरूपं मनोहरं || विशेषतः कलियुगे नराणां भुक्तिमुक्तिदं | कलिर्हिग्रस्यादासस्य पादपूजां करोति हि || इति श्रीतंत्रचिंतामणौ सृष्टिक्रमनिरूपणात्मक प्रथमप्रकाशः || १ || अथ दक्षिणकाल्यास्तु मंत्रमुद्धारयाम्यहं | यदेकचारस्मरणात् किं तद् यत्नकरेस्थितं || क्रोधि संवह्नि संयुक्तं त्रिमूर्तींदुः समायुतं | त्रिलिखेत् परतो देवि हूंकारद्वयमेव हि || मायाद्वयं समालिख्य अत्रिः संवर्त सूक्ष्मयुक् | ने कालिके सप्तवर्णान् पूर्ववत् परमेश्वरी || स्वाहांतेयं महाविद्या द्वाविंशत्यक्षरी परा | मनसा विश्वविज्ञानं त्राणं संसारवंधनात् || यतः करोति संसिद्धि मंत्र इत्युच्यते ततः || अथ विद्यामाहात्म्यम् || नात्रसिद्धादि चिंतास्ति नारि मित्रादि लक्षणं | तया प्रयास वाहुल्यं न कायक्लेश संभवं || अस्याः स्मरण मात्रेण सिद्धयोष्टौ भवंति हि | एवं समस्तविद्यानां राज्ञीं स्तोतुं न शक्यते || नवकोटि सहस्रैस्तु जिह्वाकोटि शतैरपि | सर्वसिद्धिप्रदा देवी अनिरुद्ध सरस्वती || तस्मादस्या ज्ञानमात्रात् सिद्धयः संभवंति हि | अनिरुद्ध सरस्वत्या ज्ञानमात्रेण साधकः || पाण्डित्वं च कवित्वे च वागीश समतां व्रजेत् | तस्य पाण्डित्य वै दग्धं विचित्रपद्यकल्पनात् || देवा अपि विलजंते किं सुप्तुर्मानुषादयः | अपि चेत् त्वत्समानारीमत्समः पुरुषोस्ति चेत् || अनिरुद्ध सरस्वत्यासमो मंत्रस्तदा भवेत् | य एतां चिंतयेन् मंत्रिः सर्वकाम समृद्धिदां || प्. ७ब्) तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः | गद्यपद्यमयी वाणी सभायां तस्य जायते || ब्रह्महत्या सुरापानमगत्यागमनानि च | सर्वमाश्रुतरत्येव दक्षिणामेव चिंतयन् || वागीश्वरः समोवाचीधनेन धनदोपमः | चंद्रसूर्यः समो भूत्वा वसेत् कल्पायुतं दिवि || इत्यादिमादिकं चैव वहुः किं कथ्यते पुनः | न तस्य दुर्लभं किंचिद्यः स्मरेघोरकालिकां || अश्वमेधैश्च गोमेधैर्नरमेधैस्तथापरैः | दानैश्च विविधैरन्यै होमैर्नानाविधैरपि || अनेकपुण्य संभारैर्यदि संप्राप्यते परा | विद्याराज्ञी घोरकालीह्य निरुद्ध सरस्वती || ज्ञात्वैव मुक्तिमाप्नोति किं पुनः कथ्यते परं | मंत्रस्य ज्ञानमात्रेण विजयीभुवि जायते || तस्या लोक न मात्रेणवादिनोनिः प्रभामताः | राजानोपि हि दासत्वं भजेते किं परे जनाः || वह्नेः शैत्यं जलस्तंभंगतिस्तंभं विवस्वतः | दिवारात्रि व्यत्ययं च स कर्तुं भवति क्षमः || अस्यास्तु ज्ञानमात्रेण जीवन्मुक्तः प्रजायते | बृहस्पति समो वाग्मी धरणी सदृशः क्षमी || श्रीरामसदृशो वीर्येरूपे काम समः स्मृतः | समुद्र इव गांभीर्ये तेजसा भास्करोपमः || दुर्वासा इव शापादौ क्रोधादौ स यमोपमः | सृष्टौ प्रजापतिः साक्षात् स्थितौ विष्णुः समस्तथा || लये हरः समोह्येषः एतां योवेत्ति तत्वतः | वहुना किमिहोक्तेन समानो नास्ति भूतले || अस्या जपो ब्रह्म जपो ध्यानमस्यात्मचिंतमं | योग संधारणं सम्यक् ध्यानमस्या न संशयः || महापदि महापापे महाग्रह निवारणे | महाभये महोत्पाते महाशोके महामये || महामोहे महासार्थे महादारिद्र संकटे | महारण्ये महाशून्ये महाज्ञाने महारणे || दुरध्वे च दुरावासे दुर्भिक्षे दुर्न्निमित्तके | समस्तक्लेश संघाते स्मरणादेव नाशयेत् || अस्या ज्ञानं ज्ञानमेव ध्यानमस्यात्म चिंतनं | तस्मादस्या समाविद्याः नास्ति तंत्रेन संशयः || ब्रह्मादि भवने तस्य न समः किमुचापरे | स एव सुकृती लोके स एव कुलभूषणः || धन्या च जननी तस्य येन देवी समर्चिता | गामे च तुंवुरुः साक्षाद्दानेकर्णः समोपमः || दत्तात्रेय समो ज्ञानी येन देवी समर्चिता | मेधा प्रज्ञा तथा लक्ष्मीवल्लभः सर्वजंतुषु || प्. ८अ) अस्याः स्मरणमात्रेण देह ज्ञानं प्रजायते | कृते चैवापि त्रेतायां परं चर्चा परे युगे || प्रत्यक्षा देवताः सर्वाभक्ताधीना हि देवताः | गुरुणा करुणा सिंधुवीरेण चकितासिता || सेविता शुद्धबोधेन प्रत्यक्षा कालिकाकलौ | सर्वसिद्धिप्रदा साक्षान्महापातकनाशिनी || देवैर्देवत्व विषये सिद्धैः खेचरसिद्धये | पन्नगैराक्षसैर्मत्यैर्मुनिभिश्च मुमुक्षुभिः || कामिभिर्द्धर्भिश्चार्थमीप्सुभिः सेविता सदा || अथ तारामंत्रः || अथातः संप्रवक्ष्यामि ताअरामंत्रात् कवित्वदं | ओं माया त्रीं हूं फडिति पंचवर्णो मनुर्मतः || अथ छिन्नायाः || प्रणमच्चरमां लज्जां बीजद्वंद्वं च वाग्भवं | वज्रवैरोचनीये ह्रींह्रींफट् स्वाहांतराक्षरः || अथ षोडशी || श्रीबीजं शक्तिबीजं च कामबीजं च वाग्भवं | वालांतः संस्थितं वीजं प्रणवं च ततः परं || शक्तिबीजं रमां चैव विद्यां च परमेश्वरीं | लोपा वा कामराजं वा त्रिकूटामथ चापरां || विन्यस्य पुनराद्यानि वीजानि पंचसुंदरी | विपरीत क्रमेणैव विन्यसेत् षोडशी परा || अथ भैरवी | विपद्भृगु हुताशस्थो मौक्तिको बिंदुशेषरं | वियत्तदादि केन्द्राग्नि स्थितं वामाक्षि विंदुमत् || आकाशभृगु वह्निस्थो मनुः सर्गेन्दुखण्डवान् | पंचकूटात्मिका विद्यादेवी त्रिपुरभैरवी || अथ लक्ष्मी || ऐं ह्रीं श्रीं क्लीं समुच्चार्य हसराद्रौयुताः पुनः | विसर्गांताः पंचमं तु वीजमेतदुदाहृतं || जगत्प्रसूत्यै हृदयं द्वादशार्णो मनुर्मतः | प्रणवादिरयं मंत्रः स्यात् त्रयोदशवर्णकः || अथ मातंग्याः || प्रणवं च ततो मायां कामवीजं च कूर्चकं | मातंगी ङेयुता चास्त्रं वह्निजाया वधिर्मनुः || अथ भुवनेश्वर्याः || अथ वक्ष्ये महेशानि भुवनेशी मनूत्तमां | न कुलीशोऽग्निमारूढो वाम नेत्रार्द्ध चंद्रवान् || अथ धूमावत्याः || अथातः संप्रवक्ष्यामि धूमावत्या मनुं परं | धूं धूं धूमावती स्वाहा मंत्रोष्टाक्षर ईरितः || अथ बगलायाः || तारं मायां समुच्चार्य वदेच्च बगलामुखी | तदग्रे सर्वदुष्टानां ततो वाचं मुखं पदं || स्तंभयेति पदं जिह्वां कीलयेति ततः परं | बुद्धिं विनाशये ह्रीं ओं स्वाहा षट्त्रिंशदर्णकः || इत्येवं कालिकाभेदाद् दशविद्या उदीरिता | देव्या दक्षिण संज्ञाया प्रवक्ष्यामि यथा विधिः || प्. ८ब्) कृते श्रुत्युक्त मार्गः स्यात् त्रेतायां स्मृतिभाषणं | द्वापरे वै पुराणोक्तः कला वागं स संभवः || अशुद्धाः शूद्रकर्माणो ब्राह्मणाः कलिसंभवाः | तेषामागममार्गेण सिद्धिर्नश्रौन्न वर्त्मना || आगमोक्त विधानेन कलौ देवान् यजेत् सुधीः | न हि देवाः प्रसीदंति कलौ चान्य विधानतः || उपासना त्रिधा प्रोक्ता श्रेष्ठा तत्व तु सात्त्विकी | यस्यां च मानसी पूजा जपौ मुख्यतमौ स्मृतौ || राजसो दक्षिणो मार्गः प्रतिमायां च पूजनं | बाह्योपचारैः पुष्पाद्यैस्तदाद्यानां विशिष्यते || तामसोपासनं प्रोक्तं पीठादौ वलिदानतः | वाममार्गेण तच्चाद्यं वर्णे हित्वा प्रशस्यते || एषा व्यवस्था संप्रोक्ता वामदक्षिणयोः परा | आचारो द्विविधो देवी वामदक्षिण भेदतः || पंचमुद्रादि रहितो दक्षिणाचार संज्ञकः | मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च || मकारे पंचकैर्देवी योनौ कौलः प्रपूजयेत् | वामहस्तात् पानपूजा क्रमाद्वानि प्रकीर्तिताः || दक्षहस्तात्यानयोगाद्वामहस्त प्रतर्पणात् | दक्षहस्तात् पूजनाद्धिकौल इत्यभिधीयते || केवलं दक्षहस्तेन पूजनाद् दक्षिणाभिधः | उपासना द्विधा प्रोक्ता सा कामाकाम विच्युता || मोक्षबीजं तु निःकामा सकामो भवबीजकं | पंथा तु दक्षिणें श्रेष्ठो वामं श्रेष्ठतरोमतः || यस्तु वामं विजानाति स एव परमोगुरुः | अहं जानामि संपूर्णं पादोनंसनकादयः || अर्द्धं चापि वशिष्ठाद्याः शक्राद्याः पादसंमितं | जानंति माथाः षष्ठांशंकोष्ठंशमितरेजनाः || पतंति कोटयश्चात्र जायंते कृमि योनिषु | तं मार्गे ये विजानंति ते मुक्तानात्र संशयः || श्रीकृष्णो वाममार्गं तु फाल्गुण्यायोपदिष्टवान् | मया चिंतय तादृष्टो मुनिभ्यश्च निरूपितः || चाण्डालो वा तुरुष्को वा ब्रह्महावाथ मस्करी | श्रोत्रियोतामसमार्गीं भुक्तिमुक्त्योः सभाजनं || वामदक्षिणमार्गो हि कालीताराविधौ स्मृतः | छिन्नाविधौ वाममार्गो वगला वामदक्षगा || सुंदरी वाम दिव्या च दक्षे मार्गेपि संस्थिताः | वालाविद्या दक्षविद्यामातंगी वामदक्षिणा || प्. ९अ) केवला भुवना लक्ष्मी धूमा दक्षिणमार्गगाः | सुमुखी वामसंतुष्टा वटुको वामदक्षिणः || भैरवी वामयोगस्था बगला वामदक्षिणा | पूर्वाम्नाये दक्षवामौ दक्षिणे दिव्यवामके || कौलदक्षौ पश्चिमे तु कौलवामौ तथोत्तरे | ऊर्द्ध्व दिव्यौ महेशानि पाताले वाम एव च || यदीशाद्याः सर्वविद्याः कामिनी योगनायिका | वाममार्गेन सिद्ध्यंति नान्यथा सिद्धिदाः क्वचित् || वामदक्षिणयोगेन उभयाचार तत्परा | शैवशाक्ते गाणपत्ये सौरस्वायंभुवे तथा || चांद्रचीने पांचरात्रे वैष्णवे वैदिकेपि च | वामे चांते भविष्यंति कलेद्वैजाति जातयः || एवं दर्शणमार्गेपि न हि वामं करोत्ति चेत् | तस्य सिद्धिर्न्नदेवेशि मम वैरी प्रकीर्तितः || सर्वस्मादधिको वामधर्मः प्रोक्तः कुलागमे | तत्रापि कालिका तारा विधौ प्रियतरः स्मृतः || कापालिके महेशानि वाममार्गोत्रकारणं | वाममार्ग प्रकारेण सर्वं सिद्ध्यंति नान्यथा || वाममार्गं विनादेवी न हि सिद्ध्यंति देवताः | उत्तराम्नाय संप्रोक्ता देवास्तुष्यंति पंचमैः || ऊनः पदार्थ एकश्चेत् साधकंते शपंति च | पश्चिमाम्नाय देवानां सुरापानं कृता कृतं || मच्चतुष्टयमिच्छंति तं विना प्रशपंति च | पूर्वाम्नायोक्त देवानां तन्मांसं च कृता कृतं || आवश्यकं मत्रयं च तं विना प्रशयंतिते | ऊर्द्ध्वाम्नायोक्त देवानां ते मत्स्याश्च कृता कृताः || आवश्यकं मद्वयं च विना तं प्रशयंतिते | दक्षिणाम्नाय देवानां निषिद्धं स चतुष्टयं || मेनैकेन विनातेपि प्रशयंति हि साधकं | कौलिकं कूर्चतः कर्मवैदिकं नाभिधीयते || वैदिकं कूर्चतः कर्मकौलिकं नाभिधीयते | विरुद्धाद्दुभयं नष्टं तथा एक पथा चरेत् || वाममार्गी यदा दक्षं प्रविशेत् तत् सुरैः स तु | विघ्नांते पीड्यते चापि न सिद्धिमधि गच्छति || दक्षमार्गी यदा वामं प्रविशेत् तत्सुरास्तदा | लोकद्वयाद्व्यापयंतितं ग्रसंति च वामिनं || तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्याद्दुपासनं | यदृच्छया शृउतं तंत्रं छद्मनापि वलेन वा || परेरितं तवा गाथा तज्जपेद्यद्यनर्थकृत् | न शास्त्रमालोक्वे देवन्नाचरेन्न जपेदपि || प्. ९ब्) न पश्येन्नोपदिश्येच्च न कुर्यान्नैव साधयेत् | पुस्तके लिखितान् मंत्रानालोक्य प्रजपंतिये || ब्रह्मा हत्या समं तेषां पातकं परिकीर्तितं | तस्माद्दीक्षां प्रयत्नेन सदा कुर्याच्च तांत्रिकीं || अथातः प्रथमतो दीक्षां प्रवक्ष्यामि विशेषतः | दीयते ज्ञान विज्ञानं क्षीयते पापराशयः || तेन दीक्षा इति प्रोक्ता प्राप्ता च सद्गुरोर्मुखात् | अदीक्षितानां मर्त्यानां दोषं शृण्वं तु साधकाः || अन्नं विष्टा समं तस्य जलं मूत्र समंतथा | अदीक्षितं कृतं श्राद्धं श्राद्धं चादीक्षितस्य वा || गृहीत्वा पितरस्तेषां नरके च मुदारुणे | पतंत्येव न संदेहो यावदिंद्राश्चतुर्दशः || सहस्रै * * *(?) रैश्च भक्तियुक्तो यजेद्यदि | तथाप्य दीक्षितस्यार्थां देवागृह्नंति नैव च || कर्माखिलं वृथा यस्मात् तस्माद दीक्षितः पशुः | तस्मादं दीक्षितं दृष्ट्वा किंचित् कार्यं न साधयेत् || दीक्षाग्रहणकाले तु पापराशिः परायते | निर्वाणपद संयुक्तो वहिर्गच्छति तत्परः || तदा देव पितृणां तु कार्यार्ध्ये भवति स्वयं | अन्यथा यत्कृतं कर्म हुतं भस्मनि हव्यवत् || सर्वाश्रमेषु दीक्षायां नित्यत्वं परिचक्षते | अनीश्वरस्य मंत्रस्य नास्ति त्राता यथा भुवि || तथा दीक्षा विहीनस्य नेहस्वामी परत्र च | न तपोभिर्जपैर्होमैर्विविधैर्वापि साधनैः || न क्रियाचित्कदाचित्तु दीक्षाहीनस्य सिद्ध्यति | द्विजानां मनुपूतानां स्वकर्माध्ययनादिषु || यथाधिकारो नास्ती हस्याच्चोपनयनादिषु | तथा चा दीक्षितानां च मंत्र देवार्चनादिषु || नाधिकारोस्त्यतः कुर्यादात्मानं मंत्र संस्कृतं | दीक्षामूलं जगत्सर्वं दीक्षामूलं परं तपः || दीक्षामाश्रित्य निवसेद्यत्र कुत्रा समे जपन् | अदीक्षितश्च मरणे रौरवे नरके व्रजेत् || अतो दीक्षेति सा प्रोक्ता देशिकैस्तंत्रवेदिभिः | यावन्न प्राप्यते दीक्षा पुरुषार्थ फलप्रदा || सर्वसिद्धिकरी दीक्षा सर्वसंपत्प्रदायिनी | प्रतिभा स्वरवर्णानि कांतिः पुष्टिधराणि च || मोहनस्तंभना कृष्टि मारणोच्चाटनानि च | वशीकार्यं सुकविता बुद्धिश्च धारणा युता || तारणं च समुद्रस्य वह्नेः शैत्यं रणेजयम् | विपिने चा भयं चैव शोकदुःखापहं तथा || प्. १०अ) धर्मार्थकाममोक्षाणि ददात् येषां न संशयः | अनेक कोटि संत्रेभ्यस्तथा विद्यात्य एव च || एकं गुरुमुखाल्लब्धं सर्वसिद्धि प्रवर्तकं | गुरुपदेशतो लब्धं जपेत्यासार्चनादिकं || पश्चात् तत् साधयेत् सर्वं सदा तद्भावभावितः || इति श्रीतंत्रचिंतामणौ श्रीश्यामादिविद्योद्धारोपासनावश्यकतापूर्वकमाहात्म्यकथनं नाम द्वितीयः प्रकाशः || २ || यः शिवः सर्वगः सूक्ष्मश्चोन्मनो निष्कलोव्ययः | व्योमाकारोह्यजानंतः स कथं पूज्यते प्रिये || अत एव शिवः साक्षाद्गुरु रूपं समाश्रितः | दीनानुकंपया देवीपर्ययेति पृथिवीमिमां || मनुष्य चर्मणानर्द्धः साक्षात् परः शिवः स्वयं | अत्रिनेत्रः शिवः साक्षाद चतुर्वाङ्गुरच्युतः || अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये | नर वदृश्यते लोके श्रीगुरुः पापकर्मणां || शिव च दृश्यते साक्षान्नराणां पुण्यकर्मणां | श्रीगुरुं परमं तत्वं तिष्ठंतं चक्षुषाग्रतः || मंदभाग्या न पश्यंति अंधाः सूर्यमिवोदितं | गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः || शिव एव गुरुर्नो चेद्भुक्तिमुक्तिं ददातिकः | सदाशिवस्य देवस्य श्रीगुरोरपि पार्वती || उभयोरंतरं नास्ति यः करोति स पातकी | यथा घटश्च कलशः कुंभश्चैकार्थ वाचकः || तथा देवश्च मंत्रश्च गुरुश्चैकार्थ उच्यते | न गुरोः सदृशं वस्तु न देवः शंकरोपमः || न च कौलात् परो योगो न विद्या कालिका समा | गकाराज्ञान संपत्तिरकारस्तत् प्रकाशकः || उकाराच्छिव तादात्म्यं दद्यादिति गुरु स्मृतः | यद्यप्यधीतनीगमाः षडंग सहितां प्रिये || आगमाद्यानि शास्त्राणि ज्ञानं नास्ति गुरुं विना | तस्माद्गुरुं समालोच्य भजते यः पुमान् शिवे || योगं ज्ञानं स्फुटं तस्मै ब्रुवते नात्र संशयः | तारकः कोहि संसारे प्राणिनां सद्गुरोर्विना || असद्गुरुः स्वयं नष्टं कथं पालयते परं | धनार्थिनस्तु गुरवः शिष्याः सिद्ध्यर्थिनः कलौ || तस्मान्न चोभयः सिद्धिर्देवतानां विदंवनं | भक्तिः श्रद्धान्वितौ शिष्य गुरु संपूर्ण लक्षणौ || प्. १०ब्) सर्वोपि मार्गस्तत्कालं भुक्तिमुक्ति प्रदायकः || अथातो गुरुलक्षणं || तस्मादादौ प्रवक्ष्यामि लक्षणं गुरुशिष्ययोः | श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः || सर्वलक्षण संयुक्तः सर्वावयव शोभितः | सर्वागमार्थ तत्वज्ञः सर्वमंत्र विधानवित् || लोकः संमोहनाकारो देववत् प्रियदर्शनः | सुमुखः सुलभः स्वच्छ इंज्ञिताकारवेष्टवित् || अंतर्मुखा बहिर्दृष्टिः सर्वज्ञो देशकालवित् | आज्ञा सिद्धस्त्रिकालज्ञो निग्रहानु ग्रह क्षमः || वेदवेदांत विछांतः सर्वजीव दयापरः | स्वाधीनेंद्रिय संचारः षडंग विजयक्षमः || अत्र गण्योति गंभीरः पात्रापात्रं विशेषवित् | निर्मलो नित्यसंतुष्टो निर्द्वंद्वो नित्यशक्तिमान् || सद्भक्तवत्सलो धीरः कृपालुः स्मित पूर्ववाक् | भक्तप्रियः सर्वसमोदयालुः शिष्यशासकः || स्वेष्टदेव मनुः प्राज्ञो वनिता पूजनोत्सुकः | नित्यनैमित्तिके काम्ये एतत्कर्मण्य निंदितः || रागद्वेष भयक्रोध दंभाहंकार वर्जितः | यदृछालाभ संतुष्टो गुणदोष विभेदकः || स्त्रीधनादिष्टनाशक्तोदुःसंगव्यसनोज्रितः | अलोरूपा हिंसकश्च पक्षपाती विचक्षणः || वित्तविद्यादि मंत्रज्ञो यंत्र तंत्राद्य विक्रयी | निःसंकल्पो निर्विकल्पो निर्णीतार्थोति धार्मिकः || तुल्ये निंदास्तुतिर्मौनी निरपेक्षो नियामकः | शुद्धचित्तोदयालुश्च ब्राह्मणो वेदपारगः || अथ कुलगुरोः || कुलीनः सर्वविद्यानां मधिकारीति गीयते || दीषा प्रभुः स एवात्र सर्वमंत्रस्य नापरः || अकुलं शिव इत्युक्तः कुलं शक्तिः प्रकीर्तिताः | कुलाकुलानुसंधान निपुणः कौलिकः प्रियः || कुलभक्तान् कुलाचारान् कुलज्ञानान् कुलव्रतात् | प्रीतो भवति यो दृष्ट्वा कौलिकः स तु मे प्रियः || तत्व त्रयः स्वीकरणान् मूलमंत्रार्थ तत्ववित् | देवता गुरुभक्तश्च कौलिकः स्यात्तदीक्षया || कुलाचारस्तो नित्यं कुलशास्त्र प्रयोजकः | शांतः स्वाधीन सर्वज्ञो लोभमोह विवर्जितः || क्रोध मोह सदा त्यागी विरागी वीरवंदितः | सर्वाश्रय परित्यागी ललनार्चन तत्परः || प्. ११अ) इत्यादि लक्षणोपेतः श्रीगुरुः कथितः प्रियः | नाति वालो न वृद्धश्च न खंजोन कृशस्तथा || नाधिकांगो न हीनांगो न खल्वाटो न दंतुरः | कृतज्ञं वाग्मिनः शूरं प्रतिष्टागम पारगं || वास्तु विद्या कृताभ्यासं शल्योद्धार विवेकिनं | क्रियानु क्रमवेत्तारं मुद्रातंत्र विवेकिनं || स्वविद्यानुष्ठा न तपो धर्माणाम प्रकाशकः | वर्णाश्रम ज्ञान तपोधर्माणां च प्रकाशकः || षट्कर्म सु सुसिद्धो यो दाता भोक्ता न याचकः | स एव कौलिकाचार्यस्त्वन्यः कुल विडंवकः || पिंडपदं तथा रूपं रूपातीतं निरंजनं | यस्तु सम्यग् विजानाति स गुरुश्चोर्द्धरेत् परं || पाशस्तंभं वेधदीक्षा पशुग्रहणमेव च | त्रिविधं यो विजानाति स गुरुः कथितः प्रिये || पशुपाश पशूनां च रहस्यार्थ विधानवित् | यो जानाति वरारोहे स गुरुः परिकीर्तितः || घृणा शंकाभयं लज्जा जुगुप्सा चेति पंचमी | कुलं शीलं तथा शक्तिरष्टौ पाशाः प्रकीर्तिताः || पाशबद्धः पशुः प्रोक्तः पाशमुक्तो महेश्वरः | तस्मात् पाशहरोप् यत्र स गुरुर्नान्य उच्यते || मूलादि ब्रह्मरंध्रांतं सप्तां भोजदलेषु च | जीवाचारफलं वेत्ति स गुरुर्नापरः प्रिये || अथ असद्गुरुलक्षणं || कुलक्षणं || वह्वाशी दीर्घसूत्रीय विषयादिषु लोलुपः | हेतु वादरतो दुष्टो वाग्वादी गुरुनिंदकः || अरोमावकुरोमा च निंदिता श्रममेव च | कालदंतोऽसितोष्ठश्च दुर्गंधः श्वासवाहकः || दुष्टलक्षण संपन्नो यद्यपि स्वयमीश्वरः | वङ्गप्रतिग्रहासक्त आचार्यं श्रीक्षयावहः || अपुत्रो मृतपुत्रश्च कुण्डश्च वामनस्तथा | कुनखीदीर्घदंतश्च स्त्रीजितश्चाधिकांगकः || हीनांगः कपटीरोगी वङ्गवल्ली च कुब्जकः | एतैर्दोषैर्विहीनो यः स गुरुःशिष्यभाजनः || स्वनाम्ना न गुरुःकार्यो भार्या च मातृनामिका || अथ देशभेदाद्गुरोर्भेदः || कुमारी हिमवन्मध्ये श्वेतकृष्ण मृगान्विते | देशे जातस्तु यो विद्वानाचार्यत्वमथार्हति || औग्यन्या मध्यदेशार्च कौरुक्षेत्राश्चलाटजां | अंतर्वेदी प्रतिष्ठाना चावंत्या गुरवो वराः || राडावारेंद्रकास्तैरागौर्य रामागधास्तथा | अंगजातोद्भवाश्चेति सप्तैते मध्यमा स्मृताः || प्. ११ब्) आंध्राः कालिंगकार्णाटा महाराष्ट्राश्च ठक्वजाः | वीरजाडाविडापौंड्रास्त्वष्टौ ते गुरवोधमाः || कामरूपाश्च चंपाकामे पालोत्थाश्च सैंधवाः | वांगा गांधारपौलिंगा सप्तैते चाधमाधमाः || कांचिजाः कौशलाः कास्थाकावेलाः कौकणो भुजाः | सौराष्ट्रा देवराष्ट्राश्च अष्टौते निंदिता भृशं || अशेषकामदा श्रेष्ठा मध्यमा भूतिहापितः | अधमात्य शुभेनष्टा आर्यादर्भा न दोषभाक् || चतुष्पदा स्त्रिरोधाश्च षट्पदार्थ विभूषिताः | गोत्रगोचर संयुक्तो समयाद्युक्त लक्षणाः || दीक्षास्था स्वप्नसंपूर्णं यो जानंत्यव्य संहितां | आचारास्ते तु विज्ञेया चापरे लोकदांभिकाः || सर्वद्रव्या तिरिक्तं तु आत्मानं वेत्तियो नरः | सर्वलक्षण हीनोपि स गुरुर्न्नाम्रसंशयः || पितुर्दीक्षायतेर्दीक्षायादीक्षावनवासिनां | विविक्ताश्रमिणां दीक्षा पुत्रायुर्द्धन नाशिनी || प्रमादाद्वा तथा ज्ञानात् पितृदीक्षां समाचरेत् | प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् || त्यक्ताग्नयः क्रियाहीनाय तथोनिः परिग्रहाः | वनस्थास्तादृशा एव वर्णा न्यूनाश्रमी यतः || अतस्तेषां नाधिकारो दीक्षानान्य महेश्वरी | यतेर्दीक्षां गृहीत्वा तु कदाचिदपि मोहितः || प्रायश्चित्तं धेनुरेका त्रिरात्र व्रतमेव वा | प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् || यदि भाग्यवशादेव सिद्धविद्यां लभेत् प्रिये | तदैवतां तु दीक्षेत त्यक्त्वा गुरु विचारणां || स्वेष्टविद्या प्रदाने तु न कुर्याद्गुरु चिंतनं | क्षत्रविट् शूद्रजातीनां क्षत्रियोनुग्रहक्षमः || वैश्यः स्यात्तेन कार्यः स्याद्वये नित्यमनुग्रहः | सजातीयेन शूद्रेण तादृशेन महामते || अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा | वर्णोप्तमेऽथ च सुरसति वा विश्रुतेपि वा || स्वदेशतोथवान्यत्रनेदं कार्यं शुभार्थिना | विद्यमानेकुयः कार्याद्यत्र तत्र विपर्ययं || तस्यहा मूत्रनाशः स्यात्तस्माच्छास्त्रोक्तमाचरेत् | विप्र एवे दृशः कार्यो गुरुर्नोचेत्तदेदृशे || क्षेत्रविट् शूद्रजातीयः प्रातिलोस्यं न दीक्षयेत् | आचार्यमातुलौ ऋत्विक् पितृष्यः श्वशुरो नृपः || प्. १२अ) इति षङ्गुरवोप्यत्र प्रोक्ता मंत्र विशारदैः | निर्वीर्येः स्यात् पितुर्मंत्रंस्तथा मातामहस्य च || सोदरस्य कनिष्ठस्य वैरिपक्षा श्रितस्य च | निर्वीर्यो हि पितुर्मंत्रः शैवशाक्तेन दुष्पति || दक्षे मार्गे तु निर्वीर्ये पितुर्मातामहस्य च | सोदरस्या गृहस्थस्य वाममार्गेति वीर्यवान् || न पत्नीं दीक्षयेद्भर्ता न पितादीक्षयेत् सुतां | न पुत्रं च तथा भ्राताभ्रातरं च न दीक्षयेत् || स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणाः स्मृता | साध्वी चैव सदाचारां गुरुभक्ता जितेंद्रिया || सर्वमंत्रार्थ तत्वज्ञा सुशीला पुजने रता | गुरुद्योग्या भवेत् सा हि विधवा परिवर्जिता || मात्रा दीक्षा प्रदेया वै स्त्रीणां सत्येन शाम्भवी | देवी परंपरा प्राप्ता दीक्षा स्त्रीणां शुभा मता || देवी परंपरा जातु विशेषं शृणु सादरं | देवी परंपरोदिष्टं पारंपर्य क्रमागता || स्त्रीणां दीक्षापरं जाता देवी दीक्षा शुभा मता | तत् परंपरया प्राप्ता दीक्षा सिद्धिप्रदामता || पुरुषाणां तत्सकाशात् दीक्षा जाता परंपरा | मुख्यं शृणु महादेवी स्त्रीणां नियमो मतः || नियमः पुरुषो ज्ञेयो न योषित्सु कथंचन | शाक्ते विकल्प सहिते कथं दीक्षा भवेत् प्रिये || गुरोः सकाशाच्चेद्देया तदा सा भगिनी मता | स्वयं वै यदिचेद्देया तदा कन्या प्रकीर्तिता || अन्यतो दापनीया चेत्मार्गं भ्रष्टा तदा भवेत् | मंत्रशास्त्रे वहुविधामार्गा देविमयेरिता || तदर्थं संकटे चित्तं किंकार्यंवद शंकर | स्वसंप्रदाये यः श्रेष्टस्तत्सकाशात्तुदीक्षणं || शुभं प्रोक्तं महादेवि ह्यभावे शृणु सादरं | त्रयोदश्यां कृष्णंपक्षे चंद्र वा सरसंयुते || तालपत्रे मनुर्लेख्य संस्कार दशकं चरेत् | दश संस्कारयोगेन सिद्धमंत्रो भविष्यति || तद्दिने पायसं कृत्वा दक्षिणामूर्ति सन्निधौ | पायसादि निवेद्यार्थ विल्वैः संपूज्य शंकरं || इति वाचमनीय *? मष्टोत्तर सहस्रकं | संजप्य होमयेद्देवी तत्तन्मंत्रोक्तवर्त्मना || वाचने नास्ति चेछक्तिस्तदा किं वा विधीयते | पुत्रद्वारा वा चमनीयं स पुत्रो गुरुरेव तु || एवं गृहीत मंत्रस्तु सिद्धिर्हि भवति प्रिये | अथचान्यः प्रकारेण दीक्षणं शृणु सांप्रतं || नद्यां समुद्रगामीन्यां शुभेलग्ने शुभेदिने | संप्रदायं पुरा दृष्ट्वा श्रीसूर्यमण्डलं लिखेत् || प्. १२ब्) सांगं सावरणं सूर्यं संपूज्य प्राणवल्लभे | तारं फट् मनुमालिख्य वाचयेत् तत्सकाशतः || शताष्टवारं सद्वाच्ये नांकानां वा मनोगतिः | तत्र सूर्यं गुरुं पूज्य सर्वसिद्धीश्वरो भवेत् || इदं पशुपरं प्रोक्तं न तु वीर परंप्रिये | वीराणां कौलिकानां तु भर्त्ता दीक्षणमाचरेत् || भर्तुर्दीक्षाप्रदाने तु न दोषः कालिकागमे | शिवेन दीक्षापूर्वं तु गौर्यै दत्ता शुभावहा || सा च पुत्र्यथवा भार्या तद्वदत्रापि पार्वती | न पुत्री गदिता सा तु वीरभार्या प्रकीर्तिता || अथ शिष्यलक्षनं || सच्छिष्यं तं कुलेशानि सर्वलक्षणसंयुतं | समाधि साधनोपेतं गुणशील समन्वितं || शुद्धदेहं तया वंद्यं धार्मिकं शुद्धमानसं | दृढ व्रतं सदाचारं शुद्धभक्ति समन्वितं || कृतज्ञं पापभीतं च साधुसज्जनसंमतं | आस्तिक्यं दानशीलं च सर्वभूतहिते रतं || विश्वास विनयोपेतं वित्तशाठ्य विवर्जितं | असाध्यसाधनं शूरं वलकांति समन्वितं || अनुकूल क्रियाद्युक्तं अप्रमत्तं विचक्षणं | सकृदुक्तगृहीतार्थं चतुरं बुद्धिवित्तरं || गृहतल्या समोत्संग निर्विकारमसेवकं | विमृष्यकारिणं धीरं मनोदारिद्र्यवर्जितं || सर्वकार्याति कुशलं धीरं सर्वोपकारकं | अल्पार्थे परनिंदायाम् सुमुखं विमुखं प्रिये || जितेंद्रियं सुसंतुष्टं मंत्रज्ञं ब्रह्मचारिणं | त्यक्त्वाधिक्याति चापल्यं दुःशंकातंक वर्जितं || गुरुध्यानस्तुति कथा सर्वदा भजनोत्सुकं | गुरुदैवतभक्तं च कामिनी पूजनोत्सुकं || सर्वज्ञा पालकं देवि गुरुकीर्ति प्रशंसकं | गुरुवाक्य प्रमाणज्ञं गुरुसुश्रूषणेरतं || चित्तानुवर्त्तिनं प्रेक्ष्यकारिणं कुलनायिके | लज्जाभिमानगर्वादिवर्जितं गुरुसन्निधौ || निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकांक्षिणं | रूपध्यानादिनिरतं मोक्षमार्गाभिगामिनं || इत्यादि लक्षणोपेतं गुरुः शिष्यं परिग्रहेत् || अथ दुष्टशिष्यलक्षणं || दुष्टानुपापिनं दुष्टं गुणहीनं विरूपिणं | परशिष्यं च पाखंडं धूर्तं पण्डितमानिनं || हीनाधिकाविकारांगं विकलावयवान्वितं | पंगुं च वधिरं चैव मलिनं व्याधिपीडितं || प्. १३अ) उच्छिष्टं दुर्मुखं चापि स्वेच्छावेशधरंवितं | दुर्विदग्धं कुचेष्टं च कुचैलं भीमवीक्षणं || निद्रालस्य युतं तंद्राद्यूतादि व्यसनान्वितं | कपाट कुद्व्यस्तंवादौ तिरोहिततनुं सदा || पैशुन्ययुक्तिकं क्षुद्रं श्रद्धाभक्ति विवर्जितं | किमेतिवादिनस्तब्धं प्रेषकं च पलं शठं || धनस्त्री शुद्धिरहितं निषेधविधिवर्जितं | रहस्यभेदकं चापि देवकार्यार्थघातकं || मार्जारवकवृत्तिं च रंध्रान्वेषण तत्परं | मायान्वितं कृतघ्नं च प्रच्छन्नोत्तरदायकं || विश्वासघातकं देवद्रोहिणं पापकारिणं | अविश्वासमवद्यां गमनर्थ सिद्धिकांक्षिणं || आततायि नमादिष्टं कुत्सितं कूटसाक्षिणं | सर्वत्र याचकं देवि सर्वोत् कृष्टाभिगामिनं || असत्यविष्टं वा शक्तं ग्राम्यादि वहुभाषिणं | दुर्विचार कुतर्कादि कारकं कलहप्रियं || वृथा क्षेपकरं भ्रांतं प्रत्यक्षे प्रियवादिनं | वागुक्षवादिनं विद्या वचसानु प्रसंशकं || गुणाः सहिष्णुं सहितमति क्रोधसमन्वितं | चार्वाकं दुर्जनसखं सर्वलोकविगर्हितं || पिशुनं परसंताप सर्वप्राणि भयंकरं | अक्लेशवादिनं मित्रद्रोहिणं भ्रातृवंचकं || जिह्वोपस्थ परं देवि तस्करं पशुचेष्टितं | अकारणद्वेष हाअस्यक्लेश चक्रादिकारकं || अतिहास्यस्य कर्त्तारं सातरं परिहासकं | कामुकं चाति निर्लज्जं मिथ्यादुश्चेष्ट शूचकं || असूयामदमात्सर्यदंभाहंकार संयुतं | ईर्ष्या पैशुन्यपारुष्यकार्यण्य क्रोधशासिनं || अधीरं दूषितं द्वेष्यमशक्तं तनुवर्जितं | अप्रह्वमति मूढं च चिंतादलितमानसं || भ्रष्टलोभं पुनर्द्दीनमतुष्टं सर्वयाजकं | वह्वाशीनं कपटिनं भ्रामकं कुटिलं प्रिये || भक्तिश्रद्धादयाशांति धर्माचार विवर्जितं | मातृपितृगुरुप्राज्ञमहतां हास्यकारकं || कुलद्रव्यादि वीभत्सं गुरुसेवाभिमानिनं | स्त्रीदुष्टं समयभ्रष्टं गुरुसप्तं कुलेश्वरी || इत्यादि विगुणोपेतं गुरुः शिष्यं परित्यजेत् || स्रीदेव्युवाच || असिद्धगुरुणादत्तोमंत्रः शिष्याय वा गुरुः | सिद्धोमंत्रांतरे देव नैव सिद्धोथ वा गुरुः || भिन्नाम्नायो यदा शिष्यस्तद्भिन्नाम्नाय देवतां | सेवते तत्र देवेश कीदृक् सिद्धिस्तु तद्वद || प्. १३ब्) ईश्वर उवाच || गुरुस्तु दक्षिणाम्नायो सर्वाम्नायेषु दीक्षितः | ऊर्ध्वाम्नायी तथान्येषु पूर्वाम्नायी परेषु च || द्वयोस्तु पश्चिमाम्नायी दुत्तरस्त्वधरे भवेत् | अधरेणैव कुत्रापि गुरुत्वं पारलौकिकं || दक्षिणोपासकः काले ऊर्द्ध्वः सायुज्य माप्नुयात् | देवताया तथा पूर्वः सारुप्यं लभते परः || सामीप्यं चोत्तरे लोकसधोगस्त्वैहिकं फलं | लोभत्यागैश्चोपकाराह्यधोमार्गेप्युदर्ककृत् || मंत्रांतरे च संसिद्धो गुरुर्मंत्रं प्रयच्छति | यथोक्ता चरणात्तस्य सिद्धिः शिष्यस्य जायते || कृपावशात् सिद्धमंत्रंदाताधि च परो गुरुः | विना जपं विना पूजां सिद्धयस्तत् करेस्थिताः || गुरुशिष्या वुभौ मोहाद परिक्षपरंपरं | उपदेशं ददन् गृहन् प्राप्नुयाद् वै पिशाचतं || स्नेहाद् वा लोभतो वापि यदि गृह्नाति दीक्षयेत् | तस्मिन् गुरौ स शिष्ये तु देवता शापदापयेत् || तस्मादेवं विधं शिष्यं न गृह्नीयात् कथंचन | यदि गृह्नाति मोहेन तत्पापैर्व्याप्यते गुरुः || मंत्रिपापं च राजानं पतिं जाया कृतं यथा | तथा शिष्य कृतं पापं प्रायो गुरुमपि स्पृशेत् || ज्ञानेन कृपया चापि गुरुशिष्यं परीक्षयेत् | संवत्सरं तदर्द्धं वा तदर्द्धं वा तदर्द्धतः || उत्तमानद्धमां कार्यं जीवानुत्तम कर्मणि | प्राणद्रव्ये प्रदानाद्यैर्दशस्य सममानसैः || उन्मर्म सूचकैर्वाक्यैर्मायाभिर्गुरु चेष्टितैः | पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः || आकृष्टः पीडितश्चापि योनिषादेन याचति | गुरुः कृपां करोतीति सदा संचिंतयेत् सदा || श्रीगुरोः स्मरणे चापि कीर्तने वापि नंदने | परिचर्य यमार्गेण प्रेषणेन् वेषणे प्रिये || आनंदकं परोमां च स्मरनेत्रादि विक्रियां | तेषां स्यात्तेत्रयोगाः स्युर्मंत्र सिद्धिरपीश्वरी || वोधकत्वं च विज्ञाय शिष्योभूयान्न चान्यथा | आदिमध्यावसानेयान्यायः शक्तिनिपातितः || अधमामध्यमाश्रेष्टाः शिष्या देवि प्रकीर्तिताः | आदौ भक्तिर्भवेद्देवि दीक्षार्थं संवदंति ये || पुनर्विलुप्तभावास्ते आदियोग्या इतीरिताः | दीक्षासमय संप्राप्य ज्ञानविज्ञान वर्जिताः || तस्मात् प्रध्वस्त वीर्याये मध्ययोग्या इतीरिताः | आदौ भक्ति विहीनोयः मध्ये भक्तोस्ति वानवा || अंते च प्रतिभक्तिः स्यादंत योग्या भवंतिते | कुर्वन्नाचार्य सुश्रूषां मनोवाक्कायकर्मभिः || प्. १४अ) शुद्धभावो महोत्साहो वोद्धा शिष्य इति स्मृतः | स भूपदेश्यः पुत्रश्चिव्यत्ययी वसुदस्तथा || गुरुः सुश्रूषया विद्या पुष्कालेल धनेन वा | अथ वा विद्यया विद्या चतुर्थोनोप पद्यते || नित्यशः कायवाक् चित्तैस्त्रिद्वैकावृद्धिकावधि | परीक्ष्य सपरिग्राह्यस्याद्यः संयतमानसः || तयोर्वत्सरमात्रेण ज्ञातान्योन्यं भविष्यति | गुरुता शिष्यता वापि नान्यथेति विनिश्चयः || शिष्यश्च सद्गुरोर्मंत्रं गृहीत्वातं परित्यजेत् | गुरुत्यागकरः शिष्यः प्रायश्चित्ती भवेद्ध्रुवं || यदि दैवात्पशोर्विद्यालभ्यते कुलजैर्न्नरैः | द्विजं तु कौलिकं प्राप्य पुनर्विद्यामुपा लभेत् || यो गृह्नाति पशोर्विद्यां तस्याधिर्गात्रपीडनं | भवत्येव न संदेहो वंधूनां चैव वा भवेत् || सद्गुरुं तु समाश्रित्य गृह्नीयात् संस्कृतं मनुं | श्रीगुरुं लक्षणोपेतं संशय छेदकारकं || लब्ध्वा ज्ञानप्रदं देवि न गुर्वीरमाश्रयेत् | अनभिज्ञं गुरुं प्राप्य संशये षड्विकारकं || शिष्यागुर्वंतरं गत्वा तद्दोषैर्नामुलुप्यते | गुरवो वहवः संति कुमंत्रौषधवेदिनः || निगमागमशास्त्रोक्त मंत्रज्ञो दुर्लभे भुवि | अविज्ञोश्चोर्द्धरेन्मूर्खं न मूर्खोमूर्खमुद्धरेत् || शिलां संतारयेन्नौ हि न शिलातारयेच्छिलां | मधुलुब्धो यथा भृंगः पुष्पात् पुष्पांतरं व्रजेत् || ज्ञानलुब्धस्तथा शोष्यो गुरोर्गुर्वंतरं व्रजेत् | न मंत्रे चाधिकारोस्ति शूद्राणां नियमः परः || मंत्राभावाद मंत्रेण भाषितुं सर्वमर्हति | या वद्धनानि मंत्राणां शूद्राय प्रतिपादयेत् || तावंत्योः ब्रह्महत्याः स्युस्तस्मात् संस्कारयेच्चतं | हाहाकारेण रहितं दद्यात् यश्चाच्च तांत्रिकं || स्वागमोक्तेन मार्गेण स्त्रीशूद्रैरपि पूजनं | कर्तव्यं संस्कृतैस्तैश्च आगमोक्तेन वर्त्मना || शूद्रस्य वाचनो देवीच्चधिकारो हि वर्तते | तंत्रोक्तं प्रणवं देवी वह्निजायां च पार्वती || वाचनं धारणं देवी कर्तव्यं सततं प्रिये | पुराणोक्तं महेशानि यो जपेच्छूद्रयामरयः || सदा स पच्यते घोरे यावदिंद्राश्चतुर्द्दश | प्रणवं वह्निजायां च न शूद्रोप्युच्चरेत् क्वचित् || प्रणवोच्चारणाद्धोमाछालग्राम शिलार्च्चनात् | ब्राह्मणी गमनाच्चैव शूद्रश्चाण्डालतां व्रजेत् || शूद्रस्य प्रणवोच्चारं पुराणे समतां प्रिये | तस्माद् यत्नेन कर्तव्यं तंत्रोक्तं शूद्रजातिनां || प्. १४ब्) महाविद्या प्रभावेण शूद्रोवैश्यत्वमाप्नुयात् | प्रणवादि महेशानि गृह्नीयाच्छूद्रजातयः || एतद्दीक्षापरं तत्वं सुगोप्यं परमेश्वरी | ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः पौलस्त्य जातयः || पंचधा मनवाः ख्याताः प्रदोषाश्चानुलोमतः | मायाबीजं ब्राह्मणः स्याच्छ्री बीजं क्षत्रियं स्मृतं || कामबीजं भवेद्वैश्यो वाग्भवं शूद्र ईरितः | चतुर्बीजं परित्यक्त्वा मंत्र पौलस्त्य संज्ञकः || चतुर्बीजं ब्राह्मणानां क्षत्रियाणां त्रिबीजकं | बीजद्वयं तु वैश्यानां शूद्राणां त्वेक बीजकं || हीनवर्णायनो दद्यान्मंत्रं त्वधिकवर्णकं | उमा महेश्वरश्चैव दक्षिणामूर्त्यघोरकं || हयग्रीवं च वाराहं मष्टाक्षरमतः परं | प्रणवाद्यं वासुदेवं लक्ष्मीनारायणं तथा || वर्ण त्रये च दातव्यं नान्यवर्णे कदाचन | पाशुपतं नारसिंहं तथा चैव सुदर्शनं || वर्णद्वये च दातव्यं नान्येषां चैव कर्हिचित् | अग्निमंत्राश्च ये केचित् सूर्यमंत्राश्चयेतथा || तारादि घृणिमंत्राश्च दातव्याश्च त्रिवर्णके | आनुष्टुभं शक्तिमंत्रास्तथा विंध्यनिवासिनी || नीलसरस्वती चैव दातव्या चादि वर्णके | मातंगीन्युग्रतारा च कालिका श्यामरा तथा || छिन्नमस्ता च वाला च दातव्या सर्ववर्णके | तारादिस्तु गणेशश्च हरिद्रा संज्ञकस्तथा || त्रिवर्णेष्टेव दातव्याः पुरं ध्रीणां विशेषतः | प्रणवमायां लक्ष्मीं च वाग्भवं चान्य बीजकं || एतद्बीजेन संयुक्तं दातव्यं चादि वर्णके | मायां लक्ष्मीं वाग्भवं च दातव्यं क्षत्रिये वपि || लक्ष्मीं च वाग्भवं चापि कथितं वैश्यवर्णके | वाग्भवं चान्य बीजं च शूद्राणां च समीरितं || हृदादि हूंफट्कारादि शंकराणां प्रशस्यते | कल्पोक्तावैका विप्रदेया विंध्यनिवासिनी || ब्राह्मणे क्षत्रिये चापि देव्याः पाशुपताभिधा | सौदर्शना नारसिंहा कार्तवीर्यस्य नान्यतः || वर्णत्रयेपि दातव्यं दक्षिणामूर्त्य घोरकं | अष्टाक्षरं हयग्रीव मुमामाहेश्वरं तथा || लक्ष्मीनारायणं चास्त्र देवीं तारां वराहकं | अग्नेः सूर्यस्य घृणयस्ताराद्याश्च गणेश्वराः || सर्ववर्णेषु दातव्याः कालिका श्याम **(?) था | छिन्नमस्ता च बाला च मातंगिन्युग्रतारिका || प्. १५अ) योगिनीनां यक्षिणीनां त्रैपुरा वदुकादयः | शावराश्च पुलस्त्यानि न जप्याद्विज जन्मनि || पंथानो वहवः प्रोक्ता मंत्रशास्त्रे मणीषिभि | स्वगुरोर्मतमाश्रित्य शुभं कार्यां न चान्यथा || अथ मंत्रो जप्यमानस्त्वन्याचारुषु तत्परः | संप्रदायेन संभिन्नः सर्वदोष समन्वितं || एवं ते कथितं देवी लक्षण गुरुशिष्ययोः || इति श्रीतंत्रचिंतामणौ गुरुशिष्यमंत्रनिर्णयोर्नामस्तृतीयः प्रकाशः || ३ || श्रीदेव्युवाच || शतशोत्रजना देवतंत्र मार्गेषु संस्थिताः | सिद्धिर्नर्द्धश्यते क्वापि किं परत्र भविष्यति || यदि कर्मप्रधानं च देवताराधनेन किं | देवताराधनं सत्यं साधका दुःखि न कथं || एतन्मे संशये सिद्धि किं चक्रैश्चापि मात्रकैः | संस्काराच्च कथं कार्या साधकानां वदस्व तत् || ईश्वर उवाच || गर्भे कर्मत्रयं कुर्याज्जातमात्रे तथा दश | ततः कर्म त्रयं चेति संस्काराः षोडशः स्मृताः || द्विजातीनां तथा मंत्रे कुर्यात् कर्मत्रयं गुरुः | दशशिष्यस्ततः कुर्यात् सिद्धमंत्रेपुनस्त्रयं || षडेव जन्मसंस्काराः प्रोक्ताः स्त्रीशूद्रयोरपि | तथैव मंत्रसंस्काराः षोडशः परिकीर्तिताः || चाण्डालादिषु चत्वारो मंत्रेतावंत एव हि | त्रयश्च यवनादीनां तन्मंत्रेष्ठ पिते त्रयः || वामदक्षिणभेदेन तेषां कर्तव्यतां शृणु | आज्यस्थाने सुरां वामे होमाद्यर्थं प्रकल्पयेत् || या काद्येषु च मांसं स्याढ्येकादौति मयः स्मृताः | मैथुनं ब्रह्मचर्यस्य मुद्रा तत्कर्मकास्तथा || अथ गर्भाधानसंस्कारः || गर्भाधानं स्वकल्पोक्ता वर्त्मना प्रथमं भवेत् | दक्षिणानामथो वामे दूतीयागं समाचरेत् || संतर्प्ययेदं गंगे व मंत्रैर्योनिं च तीर्थतः | तस्यां अंगे देवताया मंत्रन्यासं समाचरेत् || सर्वान्यासान् स्व स्वदेहे भावयेत्तां च भैरवी | स्वयं च भैरवो भूत्वा रतिकर्म समाचरेत् || मुखासनस्थो भगगंध्वजं कृत्वा जपेदमुं | मंत्रं पंच सहस्रं तु यथेष्टं लभते सुतं || लक्ष्मी प्राणेश्वरी चेति मम पाहि न वाक्षरः | तस्याः सोमे तस्य सूर्यगर्भस्तिष्ठेद्धराजले || अथ पुंसवनाख्य संस्कारः || अथ द्वितीय संस्कारः कार्यः पुंसवनाभिधः | तृतीयेमासि कुर्वीत अथ पुंसवनं बुधः || प्. १५ब्) तृतीयेमासि कुर्वीतै वेदोक्त दिवसे स्वकल्पोक्तेन वर्त्मना || तत्र वैदिक मुख्यस्य होमस्थाने स्वदेवता | जुहुयात् कारणे नैव चतुराहुति संख्यया || तदावरण देवानां पुरुषाणां द्वयं द्वयं | एकास्त्रीणां वाममार्गे शेषं पूर्ववदीरितं || स तीर्थं स पशुं पात्रं निशायां भैरवो बलिः || अथ सीमंताख्य संस्कारः || अथ तृतीय संस्कारः सीमंताख्यः प्रकीर्तितः | चतुर्थे षष्ठाष्टमेषुमाः सुःसन्मध्यमाधमाः || ज्योतिः शास्त्रोक्तदिवसे स्वकल्पोक्तेन वर्त्मना | वामी तु देवता मंत्रं सीमंते सुरु वा लिखेत् || न्यासं कुर्यात् तगंगेषु सूतिरुग्रोहहारिणं | ततो न गच्छेत्तां भार्यां देवताशापभीतितः || कामेन वा मोहेन दुःकाले वा विधानतः | अन्येन वा कृतः संगः सीमंतः स्वदद्यावहः || अथ जातकर्माख्य संस्कारः || अथ चतुर्थ संस्कारः कुर्यात् स्त्री शूद्रयोरपि | जातकर्माभिधं विप्र स्वकल्पोक्तेन वर्त्मना || कन्या जन्मनि विप्राणां शूद्रस्य सुत जन्मनि | तूष्णीमेव क्रियां कुर्याद् विष्णु स्मरण पूर्वकं || वामाचारी न कुर्वीतमेधाजनन संस्कृतिं | किंतु स्वर्णस्य लेखन्या विलिखेत् कारणायया || तालुदेशे मूलबीजं रसयानां तथा मनुं | देवतां तर्पयेत् पश्चादन् यत्कर्म तु दक्षवत् || अथ नामप्रदानाख्य संस्कारः || अथ पंचमसंस्कारंनाम कर्माद्वयोर्द्धवं | सर्वेषामयमुद्दिष्टः सूतकांते शुभेदिने || स्वकल्पोक्त विधानेन नामकर्म समारभेत् | तंत्रेषु या नियोक्तानि मात्रा चक्राणि षोडशः || विचार्यतानि कुर्वीत नामयत् सफलं भवेत् | न कृतं चेदत्र नाम तादृशश्चेद् गुरुस्तथा || पूर्णाभिषेके कुर्वीत तत् सबीजं निरूप्यते | यस्मादृश्च गुणैः सिद्धिर्विप्राणां संप्रजायते || अथ नक्षत्र चक्रं || तारा चक्रं प्रवक्ष्यामि वालानां मंत्रसिद्धये | अ आहये द्वयमेव ई उ ऊ वह्नि होमताः || ऋ ॠ ऌ ॡ चरो हिण्यां ए मृगे शिवभे च ऐ | ओ औ पुनर्वसुः पुष्पकरौ सर्पश्चभे खगौ || पितृवघङौ भाग्ये च आर्यमणेच्छजौ मतौ | हस्तेद्गजटठौत्वाष्ठे स्वात्यांडोद्वीशभेढशौ || प्. १६अ) तथदा अनुराधायां ज्येष्ठायाधोथ मूलभे | नपफा पूर्वषाढायां वकारोभस्तु वैश्वभे || मः कर्णेथ धनेष्टायां यरोलशततारके | वशौ तु पूर्वभाद्रायां षसहास्युरुपांतिमे || लं क्षं अं अश्चरेवत्यांगण्यां मंत्राक्षरार्क्षतः | साध्ये नामादि वर्णर्क्ष त्रिरावृत्यानि फलानि तु || स्थाननाशः सतां संगो वहुमैत्री मृतेः समं | आधिं वाच्याधिमाप्नोति साधकात् कार्यसिद्धयः || वहुभिः शत्रुताक्षेपो विपत्तिं संपदात्ययः | एतस्तु तारा चक्रस्य फलं ज्ञात्वा चरेदिदं || अथ गणचक्रं || तारोक्त मातृकाभिर्भैर्ज्ञात्वा साधकसाध्ययोः | स्त्री पुंसां वा व्यस्तथोश्च गणचक्रं विना विचारयेत् || स्थिराणि विमघोग्राणि रौद्रं नरगणः स्मृतः | हयत्यमित्रादितीदुवात्यज्य करघोटकाः || देवाश्वराक्षसाः स्यु *? साध्यसाधकयोः फलं | नृदेवयोः फलं शीघ्रं व्यस्तयोः कष्टतः फलं || नृदैत्ययोर्मनुग्राहाव्यस्तयोर्मरणं भवेत् | देवदानवयोर्युद्धयस्तयोर्निःफलं भवेत् || अथ रासिचक्रं || ग्रहोपग्रह मंत्रेषु रासिचक्रं विचारयेत् | वेदारामात्रयोर्युग्मं युग्मं षष्ठंति मौशषट् || सड्वर्गाश्च ततः षष्टुनाम वर्णस्थलात्मनोः | भवेद्यत्रादिमावर्णः फलं तत्र भवेदिदं || इष्टोदासः पोषकश्च रोगकृत् पुत्रदः शुभः | स्त्रीसौख्य कृद्वातकारी भाग्यदः कार्यसिद्धकृत् || लाभकृद्व्यकृच्चेति प्रोक्तोयं रासिमात्रिका | स्त्रीशूद्रेपतिलोमानां नाममंत्रैरूपासनां || पूर्वोक्ता राशयोर्ज्ञेयामीनाद्याश्च द्विजादितः | वर्णो तत्सोमनुग्राह्यो वैदिकोत्र विशेषतः || अथ पंचभूतचक्रं || वक्ष्येथ कौलिके मार्गे सिद्धि कृत्यां च भौतिकं | यावग्नि भूजलाकाश पंचचत्वारि विन्यसेत् || द्वौ द्वौ स्वरौ तले लेख्यौ एकाराद्यास्ततः पुनः | कादिकाश्चापि षड्वर्गाषक्षलासश्च हस्तथा || पुनः पुनर्नामलेख्यं मंत्राक्षर समोमनुः | तस्मात् पुनर्मनु लेख्यो युगपत् स्यात् करात्मकं || इष्टेधिकेल्पकष्टे तु मंत्रसाधनमाचरेत् | कुर्वंति भूतवेतालाः पिशाचे चान्यथा नरं || महीसलिलयोर्मैत्रमनिलानलयोरपि | सामान्यमग्नि भूत्यां तु सलिलानिलयोस्तथा || शात्रवं वैपरीत्येन चक्रं स्यात्यां च भौतिकं || प्. १६ब्) अथ अकदुमचक्रं || सिद्धादि चक्रं वक्ष्येहं यद्धात्वा नामकारयत् | दक्षिणोपासनामार्गे स्वमंत्रं स्वस्य देवता || द्वादशारे तथा चक्रे कूटषट्कं विवर्त्तयेत् | आदिहांताल्लिखेद्वर्णान् पूर्वतोयावदीश्वरं || स्वनामाक्षरमारभ्य फट्यो मंत्राक्षरावधि | सिद्धसाध्यः सुसिद्धारिरिति ज्ञेयं पुनः पुनः || सिद्धः सिद्ध्यति कालेन सार्धरं सिद्ध्यति वानवा | सुसिद्धो ग्रहणादेव रिपुर्मूलं निकृंतति || अथ सिद्धारिचक्रं || अथ वक्ष्ये महाविया साधने सिद्धमातृकां | मूलक्रमेण विज्ञेया तत्र कोष्टानि षोडशः || क्रमादि तेषु काष्टेषु मातृकाणां सुविन्यसेत् | कडीसां कद्व्यद्धि सूर्यदिकषडष्टंदया वृषा || पंचांगतिथि विश्वे च कोष्टकास्तत्र कीर्तिता | आदौ ज्ञेयं चतुष्केषु सिद्धाद्यं विदिसासु च || तत्स्थान समकोष्ठातु पुनर्गण्य गुरूक्तितः | सिद्धः सिद्धो जपात् सिद्धेत् सिद्धसार्द्ध्येद्विसंगुणात् || सिद्धः सुसिद्धः संप्राप्तः सिद्धारिर्हंति गोत्रजान् | साद्ध्यः सिध्येति संक्लेशात् साध्यसाध्योति दुःखकृत् || साध्यः सुसिद्धो भजनान् साध्यारिः स्वस्त्रियं हरेत् | सुसिद्धः सिद्धोर्द्ध जपात् वहु जाप्यार्च तत्परे || अतिद्रुंतं द्विः सुसिद्धः सुसिद्धारिः कुलापहः | अरिसिद्धः सुतं हंन्यादरिः सार्द्धस्तु कन्यस्तं || अरिः सुसिद्धः पालघ्नो अर्घरिः साधकापहः | अत्र प्रसिद्धनामः स्यात् प्रसुप्तोयेन जागृषात् || अथ प्रकारांतरमाह || प्रसिद्धं यद्भवेन्नाम किं वास्य जन्मनाम च | जातीनां पुष्पपातेन गुरुणा यत्कृतं भवेत् || विश्लिष्य तस्य वै वर्णान् वरव्यं जनभेदतः | तथैव मंत्रवर्णस्तु ततः शोधन मारभेत् || विंदुद्विविंदुकोप ध्यानीय जिह्वाग्र संभवः | संहतोच्चारणप्राप्तमधिकाक्षरमेव च || अपुत्रं साक्षरं लक्षौ त्यक्त्वा खण्ड चतुष्टयं | मंत्राक्षरैः सहैकैकः नामवर्णान् विशोधयेत् || व्यंजनैर्व्यंजनान्येव स्वरैर्सार्द्धं स्वरास्तथा | आद्यमाद्येन संशोध्यं द्वितीये च द्वितीयकं || मंत्रेवाप्यथ वा नाम्निवर्णाः स्युर्विषमा यथा | तदा मंत्रं समारभ्य समं यावत् प्रपूरयेत् || आद्यं तयोस्मियद्वणमिंत्रयस्मिन् वरानने | अचिरेणैव कालेन स तावत् सर्वसिद्धिदः || प्. १७अ) साध्यांतादिपुतोजस्तुसोति कृच्छ्रेण सिद्ध्यति | आदावंते सुसिद्धस्तु सर्वकाम विभूतिदः || आदावंते रिपुर्यस्य भवत्याज्यस्म मंत्रकः | आदौ सिद्धौंऽत्यसौध्यायो द्विगुणेन स सिद्ध्यति || आदौ सिद्धः सुसिद्धांतो यथोक्तात् सिद्ध्यते जपात् | आदौ सिद्धांऽत शत्रुश्चेत् सत्याज्यो मंत्रिसत्तमैः || साध्यौदिश्चैव सिद्धांत स्त्रिगुणात् सिद्ध्यते जपात् | आदौ साद्ध्यः सुसिद्धांते प्रोक्त मार्गेण सिद्ध्यति || सुसिद्ध्यादिस्तु साध्यांतश्चतुर्गुणमपेक्षते | सुसिद्धादिश्चांत शत्रुर्सध्यमः परिकीर्तितः || आघारिश्चांत सिद्धारिः सोपित्यज्य त्रिकर्मणि | आदौ मध्ये तथा चांते सिद्धः शुभफलप्रदः || सर्वसाध्य उदासीनः प्रोक्तस्तंत्रे स्वयंभु वा | स्थान त्रितय सु सिद्धस्सर्वानर्थांश्च साधयेत् || स्थान त्रितयगतारिर्मंत्रौमृत्युर्न्नसंशयः | सिद्धादि साध्य युग्मांतो व्यर्थ इत्युच्यते बुधैः || सिद्धादिद्धि सुसिद्धांते सर्वकार्यार्थ साधकः | सिद्धादिररि युग्मांतो नाशकः परिकीर्तितः || शत्रुर्हति यदा मध्ये सिद्धस्तदंतके साध्यः | कष्ठेन कार्यसिद्धिस्तस्य फलस्वल्पमेव भवति || अंते यदि भवति रिपुः प्रथमे मध्येति च भवति साध्य युगं || कार्यं विलंवि तस्यात् प्रशस्यति क्षिप्रमेवांते | आद्यंतं योर्यदा साध्या मध्य सिद्धिः प्रजायते || आद्यं तयोर्यदा सिद्धो मध्य साध्यः प्रजायते || तावुभौ साध्यसिद्धौ हि जपाधिक्येन सिद्ध्यति | अरिसंप्रतितं सिद्धिः सुसिद्धो हि तथा भवेत् || सर्वनाशकरो ज्ञेयः साधकस्य न संशयः | सिद्धेनांतरितः साध्यः सुसिद्धांतरितोऽथवा || शीघ्रं सिद्ध्यति मंत्रोयमीशानः स्वयमत्रवीत् | सिद्धेनांतरितः शत्रुः सुसिद्धेनापि चेद्भवेत् || नासौ रिपुर्भवेन्मंत्रं किंतु कष्टेन सिद्ध्यति | साध्यांतरितु सिद्धस्तु सुसिद्धोपि तथा यदि || ईदृशं लक्षणं दृष्ट्वा दूरतः परिवर्जयेत् | रिपुणादूषितो मंत्रो नैव देयः कदाचन || एषु दोषेषु सर्वत्र मायाकाममथापि वा | क्षिप्त्वा चादौ श्रियं दद्याद्दोषाणां च विमुक्तये || अथ षड्दलेमातृकाचक्रं || यस्तु बीजात्मको मंत्रस्तत्र षट्दलमातृका | विज्ञेया तत्र पद्मं तु रचयेत् षड्दलं शुभं || प्. १७ब्) तत्रर्न्यसंमातृकाणां कूटषंढ विवर्जितान् | स्वनामाद्यक्षरं यत्र तदारभ्य विचारयेत् || संपद्दारिद्र्यधैर्याणि वंधुविग्रहसंशयौ | सर्वनाशः क्रमादेतत् नाम्नाद्यर्णस्य कोष्ठतः || कथं मंत्रस्य सिद्धिः स्यादेतदर्थमहं ध्रुवं || अथ ऋणिधनचक्रं || धंनाशमातृका तत्र षत्त्रिद्विव्यगषट् कृताः | वह्न्यभ्रातृभ्रुवालेख्या अंका एकादशः स्वराः || तत्तद्रेकार्चठात्कच्च लेख्या वर्णहरोन्मिका | तदधो द्विकुसप्तार्च्चिषड्त्रिसप्तेषु सागराः || षट्पंच साधकस्यां कामंत्रांकाः पूर्वमीरिताः | स्वरव्यंजनभिन्नानां मंत्रार्णानां पृथक् पृथक् || अंकयोगस्तथा कार्यः साधकस्य तु नामजः | नागशेषावुभौ स्थाप्यौ यावन्नानांतकं मनुः || अधिकस्तत्साधकस्य देयं मंत्रेण साधितः | मंत्रो यद्यधिकोकः स्यात् तदा मंत्रं जपेत् सुधीः || समेपि च जपेन्मंत्रं जपेत् तदृणाधिके | शून्ये मृत्युं विजानीयात् तस्माच्छून्यं परित्यजेत् || तावत्संख्यां समादाय न साध्यानपि साधयेत् | हीनाश्च ग्रहयोगेन तथादिक्षूप पत्तितः || पुरश्चर्यां पुनः कुर्यान्मंत्र संदीप्तये पुनः | ऋणी तु साधको ज्ञेयः साधकांकों यदाधिकः || यावत्स्यादधिकस्तावत् संख्यकानि यदा चरेत् | पुरश्चरण संज्ञानि तदास्य समता भवेत् || पुरश्चर्यां पुनः कृत्वा तदास्यात् कार्यसाधकः | एकस्मिन् संधिते कार्ये पुनर्याति स कुंठकां || तावज्रयं पुनः कृत्वा चैक कार्य क्षमा भवेत् | तत्वमंत्रः प्रकटितं सर्वतंत्रेषु गोपितं || इति क्रमेण संप्रोक्तं ऋणीधन विशोधनं | ऋणं धनं च विज्ञाय नामदद्यान्महेश्वरी || अन्यथा नामदाने च नामानुरूपकं फलं | न भवत् परमेशानि भ्रष्टो भवति साधकः || स्वमुखत्वं न जानाति देवदोष पुरः कलौ | सर्वमेवं तु विज्ञाय नामाज्ञादापयद्गुरुः || विज्ञायं तद्गुरु मुखान्माम कर्म समाचरेत् | भावशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च || राशिशुद्धिस्त्रैपुरेषु गोपारेकदम स्मृताः | प्रत्यंगिरा सिद्धिलक्ष्म्या कुलाकुल विचारयेत् || प्. १८अ) कालिकायाश्च तारायास्ताराश्चक्रं विशस्यते | अत्र चेच्छस्तमंत्राणां नान्य चक्रं विचारयेत् || कालिकायां च तारायां कुल्लुकायां त्रिकण्टके | तथैकाक्षर कूटे च शिवपंचाक्षरे तथा || षडक्षरे तु तस्यैव विष्णोरष्टाक्षरेपि च | नृसिंहार्क वराहाणां प्रासाद प्रणवस्य च || पिण्डिताक्षर मंत्राणां सिद्धादीन्नैव शोधयेत् | हंसस्याष्टाक्षरस्यापि तथा पंचाक्षरस्य च || नपुंसकस्य मंत्रस्य सिद्धादीन्नैव शोधयेत् | एकाक्षरे तथा कूटे मालामंत्रे त्रिबीजके || स्वप्नलब्धे स्त्रियादत्ते सिद्धादीन्नैव शोधयेत् | विंशत्पर्णाधिकामंत्रा मालामंत्राः प्रकीर्तिताः || अथान्नप्राशनसंस्कारः || अन्नप्राशनसंस्कारः षष्टसार्वजनीनकः | स्वकल्पोक्त विधानेन शूद्रादिनाम मंत्रकः || पितरस्तत्र संपूज्या वाममार्गे तु भैरवाः | स्वेष्ट देवस्य चक्रस्य पूजांते स्ववशेषितं || स तीर्थं स परं दद्यात् मूलमंत्रमुदीरयेत् | एवं कृत विधानस्य क्षुद्विपत्तिंर्नजायते || अथ चौराक्षसंस्कारः || अथ सप्तम संस्कारं चौराक्ष शृणु पार्वती | सर्वेषामे तदुद्दिष्टं बाल्यपातकनाशनं || बौद्धानां प्लवनानां च शिखातस्थाप्यतेन च | स्त्रीणामपि च कर्तव्यं सौभाग्यारोग्य वृद्धये || वामे चूडास्तु धर्तव्या मंत्रबीजसमाःकचाः | तीर्थे क्षिप्त्वा खरेद्भूमौ विशेषा वामिमामिति || अथ मौंजीवंधाख्य संस्कारः || अथाष्ठं मंत्रसंस्कारं मौंजीवंधमहं ब्रुवे | गुरोः समीपे नयनं तच्चोपनयनं स्मृतं || स्वकल्पोक्त विधानेन तत् कुर्याद् ब्रह्मवर्चसे | वामाचारैर्द्विजैः पूर्वं कर्तव्यं कुलदीक्षणं || पश्चाद्दीक्षा तु सा विमांच्यत्या सा सतितो भवेत् | दीक्षा तु लघुदैवत्या प्राक्यश्चान् महतस्तथा || मृहद्दैवतमंत्रे तु सिद्धेः क्षुद्राः स्वयं वशाः | तेषां ग्राह्या यत्र दीक्षा पुरश्चर्या समाचरेत् || प्रयोगांश्च प्रकुर्वीत न स्वोष्टस्य कदाचन | सच्छिष्यं वा सुपुत्रं वा विन्न्यष्टंदापयेन्न च || लोभाद्भयाद्वां कामाद्वायोदद्यात् सिद्धमंत्रकं | शिष्यस्य जायते सिद्धि गुरोः शापं प्रजायते || प्. १८ब्) यस्या यस्यां देवताया प्रशस्तिर्यत्र यत्र च | तत्तन्मार्गे प्रशस्तास्य स्वराज्यराजवद्भवेत् || तंत्राण्यष्टोत्तरशतं मया प्रोक्तानि पार्वतीः | येन येन तु यत्पृष्टं तस्याधिक्यं तु वर्णितं || निःपक्षपातं वक्ष्यामि मेरुतंत्रे यथार्थतः | सर्वेभ्यो वैदिकं श्रेष्ठं न्यूनं स्मार्तं ततः स्मृतं || ततस्तां च तु तत्रापि संहिता अर्णवास्ततः | यामलासंगमास्तंत्रमुड्डीशानि च ताडवे || इंद्रजालं कच्छपुटावौधंजैनं च शावरं | क्रमादपचितं ज्ञेयं यथायोग्यं समुच्यतां || नीचे उच्चस्य जातः स्याञ्तीव उच्चात्यते ध्रुवं | ज्ञातिदाद्याय सर्वेपि स्वाचारात् कर्मकुर्वते || इदं पशुमतं प्रोक्तं वक्ष्येन्यत् कौल वामयोः | सर्वेभ्यो वैदिकः श्रेष्ठो वैदिकोद् वैष्णवः परः || वैष्णवाद्माणयः श्रेष्टो गाणपात् सौर उत्तमः | सौराच्छैवः श्रेष्ठतरः सैवाच्छाक्तः परोमतः || शाक्तेभ्यो दक्षिणः श्रेष्ठो दक्षिणाद् वाम एव तु | वामाद्वीरः श्रेष्ठतरो वीरात् कौलावधूतकः || कौलावधू ततः कौलः कौलात् परतरं न हि || अथ प्राजापत्यव्रताख्यसंस्कारः || संस्कारं नवमं विंद्यात् प्राजापत्यं व्रताभिधं | स्वकल्पोक्तेन मार्गेण वैदिकस्तांत्रिकः पुनः || एतद्व्रतस्य संस्कारे गाणपत्यो मनुः स्मृतः | वक्रतुण्डादिका दक्षे उच्छिष्टाद्यास्तु वामके || अथ सौम्यव्रताख्यसंस्कारः || संस्कारं दशमं सौम्य व्रतं वैदिकमाचरेत् | स्वकल्पोक्त विधानेन तत्स्थाने तांत्रिकः पुनः || गृह्णीयाद् भैरवं मंत्रं वदुकाख्यस्य वामके | कालभैरव भेदस्य यस्य कस्यापि दक्षिणे || पुरश्चर्यो पाशकानां नाशको भैरवो यतः | दरिद्रैः साधकैर्ग्राह्यः स्वर्णाकर्षणभैरवः || अथ आग्नेयाख्यसंस्कारः || एकादशं तु संस्कारमाग्नेयाख्यमतंद्रितः | कुर्याद् गृह्योक्त मार्गेण तस्मिन् स्थाने तु तांत्रिकः || गृह्नीयादंग देवानां मंत्रानादौ गुरोर्मुखात् | पूजादिमत्रांतच्छिक्षांतद्द्रव्य नियमांस्तथा || अथ देवाख्यसंस्कारः || द्वादशं चापि संस्कारं वैश्वदेवं व्रताभिधं | तस्मिन् स्थाने भवेद्दीक्षा स्वेष्टं मंत्रस्य तांत्रिके || अथ गोदानाख्यसंस्कारः || त्रयोदशं तु संस्कारं गोदानाख्यं प्रकीर्तितं | तत्स्थाने तांत्रिकः कुर्यात् सर्वपाप विमोक्षणं || प्. १९अ) सत्स्थले तु समासीन आदर्शं वा घटोदकं | स्थाप्याग्रे सत्पया वाचास्ततः संप्रार्थयेदिति || पुरश्चरण कामोहं पापंक्षयि तु मुध्यतः | अपराह्नं जपं कुर्वे देवताः संतुसाक्षिणः || पृथिव्याप्तेज-आकाशवायुः सूर्येन्दुभानि च | यावच्छरीरे पापानि तिष्ठंति मम देवताः || तावच्च प्रतिबिंबामे मलिनेभां तु पातके | शांते पारदमध्ये च यथा संदृश्यतां तथा || शुद्धः संचिन्मयो भूत्वा चिंतयेत् पापपूरुषं | दक्षकुक्षि स्थितं कृष्णं मंगुष्ठ परिमाणकं || विप्रहत्या शिरो युक्तं कनकस्तेय वाहुकं | मदिरापान हृदयं गुरुतल्प कटीयुतं || पापसंयोग यद्वंद्वमुपयातकरोमकं | खड्गचर्मधरं दुष्टमधोवक्त्रं सुदुःसहं || एवं संचिंतयित्वाथ जपं कुर्वन् विचिंतयेत् | दीयमानं पापनरं जपांते प्रेक्षयेत् पुनः || आदर्शादि पदास्वच्छा सर्वछाया प्रदृश्यते | तदा तु निर्गतं पापं पुरश्चरणयोर्गता || अथ समावर्तनाख्यसंस्कारः || चतुर्दशं तु संस्कारं समावर्तन मुच्यते | तस्य स्थाने पुरश्चर्या कर्तव्या तांत्रिकैर्जनैः || आदौ संक्षेप पूजा तु दिने कृत्वा तु कौलिकः | आसायं तु जपं कुर्याच्चक्रपूजां तथा निशि || शक्तिभिः सहितः पंचमकारादि समन्वितः | एवं सिद्धिमवाप्नोति नान्यथा जपकोटिभिः || अथ विवाहाख्य संस्कारः || विवाहः पंचदशमः सर्वेषां स विधीयते | विधवाया विवाहस्तु पिच्छले नैव जायते || सर्वपाप विनिर्मुक्ता सा तु विष्णुपदं व्रजेत् | अब्राह्मणी द्विजा कुर्यादन्यमेकं तथा पतिं || अथ पितृमेधाख्य संस्कारः || षोडशः पितृमेधाख्यः स्वगृह्योक्तेन वर्त्मना | वैदिकस्तांत्रिकस्तत्र देवस्थाने स्वदेवतां || स्थापयित्वा चरेच्छ्राद्धं ब्राह्मणामृतपंथिनः | अथवा यजमानस्य मार्गस्थस्तदभावतः || आमश्राद्धं प्रकुर्वीत वामी तु पलपैतृकं | शक्तियुक्ताद्विजाः कौले भोज्याश्चक्रार्चने तथा || वर्जयेत् तुलसीं तत्र भृंगराजेन पूजयेत् | पाकः कौलिकवस्तूनां पिण्डाश्च रुधिरोक्षिताः || प्. १९ब्) एतैः षोडश संस्कारैः संस्कृतः साधकोत्तमः | जीवन्मुक्तस्तदाज्ञेयः सामर्थ्यं देवतार्चने || इति श्रीतंत्रचिंतामणौ साधकानां गर्भाधानादि षोडश संस्कारनिर्णये नाम चतुर्थः प्रकाशः || ४ || अथ मंत्रम * (?) षोडश संस्कारः || अथ षोडश वक्ष्येहं संस्कारान् मंत्रसंस्थितान् | शापैर्मंत्रा विमुच्यंते यान् कृत्वा दैवनिर्मितैः || अथादौ सर्वमंत्राणां तयोरन्यत्र जाग्रतिः | प्रबोधकाले संजप्तो जाग्रतो जायते मनुः || अथवा संपुटी कृत्य जातानाद्यान् स विंदुकान् | पुनश्च सविसर्गांस्तान् क्षकारं केवलं पठेत् || एवं जप्तोपदिष्टां चेत् प्रबुद्धः शीघ्रसिद्धिदः | अथ सावरण मंत्राणां जाग्रतिं शृणु पार्वती || कांस्यभाजनमानीय शुद्धं भस्मादिभिः कृतं | प्रजपेद् रविरात्रौ तु या मेया मे शताष्टकं || खादिर्या ताडयेद् यष्ठ्या कांस्यपात्रं वदेदिति | जाग्रतो भवमंत्रस्त्वं भाषयाथ तुरीयके || यामे दद्याद्वलिं काल्याः मंत्रजं भैरवस्य तु | कुक्कुटं चान्य देवेषु स्फोटयन्तारिकेरकं || अथ सर्वे मंत्राः कथं शापिता इत्यपेच्छायां तद्वीजमाहा || सुरया मूर्द्धया पूर्वदेवादेवा विमोहिता | यदा तदा तु भगवान् प्रोवाच मधुसूदनः || कः पूज्यो भवतां मध्येकः श्रेष्ठस्तं निगद्यतां | उन्मत्तास्तु तदा देवाः श्रेष्ठोहमिति चासुवन् || किं विष्णुस्तान् स भगवान् मोहयन्नात्ममाय वा | इत्यवोचद्यस्य वाक्यं सापेयानुग्रहेक्षमं || स एव देवः श्रेष्ठाग्रे पूर्वो वाप्य परोपि वा | इति श्रुत्वा वचो विष्णो स शापश्च परस्परं || मंत्ररूपाण्यतो देवी संस्कारैः शापमोक्षणं | विना तु शापमोक्षेणकः सिद्धिं प्राप्नुयाज्जनः || देव्युवाच || शापः केन कथं दत्तं शप्ते जप्ते च किं फलं | निःशापत्वं कथं तेषां सिद्धिः स्यादितिमेवदा || शिवोवाच || आदि मध्यावसानेषु वायुर्यस्य व्यवस्थितः | चतुराद्योवैक वीजोनैकधां यत्र संगमः || केनापि च समाक्रांतः स मंत्रछेदितोसिना | कार्तिके येन तज्जायाछिद्यतेस्य मनोरथाः || आदौ मध्येवसाने वा भूवीज युगलं भवेत् | आदौ यद्वाद्विधावक्र त्रिधा मध्यं ततोद्विधा || प्. २०अ) रुद्वौ शक्रस्य शापेन भुक्तिमुक्ति विवर्जितौ | जातौ मंत्रौ वा मदक्षमार्गयोरपि सेवितौ || ह्रीं मों फ्रें श्रींष्वेकतमं यत्र बीजं न दृश्यते | ह्रंकारो वा स मंत्रस्तु शक्तिहीनः कृतः सुरैः || एतादृशश्चेत् संजप्तः सामर्थ्यं हंति मंत्रिणः | शक्तिहीनस्य वामस्य मरणं नात्र संशयः || नादौ ह्रीं न च मध्ये क्लीं क्रों ते वा नैव दृश्यते | असौपराङ्मुखो मंत्रो जातः सूर्यस्य शापतः || पराङ्मुखं भजेन्मंत्रं देवता स्यात् पराङ्मुखी | दैवात् कार्येपि संसिद्धे लोकस्याच्च पराङ्मुखः || आदावंते यथा मध्येहं वासं वा न दृश्यते | विधिरास्ते कृता मंत्रा देवाचार्यगणापि च || जप्ते तु वधिरे मंत्रे विस्मृतिस्तस्य जायते | जायते वधिरो नूनं महाकालेन भाषितं || सूर्यबीजं हकारः स्याच्चंद्रबीजं तु सः स्मृतः | रेफोग्निं बीजमुद्दिष्टमेतन्नेत्र त्रयं ममः || पंचाक्षरे यत्र मंत्रे यत्रैकमपि नास्ति चेत् | मम शापान्नेत्रहीनो दुःखशोकभयप्रदः || नादौ मध्येन चांते वा ह्सौं वाहं सवाथ हौं | ऐं वा फ्रें वाथवा ह्रूं वा नमो वा ह्रीं मनुः स तु || शापेन कीलतो नेत्रो राजदेवेन पार्वती | जप्तस्तु कीलितो मंत्रो न सिद्धिमधिगच्छति || मध्ये ए कोलकारो वा फट् वोंतेल द्वयं यदि | फट् द्वयं चात्रयं वां तेन चेत्सस्तंभितो मनुः || शापेन भैरवेणास्मात् सिद्धं भवति शोभनं | कदापि नैव दुःखं च प्रायशो बहुलं भवेत् || आदौ तु यस्य मंत्रस्य क्रमात् सप्ताक्षराणि चेत् | रेफेण वा यकारेण संयुक्तानि मनुः स तु || वायवग्निकाय संदग्धः साधकं परितापयेत् | तस्मात् संस्कारयेद्देवी सिद्धये साधकोत्तमः || द्वाभ्यां त्रिभिरथा षड्भिरष्टभिर्वा प्रदृश्यते | यदाक्षरैरंतरितः फट्कारः स निगद्यते || नारसिंहस्य शापेन त्रस्तः संत्राशयेत् सदा | स्वप्नादौ साधकं नैव सिद्धिः संदृश्यते क्वचित् || ओं वा हं वा सकारो वानादौ भीतो मनुः स तु | ब्रह्मशापाद्धीन सिद्धिर्भवेदत्यंतकष्टदः || आदि मध्यावसानेषु मिलित्वाम चतुष्टयं | स मंत्रो मलिनो मायाशापान्मालिन्य कारकः || प्. २०ब्) हूं चादौ वा मंत्रमध्ये चांते फट् युगलं भवेत् | तिरस्कृतो रुद्रशापात् साध्यं कुर्यात्तिरस्कृतं || आदौ तारद्वयं चांते वषड्वा अत्रमादले | क्रदुंव कलहं कुर्याद्वाला शापेन भेदितः || हकारेण सकारेण रहितस्त्र्यक्षरस्तु यः | सुषुप्तः सिंहशापेन प्रोक्ताभीष्ट फलापहः || अष्टादशाक्षरादिर्यः पंचफट्कारपूर्वकः | चामुण्डा शापतो जातो मदोन्मत्तो न शोभनः || मध्ये वेत्यं च फट्कारा कालिका शापतः स तु | मूर्छितो मूर्छितं कुर्याद्वामिनं तु विशेषतः || एवमंते च फट्कार पंचकं स तु रंभया | हतवीर्यस्तु शापेन कृतः क्षीणस्वकारकः || चत्वारो यत्र फट्कारा आदिमध्यां च सानिका | अष्टादशाक्षरो हीनो हानिं भैरवशापतः || एकोनविंशत्पर्णश्चे ह्रीं क्रों मां कार संयुतः | प्रध्वस्त कामशापेनध्वं सयेत् कामकारणात् || सप्तवर्णा मनुर्वालः कुमारोष्टाक्षरः स्मृतः | षोडशार्णस्तु तरुणः प्रौढो व्योमा विवर्णकः || त्रिंशत् कलाशतं वेदकाष्टावर्णास्तु यत्र तु | सकृद्धि एते कालेन सदा दुःकानि कुर्वते || नवार्ण ओंकारयुतश्चामुण्डा शापतो मनुः | निःस्त्रिंश साधकं छिंध्यानि स्त्रिंशेन न संशयः || अंते नमो वा स्वाहा वा नास्ति वा यस्य मध्यतः | वषट् वौषट् स हूं फट् च एतद्वानास्त्यसौ मनुः || निर्बीज इति संशप्तो भुवनेस्यास्य साधकः | सेवां कुर्वल्लभेद्वंशनाशं वर्षत्रयादितः || आदि मध्यावसानेषु फट् फट्कारास्तु यस्य तु | कौमार्यास्तु स शापेन सिद्धि हीनो न सिद्धिकृत् || दशाक्षरो यस्तु मंत्रः स गणेशस्य शापतः | मंदो जप्तस्तु मूर्खत्वं कुर्याज्जन्मनि जन्मनि || आदिव्यंजन संयोग एक एव स्वरो भवेत् | तत्कूटं कूटतो हानि मातंग्याः शापतः स्मृताः || द्विवर्णसत्वहीनः स्यादाश्विनेयस्य शापतः | नाशयेत् साधकवलं राज्ञः सैन्यं विनाशयेत् || चतुर्वर्णः केकरस्तु जातः सर्पालिशापतः | जपित्वा केकरं मंत्रं चाक्षुषा नैव पश्यति || षडक्षरा बीजहीना जाता रावणशापतः | वंशवृद्धिर्नतज्जापादन्यथा स्त्रीसुखं न हि || सार्द्ध त्रिसप्तसूर्याणां धूमावत्याश्च शापतः | धूमीता व्याकुलं चित्तं जायते साधकस्य तु || प्. २१अ) विंशत् तथैकविंशच्च त्रिंशद्वर्णस्तु तारया | सप्त आलिंगितश्चायं जपात् सप्तं न तेर्मृतिः || द्वाविंशत्यक्षरो मंत्रः सरस्वत्यास्तुशापतः | मोहितः साधकं कुर्यात्यानादिव्यसनाकुलं || चतुर्विंशति वर्णोयः सप्तविंशति वर्णकः | क्षुधार्ता राजमातंग्याः शापाद्दारिद्र्यकारकः || त्रयोविंशत्रयं रुद्रावर्णाः कौलिकशापतः | मंत्रा दृप्तास्तज्जप्तेन छांदसोर्जायते जनः || षड्विंशदेकोनत्रिंशत्रिंशत्षड्त्रिंशदक्षरः | पूष्णः शापादंगहीनः कामनारूपको न हि || अष्टाविंशदेक त्रिंशद्वर्णो नंदीशशापतः | अतिक्रूरः साध्यनाशं कृत्वा नश्यच्च साधकः || अष्टत्रिंशाक्षरो मंत्रो मातृकाणां तु शापतः | अति क्रुद्धस्त जपेन स्वकृतेस्वस्य संक्षयः || चत्वारिंशत् समारभ्य त्रिषष्टियावदक्षरं | सव्रीडामालिकाशापात् स व्रीडा तस्य साधकाः || पंचषष्ट्यक्षरायेस्युर्मंत्रास्तेशांतमानसाः | कामशापेन तज्जापादुद्योगस्य पलं न हि || षट्षष्ठितोनवनवतिपर्यंतं कुजस्य तु | स्वान अष्टास्तु शापेन जातास्तादृक्वसाधकः || धातिधृतिर्द्धात्रिधृतिक्वंकयुग्मं द्विगोकराः | शतत्रयं यत्र वर्णाः शापिताच्छिन्नमस्तया || यूयं भवंतु निःस्नेहा साधकानां भयावहा | निःकामैर्यतिभिर्जप्ताः संसारः स्नेहनाशनाः || चतुःशतान्यथारभ्ययावद्वर्ण सहस्रकं | अतिवृद्धो यज्ञशापात् पौष्टिकादिषु वर्जिताः || सहस्राणाधिकामंत्रा दंडपाणेस्तु शापतः | दंडकाख्यापीडिताश्च तज्जपात् कष्टमाप्नुयात् || द्विसहस्राणाधिकामंत्रा भार्गवस्य तु शापतः | खंडीकृता सप्तधा ते सिद्धि खंडकराः स्मृताः || अन्यच्छृण्वं तु भोदेवा मुनीनां जपतां यदा | सिद्धिर्नजाता तु तदा दत्तः शापः सुदारुणः || आश्वासनं देवतानां जातं सिद्धेरकारणात् | उपदेशे गुरुःकुर्यात्तस्मात्तन्मंत्रशोधनं || तत्प्रकारं प्रवक्ष्यामि शृण्वं तु सकरासुराः | गुरुः सिद्धासने संस्थोगुदमेढ्रांतरं दृधं || वामेन पार्ष्णि नापीड्य तस्योपरि तु विन्यसेत् | पादं तु दक्षिणं गुल्फं ग्रंथ्योरन्योन्यमर्द्दनं || यथा स्यात् तत्प्रकर्तव्यं ततो दषिणपार्ष्णिना | लिंगमूलं विनिष्पीड्यस्थिरकाय उपाविशेत् || प्. २१ब्) गुदमाकुंच्यपवनसपानाख्यं तदा गुरुः | उत्थापयेत् ततः प्राणामधु सम्यङ्निरोधयेत् || अपानः प्राणयोः कुर्यात् संघट्टं चैक दृङ्मना | मूलाधारेचित् स्वरूपः कुण्डल्यां परमात्मनि || जातदोषं स्वस्य मंत्रं चिंतयेत् तत्र सद्गुरुः | तस्य मंत्रस्याक्षराणि क्रमादेकैकशस्तुतः || सुषुम्णाया तु मार्गेण मूलाधारे प्रवेशयेत् | स्वाधिष्ठाने ततश्चक्रे मणिपूरेह्यनाहते || विशुद्ध आज्ञा चक्रे च भित्वा भित्वा प्रवेशयेत् | एवं नीत्वा ब्रह्मरंध्रं तत्रन्यात् सोममण्डलात् || निर्गता मृतसंसिक्तमंत्राणां सु विभावयेत् | पुनः सुषुम्णा मार्गेण आज्ञा चक्रे च तारयेत् || विशुद्धे नाहते चापि मणिपूरे च चक्रके | स्वाधिष्ठाने ततो भेदान्मूलाधारं प्रवेशयेत् || ततस्तन्मंत्रमृष्यादिन्यासः पूर्वं जपेन्मनुं | उक्तशापाद्विनिर्मुक्तं पश्चादुपदिशेच्चतं || अल्पपुण्यतया पापाधिक्यात् पापः कलौयुगे | आशीर्वादफलं स्तोकं पूर्णपापादिजं फलं || वाचिकानां तु शापानां नाशाद्यर्थ मथोच्यते || अथ मंत्राणां जननादि संस्काराः || श्रीपर्ण्यो वा चंदनस्य पीठे चूतादिकस्य वा | कस्तूरी कुंकुमाब्जैश्च विलिखेत् पांचभौतिकं || चक्रमावाहयेत् तत्र मातृकाख्यां सरस्वतीं | यथोक्तविधिना पूजां कृत्वा चाष्ठोत्तरशतं || जपित्वा मातृकां तस्या मध्यात् स्वाभीष्टमंत्रकं | स्वरव्यंजन विंदुश्च सर्गयोगाक्षराणी च || पृथक् पृथगथोद्वृत्य चैकीकृत्य गुरूक्तितः | गृहीतं जमयेत् मंत्रं प्रोक्तं संजननं त्विदं || आद्यंतं प्रणवं कृत्वा प्रणवां तरितां जपेत् | अष्टोत्तरशतं मंत्रं वर्णानेतत्तु जीवनं || रोचना कुंकुमाभ्यां च भुजपत्रे लिखेन्मनुं | प्रत्यक्षरं शतं वारं ताडयेच्चन्दनांभसा || समुच्चरन् वायुबीजमेतत्ताडनमुच्यते | कुंठिताः शावराः मंत्राः ताडिताः सिद्धिकारकाः || पूर्वोक्तपीठे संलिख्य तन्मंत्राक्षर संख्यया | आदायकरवीरस्य पुष्पाण्पथ समुच्चरन् || प्रत्यक्षरं च तैः पुष्पैः शतवारं हुनेदिति | उच्चरन् वह्निबीजं च वोधनं त्वेतदुच्यते || प्राग्वत् पीठे च तैर्द्रव्यैः पद्ममष्टदलं लिखेत् | तत्कर्णिकायां मालत्या लिखेत् कलिकयैकया || प्. २२अ) एकैकार्णं तु मंत्रस्य तन्मंत्राक्षर संख्यया | अश्वत्थ पल्लवं गृह्यतमेवं मंत्रमुच्चरन् || अभिषिंचाम्यमुं मंत्रं नम इत्यभिषेचयेत् | नानासुगंधितो येन पल्लवैः केन चाक्षरं || एकमष्टोत्तरशतमभिषेकस्त्वयं स्मृतः | अभिषेको मंत्रशुद्धिं कुर्यान्नृणां यथा जलं || ज्योतिर्मंत्रश्चिंतनीयामूलाधारेग्निमंडले | संस्कर्तव्यं मनुं तस्य उर्ध्वमेवं विभावयेत् || आणवाष्यः साहजिकः आगंतुः कार्मणः स्मृतः | योगाख्यामायिकः प्रोक्तः स्वमंत्रे तु मलत्रयं || ज्योतिर्मंत्रेण निर्दग्धमेकमेक विचिंतयेत् | एवं तु विमलो जातः स्वमंत्र इति चिंतयेत् || ज्योतिर्मंत्रस्तु वेदादि हौंमितिद्यक्षरो मतः | विमलीकरणं त्वे तत्प्रयोगां तेपि कारयेत् || प्राग्वत् पीठे कुंकुमादि द्रव्यैर्मंत्रं विलेखयेत् | ताम्रादिपात्रं कर्पूर वा सितेन जलेन च || शुद्धेनापूर्यलिखितमंत्रेणाष्टोत्तरंशतं | अभिमंत्र्यजलं तेन मंत्रेण कुशबिंदुभिः || प्रत्यक्षरं प्रोक्षयेत् तदे तदाप्यायनं मतं | पुरश्चर्या क्लेशितानां समावर्तनवत्विदं || कस्तूर्याद्यैस्ताम्रपात्रमध्ये मंत्रं विलेखयेत् | पात्रांतरे च कर्पूरादिकवासित सज्जलं || गृहीत्वा चार्घ्यपात्रेण पठमंत्रमिमं मनुं | तर्पयामि नमों तेन तर्पयेदिति तर्पणं || ओं ह्रीं श्रीं पूर्वकं मंत्रं जपेदष्टोत्तरं शतं | जपेदेतद्दीपने स्यात् सर्वमंत्रेष्वपीष्यते || जप्यमानस्य मंत्रस्य गोपनं त्वप्रकाशनं | संस्कारा दशसंप्रोक्ता सर्वतंत्रेषु गोपिता || एवमेकादश प्रोक्तः संस्कारा अथ पंच च | प्रतिमंत्रं वक्ष्यमाणो जपहोमश्च तर्पणं || मार्जनं भोजनं चापि द्विजानामिति षोडशः | प्रोक्ताः मंत्रस्य संस्काराः देवशापादि मोचकाः || दीक्षाकालं प्रवक्ष्यामि तच्छृणुष्व वरानने || इति श्रीतंत्रचिंतामणौमंत्राणां जागरणादि षोडशसंस्कारनिर्णयन्नाम पंचम प्रकाशः || ५ || अथ मासफलं || ईश्वरोवाच || चैत्रे दुःखाय दीक्षास्याद् वैशाखे रत्नसंचयः | मरणं भवति ज्येष्टे चाषाढे वंधुनाशनं || समृद्धिः श्रावणेनूनं भवेद् भाद्रपदक्षयः | प्रजानाशोऽथाश्विने तु भवेच्चा शुभमेव च || ज्ञानं स्यात् कार्तिके सौख्यमार्गश्रीर्ष भवेत्किल | पौषे ज्ञानक्षयोमाद्येभवे मेधा विवर्द्धनं || प्. २२ब्) फाल्गुणे सर्वसिद्धिः स्यात् मलमासं विवर्जयेत् | निषिद्धमासे तु तत् तद्विशेषो शृणु भेदत्तः || षष्टी भाद्रपदेमासि तथाश्विन चतुर्दशी | कार्तिकी नवमी शुक्लामार्गो शुक्लातृतीयका || पौषे च नवमी शुक्लामाघे शुक्ला चतुर्थिका | फाल्गुणे नवमी शुक्ला चैत्रे काम त्रयोदशी || वैशाखे चाक्षया चैव ज्येष्ठे दशहरातिथिः | आषाढे पंचमी शुक्लाश्रावणे शुक्लपंचमी || एतानि देवपर्वाणि तीर्थकोटि फलं लभेत् | निन्दितेष्वपि कालेषु दीक्षोक्ता पर्वणी शुभा || अथ पक्षफलं || भुक्तिमुक्तिप्रदः शुक्लकृष्ण मोक्षप्रदः स्मृतः | वामाचारवतां शुक्लो न सत्कृष्णौपि मध्यमः || तिथेः फलं बुद्धिनाशः क्रमाद् ज्ञेयः सुसिद्धये | अगौरीमांत्रिकात्रष्टा विगणेशाश्च दुःखिता || सिद्ध्यंति मंत्राः सर्वेपि न सिद्ध्यंति कदाचन | समृद्धिर्द्रुतसिद्धिश्च मूर्खता दुःखनाशनं || जडतारिक्तनाशश्च सर्वपूर्णं भवेत् फलं | शुक्लाश्रेष्ठा नैव कृष्णा शुभाशुभ नराहरेः || सिद्धिः स्यात् सर्वमंत्राणामशैवानां महाभयं | सिद्धिर्हातु विशेषेण पुत्रहानिः पितृनृते || अमावास्या सोमवारे भौमवारे चतुर्दशी | सप्तमी रविवारेण सूर्यपर्वशतैः समा || अथ वारफलं || रविवारे भवेद्वित्तं सोमशांति भवेत्किल | आयुरंगारकेहंति तत्र दीक्षां विवर्जयेत् || बुधः सौंदर्यमाप्नोति ज्ञानस्यान्न बृहस्पतौ | शुक्रे सौभाग्यमाप्नोति च शो * * * * * * (##? अथ नक्षत्रफलं || क्रमाद्दीक्षाफलंभानां समता च यथा विपत् | मनस्तापः प्रियासौख्यं सौख्यं मंत्रस्य सिद्धयः || सिद्धिश्च क्रूरमंत्राणां शक्तिमंत्रस्य सिद्धयः | सर्वे मंत्राः प्रसिद्ध्यंति सर्पमंत्रस्य सिद्धयः || निधनं राजदण्डश्च वशित्वं सर्वसिद्धयः | रुद्रदैवतसंसिद्धिः शीघ्रं सिद्धिः शुभामति || देवमैत्री सर्वेहानिः कलहश्च महाभयं | संपद्रोगोजपात्सिद्धिः क्षोभः संताप ईशता || सर्वसिद्धिफलंभानां क्रमाद्दक्षथ वामके | चतुरस्ते त्वधःपातो दग्धालिंगितधूमिते || प्. २३अ) अधोमुखे शुभेभे च चंद्रशुद्धौ विशेषतः | कृष्णे ताराबलं कुर्यांत् स्वनामादि विचिंतनं || अथ योगफलं || योगाश्च प्रीतिरायुष्मान्सौभाग्यः शोभनः शुभः | शुकर्मा च धृतिर्वृद्धिर्ध्रुवः सिद्धिश्च हर्षणः || वरीयांश्च शिवः सिद्धो ब्रह्मा इंद्रश्च षोडशः | विष्कंभादिक योगानां नामतुल्यं फलं भवेत् || आनंदादिक योगानां सर्वत्रा विकलं फलं | शुभानि करणान्याहुर्दीक्षायां च विशेषतः || अथ करणफलं || वववालगतैत्तिलश्चवणिजस्तदनंतरं | करणान्येतानि शुभान्येव सर्वतंत्रेषु भाविनी || शकुन्यादी निविष्टिं च विशेषेण विवर्जयेत् | विष्टिं विहाय करणेवरे सिद्धिर्द्रुतं भवेत् || सर्वसिद्धिर्विष्टिपुच्छेस्थिरे तु स्थिरता भवेत् || अथ लग्नफलं || अथ लग्नफलं देवाधनंधान्यं समृद्धयः | मृत्युर्वाथ भवेद्धानिः पशुपत्य विनाशनं || राज्यं वा देवता सिद्धिर्हानिर्मेधा विनाशनं | रत्नादि लक्ष्मीलाभश्च धनंधान्यं च सिद्धयः || पूर्णसिद्धिः प्रतापश्च हानिर्विज्ञाननाशनं | पुत्रप्राप्तिर्मंत्रसिद्धिः पशवोर्विपुलं धनम् || सदादुःखं तथा हानिर्वामितां मिथुनः शुभः | वागिनां यवनानां च विरुद्धं वहुधा शुभं || अथ कालफलं || धर्मतः प्रातकालः स्यात् संगमे राज्यदायकः | मध्याह्ने सर्वसिद्धिः स्यात् सायाह्ने मध्यमो भवेत् || रजनी मंत्रदाने तु निषिद्धा देशिकोत्तमैः | चरः सर्वोविवर्जः स्यात् स्थिरराशिषु सौख्यदा || स्थिरलग्नं विष्णुमंत्रे शिवमंत्रे चरं शुभं | द्विः स्वभावगतं लग्नं शक्तिमंत्रे प्रशस्यते || तृतीयैकादशः षष्ठः दशमस्थः शुभः शशी | जन्मचंद्रः शुभः प्रोक्ता जन्मनक्षत्र वर्जितः || शुक्लपक्षे द्वितीयस्तु पंचमो नवमस्तथा | गोचरे ये ग्रहाः शुद्धास्तैर्युक्तोपि शुभः शशी || शुभमध्यस्थितो वापि चंद्रमा शुभदो भवेत् | पंचांग शुद्धेदिवसे स्वादये चंद्रसूर्ययोः || गुरु शुक्रोदये चैव शस्यते मंत्रसंस्क्रिया | शुक्रोस्तो यदि वा वृद्धो गुर्वादिभ्यो भवेद्यदि || मेषवृश्चिक सिंहेषु तदा दोषो न विद्यते | अस्वाध्याय भूमिकंपे संध्यागर्जे च भैरव || उल्कापाते च दिवसे तत्र दीक्षां विवर्जयेत् | शिक्षति जन्मनक्षत्रे संक्रांतौ विषुवेऽयने || प्. २३ब्) अन्येषु पुण्ययोगेषु ग्रहणे चंद्रसूर्ययोः | पंचपर्वयुगाद्यासुव्यतीपातादि वासरे || अत्र दीक्षा शुभा प्रोक्ता नात्र कार्या विचारणा | यन्मासतिथिवारादिशोधनं प्रोक्तमेव हि || मंत्रदीक्षा परं तत्र विज्ञेयं साधकोत्तमैः | विद्यादीक्षापरं नैव तिथिमासादि शोधनं || यदैवेच्छा तदा दीक्षा गुरोराज्ञानुसारतः | पौसुक्षवौ प्रत्यथन कालादि नियमः स्मृतः || निंद्यानितानि सर्वाणि प्रशस्तानि विमुक्तये || शशिदिवाकरयोर्ग्रहणे जन्मनि शिष्यस्य मकरसंक्रांतौ || करुणासमये च गुरोर्नक्षत्रादीप्यते तेन दीक्षायां || संतीर्थेर्कविधुग्रासे तत्तुदामन पर्वणोः | मंत्रदीक्षां प्रकुर्वाणो मासर्क्षादीन्न शोधयेत् || रविसंक्रमणे चैव सूर्यस्य ग्रहणे तथा | तत्र लग्नादिकं किंचिन्न विचार्य कदाचन || महाष्टम्यां विशेषेण धनकामार्थसिद्धये || सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् | सूर्यग्रहणकालेन सामान्यो नास्ति कश्चन || तत्र यद्यत्कृतं सर्वेमनंत फलदं भवेत् | न मासतिथि वारादि शोधनं सूर्यपर्वणि || ददातीष्टं गृहीयत्तत्तस्मिन् काले गुरोर्नृषु | सिद्धिर्भवति मंत्रस्य विनायासे नवै ततः || कर्तव्यं सर्वयत्नेन मंत्रसिद्धिमभीप्सुभिः | चंद्रग्रह सहस्रेण सूर्यग्रह समो भवेत् || ततो लक्षगुणं प्रोक्तं ग्रहणं निजवासरे | तत्र सूर्यग्रहः शस्तो न तु चंद्रग्रहः क्वचित् || चंद्रग्रहे तु दारिद्र्यं शौरे सर्वसमृद्धये | सूर्यग्रहः शिवः प्रोक्तः चंद्राख्यः शक्तिरेव च || सूर्यग्रहे शक्तिदीक्षा पशुदीक्षा न कारयेत् | चंद्रग्रहे विष्णुदीक्षा पंचरात्रं न कारयेत् || चंद्रसूर्यग्रहे दीक्षा सर्वदीक्षा शुभामता | चंद्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमोत्तमा || नवारतिथिऋक्षादिनमासनियमस्तथा | न योगकरणं नापि न विचारं समाचरेत् || देवी बोधं समारभ्य यावत्स्या नवमी तिथिः | कृता तासु बुधैर्दीक्षा सर्वाभिष्ट फलप्रदा || बोधने नैव दुर्गायाः कालाकालं न कारयेत् | अशोकाख्याष्टामी यत्र रामाख्यो नवमी तथा || युगाद्यायां जन्मदिने विवाहदिवसे तथा | विषुवाऽयनयोर्द्वंद्वे नैव किंचिद् विचारयेत् || प्. २४अ) अयने विषुवे चैव युगाद्यासु तथैव च | ग्रहणे च महातीर्थेन कालस्या विचारणं || तुलसीनिकटे विल्वमूलेधात्रीतले तथा | अनादिदेवसान्निध्ये महाक्षेत्रे गवां गृहे || देवी पूजादिने वापि नास्ति कालस्य निर्णयः | तिथिं विना विदीक्षाया विशिष्टावसरं शृणु || दुर्लभे सद्गुरूणां तु सकृत्संग उपस्थिते | तदनुज्ञा यदा लब्ध्वा स दीक्षा सवरो महान् || ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि | गुरावश्रुत दृष्टे च सिद्धक्षेत्रे सुशोभनं || आगच्छेति गुरुर्दैवाद् यदा दीक्षा तदा भवेत् | यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः || न तिथिर्न व्रतं होमा न स्नानं जपः क्रिया | दीक्षाया कारणं किंतु स्वेच्छा वाप्ते तु सद्गुरौ || शिष्यानाहूयगुरुणा कृपया यदि दीयते | तदा लग्नादिकं किंचिन्न विचार्यं कथंचन || सर्वेवाराः ग्रहाः सर्वे नक्षत्राणि च राशयः | यस्मिन्नहनि संतुष्टा गुरुः सर्वसुखावहः || पुण्यतीर्थे कुरुक्षेत्रे देवा पीठे चतुष्टये | प्रयागे श्रीगिरौकाश्यां कालाकालं न शोधयेत् || द्वयोः परागे हरिवासरे च अर्द्धोदये चैव महोदये च | दीक्षा प्रशस्ता कथिता शिवेन सिंहस्थ दोषो न हि मन्यते च || गयायां भास्करक्षेत्रे विरेजे चंद्रपर्वते | चत्वरे च मतंगे च तथा कन्याश्रमेषु च || न गृह्णीयात् ततो दीक्षां तीर्थेष्वे तेषु पार्वती | इति ते कथितं देवी दीक्षाकालं सुरेश्वरी || इति श्रीतंत्रचिंतामणौ दीक्षाकालनिर्णयेनाम षष्ठः प्रकाशः || ६ || श्रीदेव्युवाच | वाममार्गे कथं दीक्षा दक्षिणे च कथं भवेत् | किं तत्रावश्यकं केषांमितिमे निर्णयं वद || ईश्वर उवाच | शृणु देवि प्रवक्ष्यामि सर्वतंत्रेषु गोपितं | दीक्षाविधिं पंचविधं तद्राज्ञामुत्तमोत्तमं || उत्तमं महादाढ्यानां सामान्याना तु मध्यमम् | ब्राह्मणानामल्पमुक्तं यतीनामपि चाल्यकं || तस्मादादौ प्रवक्ष्यामि तुभ्यं यच्चोत्तमोत्तमं | यस्मिन् ज्ञाते चोत्तमादि भेदानां विषयो भवेत् || तत्र वक्ष्यामि दीक्षांगं वास्तु यागपुरः सरं | तत्र भूमीपरीक्ष्येत वास्तुज्ञान विशारदः || प्. २४ब्) तत्र प्रथमतो भूमिपरीक्षा | प्लवस्थानं च गंभीरं दीर्घतोयाशयंसरः | अग्निशालाग्नि होतृणां पुण्यस्थानं परिश्रुतं || द्विजानां स व्रतानां वा आश्रयः स्वाश्रमोथ वा | दीक्षायामतिशस्तानि स्थानान्येतानि पार्वती || महानदीनांतीराणि गंगासागरसंगमे | प्रशस्तानि च तीर्थाणि क्षेत्राणि चाश्रमाण्यपि || अरण्यानि च सर्वाणि पर्वताः सकला अपि | सनिर्जुरोप्युपगिरिर्देवतायतनान्यपि || अथ निषिद्धानि | न च दीक्षां प्रकुर्वीत निकुंजे गहने वने | द्विसीम्निचे महारण्ये मात्सर्यमृगसेविते || स्फुटिता च सशल्या च वल्मीक रोहिणी तथा | दूरतः परिवर्ज्याभूः कर्तुरायुर्द्धनापहा || स्फुटितामरणं कुर्याद्दुषराधनवाशिनी | सशल्या क्लेशदा नित्यं विषमा शत्रुवर्द्धिनी || ईशकोण प्रवासा च कर्तुः श्रीदासुनिश्चितं | पूर्वप्लवावृद्धिकरी वरदा भूत्तरह्लवा || दक्षिणप्लवया भूमि नित्यं मृत्युभयप्रदा | गृहक्षयकरी सा च भूमिर्या नैरृतप्लवा || धनहानिकरी पृथ्वीकीर्तिता वरुणप्लवा | वातप्लवा तथा भूमिर्नित्यमुद्वेगकारिणी || प्रथमे भूप्रदेशे च परीक्षां कारयेद्बुधः | ब्राह्मणीभूः कुशोपेता क्षत्रियास्याच्छराकुला || कुशकाशाकुला वैश्या शुद्राः सर्वतृणाकुला | कुंदेंदुगोपहेमालिवर्णाया ब्राह्मणादितः || ब्राह्मी सर्वार्थसिद्धः स्यात् क्षत्रिया राज्यदा तथा | धनधान्यकरी वैश्या शूद्रा तु निंदितानुने || मृत्तिका गंधमाघ्राय शुभाशुभ निरूपिणं | नानागंधान् महाशोकामांसगंधान्धनेश्वरः || कटुगंधा भवेद्रोगी विष्टागंधा च निष्फला | मंद्यगंधान्निरोगीस्या दुर्गंधी भयमादृशेत् || सिद्धिर्नगंधसंभूते सुधा च वणिजायता | क्षारगंधो तथा नाशोपानि गंधा शुभावहा || पुनः स्वादं वदिव्यामि शुभाशुभगतं तु व | आम्लाविघ्नी तथा भूमिः कषाया हि निरोगितां || लवणेन महानाशोतिक्तेनापि निजो रिपुः | विशेषः स्वादमासाद्य मंत्री तस्यानि रूप्यते || भूमे परिग्रहं कुर्याद्या वदायतनं भवेत् | शल्यादि शोधनं कुर्यात्तुषांगारादि दूरयेत् || शर्कला यत्र विद्यंते क्लेशो भवति मानवः | अंगारेण तथा रोगा लोहनायास जायते || प्. २५अ) दग्धादिना च काष्टेन राजभीतिः प्रजायते | तृणेन जायते शोकः इष्टकेणा स्थिरी भवेत् || वेतशावंध वैर्व्याप्तं वंशेन मरणं भवेत् | विष्टया वंधनं प्राप्तं शून्यभाण्डेन शुन्यता || चर्मणा कलहं विद्यात् कर्पटे धननाशनं | अस्थिनां च भवेन्मृत्युमस्थिना ज्ञायते भुवि || मृत्तिका स्निग्धपत्रं च यः स भागभवेन्नरः | वालुका यत्र विद्यंते तत्र विद्या महासुखी || पाषाणं च महाभागी स्फाटिका निःश्रियो भवेत् | मणिनारोगनाशश्च हिरण्यैर्द्धनवान्भवेत् || विशेषजं तु सवरे प्रवक्ष्येहं शुभाशुभं | उरगेणास्थिराभूमिर्मण्डूकेन धनागमे || पिप्पलीका भवेच्छोका मुखकैर्धान्यवर्धयेत् | छुछुंदरी महानाशो कौम्येण धनवान् भवेत् || शलभैरोगितां यांति पतंगेण महाभयं | हिदिंगिका महात्रासोविच्छिकं मरणं ध्रुवं || गृहगोधौ महासिद्धिः कृकलाद्भयनाशने | एवमादीनि जंतूनां शुभेन शुभदा भवेत् || अशुभेनाशुभं विद्या जंतूनां च विशेषतः | भूमिस्तु खननाछोध्या स्वेष्टकुण्डादि कर्मणि || खन्यमाने जलं यावच्छल्य दोषो विनश्यति | दूरे यत्र स्थिरं वारिः खनितुं नैव शक्यते || पंचहस्तं च कातव्यं शल्यदोषोपशांतये | अस्थिकीटांगारमलादिकहीनं शुभावहं || अन्यथातं मृदं त्यक्त्वा पूरयेच्छ भयामृदा | ग्रामाद् वहिस्थया तत्र विप्राद्यैः स्वस्ववर्णया || शल्योद्धारं ततः कृत्वा पूरयेत् सु समं यथा | एतदकरणे मंत्री न किंचित् फलमाप्नुयात् || एवं संक्षेपतः प्रोक्तः शल्योद्धार क्रमो मया | एवं विशोध्यतां भूमिं कार्याद्वास्तु प्रपूजनं || स्मार्ता च तांत्रिकी चेतिद्विविधासन्निगद्यते | चरस्थिर प्रभेदे च द्विधा वास्तुः प्रकीर्तितः || गृहप्रासाद कूपानां मण्डपस्य जलस्य च | अपरेष्वपि कार्येषु योग होमादिकेषु च || तूतने विग्रहे कार्योन् यथा महदुपद्रवा || अथ वास्तु पुरुषोत्पत्तिः || वास्तुनामापुरा कश्चिद सुरोभून् महाबलः | त्रैलोक्यं निर्जितं तेन त्रिपंचाशच्च देवताः || येरणे संमुखे जातास्तेन तेति निपीडिताः | पुनः पुनर्जिता युद्धे स एवासित् प्रजापतिः || दिव्यवर्ष सहस्रांते देवाः शरणमागताः | विष्णोर्ममाति पार्वत्या देवेंद्रेणापितच्छ्रुतं || प्. २५ब्) योद्धुकामः सोभ्यधावन्तारदेन प्रचोदितः | कृतं युद्धं तेन सार्द्ध मल्लाभिर्वर्षपंचकं || ततो दैत्यो मदोत्सिक्तो विष्णुमाया विमोहितः | उवाच वचनं तुष्टो व्रीयतां व्रीयतामिति || नेन्द्रेण न कुबेरेण ममतोषकरंकृतं | ससैन्येनापितद्युद्धं त्वया तु जटिलेन हि || कृतं विष्णुसहायेन पार्वत्यर्द्धीगधारिणा | तेनाहं तुष्टि मापन्नस्त्रैलोक्य परमेश्वरः || अदेयं नास्ति मे किंचिद्यावयं तु त्रयोपि च | इत्याकर्ण्य वचस्तस्य शिवयोर्भ्रूः प्रचोदितः || हरिः प्राहमहाधन्यदैत्येन्द्रत्वत्समोस्तिकः | सत्यं त्रिवाक्यं कुरुषु तदा वाच्यो च रोमया || शिवेनापि च पार्वत्या एक एवा परो न हि | त्रिषु वा च तदा दैत्यस्तदा विष्णुर्व्यतिज्ञिपत् || यथाते त्वरितं मृत्युः स उपायः प्रदर्श्यतां | विष्णोः छलमिति ज्ञात्वा दैत्येंद्रः समभाषतः || अवश्यमेव गंतव्यं स वैः कालमुखेहरे | तथापि स्वप्रतिज्ञार्थं योगच्छति स जीवति || परं त्वेकोनमेवं शयैश्चमत् सेवनं कृतं | तस्य मार्गं दर्शयित्वा देहो यंति पपात्यतां || काले तस्मिंश्च भोदेवा वाग्रवा चाशरीरिणी | दैत्येंद्र कुरुमाशोकं भूमेर्जन्मतवा भवेत् || तत्रैव त्वं लयं या हित्वत्तोषार्थं वरं शृणु | ये वर्णाः स्वस्य भोगार्थं करिष्यंति नवं गृहं || तत्र त्वदुत्सवमृते नानादुःखैरुपहुताः | कालकर्ण्यादिका दास्यो विनायक मुखाश्चते || सेवकापीडयिष्यंति इत्याज्ञाप रामेश्वरी | इत्याकर्ण्यवयः सोपि गतं कृत्वा महीतले || प्रविवेश ततो देवैर्मत् पाषाणैः प्रपूरितं | ये नये निर्जिता देवाः पुनरुद्गमसंकया || तस्योर्द्धं तु त्रिपंचाशन्निवासं च कुरुद्यताः | मूर्द्धव्यग्नि समादिष्टो मुखे चापः समाश्रितः || पृथ्वीधरोर्व्यमा चैव तलस्थानमधिस्थितौ | वक्षस्थले चाप वत्सुः पूजनीयः सदाबुधैः || नेत्रयोर्दितिमज्जन्यौथोत्रेर्दिति जयंतकौ | सर्पेंद्रौस्कंधसंस्थौत् पूजनीयौ प्रयत्नतः || सत्यरोगादयस्तद्वद्वाह्य पंच च पंच च | रुद्रेश्वराजयक्ष्मा च वामहस्ते समस्थितः || सावित्रः सविता तद्वद्धस्ते दक्षिणमास्तितौ | विवस्थानथ मित्रश्च जठरेसं व्यवस्थितौ || प्. २६अ) पूषा च पापयक्ष्मा च हस्तयोर्मणिबंधके | तथैवा सुरशेषौ च वामपार्श्वे समास्थितौ || पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः | उच्चार्यमा वुभौ ज्ञेयौ जांघ्वो गंधर्व पुष्पकौ || जंघयोर्भृंग सुग्रीवौस्फिद्धस्थौ दौवारिकौ मृगः | जयशकौ तथा मेढ्रपादयोः पितरस्तथा || मध्येन च पदो ब्रह्मा हृदये स तु पूज्यते | तस्माद वश्यंते पूगृहवा स मुखेच्छया || शृण्वं तु तद्विधिं देवा वामदक्षिणमार्गतः | भद्रभूमि प्रशोध्यंते दशदण्ड समालिखेत् || अधोधौतिर्यकादौ च तेनेकाशिहिकोष्टकं | वास्तु मण्डलकं कार्यमष्टहस्तं तु नापरं || एकाशीति पदं चक्रं वैदिकस्तत्र देवताः | मध्यकोष्टेषु नव सुत्वादौ ब्रह्माणमर्चयेत् || अपवत्सं तदीशाने प्रागर्यन्नं त्रिकोष्टके | आग्नेय सवितारं च विवस्वंत मयाक्तिषु || इन्द्रं नैरृत्य दिग्भागे मित्रं पश्चिमगं त्रिषु | वायव्ये राजयक्ष्माणं सुमेरुं चोत्तरत्रये || वैदकोष्ठेषु वैश्यन्यामीशकोणाच्च देवताः | शिखीपर्यण श्रापश्चदितिः प्रोक्तोष्ठयोर्द्वयोः || क्रमादेते पंचदेवाः ज्ञातव्याः सव्यमार्गतः | जयंतेन्द्रोः सूर्यसत्यभृंगा आग्नेयकोणके || अंतरीक्षं तथा वातः पूषा सावित्र एव च | चतुष्क ईशतो देवास्ततो दक्षिण पंचके || युग्मे क्रमा च वितथो बृहत्क्षतयमो यथा | गंधर्वो भृंगराजश्च नैर्-ऋतीस्थ चतुष्कके || ईशानतो जयनृपौ पितृदौ वारिकौ तथा | ततः पश्चाद्विके पंचमुग्रीव पुष्पदंतकः || वरुणा सुरशेषाश्च वायव्ये ईशतस्त्व हि | रुद्रश्च पापयक्ष्माश्च रोगश्चोत्तर पंचसु || सरव्यौ भल्लाट सोमौ च भुजश्चादितिस्तथा | देवा एते पंचचत्वारिंशदर्वाश्च भक्तितः || उक्तानमिति देवानां पदान्यापूर्यपंचभिः | मध्ये पदानां नवकं मार्जयित्वा प्रपूरयेत् || सितेन रजसा भूयस्तद्दिक्षु चतसृष्वपि | षट्कं संसाज्य रजसा रक्तेन परिपूरयेत् || शिष्ठानि च पदान्यत्र यथास्थानं प्रकल्पयेत् | विचित्राणि ततो मध्ये ब्रह्माणं संप्रपूरयेत् || रथोभिस्तद्यथो तेभ्यः पायसान्नैर्वलिं हरेत् | पायसैर्मधुरैः सर्वान् संयजेन्मधुरान्वितैः || तत्तद्द्रव्यैवामतिमान् पूजयेद्दोषशांतये | पाषाणे प्रतिमायांवा वास्तोपतेः प्रतिजानि || इति वैदिक मंत्रेण तस्या वाहन पूजनं | नाममंत्रेण चान्येषां पूजां कृत्वा प्रपूरयेत् || अथ तांत्रिक मार्गे तु चतुः षष्टिपदे तथा | कोणयोः सूत्रयुगलं मध्ये ब्रह्माण निर्च्चयेत् || प्. २६ब्) चतुःकोष्ठेषु तत्पूर्वाद्यासु कोष्ठ द्विकेद्विथिके | आर्यकं च विवस्वंतं मित्रमन्यं महीधरं || सावित्रः सविताशक्र इन्दुत्तिद्रुद्रतर्जयौ | अयायवत्सकौचेति शैव्याः कोणार्द्धकोष्टयोः || सर्वं ग्रहश्चार्यमाणं भंजकं पिलिपिच्छकं | चरकिं च विदारीं च पूतना पूर्वतो द्वयोः || ईशानश्चार्थपर्जन्योजयंतः शक्रभास्करौ | संव्योवृषोंतरीक्षश्च पूर्वाशाकोष्टगास्तथा || अग्निः पूषा च वितथोयमोथ गृहरक्षकः | गंधर्वो भृंगराजश्च मृगोदक्षिणदिग्गताः || नैर्-ऋतिश्च तथा दौवारिकः सुग्रीवकस्तथा | वरुणः पुष्पदंतश्चासुरः सोपाख्यरोगकौ || पश्चादथोत्तरे वायुर्नागो मुख्यस्ततः परं | सोमभल्लाढार्गलाख्या अदितिर्दितिरुत्तरे || ब्रह्मस्थानं रक्तवर्णैर्दिशः पीतैर्विदिक्सितैः | ततो दिशस्तु हरितैर्विदिशः कृष्णवर्णकैः || अरुणः परिधिः कार्यः सुंदरं मण्डलं भवेत् | उक्तानां सर्वदेवानां स्वरूपं च निगद्यते || अक्षमालां वरं दक्षे वामे दण्ड कमण्डलु | दधानमष्ट नयनं यजेन्मध्येम्बुजासनं || सर्वे चतुर्भुजादेवा वास्तुदेहे व्यवस्थिताः || अथ वास्तु ध्यानं | आकुंचितकरं वास्तुमुत्तानमसुराकृतिं | स्मरेन् पूजासु कुद्र्यादिनिवेशेत्व धराननं || जानुनी कूर्पराशक्ते दिशिवात हुताशयोः | यैद्र्यापादप्रढौ रौद्र्यां शिरोस्य हृदयांजलिः || कृतांजलिपुटा ऊर्द्ध्वे खड्गखेटकपातयः | ब्रह्माणं सन्निरीक्ष्येत तद्वक्त्राभिमुखाश्चते || स्वस्वस्थान स्थिताश्चैव साधारणमुदाहृतं | मरीचिः श्वेतवर्णः स्याद्विवस्वा एकवर्णकः || शातकुंभेनिभोमित्रः कृष्णवर्णस्तु भूधरः | सवित्तीनीलवर्णाभः सावित्रो धूमविग्रहः || इंद्रश्चारुण वर्णाभः शुक्लश्चेन्द्र जयस्तथा | रुद्रः प्रवाल सदृशः पीतो रुद्रजयस्तथा || आपो गोक्षीरधवलः आपवत्सोजवाद्युतिः | ईशानः क्षीरधवलः पर्जन्यां जनसन्निभः || जयंतो जनसंकाशो महेंद्रश्चामलद्युतिः | आदित्यो रक्तवर्णः स्यात् सत्यकश्चित्रवर्णकः || वृषो वंधूक पुष्पाभः कुंदाभश्चांतरीक्षकः | उद्यद्दिनकराभोग्निः पूषालक्ताक्तसन्निभः || प्. २७अ) वितथश्चेंद्र चापाभो विद्युद्वर्णो गृहक्षतः | यमश्चां जन संकाशो गंधर्वः पद्मरागवत् || भृंगराजस्तु भृंमाभोमृगोजीमूतसन्निभः | निर्-ऋतिः पावकाक्षश्चपीतो दौवारिकस्मृतः || सुग्रीव नीलकण्ठाभश्चंद्राभः पुष्पदंतकः | वरुणः स्फटिकाभश्च भृंगाभश्चावरोमरोमतः || शेषाश्चोत्पल संकाशो रोगश्चैवेंद्र नीलवत् | वायुः कृष्णात्रवर्णः स्युर्न्नागः शंखेन्दुसन्निभः || मुख्या मौक्तिकसंकाशो भल्लाट श्वेतपद्मवत् | सोमः स्फटिक संकाशोऽर्गलोरक्तोत्यलघुतिः || दिति कुंदेंदु धवला कपिला अदितिः स्मृताः | चरकी शंखसदृशी विदारी पावकाद्युतिः || पूतना हिम संकोशो मेघाभापिलपिच्छकी | खड्गं च पाशपात्रं च छुरिकां कर्तकां तथा || दधाना भीमरूपास्ताराक्षस्य परिकीर्तिताः | सितारक्तश्च पीतश्च कृष्णः स्कंदादिका ग्रहाः || वज्रं शक्तिं च खड्गं च पाशं च विकृतानता | दधानाभीषणाः प्रोक्ता ग्रहाः स्कंदादि काश्चते || होमादिकं तथा कुर्यात् स्वैः स्वैश्चाहुतिमाददेत् | व्रीहिमुङ्गयवैः क्षौद्रः घृतदुग्धप्लुतैः क्रमात् || अष्टोत्तरशतं चाष्टोत्तर विंशतिमेव वा | प्रत्येकं तैर्हुनेद्द्रव्यैर्मंत्रैस्तद्वच्च पायसैः || वलिं च तेषां कुर्वीत पायसैर्व्यंजनात्वितैः | ससितैर्दुग्धकदलीफलापुपादिसंयुतैः || वलिवदाय येत् पूर्वं पूजयेत् साधकस्ततः | अन्नादिभिश्च संयुक्तं माषभक्त्यादि मण्डितं || गृहाणेमं बलिं ब्रह्मन् वास्तुदोषं प्रणाशयः | गंधादि शर्करापूपपायसो परिसंयुतं || आर्यकाख्य गृहाणेमं सर्वदोषं प्रणाशय | चंदनाद्यर्चितनाथः कर्पूरा गुरुमण्डिते || विवस्वद्वै गृहाणेमं सर्वदोषं प्रणाशय | सगुडंपायसं नाथ पुष्पादि सुसमन्वितं || गृहाणेमं वलिं हृद्यं मित्रशांतिं प्रयच्छमे | माषोदनं समांसे च गंधादिक्षीर संयुतं || गृहाणेमं महीभृत्वं सर्वदोष प्रणाशय | एवं मध्ये तु संपूज्य ईशानादि वलिं हरेत् || पुष्पादि कुशकनीयं शर्करा गुरु वा सितं | सावित्र वै गृहाणेमं शांतिमाशुप्रयच्छमे || प्. २७ब्) पिष्टकं सगुडं नाथं रक्तगंधादि शोभितं | गृहाणेमं वलिं सूर्य विघ्नमाशु प्रणाशयः || शीतमत्रं तथा पुष्पं कुंकुमादि समन्वितं | गृहाणेमं बलिं हृद्यं शक्रदेव नमोस्तुते || ओदनं घृतसंयुक्तं वस्त्रगंधादि मंडितं | गृहाणेमं बलिं हृद्यमिंद्र जननमोस्तुते || पक्वापक्वमिदं मांसं वस्त्रपुष्पादि संयुतं | गृहाणेमं वलिं हृद्यरुद्रदेव नमोम्यहं || समां सघृत संपक्वगंधपुष्पादि संयुतं | गृहाणेमं वलिं रुद्रजयस्वस्ति नमोस्तुते || क्षीरखण्ड समायुक्तं पुष्पादिभिरलंकृतं | गृहाणेमं वलिं हृद्यमापशांतिं प्रयच्छमे || दधिदंगुडसंमिश्रंगंधादिभिः सुसंयुतं | गृहाणे वलिं वत्स विघ्नमेत्वं प्रनाशय || सघृतं माषभक्तं च रक्तगंधादि संयुतं | बलिं गृहाण सर्वत्वं रक्षविघ्नं विनाशयः || मासं पुष्पादि संयुक्तं मासभक्तोपसंयुतं | गृहाणेमं वलिं स्कंदरक्षविघ्नं विनाशय || स्वमांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितं | अर्यमन् वै गृहाणेमं सर्वविघ्नं विनाशय || रक्तमंसोदनं मत्स्यगंध धूपसमन्वितं | जंभकत्वं गृहाणेमं रक्षविघ्नं विनाशय || छागकर्णान्वितं मांसं वस्त्रगंधादि संयुतं | पिलिपिच्छ गृहाणेमं रक्षविघ्नं विनाशय || घृतेन साधितं मांसं वस्त्रगंधादि संयुतं | चरकित्वं गृहाणेमं रक्षविघ्नं विनाशय || रक्तपुष्पं समासं वै रक्तवस्त्रादि संयुतं | विदारि वै गृहाणेमं रक्षविप्रं विनाशय || पित्तरक्तास्थितं युक्तं रक्तगंधादिमंडितं | गृहाणेमं पूतनत्वं रक्षविघ्नं विनाशय || सघृतं चाक्षतं पुष्पवस्त्र गंधाद्यलं कृतं | गृहाणेमं वलिं त्वीश वास्तुदोषपहारकः || उत्पलं पायसैर्युक्तं वस्त्रादिक समन्वितं | गृहाणेमं वलिं हृद्यं देवराज नमोस्तुते || पंचहस्तं सुपीतं च ध्वजं संकादिमण्डितं | गृहाणेमं वलिं हृद्यंतिष्णुसुत नमोस्तुते || ओदनं घृतसंपूर्णं पंच ** (?) दि मण्डितं | गृहाणेमं वलिं हृद्यं देवराज नमोस्तुते || रक्तपुष्पयुतं भक्तं रक्तगंधादिभिर्युतं | गृहाणेमं वलिं हृद्यं मेघराज नमोस्तुते || वितानं धूम्रवर्णाभं गंधादि सुशोभितं | रक्तयुक्तं गृहाणेमं वलिं सत्य नमोस्तुते || प्. २८अ) इदं तु मांस भक्तं वै वस्त्रगंधादि पूजितं | गृहाणेमं वृष वलिं वास्तुदोषं विनाशय || इदं शार्दूल मांसं तु नैवेद्यादि सुसंयुतं | गृहाणेमं वलिं हृद्यं व्योमशांतिं प्रयछमे || सुवर्णं पिष्टकं चाथ वस्त्रगंधादिभिर्युतं | घृतान्वितं गृहाणेमं सप्तजिह्वनमोस्तुते || क्षीरं लाजा समायुक्तं गंधपुष्पादि संयुतं | गृहाणेमं वलिं हृद्यं पूषदेव नमोस्तुते || मांसौदनं गंधमाल्ययुतं वस्त्रादिभूषितं | वितथेन वलिं गृह्न वास्तुदोषं विनाशय || मत्स्यमां स युतं भक्तं गंधपुष्पाद्यलंकृतं | यमराज गृहाणेमं वलिं शांतिं प्रयच्छमे || पक्वमांसौदन नवनीतं वस्त्रादि मण्डितं | प्रीतिकरं गृहाणेमं गृहन रक्ष नमोस्तुते || नानागंध समायुक्तं रक्तधूपादिभिर्युतं | वलिं गृहाण गंधर्व सर्वदोषं प्रनाशय || इमां तु साकुनीं जिह्वां माषभक्तो परिस्थितं | गृहाणेमं भृंगराजं वलिं शांतिं प्रयच्छमे || एवं तिलघृतोयेतं गंधपुष्पादिभिर्युतं | गृहाणेमं वलिं हृद्यं मृगदेव् अनमोस्तुते || शर्करामण्डितं खण्डं वस्त्रगंधाद्यलंकृतं | प्रीतोवलिं गृहाणेमं रक्षराज नमोस्तुते || चंदना गुरुकाखण्ड वस्त्रगंधादिभिर्युतं | गृहाणेमं वलिं हृद्यं दौवारिकं नमोस्तुते || इदं तु पायसं नाथ गंधपुष्पादि मिश्रितं | सुग्रीव वै गृहाणेमं वलिं शांतिं प्रयच्छमे || यवाग्वलं कृतं दुग्धं भक्तोपरिसमर्पितं | गृहाणेमं वलिं हृद्यं जलदेव नमोस्तुते || माषभक्तं कुशस्थं च घृतगंधादि संयुतं | पुष्पदंत गृहाणेमं वास्तुदोषं प्रनाशय || मधुना साधितं पिष्टं गंधाद्यै रूपशोभितं | गृहाणेमं वलिं रोग सर्वदोष प्रणाशय || स घृतं मण्डकं वेदमंत्राद्यैरुपशोभितं | गृहाणेमं वलिं हृद्यं मृगवाहनमोस्तुते || इदं तु कृशरान्नं मे दुग्धगंधादि साधितं | पातालेश गृहाणेमं विघ्नमाशु प्रणाशय || नारिकेलादिकं भक्तं पीतवस्त्रादि संयुतं | गृहाणेमं वलिं मुख्य वास्तुदोषं प्रणाशय || दधिगंधादिभिर्युक्तं पीतपुष्पसमन्वितं | वलिं प्रगृह्यतां सोमः सर्वदोषं प्रणाशय || ओदनं घृत संमिश्रं गंधपुष्प समन्वितं | गृहाणेमं वलिं हृद्यं भल्लाटकनमोस्तुते || प्. २८ब्) माषान्नं तु घृतात्त्यक्तुं गंधपुष्पादिमण्डितं | गृहाणेमं वलिं हृद्यमर्गलाख्य नमोस्तुते || पालिकां मधुसंमिश्रां वस्त्रगंधादि संयुतं | गृहाणेमं वलिं हृद्यं देवमातर्नमोस्तुते || क्षीरखण्ड समायुक्तं नानापूजापशोभितं | दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय || स्वर्गपाताल मर्त्येषु ये देवावास्तु देवताः | गृह्नंत्विमं बलिं हृद्यं तुष्टायां तु स्वमंदिर || मातरो बूतवेतालाये चान्ये वलिकांक्षिणः | विष्णोः परिषदाये च तेपि गृह्नंत्विमं बलिं || पितृभ्यः क्षेत्रपालेभ्यो वलिं दत्वा प्रकामतः | अभावादुक्त मार्गस्य कुशपुष्पादिभिर्यजेत् || वास्तुशेष क्रिया भूतः सर्वरक्षा विभूतिकृत् | भूतप्रीति प्रदश्चास्मिन्दिशा बलिरुदीर्यते || दिक्पाल परिषत् सर्वभूतानुद्दिश्यनामभिः | पूजा विसर्जनांतायत्स विज्ञेयो दिशां वलिः || दध्यंवु रजनी युत्वा जासक्तुं तिलेंधसा | द्रव्येण वितरेदिक्षु वलिं दिक्कु स योर्गतः || सुराणां तेजसां चैव प्रेतानां राक्षसामपि | देव्या जालानां प्राणानां नक्षत्राणां च तत्पुनः || विद्यानामधिपानां च तान्यथोक्तान् वलिं हरेत् | स वाहन पद प्रोक्ता परिवाराय शक्तये || तत्पार्षदेभ्यश्च ततः सर्वेभ्य इति संयुतं | भूतेभ्यश्च क्रमाद्भूयः प्राच्यांदिशि क्षिपेद्वलिं || द्विषत्पिशाचवेतालरक्षोरक्षार्थिनामिह | देशांवलि विशेषेण सर्वसंपत् समृद्धिदां || देवी देवविशेषाणि कर्मे कृत्वा सु मंत्रिणा | महावलि प्रदानेन प्रसृते देसमण्डले || कुछालं चास्त्रमंत्रेण पूजयेत् परमेश्वरी | खनितः पुरुषायापि दापयेद् दक्षिणादिभिः || हीनांगवर्जनीय च अवत्यां चैव वर्जयेत् | तत्क्षणान्मृत्तिकां भूमिवसुधोद्दृत्य पूजयेत् || द्विभुजेपीत्त देहस्तु जगधारिकं जासमः | विश्वकर्मागदासौयाज्ञानमुद्राक्ष सूत्रभृत् || विश्वकर्म जगद्व्यापि संसार सृष्टिकारकः | अत्र कुदालहस्तत्वं विश्वकर्मा नमोस्तुते || एकाशीकोष्ठ निर्भेद चास्तौ विश्वात्मकर्मकः | कुद्दार गृहतां मंत्रखननं कुरु सांप्रतं || भद्रमुहूर्तमाश्रित्य खन्यते वास्तु कोष्टके | स्वर्णकुद्दार रूपत्वं भूमिखनन कर्मणि || विश्वकर्मायुधं नित्यं नमोस्तु वास्तुमूर्तये | कुद्दारैर्दापयित्तोपि कीटकोटि शतैरपि || प्. २९अ) क्षम्यतो पृथिवी देवी विष्णुस्थापन हेतवे | शुभाशुभानि वास्तूनां क्रमेणैव वदाम्यहं || कक्षांतरे च नित्यं च सर्वत्र भद्रमादृशे | शीर्षे चैव भवेन्मृत्युः वक्षं च दुःखभागिनां || हस्ते चौरभयं विद्यात् उरया पशुनाशनं | ज्ञानौ विदेशगमनं पादाभ्यां च निरर्थकं || वामदक्षिण नित्येवं वास्तुक्षेतमुदीरित | निपुणं कारयेन्मंत्री कल्याणं पौष्णतां कृतं || समाहित समो भूत्वा खनिते वास्तुकक्षते || अथ विसर्जनमंत्रः || ततो विसर्जयेद्देवी देवान् वास्तु प्रपूजितान् | यां तु देवगणाः सर्वे पूजामादाय पार्थिवीं || इष्टकाम प्रसिद्ध्यर्थं पुनरागमनाय च | इत्येतत् कथितं देवी वास्तुयागस्य रक्षणं || सर्वपापहरं चैव सर्वकाम प्रपूरकं | एवासुरं च वास्तूनां प्रकारेणाग वास्तुकं || एकाशीति पदे कोष्टमीशनैर्-ऋत्यमण्डलं | ईशेशिरस्तथा पुच्छं मण्डलाकार वास्तु स || कोष्ठे च देवता पूज्यं मध्ये ब्रह्मा प्रपूजयेत् | भाद्रपदादि सर्वस्यामासि मासि त्रयं त्रयं || दिगानामिशमादिनि च रतं च विधीयते | कन्यादि संक्रमं ज्ञात्वा दिगानां च क्रमोरगाः || तुलामिथुनपूर्वादिराश्विनी कार्तिके तथा | एवं क्रमेण संयाता मार्गशीर्षं च पौषकं || माघमासांतकं चक्रे धनूर्मकरकुंभकं | मीनमेष वृषौ चैव फाल्गुणं चैत्रमेव च || वैशाखांत क्रमं ज्ञात्वा पश्चिमादिषु वा क्रमं | मिथुने कर्कटः सिंहौ ज्येष्ठाषाढां च श्रावणं || एवं क्रमं प्रबुध्यं तनागानां वास्तु संक्रमं | प्रयंत्रयोपि मासानि चतुष्टय दिशाक्रम || स्वपितं वाम पार्श्वंते द्विभुजं नवभिः फणा | एकाशिकोष्ठ चांगानि व्यापकं नागवास्तु स || खनितं ग्रीव वामाग्रे निपुणं कारयेत्सुधीः | एवं नागस्य वास्तूनि जलकार्य विशेषतः || अथवा निर्मिते गेहे वास्तु पूजां समारभेत् | नैर्-ऋत्यकोणे गेहेस्यहेस्य चतुरस्राकृतिं शुभां || कृत्वा समतलां भूमिं वितस्त्युच्चां च वेदिकां | विस्तारायामतो हस्तमात्रां तत्र लिखेद्बुधः || एकाशीति पदे कोष्ठे लेखयेच्छुछभुमिषु | स्वैः स्वैः मंत्रस्तु वास्त्वादान् पूजयेत् पूर्ववत् सुधीः || एवं सिंहगते भानौ पूर्णायां प्रतिवत्सरं | स्वगेहे वास्तु पूजां यो मण्डपेषु समाचरेत् || प्. २९ब्) नवालमरणं व्याधि भूतप्रेतादिकानि च | न सर्पपीडामन्योन्य कलहाद्य शुभानि च || पुत्रपौत्र धनारोग्य पशुदासी समृद्धिभाक् | अरोगी विजयीख्यातश्चिरं जीवति तद्गृहे || राजवेश्मसु सर्वत्र तथा च महिषी गृहे | सचिवामात्यसेनानीभवनेषु पुरे तथा || विदध्यात् प्रतिवर्षेअं तु प्रोक्त सिद्ध्यै तु देशिकः | न चेदुक्तान्यथा रूपफलैः क्लेशो निशं भवेत् || भैरव क्षेत्रपालानां योगिनीनां विशेषतः | वामाचारैर्वलिः कार्या महिषैर्वापि कुक्कुटैः || आराधितास्तु वामेन जायंतेति वुभुक्षिताः | देवता वलिमिच्छंति तद्धीनं हंति साधकं || मद्यमांस प्रमत्तास्ते प्रोक्तनेन प्रचोदिताः | कदाचिच्छुभमिच्छंति तस्मात् सद्भिन्न वामतः || क्रियतेभ्यर्चनं तासां घातस्तु निकटे यतः | शुभं भवति वा नो वाद्यथा शास्त्रे तथाजने || यावन्न मद्यमांसासीजनस्तावद वलोलुपः | भुक्ते तस्मिन् तन्मनाः स्यात् क्वजपः क्वचं देवताः || मद्यमांसादिकत्यागात्तस्यावाति निषेवणात् | दृश्यते तुल्यरूपोयः स सिद्धोन्यस्तु पातकी || एवं परीक्ष्य कर्तव्या सिद्धानामपि संगतिः | तत्संसर्गी पंचमोयमन्य संगेन गण्यते || कालरूपेण कलनागीता गीतागाथाविधेः पुरः | मययधैर्याद्वृषो नश्येत्तृष्णयाद्वौ विनश्यतः || धातुर्वादां त्रयं नश्येत् सर्वनाशस्तु वामतः | इति संचिंत्य भोदेवाः स्वधर्मः श्रेयसे भवेत् || इति श्रीतंत्रचिंतामणौ वास्तुयागनिर्णयो नाम सप्तमः प्रकाशः || ७ || वास्तु शांतिं विधायैवं सदसद्ज्ञान हेतवे | ततः समीकृतायां तु भूमौदिवसा धनं चरेत् || सूत्रकर्कटकीलानि गृहीत्वा च निशांतरे | आद्यंतरं च संयुक्तानलिका ध्रुववेधिया || याम्योत्तरासा तन्मध्ये केंद्रावृत्तं समालिखेत् | रेखां ततो वृत्तमध्ये ते मकर्काटकेन तु || धनुः कुर्यात्ततश्चायं ततः कुर्याद्धनुः पुनः | एवं चापानि षट् तत्र पद्मं भवति षड्दलं || सौम्ये याम्य त्रयं कृत्वा दत्वानां मध्यदेशतः | दीर्घारेखाकृता सा तु भवेत् पूर्वा पराभिधा || याम्य पश्चिमयोः सौम्य पूर्वयोरुपरिस्थयोः | चापयोरर्द्धगं सूत्रमीशानीराक्षसी भवेत् || प्. ३०अ) अन्ययोश्चा पयोरेवमाग्नेयो वायवी भवेत् | विदिक्तं स्थानि सूत्राणि समान्येव हि वृत्ततः || यथेष्टं वहिरानीयनिखनेत् तत्र कीलकान् | वद्धं चतुर्णां कीलानां मस्तके दृढसूत्रकं || समकर्णंदिगंकं तच्छुद्दं स्याच्चतुरस्रकं | गणेशं पूजयित्वादौ पुण्याहं वाचयेत् सुधीः || ततः पंचविनानैश्च मंडपं रचयेच्छुभं | मण्डपं कुलदीक्षायां कुर्याद्विंशति हस्तकं || मद्यमांसपुरंध्रीणां समावेशो यथा भवेत् | मंडपोष्टा दशकलः सिद्धांते वाममार्गके || अल्पत्वात् तत्र कुण्डानां मधिकेपि स पंचके | वैदिक्य वहुसामाग्र्यां नवकुंडे तु षोडशः || कुंडाल्पतायां सामग्र्यामल्पयाचेन्द्रहस्तकः | दक्षिणे वहु सामग्र्यां सूर्यहस्तं तु मंडपः || अल्पायां दशहस्तः स्यान्नवहस्तः सदाविशां | शूद्राणां सप्तहस्तः स्याच्छंकराणां तु पंच च || प्रोक्तं मानं मंडपानां सर्वतंत्रेषु गोपितं | प्रोक्ता नानाविधा हस्तास्तन्निर्णयमथ शृणु || यस्मिन्देशे च काले च सप्मुत्पन्नो यथा यवा | तेषामष्टादरार्णास्यादंगुलं तु द्विजन्मनां || समोदरैस्तु शूद्राणां संकरादौ तथा रसैः | अवैदिकस्य विप्रादेरेतत्संख्याकशालिभिः || यत्र कर्ता स्वयं तत्र मानमे तदन्यतोन्यथा | आचर्य दक्षिणकरे मध्यमांगुलि मध्यमं || पर्वणारंतरं दीर्घं मात्रांगुलमुदाहृतं | उच्छ्राय प्रतिमायाश्च प्रासादे * ? स्तु निर्मितिः || वेदिकापीठ शिविकारथाद्ये तत्प्रमाणतः | विनांगुष्ठेन शेषाभिर्मुष्टिरंगुलिभिः कृतः || चतुर्धा विभजेदेकोभागो मुष्टांगुलं तु तत् | होमांगानि श्रुवादीनि कुण्डस्थण्डिल वेदिकाः || यज्ञोपवीतमौंजाढ्यं कुर्यान् मुष्ट्यंगुलेन तु | यं कं चित्पौरुषायामं विभज्य दशधा पुनः || एवं द्वादशभागं तु कृत्वा तेष्टे कमण्डलुं | देहलब्धांगुलं नामजानीयात्तस्य तत्पुनः || एभिश्चतुर्विंशतिभिर्हस्तः स्यादंगुलैः पुनः | अनेन प्रतिमांगानि सतपुन्मान्मेव च || नराणां चापि नारीणां कुर्याद्गोप्यं प्रकाशितं | चतुर्दशकरं कोटि होमे संपत्ति संयुतं || अन्यथा द्वादशकरं रक्षहोमे तु दिक्तरं | मण्डपं नवधा कृत्वा मध्यभागस्यवेदिका || प्. ३०ब्) स्तंभास्तुवेदिकाकोणे मंडपाधौ स्थिता वहिः | पंचमां सन्यसेद्भूमौपुष्टतासांश सूत्रतः || मस्तके कलशाकारं तद्द्शांशेन कारयेत् | स्वायामोच्चाभवेद्वेदी नवकोष्ठोत्थसंधिषु || मंडपस्य तृतीयांशं दीर्घान्स्तंभान् सुविन्यसेत् | द्वादशैवं तु पंचाशो भूमौ कूटं दद्यांशतः || मध्यस्तंभस्थितं कूटं मृदं याभं प्रकल्पयेत् | वाह्यस्तंभोर्द्धतो देया वलयोद्वादशैर्बहिः || दक्षदीक्षाविधौ पद्मनिभं कूटं तु कारयेत् | त्रिधारं वामदीक्षायां शंखाभं वैष्णवेमखे || चतुरस्रा चतुः कोणावेदी सर्वफलप्रदा | तडागादि प्रतिष्ठायां पद्मिनी पत्रसन्निभा || राज्ञां स्यात् सर्वतो भद्रा चतुर्भद्राभिषेचने | विवाद्वे श्रीधरादेवी विंशत्यस्त्र समन्विता || वाममार्गेण दीक्षायां गुप्ताद्यस्त्रा तु वेदिका | स्तंभानामुपूरिस्थाप्यान्य व्रणानि ऋजूनि च || एकजातीनि काष्ठानि विद्यास्तंभगलेन्यसेत् | नारिकेलदलैर्वशःकटैराच्छादयेत् पुनः || हुंहा मारुत वृष्ट्यादि भवनः स्याद्यथा तथा || पूर्वोक्तसंसाधित दिक्षु कुर्याद्वाराणि चत्वारि तु मण्डपस्य | पंचांशमाना खलु देहलीस्याद्वि प्रोच्छिते तत्र कपाद्वशाखे || वाममार्गेद्वारमिदं दक्षिणे श्रेष्ठमण्डपे | कुर्याद्दोहलिकां रम्यां साष्ठांगुलकरद्वयं || * * * * * * * * * * * * * * * * ? | * * * * * * * * ? विषमं चतुरस्रकं || वितस्त्याचोन्नवशिखं द्वारस्थो भयपार्श्वयोः | स्थापयेत् फलकौद्वौ तु श्रेष्ठमध्ये कनिष्ठके || मंडपेतौ दीर्घतया क्रमात् सार्द्धकरद्वयं | सपाद द्वितयं युग्महस्त पंचांशकं भुवि || निखनेदग्निमीडेति गायत्र्या पार्श्वयोर्द्वयोः | तत्सजातीयकाष्टेन तावद्विस्तारगर्भकं || चतुरस्रं तु विषमं द्वयोरूपनि कीलयेत् | दर्भमाला च वध्नीयात् पूर्वद्वारे विधिस्वयं || एवं तु दक्षिणद्वारे तद्वारेप्लक्षकोष्ठजं | इषेत्वेतिन्यसेन्मालां वंधयेत् पूर्वकस्तथा || औदुंवरमयं कुर्यात् पश्चिमद्वारतस्त्विदं | अग्नेन्या या हि मंत्रेण प्लेक्षजं वैदिकेमखे || प्राग्वदेवं प्रकुर्वीत वटवृक्षमयं तथा | शन्नोदेवीति मंत्रेण सौम्यदिग्द्वारतो न्यसेत् || तेषामुपरितिर्यक्स्थः काष्ठानां मध्यतो विलं | कृत्वा तोरण जातीय कोष्ठे चरचयेछुद्धं || प्. ३१अ) श्रेष्ठ मध्ये जघन्येषु शैवयागे त्रिशूलकं | विश्वेशगोंगुलं दीर्घं तच्चतुर्थोश विस्तृतं || वैष्णवे द्वादशांशे ना शंखचक्रगदांवुजं | प्रागादि क्रमयोगेन न्यसेत् सौरोपि वैष्णवः || ऋजुवै मध्यमं शृंगं किंचिद्वक्त्रं तु पार्श्वयोः | एवं शूलो गणपतिः शिवाद्याः शिववत्मताः || ततस्तु मंडपः स्याग्रे भूम्बूर्द्ध्वं दशहस्तकं | भूमौ करद्वयं वंशः स्वच्छवस्त्रा च गुंठितः || विस्तृतश्चैक हस्तेन दीर्घः पंचकरैर्द्ध्वजः | मंत्रदेवं लिखेत् तत्र सायुधं च सवाहनं || घंटाचामरसंयुक्तं देवतावर्णवर्णकं | स्थापयित्वा ध्वजं पश्चाद् दशदिक्षु प्रकल्पयेत् || दिगीशानां पताकाश्च ध्वजस्यार्द्ध प्रमाणतः | वेदोक्त तत्तन्मंत्रेण तत्तद्वर्णाश्च तद्दिशि || त्रातारमिंद्रमिति च पीतवर्णाहरेदिशि | आग्नेयया पिंगलात्वन्नो अग्नेर्वरुण मंत्रतः || सुगंधपंथा मनुना कृष्णवर्णात्वया स्मृता | असुत्वंतेपि मनुना नैर्-ऋत्यां धूम्रवर्णिका || तत्वायाति ब्रह्मणेति वारुण्यांसित वर्णिका | आनोमियुद्भिरिति च वायव्यां हरिता भवेत् || वयः सोमव्रत इति सौम्यायां चंद्रवर्णिका | तमीशानमितीशान्यामतिविश्वेतापताकिका || ईशान पूर्वयोर्मध्ये शेषरक्तपताकिनं | तोयनैर्-ऋत्य मध्ये तु विधिं रक्तपताकिनं || वाममार्गे वेदमंत्रो वज्रपात समः स्मृतः | ब्रह्मणानां वाममार्गो नरकायैव जायते || मंत्राभावेनाम मंत्रान् प्रणवाद्यांछतंतकान् | पथे दक्षिणमार्गे तु वामे प्रणव वर्जितान् || मण्डपो परिवध्नीयादतिश्वेतं वितानकं | अलंकुर्यात् पुष्पमालादिभिरेनं तु वेष्टयेत् || आम्राश्वत्थ दलोत्पन्नायुक्तया दीर्घमालया | स्तंभादुकुलसंवेष्ट्य मध्ये कुर्याच्च वेदिकां || इष्टिकाभिर पक्वाभिर्हस्तविस्तृति पिण्डकां | मण्डपायाम रुद्रांश * * * ? प्तेषु रामकैः || अशैः समुन्नतां वापि मानमस्य विलोक्य च | सामग्र्यादेस्समावेशो यथा स्यादिति मण्डपः || अयुताहुति होमस्तु विधेयः स्थण्डिलोपरि | एकहस्तमितं कुण्डं दशरक्षावधि स्मृतं || लक्षाणां दशरेनैकं हस्तहस्तं विवर्द्धयेत् | दशहस्तं कोटिहोमेवैदिकानामितीरितं || प्. ३१ब्) मद्यमांसादि होमस्तु कुण्ड एव विधीयते | पंचाशत् प्रमिते होमे प्रकोष्टकृत मुष्टिकं || कुण्डस्यमानं भवति शतेरत्नि समं भवेत् | सहस्रं हस्तमात्रे स्यात् द्विहस्तमयुतेमतं || चतुर्हस्तमितं लक्षे षड्दलं दशलक्षके | कोटि होमेचाष्टहस्तं कुण्डं वामैर्विधीयते || एककुण्डविधाने तु चतुरस्रं विधीयते | ब्राह्मणानां विशेषेण स्तंभने चापि पूर्वतं || नवविधाने तु वह्निभागे भगाकृतिः | भोगार्थं चापि पुत्रार्थं वासिना चतुरस्रवत् || अर्द्धचंद्रनिभंवान्य वैश्यानां सर्वकर्मणि | अन्येषां मारणे प्रोक्तं चतुःकुण्डे तथेष्यति || त्रिकोणकुण्डं नैर्-ऋत्यं रिपुघातकरं स्मृतं | विद्वेषकारयां चैतछूद्राणां च विशिष्यते || वृत्तं मुख्यं क्षत्रियाणां सर्वेषां शांति कर्मणि | पश्चिमायां तु तत्कार्यं वौद्धारीणां च सिद्धिदं || षट्कोण मुच्चाटयति छेदेषु च विशिष्यते | वायव्यां कारयेत् तच्च संकराणां विशेषतः || उदीच्यां पौष्टिके पद्मं वृष्टिदं तुष्टिदं तथा | सर्वप्रयोगेष्ठनया परप्रीतिकरं मतं || अष्टकोणं मुक्तिकरमैशान्यांत विधीयते | कारागृहात् तथा रोग्याच्चिंतादे मोक्षमाप्नुयात् || अष्टकुण्डविधाने तु क्रमोयं नवकुण्डके | नवमं चतुरस्रं स्यात् पूर्वेशा न दिगंतरं || विधाने पंच कुंडानामीशाने पंच संभवेत् | समकुण्डविधाने तु न खातो वेदिके वहि || अन्यदेक पंचकोणमभिचार विनाशनं | तथान्यत् सप्तकोणं च कुंडभूत निर्कृतने || अथादौ चतुरस्रस्य कुंडस्य विधिरुच्यते | नाभि योनि समायुक्तं श्रेष्ठं कुण्डं त्रिमेखलं || द्विमेखलं तु शूद्राणा शंकराणां तु मेखलं | यावत् कुण्डस्य विस्तारः खननं तावदेव हि || यावत् कुंडमिहेष्टस्यात्तावद्दिक्ताधनेकृते | चतुरस्रं समं कुर्यात् सुमकर्णं च शिल्पचेत् || एकहस्तस्ययः कर्णोभुजास्ते तु करद्वयं | द्विहस्तस्य तु कर्णस्या त्रिहस्तभुजसंमिति || चतुर्हस्तादिके प्येवं कंठः सर्वत्र भूसमं | जिनभाग समास्तस्य वहिः कार्यास्तु मेखला || द्वादशांगु विस्ताराद्योत् सेधाच्चतुरंगुला | तदुर्द्धमपरादीर्घाः ष्टांगुलाताच दृच्चता || प्. ३२अ) चतुर्भिरंगुलैर्दीर्घातावदुच्चातदूर्द्धतः | दैर्घ्यात् सूर्यांगुलां योनिस्त्र्यंशोना विस्तरेण तु || एकांगुलोच्छ्रितासातु प्रविष्टाभ्यंतरे तथा | कुंभद्वय समाद्युक्ता चाश्वत्थदलवन्मता || अंगुष्ठ मेखला युक्ता मध्ये वाह्यधृतिः क्षमा | योन्यास्तु पश्चिमेभागे मेखला त्रितया वहि || चतुरस्रं भवेत् पीठं कुण्डषष्टांश विस्तृतं | तावद्दीर्घं तथोच्चं च तालं तन्मध्यतो नयेत् || योनि मध्येथ तद्वृत्तं कुण्डषष्ठांशमानतः | प्रागग्निचान्य कुण्डाना प्रोक्तायो निरुदङ्मुखी || शेषाः पूर्वमुखायोनि कुण्डेयोनिं च वर्जयेत् | कुण्डमध्येस्थ केंद्रा तु कुर्यात् कर्कटकेन तु || प्रसारितेनव्यासार्क भागतुल्येन तत्परं | षष्ठांशेन तु वृत्तं स्यात् पूर्ववृत्तं तु कर्णिका || कर्णिकाग्रे वाह्य वृत्ताभ्यंतरेष्ट दलानि तु | एवं षडंगुलोर्च्चः स्यान्नाभिर्वेदाखमीरितं || इष्टस्य चतुरस्रस्य जिनांशो भग उच्यते | सपादैः पंचभिर्भागैर्मध्ये सूत्रं विवर्धयेत् || प्राच्यामथ प्रकुर्याच्च चतुर्था चतुरस्रकं | मध्यतो भ्रामयेत् ककाटकं पश्चिमसंस्थयोः || अर्द्धचापाकृतिं रुद्रं वहिर्दिश्योस्तदग्रतः | चिह्नांतं पातयेत् सूत्रं हयोरपि तदा भवेत् || अश्वत्थदलसंकाशं योनिकुण्ड मुदङ्मुखं | प्राङ्मानाश्चात्र कर्तव्या योनिरूपाः सुमेखलाः || चतुरस्रीकृतं क्षेत्रं दशधापि भजेद्वुधः | एकमेकं त्वजेदेशमध ऊर्द्ध्वे च तंत्रवित् || ज्यासूत्रं पातयेदग्रेतन्मानाद्धामयेत् ततः | अर्द्धचंद्रनिभं कुण्डं रमणीयमिदं भवेत् || अत्र तद्याम्य पृष्टस्यादेकं तन्मारणाय च | सौम्यपृष्टं ततोन्यत्र योनिः पश्चिमदिग्नता || अग्रं प्राक्तिभुजे कार्यं लंवास्तुल्या त्रयोपि च | सांतरं सर्वतंत्रेषु प्रोक्तपत्र निरंतरं || एकहस्ते तु हस्ताद्या भुजो भूद्द्वादशाब्दयः | द्विहस्तद्वौत्रयं पंचत्रिहस्तेद्यर्क भूमयः || चतुर्हस्तत्रयं चंद्रः पंचहस्ते त्रिशेषराः | षडस्रेद्र्यब्दरानाश्चनगेभ्याकृतिसागरा || अष्टहस्तेकृता गक्ष्मादेव विश्वाग्नंयोगवि | वेदाति धृति युग्मानि दशहस्तभुजा इमे || व्यासार्द्धं चतुरस्रस्य स्वस्याष्टादशभागयुक् | तावत् कर्काटकाद्वृत्तंवृत्तकुण्डमिहोच्यते || प्. ३२ब्) रचयेच्चतुरस्रस्यव्यासार्द्धे नृपभागयुक् | तावत् कर्कटके नापि कुर्याद्वृत्तं मनोहरं || तेन कर्कटमानेन चिह्नषट्कं च पूर्ववत् | कृत्वा तत्र भुजान्दत्वा कुण्डमेवं षडस्रवत् || इष्टस्य चतुरस्रस्य चतुर्विंशांक कल्पनां | कृत्वा तन्मध्यतः सूर्यभोगकर्काटकेन च || वृत्तं कुर्यात् पुनः सार्द्धं तिथिभागैर्द्वितीयकं | दिग्विदिक्चांतराले च सूत्राण्यष्टौ प्रपातयेत् || ततोंतर्वृत्तरेखाया ईशः सूत्राग्रसूत्रकः | रेखां नयेद्वाह्यवृत्ते पूर्वसूत्रस्य मूर्द्धनि || ततो दक्षिणरेखायामंतर्वृत्तस्य मूर्द्धनि | तामानयेद्दलं तस्यादेवमष्टदलानि च || अंशव्या सार्द्धकेनापि यद्वृत्तं सा तु कर्णिका | ततः षडंगव्या सार्द्धवृत्तेन तत्केशराणि च || व्यास षष्ठां समानोच्च कर्णिकाकेशराणि च | गुरूक्त युक्त्या निखनेद्यथा पद्माकृतिर्भवेत् || पद्माकृतिं प्रकुर्वीत कण्ठमेखलया सह | कार्यं तथाचारुकाभिश्चतुरस्र समं यथा || अथेष्ट चतुरस्रस्य व्यासः स्वद्वादशांशयुक् | तेनैव भ्रामयेद्वृत्तं चिह्नान्यत्रदिगष्टके || क्रमान्न्यसेत्तदुपरिभुजान्दद्यात् समानिति | अष्टास्रं जायते कुण्डतद्वत्कण्ठश्चमेखला || इष्टस्य चतुरस्रस्य व्यासार्द्धस्वनगांशयुक् | तद्व्यासार्द्धेन तत् तस्यात् तत्र चिह्नानि पंच तु || समभागेन देयानि तेषु सूत्राणि दापयेत् | ज्यारूपाणि धनुर्लोपा कुण्डं पंचास्रकं भवेत् || इष्टस्य चतुरस्रस्य व्यासार्द्धं पंचमांशयुक् | भ्रामयेत्तेनष्टत्तंतु सप्तादानांकनातु तत् || ख्यातान्येतानि कुण्डानि तांत्रिके स्मार्तकर्मणि | अनाधिकान्यकण्ठानि वियोनीति श्रुतीरिते || आचार्य कुण्डं नवमं चतुरस्रं तु वेदिके | अष्टाशक्तौ तु चत्वारि दिक्षु कुण्डानि तांत्रिके || तदशक्तावेकमेव चतुरस्रं प्रकल्पयेत् | शक्त्या उपासने वामपाथ्यैकं योनि कुण्डकं || अमेकदोषदं कुण्डं मानं न्यूनाधिकं यदि | तस्मात् सम्यक्परीक्ष्येदं कर्तव्यं शुभमिच्छता || खाताधिके भवेद्रोगी हीने धेनुधनक्षयः | चक्रकुण्डे तु संतापो मरणच्छिन्नमेखले || मेखलारहिते शोकोप्यधिकेवित्त संक्षयः | भार्या विनाशकं कुण्डं प्रोक्तयोन्या विना कृतं || प्. ३३अ) अपत्यध्वसनं प्रोक्तं कुण्डं यत्कण्ठवर्जितं | शृंगाररहितं यच्च कुण्डं जर्जरमेखलं || यजमान विनाशाय प्रोच्चाटः स्फटिके भवेत् | सूचाधिकेसु हृद्वेषः सूत्रहीने दरिद्रता || अनाले जठरे रोगः छिद्रे कुडेत्व वाच्यतां | यथोक्त कुण्डेप्युत्पातादेवं जाते फलंत्विदं || षट्वाणाद्धिर्वह्नि नेत्रमिताः स्युः पंचमेखला | धर्मभेदे जातिभेदे वाचार्य यजमानयोः || षष्टीशेनाष्टमांशेन मेखला द्वितयं मतं | कौलिके वाममार्गे च वौद्धेजैने च शावरे || कुण्डानां लक्षणं प्रोक्तं स्रुक्स्रुवा लक्षणं ततः | प्रकल्पयेत् स्रुवं योगे वक्ष्यमाणेन वर्त्मना || कालस्करेणामलकी परा शखदिरैरपि | सुवर्णरूप्य ताम्रैर्वा अयोभिरपि कारयेत् || स्रुक्स्रुवौतैजसौग्राह्यौ न कास्याग्र सलीसकौ | यज्ञदारुमयो वापि तांत्रिकौ शिल्पि संमतौ || पर्णे वा ब्रह्म वृक्षादेरच्छिद्रे मध्य उच्छ्रिते | धीपर्णी सिंसपाक्षीरशाखिष्वेकतसं गुरुः || गृहीत्वा विभजेद्धस्तमात्रां शट्त्रिंशतापुनः | विंशत्यंशैर्भवेद्दण्डो वैदिकैरष्ट * * * ? || एकांशेनमितः कंठः सप्तभागमुखं मतं | वेदी त्र्यंशेन विस्तारः कंठस्य परिकीर्तितः || अत्र कंठः समानः स्यान्मुखे मार्गे प्रकल्पयेत् | कनिष्ठांगुलमानेन सर्पिषो निर्गमाय च || वेदी मध्ये विधातव्यो भागेनैकेनकर्णिका | विदधीस्तवहीस्तस्या एकांशेनाभितोऽवटं || तस्य ख्यातं त्रिभिर्भागैर्वृत्तमर्द्धाशतो वहिः | अंशेनैकेन परितो दलानि परिकल्पयेत् || मेखला मुखवेद्याः स्यान्नेभिरद्धाशमानतः | दण्डमूलाग्रयोः कुंभौ गुणवेदौंगुलैः क्रमात् || दण्डीयुगं यमांशैः स्याद्दण्डस्यानाह ईरितः | षड्भिरंशैः पृष्ठभागो वेद्याकूर्माकृतिर्भवेत् || हंसस्य हस्तिनो वापि पोत्रिणो वा लिखेन्मनुं | मुखस्य पृष्ठभागे तु संप्रोक्तं लक्षणं सुचः || सौवर्ण स्रुक्स्रुवौस्याता सौम्यकर्मणि सर्वतः | भवेतामायसावेतौ स्तंभनादिषु कर्मसु || तदलाभेपलाशस्य पर्णाभ्यां हूयते हविः | पलाशपत्रे निश्छिद्रे रुचिरेस्रुक्स्रुवौ मतौ || प्. ३३ब्) विदध्याद्वाश्वत्थ पत्रे संक्षिप्ते होमकर्मणि || अथ स्रुवलक्षणं | स्रुचश्चतुर्विंशतिभिर्भागैरारचयेत् स्रुवं | द्वाविंशत्या दण्डमानमंशैरेतस्य कीर्तितं || चतुर्भिरंशैसनाहकर्षाह्यग्राहितच्छिरः | अंशद्वयेननिखं नेत्यंके मृगपदाकृतिः || दण्डमूलाग्रयोर्गण्डी भवेत् कंकणभुषिताः | स्रुवस्यविधिराख्यातः शास्त्रेस्मिन्मंत्रसंज्ञके || इति श्रीतंत्रचिंतामणौ पशुपकुण्डादिनिर्णयो नामाष्टः प्रकाशः || ८ || अथांकुरार्पणं || प्रतिष्टायां च दीक्षायां स्नापने चोत्सवे तथा | संप्रोक्षणे च शांत्यर्थं विवाहे मौंजिवंधने || सर्वमंगलकार्येषु कारयेद कुरार्पणं | प्रतिष्टादि च सात्पूर्वं नवमे सप्तमे दिने || पंचमे वा तृतीये वा सद्यो वाचांकुरार्पणं | पुण्याह घोषणं कृत्वा ब्राह्मणैः सहदेशिकः || बीजारोपण कर्मेदं कर्तव्यं सर्वकामदं | मंडपोत्तर दिग्भागेशालां पूर्वापरायतां || तं मण्डेमण्डपं कुर्यादक्षाः प्राग्वरुणायतं | वाम्योदीच्यां यतं वामदीक्षायां संप्रसश्यते || गोमयेनोपलिप्तायां भूमौ दक्षेथ वामके | स तैलतण्डुले नैव स तैल विजयाद्रवैः || तत्र रेखाः पंचकरदीर्घा कार्यास्तु पंच च | वितस्त्यंतरिता रुद्ररेखा कार्यास्तथायता || चत्वारिंशत् कोष्ठकाः स्युश्चतुर्विंशति कोष्ठकैः | ब्राह्मणैस्तत्रवीथीस्यात् पुरयेद् रक्तचूर्णकैः || पश्चात् कोष्ठ चतुष्कं च ब्रह्मस्थानं तदीरितं | आप्नेय कोष्ठमारभ्य ईशान्नांतं प्रपूरयेत् || पीतरक्तश्वेतकृष्णरज्ञोभिः सृष्टिमार्गतः | कोष्ठद्वयं तथा वीथी रक्तेनैव प्रपूरयेत् || विष्णुस्थानं तदग्रे तु ज्ञेयं कोष्ठ चतुष्टयं | प्राग्वद्रजोभिरापूर्यतदग्रेपि च वीथिका || प्रोक्तं कोष्ठ चतुष्कयद्दुद्रस्थानं तदीरितं | तत्पूर्यं पूर्ववद्रंगैरारक्तैः सर्वरेखिकाः || विस्तारोन्नति दैर्घ्येण हस्तमात्रास्तुं पालिका | कार्याडमरुकाकाराश्चतस्रो विष्णुदैवताः || दूर्वाम्र पल्लवाश्वत्थदलोपेताश्च वेष्टिता | सूत्रेण विष्णुः स्थानस्य चतुःकोष्ठे निवेशयेत् || वैरव्य पंचमुख्यस्ताः काष्टजा षोडशांगुलैः | आयामोच्छ्राय दैर्घ्याख्यैर्युक्ता पश्यान्निवेशयेत् || ब्रह्मस्थाने पल्लवांदि सूत्रैः प्राग्वच्च योजिताअः | पात्राणि त्रिविधान्याहुस्कुरार्प्यण कर्मणि || पालिकाः पंचमुख्यश्च शरावांश्च चतुः क्रमात् | प्रोक्ताः स्युसर्वतत्वज्ञैर्हरिर्ब्रह्मशिवात्मिका || प्. ३४अ) एषामुच्छ्रायद्रत्नेयः षोडशा द्वादशाष्टभिः | अंगुलैः क्रमशस्तानि शुभान्यावेष्ट्यतंतुना || प्रक्षाल्य देशिकस्तेषु पदेष्वाहितशालिषु | सुगंधिदार्भपुष्पेषु पश्चिमादि निवेशयेत् || पालिका चक्रविस्तारः षोडशांगुल मुच्यते | भवेत्कंठविलं चास्यात् तदष्ट्यंगुल विस्तृतं || पदेपीठस्य विस्तारं षडंगुलमुदाहृतं | चतुरंगुल उत्सेधस्तत्संधिश्वांगुलं भवेत् || तत्संधेस्तु भवेन्नाभं पदेपीठार्द्धमेव च | भवेत् पंचमुखी चैव घटिका सर्वकामद || चतुरंगुल विस्ताराण्याहुर्वक्त्राणि पंचवै | चत्वारि च चतुर्दिक्षु ऊर्द्ध्वमेकं यथा विधिः || घटिकायाम विस्तारो द्वादशांगुल मुच्यते | आचार्याः कथयत्येके षोडशांगुल मुच्यते || आचार्याः कथयंत्येके षोडशांगुलमेव च | द्वादशांगुल विस्तारं शरावस्य मुखं स्मृतं || चतुरंगुल विस्तार मधस्तान्मूलमुच्यते | स भवे कनकं रूप्यताम्रं तोमार्तिकान्यपि || शैवाः शतावाश्चत्वारो तेषु पात्राणि विन्यसेत् | वह्न्यादीशानपर्यंतं चतुष्केषु पृथक् पृथक् || प्रोक्तेषु तेषु पात्रेषु ब्रह्मविष्णुशिवान् यजेत् | संपूजयेच्छरावेषु रुद्रचंदनपुष्पकैः || पालिकामुत्तथा विष्णुं ब्रह्माणं घटिकासु च | मृद्वालुकाकरीषैश्चोद्ध्वतः पात्राणि पूरयेत् || ब्रह्मादिभिश्च कुद्दालं पूजयित्वा दिनांतरे | गीतनृत्य समायुक्तं गजवाजि समन्वितं || गुर्वादयोरथारुढागजारुढास्तथा परे | गत्वा तीरं तडागस्य नद्या पुष्पं वनस्य वा || तत्र शुद्धं भुवोभागं दर्भैः संसृज्य वास्त्रतः | अभ्युक्ष्यचार्द्यतोयेन तत्तन्मंत्रमनुस्मरन् || हृदा भूमिं समावाह्य गंधपुष्पैः समर्च्चयेत् | कुद्दाली मंत्रमंत्रेण खल्वा भूमिमथो मृदं || गृहीत्वा वामदेवेन पूरयेत् कांस्यपात्रके | हृदामृदं च संमृज्य वस्त्रेणाच्छाद्य धारयेत् || पुरं वा निलयं वापि सर्वमंगल निःस्वनैः | गुरुः प्रदक्षिणं कृत्वा मंडपत्वानयेत् ततः || एतत्कर्म दिवाकाले कुर्याद्रात्रौ न बुद्धिमान् | ततः स्वर्णादिके पात्रे दशबीजानि वापयेत् || वं वीजं प्रजपेन्मंत्री दुग्धेन क्षालयेत् ततः || तानि प्रियं गुह्यामाकतिलशर्षपशालयः || मुङ्जाढकी सुरिष्या वा खल्योमाषाः प्रकीर्तिताः | मूलमंत्राभिजप्तानि पंचघोषपुरःसरं || प्. ३४ब्) आशीर्वाग्भिर्द्विजातीनां मंगलाचारपूर्वकं | निर्वपत्तेषुत्राः त्रेषु देशिकोयतमानसः || बीजं मुख्येन मूलेन प्राङ्मुखो वा गुदङ्मुखः | वापयेत् सर्ववीजानि पालिकादिष्ठ तु क्रमात् || बीजानामधिपः सोमस्तस्माद्रात्रौ तु निर्वपेत् | बीजेभ्यो दैवतेभ्यश्च स रात्रौ कांतिमान् यतः || तस्माद्गुरुस्तु बीजानि निशायामेव वापयेत् | स्कंदं प्रियंगौ निष्याच वायुमग्निं कुलुत्थके || आढक्यां निर्-ऋतिः सोमः मुङ्गेवैव स्वतंतिले | प्रजापतिंशालि बीजेत्वनंतं सर्षयेर्चयेत् || इंद्रं श्यामे तु माषे च वरुणं तु नगात्मजे | सोमजं पूजयेन्नित्यमधि वा स दिनावधि || अधिवासदिने प्राप्ते सोममुद्वासयेद्गुरुः | त्र्यंवकाय च शर्वाय शंकराय शिवाय च || सर्वलोक प्रधानाय शाश्वताय नमो नमः | विकीर्यानेन मंत्रेण हरिद्रा चूर्णमिश्रितं || तोयं प्रवर्षयेत्तेषु सिंचेत्तोयैर्दिनं प्रतिं | हरिद्राभिः समत्यज्य वस्त्रैराच्छाद्यदेशिकः || वलिं त्रिविध पात्राणां दिक्षु पूर्वादितः क्षिपेत् | प्रणवाद्यैर्न मातैश्च रात्रौरात्रीश नामभिः || भूतानि पितरो यक्षानागाब्रह्माशिवोहरिः | गुरुपदिष्टमार्गेण सम्यक् पात्र त्रयागतः || नवाहं तु बलिं दद्यात्तत्तदुद्दिश्यदैवतं | संध्ययोरुभयोरर्द्धरात्रौ चापि वलिं हरेत् || शाल्योदनं तिलालाजासक्तवः प्रथमेदिने | हरिद्रा चूर्णसंयुक्तो भूतेभ्योयं वलिर्मतः || एवं द्वितीयदिवसे पितृभ्यस्तिलतंडुलैः | तृतीयसक्तवोलाजा यक्षेभ्यो दधि संयुताः || नागेभ्यः सक्तु वस्तुर्ये नारिकेलजलप्लुताः | दद्यात् पुष्पाक्षत वलिं पंचमे ब्रह्मणेमुदा || षष्टे शिवाय चापूययुक्तं भक्तं प्रशस्यते | गुडौदनं सप्तमेह्नि विष्णवे विनिवेदयेत् || विष्णोरेवाष्टमदिभेदद्ध्योदनवलिः स्मृतः | कृशरान्नं तु नवमे विष्णोरेव प्रशस्यते || वाममार्गे चतुर्दिक्षु मंत्रस्तस्य वलिं चरेत् | ब्रह्मस्थाने तु वेतालोमेषस्तस्य वलिन्सुरा || विष्णुस्थाने भैरवीस्यादजस्तस्या वलिर्मतः | भैरवस्तु शिवस्थाने माहिषं वलिमिच्छति || प्. ३५अ) गौडी माध्वी च यैष्टी च सुरास्तत्र क्रमान्मताः | मद्यमांसं मद्ययुक्तं भूतेभ्यो वलिरिष्यते || पितृभ्यः सासवपलं यक्षेभ्यः कुक्कुटोमधु | भेकोदुरुवलिर्नागे वाममार्गे वलिस्वयं || एवं गतेषु नवसु दिवसेषु विलोकयेत् | प्ररूढाण्यं कुराण्यन्योन वीक्षेत कदाचन || आचार्य एव प्रविशेत्तच्छिष्योवातदाज्ञया | यज्ञमानाभिवृद्ध्यर्थमंकुराणि परीक्षयेत् || सम्यक् तस्योद्गमोजातः किंनष्टं मध्यमं च किं | सम्यगत्युद्गमे सिद्धिः कुंथिते विघ्नमाप्नुयात् || कीटभुक्तेन्यफलं रुतिते सर्वनाशनं | धूम्रवर्णान्य पूर्णानि तथा तीर्यग्गतानि च || श्यामलानि च कुब्जानि वर्जयेद शुभानि च | अवृष्टिं कुरुते कृष्णं धूम्राभं कलहं तथा || अपूर्णजननाशं च दुर्भिक्षं श्यामलाकुलं | तीर्यग्जाते भवेद्व्याधिः कुब्जे शत्रुभयं भवेत् || अशुभेवां कुलेजाते शांतिहोमं समाचरेत् | मूलमंत्रेण जुहुयाद्गुरुमूर्तिधरैः सह || अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकं | सम्यक् पूर्वं प्ररूढाणि कोमलानि सितानि च || सिद्धिः प्रियंगुभिर्ज्ञेया श्यामाकैः स्त्रीसुखं भवेत् | तिलैः पूज्यजनोल्लासैः सर्षपैर्नाभिचारकः || शालीभिः सर्वमान्यत्वं मुद्गेदेव कृपा भवेत् | चतुःपादास्तदाढक्यांनिष्या वा क्षेत्रमंदिरे || खल्वैः सत्कर्मसिद्धिश्च माशैः शांतिररेर्भवेत् | सर्वैः समुद्गतैर्वामै सिद्धिः पातस्त्वतोन्यथा || इति श्रीतंत्रचिंतामणौ अंकुरार्पणनिर्णयोनाम नवमः प्रकाशः || ९ || अथ दीक्षाविधिं वक्ष्ये मत्रीणां हितकाम्यया | विना तया न लभ्येत सर्वमंत्रफलं यतः || चतुर्विधा समुद्दिष्टा क्रियावत्यादिभेदतः | क्रियावती वर्णमयी कलात्मावेषमर्यपि || तत्र क्रियावती दीक्षा वहुस्वान्न निगद्यते | दीक्षादानात् पूर्वदिने प्रातः कृत्यं निवर्त्य च || समलं कृत्यदेहं स्वंस्वगृहेपूजनं चरेत् | गणेशस्य विधानेन पुण्याहं वाचयेत् ततः || नांदीमुखंत्तर्पयित्वा पंचवाद्यपुरःसरं | यथोक्तकृतसंभारोगच्छेद्गुरु गृहं प्रति || आचार्य ऋत्विग्वरणसंभारो * ? दशामतः | श्रीपर्णी वृक्षपीठामि हस्तमानानिमानतः || प्. ३५ब्) अष्टांगुल समुच्छ्राय सहितानि समानि च | सप्तविंशति दर्भाणां चेणेग्रे ग्रंथभूषिताः || विष्टराः सर्वयज्ञेषु लक्षणं परिकीर्तितं | सुखोष्णोदक संभूताः पाद्यार्थे ताम्रगड्डुकाः || शंखा अर्घ्यप्रदानाय गंधपुष्पजलान्विताः | सुताम्रस्यकमण्डल्वाः आचम्योदकपूरिताः || तैर्युता मधुपक्वार्थं कांस्या दध्यादि पूरिताः | महदर्घ्याणि वस्त्राणि मुद्रिकाद्यं सुभूषणं || मयूरपत्र छत्राणिचोष्णीषाणि समाहरेत् | पादुकाचाहरेत् तत्र चर्माभरणभुषिताः || कृत्वै तत् फलमाप्नोति महायज्ञार्हणोपमं | अन्येभ्यो मधुपर्कस्य विप्रेभ्यः पूजनं स्मृतं || भक्त्या तद्विगुणं दद्यादाचार्याय सुभक्तिमान् | अन्यैर्द्विजैः समं यत्र देशिकस्य प्रपूजनं || तस्मिन् यज्ञेफलं स्वल्पमनावृष्टौ यथाक्षितेः | एवं गुरुगृहंगत्वा प्रणम्य गुरुपादुकां || दत्वा वरणसामग्रीं संकल्प्य वृणुयाद्गुरुं | उच्चार्यामुकमंत्रस्य ग्रहणायद्विजोत्तमः || गुरुत्वेनेति संभाष्यत्वामहं च ततोवृणे | इत्युक्त्वा वृणुयाच्छिष्यो वृतोस्मीति ततो गुरुः || यथोचितं गुरोः कर्मकुरुष्वेति वदेच्छिशुः | करवाणीति चोच्चार्य गुरोरेवाह्वयाततः || ब्राह्मणान् वृणुयादष्टौ वेदवेदांगपारगान् | तद्देवतोपासकांश्च ऋत्वित्केनाथ वा यदा || चत्वारि कुण्डनि तदा चत्वारो ऋत्विजः स्मृताः | ततः शिष्येण सहितो यायाद्याग गृहगुरुः || उपविश्य च तद्वारे परीक्षामारभेत् ततः | गुरुः स्वयं दंतकाष्ठं क्षीरवृक्षादि संभवं || अथवा चूतवृक्षस्य द्वादशांगुलमानतः | शिष्याय मूलसंजप्तं प्रदद्याद्दंतधावनं || दंतान् विशोध्य पुरतः स्थण्डिले हस्तमात्रके | चतुरस्रे त्याजयेत परीक्षेत ततो गुरुः || तदग्रं यद्दिशासंस्थं तत्रेदं पूर्वतः फलं | भूतिर्हृदयसंतापो वंधुनाशस्तथामृतिः || शोकश्च व्यग्रता सौख्यं ज्ञानलाभः क्रमात् फलं | अमंगलस्थानपाते प्रायश्चित्तः समाचरेत् || अष्टाधिकं सहस्रं वा शतविंशतिरेव वा | अस्त्रसंपुटितेनैषां नाम्ना स्वाहन्वितेन च || दोषाजहिजहीत्येवं पदं नामावसानुगं | केवलाज्येन जुहुयाद्दुःस्वप्नेययेवमेव हि || प्. ३६अ) दंतकाष्ठं पुनर्देयं पुनर्दुष्टे चतुर्गुणं | तृतीयमपि दुष्टं चेन्न ग्राह्या सा तु देवता || वाममार्गे सकृदपि गुरुशिष्यौ विनाशयेत् || अथ स्वप्नपरीक्षामाह | ततः स्वप्नपरीक्ष्यां च कुर्यात् तद्विधिरुच्यते | वेदिकानां दक्षिणानां वैष्णवानां च वामिनां || यज्जाग्रतो देवमुदैतिदैवमातृभ्यमंत्रान् जपतस्त्रिरेतान् | दिवैकभुग्दक्षिणपार्श्वशायीस्वप्नं परीक्षेत यथोपदेशं || स्वप्नमानवमाश्रित्य स्वापचेत् पूर्वमस्तकं | गृहस्थान् दर्भशययायां पूर्वशीर्षास्त्र रक्षितान् || हृदा सद्भस्मशययायां यतान् दक्षिणमस्तकान् | देवस्य दक्षिणेभागे शिष्यंतमधिवासयेत् || अहतास्तरणास्तीर्णे सदर्भः शयने शुचिः | मंत्रिते च शिवं ध्यायन् प्राक् सिरस्को निशिःस्वपेत् || शिखावद्धस्य सूत्रस्य शिवयातच्छिखांगुरुः | आवेष्ट्याहतवस्त्रेण तमाच्छाद्य च वर्मणा || रेखा त्रयं च परितो भस्मना तिलसर्षपैः | कृत्वास्त्र जप्तैस्तद्वाह्येदिगीशानां वलिं हरेत् || गुरुपादार्चनं कृत्वा उपवासी जितेंद्रियः | दर्भशययांगतो रात्रौ दृष्ट्वा स्वप्नं निवेदयेत् || भगवन् देवदेवेश शूलभृद्वृषवाहनः | इष्टानिष्ठे समाचक्षु स्वप्नेमूप्तस्य सांप्रतं || निशांते पश्यति स्वप्नं शुभं वा यदि वा शुभं | ओंहृत्सकललोकाय विष्णवे प्रभविष्णवे || विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः | स्वप्नमानवमंत्रोयमुपवासी जितेंद्रियः || दर्भशययागतो रात्रौ स्वप्नं पश्येद्यथा तथं | भुक्त्वाशयीतशयने सुशुद्धे वसुधातले || अर्धरात्रे समुत्थाय पादशौ च विहाय च | आचम्य देवं संस्मृत्य संपूज्य च स पंचकैः || शिवदैवतयोरैक्यं भावयन् प्रजपेदिदं | नमोजायत्रिनेत्राय पिंगलाय महात्मने || वामाय विश्वरूपाय स्वप्नाधिपतये नमः | स्वप्ने कथयमे नित्यं सर्वकार्यमशेषतः || स्वप्नस्तु प्रथमेयामे संवत्सर फलं भवेत् | षड्भिर्मासैर्द्वियामोत्थस्त्रिभिर्मासैस्त्रियामकः || चतुर्थे मासमात्रेण प्रातःकाले तु सत्वरं | चिंतारुग्जाल्पदीर्घं यत् तत्फलं नैव विद्यते || वाताधिक्याद्भवेत् स्वप्नः साहसोड्डीनपूर्वकं | पित्रात्तेजोग्नि पीतादिरक्तं क्रोधादिकं तथा || प्. ३६ब्) अध्याशयेतादिशित शयनाद्यं वलांसितः | वाते प्रातस्त्वंगमर्दः पित्ताद्दाहस्तु नेत्रयोः || कफात् प्रसेवते नित्यं द्वं द्वं द्वं द्वं न किं त्रिषु | सिद्धं वा स्वगुरुं देवं प्रसन्ना वा कुमारिकां || गंगांगां भारतीं भानुं लिंगिनं लिंगमैश्वरं | वारं छत्रं रथं दीपं प्रासादा कमलं नदीं || कुंजरं वृषंभं माल्यं समुद्रं फलितं द्रुमं | पर्वतं प्रोज्ज्वलद्वह्निं मममासं सुरासवं || ग्रहाद्भानिविधं सूर्यं रत्नान्या भरणानि च | सिंहासनं विमानं च ध्वजं राज्याभिषेचनं || श्वेतचंदनवस्त्राणि शालयः कुंकुमं मधु | लाजासिद्धार्थकं नार्यो नवभाण्डं च पायसं || अश्वं फलानि सिद्धान्नं दधिवार विलासिनीं | दुग्धं वाद्यानि चाषं च मयूरं न कुलं मृदं || वद्धमेक पशुं पुष्पं सद्वाक्यं चेक्षु मंजनं | पूर्णकुंभं दर्पणं च मीनवाज्यं च रोचना || शंवरोदनहीनं च शस्त्राणि च पताकिकाः | भारद्वाज नृपालौ च वेदशब्दं च गायनं || कशामांगल्यगीतानि चांकुशं यद्धृदः प्रियं | स्वप्ने दृष्ट्वानि चैतानि साधकः सिद्धिमाप्नुयात् || व्याध्यार्द्ध्यर्त्तनास्ति दुःखं सामान्यसुखमाप्नुयात् | यदाकर्म सुकाम्येषु स्त्रियं स्वप्नेषु पश्यति || कामयंती नदी सिंधुस्तरणं भ्रमणं चखे | भास्करोदयनश्चैव ग्रहणं चंद्रसूर्ययोः || हर्म्यं प्रासादनामाश्च वृषशैलाग्निरोहणं | भोजनं दधिभक्तस्यात् पक्वमांसं च भक्षणं || कृमिविष्टानुलेपश्च रुधिरेणाभिषेचनं | तांबूलभक्षणं मद्यपानं दध्यसि चंदनं || प्रचण्डः किरणः स्वच्छः कार्यसिद्धेस्तु लक्षणं | कृष्णां वरधरा नारी कृष्णगंधानुलेपनां || अवगूहतियं स्वप्नेसारात्रिस्तस्य पश्चिमा | एवं तु रक्तया व्याधिः शोकोरुणः समानया || भिन्नया कलहा हत्यापीतया कीरयानि यत् | श्वेतांवरधरा नारीश्वेतमाल्यानुपना || अवगूहतियं स्वप्ने तस्य श्रीसर्वतोमुखी | आसने शयनेयाने सलिले वाहने गृहे || ज्वलमाने विंबुध्येत तस्य श्रीसर्वतोमुखी | सितोरगस्यदंशश्चेज्जायते दक्षिणेकरे || दशाहोभिर्भवेल्लाभो रोगीरोगाद् विमुच्यते | निगडैर्वाहुपाशेन वध्यते वा सुतो भवेत् || प्रतिष्टावर्द्धते तस्य दुग्धपानाद्धनात्ययः | सुरांरक्तं पिबन् विद्यां लभेद् विप्रोधनं परः || प्. ३७अ) दधि दृष्ट्वा भवेत् प्रीतिर्गोधूमैश्च धनागमः | सिद्धाविष्टागतं विद्यांल्लाभः सिद्धार्थकैस्तथा || दधिलाभा भवेदर्थो घृतलाभाद्ध्रुवंजयः | घृतासनाद्धनक्लेशोजयस्तु दधिभक्षणे || लिंगाद्यभ्यर्चनं दृष्ट्वा व्यवहारे जयो भवेत् | यस्तु मध्ये तडागादेभुंजीत घृतपायसं || निष्कंपं पुष्करं पत्रेतं विद्यात् पृथिवीपतिं | देवतालिंगिनोगावः पितरो ब्राह्मणो नृपाः || यं वदति नरं स्वप्ने तत् तथैव भविष्यति | अस्त्रैः संवेष्टयेद्यस्तु ग्रामं वा नगरं तथा || ग्रामे मण्डलराज्यं स्यान्नगरे पार्थिवो भवेत् | चंद्रतारार्कग्रसनं परिमार्गणमेव च || भूम्यं वुधीनां ग्रसनं शत्रूणां च वधक्रिया | जयो विवाहद्यूतेषु शत्रूणां च तथा जयः || वडवा महिषी सिंहीगोहस्तिन्याद्विदोहनं | प्रसादो गुरु विप्रेष्ठ देवसिद्धादिकाच्छुभः || स्नानं राज्याभिषेकश्च स्वशिरच्छेदनमृतिः | तीर्थोदकानां तरणं तथा विष *? लंघनं || गोहस्ति वडवासूतिर्वह्निराभस्तथैव च | परस्त्र्या लिंगनं तस्यालाभ रोदनमेव च || विष्टालेपः कुंदजातीवकुलक्षेश दर्शनं | रणद्विद्युद्विमर्द्देषु जयोनिगडवंधनं || पशुमर्त्यमृगाणां च लब्धिरध्यसनं तथा | शिखिलाभः श्वेतवस्त्रे पुष्पचंदनेधारणं || मणिताल सुवर्णादि पात्रे भोजनकं यदा | पश्येत् तदा साधकस्य ज्ञेया सिद्धिरूप स्थिता || कार्यार्त्तनां कार्यसिद्धि ऋणार्तानां धनागमः | वंध्या वर्मतुषाग्न्याहि लवणांगारमिंधनं || विट्क्लीचोन्मत्ततैलानिजटिलारिवसौषधं | रोगाभृशं च सन्यासी रुग्नाभ्यक्तौ क्षुधातुरः || विमुक्तकेशः परितो त्वगासृक् शरटः क्षुतं | मार्जारयुद्धं कार्पासोगर्भिणी वरजस्वला || गुडस्तक्रं च काषायी पंकरण्डा कलिगृहे | वस्तादिकस्य स्ववललुलापसवलं तथा || अंधः कुब्जो दुर्वचनो वधिरः खंजकुक्षकौ | वमनं च घटोरिक्तोरजकीमलिनांवरा || एतैर्दृष्टैर्नकार्यं स्याद्रोती मृत्युमवाप्नुयात् | अशोकं करवीरं च पालाशं वापि पुष्पितं || स्वप्नेपि सलिलं दृष्ट्वा नरशोकमयाप्नुयात् | रूपांतरे प्रवेशश्च दक्षिणाशागतिस्तथा || प्. ३७ब्) पंकेनिमज्जनं स्नानं पुत्रभार्या विनाशदं | गोहस्ति द्विजविप्रादिवर्ज्ये कृष्णेन शोभनं || रक्तगंधांवरः स्रन्वी कृष्णा वा दक्षिणामखः | खरोष्ट्रमहिषारूढस्त्रिमासं न सजीवति || श्वभ्रे वा पतते गेहे द्वारं वास्यविधीयते | नवोत्तिष्ठतियस्तस्मात्तदंतं तस्य जीवितं || चांतं मूत्रं पुरीषं च संतानं जननं च्युतिः | शुक्रं च पश्येद्यः स्वप्ने तस्यायुर्दशमासिकं || ताड्यते विकृतैः कृष्णैः पुरुषैरुद्यतायुधैः | पाषाणैस्ताड्यते चापि तस्य मृत्युर्न्न संशयः || महिषोष्ठु खरारूढस्तैराभ्यक्तश्च मुण्डितः | दक्षिणाशां प्रस्थितोयः यस्य मृत्युर्न्नसंशयः || पश्येत् प्रासादपतनं गृहस्य शशिसूर्ययोः | पर्वतानां च वृक्षाणामधिकाराष्युतिर्भवेत् || हानिश्चैव स्वगात्राणां व्याधिनाभिभवस्तथा | गृहसंमार्जनं लेपो गोमयेन मृदापि वा || तीर्थानदीं समायातस्तीरेन्यद्वसनं धृतं | रोगीरोगाद्विमुच्येत हानिः स्वस्थस्य जायते || पुंनामानो मृगखगाः पोतकीसूकरीरला | पिंगलाछुछुकापल्लीवामां कोकिला शिवा || स्त्रीनामानो मृगखगाः श्रीकण्ठायाभरोरुरुः | छिकरो पिपलोभासः दक्षे काकर्क्ष कुक्कुराः || दृष्टाश्चेद्रोगिणो रोगनाशः साधकसिद्धयः | श्वस्थस्य चोद्यमाल्लाभो दिग्व्यत्यासान्नशोभनं || अथ दुःखश्च शांतिः | त्रिरात्रौपोषितो भूत्वा हविष्यासी पुरोहितः | सक्षीराणां घृताक्तानां समिधानां शतं दहेत् || पालाशानां तु गायत्र्या शूद्रः स्नात्वा हविष्यभुक् | दीपं दद्याद् विप्रगृहे विष्णोर्गेहे शिवालये || एवं दृष्ट्वा शुभं स्वप्नं गृह्नीयान् मनुमन्यथा | गृहीते हानिरेवस्याद्वान्यं देवं विचिंतयेत् || अथ स्वप्ननिवेदनं | शिष्यस्तु शुचिराचांते पुष्पहस्तो गुरूत्तमं | प्रणम्य शिरसा हृष्ठस्तस्मै स्वप्नं निवेदयेत् || स्वप्नेवाक्षि समक्षाम्वा आश्चर्यसतिहर्षदं | अकस्माद्य दिवा पश्यन्ताख्यातव्यं गुरोर्विना || स्वप्नान्निद्रा फलघ्नीस्यात् स्वप्नो वाच्यो मचान्यथा | एवं विचार्य स ततो गुरुः पुजां समाचरेत् || विधाया च मनं तत्र सामान्यार्घ्ये विधाय च | अर्घ्योदकेन संप्रोक्ष्य द्वारपूजां समाचरेत् || प्. ३८अ) ततश्च देशिको विघ्नान्दिव्यारालोकनेन च | अंतरीक्षगतानस्त्रोदकैरुत्सादयेत् क्रमात् || पार्थिवान् पार्ष्णिघातैस्तु त्रिभिरुत्सार्य यत्नतः | अंगं संकोच्य किंचित्तु शाखां वाम गतां स्पृशन् || उत्सारितानां विप्रानां ददन्वन्वद तु दक्षिणो | ब्रह्माणं चास्त्वधीशं च नैर्-ऋत्यांदिशि पूजयेत् || चर्घ्यांवुना च गव्येन यातस्थानेसु सिंचिते | वीक्षणाद्यैस्ततः शुद्धिं चतुर्द्वारां समाचरेत् || संवीक्ष्य मूलमनुनाह्यस्त्रेण प्रोक्षयेत्ततः | कुर्यात्ताडनमंत्रेण कवचेना वसेवयेत् || श्रीखंडागुरु चंद्रैश्च धूपितेस्त्रेणसंकधा | यवांश्चंदनसिद्ध्यर्थदूर्वाभस्माक्षतान् कुशान् || सलाजान्विकिरेन्मंत्री प्रत्युहघ्ना हि मण्डपे | मार्जयेदस्त्रमंत्रेणतान् मंत्रीदर्भमुष्टिना || आसनाय तु वर्द्धन्य ईशानेस्वापयेच्चतान् | पुण्याहं वाचयित्वाथ विप्रांन्संतोष्य यत्नतः || वेदिकायां लिखेत् पश्चात् सर्वतो भद्रमण्डलं | अथ तत् संप्रवक्ष्यामि कुर्यात् तांत्रिककर्मणि || नृपवर्ग समाकार्या कोष्ठकाश्चतुरस्रके | मध्ये षड्वर्ग कोष्ठानि मार्जयेत् तत्र संलिखेत् || आयाम द्वादशांशं च वहिस्त्यक्त्वाथ मध्यतः | ततो वृत्तत्रयं मध्ये समं कुर्याद् यथाविधि || कर्णिकामध्यवृत्तेन द्वितीयेन तु केशरान् | अंतर्वृत्तेन पत्राणि पत्रांगं त्यक्तभागतः || किंजल्काग्रेषु संस्थाप्या पार्श्वतस्त्वर्द्धचंद्रकाः | तदग्रे तु त्रिभिः कोष्ठैः पादान् कोणेषु विन्यसेत् || शेषाणि पीठगात्राणि परतः पंक्ति युग्मकं | वीथीं कुर्यान्मार्जयित्वा चतुर्दिक्षु च मध्यतः || क्रमाद्वाभ्यां चतुर्भिश्च कोष्ठैर्द्वार चतुष्टये | कोष्ठत्रयेन चैकेन प्रत्येकं द्वारपार्श्वयोः || शोभाभवंत्यतः कोष्ठैरेकतस्त्रिभिरेव च | उपशोभास्ततः कोष्ठैः षड्भिः कोणानि कल्पयेत् || शुक्लं तडुलचूर्णं स्यादुत्सधायामतस्तथा | अंगुलेन समाकार्याः सीमारेखा दलानि च || पीठगात्राणि च द्वारचतुष्कंते प्रपूरयेत् | अविप्रे पूरणीयानि रक्ते नैव दलान्यपि || कुसुंभचूर्णमारक्तं पूरणीयास्तु तेन तु | द्वारशोभाः पीठपादाः सर्ववर्णैर्विनिश्चयात् || पीतं हरिद्रा चूर्णं स्यात् पीठगर्भं च कर्णिकां | उपशोभाश्च विप्राण्यः पीठगर्भं च कृष्णतः || विल्वपत्रस्य चूर्णोत्थोहरितस्तेन पूरयेत् | संधींश्च कल्पवल्लींश्च पीतरक्तेन केशरान् || वीथी चतुष्क मध्ये तु कल्पवल्ली प्रपूरयेत् | पत्रमूल फलाकार मण्डिता हृदयंगमाः || प्. ३८ब्) नानावर्ण रजोभिस्त्रां जयेत् कुशली गुरुः | कृष्णवर्णेन कोनानि वहिरेखा त्रयं ततः || शुक्लारुणाख्य कृष्णैस्तु रजोभिर्भूषयेत् क्रमात् | सर्वतंत्रेष्टिदं प्रोक्तं सर्वतो भद्रमण्डलं || वक्ष्येथ देवयोनीनां सर्वतोभद्रमण्डलं | मार्गेथ दक्षिणे तत्र कोष्ठाकार विवर्गकाः || प्राग्वदेव तु तन्मध्ये पद्मं षट्त्रिंशता शुभं | एकपंक्त्या भवेत् पीठं द्वारं शोभा च पूर्वतः || षड्भिः कोष्ठैस्तु कोणानि रंजितव्यं च पूर्ववत् | पीठपादाः परिधयः पद्माद्यं पूर्ववन्मतं || वाममार्गे मण्डलं स्यात् कोष्टैरपूकवल्गितैः | चतुर्भिः पंकजं मध्ये तद्वाह्ये वीथिका तु वा || कल्पवल्ली समायुक्ता पद्मं पूर्व वदेव हि | दिक्चतुष्के तु पद्मानि चतुर्भिः कोष्ठकैश्चरेत् || विदिशासु चतुर्भिः स्युश्चतुष्टावेद संख्यकाः | चतुष्.क पद्मवीथानां मध्ये स्वस्तिकसन्निभं || जायते तच्चतुःकोष्ठे विदिशो सु चतुर्ष्वपि | रजोभिः शुक्लहारिद्र रक्तनीलैः प्रपूरयेत् || स्वस्तिका नीलरक्ताश्च पूर्ववत् परिकल्पयेत् | उदितं मंडलं ह्येतत् नवपद्मं सुशोभनं || वेद्या उपरिवध्नीयात् फलपुष्पोपशोभितं | वेदिकायामासने स प्राङ्मुखः संविशेदथ || वद्धपद्मासतो मौनी ऋजुकायो जितेंद्रियः | देशिकेंद्रस्तु संस्थाप्य पूजोपकरणानि तु || दक्षिणे वामभागे तु स्थापयेत् कलशं शुभं | सुगंधिजल संपूर्णहस्त प्रक्षालनाय च || पश्चात् पात्रं निधायाथ दीपान् प्रज्वालयेच्छुभान् | व्यजनं मुकुलं छत्रं चामरं दिक्षु मंत्रवित् || संस्कुर्यात्तानि सर्वाणि वक्ष्यमाण विधानतः | करशुद्धिं विधायाथ कुर्यात्तालत्रयं ततः || शरमंत्रेण दिग्वंधं कुर्यान्मंत्री समाहितः | महस्तु तत उत्पन्नं रक्षयेत्तं हि सर्वतः || भूतशुद्धिं ततः कृत्वा प्राणस्थापनमाचरेत् | न्यासादिकं ततः कुर्याद्देशिकोयतमानसः || ऋषिं विन्यसेत् ततो मूर्द्ध्नि छंधो वक्त्रगतं न्यसेत् | देवतां हृदयेन्यस्य मूलमंत्रस्य देशिकः || षडंगं विन्यसेन्मंत्री पंचांगं च यथाविधि | अस्य मंत्रस्य पंचांगं नेत्रं तस्य विधीयते || प्. ३९अ) अंगैर्विहीनस्य मनोरंगं ते नैव कल्पयेत् | तत्तत्तंत्रोक्तमार्गेणन्यासानन्यान् समाचरेत् || शरीरेस्वस्यमंत्रज्ञो योगपीठं प्रकल्पयेत् | देहात्मके ततः पीठे ध्यायेन् मंत्रस्य देवताम् || दर्शयित्वा ततो मुद्राः स्थापयेदर्घ्यमुत्तमं | जलेन पूरितां दक्षे प्रोक्षणी स्थापयेत् ततः || तंत्रात्ममल्यं शंखांषु तत उत्तरतो न्यसेत् | पाद्यमाचमनीयं च मधुपर्कं च मंत्रवित् || ततो मूलांवुना मंत्री प्रोक्षण्यद्भिः समाहिता | स्वात्मानं मण्डलं चान्यत् पूजोपकरणादिकं || प्रोक्षयेद् गंधपुष्पाद्यैर्द्देशेस्वेदेशिकोत्तमः | योगपीठं समभ्यर्च्यन्यासमार्गेण मंत्रवित् || पीठांतं च ततस्तत्र पूजयेदिष्टदेवतां | देवतात्माततः पंचकुर्याच्च सुमनोंतलीन् || शीर्ष हृदि तथाधारे वरणे सर्वगात्रके | पूजयेच्च निवेद्येन रहितैश्चंदनादिभिः || सर्वोपचारैस्तंवेस्थं गुर्वादिष्टेन वर्त्मना | समापयेदिदं सर्वं प्रोक्षण्यद्भिः समाचरेत् || पाणीयं प्रोक्षणी संस्थं त्यक्त्वा संपूर्यव्पूर्ववत् | उपचारैश्चंदनाद्यैर्मण्डलं पूजयेद् गुरुः || पूजयेत् कर्णिकां पूर्वं शालिभिस्तंडुलैस्ततः | दर्भान्यसेदुपर्येषां साक्षतं कूर्चकं ततः || छिन्नमूला कुशादीर्घाः सप्तविंशति संख्यकाः | ब्रह्मग्रंथिस्थितास्त्वग्रदेशे कूर्च इहोच्यते || यजेदाधार शक्त्यादीन् पीठमंत्रावसानकं | स्वर्णादि रचितं तत्र कलशं छिद्रवर्जितं || द्वादशांगुल हैमं च रौप्यं षोडशमेव च | मार्तिकं ताम्रकुंभं च षट्त्रिंशदंगुलं स्मृतं || वित्तशाठ्यं न कुर्वीत कृते निःफलमाप्नुयात् | त्रिगुणात्मकसूत्रेण वेष्टितं सर्वतो वहिः || चंदनागुरु कर्पूरैर्मध्ये सम्यक्तधूपितं | ध्रुवं जपन्विधानेन स्थापयेद् देशिकोत्तमः || नवरत्नानि निक्षिप्य कुंभे कूर्चमथोपरि | पूर्वाचंदन संयुक्तं विन्यसेदक्षतान्वितं || पुष्पं नीलं च वैडूर्य विद्रुमं मौक्तिकं तथा | ततो मरकटं वज्रं गोमेधं पद्मरागकं || प्रोक्तानि नवरत्नानि देशिकैः तंत्रविक्रमैः | क्षाद्यंतं क्रमतो मंत्रं मातृका मनसा जपन् || मूलमंत्रं जपेन्नंते चिंतयेन्नैक्यमात्मनः | घटस्य पीठाभेदं च चिंतयेत् साधकोत्तमः || प्. ३९ब्) पंचाशदौषधीक्काथैः पूरयेत् तदनंतरं | एकेन सहितास्ताश्च वर्णौषध्यश्चता इमाः || चंदनं चापि रक्ताख्यं चंदनं चा गुरुस्तथा | कपूरोशीरकुष्टानि वालकं चापि केशरं || कःकोलकंजाति फलं जटामांसीमुरातथा | ग्रंथिकं रोचनाजाती पुत्रं पिप्पल विल्वयोः || पृश्नपर्शी चित्रकं च लवंगकभृशं तथा | कःकोलं चापि गुंजास्यादुदुस्वरककाश्मरी || पद्मकाष्ठं शंखपुष्पी मयूरस्य शिखा तथा | प्लक्षोग्नि मंथश्च तथा मुहुपर्शी कुशाः पुनः || पाषाणभेदकं कृष्णः शंखपुष्पी च रोहिणं | श्योनाको वृहती चैव पाटला मुखकर्णिका || तुलसी शिखरी इंद्रवल्ली भृंगाभिधो नृपः | ततो पराजिता तालमूली चापि कृतांजलि || दूर्वा श्रीदेविकन्याख्याभारथो भद्रमुस्तकं | लवंगरहिताश्चैता पंचाशत् संख्यका इति || दुग्धं वृक्षत्वया क्वाथैर्ब्रह्मभूरुक्वृगुद्भवैः | गंधपंकप्रस्थनादि वा सितैर्वाशुभैर्जलैः || क्वाथादितोयैरापूर्यशंखं तस्मिन्विलोडयेत् | गंधाष्टकं तस्य तस्य देवस्याथ विनिक्षिपेत् || गंधाष्टकस्य संयोगात् सामर्थ्याद्देशिकस्य च | सशक्तिकज्जलं कुंभे भवेदेवं विदुर्बुधाः || आदौ कृशानु संवंधी कलादशकमर्चयेत् | धूमार्चिरुष्माज्वलिनीज्वालिनी विस्फुरंगिणी || सुश्रीः सुरूपा कपिलाहव्यकव्यवहेद्रये | कला षोडशकं सौरं पूजयेत् तदनंतरं || तापिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्णा भोगदा विश्वावोधिनीधारिणीक्षमा || कलाः षोडशकं चांद्रं यजेत् पश्चाद् गुरूत्तमः | अमृतामानदा पूषा पुष्टितुष्टिरतिर्धृतिः || शशिनी चंद्रिका कांतिर्ज्योत्स्नाश्रीप्रीतिरंगदा | पूर्णापूर्णामृताकांतिदायिन्यः स्वस्यजाः कला || भेदाहि भेदसंजाताः कलाः पंचाशदिन्दुयुक् | सन्निधायय प्रतिष्ठाप्याभ्यर्चयेत् क्रमशस्तुताः || निवृत्तिः प्रतिष्ठा विद्याशांतिऋद्धिश्चदीपिकाः | रेचिका मोचिकापारा सूक्ष्मासूक्ष्मामृता तथा || ज्ञानदाप्यायनीचान्यापिनी व्योमरूपका | अनंता सृष्टि ऋद्धीकास्मृतिर्मेधा च कांतिका || लक्ष्मीर्द्युतिः स्थिरास्थितिः सिद्धिर्जरा च पालिनी | क्षांतीश्चर्यौरतिः कामावरदाह्लादिनी तथा || प्. ४०अ) प्रीतिदीर्घी तीक्ष्णरौद्रीभया निद्रावतंद्रिका | क्षुक्रोधिनी क्रियोत्कारी मृत्युः पीताश्वेतारुणा || असिता च तथानंता मध्ये मध्ये प्रपूजयेत् | ह ओं सः शुचि षडिति प्रति विष्णुस्तवेति च || त्रियंवकं च गायत्री विष्णुर्योनिं तथैव च | तारस्य पंचभेदोत्थकलानां पूजने सुधी || कलादशकमावाह्य सृष्ट्याद्यं सन्निधाप्य च | हंसः शुचिषडित्पाद्यां ऋचं संजप्य पूजयेत् || प्राणसंस्थापनं कृत्वा कलानां पूजयेच्चताः | एवं जराद्यास्तीक्ष्णाद्याः पीताद्याश्च विधानवित् || निवृत्त्याद्याश्चापि यजेदुक्त युक्त्या विचक्षणः | अकारोकारकौ प्रोक्तौ मकारो विंदुनामकौ || शक्तिः शांतोह्यमीसप्तध्रुवभेदाः प्रकीर्तिताः | अंतिमौद्वाविमौभेदौपृथगेव समीरितौ || ततः अश्वत्थपनस्थ चूतानां पल्लवामृडं | वधयेदिंद्रवारुण्यालतयास्येद्यनस्य तु || कल्पवृक्षधियातं च भावयेत् कलशोपरि | पात्रं तंडुल संपूर्णं नारिकेल फलान्वितं || कल्पवृक्षफलं ह्येतत्स्थापयेदनयाधिया | पट्टवस्त्रयुगे नापि घटं संवेष्टयेत् ततः || एतत् प्रधानकुंभस्य स्थापनं परिकीर्तितं | अथ पूर्वादिकाष्ठासु तोरणानां समिपतः || यथेच्छया मंडलानि कुर्याद्वाष्टदलानि च | तदूर्द्धंशालिपुंजं तु प्रतिद्वारं समाचरेत् || ददूर्द्ध पूर्णकलशं तत्र चेष्टात् प्रपूजयेत् | प्राग्ध्रुवंधरां दक्षे पश्चाद्वाक्यतिमुत्तरे || विघ्नेशमथ चाग्नेयादिषु कुंभान् सुविन्यसेत् | अमृतं दुर्जयं सिद्धार्थकं मंगलमर्चयेत् || पुनः पूर्वादिकाष्टासु क्रमादिंन्द्रादिकान्यजेत् | लोकपालान्मण्डलेषु कुंभोपरि च तद्वचा || ऐरावतं पुण्डरीकं वामनं कुमुदांजदौ | पुष्पदंतः सार्वभौमः सुप्रतीकं तदग्रतः || ततो गुरुः स्ववेद्यां तु गत्वा स्वस्यासने विशेत् | संचिंत्य मूलमंत्रेण मूर्तिं तस्मिन् गुरुत्तमः || तस्यां मूर्तौ ममावाह्य पूजयेदिष्ट देवतां | स्मृत्वा मूलमनुं मंत्री सम्यङ्नादी यथा ततः || निर्गमयय च चैतन्यं नासिकाग्र विनिर्गतं | अंजलौ मातृका पद्मेमहः पुष्पान्विते गुरुः || प्. ४०ब्) मस्तकांतं समुत्थाप्य तस्यामावाहयेत् ततः | संस्थापनं सन्निधानं सन्निरोधं ततश्चरेत् || संमुखीकरणं चापि सकली करणं ततः | ततो वगुंठनं कार्यममृतीकरणं ततः || परमीकरणं कुर्यात् क्रमतः स्वस्वमुद्रया | क्रमाद्विदध्याच्च तत उपचारात् प्रकल्पयेत् || आसनानि प्रसूनांतानुपचारान् प्रकल्पयेत् | तत्तन्मंत्रविधानेषु प्रोक्तांगावरणान्यपि || सर्वांत लोकपालानां तदस्त्राणां च पूजनं | विधाय पूजामेवं हि धूपदीपनिवेद्यकैः || कृते निवेद्य च ततो मण्डलं परितः क्रमात् | प्रवालांकुर पात्राणि स्थापनीयानि मंत्रणा || वेदिकाया दक्षभागे कृत्वा स्थण्डिलमुत्तमं | संस्थाप्य वह्नि संस्कृत्य वैश्वदेवं समारभेत् || यथाविधि ततस्तत्र गंधाद्यैर्देवतां यजेत् | तत्र प्रणव पूर्वाभिर्हुत्वाव्याहृतिभिः पुरा || जुहुयान् मूलमंत्रेण पायसेन घृतेन च | पंचविंशतिभिः पश्चाद्धृत्वाव्याहृतिभिः पुनः || संपूज्यतां चंदनाद्यैः पीठमूर्तौ नियोजयेत् | अग्निं विसृज्य शिष्ठेन पायसेन वलिं हरेत् || पार्षदेभ्यश्चन्दनादि पुष्पाक्षत समन्वितं | तत उत्थाप्य नैवेद्यं तत्स्थलं शोधयेत् सुधीः || पुनर्यजेच्चोपचारैः पंचभिर्दर्शयेत् ततः | तर्पणं व्यजनं छत्रं चामरंमुखवासकं || सहस्रम् च जपेन्मंत्री मूलमंत्र समाहितः | देवतायै निवेद्याथतंजपं संपदे ततः || ईशानदिशियः पूर्वे इस्थापितो विकिरोत्र च | सुवर्णवस्त्र संयुक्तं करत्यं जलपूरितं || न्यसेदत्र यजेदस्त्र देवतां घोररूपिणीं | पश्चिमास्यां खेट्गखेटधारिणीं सिंहसंस्थितां || तिष्ठन्संपूज्य च ततो गृहीत्वातं प्रदक्षिणं | भ्रमेदं तस्तु दक्षेति लोकेशानामितीरयन् || नालमुक्तैर्नोदकेन देवाज्ञा श्रावर्यस्ततः | स्वस्थानेस्थापयेत्तंतु पुण्यंत्रेण ततोर्चयेत् || उपविश्य तु भूयोस्तु गंधाद्यैर्मंत्रवित्तमः | प्रोक्तकुण्डेषु विधिवद् वह्ने संस्थापनं चरेत् || अथाग्नि संस्कारः | मुनयः उचुः | अग्निः क्व क्व च देवाश्च हूयतेग्नौ सुरान् कथं | तम्प्राप्नुवंतिते देवाभिन्नाकस्माद्वदस्वनः || ईश्वर उवाच | न स्वर्गे न च तीर्थेषु नौषधीषु नभेषु च | ऋषयोर्देवताः संति मंत्रास्रवं हि देवताः || प्. ४१अ) साधकानां फलं दातुं तत्तद्रूपं धृतं सुरैः | मुख्यस्वरूपं तेषां तु मंत्रा एव न चेतरत् || तन्मंत्रैर्यद्रुतं वह्नौ किं तद्दहति पावकः | ग्रहश्चिनोति तच्छ्रेयो यथानाड्योन्नजं रसं || निर्दोषा तु यथा नाडी वहेदन्नरसं लघु | देवयोग्यो ग्रहस्तच्छ्रेद्यांशं वहते सुरे || सूर्यभातिषुभेष्ठर्कनाद्र्याश्रेयोभिवर्द्धते | पोषयेन् वैदिकान्मंत्रा नितरान् हंति चामवत् || ततस्त्रिभेषु सौम्यस्य नाडीबुद्धिविलासकृत् | तस्मात्त्रिषुसितस्यापि वामिनामति पुष्टिदा || ततस्त्रिषुशने सर्वे नाशयेन्मंत्र संचयन् | चंद्रस्य सर्वमंत्राणां पुष्टिकर्तृ ततस्त्रिषु || ततः सत्रिष्वारनाडीपरेन्यत्र विनाशकृत् | तस्मात् त्रिषुर्गुरोर्नाडी सत्वरं मंत्रसिद्धिदा || राहुनाडी त्रिषु ततो न सत्पैशाचकेतरे | त्रिष्ठतः केतुनाडी तु सद्भूते देवमंत्रहृत् || तिथिवासरसंयोगात् कृतशेषाद्षुताशनः | खस्थेकौकुतले नेत्रे प्रत्यक्षेग्नौ स्वरूपके || मारयेत् साधकं खस्थोहरते भूतले धनं | प्रत्यक्षोग्निः फलं दत्ते शुभमेव स्वरूपगः || नित्यनैमित्तिके दुर्गाहोमादौ न विचारयेत् | वह्ने तु स्थापनं कुर्याद्वैदिकः कल्पमार्गतः || तांत्रिकः कुण्डसंस्कारानष्टादश समाचरेत् | मूलमंत्रेण संपश्येत् प्रोक्षयेदस्त्र मंत्रतः || कुशैः संताडयेत् कुण्डं अस्त्रमंत्रं पठन् त्रिधा | ततः कवचमंत्रेण कुण्डस्या भक्षणंमतं || अस्त्रमंत्रेण खननं कुण्डस्यांगुलमानतः | अंगुष्ठानामिकाभ्यां तांमृदं मंत्रेण चोद्धरेत् || पुनः शुद्धमृदातं च पूरयेद्धृदयाणुना | समीकुर्यात् ततोस्त्रेण सेचयेत् कवचेन च || काष्ठादिनाकुट्टयेत्तन्मंत्रेणस्याद् यथादृढं | कुशैः संमार्जयेत् कुण्डं ततश्च कवचाणुना || विलेपनं गोमयाभिः कवचे नैव कारयेत् | कवचेनाग्नि सूर्येन्दु कलाः कुण्डे विचिंतयेत् || त्रिसूत्रीकृत सूत्रेण वेष्टयेत् प्रतिमेखलं | त्रिवारं वर्ममंत्रेण कुण्डपूजां ततश्चरेत् || तारश्चामुककुण्डाय आसनं तेन सो इति | एषोर्घ्य इत्याद्यूहैश्च सकलं पूजनं चरेत् || नाभेश्च मेखलानां च कुर्यादेवं प्रपूजनं | संचिंतयेत् ततोस्त्रेण तत् कुण्डं वज्रवदृटं || प्. ४१ब्) वह्नेर्ज्वालानिलासाय हृन्मंत्रेण कुशैस्ततः | कुण्डस्य तु चतुर्दिक्षु कुर्यान्मार्ग चतुष्टयं || अच्छिन्नागैः कुशैर्वस्त्रमंत्रितैः कुण्डभित्तिषु | भूतप्रेतादिदृष्टीनाम शुचीनां समाचरेत् || उच्चाटनमिमे प्रोक्ताः संस्कारा धृति संमिता | भवेदनेन विधिना कुण्डस्याप्यक्ष चाटवं || वामहोमे तु संस्कारा आद्याश्चत्वार एव हि | त्रिस्रस्तिह्योलिखेद्रेखाः प्राशुदग्राच्छदाधुना || स्मृताश्च प्राङ्मुखाग्राणां देवाविल्लीशं वासवाः | उदङ्मुखाग्ररेखाणां ब्रह्मसूर्यैदवः क्रमात् || विलिखेदर्भकाण्डेन वाममार्गेस्तु मंत्रतः | त्रिकोणो परिषट्कोणं त्रिकोणं चितयस्य तु || विष्ण्वीश वासवादीमांषण्डां तत्र तु पूजनं | वाममार्गेत्विष्ट देवास्त्रिकोणे पूजनं भवेत् || संप्रेक्ष्य प्रणवेना योगपीठं समर्चयेत् | तद्विधिः संप्रवक्ष्यामि मण्डूकं चिंतयेत्तले || कालाग्नि रुद्रं तस्योर्द्धं शक्तियुक्तं विचिंतयेत् | तदूर्द्धं चिंतयेत् कूर्म तस्य पृष्ठे वसुंधरां || श्वेतदीपं तत्र चिंत्यं सुधासिंधु सुवेष्टितं | मंदारान् पारिजातांश्च संतानान् हरिचंदनान् || कल्पवृक्षांश्च तत्रैव चिंतयेत् पूजयेदपि | एतादृश गृहे चिंत्यं रस्य मणिमयं गृहं || स्वर्णपीठं तु तन्मध्ये तस्य पादान्विचिंतयेत् | पुरुषार्थांस्तु धर्मादीन् धर्मज्ञानं विरागतां || ऐश्वर्यमिति चांगानि पीठस्योक्तानि तत्र तु | मध्येनंतं तत्र पद्ममानंदमयकंदकं || संछिन्नालं तस्य चोक्ता विकारमयकेशराः | प्रकृत्यात्मक पात्राणि पंचाशद्वर्णकर्णिका || सूर्यस्येंदोः पावकस्य मण्डल त्रितयं ततः | ततः पूर्वादिकाष्ठासु सत्वं रजस्तमस्ततः || अंतरात्मा पुनश्चात्मा परमात्मा ततः परं | मायातत्वं च ज्ञानात्माकत्वातत्वं प्रतिष्ठितं || विद्यातत्वं परं तत्वं योगपीठमितीरितं | स्वाग्रादि प्राग्दक्षिणेन तत्पद्मकेशरे प्रभुः || मध्यांतं पूजयेदेताजयां च विजयां तथा | अजिताख्यां चापराजितां नित्यां च विलासिनीं || दोग्धीमद्योरां च तथा मंगलामथ तत्र तु | ह्रीं सर्वशक्ति कमलासनाय नम उच्चरत् || दत्वा पुष्पांजलिं कुण्डे पूजयेद् भुवनेश्वरीं | आवाहनादि परमीकरणांतं च पूजयेत् || प्. ४२अ) कामोन्मत्तं शिवं तत्र देवीमृतुमंती तथा | गाणेश शैवशाकेतेषु ध्यायेत् संपूजयेदिति || वैष्णे च तथा शौरे लक्ष्मीमृतुमतीं स्मरेत् | नारायणस्य संयोगाज्जातमग्निं विचिंतयेत् || अरण्यात्मणितो विप्रगेहा वह्निं कुमारिकां | सुवासिनासद्वस्त्राकृतशौचा समाहरेत् || पात्रांतरेण पिहिते ताम्रपात्रादिके शुभे | अग्निप्रणयनं कुर्याच्छरावे वाथ नूतने || दद्यादंत्रेण पात्रेग्निं कवचेन पिधाय च | जीर्णेशरावे कापाले भिन्नपात्रे तथोल्मुके || नाग्नि प्रणयनं कुर्याद् व्याधि हानिभयापहं | क्रव्यादांशं च नैरृत्ये त्यजेदस्त्रेण वह्नितः || देवांशं मूलमंत्रेण स्थापयेदग्रतः सुधीः | पश्चात्तमग्निं संस्कारैः संकुर्याद्वीक्षणादिभिः || प्रदीपकलिकाकारं तेज आवाहयेत्ततः | ऐक्यं जाठरवैंदव्यं वह्निभ्यां पार्थिवस्य च || स्मृत्वाग्नि बीजकेनाथ चैतन्यं योजयेद्रथ | ओंकारेणाभिमंत्र्याथ धेनुमुद्रा मृतीकृतं || संरक्ष च शरेणाथ क्वचेनावगुण्ठयेत् | ततः संपूज्य कुण्डस्यद्रामपतिः प्रदक्षिणं || प्रशवेन ततः स्वस्य संमुखं स्विषकुंडके | देव्यायोनौ तत्र जानुस्पृष्ट भूमौ च देशिकः || शिववीजमिति ध्यात्वा निःक्षिपेदाशुशुक्षणिं | देवदेव्योराचमनं मैथुनीतधियाचरेत् || चित्पिंगल हनहन पचपच दहदह | सर्वज्ञा ज्ञापयस्वा हातारादि जिनवर्णकः || अमुं मनुं प्रभाष्यैव कृशानुं ज्वालयेत् ततः | मणिवंधौ समौ कृत्वा करौ तु प्रसृतांगुली || मध्यमे तिलिते कृत्वा तन्मध्यांगुष्टकौ क्षिपेत् | इयं सा परमामुद्रा ज्वालनी होमकर्मणि || अग्निं प्रज्वलिते वंदे जातवेदं हुताशनं | सुवर्णवर्णमनलं समिद्धं सर्वतोमुखं || अनेन ज्वलिते मंत्रेणोपतिष्ठेद्धुतांशनं | मुख नैव धमेदग्निं मुखा देवोह्यजायत || प्रादेशमात्रां समिधं मुलाग्रद्युतसंप्लुतां | तूष्णीं वह्नौ समुत्क्षिप्यजिकाया देवता न्यसेत् || विन्यसेदात्मनो देहे मंत्री जिह्वादविर्भुजः | लिंगपायु शिरोवक्त्रघ्राण नेत्रेषु सर्वतः || वह्निराघ्रीश संयुक्ताः सादियांताः सविंदवः | वर्णामंत्राः समुद्दिष्टा जिह्वानां सप्तदेशिकः || प्. ४२ब्) कुशैः पलाशादिपर्णै वा स पवित्रेण केनचित् | ततः प्रविन्यसेज्जिह्वादेहे मंत्री विभावसोः || सलिंगगुदमुर्द्धास्य नासा नेत्रेषु चक्रमात् | स सर्वांगेषु जिह्वास्ता वक्ष्यंते त्रिविधात्मिका || हिरण्यागगणारक्ता कृष्णा चैव तु सुप्रभा | वहु ऊपा चातिरक्ता जिह्वाः सप्तेतिस्यत्विकाः || पद्मरागा सुवर्णान्या तृतीया भद्रलोहिता | लोहितानंतरं श्वेताधूमिनी च करालिका || रजस्यो रस वा वह्नेर्विहिता काम्यकर्मसु | विश्वमूर्तिस्फुलिंगिन्यौ धूम्रवर्ण मनोजवा || लोहितान्या करालाख्या कालीतामस्य ईरिता | एताः सप्तनियुक्तंते क्रूरकर्म सुमंत्रिभिः || स्वस्वनाम समाभाः स्युर्जिह्वाकल्याणरेतसः | अमर्त्यपितृगंधर्वयक्षनागपिशाचकाः || राक्षसाः सप्तजिह्वानामीरिता अधिदेवता | जिह्वासु त्रिदशादीनांतत्तत्कार्य समाप्तये || जुहुयाद्वांछितां सिद्धिं दद्युस्ता देवतामता | अनलेराघिंवंद्वंताः सा दियां ताक्षरान्विताः || मंत्री प्रविन्यसेद् भूया वह्नेरंगानि वै क्रमात् | सहस्रार्चिः स्वस्ति पूर्ण उत्तिष्ठ पुरुषस्तथा || धूमव्यापी सप्तजिह्वो हव्यवाहा तृतीयकः | अश्वोदरजवैश्वानराख्यकौमार तेजसः || विश्वमुखो देवमुखो मूर्तयोष्टौ प्रकीर्तिताः | प्रदक्षिण क्रमेणैव संसिंच्य च ततो जलैः || मेखलो परिसंशुद्धैः पुनर्दर्भ चतुष्टयैः | प्रागग्रैरुदग्रैश्च हित्वा पूर्वां परिस्तरेत् || एकुमेखलके कुण्डे मेखलाधः परिस्तरेत् | द्विमेखले द्वितीयायां मध्यमायां त्रिमेखले || स्थण्डिले सिकतानां तु वास्तुभूमौ परिस्तरेत् | नालमेखलयोर्मध्ये परिधि स्थापनाय च || रंध्रं कुर्यात्तथा विद्वान्मध्यमामेखलोपरि | पलाशकाश्मरी विल्वविकंकट समुद्भवान् || एकवृक्षोद्भवानार्द्रान् परिधीत्वाहु मात्रकान् | प्राणानायम्य विधिवत् परिस्तीर्थकुशांतरैः || स्वगृहोक्त विधानेन वायुदेशाच्च पूर्वतः | स्रुक्स्रुवौ च प्रणीतां च प्रोक्षणीपात्र युग्मकम् || आद्यस्थालीं च परिधीनिध्या च कुशमुष्टयः | अधोमुखानि पात्राणि होमद्रव्यं वलिं तथा || प्. ४३अ) गंधपुष्पाक्षतादीनि सर्वान्यासादयेदथ | तान्यभ्युक्ष्य पवित्रेण चोत्तानानि विधाय च || प्रोक्षणी पात्रयुगलं परिपूर्य शुभांवुना | दत्वा क्षतान्पवित्रं च तदूत्यूयनिधाययेत् || दिश्युत्तरस्यां तत्पात्रं प्रणीतां पूर्यते बुधैः | ततः किंचित् प्रणीतांवु प्रोक्षण्याधाय तज्जलैः || यज्ञसाधनसंभारं प्रोक्षयेन् मूलमंत्रतः | वृणुयाद् ब्राह्मणं शांतं देवतां मंत्रदीक्षितं || कुण्डस्य दक्षिणेभागे वेशयेत्तं कुशासने | अमुकामुकगोत्रोहममुकामुकगोत्रिणं || दीक्षांग भूतहोमेस्मिन् ब्रह्माणं त्वां वृणो इति | वस्त्रालंकारादिकेन कृत्वातं परिपूरयेत् || कुर्यात् कुशवद्धुं चापि लभ्यते ब्राह्मणो न चेत् | कुण्डमध्ये तु षट्कोणगर्भितं स्वर्णकर्णितं || नानाकेशर संयुक्तं चतुर्द्वार समावृतं | चिंतयेदष्टदलकं चतुरस्र त्रयावृतं || पूजापीठं तु तद्वह्नेस्तत्र मण्डूक कादिकान् | ज्ञानात्मांतं योगपीठं संपूज्याष्ट दलेषु तु || प्राग्दक्षिणेन मध्यांतं पीतां श्वेतां तथारुणां | कृष्णां धूम्रां च पूजयेद्विस्फुलिंगिनीं || रुचिरां ज्वालिनीं चेति सर्वं पीठं प्रपूजयेत् | सर्वशक्तिः कोमलासनाय दृद्वादशाक्षरः || समस्तपीठपूजायां वह्नेर्मंत्र उदाहृता | ततो हुताशनं ध्यायेद्वरस्वस्तिक शक्तिभिः || अभयेन च संयुक्तैर्भुजैः सम्यग्विराजितं | सिंदूरवर्णं पद्मस्थं स्वर्णालंकारभूषितं || त्रिनेत्रं च जटामौलिमरुणास्रगितांवरं | ध्यात्वैवं मनुनानेन पूजयेदुपचारकैः || वैश्वानरो जातवेदो इहावह लोहिताक्ष | सर्वकर्माणि साधये स्वाहांतः प्रणवादिकः || सप्तविंशत्यक्षरोयं मंत्रः स्याद्वह्नि पूजनं | ततः षट्कोण मध्ये च जिह्वा ध्यानं च पूजनं || जिह्वा ज्वालारुचः सर्वावराभयकरोस्तथा | ऐश्यां हिरण्या स्वर्णाभां शांतिपौष्टिक सिद्धिदा || वैडूर्य वर्णा कनका प्राच्यां स्तंभन कार्यकृत् | विद्वेषे तद्वणादित्यनिभारक्ताग्नि कोणगा || प्. ४३ब्) कृष्णांजन च पप्रख्या नैऋत्यांमारणक्षमाः | सुप्रभा पद्मरागा भावारुण्यां धनदायका || अतिरक्ता जयाभासोच्चाटे वायुर्दिशागता | वहुरूपा तु षट्कोण मध्ये षड्वर्ण संयुता || अनेककार्य संसिद्धि नाशकर्त्री च सामता | यथा कार्यं तथा जिह्वा दृश्यते चेत् स्वदिग्गता || ज्वाला रूपा तदा सिद्धिविपर्ये तु विपर्ययः | अग्नीशासुर वायव्या देवाग्रे चापि दिक्षु च || पूजयेच्च षडंगानि पत्रे व्यावृत्ति देवताः | इंद्रादीन्सायुधान्यश्चात् संपूज्याग्निं पुनर्यजेत् || ततश्चाधोमुखौ कृत्वा स्रुक्स्रुवौ तु प्रतापयेत् | कुशाग्रैस्तु तयोरग्रं मध्यं मध्यैश्च मार्जयेत् || मूलं मूलैस्त्रिधा चैव मार्जयित्वा प्रतापयेत् | धृत्वातौ वामहस्तेन प्रोक्षयेत् प्रोक्षणी जलैः || दक्षिणेण कराग्रेण पुनः संतापयेच्चतौ | कुशान्क्षिप्ता ततो वह्नौ स्वदक्षतौ कुशास्तरे || संस्थाप्य स्रुक्स्रुवौ पश्चाद्घृत संस्कारमाचरेत् | समादाय घृतस्थाली मंत्रमंत्रेण सेचयेत् || घृतं तत्र समापूर्य वीक्षणादि सुसंस्कृतं | वायव्ये वाह्यतांगावोत् कृत्वा तेषु हृदान्यसेत् || तापनं तु समुद्दिष्टं कुशद्वयमतः क्षिपेत् | आज्ये प्रज्वलितं वह्नौ विन्यसेतद्घृतान्वितं || पवित्रीकरणं दर्भद्वयेन ज्वलितो हृदा | वर्मणाज्यं च नीराज्य वह्नौ दर्भद्वयं क्षिपेत् || अभिद्योतनमेतत्स्यादुद्योतनमथोच्यते | कुशं प्रज्वलितं चाक्ष्ये दर्शयत्तद्धृदा क्षिपेत् || वह्नाबुद्धास्य च घृतमंगारानग्निषु क्षिपेत् | अयः संस्पृश्य मंत्रज्ञः कुर्यादुत्प्लवनं ततः || अस्त्रे मंत्रं जपं मंत्रांकुशौ प्रादेशमात्रकौ | अंगुष्ठानामिकाभ्यां च गृहीत्वा घृतमुत्प्लवेत् || ततो दृढं कुशाभ्यां तु स्वाभिमुख्येन संप्लवेत् | घृतं तत्स्यात् संप्लवनं षट्संस्कारा इतीरिताः || उत्तमं गोघृतं प्रोक्तं मध्यमं महिषी भवं | अधमं छागली जातं निषिद्धं त्वेडकादिजं || क्रीतं यदापणे चाज्यं स्वादुचेद्गव्यवत्तु तत् | कुशद्वयं घृतेन्यस्य ततः प्रादेश संमितं || स ग्रंथिकत्वाह्वाग्नौद्वौ शुक्लकृष्णौ विचिंतयेत् | पक्षौ वाम इडां दक्षे पिंगलां मध्यतस्ततः || प्. ४४अ) सुषुम्णां संस्मरेन्मंत्री ततो होमं समाचरेत् | दक्षभागात्स्रुवेणाक्ष्यं प्रगृह्नींया हृदाधुना || दक्षेनेत्रे हुताशस्याग्नेये स्वाहेति होमयेत् | गृहीत्वाज्यं वामभागा हृदा वामेग्नि लोचने || हुनेत् सोमाय स्वाहेति त्यागः सर्वत्र संमतः | हृन्मंत्रेण गृहीत्वाज्यं मध्यतो मध्यलोचने || हुनेत्तस्याग्नि सोमाभ्यां स्वाहेति च तृतीयकां | दक्षभागात् पुनस्त्याज्यं हृन्मंत्रेण समाहरेत् || अग्निवक्त्रेऽग्नयेस्विष्टे कृते स्वाहेति होमयेत् | सताराभिर्व्याहृतिभिराज्येन जुहुयात् पुनः || जुहुयादग्निमंत्रेण त्रिवारं देशिकोत्तमः | गर्भाधानादिका वह्नेः समुद्वाहावसानिकाः || शुभे कर्मणि कर्तव्या आज्याहुत्यष्टकैः क्रिया | प्रणवं पूर्वमुच्चार्य कर्मनाम समुच्चरेत् || संपादयामि स्वाहेति सर्वकर्म स्वयंविधिः | गर्भाधानः पुंसवनं सीमंतोन्नयनं चरेत् || जातं वागीश्वरी गर्भात् प्राग्वयेद्ध्यो हुताशनं | जातकर्मं ततः कृत्वा नालछेदं समाचरेत् || सूतकं साधयित्वाथ कुर्यान्नाम यथाविधिः | तृप्तये यस्य पदे तत्स्याग्निस्तन्नामपूर्वकः || चौरोपनयनं वह्नेर्महानाम्नी व्रतं तथा | महाव्रतं चोपनिषद्धतं गोदानमेव च || समावर्तनमुद्वाहः शाक्ते वाग्भव पूर्वकाः | ततश्च वह्नेः पितरौ देवदेव्यादिकौ तथा || पूजयित्वा विसृज्याथ मूलाग्रेषु घृतप्लुताः | समिधो निःक्षिपेत्यं च वह्नावथ च पूर्ववत् || स बीजरस नानाम्नाचैके कामाहुतिं हुनेत् | ततश्चांगानि जुहुयाद् वह्नेर्मूर्त्यष्टकं तथा || इन्द्राग्नि लोकपालांश्च आयुधानि ततः परं | मंत्रेणाकार पूर्वेण स्वाहांतेन विचक्षणः || स्वाहा वसाने जुहुयाद्ध्यायन् मंत्रदेवतां | चतुर्वारं स्रुवेणाज्यं गृहीत्वासुचि निःक्षिपेत् || तेनैव तां विधायाग्नौ हुनेत्तिष्टन् गुरुः स्वयं | वौषडंते वह्नेस्तु मनुनासं यदे तत् || जिह्वायां मध्यसंस्थायां मंत्री ज्वालावलीतरोः | ताराद्यैर्दशभिर्भेदैः पूर्वपूर्व समन्वितैः || प्. ४४ब्) मनुना गाणपत्येन हुनेत्पूर्वं दशाहुती | जुहुयाच्च चतुर्वारं समस्ते नैव तेन सु || संपूज्य देवतापीठं वह्नौ सम्यक्ततो गुरुः | अग्निरूपधरां तत्र पूजयेदिष्ट देवताम् || आज्येन सध्यमनुना पंचविंशति संख्यकं | हुनेन्मंत्री चाग्निमुखेवक्त्रैकीकरणं त्विदं || आत्माग्नि देवतानां चिंतयेन्नैक्यमात्मवित् | एकादशाथ मूलेन हुनेदाज्येन वा हुतिः || रात्रीसंध्या नमे तद्दि प्रोक्तं देशिकमुत्तमैः | अंगप्रभृत्यामृत्तीमामेकै कामाहुतिं हुनेत् || पूर्वादि दिक्षु कुंडेषु सर्वेष्वपि यथाविधिः | एवं वह्निं सुसंस्कृत्य चरुं गोपयसा पचेत् || न चैताम्रादिके पात्रे क्षारितेव शराधुना | मूलाधुनाभिमंत्र्याथ तण्डुलान्शालिसंभवान् || तिथि प्रसृतिमानेन शराणुं प्रजपन् क्षिपेत् | प्रक्षालितेन पात्रेण यावद्वक्त्रं पिधाय च || ह्रं मंत्रेण ततो मूल मनुना देशिकोत्तमः | पचेद्गुरुः प्राङ्मुखस्तस्विन्नेतमभिधारयेत् || मूलेन श्रुवसंस्थेन घृतेनाथावतारयेत् | हं मंत्रेणास्त्र संजप्ते कुशस्तीर्णे विभज्यतां || त्रिधास्वेकं देवतायै परं वह्नौ निवेदयेत् | शिष्टं शिष्येणसहितो गुरुर्भुंजीत मंत्रवित् || प्रादेशमात्रं द्विर्जप्तं यथोक्तं दंतधावनं | शिष्याय दद्यात् सरदात्विशोध्यक्षालितं त्यजेत् || आचांत मंत्रं च यथा विधितं शिखायां वंधैः मुरक्षितममुं प्रविधाय मंत्री | वेद्यांशयीतकुशसंस्तरणेरणन्यां शिष्येण सार्द्धं ममुना गदितो धिवासः || अथ दीक्षादिनकृत्यं | समुत्थायोषसि पुनः स्नानसंध्यादिकं चरेत् | गुरुःशिष्यो ऋत्विजश्च गच्छेद्याग गृहं प्रति || सर्वे ते स्वस्व कुण्डेषु जुहुयुः सघृतैस्तिलैः | पुनः साध्येन मनुना ज्येष्ठोत्तर सहस्रकं || अप्रदीप्तेन होतव्यं मध्यमेनाप्यनिंधिते | प्रदीप्ते लेलिहानेग्नौ होतव्यं कर्मसिद्धये || अंधो बुधः सधूमे तु जुहुयाद्यो हुताशने | यजमानो भवेदंधः सपुत्र इति च श्रुतिः || योनर्विषिजुहोत्यग्नौव्यंगारिणि च मानवः | मंदाग्निरामयावी च दरिद्रश्चोप जायते || अग्नेः कर्णे होमतोव्याधि वाधानेत्रेंधत्वं नासिकायामथाविधिः | द्रव्यछेदोमस्तकेस्यान्मुखांतर्होमं कुर्यात् तेन नित्यं विपश्चित् || प्. ४५अ) यत्र काष्ठं तत्र श्रोत्रे यत्र धूमस्तु नासिके | यत्राल्यज्वलनं नेत्रे यत्र भस्म तु तच्छिरः || यत्रैव ज्वलितो वह्निस्तत्र जिह्वा प्रकीर्तिताः | वैश्वानरं स्थितं ध्यायेत् सिद्धोमेषु देशिकः || शयानमाज्य होमेषु निवर्णशेष वस्तुषु | स्वर्णसिंदूरवालार्क कुंकुमक्षौद्रसन्निभं || सवर्णरेव सौवर्णः शोभनः परिकीर्तितः | भेरीवारिदहस्तींद्रध्वनिर्वह्नेः शुभावहः || नागः चंपकपुन्नागपाटला यूथिकानिभः | पद्मेंदीवरकल्हारः सर्पिर्गुग्गुलुसन्निभः || पावकस्य शुभोगंधो इत्युक्तस्तव वेदिभिः | प्रदक्षिणास्त्यक्तकंपाश्छत्राभाः शिखिनः शिखाः || शुभदा यजमानस्य राज्यस्यापि विशेषतः | कुंदेन्दुधवलोधूमो वह्नेः प्रोक्तः शुभावहः || कृष्णः कृष्णगते वर्णो यजमानं विनाशयेत् | श्वेतोराज्यं निहंत्याभुवाय सः स्वरसन्निभः || स्वरः स्वर समोवह्ने ध्वनिः सर्वविनाशकृत् | पूतिगंधो हुतभुजोर्ह्येतु दुःखप्रदो भवेत् || छिन्नवृत्ताशिखा कुर्यान् मृत्युं धनपरिक्षयं | शुकपक्षनिभो धूमः पारावत समप्रभः || हानिं तु रगजातीनां गवां च कुरुतेऽचिरात् | एवंविधेषु दोषेषु प्रायश्चित्ताय देशिकः || मूलेनाज्येन जुहुयान् पंचविंशतिमाहुतिः | शिष्यं स्नातं पंचगव्यं पाययेन् मंत्रवित्तमः || कुण्डस्याभ्या समानीय दिव्यदृष्ट्याव्यलोकयेत् | हृत्पुण्डरीका चैतन्यं तस्यात्मनि नियोजयेत् || आचार्यस्तत्र चाध्वानं षड्विधं शोधयेत् क्रमात् | शोधनं नामतत्वानां कारणैकत्व चिंतनं || वर्णादीनां कलानां च तासां चिदैक्य चिंतनं | गुरुर्वहिः प्रविहरेत् संस्कृतेषूक्त वर्त्मना || सर्वर्त्विजश्चंदनाद्यैः संपूज्या प्रोक्त देवतां | सर्वावरण संयुक्तौ मूलेन जुहुयुस्ततः || पंचविंशतिधा सर्पिः संयुतेन पयोंधसा | स्रुवेणाक्षं समित्याण्यास्रुवा शेषं करेण तु || तत्रा दिव्येन होतव्यं तीर्थे वाह्येन वा तथा | दद्याद्वलिंगंधपुष्पधूपपूर्वकमादरात् || नक्षत्राणां सवाराणां राशीनां च पृथक् पृथक् | देवताभ्यः पदं प्रोक्ता दिवानक्तं वदेत् तथा || प्. ४५ब्) चारिभ्यश्चाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् | हुनेन्महाव्याहृतिभिस्वतो देशिकसत्तमः || अंगप्रभृत्या वृत्तीनां हुनेद्भूयो घृतेन वै | ब्रह्मार्पणाख्य मंत्रेण सर्वकर्मछिदेसुधीः || जुहुयादाहुतीरष्टौ केवलाज्येन मंत्रवित् | हुत्वा पूर्णाहुती मंत्री स्रुत्वा मूलाणुन्मततः || अग्निसंप्रार्थ्याग्नि सांगमंत्रेणैकाहुतिंहुनेत् | सर्पिषास्रु च मापूर्य पुष्पं चोपर्यधोमुखं || स्रुगुपरिस्रुवं दत्वा पुष्पं तत्र प्रपातयेत् | सव्योत्तर कराभ्यां च संपुटाभ्यां च शेषवत् || संगृह्योत्थाय संलग्नौ नाभौतिर्यङ्निधाय च | पूर्णादर्वीतिमंत्रेण मूलेन वसु संयुतः || दद्यात् पूर्णाहुतीस्तिस्रः सर्वकाम प्रपूरणीः | श्रोत्रियस्ये तद्दुद्दिष्टमन्यः पूर्णाहुतिं चरेत् || मूलेन वौषडंतेन स्वाहांतेन तु वामगः | होमं तु मांसमद्याभ्यां तीर्थाज्याभ्यां च पूर्णतां || कुर्यात् स्वाहांत मूलेन फलाज्येन तु वैदिकः | दक्षपादं पुरस्कृत्य दक्षः पूर्णाहुतिं चरेत् || शक्तिहोमे वामपादं वाममार्गी च सर्वतः | पुनः संत्यज्य गंधाद्यैर्मूलमंत्रेण मंत्रवित् || कुण्डादुद्वास्य वाचार्यो देवतां कलशे न्यसेत् | सांगां शावरणं तत्र पूजयेच्च यथाविधिः || सप्तव्याहत्यग्नि जिह्वांगमूर्तीनामथैकिकां | दुग्धेन परिषिंच्याग्निं प्रार्थयीत ततो गुरुः || भोभो वह्ने महाशक्ते सर्वकामप्रदायक | कर्मांतरेपि संप्राप्ते सान्निध्यं कुरुसादरं || इति मंत्रेण संप्रार्थ्य वह्निमुद्वासयेदपि | ततो ब्रह्माणमुद्वास्य ब्राह्मणाय प्रदापयेत् || द्वाविंशत्यलमात्रेयं निर्मितं ताम्रपात्रकं | तण्डुलैस्तत् समापूर्य सहिरण्यं सदक्षिणं || दद्याद् विप्रायतत्तुष्ट्यै पूर्णपात्रमितीरितं | ततः परिसरानग्नौ परिधीन् प्रक्षिपेन्नतु || नित्यनैमित्तिकेनास्तु क्षिपेद्देशिक सत्तमः | वस्त्रेण नेत्रमंत्रेण शिष्यनेत्रे निवध्यते || कुण्डाहस्ते समादाय नयन्मण्डलसन्निधौ | सुमनोभिः प्रपूर्यास्य अंजली क्षेपयेर्द्यदे || मूलमंत्रोच्चारपूर्वं देवताप्रीतयेगुरुः | नेत्रवंधमयास्योपवेशयेत् कुशसंस्तरे || प्. ४६अ) ततश्च पाठयन् शिष्यं मंत्रमेनं गुरूत्तमः | अज्ञानतिमिरांधस्य ज्ञानांजन शलाकया || चक्षुरुन्मीलितं येन तस्मै श्रीगुरवेनमः | अंतः पूजाविधानेन संहरेज्जनषेच्चतं || शिष्योथ तस्य मंत्रस्य न्यासां देहो परिन्यसेत् | पंचोपचारैरभ्यर्च्यकलस्थेष्टदेवतां || यथोक्त वर्त्मना तत्र सकलीकृत्यमाचरेत् | अथोपवेशयेच्छिष्यं भूषितं मण्डलांतरे || कुंभास्यस्थ सुरद्रुंश्चमूर्द्धन्यस्य शिशोर्गुरुः | अथ पंचनिनादैश्च विप्राणां च वनैः सह || सुस्थितं नियतात्मानं सिंचेत् कलशपुष्पकैः | येन प्रकारेण पुरायोजितश्च सुधामयैः || तोयैरक्षरसंयुक्तैर्घटस्थेनैवर्त्मना | अथ शिष्यं चाभिषिंचेदाशुसंपदवाप्तये || गृहीत्वाभ्यर्चितं पूर्वं करकं ह्यस्त्ररूपिणं | तत्तोयैरभिषिंचेत्तं रक्षायै देशिकोत्तमः || जनेन शिष्टेन शिशुं गुरुरा वामयेत्ततः | तद्देवस्वरूपेण विदध्यात् सकलीकृतिं || वाससी विमले रम्ये परिधायाज्ञया गुरोः | आचम्य निकटे तस्य सम्यक्तस्य मनुं त्रिशः || दक्षकर्णेवदेद्विद्वान्विप्रायोदकपूर्वकं | अन्येभ्यस्तु वदे देवमेव मंत्रं विचक्षणः || दक्षकर्णे त्रिशोविद्यामेकोच्चारेणचोच्चरेत् | एषुविधिर्द्विजातीनां स्त्रीशूद्राणां च वामतः || स्वयं ज्योतिर्मयीं विद्यां गच्छंतीं भावयेद्गुरुः | अगतां भावयेच्छिष्यो न सोस्मीति विशेषतः || अष्टोत्तरशतं शिष्यः प्रजपेद्गुरुणोदितं | अष्टाविंशतिवारं वाह्यष्ट कृत्वोथवा जपेत् || गुरुदेवात्म मंत्राणामैक्यं शिष्यो विभावयन् | प्रणामं गुरवे कुर्यात् साधको भक्तिमान्मुहुः || साष्टांगश्चाथ पंचांगं पूजाकर्मसुसंयतः | हस्ताभ्यां चरणाभ्यां च जानुभ्यां वक्षसा तथा || मूर्द्ध्या दृष्ट्या तथा वाचा चित्तेनाष्ठांग ईरितः | हस्तजानु शिरोवाक्य * * * * * (?) ईरितं || * * * * (?) ततः कुर्यात् सद्यः शिष्योविचार्यते | अलंकारांश्च वासांसिदद्यादृत्विग्म्य आदरात् || ईश्वरावर्ण वुध्यानु द्विजासींभिश्च नंदनः | प्रदद्याद्गुरवे शिष्यः स्वधनार्थं तदर्द्धकं || दशांशं वा प्रदद्याच्च वित्तशाथ्य विवर्जितः | गोभूहिरण्य विपिनगृहक्षेत्रादिकं तथा || प्. ४६ब्) अक्लेशादन्न वस्त्रादि दद्याद्वित्तानुसारतः | प्राकारांतरमालंव्य गुरुं यत्नेने तोषयेत् || तदधीनमनानित्यं तच्चिंतन परायणः | तस्यादाब्ज रजोभूषो भवेत् साधकसत्तमः || ततो नानाविधैर्भक्ष्यैर्लेह्यचोष्यैस्तथा परे | ब्राह्मणान् भोजयेत् सम्यक् प्रदद्याद्भूरि दक्षिणां || एवं क्रियामयी दीक्षा संपदात्री निरूपिता | राज्ञां धनाह्य वैश्यानां विप्राणां व्यवसायिनां || अथ वीराणां विशेषः || कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः | शिष्याय दर्शयेत् सम्यग्दीक्षेर्य कौलिकीमता || ऋष्यादि * ? सत्तामेनां लिखित्वा भूमिमध्यगां | पुष्पादिना समभ्यर्च्य शिष्यायाथ प्रदर्शयेत् || यदि शिष्ये महाप्रीतिस्तदाकर्णे वदेद्गुरुः | ततोप्यतितरां शिष्यो गुरुश्चेद्भक्तिभाजनं || तदागंडूष पूर्वाहि दद्यादेनां गुरूत्तमः | निर्विकल्पोपि शिष्यस्तद्गृह्नीयाद्धृष्ठमानसः || तदभावेन सिद्धिः स्याद्देवताशापमाप्नुया | सिद्धिद्रव्यं मुखेपूर्य पंचव्योमामृतान्वितं || अभिषिंचेत् प्रियं शिष्यं गंडूषाख्योयमीरितः | अयं दीक्षाक्रमः प्रोक्तो भोगयुक्सिद्धिमिच्छतां || अथ कुलस्त्रीणां विशेषः | वीरकांतां समानीय सुशीलां सुयशस्विनी | कुलभक्तगुरुं प्राप्य दीक्षयेत् कुलदीक्षया || पारानंदरसाघूर्णलोचनां कुलजां सतीं | तांबूल पूगपूर्णास्यां गुरुवाक्यरतः मुखी || निजपुत्रीवदाचार्यस्तद्भालपट्टके लिखेत् | शक्तिचक्रं त्रिधावृत्य लिखेत् कामकलां ततः || तन्मध्ये देयमंत्रेण दर्भितं मामलांछनं | तत्र देवीं समावाह्य धृत्वा तत्र प्रपूज्य च || ततस्तत्पुत्रिकाकर्णे ऋषिश्छंदः समन्वितं | मूलमंत्रं त्रिधावृत्य कथयेद् वामकर्णकः || अद्यः प्रभृति पुत्रीत्वं कुलदीक्षार्चनेरता | यथोपदिश्यविधिना सामरस्यं समानयेत् || इत्यनुज्ञां गुरोर्लज्जादण्डवत् प्रणमेद्भुविं | त्राहिनाथ कुलाचार पद्मिनी पद्मनायकः || त्वत्पादांभोरुहच्छायां मूर्द्ध्नि देहि यशोधन | गुरवे दक्षिणां दद्यात्तांबूलारुणलोचनः || स्वकुलं परमीकृत्य यथोद्दिष्टं समर्चयेत् | अंगावरण पूजादौयदिन क्रमते कुलं || प्. ४७अ) तदा मूर्द्ध्नि गुरुं ध्यात्वा कुलामृतरसेन तु | तर्पयित्वा कुलं ध्यात्वा जपेन्मंत्रं निराकुलं || अथ वर्णमयीदीक्षा | अथ वर्णमयीं दीक्षां शृण्वं तु ज्ञानदायिनीं | पुंप्रकृत्वात्मकत्वं च वर्णानां समुदीरितं || तादृस्कं च शरीरस्य प्रोक्तमेवास्तिदेशिकैः | ततस्तनौ शिशोर्न्यस्ये दर्शान्देशिकसत्तमः || संहरेद्वैपरीत्येन वर्णान् तत्स्थान संस्थितान् | देशिकेंद्रः स्वसामर्थ्यादाज्ञया देवतात्मनः || देवतात्मा भवेच्छिष्यस्तदा संलीन तत्वकः | ततस्तु शिष्य चैतन्यं परमात्म नियोजयेत् || तानर्णांस्तत उत्पाद्य न्यसेच्छिष्य शरीरके | तस्मिंश्च सृष्टि क्रमतस्तच्चैतन्यं पुनर्न्यसेत् || भवेच्छिष्.यो देवतात्मा नित्यानंदात्मकः शिवः | ज्ञानदार्णमयीदीक्षा कथिताः सर्वसिद्धिदा || अथ वक्ष्ये कलां दीक्षां मणिमाद्यष्टसिद्धिदां | वेद पंचकलां दीक्षादक्षेष्ट त्रिकलामता || कुपंचाशत् कला वामे सिद्धमंत्र गुरोस्तु सा | ग्राह्याद्रुतं सिद्धकर्त्री विपरीते विपर्ययः || कला निवृत्ति प्रमुखा भूतानां पंचचेरिताः | शिष्यकाये भूतमये वेधयेत्ता क्रमात्सुधीः || पादादि जानुपर्यंतं निवृत्तिः संस्थिताः कलाः | जान्वोः सकाशादानाभिः प्रतिष्ठाख्याः कलास्थिताः || नाभितः कण्ठपर्यंतं विद्याख्या संस्थिताः कलाः | कण्ठतोह्याललाटांतं शांत्याख्या संस्थिताः कलां || भालाच्छिरावधिः प्रोक्ता शांत्यतीताकलाः तथा | संहृतिः क्रमतो विद्वान् वेधयेत् स्थानतोन्यतः || स्थाने स्वीयाज्ञया चैव दीक्षा पंचकलाः स्मृताः | अष्टत्रिंशत्कलादीक्षायुक्तिं शृण्वं तु देवताः || क्रमेणकादिकावर्णापत्र द्वादश संस्थिताः | विलोमाभादिका यत्र तत्र स्थान द्वये कला || भावनीयास्तु सूर्यस्य षोडशासुविधोस्तथा | यकारादिस्थले वह्नेर्भावनीयाः कलादशः || ततो वर्ण कलानां तु वर्णस्थानार्च्चमं हृतिः | पुनश्चजनयेच्छिष्यं कलादीक्षाविधिः स्वयं || अथ वेधमयीदीक्षा | कौलिके वाममार्गे च वेददीक्षा फलप्रदा | अन्यास्ताद दक्षिणेमार्गेऽन्यथाद्भूपतितो भवेत् || प्. ४७ब्) दीक्षां वेधमयीं वक्ष्येयां लज्जा त्यजते जनः | तत्कालमेव संसारं जीवन्मुक्तोभिजायते || मूलाधारे तु शिष्यस्य ध्यायेत् कंजं चतुर्दलं | तस्यामध्ये त्रिकोणे तु तन्मध्ये चापि कुण्डलीं || त्रिरावर्तमयीं देवीं विद्युत्पुंजस्वरूपिणीं | माहादेवमयीं साक्षाद्धानमात्र शरीरिणां || अणोरणीयसीं देवीं चक्रषङ्क प्रभेदिनीं | सुषुम्णा वर्त्मनादिव्यां यांतिं शिवगृहं प्रति || सांतवादिदलस्थार्णात् पद्मस्थाने समाहरेत् | षड्दले कमले तंतुलांत वाद्यर्णयुग्दले || स्वाधिस्थाने गुरुः सम्यग्योजयित्वा तु वेधयेत् | तदर्णानानयेद्विष्णौविष्णुंतं नाभिपंकजे || फांतडाद्यर्णसंयुक्ते दिग्दले वेधयेत् स्वयं | वर्णान् तान् योजयेद्रुद्रेरुद्रंतं हृत्सरोरुहे || कांतठाद्यर्ण पत्राब्जैर्वेधयेदीश्वरे स्वयं | वर्णान् तानाहरेदस्मिन् कंथपद्मेवतं तथा || कलादलमये पद्मे स्वरान् संयोज्य यत्नतः | सदाशिवेथ संयोज्यतान्स्तद्भ्रूमध्यपद्मके || द्विदलेहक्ष संयुक्ते वेधयित्वाथ देशिकः | शक्त्या स दैवमात्मानं नयेत् परशिवावधि || देशिकाज्ञावशाच्छिष्योदग्धा ज्ञानस्तदाक्षितौ | पतेदवाप्तविज्ञानः सर्वज्ञो जायते ततः || सदाशिवः स्वयंभूयात् सत्यमेव न संशयः | इयं ज्ञानप्रदा प्रोक्ता दीक्षावेधात्मिका शुभा || अथ स्पर्शमयीदीक्षा | गुरुः स्वस्यं गुरुं ध्यायेत् स्वहस्तै शिवरूपिणं | मूलविद्यां षडंगं च मातृकादि मनुं जपन् || शिष्यस्य मस्तके दत्वा कृपया दक्षिणं करं | पश्चादुपदिशेत् प्रोक्ता स्पर्शदीक्षाति सिद्धिदा || सदाशिवेति चिद्रूपे गुरुश्चित्तं निधापयेत् | मंत्रान्समस्तान्तज्जातान् ध्यायंत्स्वयं तदात्मकं || जातो गुरोश्च कृपया केवलोहं सदाशिवः | इति ध्यायन्नुपदिशेद्वाग्दीक्षात्कियमीरिता || निमील्य नयने ध्यात्वा परमात्मनि देवतां | तद्दर्शनानंद पूर्णनेत्राभ्यां वीक्षयेद् गुरुः || शिष्यं प्रसन्नचित्तः सन् पश्चादुपदिशोदिति | मंत्रसिद्धस्य सिद्ध्यैस्यादृग्दीक्षेफलंप्रदा || गुरोरा लोकमात्रेण भाषणात् स्पर्शनादपि | सद्यः संजायते ज्ञानं सादीक्षा शांभवी स्मृता || भुक्तिमुक्ति प्रसिद्ध्यर्थं परिक्ष्य विधिवद्गुरुः | पश्चादुपदिशेन्मंत्रमन्यथानिः फलं लभेत् || प्. ४८अ) अथ उपदेशो यथा | महादीक्षा तथा दीक्षा उपदेशस्ततः परं | युगे कृतादौ कर्तव्या उपदेशः कलौयुगे || चंद्रसूर्यग्रहेतीर्थे सिद्धक्षेत्रे शिवालये | मंत्रमात्र प्रकथनमुपदेशः स उच्यते || अथ कौलिकोपदेशः | न्यासजालं विधायादौ शंखपात्रादि स्थापनं | कृत्वा देवीं समभ्यर्च्य मकारपंचकैः प्लुतः || कारणं तन्मुखे दत्वा पश्चाद्विद्यां समुच्चरेत् | कथितोयं महेशानि उपदेशस्तु कौलिकः || अन्यायेन च योदद्याद्गृह्नात्यन्यायतश्चयः | ददतो गृह्नतो वापि कुलशापो भविष्यति || गुरुशिष्यावुभौ मोहोद परीक्ष्य परस्परं | अशास्त्रीयोपदेशं तु यो गृह्नाति ददाति च || भुंजीतेतावुभौ घोरान्नरकानेकविंशतिः | असंस्कृत्योपदेशं तु यः करोति विमूढधीः || विनश्यंति च तन्मंत्राः सैकतेशालिवीजवत् | अनर्हमंत्रविज्ञानं तिष्ठति कदाचन || तस्मात् परीक्ष्य वक्तव्य मन्यथा निःफलं भवेत् | सच्छिष्यायानि भक्ताय तद्ज्ञानमुपदिश्यते || तत्प्राप्नोति व्रती नित्यं गोक्षीरा तु यथा घृतं | धनेच्छा भयलोभाद्यैरयोग्यं यदि दीक्षयेत् || देवताशापमाप्नोति कृतं च विकृतं भवेत् | अथ स्वप्नलब्ध मंत्रोपासनम क्रममाह || स्वप्नमंत्रा महादेवि त्रिधा वै परिनिष्टिता | पाताले भुविराट् चक्रं स्वर्गतांडव चक्रकं || स्वर्गे चक्रद्वयं देवी त्रिपुराख्यं द्वितीयकं | आदौ विराट् ततो देवि शिवतांडवमेव च || तृतीयं त्रिपुराख्यं तु स्वप्नमंत्रास्त्रिधा स्थिता | तत्रैव सुहृदंतो ये ते विराट् चक्रगोचराः || अस्त्रांतास्तु महेशानि शिवतांडव गोचराः | त्रिपुरा चक्रमध्यस्थाः वह्निजायांति कामताः || एते मंत्रास्त्वौत्सुकेन भुवि स्वप्नेन गोचराः | स्वप्नमार्गेण देवेशि उपदिष्टाः शिवेन तु || तेषां तु लक्षणं देवि शृणु यत्नेन सांप्रतं | पाताल चक्रं मंत्राणां लक्षणं शृणु सांप्रतं || अंजनं गुटिकागुप्तिश्चाज्ञा सिद्धिस्तथैव च | शिवतांडव चक्रस्य लक्षणं शृणु पार्वती || खड्गवेताल सिद्धिश्च परकाय प्रदेशनं | चराचर गतित्वं वह्यणिमाद्यष्टकं तथा || प्. ४८ब्) त्रिपुरा चक्र मंत्राणां लक्षणं शृणु पार्वती | मनोरथस्य चाक्लेश त्रिपुराचक्रमंडले || षष्ठिसिद्धीश्वरो भूत्वा भुविस्वर्गे च भूतले | तत्र किं वा प्रकर्तव्यं किं तत्र मण्डलं भवेत् || ऋषिश्छंदादिकं ध्यानं पीठं न्यासादिकं शिव | यत्र नोक्तं महादेव तत्र तत् तत्कथं भवेत् || स्वप्नलब्धस्य मंत्रस्य ऋषिः शिव इतीरितः | गायत्री छंदश्चिद्रूपा देवता परिकीर्तिता || कादिबीजं स्वराः शक्तिरव्यक्तं कीलकं मतं | पीठं तु मातृकापीठं ध्यानादि मातृकोक्तवत् || मूलमंत्रा षडावृत्त्या षडंगन्या समाचरेत् | स्वप्नलब्धे महादेवी दक्षमूर्तिः परंपरा || पूजयेद् दक्षिणामूर्तिं गुरुत्वेन महेश्वरी | तद्गुरुश्च भवेद्विष्णुस्तद्गुरुश्चतुराननः || तद्गुरुः शंकरः प्रोक्त एवं गुरुक्रमोमतः | जातसूतक दोषस्य वारणंकेनवां भवेत् || तन्मेवद महादेव लिखेदष्टदलं शुभं | तन्मध्ये कलशं स्थाप्यं तत्र वै वैपरीत्यकं || वटपत्रे कुंकुमेन लिखित्वा मंत्रमेव तु | कलशं पुरतः स्थाप्य गुरोः प्राणान्निवेशयेत् || गुरोः सकाशाद् ग्रहणाज्जात सूतकवारणं | विना पुरस्क्रियां देवि मंत्रोमृत इतीरितः || तस्मात् कुर्यात् पुरश्चर्यां मृतसूतकशांतये | यो मंत्रश्चेतनायुक्तः सुमंत्रः सिद्धिदायकः || चैतन्यं तु पुरश्चर्या चैतन्यं गुरुमेव च | यंत्रचैतन्यकं देवि मंत्रचैतन्यकं तथा || गुरुचैतन्यकं चैव चैतन्यं तृतये नमः | चैतन्यत्रयहीनोयः समंत्रः सिद्धिदो न हि || पुरश्चर्याद्यनुक्ते तु दिक्सहस्रं जपं चरेत् | द्वाविंशाक्षरपर्यंतं दिक्सहस्रं प्रकीर्तितं || तदुत्तरं महादेवी गजांतक सहस्रकं | स्वप्नलब्धे महेशानि त्र्यंगात्पुरत्क्रियामता || जपहोमौ ब्राह्मणानां भोजनं त्रितयं मतं | अथ स्वप्नादिलब्ध रिपुमंत्रस्या विवेक्यादि गुरोरनिष्टफलदुदेवतायाश्च क्रमेण परित्यागरुच्यते || श्रीदेव्युवाच | भगवन्देव देवेश गुरुणा ज्ञानिना यदा | लोभेन मंत्रा दत्तश्चेत्तेन दुःखमवाप्यते || तदा किं देवकर्तव्यं सौख्यं येनोपजायते | इहलोके परित्रापि येन संलभ्यते सुखं || प्. ४९अ) ईश्वर उवाच || प्रायः कलियुगे देवि गुरवो लोभ संयुताः | शिष्या सुखेप्सवस्तेन न तयोर्लभ्यते क्वचित् || प्रायो मंत्रग्रहस्तेन दुःखायैवोपजायते | तदर्थं संप्रवक्ष्यामि सर्वतंत्रेषु गोपितं || विक्षिप्तता मंत्रदोषे गुरुदोषकदर्थता | आधिर्व्याधिर्देवदोषे तस्मात्तं परिवर्जयेत् || मंत्रत्यागविधिं वक्ष्ये येन संजायते मुखं | विद्वान्संब्राह्मणं ज्ञात्वा तंत्रेषु परिनिष्टितं || प्रातस्तस्य गृहे गत्वा स्वीयं दुःखं निवेदयेत् | ततस्तेन प्रकर्तव्यो मंत्रत्यागविधिः परः || शुचिः समाहितो भूत्वा प्रारभेत् प्रवरेदिने | अशेषदुःखनाशायदेशिकः प्रवरं विधिं || तत्रादौरम्य भवने कुंभं दीक्षाविधिः क्रमात् | मण्डपे स्थापयेद्विद्वान् पूरयेत्तज्जलैः शुभैः || विलोम मंत्रपाठेन तत्रावाह्येष्ठ देवतां | सकलीकृत्य संपूज्या वरणानि प्रपूजयेत् || एवं सावरणामिष्ट्वामंत्री मंत्रस्य देवतां | हुनेद्विलोममंत्रेण गोघृतेन सहस्रकं || अष्टान्वितं शतं चापि ततः सतर्पयेत् प्रभुं | ब्रह्मार्पणेन मनुना देवताभ्यो वलिं ततः || यवान्नैश्चापि दुग्धान्नैर्दिग्विदिक्ष्वध ऊर्द्ध्वतः | आयाहीन्द्रसुराधीशः शतमन्यो शचीपते || नमस्तुभ्यं गृहाणे संपुष्पधूपादिकं वलिं | आयाहि तेजसानाथ हव्यवाहवलप्रद || गृहाण पुष्पदीपादि वलिमेनं प्रयोजितं | प्रेतनाथत्व मायाहि भिन्नां जनसमद्युते || वलिं दलं गृहीत्वेमं सुप्रीतो वरतोभव | नमस्ते रक्षसां नाथ निर्-ऋते त्वमिहागतः || गृहाण वलिपूजादि मया भक्त्या निवेदितं | परिपश्चिम दिक्पाल जलनाथ नमोस्तुते || भक्त्या निवेदितां पूजां गृहीत्वा सुखमाप्नुहि | प्रभंजन प्राणपतेत्वमेहि सपरिच्छद || मया प्रयुक्तं विधिवद् गृहाण वलिमादरात् | कुबेरतारकाधीशावगच्छैतां सुरोत्तमौ || पुष्पधूपादिभिः प्रीतौ च भवेतां वरदौ मम | ईशत्वमेवें हि भगवन् सर्वविद्याश्रयप्रभो || पूजितः पुष्पधूपाद्यैः प्रीतो भवविभूतये | आयाहि सर्वलोकानां नाथ ब्रह्मन् समर्च्चनं || प्. ४९ब्) गृहाण सर्वविघ्नान्मेनिर्वर्तय नमोस्तुते | आगच्छ वरदाव्यक्त विष्णोर्विश्वस्यनायक || पूजितः परमाभक्त्या भवत्त्वं सुखदो मम | ततः सपरिवारांश्च पूजयेन् मंत्र देवतां || मंत्रेण विपरीतेन पुष्पधूपोपचारकैः | ततस्तु प्रार्थयेद् विद्वान् पूजितां मंत्रदेवतां || आनुकुल्याद्यनालोख्यमयातरलबुद्धिना | उपात्तो दुःखदो मंत्र तद्दोषं विनिवर्तय || पापं प्रतिहतंमेस्तुभूयाच्छ्रेयः सनातनं | तनोतु ममकल्याणं पावनी भक्तिरेव च || इति संप्रार्थ्य मंत्रेण मंत्रयंत्र विलोमतः | लिखित्वामल कर्पूरश्चंदनेन समर्चयेत् || कलशोपरि संस्थाप्य भक्त्या परमंयां युतः | तद्यंत्रं स्वस्य शिरसि वध्यास्माया घटोदकैः || मंत्रपूतैः पुनश्चात्यं कुंभतोयैः प्रपूरयेत् | तन्मध्ये मंत्रमंत्रं च निःक्षिप्याथ प्रपूरयेत् || तं कुंभं निम्नगानीरे शुद्धेवान्य जलाशये | विसृजेदथ विप्रश्च यथाशक्त्या प्रतोषयेत् || इत्थं कृतविधानस्य दुर्लभस्य मनोरुजः | विनश्यंति न संदेहः क्रमाच्चित्तः प्रसन्नता || जायतेती च संपन्नो वर्द्धते तत् कुलं क्रमात् | एवमुक्ता मनुत्यागो गुरुस्त्यागस्तथोन्यते || मंत्रोयद्देवतायाः स्यात्तिथौ तस्या भवेद्व्रती | गुरुत्यागस्य संकल्पं कुर्यात्त दोषपूर्वकं || गुर्वंतरं च संचिंत्यनरं वा देवमेव वा | राशिकूटेन संशुद्धं देवताष्टक मध्यतः || कुर्यादेकं गुरुं तत्र पूर्वा भावे परंपरं | आदौ तु दक्षिणामूर्तिः सूर्यश्चंद्रो हुताशनः || मंत्रावरणदेवत्व ज्ञातिदेवः कुलेश्वरः | देशदेव इमे त्वष्ट्यै नरो वा लक्षणान्वितः || गुरोर्युग्मं पूजयित्वा नासन्नत गुरुं द्वयं | देवताम्नाय संप्रोक्तं द्रव्यं तन्नामतो यजेत् || त्रिपर्णस्य पलाशस्य प्राग्रमुष्टिषु दक्षिणे | प्रादेश प्रमितानां च कुशानामूर्द्ध्ववर्त्मनि || तोयं पूर्णं घटं प्राच्यां दुग्धपूर्णां च पश्चिमे | उत्तरे तु सुरापूर्णमाप्रायद्रव्यमीरितं || प्राग्गुरोश्चापि चैतन्यं प्रविष्टं नूतने गुरौ | इति संचिंत्य मंत्रस्तु तस्माल्लब्धो विचिंतयेत् || प्. ५०अ) अष्टोत्तर सहस्रं च मनुं जप्त्वा समापयेत् | मंत्रस्य वर्णसंख्याकान्देवता प्रीतिकारकैः || द्रव्यैस्तु भोजयेद्विप्रान् देवताराधनक्षमान् | तदभावे वैदिकांश्च मंत्रा वेदमयायतः || तदाम्नाय प्रवृत्तान् वा तदभावे तु भोजयेत् | एवंत्यागोगुरोरुक्तः सर्वतंत्रेषु गोपितः || असिद्धोयः स्वयं शिष्यं कथं संतारयिष्यति | देवत्यागं प्रवक्ष्यामि सर्वतंत्रेषु गोपितं || कृत नित्यक्रियः पूजां देवतायां समाचरेत् | संकल्पं च ततः कुर्याद्धेनु त्यागादि पूर्वकं || परोक्षं वा समक्षं वा गुरोः संप्रार्थयेत्सुरं || त्रैलोक्यनाथजगदीशमहेश्वरस्त्वं ब्रह्माण्डकोटिजठराद्भुतशांत्यचिंत्य | यस्त्वं मयाल्पमतिनाद्विभुजादिदेही ध्यातो पराधं शतकं ममतत्क्षमस्व || त्वं सूर्यचंद्रदहनेशगणेशविष्णुर्ब्रह्मेंद्रशक्तिनरयागनगस्वरूप | ध्यातो सिवाल्यविषयेपरिपूजितोसितन्मेपराधशतकं भगवन् क्षमस्व || वेदोपि नैव मुनयो न च भारतीत्वां जानाति मंदमतिना स्वगुरुक्तरीत्या | ध्यातस्त्वमेवमपराधकृतामयेदं दुःखं प्रलब्धमधुनाशरणागतोषं || ध्यानं करोमि मनसा न च तेह्यनंत मंत्राक्षरात्मकमिदं परिभावयामि | रूपं त्वदीयमिति यत्प्रवदंति वेदाः सिद्धिर्जयान्न च वहिः कृतपूजनाद्यैः || एवं संप्रार्थ्य देवेशं प्रणमेद्दण्डवत् पुनः | मंत्रपूत्यादिकं सर्वं गुरवे तत्समर्पयेत् || तदभावे पूजकांतद्भक्ताय प्रदापयेत् | कुर्याज्जपं द्विगुणितं सर्वत्रापि च तद्धितान् || प्राग्वच्च भोजयेद्विप्रान् गुर्वादींश्चापितोषयेत् | एवं तु देवता त्यागो मयातुभ्यं निवेदितं || दीक्षांतरं महेशानि प्रत्यहं प्रजपन्मनुं | प्राणांतेपि न वैत्याज्यस्त्यागाच्छापमवाप्नुयात् || जपं पूजा ततो जाप्यं कुर्याद् यत्नेन नित्यशः | पूजांते प्रजपेन् मंत्रं न मंत्रं केवलं जपेत् || पूर्णाभिभिषेकहीनस्य पूजापंचोपचारिकाः || इति श्रीतंत्रचिंतामणौ दीक्षाविधिनिर्णये नाम दशमः प्रकाशः || १० || अथ पूर्णाभिषेकदीक्षामाह || प्. ५०ब्) पूर्णाभिषेकदीक्षा तु चंद्रसूर्यग्रहे भवेत् | सुंदरी तारिणी काली क्रमाद्दीक्षा त्रिगामिनी || क्रमात् पूर्णे महेशानि क्रमाछंभुर्भविष्यति | चंद्राग्नि पक्ष षोढाख्य परानिर्वाण तत्परा || षट्सांभवं ततो देवि चक्रसंभेदनेन च | स्वचक्रदेह विज्ञानं परकाय प्रवेशनं || एतद्ज्ञानाद्भवेन्मेधा दीक्षा प्रोक्ता मया तव | हाद्राविडं निगदितं शृणुकादौ महेश्वरी || चक्राग्नि रसराज्ञी च महाराज्ञी ततः शिवे | महाकामकलाकाली गुह्यकाली ततः शिवे || गुह्यकाली द्विधा प्रोक्ता सकला निष्कला क्रमात् | दशवक्त्रा तु सकला प्रोक्ता वा सृष्टिका कला || उग्रासौम्या महाक्रूरा त्रिधा सापि प्रकीर्तिता | निःकलागुह्यशंशंता कालीभेदेन कीर्तिता || केवलेयं भवेन्मेधाहुयी साम्राज्यरूपिणी | चंद्राग्नि वेदपंचार्णा तथा नीला क्रमेण च || हंसतारा महानीला तदंते चीन शांभवी | केवला तु भवेन्मेधा सिद्धिऋद्धि क्रियाद्विधा || त्रितया दिव्यसाम्राज्यमेधा दीक्षा प्रकीर्तिता | देवरूपा दिव्यरूपा मंत्ररूपा महाबला || सर्वरूपा सर्वपूर्वा महत् साम्राज्यमेधया | सिद्धिऋद्धिक्रमेणैव भेदवाहुल्यमीरितं || विद्याराज्याभिधादीक्षा छिन्नमस्ताविधौ स्मृता | चंद्रवह्नि रसोरक्तश्यामा च षोडशी तथा || परषोढा सप्तदशी तदजाता परा भवेत् | दीपिनीमालिनी कुल्लाक्रमाद्विद्यादिराज्यदा || वगलाया महेशानि साम्राज्य परमेष्ठता | चंद्रवेद सूक्ष्ममेरुर्मंत्रहीनं शिवांतरं || हृदयं च शतार्णां च पंचार्णं कुल्लुका तथा | गायत्री क्रमयोगेन साम्राज्य परमेष्ठ्यं धृक् || एतत्पंचक संयुक्तः सर्वसाम्राज्य बुद्धि धृक् | श्रीदिव्य सर्वसाम्राज्यदीक्षा सर्वोत्तरा भवेत् || ततोपि दीक्षा देवेशि नास्ति ब्रह्माण्ड गोलके | दशविद्या प्रभेदाश्च महाविद्या प्रभेदजाः || सिद्धिविद्या प्रभेदाश्च महामंत्रास्तथैव च | तदंग मंत्रादेवेशि शावरं देशशावरं || कालशावरकं देवि तथैव सिद्धशावरं | त्रिधादर्शन मंत्राश्च तथाम्नाय क्रमोद्भवाः || कादिहादिकहत्वेन ऊर्द्ध्वाम्नायात् कलौ शिवे | तथायतनमंत्राश्च यत्किंचिन्मंत्रजालकं || सर्वाधिकारो देवेशि एतद्दीक्षाविधौ भवेत् | एतद्दीक्षा समायुक्तः साक्षाच्छ्री कालिकास्वयं || प्. ५१अ) प्रहराक्षु क्रमेणैव दशविद्या स्वरूपधृक् | कामकलाभिधाविद्याः स भेदा वृत्तिदेवताः || अंगमंत्रास्तथान्येपि तस्यचास्त्रगताः सदा | क्रमदीक्षा महेशानि पंचविद्याः सुभेदतः || तदंगमंत्रा गायत्री कुल्लुका पंचकं शिवे | अन्यविद्याविधौ प्रोक्तं रहस्याति रहस्यकं || क्रमदीक्षां विना देवि योजयेत् साधकोधमः | सदरिद्रो महापापी सुतहारी प्रजायते || श्रीविद्यायां कालिकायां तारायां परमेश्वरी | क्रमदीक्षां विना देवि योजयेत् साधकोधमः || स दरिद्री महाघोरी लक्ष्मी हीनस्तु निंदितः | अंधः काणकुब्जपंगुःषण्ढस्तु कुष्टयुक् * * (?) || सर्वरोगयुतो भूयादाधि चिंता समाकुलः | सुतहारी च स्त्रीहारी कन्या राज्यविनाशकः || अथवा वातुलो भूयोन्मंत्रः क्षोभमवाप्नुयात् | देवताशापमाप्नोति दारिद्र्यं तद्गृहे सदा || विशेषाद्देवदेवेशि स्त्रीहारी विकलः सदा | क्रमदीक्षा समायुक्तो राजा भवति निश्चितं || महाविभव संयुक्तः सर्वसिद्धिः समन्वितः | विजयो विनयः साधुः सिद्धश्च सिद्धिदः शुभः || प्रहृष्टात्मा सर्ववेत्ताः त्रिकालज्ञः कविः मुखीं | कोटि सिद्धीश्वरः शूरः सुंदरः काममोहनः || आनंदात्मा परात्मा च पराजित गुणोत्तरः | राजराजेश्वरः साक्षात् महाकालसमः कलौ || एतद्विद्योपासकस्य दारिद्र्यं दीनता क्वचित् | गुरुहीना क्रमात्यागात् संप्रदाय वियोगतः || दारिद्र्यं प्रथमं भूयान्नात्रकार्याविचारणा | चिंतामणि गृहं यत्र यत्र रत्नस्य मंदितं || नवरत्नात्मसोपानः सर्वैश्वर्योपसंगृहं | कल्पवृक्षवनं यत्र पारिजातवनं तथा || स्पर्शमाणस्तु प्राकारो दारिद्र्यं तत्र कुत्र वै | तस्मात् कमविहीनस्य दारिद्र्यं तु पदे पदे || क्रमयुक्तं गुरुं प्राप्य क्रमं संप्रार्थयेत्सुधीः | अन्यथा गुरुमौढ्येन दारिद्रत्वमवाप्नुयात् || अल्पायुर्वाभवेद्देविनात्रकार्या विचारणा | विधेर्लिपिं तु संमार्ज्य तस्याः प्रक्षीणतो व्रजेत् || एवं गुरूर्दीक्षां कुर्यात् पूर्णाभिषेचनं | विना येनाभिषेकेणसाधकः पूर्णवोधतां || आचार्यत्वं नवाप्नोति सद्गतिं च समीहितां | तस्माद्गुरुः प्रियं शिष्यं वोधयित्वाभिषेचयेत् || प्. ५१ब्) विनापूर्णाभिषेकेण पशुरूपः शिवोपि च | विनापूर्णाभिषेकेण कालीं तारां च योजयेत् || तस्य क्रियां हरिष्यामि वातुलो जायते नरः | विनापूर्णाभिषेकेण गुरुधर्मेण पार्वती || न जपो न तथा होमो न पूजा पूर्ण क्वचित् | पूर्णाभिषेकहीनस्तु कौलिको म्रियंते यदि || पिशाचत्वमवाप्नोति यावदाहूत संप्लवं | पूर्णाभिषेको देवेशि दशविद्याविधौ स्मृतः || पूर्वोक्तमण्डपे स्थित्वा गुरुध्यान परायणः | अंकुरारोपणं वास्तुयागं कुर्यात्यरेहनि || कुण्डं निर्माय यत्नेन यथा विहितमादरात् | होमं कृत्वा गुरु कुलं मान्यं पूज्य यथादरात् || वेदिकायामिष्टदेवं गुरुस्तृतयमादरात् | वस्त्रालंकरणैः पूज्या गुरुशक्तय एव च || यथा दिव्यौघ चरणं सिद्धौघ चरणं शिवे | मानवौघं महेशानि स्वगुरूणां चतुष्ककं || अभिषेक क्रियाभिज्ञस्तद्वर्तनपुरः सरं | स्नानद्वयं यथोक्तेन कृत्वा यत्नेन पार्वती || पंचपल्लवयोगेन दुर्वा विल्वफलैस्तथा | वैदिकैस्तांत्रिकैर्मंत्रैः षेचयेच्छिष्यमादरात् || अयमेव महेशानि पूर्णदीक्षाक्रमः स्मृतः | अन्यत्सर्वं महेशानि दीक्षापटलगोचरं || विरच्य विपुलं चक्रं मण्डपेति मनोहरं | खारीतोयभृतं कुंभं स्थापयेच्चक्र मध्यतः || अन्येषु कलशान् रत्नवस्त्र हेमसमन्वित | दलेषु विधिवत् स्थाप्य तत्रावाह्यष्टदेवतां || अभ्यर्च्य मध्यचांतेषु सांगावरणदेवता | स्पृशं च मध्यकलशमाचार्यः प्रपठेदिति || सांगांश्च चतुरो वेदान्ततस्तेन जलेन तु | अभ्यसिंचेद्गुरुः शिष्यमिति पूर्णाभिषेचनं || वेदेभ्यः सर्वतंत्रांश्च तंत्रेभ्यो मनवस्तथा | यतोजातास्ततः शिष्यः सर्वमंत्रैकभाजनं || भवेदाचार्यनामा च कुर्यान्नामांतरं गुरुः | एतादृशस्ययो दीक्षा गृह्नीयात् स तु सिद्धिभाक् || सर्वमंत्रप्रदानेषु समर्थः स तु जायते | सर्वेदेवावशास्तस्य वेदपंथा तु सात्विकः || एष एव विधिस्तंत्रमार्गेस्याद्दक्षिणाभिधे | विशेषस्तत्रतोयानितीर्थानामाहरेत्सुधी || प्. ५२अ) गंगाया यमुनायाश्च सरस्वत्या महोदधेः | सिंधुगोदावरीरेवाकावेरीभ्यः पृथूदकात् || महेन्द्रजायाः सरयूचर्मण्वत्याश्च पुष्करात् | महानद्या वेदिकाया क्षिप्रावेत्रवतीजलं || कुरुक्षेत्रस्य गंडक्याः पूर्णायामानसस्य च | घटेदत्वा जपेन्मंत्रान्नानातंत्र गतानपि || अभिषेकस्तु तैस्तोयै सिद्धास्ते मनवोस्य तु | प्रयोगार्थं तथान्यस्य दानार्थमथवामके || मध्ये तीर्थघटं स्थाप्यशेषास्तोय घटामताः | ये ये आवाहिता देवा गुरुणा तु सुराघटे || ते ते कुर्वंति सान्निध्यं मंत्ररूपाश्चतन्मुखे | स्वयं सिद्ध्यति वागस्य मूर्द्धानं नैव नामयेत् || यदर्थं नामितो मूर्धा तस्य मृत्युर्नसंशयः | वाममार्गे गुरुर्यस्य ईदृक्सिद्धो यदा भवेत् || शिष्यश्च निरहंकारः सदा दैवत तत्परः | देवतार्थं यस्यनादित्रयं भोगे मनो न च || स एव सिद्धो वामेस्यादन्योनिरयभाजनं | दरिद्रो दुःखितो मूर्ख इहलोके परत्र च || क्रिया दीक्षाविधिं कुर्याद्यथा शक्त्या गुरूक्तितः | सजीवमीनयुक्तेन सुरया पूरितेन च || पंचामृतैः सुसंपूर्णं शंखेन कलशेन वा | अभिषेकं ततः कुर्यात् कुलवृक्षोत्थ पल्लवैः || अयं पूर्णाभिषेकोत्र कुलमार्गे प्रकीर्तिताः | अभिषिंचेद्गुरुः शिष्यं नामास्मै प्रदिशेत्स्वयं || आनंदनाथ शब्दादौद्व्यक्षरं चतुरक्षरं | नियोज्यैवामुकोसीति गुरुरादौतमाद्वयेत् || यथा नारीपितुर्गोत्रात् पतुर्गोत्रं समाश्रयेत् | तथाशक्त्युपदेशेन कौलोगोत्रांतरे व्रजेत् || अथोच्यते महेशानि कौलानां गोत्रमुत्तमं | दुर्लभं सर्वतंत्रेषु शांभवं तत्प्रकीर्तितं || उपपातकलक्षाणि महापातक कोटयः | क्षणाद्दहंतिदीक्षेयं विधिना गुरुणा कृता || रसेंद्रेण यथाविद्धमयः सौवर्णतां व्रजेत् | दीक्षाविद्धस्तथाह्यात्मा शिवत्वं लभते ध्रुवं || गतं शूद्रस्य शुद्रत्वं गता विप्रस्य विप्रता | दीक्षा संस्कार संपन्ने जातिभेदो न विद्यते || दार्वश्मलोहमृदुलजातिलिंगं प्रतिष्ठितं | यथोच्यते महादेवस्तथा वर्णास्तु दीक्षिताः || प्. ५२ब्) पूर्णाभिषेकं कृत्वा तु यत्र कुत्र मृतोपि चेत् | स एव देवीरूपः स्यात् स देवोधन्यतामियात् || पूर्णाभिषेकयुक्तस्य यत्किंचिदमृतं भवेत् | तस्य क्रिया च सफला देवता सुप्रसीदति || पूर्णाभिषेकयुक्तो हि मंत्रान्दृष्ट्वा जपेच्छिवे | तत्क्षणात् सिद्धिमाप्नोतिना च कार्या विचारणा || गुरुं विनापि देवेशित्वभिषेकीत्वयं जपेत् | तं सभेदं साधयित्वा सिद्धिंदातु मथार्हति || कौलावधुतमार्गेषु तीर्थयात्रां न च व्रजेत् | तीर्थासनं च संन्यासं व्रतधारणमेव च || उपवासं मुण्डनं च सर्वथा परिवर्जयेत् | पूर्णाभिषेक शिरसं तेन तत्र न मुंडनं || पूर्णाभिषेक संयुक्तश्चाण्डालोपि भवेद्यदि | स ब्रह्मर्षिर्महेशानि नात्र कार्या विचारणा || पूर्णाभिषेक हीनोय ऋषिवर्ज्योपि पार्वती | स ब्राह्मणाधमः प्रोक्तस्त्वभिषेकी द्विजोत्तमः || पूर्णाभिषेकी देवेशि यस्मिन्देशे विराजिते | संदेशो धन्यतांयाति समंतात् कोटियोजनं || नव्याधिर्न च वै मृत्युर्न शत्रूणां भयं क्वचित् | पूर्णरूपः शिवः प्रोक्तः शिव एव न संशयः || कोवादेहीकस्य देहः सुखंदुःखं च कस्य च | कोजातः कोमृतो देवि सर्वं ब्रह्मस्वरूपकं || यस्मिन्काले भवेद्देवि मंत्रदेवस्य विस्मृतः | तदेवमरणं प्रोक्तं मरणं मरणं न हि || पूर्णाभिषेक युक्तानामधिकारो हि सर्वतः | पूर्णाभिषेकः संयुक्तस्त्यजेदेतद्वयं शिवे || अहंता ममता त्यागः प्रथमं बुद्धिलक्षणं | अहमिति महेशानि प्रथमोध्या स ईरितः || ममेति च महेशानि द्वितीयोध्या स ईरितः | अहंता ममता हीनः पूर्णदीक्षायुतो भवेत् || कुल्लुकाया जपेनापि पूर्णदीक्षाफलं लभेत् | विद्यानां कुलपूज्यत्वात् कुल्लुका तेन कीर्तिताः || विद्यासंबंधि दोषाणां भक्षयित्रीयतः शिवे | विख्याता कुल्लुका तेन सर्वदोष हरा परा || कुल्लुकाजय युक्तानां विद्यासिद्धिर्भवेद्ध्रुवं | इति श्रीतंत्रचिंतामणौ पूर्णाभिषेकनिर्णयो नामैकादशमः प्रकाशः || ११ || प्. ५३अ) अथ गुरुभक्तिः || कुलागमस्त्वयं मार्गो गुरुणा संप्रदर्शितः | सम्यगाचरितश्चेत्स्याभुक्तिमुक्त्योष्प्रसाधनं || विप्रोपिगुणयुक्तोपि न भक्तश्चेन्नशस्यते | म्लेच्छापि गुणहीनोपि भक्तिमान् शिष्य उच्यते || गुरुभक्तिविहीनस्य तयोर्विद्या व्रतं कुलं | व्यर्थं सर्वं शवस्येव नानालंकारभूषणं || नारायणे महादेवे मातापित्रोश्च राजनि | यथाभक्तिर्भवेद्देवि तथा कार्याणिजे गुरौ || एकग्रामस्थितः शिष्यस्त्रिसंध्यं प्रणमेद्गुरुं | एकः क्रोशस्थितश्चापि गुरुं प्रतिदिनं नमेत् || अर्द्धयोजनगः शिष्यः प्रणमेत् पंचपर्वसु | एकयोजनमारभ्ययोजन द्वादशावधि || तत् तद्योजन संख्यातैर्मार्गेगत्वा नमेद्गुरुं | दूरदेशः स्थितः शिष्यो भक्त्या तत् सन्निधिं गतः || तत् तद्योजन संख्यातं मासेषु प्रणमेद्गुरुं | अतिदूरस्थितः शिष्यो यदेच्छास्यात् तदा व्रजेत् || रिक्तहस्तस्तुनोपेयाद्राजानं देवतां गुरुं | फलपुष्पांवरादीनि यथा शक्त्या समर्चयेत् || गुर्वग्रेण तपः कुर्यान्न स्नायादात्म शुद्धये | न लंघयेद् गुरोराज्ञामुत्तरं न वदेत्तथा || अप्रियं च तथा काले कामक्रोधौ विशेषतः | नाप्रच्छन्नमुखोद्रूयागुरोरग्रे कदाचन || अद्वैतं देवपूजां च गुरोरग्रे परित्यजेत् | पादुकायोगपट्टादि गुरुचिह्नानि सादरं || न लंघयेत् स्पृशेन्नैव तत्समक्षं न धारयेत् | पर्ययंकशयनं तद्वत्तथापाद प्रसर्पणं || अंगं भंगं च लीलां च न कुर्याद् गुरुसन्निधौ | छायां न लंघयेत् तस्य गच्छेन्न पुरतो गुरोः || न कुर्वीत गुरोरग्रे प्रभावं शिष्यसंग्रहं | अहंकारं न कूर्वीत नोल्लक्षणं धारयेद् वपुः || जातामाया यदि ब्रंशे शपथं गुरुसंज्ञितं | न कुर्याच्छिवसंज्ञं वा प्रमादेन क्रियेत चेत् || तदर्थं निर्वहेद्यत्नादंते पूजाजपाजपाहुती | अनिर्वाहेतु कार्यस्य यदर्थं शपथः कृतः || प्रायश्चित्तं मनोः कुर्यान्मूलाख्यस्य सहस्रकं | न नियोगं गुरोर्दद्याद्युष्मदानाभिभाषयेत् || श्रीनाथदेवस्वामीति वोधने भाषणे वदेत् | ऋणदानं तथा दानं वस्तूनां क्रयविक्रयं || न कुर्याद्गुरुभिस्सार्द्धं शिष्योभूष्णुः कदाचन | गुरोः संनिहितेद्यस्तु पूजयेदन्यमम्विके || प्. ५३ब्) सयाति नरकं घोरं पूजा सा विफला भवेत् | यस्मिन् द्रव्ये गुरोरस्ति स्पृहानानु भवेच्च तत् || अवश्यं यदि वांछास्यादनु भूयात् तदाज्ञया | अत्यल्पं हि गुरोर्द्रव्येमद्दत्तं स्वीकरोतियः || तिरश्चां योनिमापन्नः क्रव्यादैर्भक्ष्यतेत्रिये | गुरुद्रव्यालाषी च गुरुस्त्रीगमनोत्सुकः || पतितः स्यान्न संदेहः प्रायश्चित्तन्नविद्यते | गुरुःस्थानं संप्रदायं तद्धर्मं योनिचारयेत् || गुरुभिः स वहिः कार्योदंड्योवध्यश्च पातकी | पादुकामासनं वस्त्रं वाहनं छत्रचामरैः || दृष्ट्वा गुरोर्नमस्कुर्यान्नतद्भोगाय कल्पयेत् | उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेत् प्रिये || सदसद्य गुरुर्व्रूयात्तत् कार्यमविशंकया | ब्रह्महत्याशतं कृत्वा गुर्वाज्ञां परिपालयेत् || निग्रहेनुग्रहे वापि गुरुः सर्वस्यकारणं | निर्गतं यद्गुरोर्वक्रात् तत्सर्वं शास्त्रमुच्यते || आज्ञाभंगोर्थहरणं गुरोर प्रियवर्तनं | गुरुद्रोहमिदं प्रोद्गर्यः कुर्यात् स तु पातकी || न विशेदासनेदेवि देवता गुरुसन्निधौ | जातिविद्याधनाढ्यो वा दूरदृष्ट्वा गुरुं मुदा || अभिमानो न कर्तव्यो जाति * ? विधनादिभिः | तत्पापं समवाप्नोति गुर्वग्रे नृतभाषणात् || गोब्राह्मणवधं कृत्वा न तत्पापमवाप्नुयात् | दण्डप्रणांअं कृत्वैकं त्रिःप्रदक्षिणमाचरेत् || गुरुस्तद्गुरुयोगे तु वंदेत प्रगुरुं प्रिये | ततो नमेद्गुरुं सोपि गुर्वग्रे तन्निवारयेत् || प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनमानयेत् | गुरुक्तं परुषं वाक्ये माशिषं चिन्तयेद्धृदि || तेन संताडितो वापि प्रसादमिति संस्मरेत् | भोग्ययोग्यानि वस्तुनि गुरवे सर्वमर्पयेत् || तच्छेषमिति संचिंत्य ग्राह्यं तस्याज्ञयामुदा | एकाक्षरप्रदातारं यो गुरुंत्ववमन्यते || सश्च योनिं शतं गत्वा चाण्डालत्वमवाप्नुयात् | गुरौमनुष्यबुद्धिं च मंत्रेवाक्षरसेमुनिं || प्रतिमायां शिलां बुद्धिं कुर्वाणो नरके व्रजेत् | गुरुशक्तिश्च तत्पुत्रो तज्येष्ठश्च गुरुः समः || आत्मवच्चकनीयां सः पुत्रवत् परिपालकाः || अथ दक्षिणाचारमाह | श्रीदेव्युवाच | अस्मिन् घोरे कलियुगे स्वल्प सिद्ध्यतिदर्पिताः | भविष्यंजनास्तेषां स्थिरसिद्धिः कथं भवेत् || अग्रेवंशादिवृद्धिश्च वंशेदेवकृपा तथा | मोक्षः कथं साधकस्य तथावद कृपानिधे || प्. ५४अ) ईश्वर उवाच | अहंकार परित्यागात् काम्यकर्मविवर्जतान् | स्वधर्माच्चरणात् सर्वं मनायासेन जायते || एतत् कर्तुमशक्तश्चेन्निषिद्धं तु परित्यजेत् | विहितं कर्मकुर्वीत सिद्धिः स्यात् पुत्रपौत्रिकी || तत्रादौ कथयिष्यामि निषिद्धं विद्धिना सह | देवस्थाने गुरुस्थाने श्मशाने च चतुष्पथे || पादुकासनविण्मूत्रमैथुनानि विवर्जयेत् | धन्यगो गुरुदेवाग्नि कोशपुस्तक संमुखं || नैव प्रसातयेल्पादौ न चैतानि विलंघयेत् | आलस्य मदनं मोहशापपैशून्य विग्रहान् || असूयामात्ससंमानं परनिंदां च वर्जयेत् | लिंगिनं व्रतिनं विप्रं वेदवेदांग संहिताः || पुराणागशास्त्राणि कल्पांश्चापि न दूषयेत् | युगं कुशलमश्मानंदामबुह्रीमुलूखलं || सूर्यं संमार्जनं दण्डं ध्वजं वै तूर्यमायुधं | कलशं चामरं छत्रं दर्पणं भूषणं तथा || भोगभोग्यानि चान्यानियाग्र द्रव्याणि यानि च | महास्थानेषु वस्तूनियानि वा देवतालये || दिव्योक्तानि पदार्थानि भूता विष्टानियानि वै | लंघयेज्जानु नैतानि न चैतानि यदा स्पृशेत् || या गोष्टीलोकविद्विष्टाया वत्स्वैरविसर्पिणी | परहिंसात्मिकाया च न तामवतरेत् क्वचित् || प्रतिग्रहं न गृह्नीयादात्म भोगविधित्सया | देवतातिथि पूजार्थं यत्नतोप्पूर्जयेद्धनं || विभीतककरंजार्कास्नुहीच्छायां न लंघयेत् | स्तंभदीपमनुष्याणामन्येषां प्राणिनां तथा || नखाग्रकेशनिर्द्धूतस्नानवस्त्र पठोदकं | एतत् स्पर्शं त्यजेद्दूरं खरश्वाजलजस्तथा || लिंगस्थानं च निर्माल्यं नाध्यान्नैव च लंघयेत् | नद्यां प्रवाहयेत् सर्वं दद्याद्वा शिवदीक्षिते || लोकोद्वेगकरीया च या च मर्म निकृंतिनी | स्थित्युद्वेगकरीया च तांगिरं नैव भाषयेत् || रम्यमप्युज्ज्वलमपि मनसोपि समीप्सितं | लोकविद्वेषणं वेषं न गृह्नीयात् कदाचन || तंत्रोक्तान् समयाचारानैहि कामुष्ंइकोचितान् | आचरन्नादरच्छिद्धिं दीक्षितः सोधिगच्छति || सामान्यसिद्धौरक्षार्थं परेषां न कदाचन | प्रयोक्तव्यः स्वस्य मंत्रो महापद्यपि साधकैः || प्. ५४ब्) यत्र यत्र परीवादो मात्सर्याच्छ्रूयते गुरोः | तत्र तत्र न वस्त्रव्यं प्रमादात् संस्मरेद्धरिं || विष्णोः शिवस्य शास्त्रस्य वेदस्यार्क गणेशयोः | भवान्या वा यत्र निंदा तस्मिंन्स्थाने वसेतन || कर्मणा मनसा वाचा न हिंसेत् परदारकान् | स दीक्षिते नमोकार्यः शापानुग्रहकर्मणि || न तेन मंत्रो वक्तव्यो मुद्रा वा समया अपि | सिद्धमंत्रस्य कर्तव्यं त्रिविधं परिकीर्तितं || नित्यं नैमित्तिकं काम्यं तत्रादौ नित्य मुच्यते | देवगुरुं गुरुस्थानं क्षेत्रं क्षेत्राधि देवताः || सिद्धान् सिद्धाधिवासांश्च श्रीपूर्वं समुदीरयेत् | धारयेदार्जवं सत्यं सौशील्यं समतां घृतिः || शांतिर्दयामवस्थां च दिव्यां शक्तिं च सर्वदा | गमनागमनं कुर्यात् प्रणम्य गुरुपादुके || पश्चात् पादेन निर्गच्छ्त् प्रणम्य च गुरोर्गृहात् | मलमूकादिरहितः केशश्मश्रुविलुंवनात् || सोमसूर्यांतरस्थं च गवाश्वत्थादि मध्यगां | भावयेद्देवतां विष्णुं गुरुविप्र शरीरिणां || मंत्रगुप्तिश्च कर्तव्या सततं मंत्रसिद्धये | गुरोर्नाम न गृह्नीयाद्वदेशवश्यकेत्विति || ओं श्रीपूर्वं गुरोर्नामदेवनाम तदुत्तरं | पादशब्द समेतोयं न त मूर्द्ध्वांजलीयुतः || जसंतं च ददेन्नामतिथ्यर्णं च हरेर्यम | अयं च दक्षिणाचारः कथितः परमेश्वरी || अथ कुलाचारमाह | अथ वक्ष्ये कुलाचारमार्गे शास्त्रार्थनिर्णयं | कौलिकानां कुले जातो ज्येष्ठो यदि न दीक्षितः || कनिष्ठो दीक्षितश्चेत् स्यात् सकुर्यात् कुलपूजनं | पूजांते शेषमादाय ज्येष्ठं नत्वा निवेदयेत् || तस्योच्छिष्टं तु गृह्नीयात् कनिष्ट इति निर्णयः | पूजा मध्ये गुरौज्येष्ठे पूज्ये वापि समागते || न स्वाव्रूयात् स्थितिं शेषं माचरेत् तदनुज्ञया | नित्यार्चनं दिवाकुर्याद्रात्रौ नैमित्तिकार्चनं || काम्यार्चनं प्रोक्तकाले वहवो यत्रसंगताः | नत्वा स्वस्वगुरुं तत्र स्वस्वमार्गेण तर्पयेत् || विनाशनं विना स्नान गंधपुष्पाक्षतान्विना | विना मद्यं विना मांसं कुलपूजां न कारयेत् || न कुर्यात् प्रलयं भुक्त्वा विना मंत्रे पूजनं | शक्त्या विना तथा पानमेकहस्तेन नार्चयेत् || श्रीचक्रमेकोनोकुर्यादेकपात्रे च नार्चयेत् | नपि वेदेकहस्तेन चक्रेनिष्टीवनं न च || प्. ५५अ) प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत् प्रणम्य च | श्रीचक्रं नासने तिष्टेन्ना च वीरासने क्वचित् || श्रीचक्रदर्शनं नॄणां नेत्रयोः पापनाशनं | तन्नास्ति चेद्व्रणी द्वंद्वं कौलिकस्याक्षि युग्मकं || अनाचारात् सदाचारांश्चक्रस्थान् शक्तितौलिकान् | शिवगौरीधियासर्वान् भावयेन्नावमानयेत् || कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये | याचयेदमृतं वान्नं तदभावे जलं पिबेत् || कुलाचार्येण वेच्छक्त्यादत्तं पात्रं तु भक्तितः | नमस्कृत्य प्रगृह्नीयादन्यथा नरकं व्रजेत् || उष्णीषी कंचुकी नग्नो मुक्तकेशश्च उक्तवान् | अस्नातोनाति भक्तश्च विवादी च पराङ्मुखः || नेदं यस्य कुले जातं यश्च संस्कारमाद्विजः | वेदाध्यायी कुलद्रव्यसेवनान्निर्द्धनो भवेत् || योगामृतस्य निष्टीवान्मद्यभाण्ड परिभ्रमात् | ऊर्द्ध्वनालेनपानाच्च देवताशाप माप्नुयात् || एकासने निविष्टाये भुंजानाश्चैकभाजने | एकपात्रे पिवंतो येतं यांति नरकं सदा || ये सेवंते कुलद्रव्ये मेकग्रामस्थिते गुरौ | तत् कुलेज्ञे च तत्पुत्रे स्वह्येष्ठ कुलदेशिके || विनानुज्ञां स पापात्मा रौरवं निरयं व्रजेत् | पठनं धर्मशास्त्रस्यह्य कुलस्त्री निषेवनं || श्रौतकर्मस्याचरणं श्रोत्रियाणां च संगतिः | कामार्थायुर्यशोलोभोज्ञानसौख्यादिनाशकं || रिपुणापि न कर्तव्यो वाग्वादश्चक्र मध्यतः | पितृमातृसमं पश्येत्तेनोक्तं पुरुषं महेत् || श्रीगुरुं कुलशास्त्राणि पूज्यस्थानानि यानि च | भक्त्या श्रीपूर्वकं विद्वान् प्रणम्य परिकीर्तयेत् || पारंपर्यागमाम्नाय मंत्र चारादिकं तथा | सर्वं गुरु कुलाल्लध्वं सफलं स्यान्नवान्यथा || श्रीशास्त्रं पूजयेन्नित्यं पशुगेहेन निःक्षिपेत् || स्वदारवन्निषेवेत कुलशास्त्राणि सर्वणि वर्जयेत् परदारवत् || संस्कारार्थं छिन्नभिन्ना व्यस्तवर्णांश्च वैदिकांन् | मंत्रान् पठेन् संप्रदायात्तैः स्यादत्रव्यवस्थितिः || धर्मशास्त्रविरुद्धोय आचारः स तु कौलिकः | चक्रेणाकारयेदेता दैवात् प्राप्ताः प्रपूजयेत् || गमनं नैव कुर्वीत कृत्वा निरयमाप्नुयात् | मातरं गुरुपत्नीं च भगिनीं भगिनीसुतां || भ्रातृजायां वीरभार्यां कुमारीं व्रतधारिणीं | व्यंगांगीं विकृतांगीं चक्षुधां प्रीतां समाहृतां || प्. ५५ब्) स्रूयां सकृत्कामगतां वृद्धां नैवामनोहरां | मनोहरां यौवनस्थां सुवेषां चारुहासिनीं || रक्तांत नयनां श्यामां पूजयेत् कौलिकांगणां | अकस्माच्च न सेवेत बलेन कुलयोगिनीं || चक्रमध्ये स्व्यं क्षुधां वास्त्वतः प्रार्थिनीं भवेत् | आमं मांसं सुराकुंभं मत्तेभं सिद्धदर्शनं || सहकारमशोकं च क्रीडां लुब्धां कुमारिकां | एकवृक्षं श्मशानं च समूहं योषितामपि || नारीं च रक्तवसनां दृष्ट्वा वंदेत भक्तितः | गुरुशक्तिसुतो ज्येष्ठः कनिष्ठः कुलदेशिकान् || कुलदर्शन शास्त्राणि कुलद्रव्याणि कौइकान् | प्रेरकात् सूचकांश्चापि वाचकान् दर्शकांस्तथा || शिक्षकान् वोधकान् योगियोगिनी सिद्धपूरूषान् | कन्याः कुमारिकानग्ना उन्मत्तानपि योषितः || ननिंदेन्न जुगुप्सेतनहसेन्ना च मानयेत् | नाप्रियं नानृतं ब्रूयात् कस्यापि * ? कुयोगिनः || कुरूपे सति कृष्णेति न निंदे कुलयोषितं | परिक्षयेन्नभक्तानां वीराणां च कृता कृते || न पश्येत् पतितां नग्नामुन्मत्ता प्रकटस्तनीं | न दिवासेवयेन्नारीं तद्योनिं न निरीक्षयेत् || स्त्रियंशतापराधां वा पुष्पेणापि न ताडयेत् | दोषां न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् || तिष्ठंति कुलयोगिन्यः कुलवृक्षेषु सर्वदा | तत्पत्रेषु न भोक्तव्यमर्कपत्रे विशेषतः || न स्वयेत् कुलवृक्षाधो न चोपद्रवमाचरेत् | दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन || श्लेष्यांतककरंजाक्षनिंवाश्वत्थ कदंवकाः | विल्वोवटोडुंवरौ च विंचावेति दशस्मृताः || प्रायश्चित्तं भृगोः पातः संन्यासं व्रतधारणं | तीर्थयात्रादिगमनं कौले पंचविवर्जयेत् || अंहः कौलं वहिः शैवं जनमध्ये तु वैष्णवं | कौलं तु गोपयेद्देवि नारिकेल फलांवुवत् || गुरुं प्रकाशयेद्धीमान् मंत्रं यत्नेन गोपयेत् | अप्रकाशः प्रकाशाभ्यां क्षीयते संपदायुषं || सर्वाचार परिभ्रष्टः कुलाचारं समाश्रयेत् | कुलाचार परिभ्रष्टो रौरवं नरकं व्रजेत् || वामाचारं तु कथयेद कुलीनाम सद्गुरुः | आचारात् पतितः शिष्ये पातकी सगुरुर्भवेत् || प्. ५६अ) सर्वभूतहितेरक्तः समयाचारपालकः | अनित्यकर्म संत्यागी नित्यानुष्टान तत्परः || परस्यां देवतायां तु सर्वकर्मनिवेदकः | अन्यमंत्रार्चनः श्रद्धामन्यमंत्रस्यपूजनं || कुलस्त्री वीरनिंदां च तद्द्रव्यस्यापहारणं | स्त्रीमयं च जगत्सर्वं स्वयंतावत्तथा भवेत् || पेयं चर्वं तथा चोष्यं भक्ष्यं लेह्यं गृहं सुखं | सर्वं च युवतीरूपं भावयेद्यतमानसः || स्त्रियोदेवास्त्रियः प्राणाः स्त्रिय एव हि भूषणं | स्त्रीसंगिणा सदाभाव्यमन्यथा स्वस्त्रियामपि || तद्धस्तावुचितं पुष्पं तद्धस्त गृहितं जलं | तद्धस्तरचितं भोज्यं देवताभ्यो निवेदयेत् || कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः | यदि भाग्यवशेनैव कुलदृष्टिस्तु जायते || तदैव मानसीं पूजां तदा तासां प्रकल्पयेत् | वालां वा यौवनोन्मत्तां वृद्धां वा सुंदरीं तथा || कुत्सित्वां वा महादुष्टां नमस्कृत्य विभावयेत् | तासां प्रहारं निंदां च कौटिल्यमप्रियं तथा || सर्वथा न च कर्तव्यमन्य सिद्धि * ? रोधकृत् | गोचर्मस्थं यथाक्षीरं न पेयं स्याद्विजोत्तमैः || तथा पशुमुखाद्धर्मो न श्रोतव्यस्तु कौलिकैः | असंस्कारं पिबेद्द्रव्यं वलोत्कारेण मैथुनं || स्वहस्तेन पशुं हत्वा रौरवं नरकं व्रजेत् | वीरहत्या वृथापानं वीरद्रव्यापहारणं || वीरस्त्रीगमनं चैव तत्संयोगस्तु पंचमः | महापातकमित्युक्तं कौलिकानां कुलागमे || शृणु पुत्ररहस्यं मे समयाचार संभवं | येन हीना न सिद्ध्यंति जन्मकोटि सहस्रशः || मनवः कुलशास्त्राणां कुलचर्यानुयायिनां | उदारचित्तः सर्वत्र वैष्णवाचार तत्परः || परनिंदा सहिःष्णुः स्याद्दुपकाररतः सदा | पर्वते विपिने वापि निर्जने शून्यमंडपे || चतुष्पथे जले शून्ये यदि दैवाद्गतिर्भवेत् | क्षणं ध्यात्वा मनुंजत्वा नत्वा गच्छेद्यथा मुखं || गृद्धं वीक्ष्य महाकालीं नमस्कुर्यादलक्षितः | क्षेमंकरीं तथा वीक्ष्यजंवुकीं यमदूतिकां || कुरंगंश्येनंभूकाकौ कृष्णमार्जारमेव च | कृशोदरी महाचण्डे मुक्तकेशी वलिप्रिये || कुलाचार प्रसन्नास्येनमस्ते शंकरप्रिये | श्मशानस्थं शवं दृष्ट्वा प्रदक्षिण मनुंस्मरन् || प्रणम्यानेन मंत्रेणमंत्री सुखमवाप्नुयात् | घोरदंष्ट्रेकरालास्येकिटिशब्द प्रणादिवि || प्. ५६ब्) घोरघोररवास्फाल नमस्ते चितिवासिनि | रक्तवस्त्रं तथा पुष्पं राजानं राजपुत्रकं || हस्त्यश्चरथशस्त्राणि फलकान् वीरपुरुषान् | महिषं कुलनाथं च दृष्ट्वा महिषमर्द्दिनी || प्रणम्य जयदुर्गां वास च विघ्नैर्नलिप्यते | जयदेवी जगद्धात्री त्रिपुरे च त्रिदैवते || भक्तेभ्यो वरदे देवि महिषघ्नी नमोस्तुते | मद्यभांडं समालोक्य मत्स्यं मांसं वरस्त्रियं || दृष्ट्वा च भैरवीं देवी प्रणम्य विवृषेन्मनुं | घोरविघ्नविनाशाय कुलाचार समृद्धये || नमामि वरदे देवी मुण्डमाला विभूषिते | रक्तधारा समाकीर्णे वरदेत्वान्नमाम्यहं || सर्वविघ्नहरेदेवि नमस्ते वरवल्लभे | एतेषां दर्शने नैव यदि दैवान्न कुर्वते || शक्तिमंत्रं पुरस्कृत्य तस्य सिद्धिर्न्नजायते | वेदशास्त्रपुराणानि स्पष्टा वेश्यांगना इव || एयं तु शांभवी विद्यां गुप्ता कुलवधूरिव | सुगुप्तां कौलिकाचार मनु गृह्नंति देवतां || वांछा सिद्धिं प्रयच्छंति नाशयंति प्रकाशनात् | कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपं || गुरुं कुलपतिं चापि कुलमाली कुलाकुलं | कुलचक्रं कुलध्यानं सर्वथा न प्रकाशयेत् || प्रकाशात् सिद्धिहानिः स्यात् प्रकाशाद्वंधनादिकं | प्रकाशाद्वलहानिः स्यात् प्रकाशाद्देवहिंसनं || प्रकाशान् मृत्युलाभः स्यान्न प्रकाश्यं कदाचन | पूजाकालेन महेशानि यदिकोप्यत्र गच्छति || दर्शयेद्वैष्णवीं मुद्रां विष्णुन्यासंस्तथास्तवं | कदाचिदंगहानिःस्यान्न च व्यक्तः कदाचन || परं पूजा न कर्तव्या न च व्यक्तिः कदाचन | अंतः शाक्ता वहिः शैवाः सभार्या वैष्णवामताः || नानारूपधरावीराविचरंति महीतले | दक्षिणाख्यं कुलाचारं कथितं तव सुव्रते || न कस्मैचित् प्रवक्तव्यं यदीच्छेत् प्रियमात्मनः | अथ वामकुलमार्गाधिकारिता विवेकमाह || वक्ष्येथ प्रकटं धर्मं कौलिकानां च वामनी | इहलोके परत्रापियं कृत्वा सुखमाप्नुयात् || ब्राह्मण्यं स्वस्य विप्रस्तु सम्यज्ञात्वा समाविशेत् | वाममार्गेथ वा कौले तत्रापि च न लंघयेत् || प्. ५७अ) स्वस्ववर्णा समाचारं न कुर्यात् तत्प्रतिग्रहं | परस्त्री धननिंदा च वेदशास्त्रादि निंदनं || अनिग्रहं चेन्द्रियाणां वचनं गुरुविप्रयोः | संगः सर्वात्मनात्याज्योगुप्तस्तिष्टेद्गुरुं विना || सत्संगश्च विवेकश्च निश्चलं नयनद्वयं | यस्य नास्ति नरः सोंधः कथं वामे सुखं लभेत् || संसारिकः सुखं प्रोक्तं व्रह्मज्ञोस्मीतिवादिनं | कर्मभंगो भयभ्रष्टंतं त्यजेदेत्यजं यथा || मद्यंमांसं सुरापानं मत्स्याः स्त्रीणांधवास्तथा | अनेका यत्र जायंते तत्र वामो गतिप्रदः || स्थित्वा तु दक्षिणेमार्गे गुप्तं भुंक्त्ये पलादिकं | स याति नरकं घोरं विष्ठायां जायते कृमिं || विना वलिं पलां भुंक्त्ये विना पूजां सुरां पिबेत् | दूतीयज्ञं विना गच्छेत् स्त्रियं वाम्यपि नारकी || अवुध्वा समयाचारं कुलधर्मं चरेद्यदि | स गुरुश्चैव शिष्यश्च योगिनीनां भवेत्यशुः || वाममार्गमजानाति मूढात्मामोक्षमिच्छति | पारावारमपारं स वाहुभ्यां तर्तुमिच्छति || सर्वकर्मविहीनाये वर्णाश्रम विवर्जिताः | कौले वा वाममार्गं ते भुक्तिमुक्तेश्चभाजनं || निंदं तु वांधवाः सर्वेत्यजं तु स्त्री सुतादयः | जनाहसंतुमां दृष्ट्वा राजानोदण्डद्यं तु वा || रोगदारिद्र्य दुःखाद्यैः पीडितोप्यनिशं त्वहं | लक्ष्मीस्तिष्टतु वा यातु न मुंचामिपर्थत्विदं || एवं यस्य दृढा भक्तिः स वामे सिद्धिमाप्नुयात् | नार्थलाभान्न च क्रोधान्नढेषान्न च मत्सरान् || न कामान्न भयाद्वापिमार्गं प्राप्तं परित्यजेत् | प्रत्यहं नार्चयेद्देवीं मार्गेस्मिन् विघ्नमाप्नुयात् || गुरुकारुण्य संपूतो देहनिर्द्धूतकल्पषः | कुलपूजारतो यस्तु सोयं कौलो नवेतरः || परोक्षेको न जानीते कस्य किं च भविष्यति | यद्वै प्रत्यक्षफलदं तदेवोत्तमदर्शनं || गुरूपदेश निहिता महांता इति केचन | मोहयंति जनान् केचित् स्वयं पूर्वं विमोहिताः || पेयं मद्यं लं खाद्यं समालोक्य प्रियामुखं | इत्येवा चरणं श्रेष्ठं परमाः प्रवदंति च || मद्यपानेन मनुजो यदि सिद्धिं लभेत चेत् | मद्यपानरताः सर्वे संसिद्धान भवेत्युमे || मांसभक्षणमात्रेण यदि पुण्यागतिर्भवेत् | क्रव्यादानां तदा मोक्षो मांसादन्यन्नभुंजते || स्त्रीसंभोगेन भोदेवी यदि मोक्षोभि जायते | तदा सर्वेपि मुक्ताः स्युःकस्यजन्म भविष्यति || कृपाणधारागमनाद्व्याघ्रकर्णावलंवनात् | भुजंगधारणान्नूनमशक्यं कुलवर्त्मनः || प्. ५७ब्) वृथापानं तु देवेशि सुरापानमिहोच्यते | तन्महापातकं ज्ञेयं वेदादिषु निरूपितं || अनांघ्रे च मवालोक्यमनाश्चाद्यमपेयकं | मद्यं मांसं पशूनां तु कौलिकानां महत् फलं || अमेध्यानि द्विजातीनां मद्यान्येकादशैव हि | द्वादशां तु सुरामद्यं सर्वेषामुत्तमं स्मृतं || तस्माद् ब्राह्मण राजन्यौ वैश्यश्च न सुरां पिबेत् | सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनं || तस्य संसर्गमात्रेण प्राणायाम त्रयं चरेत् | आजानुभ्यां भवेत् स्नानं नाभ्यामुपवसेदहः || उद्धनोचे स्त्रिरात्रं तु मद्यस्य स्पर्शने विधिः | सुरापाने कामकृते ज्वलंतीतां प्रवे * * (?) त् || मुखे तया विनिर्द्दग्धेतच्छुद्धिं समवाप्नुयात् | अविधानेन योहन्यादात्मार्थे प्राणिनः प्रिये || निवसेन्नरकेघोरे दिनानि पशुरोमभिः | समितानि दुराचारस्तिर्यग्योनिषु जायते || * * (?) चाप्य विधानेन छेदयेन्न कदाचन | विधिवद्गांद्विजं वापि हत्यापापैर्नलिप्यते || सर्वेभ्यः कौलिकः श्रेष्ठस्तूर्ध्वाम्नायी च वागमः | अधिकारी भक्तियुक्तोयश्चमद्गुरु सेवकः || स एव कौलिको वंद्य इतरेमद्यपानताः | स्मरणं कीर्तनं तस्य दर्शनं वंदनं तथा || संभाषणं च कुरुते राजसूयाधिकं फलं | स यत्र वसते देवास्तत्र श्रीविजयो भवेत् || * * * * * * * * * * * (##? दृष्ट्वे दृशं च प्रणमेदन्यैर्वर्ज्यः सदूरतः || पूर्वाम्नायः सृष्टिरूपः स्थितिरूपं तु दक्षिणः | संहारः पश्चिमाम्नाय उत्तरेनुग्रहो भवेत् || मंत्रयोगं विदुः पूर्वं भक्तियोगं तु दक्षिणं | पश्चिमं कर्मयोगं तु ज्ञानयोगं तथोत्तरं || इति श्रीतंत्रचिंतामणौ दक्षिणाद्याचारनिर्णयो नाम द्वादशः प्रकाशः || १२ || अथ श्यामादि प्रत्येकविद्यायां विशिष्य मंत्रसिद्ध्यैककारणं महानीलादि क्रममाह || देव्युवाच | देवेशश्रोतुमिच्छामि रहस्याति रहस्यकं | दशविद्यादिकादेवं दशवैद्येक्रमाः प्रभोः || पुरैवकथिता स्वामिन्तं क्रमं वद संप्रति || शिव उवाच || रहस्याति रहस्यं च कथ्यते तव भक्तितः | महानील क्रमेणैव कालिका सिद्धिदायिनी || महानीलक्रमो देवी द्विविधा परिकीर्तितः | सकलो निष्कलश्चेतितं क्रमं शृणु पार्वती || प्. ५८अ) खड्गहस्तशिरन्यस्त सर्वदा मुक्तकुंतलः | सदामांसासवोल्लास विजयाघूर्णलोचनः || सिंदूरतिलकं भालेपाणौ तु मदिरारसं | न करोति नरो यस्तु स कथं मम पूजकः || रात्रौ पर्यटनं चैव रात्रौ शक्तेः प्रपूजनं | न करोति नरो यस्तु स कथं ममपूजकः || योनि चुंवनकं कर्मशक्तेरालिंगनं तथा | न करोति नरो यस्तु सकथं मम पूजकः || तांबूलं योनिचक्रं च मुण्डमाला शवाशनं | सिंदूरं खड्गकं चैव संविदा सवयोरसं || एतांविहाययः कश्चित् कालीं साधितुमुद्यतः | इहक्षोभमवाप्नोति परत्र नरकं व्रजेत् || कोमुर्वुदयुगैर्देवि न हि सिद्ध्यतितारिणी | सिंदूरविंदुभूयुग्मे स्वयंभू मुनिपत्रकं || रक्तचंदनजं वापि त्रिपुण्ड्रं च ततोपरि | कुर्वन्दलेकज्जलस्य विंदुर्देयो महेश्वरि || महानील क्रमेदेवि तिलकः परिकीर्तितः | श्मशानशायी मांसासी संविदा नंदमानसः || स्त्रियं पश्यन् पृशन् गच्छन् सर्वकालं जपं चरेत् | वेश्यारतः श्मशानस्थो मृदुचूडक संयुतः || दंताक्षमालयादेवि राजदंतेन मेरुणा | मालां कृत्वा जपेद्देवि सदा तांबूलचर्वकः || कपालपात्रसंपूजा वीरसाधन तत्परः | कपालमालाभरणो रामाचुंवन तत्परः || शक्त्यानंदो नेत्रयुगं मुखेहालां गृहांगणे | वेश्या वालाकरे मालाशक्तिलोलाभगांवुजे || योनिसं चुंवनं कृत्वा सर्वकालं जपं करे | शक्त्युद्भवान संकार्यः सर्वमेतच्चराचरं || अविचारी प्रहृष्टात्मास्त्रीभक्तो विजितेंद्रियः | ईदृग्विधो नरो देवी महानील क्रमोमतः || राजदंतमयी मालाद्विरदोष्ट्राश्च संभवाः | असक्तानां निष्कलः स्यात्तं क्रमं शृणु पार्वती || पीतयादुग्धकं पीत्वा सच्चिदानंदमानसः | स्फाटिकीमालिकां कृत्वा विहारे जपमाचरेत् || दिक्काल नियमोनास्तिस्थित्यादि नियमो न च | न जपेकाल नियमो महामंत्रस्य साधने || यस्मिन् मंत्रे सदाचारस्तत्र धर्मस्तु तादृशः | भ्रांतिस्तत्र न कर्तव्या स्वर्गो वा मोक्ष एव च || मृदुकोमलकं देवि चूडकं वाथ चूडकं | शर्ववीरासनं कृत्वा योनितोगासनं च वा || प्. ५८ब्) कामरूपासनं देवी मुरतासनमेव च | सिंदूरासनकं देवी पर्वतासनमेव च || सरोवरासनं चेति तिलपुष्पे चखं जयं | चंद्रविंवं सर्पिणी च चुंवनासनमेव च || प्रयागासनकं देवी महाप्रयागासनं तथा | स्पर्शखट्वासनेचेति योनि चुंवनमासनं || निष्कास्पर्शासनं देवी वायुः स्पर्शासनं च वा | आश्रेयासनकं देवी तथा मुण्डासनं तथा || श्रीमुण्डमुरतं वापि श्रीवीरमुरतं च वा | पंचवीरासनं देवी मुरेंद्रादि दिशाः क्रमात् || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि महाचीन क्रमं परं || शिव उवाच | महाचीनक्रमं देवी कथ्यते सांप्रतं मया | महाचीन क्रमेणैव ताराशीघ्र फलप्रदा || ब्रह्मचीनो दिव्यचीनो वीरचीनस्तृतीयकः | महाचीनोनिकलश्चचीनः पंचाविधोमतः || महाचीनः क्रमाद्देवी द्विविधः परिकीर्तितः | सकलो निष्कलश्चेति सकलोवौद्धगोचरः || निष्कलो ब्राह्मणानां च द्वितीयं शृणु पार्वती | नवद्वयं त्रिभुवने सारात्सारतरं परं || महाचीन क्रमोदेवी द्विविधैव प्रकीर्तितः | तत्रैव देवदेवेशि त्रैगुण्याद्भेदभाजनं || स्नानादिमानसं शौचं मानसः प्रवरोजपः | पूजनं मानसं दिव्यं मानसं तर्पणादिकं || मानसो नियमो प्रोक्तो मानसंदंतधावनं | सर्व एव शुभः कालानाशुभो विद्यते क्वचित् || न विशेषो दिवारात्रौ न संध्यायां महानिशि | वस्त्रा ईमानसं शौचं देहस्पर्शादिवारिणां || शुद्धिं न कारयेदत्र निर्विकल्पं मनश्चरेत् | नात्रशुद्धेरपेक्षास्ति नवामेध्यादिदूषणं || य एवं चिंतयेन् मंत्रं सर्वकामः समृद्धिदं | गद्यपद्यमयीवाणी सभायां तस्य जायते || तस्य दर्शनमात्रेणवादिनो निःप्रभामताः | राजानोपि च दासत्वं भजंति किं परे जनाः || सर्वदा पूजयेद्देवीमस्नात कृत भोजनं | महानिश्य शुचौ देशे वलिंमंत्रेण दापयेत् || स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजनं स्त्रियः | जपस्थाने महाशंखं निवेश्योर्द्धे जपं चरेत् || स्त्रियं गच्छन् पृशन् पश्यन् यत्र कुत्राप्य चूडके | भुक्त्वा तांवूलमन्यांश्च भक्ष द्रव्यान्यथारुचीन् || प्. ५९अ) मांसं मत्स्यं दधिक्षौद्रं संविदासवद्योरसं | भुक्त्वान्यशेषभक्ष्याणि भुक्त्वा भक्ष्यं चरेज्जपम् || दिक्कालनियमोनास्ति स्थित्यादि नियमो न च | न जपेकाल नियमो नार्चादिषु वलिष्वपि || स्वेच्छा नियम उक्तोत्र महामंत्रस्य साधने | वल्लासनंघोहदेहस्पर्शस्पर्शादिवारिणः || तैलं संलाप्य देवेशि तांवूलं भक्षयन् सदा | नानावराणि संधार्ययदेहं वस्त्रेण मार्जयेत् || एवं स्नानं चरेद्देवि सर्वदा तद्गताशयः | महाचीन क्रमोदेवी विप्रस्नानमिदं भवेत् || शुद्धिं न चार्चयेदत्र निर्विकल्पं मनश्चरेत् | सुगंधिश्चेतलौहित्यकुसुमैरक्तचंदनैः || विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः | वर्जयेद् विल्वपत्रं च मनुं यत्नेन वर्जयेत् || केशान् संवर्द्धयेद्देवी सर्वदा तैलभूषितः | अष्टम्यां च चतुर्दश्यां विशेषदिवसं सदा || नाधर्मो विद्यते सुभ्रू किंतु धर्मो महान् भवेत् | स्वेच्छा नियम उक्तोत्र प्रवरेद्धृष्टमानसः || कृतार्थं मन्यमानस्तु संतुष्टो नियमानसः | हरेर्नामनगृह्नींयान्न स्पृशेत् तुलसीदलं || नान्य चिंता प्रकर्तव्यो सिद्धिर्दिवसमात्रतः | अन्यथा नैव सिद्धिः स्यात् प्रजपैरपि कोटिभिः || पुरश्चरण लक्षैश्च होमादीनां च कोटिभिः | ब्राह्मीभूते महाचारे निर्विकल्पः प्रियेस्तिवै || भ्रूयुग्मे कुंडले देवि सिंदूरं तत्दनंतरं | कुचंदनं त्रिपुण्ड्रं च पंकजं वासकेशरं || मुण्डमालागलेधार्या कपालपाणि संगतः | इत्याचारपरोनित्यं महाचीन क्रमो भवेत् || सर्वदानंद हृद्यः सर्वदाभक्त सेवकः | कर्णनेत्रांतरस्थोयः महाशंखः प्रकीर्तितः || पंचाशन्मणिभिर्मालागोनलेभास्थि संभवा | मालाकुर्यान् महेशानि चाष्टसिद्धीश्वरो भवेत् || सैवतारा महेशानि नात्रकार्या विचारणा | शिवशंकरविश्वेशविश्वतारकशाश्वतः || वेदहीना वैद्यधर्मास्तान्कथं ब्राह्मणश्चरेत् || शिव उवाच || साधुदेवी महाप्राज्ञे प्रिये साधक सुप्रिये | तद्भावनाश्रमायत्रस्तद्भावमादरेत् प्रिये || यथा श्राद्धविधौ देविमांसं मुख्यं प्रकीर्तितं | कलुअ तच्च निषिद्धं स्याद्ब्राह्मणानां महेश्वरी || प्. ५९ब्) आत्मार्थं वा परार्थं वा पशून् हत्वा पशुर्भवेत् | यावंति तस्य रोमाणितावद्योनिमवाप्नुयात् || तथा तद्भावनायां तु न च दोषोस्ति पार्वती | स करस्तु मया प्रोक्ता निष्कलं शृणु पार्वती || मणिवंधादधपाणिं पादांगुल्यादधः शिवे | मुखं प्रक्षालयेद्देवी चीनस्थानमिदं भवेत् || जानुभ्यामवनीं धृत्वा भूमौ मस्तक मानयेत् || चीनमार्गे नमस्कारकीर्तितस्तु मया तव || पूर्वक्रमस्य देवेशि क्रमः प्रतिनिधिर्मया | स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये || तथा स्नानं नमे देहो न च पामनास्तिवै | किं स्नानं कस्यचित् स्नानमस्नातः कृतभोजनः || सर्वमेव हृदंभोजेमयि सर्वं प्रतिष्ठितं || मयिज्ञाता मंत्रसिद्धिर्ममदेवावरप्रदा || तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् | तत्तेजसीस्वस्यदेहं संभाव्यजपमाचरेत् || भावना च शमापन्नो भवेद्योगी महाकविः | गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च || तदभावे जलं देवि संभाव्य पूजनं चरेत् | तभाव हृदयासन्नः सदा तद्रजमानसः || द्वंद्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् | ब्रह्मा चैव वशिष्टश्च तथान्ये च ऋषीश्वराः || निष्कलः क्रममार्गेण भजंति सततं शिवे | ताराभक्ता महेशानि ब्रह्मणा परिकीर्तिताः || ब्रह्मविद्या महाविद्या सर्वत्र दुर्लभाकलौ | रहस्याति रहस्यं च गोप्तव्यं पशुसंकटे || देव्युवाच || छिन्नमस्ताविधौ देवक्रमंमे व्रूहि सत्वरं || शिव उवाच || दिव्यचीन क्रमेणैव छिन्नमस्ता वरप्रदा | क्रमद्वयं महेशानि पूर्वमेकं प्रकाशितं || एतस्यास्तिलकोदेवि भ्रूमध्ये चक्रचंदनं | तदंते रोचनापत्रे त्रिपुण्ड्रं दिव्यवर्णकैः || श्मशानभस्मविंदुस्तु तन्मध्ये दापयेत् प्रिये | मुखे मुखं प्रदत्वा तु सर्वकालं जपेच्छिवे || योनिचक्रं समालोच्य यत्किंचित् कुरुते नरः | तत्तदक्षयमाप्नोतिछिन्नाविद्या प्रसादतः || कालीतारा छिन्नमस्ता तथा षट्शांभवी शिवे | दिक्कालनियमो नास्ति स्थित्यादि नियमो न हि || पाताले कुहरे दुर्गे पर्वते तटिनी तटे | अंतरीक्षे तथा भूमौ सर्वत्र जपमाचरेत् || प्. ६०अ) विशेषः कथिता देवीशक्ति तत्वस्य पावनं || देव्युवाच | गंधर्वाख्यं क्रमं देव कथयस्वमयि प्रभो || शिव उवाच | गंधर्वाख्य क्रमेणैव सुंदरी भुविदुर्लभा | गंधर्वाख्य क्रमं देवि कथ्यते शृणु सांप्रतं || भ्रूमध्ये कुंकुमं देवि तदंते मलयागुरु | अष्टगंध त्रिपुण्ड्रस्य मध्ये कस्तूरिकान्वितं || सुगंधश्वेतलौहित्य पुष्पैः संभूषितो नरः | स्वस्तिकांकित देहस्थो रत्नप्राकारसंयुतः || अष्टगंधस्य धूमेन नानासौगंध्यभूषितः | रक्तमाल्यांवरधरो मुक्ताहारोपशोभितः || पूर्णाभिषेक शिरसि तेन तत्र न मुंडनं | केशान् संवर्द्धयेद्देवि सौगंध्य तैलभूषितः || नानासौगंध्य भोज्यैश्च राजयोग्यै महेश्वरिः | आयानि संगतः पूताः किं पुनर्वह्नितापिताः || सदा चोष्णोदकैः स्नायात् तदभावे यथोदकं | गृहं चित्रैस्तु संचित्रेदर्पणोदरसन्निभं || वितान द्वजभूषाढ्यं घंठानादोपशोपशोभितं | पंचवादित्र संयुक्तं नानाघोष समन्वितं || अतः सूक्ष्मां वरैर्युक्तः स्वर्णपात्रादि रंजिभिः | ग्रैवेयवलयांगुल्यभूषणैः भूषितः सदा || नानामधुरभोज्यैश्च दुग्धपाकैरनेककैः | नानाभोगेनसंयुक्तो गंधर्वाख्यः क्रमो भवेत् || इति संक्षेपतः प्रोक्तं भैरवाख्यं शृणु क्रमं | स्वपुष्पैः क्रमयोगेन भैरवी भुवि दुर्लभा || स्वपुष्पाख्यः क्रमोदेवि कथ्यते शृणु सांप्रतं | तरुणी सुंदरी रम्यां तारुण्यामृतविग्रहां || सदारतौसाभिलाषां मैथुनोद्यतमानसं | मंत्रयंत्र समायुक्तां समायुक्तां महेश्वरी || नग्नांतां च विहायादौ स्वयं नग्नो जपं चरेत् | परस्परालोकनं च कर्तव्यं च परस्परं || अविकारां यदा देवी साधनार्होनचान्यथा | विकारे भावनाने च साधको नश्यति क्षणात् || तत् कुंडं च महेशानि क्षणाद्विकर्षितं भवेत् | तथापि स्वस्य देहस्य विकारं न हि कारयेत् || सापि चेद्देवदेवेशि सविकारी यथा भवेत् | पुष्पिणी मनुनादेवि पलात्पुष्पं समानयेत् || द्राविणी मनुनादेवि वलादृष्ट्याडनं नयेत् | उभयं चैव संगृह्य जयं कुर्यान् महेश्वरी || शक्तिश्च साधको देवि दंपती दुर्लभौ स्मृतौ | वगला सुंदरी ताराकालाद्यास्वपि यत्नतः || प्. ६०ब्) क्रमोयं योग्यतां सम्यक् नात्रकार्या विचारणा | कलिदोषावशाद्देवीनायं योगोभविष्यति || तस्मात् पाशववेत्कल्पेवालाशस्ताधुना शिवे | वालायामुभवाचारोदक्षिणोमुख्य एव हि || शीघ्रं च सिद्धिकामश्चेद्गवाक्षायोगमभ्यसेत् | यत्र स्त्रीणां समूहोस्ति नदी न दशमुद्रके || यत्र स्नानं न कुर्वंति गवाक्षं तत्र कारयेत् | तामालोक्य प्रयत्नेन जपं कुर्यान्निरंतरं || सर्वाः संवीक्ष्ययेद्देवी स्वर्णरत्नादिभिः प्रिये | इति संक्षेपतः प्रोक्तं तिलकं शृणु पार्वती || वामहस्ततले यंत्रं विलिख्या यत्नतः शिवे | अवशिष्टेन तिलकं कारयेत् परमेश्वरी || भाले कस्तूरिका विंदुं मुनिपुत्रं सुचंदनं | तन्मध्ये श्वेतविंदुं च केशादि पूर्ववद् भवेत् || दशविद्याविधौ देवि केशवर्द्धनमीरितं || देव्युवाच || देवेश श्रोतुमिच्छामि कमला क्रमनिर्णयं || शिव उवाच || भ्रूयुग्मेद्यु शृणं देवी सिंदूरं तदनंतरं | स्वेत त्रिपुण्ड्रं देवेशि तन्मध्ये केशरं शिवे || स्नातः शुक्लांवरधरः शुक्लमाल्यानुलेपनः | शुक्लभूषणभूषाढ्यः स्त्रिसंध्यं स्नानमाचरेत् || हविष्यासी भूमिशायी मधुरान्न प्रियो नरः | भृगुवासरपर्यंतं द्वितीयं भृगुवासरं || दिनवृद्धि क्रमेणैव कुमारीं पूजयेत्सदा | द्वितीय भृगुभारभ्य ह्रासयेद्दिनवृद्धितः || प्रत्यहं पूजयेद्देवि नानावादित्र निश्चनैः | दिनषोडशपर्यंतं प्रत्यहं तु समाचरेत् || पुनस्तद्विममारभ्यतद्दिनांतं महेश्वरी | पूजयेत् प्रयतो नित्यं देवताभाव तत्परः || प्रदक्षिणा प्रकर्तव्या कलाभाव क्रमेण च | दीपास्तत्र प्रदातव्या कलावृद्धिः क्रमेण च || ब्राह्मणान् भोजयेन्नित्यं कलाभावक्रमेण च | इत्याचारपरः श्रीमान् विष्णुरूपोनरो भवेत् || राजचिह्नानि सर्वाणि प्रयतः पूजयेत् सदा | सर्वसाम्राज्या लक्ष्म्यास्तु नाथो भूयान्न संशयः || धनदातस्य देहस्था राजा च किंकरो भवेत् || देव्युवाच || देवेश श्रोतुमिच्छामि ब्रह्ममार्ग क्रमं शिव || शिव उवाच || वेश्यायाः कज्जलं देयं सिंदूरेण त्रिपुण्ड्रकं | हरिद्रा भ्रूयुगेदेयाश्वेतपत्रं समाचरेत् || प्. ६१अ) रक्तविंदुं च तन्मध्ये सर्वदा तद्गतोद्भवेत् | भोजने शयने रात्रौ मैथुनं सर्वदा भवेत् || उच्छिष्टहस्ते देवेशि उच्छिष्टे न वलिं हरेत् | शक्त्युच्छिष्टं परोच्छिष्टं भोजनं सार्वकालिकां || जपे कुर्यान् महेशानि रात्रावेव जपं चरेत् | ताम्बूलं भक्षणं कृत्वा तांबूली चैव मोहयेत् || तांबूलभक्षीं मांसासी भुक्त्वाचार्चां च कारयेत् | गृहं प्रलिप्य यत्नेन मार्जन्या मार्जनं चरेत् || प्रजपेद् यत्नतो देवि नान्यथा सिद्ध्यति ध्रुवं | उच्छिष्ट हस्ते देवेशि स्वदेहं प्रोच्छ्यते सदा || उच्छिष्टहस्तः प्रजपेद् ब्रह्ममार्गः प्रकीर्तितः | ब्रह्ममार्गः क्रमोदेवि गतितस्तु मया तव || अनेन क्रमयोगेन सिद्धमार्गः क्रमो भवेत् | सिद्धविद्या प्रभावास्यात् प्रत्यक्षा वरदायिनी || सुरेंद्रोपि च दासः स्यान्मनुष्याणां च काकथा | रहस्यं कथितं भद्रे गोअनीयं स्वयोनिवत् || देव्युवाच || वद श्रीभुवनेशान्याः क्रमं परमदुर्लभं || शिव उवाच || दिव्यभाव क्रमेणैव भुवना शीघ्रसिद्धिदा | हकारो शिवरूपित्वा उकारः पापनाशकः || इकारः कामरूपत्वात् माया तेन प्रकीर्तिताः | ब्रह्माण्ड मे तद्देवेशि मायया वेष्टितं भवेत् || यस्यां माया विना देवि म च किंचित् प्रभासते | यद्भासरहितं किंचिन्न च किंचित् प्रभासते || यद्भावरहितं किंचिन्न च तद्भासते क्वचित् | यद्भासासहितं देवि जगदे तत् प्रभासते || यां विना तु महेशानि जगद्यत्र समं भवेत् | एवं क्रमेण देवेशि सदा तद्गतमानसः || त्रैलोक्यविजयी भूयान्नात्रकार्याविचारणा | एतस्या तिलकं देवि कथ्यते यत्नतः शृणु || श्वेतचंदनविंदुस्तु भ्रूमध्ये तु प्रलापयेत् | गंधसारं तदंते स्यात्त्रिपुण्ड्रं दिव्यवर्णतः || रक्ताक्षताश्च तन्मध्ये तेन सिद्दीश्वरो भवेत् || देव्युवाच || देवेश श्रोतुमिच्छामि धूमावत्याः क्रमं शिवे || शिव उवाच || धूमावत्याः क्रमोदेवि कथ्यते शृणु पार्वती | भ्रूमध्ये कज्जलं देवि भस्मविंदुस्तदंतरे || त्रिपुण्ड्रं च ललाटे स्याच्छवभस्मतदंतरे | कृष्णवस्त्रां वरधरो कृष्णगंध विभूषितं || गंधपुष्पेण संयुक्तः श्मशानासनसंगतः | धूमवर्णं जगत्सर्वं मंत्री धूममयं भवेत् || काकपिच्छं वासनं स्यात् कृष्ण द्रव्यं प्रधारयेत् | ब्रह्मचारी मिताहारी निर्विकल्पो जितेंद्रियः || सत्यवादी हृदाचारो भूशायीकुशविष्ठरः | स्नानं विषवणं कुर्यादुच्चाटन परायणः || प्. ६१ब्) स्वचित्तं काकवत्कृत्य जगदुच्चाटये ध्रुवं | इत्याचार परो भूयाद्धूम क्रमगतो भवेत् || काकक्रमस्तुगदितो किमन्यच्छ्रोतुमिच्छसि || देव्युवाच || देवेश श्रोतुमिच्छामि वगला क्रमनिर्णयम् | सौभाग्यार्च क्रमेणैव वगला शीघ्रदर्शिनी || पीतांवरधरो मंत्री पीतभूषणभूषितः | पीतमाल्यां वरधरोपीतागेहे समास्थितः || पीतपूजापरः प्रोक्तः पीतान्नपीतमानवः | पीतद्रव्योपभोगी च पीतासन समन्वितः || पीतहोमी पीतपुष्पी पीतशक्तिः समन्वितः | रोचना भ्रूविमं दद्यान् कुंकुमं मुनिपत्रकं || हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खादिरं शिवे | हरिचंदनधूपेन धूपितः परमेश्वरी || शक्तौ सर्वं तु संपाद्य क्रममार्गरतो भवेत् | सृष्टिस्थित्यंत संहारः पूजा च त्रिविधाकलौ || केरले सृष्टिपूजास्याद्गर्भेकौलागम क्रमात् | अर्चनं गौडदेशे तु स्थितिमार्गं कुमारका || गुप्तकौलागमोदेवि गौडदेशार्चनेविधिः | कामरूपागमं देवि संहारः क्रमपूजनं || गौडागमेव चांचल्य सांख्यायन मुनिस्तथा | उक्ता वामागमश्चैव स्थित्य चा शृणुपुत्रक || सर्वांगसुंदरीं रम्यां सर्वावयव शोभितं | नवोढां पुष्पिणीं चैव प्रार्थयेद्विप्रकन्यकां || अष्टम्यां च चतुर्दश्यां पौर्णमास्यां कुमारकां | अथ वा भौमवारे वा निशायां भृगुवासरे || सुवासितेन तैलेन कुर्यादन्यजनं तथा | भूलिकातौल्पमानीय आस्तीर्योदमुखे तदा || तस्योपरि समास्तीर्य शमंतैर्जाति चम्पकैः | कर्पूरं चैव कस्तूरीमिश्रितं चंदनं तथा || सर्वांग लेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् | पर्यंकोपरितां कन्यां चंदनेन विलेपितां || ध्रुवाद्यैरिति मंत्रेण कन्यां दक्षिणतो मुखीं | उन्मूखी शमनं कुर्याच्छ्रीसूक्तेन कुमारकः || तस्याः पादौ प्रसार्याथ गुप्तेनार्च्चनमाचरेत् | न्यस्त्वा षोढा द्वयं चैव वगला पंचकं न्यसेत् || कन्यां चैव न्यसेद्देवं तत्तदंगानि संस्मरेत् | जनं जपपुरं चैव मार्जयेन् मूलविद्यया || प्. ६२अ) गंधद्वारेति मंत्रेण कुर्यात् कस्तूरि लेपनं | मूलमंत्रेण वै तत्र पुष्पमालां समर्पयेत् || निवेदयेद् द्रव्यशुद्धिं तत्रैव जपमाचरेत् | प्रयोगसिद्धिदं पुंसां मंत्रसिद्धिकरं परं || एतत्क्रमं विना देवि प्रयोगो न भवेत् क्वचित् | तस्मात् सर्वप्रयत्नेन सिद्ध्यर्थी देव भूतले || सौभाग्याख्य क्रमं देवी विना सिद्धिं न कोटिभिः | अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वैदूषणं त्रयं || त्यक्त्वा पंचेंद्रिया शक्तिं सौभाग्य क्रममाचरेत् | सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ || शीतोष्ण समतां कृत्वा सौभाग्य क्रममाचरेत् | षोढाद्वयं च न ज्ञात्वायः करोत्यर्चनं भुवि || पतितः स भवेद्देवि रौरवं नरकं व्रजेत् | वाह्यांतरयोर्देवि प्रभेदज्ञानयोर्विना || पीतक्रमो न कर्तव्यो देवताशापमाप्नुयात् | संकल्पं चेति कल्केन त्यक्त्वा विज्ञानमानसः || पीतः क्रमं ततः कुर्यान्नो चेद्भ्रष्टो भवेद्ध्रुवं | जितेंद्रिय सुखं कृत्वा कुर्यात् पीतक्रमं शिवे || सुखार्थं कुरुते योसौ देवताशापमाप्नुयात् | स्वस्या देशविधिं चैव वा ज्ञात्वा परिमेश्वरी || यः करोत्यर्चनं देवि स विप्रः पतितो भवेत् | यस्तु कन्यामनः क्षोभं करोति यजने शिवे || भ्रांतचित्तो भवेत् सद्यो वाचस्पतिरि वा परः | नोत्पादयेद्वदेन्नैव मनश्चैव शरीरयोः || वेदनांजन यद्यस्तु स नरः परितो भवेत् | सपत्नीं मातृपत्नीं वा गुरुभार्यामथापि वा || अर्चयेद्भुवनोपेतां सांख्याय न समर्पितां | दीक्षायुतां च रजकीं कुलालगृहकन्यकां || पुलिंद कन्यकां वापि गोलकुंडामृतमादरात् | अर्चयेद् ऋषिपत्निं च पूर्वोक्त लक्षणैर्युतां || अर्चणं विधिमार्गेण पूजादूर्वा समोमतां | सर्वलक्षण संयुक्तो पुष्पिणीमर्चयेच्छिवे || मतंग मुनिनोक्तं च सद्यः सिद्धिकरं त्विदं | सिद्धक्रमोयं देवेशि नास्ति सिद्धिर्गुरुं विना || तस्मात् सर्वप्रयत्नेन गुर्वाज्ञा परिपालकः | सिद्धो भवति देवेशि नात्रकार्या विचारणा || देव्युवाच || महाराज क्रमं देव कथयस्व मम प्रभो || प्. ६२ब्) शिव उवाच | महाराज क्रमो देवि कथ्यते शृणु सांप्रतं | नानाविचित्र सोपान मण्डिते चित्रमंदपे || सौधोष्टालक संशोभिधिता न ध्वजशोभिते | नाजोपवं न संयुक्ते हंसमायूरशोभिते || नानाविचित्ररम्ये च गजवाजि विराजिते | सर्वतोभद्र संयुक्ते नानाभरणभूषिते || धूपामोद समायुक्ते चित्रदीपेन लंकृते | रत्नसिंहासने रम्ये रत्नाभरणभूषिते || जातीचंपकपुन्नागकेतकीगंधशोभिते | कर्पूरा गुरुकस्तूरी रोचना कुंकुमैर्युतः || जटामांस्यादि सौगंध्यलेपनैः परिभूषितः | घंठानिनादसंयुक्तः सर्वदा शुद्धमानसः || आनंदमग्न हृदयोदिव्यवस्त्रैरलंकृतः | दिव्यमाल्यां वरधरो दिव्यभूषैरलंकृतः || तांबूलपूर्णवदनोदेवेन्द्र इत्रराजितः | वेदपात्रैर्मृत्यपात्रैर्भोगपात्रैर्निनादितः || नृत्यगीतैश्च वादिन्नश्चतुर्विंशतिवाचकैः | संगीतरागतालैश्च ध्वनिभिश्चनिनादितः || नानादेशोपभाषाभिर्गद्यैपद्यैरलंकृतः | नानाविचित्रभूषाभिर्भाषितः साधकोत्तमः || समस्तराजवर्षाणी मोहनाद्रान्ननायिका | श्रीमहाराजमातंगी सर्वदेवप्रमोहिनी || तस्यास्तु तिलकं देवि कथ्यते शृणु पार्वति | कुचे द्वंद्वं च भ्रूमध्ये गुरुसारास्तदंतरे || कस्तूरिका त्रिपुण्ड्रं च तन्मध्ये केशरं शिवे | महाराज क्रमो देवि कथितस्तु मया तव || अथ वा देवदेवेशि स्वयंगाण परो भवेत् || इति श्रीतंत्रचिंतामणौ महानीलादिक्रमनिर्णयो नाम त्रयोदशः प्रकाशः || १३ || अथ वीरपशुभावान्निगद्यंते || श्रीदेव्युवाच || वीरभावो महादेव कथ्यते शृणु भैरव | निर्द्वंद्वमानसो भूत्वा हृदा कामकला तनुः || निशा सु पूजा प्रवराहे तु व्युक्ता सदैव हि | निजं कुलं समाधाय स्वयं भैरव रूपधृक् || कुलं च भैरवी यूयं तद्गात्रेन्यासविस्तरं | प्रसून तूलिकामध्यें पुष्पकर संयुते || नानागंध समाकीर्णे कुलद्रव्येण यंत्रके | लिखित्वा पूजयेच्छक्तौघनस्थापनपूर्वकं || स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरंध्रकं | लिखित्वा तत्रकुंभं वै सौवर्णं राजतं तथा || ताम्रं भूमिमयं वापि महालोह विवर्जितं | स्थापयेत् कलशाधारं कुंभं सुगंधिवासितं || हेतु द्रव्यं ब्राह्मणादिभेदतः संप्रपूरयेत् | तत्र यंत्रं विलिख्यादौ यद्यत् कुलसमुद्भवं || प्. ६३अ) ध्यात्वैष्टदेवतां तत्र जपेदष्टोत्तरं शतं | धेनुयोनिं प्रदर्श्याथ अमृतं तद्विचिंतयेत् || दृष्ट्वा मृतमुपात्तं वै नृत्यंति योगिनीगणाः | नृत्यंति भैरवाः सर्वे नृत्यंति मातरोपि च || इन्द्रादयः सुराः सर्वे नृत्यंति मधुलोलुपाः | ब्रह्मविष्णुमहेशाद्यां नृत्यंति हर्षतत्पराः || अर्घभाण्डं त्रिधा कृत्वा गुरवे चैकभागकं | एकं कुलायं वै दत्वा एकेन देवतर्पणं || पीत्वा कुलरसं नानावस्त्रालंकारभूषितः | साक्षाद्यदि गुरुर्नस्यात्तदातोये विसर्जयेत् || आनंदरूपवान् भूत्वा पूजयेत् परमेश्वरी | तत् तत्कल्पविधानेन तत्तद्यत्नेन पूजयेत् || विसर्जनं विधायाथ स्वकुले योजयेत्ततः | तद्विंवर स पानेन अमृतं भुज्यते || तच्चकोररसास्वादे संमदो मम जायते | तत्फलग्रहणादेव मेरु शृंगावरोहणं || लतालिंगेन मात्रेण सुधाधौत कलेवरः | मूलयोगे कृते तत्र जपेदष्ट सहस्रकं || यत्र जापे च होमे च यत्र संख्या न चोदिता | तत्रेयंगणनाप्रोक्ता अष्टोत्तर सहस्रकं || जलपूतं हविर्द्रव्यं गृहीत्वा तर्पयेत्ततः | विधाय तर्पणं देव प्रदक्षिण मनु व्रजेत् || स्तुत्वा प्रणम्य कल्पोक्त स्रवेन तोषयेत् ततः | तस्मात् कुलं समायोग्य कृत्वा यत्नेन संजपेत् || कुले साक्षाद्यतस्तत्वं स्वयं तिष्ठति तत्वतः | सद्यं मांसं तथा मत्स्यं मुद्रामैथुनमेव च || एभिरेव कृताः पूजा कुलाचार प्रकीर्तितः | तेन तत् कुलशास्त्रज्ञैः पूजनीया प्रयत्नतः || कुलं कुलं चाष्णकुलं निश्चलं सश्यवर्तते | स धन्यः स च विज्ञानी कुलरूपः स एव तु || यत्र तत्र कुजेवारे श्मशानेगमने कृते | पूजाफलं भवेत् तत्र सप्तवा सरसंमितं || चतुर्दश्यागते तत्र पक्ष पूजाफलं भवेत् | न गच्छेन्नार्य तत्स्थाने पशुरेव न संशयः || नास्त्यस्मादधिकं देव इति चिंतापरायणः | मदेन द्रव्यभोक्ता तु भवेत् कुलपरायणः || साधकेक्षो भयापन्ने ममक्षोभः प्रजायते | तस्माद्यत्नीद्वीरवरोभवेत् भागयुतः सुखी || भोगेन मोक्षमाप्नोति भोगेन कुलं साधनं | विना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः || न पूजां ममसंपर्कं न ध्यानमनुचिंतनं | तस्माद् भुक्त्वा च पित्वा च पूजयेत् परमेश्वर || प्. ६३ब्) प्रक्रमच्युतदोषोस्तिनापरं दोषभूषणं | यद्यद्वदति विद्रावियत् करोति यदर्चति || तत् सर्वं कुलरूपं तु ध्यात्वा च विहरेत् सुधीः | एकाकी निर्जनेदेशे श्मशाने पर्वतेवने || शून्यगेहे नदीतीरे निःसंगो विहरेन्मुदा | वीराणां जपकालस्तु सर्वकालः प्रशस्यते || सर्वदेशे सर्वपीठे कर्तव्यं च न संशयः | वीरसाधनकार्यं च कर्तव्यं वीरपूरुषैः || दिव्यैरपि च कर्तव्यं पशुभिर्न च पामरैः | वरं पामर कार्यं च मयशोरिति निश्चितं || यद्यन्नसत्पुरा प्रोक्तं संकेतं मंत्रसाधने | अंजनं गुटिकादिं च कुर्याद्वीरो महाबलः || दिव्येवीरेनभेदोस्ति यद्भेदं तत्तु कथ्यते | शांतो विनीतो मधुरः कलालावण्य संयुतः || दिव्यं तु देववत्प्रायो वीरश्चोद्धतमानसः | विभूति भूषणैर्वापि चंदनैर्वापिलेपितः || आकारगोपनो वा पित्यक्तो वा कुलभैरव | रक्तचंदनदिग्धो वा वैष्णवश्चाप्यवैष्णवः || अपमाने च पूजायां हृष्टपुष्टः सदा भवेत् | देवनिंदा परो वापि तत्तत्पूजापरोपि वा || पूजारतस्तद्रहितः कुलाकुलमतोस्थितः | निजभाव समायुक्तो देववद्विहरेत्क्षितौ || स्वकुलां पुरश्चर्या रात्रौ कुर्यान्न चान्यथा | वेदहीनोद्विजेदेव यथा न श्रुतिजा कथा || विष्णुभक्तिं विनादेवभक्तिर्ने प्रभवेद्यथा | शाक्तज्ञानं विनामुक्तिर्यथाहास्याय कल्पते || गुरुं विना यथा तंत्रे नाधिकारः कथंचन | पतिहीना यथा नारी सर्वकर्म विवर्जिता || कुलं विनादेवविधीं कदापि ममसाधने | नाधिकारीति कौलेय तस्माद्भाव परो भव || अविनीतं कुलं यस्य स कथं ममपूजकः | तस्माद्यत्नात्तथाकार्यं यथास्याद्विनयान्वितं || भावाभावात्कुलेशास्त्रेनाधिकारः कथंचन | तेन भावविशुद्धस्तु साधकः कौलिको भवेत् || पशुभावं प्रवक्ष्यामि ऽऽषृणुवत्स समाहितः | यथाविधि पशुर्विद्यां गृहीत्वा भावतत्परः || प्रथमं पूर्वसेवार्थं यत्नतः शुद्धिमाचरेत् | नमत्स्य भोजनं कुर्यान्नस्त्रियं मनसास्मरन् || न परद्रव्य लोभीस्यान्नभोगेषां न संभजेत् | सिंधुतीरे पर्वते च कानने वा सुरालये || विल्वमूले विविक्ते च पुण्येक्षेत्रे च शोभने | न शूद्रदर्शनं कुर्यात् कोटिल्यं यत्नतस्त्यजेत् || प्. ६४अ) देवता शुभवर्णास्तु ध्यातव्या सुसमाहितैः | त्रिसंध्यं देवपूजा तु त्रिसंध्यं जपमाचरेत् || रात्रौ मंत्रं च मालां च न स्पृशेच्च कदाचन | न मंत्रमुच्चरेद्भुक्त्वा मौनीस्यात् सर्वकर्मसु || पर्वकालेस्त्रियं नैव गच्छेत् साधकसत्तमः | पुष्पंगंधंजलं चैव स्वयमानीय पूजयेत् || मैथुनं तत्कथालापं तद्गोष्ठिं परिवर्जयेत् | ऋतुकालं विना चापि गच्छेन्न स्त्रियमादरात् || पुराणश्रवणे श्रद्धा वेदवेदार्थ तत्परः | न रात्रौ भोजयेद् विद्वान् तांबूलं परमेश्वर || गुरुणा यद्यदादिष्टं तत्सर्वं यत्नतश्चरेत् | स्वजातकुसुमं चैव हेतु द्रव्यं च भैरवं || स्पृष्ट्वारोथा समाघ्राय पंचगव्येन शुद्ध्यति | रक्तवस्त्रं न गृह्णीयाद्देवीभक्तिपरायणः || विष्णुतंत्रेषु कल्पानि तदनुष्ठानमेव च | कार्यं वीरकथालापं न कुर्याद्वीरवंदनं || नित्यश्राद्धं मया श्राद्धं संध्यावंदनमेव च | तीर्थस्नानं पीठदेशगमनं धर्मतत्परः || पशुस्तु त्रिविधः प्रोक्तः क्रमेण शृणु भैरव | अदीक्षितः क्रियाहीनो मंत्र तंत्र विवर्जितः || महापशुरितिख्यातः सर्वतोयं विगर्हितः | दीक्षितो निंदको यस्तु द्वितीयः सप्रकीर्तितः || एकाकीया न निरतः पशुरित्यभिधीयते | अस्याधिकारः पूजाया न गुरुत्वे कदाचन || पूर्वस्यनाधिकारोस्ति पूजादेश गतागतौ | पूर्वस्तु सर्वकौलेर्हि वहिः कार्यः स्वदेशतः || पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् | ब्रह्महत्यादिकं पापं वरं सत्यं न च प्रभो || पूर्वदर्शनमेवात्र सत्यं सत्यं वदाम्यहं | ममात्मा सापि देवेशि विभूरित्यपि स प्रभो || तथापि तत्र मे शंका जायते तत् पदेपदे | वरं कुल परित्याज्यं वरं स्वकुलहिंसनं || वरं स्वकुलहानिस्तु वरं स्वकुलकुट्टनं | कायेन मनसा वाचा वरं स्वकुलपातनं || न कूर्वीत पशोः संगं स्वमार्गं क्षयकारणात् | कुलशास्त्रे द्वयं पापं गरिष्ठं कुलनाशनं || स्वकुले महती निंदा परयोगात् कुलेश्वर | तस्मादपि महापापं पशुसंगात् प्रजायते || प्. ६४ब्) सर्वथा तत्र भावौद्वौनप्रकाश्यो कुलेश्वर | सभावश्चविभावश्च पशुद्वेषात् प्रजायते || दैवाच्च जायते वीरोवीराद्दैव प्रजायते | दैवे वीरेन संदेहः साम्यमित्यभिधीयते || भावस्तु मानसोधर्मः शाब्दः सहिकथं भवेत् | तस्माद्भावो न वक्तव्यो दिङ्मात्रं समुदाहृतं || यथेक्षु रसमाधुर्यं रसनैर्ज्ञायते प्रभो | तथा भावविभावस्तु मनसा परिभाव्यते || शृणु यत्नेन देवेशि रहस्याति रहस्यकं | विना मद्येनमांसेन पुंश्चलीसेवनं विना || न मंत्रः सिद्धमाप्नोति चंद्रसौर क्रमार्चितं | अलिनापूरितं पात्रं वनितापूरितं मुखं || अलिं वलिंवरां रामां किन्नसिद्ध्यति भूतले | सत्यमेतद्विनायोषित्संगं मंत्रं न सिद्ध्यति || संग एव हि कार्तव्यो मैथुनं न कदाचन | पूजनीया सदायोषामद्भावकृत निश्चया || तस्मात्तु मैथुनं देवकर्तव्यं मम साधकैः | अहं तु जगतां धात्री जननीजन्मकारिणी || मद्भावप्रतियंत्रायां साहमेव सुनिश्चितं | कर्तव्यं मैथुनं नैव तस्या मनविकारणं || मोहाद्वा गुरुवोध्याद्व्या यदा तत् कुरुते सुधीः | वीरो वाप्यथवा दिव्य अवुध्या नरकं व्रजेत् || गुरुपत्नीं द्विजपत्नीं पितृपत्नीं प्रपूजयेत् | मैथुने नरकं यावत्तावत् कोटिगुणं भवेत् || अहं च रोषसंपन्नो नाशयामितमीश्वर | निरंतरं रोगपीडा जायते तस्य पापिनः || कदाचित् कर्मसंतापः कदाचित् कर्णपीडमं | कदाचिदपिवान् यस्यात् कदाचिन्नविचर्चिका || अनालोक्यं च वाधिर्यं खंजता कुब्जता तथा | अन्येपि विविधा रोगाः कुष्ट्याद्याः प्रभवंतिहि || चक्षुनाशोच्छ्रुतिछेदो नाशाच्छेदस्तथैव च | पादच्छेदः करछेद शिरछेदोपि जायते || पशुपीडा राजपीडा वह्निपीडा च जायते | कुलं तस्यात्र दोषेण म्रीयते नात्र संशयः || एते ते कथिता दोषायोषिन्मैथुन संभवा | अधिकारविहीनानामधिकारयुतैश्चरेत् || शिव उवाच | महान्ममैवसंदेहो वर्द्धते जगदीश्वरी | ममानुग्रहतो देवि मद्वक्तुं च त्वमर्हति || देव्युवाच || अहमेव परं ध्यानमहमेव पराश्रुतिः | मत्तः परतरं विश्वं न किंचिदवलोक्यते || प्. ६५अ) अहमेव जगत्सर्वं जगदेवाहमीश्वर | मद्भावभावितानारी भवेद्देतादृशी शिव || एवं ज्ञान विशिष्टः स्यादधिकारी भवेच्छिव | ब्रह्मादिक महेशो वा सर्वदेव सद्यो हि सः || जायमानस्य वालस्य मातृयोनिः स्वलिंगयोः | संघर्केण विकारो हि न तयोर्जायते क्वचित् || साधकस्य तथा यस्य मतिः स्यादधिकारिणी | सोधिकारी भवेन्नित्यं यागादौ सहयोषितां || मद्भाव प्रतिपन्नायां मत्स्वरूपाहमेव सा | विकारं न हि योषायां तस्यामर्पित एव हि || एवं यस्य स्थिराबुद्धिः स्वाधिकारी न संशयः | साधकस्य स्वदेहे स्यात् यत्स्वरूपेष्टदेवता || तद्वर्णसमतेजोभिः पूर्णं तु वनमण्डलं | भावनाभिस्थिरीकृत्य देवता ध्यानतन्मयः || यथास्वरूपवर्णादि चिंतयेद्यतमानसः | एवं ज्ञाने समुत्पन्ने स्वच्छदं विहरेत् पुमान् || एवं यस्य ममोनास्ति तस्य प्रतिनिधिः स्मृतः | कुमार्यामेव कर्तव्यं न क्षरत्यां कदाचन || कुमारी भोजनादेव कुमारी भोजनादपि | कुमारी चिंतनादेव त्रैलोक्यविजयी भवेत् || शृणु देवि वरारोहे रहस्य महदद्भुतं | विना पूजां स्त्रियोयोनौसंगमेत् साधकोत्तमः || सप्तजन्मदरिद्रः स्यान्नरकेकोटिकल्पसः | ब्रह्महत्या सुरापानस्तेन गुर्वं गणागमः || एवं नानाकृतो दोषो जायते नात्र संशयः | वीरो वाप्यथवा दिव्यो न वुद्ध्या नरकम् व्रजेत् || इति श्रीतंत्रचिंतामणौ भावनिर्णयो नामाश्चतुर्द्दशः प्रकाशः || १४ || अथादौ सत्वादि गुणभेदात् नित्यादि विभेदमाह || श्रीदेव्युवाच || धनिनां मध्यमानां च दरिद्राणां गृहीसिनां | परदेश स्थितानां च कारागेहादिवासिनां || कार्यादौ व्यावृतानां च युक्तानां सूतकादिभिः | कार्यांगे च स्वभावे चा वामकानां कृपानिधे || षडाम्नाय रहस्ये न कथं नित्यक्रिया भवेत् | लोकलज्जावतां वा दिनचर्यां वद प्रभो || श्रीशिव उवाच | महाकालेन यत्प्रोक्तं यन्महामाययाश्रुतं | रहस्यातिरहस्यं तत् सर्वतंत्रेषुगोपितं || प्. ६५ब्) आम्नायानां रहस्यं तदाह्निकं प्रोच्यते मया | शृण्वं तु सर्वेभो देवाः साधकानां प्रसिद्धिदं || तत्र नित्यं त्रिधा प्रोक्तं गुणत्रय विभेदतः | अधिकारविहीनं चेन्मानसंज्ञानपूर्वकं || स्वस्थचित्तेनयतिनाकृतं तच्छुद्धमुच्यते | तादृशं चेद्गृहस्थेन निर्द्रव्येणाथ वा कृतिं || रुग्लेन पथिकेनापि करागृहगतेन वा | भक्तितो चापि तन्मिश्रं वाह्यपूजाधिकारतः || शीतादिभीत्यावावित्तः संक्षयादल्पकार्यतः | स्त्र्यादेर्नियोगाद्गलितं गृहीणोमानसंमतं || वाह्यपूजादिकं यच्च एकांते नियमेन च | भक्त्या कृतं गृहस्थेन तच्छुद्धं राजसंमतं || पूजार्थं यद्या च यित्व श्रद्धाभक्तिविधाय वा | लोकभीत्या देवभीत्या यत्तद्राजसमिश्रितं || प्रतारणार्थं लोकानां याचितं देवनामतः | द्रव्यं कृतं तद्दुद्देशगलितं तत् तु राजसं || वाममार्गं समाश्रित्यकौलं धर्मं विचार्य च | अन्यधर्मस्य चाद्वेषात् कृतं शुद्ध तु तामसं || कृतं यत्कामतः कर्म चैह्निकं पारलौकिकं | वाममार्गं समाश्रित्य मिश्रितं तत्तुनामसं || जिह्वालोभेन यत्स्वाद्यं पानं यत् कामतोरतं | अथवा मारणाद्यर्थं गलितं तत्तुतामसं || शुद्धसत्वेन मोक्षः स्यात् स्वर्गः स्यान्मिश्रसत्वतः | सिद्धिर्गलित सत्वास्या दैहिकी च मनुष्यता || स्वर्गः स्याद्राजसाच्छुद्धात्कामः स्यान्मिश्रराजसात् | गलिगाद्राजसात्तिर्यग्योनाववि सुखं भवेत् || सात्विका तामसाद्देवयोनित्वं प्राप्नुयान्नरः | मिश्रतामसतोदुःखीनारकी वाद्ध्यतामसात् || कर्मपंचविधं प्रोक्तं पंचधा मुक्तिदायकं | प्रसर्पणमुपादानमीज्याध्यायस्तथाद्युतिः || संमार्जनो पलेपादि संस्कारो देवमंदिरे | भवार्जनं सर्पणं स्याद्देवसालोक्यकारकं || पूजासाधनसामग्र्यामेलनं भक्तसेवनं | तत्प्रीतिः स्यादुपादानं देवतारूपदायकं || पीठपूजनपूर्वं यत् षोडशाद्युपचारकैः | स योगो लिंगदेहस्यनाशकः कालयोगकृत् || अथ प्रातः कृत्यः यथा || ब्राह्म्यान्मुहूर्ताद्वक्ष्यामि साधकस्य हितं परं | कालिकाया महेशानि शययायां गुरुचिंतनं || सुंदर्यास्तु महेशानि रात्रिवासं परित्यजेत् | छिन्नायादेवं देवेशि संयोगी भूयसंस्मरेत् || प्. ६६अ) तारायां देवदेवेशि शक्त्या सहगुरुं स्मरेत् | गुरुं स्मृत्वा कुण्डलिनीं सम्यग्योगेन योजयेत् || साधकः प्रातरुत्थाय कुलवृक्षं प्रणम्य च | मूलादि ब्रह्मरंध्रांतं कुलं ध्यात्वा गुरुं स्मरेत् || ततः समस्तके चिंत्यं सहस्रदलपद्मकं | कर्पूराभं स्मेरेत्तत्र श्रीगुरुं निजरूपिणं || इति श्रीगुरोर्विद्यमानत्वेशांतत्वेन्यसेत् || सुप्रसन्नं लसद्भूषामण्डितं श्वेतचंदनं | वराभय ज्ञानमुद्रा पुस्तकैर्व्यावृतै करैः || युक्तं श्वेतांवरं शांतं श्वेतपुष्पविभूषितं | वामांकगतयः शक्त्या लिंगितं रणवर्णया || रक्तवस्त्राभरण वा रक्तचंदनमाल्यया | वामे लीलाकमलयालिंगित्या दक्षिणेन च || ध्यायेदं तन्मुखं शांतं श्रीगुरं शिवरूपिणं | तत्पाद पद्मयुगलं स्रुतपीयूषधारया || अभिषिक्तं स्वस्य देहमेवं शिष्यो विचिंतयेत् | अर्चयेद् गंधपुष्पाद्यैर्वाद्यस्थैर्मानसैस्तु वा || श्रीगुरोर्मानसयजनमाह | लं हं यं रं वमुच्चार्य तत्तद्भूतात्मनः पदात् | समर्पयामि संप्रोच्य नमोंतोमानसार्चने || शंवैशक्त्यात्मने प्रोच्य तांबूलं चैव पूर्ववत् | कनिष्ठा तर्जनी मध्यानामाश्चांगुष्ठयोगतः || सर्वासीयोजनान्मुद्रा क्रमात् पंचविधास्मृता | ऐमुक्ता योगिनं मुद्रां दैर्शयेत्तांवुरार्पणे || नामभिस्तस्य संकेतः संसिद्धैर्गुरुकीर्तकैः | प्रणम्यत्थं हृन्मनुना भावयेत्तल्लयं हृदि || अथ स्त्रीगुरुत्वे विशेषध्यानमाह || अरुणामरुणाकल्पां करुणापूर्णलोचना | वराभयकराशांतां स्मरामि मम गौरवी || निजनाथ करेशश्वन्निज वामकलेवरां | स पद्मकरयाशश्वल्लीलांदोलितलोचनां || अथ वीराणां विशेषो यथा || महाचीन गुरुं ध्यात्वा स्वगुरुं संस्मरेत्ततः | पंचोपचारैः संपूज्य वीरद्रव्य क्रमेण तु || अथ कुलगुरुमाह || प्रह्लादानंदनाथाख्यं सनकानंदमेव च | कुमारानंदनाथं च वशिष्टानंदनाथकं || क्रोधानंदं सुखानंदं ध्यानानंदं ततः परं | वोधानंद सुकानंदी ध्यायेत् कुलमुखोपरि || अथ महारसरसोल्लासहृदयाघूर्णलोचनाः || प्. ६६ब्) कुलालिंग न संभिन्नाश्चूर्णिताशेषतामसाः | कुलशिष्यैः परिवृताः पूर्णांतः करणोद्यताः || वराभययुताः सर्वे कुलतंत्रार्थवादिनः || अथ श्रीगुरोर्ध्यानम् || नीलांवरं नीलविलेपयुक्तं शंखादिभूषिततनुं मुदितं त्रिनेत्रम् || वामांगपीठस्थितनीलशक्तिर्वदामिवीरं करुणानिधानं || वीरं ध्यात्वा महादेवी वीरमालां जपेद्बुधः | अष्टोत्तर सहस्रं च वामहस्ते समर्पयेत् || अथ गुरुपादुकामाह || अथवा वाग्भवं मायां लक्ष्मीबीजं समुद्धरेत् | हसखफ्रें तथा नंदभैरवाख्यं सहखफ्रें || गुरुनाम तथा तथाशक्तिर्नाम श्रीपादुकां स्मरेत् || दशधा सप्तधा वापि त्रिधा वा प्रजपेत्सुधीः | जपं समर्पयेत् पश्चात् श्रीगुरोर्दक्षिणेकरे || अखण्डमण्डलाकारं व्याप्तं येन चराचरं | तत्पदं दर्शितं येन तस्मै श्रीगुरवेनमः || अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवेनमः || ततस्तु मूलाधारादि ब्रह्मरंध्रांतमुद्यते | आधारस्कंदमित्याहुर्गुदमेढ्रस्यमध्यगः || मृद्वासने समासीनः सर्वचिंता विवर्जितः | चतुरस्रं चतुर्यंत्रं वसांतं स्वर्णवर्णकं || त्रिकोणवृत्त तन्मध्ये इच्छाज्ञान क्रियात्मकं | सूर्यकोटि प्रतीकाशां चंद्रकोटिः षुशीतलां || सार्द्ध त्रिवलयाकारां सर्वालंकारभूषितां | मध्ये स्वयंभुलिंगं तु कोटिसूर्यः समप्रभं || तदूर्द्ध्वे कामवीजं तु कलया इंदुनायकं | तदूर्द्ध्वे तु शिखाकारां कुण्डलिं ब्रह्मविग्रहां || तेजोदण्डं सुषुम्णांतः सहस्ररविसन्निभं | तदात्मकं मूलमंत्रं ध्यात्वा तत्तेजसावृतं || स्वशरीरं विचिंत्येति प्राणायामत्रयं चरेत् | मूलमंत्रेण मंत्रस्य ऋष्यादिन्या समाचरेत् || अंगन्या संविधायाथ हृदिदेवं विचिंतयेत् | मानसैरुपचारैश्च पूजयित्वा मनुं जपेत् || यथाशक्त्याथ देवायतं जपं च समर्पयेत् || अथ श्यामाया विशेषमाह || ध्यात्वा हृदम्वुजे कालीं ध्यानोक्तां पूजयेत्ततः | मानसैरुपचारैश्च पूजयित्वा मनुं जपेत् || प्. ६७अ) गंधादिभिश्च गायत्रीमष्टाविंशति संख्यकां | प्रजपेद्दशसंख्यां वा श्रूयतांतां च भैरवी || कामोऽलाक्षिनादांतो दक्षिणांगेयुताततः | विद्महे कूर्चवीजं च चामुण्डौ ङेंयुता ततः || धीमहीति वदेत्तन्नः काली प्रचोदयात् ततः | गायत्र्येषामया प्रोक्ता सर्वतंत्रेषु गोपिता || यां विना स कलाविद्या न सिद्ध्यंति कदाचन || अथ जपाविधिरुच्यते || वीरहंसमयाविद्या संकल्पं कारयेद्बुधः | हंसाख्या साधनं वक्ष्ये मंत्राणां हितकाम्यया || यस्य विज्ञानमात्रेण सर्वज्ञो भुविजायते | हंसात्मिकां भगवतीं जीवो जयति सर्वदा || अस्याः स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः | अस्य हंसस्य देवेशि निगमागमपक्षकौ || अग्निसोमौ तथा वापि पक्षौ तारः शिरो भवेत् | विंदु त्रयं शिखा नेत्रे मुखे नाद प्रतिष्ठितः || शिवशक्तिपदद्वंद्वं कालाग्नी यार्श्वयुग्मकं | अयं परमहंसस्तु सर्वव्यापी प्रकाशवान् || हकारेण वहिर्याति सकारेण विशेत् पुनः | सयाः संवोधमात्रेण जीवन्मुक्तो भवेन्नरः || प्राणायाम प्रभावेन जीवन्मुक्तस्तु जायते | ऋषिर्हंसोऽव्यक्तपूर्वागायत्री छेद उच्यते || देवता परमादिस्तुहंसोहं बीजमुच्यते | सशक्तिः कीलकं सोहं प्रणवस्तत्वमेव हि || उदात्तस्वर इत्येवं मनोरस्य प्रकीर्तितः | मोक्षाऽर्थे विनियोगः स्यादेवं कुर्यात् सदानरः || सूर्यात्मनेवहृद्देविसोमात्मने शिरस्तथा | निरंजनं शिखाज्योतिर्निराभासा तथा प्रिये || अव्यक्तं नेत्रयोर्न्यस्य अनंतोस्त्रफडं यजेत् | एवं न्यासविधिं कृत्वा गणेशादौ समर्पयेत् || षष्टिश्वासैर्भवेत् प्राणः षट्प्राणानाडिकामता | षष्ठिनाड्याह्यहोरात्रं जपसंख्या जपमनोः || एकविंशति साहस्रं षट्शतादिकमेव च | प्रजपेत् प्रत्यहं जीवो ब्रह्मानंदमयीं परां || उत्पत्तिर्जप आरंभोमृतिरस्य निवेदनं | विना जपेन सततं जपे भवति सर्वदा || एवं जपस्तु विज्ञातो गणेशादौ निवेदयेत् | षट्शतानि गणेशस्य षट्सहस्रं प्रजायते || षट्सहस्रं गदापाणेः षट्सहस्रं पिनाकिनः | सहस्रं आत्मने चैव सहस्रं परमात्मने || प्. ६७ब्) सहस्रं पुरवे चैव संकल्पोयं यथा विधि | रक्तवर्णे गणेशं च मूलाधारे चतुर्द्दले || वादिवेद समायुक्ते षट्शतं च समर्पयेत् | स्वाधिष्ठानं विद्रुमाभं षट्कोणं वादि षट्ककं || सावित्र्या च समायुक्ते ब्रह्मणे च समर्पयेत् | विद्युंत्पुंजप्रभाभं च दलंभादि दशाक्षरं || लक्ष्मीनारायणौ वंदे षट्सहस्रं निवेदयेत् | महानील प्रभे चैवकादि द्वादशपत्रके || उमामहेश्वरौ वंदे षट्सहस्रं निवेदयेत् | विशुद्धे धूम्रवर्णे च कलापात्रे स्वरान्विते || प्राणशक्त्यात्मकौ वंदे सहस्रं च समर्पयेत् | आज्ञायां विद्युदाभायां शुभौ दक्षौ नियोजीते || परमात्मनि पराशक्तौ सहस्रं समर्पयेत् | स्तुत्वा प्रणम्य देवाज्ञां श्लोकैरेभिश्च प्रार्थयेत् || शिवादिकस्थलेभावमूहं स्वेष्टस्य वाचयेत् || त्रैलोक्य चैतन्यमयादि दैवश्रीशंकरत्वच्चरणाज्ञयैव | प्रातः समुत्थाय तव प्रियार्थं संसारयात्रा मनुवर्तयिष्ये || संसारयात्रा मनुवर्तमानं त्वदाज्ञया शंकरदेवदेव | स्पर्द्धाति च स्कारकलिप्रमादाभयानिमांमाभिभवं तु नाथ || इति संप्रार्थ्य देवेशमाज्ञामादाय तस्य तु | प्रार्थयित्वाधरां श्वासयुक्तं पादं निधापयेत् || समुद्रमेखले देवि पर्वतस्तनमण्डले | विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्वमे || प्रातःकृत्यम कृत्वा तु यो देवीं भक्तितोर्चयेत् | पूजा च विफला तस्य शौचहीना यथा क्रिया || अथ शौचविधिः || ततो गृहाद्वहिर्याम्यां नैर्-ऋतीं वा दिशं व्रजेत् | पदे पदेस्मरेदस्त्रं दूरेयायाद्द्विजालयात् || अतीत्यवाणमात्रां तु भुवं ग्रामाद्विलोक्य च | नोषणेन श्मशाने च त्रिपथे वा चतुष्पथे || गोकुले राजमार्गे वा वने चोपवने तथा | देवता यतने वर्ज्यं गोरध्यायां विशेषतः || वर्च्चो मूत्रादिकं वर्ज्यं यस्माद्वै कृत्तिकासुतं | दशहस्तं परित्याज्य मूत्रं कुर्याज्जलाशयात् || चत्वारिंशत् पुरीषे तु तीर्थे नद्यां चतुर्गुणं | कर्णे कृत्वा पवित्रं च विण्मूत्रं कारयेत् तदा || उभे मूत्रपूरीषे च दिवाकुर्यादुदङ्मुखः | रात्रौ च दक्षिणे कुर्यादुबे संध्ये यथा दिवा || छायायामंधकारे वा रात्रा वहनि वाद्विजाः | यथा समन्मुखः कुर्यात् प्राणवाधभयेषु च || प्. ६८अ) उत्तिष्ठं वृषयोदेवागंधर्वायक्षराक्षसाः | परितस्त्यज्यतां स्थानं विण्मूत्रोत्सर्जनायमे || अनेन मनुनालोष्ठ तृणैरुद्वास्य देवताः | कुर्यान् मलच्युतिं तत्र वा ससाकं प्रवेष्ट्य च || पिंडालोको न कर्तव्यस्तथाकाश नीरीक्षणं | सम्यक् वा वश्यकं कृत्वा वायुं काष्ठेनमृज्य च || लोष्टेन वाथ वामृज्यनाश्मनामृज्यते गुदं | पुनः शौचं प्रकर्तव्यं मृदामलकमात्रया || द्वितीया च तृतीयायातदर्द्धार्द्वा प्रकीर्तिताः | शुचिदेशात्तु संग्राह्याः शर्कराश्मादि वर्जिताः || विप्रे गौरामृदः प्रोक्ताः क्षत्रेरक्तास्तथोदिताः | वैश्यस्य हरिताः प्रोक्ताः कृष्णा स्त्रीशूद्रयोस्तथा || यस्मिन्देशे तु यत्तोयं यादृकीमृत्तिका भवेत् | सैव तत्र प्रशस्तास्यात्तयाशौचं विधीयते || एकलिंगे गुदे सप्तदश वामकरे तथा | उभयोः सप्तदातव्यास्तिस्रोंऽघ्र्योश्चापि मृत्तिकाः || मूत्रोत्सर्गे वामहस्तेलिंगे पंचैव मृत्तिका | त्रिकारद्वितये चैकापादयोरथवा चरेत् || गंधलेप क्षयकरं मनोग्लानिहरं परं | कुर्याद्वादश गंडूषात् पूरीषोत्सर्जनोत्तरं || मूत्रत्यागे तु चतुर आचम्य त्रिस्तरः परं | एतच्छौवं गृहस्थानां द्विगुण ब्रह्मचारिणां || त्रिगुणं वाणप्रस्थानां यतीनां च चतुर्गुणं | दिवाशौचस्य रात्र्यर्द्धं स्वस्य शौचस्य सर्वदा || तदर्द्धं रुजिमार्गस्थस्त्री शूद्राणां तदर्द्धकं | शौचं कृत्वा ततो मृद्भिस्तृभिर्जप्यैर्विशोधयेत् || शौचकर्म विहीनस्य सकला निष्फलाः क्रिया || अथ दंतधावनविधिः || ततः समाहरेद्दंतधावनं विहितैधसां | ते चापामार्गवदरीनिर्गुण्डी विल्ववासकाः || अशोकचंपकः प्लक्षपर्णजंवुधवश्रुवः | अर्कन्यग्रोधखदिरकरंजककुभादिकं || शीर्षेशौर्यं वटे दीप्तिः कदंवे विजयीरणे | प्लक्षे सर्वार्थसिद्धिः स्याद्वदर्यां मधुरस्वरः || खदिरेमुखसौगंध्यं वैल्वेन विपुलं धनं | अपामार्गे धृतिर्मेधा प्रज्ञाकांतिर्यशस्तथा || आयुः शीलं तथा लक्ष्मीः सौभाग्यं चोपजायते | अर्केणहन्यते रोगानर्थलाभाश्च जायते || औदुम्बरे वाग्विशुद्धिश्चंपकस्यादृट श्रुतिः | जाती वकुलमंदारैः स्वप्नं तस्य न पश्यति || प्. ६८ब्) सर्वकंटकिनः पुण्याः क्षीरिणस्तु यशःस्विन | अन्येषां वृक्षजातीनां न भक्षेद्दंतधावनं || पलाशवकुलंकाशं भक्षयेद्यस्तु सासपं | तावद्भवति चाण्डालोयावद्गावं न पश्यति || स्फाटिकं वा तिरिक्तं च हीनं चत्वग्विवर्जितं | अर्द्धदग्धं पथिभ्रष्टं श्मशानस्थं तथैव च || उच्छिच्छविष्टा सूत्रदिलग्नं यत्नात् परित्यजेत् | कनीन्यग्र समस्थौल्य प्रगुणं द्वादशांगुलं || द्वादशांगुल विप्राणां क्षत्रियाणां नवांगुलं | अष्टांगुलं च वैश्यानां शूद्राणां च षडंगुलं || चतुरंगुलमानं तु नारीणां विधिरुच्यते | चूर्णिताग्रं त्वचायुक्तं गृह्णीयान् मनुनानुना || आयुर्वलं यशोवर्च्चः प्रजापशुवस्तूनि च | ब्रह्मप्रज्ञां च मेधां च तन्नो देहि वनस्पते || प्राङ्मुखोदङ्मुखो भूत्वा उपविश्य सुखासने | भक्षयेन् मुखशुद्ध्यर्थं यथोक्तं तंतधावनं || क्लीमुक्त्वा कामदेवाय सर्वजनप्रियाय च | नमोंतस्तिथि वर्णोयं मंत्रोदंतविशोधने || प्रक्षाल्पं दंतकाष्टं च शुद्धदेशे पुरस्त्यजेत् | वक्त्रं मूलानुनानित्यं क्षालयेत् सिद्धिहेतवे || प्रतिपद्दशे षष्ठीषु नवम्यर्कदिनं तथा | चंद्रसूर्योपरागे च न कुर्याद्दंतधावनं || अभावेदंतकाष्टस्य निषिद्धायां तिथौ तथा | अपां द्वादश गंडूषैः कुर्वीत मुखशोधनं || अथ पूजाहोमकर्मसिद्धयेस्नानमुच्यते || स्नानपूर्वाः क्रियाः सर्वाः स्नानं च दैवते भवेत् | प्रातःकाले च मध्याह्ने सायाह्ने स्तोत्रपाठके || यदा यदा मनोग्लानिस्तदैव स्नानमाचरेत् | विद्योच्चारं तु यः यकुर्यादस्नातः कृतभोजनः || तस्य विद्या भवेन्नष्टा रौरवं नरकं व्रजेत् | अशुचिः सन्महेशानि विद्योच्चारं तु यश्चरेत् || तस्य नाशो भवेद्देवि विद्यादग्धां भवेद्ध्रुवम् | स्नानकालाच्च संप्रोक्ताः स्नानभेदा छृणु प्रिये || स्नानं पंचविधं प्रोक्तं येन देवीमयो भवेत् | वारुणे नाभसं चैव तृतीयं भस्मजं स्मृतं || चतुर्थं तैजसं देवी पंचमं दैवतं भवेत् | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || प्. ६९अ) एते पंचमहासत्वाः पंचस्नाने व्यवस्थिताः | परावंतदतीताव तत्परा तदनंतरं || चित्पदातदतीताव पंचमी परिकीर्तिताः | वारुणं द्विविधं प्रोक्तं वैदिकं तांत्रिकं तथा || स्वशाखोक्त विधानेन वैदिकं स्नानमीरितं | स्वस्वकल्पोक्तविधिना तांत्रिकं स्नानमाचरेत् || शंकुनास्त्राभि जप्तेन शुचिस्थानात्तुमृत्तिकां | गृहीत्वास्त्रेण संसिंच्यया याज्जलनिकेतनं || तत्रादौ जलकूलं तु क्षालयेदस्त्रवारिणा | मृदं कृत्वा द्विधा तत्र एकभागोपगं ततः || निधायगोमयं दर्भांस्तिलांश्चाप्यभिमंत्रितान् | मृत्तिकागोमयाभ्यां च कर्द्यतं स्नानमाचरेत् || वहिरुद्धृततोयेनमलः स्नानं ततः परं | विधाय वैदिकं स्नानं तदंगंतर्पणं तथा || अथ वक्ष्यामिते वत्सः स्नानं कुलमुखावहं | कृष्णारक्ताहरिर्नीला विविधा मममूर्तयः || ततस्तांत्रिकस्नानस्य विधिरस्त्रेणमृत्तिकां | समादायास्त्रमंत्रेण मंत्रयित्वा तृणादिकं || शिखामंत्रेणापहृत्य त्रिर्मूलेनाभि मंत्रयेत् | मूर्द्धादि पादपर्यंतं विलिप्य प्रणयेज्जलं || आधारः सर्वभूतस्य विष्णोरतुलतेजसः | तद्रूपाश्च ततो जातास्ता आपः प्रणमाम्यहं || संमुखींकरणं मुद्रां वध्वा प्राणं निरुंध्य च | निमज्य तूष्णी मुत्थाय नाभिमात्रे जलेस्थितः || आचांतः कुलद्रव्येण सदर्भः कुलपुष्पकं | कुलपात्रः स दर्भं च स तिलं स जलं ततः || त्रिविधं कुलदर्भो हि चोदितः कालशंतुना | कथ्यते तत्र देवेशि गोपनीया कुलेश्वरी || कुलचक्रोपरिगताः कुलदर्भाः मुखेष्टदा | त्रयोदर्भाः समुद्दिष्टाः सुवर्णैः रजतैः कुशैः || तत्र शाक्ते द्वयं चान्यमन्येषां तु त्रयो मताः | सुवर्णं रजतं चैव जपपूजादि कर्मसु || कर्षार्द्धकर्षमात्रं वा पवित्राय प्रकल्पयेत् | कुशकार्यकरं प्रोक्तं न तु वन्यकुशाः कुशाः || तर्जन्या रजतं धार्यं स्वर्णं धार्यमनामया | एष एव कुशः प्रोक्तोरदर्भोवरसंभवः || प्. ६९ब्) कूर्चाणां पंचकं लिख्यपरितोवर्तमेखलां | शूलं कपालमालिख्य ब्रह्मकूर्चः प्रकीर्तितः || एतस्याधारणादेववांछा कार्यमवाप्नुयात् | त्रिधादर्भः प्रकथितः कालिकादर्भवर्त्मनि || गोपनीयमिदं भद्रे सारात् सारतरं महत् | कपालं च तथा खड्गं स्त्रीवीजानि च पंच च || अनामायामिदं धार्यं स्वर्णवर्णं शुभावहं | कूर्चाद्यकालिकातारा सप्तताराद्यमेव च || सर्ववीजाद्यरूपं च कुलदर्भं च धारयेत् | विद्याश्रीकीर्तिजननं शांतिदं सर्वसिद्धिदं || सवसौंदर्यदं भद्रे वीजासिद्धिः प्रदर्शकं | गृहीत्वा कुलदेवस्य प्रीतये स्नानमाचरेत् || तांत्रिकंस्नान संकल्पं मासोल्लेखादिपूर्वकं | कृतसंकल्प एवासौ कुलचक्रं जले न्यसेत् || कृत्वाथ मूलमंत्रेण प्राणायाम त्रयं चरेत् | विन्यस्य च षडंगानि कल्पयेत् तिर्थमग्रतः || चतुरस्रे हस्तमात्रेतज्जले परिकल्पिते | ब्रह्माण्डोदरतीर्थाणिकरैः स्पृष्टानितेरवे || तेन सत्येन देवेश तीर्थं देहि दिवाकर | इति सूर्यं प्रार्थयित्वा क्रोमित्यंकुशमुद्रया || अंकुशमुद्रा यथा || दक्षमुष्टिंविधायाथ तर्जन्यं कुशरूपिणी | अंकुशाख्या महामुद्रा त्रैलोक्याकर्षण क्षमा || मित्वार्कमण्डलं तस्यात्तीर्थान्या वाहयेदिह | गंगे च यमुने चैव गोदावरी सरस्वती || नर्मदेसिंधुकावेरी जलेऽस्मिन्सन्निधिं कुरु | एव मुक्त्वा तु तीर्थानि तस्मिन् तोये नियोजयेत् || मूलमंत्रेणाथ तीर्थः शक्तिस्तत्र समाह्वयेत् | अर्कस्य मण्डलं ध्यात्वा तन्मंत्रेण च पूजयेत् || सर्वानंदमयीमशेषदुरितर्द्ध्वं सामृगांक प्रभां त्र्यक्षामूर्द्ध्वकरद्वयेनदधंतीपाशं सृणी वा मतः || अंतश्चामृतपूर्णहेमकलशं मुक्ताक्षमालांवरां गंगासिंधुसरिद्वरादिसहितां श्रीतीर्थशक्तिं भजे || ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः || इति सर्वानंदमयेपरं || तीर्थशक्ति तथा हिलियुगं वह्निगेहिनि | एकविंशाक्षरः प्रोक्तस्तीर्थशक्तेर्महामनुः || प्. ७०अ) तज्जलंगांगमंत्रेण मंत्रयेदष्टवारकं | तारो नमो भगवति भूयादं वेततोंविके || अंवालिके महामालिन्येह्येहि भगवत्पथ | अशेषतीर्थालवालेमाया श्रीवीजमुच्चरेत् || शिवजटाधिरूढे च गंगेगंगाम्बिके द्विठः | गंगाविद्येयमाख्याता त्रिपंचाशद्भिरक्षरैः || वामे तु गंगामंत्रध्यानयोर्विशेषः | तारो नमो भगवति वाग्भवं च हिलिद्वयं || हिलिद्वयं पंचगंगे मां पावयद्वितयं वदेत् | स्वाहांतस्तारकावर्णो मनुः पापप्रणाशनः || ध्यानं || रक्तांवरां रक्तवर्णां शूलकुंभवराभयान् | करैः संदधतीस्मेग्रं कच्छपस्थां सुरादिभिः || तद्रूपाभिः सपायस्य नाशायमुनिसेवितं | भुवनेश्या समालोड्यामृतीकृत्य सुधाणुना || कवचेनावगुण्ठ्याथ संरक्षास्त्रेण मंत्रवित् | मूलेन देवतां तत्र सांगां सावरणां तथा || समावाष्क जलेध्यात्वा तत्पादद्वयनिर्गतं | ध्यात्वा तीर्थं स्मरन् मूलमंत्री स्नायाज्जलैर्भृशः || हृदिदेवं स्मरेत् पश्चात् सिंचेत्तु कुं कुंभमुद्रया || कुंभमुद्रायथा || दक्षांगुष्ठे परांगुष्ठे क्षिप्त्वा हस्तद्वयेन तु | सावकाशा चैक मुष्टिर्मुद्रेयं कुंभसंज्ञिता || त्रिभिः श्लोकैर्मूलमंत्रतारवंवीजपूर्वकैः | सिमृक्षो निखिलं विश्वं मुहुः शुक्रं प्रजायते || मातरः सर्वभूतानामापोदेव्यः पुनंतुमां | अलक्ष्मीमलरूपाया सर्वभूतेषु संस्थिताः || क्षालयं तु निजः स्पर्शादायो देव्यः पुनं तु मां | यन्मेकेशेषु दौर्भाग्यं सीमंतेयच्चमूर्द्धनि || ललाटे कर्णयोरक्ष्णोरापस्तंघ्नंतुवो नमः | ततः स्वाहांत मूलेन त्रिरा च मनमाचरेत् || त्रिधा देवं च संतर्प्य तोयमध्यात्ततो व्रजेत् | धौतं वस्त्रयुगं धृत्वा प्रक्षाल्यानु करौ तथा || मृदाभिस्तत्र आचामेदेष स्नानविधिः स्मृतः | मंत्रस्नानं प्रकर्तव्यं शीतयोर्देश कालयोः || तोयाभावे गते दुर्गे कार्य स्वास्थ्ये च वार्द्धके | तोयाभावे च यत् कार्यं दुर्गे काले च शीततः || गमने क्षिप्र सिद्ध्यर्थं गुरुकार्येष्व तंद्रितः | प्राप्तापद्यथ विप्रेन्द्र निशाभागे तथा मुने || प्रक्षाल्यपादा वाचम्य प्रोद्धृतेन तु वारिणा | स्थानं दशदिशः प्राग्वत् संशोध्योपविशेत् ततः || प्. ७०ब्) जलं हस्ततलेन्यस्य क्रमान्प्रासांस्ततश्चरेत् | मातृकादींस्तथा मूलेमंत्रन्यासा न शेषतः || न्यासां ते संस्पृशेत्तोयं मंत्रस्नानमिदं वरं | देवलादुदकस्नानात् संस्कार परिवर्जितात् || प्रभासादिषु तीर्थेषु यत्फलं स्नातकस्य तु | ज्ञेयं दशगुणं तस्मान्मंत्रस्नानस्य निश्चयात् || अथ मानसस्नानं || मनसा मूलमंत्रेण प्राणायामपुरस्सरं | कूर्वीत मानसं स्नानं दृष्टतीर्थेषु भावनात् || अथ तैजसस्नानं || तैजसं संप्रवक्ष्यामि येन सिद्ध्यंति सिद्धयः | गुरुदैवतमंत्राणामैक्यं संभावयेद्धिया || गुरुतेजो मंत्रतेजो देवतायास्तथैव च | एकीकृत्या त्रिचैतन्यंतन्मूर्तिं परिकल्पयेत् || हृदये देवतास्थानं कण्ठे चैव मनुर्मतः | सहस्रारे गुरुर्प्रोक्तास्त्रि चैतन्यं विभावयेत् || तां मूर्तिं स्वस्यदेहे तु यथास्वा वयवोत्तमां | संभावयेन्महेशानि दैवतद्दर्शनंप्रदं || तैजसंगदितं देविदैवतं शृणु पार्वति || अथ दैवतंस्नानं || मूलाधारं समारभ्य विरातं परमेश्वरी | देवतां भावयेद्देवि स्वमुखे तन्मुखं शिवे || तस्याः सर्वांशकं देवि स्वदेहेस्थानयोगतः | द्वारदेश महेशानि गंगा च यमुना तथा || स्वदेहे भावितायां तु गंगया किं फलं भवेत् || इडानामनाडीस्थिता वामभागे तन्नोर्दक्षिणे पिंगलानामनाडी | तयोः पृष्ठवंशं समाश्रित्य मध्ये सुषुम्णा स्थिता ब्रह्मरंध्रं तु यावत् || इडा गंगेति विख्याता सुषुम्णा यमुना नदी | सरस्वती पिंगला स्यात् प्रयागं देहमध्यगं || देहज्ञानं विना देवी वाह्यस्नानेन किं फलं | गुरुपंक्तिं सहस्रारे अंगानि भ्रूविभावयेत् || कण्ठमूलांतकं देवि सर्वावरणदेवताः | भावयेद् यत्नतो देवी दैवतस्नानमीरितं || अनेन स्नानयोगेन किं तद्यन्नकरेस्थितं | स्नानपूर्वाः क्रियाः सर्वाः शुद्धां सिद्धिं प्रयांति च || तस्मात् स्नानं पुराकुर्याद्देष्वेकं देहशक्तितः | ततस्तु तिलकं कुर्याद्वर्णजं दैवतस्य च || ब्राह्मणस्योर्द्ध्वपुण्ड्रं स्यात् क्षत्रियस्य त्रिपुण्ड्रकं | अर्द्धचंद्रं तु वैश्यस्य शूद्राणां वर्तुला कृतिं || प्. ७१अ) ऊर्द्ध्वपुण्ड्रं मृदा कुर्यात् त्रिपुण्ड्रं चापि भस्मना | केशरेण च कस्तूर्या शेषं शीतं यथा रुचि || वैष्णवस्योर्द्ध्वपुण्ड्रं स्यात् त्रिपुण्ड्रं शिवसेविनः | अर्द्धचंद्रोगणेशस्य देवीभक्तस्य वर्तुलं || नारायण परो यस्तु चंदनस्य त्रिशूलकं | भाले विभूतिवत् कुर्याद्ब्रह्मविष्णुशिवात्मकं || भस्मना चोर्द्ध्वपुण्ड्रं तु तिर्यक् पुण्ड्रं तथा मृदा | ऊर्द्ध्वपुण्ड्रेति पुण्ड्रं स्यात् नोर्द्ध्वपुण्ड्रं त्रिपुण्ड्रके || ब्रह्महत्या समं प्रोक्तं मुनिभिर्वेदपारगैः | रुद्रपिण्डसमुद्भूताद्विजामोहसमन्वितः || पितरं तन्नजानंतितेधिवेश्यासुता इव | त्रिपुण्ड्रं ब्राह्मणो विद्वान् मनसापि न लंघयेत् || श्रुत्वा विधीयते यस्तु सत्यागीयाजकी भवेत् | वेदस्याध्ययने शूद्रोनाधिकारी यथा भवेत् || त्रिपुण्ड्रं न विप्रोनाधिकारी शिवार्च्चने | विभूतिधारणं कार्यं वैदिकं तांत्रिकं तथा || कपिलाया स कृच्छस्त्रं गृहीतं गगनेय तत् | न क्लिन्नं नापि कठिनं न दुर्गंधि न चोषितं || उपर्यधः परित्यज्य गृह्णीयात् पतितं यदि | पिण्डीकृत्य शिवाग्नौ च तत्क्षिपेन् मूलमंत्रतः || अपक्वमतिपक्वं च संत्याज्यं वासितंसितं | आदाय वाससालोड्य भस्माधारे विनिःक्षिपेत् || भस्मसंग्रहणं कुर्याद्देवेनुद्वासिते सति | उद्वासने कृते यस्याच्चण्डभस्म प्रजायते || भस्मविद्धिपरं देवि सत्यलोक सुखाह्वयं | भस्मना सर्वपाशानां पापानां च सुरेश्वरी || भस्मेतिकीर्तितं तेन मुनिभिस्तत्ववेदिभिः | तत्पुनर्द्विविधं विद्धिमुख्यं गौणं तथैव च || मुखं प्रोक्तं परंब्रह्म गौणमाग्नेय मुच्यते | भस्मं तदेवमारभ्य मुखं तदपरं वुधः || आग्नेय गौणमज्ञानध्वंसकं ज्ञानसाधनं | गौणं नानाविधं विद्धि शुभप्राणहरेम्विके || अग्निहोत्राग्निजं तद्धि विरजाहोमजं शिवे | औपानस समुत्पन्नं समिदाग्नि समुद्भवं || पचनाग्नि समुद्भूतंदावानल समुद्भवं | त्रैवर्णिकाणां सर्वेषामग्निहोत्र समुद्भवं || विरजानलजं चैव धार्यं भस्म न गात्मजे | औपान स समुत्पन्नं गृहस्थानां विशेषतः || प्. ७१ब्) समिदग्नि समुत्पन्नं धार्यं वै ब्रह्मचारिणां | शूद्राणां श्रोत्रगृहजं परमाग्नि समुद्भवं || अन्येषामपि सर्वेषां धार्यं कवानलोद्भवं | यदा द्विजा भस्मकुर्युः सद्येनानीय गोमयं || वामेन पात्रे संयोज्या घोरमंत्रेण निर्दहेत् | पुरुषेण समुद्धृत्य ईशानेन विशोधयेत् || इत्थं तु संस्कृतं भस्म अग्निरित्यादि मंत्रतः | तद्रुद्रायेति यजुषामंत्र वेद्रुद्रसंज्ञवा || प्रणवाद्यैश्चतुर्मंत्रैर्हृदयैतैर्नामभिः प्रिये | पंचवर्णाद्यक्षराद्यैर्भालांसादरहृत्सु च || त्रिपुण्ड्रधारणं कुर्यात् मूर्द्ध्नि पंचाक्षरेण च | एभिश्चनामभिर्धार्यं पुनर्भस्म द्विजादिभिः || ब्रह्माललाटे विज्ञेयो हृदये हव्यवाहनः | नाभौस्कंदोगलेपूषारुद्र्येदक्षिणवाहुके || आदित्यो वाहुमध्ये च शशी च मणिवंधके | वामदेवो वामवाहौ वाहुमध्ये प्रभंजनः || मणिबंधे च वसवः पृष्टदेशे हरिः स्मृतः | शंभूः ककुदि संप्रोक्तः परमात्माशिरस्मृतः || आब्रह्मरंध्रपादांतं योगिनामाप्लवं मतं | नाभेरूर्द्ध्वं गृहस्थानां यतीनां च विशेषणं || इदानीं तांत्रिकमतं तन्मेनिगदितं शृणु | कस्तूर्यादि सुसंयुक्तं भस्मशाक्तस्तु धारयेत् || मंत्रितैर्मूलमंत्रेण शिवपंचाक्षरेण वा | अन्येषामपि सर्वेषां विना मंत्रं सुरेश्वरी || अथ विशेषस्तु || विभूतिधारणस्यास्यमंत्रस्य च सदाशिवः | ऋषिस्तृष्टुप् भवेच्छंदो रुद्रोदेवः प्रकीर्तितः || प्रासादवीजं वीजस्यात् शक्तिं कूर्चं च कीलकं | क्षेत्रपालं सर्वपापक्षयार्थे विनियोगिता || न्यासं ऋष्यादिकं कृत्वा मूलेन वीक्षणं ततः | संस्मृत्येत्थं दक्षकरे विभूतिं विनिधाय हि || आच्छाद्य वामहस्तेन कपोताभि नवात्मना | वक्ष्यमाणेन मंत्रेण त्रिवारमभिमंत्रयेत् || फट्कारेण त्रिरावृत्यजलेन वेष्टनं चरेत् | पंचवारं मूलमनुंजप्त्वा सोधनमाचरेत् || ततो दक्षकराद्वामकरे भस्मनिधाय हि | ततो मूलेन मनुनाजलेनालोद्रयेत्प्रिये || वर्तुलं मण्डलं कृत्वा षट्कोणं तस्य मध्यगं | त्रिकोणं तस्य चाप्यंतर्मूलबीजं द्विजोत्तमः || दक्षकरेणचाछाद्यमंत्रमेनं जपेत् ततः | प्रासादं कूर्चबीजं च क्षत्रपालं तथांकुशं || प्. ७२अ) विभूतिपदमाभाष्य अशेषदुरितापहे | मनोवाक्कायमित्युक्त्वा शाधये द्वितयं वदे || कूर्चास्त्र वह्नि ललनायुक्तो मंत्रः प्रकीर्तितः | अत्र कश्चन विशेषोस्ति श्मशानभस्मधारणे || मूलेन वीक्षणं कुर्यात् कूर्चेण वेष्टनं चरेत् | तारमैधत्रयाकामकूर्चवर्मास्त्रहृन्मनुः || अनेन मनुना देवि सप्तवारं विशोध्य च | पश्चान्मूलमनुं जप्त्वा दशवारं सुरेश्वरि || त्रिवारं सप्तवारं वा स्वेष्ट देव्यै निवेद्य च | तदंते तिलकं कुर्याद्देवता भावसिद्धये || त्रिपुण्ड्रं भस्मना कुर्यादिष्टमंत्रेण मानवः | त्रिपुण्ड्रं कारयेद्भाले ब्रह्मविष्णुशिवात्मकं || मध्यमानामिका चैव तर्जन्यैव त्रिपुण्ड्रकं | अतिस्वल्पमनाधृष्यमति दीर्घांतमक्षयं || नेत्रयुग्मप्रमाणेन त्रिपुण्ड्रं धारयेद्विजः | षडंगुल प्रमाणं तु ब्राह्मणानां त्रिपुण्ड्रकं || नृपाणां चतुरंगुल्यं वैश्यानां तु त्रिरंगुलं | एकांगुलं तु शूद्राणां नारीणां तु विसर्जनं || ब्रह्माविष्णुश्चरुद्रश्च त्रिपुंड्रस्याधिदेवताः | ध्यार्यं भस्मत्रिपुण्ड्रं तु गृहीणाजलसंयुतं || सर्वकालं भवे स्त्रीणां यतीनां जलवर्जितं | एवं भस्मधृतं येन तस्य पुण्यफलं शृणु || महापातकसंघाश्च तथान्ये चोपपातकाः | नश्यंति खलु देवेशि सत्यं सत्यं च नान्यथा || वहुनोक्तेन किं भस्मधारणं मोक्षसाधनं | भूतिदा तु विभूतिः स्याद्विधिना विधृता यदि || यथा कथं चिद्वि धृता भस्मसात् कुरुते जनं | धृत्वा भस्म तु यो मोहात् करौ प्रक्षालयद्भुवि || स रौरवे वसेन्मर्त्यौ यावदा चंद्रतारकं | यावंतः पतिता भूमौ भस्मनः परमाणवः || तावद्वर्ष सहस्राणि नरो भवति किल्विषी | विभूतिधारणं चादौ तिलकं चंदनेन तु || विशेषतस्तु शाक्तानां द्वयमावश्यकं प्रिये | अतो निवोध विधिवत् तद्वच्चंदनधारणं || वामे करतले श्वेतं स्थापयित्वा तु चंदनं | मूलमंत्रं विलिख्यात्र ततोऽनामिकया ननु || गृहीत्वा प्रक्षिपेद् भूमौ पंचमंत्रां समुच्चरन् | ताराद्याश्च हृदंत्याश्च ङेंता अपि समीरिता || ज्ञानेच्छे च क्रियाशक्तिः कामाः सर्वकलोत्तराः | आच्छाद्य दक्षिणे नैव ततः करतलेन तु || प्. ७२ब्) गृणन्मंत्रं वक्ष्यमाणं कुर्यात् तिलकमीश्वरि | अलंघयन् भस्मरेखां तिर्यग्रेखां विधानतः || माया कामरूषः सर्वजनमोहिनि वोद्धरेत् | सर्वाद्वशंकरीत्युक्त्वानां ततो रक्षयुग्मकं || अस्त्रं शिरोयुतो मंत्रो मया ते परिकीर्तितः | एतत् तंत्रोदितं देवि प्रोक्तं तिलकधारणं || अथ संध्या | आचम्य प्राङ्मुखो भूत्वा उपविश्य च मंत्रवित् | वैदिकीं तांत्रिकीं कुर्यात् ततः संध्यां समाहितः || वक्ष्येथ तांत्रिकीं संध्यां मूलेनाचमनत्रयं || विद्याभेदे संध्यासंख्यामाह || सुंदर्यास्तु चतुःकालं संध्यावंदनमाचरेत् | प्रातःकाले च मध्याह्ने सायाह्ने ह्यर्द्धरात्रके || चतुर्विधा तु गायत्री जपेद् यत्नेन पार्वती | प्रस्तारा कृतिरूपा च उपस्थानाभिधा तथा || वांछा कल्पलता देवि चतुर्थी परिकीर्तिता | षष्ठी पारायणं प्रातर्मध्याह्ने नम संज्ञकं || मंत्रपारायणं रात्रौ निशायां चक्रसंज्ञकं | कालिकायामिदं प्रोक्तमुपस्थानविवर्जितं || मेधादीक्षादिराज्ञीत्वात् काल्यां संध्यां चतुष्टयं | संध्या त्रयं च तारायाच्छिन्नायां त्रिविधं भवेत् || एतासां न हि भेदोस्ति भेदभाग् नरकं व्रजेत् | शिखां वध्वाथ मूलेन प्राणायामत्रयं चरेत् || अंगानि विन्यसेद्देहे करन्यास पुरस्सरं | अमृतीकृत्य पुरतो जलं वंधेनु मुद्रया || अभिमंत्र्य च मूलेन सप्तवारं ततः परं | अकारादि क्षकारांतैर्मातृकार्णैः स विंदुभिः || प्रत्यर्णं प्रोक्षेयेन्मूर्द्ध्नि कुशमूलेन च त्रिधा | देवं ध्यात्वाथ मनुवित् भानुमण्डल संस्थितं || आदायतोयमा मंत्र्यैर्वीजैर्भूतात्मकैस्तथा | लं वं रं यं हं इति च तान्येतैः सप्तधारजं || मंत्रयित्वा पुनः सप्तवारं मूलेन मंत्रयेत् | तज्जलं वामहस्तेन धार्यं तत्स्रुत विंदुभिः || दक्षहस्तेन संप्रोक्ष्यकं पठन्मूलमंत्रकं | हस्तव्यभ्यास नाद्वामाचारी सेवनमाचरेत् || नासामाश्लिष्य शिष्टेन तेजोरूपेण तेन तु | प्रविश्यांतर्गतं सर्वं मलं संशोध्य निर्गतं || दक्षनासापुटे नैतत् स्मृत्वा दक्षिणहस्तगं | वामभागे दक्षशिलां ध्यात्वास्त्रेण च तत्क्षिपेत् || प्रक्षाल्यहस्ता वाचम्य मूलमंत्रेण मंत्रवित् | गायत्र्यावथ मूलेन दद्यादर्घ्य त्रयं ततः | प्. ७३अ) सूर्यमण्डल वासिन्यै देवतायै ततः परं | अर्घमंजलिमादाय गायत्र्या च त्रिरुत्क्षिपेत् || तारायां तु विशेषः | कुपीतमोद्र पुष्पं च कुलपुष्पं कुशाजलं | अक्षताश्च तथा ताम्रे कृत्वा चार्घ्यं निवेदयेत् || मूलांते चोद्यदादित्य पदान्मण्डल इत्यपि | वर्तिन्यै शिवचैतन्यमययै स्वाहेति तन्मनुः || पुरुषाणां विशेषः || रविमंडल संस्थाय स्वेष्टदेवाय चार्पयेत् | तथा शक्त्या जपेद्विद्यां गायत्री तदनंतरं || अष्टोत्तरशतावृत्या गायत्रीं प्रजपेत्सुधीः | महापातक युक्तोपि प्रजपेद् दशधा यदि || सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् | शक्ताशक्त प्रभेदेन गायत्री दशधा जपेत् || जलेन मूलमंत्रांतेह्यमुकं तर्पयामि च | उक्त्वा त्रिधा तर्पणीयं वामकैः कारणेन तु || इष्टदेवस्य गायत्रीमष्टाविंशति संख्यकां | जपेदभावे ब्राह्मी तु वैदिकं मतमाश्रितः || तांत्रिकः शिवगायंवीजपेत्साथनिरूप्यते | ओं तन्महेशाय विद्महे वाग्विशुद्धायधीमहि || तन्नः शिवप्रचोदयात् || अथ गायत्री ध्यानं पूर्वाह्ने || उद्यदादित्य संकाशां पुस्तकाक्षकरां स्मरेत् | कृष्णाजीनधरां ब्राह्मीं ध्यायेत्तारकितांवरे || मध्याह्ने || श्यामवर्णां चतुर्वाहुं शंखचक्रलसत्करां | गदापद्मधरो देवी सूर्यविंवकृताश्रया || सायाह्ने || सायाह्ने वरदां देवीं गायत्रीं संस्मरेद्वुधः | शुक्लां शुक्लां वरधरां वृषासन कृताश्रयां || त्रिनेत्रां वरदं पाशं शूलं च नृकरोटिकां | सूर्यमण्डल मध्यस्थां ध्यायेद्देवीं समभ्यसेत् || अथ श्यामया गायत्री विधानं || श्रीदेव्युवाच || गायत्रीया पुरा प्रोक्ता देवदेव जगत्पते | ऋष्यादि चैवकं ध्यानं जपपूजादिकं तथा || साधनं च महादेव कथयस्वमयि प्रभो || श्रीभैरव उवाच || कथयामि महादेव शृणुष्व प्राणवल्लभे | श्रीकृष्णस्तु ऋषिस्तस्याः गायत्री छंद एव च || शिवशक्तिस्वरूपा हि देवता परिकीर्तिताः | ध्यानं चैव वदाम्यत्र शृणुष्व देवि भक्तितः || प्. ७३ब्) श्मशाने च महाकालीं देवीं ध्यायेद्दिगंवरां | दंष्ट्रा करालवदनां मुण्डमालां विभूषितां || दक्षिणोर्द्धे धनुधत्ते वामे चैव तथा शरान् | अधः पाशं च खड्गं च तत् क्रमात् परिकीर्तितं || एवं ध्यात्वा महाकालीं जपेल्लक्ष चतुष्टयं | रुधिराक्तैर्विल्वपत्रैस्तद्दशांशेन होमयेत् || साधनं च महादेवि पूर्ववत् समुपाचरेत् || अथाद्या गायत्री यथा || कालिकायै पदं चोक्ता विद्महे तदनंतरं | श्मशानवासिनीद्रेंतं धीमहीति ततो वदेत् || तन्नोघोरे पदं प्रोच्य प्रवदेच्च प्रचोदयात् | अस्याः प्रसादमात्रेण महापातककोटयः || सद्यः प्रलयमायांति साधकस्य न चान्यता | रावणस्य वधाच्चैव रामचंद्रो विमोहितः || मातृवधात् पर्शुरामोमोचितोऽस्याः प्रसादतः | सुरापान्नाच्च श्रीकृष्णोदत्तात्रेयस्तथैव च || ब्रह्मणश्च शिरः छेदादहं रुद्रोविमोचितः | एवमेषा महाविद्या गायत्रीदेवि सुंदरी || महापातक युक्तोपि प्रजपेद्दशधायदि | सत्यं सत्यं महादेवि मुक्तो भवति तत्क्षणात् || ब्रह्महत्यादयः पापाः खंडं खण्डं व्रजंति हि | नानया सदृशी विद्यानानेन सदृशो जपः || नानेन सदृशं ज्ञानं न भूतं न भविष्यति || अथ तारायाः || तारायै पदमाभाष्य विद्महे तदनंतरं | नहोग्रायै पदं प्रोच्य धीमहीति ततः पुनः || तन्नोदेवि पदं प्रोच्य वदेत् पश्चात् प्रचोदयात् || अथ छिन्नायाः || वैरोचन्यै विद्महे च छिन्नमस्तायै च धीमही | तन्नो देविपदं चोक्त्वा योजनीयं प्रचोदयात् || अथ त्रिपुरसुंदर्याः || वाग्भवं त्रिपुरादेवी विद्महे तदनंतरं | कामवीजं समुच्चार्य कामेश्वर्यै च धीमही || तन्नः क्लिन्ने पदं चोक्त्वा वदेत् पश्चात् प्रचोदयात् || अथ भैरव्याः || त्रिपुरा च तथाङेंतं विद्महे पदमुद्धरेत् | भैरव्यैश्च ततश्चोक्त्वा धीमहीति ततो वदेत् || ततो देवी पदं चोक्त्वा प्रचोदयाद्दुदीरयेत् | गायत्री त्रैपुराख्याता वाग्भवाद्यं समुद्धरेत् || अथ कमलायाः || महालक्ष्मीपदं प्रोच्य विद्महे तदनंतरं | महाश्रियै पदं चोक्त्वा धीमही च पदं वदेत् || तन्नः शब्दाच्छ्रीपदं च ततो दद्यात् प्रचोदयात् || अथ भुवनेश्वर्याः || प्. ७४अ) मायावीजं समुच्चार्य भुवनेश्वर्यै च विद्महे | आद्यायै पदमुच्चार्य धीमही तदनन्तरं || तन्नोदेवी पदं प्रोच्य ततो देयं प्रचोदयात् || अथ मातंगी || अथ वक्ष्यामि गायत्री साधकस्य वरप्रदां | शुकप्रियायै विद्महे श्रीकामेश्वरी धीमही || तन्नः * * * * * * ? श्यामादेवी प्रचोदयात् || अथ धूमावती || धूमिति वीजमुच्चार्य धूमावतीति विद्महे | विवर्णादेवी पदतो धीमही पदमुद्धरेत् || दूमादेव्यास्तु गायत्री तन्नोघोर प्रचोदयात् || अथ वगलामुखी || स्थिरमाया समुच्चार्य वगलापदतोमुखी | विद्महे दुष्टयदतः स्तंभिनी पदमुच्चरेत् || धीमहीति पदस्यांते तन्नो देवी प्रचोदयात् | वगलाया महेशानि गायत्रीयं प्रकीर्तिता || अथ गणेशस्य || तत्पुरुषाय विद्महे वक्रतुण्डाय धीमही | तन्नोदंती पदं प्रोच्य वदेत् पश्चात् प्रचोदयात् || अथादित्यस्य || सप्ततुरंगाय पदात् विद्महे पदमुद्धरेत् | सहस्रकिरणं ङेंतं धीमही पदतः पुनः || तन्नोरविः पदं प्रोच्य ततो ज्ञेयं प्रचोदयात् || अथ नारायणस्य || नारायणाय विद्महे वासुदेवाय धीमही || तन्नो विष्णुः प्रचोदयात् || जपित्वा चार्पयेद्देवस्तुत्वा नत्वेष्टदेवतां | सूर्यमण्डलतो देवं विन्यसेद्धृदयेस्वके || ततो गुरुं च प्रणमेदिति संध्या तु तांत्रिकी | इति संध्या त्रयं प्रोक्तं कर्मिणां सिद्धिदायकं || त्रिकालमेवं कर्तव्याः संध्यालोपात् फलं न हि | संद्यालोपं न कुर्वीत कदाचिदपि कुत्रचित् || प्रातः संध्या स नक्षत्राः स सूर्याशापमुच्यते | मुहूर्त पंचकादूर्द्धं विंशत्ये वाग्यथा यथा || आसन्नाभिजितः कालः श्रेष्ठः श्रेष्ठस्तथा तथा | संध्याकालस्य मुख्यस्यलोपे नाडीत्रयांतरे || प्रायश्चित्तं त्वेकमर्घ्यमधिकं संप्रदीयते | परः संध्याकालतोर्वाग्जते काले ततोधिके || अष्ठोत्तरं शतं तत्र गायत्र्या जप इष्यते | राज्ञारुर्द्ध गदातेर्वागीवावश्यक कर्मणि || प्राणायामत्रयं कृत्वा गायत्र्याष्टोत्तरंशतं | यदा तु तांत्रिकं देवी तदा मूलं शतं जपेत् || प्रायश्चित्तायतां कृत्वा कुर्वीत समयागतां || अथ तर्पणं || वैदिकं तर्पणं कृत्वा ततस्तांत्रिकमारभेत् | प्राणायामत्रयं कृत्वा मूलेन न्यासमाचरेत् || ऋष्यादि त्रितयस्याथ पुरतो धेनुमुद्रया | वं जपन्नमृती कृत्यजलं तत्र स चक्रकं || मंत्रराजं जले ध्यात्वा तत्र देवीन्निधाय च | गुरुपंक्तिं च संतर्य वटुकादीश्च तर्पयेत् || प्. ७४ब्) मूलदेवीं च संतर्प्य तर्पयेत् परिवाराकन् | तर्पयेद् द्वारपालादीन् तथैवांगादि देवताः || शंखिका सुंदरां पश्चादैश्यां च परमं गुरुं | अग्नौ परापरं चैव नैर्-ऋत्यां परमेष्टितं || वायव्यादीश पर्यंतं गुरुपंक्तिं च तर्पयेत् | अङ्गानि तत्तत्स्थानेषु मध्ये देवीं च तर्पयेत् || मूलांते चामुकीं देवीं तर्पयामि ततः परं | वह्निजायांतको मंत्रो देवीनां तर्पणे स्मृतः || अथ पुरुषाणां || तर्पयामि पदं योज्यं मंत्रांते स्वेषु नामसु | द्वितीयां तेषु चेत्येवं तर्पणस्य मनुर्मतः || एकविंशति संख्या वा दशधा वा त्रिधापि वा | एकैमंजलिं तोयं परिवारान् प्रतर्पयेत् || देवस्यामृत वुध्या तु तीर्थतोयैः प्रतर्पयेत् | तीर्थोदकैस्तु पशुभिः वामाद्यैकारणेन तु || अशक्तौ मूलमुच्चार्य देवीमात्रं प्रतर्पयेत् | संस्मृत्य भैरवं देवं मार्तण्डाख्यमुमापतिं || मूलेन मनुनादेवं सूर्यस्य मनुनाथ वा | मायावीजं समुद्धृत्य सोहं तु विपरीततः || मार्तण्ड भैरवं ङेन्तं प्रकाशं शक्ति संयुतं | सूर्यस्य मत्रः संप्रोक्तः स्त्रिधा चार्घ्यं प्रकल्पयेत् || यावन्नदीयते चार्घ्यं भास्कराय निवेदनं | तावन्न पूजयेद् विष्णुं शंकरं वा सुरेश्वरी || संतर्प्य देवीं स्वहृदितीर्थं सूर्यविसर्जयेत् | गुरुं दिगीशांश्च खगान्नत्वा भाण्डं करे दधन् || जलपूर्णं व्रजेन्मौनी स्वेष्टदेवं हृदिस्मरन् | एकांतं निर्जनं यायान्मनोज्ञं दोषवर्जितं || दिगंतरं न वीक्ष्येत यावत् प्राप्नोति वै गृहम् || इति श्रीतंत्रचिंतामणौ प्रातःकृत्यादिनिर्णयो नाम पंचदशः प्रकाशः || १५ || अथ सर्वधारण नित्यार्चनविधिर्लिख्यते || पूर्वजन्मप्रशमनाज्जन्ममृत्यु निवारणात् | संपूर्णफलदानाच्च पूजेति कथिता प्रिये || प्रदक्षिणं यज्ञवाटं कृत्वा पादौ च हस्तकौ | प्रक्षाल्याचम्य पूजायाः गृहद्वारातलेस्थितः || गेहे च द्वारदेशेस्थः प्रणम्य मनसा गुरुं | प्रणम्येदिष्टदेवंस्वं दिक्पालानपि चेतसा || यत्पूर्वमर्जितं पापं तद्दिनेन्यदिनेपि वा | तत्पापस्यायनोदार्थं मंत्रद्वयमुदीरयेत् || हे देव प्राकृतं चित्तं पापाक्रांतमिदं मनः | तन्निः सारय चित्तान्मे पापं फट् फट् च ते नमः || प्. ७५अ) सूर्यः सोमोयमः काला महाबूतानि पंच च | एते शुभाशुभस्येह कर्मणो नवसाक्षिणः || हुंफडिति ब्रुवन् क्रोधदृष्ट्या पश्येच्च पार्श्वयोः | एवं कृते प्रथमः पापोत्सादनकर्मणि || यस्माद्दृढतरं पापं तद्दूरेचावतिष्ठतु | अतीते पूजनेस्थाने स्वंप्रयां तु पुनश्च तत् || यस्मादल्पतरं पापं तन्नाशमुपगच्छति | पूजनेत्यक्त पापस्य काममिष्टं क्षणाद् भवेत् || ततः प्रक्षाल्य पादौ च हस्ता वाचम्य यत्नतः | दद्यादर्घ्यं दिनेशाय तत्प्रकार इहोच्यते || गोमयेनोपलिप्तायां भूमौ कृत्वा तु मण्डलं | सिंदूरेण ततः पश्चादुपविश्य निजासने || प्राङ्मुखः प्रणमेदिष्ट देवतां भक्ति तत्परः | प्राणायाम त्रयं कृत्वा सूर्यमंत्रेण मंत्रवित् || ह्रीं ह्रीं सः इति सूर्यस्य त्र्यक्षरो मंत्र उच्यते | विन्यस्य च तथेन्द्रादीन् ध्यात्वा सूर्यमनन्यधीः || पराद्वया भयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणांगरुचिं त्रिनेत्रं | रक्तांवुजासनमशेषगुणैकसिंधुंभानुं समस्तजगतांमधियं भजामि || तत्कल्पोक्तविधानेन पूजयेदुपचारकैः | पुरतो मण्डलं कृत्वा जलेन चतुरस्रकं || निधाय तत्र साधारं सजलं ताम्रपात्रकं | गंधपुष्पाक्षतान् दर्भान् दुर्वाशर्षप संयुतान् || स तिलानुक्त पुष्पाणि यवांश्चापि प्रविन्यसेत् | सूर्यमंत्रेण तत्पात्रं स्पृशन्नष्टोत्तरंशतं || अभिमंत्र्य च तत्पात्रं समुत्थाय करद्वयात् | मूर्द्धांत सूर्यमंत्रेण दद्यादर्घ्यं विचक्षणः || ह्रीं ह्रीं सः स ग्रहराशि नक्षत्र पदमुच्चरेत् | ततश्च योगकरणः परिवृत्तासनेति च || संस्थितः श्रीसूर्यायैषतेर्घस्वाहा मनुः स्मृतः | चतुः स्त्रिंशदक्षरोयं सूर्यस्यार्घं निवेदने || जपेत् ततो यथा शक्त्या सूर्यमंत्र मनन्यधीः | तदर्घांवु प्लुतं सूर्यं ध्यायन्देशिकसत्तमः || स्तुत्वा प्रणम्य विसृजेन् मण्डलातं दिवाकरं | तत उत्थाय विधिवद् द्वारपूजां समारभेत् || द्वारमर्घ्यांवुना प्रोक्ष्य तन्मध्ये विघ्नयं यजेत् | तद्दक्षिणे महालक्ष्मीं वामे चापि सरस्वतीं || द्वारश्रियं च तन्मध्ये शाखयोर्दक्षिणान्ययोः | ऊर्द्ध्वभागात्तरं यावत् पंचपंचविभागके || प्. ७५ब्) नामस्याद्यक्षरं विंदुयुक्तं नाम च ङेंतकं | समुच्चार्य हृतं तं च देवानेतान् प्रपूजयेत् || गणपतिं क्षेत्रपालं ततश्च वसुंधारया | युक्तं शंख निधिं दक्षे वामेव सुमतीयुतं || पूजयित्वा पद्मनिधिं तदधादक्षवामतः | मायाशक्तिं च चिच्छक्तिं गंगा च यमुनां तथा || धतारं च विधातारंदं देहल्यै नमस्त्वधः | आदौ तु पश्चिमद्वार पूजावे चेद्यं प्रकाशिता || नंदी चापि महाकालीं द्वारयोर्दक्ष वामयोः | संपूज्यैव मुदग्द्वारं प्राग्याम्ये च प्रपूजयेत् || द्वारपालौ क्रमात्तेषु गणेशवृषभावपि | भृंगिरीट्टिस्तथास्कंद उमाचंडेश्वरौ तथा || विष्णोर्नंदः सुनंदश्च चण्डश्चापि प्रचंडकः | वलश्च प्रवलश्चैव भद्रश्चापि सुभद्रकः || वक्रतुण्डैक दंष्ट्रौ च महोदरगजाननौ | लंबोदरश्च विकटो गणेशद्वारपालकाः || विघ्नराजो धूम्रवर्णः क्रमात् पश्चिमद्वारतः | देव्याः सूर्यस्य योगिन्योष्टावेता द्वारपालकाः || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेंद्राणी चामुण्डा च श्रियासह || अथ वक्ष्ये द्वारदेव ध्यानं तंत्रेषु गोपितं | देवद्वारं द्वारदेवास्वयमुद्घाटयंटि यत् || पाशांकुश फलां भोजपाणिं पाटल तुंडिलं | वीरं विघ्नेश्वरं वंदे गजवक्त्रं त्रिलोचनं || पद्मद्वय वराभीति लसत्पाणी चतुष्टयं | निर्द्दग्ध हेमगौरांगी महालक्ष्मीं त्रिलोचनां || अक्षस्रक् पुस्तकाभीति वरहस्तां त्रिलोचनां | श्वेतपद्मासनां शुक्लां श्वेतवस्त्रां सरस्वतीं || तप्तकार्तस्वरोभासा दिव्यरत्नविभूषिता | द्वारश्रीरूर्द्ध्व पद्मस्थावराभयकरांबुजा || सितोगजास्यः परशुंदण्डं पाशं त्रिशूलकं | भुजैश्चतुर्भिर्विभ्राणो मूषकोपरिसंस्थितः || कपालशूलविभ्राणां कृपालुं कृष्ण विग्रहं | त्र्यक्षं तीक्ष्णं भावयामि क्षेत्रेशं क्षतविद्विषं || वसुधारांदक्षभुजेनालिंगंतं सु तुंडिलं | वामे शंखधरं मुक्तानिभं शंखनिधिं भजे || आलिंगं तं वसुमंती ललाटे पद्मचिह्नितं | पद्मनिधिं मणिनिभं वामेनोत्पलधारिणं || प्. ७६अ) वरांकुशाभीति पाशहस्तां संसारमूलिकां | त्रिनेत्रां श्यामवर्णांता श्यामां मायामहंभजे || पाशांकुशावराभीतीं दधानामरुण प्रभां | त्रिनेत्रां चित्कलां वंदे गौरीं रक्तांवरोज्ज्वलां || वराभयकरां सौम्यां सोमकोटि समप्रभां | भजे गंगा महादेवीं परां देव तरंगिणीं || वराभयकरां वेदे कालिंदी कालविग्रहां | कृष्णकच्छपमारूढां कंठो नीलोत्पल प्रभां || कर्तारं जगतां वंदे शंखचक्रगदांवुजं | विभ्राणं गरुडारूढं धातारं कृष्णविग्रहं || रक्तं रक्तारविंदस्थं वराभय कमण्डलुं | हंसारूढं विधातारं वंदे त्र्यक्ष समन्वितं || सिंहारूढां श्यामवर्णां खड्गखेटकधारिणीं | अधस्था देहली वंदे पश्चिमस्यां सुदक्षिणीं || पश्चिमद्वारमासाद्य तालत्रितय पूर्वकं | द्वारमुद्वाद्यचास्त्रेण मंत्रितान् सर्षपाक्षतान् || पुष्पयुक्तांस्तु विकिरेन् मण्डपाभ्यंतरे वुधः | नारा च मुद्रयासन्यगस्त्रे मंत्रेण देशिकः || अपक्रामं तु भूतानि पिशाचाः प्रेतगुह्यकाः | ये चात्र निवसत्यन्ये देवता भुविसंस्थिताः || अपसर्पं तु ये भूता ये भूता भुविसंस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यं तु शिवाज्ञया || श्लोकयोरं ततश्चास्त्रं पठन्तारा च मुद्रया | क्षिप्त्वा तान्मण्डपस्यां तं ततो विघ्नांस्तु निर्गतान् || स्ववामांगस्य संकोचान् मार्गं दत्वाय सारयेत् | अस्त्रमंत्रं स्मरन् वामपार्ष्णिघात त्रयेण च || भौमानुत्सादयेत्ताल त्रितयेणांतरीक्षगान् | तिर्यग्दृष्ट्यावलोकेन दिव्यान् विघ्नान्निवारयेत् || दक्षपादं पुरस्कृत्य प्रविशेद्देवमदिरं | शाक्तस्तु वामपादेन द्वारमाच्छाद्य वाससा || पंचगव्यार्घतोयाभ्यां प्रोक्षयेन् मण्डपांतरं | संमार्जनोपलेपाद्यैर्दर्पणोदरवत् कृतं || विमलं धूपदीपादि पुष्पदामादिशोभितं | पंचवर्ण रजश्चित्रं स्थान शुद्धिरियं मता || नैर्-ऋत्यामर्चयेद्वास्तु पुरुषं वंदनादिभिः | तत्रैव वास्त्वधीशाय ब्रह्मणे नम इत्यपि || रक्तवर्णं रक्तवर्ण शक्तिद्वादश संयुतं | पूजयित्वा दीपनाथं भैरवं प्रार्थयेदिति || प्. ७६ब्) अतितीक्ष्ण महाकाय कल्पांत दहनोयमं | भैरवाय नमस्तुभ्यं मनुज्ञां दातुमर्हसि || अः फडिति मंत्रेण पूजावेदीं ततो विशेत् | संस्कुर्यादासनस्थानं चतुर्भिर्वीक्ष्यणादिभिः || संस्कारे तत्र संपूज्या वेद्यांताः पीठदेवताः | आधारशक्तिमारभ्य स्वासनं तत्र विन्यसेत् || पूजासनमथात्मीयं चैलाजिन कुशोत्तरं | कंवले लोहिते वापि कृष्णे वा व्याघ्र चर्मणि || सन्यासं ब्रह्मचारी तु विशेत् कृष्णस्य चर्मणि | व्याघ्राजिनां सर्वसिद्ध्यै ज्ञानसिद्धिर्मृगाजिने || वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्द्धनं | कौशेयं पुष्टिदं प्रोक्तं कंवलं सर्वसिद्धिदं || शुक्लं वाद्य दिवा कृष्णं विशेषाद्रक्तकंवलं | श्वेते तु कम्बले धर्मं सिद्धिरक्तेर्थ सिद्धयः || पीते कामो द्विजान्येषां मोक्षदः कृष्णकं वलः | दुःखमुक्त्यै रंजितस्तु नीलीरंगो न शोभनः || अथ निषिद्धासनं || तृणपल्लवकाष्ठाणि पाषाणं मृन्मयं तथा | वंशासनं च वस्त्रं च केवलं क्षितिमासनं || एवमष्टविधं देवि चासनं परिवर्जयेत् | तत्रोपविश्यविधिवत्स्मरेद्विष्णुं गुरुंमुदा || मेरुपृष्ठ ऋषिः प्रोक्तः सुतलं छंद ईरितं | पृथिवी देवता प्रोक्ता विनियोगो निजासने || पृथ्वी त्वया धृता लोका देवित्वं विष्णुना धृता | त्वं च धारयमां देवि पवित्रं कुरु चासनं || आसनस्य चतुष्कोणे गणेशं च सरस्वतीं | दुर्गां क्षत्रपतिं चापि ब्रह्मादिषु समर्चयेत् || उदङ्मुखः प्राङ्मुखो वास्वस्तिकासनमास्थितः | पद्मासनगतो वापि ऋजुकायो नमः स्थिरः || अथ स्वस्तिक पद्मासनयोर्लक्षणं || जानूर्वारंतरे सम्यक् कृत्वा पादतले उभे | ऋतुकायः समासीनः स्वस्तिकं तदुदीरितं || वामो रूपरिदक्षिणं तु चरणं संस्थाप्य वामं तथायाम्योरूपरि पश्चिमेन द्विविधिना धृत्वा कराभ्यां दृढं | अंगुष्ठौ हृदये निधाय चिवुकं नासाग्रमालोकयदेतद्व्याधि विघातकारियमिनां पद्मासनं प्रोच्यते || स्थापयेद् दक्षिणेभागे पूजा द्रव्याणि चात्मनः | सुवासितांवु संपूर्णं सव्ये कुंभं सुशोभनं || प्. ७७अ) प्रक्षालनाय करयोः पात्रं पृष्टे निवेशयेत् | घृतादि ज्वलितान् दीपान् स्थापयेत् परितः शुभान् || दर्पणं चामरं छत्रं तालवृत्तं च पादुकां | यथायथं तु संस्थाप्य संस्कुर्यात्तानि चात्मवन् || पुष्पनैवेद्यगंधादीन् हां हीं ह्रं फडिति मंत्रतः | नारा च मुद्रया दृष्ट्या समयां च विलोकयेत् || दृष्टं वा चात्मविज्ञातं सम्यक् पुष्पादिदूषणं | अस्पृश्यस्पर्शनं वापि यदन्या यार्जितं च वा || तथा निर्माल्य संस्पृष्टं कीटाद्यारोहणं च यत् | तत्सर्वं नाशमायानि नैवेद्याय च लोकनात् || ततो रमिति मंत्रेण शिखां दीपस्य संस्पृशेत् | स तु स्याच्छुभदो दीपोनिष्क्रव्यादः सुखप्रदः || पतंगकीटकेशादि दाहात् क्रव्यादसंहतः | वसामज्जादि संभूतैर्घृताद्यैरूपयोजितः || अज्ञातरूपं तत्सर्वं दोषस्यर्शाद्विनश्यति | क्ष्रोंवीजमुच्चरन्मंत्री देवतीर्थेन संस्पृशेत् || पानीयंघ्व तु मध्यस्थं दृष्ट्वा सम्यक् च साधकः | वामेनापाणिना धृत्वा वामपार्श्वस्थितं घटं || पात्राधारेण मंत्रेण संस्कुर्वन् संस्पृशेज्ज्वलं | स्वसंज्ञाद्यक्षरं विंदु चंद्रार्द्ध परियोजितं || तत्पात्रनाम ङेंतं च हृदं तन्यात्र मंत्रकः | यदज्ञानाद मेध्यादि संसृष्टिरिह संगता || यदन्यद्दूषणं पात्रेतोय चा ज्ञानतो भवेत् | जलाशय शवः स्पर्शाज्जलस्थानाच्च संगतं || इत्यादिदूषणं नश्यत् तत्प्रिये देवपूजने | ततः कृतांजलि पुटो वामदक्षिण पार्श्वयोः || गुरुं गणपतिं नत्वा पुरतः स्वेष्टदेवतां | सुगंधपुष्पानादाय चंदनाक्तानि मंत्रवित् || ह्यौं मंत्रेण करयोरस्त्रमंत्रेण मर्द्दयेत् | तत्पुष्पं वामहस्तेन समादाय च मस्तकं || भ्रामयेत् परितस्तारं जपन्नाघ्राय तत्पुनः | हौं ओं पूर्वपठेत् श्लोकमिमं स च निगद्यते || ते सर्वे विलयं याटु ये मांहिंसंति हिंसकाः | मृत्युरोग भयक्लेशाः पतंतु रिपुमस्तके || अस्त्रमंत्रेण नारा च सुद्रयेशदिशि त्यजेत् | करशुद्धिं ततोस्त्रेण कुर्यात् तारत्रयं ततः || ऊर्द्ध्वोर्द्ध्वमस्त्रमंत्रेण दिग्वंधमपि तेन च | तेनसं जनितं तेजो वह्निः प्राकारमुद्रया || प्. ७७ब्) रक्षेदात्मनि मूलेन प्राणायामत्रयं चरेत् | भूतशुद्धिं ततः कुर्यात् तत्प्रकारमथव्रुवे || पादतो जानुपर्यंत्ऽम् चतुरस्रं स वज्रकं | लं युतं पीतवर्णं च भूस्थानं ब्रह्मदैवतं || अधिस्थितं निवृत्याख्य कलयास्थानमुच्यते | उत्पत्तेस्तत्तुजीवानामेकं रूपं विचिंतयेत् || जान्वोरोनाभिपर्यंतमयां स्थानं सितप्रभं | अर्द्धचंद्रनिभं शृंग द्वयं तत्पद्मलांछितं || षट्कोणं विंदुभिः षड्भिर्युक्तं वं वीजसंयुतं | प्रतिष्ठा कलया युक्तं ध्यायेतद्विष्णुदैवतं || नाभ्यादि कण्ठपर्यंतमारक्तं रुद्रदैवतं | रं वीजयुक्तं कलयायुतं विद्याख्यया तथा || दीप्तिमत्स्वस्तिकोपेतं त्रिकोणाकारतांगतं | महाप्रलय संस्थानं वहिः तत्वं विचिंतयेत् || कंठाद् भ्रूमध्यपर्यंतं षट्कोणाकारतांगतः | षड्विंदुलांछितं वृत्तवेष्टितं कृष्णवर्णकं || वायुस्थानं शांतिकलाधिष्ठितं शिवदैवतं | यं वीजयुक्तं सर्वेषां प्राणरूपं विचिंतयेत् || भ्रूमध्याद् ब्रह्मरंध्रांतमाकाशस्थान मुच्यते | वृत्ताकारं धूम्रवर्णं महोच्चद्वजलांछितं || शांत्यतीताख्य कलयाधिष्ठितं शिवदैवतं | हं वीजयुक्तं ध्यात्वेत्थं देहे बूतानि विन्यसेत् || धर्मकंद समुद्भूतं ज्ञाननाल सुशोभितं | कृत्वा तत्कर्णिकासंस्थं प्रदीपकलिकानिभं || सुषुम्णा वर्त्मना जीवं परमात्म नियोजयेत् | योगयुक्तेन विधिना सोहं मंत्रेण साधकः || तत्रैव सर्वभूतानि विलीनानि विचिंतयेत् | शरीरे वामकुक्षौ तु चिंतयेत् पापपूरुषं || वामकुक्षिस्थितं पापं पुरुषं कज्जल प्रभं | ब्रह्महत्याशिरस्कंधः स्वर्णस्तेय भुजद्वयं || सुरापान हृदायुक्तं गुरुतल्प कटिद्वयं | तत्संसर्ग पदद्वंद्वमंगप्रत्यंगपातकं || उपपातकरोमाणं रक्तश्मश्रू विलोचनं | खड्गचर्मधरं क्रूरं रक्षपापं विचिंतयेत् || शैवशाक्ते क्रेमणैव पापरूपं स्मरेच्छिवे | शैवे दक्षे क्रमेणैव शाक्तो वामकरेण च || वैष्णवे तद्वयत्वेन पाप ध्यानं प्रकीर्तितं | तथा संशोषयेदेनं पूरकादि क्रमेण वै || नाभिदेशे च मङ्गारं धूम्रं वायु विचिंतयेत् | तेन वै शोषयेल्लिंगं तनुं षोडशमात्रया || प्. ७८अ) कर्मात्मकं चतुः षष्ट्या कुंभयित्वा समाचरेत् | द्वात्रिंशन्मात्रे योदक्षेदेवमतेन वा पुनः || (?) रक्तवर्णं वह्निवीजं मेढ्रेमूले विचिंतयेत् | मलासनात्मकं लिंगं शरीरं तेन दाहयेत् || पूर्वोक्त क्रमयोगेन दक्षनासा क्रमेण तु | देशिकस्तु समासंख्या वा मनासेन रेचयेत् || वंकारं वारुणीवीजं घण्ठिकायां विभाव्य च | तेनामृतं समुत्पाद्य सहस्रदलपंकजात् || प्ल्वावयेत् पूरकादीनि कृत्वा पादतलावधि | लंकारं पृथिवी वीजं गुदमूले विभावयेत् || तेनैव क्रमयोगेन धिया संप्लावयेद्वुधः | पापपुण्य विनिर्मुक्तं शरीरं शांभवं परं || तेनैव पूर्वमार्गेण सर्वं संपादयेत् तनुं | संजाते सकले देहे देवतोपासने क्षमः || आत्मलीनानि तत्वानि स्वस्थानं प्रापयेत् ततः | आत्मानं हृदयांभोजमानयेत् परमात्मनः || हंसमंत्रेण विधिवत् तेजोरूपं कलेवरं | देवो भुक्त्वा यजेद्देवं नादेवो देवमर्च्चयेत् || तस्मादिष्ट स्वरूपत्वं स्वस्मिन् भाव्यं महेश्वरी | देवताराधना योग्यमुत्पन्नमिति भावयेत् || भूतशुद्धिविहीनेन कृता पूजाभिचारवत् | विपरीतफलं दद्यादभक्त्या पूजनं यथा || भूतशुद्धिं विधायैवं प्राणस्थापनमाचरेत् | प्राणप्रतिष्ठा मंत्रस्य मुनयोजेश पद्मजाः || छंदो ऋग्यजुषी सामप्राण शक्तिस्तुदेवताः | ऋषिः शिरसि वक्त्रे तु छंदांसि हृदिदेवताः || आं वीजाय नमो गुह्ये पदे ह्रीं शक्तये नमः | नाभौ नमः क्रौं कीलकायनीयोगो सुस्थिताविति || ओं आं ह्रीं क्रों अंकवर्गं सानुस्वारं नभो मुखं | पंचतत्व समुच्चार्य आत्मने आं हृदिन्यसेत् || ओं आं ह्रीं क्रों इं च वर्गं तद्वच्छन्दादि पंचकं | आत्मने ईं समुच्चार्य शिरसे वह्नि गेहिनी || तानि वीजा उं तादृक् टवर्गं श्रोत्रकादि च | प्रोक्त्वा तदात्मने ऊंच शिखायै च वषड्वदेत् || तानि वीजानि एं तुं च वागादीनि तदात्मने | ऐ मुक्ता कवचायेति ह्रुं वदेत् तदनंतरं || चतुर्वीजं च पूर्वोक्तं ओं पवर्गं च तादृशं | वचनादि च तद्वत्स्यादौ नेत्राय वौषट् तथा || प्. ७८ब्) चतुर्वीजं च अंतादृग्यवर्गं मनुश्चादि च | तदात्मने स्वरश्चांत्योस्त्राय फट् चेति संवदेत् || अंगुष्टादौ हस्ततलां तन्यसे देवमेव हि | नाभ्यं धश्चापि कंथाधो मूर्द्ध्वाधोथ तदंतकं || आं द्रीं क्रों क्रमतो न्यस्य हृत्पद्माष्टदलेषु च | पूर्वतः क्रमतो वर्णान् कर्णिकायां हृदंतकान् || लं रं हं सं वं च यं च सं शं क्षमिति वर्गतः | दिक्षु न्यसेत् ततो ध्यायेत् प्राणशक्तिं हृदिस्थितां || रक्तांघ्रियं तारुणपद्मसंस्थां पाशांकुशा विक्षुशरासनं च | शूलं कपालं दधतीं कराब्जैरक्तां त्रिनेत्रां प्रणमामि देवी || हस्तं निधाय हृदये वाग्वीजं यादिकाष्टकं | हंसः सोहं ममप्राणावदेदिहस्थिता इति || प्रोक्त्वा तथैव च पुनर्मम जीव इहस्थितः | पुनस्तदुक्त्वा मम तु वदेत् सर्वेंद्रियाणि च || पुनस्तथो मम तु वाङ्मनश्चक्षुरुच्चरेत् | श्रोत्रघ्राणप्रणा इहागत्य मुखंचिरं ततः || तिष्ठं तु वह्निजायांत मुक्त्वातारं ततो जपेत् | वपुर्ज्योतिमयं ध्यायेदिति स्यात् प्राणसंस्थितिः || अथ प्राणायामो यथा || प्राणायामातृधा प्रोक्त्वा स्तोत्रं वैदिकयोगिकाः | मंत्रसिद्धिः पापनाशो योगसिद्धिः फलं क्रमात् || मातृकाख्यश्च मंत्राख्यस्तांत्रिको द्विविधो मतः | मातृकाख्यो जपास्यादौ जपांते च कृतो यदि || वर्णव्यत्यासादि दोषा न शेषान् हंतितं शृणु | वामयापूर यद्वायुंस्वरैः काद्यैश्च कुंभकं || रेचयेद्यादिभिर्दक्षनासायां मातृकादिभिः | यावच्छक्यं नियम्यासून्मनसैव मनुं जपेत् || कनिष्ठानामिकांगुष्ठैर्नासां धृत्वा तु मात्रिकः | प्राणायामस्त्वयं प्रोक्तो यदन्य मनसा कृतं || जपपूजादिकं तस्य दोषमेव व्यपोहति | गायत्रीं शिरसा सार्द्धं सप्तव्याहृतिपूर्विकां || प्रतिप्रणव संयुक्तां त्रिरयं वैदिकोमतः | मध्यामूलाद्यावदग्रमंगुष्ठेन निपीड्यते || मात्रा सा प्रोच्यते सड्भिर्योगेभीष्टं प्रयच्छति | जानुं प्रदक्षिणी कुर्याद्यावत् कालेन हस्तकः || तावत् कालमितामात्रास्व निःश्वास समापि च | जघन्यो रविमात्रः स्याज्जिनमात्रस्तु मध्यमः || प्. ७९अ) श्रेष्ठः षड्वर्गमात्रोयं योगत्रय सु साधकः | केवले कुंभके सिद्धे सिद्धिः स्याद्राजयोगजा || वीर्यास्तंभश्च वह्वायुर्वलीपलितनाशनं | पूरके कुंभके सिद्धेः क्रियायोग्यस्य सिद्धयः || पूर्वोक्तं च न शीतोष्ण वा धाक्षुत्तृद्भवापि च | पूरकः कुंभकोरेको यदा तुल्यः प्रजायते || हठयोग सदासिद्धोह्यणिमाद्यष्टसिद्धयः | ईषत् फलं जघन्ये तु मध्ये मध्यपरेखिले || निरंतराब्दत्रितयाभ्यासात् सर्वं भवेत् फलं | प्राणायामत्रयं कृत्वा मातृकान्यासमाचरेत् || ऋषिर्गुरुत्वान् शिरसि वर्णत्वा छंद सा मुखे | धारणं प्रोच्यते चित्तज्ञेयाप्ताद्देवता हृदि || ऋगताविति धातुस्तु ऋवर्णः प्रापकोमतः | यिवर्णाधस्तु विज्ञानमतस्तत्प्रापकस्तु सः || छतीति धातुरिच्छायांदादिर्दानार्थको भवेत् | अत इच्छाप्रदं छंदो विशेषाद्गणवर्णतः || क्रीडार्थकाद्दिवो धातोः संपूर्णं देवता पदं | साधकाय ददानाति देवता परिकीर्तिताः || रक्ष्यमाणो हृदात्मायं हृदयस्ति चिदात्मकः | तस्मात् तत्र नमस्कुर्यान् मुख्यांगुष्टेन संस्पृशेत् || स्वाहया क्रियते सम्यग् विषया हरणं यतः | अनामातर्जनीभ्यां तैराकृष्टैः केनिषेच्यते || शेखामहोवषट्चांगं शिखयात्मतनुर्ग्रहः | यस्मात् तस्माद्वषडिति क्रीयंतेंगुलमध्यया || ग्रहणार्थं कवचधातुर्द्धूमहस्तेन गृह्यते | शरीरेतस्तु कवचं तर्जन्या नामयापि तत् || यथार्थज्ञानकद्वौ षट्नन्न्त्रेत्राभ्यां प्रजायते | तस्मादुक्तं तत्र वौषट् तर्जन्यादैस्तु तत् स्मृतं || एकाक्षरात् कुवेरादि दैवतेङेंतमुच्चरेत् | भ्यांतं विस्ण्वादिके रुद्रादौ तु ने तन्त्रयात्मकं || आध्यात्मिकादि रूपं यत्साधकस्य विनाशयेत् | अविद्याजातमस्त्रं तत् फट् ताराभ्यां प्रपंच्यते || प्राणायामं मातृकायाः कृत्वान्यासान्समाचरे | ते चैकविंशतिः प्रोक्ता कामना भेदतोपि च || अधिकारि विभेदेन नित्यत्वेनापि केचन | देवता भेदतो वापि तद्रहस्यं निरुप्यते || पुरुषे देवते नित्या केवलस्वरमातृका | यन्न्यासा ब्रह्मचर्याद्या धर्माः सिद्ध्यंति साधके || ऋषिर्ब्रह्मा देवता तु मातृकाख्य सरस्वती | हलो वीजानि गायत्री छंदः शक्तिः स्वरामताः || प्. ७९ब्) व्यक्तिः कीलकमुद्दिष्टं नियोगोभीष्ट सिद्धये | दक्ष करतले तस्य पृष्टे च करभे तथा || अंगुष्ठादिष्ठथो वामे विपर्यासेन विन्यसेत् | विंदु युक्तान् क्रमेणैव स्वरान्यासोयमादिमः || अयं व्यत्यासतोन्यास संहारन्यास उच्यते | पापशत्रुक्षयाद्यर्थे कर्मश्चादौ समाचरेत् || स विसर्गैः स्वरैर्यस्तु केवले न्यासवत् कृतः | सृष्टिन्यासः प्रयोगादौ कर्तव्यस्तस्य सिद्धये || वामा करतलात् तस्य कनिष्ठांतं प्रविन्यसेत् | अष्टौ स्वरान् ऌकातदीन् तथा दक्षतलादपि || अकाराद्यान्विंदु सर्गयुक्तोनासोयमीरितः | स्थित्याख्यो मुनिदेवादि प्राग्वत् कार्यस्थितावयं || ककारादि णकारां तान् वर्णात् पंचदशैवहि | अंगुष्ठादि कनिष्ठांतं दक्षहस्तस्य पर्वसु || न्यसेविन्दुयुतान् सर्वान् वामेप्येवं तु तादिकान् | अंगुष्ठादि कनिष्ठांतं हस्तयुग्मोपि विन्यसेत् || युगयत्यादिकान् पंचव्रूयाद्वर्ण नमोंतकं | तत्तत्स्थाने करं दत्वा करशुद्धि करस्त्वयं || अं आं मध्येकवर्गःस्यादि ईं मध्ये च वर्गकः | उं ऊं मध्ये ट वर्गस्तु एं ऐं मध्ये त वर्गकः || ओं औं मध्ये प वर्गः स्यादं अः मध्य तु यादिकाः | एभिः स विंदुकैरंगुल्यादिन्यासो हृदादिकः || कर्तव्योप्यस्य ऋष्यादि विनियोगोस्य सिद्धये | षडंग शुद्धे क्रोधादि जातपाप निवृत्तयः || तालत्रयं च दिग्वंधं प्रकुर्यादस्त्र मंत्रतः | ततो ध्यायेद्वर्णपद्मं श्वेतं स्वशिरसिस्थितं || कर्णिकायां निजं मंत्रं संस्मरेत् केशराष्टकं | स्वरयुग्मं तथा पात्रेष्वष्टस्वपि च कादिकान् || सप्तवर्गानष्टमे तु लक्षावेवं विचिंतयेत् | एवं चिंतयतो रोगादल्प मृत्युर्विनश्यति || अथांतर्मातृकान्यासंवक्ष्येतः शुद्धिकारकं | यं कृत्वा योगिनी चित्तं पातकेन प्रवर्तते || मूलाधारद्वनिं श्रुत्वा प्रवुद्धा शक्तिकुण्डली | ज्वलत्यावकसंकाशाः सुसूक्ष्मा तेजरूपिणी || मूलाधाराच्छिरः पद्मं स्पृशंती विद्युदाकृती | जयास्पृष्ठशिरः पद्मादमृतौद्यः स्वरूपिणः || निर्गतान् मातृकावर्णान् सुषुम्णा वर्त्मना तनुं | स्थापयित्वा स्थितानेतानेवं ध्यात्वा प्रविन्यसेत् || कण्ठे विशुद्धि चक्राख्यं पद्मं षोडश पत्रकं | उर्द्ध्वास्यं प्राग्दलात्तत्र संस्थिताः षोडशः स्वरा || प्. ८०अ) एवं संचिंत्य तारादि विंदुयुक्तं नमोंतकं | वदेत् स्वरं च सर्वेषु वर्णेष्वप्येषु पद्धति || हृदयं नाहतं चक्रं ध्यायेद् द्वादशपत्रकं | पूर्वपत्रात्तद्दलेषु प्राग्वत्कादिन् प्रविन्यसेत् || मणिपूरं ततश्चक्रं चिंतयेन्नाभिमण्डले | दशपत्रं तत्र डादिवर्णान् प्राग्वद् विचिंतयेत् || स्वाधिस्थानं लिंगमूले चक्रं षड्दलमुच्यते | चिंतयेद्वादिकांस्तत्र षड्वर्णानपि पूर्ववत् || मूलाधाराभिधं चक्रं पद्माकृति चतुर्दलं | वं शं षं सं तत्र चिंत्यं पूर्वाशादि दलेषु च || आज्ञाख्यं चक्रं भ्रूमध्ये द्विदलं कमलाकृति | हं क्षं ध्यायेदयं कार्यो मनसा केवलेन तु || स्वदेहे वामया कार्यः पुष्पेण सुरमूर्तिषु | अनादिलान ऋष्यादि ब्रह्मवद्ध्यानमस्य तु || वहिर्न्यासमथो वक्ष्ये पूर्वोक्त ब्रह्मरंध्रके | वर्णारविंदे संध्यायेन् मातृकाख्यां सरस्वतीं || पंचाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षोदेशांभास्वत् कपर्दीकलितशशिकलामिंदु कुंदा च दातां | अक्षस्रक्कुंभचित्य लिखितवरकरांत्रीक्षणां पद्मसंस्थामच्छाकल्पा मनुच्छस्तनजंघनभरां भारतींतां नमामि || ललाटे मुखवृत्तेक्षि श्रवोर्नासा सुगंडयोः | ओष्टयोर्दंतपंक्त्योश्च मूर्द्ध्नि वक्त्रेन्यसेत्स्वरान् || वाह्वोः संधिषु साग्रेषुक च वर्गौन्यसेत्सुधीः | तदवर्गौपदोस्तद्वत्पार्श्वयोः पृष्ठदेशतः || नाभौ कुक्षौ प वर्गं च हृदंशककुंदं ततः | न्यस्ययादि चतुर्वर्णान्शादि षट्कं ततोन्यसेत् || हृदादिकरयोरंघ्र्योर्जठरे वदने तथा | न्यासस्त्वयं वर्णमात्राहीनपाठ प्रपूरकः || अथ मातृकामुद्रामाह || ललाटे नासिकामध्येन्यसेच्च मुखवृत्तके | तर्जनी मध्यमानामाविन्यसेच्चैव नेत्रयोः || तर्जन्यनामे संपूज्य न्यासेत् साधकसत्तमः | अंगुष्टं कर्णयोर्न्यस्य कनिष्ठांगुष्टकौनसोः || मध्यमागण्डयोर्न्यस्य मध्यमामोष्टयोर्न्यसेत् | अनामादंतयोर्न्यस्य मध्यमां चोत्तमांगके || मुखेनामां मध्यमां च हस्ते पादे च पार्श्वयोः | कनिष्ठानामिकामध्यान्न्यस्तव्या पृष्ठतस्तथा || सांगुष्ठास्तानाभि देशे सर्वाः कुक्षौ च विन्यसेत् | हृदये साधकः सर्वमंशयोश्चक कुत्स्थले || प्. ८०ब्) हपूर्वहस्तपत् कुक्षिमुखेषु तलमेव च | एतास्तु मातृकामुद्राः क्रमेण परिकीर्तिताः || अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात् तस्य निष्फलः | क्षमारभ्य अकारांतो न्यासश्चत्क्रियते यदि || संहारन्यासनामासौ विंदुन्यास इतीरितः | वामेत्र दक्षिणेमार्गे देवताध्यानमुच्यते || अक्षस्रजं हरिणयोतमुदग्रटंकं विद्यांकरैरुचिरतं दधतीं त्रिनेत्रं | अर्द्धेन्दु मौलिमरुणामरविंदवासां वर्णेश्वरीं प्रणमतस्तनभाररम्रां || विसर्गमातृकान्यासो भवेत् केवलमातृवत् | विशेषस्तु विसर्गांतो वर्णोच्चारो भवेदिति || विंदुसर्गयुतान् डादिठांतान् वर्णान्स्थितौ न्यसेत् | पूर्वोक्ता एवमुत्पाद्याः षडंगं ध्यानमुच्यते || सिंदूरकांतिममिताभरणां त्रिनेत्रां विद्याक्षसूत्र मृगपोतवरां दधानां | पार्श्वस्थितां भगवतीमपिकांवनाभां ध्यायेत् कराब्ज धृतपुस्तकवर्णमालां || न्यासाः कार्याश्चतुः षड्भिःस्थिति संहारसृष्टयः | संहारसृष्टिः स्थितयो गृहस्यस्तु न्यसेत् क्रमात् || वाणप्रस्थाश्चयतयः सृष्टिस्थितिलय क्रमात् | न्यासान् कुर्युरिति प्रोक्तः स्थितिन्यासः सविस्तरः || वक्ष्ये कला मातृकायान्यासं तस्य ऋषिः स्मृतः | प्रजापतिश्च गायत्री छंदनस्यास्तु देवता || सरस्वती मातृकास्यान्नियोगोभीष्टतुष्टये | तारैः षडंगं कुर्वीत ह्रस्वदीर्घांतरस्थितैः || हस्तैः पद्मं रथांगं गुणमथहरिणं पुस्तकं वर्णमालांटंकं शुभ्रं कपालंदलममृतलमद्ध्वेम कुंभं वहंतीं | मुक्ता विद्युत्ययोदस्फटिकमणिजपावंधुरैः पंचवक्त्रैः स्त्र्यक्षैवक्षोजनम्रांसकलशशिनिभां शारदांतां नमामि || ध्यात्वैवं तारपूर्वातां मकाराद्यां च मातृकां | विंदुयुक्ता ङेंत कलानामाद्यां रामसान्वितां || पूर्वोक्त शुद्धमात्राणां न्यासस्थानेषु विन्यसेत् | निवृत्तिश्च प्रतिष्टा च वियाशांतिस्तथैंधिका || दीपिका रेचिका चापि भोचिका च वराभिधा | सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायनीततः || व्यापिनी व्योमरूपा च नंतासृष्टिः समृद्धिका | स्मृतिर्मेधा ततः कांतिर्लक्ष्मीर्द्यतिः स्थिरास्थितिः || सिद्धिर्जरापालिनी वक्षांतिरीश्वरिकारतिः | कामिका वरदाचान्याक्त्वादिनी प्रीति संयुता || दीर्घा तीक्ष्णा तथा रौद्री भयानिद्रा च तंद्रिका | क्षुधास्यात् क्रोधिनी पश्चात् क्रियोत्कारी स मृत्युकाः || प्. ८१अ) पीताश्वेतारुणा पश्चादत्शिनानं तयान्विता | उक्ताकलामातृकैवं स्थानेः कारादिके न्यसेत् || तन्ननादात्मनो जाताः स्वरजास्तु सदाशिवात् | अक्षमाला पुस्तकं च पाशं चापि कपालकं || हस्तैर्दधत्यः श्वेताभाश्वेतांवरविभूषणाः | अकाराद्ब्रह्मणो जाताः क च वर्ग कलादश || पीता अक्षस्रजं पद्ममभयं च कमण्डलुं | हस्तैर्दधत्यो ध्येयास्ताः पीतगंधानुलेपनाः || विष्णोरुकारात् संजाताः टतवर्गकलादश | श्यामा अभयशंखासि वरहस्ताः समीरिताः || मकाराद्रुद्रतो जाताः पयवर्गकलानव | शरच्चंद्रनिभा हस्तैरभयं शूलमेव च || कपालं च वरं ध्येयादधत्य इति साधकैः | षकारादिक पंचानामीश्वराद्विंतुतो भवेत् || अभयं हरिणं टंकं वलं च करपल्लवैः | दधत्यो रक्तवर्णाश्च ध्येयान्यासे कलामके || केशवादि मातृकायाः साध्यो नारायणो * * (?) | अमृताद्या तु गायत्री छंदो लक्ष्मीहरिः सुरः || द्विरुक्तैः शक्ति श्रीकामैः षडंगानि समाचरेत् | शंखचक्रगदापद्मकुंभादर्शाब्जपुस्तकं || विभ्रंतं मेघ चपलावर्णं लक्ष्मीं हरिं भजेत् | शक्तयस्तु प्रियांकेषु निषणाः सस्मिताननाः || एवं ध्यात्वान्यसेछक्तिः श्रीकामपुटिताक्षरं | तारादि हृदयांतोथ केशवाद्याश्च शक्तयः || भ्यांता नमोंता उच्चार्या स्थानेऽकारादिके न्यसेत् | कलामात्रा तु शाक्तानां नित्योद्यं विष्णुसेविनां || केशवः कीर्तिसंयुक्तः कांतिर्नारायणान्विता | माधवस्तुष्टि संयुक्तो गोविंदः पुष्टिसंयुतः || विष्णुश्च धृति संयुक्तः शांतियुग्मधुसूदनः | त्रिविक्रमः क्रियायुक्तो * * * * (?) सयान्वितः || श्रीधरो मेधया युक्तो हृषीकेशश्च हर्षया | पद्मनाभयुता श्रद्धालज्जा दामोदरान्विता || वासुदेवश्च लक्ष्मीयुक्तं कर्षणसरस्वती | प्रद्युम्नः प्रीतिसंयुक्तो निरुद्धोरति संयुतः || चक्रीगदाजयीदुर्गाशार्ङ्गी तु प्रभयान्वितः | खड्गी तु सत्ययायुक्तो शंखीचण्डी समन्वितः || हलीवाणी समायुक्तो मुशली च विलासिनी | शूलां च विजयायुक्तःपाणी विरजयान्वितः || अंकुशी विश्वयायुक्तो मुकुंदो विनदायुतः | नंदजः सुनदायुक्तो नंदीस्मृत्य समन्वितः || नरो ऋद्ध्यानरजित्समृद्ध्या शुद्धियुक् हरिः | कृष्णो वुध्याभूत्य सत्योमति युक्त्यात्वतः स्मृतः || प्. ८१ब्) शौरिक्षमेशूरदमेजनार्दन उमान्वितः | भूधरः क्लेदिनीयुक्तो विश्वमूर्तिश्च क्लिन्नया || वैकुण्ठो वसुधायुक्तो वसुधा पुरुषोत्तमौ | वली तु परयायुक्तो वलारुजपरायणे || वालसूक्ष्मेवृषघ्नस्तु संध्यायुक्तरयावृषः | हंसःस्याद् दक्षिणामूर्ति गायत्री छंद ईरितः || अर्द्धाद्रिजाहरोदेवो नियोगः सर्वसिद्धये | हलोवीजानि गुह्ये तु पादयोः स्वरशक्तयः || ह्रस्वदीर्घान्तरे कृत्वा प्राग्वद्वर्गान् हसौमसं | षड्दीर्घसंयुतान् कृत्वा षडंगादिन्यसेत्तनौ || वंधूककांचननिभं रुचिराक्षमालां पाशांकुशौ च वरदं निज वाहुदण्डैः | विभ्राणमिंदुशकलाभरणं त्रिनेत्रमर्द्धांविकेशमनिशं वपुराश्रयामः || हसौं ते मातृका युक्ता देवा ते च समुच्चरेत् | ङेंतं ङेंतां च तच्छक्तिं नमोंतां मातृकास्थले || त्वगसृङ्मांसमेदोच्छिमज्जा शुक्राण्यसून् वदेत् | शक्तिं क्रोधं तथात्मानं ङेंतं यादि दशस्वपि || श्रीकण्ठपूर्णोदर्यौचानंतो विरजयान्वितः | सूक्ष्मेसः शाल्मलीयुक्तो लोलाक्षीयुक् त्रिमूर्तिकः || अमरशोवर्तुलाक्षाचार्वीशोदीर्घघोणया | भारभूतिर्दीर्घमुख्यातिथीशो गोमुखियुतः || स्थाण्वीशो दीर्घजिह्वायुग्धरः कुण्डोदरीयुतः | ऊर्द्ध्वकेश्यावद्गिण्ठी शोभौतिको विकृतास्यया || सद्यो जातो ज्वालमुख्यानुग्रहोल्कामुखीयुतः | अक्रूरे श्रीमुखीमहासने विद्यामुखीयुतः || क्रोधेशश्च महाकाल्या चण्डशेन सरस्वती | पंचांतकः सर्वसिद्धिः गौर्यायुक्तः प्रकीर्तितः || शिवोत्तमेशो विन्यस्यो युक्तस्त्रैलोक्य विद्यया | एकरुद्रोमंत्रशक्त्याकूर्मेशश्चाष्ट शक्तियुक् || एकनेत्रो भूमिमात्रा युक्तोथः स वराननः | लंबोदर्योयुतः प्रोक्तस्त्वजेशोद्राविणी युतः || सर्वेशो नागरीयुक्तः सोमेशः खेचरीयुतः | लांगलीशश्च मंजर्यादारुकेशेन रूपिणी || प्. ८२अ) वीरीण्याचार्द्ध नारीशोह्युमाकांतः पुनर्युतः | काकोदर्या तथाषाढी पूतनायुक्त ईरितः || दण्डीशो भद्रकाली युगत्रीशो योगिनीयुतः | मीनेशः शंखिनीयुक्तोमेषेशस्तर्जनीयुतः || लोहितः कालरात्र्या च शिखीशः कुर्द्दिनीयुतः | छगलंडः कपर्दिन्याद्विरण्डेशश्च वज्रया || महाकालोजयायुक्तो वालीशः सुमुखीयुतः | भुजगोरेवतीयुक्तो पिनाकी माधवी युतः || खड्गीशो वारुणीयुक्तो वकेशो वायवीयुतः | श्वेतोवक्षोवधारिण्या भृगुः सहजया युतः || नकुलीशालक्ष्मियुक्तः शिवेशोव्यापिनीयुतः | संवर्तको महामायायुक्त एतास्तुमातृकाः || श्रीकण्ठाद्याय ईशांतस्तत्रनेशं प्रयोजयेत् | सर्वे रुद्राः स्मृता रक्ताधृत शूलकपालकाः || शक्तयो रुद्रपीठस्थाः सिंदूरारुणविग्रहाः | रक्तोत्पल कपालाभ्यामलंकृत करांवुजा || येनोपास्या महाविद्या दशतस्याधिकारिता | भुवनेशी वीजपूर्व मातृकान्यासनेसुराः || ऋषिः शक्तिस्तु गायत्री छंदः स्यान्मातृकामयी | भुवनेशी देवताथ नियोगः स्वेष्टसिद्धये || ह्रस्वदीर्घांतरगतैः षड्वर्गैर्दीर्घसंयुतैः | प्राग्वद्धरैः षडंगं स्यादंगुष्ठादि तथैव च || उद्यत् कोटिदिवाकरः प्रतिभरात्तुंगोरूपी न स्तनीवद्धार्धेन्दु किरीटहार रसना मंजीर संशोभिता | विभ्राजाकर पंकजैर्जपवटींपाशौ पुस्तकं दिश्यान्नोजगदीश्वरी त्रिनयनापद्मेनियल्पामुखं || लज्जावीजं पूर्वमुक्त्वा मातृकान्यास एव हि | भुवनेशी मातृकाणां न्यासोक्तैर्यत्र साधने || श्रीवीजपूर्वकः कार्यो लक्ष्मीकामैर्गृहस्थितैः | ऋषिर्भृगुश्चगायत्री छंदो मातृःस्वरूपिणी || लक्ष्मीस्तु देवता प्रोक्ता हरस्थानेशरौ कुरु | न्यासार्थं तु सडंगादे शेषं श्रीवीजपूर्वकं || विद्युद्दाम समप्रभां हिमगिरि प्रख्यैश्चतुर्भिर्भुजैः शुण्डा दंडसमुद्धृता मृतघटैरासिंच्य मानामिमां | विभ्राणां करपंकजैर्जपवटीं पद्मद्वयं पुस्तकं भास्वद्रत्नसमुज्वलां कुचनतां ध्यायेज्जगत्स्वामिनीं || कामनामात्र सिद्ध्यर्थं कामवीजादि पूर्वकं | कुर्याच्च मातृकान्यासं मुनिः संमोहनोमतः || प्. ८२ब्) गायत्रीछंद उद्दिष्टं देवता मातृकामयी | संमोहनीनामदेवी पूर्वयुक्त्या षडंगकं || वालार्ककोटिरुचिरां स्फटिकाक्षमालां कोदण्डमिक्षुजनितंस्मर पंचवाणान् | विद्यां च हस्तकमलैर्दथतीं त्रिनेत्रां ध्यायेत् समस्तजननीं नवचंद्रचूडां || शक्तिः श्रीकामवीजादि मातृकान्यासतो नृणां | शत्रुत्वाद्यामंत्रदोषो नश्यंति वहुवर्णताः || महासंमोहन ऋषिर्गायत्रीछंद ईरितः | संमोहनीनामदेवीन्यासः प्राङ्मातृकासमः || ध्यायेयमक्षवलयेक्षु शराशपाशपद्मद्वयांकुशशरान्नवपुस्तकं च | आविभ्रतीं निजभुजैररुणां कुर्वार्तां संमोहिनीं त्रिनयनां नवचंद्रचूडां || सर्वविघ्ननिरासार्थमवश्यं न्यासमाचरेत् | गणेशमातृकायांतुर्मुनिर्गणक ईरितः || निवद्गायत्रिकाच्छंदो देवशक्ति विनायकः | स्मृत्वा दीर्घाढ्ययात्वंगं कृत्वा ध्यायेद् गजाननं || शूलांकुश वराभीति पाणिं रक्ताब्जहस्तया | प्रिययालिंगिंतंरक्तं त्रिनेत्रं गणयंभजे || एवं ध्यात्वा न्यसेत् स्वीयवीज पूर्वाक्षरान्वितं | विघ्नोह्रीं समायुक्तो विघ्नराजः श्रियाद्युतः || विनायकः पुष्टियुक्तः शाक्तियुक्तः शिवोत्तमः | विघ्नकृत् सृष्टिसंयुक्तो विघ्नहर्ता सरस्वती || गमास्तु स्वाहयायुक्त एकदंतस्तु मेधया | द्विदंतः कांति संयुक्तो गजवक्त्रेणकामिनी || निरंजनो कामिनी युक्कपर्दी तु नदीयुतः | दीर्घजिह्वः पार्वतीयुक् ज्वालिन्याशंकुकर्णकः || वृषध्वजोनंदयायुक् सुद्यशागणनायकौ | गजेंद्रः कामरूपिण्यासूर्पकर्णस्तथोमया || त्रिलोचनस्तेजोवत्यालंवोदरस्तु सत्यया | महानंदश्च विघ्नेश्याश्चतुर्मूर्तिः स्वरूपया || सदाशिवः कामदायुग्मादोन्मदद्विजिह्वया | दुर्मुखोभूति संयुक्तः सुमुखो भौतिकायुतः || प्रभेदः सितयायुक्त एकपादोरमायुतः | द्विजिह्वो महिषीयुक्तः शूलस्यापि भुजंगिनी || वीरोविकर्णयायुक्तः षण्मुखो भृकुटीयुतः | वरदोरज्जया वामदेवःस्याद्दीर्घकोणया || प्. ८३अ) धनुर्द्धराचक्रतुण्डौ द्विरण्डो जामिनीयुतः | सेनानी रात्रिसंयुक्तः कामांधोग्रामणीयुतः || मत्तः शशिप्रभायुक्तो विमत्तोलोललोचना | मत्तवाहन चांचल्ये जटीदीप्तिः समन्वितः || मंडी सुभगया युक्तः खड्गीदुर्भगया तथा | वरेण्यश्च शिवायुक्तो भगीयुग्वृषकेतन || भक्तप्रियो भगिन्या तु गणेशो भोगिनीयुतः | मेघनादः सुभगया व्यापी स्यात् कालरात्रियुक् || गणेश्वरः कालिकेति प्रोक्तो विघ्नेशमातृका | त्वगादि योगोयादीनां पूर्ववत् परिकीर्तितः || प्रपंचयोगन्यासोथ वक्ष्यते भुक्तिमुक्तिदः | महागणेशमंत्रेण प्राणायामत्रयं चरेत् || ऋषिः प्रपंचयागस्य गणकः छंद ईरितः | गायत्री तु निवृत्पूर्वा महागणपतिः सुरः || श्रीर्षादिषु न्यसेत्तांश्च गंवीजं चापि गुह्यके | स्वाहाशक्तिः पादयोश्च नियोगोभीष्ट सिद्धये || ओं श्रीं ह्रीं क्लीं ग्लौं गमिति पूर्वं षड्दीर्घयुक्तकं | उच्चार्य कुर्यादंगानि तथांगुष्टादिषु न्यसेत् || तालत्रयं तथास्त्रेण कृत्वा दिग्वंधमाचरेत् | तर्जन्यंगुष्ठशब्देन दशदिक्ष्वथ चिंतयेत् || हस्तींद्राननमिंदु चूडमरुणच्छाद्यं त्रिनेत्रं रसादाश्लिष्टः प्रियया स पद्मकरयास्वांकस्थयासंततं | वीजापूरगदाधनुस्त्रिशूलशिरयुक् चक्राब्जपाशोत्पलव्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहंतं भजे || महागणपतेर्मंत्रं मष्टवारं जपेत्ततः | गमित्यकाक्षरं वीजं गणकोस्य मुनिर्मतः || देवो विघ्नेश्वरच्छंदं निवृद्गाय त्रिनायकं | प्रपंचाख्यस्य यागस्य सांगता सिद्धी हेतवे || चतुश्चत्वारिंशत् संख्यजपार्थे विनियोजनं | अथ षड्दीर्घयुक्तेन कुर्यादंगानिएन तु || तंतपाशांकुश वरकर अक्षं चतुर्दलं | सिंदूराभं चंद्रमौलिं सर्पभूषंगलन्मदं || एकवारं जपेत् पश्चाद्गणानां त्वेति वैदिकं | गणेशमालामंत्रस्य मुनिस्तु गणकः स्मृतः || छंदोऽमितं गणपतिर्देवता परिकीर्तिता | ह्रीं क्रों तारो नमः सर्वे ङेंतं विद्याधिपस्ततः || सर्वार्थसिद्धिदायेति सर्वदुःखप्रशेति च | ततो गणप एह्येहि भगवत् स्वादयेति च || प्. ८३ब्) स्तंभयेति द्वयं ह्रीं गं गां नमोप्यग्नि गेहिनी | क्रों ह्रींमिति पंचपंचाशद्वर्णामंत्र उच्यते || जपेदिदं चतुर्वारं मुन्यादि सहितान्यसेत् | न्यासः पूर्वं त्रिवारं तु मातृका ध्यानपूर्वकं || स्वरादिः ससवर्गैस्तु ग्रहान्ससमुदीरितः | प्रपंचयाग मंत्रस्य मुनिर्ब्रह्मा समीरितः || परमाद्या समाख्याता गायत्री छंद उत्तमं | महः परं समाख्यातं देवता चिन्मयात्मकं || अप्यंते वोधितं नित्यं सर्वव्यापी निरंजनं | विलोमगैः पंचपरैः प्रपंच मनुसंस्थितैः || ह्रस्वदीर्घांतस्थकादिवर्गैः पूर्वं समन्वितैः | तारमायादिकैरस्त्रैर्युक्तैर्हरिहराक्षरैः || षडंगानि प्रकुर्वीत जातियुक्तानिदेशिकः || वेदादि पंचमनुभिः परिचीयमानं मानैरगम्यमनिशं जगदेकमूलं | सच्चित्समस्तगमनश्चरमच्युतं तत्तेजः परं भजतसांद्र कृपांवुराशिं || वेदादिमाययोरंतेक्षकाराद्यान् स विंदुकान् | पृथगुच्चार्यहंसः सोयं स्वाहेति वदन् हृदि || विभावयेदिमान् वर्णानात्म वह्नौ जुहोम्यहं | एवं हुत्वा अकारांतमकाराद्यान्पुनर्हुनेत् || विसर्गांतान् क्षकारांतं विन्यसेन् मातृकास्थले | एवं प्रपंचयागाख्यो मातृकान्यास ईरितः || आत्मविद्या शिवैस्तत्वैस्तत्वन्यासं समाचरेत् | पादादिनाभिपर्यंतमात्मतत्वं प्रकीर्तितं || नाभ्यादि हृदयांतं हिं विद्यातत्वं प्रकीर्तितं | हृदयाद्द्विंदुपर्यंतं शिवतत्वं प्रकीर्तितं || मूलमंत्र त्रिखण्डांते क्रमेणैव प्रविन्यसेत् | सर्वमंत्रं समुच्चार्य सर्वांगे व्यापकं शिवे || सर्वतत्वमिदं प्रोक्तं सर्वदेवत्वकारकं | तिथि तत्वानि देवेशि आत्मतत्वे भवंति हि || पंचविंशति तत्वानि विद्यातत्वं भवंति हि | षट्त्रिंशच्छैवतत्वानि शिवतत्वे भवंति हि || अथ पंचाशत् तत्वानि सर्वतत्वे भवंति हि | एतन्न्यामांतरे योगपीठाख्यं न्यासमाचरेत् || तत्पूर्वमुक्तं च ततः स्वेष्टमंत्रस्य संचरेत् | प्राणायामत्रयं कृत्वा मूलमंत्रेण साधकः || विन्यसेत् तदृषिः छंदो दैवतानि यथाविधि | अथ ऋष्यादिन्यास क्रमेणस्थानानि मुद्राश्चाह || प्. ८४अ) ऋषिन्यसेत् मूर्द्ध्निदेशे छंदस्तु मुखपंकजे | देवतां हृदये चैव वीजं तु गुह्यदेशके || शक्तिं च पादयोश्चैव सर्वांगे कीलकं स्मृतं | ऋष्यादीन्विन्यसेद्देवि चतुर्थी हृदयांतकान् || अथास्य मुद्रा | ऋषिः छंदो देवतानां न्यासेययंगुलय स्मृताः | चतस्रोंगुष्टरहिताः शक्त्यंतं विन्यसेत् ततः || कीलकं व्यस्तहस्ताभ्यां सर्वांगे साधकाग्रणी || अथवा || विनांगुष्टामंगुलिभिः संयुताभिः ऋषिं न्यसेत् | वामाग्राभिः पुनस्ताभि विन्यसेन्मुखपंकजे || सर्वाभिर्हृदये प्राक्ता गुदे पादे तथाग्रतः | कराभ्यां विन्यसेद्धीमान् सर्वाङ्गे चक्रमाद्विदुः | अघांगन्यासमुद्रा || कनिष्ठांगुष्ठरहितै स्त्रिभिस्तु हृदि विन्यसेत् | मध्यमा तर्जनीभ्यां तु न्यसेच्छिरसि मंत्रवित् || अंगुष्ठेन शिखान्यस्य दशभिः कवच न्यसेत् | हृद्गतैर्नेत्रविन्यासं विन्यसेत् परमेश्वरी || तर्जनी मध्यमाभ्यां तु ततोस्त्रं विन्यसेत् प्रिये | षडंगं विन्यसेन्मंत्री हृदयाय नमो वदेत् || स्व स्व मंत्रं समुच्चार्य शिरस्य वह्नि वल्लभा | स्कंधमध्ये न्यसेत् पश्चात् शिखायेवषडित्यपि || कवचाय वाहुमूले कूर्चवीजं समुच्चरेत् | नेत्र त्रयेभ्यो वौषडित्यंतं नेत्र ततो न्यसेत् || करयोर्विन्यसेन्मंत्री अस्त्राय च फडित्यपि || अथास्यार्थमाह || हृदयायेति शब्देन हृस्थो देवः स विग्रह | उच्यते नम इत्यस्य ज्ञानं तद्विषयं परं || शिरः शब्दो देवताया उत्कृष्णत्वाभिधायकः | स्वाहेति विषयाः सर्वेदेवतायां समर्पिताः || शिखायैव स्वरूपत्वं वषडपि तदुच्यते | देवताया व्यापकत्वं कवचायाभिधीयते || हूमपि व्यापकं तेजो देवतायाः प्रकाश्यते | नेत्र शब्देन देवस्य प्रकाश्यत्वं प्रकाश्यते || वौषडपित दैवोक्ता मंत्रशब्देन वारणां | अनिष्टस्य फट् शब्देन दाहकं तेज उच्यते || ज्ञात्वैव मंगमंत्रार्थ मंगन्यासं करोति यः | प्रचयास्तस्य सर्वार्थाः पूज्यते स्त्रिदशैरपि || करांगन्यासमुख्यास्तु न्यासानन्यान् समाचरेत् | आगमोक्तो न मार्गेण न्यासान्नित्यं करोति यः || देवताभावमाप्नोति मंत्रसिद्धिः प्रजायते | योन्यासः कवचाच्छंदो मंत्रं जपति यः प्रिये || दृष्ट्वा विघ्नाः पलायंते सिंहं दृष्ट्वा यथा गजा | अकृत्वा न्यासजालं यो मूढात्मा कुरुत्तेजयं || प्. ८४ब्) विघ्नैः स वाध्यते नूनं व्याघ्रैर्मृगशिशुर्यथा | न्यासानां प्रचुरत्वेन फलानामपि भूरिता || उक्त न्यासो न हि त्याज्यः त्वधिकं कामतश्चरेत् || इति श्रीतंत्रचिंतामणौ साधारणनित्यार्चनायां पूजामण्डपप्रवेशनादिन्यासजालांतनिर्णयो नाम षोडशः प्रकाशः || १६ || अथांतर्विधिः || एवं देहमये पीठे चिंतयेदिष्टदेवतां | ध्यानं कुर्यात्ततो मंत्री तत्तत्कल्पोक्तवर्त्मना || तदपि द्विविधं प्रोक्तं स गुणं निर्गुणं तथा | आत्मनो हृदयांभोजे कर्णिका केशरोज्वरे || प्रफुल्ले सोमसूर्याग्नि मण्डलेन विराजिते | स्वीयेष्टदेवतां तत्र यजेदागमवोधितां || एवं यद्वेदनं तद्धि सगुणं ध्यानमुच्यते | अथांतर्ययजनं वक्ष्ये दृष्टादृष्ट फलप्रदं || योगिनां येन जायंते अधीरा मानवाः सदा || श्रीदेव्युवाच | वाह्यपूजां विना स्वामिन् कथमंतः प्रपूजनं | पूजाज्ञानं यदाजातं तदांतः पूजनं भवेत् || सामग्री ज्ञानहींनत्वात् कथमंतः प्रपूजनं || श्रीशिव उवाच || सत्यमेतन्महेशानि रहस्यं शृणु यत्नतः | विष्ठापूर्णे स्वादरे तु वहिः शुद्धौ तु किं फलं || अंतः शुद्धिं समासाद्य वहिः शुद्धिं समाचरेत् | वहिः पूजाविधौ देवि समाग्रीदुर्मिलाकलौ || व्यंग्यता जायते सत्यं सर्वत्र पूजने शिवे | तत्सांगतासिद्धिहेतोरंतः पूजा प्रकीर्तिता || भावनामात्रगम्येवं कोटिरत्नानि कल्पयेत् | अंतः पूजाविहीनेन कृतं तदफलं भवेत् || संयोगं तु विना देवि यो गर्भाधानमिच्छति | सवांतः पूजनं त्यक्त्वा वहिः पूजां स मिच्छति || सदरिद्री महाघोरी कथमत्र सुखं भवेत् | अंतः पूजां समासाद्य वहिः पूजां समाचरेत् || संभाव्य पूजनं स्वांते तथैव रचयेद्वहिः || श्रीदेव्युवाच || तथ्यमुक्तं त्वयादेव संशयोमेस्ति शंकर | वहिः पूजनमासाद्यचांतः पूजां समाचरेत् || एवं क्रमेण देवेशि पूजा किन्न भविष्यति || शिव उवाच || मृदपक्वं समासाद्य यथा देवि घटोद्भवेत् | घटः पक्व मृदादेवि पूर्ववत् किं भविष्यति || अपक्वां मृत्समानीय यथा देवि घटो भवेत् | ततः पक्वं प्रकर्तव्यः सुंदरः स तु जायते || प्. ८५अ) अंतर्पुनर्वहिः पूर्णं वहिः पूर्णतरा भवेत् | अन्योन्याश्रय संयोगात् पूजनं सकलं भवेत् || देवो भूत्वा यजेद्देवं ना देवो देवमर्चयेत् | तस्याद्देवत्वमासाद्य चांतः पूजादिमार्गतः || गुरोर्ध्यानं प्रकुर्वीत यथा पूर्वं विशालधीः || इति ब्राह्मीमुहूर्तकृत्यं || स्नानं बुधस्ततः कुर्यात् सच्चिदानंद सिद्धये | स्नायाच्च विमले तीर्थे पुष्करे हृदयाश्रिते || विंदुतीर्थे नरः स्नायात् पुनर्जन्म न विद्यते || इति स्नानं || मूलाधारात् कुण्डलिनीमुत्थाप्य योजयेच्छिवे | शिवशक्त्योः समायोगो यस्मिन् काले प्रजायते || सा संध्याकुलनिष्टानां समाधिस्तैः प्रगीयते || इति संध्या || चंद्रार्कानलसंघट्टाद्गलितं यत्परामृतं | तेनामृतेन दिव्येन तर्पयेत् परदेवतां || ब्रह्मरंध्रा दधोभागे यच्चांद्रं पात्रमुत्तमं | कलासारेण संपूर्य तर्पयेत्तेन खेचरीं || इति तर्पणं || आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटेद्वेपत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे चतुष्के | वासांते वालमध्ये उफकठ सहिते कण्ठमूले स्वरांश्चहक्षौकोदण्डमध्येन्य स तु विमलधीन्या स संपत्ति सिद्ध्यै || इत्यंतर्मातृकान्यासः || अथांतर षडंगन्यासः || सहस्रारे मणिनिभे सर्ववर्ण विभूषिते | अकथादि त्रिरेखाद्यैर्हलक्षत्रयभूषिते || तन्मध्ये परविंदुं च सृष्टिस्थितिलयात्मकं | एवं समाहितमनाध्यायेन्न्यासोयमांतरः || मुलादि ब्रह्मरंध्रांतं विंद्वं ध्यायैच्चिदात्मकं | विंदुस्रुतसुधासारैस्तर्पयन्मातृकांन्यसेत् || एकैकं वर्णमुच्चार्य मूलाधाराद्भ्रुवांतिकं | नमोंत इति विन्न्यासः आंतरः परिकीर्तितः || हृद्यान्मानो हृदात्मायं हृदयेस्याच्चिदात्मकं | क्रियते तत्परत्वेन हृन्मंत्रेण ततः परं || सर्वज्ञादि गुणात्तुंगे सच्चिद्रूपे परात्मनि | क्रियया विषयाहारः शिरोमंत्रेण देशिकैः || हृच्छिरोरूपविद्धामलयता भावनादृटा | क्रियते निजदेहस्य शिखामंत्रेण देशिकैः || प्. ८५ब्) मंत्रात्मकस्य देहस्य मंत्र वाह्ये तेजसा | सर्वतो वर्म मंत्रेण क्रियतेऽहन्यसंवृतिः || यद्ददाति परं ज्ञानं सच्चिद्रूपे परात्मनि | हृदयादि मयं तेजः स्यादेतन्नेत्र संज्ञितं || आध्यात्मिकादि रूपं च साधकस्य विनाशयेत् | अविद्याजालमस्त्रं तत्परंधाम समीरितं || अथ ध्यानं || किरणस्थं तदग्निस्थं चंद्रभास्करमध्यगं | महाशून्येलयं कृत्वा पूर्णः तिष्ठति योगिराट् || यज्जीव ब्राह्मणोरैक्यं सोहंस्यामिति वेदनं | तदेव निर्गुणं ध्यानंमिति वेदविदोविदुः || इति ध्यानं || अथार्च्चनं || अर्च्चयेद्विविधैः पुष्पैः तत्क्षणात्तन्मयो भवेत् | न्यासस्तन्मयतावुद्धिः सोहं भावेन पूजयेत् || क्षमायामनहंकारमनागममदं तथा | अमोहकंमदं दंभमद्वेवाक्षोमकौ ततः || अमात्सर्ययमलोभं च दशपुष्पं विदुर्बुधाः | अहिंसा परमं पुष्पं पुष्पमिंद्रिय निग्रहः || दयापुष्पं क्षमापुष्पं ज्ञानपुष्पं च पंचमं | इत्युक्तैरुत्तमैः पुष्पैः पूजयेत् परदेवतां || इत्यार्चनं || मालापंचाशिकी प्रोक्ता सूत्रं शक्तिशिवात्मकं | ग्रथिता कुण्डली शक्तिः कलांते मेरुसंस्थितिः || इति जपः || अथ होमः || मूलाधारगते कुण्डे देवताग्निः समुज्ज्वले | धर्माधर्मान्विते त्र्यस्रे मूलमंत्रपुरःसरं || अहं जुहोमि स्वाहेति प्रत्येकं जुहुयात् सुधीः | अहंताऽसत्यपैशुन्य कामक्रोधादिकं हविः || मन एव श्रूवः प्रोक्त उन्मनी मुगुदीरिता || अथ मूलांते || नाभौ चैतन्य रूपाग्नौ हविषा मनसा स्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृत्तीजुहोम्यहं || स्वाहा इति प्रथमाहुतिः || मूलांते || अंतर्निरिंधन निवंधन मेधमान मायांधकारपरिपंथिनि संविदग्नौ | कस्मिंश्चिदद्भुतमरीचिविकाशभूमौ विश्वं जुहोमि वसुधादिवखावसानं || स्वाहा इति चतुर्थाहुतिः || इत्यंतर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् | न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्ध्रुवम् || प्. ८६अ) इत्यंतर्यजनं || अथ वहिर्यजनं || तत्रादावर्घ्यादि स्थापन || मूलमंत्रेणाथ वामेस्वस्य देवाग्रतश्चरेत् | वृत्तेन वेष्टिते सम्यक् त्रिकोणं चंदनांभसा || तद्वहिश्चतुरस्रं च विदध्यान्मत्स्यमुद्रया | संपूज्य गंधैर्देवार्घ्यमण्डलाय नमोधुना || अंगानि चतुरग्न्यादि कोणेषु पुरतस्तथा | दिक्षु चास्त्रं समभ्यर्च्य शंखाधारं प्रविन्यसेत् || आधारेण विना भ्रंशो न तृप्यंति च मातरः | तस्माद्विधिवदाधारं त्रिपदं वा चतुष्पदं || पद्माभं वा त्रिकोणं वायोन्याभं वा भुजं तु तत् | मूलांते वामुकाधारपात्रं संस्थापयामि च || उक्त्वाशंखादिकाधारं मण्डले स्थापयेदथमंरं धर्मप्रदेत्युक्त्वा वदेद् दशकलात्मकं | ङेन्ते वह्नेर्मण्डलं च देव नाम च कीर्तयेत् | ततोर्घपात्रधाराय नमः प्रोक्त्वा प्रपूजयेत् || वह्नेर्दशकलाः पूज्यास्तत्र च प्रोक्त प्रदक्षिणं | अस्त्रमंत्रेण च ततः कनद्रादि विनिर्मितं || अर्घदि पात्रमथ वा शंखमस्त्रानुनाजलैः | प्रक्षाल्यामुकदेवार्घपात्रं प्रतिस्थापयामि || एवमुक्त्वा तदाधारे संस्थाप्यैवं वदेत् पुनः | अर्थप्रदेद्वादशेति कलात्मने वदेत् ततः || सूर्यमण्डलमुच्चार्य ङेंतं देवस्यनाम तु | अर्घपात्राय च नमो मनुनानेन पूजयेत् || तत्पात्रमथ तत्रैव भावयेद् भूमिमण्डलं | षट्कोणं तत्र चांगानि पूजयेत् पूर्ववत् ततः || कलाद्वादश सूर्यस्य प्रोक्तपात्रे प्रदक्षिणं | ततः सुधामयैस्तोयैर्मूलांते मातृकापठेन् || विलोमां पूरयेत् तस्मिन् पूजको मनुनामुना | ओं शंकामप्रदेत् युक्त्वा षोडशेति कलात्मने || नमः पंचदशार्णोयं मंत्रः शंखः प्रपूरणे | गंधपुष्पाक्षतद्यव कुशाग्रतिल सर्षपान् || दूर्वा इत्यर्घ्य पात्रस्य प्रोक्तं द्रव्याष्टकं सुरा | ततोयं गंधपुष्पाद्यैः पूजयित्वा समर्चयेत् || कला षोडशकं चांद्रं पश्चात् सर्वकलासु च | प्रणप्रतिकुर्वीत पूजांते साधकस्ततः || प्राग्वत्तीर्थं समावाह्य मूलमंत्रेण तत्र तु | संयोज्य नेत्रमंत्रेण पुष्पण्यस्य शिखामुना || प्रदर्श्यगालिनीं मुद्रां मुद्रयाधेनु संज्ञया | अमृतीकृत्य विधिवत् सुधावीजेन साधकः || ध्यात्वेष्ट देवतां तत्र सकलीकरणं चरेत् | अंगन्यासेन वास्त्रेण कलयेच्च दिशोदशः || प्. ८६ब्) नेत्रमंत्रेण संवीक्ष्य मुद्रया शंखसंज्ञया | अवष्टभ्य ततो दीप्यमुद्रया योनिरूपया || गंधपुष्पादिभिस्तत्र पूजयेदिष्टदेवतां | षडंगानि च संपूज्यमंत्रयेन् मूलमंत्रतः || अष्टकृत्वस्ततश्चार्घ्यं छादयेत् मत्स्यमुद्रया || गालिन्यादि मुद्रा यथा || कनिष्टांगुष्ठकौ सक्तौ करयोरितरेतरं | तर्जनी मध्यमानामासहिताभूग्नवर्जिताः || मुद्रैषागालिनी प्रोक्ता शंखस्यो परिपालिता | अन्योन्याभिमुखाश्लिष्टाकनिष्ठानामिका पुनः || तथा च तर्ज्जनी मध्या धेनुमुद्रा मृतप्रदा | वामपुष्पेंतरेंगुष्ठं निवेश्यसनरांगुलिः || दक्षिणस्य करस्यैव वामांगुष्ठेन संस्पृशेत् | शंखमुद्रेयमाख्याता विद्वद्भिश्च सुसंमता || मध्यमे कुटिलेकार्ये तर्जन्यु परिसंस्थिते | अनामिके मध्यगते तथैव च कनिष्ठके || सर्वा एकत्र संयोज्य अंगुष्ठ परिपीडिताः | योनिमुद्रा समाख्याता त्रैलोक्योत्पत्तिमातृका || दक्षेपाणिः पृष्ठदेशे वामपाणितलं क्षिपेत् | अंगुष्ठौ चालयेत् पश्चात्मुद्रेयं मत्स्यरूपिणी || इति विशेषार्घ्यविधिः || अथार्घ्यादि पात्रसंख्यामाह || अर्घ्यस्य त्रीणिपात्राणि पाद्यस्यापि त्रयं भवेत् | तथा च मन पत्राणि स्युरद्येकतरं भवेत् || एक पात्रं न कर्तव्यं यदि साक्षान्महेश्वर | मंत्राभ्यरान्मुखायांति आपदश्च पदे पदे || इहलोके च दारिद्र्यं मृते च नरकं व्रजेत् | ततः साधारकं पात्रं पुरतः स्थापयेद्बुधः || तत्पार्श्वे पाद्यपात्रं च तत्पार्श्वेर्घ्य प्रदायकं | आचमनीयं च तत्पार्श्वे तद्वामे मधुपर्ककं || पुनराचमनीयं च स्नानीयं चक्रमान्न्यसेत् | तच्छंखस्थं जलं किंचित् कुंभतो ये विनिःक्षिपेत् || एकैकपात्रं मूलेन ज्येष्ठं कृत्वाभि मंत्रयेत् | मधुपर्कस्तु सक्षौद्रं दधितच्च न लभ्यते || दधिदुग्धंगुडक्षौद्रेघृतप्रतिनिधिर्नहि | परमं यत्पदं देवामधुसंज्ञं तदुच्यते || तदाप्येते येन कर्मतत्प्रोक्तं मधुपर्ककं | कांसस्य वाथ रौप्यस्य शैवेशंख वरोहरौ || महाशंखे वाममार्गे स्फाटिकं ग्रहनायके | दक्षिणे प्रोक्षणी पात्रं मादायाभिः प्रपूरयेत् || प्. ८७अ) किंचिदर्घं तु संगृह्य प्रोक्षण्यंभसि योजयेत् | पुनराचमनीयार्थं पात्रं संस्थापयेत् ततः || पाद्यं श्यामाकदूर्वाज विष्णुक्रांताभिरुच्यते | जातीलंवंगकं कोलैष्कृतमाचमनीयकं || कुशपुष्पयव व्रीहि वहुमूलतमालकं | दापयेत् प्रोक्षणी पात्रं भसितं प्रणवेन च || शुद्धाभिरद्भिर्विहितं पुनराचमनीयकं | द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः || अथार्घ्यादि पात्राणां फलं वक्ष्ये शुभाशुभं | सर्वकामप्रदं स्वर्णं रौप्यमायुः सुतप्रदं || सौभाग्यं ताम्रपात्रेण धर्मवृद्धिस्तु मृन्मये | नारिकेलेदेवतुष्टिदंकाच संभवं || लक्ष्मी प्राप्तिर्विल्वपत्र ब्राह्मण्यं ब्रह्मवृक्षजे | मारणोच्चाटने लोहं स्तंभः पाषाणजे भवेत् || मंत्रस्याराधने काष्टं वाममार्गे तु तौंविके | रत्नादीनां तु पात्राणि शुभरेखांकितानि च || अर्घनैवेद्यपूजार्थवलिदाने प्रकल्पयेत् | पात्राणामादरः कार्यः पात्राण्यवोत्तमानि तु || वलिहोम क्रियाद्यं हि विना पात्रं न सिद्ध्यति | षट्त्रिंशदंगुलं पात्रं मुत्तमं परिकीर्तितं || मध्यमं तु त्रिभागोनं कनिष्ठं द्वादशांगुलं | वस्वंगुल विहीनं तु न पात्रं कारयेत् क्वचित् || नामीविवररूपाणि पुण्डरीका कृतानि च | शंखनीलोत्पलाभानि पात्राणि प्रैकल्पयेत् || श्वेतादीत्पतिशस्तानि विप्रादीनां क्रमेण च | सेचयेत् प्रोक्षणी पात्रतोयैर्मूलास्त्रमुच्चरेत् || आत्मानं यागवस्तूनि पूजाद्रव्याणि मण्डले | दर्शयेद्धेनुमुद्रां च द्रव्यशुद्धिरियंमता || योगपीठान्यास देवात्तदास्थानेषु पूजयेत् | मणिपीठे भावनया ततः पूज्या स्वदेवताः || आत्मानं देवतारूपं ध्यायेन्मूलेन पंच तु | पुष्पस्यांजलयोर्देवामस्तके हृदयेगुदे || पादयोः सर्वगात्रे च पूजयेच्चंदनादिभिः | चतुर्भिरूपवरैश्च नैवेद्यं च निवेदयेत् || गुरुपदिष्ट विधिनाशेषमन्यत् समापयेत् | प्रोक्षण्याद्भिः प्रयुंजीतः सर्वमेतत्समाहितं || पूजा चक्रं समभ्युक्ष्य वहिर्यागं ततश्चरेत् | स्वर्णादि रचिते पात्रे कल्पोक्तं यंत्रमालिखेत् || दक्षिणावर्ततो लेखं यंत्रं दक्षिणपूजने | वामक्रमेण कौलादौ गुप्तमे तत्प्रकाशितं || पूजायंत्रं दक्षमार्गे तत्तद्गंधाष्टकेन च | लिखेद्वा केशरहिमरोचनाभिस्समालिखेत् || वाममार्गे लिखेदाद्य पुष्पेण यदि यंत्रकं | यदि तल्लभ्यते देवलाक्षारस समन्वितं || कस्तूरी कुंकुमाक्तं च वटी कृत्वा तु गोपयेत् | यंत्रराजं समालिख्य पूजयेद्यदि साधकः || प्. ८७ब्) षण्मासं पूजनात् तत्र त्वरितं सिद्धीमाप्नुयात् | युवत्या अप्रसूताया अभावे गृह्यते रज || तदभावे तरुण्यास्तु नीरोगाया रजोमतं | द्रावणांवुत्पतिश्चैव संयोगोत्थाथ वा भवेत् || तदभावे तु रुधिरं महिषस्य प्रशस्यते | तदभावे तु कुसुमं ग्राह्ये चैवा पराजिताः || तस्योर्द्धभागे निःक्षिप्यद्यर्पितं रक्तचंदनं | तदागतं मूलमार्गात्तेन यंत्रं समालिखेत् || तदभावे तु सुरयाघृष्टरक्तकचंदनैः | यथोक्तं विलिखेद्यंत्रं तुष्टो भवति देवता || नवमो न प्रकाशोस्ति वाममार्गे सुरोत्तमाः || अथ यंत्रस्यावश्यकतामाह || यंत्रं मंत्रमयं प्रोक्तं यंत्रात्मादेवतेति च | देहात्मनोर्यथा भेदो यंत्र दैवतयोस्तथा || शरीरमिव संजीवस्य दीपस्य स्नेहवत् प्रिये | सर्वेषामपि देवान्यं तथा यंत्रं प्रतिष्ठितं || आदौ लिखेद्यंत्रराजं देवतायाश्च विग्रहः | कामक्रोधादिदोषोत्थ सर्वदुःखनियंत्रणात् || यंत्रमित्याहुरे तस्मिन् देवः प्रीणाति तत्वतः | विना यंत्रेण पूजायां देवता न प्रसीदति || इदमपि कौलवामयोरितिकेविंद्वदंति || तथा च || वामे कौले यंत्रपीठे मूर्तौ पूजा च दक्षिणे || अथ पीठपूजामाह || एवं पीठं विनिर्माय पूजयेत् पीठदेवता | गुरुषड्भिरुदक्पूज्या महागणपतेः परं || पूजयेदतलादीनि देवस्याधस्तु सप्त च | मण्डूकश्चापि तस्योर्द्धे रुद्रः कालानलस्ततः || मूलप्रकृतिमाधारशक्तिं कूर्ममनंतकं | वाराहं तस्य दंष्ट्राग्रे पृथिवीमर्चयेत् पुनः || तस्यां सुधार्णवं तस्मिन् द्वीपं च नवरत्नजं | स्वर्णशैलं च तन्मध्ये तदूर्द्ध्वं नंदनं वनं || तन्मध्ये कल्पवृक्षांश्च तन्मध्ये रत्नभूमिकां | स्वर्णप्राकारमस्यांतस्तन्मध्ये रत्नमण्डपं || तस्यांतः स्वर्णवेदीं च रत्नसिंहासनं पुनः | वेदीमध्ये भावनीयं पूजयेच्चंदनादि वा || पूजाचक्राधारपीठं सिंहासनमिति स्मरेत् | तत्पादेषु यजेत् सम्यगाग्नेयादि शिवांतकं || धर्मं वृषतनुं रक्तं ज्ञानकृष्णं च सिंहवत् | वैराग्यं भूतवत्पीतमैश्वर्यं कृष्ण हस्तिवत् || अधर्मादीश्चित्रवर्णान्पीठस्याधः समर्च्चयेत् | मायाविद्ये च तन्मध्येनंतंतल्याकृतिं यजेत् || प्. ८८अ) तस्य मूर्द्ध्नि यजेत् पद्ममष्ट प्रकृतिपत्रकं | आनंदकंदकं संविन्नालं विकारकेसरं || कर्णिकां मातृकां रूपां तत्पत्रेषु क्रमाद् यजेत् | सिद्धीनष्टौ क्रामत् प्रोक्तस्त्वणिमा च प्रकामता || लघिमेशित्वमहिमोवशित्वं प्रप्तगौरवे | अधोधः कर्णिकायास्तु सोमः सूर्यस्तथानलः || गुणान् सत्वादिकांस्तत्र तद्वदग्नित्रयं यजेत् | ब्रह्मविष्णुमहेशांश्च ततो दिक्षु च मध्यतः || ज्ञानमाया कलाविद्या परपूर्वं च तत्वकं | केशरेषु तथा मध्ये पूर्वादिषु यथाक्रमं || तत्तन्मंत्रोक्तपीठस्य नवशक्तीः प्रपूजयेत् | पीठमंत्रेण गंधाद्यैः पीठमध्ये ततोऽर्चयेत् || चतुर्थीनाम संयुक्तैः स्वैः स्वैर्दैवतनामभिः | मध्ये पुष्पांजलिं दद्यात् पीठमंत्रेण साधकः || मूलमंत्रं समुच्चार्य षष्ठ्यातं पीठनाम च | मूर्तिं च कल्पयामीति मूर्तिमध्ये विनिःक्षिपेत् || पुनर्मूलं समुच्चार्य देवनाम ततः परं | मूर्तिं च पूजयामीति ताः पुष्पेण समर्चयेत् || अथेष्ट देवता प्रीत्यै यजेदायतनान्यपि | इशेयेनेशजशिवाहरावीशेशजेनसा || रवावीशेशजाजौभादेव्यां विशिगभास्कराः | गणेशेयेशभादेव्योभ्यर्च्या ईशादि कोणतः || एकपीठे पृथक्पूजां विनायंत्रं करोति यः | देवताशापमाप्नोति रौरवं नरकं व्रजेत् || तंत्रेण पूजयेद्यंत्रं सदैवं शापमाप्नुयात् | आवाह्य देवतामेकामर्चयेच्चान्यदेवतां || अन्य यंत्रेन्य पूजा वा देवता शापकारिणी | शालिग्रामोथ वा यंत्रं स्थाप्य चैकतमं शिवे || शालग्रामं तथा यंत्रं द्वयमेकत्र नार्चयेत् | पंचायतन पक्षीचे द्वितीयं पूजयेत् सदा || दिव्य चक्रं यदा प्राप्तं जीवचक्रं तदा न च | जीवचक्रं यदा प्राप्तं वाणलिंगं न चार्चयेत् || वाणलिंगं यदा प्राप्तं शालग्रामस्तदानवै | सालग्रामो यदा प्राप्तस्तदायंत्रं न पूजयेत् || शालग्रामे जीव चक्रे सर्वान् देवान् प्रपूजयेत् | यो भावो यस्य वै प्रोक्तस्तेन भावेन तिष्ठति || पूजनं वहुमूर्तीनामेक पीठे भवेद्यदि | पृथक् चंदन पुष्पाणि धूपदीपादि तंत्रतः || खण्डिते स्फुटिते दग्धे भ्रष्टमाण वीवर्ज्जिते | व्यंगेनहोपशुस्पृष्ठे पतिते दुष्टभूमिषु || अन्य मंत्रार्चिते चैव पतितस्पर्शदूषितः | दशस्वे तेषु नो कुर्युः सन्निधानं दिवौकसः || गणेशसूर्यविस्वीशदेवीनां पूजनं क्रमात् | दशस्थानानि देवानां पूजार्थं कल्पितानि च || प्. ८८ब्) सान्निध्यं सर्वदेवानामवश्यं यंत्रतो भवेत् | मंत्रस्तु जीववत् प्रोक्तः प्रतिमाद्यं शरीरवत् || सिद्धायमपि सामग्र्यां विना मंत्रं फलं न हि | शिवलिंगे मणौ यंत्रे शालिग्रामे घटेरवौ || स्थण्डिलेग्नौ मूर्द्ध्नि हृदिस्थानेष्ठे तेषु पूजयेत् | भूमावपि कृता पूजा पुत्रायुर्द्ध न नाशिनी || ईश्वरोवाच || शालिग्राम समुत्पत्तिं शृण्वं तु परमाद्भुतां | गण्डक्या प्राप्तपस्तप्तं भवं तु मम देवताः || सर्वपुत्राः सुखदातुं जनानामिति तेजदा | तस्यास्तु तपसा हृष्टा ब्रह्मविष्णुमहेश्वराः || वरं दातुं समुद्युक्ता व्रवेशा स्वस्य पुत्रतां | अशक्तास्तं वरं दातुं तदाशप्तास्तयाक्रुधा || प्रतारणं मम सुराः कृतं यस्मात् पुनः पुनः | कीटयोनी प्रपद्येथा क्रुधास्तेह्यशयंक्षुतान् || अविचार्यवयं सस्त्वयाद्यत्तपसाद्रुते | तेन कर्म विपाकेन जडाकृष्णा नदी भव || अन्योन्यशापं श्रुत्वेत्थं महाकोलाहलो भवत् | प्रकंपिता सुराः सा च ब्रह्माणं तेव्य जिज्ञिषुः || ब्रह्मन्स्त्राहि महाशापादन्योन्य पतिताक्रुद्धा | इति देववचः श्रुत्वा ब्रह्माशंकरमव्रवीत् || शिवः प्रोवाच धातारमहं संसारकारकः | त्वं सृष्टिकर्ता विष्णुस्तु पालको बुद्धिमत्तरः || समष्टव्यो यथा सौख्यमुभयोः संभवेदिति | इति माहेश्वरं श्रुत्वा वचनं विष्णुर व्रवीत || शृणु ब्रह्मन्महादेव शृणु देवि गजानन | मद्गणौ ब्राह्मणौ ग्राहमातंगौ शापतोत्र तु || भविष्यति तयोर्मोक्षं करिष्यामि कलेवरं | शीर्णे भविष्यति यदा तन्मेदोमज्जसंभवा || पाषाणींतर्गताः कीटा वज्राख्याः प्रभविष्यथ | अद्यैवं गण्डकी पुण्या गंगातुल्या महानदी || गण्डक्यांगिरिराजस्य दक्षिणे दशयोजनं | विस्तीर्णंतन् मनुंक्षत्रं पुण्यक्षत्रं महीतले || चक्रतीर्थमितिख्यातं त्रिषु लोकेषु विश्रुतं | शालग्रामगता देवादेवद्वारावती गतः || उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः | सर्वदेव प्रीतिकरा भुक्तिमुक्तिप्रदायिनी || भवं त्वस्यां तु पाषाणायेतदंतर्गताः सुराः | पार्थिवांशं विना सर्वे वज्रकीटा भवं त्विति || प्. ८९अ) अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि | भविष्यति तदंतश्च चिह्नं तद्देवतोद्भवं || विज्ञाययेर्चविष्यंति सा प्रीता तस्य देवता | न यंत्रस्य न मूर्तेश्च न वृक्षस्यापि पूजनात् || संतोषो जायते तेषां गण्डक्यस्यार्चराद्यथा | इति विष्णु वचः श्रुत्वा ब्रह्मावचनमव्रवीत् || कीदृक् पूज्याशिला विष्णोः किं चिह्नाकस्य वल्लभा | किं फलं चाधिकारीकः केन मार्गेण तद्वद || इति ब्रह्मवचः श्रुत्वा विष्णुर्वचनम व्रवीत् | स्वीयवर्णा शिलापूज्या ब्राह्मणाद्यैः सुखाप्तये || स्निग्धाः शिलामंत्र सिद्धिं रुक्षासिद्धिं करोति च | पेचका कीर्तिता धौतांगारवत्सायशोहरा || पाण्डुराया प्रशमनी मलिना पापधीकरा | पीता पुत्रफलं दद्यादारवर्णासुतान् हरेत् || नीलासंदिशते लक्ष्मीं धूमाभाहरते मतिं | रोगप्रदा रक्तवर्णा सिंदूराभा महाकलिं || दारिद्र्यकारिणी चक्रासना सर्वार्थसाधिका | स्थूलानि हंति वै वायुः सूक्ष्मा स्वल्पमृतिं हरेत् || पूजाफलं लांछितया निष्फलं लांछिनं विना | कपिलाचित्त वैकल्पं नेत्ररोगं च कर्वुरा || भग्नाभंगकरी ज्ञेया वहुचक्रा प्रमाणितां | रक्षणांतरहीनावेदेक चक्रावियोगतां || वृहन्मुखी कलतघ्नीवृहचक्रा सुतान् हरेत् | संलग्न चक्रात्व सुखं वद्ध वक्रामहागदं || भग्न चक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी | कुष्टादिकं व्यालमुखी विषमा विविधा पदं || विकृतावर्तनाभिश्च विकारान् कुरुते वहून् | वंशछेदो गृहस्थानां नारसिंह्यां प्रजायते || रेखावर्ता दुःखदात्री यथा सूक्ष्मा तथा सुखं | यथा स्निग्धा तथा लक्ष्मीमद्विभेदानतः शृणु || लक्ष्मी हरिः स विज्ञेयो यत्र पद्मं स चक्रकं | केवला वनमाल्मवा गृहस्थानामभीष्टदः || वासुदेवः स विज्ञेयो यद्वारे चक्र युग्मकं | निरंतरं समं वापि स श्वेतः पापनाशनः || संकूर्षणः स विज्ञेयः प्राक्यश्चाच्चक्र युग्मकं | संलग्नं पूर्वभागस्थं महद्रक्तः सुशोभनः || प्रद्युम्नः सूक्ष्मचक्रः स्याच्छिद्रं दीर्घं विचित्रितं | सुखिरांतर्वहुच्छिद्रं वीत इष्टप्रदायकं || अग्निरुद्धस्तुनीलाभोवर्तुलश्चाति शोभनः | रेखाद्वयं तु तद्वारपृष्टं पद्मेन लांछितं || केशवः स तु विज्ञेय एकं वा द्वयमेव वा | प्राग्वापश्चाच्चक्रं स्याच्चतुःकोण स भाग्यकृत् || नारायणः श्यामवर्णा नाभौ चक्रं तथान्नतं | दीर्घरेखा समायुक्तं दैक्षिणे सुखिरं पृथु || प्. ८९ब्) हरिरूपा * * (?) शिलासास्याद्यस्या ऊर्द्ध्वमुखं भवेत् | हरिवन्दृश्यते द्वारं भुक्तिमुक्ति प्रदातु सा || परमेष्टी स विज्ञेयः पद्मचक्रान्वितस्त्रयः | विल्वा कृतिश्च शुक्लाभः पृष्ठे च सुखिरां महान् || विष्णुस्तु कृष्णवर्णः स्यात् स्थूले चक्र सुशोभने | द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः || नरसिंहस्तु कपिलः पृथुचक्रो वृहन्मुखः | त्रयो वा पंचवा तत्र विंदवो गृहिणां न सत् || कपिलो नरसिंहस्तु गुडलाक्षानिभो भवेत् | स्थूल चक्रद्वयं मध्ये द्वारे रेखा सुशोभना || महानृसिंहो विज्ञेयः पूर्वोक्तैर्ललक्षणैर्युतः | रेखाश्च केशराकारामुखं दीर्घं भयानकं || लक्ष्मी नृसिंहो विज्ञेयश्चतुश्चक्र त्रिविंदुकः | पूर्वोक्त लक्षणैर्युक्तो वनमाला विराजितः || वाराहोसौ शक्तिलिंगे चक्रे च विषमे तथा | इंद्रनीलनिभः स्थूल स्त्रिरेखालांछितो भवेत् || पृथिवीवाराहनाम्नी सापावराहाकृतिः शिला | आभुग्ना चैव रेखैकागतराज्यप्रदायिका || मत्स्याख्या सा शिला ज्ञेया विंदुत्रयविभूषिता | कांस्याभावास्वर्णनिभा दीर्घा सा भुक्तिमुक्तिदा || कूर्माख्या तु शिला पृष्ठे वर्तुलायोन्नता भवेत् | हरितं वर्णमाधत्ते कौस्तुभेन च चिह्निता || शिलाकूर्मः स विज्ञेयः कूर्माकारस्तुयो भवेत् | चक्रांकिता तथा वृत्ता पूजिता सा पदप्रदा || हयग्रीवों कुशाकारा रेखाचक्र समीपगा | वहुविंदु समायुक्तं पृष्ठं नीरदनीलकं || ज्ञेयः सौम्यहयग्रीवाहयग्रीवा समाशिला | दीर्घया रेखया युक्तो रेखा वा तादृशी भवेत् || हयशीर्षः स विज्ञेयो मुखं यस्य हयाकृतिः | पद्माकृतिर्भवेद्वापि साक्षमालं शिरस्तथा || वैकुण्ठस्तिलवर्णाभश्चक्रमेकं तथा ध्वजं | हारोपरितथा रेखा पूपाकारा सुशोभना || श्रीधरस्तु तथा देवश्चिह्नितो वरमालया | कदंव कुसुमाकारो रेखा पंचकभूषितः || वामनः स तु विज्ञेयो योति ह्रस्वश्च वर्तुलः | अटसीकुसुमप्रख्यो विंदुनो परिशोभिता || दधिवामननामातु ऊर्द्ध्वाधश्चक्रसंयुतः | महाद्युतिरतिह्रस्वः सुभिक्षक्षेमदायकः || सुदर्शनस्तथा देवः श्यामवर्णो महाद्युतिः | वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणा || प्. ९०अ) सहस्रार्जुन नामासौ नानारेखामयी भवेत् | चक्राकार यत्र पंक्तिः स नष्टद्रव्यदायकः || स्थूल दामोदरोयस्य मध्ये चक्रं प्रतिष्ठितं | दूर्वाभं द्वारि संकीर्णः पीतारेखा धनप्रदः || राधा दामोदरो ज्ञेय ऊर्द्ध्वाधश्चक्रमान्विलं | नातिदीर्घामुखं मध्ये लंवोरेखा स भोगदः || दामोदरः स विज्ञेयोयश्चक्रद्वयलांछितं | सूक्ष्मं भवेच्च विवरं पूजितः सुखदः सदा || अनंतो वहुवर्णः स्यान्नाग भोगेन चिह्नितः | अनेक चक्र संभिन्न सर्वकाम फलप्रदः || पुरुषोत्तम नामासौ यस्य दिक्षु विदिक्षु च | ऊर्द्ध्वान्यास्यानिदृश्यं ते पुरुषार्थ फलप्रदः || योगेश्वरः स विज्ञेयो लिंगं यस्य शिरोगतम् | ब्रह्महत्यादि पापानां नाशको योगसिद्धिदः || पद्मनाभस्तथारक्तः पंकजः छत्रसंयुतः | तुलस्या पूजितो नित्यं दरिद्रस्त्वीश्वरो भवेत् || रश्मिज्वालो हिरण्यास्यश्चंद्राभः स्फटिकोपमः | अथवा जायते नानास्वर्णरेखाभिरन्वितः || गरुडः स तु विज्ञेयो मध्य पक्षद्वयान्विता | सुदीर्घा दृश्यते रेखा स सर्प्यविषनाशकः || जनार्दनः स विज्ञेयः केवलानि स्फुटानि च | यस्योदरे तु चत्वारि चक्राणि पितृ तृप्तिकृत् || लक्ष्मीनारायणो ज्ञेयो वनमाल्यं कितोदरः | सूक्ष्मद्वारश्चतुश्चक्रो भुक्तिमुक्तिप्रदायकः || हृषीकेशः स विज्ञेयोयोर्द्धचंद्वाकृतिर्भवेत् | तमभ्यर्च्यलभेत् स्वर्गे विषयांश्च समीहितान् || लक्ष्मीनरहरिर्ज्ञेयः कृष्णवर्णः सविंदुकं | वामपार्श्वे समे चक्रे गृहस्थाभीष्टदायकः || त्रिविक्रमस्तु विज्ञेयः श्यामवर्णो महाद्युतिः | वामपार्श्वे चक्र युग्ममेकारेखा तु दक्षिणे || कृष्णो ज्ञेयः शिलाकृष्णो स चक्रावाचि चक्रिका | प्रदक्षिणावर्त्तकृत वनमाला विभूषिता || चतुर्मुखः स विज्ञेयो द्वेचक्रे मध्यदेशतः | चतस्र पार्श्वमारेखा वेदशास्त्रागमप्रदः || विष्णोर्भेदा इमे प्रोक्ता अत्रैवा वा हरेद्धरिं | विसर्जयेच्च पूजांते प्रतिष्ठां नात्र कारयेत् || शालिग्रामाः समा पूज्याः समेषुद्वितयं न हि | असमानैव पूज्यंते एकः पूज्यतमोत्तमः || प्. ९०ब्) शिलाद्वादशयोनित्यं भक्त्या संपूजयेन्नरः | दिने दिने धर्मवृद्धिः पापनाशः प्रजायते || शालग्रामशिलायस्तु भक्त्या संपूजयेन्नरः | शतं दिनानि यस्तेन कृतकामः स सिद्ध्यति || शालिग्रामामत् स्वरूपाः शृणु तेषां तु लक्षणं | यत्सेवनाद्भवेदिष्टमिह लोके परत्र च || शिवनाभः स विज्ञेयः स लिंगाकारतांगतः | स्वयंभु लिंगाकृतिमान्मंत्र सिद्धिविधायकः || त्रैयंवकः स विज्ञेयो यो विंदुत्रय भूषितः | शुलाकारा तथा रेखागत पुंस्त्वप्रदायकः || धूर्जटिः स तु विज्ञेयो यत्र रेखा जटासमा | तिस्रो यत्र प्रदृश्यंते सोर्चितो ज्ञानदायकः || शक्तस्तु पाण्डुरो ज्ञेयो विंदुः कृष्णस्तु मस्तके | विल्वप्रमाण तेजस्वी पूजित स्त्रीवशंकरः || ईश्वरः स तु विज्ञेयो रक्तविंदुस्तु मस्तके | एकचक्रो द्विचक्रो वाभ्यंतरेधश्चगाःपहं || मृत्युंजयः सविज्ञेयः स्वल्पमृत्युविनाशकः | अधश्चक्रं तदूर्द्ध्वं च श्वेतारेखा त्रिशूलमान् || चंद्रशेषरनामासावर्द्धचंद्राकृतिस्तुके | मध्यचंद्र द्वयं तस्य सेवनाद्रोगनाशनं || रुद्रः स एव विज्ञेयः कपिलो मूर्द्ध्नि रुक्षतः | चक्रं मध्ये भवेद्वेषामारयेद्रिपुसंततिं || शालिग्रामानथो वक्ष्ये शक्तिकीटसमुद्भवान् | येषां पूजनतो देवी भवानी सुप्रसीदति || श्रीविद्या सा तले चक्रे मूर्द्ध्नछत्रं प्रदृश्यते | वाह्यघटांकितो मूर्द्धा स्निग्धा श्यामाखिलेष्टदा || महाकाली तु सा ज्ञेया योनि चिह्न समन्विता | रुक्षा स्थूला चिपिष्टा च वाममार्गेण पूजयेत् || वाराही तु वराहस्य चिह्नितांतः समन्विता | म्रापिता वलिरक्तै सा यदर्थं भक्षयेच्चतं || द्विछिद्राद्याः सर्वशिला स्त्रिकोणे शांकिताश्चयाः | यदा युधाकृतिश्चोर्द्धंतां देवीं तत्र निर्द्दिशेत् || देवीशिला च चक्राया दक्षे मार्गेनतां यजेत् | सार्विता मार्गेण लोकद्वय सुखावहाः || या चक्ररहिता देवी शिलां तां वामतोर्चयेत् | स्पर्शः कार्यो न विप्राणां न गवां क्षोभ कृद्भवेत् || प्. ९१अ) सौरीशिलादुर्ल्लभैव प्रायः कलियुगेसुराः | स्फटिकाभा भवेत् सातुद्यर्मे मुक्ता विमुंचति || तुलस्योर्द्ध स्थिते वह्निं साभिषिक्ता प्रवर्षणे| कुरुते शपथो मिथ्या कृतोस्याकृष्टकारकः || गणेशः स तु विज्ञेयो यः स्वशुण्डांकितो भवेत् | शुण्डाकाराशिला वापि गजानन समापि वा || यस्या मध्ये महच्चक्रं सूक्ष्मचक्रं च यद्दिशि | सा शिला तस्यदिक्यस्य सेव्या तद्दिशि राज्यदा || अर्द्धचंद्राकृतिर्यत्र दृश्यते शंकरद्वयं | सा तु चंद्रशिला त्र्यस्रयुक्ता भौमशिलामता || वाणाकारेण चिह्नेन ज्ञेया वुधशिला सुराः | दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता || पंचकोणा तु शुक्रस्य चापाकाराशनेर्मता | सूर्याकारा तु राहोः स्यात् केतोस्तु ध्वजरूपिणी || प्राप्ते कलियुगे घोरे वामाचारे विमिश्रिते | भक्त्या भक्ष्य विवारादि रहिता म्लेच्छसंकुले || कामक्रोधादिभिर्व्याप्तेजनेस्त्रीभिर्विनिर्जिते | क्वशिष्यः क्वगुरुर्मंत्रः क्वजपः क्व च सिद्धयः || अयुताव्दे कलेर्याते त्यजेद्विष्णुशिलांमहीं | तदर्द्धा जाह्नवी तोयं तदर्द्ध्वाद्देवताशिलाः || जप एवं कलौ श्रेयान् शालिग्रामार्चनं तथा | शालिग्रामे तथा यंत्रे सहस्रैव प्रसीदति || शालिग्रामे तथा यंत्रे विद्यमाने महेश्वरि | देवः कुत्रवसेद्देविस्थान द्वितयकं भवेत् || शालिग्रामा भवेद्यंत्रं शालिग्रामो गृहं भवेत् | यंत्रं तु गृहमित्युक्तं गृहस्था देवतामता || प्रतिमा वा प्रकर्तव्यो यथोक्ता शुभलक्षणा | दिव्यचक्रे जीवचक्रे शालिग्रामे तथैव च || वाणलिंगे महेशानि नावाहन विसर्जने || अथावाहनादिकं || सूर्यार्घदानसमये दानं विभवतः परं | आवाहनादिकं कुर्यान् मूर्त्यादौ नवधा तु तत् || आदावा वाहनं कार्यं त्रिर्जप्ते मूलमंत्रकं | स्वलोकात् सूक्ष्मरूपेण देव आगत्य मूर्तिषु || स्थित एवं भावयित्वा सुषुम्णावर्त्मनासुधीः | आनीय तेजः स्वस्यानान्नासिकारंधुनिर्गतं || करे पुष्पांजलौ स्थाप्यं तद्दद्यादेवमूर्द्धनि | देवस्य तेजस्तन्मूर्तौ आवाहिन्याख्य मुद्रया || प्. ९१ब्) स्थापयेदुच्चरन्मूलमेतदावाहनं मतं | विभोर्निवेशनं यंत्रे स्थापनं कथितं वुधैः || ततः संस्थापनं कुर्यादिहतिष्ठेहतिष्ट च | मूलांते देवतानाम तस्यांते च पठेदिति || आस्थापनीयमुद्रां च दर्शयित्वा विभावयेत् | जातः स्थिरोदेव इति पश्चात् संप्रार्थयेदिति || देवेश भक्तिसुलभ सर्वावरण संयुतः | यावत्त्वां पूजयिष्यामितावत्त्वं सुस्थिरोभव || एवं संप्रार्थ्यते देशं सन्निधापनमाचरेत् | पूजां प्रपूज्यमानां तु गृहीत्वानु ग्रहादिकं || कर्तुं सामर्थ्य तस्यास्तु तत्सान्निध्यं प्रचक्षते | मूलमंत्रं समुच्चार्य संबुध्यं तां च देवतां || इहत्वं सन्निधेहीति द्विरुक्त्वा स्वस्य सन्निधौ | स्थितं देवतोषयेच्च सन्निधापन मुद्रया || आकर्मकाशुपर्यंतं सान्निध्यमेहिभो वदेत् | सन्निरोध उद्दिष्टो भक्तितो मंत्रविन्नरैः || सन्निरोधं ततः कुर्यान् मूलमुच्चार्य देवतां | संवुध्यतां समुच्चार्य सन्निरुद्धो भवेति च || द्विरुच्चरेत् कृपापूर्णां भक्तिभाव निरोधितां | प्रतिमायां स्थिरीजातां देवतामिति चिंतयेत् || संमुखीकरणं कुर्यान् मूलमुच्चार्य देवतां | संवुध्यतावदेत् पश्चात् संमुखो भव इत्यपि || ध्यायेत् स्वसंमुखं देवं सुप्रसन्नाननांवुजां | संमुखीकरणीं मुद्रां दर्शयेदिति तत् स्मृतं || आनंदायतनं तत्वं सच्चिदानंदलक्षणं | तदत्र सकलेव्याप्तं ध्येयं स्यादेवगुण्ठनं || ततो वगुण्ठनं कुर्यान् मूलमुच्चार्य देवतां | संवुद्ध्यतामवगुण्ठितो भवंति प्रदर्शयेत् || अवगुण्ठन मुद्रां च दर्शयेच्चिंतयेदिति | भक्त्या संमोहितं देव विस्मयोत्फुल्ललोचनं || सकलीकरणं चैव देवस्य हृदयादिषु | षडंगमंत्रान्विन्यस्य मूलमुच्चार्य देवतां || सं * * * * * * * * * * * * * * * (?) | * * * * * * * * * * * * (?) रणाद् भवेत् || प्. ९२अ) अंगानामंगिनासार्द्धं विदध्यादमृतीकृतिः | अमृतीकरणं वक्ष्ये पीठे संस्थाप्य देवतां || वध्वा सम्यग्धेनुमुद्रां देवमूर्ध्नि प्रवर्षणं | जायते चामृतस्येति ध्यायन्त्रर्घ्योदकेन च || त्रिसिंचेन् मूलमंत्रेण दीपिनी मंत्रतस्त्रिधा | अकारादिक्षकारांत मातृकाभिस्त्रिधा पुनः || अत्र दीपिनी मंत्रो यथा || वाग्भवं वदयुग्मं च वाग्वादीनि च वाग्भवं | क्लीं क्लिन्नेक्लेदिनीक्लेदय महाक्षोभमित्यपि || कुरुयुग्मं कामवीजं सौमोक्षं कुरुयुग्मकं | प्रासादश्च पराप्रासादः सप्तत्रिंशदक्षरः || दीपनां मनुनाख्या तादेव तेजोभिवृद्धिकृत् | मूलं संवोधनां तं च देवनामामृतीकृतः || भवे हि च वदेदित्थ ममृतीकरणं स्मृतं | क्षमातस्यापराधानां विज्ञेया परमीकृतिः || परमीकरणं वक्ष्ये महामुद्रां च वंधयेत् | उच्चार्य मूलं देवं च पूर्ववत् परमामृती || कृता भवेति च प्रोक्ता ध्यायेद्देवस्य मस्तकेः | परमामृतवृष्टिं च देवस्य हृदयं स्पृशन् || कुर्यात् प्राणप्रतिष्ठां च ममस्थाने वदेत् तथा | देवतानामशेषं तु सर्वं प्राग्वदेव हि || अथ क्रमेणावाहनादि मुद्रालक्षणमाह | हस्ताभ्यां मंजलिं वध्वा नामिकामूलपर्वणोः || अंगुष्टानि क्षिपेत् सेयं मुद्रात्वा वाहिनी मता | अधोमुखिस्वियं वै स्यात् स्थापिनीति निगद्यते || उच्छ्रितांगुष्ट मुष्ट्यास्तु योगात् संधापनीमता | अंतः प्रवेशितांगुष्टा सैव संरोधनीमता || उत्तानमुष्टियुगला संमुखीकरणीमता | सव्यहस्तकृतागुष्टिदीर्घाधोमुखतर्जनी || अवगुण्ठन मुद्रेयमभितो भ्रामितासती | देवतांगे षडंगानां न्यासः स्यात् सकलीकृतीः || अमृतीकरणं धेनुमुद्रया सोक्तैव || अन्योन्यग्रथितांगुष्ठा प्रसारित परांगुलिः | महामुद्रेयमुदिता परमीकरणे प्रिये || एताः प्रयोजयेन्मुद्रा देवताह्वान कर्मणि | तत् तद्दैवतकल्पोक्तास्ततो मुद्राः प्रदर्शयेत् || ओं क्लींमिति तु वीजाभ्यां मुद्रयावंधनं स्मृतं | दर्शयेन्मूलमंत्रेण हंसवीजेन संत्यजेत् || प्. ९२ब्) मुदं स्वरूपत्वाभाभ्यां देहद्वारेण चात्मनः | या अर्पयंत्यो यत्नेन मुद्रास्ताः शक्तयोनता || मोदयंति ग्रहादित्यः पापौघं द्रावयंति च | मोदयं द्रावणं यस्मादतो मुद्राः प्रकीर्तिताः || यथा वालस्याभिनयं दृष्ट्वा हृष्यंति मातरः | तथा भक्त कृतां मुद्रां दृष्ट्वा हृष्यंति देवताः || न जातु दर्शयेन् मुद्रां महाजन समागमे | क्षुभ्यंति देवतास्तस्य किं फलं तु कृतं भवेत् || ततः संपूजयेद्देवं शक्त्या लभ्योपचारकैः | आसनं स्वागतं चार्घ्यं पाद्यमाचमनीयकं || मधुपर्कोथा च मनं स्नानं वस्त्रमलंकृतिः | गंधं पुष्पाणि धूपश्च दीपनैवेद्यचंदना || प्रयोजयेदर्चनायामुपचारांस्तु षोडशः | दशोपचारा मध्या स्यात् सा गृहस्थैर्विधीयते || अर्घ्यं पाद्यं तथा वामो मधुपर्कस्तथाचयः | गंधादयो निवेद्यांता उपचारा दशस्मृताः || गंधादयो निवेद्यंता पूजापंचोपचारिका | अगृहस्थैर्गृहस्थैर्वाकर्तव्याकार्य तत्परैः || सपर्या त्रिविधा प्रोक्तातासामेकतमंस्रयेत् | उपचारेषु सर्वेषु यत् किंचिदुर्लभं भवेत् || तत्सर्वं मनसाध्यात्वा पुष्पक्षेपेण कल्पयेत् | तत्र तत्र जलं दद्यादुपचारांतरांतरा || आदौ कुर्याद्वैदिकस्तुवद मंत्रेण पूजनं | ततश्च तांत्रिकैर्मंत्रैर्वामीशूद्रश्च तंत्रतः || अहं हं हं इहमिदमिदं गृहाण ठद्वयं | योज्यः सर्वोपचारेषु मंत्रः पंचदशाक्षरः || पठेद्वा वैदिकस्यांते तंत्रमंत्रं तु वैदिकः | सर्वत्र वह्निजायायाः स्थान शूद्रो नमः पठेत् || अथासनं || देवस्य वामभागे तु दद्यान्मूलेन चासनं | पौष्पं दारुमयं चास्त्रं चार्मकौशं च तेजसं || पौष्पं पुष्पादि रचितं कुशसूत्रादि संयुतं | नानावर्णं सुगंधं च कोमलं सर्वकामदं || यस्य यानि निषिद्धानि पुष्पाण्युक्तानितैः कृतं | केवलैरासनं हंति साधकस्य मनोरथान् || अथैतेषां भेदा || यज्ञदारु समुद्भूतं वैल्वं वा चंदनोद्भवं | गंभार्या वा विष्टरो वा श्रीपर्ण्या वेप्सितप्रदं || प्. ९३अ) सकंटकं क्षीरयुतं तालसाल विवर्जितं | चैत्य श्मशान संभूतं वर्जयेच्च विभीतकं || रोमजं वल्कलं कोशजातं कार्या स संभवं | वास्त्रं चतुर्विधं श्रेष्ठं तुर्यं पूर्वमुदाहृतं || सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च | गजानां तुरगाणां च कृष्णशारस्य चर्मणा || आसनं निर्मितं श्रेष्ठं निषिद्धं खरकुक्कुरं | शृगालस्य वृकस्यापि गोशशस्य कपेस्तथा || कुशःकाशःशरोग्रंथोय वा दूर्वाश्च वल्कया | गोकेशत्तुजौकंदश्च पूर्वाभावेपरः परः || योगपीठस्य सदृशमेतेमाम संस्मृतं | पूर्वं पूर्वं श्रेष्ठतमं कौशं दशविधं स्मृतं || स्वर्णतारा ताम्रसदवंगानां तु परं परं | हीनं निषिद्धं लोहं च कांस्यं सीसं च पित्तलं || अथ स्वागतं || सांगसावरणं देवं पूजार्थमिहचागतं | इति ध्यात्वा तु मूलांते स्वागतं परिकीर्तयेत् || अथार्घ्यदानं || ततोर्घ्यं मूर्ध्नि दद्याच्च कालोस्य त्रिविधोमतः | आगताय तथार्चायां स्नानुमासनगाय च || पूजांते गंदुकामायद्देवायार्घ्यं प्रदापयेत् || अथ पाद्यदानं || अर्घ्य द्रव्यद्युतैस्तोयै रूपचारमनुंपठन् | आगते स्नानकाले च नैवेद्योपक्रमोपि च || त्रिविधः पाद्यकालः स्यात् पाद्यं स्यात् पादधावनं | सुगंधामृत्तिकाभिर्वागंधपुष्टातकैरपि || सम्यक्क्षालन पूर्वं तु शीतैर्वोष्णजलैर्भवेत् || अथाचमनीयं || पाद्ये च मधुपर्के च स्नाने वस्त्रोपवीतयोः | भोजनेचाचमः शुद्धेतोयैः षट्व प्रकीर्तितः || अथ मधुपर्कः || क्षौद्रं कृत्वा कांस्यपात्रे दद्याद्देव मुखांवुजे | दिवसे दधि संयुक्त मुपचारमनुं पठन् || अथ पुनराचमनीयं || जातीफललवंगैला चंद्रकं कोलचूर्णयुक् | पुनराचमनीयार्थं तोयं देवमुखेर्पयेत् || अथ स्नानीयं || सुवर्ण तैलैरभ्यज्यसुगंधमलकादिभिः | उद्धतनैर्विधायाथ स्नापयेदुष्णवारिणा || गंधोदकैश्च मूलेन यथा शक्ताभिषेचयेत् | क्षीरदध्याज्य मधुभिः खण्डेन च पृथक् पृथक् || प्. ९३ब्) नारिकेलोदके नापि तथा तालफलांवुना | गंधद्रव्यैश्च वहुनिस्तथागंधोदकेन च || एक्षवेणोदकेनापि स कर्पूरादि गंधिना | कदलीपणसाम्रोथरसेनापि सुगंधिना || शतं सहस्रमयुतं शक्त्यां चाप्यभिषेचयेत् | शंखं संपूर्यते नैव स्नापयेत्तेमनन्यधीः || सर्वेषां प्रीतिदः शंखो न सूर्यास्य कदाचन | पंचामृतैस्तीर्थतोयैरभिषिक्तः शिवोस्तुदं || लभतेनान्य शंखोदैस्ततः शुद्धोदकेन च | स्नानं पुरुषसूक्तेन कार्येमूलेन वामिभिः || अथ वस्त्रं || विष्णवे वगलामुख्यैः पीतकौशेयमंवरं | शिवाय च सरस्वत्यै पार्श्वनाथाय शुभ्रकं || रक्तं शक्त्यक विघ्नानां भौमसौगतयोरपि | कृष्णं भैरवकाल्यादेराधादेर्नीलमं वरं || अछिद्रं मलहीनं च सदशः षन्नधारितं | कार्या स जंवा कौशेयं नार्कवं वा विशिष्यते || तैलादिदूषिताद्रोगः सच्छिद्धाभ्यता भवेत् | परकीयाच्च दारिद्र्यं जीर्णादायुः क्षयो भवेत् || दग्धाद्विपद्भवेद्दास्यंदत्ते गात्रावलंविते | शूचीचिह्ना स्फोटकादि मलिनात् कांतिहीनता || उप्तकेशे पुत्रनाशश्चाधौतेदीनता भवेत् | मिथ्याभिशापो भवति श्लेष्ममूत्रादिदूषिते || ततः पूर्वोदितं वस्त्रं यथा वैभव कल्पितं | दद्याद्देव्याश्वभावेपि केवलं कुसुमं तथा || वस्त्रार्पणेन तु विना पूजा भवति निष्फला | अतो दद्यात् पुष्पमपि वस्त्राभावे सुरेश्वरि || अथ यज्ञोपवीत भूषणे || यज्ञोपवीतं दत्वाथ भूषणानि समर्पयेत् | ङेंतं नमोंतं तन्नाम पूजनादौ प्रयोजयेत् || तानि नानाविधानानि स्युर्मुकुटादिकभेदतः | स्त्रीषु प्रभेदतश्चापि विज्ञेयानि विचक्षणैः || अथ चंदनं || चंदनं मलयोत्पन्न मनाघ्रातं सुशीतलं | कर्पूरागुरुकस्तूरीहिमांवुक्षोदितं शुभं || चूर्णघृष्टं धूमसारः संमर्दप्राणिसंभवः | गंधः पंचविधो ज्ञेयो मोक्षदः स्वर्गवासिनां || प्रशस्तं गंधयुक्तानां यत्र चूर्णानि यानि च | तानि गंधाह्वयानि स्युश्चूर्णजः प्रथमः स्मृतः || प्. ९४अ) घृष्टोमलयजोगंधः सरलो देवदारु च | कृष्णागुरुः कदंवश्च द्वितीयोयं प्रकीर्तितः || शतपत्रीरसेमग्नाच्चंदना गुरुकादिकात् | पिठरीयंत्रतः काचकूप्यां सिद्धस्तृतीयकः || कृष्णागुरुश्चंदनदेवदारु कालीयकं वालक भद्रमुस्तं | शिलारसः कुंदरकोकिलाश्चसेनंतिकाकेतुरगाहलीनाः || मृत्कर्पटैः संयुतका च कुप्यां दत्वा मुखं मुद्रयलोहसूत्रैः | निष्कासितोधूमरसस्तु तस्यै सौगंधिकैः का च कटोरकेयः || महामोदनामासुरामोदकारी तथा भूतपक्षोरगातंककारी | ज्वरारोचकछर्दिशंकापहारी ललाटेस्थिदोषापहारी || यथा भागमनेकास्तु सुगंधागंधवारिभिः | मर्दिता स चतुर्थस्तु संमर्द इति कीर्त्यते || कस्तूरिका चैक भागाद्वौभागौ मुस्तकस्य च | तदर्द्धैलाजटामांसीत्वकुष्टं च शिलारसः || चतुर्भागं वालकं च घृतभृष्टा तथा नखां | सुगंध कोकिला लोहवाणो राजवचा तथा || अष्टौभागाः केशरस्य शूलायाश्चाथ षोडशः | कृष्णा गुरुश्चाकसीरं कालीयमथषाधयः || भागाः सेवंतिका कस्य चंदनेन विमर्दयेत् | कामोदनामासंमर्दे देवताराजतोषयेत् || कस्तूरिकायौ तु मदः प्राणिजात इतीर्यतं | पंचमोयं सुगंधश्च देवदानव तोषयेत् || गंधाष्टकं च त्रिविधं शक्तिविष्णुशिवात्मकं | चंदना गुरुकर्पूरयोर कुंकुमरोचना || जटामांसी कपियुता शक्तेर्गंधाष्टकं विदुः | चंदनागुरूह्रीवेरकुष्टकुंकुमसेव्यकाः || जटामांसी सुरमिति विष्णोर्गंधाष्टकं स्मृतं | चंदना गुरुकर्पूरतमालजनकुंकुमं || कुशीतकुष्ट संयुक्तं शैवगंधाष्टकं स्मृतं || अथ पुष्पविधिः || अथ पुष्पस्य माहात्म्यं लेशमात्रं ददाम्यहं | यं ज्ञात्वा साधकः सिद्धिं लभेन्नूनं न संशयः || पुण्यसंवर्द्धनाचापि पापौघ परिहारकः | पुष्प आत्मप्रदानाच्च पुष्पमित्यभिधीयते || पुष्पैर्देवाः प्रसीदंति पुष्पे देवाश्च संस्थिताः | किं चाति वहुनोक्तेन पुष्पस्याति मृतल्लिका || प्. ९४ब्) परं ज्योतिः पुष्पयुतं पुष्पेणैव प्रसीदति | त्रिवर्गसाधनं पुष्पं पुष्टि श्रीस्वर्गमोक्षकं || पुष्पमूले वसेद्ब्रह्मा पुष्पमध्ये तु केशवः | पुष्पाग्रे च महादेवः सर्वेदेवास्थितादले || तस्मात् पुष्पैर्यजेद्देवं नित्यं भक्तियुतो नरः | पुष्पं पंचविधं प्रोक्तं परं चा परमेव च || उत्तमं मध्यमं हीनं तेषां वक्ष्यामि लक्षणं | परं सुवर्ण पुष्पं स्यात् तत्सदायोग्यमेव हि || अभ्यागत पूर्वकं देयमर्चनाह्रं पुनर्भवेत् | अपरं राजतं पुष्पे ताम्रं च परिकीर्तितं || सदायोग्यं चेदमपि त्रिवर्षं चैकवर्षकं | तुलसी केतकी पद्मं करवीजं च मालती || पंचैतान्नुत्तमान्याहुर्मध्यमानि तथा दश | मल्लिका कुंदमंदारतगरार्जुन किं शुकाः || पारिजातमशोकं च विल्वं च पंकमेव च | एतद्भिन्नं सुवर्णं च सुगंधं हीनमुच्यते || तत्तन्मंत्रविधानेषु विहितानि समर्पयेत् | नानोपहारवलिभिर्न्नानापुष्पैर्मनोरमैः || अपामार्गदलैर्भृंगैस्तुलसी वर्जितः शुभैः | पूजनीया सदाभक्त्या नृणां शीघ्रफलाप्तये || सुगंधैः श्वेतलोहित्यैः कुसुमैरर्चयेत् स्कलैः | विल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः || द्रोणपुष्पैर्विशेषेण वज्रपुष्पेण मिश्रितैः | पुष्पाण्यपि तथा दद्याद्रक्तकृष्णासितानि च || श्वेतपुष्पं जवापुष्पं करवीरं तथाप्रिये | तगरं मालती जाती सेवंती यूथिका तथा || धुस्तूराशोकवकुल श्वेताकृष्णापराजिता | वकपुष्पं विल्वपत्रैश्चंपकं नागकेशरं || मल्लिकाद्गिण्ठिका कांचीरक्तं यत्परिकीर्तितं | अर्कपुष्पं कोकनदं वर्वरं च प्रियांवदा || आम्रजीवूकदंवानि कुमुदाम्रातकानि च | सर्वधान्योद्भवं पुष्पं रंभानिं च समुद्भवं || अष्टम्यां च विशेषेण तुष्टा भवति कालिका | पद्मपुष्पेण रक्तेन संतुष्टा सर्वदेवता || कृष्णा वा यदि वा शुक्लाकालिका वरदा भवेत् | श्मशानधुस्तूरेणैव तुष्टा धूमावतीय स || वन्यैः पुष्पैश्च विविधैस्तुष्टा भवति सर्वदा | आमलक्यास्तु पत्रेण तुष्टा भवति पार्वती || अपराजिता फलं वक्तुं मयादेवि न शक्यते | अपराजिता प्रियतरं प्रियं देव्या न विद्यते || अपराजितायां सापर्णास्थिता पूर्वेशंतं समा | योनिरूपेण तत्रासौ स्थित्वा निर्गच्छतां शिवा || प्. ९५अ) करवीरे लिंगरूपे शिवोवसति वै सदा | शिवशक्त्याश्च संयोगात् करवीरा पराजिता || रक्तचंदन मिश्रेण तयोर्योगेन पूजयेत् | तुष्यते परमेशानि सा पूजा स फला स्मृताः || पुष्पैररण्य संभूतैः पत्रैर्वागिरि संभवैः | स्वारामोद्भवपुष्पैर्वात्रिसंध्या श्वेतलोहितैः || करवीरः पंचवर्णः कालीतारा प्रगोचरः | चूडामणिं प्रवक्ष्यामि सर्वपुष्पोत्तमोत्तमं || चूडामणिर्दशविधो नवरत्न प्रभेदतः | दशमं सर्ववर्णाद्यं पुष्पेंद्रः संज्ञको भवेत् || केतकी द्विविधा प्रोक्ता पुंस्त्री भेदक्रमेण च | पुंभेदे विद्विधा प्रोक्ता पीतश्वेत प्रभेदतः || स्त्रीभेदेपि द्विधा प्रोक्ता पीतश्वेत प्रभेदतः | पुंभेदे कठिनः प्रोक्तः स्त्रीभेदे कोमलामताः || मल्लिका वेदधा प्रोक्ता तत् क्रमं शृणु पार्वती | श्वेताद्विपुष्पाषट्पुष्पापुष्पगुच्छा तथा परा || नवपुष्पो पराप्रोक्ता रक्तपुष्पा परा भवेत् | पीतपुष्पान्येचका च धूसरा पंचवर्णजा || मालती पंचधा प्रोक्ता तद्भेदान् संशृणु प्रिये | गंधराजा सर्वगंधा तथा श्रीखण्डगंधिका || कस्तूरी गंधसंयुक्ता चतुर्था केतकी मता | मालती स्वर्णभाजाति श्वेतारक्तशिलापरा || रक्तवर्णा परा ज्ञेया पंचवर्णा तथा परा | एते भेदा मया प्रोक्ता गोपिता यामलादिके || डामरे गोपिता देवि तव स्नेहादिहोदिता | गोपनीया महेशानि संक्षेपादे तदेव तु || यूथिका मालती जाती मल्लिका नवमल्लिका | कस्तूरी गंधिका देवि तथैव वा गुरु गंधिजा || नखगंधाशलाकाद्या मालती वेदगंधिका | स्वर्गे तु मालती प्रोक्ता रक्ता पातालगोचरा || जातीयूथी तथा मल्ली मृत्युलोके प्रकीर्तिता | रक्तमल्लीपीतमल्ली वर्णपंचकरूपिणी || त्रिशक्तिलोके देवेशि सर्वदेव प्रपूजने | एतद्रूपं विचिंत्यैवं पूजयेच्चीनसुंदरीं || एतद्रहस्यं संप्रोक्तं पुण्यानां निर्णयामृतं | जाता न तृप्ति देवेश विशेषवद सत्वरं || सालती राजमल्ली च जाती यूथीजयंतिका | मालती लघुयूथी च मल्लीचेतिक्रमः स्मृतः || श्वेताश्रीमालीगदिता जाती रक्ततलामता | मालती दलपत्रा च रक्तश्वेताभृशारसा || राजमल्ली महेशानि वहुनेत्राणि गंधिनी | शतपत्रा राजमल्ली कलापत्रा तु मल्लिका || प्. ९५ब्) पंचपत्रा भवेज्जाती सप्तपत्रा तु मालती | यूथी सूक्ष्मा तद्विविधा रसगंधामनोहरा || मालती स्वर्णभाजाती श्वेता रक्तशिलामता | रक्तवर्णा पंचवर्णा पीतकृष्णा परा स्मृताः || कस्तूरी गंधिका देवि तथैवा गुरुगंधिका | अश्वगंधामलाकाख्या वेदयुक्ता तु मालती || सर्वदेवविधौ शस्ता पूजासांगार्थ हेतवे | चंपकः पुष्पदानेन स्वर्णं वहुविधं लभेत् || नागकेशरदानेन रूपवान् शुभगो भवेत् | पुन्नागस्य च पुष्पेण ज्वरशांतिर्भवेत् सदा || केशरस्य प्रदानेन शत्रुं नाशयते ध्रुवं | पारिजातः पारिभद्रदानादायुः प्रवर्द्धते || कुंदपुष्प प्रदानेन कामानाप्नोति वै ध्रुवं | जाती मालति कुब्जेन शीघ्रं तु पुष्पंति मानतः || कोकिलाख्य प्रदानेन अकालमरणं हरेत् | ओद्रपुष्पप्रदानेन तुष्यते परमेश्वरी || यथा छागानि वलिना तथा तुष्यति निश्चितं | दत्ते चैव जवा पुष्पे पट्टवस्त्र फलं लभेत् || ब्रह्माहत्यादिकं पापं क्षणान्नश्यति निश्चितं | करवीरेण पुष्पेण पूजयेज्जगदीश्वरीं || प्रतिपुष्पेषु मंत्रेण योजयित्वा निशासु वै | लभते वांछितान् कामान् आज्ञा सिद्धिश्च लभ्यते || लोहितं वाथ रक्तं वा करवीरस्तु सिद्धिदं | वंधूकस्य प्रदानेन पट्टवस्त्रं च लभ्यते || पुष्पमालां चाह || एकजातीयकैः पुष्पैर्भिन्नजातीयकैरपि | माला तथैक वर्णः स्याद्भिन्नवर्णापि वा प्रिये || सापुरस्त्रिविधा ज्ञेया परिणाहवशेन तु | पतेद्धृदय वर्जंतं यामला नित्यमालिनी || रैकिका सा परिज्ञेया सर्वावरतयास्थिता | अधोवस्तं विलीनाभेः कौसुमीयास्रगुच्यते || साधारणी परिज्ञेया मध्यमा पूर्वतोधिका | आगुल्फस्रग्विनीया तु पादपद्मोपरिस्थिता || वनमालति विख्याता सर्वाभ्यः स्रग्भ्यः उत्तमा | किंचिद्विशेषमत्रापितमपिव्याहरामिते || करवीरैर्जवापुष्पैर्वकैर्दमनकैरपि | नीलोत्पलैः सरसिजैर्ल्लवंगैर्नागकेशरैः || प्. ९६अ) जातीभिर्मालतीभिश्च मल्लिकाचम्पकादिभिः | रचिताया भवेयुर्हिस्रजः परमशोभना || मालाभ्योऽन्याम्य एतांस्तु देव्याः प्रीति प्रदायकः | अतोन्येषु प्रसूनेषुत्तिष्ठः सु वरवर्णिनी || अमीभिः कुसुमैस्तासांग्रथने यत्नमाचरेत् | स्वद्रव्यैः पूजयेद् विद्यां जवायावक सिंदूरैः || चंदनं रक्तसंज्ञं तु शाणितं समुदाहृतं || अथ रहस्य पुष्पं || योनिपुष्पं महेशानि वर्जपुष्पं निगद्यते | आषोडशादनूढया उत्तमं सर्वसिद्धिदं || वलात्करेण ऊढायामध्यमं भोगवर्द्धनं | रजोयोगवशादन्येदधमं सुखदायकं || स्वयंभूकुसुमं देवि त्रिविधं तु विजायते | सवैः पुष्पैः सदा पूज्या विहिता विहितैरपि || कर्तव्या सर्वदेवानां भक्तियोगोत्र कारणं | न स्वर्णैर्नवरत्नैश्च न स्पर्शमणिभिः शुभैः || न हि तृप्यति देवेशि कालिका भक्तवत्सला | तस्माद्योनिभवं पुष्पं पूजार्थं संग्रहेच्छिवे || रहस्याति रहस्यं च कथ्यते शृणु सांप्रतं | अवीरा पंचधा प्रोक्ता श्वेतपीतारुण क्रमात् || श्वेतपीता पीतरक्ता रक्ताश्वेता परामता | एवं भेदांतरे सैव नवधा परिकीर्तिता || अवीरा कुसुमे नैव पूजयेत् सर्वदेवता | रतिपुष्पं कामपुष्पं देवपुष्पक्रमेण च || सेवंती वहुधाख्याता तद्भेदान् शृणु पार्वती | श्वेतपीता तथा रक्ता त्रितयं त्रितयं त्रिषु || सिंदूरा दिव्यवर्णा च हारिद्रा च परा भवेत् | रतिपुष्पमिदं प्रोक्तं कामपुष्पं शृणु प्रिये || पीतं गुच्छः स्वरूपं च रक्तगुच्छः स्वरूपकं | पीतंरक्तं रक्तपीतं सूक्ष्ममन्यन्महेश्वरी || षट्भेदाः सूक्ष्मभेदे तु अतिसूक्ष्मेपि षट्भवेत् | एवमष्टादशविधं कामपुष्पं महेश्वरी || देवपुष्पं प्रवक्ष्यामि येन देवीमयोर्च्चनात् | श्वेतरक्तं दिव्यरूपं सिंदूरसन्निभं तथा || अपरं श्वेतपीतं च पंचवर्ण मथापरं | रतिपुष्पं पंचवर्णं सुंदरीलोकगोचरं || कामपुष्पं पंचवर्णं कालिकानामगोचरं | देवपुष्पं नंदवर्णं तारिणी लोकगोचरं || प्. ९६ब्) अनयोः ग्रणोयाचायमाह || सूत्रेण पट्टवस्त्रेण वीरवस्त्रेण पार्वती | काश्मीरवस्त्रे सूत्रेण पट्टसूत्रेण पार्वती || कस्तूरी कुंकुमं तत्र चंदना गुरुकादिकं | नाना सुगंधिकं दत्वा एकीकृत्वा तु साधकः || अष्टगंधेन वा पुष्पैः संयुक्तं पुष्पमाहरेत् | एतेनाक्षतयोगेन पूजयेत् परमेश्वरीं || आसनार्थे च पूजार्थे होमार्थे च क्रमाद्विदुः | स्वयंभु संयुतं पुष्पं सिद्धपुष्पं विदुर्वुधाः || रतिमाल्यानि देवेशी न च पर्युषितानि च | सिद्धपुष्पाणि ख्यातानि गंधर्व प्रीतिदायि च || सुद्धाशुद्धानि पुष्पाणि नवीनानि दिनेदिने | एतत्सर्वं समादाय तारां कालीं च पूजयेत् || पुष्पदान फलात् कोटि गुणितं फलमाप्नुयात् || अथाविहितं || मार्पयेद्भूमि पतितंकारकं कृमि भक्षितं | अंगलग्नं समाप्रातं म्लानं पर्युषितं तथा || उग्रगंधमगंधं च कृमिकेशादि दूषितं | अशुद्धपात्रप्राण्यंग वा सोमिः कुत्सितात्मभिः || आनीतं तन्निषिद्धं स्यान्मध्याह्नस्नानतस्तथा | स्वयंविकाशितैः पुष्पैः स्वयं च पतितं भुवि || भूगतं वर्जयेत् पुष्पं सेफालिवकुलंविना | कलिकाभिस्तथात्याज्याविनावं पकपद्मकैः || विल्वस्य खदिरस्यैव तथा धात्री दलस्य च | तमालस्य च पत्रस्य छिन्नभिन्नं न दुष्पति || विष्णुक्रांति जवा नागकेशर पल्लवं | वंधूक चैव मंदारसवृंतेन समर्चयेत् || देवीपूजा सदा कार्या जलजैस्थलजैरपि | विहिता विहितैर्वापि भक्तियुक्तेन चेतसा || पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखं | दुःखदं तत् समाख्यातं यथोत्पन्नं तथार्पणं || चित्रपूजासु सर्वासु न विरुद्धस्य च दूषणं | अधोमुखार्पणं नेष्टं पुष्पांजलिविधौ न तत् || न पर्युषितदोषोस्ति तुलसी विल्वचंपके | जलजे वकुलागस्त्य मालाकार गृहेषु च || पुष्पैः पर्युषितैर्न्नष्टैः कृमिकीटविदारितैः | न पूजयेद्धोमयेच्च देवताशापमाप्नुयात् || प्. ९७अ) विल्वपत्रं च तुलसी स्वयं भूस्वर्णपुष्पकैः | न पर्युषित रूपत्वं निर्माल्यत्वं महेश्वरी || चतुर्णां देवदेवेशि नमयाकीर्तितं भुवि | नृसिंहं च शिवं चैव न केतक्या समर्चयेत् || श्वेतकृष्ण तुलस्या च कालिकां न स्पृशेत् क्वचित् | कमलं दशरात्रं च जाती दिनत्रयं तथा || चंपकः पंचरात्रं च किंशुको दिन सप्तकं | करवीरोष्ट दिवसं केतकी दशपंच च || कुदो नेत्रदिनं देवि मुनिपुष्पं च दाडिमी | जपापुष्पं ततो द्राख्यां दिवस द्वयगोचरां || शतपुष्पं पुष्पराजो गंधराजस्तथैव च | भगपुष्पं महेशानि वेदरात्रं न दूष्यति || नारदमते नैव कथ्यते शृणु सांप्रतं | विल्वायामार्गधात्री च तुलसी त्रिंशदादितः || वषट् त्रिंश महेशानि न च पर्युषितानि च | एकेन करवीरेण सहस्रेण शतेन च || मां च संपूज्ये देवेशि ममरूपो नरो भवेत् | एकेन करवीरेण मां च संपूजयेत् प्रिये || तेन संपूजयेद्देवि जगत्स्थावर जंगमं | करवीरे शक्तिविंदौ तत्रहं निवसाम्यहं || केतकी कुटजेनेशं नवर्वर्याक्षतैर्हरिं | न दूर्वाया यजेद्दुर्गां विल्वपत्रैर्द्दिवाकरं || लंवोदरं तुलस्या च वृंत हीनैः समर्पयेत् | पीताकृष्णाकरौत्याज्याः सूर्यशंभौ विशेषतः || विल्वैर्मरुवकाद्यैश्च तुलसी वर्जितैः शुभैः | तुलसीं मालतीं चैव कालीतारा विधौ त्यजेत् || विल्वं मरुवकं चैव वीरकर्मणि वर्जिते | देवीनामर्कमंदारावादित्ये तगरं तथा || गणेशाय च सूर्याय यस्तु पूजमति प्रियं | पुष्पाभावे प्रवालैर्वा तदभावे च कोरकैः || तदभावे च फलैः पत्रै तदभावे च तृणांकुरैः | कदलं दाडिमं कोलं जंवू चिंचामलाम्रकं || मातुलुंगं च जंवीरं परमं श्रेष्ठमुच्यते | पूजयेत् परमेशानि पुष्पाभावे तु पत्रकैः || पत्राणामप्यलाभे तु द्रुमगुल्मोद्भवादिभिः | तद्भावानाम लाभे तु तत्फलेन प्रपूजयेत् || प्. ९७ब्) अक्षतैर्वाजलैर्वापि तदभावे तु सशर्षपैः | सितैस्तेषामलाभे तु मानसं पूजनं चरेत् || अतः परं पुष्पदान माकर्णय शुचिस्मिते | यत् तत्पुष्पस्यनामापि नम इत्यक्षरद्वयं || उच्चार्य दद्यात् तद्देव्यैः सर्वकामार्थ सिद्धये | अंगुष्ठ तर्जनीभ्यां च चक्रे पुष्पं निवेदयेत् || पुष्पं सुशोभनं देवि सौरभ्येन समन्वितं | मया निवेदितं भक्त्या सुपुष्पं प्रतिगृह्यतां || अथ पुष्पोपचारांते कुर्यादावरणार्चनं | मंत्र संपुटितैर्वर्णैर्मातृकायाः स विंदुकैः || क्रमेण गंधपुष्पाद्यैर्देवस्यांगे समर्चयेत् | लयोगत्वेन मातृणां स्थानांगेषु ततः परं || प्रथमावरण्यं पूज्यं तदंते देवतां यजेत् | पुनरावरणं चेष्ट्वा देवतामर्चयेत् तथा || एवं समर्च्य सर्वास्ता यथोक्ता वृत्तिदेवताः | अथ सर्वज्ञता तृप्तिरन्य दिवोधसंज्ञीका || स्वतंत्रातान्या नित्यास्यादलुप्तः शक्तिरेव च | षडंग देवताह्येता नामतः परिकीर्तिताः || केशरेष्वग्नि कोणादौ हृदयादीनि पूजयेत् | नेत्रमग्रे दिशास्वस्त्रं ध्यातव्याश्चांगदेवताः || तुषारस्फटिकः श्यामनीलकृष्णारुणार्चिषः | वरदाभयधारिण्यः प्रधानतनवः स्त्रियः || अग्नीशासुरवायव्य मध्यदिक्षु क्रमात् स्थिताः | वायव्यादिशंपर्यंतं गुरुपंक्तिं समर्चयेत् || तस्मात् सर्वत्र देवेश संक्षेपान् शृणुतान् गुरून् | आदौ सर्वत्र देवेश मंत्रदः प्रथमोगुरुः || परापर गुरुस्त्वं हि परमेष्टीत्वहं ततः | सर्वमंत्रेषु विद्या सु स्वयं प्रकृतिरूपिणी || ततः पुरुषरूपं च कथिता गुरु संततिः | येषु येषु च मंत्रेषु ये ये गुरुगणाः स्मृताः || ते ते पूज्याः सपर्यादौ संक्षेपाद्गदितं मया | देवस्य पुरतः प्राची ज्ञेया वरणपूजने || तदादि परिवाराणां प्रादक्षिण्येन पूजनं | अंगमंत्रास्तु पूजायामो नमोंता हुतौ तथा || स्वाहांता अथ देवस्याभि मुखंताः समास्थिताः | ततो यजेल्लोकपालान् स्वस्वदिक्षु व्यवस्थितान् || आयुधानि तदग्रे च तेषां ध्यानमथोच्यते | इन्द्रः सुराधिपः प्रीतमैरावतगतं विभुं || प्. ९८अ) सहस्रनेत्रं द्विभुजं पीतवज्रधरं भजे | अग्नि तेजोधिपं रक्तं श्वेतशक्तिकरं प्रभुं || सुभूषणं मेषवाहं वंदे रक्तांतलोचनं | यमं प्रेताधिपं कृष्णं महिषो परिसंस्थितं || कालदंडधरं क्रूरं वृत्तं दूतैर्भयानकैः | रक्षोधि पंचनैर्-ऋत्यं शवासन समास्थितं || धूमाभं खड्गहस्तं च पिंगलश्मश्रुकूर्चकं | मकरे संस्थितं विद्युन्निभपाशकरांवुजं || शुभ्रांगंतंडिलं वंदे वरुणं यादसांपतिं | वायुं प्राणाधिपं धूम्रं रक्तांकुशकरं परं || वातप्रमीसमारूढं धावंतं वेगतो भजे | यक्षपतिं कुवेरं च शुक्लं शूलगदाधरं || नरसिंहासनारूढं मेदलंविः त्रिणीयुतं | विद्याधिपं नीलशूलधरं वृषभवाहनं || त्रिनेत्रं भालचंद्रं च जटाजूटधरं मितं | गौरं नागाधिपं मूर्द्ध्निफलामंडलभूषितं || पीनोत्तुंगं चक्रधरमनंतं विश्वगं भजे | लोकाधिपं विधातारं रक्तं पद्मकरं शुभं || हंसारूढं वेदपाठकूर्वंतं तमहं भजे | पुनर्मूलं समुच्चार्या सांगाद्यैः स परेति च || वारायैनामदेव्याश्च चतुर्थ्यंत मुदीरयेत् | नम इत्यर्चयेद्गंध पुष्पाद्यैः साधकस्त्रियः || अथ धूपदानं || धृताशेष महादोष पूतिगंधप्रभावतः | परमानंद जननाधूप इत्यभिधीयते || धूपपात्रं ततोस्त्रेण क्षालयेत् पूजयेत् ततः | हृदाणुनाथ चास्त्रेण घण्ठां संपूज्य वादयेत् || इत्थं धूपं प्रकुर्वीत ताम्रकास्यादिनिर्मिते | भाजने द्विपदे भुग्ननाले पद्माकृतौ शुभे || साराङ्गार विनिःक्षिप्तैर्गुगुल्वगुरुवृक्षजैः | निर्यासाद्युस्थितैर्धूपैः कुंधुद्रव्यैरथोदितैः || धूपं ददेद्गणेशस्य प्रियः प्रोक्तस्तु गुग्गुलः | सर्जं देव्या महेशस्य निर्यासो देवदारुजः || विष्णोः कृष्णागुरुः शीतं भास्करस्य प्रियं मतं | जटामांसी गुग्गुलुं च चंदना गुरुकैस्तथा || चंद्रैरजनि संयुक्तैर्माक्षिकैस्सहकुंकुमैः | सर्पिः संमिश्रितैर्दद्याद्देव्यैर्धूपं महेश्वरि || स गुग्गुल्व गुरूशीरंसिताज्य मधुचंदनैः | साराङ्गार विनिःक्षिप्तैर्द्धूपं नीचैः प्रधूपयेत् || प्. ९८ब्) शक्तेर्दशांगं वक्ष्यामि शैलेयं मलयोद्भवैम् | नखं कुष्टं सर्जरसं मेकैकांशं प्रकल्पयेत् || शिलारसा गुरुजटामांसी भागद्वयंमतं | षट्माक्षिकं सिता चाष्टौ धूपोयं शक्तितोहमः || हरीतकीसर्जरसमुरमांस्यः कुम्भागिकाः | लाक्षात्रिभा चत्वारो भागाः शैलजमुस्तयोः || पंचभागं नखं प्रोक्तं षड्भागं कुष्टमुच्यते | द्वादशांशो गुडोकेश विघ्न विष्णुं दशांगकः || मधुमुस्ताघृतंगंधो गुग्गुल्व गुरुशैलजं | सरलं सिह्लसिद्धार्थौ शेषदेव दशांगकः || गुग्गुलुं सरलं दारुःपुत्रं मयलसंभवं | हीवेरमगुरुं कुष्ठं गुडं सर्जरसंशनं || हरीतकी नखी लाक्षा जटामांसी च शैलजं | सोडशांगं विद्रुधूपं दैवपैत्रे च कर्मणि || अथवाऽगुरुकर्पूरं चंदना सहगुग्गुलं | मधुसर्पिर्जटामांसी शैलजं कुंकुमं तथा || एभिर्विमिश्रितः कार्यो धूपोयं पार्वती प्रियः | लोहवाणौ षोडशांगः त्रिविद्यायां प्रकीर्तितौ || कालीविद्याविधौ देवि अगुरुश्च दशांगकः | अष्टांदशांग श्रीखंडं ताराविद्या विधौ स्मृतं || छिन्ना विद्या विधौ देवि पंचांगं गुग्गुलुस्तथा | कृष्णा गुरुं पीतसारो ब्रह्मास्तु मनुगोचरं || रालोद्य गुरुचंदनं मातंग्यां परिकीर्तितं | कस्तूरी चैव कर्पूरमष्टगंधं तथैव च || भैरव्यां कीर्तितं देवी नम्रिचैव शिलारसः | भुवनेश्या मया प्रोक्तां श्रीखंडं कमलामतौ || लाक्षागुडोह्नि धूम्राया सिद्धविद्या विधौ शिवे | मधुमुस्तं घृतं गंधं गुग्गुलुं गुडशैलजं || चंदनं सिह्नसिद्धार्थ दशांगा धूप इष्यते | सिताज्य मधुसंमिश्रं गुग्गुल्व गुरुचंदनं || षडंगं धूपमेतत्तु सर्वदेव प्रियं सदा | अस्त्रेण धूपदीपादीन् संपूज्य दापयेत्ततः || यथागंधस्तथा देवि धूपं दद्याद्विचक्षणः | वनस्पति रसोत्पन्नागंधाद्यो धूपनुत्तमः || आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यतां | वामतं तु तथा धूपमग्रेचान तु दक्षिणे || न धूपं वितरेद्भूमौ नासनेन घटे तथा | यथा तथा धारगतं कृत्वातं विनिवेदयेत् || प्. ९९अ) मेदोमज्जायुनानेष्टा विष्णवेदारसंभवः | ततः समर्पयेद्धूपं घंटावादनपूर्वकं || यस्याः शब्देन विघ्नास्तु याति सर्वेदिशोदशः | व्याधयोर्दुर्ग्रहाः सर्वे तथाग्राश्च विनायकाः || दुःस्वप्नाराक्षसा दुष्टावेताला भैरवाः शिवा | डाकिन्यो भूतसंघाश्च सर्पकर्कोटकादयः || वलिकामां तु कामाया रतिकामान् यथा परे | घण्टानि नादश्रवणाद्धतवीर्यभवंति च || तस्मात् सर्वप्रयत्नेन पूजाकाले सदाहनेत् || घण्टापूजनमंत्रो यथा || तारो जयध्वनि पदं मंत्रमातोग्नि गेहिनी | एकादशाक्षरोमंत्रो घंटायाः सर्वसिद्धिदः || पूजयित्वा स्वमंत्रेण घण्टां तन्नाद पूर्वकं | दीपं दद्यात्तु विभवे नानावाद्यपुरःसरं || आवाहनोर्घ धूपे च पुष्पनैवेद्यदीपयोः | घण्टांनादं प्रकुर्वीत विशेषाद्धूपदीपयोः || पूजाकालं विनान्यत्र कुर्यादस्याः प्रवादनं | नोनया च विना पूजां कारयेत् सिद्धिलालसाः || अथ दीपविधिः || दीर्घाज्ञान महाध्वांताहंकार परिवर्जनात् | परतत्व प्रकाशाच्च दीप इत्यभिधीयते || घृतदीपः प्रथमतस्तिलतैल समुद्भवः | सार्षपः फलनिर्यास जातो वा वारिजोद्भवः || दधिजश्चान्नजश्चैव दीवास्सप्त प्रकीर्तिताः | पद्मसूत्र भवावर्तिर्दर्भसूत्रभवाथवा || जालाजावादरी वापि तूलकोषोद्भवाथवा | वर्तिकादीप कृत्येषु सदापंचविधाः स्मृताः || वर्तिःश्वेताऽथवारक्तानपीतानासितापि च | निर्वीजं वाथ कार्या संतज्जातास्तंतवोथ वा || प्रशस्ता दीपवर्तिः स्यात् कदाचिन्नूतनांवरं | शानंवादरजं वास्त्रं जीर्णं मलिनमेव च || उपभुक्तं तु नादद्याद्वर्तिकार्थं कदाचन | दशां विवर्जयेत् प्राज्ञो यद्यद्वाहतवस्त्रजां || तैजसं राजसं लौहमार्तिक्यं नारिकेरजं | तृणराजोद्भवं वापि दीपपात्रं प्रशस्यते || एवं दीपं प्रकुर्वीत नेत्ररंजनकारणं | दीपं तु यागपर्यंत मधोमुख प्रकल्पयेत् || लभ्यते यस्य तायस्तु दीपस्य चतुरंगुलात् | न स दीप इहाख्यात अद्यवृद्द्धिस्तु संमृतः || प्. ९९ब्) गोसर्पिषा वा तैलेन वर्त्या चलद्युगर्भया | उच्चैः प्रदर्शयेद्दीपं नवमेदादिना क्वचित् || न मिश्रीकृत्य दद्यात्तु दिपस्नेहान् घृतादिकान् | कृत्वा मिश्रीकृतं स्नेहंता मिश्रं नरकं व्रजेत् || दीपस्य धूपवत्पात्रं पद्माकार विनिर्मिते | प्रतिपत्रे प्रदीपं च त्यागव्य घृताक्तया || अथ धूपदीपपात्रयोर्ग्रहणमाह || मध्यमानामिकामध्ये अंगुष्ठाग्रेण दापयेत् | उत्तोरणं त्रिधाकार्यं दीपं नेत्रांतिकं प्रिये || धूमं नासाग्रपर्यंतं दर्शयेत् प्रियवादिनि | पारावत भ्रमाकारं दीपं नेत्रादि दर्शयेत् || दक्षिणे सर्पिषा दीपं तिलतैलेन वामतः | सितावर्तिर्दक्षिणतोरक्तावर्तिस्तु वा मतः || वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन | सर्वं सहावसुमती सहतेन त्विदं द्वयं || अकार्य पादत्वानं च दीपतापं तथैव च | कुर्वंतु पृथिवीतापं यो दीपमुत्सृजेन्नरः || स ताप पापनरकं प्राप्नोत्येवन न संशयः | नैव निर्वापयेद्दीपान् लक्ष्मीनाशकरोत्यतः || नैव निर्वापयेद्दीपं देवार्थमुपकल्पितं | दीपहर्ताभवेदंधकाणो निर्वापको भवेत् || अंगुष्ठाग्रेण देवेशि धृत्वा दीपन्निवेदयेत् | उत्तोरणं तथा कुर्याद्गात्र त्र्यामूलयोगतः || पारावत भ्रमाकारं भ्रामयेच्च प्रदर्शयेत् | देवस्य सर्वावयवान् श्लोकमेकं ततः पठेत् || स प्रकाशो महादिप सर्वत्र तिमिरापहं | स वाह्वाभ्यंतरं ज्योतिर्दीपोयं प्रतिगृह्यतां || अध नैवेद्यं || दक्षिणे वा पुरोभागे वामे वा मण्डलं लिखेत् | त्रिकोणं वृत्तभूविम्वमाधारः शक्तिमर्चितं || निवेदयेत् पुरोभागे गंधं पुष्पं च भूषणं | दीपान् दक्षिणतो दद्यात् पुरतो वाम वामतः || वामतस्तु तथा धूपमग्रतो दानदक्षिणः | नैवेद्यं दक्षिणे वामे पुरतो न तु पृष्टतः || मदिरां पृष्ठतो दद्याच्चाग्रतो न कदाचन | गंधपुष्पं तथा धूपोदीपो नैवेद्यमेव च || यस्यै यद्दीयते वस्त्रमलंकारादिकांचनं | तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने || उत्सृज्य मूलमंत्रेण प्रतिमाम्ना निवेदयेत् | विशेषार्घ्योदकेनैव चोपचारान् समुत्सृजेत् || प्. १००अ) अन्यतोयैर्यदुत्सृज्यमर्घपात्रस्थितेतरैः | न गृह्नाति महादेवी दत्तं विधि शतैरपि || पाद्यमाचमनीयं च दत्वा नैवेद्य समर्पयेत् | निधाय स्वर्णजे पात्रे साधारे तच्च मण्डले || संस्थाप्य चतुरस्रे च संस्कुर्याच्छास्त्रमार्गतः | अस्त्रमंत्रेण संप्रोक्ष्यं चक्र मुद्राभिरक्षितं || हस्तौ तु संमुखौ कृत्वा संलग्नौ संप्रसारितौ | कनिष्टांगुष्ठ संलग्नौ मुद्रैषा चक्रसंज्ञिका || स्पर्श दृष्ट्वादि दोषांश्च वायुवीजेन शोषयेत् | स्पृशन्दक्ष कराग्रेण वह्निवीजेन निर्दहेत् || वं वीजेनामृती कृत्य मूलमंत्रेण तत्पुरः | स्पृशेत् कराभ्यां विधिवद सृष्टा चाभि मंत्रयेत् || धेनुमुद्रां प्रदर्श्याथ गंधपुष्पैः समर्चयेत् | देवमभ्यर्च्य कुर्याच्च पुष्पांजलि मनन्यधीः || हेमपात्रस्थितं दिव्यं परमान्नं सुसंस्कृतं | पंचधा षड्रसोपेतं गृहाण मम सिद्धये || मूलमंत्रं समुच्चार्य स्वाहांतं जलमर्पयेत् | कराभ्यां संस्पृशन् पात्रं नैवेद्यं ते नमो वदेत् || देवस्य दक्षिणे हस्ते जलं दत्वा पठेदिदं | अमृतोपस्तरणमसि स्वाहेति भवाक्षरः || दर्शयेद्वामहस्तेन विकलोत्पलसन्निभां | दर्शयित्वा ग्रासमुद्रां पंचप्राणाहुतींश्चरेत् || कनिष्टानामिकांगुष्ठः योगः प्राणस्य मुद्रिका | तयाग्रासं गृहीत्वा प्राणाय स्वाहेति संवदेत् || तर्जनी मध्यमांगुष्ठयोगेनापानकं वदेत् | ङेन्तं स्वाहांतमथ च व्यानाय च ततो वदेत् || स्वाहाथ मध्यमा नानांगुष्ठयोगेन निर्वपेत् | हित्वां कनिष्टां सर्वाभिरुदानायाग्निगेहिनी || सर्वाभिस्तु समानाय स्वाहोत्काग्रासनार्पयेत् | ततः स्वर्णादिजे पात्रे सुतो यं धेनुमुद्रया || अमृतीकृत्य देवाय देयं मंत्रमिमं पठन् | नमस्ते देवदेवेशि सर्वतृप्तिकरं वरं || अन्यां निवेदितं शुद्धं प्रकृतिस्थं सुशीतलं | परमानंद संपूर्णं गृहाणजलमुत्तमं || उक्तैवं देवता वामे जलपात्रं निवेशयेत् | त्रिभिर्वर्णैः प्रदातव्यं देवार्थं पाकभोजनं || घृतपक्वं दुग्धसिद्धं साधितं केवलाग्निया | युक्तं वैक्षवयं केन तच्छूद्रस्य प्रशस्यते || प्. १००ब्) ततः पुष्पांजलि दद्यादस्त्रमंत्रेण वंधनं | दिशां कृत्वा जवनिकां देवस्य परितो न्यसेत् || अमृतात्मक नैवेद्यं नम इत्युच्चरेत् पुनः | धेनुंमुद्रां प्रदर्श्याथ भुजानां देवतां स्मरेत् || अष्टोत्तरशतं जप्त्वा मूलमंत्रं ददेज्जलं | नैवेद्यांते चा चमनं दत्वा होम विधिं चरेत् || अथ षोडशोपचाराणां क्रमेण मुद्रामाह | आसने मद्ममुद्रस्याद्धस्तद्वयमधोमुखं | मुद्रैषा कुशलप्रश्ने तदैवोर्द्ध मुखं पुनः || मुद्रास्यात् स्वागते चार्घ्यमुद्रात्वंजलिरूपिणी | अनामांगुष्टयोर्योगात्सैवाक्तापाद्यमुद्रिका || उत्तानं दक्षहस्तं तु कृत्वा नितरंमुधीः | कणिष्ठ हीना संयुक्ता चतस्रोंगुल्य उन्नतः || मुद्रैषा चमने प्रोक्ताधो मुखी सात्वता मया | स्पृष्टांगुष्ठा भवेन्मुद्रां मधुपर्के वरानने || अधोमुखी दक्षहस्ते कृतामुष्टिः कनिष्टया | विमुक्ता स्नानमुद्रैषागदिता परमेश्वरी || उत्तानंदक्षिणंहस्तं कृत्वा तन्मध्यमापुनः | अंगुष्ठेन स्पृशे देवामुद्रा वस्त्रस्य कीर्तिता || एषैवानामिका स्पर्शान् मुद्राभूषण संज्ञका | कनिष्ठा स्पर्शतो ह्येषा उपवीतस्य मुद्रिका || ज्येष्ठाग्रेण कनिष्टाग्रं स्पृशेद् गंधस्यमुद्रिका | अधोमुखं करं कृत्वा तर्जन्याग्रेण योजयेत् || अंगुष्टाग्रेण मुद्रेयं पुष्पाख्या परमेश्वरी | अंगुष्ठाग्रेण तर्जन्या स्पृशेदग्रं महेश्वरी || धूपमुद्रेयमाख्याता सर्वदेव प्रियंकरी | ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमायासुरार्चिते || दीपमुद्रेयमुदिता सर्वदेवाश्रया शुभा | अनामाग्रं स्पृशेद्देवि ज्येष्टाग्रेन तु देशिकः || नैव्देय मुद्रा कथिता तत्वमुद्रेति कीर्तिता || अथ नित्य होमविधिः || नित्यहोमविधिं वक्ष्ये सर्वार्थं येन विंदति | संकल्प परमेशानि नित्यहोमविधिं चरेत् || विधिवद् वह्निमानिय क्रव्यादीशं परित्यजेत् | ततश्च मंत्रमुच्चार्य कुण्डे वा स्थण्डिले तथा || भूमौ वा संस्तरेद्वह्निं व्याहृति त्रितयेन तु | आहुति त्रयमुत्क्षिप्य षडंग हवनं ततः || प्. १०१अ) ततो देवीं समावाह्य मूलेनैव षडाद्गतिं | संपूज्य मूलमनुना पंचविंशतिमाहुतिं || हुनेदाज्येन हविषा तिलैर्वा पायसैः शुभैः | तण्डुलैस्तिलसंमिश्रैः केवलैर्वाथ पुष्पकैः || अंगावरण देवानामेकैकामाहुतिं हुनेत् | उद्वास्य देवं वह्निं च पूजास्थानं व्रजेत् ततः || उपविश्यासने मंत्री दद्याद् भूतवलिं ततः | वामिनस्तूपचारांते कुर्युर्मद्येन तर्पणे || तेषामनित्यो होमस्तु नित्यं तर्पणसेवनं | क्ट्वास्तुत्वा नमस्कृत्य विसृजेर्द्विदुमण्डले || अथ भूतवलिदानं || ईशाने मण्डलं कृत्वा साधारं तत्र निःक्षिपेत् | अत्र व्यंजनतोयाद्यं पात्रं पुष्पादिपूरितं || तत्र भूतानि संत्यज्य ततस्तेभ्यो वलिं हरेत् | ये रौद्रारौद्र कर्माणो रौद्रस्थान निवासिनः || योगिन्योप्युग्ररूपाश्च गणानामधिपाश्चये | भूचराखेचराश्चैव ये तिष्ठंत्यंतरिक्षगाः || सर्वेते प्रीतिमनसो भूता गृहंत्विमं वलिं | वामहस्तेन तत्पात्रे जलधारां समर्पयेत् || पुष्पांजलिं समादाय भूतानि प्रार्थयेदिति || भूतानि यानीहवसंति भूतले वलिं गृहीत्वा विविवत् प्रयुक्तं | संतोषमासाद्य व्रजं तु सर्वेक्षमं तु तान्यत्र नमोस्तुतेभ्यः || दत्वा पुष्पांजलिं नत्वा विहरं तु यथा सुखं | भूतादीनि च नारा च मुद्रया विसृजेत्ततः || यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये | वाणमुद्रयमाख्यातारिपुवर्ग निकृंतनी || देवं तृप्तिमिति ध्यात्वा नैवेद्यं गत सारकं | संचिंत्य रक्षोदिग्भागे पात्रं तु स्थापयेत् ततः || गोमयाद्भिस्तदस्त्रेण नैवेद्य स्थानशोधनं | देवोच्छिष्टं गृहीत्वा तु निर्माल्य भोजिने नमः || इत्यैशान्यां विनिःक्षिप्यहस्तं प्रक्षालयेत् ततः | पुनराचमनं दद्यात् करोद्वर्तनमेव च || शुद्धमाचमनं दत्वा सुगंधैर्गंधयेत्करौ || अथ ताम्बूलं || ततो दद्याच्चतांवूलं विष्णवे द्वादशांगकं | खदिरैलालवंगैंदुचूर्णपर्णतमालकं || जातीकोशदलत्वग्भिः कस्तूरीकेशरैर्युतं | पूगीफलमथ प्रोक्तं दशांगं भास्करस्य तु || प्. १०१ब्) मृगनाभित मालाभ्यां हीनं विघ्नेश्वरस्य तु | पंचांगं चूर्णखदिरः पर्णपूगी फलेन्दुकं || शैलं देव्या जातिकोश युतं तच्च महेशितुः | ततश्च मुकुटादीनि दद्याद्भूषणकानि च || दर्शयेच्च तथा दर्शं कल्पयेच्छत्र चामरे | शिरस्यारोप्य देवस्य दूर्वाक्षत पवित्रकं || आरात्रिकं ततः कुर्याद्धर्म्मकामार्थ सिद्धये || अथारात्रिकं || सौवर्णे राजते कांस्ये लोकनेत्र मनोहरे | कुंकुमेन लिखेत् पद्ममष्टपत्रं सुशोभनं || दशदीपैर्विंशतिभिः पंचभिर्नवभिस्तु वा | अष्टभिस्तत्व संख्याभिः कुर्यादारात्रिकं वुधः || त्रिकोणं चैव षट्कोण मध्ये विडुनिपातयेत् | तत् तद्विद्यामयैः पत्रैर्विशेषार्घ्यमयेन वा || आदौ तु भैरवीयंत्रे चक्रमुद्रां प्रदर्शयेत् | आरात्रिकं गृहाणेमं देवता प्रीतिहेतवे || मंत्रेणानेन देवेशि कुर्यादारात्रिकं वुधः | माषैस्तिलैस्तण्डुलैर्वागोधूमैर्यवजैरपि || ओदनोत्थाशर्करोत्थाहारिद्राः केशरोद्भवा | अष्टगंधोद्भावा गौडादीपा यत्नेन कारयेत् || दीपानां रक्तपीतानांवश्यस्तंभाभिधं फलं | महादीपं कर्णिकायां वसुपत्रेष्टदीपकान् || यवगोधूमरचितान् शर्करादुग्ध संयुतान् | वलयांचित शोभाभिः शोभितान् घृत पूरितान् || अभिमंत्र्य ततो मंत्री रत्नेश्वर्या न चार्णतः | श्रीं ह्रीं ग्लूं म्लूं मयै प्राग्वन्नश्च श्रीं ह्रीमिति क्रमात् || दलेश्वर्या समुद्दिष्टास्ततो मूलेनतां यजेत् | ततस्तत्पात्रमुद्धृत्यमस्तकांतं पुनः पुनः || नववारं भ्रामयेच्च चक्रमुद्रां प्रदर्शयेत् | देवं प्रणम्य च ततः प्राणायामत्रयं चरेत् || मूलमंत्रेणाथ पूर्वन्यासान् सर्वान् समाचरेत् | अष्टोत्तर सहस्रं तु तदर्द्धं त्रिशतं तु वा || अष्टोत्तरशतं वापि जपेन्मूलमतंद्रितः | समाप्ते तु जपेन्मालां निदध्यान्मस्तकोपरि || अथ नित्य जप्यर्थेकरमालामाह || अथ वांगुलि मालाभिर्जपं कुर्यात् तदुच्यते | द्विविधत्वं च प्रत्येकं सृष्टि संहारभेदतः || अनामा मध्यमारभ्य अनामूलपर्वणि | त्रिपर्वं च कनिष्ठाया अनामाग्रं महेश्वरी || प्. १०२अ) मध्यमाग्रा च तर्जन्या मूलपर्वातिमं शिवे | शक्तिमाला त्वियं प्रोक्ता संहाराद्वैष्णवी भवेत् || मध्यमा मध्यमारभ्य तदग्रात् परमेश्वरी | अनामा मध्यकस्याथ प्रदक्षिण मनुव्रजन् || तर्जन्यग्रांतकं देवी च सुपर्वाच्छिवाभिधा | संहार भैरवीमाला तर्जन्यग्रांतकं यदि || सौरमाला तु संप्रोक्ता संहाराद्गाणपी भवेत् | अनामामध्यमारभ्य मध्यमा मध्यतः शिवे || अगक्रमेण देवेशि तर्जन्यग्रांतकं शिवे | गायत्रीमालिका प्रोक्ता संहाराद्वदुकाभिधा || अनामामध्यमारभ्य मध्यमामध्यमागतः | मूलभाग क्रमेणैव प्रदक्षिण मनुं व्रजेत् || चीनमाला तु संप्रोक्ता संहारात् क्षेत्रपालजा | मध्यमामध्यमारभ्य तर्जनीमध्यभागतः || अगक्रमेण देवेशि तर्जनी मूलतः शिवे | गांधर्वमालिका प्रोक्ता संहारद्वटवासिनः || तर्जनी मूलमारभ्य चाग्रभाग क्रमेण च | प्रदक्षिण क्रमेणैव मध्यमामूलपर्वणि || मंजुघोषे मालिका तु संहारात् खेचरी विधौ | कनिष्टाग्रं समारभ्य मूलाग्रांतं क्रमेण च || तर्जनी मूलपर्यंतं माला प्रोक्ता तु सांभवी | संहाराद्वारुणी माला धनदस्य प्रकीर्तिता || कनिष्ठा मूलमारभ्य सर्पदण्ड क्रमेण च | तर्जन्यग्रांतगं देवी यक्षिणी मालिकामता || संहारात् किन्नरीमालामहागानकरी परा | कनिष्ठा मूलमारभ्य पंक्तिमार्ग क्रमेण च || कनिष्ठायांतकं देवीजैनमाला प्रकीर्तिता | संहाराज्जैनमालास्यादनामा मूलतः शृणु || प्रदक्षिण क्रमेणैव तर्जनी मध्यमांककं | मालाचांद्री तु संप्रोक्ता संहाराद्विधिमालिका || नित्यं जपंकरे कुर्यान्न तु काम्यं कदाचन | काम्यमपि करे कुर्याद्यदि माला न विद्यते || अर्घपात्राज्जलं हस्ते गृहीत्वेदं पठेत् पुनः | गुह्यातिगुह्यगोप्तात्वं गृहाणा स्मृत् कृतं जपं || सिद्धिर्भवतुमे देवत्वत्प्रसादाज्जगत्पते | देव्याः वामकरेदेयं सदाजपफलं शिवे || देवस्य दक्षिणे हस्ते तोयं दत्वा समर्पयेत् | जपं च जपमालाथ स्थाप्या रहसिवेष्ठिता || ततस्तु वीरस्तुतिभिर्घंठावादनपुर्वकं | ब्राह्मणो वेदमंत्राद्यैः क्षत्रियः सहितादिभिः || प्. १०२ब्) पौराणिकाद्यैर्वैश्यस्तु शूद्रस्तु प्राकृतादिभिः | कौलिकैः शक्तिसहितैस्तदुच्छिष्टं च सेवयेत् || मोहाद्वाकामतः शूद्रः पुराणं संहितां स्मृतां | पठन्नरकमाप्नोति पितृभिः सहपापकृत् || यः शूद्रो वुद्धिपूर्वं तु शृणुयाछ्रावयेद्विजः | वेदंतौद्वौ दुःखितावस्मिन् भवेत् यत्र नारकौ || अधिकारमदाद्यस्तु धनस्य मदतोपि वा | शूद्रस्तु शृणुयाद्वेदं स निर्वशश्च निर्द्धनं || अज्ञानाच्चेच्छ्रुतो वेदः श्रापितो चाद्विजन्मना | प्राजापत्यं त्रयं कृत्वा तौद्वौ श्रद्धौ भविष्यतः || ततोर्घ्य पात्रमादाय मूलमुच्चार्य मंत्रवित् | साधु वा साधु वा कर्मपद्यदा चरितं मया || तत्सर्वं भगवन्देव गृहाणाराधनं परं | इत्यर्घोदकसुत्सृज्य किंचिद्देवस्य दक्षिणे || करे समर्प्ययेद्विद्वान् कृतमाराधनं ततः | भक्त्या प्रणम्य देवेशं श्लोकैरेभिः क्षमापयेत् || यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलं | निवेदितं च नैवेद्यं तद्गृहाणानुकंपया || आवाहनं न जानामि न जानामि विसर्जनं | पूजां चैव न जानामि त्वं गतिः परमेश्वरः || कर्मणा मनसा वाचा त्वत्तोनान्यागतिर्मम | अतश्चारेण भूतानां इष्टात्वं परमेश्वरः || नाथ योनि सहस्रेषु या सुयासु र्वजाम्यहं | तासु तासु सदाभक्तिरव्ययास्तु सदात्वयि || देवोदाता च भोक्ता च देवः सर्वमिदं जगत् | देवो जयति सर्वत्रयो देवः सोहमेव हि || अथ प्रणाम प्रदक्षिणे च || नमनं मान संप्रोक्तं कायिकं वाचिकं तथा | त्रिविधं च नमस्कारे कायिकं चोत्तमं स्मृतं || पौराणिकैर्वेदिकैर्वा क्रियते वाचिकं पुनः | मध्यमो सौ नमस्कारो भवेद्वाचनिकं पुनः || यत्स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः | क्रियते भक्तियुक्तो हि वाचिकस्तु ततः स्मृतः || जानुभ्यामवनीं गत्वा शिरसा स्पृश्यमेदिनीं | क्रियते यो नमस्कार उत्तमः कायिकः स्मृतः || पुटीकृत्य करौ शीर्षे दीयते पादयोस्तथा | स्पृष्ट्वा च जानुशीर्षाभ्यां भवेदन्या नमस्कृतः || पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसादृशा | वचसा मनसा चेति प्रणामोऽष्टांग ईरितः || वाहुभ्यां च स जानुभ्यां शिरसा वच सादृशा | पंचांगोयं प्रणामः स्यात् पूजासु प्रवराविमौ || भूमौ निषत्पयः कुर्यात् कृष्णेऽष्टांगम तिष्टधीः | सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् || वेदविद्भ्योधरां दत्वा यत्फलं लभते नरः | तत्फलं लभते भक्त्या कृष्णे कृत्वा प्रदक्षिणं || प्. १०३अ) शंख हस्ते च सर्वत्र दक्षिणं परिकीर्तितं | एकं चण्ड्यां रवौ सप्तत्रीणि दद्याद्विनायके || चत्वारि केशवे दद्यात् शिवे चार्द्धं प्रदक्षिणं | त्रिकोणाकार सर्वत्र न तिःशक्तेः समीरिता || अर्द्धचंद्रं महेशस्य पृष्ठतश्च समीरिता | शिवप्रदक्षिणे मंत्री अर्द्धचंद्र क्रमेण च || सव्यासव्य क्रमेणैव सोमसूत्रं न लंघयेत् | प्रदक्षिण त्रयं कृत्वा नमस्कारं तु पंचकं || पुनः प्रदक्षिणं कुर्यात् पुनर्जन्म न विद्यते | वृषस्य वृषण स्पृष्ट्वा दक्षांग्रेंगुष्टतर्जनी || शृंगमध्ये शिवं दृष्ट्वा पुनर्जन्म न विद्यते | वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषं || खण्डं च सोमसूत्रं च पुनः खंडं पुनर्वृषं | पदेपदांतरं गच्छेत् कलौ शरल वर्जितः || वाचास्तोत्रं मनोध्यानं चतुरंगं प्रदक्षिणं | सोमसूत्रद्वयं यत्र यत्र वा विष्णुमंदिरं || अपसव्यं न कुर्वीत कृत्वा चांद्रायणं चरेत् | प्रसार्य दक्षिणं हस्तं स्वयं न मुशिरापुनः || दर्शयेद् दक्षिणं पार्श्वं मनसापि प्रदक्षिणं | त्रिधा वचेष्टयेत् सम्यक् देवतायाः प्रदक्षिणे || एकहस्त प्रमाणं तु एकं वापि प्रदक्षिणं | अकालेदर्शनं विष्णोर्हंति पुण्यं पुराकृतं || प्रदक्षिणाद्वायवीं गत्वा दिशं तस्माच्च सांभवीं | ततश्च दैक्षिणां दत्वा नमस्कारं त्रिकोणवत् || ब्रह्मार्पणस्य मनुना कुर्याद् ब्रह्मार्पणं ततः | तारादितः पूर्वमिति प्राणवुद्धीति संवदेत् || देहधर्माधिकारेति जाग्रत्स्वप्नसुषुप्त्य च | स्थासूत्का मनसा वाचा कर्मणाभ्यंतरस्ततः || यच्छन्दोश्चादरेणेति शिष्णायच्च स्मृतं च यत् | उक्तयेच्च कृतं तेच्च सर्वब्रह्मार्पणं भव || तुर्स्वाहेति च मंत्रोयं षट्षडर्णः स समीरितः | उद्वासयेत् ततो देवं परिवारगणैः सह || इति पुष्पांजलिं दत्वा प्रणम्य परिभावयेत् | देवस्यांगे विलीनं तद्रश्मि वृंदमशेषतः || तेजोरूपं शिवं ध्यात्वा क्षमस्वेति पुनः पुनः | क्षमाप्यारोपयेत्स्वीय हृतं भोजे तु देवतां || अथ संहारमुद्रामाह || स्पृष्टलग्नौ करौ कृत्वा अंगुल्यान्योन्य मध्यतः | परिवर्त्य ततः कुर्यात् तर्जन्यौ सरलाकृती || प्. १०३ब्) विसर्जनेनिगदितामुद्राः संहारसंज्ञिका | गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वर || एते ब्रह्मादयो देवा न विदुः परमं पदं | विषृज्यानेन मंत्रेण ततः पूरकवायुना || ध्यायंश्च मंत्रेणानेन ध्यात्वातां स्थापयेद्धृदि | तिष्ठ तिष्ठ परेस्थाने स्वस्थाने परमेश्वर || यत्र ब्रह्मादयः सर्वे सुरा तिष्ठंति मे हृदि | इति संस्थाप्य स्ंपूज्य स्वात्मानं तन्मद्यं स्मरेत् || ईशान्यां मण्डलं कुर्याद्वार पद्मविवर्जितम् | निर्माल्य भोव्जः पूजार्थं पंचायतन पूजने || कर्तव्याणि तु पंचैव ईशादामध्यमर्चयेत् | लंबोदरो गणेशस्य तेजश्चंडो विवस्वतः || विश्वक्तेनो हरेः प्रोक्तश्चण्डेश्वरी महेशि तुः | चण्डेश्वरो भवान्याश्च मंत्रोहं तादृशं चरेत् || लेह्य चोष्यान्तपानादि निर्माल्यं स्रग्विलेपनं | निर्माल्य भोजिने तुभ्यं दशमिश्री शिवाज्ञया || इति नैवेद्य शेषं तु दत्वा नत्वा विसर्जयेत् | अथ ह्रीं ह्रीं सः बीजैस्तु सहिते नामुना पुनः || मंत्रेण भास्करायार्चामछिद्रार्थंति वेदयेत् | नमो विवस्वते तुभ्यं सास्वते विष्णुतेजसे || जगत्सवित्रे शुचये सवित्रे कर्मदायिने | ततः कृत्यंजलिश्चित्ते स्थिरीकृत्य पठेदिति || यज्ञछिद्रं तपः छिद्रं यच्छिद्रं पूजने मम | सर्वं तदछिद्रमस्तु भास्करस्य प्रसादतः || अर्घ्यंतो येन च ततो गंधं पूजावशेषितं | आलोड्य किंचिन्मूलेन मंत्रयेदष्टधा पुनः || प्रोक्षयेतेन तोयेन स्वात्मानं मूलमंत्रतः | निर्माल्यं मस्तके धार्यं मूलमंत्रेण मंत्रिणा || प्राश्यपादोदकं पश्चान्नैवेद्यं विभजेत् पुनः | तद्भक्तेभ्यः स्वयंभुक्त्वा तन्मयो विहरेत्सुय || शैवस्तु शिवनिर्माल्य प्रसादस्याधिकारवान् | अन्योनिरयमायाति न दोषः पंचसंगमे || स्वयंभु लिंगतीर्थं वा प्रसादं वापि भक्तितः | अशैवा वाथ वा शैवा मुच्यंते पापराशितः || शूद्रः संस्थापितं लिंगं पूजयेद्वानमेत वा | तत्संवंधि प्रसादादि गृह्नन्निरायमाप्नुयाप्नुयात् || अयं पूजाविधिर्मुख्यो युष्मभ्यः संप्रकाशितः || इति श्रीतंत्रचिंतामणौ साधारणनित्यार्चनायां तर्यजनादिविसर्जनांतनिर्णयो नाम सप्तदशः प्रकाशः || १७ || प्. १०४अ) अथ कौलवामिनोर्नित्यार्चनमाह || तत्रादौतन्मार्गोत्पतिमाह | दक्षयज्ञे यदा देवि त्वया त्यक्तं कलेवरं | अहं गृहीत्वा तत्स्कंधे चितां प्रवेष्टु मुद्यतः || वडवाग्नेर्गवेषार्थं यत्र यत्रा भवेत् स तु | तत्र तत्र च शक्रेण तूर्णं निव्रापितो जलैः || एवं पर्यंटतो वर्षं प्रस्वेदो मे महान भूत् | तद्विंदु पात्र निर्दग्धा धरणीयं भविष्यति || तदा संप्रार्थितो विष्णुर्द्धरणी रक्षणाय च | तदाशु लघुभिर्वाणैस्त्वदंगानि समाच्छिनत् || चतुराशीति खंडानि कृत्वासौ पातयद्भुवि | वा तेन वीजिताश्चाहं प्रीतोहमखिलस्तदा || विष्णुश्च प्रकटी भूयः पादयोः परितो मम | उत्थाप्य च परिष्ठक्तस्तवशोकश्च विस्मृतः || तावद् ब्रह्मादिका देवानारदाद्यामहर्षयः | मांतुष्टुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वती || ज्ञानदोसि महेशत्वं कथं मोहमुपागतः | सत्याः शरीरेण सहप्रवेष्टुं हव्यवाहनम् || अनुगच्छेत्पतिं नारी न पुमानतां च गच्छति | इति शास्त्रमनादृत्य कथं देव विमोहितः || एवं वदति देवेश ब्रह्मणामां हरिंस्तथा | श्लेषालंकार वाह्यैश्च तुष्टुवुर्विधिना सह || आवाभ्यां तु तदा प्रोक्ता या च यध्वंवरं द्विजा | तदातैर्बार्ह्मणैरुक्तं जातोयं धर्मविप्लवः || दक्षयज्ञाश्रितैः शैवा ब्राह्मण्याद्भ्रंशिता द्विजां | यज्ञागताश्च सर्वेपि शैवैः शप्ताद्विजातयः || विष्णुनाकर्ततैरंगैः सत्याश्चेदं धरातलं | स्थले स्थले शवः स्पर्शाद् ब्रह्मकर्म विवर्जितम् || तस्माद्धरायाः संशुद्धिं विप्राणां चापि शुद्धतां | ब्रह्मवाक्यस्य सत्यत्वं यथा भवति तत्कुरु || ततो ध्यात्वा मया प्रोक्तं सम्मतीकृत्य विष्णुना | यत्र वेदक्रियाध्वस्ता तत्र तंत्र प्रवर्त्यतां || ये विप्राः शापनिर्दग्धा ब्रह्मकर्म विवर्जिताः | तेषां तु कौलधर्मोयं भुक्तिमुक्त्येस्तु साधनं || ये विप्राः पीठसंजाताः शापनिर्दग्धविप्रताः | तेषां कुलेधिकारोयं मार्गस्यास्य प्रजायते || तत्कुले एव पूज्यत्वात् कौलोयं मार्ग उच्यते | वाममार्गस्ततो न्यूनस्तेषां क्षत्रिय वैश्यकौ || प्. १०४ब्) यजमानौ तयोस्वत्राधिकारः समुदाहृतः | सिद्धांतीयुस्ततोन्यूनस्तत्राशूद्राधिकारिता || ये पारंपर्य यज्ञात्वा कौलधर्मे वितिते | निःश्वासंततिहीनाश्चरोगिणो नात्र संशयः || कौलज्ञानेह्यसिद्धोयस्त द्र्वयं भोक्तमिच्छति | स महापातकी देवी सर्वकर्म वहिः कृतः || समयाचारहीनस्य स्वैर्ववृत्तेर्दुरात्मनः | न सिद्धयः कुलभ्रंशेस्तत्संसर्गं न कारयेत् || यः शास्त्रविधिमुत्सृज्य वर्तते कामचारतः | स सिद्धिमिहमाप्नोति परत्र च परां गतिं || कुलद्रव्याणि सेवंत येन दर्शनमाष्रितः | तदंगरो समंख्यातं भूतयोनिषु जायते || मदप्रस्खलितात्मा च न किंचिदपि वेत्ति चेत् | न ध्यानं न तपश्चर्चा न धर्मं च न सत्क्रियां || न देवं न गुरुन्मत्मविचारो यदि कौलिके | केवलं विषयासक्तः पतत्येव न संशयः || श्रिगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासमोम् | पंचमुद्रां निषेवेत चान्यथा पतितो भवेत् || आवृत्तिं गुरुपंक्तिं च वटुकादीन्न पूज्ययः | वीरोप्येवं वृथायामाद्देवता शापमाप्नुयात् || अथ पूजा प्रकारस्तु कथ्यते कौलवासिनोः | आत्मदान समुद्रव्य देवशुद्धिं प्रकल्पयेत् || स्नानसंध्या भूतशुद्धिः प्राणायामः प्रतिष्ठति | प्राणानां मातृकान्यासादिकैः स्यादात्मशोधनं || संमार्जनानुलेपाद्यैर्दर्पणोदरवत् कृअत्ं | वितान धूपदीपाद्यैःस्थान शुद्धिरियंमता || ग्रथिता मातृकावर्णै मूलमंत्राक्षराणि च | क्रमोत्क्रमत्रिरावृत्तिर्मंत्रशुद्धिरियंमता || पूजा द्रव्याणि संप्रोक्ष्य मूलास्त्रेण विधानवित् | दर्शयेद्धेनु मुद्रां च द्रव्यशुद्धिरियंमता || पीठे देवं प्रतिष्ठाप्य सकलीकृत्य प्रोक्षयेत् | अर्घ्योदकेन मूलेन त्रिर्दीपनीं प्रदर्शयेत् || देवशुद्धिर्विधायेत्थं पश्चाद्यजनमारभेत् | सा पूजा सफला ज्ञेयात्वन्यथा निष्फला भवेत् || आदौ जलमधिष्टायपादंयोर्क्षालनं ततः | द्विराचम्य शिखां वध्वा कुर्याद्वारेशपूजनं || प्. १०५अ) विप्रानुत्सारयित्वा च ततः पुष्पादि शोधनं | वीरासने तथा विश्य विजया भक्षयेत् ततः || शक्तिं पार्श्वे च संस्थाप्य न्यासजालं समाचरेत् | कुलद्रव्यं च संशोध्य पात्राणां स्थापनं ततः || अथ वीरासनाति || मृदुकोमलमासीनं संग्राम पतितं च येत् | जंतुव्यापादितं वापि मृतं वानरमासनं || गर्भच्युतं च तारीणामथवा योनिजं न वा | त्वं च वातच्छरीरं वा शिवे कुर्यात् ततोर्चनं || ऋतुरक्ताक्तवस्त्रं वा आसनाय प्रक्ल्पयेत् | श्मशानकाष्ठाघटितं पीठ वा यज्ञदारुजं || ना दिक्षितो विशेज्जातु कृष्णसाराजिने गृही | एकहस्तं द्विहस्तं वा चतुरंगुलमुच्छ्रितं || विशुद्धे आसने कुर्यात् स्थापनं पूजनं विधिः || श्रीदेव्युवाच || देवेश श्रोतुमिच्छामि रहस्याति रहस्यकं | मुण्डादि वीरपर्यंतं संस्कारं साधनं वद || श्रीशिव उवाच || रहस्यातिरहस्यं च न कुत्रापि मयेरितं | तव प्रीत्या महेशानि कथ्यते शृणु सांप्रतं || मृद्वासनो भवेदादौ द्वितीयं स्यादचूडकं | कोमलं च तृतीयं स्यान् मुण्डप्रोक्तं चतुर्थकं || मृतासनं पंचमं च षष्ठं वीरासनं मतं | महावीरासनं देवी सप्तमं परिकीर्तितं || सप्तानां साधयेद्देवी मालापात्र विशोधनं | यंत्र संशोधनं चैव सर्वं संकथितं पुरा || इदानीमासनानां च साधनां शृणु पार्वती || अथ लक्षणमाह || अर्वाक् षण्मासतोगर्भः च्युतमाहुर्मृदुंवुधा | चूडोपनयनैर्हीनैमृतं वा चूडकं विदुः || निवृत्त चूडको वालो हीनोपनयनः शिवे | यो मृतः पंचमे वर्षे तमेव कोमलं विदुः || सामान्य मरणं प्राप्तं प्रोक्तं देवि मृतासनं | वीररूपेण संजातं तच्च वीरासनं विदुः || आवेश शूलपाशादि महावीरासनं मतं | अखंडांगंशवं देवि स खंडं मस्तके न यत् || तन्मुण्डं यत्र मालादि पात्रकर्मणि कीर्तितं || अथासन संस्कारः || शवमानिय देवेशि गर्भजं यदि वासवं | सप्तमाष्टाममासीनं चूडकं वापि कोमलं || स्थानं संशोध्य यत्नेन वीचवेषो मुदान्वितः | ततः संस्कारमाचर्य संस्थाप्य विमले स्थले || प्. १०५ब्) गंधाष्टकं समादाय प्रोक्षयेत् प्रथमं ततः | पंचामृतैः पंचमव्यैः कलापंच स मंत्रितैः || मूलेन स्थापयेत् तत्र पीठचक्रेधरण्यधः | त्रिकोणं विंदुमायां च चतुरस्रे विकोणकं || त्रिकोणं तस्य वाह्ये तु पद्ममष्टदलं लिखेत् | षोडशारं च तद्वाह्ये त्रिवृत्तं त्रिगुणान्वितं || मूलदेवी च तन्मध्ये मूलेन परिपूजयेत् | वृत्तं च त्रिगुणं चैव आदिमाद्य न योजयेत् || वाङ्माया कमलास्तत्र वर्णादौ सर्वकर्मसु | वह्नेर्दशकलास्तत्रकोणे चाष्टदले तथा || षोडशारे त्रिवृत्ते च कला सोमस्य पूजयेत् | तत्रैव स्थापयेद्वीरं मृद्वाख्यं वा प्रयत्नतः || स्वयंत्रं विलिखेत् तत्र साधारशक्तिपूर्वकं | सुधासिंधुंमणिद्वीपं चिंतामणि गृहं तथा || श्मशानं पारिजातं च तन्मूले शववेदिकां | धर्मज्ञानं च वैराग्यमैश्वर्यं तदनंतरं || अधर्मादि ततो मंत्रापाणिपादे च युग्मकं | अकारादिक्षकारांतं मातृकान्यास रूपकं || तत् स्थाने पूजयेन्मंत्री हृदिन्यासादि पूजयेत् | करन्यासं ततो मंत्री कराभ्यां पूजयेत् ततः || अधोमुखं मृतं कृत्वा तन्मुखे मधुरं वदेत् | हे वीर परमानंद देवीपर्यंकशंकरं || अष्टसिद्धिं च मे देहि ममशांतिः सदा कुरु | एतद् व्रूहि च वीरेन्द्र वसुवर्णं मुखे क्षिपेत् || एलालवंगजातीं च फलतांवूल संयुतं | षडिराद्रकं च गुडं कर्पूरं रक्ततंतुना || मूलेन भावयेत् तत्रजूटिकां दृढमुष्टिकां | अर्केंदुशित वाघालनिर्मितां दीपवर्तिकां || निमंत्रयेत् ततः शाक्तः सप्त * * (?) ननु क्रमात् | वंदनागुरुपुष्पाद्यैर्मूर्द्ध्निदेवीं प्रपूजयेत् || जीवन्यासं ततो मंत्री प्राणमंत्रेण साधयेत् | गुदेलिंगे तथानाभौ भूदरे गुह्यदेशके || ऊरुजानु तथा जंघा गुल्फपादतले तथा | शिरे कंथे नासिकायां चक्षुषोः कर्णयोरपि || शिखाकवचगण्डेषु ऊर्द्ध्वाधोष्ट * (?) के तथा | तंतयोश्चैव जिह्वायां शिरः पृष्टे च पार्श्वयोः || प्. १०६अ) हृदादिके च वाहुभ्यां पादाभ्यां च तथैव च | सर्वांगे विन्यसे देवपीठन्यासमनुत्तमं || सूर्यस्यमंडलं तत्र तपिन्यादि कलात्मकं | मृतकायशवायात्र नमश्चांते पदं ततः || स्नापयन् मूलमंत्रेण पूजयेनाष्टवारिणा | सूर्यसोमात्मकं पीठमग्निरूपं प्रकल्पयेत् || मेरुपृष्ट ऋषिः छंदः सुतलं तदनंतरं | कूर्मोदेव ततः पश्चाद्धर्मार्थ साधने ततः || मोक्षे पुनर्मनोश्चैव सिद्ध्यर्थे परिकीर्तितं | कूर्ममुद्रां दर्शयित्वा अस्त्रावगुंठने ततः || शक्तियोनिर्मत्स्यमुद्रां धेनुमुद्रां ततः शिवे | प्रदर्शयेच्छोटिकायां चतुरस्रां प्रदर्शयेत् || धृत्वा विमर्शयेन् मूलं पृथ्वीत्वमिति वै क्रमात् | ततो वज्रोदकेत्यादि मनुभिः कामसंख्यकैः || प्रणवं पूर्वमुद्धृत्य सहस्रार पदे ततः | हूं फट् स्वाहा तदंते च रक्षरक्ष ततो वदेत् || महाप्रतिसरे सर्वे विघ्नान् छेदय युग्वदेत् | हूं फडंतं समुद्धृत्य वह्निजायां समुच्चरेत् || दिक्पाल यजनं कार्यमिंद्रोदि क्रमयोगतः | वीरार्गला घोरमंत्रैस्तथा पाशुपतैरपि || महामण्डल मंत्रैर्वादिग्वंधं तत्र कारयेत् | शिवा वलिं तत्र दद्याद्ग्रहणादावपि प्रिये || आदौ मध्ये तथा चांते त्रिवारं तु शिवा वलिः | मुण्डग्रहणकाले तु सर्वथा तु शिवा वलिः || शिवां शक्तिं च वा पूज्यदिक्पालान् वलि संयुतान् | पूजयेत् परमेशानि सायुधादि यथाक्रमं || एवं क्रमेण वीरेन्द्र सर्वेषां वलिमाहरेत् | वाङ्मायां कमलां प्रोच्य देव्यामुक एषवैद्यजुः || प्रवर्तते इमं भागवलिं गृह्नं तु युग्मकं || ८७ || तथा || अत्र तिष्ठ नमः प्रोच्य अस्तुते हूंफट् स्वाहा | अकारादि क्षकारांतं विंदुयुक् मातृकाक्षरान् || शिरादि पादपर्यंतं वेष्टयेद् दक्षिण क्रमात् | सार्द्धत्रिवलयैर्युक्तं वेष्टयेत् साधकोत्तमः || नानासुगंध द्रव्येण रक्तचंदनचंदनैः | काश्मीरा गुरुकं दत्वा पीतसूत्रेण वेष्टयेत् || प्. १०६ब्) वंधयेद्विविधैर्द्रव्यैः क्षारयुक्त हरिद्रया | वध्नीयाद्रक्तसूत्रेण पट्टसूत्रेण वापि वा || अथाधिकारितामाह || निर्द्वंद्वो निरहंकारः शुद्धनाडीगणावृतः | पाखंडोवुद्धिरहितः सर्वभूत हितेरतः || सर्वावयव संशुद्धः सर्वशास्त्र विशारदः | कृताभिषेका विद्याज्ञो जपपूजादि तत्परः || मृद्वासने वसेत् सोहित्वन्यथा नरकं व्रजेत् | अज्ञानान्मोहदंभैश्च दृष्ट्वादृष्टं करोति यः || सयाति नरकं घोरं पिशाचत्व मवाप्नुयात् | प्रयांति ते महामूढा व्याधिः त्वं स्वल्पजीवितां || विशेद्वीरस्तु शास्त्रज्ञः समयाचार तत्परः | मंत्रज्ञस्तंत्रदर्शी च यंत्र मंत्र विचक्षणः || निग्रहानुग्रहे शक्तश्चतुर्वर्ग विनोदकः | ससिद्धः सिद्धिदो लोकेशायानु ग्रहनेक्षमः || अशक्तः कुरुते यस्तु मृत्युस्तस्य न संशयः | मृद्वासनमिदं प्रोक्तं किमन्यछ्रोतु मिच्छसि || देव्युवाच || देवेश श्रोतुमिच्छामि अचूडक विशोधनं | अचूडकासने देवी सिद्धयः सकलास्थिताः || तमासनं समादायमकार पंचकान्वितं | भौमाष्टम्यां चतुर्दश्या ममायां दीपकोत्सवे || कुलऋक्षेपि देवेशि अचूडकासनं भवेत् | दिग्वंध भूतशुद्धादीन् कृत्वा यत्नेन पार्वती || वज्रोदके समारभ्य रक्षांतकं शिवे | मंत्रान्विज्ञाय यत्नेन साधयेदिष्टसाधनं || अन्यत्सर्वं पूर्ववत् स्यात् कोमलेप्येव मेव तु | सुण्डासनं प्रवक्ष्येहं शृणु सा वहितो भव || भौमाष्टम्यां चतुर्दश्यां मंगलेश निवासरे | दीपोत्सवे च फाल्गुण्यां साष्टरात्रिदिनेपि च || पूर्वकृत्यं समाव्याथयाम मात्रं गते निशि | वीरवेषो दयायुक्तो भक्त भक्तो जितेंद्रियः || महावलो महाबुद्धिर्विजितेंद्रिय शास्त्रवित् | खड्गहस्तो मुक्तकेशः सिंदूरतिलकान्वितः || वलिद्रव्याणि चादाय दृढभक्तौ महारुचिः | वीरसाधनसामग्री संवृतः साधकोत्तमः || प्. १०७अ) शिवावलिं प्रदत्वा दौतदंते मुण्डसाधनं | शिवारूपा स्वयं देवी तत्र विघ्नहराद्ध्रुवं || अन्यथा विघ्नकर्तारो देवा दैत्याश्च मानवाः | सर्वविघ्नं विनाशार्थं सिद्ध्यर्थं फेरवीं यजेत् || श्मशाने गह्वरेनद्यां शुन्यगेहेपि साधयेत् | श्मशाने चेन्महेशानि विधिस्तत्र श्मशानवत् || अन्यत्र वीरवत् कार्यं साधनं सर्वसाधनं | कादिरान् कीलकानष्टौ निखनेन्मंत्रमुच्चरेत् || महामंडल मंत्रैश्च सर्वविघ्नान्विघातयेत् | मुंडमानीय यत्नेन पंचगव्यं विना क्षिपेत् || दुग्धेन स्नानमाचर्य ततः संविज्जलेन च | तदंते सुरया स्नानं कृत्वा यत्नेन पार्वती || तैलं लाप्य च तन्मुंडे सिंदूरेकज्जलं तथा | गंधपुष्पैश्च संपूज्य खनेद्धस्तार्द्धमानतः || तारायां कालिकायां तु छिन्नायामपि पार्वती | मुण्डकादि भवेत्पीठमाधारादिकमेव वा || तत्रापि दशशक्तौ तु त्रिधा भिन्ना महेश्वरी | ऋटुमत्यां तथा शक्तौ यत्किंचित् पीठमर्चयेत् || अथासनकालस्यावधिर्यथा || ऋटुवस्त्रासनं देवि सूत्रां तं परिकीर्तितं | मुण्डासनं तु मज्जीतं तथा शवासने प्रिये || कुचासने जपात्तं च सुरतासनमेव च | मृदुकोमलचूडादि चूर्णांतं परिकीर्तितं || तथा वीरासनं देवी समादाय प्रयत्नतः | हृन्मलं दूरतस्त्यक्त्वा हृदयं शोधयेत् पुनः || वस्त्राच्छन्नं भूमयं वा कृत्वा स्थित्वा जपं चरेत् | * * * * * * * * (?) नरचर्मासनं तथा || वस्त्रासनं स भंगांतं स लोमांतं नृकेशरी | संविद्रसं सगाजाख्यं तूर्णाख्यं त्रोटनांतकं || योनित्वगासनं देवी स लोमांतं महेश्वरी | योग्यासनं स जीवांतं पातांतं सुरतासनं || विपरीतासनं देवी तत्पातांतं प्रकीर्तितं | तदंते संत्यजेद्देवी यद्यन्यं चोत्तरोत्तरं || विषरासनकं देवी छेदनां तं प्रकीर्तितं | क्रमात् सिद्धिप्रदे देवी सर्वकार्यकरं भुवि || व्याघ्रासनं स लोमीतं कः चिद्भंगातमंविके | इति संक्षेपतः प्रोक्तं कालसंख्यां शृणु प्रिये || प्. १०७ब्) ऋतुमत्यासने देवी त्रिदिनात्त्रिगुणा कृतिः | ऋतुवस्त्रासनं देवि त्रिसास्रात्फलदायकं || मुण्डासनं तु षण्मासैर्दिनां तं तु शवासनं | नरचर्मासनं देवीमासात् सत्फलमुच्यते || कुचासने द्विमासेन फलं भवति सुंदरि | रतासने महेशानि पक्षांतं तु फलं भवेत् || मृद्वासने तु मासने कोमलं तत्वमासिकं | फलं भवं तु देवेशि ऊर्णाख्ये दशवर्षतः || अचूडके विष्णुतत्वैर्वीरेपि मंत्र एव च | वस्त्रासने पंचवर्षैः सिंहासनं पंचमासकैः || मृगाख्ये षड्वर्षश्चैव ऊर्णाख्ये दशवर्षतः | योनित्वगासने देवि सप्ताहे न फलं भवेत् || योन्यासने स पक्षांते सुरताख्ये दिनाष्टकं | विपरीते षट्दिनैश्चेज्जिह्वास्पर्शोद्विवेदकैः || सप्तचुंवनके देवी योजयेत् कालिकान्नरः | तावत्सन्नारकी ज्ञेयो यावदा हुत संप्लवं || अथ मृद्वासनाद्य भावे अनुकल्पमाह || मृताभावेकुशं रूपं विष्टरं परिकल्पयेत् | पूज्यं पीठं विष्ठराख्यं पूज्याता संविकापरा || श्रीदेव्याविष्टरोदेविधारास्तस्यास्फटास्ति च | विष्टरं साधकस्याथ कथ्यते शृणु सांप्रतं || भूतपत्राणि यस्मिन् वै स कुशेभ्यो विधीयते || हस्ते पादे दशदशसितादिक् युगं हृत्सरोजे विंशत् संख्या सकलवरदे मस्तके कीर्तिताश्च | गुह्ये जिह्वा वद नरदने घ्राणकर्णस्तनेषु लिंगे चांद्रे युगपरिमिता योजनीयाकुशाश्च || इत्येष विष्टरः ख्यातः सर्वसिद्धि प्रदायकः | कुशैर्वा वंधनं कार्यं नाड्यां वा परमेश्वरी || रक्तमिश्रितसूत्रेण पट्टसूत्रेण वा पुनः | विष्टरं परिकल्प्याथ तस्योपरि जपं चरेत् || विधिविष्टरपद्मस्य विधिः प्रोक्तो मया तव | शवरूपं प्रकल्प्याथ कविर्वाग्मी भवेन्नरः || स्वयंभुवाक्तं सूत्रं स्वकर्तव्यं सर्वसिद्धये | शवाभावे विष्टरस्तु शवरूपः प्रकीर्तितः || साक्षात्तु शिवरूपो हि विष्टरः परिकीर्तितः | विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्वकल्पना || शिवशक्ति समायोगोत् किं न सिद्ध्यति भूतले | शववीरोत्तमं वस्त्रं द्वितीयो विष्टरः स्मृतः || प्. १०८अ) तृतीयं शृणु देवेशि सर्वसिद्धिप्रदायकं | विष्टरं शंभुरूपः स्यात् स शिवाशिवविष्टरः || सिंहासनं च पर्यंको विष्टरस्तु तृतीयकः | चतुष्पादे महादेवि ब्रह्मविष्णुमहेश्वराः | ईश्वरस्तु चतुर्थः स्यात् तन्मध्ये तु सदाशिवः | मध्ये तु आसनस्थानं महासमरसात्मकं || हस्तौ पादौ प्रकल्प्याथ मस्तकं हृदयं तथा | सांगं सा च वयं देवि शवं वा परिकल्प्य च || स पादे शतपात्रेण भूतपत्रे कुशैः क्रमात् | अस्थिं वा तत्र संस्थाप्य शवांशं वापि सुंदरि || नारी रजोन्वितं सूत्रं तेन वाग्रथनं चरेत् | पट्टसूत्रेण सूत्रेण यथायोगेन वा पुनः || जीवन्यासं तत्र कृत्वा ध्यात्वा तारां जपं चरेत् | अनेन क्रमे योगेन किन्नसिद्ध्यति भूतले || सदाशिव प्रेतरूपो विष्टरः कथितो मया || अथ विष्टरस्य संस्कारमाह || गायत्र्यात्रोटनं कार्यं मूलेन ग्रथनं चरेत् | यत्र नोक्ता तु गायत्री तत् क्रमं शृणु तारिके || तन्नामपद देव्यं तां गायत्रीशं तु सा मता | तन्नाम कर्म देव्यंता गायत्री तारिणी मया || कृतसंकल्पको मंत्री कोमलं वामपाणिना | कूर्चवीजेन संगृह्य अस्त्रमंत्रेण प्रोक्षणं || प्रणवं तु वनेशीं च समुच्चार्यं तु तं वदेत् | शवरूप महाप्रेत चाष्टसिद्धिं प्रयच्छमे || इति स्तुत्वा तु तं सम्यक् कुशमध्ये निधापयेत् | तस्य गेहे त्रिकोणं तु रक्तचंदन वै || मायां तन्मध्यगां लिख्य वहिर्मंडलकं चरेत् | प्रणवं आः स रेरवे च वज्ररेरवे ततः || कूर्च चास्त्रं वह्नि वधूमयं च मण्डले मनूः | ओं आं कारं च ततो मायां क्रौंकारं हंस एव च || वह्निजायां समुच्चार्य शवः प्राणाः पदं वदेत् | इह प्राणाः पदं प्रोक्ता शवजीव इहस्थितः || शवस्य सर्वेंद्रियाणि पुनर्वाङ्मन चक्स्.उ च | श्रोत्रघ्राण इहागत्य सुखं च विरमेव च || तिष्ठं तु स्वाहयायुक्तो प्रणवं स्थापनो मनुः | प्रणवं पूर्वमुच्चार्य आधारशक्ति पदं ततः || कोमलासन पदं ङेंतं नमोंतेन तमर्चयेत् | प्रणवं कामपीठाय नमः शब्दान्नमस्क्रिया || प्. १०८ब्) स्वर्णैर्मास त्रयै पट्टे कार्या मूर्तिः शवस्य च | संस्थाप्य विष्टरः स्यांते सर्वं पूर्ववदाचरेत् || समयाशोधनं कृत्वा शक्तिशोधनमाचरेत् | शक्तिः संशोधनं कृत्वा सुराशोधनमाचरेत् || सुराः संशोधनं कृत्वा शुद्धिशोधनमाचरेत् | शुद्धिः संशोधनं कृत्वा मुद्रां मैथुनशोधयेत् || अथ द्विजयांगीकारमाह || संविदा शवयोर्मध्ये संविद्देवीगरीयसी | संवित् प्रयोगस्तेनेह पूजादौ साधकोत्तमैः || कर्तव्या च महापूजा करणीया सुमंत्रितैः | शुक्लपुष्पाभवेद्ब्राह्मी रक्तपुष्पा तु क्षत्रिया || पीतपुष्पा भवेद्वैश्या कृष्णपुष्पा तु शूद्रजा | ऋषिरस्या महेशानि आनंदभैरवा मतः || * * (?) छंदो देवता च समया च वाग्वादिनी | वालावीज त्रयेणैव वीजं शक्तिश्च कीलकं || क्रमात् कार्यं महेशानि विनियोगस्तु शोधने | द्विधा त्रिभिस्तुतैर्वीजैः षडंगानि क्रमाद्विदुः || अथ ध्यानं || सिद्धायां शिववोधिनीं करलसत् पाशांकुशो भैरवीं भक्ताभीष्ट वरप्रदान कुशलां संसारवंधछिदां | पीयूषां वुधिमंथनोद्भवरसां संसारवंधछिदां वीराराधितपादुकां सुविजयां ध्यायेज्जगन्मोहिनीं || सप्ताभिमंत्रितं कृत्वा पूतं सर्वं भवेद्ध्रुवं || संविदे ब्रह्मसंभूते ब्रह्मपुत्रि सदानघे | भैरवानंद दत्तात्वं पवित्रा भवसर्वदा || ओं ब्राह्म्यै नमः स्वाहा || ब्राह्मणीं शोधयेदिति || सिद्धिमूल क्रिये देवि हीनबोध प्रवोधिनी | राजा प्रजा वशंकरी शत्रुकंठनिसूदिनी || ऐं क्षत्रियायै नमः स्वाहा || शोधयेत् क्षत्रियां ततः || अज्ञानेंध न दीप्ताग्नेर्ज्वालाग्नेर्ज्ञानरूपिणी | आनंदस्यागमं प्रीतिं सम्यग् ज्ञानं प्रयच्छमे || ह्रीं वैश्यायै नमः स्वाहा || शूद्रां च शोधयेत् ततः || नमस्यामि नमस्यामि योगमार्ग प्रदर्शिनी | त्रैलोक्य विजये मातः समाधि फलदा भव || क्लीं शूद्रायै नमः स्वाहा || कथ्यते मंत्रमुत्तमं || प्. १०९अ) अमृते अमृतोद्भवे अमृतवर्षिणि पदं ततः | अमृतमाकर्षयद्वंद्वं सिद्धिं देहि पदं ततः || सर्वमेथ ततो व्रूयाद्वशमानय तत्परं | द्विठांतोयं मनुः प्रोक्तश्चतुर्णामपि शोधने || मूलमंत्रं सप्तवारं तस्योपरि नियोजयेत् | आवाहनादि मुद्राश्च धेनुयोनिं ततः परं || दिग्वंधनं छोटिकाभिस्तारत्रयपुरस्सरं | दिव्यदृष्ट्या तथा पार्ष्णिघातैर्विघ्नान्विघातयेत् || सप्तधा तर्पयेद्ब्रह्मरंध्रे मूलं समुच्चरन् | गुरुं पद्मे सहस्रारे तथा तत्वाख्यमुद्रया || त्रिधैव तर्पयेद्भक्त्या साधकः सिद्धिमानसः | ऐं वदवदपदं व्रूयाद्वाग्वादिनि पदं ततः || मम जिह्वाग्रे स्थिरीभव सर्वं पदं ततः | सर्व सत्ववशंकरी स्वाहांते जुहुयान्मुखे || आनंदेन युतो देवी पूजा कार्या यथाविधिः | समयाभक्षिता येन समयायोषिता तथा || स शिवः स च योगी च सत्तपस्वी सतांवरः | स भवेन्मुक्तिमार्गस्थः समया येन भक्षिता || भक्षयित्वा च समयायं यं मंत्रं जपेन्नरः | समस्तफलमाप्नोति सत्यं सत्यं वराणने || अथ शक्तिशोधनं || स शोधनंमनाश्चर्य स्त्रिषुमयेषु साधकः | कृतेपि सिद्धिहानिः स्यात् क्रुद्धा भवति चण्डिका || अभिषेकाद्भवेच्छक्तिर्मंत्रस्योच्चारणाछ्रुतौ | रतिकाल महेशानि दीक्षाकाले च कन्यका || कलाद्वा यत्नतो व्यर्थादभिषेकं समाचरेत् | सुरया रेतसा वापि जलेन मनुना पुरा || आदौ वालां समुच्चार्य त्रिपुरायै समुच्चरेत् | नमः शब्दं समुच्चार्य इमां शक्तिं ततो वदेत् || पवित्री कुरु शब्दांते मम शक्तिं कुरु प्रिये | वह्निजायां समुच्चार्य शुद्धिमंत्रः प्रकीर्तितः || अनेन विधिना देवी अभिसिक्ता स्त्रियः सदा | रममाणोत्र संनित्यं सर्वसिद्धिमवाप्नुयात् || इहलोके सुखं भुक्तापरे मुक्तिमवाप्नुयात् | अस्या कर्णेभेदवुद्ध्या मायावीजं समुच्चरेत् || प्. १०९ब्) तेन सुद्धा भवेन्नारी पूजा योग्या सदैव हि || अथ वाम कौलयोर्विशेषन्यासानाह || क्षमारभ्य अकारांतो न्यासश्चेत्क्रियते यदि | संहारन्यासनामा स्यात् विंदुन्या स इतीरितः || वाममार्गे प्रवृत्तानां शक्तिसेवनकारिणां | अंतर्न्यासात् परं विंदुन्यासैः स्याच्छुक्रधारणं || यावत् क्लिन्ना भवेच्छक्तिस्तावद्भोगो विद्यीयते | वामेन्न दक्षिणेमार्गे देवता ध्यानमुच्यते || अक्षस्रजं हरिणपोत मुदग्रटं.कं विद्यांकुरैरविरतं दधतीं त्रिनेत्रां | अर्द्धेन्दुमौलिमरुणासरविंदवसां वर्णेश्वरीं प्रणमतस्तनभारनम्रां || शक्तेर्मनोरथे पूर्णे विसर्गन्या समाचरेत् | ततो विंदुपतेत्तस्मादेतौ विंदु विसर्गकौ || न्यासौ प्रोक्तौ यदा शुक्रं वामिनः कौलिकस्य वा | शक्तं स्तृप्तिं विना सर्गन्यासेनापि विनाच्युतं || तदासौ निरयं यांति यावच्चंद्र दिवाकरौ | इहलोकेप्यवंशःस्याद्विहीनो ब्रह्मतेजसा || भोगमोक्षधिया वामे पतितुं ये समुद्यताः | विना मंत्रं सर्पमणिं ते गृहीतुं समुद्यताः || विसर्गमातृकान्यासोभवे केवल मातृवत् | विशेषस्तु विसर्गांतो वर्णोच्चारो भवेदिति || विंदुसर्गद्युतान् डादिव्यं तान् वर्णान्स्थितौ न्यसेत् | पूर्वोक्ता एव मुत्पाद्याः षडंग ध्यानमुच्यते || सिंदूरकांति ममिताभरणां त्रिनेत्रां विद्याक्षसूत्र मृगपोत्तवरान्धानां | पार्श्वस्थितां भगवतीमपि कांचनाभां ध्यायेत् कराब्ज घृतपुस्तकवर्णमालां || मातृकान्यास संस्थाने वामे कौलिक वर्त्मनि | प्रपंचयोगनामानं न्यासं कुर्यात्तदुच्यते || श्रीप्रपंचेद्वीपमाये कमलाजलधी तथा | गिरिविष्णुर्वल्लभे च यत्तनं पद्मधारिणी || समुद्रतनया पीठे क्षेत्रयुग्लोकमातृका | वनं कमलवासिन्यौ इंदिराचाश्रमस्तथा || मागृहेतुरमानद्यौ पद्माचत्वरकौ तथा | नारायणप्रियोद्भिज्जौस्वेदजासिद्धिलक्ष्मिका || अण्डजश्च महालक्ष्मी जरायुराजलक्ष्मिका | स्वरस्थाने षोडशैव युग्मानि स्पर्शजान्यथा || आर्यालवौत्रुटिर्मा च चण्डिका च कलान्विता | काष्ठा दुर्गेनिमेवाख्य शिवश्चासौह्यपर्णिका || प्. ११०अ) अंविका घटिके चैव मुहूर्तश्च सनीयुतः | ईश्वरी प्रहरश्चैव शांभवी दिवसान्विता || सर्वमंगलया युक्ता स्तितिन्यस्य ततः परं | दाक्षायिण्यो तथा वाराहैमवत्यायुतं न्यसेत् || नक्षत्रं च महामाया युक्तं योगेन्यसेत्ततः | माहेश्वर्या च करणं मृडान्या पक्ष एव च || रुद्राणी माससंयुक्ता सर्वाणि राशि संयुता | अथ तु परमेश्वर्यौ काली चानय संयुता || कात्यायणांवत्सरयुक् गौरीयुग समन्विता | भवानी प्रलयौ वाथयादि स्थानेषु विन्यसेत् || पंचभूतयुता ब्राह्मी पंचतन्मात्रसंयुता | वागीश्वरी ततो वाणी पंचकर्मेन्द्रियान्विता || संज्ञानेंद्रिय सावित्री सा निलां च सरस्वती | गायत्री गुणयुक्ता वाक् प्रकटः करणान्विता || अवस्थायुक् शारदा च धातुयुक्ता च भारती | दोषयुक्ता प्रिया चेति व्यापकं विद्यया न्यसेत् || त्रितारमूलविद्यांते मातृकाक्षणतः परं | वदेत् प्रपंचरूपायैश्रियै नम इति क्रमात् || प्रपंचादिभिरापोह्य वर्णव्यक्तिं नियोजयेत् | मातृकान्यास संप्रोक्त स्थानेषु तदनंतरं || त्रितालमूल सकल प्रपंचस्य स्वरूपतः | आर्यावारां वा देव्यै च नमोक्त्या व्यापकन्यसेत् || प्रपंच न्यास एवं स्याद्भुवनान्या स उच्यते | विना द्रव्याधिवासेन न स्मरेन्न जपेत् तथा || ये स्मरंति महामूढास्तेसां दुःखं पदे पदे | नासवेन विनामंत्रं विनामंत्रेण नासवं || परस्परविरोधित्वात् कथं पूजा विधीयते | तत्संशय निवृत्तिं च ज्ञात्वा गुरुमुखाद्यजेत् || वीक्षणस्पर्शन ध्यानमंत्र मुद्राविशोधनैः | द्रव्यं तर्पणयोग्यं स्याद्देवता प्रीतिकारकं || अथ द्रव्यांगीकारे अधिकारि विवेकमाह || द्रव्येण सात्विके नैव ब्राह्मणः पूजयेच्छिवां | ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते || ब्राह्मणस्त्वनुकल्पं च कृत्वा चाण्डालतामियात् | एवं दद्यात्क्षितिंयोपि पैष्टिकींनो कदाचन || प्. ११०ब्) नारिकेलोदकं कांस्येताम्रेगव्यं तथा मधु | राजन्यवैश्ययोर्दानं न द्विजस्य कदाचन || एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् | ताम्रेगव्यं मधुसमंदैवयैत्र्ये न दुष्यति || अत एव महेशानि होमे ताम्रे प्रगृह्यते | ब्राह्मणेन तथा कार्यं ब्राह्मण्यं न विन्श्यति || वर्णानु क्रमभेदेन द्रव्यभेदा भवंति च | क्षीरेण ब्राह्मणैस्तर्प्यं घृतेन नृपवंशजैः || माक्षिकैर्वैश्यवर्यस्तु आसवैः शूद्रजातिभिः | यत्रावश्यं विनिर्दिष्टं मदिरादानमुत्तमं || ब्राह्मणस्ताम्रपात्रे तु गव्यमद्यं प्रकल्पयेत् | सत्यक्रमाच्चतुर्वर्णैः क्षीराज्ये मधुपिष्टजैः || त्रेतायां पुजिता देवी घृतेन सर्वजातिभिः | मधुभिः सर्ववर्णैश्च पूजिता द्वापरेयुगे || पूजनीया कलौ देवी केवलैरासवैर्निशि | ब्राह्मणैश्च सदापेयाक्षत्रियैश्चरणागमे || वैश्यैर्द्धन प्रयोगैश्च शूद्रेणैव कदाचन | ब्राह्मणस्य मुखान्मद्य वासना प्रभवेद्यदि || चण्डालवद्वहिः कार्यो नासौ वा मीनकौलिकः | ब्राह्मणो न स्पृशेन् मद्यं वैदिके वर्त्मनि स्थितः || पंचलक्षण संयुक्तो ब्राह्मणः काल एव स | अहं ब्रह्मा तथा विष्णुस्तदाज्ञावशवर्तिनः || स चेद् वामपथं प्राप्तः पुनः श्वानोभिजायते | चतुर्लक्षण संयुक्तो विप्रो ज्ञेयस्तु मध्यमः || ताभ्यां दत्तो भाग्यवशात्तांत्रिकः कोपि चेन्मनुः | सद्यः फलति वाग्यस्य क्रियया वापि तस्य तु || लक्षण त्रययुक्तोयस्तस्य वैदिक तांत्रिके | यथोक्ता चरणादेव फलदस्तु न वामकः || लक्षणद्वयसंयुक्तस्तस्य वामश्च दक्षिणः | समतुल्य फलौ स्यातां न कदाचन वैदिकः || एकलक्षण संयुक्तो समस्तफलप्रदः | सौत्रामिण्यां कुलाचारे ब्राह्मणः प्रपिवेत्सुरां || अन्यत्र कामतः पीत्वा प्रायश्चित्ती भवेन्नरः | ब्राह्मणैः कौलिकैः पेयं देवता तृप्तिहेतवे || वामिनां कौलिकानां च मुखेतिष्ठंति देवताः | नयंतितें तु तद्गंधं स तु वंद्यो हरेरपि || देवता यस्य न मुखे साक्षाच्चाण्डाल एव सः | सेवेत मधुमांसानि तृष्णया चेत् स पातकी || प्. १११अ) मंत्रपूतं कुलद्रव्यं गुरुदेवार्पितं प्रिये | ये पिवंति जनास्तेषां स्तनपानं पुनर्नव || वहुनोक्तेन किं देवि यथा शक्त्या ददाति यः | कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् || शैवे तु वैष्णवे शाक्ते सौरे सु गतदर्शने | वौद्वे पाशुपते सांख्ये मंत्रे कालामुखे तथा || सदक्ष वामसिद्धांते वैदिकादिषु पार्वती | विनालिपिसिताभ्यां तु पूजनं निःफलं भवेत् || शृणु देवी प्रवक्ष्यामि कौलिका चरणं यथा | पाणेर्भ्रांति भवेद्यस्य घृणास्याद्रक्तरेतसोः || शुद्धौ चाशुद्धिता वुधिः पापशंका च मैथुने | स भ्रष्टः पूजयेदेवीं चण्डी मंत्रं कथं जपेत् || अथ द्रव्याणामावश्यकतामाह || विनालिवलिदानाभ्यां न प्रसीदति कालिका | मधुभांड सहस्रैस्तुमांसभारशतैरपि || नैव तुष्टा भवेद्देवी भगलिंगामृतं ऋते || अथ कामराणां क्रमेण फलमाह || यः करोति सुरापानं जीवन्मुक्तः स जायते | मांसं कादतियोमर्त्यस्तस्य मृत्युभयं कुतः || यो भक्षयति मत्स्यांश्च स शिवो नात्र संशयः | मुद्रां भक्षयतेद्यस्तु स सिद्धीनां पतिर्भवेत् || सुरतं यः प्रकुरुते त्रैलोक्य करणक्षमः | एतस्य चार्थ त्रितयं सात्विको राजसस्तथा || तामसश्चेति तत्राद्यौरामादिभ्यो निरूपतः | तं मार्गं ये विजानंति ते मुक्ता नात्र संशयः || अथाशवस्यत्रैविध्यमाह || मदिरात्रि विधा प्रोक्ता उत्तमामध्यमाधमा | उत्तमा स्वगृहोत्यन्नामध्यमाचान्यगेहजा || अधमाहट्टसंक्रीता एवं सा त्रिविधामता || शिव उवाच || देवासुरैः पुराकल्पेमथ्यमाने महोदधौ | तत्र श्यामा समुत्पन्ना सुराकलशधारिणी || गौरांगारुणचैला च भास्वद्धरितकंचुका | श्वेतोत्तरपदादेवी त्रैलोक्यस्यापि मोहिनी || दृष्ट्वातां दानवाः सर्वे शुक्राचार्य वलात्सुरान् | जित्वातां जगृहुस्तस्याः कलशाच्चपयुः सुरां || देवान् पलायितान् दृष्ट्वा शक्तयस्तत्र संस्थिताः | पयुस्ता अपितां पुण्यां सुरां दैवतमातरः || वरानपि वहून् दद्युः सुरायाः सुरमातरः | अभयास्मात्तर्पयंति शेषं गृह्नंति ये नराः || ते स्मद्रूपा न संदेहो भुक्तिक्त्यैकभाजनं | सुरागंगा सुरासिंधुः सुरादेवी सरस्वती || प्. १११ब्) सुरा गोदावरी रेवासुरैव परमं पदं | सुरानिंदंति ये मूढा मूढास्ते जन्मजन्मनि || गंधर्वैस्तूयमानास्ता शक्तयस्ते च दानवा | उत्पत्तिः कथिता देवी पानं च कथयाम्यहं || जिह्वामूलं समारभ्य हृदयं या च सुंदरी | षोडशांगुल विज्ञेया स्थाना स्वादोमृतं पदं || षोडशैव कलायुक्तं षोडशांगुलमायतं | पिवते दैवतैर्देवि मद्यममृतरूपिणं || प्रथमं पिवते वह्नि द्वितीयं शशिना पिवेत् | विष्णुना च तृतीयं तु चतुर्थं वरुणः पिवेत् || कुमारः पंचमं देवी षष्ठं तु वासवं पिवेत् | सप्तमं ऋषिभिः सर्वैः गणेश्वरोष्टमं पिवेत् || नवमं धर्मराजेन मरुतैर्दशमं पिवेत् | एकादशमसंस्थाने ब्रह्मपुत्रा पिवेत् प्रिये || कौमार द्वादशं याति वैनायक्यः त्रयोदशं || चतुर्दश्यां पशुपतिं || एते पीत्वा दशैः पंचषोडशं न प्रकाशयेत् | न पीतं मानुषैर्भद्रे देवैः पीत्वा तु संभवैः || पीत्वा च कथितैर्भद्रे अधुना देवता शृणु | या रसा सा उमादेवी यो मद्यः स महेश्वरः || यो वर्णः स स्वयं ब्रह्मा यो गंधः स जनार्दनः | यः स्वादः स तु सोमोयं यो वेगः पवनः स्वयं || ज्ञानविज्ञान संपन्नं यो मद्यं चित्सुरेश्वरी | अथ पाकप्रकारमाह || अंभसां द्वादशप्रस्थं च तण्डुला | प्रस्थार्द्धं तण्डुलं प्रोक्तं तावन्मात्रास्तदंकुरान् || शीतादिरहिते स्थाने दिवसद्वयमास्य तत् | पश्चात् भानौ समारोप्य जंवाल सदृशं पचेत् || पादप्रस्थं दंडुलाश्च तन्मात्रानं कुराक्षिपेत् | पुनर्दिनद्वयं स्थाप्य पुनरेवं प्रकल्पयेत् || अर्द्धं तस्य समादाय तंडुलेषु विनिःक्षिपेत् | कुनरेवं त्रिधा कुर्यात्तांडुली सा सुरा स्मृता || अयमेव भवेत् सोमः सोमयाग फलप्रदः | दूतीयागो भवेद्योगः सोमपानं तु तत् स्मृतं || यागतिः सोमयज्ञेन कौलिकानामनेन सा | भोगः स्वर्गश्च भवति विनाकष्टें न वामिनां || एवं तु यवपिष्टोत्थो देवं सोम इति स्मृतः | यच्च तण्डुल योगेन शक्ति सोमो निगद्यते || स्विन्नः कुट्टित गोधूमाः समक्लिष्टे न संयुताः | स्त्यापितो द्वादशाहं च वारुण्यां परिपाचिताः || प्. ११२अ) तन्मद्यं सूर्यसंज्ञं स्याद्योगिनी सदवर्द्धनं | पीतं तच्च पूजांते वाजपेय फलं लभेत् || इदमेव त्रिधा युक्तं दलं मद्यं च साधिकं | अग्निर्भवेत्तस्य पानादग्निहोत्र फलं लभेत् || अग्निर्यदा सप्तवारं वारुणीयंत्रगः कृतः | वडवानलमानो सौ महापातकनाशनः || दशःप्रस्थं गुडप्रोक्तस्तावद्धूत्तूलजात्व च | जंवुत्वग्धातकी पुष्पं तदर्द्धं नारिकेरज || कुसुमं च तदर्द्धं स्यात् तदर्द्धं च हरीतकी | तावद्विभीतकं प्रोक्तं चतुर्थांशं कटुत्रयं || तावच्च चित्रेकं तस्माद्गुडो द्वादशभागिकः | करेण भ्रामये सम्यक् अनुलोम विलोमतः || अष्टोत्तरशतावृत्त्या त्रिसंध्यं प्रतिवासरं | द्वादशाहेन पाकः स्याद्वारुणी यंत्रगं पचेत् || एषागौडीति विख्याता महामदकरी मताः | शिवेन निर्मिता पूर्वं स्वयं पीता च भैरवैः || द्विगुणं मकरंदाख्यं वारि संयोजयेद्गुडे | षोडशाहे न पाकः स्याच्छेषमन्यत्पुरोक्तवत् || सर्वदेवप्रियाचेयं वशीकरणीमद्भुतं | देवानां शक्तयोवश्यामानुषीणां तु काद्रथा || हरीतकी चित्रकं च मरीचं धातकी तथा | मधूकपुष्पं क्षौद्रं च भागैकेन विवर्द्धितं || अशीतिगुडसंमिश्रं शेषमन्यत्पुरोक्तवत् | इदं मनोहरं द्रव्यं योगिनी पानमुत्तमं || मद्याभावे प्रवक्ष्यामि विंदुमद्याधिकं सुराः | माहिषं दधिसंग्राह्यं चतुर्दशगुणां सुरां || मोचा फलस्य पक्वस्य मर्दितस्य रसस्तथा | ग्राह्यं दधि चतुर्थांशं तत्संमर्घ घटेक्षिपेत् || चत्वारिंशद्दिनान्यष्टौ पंके पंकज संकुले | निधायोद्धृत्य किरणैः सौरैः सम्यग्विशोषयेत् || यदा तत् कठिनी भावस्तथा कुर्याद्वंटी शुभां | गुंजाभां जलसंपूर्णेतां पात्रे प्रणिधापयेत् || इदं सुरातोप्यधिकं ब्राह्मणानां प्रशस्यते | गौडी साध्वी तथा पैष्टी त्रिविधा तु सुरा स्मृताः || शूद्राणामुचिता चेयं वंशा क्षत्रिय वैश्ययोः | ब्रह्मानंद सुरायैस्तु प्रीता विप्रैस्तु कौलिकैः || न चोन्मादकरी तेषां सुरेयं वुद्धिवर्धिनी | सर्वसिद्धिकरी पैष्ठी गौडी भोगप्रदायिनी || माध्वी मुक्तिकरी ज्ञेया द्राक्षा राज्यप्रदामता | विद्याप्रदैक्षरीहाला खार्जूरी रिपुनाशिनी || तालजा स्तंभनेशस्तापनसाखा शुभप्रदा | नारिकेलाद्भवा श्रीदानिंवजारोगनाशिनी || मधूकजा ज्ञानकरी वैलेया पापनाशिनी | यत्सानंदं रुचिकरं सामोदं च मनोहरं || प्. ११२ब्) मद्यं तदुत्तमं देवा देवता प्रीतिकारकं | ब्रह्मा स्यात् सलिले विष्णुर्गंधे रुद्रश्च तद्रुवौ || परमात्मा तदानंदे तस्मात् सेव्यमिदं प्रिये | दृष्ट्वा प्रणम्य प्रथमं तद्रूपां वारुणी कलां || वरुणेनार्चिता देवी वारुणी इति विश्रुता | सुरैस्तु पिवते नित्यं सुरानाम इति स्मृता || मदनेनार्चिता नित्यं मदिरेयं प्रकीर्तिता | परमार्थे तु उत्पन्ना पराशक्तिः प्रकीर्तिता || यथामृतं तथा मद्यं प्रोक्तः काले निषेवितं | अमृतेन सहोत्पन्नं स्थाने मद्यं सुधायते || विषेणापि सहोत्पन्नं तेन मद्यं विषायते || अथ निषिद्धमाह || नष्टैः पर्युषितोच्छिष्टै दुर्गंधैर्गंधवर्जितैः | हेतुभिः परपात्रस्थैस्तर्पणं निःफलं भवेत् || स्वपात्रस्थं च हेतुं च न दद्यात् भैरवाय च | दत्ते च सिद्धिहानिः स्यादित्याज्ञा शंकरैः कृता || स्वादिष्टैश्च मदोत्सिक्तैर्द्रव्यैर्मृतसन्निभैः | मनोहरैश्च देवीनां तर्पणं सफलं भवेत् || मांसं तु त्रिविधं प्रोक्तं जल खेचर भूचरं | जलेचरास्युः कूर्माद्या खेचराः कुक्कुटादयः || भूचरा तु मृगाद्यास्युः तेषं भेदाष्टकं भवेत् | गोनरेभाश्वमहिषवराहाजमृगोद्भवं || महामांसाष्टकं प्रोक्तं देवता प्रीतिकारकं | शशकं शतगुणं प्रोक्तं गोधायास्तच्चतुर्गुणं || मयूरपक्षिणां मांसं तेषां चैवाधिकं भवेत् | कूर्ममाहिषखड्गानां पुण्यं तच्चाप्यमुत्र च || हारिणं तु ततो देव पुण्यं मेषं तदाधिकं | मेषाच्चद्विगुणं छागं छागाद्वरि चतुर्गुणं || हरेश्चाष्टगुणोऽनड्वानडुहान द्विगुणो गजः | गजाच्च षड्गुणाचाश्व अश्वाच्चलशुनोधिकः || पलांडुनारजस्तुल्यं विशेषेणैव विद्यते | मत्स्यं च त्रिविधं प्रोक्तमुत्तमाधममध्यमं || उत्तमं त्रिविधं देवि शालपाठी न रोहिताः | प्राचीशं कण्ठकैर्हीनं तैलाक्तं स्वादु संयुतं || देव्याः प्रीतिकरं चैव मध्यमं तदुदाहृतं | क्षुद्राणि तानि सर्वाणि अधमान्याद्गुरुत्तमाः || व्रैहेयं मण्डलाकारं चंद्रविंवनिभं शुभं | चारु पक्व मनोहारी शर्कराद्यैः प्रपूरितं || प्. ११३अ) पूजाकाले च देवीनां मुद्रैया परिकीर्तिता | भागद्वयं तण्डुलानां मैथिकां हिंगुजीरकं || लवणं च यथा योग्यं सुरयामर्दितं दृढं | चक्री कृतं नागवल्ली दलैश्च परिवेष्टितं || जलयंत्रे विपक्वं तत् शक्तिमुद्रेय मुच्यते | कालेखण्डं वर्करस्य वाद्ययंत्र विपाचितं || माषाढकी मसूराणां वटकानां समन्वितं | समभागेन चूर्णेन तच्च हिंग्वादिभिर्युतं || वटकाः कटुतैलेन पक्वाः स्यान्मुद्रिकापरा | सर्वासामेव शुद्राणां करणे तु जलस्थले || सुरादेयाथ वा मद्यमासवं वामचेतरत् | गोधूमचूर्णंमासं च पक्वं संमेलये दृढं || दिनत्रयं जलेस्थाप्यं यावदम्ल प्रजायते | सूक्ष्माणि मत्स्यखंडानि पक्वमंत्र तु मेलयेत् || मध्ये तद्रोटिकायाश्च दत्वा पक्त्वा च रोटिकां | इयं तु परमामुद्राशक्तीनामति तृप्तिदा || रतिमात्रे वामिनात्र कर्तव्या बुद्धिरीदृशी | लिंगं शिवोभगः शक्तिंर्गांगं वारिजलं मतं || इति भावनया वामीरतं कुर्वन्निमुच्यते | अन्यथा स्त्रीगमं कुर्वन्निरये परिपच्यते || सधयारति संहूतं कुण्डमुत्तमभूतिदं | विधवारति संभूतं गोलं सिद्धिप्रदं शुचि || कुलद्रव्यैर्विनाकुर्याज्जपपूजां तथा व्रतं | निष्फलंत भवे देवि भस्मना च हुतं यथा || अथ मुख्याभावे एतेषा मनुकल्पमाह || नारिकेलोदकं कांस्ये ताम्रे वा विसृजेन् मधु | गव्यं च ताम्रपात्रस्थं सुरातुल्यं घृतं विना || तक्रं क्षीरं गुडं क्षौद्रं दध्याज्य तिलशर्करा | तैलं मार्जारवालं च द्रव्यं दशविधं स्मृतं || अथवा || द्रव्याभावे तु वटकं जले संलोड्य तर्पयेत् | गुडमिश्रेण तक्रेण तच्च वा मधुभाजनं || सौवीरेणाथ वा कुर्यादे तत्कर्म न लोपयेत् || वटकं यथा || मद्यं मांसं च विजयामष्टगंधैः सुमिश्रितां | संमर्घवटकं कुर्यात् तर्पणार्थं च संचयेत् || लवणार्द्रकपिण्याक पलांडुं मांसपंचकं | लशुनं च महादेवि मांस प्रतिनिधिः स्मृतः || प्. ११३ब्) मत्स्याभावे तु क्रमुकं तांवूल यद्यदामिषं | मुद्राभावे तंडुलं वा भर्जितं च न कादिकं || वामोलौ संलिखेद् रक्तचंदनेन त्रिकोणकं | तन्मध्ये शक्तिवीजं हि विलेखेत् साधकोत्तमः || तत्र संपूजयेत् कांतां मंत्रेणानेन पार्वती | अष्टोत्तरशतं वापि तदर्धं वा तदर्धकं || त्रिकोणे संजपेन् मंत्री गायत्र्या शक्ति संज्ञया | शक्तौ शक्त्यां प्रकुर्वीत कर्मलोपं न कारयेत् || यदि विप्रो भवेत् तत्र कुलपूजापरायणः | तदानेन विधानेन कुर्यात् कुलरसोद्भवं || अपरापुष्पगर्भे तु कुलस्थानं मनोहरं | हयारि कुसुमे देवि स्वयमस्ति सदाशिवः || तन्मध्यतौ तु ध्यात्यैव पुष्पमध्ये तु चंदनं | रक्तं वा कुसुमं दत्वा ध्यात्वात्मानं कुलात्मकं || योजयेत्तं शिवं शक्त्यामैक्यं संभावयन् धिया | क्षणं विचिंत्य तत्रैव संपूज्य परमेश्वरीं || जप्त्वा तदेव कुण्डाख्यं द्रव्यं परमदुर्लभं | अथवा || कुण्डे गोलोद्भवं द्रव्यस्या भावे शृणु सुंदरि | कथं स्नानं च कुर्याच्चदेवतातोष हेतवे || यस्य कस्यतरोः पुष्पं गृहीत्वाशु प्रयत्नतः | तेषां मध्य द्वयं ग्राह्यं हस्ताभ्यां मनसा तदा || उभयोः पंचमं तत्र कुर्वीत विधिवन्नरः | रक्तचंदन घृष्टेन जले चैव क्षिपेत् तदा || तज्जलेन प्रकुर्वीत देवता स्नानमुत्तमं | वांछितं फलमाप्नोति सत्यं सत्यं वरानने || स्वयंभू कुसुमाभावे रक्तचंदनकं क्षिपेत् | मकार पंचा भावे तु पंचमंकारयेत् प्रिये || अभावे पंचमे देवि मनसा पंचमं चरेत् || अथांतरीयेमकारमाह || आमूलाधारमाब्रह्मरंध्रगत्वा पुनः पुनः | चिच्चंद्रकुंडलीशक्ति मुद्रयास्यान्मुखोदयः || व्योम पंकज निःस्यंद सुधापानरतो भवेत् | मधुपानमिदं प्रोक्तमितरे मद्यपायिनः || पुण्यापुण्यवरुं हत्वा ज्ञान खड्गेन योगवित् | परे लयं नयेच्चित्तं पलाशी स निगद्यते || मनसा स्वेंद्रियगणं नियम्यात्मनियोजयेत् | मत्स्याशी स जनः प्रोक्तः शेषाधीवरवृत्तयः || प्. ११४अ) अप्रबुद्धायशोः शक्तिः प्रबुद्धा कौलिकस्य च | शक्तिं तां सेवयेद्यस्तु स भवेच्छक्ति सेवकः || इत्येवं पंचमुद्राणां गुप्तं तत्वं मयोदितं | ज्ञात्वा गुरुमुखात् सम्यग्यः सेवेत समुच्यते || अथैतेषां संस्कारवश्यकतामाह || असंस्कृता सुता पीत्वा कलहव्याधि दुःखदा | आयुः श्रीकीर्ति सौभाग्य धर्मविद्याविनाशिनी || तस्मात् संस्कृत्य विधिवत् कुलद्रव्यैस्ततोर्चयेत् | सुसंस्कृता सुरा रोग दुःखापत्ययहारिणी || आयुः श्रीकीर्ति सौभाग्य धर्मविद्याविवर्द्धिनी | अन्यथा नरकं यांति दाता भोक्ता न संशयः || यथा सुरा वह्नि वर्णा महापातकनाशिनी | तथा मंत्र विशुद्धा सा दिव्यग्निः स्वर्गमोक्षदा || दत्तात्रेयेण मुनिना शुक्रेण च महात्मना | धीमता बलभद्रेण सुराः पीतास्तु मंत्रिताः || संस्कार संयुते हेतौ दत्ते तुष्यंति देवताः | मंत्राणां स्मरणादेव माहापातकनाशनं || आयुः श्रीकांति सौभाग्यं ज्ञानं संस्कृतया ततः | अष्टैश्वर्यं खेचरत्वं पतनं विधिवर्यनात् || मंत्रैर्युतं कुलद्रव्यं गुरुदेवार्पितं प्रिये | ये पिवंति जनास्तेषां पापलेशं न विद्यते || अथैषां क्रमेण संस्कारमाह || तत्रादौ कुलसंस्थापनं यथा || वामभागे महेशानि मण्डले चतुरस्रके | याति द्वयं समालिख्य तदंतर्ब्रह्मरंध्रकं || वृत्तेनवेत्तुयित्वा तु चतुरस्रेण वेष्टयेत् | अर्घ्योदकेन संप्रोक्ष्य तत्र संस्थाप्य यंत्रिकां || कलाभिर्दशभिर्व्याप्तं यजेत् तत्राग्नि मण्डलं || अथ कलशस्य व्युत्पत्ति लक्षणं चाह || कलां कलां गृहीत्वा च देवानां विश्वकर्मणी | निर्मितोयं सुरैर्य स्मात् कलशस्तेन उच्यते || पंचाशदंगुल व्यास उच्छ्रायो द्वादशांगुलः | कलशानां प्रमाणं तु मुखमष्टांगुलं तथा || आधारे स्थापयन् मंत्री सौवर्णं चाथ राजतं | कांश्यजं मृण्मयं वापि घटं निर्व्रणशालिनं || सौवर्णं भोगदं प्रोक्तं राजतं मोक्षदं स्मृतं | कांश्यं शांतिकरं चैव मृण्मयं पुष्टिदं भवेत् || घटमूलेस्थितो ब्रह्मा घटमध्ये च केशव | घटकण्ठे नीलकण्ठो घटाग्रे शक्तिदेवता || घटस्य स्थापने नैव देवता करगा भवेत् | सर्वोक्तं सर्वरूपं च सर्वदेवमयं शिवं || आनंदभैरवं पश्यत् घठमध्ये निरंतरं | तेजः स्वरूपी चाख्यातो मणिः कल्पलतामयः || प्. ११४ब्) सुधारसमयी व्राणी अमृतस्यंदनिर्भरी || देवतानां निवेदेनं || स्वयं करोति देवेशि स्वयं नीत्वा समोघटः | तद्गेहे गमनादेव मूकोवदति सारदा || सहस्र शतधारी च सहाश्रुति धरोद्धतः | घटसिद्धिरियं प्रोक्ता सर्वशास्त्रमयी भवेत् || सामान्यार्घ्य विशेषार्घ्यौ द्वौप्रोक्तौ यत्र पार्वती | चक्षुः प्राणादि रूपत्वा घटस्त्वावश्यकामतः || यथा त्रिकोणं देवेशि विंदुनावर्जितं भवेत् | तथा घटं विना देवि पूजा सर्वत्र वर्जिता || क्षालयेदस्त्रमंत्रेण कुंभं सम्यक् सुरेश्वरी | स्थापयेत् कलशाधारं कुंभं गंधाधिकसितं || वेष्टितं रक्तवस्त्रेण रक्तमाल्येन भूषितं | स्थापयेत् कलशं तत्र सौवर्णादिभि भूषितं || कलाद्वादशसंयुक्तं भानुविंवं यजेदिह | शुद्धेन हेतुना मंत्री मूलमंत्रेण पूरयेत् || कलाषोडशसंव्याप्तमिंदुविंवं यजेदिह || अथ कलानां वीजमुक्तमंन्यत्र || मण्डले कलशे देव्या वह्न्येकशशिमण्डलं | तारभंगैस्त्रिभिर्मंत्रीविंव त्रितयमर्चयेत् || रक्षयेदस्त्रमंत्रेण तनुत्रेणावगुण्ठयेत् | वीक्षयेन्मूलमंत्रेण तेनैवाभ्युक्ष साधकः || गंधादिना समभ्यर्च्य भावयेद् देवतात्मकं | अन्यच्च शृणु देवेशि यथा कुलादिकर्मणि || हानिर्न जायते देवि तान् वै मंत्रान् श्र्णु प्रिये | एकमेव परं ब्रह्मस्थूल सूक्ष्ममयं ध्रुवं || कचोद्भवां ब्रह्महत्यां तेन तेनाशयाम्यहं | सूर्यमण्डलसंबूते वरुणालयसंभवे || अमावीजमयेदेवी शुक्रेशापाद्विमुच्यतां | वेदानां प्रणवो वीजं ब्रह्मानंदमयं यदि || तेन सत्येन ते देवि ब्रह्महत्यां व्यपोहतु | एवं मंत्र त्रयेणैव चाभि मंत्र्यकुलं शुभं || प्रदद्यात् कालिकायै च नैवेद्य मुदरेहरेत् | वेदादि वरुणांतां च षड्दीर्घस्वरभेदितं || शुक्रशापविमाचितायै सुधादेव्यै नमोस्तुते | द्वादशधा जपेन्मंत्रं शुक्रशाप विमुक्तये || मायया रमया वाला संवुध्यंता त्रिवर्णका | शुक्रशापं विमोचाय पुनस्तद्वर्णकांतिका || प्. ११५अ) यस्या उपासना तस्या वीजेन पुटितो मनुः | षोडशार्णस्तयाख्यातो मंत्रिताष्टोत्तरं शतं || निःशापं कुरुते साध्यं भुक्तिमुक्त्यैक भाजनं | वेदादि वारुणं वीजं षड्दीर्घस्वरभेदितं || ब्रह्मशापविमोचितायै सुधादेव्यै नमोस्तु च | दशकृत्यं जपेन्मंत्रं ब्रह्मशाप विमुक्तये || मायाश्रियांकुशं चैव षड्दीर्घः स्वरभेदितं | सुराकृष्ण स्वरूपां ते पापं मोचय तत्परं || अमृतं श्रावयद्वंद्वं वह्निजाया ततः परं | अनेन मनुना मंत्री कृष्णशापं विमोचयेत् || पवमानः परानंदः पवमानः परोरसः | पवमानं परं ज्ञानं तेन ते प्लावयाम्यहं || श्लोकानेतान्पठेत्पश्चाद्दीपि मृतशीमनून् | अखण्डैक रसानंद कलेवर सुधात्मनि || स्वच्छंदः स्फुरणाकारनिधेज्य मृतरूपिणी | अकुलस्थामृताकारे शुद्धिज्ञानकरे परे || अमृतत्वं निधेह्य स्मिन् वस्तूनिं क्लिन्नरूपिणी | तद्रूपिणिकरस्यर्शं कृत्वाह्येतत्स्वरूपिणी || भूत्वा मृतापराकारेमपि विस्फुरणं कुरु | अथवा मूलमुच्चार्य सुषुम्णा मूलवर्त्मना || पापयित्वां कुण्डलिनीं द्रव्यशुद्धिरियं पुनः | अनेनैव विधानेन वीरशुद्धिं समाचरेत् || द्रव्यमध्ये भैरवभैरव्योर्द्ध्यानं || सूर्यकोटि प्रतीकाशं चंद्रकोटि सुशीतलं | अष्टादशभुजं देवं पंचवक्त्रं त्रिलोचनं || अमृतार्णवमध्यस्थं ब्रह्मपद्मो परिस्थितं | वृषारूढं नीलकंठं सर्वाभरणभूषितं || कपालखट्वांगधरं घण्ठाडमरुवादिनं | पाशांकुशधरं देवं गदा मुशलधारिणं || खड्गखेटकपट्टीशमुद्गरं शूलकुंतकं | विचित्रखेटकं मुण्डं वरदा भयपाणिनं || लोहितं देवदेवेशं भावयेत् साधकोत्तमं | एवं ध्यात्वा स्वमंत्रेण पुष्पांजलि त्रयं क्षिपेत् || ततो आनंदभैरवीं ध्यायेत् || प्. ११५ब्) तस्योत्संगे सुरां देवीं चंद्रकोटि युतप्रभां | हिमकुन्देन्दुधवलां पंचवक्त्रां त्रिलोचनां || अष्टादशभुजैर्युक्तां सर्वानंदवरोद्यतां | प्रहसंतीं विशालाक्षीं देवदेवस्य संमुखीं || अथवा देवदेवेशमर्द्धनारीश्वरं स्मरेत् | एवं ध्यात्वा स्वमंत्रेण पूजयेत् साधकोत्तमः || शिवचंद्रौ मातृकांतं तथा क्षमलवह्नयः | वायुश्च वामकर्णेन भूषितो विंदुना ततः || वीजमे तत् समुच्चार्य तथा वा नंदभैरवं | ङेन्तं शिखामस्त्रयुतं पूर्ववीजं तु संलिखेत् || चंद्रहित्वादिमं कुर्यात् कर्णे वामाक्षि योजयेत् | सुरादेव्यै ततो वौषडियमानंदभैरवी || अनेन मनुयुग्मेन ध्यानपूर्वं यजेच्चतौ | मांषयाचादि संयुक्तं वह्निमायेदु संयुतं || परमस्वामिनि प्रांते परमाकाश शुन्य च | वाहिनी चंद्रपादांते सूर्याग्नि भक्षिणीति च || पात्रं विशविश स्वाहा दशधा प्रजपेन्मनुं | वाङ्माया कमला प्रांते आनंदेश्वरि विद्महे || सुरादेव्यैधीमहीति तन्नोर्द्धनारीश्वरीति | प्रचोदयादिति जपेद्गायत्री दशधा सुधीः || ततश्च भावयेद्द्रव्यं अमृतं रक्तभं प्रिये | अकथादि त्रिपंक्त्या तु हरक्षत्रयमण्डितं || पूर्वोक्त योनिमुद्रायां शिवशक्त्योस्तु संगमे | अमृतं चिंतयेद्द्रव्यमष्टधा अमृतां जपेत् || अमृतामंत्रः || ऐं क्लीं ह्रौं जु स इत्युक्त्वा अमृते अमृतोद्भवे | अमृतेश्वरी अमृतवर्षणीति पदं वदेत् || अमृतं प्रावय युगं स्वाहातो द्रव्यशुद्धये | अमृतेशी मनः प्रोक्तः पंचत्रिंशद्भिरक्षरैः || दीपिनी मंत्रो यथा || वाग्भवं वीजयुग्मं च वाग्वादिनी वाग्भवं | क्लीं क्लिन्नेक्लेदिनीक्लेदय महाक्षोभयमित्यपि || कुरुयुग्मं कामवीजं सौ मोक्षं कुरु युग्मकं | प्रासादः पराप्रासादः सप्तत्रिंशदशाक्षरः || दीपिनी मनुराख्यातः द्रव्यशुद्धिर्विधीयते || अथ प्रकारांतरशोधनं || घटं हेतुश्च द्रव्येण पूरयेदित्यनुवृअत्तौ | तत्र यंत्रं विलिख्यादौ यद्यत् कुलसमुद्भवं || ध्यात्वेष्ट देवतां तत्र जपेदष्टोत्तरं शतं | धेनुयोनी विचिंत्याथ प्रसृतं तद्विचिंतयेत् || दृष्ट्वा मृतमुपात्तं वै नृत्यंति योगिनीगणाः | नृत्यंति भैरवाः सर्वे नृत्यंति भैरवीगणाः || यद्यत्कुल समुद्भूतं तत्तद्यंत्रेषु पूजयेत् | एवं ध्यात्वा जपेद्विद्या द्वयं च साधकोत्तमः || मायालक्ष्मी द्वयस्यांते नमो भगवतीति च | महेश्वरी स्वरूपांते सर्वे पशुजनेति च || प्. ११६अ) मनश्चक्षु तिरस्कारं कुरु द्वंद्वं च ठद्वयं | तथान्य तिरस्करिणी लज्जां कामेश्वरीं ततः || वाणीग्लौ तिरस्करणं सकलजनेति वै ततः | वाग्वादिनीति सकल पशु व्रतजनेति च || मनश्चक्षु शोत्र जिह्वाघ्राणोक्षि तिरस्करणं | कुरु द्वयं ठद्वयञ्च स विसर्गं शिरो मनुः || तस्योपरि स्वमूलं च वरुणं सप्तधा जपेत् | इत्यनेन विधानेन द्रव्यशुद्धिं समाचरेत् || अथ मांसशुद्धिः || प्रेतविष्णुरिति मंत्रं सां स शुद्धौ नियोजयेत् | त्र्यम्वकस्य तु मंत्रेण मत्स्य शुद्धिं समाचरेत् || तद्विष्णोरिति मंत्रेण तद्विप्रासो मुना तथा | मुद्रां तु शोधयेन्मंत्री देवता प्रीतिकारकं || विष्णुर्योनि मनुंमंत्रं गर्भं धेहीति वै तथा | कुण्डगोलोत्थयोः शुद्धौ साधको विनियोजयेत् || मांसशुद्धिं ततः कुर्यात् तेन सिद्धिमुपालभेत् || ओं प्रतद्विष्णुस्तवतेवीर्येण मृगो न भीमः कुचरोगविघ्नाः || यस्योरुषु त्रिषु विक्रमणे शुद्धि भवंति भुवनानि विश्वा || अनेन मनुनामंत्री त्रिधा मांसं विशोधयेत् || अथ मत्स्यशुद्धिः || ओं त्र्यंवकं यजामहे सुगंधिं पुष्टिवर्द्धनं ऊर्वारुकमिववंधनान्मृत्योर्मुक्षीयमामृतात् || मत्स्यशुद्धि मनेनैव त्रिवारं साधकश्चरेत् | अथ म्द्राशुद्धिः || ओं तद्विष्णोः परमं पदं सदापश्यंति सूरयः दिवीवचक्षुराततं तद्विप्रासो विपन्नवो जागृवांसः समिंधते || विष्णोर्यत्परमं पदं || मुद्राणां शोधनं कार्या त्रिवारं मनुनामुना || अथ कुलद्रव्यशोधनम् || स्वयंभु कुसुमादीनां शोधने मनु उच्यते || ओं विष्णुर्योनिं कल्पयंतः त्वष्ट्रा रूपाणिपिंश तु || आसिंच तु प्रजापतिर्द्धाता गर्भं दधातु ते | ग्रभंधेहिसिनीवालि गर्भंधेहि सरस्वती || गर्भं धेह्यश्विनौदेवावाधत्तां पुष्करस्रजौ | तारं कूर्चास्त्रमुद्धृत्य शिवादि त्रयविंदुयुक् || वह्निजाया रमामाया श्रीवीजं सुरतप्रिये | तारमायारमास्त्रं च वह्निजायां चतुंदिरं || ततो मृतोद्भवाये अमृतवर्षिणी तत्परं | प्रिये देवि पदं युक्तं शापमोचय युग्मकं || अमृतं च श्रावयद्वंद्वममृतं कुरु युग्मकं | वह्निजायांत मंत्रेण शुक्रशुद्धिं समाचरेत् || प्. ११६ब्) ग्लूं म्लूं प्लूं न्लूं क्लूं स्वाहा | अमृते अमृतोद्भवे || अमृतवर्षिणि अमृतं श्रावय श्रावय स्वाहा || त्रिवृत्या पुष्पशुद्धिं च कारयेत् साधकोथवा || इति वज्र पुष्पशोधनं || सवेषां शोधने मूलं सप्तवारं जपेन्मनुं | अनेनैव विधानेन कुर्यात् पंचमशोधनं || असाध्यं साधयेत् सर्वं संपूज्य परदेवताम् || अथ पात्रासादनं || श्रीपात्रघटयोर्मध्ये सर्वपात्राणि स्थापयेत् | घटाते श्रीगुरोः पात्रं भोगपात्रंतदंतिके || तदंते शक्तिपात्रं च योगिनां तदंतिके | तदंते वीरपात्रं च वलेः पात्रं तदंतिके || पाद्यमाचमनीयं च अर्घेण नवमं विदुः | उत्तमं नवपात्राणि सप्तपात्राणि मध्यमं || केचिद्वदंति मंत्रज्ञा पंचपात्राणि मध्यं | अधमंत्रीणि पात्राणि पात्रयुग्मं तथैव च || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मत्राः पराङ्मुखायांति क्रुद्धा भवति सुंदरी || इहलोके च दारिद्र्यं मृते च नरकं व्रजेत् | श्रीगुरोर्भोगपात्राणि त्रिषु पात्रेष्वयंविधिः || पूजापात्रं वलेः पात्रं पंचपात्रेष्वयंविधिः | शक्तिपात्रं वीरपात्रं सप्तपात्रेष्वयंविधिः || पाद्यमानीयं च नवपात्रेष्ठयं विधिः | पूजापात्रं च विज्ञेयं योगिनीनां च पूजयेत् || पाद्यमाचमनीयं च वलिपात्रात् प्रदापयेत् | पाद्यादीनि च सर्वाणि भोगपात्रात् प्रदापयेत् || पात्रद्वये महेशानि निर्णयं यत्नतः शृणु | भोगपात्रं शक्तिपात्रं वीरपात्रं च योगिनीं || वलिपात्रं गुरोःपात्रं श्रीपात्रेण प्रकल्पयेत् | सामान्यार्घ्यं च श्रीपात्रमेकमव्यन्महेश्वरी || सामान्यार्घ्येण देवेशि द्रव्याणां प्रोक्षणं भवेत् | श्रीपात्रेन च पूजा स्यात् सर्वविज्ञापितं शिवं || सामान्यार्घ्ये च द्वारार्घ्ये विशेषे तु विशेषता | सामान्यार्घ्यं तु सामान्यां श्रीपात्रमेकमेव वा || तथापि देवदेवेशि घटपात्रेप्यवश्यके | कपालं यदि देवेशि तदैकपात्रं माचरेत् || अन्यत्रैकैकपात्रत्वं कपाले सर्वपात्रता | कपालपालपात्रे देवेशि कापाली सिद्धिरस्ति च || प्. ११७अ) यद्यद्वांछति कामानि गुटिकांजन सिद्धयः | सिद्धद्रव्यं कामगतिं मनोरथमयीकलां || वांछा भोगान्नव्यमृष्टिकरणं चैव दृश्यता | चिंतामणिं कालमतां यत्पात्रे सर्वमेव च || कापालिनि तुर्यसिद्धिः कपालसिद्धिगोचरा | एकपात्रं समानीय खंडत्रितयभेदतः || अथ मानमाहा || चतुरंगुलमुच्छ्राय मायामे द्वादशांगुलं | अष्टांगुलं स विष्तारिद्रोणग्राहि जलं यथा || तथा पात्रं पूर्णदीक्षा सूर्यार्घ्यादौ प्रकीर्तितं | विशेषार्घ्यं महेशानि मानसस्य पर्कीर्तितं || षडंगुलं च विस्तीर्णं मुत्तानेन समाकृति | अथ वा देवदेवेशि पात्रं च वर्तुली कृतं || अश्वत्थ पत्राकारं वा कुतयाकारमेव वा | त्रिकोणाकारपात्रं च त्रिस्त्रियोनि समन्वितं || मध्ये विंदुयुतं पात्रं ध्वजचिह्न समन्वितं | अथ वा तु भगाकारं ध्वजविंदुः स केशरं || एवं पात्रं समानीय महाचीनेश्वरीं यजेत् || अथ पात्रमाह || नारिकेल स्वर्णताम्रका च शक्तिः शिलोद्भवं | शंखसद्दारुकुर्मोत्थं कपालाजां च मृण्मयं || उत्तमं मध्यमं हीनं विप्रादीनां प्रकीर्तितं | नाति स्थूलं नाति सूक्ष्मं छिन्नं विवर्जयेत् || ताम्रकांश्यादिभिर्लोहैः पात्रं नैव तु कारयेत् | सर्वसिद्धिः सवर्णेस्यादुद्यमस्तालपात्रतः || शांतिः शिलायां स्तंभस्तु मृण्मयं नारिकेलजे | वश्याद्यं कूर्मजे ज्ञानं भुक्तिमुक्ति प्रदायिनी || पुण्यवृक्षजपात्रं तु पापघ्नं मृत्युनाशकृत् | कपाले वीरसंसिद्धिरलावौ योगसिद्धयः || कांस्यस्याप्यथ रूप्यस्य शैवे शंखचरी हरौ | महाशंखो वाममार्गे स्फाटिकं ग्रहनायके || विश्वामित्रे कपालं तु सर्वपात्रोत्तमोत्तमं | ब्रह्महत्यादि पापानि तथा विश्वासघातकं || दृष्ट्वापात्रं नारिकेलं सर्वमेव प्रणश्यति | कन्याकोटि प्रदानानि तथा हेम शतानि च || यो ददाति महेशानि राहुद्यस्ते दिवाकरे | तत् फलं कोटिगुणितं नारिकेलार्घ्यपात्रतः || अलाभे तस्य पात्रस्य अन्यपात्रेण पूजयेत् || इदमपि महाशंखेतरपरं || तथा च || महाशंखमयं पात्रं ज्ञेयं सर्वोत्तमोत्तमं | नारिकेलाभिधं देवि ज्ञेयं चोत्तम मध्यमं || रक्तपात्रं तु सुश्रोणि ज्ञेयं चोत्तमकल्पकं || अथ महापात्रादानमाह || प्. ११७ब्) आदौ मुण्डविधानं च प्रोक्तं तत् कथ्यते शृणु | सर्वमुण्डे विधिरयं शूला प्रोतादिके शृणुं || तरुणं सुंदरं शूरं संमुखे रणवर्तितं | परायण विशून्यं च ककाराष्टकवर्जितं || यष्टि प्रभृत्यस्त्र विद्धं यदाशूलेन पातितं | चाण्डालाद्यभिभूतं च शीघ्रं सिद्धिप्रदायकं || शनिभौमादिने वापि शरीरे मृतसंभवे | कालरात्र्यां वीररात्र्यां मोहरात्र्यामथांविके || महारात्र्यां चतुर्दश्यामष्टम्यां पक्षयुग्मके | दीपोत्सव चतुर्दश्यां ग्रहणे संक्रमेपि वा || वीरवेषं समासाद्यं मुक्तकेशो दिगंवरः | सिंदूर कूर्चतिलको सुरासंवित्प्रदायकः || गत्वा शूलस्थले देवि सर्वद्रव्य समन्वितः | तांवूलं विजया खड्गं सिंदूरं विजयां तथा || पाषाणमांसमद्यादि कारणादीधि पार्वती | सामग्रीं स कलां कृत्वा स्थले गेहे विशोध्य च || कृत्वा यत्नेन देवेशि शिवा पूजापुरस्सरं | शिवामभ्यर्च्य यत्नेन ततो शूरं प्रपूजयेत् || शूलं संपूजयेद्देवि समादानं ततश्चरेत् | शूलराज महाक्रूर सर्वभूतप्रियंकरः || सिद्धिं संकल्पितां देवि वज्रशूल नमोस्तुते | कृत्वा वै जागृयाद्वीरं तदंते खड्गपूजनं || तच्छूलस्थं शवं पूज्यं धूपदीपोपचारकैः | तांवूलैलालवंगादि कर्पूरागुरुसंयुतैः || द्रव्यैः संपूज्य देवेशि खड्गं पूज्य प्रयत्नतः | काली खड्ग समुद्भूत सर्वसिद्धि प्रदायकः || कविचिंतामणित्वं च खड्गमुण्डनमोस्तुते | वीरवीर महावीरः षष्ठिसिद्धिः प्रदर्शकः || कविकल्पलतात्वं च प्रसन्नो भवसत्वरं | अनेन मूलमंत्रेण प्रार्थ्यकर्तनमाचरेत् || स्वयं च कर्तयेद्वीयं ब्रह्माण्ड वलिमर्पयेत् | पंचगव्येन मिलितं मुण्डमाच्छाद्य वा हरेत् || गृहेवानीय देवेशि हस्तार्द्धमानतस्थले | सर्वाः सामग्री कृत्वादौ मुण्डप्राणान् प्रतिष्ठयेत् || खादिरादीन् कीलकांस्तद्दशदिक्षु निखातयेत् | तत्र स्थित्वा वलिं दत्वा जपपूजापरायणः || प्. ११८अ) स्तद्दर्शनाद्घोरमंत्रौ यथा पाशुपतादि च | जयदुर्गा महेशानि वीरार्दनमनंतरं || एतैरन्यैस्त्रयोदशभिःस्थान साधनपूर्वकं | भूमौ संस्थाप्य देवेशि यत्र न्यासः समानि च || स्थाप्य स्थित्वा जपं कृत्वा तत्र पूज्य महेश्वरी | दिवारात्रि क्रमेणैव जपेल्लक्षद्वयं शिवे || होमतर्पणकं देविमार्जनं द्विजभोजनं | कृत्वा संसाधितं मुण्डं सिद्धमुण्डं भवेच्छिवे || एवं साधित मुण्डस्य फलं सिद्ध्यष्टकंकरे | संसाधिकेन मुण्डेन मालापात्रादिकं चरेत् || अन्यथा कुरुते यस्तु तस्य सिद्धिर्न जायते | मालायंत्रं तथा पात्रं तदंते सिद्धिमुण्डतः || कारयेद् यत् ततो देवि समयाचार तत्परः | समिद्धः सिद्धिदोलोके कलिकल्पद्रुमो भवेत् || सर्वशास्त्रार्थ चेत्तास्यान्नात्र कार्या विचारणा | सद्यः कृतं त्रिरात्रंस्यं सप्तरात्रस्थगं तथा || त्रिसप्तरात्र मध्यस्य तत्रवादि क्रमाछृणु | उत्तमं मध्यमं चैव ह्यधमंत्वधमाधमं || सद्यः कृत्यं त्रयन्मुण्डमुत्तमं परिकीर्तितं | षड्रात्रोत्तरगं मुण्डमध्यमं परिकीर्तितं || त्रिसप्तरात्रमध्यस्थं कीर्तितं ह्यधमाधमं | सद्यः कृत्तं तु यन्मुण्डं सर्वकार्ये प्रकीर्तितं || त्रिरात्रमध्यमं मुण्डमाला यंत्रः प्रकीर्तितं | षड्रात्रोत्तरगं मुण्डं पात्रे कार्यविनिर्दिशेत् || अथ माहापात्रलक्षणं || माहापात्रस्य देवेशि लक्षणं शृणु सांप्रतं | गोमुखं गजपृष्टं च गजकुंभं तथैव च || कूर्मपृष्टो कटिश्चैव शक्तिपात्रं तथैव च | खण्डपद्मसमाख्यातं लक्षणानिह्यतः शृणु || दीर्घाकारं तथा पृष्ठं अग्रे तीक्ष्णं प्रजायते | गोमुखं कथितं देवि कपालं नात्र संशयः || दीर्घं समुन्नतं मध्ये पार्श्वे नैव सुसंस्थितं | विस्तीर्णं च तथा पृष्ठे गजापृष्ठा कृतिं तव || मध्ये समुन्नतं यस्तु कपाल परिमण्डलं | कूर्मपृष्ट समाकारं कूर्मपृष्ठं तदुच्यते || ललाटाच्चौलकं यावद्रेखासंध्युः प्रजायते | षट्खण्डस्तु भवेद्यस्तु शक्तिपात्रं तु तद्विदुः || प्. ११८ब्) समपृष्टेषु यच्छृगं विम्नं वापि तथोच्छ्रितं | मध्ये चैव समाख्यातं पद्मपात्रं न संशयः || शृषिरंतर्गते यस्तु शिखायां वरवर्णिनी | एकद्वित्रीणि चत्वारि जातयः स्युर्द्विजादितः || एकछिद्रं भवेद्विप्रोद्विक्षिद्रं क्षत्रियः स्मृतः | त्रिछिद्रं वैश्यमित्युक्तश्चतुश्छिद्रं तु शूद्रकं || छिद्रास्तु चान्यजातिश्च कपालानि भवंति हि | अछिद्रं तु त्यजेच्चैव कपालं परिकीर्तितं || चतुर्वर्णं तु यत्पात्रं तद्ग्राह्यं लक्षणान्वितं | अन्यजातीनि पात्राणि साधकैः परिवर्जयेत् || श्यामवर्ण महाव्याधिः कृष्णे च मरणं भवेत् | संतापं रक्तवर्णेन मिश्रवर्णेन किंचन || रक्तवर्णं तु चाग्नेयं स्फटिकं सर्वतो भवेत् | तद्ग्राह्य साधकं देशभुक्तिमुक्ति फलप्रदं || गो नवनीत संकाशं स्निग्धः छाया तु मुक्तिदं | शुक्लवर्णं हि यदुक्ष्यं मुमुक्षूणां प्रकीर्तितं || वर्तुलं स्त्रीकपालं स्यात् द्विपुटं मोक्षदायकं | एकपुटानि शस्तानि दुर्लभानि भवंत्यपि || द्विपुटानि तु ग्राह्याणि लक्षणैस्तु युतानि वै | एकखण्डं कपालेन्द्रं दुर्लभं त्रिदशैरपि || तेन हस्तस्थिते नैव विद्याधर पदं लभेत् | द्विखण्डं च त्रिखंडं च भुक्तिमुक्ति प्रकीर्तितं || चतुःखंडं च यत्पात्रं चतुर्वर्गप्रदं तु तत् | पंचखंडं च षट्खंडं सप्तखंड मनुक्रमात् || शतखंडांतकं देवि भाग्ये नैव तु लभ्यते || अथ स्त्रीपात्रस्य स्थापनमाह || साध्यसाधकयोर्मध्ये षट्त्रिंशदंगुलं भवेत् | द्वादशांगुलमूर्द्धं च अधोभागे तथांगुलं || द्वादशांगुलमध्यस्थं तत्र संस्थापयेद्वुधः | स्वार्थं च द्वादशांत्यक्त्वा देवार्थं द्वादशं त्यजेत् || द्वादशांगुल मध्यस्थं तत्रचार्घ्यं निधापयेत् || अथ मण्डलानामावश्यक पूर्वक लक्षणमाह || मण्डलेन विना पूजा विफलां परिकीर्तिता | तस्मात् मण्डलमालिख्य विधिवत् तत्र पूजयेत् || प्. ११९अ) अखंड मंडलाकारं विश्वव्याप्य व्यवस्थितम् | त्रैलोक्यं मण्डितं येन मण्डलं तत् सदाशिवं || उद्यानं चतुरस्रं स्यात् कामरूपं तु वर्तुलं | जालंधरं चार्द्धचंद्रं पूर्णं पूर्णगिरिर्मतः || अभ्यर्च्यमंडलं पश्चादाधारं स्थापयेत् क्रमात् || अथ अर्घ्यं द्रव्यमाह || सुरयार्घ्य प्रदानेन योगिनीनां भवेत् प्रियः | महायोगी भवेद्देवी पीठं प्रक्ष्याल्यतैर्जलैः || अथ माहापात्रशोधनं || पात्राणां शोधनं देवि शृणु यत्नेन सांप्रतं | इंद्रो तदादितः सेंदुर्मंत्रेणानेन मार्जयेत् || ध्रुवं मण्डलमंत्रेण भूगृहं वृत्त वह्नियुक् | कुर्यात् तत्राधारशक्तिः कूर्मीतं तान् प्रपूजयेत् || व्योमाग्नि शक्तिसहित सस्तुमे तद्ध्रुवादिकं | अनेन मनुनाधारं स्थापयेत् तत्र मंत्रवित् || वह्निमण्डलमेतस्मिन् पूजयेत् तदनंतरं | क्रोधवीजास्त्र वीजाभ्यामाधारेक्षालितं शुभं || महाशंखं महामंत्री स्थापयेत् स्त्रीं पठनं तत् | शिखां दीर्घत्रयोपेतां काली ब्रह्मारमाग्न्युतां || दीर्घः शचीपतिर्चायु हृदयं मन्मथांतिकं | दीर्घत्रय समोपेतं तारिणी पूर्ववत् पुनः || शिवं दीर्घत्रयोपेतं नीलाशब्दात्तु पूर्ववत् | मायांशरांतिमं शंभु वामकर्णेंदु संयुतं || सर्वकामः कालरात्रिर्दीर्घाकाय पदात् ततः | सर्वाधाराय सर्वाय सर्वोद्भवाय शब्दतः || सर्वशुद्धिमया याथ सर्वासुरपदात् ततः | रुधिरारुणाय पदाछुभ्राय सुरभाजनं || आयदेवी कपालाय हृदयांतो मनुर्मतः | एभिश्चतुर्भिर्मनुभिर्महाशंखं प्रपूजयेत् || तत्रासारलयं मंत्री मण्डलं तिग्मरोविषं | मूलेन पूरयेत्तोयं सुधा वुध्या विधानवत् || गंधपुष्पाक्षतान् क्षिप्त्वा त्रिखंडां दर्शयेत् ततः | पीयूष रोचितो देवि मण्डलं तत्र पूजयेत् || वाचशक्तिरमेशक्ति मनुस्वरसमन्वितं | मूलेतत्तीय भैरव्यां क्रोधवीजं सम्ज्ज्वलं || प्. ११९ब्) अनेन मनुनामंत्री भावयेदष्टमोष्टतं | शक्त्या सुधां विनिःक्षिप्यशंखं योनिं प्रदर्शयेत् || विशेषार्घ्योक्त विधिना सर्वमेव पुरोक्तवत् | एवं यथोक्तविधिना कपालं पात्रमुत्तमं || अनेन पात्रवर्येण साधयेदिष्ट साधनं | वांछा सिद्धिं खेचरीं च परकाय प्रवेशनं || मनोरथो दिव्यदृष्टि वेतालगुतिके तथा | रसं रसायनं चैव साधयेदिष्ट साधनं || वापर्ण वीजसंदि पादुका यक्षिणीगणं | खड्गसिद्धिः कुंतसिद्धिं पाशं वा जनमेव च || सृष्टिसिद्धिर्भैरवाष्ट महाकपालिनी शिवे | कपालार्घ्येण देवेशि सर्वाः सिद्ध्यंति निश्चितं || अथार्घ्य स्थापनं || ततोर्घ्यं स्थापयेन्मंत्री स्ववामे सुरसुंदरी | कलशाद्दक्षिणे भागे त्रिकोणं वृत्तसंयुतं || षट्कोणं चतुरस्रं च कृत्वा तन्मध्यभागतः | विलसच्चंद्र सकलं गंधर्वं च समालिखेत् || ओजापूपादिकं पीठं तच्चतुर्दिक्षु पूजयेत् | अंगमंत्रैश्च षट्कोणे शक्तौ मूल त्रिभेदतः || आधारशक्तिं संपूज्य पूर्ववद्यं त्रिकामपि | महाशंखं नारिकेलं सौवर्णं राजंतं तथा || ताम्रं शक्त्युद्भवं वापि पात्रं तत्र निधापयेत् | समर्च्य पूर्वयन्मंत्री कुंभद्रव्येण पूरयेत् || आधारं त्रिविधं प्राहुः षट्पदं वा चतुष्पदं | अथ वा वर्तुलाकारं कुर्याद्देवि मनोहरं || पद्माभं वा त्रिकोणं वा योन्याभं धातुजंतुतः | आधारेण विनाभ्रंशो न हि तुष्यंति देवताः || तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके | दिक्षु चास्त्रं समभ्यर्च्य शंखाधारं प्रविन्यसेत् | मूलेन क्षालितं शंखाधारं संस्थाप्ययामि च | कालं स विंडुकं तद्वद्भुजं शेशं समुद्धरेत् || वह्न्यंते मण्डलायेति तथा धर्मप्रदेति च | दशकलात्मने चोक्त्वा नमो गंधादिभिर्यजेत् || शस्त्रेणक्षालितं शंखं तत्रसंस्थाप्य पूजयेत् | अर्घमानं तु प्रादेशं चतुरंगुलमुच्छ्रितं || प्. १२०अ) अर्घपात्रमिति प्रोक्तं स्थापयामीति मंत्रतः | अमर्कमण्डलायेति वदेद्वादश इत्यथ || कलात्मने पदश्चोक्त्वा अर्घपात्रय हृन्मनुः | अनेन शंखमभ्यर्च्यकलाः सूर्यस्य पूजयेत् || समर्च्य पूर्ववन्मंत्री शंखं द्रव्येण पूरयेत् | संस्पृष्ट्वार्चनपात्रं तु पूजयेद्धेतु मुद्रया || ब्रह्माण्डखण्डसंभूतमशेष रसमंमितं | आपूरितं महापात्रं पीयूषरसमावहेत् || जपन् विलोमतो वर्णान् मूलमंत्रः समुज्ज्वलान् | संपूज्य पूर्ववत् तत्र वृत्तं षट्कोणमालिखेत् || अकथादि त्रिरेखांतं त्रिकोणं वृत्तमध्यतः | मूलखण्डत्रयेणाथ त्रिकोणं परिपूजयेत् || षट्कोणे च षडंगानि ततस्तीर्थमयं स्मरेत् | आनंदभैरवं ध्यात्वा समभ्यर्च्य विधानतः || पूजयेत् पंचरत्नानि कुलद्रव्याणि निःक्षिपेत् | तत्र माष प्रमाणं तु मांसमत्स्यादि निःक्षिपेत् || कुलामृतं समादाय तत्रार्घे निःक्षिपेद्बुधः | ततः सोमकलाः पूज्या साधकैर्निर्मलाशयैः || रचयेत् पूर्ववच्छेषमयमर्घविधिः स्मृतः | कुलामृता तदानं तु दुतं यजने वक्ष्यामः || भौवनेशीरमरामा कामा योगिन्यनंतरं | शाकिनी च क्रमात् सप्तवीजानि स्थैर्यभांजि हि || अष्टमं तु परिज्ञेयं वीजं त्रिभुवनेश्वरी | तत्तल्लोकादिमो वर्णोह्यवत्षु परिविष्टितः || गमनं स्वर्गमर्त्यौ च पातालं नाग एव च | विगृह्यरल शब्देन ङेंतेन किल हृत्क्षुषा || धूम्रार्चिरुष्माज्वलिनी ज्वालिनी विस्फुलिंगिनी | सः श्रीःसरूपा कपिलाहव्यकव्य वहेत्यपि || आग्नेययायादि वर्णाद्या दशधर्म प्रदाः कलाः | तपिनी तापिनी धूम्रामरीचि ज्वालिनी रुचिः || सुषुम्णा भोगदा विश्वावोधिनी धारिणी क्षमाः | कलाद्याः वसुदाः सौदाः फडंता द्वादशेरिता || अमृतामानदा पूषा तुष्टिपुष्टिरतिर्द्धृतिः | शशिनी चंद्रिका कांति ज्योत्स्ना श्रीःप्रीतिरंगदा || प्. १२०ब्) पूर्णा पूर्णामृता चेति कथिताः कुलवापिके | सौम्याः कामप्रदायिन्यः षोडशस्वरजाः कलाः || प्राग्वत्तीर्थं समावाह्य तीर्थमंत्रेण तत्र च | संयोज्य नेत्रमंत्रेण पुष्पन्यस्य शिखामुना || प्रदर्श्यगालिनी मुद्रां मुद्रया धेनु संज्ञया | अमृतीकृत्य विधिवत् सुधावीजे च साधकः || ध्यात्वेष्ट देवतां तत्र सकली कृत्य साधकः | अंगन्यासस्य चास्त्रेण कलयेच्च दिशोदशं || नेत्रमंत्रेण संवीक्ष्य मुद्रया शंख संज्ञया | गंधपुष्पांदिभिस्तत्र पूजयेदिष्टदेवतां || षडंगानि च संपूज्य मंत्रयेन् मूलमंत्रतः | अभिचारेषु कार्येषु विलोमेन जपेदिति || अष्टकृत्व तथा चार्घ्यं छादयेन् मत्स्यरूपिणी | कनिष्ठांगुष्ठकौ युक्तं करयोरितरेतरं || तर्जनीमध्यमाभ्यां च संहताभुग्नवर्जिताः | मुद्रैषागालिनी प्रोक्ता शंखस्यो परिचालिता || कलशोक्त विधानेन स्थापयेत् पात्रसंततिं | पुष्पादिना समुद्धृत्य विंदुंशंखामृतस्य च || निःक्षिपेत् सर्वपात्रेषु सर्वं दिव्यविचिंतयेत् | एकं पात्राणि संस्थाप्य ते नैव तर्पणं चरेत् || अत्रादौ शरीरस्थं देवतर्पणं || शुद्धे द्रव्येण तेनापि गंधपुष्पाक्षंतैरपि | न्यासोक्त सर्वमंत्रैश्च स्वात्मानं प्लावयेत् तथा || मूर्द्ध्नि श्रीगुरुपक्तिं च मूलाधारे तु पादुकां | दिव्यौघं तर्पयेदादौ आदिनाथः सदाशिवः || ईश्वरो रुद्रविष्णुश्च ब्रह्मापत्नीयुतास्तिमे | भवंति द्वादश च ते सिद्धौ घण्ठान् प्रतर्पयेत् || सनकाद्याश्च चत्वारः सु जातश्चारुभूषितः | सनत्कुमारो व्यासश्च वामदेवः सकस्तथा || दत्तात्रेयो रैवतको द्वादशैतेथ मानवान् | तर्पयेत् षट् नृसिंहं च महेशं भास्करं तथा || महेंद्रं माधवं विष्णुं नामांते तु प्रयोजयेत् | महाशिवं च सिद्धौघे मानवौघे सदाशिवं || शिवं तु परमं दिव्यं पीठपूजां ततश्चरेत् || एते कौल वामयोः सामान्य गुरवः || ब्रह्मरंध्रे स्वकेमंत्री मुद्रया तत्वसंज्ञया | तर्पयेद् गुरुपात्रीय द्रव्येणौघ त्रयं सुधीः || प्. १२१अ) स्वगुरूनपि संतर्प्य त्रिस्सकृद्वा विशेषतः | आत्मनो हृदयांभोजे परिगणावृतां || देवी पात्रामृतेनापि तर्पयेत् कुलनायिकां | शुद्धिद्रव्यं समादाय तर्पणं तत्वमुद्रया || अंगुष्ठ तर्जनीमध्ये शुद्धिं संगृह्य वामतः | वामेन दक्षिणे वापि देवीं संतर्पयेत् सुधीः || अथ तत्वशुद्धिं कुर्यात् || ओं प्राणायानव्यानोदान समानासे शुद्ध्यंतां ज्योतिरहं विरजामि विपाप्मा भूया संस्वाहा || ओं पृथिव्यप्तेजा वायवाकाशानि मे शुद्ध्यंतां ज्योति || ओं प्रकृत्य हंकार वुद्धिमनः श्रोत्राणि मे शुद्ध्यंतां || ओं त्वक् चक्षुः श्रोत्रजिह्वाघ्राणवचांसि मे शुद्ध्यंतां || ओं पाणिपादपाद्यूपस्थ शब्दा मे शुद्ध्यंतां || ओं स्पर्शरूपरसगंधाकाशानि मे शुद्ध्यंतां || ओं वायुस्तेजः सलिलभूम्यात्मानो मे शुद्ध्यंतां || सप्तमं त्रान् परामृष्य हस्ताभ्यां सप्तधा पुनः || सर्वांगं संस्पृशेन्मंत्री तत्वशुद्धिरियं मता || अथ वटुकादि वलिदानं || अवश्यमादौ वामादौ कुर्याद् वटुकपूजनं | मार्गेस्मिन् वटुको मुख्यः सुराद्यंतेनर्मिता || विना तंतु न गृह्नंति देवास्तस्मात्तदर्चनं | अपूज्य वटुकं यं तु मोहाद्देवं प्रपूजयेत् || तस्य पूजाफलं नास्ति वटुकश्च कुप्यति | स गणं पूजयेत् तस्माद्गंधपुष्पा सवामिषैः || तत् तन्मंत्रैर्विधानेन देवता प्रीतिमाप्नुयात् | ईशान वह्नि नैर्-ऋत्य वायुकोणेषु पूर्ववत् || मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये | पूर्ववद् वलिदानश्च दद्यात् सर्वसमृद्धये || वटुकाय महेशानि योगिनीभ्यश्च वल्लभे | गणेशक्षेत्रपालाभ्यां पूर्ववद्वलिमुत्सृजेत् || दक्षिणे वटुके दद्यादुत्तरे योगिनी वलिं | सर्वभूत वलिं दद्यात् क्षेत्रपालाय पश्चिमे || अंगुष्ठानामिकाभ्यां तु वटुकाय वलिर्मतः | कनिष्ठांगुष्ठ योगेन योगिनी वलिमाहरेत् || प्. १२१ब्) अंगुष्ठा तर्जनीभ्यां च क्षेत्रपाल वलिं हरेत् | तारत्रयं ततो देवी पुत्रोक्त्वा वटुकेति च || नाथेति कपिलजटाभारभास्वरपिंगल | त्रिनेत्राग्निर्ज्वालामुख इमां पूजां वलिं वदेत् || गृह्न गृह्न हूं फट् स्वाहा || षट् चत्वारिंशद्दर्शकः || मंत्रमेवं समुच्चार्य ततः श्लोकपठेदिदं | वलिदानेन संतुष्टो वटुकः सर्वसिद्धिदः || शांतिं करोतु मे नित्यं भूतवेतालसेवितः | तारत्रयं सर्वपूर्वेत्त्यः संतानि वदेत् क्रमात् || योगिनी बूतभूताधिपतीथ च डाकिनी || शाकिनी त्रैलोक्यवासिनी इमां पूजां वलिं गृह्न गृह्न हूं फट् तथा स्वाहा | एकपंचाशदक्षरः याकाचिद्योगिनी रौद्रा सौम्या घोरतरापरा || खेचरी भूचरी व्योमचारी प्रीतिस्तु मे सदा || ऊर्द्ध्वं ब्रह्माण्डतोयादि गगनतले भूतले निष्कले पाताले वाऽनले वा सलिलपवनयोर्यत्र तत्र स्थितो वा | क्षेत्रे पीठोपपीठादिषु च कृतपदाः पुष्पधूपादिके न प्रीता देव्यस्सदानः शुभवलि विधिनायां तु देवेंद्रतुल्याः || एतदंते महेशानि यां वीजं योगिनी ततः | भ्यः स्वाहा सर्ववर्णांते योगिनां पदमालिखेत् || कवचं चास्त्रमालिख्य वह्निजायां पुनर्लिखेत् | अनुनमनुनादेवी योगिनी वलिमाहरेत् || तालत्रयं तथैह्ये हि देवीपुत्र वटूकना | थोच्छिष्टहारिणे हूं हूं फं हूं वां रद्वयं वदेत् || क्षेत्रपालेति सर्वेति विघ्नान्नाशय युग्मकं | सर्वोपचारः सहितामिमां पूजावलिं ददेत् || गृह्नगृह्न हूं फट् स्वाहा चतुःषष्ठ्यक्षरो मनुः | क्षेत्रपालस्य संप्रोक्तः सर्वसिद्धिप्रदायकः || यस्मिन् क्षत्रनिवासी च क्षत्रपालस्य किंकरः | प्रीतोयं वलिदानेन सर्वरक्षां करोतु मे || अनेन मनुना देवी क्षेत्रपाल वलिं हरेत् || गां गीं गूं त्रयमालिख्य ङेन्तं गणपतिं वदेत् | वरांते वरदांते च सर्वांते जनमालिखेत् || प्. १२२अ) मेवशं चानयेत् युक्त्वा वलिं गृह्न द्विधापदं | वह्निजायान्वितो मंत्रोगणपस्य वलिं हरेत् || वामभागे कृतस्याथ मण्डलस्यो परिक्षिपेत् | आधारं पूजयेत् तत्र पात्रं चान्नोदकान्वितं || स्वकारणं मंत्रयित्वा सर्वभूत वलिं हरेत् | षोडशार्णेन मनुना त्रिवारं वीरवंदिते || तारं च भुवनेशानि सर्वविघ्न पदं ततः | कृद्भ्यश्च सर्वभूतेभ्यो हूंकारं वह्निवल्लभां || समुच्चरन् वलिं दद्यान् मुद्रया तत्व संज्ञया | तात्रत्रयं वदेत् सर्वभूतेभ्यः सर्व एव च || पंचाद्भूतपतिभ्यो हृदुः सप्तदशाक्षरः | भूता ये विविधाकारा दिव्यभौमांतरीक्षगाः || पातातल संस्थाश्च शिवयोगेन भाषिताः | ध्रुवाद्याः सत्यसंधाशु इंद्राद्याश्च व्यवस्थिताः || तृप्यंतु प्रेतमानसो भूता गृह्नं त्विमं वलिं || इति श्रीतंत्रचिंतामणौ कौलवामयोः सामान्यनित्यार्चनायां तन्मार्गोत्पत्तिपूर्वक श्रीपात्रादिस्थापनांतनिर्णयो नामाष्टादशः प्रकाशः || १८ || अथ पूजामाह || पशुवीरदिव्यभेदात् पूजास्थानं त्रिधा मतं | गौणं मुख्यं चोत्तमं च तदिदानीं निगद्यते || पशूनां कल्पिते यंत्रे पूजागौणी प्रकीर्तितां | वीराणां लिखिते यंत्रे विंदौ शक्तेश्च स्थापनं || स्वेष्टरूपांवतां ध्यात्वा पूजनात् मुख्यतां गता | दिव्यानां दिव्यचक्रे तु पूजनं चोत्तमं मतं || जीव चक्रे महेशानि प्रसन्नास्ति निरंतरं | जीवचक्रस्य विज्ञानी कलौ दुर्लभ एव च || वालुकाया भवेत्तैलं वंध्यापुत्रं प्रसूयते | खेपुष्पमपि जायंते अयोनिर्मनुजो पिवा || जीवच्क्रस्य विज्ञानी कलौ क्वापि न भैरवेत् | अग्रस्थानं परित्यज्य भिक्षामटतिदुर्मतिः || तथा जीवं परित्यज्य परिधावति धावति | अहो जीवस्य विज्ञानी शिवतुल्यो नरो भवेत् || कल्पिते वा महादेवी सांगां सावरणां यजेत् | संपूज्य पीठपूजांतं तस्मिन् सिंहासनेथ वा || अभेदवुध्या देवेशि अक्षतां स्थाप्य पूजयेत् | पीठपूजा समाचार्य पंचोपचारतोर्चयेत् || प्. १२२ब्) पूज्य सिंहासने स्थाप्य सुधासिंधौ समर्चयेत् | तत्पीठं तु भवेदेकं सर्वासां पीठमुत्तमं || मुख्यं तु देवदेवेशि यंत्रे पीठं समर्चयेत् | तद्यंत्रं सिंहपीठे तु स पीठां स्थापयेच्छिवे || सा पीठा तत्र देवेशि भवेदा वृत्तिदेवता | पीठा वृत्तिश्च वा कार्या सर्वेषामतमीरितं || तत्र पीठे महायंत्रं स्वेष्ट देवात्मकं महत् | जीवचक्रेथ वा यंत्रं भाव्यं लिख्यं महेश्वरी || एतेषामभावे पूजास्थानमाह || लिंगेस्थंत्रिलवह्योस्तु फलके मूर्द्ध्नि मण्डले | मूर्तौ कुड्ये च हृदये पूजा दश सु कीर्तिता || अरूपं रूपिणं कृत्वा कर्मकांडरताजनाः | गवां सर्वां गजं क्षीरं प्रसवेत् स्तन्मुखाद्यथा || तथा सर्वमतो देवः प्रतिमादौ विराजिते | आभिमुख्यार्चि विंवस्य पूजायाश्च विशेषतः || साधकस्य च विश्वासात् सान्निध्यं देवता लभेत् | गवां सर्वेशरीरस्थं न करोत्यात्मयोषणं || सुकर्म रचितं दत्तं पुनस्तानेव पोषयेत् | एवं सर्वशरीरस्थः सर्पिचेत् परमेश्वरः || उपासना विना देवि न ददाति फलं नृणां || अथ पीठपूजा || पीठपूजा विधानेन पीठं संपूजयेद्बुधः || तत आवाहयेद्देवीं मंत्राभ्यां पूजयेत् तथा | महापद्मवनांतस्थे कारणानंत विग्रहे || सर्वभूतहिते मातरेह्ये हि परमेश्वरी | देवेशि भक्ति सुलभे सर्वावरण संयुते || यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव | ध्यात्वा मुद्रां प्रदर्श्याथ गंधपुष्पाक्षतादिभिः || चिन्मयस्या प्रमेयस्य निर्गुणस्या शरीरिणाः | साधकानां हितार्थाय ब्रह्मणोरूपकल्पना || सकलीकृत्य तत्प्राणांतदीयानींद्रियाणि च | प्रतिष्ठाप्यार्चयेद्देवानन्यथा निःफलं मतं || मंत्रहीनं क्रियाहीनं तंत्रहीनं च यद्भवेत् | यद्यत् साधयते सर्वं हीनमंगं यथा तथा || देवस्य मंत्ररूपस्य यंत्रव्याप्ति स जानतां | कृतार्चनादिकं सर्वं व्यथां भवति शांभवि || षोडशैरुपचारैस्तु सांगां सावरणां यजेत् | प्रणवादि नमों तेन तत्तन्नाम्नां समर्चयेत् || अथ क्रमेण षोडशोपचारमंत्राः || इदं तु आसनं दत्तं मया सुरवरार्च्चिते | भवैतस्मिन्निषणात्वं यावत् पूजां करोम्यहं || प्. १२३अ) पाद्यगृह्न महादेवि सर्वदुःखापहारकं | त्रायस्व वरदे देवि घोरादस्माद्भवार्णवात् || स्नाने वस्त्रे च नैवेद्य दद्यादा चमनीयकं | तच्च स्वधायदैर्दद्यान् मधुपर्कं तथा प्रिये || अर्घ्यं स्वाहा पदेनैव सर्वमन्यन्तमः यदा | दूर्वाक्षत समायुक्ते विल्वपत्र समन्वितं || शोभनं शंखपात्रस्थं गृहाणार्घ्यं हरप्रिये | चंद्रजाती लवंगैला कक्कोल सहितं जलं || गृहाणा चमनीयं त्वं मयाभक्त्या निवेदितं | मधुपर्कं महेशानि ब्रह्मणा परिकल्पितं || मया निवेदितं तुभ्यं गृहाण जगदीश्वरी | मधुपर्क प्रदानांते पुनराचमनीयकं || दातव्यं प्राशनांतेस्य यतदुच्छिष्टता भवेत् | वारीदं हिममामोदि प्रासस्त्यं मध्यमेव च || मया निवेदितं भक्त्या स्नाह्यनेन सुरेश्वरी | नानावर्ण समायुक्तं पट्टसूत्रादि निर्मितं || वासः शुक्लं तथा रक्तं गृहाण त्रिदशेश्वरी | देहशोभाकरं पूतं रंजितं रागवस्तुभिः || परिधत्स्वजद्धात्री वासो भक्त्या निवेदितं | वाससः परिधानांते पुनराचमनीयकं || दातव्यं भक्तिभावेन स्मृत्युक्तत्वान् मनुष्यवत् | दिव्यरत्न समायुक्तं वह्निभानु समप्रभं || अलंकारात्स्वदंगानि शोभयं तु सुरेश्वरी | अलिकाधिक शोभायाः कारकं नागसंभवं || अतिरागि समुत्यिंजं सिंदूरं परिगृह्यतां | स्निग्धमुल्लं हृद्यतमं दृशां शोभाकरं तव || गृहीत्वा कज्जलं सद्यो नेत्राण्यं जयपार्वती | त्वत्पादां भोजन खरद्युतिकारि मनोरमं || अरक्तकमिदं देवि मयादत्तं प्रगृह्यतां | अनुलेपेन मे तत्ते महासुरभिशीतलं || मया निवेदितं देवि गृहीत्वा लेपयांगकं | इदं कुसुममामोदि ग्रामारण्य समुद्भवं || घ्राण संतर्पणं हृद्यं मयादत्तं प्रगृह्यतां | कर्पूरागुरुसंमिश्रोवनस्पति रसोद्भव || मया निवेदितो धूपो देवदेवि प्रगृह्यतां | त्वं सूर्यश्चंद्रज्योतीषि विद्युदग्ध्नोस्तथैव च || त्वमेव जगतां ज्योतिर्दीपोयं प्रतिगृह्यतां | नानाविधानि रम्याणि स्वादूनि रसवंति च || मयादत्तानि गृह्यंतं निवेद्यादि सुरार्चिते | फलमूलानि सर्वाणि ग्रामकानजानि हि || नानाकार सुगंधीनि गृहाणत्वं हरिप्रिये | चतुर्विधमिदं भक्ष्यं देवि षड्भिरसंयुतं || सदातृप्तकरं रम्यंमिदमन्नं प्रगृह्यतां | गव्यं सर्पिः पयोयुक्तं नानामधुरमिश्रितं || प्. १२३ब्) निवेदितं वेदि मया परमान्नं प्रगृह्यतां | अमृतै रचितं दिव्यं घृतखण्डविनिर्मितं || पिष्टकं विविधं स्वादु गृहाण हरवल्लभे | मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितं || मिश्रं नानाविधैर्द्रव्यैः प्रतिगृह्या शुभुज्यतां | ताम्रपात्रे स्थितं सीधुंपयोगव्यमथात्र वा || नारिके रोदकं कांस्ये गृह्यण शंकर प्रिये | पानीयं शीतलं स्वच्छं प्रसन्नं घनसारयुक् || भोजने तृप्तिकृद्देवी कृपया परिगृह्यतां | भोजनांते प्रदातव्यं पुनराचमनीयकं || पूर्वोक्ते नैव मंत्रेण सर्वत्रैव शुचिस्मिते | फलपत्रक संयुक्तं कर्पूरादि सुवासितं || मुखकांतिकरं हृद्यं ताम्वूलं प्रतिगृह्यतां || अथागमोक्तमार्गेण तर्पयेदलि विंदुभिः | अंगुष्ठानामिकाभ्यां तु नखैर्निःशब्दमुत्क्षिपन् || त्र्यपात्रस्यंदमुष्टौ च तर्पयेद्देवता मुखे | सकृत्तर्पणमुत्सृज्य जप्त्वा मूलं च पादुकां || अंतःशक्ति मनुस्मृत्य तर्पयेद्देह देवतां | अंगुष्ठो भैरवस्थानं चण्डिकायास्त्वनामिका || तस्मात्ताभ्यां तर्पणीयं यत्र एतत् तयोः प्रियं | अंगुष्ठ मध्यमाभ्यां च वश्यकर्मणि तर्पयेत् || तर्जन्यंगुष्ठयोगेन तर्पयेदाभिचारके | कनिष्टांगुष्ठयोगेन स्तंभकर्मणि तर्पयेत् || एवं संतर्प्य देवाग्रे गुरुपंक्ति प्रपूजयेत् || कराभ्यां चिन्मुद्रां समुध्व नृकपालं च दधतींश्रित स्वर्णप्रख्यातरुणकुसुमालेपवसनां | कृपापूर्णापांगी मरुणनयनावर्वरकचामुपेतां सिद्धाद्यैर्यजति गुरुपंक्तिः कृतमतिः || एवं स्वंपूज्य धूपं च दीपं नैवेद्यमेव च | आसवं पिशितोपेनं भक्ष्यानि विविधानि च || कदल्पानि फलान्येवं तांवूलं च समर्पयेत् | वटुकादीन् समुच्यैवं कुलदीपान् प्रदर्शयेत् || ईषत् पक्वः सुपिष्टेन कुर्याद्वेदांगुलोन्नतं | दीपां डमरुकाकारान् त्रिकोणानति शोभनान् || कर्षाह्यग्रहिणः कुर्यान्नवसप्ताथ पंच वा | अंतस्तेजो वहिस्तेज एकीकृत्वामितः प्रभान् || त्रिधा देव्युपरिभ्राम्य कुलदीपं निवेदयेत् | समस्तचक्र चक्रेशि युते देवि तवांतिके || आरात्रिकमिदं देवि गृहाण ममसिद्धये | कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत् || अथाश्यावश्यकतामाह || प्. १२४अ) कौलिकावाप्य कौलावाये चैतन्मतवर्तिनः | तेषा नित्या शक्तिपूजा प्राहैवं मांपुरद्विषः || कृतायां शक्तिं पूजायां सफलं नित्यपूजनं | अकृतायां मनुष्यां तु निष्फलं नित्यपूजनं || तस्माद् यत्येन संपूज्य शक्तिर्नित्यार्चनादनु | देवीधियैव संपूज्या न सामान्य वधूधिया || अभ्यर्च्य देवता वुद्ध्या भोगपात्रं निवेदयेत् | तदंते कण्यकाश्चापि प्रमदाश्च मनोहराः || संपूज्य देवता वुद्ध्या दद्यात् पात्रं पृथक् पृथक् | अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते || पूजनं निःफलं तस्य देवता न प्रसीदति | मंत्रमंत्र समायुक्ता समयाचारपालिका || कुमारी वा व्रतस्था वा योगमुद्राधरापि वा | पूजाकाले स्वतः प्राप्ता सा पूज्या सहसा वुधैः || ततोर्चनादिकं सर्वं मंत्रोदकपुरःसरं | इतः पूर्वादि मनुनामंत्री देव्यै समर्पयेत् || शेषं दक्षिणवत् कुर्यात् तदुच्छिष्टादिकं तथा | शक्तिहीना वृथा पूजा शिवहीनं वृथार्चनं || शिवशक्तिः समापूजा सा पूजा सर्वकामदा | भक्त्याभावे द्रव्यलाभे मनः शक्तिं प्रपूजयेत् || शेषिका मंत्रितो देयं शेषिकायै स कथ्यते | ऐं हृदुच्छिष्ट चांडालिनि मातंगि पदं वदेत् || सर्वेवशंकरी स्वाहा चैक विंशति वर्णकः | मंत्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् || देवीमुच्छिष्ट मातंगी ध्यायेल्लोकैकमोहिनीं || वीणावाद्य विनोद्गीत निरतां नीलांशुकोल्लासिनीं विंवोष्टीं नवयावकार्द्रचरणामाकर्णकेशांशुकां | हृद्यांगीसितशंखकुंदधवलां माणिक्य भूषोज्ज्वलां मातंगीं प्रणतोस्मिसुस्मितमुखीं देवीं शुकश्यामलां || कौलिकैः शक्तिसहितैस्तदुच्छिष्टं च सेवयेत् | स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुरूपिणीं || पापयित्वा पिवेन्मध्यमिति शास्त्रस्य निश्चयः | ततः श्रीगुरुरूपाय साक्षात् परशिवात्मने || कराभ्यां पात्रमुद्धृत्य स द्वितीयं निवेदयेत् | गुरोरभावे तत्पात्रं जलमध्ये च निःक्षिपेत् || पूज्यशक्तिं शक्तिपात्रं वीरेभ्यो वीरपात्रकं | अन्येभ्यो योगिनी पात्रं स्वार्थे स्याद्भोगपात्रकं || प्. १२४ब्) कुण्डली तर्पणार्थं च भोगपात्रं समाचरेत् | अंतःशक्ति मनुस्मृत्य तर्पयेद्देह देवतां || अथ येन प्रकारेण स्वीकुर्युः पात्रमुत्तमं | तत्तेहं व्याहरिष्यामि यथा रुद्रेण भाषितं || प्राणायाम विधायानु तत् तन्मंत्र षडंगकं | कुर्वीत भक्तिभावेन शक्त्या वृक्षादिकं तथा || ततोघ्राय तत् तत्पात्रं दक्षहस्ते निवेशयेत् | वामहस्तानामिकायांगुष्ठं समभियोजयेत् || इदं हि तर्पणी मुद्रा शुद्रूपा परिकीर्तिता | एतया मुद्रया देवि संहारः क्रमतो खिलात् || पात्रा तु द्रव्यमादाय तर्पयेदुदितक्रैमैः | अंगुष्ठस्यानामिकाया नखौ यावत् प्रलिम्यतः || वातन्निवेशनीया हि मुद्रा वै कौलिकाद्रवैः | निमील्य चक्षुषी ध्यायेदे तद्रूपेण कालिका || ममांतर्हृदयांभोजं प्रविष्टा सिद्धिदायिनी | मूलमंत्रं पठन् कुर्याल्ललाटे विंदुचित्रकं || पंचप्राणाहुती दद्यात् कर्षन्मांसलवं वदे | आदौ तारः शिरः शेषे मध्ये तुर्यविभक्तिगान् || प्राणापान समानो दानव्या नानेकरूपिणः | मंत्रं पठन् वक्ष्यमाणं निःशब्दं तत् पिवेद्द्रवं || स्वात्ममूल त्रिकोणोद्यत् सूर्यकोटि समप्रभे | कुण्डल्या कृति चिद्रूपे हुनेद्रव्यं समंत्रकं || अनंतपात्रभरितमिदं तत् परमामृतं | पराहंता मये वह्नौ होमस्वीकारलक्षणं || इदं पवित्रममृतं पिवामि भवभेषजं | पशुपाश समुच्छेदकारणं भैरवोदितं || अन्यं मंत्रं पठिन्त्पत्र मौले या जगदीश्वरी | धर्माधर्म हविर्दीप्तमात्मागनु मनसा श्रुवा || सुषुम्णा वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहं | कापालिकानां मंत्रोन्यस्तमपिव्याहरामिते || हृदं भोजगतां देवीं स्नापयामि सुधा रसैः | तेनायं भववंधो मे विनाशमुपगच्छतु || एवं मंत्र त्रयं प्रोक्तं पात्रस्वीकारकर्मणि | निर्मंत्रं न पिवेद्द्रव्यं प्रायश्चित्तं विधीयते || न कदाचित् पिवेन्मद्यं निर्मंत्रं न पिवेत् तथा | विना मंत्रं पिवेन्मद्यं समुरापो निगद्यते || पूर्णपात्रकरे धृत्वा जुहोमि साधकः पठेत् | ततो वीरगणाः सर्वेजुषस्वेति मनुं वदेत् || अन्योन्यं चंदनं कृत्वा पिवेत् तत् तदनुज्ञया | यथाविधि द्वितीयेन गृह्नीयान् मंत्रमुच्चरन् || पिशितं माषमात्रं तु मद्यं चुलुकसंमितं | स्वीकार्यमादौ गुरुणा शिष्येभ्यः शेषदो भवेत् || प्. १२५अ) निस्संकोनिर्मलो धीरो निर्लज्जानि कुतूहलः | निर्णीत वेदशास्त्रार्थो वरंदा वारुणीं पिवेत् || देवान् पितॄन् समभ्यर्च्य वेदीशास्त्रोक्तवर्त्मना | गुरुं स्मरं पिवन्मद्यं षादन्मांसं न दोषभाक् || गुरुदैवतमंत्राणांमैक्यं संभावयन्धिया | आगलांतं पिवेद्द्रव्यं ततश्च चर्वणं चरेत् || मांसं मत्स्यं च मुद्रां च मैथुनं वै क्रमार्चयेत् | स्वसंप्रदाय संयुक्तैर्वीरैश्च सहपूजयेत् || चित्तः स्वातंत्र्यसारत्वात् तस्मानंदमयेत्वतः | तन्मयेत् वाच्च भावनां भावश्चांतर्हिते रसे || स्वस्वातंत्र्यविकाशाय सुरासस्तेन पीयते | तस्मादिष्टा सुरादेवीं पूर्णाहंता जुहोम्यहं || मंत्रेणानेन देवेशि मूलमंत्रेण मंत्रवित् | अनाकुलमनाः कुर्यान् मधुपानं शनिः श्नैः || यावदुल्ला स पर्यंतमुपदंशैः पिवन्मधुः | ततः पात्रगतं हालाविंदु भूमौ प्रपातयेत् || उच्छिष्टं भैरवायेह दद्यान् मंत्रमनुं पठन् | मैधमायारमावीजे एह्येस्युच्छिष्ट भैरव || विसंधि च वलिं गृह्य युगं स्वाहा च पश्चिमे | निघृष्य तद्भूमितले पूर्ववच्चित्रकं चरेत् || येन्येपि पात्रं स्वीकुर्युस्तेषामप्येष हि क्रमः | पानभेदफलोल्लासः प्रमाणस्थिति लक्षणं || अविज्ञाय चरेद्यस्तु म भवेदा पदां पदं | पानपंचविधं प्रोक्तं महादिव्यादि भेदतः || महादिव्यं तथा दिव्यं वीरश्चैव महापशुः | पशुवंद्यः शुचिश्चेति पंचधा परिकीर्तितः || प्राणापानौ समाहारौ प्रत्याहारमनः स्थिरं | भानुमण्डलकं भीत्वा इंदुमण्डलमध्यगं || सुषुम्णा वर्त्मना नित्यं सुराधारा प्रकर्षणी | महादिव्यमिदं प्रोक्तं शृणु दिव्यं महेश्वरी || दिव्यं देव्यग्रतः पानं वीरमृद्वासनोत्तमं | त्यक्तः सर्वपाश मूले वामनामल संचये || कौलिकाचार योगेन पंचतत्वेन तर्पयेत् | षट्चक्र क्रमभेदेन हुनेद्द्रव्यं स मंत्रकं || ध्यानार्चन परावस्थां वीरपानमनुत्तमं | उद्वासनोत्तरं देवि वीरपानं तदुच्यते || वीरपानं द्विधा प्रोक्त पशुपानं शृणु प्रिये | वीरपाने पूर्वधीरो परस्तु पशुरित्यपि || आसक्त लोलुपादंभो मंत्रार्थे वा प्रसंगकः | कार्मुकः कार्यनिर्देशे पशुपानं तदुच्यते || सर्वैः कुलीनैः स्थित्वा तु विना पूजां स गर्वितैः | यत्पानं क्रीयते देवि पशुपानं तदुच्यते || अतोपि शृणु देवेशि पशुपाने क्रमः शिवे | एकाकी मद्यपापीय एकाकी शक्तिभुक्प्रिये || प्. १२५ब्) महेश्वरस्य संसर्गं न कदापि करोति चेत् | पशुपानमिदं प्रोक्तं महादारिद्र्यदायकं || विना मंत्रं विना दीक्षां विना गुरु मुखात्प्रिये | यत्पानं क्रियते मूर्खैः पशुपानं विदुर्वुधाः || महापशुरिति प्रोक्तः कौलवामो शृणु प्रिये | वामे रामा मनोहारी चोलिपात्रं तु दक्षिणे || पानपात्रान् महेशानि वामहस्तेन तर्पकः | महाकौलो महेशानि भूमौस्थाप्य प्रतर्पयेत् || हस्तद्वयेन चेद्देवि कौल इत्यभिधीयते | वामदक्षव्यत्पयेन वीरकौल प्रकीर्तितः || अलिपात्रं वामपाणौ दक्षहस्तेन तर्पयेत् | कामगौडस्तु संप्रोक्तः चैतन्याख्यः स एव तु || भूमौ स्थाप्य महेशानि हस्तयुग्मेन तर्पयेत् | आनंदाख्यस्तु संप्रोक्तः वाम इत्यविधीयते || फलं तु || मंत्र संस्कार संशुद्धोऽमृतपानेन पार्वती | जायते देवता भावो भववंध विमोचकः || आनंद ब्रह्मणो रूपं तच्च मोक्ष व्यवस्थितं | तस्याभिव्यंजकं द्रव्यं योगिभिस्तेन पीयते || दिव्यपानरतो वीरो देवी सायुज्य माप्नुयात् | देशिको वीरपानेन देवीलोकं हि गच्छति || साधकः पशुपानेन रौरवं नरकं व्रजेत् | आरंभस्तरुणश्चैव यौवनः प्रौढ एव च || तदंतश्चोन्मनास्थानांवस्थाश्चैव सप्तमः || अथैषां लक्षणं || पात्रत्रयं स्यादारंभः कथितः कुलनायिके | तदंते तरुणश्चैव तरुणं सुखदं प्रिये || यौवनं मनसः सम्यगुल्लासः कथितः प्रिये | स्खलनं दृङ्मनो वाचां प्रौढमित्वभिधीयते || स्वाभीष्टवेष्टावरणं प्रौढांतः परिकीर्तितः | ऊमनाः पतनोत्थान मूर्छनाच्च मुहुर्मुहुः || देहेंद्रियानामवशश्चा नवस्थानि गद्यते | भोजनांते विषं मद्यं मद्यांते भोजनं विषं || अमृतं तद्विजानीयाद्यदन्तं सुरयासह | चर्वणेन युतं मद्यममृतं कथितं सदा || चर्वणेन विनापानं केवलं विषभक्षणं | ततस्तुत्वा नमस्कृत्य कुर्यात् संभोगमेलनं || देवताग्रे तु संभोगे देवता प्रीणनं भवेत् | एतासुकां विदानीय ततश्च योनिमण्डले || पूजयित्वा महादेवी ततो मैथुनमाचरेत् | धर्माधर्महविर्दीप्ते आत्माग्नौ मनसा श्रुवा || प्. १२६अ) सुषुम्णावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहं | स्वाहांतोयं महामंत्र आरंभे परिकीर्तितः || ततो जपेत् प्रियं गच्छन् देवी त्रिभुवनेश्वरीं | प्रकाशाकाशहस्ताभ्यामवलं व्योमनी श्रुवा || धर्माधर्मकला स्नेहपूर्णमग्नौ जुहोम्यहं | स्वाहांतोयं महामंत्र शुक्लत्यागे प्रकीर्तितः || प्रमादाद्यदि लुप्येत देवता सा प्रकुप्यति | विना भुक्त्वा विना पीत्वा विना कृत्वा तु पंचमं || स पापिष्ठः कथं व्रूते कालीमंत्रं जपाम्यहं | तस्मात् सर्वप्रयत्नेन साधयेत् पंचमं प्रिये || यदि चेत्क्रियते नैव तस्य दुःखं पदे पदे | यदि योचिन्त संगस्त्यात्तदानु कल्पयोगतः || कर्तव्यं कर्मसांगार्थं नोचेद्विफलमीरितं || इति श्रीतंत्रचिंतामणौ कौलवामयोः सामान्यनित्यार्चनायां पीठपूजादिकुलद्रव्यनिषेवनो नामैकोनविंशतितमः प्रकाशः || १९ || निर्गत्य पूजां गृहतो विहरेत् स्वेच्छया ततः | शृणु भोजन कालीयं कर्तव्य मधुना प्रिये || भुंजीत प्राच्यभिमुखश्चिरकाजि जीविषु | याम्यदिग्वदनो देवी यशः कामं समश्रुते || पश्चिमाभि मुखो भुंक्ते ईहमानोधिकां श्रियं | सिद्धिमुक्तिमभिलसद्भक्षयेदुत्तरामुखः || एवं स्थिते धर्मपथे विशेषाच्छक्त्युपासकः | सदोत्तराशाभिमुखेऽन्नमद्यात् संध्ययोर्द्वयोः || वलिदानं तत्र हेतु नित्याह भगवाच्छिवः | येन केनाध्यासनेन यस्मिन् कस्मिन् स्तथासने || उपविश्यान्नमश्नीयात्ततु भूमौ कदाचन | आदावाच मनं कृत्वा दक्षे संस्था चोदकं || वाच आचमनीय मत्रमंत्रनिदधीत वै | रात्रौपुरः प्रदीपं च दिवाग्निं यः सुरेश्वरी || तेनास्य जाठरो वह्निर्नित्य सिद्धो भवेदहे | भूतप्रेत पिशाचानां सान्निध्यं न च जायते || रक्षांसिनोवलुप्यंति तदन्नं तद्धविस्तथा | नैर्-ऋत्याग्रां मारुतांता रेखामुदकधारया || रोधंरावास्त्रमुच्चार्य कुर्याद् दक्षिणपाणिना | वायव्यग्रां तथेशानां वसनां तदनंतरं || प्. १२६ब्) ऐशानकोणादारभ्याग्ने यांतां तदनंतरं | आग्नेयाग्रां निर्-ऋत्यं तां सर्वशेषे विभावयेत् || मण्डलं मध्यविंद्वार्घरक्षः कोणे वहिर्लिखेत् | वज्रं वायव्यकोणे च चंद्ररेखां स विंदुकां || ईशानकोणे विलिखेदं कुशं वह्निकोणगं | अर्वाच्योदीच्यगां रेखां मध्ये कुर्यात् ततः परं || प्रतीची प्राच्यनुगतां पुनस्तदुपरिन्यसेत् | रेखाग्रं चंद्ररेखाभिः स विंदुभिरुप स्पृशेत् || निर्मिते मंडले वारि धारयैवं वरानने | स्वयं वान्योथ वा तत्रन्यसेद्भोजनभाजनं || तदुपस्करवस्तूनि चावंतिरचितानि हि | पृथक् पृथक्तया तत्र विन्यसेद्भाजनाग्रतः || ततो दक्षिणहस्तेन तदन्नं वारिणोक्षितं | शिरस्यं जलिमाधाय प्रणवेदिष्ट रूपिणं || हविरक्तं विधायादौ ते मनालोडितं ततः | गृहीत्वा दक्षहस्तेन किंचिदन्नं जलान्वितं || घनवीजं समुच्चार्य पर्यन्यं चभ्यसंतिमं | नमस्तस्यानु नैर्-ऋत्य कोणे पूर्वादिके न्यसेत् || तारात् प्रजापतिभ्योनु हृदुच्चार्यानि लाह्वये | दद्यां दन्नंतोय युतं तत्र ऐशानमंडले || क्षुद्भ्यो नमस्तस्य वीजं पूर उक्त्वा वलिं न्यसेत् | तद्वहृद्भ्योनमः प्रोच्य तद्वीजाद्यं सुरार्चीते || दद्यात् सृणु परिष्टान्नु सत्तोयान्नं च दाधकः | ततः स्वदक्षे पूर्वस्यां कुर्याद्वर्तुल मण्डलं || आरभ्य पूर्वरहितो यावत्स्युर्विदिगेश्वराः | तावद्वाद्यात्सतोयान्नं पठेन्मंत्रं पृथक् पृथक् || चैतन्यं प्रणवो मायापाशः कामश्च शाकिनी | योगिनी कमला चेति वीजान्यष्टौ पृथक् पृथक् || पुष्टिः कांतिर्वलं बुद्धिवीर्यं ज्ञानं तथैव च | बुद्धिः सिद्धिरितिह्यष्टौ भिन्नभिन्नपदानि हि || दायै नमश्च सर्वेभ्यः क्रमेण परिकीर्तयेत् | एकास्तु कालिका देव्याः शक्तिरूपास्तु मूर्तयः || परिवारतयाख्याता अन्नाधिष्टाद्य ईरिताः | एतास्तत्तत् प्रदायिन्यः स्युरन्नेन प्रपूजिताः || ततो भोजनपात्राग्रेचितस्तिमित ईरितः | षण्मण्डलानि कुर्वीत वारिणाक्षल्लकानि हि || प्. १२७अ) तेषामधस्तात् क्रमतो विंदुस्तावत् समाचरेत् | यावद्धस्तेनोत्पतति पिंडी कर्तुं च शक्यते || तावत् तत्र पुरो दत्वा वारिणा तत् समुत्सृजेत् | अधोगतिस्तदुपरितदष्टमनवस्ततः || अतः परं क्रमेणैव मंत्रान् द्वादश तांत्रिकान् | वक्ष्यमाणान्मया देवि सावधाना निशामय || तारो माया चरावश्च कूर्चकुंडे स कर्णिके | सुरसश्चापि फेत्कारी घटी चेति न चैव हि || वीजानि पुरतो दत्वा हंसारादि त्रिकूटकं | एह्येहि संभाष्य ततो भगवत्यपि कीर्तयेत् || गुह्यकालि ततः प्रोच्य सर्वाख्याय न कारिणि | इदमन्नं विसंह्युत्का गृह्नखादि युगं युगं || बलं बुद्धिर्मेंद्रियाणि ततो नंतरमीरयेत् | मयिधेहि द्वयं चापि सर्वांतर्यामिनीति च || ततः सर्वमिदंते च स्वेदतां तदनंतरं | प्रसीद द्वितयस्यानुरोषास्त्रे शिर एव च || मंत्रेणानेन देव्यै तु वल्यन्नं विनिवेदयेत् | अन्नपिण्डं पुनश्चान्यत्संपरिस्थाप्य मंडले || उदीर्यमाणमनुना समुत्सृज्य निवेदयेत् | सारस्वतरमा कामप्रासादांकुशकालिका || डाकिनी प्रेत भैरव्यः पुरो वीजानि वै नव | कूटत्रयं च तदनु पैशाचः खेचरीकुलं || योगिनी डाकिनीभ्योनुनुममन्नवलिं वदेत् | निवेदयामि च ततः सौम्या भुक्त्वा भवं तु च || सिद्धिं ददत्वनु मयि कृपां ददतु कीर्तयेत् | प्रभंजनादि वीजालिं ततः सप्तसमुल्लिखेत् || अडाकिनी महारात्रिं रोषमस्त्र त्रयं शिरः | इदानीम वधे हित्वं विनायक वलिं शुभं || पूर्ववन्मंडले दत्वा वल्यन्नंते मनैर्युतं | जल्पिष्यमाण मंत्रेण गणाऽधिपतयेपयेत् || वेदादि पाश गरुडयोगिनी चंद्रदक्षिणाः | वलिः पद्मेश्च तंद्रा च कूटा सिद्धो प्रभानवाः || महागणाधिपतये विघ्नराजाय चेत्यपि | इमं सोपस्थल वलिं ददेद् गृह्नयुगं ततः || भक्षय द्वितयं चापि सर्वान् विघ्नान् ततः परं | विनाश यद्वयं चारुममारिष्टं दहद्वयं || वीजमाप्सरस चैव माश्चर्य वैश्वदेवकं | ऋषभं च प्रयोजं च पंचैतानी नयेत् क्रमात् || प्. १२७ब्) अस्त्र त्रयानु स्वाहा च तार्तीयोमतुरीरितः | तुर्यं वटुकनाथस्य मंत्रमाकर्णय प्रिये || पुरोक्तवत् पिण्डितान्नं मण्डले विनिधाय वै | समुच्चरन्तिमं मंत्रं वटुकाय समर्पयेत् || तारचैतन्य पाशह्नी भारुण्डा कूर्चकाकिनी | कालादित्यै न वैतानि वीजानि चोच्चरेत् पुनः || रौद्रा नंदा चलाख्यातान् कूटां स्त्रीं स्तदनंतरं | एह्येहि तदनुप्रोच्य महावटुकनाथ च || इमं वलि गृहीणानु सर्वसिद्धि दद द्वयं | ममशत्रुं नाशय द्विर्देहद्विर्मारय द्वयं || सर्वैश्वर्यदेहि युग्मं दापय द्वितयं तथा | स सौरंगं चर्पटादि चतुष्कं तदनंतरं || रौषास्त्रयोस्त्रिस्त्रिरुक्त्वा सर्वशेषे शिरो वदेत् | अधुना क्षेत्रपालस्य शृण्वं तु वलिमुत्तमं || पुरो वत्सदलं दत्वा मंत्रमेनं समुच्चरेत् | चैतन्य मायाकमलाजंभ साहसमेखलौ || ताटं कमंदस्वार्णा च वीजानि पुरतो न च | कूटत्रयं ततो ब्रूयान् मायामंदारगह्वरं || हेतुकादिपदं प्रोच्य भीषणांतेभ्य इत्यपि | सर्वेभ्यः क्षेत्रपालेभ्यः इमं वलिं मितीरयेत् || ददे सौम्या भवेन्मुक्त्वा ममसिद्धिं समुल्लिखेत् | प्रयच्छं तु ततः शत्रुन्नाशयं तु च कीर्तयेत् || हूं फट् स्वाहा भवेच्छेष इत्युक्त्वा वारिणोत् सृजेत् || अथ षष्ठवले मंत्रं कथयामि शुचिस्मिते | दीयते परिवारेभ्योयमुच्चार्य फलार्थिभिः || चैतन्य तारकमला पाशरोष वधुस्मरा | ततः त्रासाद शाकिन्यो पुरोवीजानि वै नवः || भगमालि कलामालि वेदवत्यस्ततः परं | रत्नकुंभः पुष्पमाला चूडाकूटं ततः परं || एकावली ततो वज्रकवचं ब्रह्मकर्परं | जगदा वृतित्वीजं च दशमं परिकीर्तितं || महाकल्पस्थायि नाम ज्ञेय मेकादशैव हि | पारिजाताह्वयं कूटं तद्वादशतमं भवेत् || एकविंशतिरेवस्यात् संख्या वै वीजकूटयोः | गुह्यकाली सहचरं यावदेक पदादनु || परिवारपदं चापि द्वयमेवेत्यसंमितं | ततः संधानसहितमिममन्नवलिं वदेत् || प्. १२८अ) गृह्न द्वयं मक्षयद्विःखाहि द्वितयमेव च | उक्त्वा कृत्याभिचारांश्च दहद्विर्नाशयद्वयं || सर्वसंपदमाभाष्य दद देहि द्वयं द्वयं | शत्रून् द्विःसंहारयोच्चार्य शेषे कूर्चास्त्रकानि च || वलिमंत्रा षडेवंते कथिता जगदीश्वरी | ऊर्द्ध्वस्थ मंडलेष्वेतैरुत्सृजेत् साधकोचलीन् || एषामधस्ताद्ये प्रोक्ताः विंदवः षट्पुरो मया | तद्देवांस्तस्य मंत्रांश्च कथयाम्यधुना तव || जातवेदाचादुवश्चशन्यगस्त्यौ ततः परं | कालाग्नि रुद्रस्तदनु पंचमः परिकीर्तितः || कल्पांतकाली षष्ठी तु विज्ञेया तदनंतरं | तुर्येर्केषडिमेशब्दाः कर्तव्यः सुरवंदिते || निधेया क्रमशः किंतु वेदादि हृदयांतरं | एतैर्म * (?) भिरुत्सृज्य तत् तद्देवेभ्य ओदनं || मूलदेव्यैः सर्वमन्तमुत्सृजेत् तदनंतरं | उक्तमंत्र द्वयं तत्र वैदिकं तांत्रिकं तथा || दद्यादु भयमुच्चार्य क्रम एष शिवोदितः | तत्रादौ वैदिकं वच्मि वक्ष्ये तदनु तांत्रिकं || इदमन्न प्राण धनुर्द्धारणा कारणं सदा | यथा विभव संभारसंभारित सुरी कुरु || त्वमेवान्नं त्वमेवात्रीत्वं दात्री त्वं ग्रहीत्र्यपि | त्वं भोक्त्री च विधात्री च संहत्र्यंपिज नित्र्यपि || कल्पांत कालनर्तक्त्वै महासंहार मूर्तये | त्रिलोकी ग्रासकारिण्यै किमन्नं ते प्रदीयते || तथापि भक्तिभावेन यत्त देवि निवेदितं | तदन्नंमयि वात्सल्यात् सादराद्भुंक्ष्वकालिके || निवेद्यानेन मंत्रेण तांत्रिकं समुदीरयेत् | तारोमैधं च माया च प्रासादो मे च योगिनी || प्रेतः परोडाकिनी च फेत्कारी हारकर्णिके | संहारादि त्रयं भोककूटाद्यं तदनंतरं || पदं सिद्धि करालीति सिद्धितो विकरालि च | भगवत्पथ संकीर्त्य गुह्यकाली ततो वदेत् || इदमन्नं विसंध्युक्त्वा भुंजखाहि युगं युगं | भक्षय द्वितयं चापि मांरक्षयुगलं ततः || लज्जा महाचंडयोगेश्वरीति तदनंतरं | वज्रकापालि तत्र खेचरी चक्रनायिके || हसद्वयं वल्गयुगं पेष्टिडिंडिमदारुणः | रोषस्यास्त्रस्य चे त्रिस्त्रि स्वाहाशेषे व्यवस्थितं || पठित्वेमं मनुं सर्वं क्षिपेदत्वन्नमूर्द्धनि | निमील्य नयने तिष्ठेत् क्षणं तदनु पार्वती || आपोशानं ततः कुर्यादिमं मंत्रमुदीरयेत् | इममन्नं हव्यशेषं देव्युच्छिष्ठं रसान्वितं || प्. १२८ब्) अस्वामि स्वर्गकं वल्यधर्मकामार्थ सिद्धये | इत्युच्चार्य मनुं नमः शिरो वाम कनिष्ठया || गण्डूषं ब्रह्मतीर्थेन स्पृशन् स्थाली चरेद्वुधः | ततो दक्षकरांगुष्ठानामिके योजिते चरन् || हविरक्तं स्तोकमन्नं गृहीत्वा वदने न्यसेत् | प्राणाहुतीभिर्जुहुयादन्याभिरपि पार्वति || नानामतीयांतद्रीकथयाम्यवधारय | ताराग्नि जाययोर्मध्ये विभक्त्या तुर्ययान्विता || क्रमेण वायवः पंच तेषां नामानि वै शृणु | प्राणापान समानो दानव्यानाः परमेश्वरी || रांत्यानयाभाण्डिकेरोजुद्वत्यन्यानपि प्रिये | नागः कूर्मश्च कृकरो देवदत्तो धनंजयः || एतस्मादधिकं किंचित् कुर्युः कापालिका क्रमं | युक्तियुक्तं तमपिते कथयामि वरानने || तयोरेवांतरेशब्दौ द्वौ द्वौ स्यादंतिमौ सदा | कृत्वा विग्रहितौ पूर्वोक्तरीत्या जुहुयाच्छनैः || क्षट् तृपौ च श्रमालस्य निद्रातंद्रे तथैव च | कामक्रोधौ लोभमोहौ मदमानौ ततः परं || रोगशोकौ जन्ममृत्युर्द्धर्माधर्मौ कृता कृते | पुण्यपापे दिवारात्रौ ज्ञानज्ञाने शुभाऽशुभे || जाग्रत् स्वप्नौ खलुः सुषुप्ति तुरीयं च ततोनु च | भावाभावौ स्वर्गमर्त्यौ ततः सत्यानृते प्रिये || तस्मात् प्रकृति पुरुषौ तन्मात्रेंद्रिय इत्यपि | जीवात्मा परमात्मानौ वंधमोक्षौ तथैव च || चतुर्विंशतिमौ विंशत् प्रतिविंवौ वरानने | सर्वशेषे परिज्ञेयः शिवशक्तिश्च साधकैः || पंचविंशति संख्याकमेतत् तत्वमुदीरितं | तेभ्यस्त्वाहुति संप्रोक्ता यामलाधिपशस्तुता || अनित्यत्वेन वेदाध्वपापिनां संमतात्वियं | कौलाचारवतां किंतु नित्यत्वेन प्रकीर्तिता || पंचत्रिंशाहुतिः श्रेष्ठा दशमध्याधमाततः | एवं तिष्ठति सिद्धांते प्राणाहुत्यामतांतरे || यावद्यस्य भवेच्छक्यं तावत् तेन विधीयते | यावत् प्राणाहुतीः कुर्यात् तावद्भोजनभोजने || कनिष्ठा तिष्ठति तथा मौनं चापि विधीयते | ततस्तदन्नं भुंजीत यद्देव्यै विनिवेदितं || प्. १२९अ) न हसन् ग्रासमश्नीयान्नाति रिक्तं न वामनं | न स शब्दं पिवेत्तोयं नाधिकं भोजनांतरा || न्यूनाधिके रसानां हि न विंद्यात् किं च पूजयेत् | नैवेद्य संभृतौ देव्यै यद्यद्द्रव्यं निवेदितं || महाप्रसादभूतं तत्सर्वं भुंजीत तत्क्षणे | नैकाक्यद्यात् साधकस्तु कौलान् वालांश्च वांधवान् || सहोपवेशयेत् तत्र यत्र भुंक्ते स्वयं रहः | एषा महावैकौलिक्यो भवेयुः स्थापिता अपि || भागत्रयं पूरयीत जठरस्या शनैः शनैः | एको भागोवशोष्यः स्यात् संचारो योनिलांवुना || तिक्ताद्यमम्लमध्यं हि मधुरांतं च भोजनं | आयुर्वेदादिषु प्रोक्त मात्रेयादि महर्षिभिः || एवं निर्वात्य सकलं भोजनं साधकः स्वयं | उत्क्षिप्य भाजनो मंत्रमन्यत्र स्थापयच्छनैः || अवशिष्टं किंचिदन्नमवश्य भाजने न्यसेत् | तदन्नं पिण्डितं कृत्वा स जलं दक्षपाणिना || स्थाल्यधो वलिमादध्यादु भयत्र वरानने | उच्छिष्ट भैरवायादौ पश्चिमायांदिशि न्यसेत् || तथैवोच्छिष्ट चांडाल्यै पूर्वस्यामपि च क्रमात् | एतयोर्मंत्र युगलमिदानीमवधारयेत् || मैधं मायायोगिनी चरावरामास्मराशरुट् | कुल्यायोटोमुंताला च वीजान्येतानि वै दश || उच्छिष्ट भैरवा योक्त्वा तथोच्छिष्ट वलिं वदेत् | गृह्न द्वयं भुंजयुग्मं हूं फट् स्वाहा च पश्चिमे || अथापरं शृणु मनुं पूर्वस्यां येन दीयते | मैधं पाशः स्मरोरावः कूर्चः क्षेत्रपताकिनी || पूतनाशक्ति लिंगं च रावी चेति दशोद्धरेत् | एह्येह्युच्छिष्ट चांडालिन्यनुघंसधि वर्जितं || विरूपवेश उद्धृत्य मुमुक्षूक्त्वा पिशाचिनि | इयमुच्छिष्ट संभाष्य वलिं गृह्न युगं ततः || खादद्वितयमस्यानु मुद्रां खेचर्यनंतरं | युगं प्रकटयः प्रोच्यः संध्यूनमभिचारिणी || सामर्थ्यं देवि युग्मं च पिशाचिन्यास्त्रयं ततः | अत्रापि चरमेज्ञेया पूर्ववच्चतुरक्षरी || एवं मनुभ्यामेताभ्यां दत्वा वलियुगं प्रिये | तत्रैवा च मनं कुर्यात् सडंगं तदनंतरं || प्. १२९ब्) प्रसाद यत् तांवूलं चास्य वासनं | तांवूलं चर्वयन् मर्त्यः पवित्रं श्रीकरं परं || शुभदं सर्ववर्णानां मुखशुद्धिं करं परं | तांवूलं दीपनं रुच्यं सर्ववातक भापदं || त्याज्यं पिक्त्व भ्रमे रक्तेनेत्रोक्त्वं पेक्षयेपि च | पर्णाग्रं पर्णपृष्टं च चूर्णपर्णं विवर्जयेत् || पर्णमूले भवेद्व्याधि पर्णाग्रे पापवुद्धयः | चूर्णपर्णं हरत्यायुः शिरावुद्धि विनाशिनी || तर्जन्या चूर्णमादाय तांवूलं न तु भक्षयेत् | यदि खेदति मुढात्मा रौरवं नरकं व्रजेत् || पूगो ब्रह्मादलं विष्णुश्चूर्ण देवो महेश्वरः | काष्ठायं तु भवेद्देवी तांवूलमतिदुर्लभं || एतेषां संप्रदानेन वर्द्धते भाग्यसंपदः | तांवूल समयं देवी तत्र शृणु यथा क्रमं || शतपर्णानि देवेशि चक्रवर्तितराय च | गुरुभ्यः संप्रदातव्या द्वात्रिंशत्पर्णवीटिका || अष्टाविंशति भूपेभ्यो वांधवेभ्यो दशाष्टकं | जामात्रे पक्वपर्णानि वसुद्वादश वा प्रिये || पंचविंशति शक्तिभ्यः पुत्रेभ्यस्तत्व संख्यकान् | षट्पर्णानि च शत्रुभ्यस्तुरीयं दानमुत्तमं || पर्णत्रयं शत्रुपक्षे दशपर्णानि वश्ययोः | वीरेभ्यः षोडश शिवे दिव्यौघे वसु पीठयुक् || तदर्द्धं चैव सिद्धौघे मानवौघे तदर्द्धकं | मान्येभ्यः सप्तपर्णानि कन्यायै पंचविंशतिः || चंद्रयुक्तं महेशानि पौत्रेभ्यो दशपंच च | स्तुषायै त्रिंशति शिवेदास्ये चैव चतुर्दशः || अन्येभ्यः परमेशानि विंशत् पर्णानि दापयेत् | परिपूत्री तथा दासी दासश्चैव चतुर्थकः || परिवेत्ता पारिवेत्ता षट्तांवूलदायकाः | अग्रदानं च शत्रुभ्यो चक्रदानं सुमित्रके || तिर्यग्दानं सेवकादौ यथा योगेन योजयेत् || म्लेच्छहस्ता छत्रुहस्ताच्छंकि तस्य तथैव च | अथ वैदग्ध हस्तस्य तांवूलं हि निषिध्यति || आद्यपीकोभियोक्तव्यो द्वितीयल्पज्यतां सतं | तृतीयो गृह्यतांवूलात् तृतयं तृतयं क्रमात् || पत्रं फलं कादिरं च चूर्णं चैव चतुर्थकं | पंचमं तु सुखं प्रोक्तं रागः षष्ठ उदाहृतः || षडंगमिति संप्रोक्तं षडैश्वर्ययुतायकं | * * * * * * (?) वसेस्तत्रलक्ष्मी निरंतरं || प्. १३०अ) तद्गृहीत्वा वरारोहे स्वेच्छया विहरेत् ततः | अथ वा सायंतन भवं कृत्यं समवधारय || संध्याह्नकालवत् संध्यां वैदिकीं समुपास्य हि | तांत्रिकीमाचरेद्देवी त्रिवर्णस्थान चेतरः || तुर्यस्तु तांत्रिकीमेवनो भावप्यवलाजघनः | अस्तंगमनवेलायां मार्तण्डस्य निशा सु वा || अथ नित्य शिवावलिदानं || विल्वमूले प्रांतरे वा श्मशाने वापि साधकः | स्थापिनो जयिनो नित्यं काम्ये चैव कुलाकुले || मांस प्रधान नैवेद्यं संध्याकाले निवेदयेत् | कालिकालीति वक्तव्ये तदा सा शिवरूपिणी || पशुरूपधरायाति परिवारगणैः सह | भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्यसुस्वरं || तदैव मंगलं तस्य अन्यथा कुलदूषणं | अवश्यं चान्नदानेन नियतं तोषयेच्छिवां || नित्यश्राद्धं यथा संध्या चंदनं पितृतर्पणं | तथैव कुलसेव्यानां नित्यता कुलपूजन्ं || पशुरूपधरां देवीं यो नार्चयति निर्जने | शिवारावेण तस्याशु सर्वं नश्यति निश्चितं || जपपूजाविधानानि यत्किंचित् सुकृतानि च | गृहीत्वा शापमादत्ते शिवारोदति निर्जने || एकया भुज्यते यत्र शिवया कुलभैरवि | तत्रैव सर्वशक्तीनी प्रीतिः परमदुर्लभा || पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथा क्रमात् | पूजनाद् द्विगुणं कर्म सगुणं साधको यतः || तेन सर्वप्रयत्नेन कर्तव्यं पूजनं महत् | राजादि भयमापन्ने देशांतर भयादिके || शुभाशुभानि कर्माणि विचिंत्य वलिमाहरेत् | गृह्न देवि महाभागे शिवे कालाग्निरूपिणी || शुभाशुभफलं व्यक्तं व्रूहि गृह्न वलिं तव | एवमुच्चार्यदातव्यो वलिः कुलजनै प्रिये || तदि नो भुज्यते देवि तदा नैव शुभं भवेत् | शुभं यदि भवेत् तत्र भुज्यते तदशेषतः || एवं ज्ञात्वा महादेवि शांतिं स्वस्त्ययनं चरेत् || इति शिवावलिदानम् || प्. १३०ब्) कृत शौचस्तथा चांतः पुनः पूजालयं विशेत् | पुष्पस्रग्धूपनैवेद्य वलिदीपादि संभृतिं || पूजाकाली नवत् कुर्यात् साधयंतं समर्चने | आरात्रिकं विभवतो दीपवृक्षानपि प्रिये || क्षणं निमील्य नयने ध्यानं पूर्वोक्तवच्चरेत् | ततो वद्धांजलिः पद्मयुगलं समुदीरयेत् || योगिन्यो मातरः सिद्धाः क्षेत्रपालान् विनायकाः | तथा वटुकनाथश्च चामुण्डा भैरवीगणाः || वेतालभूतकुंभाण्डाये चान्ये कालिकानुमाः | इह कुर्वंतु सान्निध्यं कुर्वेहं नैशिकार्चनं || पठित्वेत्थं ततः कुर्यादृष्यादिद्विषडंगकं | वक्त्रन्यासं ततः कुर्यादावश्यकतयाप्रिये || अन्यानपि स्वेच्छयैवयावच्छक्यान् समाचरेत् | वक्त्रन्यासस्य नित्यत्वमितेरेषां च काम्यतः || इत्थं न्यासादिकं कृत्वा स्वेच्छया सुरवंदिते | वद्धांजलिः पुनरपि श्लोकनेकं समुच्चरेत् || हे गुह्यकाली जगदीश्वरी विश्वमातश्चैतन्यरूपिणी सदाशिव जीवतुल्ये | दैनंदिन प्रचितया पचयापहत्यैसायंतनं स्मरणमम्वकरोमितेहं || पठित्वेमं ततः पुष्पं गृहीत्वां जलिना प्रिये | त्रिखण्डा मुद्रया वापि ध्यानोन्मीलित दृक् चरेत् || अथ त्रिखण्डामुद्रा यथा || परिवर्त्यकरौ स्पृष्टावंगुष्ठौ कारयेत् समौ | अनामांतर्गते कृत्वा तर्जन्यौ कुटिलाकृती || कनिष्ठिके नियुंजीते निजस्थान महेश्वरी | त्रिखण्डेयं समाख्याता त्रिपुराह्वान कर्मणि || पूर्वस्तोत्रोक्त पद्योभ्यां न तु ध्यायेदिति क्रमैः | यावत्वर्ककलेतेकं ब्रह्मेंद्रेति द्वितीयकं || शक्तौ पूर्वोक्तवत् कुर्यादा वाहनपुरःसरान् | उपचारान् षोडशभिर्मंत्रैरेव पुरोदितैः || अशक्तौ कुसुमैः स्रग्भिर्द्धूपदीपैदिरात्रिकैः | नैवेद्यैर्वलिभिस्तोत्रैः पाठैरपि जपैरपि || दण्डवत् प्रणमेच्चापि कुर्याच्चापि प्रदक्षिणं | काकूक्तिभिः प्रार्थपीतः स्वस्याभीष्टानि साधकः || यदि वेद्विद्यते देवि प्रतिमा यंत्रमेव च | कल्पयित्वा तदाकल्पं मृद्वास्तरण संवृतं || प्. १३१अ) स्थापयित्वोपधानं च सा जपेत् तत्रकालिकां | नैशार्चनोपयुक्तानि स्युर्वैद्यानि च यानि हि || अवश्यं तानि भुंजीत शक्तिभिः साधकैः सह | गीतवाद्यादि नृत्यंतं यथाशक्तिं ततश्चरेत् || सायंतनीन स शनं कुर्यात् पूर्वोक्तवत् ततः | स्वयं शयीत तदनुसहस्वाभिष्टयास्त्रिया || प्रच्छिरा वा दक्षशिरा मोदक् पश्चिममस्तकः | प्राक् शिरेशयने विद्या आयुर्वित्तं च दक्षिणे || पश्चिमे प्रवला चिंताहानि मृत्युस्तथोत्तरे | कृत शौचः करपदैराचांतः सु समाहितः || दीपे ज्वलति नध्वांतेना कृता पवनाशनः | न च स्तिमितवत्पाणिर्ननग्नो नापि कंचुकी || पठेन्दुस्वप्ननाशाय वक्ष्यमाणान्मरुत्प्रिये | जगन्मातर्महामायेकालिके कालनाशिनि || दुःस्वप्नं हररुद्राणित्वद्भक्तं पाहिमां सदा | भूतप्रेतपिशाचाद्याये भीमादेव मानवः || रक्षो दानवदैत्याश्च ये निद्राभंगकारका | दुःस्वप्नजाश्चये दोषा ममहिंसा कराश्चये || तेत्वत्स्मरणदंभोलि निहितायां तु संक्षयं | ये दंदशूका विहगावृश्चिकाः शूकयोनयः || येषां विषं वाधतेङ्गं ये च शृंगविषास्तथा | विषैर्वपुर्युता कीटाये चोद्वेगप्रदायिनः || श्रुत्वा ते कालिकानाम विद्रवं तु दिशोदशः | कालीकराली चामुण्डा छिन्नमस्ता च भैरवी || हरसिद्धासिद्धिलक्ष्मीर्द्वामरी वाभ्रवी तथा | महामारी तामसी च मातंगीशवरेश्वरी || चर्चिका शिवदूती च महामहिषमर्दिनी | उग्रचंडाकुब्जिका च फेत्कारी गुह्यकाल्यपि || एतास्ते मूर्तयो घोरायाश्च सौम्यासुरेश्वरी | मातः शयानं रक्षं तु दुःस्वप्नं नाशयं तु च || चक्रपाशासि शूलर्ष्टि गदा परिघतोमराः | वज्रमुद्गरकुंतेषु भुशुंडी पाशपट्टिशः || यान्यन्यापि च देवेशि करयोर्विधृतानि ते | अस्त्राणि तानि रक्षं तु स्वयंतं मां महेश्वरी || त्वदाज्ञया नारसिंही पूर्वस्यांदिशि पातुमां | वाराही पश्चिमायां च दक्षिणस्यां च कालिका || प्. १३१ब्) उत्तरस्यां च चामुण्डा महाघोरतरावतु | उर्द्धं तथाधो दिग्विदिशोस्त्वं सर्वत्रैव पाहिमां || शक्तयोयाश्चते देवि परिवारगणाश्चये | सर्वत्र सर्वदा पांतु मां त्वच्चरणसेवकं || त्वदाज्ञयैव देवेशि नानारूपधरावुभौ | देवौ मामवतां विष्णुरुद्रौ सर्वसुरेश्वरौ || वराहो नारसिंहश्च वामनोनंत एव च | त्रिविक्रमो हयग्रीवः षडैते पांतुमां सदा || मृत्युंजयो नीलकण्ठो दक्षयज्ञ विघातकः | त्रिपुरप्नोहरिश्मश्रुः पिनाकी नीललोहितः || प्रमथेशः कीर्तिवासा विरुपाक्षो महेश्वरः | एकादशैतेमां पातु रुद्रारौद्रः तनूधराः || सदा मामकृतं भीतिं कुरुस्त्वं गुह्य कालिके | एवमष्टादश श्लोकैरक्षां कृत्वान् मनः प्रिये || शयितश्चिंतयन् कालीं निर्विशं केन चेत सा | सर्वा निशामयोगज्ञोगमयत्यैव निद्रया || उत्तिष्टेच्चोषसि पुनः प्रातःकृत्य चिकीर्षया | आह्निकं पूर्ववत् कार्यं स्वस्वकल्पोक्त वर्त्मना || अथ मध्यमानां नित्यार्चनविधिः || अथान्यं संप्रवक्ष्यामियं विनादुःखमाप्नुयात् | प्रातरुत्थाय गुर्वादि स्मृत्वा शौचं समाचरेत् || स्नानसंध्यां तर्पणं च वैदिकं तांत्रिकं तथा | आगत्य च गृहे पश्चात् प्राणायामत्रयं चरेत् || कुर्याच्च मातृकान्यासं तथा छंदपि देवतम् | तन्मंत्रस्य करांगाख्य न्यासं शंखार्घ संस्थितिः || मंत्रस्नानं देवतायाः पूजापंचोरिका | चंदनां ते त्वावृतीनां पुष्पैरेव प्रपूजनं || वैश्व देवोत्तरं तत्र ददन्नाहुति पंचकं | मूलेन होमयेत् तत् प्राग्जपश्चाष्टोत्तरं शतं || वैदिकाकाशवल्यंते पूजा चोच्छिष्ट भोजितं | ततः संप्रार्थयेद्देवं सायं संध्या समाचरेत् || देवागारं दीपदानं प्रोक्तं संक्षेपमाह्निकं || अथ प्रवास कारागृहाद्य शुभस्थानाह्निकं || अथापराह्निकं वक्ष्ये तत्स्थान दशके भवेत् | मार्गे प्रवासे दुर्गे च नान्तः प्राप्तौ मनोभये || कारागृहे शुभेस्थाने सर्पव्याघ्रादिजे भये | परचक्रागमे कुर्याच्छौ चाद्यं तु यथा तथा || मंत्रस्नानादिकं चिंत्य कृत्वा मानसपूजनं | मनसा हृदयस्यांतर्ध्यात्वा योगाख्य पीठकं || प्. १३२अ) तत्रैव पृथिवीमध्ये पूजां देवस्य चाचरेत् | यथा पुष्पादिभिः पूजा वहिर्देशे विधीयते || तथा हृद्यपि कर्तव्याः सर्वास्ताः प्रतिपत्तये | मनसा जठरे होमे एतद्विपदि चाह्निके || अथ रोगिणामाह्निकं || अथातुराह्निकं वक्ष्ये नित्यं स्वास्थ्याधिकस्य तत् | यदि लंघनपर्यंतो व्याधिरात्मनि दृश्यते || तदा पूजा न कर्तव्यास्थण्डिलं प्रतिमासु च | न स्नानं दंतकाष्ठं वा कुर्याद्धो न मथापि वा || रविमंडलमालोक्य प्रतिमामथ वा पुनः | मूलमंत्रं सकृज्जप्त्वा पुष्पं साक्षतमुत्सृजेत् || श्रांतो व्याधिभिरत्युग्रैर्जरया चेंद्रियै शतः | निजसामयकैर्वापि स्वकर्तव्यं समापयेत् || अग्निवृत्तस्ततः कृत्वा पूजयित्वाग्नि देवताः | गुरुविद्यांस्तदग्रे च वाक्यं च तदुदीरयेत् || एतावत् कालविच्छिन्ना पूजायुष्मत् प्रसादतः | न दोषोस्त्विति संप्राप्य पुनः पूर्ववदाचरेत् || यस्तु रोगवशाद्दोषो जातस्तत् क्षालनं चरेत् | जपेन वाथ दानेन होमने धनतोपि वा || अथाणौ वाह्निकं || अथ सूतकिनां नित्यं वैदिकं स्मृतीरितं | जातसूतकमादौ च तदंते मृतसूतकं || द्विजस्य सूतके देवि न देवोच्चाटमाचरेत् | संध्यां च मानसीं कुर्यात् ध्यात्वैव परमेश्वरी || शालग्रामं च प्रतिमां न स्पृशेत् कर्हिचित् प्रिये | स्पर्शात्पापी नरो भूयान्ना प्रकार्या विचारणात् || कृत्वा तांत्रिकपूजादि मनसैव समाचरेत् | कामनार्थं प्रयोगश्चेत् तदा पूर्ववदाचरेत् || मृतगेहं परित्यज्य वामाचारेणा सूत्रकं | स्पृहां हित्वा ज्ञान पूर्वं कुलतोधर्ममागतं || ययालभेद्वामधर्मं देवतायां सजायते | गुरूपदिष्टं यत्कर्म भक्त्या वामे करोति यः || शास्त्रतत्वं देवतत्वं नो वहिः स तु गुह्यकः | ज्ञात्वा तमेवं भजते सुखार्था तत्र जायते || क्षुट् तृष्णा मोहितः प्रेतस्तस्याद्धर्मं विचारयेत् | संतस्तेन न चेल्लस्याव्यर्घ्य यात्रादि साधनं || प्. १३२ब्) पूजोदकेन कर्त्व्या तोय यन्नैव विद्यते | तदा संपूजयेद्देवं भावना कुसुमादिभिः || भक्तिश्रद्धाभावना च पूजानां जीव उच्यते || अथ जडाह्निकं || जडानामाह्निकं वक्ष्ये तथा संक्षेप कर्मणि | रत्नमंडप धर्मादि चतुष्कमुरगों व्रजं || मूलमूर्तिः षडंगानि तेषां पूजा विधीयते || सर्वेषामपि वस्तूनाम लाभे भावनैव हि | निर्मलेनोदके नैव पूजयेत् स्थिरमानसः || सामान्यतस्त्रिधा पूजा चोत्तमा मध्यधमा | अधिकारी निमित्ताभ्यां भिद्यते शतधा पुनः || या सोपकरणैः कृत्स्नैः क्रीयमाणोत्तमामताः | यथा लब्धैर्विनिष्पाद्यैर्द्रव्यैः पूजा तु मध्यमा || यत्र पुष्पांवु निष्पाद्या पूजा चाधमसंज्ञकाः | विहिताखिल वेदाक्तैर्ब्रह्मर्षिभिरकल्मषैः || क्रियमाणा तु या पूजा सात्विकी सा विमुक्तिदा | राजर्षिभिस्तयोनिष्टैर्भगवत्तत्ववेदिभिः || या पूजा क्रीयते सम्यग्राजसी सा सुखप्रदा | स्त्रीवाल वृद्धमूर्खाद्यैर्भक्तैरक्षुद्रमानसैः || या पूजा क्रीयते नित्यं तामसी सा प्रकीर्तिता || अरण्ये स्वल्प कामानां सिद्ध्यर्थं पूजनं हितं | निष्कामानां गृहस्थानां हितं गेहे तु पूजनं || कदाचिदपि रत्याजो वेदमार्गो द्विजैः सदा | वेदच्युतानां विप्रत्वं देवत्वं चापि दुर्लभं || इति श्रीतंत्रचिंतामणौ भोजनादिपूजायाः सात्विकादिभेदांतनिर्णयो नाम विंशतितमः प्रकाशः || २० || सर्वसाधारणंधीरा उक्तमेवा पुरो मया | कल्पानि दशविद्याया क्रमेण कथयामि तु || अथ श्यामा या विशेष क्रममाह || स्नानं संध्यादिकं सर्वं पूर्ववत् समुपस्य च | अवहिर्मान सा योगी यागभूमिं तथा विशेत् || अथ स्थानमाह || एकलिंगे श्मशाने च शून्यागारे चतुःपथे | तत्रस्थः साधयेद्योगी विद्यां त्रिभवमोचिनीं || एतेषां लक्षणमाह || पंचक्रोशांतरे यत्र न लिंगांतरमिष्यते | तदा कलिगमाख्यातं तत्र सिद्धिरनुत्तमा || प्. १३३अ) * * * (?) व्यसनो यत्र स च कीलकसंकुले | गृध्रगोमायुकाकाद्यैर्मांसलुब्धैर्यदावृतं || तछ्मशानमितिख्यातं पिशाच गणसेवितं | काकादि गृध्र संयुक्तं कृमिछत्रादि संयुतं || नागरैर्दूरनिर्मुक्तं साध्वसोद्वेतकारणं | सौधसंरूढद्यासाढ्यं शून्यागारं तदुच्यते || चतुर्णां पथो यत्र संयोगो युगपद् भवेत् | तच्चतुष्पथमित्युक्तं रजन्यामिष्टदायकं || पूर्वपूर्वकमिशस्तं जघन्यं चोत्तरोत्तरं | उर्जटे पर्वते वापि निर्जने वा चतुष्पथे || देवागारे देवशून्ये विल्वमूले नदीतटे | स्वगृहे निर्जना रामे तथा चाश्वत्थ सन्निधौ || तदभावे दिव्यगेहे सिंदूरादिभिरंकिते | खड्गशूलगदाकर्त्री चामरव्यजनादिभिः || वितान धूपसंकीर्णे कृष्णा गुरु सुवासिते | युवतीनां सुरापीनां वेश्यानांलास्य शोभिते || शंखघंठारवाकीर्णे दीपावलि विराजते | एवं पुत्रगृहे पूजा कालिकायाः सुशोभना || अथ कालमाह || सर्व एव शुभः कालो ना शुभं विद्यते क्वचित् | न विशेषो दिवारात्रौ संध्यायामथ वा निशि || न विशेषो दिवारात्रौ संध्यायामथ वा निशि | वलि पूजादिकं सर्वं रात्रौ तु क्रियते यदि || तत्तदक्षयतां याति कालिकायाः प्रसादतः | गते तु प्रथमेयामे तृतीय प्रहरावधि || कुलपूजां प्रकर्तव्या कुलशास्त्र विशारदैः | जलशंखं करे कृत्वा गत्वा द्वारि महेश्वरी || क्षालयेद्धस्तपादौ च वक्ष्यमाणेन वर्त्मना || ओं वज्रोदके हूं फट् स्वाहा मंत्रेण मंत्रवित् | जलमानीय सव्येन आसनं शोधयेत् ततः || प्रणवं पूर्वमुद्धृत्य जज्जावीजं तथैव च | ततो विशुद्धांते सर्वे पापानि शमयं च || अशेषांते विक्ल्पं स्याद पनयेति ततः परं | ततो आचमनं कृत्वा सामान्यार्घ्यं प्रकल्पयेत् || त्रिकोणवृत्तभूविवं त्रिकोण रचयेत् ततः | आधारशक्तिं संपूज्य तत्राधारं विनिःक्षिपेत् || प्. १३३ब्) अस्त्रमंत्रेण संशोध्य हृन्मंत्रेण प्रपूरयेत् | निःक्षिपेत् तीर्थमावाह्य गंधाद्यं प्रणवेन तु || दर्शयेद्धनु मुद्रा वै सामान्यार्घमिदं स्मृतं | सामान्यार्घेण देवेशि पूजयेद्वारपार्श्वगान् || गणेशं क्षेत्रपालं च वटुकं योगिनीं तथा | गंगां च यमुनां चैव लक्ष्मीं वाणीं ततो विशेत् || गां वीजाद्यं गणेशानं वा माद्यं वटुकं तथा | क्षामाद्यं क्षेत्रपालं च यामाद्यं योगिनीं ततः || ऊर्द्ध्वे वामे दक्षिणे च अधश्चैवं प्रकीर्तिताः || प्रणवं पूर्वमुद्धृत्य सर्वविघ्नान्ततः परं | उत्सारय ततो हूं फट् स्वाहा च तदनंतरं || अनेनैव च मंत्रेण विघ्नानुत्सारयेत्सुधीः || प्रणवं पूर्वमुद्धृत्य रक्षरक्ष तदंतरं | हूं फट् स्वाहेति मंत्रेण पूजा भूमिं च शोधयेत् || ततः प्रवृत्त वज्रादौ प्रणवं पूर्वमुद्धरेत् | चर्मयं च ततश्चैव फट् स्वाहा तदनंतरं || अनेनैव च मंत्रेण कुर्याद् भूम्यभिमंत्रणं || अधिष्टानेपि च पुष्यस्य प्रणवं पूर्वमुद्धरेत् | ठाताभिषेकेति पदं ठाताभीति ततः पदं || षेकेति च पदं प्रोक्तं हूं फट् स्वाहा ततः परं | अनेन मनुना देव्याः पुष्पाधिष्ठानमेव च || प्रणवं पुष्पकेतुश्च तथा राजार्हते तथा | ठातायसस्यगित्युक्त्वा संवुद्धाय ततः परं || पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसंभवे | पुष्पे च यावकीर्णे हूं फट् स्वाहा च ततः परं || विशुद्धं पुष्पमे तेन जलं पूर्ववदा हरेत् || मृदुमचूडमासीनश्चान्येषु कोमलेषु वा | विष्टरेषु समासीरः साधयेत् सिद्धमुत्तमा || मृतासनं विना देवि योजपेत् कालिकां नरः | तावत् कालं नारकी स्यात् यावदा दूत संप्लवम् || ऋषिच्छंदं विधायाथ कुशां तत्रैव दापयेत् | मायावीजं समुच्चार्य आधारशक्ति पूर्वकं || कमलासनमालिख्य ङेंतमोंतः प्रपूजयेत् | आकारांतं सुरेखे च वज्ररेखे ततः परं || हूं फट् स्वाहेति कूर्याद् वै मण्डलं तु शवासने | वीरासनेनोपविश्येत् संपूज्यासनमेव च || प्. १३४अ) अथ वीरासनं यथा || एकपादमथै कस्मिन् विन्यस्योरुणि संस्थितः | इतरस्मिन्नथो चारुं वीरासन मुदाहृतं || अथ मंत्राचमनमाह || उपविश्यासने मंत्रा चमनं सर्वसिद्धिदं | कालिभिस्त्रिभिः पीत्वा काल्यादिभिरूपस्पृशेत् || द्वाभ्यामोष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत् करं | आस्यघ्राणे क्षण श्रोत्रनाभ्युरस्कं भुजो स्पृशेत् || आचम्यैवं भवेद्यस्तु वत्सरात्तां प्रपश्यति | ततः षोडशवर्षीयान्नारीमानीय यत्नतः || युवतीं वामदोन्मत्तां सुवेषां चारुहासिनीं | सदा रसे साभिलाषीं सिंदूरांकितभालिकां || साधके प्रेमशीलांतां वामे संस्थापयेद्वुधः || विना हेतु कमाखाद्य क्षोभयुक्तो महेश्वरी | न पूजान्नजपं कुर्यान्नध्यानं नापि चिंतनं || तस्माद्भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीं | कूर्चं वियद्विंदुयुतं शक्त्यस्त्राय फडित्यपि || अनेन मनुना कुर्याद् दिग्वंधं छोटिकादिभिः | प्रणवं पूर्वमुद्धृत्य तदनंतरमेव च || हूं फट् स्वाहा मनुः प्रोक्तः कायवाहचित्तशोधने | रक्षरक्ष हूं फट् स्वाहा मंत्रस्यादात्मरक्षणे || ततः कृतांजलि पुटो वामदक्षिणपाश्वयोः | गुरुं गणपतिं मत्वा पुरतः स्वेष्ट देवतां || सुगंधपुष्पाण्यादाय चंदनाक्तानि मंत्रवित् | ह्यौं मंत्रेण करयोरस्त्र मंत्रेण मर्दयेत् || तत् पुष्पं वाम हस्तेन समादाय च मस्तकं | भ्रामयेत् परितस्तारं जपन्नाघ्राय तत्पुनः || हौं ओं पूर्वपठे छ्लोकमिमं स च निगद्यते | ते सर्वे विलयं यातुं येमां हिंसंति हिंसकाः || मृत्युरोग भयक्लेशाःपतंतु रिपुमस्तके | अस्त्रमंत्रेण नारा च मुद्रयेश दिशि त्यजेत् || भूतशुद्धिं ततः कुर्यादात्मानं कुण्डलीयुतं | जीवं हंसेन संयोज्य शिवे च मध्यमाद्यया || पापं कुक्षिस्थितं क्रूरं वायवग्निमनिलाक्षरैः | शोषयेदाहयेदंतः प्रक्षाल्य रेचयेद्वहिः || सोहमंत्रेणतामेव यथा स्थानं समानयेत् | ततः शुद्धशरीरो सौ जीवन्यासं समाचरेत् || अथास्याः मंत्रभूत शुद्धिमाह || भूतशुद्धिं ततः कुर्यात् स्वमंत्राक्षरयोगतः | यथा काली तथा तारा यथा तारा तथोन्मुखी || प्. १३४ब्) भूतशुध्यादिकं सर्वं तारिणीवत् समाचरेत् || प्राणायामत्रयं कुर्याद्विघतया तदनंतरं || भैरवोस्या ऋषिः प्रोक्त उष्णिक् छंद उदाहृतः | देवता कालिका प्रोक्ता लज्जावीजं तु वीजकं || शक्तिस्तु कूर्चवीजं स्यात् कीलकं चोद्यवीजकं | विनियोगो महेशानि चतुर्वर्गस्य सिद्धये || अंगन्या स करन्यासौ यथावदभिधीयते | षड्दीर्घभाजा वीजेन प्रणवाद्येन कल्पयेत् || प्रणवं चाद्यवीजं च षड्दीर्घस्वरभेदितं | कुर्यात् षडंगविन्यासं मूलखंडत्रयेण च || वर्णन्यासं ततः कुर्याद् दिव्यभाव फलप्रदं | हृद्वाहु पादयुग्मेषु स विंदून् मातृकाक्षरान् || पंक्तिशो विन्यसेत् पश्चाद्व्यापकन्यासमाचरेत् | दोर्भ्यां च व्यापकं कुर्यान् मूलविद्यां समुच्चरन् || पादादि च शिरो अंतं शिर आदि पदांतकं | सकृदेवं प्रविन्यस्य साधकस्तन्मयो भवेत् || अथ वर्णन्यासः || हृदयेविन्यसेद्वापि अकारादि दशाक्षरं | एकारादि दशच्चैव परं तु दक्षिणे भुजे || भुजे वामे प्रविन्यस्य ङकारादि दशाक्षरं | परं तु दक्षिणे जंघेणकारादि दशन्यसेत् || मकारादि क्षकारांतं वामजंघे प्रविन्यसेत् || इति वर्णन्यासः || अथ षोढान्यासः || वक्ष्ये षोढात्मकं न्यासं दुर्लभं भुवनत्रये | यं कृत्वा साधक श्रेष्ठो भवेद्भैरव सन्निभः || विन्यसेन् मातृकां पूर्वं न्यासोयं प्रथमः स्मृतः | श्रिया संपुटितं वर्णं वर्ण संपुटितां श्रियं || एवं क्रमेण विन्यस्य द्वितीयश्च समीरितः | कामसंपुटितं लक्ष्मीं लक्ष्मी संपुटितं च तं || विन्यसेन् मातृकास्थाने तृतीयोयं समीरितः | लज्जया संपुटी लक्ष्मीं श्रिया संपुटितां ह्रियं || पूर्ववद् विन्यसेन् मंत्रीन्यासस्तूर्य उदाहृतः | मुखवृत्त समारूढ लज्जा द्वंद्वनमोद्वयं || शशांकशकलारूढं कामशक्रपदे स्थितं | मूलसंपुटितं कृत्वा तत्पुटं च मनुं तथा || विन्यसेदुक्तमार्गेणन्यासोयं पंचमो भवेत् | अनुलोमविलोमेनेलिपि स्थानेषु केवलं || प्. १३५अ) मूलं विन्यस्य मेधावी मूलमष्टोत्तरं शतं | संजप्य व्यापयेद्देहेन्यासः षष्ठोयमीरितः || कालिकामंत्रराजस्य षोढान्यासोयमीरितः | एवं न्यासं ततः कुर्यात् स मंत्री भैरवोपमः || विषोप मृत्युहरणं ग्रहरोगविनाशनं | दुष्टाः सर्वेविनश्यंति शत्रवोयांति मित्रतां || कवितालहरीतस्य द्राक्षारस परंपरा | अणिमाद्यष्टसिद्धिस्तु तस्य हस्ते व्यवस्थिता || कायिकं वाचिकं वापि मानसं यच्चदुष्कृतं | सर्वं तस्य विनाशत्वं याति न्यासस्य चिंतनात् || ब्रह्महत्या क्षयं यांति यत्किंचिदुपपात्कं | यद्रूपं दृश्यते यैस्तु स तद्रूपं च गच्छति || यं नमंति महादेवि षोढा पुटितविग्रहाः | अल्पायुः स भवेत् सद्यो देवता कंपतेभिया || स हरः स हरिः साक्षात् स देवी नात्र संशयः | तारायाश्च तथोन्मुख्या इदं न्यासं समाचरेत् || अणिमाद्यष्ट सिद्धिनामीश्वरश्च भवेन्नरः || अथ गुह्य षोढान्यासः || ईश्वर उवाच || शृणु देवी प्रवक्ष्यामि गुह्य षोढामिमां प्रिये | न प्रकाश्यमिदं क्वापि यदीछेदात्मनो हितं || कर्पूरं मातृकावर्णैः पुटितं मातृका स्थले | तेनैव पुटितं वर्णं न्यसेदत्रैव पार्वति || कूर्चवीजयुगं देवि विन्यस्तव्यं प्रयत्नतः | शक्तिवीजं तथा देवी विन्यसेन् मूलमादितः || दक्षिणे कालिकेभ्यां तु पूर्ववीजत्रयं न्यसेत् | कूर्च वीजत्रयं देवी लज्जावीज द्वयं || विन्यस्तव्यं तथा देविमीलितं वह्निजा यया | ततस्तत्सकलन्यस्य व्यापकत्वेन देवते || द्वाविंशत्पक्षरेमंत्रे षोढान्यास इहोदितः | अयं तु सिद्धिदो लोके तथा देवासुरेषु च || अवश्यं प्रत्यहं कार्यं न पूजा न जपस्तथा | कृतेपि साधकः श्रेष्ठो महादेव समो भवेत् || इति ते कथितं किंचिद् रहस्यं घोरदक्षिणे | न प्रकाश्यं कदाचित्तु देवेषु च तथा नरि || अथ तत्वन्यासः || आत्मविद्या शिवैस्तत्वैस्तत्वं न्यासं समाचरेत् || प्. १३५ब्) अथ वीजन्यासः || अथ ब्रह्मभ्रुवोर्मध्ये ललाटे नाभिदेशके | गुह्ये वक्त्रे तु सर्वांगे सप्तवीजानि विन्यसेत् || अथ मंत्रवर्ण न्यासः || शिरसि नयने भाले भ्रूयुग्मे कर्णगण्डयोः | वदने रदने जिह्वास्कंधदेशे गलेषु च || भुज हृदय स पार्श्वे पृष्टनाभौ च रुद्रे कटि उदरकपादे सर्वतो मंत्र वर्णान् || मूलेन व्यापकं न्यासं नवधा कारयेत् प्रिये | पंचधा नवधा वापि मूलेन सप्तधा तथा || ततः स्त्रीवेषधारी स्यात् सिंदूरांकितभालकः | शृंगारो ज्वलवेशाद्य तांवूलपूरिताननः || एवं वेशादिकं सर्वं वनितामपि कारयेत् | पीठन्यासस्ततः पश्चादाधारशक्ति पूर्वकं || प्रकृतिं कजठं चैव शेषं पृथ्वीं तथैव च | सुधांवुधिं मणिद्वीपं चिंतामणि गृहं तथा || श्मशानं पारिजातं च तन्मूले रत्नवेदिकां | तस्योपरिमणेः पीठं न्यसेत् साधकपुंगवः || चतुर्दिक्षु मुनीन् देवान् शवांश्च शवमुण्डकान् | धर्मांदीश्चापि धर्मादीन् पादगात्र चतुष्टये || हृदिपद्मे तथा पद्मं सूर्यसोमौ महेश्वरि | वैश्वानरं तथा सत्वं रजश्चैवतमस्तथा || आत्मानं चैव विन्यस्य शक्ति हृत्पद्मके न्यसेत् | इच्छाज्ञान क्रिया चैव कामिनी कामदायिनी || रतीरतिप्रियानंदा कर्णिकाया मनोन्मनी | वाग्भवं प्रथमं चोक्त्वा परायै तदनंतरं || यै ह्यौं वाच्यमतः परं || सदाशिव महाप्रेत ङेंतं पद्मासनं ततः | नम इत्येव मंत्रोयं पीठ न्यास उदाहृतः || पीठपूजां ततः कुर्यात् प्रधानं तु स्वशक्तिभिः | उग्रोग्र चण्डा चामुण्डा प्रचण्डा विकटोत्कटा || संकटा चैव चण्डोग्रा तथा मंगल चण्डिका || अत्रांतर्यजनं || एवं देहमयेपीठे चिंतयेदिष्ट देवतां || अथ वहिर्यायः || एवं विन्यस्तदेहः सन् यंत्रराजं समुद्धरेत् | ताम्रपात्रे कपाले वा श्मशान काष्ठनिर्मिते || प्. १३६अ) शनिभौमदिने चापि शरीरे मृत संभवे | स्वर्णे रुप्ये तथा लोहे चक्रमर्च्यं विधानतः || आसुरेखे वज्ररेखे हूं फट् वह्निवल्लभा | मंत्रेणानेन विलिखेद्यंत्रराजं मनोहरं || स्वयंभू कुसुमं कुदगोलोत्थं रोचना गुरुः | कश्मीर मृगनाभी च पद्मं च मलयोद्भवं || एस गंधः समाख्यातः सर्वदा चण्डिके प्रिये | एतेन गंधयोगेन योनिचक्रं समालिखेत् || मंत्रभेदेन श्रीकाल्याः यंत्राणि संशृणु प्रिये | आदौ शक्तिं समुत्पाद्य शक्तीनां तु चतुष्टयं || वाह्यावाह्य क्रमेणैव मध्ये विंदुं लिखेच्छिवे | इदं विलिख्य देवेशि भूपुरैकेन संयुतं || क्वचिद् भूपुरशब्देन चतुरस्रं प्रकीर्तितं | अत्र भूपुरशब्देन चतुर्द्वारात्मकं भवेत् || त्रिकोण त्रयमालिख्य षट्कोणं च ततोपरि | वृत्ताष्टदलवृत्तं च भूपुरेण समन्वितं || विंदुमध्ये तु श्रीमायाकाली यंत्रं सुसिद्धिदं || मंत्रमन्य छृणु प्राज्ञे योनिचक्रं लिखेत् सुधीः | योनिद्वयं ततोलिख्य षट्कोणं च ततो भवेत् || ततश्चाष्टदलं पद्मभूगृहेण समन्वितं | यंत्रमेतन् महेशानि महासाम्राज्यदायकं || आदौ योनिं समालिख्य योनिं च तद्वहिर्लिखेत् | योनित्रयं तद्वहिस्तु ततो वृत्तं समालिखेत् || ततश्चाष्टदलं पद्मवृत्तं चैव ततोपरि | धरणी गृहमालिख्य यंत्रमेतन्मयेरितं || शक्तिमाद्यां समुत्पाद्य ततः शक्तिद्वयं लिखेत् | वह्नि शक्तिं समुत्पाद्य वाह्यशक्तिं विभेदयेत् || ग्रंथिभेद क्रमेणैव वह्निं प्रस्तारयेदधः | अग्निभेद क्रमेणैव शक्त्यूर्द्धं चापि भेदयेत् || ऊर्द्ध्वं वह्नि विभेदेन अधोग्निं च विभेदयेत् | त्रयं योने द्वयं वह्नेः कालीयंत्रं सुसिद्धिदं || षट्कोण वृत्ताष्टदलं षडस्रं वज्रलांछितं | तद्वहिर्भूपुरं यंत्रमावृत्ति त्रयसंयुतं || शक्त्याग्निभ्यां च षट्कोणं तत्र योनि त्रयं भवेत् | वृत्तमष्टदलं पद्मं भू चतुर्द्वारभूषितं || यंत्रं श्रीदक्षिणाकाल्याः मध्ये माया विभूषितं | मंत्रभेदेन वीजानां निर्णयः कथ्यते शृणु || नादविंडु युतं चेत्स्याच्चिच्छक्तिः परिकीर्तिता | विराद्वीजं क्रमेणैव वीजयंत्रे विभावयेत् || प्. १३६ब्) पीठपूजां ततः कुर्यादाधारशक्तिपूर्वकां | ततो हृदय पद्मांत स्फुरंती विद्युदा कृतिं || देवेशीत्यादि मंत्रेण विंद्वा वा वाहयेत् सुधीः | ततः कामकलाध्यानादा वाह्यकालिकां शिवां || कूर्माख्य मुद्रया पुष्पैश्चक्रमध्ये निधापयेत् || कामकला ध्यानं || मुखं विंदुवदाकारं तदधः कुचयुग्मकं | सर्वविद्यामृतापुर्णं सर्वरोगो भवप्रदं || सर्वार्थसाधकं सर्वजन रंजनकारकं | तदधः स परार्द्धं च सुपरिस्कृतमण्डलं || सर्वदेवादि भूतं च सर्वदेव नमस्कृतं | सर्वाह्रादन संपूर्णं सर्वरंजनकारकं || सर्वार्थसाधकं सर्वं देववश्य प्रवर्तकं | एतत् कामकलां ध्यानं सुगोप्यं साधकोत्तमैः || कूर्ममुद्रा यथा || वामहस्ताथ तर्जन्या दक्षिणस्य कनिष्ठया | तथा दक्षितर्जन्या वामांगुष्ठं नियोजयेत् || उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः | अंगुली योजयेत् पृष्ठ दक्षिणस्य करस्य च || वामस्य पितृतीर्थेन मध्यमानामिका तथा | अधोमुखे च ते कुर्याद् दक्षिणस्य वहस्ततः || एवं विधः सर्वसिद्धिं ददाति करकच्छपः | कुर्या तु हृदयासन्नं निमील्य नयनद्वयं || समंकाय शिरोग्रीवं कृत्वा स्थिरतरोवुधः | ध्यानं समारभेन् मंत्री सर्वपाप प्रनाशनं || अथ ध्यानं || देव्या ध्यानमथो वक्ष्ये सर्वदेवोपशोभितं | अंजनादिनिभां देवीं करालवदनां शिवां || मुण्डमाला वलीकीर्णां मुक्तकेशीं स्मिताननां | महाकाल हृदंभोज स्थितां पीनपयोधरां || विपरीतरता सक्ता घोरदंष्ट्रां शिवेन वै | नागयज्ञोपवीतं च चंद्रार्द्धकृतशेखरां || सर्वालंकारयुक्तां च मुक्तामणि विभूषितां | मृतहस्त सहस्रैस्तु वद्धकांची दिगंवरां || शिवाकोटि सहस्रैस्तु योगिनीभिर्विराजितां | रक्तपूर्णमुखांभोजां मद्यपान प्रमत्तिकां || वह्न्यर्क शशिनेत्रां च रक्तविस्फुरिताननां | विगतासु किशोराभ्यां कृतवर्णावतंसिनीं || करालवदनां घोरां मुक्तकेशीं चतुर्भुजां | कालिकां दक्षिणां दिव्यां मुण्डमालां विभूषिणां || प्. १३७अ) सद्यश्छिन्नः शिरः खड्गवामोर्द्धाधः करांवुजां | अभयं वरदं चैव दक्षिणाधोर्द्धपाणिकां || महामेघप्रभां श्यामां तथैव च दिगंवरां | कण्ठावसमुण्डालीगलद्रुधिरचर्चितां || कर्णावतं सतां नीत शवयुग्म भयानकां | घोरदष्ट्रां करालास्यां पीनोन्नत पयोधरां || शवानां करसंव्यातैः कृतकांची हसत्मुखीं | सृक्कद्वयगलद्रक्तधारा विस्फुलिताननां || घोररूपां महारौद्रीं श्मशानालयवासिनीं | दंतुरां दक्षिणां दिव्यां मुक्तलंवकचोच्चयां || शवरूप महादेव हृदयो परिसंस्थितां | शिवाभिर्घोरनादादिश्चतुर्दिक्षु समन्वितां || महाकालेन च सममुपरिष्टरतातुरां | मुखप्रसन्ननयनां स्मेरानन सरोरुहां || एवं संचिंत्य कालीं तु श्मशानालयवासिनीं || ध्यात्वा देवी समावाह्य योनिमुद्रां च दर्शयेत् | खड्गमुंडवराभीति महायोनिं तु दर्शयेत् || अथ क्रमेण खड्गादि मुद्रामाह || कनिष्ठानामिके वद्ध्वास्यांगुष्ठे नैव दक्षतः | शेषांगुली तु प्रसृते संस्पृष्ठे खड्गमुद्रिकां || अंतरांगुष्ठमुष्ठिं च कृत्वा वामकरस्य च | मध्यमाभ्यां दक्षिणस्य तथा लंव्य प्रयत्नतः || मध्यमे नाथ तर्जन्यामंगुष्ठाग्राग्रिमोह्य तु | दक्षिणं योजयेत् पाणिं वाममुष्टौ तु साधकः || दर्शयेद् दक्षिणेभागे मुण्डमुद्रेयमुच्यते | अधः स्थितो दक्षहस्तः प्रसृतो वरमुद्रिका || ऊर्द्ध्वः कृतो वामहस्तः प्रसृतोऽभयमुद्रिका | तर्जन्यनामिका मध्ये कनिष्ठे चक्रमादपि || करयोर्योजयेच्चैव कनिष्ठा मूलभेदतः | अंगुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिताः || अथ विश्वस्यो भयात्मकत्वा छक्तिं विना शिवस्य शिवं विनाशक्तेश्चोपासनायां फलाभावादुभयोरेक दैवयजनमाह || तथा च || प्रकृत्या तु विना देवि न संसारः क्वचिद्भवत् | पुरुषं च विना देवि न विद्या सिद्धिदायिनी || कालिकायां महाकालः सुंदर्यां ललितेश्वरः | तारायां च तथा क्षोभ्यश्छिन्नायां विकरालकः || प्. १३७ब्) भुवनायां महादेवो धूम्रायां कालभैरवः | नारायणो महालक्ष्म्यां भैरव्यां वटुकः स्मृतः || मातंग्यां तु मतंगः स्यादथवा स्यात् सदाशिवः | मृत्युंजयस्तु वगला विद्यायां परिकीर्तितः || तस्मात् कारणतो देवी द्वितीयं पूजयेच्छिवे | महाकालं यजेत् पूर्वं पश्चाद्देवीं प्रपूजयेत् || महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकं | विभ्रतं दण्डषट्काङ्ग दंष्ट्रा भीममुखं शिशुं || व्याघ्रचर्मावृत कटिं तुंदिलं रक्तवाससं | त्रिनेत्र मूर्द्धकेशं च मुण्डमाला विभूषितं || जटाभास्लसच्चन्द्र खड्गमुग्रं ज्वलन्निव | इति ध्यात्वा महाकाल मंत्रेणैव च प्रपूजयेत् || कवचं स्फौं समुद्धृत्य यालारावां चक्रौं मतः | महाकाल भैरवेति सर्वविघ्नाशयेति च || नाशयति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् | फट् स्वाहया समायुक्तो मंत्रः सर्वार्थसाधकः || ततो देविं पुनर्द्ध्यात्वा सर्वोपचारतः सुधी | पूजयेत् मूलमुच्चार्य दक्षिणां कालिकांवुधः || तांवूलां ते त्रिसंतर्प्य नत्वा योनिं प्रदर्शयेत् | देवी वामोर्द्धाधो हस्ते खड्गं मुंडं च पूजयेत् || देव्या दक्षहस्तोर्द्धाधः पूजयेद भयं वरं || विज्ञाप्य च ततो देव्याः परिवारांस्तथार्चयेत् | ततः षडंग पूजांते गुरुपक्तिं प्रपूजयेत् || पाद्यादिना तथा पश्चात् पूजयेदंगदेवता | सर्वमंत्रेषु पुरतः सर्वत्र सिद्धिदायकाः || दिव्यौघा गुरवोदेव सिद्धौघा गुरवस्तथा | मानवौघाः समासेन कथयामित वाग्रतः || तत्रासौ कालिकादेवी तस्याः शृणु गुरुक्रमं | महादेवी महादेव स्त्रिपुराचैव भैरवः || दिव्यौघा गुरवः प्रोक्ताः सिद्धौघान् कथयामिते | ब्रह्मानंदश्च पूर्णश्च चलचित्तश्चलाचलः || कुमारः क्रोधनश्चैव वरदः स्मरदीपनः | माया मायावती चैव मानवौघान् शृणु प्रिये || विमलः कुलश्चैव भीमसेनः सुधाकरः | मीना गोरक्षनाथश्च भोजदेवः प्रजापतिः || मूलदेवोरंतिदेवो विघ्नेशो वै हुताशनः | समयानंद संतोषौ कालिका गुरवः स्मृताः || प्. १३८अ) दिव्या देवीतिके नित्यं सिद्धाभूमाविहायि च | मानवौघा मानवेषु ममरूपधराः सदा || आनंदनाथ शब्दांता गुरवः सर्वसिद्धिदा | स्त्रियोपि गुरुरूपाश्चेदत्वांताः परिकीर्तिताः || मानवौघांतिके देवी स्वगुरुं परिपूजयेत् | निजं गुरुं पुरा ध्यात्वा ततो गुरु चतुष्टयं || पूजयित्वा यजेद्देवं नवसंकोचमाचरेत् | गुरुं परमगुरुं चैव परापर गुरुं तथा || परमेष्ठी गुरुं चैव कथिता गुरवस्तव || अथ गुरुणां स्थानमाह || विद्या पृष्ठे महेशानि गुरवः संति सर्वदा | कल्पा त्रिपंक्तिमार्गेण देवीपृष्ठ क्रमेण च || दिव्यादि क्रमयोगेन तदधः स्वगुरुत्रयं | दक्षोदीच्यः प्रतीच्यां च रेखा त्रितयकं चरेत् || दिव्यौघा देवता पृष्ठे तदन्यौ तु स्थले हृद्ये | विद्यायाः भेदभागे तु स्वगुरुं पूजयेच्छिवे || सर्वत्वयि महेशानि गुरुस्थानं प्रकीर्तितं || अथ एतस्यावश्यकतामाह || गुरुपूजां विना वत्सद्यदि पूजां समारभेत् | तद्दोषशमने वत्सशक्तिं पूजां समारभेत् || विगुणं यत्र यद्वास्यात् सगुणं कुलपूजनात् | कुलावलोकने चैव स्यात्क्व च प्रोक्तमार्जनं || क्व स्नानं क्व च वाक्शुद्धिः क्व च मासविशोधनं | दीक्षा प्रभुः कुलीनाश्चेत् कुलं वा वटुकेश्वरः || तद्देहे गुरुमानीय कुलरूपं गुरुं स्मरेत् | कुलं यथा गुरुस्तत्र न तथा कुलसाधकः || गुरुक्रमं च कथितं गोपनीयं प्रयत्नतः | यगोरग्रेन चैवैषां नामग्राह्यं कथंचन || अथावरण देवताः पंचदशकोणेषु || तथा च || ततश्च सर्वकोणेषु देवीमावाह्य पूजयेत् || ततः पूर्वादि कोणेषु वामावर्तेन पूजयेत् || काली कपालिनीं हुल्लां प्रथमे तु त्रिकोणके | नीलांघनां वलाकां च द्वितीये तु त्रिकोणके || कुरुकुल्ला विरोधिन्यौ विप्रवित्तां तृतीयके | उग्रामुग्रप्रभां दीप्तां चतुर्थे तु त्रिकोणके || मात्रां मुद्रांमितां चैव त्रिकोणे पंचमं यजेत् | सर्वाः श्यामा असिकरामुण्डमाला विभूषणा || प्. १३८ब्) तर्जनी वामहस्तेन धारयंत्यश्चसंमिताः | त्रिस्त्रिः पूजाप्रकर्तव्या सर्वासामपि साधकैः || अथाष्टदले || ब्रह्माद्याः पूजयेत् पत्रे पत्राग्रे भैरवान् यजेत् | लोकपालां स्ततो वाह्ये तदस्त्राणि च तद्वहिः || वहिर्मण्डलतश्चापि ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डा कौमारी चापराजिता || वाराही च तथा पूज्या नारसिंही तथैव च | तारं पाशां तथा श्री च ब्राह्मी श्रीपादुकां ततः || पूजयामित तश्चैव ध्यायेत्तां ब्रह्मणप्रियां | ब्रह्माणी हंसमारूढां स्वर्णवर्णां चतुर्भुजां || चतुर्वक्त्रां त्रिनेत्रां च कूर्चं च पंकजं तथा | दण्डं पद्माक्ष सूत्रं च दधतीं चारुहासिनी || जटाजूटधरां देवीं भावयेत् साधकोत्तमः | एवं ध्यात्वा ब्रह्मपत्नीं यथाशक्त्याय यत्प्रिये || ओं इस्मृत्वा नारायणी श्रीपादुकां ततः परं | पुजयामीति चोद्धृत्य ध्यायेत्तां वैष्णवी प्रिये || नारायणी महादीप्तां श्यामां गरुडवाहिनीं | नानालंकार संयुक्तं चारुकेशीं चतुर्भुजां || घण्ठां शंखं कपालं च चक्रं संदधतीं परां | मधुमत्तमदोल्लोल दृष्टिं सर्वाङ्गसुंदरीं || इति द्यात्वा महेशानि यत्नतो भावयेत्ततः | पूजयित्वा महादेवीं माहेश्वरीं यजेत् पुनः || सविंदुं उं समुच्चार्य माहेश्वरीं ततः प्रिये | श्रीपादुकां ततश्चोक्त्वा पूजयामि ततः शिरः || ध्यानमस्यावरारोहे व्रवीमिते निशामय | माहेश्वरीं वृषारूढां शुक्लां त्रिनयनान्वितां || कपालं डमरुं चैव वरदा भयशूलकं | टंकं च दधतीं देवीं नानाभरणभुषितां || पूजयेच्च यथा शक्त्या ध्यानं कृत्वा महेश्वरीं || ऋं वीजं चामुण्डा मुक्त्वा श्रीपादुकां पूजयामि | पूजयित्वा महादेवीं ततो ध्यानं समाचरेत् || चामुण्डो चण्डहासां प्रकटित वदनां भीमवक्त्रां त्रिनेत्रां नीलांभोजप्रभाभां प्रमुदित वपुषं नारमुण्डालि मालां | खड्गं शूलं कपालं नरशिरघटितं खेटकं धारयंती प्रेतारूढां प्रमत्तां मधुमदमुदितां भावयेच्चंडरूपां || प्. १३९अ) एवं ध्यात्वा यजेद्देवीं चामुण्डां जगदीश्वरीं | ऋंकारेण च कौमारीं संपूज्य ध्यानमाचरेत् || कौमारीं कुंकुमा भाभां त्रिनेत्रां शिखि संस्थितां | चतुर्भुजां शक्तिपाशांमंकुशा भयदायिनीं || नानालंकार संयुक्तां प्रमत्तां प्ररिचिंतयेत् | ध्यानं कृत्वा कौमारीं च यथा शक्त्या प्रपूजयेत् || वाग्भवेन महादेवीं पूजयेद पराजितां | सर्वं पूर्वेण विधिना ततो ध्यानं समाचरेत् || अपराजितां च पीताहामक्षमुद्रा वरप्रदां | कमलं मातुलिंगं च दधतीं परिचिंतयेत् || एवं संपूज्य विधिवत् साधको भक्तितो यजेत् | औकारेण सुरेशानि वाराहीं पूजयेत् तदा || ध्यानमस्यानिवोधत्वं वाराह्याः परमेश्वरी | वाराही धूम्रवर्णाभां वराहवदनां शुभां || फलकं खड्गमुशले फलं वेदभुजैर्वृतां | विधिना पूजयेदेनां वाराहीं परमेश्वरीं || विसर्गेण नारसिंहीमर्चयेत् साधकाग्रणीः | नारसिंही नृसिंहस्य विभ्रती सदृशं वपुः || ध्यानमस्याः प्रवक्ष्यामि देवि ते तन्निशामय || कोपादालोलजिह्वा विवृत निजमुखां सोमसूर्याग्नि नेत्रां पादानां वाभिरक्तामुपरि हृदितां भिन्नदैत्येंद्रगात्रीं | चक्रं शंखं च पाशांकुशकुलिशगदावारणानुद्धृहंती भीमां तीक्ष्णाग्रदंष्ट्रां मणिमयमुकुटां नित्यमीडे नृसिंहीं || एवं ध्यात्वा पूजयेत्तु यथा शक्त्या महेश्वरी || अथाष्टदलाग्रे भैरवान् भैरवश्च || असितां गोरुरुश्चण्डः क्रोध उन्मत्त भैरवः | कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः || अथैषाध्यानं || दथतां जनपुंजनीलवर्णान् वरवेताल कपालशूलदण्डान् | लघुदुंदुभि संयुक्तां स्त्रिनेत्रान् करदंडैःकरि हस्तदण्ड चण्डैः || गजकृत्ति निवर्त्तितो तुरीयान् भ्रकुटी संघटितैर्ललाटपट्टैः | ललितालिकुलाभकुंतलाग्रान् मुदितांतः करणान् च यौवनाद्यान् || एतेषां मंत्रो यथा || ह्रस्वार्णा विंदुसंयुक्तां वाङ्माया पूर्वभूषिता || प्. १३९ब्) अथ भैरवाणां स्थाने भैरव्यश्च पूज्याः || भैरवी च महासिंह धूम्रभीमादिकां चतां | उन्मत्तभैरवीं पश्चाद् वशीकरण भैरवीं || पत्राग्रेषु यजेन्मंत्री मोहनाख्यां च भैरवीं | त्रिधा त्रिधा यजेदेता रक्तमालानु लेपनैः || अथ ध्यानमासां || उद्यद्भानु सहस्रकांति मरुणक्षौमां शिरोमालिकां रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिंवरं | हस्ताब्जैर्धतीं त्रिनेत्र विलसद्वक्त्रा रविंदश्रियं देविं वद्धहिमांशु रत्नमुकुटां वंदे समंदस्मितां || अथ भूपुरस्योर्द्धे लोकपालान् पूजयेत् || पूर्वारभ्य ईशानांतं दिक्पालान् पूजयेत् सुधीः | इन्द्रवीजं समुच्चार्य इंद्राय तदनंतरं || सुराधिपतये चोक्त्वा सांगाय तदनंतरं | सपरिवाराय च ततः सायुधा यत तोप्यनु || स वाहनाय च ततो नमस्ते न प्रपूजयेत् || लं रं यं क्षं वं यं शं हं अं कं एवं स्वस्व वीजादीनां दिक्पालान् पूजयेत् || ध्यानं तु || इन्द्रं सुराधिपं पीतमैरावतगतं विभुं | सहस्रनेत्रं द्विभुजं पीतं वज्रधरं भजे || अग्निं तेजोधिपं रक्तं श्वेतशक्तिकरं प्रभुं | सुभूषणं मेषवाहं वंदे रक्तांतलोचनं || यमं प्रेताधिपं कृष्णं महिषो परिसंस्थितं | कालदण्डधरं क्रूरं वृत्तं दूतैर्भयानकैः || रक्षोधिपं च निर्-ऋतं शवासनमास्थितं | धूमाभं खड्गहस्तं च पिंगश्मश्रुः सुकूर्चकं || मकरे संस्थितं विद्युन्निभपाशकरांवुजं | शुभ्रांगतुं दिलं वंदे वरुणं यादसांपतिं || वायुप्राणाधिपं धूम्रं रक्तां कुशकरं परं | वातप्रमी समारूढं ध्यावंते वेगतो भजे || यक्षपतिं कुवेरं च शुक्लं शूलगदाधरं | नरसिंहासनारूढं मेदलं चित्रिणी युतं || विद्याधिपं नीलशूलधरं वृषभवाहनं | त्रिनेत्रं भालचंद्रं च जटाजूटधरंसितं || गौरं नागाधिपं मूर्द्ध्नि फणामंडलभूषितं | पीनोत्तुंगं चक्रधरमनंतं विसगं भजे || लोकाधिपं विधातारं रक्तं पद्मकरं शुभं | हंसारूढं वेदपाठं कुर्वंतंतमहंभजे || तथा || प्. १४०अ) इन्द्रोक्त विधिना सर्वं पूजयेत् परमेश्वरी | रक्षो वरुणयोर्मध्ये शेषनागं प्रपूजयेत् || ईशान शक्रयोर्मध्ये ब्रह्माणं पूजयेत् ततः || अथ लोकपालानां मुद्रा यथा || पाणिमूलेसु संलग्ने शाखाः सर्वाः प्रसारिताः | लोकेशानामियं मुद्रा तेषामर्चा सुदर्शयेत् || अथ भूपुरस्य वहिर्दिक्पालास्त्राणि || तद्वहिरर्चये देवि वज्रं शक्तिं च दण्डकं | खड्गं पाशमंकुशं च गदां त्रिशूलमेव च || कुवरो वरुणयोर्मध्ये चक्रं पूज्यं तथैव च | ईशानशक्रयोर्मध्ये पद्मं संपूजयेत् ततः || अथ विशेषाभावे साधारण मंत्रमाह परिवाराणां || नामाद्य वर्णवीजाश्च ङेंतास्तास्तु नमोंतिकाः | श्रीपदं पूर्वमुद्धृत्य पादुका पदमुद्धरेत् || पूजयामि नमः पश्चात् पूजयेद्ङ्गदेवताः | ततः पूर्वोक्त रूपां तु धायैच्चैव हि दक्षिणां || योगिनी चक्रसहितां महाकाल समन्वितां || देव्यास्तु दक्षिणेभागे महाकालं पुनर्यजेत् | पाद्याभिर्मूलदेवीं संपूज्य तर्पयेत् ततः || ततो देव्यैर्धूपदीपौदद्यान्नै वेद्यकं तथा | पुष्पांजलि त्रयं भक्त्या विशेषार्घ्योदकाक्षतैः || देवी वामोर्द्धाधोहस्ते खड्गं मुण्डं च पूजयेत् | देव्यादक्षहस्तोर्द्धाधः पूजयेद भयं वरं || पुनर्मूलं समुच्चार्य सांगायै स परेति च | वारायै नामदेव्याश्च चतुर्थ्यंतमुदीरयेत् || अथ वलिदानं || पूजांते भोजनादौ च वलिंदद्यान् महेश्वरि || तत्रादौ महाकाल वलिदानं तस्य मंत्रो यथा || हुमंते च महाकालाछ्मशानाधिप इत्यपि | इममंते सामिषान्नं वलिं गृह्नयुगं ततः || गृह्नापय पदद्वंद्वं विघ्ननिवारणं ततः | कुरु सिद्धिं च मे चैव प्रयच्छ स्वाहयायुतः || महाकालाय देवाय प्रणवाद्येन दापयेत् || अथ देव्या वलिदानं मंत्रोपि || एह्येहि जगतां मातर्जगतां जननी तथा | गृह्न गृह्न इमं नित्यं वलिदान मतः परं || सिद्धिं देहि पदद्वंद्व ततः शत्रुक्षयं कुरु | वायुशब्दं समुच्चार्य कूर्चयुग्मं पुनः पुनः || हृल्लेखा द्वितयं पूर्वमंते च ठद्वयं पुनः | तदा मंत्र समुद्धृत्य फडंते वह्नि सुंदरी || प्. १४०ब्) वलिदानमिदं चित्रं सर्वतंत्रेषु गोपितं | सर्वासु काली विद्या सु यथा नाम्ना क्षिपेद्वलिं || वलिभिः साध्यते मुक्तिर्वलिभिः साध्यते दिवं | वलिदानेन स ततं जपेच्छत्त्र नृपान्नृपः || एवं पूजां पुरा कृत्वा मूले नैव यथा विधिः | नैवेद्यादि यथाशक्त्या दद्याद्दैव्यै पुनः पुनः || ततो नीराजनं कुर्याद्दशवारं प्रदीपकैः | ततः समाहितं मंत्री गुरुं नत्वा शिरः स्थितं || महाकाल महामंत्रं जपेदष्टोत्तरं शतं || श्री-ईश्वर उवाच || कुल्लुकां मूर्द्ध्नि संचिंत्य हृदि सेतुं विचिंतयेत् | महासेतुं विशुद्धौ च सहस्रारे समुद्धरेत् || मणिपूरे तु निर्वाणं महाकुण्डलिनीमतः | स्वाधिष्ठाने कमराजं काकिनी मूर्द्ध्नि संस्थितां || विचिंत्य विधिवद्देवी मूलाधारांतिकाच्छिरे | विशुद्धांतं स्मरेद्देवी विसतंतु तनीयसीं || वेदस्थानाद्विजिह्वांतं मूलमंत्रा वृतां विभुः || अथ दीपनी विद्या || कांतां तं जीवनीवीजं त्रिपदो परिभूषितं | कलामनुस्वरोपेतं वीजत्रयमुदाहृतं || तुंवुरुं च ततो दद्यात् संहारं च ततः परं | विद्यादौ योजयेद्देवी विंदुत्रय कलान्वितं || एषा तु दीपनी विद्या सर्वाम्नायै नमस्कृता | तत्प्रभापटहैर्जिह्वां प्रदीप्तां च विभावयेत् || अज्ञात्वा दीपनीं विद्यां योजयेत् कालिकां परां | सोचिरान्मृत्युमाप्नोति मृते च नरकं व्रजेत् || अथ मंत्र ध्यानम् || मंत्र ध्यानं प्रवक्ष्यामि जपात् सार्वज्ञदायकं | मंत्रध्यानान्महेशानि सिद्ध्यते ब्रह्मयतः || मूलादि ब्रह्मरंध्रांतं सर्वां विद्यां विभावयेत् | सूर्यकोटि प्रतीकाशां योगिभिर्दृष्ट पूर्विकां || देवता गुरुमंत्राणामैक्यं संभावयन् धिया | स वासनां जपेन्मंत्रं संतुष्टः स्थिरमानसः || दंताक्षमालया चैव राजदंते नमेरुणा | मूलमंत्रेणाथ पूर्वन्यासान् सर्वान् समाचरेत् || अष्टोत्तर सहस्रं तु तदर्द्धं त्रिदशं तु वा | अष्टोत्तरशतं वापि जपेन्नित्य मनन्यधीः || तेजोमयं जपफलं देव्या हस्ते समर्पयेत् | स्तुवन्प्रदक्षिणीकृत्य दण्डवत् प्रणमेद्भुवि || प्. १४१अ) श्रीजगलन्मंगलंनाम कवचं प्रपठेस्ततः || अथ दक्षिणं || ततो वै शिरसि पुष्पं दत्वाष्टांगं प्रणम्य च | प्रसार्यं दक्षिणं हस्तं स्वयं नम्राननं पुनः || दर्शयेद् दक्षिणं पार्श्वं मनसापि प्रदक्षिणं | त्रिधा च वेष्टयेत् सम्यक् कालिकायाः प्रदक्षिणं || स च प्रदक्षिणो ज्ञेयः सर्वदेवौघ तुष्टिदः | अष्टोत्तरशतं यस्तु कालिकायाः प्रदक्षिणं || सर्वान् कामानवाप्नोति पश्चान् मोक्षमवाप्नुयात् | तथैव मनसा प्रोक्तं वाचिकं कायिकं तथा || सकलं पूर्ववत् कार्यं वामदक्षिणभेदतः | अयं विशेषः कथितः सामान्यं पूर्वमीरितं || इति श्रीतंत्रचिंतामणौ श्रीदक्षिणकालिकायाः नित्यार्चननिर्णयो नामैकविंशतितमः प्रकाशः || २१ || अथ कर्पूरस्तवमाह || कर्पूरं मध्यमांताः स्वरपररहितं सेंदुवामाक्षियुक्तं वीजं ते वामातरेतत्त्रिपुरहरवधूत्रिः कृतं ये जपंति | तेषां गद्यानि पद्यानिजमुखकुहरादुल्लसंत्येव वाचः स्वच्छंदं ध्वांतधाराधररुचिरुचिरे सर्वसिद्धिंगतानां || ईशानः सेंदुवामश्रवण परिगतो वीजमन्मन्महेशि द्वन्द्वांते मंदचेता यदि जपति जनोवारमेकं कदाचित् | जित्वा वाचामधीशं धनदमपि चिरं मोहयन्नम्वुजाक्षी वृन्दं चंद्रार्द्धचूडे प्रभवति सममहाघोररावावतंसे || ईशो वैश्वानरस्थः शशधरविलसद्वामनेत्रेणयुक्तो वीजंते द्वंद्वमन्यद्विगलित चिकुरे कालिके ये जपंति | द्वेष्टारंध्रंतिते च त्रिभुवनमपितेवश्यभावं नयंति सृक्कद्वंद्वा प्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरे च || ऊर्द्ध्वं वामे कृपाणे करकमलतले छिन्नमुण्डं ततोधः सव्येभीतिं वरं च त्रिजगद्यफलेदक्षिणे कालिके च | जप्त्वैतं वामये वा तव मनु विभवं भावयत्तस्तदर्थं तेषामष्टौकरस्थाः प्रकटितरदने सिद्धयस्त्र्यम्वकस्य || वर्गाद्यं वह्नियुक्तं विधुरति ललितं तंत्रयं कूर्चयुग्मं लज्जाद्वंद्वं च पश्चात् स्मितमुखं तदधष्ठद्वयं योजयित्वा | मातर्येये जपंति स्मरहरमखिले भावयंतः स्वरूपंते लक्ष्मीलाक्ष्य लीलाकमलदलदृशः कामरूपा भवंति || प्. १४१ब्) प्रत्येकं वा द्वयं वा त्रयमपि च परं वीजमत्यंतगुप्तं त्वन्नाम्ना योजयित्वा सकलमपि सदाभावयंतोजपंति | तेषां नेत्रा रविं देवि रहति कमलावक्त्र शुभ्रां शुविम्व वाग्देवी देविमुण्डस्रगतिशयलसत् कंठपीनस्तनाढ्ये || गतासूनां वाहु प्रकरकृत कांची परिलसन्नितं वां दिग्वस्त्रां त्रिभुवन विधात्रिं त्रिनयनां | श्मशानस्थेतल्येसेव हृदि महाकालसुरतः प्रसक्तां त्वां ध्यायेत् जननि जडचेता अपि कविः || शिवाभिर्घोराभिः शवनिवहमुण्डास्थिनिवहैः परं संकीर्णायां प्रकटित चितायां हरवधुं | प्रविष्टां संतुष्टामुपरिसुरतेनाति युवतीं सदात्वां ध्यायंती क्वचिदपि न तेषां परिभवः || वदामः किंवात्वां जननिवयमुच्चैर्जडधियोन धातानापीशोन हरिरपिते वेत्ति परमं | तथापि त्वद्भक्तिर्मुखरयति चास्माकमसि ते तदेतत्क्षंतव्यं न खलु पशुंरोसः समुचितः || समंतादापीनस्तनजघनधृक् यौवनवतीरतासक्तो नक्तं यदि जपति भक्तस्तव मनुं | पिचासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुविचिरतरं जीवति कविः || समाः स्वस्थी भूतां जपति विपरीतां यदि सदा विचिंत्यत्वां ध्यायन्नतिशय महाकालसुरतां | तदा तस्य क्षोणींतल विरहमाणस्य विदुषः करांभोजे वश्या हरवधू महासिद्धिनिवहाः || प्रसूतेः संसारं जननि भवती पालयति यत्समस्तं क्षित्यादि प्रलयसमये संहरति च | अतस्त्वांधातापि त्रिभुवनपतिः श्रीपतिरहो महेशोपि प्रायः सकलमपि संस्तौति भवतीं || अनेकाः सेवंते भवदधिक गीर्वाणनि वहान् विमूढास्ते मातः किमपि न हि जानंति परमं || समाराध्यामाद्यां हरिहरविरिंच्यादि विवुधैः | प्रपन्नोस्मि स्वैरंरतिरस महानंदनिरतां || धरित्री कीलालं शुचिरपि समीरोपि गगणं त्वमेका कल्याणी गिरिशरमणीकालि सकलं | स्तुतिः कातेमातस्तवचरणयोर्मामगतिकं प्रसन्नास्त्वं भूयाद्भवमनुरभूयान्ममजनुः || प्. १४२अ) श्मशानस्थः सुस्थोगलित चिकुरोदिक् पटधरः सहस्रं त्वर्काणां निजगलितवीर्येण कुसुमं | जपन् त्वत् प्रत्येकं मनुमपि विध्वान निरतो महासालिखैरं स भवति धरित्री परिदृकः || गृहे संमार्जन्या परिगलित वीर्य हि चिकुरं समूलं मध्याह्ने वितरनिचितायांकुज दिने | समुच्चार प्रेक्ष्णायनुमपि सकृत् कालि स ततं गजारुढो याति क्षिति परिवृतः सत्कविवरः || स्वपुष्पैराकीर्णं कुसुमधनुषो मंदिरमहापुरोध्यायन् यदि जपति भक्तस्तव मनुं | स गंधर्वः श्रेणईपतिरिव कवित्वा मृतनदी नदीनः पर्यंतं परमपदलीनः प्रभवति || त्रिपंचारे पीठे शवशिवहृदिस्मेस्वदनां महाकालेनोच्चैर्मदन रसलावण्यनिरतां | समायुक्तो नक्तं स्वयमपिरतानंदनिरताजनोयोध्यायेत्वां जननिकिलसस्यात् स्मरहरः || स लोमास्थिस्वैरं पललमपि मार्जारमपि वा परं मौषं मेषं नरमहिषयोश्छागमपि वा | वलिं ते पूजायां मयि विरलवक्त्रे वितरंतां न किं सिद्धिः सर्वाप्रति पदमपूर्वा प्रभवति || वशीलक्षं मंत्रं जपति हविष्याशनरतो दिवामातर्युष्मच्चरण कमलध्याननिरतः | परं नक्तो नग्नो निधुवन विनोदेन च मनुंजनोर्लक्षं सम्यक् परहर समानः क्षितितले || इदं स्तोत्रं मातस्तव मनुसमुद्धारण जपस्वरूपाख्यं पादांवुज युगल पूजाविधियुतं | निशार्द्धं वा पूजासमयमधिवायस्तु पठति प्रलापस्तस्यापि प्रसरति कविस्वामृतरसः || कुरंगाक्षी वृंदंत मनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुवेर प्रतिनिधिः | रिपुः कारागारं कलयति च तत्केलि कलया चिरंजीवन्मुक्तं प्रभवति सुभक्तः प्रतिजनिः || इति श्रीमहाकालकृतं कर्पूरस्तोत्रं समाप्तं || अथास्यपुरश्चरणम् || कपूराख्यमिदं स्तोत्रं यदुक्तं भवता पुरा | षट्कर्मसाधनं तस्य प्रयोगं वद शंकर || श्रीशिव उवाच || शृणु देवि प्रवक्ष्यामि कर्पूरस्तवसाधनं | सकृत् कृतेपि देवेशि काली तुष्टा भवेत् सदा || प्. १४२ब्) शनिभौमदिने देवि स्नात्वा प्रयतमानसः | संपूज्य कालिकां देवीं संकल्पं सम्यगा चरेत् || कृत्वा षोढादिकं देवि पठेत् स्तोत्र मनुत्तमं | अयुतैक प्रमाणेन तद्दशांशं हुनेत् सुधीः || तर्पणं चाभिषेकं च ब्राह्मणान् भोजयेत् ततः | पश्चात् स्वकार्य सिद्ध्यर्थं प्रयोगाना चरे तदा || प्रयोगमात्रे देवेशि अष्टोत्तर सहस्रकं | योजयेत् सर्वकार्यार्थं कामनाभेदभावितः || आकर्षणे वशीकारे मारणोच्चाटने तथा | राज्ञो भये समुत्पन्ने दुर्भिक्षे शत्रुसंकटे || त्रासोत्पन्ने महेशानि रोगशोक भये तथा | पठेत् स्तोत्रं महाकाल्याः सर्वशांतिं प्रयच्छति || कुमारी पूजनं चांते कर्तव्यं सुसमाहितः | एवं कृते महेशानि सम्यक् सिद्धिर्भवद्ध्रुवम् || अथ जगन्मंगलकवचं || भैरव्युवाच || कालीपूजा श्रुतानाथ विद्याश्च विविधाः प्रभो | इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितं || त्वमेव शरणं नाथ त्राहिमां दुःखसंकटात् || श्रीभैरव उवाच | रहस्यं शृणु वक्ष्यामि भैरव प्राणवल्लभे | श्रीजगन्मंगलं नामकवचं मंत्रविग्रहं || पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत् क्षणात् | नारायणोपिय कृत्वा नारी भूत्वा महेश्वरं || योगः संक्षोभमनयद्यद्धृत्वा च रघूद्वहः | वरदृप्तान् जघानेव रावणादीन् निशाचरान् || यस्य प्रसादादीशोपि त्रैलोक्यविजयी विभुः | धनाधिपः कुवेरोपि सुरेशो भुच्छवीपतिः || एवं हि स कला देवाः सर्वसिद्धीश्वराः प्रिये | श्रीजगन्मंगलस्यास्य कवचस्य ऋषिः शिवः || छंदोनुष्टुप् देवता च कालिका दक्षिणेरिताः | जगतां मोहनें दुष्टविजये भुक्तिमुक्तिषु || योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः | शिरो मे कालिकापातु क्रींकारैकाक्षरीपरा || क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी | हूं हूं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम || प्. १४३अ) दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरई | क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपालकं || वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणी | द्वाविंशत्यक्षरीस्कंधौ महाविद्या शुभप्रदा || खड्गमुण्डधराकाली वरदाऽभयकारिणी | विद्याभिः सकलाभिश्च सर्वाङ्गमेभितोऽवतु || क्रीं हूं क्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम | ऐं हूं ओं ऐं स्तनद्वंद्वं ह्रीं फट् स्वाहा ककुस्थलं || अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका | क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षडक्षरी मम || क्रीं नाभि मध्यदेशं च दक्षिणे कालिके च तु | क्रीं स्वाहा पातु पृष्ठं तु कालिका सा दशाक्षरी || हूं ह्रीं दक्षिणे कालिके क्रीं हूं पातु कटिद्वयं | कालिका द्वादशक्षरी स्वाहा ममोरु युग्मकं || ओं ह्रीं क्रीं मे स्वाहा पातु कालिका जानुनां सदा | काली हृन्नाम विद्येयं चतुर्वर्ग फलप्रदा || क्रीं हूं ह्रीं पातु मे गुल्फं दक्षिणे कालिकेपि च | क्रीं हूं ह्रीं स्वाहा पातु चतुर्दशाक्षरी मम || खड्गमुण्डधरा काली वरदाऽभयधारिणी | विद्याभिः स कलाभिः सा सर्वांगमभितोऽवतु || काली कपालिनी कुल्ला कुरु कुल्ला विरोधिनी | विप्रचित्ता तथा ग्रोग्र प्रभादीप्ताघनत्विषः || नीलाघनवलाका च मात्रामुद्रामिता च मां | एताः सर्वाः खड्गकरा मुण्डमाला विभूषणा || रक्षं तु मां दिग्विदिक्षु ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डा कौमारी चापराजिता || वारीही नारसिंही च सर्वाश्चामितभूषणा | रक्षं तु सायुधैर्दिक्षु विदिक्षुमां यथा तथा || इति ते कथितं दिव्यं कवचं परमाद्भुतं | श्रीजगन्मंगलं नामकवचं मंत्रविग्रहं || त्रैलोक्याकर्षकं ब्रह्मकवचं मन्मुखोदितं | गुरुपूजां विधायाथ विधिवत् प्रपठेत् ततः || कवचं त्रिःसकृद्वापि यावज्जीवं च वा पुनः | एतच्छतार्द्धमावर्त्य त्रैलोक्यविजयी भवेत् || त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः | महाकवि भवेन्मासात् सर्वसिद्धीश्वरो भवेत् || पुष्पांजलीन् कालिकायै मूले नैव पठेत् सकृत् | शतवर्ष सहस्राणां पूजायाः फलमाप्नुयात् || भूर्जे विलिखितं चैतत्स्वर्णस्थं धारयेद्यदि | शिखायां दक्षिणे वाहौ कण्ठे वा धारयद्वुधः | त्रैलोक्यं मोहये क्रोधात् त्रैलोक्ये चूर्णयेक्षणात् | पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् || प्. १४३ब्) ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्र स्पर्शनात् ततः | नाशमायांति देवेशि नात्र कार्या विचारणा || काकवंध्या च या नारी वंध्या चामृत पुत्रिणी | कण्ठे वा नामहस्ते वा कवचस्य वधारणा || वहुपत्या जीववत् साद्भवत्येव न संशयः | न देयं परशिष्येभ्यो अभक्तेभ्यो विशेषतः || शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् | स्पर्द्धातुद्धूय कमला वाग्देवी मुखमंदिरे || पौत्रां तस्थैर्यमास्थाय निवसत्येव निश्चितं | इदं कवचम ज्ञात्वा यो भजेत् कालिदक्षिणा || शतलक्ष प्रजप्तापि तस्य विद्या न सिद्ध्यतिः | स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् || इति श्रीभैरवतंत्रे भैरवभैरवीसंवादे श्यामाकवचं समाप्तम् | अथ शतनाम || भैरव उवाच || महाकाल प्रवक्ष्यामि देव्या अष्टोत्तरं शुभं | यद्गुह्यं परमं पुण्यं सर्वत्र भयनाशनं || महती चेतनां मायां महादेवीं महेश्वरीं | महाबुद्धिर्महाचण्डां महाकालीं महाकलां || महामुद्रां महावुद्धां महानिद्रां महोद्भवां | महाशुर्भ्रा महालक्ष्मींर्महाभागां महोदयां || महामोहां मोहदृष्टिर्महापुष्टिर्महाजयां | महाधृतिर्महाघोरां महादंष्ट्रां महाद्युतिः || महाकांतिर्महापद्मां महासिद्धां महातपां | महास्वधां महोत्स्यहां महावोधां महासुधां || महावंधन संहर्त्रीं महाभयविनाशिनीं | महानेत्रां महावक्त्रां महाजिह्वां महाभुजां || महामहीरुहापाणिर्महाजोवां महानकां | महाकांतिर्महाक्षांतिर्महाप्रीतिर्महामतिः || महाश्वासां महासुज्ञां महापर्वतवासिनीं | महाब्रह्ममयीं माता महाकाया महारवां || महास्वरा श्रीर्महती पार्वती चण्डिका शिवां | महाकुलां महालोलां महामतां महाधनां || महानीलां महाशैलां महावाहां महावलां | महाचिंतां महाचित्तां महाहेतुर्यशस्विनी || महाविद्यां महासाध्या महामेधां महामतीं | महाशूलीं महादर्यां महादुःस्वप्ननाशिनी || प्. १४४अ) महामोक्षप्रदां मोक्षां महादक्षासहायनीं | महादक्षां महावार्णी महाश्वेकविनाशिनीं || महाकाला महाधारा महामाया च खेचरी | महाक्षेमंकरीख्यस्या महैश्वर्य प्रदायिनीं || महाविषघ्नां विषहां महादुर्ग प्रणाशिनीं | महादुर्गा महामतत्वां महाकैलासवासिनीं || महासुतत्वीसुभगा महेज्या च महासतीं | महाप्रत्यंगिरो नित्या महाप्रेत करालिनी || महाशांतिर्महामुक्तिर्महामंगलकारिणीं | य इदं कीर्तयेद् भक्त्या विषमस्थो भवेद्यदि || लोहपंजर मध्यस्थ तस्य नश्यति वंधनं | राजानोदासतां चांति भवेत् सर्वजनप्रियः || अचला श्रियमाप्नोति तस्य नश्यंत्युपद्रवाः | संग्रामे विजये छत्रून् खगवन्तगानि च || न विषं क्रमते देहेन मृत्युः पावके जले | ना काले मरणं तस्य कदाचित् संभविष्यति || यं यं कामयते कामं तं तं प्राप्नोति नित्यशः | वहुना किमिहोक्तेन सर्वसिद्धिप्रदं नृणां || इति श्रीरुद्रयामले भैरवसंवादे श्यामाष्टोत्तरशतनामस्तोत्रं संपूर्णम् || अथ ककारादि सहस्रनाम || कैलाशशिखरेरम्ये नानादेवगणावृते | नानावृक्ष लताकीर्णे नानापक्षिरवैर्युते || चतुर्मण्डल संयुक्ते शृंगार मण्डपस्थिते | समाधौ संस्थितं शांतं क्रीडंतं योगिनी प्रियं || तत्र मौनधरं दृष्ट्वा देवी पृच्छति शंकरं || देव्युवाच || किं त्वया जप्यते नाथ किं त्वया स्मर्यते सदा | सृष्टिः कुत्रविलीनास्ति पुनः कुत्र प्राजापते || ब्रह्माण्ड कारणं किंतेत् किमाद्यं कारणं महत् | मनोरथमयी सिद्धिर्वांछा सिद्धिस्तथा शिव || तृतीया कल्पनासिद्धिः कोटि सिद्धीश्वरत्वकं | शक्तिपाताष्ट दशकं चराचर पूरीगतिः || महेन्द्रजालमिंद्रादि जालानां रचना तथा | अनिमा खेचरत्वं च परकाय प्रवेशनं || नवीन सृष्टिकरणं समुद्रशोषणं तथा | अमाया चंद्रसंदृश्योदि वा चंद्रप्रकाशनं || चंराष्टकं चाष्टदिक्षु तथा चंद्राष्टकं शिव | जलेजलमयत्वं च वह्नौ वह्निनयत्वकं || ब्रह्मविष्ण्वादि निर्माणमिंद्राणां करणं परं | पादुका गुटिका पक्षिवेताल पंचकं तथा || प्. १४४ब्) रसायनं तथा गुप्तिस्तथैव च विलां जनं | महामधुमती सिद्धिस्तथा पद्मावती शिव || तथा भोगवती सिद्धिर्यावत्यः संति सिद्धयः | केन मंत्रेण तपसा कलौ पाप समाकुले || आयुष्य पुण्यरहिते कथं भवति तद्वद || शिव उवाच || विना मंत्रं विना स्तोत्रं विनैव तपसा प्रिये | विना वलिम् विनाभ्यासं भूतशुद्धिं विना प्रिये || सिद्धिराशुभवेद्येव तदेव कथ्यते महः | अन्ये ब्रह्माण्डगोले तु पंचाशच्छुभ मध्यगे || पंचशून्ये स्थितात्तारा सर्वांते कालिका स्थिता | अनंतकोटि ब्रह्माण्डं राजदंताग्रके शिवे || स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च | महानिर्गुण रूपा तु वाचा तीता परा कला || क्रीडया शून्यरूपं तु भर्तारं तु प्रकल्पयेत् | सृष्टेरारंभ कार्यार्थं छाया दृष्टा तदा तया || इच्छाशक्तिस्तु सा जाता तया कालो विनिर्मितः | प्रतिविंवं तत्र दृष्टं जाता ज्ञानाभि धातु सा || इदमे तत् किं विशिष्टं ज्ञानविज्ञानकं यदा | तदा क्रिया द्विधा जाता तदिच्छाते महेश्वरि || ब्रह्माण्डगोलं देवेशि राजदंत्त स्थितं तु यत् | सा क्रिया स्थापयामासस्वस्वस्थान क्रमेण च || तत्रैव स्वेच्छया देवी सामरस्य परायणा | यदिच्छा कथ्यते देवि यथा वदवधारय || युगादि समये देवि शिवं परगुणोत्तरं | तदिच्छानिर्गुणं शांतं सच्चिदानंद विग्रहं || सास्वतं सुंदरं शुद्धं सर्वदेव युतं परं | आदिनाथं गुणातीतं काल्यसंयुतमीश्वरं || विपरीतरतं देवं सामरस्य परायणं | पूजार्थमागतान् देवगंधर्वाप्सरसांगणान् || यक्षिणी किन्नरीमर्त्या सर्वास्याद्या तिलोत्तमा | वीक्ष्य तन्मायया प्राह सुंदरि प्राणवल्लभे || त्रैलोक्यसुंदरि प्राणस्वामिनि प्राणरंजनि | किमागतं भवत्पाद्य ममभाग्यार्णवो महान् || उक्त्वा मौनधरं शंभूं पूजयत् यप्सरोगणाः || गंधर्वा ऊचुः || संहारात्तारितं देवत्वया विश्वजनप्रिय | सृष्टेरारंभ कार्यार्थ मद्युक्तोसि महाप्रभो || प्. १४५अ) वश्या कृत्यमिदं देवमंगलार्थ प्रगायणं | प्रयाणोत्सुव काले तु समारंभे प्रगायणं || युगाद्यारंभ काला हि वर्तते मृडशंकर | इंद्राणी कोटयः संति तस्या प्रश्रग्वविंदुतः || ब्रह्माणी वैष्णवीणां च माहेशी कोटिकोटयः | तवसामरसानंदं दर्शनार्थं समुद्भवाः || संजाताश्चागता देवचात्माकं सौखसागर | रतिं हित्वा कामिनीनां नान्य सौख्यं महेश्वर || सारतिर्दृश्यते स्माभिर्महत् सौख्यार्थकारिका | एवमेव तु चास्याभिः कर्तव्यं भर्तृणा सह || एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः | ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति || कालिकालि रुण्डमाले प्रिये भैरवनादिनी | शिवारूपधरे क्रूरे घोरदंष्ट्रा भयानके || त्रैलोक्या भक्षणकरि सुंदर्याः संतितेग्रतः | सुंदरी वीक्ष्यणं कर्म कार्यकाल प्रिये शिवे || ध्यानं मुंच महादेवी ना गच्छंति गृहं प्रति | तव रूपं महाकालि ममकाल प्रियं करं || एतासां सुंदरं रूपं त्रैलोक्य प्रियकारकं | एवं माया भ्रमाविष्टो महाकालो वदन्निति || ईदृक्कालवचः श्रुत्वा कालं प्राह च कालिका | माययाच्छाद्य चात्मानं निजस्त्रीरूपधारिणी || इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे | कल्पाद्यौषधयो देवि दिवावल्ली स्वरूपतां || रात्रौ स्त्रीरूपमासाद्य क्रीडंती च परस्परं | अज्ञान चैव सर्वेषां भविष्यति युगे युगे || एवं शाप प्रदत्वा तु पुनः प्रोवाच कालिका | विपरीतरतं कृत्वा चिंतयंति भजंति ये || तेषां वरं प्रदास्यामि तत्र नित्यं वशाम्यहं | इत्युक्त्वा कालिका विद्या तत्रैवांतरधीरयत || त्रिंशन्निखर्वे षड्वृंदनवत्यर्वुदकोटयः | दर्शनार्थं तपस्तेपे सा वै कुत्रगता प्रिये || मम प्राणप्रिया देवि महाप्राणप्रिया मम | किं करोमिक गच्छामि इत्येवं भ्रमसंकुलः || तदा काल्याः कृपा जाता ममचिंता परः शिवः | यंत्र प्रस्तार वुद्धिस्तु काली ददाति सत्वरं || प्. १४५ब्) यंत्रं क्षातं तदारभ्य पूर्वं सिद्ध न गोचरा | श्रीचक्रराज प्रस्तार रचनाभ्यास तत्परः || इतस्ततो भ्राम्यमाणस्त्रैलोक्यं चक्रमध्यगं | चक्रपारं दर्शनार्थं कोद्यर्वुदयुगं गतं || भक्त प्राण प्रिया देवी महाश्रीचक्रनायिका | तत्र विंदौ परं रूपं सुंदरं सुमनोहरं || रूपं जातं महेशानि जाग्रत्त्रिपुरसुंदरी | रूपं दृष्ट्वा महादेवो राजराजेश्वरोह्य भूत् || तस्याः कटाक्ष मात्रेण तस्या रूपधरः शिवः | विना शृंगार संयुक्तां तदा जाता महेश्वरी || विना काल्यं शतो देवी जगत्स्थावरजंगमं | न शृंगारो न शक्तित्वं क्वापि नास्ति महेश्वरी || सुंदर्या प्रार्थिता काली तुष्टा प्रोवाच कालिका | सर्वेषां नेत्रकेशेषुममां श्रोत्र भविष्यति || पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये | सावतस्थोरुणाख्यातु तदं ते नैव तिष्टति || मद्भक्तानां महेशानि सदा तिष्टति निश्चितं | शक्तिस्तु कुंठिता जाता तथा रूपं न सुंदरि || चिंताविष्टाति मलिना जाता तत्र तु सुंदरी | क्षणं स्थित्वा ध्यान पराकालं चिंतन तत्परा || तदा काली प्रसन्ना भूत् तत्क्षणा देव निश्चितं | वरं व्रूहिवरं व्रूहिवरं व्रूहीतिसादरं || सुंदर्युवाच || मम शक्तिं परां देहि वरोयं प्रार्थितो मया | तादृगुपायं कथय येन शक्तिर्भविष्यति || काल्युवाच || ममनाम सहस्रं च मयापूर्वं विनिर्मितं | मत्स्वरूपं ककाराख्यं महासाम्राज्यनायकं || वरदानाभिधं नाम क्षणार्द्धाद्वरदायकं | तत्पठस्वमहामाये तव भक्तिर्भविष्यति || ततः प्रभृति श्रीर्विद्या तन्नाम पाठ तत्परा | तदेव नाम साहस्रं सुंदरी शक्तिदायकं || कथ्यते परया भक्त्या साधयः स्वमहेश्वरी | मद्यैर्मासैस्तथा शुक्रैः सर्वैरक्तैस्तथा प्रिये || तर्पयेत् पूजयेत् कालीं विपरीतरतिं चरेत् | विपरीतरते देवि काली तिष्ठति नित्यशः || माध्वीक शुक्रपुष्पा तु मैथुनानु विरागिनी | वैष्णवी व्यापका विद्या श्मशानेवासिनी परा || वीरसाधन संतुष्टा वीरास्फालनि नादिनी | शिवावलि प्रहृष्टात्मा शिवारूपादि चण्डिका || प्. १४६अ) कामानंदा परास्तोत्र प्रिया मत्युग्रमानसा | ब्रह्मानंद परासांद्र मैथुनानंदतोषिणी || योगींद्र हृदयागारा दिवा निशि विपर्यया | विपरीता दिवा निशि विपरीतरता सुरा || क्षणात्तुष्टा च प्रत्यक्षा दंतामाला जपप्रिया | खड्गहस्तौ मुक्तकेशो दिगम्वर विभूषितः || शययास्थो चुम्वना नंदी वेश्यासंग परायणः | पठेत् सहस्रनामाख्यं मेधा साम्राज्यनामकं || यथा दिव्यामृतैर्दिव्या प्रसन्ना क्षणमात्रतः | तथानेन समाकाली प्रसन्ना पाठमात्रतः || कथ्यते नाम साहस्रं सावधान मना शृणु | सर्वसाम्राज्य मेधाख्यनाम साहस्रकस्य च || महाकालो ऋषिः प्रोक्त उष्णिक् छंदः प्रकीर्तितः | देवता दक्षिणाकाली मायावीजं प्रकीर्तितं || हूं शक्तिः कालिकं वीजं कीलकं परिकीर्तितं | कालिका वरदानाभिः स्वेष्टार्थे विनियोगताः || कर्पूरेण षडंगानि षड्दीर्घाद्येन कारयेत् | ध्यानं च पूर्ववत् कृत्वा साधयेत् स्वेष्टसाधनं || ओं क्रीं काली क्रूं कराली च कल्याणी कमलाकला | कलावती कलाख्या च कला पूज्या कलात्मिका || कला हृष्टा कला पुष्टा कला कष्टा कलाकरा | कलाकोटि समासाभा कलाकेलि प्रपूजिता || कलामयी कलाधारा कलापारा कलागमा | कलाधारा कमलिनी ककारा करुणाकरी || ककारवर्ण सर्वांगी कलाकोटि विभूषिता | ककारकोटि गुणिता ककारकोटि भूषणा || ककारवर्ण हृदया ककार मनुमण्डिता | ककारवर्ण मुकुटा ककारवर्णभूषिता || क क क क वर्णरूपा क क शब्दपरायणा | क क वीरास्फालरता कमलाकरपूजिता || कमलाकरनाथा च कमलाकर रूपधृक् | कमलाकर सिद्धिस्था कमलाकरपारदा || कमलाकर मध्यस्था कमलाकरतोषिता | कथंकारपरालापा कथंकार परायणा || कथंकार पदांतस्था कथंकार पदाद्यभूः | कमलाक्षी कमलजा कमलाक्ष प्रपूजिता || कमलाक्ष वरोद्युक्ता ककारा कर्वुराक्षरा | करतारा करच्छिन्ना करश्यामा कलार्णवा || करपूज्या कररता करदा करपूजिता | करतोया करामर्शा कर्मनाशा कनप्रिया || करप्राणा करकजा करकाकरकांतरा | करकावलरूपा च करकावलशोभिनी || प्. १४६ब्) ककारचलपुत्री च करका च तोषिणी | करका चल गेहस्था करकाचल रक्षणी || करकाचल सन्मान्या करकाचलकारिणी | करकाचल वषाढ्या करकाचल रंजिता || करकाचल कांतारा करकाचलमालिनी | करकाचल शोभाढ्या कराकमलरूपिणी || करामलक संस्था च करामलक सिद्धिदा | करामकेले संपूज्या करामलकतारिणी || करामल ककारी च करामलक लोचनी | करामलकमाता च करामकल सेविनी || करामलकवद्ध्ये या करामलकदायिनी | कंजनेत्रा कंजगतिः कंजस्थाकंजधारिणी || कंजमाला प्रियकरी कंजरूपा च कंजजा | कंजजातिः कंजगतिः कंजहोमपरायणा || कंजमंडल मध्यस्था कंजाभरणभूषिता | कंजसम्माननिरता कंजोत्पत्तिः परायणा || कंजराशि समाकारा कंजारण्य निवासिनी | करंज वृक्षमध्यस्थाकरंज वृक्षवासिनी || करंजफलभूषाढ्या करंजारण्यवासिनी | करंजमालाभरणाकवंध शशिमध्यगाः || कवंध कूटसंस्थानाकवंधानतभूषणा | कवंधनाद संतुष्टा कवंधासनकारिणी || कवंध गृहमध्यस्थाक वंधचरवासिनी | कवंधकांचिकरिणी कवंध शशिभूषणा || कवंध माला जयदा कवंध देहवासिनी | कवंधासनमाल्या च रूपालमालधारिणी || कपालमालामध्यस्था कपालव्रततोषिता | कपालदीपसंतुष्टा कपालदीपरूपिणी || कपालदीपवरदा कपालकज्जलस्थिता | कपालमाल जयदा कपालजपतोषिणी || कपालसिद्धि संतुष्टा कपालभोजनोद्यता | कपालव्रतसंस्थाना कपालकमलालया || कवित्वा मृतसारा च कवित्वा मृतसागरा | कवित्व सिद्धि संहृष्टा कवित्वदानकारिणी || कविपूज्या कविगतिः कविरूपा कविप्रिया | कवि ब्रह्माण्डरूपा च कवित्व व्रततोषिता || कविमानससंस्थाना कविवांछा प्रपूरणी | कविकंठस्थिताकं ह्रीं कं कं कं कविपूर्तिदा || प्. १४७अ) कज्जलाकज्जला दानमानसा कज्जलप्रिया | कपालकज्जल समाकज्जलेश प्रपूजिता || कज्जलार्णव मध्यस्था कज्जलानंदरूपिणी | कज्जलप्रियसंतुष्टा कज्जलप्रियतोषिणी || कपालमालाभरणा कपालकरभूषणा | कपालकरभूषाढ्या कपाल चक्रमण्डिता || कपालकोटि निलया कपालदुर्गकारिणी | कपालगिरिसंस्थाना कपालाचलवासिनी || कपालपात्र संतुष्टा कपालार्घ्य परायणा | कपालार्घ्य प्रिय प्राणा कपालार्घ्य वरोद्यता || कपाल चक्ररूपा च कपालरूपमात्रगा | कदली कदलीरूपा कदली वनवासिनी || कदली पुष्पसंप्रीता कदलीफलमानसा | कदली होमसंतुष्टा कदलीदलनोद्यता || कदली गर्भमध्यस्था कदलीवनसुंदरी | कदंवपुष्पनिलया कदंव वनमध्यगा || कदंव कुसुमामोदा कदंववनतोषिणी | कदंव पुष्पसंपूज्या कदंव पुष्पहोमदा || कदंव पुष्पमध्यस्था कदंव फलभोजिनी | कदंव काननांतस्था कदंवा चलवासिनी || कच्छपाकच्छपाराध्या कच्छपासनसंस्थिता | कर्णपूरा कर्णनाशा कार्णाटी कालभैरवी || करप्रीता कलहदा कलहा कलहातरा | कर्णयक्षी कर्णवार्ता कथनी कर्णसुंदरी || कर्णपिशाचिनी कर्णमंजरी कपिकच्छुदा | कपिकच्छुपि रूपाढ्या कपिकच्छु स्वरूपिणी || कस्तूरी मृगसंस्थाना कस्तूरी मृगरूपिणी | कस्तूरी मृगसंतोषा कस्तूरीमृगमध्यगा || कस्तूरी रसनीलांगी कस्तूरीगंधतोषिता | कस्तूरी पूजक प्राणा कस्तूरी पूजक प्रिया || कस्तूरी प्रेमसंतुष्टा कस्तूरी प्रेमधारिणी | कस्तूरी पूजकानंदा कस्तूरीगंधरूपिणी || कस्तूरीमालिकारूपा कस्तूरीपूजनप्रिया | कस्तूरी तिलकानंदा कस्तूरी तिलकप्रिया || कस्तूरी होमसंतुष्टा कस्तूरी तर्पणोद्यता | कस्तूरीमार्जनोद्युक्ता कस्तूरी चक्रपूजिता || प्. १४७ब्) कस्तूरी पुष्पसंपूज्या कस्तूरी चर्वणोद्यता | कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी || कस्तूरिकामोदरता कस्तूरीवनवासिनी | कस्तूरी वनसंरक्षा कस्तूरीप्रेमधारिणी || कस्तूरी शक्तिनिलया कस्तूरी कुण्डमध्यगा | कस्तूरी कुण्डसंस्नाता कस्तूरी चुम्वमज्जना || कस्तूर्यर्घ्येण संतुष्टा कस्तूरी जीवधारिणी | कस्तुरी परमामोदा कस्तूरी जीवनक्षमा || कस्तूरी जातिभावस्था कस्तूरीगंधचुम्बना | कस्तूरीगंधसंशोभिर्विराजित कपालभूः || कस्तूरीदमनांतस्था कस्तूरीमदहर्षदा | कस्तूरिकावितानाद्या कस्तूरी गृहमध्यगा || कस्तूरी स्पर्शक प्राणा कस्तूरी निंदकांतका | कस्तूर्यामोदरसिका कस्तूरी क्रीडनोद्यता || कस्तूरीदाननिरता कस्तूरीवरदायिनी | कस्तूरीस्थापनाशक्ता कस्तूरीस्थानरंजनी || कस्तूरी कुशलप्रश्नकस्तूरीस्तुतिवंदिता | कस्तूरीवंदकाधारा कस्तूरीस्थानवासिनी || कहरूपा कहाढ्या च कहानंदा कहात्मभूः | कहपूज्या कहेत्याख्या कहहेषा कहात्मिका || कहमाला कण्ठभूषा कहमंत्र जपोद्यता | कहनाम स्मृति पराकहनामपरायणा || कहपारायणरता कहदेवी कहेश्वरी | कह हेतुः कहानंदा कहनाद परायणा || कहमाता कहांतस्था कहमंत्रा कहेश्वरा | कहगोत्रा कहाराढ्या कहध्यानपरायणा || कहतंत्रां कहहाकहचर्चापरायणा | कहाचारः कहगतिः कहताण्डवकारिणी || कहारण्या कहगतिः कहशक्तिः परायणा | कहराज्यरताकर्म साक्षिकर्म सुंदरी || कर्मविद्या कर्मगतिः कर्मतंत्रपरायणा | कर्ममात्रा कर्मगात्रा कर्ममर्मपरायणा || कर्मरेखानाशकर्त्री कर्मरेखा विनोदिनी | कर्मरेखा मोहकरी कर्मरेखा विनोदिनी || कर्मरेखा मोहकरी कर्मकीर्तिपरायणा | कर्मविद्या कर्मसारा कर्मधारा च कर्मभूः || कर्मकारी कर्मकरी कर्मकौतुक सुंदरी | कर्मकोली कर्मतारा कर्मछिन्ना च कर्मदा || प्. १४८अ) कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः | कर्मकाण्डरतानंता कर्मकाण्डानुमानिता || कर्मकाण्डपरीणाहा कमठीकमठा कृतिः | कमठाराध्य हृदन्या कमठाकण्ठसुंदरी || कमठासन संसेव्या कमठीकर्म तत्पराः | करुणाकरकांता च करुणाकरवंदिता || कठोरा करमाला च कठोरकुचधारिणी | कपर्दिनी कपटिनी कठिनी कंकभूषणा || करभोरुः कठिनदाकरभाकरमालया | कलभाषामयी कल्पाकल्पना कल्पदायिनी || कमलस्या कलामाला कमलास्या कणप्रभा | ककुद्मिनी कष्टवती कच्छाकच्छार्चिताकजा || कचार्चिता करतनुः कचसुंदरधारिणी | कठेर कुच संलग्ना कटि सूत्रविराजिता || कणभक्षप्रिया कंदा तथा कंदगतिः कलिः | कलिघ्नी कलिदूती च कविनायकपूजिता || कशाकक्षाणि यंत्रा च कश्चित् कविवरार्चिता | कर्त्री च कर्त्रिका भूषा करणी कर्णशत्रुपा || करणेशी करणदा कलनांजनभूषिता | करणेशी करणदाकर्णां वा कलानिधिः || कलदा चलनाधारा करिकाकरकाकरा | कलगे वा कर्कराशिः कर्कराशि प्रपूजिता || कन्याराशिः कन्यका च कन्यका प्रियभाषिणी | कन्यादानकरानंदा कन्यादान शृहेष्टदा || कन्यकादान संतुष्टा कन्यादान प्रतोषिणी | कर्षणाकक्ष दहनाकमिताकमितासना || करमाला नंदकर्त्री करमाला प्रतोषिता | करमालाशवानंदा करमाला समागमा || करमाला सिद्धिदात्री करमाला करप्रिया | करप्रिया करलता करदानपरायणा || करनंदा कलिगतिः कलिपूज्या कलिप्रसू | कलनादनिनादस्था कलनाद वरप्रदा || करनाद समाजस्था कहोला च कहोलदा | कहोरगेहसंस्था च कहोरवरदायिनी || कहोरकविताधारा कहोल ऋषिमानंता | कहोलमानसाराध्या कहोल वाक्यकारिणी || कहोलगेहमध्यस्था कहोलवरकारिणी | कर्तृस्तया कर्तृमयी कर्तृमाता च कर्तरी || कनीया कनकाराध्या कनीनकमयीकथा | कनीयानंद निलया कनकानंदतोषिता || प्. १४८ब्) कनीन ककराकष्टा कथार्णव करीकरिः | करिगम्या करिगतिः करि ध्वजपरायणा || कलिनाथप्रिया कंठा कथानक प्रतोषिता | कमनीया कमनका कमनीय विभूषणा || कमनीय समाजस्या कमनीय व्रतप्रिया | कमनीय गुणाराध्या कपिला कपिलेश्वरी || कपिलाराध्य हृदया कपिलावरदायिनी || क ए ई ल ह्रीं स्वरूपा च क ए ई ल ह्री वरप्रदा || क ए ई ल ह्रीं सिद्धिदात्री कलह ह्रीं स्वरूपिणी | कहलह्रीं मंत्रवर्णा च कलह ह्रीं प्रसूकला || कवर्गा च कपाटस्था कपाटोद्घाटन क्षमा | कंकाली च कपाला च कंकाल प्रियभाषिणी || कंकाल भैरवाराध्या कंकालमानसस्थिता | कंकालमोहनिरतो कंकालमोहदायिनी || कलुषोघ्नी कलुषहाकलुषार्ति विनाशिनी | कलिपूज्या कलादानाकशिपुः कश्यपार्चिता || कश्यपाकश्यपाराध्या कलिं पूर्णकलेवरा | कलेवरा करिकचा कटवर्गा करालिका || करालभैरवाराध्या करालभैरवेश्वरी | करालाकरणाधाराकपर्दीश वरप्रदा || कपर्दीश प्रेमरता कपर्दी मालिकायुता | कपर्दी जपमालाढ्या करवीर प्रसूनदा || करवीर प्रियप्राणा करवीर प्रपूजिता | कर्णिकार समाकारा कर्णिकार प्रपूजिता || करीषाग्नि स्थिता कर्षाकर्षमात्र सुवर्णदा | कलशाकलशाराध्या कषाया करिगानंदा || कपिला कलकण्ठी च कलिकल्पलता मता | कल्पलता कपमाता कल्पकारी च कल्पभूः || कर्पूरामोदरुचिरा कर्पूरामोदधारिणी | कर्पूरमाला भरणा कर्पूर वा स पूर्तिदा || कर्पूरमाला जपदा कर्पूरार्णवमध्यगा | कर्पूरतर्पणरता कर्पूरवरधारिणी || कपटेश्वर संपूज्या कपटेश्वर रूपिणी | कदुःकपिध्वजाराध्याकलाप पुष्परूपिणी || कलाप पुष्परुचिरा कलाप पुष्पपूजिता | क्रकवाच कचाराध्या कथं द्रूमा करालता || कथं कालविनिर्मुक्ता कालीकालप्रिया क तु | कामिनी कामिनी पूज्या कामिनी पुष्पधारिणी || प्. १४९अ) कामिनी पुष्पपूजार्हा कामिनी पुष्पभूषणा | कामिनी पुष्पतिलका कामिनी कुंडचुंवना || कामिनीयोग संतुष्टा कामिनी योगदायिनी | कामिनीकुंद संमग्ना कामिनीकुंड मध्यगा || कामिनी मानसाराध्या कामिनीमानतोषिता | कामिनीमानसंचारा कालिकालिका कालकालिका || कामा च कामदेवी च कामेशी कामसंभवा | कामभावा कामरता कामार्ता काममंजरी || काममंजीररणिता कामदेव प्रियांतरा | कामकाली कामकलाकाली कामकलाभिधा || कालि कामकलाकालि कालानल समप्रभा | कल्यांतदहनाकांता कांतारप्रियभाषिणी || कालपूज्या कालरता कालमाला च कालिनी | कारवीरा कालघोरा कालसिद्धा च कालदा || कालांजन समाकारा कालिंजननिवासिनी | कालऋद्धिः कालवृद्धिः कारागृह विमोचिनी || कादिविद्या कादिमाता कादिस्था कादि सुंदरि | काशीकांची च कांचीशाकाशीश वरदायिनी || क्रां वीजा चैव कांवीजा क्रां हृदयाय नमस्मृता | काम्याकाम्यगतिः काम्यसिद्धिदात्रीकसिद्धिभूः || कामाक्षा कामरूपा च कामचाप विमोचिनी | कामदेव कलारामा कामदेव कलालया || कालरात्री कामदात्री कांताराचलवासिनी | कालरूपा कालगतिः कामयोग परायणा || कामसंमर्दनरता कामगेह विकाशिनी | कालभैरव भार्या च कालभैरवकामिनी || कालभैरव योगस्था कालभैरव भोगदा | कामधेनुः कामदोग्ध्री काममाता च कांतदा || कामुका कामुकाराध्या कामुकानंदवर्द्धिनी | कार्तवीजा कार्तिकेया कार्तिकेयः प्रपूजिता || कार्या कारणदा कार्याकारिणी कारणांतरा | कांतिगम्या कांतिमयी कांत्या कात्यायनीवका || कामसारा च कास्मीरा कास्मीराचार तत्परा | कामरूपाचाररता कामरूप प्रियंवदा || प्. १४९ब्) कामरूपा कामसिद्धा कामरूप मनोमयी | कार्तिकी कार्तिकाराध्या कांचनारप्रसूनभूः || कांचनारप्रसूनाभा कांचनाल प्रपूजिता | काचरूपा काचभूमिः कांश्यपात्रप्रभोजिनी || कांश्यध्वनिमयी कामसुंदरी कामचुंवना | काशपुष्पप्रतीकाशा कामद्रुम समागता || कामपुष्पा कामभूमि कामपूज्या च कामदा | कामदेहा कामगेहा कामराग परायणा || कामध्वज समारूढा कामध्वज समास्थिता | काश्यपीकाश्यपाराध्या काश्यपानंददायिनी || कालिंदीजलसंकाशा कालिंदी जलपूजिता | कादेवपूजानिरता कोदेव परमार्थदा || कर्मणा कार्मणाकारा कामकार्मणकारिणी | कार्मण त्रोटनकरी काकिनी कारणाह्वया || काव्यामृता च कालिंगां कालिंगमदनोद्यता | कालागुरु विभूषाढ्या कालागुरु विभूतिदा || कालागुरु सुगंधा च कालागुरुप्रतर्पणा | कावेरी नीलसंप्रीता कावेरी तीरवासिनी || कालचक्र भ्रमाकारा कालचक्र निवासिनी | काननाकाननाधाराकारुः करुणिकामयी || कांपिल्यवासिनीकास्था कामपत्नी च कामभूः | कादंवरी पानरता तथा कादंवरीतला || कामवंद्या च कामेशी कामराज प्रपूजिता | कामराजेश्वरी विद्या कामकौतुक कौमुदी || कांवोजजाकांक्षि तदाकाश्या कांचनकारिणी | कांचनाद्रि समाकारा कांचनाद्रि स प्रदारदा || कामकीर्तिः कामकेशी कालिका कांतरश्रया | कामभेदी च कामार्तिनाशिनी कामभूमिका || कालरिर्नाशिनी काव्यवनिता कामरूपिणी | कामस्था काष्ठ संदीप्तिः काव्यदा कामसुंदरी || काष्ठेशी कारणवराकामारि पूजनोद्यता | कांचीनूपुरभूषाढ्या कुंकुमाभरणान्विता || कालचक्रा कालगतिः कालचक्र मनोभवा | कुंजमध्या कुंजपुष्पा कुंजपुष्प प्रियाकुशा || कुंजमाता कुजाराध्या कुठार वरधारिणी | कुंजरस्था कुशरता कुशेशय विलोचना || प्. १५०अ) कुनठी कुररी क्रुद्धा कुरंगी कुटजाह्वया | कुंभी नद्य विभूषा च कुंभी नमवधोद्यता || कुंभकर्ण मनोल्लासा कुलचूडामणिः कुला | कुलाल गृहकन्या च कुलचूडामणि प्रिया || कुलपूजा कुलाराध्या कुलपूजापरायणा | कुच भूषा तथा कुक्षिः कुरवीगणसेविनी || कुलपुष्पा कुलरता कुलपुष्प परायणा | कुलवस्त्रा कुलाराध्या कुण्डः कुलसमप्रभा || कुलकुण्ड समुल्लासा कुण्डपुष्प परायणा | कुण्डपुष्प प्रसेहेना कुण्डगोलोद्भवात्मिका || कुण्डगोलोद्भवाधारा कुलगोलमयी कुहुः | कुण्डगोल प्रियप्राणा कुण्डगोल प्रपूजिता || कुण्डगोल मनोल्लासा कुण्डगोल वरप्रदा | कुलदेवरता क्रुद्धा कुलसिद्धिकरी परं || कुलकुण्ड समाकारा कुलकुण्ड समानभूः | कुण्डसिद्धिः कुण्डऋद्धिः कुमारी पूजनोद्यताः || कुमारी पूजकप्राणा कुमारीकुजकालया | कुमारीकालसंतुष्टा कुमारी पूजकात्मिका || कुमारीव्रतसंतुष्टा कुमारीरूपधारिणी | कुमारीभोजना प्रीताकुमारी च कुमारदा || कुमारमाता कुलदाकुलयोनि कुलेश्वरी | कुललिंगा कुलानंदा कुलरम्या कुतर्कदृक् || कुंती च कुलकांता च कुलमार्गपरायणा | कुल्ला च कुरु कुल्ला च कुल्लुका कुलकामदा || कुलिशांगी कुब्जिका च कुब्जिका नन्दवर्द्धिनी | कुलीना कुंजरगतिः कुंजरेश्वरगामिनी || कुलपाली कुलवती तथैव कुलदीपिका | कुलयोगीश्वरी कुण्डा कुंकुमारुण विग्रहा || कुंकुमानंद संतोषा कुंकुमार्णववासिनी | कुंकुमा कुसुमप्रीता कुलभूः कुलसुंदरी || कुंददंती कुमुदिनी कुशलाकुलटालया | कुलयोगीश्वरी कुण्डा कुलटा कुलतोषिता || कुलटा चुम्वनोद्युक्ता कुशावर्ता कुलार्णवा | कुलार्णवा चाररता कुण्डली कुण्डलाकृतिः || कुमतिश्च कुलश्रेष्ठा कुलचक्र परायणा | कुटस्थां क्रूरदृष्टिश्च कुंतलाकुंतलाकृतिः || कुशलाकृति रूपा च कूर्चवीजधरा कुचः | कुकुः कुकुः शब्दरता क्रूं क्रूं क्रूं क्रूं परायणा || प्. १५०ब्) कु कु कुं शब्द निलया कुक्कुरालयवासिनी | कुक्कुरासंग संयुक्ता कुक्कुरानंद विग्रहा || कूर्चरंभा कूर्चवीजा कूर्चजाप परायणा | कुलिनी कुलसंस्थाना कूर्चकुण्ड परागतिः || कूर्चवीजा भालदशा कूर्चमस्तकभुषिता | कुलवृक्षगता कूर्माकूर्माचल निवासिनी || कुलविंदुः कुलशिवा कुलशाक्त परायणा | कुलविंदुमणि प्रख्या कुंकुमद्रुमवासिनी || कुचमर्दन संतुष्टा कुच जाप परायणा | कुच स्पर्शन संतुष्टा कुचालिंगनः तत्परा || कुगतिघ्नी कुचेरार्च्या कुचभूः कुलनायिका | कुगायना कुचधरा कुगीता कुंददंतिका || कुगेया कुहराभासा कुशोषा कुघ्नदारिका | कीर्तिः किरातिनी क्लिन्ना किरणा किन्नरीप्रिया || क्रींतारी क्रींजपासक्ता क्रीं हूं स्त्री मंत्ररूपिणी | किम्मीरित दृशापांगी किशोरार्चा किरीटिनी || कीटभाषा कीटयोनिः कीटमाता च कीशदा | किंशुका कीटभाषा च क्रियासारा क्रियावती || की की शब्दपरा क्रां क्रीं क्रूं क्रैं क्रौं मंत्ररूपिणी | कां कीं कूं कैं स्वरूपाचक फट् मंत्र स्वरूपिणी || केतकीभूषणानंदा केतकी भरणान्विता | केकराकेशिनी केशी केशी सूदन तत्परा || केशरूपा केशमुक्ता कैकेयी केशिकी तथा | कैरवा कैरवा ह्लादा केशरा केतुरूपिणी || केशवाराध्य हृदया केशवासक्तमानसा | क्लैव्य निर्नाशिनी क्लैव क्लैवीज जपतोषिता || कोशला कोमलाक्षी च कोशा च कोमला तथा | कोलापुर निवासी च कोलासुर विनाशिनी || कोटरूपा कोटरता क्रोधिनी काकरूपिणी | केकाचकोकिला कोटिः कोटिमंत्रपरायणा || कोट्यनंतमंत्रयुताकरूपा केरलाश्रया | कैरलाचार निपुणा केरलेंद्र गृहस्थिता || केदाराश्रमसंस्था च केदारेश्वर पूजिता | क्रोधरूपा क्रोशपादा क्रोधमाता च कौशिकी || प्. १५१अ) कोदण्डधारिणी क्रौंचा कौशल्या कोमलांगणा | कौलिनी कौलिकाधारा कौलिकानतवासिनी || कौतुकी कौमुदी कौलाकौमारी कौरवार्चिता | कौण्डिन्या कौशिली क्रोधा ज्वाला भास्वररूपिणी || कोटिकालानलज्वाला कोटिमार्तण्ड विग्रहा | कृर्त्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा || कृशांगी कृत कृत्या चक्रः फट् स्वाहा स्वरूपिणी | क्रों क्रों हूं फट् मंत्रवर्णा क्रीं क्रीं हूं फट् नमः स्वधा || क्रीं क्रीं ह्रीं ह्रीं तथा हूं फट् स्वाहा मंत्र स्वरूपिणी || इति श्रीसर्वसाम्राज्यमेधानाम सहस्रकं || सुंदरी शक्तिदानाख्यं स्वरूपाभिधमेव च | कथितं दक्षिणा काल्या सुंदर्यै प्रीतियोगतः || वरदान प्रसंगेन रहस्यमपि दर्शितं | गोपनीयं सदा भक्त्या पठनीयं परात्परं || प्रातर्मध्याह्नकाले च संध्यार्द्ध रात्रयोरपि | पूजाकाले जपांते च पठनीयं विशेषतः || यः पठेत् साधकाधीशः कालीरूपो हि वर्षतः | पठित्वा पाठयेद्वापि शृणोति श्रावयेदपि || वाचकं तोषयेद्वापि स भवेत् कालिका तनुः | सहेलम्वा सलीलं वायः कश्चिन् मानवः पठेत् || सर्वदुख विनिर्मुक्तं स्त्रैलोक्यविजयी कविः | मृतवंध्या काकवंध्या कन्यावंध्या च वंध्यका || पुष्पवंध्या शूलवंध्या शृणुयात् स्तोत्रमुत्तमं | सर्वसिद्धि प्रदातारं सत् कविं विरजीविनं || पण्डितेन्द्रं कीर्तियुतं लभते नात्रसंशयः | यद्यत् काममुपस्कृत्य कालीं ध्यात्वा जपेत् स्तवं || तं तं कामकरे कृत्वा मत्रां भवति नान्यथा | योनि पुष्पैर्लिंगपुष्पैः कुण्डगोलोद्भवैरपि || संयोगामृतपुष्पैश्च वस्तुदेवी प्रपूरकैः | कालीपुष्पैः पीठतोयैर्योनिक्षालन विंदुभिः || कस्तूरी कुंकुमैर्देवी नखकाला गुरु क्रमात् | अष्टगंधैर्द्धुपदीपैर्जवायावक संयुतैः || रक्तचंदन सिंदूरैर्मत्स्यमांसादि मूषकैः | मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि || प्. १५१ब्) महोपचारैरक्तैश्च नैवेद्यैः षडुसान्वितैः | पूजयित्वा महाकालीं महाकालेन लालितां || विद्याराज्ञीं कुल्लुकां च जप्त्वा स्तोत्रं पठेच्छिवे | कालीभक्तस्त्वेक चित्तः सिंदूर तिलकान्वितः || ताम्वूलपूरितमुखो मुक्तकेशो दिगंवरः | शवयोनिस्थितो वीरः श्मशान सुरतान्वितः || शून्यालये विंदुपीठे पुष्पाकीर्णे शिवावने | प्रयानेथ प्रभूं जानः कालीदर्शन माप्नुयात् || तत्र यद्यत् कृतं कर्म तदनंत फलं भवेत् | ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकान्विका || कवित्वेतारिणी तुल्यः सौंदर्यसुंदरी समः | वसोर्द्धारा समः काव्य श्रुतौ श्रुति धरो यथा || ब्रह्मास्त्र इव दुर्द्धर्व्सस्त्रैलोक्य विजयास्त्रवत् | शत्रुहर्ता कार्यकर्ता भवेच्छिव समः कलौ || दिग्विदिक्चंद्रकर्ता च दिवा रात्रि विपर्ययां | महादेव समोयोगी त्रैलोक्य स्तंभकः क्षणात् || गाणे चतुंवुरुः साक्षाद्वाने कर्ण समो भवेत् | गजाश्वरथ पत्तीनां मत्राणामधिपः कृती || आपुष्पे तु भुशुण्डी च जलापलित नाशकः | वर्ष षोडशवान् भूयात् सर्वकालं महेश्वरी || ब्रह्माण्ड गोलदेवेशि न तस्य दुर्लभं क्वचित् | सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा || कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिंत्य च | विद्याराज्ञीं च संपूज्य पठेन्नाम सहस्रकं || मनोरथमयी सिद्धिस्तस्य हस्ते सदा भवेत् | परदारां समालिंग्य संचुंव्य परमेश्वरी || हस्ताहस्तिकयोर्योगं कृत्वा जप्त्वा स्तवं पठेत् | योनिं वृक्ष जपेत् स्तोत्रं कुवेरादधिको भवेत् || कुण्डगोलोद्भवं गृह्य पर्णाक्तं होमयेन्निशि | पितृभूमौ महेशानि विधिरेखा विमार्जयेत् || तरुणीं चंचला रम्यां सुंदरीं कामगर्वितां | समानीय प्रयत्नेन संशोध्यन्यास योगतः || प्रसूनमंचे संस्थाप्य पृथ्वीं विकसितां चरेत् | मूलचक्रं तु संभाव्य देव्यावरण संयुतं || संपूज्य परमेशानि स वल्यंतं महेश्वरी | जप्त्वा स्तुत्वा महेशानि द्राविणीं संस्मरेच्छिवे || प्. १५२अ) अष्टोत्तरशतैर्योनिं स मंत्र्य चुंव्य यत्नतः | स योगी भूय जप्तव्यं सर्वविद्याधियो भवेत् || शून्यागारे शिवारण्ये शिवदेवालये तथा | शून्यदेशे तडागे च गंगागर्भे चतुःपथे || श्मशाने पर्वते प्रांते एकलिंगे शवे मुखे | मुण्डे योनौ ऋतुस्नाता गेहे वेश्यागृहे तथा || कुट्टिनी गृहमध्ये वा कदली मण्डपे सदा | पठेत् सहस्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये || अरण्ये शून्यदुर्गेषु रणे शक्ति समागमे | कालीं संचिंत्य प्रजपेत् पठेन्नाम सहस्रकं || सर्वसिद्धीश्वरो भूयाद्वांछा सिद्धिं स विंदति | मृडु चूडकयोर्योनिं त्वविवा कोमलेपि च || विष्टरेश च वस्त्रे वा पुष्पवस्त्रासनेपि वा | कालीं संचिंत्य प्रजपेत् ततो नाम सहस्रकं || पंचानंदमयो भूत्वा पठित्वा कालिका स्वयं | मुक्तकेशो दिशा वासः मैथुनी शयनस्थितः || जप्त्वा कालीं पठेत् स्तोत्रं खेचरी सिद्धिभाग्भवेत् | चिकुरं योगमासाद्य शुक्रोत् सारणमेव च || जप्त्वा श्रीदक्षिणा कालीं शक्तिपातशतं लभेत् | लतां स्पृशन् जपित्वापि कालिकां चिंतयन्नपि || आलोकयन्दिशा वासां परशक्तिं विशेषतः | स्तुत्वा श्रीदक्षिणाकालीं योनिं स्वकरगां चरेत् || पठेन्नाम सहस्रं यः शिवादप्यधिको भवेत् | लतारतेषु जप्तव्यं स्तुत्वा कालीं निराकुलः || दशावधानो भवति मासमात्रेण साधकः | कालरात्र्यां महारात्र्यां वीररात्र्यां विशेषतः || चतुर्दश्या मथाष्टम्यां संक्रमेपि महेश्वरी | कुहुः पूर्णेन्दु शुक्रेषु भौमरव्यां निशामुखे || नवम्यां मंगलदिने तथा कुलतिथौ शिवे | कुलऋक्षे तु यत्नेन पठेन्नाम सहस्रकं || सोदर्शनो भवेदाशु किन्नरी सिद्धिभाक् भवेत् | पश्चिमाभिमुखं लिंगं वृषशून्यं पुरातनं || तत्र स्थित्वा जपेत् स्तोत्रं सर्वकामाप्तये शिवे | भौमवारे निशीथे च अमावास्यां दिने शुभे || माष भक्त वलिं छागं कृशरान्नं च पायसम् | दग्धमीनं शोणितं च दधि दुग्धं गुडार्द्रकं || प्. १५२ब्) वलिं दत्वा जपेत् तत्र त्वष्टोत्तर सहस्रकं | देवगंधर्व सिद्धौघैस्सेवितः पुरसुंदरीं || लभेद्देवेशि मासेन तस्य वासन संहतिः | हस्तत्रयं भवेदूर्धानात्र कार्या विचारणा || हेलया लीलया भक्त्या कालीं स्तौति नरस्रुयः | ब्रह्मादीन् स्तंभयेद्देवी माहेशी मोहयेत् क्षणात् || ध्रुवमुच्चाटये नूनं सृष्टिं च नूतनी चरेत् | मेषमाहिषमार्जारछागः खरतरादिकैः || खड्गशूकरकापोतैष्टिट्टिभैः शशकैः पलैः | शोणितैः सास्थिमांसैश्च कारणैर्दुग्धपायसैः || कादंवरी सिंधुमद्यैः सरारिष्टैश्च सा सवैः | योनिक्षालन तीरैश्च योनिर्लिंगामृतेन च || स्वजात कुसुमैः पूज्य जपांते तर्पयेच्छिवं | सर्वाः साम्राज्य नाम्नातु स्तुत्वा नत्वा स्वशक्तितः || शक्त्यालापे पठेत् स्तोत्रं कालीरूपो दिनत्रयात् | दक्षिणा कालिका तस्य गेहे तिष्ठति नान्यथा || वेश्या लतागृहे गत्वा तस्याश्चुम्वन तत्परः | तस्या योन्यै मुखं दत्वा तद्रसंविलिहन् जपेन् || तदं ते नाम साहस्रं पठेद् भक्तिपरायणः | कालिकादर्शनं तस्य भवत्येव त्रियामतः || नृत्यपात्र गृहे गत्वा मकार पंचमानितः | प्रसूचमं च संस्थाप्य शक्तिन्यस परायणः || पात्राणां सादनं कृत्वा दिग्वस्त्रां तां समाचरेत् | चक्र तन्मूल संभाव्य तत्र सावरणं यजेत् || शतंभालेशतं केशेशतं सिंदूरमण्डले | शतद्वयं कुचद्वंद्वेशतं नाभौ महेश्वरी || शतं योनौ महेशानि उत्थाय च शतत्रयं | जपेत् तत्र महेशानि तदंते प्रपठेत् स्तुतिं || शतावधाना भवति मासमात्रेण साधकः | मातंगिनीं समानीय किं वा कापालिकीं शिवे || दंतमाला जपे कार्या गलेधार्या तृमुण्डजा | नेत्रपद्मेयोनि चक्रं शक्तिं चक्रं स्ववक्त्रके || कृत्वा जपेन् महेशानि मुण्डयंत्रं प्रपूजयेत् | मुण्डासनस्थितो वीरोमकार पंचकान्वितः || अन्यामालिंग्य प्रजपेदन्यासं चुंव्यवैः पठेत् | अन्यां संपूजयेत् तत्रत्वन्यासंमर्दयन् पठेत् || प्. १५३अ) अन्ययोनौ शिवं दत्वा पुनः पूर्ववदाचरेत् | अवधान सहस्रेषु शक्तिपातशतेषु च || राजा भवति देवेशि मासपंचक योगतः | युवती शक्तिमानीय गाणशक्तिपरायणः || कुलाचार क्रमेणैव तस्या योनिं विकाशयेत् | तत्र जिह्वां प्रदत्वा च जपेन्नाम सहस्रकं || नृकपाले तत्र दीपं लाप्ययत्नेन वै पठेत् | महाकवि वरो भूयान्नात्र कार्या विचारणा || कालार्तां शक्तिमानीय योनौ तु मूलचक्रकं | विलिख्य परमेशानि तत्र मंत्रं लिखेच्छिवे || तल्लिहन् प्रजपेद्देवि सर्वशास्त्रार्थ तत्ववित् | अश्रुतान्यपि शास्त्राणि वेदादीन् पाठयेद्ध्रुवं || विनाभ्यासैर्विनायासैर्विनापाठादिभिः प्रिये | चतुर्वेदाधियो भूत्वा त्रिःकालज्ञ स्त्रिवर्षतः || चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् | शिवावलिः प्रदातव्यः सर्वदा शुन्यमण्डले || कालीध्यानं मंत्रर्चितानील साधनमेव च | सहस्रनाम पाठश्च कालीनाम प्रकीर्तितं || भक्तस्य कृत्यमेतावदन्य दत्यदयं विदुः | वीरसाधनकं कर्म शिवापूज्या वलिस्तथा || सिंदूरतिलको देवि वेश्यालापो निरंतरं | वेश्यागेहे निशाचारो रात्रौ पर्यटनं तथा || शक्तिपूजा योनिदृष्टिः खड्गहस्तो दिगंवरः | मुक्तकेशो वीरवेषी तांवूल पूरिताननः || कालीभक्ता भवेद्देवी नान्यथा क्षोभमाप्नुयात् | दुग्धस्वादी योनि लेही संविदा सवघूर्णितः || वेश्यालता समायोगान् मासासात् कल्पलता स्वयं | वेश्या चक्र समायोगात् काली चक्र समः स्वयं || वेश्यादेह समायोगात् कालीदेहमयः स्वयं | वेश्या मध्यगतं वीरं कदा पश्यामि साधकम् || एवं वदति सा काली तस्माद् वेश्या वरांगणा | वेश्या कन्या तथा पीठ जातिभेद कुल क्रमात् || अकुलक्रमभेदेन ज्ञात्वा चैव कुमारिकां | कुमारी पूजयेद् भक्त्या जपांते देववत् प्रिये || प्. १५३ब्) पठेन्नाम सहस्रं यः कालीदर्शन भाग्भवेत् | भक्त्या पूज्या कुमारीं तु वेश्या कुलसमुद्भवां || वस्त्रहेमादिभिस्तोष्य जप्त्वा स्तोत्रं पठेच्छिवे | त्रैलोक्यविजयी भूयादमा चंद्रप्रदर्शकः || यद्यद्दत्तं कूमार्यै तु तदनंत फलं भवेत् | कुमारी पूजनफलं मया वक्तुं न शक्यते || चांचल्याद्गदितं किंचित् क्षम्यतां न यमंजलिः | एकाचेत् पूजिता वाला द्वितयं पूजितं भवेत् || कुमार्यश्च शक्तयश्च सर्वमेतच्चराचरं | शक्तिमानीय तद्गात्रेन्यासजालं प्रविन्यसेत् || स्ववामभागे संस्थाप्य पठेन्नाम सहस्रकं | सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा || श्मशानस्थो भवेत् सुस्थोगलितं चिकुरं चरेत् | दिगंवरः सहस्रं च सूर्यपुष्पं समानयेत् || स्ववीर्येण युतं कृत्वा प्रत्येकं प्रजपेन् हुनेत् | पूज्य ध्यात्वा महाभक्त्या क्षमापालोनरः पठेन् || नखं केशं स्ववीर्यं च यद्यत् संमार्जनी गतं | मुक्तकेशो दिशावासो मूलमंत्र पुरःसरं || कुजवारे मध्यरात्रौ होमं कृत्वा श्मशानके | पठेन्नाम सहस्रं यः पृथ्वीशाकर्षणं चरेत् || पुष्पयुक्ते भगे देवि संयोगोनंद तत्परः | पुनश्चिकुरमासाद्य मूलमंत्रं जपेच्छिवे || चिता वह्नौ मध्यरात्रे वीर्यमुत्सार्य यत्नतः | कालिकां पूजयेत् तत्र पठेन्नाम सहस्रकं || पृथ्वीशाकर्षणं कुर्यान्नात्र कार्या विचारणा | कदलीवनमासाद्य लक्षमात्रं जपेन्नरः || मधुमत्याः स्वयं देव्या सेव्यमानः स्मरोपमः | श्रीमधुमती त्युक्त्वा तथा स्थावरजंगमा || कर्षणीति समुच्चार्यठठ स्वाहां समुच्चरेत् | त्रैलोक्याकर्षणी विद्या तस्य हस्ते सप्त भवेत् || नदीं पुरी च रत्नानि हे मंत्री शैलभूरुहान् | आकर्षयत्यंवुनिधेस्सुमेरोश्चदिगं ततः || अलभ्यानि च वस्तूनि दूराभूमितलादपि | वृत्तां तं च पुरस्थानां रहस्यं विद्विषामपि || प्. १५४अ) राज्ञां च कथयत् येषा सत्यं सत्वरमाविशेत् | द्वितीयवर्षपाठेन भवेत् पद्मावतीपतिः || ओं ह्रीं पद्मावति पदं तत्र स्त्रैलोक्य नाम च | वार्ता च कथय द्वंद्व स्वाहांतो मंत्र ईरितः || ब्रह्मविष्ण्वादिकानां च त्रैलोक्ये यादृशी भवेत् | सर्वं वदति देवेशि त्रिकालज्ञः कविः शुभः || त्रिवर्गपाठतो देवि लभेद्भोगवटीं कलां | महाकालेन दृष्टोपि विना धूमगतोपि च || तस्य दर्शनमात्रेण चिरंजीवी नरो भवेत् | वं मृतसंजीवनी सुक्त्वा मृतयुत्थाय द्वयं || स्वाहांतो मनुराख्यातः स्वप्नसिद्धा भवेत् ततः | ओं ह्रीं स्वप्न वाराही काली स्वप्ने कथयचोद्धरेत् || अमुकस्यामुकंदेहि क्रीं स्वाहांतो मनुर्मतः | स्वप्नसिद्धा चतुर्वर्षात् तस्य स्वप्नेत् यदा स्थिता || चतुर्वर्षस्य पाठेन चतुर्वेदाधियो नरः | तद्वक्त्र जलसंयोगाद्वृक्षः काव्यं करोति च || तस्य वाक्यः वयान्मूर्तिर्वदति भारतीं | प्रस्तरे तु करं दत्वा वदवाणीमिति ब्रुवन् || साधको वांछया कुर्वन् तत् तथैव भविष्यति | ब्रह्माण्डगोलके याचयाकाचिज्जगतीतले || समस्ता सिद्धयो देवी कलामूलक वद्भवेत् | साधकः स्मृतिमात्रेण यावंत्यःमित सिद्धयः || स्वयमायांति पुरतो जपादीनां तु काकथा | निदेशवर्तिनो भूत्वा वर्तंते चेटका इव || अमायां चंद्रदर्शश्च चंद्रग्रहणमेव च | अष्टम्यां पूर्णचंद्रत्वं चंद्रसूर्याष्टकं तथा || अष्टदिक्षु तथा चाष्टौ करोत्येव महेश्वरी | अनिमा खेचरत्वं च चराचर पूरीगतिः || पादुका खड्गवेताल यक्षिणी गुह्यकादयः | तिलको गुप्तता दृश्य चराचर कथानकं || मृतसंजीवनी सिद्धिर्गुटिका च रसायणं | उड्डाद सिद्धिर्देवेशि षष्ठिसिद्धीश्वरत्वकं || प्. १५४ब्) तस्य हस्ते भवेद्देवि नात्र कार्या विचारणा | केतौ वा दुंदुभौ वस्त्रेवितानेवेष्टने गृहे || भित्तौ च फलके पीठे लेख्यं पूज्यं प्रयत्नतः | मध्य चक्रं दश्यंगाक्तं परितो नामलेखनं || तद्वारणा महेशानि त्रैलोक्य विजयी भवेत् | एको हि शतसाहस्रां निर्जिते चरणाजिरे || पुनरायाति च सुखं स्वगृहं प्रतिपार्वती | एको हि शतसंदर्शी लोकानां भवति ध्रुवं || कलशं स्थाप्य यत्नेन नामसाहस्रकं पठेत् | एषः कार्यो महेशानि सर्वापत्तिर्निवारणं || भूतप्रेत ग्रहादीनां राक्षसां ब्रह्मराक्षसां | वेतालानां भैरवाणां स्कंद वै नायिकादिकान् || नाशयेत् क्षणमात्रेण नात्रकार्या विचारणा | भस्माभिमंत्रितं कृत्वा ग्रहग्रस्तं विलेपयेत् || भस्म संलापनाद्देवि सर्वग्रह निवारणं | नवनीतं चाभि मंत्र्य स्त्रीणां दद्यान् महेश्वरी || वंध्यात्वा पुत्रवती देवि नात्र कार्या विचारणा | कंठे वा वामवाहौ वा योनौ वा धारणाच्छिवे || वहुपुत्रवती नारी शुभगा जायते ध्रुवं | पुरुषो दक्षिणांगे च धारयेत् सर्वसिद्धये || कण्ठे वाहौ च शिरसि हृदयेनाभिगोचरे | कटिस्थाने शिखायां च धारयेत् सर्वसिद्धये || बलवान् कीर्तिमान् धन्यो धार्मिकः साधकः कृती | वहुपुत्री रथानां च गजानामधिपः सुखी || कामिनीकर्षणोद्युक्तः क्रीं च दक्षिणकालिके | क्रीं स्वाहा प्रजपेन् मंत्रमयुतं नामपाठकः || आकर्षणं चरेद्देवी जलखेचर भूगता | वशीकरण कामो हि हूं हूं ह्रीं ह्रीं च दक्षिणे || कालिके कूर्चवीजानि पूर्ववत् प्रजपेन् पठन् | उर्वशीमपि वशयेन्नात्रकार्या विचारणा || क्रीं दक्षिणे कालिके चेति स्वाहा युतं जपेन्नरः | पठेन्नाम सहस्रं च त्रैलोक्यं मारयेद्ध्रुवं || प्. १५५अ) सत्पुत्राय प्रदातव्यं विद्याराज्ञीं प्रवेदिने | सुविनीताय शांतायदांतायाति गुणाय च || भक्ताय ज्येष्ठपुत्राय गुरुभक्ति पराय च | भक्तभक्ताय योग्याय शक्ति भक्तापराय च || देयं सहस्रनामाख्यं स्वयं काल्या प्रकाशिते | वैष्णवाय विशुद्धाय शिवा वलिरताय च || वेश्या पूजन युक्ताय कुमारी पूजकाय च | दुर्गाभक्ताय शैवाय महाकाल प्रजापिने || अद्वैतभावयुक्ताय कालीभक्तपराय च | गुरुदैवत मंत्राणां महेशस्यापि पार्वती || अभेदेन स्मरेन् मंत्रं स शिवो नात्र संशयः | यो मंत्रं भावयेन् मंत्री स शिवः स च गानयः || स शाक्तो वैष्णवः सोत्र स एव पूर्णदीक्षितः | अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते || वेश्या स्त्री निंदकायाथामुरासंवित् प्रनिंदके | सुरामुखीं मनुं स्मृत्वा सुराचावतरिष्यति || वाग्वृत्ताघोरे आः सः परमघोरे च हूं वदेत् | घोररूपेहश्च घोरमुखी भीम पदं वदेत् || भीषण्यमुकषष्ठ्यंतं हेतुं च मयुतं पिवा | शिवं वह्नि युगास्त्रं च हूं हः फट् च मनुर्भवेत् || एतस्याः स्मरणादेव दुष्टानां च मुखे सुरा | अवतीर्णा भवेद्देवि नात्र कार्या विचारणा || खलाय परतंत्राय परनिंदा पराय च | भ्रष्टाय दुष्टसत्वाय परिवादपराय च || शिवा भक्ताय दुष्टाय परदाररताय च | न स्तोत्रं दर्शयेद्देवि शिवहत्या करो भवेत् || कलिकानंद हृदयः कालिकासक्त मानसः | कालीभक्तो भवेत् सो हि धन्यरूपः स एव तु || कलौ कालीकलौ कालीकलौ काली तु केवला | कलौ काली कलौ काली कलौ काली वरप्रदा || विल्वपत्र सहस्राणि करवीराणि वै तथा | प्रतिनाम्ना पूजयेद्धितेन काली वरप्रदा || प्. १५५ब्) कमलानां सहस्रं च प्रतिनाम्ना समर्पयेत् | चक्रं संपूज्य देवेशि कालिका वरमाप्नुयात् || मंत्रक्षोभयुते देविकलशस्थ जलेन च | नाम्नाप्रसे च येद्देवि सर्वक्षोभ विनाशकृत् || तथा दमनकं देवि सहस्रमाहरेद्व्रती | सहस्रनामा संपूज्य कालिका वरमाप्नुयात् || चक्रं विलिख्य देहस्थं धारयेत् कालिका तनुं | काल्यै निवेदितं यद्यत्तच्छेषं भक्षयेच्छिवे || दिव्यदेहधरो भूत्वा काली देहस्थिता भवेत् | नैवेद्य निंदकान् दुष्टान् दृष्टा नृत्यंति भैरवाः || योगिन्यश्च महावीराः रक्तपानोद्यताः सदा | मांसास्थि चर्वणोद्युक्ता भक्षयंति न संशयः || तस्मान्न निंदेन् मनसा कर्मणा वचसा किमु | अन्यथा कुरुते यस्तु तस्य पातो भविष्यति || क्रमाद्दीक्षा विहीनानां सिद्धिर्भवति नान्यथा | मंत्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेद्ध्रुवं || पुत्रहारी च स्त्रीहारी राज्यहारी भवेद्ध्रुवं | क्रमदीक्षायुतो देवि क्रमाद्राज्यमवाप्नुयात् || एकवारं पठेद्देवि सर्वपाप विनाशनं | द्विवारं प्रपठेद्यो हि वांछां विंदति नित्यशः || त्रिवारं प्रपठेद्यस्तु वागीशः समतां व्रजेत् | चतुर्वारं पठेद्देवि चातुर्वर्ण्याधिपो भवेत् || पंचवारं पठेद्देवि पंचकामाधिपो भवेत् | षड्वारं प्रपठेद्देवि षडैश्वर्यमयो भवेत् || सप्तवारं पठेद्देवि कामानां चिंतितं लभेत् | वसुवारं पठेद्देवि दिगीशो भवति ध्रुवं || नववारं पठेद्देवी नवनाथ समो भवेत् | दशवारं कीर्तयेद्योदाशार्हखचरेश्वरः || विंशद्वारं कीर्तयेद्यः सर्वैश्वर्य मयो भवेत् | पंचविंशति वारैस्तु सर्वचिंता विनाशकः || पंचाशद्वारमावृत्य पंचभूतेश्वरो भवेत् | शतवारं कीर्तयेद्यः शतानंद समानधीः || शतपंचकमावृत्य राजराजेश्वरः कलौ | सहस्रावर्तनाद्देवि लक्ष्मी मावृणुते स्वयं || त्रिसहस्रं समावृत्य त्रिनेत्र सदृशद्युतिः | पंचसहस्रावर्तनात्तु कामकोटि विमोहनः || प्. १५६अ) दशसहस्रावर्तनात्तु भवेद्दशमुखेश्वरः | पंचविंशत् सहस्रेण चतुर्विंशति सिद्धिभुक् || लक्षावर्तन मात्रेण लक्ष्मीपति समो भवेत् | लक्षत्रयावर्तनात्तु महादेवं विजेष्पति || लक्षपंचकमावृत्य कलापंचक संयुतः | दक्षलक्षावर्तनात्तु दशविद्याप्तिरुत्तमा || पंचविंशति लक्षैस्तु दशविद्येश्वरो भवेत् | पंचाशल्लक्षमावृत्य महाकाल समो भवेत् || कोटिमावृत्तयेद्योहि कालीं पश्यति चक्षुषा | वरदानोद्युक्तपरां महाकाल समन्वितां || प्रत्यक्षं पश्यति शिवे तस्य देहे वसेद्ध्रुवं | श्रीविद्याकालिकातारा त्रिशक्तिविषये पठेत् || त्रिशक्ति विषयेद्देवि क्रमदीक्षा प्रकीर्तिता | क्रमदीक्षायुतो देवीराजा भवति निश्चितं || विधेर्लिपिं तु संमार्ज्य किं करत्वं विसृज्य च | महाराज्य मवाप्नोति नात्र कार्या विचारणा || क्रमदीक्षा विहीनस्य फलं पूर्णमयेरितं | क्रमदीक्षायुतोद्देवि शिव एव न वा परः || क्रमदीक्षा समायुक्तः कल्पोक्तसिद्धिभाग्भवेत् | क्रमदीक्षा विहीनस्य सिद्धिहानिः पदे पदे || अहोधन्यवर्ता मध्ये धन्यः क्रमयुतः कलौ | तत्रापि धन्यो देवेशिनाम साहस्र पाठकः || दशकालीविधौ देवी स्तोत्र मे तत् सदा पठेत् | सिद्धिं विंदति देवेशि नात्र कार्या विचारणा || कलौकाली महाविद्या कलौकाली तु सिद्धिदा | कलौकाली सुसिद्धा च कलौकाली वरप्रदा || कलौकाली साधकस्य दर्शनार्थं समुद्यता | कलौकाली केवलास्यान्नात्र कार्या विचारणा || नान्यविद्या नान्यविद्या नान्यविद्या कलौ भवेत् | कलौकालीं विहायाथ यः कश्चित् सिद्धिकामुकः || स तु शक्तिं विना देवि रतिं संभोगमिच्छति | कलौकालीं विना देवी यः कश्चित् कार्यमिच्छति || स नील साधनं त्युक्त्वा परिभ्रमति सर्वतः | कलौकालीं विहायाथ यः कश्चिन्मोक्षमिच्छति || प्. १५६ब्) गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः | कलौकालीं विहायाथयः कश्चिद्राज्यमिच्छति || सभोजनं परित्यज्य क्षुन्निवृत्तिमभीप्स्यति | स धन्यः स च विज्ञानी स एव सुरपूजितः || स दीक्षितः सुखी साधुः सत्यवादी जितेंद्रियः | स वेदवक्ता स्वाध्यायी सर्वानंद परायणा || स्वस्मिन् कालीं तु संभाव्य पूजयेज्जगदंविकां | त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा || गुरुरूपं शिवं ध्यात्वा शिवरूपं गुरुं स्मरेत् | सदाशिवः स एवस्यान्नात्र कार्या विचारणा || गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः | रहस्यातिरहस्यं रहस्यातिरहस्यकं || श्लोकार्द्ध पादमात्रं वा पादार्द्धं च तदर्द्धकं | नामार्द्धं वा पठेद्देवि न वंध्यं दिवसं चरेत् || पुस्तकं पूजयेद् भक्त्यात्वा वृत्ति फलसिद्धये | नवनारी भयं तत्र नवाग्नि वातसंभवं || न भूतादि भयं तत्र सर्वत्र सुखमेधत्ते | कुंकुमारक्तके नैव रोचना गुरुयोगतः || भूर्जपत्रे लिखेत्युस्तं सर्वकामार्थसिद्धये | इति गदितमशेषं कालिकावर्णरूपं || प्रपठति यदि भक्त्या सर्वसिद्धीश्वरः स्यात् | अभिनव सुखकामं सर्वविद्याभिरामं || भवति सकलसिद्धिः सर्ववीरा समृद्धिः | इति संक्षेपतः प्रोक्तं किमन्यं छ्रोतुमिच्छसि || इति श्रीमदादिनाथविरचितायां महाकालसंहितायां कालीकालसंवादे सुंदरीवरदानाख्यं ककारादि सहस्रंनामस्तोत्रं संपूर्णं || इति श्रीतंत्रचिंतामणौ श्रीदक्षिणकालिकाया नित्यार्चनायां स्तवकवचादिनिर्णयो नाम द्वाविंशतितमः प्रकाशः || २२ || अथ श्रीदक्षिणकांगत्वेन महाकालादि नित्यानां प्रत्येकोपासनामाह || श्रीदेव्युवाच || महाकालादिनित्यानांनिर्णयद्वितयं वद || श्रीशिव उवाच || महाकाल समारभ्य नित्यानां निर्णयं शृणु | महाकालो महाभीमः प्रलयानलसन्निभः || प्. १५७अ) कालीमायासमुद्भूतः कालीमानसिकः शिव | महाकाल परं शंभुः परतीत गुणाकरः || तस्य मंत्रं प्रवक्ष्यामि येन रक्षे जगत्त्रयं | कूर्चयुग्मं महाकालं प्रसीदेति पदद्वयं || लज्जायुग्मं वह्निजाया संयुक्त षोडशार्णकः | षोडशार्णा यथा मुख्या सर्वश्रीचक्रमण्डले || तथायं सर्वकालीषु महाकालः प्रकीर्तितः | कालिकास्य ऋषिः प्रोक्तः विराट् छंद प्रकीर्तितः || देवता तु महाकालः सर्वरूपी निरंजनः | कूर्चवीजं तथा मायाशक्तिरत्र प्रकीर्तितः || स्वाहा कीलकमुद्दिष्टं काल्यर्थे विनियोगता | मायया तु षडंगा नि ध्यानं शृणु वरानने || कोटिकालान लाभासं चतुर्भुजं त्रिलोचनं | श्मशानाष्टक मध्यस्थं मुण्डाष्टक विभूषितं || पंचप्रेत स्थितं देवं त्रिशूलं डमरुं तथा | खड्गं च खर्परं चैव वाम दक्षिणयोगतः || विभ्रतं सुंदरं देहं श्मशानभस्मभूषितं | नानाशवैः क्रीडमानं कालिका हृदयस्थितं || लालयंतं रतासक्तं घोरचुंवन तत्परं | गृद्ध्रगोमायुसंयुक्तं फेरवीगण संयुतं || जटापटल शोभाढ्यं सर्वशूत्पालयेस्थितं | सर्वशून्यं मुण्डभूषं प्रसन्नवदनं शिवं || भावयेत् परमेशानि रतियंत्रं तु यंत्रकं | त्रिकोण संज्ञा योनिः स्यात् तच्चक्रं कालचक्रकं || योनौ वा हृदये भाले कामिन्यास्तन मण्डले | महाकालं यजेद्देवं पंचावरण संयुतं || त्रिकोणे पूजयेद्देवि त्रिकोणे कालिकादिकं | षट्दले तु षडंगानि नाभौदिक् शक्तयोमताः || हृदयो द्वादशादित्यं कण्ठे षोडश नित्यकाः | द्विपत्रे परमेशानि कालकाली प्रपूजयेत् || विपरीतरतौ देवी रतौ देवीं प्रपूजयेत् | शक्तिं स्वाभिमुखीं कृत्वा पूजयेत् कालिकां परां || मूलाधारा द्विपत्रांतं तथा चक्राणि कारयेत् | पूजयेत् परमेशानि गुरुपूजा पुरःसरं || पात्रासादनकं कृत्वा कालीवत् परिपूजयेत् | एवं पूजांविधायाथ लक्षसंख्यं जपेच्छिवे || तद्दृशांशेन हवनं करवीर प्रसूनकैः | स्वयंभुवाक्तैर्वीजाक्तैः कारणाक्तैश्च वाहुनेत् || प्. १५७ब्) नित्यं नैमित्तिकं काम्यं कालीवत् सर्वमाचरेत् || अज्ञानांतकरी काली विद्याया विधिरुच्यते | मूर्तिध्यानोदितां कृत्वा सर्वावयवशोभितां || मूलेधारे गणपतिं लिंगे गणपति वल्लभां | नाभौ वटुकनाथं च हृदि वटुकवल्लभां || कंठे उद्यानपीठं च भ्रूवि प्रदीप्तमंगलं | ललाटे करवीरं च अलके क्षेत्रपालकं || मूर्द्ध्नि वै कालिका चैव चतुर्थ्यंतां प्रपूजयेत् | मूर्द्ध्नि व्योमैश्वर्यवां च ललाटे खेचरी तथा || भ्रूमध्ये दिक्चरीं चैव हृदये गोचरीं तथा | नाभौ च भूचरीं चैव लिंगे च खगमूर्तिकां || मूलपत्रे विचित्रं च पूजयेत् साधकोत्तमः | तथा ललाटे सूर्यं च दक्षनेत्रे कलाधिपं || वैश्वानरं वामनेत्रं कंठे च कालिकां तथा | हृदये दासयोनिं च नाभौ च ताससिद्धकै || ब्राह्मी माहेश्वरीं च कौमारी वैष्णवी तथा | वाराह्यैन्द्रै च चामुण्डा महालक्ष्मी परामता || मंथान भैरवश्चैव षट्चक्र भैरवस्तथा | षट्कालभैरवश्चैव रविभक्षक भैरव || वीरेश भैरवश्चैव श्रीमंत्रेश्वर भैरवः | हेमगर्भ भैरवश्च चण्डिकेश्वर भैरवः || मूर्द्ध्नि ललाटे कंठे च हृदये नाभिमंडले | लिंगे च मूलाधारे च सर्वांगे पूजयेत् सुधीः || यथाशक्ति जपेद्विद्वान् वलिं दद्याद् यथाविधिः | ओं क्षौच क्षेत्रपाला च इमं वलिपदं वदेत् || गृह्न गृह्न द्वयं युक्तः क्षेत्रपाल वलिर्मतः | इति पूजाविधिर्देवि श्रीकालीकालयोर्मताः || अंतर्ध्यान विधानेन विपरीत रतिर्मता | महाकाल प्रसंगेन रहस्यमपि दर्शित || गोपनीयं त्वया भद्रे रहस्याति रहस्यकं | गोपनीयं गोपनीयं स्वयोनिरपरैर्यथा || कालीनित्या च तन्मंत्रः कथ्यते शृणु सांप्रतं | विषवीजं ततो मायां कालीति युगलं वदेत् || महाकाली पदं प्रोच्य कौमारीति पदं वदेत् | भगं देहि पदं देहि ठठयुक्तो मनुर्मतः || प्. १५८अ) उरविंशाक्षरी विद्या काली नित्या प्रकीर्तिताः || परशुरामो ऋषिः प्रोक्तश्छंदोनुष्टुप् प्रकीर्तितः | देवता कालिका प्रोक्ता मायावीजं प्रकीर्तितं || कालिका च भवेच्छक्तिः ठयुग्मं कीलकं भवेत् | कालिका प्रीणताद्यर्थे विनियोगः प्रकीर्तितः || षडंगमाचरेद्देवी जातियुक्तेन मायया | ततो ध्यायेन् महेशानि चितानिर्वाणमण्डले || श्यामवर्णो महाभीमा घोररावा करालिनी | मुण्डमाला विभूषाढ्या दक्षे खड्गं प्रविभ्रती || तर्जनी धारयेन् वामे नृत्यंती प्रेतभूमिषु | एवं ध्यात्वा महेशानि तद्यंत्रं शृणु पार्वती || त्रिकोण युग्मं देवेशि वृत्ताष्टदलभूपुरं | विंदौ कालीं समाराध्य त्रिकोण युग्मके पुनः || गुणत्रयं तत्पुरस्थास्तच्छक्तयः क्रमान्मताः | ब्राह्म्यादिमातरश्चाष्टौ लोकपालाः सशस्त्रकाः || भूपुरे पूजयेद्देवि धूपदीपोपचारकैः | नैवेद्यं विविधं खाद्यं पंचखाद्यं विशेषतः || निवेदयेत् कालिकायै ततस्तुष्टा भविष्यति | नीराजनीतं कृत्वाथ प्रजपेत् लक्षमात्रकं || दशांशं पायसेनैव होमं कुर्याद्विधानतः | अथवा करवीरेण होमयेत् सर्वसिद्धये || सर्वसिद्धीश्वरो देवि भवत्येव न संशयः || मंत्रभेदान् प्रवक्ष्यामि यथावदवधारय | नाममात्रं महेशानि प्रत्येकं प्रणवक्रमात् || मंत्र त्रयं महेशानि वीजत्रय नियोजयेत् | विद्या त्रयं पुनर्देवी ध्रुवमाया नियोजनात् || विद्या त्रयं महेशानि प्रत्येकं नवधा मनुः | दुर्भगानां च दीनानां क्रूराणां पापकर्मिणां || मंत्रमेनं प्रकथयेत् सर्वैश्वर्य मयो भवेत् | लक्ष्मीवान् कीर्तिवान् धन्यो भवत्येव न संशयः || सुनारीं कामिनीं दृष्ट्वा तस्याश्चैव भगं वदेत् | भगशब्दे तद्भगं च सा दासी मंत्रजापतः || व्याकुला संभवत्येव स्वेच्छया भोगमिच्छति | ललाटे हृदये विद्यां योनिमध्ये यथाक्रमं || यस्याः संचिंतयेद्विद्यांतंनाम स्मृति पूर्वकं | तामाकर्षयति प्राज्ञः किमन्यैर्वहुजल्पितैः || प्. १५८ब्) साक्षात् स कालीपुत्रः स्यान्नात्र कार्या विचारणा | देवेशि कथ्यते गोप्यं यत्न कुत्रापि कीर्तितं || कपालिनी महाविद्या द्वितीया तन्मनुं शृणु || आदौ समकलं प्रोच्य कामं वह्नि पदेस्थितं | इंदिरां विंदुभूषाढ्यं वीजं काली स्वरूपकं || कपालिनी महाकपालप्रिय मानसे वदेत् | कपाल सिद्धिं मे देहि हूं फट् स्वाहाय को मनुः || त्रिंशद्वर्णार्द्ववर्णाद्योमंत्रराजा महोत्तमः | भैरवस्य ऋषिः प्रोक्तो त्रिष्टुप् छंद उदाहृतं || कपालिनी देवतानुकालिका वीजमीरितं | स्वाहा शक्तिः समाख्याता हूं फट् कीलकमीरितं || कपालिनी सिद्धयेत्र विनियोगः प्रकीर्तितः | षट्दीर्घभाजा वीजेन कूर्चादंगानि षट् क्रमात् || ध्यायेदंजन पूजाभांमापीनस्तन युग्मकां | चंद्रवक्त्रा च विंचोष्ट मुक्तकेशीं दिगंवरां || चतुर्मुंडापरिगतां शंखकंकणभुषितां | खड्गत्रिशूलवरदाभयान् हस्त चतुष्टयं || क्रमात् संविभ्रतीं देवीं गीतहास्य परायणां | एवं संचितयेद्देवी महाकापालिनीं परां || त्रिकोण त्रितयं वृत्तं दलाष्टक विभूषितं | भूपुरेण समाकीर्णं चतुर्वारोपशोभितं || यंत्रं कापालिनी देव्याः सर्वसाम्राज्यदायकं | महाकालीं महालक्ष्मीं महासरस्वतीं तथा || रतिं प्रीतिं तथा कांतिं द्वितीयेत्थ तृतीयके | इच्छां ज्ञानां क्रियां चैव त्रिकोणे तु तृतीयके || मध्ये कपालिनीं पूज्यदलेष्टौ मातृकार्चनं | ततोष्टौ भैरवाश्चैव दिगीशान् शास्त्रकां यजेत् || पंचोपचारैः संपूज्य कुलाचारपरायणः | साधकः प्रजपेल्लक्षं हयारि कुसुमैर्हुनेत् || मासेन मधुनां वापि जुहुयादिष्ट साधये | तदा कापालिनी देवी सिद्धिर्भवति निश्चितं || पुरश्चर्यां विना देवी कथं सिद्धिः कपालिनी | मुण्डासने नरः स्थित्वा सदा तद्गतमानसः || प्. १५९अ) महामाला महापात्रं महासंत्रासनादिकं | कृत्वा तु विधिवद्देवी तदा भवति साधकः || अथान्यदपि वक्ष्यामि कापालिन्याः पराक्रमं | रणवीराकपालानि कुजवारे निशामुखे || समाहृत्य महेशानि पंचपंच समन्वितः | दिग्वंध भूतशुद्ध्यादि दिक्पालाद्युपहारकैः || साधकः सहितो भूत्वा सिंदूरतिलकांकितः | खड्गहस्तो दिशावासो मुक्तकेशो मुदान्वितः || ईदृशः साधकः सोहं कृतिभावः समन्वितं | सुदूरेसाधन्स्थाप्य पुष्पवर्त्या घृताक्तया || दीपं संलापयेद्देवी जपेत् तत्र कपालिनीं | भाग्यात् कपालिनी सिद्धिः कदाचित् प्रभविष्यति || तथापि कालिका भक्ते भविष्यति भविष्यति | कपालं भाग्ययोगेन कदाचिद् यदि लभ्यते || तदा कपालिनीं सिद्धिः कज्जलं तद्धिसंग्रहं | तत् कज्जलं कपाले तु कज्जलं स्थाप्य वै जपेत् || संमोहनांजनं नाममहदं जनमीरितं | तत् कपाले महेशानि किंतद्यन्नकरे स्थितं || एषा कपालिनी नित्या द्वितीया कालिका च वत् | इति संक्षेपतः प्रोक्तं कुल्लां शृणु तृतीयकं || कालिका कुल्लुका कुल्ला त्रिधा नाम्ना तु या मता | तस्मात् कुल्लेति नाम्ना च कुलपूज्यत्वं तां गता || विद्यानां कुलपूज्यत्वा कुल्लुका परिकीर्तिता | कुल्लुका कुलपूज्यत्वात् कुलनाम्ना कुलेश्वरी || तस्या मंत्रं प्रवक्ष्यामि यथावदवधारय || प्रणवं पूर्वमुद्धृत्य कालिका वीजमुद्धरेत् | कुल्लायै हृन्मनुर्देवी प्रोक्तः सप्ताक्षरो मनुः || भैरवोस्य ऋषिः प्रोक्तो गायत्री छंदमीरितं | कुल्लाकाली देवतात्र कालिकावीजमीरितं || कुल्लाशक्तिरितिख्याता नमः कालकमीरितं | सर्वार्थसाधने चैव विनियोगः प्रकीर्तितः || कालिकोक्ते यजेत्पीठे कुमारी यंत्रमेव हि | कुमार्यां पूजयेद्देवी कुल्ला सिद्धा भवेद्ध्रुवं || प्. १५९ब्) लक्षद्वयं जपेन्मंत्रं हविष्यासी दिवा शुचिः | अशुचिश्च तथा रात्रौ श्रीकुल्लादर्शनोत्सुकः || कदाचिदभ्र सदृशां कदाचिज्ज्योति सन्निभां | चतुर्भुतां त्रिनयनां मुकुटाटोपमण्डितां || शवासनगतां कुल्लां दशमुण्डोपरिस्थिताः | वराभयकरे वामे पुस्तस्रक् दक्षिणेकरे || नानाविलास कुशलां कुल्लां वा परिचिंतयेत् | एवं चिंतयस्तस्य दशविद्यामयी कला || भवत्येव महेशानि कुल्लां वायाः प्रभावतः | करवीरैर्जवापुष्पैर्हुनैजपदशांशतः || तद्दशांशं गंधतोयैस्तर्पयेन्मार्जयेदपि | ब्राह्मणान् भोजयेद्देवी तदंते तु कुमारिकां || पूजयेत् परमेशानि कुल्ला विद्या प्रसिद्ध्यति | कुल्ला विद्या महेशानि सर्वविद्या प्रकाशिनी || यंत्रमस्यास्ति देवेशि वै मित्येकाम्य कर्मणि | त्रिकोण द्वयमुद्धृत्य वृत्ताष्टदलभूषितां || चतुर्द्धार समायुक्तं भूपुरैकेन संयुतं | मध्ये वीजन्यसेत् काल्याः वीजयुक्तं महोत्तमं || धृतिं पुष्टिं तथा मेधां प्रज्ञां चैव तथा जपां | त्रिकोण द्वितये पूज्यदलेष्ट मातृभैरवौ || लोकपालान् शास्त्रयुक्तान् कुल्लुकावरणे यजेत् | अथवा देवदेवेशि कालिकावत् समस्तकं || नवरात्र द्वये चैव ग्रहणस्य द्वये तथा | संक्रमे चोत्तम तिथौ पूजयेद्यंत्रमद्भुतं || यदैव कार्यमुत्पन्नं दतैव कुल्लुकार्चनं | न विद्या सिद्धिमाप्नोति कुल्लुकार्चनमंतरा || आदिमां समायुक्तः स विद्या सिद्धिमाप्नुयात् | आदिमांत्यं न जानाति यो गुरुः स तु शिष्यहा || आदिमांत्यः क्रिया युक्तो नित्या मंत्रो हि सिद्ध्यति | आदिमांत्य विहीनस्य तस्याद्देवस्यदर्शनं || प्रीतिभयं द्वयमिति द्वाभ्यां संध्यापितं जगत् | अयं प्रयोगो गोप्तव्या न कुत्रापि मयेरितः || कुल्ला देव्यादि नित्यासु जपो हि द्वितयावधि | द्वितयाभ्यां न सिद्धो सौ स मंत्रो न जपक्षमः || कुल्ला नित्या मया प्रोक्ता यस्या मे तत् प्रतिष्ठितं | समस्ते जगतीसारं कुल्ला संक्षेपपूजनं || श्र्णु देवि प्रवक्ष्यामि रहस्यातिरहस्यकं | विद्यानां कुलपूज्यत्वात् कुरु कुल्ला कुलाधिकान् || प्. १६०अ) कुल्लाया अपि पूज्यत्वात् कुरु कुल्ला महोदया | तस्या मंत्रो महेशानि सर्वमंत्रोत्तमोत्तमः || कालीं ध्रुवं समुद्धृत्य कुरु कुल्ले पदं वदेत् | कालीं माया मम पदं सर्वजनपदं ततः || वशमान चोच्चार्य काली च कुरु कुल्लुके | पदमुद्धृत्य देवेशि माया स्वाहांत गो मनुः || सप्तविंशत्पर्ण संख्या मंत्रोस्याः सुरपादपः | एतस्य हृन्मनुर्देवि कुरु कुल्लानवाक्षरी || श्रीविद्याविषयेभिन्ना कुरु कुल्ला महेश्वरी | काल्यंग विद्या देवेशि श्रीविद्या कुरुकुल्लुकां || इयं विद्या महाभिन्ना काली नित्या चतुर्थिका | विना तु हृन्मनुं देवि कुरुकुल्ला न सिद्ध्यति || हृन्मनुं कुरुकुल्लाया ज्ञात्वा यत्नेन पार्वती | प्रणवं पूर्वमुद्धृत्य कुरुकुल्ले पदं वदेत् || ह्रीं स्वाहांतो मनुर्देवि कुरुकुल्ला कुमारिकां | हृन्मनुत्वेन कथितः सर्वमंत्रो तमोत्तमः || कालभैरव ऋषिश्चास्य वृहती छंद ईरितं | देवता कुरुकुल्ला च सर्वविद्यामयी परा || क्रीं वीजं हीं तथा शक्तिः स्वाहा कीलकमीरितं | कुरुकुल्ला कुमार्यस्तु भैरवो विपरीततः || विराट् छंदो निगदितं कूर्चवीजं प्रकीर्तितं | स्वाहा शक्तिं समुद्दिष्टा विनियोगो यथेच्छया || कुरुकुल्लां मित्रकुल्लां कुरुकुल्लां हृदंगमां | काली ध्रुवश्च कुरुकुल्ले क्रीं ह्रीं ह्रूं मम सर्वतः || जनवशं क्रीं कुरु युक् कुरुकुल्ले त्रिविष्टया | स्वाहांतोयं मनुर्दिष्टा भैरवो हि विराट् ततः || ह्रीं वीजं च तथा स्वाहा शक्तिः क्लीं कीलकं मतं | सर्वार्थ विनियोगः स्यात् पूर्ववत् क्वापि कीर्तितं || विनियोगः पूर्ववत्स्याच्छृणुध्वंगादि कल्पना | षट्दीर्घ कालीवीजेन षडंगानि क्रमाच्चरेत् || ततो ध्यायेन् महाविद्यां कुरुकुल्लां महेश्वरीं | शवोपरि समासीनां मुण्डमालां विभूषितां || कपालकर्तृकां हस्तां खड्गखेटकधारिणीं | अंजनाद्रि निभां दिव्यां मुक्तकेशीं चतुर्भुजां || प्. १६०ब्) पीनोन्नत कुचद्वंद्वां पीनवक्षो नितंविनीं | भक्तानंदकरोद्युक्तां साधकाभीष्टदायिनीं || आसवापूर्णनयनां कामिनी जनमोहिनीं | एवं संचिंतयेद्देवीं कुरुकुल्लां महोदयां || एवं ध्यात्वा जपेल्लक्ष संख्यं त्रिमधुरान्वितः | होमयेद् विल्वपत्रैश्च विल्वपुष्पैरपि प्रिये || दशांशं तर्पणं कुर्याद्दशांशेन तु मार्जनं | दशं विप्र भोज्यं च तेन सिद्धो मनुर्भवेत् || पूजयेत् कालिकापीठे त्रिकोण त्रयसोज्ज्वले | वृत्ताष्टदलभूषाढ्ये भूपुरद्वयशोभिते || विंदौ वीजं लिखेत् काल्यास्त्रिशक्ति त्रयमर्चयेत् | कालीं तारां छिन्नमस्तां वालां वा वगलां रसां || उग्र प्रभा मुग्रवीर्यां तृतीयां तु तृतीयकां | त्रिकोण त्रितये पूजा क्रमेण परिकीर्तितां || ब्राह्म्याद्यष्टौ भैरवा च पूजयेद्द्विदलाष्टके | लोकपालान्तदस्त्राताः पूजयेत् परमेश्वरी || शवश्मशानो विपिने अरण्य भूतसंकुले | पूजयेत् कुरुकुल्लां वा सर्वसिद्धिं स विंदति || यद्यत् प्रार्थयते चित्ते तत् तदाप्नोति साधकः | समस्तान्पूजयेद्देवी ब्राह्मणांश्च सुवासिनां || विप्राराधन मात्रेण किं तद्यन्तकरे स्थितं | तंडुलेन जयावाप्तिर्गोधूमेन धनागमः || माषैः शत्रुमृतिं याति मुद्गैर्मोक्षकलां लभेत् | तिलतंडुलहोमेन महाप्रीतिं स विंदति || राजी लवणहोमेन कामिनीं कर्षयेद्ध्रुवं | सर्षपैर्लवणैर्देविकामिनि मनभंजनं || सर्पिर्लवणहोमेन कामिनीमनरंजनं | हरिद्रया दरिद्राणि नश्यंत्येव न संशयः || रहस्यादति गोप्या हि नित्या प्रोक्ता विरोधिनी | पंचमी संज्ञिकां नित्या यथावदवधारय || प्रणवं पूर्वमुद्धृत्य कालि प्रणवमुद्धरेत् | माया कामस्ततः कूर्चः प्रोक्तो विरोधिनी पदं || शत्रुनुच्चाटयं पदं विरोध यद्वयं वदेत् | शत्रु क्षयकरी प्रोच्य हूं फट् स्वाहान्वितो मनुः || द्वात्रिंशद्वर्ण संयुक्तो मंत्रराजो महोत्तमः | महामंत्रो यमाख्यातो ऋषिर्भैरव ईरितः || प्. १६१अ) गायत्री छंद आदिष्टं देवता तु विरोधिनी | कालीवीजं वीजमस्याः मायाशक्तिः प्रकीर्तिता || कामवीजं कीलकं स्यात् विनियोगो यथेच्छया | काली षट्दीर्घवीजेन षडंगयुग्ममाचरेत् || ध्यायेदं जनगिरिनिभां द्विरष्टवर्षदेशिनी | पीनोन्नत कुचद्वंद्वां सर्पाच्छिमालिकां युतां || चतुर्भुजां त्रिनयनां शवपद्मोपरिस्थितां | त्रिशिखं नागपाशं च घण्टां च डमरुं तथा || स विभ्रतीं महादेवीं क्रमाद्भुज चतुष्टये | धूम्रांवरां पीतगात्रीमीषत् प्रहसिताननां || माभैर्वीर वरं व्रूहि सर्वतत्वं ददाम्यहं | उपस्थितं ते यत् कार्यं तत् तत्कार्यं करोम्यहं || एवं संवदतीं देवीं चारुहासां मनोहरां | विरोधकरणोद्युक्तां शत्रूणां नाशकारिणीं || कालिकोक्ते यजेत्पीठे त्रिकोण त्रय शोभिते | वृत्ताष्टदल भूषाढ्ये भूपुरैकेशोभिते || चतुर्द्वार विभूषाढ्ये श्रीवीजोज्ज्वलकर्णिके | विरोधिनी कर्णिकायां त्रिकोणे त्रितय क्रमात् || धूमां च पूष्णां ज्वलिनीं ज्वालिनीं विस्फुलिंगिनीं | सुश्रीं सुरूपां कपिली ततो हव्यवहां यजेत् || विरोधिनीं मस्तके तु ततो हि दशमीं यजेत् | दलाष्टके भैरवाष्टौ भैरवेण समन्वितां || भूपुरे लोकपालांश्च तदस्त्राणि च तद्वहिः | तनो नीराजनं कृत्वा लक्षसंख्यं जपेन्मनुं || दशांशं जुहुयाद् वह्नौ निंव वह्नौ यथाविधि | अरिष्टमालां कृत्वा च महामुण्डासनीनरः || जुहुयादरिनाशाय अरिष्टफलमादरात् | विभीतकेन जुहुयात् सर्वशत्रु निवर्हणं || धुत्तूरकुसुमैर्द्धीमान् शत्रु विद्वेषयेन्नरः | काकोलूकस्य मांसेन शत्रून्मारयति क्षणात् || राजसुवृक्ष प्रसूनैश्च तत्काष्टाग्नौ हुनेत्सुधीः | विरोधिनी भवेत्सिद्धा धूमावत्यादि संयुता || अर्ककाष्ठादि संयुक्ता शत्रुविद्वेषकारिणी | वायव्याभिमुखो भूत्वा वदुजीरकजंजलं || कोष्णं पिवेन्महेशानि शत्रुर्ज्वरयुतो भवेत् | पराभिचारनाशार्थं स्वरक्षार्थं यथाविधिः || प्. १६१ब्) एकांते मातृगेहे वा मृतहट्टे शिवालये | विरोधिनीं जपेद्विद्यांद्ययुतं चोक्तमार्गतः || विबीतकस्य समिधा हुनेच्छत्रु निवारणं | नाभिमात्रोदके गत्वा मरी च जलयोगतः || तर्पयेद्देवता नीरैस्त्रैलोक्य द्वेषणं चरेत् | अथाकर्षणमन्विच्छन्वल्मीकमृत् समानयेत् || श्मशाने मृत्समादाय गोधूमहिंगुजीरकैः | पुत्तरीं साध्यरूपां च कारयेत् परमेश्वरीं || नासायांडोरकं दत्वा प्राणस्थापनपूर्वकं | विरोधिनीं जपेत् तत्र करवीरैस्समर्चयेत् || दुग्धेन पुत्तलिं कृत्वा तापयेत् वदिरानले | अनेन क्रमयोगेनदिनानि च चतुर्दश || यः करोति नरः श्रेष्ठः सर्वाकर्षणकारकः | वनित्तांमदनर्भाढ्यां समाकर्षति योगतः || विचार्याकर्षणं कार्यं भवेद्वान भविष्यति | ध्यात्वा माध्यगले पाशं मस्तके त्वरितांकुशं || एवं संचिंत्य देवेशि त्रैलोक्याकर्षको भवेत् | रहस्यमपि ते देवि तव प्रीत्या निगद्यते || विप्रचित्तादि दुष्टानां वधार्थं पूर्वमुद्धृता | विप्रचित्तेति विख्याता वै प्रवित्त विनाशिनी || षष्ठी नित्या महाविद्यातन्मंत्रं शृणु पार्वती | प्रणवं कमलाकामं चामुण्डारावमुच्चरेत् || विप्रचित्तेपदं प्रोच्य दुष्टघातिनि चोच्चरेत् | शत्रून्नाशयचोच्चार्य एतद्दिनावधि प्रिये || सिद्धिं मे देहि चोच्चार्य हूं फट् स्वाहांत गो मनुः | चतुस्त्रिंशद्वर्णयुतो विप्रचित्तामनुर्महान् || ईश्वरोस्य ऋषिर्देवी जगती छंद ईरितः | विप्रचित्ता देवता हि चामुण्डा वीजमीरितं || कमलाशक्तिराख्याता कामवीजं तु कीलकं | षट्दीर्घाद्येन कामेन षडंगन्या समाचरेत् || सिंहोपरि समारूढां शवपंजरमध्यगं | चतुर्भुजां त्रिनयनां पीनोन्नतपयोधरां || दिगंवरां मुक्तकेशीं ललजिह्वां भयानकां | भीमदंष्ट्रां करालास्यां सृक्किणीं रक्तवाहिनीं || खड्गमुण्डकपाल त्रिशूलहस्तां महोदरीं | नीलोत्पलनिभां श्यामां भक्तानु ग्रहकारिणीं || दैत्य संहारणोद्युक्तां साधकानामभीतिदां | एवं संचिंत्य देवेशीं विप्रचित्तां शिवप्रियां || प्. १६२अ) लक्षमांत्रं जपेन्मंत्रं दशांशं कुमुदैर्हुनेत् | अथाष्टगंधनीरेण तद्दशांशं प्रतर्पयेत् || मार्जनं तद्दशांशेन दशांशेनाभिषेचनं | तद्दशांशं विषभोज्यं विप्रचित्तासु सिद्धये || त्रिकोणवृत्त षट्कोणं वृत्ताष्टदल भूषितं | वृत्तभूपुरसंयुक्तं विंदुवीज विभूषितं || विंदौ यजेद्विप्रचित्तां त्रिकोणे त्रिगुणां यजेत् | षट्कोणे तु षडंगानि तद्दले मातृभैरवौ || भूपुरे लोकपालांश्च तदस्त्राणि च तद्वहिः | ततो नीराजनं कृत्वा जपं देव्यै समर्पयेत् || पुरश्चर्या समायुक्तः प्रयोगार्हो न चान्यथा | साकल्यैर्जुहुयाद्देवि शांतिकर्मणी साधकः || मालत्या जुहुयाद्वश्ये केतक्या वाक् विभूतये | करवीरैर्वशीकारः किंशुकैस्तंभनं भवेत् || मोहनं चोड्रु पुष्पेण धुत्तूरैर्मारणं दिशेत् | वृहत्पातु रिपूच्चाटोगिरि कर्श्यां धनागमः || काशपुष्पैरिपूच्चाटो विद्वेषे कर्णिकारजैः | नीवारैर्जुहुयाद्देवीधान्य सिद्ध्यर्थमेव हि || कलापपुष्पैर्जुहुयात्तुलस्या सर्वसंपदः | कौसुंभ कुसुमैर्देवी कामिनी वांछितां लभेत् || मधुपुष्पैश्च जुहुयादभीष्टसिद्धये ध्रुवं | धोतक्या जुहुयाद्देवी धनैर्धन पतिर्भवेत् || यद्रोगेभेषजं यच्च तेन तद्रोगनाशनं | रहस्यातिरहस्यं च तथापि कथ्यते शृणु || प्रणवं च वधूवीजं हूं वीजं भुवनां ततः | पुनः पूर्वं ततो हूं फट् उग्रा सप्ताक्षरो मनुः || भैरवोस्य ऋषिः प्रोक्तो वृहती छंद ईरितम् | उग्रा तु सप्तमी नित्या देवता परिकीर्तिता || कूर्चवीजं च फट् शक्तिर्वधूलीलकमीरितं | सर्वाभीष्टादि सिद्ध्यर्थे विनियोगः प्रकीर्तितः || षट्दीर्घाद्येन वीजेन मायाख्येन षडंगकं | ततो ध्यायेत् परा मुग्रां प्रत्यालीढ पदस्थितां || चतुर्भुजां त्रिनयनां मुण्डमाला विभूषितां | दिगंवरां करालास्यां घोरदंष्ट्रा भयानकां || प्. १६२ब्) शवोत्संगे क्रीडमानां श्मशानालयवासिनीं | श्यामवर्णां मुक्तकेशीं खड्गेंदीवरधारिणीं || कपालकर्तृकां हस्तां वरदान परायणं | उग्रां ध्यायेन् महाविद्यां लक्षयुग्मं जपं चरेत् || तद्दशांशेन जुहुयात् कमलैर्घृत संयुतैः | तद्दशांशं तर्पणं च तद्दशांशेन मार्जनं || विप्रभोज्यं दशांशेन तेनोग्रासिद्धिदा ध्रुवं | पर्वते प्रांतरेघोरे विपिने तटिनी तटे || एकलिंगे श्मशाने वा पुरश्चरणवान् भवेत् | अथास्याः पूजा यंत्रं च यथावत् कथ्यते श्र्णु || त्रिकोणवृत्ताष्टदलं वृत्तं भूपुरभूषितं | दलाष्टक विभूषाढ्यं किं वा वज्रविभूषितं || त्रिकोणवृत्ते विलिखेत् कूर्चवीजं महोत्तमं | तारां नीलामेकजटां तत्त्रिकोणं प्रपूजयेत् || ततो दलाष्टके देवि उग्रा घोराष्टकं यजेत् | वैरोचनाष्टकं पूज्य तथा पद्मांतकान्यजेत् || लोकपालान् तदस्त्राणि यथावद् विधिना यजेत् | ततो नीराजनं कृत्वा जपं देव्यै समर्प्य च || शवासने सुरपते स्थित्वा च सर्वदा जपेत् | सिंदूरतिलको नित्यं संविदासवचूर्णितः || मुक्तकेशो दिशावासो भक्तियुक्तो जितेंद्रियः | महाचीन द्रुमलतां संपाद्य परमेश्वरी || त्रिकोणं चैव संवीक्ष्य सदा तद्गतमानसः | लक्षमात्रं जपेन्मंत्र मुग्रासिद्ध्यति निश्चितं || अन्यत् सर्वतु तारावत् कीर्तितं जगदीश्वरी | न्यास पूजादिकं ध्यानं पुरश्चर्या विधानकं || महोग्रतारावद्ज्ञेयं किं भूयः श्रोतुमिच्छसि | प्रणवं पूर्वमुद्धृत्य शिववीजं समुद्धरेत् || वह्न्यारूढं नादविंदु षष्ठः स्वरविभूषितं | वीजद्वयं समुच्चार्य उग्रप्रभे स्वरूपकं || देवी काली महादेवी स्वरूपं दर्शयेति च | हूं फट् स्वाहा समायुक्तं प्रोक्त मुग्रप्रभा मनुः || पंचविंशति तत्वाद्यः प्रोक्तश्चोग्र प्रभा मनुः | महाकालो ऋषिः प्रोक्त स्त्रिष्टुप्छंदः प्रकीर्तितं || उग्र प्रभा महाकाली देवता परिकीर्तिता | रं वीजं ओं तथा शक्तिः फट् कीलकं उदाहृतं || प्. १६३अ) कालिका दर्शनाद्यर्थे विनियोगः प्रकीर्तितः | उग्र प्रभाख्या वीजेन षड्दीर्घेण षडंगकं || ध्यायेद् उग्रप्रभां दिव्यां दिव्यनीलोत्पलप्रभां | चतुर्भुजां त्रिनयनां शवपद्मो परिस्थितां || दिगंवरां मुक्तकेशीं पीतोन्न तपयोधरां | सुप्रसन्नमुखां भोजाशवोमांस प्रभोजनीं || शवानांकर संघातैः कृतकांची हसन्मुखीं | खड्गमुण्डधरां वामे दक्षे खर्परकर्तृके || विभ्रती परमानंद जननीं कालवंचिनीं | एवं ध्यात्वा महाविद्यां लक्षयुग्मं जपेच्छिवे || कालिकोक्ते यजेत्पीठे त्रिकोणद्वयकोज्वले | वृत्ताष्टदलभूषाढ्ये भूपुरेद्वयभूषिते || उग्रप्रभा विंदुमध्ये कालीतारां च रोचनीं | प्रथमे प्रयजेद्देवी द्वितीयेतारिणीगणः || तारामेकजठां नीलां तु द्वितीये त्रिकोणके | दलाष्टके मातृकाष्ठौ दलाग्रे भैरवाष्टकं || बूपुरे लोकपालांश्च तदस्त्राणि च तद्वहिः | त्रिस्त्रिः पूजा प्रकर्तव्या सर्वेषामपि देशिकैः || एवमुग्र प्रभामिष्ट्वा लक्षयुग्मं जपं चरेत् | दशांशं वज्रपुष्पाणि मैरेयाक्तानि होमयेत् || तर्पयेत् तद्दशांशेन दुग्धेन मधुनाथ वा | दध्नाचेक्षु रसेनापि पीठतो येन वा पुनः || तद्दशांशं मार्जनं च दशांशं विप्रभोजनं | कुमारीं पूजयेत् पश्चाछक्तिं चापि प्रपूजयेत् || उग्र प्रभां पताकायां मूर्ति कृत्वा विधारयेत् | रणे देवान् सुरां जित्वा त्रैलोक्य विजयी भवेत् || दुंदुभौ फलके खड्गे जप्त्वा चोग्र प्रभां शिवां | सर्वसिद्धिं समासाद्य कालीरुपो नरो भवेत् || मालिनीमण्डलं दृष्ट्वा जपेदुग्र प्रभा मनुं | कालिका सिद्धिदा भूयान्नात्र कार्या विचारणा || योनि स्वरेत सा लिप्त्वा जपेदुग्र प्रभां परां | तत्र संचिंत्य देवेशि साधकः किंन्न साधयेत् || प्. १६३ब्) उग्र प्रभाभ्यां कालीं तु कृत्वा मासं जपेच्छिवे | मासमात्र प्रयोगेन कालिका वरदा भवेत् || सर्वतंत्रेषु संगुप्ता दीप्ता नित्या महोदया | नवमी संख्यका नित्या नित्या सारा महोदया || तस्या मंत्रं प्रवक्ष्यामि यथावदवधारय | प्रणवं कालिका वीजं कौलिनी मेव च || कूर्चवीजं समुद्धृत्य दीप्तायै तदनंतरं | सर्वमंत्रफलं चोच्यदायै शब्दं समुच्चरेत् || हूं फट् स्वाहांतको मंत्रस्तून विंशाक्षरः परः | अर्द्धसंख्या विहीनेन वीति संख्यः प्रकीर्तितः || महादेवो ऋषिश्चास्य उष्णिक् छंदः प्रकीर्तितः | दीप्ताख्या नवमी नित्या देवताः परिकीर्तिता || कालीवीजं वीजमस्याः कौलिनी शक्तिरेव हि | स्वाहा कीलकमित्युक्तं काल्यर्थे विनियोगता || काल्याः षट्दीर्घयुक्तेन षडंगन्या समाचरेत् | ध्यायेद्दीप्तां महानील मणिप्रख्यां महोदरीं || चतुर्भुजां त्रिनयनां मुण्डमालां विभूषितां | दिगंवरां मुक्तकेशीं घोरदंष्ट्रां करालिकां || शवपद्मे समासीनां पीनोन्नत पयोधरां | शवास्थि कृत केयूरशंखकंकण भूषितां || लेलिहानां शवं क्वापि प्रहसंतीं मदातुरां | भक्तानां वरदा नित्यां कालिका ध्यानकारिणीं || न रात्रं योगपट्टेन भूषितां योगमार्गणां | खड्गमुण्डधरां वामे सव्येऽभय वरप्रदां || सु दंतुरां महारौद्री श्मशान लयवासिनीं | एवं संचिंत्य दीप्ताभां लक्षमेकं जपेच्छिवे || दशांशं नारिकेरेण हवनं समुपाचरेत् | कदल्या हवनं कार्यं सर्वदीप्ति प्रसिद्धये || दशांशं पीठतो येन हवनं समुपाचरेत् | तद्दशांशं मार्जनं च गंधाष्टक जलेन वै || तद्दशांशं विप्रभोज्यं भोजयेद्धि कुमारिकां | ततः सिद्धमनुर्मंत्री प्रयोगार्होन चान्यथा || प्. १६४अ) ब्राह्मे मुहूर्ते चोत्थाय गुरुस्मरण पूर्वकं | गुरुं ध्यात्वा सहस्रारे पूर्वोक्त ध्यानयोगतः || मुलाधारात् स्वजिह्वातां मूलविद्यां परां स्मरेत् | सरस्वतीं दीपरूपां मूलवीजस्वरूपिणीं || संपूर्णा मातृकां प्रोच्य मूलविद्यां समुच्चरत् | पुनर्वै मातृकां प्रोच्य पुनर्विद्यां समुच्चरेत् || त्रिधाभि मंत्रतो यस्तु क्रमेणानेन सुंदरि | मूलविद्यां ततो ध्यात्वा जिह्वाया दीपरूपिणी || तेजोरूपी सायुधां वै तज्जलं पिवेच्छिवे | योगेनानेन देवेशि त्रिकालज्ञा नरो भवेत् || विनायासैर्विनाभ्यासैर्विना पाठादिना प्रिये | चतुर्विधं तु पाण्डित्य तस्य हस्ते व्यवस्थितां || जाती पुष्पेण देवेशि कविता वशवर्तिनी | कंदपुष्पेण देवेशि सर्वशास्त्रवशी कृतिः || दुर्वया शांतिके होमेः गुडूच्या मृत्युवारणे | सुरया मोहनं प्रोक्तं रंभास्तंभनमीरितं || आम्रेण वश्यसिद्धिः स्याद्धुत्तूरेण महोदयः | उच्चाटन करवीरेण विद्वेषः कर्कटी फलैः || स्मरणं नीलपुष्पेण मरीचेन तु कर्षणं | एवमादि क्रियाः सर्वासिद्धमंत्री समाचरेत् || अंजनं गुठिकां खड्गधातुवादं रसायनं | चरुकं तिलकं वा सा दुंदुभिश्च कपाकलं || एवमाद्धि क्रिया सिद्धिदीप्ता मंत्रेण वै भवेत् | मंत्रोद्धारं शृणु प्राज्ञे येन सिद्धिं स विंदति || कूर्चयुग्मं महादेवि काली वीजद्वयं तथा | माया द्वयं समुद्धृत्य हसकलरी स्वरूपकं || अथ नीलपताके च हूं फडंता महेश्वरी | नीलानीलपताके च सर्वसिद्धीकरी परा || उग्रचंडाल लज्जिद्वाया सा सिद्धकरालिका | पंचधा कथिता नीला महानीलपताकिका || भैरवोस्य ऋषिः प्रोक्तो वृहती छंद ईरितं | कूर्चवीज स्वरूपं हि शक्तिरित्यभिधीयते || प्. १६४ब्) हूं फट् च कीलकं भद्रे काल्यार्थे विनियोगता | काली षट्दीर्घवीजेन षडंगन्या समाचरेत् || अथ ध्यायेन् महानीलां नीलांजनगिरि प्रभां | चतुर्भुजां त्रिनयनां मुंडमालां विभूषितां || शवोपरि समासीनां मेदिराघूर्णलोचनां | मृगणावक नेत्रां च प्रसन्नवदनांवुजां || करकांची शोभनानां शवकर्णावतंसिनीं | ललजिह्वां करालास्यां घोरदंष्ट्रां भयानकां || पापिनां सर्वदा नीला क्रूरा पुण्यवतांवरां | दुष्टसंहरणोद्युक्तां साधकस्य वरप्रदां || फेरुवर्गैर्गृध्र गणैश्चतुर्दिक्षुनिनादितां | ईदृशीमादि रूपां तां नीलांभोज वरप्रदां || जपेल्लयं देवि हविष्याशी जितेंद्रियः | कुलाचार क्रमेणैव यथोक्त क्रमयोगतः || करवीरैर्जवा विल्वैर्मल्लिकाद्यैर्घृतान्वितैः | त्रिकोणकुण्डे जुहुयात् सुपरिस्कृत भूतले || दशांशं तर्पणी कार्यं दुग्धेन सुरयापि च | मार्जयेद्रक्तनीरैश्च ब्राह्मणान् भोजयेत् ततः || सुवासिनीं कुमारीं च शक्तिं वा त्रितयां शुभां | पुरश्चरण संपन्नो मंत्रः सर्वार्थदायकः || यथाद्रव्यं नृपादीनीं पुरश्चर्या तु मंत्रिणां | पुरश्चरण संपन्नः प्रयोगार्हो नवान्यथा || यंत्रमस्याः प्रवक्ष्यामि येन सिद्धीश्वरो भवेत् | विंदुमध्ये लिखेत् कूर्चं त्रिकोणं च ततोपरि || वृत्तं षट्कोण वृत्ताष्टदलवृत्तं च भूपुरं | चतुर्द्वारोप शोभाढ्यं यंत्रं नीलामनोः शुभं || वटुकाद्याश्चतुर्द्वारि परेषु द्वारदेवताः | तदस्त्राणि च तद्वाह्ये दलेष्टो भैरवान् प्रिये || केशरे मातृकाष्टौ च वृत्तेष्ठ सिद्धयः क्रमात् | षट्कोणे तु षडंगानि त्रिकोणदेवता त्रयं || कालरात्रिर्महारात्रिर्मोहरात्रिः क्रमात्त्रिके | मध्ये नीलां समाराध्य ततो नैवेद्य तर्पयेत् || नीराजनं ततः कृत्वा स्तुत्वा नत्वा विसृज्य च | नीलां संसाध्य यत्नेन षट्त्रिंषद्यक्षणीगणं || यद्यदा ज्ञापयेत् साध्यं षट्त्रिंशद्यक्षिणी गणं | कालीकूर्च वधूमाया अमुक यक्षिणी मध्यतः || प्. १६५अ) अंते इमानि वीजानि हूं फट् स्वाहान्वितांगणः | षट्त्रिंशच्चैव यक्षिण्यः क्रमेण चोद्धृताः प्रिये || तथैव वलिनो यक्ष स्फें क्रीं हूं ह्रीं पुटेन च | सर्वयक्षा हूं फडंता चतुराशिति कीर्तिताः || यक्षिणी सिद्धिमासाद्य साधकः सुखमाप्नुयात् | राजा भवति लोकेस्मिन् वोनाराज्येन पार्वती || अल्पज्ञमपि विद्वांसं मूर्खं च पण्डितं तथा | यः करोत्येवमादीनिदीवाराणां शतान्यपि || यो वै ददाति साध्याय यक्षिणी नात्र संशयः | देवयोनिर्मानवी च द्विधा योनिः प्रकीर्तिता || तत् तद्रूपं समासाद्य तत्सिद्धिमधिगच्छति | फलं तु यक्षिणी सिद्धेर्यक्ष सिद्धेश्च किं फलं || तन्मे वदया पारपरापर नमोस्तुते | दीनारंगुटिकां खड्गं वेतालं पादुकांजने || रसं रसायनं गुप्तिस्तिलकोऽदृश्यता तथा | कपालं च पठः शंखस्त्रिशूलंडमरुं तथा || आकर्षणं वश्यता च मोहनोच्चाटनं तथा | माहेन्द्र जालमिंद्रादि जालानां रचना तथा || ऊर्द्ध्वोत् क्रमणकर्मादि खेचर्याद्या हि सिद्धयः | गोपनीयं गोपनीयं किमन्यच्छ्रोतुमिच्छति || देवेश श्रोतुमिच्छामि घना नित्या क्रमार्चनं | उद्यद्घनघनाकाराघना नित्या महोदया || घनालया घोषवती घटिकोदय रूपिणी | तस्या मंत्रार्चनं नित्यं च दत्वं करुणानिधे || प्रणवं पूर्वमुद्धृत्य कालिकाद्व्यक्षरं तथा | घनालये घनाघने ह्रीं हूं मनुर्मतः || भुवनाक्षरोघनायास्तु मंत्रोयं सुरपादपः | अघोरभैरव ऋषिर्विराट् छंदः प्रकीर्तितम् || कालीं वीजं तथा माया शक्तिं हूं फट् च कीलकं | कालिका प्रीतये देवी विनियोगः प्रकीर्तितः || षट्दीर्घभाजा वीजेन कर्पूरेण षडंगकं | घनां नित्यां महाविद्यां नीलजीमूत सन्निभां || मत्तकोकिल नेत्राभां पक्व जंवु फलप्रभां | सुदीर्घ प्रपदालं विमुक्त लंवकचोच्चयां || चतुर्भुजां त्रिनयनीं दिगंवर विनोदिनीं | करालास्यां घोरदंष्ट्रां पीनोन्नत पयोधरां || ओष्ठप्रांतद्वालद्रक्तधारा विस्फुरिताननां | वीराणां करकांच्यां तु भूषितां भीमविग्रहां || प्. १६५ब्) खड्गखेटकपट्टीशमुद्गरान् विभ्रतीं क्रमात् | ध्यातव्या स ततं वीरैर्महावीरघनालयां || लक्षमात्रं जपेन्मंत्रं यथोक्तैः कमलैर्हुनेत् | तद्दशांशं तर्पणं तु गंधादुग्धादिभिः प्रिये || तद्दशांशं मार्जनं तु शीतलेन जलेन च | तद्दशांशं ब्राह्मणानां भोजनं समुपाचरेत् || एवं क्रिया समायुक्तो मंत्र सिद्धिं स विंदति | घना यंत्रं प्रवक्ष्यामि पूजनं यादृशं भवेत् || षट्कोण वृत्ताष्टदलं भूपुरेणोपशोभितं | षट्कोणे तु षडंगानि * * (?) तु देवता अपि || दलाष्टके मातृकाष्टौ ततो भैरव पूजनं | लोकपाला भूपुरेषु तदस्त्राणि च तद्वहिः || यथाशक्ति जपित्वा तु ततो नीराजयेदमुं | नीराजनांतं देवेशि स्तुत्वा नत्वा विसृज्य च || देवेशि शृणु वक्ष्यामि वलाकापूजनं क्रमं | वलाका द्वादशा नित्या सर्वनित्या वशंकरी || यज्ञानान् स कला विद्याः स्वस्वस्थान पदं गता | तस्या मंत्रो महेशानि कथ्यते शृणु सांप्रतं || प्रणवं कालिका वीजं कूर्चमाये समुद्धरेत् | वलाका कालिशब्दांते अत्यद्भुत पराक्रमे || अभीष्टसिद्धिं मे देहि हूं फट् स्वाहा मनुर्मतः | कालिकास्या भवेद्वीजं कूर्चं शक्तिः प्रकीर्तिता || मायाकीलकमुद्दिष्टं कीलकेन षडंगकं | षडंगन्यासमासाद्य ध्यानं कुर्यान् महेश्वरी || अंजनानंत सदृशीं कोटि कालानल प्रभां | चतुर्भुजां त्रिनयनां मुण्ड दुर्गनिवासिनीं || दिगंवरीं करालास्यां पीनोन्नत पयोधरां | शवानां करसंहत्या कृतकांची शवासनां || मुक्तकेशीं महाघूर्णां प्रसन्नमुख पंकजां | सूर्यकोटि समाभासां मुण्डमालां विभूषितां || खड्गमुण्डधरां वामे सव्ये कर्परतर्जनीं | संविभ्रतीं महाकालीं वलाकारूपधारिणी || श्मशाननिरयां भीमां भूतप्रेत समन्वितां | शिवाभिर्घोररावाभिर्वेष्टिता घोरनादिनीं || प्. १६६अ) माभैर्वीरवरं व्रूहि हृद्गतंते करोम्यहं | एवं ध्यात्वा जपेल्लक्षं मंत्रसिद्धो भवेद्ध्रुवं || दशांशं विल्वपत्रैश्च घृताक्तैर्जुहुयात्सुधीः | तर्पणं तद्दशांशेन तद्दशांशेन मार्जयेत् || तद्दशांशं ब्राह्मणानां भोजनं परिकीर्तितं | विप्राराधनमात्रेण सर्वांगं पूर्णतामियात् || यद्यदंगविहीनं च तत्सांगे द्विजभोजनं | अन्यत् सर्वं महेशानि कालिकावत् समाचरेत् || मात्रा नित्या तु या प्रोक्ता सर्वनित्योत्तमोत्तमा | तस्या मंत्रं महेशानि यथा वदवधारय || प्रणवं कालिकावीजं माया कूर्चं च मातृका | स विंदुं मातृकावर्णं चतुर्वीजानि वै पुनः || पुनश्च मातृकावर्णं चतुर्वीजं पुनश्च तत् | एवं क्षांतां महेशानि महामात्रा प्रकीर्तिता || चतुर्वीजं तथा मात्रे सिद्धिं मे देहि सत्वरं | हूं फट् स्वाहेति देवेशि मात्रामंत्रो परोमतः || प्रणवं कालिकावीजं कूर्चमाये ततः शिव | मध्ये नित्यानाम दद्यात् संवुद्ध्यंता च केवला || नित्या मंत्राश्च जायंते भिन्नरूपाश्च पार्वती | पुनर्वीजानि हूं फट् च स्वाहांताः परिकीर्तिता || आद्यायोगात् संपुटाद्वा हूं फडंतः प्रयोगतः | एवं नवति नित्यानां मंत्रभेदा भवंति हि || भैरवोस्य ऋषिः प्रोक्तो उष्णिक् छंदः प्रकीर्तितम् | मात्रा देवीति विख्याता देवता परिकीर्तिता || क्रीं वीजं हूं तथा शक्तिः ह्रीं कीलकमुदाहृतं | विनियोगो महेष्टार्थे कालिकार्थे प्रकीर्तितः || माया षट्दीर्घ युक्तेन षडंगन्या समाचरेत् | तथा ध्यायेन् महाविद्यां नीलांजनगिरि प्रभां || चतुर्भुजां त्रिनयनां मुण्डपद्मोपरिस्थितां | कपालकर्तृकां हस्तां खड्गमुण्डधरां परां || दंतुरां च महारौद्रीं चण्डनादाति भीषणां | शववक्षः समारूढां लेलिहानां शवासनां || एवं विधातां श्रीमात्रां महाघोर निनादिनीं | इति संचिंत्य देवेशि लक्षमात्रं जपं चरेत् || दशांशं जुहुयाद् विल्वैरथ वा कदलीफलैः | द्राक्षाभिर्पायसैर्वापि दशांशं हवनं चरेत् || तर्पणं मार्जनं विप्र भोज्यं यत्नेन कारयेत् | यद्यदंग विहीतेत तत् संख्या द्विगुणो जपः || प्. १६६ब्) जप पूजा प्रयोगादि कालीवल्लिपि मातृवत् | रहस्यमपि ते देवि कथ्यते शृणु सांप्रतं || मुद्रा नित्या विधानं च सर्वं सारोत्तमोत्तमं | मुद्रिणीनामका नित्या श्रीविद्यायां तु मुद्रिणी || मुद्रिणी दंडिनी नाम्नी देवी मौदार्य विग्रहां | महाविद्यादिकादीनां मनोर्मुद्रेण कारिणी || तेनेयं मुद्रा नित्याख्या सर्वसिद्धिः परांविका | प्रणवं कालिकावीजं मया कूर्चक्रमेण च || प्रोक्तं वीजयुगं प्रोच्य मुद्रां वा पदमुद्धरेत् | मुद्रां सिद्धिं मे देहि भोजपं मुद्रा स्वरूपिणी || हूं फट् स्वाहा समायुक्तो वीति वशोमनुः शुभः | महादेवो ऋषिश्चास्य गायत्री छंद ईरितः || मुद्रा नित्या महादेवी देवता परिकीर्तिता | कालीवीजं वीजनस्या मायाशक्तिः प्रकीर्तिता || कूर्चं कीलकमित्युक्तं काल्याः षड्दीर्घयुक्तया | षडंगन्या समाचर्य मात्रां ध्यायेन् महेश्वरी || अंजनाद्रि निभां मुद्रां मुण्डमाला विभूषितां | दिगंवरां घोरदंष्ट्रां चण्डनादाति भीषणां || दक्षिणां मुक्तकेशालीं दिगंवर विनोदिनीं | पिंगाक्षीं प्रज्वल जिह्वां घोरदंष्ट्रां भयानकां || शवानां करसंघातैः कृतकांचि हसन्मुखीं | सृक्कद्वयगलद्रक्ता धारा विस्फुरिताननां || कपाल कर्तृकां हस्तां खड्गखेटकधारिणीं | महाकालेन च समं रत्तासक्तां क्षुधातुरा || वरं व्रूहि वरं व्रूहि वरं व्रूहीति वा प्रदन् | एवं संचिंत्य देवेशि पूजयेद् यंत्र मादरात् || त्रिकोणवृत्त षट्कोणं वृत्ताष्टदलभूपुरं | चतुर्द्वारोपशोभाढ्यां तद्वारि गणपस्तथा || योगिनी क्षेत्रपालश्च वटुको हि चतुर्थकः | लोकपालास्त्र लोकेशो भूपुरे क्रमणो यजेत् || दलेष्ट मातृकां पूज्य केशरे भैरवाष्टकं | दलाष्टाग्रेत्वष्टसिद्धिः षट्कोणेषु षडंगकं || राज्यदां भोगदां मोक्षजयदां भयदा तथा | षष्ठी तु सिद्धिदां प्रोक्त्वा षट्कोणेषु क्रमाद् यजेत् || इच्छां ज्ञानां क्रियां चैव त्रिकोणे परिपूजयेत् | मध्ये मुद्रां च संपूज्य सर्वपंचोपहारकैः || इति पूजां समासाद्य ततो नीराजनं चरेत् | नीराजनांते देवेशि प्राणायाम पुरःसरं || प्. १६७अ) रक्ष द्वयं जपेन्मंत्रं सुश्वेतैः करवीरजैः | दशांशं हवनं कृत्वा तद्दशांशं च तर्पणं || मार्जनं ब्राह्मणानां च भोजनं समुपाचरेत् | एवं सिद्धिर्मनुर्मंत्री प्रयोगार्होन चान्यथा || यद्यद्धृदि समाधत्ते तत् तत् कृत्यं करोति हि | सर्वं तु कालिवत् प्रोक्तं विशेषः कथिता मया || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || श्रीदेव्युवाच || देवेशि श्रोतुमिच्छामिमिता नित्या विधिक्रमं | सर्वविद्या वरारोहे मितां मे व्रूहि सादरं || श्रीशिव उवाच || शृणु वष्यामि देवेशि रहस्यातिरहस्यकं | सर्वविद्या महाराज्ञीमिता नाम्नी महोदया || तस्या मंत्रं प्रवक्ष्यामि काली सर्वांगमद्भुतं | प्रणवं पूर्वमुद्धृत्य कालिकावीज मुद्धरेत् || कूर्चवीजं तथा मायां वाग्भवं वीजमुद्धरेत् | मिते पदं समुच्चार्य तथा परिमिते पदं || पराक्रमाय च पदं पुनर्वीजानि चोद्धरेत् | सोहं हूं फट् तथा स्वाहा सप्तविंशति वर्णकान् || मंत्रोयं कथितो देवि ऋषि छंदादिकं शृणु | महाकालो ऋषिश्चास्य त्रिष्टुप्छंदः प्रकीर्तितं || मितानित्या देवता च कालिका वीजमीरितं | कूर्चं शक्तिं महेशानि मायाकीलकमीरितं || कीलकेन षडंगानि षट्दीर्घाद्येन कारयेत् | ध्यायेन् नीलाद्रि संकाशान्नीलजीमूत सन्निभां || रक्तावस्त्रां शवासीनां मुण्डमालां विभूषितां | पीनोन्न तपयोद्वंद्वां पीनवक्ष नितंविनीं || दक्षिणां मुक्तकेशानीं दिगंवर विनोदिनीं | महादेव हृदं भोजमध्यस्थां शंखकंकणां || कोटिकालानल प्रख्यां श्मशानालयवासिनीं | खड्गमुण्डधरां वामे सव्ये भयवरप्रदां || साधकाकांक्ष हृदयां साधकस्य वरप्रदां | मुखसांद्र स्थिता मोदमोदिनीमद विह्वलां || आरक्त मुखसांद्राभिर्नेत्रादिभिर्विराजितां | दक्षिणां संमितां दिव्यां दीननाथां विभावयेत् || एवं ध्यात्वामितां देवि लक्षत्रयं जपं चरेत् | किंशुकैर्हवनं कार्यं ज्योतिष्मत्याथवा प्रिये || ज्योतिष्मती प्रसूनेन फलं किंशुकवन्मतं | आरक्त करवीरेण जुहुयान् मंत्रसिद्धये || प्. १६७ब्) त्रिकोण कुण्डे जुहुयात् संस्कृते खादि वा नले | तांवूलपत्र होमेन कालिका वशमानयेत् || पुष्पाक्तनागवल्यां च नागिनी सिद्धिमाप्नुयात् | वज्रपुष्पेण जुहुयात् डाकिन्या वा महेश्वरी || धुमूरेणारिनिधनं कुंदैश्च कवितां लयेत् | जातिपुष्पैर्जयावाप्तिस्तिलपुष्पैर्वलोन्नतिः || पुन्नागैः पुरुषार्थाय केतक्या कामिनी लभेत् | आसूर्यारिपुनाशश्च चंदनेन जयी सदा || तथैवा गुरुणा देवि राजराजपदं लह्बेत् | रक्तचंदन होमेन सर्वमोहनमाचरेत् || गिरिकर्न्याकन्यकाप्तिः सेवंत्या शिवरूपताः | पुडूच्या रिपुनाशश्च मरीचिना कृष्टिरुत्तमा || पूगीफलैर्महाभाग्यं तथा जातीफलैर्धेनं | स्तंभनं चंपकेनैव जंघाजन्मार्तिनाशनं || एवं नानाविधानेन काममुद्दिश्य साधकः | ततो होमं दशांशेन तर्पणं पीठरीरतः || अष्टगंधोदकेनापि तथा केशरनीरतः | तर्पणं तद्दशांशेन मार्जनं समुपाचरेत् || तद्दशांशं विप्रभोज्यं शक्तयश्च कुमारिका | पूजयेद्भोजयेद्देवि सर्वसिद्धिं स विंदति || अथ पूजाविधानेन यंत्रं सं कथ्यते शृणु | त्रिकोण त्रितयं लिख्य वृत्तः षट्कोण संयुतं || वृत्ताष्टदल भूषाढ्यं भूपुरेण समन्वितं | चतुर्द्वारोप शोभाढ्यं मध्ये विंदु विभूषितं || कालीं करालां श्रीघोरां प्रथमे तु त्रिकोणके | द्वितीये तु त्रिकोणे तु वामे ज्येष्ठां च रौद्रिकां || तृतीये तु त्रिकोणे तु इच्छा ज्ञानां क्रिया तथा | अथ वृत्ते यजेद्देविं वार्तालीं प्रथमं यजेत् || द्वितीयभागे देवेशि लघुवाराहिकां यजेत् | तृतीयभागे देवेशि स्वप्ना वाराहिकां यजेत् || तिरस्काराणिकां पूज्य चतुर्थभागके शिवे | षट्कोणे वृत्तदेवेशि चतुर्द्वारं प्रपूजयेत् || षट्कोणे तु षडंगानि वृत्ते सिद्ध्यष्टकं तथा | दलेष्टौ मातृकाः पूज्यास्तदंतेष्टौ च भैरवाः || भूपुरे लोकपालांश्च तदस्त्राणि च तद्वहिः | एवमिष्ट्वामितां नित्यां विद्यामित्रां निरंजनीं || एवमाराधरो युक्तो मंत्रसिद्धि लभेन्नरः || प्. १६८अ) अथवान्य प्रकारेण ध्याननित्या क्रमे शृणु | अंजनाद्रिनिभाः सर्वामुण्डमाला विभूषणा || दक्षहस्ते देवि खड्गं वामहस्ते च तर्जनीं | धारयंत्य शुभः काल्योवराभयलसत्करा || एतत् सामान्यतो ध्यानं नाममंत्रविधौ स्मृतं | रहस्यमंत्रकथितं सिद्धयोर्विविधाकर || अंजनं गुटिकां खड्गं वेतालं यक्षिणीगणं | चरुकं तिलकं वासः कपालं पादुकां तथा || लगुडः किन्नरी सिद्धीजामिर्यादि महाकला | चराचरगतिश्चैव अणुत्वं लघिमादिकं || परकाय प्रवेशश्च सर्वं रसरसायनं | स्पर्श चिंतापहारश्च भूतसंचरणं तथा || मृतकोत्थापनं दिव्यः सिद्धयस्तत्करे स्थिता | महापीठं समुद्धृत्य नित्यास्थाप्या यथा क्रमं || अथवा मूलमंत्रेण जपन्मध्ये स्वदेवताः | यथोक्त मंत्रसिद्ध्यर्थं ध्यायेच्च कुलवस्तुभिः || यजेत् संतर्पयेच्छक्तिर्भोजनाच्छादनादिभिः | धूपयेद् दशगंधेन देवतावतरेत्तदा || रक्ताक्षीस्तच्चनेत्रांगी प्रसन्नमुखपंकजा | काचिदेका भवेच्छक्तिरितरास्तन्मुखस्थिताः || तस्मिन् क्षणे तु प्रकृतिं कृत्वा माषमयीं शुभां | घृतपक्वा मांसमयीमुपयोगान् प्रकल्पयेत् || ग्रासे ग्रासे सुरां दद्यान् मत्स्य क्षुधा कनकानि च | आद्यं वीजं समुच्चार्य नित्ये क्रूरमुखे तथा || क्रूरदंष्ट्रे ललजिह्वे मुखस्तेयं प्रकल्पितं | आहारो भक्षययुगं स्वाहांतं ठद्वयं पुनः || आद्यं वीजं समुच्चार्य मृतं ध्यायेद् रिपुं तथा | तत् कालमेव हरते मिताप्राणान् सुरेश्वरि || श्रूयते सौमृत इति तावत् संभोजयेत्मितां | पश्चात् पंचांग धूपेन धूपयेत्तां वरप्रदां || हासं कृत्वा वरं दत्वा व्रजेत् सा शक्तिदेहतः | श्मशाने वाथ संपूज्या वडवाग्नि समप्रभा || स सैन्यराज्ञो नाशाय नृमांसैः कुलवस्तुभिः | उद्यानेषु वशीकर्तु मुच्चाटे तु नदी तटे || नातः परतरा विद्या सद्यः प्रत्ययकारिणी | विख्याता नूतनाम्नाये शतधा पूजितामया || गोप्याद्गोप्यतराप्येषां मया तुभ्यं प्रकाशिता || प्. १६८ब्) इति श्रीतंत्रचिंतामणौ महाकालादिमितानित्यांतकर्मनिर्णयो नाम त्रयोविंशतितम प्रकाशः || २३ || अथोग्रतारैकजटानीलसरस्वतीनामेकतमक्रममाह || आदौ जलमधिष्ठाय पादयोः क्षालनं मतं | द्विराचम्य शिखां वद्धा ब्रह्मग्रंथिं प्रकल्पयेत् || अर्घ्यं द्वारि परिस्कृत्य द्वारमभ्युक्ष्यतज्जलैः | गणेशं वटुकं क्षेत्रं पालं च योगिनीं तथा || पूजयित्वा गृहे गत्वा ब्रह्माण वास्त्वीशं यजेत् | प्रणवाद्य नमोंतेन नैर्-ऋत्यां साधकोत्तमः || विशोध्य वाचं चित्तं च भूमिं सम्यक् विशोधयेत् | विघ्नानुत्सारयित्वातु कुर्याद्भूम्यभि मंत्रणं || आसने मण्डलं कृत्वा तत्समर्च्यारुहेत्सुधीः | यंत्रं लिखित्वाधिष्ठाय पुष्पशोधनमाचरेत् || मृद्वासनं समासाद्य मायां पूर्वदले लिह्केत् || अथैषां क्रमेण मंत्रामाह || प्रणवो वह्निजायांतो मनुरंभ परिग्रहे || तारो वज्रोदके हूं फट् स्वाहा जलमधिष्ठितं | तारं लज्जा विशुद्धांते सर्वे पापानि चैव हि || समयांते अशेषांते विकल्प पदमुद्धरेत् | अपनयांते वर्म फट् स्वाहा पाद विशुद्धयेत् || ओं माया वह्निजाया च स्मृत आचमने मनुः | प्रणवं मणिधरणीनि वज्रिणी सर्वशब्दतः || वशंकरीति हूं फट् स्वाहेति वंधयेच्छिखां | तारं मुनिपदं चैव धरण्यंते च वज्रिणी || महाप्रतिसरे रक्षद्वंद्वांते मां ततश्च हूं | फट् स्वाहा मनुनानेन रक्षां ग्रंथिं च कारयेत् || फडाभ्युक्ष्य हृदापूज्या तारेण दशमंत्रयेत् | फट्कारैः प्रोक्षयेद्धारं गंधपुष्पैः प्रपूजयेत् || द्वारोर्द्धगां गणेशं च वामे वां वटुकं तथा | दशमेक्षां क्षेत्रपालमधोयां योगिनीं यजेत् || अथैषां मंत्रे विशेषश्च सर्वाते ध्रुवदीर्घाढ्या || शक्तिवीजपुरःसरः चतुर्थ्यंता नमोंताश्चनामाद्य वीजसंयुताः || भूतशुद्धिं न वार्णेन ततः कूर्वीत साधकः || ओं रक्षरक्ष हूं चास्त्रं स्वाहा मंत्रो नवाक्षरः | त्रयोदशार्ण मंत्रेण विघ्नानुत्सारयेत् ततः || ओं दारय दारय हूं फट् स्वाहा विघ्नदारणं || ओं सर्वविघ्नानुत्सारय हूं फट् वह्नि गेहिनी | त्रयोदशार्णकोमंत्रः पार्ष्णिघातेन विघ्नहा || प्रणवं पूर्वमुद्धृत्य आःकारं तदनंतरम् | हूं फट् स्वाहा मनुः प्रोक्तः कायवाक् चित्तशोधने || ततस्तु देव्याः पूजार्थं मंत्रयेत् काश्यपीं ध्रुवं | पवित्र वज्र मे हूं स्वाहा मंत्रो भवाक्षरः || भूमौ त्रिकोणमालिख्याधारशक्तिः प्रपूजनं | मायावीजं समुच्चार्य आधारशक्तये ततः || प्. १६९अ) कमलासनमालिख्य ङेनमोंतश्च पूजयेत् | आःकारांते सुरेखे च वज्ररेखे ततः परं || हूं फट् स्वाहेति कुर्यासु मण्डलं वै शवासने | तत्र मृद्वासनं देवि पीठमंत्रेण पूजयेत् || ओं ऐं क्लीं कामपीठाय हृदयां तोयमीरितं | तत्र वध्वासनं वीर आत्मानं शोधयेत् ततः || चतुर्दशार्ण मनुना कुसुमानि सुशोधयेत् | यथा गताभिषेकेति समाश्रिमे पदं वदेत् || तारादि हूं फट् स्वाहांतो मनुक्तो मनुवर्णकः | श्यामावद परं ज्ञेयं पुष्पशोधनकं वुधः || अथातः संप्रवक्ष्यामि भूतशुद्धिं विशेषतः | ह्रीं वीजं तु जवापुष्पं निभं नाभौ विचिंतयेत् || तदुत्थेनाग्निना देहं दहेत्सार्द्धं स्वयाप्मना | स्त्रीं वीजं तु सुवर्णाभं चिंतयेद्धृदि मंत्रवित् || पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि | हूं वीजमिंदुकंदाभं भाले ध्यायेच्च भावतः || तदुत्थ सुधया देहं वचयेद्देवतानिभं | अनया भूतशुद्ध्या तु देवी सादृश्यमाप्नुयात् || अथास्या ध्यानं || भूतशुद्धिं विधायेत्थं शून्यं विश्वं विचिंतयेत् | निर्लेपं निर्मलं सूक्ष्ममात्मानं देवतामयं || अंतरीक्षे ततो ध्यायेदाःकाराद् रक्तपंकजं | भूयस्तस्योपरि ध्यायेद्दां काराच्छुक्लपंकजं || तस्योपरि ततो ध्यायेत् हूंकारं नीलसंनिलं | तस्योपरि ततो ध्यायेत् कर्तृकां वीजभूषितां || तस्योपरि महादेवीं खर्वांनील घनप्रभां | लंवोदरीं व्याघ्रचर्म समावृत नितंविनीं || पीनोन्नत पयोभारां रक्तवर्तुल लोचनं | पिंगाक्षैक जटां नीलनाग यज्ञो विभूषितां || कलोत्पललसन्मौलीवद्धजूटां भयंकरीं | श्वेतास्थिपट्टिकायुक्त कपालं पंचशोभितां || ललाटे रक्तनागेन कृत कर्णावतंसिनीं | अतिशुभ्रमहानाग कृतहार महोज्ज्वलं || दूर्वादलश्यामनागकृत यज्ञोपवीतिनीं | चतुर्भुजां रक्तमांस खंडमुणितमुष्टिना || जटाजूटेन सूत्रेण शोभितां तीक्ष्णधारया | खड्गेन दक्षिणस्योर्द्धं शोभितां वीरनादिनीं || तदधस्ताद्वीजरूप कर्तृकालं कृतां परां | वामार्द्धे रक्तनालेनविक स्वरमनोहरं || प्. १६९ब्) दधतीं नीलपद्मं च तदधस्त्वात् कपालजं | जगतां जाड्यसंयुक्तं दधतीं कुण्डसन्निभां || धूम्राभ नागसंदोहकृत केयूर सद्भुजां | सुवर्ण वर्णनागं च कंकणो ज्वलपाणिकां || शुभ्रवर्ण महादेव शवहृदि समासनां | निर्यंत्रेणाभिया तद्वत् संकोच प्रपदांचलां || शवपादहृयारूढ वामपादां हसन्मुखीं | कुंदाभनागसंशोभि कटिसूत्रां त्रिलोचनां || ईषद्रक्तेन नागेन कृत नूपुर पल्लवां | सद्यश्छिन्नगलद्रक्त नृमुण्डैरात्मभूषणैः || अन्योन्य केश ग्रथितैः पादपद्म प्रलंवितैः | पंचाशद्भिर्महामाला शोभितां परमेश्वरीं || ज्वलच्चितां मध्यगतां द्वीपि चर्मोत्तरांशुकां | लाक्षाभनागसंवद्ध जटाजूटां वरप्रदां || सावैशस्मेरवदनां ललजिह्वां वरप्रदां | एव ध्यात्वा पण्डितोहं भावयेच्च महाकविः || अथ ध्यान रहस्यमाह || वश्यार्थे नीलवर्णा भामा कृष्टौ पीतरूपिणीं | मारणोच्चाटने धूम्री कृष्णा तु तदपेक्षया || चिंतयेत् परमेशानीं ध्यात्वा प्रेत कृतासनां || अथ मंत्रा च मनमाहा || भूतशुद्धिं पुरा कृत्वा दिव्यमाचमनं चरेत् | ताराभेदैस्त्रिभिः पीत्वा मायया क्षालयेत्करं || स्त्रीं हूं ओष्टौद्विरुन्मृज्य फट्कारैः क्षालयेत् करं | आस्यनाथे क्षणश्रोत्र नाभिवक्षः शिरो भुजान् || वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते | आचम्य भैरवो भूत्वावत्सरात्तां प्रपश्यति || अथ भूतशुद्धेरनंतरं क्रममाह || भूतशुद्धिं विधायेत्थमर्घ्यादि स्थापनं चरेत् | प्राणायामं ततः कुर्यादृष्यादिन्या समाचरेत् || न्यासैः करांगयोः कुर्यादात्मानं तारिणीं स्मरेत् || अथ आसामान्यार्घ्य स्थापनमाह || ततश्चा चमनं कृत्वा सामान्यार्घ्यं प्रकल्पयेत् | त्रिकोणवृत्त भूविंव मण्डलं रचयेत् ततः || साधारशक्तिं संपूज्य तत्राधारं विनिःक्षिपेत् | अस्त्रेण पात्रं संशोध्य हृन्मंत्रेण प्रपूरयेत् || प्. १७०अ) निःक्षिपेत्तीर्थमावाह्य गंधादीन् प्रणवेन च | दर्शयेद्धेनुमुद्रां वै सामान्यार्घ्य विधिर्मतः || न्यासं प्रवर्तते देवी षोढान्यास पुरःसरं || अथास्या महाषोढामाह || तारा षोढां प्रवक्ष्यामि सर्वतंत्रेषु गोपितं | सर्वविघ्नोपशमनीं सर्वपाप विनाशिनीं || महादारिद्र्यशमनीं सर्वसम्प्रत्प्रदायिनीं | सर्वकामप्रदां नित्यां सर्वसाम्राज्यदायिनीं || शिष्याय भक्तियुक्ताय विनीताय महात्मने | वदान्याय कुलीनाय शुद्धाचाररताय च || एवं विधाय देवेशि साधकाय प्रवेशयेत् | अन्यथा सिद्धिहानिः स्यादात्माज्ञा शंभुना कृता || तथा च || न्यासं षट्कं ततः कुर्यात्तारायाः सर्वसिद्धिदं | तत्रादौ प्रथमोन्यासः श्रीकंठादिःपुरोदितः || मातृकाक्षरमुच्चार्य ह्रीं स्त्रीं हूं पूर्वकं वदेत् | श्रीकंठादि सपत्नीकं नमोंतं मातृकास्थले || विन्यसेच्च चतुर्थ्यंतं न्यासोयं प्रथमः स्मृतः | अस्मिन्न्यासे क्रीयमाणे देवीमेवं विधां स्मरेत् || शवपीठे समासीनां नीलकांतिं त्रिलोचनां | अर्द्धेंदु शेखरां नानाभूषणाढ्यां चतुर्भुजां || द्वितीयं ग्रहन्यासं कुर्यात्तां स मनुस्मरेत् | त्रिवीजपूर्वकश्चायं ग्रहन्यासः समीरितः || स्वरादिकं रविं रक्तं हृदियवर्गपूर्वकं | सोमं श्वेतं भुवोन्यस्यकवर्गाद्यं च मंगलं || रक्तं नेत्रत्रयन्यस्य च वर्गाद्यं च वक्ष्यसि | वुधं श्यामं न्यसेत् पीतं ट वर्गाद्यंगले गुरुं || त वर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवं | नीलवर्णं प वर्गाद्यं नाभिदेशेशनैश्वरं || श वर्गाद्यं धूम्रवर्णं ध्यात्वा राहुन्यसेन्मुखे | लक्ष्म्याद्यं धूम्रवर्णाभंकतुं नाभौ पुनर्न्यसेत् || न्यासं तृतीयं वक्ष्यामि वीज त्रितयपूर्वकं | समानवर्णानुच्चार्य प्रागिंद्राय नमोस्तुते || न सिसंध्यक्षराण्युक्त्वाचाग्नेययामग्नये नमः | दक्षिणेयमाय नमः क वर्गाद्यं ललाटके || च वर्गाद्यं च नैर्-ऋत्यां नैर्-ऋत्याय नमो मुखे | ट वर्गाद्यंगले पश्चाद्वरुणाय नमस्त्विति | प्. १७०ब्) न्यसेद्धृदि त वर्गाद्यं वायव्यां वायवे नमः | प वर्गाद्यं कुवेराय नमोंतं दक्षिणे करे || वामहस्ते य वर्गादीशाण रुद्राय हृद्भवेत् | शवर्गाद्युर्द्धकामाय नमो नाभौ तु विन्यसेत् || हूं रक्षाद्य पृथिव्यै हृद्यादयोरिति विन्यसेत् | शिवशक्त्यभिधान्यासश्चतुर्थ कथ्यतेधुना || ह्रीं स्त्रीं हूं पूर्वकः कार्य इंद्रियाद्य हरः परं | ब्रह्माणं डाकिनीयुक्तं वादिस्यं तार्णपूर्वकं || मूलाधार प्रविन्यस्येच्चतुर्दल समन्वितं | श्रीविष्णुंशाकिनी युक्तं वादिलां तार्णपूर्वकं || स्वाधिष्टानाभिधे वक्रे लिंगस्थे षट्दले न्यसेत् | रुद्रं तु लाकिनी युक्तं डादिफांतार्णपूर्वकं || चक्रे दशदलं न्यस्येन्नाभिस्थे मणिपूरके | ईश्वरंकादिवातार्ण पूर्वकं काकिनीयुतं || विन्यसेद् द्वादशदले हृदयस्थेत्वनाहते | सदाशिवं शाकिनीं च षोडशस्वरपूर्वकं || कंठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् | आज्ञाचक्रे परशिवं हाकिनी संयुतं न्यसेत् || हक्षार्णं भ्रूमध्ये संस्थितेति मनोहरं | वक्ष्यस्थ पंचमन्यासं समस्तारिष्टनाशनं || अं आं कवर्ग ह्रीं स्त्रीं हूं तारायै नम उच्चरेत् | विन्यसेद् ब्रह्मरंध्रेथ इं ईं चापि च वर्गकं || ह्रीं स्त्रीं हूं नम उग्रायै ललाटे चापि विन्यसेत् | उं ऊं च वर्ग स्त्रीं ह्रीं हूं महोग्रायै नमो वदेत् || विन्न्यसेच्च भ्रुवोर्मध्ये कण्ठ ऋं ॠं ट वर्गकं | ह्रीं स्त्रीं हूं चापि वज्रायै नमोंतं स कलेष्वपि || ऌं ॡं त वर्ग ह्रीं स्त्रीं हूं नमः काल्यै हृदिन्यसेत् | एं ऐं प वर्ग ह्रीं स्त्रीं हूं सरस्वत्यै च नाभिगां || ओं औं श वर्ग ह्रीं स्त्रीं हूं वामुश्चर्य च लिंगके | अं अः रक्षौ च ह्रीं स्त्रीं हूं चामुण्डायै नमोन्यसेत् || मूलाधारेन्यसेत्यश्चा स्वेष्टेन्यासं समाचरेत् | आधारे कामरूपाक्षं वीज ह्रस्वा न पूर्वकं || हृदि जालंधरं पीठं दीर्घपूर्वं तु विन्यसेत् | ललाटे पूर्णगिर्याख्यं क वर्गाद्यं न्यसेत् सुधीः || उड्डीयानं च वर्गाद्यं केशसंध्यैः प्रविन्यसेत् | भुवोर्वाराणसीं पीठं ट वर्गाद्यं समाहितं || प्. १७१अ) त वर्ग पूर्वकान्यस्येदवंति नयनद्वये | प वर्ग पूर्वकं मायापूरिपीठं मुखन्यसेत् || कंठे तु मथुरापीठं य वर्गाद्यं प्रविन्यसेत् | नाभावयोध्यापीठं तु श वर्गाद्यं प्रविन्यसेत् || कटौकांचीपुरीपीठं दशमं तु प्रविन्यसेत् | षोढान्यासस्तुतारायाः प्रोक्तोभीष्टप्रदायकः || अथ मंत्रषोढाः || मंत्रेणांतरितां कृत्वा षड्वारां मातृकां न्यसेत् | क्रमोत् क्रमाद्वरारोहे तारा षोढाः प्रकीर्तिताः || कृतेस्मिन् न्यासपर्ये तु सर्वपापं विनश्यति | योगिनीनां भवेत् पूज्यः स देवो न तु मानुषः || यं नमंति महेशानि षोढाः पूतित विग्रहाः | अल्पायुः स भवेत् सद्यो देवता कंपते भयात् || न तस्य पूर्व्योलोकेस्मिन् पितृमातृ तु योजनः || अथ गुह्य षोढामाह || न प्रकाश्यमिदं क्वापि मंत्रिणः कायरक्षणे | प्रणवं मातृकावर्णं पूतितं मातृकास्थले || तेनैव पूटितं वर्णं न्यसेत् तत्रैव पार्वति | मायावीजं तथा देवी विन्यस्तव्यं प्रयत्नतः || वधूवीजं तथा देवी विन्यसेत्तु समाहितं | कूर्चवीजं तथान्यसनीयं मशेषतः || अस्त्रें चैव मथान्यस्त्वा स करं तदनंतरं | गुह्य षोढाह्ययं देवी न प्रकाश्या कदाचन || अवश्यं प्रत्यहं कार्यं न पूजा न जपस्तथा || अथास्याः सामान्यषोढा तु श्यामा प्रकरणेप्युक्ता || ताराविद्याविधौ देवी कार्यषोढा चतुष्टयी || अथ नक्षत्रकान्यासः || अकारादि क्रमतोन्यस्य रोहिण्यादि क्रमेण तु | व्युत्क्रमेण च चत्वारिशेषं शेषं न योजयेत् || रोहिण्यादि महान्यासं कृत्वा नरवरत्सुधीः | रोहिणी सुतवत् पृथ्व्यामाशोच्यो भवति ध्रुवं || अकृत्वा तारकान्यासं तारिणीं प्रयजेद्यदि | शतरक्ष प्रजप्तोपि न मंत्रः सिद्धिदायकः || अथ ऋष्यादिन्यासः || अक्षोभ्य ऋषिरे तस्या वृहती छंद ईरितं | नीरसरस्वती देवी त्रिषु लोकेषु गोपिता || हूं वीजमत्रं शक्तिः स्यान्माया स्त्रीं कीलकं स्मृतं | विनायोगो भवेद्देवी चतुर्वर्ग फलाप्तये || अथ कराङ्गन्यासः || तत्रादौ सार्द्ध पंचाक्षरै विद्याया || षट्दीर्घ मायावीजेन षडंग विधिरीरितः || प्. १७१ब्) अथ षडक्षरी त्र्यविद्ययोः || अखिलवाग्रूपिणीं प्रोच्य हृदयाय नमो वदेत् | अखण्ड वाग्रूपिणीं च शिरसे वह्निवल्लभा || ब्रह्मवाग्रूपिणीं मुक्त्वा कवचाय हूं मुच्चरेत् | रुद्रवाग्रूपिणी नेत्रत्रयाय वौषडित्यपि || सर्ववाग्रूपिणी मुक्त्वा अस्त्राय फडिति स्मरेत् | षड्दीर्घ मायया वीजं वीजांतेता नियोजयेत् || अथ सार्द्धवेदाक्षरी विद्यायाः || वीजांते एकजटायै हृदयं परिकीर्तितं | तारिण्यौ शिरसे तद्वद्वज्रोदके शिखा तथा || उग्र जटै च कवचं महापरिसने तथा | पिंगाग्रैक जटे तद्वन्नेत्रास्त्रे परिकीर्तिते || अथ व्यापकन्यासः || मूलेन व्यापकं न्यासं नवधा कारयेत् प्रिये | सप्तधा पंचधा चापि तत्तोनूनं च कारयत् || अत्रोक्त माचरेदत्र नान्यं संचारयेद्बुधः || अथ यंत्रलिखनमाहा || ततः कुंकुम सिंदूरैः कार्यं यंत्रं तु योगिना | सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा || चक्रे यथोक्त विधिना पूज्या देवी नरोत्तमैः | विंदु त्रिकोणाष्टदल भूपुरं वज्रचिह्नितं || यंत्र मे तन्महेशानि रहस्यातिरहस्यकं | विंदु षट्कोण वृत्तं च पद्मभूगृहभूषितं || यंत्रं प्रोक्तं महाप्राज्ञ भूपुर द्वययुग्मकं | विंदु त्रिकोण षट्कोणं वृत्त त्रयमनंतरं || चतुरस्रं ततो वृत्तं दलाष्टकं ततोपरि | वृत्तत्रयं समालिख्य भूपुरत्रयकं ततः || त्रिशूलतांकितं यंत्रं श्रीमहातारिणी मनोः || विंदु त्रिकोण षट्कोणं वृत्ताष्टदलभूषितं | षोडशारं दंतपद्मं चतुःषष्टांदलं तथा || भूपुरत्रय संयुक्तं यंत्रं श्रीतारिणी मनोः || अथ स वीजयंत्रमाह || ततः कुलरसे नैव पीठं निर्माय यत्नतः | ओं आः सुरेखे वज्ररेखे हूं फट् च वह्निवल्लभा || मत्रेणानेन विलिखेत्तारा यंत्रं मनोहरं | षट्कोणांतर्गतं पद्मं भूविं वद्वितयं पुनः || तन्मध्ये विलिखेन्मंत्री तारा प्रणवमेव हि || अथवा || षट्कोणांतर्गतं पद्मं भूविम्वद्युतयं पुनः | मायापूर्वदले चैव द्वितयं दक्षिणे लिखेत् || अथोत्तरे पश्चिमे च हूं फट् तारं च मध्यतः | स योनिं गोमयेनाष्ट पत्रमब्जं सुशोभनं || प्. १७२अ) भूपुरं च सु वज्राढ्यं यंत्रमेक जटात्मकं | मायां पूर्वदलेन्यस्य याम्ये वीजं द्वितीयकं || तथोत्तेरे पश्चिमे च फट्कारे विलिखेत् ततः | मध्यवीजं लिखित्वा तु भूतशुद्धिं समाचरेत् || अस्त्रास्त्रवीजनिषनेमप्तभेदोस्ति || कुलेश्वरमतः प्रोक्तं फोत्तरे पश्चिमेतुत | फट् पश्चिमेटोत्तरे च विकरालमते स्मृतं || व्योमेंदौ रसनार्ण कर्णिकमचां द्वंद्वैः स्फुरत् केशवं वर्गोल्लासिव सुच्छदंव सुमती गेहेन संवेष्ठितं || ताराधीश्वर वारिवर्ण विलसद्दिक्कोण संशोभितं | यंत्रं नीरतनोः परं निगदितं सर्वार्थसिद्धिप्रदं || शशून्यं कुसुमैः कुर्याच्छून्ये विघ्ने विनिर्दिशेत् | ह्रस्वः साक्षी भयं श्वेतो भगवान्मदनोवकः || ताभिषेकं तथा चोक्त्वा भृगुः कालीमरुत्प्रिये | कूर्चास्त्रं वह्निभार्येति यंत्रे पुष्पांजलिं क्षिपेत् || अथ पीठपूजामाह || महीगृहश्चतुर्दिक्षु गणेशं वटुकं तथा | क्षेत्रपालं योगिनीं च ध्यात्वा सम्यक् प्रपूजयेत् || पाशांकुशो त्रिशूलं च कपालं दधतं करैः | कृष्णं दिगंवरं क्रूरं क्षेत्रपं पश्चिमे जयेत् || कपालशूलहस्ताभ्यां दधतं सर्पभूषणं | स्वयूथवेष्टितं रम्यं वटुकं दक्षिणे च येत् || डमर्वशि त्रिशूलांश्च कपालं दधती करैः | रक्तमाल्यां रक्तवस्त्रां योगिनीमुत्तरे यजेत् || श्मशानं तत्र संचिंत्य तत् तत्कालेद्रुमं स्मरेत् | तन्मूले मणिपीठं च नानामणि विभूषितां || नानारंकारभूषाढ्यं मुनिदेवैश्च भुषितं | शिवाभिर्वहुमांसास्थि मोडमानाभिरंतरं || चतुर्दिक्षु शवान् मुण्डान् वितांगारास्थि भूषितान् | पीठशक्तिरथाभ्यर्च्या केशरेषु समं ततः || वरदा धारीण्याः पीठं पीठामुनायजेत् || तायथा || लक्ष्मी सरस्वती चैव रतिः प्रीतिस्तथैव च | कीर्तिः शांतिश्च पुष्टिश्चतुष्टिरित्यष्ट शक्तयः || तन्मध्ये पूजयेद्देव्या वाहनं शवमेव च || अथ पीठमंत्रमाह || वियद्भृशं समुच्चार्य मनु विंदु कलान्वितं | महाप्रेतपदं पश्चाद्धृदयांत मयं मनुः || प्. १७२ब्) अथार्घ्य स्थापनं || भूमिं पूर्वोक्त मंत्रेण मण्डलस्य तु मण्डलं | कुर्यात् तत्राधारशक्तिं कूर्मशेषं च संजपेत् || आधारं स्थापयेत् तत्र ओं ह्रीं फडिति मंत्रतः | आधारं पूजयेत् तत्रयं वह्निमण्डलाय च || नमोंते नमवार्णेन ततो नरकपालकं | हूं फट् मंत्रेण संक्षाल्य स्त्रीं वीजेन निवेशयेत् || ततोर्चयेन्नृकपालं जपेन्मंत्रं चतुष्टयं || कालीकपालाय नमो ह्रीं ह्रीं हूं पुर्वकं वदेत् | एकादशाक्षरो मंत्रोऽनेन पूजादिमामता || स्त्रीं स्त्रीं स्त्रूं तारिणीत्युक्त्वा कपालोय नमोंतिकः | द्वादर्शोनेन भवेत् कपालार्चा द्वितीयकै || हां हीं हूं प्रोच्य नीला कपालाये नम इत्ययं | एकादशार्णोनेनोक्ता कपालार्चा तृतीयका || माया स्त्रीं हूं स्वर्गकपालाय सर्वापदं वदेत् | ततो धाराय सर्वाय तथा सर्वोद्भवाय च || सर्वशुद्धिमयायेति सर्वासुररुधीति च | देवी कपालाय नमश्चतुर्थो मंत्र ईरितः || षट्पंचाशत् कवर्णोयं कपालस्य तु पूजने | ततस्तस्मिन् कपाले तु पूजयेदर्कमण्डलं || ओं सूर्यमण्डलायेति नमांतोयं नवाक्षरं | सूर्यमण्डलपूजायां नृकपाले मनुर्मतः || मूलमंत्रं पठं तस्मिन् सुधावुध्या सुलां क्षिपेत् | गंधपुष्पाक्षताः क्षिप्त्वा त्रिखण्डाख्यां प्रदर्शयेत् || मुद्रां सा तु कलौ व्यस्तावंगुष्टौ कारयत्समौ | अनामांतर्गते कृत्वा तर्जन्यौ कुटिला कृती || कनिष्ठिके निजस्थाने त्रिखंडाह्वान कर्मणि | ततस्तस्यां सुरायां तु पूजयेच्चंद्रमण्डलं || एकादशार्णेन ततः शंखतोयं तु मंत्रयेत् || ह्रीं श्रीं ह्रौं ओं समुच्चार्य ह्रीं स्त्रीं हूं फट् समुच्चरेत् | ह्यों हुमिति वाग्वीजादि मंत्र एकादशाक्षरः || ह्रीं वीजेन ततो मद्यं किंचिच्छेषांवु निःक्षिपेत् | शंखमुद्रां योनिमुद्रां शंखतोयाय दर्शयेत् || तत्र वृत्त्यष्ट षट्कोणं ध्यात्वा देविं विचिंतयेत् | पूर्वोक्तां पूजयित्वैनां मूले नाथ प्रतर्पयेत् || तर्जनी मध्यमानामा कनिष्ठाभि महेश्वरं | सांगुष्ठाभिश्चतुर्वारं महाशंखस्थिते जले || पंचाक्षरोणुनापश्चात्तर्प्य आनंदभैरवः | तारो ह्रौं ह्यौं नम इति पंचार्णो भैरवो मनुः || प्. १७३अ) ततस्ते नार्घ्यतो येन प्रोक्षेत् पूजनसाधनं | योनिमुद्रां प्रदर्श्याथ प्रणमेद्भवतारिणीं || अथ पूजामाह || आवाहस्थापयित्वा तु ध्यात्वा मुद्रां प्रदर्शयेत् | मुद्रा प्रदर्श्य विधिवदुपचारैः प्रपूजयेत् || अथ ध्यानं || प्रत्यालीढपदां घोरां मुण्डमालां विभूषितां | खर्वां लम्वोदरीं भीमां व्याघ्रचर्मावृतांकटौ || नवयौवन सम्पन्नां पंचमुद्रां विभूषितां | चतुर्भुजां ललजिह्वां महाभीमां वरप्रदां || खड्गकर्तृधरां सव्ये वामे मुण्डोत्पलान्वितां | पिंगाग्रैकं जटां ध्यायेन्मौला वक्षोभ्य भूषितां || वालार्कमण्डलाकारलोचन त्रयभूषितां | प्रज्वलत् पितृभूमध्ये गता दंष्ट्रां करालिनीं || सा वै सस्मेरवदनां सर्पालंकारभुषितां | विश्वव्यापकतोयांतः श्वेतपद्मोपरिस्थितां || अथ मुद्रामाह || तारार्चने विशेषेण दर्शयेत् पंचमुद्रिकां | योनिश्च भूतिनी चैव वीजाख्यादैत्यधूमिनी || लेलिहा चेति संगुप्ताः पंचमुद्राः प्रकीर्तिताः | योनिर्मायाधराध्येनुर्वधूः कूर्चं क्रमाद्विदुः || वीजान्यासां लक्षणं तु क्रमेण कथयाम्यहं | तर्जन्य नामिके मध्ये कनिष्ठे चक्रमादपि || करयोर्योजयेच्चैव कनिष्ठा मूलभेदतः | अंगुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिता || अधोमुखीमिमां मुद्रां दर्शयेद्वीजपूर्विकां | वद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु || अंगुष्ठे तु तदग्रे तु मुद्रेयं धूतिनी मता | परिवर्त्यकरौ स्पृष्ट्वावंगुष्ठ तर्जनी युगं || अर्द्धचंद्राकृतिर्न्यायं युगपत् कारयेत् समं | अधः कनिष्ठामाकृष्य मध्यमे वीनियोजयेत् || मुद्रैषा कथिता देवी वीजाख्या ज्ञानरूपिणी | परिवर्त्यकरौ कृत्वा कनिष्ठा कष्टमध्यमां || अनामयोर्युगं चाधस्तर्जनीयुगलं पृथक् | अन्योन्यं निविडं वध्वा अंगुष्ठाग्रे अनामिके || दैत्यानां धूमकत्वाख्या मुद्रैषा कथिता प्रिये | चक्रं विस्फारितं कृत्वाप्यधो जिह्वां च चालयेत् || पार्श्वेस्थ मुष्टियुगलं लेलिहानेति कर्तिता || अथास्याः पूजामाह || श्रीमदेकजटेत्युक्त्वा वज्र पुष्पं प्रतीच्छव | तारादि वह्निजायांतमुदीर्य यजनं चरेत् || संतर्प्य पंचमुद्राभिर्नमस्कुर्यादलक्षितः || पंचमुद्रा यथा || प्. १७३ब्) संमुखं चतुरस्रं च वृत्तं गोमुखमेव च | योनि मुद्रेति कथिता मुद्रायं च नमस्कृतौ || अथासां रक्षणमाह || अंजलिं भूमौ संस्थाप्य तत्र दत्वा शिरः पुनः | एषामुद्रा महेशानि ख्याता संमुखसंज्ञकाः || उत्तानं च वामकरं भूमौ कृत्वा महेश्वरी | दक्षं करतलं तत्र संयोज्य साधकोत्तमः || करयोरंगुलीभिश्च पृष्टदेशं परस्परं | स्पृष्ट्वा तत्र शिरोयोगान्मुद्रास्याच्चतुस्रिका || निधाय भूमावुत्तानांगुष्ठ मुष्टिद्वयं शिवे | मूर्द्ध्नि योगमहेशानि ख्यातेर्य वृत्तमुद्रिका || भूमौ करयुगं देवी संपुटं विस्तृतांगुलिं | कृत्वा तत्र शिरोयोगान्मुद्रा गोमुखसंज्ञका || पूर्वोक्ता योनिमुद्राया सा भूमौ शिरसंयुता | योनि मुद्रेति कथिता तारा देव्या नमस्कृतौ || अथास्याः मूर्द्ध्नि भैरवं यजेत् || तथा च || ततः संपूजयेद्देव्या मस्तकेऽक्षोभ्य संज्ञितं | मुनिद्वादशवर्णेन मनुना स निगद्यते || अक्षोभ्य वज्रपुष्पं च प्रतीच्छानलवल्लभा || अस्योपास्य मंत्रध्यानादिकमग्रेवाच्यं || अथ संपूजयेत् कोणं षट्के देव्याः षडंगकं || अथ दिव्यौघाद्या गुरवः || अथ तारा गुरून् वक्ष्ये दृष्टादृष्ट फलप्रदान् | ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः || दिव्यौघान् कथितान् वत्स सिद्धौघान् पूजयेत् ततः | वशिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः || हरिनाथश्च मानौघान् शृणु वक्ष्यामि सद्गुरून् | तारावती भास्वमती जया विद्या महोदरी || सुखानंदः परानंदः पारिजातः कुलेश्वरः | विरूपाक्षः फेरवी च कथितं तारिणी कुलं || त्रिकोण मध्ये देव्यग्रे स्वगुरुं पूजयेद्बुधः | कामेश्वर्यादिकाः पूज्या स्त्रिकोणे वह्निमण्डले || कामेश्वरी दिक्करवासिनी च चण्डलायिका || अथाधो मुखत्रिकोणे || इंद्रकोणे लसद्दण्डकुण्डिकाक्षगुनाभयां | गायत्रीं पूजयेन्मस्त्रीं ब्रह्माणमपि तादृशं || इति षट्कोणपक्षे त्रिकोणपक्षेतूपनिषदिविशेषः || प्. १७४अ) क्रमेण कोणत्रये वीजत्रयेण ब्राह्मी वैष्णवीं माहेश्वरीं पूजयेदिति || अथास्यावरणार्चा वामावर्तेनैव || तथा च || वामावर्ते क्रमेणैव पूजयेदंग देवता || अथ पूर्वाद्यष्टदले मूल महाकाल्पाद्याः पूज्या | ततोष्टौ योगिनी वाह्ये संपूज्या दलमूलतः || महाकाल्यथ मुद्राणी उग्रा भीमा तथैव च | घोरा च भ्रामरी चैव महारात्रीश्च सप्तमी || भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् || अथ पूर्वादि दल चतुष्टये वै रोचनादीन् पूजयेत् || वैरोचनं तथा शंखपाण्डरं पद्मनाभकं | असिताभं यजेन्मंत्री ऐन्द्रीतश्च चतुर्दले || अथाग्न्यादि दल चतुष्टये नामकाद्याः इष्ट्याः || विदिक्षु पूजयेत् पश्चादग्नि कोणादितः क्रमात् | नामकां नामकां चैव पाण्डरांतारिकां तथा || अथ वैरोचनादीनां ध्यानमाह || वैरोचनं द्विहस्तं च यष्टि टोमरधारिणं | पीतं वृषासनगतं त्रिनेत्रं रक्तवत्सलं || शंखं त्रिशिरसं देवमसिताभं हिरण्मयं | पुस्तकाभीति वरदं विमलं शशवाहनं || पद्मनाभं दंति वक्तुं पुस्तकं वरदा भयं | पाशं च विधृतं देवं त्रिनेत्रं वरदं शुभं || श्वेतां त्रिनेत्रवरदां पुस्तकाभयधारिणीं | मामकां वलदेवेन संयुक्तेन विभावितां || कृष्णां करालवदनां तामका नवयौवनं | गोधिकायां समारूढां शिखिरूढां च तालकां || पांडुरां श्वेतवीजेन चतुर्वाहुः समन्वितां | रक्तां लम्वोदरीं ध्यायेत् पंचप्रेतासनस्थितां || अथ वैरोचनादि नरकांतकां तायां पूजायां मंत्र विशेषमाह || आदौ प्रणवमुच्चार्य नामाद्य वीजमुच्चरेत् | संवुद्ध्यंतंवतन्नाम वज्र पुष्पं प्रतीच्छ च || स्वाहांतो मनुराख्यातो द्वादशानामयं क्रमः || अथ पूर्वाद्यष्ट दलाग्रेषु ब्राह्माद्यष्ट मातरः पूजनीया || दलाग्रे च महेशानि ब्राह्मादि परिपूजयेत् || प्. १७४ब्) अथ पूर्वादि द्वारे चतुष्टये पद्मांतकादीन् जयेत् || द्वारे पूर्वादितः पश्चात् पद्मान्तकयर्मात्तकौ | विघ्नांतकं समभ्यर्च्य पूजये नरकांतकं || अथ भूपुरस्य दशदिक्षु दिग्पालान् संपूज्य तद्वह्यष्टदलानि समभ्यर्च्य भूपुर पूर्वदिशि भूपुरयं कलयोरंतराले सूर्यं संपूज्य देव्योत्तरभागे गुरुपंक्त्यंतरे वौर्द्ध जयेत् || भूपुरे चैव तद्वाह्ये दशदिक्षु यथा क्रमं | शक्रादींश्चापि वज्रादीन् पूजयेतदनंतरं || भूविंवाभ्यंतरे सूर्यं गुरुपंक्त्युत्तरे ततः | उत्तरे पूजयेद्वौद्धं पुनर्देवी प्रपूजयेत् || पुष्पांजलि त्रयं दद्याद्यथा संख्यं जपेद्बुधः || अथ सर्वावरण साधारण यजनमस्त्रमाह || प्रणवं पूर्वमुच्चार्य नाम संवोधनान्वितं | वज्रपुष्पं प्रतीच्छेति हूं फट् स्वाहेति मंत्रितः || एतन्मंत्रेण्यासमात्रं भिन्नमेव न संशयः | अनेन मनुना सर्वान् परिवारान् समर्चयेत् || वैरोचनादिषु पुनर्नामाद्यक्षरपूर्वकं || अथ बलिदानं || ततोश्च नित्या पूजांतेऽन्वहं देव्यै वलिं हरेत् | वामभागे त्रिकोणे च वृत्तं भूपुरमेव च || विधाय रकतमाल्यादौ अर्चयित्वा यथाविधिः || श्रीमदेक जटेनील सरस्वती महोग्र च | तारादेवी खखेत्युक्त्वा सर्वभूतपिशाचरा || क्षसान् ग्रसग्र सममजाड्यं छेदय छेदय || श्रीं ह्रीं फट् वह्नि जायांतस्तार मायादि को मनुः | भवेद् द्विपंचशदशः पूजैवं पूर्णतामियात् || अथ जपमाह || तत्रादौ भैरवस्य ततः कुल्लुकायाः ततः स्वेष्टदेवतायाश्च || अक्षोभ्यस्य मनुं त्यक्त्वा देवीं तारां जपेद्यदि | सिद्धिहानिर्भवेत्तस्य रौरवं नरकं व्रजेत् || अक्षोभ्यस्य मनुं विप्र कवचं सारमुत्तमं | अतिगुह्यं महाध्यानं सर्वध्यानेषु चोत्तमं || अग्रे मनुं प्रवक्ष्यामि ध्यानं चैव ततः परं | कवचं च ततः पश्चात् कथयामि क्रमेण तु || प्. १७५अ) अनुत्तरं समुद्धृत्य प्रपंचम विभूषितं | अक्षोभ्येति च स्वाहेतिरमाद्यंतं महामनुः || स्वयं ऋषिश्च संप्रोक्तो विराट् छंद उदीरितः | अक्षोभ्यो देवता प्रोक्तस्त्रिमूर्तिर्नागरूपधृक् || विनियोगस्तु नियतं पुरुषार्थ चतुष्टये || अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकं | सहस्रादित्य संकाशं नागरूपधरं शुभं || विद्युटि समं वक्त्रं वह्निभास्वरलोचनं | सार्द्ध त्रिवलयोपेतं जटाकोद्यग्र संस्थितं || महारावण्य संयुक्तं सुरासुर नमस्कृतं | सूर्य विद्युत् समं भास्वन्महामणि शिरोपरि || एतद्यूयं महाकायं देवीरपि सुपूजितं || श्रीशिव उवाच || अक्षोभ्य कवचस्यास्य ब्रह्मविष्णुश्च रुद्रकाः | ऋषयश्च समाख्याता विराट् छंद उदाहृतं || अक्षोभ्य देवता चैव श्रीवीजं वीजमेव च | स्वाहा शक्तिर्विनियोगः पुरुषार्थ चतुष्टये || श्रीवीजं शिरसे अव्यादादि विजिअं च भारके | अकारः स्कंधमे अव्यात् क्षकारो हृदि रक्ष तु || भकारो नाभि मे अव्यादेकारो गुह्यदेशके | मंत्रशक्तिश्च सर्वांगं वीजं नेत्रत्रयेऽवतु || सर्वभावैश्च अक्षोभ्यो वाहु द्वौरक्षयेत् सदा | ब्रह्मारक्ष तु पादौ द्वौविष्णुरक्ष तु जानुनी || मूलाधारं शिवोमेव्यात् स्वाधिष्टानं वृषोऽवतु | मणिपूरे सदा अव्यात् शिवस्य गृहिणी च मे || अनाहताम्वुजं मेऽव्यादिंद्रादि दशदेवताः | विशुद्धचक्रेष्ट ततं रक्षां करो मे रविः || महेश्वरः सदा रक्षेदाज्ञा चक्रं सुशोभनं | ब्रह्मशुक्रं च मे रक्षेन्नाभिं रक्ष तु भैरवी || दिव्यादौ गुरुपंक्तौ च सर्वत्राक्षोभ्य उच्यते | एवं क्रमविधानेन कवचं च जपेच्छुविः || त्रिसंध्यं यः पठेन्नित्यं श्रधाभक्तिः समन्वितः | सिद्ध्यहानिर्भवेत् तस्य नात्रकार्या विचारणा || अथ कुल्लुकायाः आवश्यकतामाह || अजप्त्वा कुल्लुकामंत्रम स्मृत्वा श्रीपतिं हरिं | योजयेत् तारिणी मंत्र नरकेशरिणीयते || जपित्वा कुल्लुकामंत्रमष्टोत्तरशतं सुधीः | प्रजपेत्तारिणीं पश्चान्नान्यथा सिद्धिमाप्नुयात् || प्. १७५ब्) धृत्वा तु कुल्लुका हस्ते महादेवीं समर्चयेत् | अथवा मूर्द्ध्नी विन्यस्य पूजयेत् प्रजपेदपि || अनित्य जपसंख्यामाह || अष्टोत्तर सहस्रं वा अष्टोत्तर शतं च वा | रहस्य मालया मंत्री जपेन्नित्य मनन्यधीः || तथा च || सहस्रं शतं विंशति वा जपेंद्रस्य मारयेति श्रुतौ | रहस्य मालयातता तारिणी सिद्धिदा भवेत् || अतस्तया प्रजप्तव्या मारया सिद्धिमिच्छता | महाशंखमयीमाला पंचाशन्मणिनिर्मिता || रहस्यमाला संप्रोक्ता गोपनीया प्रयत्नतः | चलमालास्थि खण्डे नरचिता जपमालिका || महाशंखमयी ज्ञेया तदभावे स्फाटिकीमता || अथ मंत्रध्यानं || मंत्रध्यानं प्रवक्ष्यामि जपा सर्वार्थसाधकं | मंत्रध्यानां महेशानि शुद्ध्यते ब्रह्महायतः || मूलचक्रे च हृल्लेखां सूर्यकोटिं समप्रभां | स्वाधिष्टाने पीतवर्णं द्वितीयं च विभावयेत् || सूर्यकोटि प्रतीकाशं कूर्चवीजं महाप्रभं | अष्टमंत्रं हृदि ध्यायेत् कालाग्नि सदृश प्रभं || मूलादि ब्रह्मरंध्रांतं सर्वां विद्यां विभावयेत् | सूर्यकोटि प्रतीकाशां योगिभिर्दृष्ट पूर्विकां || जिह्वायान्यसनादेव मूकोपि सु कविर्भवेत् | इत्थं जपं समर्प्याथ घंठावादनपूर्विकां || स्तुत्वा ता स्तुतिभिः सम्यक् साधकोभक्ति संयुतः || अथ स्तोत्रं यथा || स्वयं लीलयाया परं विष्णुमूर्तिर्वभौ चेन्न चैवं कथं चंद्रचूडः | तदंघ्रि पद्मोद्गतांवु प्रवाही जगन्नित्य वीजं भजेतां त्रिनेत्रां || पराया न चेत् कृष्ण आसीत् कथं स स्ववक्त्रा रविंदद्युतेर्नेत्रभंग्या | स्मरानेर्वहुव्रीहिता कृछुनाम्नि जगन्नित्य वीजं भजेतां त्रिनेत्रां || लसत्या देहस्ताननाक्तेषु यस्या मधूनिच्छुरांशोन पंचास्यको भूत् | अतस्तेन लब्ध्वा सदानंद संज्ञां जगन्नित्य वीजं भजेतां त्रिनेत्रां || यदीयं रसं सन्निपीयश्चरेण स्मरीये मुखे चामृते चंदनादौ | घृणां किं वृतत्याशित कालकूटो जगन्नित्य वीजं भजेतां त्रिनेत्रां || प्. १७६अ) विधाता यदा या न चास्ते स्वयं सः स्वयंभूः कथं स्यात् तदा तोति तूर्णं | नुताराभिधेयो न जातः द्युलौलेः जगन्नित्य वीजं भजेतां त्रिनेत्रां || तदंशं समायं द्विवीजं ततः स्यात् त्रिपादेति वेदांतिनोयां वदंति | विदेकांक्षरं ब्रह्मवीजं कूर्चं जगन्नित्यवीजं भजेतां त्रिनेत्रां || ततोस्त्रं यदा सार्द्ध पंचाक्षरां सा जगत्तारणादुग्रतारा प्रसिद्धा | विना तारकं सा परैका जटास्याज्जगन्नित्यवीजं भजेतां त्रिनेत्रां || विनास्त्रं पंचाक्षरैः कुल्लुकेयं स्वयं नीरवाणी परं चित्स्वरूपा | स्मृताप्येकवालंरं सदामुक्ति हेतुं जगन्नित्य वीजं भजेतां त्रिनेत्रां || इदं ये जनास्तोत्रराजं विवंति प्रसिद्धाश्चते गद्यपद्य प्रसंगे | जगद्रूप पापादि मुक्तो हि तूर्णं शरीरांतरे यांति तारा समीपं || विपत्तौ निशार्द्धे जपांते प्रभाते पठेद्यस्तु भक्त्या तदर्थं विचिंत्य | भवेन्नीलवान्याद्विरेफांघ्रिपद्मे सजीवस्तु हंसः सजीवो न जीवः || इति श्रीअद्वैतनिरूपणेमंत्रार्थविवरणात्मकतात्मकस्तोत्रराजनामस्तोत्रं संपूर्णं | अथ कवचमाह || पुरा कैलाशशिखरे तारां पप्रच्छ शंकरः | गुप्तभावेन देवेशि कथयस्व तु सादरं || केनोपायेन सहसा शरीरं सुदृढं भवेत् | कथं वा सिद्धिरतुला तवर्मत्र विदां प्रिये || श्रीतारोवाच || अस्ति गुह्यतरं ह्येतन्निः सृतं मुखपंकजान् | इदं रहस्यं परमं कथयामित्वयि प्रिये || श्रूयतां सावधानेन कवचं तन्मुखात्सृतं | मधुकैटभयोर्युद्धे कथितं पद्मजन्मना || तत्प्रभावोत्तु देवेशनाशं विष्णुर्नगच्छति | भवत् सु कथितं पूर्वं तन्नस्मरसि मायया || उद्धृतं सारभूतानां कवचं योगिनां सते | न कस्मैचित् प्रवक्तव्यं न प्रकाश्यं कथंचन || शपथं कुरु देवेश यदि स्नेहोस्ति सांप्रती | श्रूयतां सावधानेन कवचं सारसंग्रहं || सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः | कवचेन विना देवयोनामर्चयति क्षणात् || तमश्नामि महोग्राहं योगिनीभिः सुनिश्चितं || ब्रह्मविष्णुमहेशानां वीजं रक्ष तु मूलकं | तदूर्द्ध शक्तिवीजं तु लिंगं रक्ष तु यत्नतः || मणिपूरं सदा पातु वधू वीजं विशेषतः | अनाहतं वर्मवीजं पातु मे सर्वसर्वतः || अस्त्राणि सर्वदा पातु विषुद्धं कण्ठभूषितं | शेषस्तु पातु मे नित्यमाज्ञास्थानं द्विपत्रकं || प्. १७६ब्) शीर्षं पातु तथा तारा जटापातु सदाननं | नीलसरस्वती पातु हृदयं मे सदापुनः || अक्षोभ्यः पातु सर्वागं वृहती पातु भालकं | उग्रतारादेवता मे गह्वरं पातु सर्वदा || चरणै मे सदा पातु मायावीजमशेषतः | उरूमे सर्वदा पातु वधूवीजं सदैव हि || स्तनद्वयं सदापातु कूर्चं विघ्नविघातकं | रसनामसनापातु लक्ष्मी देवी च सास्वती || रसाग्रं सदा पातु सरस्वती प्रयत्नतः | रतिः पातु सदावीजं प्रीतिर्मे वदनं सदा || कीर्तिः कीर्तिः सदा पातु शांतिः शांतिं सदावतु | पुष्टिर्मेया तु पुष्टिं च पुष्टितुष्टिः सदावत् || वैरोचनं पातु शंखं शंख पूर्वस्तथैव च | पाण्डरो मे सदागण्डं पातु नित्यं च सर्वशः || पद्मनाभः सदा पातु नाभिर्मेदशपत्रकं | असिताभः पातु लिंगं नामकः पातु चक्षुषि || मामकोम तथा हस्तौ ग्रीवां मे पातु पांडरः | तारकः पातु हृदयं द्रष्टिं पद्मांतको मम || पार्श्वद्वंद्वं सदा पातु यमांतक नरांतकौ | चरणौ मे पातु नित्यं विघ्नांतक समाह्वयः || तारा मे पातु सततमष्टांगं परमेश्वरी | इदं तु कवचं देव कथितं तन्मुखात् सृतं || प्रमादाद्यदि देवेश यत्र कुत्र प्रकाश्यते | योगिनीभिस्तदाहं तु स्वयं च वधकारिणी || यदि भाग्यवशाल्लब्धं केनचित् साधकीलवै | तदा तस्य महासिद्धिर्वपुषा जायते ध्रुवं || निषिद्धेभ्यो न दातव्यं न प्रकाश्यं कथंचन | यदि दद्यान्निषिद्धेभ्यस्तदाहं वधकारिणी || दद्याच्छांताय शिष्याय तंत्र मंत्र युताच्य च | गुरुपंक्तिपुटा चैव तदा सिद्धिरनुत्तमा || रहस्यं कथितं सर्वमनंत फलदायकं | गोपितव्यं तदा देव न प्रकाश्यं कदाचन || इति श्रीयोगिनीतंत्रोक्तैकजटाकवचं समाप्तं || इति श्रीतंत्रचिंतामणौ ताराभेदत्रितयसाधारणनित्यार्चननिर्णयो नाम चतुर्विंशतितमः प्रकाशः || २४ || २५थ् प्रकाशः नोत् अवैलब्ले अथ श्रीवैरोचनीविद्यायाः क्रमोल्लिख्यते || जलपात्रं करे कृत्वा पूजास्थानं ततो व्रजेत् | प्रक्षाल्य पादौ हस्तौ च वाससी परिधाय च || आचम्य विधिवद्देवी देशिकेंद्र सुखासने | प्रागास्य मुखगास्यं वा दक्षिणास्यं विशेषतः || स्वगेहाद्वामतो रम्यं देवीवेश्म समाचरेत् | प्रणवैश्चैव लज्जां च सकारश्च विसर्गवान् || असुरक्षयाय रक्षमाये फट् च द्विठांतिकः | अनेनांघ्री च प्रक्षाल्य जलमीशानतस्त्यजेत् || अथ मंत्राचमनं || मंत्रैराचमनं कुर्याद्देवीं ध्यायन् हृदंवुजे | लक्ष्मीमाया कूर्चवीजैस्त्रिभिः पीत्वांवु साधकः || प्. १७७अ) लक्ष्मीमाया कूर्चवीजैस्त्रिभिः पीत्वांवु साधकः | वाग्भवेनाष्ट संपूज्य मायाभ्यां वद्विरुन्मृजेत् || कूर्चेन क्षालयेत् पाणिमेभिर्मंत्रैश्च विन्यसेत् | श्रीमाया कूर्चवाक् काम त्रिपुटा भगवर्णकैः || कामकलां कुशाभ्यां च वक्त्रनासाक्षि कर्णयोः | नाभि हृन्मस्तकं चाष्टौ कृत्वाशस्तुर्भवेत्क्षणात् || आचम्यैवं छिन्नमस्तां वत्सरातां प्रपश्यति | पुण्याहं वाचयेद्धीमान्सामान्यार्घ्यं ततो दिशेत् || द्वारमभ्युक्ष्यते नैव द्वारदेवान् प्रपूजयेत् | धातारं च विधातारं क्षेत्रपालं ततः परं || विघ्नराजं महेशानि गंगा च यमुनां ततः | वसुधारां शंखनिधिं पद्मनिधिं वसुमतीं || द्वारश्रियं नमस्कृत्य पूजयं क्रमतः सुधीः || ओंकारादि नमोंतेन पूजयेद्देशिकोत्तमः | किंचित् संकुच्य वामांगे वामपाद पुरःसरं || पूजास्थानं विशेद्धीमान् अस्त्राय फट् समुच्चरन् || अद्यपात्रं विधायाथ क्षेत्रपालं नमत्सुधीः | ऊर्द्ध्वं ब्रह्मा अधोनंतः आधारः शक्तिं ततः परं || कूर्ममनंतं पृथिवीं कल्पवृक्षं ततः परं | मणिदेवीं स्वर्ण सिंहमष्ट शक्तिस्ततः परं || आनंदकंदं प्रणमेत् संविन्नालं ततः परं | ततः प्रकृति पत्राणि विकारमय केशरं || कमलं सर्वतत्वैक गुणाः सत्वं रजस्तमः | सूर्यविम्वं चंद्रविंवंह्निविंवं ततः परं || पंचाशद्वीजसंयुक्तां कर्णिकां प्रणमेत्सुधीः | आत्मानं परमात्मानमंतरात्मानमेव च || विकारं केशरं धीमान् प्रणमेद्दण्डवद्भुवि | दिव्यदृष्ट्यादिव्यविघ्नान् दूरयेत् न पूर्वकं || अस्त्राय * (?) च मंत्रेण हूं मंत्रेणापि सुंदरी | आत्मानं रक्षयेद्धीमान् वह्निप्राकारयोगतः || शवं वा गजचर्माणि नरचर्म महेश्वरी | व्याघ्राजिनं कुचे लंवाभूतिकांगार संभव || शवचैलं महेशानि आसने कल्पयेत्सुधीः | आत्मानं नीलचोलेन नीलयद्यत्नपूर्वकः || विशेषेण महेशानि पूजयेत् साधकोत्तमः | कूर्मचक्रे विशेद्धीमान् मुखे सर्वसमृद्धये || पूजयित्वा विधानेन विशेद्धीमान् तदा शुचिः | उपरिचासनेद्धीमान् शोधयित्वा विशेषतः || पूजयित्वासनं धीमान्नाधारः शक्तियोगतः | श्वेतसर्षपमादाय विघ्नान्निः सारयेत्सुधीः || स्वर्गमर्त्य च पाताले विघ्नाविघ्नविनायकाः | नश्यं तु मम कूर्मेस्मिन् ते सर्वे च शिवाज्ञया || प्. १७७ब्) तारत्रयं ततो दद्यादस्त्राय फडिति स्मरं | विन्यस्त हस्तयुगलं मूर्द्धोर्द्ध क्रमयोगतः || ध्यात्वा गुरुं सहस्रारे प्रणम्यनतिमादिशेत् | गुरुवामेन मेद्धीमान् तत्रैव गुरुपादुकां || गणेशं दक्षिणे ध्यात्वा प्रणमे विघ्नशांतये | संमुखे प्रणमेद्देवीं छिन्नमस्तां वसुंधरां || रतिकामोपरिस्थातां प्राणायाम तथा चरेत् | भूतशुद्धिं ततः कुर्याद्धं स मंत्रेण साधकं || ओंकारेण पुरोजीव मूर्द्धमुत् क्षिप्य यत्नतः | निर्जीवं देहमाकारैर्वह्निवीजेन दाहयेत् || तेनैव वायुवीजेन तद्भस्मायगमं भवेत् | तेनैव मेघरूपेण तत्र विष्टिं विचिंतयेत् || तेनैवामृत वृष्टिं च ध्यात्वा देहनवीकृतं | पूर्वोक्त देवतारूपं सर्वकल्मष वर्जितं || करकच्छपिका पुष्पं हस्ते मूलेन धारयेत् | इतीयं भूतशुद्धिस्तु लोकानां हितकारिणी || भूतशुद्धिं समासाद्य मातृकान्य समाचरेत् | षोडशार्णेन मूलेन प्राणायामं समाचरेत् || चंद्रावेदाग्नि संख्याभिर्मायया वा समाचरेत् | विकार विद्या दशनैर्विद्यासु सकलाष्वपि || मंत्रन्यासं ततः कुर्यादृष्यादीन् पूर्वसूचिताम् | आसां ऋषिर्भैरवोहं नाम्ना तु क्रोधभूपतिः || सम्राट् छंदो देवता च छिन्नमस्ताः प्रकीर्तिता | मायावीजं स्वाहा शक्तिः कथिता पद्मयोगिना || धर्मार्थ काममोक्षेषु विनियोगः प्रकीर्तिताः | उच्चरेत् प्रणवं पूर्वं आकारं विंदु संयुतं || खड्गाथ हृदयायेति स्वाहा युक्तं कनीयसि | इकारं प्रणवाद्देवी चंद्रविंदु समन्वितं || सुखद्गायततो वाच्यं शिरसे तदनंतरं | स्वाहा युक्तं ततो वाच्यं पवित्रांगुलि संयुतं || ऊकारं प्रणवाद्देवी विंदुलाछितमस्तकं | श्रीवज्राय समायुक्तं शिखायै च ततः परं || स्वाहांतं विन्यसेद्देवी मध्यमायां ततः परं | मात्रां द्वादशिकामुक्त्वापासाय तदनंतरं || कवचाय ततो वाच्यं स्वाहा च तदनंतरं | तर्जन्यां विन्यसेद्देवी संभुवित्सु समाहितं || प्. १७८अ) औकारं प्रणवाद्देवी अंकुशाय ततः परं | नेत्रत्रयाय संयुक्तं स्वाहा च तदनंतरं || अंगुष्ठे विन्यसेद्देवी प्रणवाद्यं ततः परं | त्र्यःकारं च विसर्गोक्तं सुरक्षयाय सुंयुतं || असुरक्षयाय संयुक्तं विन्यसे करयोर्द्वयोः | हृदि मूर्द्ध्नि शिखायां च कवचे नेत्रयोर्द्वयोः || न्यसेदस्त्राख्य पर्यंतं दिग्विदिक्षु यथाक्रमं || अथ षोढान्यासः || मंत्रषोढां ततः कुर्यात् त्रैलोक्यवशकारिणीं | श्रीवारात्रिपुटोयोनिः प्रासादं प्रणवस्तथा || कारिध्वंकुशैः कामकला कूर्चास्त्रकैः क्रमात् | षोडशी मंत्रवर्णैश्च पृथगष्टा दशाक्षरैः || एभिर्वीजैर्मातृकार्णान्स्वेषुस्थानेषु विन्यसेत् | एषा ब्रह्मस्वरूपा हि वीजषोढाः प्रकीर्तिताः || अन्याश्चन्यसनात् सर्ववज्रदेहा भवंति हि | सर्वैश्वर्ययुतास्ते हि जीवन्मुक्ता दशाब्दतः || अथास्याः यंत्रमाह || अथास्याः मण्डलं वक्ष्ये यथा वदवधारयेत् | दीक्षा करं महादेविं सर्वकर्म प्रयोजकम् || सितं कुर्याद्दलं पूर्वमाग्नेयं रक्तवर्णकं | याम्ये कृष्णं ततः पीतं शुक्लं चैव ततोऽसितं || ततः पीतं प्रकुर्वीत कर्णिका तस्य मध्यगा | तत्र मध्ये प्रकुर्वीत मण्डलं चण्डरोचिषं || रजः सत्वतमोरेखारक्त शुक्लसितां क्रमात् | मायायुगं च तन्मध्ये फडक्षर समन्वितं || वाह्यांतरं च चक्रस्य कुर्यात् त्रिद्वार संयुतं | पूर्वं रक्तं ततः पीतं शुक्लं रक्तं यथा क्रमं || चतुर्द्वार समायुक्तं क्षेत्रपालैरधिष्ठितं || अथोच्यते यंत्रराजो वैरोचन्या महेश्वरी | षट्कोण प्रथमं सख्यमध्यदेशे त्रिकोणकं || सूर्यविम्वं ततो दद्याच्चतुरस्रं ततः परं | भूगोलं च ततो दद्याच्चतुरस्रं ततः परं || अष्टपत्रं ततो दद्याद्यथा स्थानेन देशिकः | चंद्रविंवं ततो दद्याद् वह्निविंवं ततः परं || भूगोलं च ततो दद्याद् भूपुर त्रितयं ततः | वज्रशूलं समायुक्तं कोणेतंकण् नियोजयेत् || किंजल्कं केशरे दद्यान् मंत्रवर्णात् त्रिकोणके | दूतिः कामोपरि ध्यायेद्देवीं वैरोचनीं शुभां || प्. १७८ब्) भैरवोक्तं महं वक्ष्ये यंत्रं समृद्धितं | त्रिकोणं प्रथमं लेख्यं षट्कोणैर्वष्टयेच्चतं || त्रिविम्वं च ततो दद्याद् गुणानां परिणामकं | भूपुर त्रितयं कुर्याद् वज्रशूलसमन्वितं || कोणदेशे ततो दद्यात् टंकास्त्रं सुमनोहरं | यथास्थाने लिखेद्धीमान् कर्तृखर्परकं शुभं || रतिः कमोपरि ध्यायेद्देवीं वैरोचनीं शुभां || अथास्याः यंत्रलिखनांनंतरमर्घ्यादि स्थापनं कार्यं || तथा च || अर्घ्यपात्रादिकं कुर्यान् मण्डलं पुरतश्चरेत् || अथ पीठपूजामाह || आधारशक्तिमारान्य परतत्वांत पूजिते | पीठे जयाख्या विजयाजिता चापि पराजिता || नित्या विलासिनी षष्टीदोग्धी घोरा च मंगला | दिक्षु मध्ये च संपूज्या पीठवस्येन शक्तयः || अथ स्वनाभिमण्डलं देवीं ध्यात्वा मानसैरुपचारैः संपूज्य यथोक्त परित्या योनिमुद्रांतस्थ पुष्पाक्षते समानीय पुनर्ध्यात्वा यंत्र मध्ये चावाह्य यजेत् || अथ ध्यानं || स्वनाभौ नीरजं ध्यायछुद्धं विकशितंशितं | तस्य केशर मध्ये तु मण्डलं चंडरोचिषं || जपाकुसुम संकाशं रक्तवंधूक संन्निभं | रजः सत्व तमो रेखा योनिमण्डलमण्डितं || विपरीत रतिःस्थौ च ध्यायेद्रति मनोभवौ | रतिः कामोपविस्थौ च ध्यायेद्देवीं मनोहरां || मध्येतां च महादेवीं सूर्यकोटिः समप्रभां | छिन्नमस्तांकरे वामे धारयंतिं स्वमस्तकं || प्रसारित मुखी भीमां लेलिहानोग्र जिह्विकां | पिवंतिं रक्तधारां च निजकण्ठ समुद्भवां || विकीर्ण केशपाशां तां नानापुष्प समन्वितां | दक्षिणे च करे कर्तृं मुण्डमालां विभूषितां || दिगंवरीं महाघोरां प्रत्यालीढ पदस्थितां | अस्थिमालां धरां देवी नागयज्ञोपवीतिनीं || सदा षोडशवर्षीयां पीनोन्न तपयोधरां | डाकिनी वर्णिनी युक्तां वामदक्षिणयोगतः || दक्षिणेवर्णिनीं ध्यायेद् वामपार्श्वे तु डाकिनीं | वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगंवरां || प्. १७९अ) कपालकर्तृकां हस्तां वामदक्षिण योगतः | देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतां || अस्थिमालां धरां देवीं नागयज्ञोपवीतिनीं | डाकिनी वामपार्श्वे तु कल्पांत ज्वलनोपमां || विद्युच्छटाभनयनां दंतपंक्तिवलाकिनीं | दंष्ट्रा करालवदनां पीनोन्न तपयोधरां || महाघोरां महादेवीं मुक्तकेशीं दिगंवरां | लंवोदरीं कालरात्रीं नागयज्ञोपवीतिनीं || लेलिहान महाजिह्वां मुण्डमालां विभूषितां | कपालकर्तृकां हस्तां वाम दक्षिणयोगतः || देवीगलोच्छलद्रक्तधारापानं प्रकुर्वतीं | करस्थित कपालेन भीषणेनातिभीषणां || आभ्यां निषेच्यमानां तु ध्यायेद्देवीं विचक्षणः | एवं ध्यात्वा यजेद्देवी वामना भक्ति योगतः || वाह्यार्चां तु ततः कुर्यात् पुष्पं नैवेद्य धूपकैः || अथ ध्यानांतरमाह || भैरवोक्तमहं वक्ष्ये ध्यानं सर्वसमृद्धिदं | स्वनाभौ नीरजं ध्यायेत् सम्यक् विकशितं सितं || पूर्ववत् संकरं ध्यात्वा रतिकं दर्पसंयुतं | रतिकामोपरिस्थां तु ध्यायेद्देवीं मनोहरां || तन्मध्येतां महादेवीं मकारजलदोपमां | छिन्नमस्तां करे वामे धारयंतिं स्वमस्तकं || प्रसारित मुखीं देवीं लेलिहांनोग्र जिह्विकां | पिवंतीं रक्तधारां च निजकण्ठ समुद्भवां || विकीर्ण केशपाशांतां नानापुष्प विभूषितां | दक्षिणे च करे कर्तृं मुण्डमालां विभूषितां || शतार्द्धेन नृमुण्डेन मालास्रक् परिकल्पितां | अन्योन्य केशपाशेन ग्रथितां सुमनोहरां || दिगंवरां महारूपां प्रत्यालीढ पदास्थितां | अस्थिमालां धरां देवीं नागयज्ञोपवीतिनीं || सदा षोडशवर्षीयां पीनोन्नतपयोधरां | नानांगदा नागकांचीनागनूपुरसंगतां || नागकुंडल संयुक्तां अष्टनाग समन्वितां | अनंतो वासुकिश्चैव तक्षकर्कोटपद्मकौ || महापद्म तथा शंखः कुलिकोष्टौ प्रकीर्तिता | अनंतकुलिकौ चित्रौ कर्णमूले नियोजितौ || वासुकी शंखपालश्च क्षत्रियौ पीतवर्णकौ | प्रत्येकं तु फलासप्तशनसंख्या विराजितौ || प्. १७९ब्) नागहारां नागकींची यथास्थान नियोजितां | तक्षकश्च महापद्मो वैश्यावेतौ उदाहृतौ || नीलवर्णौ फणा पंचशत युक्तौ तु सांगकौ | अंगदं कथितं देव्यास्ताभ्यां युक्तं मनोहरां || पद्मकर्कोटकौ शूद्रौ रक्तवर्णामुदाहृतौ | फणात्रिंशतसंयुक्तौ नूपुरौ सुमनोहरौ || ताभ्यां धृतां छिन्नमस्तां ध्यायेध्यान समाधिना | डाकिनीवणिनीयुक्तां वामदक्षिण पार्श्वतः || दक्षिणे वर्णिनीं ध्यात्वा येतृवामपार्श्वे तु डाकिनी | वर्णिनी श्यामलां ध्यायेत् मुक्तकेशीं दिगम्वरां || कपालकर्तृका हस्तां वामदक्षिणयोगतः | देव्या दक्षिण नामास्तुधायपानं प्रकुर्वती || मुण्डमालाधरां देवीं नागयज्ञोपवितिनीं | देव्याः संदृश रूपेण भूषणेन च भूषितां || डाकिनीं वामपार्श्वे तु कल्पांतज्वलनोपमां | विद्युदग्नि समुद्भूतां त्रिनेत्रां सुनोहरां || दाडिमी वीजसदृश दंतपंक्ति विराजितां | द्रष्ट्रा करालवदनां पीनोन्न तपयोधरां || महादेवीं मुक्तकेशीं महाघोरां दिगंवरां | लम्वोदरीं कालरात्रिं नागयज्ञोपवीतिनीं || लेलिहानागुरसनीं मुण्डमाला विभूषणां | कपालकर्तृकाहस्तां वामदक्षिणयोगतः || वामनाड्योगुलद्रक्तधारापानं प्रकुर्वतीं | करस्थित कपालेन भीषणेनाति भीषणां || आभ्यां निषेव्यमानां तु ध्यायेद्ध्यान समाधिना | एवं ध्यात्वा यजेद्देवीं मनसा भक्तियोगतः || वाह्यार्चां तु ततः कुर्यान्नैवेद्यपुष्पधूपकैः | भैरवोक्तंमिदं ध्यानं कुर्याद् यत्नेन देशिकः || सर्वसिद्धिप्रदं साक्ष्यान्महापातकनाशनं || यः स्मरेत् प्रातरुत्थाय देव्याः पूजनकेपि वा तस्य सिद्धिर्भवेद्देवी वांछितार्थ प्रदायिनी धनंधान्यं सुतं जायां द्वयं हस्ति न मेव च || वसुवंधरां महाविद्यांमष्टसिद्धिलभेत्तु सः || प्. १८०अ) अथ वीजविशेषादि मंत्रपक्षेमावर्णविशेषेणध्येया || तथा च || येनं वीजेन चाद्यैन यद्य ध्यानं तदुच्यते | कामादौ निशदा ध्यायेल्लजादौ लोहितां तथा || मायादौ च भवेत् कृष्णावागादौ वैद्युत प्रभा || अथ योनि मुद्रां वद्ध्वा तन्मध्ये रक्तचंदनाक्षतजवापुष्पंनिधाय तत्र पुनर्ध्यायेत् || योनिमुद्रां गतं कृत्वा साक्षतं रक्तपुष्पकं | ध्यायेदेवीं महामायां सर्वकल्याणकारिणीं || सुधासागर द्वीपे च स्मरेदुद्यानमद्भुतं | तस्मिन्नवसरस्तीरेशोभनं रक्तमंडपं || चतुर्द्वार समोपेतं स्तंभराजिविराजितं | गवाक्षमार्गे दशकवायुयुक्त स केसरं || सुधासंविसत् ततं कल्पवृक्ष चतुष्टयं | निविष्टि रत्नस्तंभे च संस्मरेन्निज देवतां || शवासनगतां ध्योयेत् छिन्नमष्टां महोदरीं | चतुर्भुजां शवारूढा रक्तवस्त्रां त्रिलोचनां || मुकुटाटोप संपन्नां दक्षिणे खड्गधारिणीं | सोत्पलावा महस्तेन दोर्भ्यां पुस्तकधारिणीं || निकृत्य स्वशिरः खड्गैः पिवंति रुधिरं वहु | उपद्दिनकराभां च चंद्रार्द्धकृतशेखरां || योगिभिः सेव्यामनिशं नागयज्ञोपवीतिनीं || अथावाहनमंत्रस्तु || तत्र चावाहनं कुर्यानान् मंत्रेणानेन साधकः | सर्वसिद्धिप्रदे पूर्वमुच्चरेत् साधकोत्तमः || वर्णनीये ततो वाच्य सर्वसिद्धिप्रदे ततः | डाकिनीय ततो वाच्यं देवीनाम ततः परं || एह्येहीति ततो वाच्य महेति तदनंतरं | तिष्टतिष्टेति वाच्यं च मायायुग्मं ततः परं || फडक्षर समायुक्तं स्वाहेति तदनंतरं | इत्यावाहनमुद्दिष्ट स्थापनेन समन्वितं || अथासनदाने मंत्रविशेषमाह || अथावाह्यासनं दद्यात् मंत्रेनानेन साधकः | प्रणवं प्रथमं कृत्वा सर्वसिद्धिप्रदे ततः || प्. १८०ब्) वर्णनीये ततो वाच्यं प्रणवं च ततो वदेत् | डाकिनीय ततो वाच्य प्रणवं च ततो वदेत् || इहशब्दास्तिष्टतिष्टमाये फट् स्वाहयायुतं | ततो ध्यात्वा यजेद्देवीं युवतीं चंद्ररूपिणी || अथ पूजामाह || मूलमंत्रेण संपूज्य मंडलंस्यामहेश्वरी | उपचारैः प्रपूज्याथ प्रसूनै रंजनैस्ततः || तदनुजां गृहीत्वा च अंगदेवां प्रपूजयेत् | ततो दक्षिणदेशस्थां वर्णिनीं पूजयेत् तथा || प्रणवात् सरस्वतीवीजं प्रकृत्यै नामनामतः | ततश्च वामपार्श्वस्थां डाकिनीं पूजयेन्नरः || पूर्ववत् प्रणवादिस्तु डाकिन्यै नम इत्यपि || त्रिकोणे पूजयेदादौ फडन्त कवचेन तु | कालिकां भुवनेशीं च मातंगीमीश देशतः || उत्तरादि ततः पश्चात् पुटेषु च यथाक्रमं | कामाख्यां चैव भेरुडां तथा नीलसरस्वतीं || मायावीजेन प्रयजेत् महाविभव विस्तरैः | भैरवं पूजयेद्देवं संमुखे विधिना मुना || सम्राट् छंदो दक्षिणे च मंत्रवर्णान् तथौत्तरे | वीजशक्ती रक्षोदिशि पूजयेत् क्रमतः सुधीः || मातरः पद्ममध्ये च ब्राह्म्याद्याः सर्वसिद्धिदा | इन्द्रादि लोकपालान्ताः पूज्या अस्त्र समन्विताः || भूपुरे पूजयेत्तांश्च पूर्वादि क्रमयोगतः | पीठोपरि यजेद्रुद्रं परितश्च मनोहरं || पूर्वादिषु चतुर्द्वारे पूजयेत् साधकोत्तमः | द्वारोपरि महालक्ष्मी ब्रह्माणं चाग्रतो यजेत् || क्.एत्रपालं करालं च विकरालं तथा पुनः | प्रणवादि नमान्तेन चतुर्थ्यं तपदेन च || पूर्वोक्तमस्त्वनुलोमेनोक्तः पुनरस्थापि लोमेकमान्तरमाह || प्. १८१अ) बाह्यावरणमारभ्य पूजयेन् प्रतिलोमतः | भूपुराद्वाह्यभागेषु वज्रादीनि प्रपूजयेत् || तदन्तर सुरराजादीन्द्वारेषु द्वारयान्यजेत् | कराले विकरालं चाति कालं महाकालकं || एकलिंगां योगिनीं च डाकिनीं भैरवजेन्द्राक्षीह्यसितांगीं संहारिणीं || षड्कोणेषु षडंगानि त्रिकोणे छिन्नमस्तका | डाकिनीं वर्णिनीं तारावाग्भ्यातत्पार्श्वयोर्यजेत् || एवं पूजाप्रकर्तव्या वलिदानं ततश्चरेत् || अथादौ भूपुरस्य वाह्ये वज्रादीनि उर्द्ध्वे चंद्रादीन् संपूज्य पूर्वादि क्रमेण द्वारपालान् पूजयेत् || पूर्वद्वारे करालं च विकरालं च दक्षिणे | पश्चिमे चाति कालं च महाकालं तथोत्तरे || प्रणवादि नमोन्तेन पूजामेषां समाचरेत् || अथैतेषां ध्यानमाह || करालं रक्तवर्णं च द्विभुजं द्वीपसंस्थितं | पश्चिमे विकरालं च नीलनीरज संनिभं || अंकुशं पुष्टकं वामे जवापुष्प छविं स्मरेत् | गरुडस्थं महाकायं त्रिनेत्रं चन्द्रशेखरं || महाकालं तथा चैव द्विभुजं पीतवाससं || अथ पूर्वादि क्रमेणाष्टदले चैक लिंगाद्या भैरव्यः पूज्या || एकलिंगां महादेवी ढाकिनी योगिनीं तथा | भैरवीं च महापूर्वां भैरवीमथ सुव्रते || इंद्राषी मसितांगी च ततः संहारिणी क्रमात् | पूर्वादिके दले पूज्याः शक्तयः क्रमयोगतः || प्रणवादि नमोन्तेन लज्जा वीजयुतेन च || अथामाक्रमेण ध्यानमाह || रक्तां गौरीं तथा कृष्णा तथा रक्तां च पिंगलं | पीतां मुक्तां च धूम्राभां कथयामि पुनः क्रमं || प्. १८१ब्) त्रिशूलवरदामाद्यां व्याघ्रचर्म समन्वितां | त्रिलोचनां च तन्वंगी नागयज्ञोपवीतिनी || द्वितीयां सुंदरालोकां दंडशंखधरां करे | रक्तवस्त्रपरीधातां रक्तनागोपवीतिनीं || अस्थिमालाधरां देवीं वद्धपद्मासनस्थितां | तृतीयां भीषणाकारां ललजिह्वां महोदरीं || कपालकर्तृकाहस्तां कृष्णनागोपवीतिनीं | घोरदंष्ट्रां महाघोरामत्तिमत्तो सुदारुणां || चतुर्थी पावकाभासां मुण्डमाला विभूषितां | कपालकर्तृकाहस्तां खड्गशूलसमन्वितं || आपिंगकेशनिचयों प्रचंडाट्टाट्टहासिनी | पंचमीं वालसूर्याभां षड्भुजां द्विपदा तथा || त्रिमुखिं च महोग्रांच्च रक्तपीतासिप्ताननां | कपालकर्तृकाहस्तां खड्गशूल समन्वितां || जटाजूटार्द्ध चंद्रां च प्रतिवक्त्रं त्रिलोचनां | शवोपरिस्थितां देवीमानीयस्थानमाश्रितां || द्वीपि चर्मपरीधानां वीरघंठा समन्वितां || षष्टीसुवर्णवर्णाभां सहस्रनयनोज्वलां | शंख चक्र गदा पद्म व्यग्रहस्तां मनोहरं || पद्मोपरि समासीनां कृत पद्मासनस्थिता | पीतवस्त्र परीधानां स्निग्धनेत्रां सुदारुणां || अष्ठमी च प्रवक्ष्यामि कालजीमूत सन्निभां | त्रिनेत्रां डाकिनी देवीं संहारकारिणीं || स्वाभियुक्तां सदा ध्यायेद्देवीं त्रैलोक्यमातरं | पूर्वादीशानपर्यंतं पूजयेद्विधिवत्क्रमात् || अथ वलिदानं || एवं पूजां विधायाथ वलिदानं प्रकल्पयेत् | दद्याद् वलिं पायसं च कृशरं मधुसंयुतं || स कोषं मधुसंयुक्तं रंभा पुष्पं तथैव च | अंतरान्तरतो देवि पशुदानं विधीयते || प्. १८२अ) समभ्यर्च्य वलिं पूर्वेगंध पुष्पांदिन्वन्दनै | धेनुमुद्रां प्रदर्श्याथ वामागुष्टेन संस्पृशेत् || यं मन्त्रेशोधनं कृत्वारं मंत्रे दारुयेत्ततः | ठं मंत्रेणामृतं भाव्यं वं मंत्रे प्लावयेच्चत || त्र्यष्टधा प्रजपेन्मंत्रं मूलं ङेन्तं निवेदयेत् | प्रदर्श्य संमुखे तंतु पुनराचमनं ततः || अथ वलिदानमंत्र || संवुद्ध्यंत पदं व्रूयाद्देहि एहि पदं ततः | गृह्न गृह्न इमं व्रूयाद्वलि शब्दस्ततः परं || ममशब्दं समाभाष्य सिद्धिं देहि पदद्वयं | कवच द्वितयं चोक्त्वा करालिके पदं ततः || फट् स्वाहान्तो महामंत्रो वलिदानं विधौ स्मृतः || अष्टोत्तरशतं चापि सहस्रं वा महेश्वरि | जपं समाचरेन्मंत्री कुल्लुकाद्यं यथाविधि || जपांते च स्तुतिं कुर्यान्मालिकां शिरसि क्षिपेत् | जपपूजां समाप्यैवं स्तुत्वा च कवचं पठेत् || तत्रादौ क्रोधभैरवस्य मंत्रो जप्तव्यः || स्तथा च || आदौ जप्त्वा भैरवस्य क्रोधस्यास्य मनुं जपेत् | अस्थिमालां समादाय वज्र वैरोचनी मनु || अथ क्रोधभैरवस्य मंत्रमाह || अथ क्रोध मनुं वक्ष्ये असाध्यं येन सिद्ध्यति | वीजं हालाहलं गृह्य क्रोध वीजमतः परं || भयंकरार्णमाभाष्याशितांगक्षतजस्थितं | प्रलयाग्निर्महाज्वालामाभाष्य मनुमुद्धरेत् || एवमुच्चारितः क्रोधः स्वयमेव प्रसिद्ध्यति || अथ षडङ्गन्यासः || ततस्तु क्रोध मंत्रेण षडङ्गन्या समाचरेत् | विषं वज्रयुतं वोधि महाकालं न्यसेद् हृदि || प्. १८२ब्) विषंहनयुगं वज्र कूर्चाद्यं विन्यसेद्वहि | हालाहले देहयुतं वज्रकालन्यसेच्छिखां || विषमंत्रयुतं वज्रमायुधं कवचन्यसेत् | तारवीजयुतं वज्रमायुधं कवचन्यसेत् || तारवीजयुतं वज्रमहाकालाय नेत्रयो | विषं हनयुतं गृह्य दह गृह्य पदान्वितं || क्रोधं वज्रयुगं तद्वत् सर्वदुष्टानथापरं | तलोमारय वर्मास्त्रं दिग्वंधान्तं षडगकं || अथ ध्यानमाह || तत्र मध्येन्यसेद्भीमं तप्तज्वाला समाकुलं | साट्टहासं महारौद्रं भिन्नांजन च योपमं || प्रत्यालीढं चतुर्वाहुं दक्षिणे चक्रधारिण | तर्जनं वामहस्तेन तीक्ष्णदंष्ट्राकरालिनं || कपालरत्नमुकुटं त्रैलोक्यस्य विनायकं | आदित्यकोटिसंकाश अष्ठनाग विभूषितं || अपराजित पदाक्रांत मुद्रा वाललविष्टितं | अनामिका द्वयं वध्वा आकुंच्य तर्जनीद्वयं || कनिष्ठां मध्यमा चैव ज्येष्टांगुष्ठेन च क्रमात् | एष मुद्राधरः श्रीमान् त्रैलोक्या साध्यसाधकः || अथ स्तुति || इति पूजार्विधीं कृत्वा च यथा वलं || वांछितार्थ प्रसिद्ध्यर्थभिमंस्तवमुदीरयेत् || नाभौ शुद्धसरोजमध्यविलसद्वन्धूक पुन्यारुणं | भास्वद्भास्करमंडलं तदुदरं यद्योनिचक्रं महत् || तन्मध्य विपरित मैथुन परप्रद्युम्न तत्कामिनी | पृष्ठस्थां तरुणार्ककोटि विलसत्तेजस्वरूपां शिवां || वामे छिन्नधरां शिरोत्तरे पाणौ वृहत्कर्तृकां | प्रत्यालीढ पदां दिगन्तवसनोमायुक्तकेशम्रजां || प्. १८३अ) छिन्नात्मीय शिरः समुच्छलदसृग्धारां पिवंतीं परावालादित्य समप्रकाशविलसन्नेत्र त्रयोद्भासिनीं || वामादन्यत्र नाडी वहुवहलगलद्रक्तधाराभिरुच्चैः पायन्तीमस्थिभूषांकरकमललसत् कर्तृकामुग्ररूपां | रक्तामारक्तकेशीमपगतवसनांवर्णिनीमात्मशक्तिं प्रत्यालीढोग्र पादामरुणितमयनां योगिनीं योगमुद्रां || दिग्वस्त्रांस्रस्तकेशीं प्रलयघनघटा घोररूपां प्रचण्डां | दंष्ट्रादुःप्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वोग्रभासां || विद्युल्लोल जिह्वोग्रभासां || विद्युल्लोलाक्षिगुग्मां हृदयतटलसद्भोगिभीमां स्वमूर्तिं | सद्य छिन्नात्मकंठप्रगलित रुधिरैर्डाकिनीं वर्द्धयंतीं || ब्रह्मेशानाच्युताद्यैः शिरसि विनिहिता मन्दपादारविन्दाः | मात्माज्ञेर्योगिमुख्यैः पतिदिनमविशं चिंतिनां चित्यरूपां || संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्ता | विष्टांताअमिष्टदात्रीं कलिकलुषहरां चेतसा चिंतयामि || उत्पत्तिस्थिति संहृतीर्घटयतुं धत्ते त्रिरूषां तनुं | त्रैगुण्याज्जगतो यदीय विकृतिर्ब्रह्माच्युतं भूलभृत् || माताद्यां प्रकृतिं स्मरामि स ततं सर्वार्थ संसिद्धये | यस्या स्मरेपदारविन्दयुगलंसंतो भजेन्ते सदा || अलिपिशितपुरन्ध्री योगपूजापरोहं वहुविध कुलभारारम्भ संभावितोहं || पशुजनविरतोह भैरवी संस्थितोहं | गुरुचरण परोहं भैरवोहं शिवोहं || इमं स्तवं महापुण्यं ब्रह्मणाभाषितं पुरा | यः पठेत् प्रातरुत्थाय देव्याः सन्निहितोपि वा || तस्य सिद्धिर्भवेद्देवी वांछितार्थ प्रदायिनी | धनधान्यं सुतं जाया हयं हस्ति नमेव वा || प्. १८३ब्) वसुन्धरां महाविद्यामष्टौ सिद्धिर्ल्लभेद्ध्रुवं || इति भैरव प्रोक्तो देव्याः स्तवः समाप्तः || अथ कवचं || भैरव्युवाच || कथिता छिन्नमस्तायाद्याया विद्या सुगोपिता | त्वया नाथेन जीवेन श्रुता च गदिता मया || इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितं | त्रैलोक्यविजयं नाम कृपया कथ्यतां विभौ || भैरव उवाच || शृणु वक्ष्यामि देवेशि सर्वदेव नमस्कृते | त्रैलोक्य विजयं नाम कवचं सर्वमोहनं || सर्वविद्यामयं साक्षात् सुरासुर जयप्रदं | धारणात् पठनादीशस्त्रैलोक्यविजयीवितुः || ब्रह्मानारायणा रुद्रो धारणात् पठनाद्यतः | कर्ता पाता च संहर्ता भुवनांनां सुरेश्वरि || न देयं परशिष्येभ्यो अभक्तेभ्यो विशेषतः | देयं शिष्याय भक्ताय प्राणेभ्योप्यधिकाय च || देव्याश्च छिन्नमस्तायाः कवचस्य च भैरवः | ऋषिः सम्राट् विराट् छन्दो देवता छिन्नमस्तका || त्रैलोक्य विजय मुक्तौ विनियोगः प्रकीर्तितः | हूंकारो मे शिरः पातु छिन्नमस्तानत्वप्रभा || ह्रीं हूं ऐं त्र्यक्षरी पातु भालं रक्तादिगम्वरी | श्रीं ह्रीं हूं ऐं दृशो पातु मुंडकर्तृधरापिमा || सा विद्या प्रणवाद्यंता श्रुति युग्मं सदावतु | वज्र वैरोचनी ये हूं हूं फट् स्वाहा ध्रुवादिकः || घ्राणं पातु छिन्नमस्ता स्वमुंडकर्तृधारिणी | श्रीमाया कूर्च वाग्वीजे वज्र वैरोचनीय हूं || हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी | स्वयाद्या द्वारमभ्युक्ष्य दक्षिण वाम पार्श्वयोः || प्. १८४अ) उपर्यधस्त्रितारान्ते स्वनामाद्यर्ण वीजतः | गणेशं क्षेत्रपालं च तथा द्वारश्रियं पुन || देहली च समभ्यर्च्य प्रविशेद्यागमन्दिरं || आग्नेयादिषु मध्ये दिक्षु यथा क्रमं | त्रितारना स वीजान्ने पूजयेद्गणपादिकान् || गणेश दुर्गा वटुक क्षेत्रपाल चतुष्टयं | रत्नमण्डपमभ्यर्च्य कामवंरतियुतं || वसंतप्रीति सहितं तन्नोदेवि सरस्वतीं | श्रियं पश्चात् समभ्यर्च विकिरेत् कुसुमांजलि || अथवा दशदिक्षु दशशक्ति समभ्यर्च्य मध्ये वागीश्वरीं पुष्पांजलि मा दीपनाथं यजेत् || सरस्वतीं श्रियं मायां दुर्गां च तदनन्तरं | भद्रकालिं तथा स्वस्तीं स्वाहा चैव शुभंकरीं || गौरीं च लोकधात्रीं च तथा वागीश्वरीमपि | रक्त द्वादश शक्तिद्भिः सहितं दीपनाथकं || त्रितारयोगः सर्वत्र विज्ञेयः साधकोत्तमैः | सामान्य क्रमवत्कार्यमपरं साधकोत्तमैः || भूतशुद्धिं विधायेत्थं मातृकान्या समाचरेत् | प्राणायाम त्रयं कृत्वान्यासानन्यान् समाचरेत् || अथ वक्ष्ये महेशानि श्रीविद्यान्यासमुत्तमं || अथादौ ऋष्यादिन्यास || ऋषिरस्य महेशानि दक्षिणामूर्तिरव्ययः | पंक्तिः छन्दः समाख्यातो देवी त्रिपुरसुन्दरी || वाग्भवं वीजमित्युक्तं शक्तिस्तु शक्तिकूटकं | कामराजः कीलकं स्याद्रिष्यादिन्यास ईरितः || अथ कराङ्गन्यासः || अं आं सौं रितिप्रोक्तं वीजं विविधमुत्तमं | एतद्वीजं द्विरावृत्य मध्यमांद्यंगुलीषु च || शुद्धिं करस्य कुर्वीततलयोः पृष्ठयोरपि | चतुर्थीनति संयुक्तानाम मंत्रैः पृथक् पृअथक् || प्. १८४ब्) मध्यमानामिका चैव कन्यष्ठांगुष्ठ तर्जनी | क्रमेण नामव्याख्यातमंगुलीनां महेश्वरी || अथात्मरक्षां दिग्वंधनंवाह || वालीवीजं त्रयः पूर्वं तथा त्रिपुरसुंदरि | आत्मानं रक्षरक्षेति कुर्याद्रक्षां हृदि स्पृशन् || तथैवास्त्रेण मुद्रायाः कुर्यादिग्वंधनं ततः || अथासनन्यासः || अमृतार्णव शब्दपूर्व आसनाय ततो मनुः | पादयोर्विन्यसेत् पश्चाद्वालांत त्रिपुरेश्वरी || पोतांवुजासनायांते नमोजानूविनिन्यसेत् || ऐं क्लीं सौं त्रिपुरेत् युक्त्वा सुंदरीति पदं ततः | ङेन्तं देव्यासने चांतेन मद्दुरु द्वयं न्यसेत् || हैं ह्व्रीं ह्सौंः तें त्रिपुरवासिनीति च || चक्रासना इत्यमुना स्फिगद्वय प्रविन्यसेत् || ह्यैं ह्स्त्रीं ह्स्त्रौं * * * * * * * * * * (?) || सर्वमंत्रासनायांते नमोगुह्य प्रविन्यसेत् | ह्रीं क्लीं त्रिपुरमालिन्यंते ततः साध्य पदं वदेत् || ततस्मिद्धासनं ङेंतं नाभिदेशे प्रविन्यसेत् | ह्स्रैं ह्श्रीं ह्स्रौं मंत्रे त्रिपुराम्वा पदं ततः || पर्यंक शक्तिपीठासनाय नमो वक्षसि विन्यसेत् | त्रीकूटविद्या वीजांते महात्रिपुरभैरवी || सदाशिव महाप्रेत यदा पद्मासनाय च | नम इत्यमुना ब्रह्मरंध्रस्थाने प्रविन्यसेत् || अथ षडंगन्यासः || सर्वज्ञता नित्य सु तृप्तिता च अनादि बोधश्च स्वतंत्रता च | अलुप्तता शक्तिमनंतता च षडाद्गरंगानि शिवयोः शिवाद्याः || वीजांते नाम संयोज्य जातियुक्तं षडंकं || संपूर्णां चिंतयेद्विद्यां ब्रह्मरंध्रेरुण प्रभां | स्रवत्सुधां षोडशार्णां महासौभाग्यदां स्मरेत् || वामांगदेशे सौभाग्यदण्डिनी भ्रामयेत् ततः | विश्वजिह्वाग्रहम्मुद्रां पादान्मूलेन्यसेत् प्रिये || त्रैलोक्यस्यत्वहं कर्ता ध्यात्वैवं कीलकन्यसेत् | संपूर्णामेव वदने वेष्टनत्वेन विन्यसेत् || पुनः संपूर्णं वदने गलार्द्धं विन्यसेत्तया | पुनः संपूर्णजा देहे व्यापकत्वेन विन्यसेत् || व्यापकांते योनिमुद्रां मुखे क्षिप्त्वाभिनंद्य च | श्रीविद्यापूर्णरूपोयं न्यासः सौभाग्यवर्द्धनः || प्. १८५अ) त्रैलोक्यं क्षोभवेत्या शुन्यासं सन्नद्धविग्रहः || अथ दण्डिनीमुद्रा || मुष्टिं धृत्वा चरन्मंत्री तर्जनी दण्डवत् तदा | सौभाग्यदण्डिनीनाम रिपून् दण्डयते क्षणात् || अथ रिपु जिह्वाग्रहाः || अंगुष्टं मुष्टिगं कुर्याद् रिपुजिह्वाग्रहा भवेत् || अथ योनिमुद्रा यथा || संयोज्य हस्तौ देवेशि तर्जन्याः नामिकां यजेत् | तद्वद्वामेन संसृज्ययोन्याकारेण योजयेत् || परिभ्राम्या नामिकास्तु मुर्द्धानं परितः प्रिये || अथ संमोहन न्यासः || ब्रह्मरंध्रे जयेद्देवी मणिवंधे न्यसेत् ततः | ललाटे मालिकां कुर्यात् षोडशार्णाः स्मरेद्बुधः || त्रैलोक्यमरुणं ध्यायन् श्रीविद्यां मनसि स्मरेत् | संमोहनाख्या देवेशि न्यासोयं क्षोभकारकः || अथ संहारन्यासः || पादयोर्जंघयोर्जान्वोः कद्योलं धूनिपृष्टके | नाभौ पार्श्वद्वयोश्चैव स्तनयोरंशयोस्तथा || कर्णयोर्ब्रह्मरंध्रे च वदनेऽन्धूनि पार्वती | ततः कर्मप्रदेशे तु नरवेष्टनतः क्रमात् || संहारोयं महान्यासो बीजैः षोडशभिः क्रमात् | श्रीविद्यायाः षोडशार्णैर्न्यासैर्विश्वेश्वरो भवेत् || सृष्ट्यर्थं विन्यसेद्देवी मातृकां पूर्ववत् प्रिये || अथ वसिन्यादिन्यासः || मातृकार्णः स्वरूपां च वर्णाष्टक समन्वितां | वेशिनीं मातृकान् यस्य बीजाष्टक समन्वितां || अवर्गांते लिखेद्वीजं वह्नि फांते समन्वितं | वामकर्णे विशोभाढ्यं विंदुनादांकितं प्रिये || वेशिनी पूजयेद् वाचां देवतां देवसुव्रते | कवरांते महेशानि कामेशी वीजमुत्तमं || मेरुभृतं समुच्चार्य वाग्देवीं पूजयेत् ततः | च वर्गांते ध्वांतरां तक्षमातुर्य स्वरान्वितं || मादिनीं पूजयेद् वाचां देवतां तदनंतरं | ट वर्गांते वायुवीजं भूमिसंस्थं महेश्वरी || वामकर्णेंदु विंद्वाद्यं विमलां वागधीश्वरीं | त वर्गांते यमक्ष्माद्यं वामनेत्रं विभूषितं || बिंदुनादांकितं वीजं वाग्देवी मनुना यजेत् | प वर्गांते व्योमचंद्रक्ष्याताजानिल संयुतं || प्. १८५ब्) ऊकारस्वर संयुक्तं विंदुनाद कलात्मकं | जयंतीं पूजयेद् वाचां देवतां सुरवंदिते || य वर्गांते यांतकालरेफ वायुसमन्वितं | वामकर्णेंदु विंद्वाढ्यं सर्वेशीं परिपूजयेत् || क्षमा वह्निगतं सूर्यं वीजेन परिवेष्टितं | विंदुनादकलाक्रांतं कौलिनीं वाचमर्चयेत् || श वर्गांते महादेवीं न्यसेत् सर्वार्थसिद्धये | शिरो ललाटे भ्रूमध्ये कर्णहृन्नाभि मण्डले || आधारदेहकं यावन्न्यसेद्देवीं परा प्रिये || अथ षोढान्यासः || षोढान्यासं ततः कुर्याद्येन ब्रह्माण्डरूप धृक् | विराट् स्वरूप वर्णात्मा शिवः साक्षान्न संशयः || गणेशः प्रथमोन्यासः सर्वविघ्नविनाशकः | तरुणादित्य संकाशान् गजवक्त्रां त्रिलोचनां || पाशांकुश वराभीति कराल्शक्ति समन्वितान् | एतास्तु विन्यसेद्देवी मातृकान्यासवत्प्रिये || विघ्नेश्वर श्रियामुक्तो विघ्ननाथः ह्रियान्वितः | विनायकस्तथा तुष्टिः शांतियुक्तः शिवोत्तमः || विघ्नहृत् पुष्टियुक्ता च विघ्नकर्ता सरस्वती | विघ्नराट् रतियुक्ताश्च मेधा च गणनायकः || एकदंतश्चकांतिश्च द्विदंतःकामिनीपतिः | गजवक्त्रो मोहनी च निरंजन जटा तथा || कपर्द्दभृत् तथा तीव्रा दीर्घवक्त्र ततः प्रिये | ज्वालिनी सहितः पश्चान्नंदा संकर्षणस्तथा || वृषध्वजश्च सुरसा गणनाथेन संयुता | कामरूपानिकां पश्चाद्गजेंद्रश्च गुहा युतः || शूपकर्णस्तु जपिनी त्रिनेत्रः सत्यया युतः | लम्बोदरश्च विघ्नेशि महानाद स्वरूपिणी || चतुर्मूर्तिः कामदा च सदाशिवयुता ततः | मदविह्वला महानाद आमोदो विजया तथा || दुर्मुखश्च तथा घूर्णा सुमुखा भूमिदा तथा | प्रमोदश्च तथा भूमिरेक पादस्तथा सती || द्विजिह्वश्च रमायुक्तः शूलश्च ध्वजिनीयुतः | वीरश्च कर्णयुक्तं च शैलाश्च मकरध्वजा || षण्मुखश्च विकर्णं हि वरदो भ्रुकुटी तथा | वामदेवस्तथा लज्जा वक्रतुण्डस्ततः परं || दीर्घघोणान्वितः पश्चात् द्विरण्डक धनुर्द्धरौ | सेनानीयामिनीयुक्तो ग्रामिणीरात्रि संयुतः || प्. १८६अ) तमश्च चंद्रिकायुक्तो विमलेश्च शशीयुतः | मत्तवाहन लोला च जटी च चपलाक्षिणी || मुण्डि ऋद्धियुतः पश्चात् खड्गी च शुभगायुतः | वरेण्यश्चैव गर्भा च वृषके तु स्तथा शिवा || भक्तप्रियः सत्वदा च मेघनादश्चकारिणी | गजेशः कालकुब्जा च गणेशो विघ्नहारिणी || मातृकार्णैर्न्यसेद्देवी ग्रहन्यासस्ततो भवेत् | रक्तं श्वेतं तथा रक्तं श्यामं पीतं तु पाण्डुरं || धूम्रं कृष्णं तथा धूम्रं रक्तधूम्रं विचिंतयेत् | रविमुख्यान् कामरूपान् सर्वाभरणभूषितान् || स्वरैरर्कं हृदीन्यस्येद्यवगेणशशीततः | भूमध्ये च कवर्गेण भौमं नेत्रं त्रयन्यसेत् || च वर्गेण बुधः कुक्षीट वर्गेण वृहस्पतिं | हृदयोपरिविन्यस्यत्तवर्गेण गले भृगुं || प वर्गेण शनिं नाभौ राहुवक्त्रेशवर्गतः | लक्षाभ्यां तु गुडेकेतुं न्यसेदे वरानने || अथ नक्षत्र वृंदानां न्यासं कुर्यात् सुखप्रदं | ज्वलत् कालाग्निसंकाशाः सर्वाभरणभूषिताः || मतिपाण्याश्विनी मुख्या वरदा भयपाणयः | युग्मं युग्मं तथा युग्मं युग्मं युग्मेन रोहिणी || एकमेवं तथा द्वंद्वमेक पुष्पाभमुच्यते | ललाटे रोचने पश्चाद् वामदक्षिणकर्णयोः || नास्याद्वये च देवेशि तथा कंठे न्यसेत् क्रमात् | पुष्पाभं तु प्रविन्यस्य खगाभ्यां श्लेष्मनामकं || दक्षं स्कंधे घडाभ्यां तु मघास्कंधे द्वितीयके | चा पूर्वफाल्गुणी दक्षे कूर्परेच्छज संस्थिता || उत्तरा फाल्गुणीं वामे कूर्परे विन्यसेत् प्रिये | ऊ ञवर्णस्थितो हस्तो मणिवंधे च दक्षिणे || चित्राटढ परात्मा च मणिवंधे न्यसेत् प्रिये | ड वर्णांते तथा स्वाती विशाषाढ स वर्णगाः || विन्यसेत् क्रमतो देवी दक्ष वामे स्तनद्वये | तथदस्थानुराधाः च नाभौ न्यसेत् तु पार्वती || धकारेण युतां ज्येष्टां न्यसेद् दक्षकटौ प्रिये | न पफद्यां तथा मूलां न्यसेद् वामकटौ प्रिये || पुर्वाषाढां वकारेण दक्षोरौ विन्यसेत् ततः | भकारेणोत्तराषाढां वामोरौ तदनंतरं || मकारयुक्तां श्रवणां दक्षजानुनि विन्यसेत् | परस्थितां धनिष्ठां तु वामजानूनि विन्यसेत् || लकारेण महादेवीन्यसेच्छतभिषां प्रिये | दक्षजंघा गतां पश्चात् पूर्वभाद्रपदां ततः || वशवर्णः स्थितां न्यसेद्वाम जंघागतः क्रमात् | षसहोत्तर भाद्रपदां तथा दक्षिणपादके || प्. १८६ब्) रक्षाभ्यां विंदुसर्गाभ्यां रेवतीं च तथा प्रिये | क्षकारेण ततो विंदु विसर्गाभ्यां च रेवतीं || वामपादे प्रविन्यस्य योगिनीन्या समाचरेत् | सितासितारुणां च भ्रुश्चित्रापीताश्च चिंतयेत् || चतुर्भुजाः समैर्वक्त्रैः सर्वाभरण भूषिताः | डांडीं वीजद्वयं चोक्त्वा डमरवरयेत्प्रिये || वामकर्णेंदु नादाढ्यो डाकिनीं नम इत्यपि | स्वनांते तु प्रवक्तव्यं चांते रक्षपद द्वयं || त्वगत्मने कण्ठदेशे विशुद्धौ विन्यसेत् प्रिये | ककाराद्यैराकिनीं तु रकाराद्यैक्षरैः क्रमात् || पूर्ववद्वीजसंयुक्तैरसृगात्मां च संन्यसेत् | अनाहतं न्यसेत् पश्चाद्दकारादि फकारगैः || राकिनी च तथा देवी सांसान्मामणिपूरके | वरवर्णैः काकिनीं तु स्वाधिस्थाने तथाभिधां || मदः स्वरूपां विन्यसेत् षसवर्णैश्च किंकिनीं | मूलाधारेस्थि रूपां तु विन्यसेद् वीरवंदिते || हक्षवर्णैः सितां चैव मज्जा हाकिनीकां यजेत् | ब्रह्मरंध्रे महेशानि न्यासोयं योगिनी क्रमात् || राशिन्यासं ततः कुर्यात् सर्वरक्षाकरं सदा | रक्ताश्वेत हरिद्वर्णः पाण्डुश्चित्रासितान्यसेत् || पिशंगं पिंगलौ वभ्रुवर्वुराशित धूमतां | अकारादि चतुःकेन विन्यसेत् सुरवंदिते || मेष दक्षिण गुल्फे तु ततो द्वंद्वेन वै वृषं | न्यसेज्जानू निवेदस्तु मिथुनं वृषणे ततः || द्वाभ्यां कर्कट संकुक्षौ द्वाभ्यां स्कंधे तु सिंहकौ | अनुस्वार विसर्गाभ्यांश वर्गेण च कन्यकां || दक्षिणे तु शोरोभागे विन्यसेद् वीरवंदिते | तथा वामशिरोभागे कवर्गेण तुलान्यसेत् || च वर्गेण तथा स्कंधे वृश्चिकं विन्यसेत् प्रिये | ट वर्गेण तथा संधौ धन्विनं विन्यसेत् प्रिये || मकरं तु त वर्गेण वृषणे विन्यसेत् प्रियेत् | प वर्गेण तथा कुंभे वामजानूनि विन्यसेत् || य वर्गेण क्षकारेण मीनं गुल्फे तुलात्मके || अथ पीठानिविधिनाविन्यसेत् सुरवंदिते | सितासिताऽरुणः श्यामहरित्यांतान्यवु क्रमात् || पुनः पुनः क्रमाद्देवी पंचाशत् पीठपंक्तयः | पीठानि संस्मरेविद्वान् सर्वकामार्थसिद्धये || प्. १८७अ) कामरूपं महापीठं वाराणसीं ततः | नेपालं च तथा पीठं तथा वै पौंडुवर्द्धनं || पुरः स्थितं तथापीठं चरस्थितं ततः परं | पूर्णशैलं महापीठं नर्वुदं च ततः परं || आम्राटकेश्वरं पीठमेकामं च ततः परं | तिस्रोतं पीठमनघं कामकोटि मतः परं || कैलाशं भृगुपीठं च केदारं चंद्रपूरकं | श्रीपीठं च तथोङ्कारं जालंधर मतः परं || मालवं च तथा पीठं कुलांतं देवकोटकं | गोकर्णं च महापीठं मारुतेश्वरमेव च || अट्टहासं च विरजं पीठं राजगृहं तथा | महापीठं कोल्लगिरि मेलापुरमतः परं || कोलेश्वरं महापीठं महापीठं जयंतिकां | पीठमर्जयिनी चैव विचित्रं क्षीरिकाभिधं || हस्तिनापूरपीठं च उड्डीशं च प्रयागकं | षष्ठीशं च तथा पीठं मायुःपुरं जलेश्वरं || मलयं च महापीठं श्रीशैलं मेरुकङ्गिरिं | महेन्द्रं वामनं चैव हिरण्यपुरमेव च || महालक्ष्मीमयं पीठं ओड्डीयानमतः परं | छायाछत्रपरं पीठं तथैव परमेश्वरी || पञ्चाशत् पीठविन्यासं मातृकां विन्यसेत् प्रिये || गणेशैः प्रथमोन्यासः द्वितीयस्तु ग्रहैः स्मृतः | नक्षत्रैस्तु तृतीयः स्याद्योगिनीभिश्चतुर्थकः || राशिभिः पंचमो ज्ञेयः षष्ठः पीठैर्निगद्यते | एवं त्रिपुरसुंदर्याः षोढान्यासः प्रकीर्तितः || षोढान्यासं महादेवीन्यसेत् साक्षात् सदाशिवः || अथ त्रिपुरान्यासः || त्रिपुराख्यं ततो न्यासं कुर्यात् कामार्थ सिद्धये | त्रिवीजपूर्वा मातृकाद्या ङेनमोन्ता महेश्वरी || त्रिपुराख्यान्न्यसेद्देवी मातृकायाः स्थले क्रमात् | अस्यास्तुन्यास मात्रेण जीवन्मुक्तो भवेन्नरः || अथ कामरतिन्यासः || अथ कामान्न्यसेद्देवी दाडिमी कुसुम प्रभान् | वामाङ्गशक्ति सहितान् पुष्पवाणेक्षुकार्मुकान् || शक्तिस्तु कुंकुमनिभाः सर्वाभरणभूषिताः | नीलोत्पलकराध्येया त्रैलोक्याकर्षणक्षमाः || न्यसेत् कामं रतीं पश्चात् कामप्रीतिपरेश्वरी | कान्तेशः कामिनी युक्तो भ्रांतो वै मोहिनी युतः || कामुकः कमलायुक्तः कामचारो विलासिनी | कर्णकल्पलते तद्वत् कोमलस्यामले ततः || कामवर्द्धन संयुक्ता विजया चंडविस्मृता | तारास्तु विद्यया युक्तो विशालाक्षी युतो नमः || प्. १८७ब्) विमलो ललितायुक्तो रात्रिनाथ दिगंवरे | रतिप्रियश्च रामाश्च रतिनाथश्च कुब्जिका || मलश्च कांतया युक्तो रमणः सत्ययायुतः | निशाकरश्च कल्याणी मण्डनो भोगिनी तथा || नंदीशः कामदायुक्तो मदनश्च सुलोचन | सुलावण्यायुतो देवी तथा नंदायिताभिधः || निशाचरश्चमेदिन्या रहिताङ्ग ततः परं | कलहप्रिययायुक्तः पुष्पधन्वाचकांक्षिणी || महाधनुश्च सुमुखी ग्रामिणी नलिनी युतः | भीमश्च जटिनी युक्तो भ्रामणे यामिनी युतः || भ्रमणः शिखिनी युक्तः श्याममुग्धे ततः परं | भ्रामणी रमया युक्तो भृगुर्भूमी ततः परं || भ्रांतभ्रामरलोला च भ्रामावहसुयंचरे | मोहनो दीर्घजिह्वा च सेवकश्च तथा सती || तथा च मुग्धलोलाक्षी मोहवर्ण न भृङ्गिनी | मोहनश्च च पेटा च मन्मथो नाथयासह || मतङ्गो मारिणी युक्तो भृंगना पंक हंसिनी | गायकेन समायुक्तो तथा वै विश्वतो मुखी || गज नन्दिकयायुक्तो गीती च मदनंतरं | नर्तकः सहरंजिन्या लेखः कांतिः समन्वितः || उन्मत्त करकण्ठी च मत्तश्चैव वृकोदरी | मेघः श्यामान्वितो देवी विलंविनी क्रमात् प्रिये || अकाराद्यैर्मातृकाया स्थानेषु विन्यसेत् प्रिये | अनेन न्यास योगेन त्रैलोक्य क्षोभको भवेत् || अथ नवयो विन्यासः || नवयोन्यात्मकन्यासंवारावीजैस्त्रिभिः क्रमात् | त्रिषु त्रिषु च स्थानेषु वक्ष्यमाण क्रमेण च || कर्णयोश्चिवुके भूयो मण्डपो वेदने तथा | नेत्रयोर्नासि विन्यस्येदंशयोर्जठरे पुनः || ततः कूर्परयोः कुक्षौ जानूनोर्लिङ्गमूर्द्धनि | पादयोर्गुह्यदेशे च पार्श्वयोर्हृदयांबुजे || स्तमद्वये कण्ठदेशे बीजं प्रत्येककं न्यसेत् | नवयोन्यात्मकं न्यासः प्रोक्तोयं परमेश्वरिः || अथ क्रमेण पीठतत्व श्रीचक्रन्यासः || पुनर्वालां समुच्चार्य चतुरस्रं तु चिंतयेत् || पुनर्वालां समुच्चार्य गोलकत्वेन चिंतयेत् | गोलकन्यास योगेन श्रीचक्रं परिचिंतयेत् येत् || षट्चक्रेषु ललाटेषु सीमंते च शिरोविले | नवस्थानेषु संकल्पान्यसेद्देवि ततः परं || प्. १८८अ) अथ श्रीविद्यागुरुन्यासाश्च || शिरो ललाट भ्रुवक्त्र जिह्वायत् संधिकोटिषु | षोडशार्णान्यसेद्वक्त्रे स्वरस्थानेषु च क्रमात् || ललाटगलहृन्नाभि मूलाधारे च पंचकं | ब्रह्मरंध्रे मुखे स्वांते वीजत्रयमथो न्यसेत् || आधार हृदये ब्रह्मरंध्रे वीजत्रयं ततः | करपादेषु हृदयं पंचवीजानि विन्यसेत् || व्यापकं पालकं कुर्यान् महासौभाग्यहेतवे | श्रीविद्यां हृदये देवी संपूर्णां विन्यसेत्सुधीः || श्रीविद्यायां ब्रह्मरंध्रेषु पृष्ठतो गुरवः क्रमात् || अथ तिथि नित्यान्यासः || तिथि नित्या ततो देवी मातृका स्वरसंयुता | मातृकाविन्यसेद्वक्त्रे सर्वसौभाग्यदायिका || अथ षोडशी नित्यान्यासः || प्रथमा सुंदरी विद्या महात्रिपुरसुंदरी | कामेश्वरी समाख्याता तथैव भगमालिनी || नित्य क्लिन्ना च भेरुण्डा तथैव वह्निवासिनी | वज्रेश्वरी च दूती च त्वरिता कुलसुंदरी || नित्या नीलपताका च विजया सर्वमंगला | ज्वालामालिनी चिंत्रांता पंचदशः प्रकीर्तिताः || अथैतासां क्रमेण मंत्रानाह || शृणु देवी प्रवक्ष्यामि नित्यामण्डलमुत्तमं | कामेश्वरी महाविद्या सर्वलोकवशंकरी || वालावाग्भव हृच्चांते कामेश्वरी पदं लिखेत् | इच्छामफलप्राप्तांते प्रदे सर्वप्रदं लिखेत् || ततः सत्ववशं व्रूयात् कलि सर्वजगत्प्रदं | क्षोभनांते करं ब्रूयात् हूंकार त्रितयं लिखेत् || पंचवाणान् समालिख्य विलोमेन कुमारिकां | एषा कामेश्वरी विद्या प्रसंगा कथिता प्रिये || वाग्भवं भगशब्दांते भगेभगिनि चालिखेत् | भगोदरी भगांते च भगमारे भगावहे || भगगुह्य भगप्रान्ते योनिप्रांते भगाङ्किते | निपातीनि च सर्वांते ततो भगवशंकरी || भगरूपे ततो लिख्य नीरजायतलोचने | नित्यक्लिन्न भगप्रांते स्वरूपे सर्व चालिखेत् || प्. १८८ब्) भगानिमेह्यानयेति वरदेथ समालिखेत् | रते सुरते सुभगे क्लिन्ने क्लिन्न द्रवे ततः || क्लेदये द्रावयेद्वे च सर्वसत्वान् भगेश्वरी | अमोघे भगविच्चे चक्षु भयक्षोभ सर्व च || सत्वान् भगेश्वरी व्रूयाद् वाग्भवं प्लूं जन्मादिकं | भें प्लूं भों व्लूं हें व्लूं हैं व्लूं क्लिन्ने चैव ततः पुनः || सर्वाणि चे भगान्यंते मेवशं चानयेति च | स्त्रीवीजं चाहरप्रांते बलमात्मकमक्षरं || भुवनेशीं समालिख्य विद्येयं भगमालिनी | प्रसंगात् कथिता विद्या सर्वलोकवशीकरी || परावीजं समुच्चार्य नित्यक्लिन्ने मदद्रवे | वह्निजायान्वितोर्मंत्रो नित्यक्लिन्नेयमीरिता || सर्वसौभाग्यदा नित्यं सर्वैश्वर्य प्रदायिनी || प्रणवं पूर्वमुद्धृत्य तथांकुशयुतं लिखेत् | तन्मध्ये विलिखेद्देवी भवोयान्मकमक्षरं || च वर्गमंत्यहीनं तु विलिखेद् वह्निसंस्थितं | चतुर्द्दश स्वरोपेतं विंदुनादात्मकं पृथक् || वह्निं जायान्वितो मंत्रो भेरुण्डायाः फलप्रदः | भुवनेशीं समुच्चार्य ङेन्ता च वह्निवासिनी || हृदतोय मनुर्देवि विद्येयं वह्निवासिनी || प्रणवं भुवने शांतीं फलमान्मकमक्षरं | स विसर्ग शशीपश्चान्नित्यक्लिन्ने मदद्रवे || वह्निजायान्विता विद्या सर्वैश्वर्यप्रदायिनी | महावज्रेश्वरी विद्या प्रसंगा च मयेरिता || परावीजं समुच्चार्य शिवदूती च ङेयुतां | हृदंते च मनुं देवी दूतीग्रा सर्वकामद || ओंकारवीजमुच्चार्य परांते वहुमालिखेत् | खेचछेखं समालिख्य स्त्रीवीजं च समालिखेत् || हूंकारं क्षेपराचास्त्रं विद्येयं षोडशाक्षरी || अथवा || खें च स्त्रीं चैं छं हूं चैं च क्षें विसर्ग समोलिखेत् | हूंकारं च परादेवीं विद्येयं द्वादशाक्षरी || त्वरितानाम विद्येयं त्रिषु लोकेषु दुर्लभा | सर्वसिंहासनमयी वालैव कुलसुंदरी || वालयापुटितां कुर्यात् तथा चैतन्य भैरवीं | पंचवाणाश्च देवेशि नित्या शक्राक्षरी भवेत् || त्रैलोक्य विमला विद्या नित्या स्यात् परमेश्वरी | पंचाक्षरं वाणवीजं नित्ययेन पराप्रिये || प्. १८९अ) प्रणवं भुवनेशानीं फलमात्मकमक्षरं | सुमात्रकं द्वितीयश्च भुवनेश्यं कुशं ततः || नित्यशब्दं समुद्धृत्य संबुद्ध्या तु मदद्रवे | कवचं चांकुशं देवी विद्या नीलपताकिनी || वांतं समायुक्तं ततः शक्रस्वरान्वितं | विजयायै नमोदेवी नित्यायं विजयाप्रिये || अथवा || वांते कालाग्नि वायुश्च ततः शक्रविभूषितः | नादविंदु कलायुक्ता विद्येयं विजया भवेत् || चंद्रं वारुणसंयुक्तं तारवीजं समालिखेत् | तारहृद्भगवत्यंते ज्वालामालिनि देवि च || द्विरुच्चार्य च सर्वांते भूतसंहारकालिके | जातवेदसि संलिख्य ज्वलंती पदयुग्मकं || ज्वालेति प्रज्वल द्वंद्वं हूंकार द्वितयं लिखेत् | चतुर्थ्यां तु ततो देवी लिखेच्च सर्वमंगलां || हृदयंतो मनुर्देवी नित्येयं सर्वमंगला || अथवा || चंद्रं वारुण संयुक्तं तारवीजं समालिखेत् | चतुर्थ्यंतां ततो देवी विलिखेत् सर्वमंगलां || हृदयंतो मनुर्देवि नित्येयं सर्वमंगला | वह्निवीजत्रयं हूं च अस्त्रं स्वाहान्वितो मनुः || इयं नित्या महादेवी ज्वालामालिनिकापरा | कवर्गांतं स्वरांतं च शरस्वर विभूषितं || विंदुनादकलाक्रांतं विचित्रा परमेश्वरी | अकारादिषु सर्वासु स्वरेषु क्रमतो यजेत् || * * * * * * * (?) नि श्रीनित्या विश्वमातृका || स्वरवद्विन्यसेन्नित्यां नीरजायत लोचने || अथ प्रकटयोगिनीन्यासः || आधारादिषुनादेव नादांते ब्रह्मरन्ध्रेके | प्रकटाद्यान्यसेत् पश्चान्न्यासः प्रकटयोगिनी || अथ रहस्ययोगिनीन्यासः || शिरोललाटे भ्रूमध्ये कण्ठ हृन्नाभिशेखरे | आधारव्यापकं यावद्रहस्य योगिनीं न्यसेत् || अथ स्थितिन्यासः || स्थितिं न्यासं ततः पश्चाच्छ्री विद्या षोडशाक्षरैः | पंचाक्षलीषु करयोर्ब्रह्मरंध्रे मुखे हृदि || एवं विन्यस्यनात्यादि पादांते चैव मद्रिजे | गलादि नाभिपर्यंतमपरं हि ततः परं || ब्रह्मरंध्रादि कण्ठांते मेकं विन्यस्य पादयोः | अंगुलीषु च विन्यस्य न्यासोऽयं स्थिरकारकः || प्. १८९ब्) अथ सृष्टिन्यासः || सृष्टिन्यासं ततः कुर्यात् सर्वसिद्धिप्रदायकं | ब्रह्मरंध्रांतिके भाले घ्राणे नेत्रे श्रुतौष्टके || दंतांतोर्द्ध्वरधोदेवि जिह्वायांगल कूचके | पृष्ठे सर्वाङ्ग हृदयेस्तन कुक्षिषु लिंगके || श्रीविद्यार्णेन्यसेद्देवी मंत्री सर्वसमृद्धये || अथ स्वदेहे अव्या अभेदवुध्या यथोक्त कामकलां ध्यात्वा आयुधन्यासः कार्यस्तथा च || एवं कामकलारूपं देवतामयमात्मनः | वपुर्विचिंत्य शिवयोःऽरायुधान्या समाचरेत् || द्रां द्रीं क्लीं प्लूं सः इत्येते कामवाणाः प्रकीर्तिताः | यां रां लां वां मां इदं कामेश्वर्याश्च वाणपंचकं || द्रादिपंचयादि पंचयं संमोहनसप्तमः | ङेंतात् कामेश्वरधनुः ङेनमोंतं समुद्धरेत् || अनेन च शरानाधो हस्ते संधारयेद्धनुः | वामदेव्यास्तथा मंत्री धारयेदैक्ष वंधनुः || द्रादियादिजं जं हं नेत्यं कामेश्वरि पदांतिके | वाणेभ्यो नम इत्येतां दक्षिणाधः करे निजे || देव्याः प्रविन्यसेद्वाणान्यौष्यात्यंव च साधकः | द्रादियादीनि भूयोपि मुख आतं स विंदुकं || स्याद् वशीकरणायंति कामेश्वरिप्रदं ततः | पाशाय नम इत्यंतं वामोर्द्ध विन्यसेत् करे || यादि द्रावीनि गगणं वह्निवामाक्षि विंदुमत् | स्याद् वशीकरणायेति ततः कामेश्वरीति च || पाशाय नम इत्येवं वामोर्द्ध्व विन्यसेत् करे | द्रादियादीनिक्रां सर्वस्तंभनाय पदं ततः || कामेश्वरी पदं पश्चादंकुशाय नमो लिखेत् | दक्षिणोर्द्धे करे देव्या विन्यसेदं कुशं ततः || द्रादियादीनिक्रों सर्वस्तंभनाय पदं ततः | कामेश्वरि पदादूर्द्ध्वमंकुशाय नमो लिखेत् || दक्षिणोर्द्धे करे देव्या विन्यसेदंकुशं ततः | मूलेन व्यापकं कृत्वा न च मुद्राः प्रदर्शयेत् || अथ व्यापकन्यासः || सर्वांगे विन्यसेद् विद्यां व्यापकतेन सुंदरी || अथ न्यास समयमाह || प्रातःकालेऽथवा पूजासमये होमकर्मणि | जपकालेपि वा तेषां विनियोगः पृथक् पृथक् || प्. १९०अ) पूजाकाले समस्तं वा कुर्यात् साधकसत्तमः || अथ नवमुद्रा प्रदर्शयेत् || तथा च || एवं विन्यस्तदेहः सन् मुद्रा संधारयेत् क्रमात् | अनामाभ्यां कनिष्ठाभ्यां मध्यमाभ्यां करेण तु || अंगुष्टावनुजाग्नौ च दंडवत् तर्जनी द्वयं | क्षोभिणीयं महामुद्रा द्राविणी तु निगद्यते || एतस्या एव विद्याया मध्यमे तर्जनीयुते | सर्वविद्राविणीनाम द्वितीया परिकीर्तिता || एतस्या एव विद्याया तर्जनी मध्यमायुगं | अंकुशाकाररूपेण योजयेत् परमेश्वरी || त्रैलोक्याकर्षणी विद्या तृतीया परिकीर्तिता | पुटाकारौकरौ कुर्यात् तर्जन्यौ चांकुशाकृती || परिपृष्ट क्रमेणाथ मध्यमे तदधो गते | क्रमेण तेन मनुचि कनिष्ठानामिकाद्वयं || संयोज्यघर्षयेत् सर्वामंगुष्ठा चाग्रदेशगौ | सर्वावशकरी मुद्रा चतुर्थी परमेश्वरी || संमुखौ तु करौ योज्यौ मध्यमागर्भगेनुगे | तर्जनीभ्यां वहिर्युक्त अनामे सरले कुरु || मध्यमानख देशे तु ततोंगुष्ठौ च दंडवत् | उन्मादिनीनाम मुद्रा पंचमी परिकीर्तिता || क्रमेण पंचवाणानां मनवः परिकीर्तिता | एतस्या एव विद्यायास्तर्जन्यौ मध्यमावुजे || कुर्यान्महांकुशाकारौ मुद्रेयं तु महांकुशा | अंकुशाख्यं महाबीजं मनुरस्याः प्रकीर्तिताः || वामदक्षिणवाहुं तु दक्षिणं सव्यहस्तगं | वाहुं कुर्यात् ततो देवी हस्तौ संघर्षयेत् क्रमात् || कनिष्ठानामिका द्वंद्वं मध्यमा पृष्टगं ततः | तर्जनी मध्यमं कुर्यादुभयत्र महेश्वरी || अंगुष्टौ सकलौ कृत्वा पार्थिवे योजयेदिमां | खेचरीयं महामुद्रा त्रैलोक्य क्षोभकारिणी || विजयाद्यं महावीजं मनुरस्याः प्रकीर्तितः | एषा समय मुद्रे च सर्वेषां परिकीर्तिता || परिस्पृष्टौ करौ देवित्वर्द्ध चंद्राकृती ततः | तर्जन्यंगुष्ठयुगलं युगपत् योजयेत् तथा || त्र्यधः कनिष्टावष्टष्वे मध्यमेन तु योजयेत् | अनामिके च कुटिले सर्वाधस्तान्नि योजयेत् || वीजमुद्रेय विख्याता मनुरस्या हसौमिति | पूर्वोक्ता योनिमुद्रा तु नवमी परिकीर्तिता || शक्ति वृंदे स्फुरंतीयं तस्मात् साधारणी भवेत् | वाग्भवं मनुरेतस्या यतो विश्वस्य मातृका || एवं विन्यस्त देहः सन्मुद्रासन्नद्ध विग्रहः | अंतर्यागविधिं कुर्याद् येन साक्षात् स्वयं विभुः || प्. १९०ब्) अंतर्यागविधिं क्ट्वा वहिर्यजनमाचरेत् | अर्घ्यादि स्थापनं कृत्वा श्रीचक्रं वै समुद्धरेत् || अथ श्रीचक्रमाह || विंदुत्रिकोण वसुकोण दशारयुग्ममन्वश्र नागदल संयुत षोडशारं | वृत्तत्रयं च धरणी सदनत्रयं च श्रीयंत्रराजमुदितं परदेवतायाः || एतद्यंत्रं त्रिवृत्त रहितमिति केचित् तथा च | चतुर्वह्निं समुत्पाद्य पंचशक्तिं ततः शिवे || प्राक् प्रत्यत् क्रममार्गेण मर्मसंध्यादिकं भवेत् | अष्टादशं तु मर्माणि चतुर्विंशति संधयः || चतुर्भिश्चैव श्रीकर्णैः पंचकैः शिवशक्तिभिः | चक्र क्रमेण युक्ताभिः संवद्धाभिः परस्परं || नवचक्रस्वरूपेण शंभोस्तु भव शक्तिभिः | चत्वारिंश त्रयः कोणाः वृत्तं चाष्टदलं तथा || पुनर्वृत्तं कला पत्रं त्रिवृत्तं भूपुरत्रयं | चतुर्द्दशीतमारभ्य भूपुरांतं महेश्वरी || चत्वारि शिव चक्राणि शक्ति चक्राणि वै शृणु | चतुर्द्दशारमारभ्य त्रिकोणांतं महेश्वरीं || पंच वै शक्ति चक्राणि दक्षिणामूर्ति संमते || अथवा || आनंदभैरवमते चक्राणि शृणु यत्नतः | चतुर्दशारमारभ्य भूपुरांतं महेश्वरी || चत्वारि शिवचक्राणि शाक्तानि शृणु यत्नतः | वहिर्दशारमारभ्य विंद्वंतं परमेश्वरी || पंच वै शक्ति चक्राणि त्रिवृत्तरहितं प्रिये || अथ लिखनप्रकारमाह || तत्रादौमानं यथा || रचयेत् स्थंडिले यंत्रं हस्तमात्रं तथा भुवि | रत्नादिषु विनिर्माणे मानमिच्छावशाद् भवेत् || भेदः संकथितो देवि रचनां शृणु यत्नतः | तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् || भूप्रदेशे समेरम्ये सिंदूररजसाथ वा | कुंकुमाद्य रजोभिश्च भूमौ चक्रं समालिखेत् || ऋजुरेखं नेत्ररम्यं संधिं भेद समं कुरु | अथ वाहेन रौप्याभ्यां ताम्रे वा वहुधातुभिः || पट्टं विरच्य श्रीखण्डरक्तचंदन निर्मिते | पट्टे संस्थाप्य विलिखेल्लेखन्या हेमया प्रिये || रोचना कुंकुमाभ्यां तु कस्तूरीचंदनादिभिः || प्. १९१अ) ईशानादग्निपर्यंतमृजुरेखां समालिखेत् | ईशानादग्नेस्तदग्राभ्यां रेखे चाकृष्य देशिकः || एकीकृत्य च चारुण्यां शक्तिरेखा पराप्रिये | त्रिकोणाकार रूपास्तु तस्या उपरि संलिखेत् || त्रिकोणाकाररूपां तु शक्तिद्वय मुदाहृतं | पूर्वशक्त्यग्रभागेष्ट मानयष्टि वदा चरेत् || रेखां तु परमेशानि वायुराक्षस कोणगां | संधिभेद क्रमेणैव तयोः शक्त्योः ततः परं || रेखे चाकृष्य कोणाभ्यां तदग्रात् पूर्वगे कुरु | वह्निमण्डलमेतं तु पूर्वागां वीरवंदिते || चक्रद्वयम भूदंते ततः शृणु वरानने | पूर्वशक्तिः स वह्निभ्यां कोणाभ्यां सुरवंदिते || पूर्वरेखास्तु विस्तार्य तथा पश्चिमवह्नितः | वायुराक्षस कोणाभ्यां रेखां पश्चिमगां तथा || विस्तार्य योजयेद्देवी संधिभेद क्रमेण तु | योन्यग्रहां पूर्वदेशे दक्षिणोत्तरतः क्रमात् || तथा रेखे योनिसंस्थं पश्चिमस्या दिशि क्रमात् | कोणाभ्यां योजयित्वा तु दशकोणं तदा भवेत् || तथैव देवदेवेशि द्वितीयं दशकोणकं | ईशान वह्निगे रेखे पूर्वयोन्याग्रयोः क्रमात् || वायुराक्षस कोणाग्रे रेखे विस्तार्य सुंदरि | पश्चिमाग्रे ततो देवी योजयेदिन्द्र दिग्पते || एकत्र पूर्वकोणाग्रे चुंविनीं तु मनोहरीं | योजयेद् देवदेवेशि यथा पंक्त्यमुकं भवेत् || दशकोणस्य देवेशि त्यक्त्वा कोण चतुष्टयं | दशकोणांतरे देवि मध्ये रेखां प्रवासयेत् || तद्वद्दक्षिणभाते तु तथा चोत्तभागके | षट्कोणस्य ततो देवी संधिभेदः क्रमेण तु || योनिं वह्निं च संयोज्य शक्रारं जायते यथा | कक्षा मध्ये गतां रेखां ऋजुरूपां तु योजयेत् || ऋज्वा कृतिर्यथा देवि जायतेति मनोहरं | संमुखं पंचशक्त्यग्रं प्राङ्मुखं चतुरग्निकं || विंदुं त्रिकोणमध्यांश चक्रमेतद्वरानने | मध्ये चक्रं तु जानी हि दशारयुगरं तथा || शक्रकोणांकितं देवि वाह्यमध्यांतकं भवेत् | एतच्चक्रं महेशानि सर्वसौभाग्यवर्द्धनं || सर्वसाम्राज्यवं देवी सर्वोपद्रवनाशनं | अनेक हयमाणिक्य सुवर्ण परिपूरकं || महामोक्षपदं देवि वाग्विलासकलं महत् | एतद्वाह्य महेशानि वृत्तं पूर्णेंदु सन्निभं || प्. १९१ब्) तद्युतं कुरुमीनाक्षि वसुपत्रं मनोहरं | ततः षोडशपत्रं तु विलिख्य सुरवंदिते || चतुरस्रं चतुर्द्वारसहितं परमेश्वरि | चतुःषष्टिर्यतः कोट्यो योगिनीनां महामते || चक्रेस्मिन् स विशेषास्तु साधकं मानयंति हि || अथास्यावयवभेदेन संज्ञावर्णा फलान्याह || चतुरस्रं मातृकार्णैर्मण्डितं सिद्धिहेतवे | मुक्तामाणिक्य घटितं समस्तरविराजितए || त्रैलोक्यमोहनं नाम कल्पद्रुम फलंप्रदं | षोडशारं चंद्रविंवरूपं तु सकलालयं || सर्वाशापूरकं भद्रे स्रवेत् पीयूषवर्द्धितं | अष्टपत्रं महेशानि जवाकुसुमसन्निभं || सर्वसंक्षोभणं नाम सर्वकाम प्रपूरकं | एतद्द्वयं वरारोहे सृष्टिचक्रं शुभप्रदं || सर्वाम्नायादि देव्यास्तु मण्डितं सर्वसिद्धिदं | चतुर्दशारं देवेशि दाडिमी कुसुमप्रभं || अनंतफलदं भद्रे सर्वसौभाग्यदं सदा | दशारं तप्तहेमाभं सिंदूरं सदृशं प्रिये || सर्वार्थसाधकं चक्रं चिंतितं मनसा सदा | द्वितीयमपि पंक्त्यग्रं जवा कुसुमसन्निभं || सर्वरक्षाकरं चक्रं न * * * * * (?) शिवे | एतत् त्रयं महेशानिस्थिति चक्रं सुखप्रदं || दक्षिणाम्नाय पूजां च यथेप्सित फलप्रदं | अष्टकोणं वरारोहे वालार्क किरणारुषं || पद्मराग समप्रख्यं सर्वरोगहरं सदा | उद्यत् सूर्य सहस्राभं वंधूक कुसुमप्रभं || सर्वसिद्धिप्रदं चक्रं स कलालयमीश्वरी | त्रिकोणं सर्वसंभूतं कारणं भूतिदं सदा || विंदुचक्रं वरारोहे सर्वानंदं मयं प्रिये | सदाशिवमयं चक्रनायकं परमेश्वरी || एतच्चक्रं तु संहाररूपं ब्रह्ममयं सदा | पश्चिमाम्नाय संसेव्यं त्रयमत्र प्रपूजितं || श्रीकैवल्यप्रदानाच्च * * * * * * * * (?) | चतुर्वर्ग प्रदानाच्च श्रीचक्रमिति कथ्यते || अथास्य मेरुरूपमंत्रात्मकत्वमाह || श्रीचक्रमपि देवेशि * * (?) रूपं न संशयः | लकारः पृथिवी वीजं तेन भूविंवमुच्यते || प्. १९२अ) सकारश्चंद्रमा भद्रे कलाः षोडश रूपधृक् | तस्मात् षोडशपत्रं तु हकारः शिव उच्यते || अष्टमूर्तिः सदाभद्रे तस्मादष्टदलं भवेत् | इकारस्तु समादामाया भुवनानि चतुर्दशः || पालयंति परातस्माच्छक्रकोणं भवेत् प्रिये | शक्तिरेखा दशस्थाने स्थित्वा सूत्रे जगत्त्रयं || विश्वज्योतिरितिख्याता सा विष्णुर्दशरूपिणी | रकारात् परमेशानि चक्रं व्याप्य विजृंभते || दशकोणकरी तस्मात् प्रकारो ज्योतिरव्ययं | कलादशान्वितो वह्नि दशकोण प्रवर्तकः || ककारान्मादनं देवी शिवं चाष्ट स्वरूपकं | योनिरम्य तदा चक्रं वसुयोन्यंकितं भवेत् || अर्द्धमात्रागुणान् भूतानागरूपाद्यतः स्थिता | त्रिकोणरूपा योनिस्तु विंदुना वैंदवं भवेत् || कामेश्वर स्वरूपं च विश्वाधार स्वरूपकं || अथ दर्शनफलं || सम्यक् क्रतुशतं कृत्वा यत्फलं समवाप्नुयात् | तत्फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनं || महाषोडशदानानि कृत्वायल्लभते फलं | तत्फलं समवाप्नोति कृत्वा श्रीचक्रमुत्तमं || सार्द्धत्रिकोटि तीर्थेषु स्नात्वा यत् फलमश्नुते | तत्फलं लभते बक्त्या कृत्वा श्रीचक्रदर्शनं || अथ पूजाफलं || कोटिलिंग प्रतिस्थायां यत्फलं समुदाहृतं | तत्फलं लभते नूनं श्रीचक्रस्य च पूजनात् || अथ दानफलं || श्रीचक्रं कारयित्वा तु यो दद्यात् साधकाय च | भूचक्रं तेन दत्तं हि स शैलवन सागरं || अथ श्रीचक्रपादोदकफलं || गंगापुष्करनर्मदा च यमुना गोदावरी गोमती गंगाद्वार गया प्रयाग वदरी वाराणसी सिद्धिषु | रेवासेतु सरस्वती प्रभृतिषु ब्रह्माण्ड भाण्डोदरे तीर्थस्नान सहस्रकोटि फलदं श्रीचक्रपादोदकं || अथ सामान्यपीठे पुनरस्याः यो विशेषस्तमाह || महाचक्रस्य संस्थानं बावयेत् स्थिरमानसः | उद्यच्चंद्रोदयाक्षुध्व रक्तपीयूषवारिधेः || मध्ये हैममयीं भूमिं स्मरेन्माणिक्यमण्डितां | नवरत्नमयं द्वीपं स्वप्रभा पटलैर्दिशां || प्. १९२ब्) मुखानि शोणियंत्रं च लेलिहानं नभस्थलं | इति साहस्रसंख्याभिर्योजनानां सुविस्तरं || तन्मध्ये नंदनोद्यानं मदनोन्मादनं महत् | करुणातोय परिखं स्वर्णप्राकारवेष्टितं || नित्याभ्युदित पूर्णेन्दु ज्योत्स्नामाला विराजितं | सदा सहवसंतेन कामदेवेन रक्षितं || प्रांतेवकुल पुन्नाग नागकेशरपंचकैः | पारिजातां मुनारंगनागरंगाति मुक्तिकैः || एलालवंग कक्कोलमालती मल्लिकादिभिः | जम्वीर मधुजम्वीर दाडिमी मातु लिङ्गकैः || सेफालिका नारिकेलैः कदली पूगपादपैः | नागवल्लीमुरलता चक्रवल्ली लतादिभिः || कालागुरु महेन्द्रेन्दु कपित्थ पणसादिभिः | खर्जूरीताल श्रीतालीहिंताली देवदारुभिः || पाटली यूथिकाजाती सल्लती लतिकादिभिः | स तोमर च निष्पंदी कदंबं च उडुंवरैः || वृत्तं मधुकमृद्वीकशामकुंद्धा दलैरपि | अतिस्फुरन्महोदार दिव्यकल्पद्रुमादिभिः || सर्वदा फलसंपन्नैः सर्वत्र कुसुमोज्ज्वलैः | ह्रींकारमुखरैर्भृंगैर्मायद्भिः कोकिलैर्वृतं || माद्यत् कोकिलसल्लापवाचालि तदिगंतरं | उन्मत्तशुकसंवाधकत्व कूजितजृंभितं || सारिकामधुरालाप संपूरित नमोंतरं | चकोर चक्रकारंदुसारसाली विराजितं || मकरंदुरसोन्मत्तमराल मिथुनोज्वल | जातीपुन्नागसंमिश्र परागपटलोत्करैः || मरुद्भिर्मद्ध संचारैराचेष्टित जगत्त्रयं | नानापुष्पलताकल्प सेवितं वृक्ष खंडकैः || पर्यंक दीर्घकोत् फुल्लकमलोत्पलसंभवैः | रजोभिर्धूसरैः सम्यक्सेवितं मलयानिलैः || ध्यात्वैवं नंदनोद्यानंतदंतः प्रणवं स्मरेत् | शुद्धकांचन कर्पूरवालुकाभिरलंकृतं || सेवार्थमुत्सुकोनेक सुरसिद्ध निषेवितं | तन्मध्ये मंडपं ध्यायेद् व्याप्तं ब्रह्माण्ड मण्डलं || तरुणादित्य संकाशं चतुरस्रं सुशोभनं | रत्नतेजः प्रभापुंजः पिंजरीकृत दिङ्मुखं || मध्येस्तंभ विनिर्मुक्तं कोणस्तंभ विराजितं | महामाणिक्य वैडूर्य रत्नकांचन निर्मितं || प्. १९३अ) मुक्तादामवितानाढ्यं रत्नसोपान मण्डितं | समं वायुसमाक्रांतं गंधधूपतरंगितं || जातीचंपक पुन्नागकेतकी मल्लिकादिभिः | गंधोत्पलसितांभोजमाधवी हिमवेदिभिः || रत्नकांचन वैडूर्य मुक्ता निर्मितपक्षकैः | रत्नचामरघंटादि विमानैरूपशोभितं || वद्ध्वाभिश्चित्र मालाभिः संसृताभिरलंकृतं | रत्नपुत्तलिका कोटिभूषितं परमाद्भुतं || नानारत्नादिभिर्दिव्यैश्चित्रितैं विश्वकर्मणा | तन्मध्ये वेदिकां ध्यायेत् विपुलां शतभोजनां || सहस्रादि संकाशामेक माणिक्यनिर्मितां | चतुर्द्वार समोपेतां मणिक्यद्वारतोरणां || प्रदीपैः पूर्णकुंभैश्च सर्वतः समलंकृतां | ध्यात्वैवं वेदिका मध्ये पीठः चंद्रकलामयं || चंद्रकांत शिलाकॢप्तश्चतुश्चरणशोभितं | नानामाणिक्य रत्नादि चित्र यत्र मनोहरं || जपारुण लसद्वस्त्र समाकीर्ण महामृदु | तल्पं महोपधानेन मंडितं पाटलावरं || एव्ऽम् श्रीचक्रसंस्थानं ध्यात्वा पूजां समारभेत् || पश्चिमादि तु मध्यांतं विलोमेन महेश्वरी | नवरत्नमयं द्वीपं नवखण्ड विराजितं || मातृकाद्यन तन्नाम्ना नमों तेन समर्चयेत् || अथोक्तरीत्या पीठमभ्यर्च्य कामकला पूर्विकां देवीं ध्यात्वा श्रीयंत्र विंदा वा चाहयेत् अन्यासा त्रिपुरविंदु त्रयं नास्त्यैव शास्त्रतः || विंदु त्रयोर्द्ध मात्राभिः केवलं विश्वमातृका | तत्तस्मात् कारणाद्देवी त्रिपुराशक्तिरुच्यते || विंदुत्रय समायोगां त्रिविंदौ त्रिपुरास्थिता || विंदुं संकल्पयेद्वक्त्रं तदधस्थां कुचद्वयं | तदधस्त्व परार्द्धं च चिंतयेत् तदधो मुखं || एवं कामकलारूपा साक्षादक्षररूपिणी | तत्रस्थे वैन्दवे पीठे तत्र नित्यकलांवुजे || तत्र कामेश्वरे पीठे निष्णां तत् सधर्मिणी | आज्ञालोक त्रयेशानीं ब्रह्मविक्लीश शासनी || अकारादि क्षकारांता वर्णावयव सुंदरी | मूलादि ब्रह्मरंध्रांतं विशतं तु स्वरूपिणीं || उद्यद्भास्वत् समाभासां जवा कुसुमसन्निभां | सद्यः सतप्त हेमाभां दाडिमी कुसुमोज्वलां || प्. १९३ब्) सुगंधोद्वामकुसुम पूर्वधम्मिल्लराजितां | तनुकेतकसंराजन्नीलं भ्रमरकुंतलां || भृंगरेखा स्फुरन्मुक्तो माणिक्य तिलकोज्वलां | स्फुरद्रत्नावलीरम्या मुकुटोज्वलकिंकिणीं || आरक्तक स्फुरच्चंद्रवदनां विद्रुमाधमां | राजच्चंद्रकला स्फूर्ति तिलकां च समुज्वलां || कर्णंयुं विस्फुरन्नीललोक्षिक्षेपसुंदरीं | हारमुक्तावली राजत्स्वर्णताटंकराजितां || कर्णभूषण तेजोभिः कपोलस्थलमंजिरां | मुखचंद्रोज्वलछुक्राकरमौक्तिकनासिकां || स्मितमाधूर्यविजित ब्रह्मविद्या रसप्रदां | राजद्विद्रुमवल्लीभ वाहुवल्ली विराजितां || रक्तोत्पलदलाकार सुकुमार करांबुजां | करांवुज नखज्योत्स्ना विराजित नभस्थलां || सुवृत्त निविडोत्तुङ्ग कुचभारालसां शिवां | नवमुक्ता महाहारपतनोन्नत वक्षसं || शातोदरी निम्नचाभिंक्षाभ मध्यम सुंदरीं | अनर्घ्य रत्नघटित मेखला लग्नकिंकिणीं || नितंवविंव सुभगां रोमराजि विराजितां | रक्तांशुक स्फुरत्तेजो व्याप्त त्रैलोक्यमण्डलीं || दिव्यकंचुकसंराजद्रत्न चित्रविचित्रितां | कदली ललितस्तंभ सुकुमारोरुजाजितां || नवरत्न स्फुरत्तेजो मंजीरव्याप्त देवतां | ब्रह्मविष्णुमहेशानि स्फुरन्मौलि पदांवुजां || कर्पूर सकलोन्मिश्र तांबूल पूगिताननां | प्रवालवल्लीघटितवांशंक्षौम गुणान्वितां || द्वितीया चंद्ररेखांकशृणीमाकर्षणक्षमं | सद्दीप्त्या भ्रामरी भूतगुणमिक्षु शरासनं || कमलाकारसंराजत्पंचवाणाश्च विभ्रतीं | महन्मृगमदोदाम कुंकुमारुण विग्रहां || सर्वाभरण शोभाढ्य सर्वालंकारराजितां | स्र्वदेवमयी देवीं सर्वाचारः स्वरूपिणीं || सर्वसौभाग्यजननीं सर्वसौभाग्यसुंदरीं | एवं ध्यायन् महादेवी कदम्ववन मध्यगां || अथवा पादादारभ्य शिरोंतं ध्यायेत् || उद्यत् सूर्य सहस्राभां वंधूक कुसुमप्रभां | जवाकुसुमसंकाशां पद्मराग समप्रभां || तडित्पुंजनिभां तप्तां कांचनाभां परेश्वरीं | रक्तोत्पलदलाकार पादपल्लवराजितां || प्. १९४अ) अनर्घ्य रत्नरचित मंजीर चरणद्वयां | पादांगुलीयकक्षिप्त रत्नतेजो विराजितां || कदली ललितस्तंभ सुकुमार उरुद्वयां | नितंव विंव विलसद्रक्तवस्त्र परिस्कृतां || मेखलावद्धमाणिक्य किंकिणी नादविभ्रमां | अरक्षमध्यमा निम्ननाभीच्छातोदरीं परीं || रामराजीलतो भूतमहाफल इवान्वितां | संवृत्त निविडोत्तुंग कुचमण्डल राजितां || अनर्घ्य मौक्तिक स्फारहाराभाराधरार्जितां | नवरत्नमयोदीप्तग्रैवेय वरभूषणां || श्रुतिभूषा मनोहारी कपोलस्थल मंजरी | उद्यदादित्यसंकाशाताटंक सुमुखप्रभां || पूर्णचंद्रमुख प्रक्षवदनांभोजलोहितां | स्फुरन्मदनकोदण्ड सुभ्रवां पद्मलोचनां || ललाटे पट्टसंराजसद्रत्न लतिकांकितां | मुक्तामाणिक्य घटित मुकुटस्थल किंकिणीं || स्फुरच्चंद्रकलाराजन्मुकुटां लोचनत्रयां | प्रवालवल्ली विलसद्वाहुवल्ली चतुष्टयं || इक्षुको दण्ड पुष्पेषु पाशांकुश चतुष्टयां | सर्वदेवमयीमम्वां सर्वसौभाग्यसुंदरीं || सर्वतीर्थमयीं देवीं सर्वदेवस्वरूपिणीं | सर्वशास्त्रमयीं नित्या सर्वामर नमस्कृतां || सर्वाम्नायमयीं देवीं सर्वाय तनसेवितां | सर्वानंदमयीं ज्ञानमातृकां सिद्धिदां परां || अथावाहनमंत्र त्रिखंडा मुद्रेवाह || महापद्मवनांतस्थे कारणानंद विग्रहे | सर्वभूतहिते मातरेह्येहि परमेश्वरी || पूर्वोक्त योनिमुद्राया पृथक् खण्डत्रयं कुरु | अंगुष्टाभ्यां कनिष्टाभ्यां मध्यमाभ्यां करेण तु || त्रिखण्डनाम मुद्रेयं त्रिपुराह्वानकर्मणि | वहन्नाडीपुटद्वारे नागतां चिंतयेत् ततः || कामेश्वर शिवस्यांके स्थापयेत् कुलसुंदरि | विद्यायाह्वानरूपिण्या मुद्रया च त्रिखंडया || संस्थितां चिंतयेत् तत्र श्रीपीठां तन्निवासिनीं | मुद्राः संदर्शयेद्देवी तर्पणैस्तु त्रिधा यजेत् || सांगं संकल्पयेद्देह देव्यास्तु परमेश्वरी | गंधपुष्पाक्षतादीनि देव्यैः सम्यक् निवेदयेत् || उपचारैः षोडशभिः संपूज्य परदेवतां | रर्पणानि पुनर्दद्यात् त्रिवारं मूलविद्यया || प्. १९४ब्) एतस्मिन् समये देवी तिथि नित्याः समर्चयेत् || कामेश्वर्यादिका नित्या विचित्रांता महेश्वरी | प्रतिपत्यौर्णमास्यांतं तिथिरूपाः प्रपूजयेत् || विभाव्य च महान्न्यासमग्रदक्षोत्तरं क्रमात् | रेखा सुविलिखेत् तत्र पंचपंच क्रमेण तु || अकारादिक्षकारांतं दक्षिणास्यां विचिंतयेत् | ततः स्वपूर्वरेखायां दीर्घकर्णा विपंचकं || विलिख्योत्तर रेखायां शक्त्यादि विलिखेत् ततः | अनुस्वारांत मात्रास्तु विसर्गा षोडशीं यजेत् || वामावर्तेन देवेशि नित्या षोडश कीर्तिताः | प्रतिपत्तिथिमारभ्य पौर्णमास्यं तमद्रिजे || एकैकां पूजयेन्नित्यां महासौभाग्यमाप्नुयात् | कृष्णपक्षे महेशानि पूजयेत् तिथिमंडले || विचित्राद्या वरारोहे यावत् कामेश्वरी भवेत् | पूजनीया विलोमेन क्रमेणापि महेश्वरी || कला षोडश देवेशि यावच्चंद्रकलाः क्रमात् | स सौभाग्यं महादेवी प्राप्नोति गुरुणा सनात् || कामेश्वर्यादिका नित्या पूजयित्वा ततः क्रमात् | तिथि नित्या त्रिधा देवी पूजयेद्भाग्य हेतवे || पुनः श्रीत्रिपुरानित्यां यजेत् सौभाग्य हेतवे || एतस्मिन् समये देवि गुरून् संपूजयेद्वुधः | पुष्पसंकोच योगेन कथयामितवानघे || रश्मि वृंद * * * * (?) गुरुणां च शताधिकं | ज्ञात्वा संकोचयेत् पुष्पं ममिहासिद्धिहानिदा || पुष्पसंकोचयेन्नाचेनष्टं द्वादश संततिं | संतत्या नष्टरूपा च न भवेद्देवता प्रिये || अत एव महापुष्पः सम्यक् संकुचितं प्रिये | कामराजाख्य विद्याया गुरुवस्तु समृद्धिता || मध्ये प्राक् त्र्यस्र मध्येपि गुरुपंक्तिं त्रिधा यजेत् | पराख्या न्यूजयेदादौ परापर विभक्तिकान् || ततः परान्देवदेवि गुरुत् संपूजयेत् प्रिये | दिव्यौघास्तु परा सिद्धिः सप्तसंख्या वरानने || आनन्दनाथ शब्दांता विज्ञेयो वीरवंदिते | परप्रकाशो देवेशि ततः परशिवोमतः || पराशक्तिस्तथा देवी कौलेश्वर इति प्रिये | शुक्ला देवी कुलेशान कामेश्वर्यादिकाः क्रमात् || प्. १९५अ) मुनिसंख्यास्तु गुरवः पराख्या दिव्यरूपिणः | भोगाः किं नस्तु समयोः वेदाख्या सहजास्तथा || परापराख्याः सिद्धौघं मानवौघं शृणु प्रिये | गगणो विश्वकमलौ मदनाभुवनस्तथा || लीलस्वात्ममये पश्चान्नाग संख्या तु मानवः | अपरा परमेशानि अक्षराणि यता इमे || एतत् त्रयं तु नियतं देशिकान्यं हिताय च | मयोद्धतं महेशानि पुष्प संकुचितं प्रिये || मानवौघांतिकं पश्चात् स्वगुरुत्रितयं यजेत् | परमेष्ठी गुरुः पश्चाद्गुरुः परमसंज्ञकं || स्वगुरुश्च महेशानि पूजयेच्च गुरुत्रयं | अथवा मानवौघांते एकं स्वगुरुमर्चयेत् || अयं प्रकारः कथितः प्रकारांतरमुच्यते || अंत्यं सर्वप्रकाराणां मानवौघास्तकं तथा | गुरवो नवसंख्याता एव संख्या भवंति हि || नवचक्रेश्वरी यस्मात् तावत् पुष्पं प्रकाशयेत् | मानवौघे तदा देवी दशसप्त भवंति हि || पश्चात् संकोचयेत् पुष्पं नवमं श्रीगुरुं यजेत् || आज्ञात्त गुरुशिष्याणां कथयामितवानघे | गुरुभ्यो नम उच्चार्य पादुकाभ्यां नमो लिखेत् || गुरुं तु परमांते च परमेष्ठ्यांतके तथा | एतेषां पादुकांस्तद्वदाचार्येभ्यो नमो भवेत् || गुरुपंक्ति प्रपूज्याथ स्वयं श्रीत्रिपुरा भवेत् | गुरुपंक्ति विहीनस्तु पुरुषः पंक्तिवर्जितः || पुष्पसंकोचमार्गेण मया सिद्धिः कृता प्रिये | कृपया परमेशानि साधकानां हिताय च || गुरुक्रमं प्रपूज्याथ यजेदाम्नाय देवता | त्रैलोक्यमोहने चक्रे सर्वाशा परिपूरके || सर्वसंक्षोभके चक्रे पूर्वाम्नायं प्रपूजयेत् | सर्वसौभग्यके चक्रे तथा सर्वार्थसाधके || सर्वरक्षाकरे चक्रे दक्षिणाम्नायमर्चयेत् | नवचक्रेषु देवेशि कुवेरोम्नायमर्चयेत् || वैंदवः परमेशानि मध्ये सिंहासनं यजेत् | अनेनैव प्रकारेण पूजयेच्च परांविकां || श्रीविद्या च तथा लक्ष्मीर्महालक्ष्मीस्तथैव च | त्रिशक्तित्वरिता चैव लक्ष्मीः पंचप्रकीर्तितां || प्. १९५ब्) श्रीविद्या च परं ज्योतिर्परानिह्वलशांभवी | अजपा मातृका चेति पंचकोषाः प्रकीर्तिताः || श्रीविद्यापारिजातेशी पंचवाणेश्वरी तथा | त्रिकूटा पंचवाणेशी पंचकल्पलताः स्मृताः || श्रीविद्या मूलपीठेशी सुधा श्रीरमृतेश्वरी | सिद्धि लक्ष्मीति विख्याता पंचकामदुघास्मृताः || श्रीविद्या अन्नपूर्णा च मातंगी भुवनेश्वरी | वाराहीं च महादेवी पंचरत्नाः प्रकीर्तिताः || श्रीविद्यापूजनस्थाने चक्रराजो महेश्वरी | महालक्ष्मीश्वरी वृंदमण्डितासनसंस्थिता || सर्वसौभाग्यजननी श्रीविद्या पूजयामि च | इत्युच्चार्य परं ज्योतिः कोणाश्च पूजयेत् सुधीः || अनेनैव प्रकारेण पूजयेत् पंचपश्चिकां || अथ क्रमेणासां मंत्रानाह || मूलविद्या महेशानि श्रीविद्याः परिकीर्तिता || वारुणांतं वह्निसंस्थं विंदुनाद समन्वितां | लक्ष्मी देव्यै पदं प्रोक्ता लक्ष्मी वीजमुदाहृतं || प्रणवं पूर्वमुच्चार्य ह्रीमात्मक समर्चयेत् | श्रीपुटं चानु कमलेकमलाय प्रसीद तु || लाय मध्ये गतां भूमिं रुद्रस्थाने नियोजयेत् | प्रसीद युगलं दद्याच्छ्रीवीजं भुवनेश्वरीं || श्रियो वीजां ततो दद्यान्महालक्ष्मी वहृन्मनः | सप्तविंशति वर्णान्ना महालक्ष्मी मनुर्मतः || श्रीवीजं च परावीजं कामवीजं समालिखेत् | इयं त्रिशक्तिर्देवेशि त्रिषु लोकेषु दुर्लभा || चंद्रेण सादरं लक्ष्मी देवी दीर्घाक्षि मण्डितां | विष्णुकूलेश्वरी विद्या प्रसंगात् कथिताप्रिये || त्रिवीजं च परावीजं सकामि त्रिपुटोदिता | पंचकामेश्वरी विद्यावाणाभ्यासे समीरिता || वाग्भवं वामनेत्रं च ध्रुवांतं विंदुसंयुतं | मूलपीठेश्वरी विद्या सुगुप्ता कथिता मया || परावीजं तु श्रीवीजं वलेमान्मकमक्षरं | राज्यदेराज्यलक्ष्मीति चंद्रः सर्गविभूषितः || विलोमनाद्यवीजानि सुधाः श्रीसम्प्रमाशिता | वाग्भवं भुवनेशानीं श्रीवीजं तदनंतरं || प्. १९६अ) विपत्तदादि खफरे नित्यवस्तु समालिखेत् | वियत्तदादिकांतं च फ्रोमित्येव मनुर्मतः || चवर्ग तृतीयतुर्यं मायारेफेन्दु संयुतं | महामखं समुद्धृत्य संकर्षणि पदं लिखेत् || कालि महादिरुक्त्वा च विपदिंदुः समन्वितां | मायावीजं च कथितं सिद्धिलक्ष्म्याः महामनुं || अन्नपूर्णा च देवेशि उत्तराम्नीय कीर्तिता | मातङ्गिन्यै द्विठांतं च वाङ्मायाः श्रीपुटां लिखेत् || इयमातङ्गिनीं विद्या द्वादशार्णा समीरिता | वियदग्नि समायुक्तं वामनेत्रेंदु भूषितां || भुवनेशी महेशान्तिदुर्लभा भुवनत्रयं || वाङ्मायां पूर्वमुद्धृत्य संवुद्ध्या भगवत्यपि | वार्तालि देशवाराहि युग्मवाराहि मुख्यति || अंधेअंधिनि नश्यंति रुंधेरुधिनि तत्परं | जंभेजंभिनि नह्यंतं मोहेमोहिनि न हृतं || स्तंभेस्तंभिनि हृद्युक्तं ममुकं स्तंभयेद्वयं | सर्वदुष्ट प्रदुष्टानां सर्वेषां सर्वमुद्धरेत् || जिह्वास्तंभं कुरुद्वंद्वं शीघ्रवश्यं कुरु द्वयं | वाग्लुण्ठ त्रयविंदुं च मंत्रं पावकवल्लभा || महाविद्या महाख्याता सर्वतंत्रेषुगोपिता || श्रीविद्यापूजने स्थाने चक्रराजे महेश्वरी | महाकामेश्वरी वृंदमण्डितासनं संस्थितां || सर्वसौभाग्यजननी पादुकां पूजयामि च | इत्युच्चार्य परं ज्योतिः कोषांतं पूजयेत् सुधीः || अनेनैव प्रकारेण पूजयेत् पंचपंचिकां || शैवं तु दर्शनं देवीवैंदवेषु प्रपूजयेत् | परितो दर्शनं शाक्तं चक्रस्य परमेश्वरी || शौरं तु दर्शनं देवि भूविंवे प्रथमे प्रिये | शिवस्य वामतो देवी वैष्णवं दर्शनं यजेत् || सृष्टिचक्रे भवेत् सूर्यदर्शनं कमलेक्षणे | स्थिति चक्रे च संपूज्यवौद्ध दर्शनमुत्तमं || एवं संपूज्य सकलं श्रीविद्यां परितो यजेत् | तर्पणानिषु नर्द्दद्यात् त्रिवारं तत्वमुद्रया || सर्वोपचारैराराध्य मुद्राः संदर्शयेत् क्रमात् || अथांगावरणं कुर्याच्छी विद्यामनु संभवं | अग्नीशासुरवायव्या मध्ये दिक्षाङ्ग पूजनं || मायालक्ष्मीमयं वीजं युग्मात् पूर्वक्रमेण तु | कथितं योजयेद्देवी त्रयं वा परमेश्वरी || संपुट क्रमयोगेन चाथ वा वीरवंदिते | संयोज्य पूजयेत् सर्वाः क्रमादेवं वरानने || त्रैलोक्यमोहने चक्रे प्रकटां योगिनीं यजेत् || सद्यः संतप्त हेमाभाः सिद्धयेदशसुंदरी | सद्यः संतप्त हेमाभाः पाशांकुशधरा प्रिये || प्. १९६ब्) महाभाण्डीररत्नानिसुः सुवर्णांकिता निधिं | प्रयच्छत्यः साधकेभ्यः पद्महस्तास्तु पूजयेत् || सिद्धिनीध्यानं || चित्रांवरा भयकरां चंद्रभासां त्रिलोचनां | अणिमादि महासिद्धि मनुणां चिंतयेच्छिवे || चतुरस्रे चतुर्द्वारे योगिन्यः सिद्धिदायिकां | अणिमां पश्चिमेद्वारे दक्षकोणे प्रपूजयेत् || लघिमामुत्तरेदेवि पश्चिमे पूजयेत् ततः | पूर्वद्वारे तु महिमामुत्तरे पूजयेच्छिवे || ईशित्वं सिद्धिं देवेशि दक्षिणद्वारि पूजयेत् | वशित्वं सिद्धिं वायव्ये तेनैव क्रमतो जयेत् || भुक्ति सिद्धिं तथाग्नेय तेनैव क्रमभावतः | इच्छासिद्धिं पूर्वभागे नैर्-ऋत्ये च प्रपूजयेत् || प्राप्तिः सिद्धिः सर्वकामा सिद्धिदा परमेश्वरी | अधोर्द्ध्व क्रमयोगेन ज्ञातव्या सुरवंदिते || ब्राह्मी माहेश्वरी चैव तथेंद्राणी तृतीयके | कौमारी वैष्णवी चैव षष्टी वाराहिका भवेत् || चामुण्डा च महालक्ष्मीरपरेण च भागतः || ब्रह्माण्याद्यास्तु तत्रैव यष्टव्याः क्रमशः प्रिये | ब्रह्माणी पीतवर्णा च चतुर्भिः शोभितामुखैः || वरदाभयहस्ता च पुस्तकाक्षर सत्करा | माहेशी श्वेतवर्णा च त्रिनेत्रा सूत्रधारिणी || कपालमालां परशुं दधानापाणिभिः प्रिये | कौमारी रक्तवर्णा च शक्तितोमरधारिणी || वरदाभयहस्ता च ध्यातव्या परमेश्वरी | वैष्णवी श्यामवर्णा च शंखचक्रगदाब्जकान् || हस्तपद्मैश्च विभ्राणा दिव्यभूषणभूषिता | वाराही श्यामलछाया कोलवक्त्र समुज्वला || हलं च मुशलं खड्गं फेतकं दधतीं करैः | ऐन्द्री तु श्यामवर्णा च रक्तोत्पललसत्करा || चामुण्डा कृष्णवर्णा च शूलं डमरुकं तथा | खड्गं वेतालकं चैव दधाना दक्षिणैर्भुजैः || महालक्ष्मी तु पीताभा पद्मदर्पणमेव च | मातुलुंग फलं चैव दधां परमेव च || पश्चिमादि क्रमेणैव प्रकटाश्चतुरस्रके || प्. १९७अ) क्षोभणा द्रावणाकर्ष वश्योन्माद महांकुशा | खेचरी वीरयोन्यश्च त्रिखंडा चक्रमाद् यजेत् || वामावर्तेण संपूज्य वायव्यादिषु पूर्ववत् | एतां संपूज्यदेवेशीं त्रिपुरां पूजयेत् परां || अणिमासिद्धिपुरतः सर्वकामार्थसाधकीं | सर्वसंक्षोभणीं मुद्रां दर्शयेत् कमलालये || सर्वासापूरकं चक्रं गुह्य योनिन्यधिस्थितां | षोडशारं ततो देवी पूजयेत् कार्यसिद्धये || काभाकर्षणिका देवी वुद्ध्याकर्षण रूपिणी | अहंकाराकर्षणी च शब्दाकर्षणरूपिणी || स्पर्शाकर्षण रूपा च रूपाकर्षणरूपिणी | रसाकर्षण रूपा च गंधाकर्षणरूपिणी || चिंताकर्षणरूपा च धैर्याकर्षणरूपिणी | स्मृत्वाकर्षणरूपा च नामाकर्षणरूपिणी || पश्चिमादि क्रमेणैव षोडशारे स्वरान्विता | एता नित्या कलादेवि चंद्रमण्डलमध्यगाः || स्वरलग्नाः स्मरेन्नित्यां स्मरे पीयूषवर्षिणी | पाशांकुश सुधापूर्ण काश्मीरघटदानदा || चक्रेश्वरीं यजेद्देवीं त्रिपुरेशीं समृद्धिदां | कामाकर्षणरूपायापुरतः पूरयेत् प्रिये || सर्वविद्राविणी मुद्रां दर्शयित्वा निवेदयेत् || सर्वसंक्षोभवे चक्रे यजेद्गुप्ततरां वुधेः | अनंग कुसुमां प्राच्यां क वर्गेण प्रपूजयेत् || दक्षिणे च चवर्गेण तथा चानंग मेखलां | अनंगमदनां पश्चात् टवर्गेण च पश्चिमे || तवर्गेणोत्तरे पश्चादनंगमदनातुरां | वह्निकोणेङ्ग रेखां च पवर्गेण प्रपूजयेत् || राक्षसेनङ्गवेगां च यवर्गेण प्रपूजयेत् | वायव्ये तु शवर्गेण तथानंगांकुशां यजेत् || ऐशान्यां लक्षवर्गेण संपूज्यानंगमालिनी | देविगुप्ततरा एता वंधूक कुसुमप्रभा || पाशांकुशनालनीलोत्पलकरां स्मरेत् || चक्रेश्वरी ततो देवी यजेत् त्रिपुरसुंदरीं | अनंगकुसुमाद्ये तु सर्वसाम्राज्यदायिनीं || सर्वाकर्षण मुद्रां च दर्शयेत् मुरवंदिते || चक्रपूज्यां प्रपूज्याथ चतुर्थं चक्रमर्चयेत् | महासौभाग्यदे चक्रे कटवर्णविराजिते || प्. १९७ब्) संप्रदायाख्ययोनिन्यः सर्वाभरणभूषिता | पाशांकुशौदर्पणं च पानपात्रं सुधामयं || वित्रंत्यः सर्वसुभगाः पश्चिमादि विलोहितः | सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा || सर्वाकर्षण शक्तिश्च सर्वाह्लदनकारिणी | सर्वसंमोहनी शक्तिः सर्वस्तंभनरूपिणी || सर्वजंभन शक्तिश्च सर्वतो वशकारिणी | सर्वरंजन शक्तिश्च सर्वात्मा वशकारिणी || सर्वार्थसाधकी शक्तिः सर्वसंपत्तिरूपिणी | सर्वमंत्रमयी शक्तिः सर्वदुःख क्षयंकरी || चक्रेश्वरीं सिद्धिदात्रीं परां त्रैपुरवासिनीं | योगिनीं पूजयेत् तत्र संप्रदायमिदां परां || वश्यमुद्रां प्रदर्श्याथ निवेद्य तदनंतरं | सर्वार्थसाधके चक्रेण भवर्णविशोभिते || जवाकुसुमसंकाश स्फुरन्मणि विभूषिताः | महासौभाग्य गंभीरापीन वृत्तघनस्तनी || रत्नपेटी विनिःक्षिप्त साधके सितमानसः | नानारत्नमयां दिव्या च दधतीर्हसिताननाः || पाशांकुशौ च दधतीः संस्मरेत् तत्र योगिनीः || पश्चिमादि विलोमेन पूजयेत् सर्वसिद्धिदा | सर्वसिद्धिप्रदा देवी सर्वसंपत्प्रदा तथा || सर्वप्रियकरी चैव सर्वमंगलकारिणी | सर्वकामप्रदा देवी सर्वदुःख विमोचनी || सर्वमृत्यु प्रशमनी सर्वविघ्न विनाशिनी | सर्वांगसुंदरी देवी सर्वसौभाग्यदायिनी || पश्चिमादि विलोमेन दशारे पूजयेदिमाः | सर्वसिद्धिप्रदा देवी पुरतः क्रमनायिकां || सर्वसिद्धिप्रदां देवीं पूजयेत् त्रिपुरां प्रिये | सर्वान्मादिनि मुद्रां च दर्शयित्वा निवेद्य च || सर्वरक्.आकरे चक्रे मक्षवर्ण विराजिते | पश्चिमादि विलोमेन निगर्भयोगिनीं यजेत् || उद्यद्भास्वत् सहस्राभा मुक्तालंकारभूषिताः | पाशटंकायुध ज्ञानमुक्तावरदसत्कराः || देव्यः प्रपूजयेदेता पथेप्सित फलप्रदा | सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा || सर्वज्ञानमयी देवी सर्वव्याधि विनाशिनी | सर्वाधार स्वरूपा च सर्वपापहरा तथा || प्. १९८अ) सर्वानंदमयी देवि सर्वरक्षा स्वरूपिणी | सर्वेप्सितप्रदा देव्यः गुह्या सर्वार्थसिद्धिदा || पश्चिमादि क्रमेणैव पूजयेत् पक्तियोनिके | सर्वज्ञापुरतो देवी चक्रेशीं मालिनीं यजेत् || महांकुशां महामुद्रां दर्शयित्वा निवेद्य च || मध्ये चक्रे महेशानि योगिनीं पूजयेत् प्रिये | सर्वरोगहरे चक्रे वसुकोणे सुरेश्वरी || सर्वरोगहरे चक्रे वर्गाष्टक विजृंभते | पश्चिमादि विलोमेन रहस्या योगिनीं यजेत् || श्रीकण्ठपरितोधस्ताद्दाडिमी कुसुमप्रभा | रक्तवस्त्रपरीधाना रक्तगंधानुलेपना || रक्तपुष्पाक्षतैः सम्यक् पूजयेत् सर्वसिद्धिदा | नानाभरण गंभीराः पंचवाण धनुर्द्धराः || पुस्तकं वरदानं च दधती वर्ग संस्थिता | वर्गाष्टक महावर्णा विंदुनादाङ्कितां लिखेत् || अवर्गांते फलं वक्ष्या वामकर्णेंदु विंदुमान् | देवी वा देवता पूज्यावेशिनीनाम सुंदरी || कवर्गांते कलयुतां परां कामेश्वरीं लिखेत् | च वर्गां तेन वक्ष्याढ्यं वामनेत्र शशीशमं || अनेनमादिनी पूज्या ठवर्गांते ततः परं | वायुक्ष्मा वामकर्णे तु विंदुमद्विकलां यजेत् || तवर्गांतेजकालक्ष्या वामाक्षींदु कलात्मकं | अरुणां पूजयेद्देवी पवर्गांतेथ कथ्यते || व्योमवीज महीनीर वायुचंद्रेश भूषितं | अनेन जयनी पुज्यायवर्गांतेथ लिख्यते || स रेफकार पवनप्रणवां केन पूजयेत् | सर्वेश्वरीं लवर्गांते क्षमवह्नीश विंदुमत् || अनेन कौलिनीं देवीं पूजयेदष्टमीं वुधः | अष्टकांते महेशानि एताः वाग्देवता यजेत् || पंचवाणान् समुच्चार्य कामकामेश्वरीमयान् | भंजनाख्या महेशानि पूजयेच्चाप देवताः || धर्मार्थकं कामवीणं द्वितीयं त्वथमात्मकं | कामेश्वर्या मोहनाख्यां पूजयेच्चापदेवतां || द्वितीयं भुवनेशानि पाशयुग्मं वशंकरं | कामेशस्य च कामस्यास्त्रैलोक्यकर्षणं प्रिये || अंकुशं च समुच्चार्य स्तंभनाय समुच्चरेत् | कामेश्वरस्य कामेस्याश्चांकुशं पूजयेत् क्रमात् || प्. १९८ब्) षडंगावरणाद्वाह्ये आयुधाष्टकमर्चयेत् | कोणत्रयेषु संपूज्यास्त्रिस्रः कूटात्रयान्विताः || पश्चिमादि क्रमेणैव चतुर्दिक्षु प्रपूजयेत् | कामेश्वरी रुद्रशक्तिमाद्यः कूटेन चार्चयेत् || द्वितीयेन च कूटेन रुद्राख्यां शक्तिवैष्णवीं | दक्षकोणे समभ्यर्च्य तृतीये नैव पूजयेत् || भगमालां ब्रह्मशक्तिमुत्तरे विश्वमातृकां | चक्रेश्वरीमं विकाख्यां कामेशीं पुरतो यजेत् || वीजमुद्रां प्रदर्श्याथ चक्रपूजां निवेदयेत् | कामेश्वरी शुक्लवर्णा शुक्लमाल्यानुलेपना || मुक्तास्फुरस्फुरभूषा नानाभरणभूषिता | पुस्तकं चाक्ष सूत्रं च वदनं चाभय क्रमात् || दधती चाग्रतः पूज्याः रुद्रशक्तिः प्रकीर्तिताः || वज्रेश्वरी कुंकुमा स्फुरद्रत्नविभूषिता | वालार्कवसना नीलकर्णचुंवितलोचना || इक्षुको दण्डपुष्पेषु वरदाभयशोभिता | वज्रेश्वरी दक्षभागे विष्णुशक्ति महेश्वरी || उत्तरे भगमालां वा सद्यः संतप्त हेमभा | अनर्घ्य रत्नखचिता भूषणा भुवनेश्वरी || पाशांकुश ज्ञानमुद्रा वरदा नदकलांवुजा | ब्रह्मशक्ति महेशानि तापत्रय निकृंतनी || सर्वानंदमये चक्रे राजवैंदव संज्ञके | ब्रह्मरूपं विष्णुरूपे सांभवं शृणुसुंदरि || परापर रहस्याख्यां योगिनीं त्रिपुरां यजेत् | कूटत्रयं समुच्चार्य सर्वविद्या स्वरूपकं || समस्त देवता रूपं वस्तुवस्तुमयं यजेत् | चक्रे समर्पितामेव महात्रिपुरसुंदरीं || संपूज्य पूजयेत् तत्र परापर रहस्यगां | उपचारैः समभ्यर्च्य गंधपुष्पाक्षतादिभिः || योगिनीं सिद्धिदां नित्यां भोगकामार्थसिद्धये | श्रीविद्या षोडशार्णं तु भुक्तिमुक्ति फलप्रदां || समस्तचक्र चक्रेशीं सर्वाम्नाय नमस्कृतां | सर्वाम्नायेश्वरी विद्यालंकृता ब्रह्मरूपिणीं || उपचारैः समभ्यर्च्य गंधपुष्पाक्षतादिभिः | तर्पणानि पुनर्दद्यात् त्रिवारं मूलविद्यया || योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् | त्रिपुरा स्फटिकाभासामुक्ता रत्नविभूषिता || प्. १९९अ) पुस्तकं चाक्षमालां च कलशं पद्ममुत्तमं | दधतीं चिंतयेन्नित्यं महापातकनाशिनीं || त्रिपुरेशीं सर्वरूपा सुंदरी कुंकुमप्रभा | सर्वालंकार संपन्नां पुस्तकं चाक्षमालिकां || वरदाभयौ च दधतीं सामर्थ्यं हसितानना | अनया सदृशी देवी ध्येया त्रिपुरवासिनी || आरक्तलोचनां प्रांते महामदविघूर्णितां | त्रिपुरा श्रीमहेशानि पीनवृत्तघनस्तनीं || उद्यद्भास्वत् सहस्राभां दिव्यालंकारमण्डितां | पुस्तकं जपमालां च वरदा चा भयंकरैः || दधती सकलानंदामालिनीं कथ्यतेधुना | इंद्रगोपप्रभादेवी पाशांकुश कपालिनी || महाभीतिहरा सम्यक् साधकानां क्षणादियं | सिद्धां वा परमेशानीं ध्यायेद् भयविनाशिनीं || संपत्प्रदा भैरवीवत् महासिद्धप्रदायिनीं | चक्रेण सिद्धिसहिता प्रति चक्राधि देवता || अतिगह्वरमेवेदं ज्ञात्वा चक्रं समर्चयेत् | पादुकां पूजयामीति नमस्कारोथ वा भवेत् || स्वाहा होमे तर्पणे तु तर्पयामीति सष्मरेत् || अथवा रश्मयः सर्वादेवीरूपेण चिंतयेत् | श्रीचक्रे परमेशानि स्वतंत्रे स्वस्वसन्निभा || गोपितव्यं त्वया भद्रे स्वयोनिरिव पार्वती | नैवेद्यं षड्रसोपेतं कामधेनुः पवित्रिकं || दत्वा कर्पूरसहितं तांबूलं परशक्तये | नित्य होमं प्रकुर्वंति पूर्वोक्त विधिना प्रिये || पूर्ववद् वलिदानं च दद्यात् सर्वसमृद्धये | वटुकाय महेशानि योगिनीभ्यश्च वल्लभो || गणेशः क्षेत्रपालाभ्यां पूर्ववद् वलिमुत्सृजेत् | वामभागे तु तस्याथ मण्डलस्यो परिक्षिपेत् || आधारं पूजयेत् तत्र वलिमन्नोदकान्वितं | सकारणं मंत्रयित्वा सर्वभूत वलिं हरेत् || षोडशार्णेन मनुना त्रिवारं वीरवंदिते | तारं च भुवनेशानि सर्वविघ्नपदं ततः || कृत्यः सर्व च भूतेभ्यो हूंकारं वह्निवल्लभां | समुच्चार्य वलिं दद्यान्मुद्रया तत्व संज्ञया || वलिपंचकमाख्यातं सदारक्षाकरं परं | यथाशक्ति जपं कुर्यात् स्तुतिं च परमेश्वरी || प्. १९९ब्) अथ मकरंद स्तोत्रं || श्रीवीजे नादविंदु द्वितयशशिकला कालरूपस्वरूपेमातर्मेदेहि वृद्धिं जहिजहि जडतांत्रा हिमांदीननाथे | अज्ञानध्वांतनाशक्षमविरुचिरसत्प्रोल्लसत्पादपद्मब्रह्मेशाद्यैः सुरेंद्रैः सुरगणविवुते शंभुकांते नमामि || लज्जावीजस्वरूपा त्रिजगति वरदे क्रीडया संस्थितायातां नित्यं शंभु शक्तिं त्रिभुवनजननीं पालयंतीं जगच्च | संसाराद्यां निदानां सकलगुणमयीं सच्चिदानंदरूपां तेजोरूपां त्रिनेत्रां त्रिभुवन तिमिराज्ञानहंत्रीं नमामि || क्लीं वीजे कामराज्यं धृत कुसुंमधनुर्वाण पाशांकुशाढ्यां वंदे भास्वत् स्वरूपे रविनिभवपुषो मोहयंतीं त्रिलोकान् | कीचीमंजीरहारांगदमुकुटलसत्स्वर्णमाणिक्यभूषैर्भास्वंतीमिंदु##- वाणीवीजस्वरूपे त्रिभुवन जडताध्वांत विध्वंसिनी त्वं त्वं शब्द ब्रह्मरूपा श्रुतिरपि च सदागीयमाना त्वमेव | मातर्भेदेहि वुद्धिं मम सदसि महाद्वंद्व संक्षोभकर्त्रीदात्री वाचस्पतेरप्यतिर्विविधपदं त्वत्पदांभोजमीडे || सौः शक्तिः कार्यजातौ घटपत विकृतौद्दृष्ट हेतौ सहायामाया केचिन्महत्वप्रभृति परिणतौ मूलभूता त्वमेव | किंचिद्वाक्य प्रपंच भ्रममति निवृत्तौ हेतु भूतासिविद्या | विद्याविभ्रांत वृंदक्षयगति जगतां मे निरे शुद्धभावं || ओं मातस्ते नमोस्तु श्रुतिमथित गुरुत्र्यक्षर ब्रह्मरूपे मिथ्याज्ञानांध कूपे पतितमनुदिनं पाहिमामक्षहीनं | मोहक्रोध प्रलोभ प्रथमगतिचयः शत्रुभिः पीड्यमानं पत्नीपुत्रादिभृत्यैर्नत विविधजनैः शृंखलाभिर्निवद्धं || ह्रींकाराख्यः स्वरूपे मम दह दुरितं व्याधि दारिद्र्य वीजं मातस्त्वत्पादपद्मे हृदयपरिसरे प्रार्थये भक्तिरूपां | त्वं वा नित्यं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्मविष्ण्वादिरूपा चिंतन्नित्यं शरण्ये कृतमिह जननीत्वत् कटाक्षैक वृंदैः || प्. २००अ) श्रीकारे श्रीस्वरूपे वितरमयि कृपां ध्यानयुक्सत्यरूपे स्वर्णं माणिक्य रत्नादिकधनमखिलं त्वत्पदार्चा सुयोग्यं | विद्यां त्वं देहि मोक्षं भवभव दहनैर्देवि दंदह्यमानं योगींद्रैः सेव्यमानैरमृतरुचिवयैर्मोक्षयत्वं च दीनं || कामोयोनिश्चतुर्थः स्वरदशपतितेर्भौवनेशिं च वीजं तावद्वर्णावलित्वं न तज न वरदेत्वत्पदे बक्तिमीडे | त्वत्पादांभोजयुग्मं हृदयसरसिजे सन्निधायैक चिंताध्यायंतः कर्मवंधां द्विगतकलिमलामुक्तवंतो मुनींद्राः || ब्रह्मेंदुः कामदेवो वियदमरगुरुर्भौवनेशाख्यवीजं तावद्वर्णः स्वरूपैर्घटित तनुलतांत्वं प्रपन्नोस्मिमातः | विष्णुर्ब्रह्मेक्षमूर्द्ध्नि मणिमुकुटरुचिः प्रोल्लसत्यादपद्मेयोगींद्रैर्धैर्यमानं प्रपदन खचयद्योतविद्योतमाने || इन्दुः कामः सुरेशौ विपदनलयुतं वामनेत्रार्द्ध चंद्रैर्युक्तं यद्वीजमेतत्तदपि तव वपुः सच्चिदानंदरूपं | वालात्वं भैरवीत्वं त्रिभुवन जननीतारिणी नीलवाणीत्वं गौरीत्वं च काली सकलगुणमयीत्वं महामोक्षदात्री || सौंकारे वीरराजे त्रिभुवनज्ञनिते शक्तिराद्या त्वमेवत्वं युक्तः शंभुरेषः प्रभवति चलितुं त्वां विनाजाड्यवान्सः | ब्रह्माविष्णुः कपर्दी जननी तव कृपालेश मात्राच्छशीरान् गृह्नंतः सृष्टिरक्षा प्रलयमविरतं चक्रिरेत्वत्पदस्था || ऐं वीजं वाग्भवाख्यं त्वमिह जडमति ध्वांत चंद्रप्रकाशं मातः कारुण्य धारामृतकलिं तदृशा रक्षमां नाथहीनं | मोह्यंते मोहितास्ते तव जननि महामाययावद्धचित्ता | कारुण्यं प्रार्थयंतस्तवपदयुगलज्ञानवंतो मुनीन्द्राः || क्लींकारं वीजरूपं तव सुदति मनुश्रेष्ठ मध्येप्रदेशे साक्षाद्ब्रह्मस्वरूपी मदनतनुरियं ब्रह्मणो मोहकर्त्री | आज्ञांतः स्मेरवक्त्राम्वुज कुहरलसत्साक्ष पीयूषधारावेदाः सांगादियंते तु हिनगिरिसुतेप्राप्त माहेन्द्ररूपे || ह्रींकारे कालरूपेत्वमिहशशिमुखीं ह्रीः स्वरूपात्वमेव | त्वं क्षांतिस्त्वं च कांतिर्हरिहर कमलो भूतरूपा त्वमेव || प्. २००ब्) त्वं सिद्धिस्त्वं च ऋद्धिः स्मररिपु महिषीत्वं च संमोहयंती विद्यात्वं मुक्तिहेतुर्भव जलधिगतां दुःखहंत्री त्वमेव | श्रीवीजे श्रीकलाढ्ये मधुरिपुमनसा मध्यमध्याद्यभेद्यामातस्त्वदृष्टिलेशादमरपतिरसौ प्राप्तवान्स्वः पतित्वं || इत्येवं षोडशार्णः प्रथितमनुवरः स्वर्गमोक्षैःक हेतुः | सिद्धेरष्टौ लभंतेय इव मनुवरं सर्वदा चेद् भजंते || पूजयित्वा विधानेन महात्रिपुरसुंदरीं | इदं स्तोत्रं पठित्वा तु देवी सायुज्य माप्नुयात् || इति श्रीरुद्रयामलेमहातंत्रे उमामहेश्वरसंवादे शिववक्त्रांवुजविनिर्गत श्रीमहात्रिपुरसुंदरी मकरंदाख्यस्तवः समाप्तः || अथ महात्रिपुरसुंदरी कवचमाह || श्रीदेव्युवाच || भगवन् देवदेवेश लोकानुग्रहकारकः | त्वत् प्रसादान् महादेव श्रुता मंत्रास्त्वनेकधा || साधनं विविधं देवकीलकोद्धारणं तथा | शापादिदूषणोद्धार श्रुतस्त्वत्तो मया प्रभो || राजराजेश्वरी देव्याः कवचं सूचितंमपि | श्रोतुमिच्छामि त्वत्तस्तत् कथयस्वमपि प्रभो || श्री ईश्वरोवाच || लक्षवार सहस्राणि वारितासि पुनः पुनः | स्त्रीस्वभावान् महादेवि पृच्छसित्वं मयि प्रिये || अत्यंतगुप्तकवचं सर्वकाम वरप्रदं | प्रीतये तव देवेशि कथयामि शृणुष्व तत् || अस्य श्रीषोडशीविद्या कवचस्य ऋषिस्मृतः | महादेवस्य प्रस्तारः पंछिश्छंद उदाहृतं || राजराजेश्वरी देवी देवता परिकीर्तिताः | सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः || पूर्वेमां भैरवीपातु वाला मां पातु दक्षिणे | नालिनी पश्चिमे पातु त्रासिनी तु उत्तरेव तु || ऊर्द्ध्वं पातु महादेवी महात्रिपुरसुंदरी | अधस्तात्पात्तु देवेशि पातालतलवासिनी || आधारे वाग्भवः पातु कामराजस्तथा हृदि | भ्रामरः पातु सां नित्यं मस्तके सर्वकामदः || ब्रह्मरंध्रे सर्वगात्रे छिद्रस्थाने च सर्वदा | महाविद्या भगवती पातु मां परमेश्वरी || प्. २०१अ) ऐं क्लीं ललाटे मां पातु पायात् || ह्रीं क्लीं व्लूं सश्वनेत्रयोः नासायां कर्णयोश्चैव द्रां द्रें द्रीं चिवुके तथा || सौंः पातु गले हृदये मम सः ह्रीं नाभिदेशके | कल ह्रीं क्लीं स्त्रीं गुह्यदेशे स ह्रीं पातु पादयोः || स ह्रीं मां पातु सर्वत्र स क्लीं पातु मे संधिषु | जलेस्थले तथाकाशे दिक्षु राजगृहे तथा || हूं खेमां त्वरिता पातु स ह्रीं स क्लीं नमो भवं | हंसश्च पायां महादेवि परं निष्कल देवताः || विजया मंगलादूती कल्याणी भगमालिनी | ज्ञाना च मालिनी विद्या सर्वदा पातु मां शिवा || इत्येवं कवचं देवि देवानामपि दुर्लभं | तव प्रीत्या मयाख्यातं गोपनीयं प्रयत्नतः || इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रिये | धन्यं यशस्य मायुष्यं भोगमोक्षप्रदं शुभं || दुःस्वप्ननाशनं पुंसां नरनारीवशंकरं | आकर्षणकरं देविस्तंभोच्चाटकरं शिवे || इदं कवचम ज्ञात्वा राजराजेश्वरीं शिवां | योऽर्चयेद्योगिनी वृंदैः स भक्षो नात्र संशयः || न तस्य मंत्रसिद्धिः स्यात् कदाचिदपि शांकरि | इहलोके च दारिद्र्यं रोगदुःखभयानि च || परत्र नरके गत्वा पशुयोनि मवाप्नुयात् | तस्मादेत सदाभ्यासादधिकारी भवेत् ततः || मद्वक्त्रनिर्गतमिदं कवचं सुपुण्यं पूजाविधेश्च पुरतो विधिना पठेद्यः | सौभाग्यभोग ललितानि शुभानि भुक्त्वा देव्याः पदं भजति तत्पुनरंतकाले || इति कुलांत संहितायां श्रीमहात्रिपुरसुंदरी षोडशीकवचं संपूर्णं || अथ त्रिपुरभैरवस्य मंत्रमाह || मायालक्ष्मीस्तथा हंसः प्रासाद वीज एव च | वह्निजायांतको मंत्रो भवेत् त्रिपुरभैरवः || षडंगं मूलमंत्रेण वलि पूजादिके तथा || अथ ध्यानं || एकवक्त्रं त्रिनयनं चतुर्वाहुः समन्वितं | दक्षिणेचांकुशं खड्गं वामखेटकपाशकौ || धारयंतं रक्तवर्णं वृषासनगतं विभुं | ऊर्द्ध्वकेशं हादुहारं कपालमालयान्वितं || प्. २०१ब्) एवं विधं सरादेविध्याय त्रिपुरभैरवं || इति श्रीतंत्रचिंतामणौ श्रीविद्यानित्यार्चननिर्णयनामाषड्विंशतितमः प्रकाशः || २६ || अथ त्रिपुरभैरव्याक्रमो लिख्यते || अथ पूजाविधिं वक्ष्ये सर्वतंत्रेषु गोपितं | देव्यास्त्रिपुरभैरव्या विशेष्ययन्निरूपितं || पीठं न्यासांतं विधायन्सव्यादिन्यासं कुर्यात् | ऋषिरस्य महेशानि दक्षिणामूर्तिरव्ययः || न्यसेच्छिरसि पूज्यत्वात् पंक्तिः छंदोमुखे प्रिये | देवता हृदये वालात्रिपुरा परमेश्वरी || वीजं वाग्भवमित्युक्तं शक्तिस्तार्तीय मूहयेत् | नाभेराचरणं न्यस्य गलादानाभि चापरं || मूर्धादि गलपर्यतं त्र्यक्षरं विन्यसेत् क्रमात् || अथ विद्यान्यासः || विद्यान्यासं ततः कुर्यात्रिभिर्वीजैः क्रमाच्छिवे | करयोर्विन्यसेदादौ मणिवंधे तलेग्रके || दक्षवामे च विन्यस्य कुक्षु कूर्परपाणिषु | पुनर्दक्षे तु वामे तु पादयोश्च तथा न्यसेत् || नादांते हृदयलिंगे न्यसेद्देवि ततः परं | एतेष्वंगेषु देवेशि संहारक्रमतो न्यसेत् || विद्यासृष्ठि क्रमेणैव जानीहि परमेश्वरि | नवयोन्यात्मकन्यास कुर्याद् वीजैस्त्रिभिस्ततः || श्रीविद्यायाः क्रमेणैव पूर्वमेव समीरितं || अथ रभ्यादिन्यासः || मूलेरतिं हृदि प्रीतिं भ्रुवोर्मध्य मनोभवां | वालावीजैस्त्रिभिर्न्यस्येत् स्थानेष्वेषु विलोमतः || अमृतेशिंचयोगेशीं विश्वयोनिं क्रमादिमाः | विलोमवीजैर्विन्यस्य मूर्तिन्यासमथाचरेत् || प्रविन्यसेत् पथा पूर्वं भृगुवामाग्नि संयुतं | सद्यादि पंचहस्वाद्यं वीजन्यासे प्रकीर्तितं || अथ वाणन्यासः || पंचवाणां क्रमेणैव करांगुलिषु विन्यसेत् | अंगुष्टादि कनिष्टांतं क्रमेण परमेश्वरि || ततस्तेषु च स्थानेषु न्यसेत् कामान्यथा क्रमं || अथ कराङ्गन्यासः || षड्दीर्घयुक्तेनाद्येनं वीजेनाङ्ग क्रिया मता | मूर्द्ध्नि पादे तथा वक्त्रे गुह्ये हृदय पंकजे || थान्त द्वयं समालिख्य वह्निसंस्थे क्रमेण हि | मुखवृत्तेन नेत्रेण वामेन परिमण्डितं || प्. २०२अ) वाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितं | चतुर्थस्वरविंद्वाद्यनादरूपं वरानने || कांतं शक्रसमारूढं वामकर्ण विभूषित | विन्दुनाद समायुक्तं सर्गवान् चंद्रमा प्रिये || पंचवाण महेशानि नामानि शृणु पार्वति | द्रावणो क्षोभनो देवि वश्याकर्षण संज्ञकौ || तथान्मादः क्रमेणैव नामानि परमेश्वरि | द्रामाद्यां द्राविणीं मूर्द्ध्नि द्रीमाद्यां क्षोभिनीं पदे || क्लीं वशीकरणीं वक्त्रे गुह्ये हूं वीजपूर्विकां | आकर्षणीह्यदि पुनः सर्गान्त भृगु संस्थितां || संमोहिनीं क्रमादेवं वाणन्यासोयमीरितः | परावीजं मध्यवाणं वाग्भवं परमेश्वरि || हूं वीजं क्रमात् प्रिये || पंचकामा इमे देविनामानि शृणु वल्लभे | काममन्मथ कन्दर्प्य मकरं ध्वजसंज्ञकाः || मीनकेतु महेशानि पंचमः परिकल्पिताः || अथ सुभगादिन्यासः || भालभ्रूमध्य वदने लंविका कंठहृत्सुन | नाभ्यधिष्टानयोः पंचताराद्या सुभगादिकाः || वाक्कामवीजं व्रूं स्त्रीं सस्ताराः पंचोदितास्त्वमी || अथ भूषणं न्यासः || न्यसेच्छिरसि भालभ्रुकर्णाक्षि युगवोनपि | गडयोराष्टर्यो दंतपंक्त्योरास्येन्यसेत्स्वरान् || चिवुके च गले कंठे पार्श्वयोस्तन युग्मके | दोर्मूलयोः कूर्परयोः पारोपास्तत्पृष्ट देशयोः || नाभौ गुह्ये पुनर्श्चोवोजन्वोर्वैजंघयोस्ततः | स्फिचोः मत्तलयोः पश्रात् चरणांगुष्ठ पृष्टयोः || कादिरां नान्यसेत्त्वर्णान् स्थलेष्वेषु समाहितः | कांच्याग्रैवेयके पश्चात् कटके हृदिगूह्यके || कर्णयोर्गंडयोमोलौलवशक्षलषान्हसौ | अष्टाविंमान् प्रविन्यस्येदेवं देशिक सप्तमः || अथ ध्यानं || ओं उद्यद्भानु सहस्रकांतिमरुणक्षौमां शिरामालिकां रक्तालिप्तपयोधरां जपवंटी विद्यामभीतिवरम् || हस्ताक्षैर्दधंती त्रिनेत्रविलसद्वक्त्रारविदश्रियं | देवीवह्न हिमांशु रत्नमकुटां वन्दे समं दक्षिणां || योन्याख्या हृदिविख्याता त्रैलोक्यरक्षणा भवेत् | त्रैलोक्यद्रावणंनाम मुखस्थापरमेश्वरी || भ्रूमध्यस्था महेशानि त्रैलोक्याकर्षणी भवेत् | ललाटस्था महेशानि त्रैलोक्यवशकारिणी || प्. २०२ब्) ब्रह्मरंध्रस्थिता सैव सर्वाह्लादकरीपरा | पंचमुद्रामयी देवी योनिमुद्रा प्रदर्शयेत् || अथ पात्रादि संस्थापनविधाय यंत्र विलिखेत् | ततोन्तर्यजनं कृत्वा वाह्यपूजां समाचरेत् || तत्र प्राङ्मुख आसीनो यंत्रोद्धारं प्रकल्पयेत् | ईशानादग्नि पर्यंतं ऋजुरेखां समालिखेत् || ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः | एकीकृत्य च वारुण्यां शक्तिरेखा परा शिवे || त्रिकोणाकाररूपं तु शक्तिद्वयमिदं शिवे | पूर्वशक्त्याग्र भावे तु मणियष्टिवदा लिखेत् || रेखां तु परमेशानि वायुराक्षस कोणगाम् | संधिभेद क्रमेणैव तयोः शक्त्योस्ततः परां || रेखे आकृष्य कोणाभ्यां उदग्रान् पूर्वगां कुरु | वह्निमंडल मे तत् स्यात् पूर्वाग्रं सुरवंदिते || नवद्योनि विशोभाढ्यं चक्रराजमिदं भवेत् | एतद् वाहे तु संलेख्यं वृत्तं पूर्णेन्दु संनिभं || तल्लग्नमष्टपत्रं तु रस्रं लिखेच्छिवे | चतुर्द्वार विशोभाढ्यं सर्वानन्दकरं सदा || विलिख्य पूजयेद् यंत्र हेमरूप्यादि पट्टके | भूमौ चंदनपीठेषु कुंकुमा गुरुचंदनैः || सिंदूररजसा वापि कस्तूरी पुसृणादिभिः | सुवर्णरत्न लेखन्या कल्पितं मृण्मये यथा || विलिख्य यंत्रं देवेशि पूजा द्रव्याणि साधयेत् || अथ आध्वार शक्त्यादि ह्रीं ज्ञानात्मने नमः || इत्यंतं संपूज्य पूर्वादि केशरेषु मध्ये च इच्छादि नवशक्तिं यजेत् || इच्छाज्ञाना क्रिया चेति कामिनी कामदायिनी | रतीप्रिया तथा नंता मदनोन्मादिनीति च || एता त्रिपुरभैरव्या पीठशक्तिः प्रकीर्तिता | वाग्भवं लौहितंरायै श्रीकंठलोहितोनलः || दीर्घराव ऐ परापश्चादयरायै ह्रौं पुन | सदाशिव महाप्रेतं ङेन्तं पद्मामनं नमः || अनेन मजुनादद्यादासनं श्रीगुरुक्रम | पूर्वमध्यम योनेश्चान्तराले पूजयेत् ततः || पंचभिः प्रणवैर्मूर्तिर्तस्यामावाह्य देवतां | ततो वाक्शक्ति कमला हसख फंससौ पुनः || अथ मूलमंत्रांते विन्दुमध्ये देव्यामूर्ति संकल्प || प्. २०३अ) त्रिखण्डा मुद्रया पूर्ववद्देवीं ध्यात्वा चा वाह्य यथा शक्तरीत्या सर्वौपचारैराराध्यावरणार्चनमाचरेत् || तथा च || अभीशासुर वायव्य मध्यादिष्वंग पूजनं | उत्तरस्यां द्वयें देवी दक्षिणस्यां द्वयं तथा || अग्रे चैव क्रमेणैकं पंचवाणान् ततो यजेत् | पंचकामांस्तथादेवि वाणद्यत् परिपूजयेत् || मध्ये योनि त्रिकोणेषु तेनैव क्रमयोगतं | वालावीज क्रमेणैव रतिः प्रीतिर्मनोभवा || ततोष्टयोनिषु पूर्वादि क्रमेण स्वमंत्र पूर्विका शुभगाद्यष्ट शक्तयः || स्वमंत्रांते महेशानि पूजनीयाष्ट योनिषु | शुभगा च भगा चेति तथा च भगसर्पिणी || भगमालिन्यनंगा च अनंगकुसुमा तथा | अनंगरेखा चानंगमदना परिकीर्तिताः || ततोष्टपत्रेषु पूर्वादि क्रमेण असितांगादिभिः सहब्राह्म्याद्यष्टमातरः || मातरो भैरर्वाकस्थामद विभ्रम विह्वलाः | अष्टपत्रेषु संपूज्या यथावत् कुसुमादिभिः || तद्वहिः चतुरस्रेषु इन्द्रादींस्तद्वहिः पुनः | तेषा मंत्राणि संपूज्य यथा शक्त्या जपं चरेत् || अथ भैरवि स्तोत्रं || रक्तत्पानया श्रीत्रिपुरेस्तोष्यंतीष्ट फलाप्तये | यया व्रतंतितां लक्ष्मीं मनुजाः सुरपूजितां || ब्रह्मादयस्तुति शतैरपि सूक्ष्मरूपां जानंति नैव जगदादिमनादिमूर्ति | तस्मात् द्वयं कुच नतांतर कुंकुमाभां स्तूलांस्तुभः सकलवाङ्मयमातृभूतां || सद्यः समुद्यत सहस्र दिवाकराभां विद्याक्षसूत्रवरदाभय चिह्नहस्तां | नेत्रोत्पलैस्त्रिभिरलंकृत चक्र पद्मांत्वांतारहाररुचिरात्रिंपुरेभजामि || सिंदूरपूररुचिरं कुचभार नमूं जन्मांतरे सुकृत पुण्यफलैकगम्य | अन्योन्यभेदकलहाकुलमानसास्ते जानंति किं जडधियस्तवरूपमम्व || स्थूलां वदंति मुनयः श्रुतयोगृणंति सूक्ष्मां वदंति वचसामधि वा समन्ये | त्वां मूलमाहुर परे जगतां भवानिमत्यामहेवयमपारकृपांवुराशिं || चंद्रावतं शकलतां शरविन्दु शुभ्रां पंचादशाक्षरमयीं हृदिभावयामि | त्वां पुस्तकं जपवटीममृताढ्य कुंभं व्याख्यां च हस्तकमलैर्दधती त्रिनेत्रां || प्. २०३ब्) शंभुस्त्वमद्रितनया कलितार्द्धं भागो विष्णुस्त्वमेव कमलापरिवद्धदेहः | पद्मोद्भवस्त्वमसि वागधिवास भूमिस्तेषां त्रिया च जगति त्रिपुरेत्वमेव || आश्रित्य वाग्भवभवांश्चतुरः परादीन् भारान् पदेष्व विहितान् समुदीरयन्ती | कंठादिभिश्च करणैः परदेवतां त्वां मम्विमयीं हृदि कदापि न विस्मरामि || आकुंच्य वायुमवजित्य च वैरिषट्कः मालोक्यनिश्चलधियानिजनासिकाग्रं | ध्यायंति मूर्द्ध्नि कलितेन्दु करावतंशंत्वद्रूममम्वकृतिनस्तरुणार्कमित्रं || त्वं प्राप्यमन्मथ रिपोर्वपुरर्द्धभागं सृष्टिं करोषि जगतामिति वेदवादः | सत्यं तदद्रितनयेजगदेकमातर्न्यचेदशेषजगतांस्थितिरेव न स्यात् || पूजांविधाय कुसुमैः सुरपादपानां पीठेतवाम्व कनकावलगह्वरेषु | गायंति सिद्धवनिताः सहकिन्नरीभिरास्वादिता समरणारुण नेत्रपद्माः || द्विद्युद्विलास वपुषःश्चियमुद्वहंतीः यांती सुवास भवनाच्छिव राजधानीं | शंभोश्च वक्त्र कमलानि विकाशयंती देवीं भजे हृदिपरामृतसिक्त गायत्रीं || आनंत्यजन्मभवसंभव संश्रुतीनां चैतन्य मात्र वपुर्यंत वचाश्रयामि | ब्रह्मेन्द्र विष्णुभिरुपासित पादपद्मां सौभाग्य जन्मवसतीं त्रिपुरे यथावत् || शब्दार्थभावित वनंसृजतींद्रुरूपायातद्विभर्ति पुनरर्क तनुः स्वशक्त्या | वह्न्यात्मिका हरति तत्सकलं युगान्तेतां शारदां मनसि जातु न विस्मरामि || नारायणीति नरकार्णवतारिणीति गौरीति खेदशमनीति सरस्वतीति | ज्ञानप्रदेति नयनत्रयभूषितेतित्वामद्रिराजतनयेति वुधावदंति || येस्तुवंति जगन्मातः श्लोकैर्द्वादशभिः क्रमात् || त्वामनुप्राप्ययुस्ते परांगतिं || इति भैरवीस्तवराजः समाप्तः || अथ त्रिपुरभैरवीकवचं || नमः त्रिपुरभैरव्यै || श्रीपार्वत्युवाच || देवदेव महादेव सर्वशास्त्र विशारद | कृपां कुरु जगंनाथ धर्मज्ञोसि महामते || सुंदरीया पुराप्रोक्ता विद्या त्रिपुरपूर्विका | तस्यां तु कवचं दिव्यं मह्यं कथय तत्वतः || प्. २०४अ) तस्यांस्तद्वचनं श्रुत्वा जगाद जगदीश्वरः | अद्भुतं कवचं देव्याः सुन्दर्यादि विरुइपिवै || श्री-ईश्वर उवाच || कथयामि महाविद्या कवचं सर्वदुर्लभं | शृणुष्वत्वं च विधिना श्रुत्वा गोप्यंत्व पापि तत् || यस्याः प्रसादात् सकलं विभर्मि भुवनत्रयं | न्यस्या सर्वं समुत्पन्नं यस्या मद्यापि तिष्टति || मातापिता जन्मान्या जगद्रक्षा स्वरूपिणी | सिद्धिदात्री च सिद्धास्याद सिद्धा दुष्टजंतुषु || * * * * * * * * (?) सर्वभूत स्वरूपिणी | ककारः पातुमां देवी कामिनी कामदायिनी || ऐंकारी पातुमां देवी मूलाधार स्वरूपिणी | ईकारी पातुमां देवी रविसर्वस्तु स्वःप्रदा || लकारी पातुमां देवी इन्द्राणी वरवल्लभा | ह्रींकारी पातुमां देवी सर्वत्र शंभुसुंदरी || एतैर्वर्णेर्महामायाणंभवीपातु मस्तकं | ककारे पातुमां देवी सर्वाणी हरगेहिनी || मकारे पातुमां देवि सर्वपाप प्रणाशिनीं | ककारे पातुमां देवी कामरूपधरा सदा || ककारे पातुमां देवी शम्वरारि प्रिया सदा | लकारी पातुमां देवी धराधरणि रूपधृक् || ह्रींकारी पातुमां देवी शंकरार्द्ध शरिरिणी | ऐतैर्वर्णैर्महामाया कामराज प्रियावतु || मकारी पातुमां देवी सावित्री सर्वदायिनी | ककारी पातु सर्वत्र कलास्वर स्वरूपिणी || लकारी पातुमां देवी लक्ष्मीः सर्वसुलक्षणा | ह्रींकारि पातु सर्वत्र देवी त्रिभुवनेश्वरी || एतैवर्णैर्महामाया पातु शक्तिस्वरूपिणी | वाग्भवं मस्तकं पातु वदनं कामराजिका || शक्ति स्वरूपिणी पातु हृदयं मंत्रसिद्धिदा | सुंदरी सर्वदा पातु सुन्दरी परिरक्षतु || रक्तवर्णा सदा पातु संदरी सर्वदायिनी | नानालंकार संयुक्ता सुंदरी पातु सर्वदा || सर्वांगसुंदरी पातु सर्वत्र शिवदायिनी | जगदाह्लाद जननी शंभूरूपां च मां सदा || सर्वमंत्रमयी पातु सर्वसौभाग्यदायिनी | सर्वलक्ष्मीमयी देवी परमानन्ददायिनी || पातुमां सर्वदा देवी नानाशंखनिधिः शिवा | ततः पद्मनिधिर्देवी सर्वाणी सर्वदायिनी || प्. २०४ब्) दक्षिणामूर्ति मां पातु ऋषिः सर्वत्र मस्तके | पंक्ति छंदः स्वरूपा तु सर्वसंक्षोभिणी सदा || सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी | क्षोभिणी सर्वदा पातु वशिनी मां सदावतु || आकर्षिणी सदा पातु संमोहिनी सदावतु | रतिर्देवी सदा पातु भगा मां सर्वदावतु || माहेश्वरी सदा पातु कौमारी सर्वदावतु | सर्वाह्लादनकारीयां पातु सर्ववशंकरी || क्षेमंकरी सदा पतू सर्वांगसुंदरी सदा | सर्वांग युवतिः पातु सर्वसौभाग्यदायिनी || वाग्देवी सर्वदा पातु * * * * (?) सदावतु | वशिनी सर्वदा पातु महासिद्धिप्रदा सदा || सर्वविद्राविणी पातु गणनाथः सदावतु | दुर्गादेवी सदा पातु वटुःका सर्वदावतु || क्षेत्रपालः सदा पातु पातु चाधारशक्तिका | अनन्तः सर्वदा पातु वराहः सर्वदावतु || पृथिवी * (?) सदा पातु स्वर्णसिंहासनं तथा | रक्तामृतं च सततं पातु मा सर्वकालतः || सुधार्णवः सदा पातु कल्पवृक्षः सदावतु | मदनोद्यान सततं पातु मां सर्वसिद्धये || दिक्पालाः सर्वदा पातुं इन्द्राद्याः सकलास्तथा | वाहनानि सदा पातु अस्त्राणि पातु सर्वदा || अस्त्राणि सर्वदा पातु योगिन्यः पातु सर्वदा | सिद्धाः पातु सदा देवी सर्वसिद्धिप्रदावतु || सर्वाङ्गसुंदरी देवी सर्वत्र सर्वदावतु | आनन्दरूपिणी देवि नित्स्वरूपा चिदात्मका || सर्वाङ्गसुंदरी पातु सुन्दरी भव सुंदरी | पृथग्देवालये घोरे संकटे दुर्गमे गिरौ || अरण्ये प्रांतरे वापि पातु मां सुंदरी शिवा | इदं कवचमित्युक्तं मंत्रोद्धारश्च पार्वति || यः पठेत् प्रयतो भूत्वा त्रिसंध्यं नियतः शुचिः | तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते || गोचना कुंकुमेन रक्तचंदन केन वा | स्वयंभू कुसुमैः शुक्लैर्भूमिपुत्रेशनैश्चरे || श्मशाने प्रांतरे वापि शून्यागारे शिवालये | सशक्त्या गुरुणा यंत्रं पूजयित्वा कुमारिकाः || तन्मनुं पूजयित्वा च गुरुपंक्तिं विशेषतः | पूजयित्वा यथा शक्त्यास्तुत्वा च विधिनामुनां || प्. २०५अ) धारयेद् गुरुणा यन्त्र पूजयित्वा कुमारिका | तथैव च || देव्यै वलिं निवेद्याथ नरनार्जार सूकरैः | न कुलैर्महिषैः पूजयित्वा विधानतः || धृत्वा सुवर्ण मध्यस्थं कंठे वा मस्तके भुजे | सुतिथौ शुभनक्षत्रे सुर्यस्योदयने तथा || धारयित्वा च कवचं सर्वसिद्धिं लभेन्नर | कवचस्य च माहात्म्यं नाहं वर्ष शतैरपि || शक्रोमि तु महेशानि वक्तुं तस्य फलं च यत् | नास्ति चौरभयं तस्य न तत्र व्याधिपीडनं || न दुर्भिक्ष भयं तत्र न चापि पीडनं सदा | विघ्न प्रशमने सर्वं सर्वव्याधि विनाशनं || सर्वरक्षाकरं तंतोश्चतुर्वर्ग फलप्रदं | यत्र तत्र न वक्तव्यं न दातव्यं कदाचनं || मंत्र प्राप्य विधानेन पूजयेत् सनतं सुधी | तत्रापि दुर्लभं मन्ये कवचं देवि रूपिणं || गुरोः प्रसादं मासाद्य विद्यां प्राप्य सुगोपितां | तत्रापि कवचं दिव्यं दुर्लभं भुवनत्रये || श्लोकं वास्तवमेनं वायः पठेत् प्रयतः शुचिः | तस्य सर्वार्थसिद्धिः स्याच्छंकरेण प्रभाषितं || गुरुः देवो हरः साक्षात् पत्नी तस्य च पार्वती | अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः || इति विश्वसारतंत्रे त्रिपुरभैरवीकवचं समाप्तः || अथ वटुकस्य || माया च वटुकं ङेन्तमापदुद्धारणाय च | कुरु द्वयं वटुकाय ह्रीं प्रकृतिवर्णकः || वृहदारण्यक मुनिञ्छन्दोनुष्टुप देवता | भैरवो ह्रीं वीजशक्तीभाः कीलकमुदाहृतं || अथ षडंगन्यासः || षदीर्घयुक्तया शक्त्या च कारेण च तद्वये | अन्यानि जाति युक्तानि प्रणवाद्यानि कल्पयेत् || एवन्यस्तत्तनुर्ध्यायेच्छुद्धस्फटिकसंनिभे | दीप्तशुभ्रां वराभीतं किंकिणी जालनूपुरे || युतं रत्नं मयैः स्मेरवदनं कुटिलालकं | दक्षशूलं परे दंडं दधती वटुरूपिणं || द्विभुजं संस्मरेदेवं कार्यार्थं सात्विकं द्विजैः | वैष्णवस्तु चतुर्वाहुं जटामुकुटधारिणं || त्रिशूलपाशदंडांश्च दधंतं च कमंडलुं | वामी वामे कपालं च दक्ष दंडं विचिंतयत् || समाप्तश्चायं त्रिपुरेभैरव्याः क्रमः || अथ महालक्ष्मी क्रमोलिख्यते || ततः पीठन्यासांतं कर्मविधाय ऋष्यादिन्या समाचरेत् || प्. २०५ब्) तद्यथा || ऋष्यादि ब्रह्मगायत्री महालक्ष्मीः प्रकीर्तिताः | संशोध्य मनुना पाणिं प्रणवाद्यं हृदंतकं || अंगुलीषु क्रमांन्मंत्री विन्यसेद्वीज पंचकं | म्ंत्रशेषं न्यसेन्मंत्री तलयोरुभयोरपि || मूर्द्धादि चरणं यावन्मंत्रेण व्यापकन्यसेत् | शेषं सप्तार्ण.कं मंत्री विन्यसेद्धृदि धातुषु || पंचवीजैः पंचमंत्री शेषैः षष्ठं तु कल्पयेत् | चतुर्थ्यं तैर्ज्ञान मुख्यैर्युक्तं चापि षडंगकं || ज्ञानैश्वर्यशक्ति वलेवीर्यं तेजश्च षट्क्रमात् | एवं न्यस्य मनुर्मंत्री चिंतयेदिष्टदेवतां || आदौ स्मरेत् समुद्यानं सर्वर्तु प्रतिशोभितं | मंजुलैर्भुर्जपत्रैश्चरसालैः श्रीद्रुमैरपि || तास्तैस्तमालैर्हिन्तालैः शालैश्च वकुलैरपि | कर्कंधु वंधुजीवैश्च चंपकैरूपशोभितं || मंदान्दोलित कर्पूरकदलीदलमण्डितं | अशोकशरलानागः कोविदार मनोरमं || मल्लिका युथिकाकुंद मदयंती सुगंधिका | द्राक्षावल्ली नागवल्ली माधवी देवदारुभिः || नमेरुभिलवंगैश्च वकुलैस्तिलकैस्तथा | शोभितं कर्णिकारैश्च चंदनै रक्तचंदनैः || वंजुलैर्मात्तुलिंगैश्च दाडिमीलकुचैः शुभं | नारिकेलैश्च खर्जूरैः पूगैः कुरवकैर्वृत्तं || मालती केतकी जाती पारंती तुलसी वृतं | संदावर्तैर्दमनकैः सर्वर्तु कुसुमोज्वलं || प्रमदैः पिजुमर्दैश्च मंदारैरुपशोभितं | शिरीषैः पणसैरुच्चैः शाखोटैः कुटजैर्घनैः || अवेग गमनः स्पृष्टं सुमनोगंधवंजुलं | महासनं तस्य मध्ये स्मरेन्मंत्री मनोरथं || भ्रम भ्रमरमालाभीरलंकृत चतुर्दिशं | केकीकेकारवाकीर्णं लक्ष्मणासा रसावृतं || वरव्य हंससंघातं चक्रकारंडकोज्ज्वलं | फुल्लैः सरसिजैरन्यैः कह्लारैः कैरवैरपि || नीलेंदीवरसंघैश्च सुगंधि कुसुमैर्वृत्तं | सर्वर्तु शोभिकल्पद्रुवनमण्डितमुज्वलं || प्. २०६अ) पूरितं तत्र तन्मध्ये रत्नमण्डप कुट्टिमं | समुद्यदर्क संदोह किरणद्युति भास्वरं || हिमरश्मि करव्रातसिक्तामृत सुशीतलं | प्रोल्लसद्गालित स्वर्णप्राकार सुमनोहरं || नवरत्नमय प्रोद्यत् कपालाघलिवृतं | नूतनोद्यन्महारत्नरचितोत्तुंग गोपुरं || तप्तगालित हेमौघ दंडध्वज समूहकं | वैडूर्यादि महारत्नरचितं स्तंभराजितं || संतप्त स्वर्णरचित गवाक्ष शतसंकुलं | हेमरत्न स्फुरद्द्वीप सहस्र सुमनोहरं || नानाविधक्षौमवस्त्र रचिताभिश्च कांचनैः | स क्षुद्र घंटिकायुक्तः पताकाभिरथावृतं || शरद्राका सुधारश्मिदुकूलरचितैः शुभैः | विचित्र वसनोद्भूतैर्युतं चंद्रातपैरपि || कांचनोर्वीमणि प्रातकुट्टिमालंकृतं शुभं | घनसारा गुरुनख कस्तूरी कुंकुमैरपि || तमालैर्द्रव्यजातैश्च सुगंधिभिरथेतरैः | आमोदित चतुर्द्वारं मण्डपं प्रविचिंतयेत् || तदंतः पारिजातस्य मूलसिंहासनं नवं | नानारत्नगणाकीर्णे ततो देवी विचिंतयेत् || वालभास्कर सत् कांतिं शशिशेखरमण्डितं | मुक्ताहारोज्वलां रम्यां रत्नाकल्प विभूषितां || हस्तांभोजैश्च विभ्राणां नूतनां शालिमंजरी | पद्मद्वयं कस्तुभं च सस्मितास्य सरोरुहां || विकचोत्पल संशोभि लोचन त्रय शोभितां | क्वणन्नूपुर संस्फुल्ल रक्तोत्पल पदद्वयां || नितंव विंव विलसद्रसनादाममंजुलां | वलित्रयलसद्देवी मध्ये देशे सुशोभितां || गंभीरावर्त कृन्नाभिह्रदमंडलमण्डितां | यक्षकर्दम संलिप्त पीनोन्नत घटस्तनीं || कुंभीकुंभोद्भवः प्राप्य मुक्तादाम विराजितां | क्षौमोत्तरासंगवतीं पुष्पदाम सुभूषितां || माणिक्य स्वर्णखचित वैडूर्याद्यंगदोज्वलां | कांचनोद्यत् पद्मराग मणिसंवद्धकंकणां || नानाविधलसद्रत्न मुद्रिका लंकृतांगुलिं | कंचुकण्ठ कलारावां स्वर्णग्रैवेद्यराजितं || विचित्र नानालंकारालंकृतांगी सुविस्मितां | उद्यदर्क प्रभाभास्वद्रत्नतातंकशोभितां || प्. २०६ब्) कर्णपूरी कृतः स्वर्णवद्धरत्नांकुरां शुभां | प्रवाल विलसत् कांतिरुचिराधरपल्लवां || सिस्वरप्रोल्लसद्रम्य दशनावलिशोभितां | निर्लांछन शरद्राका ताराधिप शुभाननां || पंचसायककोदंडविलास्यधिकचिल्लिकां | विभ्राणानासिकां प्रोद्यत्तिल पुष्पोत्वलोद्यतां || शीतांशु स कलाकार रुचिराजिकराजितां | घनसौगंध्यसंपन्न मृगनाभि विशेषतां || मनाक्कुंचित स स्निग्ध नीलमंजुल मूर्द्धजां | पारिजातद्रु कुसुम गंधवाहि सुमूर्द्धजां || तप्तहाटक संवद्ध नानारत्नौघ शेखरां | सौंदर्य भूमेरवधिं तेजसां जन्मभूमिकां || विलास लक्ष्मीभवनं महालक्ष्मीं विचिंतयेत् | वामाधः करमारभ्य ध्यायेद् दक्षकरावधि || आयुधानि महालक्ष्म्याः करांवुज गतानि च | धर्मादि कल्पिते पीठे भूपुर द्वारशोभिते || दलाष्टके केशराढ्ये कर्णिकायां यजेदिमां | विभूतिरुन्नतिः कांतिः सृष्टिः कीर्तिश्च सन्नतिः || व्युष्टिरुत् कृष्टि ऋद्धिश्च संप्रोक्ता नवशक्तयः | दद्याद्वीजेनासनं च स्वानुना मूर्तिकल्पनं || दक्षभागे यजेद्देव्यागण पंचान्यतस्तथा | सुमनोजालहस्तं च पुष्पाभरणमर्चयेत् || अंगानि पूजयेदादौ यथास्थानं च मंत्रवित् | अष्टपत्रेस्थिता पूज्या उमाश्री च सरस्वती || दुर्गाधरणि गायत्र्यौ देव्युषा चेति शक्तयः | नानालंकारणाढ्या स्मरं भोजद्वय पाणयः || अंघ्रिप्रक्षालनार्थं च प्रोद्यते जह्नु सूर्यजे | पूजनीय प्रयत्नेन कराभ्यां धृत चामरे || निधिपूज्यौ च वरुणं पश्चिमे छत्रधारिणीं | परितश्च यजेद्राशीन् ग्रहान्न च ततोर्चयेत् || चतुर्दंतां दिग्गजांश्च यजेदाशा सुमंत्रवित् | लोकपालांस्तदस्त्राणि तत् तद्वाह्ये यजेत् पुनः || अथ लक्ष्मी स्तोत्रं || अगस्तिरुवाच || प्. २०७अ) मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत् कमलवासिनि विश्वमातः | क्षीरोदजे कमलकोमल गर्भगौरी लक्ष्मी प्रसीद सततं नमतां शरण्ये || त्वं श्रीरूपेन्द्र सदने मदनैक मातर्ज्योत्स्नासि पूर्णतर चंद्र मनोहरास्य | सूर्यप्रभासि च जगत्त्रितये प्रभासि लक्ष्मीप्रसीद सततं नमतां शरण्ये || त्वं जातवेदसि सदा दहनात्म शक्तिर्वेधस्त्वया जगदितं सकलं विदध्यात् | विश्वंभरोपि विभृयादखिलं भवत्या लक्ष्मीः प्रसीद सततं नमतां शरण्ये || त्वद्भक्तमेतदमले हरते हरोपित्वं पाहि संसिविदधासि परापरासि | इंद्रोवभूव हरिरप्यमलेत्वदाप्त्या लक्ष्मी प्रसीद सततं नमतां शरण्ये || शूलः स एव स वुधः स गुणी स धन्योमान्यः स एव गुणरूप कलाकलापैः | एकः शुचिः स हि पुमां सकलेपि लोके यत्रापतत्तव शुभे करुणा कटाक्षः || यस्मिन् वसेक्षण महोपुरुषे गजेश्वेस्त्रैण्ये तृणे सरसि देवकुले गृहेब्जे | रत्नेपतत्त्रिणी पशौ शयने धरायां स श्रीकमेव कमले तदिहास्ति नान्यत् || त्वत्सृष्टमेव सकलं शुचितामुपैति त्वत् त्यक्तमेतदखिलं त्वशुचीहलक्ष्मी | त्वन्नामयत्र च सुमंगलमेव तत्र श्रीविष्णुपत्नि कमलेकमलालयेति || लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिन युग्मकरां च मां च | क्षीरोदजाममृतकुंभकरेद्विरां च विष्णुप्रियामिति सदा जपतां क्वदुःखं || इति स्तुत्या भगवतीं महालक्ष्मीं हरिप्रियां | प्रणनाम सपत्नीकः साष्टांगं दंडवन्मुनिः || श्रीरुवाच || उत्तिष्ठोत्तिष्ठ भद्रंते मित्रावरुण संभवं | पतिते त्वं मुनिश्रेष्ठ लोपामुद्रे शुभव्रते || स्तुत्या नया प्रसन्नाहं प्रियतां यदभीप्सितं || व्यास उवाच || इति श्रुत्वाथ स मुनिः प्रत्युवाचः श्रियं ततः | प्रणिपत्य महावाहो भक्तिगर्भमिदं वच || अगस्त्य उवाच || यदि देयो वरोमह्यं वरयोग्योस्म्यहं यदि | ये पठिष्यंति ते स्तोत्रं त्वद्भक्ता सत्कृतं सदा || प्. २०७ब्) तेषां कदाचित् संतापो मास्तु मास्तु दरिद्रता | मास्तुचेष्ट वियोगश्च विच्छेदोमास्तु संतते || सर्वत्र विजयश्चास्तु मास्तु संपत्ति संक्षयः || श्रीरुवाच || एवमस्तुमुने सर्वं यत्त्वया परिभाषितं | एतत् स्तोत्रस्य पठनं मम सान्निध्यकारकं || अलक्ष्मीः कालकर्णी च तद्गेहेन विशेत् क्वचित् | गजाश्च पशुशांत्यर्थेमेतत् स्तोत्रं सदा जपेत् || वालग्रहाभि भूतानां वालानां शांतिकृत्परं | भूर्जपत्रे लिखित्वा च वध्नीयात् कंठदेशतः || इदं वीजं रहस्यंते रक्षणीयं प्रयत्नतः | श्रद्धाहीने न दातव्यं न देयं चा शुचौ क्वचित् || इति लक्ष्मीस्तोत्रं संपूर्णं || अथ लक्ष्मीकवचं || अथ वक्ष्ये महेशानि कवचं सर्वकामदं | यस्य विज्ञान मात्रेण भवेत् साक्षात् सदाशिवः || अर्चनं पूजनं तस्या मंत्रजापं जपेन्नरः | स भवेत् पार्वतीपुत्रः सर्वशास्त्र पुरस्कृतः || विद्यावतार्थिना सेव्या विशेषे विष्णुवल्लभा || अस्य श्रीचतुरक्षरी विष्णुवनिता कवचस्य भगवान् श्रीशिव ऋषिरनुष्टुप्छंदः वाग्भवीदेवता वाग्भवं वीजं लज्जाशक्तिः रमाकीलकं कामवीजात्मकं कवचं मम स्वकवित्व पाण्डित्य सर्वसिद्धि समृद्धये विनियोगः || ऐंकारो मस्तके पातु वाग्भवी सर्वसिद्धिदा | ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शांकरी || जिह्वायां मुखवृत्ते च कर्णयोर्दंतयोरभि | ओष्ठाधरे दंतपंक्तौ तालुमूले हलौ पुनः || पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी | कर्णयुग्मे भुजद्वंद्वेस्तनद्वंद्वे च पार्वती || हृदये मणिवंधे च ग्रीवायां पार्श्वयोः पुनः | पृष्ठदेशे तथा गुह्ये वामे च दक्षिणे तथा || उपस्थे च नितंवे च नाभौ जंघद्वये पुनः | जानुचक्रे पदद्वंद्वे गुटिकेङ्गुलिमूलके || स्वधातु प्राणधाक्त्यां मे सीमत्यां मस्तके पुनः | सर्वांगे पातु कामेशी महादेवी समुन्नति || पुष्टिः पातु महामाया उत्कृष्टिः सर्वदावतु | च ऋड्धि पातु मे देवी सर्वत्र शंभुवल्लभा || प्. २०८अ) वाग्भवी सर्वदा पातु पातु मं हरगेहिनी | रमा पातु सदा देवी पातु मायास्वरात् क्षयं || सर्वांगे पातु मां लक्ष्मीर्विष्णु माया सुरेश्वरी | विजया पातु भवने जया पातु सदा मम || शिवदूती सदा पातु सुंदरी पातु सर्वदा | भैरवी पातु सर्वत्र भारुण्डा सर्वदावतु || त्वरिता पातु मां नित्य मुग्रतरा सदावतु | पातु मां कालिका नित्यं कालरात्रिः सदावतु || वनदुर्गा सदा पातु कामाख्या सर्वदावतु | योगिन्यः सर्वदा पातु मुद्रा पातु सदा मम || पात्रा पातु सदा देव्याश्चक्रस्था योगिणीगणाः | सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा || पातु मां देवदेवेशी लक्ष्मी सर्वसमृद्धिदा | इति ते कवचं दिव्यं कथितं सर्वसिद्धये || यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितं | शठाय भक्तिहीनाय निंदकाय महेश्वरी || न्यूनांगे नातिरिक्तेन दर्शयेन्न कदाचन | न स्तवं दर्शयेद् दिव्यं संदर्श्य शिवहा भवेत् || कुलीनाय महेशाय दुर्गा भक्तिपराय च | वैष्णवाय विशुद्धाय दद्यात् कवचमुत्तमं || निजशिष्याय शांताय धर्मिणे ज्ञानिने तथा | शनौ मंगलवारे च रक्तचंदनकैस्तथा || यावकैश्च लिखेन्मंत्रं सर्वमंत्र समन्वितं | विलिखेत् कवचं दिव्यं स्वयंभु कुसुमैः शुभैः || स्वशुक्रैः परशुक्रैश्च नानागंध समन्वितैः | गोरोचना कुंकुमेन रक्तचंदन केन वा || सु तिथौ शुभयोगे वा श्रवणायां रवेर्दिने | अश्विन्यां कृतिकायां वा फाल्गुण्यां च मघासु च || पूर्वभाद्रपदा योगे स्वात्यां मंगलवासरे | विलिखेत् प्रपठेत् स्तोत्रं शुभयोगे सुरालये || आयुश्मान् प्रीतियोगे च ब्रह्मयोगे विशेषतः | इंद्रयोगे शुभे योगे शुक्लयोगे तथैव च || कौलवे वालवे चैव वणिजे चैव सत्तमे | शून्यागारे श्मशाने वा विजने च विशेषतः || कुमारि पूजयित्वा च यजेद्देवी सनातनीं | मत्स्यैर्मांसैः शाकसूर्पैः पूजयेत् परदेवतां || प्. २०८ब्) घृताद्यैश्चोपकरणैर्धूपदीपैर्विशेषतः | ब्राह्मणान् भोजयित्वा च पूजयेत् परमेश्वरीं || आषेटकमुपाख्यानं तत्र कुर्याद्दिन त्रयं | तदा भवेन् माहारक्षा शंकरेण च भाषितं || मारणद्वेषणादीनिलंभंते नात्र संशयः | स भवेत् पार्वती पुत्रः सर्वशास्त्र वहिः कृतः || गुरुदेवे हरः साक्षात् पत्नी तस्य हरप्रिया | अभेदेन यजेद्यस्तु तस्य सिद्धिर्नदूरतः || पठति य इहमर्त्यो नित्यमाद्रातरात्मा जपफल मनुमेनं लप्सते सौ विधायं | स भवति पदमुच्चैः संपदां पाद नम्रः क्षितिपमुकुट लक्ष्मी लक्षणानां विरायः || इति श्रीविश्वसारतंत्रे लक्ष्मीकवचं संपूर्णं || अथातः संप्रवक्ष्यामि नारायण महामनुं | नमो नारायणायेति ताराद्योष्ठाक्षरो मतुः || छंदश्च देवीगायत्री साध्य नारायणो मुनिः | देवता परमात्मास्य पंचागविधिरुच्यते || कुजोल्कश्च महोल्कश्च अवीचोल्कोद्युल्क एव च | सहस्रोल्कश्चतुर्थ्यंतः स्वाहांताहेति संयुतैः || पंचांगमंत्राः संप्रोक्ता अंगुष्ठादावपि न्यसेत् | किरीटहारकेयूरमकराकृति कुण्डलं || शंखचक्रगदापद्महस्तं पीतांवरा कृतिः | श्रीवत्सालंकृतं वक्षः स्थल श्रीभूमि संयुतं || आत्मज्योतिः संप्रदीप्तः सहस्रादित्य तेजसं || समाप्तश्चायं महालक्ष्मीं क्रमः || अथ मातंगी क्रमो लिख्यते || अथ वक्ष्ये महादेवी मातंगीं सर्वसिद्धिदां | अस्याः सेवनमात्रेण वाक्सिद्धिं लभते ध्रुवं || ऋषिः स्याद्दक्षिणामूर्ति विराट् छन्द उदीरितः | मातङ्गी देवता देवी सर्वसिद्धिः प्रदायिनी || अङ्गन्यास करन्यासौ कुर्यान्मंत्री समाहितः | षड्दीर्घमाजा वीजेन प्रणवाद्येन कल्पयेत् || प्. २०९अ) षट्कोणाष्टदलं पद्मं लिखेद्यंत्रं मनोरमं | एतस्मिन् पूजेत् पीठे नवशक्तिः क्रमादिमाः || विभूतिरुन्नतिः कांतिः सृष्टिः कीर्तिश्च सन्नतिः | व्युष्टिरुत्कृष्टि ऋद्धिश्च मातंगी पदपश्चिमाः || सर्वांते शक्ति कमलासनाय नम इत्यथ | वाक्शक्ति लक्ष्मी वीजाढ्यो मनुरासन संज्ञकः || तत्र पूजा प्रकर्तव्या जवापुष्पेण मंत्रवित् | अष्टशक्तिश्चाष्टदले प्रजपेत् सु समाहितः || रतिः प्रीतिर्मनोभवा क्रिया श्रद्धा च शक्तयः | अनंगकुसुमानंग मदनामदनालसा || इत्यष्ट शक्तीः संपूज्य उपहारः समन्वितः | ततो देवीं परां ध्यायेत् साधकः स्थिरमानसः || श्यामांगीं शशिशेखरां त्रिनयनां सद्रत्नसिंहासने संस्थां रत्न विचित्रभूषणयुतां संक्षीणमध्यस्थलीं | आपीनस्तन मण्डलां स्मितमुखीं ध्यायेद् दधतीं क्रमाद्वेदैर्वाहुभिरंकुशासि लतिके पाशं तथा खेटकं || एवं ध्यात्वा महादेवी गंधपुष्पैर्मनोहरैः | नैवेद्यं तु महादेव्यै पायसं शर्करान्वितं || अथ मातंगी स्तोत्रं || आराध्य मातश्चरणां व्रजंते ब्रह्मादयो विश्रुत कीर्तिमायुः | अन्ये परं वाग्विभवं मुनींद्राः परां श्रियं भक्तिभरेण चान्ये || नमामि देवीं नवचंद्रमौलीं मातंगिनीं चंद्रकलावतंसां | आम्नायवाग्भिः प्रतिपादितार्थं प्रवोधयंतीं शुकमादरेण || विनम्र देवासुरमौलिरत्वैनीराजितं ते चरणारविंदं | भाजंति ये देवि महीपतीनां भजंति ते संप्रतिमादरेण || मातग लेएलागमने भवत्यासिंजानमंजीरमिषाद्भजंते | मातस्त्वदीयं चरणारविंदं अकृत्रिमाणां वचसां निगुंफं || पतात्पदंसिंजतनूपुराभ्यां कृतार्थयंती पदवीं पदाभ्यां | आस्फालयंतीं करवल्लकींतां मातंगिणीमद्धृदयंधुनोतु || नीलांदुकावद्ध नितंवविंवांताली दलेनार्पित कणभूषां | माध्वीमदाघूर्णित नेत्र पद्मांघनस्तनीं शंभुवधुं नमामि || तडिल्लताकांतम लक्ष्यभूषंचिरेण लक्ष्यं नवरोमराज्या | स्मरामि भक्त्या जगतामधीशे वलित्रयांकं तव मध्यविंवं || प्. २०९ब्) नीलोत्पलानां श्रियमावहंतीं कांत्या कटाक्षैः कमलाकराणां | कदम्वमालांचितकेशपाशांमतंग कन्यां हृदिभावयामः || ध्यायेयमारक्त कपोलकांतं विंवाधरन्यस्तलनोमरन्यां | आलोललांलायतमायताक्षंमर्द्धस्मितं ते वदनं महेशि || स्तुल्या तया शंकर धर्मपत्नीं मातंगिनीं वागधि देवतांतां | स्तुवंति ये भक्तियुता मनुष्याः परां श्रियं नित्यमुपाश्रयंति || इति मातंगीस्तोत्रं संपूर्णं || अथास्याः कवचं || श्रीभैरव उवाच || शृणु देवि प्रवक्ष्यामि मातंगी कवचं शुभं | विना ध्यानं विना मंत्र विना होमं विना वलिं || येन स्मरण मात्रेण साधको धरणीपतिः || श्रीभैरव उवाच || मातंगी कवचं दिव्यं सर्वरक्षाकरं नृणां | कवित्वं च धनित्वं च गजवाजि सुखानि च || सुखदं शुभदं सत्यमणिमादि प्रदायकं | ब्रह्मविष्णु महेशानां तेषामाद्या महेश्वरी || श्लोकार्द्धं श्लोकमेकं वा यस्तु सम्यक् पठेन्नरः | तस्य हस्ते सदैवास्ति राजलक्ष्मी न संशयः || उच्छिष्ट वदनो भूत्वा कमलासन संस्थितः | योनिमुद्रां करे वध्वा शक्ति ध्यानपरायणः || ब्रह्मरंध्रं समानीय उच्छिष्ट नाम संस्थितां | ललाटं लक्षयेन्नित्यं महाचाण्डालिनीति च || नेत्राभ्यां सुष्णुमुखी रक्षेद्देवी रक्षतु नासिकां | महापिशाचिनी चास्मान् मुखे रक्ष तु सर्वदा || लज्जा रक्षतु मां दंते चोष्टः सन्मार्जने करां | चिवुके कंठदेशे च ठकार त्रितयं ततः || स विसर्ग महादेवी हृदयं पातु सर्वदा | नाभौ रक्ष तु मां नित्यं कालिका रक्तलोचना || उदरे पातु चामुण्डा लिंगे कात्यायनी तथा | उग्र चण्डा गुदे पातु पादौ रक्ष तु चांविका || भुजौ रक्ष तु शर्वाणी हृदयं चंडभीषणा | जिह्वायां मातृका रक्षेत् पूर्वं रक्ष तु पुष्टिका || उत्तरे कृत्तिका रक्षेद् विद्या रक्ष तु पश्चिमे | विजया दक्षिणे रक्षेन्मेधा रक्ष तु चाग्नेये || नैर्-ऋत्यां प्रज्ञया रक्षेद् वायव्यां पातु लक्षणा | ईशान्यां रक्षयेद्देवी मातंगी शुभकारिणी || प्. २१०अ) ऊर्द्ध्वं पातु महादेवी देवानां हितकारिणी | पाताले पातु मां नित्यं वासुकी विश्वरूपिणी || कंठदेश स्वरा पातु आज्ञाचक्रे तु भक्षकैः | ककारादि ठकारांतं द्वादंते हृअद्ये प्रियां || मणिपूरडादिफांतं दशवर्ण स्वरूपिणी | षट्पत्रे षडवर्णाभ्यां वादिलांता सदावतु || वादिसांते सदा देवी चतुष्पत्रेषु रक्ष तु || ओं क्रां श्रीं प्रीं छ्रीं छ्रीं ठः ह्रीं ठः स्वाहा | इमं मंत्रं समुच्चार्य धारयेद्वामके भुजे || कंठे वा धारयेद्यस्तु स च देवो महेश्वरः | तंदृष्टा देवताः सर्वे प्रणमंति स दूरतः || तस्य तेजः प्रभावेन गंतुं चैव न शक्यते | इंद्रादीनां भजेत् सत्वभूपतिः सेवकोपमः || इच्छा सिद्धिर्भवेत् तस्य अणिमादिस्तथैव च | कीर्ति च कवितां लक्ष्मीमारणादीनि यानि च || संसदा भजते राज्ञां कदाचिद्भक्ति पूजनात् | अज्ञात्वा कवचं देवि सुमुखी योजयेन्नरः || तस्य नश्यंति देवेशि योगिण्यो भक्षयंतितं | इहलोके दुःखभागीपरं मूको भविष्यति || जन्मकोटि सदामूको मंत्रसिद्धिं न विंदति | गुरुपादं नमस्कृत्य यदा मंत्रं लभेत् सुधी || तदा तु कवचं देवि स कला गुरुसेवया | इहलोके नृपो भूत्वा परेमुक्तिमवापुन्यात् || नवोध्योत् परशिष्याय दुर्जनाय सुरेश्वरी | निंदकाय कुशीलाय शक्तिहिंसा पराय च || यो ददाति स पापिष्ठो मातंगी कवचं शुभं | पिवं तु रुधिरं तस्य योगिन्यो भक्षयंतितं || तस्माद् रहस्य परमं सर्वसिद्धि लभंतिते | गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतरमतं || न प्रकाश्यमिदं भद्रे प्राणैः कंथ गतैरपि | पूजा कोटिसमं स्तोत्रं स्तोत्रकोटि समो जपह् || जपकोटि समं ध्यानं ध्यानकोटि समं लयः | लयकोटि इमां विद्या न प्रकाश्या कदाचन || इति श्रीगुह्यकालीतंत्रे मातंगी कवचं संपूर्णं || अथ सदाशिवस्य || तारमायाधरा वीजपूर्वः पंचाक्षरो मनुः | अष्टवर्णो भवेदस्य वामदेवी मुनिर्मतः || प्. २१०ब्) देवः सदाशिवः प्रोक्तः पंक्तिश्छंद उदाहृतं | माया प्रासाद वीजाभ्यां भेदिताभ्यां च षट्स्वरैः || षड्भिस्तथा मंत्रवर्णैः षडंगानि सजातिभिः | ध्यायेत् ततश्चे सिंदूरारुणं स्मेरं त्रिलोचनं || टंकं मृगं तथा देवीमालिंगतं वरप्रदं | हस्तैश्चतुर्भिरारक्त पद्मं च दधतीं करैः || पीनवृत्त घनोत्तुंगस्तनां वामांक संस्थितां | रक्तपद्मसमासीनं रक्तस्रग्गंधलेपनं || समाप्तश्चायं मातंगी क्रमः || अथ भुवनेश्वरी क्रमो लिख्यते || तत्र पीठन्यासांतं कर्मविधाय ऋष्यादिन्यासं कुर्यात् || ऋषिः शक्तिर्भवेच्छंदो गायत्री देवता मनोः | कथिता सुरस्ऽम्घेन सेविता भुवनेश्वरि || षट्दीर्घयुक्तवीजेन कुर्यादंगानि षट्क्रमात् | संहार सृष्टिमार्गेण मातृकान्यस्त विग्रहः || मंत्रन्यासं ततः कुर्यात् देवताभावसिद्धये | हृल्लेखां मूर्द्ध्नि वदने गगनां हृदयांवुजे || रक्तां करालिकां गुह्ये महोच्छूष्मां पदद्वये | ऊर्द्ध्व प्राग्दक्षिणोदीच्य पश्चिमेषु मुखेषु च || सद्यादि ह्रस्व वीजाढ्यान्यस्तव्या भूत स प्रभा | अंगानि विन्यसेत् पश्चाज्जाति युक्तानि षट्क्रमात् || ब्रह्माणं विन्यसेद्भाले गायत्र्या सहसंयुतं | सावित्र्या संयुतं विष्णुं कपाले दक्षिणे न्यसेत् || वागीश्वर्या समायुक्तं वामगंडे महेश्वरं | श्रिया धनपतिन्यस्येद् वामकर्णाग्रके पुनः || रत्यास्मरं मुखेन्यस्य पुष्ट्या गणपतिं न्यसेत् | सद्यः कर्णोपरिनिधिः कर्णगण्डांतरांलयोः || न्यस्तव्यौ वदने मूलं भूयश्चेतांतनौ न्यसेत् | कंथमूले स्तनद्वंद्वे वामांशे हृदयांबुजे || सव्यांशे पार्श्वयुगले नाभिदेशे च देशिकः | भालांश पार्श्वजठरपार्श्वांशा परके हृदि || ब्रह्माण्याद्यास्ततोन्यस्या विधिना प्रोक्त लक्षणा | मूलेन व्यापकं देहे न्यसेद्देवीं विचिंतयेत् || उद्यद्दिनद्युतिमिंदुकिरीटां तुंगकुचां नयनत्रययुक्तां | स्मेरमुखीं वरदां कुशपाशांभीति करां प्रभजे भुवनेशीं || प्रजपेन्मंत्रविन्मंत्रं द्वात्रिंशल्लक्षमाणतः | त्रिः स्वाहाक्तैः प्रजुहुयादष्टद्रव्यैर्दशांशतः || प्. २११अ) दद्यादर्घ्यं दिनेशाय तत्र संचिंत्य पार्वतीं | पद्ममष्टदलं वाह्ये वृत्तं षोडशभिर्दलैः || विलिखेत् कर्णिकामध्ये षट्कोणमति सुंदरं | ततः संपूजयेत् पीठं नवशक्ति समन्वितं || जयाख्या विजया पश्चादजिताह्वापराजिता | दित्यविलासिनी दोग्ध्री अघोरामंगला नव || वीजाढ्यमासनं दत्वा मूर्तिं तेनैव कल्पयेत् | तस्यां संपूजयेद्देवी मावाह्यावरणैः क्रमात् || मध्य प्राग्याम्य सौम्येषु पश्चिमेषु यथा क्रमात् | हृल्लेखाद्याः समभ्यर्च्याः पंचभूत समप्रभाः || वरपाशांकुशाभीति धारिण्यो मितभूषणाः | स्थानेषु पूर्वमुक्तेषु पूजयेदंगदेवताः || षट्कोणेषु राजेन्मंत्री पश्चान्मिथुनदेवताः | इंद्रं कोणे लसद्दण्ड कुण्डिताक्ष गुणाभयं || गायत्रीं पूजयेन्मंत्री ब्रह्माणम पिता दृशं | रक्षकोणे चक्रशंखगदापंकजधारिणीं || सावित्रीं पीतवसनां यजेद्विष्णुं च तादृशं | वायुकोणेपरश्वक्षमाला भयवरान्वितां || यजेत् सरस्वतीमच्छां रुद्रं तादृश लक्षणं | वह्निकोणे यजेद् रत्नकुंभं मण्डिकरण्डकं || कराभ्यां विभ्रतं पीतं तुण्डिलं धननायकं | आलिंग्य सव्यहस्तेन वामेनांवुधधारिणीं || धनदांक समारूढां महालक्ष्मीं प्रपूजयेत् | वारुणो मदनं वाणपाशांकुशशरासनं || धारयंतंजपालकं पूजयेद्रत्नभूषणं | सव्येन प्रतिमाश्लिष्य वामेनोत्पलधारिणीं || पाणिना रमणांकस्थीरतिं सम्यक् समर्चयेत् | ऐशाने पूजयेत् सम्यक् विघ्नराजं प्रियान्वितं || शृणि पाशधरंकांता वरांगस्य क्रूरांगुलिं | माध्वी पूर्णकपालाढ्यं विघ्नराजं दिगंवरं || पुष्कले विगलद्रत्न स्फुरच्चकषधारिणं | सिंदूरसदृशाकारामुद्दाममदविभ्रमां || धृतरक्तोत्पलामन्यपाणिनाद्ध्वजो स्पृशां | आश्लिष्ठकांता मरुणां पुष्टिमर्घे दिगंवरां || कर्णिकायां निधीपूज्यौ षट्कोणो भयपार्श्वयोः | अंगानि केशरेष्वेताः पश्चात् पत्रेषु पूजयेत् || अनंग कुसुमा पश्चादनंग कुसुमातुरा | भुवनपाला गगणैर्वेगा चैव ततः परं || शक्तिरेखा गणारेखा रेखा चैवाष्ट शुक्तयः | पाशांकुश वराभीति धारिण्यारुणविग्रहाः || प्. २११ब्) ततः षोडशपत्रेषु कराली विकराल्युमा | सरस्वती श्रीदुर्गै वा लक्ष्मी श्रुत्वौ स्मृतिर्धृतिः || श्रद्धा मेधामतिः कांतिः कुर्यात् षोडश शक्तयः | खड्गखेटकधारिण्यः श्यामाः पूज्याश्चमातरः || पद्माद्वहिः समभ्यर्च्याः शक्तयः परिचारिकाः | प्रथमानंग रुपास्यादनंगमदना ततः || मदनातुरा भुवनवेगा तथा भुवनपालिका | स्यात् सर्वशशिरानंगवेदनानंगमेखला || चषकं तालवृंतं च तांबूलं छत्रमुज्वलां | चामरे चांकुशं पुष्पं विभ्राणाः करपंकजैः || सर्वाभरण संदिष्टान् लोकपालान् वहिर्यजेत् | वज्रादीनि च तद्वाह्ये देवीमित्थं प्रपूजयेत् || अथ भुवनेश्वरी स्तोत्रम् || अथानंदमयीं साक्षाच्छब्द ब्रह्मस्वरूपिणीं | इडेसकल संपत्यै जगत्कारणमंविकां || आद्यामशेष जननीमरविंद योनेर्विष्णोः शिवस्य च वपुः प्रतिमादयित्रीं | सृष्टिं स्थितिः क्षयकरीं जगती त्रयाणां स्रुत्वा शिवं विमलयाम्यहमंविकेत्वां || पृथ्वी जलेन शिखिन्यमरुतांवरेण होत्रेन्दुनादिनकरेण च मूर्तिभाज | देवस्य मन्मथ रिपोरपि शक्तिमत्ताहेतुस्त्वमेव खलु पर्वतराजपुत्री || त्रिः स्रोतशः सकललोक समर्चिताय वैशिष्टकारणमवैतितदेवमातः | त्वत् पादपंकजपराग पवित्रतासुद्ध्यंभोर्जटासु सततं परिवर्तेनं यत् || आनंदयेत् कुमुदिनी मधिपः कलानां नान्यासिनः कमलिनी मथनेतराम्वा | एकस्यमोदनविधौ परमेक ईष्टत्वं च प्रपंचमभिपन्नयसिः सुदृष्ट्या || अद्याप्य शेषजगतां नवयौवनासिशैलाधिराजतनाअप्यति कोमलासि | एषां प्रसूरपितया न समीक्षिता सिध्येयासि गौरिं मनसा न पथिस्थितासि || आह्लाद्य जन्ममनुजेषु चिराद्दुरापं तत्रापि पाटवमवाप्य निजेंद्रियाणां | नाभ्यर्चयंति जगतां जनयित्रि येत्वां निःश्रेयं निकाग्रमधिरुह्य पुनः पतंति || कर्पूरचूर्ण हिमवारि विलोडिते नये चंदनेन कुसुमैश्च सुजात गंधैः | आराधयंतिहिमवानि समुत्सुकास्त्वां ते खल्वशेष भुवनापि भुवः प्रथंते || प्. २१२अ) आविश्य मध्य पदवीं प्रथमे सरोजे सुप्ताभिराज सदृशीरिवचर्य विश्वं | विद्युल्लतावलयविभ्रममुद्भवंती पद्मानि पंचरिह न पृथुमश्रुवाना || तन्निर्गता मृतरसैरभिषिव्यगात्रं मार्गेण तेन विलयं पुनरप्यवाप्ता | येषां हृदि स्फुरसि जातु न ते भवेयुर्मातर्महेश्वर कुंदुं विनिगर्भभाजः || आलंविकुंतलभवामभिरामवक्त्रामापीस्त वरनतटीं तनु वृत्तमध्यां | चिंताक्षसूत्र कलशा लिखिताद्य हस्तामावर्तयामि मनसा तव गौरमूर्ति || आस्थाय योगमवजित्य च वैरिषट्कमावध्य चेंद्रियगणं मनसि प्रसन्ने | पाशांकुशा भयवराढ्यकारां सुवक्त्रामालोकयंति भुवनेश्वरि योगिनस्त्वां || उत्तप्तकाटकनिभैःकरिभिश्चतुर्भिरावर्तिता मृतघटैरभिषिच्यमाना | हस्तद्वयेन नलिने रुचिरे वहंती पद्मापि सा भव्य वराभवसित्वमेव || अष्टाभिरुग्र विविधायुधवाहिनीभिर्देविल्लरीभिरधिरुह्य मृगाधिराजं | दूर्वादलद्युतिरमर्त्य विपक्षपक्षान्न्यक्कुर्वतीत्वमसि देवि भवानि दुर्गा || आविर्न्निदाघजलशीकरशोभिवक्त्रां गुंजागणेन परिकल्पितहारयष्टिं | शुभ्रांशुकाममितकांतिमनंगतंत्रामाद्यां पुलिंद तरुणींमसकृत् स्मरामि || हंसैर्गतैरसित नूपुरदूरहस्तैर्मुर्तेरिवाप्यु वचनेरनुगम्यमानां | पद्मादिवोर्द्धमुखरूढसु जातनालौ श्रीकण्ठपत्नि शिरसैवदधेतवांघ्रीं || द्वाभ्यां समी तु मति दृप्तिमतेन दृष्ट्यामुत्पाद्य भालनयनं वृषकेतनेन | सांद्रानुरागतरलेन निरीक्ष्यमाणे जंघे उभे अपि भवानितवानतोस्मि || उरूप्यनामिजितहस्ति करावलेपौस्थौलनमार्दवतया परिभूतलस्तौः | श्रोणीभरस्य सहनो परिकल्प्यवर्तौस्तंभाविरावय सा तव मध्यमेव || श्रोण्योस्तनौ च युगपत् प्रथयिष्यतोच्चैर्वाल्यात्यवचयसा परिहृष्टसारः | रोमावली विलसितेन विभाव्य मूर्तिर्मध्यस्तवस्फुरतु मे हृदयस्य मध्ये || प्. २१२ब्) सख्यास्मरस्य हरनेत्र हुताशभीरोर्लावण्य वारितनयै नवयौवनेन | आपाद्यदत्तनिवपल्ललमप्रधृष्यंमाभिः कदापि तव देवि न विस्मरेयं || ईशोपगूहपि शुनंभसितं दधान काश्मीरकुंकुम * (?) मू स्वं न पंकजेते | स्नानोत्थितस्यकरिणः क्षणलक्षफेनौ सिंदूररतौ स्मरयतः समदस्यौ कुंभौ || कश्चातिरिक्तगलदुज्वलकांतिधारः इमे भौतुजौ निजरिपोर्मकरध्वजेन | कण्ठग्रहाय रचितौ किलदीर्घपाशौ मातर्ममश्रुतिपथं न विलंघयेते || नात्यायतं रचितमंवुभिलासचौर्ये भूषाभरेण विविधेन विराजमानं | कण्ठं मनोहरगुणं गिरिराजकन्ये संचिंत्य तृप्तिमुपयानि कदापि नाहं || अत्यायताक्षमभिजात ललातपट्टंमंद स्मितेनदरफुल्लकपोलरेखं | विद्याधरं वदनमुन्नतदीर्घनासंयस्ते स्मरत्य सकृतनुः स एव जातः || आदिस्तुषारवरलेख मनल्पगंधपुष्पोपरिभ्रमदलिव्रजनिर्विशेषं | यश्चेत सा कलयते तव केशपाशं तस्य स्वयं गलति देवि पुराशपाशः || श्रुति सुचरितपाशंधीमतां स्तोत्र मे तत् पठति य इहमर्त्यो नित्यमार्द्रांतरात्मा | स भवति पदमुच्चैः संपदां पादनम्रः क्षितिपमुकुटलक्ष्मीर्लक्ष्मणाचां चिरायः || इति श्री भुवनेश्वरी स्तोत्रं समाप्तं || अथ भुवनेश्वरी कवचं || देव्युवाच || भुवनेश्याश्च देवेशी याया विद्या प्रकाशिता | एताश्चाधित्य गताः सर्वाः श्रोतुमिच्छामि सांप्रतं || त्रैलोक्य मंगलं नाम कवचं यत्पुरोदितं || ईश्वरोवाच || पार्वती शृणु वक्ष्यामि सावधानावधारय | त्रैलोक्यमंगलं नाम कवचं मंत्र विग्रहं || सिद्धविद्यामयं देवि सर्वैश्वर्य प्रदायकं | पठनाधारणान्मर्त्य स्त्रैलोक्यैश्वर्य भाग्भवेत् || त्रैलोक्य मंगलस्यास्य कवचस्य ऋषिः शिवः | छंदो विराट् जगद्धात्री देवता भुवनेश्वरी || धर्मकामार्थ मोक्षेषु विनियोगः प्रकीर्तितः | ह्रीं वीजं मे शिरः पातु भुवनेशी ललाटकं || प्. २१३अ) ऐं पातु दक्षनेत्रं मे ह्रीं पातु वामलोचनं | श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी || वामकर्णं सदा पातु ऐं घ्राणं तु मे सदा | ह्रीं पातु वदनं देवी ऐं पातु रसना मम || वाक् त्रिपुटा त्रिवर्णात्मा कण्ठं पातु पराम्विकां | श्रीं स्कंधौ पातु नियतं ह्रीं पातु भुजौ सर्वदा || क्लीं करौ त्रिपुटेशानी त्रिपुटैश्वर्य दायिनी | आं पातु हृदयं ह्रीं मे मध्यदेशं सदावतु || क्रों पातु नाभिदेशं सा त्र्यक्षरी भुवनेश्वरी | सर्ववीजं सदा पृष्टे पातु सर्ववशंकरी || ह्रीं पातु गुह्यदेशं मे नमो भगवती कटिं | माहेश्वरी सदा पातु शक्तिनी जानुयुग्मकं || अन्नपूर्णे सदा पातु स्वाहा पातु पदद्वयं | सामां दशाक्षरी पायादन्न पुर्णाखिलं वपुः || तारं माया रसा कामः षोडशार्णा ततः परं | शिरस्थाः सर्वतः पातु विंशत्यन्नास्थिका मुदा || तारदुर्गे युगं रक्ष स्वाहेति च दशाक्षरी | जय दुर्गा घनश्यामा पातु मां सर्वतो मुदा || माया वीजादिका चैषा दशार्णौ च ततः परा | प्रतप्त कांचना भासा जयदुर्गाननेव तु || तारं ह्रीं दुं दुर्गायै नमोष्ट वर्णात्मिका परा | शंखचक्रधनुर्वाणधरा मां दक्षिणेव तु || महिषमर्दिनी स्वाहा वसुवर्णात्मिका परा | नैर्-ऋत्यां सर्वदा पातु महिषासुरनाशिनी || माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता | पद्मावती पद्मसंस्था पश्चिमे मां सदावतु || पाशांकुश पुटामायै हि परमेश्वरि स्वाहा | त्रयोदशार्णा ताराद्या साश्वारूढाननेव तु || सरस्वती पंचशरो नित्यक्लिन्ने मदद्रवे | स्वाहारत्पक्षरी नित्यामामुत्तरे सदावतु || तारं माया च कवचं खेचर क्षततो वधूः | क्रूं क्षे ह्री फट् महाविद्या द्वादशार्णा खिलप्रदा || अरिष्टोत्वादिभिः पायाच्छिवा कोणे सदा च मां | ऐं क्लीं सौंः सा ततो वाला मामूर्द्धदेशतोवतु || विंद्वंतां भैरवी वाला भूमौ मां सर्वदावतु | इति ते कवचं पुण्यं त्रैलोक्यं मंगलं परं || प्. २१३ब्) सारात् सारतरं पुण्यं महाविद्यौघ विग्रहं | अस्यापि पठनात् सद्यः कुवेरोपि धनेश्वरः || इंद्राद्याः सकलाः देवाधारणात् पठनाद्यतः | सर्वसिद्धीश्वराः संतः सर्वैश्वर्यमवाप्नुयुः || पुष्पांजल्यष्टकं दद्यान्मूलेनैव सथक् पृथक् | संवत्सरशतायास्तु पूजायाः फलमाप्नुयात् || प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे | वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः || यो धारयति पुण्यात्मा त्रैलोक्य मंगलाभिधं | कवचं परमं पुण्यं सोपि पुण्यवतां वचः || सर्वैश्वर्य युतो भूत्वा त्रैलोक्यविजयी भवेत् | पुरुषो दक्षिणे वाहौ नारी वा मनुजे तथा || वहु पुत्रवती भूत्वा वंध्यापि लभते सुतं | ब्रह्मास्त्रादीनि शस्त्राणि नैव दंशंतितंजनं || एतत् कवचम ज्ञात्वा यो भजेद् भुवनेश्वरीं | दारिद्र्यं परमं प्राप्यसो चिरान्मृत्युमाप्नुयात् || इति श्रीरुद्रयामले देवीश्वरसंवादे त्रैलोक्यमंगलंनाम कवचं समाप्तं || अथ शिवस्य || नमः शिवायेति मंत्रः पंचार्णस्तारापूर्वकः | षडक्षरोयं विप्राणां भुक्तिमुक्ति प्रसाधकः || वामदेवो मुनिः पंक्तिश्छंदो देवः सदाशिवः | षड्वर्णैस्तु षडंगानि कल्पयेत् साधकोत्तमः || ततो ध्यायेत गोक्षीर रजताद्रि समप्रभं | चारुचंद्र कलाराज जटामुकुटमण्डितं || पंचवक्त्रधरं शंभुं पंचवक्त्रं त्रिलोचनं | शार्दूल चर्मवसनं रत्नाभरणभूषितं || दक्षोर्द्ध हस्ते टंकं च वरं च दधतः करैः | वामोर्द्ध हस्ते हरिणं दधानमभयं पर || सुप्रसन्नमुखांभोजं निविष्टंकुशविष्टरे | ब्रह्मविष्णुमहेशाद्यं स्तुतं भक्त्या सुरासुरैः || विश्वाद्यं विश्व वपुषं भवभीति हरं भवं || समाप्तश्चायं भुवनेश्वरी क्रमः || अथ धूमावती क्रमः || अथातः संप्रवक्ष्यामि धूमावत्या मनुं परं | पिप्पलादो मुनिश्छंदोनिवृज्ज्येष्ठास्य देवता || षट्दीर्घ विंदुयुक्तेन धकारेण षडंगकं | आद्यवीजद्वयां तस्थैः षड्वर्णैर्न्या समाचरेत् || प्. २१४अ) अंगुष्ठादौ षडंगेषु पुनर्देवीं विचिंतयेत् | विवर्णा चंचला कृष्णा दीर्घा च मलिनांवरा || विमुक्त कुण्डला दीर्घा विधवा विरलद्विजा | काकध्वजरथारूढा विलंवित पयोधरा || शूर्यहस्ताति रुक्षाक्षी धूतहस्तात्वरान्विता | प्रवद्धरो मातु भृशं जटिला कुटिलेक्षणा || क्षुत्पिपासार्दिता नित्यं सदा कलह तत्परा | एवं विधां सदा ध्यायेत् ततः कर्म समाचरेत् || पूर्वोक्ते पूजयेत् पीठे ज्येष्ठां शत्रु निवृत्तये | केशरेषु षडंगानि पत्रस्था अष्टशक्तयः || क्षुधातृष्णरतिर्निद्रानिर्-ऋतिर्दुर्गातीरुषा | अक्षमेति ततो देवा इंद्राद्या आयुधान्विताः || एवं ज्येष्ठां समाराध्य सिद्धमंत्रः प्रजायते || प्. २१४ब्) अथ धूमावती कवचं || पार्वत्युवाच || देवदेव महादेव भक्तानुग्रहकारकः | धूमावत्यास्तु कवचं ब्रूहि मे करुणानिधे || महादेव उवाच || अस्ति गुह्यतमं लोके कवचं शत्रुनिग्रहं | सर्वेप्सित प्रदं देवि तव स्नेहात् प्रकाश्यते || यच्छ्रुत्वा रामचंद्रेणसंगरे रावणो हतः | भार्गवेणाअपि यच्छ्रुत्वा जितं सर्वं चराचरं || तमेव कवचं वच्मि सावधानावधारय | कवचस्य महादेवि पिप्पलाद ऋषिः स्मृतः || छंदो विराट् देवता च श्रीमद्धूमावती प्रिये | शत्रूणां मारणे देवी विनियोगः प्रकीर्तितः || ओं धूमावती सदा पातु शिरो मे शत्रुमर्द्दिणी | चण्डरूपा महादेवी ललाटे पातु मां सदा || क्षुत्कामा नयने पातु पातु भीमा श्रुती मम | काकध्वजा नासिकां मे सर्वशत्रुविनाशिनी || प्रलंवोष्ठी सदा पातु वदनं मुण्डमालिनी | विकृतास्या सदा पातु गलं मे रिपुसूदिनी || धूं वीजाख्या सदा पातु घाटं मे रिष्टतारिणी | स्कंधौ कंकालिनी पातु नृमुण्डस्रग्विभूषणा || शुष्कमांसा सदा पातु भीषणा मे भुजद्धयं | लम्वस्तनी सदा पातु धूमवर्णास्तन द्वयं || सूर्यहस्ता च हृदयं पातु भैरवमादिनी | शत्रु मांसप्रिया पातु पृष्ठं मे रुधिरप्रियां || मदिरा घूर्णनयना पातु पार्श्वे किरीटिनी | करालिनी सदा पातु कुक्षिं मे शववाहिनी || वज्रतुण्डा पातु नित्यं कटिदेशं शिव प्रिया | कराल वदना पातु गुह्यदेशं दिगंवरां || घोराट्टहासिनी पातु जानुनी विरलद्विजा | पादौ मे पातु सततं क्षुत्पिपासा कुला सदा || घोरघण्ठा सदा पातु सर्वांगे शंकर प्रिया | इति ते कथितं देवी कवचं रिपु निग्रहं || यस्य प्रपठनाद्देवी सर्वसिद्धिकरे स्थिता | न तस्य शत्रु पीडास्याद्दुष्टपीडा कदापि न || ग्रहपीडा भूतपीडा न भवेत् कुलसुंदरी | धूमावती समभ्यर्च्य कृष्णपुष्पेण साधकः || मत्स्यमांसा सवैर्देवीं पूजयित्वा यथा विधिं | महामांसस्य धूपेन धूपयेत्तांत्र मंत्रवित् || प्. २१५अ) अष्टोत्तर शतावृत्तिं पठेदेकमनां प्रिये | पक्षमात्रेण देवेशि रिपुंहन्यान्न संशयः || एतत् सर्वं महेशानि मारणेषु नियोजयेत् | कवचस्मरणाद्देवि रिपुर्याति यमालयं || इति श्रीरुद्रयामले धूमावतीकल्पे धूमावतीकवचं || अथाघोरस्य || अथातः संप्रवक्ष्यामि सा घोरास्त्राज्ञयं मनुं | माया स्फुरद्वयं चैव प्रस्फुरद्द्वितयं वदेत् || पश्चाद्वदेत्तुरुतुरुरूपां ते च चटद्वयं | प्रचट द्वितयं पश्चात् कहद्वयं वमद्वयं || वंधद्वयं घातय द्वि हूं हूं फट् शरवर्णकः | मनुः प्रोक्तो घोरमुनिः तिर्ष्टुप्छंदोस्य देवता || अघोररूपं वं वीजं ह्रीं शक्तिः परिकीर्तिता | शरं तु दशदिग्दंति दिवाकरमितैर्मनाः || वर्णैः कुर्यात् षडंगानि पदन्यासोथ वक्ष्यते | कटौ च वक्त्रगल हृन्माभ्यं धूकरजानुषु || स जंघापादयोश्चैवं पदान्ये कादशन्यसेत् | शरं तु नेत्रवस्वद्धिर संवेदाद्धि वेदकैः || रसनेत्रमितैर्वर्णैर्मृत्पदानि भवंत्युमे | ध्यायेत् ततो मेघकालं भीमदंष्ट्रं त्रिलोचनं || भुजंगभूषणं रक्तवसना लेपशोभितं | परशुं करवालं च वाणीस्त्रिशिखमेव च || दधानां दक्षिणैर्हस्तैरुर्द्धादि क्रमतः परैः | डमरुं खेटकं चापं नृकपालं च विभ्रतं || समाप्तश्चायं धूमावती क्रमं || अथ वगलामुखी क्रमः || अथातः संप्रवक्ष्यामि स्तंभनीं वगलामुखीं | नारायणो मुनि स्त्रिष्टुप्छन्दश्च वगलामुखी || देवी वीजं तु हृल्लेखा स्वाहा शक्तिः समीरिता | विनियोगास्य विख्यातः पुरुषार्थश्चतुष्टये || हृल्लेखा हृदयं प्रोक्तं शिवश्च वगलामुखी | शिखा तु सवदुष्टानां ततो वाचं मुखं पदं || स्तंभयेति च वर्मोक्तं जिह्वां कीलय नेत्रकं | बुद्धिर्विनाशयास्त्रं स्यात् षडंगं न्यास ईरितः || मूर्ध्ह्नि भाले भ्रुवोर्मध्ये नेत्रयोः शोत्रयो रसोः | गण्डद्वये तथा चोष्ठे धरास्य चिवुकेषु च || गले च दक्षदोर्मूले तन्मध्ये मणिवंधके | अंगुलीनां तथा मूले हस्ताग्रे चैव मेव हि || प्. २१५ब्) अन्येद् वामभुजादौ च दक्षोरु मूलके ततः | दक्ष जानुनि गुल्फे चांगुलि मूले पदाग्रतः || गंभीरा च मदोन्मत्तां तप्तकांचन सन्निभां | चतुर्भुजां त्रिनयनां कमलासन संस्थितां || मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकं | पीतांवरधरा सांद्र वृत्त पीतपयोधरां || हेमकुंडलभूषां च पीतचंद्रार्द्धशेखरां | पीतभूषण भूषां च स्वर्णसिंहासन स्थितां || एवं ध्यात्वा च देवेशीं शत्रूस्तंभनकारिणीं | भूःप्रदोश मनोरम्ये पुष्पामोद सुधूपिते || गोमयेनाथ संलिप्ते मण्डपेत्वासनं चरेत् | सौवर्णे वाथरौप्ये वा पैत्तरे वाथ भूर्जके || कर्पूरागुरु कस्तूरी श्रीखंड कुंकुमैरपि | लिपेद्यंत्रं प्रयत्नेन लेखन्या हेमतारयोः || मध्ये योनिं समालिख्य तद्वाह्ये तु षडस्रकं | तद्वाह्येष्टदलं पद्मं तद्वाह्ये षोडशच्छदं || चतुरस्र त्रयं वाह्ये चतुर्द्वारोपशोभितं | यत्र नोक्तां देवतायाः पीठंदा पीठशक्तयः || तत्र मायोदितं पीठं ज्ञेयेता एव शक्तयः | तद्वीजेन यजेत् पीठं यद्वा मायामुनाथ वा || तत्रावाह्य यजेद्देवीं सु पीतैरुपचारकैः | यजेदंगानि षट्कोणे पूर्वद्वारादिषु क्रमात् || गणेशं वटुकं चापि योगिन्यः क्षेत्रपालकं | ईशानादि निऋत्यंतं गुरुपंक्तिं समर्चयेत् || वगला पूर्वपत्रे तु स्तंभिनी च ततः परं | जंभिनी मोहिनी वल्या अचला चंचला तथा || दुर्द्धर्षाकल्मषा धीरा कल्पना कालकर्षिणी | भ्रामिका मंदगमना भोगाख्या चैव योगिका || एताः षोडशपत्रेषु गंधपुष्पाक्षतैर्यजेत् | षोडश स्वर संयुक्ता संप्रदायात् कुलागमे || यजेच्च पत्र मध्येषु कल्पिते चाष्टपत्रके | ब्राह्म्याद्यष्टौ तु पूर्वादौ वाहनायुध संयुताः || लोकेशांश्च तदस्त्राणि पूजयेद् वाह्यतस्तथा | योनिमध्ये मूलदेवीं त्रिपुष्पांजलिभिर्यजेत् || धूपदीपै सु नैवेद्यैर्गंधतांवूलदीपकैः | नीराज्य विधिवत् पश्चाज्जप संख्यान्निवेदयेत् || प्. २१६अ) अथ वगलामुखी स्तोत्रं || ओं पीतवस्त्रां सु नेत्रां च द्विभुजां दाहद्धोज्वलां | शिलापर्वतहस्तां च स्मरंती वगलामुखीं || मध्य सुधाद्धि मणिमण्डप रत्नवेद्यां सिंहासनो परिगतां परिपीतवर्णां | पीतांवराभरणमाल्यविभूषितांगी देवी नमामि धृतमुद्गर वैरि जिह्वां || जिह्वाग्रमादाथकरेण देवीं वामेन शत्रुपरिपीडयंती | गदाभिघातेन तु दक्षिणेन पीताम्वराढ्यां द्विभुजां नमामि || त्रिशूलधारिणीमम्वी सर्वसौभाग्यदायिनी | सर्वशृंगारवेशाढ्यां देवीं ध्यात्वा प्रपूजयेत् || चलत् कनक कुण्डलोल्लसित चारुगण्डस्थलां लसत् कनकचंपकद्युति विराजित चंद्राननां | गदाहत विपक्षकां कलित लोल जिह्वा चलां स्मरामि वगलामुखीं विमुखसन्मुखस्तंभिनीं || पीयूषो दधिमध्य चारु विलसद्रत्नोज्ज्वले मण्डपे तत् सिंहासन मौलि पाटित रिपु प्रेतासनाध्यासिनीं | स्वर्नाभां कलपीडितारि रसनां भ्राम्यद्गवा विभ्रमां यस्त्वां पश्यति यांति तस्य विलयं सद्योपि सर्वापदः || देवित्वच्चरणाम्वुजे वितनुतेयः पीतपुष्पांजलिं मुद्रां वामकरे निधाय च पुनर्मंत्री मनोज्ञाज्ञाक्षरं | पीतध्यानपरोपि कुंभक वशाद्वीजे स्मरेत् पार्थिवं तस्या मित्रमुखस्य वाघृदयगो स्तंभो भवेत् तत्क्षणात् || मंत्रस्थानदलं विपक्षदलने स्तोत्रं पवित्रं च ते यंत्रं वादि निमंत्रिणां त्रिजगतां यंत्रं पवित्रं च ते | मातः श्रीवगलेनिनाम ललितं यः स्तूयते ते मुखे तन्नाम ग्रहणेन संपदि मुखस्तंभो भवेद्वैरिणां || वादीमूकति शंकितः क्षितिपतिर्वैश्वानरः शीततिः क्रोधीशांततिदुर्जनः सुजनतिः क्षिप्रं मुखं खंजति || गर्वी खर्वति सर्व एव जगति त्वद्यंत्र यंत्रिताः | श्रीनित्ये वगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः || दुष्टस्तंभनकं च विघ्नशमनं दारिद्र्य विध्वंसनं भूभृत्संगमनं च यन्मृगदृशां चेतः समाकर्षणं | सौभाग्यैक निकेतनं मम दृशो कारुण्य पूर्णे क्षणं मृत्योर्मारणमाविरस्तु परतो मातस्त्वदीयं वपुः || त्वं विद्या परमा त्रिलोक जननी विघ्नौघ संछेदिनी योगाकर्षणकारिणी च सु महद्वंदैक संछेदिनी | दुष्टोच्चाटनकारिणीं जनमनः संमोहथ संधायिनी जिह्वाकीलन वैभवा विजयते ब्रह्मास्त्रस्तु विद्या परा || प्. २१६ब्) मातः स्तंभयमद्विपक्षवदनं जिह्वां चलं कीलय ब्राह्मीं मुद्रयमुद्रयासुधिषणां वह्नेर्गतिं स्तंभयः | शत्रूंश्चूर्णयचूर्णयाशुगदया गौराङ्गि पीतांवरे विघ्नौघं वगले हर प्रतिदिनं कारुण्य पूर्णेक्षणे || मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये श्रीनित्ये समये महेशि वगले कामेशि वामे रमे | मातंगी त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदेदासो हंशरणागतं करुणया विश्वेश्वरि त्राहिमां || शाङ्कघे चौरसंघे प्रहरणसमये वंधने वारिमध्ये वह्न्यै वादे विवादे प्रकुपित्त नृपतौ दिव्य काले निशायां | वाच्यात्वं स्तंभने वा रिपु वधसमये निर्विपत्तौरणे वा गच्छंस्तिष्ठं स्त्रिकालंस्तव पठनमिदंकार्य सिद्धिप्रदं च || मातर्यश्चनरः सदास्तवमिदं देव्याः पठेत् साधनं धृत्वा यंत्रमिदं तथैव समये वाहौ करे वा गले | राजानो वरयोषितोपि करणः सर्पामृगेंद्राः खलाः स्तंभयांति निषीविते रिपुगता लक्ष्मीर्यथा सिद्ध्यति || अनुदिनमभिरासं साधकोय स्त्रिकाले पठति त्रिभुवनेशः पूज्यते देववर्गैः | भवति सकलकृत्यं तस्य दृष्ट्वावलोके भवति परमसिद्धौ लोकमातस्तथैव || इति श्रीनारदविरचिते पीतां वगलास्तोत्रं संपूर्णं || अथ वगलामुखी कवचं || श्रीमहोग्रतारोवाच || राज्ञा मण्डलकादीनां मण्डलो परिसर्पतां | स गर्वाणां महादेव धनैर्विकृत चेतसां || गजसर्पारि जंतूनां भजनं वद शंकर || श्रीभैर उवाच || पुरा कृत युगे देवि वा तक्षोभमुपस्थिते | सप्तार्णवानामेकत्वगमक्षोभं ययुः सुरा || सेंद्रास्सविष्णवेः सर्वेसुभयान् मामुपस्थिताः || देवा ऊचुः || शिवशंकररुद्रेश रक्षास्मान् शरणागतान् | महावातादि विक्षोभ क्षुधानस्मान्महार्णवात् || तच्छ्रुत्वाहं सुरेशानि कवचं पूर्वनिर्मितं | दत्तवान् सर्वदेवेभ्यो महाभय निकृंतनं || कवचं वगलामुख्याः शिवप्राणप्रदं महत् | पूर्वं भस्मासुरत्रासाद्भयविद्रावितः स्वयं || पठते तच्च मत्प्राणान् रक्षत्वं परमेश्वरी | शिवप्राणप्रदं तस्माद् विश्रुतं रक्षकं परं || षट्त्रीशद्दक्षवामेध्याद् वगला परमाशिरः | सहस्रारे गुरुः पातु शक्त्या परमयोज्ज्वलः || प्. २१७अ) चिद्रूपा परमाशक्तिर्ललाटं शिवगेहिनी | भूयुगं मे महाकाली नेत्रयुग्मं परेश्वरी || कर्णयुग्मं पीतपुष्पप्रिया मेव्यात् कपोलयोः | चिवुके परमाशक्तिरेष्टयोः परमाकलाः || वदनं सकला पातु परंब्रह्मस्वरूपिणी | पीतपुष्पार्चिता कण्ठं स्कंधौ स्कंदस्तनप्रदा || पीतांवरा दक्षभुजं वामां वामांगहारिणी | हृदयं स स्तनद्वंद्वं भानु विंवमुखैकधृक् || पृष्टं चंद्रधरं मेव्यात् कटिं कंदर्प्य रूपधृक् | हृत्पंकजं सैव शक्तिर्विशुद्धं जीवरूपिणी || आज्ञा चक्रं विंदुरूपा परंब्रह्मकुटुंबिनी | ब्रह्मरंध्र सहस्रारं पंकजाख्य स्वरूपधृक् || पातुमां परमाशक्तिश्चामरी कुटिलालका | षट्त्रिंशदक्षराविद्या पीतापीत वपुर्द्धरा || पीतपुष्पार्चिता पीत नैवेद्यादि वलिप्रिया | सर्वाङ्गं मे शुभा पातु वैरि स्तंभनकारिणी || ब्रह्मरंध्रेषु परमासंसारार्णवतारिणी | तारयेन् मां महादेवी मनोवांछितदायिनी || आज्ञा चक्रे गुरौरूपा महाभयनिवाशिनी | सर्वविद्या वरा पातु जिह्वा शास्त्र वपुर्द्धरा || विशुद्धौ षोडशदले जीवेश्वर वपुर्द्धरा | षट्त्रिंशत् तत्वरूपाख्या कंठस्था मां सदावतु || हृत्पंकजे भवानीशरूपारूप परात्मिका | इंद्रियादि महाशत्रून् विदारयतु दारुणा || मणिपूरे दशदले महाविष्णु स्वरूपधृक् | दारयन्नखिलान्मोहान् मां माया सा परावतु || प्रजापति स्वरूपेयं स्वाधिस्थाने षड्दले | सृष्टिस्थिता पराविद्या मां मोहाद्वगलावतु || गणेशरूपधृक् पातुत्वाधारे मां चतुर्दले | षोडश स्वररूपेयं पातु मां परमाकला || कं खं गं घं तथा ङ्ं चं छं जं झं ञ्ं तथा वतु | टं ठं डं ढं त्वमाकाराणं तं थं दं तथा वतु || धं नं पं फं तु शत्रुभ्यः पातु मां ध्यान तत्परां | वं भं मं यं विदायार्थ शत्रून् मां वाक्त्वरूपिणी || रं लं वं शं तथा षं सं शत्रुजिह्वां विदार्य तु | मे वाचं मे मुखं जिह्वां सदा रक्ष तु शांकरी || हं लं क्षं सकलं पातु रक्षन् मे परमं यशः | प्रणवं स्थिरमाया च तृतीयं त्रितयं तथा || य स्तृतीयं स्वराद्युग्मं यादाद्यं स्वरपंचमं | का द्वितीयं दक्षनेत्रे सर्वदुष्ट वहु स्मृतं || षष्ठ्यंतं च तथा वाचं स्तंभयाथापि जिह्वया | द्वितीयया कालयेति तथा बुद्धिं विनाशय || स्थिर माया तथा तारं चांते वह्नि वधूं प्रिये | एषा विद्या महाविद्या शत्रुन्स्तंभनकारिणी || प्. २१७ब्) त्रिधा मंत्रं समुच्चार्य सर्वाङ्गे व्यापकं कुरु | जयत्येव न संदेहः शत्रून् शूरान्महाहवे || कुलालमृतिकांगृह्य वामहस्तेन दीपकं | कृत्वा प्रज्वाल्य तैलेन वामे स्थाप्य मनुं जपेत् || त्रिरात्रं स्तंभयत्येव शत्रुसेनां महाहवे | गौरवर्णां पीतपुष्पैर्वालां संपूज्य भावतः || न्यासां विधाय देहेन भजन् योगी जपन्मनुं | पीतोपचारैस्तां शक्तिं संतोष्य परिवारणां || वशयत्येव लोकेशं किं पुनः क्षुद्रमानुषं | वाचस्तंभन कारस्तु वीरशक्तिं शुभाननां || षोडशाब्दां सुवर्णां च अलंकृत्य यजेत् प्रिये | सहस्र मूलमंत्रं तु जप्त्वा वाचस्पतेरपि || स्तंभयत्येव परमां वाचं किं क्षुद्रमानुषं | वशीकरण कामस्तु वद्वापरिकरं दृढं || शक्तिं लिंगोपरि स्थाप्य त्रिसहस्रं जपेन्मनुं | इन्द्राणीं वशयत्येव किं पुनः क्षुद्रमानुषीं || मण्डलाधीश वश कृदुत्तराभिमुखं स्थितः | दक्षाननां सुंदरीं तु सोडशाब्दां शुचिस्मितां || कुचयोस्तु करैर्दत्वा पीताद्यां हसिताननां | लिंगे संस्थाप्य संचुवन्मुखं पीता मनुं जपन् || त्रिसहस्रं महाराज वशयत्येव नान्यथा | येन केनाप्युपायेन वगलाभक्ति तत्परः || स्तंभयेत् सकलांल्लोकान्वशयत्येव शांकरी | मारयेच्छत्रु संघातमुच्चाटयति पर्वतान् || देवानां स्थपतिश्चन्द्रः छादयेत् किं परं जनं | अस्य पार्वति माहात्म्यं कवचस्य क्ववर्णितुम् || महाद्रौदारुणे चांते प्रलयादावुपस्थिते | स्तंभितं च तदा देवि वातसंघं सकृज्जपात् || एवं सा परमा विद्या महाशत्रुविदारिणी | नास्तिके तस्करे दुष्टेन्मूढे पण्डितमानिनी || न देया हृदया विद्या ददन्वन्धमवाप्नुयात् | सुशीलाय सुदांताय गुरुभक्तिपराय च || विशुद्धाय महामंत्रजापिने देयमुत्तमं | कृत्वा पुरा सुकवचं जपेन्मंत्रं समाहितः || नान्यथा स्तंभिनी विद्या सिद्धास्यादिति निश्चयः || इति श्रीएकवीरातंत्रे महोग्रतारासंवादे वगलामुखीकवचं संपूर्णं || प्. २१८अ) अथ मृत्युञ्जय भैरवस्य || ओं जूंसः इति मंत्रस्य प्रोक्तो मृत्युंजयाभिधः | ऋषिः कलाहो दैत्यादि गायत्रीछन्द ईरितं || मृत्युञ्जयो महादेवो देवता परिकीर्तितः | षड्दीर्घयु तृगुणा षडंगविधिरीरितः || पद्मद्वयस्थितं स्मेरं चंद्रार्काग्नि विलोचनं | हस्तेषु ज्ञानमुद्रां च पाशमक्षाक्षिमालिके || कर्पूराभं शीर्षचंद्रः कराद्वामृतधारया | अर्द्धांगं वहुभूषाढ्यं कान्त्या विश्वविमोहनं || समाप्तश्चायं वगलामुखी क्रमः || इति श्रीतंत्रचैंतामणौ त्रिपुरभैरवी-महालक्ष्मी-मातङ्गी##- नाम सप्तविंशतितमः प्रकाशः || २७ || अथ प्रत्येक नित्यार्चनं निर्णीय सकलाष्ट साधनोप युक्तत्वात् प्रथमतश्चक्र पूजामाह || चक्रपूजां प्रवक्ष्यामि सर्वतंत्रेषु गोपितं | अभीष्ट सिद्धिदानातः परं किंचन विद्यते || सर्वेषामेव देवानां श्रिया प्रोक्तेप्सितप्रदा | वैदिकैरपि कर्तव्या भीष्टसिद्ध्यै पुरोहितं || कृत्वा तु कौलिकं देवि पूर्णाः स्युस्तन्मनोरथा || शांतिके पौष्टिके वश्ये चाकृष्टौस्तंभमारणे | विद्वेषोच्चाटने माहे परसैन्य पराजये || आज्ञा सिद्धौ च मोक्षार्थे सिद्धिसाधन हेतवे | उपसर्ग विनाशाय गुहदोष निवारणे || राज्यं भ्रंशे नरेंद्राणा स लक्ष्मी हरणाय च | अपत्यलाभे चानिष्टे उपव्याधि निवारणे || प्रजा शांता वनावृष्ट्यां मातृ चक्रं प्रतिष्ठिते | दीक्षाकाले च मदने पवित्रे गुरु पर्वणि || विपत्तौ देशिकेन्द्राणामथ वा गोत्रमेलने | प्रस्थाने च प्रवासे वा उत्सवा नंदसंपदौ || अपेक्षितं तदा कार्य मनुजैश्चक्र पूजनं | सर्वदेवप्रियं गोप्यं तद्विधिं कथयाम्यथ || समयश्चक्र पूजाया अष्टधा परिकीर्तितः | सहसोत्यत्तिते कार्ये कार्ये वा पूर्णतां गते || देवतोत्साह दिवसे कौलिकस्यागमेपि वा | उमामाहेश्वरे योगे योगे वा शक्तिसंगमे || वलिराज्यं कामदिने चक्रपूजाति हर्षदा | प्रदोषे वा भिजिति वा निशीथे वाष्टमीयुता || नवम्यां चेद्भवेद्योग उमामाहेश्वराभिधः | भौमाष्टम्यां चतुर्दश्यां योगोयं शक्तिसंगमः || आश्विनस्यासिते पक्षे त्रयोदश्यादि पंच च | वलिराज्यमिदं प्रोक्तं यथेच्छ क्रीडनाय तु || तत् कामदिनमित्याहुः सोमवारे त्रयोदशी | पूर्वस्मिन्दिवसे स्नात्वा देवीमभ्यर्च्य कामनां || प्. २१८ब्) कृत्वा संकल्पयेच्चक्रपूजां दयाद् वलिं पशोः || बलिदानप्रकारस्तु आयवाच्यः || एवं दत्वा वलिं सम्यङ्नित्यकृत्यं विधाय च | तृतीये प्रहरेरामानरान्श्चार्थे निमंत्रयेत् || अमुक्त्याः प्रीतये देव्या मन्मनोरथ सिद्धये | चक्रपूजोत् सवार्थं त्वंश्चोमयामंत्रिताह्यसि || अथ निमंत्रण प्रकारमाह || ततो निमंत्रयेत् सर्वान् योगिन्यो योगिनामपि | पुष्पं दत्वा करे सव्ये संभाषावरणं तथा || अद्यमे गृह्ण पूजार्थं निमंत्रणं करोम्यहं | तत आगमनं कुर्यात् पादौ प्रक्ष्याल्य पाणिना || आचार्याय सुखं देवि मंत्रेणैव निमंत्रयेत् || अष्टाधिका निमंत्रास्तु स्त्रियो न्यूनास्तु तत् कृते | स्त्रीभ्यश्च पुरुषान्यूना अधिकास्ते तु हानिदा || सर्वे कौलव्रतस्था वा प्राग्दक्षाय च वर्जिताः | भवंति दीक्षा निरता निमंत्र्याश्चक्रपूजने || तस्यां रात्रौ तु संपूज्या देवं स्वयमतंद्रितः | कुलशब्द द्विधा प्रोक्ता कुलजेति पिशाचिनी || त्रयोदशार्णं स्वाहांतमष्टोत्तर सहस्रकं | जपेन्निशि ततः पश्येच्चक्रे विघ्नं तथा शुभं || विघ्ने दृष्टे न कर्तव्यं कार्यं वा शांतिपूर्वकं | शांतिर्गणेश्वरो होमो ग्रहाणां भैरवस्य च || ततो वहिर्वलिं दद्यादिमं मंत्रमुदीरयन् || ओं नमश्च त्रिरुच्चार्यह्यमुकक्षेत्रपालकं | एह्येहि भगवन् पूजां गृह्नयुग्मं वलिं तथा || भक्षयुग्मं चक्र विघ्नकरान् स्तंभय युग्मकं | हूं फट् स्वाहा सप्तचतुर्वर्णोन्मंत्रः प्रकीर्तितः || दिनस्य कृत्यं निर्वर्त्य सायं चक्रं प्रपूरयेत् || श्रीदेव्युवाच || सांप्रतं श्रोतुमिच्छामि निर्णयं मेलकस्य तु | कस्मिन् स्थानेषु कुर्वीत कुलचक्रं समुद्भवं || केन चक्रं प्रकर्तव्यं कथयस्व महेश्वरः || श्रीभैरव उवाच || कथयामि वरारोहे चक्रस्थान परं शृणु | श्मशाने एकवृक्षे च पर्वते मातृका गृहे || प्रासादे शून्य वासेषु नदीतीरे अरण्यके | एतेष्वेकं च संमार्ज्य प्रलिप्तं गोमयेन तु || तुषकेशादिकं शोध्यं किंकरी किंकरेण वा | श्मशानं तु प्रयोगं च वरणा एकवृक्षकं || प्. २१९अ) पर्वताग्रे भवेत् कोल्लागृहमात्राट्टहासकं | प्रासादस्तु जयंती च चरितं शून्यवेश्म च || स्रकाह्यकं नदीतीरमरण्यं देविकोटकं | स्थानं च कथितं भद्रे उद्भवं कथयामिते || अवर्गं पूर्वमुद्दिष्टं कवर्गाग्नेय संस्थितं | च वर्गं दक्षिणे भागे ठ वर्गं नैर्-ऋते स्मृतं || त वर्गं पश्चिमे भद्रे वायव्ये तु प वर्गकं | य वर्गमुत्तरेभागे शवर्गमीश संस्थितं || एषु स्थानेषु सुश्रोणि चक्रस्य तु समुद्भवं | उत्स्थानैकं समागत्य कुर्याद्वीरस्य योजनं || वर्तनं कथयिष्यामि आचार्यस्य तु लक्षणं | वहुशस्त्रश्रुता धीरा दशपच्छानुगामिनः || पारंपर्य क्रमज्ञान गुरुसिद्धः प्रपूजकाः | पूर्णाभिषेक सम्पन्ना अद्वैताचारवर्तिनः || लज्जानुज्ञां गुरोः सम्यक् स्यात कु * (?) संग गतः | सर्वसत्व दया भूतदंभमात्सर्य वर्जितः || क्षांतोदांतं शुचिर्नित्यः पुत्रवच्छिष्य पालकः | एभिर्गुणैः समायुक्त आचार्यः स्थानु सुंदरी || अथ मण्डलमाह || क्षौमिकेन सुसूत्रेण सुमितं कारयेत् प्रिये | सुरेषां पातयेद्भूमौ अष्टकोणाष्ट पत्रिका || केशरं च षडंगुल्यं कर्णिकाष्टांगुलानि च | द्वादशांगुल पत्राणि दलसंधि द्विरंगुलं || चतुरंगुल चंद्राणि वर्तुलाकारमंडलं | तद्वाह्ये द्वारभागानि द्वादशांगुलमानतः || चतुर्द्वारश्चतुःकोणं कोणेषु पद्मलांछितं | कर्णिका पीतवर्णा च केशरं रक्तमेव च || पत्रं श्वेतकृतं भद्रे दलसंधि हरीतकं | कृष्णद्वारयुतं देवि शुक्लं चंद्रां शुमण्डलं || रोगोपशांतशांत्यर्थं भद्रमण्डलमालिखेत् || शिवोक्तंतं वदिष्यामि श्रूयतां वरवर्णिनि | पीतसूत्रेण सुश्रोणि सुमितं कारयेत् प्रिये || आ हूंठानि च हस्तानि भूमौ सूत्रेण पातयेत् | षडंगुलं कर्णिका च चतुरंगुलकेशर || द्वादशांगुल पत्राणि शशिमण्डलशोभनं | पीतभद्रैर्दलं भद्रे कृष्णेन दलसंधिषु || चंद्रं शुक्लेन कुर्वीत रक्तेन द्वरामेव च | एवं विधं सुशोभं च सुरेखे सममेव च || पूर्वे कपालं शुक्लेन कृष्णेनासिंच दक्षिणे | पश्चिमे हरितं भद्रे डमरुं च सुशोभनं || उत्तरे शुक्लपीतेन त्रिशूलं वरसुंदरी | शिखांश ग्रहणे देवियौष्ट्याकर्षण कर्मणि || प्. २१९ब्) विषोत् कटोयं सर्वत्र आलिखेन् मंडलानि च || गणेश्वरं वदिष्यामि अधुना वरवर्णिनि | रक्तसूत्रेण सुमितं त्रिहस्तायत मण्डलं || कर्णिका केशरे पत्रे हस्तमेकं तु वाहयेत् | सूर्य चंद्र जलस्थाने हस्तमेकं तु वर्णयेत् || द्वारकं हस्तमालिख्य चतुरस्रं सुशोभनं | कर्णिका हरिता प्रोक्ता केशरं पीतमेव च || जलरूपं सिते नैव सूर्यं रक्तेन चालिखेत् | चंद्रं श्वेतेन दर्व्येण पत्रं रक्त सुशोभनं || द्वारं श्वेतं सुशोभाढ्य म * (?) सिं पूर्वकृष्णकं | दक्षिणे श्वेतनरकं कृष्णशूलं च पश्चिमे || उत्तरे हरिताकारं डमरुं च सुशोभनं | वश्याकर्षण वेधेषु मंडलेन महेश्वरी || प्रतानकं वदिष्यामि इदानीं वीरमातरि | गोचर्मरज्जुना भूम्यां पातयेत् संइतेन च || द्विहस्तमारभ्यमितं चतुर्द्वार विभूषणं | कर्णिका पंच अंगुल्या केशरं चतुरंगुलं || पत्रं षोडशमंगुल्या द्विहस्तं जलभागतः | शिरश्चत्वार मंगुल्या सर्वद्वाराणि वाहयेत् || कर्णिका हरिता भद्रे केशरं रक्तमेव च | दलं कृष्णेन कुर्वीत दलसंधिं जलं तथा || रक्तेन तु सुशोभानि धूमेन द्वार वाहयेत् | अशिं कपालं परशुं त्रिशूलं च चतुष्टयं || चतुर्द्वार समालिख्यं यथा शोभां व्रजेत् प्रिये | महासाधन काले मारणे च विशेषतः || प्रेतानकं लिखेद्भद्रे मण्डलं सर्वसिद्धिदं | शांतिकं पौष्टिकं वश्यमारणं च सुलोचनं || विशेष मण्डलं येन ज्ञात्वा कर्मसमारभेत् || पुनरन्य प्रकारेण प्रवक्ष्यामि विशेषतः | स्थूलेन कलिरित्याहुः कृष्णेन मरणं भवेत् || वक्रेहानि भवेद्घोरं छिन्नेराज भयानि च | असदृशः कृते पत्रे मंत्रसिद्धिर्न्न जायते || तस्मात् प्रयत्नं कुर्वीत यदीच्छेत् सिद्धिमुत्तमं | एवं कर्मविभागानि ज्ञात्वा कर्म समारभेत् || किमन्यत् पृच्छसे देवी कथितं रज्जुपातनं || प्. २२०अ) अथ पूजा द्रव्यमाह || यत् सर्वं भक्षपानानि द्रव्यं वित्तानुसारतः | कल्पयित्वा तु सुश्रोणि सर्वं द्रव्यं क्षमापयेत् || चंदनं च पवित्रं च गंधमाल्यं च मोहिनीं | आसनं धूप सिंदूर स्थापयेच्च यथा क्रमं || नानाविधानि मांसानिह्यनेका मत्स्यजातयः | चतुर्विधानि भक्षाणि उपदं शापदंशकाः || पूर्वोक्तं सकलं द्रव्यं पूर्णमत्र प्रकल्पयेत् || अथ क्रमेण अष्टकाष्टकमाह || तत्रादौ वीरादीनां पादप्रक्षालन द्रव्यमाह || पादप्रक्षालनं देवि सांप्रतं कथयामि ते | वचः प्रियंगु सुरभी उशीरं चंदनं तथा || वालं मांसि तथा चौरं समभागानि कारयेत् | पिष्टोदकेन भागेन श्लक्ष्णं कृत्वा यथार्थतः || उष्णोदक घटे मध्ये वहिस्थाने निधापयेत् | एकैक वीरपादौ च क्षालयेदुदकेन तु || अट्टहासेव चोत्पन्नं चरित्रायां प्रियंगुकं | कोलापुर्यां तु सुरभिर्जयंत्यां च उशीरकं || उज्जेन्यां वदनं भद्रे प्रयागे वालमेव च | वाराणस्यां च मांसी च कर्णमोद्यां तु चौरकं || एतदष्टौ समाख्याता अष्टौ क्षेत्रस्य लांछनं || उपहारविधिं वक्ष्ये शृणुत्वं वरवर्णिनि | चंदनं च पवित्रं च गंधमाल्यं च मोहिनी || आसनं धूप सिंदूरं दापयेच्च यथा क्रमं | चंदनं विरजं भद्रे पवित्रं मेरुकं तथा || हाद्रापुरं भवेद्गंधं माल्यमेलापुरं स्मृतं | काश्मीरं मोहनी ज्ञेया आसनं मेरुकं तथा || तगरं धूपमित्याहुः सिंदूरं पुण्ड्रवर्द्धनं | एतान्यष्टौ भूषणानि उपक्षेत्रस्य लक्षणं || यथा क्रमेण दातव्यमाचार्यादीन् विचक्षणः | उपहार विधानं च संक्षेपात् कथितं मया || वलि संस्थापनं भद्रे अधुना कथयामिते | वृहदारुमय पात्रे ओदनैः परिपूरिते || समुच्छ्रितं वैजयंत्या पंचरंगिक कारयेत् | अछिद्र अंतर्माल्येन दापयेद् वलिभाजने || विचित्रपुष्पमाल्येन यथा शोभां व्रजेत् प्रिये | तथा तेन प्रकर्तव्यं देवतालय शोभनं || मत्स्यमांसानि धूपानि तिलपिष्टं च मोदकं | वृक्षाम्लरुधिरं भद्रे आरक्तकं तथैव च || प्. २२०ब्) एतदष्टौ मयाख्याताः संदोह वलिकर्मणि | परस्तीरे भवेन्मांसमत्स्यं पृष्टापुरं तथा || कुद्गण्डिवो भवेद्धूपं सोपानेतिलं पिष्टकं | क्षीरके मोदकं भद्रे माया पुर्याम्लमेव च || आम्रातके भवेद्रक्तं गृहराजे अलक्तकं | समुद्रं दारुपात्रं च ओदनं मेरुमेव च || अहिराजं तु मालां तु स्रग्दानं रक्तमाल्यकं | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवं || पंचरंग पताकां च शुद्धा पंचनिवासिनी | सामुद्रमुदरं भद्रे नाभिमेरुः प्रकीर्तितः || कुण्डलाख्या हि राजं वन्नेत्र रोमं च सर्वशः | प्राणोऽपानः समानं च उदानव्या नमेव च || देवता पंचकं भद्रे शुद्धासन निवासिनी | ऊर्द्ध्वश्चासमधः श्वासः चंद्रसूर्यौ प्रकीर्तितौ || त्रयस्त्रिंशत् कोटि देवारोमकूपे व्यवस्थिता | वलि संस्थापनं भद्रे स वाह्याभ्यंतराणि च || कथितं सर्वशास्त्राणि दग्धाघृतमिवोद्धृतं || मद्यं चाष्टविधं प्रोक्तं महामांसाष्टकं तथा | अष्टौ च भैरवास्तेषां स्थाने वीराः प्रकीर्तिताः || भैरव्यस्तु तथा प्रोक्तस्तथा चाष्टौ च मातरः | तासां स्थाने शक्तयःस्युरे तद्वैवाष्टकाष्टकं || अथ पूजामाह || अर्चाचक्रं स्वविद्यायास्तन्मध्ये स्थापयेद्घटं | मद्यपूर्णं तत्र देवी मावाह्यार्चनमाचरेत् || नानाविधानि मांसानिह्यनेका मत्स्य जातयः | चतुर्विधानि भक्षाणि उपदंशोपदंशकाः || एते सम्यक् पूजयित्वा सांगां सावरणां सुरां | शक्तयश्च तथा वीराः पूज्याः पुष्पाक्षतादिभिः || अथवा || प्रत्यक्षं पूजयेद्देवी शक्तिं शक्तिः स्वरूपिणीं | वीरं भैरवरूपेण पुरुषेषु प्रयोजयेत् || यावत् प्रमाणं योगिन्यः स्वचक्रे परिपूजिताः | यावत् प्रमाणं देवेशि गुरवो भैरवादयः || दिक्पालान्ता महेशानि पुरुषां यंत्रमध्यगाः | तावत् प्रमाणं देवेशि नार्यश्च पुरुषा तथा || चक्रस्थान विभागैश्च तत् तद्वुध्या निवेशेयेत् | मध्ये विंदौ मयासार्द्धं त्वां वै युग्मात्मिकां यजेत् || प्. २२१अ) पूर्वोक्तैर्मंत्ररूपैश्च पूजाकल्पे प्रकीर्तितैः | सर्वं विविच्य विधिवदुपचारैः प्रपूजयेत् || चक्रे या देवता संख्याः संज्ञाचार्घासनानि च | पात्राणि पूर्णकुम्भाश्च प्रत्यक्षाणि निवेदयेत् || नानाविधैरलंकारैर्वस्त्रयुग्मैः पृथक् पृथक् | पुष्पधूपाक्षतैश्चैव सुगंधैश्च मनोहरैः || श्रीखण्डा गुरुकर्पूरैर्मृगमाभि विलेपनैः | मुद्राभिश्च नमस्कारैर्गीतवाद्यैस्तथैव च || विनयेन महादेविं तोषयेदिष्टदेवतां | संतर्प्य जपहोमादि सर्वं पूर्ववदाचरेत् || अथ काम्यादौ ध्यान विशेषमाह || वरदा भयहस्तास्तु प्रसन्नवदनाः शुभाः | शुक्लां वरपरीधानाः शांतिकर्मणि चिंतयेत् || पाशांकुश महाचाप पुष्पवाणधरायुधाः | रक्ताम्वरधरा देव्यावश्य कर्मणि चिंतयेत् || कृष्णा कृष्णांवरा रौद्रा रौद्रायुध परिग्रहाः | भीमकंकालधारिण्यो मंत्र मालावरा कराः || कपालकर्तृकाहस्ता पिवंत्यो रुधिरासवं | चर्वंत्पोस्थीनि खादंत्यो मारणैवं विचिंतयेत् || पीतांवर परीधाना वज्रहस्ता महाबलाः | स्तंभनेकरि कुंभस्था ध्यातव्याः श्रीकुलांविके || उच्चाटने मृगारूढाः ध्वजहस्ता सु चंचलाः | धूम्रवर्णा महादेव्योः पर्वतान्या तपं त्यपि || मोहने नीलरूपाश्च आकृष्टौ कपिलारुणौ | कपोताश्चैव विद्वेषे चित्रारोग विवर्द्धने || एवं कर्मानुरूपेण चर्काम्नायमिदं प्रियं | यष्ट्यं फलप्रदं सम्यक् भविष्यति न चान्यथा || पूजा जपस्तथा होमं मंत्रविद्या गणस्य च | ध्यानं चक्रोक्तमार्गेण शांतिकादौ यथा विधिः || अथ बलिदानं || पूजा गृहादुत्तरतस्त्रिकोणे भूगृहांतरे | उच्छिष्ट भैरवं तत्र गंध पुष्पादिभिर्यजेत् || उच्छिष्ट दोषो भवति चक्रपूजा महोत्सवे | तद्दोष परिहारार्थं भैरवं पूजयाम्यहं || तालत्रयं तथोच्छिष्ट भैरवे हि द्वयं तथा | वलिं गृह्णयुगं हूं फट् स्वाहा द्वाविंशदक्षरा || अनेन बलिदानं तु पूजां तेस्यां प्रकल्पयेत् | पूजागारं समागत्य प्रणमेच्चक्र संस्थितां || पठेत् स्तोत्रमिदं भद्रे एकाकारसुभावितः | नमस्ते चक्रवर्तिस्तु नमस्ते ज्ञानदायिने || नमस्ते शिवरूपाय नमस्ते भवतारकः | अष्टाष्टकास्तु योगिन्यः क्षेत्रपालास्तथैव च || प्. २२१ब्) भैरवं च इमं चक्रं एकाकारं नमाम्यहं | एवं स्तोत्रं पठेदाद्यं निवेश्य स्वयमासने || ज्येष्टानु क्रमतः स्थाप्यं चासनेषु यथाविधिः | स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् || अथवा मिथुनं कृत्वा क्रमात् समुपवेशयेत् | पंक्त्याकारेण वा सम्यक् चक्राकारेण वा पुनः || शिवशक्तिधियाः सर्वान् चक्रमध्ये समर्चयेत् || गुरुपात्रं समादाय मद्यामृतयुतं करे | परिषिंचेत् सामयिकां नीतिं शांतिं स्वयं पठन् || जयंति देव्या हरपादपंकजं प्रसन्न वामामृत मोक्षदायकं | अनंत सिद्धांतमति प्रवोध कृन्नमामि साष्टाष्टकयोगिनीगणं || योगिनी चक्रमध्यस्थं मातृमण्डल वेष्टितं | नमामि शिरसानाथं भैरवं भैरवीं प्रियं || अनादि घोरसंसार ध्यांत विध्वंसकारिणे || नमः श्रीनाथवैद्याय कुलौषधविधायिने | आपदोदुरितं रोगाः समयाचार लंघनात् || येः सर्वेते व्यपोहं तु दिव्यचक्रस्य मेलनात् | आयुरारोग्यमैश्वर्यं कीर्तिर्लाभः शुभोजयः || कांतिं मनोरथश्चास्तु पांतु सर्वाश्च देवताः || संपूजकानां प्रतिपालकानां यतींद्र योगींद्र तपोधनानां | विश्वस्य राष्ट्रस्य पुरस्य राज्ञः करोतु शांतिं भगवान् कुलेशः || नंदं तु साधककुलादपि दर्शकाये सृष्ट्वाघनाख्य चतुरक्त महात्वयाये | नंदस्तु सर्वकुलकौलरताः परायेत्वन्ये विशेष पदभेदक शांभवाये || नंदं तु सिद्धगुरवस्तदनुक्रमौघाज्येष्टानुजाः समयिनो वटुकाः कुमार्यः | षट्योगिनी प्रवरवीर कुलैः प्रसूतानंदं तु भूमिपति गोद्विज साधुलोकाः || नंदं तु नीतिनिपुणा निरवद्यनिष्ठानि मत्सरा निरूपमा निरूपद्रवाश्च | नित्यं निरंजनरता गुरवो निरंताः शांतोग्रशांतमनसो हृत शोकशंकाः || नंदं तु योगिनिरताः कुलयोगयुक्ता आचार्य सामयिक साधक पुत्रकाश्च | भावोद्विजा युवतयो यतयः कुमार्योधर्मे भवं तु निरता गुरुशिष्ययुक्ताः || नंदं तु साधक कुलान्यणिमाद्यनिष्टाः शापाः पतंतु समयद्युषि योगिनीनां | सा शांभवी स्फुरतु कापि ममाप्यवस्था यस्यां गुरोश्चरण पंकजमेव लभ्यं || प्. २२२अ) याश्चक्र क्रम भूमिका वसतयो नाडीषुयाः संस्थितायाः कायद्रुमरोमकूपनिलयायाः संस्थिता धातुषु | उच्छ्वासोर्मिमरुत्तरंगनिलयानिश्वासवासाश्वयास्ता देव्यो रिपुपक्षभक्षण परास्तृप्यं तु कौलार्चिताः || यादिव्याः कुलसंभवाः क्षितिगताया देवतास्तोपगाया नित्यं प्रथितप्रभा शिखिगताया मातरः स्वाश्रव्याः | यो माममृतमण्डलामृतमयायाः सर्वगाः सर्वदाताः सर्वाः कुलमार्गपालनपराः शांतिं प्रयच्छंतु मे || ऊर्द्ध्वं ब्रह्माण्डके वा दिविगगणतले भूतले निष्कले वा पाताले वा नले वा सलिल पवनयोर्यत्र कुत्रस्थितो वा | क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादि मांसैः प्रीतादेव्यः सदानः कृतवलिविधिनापांतु धीरेंद्रवंघाः || ब्रह्मा श्रीशेषदुर्गागुहवटुकगणाः भैरवाः क्षेत्रपाला वेतालादित्य रुद्रा ग्रहवसु मुनयः सिद्धयो गुह्यकाद्याः | भूता गंधर्वविद्याधरऋषिपितरः किन्नरायक्षनागायोगीशाश्चारनाः किं पुरुषमुनिसुराश्चक्रगाः पांतु सर्वे || देहस्था खिलदेवता गजमुखाः क्षेत्राधिपा भैरवाः योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाग्रहाः | अन्ये भूचरदिक्वराश्च खचरा वेतालकाश्चेटकास्तृप्ताः स्युः कुलपुत्रकस्य पिवतः पानं मदीयं चरुत् || सत्यं चेद्गुरुदक्षदेवपितरो वेदागमा योगिनी प्रीतिश्चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् | शाक्तेयं यदि दर्शनं भवति वेदाज्ञाप्यमोघास्तिचेत्सत्पंचापि च कुलिकाश्च यदि चेत्स्यान्मे जयः सर्वदा || तृप्यं तु साधकाः सर्वे स मुद्राः स गणाधिपाः | योगिन्यः क्षेत्रपालाश्च ममदेहे व्यवस्थिताः || शिवाद्य वनिपर्येतं ब्रह्मादि स्तंभ संयुतं | कालाज्ञादि शिवांतं च जगद्यज्ञेन तृप्यतां || पठित्वेभ्यर्चनापात्रं समुद्वास्य गुरुस्ततः | दद्याच्छिष्याय कुंभस्थं योगिनीभ्यः पृथक् पृथक् || पात्रं तथैव वीरेभ्यश्चेतरेभ्यः स्वयं पिवेत् || वक्ष्येथ कौलिकाचारं लोकद्वय फलप्रदं | पात्रमेलापकं चर्म प्रोच्यते कारकं || न भ्राता न पिता मित्रं पात्रमेलापकादृते | अदीक्षितैरनाचारैर मंत्रज्ञैर दैवतैः || दूषितैः समयर्दुष्टैः प्रपंच व्रतधारिभिः | स्त्रीद्विष्टैर्गुरुसप्तैश्च भक्तिहीनैर्दुरात्मभिः || प्. २२२ब्) अनभिश्चैरन्य पानैः पशुभिः क्षुद्रकर्मभिः | पदवाक्य प्रमाणज्ञैः श्रुति स्मृत्यर्थ वेदिभिः || स्त्रीद्विष्टैर्गुरु सप्तैश्च भक्तिहीनैर्दुरात्मभिः | अनभिज्ञैरन्ययानैः पशुभिः क्षुद्रक्रमभिः || पादवाक्य प्रमाणज्ञैः श्रुतिस्मृत्यर्थः वेदिभिः | कुलोपदेशहीनैश्च वैष्णवव्रतकारिभिः || ब्रह्मतेजो मुखैः पात्रमेलनं नैव कारयेत् | त्वत् पूजा निरतैः शांतैः परद्रव्य पराङ्मुखैः || कुलोपदेशकुशलैः कुलमार्ग प्रवर्तकैः | स्त्रीप्रियैः स्त्रीस्तुतैर्द्धत्यैः सुंदरैर्मृदुवादिभिः || कुलमार्गेति गुप्तैश्च विद्यावद्भिः सुरूपकैः | प्रयोगसिद्धैर्द्रव्याद्यैर्भाग्य वद्भिश्च कामुकैः || ब्रह्मभक्तैराजमान्यैर्मिलितैर्देवयोगतः | कुर्यात् पात्रस्य मेलापं सौख्य वृद्धिर्द्वयोर्भवेत् || एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः | मंत्राः पराङ्मुखायांति विघ्नाश्चैव पदे पदे || न दद्याद्भैरवायापि स्वपात्रस्थित हेतुकं | यदि दद्याच्च मोहेन देवताशापमाप्नुयात् || आसनं भोजनं पात्रं मन्यव्रशयनादिकं | अनभिज्ञैरनर्हैश्च शंकरं नैव कारयेत् || श्रोतो भेदेन वा कुर्यात् कौलिकैः पात्रमेलनं | पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा || योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकं | स्वमंत्र पादुका मूलमंत्रजप्तं पिवेत् ततः || क्वचिद्यदिच्छया प्राप्त मलिपात्रं तु भक्तितः | आदाय पूर्ववहुत्वा पिवेत् तच्च गुरुं स्मरेत् || गुरुभक्तियुतानां च गुरुज्येष्ठ कनिष्ठयोः | स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य कर्हिचित् || ज्येष्ठे कनीयसे योज्यं न पुनर्ग्राहयेत् ततः | शक्त्युच्छिष्टं पिवेन्मद्यं वीरोच्छिष्टं तु चर्वणं || आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् | उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यां नोच्छिष्टमर्पयेत् || स्वस्य मेलापकस्यापि स्थापयेदेकमण्डले | पात्रं ततोर्चयेद्देवीं तर्पणादि समाचरेत् || उत्थाप्यान्योन्य पात्रे च दद्यादन्योन्य हस्तयोः | द्वयोरैक्यं स्मरन्येयमिति पात्रस्य मेलनम् || प्. २२३अ) वालोपि दीक्षितः पूर्वे ज्येष्टस्य तु कुलागमे | द्विजोपि दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः || द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्र विनिश्चयः | स्वशक्तिं वीरशक्तिं च दीक्षितां गुरुरूपिणीं || पाययित्वा पिवेन्मद्यमिति शास्त्रस्य निश्चयः | तस्मात् सुलक्षणां शक्तिं गंध पुष्पाक्षतादिभिः || अभ्यर्च्य देवता वुद्ध्या भोगपात्रं निवेदयेत् || श्रीमद्भैरव शेष वा मृतलसच्चन्द्रामृतप्लावितं क्षेत्राधीश्वरयोगिनी जनगणैः सिद्धैः समाराधितं | आनंदार्णवकं न चात्यकमिदं साक्षात् त्रिखण्डामृतं वंदे श्रीप्रथमं करांवुजयुतं पात्रं विशुद्धीप्रदं || सर्वाम्नाय कलकलापकलितं कौतूहल द्योतकं चंद्रोपेन्द्र महेन्द्र शम्भु वरुण ब्रह्मादिभिः सेवितं | ध्यातं देवगणैः परं मुनिगणैर्मोक्षार्थिभिः सर्वदा || लोकानामतिवर्द्धनं सुखकरपात्रं द्वितीयं नमः || मद्यं मांसक मत्स्यकं हरिहर ब्रह्मादिभिः पूरितं मुद्रामैथुन धर्मकर्म सुखदं क्षाराम्लतिक्ताश्रयं | आचार्यार्चितमष्टभैरव कलान्यासेन संशोधितं पायात् पंचमकार संयुतमिदं पात्रं तृतीयं नमः || आविर्भूत स गोलकुण्ड सुखदं ब्रह्मादि रुद्रार्चितं नाराज्यं प्रथमों गजातकुसुमं दिव्याधि कूटं परैः | मछोछौमलमुत्तमोत्तमरसं संसेव्य दिव्यामृतं भूयः पंचक मुक्तिकामकमिदं पात्रं चतुर्थंमुदे || आधारे भुजगाधिराज वलये पात्रं महीमण्डलं मद्यं सप्तसमुद्र वारि पिशितं चाष्टौ च दिग्दंतिनः | सोहं भैरवमर्चयन् प्रतिदिनं तारागणैर्लक्षितं आदित्य प्रमुखैः सुरासुरगणैराज्ञाकरैः किंकरैः || छत्रं चामर भद्रपीठ परमानंदायिंतदापि रामाराज्ञ्य मनोहरं सुखकरं सायुज्य साम्राज्यदं | नानाव्याधिभवांधकार हरणं जन्मांतरं नाशनं श्रीमत्सुंदरितर्पणेन्द्र वरदं पात्रं च षष्टं भजेत् || जाग्रत् स्वप्नसुषुप्तितुर्यपुरतो चैतन्य साक्षात् प्रदं विद्युद्भास्कर वह्निचेन्द्र धनुषज्योतिः कथाभाषितं | इडापिंगलमध्यगा त्रिवलया सत् कुण्डलीचोर्द्धगापात्रं सप्तमपूरणेन तरुणानंदाधिकः पातुमां || प्. २२३ब्) खड्गं पादुकमंजनं च गुटिकं सारस्वतं सत्यदं मृत्योर्वंचनमुग्रकार्यं ग्रहणं देहस्थिरेः कारणं | पायात् सिद्धिकरं मनः स्थिरकरं वश्यं जगघोषितां पात्रं चाष्टसिद्धिकरणं प्रौढः प्रसन्नं सदा || सर्वानन्दकरं सदाशिवपदं द्वंद्वैक भक्तिप्रदं साम्राज्यं सुखदं मनोरथकरं त्वं ज्ञानविध्वंसनं | आयुः कीर्तियशोविवर्द्धनकरं संसार मोहछिदं पात्रेयं नवनाथ शक्ति नवकं प्रौढ प्रतापोदितं || त्रिपात्रं पंचपात्रं वा सप्तपात्रमथापि वा | नवपात्रं पिवेद्वापि षोडशार्द्धं पिवेन्न हि || यावन्न चलते दृष्टिर्यावन्न चलते मनः | तावत्पानं प्रकुर्वीत पशुयान मतः परं || पूर्णाभिषेक युक्तानामानं देवि निगद्यते | कराभ्यां पात्रमुद्धृत्य स्मरन् मूलं च पादुकां || आगलांतं पिवेन्मद्यं स मुक्तो नात्र संशयः | पीत्वा पीत्वा पुनः पीत्वा यावत्यतति भूतले || उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते | आनंदात् तृप्यते देवी मूर्छया भैरवः स्वयं || चमनात् सर्वदेवास्तु तस्मात् त्रितयमाचरेत् || ब्रह्माज्ञानी कुलाचारे सुरां पीत्वा स बलन्मुहुः | भूमौ पतति तस्याङ्गेलगंति यदि रेणवः || तावत् कालं रेणु संख्यं ब्रह्मलोके समोदते | पीत्वा पीत्वा जपित्वा च मुक्तः कोटी कुलैः सह || ब्रह्मलोके वसेद्देवि सत्यं सत्यं न संशयः | तत्रैव व्याप्ति माप्नोति न पुनः प्रपतेदिह || पीत्वा च पूजयित्वैशामीशत्वं लभतेद्ध्रुवं | तत्रैव लयमाप्नोति पुनर्न्नैव निवर्तते || तत्र मत्तेषु वीरेषु कार्याकार्यं न विद्यते | तत्र यद्यत् कृतं कर्म शुभं वा यदि वा शुभं || तत्सर्वं देवता प्रीत्यै जायते मात्र संशयः | जल्पो जपफलं तंद्रा समाधिरभिधीयते || विक्रिया पूजनं प्रोक्तं छर्दितं भैरवो वलिः | मूर्छास्याच्छक्ति संयोग स्तोत्रं तत्काल भाषणं || न्यासोवयव संस्पर्शो भोजनं हवनक्रिया | ध्यानं वीक्षणं प्रोक्तं शयनं वंदनं भवेत् || तदुल्ला स कृतानां च या चेष्टा सा च सत्क्रिया | कार्याकार्यविकारं तु यः करोति सपातकी || एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः | ये ना स्रुवंति मनुजाः साक्षाद्भैरवरूपतां || संमोद कोपशमनं पतनोद्गाण नर्तनं | वेणुवीणादिवाद्यं च कविता रचनादिकं || रोदनं भाषणं पातः समुत्थानं विजृंभणं | गमनं विक्रिया देवी योग इत्यभिधीयते || प्. २२४अ) विकृतिं मनसो हित्वा यदोल्लासः प्रवर्तते | तदा तु देवता भावं भजंते योगपुंगवाः || कौलिकान् भैरवावेशान् यो वा निंदति मूढधीः | तन्नाशयंत्य संदेहो योगिन्यो नात्र संशयः || यद्वद्भकिमदावेशादद्मुक्तं कौलिको मतः | तत् तद्भवत्य संदिग्धं शुभं वा यदि वा शुभं || तारो नमो भगवति मद्यमांसविहारिणी | रति प्रिये चक्रदेवी वद कौलिकवल्लभे || सत्यं मनोगतमेद्येत् युक्त्वा मद्यं पलान्वितं | प्रदद्यात् कौलिकेभ्यस्तत्तन्मत्ताः प्रव्रुवंतिते || तत्र कश्चिदकौलश्चेन्न च स्फुरति भारती || न निंदेन्न हसेत् द्रप्येच्चक्रे मधुमदा कुलान् | एतच्चक्रगतां वार्तां वहिर्नैव प्रकाशयेत् || तेभ्योद्रोहं न कुर्वीत नाहितं च समाचरेत् | बक्त्या संरक्षयेत्तान्नै गोपयेच्च प्रयत्नतः || चक्रे च प्रमदां दृष्ट्वा चिंतयेद् देवताधिया | मोदते वंदते भक्त्या स गच्छेद् योगिनी पदं || प्रवृत्ते भैरवी चक्रे सर्वे वर्णाद् विजातयः | निवृत्ते भैरवी चक्रे सर्वे वर्णाः पृथक् पृथक् || स्त्रियोथ पुरुषः पशुश्चाण्डालो वा द्विजोत्तमः | चक्र मध्ये न भेदोस्ति सर्वे देव समाः स्मृताः || चक्रमध्ये गताः सर्वे पुरुषाः शिवरूपिणः | स्त्रियः सर्वाश्च पार्वत्या तस्माद्भेदं न कारयेत् || कामुको न स्त्रियं गच्छेद निच्छंति मदीक्षितां | सद्यः संस्कार संशुद्धां विहितत्वाद् व्रजेत् स्त्रियं || सहस्रचक्र पूजातोराज्यभ्रष्टो नृपो भवेत् | पंचाशद्भिश्च पुत्राप्तिर्नीरोगोदशभिर्भवेत् || यस्य चक्रस्य पूजायां रतात् स्खलति चांगना | अवश्यं सार्वभौमो सौवर्षमध्ये भविष्यति || यथेप्सित प्रियाप्राप्त्यै पंचधापूजनं चरेत् || अथ कौलिकार्चनं || महेश्वरं समालोक्य पूजयेद्विधि पूर्वकं | यथा विभवरूपेण पंचतत्वं नवद्य च || सदा तुष्टा भवेद्देवी सर्वान् कामांल्लभेदपि | अन्यथा नैव सिद्धिः स्यात् क्रुद्धा भवति योगिनी || मेदिनीं यस्तु पूर्णां च ब्राह्मणो वेदपारगे | दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने || अश्वमेध सहस्राणि वाजपेय शतानि च | ईष्ट्वा यत् फलमाप्नोति तत्फलं कौलिकार्चने || प्. २२४ब्) मेरुतुल्य सुवर्णं तु ब्राह्मणे वेदपारगे | दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चनात् || वापी कूप तडागिदि कृत्वा यत्फलमाप्नुयात् | तत्फलाल्लक्षगुणितं कौलिकानां प्रपूजनात् || कपिलां च गवां दत्वा यत्फलं लभते नरः | तत्फलं कोटि गुणितं कौलिकानां प्रपूजनात् || अथ दूतीयागः || पुरुषेण विना किंचित् प्रकृत्या क्रियते नहि | तथा शक्तिं विना देवोफलं दातु क्षमो नहि || तस्मात् पुंशक्ति संयोगं कृत्वा मंत्रं प्रसाधयेत् | कौलिके वाममार्गे च पुमान्देवो न सिद्ध्यति || आत्मानं तु शिवं ध्यायेद् देवतां शक्तिरूपिणीं | क्रीडेत्यं च मकारैस्तु सुप्रीता तस्य देवता || दक्षमार्गे मातृबुद्धिः स्त्रीबुद्धिः कौलिके पथि | यस्य तास्ता दृढतरातस्य तुष्टात्तु देवता || एतद्रहस्यमाख्यातं गोप्यं मातरि जारवत् || शैवाः स्मार्ता याज्ञिकाशतान्न कुर्वंति पार्वती | कौलानामागमज्ञानां तांत्रिकाचारवर्तिनां || अनुकल्पप्रदातॄणां मध्यस्थानां तथैव च | देवीति बुद्धिर्योसित्सुयेषामतिरर् चंचला || तेषां काली सुभक्तानां सर्वदा निश्चितात्मनां | आवश्यकी शक्तिपूजा पीठपूजा वदीश्वरि || कालीवुद्ध्यैव संपूज्या न कामाकुलयाधिया | चतुर्थाश्रमिणा मुक्ताये काल्यर्चन तत्पराः || कौलिका वाप्य कौला वामे चैतन्मतवर्तिनः | तेषां नित्या शक्तिपूजाप्राहैवं मां पुरद्विषः || सा शक्तिर्द्विविधा ज्ञेया स्वकीया च पराङ्गना | स्वजातिः संभवाया तु परिणीता भवेत् प्रिये || सा स्वकीया समुद्दिष्टा तथानेयं प्रशस्यते | परकीया पंचविधाताः क्रमेण व्रवीम्यहं || संजीवद्भर्तृका चैका तादृगेव मृतप्रिया | दासी वेश्या तथाऽनूढा प्रशस्ता चोत्तरोत्तरं || अजातवत्सा युवतीता स्वाद्यैव प्रशस्यते | कदाचिज्जातवत्सापि सा सर्वसदृशीमता || अभावे पूर्वपूर्वायाः पराग्राह्या हि साधकैः | साधिकायास्तु कौलाया एवमेव पुमानपि || न साधकं विना नार्यो न पुंसः साधिकामृते | मंत्राः सिद्ध्यंति देवेशि कल्पकोटि शतैरपि || प्. २२५अ) परस्त्री संगमो मद्योपशून्वा प्राणिमारणं | स्वार्थं चेन्नरकायैव देव्यर्थं सुकृताय हि || को हेतुन्नविजानामि देवीप्रीतिकरा इत्यमे | न पाप जनकं यद्वद्यज्ञार्थं पशुघातनं || न किल्विषकरस्तद्वत् परस्त्रीसंगमादिकः || अथ शक्तीनां जातिविशेषः || नटीकापालिनी वेश्या रजकीनापितांगता | ब्राह्मणी शूद्रकना च तथा गोपालकन्यका || मालाकारस्य कन्या च न च कन्याः प्रकीर्तिताः || नान्यूनांग्योनाधिकांग्यो न स्थूलानाधिकं कृशा | न छिन्ननासांगुलिका न दीर्घा न च वामना || न गुण्डिता न कुब्जाश्च मूकांध वधिरा न च | न केकरा न खंजाश्च भिन्नयोनिर्गलात्कुचा || वालापत्याश्च नित्येभ्यो न कार्याः शक्तयस्त्विमाः | वदामि योग्यां साधिक्यां याभिस्तुष्पतिकालिका || गौरांगी युवती रम्यास्मेरास्या चारुविग्रहा | विशाललोल नयना पीनोन्नतपयोधरा || विशालजमना भोगावलि त्रय विराजिता | सुपार्श्व तनुमध्या च सुस्वरा कुंचितालका || विचित्रवेशाभरणा विचित्रां वरधारिणी | विचित्र स्रक्समाकीर्णा विचित्ररतिदायिका || सदा प्रसन्नवदना देव्या भक्तिपरायणा | कौलिकाचरणज्ञा च साधके भक्ति तत्परा || भयहीना स्मेरमुखी सर्वदा प्रियवादिनी | समयाचार सम्पन्ना मंत्रज्ञा भयवर्जिता || विदग्धा चा प्रसूता च धैर्य स्वातंत्र्य संयुता | एवं गुण समायुक्ताः पूजयेत् सर्वयोषितः || अथ विद्याविशेषे शक्तिविशेषमाह || गंधरूपा जातिभेदैर्महाविद्याः प्रकीर्तिताः | तत् क्रमं देवदेवेशि शृणु यत्नेन सांप्रतं || रूपगंध क्रमेणैव नामदद्यान् महेश्वरी | मातृ पितृ कृतं नामत्यक्त्वा यत्नेन पार्वती || स्वयं नामप्रदद्याद्वै यथा योगेन पार्वती || या कृष्ण नीलकृष्णाभा मधुपिंगललोचना | साधका कांक्षि हृदया पुंगंधानिंद्यगंधिका || तस्यां काली समायोज्या सा काली परिकीर्तिता || प्. २२५ब्) मद्यगंधा तु या नारी रक्तनेत्राति निष्ठुरा | महोग्रतारा सा प्रोक्ता महापाप विनाशिनी || सर्वदा भोजनाशक्ता वहुभोज्याति चंचला | त्रैलोक्यमोहनाकाराच्छिन्ना विद्याः प्रकीर्तिता || सर्वलक्षण संयुक्ता नानागंध समाकुला | सुंदरी चारुकेशां च दीर्घनेत्रा मनोहरा || नानाविलासकुशला कुलशास्त्रविचरिणी | गुरुवक्षः स्थलाक्रांता मध्या विरलदर्शिनी || सुंदरी सा भवेद्गौरी सर्वकार्य प्रवर्तिनी || या सा तृतीया गौरांगी मधुगंधानुलेपना | त्रिपुरानाम सा देवी स्वपुष्प क्रमसाधिनी || चार्वंगी चारुनेत्रा च कंजपद्मासनस्थिता | पीताभरणभूषांगी कमलाः परिकीर्तिता || गुंजाहार विभूषाद्या श्यामा चंचललोचना | चारुहासा तु मातंगी विद्याख्याता महेश्वरी || दिव्यवर्णा कृशांगी च दिव्यगंधानुलेपना | भुवनेशी मया प्रोक्ता नानाभूषणभूषिता || पिंगनेत्रा पिंगकेशा किंचिद्दुच्चाटिहासिनी | धूमावती च सा प्रोक्ता सिद्धविद्या शृणु प्रिये || लंववक्त्रा च लंवौष्ठी पीतवर्णाति निश्चला | बगला सा महेशानि कीर्तिता तव सुव्रते || दशविद्या इमाख्याता शक्तिरूपेण पार्वती | दशविद्या महेशानि मातृ स्त्रीभगिनी क्रमात् || क्रीडंति सततं देवि विद्या एव न संशयः | दशक्रमो महेशानि दशविद्या सु यत्नतः || सर्वथा कारयेद्देवि नान्यथा युगकोटिभिः | न हि सिद्ध्यंति देवेशि दशपद्म जपेन वैः || तस्मात् सर्वप्रयत्नेन स्व स्व विद्या क्रमं चरेत् | आत्मीया च परा चैव शक्तिमात्रं महेश्वरि || मंत्राधि देवता वुद्ध्या पूज्याः सर्वोपचारकैः | विविधैः फलतांबूलैर्वस्त्रालंकार हेमभिः || संपूज्य विधिवद्भक्त्या वहु हेतुं प्रदापयेत् | संभोगवासनां धृत्वायः कुर्याच्छक्ति पूजनं || स दारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवं || प्. २२६अ) वहुभिः किं वचो जालैः समासात् समयं शृणु | निर्दिश्यते शक्तिपूजा कौलिकानां दिने दिने || प्रत्यहं च सुरादानं तत् स्वीकारोऽन्वहं तथा | नित्यतोक्तस्तयोर्द्देवि कुलमार्गरतेषु च || हेयाहेय विचारोपि विरलः शक्तिषु प्रिये | अनुकल्पप्रदा तृणामपि नित्यत्वमेव हि || विहायगर्हिता शक्तिर्योग्या एव हि गृह्यते | इतरेषां शक्तिपूजाकाम्या नैमित्तिकी तथा || समाधिस्थित चित्तानामितरासां निराकृतिः | विधानं कलयेदानिं मंत्रानपि च पार्वती || स्नातां दिव्यां वरधरां नानालंकार मण्डितां | युवतीं पीन वक्षोजां तथा चाकृत भोजनां || हस्ते गृहीत्वा वामोरौ स्थापयेच्छक्तिमुत्तमां | अशक्नुवा * (?) वोडंतां देव्या वामेथ चासने || वामभागे समालिख्य त्रिकोणं पद्मवर्तुलं | श्वेतरक्त समायुक्तां नालं सिंदूरचर्चितं || साधकः प्राङ्मुखो भूत्वा देवीं प्रत्युङ्मुखीं यजेत् | उड्डियानं तु त्रेतायां कृते पूर्णगिरिं यजेत् || जालंधरं द्वापरेषु कामपीठं कलौ युगे | तानि चत्वारि वक्ष्यामि गुह्याद्गुह्यतराणि च || ऋष्यादिवं चरेदादौ ततः शोधनमाचरेत् || ऋष्यादिकं शृण्विदानीं एतस्य सुरवंदिते | श्रीशक्तिपूजनस्यास्य गोनर्द्द ऋषिरीरितः || विकृतिश्छंद आख्यातं शक्तिरूपा यदादनु | महाकाली देवता च कामो वीजमुदाहृतं || शक्तिर्वधूर्भौवनेशी कीलकं समुदाहृतं | शिवशक्तिः सामरस्य प्रकाशे विनियोगता || संसर्ग पंचदीर्घाद्यैर्वधूवीजैःषडंगकं | विधायात्मनिशक्त्यंगेन्यासं वाच्यमथा चरेत् || स्त्रीचेछक्ति पदस्थाने भैरवेति पदं वदेत् | योषिद्योनि पदस्थानेस्यालिंग पदकल्पना || गुरुपदेशतश्चापि स्ववुद्धा वा सुरेश्वरि | द्रुहः सर्वत्र कर्तव्यो लिंगे तत् तत्पदेति च || समानः किंतु गायत्र्या मासमानो भयत्र हि | न्यासोद्धारमिदानिं त्वं सावधाना निशामय || प्. २२६ब्) त्रयाकासो रमारावो योगिनी रोषयोषिता | डाकिनी प्रलयोहारः फेत्कारी कर्णिकापि च || प्रेतो नृसिंहः कुलिकं चिछक्तिः सर्वशेषगाः | एकैकं परतो दद्याद् वीजं नाम्ना सुरार्चिते || तान्यप्यादौ कौलिकी च भगमालिन्यनंतरं | रतिप्रिया तथाऽनंगोऽकुला समयपालिनी || मदनोन्मादिनी कामावेशिनी तदनंतरं | वित्तोन्माथिन्यपि ततो मोहन्याकर्षणी तथा || स्मरातुरानङ्ग रूपानङ्ग हृप्रमोदिन्यनंतरं | संतापिनी ततः संक्षोभिणी च त्रिदशार्चिते || सर्वशेषे परिज्ञेया सामरस्य स्वरूपिणी | एताः षोडश वैकार्या ङेंताः पूर्वार्ण संयुता || स्त्रीकर्तृकत्वे पुंलिंगा भैरवार्चन कर्मणि | नमः शेषेषु सर्वेषु स्थानानि कल्पयाधुना || शिरः कपोलौ च गलः स्कंधौ वक्षः कुवौ तथा | पार्श्वो कुक्षिश्चनाभिश्चवस्तिर्वंक्षण एव च || ऊरुजानू च जंघे च पादौ योनिश्च शेखगौ | जीवन्यास वदेतस्याः सामरस्यमथा चरेत् || एत देवेति संप्रोक्तं शक्तिशोधनमीश्वरी | कृत्वा प्रहस्तु करो दत्वानु हृदुरोजयओः || कामपीठेथ वा देवी नाभौ मौलीयकीमते | मनुं गृणन्वक्ष्यमाणं वारैकं वा त्रिवारकं || जीवन्यासात्मकमिदं शक्तिशोधनमाचरेत् | अनेन शुद्ध्यते शक्तिर्नान्यथा मंत्रकोटिभिः || मायाकामो वधूर्लक्ष्मीः कूर्चः प्रासाद एव च | शाकिनी डाकिनी चापि वीजान्यष्टौपुरः स्मरेत् || भोगानंद कलाशक्तिर्जीवात्मा परमात्मकाः | प्रतिविंवाद्वैतसंज्ञकात्म्यनामलयाऽभिधान् || दशकूटान् क्रमात् प्रोच्य ब्रह्म तद्विपरीतकं | द्वयं दशांत उच्चार्यमेवमर्द्धार्द्धसम्मितं || ततो ममानु हृदयेतवानु हृदये वदेत् | दधातु मम वाच्युक्त्वाते वाचं समुदीरयत् || ममेंद्रियेषु तदनु प्रवदेत् कमलानने | ते इंद्रियाणि च संभाष्य मम वाचं जुषस्व च || ततः सिद्धिकरालीति त्वां मह्यं नियुनक्तु च | यैवत्वं च स एवाहं य एवाहमितीरयेत् || प्. २२७अ) सैवत्वं संधिनायुक्तमुभौ तदनुकीर्तयेत् | शिवशक्ति समारस्य मापन्नौ तदनंतरं || तदैकमिति संकीर्त्य साधयाव इतीरयेत् | स संधिस्तार हृच्छीर्ष मंत्रस्तदनु सुंदरि || अयं मंत्रः समुद्दिष्टः शक्तिशोधन कर्मणि | अष्टोत्तरशतार्णाद्योन न्यूनोनापि चाधिकः || ध्यानं पूर्वोदितं यत्ते भगवत्या मया तव | शक्तिं च तादृगाकारं ध्यायेद्वीक्ष्याङ्ग संचयं || भैरवध्यानसदृश मात्मानं च विभावयेत् | तत आवाहयेद्देवीं शक्त्यंगे पीठसन्निभे || वक्ष्यमाणेन मंत्रेण साधकोंजलि मुद्रया | मायाकामवधूराव कमला योगिनीरुषः || डाकिनी चापि फेत्कारी न वैतान्यादिगानिहि | एह्येहि भगवत्युक्त्वा महाकाली समीरयेत् || शक्तिपीठेऽनुसान्निध्यमावेशय समुद्धरेत् | ततस्त्वामहमुल्लिख्यावाहयामि च कीर्तयेत् || सर्वशक्ति समाभाव्य स्वरूपिणि ततो वदेत् | तारं प्रतिष्ठ शीर्षं च शक्ति मूलमनुं शृणु || मायारावः स्मरो नारी शक्तये हृदयं ततः | मंत्रो नवाक्षरः प्रोक्तः शक्तिपूजन कर्मणि || ऋष्यादिर्नास्ति चैतन्य न छन्दो वीजशक्तयः | किंतु पाद्यादि सर्वोपचाराद्यर्पण हेतुकः || जप्तव्यो नैव चायं हि त्रिपुर प्रवचो यथा | सर्वोपचारान्ये तेन प्रदद्यात् किंतु शक्तये || पाद्यदानादि नैवेद्यदानांतं यद्यदिष्यते | न चान्यमंत्रो भिन्नास्ति मन्मते जगदीश्वरि || कूर्चतेयंतु मौलेया तदमूलं विभाव्यतां | शक्तिपूजा वशिष्टं यत् पुष्पस्रगनुलेपनं || यदात्मने दीयते तत् सामरस्यार्चनं भवेत् | तदमंत्रं प्रकर्तव्यं मेवमीशान शासनं || ततो दत्वा करं शक्तिर्योनिपीठे जपं चरेत् | साधकः शक्तिगायत्र्या शतमर्द्धार्द्धमेव वा || योनिपीठे जपप्रख्यो न जपः क्वापि विद्यते | सद्यः प्रभावजनको मंत्राणां पीठ उत्तमः || मंत्राणां वलहीनानां प्रयोग क्षीणचेतसां | अनुद्धृतानां शापेभ्यो न्यूनाधिक्यार्णताजुषां || गुरुम्लिष्टानामपि च प्रदानोनौजसां तथा | अज्ञानविधि पूजानाम पात्रार्पणभगिनां || त्यक्तानां विस्मृतानां च तथा चैवा प्रभाविनां | संधुक्षणार्थमुभयं प्रोक्तं त्रिपुरवैरिणा || एकं निर्वाण मंत्रेण संपुटीं कृत्य तज्जपं | कौलासने नापरं च योनिपीठे जपक्रिया || कौलासनं योनिपीठे जपः स्त्रीणा मनुग्रहः | गुरुस्त्री शक्तिता चापि मिश्रीभूय जपेद्वयोः || अन्यैः समिन्धनं मत्रैर्वीजाधिक्य करं परं || प्. २२७ब्) अथातः शक्तिगायत्रीं शृणु देवि महाफलं | कामवीजाद् भगवतीं ङेन्तांपुरत ईरयेत् || विद्महे योनिमालिन्यै धीमहीति ततः परं | तन्नः शक्तिरिति प्रोच्य सर्वशेखे प्रचोदयात् || एषा हि शक्ति गायत्री सर्वागम सुगोपिता | एतां नि नालशक्यर्चान शक्त्यर्चाङ्गिको तपः || यथाशक्ति जपित्वैनां तत्समर्प्य च शक्तये | वामोरावुपवेश्यैव कुर्यान् मूलजपं प्रिये || पूजयेन्मदनागारे रक्तचंदनचर्चिते | भगे तदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः || एकोत्तराहिका चांडी सौरी चान्या तु वाहिकाः | आग्नेयी चापराज्ञेया पूजयेत्तास्तु साधकः || अंबु स्रवति चांडी सा पुष्पं स्रवति भानवी | वीजं स्रवति चाग्नेयीतास्तु नामभिरर्चयेत् || वाग्भवाद्यैर्नमोयुक्तैः पूजयेत् सुप्रसन्नधीः | ध्यानं कुर्यान् महेशानि गह्वरे मकरानने || ताम्रचूडशिखाकारं गजवक्त्र समप्रभं | तत्र स्थानं चिंतयेद्देवीं विद्यां भुवनमोहिनीं || भगमालामंत्रस्तु || वाग्भवं भगशब्दांते भगेभगिनि चालिखेत् | भगोदरि भगांते तु भगमाले भगावहे || भगगुह्ये भगप्रांते योनिप्रांते भगांतके | निपातिनी च सर्वांते ततो भगवशंकरी || भगरूपे ततो लेख्यं नीरजायत लोचने | नित्यक्लिन्ने भगप्रांते स्वरूपे सर्व चालिखेत् || भगानि मेह्या नमोंते वरदेथ समालिखेत् | रेते स्वरेते भगवत् क्लिन्न क्लिन्न द्रवे ततः || क्लेदय द्रावयश्चाथ सर्वसत्वान् भगेश्वरि | अमोघे भगवीच्चे चक्षुभः क्षोभश्च सर्व च || सत्वान् भगेश्वरि व्रूयाद्वाग्भवं व्रूं जपादिदं | भं प्लूं मां व्लूं च हैं क्लिन्ने ततः परं || सर्वाणि च भगान्यंते मेव शञ्चानयेति च | स्त्रीवीजं च हरप्रांते वलमात्मकमक्षरं || भुवनेशीं समालिख्य विद्येयं भगमालिनी | चतुर्थ्यंतं यजेद्देवी भगे पुष्पं विनिःक्षिपेत् || प्रक्षाल्य कुलद्रव्येण गंधपुष्पैः समर्चयेत् | धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् || इहाप्या वाहनं नास्ति जीवन्यासा महेश्वरी | अथैवं च विधानेनताः षोडशोपचारकैः || इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरोश्वरो भवेत् || प्. २२८अ) अर्चयेद्गंधपुष्पाद्यैः स्वशिवं तदनंतरं | अथन्यासं प्रवक्ष्यामि शिवात्मानं विभावयेत् || पंचवक्त्रं महादेवं कलायुक्तं न्यसेत् क्रमात् | ईशानस्सर्वविद्यानां शशिनी प्रथमाकला || ईश्वरस्सर्वभूतानामङ्गदा तदनंतरं | ब्रह्माधिपति शब्दांते ब्रह्मणोधिपतिः पुनः || ब्रह्मेष्टदा शिवोमेस्तु मरीचि संपुट न्यसेत् | सदाशिवः समुच्चार्य अंशुमालिन्यथा परा || तत्पुरुषाय विद्महें कलाशांतिरितीरिता | महादेवायधीमहि कलाविद्या तथैव च || तन्नो रुद्रः पदं पश्चात् प्रतिष्टा कथिता कला | प्रचोदयात् समुच्चार्य निवृत्तिः स्यात् ततः परं || पूर्वपश्चिमयाम्येषु उत्तरेष्व पारु क्रमात् | हृदये विन्यसेद्देवी अघोरेभ्यः स्तमः कला || अथ घोरेभ्यो मोहां च ग्रीवायां विन्यसेत् ततः | घोरांते स्यात् क्रियापश्चाद् दक्षिणांशे प्रविन्यसेत् || नमस्तेस्तु क्षुधां पश्चात् कलां पृष्ठे न्यसेत् क्रमात् | रुद्ररुपेभ्य इत्यंते तृषान्तार नमोंतकाः || वामदेवाय नमोंते रजास्याद् गुह्यदेशके | मुख सव्ये प्रविन्यस्य रक्षां ज्येष्ठायवै नमः || रुद्राय नमो रतिं पश्चाद् वाममुखं कलामिमां | कालाय नम इत्यंते पालिनी उरुदक्षिणे || कलकामाय देवेशि वामे विकरणाय च | नमः पदं समुच्चार्य संयमनीन्दक्षजानुनि || वलक्रिया समादिष्टा वामे विकरणाय च | नमोंते वृद्धिमुच्चार्य दक्षिणे स्फिचि विन्यसेत् || बलप्रमथनाय नमो रात्रिं वामे प्रविन्यसेत् | सर्वभूतदमनाय नमोन्ते ब्राह्मणीकला || कटिदेशे प्रविन्यस्य मनौ ते मोहिनीङ्कलां | दक्षिणे पार्श्वकेन्यस्य उन्मनाय नमोज्वलां || पादयोस्तन नासासु मूर्द्ध्नि वाहु युगेन्यसेत् | सद्यो जातोद्भवास्सम्यगष्टौ मंत्री कलाः क्रमात् || सद्योजातं प्रपद्यामि सिद्धिः स्यात् प्रथमाः कला | सद्यो जाताय वै भूयो नमः स्यादृद्धिरीरिता || भवेद्युतिस्तृतीयास्याद भवे तदनंतरं | लक्ष्मीश्चतुर्थी कथिता ततो नाति भवे पदं || मेधाख्या पंचमी प्रोक्ता कला भूयो भवस्वनां | प्रज्ञा समीरिता षष्टी भवांते स्यात् प्रभा कला || प्. २२८ब्) उद्भवाय नमः पश्चात् सुधास्यादष्टमी कला | प्रणवाद्याश्चतुर्थ्यंता नमोंताश्च प्रविन्यसेत् || एवन्या स विधिं कृत्वा स्वयं शैवं विभावयेत् | पंचाक्षरं पुरस्कृत्य रुद्र ध्यानपरायणः || सामरस्यमयं कृत्वा रक्षार्थं कवचं पठेत् | वध्वा तु क्षोभिणीं मुद्रां यंत्र मध्ये विनिःक्षिपेत् || भगं कुंडं श्रुवो लिंगमाद्यं चैव तु वीर्यकं | सर्वतत्वं समुच्चार्य सहस्रं जपमाचरेत् || धर्माधर्म हविर्दीप्त आत्माग्नौ मनसा श्रुवा | सुषुम्णा वर्त्मना नित्यमक्ष वृत्तिर्जुहोम्यहं || स्वाहां तोयं महामंत्र आरंभे परिकीर्तितः | शिवशक्ति समायोगो योग एव न संशयः || शीत्कारो मंत्ररूपं च वचनं स्तवनं भवनं भवेत् || आलिंगनं च कस्तूरी कर्पूरं चुंवनं भवेत् | नखदंष्ट्राक्षतादीनि पुष्पाणि विविधानि च || मथनं तर्पणं विद्धि वीजपातो विसर्जनं || आलिंगनं चुंवनं च स्तनयोर्मर्दनं तथा | दर्शनं स्पर्शनं योनिर्विकारं लिंगघर्षणं || प्रवेशं स्थापनं शक्तेर्न्नवपुष्पाणि पूजयेत् | न दद्याच्चुम्बनं यस्तु दरिद्रो जायते ध्रुवं || आलिंगनं विना देवि कुष्टी भवति पार्वती | विना दंतक्षतैर्देवि लोके भवति निंदितः || आलिङ्गने हरेद्रोगान् धनधान्यादि चुंबने | नखदंतक्षताद्यैश्च तदा मोक्षः प्रजायते || सायुज्यं संगमे तस्यात् सत्यमेव न संशयः | प्रकाशाकाशहस्ताब्यामवलंव्योन्मनी श्रुचा || धर्माधर्म कला स्नेहपूर्णमग्नौ जुहोम्यहं | स्वाहांतोयं महामंत्रः शुक्रत्यागे प्रकीर्तितः || शुद्ध मंत्रौषधे नैव यानैस्तु मंथनं चरेत् | मध्यमाने च तस्या हि जायते तत्वमुत्तमं || गृह्नीयात् तत्प्रयत्नेन द्रव्यं कुण्डोद्भवं शुभं | तेनामृतेन दिव्येन काइल्कां तर्पयेत् सदा || सान्निध्यात् तत्क्षणाद्वापि प्रीता सिद्धिं प्रयच्छति | समस्त देवतानां तर्पणं च सदामृतैः || गुरुणां साधकानां च सर्वेषां तर्पणं चरेत् | ते नामृतेन दिव्येन सर्वे तुष्टा भवंति च || यत् कामं कुरुते मंत्री तत्क्षणादेव सिद्ध्यति || कुलामृतं समादोय तत्रार्घे निःक्षिपेद्बुधः | ततः सोमकलाः पूज्याः साधकैर्निर्मलाःशयैः || प्. २२९अ) मधुभाण्ड सहस्रैस्तु मांस भारशतैरपि | नैव तुष्टा भवेद्देवि भगलिङ्गामृतादृते || कुलद्रव्यं च संशोध्य शिवशक्तिमयं प्रिये | जीवामृतं परब्रह्मरूपं निःक्षिप्यसुंदरि || अर्घ्यपात्रामृतैर्यष्ट्वा निर्विकल्पः सदानघः | अर्घद्रव्यैश्च देवेशि योनौ देवीं प्रपूजयेत् || योनिपूजां विना पूजा कृता वाप्य कृता भवेत् | दुतीयागे कृतं मंत्री सर्वज्ञायते ध्रुवं || न तस्य पुनरावृत्तिः कल्पकोटि शतैरपि | यैः कृतयजनं दूत्यास्तैरिष्टाः क्रतवोऽखिला || सर्वतीर्थमयः प्रोक्तः सर्वदेवमयो भवेत् | पुरश्चर्यादि सकलं कृतं तेन न संशयः || अश्वमेध सहस्राणि वाजपेय शतानि च | आसमुद्रा च धरणी दत्ता तेन स दक्षिणा || मेरुमण्डल तुल्यानि सुवर्णान्यर्पितानि वै | गो कोटि दानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये || तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् | पूजा संपूर्णदे भद्रे सर्वारिष्ट प्रनाशकं || योनिपूजायुता पूजाकृतामप्यक्षया भवेत् | आयुरारोग्य विभवानमिता लभते नरः || अनेनैव विधानेन विषार्त्तो निर्विषो भवेत् | पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं || मातंगी शक्तिमभ्यर्च्य तयास्साकं समर्चयेत् | मातंगी मन्मथोपेतां सर्वकामार्थसिद्धये || शक्त्या साकं सदा पुज्या मातंगी मंत्रदेवता | सा देवी शक्तिहीना तु न ददाति मनोरथं || पूर्णाभिषेक रहितो यः शक्तिं शोधयेन्नरः | सोधमः पतितो रोगी पंचत्वं लभते ध्रुवं || इंद्रियाणाम धृष्यत्वात् कामलाभादि संभवात् | प्रायः कलौ कौलिकेयं पंथा नरक हेतवे || उत्तमा नित्यपूजास्यान् मध्यमं पर्वपूजनं | मासपूजाधमा प्रोक्ता मासादूर्द्धं पशुर्भवेत् || मासे वाथ त्रिमासे वा षण्मासे वत्सरेपि वा | श्री गुरुं पूजयेद् भक्त्या प्राप्तै तत् स्त्रीसुतादिकान् || तदभावे तत् कुलीनं तच्छिष्यं वान्ययोगिनं | संतोषयेत् कुलद्रव्यंश्चक्रपूजा पुरःसरं || अथ चक्रस्य विशेषाचारमाह || उच्छिष्टो न स्पृशेच्चक्रं कुलद्रव्यं तथा गुरुं | वहिः प्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् || मद्यभांडं समुद्धृत्य न पात्रं परिपूरयेत् | भोगपात्रं सुराकुंभं निःक्षिपेन्न कदाचन || प्. २२९ब्) चक्रमध्ये सुविधिं वा करास्य क्षालनादिकं | यः करोति हि मूढात्मा स भवेदा पदां पदं || निष्टीवनं मलं मूत्रमधो वायुविसर्जनं | श्रीचक्रमध्येयः कुर्यात् स भवेद्योगिनी पशुः || चक्रमध्ये घटे भिन्ने पात्रे वा स्खलिते तथा | दीपनाशे राष्ट्रपीडा तच्छांत्यै चक्रपूजनं || परिहासं प्रलापं च विडंवं वहुभाषणं | औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् || पात्रहस्तश्चक्रमध्येन भ्रमेत् पूर्णपात्रकं | चिरं न स्थापयेद्धस्ते नालपेत्योत्रपाणिकः || पादाभ्यां न स्पृशेत् पात्रं न च भिद्यात् कदाचन | नैकहस्तेन दातव्यं न विंदुं पातयेदधः || पात्रं न चालये स्थानान्न मुद्रावर्जितं पिवेत् | स शब्दं न पिवेन्मद्यं न कुर्यात् पात्रसंकरं || पात्रस्यांश द्वयं मद्यपूर्णं त्र्यंशं तुरीयकं | नान्योन्यं ताडयेत् पात्रं न पात्रं ताडयेदधः || साधारं नोद्धरेत् पात्रमनाधारेण निःक्षिपेत् | रिक्तं पात्रं न कुर्वीत न पात्रं लंघयेत् तथा || प्रक्षाल्य गोपयेत् पात्रं नमोंतो विप्रमीक्षये || श्रीचक्रस्थं कुलद्रव्यं दद्याद्यो वा कुले जने | फलानि तस्य नश्यंति क्रुद्धा भवति देवता || इति श्रीतंत्रचिंतामणौ सकलसाधारणचक्रार्चननिर्णयो नामाष्टाविंशतितमः प्रकाशः || २८ || अथ यंत्रनिर्माण प्रतिष्ठामाह || श्रीदेव्युवाच || देवेश श्रोतुमिच्छामि यंत्रस्थापन निर्णयम् | यंत्रं तु गृहमित्युक्तं यंत्रं पीठं प्रकीर्तितं || स्थिरयंत्रे प्रतिकृतौ नावाहन विसर्जने | प्रतिष्टाप्य महायंत्रं ततद्यंत्रं विसर्जयेत् || यंत्र प्रतिष्ठामासाद्य विद्यां तत्र विभावयेत् | जीवन्यासं ततः कृत्वा विद्यां तत्र विभावयेत् || यंत्रं प्रतिष्ठां कृत्वादौ देवं तत्र प्रतिष्ठयेत् | तदा विसर्जनं नास्ति न चावाहनमेव च || अतः कालस्य व्यत्यासाद् यंत्रमेव प्रतिष्ठयेत् | मूर्तिं स्वहृद्गती तत्र ध्यात्वा पूज्य विसर्जयेत् || प्. २३०अ) स्फाटिकादिं स्वर्णरौप्यं यंत्रं च कारयेत् प्रिये || यावज्जीवं सुवर्णेस्याद्रौप्ये द्वाविंशतिं प्रिये | ताम्रे द्वादशकं वर्षं वर्णेऽनंत फल * (?) क || * * * * * * * * (?) मण्यादौ किम्वदामिते || विद्रुमे रचिते यंत्रे पद्मरागेथ वा प्रिये | इन्द्रनीलेथ वैडूर्ये स्फाटिके मरकटेपि वा || धनं पुत्र तथा दारान् यशांसि लभते ध्रुवं | सुवर्ण रचिते पीठे भूपाला च शवर्तिनः || रजते न कृतं यंत्रं आयुरारोग्यकांमदं | ताम्रेण रचिते यंत्रं सर्वैश्वर्य प्रदं मतं || यंत्रं तु स्फाटिकं स्वच्छं मनोभिलषितप्रदं | माणिक्या रचितं यंत्रं राज्यदं भुक्तिमुक्तिदं || कृतं मरकटे यंत्रं सर्वशत्रुविनाशनं | लौह त्रयोद्भवं यंत्रं सर्वसिद्धिकरं मतं || श्रीखण्डं शांतिदं ज्ञेयं पौष्टिकं रक्तचंदनं | श्रीपर्णी पीठमुद्दिष्टं पूजार्थं धनराज्यदं || वैद्रुमं वहुला संपद्भूर्जपत्रे चतुःपदा | गण्डकी भवपाषाणो भुक्तिर्मुक्तिर दूरतः || भूमौ सिंदूर रजसा रचितं सर्वकामदं | सीसकांस्यादिषु कृते संपत्तिं संततं हरेत् || फलकायां पदेभित्तौ स्थापयेन्न कदाचन | स्थापितं यदि मोहेन नाशयेत् तद्धनं कुलं || तेषां मध्ये स्फाटिकस्तु सर्वसिद्धिप्रदं भवेत् || अथ त्रिलोहानां संख्यामाह || दशभागं सुवर्णस्य ताम्रस्य द्वादशं तथा | षोडशं रजतस्यापि एतल्लोहत्रयं स्मृतं || अथ परिमाणमाह || अर्द्धाङ्गुल्येन होमस्य रजतस्य तथैव च | ताम्रस्य पूर्वसंख्यौ च माणिक्यादौ यथेच्छयां || पलप्रमाणं कर्तव्यमर्चा पीठं मनोहरं || अग्निरंगुल विस्तार प्राक् प्रत्यग्दक्षिणोत्तरं | परार्द्धोर्द्धं प्रकुर्वीत चतुरस्रं समं ततः || माणिक्यादिक पीठं तु मानन्यूनं न दोषकृत् | श्रीपर्णा चंदनादीनामधिकं चेन्न दोषकृत् || महाशंखे शिलायां च न च यंत्रविचारणा || अथवा || एकतोलं द्वितोलं वा त्रितोलं पंचतोलकं | रसतोलं वेदतोलं सप्ताष्टतोलकं तथा || दशतोलं सूर्यतोलं कलासंख्यकतोलकं | रदतोलं चतुःषष्ठितोलकं शततोलकं || प्. २३०ब्) यंत्रं मनोज्ञं सुखदं सुरेखं पीठमुत्तमं || अथ प्रस्तारमाह || चातुर्विध्या हि चक्रस्य प्रस्ताराश्च भवंति हि | भूकूर्म पद्मप्रस्तारा मेरुश्चापि तथा विधः || निम्नरेखा समायोगो भूप्रस्तारे मयोदितेः | कूर्मपद्मक प्रस्तार ऊर्द्ध्वरेखा मयोदिता || भूप्रस्तारो द्विधा देवि ऊर्द्ध्व पातालभेदतः | त्रिभिः क्रमादुन्नतं स्यात् क्रमोत् क्रममथापि वा || द्वित्रिक्रमादुन्नतोपि द्विद्विक्रममथापि वा | यवांतरं यवार्द्धं वा तिलयुक्तिलमेव वा || तण्डुलार्द्धं तच्च वा स्यात् तद्वय क्रमभेदतः || मेरुः स्वर्गे च कैलाशे मर्त्यलोके प्रकीर्तितः | भूप्रस्तारस्तु पाताले त्रितयं कीर्तितं मया || कंजकूर्म रत्नगर्भाः सर्वत्रपूजने शुभाः | शुभाः सर्वमहेशानि सर्वसिद्धि प्रदायकाः || ऊर्द्ध्वरेखाभिधेयं तु पूजार्थं मृत्युगोचरं | स्थापनार्थं तु पातालरेखा च कुत्रचिन्मता || अथ यंत्रलिख न कर्णिकादीनां लिखने स्थानमाह || पंचवृत्तानि संलिख्य तत्र यंत्रं लिखेद्बुधः | आद्यं स्यात् कर्णिका स्थानं केशराणां द्वितीयकं || तृतीयं दलमध्यस्य दलाग्राणां चतुर्थकं | पंचमे बूपुरं लिख्यमेवं यंत्रविधौ स्मृतं || केशर द्वययुक्तं च दलं प्रोक्तं महेश्वरी | दण्डाकारं विंदुवक्त्रं तद्वयोक्तं महेश्वरि || पातालरेखा प्रस्तारे केशरे मुख्यविंदुना | ऊर्द्ध्वरेखा विधौ देवि रेखा केशरता मता || श्रीविद्यायां कालिकायां केशराणि क्वचिच्च वा | श्रीविद्यायां महादेवि केशराणि न कारयेत् || यथा दलं केशरेण वियुक्तं कर्मवर्जितं | तथा त्रिकोणं देवेशि बिंदुनावर्जितं भवेत् || विंदुहीनं तु यद्यंत्रंश च वद्भवेत् | तथैवाष्ट दलयोर्द्धे वृत्तं यत्नेन कारयेत् || वृत्तं विना चाष्टदलं गर्भभूषणवर्जितं | ऋजुरेखा भवेल्लक्ष्मीर्वक्ररेखा दरिद्रता || न रात्रावंकयेद्यंत्रं साधकस्तु कदाचन | प्रमादादंकिते चैव देवताशापमाप्नुयात् || यंत्रमात्रे महेशानि निर्णयः कथितो मया | आधिरुपाच्च विंवस्य पूजायाश्च विशेषतः || प्. २३१अ) साधकस्य च विश्वासाद्देवः सान्निध्यमिच्छति || अथ यंत्राणां ध्यानमाह || देव्युवाच || पूर्वे संसूचितं नाथ यंत्रध्यानं त्वयां प्रभो | कथं ध्येयं किं विशिष्टं किं ध्येयाध्येयमेव हि || वृत्तं मूर्तिस्वरूपं वा मेखलावत् स्वरूपकं | किंवा रेखामयं ध्येय किंवा वै भूस्वरूपकं || विश्वरूपं स्मरेद्वापि तत्सर्वमपि कथ्यतां || ईश्वर उवाच || ध्यानं तु त्रिविधं प्रोक्तं यंत्रमात्रे महेश्वरी | आदौ विराद्विश्वरूपं द्विश्चचण्डस्वरूपिणं || यंत्रं संभावयेद्देवि सर्वत्र कथितं त्विदं | श्रीचक्रादौ महादेवि विराद्रूपे तु साम्यता || द्वितीयं च कथं ध्येयं तन्मेवद महेश्वरि | तेजः पुंजनिभारेखा सर्वचैतन्यरूपिणी || सर्वदर्पण वद्भाव्यं स्वप्रकाशः स्वरूपिणं | चैतन्यं भावयेत् सर्वं विंद्वादिं भूपुरांतकं || मूलतेजः प्रकाशेन अभिन्नं भावयेत् प्रिये | रृतीयं शृणु देवेशि मेरुरूपं सनातनं || उत्तरोत्तरमुच्चं स्याद्विंद्वारभ्य विभावयेत् | विंद्वधो भावयेद्देवि एकैकोत्तरतः शिवे || नवोत्तर क्रमेणैव भावयेद्वा महेश्वरि | कालीविद्या विधौ देवि नवरत्नं स्वरूपिणीं || रेखां संभावयेद्देवि मेरु प्रस्तारवच्च वा || श्रीचक्रं वीजसंयुक्तं निष्फलं परमेश्वरि | वीजहीनं तु यच्चक्रं निर्वीजं सिद्धिदं न हि || सृष्टि चक्रं भवेदादौ स्थितिचक्रं द्वितीयकं | बीजसंलेखनं देवि त्रिधात्रगदितं मया || वीजं विना तु निर्वीजं तद्यंत्रं सिद्धिदायकं | दलाकारं कलौ पूज्य नान्यथा सिद्धिदं शिवे || मंत्रचैतन्यकं देवि यंत्रचैतन्यकं तथा | गुरुचैतन्यकं देवि स्वस्मित्रितयभावना || न तत्र ध्यानरूपादि तेजो यंत्रं विभावना | स प्रपंचे तु संसारे दुरावारामृतः शिवे || भावनैव तु संप्रोक्ता भावना सिद्धिदा मता || अथ सर्वसाधारण यंत्र संस्कारमाह || श्रीदेव्युवाच || चक्रभेदो महादेवत्वत् प्रसादान्मयाश्रुतः | इदानीं श्रोतुमिच्छामि प्रतिष्ठाकर्म निर्णयम् || श्री शंकर उवाच || शृणु देवि प्रवक्ष्यामि जगत्कारिणि कौलिनी | तस्योद्यापन कर्मांगं सर्ववर्ण विनिर्णयं || लग्ने शुभग्रहोपेतेऽनुकूले गुणशालिनि | प्रतिष्ठां कारयेदेषामृक्षतिथ्यादिके क्षणे || स्नात्वा संकल्पयेन्मंत्री गुरोर्चन माचरेत् | गुरुर्मंत्रेण विलिखेद्यंत्रं स्वर्णशलाकया || पंचगव्यं ततः कृत्वा शिवमंत्रेण मंत्रितं | तत्र चक्रं क्षिपेन्मंत्री प्रणवेन समाहितः || प्. २३१ब्) तस्मादुद्धृत्य तच्चक्रं स्थापयेत् स्वर्णपंकजे | पंचामृतेन दुग्धेन शीतलेन जलेन च || स्नापयेच्चंदनेनापि कस्तूरी कुंकुमेन च | हाटकैः कलशैर्देवि अष्टभिर्वारि पूरितैः || कषाय जलसंपन्नैः स्नापयेन् मंत्रमुच्चरन् | स त उत्तोल्य तद्यंत्रं स्थापयेद्धेम पात्रके || यंत्रराजाय विद्महे महामंत्राय धीमही | उच्चरेदेत् तदंते तु तन्नो यंत्रः प्रचोदयात् || स्पृष्ट्वा यंत्रं कुशाग्रेण गायत्र्या चाभि मंत्रयेत् | अष्टोत्तरशतं देवी देवता भावसिद्धये || आत्मशुद्धिं ततः कृत्वा षडंगैर्देवतां यजेत् | तत्रा वाह्य यजेद्देवीं जीवन्यासं च कारयेत् || उपचारैः षोडशभिर्महामुद्रादिभिः सदा | फलतांबूल नैवेद्यैर्देवीं तत्र समर्चयेत् || यदृ सूत्रादिकं दद्याद्वस्त्रालंकारमेव च | मुकुरं चामरं घण्ठां यथायोग्यं महेश्वरी || सर्व मे तत् प्रयत्नेन दद्यादात्म हितेरतः | त्रिरात्रं पूजयेद्देवीं त्रिसंध्यं च पुनः पुनः || ततो जपे सहस्रं तु सकलेप्सिन सिद्धये | बलिदानं ततः कृत्वा प्रणमेद्यंत्र राजकं || अष्टोत्तरशतं हुत्वा संपाताज्यं विनिःक्षिपेत् | होमकर्मण्य शक्तिश्चेद्विमुणं जपमाचरेत् || धेनुमेकां समादाय स्वर्ण शृंगाद्यलंकृतम् | गुरवे दक्षिणां दद्यात् ततो देव्या विसर्जनं || अथ कौलिकादेवि शेषमाह || देव्युवाच || देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकं | वामिनां चैव कौलानां यंत्रसंस्कार कर्म च || शिव उवाच || अथोच्यते महायंत्र संस्कारः सर्वसिद्धिदः | शुभेह्नि स्नानमाचर्य शुभे लग्ने शुभे क्षणे || कृत नित्यक्रिया मंत्री प्राङ्मुखो वायुदङ्मुखः || पूर्वोक्त धादु द्रव्यैश्च सुंदरं सुमनोहरं | सुरेखे शुभदं यंत्रं लेखयित्वा विधानतः || प्रतिष्ठां च ततः कुर्याद् यथा शास्त्र प्रमाणतः | शुभे लग्ने पुण्यकाले शैलादि विहितस्थले || मंत्री कल्पानुसारे तु पूर्वेद्युरधिवासयेत् | सायं संकल्पविधिवद्घंटस्थापन पूर्वकं || प्. २३२अ) गणेशादीन् समभ्यर्च्य दिक्पालान् परिपूरयेत् | मद्यं मांसं तथा मत्स्यं मुद्रां मैथुनमेव च || यंत्र संस्कार कर्मादौ द्रव्य मे तन्मयेरितं | यथाशक्त्योपचाराद्यैः पूजयेन् मूलदेवताम् || सुगंध तैलगंधाद्यैर्द्रव्यैस्तमधि वासयेत् | चंद्रेत्यादि च मंत्रेण जपघोष पुरस्सरं || इत्यधि वासितं कृत्वा संयतोतिति तेंद्रियः | प्रातर्नित्यं विधायादौ ततो यागस्थले विशेत् || पताकाध्वजसंकीर्णे दिव्यमण्डलमण्डिते | वितान चामरच्छत्र पुष्पमाला विराजिते || मंगलांकुर पत्राद्यैः कलशैः परिभूषिते | मण्डलं सर्वतो भद्रे रेखा साहस्रसंयुतं || सामान्य भद्रं वा देवि वेद्याश्चो परितो लिखेत् || अथवा दक्षिणे वामे वक्ष्ये वारुणमण्डलं | चतुस्रं चतुः षष्टिः कोष्ठं विद्यां निवेशयेत् || अंत्योयांतिम पंक्त्योस्तु दिक्षु कोष्टानि मार्जयेत् | मध्यस्थ चतुरक्षीणि तद्वाराख्यानि पूर्ववत् || पीतः श्यामः श्वेत हरिद्रजोभिः परिपूरयेत् | कोणकोष्ठं विहायैक पंचाशत्यादसंगिताः || पीठस्य पाण्डुरो रक्तःपीत कृष्णैः प्रपूरयेत् | आग्ने पीतः कोणकोष्टान्या रक्तहरितासितैः || श्वेतवर्णेन चत्वारि मध्ये वृत्तानि कारयेत् | पूरयेदथ तस्योर्द्धं वितानं वंधयेद् यथा || षट्त्रिंशदंशव्यासार्द्धं वृत्तमाद्यं तु पीततः | तत् पीतं कर्णिकाकारं सितरेखा वृतं ततः || द्वितीयं द्विगुण व्यास रूपकेशर संयुतं | पीतरक्तः श्वेतवर्ण मूलमध्याग्रकेशरं || द्विसप्तत्यंशिकाश्वेतां तस्याग्रे कुरु रेखिकां | तृतीयं तु तृतीयांशे तुल्य व्यासं तु वर्तुलं || श्वेतमष्टदलं तत्र रक्तां चांतद्दलांतरं | श्वेतं वहिः कृष्णवर्णा रक्तांगं तद्दलांतरे || श्वेतं वहिः कृष्णा प्राग्वद्रेखां सितां कुरु | तद्वहिर्वृत्त संलग्नान् षोडशारान् प्रकल्पयेत् || श्यामपीतारुणः श्वेतै तदंतस्तुद्य वा कृती | शिता पीतारुणः श्यामहरिताः पंचरेखिकाः || कार्याः सु रुचिराः पंचस्यांतरेवं प्रपूरयेत् | वज्रशक्तिर्दण्डखड्गपाश ध्वजगद्यं लिखेत् || प्. २३२ब्) पूर्वतस्तु तथैशान्यां शूलचक्रांवुजान्वितं | वाम दक्षिणयोरेतन्मण्डलं वारुणाह्वयं || प्राङ्मुखो वाग्यतो भूत्वा संकल्प्याभीष्टसिद्धये | पंचशुद्धिं समाचर्य कुर्वन्नक्षत संयुतं || संस्थाप्य मंडले तत्र यजेदाधारशक्तितः | पीठमंत्रं समास्तीर्य स्थापयेत् कलशं बुधः || दीक्षाक्रमोक्त विधिनाभिषेक कलशं तथा | पंचगव्यं ततः कुर्याच्छिवमंत्र विवोधितं || तेन सु स्नापयेन्मंत्री यंत्रं च प्रणवं जपन् | पंचामृतेन हविषा दध्ना च पयसा क्रमात् || तत उद्वर्तनं कृत्वा जेलन स्थापयेदपि | पंचगव्यं समानीय तंत्र यंत्रं समाहितः || जपन् क्षिपेत् सुवर्णादौ वेदमूल पुरस्सरं | तत उद्धृत्य स्वर्णादि पात्रं संस्थाप्य मंत्रवित् || पंचामृतेन तीर्थेण शीतलेन जलेन च | सहस्रशीर्षामंत्रेण मूलमंत्र पुरःसरं || सुस्नाप्ययावमानेन कर्पूरागुरुनीरतः | सर्वौषधि जलैर्गंधैर्जलैर्यत्नेन मार्जनं || ततः शुद्धदुकूलेन जलमुत्सार्य साधकः | परिधायदुकूलेद्वे स्वर्णनिर्मितदोलया || मण्डलेतं समानीय नृत्यगीतैर्जयस्वनैः | कुंकुमाद्यैर्विलिप्याथ पूज्यः सर्वोपचारकैः || पीठपूजां ततः कुर्यात् स्वस्वकल्पोक्त मानतः | कुशैः कुलीनैर्वा देवि शतमष्टोत्तरं जपेत् || पूर्वोक्तां यंत्रगायत्रीं जप्त्वा देवत्वमाप्नुयात् | अथेष्टं देवतां ध्यात्वा मुद्रया वाहयेत् ततः || जीवन्यासं ततः कुर्यात् पूजयेदिष्टदेवतां | नृत्यगीतैश्च वादित्रैः पंचघोष पुरः सरं || ततो जपेदिष्ट मंत्रमष्टोत्तर सहस्रकं | कुण्डे वा स्थंडिले मंत्री हविषा संस्कृते नले || यथाविधि विधानेन श्रुचो होमं समाचरेत् | ग्रास प्रमाणं च चरुं मूलेनाकृष्य मंत्रवित् || घृतश्रुवं ततो दत्वा जुहुयादग्नि संमुखे | पंचविंशति तत्वैश्च तत्वेन तर्पणं चरेत् || प्. २३३अ) इंद्रादि दिक्पतिभ्यश्च दद्यात् पूर्वोदितं वलिं | तत आवृत्ति देवेभ्यो घृतेनाहुति माचरेत् || तदंते देवि मंत्रेण हुनेदष्टोत्तरं शतं | मातृका युक्तं मंत्रं तु जप जय जयस्वनैः || गत्वा होम समीपे तु दत्वा पूर्णाहुतिं ततः | तोषयेत् स्वर्णवस्त्राद्यैः प्रदद्याद् दक्षिणामपि || क्षकारैः पंचभिर्देवी वीरपूजां समाचरेत् | शक्तिं कुमारिकां वाला पूजयेत् पंचपंचकं || कुर्याद् दशाष्टकं वापि कुलद्रव्यैः समस्तकैः | त्रैलोक्यनाथो भवति यंत्रपूजनयोगतः || भूतशुद्ध्यादिकं कृत्वा कल्पोक्तन्या समाचरेत् | निशायां शक्तिपूजां च दूतीयागं च कौलिका || मकारैः पंचभिर्युक्तं चरेयुर्वामिनोर्चनं | एवं दिनत्रयं कृत्वा ततो नित्यक्रमं भजेत् || सृष्टिस्थिति लयत्वेन सुंदरी यंत्रपूजनं | सृष्टिसंहारमार्गेण कालिका यंत्रपूजनं || सृष्टिसंहारमार्गेण ताराच्छिन्ना च पीतभाः | एवं देवी प्रतिष्ठायां क्रमः सान्निध्यकारकः || स्त्री शूद्राणां वामिनां च कौलिकानामयं विधिः | विधियुक्तं प्रकर्तव्यं विधिहीनं न कारयेत् || विधिहीनस्य विघ्नानि यानि ते कथयाम्यहं | कलहोद्वेगद्वंद्वश्च व्याधिशूलं ज्वरं तथा || राजोपद्रवहानिश्च द्रव्यनाशं रुजं तथा | चिह्लाकाकाश्च काकुल्यो शिवो फेत्कारदारुणा || कपोताश्च गृहे तस्य आरुहंति विशंति च | विघ्नं कुर्वंति वै तस्य विधानं गुप्त संस्थिता || छिद्रंति तस्य योगिन्यो नानाविघ्नैः प्रवाध्यते | सर्पवृश्चिकलूताश्च कीटाश्चैव तु दारुणाः || दशंति च महा उग्रा प्रेरितास्ते मरीचिभिः | वृषैश्चाश्वैर्गजेन्द्रैश्च मेघैर्वज्रासनिस्तथा || उपद्रवंति दुष्टाश्च ज्वरो भूतादयस्तथा | लूतागर्दभापस्मारा अभिभवंति नान्यथा || इति श्रीतंत्रचिंतामणौ यंत्रकर्मणादिपूर्वकप्रतिष्ठांतनिर्णयनामोनत्रिंशत्तमः प्रकाशः || २९ || अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिरा चला | स्थिरा तु स्थिरचित्तानां चंचला चलचेतसां || प्. २३३ब्) तत् साधनं त्रिधा प्रोक्तं प्रथमा वर्णमालिके | द्वितीया जपमाला स्यात् तृतीयांगुऌइमालिका || अथाचलमालामाह || अकारादि क्षकारांतैर्विंदुमन्मातृकाक्षरैः | अनुलोम विलोमस्थै कॢप्तया वर्णमालया || एकैकं वर्णमुच्चार्य वर्णनांतरितं मनुं | सुधीरेवं लकारांतं तत आंतं समानयेत् || क्षकारं मेरुरूपं तु लंघयेन्न कदाचना | सकृदेवोच्चरेत्क्षन्तु तदंते नोच्चरेन्मनुः || मेरूहीना च या माला मेरूहीना च या भवेत् | अशुद्धा च भवेदत्र सा मालानिः फला भवेत् || चित्रिणी विस्तंत्वाभा ब्रह्मनाडीगता तु या | तया संग्रथिता ध्येयां सर्वकाम फलप्रदा || अष्टोत्तरशते जप्तेत्वादौ क्लीवं समुच्चरेत् || ऋ ॠ ऌ ॡ वर्णे चतुष्टायं क्लीवं प्रचक्षते | वर्णानामष्टमं वापि काम्यभेद क्रमेण तु || अ क च ट त प यद्वा इत्येवं चाष्टवर्गकं || किं वा मृत त्रयं प्रोच्य प्रणवांते च मातृका | अनुलोम विलोमातु त्वष्टोत्तरशती भवेत् || माया वाक्काम श्रीयोगात् मातृका वर्ण योगतः | अनुलोम विलोमाभ्यां त्वष्टोत्तरशती भवेत् || त्रयं गुरौ त्रयं देवि गाणपे परिकीर्तितं | न्यूनातिरिक्ते द्वितयं शेषमिष्टाययो जयेत् || अष्टोत्तरशतीमाला सर्वकार्यार्थसिद्धिदा | नातृका वर्णरूपत्वा प्रोक्तेयं स्थिरमालिका || अकारादि क्षकारांतं सैवेयं त्वक्षमालिका | माला पंचाशका प्रोक्ता सूत्रशक्ति शिवात्मिका || ग्रथनं कुण्डली शक्तिर्लघांते मेरुसंस्थितः | एतद्गुप्ततरं कुर्यादक्ष सूत्र शिवात्मकम् || प्रकटं नैव कर्तव्यं न मेरुं लंघयेत् क्वचित् | सुप्तकीलित संमुद्राछिन्नव्या कीर्णयोगतः || धनैर्वैरी वीर्यहीन काणखंजादयोपि ये | तेपि सिद्धा भवंत्येव स्थिरमाला प्रभावतः || अथास्या ध्यानम् || अंतर्विद्रुम भासमानं भुजगी सुप्तोथ वर्णोज्वलां आरोहामवरोहिकां शतमयीं वर्गाष्टकाष्टोत्तरां | साक्षाद् ब्रह्ममयीं क्षमेरुशिखरां श्रीमातृकाक्षा वलीं विद्यां नौमिसमस्तमंत्रजननीं ज्ञानैक दीपांकुरां || प्. २३४अ) इदानीं देवताभेदे मालाभेदे वदाम्यहं | दंताक्षमाला श्रीकाल्यां तारायां नरशंखजा || छिन्नमस्ताविधौ शस्ता नरास्थिमालिका शुभा | रक्तचंदन वीजानां मालास्यात् त्रिपुरा विधौ || स्वयंभूमालिकादेवि भैरव्यां बालिका विधौ | भुजामाला तु मातंग्यां धूम्रायां खरदंतजा || हरिद्राक्षा तु ब्रह्मास्त्रे कपालाक्षा तु माविधौ | वालायां भुवनेश्वर्या स्फाटिकी परिकीर्तिता || श्वेतगुंजा सिद्धिविद्या विधौ प्रोक्ता महेश्वरि | शंखमाला वैष्णवे च इंद्राक्षा शक्तमात्रके || भद्राक्षा शरभे प्रोक्ता गणेश गजदंतजा | त्रिपुटायां पुत्रजीवी गोविंदे तुलसी मता || रत्नस्वर्णैरौप्यमयी तथा ताम्रमयी शिवे | औडुंवरो वीजमयी वटवीजमयी तथा || पूगी फलमयी मालाजाती फलमयी तथा | मधुमत्याकर्षणार्थे वीरविद्या विधावपि || पूर्वाम्नाय स्फाटिकजैर्दक्षिणे रुद्रनेत्रजैः | प्रवालैर्मौक्तिकैर्देवि पश्चिमाम्नाय दैवतैः || उत्तराम्नाय देवानां महाशंखाख्यमालिका | ऊर्द्ध्वाम्नाय स्वयं भूत्था पाताले रत्नसंभवा || प्रवालैः सूर्यमंत्रे च मौक्तिकैः शक्तिमात्रके | शिवशक्तिमयीमाला रुद्राक्ष स्फटिकैर्युता || रुद्राक्ष स्वर्णसंयुक्ता माला हरिहरात्मिका | रुद्राक्षरौप्य संयुक्ता मालाविधि शिवात्मिका || सर्वमंत्रेषु रुद्राक्षा शक्तिमंत्रेदिवा न हि || तथा च || शिवशक्ति वियोगत्वान्न रुद्राक्षैर्दिवा जपः | वियोगे पूजिता काली सहसा न प्रसीदति || रुद्राक्षैः शक्तिमंत्रस्तु दिवा यो जपति प्रिये | स दुर्गति मवाप्नोति जपस्तस्य निरर्थकः || इति शाप पुरादत्तेस्तत्कथा कथ्यते शृणु | कदाचित् समये देवि दक्ष यज्ञः परायणः || सकला ऋषयो देवायक्ष विद्या धरोरगाः | पुत्री जामातृ संबंधाद्गृहेणाकारिता च ता || प्. २३४ब्) महादेवः सत्यवती तेन ना कारिता क्रतौ | सती च भर्तृ निकटे उक्ता तत्र प्रगम्यते || शिव उवाच || ममैवा कारणं तेन न कृतं प्राणवल्लभे | तव लज्जा कथं नास्ति त्वया तत्र प्रगम्यते || प्रियो देवः प्रियः प्राणाप्रिय एव हि भूषणं | मां विहाय कथं देवि त्वया तत्र प्रगम्यते || पातिव्रत्यमिदं क्वास्ति प्रतियोगां विहीनतः | तथापि तव वांछा चेत् शीघ्रं गंतुं कृपां कुरु || भर्तुराज्ञां गृहीत्वा च प्रस्थितं यागमण्डपे | तत् सिंहेन क्षणान्नीतं ब्रह्मणो यागमण्डपं || तेन नादरिता कन्या दुःखिना दीनमानसा | अधोमुखी स्थिता तत्र पार्वती रूपशा वहन् || सर्वे देवाश्चात्र संति मद्भर्ता नात्र दृश्यते | महद्दुःखं मम कृत मे तावद् हृदयस्थितं || एतस्मिन्नंतरेदेवि दक्षप्रजापतिः स्वयं | शिवनिंदो परो भूत्वा पुनर्निन्दार्थ मुद्यतः || अनाचारित रूपो भूद्विष्णुना वारितोपि च | मुहुर्न्निंदा परो भूत्वा भंगी वृष भवाहनः || श्मशानवासी मांसाशी नग्नो धीरतरो विराट् | कपाली च त्रिशूली च मुण्डमाला विभूषितः || भस्मोद्धूलित सर्वांगो व्याघ्राजिन समास्थितः | लंपटो लोलुपश्चेति वहुनिंदा परो भवेत् || दुःखिता निंदया त्वं हि मण्डपाद्वहिरागता | दूरे नेत्रांतरे गत्वा वह्नि कुण्डं विधाय च || सतीत्यक्त्वा तत्र देहं वह्नि रूपात्वतांगता | शिवोहं क्रोधरूपेण ज्वाला भास्वर मण्डलः || सत् क्रोधेन महेशानि भस्मीभूतं जगत्त्रयं | मज्वालया समुत्पन्नो वीरभद्रो महाविभुः || कोटिकालांत दहनो दुःसहः सर्वजंतुषु | दक्षप्रजापतेर्यज्ञध्वं सा नार्थं समुद्यतः || त्रिशूल हस्ती क्रूरश्च यज्ञध्व.ं स परायणः | शवद्धपां शिवां देवि गृहीत्वा स्कंधगोचराम् || रोदनं चक्रतुस्तस्मात् पतिताश्चा श्रूविंदवः | तत्रा श्रूविन्दवो जाताः महारुद्राक्ष वृक्षकाः || स्थावरत्व मनुप्राप्य मर्त्यानुग्रहकारणात् | फलंति सर्वकालं हि अविच्छिन्न फलप्रदा || श्रूयते तेन रुद्राक्षं त्रिषु लोकेषु विश्रुतं | नेत्र त्रया समुत्पन्ना धनाश्रीकः प्रकीर्तितः || प्. २३५अ) वामनेत्रात् समुत्पन्नो मोरंगीयः प्रकीर्तितः | धनाश्री कोष्ठदश च पार्वतीय मनुर्भवेत् || एकविंशति वक्त्रांतं मलाकी परिकीर्तितः | एवं वक्त्राणि जातानि रुद्ररोदन संभवात् || स्फुटवक्त्रे पार्वतीये प्रतिष्ठा स्फुटमेव च | धनाश्रीकेशराकांति रेखायां जायते प्रभो || मलाकिये वह्निनाशस्तत् कालं जलमध्यतः | जलोपरि समायाती स मलाकीर्तितः || तेन यत् क्रियते कर्म तदनंतफलं भवेत् | अन्यमंत्रे सिद्धिरूपा शक्तिमंत्रे दिवा न हि || इति कारणतो देवि रात्रावेव जपस्मृतः | रात्रिः संयोगरूपास्याद् विद्यात्वं च महेश्वरि || विद्योगरूपो देवेशो मंत्रशास्त्रै प्रकीर्तितः || अथ रुद्राक्ष महात्म्यं वर्णयामि समासतः | रुद्राक्ष मोक्ष कामस्तु रुद्राक्षं श्रेयसाधनं || रुद्राक्षं हरते दुःखं रुद्राक्षं पापनाशनं | सर्वपाप क्षयकरं पठतो शृण्वतामपि || अभक्तो वापि भक्तो वा नीचो नीचंतरोपि वा | रुद्राक्षं धारयेद्यस्तु मुच्यते सर्वपातकैः || रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् | महाव्रतमिदं प्राहुर्मुनयस्तत्वदर्शिनः || सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः | तन्नमंति सुराः सर्वे यथा रुद्रस्तथैव सः || शिरोमाला तु षट्त्रिंशद्वात्रिंशत् कंठमालिकाः | कूर्परे षोडश प्रोक्तो द्वात्रिंशन् मणिबंधयोः || अष्टोत्तरशतैर्युक्तमुपवीतं विधीयते | तदूर्द्ध सुरसो माला शिखायामेक उच्यते || कर्णयोश्चापि षट्संख्याधारण क्रममीरितं | संख्या हीनं न कर्तव्यं अधिकं नैव दुष्पति || रुद्राक्षां धारयेन्नैव देहांते स शिवो भवेत् | वहुलं लभते पुण्यं भाग्यवानिह जायते || स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने | प्रायश्चित्ते तथा स्राद्धे दीक्षाकाले विशेषतः || रुद्राधारी भूत्वा च यत् किंचित् कर्म वैदिकं | यो विप्रः सततं कुर्यात् तत्कर्म स फलं भवेत् || खादन्मांसं पिवन्मद्यं संगच्छन्नंत्य जातिषु | सद्यो भवति पूतात्मा रुद्राक्षं मूर्द्ध्नि धारयन् || देवां पूष्णंति ये देवापशवस्ते तु वैदिकाः | तात् पातयंति ये कौले तेषां शास्ता स्वयं शिवः || तेषां संरक्षणार्थाय नान्यो रुद्राक्षतो भुवि | रुद्राक्षाः सर्वदेवानां मंत्रसिद्धि विधायकाः || रुद्राक्षं कण्ठमाश्रित्य शुनको म्रियते यदि | सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः || प्. २३५ब्) उच्छिष्ठो वा विकर्मस्थो युक्तो वा सर्वपातकैः | मुच्यते सर्वपापेभ्यो नरो रुद्राक्ष धारणात् || रुद्राक्षमालिकां कंठे धारयन् भक्तिवर्जितः | पापकर्मापि यो नित्यं रुद्रलोके महीयते || यो धारयति रुद्रात्मा रुद्रवत्सोपि पूज्यते | मुक्ता प्रवाल स्फटिकरौप्य वैडूर्य कांचनैः || समस्ताद्धारयेद्यस्तु रुद्राक्षात् स शिवो भवेत् | केवलान् वापि रुद्राक्षान् यद्यालस्या विभर्तयः || तन्न स्पृशंति पापानितमांसीव विभावसुं | रुद्राक्षमालया जप्तो मंत्रोनंत फलप्रदः || अरुद्रो जपतः पुंसां तावन्मात्रा फलप्रदः | यस्यांगे नास्ति रुद्राक्ष एकोपि वहु पुण्यदः || तस्य जन्मनिरर्थं स्यान् त्रिपुण्ड्रं रहितस्य च | रुद्राक्षं मस्तके धृत्वा शिरः स्नानं करोति यः || गंगास्नानफलं तस्य जायते नात्र संशयः | रुद्राक्षं पूज्यते यस्तु विनातोयाभि षेचनं || यत्फलं लिंगपूजायां तदवाप्नोति निश्चितं | भक्त्या संपूजितो नित्यं रुद्राक्षः शंकरात्मकः || दरिद्रं चापि कुरुते राजराज समश्रियं | गंगास्नान समं पुण्यं दर्शनात् फलमाप्नुयात् || लक्षकोटि सहस्राणि लक्षकोटि शतानि च | रुद्राक्षधारणाद्वापि नात्र कार्या विचारणा || एकवक्त्रः शिवस्तस्य मालया जपतो हरेत् | ब्रह्महत्यादि पापानि तथा राज्यादिकेष्टदः || एकवक्त्र समायुक्तं रुद्राक्षं यस्य तिष्ठति | स साम्राज्य मवाप्नोति सत्यंजानां हि पार्वति || उमाशंकरनामाख्योद्विमुखोयं व्यपोहति | गोहत्यादिक पापानि ग्राहस्थ्यादिक सौख्यदः || त्रिमुखस्त्वग्नि रूपस्यात् स्त्रीहत्यादिक पापहा | धर्मार्थकामा सिद्ध्यंति धारणात् तज्जपादिपे || चतुर्मुखो भवेद् ब्रह्मा गुरुहत्यादिनाशकः | स्फुरंति सकला विद्या वाक्सिद्धिश्चापि जायते || पंचवक्त्र शिवः साक्षात् कालाग्निर्नामनामतः | शैवगाणेश शाक्तानां द्रुतं सिद्धिस्तु तज्जपात् || अगम्य गमनं चैव अभक्षस्यापि भक्षणं | मुच्यते पातकं घोरं पंचवक्त्रस्य धारणात् || कार्तिकेयैस्तु षड्वक्त्रै स्खलते व्रत पापहा | भ्रूणहत्यादिभिः पापैर्मुच्यते नात्र संशयः || प्. २३६अ) विधिना दक्षिणे वाहौ धारणात् समरे जयः | सप्तवक्त्रो महानागोनंतो नामाथ तज्जपात् || अनंताः सिद्धयस्सर्य विभीषेश्चन जायते | सुवर्णैः सुभगश्चैव दरिद्रोपीश्वरो भवेत् || गुरुतल्पादिभिः पापैर्हत्वा वहुतराण्यपि | मुच्यते नात्र संदेहो रुद्राक्षस्य तु धारणात् || अष्टवक्त्रो गणेशस्यात् सर्वविघ्न निवारकः | नश्यंति तज्जपात् सर्वे कामक्रोधादि शत्रवः || पृष्ठोदरकरेणापि संस्पृशेद्वा गुरुस्त्रियं | एवमादीनि पापानि अति पापानि सर्वशः || विघ्नास्तस्य नश्यंति मुक्तो यांटि परां गतिं | जीवेद्वर्षशतं साग्रं मृत्युर्नास्ति स शूलभृत् || गुणाः ह्येतेषु सर्वेषु अष्टवक्त्रस्य धारणात् | नव वक्त्रं भैरवः स्यात् कपिलं मुक्तिदं स्मृतं || जपो देव प्रसीदंति वाममार्गस्थ देवताः | धारयेद् वामहस्ते च ममतुल्य वरो भवेत् || लक्षकोटि सहस्राणि ब्रह्महत्यां करोति यः | तत्सर्वं दहते क्षिप्रं नववक्त्रस्य धारणात् || दशवक्त्रो * * * * * * (?) देवो जनार्दन | सहस्रैव पिशाचाद्या वेताला ब्रह्मराक्षसाः || डाकिन्यो मातरश्चैव तथा वै प्रेतनायकाः | पन्नगाश्च विनश्यंति दशवक्त्रस्य धारणात् || वक्त्रैकादश रुद्राक्षं रुद्रैकादशकं स्मृतं | शिखायां धारयन्नित्यं तस्य पुण्यफलं शृणु || अश्वमेध सहस्राणि वाजपेय शतानि च | गवां शत सहस्रस्य सम्यग्दत्तस्य यत्फलं || स तु तत्फलमाप्नोति रुद्रैकादशधारणात् | वक्त्र द्वादशरुद्राक्षं भास्करं द्वादशात्मकं || धारयेत् कण्ठदेशे च जपेद्वापि समाहितः | तेजस्वी च प्रतापि च आदित्य सदृशो भवेत् || न पीड्यते महाघोरैरादित्यादि नवग्रहैः | दुर्भगाः सुभगायांति रोगीरोगात् प्रमुच्यते || गोमेध नरभेधादि सर्वक्रतु फलप्रदः | हस्त्यश्व मृगमार्जारान् महिषान् शूकरादिकान् || श्वानं शृंगालष्टकलान् वध्वा वहुतराण्यपि | मुच्यते नात्र संदेहो द्वादशादित्य धारणात् || प्. २३६ब्) वक्त्रं त्रयोदशं वत्स लब्ध्वा तु यदि धारणात् | पूज्यते सततं देवैः प्राप्यते पुण्यमुत्तमं || सर्वं फलमवाप्नोति सौभाग्यं चोत्तमं भवेत् | रसं रसायणं खड्गं धातुर्वादमनेकधा || कामधेनुश्च रुद्राक्षं इच्छासिद्धिमवाप्नुआत् | सिद्ध्यते तेन रुद्राक्षं भाग्यहीनोपि यद्यसौ || माता पिता तथा बंधु गुर्वादपी दहन्यते || मुच्यते पातकैर्घोरैस्तथान्यै रूपपातकैः | पुण्यैश्चतुर्दशं वक्त्रं रुद्राक्षं यदि लभ्यते || धारयेत् तत्प्रयत्नेन शिखा यज्ञोपवीतके | चामुण्डा तु स्वयं वत्स शक्तिपिण्डं शिवस्य तु || अर्चयित्वा धृते कंथे न पुनर्जायतेह्यसौ | सिद्ध्यते नात्र संदेहो सत्यं सत्यं च षण्मुखः || विचरेन् मर्त्यलोके सौ प्रासादश्च यथा तथा | योगी च द्विचरेत् सर्व सर्वेषु च प्रियो भवेत् || पशुश्च पुरुषो चापि नगरं चा पवित्रकं | रसं रसायणं चैव जरामृत्यु विनाशनं || लभेद्वेतालखड्गं च अष्टसिद्धिं महाद्भुतं | न पुण्य न च पापं च नव्याधिर्न प्रपीडितं || जीवेद्वर्ष सहस्राणि मृते भवति शूलधृक् | अप्रार्थिताल्लभेदर्थान्न चार्थस्य क्षयो भवेत् || मुच्यते सर्वपापेभ्यो ज्ञानी यज्ञ भवेत् फलं | चतुर्दशमुखैर्जप्तं तदानंत्याय जायते || पूज्यते देव मनुजैरक्षया लभते गतिं | यथा हरिश्च देवेषु स देहः क्षेममर्तकः || रविर्यथा ग्रहाणां च मुनीनां कश्यपो यथा | नदीनां जाह्नवी यद्वत्तीर्थेषु च यथोदधिः || आयुधानां धनुर्यद्वद्धुतानां च चतुर्दशी | कुमाराणींस्तथा स्कंदो देवानां च महेश्वरः || देवीनां च उमादेवी ऐरावत गजेश्वरः | धेनूनां च सुनंदा वै अश्वानां हरितस्तथा || एवं गण्येषु सर्वेषु रुद्राक्षस्तु विशिष्यते || षण्मुखं शिरसाधार्यं त्रिमुकं कंथके स्मृतं | पंचवक्त्रं मतं वाहौ चतुर्वक्त्रं करे शुभं || द्विमुखं धारयेत् कठ्यां एकवक्त्रं च मूर्द्धनि | नववक्त्रं च रुद्राक्षं धारयेद् वामवाहुना || चरुर्दशमुखं चैव शिखायां धारयेद्बुधः | रुद्राक्षां धारयेद् विप्र संध्यादिषु च कर्मसु || प्. २३७अ) तत्सर्वं सफलं प्रोक्तं लक्षकोटिगुणं ध्रुवं | लिंगदर्शनवत् पुण्यं भवेद् रुद्राक्षदर्शनात् || तन्नु कोटिशतं पुण्यं लभते धारणान्नरः | शिरसा धारयेत् कोटिः कर्णयोर्दशकोटयः || गले वध्वा कोटिशतं मूर्द्ध्नि कोटि सहस्रकं | अयुतं चोपवीतं च लक्षकोटि भुजद्वये || अप्रमेयं फलं हस्ते स रुद्राक्षधरो भवेत् || निश्छिद्राश्चैव पक्वश्च रुद्राक्षा धारणे स्मृता | परीक्षा तत्र कर्तव्यो रुद्राक्षस्य तु षण्मुख || सुपक्वं सुदृढं चैव सुवेधं सुसमं स्मृतं | निश्छिद्रं निर्व्रणं वै कल्पोक्त फलस्तयकं || पाण्डरं चाधमं ज्ञेयं मध्यमं कृष्णवर्णकं | उत्तमं रक्तवर्णं तु सर्वसिद्धि प्रदायकं || वक्त्रं च खण्डितं चैव छिद्रश्चैव विशेषतः | किंचित् किंचिद् भवेद् वत्स फलं दोषेण हन्यते || फलं प्रत्येक मेतेषां मधुनात्वं निशामय | दंताख्यमालयादेवि षष्टिः सिद्धीश्वरो भवेत् || अकस्मादीप्सिता सिद्धिर्महाशंखाख्यमालया | रचिता चास्थि मणिभिः सर्वशत्रु विनाशिनी || रक्तचंदनजा मालाभोग मोक्षप्रदामता | स्वयंभू कुसुमैर्देवि सर्वविद्येश्वरो भवेत् || गुंजया मोहनं प्रोक्तं खरदंतै रिपुक्षयः | हारिद्र्यास्तंभनं सस्तं पद्माक्षैः पुष्टिरुत्तमा || वाक्सिद्धिः स्फाटिकीया स्यात् सर्वकामफलप्रदा | धनार्थं श्वेतगुंजाया कीर्तिः श्रीशंखजामता || इन्द्राक्षै राज्यदा प्रोक्ता भद्राक्षैर्भोगसंपदां | गजदंतस्य सर्वार्थं सिद्धिर्भवति सर्वदा || धनधान्यसुतः प्राप्तिर्भवेद्वै पुत्रजीवकैः | तुलस्या मोक्षमाप्नोति रत्नैर्भोगाश्च यच्छति || सौवर्णे राज्यलक्ष्मीः स्या सर्व सौख्ये तु रौप्यजा | अंगुली पर्वभिः सर्वसिद्धिराज्यं स विंदति || औदुंवरैर्भूतनाशोप्लक्षैर्दारिद्रनाशने | वटवीजैर्यक्षिणी स्यात् कपर्दीभिर्महोदयः || प्रवालैर्वश्यसिद्धिः स्यान्मौक्तिकामौक्तिदामपि | किल्विषौघ क्षयकरी कुशग्रंथि विनिर्मिता || विद्रुमोत्थावश्यकरा मोहने ताम्रजामता | कुचंदनैः समाकर्षाद् विद्वेषोरिष्टमालया || प्. २३७ब्) मरिचैह्लासिने मालापिवुमर्दैर्विनाशनं | अर्कस्योच्चाटनश्चैव मारणे चायसीमता || ज्वलहर्त्री तु लाक्षायाः खड्गस्य पितृ तृप्ति कृत् | विषोत्तारे चंदनोत्थाशांति कृच्छ्रे तथाष्टजा || पद्मकाष्ठोद्भवापुष्पै देवदारुद्भवैर्विरुक् | कृष्णकाष्ठ समुद्भूतैस्तामसं कर्मसिद्ध्यति || भूत स्तंभेनिवजाता जनस्तंभे समीसवा | महानिंवेन डाकिन्या भूनिंवै स्तंभनं रुजां || इंद्रा वृक्षाद्व्रणस्तंभोभिचारो वा नरास्थितः | ऋक्षास्थितो वन्यसिद्धिः शार्दूला तस्य देवता || नरास्थ्या राक्षसावश्या वीरावश्या हयास्थिभिः | राशभस्थ्या क्षुद्रसिद्धिर्मान्यता भुजगास्थिभिः || मृत्तिकाभृष्ट मणिजामाला शावरसिद्धिदा | श्रीफलैर्ज्ञानमाप्नोति रुद्राक्षैः सर्वसिद्धिदा || अथातोद्यथनं वक्ष्ये मालानां तत्र वोधनं | चतुर्थ्यां प्रोतयेन्मालां गणनाथस्य मंत्रकैः || मध्याह्नार्कस्य सप्तम्यां रवौ वा तस्य मंत्रकैः | द्वादश्यां वैष्णवी माला प्रोतव्या विष्णुमंत्रतः || त्रयोदश्यां तु संध्यायां तन्मंत्रैः शिवमालिकां | अष्टम्यां वा चतुर्दश्यान्नवम्यां भूमिनंदने || शक्तीनामपि कर्तव्या भुक्त्वा रात्रौ यथा विधिः | येन मंत्रेणया माला कृता तंतु जपेत् तया || अन्य मंत्र जपाच्छापो देवतायाः प्रजायते || अथवा मातृकाभिश्च ग्रथनं कारयेत् प्रिये | पंचाशन्मणिभिर्मालाक्षकारो मेरुसंज्ञकः || अनुलोम विलोमेन माला शतमयी भवेत् | अष्टवर्गे प्रकल्प्याथ मालात्वष्टोत्तरं शतं || मातृकामालया जापः सर्वमंत्रे प्रशस्यते | सर्वसिद्धिमयी माला द्रुत सिद्धिकरी परा || तत्तन्मंत्रमयी देवी तत्र ध्यात्वा तु यत् क्षणे | जपं कुर्यात् प्रयत्नेन नात्र कार्या विचारणा || सर्वसिद्धिप्रदा माला सर्वकार्यकरी परा || ध्रुवेण प्रथमं कार्यं प्रत्येकं मणिक क्रमात् | सर्वमंत्रमयी माला सर्वसिद्धिकरी परा || तन्मंत्रदेवता रूपं ध्यात्वा तु मालिकांतरं | सर्वे मंत्राः प्रजप्तव्याः सर्वकार्यार्थ सिद्धये || प्. २३८अ) शक्तिमंत्रेण संग्रथ्य शिवमंत्रं जपेच्छिवे | शिवमंत्रेण संग्रथ्य शक्तिमंत्रं जपेच्छिवे || शिवशक्त्योर भेदेन मालाकार्यकरी परा || येनैव ग्रथ्यते देवि तमेव प्रजपेन्मनुं | इत्याद्युक्तं त्वया पूर्व किं त्वया विस्मृतं प्रभो || इदानीमन्यथा प्रोक्तं संशयोस्ति मम प्रभो | मातृका तारभिन्नानि शिवशक्ति विहीनके || मातृकायामिदं नोक्तं अन्यमालाविधौ मतं | अन्यप्रकार ग्रथमेये नैव ग्रथनं चरेत् || तमेव प्रजपन्मंत्रं नान्यत्र जपेच्छिवे | मातृकादावपि शिवे मालां तन्मंत्ररूपिणी || ग्रथिता पट्टसूत्रेण देव्याः प्रित्यै तु मालिका | कार्व्यासैर्वैष्णवी माला पद्मसूत्रैरथापि वा || ऊर्णाभिर्वा वल्कलैर्वा शैवी कार्या स सूत्रजाः | कार्या स धर्मकर्मादि साधनं सर्वसिद्धिदं || प्रायशः सर्वदेवानां सूत्रोत्पती विधिं शृणु | सूत्रं द्विजेंद्र पुण्यस्त्री निर्मितं ग्रंथिवर्जितं || या जीववत्सका नारी सुंदरी पतिवल्लभा | तयाकर्तित सूत्रं च कुमारी कर्तितं च वा || श्वेतरक्त सुवर्णाभ कृष्णवर्णा द्विजादितः | सर्वेषामेव वर्णानां रक्त सर्वेप्सित प्रदं || त्रिगुणं त्रिगुणी कृत्य ग्राह्यं प्रक्षाल्य यत्नतः | मरु सूत्रेण पट्टेणत्र सरेणु विनिर्मिता || निर्मिता स्वर्णरजतैः स्वर्णेनापि शुभा मता || हारिद्रं सर्वथा सूत्रं ग्रामकार्या स संभवं | चैत्र कार्यासजं चाथ त्यजेद्ग्रथनकर्मणि || गुरुणा ग्रथिता श्रेष्ठा स्वयं कॢप्ता तताऽवरा | शक्त्या च ग्रथिता श्रेष्टा न शूद्रादिभिरीश्वरि || एतेषु ब्राह्मणः श्रेष्ठो जलमाला कृते भृशं | अलाभे तु द्विजातीनामपि वा स्व स्व जातयः || कलौ तु दुर्लभा विप्रा यथा विप्रा स्वधर्मगा || अथास्याः शोधनं वक्ष्ये समासात् परमेश्वरी | कुलमार्गानु सारेण स्मृत्युक्तविधिनापि वा || कृत नित्यक्रियः शुद्ध उक्तेष्ठेक्षेष्वतंद्रियः | उपवासं हविष्यं वा तथैक भक्षमेव वा || प्. २३८ब्) विधाय पट्टकार्या सः शृतैः सूत्रं विनिर्ममेत् | उपवासदिने देवि तानि सर्वाणि पूजयेत् || द्विगुणं त्रिगुणं वापि तृच्चत्रिगुणमाचरेत् | चंदनाक्षतधूपाद्यैः कुसुमैर्वलिदीपकैः || कर्तव्याणि समासानि न स्थूलानि कृशानि च | प्रातस्तत्सूत्रमादाय कामना कार्यभेदतः || श्वेतं नीलं तथा पीतं रक्तं वर्णं च कारयेत् || रुद्राक्ष स्फाटिकादीन्वै समानीय प्रयत्नतः | एकवक्त्रैर्द्विवक्त्रैश्च चतुर्वक्त्रैश्च पंचभिः || षड्वक्त्रैर्वाथ कर्तव्यामिथो मिश्रास्तु वर्जयेत् | मुखे मुखं तु कर्तव्यं मुखे मूलं तु वर्जयेत् || मुखं मुखेन संयोज्य पृष्ठं पृष्टेण योजयेत् | रुद्राक्षस्योन्नतं प्रोक्तं मुखं पुच्छंतु निम्नकं || धातृफलोपमं श्रेष्ठो मध्या वदरसन्निभः | अधमश्च न काभः स्यात् ततो हीनो विपत्तिकृत् || अतिस्थूलोति सुक्ष्मश्च स्फटिको भंगुरो लघुः | भिन्नः पुराधृतो जीर्णो रुद्राक्षो न शुभः स्मृतः || न जीर्णानि न कीटादि विद्धानि सुनवानि च | आद्यं स्थूलं ततस्तस्मान्यूनं न्यूनतरं ततः || एको मेरुस्तत्रदेयः सर्वेभ्यः स्थूल संभवः | अस्योर्द्ध वक्त्रयानीयान्मेरोस्तं नैव लंघयेत् || मणिमेकैकमादाय सूत्रे संपातयेत् सुधीः | सर्पाकाराथ वा कार्या गोपुच्छ सदृशी तथा || एकैकं मणिमध्ये तु ब्रह्मग्रंथिं विकल्पयेत् | त्रिरावृत्त्याथ मध्येन चार्द्ध वृत्त्यां तदेशतः || ग्रंथि प्रदक्षिणावर्ता ब्रह्मग्रंथिरितीरिता || अथवा ग्रंथिरहिता दृढ रज्जुः समन्विताः | दृढसूत्रं नियुंजीत जपेत्रुद्यतिनो यथा || अष्टोत्तरशतैः सर्वसिद्धिरुक्ता मनीषिभिः | पश्चाशद्भिः काम्यसिद्धिः स्यात् तथा चतुरुत्तरैः || सर्वार्थः सप्तविंशत्या पंचदश्याभिचारके | पंचविंशतिभिर्मोक्षं त्रिंशड्भिर्द्धन सिद्धये || एवं निर्माय वै मालां प्रतिष्ठामाचरेद्वुधः | अप्रतिष्ठाभिर्मालाभिर्मंत्रं जपति यो नरः || सर्वं ते निष्फलं विद्यात् क्रुद्धा भवति देवता || प्. २३९अ) अथ सामान्य मालायाः संस्कारं प्रवदामिते || तांत्रिकं वैदिकं वापि सद्यो जाताह्वयं मनुं | पठित्वा पंचगव्येन स्नापयेन्मालिकां पुरः || गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकं | पंचगव्यमिति प्रोक्तं महापातकनाशनं || दुग्धं कांचन वर्णायाः श्वेतायाश्चैव गोमयं | गोमूत्रं ताम्रवर्णा या नीलायाश्च भवेद् दधि || घृतं तु कृष्णवर्णाया एवं पंचामृतेपि च | गवां वर्णास्तु सुलभाः संति देशेषु तत्र च || तत्र वर्णविभागेन पंचगव्यानि चाहरेत् | वर्णा लाभेन दोषोस्ति मात्रा हीनस्तु वर्जयेत् || गो शकृत् द्विगुणं मूत्रं सर्पिदद्याच्चतुर्गुणं | क्षीरमष्टगुणं प्रोक्तं पंचगव्यं तथा दधि || अथवा पंचगव्यानां समानो भाग उच्यते | गायत्र्यादाय गोमूत्रं गंधद्वारेति गोमयं || आप्यायस्वेति च क्षीरं दधिक्राम ततो दधिः | तेजोसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकं || क्षालयेत् पंचगव्याद्यैः सद्यो जातेति मंत्रतः | चंदना गुरु गंधाद्यैर्वाम देवेन घर्षयेत् || धूपयेदप्यघोरेण कृष्णा गुरु सु गुग्गुलैः | तत् पुरुषाख्य मंत्रेण लेपयेच्चंदनादिभिः || ईशानः सर्वमिति च प्रत्येकं मंत्रयेच्छतं | तेनैव मंत्रयेन् मेरुमघोरेण च मंत्रयेत् || प्राणप्रतिष्ठा मे तस्यां विश्वरूपेण चाचरेत् | एवं संस्कृत्य मालां तां गुरुहस्ते समर्पयेत् || अभिवाद्य गुरुं मूर्द्ध्ना गृह्नीयात् तत्करान् स्वयं | एतन्मंत्रस्य गायत्रीं पुरः पंचशतं जपेत् || ततो जपेन्मूलमंत्रमित्ये तस्य विशेषतः || अथान्यमाला संस्कारं वक्ष्येऽश्वत्थस्य पत्रकैः | पद्माकारेण नवभिः स्थापितैस्तत्र विन्यसेत् || मणिं सूत्रं च गंधाद्यै क्षालयित्वाथ मंत्रयेत् || ओं ह्रीं पूर्वमातृकावर्णैः क्रमादेकैकशोमणिं | सूत्रं च तत्र विन्यस्य पूजयित्वा हुनेत् ततः || तिलाज्यैः केवलाज्यैर्वा सद्योजाताभिः पृथक् | पंचमंत्रैः शतं चाष्टावष्टा विंशतिरेव वा || होमाभावे जपः प्रोक्तः पूर्ववत् क्षालनादिकं | कौलिकादौ विशेषोयं सुरयामणि तर्पणं || प्. २३९ब्) संस्कृत्यैवं बुधोमालां तत्प्राणांस्तत्र स्थापयेत् | मूलमंत्रेण देवेशि संपूज्ये भक्तिभावतः || गुरुं संपूज्य तद्धस्ताद् गृह्नीयाद् दक्षमालिकां | शूद्रार्थं च स्त्रियामर्थे माला संस्कार उच्यते || गणेश सूर्य विष्ण्वीश दुर्गाः संपूज्य भक्तितः | मालायामथ तां मालां हसौं वीजेनाभि मंत्रिताम् || अष्टोत्तरशतं पंचगव्ये तां स्थापयेत् त्र्यहं | चतुर्थे तु समुद्धृत्य क्षालयेदस्त्र मंत्रतः || हृन्मंत्रेण ग्रंथयित्वा स्थण्डिले तांन्निधापयेत् | ततस्तु तोल्यतां मालां स्थापयेद्धेमपात्रके || पंचामृतेन संस्नाप्य शीतलेन जलेन च | चंदनेन सुगंधेन कस्तूरी कुंकुमादिभिः || अभिषेकं ततः कुर्यात् ह्यौं मंत्रेण साधकः | नवग्रहान् पूजयि दिक्पालांश्चापि पूजयेत् || तिलेनामृते युक्तेन शक्तितो होमयेत्तत | स्वर्णं तु दक्षिणां दद्याद् गुरवे मणिसंख्यकान् || तन्मंत्रजापिनो विप्रान् भोजयेद्वाथ वैदिकान् | ओं भावे स्वर्णपात्रस्य ग्राह्यमश्वत्थ पत्रकं || मालासंस्कार इत्युक्त्वो जपः स्यात् सिद्धिदायकः || अथा परं प्रवक्ष्यामि माला संस्कार उच्यते | वर्णमानेन सा कार्या पंचगव्ये त्र्यहं क्षिपेत् || सूत्रं वापि चतुर्थेह्नि क्षालयेदस्त्र मंत्रकैः | समानवर्ण सूत्रेण ग्रथयेद्धृदयानुना || सुवर्णादि गुणैर्वापि ग्रथयेत् साधकोत्तमः | ब्रह्मग्रंथिं ततो दद्यान् नागपाशमथापि वा || सार्द्धं ग्रंथिद्वयं देवि नागपाशः प्रकीर्तितः | सार्द्धग्रंथि त्रयं देवि ब्रह्मग्रंथि प्रकीर्तितः || ब्रह्मग्रंथ्या सर्वकर्म साधयेत् परमेश्वरि | नागपाशे क्रूरकर्मद्वैविध्यं परिकीर्तितं || कवचेन च ग्रथ्नीआन् माला ध्यानपरायणः | सर्वशेषे ततो मेरु सूत्रद्वयसमन्वितं || ग्रथयेत्तार योगेन वध्नीयात् साधकोत्तमः | एवं निष्पाद्य देवेशि प्रतिष्ठां च समाचरेत् || स्थण्डिले मण्डले कृत्वा यथा भाग विधिः क्रमात् | पूजयित्वा यथान्यायमिष्ट देव मनुक्रमात् || प्. २४०अ) न्यासपूर्वं जपेन्मंत्रमष्टोत्तर सहस्रकं | जुहुयाच्च तद्दशांशेन यस्य देवस्य यत्प्रियं || ततो मण्डल मध्ये तु तां मालां स्थापयेबुधः | अस्त्रमंत्रं तु तोन्यस्य देववत् परिचिंतयेत् || अद्वैतरूपमासाद्य मालां कुर्यात् तथात्मिकां | ततो वलिं यथा न्यायं दद्यात्तैः साधकोत्तमैः || एवं प्रतिष्ठामासाद्य मालायामिष्ट देवतां | आचार्यं पूजयेन् मंत्री शिल्पिनं च यथाविधि || नान्यमंत्रं जपेत् तत्र यदीच्छेत् सिद्धिमात्मनः || अथ मालाविधानं च कौलिकानां च वामिनां | कीकसादिक मालानां कथ्यते शृणु पार्वती || तत्रापि कालिकात्तारा विद्यायां शवसंभवा | माला वहु विधा प्रोक्ता महाशंखादि भेदतः || महाशंखमयी माला सर्वविद्या स्वरूपिणी | दंताख्य मालिका देवी मेरुस्तु राजदं ततः || शैवी ब्रह्माण्डमाला च देहदेहांतराचयः | करास्थि मालिका देवि तथा यत् पर्वमालिका || जंघास्थि कीलकार्येपि मालायामपि सिद्धिकृत् || अथ गोवाजिभषणमृगवा नरशूकरैः | भल्लूकोलूक शार्दूल व्याघ्रवारणदंतजाः || गवयादि मृगोत्था च कस्तूरी मृगजातिजा | जीवमात्रास्थि संभूता खरोष्ट्रवाजि दंतजाः || दंता भावे प्रतिनिधिर्महाशंखे नवीनकं | विश्वामित्र भवं तच्च सर्वसत्वमयं भवेत् || शंखमाला दंतमाला नारिकेलमयी तथा | अस्थिमाला महेशानि वृद्धस्त्री गोमयं विना || माला तु त्रिविधा प्रोक्ता उत्तमाधम मध्यमाः | दंताख्य मालया चैव राजदंतेन मेरुणा || उत्तमा मालिका प्रोक्ता कालिका कर्षिणी परा | कर्णनेत्रांतरस्थो यो महाशंखेति कीर्तितः || महाशंखमयी माला पंचाशन्मणि निर्मिता | मध्यमा मालिका प्रोक्ता तारा जापे प्रकीर्तिता || अस्थिभिर्वानृमुंडैर्वा किं वा नरललाटजा | देहदेहांतरस्थैर्वा माला प्रोक्ता कनिष्ठिका || छिन्ना देव्या विधौ देवी एवं हि त्रिविधा मता | संमुखौ यौ उभौ दंतौ राजदंतौ प्रकीर्तितौ || प्. २४०ब्) करालास्या महाकाल्या दानवाः भक्षिता पुरा | त्रैलोक्यगामिनौ दंतौ राजदंताविति स्मृतौ || राजदंतेति संज्ञा वै देव्याः पूर्वकृता प्रिये | यो दैत्य चर्वकौ दंतौ मम कार्य कारावुभौ || तस्मात् प्रीतेन मनसा मेरुकार्य नियोजितौ || श्रीदेव्युवाच || सामान्य माला कथिता विशेषवद शंकर || श्रीशिव उवाच || चंद्रमण्डलमारभ्य कर्णांतं परमेश्वरि | वामदक्ष युग्मके च मालास्यान् मेरुमण्डला || मेरुमण्डल माला तु सर्वसिद्धिः परांविके | द्वितीया सार्द्धयवकैर्माला साम्राज्यमोहिनी || एक पंक्तिरंध्र संख्यैः कपालं परिकीर्तितं | कर्णनेत्रांतरस्थो यो महाशंखः प्रकीर्तितः || महाशंखमयी माला सर्वसिद्धि प्रदायिनी | कर्णनेत्रगलप्रांतेदंतांतं परमेश्वरि || मुण्डं प्रोक्तं महेशानि पूजासाधन कर्मणि | दक्षभ्रूविंदुमारभ्य कर्णांतं परमेश्वरि || वामभ्रूविंदुमारभ्य वामश्रुत्यंगः शिवे | माला त्रिपुण्ड्र मार्गेण शिवशक्तिमयी च वा || अर्द्ध त्रिपुण्ड्र मार्गेण तदधः शक्तिमालवत् | ऊर्द्ध्वक्रमेण माला तु सर्वमालोत्तमोत्तमा || केशक्रमेण देवेशि कपालोर्द्धन्तु मालिका | तथैव मणयः कार्या शिव एव न चापरः || महाशंखमयी माला द्वितीया ध्रुवमण्डला | उन्मनी मालिका देवी तृतीया परिकीर्तिता || मेरुमाला चतुर्थी स्यात् पंचमी मेरुमण्डला | दंतमाला महेशानि मेरुमण्डलमालिका || राजदंतेन मेरुस्तु तेन सान्मेरुमण्डला | माला पंचक मेतद्विपंचतन्मात्रगोचरं || राजदंत द्वयं मेरुनियोज्य पंक्तिमार्गतः | ऊर्द्ध्वमूर्द्ध्व क्रमेणैव दंष्ट्रा दंष्ट्रा करं शिवे || अधरोष्ठ लसत्पंक्तिहारनायकं व्रजेत् | राजदंतस्तु मेरुस्तु कृशाश्चतुर्दशत्यजेत् || एवं माला महामाला पंचाशद् दंतगोचरा | सर्वसिद्धिमयी माला राजतंतेन मेरुणा || सिद्धिदा योगदा भोगदा त्रीराज्यं प्रदातुथा | चतुःषष्ठिः सिद्धिमते माला तु पंचमी स्मृता || प्. २४१अ) ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवं | एते पंचमहाप्रेताः पंचमालाम्विकाविधौ || ताराछिन्ना तथा कामकला काली च कालिका | श्रीविद्यादावपि शिवे मालिका मालिकामयी || पूर्वोक्तानां मणीनां च स्वभावे परमेश्वरी | गंधरूपाश्च मणयो दंत स्फाटिक सन्निभाः || मणयो यत्नतः कार्या सर्वसिद्धिमभीप्सुभिः | महाशंखेप्य शक्तश्चेत् स्फाटिक्या मालया जपेत् || अथ महामालाधिकारिणमाह || सर्वास्थिमाला संशस्ता अधिकार क्रमं शृणु | पूर्णार्द्धाम्नाय भूषाढ्यस्तथा चरणदीक्षितः || षडन्वय क्रमाशक्तः श्रीमेधा संयुतस्तथा | महाचीनक्रमाशक्तो महानीलक्रमी च वा || ईदृग्विधः साधको हि माला जप परायणः | मालाधिकारिणः प्रोक्ताः क्रमेण परमेश्वरि || रहस्यमालार्थमुण्डा दानविधिस्तु साधारणपूजाप्रकरणेषुक्तः || अथ निर्माणप्रकारस्तूच्यते || सिद्धमुण्डं पुरा कृत्वा मालादीन् कारयेत् प्रिये | शिल्पिनं पूजयेदादौ वस्त्र गंधानुलेपनैः || संहृष्ट कारयेन् मालां मंत्र पूतं पिवन्मधुः | यथायोग्यं वेधवती मालां कुर्याद् विचक्षणः || दंतमाला शंखमाला विश्वामित्र कपालजा | सर्वास्थि माला देवेशि जीवमात्रास्थि निर्मिता || अंगुष्टान् मस्तकांतं च उत्तरोत्तरतः शुभः | तत्र देवी सदा तुष्टा तत्र तिष्ठति पार्वती || एतद्विद्या विधौ देवि पूर्वोक्ते च वरास्थि च | पंचाशन्मणिभिर्माला मातृका वर्णतः क्रमात् || अष्टोत्तरशती चेत्सा तदाष्ट वर्ग कल्पनं | अष्टोत्तरशतं कृत्वा ऋतुभत्या भगे क्षिपेत् || निशामेकां समुद्धृत्य कारणैः क्षालयेत् ततः | शुद्धोदैर्मूलमंत्रेणाभिषिंचेद् विजयारसैः || प्रक्षाल्य धूपयेत् पश्चात् प्रोतयेदिष्ट सूत्रकैः || नाड्या संग्रथनं कार्यं रक्तेन वाससा प्रिये | वाससा मज्जया वापि नाडीभिर्वा शुभामता || स्वयंभुवाक्ताया नाडी सा नाडी सर्वतोत्तमाः | स्वयंभू कुसुमाक्तैस्तुतूलकैर्वीरनायिका || प्. २४१ब्) कुमारी कर्तितं सूत्रं पुण्य स्त्री कर्तितं च वा | ततो द्विजेंद्र पुण्य स्त्री कर्तितं ग्रंथि वर्जितं || वेश्या हस्तभवं वापि मातंगी हस्तजं परं | रजस्वला हस्तभवं सूत्रं च कीर्तितं शुभं || कुण्डाक्तं चै गोलाक्तं स्वजं वाक्तं तथैव च | स्वयंभुवाक्तं यत् सूत्रं तत् सूत्रं सर्वतोत्तमं || सूत्रं स्वेष्टजपेन्नीलं कृष्णं मारण कर्मणि | मोहने हरितं स्तंभं धूमाभं द्विषिनालभं || शांतौ पौष्टौ सितं द्वेषे रक्तमुच्चाटने भवेत् | वश्ये पीतं कषायस्तु विपक्षकरणे मतं || स्वयं न कर्तयेद्ग्रंथिं जपमाला न गुंफयेत् || अथ माला ग्रथिनाधिकारिणमाह || महामाला दंतमाला सर्वास्थिमालिकाविधौ | क्रमेण कथ्यते देवि ग्रथने चाधिकारिणः || माता पुत्री तथा भार्या तथाष्टकन्यका प्रिये | षट्त्रिंशज्जातिजास्त्रीया स्वकुलाष्टकजाय वा || तारा कुलाकुलं वापि दशविद्यास्त्रियैश्चयाः | पंचाशत् पीठजा वा पिवेश्या सप्तकमेव वा || मालाया ग्रथने देवि शकुनाशकुनं शृणु | दधिमांससुरापिष्ट शंखवादित्रिवेणवः || मृदंगकाहलोद्गीतं दुंदुभिर्वाद्यदर्शनं | गजाश्वरथवेश्यादि स्त्रीणां पूर्णघटस्य वा || जपसिद्धेर्लक्षणानि मालायां परमेश्वरी | रोदनं गाननं मुण्डरण्डा दर्शनमेव च || कलहो गुरुनिंदा च देवता वीरनिंदनं | सूत्र त्रुटिरथा प्राप्तिर्मणिकास्फोटनं तथा || मालाग्रथन काले तु मणिस्फुटति वेद्यदि | पुत्रशोको विनिर्द्दिष्टो दुःखभागी भवेद्ध्रुवं || मालाग्रथनकाले तु मणिस्खलति चेद्भुवि | तस्य शोको विनिर्दिष्टो नात्र कार्या विचारणा || मणिमादाय सूत्रेण ग्रथयेन् मध्यमध्यतः | ब्रह्मग्रंथि विधायेत्थं मेरुश्च ग्रंथि संयुतं || ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् || सिद्ध्यै वक्ष्यामि संस्कारं सर्वतंत्रेषु गोपितं | कृत नित्यक्रियः शुद्धः शुद्धर्क्षेषु च मंत्रवित् || चक्रपूजां ततः कृत्वा साष्टोत्तर सहस्रकं | हुनेन्मद्य पलाभ्यां च मूलमंत्रेण साधकः || प्. २४२अ) ततो वलिं यथा न्यायं महिषादेः प्रदापयेत् | शक्तिंश्च साधकांश्चापि भोजयेन् मणिसंख्यकान् || अतः परं पृथक् रूपो माला संस्कारमाचरेत् | मालारात्रिविधिं वक्ष्ये शृणु सा वहिता भव || सुदिने शुभ ऋक्षादि दिने शुद्धदिने शुभे | महामालां समादाय वीरपात्रं समानयेत् || वीरयंत्रं समासाद्य वीरमालं च शोधयेत् | देवीं सावरणां पूज्य सवल्यंतं महेश्वरी || दशविंशत्यं च विंशद्दीपां दत्वा वलिं चरेत् | एवं मालां शुभां कृत्वा महासंस्कारमाचरेत् || शुभे मुहूर्ते संलग्ने मालां वा पंचगव्यके | निमंत्र्य पंचगव्यं च गोमूत्रं गोमयं पुनः || दधिसर्पिः क्रमेणैव पंचगव्यं प्रकीर्तितं | तदुत्तार्य शुद्धजलैः संक्षाल्य संविदा शवैः || मूलमंत्रेण संक्षाल्य तद्द्रव्ये स्थापयेद्दिनं | तृतीये दिनसे देवि यक्ष कर्द्दमकैर्यजेत् || सर्वगंधैरष्टगंधैरणिमाद्यष्टकैर्यजेत् | अष्टनीराश्च तारायास्ताराष्टौरोचिनीमणौ || चतुर्थदिवसे देवि प्राणान् स्थाप्य यजेत् क्रमात् | रहस्य मालामंत्रस्यास्य ऋषिः परमेश्वरः || श्रीमहातारिणी देवी उष्णिक्छन्दः प्रकीर्तितः | क्रीं वीजं स्त्रीं तथा शक्तिः हूं मंत्रः कीलकं स्मृतं || महामाला दंतमाला शोधने विनियोजने | त्रिशक्त्या तु षडंगानि ध्यानं मंत्रवदा चरेत् || ध्यात्वा संकल्प यत्नेनं मंत्रेणानेन पार्वति | प्रणवं च तथा लज्जाश्रीलजा कामकूर्चकैः || फट् स्वाहेति च मंत्रेण वसकेमालिकौ क्षिपेत् | तत्रावाहनमंत्राद्यैः कालिकां कालसारदां || सायुधां परिवारांश्च पूजयेत् परमेश्वरी | मूलमावृत्त्य तार्तीयं संस्मरन्धेनु मुद्रया || अमृती कृत्य कवचेनावगुण्य महेश्वरि | महामुद्रया समाच्छाद्य देवी रूपी विभावयेत् || ध्यायेत् तत्र क्षिपेद्विंदुं तत्र मंत्रान् शृणु प्रिये | प्रणवं कूर्चयुग्मं च स्वाहा प्रणवकूर्चकौ || वह्निजाया च तारास्त्रे वह्निजाया विषं तथा | तारा च वह्निजायां च तारा लज्जा स कूर्चकौ || वह्निजाया ततस्तारं लज्जा फट् वह्निजायया | द्वित्रिशृंखलिकाव्यस्त समस्तमंत्रमालया || प्. २४२ब्) शतधानेन मंत्रेण विंदुप्रक्षेपमाचरेत् | कस्तूरिका केशरं च चंदा गुरुप्रधूपकैः || पुष्पमालां समुत्तार्य विद्यया चाभिमंत्रयेत् | प्रणवं च तथा माया श्रीमहावज्रिणीति च || ततो महाघोररूपे कर्कशेति पदं वदेत् | महास्थिमण्डले प्रोच्य प्रविशेति पदं तथा || सर्वसिद्धिः प्रयच्छेति प्रणवं कूर्चवीजकं | मायावीजं वह्निजाया महाकपालिनीति च || ततो महाघोररूपे स्वाहा प्रणव मायया | माया कूर्चस्त्रि स्वाहांता विद्योक्ता चाभिमंत्रणे || दुर्वाक्षतैः समभ्यर्च्यकाते चोद्दीपनं चरेत् | उपचारैः समभ्यर्च्य मातृकां मूलमंत्रतः || उद्दीपनं ततः कृत्वाहं कारेण तु वेष्टयेत् | वलिं दद्यादनेनैव तारं मायाद्वयं वदेत् || वासुदेवं विंदुयुतं कूर्चेण पुटितं वदेत् | कूर्चतारे फट् च कूर्चं प्रणवद्वयमुच्चरेत् || कूर्चवीजं वह्निजाया प्रणवं कूर्चवीजकैः | महायोगिनि शब्दांते ततस्त्रिभुवनतारिणी || महाशंखास्थि माला च मध्ये निवास कुर्वति | कुरुशब्दं सर्वसिद्धिं देहियुक् च सुरापदं || मांसोपहारेण गृह्नेति युक् गृह्नाय पदद्वयं | कुल्लुका फट् ततः स्वाहा मंत्रेणानेन पार्वति || यथोचितेन द्रव्येण वलिं दत्वा विधानतः | पंचद्रव्यैः पंचदिनं मालां स्थाप्य च पंचमे || माला रात्रिविधिं कुर्यात् तेन सिद्ध्यति मालिका | निभृते स्थापयेत् मालां रहस्यमालिकाविधिः || दंतमालाविधौ देवि विशेषं शृणु वा परं | प्रणवं हृद्भगवती मानरंजिनि चोच्चरेत् || विच्चे विच्चे वलोच्चेव हरविच्चे पदं वदेत् | मालाविच्चे तथा मालाधारिणी हरलूं पदं || हमव्रूं महाशंखास्थिधारिणीति पदं वदेत् | कर्कशास्थि महामाला वासिनीति पदं वदेत् || छिन्ने तारे कालिके च तदंते जपमालिके | कुल्लुकां फट् महादंतमाला मध्ये पदं वदेत् || निवासं कुरु युग्मं च राजेंद्र मालिकां ततः | वासिनीं त्रितयं प्रोच्य क्रीं त्रयं हूं द्वयं तहा || मायाद्वयं च फट् स्वाहा मालामंत्रेण हृन्मनुः | वलिदान मनुं वक्ष्ये शृणु सावहिता भव || प्. २४३अ) प्रणवं कर्कशपदं मंडलेत्यंविके पदं | मालिनी कौलिनी पदं गौरां धारिचोच्चरेत् || गिरिजे मालावति पदं क्रियावति पदं ततः | गायत्री च गाणप्रिये शक्रप्रिये च शांकरी || कालीकापालिके कृष्णमुण्डधारिणि चोद्धरेत् | अशिधारिणीति पदं तदंते जातवेदसे || श्रीकालीकालि च पदं मृडाणी रुद्राणि तथा | इमं वलिं गृह्नयुग्मं मालासिद्धिं च चोत्तरे || देहिदापय युग्मं चक्रो षट्क स लयायुतं | वलिं दद्यादने नैव तदंते जाग्रती कृतिः || कपालकज्जलं चोरपादकज्जल युग्मकं | विश्वमोहन नामानं कज्जलं विद्धि पार्वती || तत्पादभस्मदेवेशि फाल्गुणोत् सवजंपरं | जगद्धूलीति नाम्ना तु विख्यातं शत्रुनिग्रहे || अनेन मनुना गृह्य उद्भ्रांतिं धूलिनामिकां | शत्रु मूर्द्ध्नि तथा देहेगेणेशययां गणे जले || दापयेत् परमेशानि उद्भ्रांतिं धूलिरीरिता | उद्भ्रांत धूल्या देवेशि भ्रमाक्रांतं जगद्वयं || यथा ग्रहणयुग्मं च तथा पर्वद्वयं भवेत् | नक्षत्र राशि वारादि शुद्धा शुद्धिं न चाचरेत् || कामवीजं क्षूं तथा वीजं श्रीं श्रीं फट् त्रयं वदेत् | सिद्धे जाग्रद्धूलि सिद्धिं देहि स्वाहा मनुर्मतः || मंत्रेणानेन संगृह्य उद्भ्रांति धूलिमुत्तमां | माल्यासिद्ध्या सर्वसिद्धिर्भवत्येव न संशयः || स्वजात कुसुमं देवी कुण्डगोलोद्भवं तथा | अनंग गंधादेवेशि चतुर्थां परिकीर्तिता || एवं संपाद्य देवेशि जाग्रती करणं चरेत् | सिंदूरतिलकं भाले वदने संविदा सवौ || वीरासनी वीरवेशी धूपदीप प्रमोदितः | संविद्दुग्धरसे मालां क्षिप्त्वा दुग्धं ततो वदेत् || ततो रक्ते क्षिपेन्मालां धूपेनैव प्रधूपयेत् | ततो वलिं प्रदद्याद्धि मालां संसिद्धये शिवे || शक्तिं कुमारीं मालां वा संपूज्य सिद्धिभाक्कलौ | बलिदान विधौ देवि वलिं कृत्वा विधानतः || अजागलस्थ रक्तेन तर्पयेत् तत्रमालिकां | रक्तधाराभिमज्जाभिर्योनि रक्तैरपि प्रिये || तर्पणात् सिद्धिदा मालायागद्रूपा फलप्रदा | पूर्वक्रमेण देवेशि आवेशोक्त क्रमेण वा || प्. २४३ब्) तत् तद्देवी देहरूपामालिका वरदा कलौ | एवं कृत्वा वरां मालां साधकः सिद्धिमाप्नुयात् || अशुचिर्न्न स्पृशेदेनां न कदापि प्रकाशयेत् | भूतराक्षस वेताला सिद्ध गंधर्वचारणाः || हरंति प्रकटी यस्मात् तस्माद्गुप्तां समाचरेत् | जीर्णसूत्रं पुनः सूत्रं ग्रथयित्वा शतं जपेत् || द्वित्रिमासैश्च षण्मासैर्माला संग्रथयेच्छिवे | षण्मासोत्तरगं देवि जीर्ण सूत्रस्यमालिका || यः स्थापयेन् महेशानि तस्य नाशो भविष्यति | छिन्ने सूत्रे भवेन्मृत्युस्तस्माद्यत्नपरो भवेत् || महाशंखमयी माला तथा दंताख्यमालिका | न देया यस्य कस्यापि गोप्यानु मातृजारवत् || अथवांगुलि मालाभिर्जपं कुर्यात् तदुच्यते | अनामा मध्यमारभ्य कनिष्ठानु क्रमेण तु || मध्यमा मूलपर्यंता करमाला प्रकीर्तिता | मध्यमा नामिका मध्ये पर्वयुग्मं प्रकल्पयेत् || मेरुं वा नामिका मूलात् कनिष्ठानु क्रमेण च | तर्जन्यग्रादितो मध्यामूलांतं दशसंख्यकाः || अथवा कल्पयेन्मेरुं मध्यामध्यादिपर्वकं | अनामा मध्यपर्वा तु तर्जनी मूलकावधि || दशसंख्या जपे प्रोक्ता तथा यंत्रिविधोमतः | तत्रादौ त्रिविधो प्रोक्तः शतमष्टोत्तरं शृणु || अनामा मूलमारभ्य प्रादक्षिण्य क्रमेण तु | तर्जनी मूलपर्यंतं जपेन्न वसु पर्वसु || मध्यमा त्रितयं ग्राह्यमनामा मूलमेव च | अनामा मध्यमं चैकं मेरुं कृत्वा न लंघयेत् || इदं च द्वादशावृत्या अष्टोत्तरशतं भवेत् | अंगुल्याख्यो जपः प्रोक्तो नमतेन्नोन्नतेन च || कनिष्ठिकांतश्चांगुष्टो वध्येयं दशकं भवेत् | अंगुलीगतरेखाभिर्जपाल्लेखा जपो भवेत् || अंगुलिर्न्न वियुंजीत जपमाले कदाचनं | अंगुलीनां वियोगेन छिद्रेषु स्रवते जपः || नोल्लंघये च गणनां किंचित् संकोचयेत्तलं | न दर्शयेत् करं नो चेत्फललं गृह्नंति राक्षसाः || प्. २४४अ) इति श्रीतंत्रचिंतामणौ मालाभेदादिप्रतिष्टांतनिर्णयो नाम त्रिंशत्तमः प्रकाशः || ३० || ########### END OF FILE #######