#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00114 Uniform title: tejobindūpaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: tejobindu upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: January 28, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### तेजोबिन्दूपनिषत् सह नाववतु- इति शान्तिः प्रथमोऽध्यायः निर्विशेषतेजोबिन्दुस्वरूपम् तेजोबिन्दुपरं ध्यानं विश्वात्महृदि संस्थितम् | अणुवं शांभवं शान्तं स्थूलसूक्ष्मपरं च यत् || १ || दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् | दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् || २ || विवरणम् यत्राचिन्मात्रकलना यात्यपह्नवमञ्जसा | तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं तेजोबिन्दूपनिषत् स्वातिरिक्तखण्डाचिन्मात्रापह्नवसिद्धाखण्डानन्दचिन्मात्ररूपा-वस्थानलक्षणविकलेबर कैवल्यार्थबोधिनी विजृम्भते | अस्या उपोद्घातादिकं कठवल्ल्यादिसमम् | अस्या ब्रह्ममात्रानुभवप्रकाशिकायाः तेजोबिन्दूपनिषदः स्वल्पग्रन्थतो विवरणमारभ्यते | प्. ४६) वक्ष्यमाणशिवस्कन्द ऋभुनिदाघप्रश्नप्रतिवचनाख्यायिका तु विद्यास्तुत्यर्था | अत्रादौ तावत् प्रथमाध्याये प्रश्नप्रतिवचनकलनां विना श्रुतिः स्वयमेव यथोक्ताधिकारिभ्यः पञ्चदशाङ्गयोगसाधनसिद्धं निर्विशेषब्रह्मतत्त्वमुपदिशति- तेजोबिन्द्विति | ये स्वात्मयाथात्म्यमननेच्छवो मुनयः तेषां मुनीनां निर्विशेषब्रह्मध्याने येषां मनीषा विद्यते तेषां मनीषिणां च स्वातिरिक्ताविद्यापदतत्कार्यध्वान्तापह्नवसिद्धं निष्प्रतियोगिकस्वमात्रतेजोबिन्दुस्वरूपं तत्परं तद्विषयकं ध्यानं वक्ष्यामीति शेषः | ध्येयं कीदृशम् ? इत्यत आह- विश्वेति | स्वाज्ञैः स्वातिरेकेणास्तीति विश्वसनीयं विश्वं स्वाविद्यापदतत्कार्यजातमेव यस्यात्मा शरीरं सोऽयं विश्वात्मा विराट्, तस्य हृत्कमले तद्वृत्तिसहस्रावभसकतया स्थितम् | निराधारम् अविद्यापदं कथं तिष्ठेत् इत्यत आह- अण्.विति | अणु अविद्यापदसर्वस्वम् आदिकूर्मादिरूपेण अन्तर्यामिरूपेण सर्वाधिष्ठानरूपेण वा वहतीति अणुवम् | स्वापेक्षया अस्य परिच्छिन्नत्वात् अणुत्वम् | शम् अस्मात् भवतीति शंभुः प्रत्यक्, तद्विषयकसुखस्य तदधीनत्वात् | तद्याथात्म्यं निर्विशेषं ब्रह्म शांभवम् | वस्तुतः विश्वविराडादिकलनाशान्तम् | स्वाज्ञदृष्ट्या स्थूलसूक्ष्मादिप्रपञ्चकलनाप्रसक्तौ यत्तदारोपापवादाधिकरणं तत् स्थूलसूक्ष्मादिप्रपञ्चात् परं विलक्षणमित्यर्थः | च शब्दात् तुर्यभागादपि वैलक्षण्यं द्योत्यते || १ || तस्य स्वाज्ञदृष्टिग्रहणाराधनाशक्यतया दुःखाढ्यं दुराराध्यं दुष्प्रेक्ष्यं च | स्वज्ञदृष्ट्या तत्सर्वकलनामुक्तम्, अत एव अव्ययं व्ययहेतुस्वातिरिक्तभ्रमासंभवात् | श्रुत्याचार्यप्रसादं विना तत्स्वरूपं तद्विषयकध्यानं वा स्वयं स्वतो दुर्लभं, श्रुत्याचार्यप्रसादतः तदवगन्तुं सुलभमेवेत्यर्थः || २ || निर्विशेषब्रह्मावगतिसाधनानि यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः | निर्द्वन्द्वो निरहंकारो निराशीरपरिग्रहः || ३ || प्. ४७) अगम्यागमकर्तारो गम्यागमनमानसाः | मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते || ४ || परं गुह्यतमं विद्धि ह्यस्ततन्द्री निराश्रयः | सोमरूपकला सूक्ष्मा विष्णोस्तत् परमं पदम् || ५ || उत्तमाधिकारिणां तदवगतिः भवत्येव | मन्दमध्यमानां तदवगतिः कथमित्यत्र साधनान्युपदिशति- यतेति | हे स्वाज्ञलोक, यदि त्वं मदुपदेशप्रभवस्वज्ञानतः स्वपदं प्राप्तुमिहसे तदा मदुक्तसाधनसंपन्नो भूत्वा विष्णोस्तत् परमं पदं यास्यसीत्यन्वयः | आहारस्य च भागौ द्वौ तृतीयमुदकस्य च | वायोः संचरणार्थाय चतुर्थमवशेषयेत् || इति येनाहारो यतो नियतः स त्वमादौ यताहारो भव, आहारशुद्धौ तत्त्वशुद्धिः इत्यादि श्रुतेः | कामालाभजः क्रोधो येन जितः स त्वं जितक्रोधो भव | स्वविकल्पितेन्द्रियेन्द्रियार्थेषु सङ्गो येन जितः स त्वं जितसङ्गो जितेन्द्रियवर्गो भव | शीतोष्णादिद्वन्द्वो यस्मान्निर्गतः स त्वं निर्द्वन्द्वो भव | शरीरत्रये अहंकारो यस्मान्निर्गतः स त्वं निरहंकारो भव | स्वातिरिक्तविषय भोगानशितुमिच्छा आशीः यस्मान्निर्गता स त्वं निराशीः भव | प्राणमात्रधारणानुकूलपरिग्रहेतरपरिग्रहो येनागृहीतः स त्वम् अपरिग्रहो भव || ३ || स्वज्ञैकदेशिनो यत्पदं विन्दन्ति तत्पदमादावुपास्स्वेत्याह- आगम्येति | केवलस्वाज्ञ[ज्ञा]गम्ये स्वाविद्यापदारोपाधिकरणे विश्वविराडोत्रादौ तद्भावाभावितधिया अगमनं कुर्वन्तीति अगम्यागमकर्तारः, स्वाज्ञदृष्टिगम्ये स्वाविद्यापदतत्कार्ये येषां मानसं गमनं न भजति ते हि गम्यागमनमानसाः प्. ४८) शबलब्रह्मशरणाः स्वज्ञैकदेशिनः | नेत्रस्थं जागरितं विद्यात् दक्षिणाक्षिमुखे विश्वः इति श्रुतिसिद्धे मुखे जाग्रज्जाग्रदादौ व्यष्टिसमष्टितदुभयैक्याधिकरणतया विश्वविश्वादिविराड्विराडाद्योत्रोत्रादिभेदेन त्रीणि त्रीणि रूपाणि, चशब्दात् तत्तत्तुर्यरूपाण्यपि, स्वाभेदेन विन्दन्ति जानन्ति | एवं त्रीणि धामानि यस्य सोऽयं त्रिधामा हंस उच्यते | स्वज्ञानतः स्वभजत्स्वात्मानं हन्तीति हंसः परमेश्वर इत्यर्थः || ४ || तमेतं हंसं सोऽहमित्युपास्य तत्प्रसादतो हि अस्ता तन्द्री जामिता यस्य सः त्वम् अस्ततन्द्री सन् स्वात्मेतराश्रयाभावात् निराश्रयो भूत्वा यन्मयोच्यते तत्सर्वापवादाधिकरणतया जाग्रज्जाग्रदादिकलनायाः परम् अनधिकारिणे अवक्तव्यत्वात् गुह्यतं ब्रह्म अधिष्ठेयसापेक्षाधिष्ठानतापाये निष्प्रतियोगिकस्वमात्रमिति विद्धि जानीहि | किं तदित्यत आह- सोमेति | उमया स्वविद्यया सहितमुनिसम्यग्ज्ञानविदिता कला चिन्मात्ररूपिणी सोमरूपकला निर्विशेषतया सूक्ष्मा, सैव, स्वाज्ञदृष्टिविकल्पितव्याप्यप्रसक्तौ, व्यापकभावमापन्नस्य विष्णोः सम्यग्ज्ञदृष्ट्या व्याप्यव्यापकतापह्नवसिद्धं यत् तत् परमं निष्प्रतियोगिकनिरतिशयं तन्मात्रतया पद्यत इति पदं स्वमात्रमवशिष्यत इत्यर्थः || ५ || परवस्तुन एव सविशेषत्वादिभावाः त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् | निश्चलं निर्विकल्पं च निराकारं निराश्रयम् || ६ || उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् | स्वभावं भावसंग्राह्यमसंघातं पदाच्युतम् || ७ || प्. ४९) अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तमव्ययम् | चिन्त्यमेवंविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् || ८ || तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् | अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् || ९ || अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् | न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च || १० || सर्वं च न परं शून्यं न परं न परात्परम् | अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः || ११ || मुनीनां संप्रयुक्तं च न देवा न परं विदुः | लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् || १२ || शीतोष्णो क्षुत्पिपासे च संकल्पकविकल्पकम् | न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसंचयम् || १३ || न भयं न सुखं दुःखं तथा मानावमानयोः | एतद्भावविनिर्मुक्तं तद्ब्रह्म ब्रह्म तत्परम् || १४ || तदेव स्वाज्ञादिदृष्ट्या सविशेषतां तत्प्रतियोगिकनिर्विशेषतां, परमार्थदृष्ट्या निष्प्रतियोगिकनिर्विकल्पतां च भजतीव भातीत्याह- त्रिवक्त्रमिति | विश्वतैजसप्राज्ञभेदेन त्रिवक्त्रं, विराट्सूत्रादिभेदेन त्रिगुणं, स्थानं मुक्तप्राप्यत्वात्, ओत्रनुज्ञात्रनुज्ञाभेदेन ब्रह्मविष्ण्वीशभेदेन वा त्रिधातुं, वस्तुत उक्तत्रिवक्त्रादिस्वरूपविवर्जितं, चलविकल्पाकृत्याश्रयवैरल्यात् प्. ५०) निश्चलं निर्विकल्पं च निराकारं निराश्रयम् || ६ || उपाधिरहितं निरुपाधिकत्वात् | स्थानम् उक्तार्थम् | वाङ्मनोऽतीततुर्यतया गोचरम् | स्वयमेव भवतीति स्वभावम् | भावरूपेणैव सम्यग्ग्राह्यं सन्मात्रत्वात् | असंघातं करणग्रामबाह्यत्वात् | स्वस्वभावादच्युतम् || ७ || नानानन्दनो जीवः स न भवतीति अनानानन्दनः साक्षी तद्भावादप्यतीतम् | दुष्प्रेक्ष्यं मुक्तमव्ययम् इति पदत्रयं व्याख्यातम् | सदा अव्ययतया चिन्त्यम् | चिन्तितस्य सविशेषप्रसक्तौ एवंविनिर्मुक्तम्, केनाप्यचिन्त्यत्वात् | अशाश्वतविश्वाभावात् शाश्वतम् | अध्रुवमायापायात् ध्रुवम् | सर्वप्रकारेणापि च्युत्यभावात् अच्युतम् || ८ || यदेवंभूतं तद्ब्रह्मणः स्वरूपम् | तत् प्रत्यग्रूपेण सर्वात्मानं विराजमधिकृत्य भवतीति अध्यात्मम् | तदेव विष्णोः स्वरूपमपि | तदेव तत्परायणं मुक्तप्राप्यनारायणत्वात् | निर्विशेषात्मना अचिन्त्यम् | अन्तःकरणाभावात् | चिन्मयात्मानम् इति, विभक्तिलिङ्गच्यत्ययः छान्दसः, चिन्मयात्मकम् | यद्व्योम चिदाकाशत्वात् | परमं व्याख्यातम् | स्थितं सत्तामात्रत्वात् || ९ || अत एव अशून्यम् | पूर्णत्वात् स्वातिरिक्तशून्यभावम् | तुशब्दोऽवधारणार्थः | शून्यभावमापन्नस्वातिरिक्तादप्यतीतं निष्प्रतियोगिकत्वात् | प्रत्यगादिरूपेण हृदि स्थितम् | तस्य प्रत्यक्त्वे त्रिपुटी स्यादित्यत आह- नेति | स्वातिरेकेण न ध्यानं च न च ध्याता न ध्येयः | स्वावशेषतया ध्येय एव च || १० || स्वातिरेकेण यदि सर्वं प्रसक्तं तदा न च सर्वम् अस्ति | यदि स्यात् तदा स्वस्मात् परं शून्यम् | अत एव न परम् अस्ति | सापेक्षपरात् परम् अपि स्वयं न भवति | स्वातिरेकेण चिन्तितुं बोद्धुं द्रष्टुम् अशक्यतया मुनयः अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः || ११ || यत्परम् अतिरिक्तं नेति नुनीनाम्- तृतीयार्थे षष्ठी- मुनिभिः यत् संप्रयुक्तम् अवधृतं तत्र देवाः सूक्ष्मबुद्ध्योऽपि ततः परम् अस्तीति न विदुः | लोभमित्यादौ लिङ्गव्यत्ययो द्रष्टव्यः | न हि तत्र लोभमोहाद्यन्तःकरणवृत्तयः शीतोष्णादिद्वन्द्वं क्षुत्पिपासादिषडूर्मयः संकल्पविकल्पादिमानसवृत्तयः ब्रह्मादिकुलप्रसूतोऽस्मीति दर्पश्च बन्धमोक्षादिग्रन्थिसंचयश्च मानावमानवृत्तयो वा विद्यन्ते | यत् एतत् सर्वभावविनिर्मुक्तं प्. ५१) स्वातिरिक्तसामान्यापह्नवसिद्धं तत् ब्रह्म | ब्रह्म तत्परं स्वमात्रमवशिष्यत इत्यर्थः || १२- १४ || परब्रह्मावगतिसाधनं पञ्चदशाङ्गयोगः यमो हि नियमस्त्यागो मौनं देशश्च कालतः | आसनं मूलबन्धश्च देहसाग्यं च दृक्स्थितिः || १५ || प्राणसंयमनं चैव प्रत्याहारश्च धारणा | आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् || १६ || यद्येवं ब्रह्म निष्प्रतियोगिकं तदा तदवगत्युपायवैरल्यमाशङ्क्य यदि ते तदवगतीच्छा विद्यते तदा तदवगतिसाधनतया पञ्चदशाङ्गयोग उच्यते- यमोहीति | इत्थं पञ्चदशयोगाङ्गानि सूत्रितानि || १५-१६ || पञ्चदशाङ्गानां लक्षणानि सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः | यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः || १७ || सजातीयप्रवाहश्च विजातीयतिरस्कृतिः | नियमो हि परानन्दो नियमात् क्रियते बुधैः || १८ || त्यागः प्रपञ्चरूपस्य सच्चिदात्मावलोकनत् | त्यागो हि महतां पूज्यः सद्यो मोक्षप्रदायकः || १९ || यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह | यन्मौनं योगिभिर्गम्यं तद्भवेत् सर्वदा जडैः || २० || प्. ५२) वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते | प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः || २१ || इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् | गिरा मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् || २२ || आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते | येनेदं सततं व्याप्तं स देशो विजनः स्मृतः || २३ || कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः | कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् || २४ || सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् | आसनं तद्वीजानीयादन्यत् सुखविनाशनम् || २५ || सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् | तस्मिन् सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते || २६ || यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् | मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् || २७ || अङ्गानां समतां विद्यात् समे ब्रह्मणि लीयते | नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् || २८ || दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् | सा दृष्टिः परमोदारा न नासाग्रावलोकिनी || २९ || प्. ५३) द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् | दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी || ३० || चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् | निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते || ३१ || निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः | ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते || ३२ || ततस्तद्वृत्तिनैश्चल्यं कुम्भकं प्राणसंयमः | अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् || ३३ || विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् | प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः || ३४ || यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् | मनसा धारणं चैव धारणा सा परा मता || ३५ || ब्रह्मैवास्मीति सद्रत्या निरालम्बतया स्थितिः | ध्यानशब्देन विख्यातः परमानन्ददायकः || ३६ || निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः | वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते || ३७ || सूत्रीभूतपञ्चदशाङ्गानि यथाक्रमं श्रुतिरेव व्याचष्टे | तत्र यमशब्दार्थमाह- सर्वमिति | करणग्रामे ब्रह्मभाव एव यम इत्यर्थः || १७ || नियमशब्दार्थमाह- सहजातीयेति | प्. ५४) अखण्डचिन्मात्रादिवृत्तिः सजातीया, घटपटादिवृत्तिः विजातीया || १८ || त्यागशब्दं व्याकरोति- त्याग इति | सच्चिदानन्ददृष्टिः अनृतादिप्रपञ्चं ग्रसतीत्यर्थः || १९ || मौनशब्दार्थं प्रकटयति- यस्मादिति | पक्षान्तरम्- वाच इति | प्रथमपक्षे जडैः वागादिकरणैः स्वस्वव्यापृत्युपरमणं मौनमित्युक्तम् | द्वितीयपक्षे तु स्वातिरिक्तयोः निष्प्रतियोगिकभावाभावरूपतया निर्वक्तुमशक्यत्वात् | प्रथमपर्यायगदितमौनं तु बालानां न हि ब्रह्मविदामस्ति || २०-२२ || देशशब्दार्थं व्याकरोति- आदाविति | तादृशदेशो ब्रह्मैवेत्यर्थः || २३ || कलाशब्दार्थमाह- कल्पनेति | यदज्ञाननिमेषविकल्पितं निखिलं तदधिकरणं ब्रह्म कालशब्दवाच्यम् || २४ || आसनशब्दार्थं विशदीकरोति- सुखेनेति | ध्यानानुकूलं सुखासनं सिद्धसिद्धिदं ब्रह्म सिद्धासनं, नह्युक्तलक्षणमित्यर्थः || २५-२६ || मूलबन्धस्वरूपं व्यक्तीकरोति- यदिति | सर्वकारणं ब्रह्मैव मूलबन्धः, नत्वाकुञ्चनादिः | अयं राजयोगिनां योग्यो न हठयोगिनामित्यर्थः || २७ || देहसाम्यशब्दार्थमाह- अङ्गानामिति | स्थूलादिदेहानां समब्रह्मणि विलयभावः समता न हि स्तम्भवत् ऋजुतेत्यर्थः || २८ || दृष्टिस्वरूपमाह- दृष्टिमिति | स्वाज्ञदृष्टिः स्वातिरिक्तं जगत् पश्यति | सर्वाधिकरणदृष्टिः स्वज्ञः परमार्थदृष्टिः ब्रह्ममात्रवित् | तेन दृश्यादित्रिपुट्यपह्नवसिद्धे ब्रह्मणि स्वमात्रदृष्टिः कार्येत्यर्थः || २९-३० || रेचकपूरककुम्भकसहितविद्वत्प्राणायामस्वरूपमाचष्टे- चित्तादीति | सर्वं ब्रह्मेति भावनं प्राणायामः | स्वातिरिक्तं जगत् नेत्यनुसंधानं रेचकवृत्तिः | तदेवास्मीति पूरकवृत्तिः | तद्वृत्तिस्थैर्यं कुम्भकवृत्तिः | स्वज्ञानामेवम् | स्वाज्ञानां घ्राणपीडनमेव फलमित्यर्थः || ३१-३३ || प्रत्याहारस्वरूपमाह- विषयेष्विति | विषयसामान्यब्रह्मदृष्टिः प्रत्याहारः || ३४ || धारणास्वरूपमाह- यत्रेति | मनःप्रचाराधिकरणं ब्रह्मेत्यर्थः || ३५ || ध्यानलक्षणमाह- ब्रह्मेति | निरालम्बब्रह्मभावनं ध्यानम् || ३६ || समाधिस्वरूपमाह- निर्विकरेति | अखण्डाकारवृत्तिः सविकल्पः, तद्वृत्त्यस्मरणं निर्विकल्पसमाधिरित्यर्थः || ३७ || प्. ५५) योगाभ्यासेन ब्रह्मभवनम् इमं चाकृतिमानन्दं तावत् साधु समभ्यसेत् | लक्ष्ये यावत् क्षणात् पुंसः प्रत्यक्त्वं संभवेत् स्वयम् || ३८ || ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् | तत्स्वरूपं भवेत् तस्या विषयो मनसो गिराम् || ३९ || मुमुक्षुः इममेव पञ्चदशावयवयोगं यावद्ब्रह्ममात्रतया स्थितिः तावदभ्यसेत्, ततो ब्रह्मैव भवतीत्याह- इममिति || ३८-३९ || समाधिविघ्नशमनम् समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् | अनुसंधानराहित्यमालस्यं भोगलालसम् || ४० || लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता | एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः || ४१ || भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता | ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् || ४२ || अनुसंधानराहित्यादिसमाधिविघ्ने सति कथं निर्विकल्पकसमाधिरुदेति इत्याशङ्क्य तद्विघ्नशान्तितः पूर्णाखण्डसमाधिरुदेतीत्याह- समाधाविति | समाध्यभ्यासयुक्तस्य कदाचित्कप्रसक्ताननुसंधानादिशून्यवृत्त्यन्तविघ्नसमूहे प्रातिस्विकेन युगपद्वा अभ्युदिते अनुसंधानाद्युपायतः तद्विघ्नसमूहं निर्मूल्य अथ ब्रह्मैवाहमस्मि इत्यखण्डाकारवृत्त्या स्वपूर्णभावमभ्यसेदित्यर्थः || ४०-४२ || प्. ५६) समाधिना शुद्धब्रह्मपदप्राप्तिः ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् | वृथैव ते तु जीवन्ति पशुभिश्च समा नराः || ४३ || ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये | ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये || ४४ || येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः | ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः || ४५ || कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः | तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च || ४६ || निमिषार्धं न तिष्ठन्ति वृत्तिं ज्ञानमयीं विना | यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः || ४७ || कारणं यस्य वै कार्यं कारण तस्य जायते | कारणं तत्त्वतो नश्येत् कार्याभावे विचारतः || ४८ || अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् | उदेति शुद्धचित्तानां वृत्तिज्ञानमतः परम् || ४९ || भावितं तीव्रयोगेन यद्वस्तु निश्चयात्मकम् | दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् || ५० || विद्वान् नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया || ५१ || इति || प्. ५७) ब्रह्माकारवृत्तिविरलान् दूषयति- ये हीति || ४३ || अखण्डाकारवृत्तिमन्त एव ब्रह्मपदं यान्ति, तद्विपरीताः संसारं भजन्ति | यत एवम् अतः श्रीशुकसनकादिवत् ब्रह्मपदेच्छुभिः समाधिरेव अभ्यसनीय इत्याह- ये त्विति || ४४ - ४७ || अखण्डाकारवृत्तेः अभ्यासजन्यत्वात् कारणम् अभ्यासः, कर्यम् अखण्डाकारवृत्तिः, तस्याः कृतकत्वेनाध्रुवत्वात् तया ध्रुवब्रह्मापत्तिः कथमित्याशङ्क्य यावदेवं विचारो नोदेति तावदेवमभ्यस्य ततः कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम् इति सापेक्षश्रुतियुक्तितः कार्यकारणकलनाम् अपह्नवं कृत्वा अथ तदपह्नवसिद्धं शुद्धचैतन्यं स्वावशेषतया विजृम्भते इत्याह- कारणमिति | यस्य एवंवादिनः अभ्यासाख्यं कारणमेव कार्यं भवति तस्य कारणमेव जायते | कार्यस्य कृतकत्वोक्त्या कार्याभावे कार्यं चेदिति सापेक्षश्रुतियुक्तितः कारणमेव नश्येत् | अभ्यासा-खण्डाकारवृत्त्युपलक्षितस्वाविद्यापदतत्कार्यतदारोपाधिकरणयोः अपह्नवतां गतयोः कार्यकारणकलनाविरलं ब्रह्म स्वमात्रमवशिष्यत इति भावः || ४८ || ततः किम् इत्यत आह- अथेति | अथ कार्यकारणत्वविभ्रमनिरसनानन्तरं यद्वै वाचामगोचरं करणग्रामासंभवप्रबोधसिद्धं तदेव वस्तु यत् स्वाज्ञदशायां अशुद्धनानारूपेण भातं स्वज्ञदशायां स्वप्रकृतिमवलम्ब्येव शुद्धं भवेत् | वस्तुतस्तु स्वाज्ञादिदृष्तिमोहे सत्यसति विशुद्धं वस्तु स्वमात्रमवशिष्यते | यदि ब्रह्म स्वमात्रं तदवगतिः कथमित्यत्र सत्कर्मानुष्ठानतो विशुद्धचित्तानां ततः परं वेदान्तश्रवणादिसंजाताखण्डाकारवृत्तिज्ञानमुदेति || ४९ || तज्ज्ञानं तीव्रयोगेन अखण्डनिर्विकल्पसमाधिना तत्त्वज्ञाने भावितं सत् यद्वस्तु निश्चयात्मकं तदेव भवति | यस्मादेवं तस्मात् विद्वान्- स्वाज्ञदशायां स्वाविद्यापदतत्कार्यजातं दृश्यं भवति- सम्यग्ज्ञानबलात् तत् अदृश्यताम् अभावरूपतां नीत्वा ब्रह्माकारेण चिन्तयेत् || ५० || एवं धिया चिद्रसपूर्णया दृश्यं ब्रह्माकारेण चिन्तित्वा सुखे नित्यानन्दे ब्रह्मणि स्वावशेषतया तिष्ठेत् || ५१ || इति शब्दः अध्यायपरिसमाप्त्यर्थः || इति प्रथमोऽध्यायः द्वितीयोऽध्यायः सर्वस्य अखण्डैकरसत्वम् अथ ह कुमारः शिवं पप्रच्छाखण्डैकरसचिन्मात्रस्वरूप-मनुब्रूहीति | स होवाच परमशिवः | अखण्डैकरसं दृश्यमखण्डैकरसं जगत् | अखण्डैकरसं भावमखण्डैकरसः स्वयम् || १ || अखण्डैकरसो मन्त्रः अखण्डैकरसा क्रिया | अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् || २ || अखण्डैकरसा भूमिरखण्डैकरसं वियत् | अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी || ३ || अखण्डैकरसं ब्रह्म चाखण्डैकरसं वृतम् | अखण्डैकरसो जीवः अखण्डैकरसो ह्यजः || ४ || अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः | अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् || ५ || अखण्डैकरसो ह्यात्मा अखण्डैकरसो गुरुः | अखण्डैकरसं लक्ष्यमखण्डैकरसं महः || ६ || अखण्डैकरसो देह अखण्डैकरसं मनः | अखण्डैकरसं चित्तमखण्डैकरसं सुखम् || ७ || प्. ५९) अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः | अखण्डैकरसं नित्यमखण्डैकरसं परम् || ८ || अखण्डैकरसं किंचिदखण्डैकरसं वरम् | अखण्डैकरसादन्यन्नास्ति नास्ति षडानन || ९ || अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि | अखण्डैकरसात् किंचिदखण्डैकरसादहम् || १० || अखण्डैकरसं स्थूलं सूक्ष्म चाखण्डरूपकम् | अखण्डैकरसं वेद्यमखण्डैकरसो भवान् || ११ || अखण्डैकरसं गुह्यमखण्डैकरसादिकम् | अखण्डैकरसो ज्ञाता अखण्डैकरसा स्थितिः || १२ || अखण्डैकरसा माता अखण्डैकरसः पिता | अखण्डैकरसो भ्राता अखण्डैकरसः पतिः || १३ || अखण्डैकरसं सूत्रमखण्डैकरसो विराट् | अखण्डैकरसं गात्रमखण्डैकरसं शिरः || १४ || अखण्डैकरसं चान्तरखण्डैकरसं बहिः | अखण्डैकरसं पूर्णमखण्डैकरसामृतम् || १५ || अखण्डैकरसं गोत्रमखडैकरसं गृहम् | अखण्डैकरसं गोप्यमखण्डैकरसः शशी || १६ || प्. ६०) अखण्डैकरसास्तारा अखण्डैकरसो रविः | अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा || १७ || अखण्डैकरसः शान्तः अखण्डैकरसो गुणः | अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् || १८ || अखण्डैकरसो बन्धुरखण्डैकरसः सखा | अखण्डैकरसो राजा अखण्डैकरसं पुरम् || १९ || अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः | अखण्डैकरसं तारमखण्डैकरसो जपः || २० || अखण्डैकरसं ध्यानमखण्डैकरसं पदम् | अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् || २१ || अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् | अखण्डैकरसं भोज्यमखण्डैकरसं हविः || २२ || अखण्डैकरसो होमः अखण्डैकरसो जयः | अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् || २३ || स्वाज्ञविकल्पितस्वाविद्यापदतत्कार्ये यद्यत् दृश्यते यद्यत् श्रूयते यद्यत् स्मर्तये तत्तत् खण्डम् अचिन्मात्रं लक्ष्यते | तदतिरेकेण किम् अखण्डैकरसं किं वा चिन्मात्रं विद्यते इति तदियत्ताबुभुत्सुः कुमारः स्कन्दः जानन्नपि लोकानुग्रहार्थं अखण्डैकरसचिन्मात्रमनुब्रूहीति सर्वज्ञं शिवं पप्रच्छ | यः तेनैवं पृष्टः परमशिवः स होवाचेत्याह- अथेति | किं तत् ? अखण्डैकरसं दृश्यमित्यादि || १-२३ || सर्वस्य चिन्मात्रत्वभावना अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् | चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम् || २४ || प्. ६१) भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि | इदं च सर्वं चिन्मात्रमयं चिन्मात्रमेव हि || २५ || आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः | सर्वलोकं च चिन्मात्रं त्वत्ता मत्ता च चिन्मयम् || २६ || आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः | यत्किंचिद्यन्न किंचिच्च सर्वं चिन्मात्रमेव हि || २७ || अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि | भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि || २८ || द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि | ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि || २९ || संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि | असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा || ३० || आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् | दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा || ३१ || सर्वाश्चर्यं च चिन्मात्रं देहश्चिन्मात्रमेव हि | लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते || ३२ || अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादि चिन्मयम् | पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः || ३३ || चिन्मात्रान्नास्ति संकल्पश्चिन्मात्रान्नास्ति वेदनम् | चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता || ३४ || प्. ६२) चिन्मात्रान्नास्ति दिक्पालश्चिन्मात्राद्व्यावहारिकम् | चिन्मात्रात् परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि || ३५ || चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् | चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् || ३६ || चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु | चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नास्त्यमौनकम् || ३७ || चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रामेव हि | यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते || ३८ || यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि | यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते || ३९ || यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि | चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् || ४० || चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि | अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते || ४१ || शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् | स्वातिरिक्तखण्डाविद्यापदतत्कार्यरसजातापह्नवसिद्धं ब्रह्म स्वाज्ञादिदृष्टिमोहे सत्यसति निष्प्रतियोगिकाखण्डैकरसचिन्मात्रतया सदा अवशिष्यत इत्यत्र न हि संशयोऽस्ति | तदेव स्वाज्ञदृष्टेः अचिद्रूपदृश्यजगद्भावादिखण्डरूपेण स्वाध्यस्तवैधर्म्यं सत्यं विभाति | तथैवं स्वाज्ञसमर्पितवैधर्म्यं केवलशास्त्रजन्यज्ञानिनो व्यावहारिकं प्रतिभाति, विज्ञानिनां तु प्रातिभासिकं, सम्यग्ज्ञानिनां प्. ६३) शून्यं, तत्त्वज्ञानां तु स्वाज्ञसमर्पितदृश्यजगद्भावादिखण्डवैधर्म्यजातं निष्प्रतियोगिकाखण्डैकरसचिन्मात्रमेव विभाति | स्वाज्ञादिदृष्टिदृष्टवैधर्म्यजातं स्वाज्ञादिदृष्टेरेव, न हि तद्वस्तुस्पर्शी भवितुमर्हति, वस्तुनो निष्प्रतियोगिकस्वमात्रत्वादित्यत्र पश्यतेहापि सन्मात्रम्- असदन्यत् ब्रह्ममात्रमसन्न हि, सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि | नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् || इत्यादि | अक्षरार्पितवैधर्म्यं सत्यं भात्यज्ञसंततेः | ज्ञविज्ञसम्यग्ज्ञतत्त्वज्ञैर्वैधर्म्यं यथाक्रमम् || ज्ञेयं भवेत् दृश्यमिथ्याशून्यचिन्मात्रभेदतः | तत्तद्दृष्टिविपर्यासः तत्तद्दृष्टेर्न चात्मनः || इत्यादि श्रुतेः, परमाक्षरोक्तेश्च | अखण्डैकरसचिन्मात्रात् न किंचिदस्तीति फलितोऽर्थः | अखण्डैकरसं भावम् इत्याद्यस्मिन्नध्याये वक्ष्यमाणाध्यायेषु च कालभेदम् इत्यादि च लिङ्गव्यत्ययः छान्दसः | शिष्टं स्पष्टम् || २४- ४१ || विद्याफलम् इत्येकरूपकतया यो वा जानात्यहं त्विति || ४२ || सकृज्ज्ञानेन मुक्तिः स्यात् सम्यग्ज्ञाने स्वयं गुरुः || ४३ || इति | विद्याफलमुपसंहरति- इतीति | अखण्डैकरसं दृश्यम् इत्यारभ्य अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते | शास्त्रे मयीशे त्वयि च योऽखण्डैकरसः परमात्मा विद्यते स एव भवान् नेतरः इत्यन्तम् एकरूपकतया यः कोऽपि वा अखण्डैकरसचिन्मात्रमहमेवेति जानाति सोऽयमेवं विद्वान् सम्यग्ज्ञाने- तृतीयार्थे सप्तमी- सम्यग्ज्ञानेन गुरुः ब्रह्मविद्वरीयान् प्. ६४) वरिष्ठो वा भूत्वा अवतिष्ठते | पुनस्तस्यैव सकृद्विभातनिष्प्रतियोगिकब्रह्ममात्रज्ञानेन विकलेबरमुक्तिः स्यात् | इतिशब्दः अध्यायपरिसमाप्त्यर्थः || ४२-४३ || इति द्वितीयोऽध्यायः तृतीयोऽध्यायः आत्मनः सच्चिदानन्दब्रह्मत्वानुभवः कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ | स होवाच भगवान् परमशिवः | परंब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् | केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् || १ || केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् | केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् || २ || केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् | सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् || ३ || केवलं तुर्यरूपोऽस्मि तुर्यातीयोऽस्मि केवलः | सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् || ४ || केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहम् सदा | केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् || ५ || प्. ६५) निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः | सदासङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः || ६ || सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः | अपरिच्छिन्नरूपोऽस्मि ह्यनन्तानन्दरूपवान् || ७ || सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् | अन्तरान्तररूपोऽहमवाङ्मनसगोचरः || ८ || अत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा | आत्मारामस्वरूपोऽस्मि ह्यहमात्मा सदाशिवः || ९ || आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतीरसोऽस्म्यहम् | आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् || १० || नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः | नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् || ११ || नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा | रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः || १२ || भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा | सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् || १३ || देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा | चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् || १४ || सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि | सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा || १५ || प्. ६६) अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि | अहमेवाहमेवास्मि भूमाकारस्वरूपवान् || १६ || अहमेव महानात्मा ह्यहमेव परात्परः | अहमन्यवदाभामि ह्यहमेव शरीरवत् || १७ || अहं शिष्यवदाभामि ह्यहं लोकत्रयाश्रयः | अहं कालत्रयातीतः अहं वेदैरुपासितः || १८ || अहं शास्त्रेण निर्णीतः अहं चित्ते व्यवस्थितः | मत्त्यक्तं नास्ति किंचिद्वा मत्त्यक्तं पृथिवी तु वा || १९ || मायातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु | अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा || २० || निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा | केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् || २१ || स्वयमेव स्वयं भामि स्वयमेव सदात्मकः | स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः || २२ || स्वयमेव स्वयं भुङ्क्ते स्वयमेव स्वयं रमे | स्वयमेव स्वयंज्योतिः स्वयमेव स्वयंमहः || २३ || स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये | स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः || २४ || स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे | स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये || २५ || प्. ६७) चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् | आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् || २६ || सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवाहनम् | नित्य नन्दस्वरूपोऽहमात्माकाशोऽस्मि सर्वदा || २७ || अहमेव हृदाकाशे चिदादित्यस्वरूपवान् | आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः || २८ || एकसंख्याविमुक्तोऽस्मि नित्यमुक्तस्वरूपवान् | आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववाहनम् || २९ || सर्वप्रकाशरूपोऽस्मि परावरसुखोऽस्म्यहम् | सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् || ३० || सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् | विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः || ३१ || ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यत्र किंचन | तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् || ३२ || त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किंचन | चिच्चैतन्यस्वरूपोऽहमहमेव परः शिवः || ३३ || अतिभावस्वरूपोऽहमहमेव सुखात्मकः | साक्ष्यवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा || ३४ || केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः | अहमेवादिशेषोऽहमहंशेषोऽहमेव हि || ३५ || प्. ६८) नामरूपविमुक्तोऽहमहमानन्दविग्रहः | इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः || ३६ || बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः | आदिचैतन्यरूपोऽहमखण्डैकरसोऽस्म्यहम् || ३७ || वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवाहनम् | सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् || ३८ || सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् | एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः || ३९ || सर्वशून्यस्वरूपोऽहं सकलागमगोचरः | मुक्तोऽहं मुक्षरूपोऽहं निर्वाणसुखरूपवान् || ४० || सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् | तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् || ४१ || सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः | अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् || ४२ || ओंकारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् | एवं स्वपितृमुखतः कुमारः अखण्डैकरसचिन्मात्रेयत्तां श्रुत्वा तत्र स्वानुभवं पृच्छतीत्याह- कुमार इति | तत्प्रश्नमङ्गीकृत्य अखण्डैकरसचिन्मात्रानुभवं स्वाज्ञविकल्पितात् सर्वस्मात् परं विलक्षणं यत् सम्यक् बृंहयति विजृम्भते तत् परं ब्रह्म तत्स्वरूपोऽहम् | परमानन्दमिति लिङ्गव्यत्ययः, प्. ६९) परमानन्दोऽस्म्यहमित्यर्थः | किंच- केवलमित्यादि | प्रत्यक्प्रकाशत्वात् ज्ञानरूपः | सर्वोत्कृष्टत्वात् परमः || १ || क्रूरस्वातिरिक्ताभावात् शान्तः | अनित्यापायात् नित्यः | निरंतनत्वात् शाश्वतः || २ || ईश्वरत्वात् सत्त्वरूपः | पराक्सापेक्षप्रत्यगहंभावं त्यक्त्वा शिष्टाहंभावोऽस्मि | सर्वं ब्रह्मेत्यत्र सर्वापह्नवसिद्धब्रह्ममात्रमस्मि | चिदाकाशमयः चिदाकाशस्वरूपः || ३ || तुर्यः प्रत्यक् | तदतीतः परः | अशेषविशेषाभावात् केवलः || ४-५ || विकल्पासहत्वात् निर्विकल्पः | अन्तःकरणाभावात् निरीहः | भवरोगहानात् निरामयः | उपाधिसत्त्वेऽपि असङ्गः | विकाराभावात् निर्विकारः | स्वतः परतो वा व्ययाभावात् अव्ययः || ६ || अपरिच्छिन्नः त्रिविधपरिच्छेदाभावात् | अनन्तानन्दः अपरिमितानन्दरूपत्वात् || ७ || सच्चित्परानन्दरूपः सच्चित्परानन्दरूपत्वात् | सर्वान्तरः प्रत्यक् तस्मादप्यन्तरः परः प्रत्यगभिन्नब्रह्मरूपत्वात् | वाङ्मानसादिकरणग्रामागोचरः || ८ || सत्यात्मानन्दरूपः | प्रत्यगादिरूपेण सर्वात्मसु रमत इति आत्मारामः || ९ || स्वोत्पत्तिस्थितिलयाभावात् आदिमध्यान्तहीनः | निरवयवत्वात् आकाशसदृशः || १० || सत्तासामान्यत्वात् सत्तामात्रः || ११ || सर्वावशेषरूपत्वात् नित्यशेषः || १२ || अपरिच्छिन्नानन्दत्वात् भूमानन्दः | वागादिकरणाभावात् भाषाहीनः || १३-१४ || द्दश्यासंभवतो दृङ्मात्रः || १५-१६ || स्वाज्ञदृष्टेः अहमन्यवत् गुरुशिष्यवत् भातोऽस्मि | वेदशास्त्रैः उपास्यो निर्णीतोऽस्मि || १७-१८ || शिष्टं स्पष्टम् | मया अव्याप्तं म्दतिरिक्तं वा नास्तीति जानीहीत्याह- मत्त्यक्तमिति || १९ || किंच- अहमिति || २० || केवलं ब्रह्ममात्रोऽस्मि निष्प्रतियोगिकत्वात् || २१ || यतः स्वयमेवेदं सर्वम् अतः स्वस्मादन्यत् न चिन्तये इत्याह- स्वयमेवेति || २२ || भुङ्क्ते इत्यत्र पुरुषव्यत्ययः, भुञ्जे इत्यर्थः || २३-२५ || यच्चिद्रूपमात्रं तदेवाहमस्मीत्याह- चिदिति || २६ || सर्वशून्योऽहं सर्वदा सर्वासंभवात् || २७ || प्. ७०) अहमेव चिदादित्यस्वरूपवान् सर्वप्राणिहृद्गतकामादिवृत्तिसहस्रभासकचित्सूर्यत्वात् || २८ || एकसंख्याविमुक्तः असंख्येयत्वात् | आद्यन्ताभाववान् संभूतिप्रलयाभावात् || २९ || परावरसुखः प्रत्यगभिन्नब्रह्मानन्दत्वात् | शुद्धमोक्षस्वरूपवान् स्वस्य स्वातिरिक्तभ्रममोक्षसिद्धत्वात् || ३०-३१ || यतः अन्यत् न विद्यते तदेवाहमित्याह- ब्रह्ममात्रमिति || ३२ || त्वंतदित्यादिशब्दवाच्यं मदतिरिक्तं नास्तीत्याह- त्वमिति || ३३ || अतिभावस्वरूपः सर्वभावातीतत्वात् | साक्षित्वं- साक्ष्यसापेक्षसाक्षितायाः सविशेषत्वात् तद्विरलोऽस्मीत्यर्थः || ३४ || आदिशेषः धरणीधरत्वात् | अहंशेष इति स्वमात्रत्वमवशिष्टत्वात् || ३५-३८ || एकमेवाद्वितीयं सजातीयविजातीयस्वगतभेदवैरल्यात् || ३९ || सकलागमगोचरः वेदान्तवेद्यत्वात् | स्वाविद्याद्वयतो मुक्तः | निर्वाणसुखरूपवान् विदेहकैवल्यानन्दत्वात् || ४०-४१ || बुद्धः विशुद्धबोधरूपत्वात् || ४२ || ओंकारार्थस्वरूपः तुर्यतुर्यत्वात् || आत्मानि सर्वप्रविभक्तरूपाभावानुभवः चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् || ४३ || न हि किंचित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् | निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् || ४४ || न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् | न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् || ४५ || न तापत्रयरूपोऽहं नेषणात्रयवानहम् | श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि || ४६ || सजातीयं न मे किंचिद्विजातीयं न मे क्वचित् | स्वगतं च न मे किंचिन्न मे भेदत्रयं क्वचित् || ४७ || प्. ७१) अहंशब्दबोध्यं स्थूलदेहादिप्रत्यगन्तं, तच्छब्दबोध्यं विराडादितुर्यान्तं, तदुभयविलक्षणत्वात् नाहमस्मि न सोऽस्म्यहम् || ४३ || स्वारिरेकेण किंचित्स्वरूपः | अखण्डार्थत्वात् निरंशः | देहत्रयविलक्षणत्वात् न मन इत्यादि || ४४-४५ || स्वस्य स्वतःसिद्धत्वेन न हि श्रवणादिसाधनाकाङ्क्षा अस्तीत्याह- श्रवणमित्यादि | चशब्दो निदिध्यासनसमुच्चयार्थः || ४६ || न हि सजातीयादिभेदत्रयमस्तीत्याह- सजातीयमिति || ४७ || स्वेतरस्य सर्वस्य असत्त्वानुभवः असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् | अहंकारमसद्धीति नित्योऽहं शाश्वतो ह्यजः || ४८ || देहत्रयमसद्विद्धि कालत्रयमसत् सदा | गुणत्रयमसद्विद्धि ह्यहं सत्यात्मकः शुचिः || ४९ || श्रुतं सर्वसद्विद्धि वेदं सर्वमसत् सदा | शास्त्रं सर्वमसद्विद्धि ह्यहं सत्यं चिदात्मकः || ५० || मूर्तित्रयमसद्विद्धि सर्वभूतमसत् सदा | सत्वतत्त्वमसद्विद्धि ह्यहं भूमा सदाशिवः || ५१ || गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः | यद् दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् || ५२ || यच्चिन्त्यं तदसद्विद्धि यन्न्याययं तदसत् सदा | यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् || ५३ || सर्वान् प्राणीनसद्विद्धि सर्वान् भोगानसत्त्विति | दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् || ५४ || प्. ७२) कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् | दुःखादुःखमसद्विद्धि सर्वासर्वमसन्मयम् || ५५ || पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् | लाभालाभावसद्विद्धि जयाजयमसन्मयम् || ५६ || शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा | रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् || ५७ || गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् | असदेव सदा सर्वमसदेव भवोद्भवम् || ५८ || असदेव गुणं सर्वं सन्मात्रमहमेव हि | स्वातिरिक्तसामान्यं शशविषाणवदत्यन्ताभावरूपतया असदेव | अहं तु तदपह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रभावरूपोऽस्मीत्याह- असत्यं हीति || ४८-५८ || अहंब्रह्मास्मीत्यात्ममन्त्राभ्यासः स्वात्ममन्त्रं सदा पश्येत् स्वात्ममन्त्रं सदाभ्यसेत् || ५९ || अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् || ६० || अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् || ६१ || अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् || ६२ || प्. ७३) अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् || ६३ || अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् || ६४ || अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन् विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् || ६५ || अहं ब्रह्मास्मि मन्त्रोऽयं क्रमादीन् नाशयेत् क्षणात् | अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधवृत्तिं विनाशयेत् || ६६ || अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं संकल्पादीन् विनाशयेत् || ६७ || अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् || ६८ || अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् | अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोक जयप्रदः || ६९ || अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुख प्रदः | अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति || ७० || अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः | अहं ब्रह्मास्मि वज्रेऽयमनात्माख्यगिरीन् हरेत् || ७१ || अहं ब्रह्मास्मि चक्रोऽयमनात्मत्वासुरान् हरेत् | अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति || ७२ || प्. ७४) अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति | सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् || ७३ || सर्वमन्त्रान् समुत्सृज्य एतन्मन्त्रं समभ्यसेत् | सद्यो मोक्षमवाप्नोति नास्ति संदेहमण्वपि || ७४ || इति || स्वात्ममन्त्राभ्यासस्य ब्रह्माप्त्यन्तरायनिरसनद्वारा निष्प्रतियोगिकब्रह्ममात्रपदप्रापकत्वात् यत एवम् अतः बन्धमोक्षभ्रममुमुक्षुः इममेव अहं ब्रह्मास्मीति मन्त्रं सदा अभ्यसेदित्याह- स्वात्ममन्त्रमिति | स्पष्टोऽयमर्थः || ५९-७४ || इतिशब्दः अध्यायपरिसमाप्त्यर्थः || इति तृतीयोऽध्यायः || ३ || चतुर्थोऽध्यायः जीवन्मुक्तिः- प्रत्यगभिन्नब्रह्मभावापत्तिः कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति | स होवाच परः शिवः | चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः | आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते || १ || देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् | ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते || २ || प्. ७५) आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् | यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः | परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते || ३ || यस्य किंचिदहं नास्ति चिन्मात्रेणावतिष्ठते | चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् || ४ || सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः | आनन्दरतिव्यक्तः परिपूर्णश्चिदात्मकः || ५ || शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः | नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः || ६ || किंचिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते | न मे चित्तं न मे बुद्धिर्नाहंकारो न चेन्द्रियम् || ७ || न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् | न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् || ८ || न मे किंचिदिदं वापि न मे किंचित् क्वचिज्जगत् | न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः || ९ || न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः | न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि || १० || न मे तुरीयमिति यः स जीवन्मुक्त उच्यते | इदं सर्वं न मे किंचिदयं सर्वं न मे क्वचित् || ११ || प्. ७६) न मे कालो न मे देशो न मे वस्तु न मे मतिः | न मे स्नानं न मे संध्या न मे दैवं न मे स्थलम् || १२ || न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् | न मे बन्धं न मे जन्म न मे वाक्यं न मे रविः || १३ || न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् | न मे जीव इति स्वात्मा न मे किंचिज्जात्त्रयम् || १४ || न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः | न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः || १५ || न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः | न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न चन्द्रमाः || १६ || न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् | न मे वहिर्न मे गोत्रं न मे लक्ष्यं न मे भवः || १७ || न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः | न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा || १८ || न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः | न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः || १९ || न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि | ने मे मन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि || २० || न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि | न मे भोगो न मे रागो न मे यागो न मे लयः || २१ || प्. ७७) न मे मौर्ख्यं न मे शान्तं न मे बन्धं न मे प्रियम् | न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् || २२ || न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयम् | अध्यारोपापवादौ वा न मे चैकं न मे बहु || २३ || न मे आन्ध्यं न मे मान्द्यं न मे पट्टिदमण्वपि | न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् || २४ || न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातुसप्तकम् | न मे शुक्लं न मे रक्तं न मे नीलं न मे पृथक् || २५ || न मे तापो न मे लोभो मुख्यं गौणं न मे क्वचित् | न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् || २६ || न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः | न मे व्रतं न मे ग्लानिर्न मे शोष्यं न मे सुखम् || २७ || न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् | न मे तुभ्यं न मे मह्यं न मे त्वं च न मे त्वहम् || २८ || न मे जरा न मे बाल्यं न मे यौवनमण्वपि | अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः || २९ || चिदहं चिदहं चेति स जीवन्मुक्त उच्यते | ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः || ३० || स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः | स्वयमेव स्वयं पश्येत् स्वात्मराज्ये सुखे वसेत् || ३१ || प्. ७८) स्वात्मानन्दं स्वयं भोक्ष्येत् स जीवन्मुक्त उच्यते | स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः | स्वस्वरूपे स्वयं स्वप्स्ये स जीवन्मुक्त उच्यते || ३२ || कुमारः स्वपितुः परमेश्वरस्य मुख्यतः अखण्डैकरसचिन्मात्रज्ञानं तदनुभवं च यथावदवगम्य तदान्तरालिकमुख्यफलरूपजीवन्मुक्तिविदेहमुक्तिस्वरूपमवगन्तु शिवं पृच्छतीत्याह- कुमार इति | तदङ्गीकृत्य क्रमेण जीवन्मुक्तविदेहमुक्तलक्षणं स होवाच | तत्र जीवन्मुक्तलक्षणमुच्यते- चिदात्मेति | पराग्भावग्रासप्रत्यग्भावस्थितिः जीवन्मुक्तिः प्रत्यगभिन्नब्रह्मभावापत्तिर्वेति वक्ष्यमाणजीवन्मुक्तिपर्यायसमुदायार्थः || १-४ || आनन्दात्मन्येव रतिः यस्य सोऽयं आनन्दरतिः || ५ || अन्यचिन्ताविवर्जितः स्वान्यस्य मृग्यत्वात् || ६-९ || देहत्रयवैलक्षण्यवदवस्थाचतुष्टयवैलक्षण्यमाह- न मे जाग्रदिति || १०-१४ || ने मे विधिः न निषेधोऽपीत्यर्थः || १५-३१ || स्वयमेव प्रभुः ईश्वरत्वात् | चिदात्माहं परात्माहम् इत्येतावता ग्रन्थेन ब्रह्मविदादिचतुर्भेदभिन्नजीवन्मुक्तलक्षणमभिहितम् | प्रायशः इयं तेजोबिन्दूपनिषत् विध्यादिविदेहमुक्त्यन्तमहावाक्यरत्नावलीप्रभालोचने प्रसक्तानुप्रसक्त्या व्याख्याता नेह पुनः पदशो व्याख्यायते ग्रन्थविस्तरभयादिति || ३२ || विदेहमुक्तिः- निष्प्रतियोगिकस्वमात्रब्रह्ममात्रावस्थानम् ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी | स्वच्छरूपो महामौनी वैदेही मुक्त एव सः || ३३ || सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः | एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः || ३४ || प्. ७९) अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः | लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् || ३५ || आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः | ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते || ३६ || चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः || ३७ || निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् | आनन्दभरितस्वान्तो वैदेही मुक्त एव सः || ३८ || सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति | अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः || ३९ || किंचित् क्वचित् कदाचिच्च आत्मानं न स्पृशत्यसौ | तूष्णीमेवं स्थितस्तूष्णीं तूष्णीं सत्यं न किंचन || ४० || परमात्मा गुणातीतः सर्वात्मा भूतभावनः | कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् || ४१ || किंचिद्भेदं न तस्यास्ति किंचिद्वापि न विद्यते | अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः || ४२ || शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः | देवात्मा देवहीनात्मा मेयात्मा मेयवर्जितः || ४३ || सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः | सर्वसंकल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा || ४४ || प्. ८०) केवलः परमात्माहं केवलो ज्ञानविग्रहः | सत्तामात्रस्वरूपात्मा नान्यत् किंचिज्जगद्भयम् || ४५ || जीवेश्वरेति वाक् क्वेति वेदशास्त्राद्यहं त्विति | इदं चैतन्यमेवेति अहं चैतन्यमित्यपि || ४६ || इति निश्चयशून्यो यो वैदेही मुक्त एव सः | चैतन्यमात्रसंसिद्धस्वात्मारामः सुखासनः || ४७ || अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः | तुर्यतुर्यः परानन्दो वैदेही मुक्त एव सः || ४८ || नामरूपविहीनात्मा परसंवित्सुखात्मकः | तुरीयातीतरूपात्मा शुभाशुभविवर्जितः || ४९ || योगात्मा योगयुक्तात्मा बन्धमुक्तिविवर्जितः | गुणागुणविहीनात्मा देशकालादिवर्जितः || ५० || साक्ष्यसाक्षित्वहीनात्मा किंचित्किंचिन्न किंचन | यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न || ५१ || स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः | वाचामगोचरानन्दो वाङ्मनोऽगोचरः स्वयम् || ५२ || अतीतातीतभावो यो वैदेही मुक्त एव सः | चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः || ५३ || सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः | तस्मिन् काले विदेहीति देहस्मरणवर्जितः || ५४ || प्. ८१) ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः | परैरदृष्टबाह्यात्मा परमानन्दचिद्घनः || ५५ || परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः | ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः || ५६ || ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् | ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः || ५७ || ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः | ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः || ५८ || ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः | ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः || ५९ || ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्घनः | ब्रह्मानन्दसोद्वाहो ब्रह्मानन्दसंभरः || ६० || ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः | आत्मरूपमिदं सर्वमात्मनोऽन्यत्र किंचन || ६१ || सर्वमात्माहमात्मास्मि परमात्मा परात्मकः | नित्यानन्दस्वरूपात्मा वैदेही मुक्त एव सः || ६२ || पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः | सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः || ६३ || निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः | शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः || ६४ || प्. ८२) जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः | मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः || ६५ || बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः | द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः || ६६ || सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः | मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः || ६७ || सर्वसंकल्पहीनात्मा वैदेही मुक्त एव सः | निष्कलात्मा निर्मलात्मा बुद्धात्मा पुरुषात्मकः || ६८ || आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः | कालत्रयस्वरूपात्मा कालत्रयविवर्जितः || ६९ || अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः | नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णितः || ७० || अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः | विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः || ७१ || नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः | शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः || ७२ || स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः | कारणादिविहीनात्मा तुरीयादिविवर्जितः || ७३ || प्. ८३) अन्नकोशविहीनात्मा प्राणकोशविवर्जितः | मनःकोशविहीनात्मा विज्ञानादिविवर्जितः || ७४ || आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः | निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः || ७५ || दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः | सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः || ७६ || प्रज्ञानवावयहीनात्मा अहंब्रह्मास्मिवर्जितः | तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः || ७७ || ओंकारवाच्यहीनात्मा सर्ववाच्यविवर्जितः | अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः || ७८ || आत्मज्ञेयादिहीनात्मा यत्किंचिदिदमात्मकः | भानाभानविहीनात्मा वैदेही मुक्त एव सः || ७९ || स्वातिरिक्ताविद्यापदतत्कार्यजातकलनापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति तन्मात्रावस्थानं विदेहमुक्तलक्षणम् | तदिह प्रपञ्च्यते- ब्रह्मभूत इत्यादिना | ब्रह्मभूतः ब्रह्ममात्रतया अवस्थितत्वात् | प्रशान्तात्मा प्रशान्तदेहत्रयाभिमतित्वात् | ब्रह्मानन्दमयः आनन्दस्वरूपः निष्प्रतियोगिकभूमानन्दमात्र इत्यर्थः | स्वच्छरूपः पूर्णबोधस्वरूपत्वात् | महामौनी स्वमात्रतया तूष्णीमवस्थितत्वात् | देहत्रयोपलक्षितस्वाविद्यापदतत्कार्यजाते आत्मात्मीयाभिमतिमूलभूता विगताश्च ते देहाश्च विदेहाः, विदेहा एव वैदेहाः, ते अस्य सन्तीति वैदेही | तद्रूपेण व्यपदिष्टस्य बद्धत्वं स्यादित्यत आह- मुक्त इति | स्वातिरिक्तं यत्र मुक्तम् अपह्नवतां गतं सोऽयं वैदेही मुक्त एवेत्यत्र- प्. ८४) यस्मिन् व्यष्टिसमष्ट्याख्यस्थूलदेहादिवासना | विरूपविलयं याति स विदेहो महामुनिः || सर्वापह्नवसंसिद्धब्रह्ममात्रं स एव हि | अकल्पविद्वरिष्ठोऽयमिति सर्वत्र गीयते || इति स्मृतिः मानम् | एवमेव विदेहमुक्तिश्रुतयो बोद्धव्याः || ३३ || किंच- सर्वात्मेति | स्वात्ममात्रकः निष्प्रतियोगिकैकरूपत्वात् || ३४ || लक्ष्यात्मा स्वावशेषतया लक्षितत्वात् | ललितात्मा केवलनिर्विशेषत्वात् | तूष्णीमात्मस्वभाववान् महामौनफलरूपत्वात् || ३५ || न चिन्त्यते तथाविधचिन्ताया अपि विद्यावृत्तित्वेन अपह्नोतव्यत्वात् || ३६ || स्वातिरिक्तमस्तीति, चशब्दात् नास्तीति, निश्चयं चेति || ३७-३९ || यत्र स्वाज्ञजातं संसरति तत्र ज्ञानी विज्ञानी वा सङ्गोदासीनतया प्रत्यगभिन्नब्रह्मगोचराखण्डाकारवृत्तिपरवशो भूत्वा एवं तूष्णीमास्ते | यद्येवम् अखण्डाकारवृत्तिमपि असहमानो योगी सम्यग्ज्ञानी निर्विकल्पकसमाधिपरवशो भूत्वा क्वचित्कालं तूष्णीं स्थितो भवति | तूष्णीं सत्यं न किंचन इत्यत्र- सरूपविलयसिद्धनिर्विकल्पसमाधितः कादाचित्कव्युत्थानमप्यसह-मानः तत्त्वज्ञानी सुषुम्नानाड्यन्तर्गतकैवल्यनाडिकोज्ज्वलच्चिदा-काशे स्वान्तर्बहिर्भावितस्वाविद्याद्वयतत्कार्यविकल्पजातापह्नव-सिद्धनिष्प्रतियोगिकनिर्विकल्पब्रह्ममात्रतया तूष्णींस्वभावेनावशिष्यते इति यत् तदेव सत्यं सन्मात्रावस्थानलक्षणविदेहकैवल्यं तत्र न किंचन स्वातिरिक्तमस्ति नास्तीति विभ्रमोऽस्ति ब्रह्मव्यतिरिक्तं न किंचिदस्ति मद्व्यतिरिक्तमणुमात्रं न विद्यते सन्मात्रमसदन्यत् इत्यादि श्रुतेः || ४०-४१ || भेद इति वक्तव्ये भेदमिति विभक्तिव्यत्ययः || ४२-४५ || जीवेश्वराविति वक्तव्ये जीवेश्वरेति संबुद्धिः, वेदशास्त्राणीति वक्तव्ये वेदशास्त्रा इति लिङ्गव्यत्ययः || ४६-४७ || तुर्यतुर्यः अविकल्पाविकल्परूपत्वात् || ४८-४९ || प्. ८५) गुणागुणविहीनात्मा त्रिगुणवत्तत्सापेक्षनिर्गुणस्यापि सविशेषत्वात् | मिथः सापेक्षसगुणनिर्गुणताविरलनिष्प्रतियोगिकनिर्गुणात्मायमित्यर्थः || ५० || साक्ष्यसाक्षिनिरूपितसविशेषजातं किंचित् किंचिदपि न किंचन || ५१-६० || विदेहमुक्तेः पुरा यद्यदन्नादिकम् आस्वादितं यद्यदुद्वाहादिकुटुम्बभरणशिवपूजादि कृतं तत्तत् सर्वम् इदानीं ब्रह्मानन्द एव भवति, विदेहमुक्तस्य स्वातिरिक्तकलनातत्प्रवृत्तिनिवृत्तिव्यापृत्यपह्नवसिद्धत्वात् | विदेहमुक्तातिरेकेण न किंचिदस्तीत्याह- आत्मरूपमिति || ६१-६२ || निरात्मकः ईश्वरसाक्षिचिन्मात्रत्वात् || ६३-६६ || सर्वासर्वविवर्जितः सापेक्षबन्धमोक्षद्वैताद्वैतादेः सविशेषत्वात् निष्प्रतियोगिकाद्वैतात्मायमित्यर्थः || ६७-६९ || नित्यप्रत्यक्षनिर्णितः स्वाज्ञादिभिः स्वस्वदृष्ट्यनुरोधेन निर्णीत इत्यर्थः || ७०-७३ || चतुर्महावाक्यवाच्यलक्ष्यता स्यादित्यत आह- प्रज्ञानेति || ७७-८१ || स्वात्मनिष्ठाविधिः आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् | स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन || ८० || स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर | आत्मानमेव मोदस्व वैदेही मुक्तिको भव || ८१ || इत्युपनिषत् || इत्युपनिषच्छब्दः कुमारशिवाख्यायिकासमाप्त्यर्थः || ८२ || इति चतुर्थोऽध्यायः || ४ || पञ्चमोऽध्यायः स्वात्मयाथात्म्यम् निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति | स होवाच भगवान् ऋभुः | सर्ववाचोऽबधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः | सर्वकारणकार्यात्मा कार्यकारणवर्जितः || १ || सर्वसंकल्परहितः सर्वनादमयः शिवः | सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः || २ || सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः | सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः || ३ || सर्वनादकलातीत एष आत्माहमव्ययः | आत्मानात्मविवेकादिभेदाभेदविवर्जितः || ४ || शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः | महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः || ५ || तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः | क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः || ६ || अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः | सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः || ७ || प्. ८७) आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः | सच्चिदानन्दहीनो य एषैवात्मा सनातनः || ८ || स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यगः | यस्य किंचिद्बहिर्नास्ति किंचिदन्तः कियन्न च || ९ || यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः | नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः || १० || नामरूपादिकं नास्ति भोज्यं वा भोगभुक् च वा | सद्वासद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् || ११ || गुणं वा विगुणं वापि स म आत्मा न संशयः | यस्य वाच्यं वाचकं वा श्रावणं मननं च वा || १२ || गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः | यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि || १३ || यत्र कालमकालं वा निश्चयः संशयो न हि | यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते || १४ || द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् | कुमारेण साकम् ऋभुर्नाम ब्रह्ममानसपुत्रः सोऽपि शिवमुखतः अखण्डैकरसचिन्मात्रज्ञानतदनुभवतदान्तरालिक-मुख्यफलात्मकजीवन्मुक्तिविदेहमुक्त्योः इयत्तामवगम्य कृतकृत्यपदं गतः खलु | तं कदाचित् निदाघो नाम मुनिः समस्तवेदशास्त्रपुराणेतिहासादिषु आत्मानात्मानौ स्त इति श्रूयते तयोः इयत्ताजिज्ञासया पृष्टवानित्याह श्रुतिः- निदाघ इति | तत्प्रश्नमङ्गीकृत्य प्. ८८) स होवाच | किं तत् इत्यत्र सर्ववाच इति | सर्ववाचोऽवधिः अशब्दत्वात् | सर्वचिन्तावधिः प्रतीचश्चिन्तादिवृत्तिग्रासत्वात् | स्वाज्ञादिदृष्ट्या सर्वकारणकार्यात्मा || १ || सर्वनादमयः नादतज्जवेदशास्त्रसिद्धान्तार्थत्वात् | स्वाज्ञसमर्पितसर्ववर्जितचिन्मात्रः || २ || स्वानुभूतिध्यानादिविषयस्य सविशेषता स्यादित्यत आह- सर्वेति || ३-४ || तत्त्वंपदवाक्यार्थ आत्मेत्यत आह- महावाक्येति || ५ || क्षराक्षरविहीनः क्षराक्षरकलनाविरलपरमाक्षरत्वात् || ६-८ || परमात्मनो व्याविद्धनानापदवाक्यार्थत्वेन महावाक्यात्मसच्चिदानन्दशब्दतद्वाच्यार्थवर्जितत्वात् स निर्देष्टुमिति | कर्मकाण्डगोचरवेदवाक्यैः साक्षादगम्यतां गच्छतीति अगम्यगः || ९-१४ || अनात्मनः सर्वस्य मिथ्यात्वम् अनात्मेति प्रसङ्गो वा अनात्मेति मनोऽपि वा || १५ || अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु | सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् || १६ || केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु | देहत्रयविहीनत्वात् कालत्रयविवर्जनात् || १७ || जीवत्रयगुणाभावात् तापत्रयविवर्जनात् | लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् || १८ || चित्ताभावाच्चिन्तनीयं देहाभावाज्जरा न च | पादाभावाद् गतिर्नास्ति हस्ताभावात् क्रिया न च || १९ || मृत्युर्नास्ति जनाभावाद् बुद्ध्यभावात् सुखादिकम् | धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च || २० || प्. ८९) अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि | एकाभावे द्वितीयं न न द्वितीये न चैकता || २१ || सत्यत्वमस्ति चेत् किंचिदसत्त्वं न च संभवेत् | असत्यत्वं यदि भवेत् सत्यत्वं न घटिष्यति || २२ || शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते | भयं यद्यभयं विद्धि ह्यभयाद्भयमापतेत् || २३ || बन्धत्वमस्ति चेन्मोक्षो बन्धाभावे क्व मोक्षता | मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च || २४ || त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न | इदं यदि तदेवास्ति तदभावादिदं न च || २५ || अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किंचन | कार्यं चेत् कारणं किंचित् कार्याभावे न कारणम् || २६ || द्वैतं यदि तदाद्वैतं द्वैताभावेऽद्वयं न च | दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न || २७ || अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च | पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते || २८ || तस्मादेतत् क्वचिन्नास्ति त्वं चाहं वा इमे इदम् | नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे || २९ || प्. ९०) परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि | ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् || ३० || चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु | इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् || ३१ || चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा | न प्रपञ्चं न चित्तादि नाहंकारो न जीवकः || ३२ || मायाकार्यादिकं नास्ति माया नास्ति भयं न हि | कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि || ३३ || समाधिद्वितयं नास्ति मातृमानादि नास्ति हि | अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन || ३४ || अनुबन्धचतुष्कं न संबन्धत्रयमेव न | न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि || ३५ || न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् | न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् || ३६ || न दूरं नान्तिकं नालं न मध्यं न क्वचित् स्थितम् | नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च || ३७ || बन्धमोक्षादिकं नास्ति सद्वासद्वा सुखादि वा | जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति च लौकिकम् || ३८ || सर्वं ब्रह्मेति नास्त्येव ब्रह्मेत्यपि च नास्ति हि | चिदित्येवेति नास्त्येव चिदहंभाषणं न हि || ३९ || प्. ९१) अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् | वाचा यदुच्यते किंचिन्मनसा मनुते क्वचित् || ४० || बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते न हि | योगियोगादिकं नास्ति सदा सर्वं सदा न च || ४१ || अहोरात्रादिकं नास्ति स्नानध्यानादिकं न हि | भ्रान्तिरभ्रान्ति नास्त्येव नास्त्यनात्मेति निश्चिनु || ४२ || वेदं शास्त्रं पुराणं च कार्यं कारणमीश्वरः | लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः || ४३ || बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः | गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः || ४४ || वाचा वदति यत् किंचित् संकल्पैः कल्प्यते च यत् | मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः || ४५ || बुद्ध्या निश्चीयते यद्यच्चित्ते निश्चीयते क्वचित् | शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते || ४६ || श्रोत्राभ्यां श्रूयते यद्यदन्यत् सद्भावमेव च | नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् || ४७ || इदमित्येव निर्दिष्टमयमित्येव कल्प्यते | त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च || ४८ || प्. ९२) यद्यत् संभाव्यते लोके सर्वसंकल्पसंभ्रमः | सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् || ४९ || सर्वदोषप्रभेदाश्च नास्त्यनात्मेति निश्चिनु | मदीयं च त्वदीयं च ममेति च तवेति च || ५० || मह्यं तुभ्यं मयेत्यादि तत् सर्वं वितथं भवेत् | रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् || ५१ || संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु | स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् || ५२ || मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् | अन्तःकरणसद्भावः अविद्यायाश्च संभवः || ५३ || अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु | सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् || ५४ || दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते | वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु || ५५ || येन केनाक्षरेणोक्तं येन केन विनिर्णितम् | येन केनापि गदितं येन केनापि मोदितम् || ५६ || येन केनापि यद्दत्तं येन केनापि यत् कृतम् | यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् || ५७ || यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु | प्. ९३) निदाघेन आत्मानात्मयाथात्म्यमनुब्रूहीति यत् पृष्टं तत्र स्वातिरिक्ताविद्यापदतत्कार्यजातापह्नवसिद्धोऽयमात्मेत्यात्मया-थात्म्यमभिहितम् | अथानात्मयाथात्म्यमुच्यते- अनात्मेति | अनात्मा अस्ति नास्तीति वार्तापि न विद्यते | अविद्यारूपेण अविद्याभावेऽपि तत्कार्यमनोरूपेण जाग्रद्रूपेण वा अविद्या स्यादित्यत आह- अनात्मेति || १५ || मनःकार्यजगद्वापि न विद्यते | यस्मादेवं तस्मात् कार्यकारणात्मना येन केनापि वा हे निदाघ नास्त्यनात्मेति निश्चिनु निश्चयवान् भव, नाविद्यास्तीह नो माया इति, अविद्यामानैवाविद्या वस्तुतत्त्वविचारिणाम् इति, नात्मभावेन नानेदं न स्वेनापि कथंचन | न पृथङ् नापृथक् किंचिदिति तत्त्वविदो विदुः || इति श्रुतिस्मृतिगौडपादाचार्योक्तेः | जगन्मनोऽनात्मासंभवे हेतुत्रयमाचष्टे- सर्वेति | सर्वसंकल्पशून्यत्वात् संकल्पादिवृत्तिसहस्रजुष्टमानसाभावात् | सर्वकार्यविवर्जनात् मनःकार्यजगदभावात् || १६ || ब्रह्ममात्रस्य निष्प्रतियोगिकत्वेन मनस्तत्कार्यहेत्वनात्मापह्नवसिद्धत्वात् नास्त्यनात्मेति निश्चिनु | इतश्च अनात्मासंभवे हेतूनुपन्यस्यति- देहेति || १७-२० || यद्यत् सापेक्षं तत्तत् सविशेषं अनात्मत्वात् | यद्यत् अनात्मा न भवति तत्तत् सविशेषमपि न भवति यथा निर्विशेषं ब्रह्मेति श्रुतियुक्तितः स्वविकल्पितानात्मापह्नवसिद्धात्ममात्रसिद्धये सापेक्षश्रुतिवाक्यान्युपन्यस्यति- एकाभाव इति || २१-२७ || अन्ताभावे, विसर्गलोपः, अन्तरभावे || २८-३० || कथं पुनः अनात्मा नातीत्युच्यते संभूतिस्थितिप्रलयवदनात्मप्रपञ्चदर्शनादित्यत आह- इदमिति || अयं प्रपञ्चः इति वक्तव्ये इदं प्रपञ्च इति लिङ्गव्यत्ययः || ३१-३६ || नालं [न आलं] दूरान्तिकयोः अन्तरालमित्यर्थः | मिथः सापेक्षतया नाद्वैतम् || ३७-४१ || भ्रान्तिः अतस्मिन् तद्भावः, अभ्रान्तिः तस्मिन् तद्भावः, भ्रान्त्यादिगतभावस्य तूलान्तःकरणाविद्याकार्यत्वेन कारणतुल्यत्वात् अभ्रान्ति नास्तीत्यत्र विसर्गलोप इति केचित् | तत्पक्षे- भ्रान्तिरभ्रान्ति प्. ९४) नास्त्येव इति पाठः || ४२ || स्वाज्ञदृष्ट्या यद्यत् विकल्पितं स्वज्ञस्तु तत्तत् मिथ्येति मन्यते इत्याह- वेदमित्यादिना | वेदम् इति विभक्तिव्यत्ययः || ४३-५७ || अहंवस्तुनः परमात्मत्वम् त्वमेव परमात्मासि त्वमेव परमो गुरुः || ५८ || त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा | त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः || ५९ || कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः | सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि || ६० || सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि | देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परात्परोऽसि || ६१ || समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिबोधितोऽसि | सर्वाङ्गहीनोऽसि सदा स्थितोऽसि ब्रह्मेन्द्ररुद्रादिविभावितोऽसि || ६२ || सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु च भासितोऽसि | सर्वत्र संकल्पविवर्जितोऽसि सर्वागमान्तार्थविभावितोऽसि || ६३ || सर्वत्र संतोषसुखासनोऽसि सर्वत्र गत्यादिविवर्जितोऽसि | सर्वत्र लक्ष्यादिविवर्जितोऽसि ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् || ६४ || प्. ९५) चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः | आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः || ६५ || आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः | चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः || ६६ || सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि | सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः || ६७ || अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि | सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः || ६८ || सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि | नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः || ६९ || ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः | अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः || ७० || लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः | सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः || ७१ || ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि | स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि || ७२ || स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः | शिष्टपूर्णस्वरूपोऽसि स्वस्मात् किंचिन्न पश्यसि || ७३ || प्. ९६) स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि | स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु || ७४ || वेदं शास्त्रम् इत्यारभ्य एतावता ग्रन्थेन सर्वं मिथ्येत्यवधृतं; किमहं मिथ्यान्तःपाती इत्याशङ्कमानमालक्ष्य मिथ्याधारो निराधारो वा परमात्मा त्वमसीत्याह- त्वमेवेति | भगवदात्मना ब्रह्मविद्याचार्यत्वात् || ५८-७४ || अविद्यातत्कार्यप्रपञ्चस्य निष्प्रतियोगिकाभावरूपत्वम् इदं प्रपञ्चं यत् किंचिद्यद्यज्जगति विद्यते | दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् || ७५ || भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहंकारश्च तेजश्च लोकं भुवनमण्डलम् || ७६ || नाशं जन्म च सत्यं च पुण्यपापजयादिकम् | रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् || ७७ || गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् | भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् || ७८ || शमो विचारः संतोषो भोक्तृभोज्यादिरूपकम् | यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् || ७९ || आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः | इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा || ८० || प्. ९७) चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् | सजातीयं विजातीयं लोका भूरादयः क्रमात् || ८१ || सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् | विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् || ८२ || बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् | बोधाबोधस्वरूप वा द्वैताद्वैतादिभाषणम् || ८३ || सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् | अनेकजीवसद्भावमेकजीवाद्विनिर्णयम् || ८४ || यद्यद्ध्यायति चित्तेन यद्यत् संकल्प्यते क्वचित् | बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् || ८५ || यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् | यद्यत् स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांस्यते पृथक् || ८६ || यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः | शिवो क्ष[ह]रति लोकान् वै विष्णुः पाति जगत्त्रयम् || ८७ || ब्रह्मा सृजति लोकान् वै एवमादिक्रियादिकम् | यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् || ८८ || सर्वोपनिषदां भावं सर्वं शशविषाणवत् | हे स्वामिन् भवदनुग्रहमहिम्ना शिष्टपूर्णस्वरूपोऽस्मीत्यत्र न हि संशयोऽस्ति | पुरा अनुभूतस्वान्तर्बाह्यविजृम्भितदृग्दृश्यकलनान्वितव्यष्टिसमष्टिविभागेद्धस्वाविद्यापदतत्कार्यप्रपञ्चस्य प्. ९८) का गतिः इत्याकाङ्क्षायां स्वाज्ञदृष्ट्या सत्यत्वेन स्वज्ञदृष्ट्या मिथ्यात्वेन अनुभूतोऽपि परमार्थदृष्ट्या शशविषाणवत् निष्प्रतियोगिकाभावरूप एवेत्याह- इदमिति || ७५ || स्वातिरिक्तापह्नवः उक्तः | पुनरपह्नोतव्यविषयाभावात् | उत्तरग्रन्थारम्भः किमर्थम् इत्याकाङ्क्षायां, सत्यमपह्नवविषयो न विद्यते तस्य शशविषाणवत् अवस्तुत्वात् | तथापि इदं प्रपञ्चम् इत्यादि सर्वं शशविषाणवत् इत्यन्तश्रुतिवृत्त्यर्थतया उत्तरग्रन्थारम्भो युज्यते इत्याह- भूमिरित्यादि || ७६-८३ || तूलान्तःकरणाविद्याया यदनेकत्वं तदनेकजीवसद्भावप्रयोजकम्, आदिशब्देन एकत्वानेकत्वहेत्वविद्याद्वयस्य व्यावहारिकादिदृष्ट्या मिथ्यात्वम् || ८४-८८ || परमार्थदृष्ट्या ब्रह्मातिरिक्तस्य शशविषाणवत् अवस्तुत्वं युज्यत एवेत्यर्थः || संकल्पादिरूपं मन एव सर्वानर्थहेतुः देहोऽहमिति संकल्पं तदन्तःकरणं स्मृतम् || ८९ || देहोऽहमिति संकल्पो महत्संसार उच्यते | देहोऽहमिति संकल्पं तद्बन्धमिति चोच्यते || ९० || देहोऽहमिति संकल्पं तद्दुःखमिति चोच्यते | देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् || ९१ || देहोऽहमिति संकल्पं जगत् सर्वमितीर्यते | देहोऽहमिति संकल्पो हृदयग्रन्थिरीरितः || ९२ || देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते | देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च || ९३ || प्. ९९) देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते | देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते || ९४ || देहोऽहमिति संकल्पः सत्यजीवः स एव हि | देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् || ९५ || देहोऽहमिति संकल्पो महापापमिति स्फुटम् | देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल | यत्किंचिदपि संकल्पं तापत्रयमितीरितम् || ९६ || कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् | यत्किंचेदं सर्वसंकल्पजालं तत्किंचेदं मानसं सोम्य विद्धि || ९७ || मन एव जगत् सर्वं मन एव महारिपुः | मन एव हि संसारो मन एव जगत्त्रयम् || ९८ || मन एव महद्दुःखं मन एव जरादिकम् | मन एव हि कालं च मन एव मलं तथा || ९९ || मन एव हि संकल्पो मन एव हि जीवकः | मन एव हि चित्तं च मनोऽहंकार एव च || १०० || मन एव महबन्धं मनोऽन्तःकरणं च तत् | मन एव हि भूमिश्च मन एव हि तोयकम् || १०१ || मन एव हि तेजश्च मन एव मरुन्महान् | मन एव हि चाकाशं मन एव हि शब्दकम् || १०२ || प्. १००) स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः | जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् || १०३ || दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः | दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् || १०४ || संकल्पमेव यत्किंचित् तत्तन्नास्तीति निश्चिनु | नास्ति नास्ति जगत् सर्वं गुरुशिष्यादिकं न हि || १०५ || इत्युपनिषत् || स्वाज्ञदृष्टिप्रसक्तस्वातिरिक्तानर्थनिदानं किम् इत्याशङ्क्य सर्वानर्थहेतुः संकल्प एवेत्याह- देह इति | संकल्पमित्यादि विभक्तिव्यत्ययः || ८९-९६ || संकल्पमूलं किमित्यत्र कामम् इत्यादि || ९७-१०४ || स्वाविद्यापदतत्कार्यजातं मन एवेत्यर्थः | इत्युपनिषच्छब्दः अध्यायपरिसमाप्त्यर्थः || १०५ || इति पञ्चमोऽध्यायः || ५ || षष्ठोऽध्यायः सर्वस्य सच्चिदानन्दत्वम् ऋभुः- सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् | सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् || १ || सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् | सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् || २ || सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् | प्. १०१) यद्यत् स्वाज्ञदृष्टिविकल्पितं नामरूपविकल्पजालं तत्तत् स्वज्ञदृष्ट्या सच्चिदानन्दमयम् | परमार्थदृष्ट्या ब्रह्ममात्रातिरिक्तप्रसक्तिरेव नास्ति | यदि स्वाज्ञादिदृष्ट्या अस्ति नास्तीति प्रसक्तं तदा तत् असदेव | स्वातिरिक्तासदपह्नवसिद्धं निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इत्येतत्प्रपञ्चनाय षष्ठाध्याय आरभ्यते- ऋभुरिति || १-२ || सर्वस्य ब्रह्मत्वम् न मनोबुद्ध्यहंकारचित्तसंघातका अमी || ३ || न त्वं नाहं न चान्यं वा सर्वं ब्रह्मैव केवलम् | न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् || ४ || न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् | न दुःखं न सुखं भावं न मया प्रकृतिस्तथा || ५ || न देहं न मुखं घ्राणं न जिह्वा न च तालुनी | न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वासा एव च || ६ || न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् | न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् || ७ || न हस्तपादचलनं न शास्त्रं न च शासनम् | न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः || ८ || तुर्यातीतं न मे किंचित् सर्वं सच्चिन्मयं ततम् | नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् || ९ || न विश्वस्तैजसः प्राज्ञो विराट्सूत्रात्मकेश्वराः | न गमागमचेष्टा च न नष्टं न प्रयोजनम् || १० || प्. १०२) त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा | न पीनं न कृशं क्लेदं न कालं देशभाषणम् || ११ || न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः | न ध्यानं योगसंसिद्धिर्न ब्रह्मक्षत्रवैश्यकम् || १२ || न पक्षी न मृगो नाङ्गी न लोभो मोह एव च | न मदो न च मात्सर्यं कामक्रोधादयस्तथा || १३ || न स्त्रीशूद्रविडालादि भक्ष्यभोज्यादिकं च यत् | न प्रौढहीनौ नास्तिक्यं न वार्तावसरोऽस्ति हि || १४ || न लौकिको न लोको वा न व्यापारो न मूढता | न भोक्ता भोजनं भोज्यं न मातृमानमेयकम् || १५ || न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा | न जन्म न मृतिर्बृद्धिर्न देहोऽहमिति भ्रमः || १६ || न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः | न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः || १७ || न वारपक्षमासादि वत्सरं न च चञ्चलम् | न ब्रह्मलोको वैकुण्ठं न कैलासो न चान्यकः || १८ || न स्वर्गं न च देवेन्द्रो नाग्निलोको न चाग्निकः | न यमो यमलोको वा न लोका लोकपालकाः || १९ || न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् | नाविद्या न च विद्या च न माया प्रकृतिर्जडा || २० || प्. १०३) न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् | न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् || २१ || न पदार्थं न पूजार्हं नाभिषेकं न चार्चनम् | न पुष्पं न फलं पत्रं गन्धपुष्पादि धूपकम् || २२ || न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि | न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् || २३ || न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् | न गायत्री न वा संधिर्न मनस्यं न दुःस्थितिः || २४ || न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः | न दुःसहं दुरालापं न किरातो न कैतवम् || २५ || न पक्षपातं पक्षं वा न विभूषणतस्करौ | न च डम्भो डाम्भिको वा न हीनो नाधिको नरः || २६ || नैकं द्वयं त्रयं तुर्यं न महत्त्वं न चाल्पता | न पूर्णं न परिच्छिन्नं न काशी न ब्रतं तपः || २७ || न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता | न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता || २८ || न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः | न महावाक्यमैक्यं वा नाणिमादिविभूतयः || २९ || सर्वं चैतन्यमात्रत्वात् सर्वदोषः सदा न हि | सर्वं सन्मात्ररूपत्वात् सच्चिदानन्दमात्रकम् || ३० || प्. १०४) ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा | तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् || ३१ || ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः | ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियम् || ३२ || ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः | ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः || ३३ || ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः | ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः || ३४ || इदम् ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः | कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् || ३५ || एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् | दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः || ३६ || लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः | पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् || ३७ || जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् | सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् || ३८ || स्वयं ब्रह्म न संदेहः स्वस्मादन्यन्न किंचन | सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् || ३९ || नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किंचन | सच्चिदानन्दब्रह्मातिरेकेण न मन इत्यादि || ३-२९ || न मनोबुद्ध्यहंकार इत्यारभ्य अणिमादिविभूतयः इत्यन्तं यद्यत् प्. १०५) स्वाज्ञदृष्ट्यारोपितं स्वज्ञदृष्ट्या ब्रह्मातिरिक्तं नेत्यपोदितं च तत्तत् सर्वमित्यादि || ३०-३९ || ब्रह्मणः निष्प्रतियोगिकस्वमात्रत्वम् अणुमात्रलसद्रूपमणुमात्रमिदं जगत् || ४० || अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् | अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् || ४१ || ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् | आनन्दं परमानन्दमन्यत् किंचिन्न किंचन || ४२ || चैतन्यमात्रमोंकारं ब्रह्मैव सकलं स्वयम् | अहमेव जगत् सर्वमहमेव परं पदम् || ४३ || अहमेव गुणातीतः अहमेव परात्परः | अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः || ४४ || अहमेवाखिलाधार अहमेव सुखात्सुखम् | आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत् सुखं न च || ४५ || आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् | आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत् तृणं न हि || ४६ || आत्मनोऽन्यत् तुषं नास्ति सर्वमात्मयं जगत् | ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि || ४७ || ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् | ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् || ४८ || प्. १०६) ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयम् | ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च || ४९ || ब्रह्मणोऽन्यदहं नास्ति ब्रह्मणोऽन्यत् फलं न हि | ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत् पदं न हि || ५० || ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यदसद्वपुः | ब्रह्मणोऽन्यन्न चाहंता त्वत्तेदन्ते न हि क्वचित् || ५१ || स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किंचन | यत्किंचिद् दृश्यते लोके यत्किंचिद्भाष्यते जनैः || ५२ || यत्किंचिद् भुज्यते क्वापि तत् सर्वमसदेव हि | कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् || ५३ || लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् | कालभेदं देशभेदं वस्तुभेदं जयाजयम् || ५४ || यद्यद्भेदं च तत् सर्वमसदेव हि केवलम् | असदन्तःकरणकमसदेवेन्द्रियादिकम् || ५५ || असत् प्राणादिकं सर्वं संघातमसदात्मकम् | असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः || ५६ || असत्यं सड्विकारादि असत्यमरिवर्गकम् | असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा || ५७ || सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् | आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः || ५८ || प्. १०७) सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः | अहमेव परानन्दः अहमेव परात्परः || ५९ || ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः | सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकः || ६० || अहमेव सदा भामीत्येवंरूपं कुतोऽप्यसत् | त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् || ६१ || चिदाकारं चिदाकाशं चिदेव परमं सुखम् | आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः || ६२ || सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् | कालं नास्ति जगन्नास्ति मायाप्रकृतिरेव न || ६३ || अहमेव हरिः साक्षादहमेव सदाशिवः | शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः || ६४ || अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् | सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् || ६५ || सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् | सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः || ६६ || परमात्मा परं ज्योतिः परं धाम परा गतिः | सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः || ६७ || योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः | सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः || ६८ || प्. १०८) तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः | चिदक्षरोऽहं सत्योऽहं वासुदेवोऽजरोऽमरः || ६९ || अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् | शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् || ७० || सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् | सत्यासत्यं जगन्नास्ति संकल्पकलनादिकम् || ७१ || नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् | अनन्तमव्ययं शान्तमेकरूपमनामयम् || ७२ || स्वाज्ञदृष्टिविकल्पितब्रह्मातिरिक्तजगतः परिच्छिन्नतां तदधिष्ठानब्रह्मणः त्रिविधपरिच्छेदशून्यतां वस्तुतो ब्रह्मातिरिक्तसामान्यस्य अपह्नवतां ब्रह्मणो निष्प्रतियोगिकस्वमात्रतां चाह- अणुमात्रेति || ४०-४६ || जगत् स्वाज्ञ-विकल्पितासत्प्रपञ्चापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रमित्याह- ब्रह्ममात्रमिदमिति || ४७ || उक्तार्थमेव प्रपञ्चयति- ब्रह्ममात्रं श्रुतम् इत्यादिना || ४८-७१ || केवलं ब्रह्म कीदृशम् इत्यत आह- अनन्तमिति || ७२ || स्वातिरिक्तप्रपञ्चस्यासत्त्वम् मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका | वन्ध्याकुमारवचने भीतिश्चेदस्ति किंचन || ७३ || शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् | मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् || ७४ || नरशृङ्गेण नष्टश्चेत् कश्चिदस्त्विदमेव हि | गन्धर्वनगरे सत्ये जगद्भवति सर्वदा || ७५ || प्. १०९) गगने नीलिमासत्ये जगत् सत्यं भविष्यति | शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् || ७६ || रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः | जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् || ७७ || विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः | रम्भास्तम्भेन काष्ठेन पाके सिद्धे जगद्भवेत् || ७८ || सद्यःकुमारिकारूपैः पाके सिद्धे जगद्भवेत् | चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् || ७९ || मासात् पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् | तक्रं क्षीरस्वरूपं चेत् क्वचिन्नित्यं जगद्भवेत् || ८० || गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् | भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा || ८१ || कूर्मरोम्णा गजे बद्धे जगदस्तु तदोत्कटे | नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् || ८२ || तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् | अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा || ८३ || ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् | ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् || ८४ || प्. ११०) महच्छैलेन्द्रनीलं वा संभवेच्चेदिदं जगत् | मेरुरागत्य पद्माक्षे स्थितश्चेतस्त्विदं जगत् || ८५ || निगिरिश्चेद्भृङ्गसूनुर्मेरुश्चलवदस्त्विदम् | मशकेन हते सिंहे जगत् सत्यं तदास्तु ते || ८६ || अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् | तृणानलश्च नित्यश्चेत् क्षणिकं यज्जगद्भवेत् || ८७ || स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः | नदीवेगो निश्चलश्चेत् केनापीदं भवेज्जगत् || ८८ || क्षुधितस्याग्निभोज्यश्चेन्निमिषं कल्पितं भवेत् | जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत् सदा || ८९ || नपुंसककुमारस्य स्त्रीसुखं चेद्भवेज्जगत् | निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् || ९० || सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् | वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् || ९१ || काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् | महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः || ९२ || महाखरो गजगतिं गतश्चेज्जगदस्तु तत् | संपूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् || ९३ || प्. १११) चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद् दृश्यते जगत् | भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् || ९४ || दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् | शुनां वीर्येण सिंहस्तु जितो यदि जगत्तदा || ९५ || ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत् कल्पनं तदा | श्वानेन सागरे पीते निःशेषेण मनो भवेत् || ९६ || शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् | भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् || ९७ || शुद्धाकाशे वने जाते चलिते तु सदा जगत् | केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् || ९८ || अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्न हि | सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते || ९९ || मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् | देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः || १०० || हृदयग्रन्थिरस्तित्वे छेदने ब्रह्मचक्रकम् | संशये समनुप्राप्ते ब्रह्मनिश्चयमाप्नुयात् || १०१ || अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् | नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् || १०२ || परिच्छित्तिव्ययकलनानेकत्वप्रसक्तौ अनन्तमित्याद्यनेकविशेषणविशिष्टं न वस्तुतः तदस्ति | यदि मदतिरेकेण अनन्तमित्यादिविशेषणमस्तीति भ्रान्तिः प्. ११२) तदा तदसदेवेत्याह- मत्त इति | कथं पुनः स्वातिरिक्तप्रपञ्चस्य अत्यन्तासत्त्वं, घटोऽस्ति पटोऽस्ति इत्याद्यनेकधा प्रतीयमानत्वात्, इत्याशङ्कायां अस्त्यस्तीति प्रतीतेः सन्मात्रत्वेन निष्प्रतियोगिकब्रह्ममात्रत्वात् तत्र स्वातिरिक्तप्रपञ्चासंभवे बन्ध्याकुमारवचने भीतिश्चेदस्त्विदं जगत् इत्याद्यनेकदृष्टान्तेन विश्वसत्त्वं विडम्बयन् विश्वासत्त्वं प्रकटयति- वन्ध्येत्यादिना || ७३-७८ || अस्त्विदं जगत् परमार्थदृष्ट्येत्यर्थः || ७९-८५ || पर्यन्तपर्वतो निगिरिः || ८६-८८ || अग्निभोज्यः, विसर्गलोपः || ८९-९० || सद्यःकुमारिका, सद्योजाता तु या कन्या, इत्यत्र पुनरुक्तिः स्यादिति चेत् न; शब्दभेदवत् अर्थभेदसंभवात् | तत् कथमित्यत्र सद्यःकुमारिकारूपैः वैद्यशास्त्रख्यातौषधिविशेषैः इन्धनैः पाके सिद्धे इत्युक्त्या पाकसाधनेन्धनविशेषो द्योत्यते, कुमारिकाया जलपूरितत्वेन नित्यक्लिन्नत्वात्, तस्या गाढाग्निमध्यपातितत्वेऽप्यग्निशान्तिकरत्वात् न पुनर्वचः, तया पाकासंभवात् || ९१-९८ || यदेवमपह्नोतव्यं व्यष्ट्यादिकलनाविशिष्टं जगत् तत्र समष्टिजगदजकुक्षौ व्यष्टिजगज्जीवकुक्षौ वर्तते, नह्यभावपदमर्हतीत्याशङ्क्य कालत्रयेऽपि न विद्यत इत्याह- अजेति | स्वाज्ञस्वज्ञदृष्टिविभातद्वैताद्वैतवृत्तेरपि परमार्थदृष्ट्यासंभवात् स्वमात्रे स्वातिरिक्तकलना नास्त्येवेत्यर्थः || ९९ || तथापि ब्रह्मानुसंधानमजस्रं कर्तव्यमित्यत आह- मायेति | भेदः स्वाज्ञदृष्ट्या अस्ति चेत् स्वज्ञदृष्ट्या इदं जगत् न भवति किं तु ब्रह्मैवेदमिति ब्रह्मभावनं कर्तव्यं, न हि परमार्थदृष्टेः तदुभयमस्तीत्यर्थः | तथा देहोऽहमिति || १००-१०१ || वस्तुतः नित्यानन्दमयं ब्रह्म केवलं निष्प्रतियोगिकब्रह्ममात्रमित्यर्थः || १०२ || अहं ब्रह्मेति भावनाविधिः एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् | ब्रह्मैव सर्वभवनं भुवनं नाम संत्यज || १०३ || प्. ११३) अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज्य | सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् || १०४ || न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् | न भूतं न च कार्यं च न चावस्थाचतुष्टयम् || १०५ || लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् | सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय || १०६ || अहं ब्रह्म न संदेहो ह्यहं ब्रह्म चिदात्मकम् | सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज || १०७ || एवमादि इति | अस्यामुपनिषदि- चिन्मात्रमेव चिन्मात्रमखण्डैकरसं रसम् | सर्ववर्जितचिन्मात्रं ब्रह्ममात्रमसन्न हि || इत्यादिश्रुत्या योऽर्थोऽभिहितः स्वातिरिक्तसर्वापह्नवसिद्धं स्वमात्रमिति तमेतमर्थं दुर्विज्ञेयं मन्यमाना श्रुतिः स्वाज्ञानं यथायथा स्वातिरिक्तापह्नवसिद्धब्रह्ममात्रज्ञानमुदेति तथातथा भूयोभूयः प्रसङ्गमापाद्यापाद्य स्वप्रकटितसिद्धान्तार्थमेव आदौ तेजोबिन्दुपरम् इत्यारभ्य पञ्चदशाङ्गज्ञानयोगसहितमवान्तरवाक्येन अखण्डशुद्धचैतन्ययाथात्म्यं प्रतिपाद्य, स्वाज्ञदृष्ट्या दृश्यजडजगद्गतभावादिस्वर्गान्तखण्डताप्रसक्तौ कुमारशिवसंवादरूपेण अखण्डैकरसं दृश्यम् इत्यादि अखण्डैकरसं सर्वम् इत्यन्तेन अखण्डैकरसः स्वयम् इति प्रकटयित्वा, अथ पुनरिदमयमित्यादिशब्दवाच्यभावानामचिन्मात्रत्वप्रसक्तौ यत्किंचिद्यन्न किंचिच्च सर्वं चिन्मात्रमेव हि इत्यादिना निष्प्रतियोगिकचिन्मात्रस्वरूपमभिधाय, ब्रह्मद्वयप्रसक्तौ अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि भिद्यते इत्यखण्डैकरसचिन्मात्रयोरेकार्थपर्यवसानत्वमुक्त्वा, अथ परं ब्रह्मस्वरूपोऽहम् इत्यारभ्य स्वातिरिक्तप्रपञ्चासत्त्वप्रकटनपूर्वकं स्वानुभवं प्रकाशयित्वा, अहं ब्रह्मास्मीतिमन्त्रमाहात्म्यप्रशंसापूर्वकं मुमुक्षुकोटिग्राह्यतां प्रतिपाद्य, तदान्तरालिकमुख्यफलप्रकटनव्याजेन चिदात्माहं परात्माहम् इत्युपक्रम्य प्. ११४) स्वस्वरूपे स्वयं स्वप्स्ये स जीवन्मुक्त उच्यते इत्यन्तेन निर्विशेषज्ञानान्तरालिकफलजीवन्मुक्तिम्, ब्रह्मभूतः प्राशान्तात्मा इत्युपक्रम्य स्वात्मानमेव मोदस्व वैदेही मुक्तिगो भव इत्यन्तेन ब्रह्ममात्रज्ञानमुख्यफलं तन्मात्रावस्थानलक्षणविदेहमुक्तिं च प्रकटयित्वा, पुनराख्यायिकान्तरमवलम्ब्य सर्ववाचोऽवधिर्ब्रह्म इत्यादिना स्वात्मयाथात्म्यम्, अनात्मेति प्रसङ्गो वा इत्यादिना अनात्मयाथात्म्यं च प्रतिपाद्य आत्मानात्मेत्युक्त्या तयोरेकत्वानेकत्वप्रसक्तसवेशेषतां एकाभावे द्वितीयं न इत्यादिसापेक्षश्रुतियुक्तिभिः शिथिलयित्वा, क्वचित् क्वचित् स्वातिरिक्तयोः आत्मानात्मनोः शब्दभेदेन अर्थभेदेन च स्वमात्रस्य निष्प्रतियोगिकभावरूपत्वं स्वातिरिक्तसामान्यस्य इदं प्रपञ्चं नास्त्येव इत्यादिना वन्ध्याकुमारवचने भीतिश्चेत् इत्यादिस्वातिरिक्तजगदत्यन्तासंभवदृष्टान्तेन च शशविषाणवत् अत्यन्ताभावरूपतां च विभक्तिलिङ्गपुरुषव्यत्ययमप्यनादरेण विस्मृत्येव महता वेगेन यत इयं श्रुतिः जामितामन्तरेण प्रवृत्ता अतोऽस्मिन् वेदान्तशास्त्रसमुदाये न हि पुनरुक्तिशङ्का सेद्धुं पारयति | स्वाज्ञादिमात्रभावमापन्नायाः श्रुतेः स्वसंतानस्वातिरिक्तमस्ति नास्तीति विभ्रमापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रावशेषलक्षण-विकलेबरकैवल्यसाम्राज्यपट्टाभिषेचनकर्मव्यग्रत्वात् सद्भिरत्र न कोऽपि दोषः स्मर्तव्यः | प्रकृते तु यद्यज्ञोऽसि तदा आदौ ब्रह्मैव सर्वभवनं सर्वाधिकरणं विचिन्तय | ततः स्वाधिष्ठेयनिरूपितमधिष्ठानभ्रममपि भुवनं संत्यज || १०३ || सर्वम् अहं ब्रह्मेति निश्चित्य तत्रत्याहंभावं परित्यज्य | यद्येवमुद्योगवानसि तदा यद्यत् स्वविकल्पितं तत्तत् सर्वमेव || १०४ || तदानीं न देह इत्यादि || १०५ || जहदादि लक्षणा | आदौ सर्वव्यापारम् || १०६ || तन्निश्चयमपि संत्यज, तद्वृत्तेरपि स्वातिरिक्ततया त्याज्यत्वात् | तथा चोक्तम्- तस्मिन् काले विदेहोतिदेहस्मरणवर्जितः | ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः || इति || १०७ || प्. ११५) शास्त्रसंप्रदायविधिः शांकरीयं महाशास्त्रं न देयं यस्य कस्यचित् | नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने || १०८ || गुरुभक्तिवुशुद्धान्तःकरणाय महात्मने | सम्यक् परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् || १०९ || सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् | तेजोबिन्दूपनिषदमभ्यसेत् सर्वदा मुदा || ११० || सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् | ब्रह्मैव भवति स्वयमित्युपनिषत् || १११ || शास्त्रसंप्रदायार्थं प्रकटयन् उपसंहरति- शांकरीयमिति | कस्य वा न देयं कस्य वा देयं इत्यत आह- नास्तीति || १०८-११० || एवं गुरुमुखात् लब्धविद्यो मुमुक्षुः सर्वोपनिषदभ्यासं [त्यजेत्] | सर्वं परित्यज्य एतदभ्यासेन किमित्यत आह- सकृदिति | सकृच्छ्रवणपठनमात्रतो विद्वान् सर्वापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इत्यर्थः | इत्युपनिषच्छब्दः तेजोबिन्दूपनिषत्समाप्त्यर्थः || १११ || इति षष्ठोऽध्यायः || ६ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं तेजोबिन्दोः स्फुटं लघु || तेजोबिन्दूपनिषदो व्याख्यानग्रन्थविस्तरः | चतुष्पञ्चाशदधिकशतानां सप्तकं स्मृतः || इतीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे सप्तत्रिंशत्संख्यापूरकं तेजोबिन्दूपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######